क्षीरतरङ्गिणी क्षीरस्वामी पं। युधिष्ठिरमीमांसक राम लाल कपूर ट्रस्ट, रेवली, सोनीपत, हरियाणा वि।सं। 2063 तृतीय क्षीरतरङ्गिणी [पाणिनिमुनिप्रणीत-धातुपाठ-व्याख्यानभूता] भ्वादिगणः तरङ्गसुभगं क्वणन्मधुपकिङ्किणीजालिनं करं प्रचलपुष्करारुणशिखाग्रमुल्लासयन् विभुर्जयति विघ्नजिद् भुवनपृष्ठमारोपयन् दुरन्तदुरितक्षयाद् विजयवैजयन्तीमिव 1 धातुवैषम्यशमनाद् वाङ्मयाप्यायनी सताम् क्षीरस्वामिप्रसूतेयं वृत्तिः क्षीरतरङ्गिणी 2 सूत्रव्याख्या कार्यजातं गणानाम् सेट्त्वानिट्त्वोपग्रहा इत्फलं च अष्टाध्याय्यां ये विशेषप्रयोगा धातोर्धातोर्दर्शितास्ते विशेषात् 3 य एव पारायणिकैर्दृष्टोऽत्र विवरीतृभिः पन्थास्तेनैव याताः स्म कृत्वा गजनिमीलिकाम् 4 न विचारिताः प्रयोगाः पारायणिकैर्हि तत्र संरब्धम् सत्यार्धधातुकेऽपि च षोढा नोदाहता प्रकृतिः 5 भग्नाः पारायणिकाश्चन्द्राद्या अपि च यत्र विभ्रान्ताः तान् धातून् विवरीतुं गहनमहो अध्यवसिताः स्मः 6 जाता विश्वसृजः क्रमेण मुनिभिः संस्कारमापादिताः , शब्दाः संवसनादसाधुभिरपभ्रष्टाः स्थ भो भ्रातरः ! वाग्देव्याद्य कृता मदेकशरणा मात्रा यतोऽस्मान्मया , न्याय्ये वर्त्मनि वर्तनाय भवतां षड्वृत्तयः कल्पिताः 7 अथ नित्यानां लोकवेदप्रसिद्धानां भवतीत्यादिशब्दानां स्वरार्थसाधनकालाद्यवबोधनार्थं प्रकृत्यादिविभागकल्पनया व्याख्यानम् इति प्रकृतयः सूत्र्यन्ते - उदात्तः उदात्तेत् ।
भू
 
सत्तायाम्
 । उदात्तः भू इति अविभक्तिकोऽयं निर्देशो भ्रान्तिनिरासार्थः , छान्दसो वा सुलुक् - छन्दोवत् सूत्राणि भवन्ति (1/1/1 भाष्ये) इति एवं सर्वत्र
सतो भावः सत्ता = अस्तित्वम्
भावो धात्वर्थसामान्यमिति यावत् यदाहुः - सा नित्या सा महानात्मा तामाहुस्त्वतलादयः प्राप्तक्रमा विशेषेषु क्रिया सैवाभिधीयते तां प्रतिपदिकार्थं च धात्वर्थं च प्रचक्षते इति (वाक्यपदीय 3/1/34,35) सा जातिरित्यर्थः यद् वैशेषिकम् - सामान्यं द्विविधम् , परमपरं च परं सत्ता महाविषयत्वात् (तु।- प्रशस्तपादभाष्य, उद्देश्प्रकरण) अपि च -धात्वर्थः केवलः शुद्धो भाव इत्यभिधीयते तथा - यत्रान्यत् क्रियापदं न श्रूयते तत्रास्तिर्भवन्तीपरः प्रयोक्तव्य इति अत एव माङ्गलिकत्वाच्च पूर्वमस्य प्रयोगः [धातूनामर्थनिर्देशोऽयं निदर्शनार्थ इति सौनागाः यदाहुः -] क्रियावाचित्वमाख्यातुमेकोऽत्रार्थः प्रदर्शितः प्रयोगतोऽनुमन्तव्या अनेकार्था हि धातवः तथा च भूरयं क्वचिद् अस्त्यर्थे वर्तते - बहूनि धनान्यस्य भवन्ति, सन्तीत्यर्थः क्वाप्यभूतप्रादुर्भावे - क्षीरभोजिन्याः श्रुतंधरः पुत्रो भवति, जायत