माधवीयाधातुवृत्तिः सायणः पं. अनन्त शास्त्री, पं. सदाशिव शर्म शास्त्री चौखम्बा-संस्कृत-सीरीज आफिस, बनारस सिटी| १९३४ प्रथम error 1447 1888 चुरादिगणः तुत्थ आवरणे | 1447 1898 चुरादिगणः तुत्थ आवरणे ॐ श्रीगणेशाय नमः भ्वादिगणः माधवीयधातुवृत्तौ भ्वादिः वागीशाद्याः सुमनसः सर्वार्थानामुपक्रमे यं नत्वा कृतकृत्याः स्युस्तं नमामि गजाननम् 1 जीयाद्धस्तिमुखो यस्य लीलयोर्ध्वाण्डखण्डने कन्दाङ्कुरवाभाति दन्ताग्रं तद्वहिर्गतम् 2 चिदानन्दकलां वार्णो वन्देचन्द्रकलाधराम् नैर्मल्यतारतम्येन बिम्बितां चित्तभित्तिषु 3 अस्ति श्रीसङ्गमक्ष्मापः पृथ्वीतलपुरन्दरः यत्कीर्तिर्मौक्तिकादर्शे त्रिलोक्यां प्रतिबिम्ब्यते 4 यशः क्षीराहुतीकृत्य यत्प्रतापहुताशने1 परे यान्ति पदं दिव्यं राजानो रणदीक्षिताः 5 तूर्णं कर्णान्तिकं प्राप्ते यत्प्रतापधनञ्जये पुरो निधाय गाङ्गेयं स्वात्मा संरक्ष्यते परैः 6 कुर्वन् शत्रुयशांसि धूमपटलीं कूलङ्कषाज्यास्पदः काष्ठासङ्गविवर्द्धितः प्रकटयन् भूतिं नवां भूयसीम् आतन्वन्न्तिरप्रापदहनं स्फूर्जत्स्फलिङ्गाकृतिं प्रायो यच्छति यत्प्रतापदहनः कस्मै न विस्मेरताम् 7 तस्य मन्त्रिशिखारत्नमस्ति मायणसायणः यः ख्यातिं रत्नगर्भेति यथार्थयति पार्थिवीम् 8 नित्योन्मीलितदानवारिरधिकं निर्धूतपङ्कोदयो दूरापास्तहरीशलङ्घनविधिर्भङ्गप्रसङ्गोज्ज्ञितः क्ष्माभृत्क्षोभकृतिक्षमः क्षणिययन् दोषाकरोत्पोषणा- मान्न्दाय चकास्ति यस्त्रिजगतामाश्चर्यरत्नाकरः 9 यत्कीर्तौ जाह्नवीस्फूर्तौ कीर्त्त्या विद्विषतामपि कलिन्दनन्दिनीकान्तिः स्पर्द्धयेव प्रपद्यते 10 येन निर्मीयते नित्यं धनैरायो2 धनैरपि श्रेयसे यशसे दानं विदुषां विद्विषामपि 11 न ध्यानं न व्रतं नार्चा न समाधिर्न वा जपः मन्त्रसिद्धा बलं यस्य मतिरेव महीयसी 12 तेन मायणपुत्रेण सायणेन मनीषिणा आख्यया माधवीयेयं धातुवृत्तिर्विरच्यते 13 अल्याः पूर्वनिबन्धेभ्यो गुणवत्ता न कथ्यते सर्व एव स्ववाक्येषु यदाहुर्गणगौरवम् 14 सा च सन्त्यक्तमात्सर्यैर्गुणगृह्यैर्मनीषिभिः सूत्रवार्त्तिकभाष्याणामीक्ष्यतां पारदृश्वभिः 15 कल्पयन्तु खला दोषं किं तैर्यदयमुद्यमः मुनित्रयगिरामर्थमतत्त्वविदुषः प्रति 16 उदात्तः परस्मैभाषः
भू
 
सत्तायाम्
 वर्त्तत इति शेषः
सत्तेहात्मभरणम् । यदाह हरिः: आत्मानमात्मना बिभ्रदस्तीति व्यपदिश्यते इति। हेलाराजश्च: 'अस्ति आत्मानं बिभर्त्ति सत्तां भावयतीति यावत्' इति। कैयटकारोपि: 'आत्मभरणवचनो भवति' इति। नैरुक्ताश्च: 'अस्तीत्युत्पन्नस्यात्मधारणमाचष्टे' इति
उदात्तः नानुदात्त इत्यर्थः । तेन "एकाच उपदेशेऽनुदात्तात्'' इतीण्निषेधो न भवति । एवमुत्तरत्रापि ।। परस्मैभाषा ।।परस्मैपदीत्यर्थः । उपलक्षणमर्थनिर्देशः । हिमवतो गङ्गा प्रभवति, मल्लो मल्लाय प्रभवति, यामस्य प्रभवति, परान् पराभवति, इदमेवं संभवति, स्थाली तण्डुलान् संभवति, शमनुभवति इत्यादौ प्रकाशनङ्गनिःसरणप(३)र्याप्तैश्वर्याभिभवोत्प्रेक्षान्तभावनसंवेदनादीनामवगमात् । न च मन्तव्यं प्रभूप्रभृतयस्समुदाया एवैतेष्वर्थेषु वर्त्तन्त इति एवं हीह भुवः क्रियावाचित्वाभावात्समुदायस्य च भूवादावपाठान्नेह धातुत्वमिति तन्निबन्धनप्रत्ययाभावात् प्रभवतीत्यादि रूपं न स्यात् । किं चोपसर्गसंबन्धमन्तरेण "भूतिकामः पुत्रो भवति" "बहुर्वै भवतो भ्रातृव्यः" इत्यादावेश्वर्योत्पत्तिलिप्सादयोऽवगम्यन्ते । न चोत्पत्तिः सत्ता, उत्पन्नस्यात्मधारणलक्षणमित्युक्तत्वात् । तथा च नैरुक्तः---"जायतेऽस्तिविपरिणमतेवर्द्धतेऽपक्षीयते विनश्यति' इति क्रमेण षड् भावविकारानाहुः(४) । लोकेऽपिसत्ताजन्मनोर्भिन्नत्वादेव घटः किमुत्पद्यत इति पृष्टो न कश्चिदप्यस्तीति प्रतिवक्ति । तथाचार्येणापि "तत्र जातः'' "तत्र भवः'' इति भेदेन(५) निर्दिश्यते, तस्माद्धातुरेवानेकार्थाभिधायी, प्रादयस्तु प्रकरणादिवद्विशेषस्मृतिहेतवो द्योतकाः । द्योतकापेक्षा च शब्दशक्तिस्वाभाव्यात् क्कचिदेव, यथा हरिशब्दो भेकादावेव । एवमुत्तरत्राप्यर्थनिर्देशोऽतन्त्रम् यथा बीजसंताने वपिः पठितः केशान्वपतीत्यादौ छेदनेपि वर्त्तते, तथा करोतिर्भूतप्रादुर्भावे पठितो ऽस्मानभितःकुरु, पादौ कुरु, यः प्रथमः शकलं परापतेत्स स्वरुः कार्यः, चोरंकारमाक्रोशतीत्यादौ स्थापननिर्मलीकरणोपादानेच्चारणादौ वर्त्तते, चोरंकारमित्यत्र चोरशब्दमुच्वार्यति(१) ह्मर्थः न त्वचोरचोरः क्रियते । अर्थनिर्देशस्योपलक्षणत्व एव' कुर्द खुर्द गुर्द गुद क्रीडायामेवेत्येवकारोपपत्तिः(8) "गाधृप्रतिष्ठालिप्सयोः' इत्यादौ त्वनेकार्थाभिधानं प्रपञ्चार्थम् । तदेवं सत्स्वपि बुहुष्वर्थेषु माङ्गलिकत्वात् सुप्रसिद्धत्वात्सर्वपदार्थव्यापित्वाच्च सत्तानिर्देशः कृतः । उक्तं च भाष्ये9 "न सत्तां पदार्था व्यभिचरति' इति हरिणाप्युक्तम् । संबन्धिभेदात्सत्तैव भिद्यमाना गवादिषु ।जातिरित्युच्यते तस्यां सर्वे शब्दा व्यवस्थिताः।।तां प्रातिपदिकार्थं च धात्वर्थं च प्रचक्षते ।इति । माङ्गलिकत्वमपि प्रसङ्गात् सत्ताख्यस्य परब्रह्मणः स्मरणेन । आदौ भुवो निर्देशो भूशब्दस्य महाव्याहृतिस्मरणेन माङ्गलिकत्वात् सर्वजात्यर्थव्याप्यर्थाभिधायित्वात् "भूवादयो धातव'' इति प्रसङ्गात् भूवादिशब्दस्य साधुत्वलाभहेतुत्वाच्च । कृभ्वस्तयो हि क्रियासामान्यवचनाः। सामान्यं च विशेषेषु प्रत्येकं परिसमाप्यते । आत्मभरणं च पाकादिष्वप्यस्तीति भ्वस्त्योः क्रियासामान्यवाचित्वम्। उक्तं च कैयटे 'तद्ध्यात्मभरणं विरुद्धार्थसमवायैः पाकादिभिरविरुद्धैकार्थसमवायम्' इति । तेन यथा "ब्राह्मणो गार्ग्यं इत्यत्र ब्राह्मण्यं सामान्यं गार्ग्यत्वं विशेषस्तद्वदिहाप्यात्मभरणं सामान्यं पाकादिकं तु विशेषः । करोतेरपि क्रियासामान्यमर्थः, ब्राह्मणो गार्ग्यं इतिवत् किं केरोति पचतीति क्रियासमानाधिकरण्यदर्शनात्, इत्थं च करोत्यर्थः प्रश्नः पचत्यादिभिर्व्याकृतो भवति । अत्यन्तभेदे तु करोत्यर्थो न व्याकृतो भवेत्, यथा किं करोति देवदत्तो ? घट इति कथं तर्हि करोत्यर्थविशेषत्वे सर्वधात्वर्थानामासनमपि करणमिति किं करोतीति प्रश्ने न करोत्यास्त इति करोत्यर्थविशेषेणोत्तरं संगच्छते । उच्यते । नात्र क्रियासामान्यं पृच्छ्यते किं तु लोकप्रसिद्धो गमनागमनादिर्विशेषस्तत्रैव लौकिकानां क्रियात्वाभिमानात्, तेन तन्निषेधवूर्वकमास्त (10) इत्यत्र युज्यते । यद्वा क्रियासामान्यावश्यं भावात् विशेषविषय एव प्रश्न इति तन्निराकरणेन प्रतिवचनं बोद्धव्यम् क्रिया च यद्वस्तु सिद्धमसिद्धं वा शब्देन साध्यत्वेनाभिधीयमानमाश्रितक्रमं तदिति वैयाकरणानां मतम् । तदुक्तम् ।यावत्सिद्धमसिद्धं वा साध्यत्वेनाभिधीयते ।आश्रितक्रमरूपत्वात्क्रियेति व्यपदिश्यते ।।इति ।। नन्वेवं सति वितता बहवः क्षणा धातुवाच्या इत्युक्तं भवति, यथा पचतीत्यत्राधिश्रयणोदकासेचनतण्डुलावपनैधोपकर्षणादिः, ततश्चैषां बहुत्वेनैकत्वाभावात् कथमेकक्रियात्वेनैकधातुवाच्यत्वं, न चास्ति समुदायभावः, क्षाणानां क्षणिकत्वेन युगपदसंनिधानात् । नैष दोषः। क्रमवतामेषां क्षणानामेकलोद्देशेन प्रवृत्तानां सकलानां बुद्धया समापौदितैक्यानां क्रियात्वव्यवहारात् । न च यदनन्तरं फलं निष्पद्यते तस्यैव फलसाधनत्वम्, एवं ह्मधिश्रयणादिवैयर्थ्यं स्यादिति तैरपि समीहितफलानुगुणैर्यथास्वं विशेष आधीयत एवेत्यवश्यं फलसाधनत्वमङगीकर्त्तव्यम् , एवं च काल्पनिकः समुदायो धातुवाच्य इत्युक्तं भवति । तत्रावयवक्षणाः समुदाये गुणभावमापन्ना इति न ते शब्दभेदं प्रयुञ्जते । तदुक्तम् । गुणभूतैरवयवैः समूहः क्रमजन्मनाम् ।बुद्धया प्रकल्पिताभेदः क्रियेति व्यपदिश्यते ।।इति ।।क्रमजन्मनामेषां क्षणानामभेद एकत्वे बुद्ध्या संकलनात्मिकया प्रकल्पितः, स च समूहः स्वभावतो गुणभूतैरवयवैर्युक्त इत्यर्थः। गुणभूतैरवयवैरिति वचनमवयवानां शब्दभेदं प्रति प्रयोजकत्वं नेति प्रतिपादनार्थम् । एवं समूहरूपायाः क्रियाया एकत्वादपूर्वापरीभावाद क्रमत्वेऽप्यवयवक्रमाश्रयेण क्रमित्वव्यवहारः । उक्तं च ।स चापूर्वापरीभूत एकत्वाद्यक्रमात्कैः ।पूर्वापराणां धर्मेण तदर्थेनानुगम्यते ।। इति ।।कथं तर्ह्येकैकस्मिन् क्षणे धातोः प्रयोगः पचतीत्यधिश्चयितर्यपि वक्तारो भवन्ति । उच्यते,अधिश्रयणारम्भ एव फलाभिसन्धेस्तत्रेवं समुदायस्यारोपात् । अयं च समाश्रितपूर्वापरीभाव एवारोप्यत इत्येकोऽपि क्षणः क्रमिको भवति । अत एव क्षणान्तरेऽनुष्ठीयमाने ऽनुष्ठाप्यमाने चाध्यारोपितविरूपस्य क्षणस्यारोपादतीतत्वादपाक्षीदिति भूतकालता, तथा तस्य क्षणस्य भावित्वादितरेष्वभाविष्वपि पक्ष्यतीति भविष्यत्कालता, तथा चैकस्य क्षणस्य वर्त्तमानत्वादन्येष्सवत्तेमानेष्वपि पचतीति वर्त्तमानकालता चेति कालत्रययोग उपपद्यते । यथोक्तम्--- समूहः स तथाभूतः प्रतिभेदं समूहिषु । समाप्यते ततो भेदे कालभेदस्य संभवः ।।इति ।।तथाभूतः क्रमिकः सन् प्रतिभेदं प्रत्येकं समूह आरोप्यते ततो विषयविषयिणोरभेद एकत्वे कालभेदः संभवतीत्यर्थः । तदेवं शब्देन साध्यतया प्रतीयमानः समाश्रितक्रमोर्थः क्रियेति स्थिते पटो भवतीत्यात्मभरणलक्षणा सत्ता तथैवाभिधीयत इति क्रियात्वेन विचिकित्सा ।तथा च क्रियाभेदाय कालस्तु संख्या सर्वस्य भेदिका ।इति क्रियाभेदहेतुना कलिनाभूदस्ति भविष्यतीति प्रयोगाः । नह्यक्रियस्य कालेन विभागोस्ति । उक्तं च-- कालानुपीति यद्रूपं तदस्तीति प्रतीयते । इति । एवं च "भूतं भव्यायोपदिश्यत' इति न्यायेन देवदत्तः पचतीत्यादिवत् घटो भवतीति क्रियाकारकभावेन समन्वय उपपद्यते । किं करोतीति प्रश्ने पचतीत्यादिवदस्तीति प्रतिवचनाभावे निर्ज्ञातसत्तस्यानिर्ज्ञातो व्यापारभेदः पृच्छते, न तु निर्ज्ञाता सत्तैवेति, तद्विषयस्य प्रश्नस्यैवानुदयात् (11) । यदा तु सत्ताविषयः प्रश्नो विनाशशङ्कया किं करोति देवदत्त इति, तदास्ति तावदिति प्रतिवचनमपि भवत्येव । ननु क्रियायाः क्रमिकत्वमध्यारोपेणेत्युक्तं, गौणता तु प्राप्नोति अत्र परिहरन्ति ।व्यवहारस्य सिद्धत्वान्नवेयं गुणकल्पना ।उपचारो हि मुख्यस्यासंभवादपदिश्यते ।।इति ।।यथा गोशब्दस्यासंभवात्सास्नादिमर्थस्य वाहीकादिवृत्तित्वम्, एवं स्थिते सर्वपार्षदत्वाद्व्याकरणस्य तत्ततैर्थिकानुरोधेन हरिणा क्रियामतभेदाः प्रदर्शिताः तेपीह संक्षेपेणे प्रदर्श्यन्ते । यथा यदनन्तरं फलं निष्पद्यते सा क्रिया । यथौदनं पचतीत्यत्र विक्लेदनं, तदनन्तरं फलनिष्पादनात् तदेव कारकं, नहि साक्षादजनयत्कारकं नाम । अधिश्रयणादीनां विक्लेदनोपयोगित्वान्न वैयर्थ्य, तेषु तु पच्यादिप्रयोगस्तदर्थत्वेन विक्लेदनरूपाध्यारोपात् । पौर्वापर्यतु पूर्वापरक्षणापेक्षया । उक्तं च-- अनन्तरं फलं यस्याः कल्प्यते तां क्रियां विदुः ।प्रधानभूता तादर्थ्यादन्यासां तु तदाख्यता ।। इति ।। अथ वा चैत्रः पचति, मैत्रः पचति, क्षीरं पचति, ओदनं पचति, इत्यादिषु कर्तृकर्मभेदेन भिन्नेषु पाकादिषु पच्यादिप्रत्ययानुवृत्तेर्घटादिषु घटत्वादिवदस्तिपचित्वादिकं नाम ज्जातिः सा क्रिया । ननु युगपदवस्थितैरवयवैरारब्धेषु सत्सू घटादिषु समवायाद्घटत्वादीनामभिव्यक्तिर्युज्यत, इह तु क्रमजन्मभिरयुगपद्भाविभिः क्षणैरवयव्यन्तरमारब्धुं न शक्यते तत्समवायात् पचित्वाद्यभिव्यक्तिः स्यात् । नैष दोषः। क्रमजन्मभिरयुगपद्भाविभिरनाब्धावयविभिरुत्क्षेपणादि-क्षणैरुत्क्षेपणत्वादीनामिवाभिव्यक्तुपपत्तेः । यथैव चोत्क्षेपणाद्यवयवकर्माणि इदमहमुत्क्षिपामीत्यादिबुद्धीनां विशिष्टप्रयत्नजन्यतया मिथः स्वतो भिन्नान्युत्क्षेपणत्वादीनामाधारत्वमपि प्रतिपद्यमानानि दुरवधारत्वाद्विशिष्टजातिविषयां बुद्धिं न प्रकल्पयन्ति, एवमिहाप्येकैकक्षणदर्शनेन पचित्वादीनामप्रत्ययः । अत्र च साध्यत्वक्रमिकत्वे व्यञ्जक्षणद्वारेण । उक्तं च - जातिमन्ये क्रियामाहुरनेकव्यक्तिवर्तिनीम् ।असाध्यव्यक्तिरूपेण सा साध्येवोपकल्प्यते(12)।।एकैकस्मिन्क्षणेपि पचित्वादेर्वस्तुतो विद्यमानत्वात्तत्रतत्र शब्दप्रयोग उपपद्यते । अथ वा कारकभेदभिन्नविघटनादिरूपाया यस्याः क्रियाव्यक्तेरनन्तरं फलं निष्पद्यते तत्र समवेता विघटनत्वादिका पच्यादिक्रिया अस्याश्च साध्यत्वादिकमाश्रयद्वारकम् । यादह -अन्ते या वा क्रिया भावो जातिः सैव क्रिया स्मृता ।सा व्यक्तेरनुनिष्पादे जायमानेव गम्यते ।। इति ।। अत्रापि मते व्यक्तिदर्शनवत्तादर्थ्यादन्यत्र पच्यादिप्रयोगः । अथ वाधिश्रयणादिव्यापारविशिष्टेषु कारकेष्वधिश्रयणादिव्यारेष्वन्त्य एव व्यापारे समवेतोपहितभेदा सत्ता क्रिया । तदुक्तम्--- स्वव्यापारविशिष्टानां सत्ता वा कर्तृकर्मणाम् ।क्रिया व्यापारभेदेषु सत्ता वा समवायिनी।। अन्ते वात्मनि या सत्ता सा क्रिया कैश्चिदिष्यते । भाव एव हि धात्वर्थ इत्यवच्छिन्न आगमः ।। इति ।। भाव एव हि इत्यादिना 'षट् भावविकारा इति ह स्माह भगवान् वार्ष्यायणिः' इति भाष्यकारानुमतं निरुक्तकारवाक्यमस्य संवादकत्वेन दर्शयति । जातिसमुद्देशेप्युक्तम्--- प्राप्तक्रमविशेषा तु क्रिया सैवाभिधीयते ।क्रमरूपस्य संहारे तत्सत्त्वमिति कथ्यते ।।व्यापारविशेषाणां साध्यत्वात्क्रमिकत्वाच्च तदुपहितायाश्च ते भवतः । अथ वा शब्दोच्चारणसमनन्तरं योर्थः प्रतिभासते बुद्ध्याकारत्वेन स शब्दार्थः । यदुक्तं, "बुद्धिप्रतिभासः शब्दार्थ" इति । यदि हि बहिः सत्तासमाविष्टार्थोर्थः स्यात् तदा पटोस्ति नास्तीत्यादौ पौनरुक्त्यविरोधौ स्यातां, तथा ऽसतो जन्मायोगाद् पटो जायत इत्यादिप्रयोगोऽनुपपन्नः स्यात् । किं च बहिरत्यन्तासत्सु शशविषाणादिषु तत्तच्छब्दप्रयोगो न स्यात्, बुद्धयुपारूढे तु शब्दार्थत्वे दोषा नावतरन्ति । बुद्धिसत्तासमाविष्टस्य बहिस्सत्ताऽसत्ताजननप्रतिपादनायास्ति नास्ति जायत इति प्रयोगस्योपपन्नत्वात् । अर्थक्रियाकारित्वं तु दृश्यविकल्पयोरभेदाध्यवसायादुपपद्यते शशविषाणदिष्वप्यस्तिप्रयोगो नास्तिप्रयोगश्च बुद्धिसत्तयैवास्ति न तु बाह्यसत्तयेत्येवं प्रतिपादनाय, तस्माद्धातूनामपि बुद्धिसिद्धाः क्षणास्तद्गता जातिः सत्ता वार्थः सैव क्रिया । साध्यतादिकं वा भेदेनाध्यवसितं दृश्यक्षणद्वारेण । उक्तं हि-- बुद्धिं तज्जातिमन्ये तु बुद्धिसत्तामथापरे ।प्रत्यस्तरूपां भावेषु क्रियेति प्रतिजानते ।। इति ।।बुद्धिशब्देन बुद्धिप्रतिभास्याकारोऽत्र विवक्षितः । तदेवं भुवः क्रियावाचित्वात्पाठाच्च "भूवादयो धातव'' इति धातुत्वे वर्त्तमानेलट्इति वर्तमानत्वोपाधिकार्थाद्धातोर्लट्।प्रत्ययःपरश्चइतिप्रत्ययसंज्ञकः परस्तात् । ननु बहवः क्षणा धातुवाच्यास्तत्र केचन भूता भविष्यन्त इति तेषामविद्यमानत्वात् कथं वर्त्तमानत्वं धात्वर्थविशेषणम् । उच्यते । नेह विद्यमानत्वं वर्त्तमानत्वं किं तर्हि प्रारब्धापरिसमाप्तत्वं, तच्च यावतः क्षणसमूहस्य फलाविधिप्रवृत्तिः तावतः प्राक् फलजननादभेदेनाध्यवसितस्यास्त्येव । एवं च काल्पनिकसमूहाकारेण विद्यमानत्वं वर्त्तमानत्वमित्युक्तं भवति ।