अथ प्रथमाध्याये प्रथमः पादः पदमञ्जरी वृद्धिरादैच् ॥ १।१।१॥ त्रिपदमिदं सूत्रम्--वृद्धिः, आद्, ऐज् इति । अत्र चाकारः प्रयोगस्थैराकारैरर्थवान् । जात्यभिप्रायं चैकवचनम् । ऐच्छब्दस्तु ऐकारौकाराभ्याम् । संज्ञिनोर्द्वित्वेऽपि द्विवचनं न भवति; द्वयोरप्येकशब्दरूपरूषितत्वेनैक्यमापन्नयोरिवाभिधानात् । एवं सर्वेष्वेव प्रत्याहारेष्वेकवचनं द्रष्टयम् । समाहारद्वन्द्वो वा--आदैजिति । "द्वन्द्वाच्चुदषहान्तात् समाहारे" इति समासान्तस्तु न भवति; समासान्तविधेरनित्यत्वात् । अनित्यत्वं च "द्वित्रिभ्यां पाद्दन्मूर्द्धसु" इति मूर्द्धन्शब्दस्य निर्द्देशादवसीयते । अन्यथा "द्वित्रिभ्यां ष मूर्ध्नः" इति षप्रत्ययान्तत्वान्मूर्धेष्विति निर्द्देश्यं स्यात् । आदैच्छब्दात्समासत्वादर्थवत्वाद्वा विभक्त्युत्पतौ "चोः कुः " पदस्येति कुत्वं प्राप्तम्, अयस्मयादित्वेन भत्वान्न हि भविष्यति; छन्दोवत्सूत्राणि भवन्ति । वृद्धिशब्दस्य त्रयीशब्दानां प्रवृत्तिरिति पक्षे "वृधु वृद्धौ" इत्यस्माद्भावे क्तिनि व्युत्पत्तिः, अभेदोपचाराच्च वृद्धियुक्तेष्वादैक्षु वृत्तिः । न चैवं लक्षणयैवादैक्षु वृद्धिशब्दस्य वृत्तिसिद्धेः सूत्रस्यानर्थक्यम्; नियमार्थत्वात् । अन्यथा वर्द्धनक्रियायोगिष्विकारादिषु प्लुतेषु च वर्तेत । मा तत्र वर्तिष्ट, आदैक्ष्वेव वर्ततामिति नियमः । चतुष्टयीपक्षे तु कथम्, यावतश्च संज्ञात्वेन विनियुक्ते सति "सिचि वृद्धिः" इत्यादौ प्रदेशान्तर एव वृद्धिशब्दस्यादैक्षु प्रवृत्तिर्युक्ता, न त्वत्रैव संज्ञाविनियुक्तिकाले ? उच्यते; "नित्यः शब्दार्थसम्बन्धः" इति दर्शनेन क्वचिदपि पुरुषव्यापारात्प्रअग् वाचकः सन् पुरुषव्यापारेण वाचकः क्रियते । अतः सर्वे शब्दाः संज्ञारूपेण सर्वानर्थान् प्रतिपादयितुं समर्थाः । तत्रानियतार्थेन व्यवहारासिद्धेर्नियमार्थ एव पुरुषव्यापारः--मया प्रयुक्तस्य वृद्धिशब्दस्यादैजर्थ इति । एवं तावत्पदार्थो व्याख्यातः । वाक्यविषयाः पुनरष्टौ विकल्पाः-अनर्थकम्, साध्वनुशासनम्, प्रयोगनियमार्थम्, आदेशार्थम्, आगमार्थम्, विशेषणार्थम्, तद्गुणाध्यारोपार्थम्, संज्ञार्थमिति । तत्रानर्थकाभिधानं प्रमादाश्रयदोषादनवधानादशक्तेर्वा भवति । न चैतच्चतुष्टयं भगवतः सम्भवति; आचार्यो हि दर्भपवित्रपाणिः शुचाववकाशे प्राङ्मुख आसीनो मङ्गलपूर्वकं महता प्रणिधानेन सूत्राणि प्रणीतवान् । तत्राशक्यं वर्णेनाप्यनर्थकेन भवितुम्, किं पुनरियता सूत्रेण ! साध्वनुशासनमपि न भवति, सिद्धत्वाद्वृद्धिशब्दस्य क्तिन्नन्तत्वात्, आदैच्छब्दस्य चार्थवत्वात् । ननु छन्दोवद्भावेन सूत्र एव प्रयोगः सिद्ध्यति, सूत्राद्वहिरपि कुत्वाभावार्थं निपातनमेतत् स्यात्, उच्यते; वृद्धिशब्दस्यैवमनन्वयप्रसङ्गः, संभूयकारित्वं च पदानां व्युत्पत्तिसिद्धम्, अतो नायं पक्षः । नापि प्रयोगनियमार्थम्, यत्र हि सहप्रयोगप्रसङ्गस्तत्र नियमः कर्तव्यः । न च वृद्ध्यादैच्छब्दयोः सहप्रयोगप्रसङ्गः, विनियोगात्प्रागसम्बन्धाद् उतरकालं वृद्धिशब्देनैव गतत्वात् । किं च नेह प्रयोगनियम आरभ्यते । नन्वारभ्यते,"परश्च" इति ? पदस्य नारभ्यते । पदस्याप्यारभ्यते "उपसर्जनं पूर्वम् " इति ? ययोरैकपद्यं नास्ति तयोर्नारभ्यते । तयोरप्यारभ्यते "ते प्राग्धातोः" "कृञ्चानुप्रयुज्यते लिटि" इति ? नैवंविधेनोच्चारणेनारभ्यते । एवमप्यारभ्यते "विदाङ्कुर्वन्त्वित्यन्यतरस्याम्" इति ? नात्र केवलः प्रयोग एव नियम्यते, किन्तु आमादिकमपि विधीयते, अतः केवलस्य प्रयोगनियमस्य साक्षादुच्चारणेन क्वचिदप्यभावान्नायं प्रयोगनियमः । आदेशार्थमपि न भवति; स्थान्यर्थाभिधानसमर्थस्यैव ह्यादेशत्वम् । न च वृद्धिशब्द आदैचाम्, ते वा तस्यार्थमभिधातुं समर्थाः । निर्देशाच्च; यदयं "सिचि वृद्धिः" "यातिवातिद्राति" "रायः"ङावः" इत्याह, ततो ज्ञायते--न वृद्धिशब्द आदैचां ते वा तस्यादेशाः इति । अथादैच्शब्दस्य वृद्धिशब्द आदेशः कस्मान्न भवति, न ह्यत्र किं चिल्लिङ्गमस्ति ? सत्यम्; अयं तु पक्षो न संभवत्येव, ऐच्छब्दो ह्यादिरन्त्येनेति संज्ञात्वेन विनियुक्तः कथमस्य स्वरूपस्य ग्रहणम्; अशब्दसंज्ञेति निषेधात् । एतैरेव लिङ्गैरागमार्थत्वं न भवति । षष्ठ।ल्भावाच्च, "पूर्वौ तु ताभ्याम्" इति पञ्चम्याः षष्ठ।ल्र्थोऽवगम्यते । टित्वादिलिङ्गाभावाच्च, न हि तद्रहितः कश्चिदागमो दृष्टः । विशेषणत्वमपि न भवति, असंभवादप्रयोजनत्वाच्च । न ह्यस्ति संभवो वृद्धशिब्दश्चासावादैच्छब्दश्चेति, नापि वर्द्धनक्रियाऽऽदैज् इति । एवं विशेषणे च प्रयोजनमपि नास्ति । एतेन तद्गुणाध्यारोपोऽपि निरस्तः । यथा हि सिंहो माणवक इति सिंहगुणा माणवके आरोप्यन्ते, नैवमत्र सम्भवः प्रयोजनं वाऽस्ति; अतः पारिशेष्यात्संज्ञासंज्ञिसम्बन्ध एवेत्यालोच्याह-ऽवृद्धिशब्दऽ इत्यादि । विपर्ययस्तु न भवति--वृद्धिशब्दः संज्ञी, आदैचः संज्ञेति । स हि त्रिधा स्यात्--आदैजित्ययं शब्दः, आ ऐ औ इत्ययं समुदायः, ते वा प्रत्येकमिति । तत्रादैच्छब्दस्तावन्न सम्भवति; ऐजित्यस्य संज्ञाशब्दत्वात्, स्वरूपग्रहणासम्भवात्, गौरवाद्, अनावृतेश्च । आवर्तिन्यो हि संज्ञा भवन्ति, वृद्धिः शब्दश्चावर्तते; नादैच्छब्दः । नापि समुदायः, गौरवादनावृतेश्च । अस्तु तर्हि प्रत्येकम्, लाघवादावृतेश्च--"अष्टन आ विभक्तौ", "पूतक्रतोरै च" "मनोरौ वा " इति ? न; प्रयोजनमन्तरेणैकस्यानेकसंज्ञाकरणस्यायुक्तत्वात्, न ह्ययं वृद्धिशब्दः सहस्रेण नामभिः स्तोतव्यः । शब्देनार्थस्य संज्ञात्वं मा विज्ञायीति शब्दग्रहणम्, एतच्चार्थे व्यवहारासम्भवाल्लभ्यते । तदिह वृद्धिशब्दः संज्ञात्वेन विधीयत इति समुदायेनानर्थकादिपक्षनिरासः । वृद्धिशब्द इत्यनेन विपर्ययनिरासः । वृद्धिशब्दः संज्ञा, न पुनरादैच्छब्द इति वचनव्यक्त्या शब्दग्रहणेनार्थनिरासः-वृद्धिशब्दः संज्ञा न पुनरर्थ इति । यत्र समुदायस्य कार्यमिच्छति करोति तत्र प्रयत्नम्--"उभे अभ्यस्तम्" इति । तत्र ह्युभे ग्रहणं समुदितप्रतिपत्यर्थम् । अन्वर्थां वा महतीं संज्ञां करोति-"हलोऽनन्तराः संयोगः" इति । इह तु महासंज्ञाकरणं मङ्गलार्थम् । अत एव प्रथममुच्चारणम्; अन्यथा हि सतः कार्यिणः कार्येण भवितव्यमिति "अदेङ् गुणः" इत्यादिवन्निर्दिश्येत । अतो यत्नाभावात्प्रत्येकमेव संज्ञा । किञ्च--लौकिकप्रयोगे व्यवस्थितानामादैचां संज्ञया भवितव्यम् । न च समुदायस्य क्वचित्प्रयोगः, अतोऽसंभवादपि प्रत्येकमेव संज्ञा । लिङ्गाच्च-किं लिङ्गम् ? "प्रस्थे वृद्धमकर्क्यादीनाम्" "मालादीनां च" इति । इदं हि "मालाप्रस्थः" इत्यादाववृद्धमिति पर्युदासे प्राप्ते वचनम्,अतः प्रत्येकमेव संज्ञा तदाह-प्रत्येकमिति ॥ तत्रापि त्रयः प्रकाराः-लुगादिसंज्ञावतद्भावितानामेव, टिसंज्ञावद्वाऽतद्भावितानामेव, अनुनासिकादिसंज्ञावदुभयेषां वेति । तत्र यदि तद्भावितानामेव--ये वृद्धिसंज्ञया भाव्यन्ते, तेषामेव स्यात्, शालीयो मालीय इति छाए न स्यात्; आम्रमयं रैकुलमयम्--वृद्धलक्षणो मयण् न स्यात्; आम्रगुप्तायनिः--"उदीचां वृद्धात्" इति फिञ् न स्यात् । अथातद्भावितानामेव--गार्गीयः, ऐतिकायनीयः, औपगवीयः-छाए न स्यात् ; अतो दोषदर्शनादगृह्यमाणविशेषत्वाच्चोभयेषां संज्ञेत्याह-ऽसामान्येनेऽति । आकारोऽनण्त्वादेव न भिन्नकालानां ग्राहक इति न तन्निवॄत्यर्थं तपरत्वम्, नापि गुणान्तरयुक्तानां ग्रहणार्थम् । अभेदकत्वाच्च गुणानाम्, लोके हि मुण्डेनापि चौर्ये कृते संजातकेशोऽपि प्रत्यभिज्ञाय निगृह्यते । तथा "अडुदातः" इत्युदातवचनं लिङ्गम्, अन्यथा ह्युदातगुणमेवाटमुच्चारयेत् । अतोऽनर्थकं तपरकरणमित्यत आह--ऽतपरकरणमिऽति । तश्चासौ परश्च तपरः, तस्य करणमुच्चारणम्, आकारात्परस्य तकारस्योच्चारणमित्यर्थः । अथ वा-तः परो यस्मादिति तद्गुणसंविज्ञानो बहुव्रीहिः, तकारसहितस्याकारस्योच्चारणमित्यर्थः । ऽऐजर्थमिऽति । ऐचोरर्थः प्रयोजनं यस्य ततथोक्तम् । "तपरस्तत्कालस्य" इत्यत्र तः परो यस्मादिति बहुव्रीहिराश्रितः । तत्कथं तपरकरणमैजर्थमित्याशङ्क्य पञ्चमीसमासोऽपि तत्राश्रित इति दर्शयति-ऽतादपि परऽ इति । इतिकरणो हेतौ । यस्मात् तादपि परस्तस्मादैजर्थ इति । ऐजर्थत्वमेव प्रकटयति--ऽखट्वैलकादिष्विऽति । असति तपरकरणे त्रिमात्रचतुर्मात्रयोरप्यैचोः सवर्णग्रहणेन ग्रहणाद् वृद्धिसंज्ञा स्यात्, ततश्च वृक्षैलकः, वृक्षौदनः, खट्वैलका, खट्वौदन इति त्रिमात्रचतुर्मात्रस्थानिनोस्त्रिमात्रचतुर्मात्रावेवैकारौकारौ स्यातामिति तन्निवृत्यर्थं तपरकरणम् । आश्वलायन इत्यादीनि तद्भावितानामाकारादीनां क्रमेण रूपोदाहरणानि । अश्वलेतिकशब्दौ नडादी । उपमन्युशब्दो बिदादिः । लक्षणस्य बहुविषयत्वसूचनार्थं चतुर्थस्योदाहरणस्योपन्यासः । आकारस्यातद्भावितस्य कार्योदाहरणमाह--ऽशालीयः, मालीयऽ इति । ऐकारौकारयोस्त्वतद्भावितयोरुदाहरणं रैकुलमयं नौकुलमयमिति, वृद्धलक्षणो मयड् भवति ॥ अदेङ् गुणः ॥ १।१।२ ॥ पूर्वेण तुल्यमेतत् । ऽतपरकरणं त्विह सर्वार्थमिऽति । न तु पूर्ववदन्यतरार्थमिति तु शब्दस्यार्थः । असति हि तस्मिन् दीर्घप्लुतयोरपि गुणसंज्ञा स्यात्; ततश्च तरतीति कदाचिदकारः स्यात्, कदाचिदाकारः, रपरत्वे कृत एकस्याध्यर्धमात्रत्वादपरस्यार्धतृतीयमात्रत्वात् । न चाकारस्य वृद्धिसंज्ञा बाधिका; एकसंज्ञाधिकारादन्यत्र संज्ञासमावेशात् । एङश्च त्रिमात्रचतुर्मात्रस्य गुणसंज्ञायाम्-रथेषा,खट्वेषा, अश्वोढः, वडवोढ इति त्रिमात्रतुर्मात्रौ स्याताम् । तरितेत्यादीनि तद्भावितानामदेङं क्रमेण रूपोदाहरणानि । पचन्ति जयन्तीत्यकारस्य कार्योदाहरणे । अत्रान्त्यकारे परतः शबकारस्य "अतो गुणे" इति पररूपं भवति । एकारस्यातद्भावितस्योदाहरणम्-ऽअहं पचे ऽइति । ओकारस्य तु न संभवति ॥ इको गुणवृद्धी ॥ १।१।३ ॥ ऽपरिभाषेयमिऽति । नाधिकारः; अस्वरितत्वात्, असंयुज्यनिर्देशाच्च । अधिकारे हि "इको गुणवृद्धी न धातुलोपः" इति संयुज्यैव निर्दिशेत् । नापि विधिः, "इकः स्थाने गुणवृद्धी भवतः" इति लक्षणान्तरेण विधास्यामानत्वात् । ननु यदायं स्वतन्त्रो विधिस्तदा तेष्विक इत्यस्योपस्थापकाभावाद् यातेत्यादावनिकोऽपि विधिः स्यात्, इह तु सार्वधातुकाद्यभावेऽपि दधि मध्वित्यादौ विधिरस्तु ? एवं तर्हि गुणवृद्ध्यधिकारे पुनर्गुणवृद्धिग्रहणान्न विधिः । यद्यपि प्रकृतं गुणवृद्धिग्रहणं संज्ञापरम्, इह त्वनुवृत्तिसामर्थ्यात्संज्ञिपरं भविष्यति । "अदेङ् गुणः" इत्यत्र चानुवर्तमानमपि वृद्धिग्रहणं न संबध्यते, अन्यवचनाच्चकाराकरणाच्च । अन्या हि तत्र गुणसंज्ञोच्यते, चकारश्च न क्रियते; अतो विधिपक्षे पुनर्गुणवृद्धिग्रहणं न कर्तव्यम् । अत एवाधिकारोऽपि न भवति । परिभाषायां तु तस्यां विशिष्टविषयत्वसिद्धये कर्तव्यं तदिति वक्ष्यामः । अतः परिभाषेयम् । योगो वायं व्यपदिश्येत, सूत्रं वा, तत्कथम् "इयम्" इति स्त्रीलिङ्गनिर्द्देशः ? उच्यते-यथायं योगः, यथा वा सूत्रमिदम्, एवं परिभाषापि, तत्सामानाधिकरण्यादियमिति निर्देशः । ननु परिभाषात्वं विधित्सितम्, इदंशब्दस्तु उद्देशकः, सिद्धरूपस्य चोद्देशः, सूत्ररूपता योगरूपता वा सिद्धेति पुनरप्युद्देशकस्य स्त्रीलिङ्गानुपपतिः । कश्चिदत्र परिभाषेयमित्यनूद्य स्थानिनियमार्थता विधीयते-"येयं परिभाषा सा स्थानिनियमार्थेति, न तु परिभाषारूपता विधीयते" इत्याह, स वाच्यः-"असिद्धं परिभाषात्वं कथमनूद्यते" इति । अव्यापकश्चायं परिहारः शमर्थः पदविधिः" इत्यादौ । तत्र परिभाषेयमित्येतावच्छ्रूयते, न पुनरेतदर्थेति । वयं तु ब्रूमः-निर्दिश्यमानप्रतिनिर्दिश्यमानयोरैक्यमापादयन्ति सर्वनामानि पर्यायेण तल्लिङ्गभाञ्जि भवन्ति । तत्र यथा "अणौ यत्कर्म णौ चेत्स कर्ता" इति कर्माकारपरामर्शिनोऽपि तच्छब्दस्य विधीयमानस्य कर्त्राकारस्य लिङ्गं भवति, तद्वदिहापि सूत्रमेवोद्दिश्यत इदंशब्दस्य विधीयमानपरिभाषाकारस्य लिङ्गं भविष्यति । ऽस्थानिनियमार्थेऽति । इगाख्ये स्थानिनि गुणवृद्ध्योर्नियमोऽर्थः उ प्रयोजनं यस्याः सा तथोक्ता । "द्वन्द्वे घि" इत वृइद्धिशब्दस्य पूर्वनिपातः प्राप्तः सूत्रनिर्देशेन नित्यं बाध्यते;"धर्मादिषु उभयम्" इति वचनादिति सूचयन्नाह-ऽवृद्धिगुणाऽवित्यादि । किं पुनरनेन ग्रन्थेनोच्यते ? ननु नियमरूपेणास्य सूत्रस्य प्रवृत्तिरिति; यथा "एच इग्घ्रस्वादेशे" ह्रस्व आदिश्यमान एच इगेवेति । यद्येवम्, अनियमप्रसङ्गे नियम इति "सार्वधातुकार्धधातुकयोः","सिचि वृद्धिः" इत्यत्रैव स्यात्, अत्र ह्यसत्यस्मिन्योगेऽलोऽन्त्यस्य भवन्तौ वृद्धिगुणावनन्त्यस्याविशेषितत्वादिकश्चानिकश्व प्राप्नुतः, न तु मिदिमृजिपुगन्तलधूपधर्च्छिदृशिक्षिप्रक्षुद्रेष्वपि। अत्रालोन्त्यस्येत्यनिक एव प्रसङ्गः । अथ सर्ववाक्यानां सावधारणत्वात् प्राप्तमेवावधारणमिक एवेत्येव शब्देनाभिधीयते, न पुनर्नियमोऽनेन प्रदर्श्यते; यथा-"तपस्तपः कर्मकस्यैव" इति । अतो विधिरूपेणैवास्य व्यापारो विवक्षितः, परिभाषात्वाच्च गुणवृद्धिविधेः संस्कारकं विध्यन्तरमिदम्, यथा "इद्गोण्याः" इत्यादेः"अलोऽन्त्यस्य" इत्ययमिति पक्षः । ततो नाप्राप्तायामलोऽन्त्यपरिभाषायामियमारभ्यमाणा तस्या बाधिका स्यात् । ततश्च यत्रैषा, न तत्र सा प्रवर्तेतेति जुसि गुणो यथेह भवति--अबिभयुः अबिभरुरिति, एवमनेनिजुः पर्यवेविषुरत्रापि प्राप्नोति । "सार्वधातुकार्धधातुकयोः" यथेह भवति चेता स्तोतेति; एवमीहिता, ऊहिता, उम्भिता अत्रापि प्राप्नोति । अथ तु सामान्यविशेषयोरसम्भवे बाध्यबाधकभावः; अस्ति चात्र सम्भवो यद् अलोऽन्त्यस्य गुणवृद्धी स्याताम् इकश्च, ततः "जुसि च" इत्यादौ गुणवृद्धिलिङ्गादिक्परिभाषाप्युपतिष्ठत, अङ्गस्येति स्थानषष्ठीनिर्देशात्, "अलोऽन्त्यस्य" इत्येषापि । तत्र च न समुच्चयोऽङ्गान्त्यस्यानिकोऽपि गुणो भवति, तदवयवस्य चेकोऽनन्त्यस्यापीति । नापि विकल्पः;कदाचिदङ्गान्त्यस्यानिकोऽपि, कदाचितदवयवस्येकोऽनन्त्यस्यापीति, एकत्वात् षष्ठ।