इत्यर्थः क्वचिद् अभूततद्भावात्मके सम्पद्यर्थे - पटोऽशुक्लः शुक्लो भवति, सम्पद्यत इत्यर्थः अपि च तत्तदुपसर्गवशाद् धातोः स सोऽर्थः प्रकाश्यते यथा प्रभवतीति स्वाम्यर्थः, प्रथमत उपलम्भश्च पराभवति, परिभवति, अभिभवति इति प्रथमतः तिरस्कारः सम्भवतीति तन्मात्रार्थः अनुभवतीति संवेदनम् विभवतीति व्याप्तिः आभवतीति भागावगतिः उद्भवतीत्युद्भेदः प्रतिभवतीति लग्नकत्वम् उदात्त इत्यस्यानुदात्तत्वाभावेन एकाच उपदेशेऽनुदात्तात् (7/2/10) इतीडागमनिषेधाभावात् सेट्त्वम् आर्धधातुकस्येड् वलादेः (7/2/35) इति प्रत्ययस्य सेट्त्वेऽनिट्त्वे चोपचाराद् धातोस्तथा व्यपदेशः आमनेपदोभयपदानुबन्धाभावाच्च शेषात् कर्तरि [परस्मैपदम्] (1/3/78) इति परस्मैपदम् अपवादाभावाच्चौत्सर्गिकः शब्विकरणः भवति भवन् भविता निरनुनासिकत्वादूकारस्येत्संज्ञा नास्ति अत एव उदात्त इत्याह, नोदात्तेदिति यत् स्मृतिः -दरिद्रा-जागृ-दीधीङाम् एकाचां च चिरेर्जिरेः अदन्तोर्णोति-वेवीडां स्मर्यते नेत् तथा लडेः एधादीनां त्वेकारादेर्निरनुनासिकत्वादेव इत्संज्ञा नास्ति यद्वैषामपि अकारादौ लुप्त एकाच्त्वादेव सा न स्यात् कर्तरि कर्मव्यतिहारे, भावकर्मणोश्च (1/3/14,13) आत्मनेपदम् व्यतिभवते, अन्येन चिकीर्षितां भवनक्रियां करोतीत्यर्थः अन्योऽन्यक्रियाविनिमये हि कर्मव्यतिहारे एकवचनं न स्यात् भावे त्वकेवचनमेव, आख्यातस्यासत्त्ववृत्तित्वेन संख्याद्यभावात् तर्हि एकवचनमपि कथम्? द्व्यादिप्रतिपक्षैकत्वाभावेऽपि अभेदैकत्वात् एकवचनमुत्सर्गः करिष्यते इति हि भाष्यम् (1/1/38) चैत्रेण भूयते अत एव मध्यमोत्तमपुरुषावपि न स्तः भूयते त्वया, भूयते मया अनुभूयते सुखम्,संवेद्यते इति अर्थान्तरेऽत्र वर्तमानादकर्मकस्यापि सकर्मकत्वम्, सकर्मकस्यापि चाकर्मकत्वम् यदाहुः - धातोरर्थान्तरे वृत्तेर्धात्वर्थेनोपसग्रहात् प्रसिद्धेरविवक्षातः कर्मणोऽकर्मिका क्रिया (वाक्यपदीय 3/7/88,पृष्ठ 23) अर्थान्तरे कार्यान्तरे वर्तनाद् धातोः सकर्मकोऽपि धात्वर्थोऽकर्मकः क्रियते यथा - भारं वहति, उद्यच्छतीत्यर्थः; नदी वहति, स्रवतीत्यर्थः कर्मणो धात्वर्थान्तःप्रवेशादकर्मकत्वम्, यथा - जीव प्राणधारणे (धा।सू।1/375) जीवति; नृती गात्रविक्षेपे (धा।सू।