कार्योत्पत्तौ समर्थं वा स्वेन धर्मेण तत्तथा । आत्मतत्त्वेन गृह्येत सा चास्मिन्वर्त्तमानता ।। इति ।।अस्यार्थः, वाशब्दो वक्ष्यमाणपक्षापेक्षः, एकैकक्षणानन्तरं फलनिष्पत्तेरदर्शनादितरक्षणवैयर्थ्यप्रसङ्गात्सर्वक्षणानन्तरदर्शनाच्चेकफलसाधनत्वेन क्षणानां कल्पितमेकं समुदायरूपं कार्योत्पत्तौ समर्थमित्युच्यते, तत्स्वेन धर्मेण क्रमवत्त्वेन तथा युक्तमात्मतत्त्वेनात्मीयेन विद्यमानत्वेन गृह्यते सेयमस्मिन्समुदाये वर्त्तमानतेति वाशब्दसूचितः पक्ष उच्यते, विप्रसृतावयवः क्रियाकलापः प्रयोक्तुः संकलनबुद्ध्ययारूढः प्रतिपत्तृबुद्धौ संक्रान्तस्तस्या एकत्वाद्वर्त्तमानत्वाच्च तदभेदेनैको वर्त्तमानश्च व्यपदिश्यत इति । उक्तं च - क्रियाप्रबन्धरूपं यत् बुद्ध्यात्मा विनिगृह्यते ।संक्रान्तबिम्बमेकत्र तामाहुर्वर्तमानताम् ।। इति ।।अयमर्थः । प्रयोक्तुः संकलनबुद्धेरात्मा क्रियाप्रबन्धरूपं वस्तु एकत्र प्रतिपत्तुर्ज्ञाने संक्रान्तबिम्बं संक्रातस्वरूपं यद्विनिगृह्यते ऽवधार्यते तस्मात्तस्य ज्ञानस्य वर्त्तमानतामेव तद्भेदात्क्रियाया वर्त्तमानतामाहुरिति ननु यथोपलब्धिः स्मरणमुपलब्धिश्च क्रमेणेति प्रयोक्तुः कथं संकलनात्मिकैका बुद्धिर्यदुपारोहेणासौ प्रतिपत्तुः क्रियाकलापं शब्देन युगपपदवगमयेत्, ततश्चैकबुद्युपारोहाभावात्कथमेकत्ववर्त्तमानत्वे स्याताम्, नैष दोषः । अनुभववासनायाः प्रत्त्यासन्नत्वात्क्रमेणानुभवतामपि संकलनायोगात् अनुभपूर्वत्वं हि स्मरणस्य नियतं न तु क्रमिकत्वमपि, अन्यथा समुच्चयशतादिप्रत्ययाभावप्रसङ्गात् । नन्वेवमस्त्वस्यैवबौद्धस्य ( 1 ) वर्त्तमानत्वं कथं बाह्यस्येति चेन्न दृश्यविकल्पयोरभेदाध्यवसायात् अन्ये तु काल एव क्रियाया उत्पन्नध्वस्तत्वेन साधनसंपत्त्या संभाव्यमानोदयत्वेन प्रारब्धापरिसमाप्तत्वेन चोपहितः सन् क्रमेण भूतादिभेदं प्रतिपद्यते, तत्कालयोगात्क्रियाया अपि तत्तद्व्यपदेश इति । उक्तं च -क्रियोपाधिश्च सन् भूतभविष्यद्वर्त्तमानता। एकादशभिराकारैर्विभक्ता प्रतिपद्यते ।। इति ।।काल इति शेषः। एकादशत्वमप्युक्तम् ।भूतः पञ्चविधस्तत्र भविष्यच्च चतुर्विधः । वर्त्तमानो द्विधा ख्यात इत्येकादशकल्पना ।। इति ।। तत्र तावदद्यतनानद्यतनव्यामिश्रसामान्यरूपाश्चत्वारो मुख्यभूतभेदाः । सामान्यमपि विशेषेभ्यो व्यावृत्तेर्भेदः उक्तं च "अनेकमन्यपदार्थ'' इत्यत्र सामान्यमपि यथा विशेषस्तद्वदिति परोक्षस्त्वनद्यतनभूतभेदो न तु भूतभेद इति न पृथग्गण्यते । "आशंसायां भूतवच्च'' इत्यतिदिष्टभूतकार्यो भवष्यित्तथैको गौणो भूत इति भूतः पञ्चविधः । भविष्यत्तुगौणाभावादद्यतनादिभेदेन चतुविधः । "वर्तमानसामीप्य'' इत्यतिदिष्टवर्त्तमानकार्यौ भूतभविष्यन्तौ गौणौ, तदेवमेकादशभेदा कालस्य, यद्यप्यन्येऽप्यौपाधिका भेदाः सन्ति तथापि शास्त्रप्रक्रियायामियन्त एवोपयुज्यन्त इत्येवमुक्तंगतमदः । लटोऽकारटकारयोः "उपदेशेऽजनुनासिक इत्'' "हलन्त्यम्''इतीत्संज्ञा उपदेशो धातुसूत्रप्रातिपदिकप्रत्ययागमादेशलक्षणः । प्रतिज्ञानुनासिक्याः पाणिनीयाः । "तस्य लोपः'' अदर्शनं लोपःअदर्शनं चेह प्रसक्तस्य शब्दस्य लोपः प्रयोजनं लडित्यनुवादष्टिद्वयपदेशश्चैषामन्येषामप्यनुबन्धानाम् । ननु " शषसर" "हल्'' इत्यत्र ''लकारस्येत्त्वे तेन" "आदिरन्त्येन सहेता'' इति प्रत्याहारः, सति च तस्मिन् "लण्'' इत्यत्रलकारस्य हल्त्वात्तस्यैव "शषसर्'' "हल्'' इत्यत्रान्ते, निर्देशादित्संज्ञा, तदाश्रयश्च हलिति प्रत्याहारः, इतीतरेतराश्रयत्वादयमेव तावत् प्रत्याहारो ऽनुपपन्नस्ततः सर्वेषामेव णकारादीनामित्त्वं न स्यादिति सर्वप्रत्याहारव्यवहारो ऽनुपपन्न इति कथमत्राच्त्वेन हल्त्वेन चाकारटकारयोरित्त्वे, एवं चादिरन्त्येनेति ग्राहकसूत्रमपि व्यर्थं स्यादिति चेत् । नैष दौषः । हलितिसूत्रे( 1 ) हकारात्पर लृकारः, लपरत्वं तु तस्यैकादेशलक्षणकृतम् । तेन तस्याच्त्वादित्त्वं भविष्यति, स एव च "हलन्त्यम्'' इत्यत्राप्येकादेशेन लपरेण निर्दिष्ट इति । एवमपीतरेतराश्रयमेव लृकारस्य । सत्यामित्संज्ञायां हलितिप्रत्याहारः, सत्यस्मिन्नैऔजिति चकारस्येत्त्वं, तस्मिंश्च सत्यजितिप्रत्याहारः, सत्यस्मिन्नैऔजिति चकारस्येत्तवं, तस्मिंश्च सत्यजितिप्रत्याहारः, अस्मिंश्च प्रत्याहारे सति लृकारस्येत्संज्ञया भाव्यमिति । एवं तर्हि हल् च ल् चेति समाहारद्वन्द्वेन द्वितीयस्यापि लकारस्य निर्देशात् प्रत्याहारमन्तरेण तस्येत्संज्ञासिद्धिः, अश्रवणन्तु संयोगान्तलोपेन । अथ वा श्वेतो धावतीत्यदाविव द्वितीयमप्यत्र हल्ग्रहणं तन्त्रेणोपादीयते, तत्रैकेन हस्य लिति हकारसमीपस्य लकारस्य विनैव प्रत्याहारादित्संज्ञा भविष्यति । यद्वा हस्य ल् हलिति तत्पुरुषस्य प्रत्याहारस्य च हल्शब्दस्यैकशेषे ऽर्थद्वयं लप्स्यत इति न संकटं किं चित् । तत्पुरुषः पुल्लिङ्गः प्रत्याहारस्तूभयलिङ्गोप्यन्तमित्यनेन साहचर्य्यादिह नपुंसकलिङ्ग । "नपुंसकमनपुंसकेन'' इतितस्यैकशेष एकत्वं च ।कर्मणि च भावे चाकर्मकेभ्यः।।उत्सृष्टानुबन्धश्चायं लकारः, लकारः सकर्मकेभ्यो धातुभ्यः कर्मणि कर्त्तरि च भवन्ति, अकर्मकेभ्यस्तु भावे कर्त्तरि चेति यथायोगं कर्त्रादौ भवन्ति ।।स्वतन्त्रः कर्त्ताक्रियाप्रसिद्धौ यत्कारकं प्रधानभूतं विवक्षितं तत् कर्तृसंज्ञं भवति । ननु च सामग्रीसाध्यायां क्रियायां स्वस्वव्यापारे सर्वेषां स्वातन्त्र्यात् कथमेकस्य तत् । उच्यते । करणादिप्रवृत्तेः प्रागेव परस्मादर्थितादेरेव निमित्तात्कर्त्तुः प्रवृत्तिः, कणादि तु तदधीनप्रवृत्ति तथाहि अर्थी हि कर्त्ता तत्प्रयुङ्क्ते न तदेनम् । किं च तस्य प्रतिनिधिर्दृश्यते, व्रीह्यपचारे नीवारैरिज्यते, कर्तृः स नास्ति तद्भेदे क्रियान्तरमेवेति प्रसिद्धिः । किं च कारकान्तरानुपादानेप्यसौ दृश्यते भवत्यादिषु, तस्माद्युक्तं स्वातन्त्र्यम् । तथा चोक्तम्--- प्रागन्यतः शक्तिलाभान्यग्भावापादनादपि । तदधीनप्रवृत्तित्वात् प्रवृत्तानां निवर्त्तनात् ।।अदृष्टत्वात्प्रतिनिधेः प्रविवेके च दर्शनात् ।आरादप्युपकारित्वात्स्वातन्त्र्यं कर्तुरुच्यते ।।इति ।। प्रागन्यतः शक्तिलाभादीनां शब्देन प्रतीतिमात्रस्य विवक्षणादचेतनेष्वपि तदनपायात् कर्तृतोपपत्तिः उक्तं च--- सर्वैरभ्युदितैः शब्दैर्नियमो न तु वस्तुनि । कर्तृधर्मविवक्षायां शब्दात् कर्त्ता प्रतीयते ।। इति ।।वृत्तौ तु स्वातन्त्र्येणागुणभावो विवक्ष्यत इति तस्य च सार्वत्रिकत्वात्सर्वत्र कर्तृतोपपत्तिः ।कर्त्ता च त्रिविधो ज्ञेयः कारकाणां प्रवर्त्तकः । केवलो, हेतुकर्ता च कर्मकर्त्ता तथापरः ।। इति ।।कर्तुरीप्सिततमं कर्मकर्त्रा क्रियया यदाप्तुमिष्टतमं तत्कर्म तथा युक्तं चानीप्सितम्येनैव प्रकारेणेप्सिततमं क्रियया युज्यते तेनैव प्रकारेण तथा युज्यमानमनीप्सितमपि कर्म । अकथितं च अपादानादि विशेषकथारहितं दुह्यादिकारकं गवादि च कर्म।*दिवः कर्म च* दिवः साधकतमं करणं तत्कर्मेत्यादि चतुर्विधं कर्मेप्सिततमनीप्सिततमाकथितसंज्ञान्तरपूर्वभेदेन । तत्राद्यं त्रिधा, निर्वत्यं विकार्यं प्राप्यमिति । द्वितीयमपि द्वेधा, द्वेष्यमितरदिति । तदुक्तम्-- निर्वर्त्यं च विकार्यं च प्राप्यं चेति त्रिधा मतम् ।तत्रैप्सिततमं कर्म चतुर्धान्यत्तु कल्पितम् ।। औदासीन्येन यत्प्राप्यं यच्च कर्तुरनीप्सितम् । संज्ञान्तरैरनाख्यातं तद्यच्चाप्यन्यपूर्वकम् ।। इति ।। तत्र निर्वर्त्यं यस्योपादानकारणं नास्ति सदपि वा तत्परिणामित्वेन नाश्रीयते, यथा संयोगं करोति, पटं करोति, मृदा घटं करोतीति । विकार्यमपि द्वेधा । प्रकृत्युच्छेदसंभूतमेकं, प्रकृत्यनुवृत्तौ गुणान्तरोत्पत्त्योपलक्षितमपरम्, यथा काष्ठानि भस्म करोति, हिरण्यं कुण्डलं करोतीति । व्रीहीन्प्रोक्षतीत्यादौ प्रोक्षणादिजन्यादृष्टरूपेण विक्रियमाणा व्रीह्यादयोपि विकार्यं कर्म । प्राप्यं पुनरेकमेव, यत्र क्रियाकृतो विशेषो न गम्यते यथा वेदमधीत इत्यादौ वेदादि ।तथाचोक्तम्--- सती या ऽविद्यमाना वा प्रकृतिः परिणामिनी । यस्य नाश्रीयते तस्य निर्वर्त्यत्वं प्रचक्षते ।। तन्निर्वर्त्यं विकार्यं तु द्विधा कर्म व्यवस्थितम् ।प्रकृत्त्युच्छेदसंभूतं किं चित् काष्ठादिभस्मवत् ।।किं चित् गुणान्तरोत्पत्त्या सुवर्णादिविकारवत् । क्रियाकृतविशेषाणां सिद्धिर्यत्र न गम्यते ।।दर्शनादनुमानाद्वा तत्प्राप्यमिति कथ्यते ।। इति ।।भावस्तु केवलो धात्वर्थः लस्यतिप्तस्झिसिप्थस्थमिब्वस्मस्ताताझथासाथांध्वमिड्वहिमहिङ्तिबादयोऽष्टादशषष्ठीस्थानेयोगाइति लस्य स्थाने स्युः । स्थानं प्रसङ्गो, योगः संबन्धः । इह शास्त्रेऽनियतसंबन्धविशेषा षष्ठी स्थानेयोगेत्यर्थः । तत्र तिबादिष्वविशेषेण प्राप्तेषु शेषात्कर्त्तरि परस्मैपदम्इति आत्मनेपदविषयादन्यत्वेन शेषादन्यस्मात्परस्मैपदमेव तच्च कर्त्तर्येव । आत्मनेपदविषयश्च स येषां "अनुदात्तडित'' इत्यादिनाऽऽत्मनेपदं विहितम् लः परस्मैपदम्तङानावात्मनेपदम्तङितितिबादिसूत्रेणोपात्तास्तादयो नव प्रत्याहारेणोच्यन्ते । आनइति शानच्कानचौ, अत्र यद्यपि "लः परस्मैपदम्'' इतिलादेशानां सामान्येन परस्मैपदसंज्ञोच्यते तथापि आकडारादेकासंज्ञाइत्यतः परेषां "कडाराः कर्मधारय'' इत्यतः प्राचामेकस्यैकैव संज्ञेतिनियमात् तङानयोरात्मनेपदसंज्ञयाऽनवकाशया बाधिता सा तद्व्यतिरिक्तिविषया ऽवतिष्ठते युष्मद्युपपदे समानाधिकरणे स्थानिन्यपि मध्यमः युष्मदि समानाधिकरणे व्यवहिते वाव्यवहिते वा प्रयुज्यमाने वा लान्तार्थस्य युष्मदर्थविशेष्यत्वे एव मध्यमः। अस्मद्युत्तमःपूर्ववद्व्याख्याशेषे प्रथमःयत्र युष्मदस्मदी समानाधिकरणेन सशेषस्तत्रैव प्रथमः । तिङस्त्रीणित्रीणि प्रथममध्यमोत्तमाःतिङः परस्मैपदान्यात्मनेपदानि च प्रत्येकं त्रीणित्रीणि पदानि भूत्वा यथासंख्यं प्रथमादिसंज्ञानि । यथासंख्यमनुदेशः समानाम्संख्या क्रमः, अनुदेशः पश्चादुच्चार्यमाणो विधीयमानः, अनुदेशशब्दस्य संबनिधशबदत्वादाक्षिप्ता उद्देशिनः, तेषामनुदेशिनां च संख्यातः पाठतश्च समानानां यो यः क्रमस्तेन तेन क्रमेण संबन्ध इत्यर्थः । तत्राप्येवं व्यवस्था । बहुषु बहुवचनम्द्व्येकयोर्द्विवचनैकवचनेबहुत्वादिषु यथासंख्यं बहुवचनादीनि । तान्येकवचनद्विवचनबहुवचनान्येकशःतानि लब्धप्रथमादिव्यपदेशानित्रीणित्रीणि प्रत्येकं यथासंख्यमेकवचनादिसंज्ञानि । एवं तिबादिषु ।कर्त्तरि शप्कर्तृवाचिनि सार्वधातुके धातोः शप्स्यात् । *तिङ्शित्सार्वधातुकम्* प्रत्यय इति शेषः । *शकारस्य लशक्वतद्धिते* लशकवर्गास्तद्धितवर्जप्रत्ययाद्या इत इतीत्वाल्लोपः। *सार्वधातुकार्द्धातुकयोः* । अनयोरिगन्ताङ्गस्थाने गुणः। आर्द्धधातुकं शेषःतिङ्शिद्भोन्योधातुसंशब्दनेन विहितः प्रत्यय आर्द्धधातुकम् । *अदेङ्गुणः* अदेङौ मात्रिकद्वमात्रकौ तद्भाविनावतद्भाविनौ च तौ च गुणौ।अणुदित्सवर्णस्य चाप्रत्ययःअण् चोदिच्च गृह्यमाणः सवर्णग्राहको भवति विधीयमानमणं वर्जयित्वा, उदिच्छब्देन क्कादयः पञ्चोच्यन्ते ।तुल्यास्यप्रयत्नं सवर्णम्आस्यं ताल्वादि, तत्स्थः प्रयत्नो यस्य वर्णस्य येन तुल्यः स तं प्रति सवर्णः। अकुहविसर्जनीयानां कण्ठः। स्पृष्टं( 1 ) करणं स्पर्शानामिति स्थानप्रयत्नसाम्यम् । कादयो मावसानाः स्पर्शाः।। तपरस्तत्कालस्यतः परो यस्मत्स च तात्परश्च तपरः, स दात्तादिभिन्नं सवर्णमात्मना तुल्यकालं स्वं च ग्राहयतीति भिन्नकालाग्रहः । गुणविधौ च "इको गुणवृद्धी'' इत्यनेन गुणवृध्योः स्वसंज्ञया विधाने इक इत्युपस्थाप्यते । "अङ्गस्य'' इति चाधिकृतम् ।यस्मात्प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम्यस्मात्प्रत्ययविधिस्तदादि तच्च तस्मिन्नेव प्रत्ययेऽङ्गं, तत्रानयोः सामानाधिकरण्येनान्वयस्य न्याय्यत्वादिकोङ्गस्य विशेषणता येनविधिस्तदन्तस्ययद्विशेषणमुपादाय किं चिद्विधीयते तदात्मान्तस्य स्वस्य च ग्राहकमिति तदन्तत्वलाभः ।अलोन्त्यस्यआदेशः षष्ठीनिर्देष्टस्यान्त्यस्य भवति । अन्त्यस्यैवेति स्यानषष्ठी स्थानित्वं प्रतिपादयतीत्यन्त्यस्य स्थानित्वादिगन्ताङ्गान्त्युक्तार्थलाभः । स चेह गुणः। स्थानेऽन्तरतमःअनेकादेशप्रसङ्गेसदृशतमः स्यात्, स सदृशः गुणादिसदृशात् तस्थानसदृश इति नियमादुकारस्योपूपध्मानीयानामोष्ठा इत्योष्ठ्यस्यौदौतोः कण्ठोष्ठमिति ओष्ठ्य ओकारः । तस्य "एचोऽयवायाव'' इति यथासंख्येनावादेशे सिद्धं ( भवति इति ) । अस्य च ''सुप्तिङन्तं पदं'' इति पदत्वे युष्मदस्मदोः षष्ठीचतुर्थीद्वितीयास्थोवान्नावौइति पदात्परयोरपादादौ वर्त्तमानयोः समानवाक्यस्थयोः श्रूयमाणषष्ठ्यादिद्विवचनान्तयोरनयोर्यथासंख्यं वान्नावादेशौ भवतः । बुहवचनस्य वस्नसौतेमयावेकवचनस्यइमावादेशौ न द्वितीयैकवचनान्तयोः, त्वामौ द्वितीयायाइति त्वामोर्विधानात् । एषामपि पूर्ववद्व्याख्या, ( भवति वाम्, भवति नौ, भवति वः, भवति नः, भवति ते, भवति मे, भवति त्वा, भवति मा ) यथायोगं स्वं, देयं, प्राप्तमिति शेषः । एते चानेकाल्त्वात् "अनेकाल्शित्सर्वस्य'' इति सर्वादेशाः एषां च स्थानिवदादेशोनल्चिधौ''इति स्थान्यलाश्रयकार्यं वर्जयित्वा स्थानिकार्यविधानात् पदत्वे तन्निबन्धनानि रुत्वादीनि यथायोगंज्ञेयानि ( भवतः )अत्र तसः सकारस्य प्रयोजनाभावादित्त्वाभावः । न च लोप एव प्रयोजनम्, एवं हि नोपदिश्येत, "सिति च'' इति पदत्वं यकाराजाद्यसर्वनामस्थानविषयमिति न प्रयोजनम् । यद्वा विभक्तिश्चइति सुपः तिङश्चैकवचनादिसंज्ञाः सन्तो विभक्तय इति न विभक्तौ तुस्माइतीत्त्वाभावेन ।ससजुषो रुःसान्तस्यपदस्य सजुषश्च रुरिति रुत्वे "खरवसानयोर्विसर्जतीय'' इति विसर्जनीयःविरामो ऽवसानम् । विरतिर्विरामः । वर्णस्याभावोऽनुच्चारणं, तत्र वर्णेष्वप्युच्चरितप्रध्वंसिषु बुद्धिकृतं पौर्वापर्यमित्यभावरूपेऽवसोनेऽपि तत्संभवात् परसप्तमीत्वोपपत्तिर्भंवति ( भवन्ति ) झोऽन्तःप्रत्ययादेरिति शेषः, अन्त्योकार उच्चारणार्थः, न तु तकारस्यानन्त्यत्वेनेत्त्वनिवृत्तये । तस्य प्रयोजनाभावादेव सिद्धेः । न च "तित्स्वरितम्'' इति स्वरितत्वं प्रयोजनं, तितः प्रत्ययस्येति तत्र स्थितेः । न च स्थानिवत्त्वात्प्रत्ययः ।