लिटि परत आदेशः आदिर् यस्य अङ्गस्य न अस्ति तस्य एकहल्मध्ये असहाययोर् हलोर् मध्ये यो ऽकारस् तस्य एकारादेशो भवति, अभ्यासलोपः च लिटि क्ङिति परतः। रेणतुः। रेणुः। येमतुः। येमुः। पेचतुः। पेचुः। देमतुः। देमुः।
अतः इति किम्? दिदिवतुः। दिदिवुः।
तपरकरणं किम्? ररासे, ररासाते, ररासिरे।
एकहल्मध्ये इति किम्? शश्रमतुः। शश्रमुः। तत्सरतुः। तत्सरुः।
अनादेशादेः इति किम्? चकणतुः। चकणुः। जगणतुः। जगणुः। बभणतुः। बभणुः।
लिटः आदेशविशेषणं किम्? इह अपि यथा स्यात्, नेमतुः। नेमुः। सेहे, सेहाते, सेहिरे। अनैमित्तिके नत्वसत्वे, तदादिर् लिटि आदेशादिर्न भवति। इह अभ्यासजश्त्वचर्त्वयोरसिद्धत्वं नास्ति, तेन तदादिरप्यादेशादिर् भवति। तथा च फलिभजोरेत्वं विधीयते। रूपाभेदे चादेशादिर् न अश्रीयते इति शसिदद्योः प्रतिषेधवचनं ज्ञापकम्। अन्यथा हि पेचतुः, पेचुः, देमतुः, देमुः इत्येवम् आदीनाम् अपि प्रकृतिजश्चरादीनाम् एत्वं न स्यात्। क्ङिति इत्येव, अहं पपच। अहं पपठ।
दम्भेरेत्वं वक्तव्यम्। देभतुः। देभुः। नलोपस्य असिद्धत्वान् न प्राप्नोति।
नशिमन्योरलिट्येत्वं वक्तव्यम्। अनेशम्। मेनका। अनेशम् इति नशेः लुङि पुषादित्वादङ्। मेनका इति मनेः आशिषि च
३।१।१५० इति वुन्। क्षिपकादिषु प्रक्षेपादित्वं न क्रियते।
छन्दस्यमिपचोरप्यलिट्येत्वं वक्तव्यम्। व्येमानम्। अमेर्विपूर्वस्य चानशि मुक् न क्रियते। लिङिपेचिरन्। पचेरनित्येतस्य छान्दसं ह्रस्वत्वम्। यजिवप्योश्च। आयेजे। आवेपे। लङि इटि छन्दस्यपि दृश्यते
६।४।७३ इति अनजादेरपि इडागमः।
लिण्निमित्तादेशादिकं न भवति यदङ्गं तदवयवस्यासंयुक्तहल्मध्यस्थस्यात एत्वमभ्यासलोपश्च किति लिटि। नेदतुः। नेदुः॥
"एकहल्मध्ये" इति। एकशब्दोऽयमसहायवाची। एकश्च एकश्च एकौ, एकौ च तौ हलौ चेत्येकहलौ, एकहलोर्मध्य इति द्विवचनान्तस्य षष्ठीसमासः। द्व्योरेव हि हलोर्मध्यं सम्भवति, नैकस्य। अत्र यदि लिट()आदशो न विशिष्यते ततो नेमतुः, नेमु; सेहे सेहाते, सेहिर इत्यत्र न स्यात्()। अस्तिह्रत्राप्यङ्गस्यादेश आदिरित्येतच्चेतसि कृत्वा लिट()आदेशं विशेषयितुमाह--"लिटि परतः" इत्यादि। लिटि परभूते य आदेशो विधीयते स आदियंस्याङ्गस्य नास्तीत्यर्थः। "तस्य" इति। तस्यैवंविधस्याङ्गस्येत्यर्थः। तस्येति चाङ्गस्य योऽकार