ल्र्थस्यैक एव हि सकृच्छ्४%अताया अङ्गस्येति षष्ठ।ल अर्थः-स्थानेयोगो वा थ अवयवयोगो वा, न द्वौ समुच्चितौ नापि विकल्पितौ । तत्र यद्यङ्गस्येत्येतत्पूर्वमिक इत्यनेन वैयधिकरण्येन संबध्येत-"अङ्गस्य य इक्, तस्य गुणः" इति, ततोऽलोऽन्त्यस्येत्येतदनन्वितं स्यात् । अतः पूर्वमलोन्त्यस्येत्यनेन संबध्यते, स चान्त्येका विशेष्यते "अङ्गान्त्यस्येको गुणः" इति । यद्वा-इकाऽङ्गं विशिष्यते, विशेषणेन च तदन्तविधिः-इगन्तस्याङ्गस्येति । एवमपि हि स्थानषष्ठीत्वानपायादलोन्त्यस्येत्यव्याहतप्रसरं सर्वथाङ्गान्त्यस्येको गुण इति जुसि सार्वधातुकार्धधातुकगुणे न कश्चिद्दोषः । मिदादिषु पूर्वोक्तेन प्रकारेण द्वयोरन्वयासंभावदन्यतरद्धातव्यम् । तत्राविशेषादुभयमपि त्यज्येत, उच्येते च वृद्धिगुणौ "मृजेर्वृद्धिः" "मिदेर्गुणः" इति, तौ सर्वादेशौ स्याताम् । अतो विधिरूपेण नियमरूपेण वास्य सूत्रस्य व्यापारो नाभ्युपगन्तव्यः, किं तर्हि ? अनेन क्रियते पदोपस्थापनम्; यत्र ब्रूयाद् गुणो भवतीति, वृद्धिर्भवतीति; तत्रेक इत्येतत् षष्ठ।ल्न्तं पदमुपतिष्ठतामिति । "अलोऽन्त्यस्य" इत्यस्य तु वाक्यभावः । एवं हि विज्ञायमाने "सिचि वृद्धिः" इत्यादौ यत्रान्त्य इक् संभवति, तत्रेक इत्येतेनोपस्थितेनाङ्गे विशेषिते तदन्तविधौ सतीगन्ताङ्गस्य गुण इति वाक्यव्यापारे परिनिष्ठते पश्चादलोऽन्त्यस्येत्येतदिगन्तस्य प्राप्तं गुणं ततोऽपकृष्याङ्गान्त्यस्य विधते, न त्विक इत्यस्योपस्थानवेलायामुपतिष्ठते । "मिदेर्गुणः" इत्यादौ तु यत्रान्त्य इङ् न संभवति तत्राङ्गेनेकि विशेषितेऽङ्गस्येको गुण इति वाक्यव्यापारे परिसमाप्ते स्थानषष्ठ।ल्भावात्स्वयं न प्रवर्तते, न त्विक इत्यनेन सहोपतिष्ठते, येनाविशेषादुभयोर्निवृत्तिः स्यादिति सिद्धमिष्टम् । वृत्तिकारेण त्वस्य सूत्रस्य प्रयोजनं पिण्डीकृत्य प्रदर्शितम्-सर्वथान्त्यस्य वाऽनन्त्यस्य वेक एव गुणवृद्धी भवतः, न त्वक्षरव्यापारः । अत एव ऽवेदितव्यौऽ इत्याह । अक्षरव्यापारप्रदर्शने तु इक एव स्थाने भवत इत्येतावद्वक्तव्यं स्यात् । ऽस्वसंज्ञया शिष्यमाणाऽविति । वृद्धिर्भवति गुणो भवतीत्येवं विधीयमानावित्यर्थः । ऽइक इति किमिऽति । प्रधानावयवाक्षेपेण समुदायस्यैवाक्षेपः-सूत्रं किमर्थमित्यर्थः । ऽआत्सन्ध्यक्षरेऽत्यादि । ननु "गापोष्टक्" इति टकः कित्करणं सामग इत्यादावाल्लोपे च सिद्धं स्यात् सामग इति । तथा ग्लायतीत्यादौ सन्ध्यक्षराणामप्युपदेशसामर्थ्याद् गुणो न भविष्यति, इतरथा प्रक्रियालाघवार्थमेकारमेवोपदिशेत् । "जनेर्डः" इति डित्करणाद्व्यञ्जनानामपि गुणो न भविष्यति । यदि हि तस्य स्याद्, अर्द्धमात्रस्य मात्रिकेऽकारे गुणे कृते सिद्धं स्यादुपसरज इति । यद्येवम्,मिदेर्गुणोऽन्त्याद्व्यावर्तितः सर्वादेशः स्यात् । किं च गमेरप्ययं डो भवति, तस्य च स्थानत आन्तर्यादोकारो गुणः स्यात्; रैनौग्लौशब्देभ्यश्चाचाराक्विबन्तेभ्यस्तृजादौ गुणप्रसङ्गो यद्यभिधानमस्ति; तथा चितः, चिनुतः,भिन्नः, बेभिद्यते इत्यादौ "क्ङिति च" इति प्रतिषेधार्थमपि गुणस्येग्लक्षणत्वमेषितव्यम् । अथ वृद्धिग्रहणं किमर्थम् ? "मृजेर्वृद्धिः" इको यथा स्यात्, अलोऽन्त्यस्य मा भूत् । योगविभागात्सिद्धम्--"मृजेर्वृद्धिरचः", मृजेरचो वृद्धिर्भवति, अङ्गाक्षिप्तेन प्रत्ययेनाचो विशेषणात् ङ्यमार्ट्" अटो न भविष्यति, सिचि वृद्धिस्तर्ह्यकारस्य मा भूत्, अचिकीर्षीत् । अतो लोपो भविष्यति, "ण्यल्लोपावियङ्यण्गुणवृद्धिदीर्घेभ्यः पूर्वविप्रतिषिद्धम्?" इति वचनात्, यथा-चिकीर्षक इति । आकारस्य नास्ति विशेषः; सग्विधानादसंभवश्च । एजन्तमपि न संभवति; आत्वविधानात् । रैनौग्लोशब्दानामाचारक्विबन्तानामविशेषः, गोशब्दस्य क्विबन्तस्य "आञ्त इद्धातोः" इत्यतः "धातोः" इत्यनुवृतेः धातुरेव यो धातुरिति विज्ञानात् सिचि वृद्ध्यभावः । अभैत्सीदित्यादौ "सिचि वृद्धिः" इत्यनेन व्यञ्जनस्य नाप्राप्तायां वृद्धौ विधीयमाना हलन्तलक्षणा वृद्धिर्बाधिका, ङेटि" इत्ययं च निषेधो यावती हलन्तस्य वृद्धिः, सिचि वृद्धिरिति वा, हलन्तस्याच इति वा, सा सर्वा न भवतीति विज्ञायते । तेन अनर्दीदित्यादौ अन्त्यस्य वृद्धिर्न भविष्यति । तदेवम् "इको वृद्धिर्यथा स्याद् अदेङ्व्यञ्जनानां मा भूद्" इत्येवमर्थं तावद् वृद्धिग्रहणं न कर्तव्यम् । एवं तर्हि मृज्यते, मृष्ट इत्यादौ "क्ङिति च" इति प्रतिषेधार्थं मृजेर्वृद्धेरिग्लक्षणत्वम् । इदमपि योगविभागात्सिद्धम्--मृजेर्वृद्धिरित्यस्यानन्तरमजादौ क्ङिति वेति वक्तव्यम्--परिमृजन्ति परिमार्ज्जन्ति,परिममृजतुः परिममार्जतुरित्येवमर्थम् । तत्र योगविभागः-"अजादौ क्ङिति मृजेरचो वृद्धिर्भवति" । किमर्थमिदम् ? नियमार्थम्--क्ङिति यदि भवति अजादावेवेति । तेन मृज्यते मृष्ट इत्यादौ न भविष्यति, ततो वा, अजादावपि विकल्पेनेति । सिचि वृद्धेस्तर्हि प्रतिषेधार्थमिग्लक्षणत्वम् । "णु स्तुतौ" "धू विधूनने" कुटादी, न्यनुवीद् न्यधुवीद् । अत्राप्यन्तर्भूतसिज्मात्रापेक्षत्वादन्तरङ्ग उवङ् सिति हलन्तत्वात् ङेटि" इति निषेधः । यदि सिच्यन्तरङ्गं भवति, अचैषीद् अहौषीद् अहौषीद्-गुणः स्यात् । अस्तु, तस्यैव वृद्धिः करिष्यते ? अकार्षीदित्यादौ हलन्तलक्षणा वृद्धिः, अतारीदित्यादौ हलन्तलक्षणायाः ङेटि" इति प्रतिषेधे "अतो हलादेः " इति विकल्पं बाधित्वा "अतो लरन्तस्य" इति नित्या वृद्धिः । अलावीदित्यादावुवर्णान्तेषु सेटि सिच्यन्तरङ्गत्वाद् गुणावादेशयोः कृतयोरपि "अतो लरन्तस्य" इत्यत्र वकारस्यापि लुप्तनिर्दिष्टत्वान्नित्या वृद्धिः । यद्येवम्, मा भवानवीत्, अमवीदित्यत्रापि तर्हि वकारप्रश्लेषान्नित्या वृद्धिः स्यात् । सिच्यन्तरङ्गं भवतीत्युक्ते "ह्म्यन्तक्षण" इत्यत्र णिश्विग्रहणं न कर्तव्यम्; औनयीत्?, अश्वयीदित्यत्रान्तरङ्गत्वाद् गुणावयादेशयोः कृतयोर्यान्तानां नेत्येव सिद्धत्वात् । तत्स्थाने "अविमवीङिवेशयिष्यामः-"अतो लरन्तस्य" इत्यत्र वकारप्रश्लेषेण प्राप्तवृद्धिरविमव्योर्नेति । तदेवमनर्थकं वृद्धिग्रहणम् ? नानर्थकम्, सिच्यन्तरङ्गस्य प्रवृत्तिमाश्रित्य हि वृद्धिग्रहणं प्रत्याख्यायते,यदि च सिच्यन्तरङ्गं स्यात् चिनीप्रभृतिभ्यो यङ्गलुगन्तेभ्यश्चिरिणोतिजिरिणोतिभ्यां च लुङ् इसिचि अचेचायीद्; अनेनायीद्, अचिरायीद्, अजिरायीदिति? न स्याद्; गुणायादेशयोः कृतयोः यान्तानां नेति प्रतिषेधप्रसङ्गाद् । इग्लक्षणायां तु सिचि वृद्धौ तयैवान्तरङ्गं बाध्यते, यदि स्याद्, न क्वापि सिचीगन्तमङ्गं भवेत्, ततश्चाचिरायीदित्यादि सिद्धम् । यथा च तया गुणायदेशौ बाध्येते, एवं न्यनुवीदित्युवङपि बाध्येत । अतः प्रतिषेधार्थमपि वृद्धेरिग्लक्षणत्वमेषितव्यमिति