तदेकदेशत्वादस्य । अत्रशबन्त्यकारयोः अतो गुणेइत्यपदान्ताकाराद्गुणे परे तयोः पूर्वपरयोः पररूपमेकादेश इत्येकादेशं वर्णमात्राश्रयत्वेनान्तरङ्गं प्रकृतिप्रत्ययापेक्षत्वाद्वहिरङ्गोपि गुणो "वर्णादाङ्गं बलोय' इति बाधते, अस्ति च समानाश्रयत्वमनयोरुभयोर्विकरणापेक्षत्वात् पूर्वं त्वेकादेशे अन्तादिवच्चइत्येकादेश आश्रीयमाणं पूर्वं प्रत्ययान्तवत्परं प्रत्ययादिवदिति "सार्वधातुकमपित्'' इत्यत्राश्रीयमाणस्य पितो ऽस्य सार्वधातुकर्स्यैकादेशस्यादिवद्भावाच्छपोपित्सार्वधातुकग्रहणात् ङित्त्वात् "क्ङिति च'' इति ङ्किन्निमित्तयोरिग्लक्षणयोर्गुणवृद्धयोर्निषेधात् गुणो न स्यात् । भवतु वा पूर्वमेकादेशस्तदाप्यदोषः अचः परस्मिन् पूर्वविधौइति परनिमित्तोऽजादेशोऽचः पूर्वसंबन्धिनि कार्यमात्रे कर्त्तव्ये स्थानिना तुल्यः स्यादिति स्थानिबुद्धया व्यवधानेन निषेधस्याप्रसङ्गात् र्कि च तत्रापिदित्यस्य प्रसज्यप्रतिषेधत्वेन सिद्धान्तितत्वात् "पितृसार्वधातुकं डिन्न' इत्याश्रीयमाणं पितं प्रत्येकादेशस्यान्तान्तवत्त्वात् ङित्त्वस्याप्रसङ्गात्, अस्तु गुणैकादेशयोः प्रवृत्तौ कामचारः ( भवसि भवथः भवय भवामि भवावः भामः) अतो दीर्घो यञिइति यञादौ सार्वधातुके ऽकारान्ताङ्गान्त्यस्य दीर्घः, स च स्थानितुल्य इति तादृशा आकारः "यस्मिन्विधिस्तदादावल्ग्रहण' इति यञादीति लाभः ऊकालोर्झस्वदीर्घप्लुतःइत्यचो मात्रिकद्विमात्रिकत्रिमात्राः क्रमेण ह्रस्वादिसंज्ञाःपरोक्षे लिट्मूतानद्यतनपरोक्षतोपाधिकार्थवृत्तेर्धातोर्लिट् धातुवाच्यायाः क्रियायाइन्द्रियेणासंन्निकर्षात्परोक्षत्वेसिद्धे परोक्षग्रहणं साधनपरोक्षतार्थम् पूर्ववत्तिबादयः ते च "लिट् च'' इति लिडादेशत्वादार्द्धधातुकः अत्र च"लङः शाकटायनस्यैव'' इत्यत एवकारानुवृत्त्या न सार्वधातुका इति विकरणाभावः एषां च लिडादेशानां नवानां तिबादीनां परस्मैपदानां णलतुसुस्थलथुसुणल्वमाःइति यथासंख्यं णलादयः स्युः ते च स्थानिवत्त्वेनार्द्धधातुकाः प्रत्ययाश्च ण्लो णकरस्य प्रत्ययादित्वाच्च इत्संज्ञायां लोपः, प्रयोजनं वृद्धयादि नन्वत्र णकारो लुप्यत इत्यनेकाल्त्वाभावः "अनेकालशित्सर्वस्य'' इति सर्वादेशत्वं न स्यात् नैतत् आदेशोत्तरकालं प्रत्ययत्वातदादित्वेन णकारस्येत्त्वे लोप इत्यादेशदशायामनेकालत्वात्, एवं भू अ इति स्थिते अचोऽञ्णितिइतिञित्णित्प्रत्यययपरस्याजन्तस्याङ्गस्य वृद्धिः प्राप्नोति वृद्धिरित्यादैवां तद्भावितानामतद्भावितानां "वृद्धिरादैच्'' इतिसंज्ञा, तपरकरणादैचौ द्विमात्रिकौ गृह्मेते तादपि परस्तपर इति "भुवो वुग्लुङ्लिटोः'' हुत्यजादौ लुङि लिटि च विधीयमानो वुक् कृताकृतप्रसङ्गित्वेन नित्यो वृद्धिं बाधते अत्र वृद्धौ कृतायामौकारान्तस्य प्राप्नोतृयन्यत्र तूकारान्तस्येति शब्ददान्तरप्राप्त्या वुगनित्य इति चेन्न एकदेशविकृतस्यानन्यत्वात्र शब्ददान्तरप्राप्तिरिति "अद्यान्तौ टकितौ'' टकितौ'' यथासंख्यं षष्ठीनिर्दिष्टस्येति वुगयं भुवोन्त्यः लिटि धातोरनभ्यासस्यधातोरवयवस्य प्रथमस्यैकाचो द्विवचनमजादेस्तु द्वितीयस्येति भुव आदिर्द्विरुच्यते पूर्वोभ्यासःअत्र प्रकरणे, द्विरुक्तस्येति शेषः भवतेरःइति लिटि परेऽभ्यासान्तस्याकारन्तादेशः अभ्यासे चर्चइति अभ्यासझलांचरो जशश्च तत्र वर्गाणां प्रयमद्वितीयाः शषसा वसजंनीयजिह्वामूलीयेपध्मानीया अघोषा विवृकण्ठाः श्वासानुप्रदानाः तृतीयचतुर्थपञ्चमहकाराघोषवन्तः संवृतंकण्ठा नादानुप्रदाना इत्योष्ठयस्य घोषवतः संवृतकण्ठस्य नादानुप्रदानस्य भकारस्य तादृशो बकारः ( बभूव ) ननु अचि श्नुधातुभ्रुवां य्वोरियङुवङौइत्यजादौ प्रत्यये श्नुभ्रुवोरन्त्यस्य धात्वन्तयोरिवर्णांवर्णीयोरियडुवडोर्विधानात् अत्रावङि कर्त्तच्ये अस्तु, पुनर्वृग् भविष्यति ततश्च उपधायां चधातोरुपधाभूतौ हल्परौ यौ रेफवकारौ ताभ्यां पूवंस्येणो दीर्घःस्यादिति दीर्धत्वं उपधायां चधातोरुपधाभूतौ हल्परौ यौ रेफवकारौ ताभ्यां पूवंस्येणो दीर्घः स्यादिति दीर्घत्वं लोपोव्योर्वलिइति पूर्वयकारवकायोर्वलिपरे लोपइति पूर्वस्य वकारस्य लोपे सेत्स्यति बभूवेति न सिद्धति पूर्वात्राऽसिद्धम्अस्माद्योगात् पूर्वत्रासिद्धसिद्धाः परे च मिथः पूर्वत्र पूर्वत्रासिद्धा इति"उपधायां च''इत्यस्य वलि लोपं प्रत्यसिद्धत्वात्पूर्वलोपं हल्पर उपधावकारो नेति दीर्घाप्रसङ्गात् अथ वा दीर्घलोपयोरन्तरङृगयोः कर्त्तव्ययोः "असिद्ध बहिरङ्ग' इति बहिरङ्गस्य वुकोसिद्धत्वादत्रैव दीर्घत्वंद्धतृवादुवङ्न भविष्यति "श्नसोरल्लोप'' इति तपरकारणाल्लिङ्गादाभीयस्यांसिद्धत्वस्यानित्यत्याद्वात्र वुकः सिद्धत्वं भवति ( बभूवतुः बभूहुः बभूविथ ) आर्द्धधातुकस्येड्वलादेःटित्त्वेन विभक्तित्वान्न सकारस्येत्त्वम्( यूयं बभूव ) नन्वत्राकारो "अलोन्त्यस्य'' इति थशब्दाकारस्यादेशः प्राप्नोति फलं च यथायंख्यं स्यात् मैवम् अत्र धातोरित्यनुवर्तते तस्मात्परस्य विधीयमानोऽकार "आदेः परस्य'' इति थकारस्य ततो द्वयोरकारयोः पररूपम् ( अहं बभूव बभूविव बभूविम ) उत्तमविषये चित्तव्या क्षेपात् परोक्षतासंभवः अत्र असंयोगाल्लिट् कित्असंयोगान्ताद्धातोः परोऽपिल्लिट् किदिति वमयोः कित्त्वे श्र्युकः कितिइति श्रिञ उगन्ताच्च धातोः परस्य कितो नेडिति प्राप्तस्य निषेधस्य कृसृवृस्तुद्रुस्त्रुवोलिटिक्रादय एव लिद्निटः, ततोन्ये लिट सेट इति नियमात्सेद्त्वम् अत्र के चिदेवमाहुः वुग्विधावोरित्यनुवृर्गुतेर्गुणयोः कृतयोरुवर्णान्तत्वाभावात्तल्लक्षणस्य हुकोऽप्राप्तेस्तस्याप्यनित्यत्वोत्परत्वात्प्राप्तयोणवृध्यो इन्धिभवतिभ्यां चआभ्यां परो लिट् किदिति कित्त्वेन बाधस्ततो वुक् अत्रङिद्ग्रहणानुग्रहणानुवृत्तेडितृमप्यतिदिश्यते इत्युभयानिदेशसामर्थ्याद्निग्लक्षणाया अपिव वृद्धेर्नि षेधः तेन यङ्लुकि भवतीति निर्देशात्कित्त्वाभावात् वृद्धिगुणयोः कृतयोरनुवर्णान्तत्वाद्बुगभावात् ( बोभाव, बोभविथ, बोभव ) इति सिद्धमिति सर्वमेतद्वार्त्तिकविरुद्धं, यदाह--- [ "इन्धेशछन्दोविषयत्वात् भुवो वुको नित्यत्वात्ताभ्यां लिटः किद्वचनार्थक्यम्'' ] इति अनद्यतने लुट्अह्न उभयतोर्द्धरात्रमद्यतनः कालः अविद्यमानाद्यतनभविष्यत्युपाधिकार्थाद्धातोर्लुट् स्यातृ, लस्य तिबादिषु स्यतासी लृलुटोःलृ इति लृङ्लृटोरुत्सृष्टानुबन्धयोःसामान्येन ग्रहणम्, लृलुटारादेशेषु परेषु धातोयथासंख्यं स्यतासी स्याताम् अत्र केचित्तासेरिकारमुच्चारणार्थमाहुः परमते त्वनुनासिकं सलोपप्रतिषेधार्थम् इह तु प्रयोजनाभावान्न प्रपञ्चयते लुटःप्रथमस्य डारौरसःलुडादेशस्यात्मनेपदप्रथमस्य परमस्मैपदप्रथमस्य च यथासंख्यं डारौरसःस्युः टेः इति भस्याङ्गस्य टेर्डिति विधीयमानो लोपोत्राभत्वेपि डित्वसामर्थ्याद्भवतिअचोऽन्त्यादि टिएकत्र सन्निविष्टानामचामन्त्याजादिष्टिः इड्गुणावादेशाः ( भविता ) अत्रेटः पुगन्तलघूपधस्य चपुगन्तस्याङ्गस्य लघूपधस्य चेको गुणइति प्राप्तो "दीघीवेवीटाम्'' इतिनिषिध्यतेह्रस्वं लघुअलोन्त्यात्पूर्व उपधाधात्वादौ वर्णसमुदायेऽन्त्यादलः पूर्व उपधा ( भवितारौ भवितारः) रि चइति रेफादौ प्रत्यये प्रत्ययो तासस्त्योः सकारस्य लोपः ( भवितासि ) तास्त्योर्लोपःसकारस्य सकारादौ प्रत्ययइति शेषः अत्र "नाज्ञलौ'' इत्यज्ज्ञलोमिथः सावर्ण्यनिषेधे ऽपवादे प्रवृत्ते पश्चात्तद्विषयपरिहारेण सवर्णसंज्ञाप्रवृत्तौ तदुपजीव्यप्रवर्त्तमानस्य ग्रहणकशास्त्रस्य "नाज्ज्ञलौ' इत्यज्ज्ञलोमिथः सावर्ण्यनिषेधे ऽपवादे प्रवृत्ते पश्चात्त द्विषयपरिहारेण सवर्णसंज्ञाप्रवृत्तौ तदुपजीव्यप्रवर्त्तमानस्य ग्रहणकशास्त्रस्य "नाज्ज्ञलौ'' इत्यत्रानिष्पन्नत्वादज्ज्ञग्रहणेन पठितानामेवाचां ग्रहणादन्येषां इल्भिः सवर्णसंज्ञाया अनिषेधादाकारस्य सवर्णेन हकारेण यहणादिण्त्वात्आदेशप्रत्यययोःइतीण्कोश्च परस्यादेशरूपस्य प्रत्ययावयवस्य च सकारस्य विधीयमानं षत्वं कस्मान्नेति चेत्, न, हकारो विवृतः, आकरो विवृततरः एवं हि पठन्ति "ए औ विवृततरो ताभ्यामप्याकारः' इति "वयस्यासुमूर्ध्नवो'' इत्यादिनिर्देषात् यद्वा विवृतमूष्मणां स्वराणां च इत्यत्र इषत्स्पृष्टमन्तस्थानामित्यतः ईषदित्युवर्त्तते, तच्च पृथग्विभक्तिनिर्दिष्टैः प्राथमैकैरूष्मभिरेव संबध्यतेक न स्वरैरिति नैव सावर्ण्यप्रसङ्गः अत एव भाष्यवार्त्तिकेयाः सूत्रं प्रत्याख्यातम् ( भवितास्थः भवितास्थ भवितास्मि भवितास्वः भवितास्मः ) लृट् शेषे चक्रियार्थक्रियोपपदादन्यो भविष्यत्कालः शेषस्तत्र शेषे चात्क्रियार्थक्रियावपपदे विधिः "अनद्यतन' इति बहुव्रीहिनिर्दि शाद्वयामिश्रेप्ययमेव लस्य तिबादिषु "स्यतासी'' इति स्यः इडागमः (भविष्यति भविष्यसि ) भविष्यामि क्रियायां क्रियार्थायामुपपदे धनी भविष्यामीति राजानं सेवते "आदेशप्रत्यययोः'' इति सर्वत्र षत्वम् लोट् चविध्यादिष्वर्थेषुधातोर्लोट् स्यात् ते च वक्ष्यन्ते लस्य तिबादिषु एरुःइति लोडादेशेकारस्योकारः ( भवन्तु भव ) सेह्मंपिचइति लोटःसेर्हिरादेशः अपिदिति वचनात् स्थानिवत्त्वेन पिन्न भवतिः अस्य प्रयोजनं तत्र तत्र दर्शयिष्यते अतो हेःइत्यकारान्तात् परत्वेन लुक् प्रत्ययस्य लुक्श्लुलुपःइति प्रत्ययादर्शनस्यैताः संज्ञाः, अनेकसंज्ञाविधानेन तद्भावितप्रहणविज्ञानात् तत्तच्छब्दभावितस्य प्रत्ययादर्शनस्य सा सा संज्ञेति संज्ञानामसङ्करो भवति विधिप्रदेशेषु भाविसंज्ञानान्नेतराश्रयत्वम् यथास्य सूत्रस्य शाटकं वयेति अत्र यसदि शाटको न वातव्यः, अथ वातव्यः, अथ वातव्योन न शाटक इति विप्रतिषेधात् स वातव्यो यस्योतस्य शाटक इति व्यपदेशो भवति इत्यर्थः ( भवतम् भवति ) लङ्वद्भावात्तंत्तौ तांतमोर्ककारस्य न विभक्तौ तुस्माःइतीत्त्वनिषेधः ( भवानि ) मेर्निःइतिलोछादेशस्य मेर्निरादेशः, अयं चापादत्वाल्लवद्भावप्राप्तमादेशं बाधते, मर्नुरिस्तयवचनादेरुर्न भवति ( 1 ) ( 1 ) तथा इतश्चेति ङिल्लादेशपरस्मैपदेकारस्य विधीयमानो लोपो लड्वद्भावान्न भवति मेर्न इत्यवचनादित्यधिकं 2 पुस्तकान्तरे ( भवाव भवाम ) लङ्वद्भावात्नित्यंङितःइति ङित्त्वाल्लादेशोत्तमसकारस्य विधीयमानो लोपोत्रापि भवति आडुत्तमस्य पिच्चइति लोडादेशोत्तसस्याडागमः टित्त्वावदादिः तस्य सवर्णदीर्घः पिच्चत्युत्तमस्य पित्वातिदेशः, प्रयोजनं तत्रतत्र भविष्यति अडागममन्तरेण "अतो दीर्घो यञि'' इति दीर्घेणापि रूपे सिद्धे तत्प्रवृत्तिः पर्जन्यवल्लक्षणप्रवृत्त्या ननु तामादयो ङिल्लादेशानामुच्यन्ते न त्वात्य लडादेशानामिति कथं ते लङ्वद्भावेन प्राप्यन्ते उच्यते विशेषानिदेशे सामान्यस्याप्यतिदेशात तथा हि वसिष्ठवदयमित्युक्ते वसिष्ठत्वप्रयुक्तं ब्राह्मणत्वप्रयुक्तमप्यतिदिश्यते कथं तर्हि लुङ्लङ्लृङ्क्ष्वडुदात्तइति वाग्रहणमनुवर्त्तते, सा च व्यवस्थितविभाषा भविष्यतीति अत एव तामादयः सलोपश्चेति तेन परिगणितं, यद्वा लोट इत्युपमेये पष्ठीदर्शनादुपमानं विज्ञायते, लङ् इव कार्य्यं तल्लोटो भविष्यतीति न तु लङि यत्कार्यं तल्लोटीति अडाडौ न भवतः यदायं लोट् "अशिषि लिङ्लोटौ'' इत्याशिषि विधयते, आशीरिष्टस्य प्राप्तिस्तदा तुह्योस्तातङाशिष्यन्यतरस्याम्इति तुह्मोर्वा तातडादेशः ( भवतात्सः भवतात्वं ) ननु तातङयं"अनेकाल्शित्सर्वस्य'' इत्यस्यापवादेन "डिच्च'' इत्यनेनान्तयस्य कस्मान्न भवतिउच्यतेकिमिदं डित्त्वं ? ब्रूतादित्यदित्यादौ गुणवृद्धिप्रतिषेधार्थमुतान्त्यादेशार्थमिति संदिग्धप्रयोजनम् , न चात्यादेशार्थत्वे गुणवृद्धिप्रतिषेधार्थत्वसंभवोऽप्रत्यत्वात्, अनेकाल्त्वं तु निशिचतं, "ङिच्च'' इत्येतच्चनडादिष्वनन्यप्रयोजनेषु ङित्त्वेषु सावकाशमितीहासंदिग्धपर "अनेकाल्शित्सर्वस्य'' इत्येतत्प्रवर्त्तते भवत्त्वभित्यत्र तातडा परेण पूर्वबाधितस्य हेर्लुकः स्थानिवद्भावन पुनः प्रवृत्तिः सकृद्ग्रतपरिभाषया न भवति यद्वा---हुज्झल्भ्यो हे र्धिःइत्यतो हेरित्युवरर्य "अतो हेः'' इत्यत्र हिग्रहणमन्तरेण लुकि विधतव्ये "पुर्नग्रिहणस्य हेरिति विशेषणेन मुख्यहिपरिग्रहार्थत्वात्, इदमपि तातङः सर्वादेशत्वे प्रमाणम् अनद्यतने लङ्अविद्यमानाद्यतनभूतोपाध्यर्थाद्धातोर्लङ् स्यात् लस्य तिबादिषु "इतश्च'' इतीकारलोपः झलांजशोन्तेपदान्ते झलांजश इत्यत्रान्तरतम्यात्तकारस्य दकारे ऽवसाने झलांवा चरित्यान्तरतम्यात्तकारः ( अभवताम् ) तस्थस्थमिपां तान्तन्तामःइति तसस्ताम् ( अभवन् ) अन्तादेशे इकारलोपे संयोगान्तस्य लोपःसंयोगान्तस्य पदान्तय लोप इति तलोपः हलोऽनन्तराः संयोगःअजव्यहित एव श्लिष्टोच्चारितहल्समुदायः संयोगः (अभवः) इकारलोपं रुत्वविसर्जनीयौ ( अभवतम् भवत अभवम् अभवाव अभावाम ) "तस्थस्थमपां तान्तन्तामः'' "नित्यं ङित'' इति तामादयः सलोपश्च विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ्विधिः प्रेरणं भृत्यादेः कस्यां चित् क्रियायां नियोजनम् निमन्त्रणं नित्यनैमित्तिकर्मविषया प्रवर्त्तना आमन्त्रणं काम्यकर्मविषया सा, अधीष्टः सत्कारपूर्विका सर्वकर्मविषया एषु चतुर्ष्वपि प्रवर्त्तना नाम वर्त्तते सैव लिङर्थः भेदेन तूपादानं प्रपञ्चार्थं, प्रवर्त्तना च प्रवृत्तिहेतुर्धर्मः, प्रवृत्तिहेतुं धर्म व प्रवदन्ति प्रवर्त्तनाम् इत्याचार्याः सयंप्रश्नःसंप्रधारणं, तद्वदिदं वा कर्त्त व्यमिति प्रार्थनं याचनम् एषु प्रत्ययार्थविशेषणेषु धातोलिङ् स्यात् यासुद् परस्मैपदेषूदात्तो ङिच्चलिङः परस्मैपदेषु तेषामेव यासुद् ङित्त्वादादिः, उदात्तश्च सीयुटीपवादः इदमेव ङिद्वचनं ज्ञापकं डिल्लादेशानां स्थानिवत्त्वेन ङित्वाभावस्य, यदि हि स्यात् अचिनवममार्जमित्यादौ गुणवृद्धी न स्याताम् इयं च ज्ञापकापेक्षा "सार्वधातुकमपित्'' इत्यस्य पर्युदासत्त्वपक्षे, प्रसज्यप्रतिषेधत्वे तु पिन्नेति निषेधेन स्थानिवत्त्वेन "सार्वधातुकमपिद्'' इत्यतिदेशेन प्राप्तस्य निवारणात्, चिनुयादित्यादिसिद्घ्यर्थन्तु वक्तव्यम् भवयास्ति इति स्थिते "सुछ् तियोः'' लिङ्गसम्बन्धिनोस्तकारथकारयोः सुट् स्यादिति सुद् टित्वादादिः अयं तकारथकारभक्तः, यासुछ् तु लिङृगभक्त इति विषयेभेदादनयोर्न बाध्यबाधकभावः लिङ्गः सलोपोऽनन्त्यस्यसर्वाधातुकलिङःसंबन्धिनोनत्यस्य सस्य लोप इति यासुट्सुट्सकारयोर्लोपः, सुटृ पर्जन्यवल्लक्षणप्रवृत्त्या तु कृतो न त्वस्मिन् कृते वा ऽकृते विशेषो ऽस्ति लोपनात् श्रवणं त्वाशीर्लिङ्गासत्मनेपदे अतो येयःइत्यदन्तादङ्गात्पस्य या इत्यस्येयादेशः आद् गुणःइत्यवर्णान्तादवि पूर्वपरयोरेको गुणो भवन् कण्ठ्यस्याकारस्य "इचुयशानां तालु' इति तालव्यस्येकारस्य "एदैतोः कण्ठतालु' इति कण्ठतालव्य एकारः यकारस्य वलि लोपः ( भवेत् भवेतां, भवेयुः ) "झेर्जुस्'' इति लिङ्गादेशजुसादेशजकारो "जुसि च'' इति विशेषणार्थः उस्यपदान्तात्अपदान्तादवर्णादुसि परे पूर्ववरयोः पररूपमित्येतद्वाधित्वा "अतो येयः''परत्वान्न्त्यित्वाच् प्रवर्त्तते यद्यप्यन्तरङ्गत्वात् पररूपं न्याय्यं तथापि यास् इत्येतस्य इय् भवतीति विप्रतिषेधसूत्रे भाष्यकारैर्व्याख्यातत्वात् "लिङृगः सलोप'' इत्यस्यापवाद इय् "अतो येय'' इत्यत्र त्वाद्गुणे कर्तव्ये यलोपस्य सिद्धत्वमार्षं, या इय इति वा पठनीयमिति बोध्यम् ( भवेः भवेतम् भवेत आशिषि लिङ्लोटौ'' इति लिङ् "लिङ्गाशिषि'' इत्यार्द्धधातुकत्वान्न लिडःसलोपः "किदाशिषि'' इत्यार्द्धधातुकत्वान्न लिडःसलोपः "किदाशिषि'' इति कित्त्वान्न गुणः स्कोः संयोगाद्योरन्ते चज्ञलि परे यः संयोगः पदान्ते च यः संयोस्तदाद्योः स्कोर्लोप इति ज्ञल्परसंयोगादित्त्वेन यासुटः सस्य लोपः, पदान्ते तु संयोगे तदादित्वेन सुटो सकारो सकारो लुप्यते ( भूयात् भूयास्ताम् भूयासुः भूयाः भूयास्तम् भूयास्त भूयासं, भूयास्व भूयास्म ) सलोपस्य पूर्वत्रासिद्धत्वेन तिस्योः संयोगान्तलोपो