इत्यनेन सम्बन्धः। अवयवषष्ठी चेयम्(), तस्यैवंविधस्याङ्गस्य योऽकारोऽवयवस्तस्येत्यर्थः। "एक हल्मध्ये" इत्यस्येदं विवरणम्()--"असहाययो र्हलोर्मध्ये" इति। तत्येत्यनन्तरोक्तोऽकारः सम्बध्यते। तस्याङ्गस्यावयवस्याकारस्येत्यर्थः। स्थानषष्ठी चेम्()--तस्य स्थान एकार आदेशो भवति। "रेणतुः, रेणुः" इति। "अण रण" (धा।पा।४४४,४४५) इति "रणिः शब्दार्थः" पठ()ते। "येमतुः, येमुः" इति। "यम उपरमे" (धा।पा।९८४)। "देमतुः, देमुः" इति। "दमु उपशमे" (धा।पा।१२०३)।
"रराशे"[ररासे--काशिका।] इति। "राशृ शब्दे" [राशृ शब्दे--धा।पा।] (धा।पा।६२६) आत्मनेपदी। "शश्रमतुः शश्रमुः" इति। "श्रमु तपसि खेदे च" (धा।पा।१२०४)।
केचित्तु ततक्षतुः, ततक्षुरित्येतदेकहल्यध्यस्य प्रत्युदाहरणं पठन्ति; एतच्चायुक्तम्(); क्ङितीत्यनुवत्र्तते, न च पक्षेः परस्य लिटः कित्त्वमस्ति। "असंयोगात्()" इति प्रतिषेधात्?। "तत्सरतुः, तत्सरुः" इति। "त्सर छद्मगतौ" (धा।पा।५५४)। "चकणतुः, चकणुः" इति। "अण रण वण भण क्वण कण शब्दार्थाः" (धा।पा।४४४,४४५,४४६,४४७,४५०४४९)। तत्र कणतिर्भ्वादौ पठ()ते। "जगणतुः, जगणुः" इति। "गण संख्याने" (धा।प।१८५३) चुरादौ पठ()ते। ननु च चौरादिकत्वाण्णिचि कृते "कास्प्रत्ययादाममन्त्रे लिटि" (३।१।
३५) इत्यामा भवितव्यम्()? "अनित्यण्यन्ताश्चुरादयः" (है।प।पा।९७) इत्यदोषः। अनित्यण्यन्तत्वन्तु तेषां सप्तमे ज्ञापयिष्यते। "बभणतुः" इति। भणतिर्भ्वादौ पठ()ते शब्दार्थ एव।
"नेमतुः" इति। "णम प्रह्वत्वे शब्दे" (धा।पा।९८१)। "णो नः"
६।१।६३ इति नत्वम्()। "सेहे" इति। "षह मर्षणे" (धा।पा।८५२) "धात्वादेः षः सः"
६।१।६२ इति सत्वम्()।
कथं पुनर्नत्वे सत्वे च लिटयादेशादी न भवतः? इत्यत आह--"अनैमित्तिके नत्वसत्वे" इत्यादि। नत्वसत्वविधाने हि न किञ्चिन्निमित्तमाश्रीयत इत्यनैमित्तिके एते भवतः, ततश्च प्रागेव लिडुत्पत्तेस्ताभ्यां भवितव्यम्()। तेन तदादि यदङ्गं तल्लिट()आदेशादि न भवति। यदि तर्हि लिटाऽदेशो विशिष्यत एवं सत्यङ्गमविशेषितं स्यात्(), ततश्च पक्वः पक्ववानित्यत्रापि प्रसज्येत,
पचेरपि ह्रङ्गस्य लिटि परभूते य आदेशः क्रियते स इहाप्यादिर्नास्ति? नैतदस्ति; अभ्यासलोपसन्नियोगेन ह्रेत्त्वमुच्यते। तेन यत्रैवाभ्यासलोपः तत्रैवैत्त्वेन भवितव्यम्()। न चात्राभ्यासलोपः; असम्भवात्()।