4/8) नृत्यति अत्र प्राणगात्राख्ये कर्मणी धात्वर्थेनैव क्रोडीकृते कर्मणः प्रसिद्धत्वादकर्मकत्वम्, यथा - देवो वर्षति; नेह पार्थः शरान् वर्षति प्रयोक्तुरविवक्षितत्वात् कर्मणः सकर्मकादपि भावे आख्यातम्, यथा - नेह पच्यते, नेह भुज्यते अकर्मकत्वं च किं करोति? पचतीत्यादिव्यपदेशशेषादीनामपर्यनुयोज्यत्वात् किं करोति, भवतीत्यस्त्येव व्यपदेशः सत्यम्, किन्तु कियाख्यकर्मनिबन्धनोऽसौ न बाह्यकर्मापेक्षः, भवनं करोतीत्यर्थावगमात् क्रिया हि सर्वधातूनामन्तरङ्गं कर्म अत एव च क्रियाविशेषाणां कर्मकत्वं स्मरन्ति - शोभनं घटो भवति कालभावाध्वदेशाश्च सर्वक्रियाव्याप्यत्वात् कर्मत्वेन सर्वधातूनामपरिहार्याः मासमास्ते, गोदोहं स्वपिति, क्रोशं क्रीडति, कुरूञ्शेते सकर्मकाकर्मकव्यवहारः कथमिति चेत्? द्रव्यकर्मनिमित्त इति ब्रूमः कर्मयोगामृततरङ्गिण्याम् -प्रत्ययोऽकर्मकाद् भावे कर्मणि स्यात् सकर्मकात् सकर्मकाकर्मकत्वं द्रव्यकर्मनिबन्धनम् इति भट्टशशाङ्कधरस्त्वत्रैवं गुरुमुष्टिं समादिक्षित्, यदाह द्विरूपो धात्वर्थः, भावः क्रिया च अत एव क्रिया भावो धातुः, (कातन्त्र 3/3/9) इत्यभियुक्तैर्व्याख्यातम् तत्र- अपरिस्पन्दमानसाधनसाध्यो भावः, सपरिस्पन्दमानसाधनसाध्या क्रिया अतो भावार्थो धातुरकर्मकः, क्रियार्थो धातुः सकर्मकःभावक्रिययोश्च पर्यायत्वमदूरविप्रकर्षेण धात्वर्थसामान्ययुक्तायुक्तत्वेऽत्र सूरयः प्रमाणम् गतमेतत् प्रकृतमनुसरामः स्याच्छुद्धा प्रकृतिर्ण्यन्ता सनन्ता णिचि सन्परा यङन्ता यङ्लुगन्ता च नातोऽन्या, निष्प्रयोजना शुद्धोदाहृता णिच्- भवन्तं प्रयुङ्क्ते भावयति, करोतीत्यर्थः यदाहुः -नित्यं न भवनं यस्य यस्य वा नित्यभूतता न तस्य क्रियमाणत्वं खपुष्पाकाशयोरिव तेन भूतिषु कर्तृत्वं प्रतिपन्नस्य वस्तुनः प्रयोजकक्रियामाहुर्भावनां भावनाविदः [इति](तन्त्रवार्त्तिक 2/1/1 पृष्ठ 377,378 पूनासंस्क।) भावयेज्ज्योतिरान्तरम् इत्यनेकार्थत्वाद् ध्यायेदित्यर्थः चुरादौ भू प्राप्तावात्मनेपदी(धा।सू।10/232) भावयते पदम् प्राप्नोतीत्यर्थः आ धृषाद् वा(धा।सू।10/201) इत्यणिच्पक्षे - उत्साहाद् भवते लक्ष्मीम् भुवोऽवकल्कने (धा।सू।10/185) णिच् - सर्पिषा सक्तून् भावयति, मिश्रयतीत्यर्थः ण्यासश्रन्थो युच् (3/3/107) भावना सन् - बुभूषति श्र्युकः किति (7/2/11) सनि ग्रहगुहोश्च (7/2/12) इति नेट् सनाशंसभिक्षामुः (तु।3/2/168) बुभूषुःण्यन्तात् सन् - बिभावयिषति ओः पुयण्ज्यपरे (7/4/80) इत्यभ्यासस्येत्वम् ।यङ् - बोभूयते ङित्त्वात् तङ् ।यङ्लुक् - बोभवीति, बोभोति चर्करीतं (धा।सू।