न भवति पदान्तसंयोगादिलोपस्यानवकाशत्वात् ननु हल्ङ्याब्भ्यो दीर्घात्सुतिस्यऽपृक्तं हल्इति हलन्ताद् दीर्घाद् ङयाबन्ताच्च परस्य सुतिस्यपृक्तस्य लोपविधाने स्कोरिति सलोपस्य पूर्ववदसिद्धत्वाद्धलन्तात्परो ऽपृक्तत्वेन लोपः कस्मान्न भवति सुतिस्यपृक्तमिति प्रत्ययनिर्देशेन प्रकृतेराक्षेपात्ततः परस्यापृक्तस्य लोपविधानात् न चेह सकारान्तस्य प्रकृतित्वं, यद्वा ऽसिद्धत्वे भूयादित्यत्र यासुट् तस्य लोपोप्यसिद्ध इति तस्य तकारभक्तत्वाद्पृक्तस्यैवाभावः "अपृक्त एकाल् प्रत्ययः'' लुङ्भूतोपाधिकार्थाद्धातोर्लुङ् स्यात् भूतः पञ्चविध इत्युक्तं, तत्रानद्यतने लङ्विधानात्ततोन्यः सर्वां भूतोत्र गृह्मते अनद्यतन इति बहुव्रीहिनिर्देशाव्र व्यामिश्रेः लङः प्रसङ्गः लस्य तिबादिषु "च्छि लुडि'' इति च्छिः तस्य "च्छेः सिच्'' इति सिजोदेशः स्थानिन्यादेशे च चकारानुबन्धनस्य प्रयोजनं वक्ष्यते तस्य "गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु'' इति लुक् स च नित्यत्वादिटः पूर्वं दाधा ध्वदाप्इति दाधारूपा धातावोघुसंज्ञाः अडागमः ( अभूत् ) अत्र सिचो लुका लुप्तत्वात् प्रत्ययलक्षणाभावात् सिचि वृद्धिः परस्मैपदेषुइति परस्मैपदे परे सिचि विधीयमाना वृद्धिर्न भवति तथा गुणोपि न भवति "भूसुवोस्तिङि'' इति तिङि सार्वधातुके निषेधात् अत एव वा निषेधाद्वृर्द्धेरप्यलाभो भविष्यति स्याद् अपवादेन बाधितत्वादप्रसङ्गात् कथमसौ निषिध्येत ननु अस्तिसिचोऽपृक्तेइत्यस्तिसिच्भ्यां परस्य सार्वधातुकापृक्तस्य विधीयमान ईट् प्रत्ययलक्षणेनात्रकस्मान्न्भवति अत्र केचिदेवमाहुः अस्तीति द्विसकारकनिर्देशादेकेन सिचो विशेषणाच्छ्रूयमाणात्सिचः परस्येड्विधिरितीह न भवतीति इदमविचारितरमणीयम् अस्तीति पदान्तभूतस्यास्य सकारस्य पदान्तरेणान्वयायोगात् पृथक्पदत्वे तु न तस्य धातुत्वं नापितत्सहितस्य समुदायस्येति धातुविषयश्तिब्निर्देश एव नोपपद्यते अन्ये वर्णयन्ति "आहिभुवोरीट्प्रतिषेध'' इत्यत्र न केवलमस्त्यादेशस्य भुवः स्थानिवत्त्वेन प्राप्त हण् निषिध्यते किं त्वनादेशस्यापीति, स्थानिवत्वदूषणपरे च तत्र वार्त्तिके कथमनादेशो भूर्गृह्मत इति त एवप्रष्टव्याः न चानादेशस्याग्रहणे निषेधस्य वैयर्य्यं प्रमाणम् अर्थभेदेन रूपद्वयार्थत्वात्तस्य वयं तु परिहवयं तु परिहरामः सिचोऽल्पाच्कत्वात् बहुविषयत्वेनाभ्यर्हितत्वाच्च पूर्वनिपाते कर्त्तव्ये "अस्तिसिच'' इति वचनात्तन्त्रादिना विद्यमानसिच इत्यस्याप्यर्थस्य लाभादिति किं च अर्थद्वयपरिग्रहे शिबप्युपपद्यते ऽन्यथा सिजस्भ्यामित्येव ब्रूयात्, न चास्तीत्यस्यातिनिवृत्त्यर्थः, विकरणे व्यवधानात् ताभ्यां परस्य सर्वाधातुकापृकापृक्तस्यासंभवात् ( अभूताम् अभूवन् ) अजादरौ "भुवो वुक्'' इति वुक् अत्र ज्ञेः प्रत्ययलक्षणेन सिचः परत्वेनपि सिचः परत्वेपि सित्र भ्यस्तविदिभ्यः परस्य ङिल्लादेशस्य झेर्विधीयमानो जुस्भावो न भवति "आत'' इति नियमात्, सिजुलुगन्ताद्यदि भवत्यात उवेति, अभ्यस्तं "उभे अभ्यस्तं'' "जक्षित्यादयः षट्'' इति वक्ष्यते ( अभूः अभूतम् अभूत अभ्यस्तं " उभे अभ्यस्तं'' "जक्षित्यादयः षट्'' इति वक्ष्येत ( अभूः अभूतम् अभूत अभूवम् अभूव अभूम ) लिङ्गिमित्ते लृङ् क्रियातिपत्तौलिडो निमितृतं हेतुहेतुमद्भावादि, कुतश्चिद्वैगुण्यात्क्रयाया अनभिनिर्वृत्तिः क्रियातिपत्तिः, अत्र धातोर्लृङ् स्यात्, लस्य तिबादिषु स्यतासी इतिस्यः इडागमः, "इतश्च'' इत्यादि ( यदि सेवापरोऽभविष्यत् आढ्यः अभविष्यत् अभविष्यताम् अभविष्यन् अभविष्यः अभविष्यतम् अभविष्यत अभविष्यम् अभविष्याव अभविष्याम )क्रियातिपत्तिर्न सेवापरो नाप्याढ्य इति अथात्मनेपदं प्रदर्श्यते कर्त्तरि कर्मव्यतिहारेकर्म क्रिया अन्यस्यान्येन करणंपरस्परकरणं च कर्मव्यतिहारः अस्मिन् गम्यमाने आत्मनेपदं स्यात् इति लस्य तिबादिषु विकरणादिसाधारणं पूर्ववदेव, "टित आत्मनेपदानां टेरे'' इति टिल्लादेशानामात्मनेपदानां टेरेत्वं स्यात् इदं चैत्वमाद्यन्तप्रयुक्तकार्यातिदेशात्केवलस्याप्यषष्टिसंज्ञाविधानाभ्दवति ( व्यतिभवते व्यतिभवेते ) "आतो डित'' इत्यदन्तादङ्गात्परस्य डिदवयवस्याकारस्येयादेशे वलि लोपः "नानर्थके ऽलोन्त्यविधिः' इति टेरेत्वमत्रान्त्यस्य न भवति, ईदूदेद्विवचनं प्रगृह्यम्इति ईदाद्यन्तस्य द्विवचनस्य प्रगृह्मत्वात् "प्लुतप्रगृह्मा अचि'' इति प्रकृतिभावाद् व्यतिभवेते एतावित्यादावयादि न भवति इह प्रकृतिभावः परभूतनिमित्तविकाराभावस्तेन स्वरो भवत्येव ( व्यतिभवन्ते ) अत्र त्रीणि कार्याणि प्राप्नुवन्त्यन्तादेशोद्भावः शबिति अत्र विशेषविहितत्वेनान्तादेशापवादाऽभ्दावान्नित्यत्वाच्छप्, तत्र कृतेङ्गस्यादन्तत्वादभ्दावस्य न प्राप्तिरिति सामान्यविहित एवान्तदोशः प्रवर्तते ( व्यतिभवसे ) थासः सेइति टिल्लादेशस्य थासः सेभावः ( व्यत्रिभवेथे ) भवेते इतिवत् ( व्यतिभवध्वे व्यतिभवे व्यतिभवावहे व्यतिभवामहे ) एत्वात्परत्वात्. "आदगुणः'' कृते वा तस्मिन् "अतो गुणे'' इति पररूपम् व्यतिशब्दः कर्म्मव्यतिहारद्योतनार्थः तस्य ते प्राग्धातोःते गत्युपसर्गसंज्ञा धातोः प्राक् प्रयोक्तव्या इति नियमात् पूर्वप्रयोगः उपसर्गा क्रियायोगेगतिश्चइति प्रादयो यत्क्रियायुकृतास्तं प्रत्युपसर्गसंज्ञाः सन्तो गतयः ( इतरेतरस्य व्यतिभवन्ति, अन्योन्यस्य व्यतिभवन्ति ) इत्यत्र "इतरेतरान्योपपदाच्च'' इति कर्मव्यतिहारलक्षण्मात्मनेपदं निषिध्यते "अन्योन्योपपदाच्च''इतिचकारेण परस्परोपपदादपि न भवति ( परस्परं व्यतिभवन्ति व्यतिबभूवे व्यतिभूवाते व्यतिबभूविरे व्यतिबभूविषे व्यतिबभूवाथे व्यतिबभूविद्रवे व्यतिबभूविघ्वे व्यतिबभूवे व्यतिबभूविवहे व्यतिवभूविमहे ) लिटस्तज्ञयोरेशिरेच्लिटस्तज्ञयोरेशिरेचावादेशौ स्तः एशः शकरो "अनेकाल्शित्'' इति सर्वादेशार्थः, विभाषेटःइति इणः परो य इट् ततः परेषां षीध्वंलुङ्लिटां धकारस्य मूर्धन्य इति तद्विकल्पः टेरेत्वमजादौ वुक् वलादौ क्रादिनियमादिट् "भवतेरः'' इत्यभ्यासस्यात्वम् ( व्यतिविता व्यभिवितासे ) "थासः से'' इति सेभावे "तासस्त्योः इति सलोपः ( व्यतिभविताध्वे ) अत्र सकारस्य धकरादिप्रत्ययपरत्वात् "धि च'' इति लोपे धकारस्य अनचि चइति अच उत्तरस्य यरो द्वित्वमचि नेति द्वित्वे "झलां जश् झशि'' इति धकारान्तरतम्याहकारः येषां "धि च" इति सिचो लोष अकम पक्षस्तेषामप्यत्र सकारस्यान्तरतम्याज्जशि दकारे नाद्ध रूपभेदः ( व्यतिभविताहे ) इट एत्वे "ह एति'' इति सकारस्य हकारः, ( व्यतिभवितास्वहे व्यतिभविष्यते ) इत्यादिपूर्ववत् (व्यतिभवताम् व्यतिभवेताम् व्यतिभवन्ताम् व्यतिभवस्व व्यतिभवेथाम् व्यतिभवध्वम् व्यतिभवै व्यतिभवाहै व्यतिभवामहे ) टेरेत्वं "आतो डित'' इत्यादि पूर्ववत् "आमेत'' इति लोछादेशानामेकारस्यामोदशः सेध्वेशब्दयोस्तु "सवाभ्यां वामौ''इति यथासंख्यं वामादेशावपवादौ उत्तमेकारस्यैत्वे "एत ऐ'' इत्यैकारः अयमप्यामादेशापवादः अत्राडागमे कृते तस्य तत्परस्य चैकारस्य आटश्चआटोति परे पूर्वपरयोरेका वृद्धिरैकारः तस्य शबकारस्य च "वृद्धिरेचि'' अवर्णादेचि परे पूवैपरायोकरेका वृद्धिरित्यैकारः ( व्यत्यभवत व्यत्यभवेताम् व्यत्यभवन्त व्यत्यभवेत व्यतिभवेथाम् व्यत्यभवध्वम् व्यत्यभवे व्यत्यभावाहि व्यत्यभवामहि व्यतिभवेत व्यतिभवेयाताम् व्यभिवेरन्त व्यतिभवेथाः व्यतिभवेयाथाम् व्यतिभवेध्वम् व्यतिभवेय व्यत्यभवावाहि व्यत्यभवामहि व्यतिभवेत व्यतिभवेयाताम् व्यतिभवेमहि ) "लिङः सीयुट्'' इति लिङ्गादेशस्य सीयुट्टित्त्वादादिः "सुट्तिथोः''लिडः सलोपः'' "आद्गुणः'' वलि लोपः "ज्ञस्य रन्'' इति लिङो ज्ञस्य रन्नित्यादेशः, "न विभक्तौ'' इति नेन्नकारः'' इदमस्थमुःइति थमुप्रत्ययस्य प्राग्दिशो विभक्तिःइत्यतः परे दिक्शब्देभ्य इत्यतः पूर्वे प्रत्यया विभक्तय इति विभक्तित्वे तत्स्थत्वेन मकारस्येत्संज्ञानिषेधे सिद्धे तत्परित्राणायोकारासीञ्जनेन "न विभक्तौ'' इत्यस्यानित्यत्वज्ञापनादित्वं लभ्यते आशिषि ( व्यतिमविषीष्ट व्यतिभविषीयास्ताम् व्यतिभविषीयास्ताम् व्यतिभवीषिरनम् व्यतिभविषीष्टाः व्यतिभविषीयास्थाम् व्यतिभविषीद्वम् व्यतिभविषीरध्वम् व्यतिभविषीय व्यतिभविषीवहि व्यतिभविषीमहि ) आर्द्धचातुकतृवादेषुःलिडः सलोपाभावः अत्र सीयुट् "यदागमास्तद्ग्रहणेन गृह्मन्ते' इति प्रत्ययग्रहणेन गृह्मते, तथा तदवयवभक्त सुडपि यथा हि "शीडो रुट्''इति प्रत्ययावयवज्ञकारादेशस्यातोपि रुट् समुदायभक्तत्वेन सार्वधातुकग्रहणेन गृह्मत इति शेरत इत्यत्र "शीङः सार्वधातुक'' इति गुणः प्रवर्त्तते ष्टुना ष्टुःषकारटवर्गाभ्यां युक्तयोः सकारतवर्गयोर्यथासंख्यं ष्टुरिति तकारथकारयोः षकारटवर्गाभ्यां युक्तयोः सकारतवर्गयोर्यथासंख्यं ष्टुरिति तआरथकारयोः षकारटकारौ निमित्तिनिमित्तयोयंथसंख्यां तोः षिइति षकारे परे तवर्गस्य ष्टुत्वनिषेधान्नभवति "विभाषेटः'' इति मूर्द्ध न्यविकल्पः ( व्यत्यभविष्ट व्यत्यभविषाताम् व्यत्यभविष्ट व्यत्यभ्विषाताम् व्यत्यभविषि व्यत्यभविष्वहि व्यत्यभविष्महि सिवीडगुणावादेशाषत्वानि यथायोगं ष्टुत्वं च "आत्मनेवदेष्वनत'' इति ज्ञस्याद्भावः तकारस्य प्रयोजनाभावान्नेत्त्वम्, ध्वमि षत्वस्य पूर्वत्रासिद्धत्वात् हार्यः ( व्यत्यभविष्यत ) इत्यादि लङ्वत् अथ भावकर्मणोर्लकाराः प्रदर्श्यन्ते तत्र भावकर्मणोःइति मूर्द्धन्यविकल्प उदाहार्यः ( व्यत्यभविष्यत ) इत्यादि लङ्वत् अथ भावकर्मणोर्लकाराः प्रदर्श्यन्ते तत्र भावकर्मणोःइत्यनयोर्लस्यात्मनेपदमेवसर्वधातुके यक्इति भावकर्मवाचिनि सार्वधातुके लटि लोटि लङि विध्यादिलिङि च यक् अन्यत्र सार्वधातुके स्यादिभिरस्य बाधः, लिङाशीर्लिङोस्त्वार्द्धग्धातुकत्वान्न प्रसङ्गः यकः कित्त्वान्न गुणः ( भूयते भूयताम् अभूयत भूयेत भवता ) अत्र प्रत्ययेन कर्त्तुरनभिधानात्तृतीया कर्तृकरणयोस्तृतीयाइति तिङ्कृत्तद्धितसमासैरनभिहतयोरनयोस्तृतीयोच्यते तत्र भावस्य युष्मदस्मदर्थविशेष्यत्वात्प्रथमपुरुष एवात्र व्याख्याने, स्वतः क्रियायानिवृत्तभेदाया अभिधानादेकवचनमेव भवति, ( भवद्भ्यां भवद्भिः, त्वया युवाभ्यां युष्मभिः, मया आवाभ्यामस्माभिर्भूयते ) "कालभावाध्वगन्तब्याः कर्मसंज्ञा ह्मकर्मणां देशश्चाकर्मणां' मया आवाभ्यामस्माभिर्भूयते ) इति भवन्तीत्यादौ तु प्रत्ययेन कर्त्तुरभिधानाततत्कृतं बहुत्वम् ( भूयते मासः ) "कालभावाध्वगन्तब्याः कर्मसंज्ञा ह्मकर्मणां देशश्चाकर्म णां इति मासादयो ऽक_मकाणां कर्माणि तत्र कर्मणोऽभिधानात् कर्मणि द्वितीया न भवति, सा च तिडासदिभिरनभिहिते विधीयते ( भूयते मासम् )इत्यत्र भावे लचिधानात् कर्मणो ऽनभिधानाद् द्वितीया नुन सकर्मकत्वात्कथं भावे लकारः ? उच्यते कालादिभिर्न कश्चिदप्यकर्मक इति तद्वयतिरिक्तेन कर्मणा ऽकर्मकाणां भावे लविज्ञानात्, कथंतर्हि मासे लो, ऽकर्मकाणां भावकत्रोर्लविधेः उच्यते, एवंविधानां भावकर्मकर्तृषु लत्रिज्ञानात् तथोक्तं "कालाध्वनोः'' इत्यत्र मासादौ कर्मणि भावे च लकारं प्रस्तुत्य "प्राकृतमेवैतत्कर्म यथा कटं करोति' इति' पुनश्च तत्र "यदि प्राकृतमेवैतत्कर्म अकर्मकाणां भावे लो भवतीति भावे लोन प्राप्नोति' इति चोदयित्वा "अकर्मकारणामित्युच्यते, न च के चित्कालभावादिभिरकर्मकास्तत एवं विज्ञास्यामः क्क चिद्येऽकर्मका इति अथ वा येन कर्मणा सकर्मकाश्चाकर्मकाश्च भवन्ति तेनाकर्मकाणां न चैतेन कर्मणा कश्चदप्यकर्मकः अथ वा यत्कर्मभवति न च भवति तेनाकर्मकाणां न चैतत्कर्म क्क चिदुपि न भवति' इति ( अनुभूयते सुखम् )इत्यादौ संदेदनाद्यर्थत्वाद् भुवः संवेद्यादिभिरिपि सकर्मकत्वाकर्मण्येव लः ( भूयेते भूयन्ते ) इत्याद्युदाहार्यम् तथा, ( भूयताम् भाविता ) स्यसिच्सीयुट्तासिषु भावकर्मणोरुपदेशेज्झनग्रहदृशां वा चिण्वदिट् चइत्यजन्तानां हनादीनां च धातूनामार्द्धधातुकेषु भावकर्मविषयेषु स्यादिषु वा चिणीव कार्यमिट् चेत्यभिधानात् चिण्वत्पक्षे वृद्धिः इहेड्विधानमनिडर्थं ण्यन्तार्थं च स्यसिजादीनामार्द्धधातुकत्वस्याव्यभिचारेपि तेन विशेषणं सीषुडर्थम् तेन सार्वधातुके विध्यादिलिङि सीयुटि चिण्वत्त्वस्याभावः एवं स्यसिच्सीयुहविषये द्वैरूपयमुदाहार्यम् ( भविष्यते भाविष्यते अभविष्यत अभाविष्यत अभावि अभाविषाताम् भविषीष्ट ) इत्यादि लुङ्लिङोर्ध्वमे चिण्वत्पक्षे "विभाषेटः'' इति मूर्द्धन्यविकल्पानाच्चातूरूप्यं नेयम् लुङि तशब्दे'' चिण् भावकर्मणोः'' इति चिण् विधानात् च्लेश्चिण् ततः "चिणो लुक्''चिणो लुक्'' इति तशब्दस्य लुक् अथ कर्मकर्त्तोच्यते कर्मवत्कर्मणा तुल्यक्रियः"कर्त्तरि शप्'' इत्यतः कर्तृग्रहणमनुवृत्तं प्रथमान्तमिहि विपरिणम्यते इह कर्म न पारिभाषिकं तेनात्यन्तविलक्षणेन क्रियायाः सादृश्यायोगात् नापि क्रियामात्रं ( 1 ) ( 1 ) यथा कथाचन यथा कथं वन क्रियया क्रियायाः सादृश्याव्यभिचारात् अतः कर्मेह तत्स्यात्क्रिया, अनया तुल्यक्रियः कर्ता कर्मणा तुल्यस्तत्कार्याणि लभत इत्यर्थः तानि च यगात्मनेपदचिण्चिण्वद्भावाः एकस्मिंश्च प्रयोगे कर्मणा तुल्यक्रियस्य कर्तृरसंभवात् कर्मत्कर्तृत्वे प्रयोगभेदेन ज्ञेये यद्येवं पटं भावयतीत्यत्र कर्मस्था क्रियोत्पत्तिरस्ति तया तुल्यक्रियत्वं पटो भवतीत्यत्र कर्तृरिति यगादि कस्मान्न भवति अर्थस्वभावादेवास्य योगस्य धातुविषयत्वे सिद्धे धातोरित्यनुवृत्तिसामर्थ्याद्विक्तिविपरिणामेन सप्तम्यन्तं विवक्षितैक्तत्वं विज्ञायत इत्येकस्मिन् धातौ कर्मणा तुल्यक्रियस्य कर्तुः कर्मवद्भावाद् इह तु धातुर्भिद्यते एवं च कर्मव्यापारार्थो धातुर्यत्र सौकर्यातिंशयप्रतिपादनाय कर्मव्यापारमात्रे वर्तते सोस्य विषयः संपन्नः ततश्च शत्रुमभिभवतीत्यत्र न्यग्भवनोपसर्जने न्यग्भावने वृत्तो भवतिर्यदा न्याग्भवनमात्रे वर्त्तते तदाभिभूयते शत्रुः स्वयमेवेति यगात्मनेपदे भवतः नन्वत्र कर्मस्था क्रिया न्यग्भवनं सैव कर्तस्थापीति क्रियाभेदाभावात् कथं भेदनिबन्धनं सादृश्यमिति चेन्न कर्मकर्त्रव्स्थाभेदेन भिन्नकारकत्वेन भेदोपपत्तेः नन्वत्रातिदेशेन यगादिवद्द्वितीया कस्मान्न भवति न च "अनभिहिते'' इति निषेधोऽस्य कार्यातिदेशत्वाद् अत्र च तदधिकाराभावात् उच्यते"व्यत्यो बहुलं'' "लिङयाशिष्यङ्'' इति संहितया सूत्रपाठाद् ( 2 ) ( 2 ) ल्लिङिति द्विलकारको निर्देशः, तत्रैकं लग्रहणमनुवर्त्तते तच्चेह षष्टयन्तं सत् तदन्तत्वं प्रयोजयहज,( 3 ) ( 3 )कार्यप्रतीति श्चात्राध्या कार्यप्रतीतिश्चाध्याहियत इति लान्तकार्यविषत्वादतिदेशस्य द्वितीयायास्तथाभावादप्रसङ्गः एवं च कर्माश्रयाः कृत्यादयोपि न भवन्ति नन्वभिभूयमानो देवदत्तो यज्ञदत्तमभिभवतीत्यत्रापि( 4 ) ( 4 )सकमर्कत्वात् कर्मवद्भावः प्राप्नोति, अत्र हि यज्ञदत्ते कर्मणि( 5 ) ( 5 ) दृष्टं न्यग्भवनं न्यग्भावयितरि देवदत्ते दृष्टो न्यग्भाव इतर स्मिन् देववत्तं च कर्तरि दृश्यते यदसौ न्याग् भवन् न्यग् भावयति