इह तर्हि स्यात्()--पापच्यत इति? अयमप्यदोषः;
इह परत्वात्? "दीर्घोऽकितः"
७।४।८३ इति दीर्घो भविष्यति। ह्यस्वहलादिशेषावुत्सर्गौ, तयोर्दीर्घत्वमेत्त्वञ्चापवादः। तत्र दीर्घस्यावकाशः--बाभास्यते, एत्वस्यावकाशः---पेचतुः, पेचुरिति; इहोभ्यं प्राप्नोति--पापच्यत इति, अपवादविप्रतिषेधे सति परत्वाद्दीर्घत्वं भविष्यति।
अथ बभणतुः, बभणुरित्यत्रेत्त्वं कस्मान्न भवति, "अभ्यासे चर्च" (८।४।
५४) इति जश्त्वे कृत आदेशादित्वादिति चेत्()? न; एत्त्वे कत्र्तव्ये जश्त्वस्यासिद्धत्वात्()। तस्माद्भवितव्यमेवैत्त्वेन। विप्रतिषेधस्य तु यत्र "कुहोश्चुः
७।४।६२ इति श्चुत्वं क्रियते--चकणतुः, चकणुः, जहसतुः, जहसुरित्यादाववकशः स्यादित्यत आह--"इह" इत्यादि।
कथमेतज्ज्ञायते--नास्त्यसिद्धत्वम्()? इत्याह--"तथा च" इत्यादि। तदैव "तृफलभजत्रपश्च"
६।४।१२२ इति फलिभज्योरेत्त्वमुपपद्यते यदि जश्त्वचत्वंयोरसिद्धत्वं न भवति, नान्यथा।
अनादेशादित्वादनेनैवैत्त्वस्य सिद्धत्वात्? तन्नोपपद्यते।
तस्मात्? फलिभज्योरेत्त्वविधानाददसीयते--जश्त्वचत्त्र्वयोरसिद्धत्वमिह नास्तीति। "रूपाभेदे च" इत्यादि। "शब्दरूपस्य स्थानिनोऽबेदे सति य आदेशः स इह नाश्रीयते" इत्यस्यार्थस्य "न शसददवादिगुणानाम्()"
६।४।१२६ इति शसिदद्योः प्रतिषेधवचनं ज्ञापकम्()। "अभ्यासे चर्च"
८।४।५३ इत्यनेन प्रकृतिजशां प्रकृतिजशः, प्रकृतिचरां प्रकृतिचरो भवन्तीति शसः शकारस्य शकारो भवति, ददेर्दकारस्यापि दकार; तेनोभावपि तावादेशादी भवतः। तत्र यदि स्थान्यभेदे सति य आदेशः सोऽपीहाश्रीयेत, तत आदेशाद#इत्वादेव न भविष्यतीति शसिद्योरेत्त्वप्रतिषेधो न विधीयेत; विहितश्च, तस्मादेतदेव प्रतिषेधवचनं ज्ञापयति--रूपाभेदे सति य आदेशः स इह नाश्रीयत इति।
यदि तह्र्राश्रीयत किं स्यात्()? इत्यत आह--"अन्यथा हि" इत्यादि। अन्यथा योऽपि रूपाभेदादादेशः स्थानिनाभिन्नरूपः सोऽपीहाश्रयेत, ततो यथा चकणतुरित्येवमादीनामेत्त्वं न भवति, तथा पेचतुः, पेचुरित्येवमादीनामपि प्रकृतिजश्चरादीनां न स्यात्()। प्रकृतिजशः प्रकृतिचरश्चादयो येषान्ते तथोक्ताः। "अहं पपठ, अहं पपच" इति।
अत्र स्थानिवद्भावेन पित्त्वात्? कित्त्वं नास्ति, तेनैत्त्वाभ्यासलोपौ न भवतः। वृद्धिरपि न भवति; "णलुत्तमो वा"
