पूर्वम्: २।३।३२
अनन्तरम्: २।३।३४
 
प्रथमावृत्तिः

सूत्रम्॥ करणे च स्तोकाल्पकृच्छ्रकतिपयस्यासत्त्ववचनस्य॥ २।३।३३

पदच्छेदः॥ करणे ७।१ स्तोकाल्पकृच्छ्रकतिपयस्य ६।१ असत्त्ववचनस्य ६।१ तृतीया १।१ ३२ पञ्चमी १।१ २८

काशिका-वृत्तिः
करेण च स्तोकाल्पकृच्छ्रकतिपयस्य असत्त्ववचनस्य २।३।३३

स्तोक अल्प कृच्छ्र कतिपय इत्येतेभ्यो ऽसत्त्ववचनेभ्यः करणे कारके ऽन्यतरस्यां तृतीया भवति। पञ्चम्यत्र पक्षे विधीयते, तृतीया तु करणे इत्येव सिद्धा। यदा तु धर्ममात्रं करणाया विवक्ष्यते न द्रव्यम्, तदा स्तोकाऽदीनाम् असत्त्ववचनता। स्तोकान् मुक्तः, स्तोकेन मुक्तः। अल्पान् मुक्तः, अल्पेन मुक्तः। कृछ्रान् मुक्तः, कृच्छ्रेण मुक्तः। कतिपयान् मुक्तः, कतिपयेन मुक्तः। असत्त्ववचनस्य इति किम्? स्तोकेन विषेण हतः। अल्पेन मधुना मत्तः। करणे इति किम्? क्रियाविशेषणे कर्मणि मा भूत्, स्तोकं मुञ्चति।
बाल-मनोरमा
करणे च स्तोकाल्पकृच्छ्रकतिपयस्याऽसत्त्ववचनस्य ५९६, २।३।३३

करणे च। एभ्य इति। स्तोक अल्प कृच्छ्र कतिपय-एभ्यश्चतुभ्र्य इत्यर्थः। असत्त्वपदं व्याचष्टे--अद्रव्येति। अन्यतरस्यामित्यनुवर्तते, पञ्चमीति च। ततश्च करणे पञ्चमी वेति लभ्यते। तदभावे तु तृतीया सिद्धैव। तदाह--तृतीयापञ्चम्याविति। स्तोकेन स्तोकाद्वामुक्त इति। लघुना आयासेन मुक्त इत्यर्थः। आयासो न द्रव्यमिति भावः। द्रव्ये त्विति। द्रव्ये वृत्तौ स्तोकेन विषेण हत इति तृतीयैवेत्यर्थः। अल्पेनाल्पाद्वा मुक्तः, कृच्छ्रेण कृच्छ्राद्वा मुक्तः। कष्टेनेत्यर्थः। कतिपयेन कतिपयाद्वा मुक्तः। अकृत्स्नेन साधनेनेत्यर्थः।

तत्त्व-बोधिनी
करणे च स्तोकाल्पकृच्छ्रकतिपयस्याऽसत्त्ववचनस्य ५३४, २।३।३३

करणे च। अन्यतरस्यामिति वर्तते, पञ्चमीति च, तेन करणे तृतीयायां प्राप्तायां पक्षे पञ्चमी विधीयते, तया मुक्ते करणत्वादेव तृतीया सिद्धेत्याशयेनाह---तृतीयापञ्चम्यौ स्त इति। स्तोकेनेति। अनायासेन मुक्त इत्यर्थः।