नैष दोषः इह कर्मणा तुल्यक्रिय इति कम्रस्थया क्रियया तुल्यायाः ( 6 ) ( 6 )क्रियायाः प्रसङ्गात्कर्तुश्च क्रियापेक्षत्वात् प्रत्यासत्त्या तदपेक्षयैव कर्तुः कर्मवद्भावविज्ञानात् इह च न्याग्भवनं न कर्तृत्व उपयुज्यते किं तु न्यग्भावनमेव, अन्यगृभवतोपि न्याग्भावने कर्तृत्वसंभावात् वत्करण ( 7 ) ( 7 ) स्वाश्रयणेन कर्मकर्तृंत्व त्स्वाश्रयाकमकत्वनिबन्धनो भावे लकारोपि भवति अभिभूयते शत्रुणास्वेनैवेति, तेन शत्रो( 8 ) ( 8 ) द्विर्ताया न भवति स्तृतीया भवतिसर्वत्र कर्मवदुदाहरणानि लुङि तशब्दे तु "अचः कर्मकर्तरि'' इति चिणादेशविकल्पनात् पक्षे सिच्, तस्य पूर्ववच्चिण्वदिट् तत्पक्षे वृद्धौ ( अभ्यभावि ) ( अभ्यभाविष्ट ) ( अभ्यभविष्ट ) इति त्रैरूप्यम् स्वाश्रयभावे लकारे "चिण् भावकर्मणोः'' इति चिणेव ( अभ्यभावि शत्रुण स्वेनैवेति ) अथ पुरुषविषये किं चिद् विचार्यते युष्मदस्मदन्येषु सहविवक्षितेषु त्यदादीनि सर्वैर्नित्यम् अन्यैस्सहवचने त्यदादीनि शिष्यन्ते मिथस्तु पराणीति शिष्यमाणाभ्यां युष्मदस्मद्भ्यामशिष्यमाणार्थाभिधानेपि स्वाथांपवेक्षौ मध्यमोत्तमावेव भवतः न तु शिष्यमाणाशिष्यमाणरूपस्यार्थस्य युष्दस्मदर्थान्यत्वेन शेषत्वात्प्रथमः, यत्र युष्मदस्मदी समानाधिकरणे न स्तः स शेष इतृयुक्तत्वात् ( देवदत्तश्चाहं च आवां भवावः) ( देवदत्तश्च स चाहं च वयं भवामः ) इति युष्मदस्मदोः सहविवक्षाया( 1 ) ( 1 ) परत्वात् मस्मदा शिष्यमाणेन युष्मदस्मदर्थाभिधानेपि परत्वादस्मदर्थापेक्ष उत्तमो भवति ( त्वं चाहं च आवां भवाव ) इति भवतापि युष्मदस्मदोः सहवचने तस्य पर्वपाठाश्रयेण तयोरेव श्षे ( भवांश्च त्वं च युवां भवथः ) ( भवांश्चाहं च आवां भवाव ) इति सहविवक्षा चानेकस्यार्थस्यैकगुणाक्रियाभिनिवेशार्थ बुद्धया निरूप्यमाणस्य क्रियागुणद्वारेणान्योन्यापेक्षया समुदायभावामापन्नस्य सहभावेन वक्तुमिच्छा,उद्भूतावयवभेदत्वाच्च द्विवचनबहुवचने असहविवक्षायां द्वैतम् एक एव लकारो ऽनेकलारकार्थंभिधायी प्रतिकारकमावर्त्तते वेति तत्राद्ये पक्षे युष्मदस्मदन्यानामशेषत्वाद्यथायोगं मध्योत्तमौ भवतः ( स च त्वं च भवथः ) तथा मध्यमोत्तमयोर्युगपत्प्रसङ्गे परत्वादुत्तमः,( त्वं चाहं च भवाव ) इति पक्षान्तरे तु ( 2 ) ( 2 )लाभिधेये अभिधेये तत्तत्कारकापेक्षया प्रथमादयो यथायोगं भवन्तीति न विवादः ( भवान् भवति, ) ( त्वं भवसि, ) ( अहं भवामीति ) अलिङ्गसंबोधनैकविषयश्च युष्मदर्थो भवदर्थस्त्वन्य इति तद्योगे प्रथमोक्तः यदा त्वस्मात्सम्बोधनविभक्तिः तदा युष्मदर्थयोगात् मध्यमो भवति ( हे भवन् भवसि इति अतित्वं भवति अत्यहं भवति इत्यादौ त्वामतिक्रान्तो मामतिक्रान्त इति "अत्यादयःक्रान्ताद्यर्थे'' द्वितीयया इति तत्पुरुषे त्वमतिक्रान्तो येनाहमतिक्रान्तो येनेति "अनेकमन्यपदार्थः'' इत्यनेकं सुबन्तमन्यस्य पदस्यार्थे वर्त्तमानं समर्थं समस्यत इति बहुब्रीहौ वा ऽतिक्रमितुः प्राधान्यात्तस्यैव लान्तार्थविशेषणत्वान्न मध्यमोत्तमौ यदा त्वतिशब्दः पूजितवचनः तदा "स्वती पूजायाम्'' इति तत्पुरुषे युस्मदस्मदीरर्थस्य प्रधान्यात्तेन विशेष्यत्वाद् ( अतित्वं भवसि अत्यहं भवामि) इति भवतः त्वद्भवति मद्भवतीत्यत्र च्चयन्तयोरेतयोस्त्वमिवाहमिवार्थेस्वार्थारोपेण वर्त्तमानत्वादमुख्यार्थत्वचात् "गौणमुख्ययोर्मुख्ये कार्यसंप्रत्यय'इति न्यायेन मध्यमोत्तमौ न स्तः तथाहि "अभूततद्वावे कृभ्वस्तियोगे संपद्यकर्त्तरि च्यवः'' इति कार्यात्मना ऽभतस्यकारणस्य कार्यात्मना भावे विवक्षिते संपद्यमाने कार्यात्मना भवतिकर्त्तरि वृत्तात्प्रातिपदिकात्कृभ्वस्तियोगे च्वर्विधीयते एतदुक्तं भवति अभेदविवक्षया भवतिकर्त्तरि वृत्तात्प्रातिपदिकात्कृभ्वस्तियोगे च्विर्विधीयते एतदुक्तं भवति अभेविवक्षया कारणवृत्तेःकार्यशब्दात् प्रत्यय इति त्वत्कल्पो भवति मत्कल्पो मत्कल्पो भवतीत्यादावपि गौणार्थत्वाच्च न मध्यमोत्तमौ तत्र ईषदसमाप्तौ कल्पब्देश्यदेशीयरःसंपूर्णता पदार्थानां समाप्तिः, किं चिन्नयूनतेषदसमाप्तिः, एतद्विशिष्टेर्थे वर्त्तमानात्प्रतिपदिका त्तिडश्चेइति तिडन्ताच्च स्वार्थे क्कल्पबादया इति प्रकृत्यर्थसदृशार्थान्तरवृत्तिभ्यो विधानात् यथा तु कालान्तरदृष्टगुणेषदसमाप्तिविशिष्टस्वार्थवृत्तेः प्रत्ययाः तदा न गौणार्थत्वमिति त्वत्कल्पो भवसि मत्कल्पो भवामीति भवतः त्वमेवेदानीं किं चिन्नयूनगुणो भवसीत्यर्थः पूर्वत्र तु त्वत्सदृशोन्यो भवतीत्यर्थः अथ तिङन्तात्प्रत्ययाः प्रदर्श्यन्ते अतिशायने तमबिष्टनौअतिशायनं प्रकर्षोभिभवः एतदुपाधिकार्थवृत्तेर्ड्याप्प्रातिपिदिकादेतौ स्याताम् तथा "तिङश्च''इति तिङन्ताच्च बहूनामेकस्य निर्धारेणे वृत्तौ द्विवचनभिज्योपपदे तरबीयसुनौद्वयोरर्थंयोर्वचने विभज्येविभक्तव्ये चोपपदे तरबीयसुनोर्विधानात् तौ अजादी गुणवचनादेवेतीष्टनीयसुनोर्गुणवचनादेव नियमात्तिङन्तात्तरप्तमपावेव, एतदन्तात्किमेत्तिङव्ययघादाम्वद्गव्यप्रकर्षेकिमादिभ्यो यो घस्तदन्ताद्द्रव्यप्रक्रर्षे गम्यमाने आमुरित्यासमुः उकारोमकारस्यानन्त्यत्वेर्नेत्वनिवृत्तये हल्लुप्यते तत्र "स्वरादिनिपातमव्ययम्'' तथातद्धितश्चासर्वविभक्तिःइत्यसर्वविभक्तियुक्तं तद्धितान्तं, तथा "कृन्मेजन्त'' इति ( 1 ) ( 1 ) मकारैजन्तम् मेजन्तं, तथा "त्त्कातोसुन्कसुन''इति ( 2 ) ( 2 ) त्वदन्तम् तदन्तं, "अव्ययीभावश्च'' इत्यव्ययीभावश्च, "तरप्तमपौ घः'' तत्राणि ( 3 ) ( 3 ) अपि परे परे, "यचि भम्'', यकारादावजादौ च स्वादावसर्वनामस्थाने परतः पूर्वं भमिति घान्तस्य भसंज्ञा इह स्वादयः स्वौजसमौडित्यारभ्य कप्पर्यन्ताः घान्तस्य यस्येति चइवर्णोवर्णयोरीति भसंज्ञानिमित्ते तद्धिते च परे लोप इति लोपः, ( भवतितरां भवतितमां, ) तद्धिताश्च "तद्धिता'' इत आरभ्य आपञ्चमाध्यायसमाप्तेर्वक्ष्यमाणाः प्रत्ययाः, आमन्तं कृत्तद्धितसमासाश्च कृदन्तं तद्धितान्तं समासश्च प्रातिपदिकमिति प्रातिपदकिं, कृतः समासाश्च वक्ष्यन्ते प्रातिपदिकाक्च "ड्याप्प्रातिपदिकात्'' "स्वौजसमौट्छष्टाभ्यांभिस्ङ्भ्यांभ्यस्ङसिभ्यांभ्यस्ङसोसाम्ङयोस्सुप्'' इति विधीयमानेषु स्यादिषु एकत्वार्थमेकवचनं सुः तम्य च अव्ययादाप्सुपःअव्ययाद्विहितस्यापः सुपश्च लुगिति लुक् स्वरादिष्वामितिपाठादयव्यत्वम्, आबिति डाप्डाप्चापः प्रशंसायां रूपम्प्रशंसा स्तुतिः एतदुपाधिकार्थान् ङाप्प्रातिपदिकात तिङन्ताच्चरूपप् स्यात्स्वभावादेतदन्तान्नपुंसक ( 4 ) ( 4 ) प्रथमेति बहुषु पुस्तकेषु नास्ति प्रथमैकवचनमेव तस्य "स्वमोर्नपुंसकात्'' इति नपुंसकलिङ्गात्परत्वेन लुकिप्राप्ते "अतोम्''इत्यम्भावे अमि पूर्वःअकोमि परे पूर्वपरयो3 पूर्वरूपमेकादेश इति पूर्वरूपत्वम्, तेन (भवतिरूप)इत्यादि भवति एवं कल्पबाद्यन्तादपि स्वभावान्नपुंसकात्स्वादिका र्यम् "अव्ययसर्वनाम्नामकमच् प्राक् टेः''रित्यकच् तत्र "तिङश्च'' इत्यनुवृत्तेरस्यापि टेः प्रागज्ञातादिषु प्रागिवीयेष्वर्थेषु भवति अकार उच्चरणार्थः, चकारः"चित'' इति स्वरार्थः तत्र हि "चितः सप्रकृतेः' इत्युच्यते ( भवतकि ) अथ तिङो ऽन्ये लादेशा उच्यन्ते लटः शतृशानचाप्रथमासमानाधिकरणेलटः शतृशानचावादेशौ स्यातामप्रथमान्तेन चेत्सामानाधिकरण्यं भवति तत्र शेषत्वादस्य लटः शता, तस्य शित्त्वात्सार्वधातुकत्वे पूव्रवच्छबादयः शत्रन्तस्य "कृदतिङ्'' इति तृतीयधात्वधिकारविहितस्य प्रत्ययस्य कृत्संज्ञाविधानात् कृदन्तत्वेन प्रातिपदिकत्वादविशेषेण स्वादिप्रसङ्गे कर्मत्वादविशेषेण स्वादिप्रसङ्गे कर्मत्वस्य विवक्षितत्वात् "कर्मणि द्वितीया'' इति द्वितीया द्वितीयादिशब्दौः सुपं त्रिकाः पूर्वाचार्यप्रसिध्द्योच्यन्ते तत्रापि सुपस्त्रीणित्राणि पदानि त्वैकशो भूय थासंख्यमेकवचनादिसंज्ञानीति तिङ्वदेकत्वादौ क्रमेणैकवचनादि भवति तत्रमौटौः सुडनपुंसकस्य सुटिति प्रत्याहारेणादितिः पञ्च वचनानि गृह्मन्ते तन्यनपुंसकस्य संबन्धीनि सर्वनामस्थानत्वे उगिदचां सर्वनामस्थाने धातोःइति नुम् उगितामङ्गानां लुप्तनकारस्याञ्चतेः पूर्वमधातोरुगितः पश्चाद्धातोस्तस्मिन्नुम् अञ्चतिग्रहणादुगितो धातोर्यदिभवति अञ्चतेरेवेति नियमार्थकाद् अग्धातुग्रहणमधातुर्भूतपूर्वार्थ, नुमो सित्त्वात्मिदचोन्त्यात्परःइत्येकत्र संनिविष्टानामचामन्त्यादचः परः नश्चापदान्तस्य ज्ञलिअपदान्तयोर्नकारमकारयोर्ज्ञल्युनस्वार इति नस्यानुस्वारः "अनुस्वारस्य ययि परसवर्ण'' स च "स्थानेन्तरतमः'' इति नासिक्यानुस्वारस्य तादृशो नकारः ( भवन्तं पश्य ) ( 5 ) ( 5 ) भक्तो पश्यति भवतस्तानित्यत्वात् "स्वादिष्वसर्वनामस्थाने'' इति पूर्वस्य प्राप्तायाः "यचि भम्'' इति भसंज्ञया परया ऽनवकाशया बाधात् "झलां जशोन्ते'' इति जश्त्वं न भवति कर्तृकरणविवक्षायां, "कर्तृकरणयोस्तृतीया'' उक्तः कत्तां साधकतमं करणम्क्रियाप्रसिद्धौ यत्कारकं कारकान्तरापेक्षया प्रकृष्टं विवक्ष्यते द्व्यापारान्तरं क्रियानिष्पत्तिर्विक्ष्यते ततृकरणम् तदुक्तम्---- क्रियायाः परिनिष्पत्तिर्यद्व्यापारादनन्तरम् ।विवक्ष्यते यदा तत्र करणत्वं तदा स्मृतम्वस्तुतस्तदनिर्देश्यं नहि वस्तु व्यवस्थितम् स्थाल्या पच्यत इत्येषा विवक्षा दृश्यते यतः क्रियते येन येनैव तत्तत्करणमिष्ते तेनाश्वेन रयेनेति सिद्धं दीपिकयेति च इति टाटकारष्टाङसीति विशेषणार्थः अन्यथा "सुपां सुलुग्'' इति विहितस्यापि ग्रहणमापद्येत ( भवता तेन भवद्भ्यां ताभ्यां, भवद्भिस्तैः ) हलादौ पदत्वाज्जाश्त्वम् संप्रदानविवक्षायां "चतुर्थी संप्रदाने'' कृदाद्यनभिहित इति शेषः कर्मणा मयभिप्रैति स संप्रदानम्ददातिर्म्मणा करणभूतेन कर्ता यमभिप्रेति तदनिराकर्तृत्वे प्रेरयित्रनुमन्तकारकं सम्प्रदानम् उक्तच्च अनिराकरणात्कत्कर्तुस्त्यागाङ्गं कर्मणेप्सितम् प्रेरणानुमतिभ्यां च लभते संप्रदानता इति दानं च पुनरग्रहणाय किं चिदुद्दिश्य स्वीयत्यागः ( भवते तस्मै ददाति भवद्रभ्यां ताभ्यं ददाति भवद्भ्यस्तेभ्यो ददाति ) अपादानविक्षायाम् "अपादाने पञ्चमी'' "ध्रुवमपाये ऽपादानम्'' सावधिकं गमनमपायः तदुक्तम् संयोगभेदाद् भिन्नात्मा गतिरेव भ्रमिर्थथा ध्रुवावधिरपायोपि समवेतस्तथा ध्रुवः इति अस्मिन् साध्ये यद् ध्रुवमेतदनाविष्टं यतृकारकं तदापादानम् तथाहि अपाये युदासीनं चलं वा यदि वा ऽचलम् ध्रुवमेवातदावेशातृतदपादानमुच्यते इति त्रिविधं चैतत् यथाह निर्दिष्टविषयं किं चिदुपात्तविषयं तथा अपेक्षितक्रियं चेति त्रिधा ऽपादानमुच्यते इति तत्र प्रथमं धातुना ऽभिहितापायविषयं द्वितीयं ( 1 ) ( 1 ) धात्वर्थाङ्गार्थत्वेन धात्वन्तरार्थत्वेनाभिहितापायविषयम् तृतीयं तु सामर्थ्यादिना प्रतीयमानापायविषयम् ( भवतस्तस्मादागच्छति भवतो मेघाद्विद्योतते विद्यत् ) अत्र निःसरणाङ्गे विद्योतने विद्युतिर्वर्त्तते ( भवतस्तस्मादाढ्यतरः ) अत्र प्रकर्षप्रत्ययसार्थ्याद्विभागकारणतया प्रकर्षलक्षणा क्रिया प्रतीयते, अत्रावधिविभक्तयोरेकीकारो विभागस्तद्धेतु रपकर्षणं च बौद्धम् तथा चाह बुद्धया समीहितैकत्वान् पञ्चालान् कुरुभिर्यदा पुनर्विभजते वक्ता तदापायः प्रतीयते इति तत्रतत्र ङसीत्यनुवादार्थो ङकारेकारौ विभागोपायः, अस्मिन् साध्ये सद् ध्रुवमेतद्धेतुभूक्रियानाविष्टं तदपादानमिति सूत्रार्थः शेषविवक्षायाम् षष्ठी शेषअनभिहितइति शेषः कर्मादिभ्यो ऽन्यः प्रातिपदिकार्थव्यतिरेकहेतुः स्वस्वामिसंबन्धादिः शेषः द्विष्ठोप्यसौ संबन्धो गुणभूतेन शब्देन प्रतिपाद्यत इति तस्मादेव षष्ठी न तु प्रधानात् द्विष्ठोप्यसौ परार्थत्वाद् गुणेषु व्यतिरिच्यते इति तथा वार्त्तिकमपि ( उक्तं पूर्वेण ) इति अस्यार्थः प्रातिपदिकार्थसूत्रे यद ( 1 ) ( 1 ) पदसामा सामानाधिकरण्ये उपसंख्यातमधिकत्वादिति चोद्यस्य न वाक्यार्थत्वादिति सामानाधिकरण्यप्रतीतेर्वाक्यार्थत्वेन पदसंस्कारवेलायामभावात् प्रातिपदिकार्थनिबन्धना प्रथमा यथा भवत्येवमत्रापिप्रधानगतसंबन्धप्रतीतेर्वाक्यार्थत्वेन पदसंस्कारवेलायामभावान्न प्रसङ्गः षष्टया इति, परिहारभाष्यं चार्थरूपमेवैतदेवंजतीयकमिति ( भवतो ऽस्य स्वं, भवतोरनयोः, भवतामेषाम् )अधिकरणविवक्षायाम् "सतम्यधिकरणे च'' चकाराद् दूरान्तिकार्थेभ्यश्च आधारोधिकरणम्कर्तृकर्मणोः क्रियाश्रयभूतयोर्धारणक्रियां प्रति य आश्चारस्तत्कारकमधिकरणम् त्रिविधं चैतत् यदाह, कर्तकर्मव्यवहितामसाक्षाद् धारयत क्रियाम् उपकुर्वन् क्रियासिद्धौ शास्त्रेऽधिकरणं स्मृतम् औपश्लेषिकमेकं स्यात्तथा वैषयिकं परम् अभिव्यापकमित्येतत्त्रधाधिकरणं मतम् आस्ते कटे शकुन्तः खे तिले तैलं व्यवस्थितम् क्रणेणाधारभेदानामुदाहरणदर्शनम् इति ( भवति कटे शेते मेघच्छन्ने भवति खेबलाका भवति तिलं तैले, भवतोरनयः, भवत्स्वेषु ) प्रथासामानाधिकरण्ये प्रथमासामानाधिकरण्याभावे च "नन्वोर्विभाषा'' इत्यतो विभाषनुवृत्तेर्विकल्पेन भवतः "प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा'' भवत्रयम् "हल्ड्याब्भ्य'' इति सुलोपः तकारस्य संयोगान्तलोपः तस्यासिद्धत्वात् "न लोपः प्रातिपदिकान्तस्य'' इति विधीयमानो नलोपो न भवति ( भवन्तौ ( 2 ) ( 2 ) न्तौ भवन्तस्ते भवन्तः ) जसो जकारो ऽसन्देहेन विभक्तिस्वरूपप्रतिपत्त्यर्थः ( भवत्तरः भवत्तमः भवद्रूपःः भवत्कल्पः) इत्यादौ तरबादिविधिवत् ( भवत्कः ) "प्रागिवात्कः'' "इवे प्रतिकृतौ'' इत्यतः प्रागितः परेष्वजातादिष्वर्थेषु द्योत्येषु कः प्रातिपदिकादिति ( क्क )तद्धितत्वान्न ककारस्येत्त्वम् शत्रभावे भवतीत्यादि पूर्वमुक्तमेव अत्र तिडःस्थानिवत्त्वेन लत्वाच्छत्रादेशो न भवति, वाग्रहणस्य व्यवस्थितविभाषाविज्ञानात् यदि हि स्यात्स्यानिवद्भावेन तिडन्तादस्माच्च तरप् किमेत्तिङठ्य'' इत्याम्स्यात् ततश्च भवत्तरामिति तृतीयं रूपं स्यात् असामानाधिकरण्ये खलवपि भवत इदं ( भावतम् ) तस्येदम्षष्ठीसमर्थाद् ड्यापप्रातिपदिकात्संबन्धिन्यथेऽणिति अण् तद्धिते ष्वचामादेःइति वृद्भिः ञिति णिति तद्धिते परेऽङ्गस्याचामदेरचो वृद्धिरिति इयं च अत उपधायाउपधाया इति ञिति णिति प्रत्ययमात्रे परे ऽङ्गस्योपधाया अतो विधीयमानां वृद्धिमपवादत्वाद्वाधते न च भवत इत्यस्य देवदत्तादिविशेषापेक्षत्वादस्तीहापि सामानाधिकरण्यमिति वाच्यम् तर्हि सापेक्षत्वादस्मात्प्रत्यय एव न स्यात् समर्थपदविधिःइतीह शास्त्रे पदविधिः समर्थपदाश्रय इत्युक्तत्वात् इदमप्युदाहरणं, ( भवतो भक्तिर्भवद्भक्तिरिति ) षष्टहषष्टयन्तं समर्थेन सुबन्तेन वा समस्यत इति समासः सुपो धातुप्रातिपदिकयोःइति तद्धितान्तसमासप्रातिपदिकयोरन्तर्भृ तस्य सुपो लुक् अत्र के चिल्लडिति वर्त्तमाने "लटः शतृशानचौ'' इति पुनर्लहग्रहणाद् "नन्वोर्विभाषा'' इति भूते विहितस्यापि लटोप्येतावादेशौ भवत इति एतद्भाष्यवार्तियोर्नोक्तं वृत्तिकारस्य च नेष्टम् यदाह लडितिवर्त्तमाने पुनर्लइग्रहणात् क्कचित् प्रथमासामानाधिकरण्येपि भवतीति संबोधनेच शतृशानचाविशि शेषः आभिमुख्यकरणं