सर्वमवदातम् । एवं बहुवक्तव्यत्वाद् वृत्तिकारेण वृद्धिग्रहणस्य प्रयोजनं न दर्शितम् । अथ कथं स्वसंज्ञया शिष्यमाणावित्येष विशेषो लभ्यते इत्याह-ऽगुणवृद्धिग्रहणमिऽत्यादि । इह पूर्वसूत्राभ्यां गुणवृद्धिग्रहणमनुवर्तते । तेनैवादेङमादैचां च ग्रहणे सिद्धे यत्पुनर्गुणवृद्धिग्रहणं तत्स्वसंज्ञया विधाननियमार्थम्; अन्यथा प्रकृतंगुणवृद्धिग्रहणं तटस्थमुपलक्षणं स्याद्--ऽवस्तुतो ये गुणवृद्धी तद्विधौऽ इति । स तु विधिर्गुणवृद्धिशब्दाभ्यां प्रकारान्तरेण वेत्येव विशेषो नाश्रितः स्यात्, पुनर्गुणवृद्धिग्रहणसामर्थ्यातु शब्दव्यापारोऽप्याश्रीयते--गुणवृद्धी ये गुणवृद्धी, एवं शब्दिते ये गुणवृद्धी इत्यन्यतरस्य गुणवृद्धिग्रहणस्य स्वरूपप्रधानत्वं सम्पद्यते । तेनायं विशेषो लभ्यत इत्यर्थः । अन्यथा "अचश्च" इत्यस्य स्वसंज्ञया विधाने नियमस्य "दिव उत्" इत्यादिष्वगुणवृद्धिसंज्ञकेषु; तत्संज्ञेषु च यत्रेङ् न संभवति "अष्टन आ विभक्तौ" इत्यादौ, तत्र चरितार्थत्वात् "दिव औत्" इत्यादिषु गुणवृद्धिसंज्ञकेषु यत्रेक् संभवति तत्रायं नियमः स्यात् । द्यौः पन्थाः, सः,इममिति । स इत्येतदनुदाहरणम्, न ह्यत्रेगस्ति । एवं प्रकटितोऽस्माभिर्भाष्ये परिचयः परः । तस्य निःशेषतो मन्ये प्रतिपतापि दुर्लभः ॥ न धातुलोप आर्धधातुके ॥ १।१।४ ॥ "दुरीणो लोपश्च" दुःशब्द उपपदे इणो धातोरप्रत्ययो भवति, धातोश्च लोपः । दुःखेन ईयतेउप्राप्यते दूरमित्यत्र यद्यपि कृत्स्नस्य धातोर्लोपः संभवति, तथाप्येवंविषये गुणवृद्ध्योः प्राप्त्यभावादेकदेशे धातुशब्दो वर्तत इत्याह--धात्वेकदेश इति । "धातुलोप" इति तत्पुरुषे सति आर्द्धधातुकग्रहणं लोपविशेषणम्, गुणवृद्धिविशेषणम्, उभयविषेषणं वा-इति त्रयः कल्पाः । तत्र यदि लोपविशेषणम्--आर्द्धधातुकनिमिते धातुलोपे सति यत्किञ्चिद् निमिते गुणवृद्धी न भवत इत्यर्थः स्यात् । ततश्च प्रेद्धम् इत्यत्र प्रपूर्वादिन्धेः क्तप्रत्यये तन्निमिते नलोपे सति प्राप्नुवत आद्गुणस्यापि निषेधः स्यात् । यद्यपीक इत्यनुवर्तते, तथापि द्वयोः षष्ठीनिर्द्दिष्टयोः स्थाने भवन्नन्यतरव्यपदेशं लभत इति स्यादेव । न चेह सूत्रे "इक" इत्यस्य रूपपरत्वे प्रमाणमस्ति । उतरसूत्रे तु प्रमाणं वक्ष्यामः । ननु "पूर्वं धातुः साधनेन युज्यते" इत्यस्मिन् दर्शने प्रथमोपनतक्तप्रत्ययापेक्षत्वादुपधालोपोऽन्तरङ्ग इति तदपेक्षः प्रतिषेधोऽप्यन्तरङ्गः, "पूर्वं धातुरुपसर्गेण युज्यते" इति तु दर्शने प्रथमोपनतोपसर्गापेक्षत्वाद् गुणोऽन्तरङ्गः, ततश्च "असिद्धं बहिरङ्गमन्तरङ्गे" इति प्रतिषेधो न भविष्यति ? नैतदस्ति; ङाजानन्तर्ये" इति निषेधात् । अथ गुणवृद्धिविशेषणमार्द्धधातुकग्रहणम्, ततोऽयमर्थः स्यात्--यत्किञ्चन निमिते धातुलोपे सत्यार्द्धधातुकनिमिते गुणवृद्धी न भवत इति ; तदा प्रेद्धमित्यत्र दोषो न, गुणस्यातन्निमितत्वात्; किन्तु क्नोपयतीत्यत्र "क्नूयी शब्दे" इत्यस्माण्णिचि पुकि च यलोपे पुगन्तलक्षणस्य गुणस्य निषेधः स्याद् । अत उभयविशेषणम्--आर्द्धधातुकनिमिते धातुलोपे सत्यार्द्धधातुकनिमिते गुणवृद्धी न भवत इति । तत्र सकृच्छ्४%अतस्योभयविशेषणत्वमेव तावद् दुर्लभम् ? अथापि स्याद्, एवमपि लोपगुणवृद्धीनामेकार्द्धधातुकनिमितत्वं न लभ्यते । ततश्च विभज्यान्वाख्यानपक्षे भेद्यत इत्यत्र भिदेर्ण्यन्तात्कर्मणि यकि भिद् अ इ अ य इति स्थिते नित्यत्वात्पूर्वं णिलोपे कृते यकमपेक्ष्य प्रवृते? प्रत्ययलक्षणेन णिचमपेक्ष्य प्राप्नुवतो गुणस्य निषेधः स्याद्, द्वयोरप्यार्द्धधातुकनिमितत्वादिति तत्पुरुषे सति सर्वथा दोषं दृष्ट्वाऽऽह--ऽतस्य लोपो यस्मिन्निऽति । अस्मिन्पक्षे धातोर्लोपो यस्मिन्निति अन्यपदार्थभूतेनार्द्धधातुकेन लोपो विशेष्यते, साक्षाच्च गुणवृद्धी, धातोर्लोपो यस्मिन् तस्मिन्निति । एकार्द्धधातुकनिमितत्वं च लोपगुणवृद्धीनां लभ्यत इति न कश्चिद् दोषः । ऽते न भवतऽ इति । अनेन गुणवृद्ध्योरयं निषेधः, न पूर्वसूत्रव्यापारस्येति दर्शयति । पदोपस्थापनं हि पूर्वसूत्रव्यापारः । न चैवम्भूत आर्द्धधातुके तस्य प्रसङ्गः, "दीधीवेवीटाम्" इति चासम्बद्धं स्यादुपस्थाननिषेधे । ऽलोलुवऽ इत्यादि । लूपूभ्यां यङ्, द्विर्वचनम्, "गुणो यङ्लुकोः" गुणे निषिद्धे उवङ् । ऽमरीमृज ऽइति । "रीगृदुपधस्य च" । लोलूयादिभ्य इत्यादिना सूत्रार्थमुदाहरणेषु दर्शयति । ननु च यङ्कारस्यातो लोपे कृते तस्या स्थानिवत्वादेव गुणवृद्धी न भविष्यतः, यथा--पापचक इति "अत उपधायाः" इति वृद्धिः, न ह्यत्रानेन निषेधः सिध्यति, किं कारणम् ? अनिग्लक्षणत्वात् । नालोपो लभ्यते, "यङेऽचि च " इति समुदायलुका प्रतिपदविहितेन बाधितत्वात् । योगविभागात्सिद्धम्--अतो लोपो भवत्यार्द्धधातुके, ततो "यस्य" य इत्यस्य समुदायस्य योऽकारस्तस्यापि लोपो भवति । किमर्थमिदम् ? विशेषविहितेन समुदायलुकाऽतो लोपो मा बाधीति । तेन स्थानिवत्वादेव गुणवृद्धी न भविष्यतः । यथैव तर्हि गुणवृद्धी न भवत एवं चेक्षियः, चेक्रियः, लोलुवः, तोष्टुअवः, सुश्रुव इतीयणुवङवप्यच्प्रत्ययमपेक्ष्य न स्याताम् । मा भूतामचि, य एव त्वसौ स्थान्यकारस्तदाश्रयौ भविष्यतः । स हि यकारे लुप्ते प्रत्ययसंज्ञकः । ननु क्षेत्रियः तोष्टुअव इत्यत्रान्तरङ्गानपि विधीन् बहिरङ्गो लुग् बाधत इति अकृत्सार्वधातुकयोर्दीर्घात् प्रागेव यङे लुकि कृते स्थानिवद्भावे सत्यपि चेक्षि अ अ, तोष्टुअ अ अ इति स्थिते स्थान्यकारेण सह लघूपधमङ्गं संजातमिति अच्प्रत्यये गुणः स्यादेव ; न अन्तरङ्गावियणुवङै भविष्यतः, अशिश्रियद् अदुद्रुवद् इति यथा । अतः स्थानिवत्वादेव सिद्धम्, नार्थोऽनेन ? उच्यते; सर्वत्र दीर्घान्तेषु ह्रस्वान्तेषु चेयणुवङेः कृतयोः पुनर्लघूपधलक्षणो गुणः प्राप्नोति । न च पुनरपि स्थानिवद्भावः, आदिष्टादचः पूर्वत्वात् । किञ्च यद्यतो लोपः क्रियेत, जङ्गम इत्यत्र "गमहन्" इत्युपधालोपः स्यात् । अथात्रानङीति प्रतिषेधस्तर्हि दरीदृश इत्यत्र "ऋदृशोः" इति गुणः स्याद्; देद्य इत्यत्र "दीङे युडचि" इति युट् स्यात्; सनीस्रंसः, दनीध्वंस इत्यत्र "अनिदिताम्" इत्युपधालोपः स्यात्; यायावर इत्यादिष्वाकारलोपः स्यात् । यदा पुनर्योगविभागमकृत्वा विशेषविहितः समुदायलुक् क्रियते, तदा हलचोरादेशस्य स्थानिवत्वाभावादुपधालोपादयो न भवन्तीत्यवश्यं समुदायस्य लुगेषितव्यः । एवं च लोलुव इत्यादावपि गुणवृद्धी स्यातामिति सूत्रमपि कर्तव्यम् ॥ ऽलूञ् लवितेऽति । प्रागेव धातुसंज्ञाया भवन्ननुबन्धलोपो धातुलोपो न भवति । ऽरेडसीऽति । "रुष रिष हिंसायाम्" । "अन्येभ्योऽपि दृश्यन्ते" इति विच्, वेरपृक्तस्य लोपः--न धातुलोपो भवति । नन्वसत्यपि धातुग्रहणे लुप्यतेऽस्मिन्नित्यधिकरणसाधनलोपशब्दस्याश्रयणादनैमितिकेऽनुबन्धप्रत्ययलोपे न भविष्यति । तत्र लोपशब्दो हि संज्ञाशब्दः, कथमस्याधिकरणसाधनता लभ्यते । ऽरोरवीतीऽति । "रु शब्दे" यङ्लुकि तिपि रूपम् । नन्वसत्यप्यार्धधातुकग्रहणे धातोर्लोपो यस्मिन्निति बहुव्रीहिर्विज्ञास्यते, रोरवीतीत्यत्र च यङ्लुगनैमितिकः । न ह्यार्द्धधातुकग्रहणं बहुव्रीहित्वे प्रमाणम्; सत्यपि तस्मिंस्तत्पुरुषसम्भवात् । इदं तर्हि प्रयोजनम्--"तुर्वी थुर्वी धुर्वी हिंसार्थाः", मुर्छा मोहसमुच्छ्राययोः, तेभ्यो यङ्लुगन्तेभ्यस्तिबादौ सार्वधातुके परतो राल्लोपे तोतोर्ति मोमोर्तीत्यादौ छरवोर्लोपस्य गुणस्य चैकनिमितत्वान्निषेधः स्यादेव । ऽइक इत्येवेऽति । इक इत्यस्यानुवृत्तिं प्रति न शङ्का कार्येत्येवशब्दस्यार्थः । अतः अभाजि, राग इति "भञ्जेश्च चिणि", "घञि च भावकरणयोः" इत्युपधालोपः ॥ प्रक्रियातर्कगहनप्रविष्टो हृष्टमानसः । हरदतहरिः स्वैरं विहरन् केन वार्यते ॥ क्ङिति च ॥ १।१।५ ॥ क्ङिद्ग्रहणं यदि विधीयमानस्य प्रतिषेधस्य विशेषणं स्याद्--गुणवृद्धी क्ङिति न भवत इति, ततो विधिसंस्पर्शात् " तस्मिन्निति निर्दिष्टे पूर्वस्य" इत्यस्योपस्थानात् क्ङित्यनन्तर एव प्रतिषेधः स्यात् । यद्यपि प्रतिषेधस्य विधानदशायां पौर्वापर्यं न संभवति, तथा निषेध्यमानयोर्गुणवृद्ध्योरपि; तथापि स्थानिन इकोऽनन्तरे क्ङिति प्रतिषेधः स्यात् । एवं हि विधानोतरकालमपि तावद् गुणवृद्ध्यभावरूपस्य प्रतिषेधस्य क्ङिदनन्तरः सम्भवति, "इको यणचि" इत्यादावप्येतावदेव पौर्वापर्यं यद्विधानदशायां तु स्थानिनः, उतरकालं तु विधेयस्य । यदा त्वनूद्यमानयोर्गुणवृद्ध्योर्विशेषणम्-क्ङिति सति ये गुणवृद्धी प्राप्नुतस्ते न भवत इति, तदाऽनुवादकत्वातस्मिन्नित्यादिकायाः परिभाषाया अनुपस्थानम् । न हि "क्ङिति सति ये गुणवृद्धी" इत्युक्ते विधिव्यापारेण क्ङितः कश्चित् संस्पर्शः । विध्यङ्गभूताश्च परिभाषास्तत्रैवोपतिष्ठन्ते नानुवादे, तस्यापि परार्थत्वाद्,द्वयोश्च परार्थयोः परस्परं सबन्धाभावात्; अन्यथा "वृद्धिर्यस्याचामादिस्तद्वृद्धम्" इत्यत्रेक्परिभाषोपस्थाने शालीय इति वृद्धसंज्ञाया अभावातल्लक्षणश्छाए न स्यात् । तथा च "उदीचामातः स्थाने" इति स्थानेग्रहणं कृतम्-आतः स्थाने योऽकार इत्यनुवादकत्वात् "षष्ठी स्थानेयोगा" इति स्थानेयोगो न लभ्येतेति । अतोऽस्मिन् पक्षे क्ङितीति सति सप्तमी "यस्य च भावेन" इति । किङितोर्हि सतालक्षणेन भावेन गुणवृद्ध्योः प्राप्तलक्षणो भावो लक्ष्यते, निमितस्य च सतया निमितिनः प्राप्तिर्लक्ष्यत इति "क्ङिति सति ये गुणवृद्धी प्राप्नुतः " इत्यस्य "क्ङिन्निमिते ये गुणवृद्धी प्राप्नुतस्ते न भवत" इत्यर्थो भवति । भिन्नः, मृष्ट इत्यादौ चोपधाया अपि प्राप्नुवन्त्यौ गुणवृद्धी क्ङितं निमितमाश्रित्य प्राप्नुत इत्येतत्सर्वमालोच्याह--निमितसप्तम्येषेति । निमितात्सप्तमी निमितसप्तमी, पञ्चम्यर्थे शेषत्वेन विवक्षिते पष्ठीसमासः । क्ङिन्निमिते इति । एतेन गुणवृद्धिविशेषणं क्ङिद्ग्रहणमिति दर्शयति । ननु च विधीयमानतया प्राधान्यात् प्रतिषेधस्यैवैतद्विशेषणं युक्तम्, नैतदस्ति; यत्र हि गुणः कृतात्मसंस्कारः प्रधानोपकाराय महते प्रभवति, तत्रात्मनोऽपि संस्कारमनुभूय प्रधानेन सम्बध्यते, यथा-पानीयमेलादिसंस्कृतं पुरुषेण । उक्तं च- "गुणः कृतात्मसंस्कारः प्रधानं प्रतिपद्यते । प्रधानस्योपकारे हि तथा भूयसि वर्तते ॥" इति । इह च गुणवृद्ध्योः क्ङिद्ग्रहणेन विशेषितयोर्महान् प्रधानप्रतिषेधस्योपकारो भवति; व्यवहितस्यापि तत्सिद्धेः । ऽभिन्नऽ इति-"रदाभ्याम्" इति नत्वम् । ऽमृष्टऽ इति - व्रश्चादिना षत्वम् । ऽचिन्वन्तीऽति-"सार्वधातुकमपित्" "हुश्नुवोः सार्वधातुके" । यद्येषा निमितसप्तमी, शचङन्ते दोषः; "धि धारणे" "रि गतौ"तुदादी ताभ्यां तिपि "तुदादिभ्यः शः" "णिश्रिद्रुस्रुभ्यः कर्तरि चङ्" धि अ ति, रि अ ति, श्रि अ त्, द्रु अ त्, इति स्थिते शचङ्न्तस्याङ्गस्य तिपि लघूपधलक्षणश्च गुणः प्राप्नोति, शचङेः परतः पूर्वस्य सार्वधातुकलक्षणश्च, तत्र शचङ्निमितस्यैव प्रतिषेधः स्याद्, न तिङ्निमितस्य । पक्षान्तरे तु तिङ्निमितस्यापि गुणस्य शचङेः परतः प्रतिषेधो लभ्यते । न वा बहिरङ्गलक्षणत्वाद्वहिर्भूततिबाश्रयो गुणो बहिरङ्गोऽन्तर्भूतशचङ्निमिताभ्यामियणुवङ्भ्यां बाधिष्यते । "ग्लाजिस्थश्च ग्स्नुः" इत्यत्र वक्ष्यति--"गिच्चायं प्रत्ययो न कित्, तेन स्थ ईकारो न भवति" इति,"ग्स्नोर्गित्वान्न स्थ ईकारः" इति च । ततश्च भूष्णुरित्यत्र प्रतिषेधो न स्यादित्यत आह--ऽगकारोऽप्यत्रेऽत्यादि । ऽचर्त्वे भूतःऽ-चर्त्वं प्राप्तः । अत एव गकरप्रश्लेषात् संख्यातानुदेशो न भवति; अन्यथा क्ङितौ द्वौ, गुणवृद्धी अपि द्वे इति संख्यातानुदेशः प्राप्नोति-किति गुणस्य, ङिति वृद्धेरिति । ज्ञापकाद्वा, यदयं "मिदेर्गुणः" इति श्यनि ङिति गुणं शास्ति, तज्ज्ञापयत्याचार्यः-ङात्र संख्यातानुदेशो भवति" इति । यदि तर्हि क्स्नुप्रत्ययो गिद्, भूष्णुरितीट् प्राप्नोति, नैष दोषः; "र्श्युकः किति" इत्यत्रापि गकारश्चर्त्वभूतो निर्दिश्यते, सौत्रत्वाच्च निर्देशस्य चर्त्वस्यासिद्धत्वात्प्राप्तमपि "हशि च" इत्युत्वं न भवति, "कुप्वोः" इति विसर्जनीयश्च भवति । ऽकामयतेऽ इति-"कमेर्णिङ्" । ऽलैगवायनऽ इति-लिगुशब्दात्ङडादिभ्यः फक्" इति फक् । "ओर्गुणः" इति गुणस्य प्रतिषेधः कथं न भवति यावतोकार इगेव ? नैतदस्ति; अत्र हि चकारः क्रियते, स इत्यर्थो विज्ञायते, तेनेक इतीमं शब्दमुच्चार्य विधीयमानयोर्गुणवृद्ध्योः प्रतिषेधः, न चैवमोर्गुणः । मृजेरित्यादि । इह त्रिमुनि व्याकरणम्, यथोतरं च मुनीनां प्रामाण्यमिति दर्शनस्थितिस्तेन सूत्रकारेणानुक्तं वार्तिककार आह,तदुक्तं च दूषयति, एवं भाष्यकारो वार्तिककारेण । व्याख्यातृत्वमपि द्वयोश्चास्तीत्येतावत्,? "यस्मिन्विधिस्तदादावल्ग्रहण" इत्यनेन तदादिविधौ सिद्धेऽप्यादिग्रहणं मुख्येऽजादौ यथा स्याद् व्यपदेशिवद्भावेनाजादौ मा भूत् । तुन्दपरिमृजः, यूयं ममृज, त्वया ममृजे । ऽसंक्रमो नामेऽत्यादि । संक्रामतोऽपक्रामतो गुणवृद्धी अस्मादिति कृत्वा । ऽलघूपधगुणस्याप्यत्र प्रतिषेधऽ इति। अत्र सूत्रे लघूपधगुणस्यापि प्रतिषेधः, न तु "सार्वधातुकार्द्धधातुकयोः" इत्येतस्यैवेत्यर्थः । अनेन निमितसप्तम्याः फलं दर्शितम् । अत्र इत्यनेन सूत्रं निर्दिश्यते । इह अचिनोदिति ङितो लिङस्तिबादेशः, स्थानिवद्भावाद् ङिदिति गुणप्रतिषेधः प्राप्नोति, इह "अचिनवम्" इति ङितो लिङे मिपि तस्यापि स्थानिवद्भावपरम्परया ङित्वाद् गुणिप्रतिषेधः स्यादित्यत आह-ऽअचिनवमिऽत्यादि । यदि ङिति यत्कार्यं तद् इङितो लकारस्यादेशे स्थानिवद्भावात्स्यात्, यासुटो चनमनर्थकं स्याद्; लिङे ङित्वादेवि तदादेशेषु ङित्कार्यस्य सिद्धत्वात् ॥ दीधीवेवीटाम् ॥ १।१।६॥ ऽदीधीवेव्योऽरिति । "दीधीङ् दीप्तदेवनयोः" "वेवीङ् वेतिना तुल्ये" इत्येतयोः । अथ दीङ् क्षये" "धीङ् अनादरे" "वेञ् तन्तुसन्ताने" वी गत्यादिषु"-एतेषां ग्रहणं कस्मान्न भवति ? दीङस्तावन्न भवति, "मीनातिमिनोतिदीङं ल्यपि च" इति चकारेणैज्विषय आत्वविधानात् । वेञोऽपि न भवति, गुणप्राप्त्यभावात्, नैतदस्ति; चकारस्तावन्मीनातिमिनोत्यर्थः स्यात्, दीङेऽपि ग्रहणं ल्यबर्थं स्यात्, वेञोऽपि प्रवेयमित्यत्र "ईद्यति" इति ईत्वे कृते गुणः प्राप्नोति । एवं तर्हि चतुर्णां ग्रहणेऽभिप्रेते, असन्देहार्थं "वीवेधीदीटाम्" इति ब्रूयात् । किञ्च-"अवयवप्रसिद्धेः समुदायप्रसिद्धिर्बलीयसी" । ऽइटश्चेऽति । आर्धधातुकस्येडित्यागमस्य । ननु धातुसाहचर्यात् "इट किट गतौ" इत्यस्य धातोर्ग्रहणं युक्तम्, सत्यम्; प्रसिद्ध्यतिशयादागमस्य ग्रहणम्, आगमो हि प्रसिद्धतरः । शास्त्रेऽल्पाचरत्वेन पूर्वनिपाताभावाच्च धातुरिट्, दीधीवेव्योस्तु धातुत्वात्प्रकृतित्वाद् "अभ्यर्हितं च" इति पूर्वनिपातः । अथ दीधीवेव्योः किमर्थं ग्रहणं, यावता छान्दसावेतौ च्छन्दसि च दृष्टानुविधिः, दृश्यते च गुणः "होत्राय वृतः कृपयन्नदीधेत्", "अधीधयुर्दाशराज्ञः" इति, अतस्तयोरनर्थकः प्रतिषेधः ? केचिदाहुः-"आदीध्यनमावेव्यनम् इत्युदाहरतो वृत्तिकारस्य नानयोश्छान्दसत्वमभिप्रेतम्, अन्यथा हि च्छन्दस्येव किंचिदुदाहार्यम्" इति, इदं तु वार्तिकविरुद्धम्; यदाह-"दीधीवेव्योश्छन्दोविषयत्वाद् दृष्टानुविधानाच्च च्छन्दस्यदीधेददीधयुरिति च गुणदर्शनादप्रतिषेधः" इति । ऽ आदीध्यनमिऽति । ल्युटि "एरनेकाचः" इति यणादेशः । ऽकणितेऽति । "कणिरणी शब्दार्थौ" लुटि तिपौ डादेशस्तासि टिलोपः, कणित् अ आ इति स्थिते तकारन्तं लघूपधमङ्गमिति प्राप्तस्य गुणस्य प्रतिषेधः । ननु च ङेड्वशि कृति" इत्यत इडित्यनुवर्तमाने "आर्धधातुकस्येट्" इति पुनरिड्ग्रहणम् "इडेव यथा स्याद्, विकारो मा भूद्" इत्येवमर्थं भविष्यति । यद्येवम्; अलावीत्, पिपठिषतेः क्विपि पिपठी रित्यत्र "अकः सवर्णे दीर्घः" "र्वोरुपधायाः" इति च दीर्घो न स्याद् । अङ्गप्रकरणे नियमादाङ्ग एव विकारो निवर्त्यते, इह च पिपठिषतेरप्रत्यये नपुंसके जसः शिः, अतो लोपस्य स्थानिवत्वान्नुम्न भवतीति शान्तमहतः" इति दीर्धत्वं न भवतीति पिपठिषि ब्राह्मणकुलानीति भवति ॥ हलोऽनन्तराः संयोगः ॥ १।१।७ ॥ अन्तरमवकाशाविधिपरिधानान्तर्द्धिभेदतादर्थ्ये । च्छिद्रात्मीयविनाबहिरवसरमध्येऽन्तरात्मनि च ॥ इत्यन्तरशब्दोऽनेकार्थः । इह च्छिद्रवाचिनो ग्रहणम्; इतरेषामसम्भवात् । न विद्यतेऽन्तरं येषां तेऽनन्तराःउनिश्च्छिद्राः । एतमेवार्थं व्यक्तेन शब्दान्तरेण दर्शयति-ऽभिन्नजातीयैरज्भिरव्यवहिताः श्लिष्टोच्चारिताऽ इति । एवम्भूता हि हलो निश्च्छिद्रा भवन्ति भिन्नजातीयैरिति वचनं तत्रैव व्यवधानप्रसिद्धेः । श्लिष्टोच्चारिता इति वचनादवग्रहेऽपि संज्ञा न भवति-अप्स्वित्यप्सु, विद्यते ह्यत्रान्तरमर्द्धमात्राकालः । ऽसंयोगऽ इति । यद्येकैकस्य हलः शिलष्टोच्चारितस्यैषा संज्ञा स्याद् ? इह च निर्यायादित्यत्र प्रत्येकं संज्ञित्वे सति रेफे यकारः संयोग इति "वान्यस्य संयोगादेः" इत्येत्वं स्यात् । समुदायस्य संज्ञित्वे "अचो रहाभ्याम्" इति यकारस्य सत्यपि द्विर्वचने तस्यासिद्धत्वादेत्वाभावः, इह च संस्कृषीष्ट "ऋतश्च संयोगादेः" इतीट्, संस्क्रियत इति "गुणोऽर्तिसंयोगाद्योः" इति गुणः, दृषत्करोतीति ककारसंनिधौ दकारस्य संयोगाद्योः"? इति लोपः स्यात्, निर्यात इति शंयोगादेरातः" निष्ठानत्वं स्यात्; समुदाये तु संज्ञिनि नैते दोषा इत्यालोच्याह--ऽसमुदायः संज्ञीऽति । महासंज्ञाकरणमन्वर्थसंज्ञाविज्ञानार्थम्-शंयुज्यन्तेऽस्मिन्मिथो हलः" इति । नैरन्तर्यं च श्रुतं संज्ञिरूपेऽनुप्रविशतीति युक्तम् । प्रत्येकपक्षे तु तदुपलक्षणं स्याद् । अतः समुदाय एव संज्ञी युक्त इति भावः । "हलः" इति बहुवचननिर्द्देशाद् द्वयोः संज्ञा न स्यादित्याशङ्क्याह--ऽजातौ चेऽति । च शब्दो यस्मादर्थे, यस्माज्जातौ बहुवचनम्, तेन द्वयोर्बहूनां चेति । अथ यत्र बहवो हलः संश्लिष्टास्तत्र किं द्वयोर्बहूनां चाविशेषेण संज्ञा ? आहोस्विद्वहूनामेव ? यदि बहूनामेव, इह "मस्जिनशोर्झलि" इत्यन्त्यादचः परे नुमि मन्स्ज् इति स्थिते नसजानामेका संज्ञा, न तु सजयोरिति श्कोः संयोगाद्योः" इति सलोपो न स्यात्, नैष दोषः; मस्जेरन्त्यात् पूर्वं नुमेषितव्यः, मग्न इत्युपधालोपो यथा स्यात्; अन्यथा द्वयोस्संज्ञाश्रयेण सत्यपि संयोगादिलोपे तस्यासिद्धत्वान्नलोपो न स्याद् । इह तर्हि निर्ग्लेयात्, संस्वरिषीष्ट, संस्वर्यते, निर्ग्लान इति एत्वेड्गुणनिष्ठानत्वानि न स्युः ? अस्तु तर्ह्यविशेषेण, कुतः ? निश्च्छिद्रत्वस्याविशेषात् !न च द्विर्वचनन्यायेन समुदायस्यैव स्यादिति वाच्यम्; यथा द्विर्वचनं समुदायावयवैकाचोर्युगपत् कर्तुमशक्यम्, नैवमत्राशक्तिः, यथा च समुदाये द्विरुक्तेऽवयवा अपि द्विरुक्ता भवन्ति--वृक्षः प्रचलन् सहावयवैः प्रचलतीति न्यायेन , न च तथेह समुदाये प्रवृतया संज्ञयाऽवयवानां तत्कार्यसिद्धिः । अतो नायं द्विर्वचनन्यायस्य विषयः । अतोऽविशेषेण द्वयोर्बहूनां चेति स्थितम् । यद्येवम्, इन्द्रमिच्छति इन्द्रीयति, ततः सन् इन्दिद्रीयिषतीत्यत्र द्वौ संयोगौ-नदौ, दरौ च; तत्र ङ न्द्राः" इति प्रतिषेधो नकारवद्दकारस्यापि स्यात् । न वाज्विधेः, अजादेरिति वर्तते, तत्र कर्मधारयात् पञ्चमी, आदेरचः परे नदरा न द्विरुच्यन्त इत्यर्थः । ऊग्नि?रित्यादीनि रूपोदाहरणानि । ऽतिलान्त्स्त्र्यावपतीऽति । "हे मपरे वा" इति वर्तमाने "डः सि धुट्" इति च ङश्च" इति धुट् चर्त्वम् । तत्र यदा न धुट्, तदा नसतरयाः; यदा धुट् तदा नतसतरयाः । ऽतितौच्छत्रमिऽति । "तनोतेर्डौः सन्वच्च" इति डौप्रत्ययः, व्यस्तोच्चारणसामर्थ्याद् गुणाभावः, सन्वद्भावाद् द्विर्वचनमित्वं च, टिलोपः । ऽसंयोगान्तलोपः स्यादिऽति । यद्यचोरप्यनन्तरयोः संयोगसंज्ञा स्यादिति भावः । ननु च "छे च" इति तुकि कृते तकारः पदान्तो न संयोगः, नैतदस्ति, "छे च" इत्ययं तुग् ह्रस्वमात्रभक्तो न तदन्तग्रहणेन गृह्यत इति पदं संयोगान्तमेव । पचतीति रूपप्रत्युदाहरणम् । पनसमिति कार्यप्रत्युदाहरणम् । ऽस्कोस्संयोगाद्योरिति लोपः स्यादिऽति । यदि सकारमकारयोः सान्तरयोरपि संयोगसंज्ञा स्यादिति भावः ॥ मुखनासिकावचनोऽनुनासिकः ॥ १।१।८ ॥ यद्यत्र "मुखं च नासिका च" इति द्वन्द्वः स्याद्, "द्वन्द्वश्च प्राणितूर्य" आदिसूत्रेणैकवद्भावः स्यात्, ततश्च श नपुंसकम्" इति नपुंसकत्वे, "ह्रस्वो नपुंसके" इति ह्रस्वत्वे च ऽमुखनासिकवचनःऽ इति प्राप्नोतीत्युतरपदलोपिनं तत्पुरुषं दर्शयति-ऽमुखसहिता नासिकेऽति । ऽतयोच्चार्यतऽ इति । एतेन "कृत्यल्युटो बहुलम्" इति कर्मणि ल्युट्ंअ दर्शयति । "तया" इति करणे कर्तरि वा तृतीया; करणस्यैव कर्तृत्वेन विवक्षणात् । सूत्रेऽपि "मुखनासिकावचनः" इति "कर्तृकरणे कृता बहुलम्" इति तृतीयासमासः, षष्ठीसमासो वा । ऽअनुस्वारस्यैव हि स्यादिऽति । तस्मिन्नुच्चार्यमाणे नासिकाया एव व्यापारो न मुखस्य, तेन तस्यैव स्याद्, न तु ञमङणनानाम्, नाप्यभ्र आÄ अप इत्यस्य; तदुच्चारणे मुखस्यापि व्यापारादित्येवकारेण दर्शयति । ननु यथा "प्रासादवासिन आनीयन्ताम्" इत्युक्ते ये प्रासाद एव निवसन्ति, ये च प्रासादे भूमौ च, ते द्वयेऽप्यानीयन्ते, प्रसादवासान्वय उभयेषामस्तीति, तथेहापिङासिकावचनः" इत्युक्ते यः केवलनासिकावचनः, यश्च मुखनासिकावचनः-उभयोरपि ग्रहणं भविष्यति; नासिकान्वयस्य विवक्षितत्वात् । तत्किमुच्यतेऽनुस्वारस्यैव हि स्यादिति, अनुस्वारस्यापि हि स्यादिति तु वक्तव्यम् ? उच्यते; इह त्रीणि दर्शनानि-कृत्स्न एवानुनासिको मुखेन नासिकया चोच्चार्यते, पूर्वो भागो मुखेन परो नासिकया, विपरीतं वा । नासिक्यभागानुरागाच्चेतरोऽपि भागस्तद्वदेव भासते इति । तत्रोतरस्मिन्दर्शनद्वये नासिकान्वयस्य भागविषयत्वान्नासिकावचनग्रहणेनोभयवचनो न गृह्यते इति सुष्ठूअक्तम्--ऽअनुस्वारस्यैव हि स्यादिऽति । ऽकचटतपानां मा भूदिऽति । ते हि मुखेनैवोच्चार्यन्ते इत्यसति नासिकाग्रहणे तेषामेव स्यात्, ततश्च तर्प्तुमिति "अनुदातोपदेश" इत्यनुनासिकलोपः स्यात्,"ओदनपक्" इति "अनुनासिकस्य क्विझलोः क्ङिति" इति दीर्घः स्यादिति महासंज्ञाकरणमन्वर्थसंज्ञाविज्ञानार्थम्-"अनु पश्चान्मुखस्य नासिका व्याप्रियते यस्मिन्",ङासिकाया वा पश्चान्मुखं व्याप्रियते यस्मिन्" इति । तेन भागविषयो नासिकाव्यापार इति सूचनात् प्रासादवासिन्यायस्यायमविषय इत्युक्तं भवति । तुल्यास्यप्रयत्नं सवर्णम् ॥ १।१।९ ॥ तुल्यशब्दोऽयं यद्यपि तुलया संमितं तुल्यमिति ङौवयोधर्म" इति यतमुत्पाद्य व्युत्पाद्यते, तथापि व्युत्पत्यर्थमेव तुलोपादीयते, रूढशब्दस्त्वयं प्रवीणः, प्रतिलोमादिवदित्याह-ऽतुल्यशब्दः सदृशपर्यायऽ इति । ननु ङौवयोधर्म" इत्यत्र वक्ष्यति--"यथा तुला द्रव्यान्तरं परिच्छिनति, तथा तुल्यामपि सादृश्येन परिच्छिनतीत्येततुलया तुल्यस्य साधर्म्यम्" इति, सत्यम्; न ह्यएवं लौकिकाः प्रतियन्ति । तथा हि -"तुल्य" इत्युक्ते शदृश" इति प्रत्ययो भवति, न तु कश्चिदवयवार्थः प्रतीयते । ऽआस्ये भवमास्यमिऽति । लोकसिद्धं तावदास्यमोष्ठात्प्रभृति प्राक्काकलकाद्-अस्यन्ते क्षिप्यन्तेऽनेन वर्णा इति कृत्वा । काकलकं नाम ग्रीवाया उन्नतप्रदेशः । इह तु तस्मिन्नास्ये भवमास्यमित्यर्थः । "दिगादिभ्यो यत्" "शरीरावयवाच्च" इति यत्प्रत्ययः । किं पुनस्तदित्याह--ऽताल्वादिस्थानमिऽति । यस्मिन्वर्णा निष्पद्यन्ते तत् स्थानम् । आदिश्ब्देन नासिकादीनां ग्रहणम् । नासिकापि न बाह्या वर्णोत्पतिनिमितम्, किं तर्हि ? अन्तरास्ये चर्मविततमस्ति, पणवचर्मवत्, तत्संबद्धा रेखा नासिका, तस्यां वायुनाऽभिहतायां वर्णोत्पतिः । यदि पुनर्लौकिकमास्यं गःह्यएत, तदा तुल्यास्यप्रयत्नमिति द्वन्द्वगर्भो बहुव्रीहिः स्यात्-आस्यं च प्रयत्नश्च आस्यप्रयत्नौ, तौ तुल्यौ यस्येति; त्रिपदो वा बहुव्रीहिः - तुल्य आस्य प्रयत्नो यस्येति । तत्र द्वन्द्वगर्भे आस्यग्रहणं व्यर्थं स्यात्, सर्वेषां हि ततुल्यम् । विसर्जनीयस्यैकीयमतेनोरस्यत्वात् सावर्ण्याभावेऽपि न दोषः, त्रिपदे तु बहुव्रीहावास्येन प्रयत्नस्य विशेषितत्वादास्याद्वाह्याः प्रयत्ना हापिता भवन्ति, किन्तु ताल्वादिस्थानं तुल्यत्वेनाविशेषितं स्यात् । ततश्च भिन्नस्थानानामपि जबगडदानां सवर्णसंज्ञा प्राप्नोति । तत ऊर्ग्ज इति "झरो झरि" इति गकारस्य जकारे लोपः स्याद् । अतस्तद्धितान्तस्यैव ग्रहणम् । तत्रापि यदि द्वन्द्वगर्भो बहुव्रीहिः स्यात्, स्थानेन प्रयत्नो न विशेषितः स्यात्; ततश्च ककारङ्कारयोर्मिथः सवर्णसंज्ञा न स्यात्; बाह्यप्रयत्नस्य भिन्नत्वात् । ततश्च शङ्कितेति "अनुस्वारस्य ययि परसवर्णः" इति ङ्कारो न स्यात् । अथ सत्यपि बाह्यप्रयत्नभेदे आभ्यन्तरस्य प्रयत्नस्याभेदमाश्रित्य संज्ञा स्यात्, चकारशकारयोरपि सत्याभ्यन्तरभेदे बाह्याभेदमाश्रित्य सवर्णसंज्ञा प्राप्नोति । ततश्च अरुश्च्योततीति वक्ष्यमाणप्रत्युदाहरणं नोपपद्यते इतीमं दोषं दृष्ट्वा त्रिपदोऽयं बहुव्रीहिरिति दर्शयति--ऽतुल्य आस्ये प्रयत्नो यस्येऽति । तद्धितान्त आस्यशब्दो न स्वाङ्गवाच्येवेति"अमूर्द्धमस्तकात्" इत्यलुङ्न भवति । नन्वस्मिन्नपि पक्षे भिन्नविभक्तिकत्वात् प्राधान्याच्चास्यं तुल्यत्वेनाविशेषितं स्याद्; नैवात्रास्यं तुल्यतया विशेष्यते, भेदनिबन्धना हि तुल्यता । न च कखगघङं भिन्नं स्थानम्, एकत्वात्कण्ठस्य, किन्तु तद्धितान्तस्यास्यशब्दस्याश्रयणसामर्थ्यादस्य इत्येकत्वं विवक्षितम् । तेनैकस्मिन्नेव ताल्वादिके स्थाने यः प्रयत्नः, स तुल्यो ययोरित्याश्रयणान्न कश्चिद्दोषः । ऽसमानजातीयं प्रतीऽति । एतच्च संज्ञाविधानसामर्थ्याल्लभ्यते, अन्यथा यत्किञ्चनवर्णापेक्षया तुल्यास्याप्रयत्नत्वेन सवर्णत्वे लब्धे तदाश्रयमन्यस्यापि कार्यं स्यात्, सवर्णसंज्ञाविधानमनर्थकं स्यात् । न च रेफोष्मनिवृत्यर्थं वचनम्; रेफस्यापि रेफः सवर्ण एव, एवमूष्मस्वपि द्रष्टव्यम् । संबन्धिशब्दत्वाद्वा सम्बन्धिशब्दो हि तुल्यास्यप्रयत्नशब्दः, ततश्च यथा तुल्याय कन्या दातव्येत्युक्ते दात्रा तुल्यायेति गम्यते, तथेहापि । अथ वा, महती संज्ञा क्रियते; अन्वर्था यथा विज्ञायेत-समानएऽस्य वर्णः सवर्ण इति । यदि च समानजातीयमेव प्रति सवर्णसंज्ञा भवति, एवं समानोऽस्य वर्णो भवति । ऽचत्वारऽ इत्यादि । द्विविधाः प्रयत्नाः-बाह्याः, आभ्यन्तराश्च । तत्राभ्यन्तराश्चत्वारो वृतौ दर्शिताः । आभ्यन्तरत्वं पुनरेषाम्-स्थानकरणव्यापारेण; उत्पत्तिकाल एव भावात् । स्थानं ताल्वादि, करणं जिह्वाया अग्रोपाग्रमध्यमूलानि । बाह्याः पुनरेकादश-विवारः, संवारः, श्वासः, नादः, घोषः, अघोषः, अल्पप्राणः, महाप्राणः, उदातः, अनुदातः, स्वरितश्चेति । बाह्यत्वं पुनरेतेषाम्--वर्णनिष्पतिकालादूर्ध्वं वायुवशेनोत्पतेः । तत्र स्पृष्टकरणाः स्पर्शाः, कादयो मावसानाः स्पर्शाः । स्पृष्ट्ंअ स्पृष्टतागुणः, करणं कृतिरुच्चारणप्रकारः, स्पृष्टतानुगतं करणं येषां ते तथोक्ताः । एवमन्यत्रापि - ईषत्स्पृष्टकरणा अन्तःस्थाः; यरलवा अन्तःस्थाः । विवृतकरणा ऊष्माणः स्वराश्च; शपसहा ऊष्माणः, स्वराः सर्व एवाचः । वर्गाणां प्रथमद्वितीयाः; शषसविसर्जनीयजिह्वामूलीयोपध्मानीयाः; यमौ च प्रथमद्वितीयौ; विवृतकण्ठाः, श्वासानुप्रदानाः अघोषाः; वर्गयमानां प्रथमेऽल्पप्राणाः, इतरे महाप्राणाः । वर्गाणां तृतीयचतुर्थाः, अन्तःस्थाः, हकारानुस्वारौ,यमौ तृतीयचतुर्थौ संवृतकण्ठा नादानुप्रदाना घोषवन्तश्च । वर्गयमानां तृतीया अन्तःस्था अल्पप्राणाः, इतरे महाप्राणाः । यथा तृतीयास्तथा पञ्चमाः, आनुनासिक्यमेषामधिको गुणः । तत्र यमा नाम वर्गेष्वादितश्चतुर्णां पञ्चमेषु परतः त एव नासिक्या भवन्ति । तद्यथा--पलिक्रीरिन्, चख्नतुः, आग्मन्नायः, जघ्नतुः, अप्नस्वतीमित्यादि? । य एते द्विविधाः प्रयत्नाः, तेषामिह सवर्णसंज्ञायामाभ्यन्तराः स्पृष्टतादयश्चत्वार एवाश्रीयन्ते, न विवारादयो बाह्याः; आस्यग्रहणेन तेषां निवर्तितत्वात् । अ अ अ इत्यादि । अत्र सवर्णसंज्ञो भवतीति प्रकृतं बहुवचनान्तं विपरिणतमनुषज्यते, त्रयोऽकारा मिथः सवर्णंसंज्ञा भवन्तीत्यर्थः । कथं त्रयोऽकाराः, यावता प्रत्युच्चारणं भेदेऽनन्ताः, अभेदे त्वेक एव ? तत्राह--ऽउदातेऽति । अनेन प्रकारेण त्रय इत्यर्थः । एवं च "त्रयः" इत्यस्य "त्रिविधा"इत्यर्थो भवति । तत्राकुहविसर्जनीयाः कण्ठयाः, इचुयशास्तालव्याः, उपूपध्मानीया ओष्ठयाः, ऋटुअरषा मूर्द्धन्याः, लृतुलसा दन्त्याः, एऐ कण्ठ।