७।१।९१ इति पक्षे णित्त्वाभावात्()। णित्त्वपक्षे तु परत्वाद्()वृद्ध्या बाधित्वादेत्त्वादेत्त्वाभायासलोपाभ्यां न भवितव्यम्(), इत्यणित्त्वपक्ष एवोदाह्मतम्()।
"दम्भेः" इति। किं पुनः कारणं दम्भेरेत्त्वं न भवति, यावता "लिट()नादेशाध्रेतदङ्गम्()। "अनिदिताम्()" (६।४।
२४) इत्यादिना न लोपे कृत एकहल्मध्य एवाकारः? इत्यत आह--"नलोपस्य" इत्यादि। "ग्रन्थिश्रन्थिदम्भिस्वञ्जीनाम्()" (वा।१७) इति सूत्रे [()] दम्भेः परस्य लिटः कित्त्वमुक्तम्(),
तस्मिन्? सति य उपधाया लोपस्तस्य "असिद्धवदत्रा भात्()"
६।४।२२ इत्यसिद्धत्वान्न प्राप्नोति।
तस्माद्दम्भेरेत्त्वं वक्तव्यम्()। व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम्()--"श्नसोरल्लोपः
६।४।१११ इत्यत्रा भाच्छास्त्रीयस्यासिद्धत्वस्यानित्यत्वं ज्ञापितम्(), तेन दम्भेरेत्त्वे कत्र्तव्ये लोपस्यासिद्ध्त्त्वं न भवति, ततश्च दम्भेर्लिट()त्त्वं भविष्यतीति। अथ वा "अत एकहल्मध्ये"
६।४।१२० इत्यत्र "अतः" इति योगविभागः कत्र्तव्यः, तेन यत्र यत्रेत्त्वमिष्यते तत्र तत्र भविष्यतीति। एवञ्च कृत्वा "नशिमन्योरलिट()एत्त्वम्()" (वा।७९३) इत्याद्यपि नोपसंख्येयम्(); योगविभागेनैव सिद्धत्वात्()।
वक्तव्यशब्दस्य व्याख्येय इत्येषोऽर्थ इति सर्वत्र वेदितव्यम्()। "अनेशम्()" इति। "तस्थस्थ"
३।४।१०१ इत्यादिना मिपोऽम्भावः।
अथ "मेनका" इत्यत्र "प्रत्ययस्थात्()" (७।३।
४४) इत्यादिनेत्त्वं कस्मान्न भवति? इत्याह--"क्षिपकादिषु" इत्यादि। क्षिपकादिष्वित्त्वस्य प्रतिषेधो वक्ष्यते। अस्य च क्षिपकादिषु प्रक्षेपः, तेनेत्त्वं न क्रियते।
"चानशि" इति। "तच्छील्यवयोवचनशक्तिषु चानश" (३।२।
१२९) "मुक्? न क्रियते" इति। "आने मुक्()" (७।२।
८२) इति मुक्? प्राप्नोति, स न भवति "अनित्यमागमशासनम्()" (व्या।पा।९५) इति कृत्वा। छान्दसत्वाद्वा--"सर्वे विधयश्छन्दसि विकल्प्यन्ते" (भो।प।९९) इति। "छान्दसं ह्यस्वत्वम्()" इति। "ङ्यापोः संज्ञाच्छन्दसोर्बहुलम्()" (६।३।
६३) इति ङ्यापोर्विधीयमानं ह्यस्वत्वं बहुलवचात्? "पेरिरन्नित्यत्रापि वति। पचेर्लिङ्, सीयुट्(), झस्य रन्(), शप्(), "आद्गुणः"
६।१।८४। पचेरन्निति प्राप्त एत्त्वे ह्यस्वत्त्वे च कृते पेचिरन्निति भवति॥