संबोधनम्, तच्च स्वभावात्कचित् कार्येविलियोगार्थम् यदाह सिद्धस्याभिमुखीभावमात्रं संबोधनं विदुः प्राप्ताभिमुख्ज्ञृयो ह्मर्थाऽत्मा क्रियायां विनियुज्यते इति हे सुखमनुभवन्नर्थस्य लक्षहेत्वोः क्रियायाःलक्षणं चिन्हं, हेतुः कारणं। क्रियाया लक्षणहेत्वोर्वर्तमानाद्धातोर्लटः शतृशानचौस्याताम्, ( शयनमुनभवन् यवनो भुङ्क्ते ) अत्र शयननुभवनं यवनभोजनस्योपलक्षणं, शुरूषुर्भवन्विद्यामधिगच्छति, अत्रापि शुश्रुषाभवनं विद्याधिगमस्य हेतुः योगद्वयमिदं प्रथमासमानाधिकरेणे नित्यार्थम् प्रथमा च "संबोधने च'' इति संबोधनाधिकप्रातिपदिकार्थे विहिता माङ्याक्रोशेआक्रोशः शपनम् अस्मिन् गम्यमाने माङ्युपपदे शतृशानचौ भवतः ( मा भवन् )"माङि लुङ'' इति प्राप्ते अस्मादेवादेशवचनाल्लडनुमीयते सुखमनुभवन्नित्यादौ "कर्तृकर्मयोः कृति'' इत्यनयोः कृद्योगे विधीयमाना षष्ठी न भवति, न लोकाव्ययनिष्ठाखलर्थतृनाम्इति लादियोगे प्रतिषेधात् ल इति शतृशानचौ कानच् क्कसुकिकिनौ चोच्यन्ते उ इत्युवर्णान्ताः, उः, इच्छुः,उकः प्रत्यय एव अव्यय इति "कृन्मेजन्तः'' "क्त्वातोसुन्कसुन'' इति उक्ता अव्ययकृतः"क्तक्तवतू निष्ठा'' खलर्थः खल् युच् तृन्निति "पूङ्यजोः शानन्'' इति शानन्नादय "तृन्'' इति तृन्पर्यन्ताः प्रत्याहारेणोक्ताः प्रत्याहारश्च "जटः शतृ'' इति तृशब्दस्य तृनो नकारेण सुखस्यानुभवन्निति प्रयोगः शेषलक्षणषष्ट्या, अत्र पष्ठीसमासः पूरणगुणसहितार्थसदव्ययतव्यसमानाधिकरणेनइति पूरणादिभिः षष्ठीसमासो न भवति तत्र पूरणा इति पूरणप्रत्ययान्ताः गुण इति गुणद्वारेण गुणिनि वर्त्तितुं शक्ता गुणुणिनिष्ठाशुक्लादयः, ये तु गुणं स्वनिष्ठतयैवाभिदधति ते रसादयस्तत्स्थैश्च गुणैः षष्ठी समास्यत इति तैः समास उक्तः सुहितार्थास्त्यर्थाः सदिति तौ सत्इति सत्संज्ञो शतृशानचौ अव्यया उक्ताः तव्यो न सानुबन्धकः निरनुबन्धकग्रहणेन सानुबन्धकस्येति समानाधिकरणमेकविभक्त्यन्तं विशेषणं विशेष्यं च अथ शत्रन्तात्स्रीप्रत्यया इह प्रदर्श्यन्ते उगितश्चयत्प्रातिपदिकमवयवद्वारेण साक्षाद्वोगित् "येन विधिस्तदन्तस्य'' इति तदन्तात्, व्यपदेशिवद्भावेव केवलाच्च प्रातिपदिकात् स्त्रियां तदन्तविधिर्न' "व्यपदेशिवद्भावो ऽप्रातिपदिकेन' इति परिभाषे प्रातिपदिकस्य स्वरूपग्रहणेन प्रत्ययविधिविषये इति नेह स्तः ङीबन्तस्य यु स्त्र्याख्यौ नदीअनानपेक्षया स्त्रियां वृत्तमीवदूदन्तं नदी, नदीत्वे शप्श्यनोर्नित्यम्शप्श्योर्निमित्तत्वेन सबन्धिनःशतुर्नित्यं नुम् शीनद्योः परयोः, नुम् मित्त्वादन्त्यादचः परः इह नदीशब्दो नद्यवयवे वत्ततं इति शतुर्नदीपरत्वम् ( भवन्ती अतिभवन्ती ) ङयन्तत्वातस्वादिषु सोर्हल्ङयादि लोपः ( भवन्त्यौ भवन्त्यः ) अजादौ "इको यणचि'' इति संहितायां यण् भवति प्रथमयोः इत्यकः प्रथमाद्वितीययोरजादौ विभक्तौ परतः पूर्वपरयोःपूर्वसवर्णदीर्घः एकहत्येतदत्र न भवति, "दीर्घाज्जसि च"' इति निषेधाच् चकारादिज् गृह्मते ( हे भवन्ति ) अम्बार्थनद्योर्ह्रस्वःइति ह्रस्वः अम्बार्थां "एङ्ह्रस्वात्संबुद्धेः'' इति संबुद्धेर्हलो लोपः एकवचनं संबुद्धिःसंबोधने प्रथमाया इति शेषः ( भवन्तीम् ) ( 1 ) ( 1 ) भवन्ती अत्र "अमि पूर्वः'' पूर्वसवर्णदीर्घश्च यणं बाधेते ङिद्वचेनषु आण् नद्याःइति टित्त्वादादौगमे "आटश्च'' इति ययायोगमैकार औकारश्च वृद्धिः ( भवन्त्यौ, भवन्त्यः ) आमि "ह्रस्वनद्यापो नुट्'' इति नुट् टित्त्वादौ, ( भवन्तीनाम् ) सप्तम्येकवचनस्य "डेराम्नद्याम्नीभ्यः'' इत्यामादेशे ( भवन्त्याम् ) नीशब्देन तदन्तो ग्रामण्यादिरुच्यतते ( भवन्तितरा भवन्तीतरा ) पूर्दवत्तरप् अत्र घरूपकल्पेचलङ्ब्रुवगोत्रमतहतेषु उ।योनेकाचो ह्रस्वःइति घ्रूदिषु परेषु ङयन्तस्यानेकाचो विधीयमानो नित्यो ह्रस्वः उगितश्चइत्युगितः परस्या नद्या उच्यमानेन ह्रस्वविकल्पेन बाध्ये, अत्र घादयः प्रत्ययाश्चेलडादीनि प्रातिपदिकानि अत्र हरदत्तः चेलडादीनां वृत्तिविषये कुत्सनवचनत्त्वात् तैः "कुत्सितानि कुत्सनैः इति समास इति न्यासकारस्तु चेलङ्ब्रुवगोत्राणामेवं समासमुक्त्वा मतहताभ्यां तु "विशेषणं विशष्येण'' इत्याह एदं तमबादिष्वप्युदाहार्यम् अथ नपुंसकप्रक्रिया ( भवत् ब्राह्मणकुलं तिष्टति पश्येति वा ) "स्वमोर्नपुं सकात्'' इति इति लुक् ( भवन्तो कुले ) "नपुंसकाच्च'' त्त्यौडः शीभावः औङिति प्रयमाद्वितीययोर्द्विवचनस्य पूर्वाचार्यसंज्ञा शकारः "शीनद्योः'' इति निर्देशार्थाः "शप्श्यनोः'' इति नित्यं नुमागमः ( भवन्ति कुलानि ) जश्शसोः शिःजश्शसोः शिःइति नपुंसकाङ्गात्परत्वे जश्शसोः शिरादेशः शकारः शीति तत्रानुवादार्थः "शि सर्वनावस्थानम्'' इति शेः सर्वनामस्थानत्वे नपुंसकस्य ज्ञलचःइति ज्ञलन्तस्याजन्तस्य नपुंसकाङ्गस्य सर्वनामस्थाने नुमिति नुम् भवतेत्यादि पुंल्लिङ्गचत् अथ शानच् ( व्यतिभावमानः ) "आने मुक्"आने मुक्'' इत्यदन्तस्यानपरत्वेन मुक्कित्त्वादत्यः ( व्यतिभवमानौ ) "प्रयमयोः पूर्वसवर्णदीर्धस्य "नादिचि'' इति निषेधे "वृद्धिरेचि'' इति वृद्धिः, (व्यतिभवमानात् ) तस्माच्छसो नः पुंसिइति तस्मात्प्रथमयोः पूर्वसवर्णदीर्घात् परस्य शसः सकारस्य न इति नकारादेशः ( व्यतिभवमानेन ) टाङसिङसामिनात्स्याःअदन्तादङ्गात्परेषां टादीनां यथासंख्यमिनादय इति इनादेशे गुणः ( व्यतिभवमानाभ्यम् ) सुपि चइत्यदन्ताङगस्य दीर्घं इति सुप्परत्वाहीर्घः ( व्यतिभवमानैः ) अतो भिस ऐस्इत्यदन्ताङ्गात्परत्वेन भिस ऐसादेशः ( व्यतिभवमानाय )ङेर्यःइत्यदन्तादङ्गात्परत्वेन यादेशः "कष्टय'' इति निर्देशात्सन्निपातपरिभाषाया अनित्यत्वात् "सुपि'' दीर्धः ( व्यतिभवमानेभ्यः ) अत्र ज्ञलदिबहुवचनसुप्परादन्ताङ्गत्वेन" बहुवचने ज्ञल्येत्''इति दोर्घश्च प्राप्नोति, तत्र विप्रतिषेधे परे कार्यम्द्वयोस्तुल्यबलविरोधे परस्य प्राप्यमाणत्वात्परमेत्वं प्रवर्त्तते ( व्यतिभवमानात् व्यतिभवमानस्य ) "टाङसि'' इत्यादिना ङसिसोरात्स्यौ ( व्यभिवमानयोः ) ओसि चइत्यदन्तस्याङ्गस्यौस्परत्वेनैकारे ऽयादेशः ( व्यतिभवमानाम् )"ह्रस्वनद्यापो नुट्'' इति हस्वान्तस्याङ्गस्य नाम्परत्वेन "नामि'' इति दीर्घः "सुपि च'' इत्येव वा, ( व्यतिभवमाने ) "आद्गुणः'' ( व्यतिभवमानेषु ) एत्वे षत्वं, व्यतिभमानस्येदं ( व्यतिभवमानम्) अत्रासामानधिकरण्ये शानच् तस्येदंइत्यण्यादिवृद्धिः न य्वाभ्यं पदान्ताभ्यां पूर्वौ तु ताभ्यामैच्इति पदान्ताभ्यां यकारवकाराभ्यां परस्याचामादेरचो वृद्धिर्न भवति किं तु ताभ्यं पूवमैत् ( 1 ) ( 1 ) यथासंख्यमैजागमो भवति तद्धिते ञ्णिति किति वा पर इत्येतस्य "न कर्मव्यतिहारे'' इति निषेधः अथ स्त्रियाम् ( व्यतिभवमाना ) अजाद्यतष्टाप्अजादिगणपठितादकारान्ताच्च प्रातिपदिकात् स्त्रियां टाबिति टाप् पकारः समान्यग्रहणार्थः, टकारस्तदविघातार्थः अत्र शानचः स्थानिवत्त्वेन टित्त्वात् टिङ्ढाणञ्द्वयसज्दघ्रञ्मात्रचतयप्ठक्ठञ्कञ्क्करप् ( 2 ) ( 2 ) ख्युनामिति क्वचिनास्ति ख्युनाम् इति यथा कथं चित् टितः प्रातिपदिकाङ्ढाद्यन्ताच्चानुपसर्जनात् स्त्रियां विधीयमानोङीप्, ट एव इद् यस्य स टिदित्यवधारणस्याश्रयणाल्लटश्च द्व्यनुबन्धकत्वान्न भवति, सामगीत्यादौ टको ऽनेकानुबन्धकत्वेऽपि टित्त्वसामथर्यात् ङीप्, लटस्तु टित्त्वमेत्वाद्यर्थतया सावलाशम् हल्ङ्यादिना सुलोपः ( व्यतिभवमाने ) "औङ आपः'' इत्यापः परत्वेनौङः शीभावे गुणः ईकारप्रत्ययपरत्वेन "यस्य'' इति लोपो न भवति ["औङः श्यां परे प्रतिषेधः ] इति निषेधात् ( व्यतिभवमानाः ) "ओसि च'' ( व्यतिभवमानायै ) यादापःइति आपः परस्य ङिद्वचनस्य याडागम_टित्त्वादादिः "वृद्धिरेचि'' इति वृद्धिः ( व्यतिभवमानायाः ) "जश्शसोः शिः'' "नपुंसकस्य ज्ञलचः'' इति नुम् सर्वनामस्थाने चासंबुद्धौइति नान्तस्याङ्गस्योपधाया दीर्घः हे व्यतिभवमानेत्यत्र "इत्यम् भावेऽमि पूर्वत्वे "एङ्हृ स्वात्'' इति संबुद्धेर्हलो मकारस्य लोपः तृतीयादि पुंलिङ्गवत् लृटः सद्वाइति लट इव लृटोपि शतृशानचोर्विधानाद्भविष्यन्नित्यादिलड्वत् सर्वमुदाहार्यम् तत्र स्त्रियां नपुंसके द्विवचने चआच्छीनद्योर्नुम्इति नुम्विकल्पो विशेषः अत्रानुवृत्तं शतृग्रहणं स्वावयवे वर्त्तते तेनावर्णान्तादङ्गात् परो यः शत्रवयवस्तदन्तस्याङ्गस्य शीनद्योः परयोर्वा नुमिति सूत्रार्थः, अथ वाऽवर्णान्तादङ्गात् शीनद्योः परयोः शत्रन्तस्य वा नुमिति तत्र येन नाव्यवधानमितितकारेण व्यवधानमाश्रयिष्यते, अवर्णान्ताङ्गात्परो यः शता तदन्तस्याङ्गस्येति सूत्रार्थो नोक्तः अङ्गान्तस्य शत्रवयवस्य चान्तरङ्गत्वान्नुमः पूर्वमेकादेशे व्यपवर्गाभावादवर्णान्ताङ्गात्परस्य शतुरसंभावात् न चान्तादिवब्भावः "उभयत आश्रये नान्तादिवत्' इति निषेधात् ,भूतपूर्वगत्याश्रयणे तु लुग्विकरणादावदीयी घ्रतीत्यादावपा स्यात् ( व्यतिभविष्यमाण ) इत्यादौ अट्कुप्वाङ्नुम्व्यवायेऽपिइति णत्वम् अडादिभिव्य्रवायेपि रषाभ्यां परस्य समानपदस्थस्य नो ण इति सूत्रार्थः भविष्यन्नित्यतु"पदान्ततस्य'' इति निषेधान्न भवति अथ सनादयः प्रर्श्यन्ते धातोः कर्मणः समानकर्तृकादिच्छायां वायो धातुरीषिकर्म समानकर्तृकश्चार्थद्वारेण तस्मादिच्छायां वा सन् स्यात्, नकारो निर्देशाद्यर्थः सनि ग्रहगुहोश्चग्रहिगुहिभ्यामुगन्तादेकाचश्च परस्य यनो नेडितीड्निषेधः इको ज्ञल्इति उगन्ताद्धातोः परस्य ज्ञलादेः सनः कित्वान्न गुणः सन्यङो एतदन्तस्य प्रथमैकाचो द्वे भवतोऽजादेस्तु द्वितीयस्येति द्वित्वेऽभ्यासकार्यम् सनाद्यन्ता धातवइति सनादिणिङ्पर्यंन्तानां प्रत्ययन्तानां धातुत्वात्पूर्ववलादिषु तिबादयः बुभूषतीत्यादि लिटिं कासप्रत्ययान्ताच्च धातोर्लिटिपर आम्प्रत्यय इत्याम् अकारो मकारपरित्राणाय सूत्रे त्वत एव निर्देशात्परस्पम् "अतोलोपः''आर्द्ध धातुक इति सनो1ZkArasya लोपः"आम'' इत्यामः परस्य लेर्लुक् प्रत्ययलक्षणत्वेन कृदन्तात्वादुत्पन्नस्य सुपः स्वारदिष्वामिति पाठदव्ययतृवाल्लुक् तत्र यद्यामा साहचर्यादमपि तद्धित एवेतृयुच्यते तह्रि "आम''इत्येव लुग्भाविष्यति लिङ्ग्रहणं तुलत्र विवर्त्तिष्यते अत्रामन्तस्याव्यक्तपदार्थक्त्वात्पदत्वाय प्रथमातिक्रमे कारणाभावात्सुरेवोत्पद्यते तस्य हल्ङ्यादिलोपः सिद्ध इति किं लुको विधानेतेति यदा तु प्रयोगवशाद् द्वित्वाद्यभिव्यक्तौ द्विवचनाद्युत्पद्यते तदर्थं लुगेषितव्यः कृञ् चानुप्रसयुज्यते लिटिआमन्तस्य पश्चादेवाव्यवहिता एव कृभ्वस्तय एव लिट्पराः प्रयोक्तव्याः बत्र " अभूततद्भावे कृभ्वस्तिः'' इतिकृशब्दस्य कृञा द्वितीयेति ञकारेण प्रत्याहारनिर्देशात् कृञिति कृभ्वस्तय उच्यन्ते ( बुभुषां चकार )बुभूषां बभूव अत्र मोनुस्वारःपरसवर्णविकल्पो भ्वति अनस्वारः पक्ष उदाहार्यः "आम्प्रत्ययवत् कृञोऽनुप्रयोगस्य'' इत्यत्र पूर्ववदित्यनुवृत्त्या पूर्ववत् कृञोऽनुप्रयोगस्येति द्वितीयोऽपि योगः संपद्यते तत्राद्य आम्प्रत्ययप्रकृतेरिवाकर्त्रभिप्रायेप्युनुप्रयुज्यमानस्य कृञ आत्मनेपदं प्रकरणिकं विधत्तं द्वितीये त्वर्थात् पूर्वस्येव कर्त्रस्येव कर्त्रभिप्राये परस्मैपदमित्यत्र आम्प्रकृतेः शेषत्वेन नित्यपरस्मैपदित्वात् कुञोऽपि परस्मैपदमेव इदमेव कृञ् ग्रहणमनुयोगे कृञिति प्रत्याहारण्हमिति ज्ञापयति अन्थाऽनुप्रयोगस्येत्त्येव ब्रूयात् ( बुभुषामास ) अत्र "अस्तेर्भूः'' इत्यार्द्धधातुके विषये विधीयमानो भूभावोऽनुप्रयोगे प्रत्याहारग्रहणसामर्थ्यादत्र भवति अन्यथा प्रतिपत्तिलाघवाय कृभ्वित्येव ब्रूयात् ( बुभषिता )इट्यतो लोपो गुणं परत्वाद् वार्णादाङ्गमिति वा बाधते ( बुभूष्यति ) बुभूषतु अवुभृषत् बुभूषेत् आशिषि ( बुभूष्यात् ) "अतो येयः'' न भवति, आर्द्धधातुकत्वात् अत्र अकृत्सार्वधातुकयोदीर्घःइति अकृद्यकारेऽसार्वधातुके च परेऽजन्तस्याङ्गस्य विधीयमानो दीर्घो [ सिज्लोप एकादेशे सिद्धो वक्तव्यः ] इति सिज्लोपस्य पूर्वत्रासिद्धत्वाभावात्सवर्णदीर्घः ( अबुभूषिषुः ) "सिजभ्यस्त'' अथात्मनेपदम् ( व्यतिबुभूषां चक्रे ) "आम्प्रत्ययवत्'' इति नित्यस्तङ् कृञः ( व्यतिबुभूषां बभूव आसेति वा व्यतिबुभूषिष्यते व्यतिबुभूषिषीष्ट व्यत्यबुभूषिष्यत ) सर्वत्र पूर्ववत्सनःइति तङ् सनः पूर्वो धातुर्येन निमित्तेनात्मनेपदी सन्नन्तमपि तेनेव तथेत्यर्थः अथ भावकर्मणोः ( बुभूष्यते त्वया अनुबुभूष्यते सुखम् ) बुभूषां चक्रे भवता अनुबुभूषां चक्रे सुखम् बुभूषामास इति वा ) इहानुप्रयुज्यमानस्थामन्तार्थाभिव्यक्तिमात्रकरत्वात् करोतेर्श्रावे, इतराभ्यामर्ककत्वाद् भाव उपपद्यते प्रयुज्यते चैवं "रोमन्थमन्रचलद्गुरुसास्नमासां चक्रे निमीलदलसेक्षणमौक्षेण' "प्रकाशेनाशे दिनकरकरान्विक्षिपद्विस्मिताक्षैर्न रेन्द्रैरौपेन्द्रं वपुरथ विशद्धाम वीक्षां बभूव' इति ह एतिइत्यस्तेर्हत्वं तासिसाहचर्यात्सार्वधातुकोत्तमैकवचने एवेतीह "लिटस्तज्ञयो'' इति तशद्वस्यैशीटश्चैत्वे न भवतीति के चित्तु तासेरुमत्तमैकवचनमेकारः संभवतीत्येतावन्मात्रसाहचर्याश्रयेण लिहुत्तमैकवचनेपि इत्वमिच्छन्ति तत्र साहचर्यसंकोचे कारणं न विज्ञः लृङ्लृटोराशीर्लिङि लुङि च कर्तृवदेव रूपम् न च चिण्वदिटि वृद्धौ च जतो युक् चिण्कृतोःइत्याकारान्तस्य चिणि ञ्णिति कृति च परे युको विधानाद्रपभेदप्रसङ्गः, "ण्यल्लोपो' इत्यादिना वृद्धेरतो लोपेन बाधस्योक्तत्वात् लुङेकवचने तु चिणो विधानात् तत्राबुभूषीति विशेषः तथा लोटि लङि विध्यादिलिङि कर्तृवत् प्रक्रिया यक् तु विशेषः कर्मकर्त्तरि [ भूषाकर्मकिरादिसनां चोपसंख्यानमन्यत्रात्मनेपदात् ] इति यक्चिणोर्निषेधात्सर्वत्र कर्तृवद्रपम् वत्करणात्स्वाश्रये भावे लकारे यक्चिणोविंषये कर्मवद्रपम् , कर्त्तरि तृतीया विशेषः ( अभिबुभूष्यते शत्रुणा स्वयमेवेत्यादि ) इच्छायाः कर्तृस्थत्वेन कर्मस्थत्वाभावेऽपीष्यमाणस्य प्राधान्यात्तस्य च कर्मस्थत्वादस्ति कर्मवद्भावः अत एव "भूषाकर्म'' इति यकचिणौ निषिध्येते अथ यङ् धातोरेकाचो हलादेः क्रियासमभिहारे यङ्पौनः पुन्यं भूशार्थां वा क्रियायां समभिहारस्तत्र द्योत्ये एवं विधाद्धातोर्यङ् स्यात्' द्विर्वचनादि पूर्ववत् गुणो यङ्लुकोःयङ्लुकि चाभ्यासस्येको गुण इति गुणः ( बोभूयते ) "अनुदात्तङित'' इत्यादिना ऽऽत्मनेपदम् यङो ङकारस्य गुणप्रतिषेधार्थत्वेनावयवे चरितार्थत्वान्न समुदायार्थत्वमिति यङन्तस्य धातोरङित्त्वात्कथमात्मनेपदमिति नाशङ्कयम्, तत्र धातुग्रहणाभावात् ङिन्मात्रात्परस्य तस्य तद्विधेः अनुदात्तेतो ये धातवो ङितश्चेति प्रायिकाभिप्रायं वृत्तिकारवचनम् अथ वा "ङितश्च'' इत्यत्र शब्दादित्यध्याहार्यम् अत एवानुदात्तेतो ङितश्च ये धातव इति नोक्तम् चङ्दिष्वतिप्रसङ्गपरिहारस्तत्र तत्र वक्ष्यते ( बोभूय्यते त्वया अनुबोभूय्यते सुखमित्यादि )सनन्तवत्प्रक्रिया कर्मवत्कर्मकतां लुङि तशब्दे "अचःकर्मकर्तरि'' इति चिणो विकल्पनात्पक्षे सिजपि भवति तेन ( अभ्यबोभूयि शत्रुः