2/84) परस्मैपदम् विशेषास्तु - भुवः प्रभवः (1/4/31) अपादानम् - हिमवतो गङ्गा प्रभवति गातिस्थाघुषा (2/4/77) इति सिज्लुक् - अभूत्, भूसुवोस्तिङि (7/2/88) गुणाभावः भुवो वुग् लुङ्लिटोः (6/4/88) अभूवन्, आत (3/4/110) एव सिज्लुगन्तान्नियमात् सिजभ्यस्तविदिभ्यश्च (3/4/109) इति झेर्जुस नास्ति बभूव बभूवुः - इन्धिभवतिभ्यां च (1/2/6) इति कित्त्वम्, भवतेरः (7/4/73) इत्यभ्यासस्यात्वम् भावकर्मणोरत्वं नेत्याहुः - बुभूवे त्वया, अनुबुभूवे सुखम् भृशादिभ्यो भुव्यच्वेर् (3/1/12) इति क्यङ् - अभृशो भृशो भवति भृशायते आमः कृञमुप्रयुज्यते इति कृञः प्रत्याहारात् कृभ्वस्त्यनुप्रयोगः कारयांबभूव भुवो भावे (3/1/107) क्यप् - ब्रह्मणो भवनं ब्रह्मभूयम् भव्यगेय (3/4/68) इति कर्तरि - भव्यः पुमान् भावकर्मणोरचो यत् (3/1/97) भव्यं त्वया, अनुभव्यं सुखम् ओरावश्यके (3/1/125) ण्यत् - भाव्यम्, अवश्यभाव्यम् लुम्पेदवश्यमः कृत्ये (द्र।काशिका 6/1/144) [मलोपः] ग्रहादौ (3/1/134 गणे) परिभावी; भूतेऽभिभावी भवतेर्णो वा वक्तव्यः (द्र।काशिका 3/1/143) भवतीति भावः, भवः आशिते भुवः करणभावयोः (3/2/45) खच् - आशितो भवत्यनेनेति आशितंभव ओदनः, आशितस्य भवनम् आशितंभवो वर्तते कर्तरि भुवः खिष्णुच्खुकञौ (3/2/57) आढ्यादिषु कर्तृषु च्व्यर्थेष्वच्वौ - अनाढ्य आढ्यो भवति आढ्यंभविष्णुः, आढ्यंभावुकः भुवश्च (3/2/138) इतीष्णुच्, छान्दसत्वं नेष्टम् भविष्णुः ग्लाजिस्थश्च ग्स्नुः (3/2/139) भूष्णुः; ङ्किति च (1/1/5) इत्यत्र गकारस्य चर्त्वभूतत्वाद् गुणाभावः लषपतपद (3/2/154) इत्युकञ् - भावुकः जिदृक्षि (3/2/157) इतीनिः - परिभवी भुवः संज्ञान्तरयोः (3/2/179) क्विप् - स्वयंभूः, प्रतिभूः विप्रसम्भ्यो ड्वसंज्ञायाम् (3/2/180) विभुः, प्रभुः, संभुः मितद्र्वादित्वात् (द्र।3/2/180।वा।) शम्भुः ॠदोरप् (3/3/57) प्रभवः, विभवः, अनुभवः श्रिणीभुवोऽनुपसर्गे (3/3/24) घञ् - भावः नद्यप्रभावादिति प्रभावः परौ भुवोऽवज्ञाने (3/3/55) वा घञ् - परिभावः, परिभवः कर्तृकर्मणोश्च भूकृञोः (3/3/127) च्व्यर्थयोः खल् - अकृच्छ्रेणानाढ्येनाढ्येन भूयते स्वाढ्यं भवं भवता स्वाङ्गे तस्प्रत्यये कृभ्वोः (3/4/61) क्त्वाणमुलौ - पाश्वतोभूयास्ते, पार्श्वतोभूत्वा, पार्श्वतोभावम् नाधार्थप्रत्यये च्व्यर्थे (3/4/62) नानाभूयास्ते, नानाभूत्वा, नानाभावम्; द्विधाभूयास्ते, द्विधाभूत्वा, द्विधाभावम् तूष्णीमि भुवः (3/4/63) अतूष्णींभूयास्ते, तूष्णींभूत्वा, तूष्णींभावम् अन्वच्यानुलोम्ये (3/4/64) अन्वग्भूयास्ते, अन्वग्भूत्वा, अन्वग्भावम् निरूढादयो यथा - भवत्यस्यां सर्वमिति भूः भूतिः भस्म भूताः ग्रहाः भवत्यस्मिन् भवनं गृहम् ।कृत्परिशिष्टेऽपि - भविष्यति गम्यादयः (3/3/3) भावी भुवः क्मिन् (दश।उ।1/16 कपाठः) भूमिः अदिशदिभूशुभिभ्यः क्रिन् (उ।4/65) भूरिः अदि भुवो डुतच् (उ।5/1) अद्भुतम् भुवः क्युन् (तु।उ।2/81) भुवनम्1