स्वयमेव, अभ्यभूष्ट इति च ) वत्करणाद्भावे लकारे नित्यं चिणेव अभ्यबोभूयि शत्रुणा स्वयमेवेति अथ यङ्लुक् यङोऽचिच यङोचि प्रत्यये नित्यं लुक् चकारेण बहुलग्रहणानुकर्षणादयं विकल्पेनानैमित्तिकोऽपि प्रत्ययलक्षणेन यङन्तत्वाद्धातुत्वे लडादि द्विर्वंचनम् आत्मनेपदं तु ङिन्मात्रात्तद्विधेः प्रत्ययलक्षणत्वाभावान्न भवति [ चर्करीतं परस्मैपदि अदादिवच्च ] इति वच नाद् अदिप्रभृतिभ्यः शपःइत्यदादिभ्य उत्तरस्य शपो विधीयमानो लुग्यङ्गन्तेऽपि भवति चर्करीतमिति यङ्लुगन्तस्य पूर्वाचार्यव्यपदेशः अत्र परस्मैपदीयानुवादोन विधिरित्याहुः यङोवाइति यङ्लुगन्तात्परस्य हलादेः पितः सार्वधातुकस्य वा ईडागमः ( बोभवीति बोभोति ) "भूसुवोस्तिङि'' इति गुणनिषेधोत्र न भवति "दाधार्त्ति'' सूत्रे बोभू त्विति ( 1 ) छन्दसि गुणाभावार्थान्निपातनाज् ज्ञापकात् इदमेव "प्रकृतिग्रहणे यङ्लुगन्तस्यापि ग्रहणम्'इत्यत्रज्ञापकम् ( बोभूतः बोभुवति ) अदभ्यस्तात्अभ्यस्तादङ्गात्परस्य प्रत्ययादेर्ज्ञकारस्यादित्यदादेशे उवङादेशः उभे अभ्यस्तम्अस्मिन्प्रकरणे ये द्वे विहिते ते उभे अपि समुदिते अभ्यस्तम् तथा जक्षित्यादयःषड्इति जक्ष एतदादयो जागृ दरिद्रा शास दीङ् वेवीङ् चकास् ( बोभवां चकार ) पूर्ववत् कृञोनुप्रयोगस्येति कृञो नित्यं परस्मैपदम् ( बोभविता बोभविष्यति बोभवोतु बोभोतु ) ( बोभूतात् ) इत्यत्र च ङिदित्यादित्यनुवृत्तेस्तस्य च श्रूयमाणस्य पितश्चोद्देश्योपादेयत्व्ययेन पिन्न ङित् इन्न पिदित्यर्थद्वयस्य भाष्ये समाश्रयणात्तातडः स्थानिवत्त्वप्राप्तं पित्त्वं ङित्त्वेनानवकाशेन निवार्यत इति ईडभावः ( बोभूहि ) "सेर्ह्मपिच्च'' इति पित्त्वनिषेधादीङ्गुणौ न भवतः ( बोभूवानि बोभवाव ) आहुतृतमस्य पित्त्वात् उवङ् बाधित्वा परत्वाद्गुणो भवति अहलादित्वादीडभावः ( अबोभवीतत् अबोभोत् अबोभूताम् अबोभवुः ) "सिजभ्यस्त'' इति जुसि "जुसि च'' इतीगन्तस्य गुणः ( बोभूयात् ) यासुटो ङित्त्वेन पित्त्वस्य निवर्त्तनादीटोभावः आशिषि त्वसार्वधातुक्वेन लिङः सलोपभावो विशेषः बोभूयुरित्यत्र जुस्भावे "उस्यपदान्तात्'' इति पररूपत्वम् यासुटो जुस्भक्तत्वेन "जुसि'' इतिगुणोत्र न भवति, येन नाप्राप्तिन्यायेन "सार्वधातुकमपित्'' इत्यदिष्टङित्त्वाश्रस्य निषेधस्यैव तेन बाधात्, तत्र "क्सस्याचि'' इत्यतोचीत्यधिकारादजादौ जुसि तद्विधाद्वा ( अबोभोत् अबोभूवीत् अबोभूताम् अबोभूवन् ) "गातिस्थ'' इति सिचो लुक्"यडो वा'' इतीटो विकल्पः सिचः प्रत्ययलक्षणेन "अस्तिसिचो'' इति नित्यस्तु न भवतिश्रूयमाणे सिचीत्युक्तत्वात् ईट्पक्षे "भुवो वुग्'' इत्यजादिलक्षणो वुङ्नित्यत्वाद्गुणं बाधते अबोभूवन्नित्यत्र सिचः प्रत्ययलक्षणेन "सिजभ्यस्त'' इति जुसभावः "आत'' इति नियमान्न भवति अभ्यस्ताश्रयस्तु विदिसाहचर्याल्लङ्विषयोपि स्यादिति वाच्यम् "विप्रतिषेधे परम्'' इति परसाहचर्यस्य बलीयस्त्वात् अबोभविष्यदित्यादि अथात्मनेपदम् ( व्यतिबोभूते व्यतिबोभुवाते ) अजादावुवङ् ( व्यतिबोभवांचक्रे व्यतिबोभवां बभूव ) "आम्प्रत्ययवत्'' इति कृञो नित्यं तङ् ( व्यतिबोभवितासे व्यतिबोभवां बभूव ) "आम्प्रत्ययवत्'' इति कृञो नित्यं तङ् ( व्यतिबोभवितासे व्यतिबोभविष्यते व्यतिबोभूताम् व्यतिबोभुवाताम् ) अजादावुवङ् उत्तमे पित्वाद् गुणः ( व्यतिबोभुवीत व्यतिबोभुवीयाताम् व्यतिबोभुवीय ) पूर्ववदजादावुवङ् आशिषि ( व्यतिबोभिविषीष्ट आर्द्धधातुकत्वादिङ्गुणौ ध्वमि "विभाषेटः'' इति मूर्द्धन्यविकल्पो द्रष्टव्यः व्यत्यबोभविष्ट ध्वमि पूर्ववन्मूर्द्धन्यविकल्पः ( व्यत्यबोविष्यत )भावकर्मणोः कर्मकर्त्तरि च ( बोभूयते त्वयेत्यादि ) सर्वं प्रकृतिवन्नेयम्,अभ्यास एको विशेषः अथ सत् ( बोभुवद् ब्राह्मणः ) उगिल्ल्क्षणो नुम् "नाभ्यस्तात्'' इति निषिध्यते ( बोभुवती स्त्री बोभुवती ( 1 ) ( 1 ) ब्राह्मण कुले ) स्त्रियां नपुंसकद्विचनयोश्च नित्यत्वादन्तरङ्गत्वाच्च नुमः पूर्वं शपो लुवयङ्गस्यानवर्णान्तत्वात् "आच्छीनद्योः'' इति विकल्पितो नुम् भवति नापि "शप्श्यनोः'' इति नित्यस्तस्यावर्णात्परशतृविषत्वात् न च प्रत्यलक्षणेनात्परत्वं, तस्याप्रत्ययलक्षणत्वात् ( बोभुवति कुलानि बोभुवन्ति कुलानि ) इत्यत्र तु शौ "नाभ्यस्तात्'' इति निषेधस्य "वा नपुंसकस्य'' इति विकल्पनात् पक्षे नुम् भवति ( व्यतिबोभुवानः ) लृडादेशस्य तु स्येन व्यवधानादभ्यस्तात्परत्वाभावात् "नाभ्यस्तात्'' इति निषेधो न भवति नापि "नपुंसकस्य'' इति, सर्वं प्रकृतिवत् अथ णिच् हेतुमति चस्वतन्त्रस्य कर्तृः प्रयोजको हेतुः तद्व्यापारःप्रेषणादिर्हेतुणिडोः सामान्यग्रहणाविघातार्थः सनाद्यन्तत्त्वाद्धातुत्वे लडादयः तेषां णिचश्चइति क्रियाफलस्य कर्तृगामितृवे तङ् अन्यथा तु परस्मैपदम् ( भावयते सस्यम् भावयति सस्यम् ) यदा तु फलस्य कर्तृगामित्वमुपपदेन प्रतीयते तदा "विभाषोपपदेन प्रतीयमाने'' इति परस्मैपदमपि भवति,( स्वस्य सस्यं भावयतीति ) यदा चित्तवंत्कर्तृकादकर्मकादस्माण्णिच् तदा क्रियाफलस्य कर्तृगामित्वेपि "अणावकर्मकाच्चित्तवत्कर्तृकात्'' इति परस्मैपदम् ( पुत्रं भावयतीति ) विभाषोपपदादप्ययमेवविप्रतिषेधेन ( स्वं पुत्रं भावयतीति ) गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्त्ता स णौइत्यणौ कर्ता णौ कर्म ( भांवयोचक्रे, चकार, बभूव, आस ) "अयामन्ताल्वाय्येत्त्विणुषु' इति आ मादिषु विधीयमानो णरेयादेशो णेरनिटिइत्यनिडादावार्द्धधातुके विधीयमानं णिलोपमपवादृत्वाद्वधते यदायं ण्यन्तः चित्तवत्कर्तृकत्वेन नित्यं परस्मैपदी तदा तु प्रयुक्तः करोतिरपि पूर्ववत् कृञोनुप्रयोगस्येति निन्नेन कल्पितेन योगेन परस्मैपद्येव ( भावयिता ) इत्यादि प्रकृतिवत् अगशीर्लिङि "णेरनिटि'' इति णिलोपः, स च "अकृत्सार्वधातुकयोः'' इति दीर्घं ण्यल्लोपावित्यादिना बाधत इति भाव्यादित्यादि भवति आत्मनेपदे त्विडादित्वाण्णिलोपो नेति गुणायादेशयोर्भावयिषीष्टेत्यादि ध्वमि "विभाषेटः'' इति मूर्द्धन्यविकल्पः लुङि "णिश्रिद्रुस्रुभ्यःकर्तरि चङ्'' इति सिजपवादश्चङ् चकारडकारौ विशेषणार्थौ, णिलोपः णौ चङयुपधाया ह्रस्वःइति चङ् परे णावङ्गस्योपधाया ह्रस्वः चङिइत्यनभ्यासस्य धातोः प्रथमस्यैकाचो ऽजादेस्तु द्वितीयस्येति द्विर्वचने कर्त्तव्ये णौ कृतं स्थानिवदिति रूपस्थानिवत्त्वे भूशब्दो भौशब्दो वा द्विरुच्यते तत्र भौशब्दस्य द्विर्वचनपक्षेऽपि "ह्रस्वः'' इति भौशब्दस्य हस्वो भवत्येव "एचइग्घ्रस्वादेशे'' इति नियमादिग्भावान्नान्तरतम्यादुककारः तस्य च ओः पुयण्ज्यपरेइतीकारः उवर्णान्तस्याभ्यासस्यावर्णपरे पवर्गे यणिजकारे च परत इकार इति सूत्रार्थः तस्य दीर्घो लघोःइति दीर्घः चङपरे णौ यदङ्गं तदभ्यासस्य लघोर्लघुनि धात्वक्षरे परे दीर्घो भवति अनग्लेप इति सूत्रार्थः इदमेवेत्ववचनं णौ कृतस्य स्थानिवत्त्वे अन्यथोवर्णान्ताभ्यासो न कश्चिदपि स्यात् नन्वत्र सन्वल्लघुनि चङ्परे ऽनग्लोप'' इति चङ्परे णौ यदङ्ग तदभ्यासस्य लघुनि परेऽनग्लेपे सन्वत्कार्यातिदेशादित्वं सिद्धम्, सन्वत्कार्यं चेत्वमेव सन्यतःइति सनि परेऽभ्यासाकारस्येत्वविधानात्किं णौ कृतस्य स्थानिवत्त्वेन येन पुयण्जीति वक्तव्यं स्यात्सत्यम्, अत्र सन्वद्भावेनापि सिद्धति, जुहावयिषतीत्यादावप्येवं स्यात् ( अबीभवत् ) नन्वत्र यङ इव चङो ङित्त्वेन तङ स्यादिति चेत्, न विकरणात्पूर्व नियमाप्रवृत्तेः अत्र च ज्ञापकं "वृद्द्भः स्यसनोः'' इति स्यसनोस्तङो विकल्पनम् पूर्वं तु विकरणे तेन व्यवधानान्नानुदात्तेनानन्तरस्तङस्तिनापि शेषादित्यात्मनेपदपरस्मैपदनियमयोरत्राप्रसङ्गादेवात्मनेपदपरस्मैपदयोर्लस्य इति सामान्येन लसिद्धेः किमनेन विकल्पवचेनन अथ कर्मणि ण्यन्तस्य सकर्मकत्वाद्भावासंभवः तत्र लट्लोलङविध्यादिलिडश्चु यकि विकरणे णिलोपे ( भाव्यते भाव्यताम् अभाव्यत भाव्येत इत्यादि ) अतो ऽन्येषु लुङ्व्यतिरिक्तेषु कर्तृवद्रपूम् उलङि तु र्करि चङो विधानात्सिजेव तशब्दे तु चिणि ( अभावि अभावयिषातामित्यादि ) तत्र चिणि णिलोपः अन्यत्र गुणयादेशौ, घ्वमि "विभाषेट'' इति मूर्द्धंन्यविकल्पः स्यादिषु चिण्वदिट्पक्षे "असिद्धवदत्राभात्'' इति चिण्वदिटो ऽसिद्धत्वाण्णिलोपे ( भाविष्यते अभाविष्यत अभाविषाताम् भाविषीष्ट भाविता ) इत्याद्यपिद्रष्टव्यम् अत्रापि षीध्वंलुङोर्धकारस्य पूर्ववद्वा मूर्द्धन्यः कर्मकर्त्तरि तु यक्चिणोः प्रतिषेधे [ णिश्रन्थिग्रन्धिब्रुञात्मनेपदाकर्मकाणामुपसङ्ख्यानम् ] इति यक्चिणोर्निषेधाद्यथायोगं सर्वत्रकर्तृवद्रपं स्यादिषु तु कर्मवत् वतृकरणाद्भावे तु ( 1 )( 1 ) लकारे कर्मवदुदाहार्यं, कर्त्तरि तृतीया विशेषः णिश्रन्थाति यक्चिणोर्निषेधः कर्मकर्त्तरीति लस्य ( 2 ) एव ( 2 ) इहस्त एव इति कचित्पाठः अथ कृतः प्रदर्श्यन्ते भव्यं भवता अनुभव्यो घटः "अचोयत्'' इति यत् अयं "कर्त्तरि कृत्'' इति कर्त्तरि प्राप्तोऽपि कृत्याः प्राङ् ण्वुलःइति तव्यादीनां ण्वुलः प्राचांकृत्यसंज्ञाविधानात् "तयोरेव कृत्यक्तखलर्याः'' इति भावकर्मणोर्नियम्यते "भव्यगेयप्रवचनीयोपस्थानीयजन्याप्लाव्यापात्या वा'' इतिनिपातनात् कर्तरि अपि भवति अत्र वाग्रहणात् "तयोरेव'' इति सामान्यस्य बाधां विज्ञापयति उदाहरणेषु गुणे "वान्तो यि प्रत्यये''इत्यवादेशः अत्र वान्त इति पूर्वसूत्रनिर्द्दिष्टाववावुच्येते, तौ च तत्र यथासंख्यादोदौतोरितीहापि तथैव अनेन विशेषविहितेन यता सामान्यविहितानां तव्यत्तव्यानीयरां न बाधः वाऽसरूपो ऽस्त्रियाम्इत्यस्त्रयधिकारविहितस्यासरूयप्रत्ययस्य पक्षे बाधकत्वावचनात् तव्यतव्यतोः स्वरे षष्ठीसमासनिषेधे च विशेषः ( भवितव्यं, भवनीयम् ) अनीयरो रेफ "उपोत्तमंरिति''इत्युपोत्तमस्योदात्तार्थः अवश्यभाव्यम् पूर्ववदनेनापि तव्यादीनां न बाधः यत्तु सरूपत्वाद्वाध्यते "नानुबन्धकृतमसाप्युक्तम् अवश्यमो मकारस्य "लुम्पेदवश्यमः कृत्ये तुंकाममनसोरपि''इति समासे लोपः समास्तु "मयूरव्यंसकादयश्च'' इति तत्पुरुषः मयूरव्यंसकादिराकृतिगणः देवभूयं गतः देवत्वं गत इत्यर्थः "भुवो भाव'' इत्यनुपसर्गे सुबन्त उपपदे भुव क्यप् कित्त्वान्न गुणः देवत्वं गत इत्यर्थः "भुवो उपपदमतिङ्इति तत्पुरुषो नित्यं समासः उपपदं सुबन्तं समर्थेन नित्यं समस्यते समासोतिङन्तश्चेतिसूत्रार्थः इदमेवातिङ्ग्रहणमत्र सुपेत्यस्यासम्बन्धे ज्ञापकम्, तथा योगविभागेन "कुगतिप्रादयः'' इत्यत्रापि सम्बध्यत इति तत्रापि सुपेत्यस्यासम्बन्धं ज्ञापयति "तेन गतिकारकोपपदानां कृद्भिः सह समासवचनं प्राक् सुबुत्पत्तेः' इति पूर्वाचार्यपरिभाषार्थः संगृहीतो भव्ति अस्य प्रयोजनमुत्तरत्र दर्शयिष्यते तत्रोपपदं सप्तमीस्थम्इति तृतीये धात्वधिकारे सप्तम्या निर्हिष्टस्योपपदसंज्ञा धात्वधिकारादेव तृतीये धात्वधिकार इति सिद्धे तत्रग्रहणं योगविभागेनाधिकृतेन प्रत्ययपदेन सम्बध्यते तेनायमर्थस्तत्रोपपदे सत्येव प्रत्यय इति ( अभिभावी ) अभिभूतवानित्यर्थः ( अभिभावीभूत इति )ग्रहादौ णिन्यन्तो निपातितः ( परिभवी परिभावी ) अत्रैव निपातनाण्णिनौ पक्षे वृद्धयभावः ( अभावी ) "अचामचित्तकर्तृकाणाम्'' इति ग्रहादिपाठाण्णनिः अत्र प्रतिषिपद्धानामित्यनुवृत्तेरयं प्रत्ययो नञ् पूर्वादेव नञ्नञ् समर्थेन सुबन्तेन समस्यत इति तत्पुरुसमासः " लोपो नञः'' इति उत्तरपदे नलोपः "सर्वनामस्थाने चासम्बुद्धौ'' इति नान्ताङ्गात्वादुपधादीर्घः सर्वत्र, "इन्हपूषार्यम्णां शौ'' सौ च'' इति उपधालक्षणदीर्घमात्रस्य शौ सावेवेति नियमादभिभाविनावित्यादौ न भवति पदान्ते "न लोपः प्रातिपदिकान्तस्य'' इति नलोपः संबुद्धौ तु "न ङिसंबुद्धयोः'' इति निषेधान्न भवति परिपूर्वत्वे प्रातिपदिकान्तनुम्विभक्तिषु चइति समासप्रातिपदिकान्तस्य नकारस्य नुम्विभक्तिस्थस्य पूर्वपदस्थान्निमित्तादुत्तरस्य वा णत्वविधानात् पक्षे परिभाविणाविति णकार उदाहार्यः सम्बुद्धौ तु "पदान्तस्य'' इति निषेधः ननु च विल्पमपवादत्वाद्वाधित्वा "कृत्यचः'' इति उपसर्गस्थान्निमित्तात्परस्य कृत्स्थस्याचः परस्य नकारस्य नित्यं विधीयमानं णत्वं स्यात् तच्च "सन्मानाऽनीयानीन्निष्टादेशा' इति प्रतिपदं परिगण्यते न चापवादेषु पूर्वत्रासिद्धत्वप्रसङ्गः नैष दोषः "कृत्यचः'' इत्यस्य "न भाभूपूकमिगमिप्यायीषेपाम्''इतिनिषेधात् स्त्रियाम्"ऋन्नेभ्योडीप्'' (अभिभाविनीत्यादि) नपुंसके स्वमोर्लुकि नलोपः संबुद्धौ तु "वा नपुंसकानाम्''इति नलोपः ( अभिभाविन्नित्यादि ) शौतु "इन्हन्पूषार्यम्यां शौ'' इति दीर्घे ( अभिभावीनीति ) वासरूपविधिना सर्वत्रात्र "ण्वुल्तृचौ'' अपि भवतः ( अभिभावकः अभिभवितेत्यादि ) तत्र ( 1 ) ( 1 ) ण्वुलः "युवोरनाकौ'' इत्यकादेशः यु वु इत्युत्सृष्टानुबन्धयोः प्रतिज्ञातानुनासिकयणोः प्रत्यययोर्ग्रहणम् तृचि तु ऋदुशनस्पुरुदंसोनेहसां चइति असंबुद्धौ सावृकारान्तानामुशनसादीनां चाङ्गानां विधीयमानोऽनङित्त्वादन्त्यादेशः अप्तृन्तृच्स्वसृनप्तृनेष्ष्टृत्वष्टृक्षत्रुहोतृपोतृप्रशास्तॄणाम्इत्यबादीनामङ्गानामुपधायाः सम्बुद्धिवर्जिते सर्वनामस्थाने दीर्घविधानाद्दीर्घे नलोपः अत्र चासम्बुद्धौ "नोपधाया'' इति नान्तलक्षणो वा दीर्घः द्विवचनादौ ससर्वनामस्थाने संबुद्धयेकवचने च "ऋतो ङ सर्वनामस्थानयोः'' इति गुणः स च उरण् रपरःऋर्वणस्य स्थाने ऽण् प्रसज्यमान एव रपर इति रपरः तत्र सम्बुद्धौ "रात्सस्य'' इति हल्ङ्यादिना वा सुलोपे ( हे अभिभविन् )अन्यत्र सर्वनामस्थानेऽपि"अपतृन्" इतिदीर्धे ( आभिभवितारावित्यादि ) अभिभवितृनित्यत्र पूर्ववर्णदीर्धे "तस्माच्छसोनः'' इति नत्वे "पदान्तस्य''इति णत्वनिषेधः ( अभिभवित्रा ) ( अभिभवितृभ्यामित्यादि ) अजादौ यग् ङसिङसोस्तु तयोरकारस्य ऋकारस्य च"ऋत उत्'' इति उकार उभयोःस्थाने भवन्नप्यसावृकारस्थानिकोऽपीति पूर्ववद्रपरत्वे सलोपः अभिभवितॄणामिति "क्षुभ्नादिषु च'' इति णत्वनिषेधे नृनमनतृप्नोतिग्रहणादृवर्णगतोऽपि रेफोणत्वनिमित्तमिति" इति णत्वे "नामि'' इति दीर्घः अभिभवितरि "ऋतोङि''ति गुणः स्त्रियाम् "ऋन्नेभ्यो ङीब्'' इति ङीप् अभिभवित्रीत्यादि नपुंसके पूर्ववत्स्वमोर्लुक् अभिभवित औडः शीभावे "इकोचि विभक्तौ'' इति नुम् अभिभवितृणी शौ "नपुंसकस्य ज्ञलचः'' इति नुमि "सर्वनामस्थाने चासंबुद्धौ'' इति दीर्घे अभिभिवितॄणि अथं नुम् [ वृद्ध्यौत्वतुज्वद्भावगुणेभ्यो नुम् पूर्वविप्रतिषेधेन'' ] इति "ऋतो ङि'' इति गुणं बाधते तृतीयाजादौ तृतीयादिषु भाषितपुंस्कं पुंवद्भालवस्यइति समानायामाकृतौ भाषितपुंस्कस्येगन्तस्य नपुंसकस्य पुंवद्भावविधानात् पुं सीव पक्षे नुमभावात् ( अभिभवित्रा अभिभवितृणा, इत्याद्युभयमपि ) आमि [नुंमइरतृज्वद्भावेभ्यो नुटृ पूर्वविप्रतिषेधेन] इति नुटि "नामि''इति दीर्घः भवतीति ( भावः भवतेश्च] इति वक्तव्यात्पक्षेणः तस्याभावेऽज्विधिः सर्वधातुभ्य इत्यदि ( भवः आशितो भवत्यनेनेति आशितंभवः ओदनः आशितस्य भवनमाशितंभवः ) "आशिते भुवः करणभावयोः'' इति खच, उपपदसमासः अरुर्द्वषदजन्तस्य मुम्इति खिदन्त उत्तरपदे ऽजन्स्य पूर्वस्यान्तृयादचः परो मुमागमः ( आढ्यमविष्णुः आढ्यंभावुकः ) अनाढ्य आढ्यो भवतीत्यर्थे "आढ्यसुभगस्थूलपलितनग्नान्ध_रिये'' इति च्वयर्थेष्वच्च्यन्तेषूपपदेषु "कर्तरि भुवः खिष्णुच्खुकञौ'' इति कर्त्तरि कारके खिष्णुच्खुकञौ उभयत्र खित्त्वात् पूर्ववद् मुम् खुकञो ञित्त्वाद्वृद्धिः सुभगादिष्वप्येवमुदाहार्यम् भविष्णुः भुवश्च''इति तच्छीलतद्धर्मततृसाधुकारिष्विष्णुच् अस्य भाषाविषयत्वं चान्द्रा इच्छन्ति भाष्यादौ छान्दसत्वमेव स्पष्टम् तच्छीलादौ तच्छब्देन धात्वर्थ उच्यते तत्र फलनिरपेक्षप्रवृत्तिः तच्छीलः धात्वर्थः कुलक्रमागतो धार्मो यस्य स तद्धनां धात्वर्थं सकृपि यः साधु करोति स तत्साधुकारी अत एव "श्र्युकः किति'' इतीटो निषेधः ( भावुकः ) "लषपतपदस्थाभूवृषहनकमगमशॄभ्य उकञ्'' इति तच्छीलादावुकञ् ञित्त्वाद्वृद्धिः ( परिभवी ) "जिदृक्षिविश्रीण्वमाव्यथभ्यमपरिभूप्रसूभ्यश्च'' इति तच्छीलादाविनिः इकारो नकारपरित्राणाय वासरूपविधिना परिपूर्वादप्युकञ् भवति ( परिभावुक इति विभूर्नाम कश्चित् ) प्रतिभूर्धनिकाधमर्णयोर्मध्यस्थः "भुवुः संज्ञान्तरयोः'' इत्यनयोर्गम्यमानयोः क्किप् अन्रशब्देन धनिकाधमर्णयोर्मध्यस्य उच्यते संज्ञान्तरे स्वभावादुपसर्गनियमः, कित्त्वान्न गुणः इकारो "वे''इति सामान्यग्रहणार्थः पकारस्तदाविघातार्थः वकास्य "वेरपृक्तस्य'' इति लोपः ( विभुवौ )इत्यादौ ओः सुपिइति धातोरवयवः संयोगो यस्मादुवर्णात्पूर्वो नास्तितदन्तस्यानेकार्चोऽङ्गस्याजादौ सुपि यणिति प्राप्तस्य यणो "न भूसुधियोः'' इति निषेधादुवङ् वर्षासु भवतीति ( वर्षाभूः वर्षाभ्वौ वर्षाभ्वः ) पूर्ववत् क्किप् संज्ञायाम्अस्यां सप्तम्यन्तं समस्यत इति तत्पुरुषः "क्किप् च'' इति सोपपदनिरूपपदसाधारणे सर्वधातुविषये क्किप्युपपदसमासो वा "वषांभ्वश्च'' इत्यजादौ यण् चशब्दो दृन्कारपुनः पूर्वम्य च भुवो यणर्थः दृन्भूशब्दो दृनभू इति निपातितः अत्र तु भूषब्दस्यानर्थकत्वात् "नभूसुधियोः'' इत्यत्र ग्रहणाभावः सिद्ध इति कैयटे ते न "ओः सुपि'' इत्स्याप्रवृत्तौ "इको यणचि'' इत्येव यण् सिद्ध इत्यर्थः दृम्भू इति मान्तमेके पठन्ति अनुस्मृतौ कारशब्दस्य स्थाने करशब्दः( 1 ) ( 1 ) प्रयुज्यते पठ्यते दृन्पुनः करवषांसु भुव इति कारशब्दस्यैकदेशविकृतस्यानन्यत्वात् सिद्धमिति तद्विवृत्तौ अत्र क्षीरस्वामिसुभूतिचन्द्रप्रभृतयो भेके वर्षाभूशब्दं हस्वान्तं प्रतिपद्यन्ते अत एव स्त्रियां "शिली गणडूपदी भेकी वर्षाभ्वी कमठी डूलिः'इति"भुवश्च'' इति उकान्तलक्षणं ङीषं पठन्ति "वर्षाभ्वश्च'' इति अत्र वर्षासु भवतीति वर्षा वा भवति प्राप्नोतीति वर्षाभूरोषधिविशेष इत्यर्थविशेषमभिदधानस्य कैयटस्याप्ययमेवाशयोलक्ष्यते तथा भागुरिरपि हस्वान्तं मन्यते यथाह च भार्या भेकस्य वर्षाभ्वी शृङ्गी स्यान्मद्गुरस्य तु श्यिली गणडूपदस्यापि कच्छपस्य दुलिः स्मृता इति यादवप्रकाशस्तु भके ऽप्युकारान्तमाह भेक्यां पुनर्नवायां स्त्री वर्षाभूर्ददुरे( 2 ) ( 2 ) "नषाण्'' इति क्वचित् षणीति तथा सुबोधनीकारोपि भुवश्चेत्युदन्तान् ङीष्विधानात् वर्षाभ्वीति पाठो न युक्तः युक्तस्तु पाठो वर्षाभूकमठी डुलिरिति एवमेवोक्तं प्रक्रियारत्नेपि वर्षासु प्रावृषिभवतीति वर्षाभूर्मण्डूकः पुंस्त्री, तेनास्त्र्यख्यत्वादत्र इस्वादय इति नदीसंज्ञायामाख्याग्रहणं नियतस्त्रीलिङ्गपरिग्रहार्थमिति तन्मतम् कैयटेऽप्येवसमुक्तम् आरख्याग्रहणसामर्थ्यान्नियम आश्रीयते स्त्रियमेव यावाच्क्षाते न तु लिङ्गान्तरयुकृतमपीत्यर्थ इति उक्तं च तत्र इष्वशनिप्रभूतीनामुभ्यलिङ्गानां पदृवादीनां च गुणवचत्वात्सर्वलिङ्गानां स्त्रीविषयत्वाभावात् स्त्रियां वृत्तौ नदीसंज्ञा न प्राप्नोति, एवं तहि "ङिति ह्रस्वश्च'' इत्यत्रैवेविधो नियमो नाश्रीयत केवलस्य स्त्रीशब्दस्यानुवर्त्तनादित्यदोष इति हरदत्तस्तु पदान्तरमनपेक्ष्य स्त्रीवचनानां ग्रहणार्थमाख्याग्रहणं न तु नियतस्त्रीवचनानामित्याह यद्वा पदान्तरमनपेक्ष्य स्वयमेव यौ स्त्रियमाचक्षाते इतृयाश्रीयते इष्वशनिप्रभृतीनामुभयलिङ्गानां शब्दार्थ एव स्त्रीत्वमिति संज्ञा भवति एवं पटुशब्दप्रभृतीनां गुणवचनानामपि शब्दार्थ एव स्त्रीत्वम् तथा व पदुरानीयतामित्युक्ते स्त्रियमप्यानीय कृती भवतीति पुनश्चैवमाह नियतस्त्रीवचचनानां ग्राहणाथेमाख्याग्रहणमिति वदतां मते आङ्पूर्वाद्धायतेः क्किपि संप्रसारणे आध्यै ब्राह्मण्यै अत्रापि भाष्कारोदाहृते न स्यात् तस्मात्पूर्वं एव प्रकार आश्रयणीयः कथं तर्हि प्रत्युदाहरणं ग्रामण्ये स्त्रियै खलप्वे स्त्रियै इति, उच्यते क्रियाशब्दत्वेप्यनयोः पुंसि मुख्या वृत्तिः, पुंसामेव खल्विदमुचितं यत् ग्रामनयनं नाम एवं खलपवनमपि एवं खलपवनमपि आध्यानं तु स्त्रीपुंससाधारणमिति विशेष इति न्यासे उद्योतादाप्येवमुक्तम् वृत्तिकारस्याप्ययमेव पक्षोभिमतः यदाह आख्याग्रहणं शब्दार्थे स्त्रीत्वे यथा स्यात्पदान्तरद्योत्ये मा भूदिति प्रक्रियारत्ने त्वाधीशब्दो नित्यस्त्रीवचन इति नदीसंज्ञासिद्धिरुक्ता एवं च हरदत्तादिमते वर्षाभृशब्दस्य भेकाभिधानेपि नदीसंज्ञया भाव्यमिति तन्निबन्धनानि हस्वादीनि भवन्ति कैयटसुभूतिचन्द्रादीनां मते नदीसंज्ञायां न विवादः, ऊकारान्तस्यौषाधिविशेषवाचित्वेन नियतस्त्रीविषयत्वात् एवं च प्रक्रियारत्नेनोक्तो नदीसंज्ञाभावः "त्यजेदेके कुलस्यार्थे' इति न्यायेन त्याज्यः षष्ठीबहुवचने तु परत्वात् नित्यत्वाच्च नुटि कृते तस्य विभक्तिस्थत्वात् एकाजुत्तरपदेणइति णत्वम् एकाज् उत्तरपदं यस्य तस्य प्रातिपदिकान्तनुम्विभक्तिस्थस्य पूर्वपदस्थान्निमित्तस्य णत्वमिति सूत्रार्थः ( इभुः प्रभुः संभुः ) विप्रसंभ्यो ङ्वसंज्ञायाम्इति व्यादिभ्यः परस्माद्भुवो डुप्रत्ययः, डित्त्वाट्टिलोपः ( शंभुः ) [ मितद्रूवादिभ्य उपसंख्यानम् ] इति डुः मुखरूपो भवतीत्यर्थः यद्वान्तर्भावितण्यर्थो भवतिः तेन सर्वेषां सूत्रं भावयतीत्यर्थः यद्वा शमेर्ण्यन्तात् "अन्येभ्योऽपि दृश्यत'' इति विचि (शंशमयिता रोगाणां भवतीति शंभुः) श्रूयते च "भिषक्तमं त्वा भिषजां शृणोमि त्वादत्तेमी रुद्र शंतमेभिः शतं हि मा त्र्यशीय भेषजेभिः अध्यवोचदिध वक्ता प्रथमो दैव्यो भिषगिति' शंभवत्यस्मादिति व्युत्पत्तिरपादाने डुप्रत्ययाभावाच्चिन्त्या ( विभ्वी प्रभ्वी संभ्वी ) "भुवश्च'' इति भवतेरुदन्तस्यानुपसर्जनस्य स्त्रियां ङीष् उपसर्जनत्वे त्वतिविभुब्रांणीति ङीष् न भवति भविष्यतीति ( भावी ) "भुवश्च'' इत्यौणादिक हनिर्णिठ्ठद्वा तेन वृद्धिः अथं च "भविष्यति गम्यादय'' इति गम्यादिषु पाठाद् भविष्यत्कालविषयः भावं, "श्रिणीभुवोनुपसर्गे'' इति अकर्त्तरि च कारके भावे धञ् उपसृष्टात्तु "ऋदोरप्'' इत्यप् ( प्रभव इति ) ऋदिति दकारो मुखमुखार्थ इत्योरिव्युकार ऊकारमपि गृह्णाति प्रभाव इतृयत्र तु प्रकृष्टो भावः प्रभाव इति प्रत्ययार्थ एव प्रशब्देन विशेष्यते न प्रकृत्यर्थ इत क्रियायोगाभावावदनुपसर्गत्वाद् घञ्सिद्धिः विभावानुभावशब्दौ विभावयतीति ण्यन्तादिचि व्युत्पाद्यौ ( परिभावः )"परौ भुवोवज्ञज्ञने'' इति पक्षे घञपौ उपसर्गस्य घञ्यमनुष्ये बहुलम्इति घञन्त उत्तरपदे पूर्वोपसर्गस्य वा दीर्घोऽमनुष्ये विषये भूतिः स्त्रियां क्तिन्इत्यकर्त्तरि च कारके भावे च सर्वधातुभ्यः क्तिन् "मन्त्रे वृष'' इत्यादिना भुवः क्तिन्, उदात्तवचनमस्य नित्त्वात् "ञ्नित्यादिर्नित्यम्'' इत्याद्युदात्तत्वव्युदासार्थम्, न तु भाषायां प्रयोगनिवृत्त्यर्थम् प्रयुज्यते च भाष्ये "सर्व इमे स्वभूत्यर्थे प्रवर्त्तन्त' इति ( भूः ) [ संपदादिभ्यः क्किब्वक्तव्यः ] इति क्किप् क्किपः सर्वस्य लोपः भवत्यस्मिन्ननेनेति वा भावः पुंसि संज्ञायां घः प्रायेणइति पुंल्लिङ्गन्योः करणाधिकरणयोर्घः प्रायग्रहणं क्क चिदसंज्ञायामपि यथा स्यादिति ( अनाढ्येना ( 1 ) ( 1 ) दुःखेन नायासेनाढ्येन भूयते ईषदाढ्यंभवं भवता, स्वाढ्यंभवं भवता अनाढ्येनाढ्येन भूयते दराढ्यंभवं भवता ) कर्तृकर्मणोश्च भूकृञोःचव्वर्थविषयकर्तृकर्मणोरीषादादिषु चोपपदेषु भूकृञोः खलिति खल् तत्र भुवोऽकर्मकत्वात्कर्त्तरि भावे प्रत्ययः करोतेश्च कर्मणि स्वभावात् कृच्छ्रग्रहणं दुरो विशेषणम् अकृच्छ्रग्रहणं त्वितरयोः खित्त्वान्मुम् नन्वत्र धात्वर्थमात्रं विइंषित ईषतो गत्योरपि सुदुरोश्च कथं व्यवहितप्रयोगः न च मुमर्थात् खित्करणादिति वाच्यम् "खित्यनव्ययस्य'' इत्यत्र कृद्ग्रहणपरिभाषाया उपस्थानात्सगतिके खिदन्त उत्तरपदे मुमथ्रतृवस्य संभावात् न चैवं वाच्यं "हृदयस्य हृल्लेख'' इत्यत्राण्ग्रहणादेवाणन्तस्य ग्रहणे सिद्धे पुनर्लेखग्रहादाधिकारेपीह प्रत्ययग्रहणपरिभाषाया अप्रवृत्तेज्ञांपनात्तदभावात्तद्विषया कृद्ग्रहणपरिभाष कथं वर्त्तत इति यते मुम्यव्ययात्परस्य खितोऽसंभवात्तदन्तस्य च संभवादनव्ययस्येति निषेधसामथ्यांदुत्तरपदाधिकारेपीह प्रत्ययग्रहणवरिभाषया अवश्यमुपस्थातव्यं ततश्च तद्विषया कृद्ग्रहणपरिभाषाऽप्युपसास्ते एवं तर्हि भाष्ये ईषदाढ्यंभवमित्यादेरुदाहृतत्वात् प्रयोगनियमः अवत्सरयादौ प्रधानभूतच्छप्रत्ययार्थेनान्वीयमानस्य नञ् शब्दान्तेन समासवत् खिदन्तर्थोनान्वीयमानस्यापीषदादेः खिदन्तान्तेनापि( 1 ) ( 1 ) समास इति क्वचित् पाठः सः कैयटे तु खित्करणादेव कर्तृ कर्मणोः पूर्वप्रयोग उक्तः तस्यायं भावः अनव्ययस्येति निषेधसामर्थ्यादेव तदन्तत्वलाभः नन्वस्मादेव प्रतिषेधादिहोत्तरपदाधिकारेपि ज्ञापितया प्रत्ययग्रहणपरिभाषया यतस्तद्विषया कृद्ग्रहणपरिभाष्या प्रवर्त्तेतेति ( मुखतोभूत्वा, मुखतोभूय, मुखतोभावम् ) स्वाङ्गे तम्प्रत्यये कृभ्योःइति तस्प्रत्ययान्ते स्वाङ्ग उपपदं क्त्वाणमुलौ, तत्र "तृतीयाप्रभृतीन्यन्यतरस्याम्'' इति "उपदंशस्तृतीयायाम्'' इत्येतदारभ्योपपदानाममैव तेन चान्येन च तुल्यविधानानाममन्तेन समासतविकल्पनान्मुखतोभावमित्येके पदं द्वे वा पदे क्त्वान्तेनापि तृतीयाप्रभृतीनामुपपदानां "कत्वा च'' इति इति समासविकल्पनात्तत्पक्षे "समासेऽनञ् पूर्वं क्त्वो ल्यप्'' इति ल्यबादेशः अत्रानञिति नञ् सदृशमव्ययं परिगृह्मते कृन्मेजन्तः"क्त्वातोसुन्कसुनः''इति णमुल्कत्वान्तयेरव्यत्वात्सुपो लुक् स्थानिवत्त्वेन ल्यबन्तमव्ययम् ( विलाभूय, विनाभूत्वा, विनाभावं, नानाभूय, नानाभूत्वा, नानाभावम् एकधाभूय एकधाभूत्वा, एकधाभावम् ) नाधार्थप्रत्यये च्वयर्थेइति नाधार्थप्रत्ययान्ते च्वयर्थविषये उपपदे कृभुवोःकत्_वाणमुलाविति तौ नाशब्देन "विचञ् भ्यां नानाञौ नसह'' इति विहितौ नानाञावुच्येते धाशब्देन "संख्याया विधार्थे धा'' "अधिकरणविचाले च'' इति विहितो धाप्रत्यय उच्यते तत्र विधा नाम प्रकारः, सामान्यस्य भेदाको विशेषः अधिकरणविचालोप्यधिकरणं द्रव्यं तस्य विचालः( 2 )' ( 2 ) संख्यान्तरापादनम् एकस्यानेकीकरणे द्विधाभूयेत्यादो द्रष्टव्यम् ये तु धाप्रत्ययस्यादेशा एकाद्धो ध्यमुञन्यतरस्यान्द्वित्र्योश्च ध्मुञ्एधाच्चइतिविहिता ध्यमुञादयस्तेषामपि स्थानिवत्त्वेन धाग्रहणेनग्रहणात्तदन्ते वोपपदे भुवः क्त्वाणमुलौ भवत इत्यमुञन्तात्स्वार्थे डदर्शनमिति यदा डप्रत्ययः स्यात् तदर्थं, सहि स्वार्थिकत्वात् धार्थः यथा नाञर्थमपि अन्यथा सानुबन्धकत्वादपि नानाशब्दो न गृह्मेत ( तूषर्णीभूय, तूर्ष्णी भूत्वा तूर्ष्णीभावम् ) "तूष्णीमि भुवः'' इति क्त्वाणमुलौ ( अन्वग्भृत्वा, अन्वग्भावम् ) "अन्वच्यानुलोम्ये'' इति कत्वाणमुलौ आनुलोम्यमनकृलता नाधेत्यादियोगत्रयविषयेपि "तृतीयाप्रभृतीनि'' इति समासविकल्पो द्रष्टव्यः ( भूतो घटः भूतं घटेन ) अत्र "निष्ठा'' इति भूते विहितस्य क्तस्य गत्यर्थादिपरत्वे गत्यर्थाकर्मकश्लिषशीङ्स्थासवसजनरुजीर्यतिभ्यश्चइति कर्त्तरि चकाराद्भावकर्मणोश्च विधानाद् भुवश्चाकर्मकत्वात्कर्तृ भावावर्थौ, अयं च "नपुंसके भावे क्तः'' "ल्युट् च'' इति क्तल्युटौ न बाधते, यतस्तयोर्धात्वर्थस्य सिद्धता विषयः अस्य तु धात्वर्थमात्रम् इति विषयभेदस्तेन घटस्य भूतं भवनमिति भवतः क्तयोगे कर्त्तरि षष्ठ्या "न लोकाव्यय'' इति निषेधो न भवति ( नपुंसके भावे क्त उपसंख्यानम् ) इति तद्विधानात् शेषविधानाद्वा त्सिद्धिः इदमेषां भूतं "क्तक्तवतू निष्ठा'' "निष्ठा'' इति ध्रौव्यादिभ्ये विहितस्य क्तस्य "कीधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः''इत्यत्राधिकरणमर्थः चकारो यथाप्राप्तस्यानुज्ञानार्थः तेन ध्रौव्यार्थिभ्यः कर्तृभावाधिकरणेषु गत्यर्थेभ्यः कर्मकत्त्त्रधिकरणेषु कर्मविवक्षायां भावे च प्रत्यवसानार्थेभ्यः समासनिषेधः भवत्यनेनात्रेति वा भवन् "करणाधिकरणयोश्च'' इति सामान्यविहितो ल्युट् अस्य कालसामान्यविषयत्वाद् भूतविषयेणाधिकरणोक्तेन न बाधः परिभवनमित्यत्र कृत्यचइति उपसर्गस्थामित्तादुत्तरस्य कृत्स्थस्याच उत्तरस्य नस्य विधीयमानं णत्वं "न भाभूपूकमिगमिप्यायीवेषाम्'' इति निषिध्यते अत्र ( ण्यन्तानां च भादीनामुपसंख्यानम् ] इति वचनात्परिभावनमित्यत्रापि णत्वं न भवति अथोणादयः ( दृन्भूः तरः,) सर्वजातिभेद इति पुरुषकारे "अन्धूदृम्भूभूजम्भूकफेलृकर्कन्धूदिधिषृः'' इति दृढशब्द उपपदे कृप्रत्ययान्तो निपातितः उपपदस्य च दृंभावोऽस्मादेव निपातनात् ए चिदुपपदं नान्तं पठन्ति अजादावस्य यणिति वर्षाभूप्रस्तावेऽवोचाम क्क चिदुणादिवृत्तौ दृभी ग्रन्थ इत्यस्मात्कृप्रत्यये निपातनमित्युक्तम् तत्राप्ययमूकारो न धातोरित्युवङोऽप्रसङ्गाद्यणेवेति न रूपभेदः भवनं गृहम् "बहुलमन्रूत्रापि'' इति युच् भुवनम् "भूसूधूम्रसृजिभ्यश्छन्दसि'' इति क्युन्, भाषायां बहुलवचनात्साधुरिति वा भुवनमित्यत्र हरदत्तः ( भूमिः)"भुवः कित्'' इति मिन्प्रत्ययः कृष्णभूमः उदग्भूमः पाण्डुभृमः "अच् प्रत्यन्ववपूर्वात्सामलोम्नः'' इत्यत्राजिति योगविभागादच् समासान्तः तथा च श्लोकवार्त्तिके [ कृष्णोदक्पाण्डुपूर्वाया भूमेरच्प्रत्ययः स्मृत ] इति ( भूरिः ) "अदिश दिभृशुमिभ्यः क्रिन्'' इति क्रिन् ( भूवः अन्तरिक्षलोको महाव्याहृतिश्च ) "भूर_जिभ्यां कित्'' इत्यसुन् कित्त्वान्न गुणः ( अद्भुतः ) "अदि भुवो हुतच्'' इति हुतच् ये प्रसिद्धयोगा उणादिप्रत्ययान्ताः प्रदर्शिताः, अतः परमप्येवं वक्ष्यन्ते सूत्रवार्तिकभाष्येषु छान्दसावेव केवलम् कानच्कमू प्रतीयेते तेन नात्र प्रपञ्चितौ केचिदाहुः क्कसोः कित्त्वाज् ज्ञापकादनुमीयते अस्ति प्रयोगो भाषायामित्येवं प्राज्ञमानिनः।तथा हि छान्दसत्वे ऽस्य छन्दस्युभयथेत्यतः सार्वधातुकसंत्वान्ङित्त्वे सिद्धेऽतिदेशतः अनुनासिकलोपः स्यात् संयोगान्तेषु धातुष अन्यत्रापि लिटः कित्त्वे संयोगाल्लिट्किदित्_यतः सिद्धे हुतः ककारो ऽसौ भाषायामर्थवानिति तदसत्तेरुरित्यादौ यथा लिटि गुणः किति ऋच्छत्यॄतामितीहापि तितीवति गुणो भवेत् स मा भूदिति कित्त्वस्य भाष्ये फलसमर्थनात् 1