ल्तालव्यौ, ओऔ कण्ठ।लेष्ठयौ, वकारो दन्तोष्ठयः-इत्येवं तुल्यस्थानप्रयत्नाः सर्वेऽकारादयो मिथः सवर्णसंज्ञा भवन्तीति । ऽअन्तःस्था । द्विप्रभेदाऽ इति । अत्रापि पूर्ववदनुषङ्गः, अन्तःस्था इत्युक्तेऽपि रेफनिवृत्यर्थं स्वरूपेण पठति । ऽयवला ऽइति । ऽरेफोष्मणां सवर्णा न सन्तीऽति । विजातीयाभिप्रायमेतत् । सजातीयास्तु रेफोष्माणस्तुल्यस्थानप्रयत्नास्सवर्णा भवन्त्येव । तत्र रेफस्य तावद्यवला भिन्नस्थाना ऋटुअरषा भिन्नप्रयत्ना अन्ये भिन्नस्थानप्रयत्नाः । एवमूष्मणामपि सवर्णाभावो वेदितव्यः । ऽवर्ग्यऽ इत्यादि । वर्गे भवो वर्ग्यः, दिगादित्वाद्यत् । ऽवर्ग्येणऽ--स्ववर्गान्तःपातिना । तद्यथा ककारः खकारेण । ऽतर्प्तेऽति । "तृप् प्रीणने" । ऽइचुयशानामिऽति । एषां मध्ये येषां प्रसङ्गः, तेषां मा भूदित्यर्थः । ऽअरुश् श्च्योततीऽति । "श्च्युतिर् क्षरणे" । अरुःशब्दस्य रुत्वविसर्जनीययोः "वा शरि" इति सकारः, तस्यापि श्चुत्वे शकारः । ऽऋकारलृकारयोरिऽति । स्थानभेदान्न प्राप्नोतीत्यारम्भः । श्रुतत्वाच्चानयोरेवमिथः सवर्णसंज्ञा विधीयते, न त्वेतयोरन्येन सह । ऽहोतृकारऽ इति । कथं पुनरत्र समुदायिनोऽन्तरतमो भवति न समुदायस्य, तत्रापि ऋकारस्यैव न लृकारस्येत्यत आह-ऽउभयोरिऽत्यादि । उभयोरन्तरतमो दीर्घो न सम्भवति, लृकारस्यापि दीर्घो न सम्भवतीत्यत आञ्कार एव भवत्युभयोरित्यर्थः । ननु च नैतत्सवर्णसंज्ञायाः प्रयोजनम्, कथम् ? "अकः सवर्णे" इत्यत्र तु वक्ष्यति "ऋति ऋ वा वचनम्, लृति लृ वा वचनम्" इति । तत्र चायमर्थः-अकां सवर्णे ऋति परतो वा ऋ भवति; द्विमात्रोऽयम्, मध्ये द्वौ रेफौ तयोरेका मात्रा,अभितोऽज्भक्तेरपरा, ईषत्स्पृष्टश्चायम् । तत्र प्रयत्नभेदादृकारेणाग्रहणाद् अनण्त्वाद्दीर्घसंज्ञाया अभावादप्राप्तोऽयं विधीयते । लृति लृ वा वचनमित्ययमपि द्विमात्र ईषत्स्पृष्टश्च, मध्ये द्वौ लकारौ, तयोरेका मात्राऽभितोऽज्भक्तेरपरा । पूर्ववदप्राप्तौ विधीयते । तत्र ऋति ऋ वा वचनमित्यत्र वाशब्दो दीर्घस्य समुच्चयार्थः, तेनाप्राप्त एव दीर्घो भविष्यति । ननु यद्यविधायैव सवर्णसंज्ञां तदुच्यते, ततोऽक इति सम्बन्धादङ्मात्रस्य लृति तत्कार्य स्याद् दध्य्लृकारो मध्व्लृकार इति, संज्ञाविधाने तु ऋकार ऋकारस्यैव सवर्ण इति तत्रैव व्यवस्थितं भवति । तस्मादविधेया सवर्णसंज्ञा ? न विधेया, यदेतद् ऋतीति "एतदृत इति वक्तव्यम्, सवर्ण इत्येव, ऋकारस्य ऋकार एव सवर्णः" इति ऋत्येव भविष्यति । तत लृति, ऋत इत्येव । इदं चासवर्णार्थम्, तेन लृति रूपद्वयं सिद्धम्-होतृकारः, होत्लृकार इति । तन्न वक्तव्यं भवति । कथम् ? ऋ वा वचनम्, लृ वा वचनमिति ब्रुवतापि तयोरच्त्वं वक्तव्यम्; अन्यथा विधानमात्रमनयोः स्याद्, न त्वच्कार्यः प्लुतः । सति त्वच्त्वे ताभ्यां त्रिमात्रयोरपि सावर्ण्याद् ग्रहणे सति प्लुतसंज्ञा भवतीति प्लुतसिद्धिः । एवं च होतृ ऋकार इति ऋकारयो रेफद्वययुक्तत्वाद्विवृतत्वाच्च कदाचिद्रेफद्वययुक्त ऋ भविष्यति, कदाचिद्विवृतः शुद्धो दीर्घः । लृकारेऽपि कदाचिदृकारान्तरतम ऋकारः, कदाचिद् लृकारान्तरतम लृकार इति, सत्यम्; सवर्णसंज्ञायां तन्न वक्तव्यं भवति, तद्वोच्येत, इदं वा, को न्वत्र विशेषः । इदं वाऽवश्यं वक्तव्यम्, इदमपि सिद्धं भवति "ऋत्यकः" - खट्वालृकारः, मातृलृकारः । "वा सुप्यापिशलेः"-उपलृकारीयति, उपाल्कारीयतीति । ऋदिताम्लृदितां च धातूनां पृथगुपदेशसामर्थ्यादनुबन्धकार्याणअमसङ्करः ॥ नाज्झलौ ॥ १।१।१० ॥ अत्राज्झलौ न केनापि सवर्णसंज्ञौ भवत इति तावदर्थो न भवति; संज्ञाया निर्विषयत्वात् । एतावन्तो वर्णा अचश्च हलश्च । नाप्यचामज्भिर्हलां हल्भिः सवर्णत्वनिषेधः; अत एव निर्देशात् । अन्यथाऽकारस्याकारे दीर्घो न स्यान्नाजिति, नाप्यज्झलाविति पूर्वसवर्णः । तस्मादचां हलां च मिथः सवर्णसंज्ञा निषिध्यते । तत्र च यद्यपि ङाज्झलौ" इति सामान्येनोक्तम्, तथाप्यकारहकारयोरिकारशकारयोश्च प्राप्तिरिति तत्रैव निषेधः । यद्येवम्, नाण्शलाविति वक्तव्यम् ? न तावदेवं लाघवे विशेषः । किं च प्रागुक्तं पक्षद्वयं सम्भाव्येत । ऽअच्च हल् चेऽति । अनेन नात्राज्झलोर्निर्देश इति दर्शयति । तत्रापि न दोषः कश्चित्, किन्तु पक्षान्तरसम्भावनैव । तुल्यास्यप्रयत्नाविति प्रसङ्गे हेतुमाह । सवर्णदीर्घत्वं न भवतीति प्रतिषेधस्य फलं दर्शयति । ननु दीर्घविधावचीत्यनुवर्तते, तच्चावश्यमनुवर्त्यम्, कुमारी शेते इत्यत्र मा भूदिति, न ह्यात्रानेन निषेधः सिद्ध्यति । किं कारणम् ? वाक्यापरिसमाप्तेः । इह हि वर्णानामुपदेशः पूर्वम्, तत इत्संज्ञा, ततः "आदिरन्त्येन सहेता" इति प्रत्याहारः, ततः ङाज्झलौ" इत्यस्य निष्पतिः, तस्मिंश्च निष्पन्ने सत्यपवादविषयपरिहअरेणेष्टविषये सवर्णसंज्ञा प्रवर्तते, न त्वेतत्सूत्रनिष्पतिसमये । ततश्च "अणुदित्सवर्णस्य च" इत्येतत् स्वाङ्गभूतेषु उपदेशेत्संज्ञाप्रत्याहारसवर्णत्वेषु निष्पन्नेषु "अस्य च्वौ" इत्यादिषु वर्तते, न त्वङ्गेषूपदेशादिष्विति ङाज्झलौ" इत्यगृहीतसवर्णानामचां ग्रहणमिति सिद्धम् । अवश्यं चागृहीतसवर्णानामेवाचां ग्रहणमेष्टव्यम्, अन्यथा ह्यजिति गृह्यमाण इकारः शकारस्य? ग्राहकः स्यात् । न चास्मिन्नपि सूत्रेऽयमेव निषेधः, स्वात्मनि क्रियाविरोधात् । अतोऽज्ग्रहणेनापि शकारस्य ग्रहणम्, हल्षु चोपदेशाद्धल्ग्रहणेनापीति शकारद्वयस्य मिथः सवर्णसंज्ञा न स्यात् । ततश्च "परःशतानि कार्याणि" इत्यत्र शतात्पराणि, शतादधिकानीति विगृह्य "कर्तृकरणे कृता बहुलम्" इति बहुलवचनात्समासे पारस्करादित्वात्सुटि कृते "अनचि च" इति शकारस्य द्विर्वचने परश्श्शतानीति स्थिते मध्यमस्य शकारस्य "झरो झरि सवर्णे" इति लोपो न स्यादिति सर्वदा शकारत्रयश्रवणप्रसङ्गः । अतोऽगृहीतसवर्णानामचां ग्रहणादीकारशकारयोरप्रतिषिद्धं सवर्णत्वमिति "कुमारी शेते" इत्यत्र मा भूदिति दीर्घविधौ "अचि " इत्यनुवर्त्यं तदनुवृत्तिसामर्थ्याच्चाजेव योऽज् न कथञ्चन हल्, तत्रैव दीर्घत्वविज्ञानाद्धकारशकारयोरकारेकाराभ्यां सावर्ण्येन ग्रहणादच्त्वे सत्यपि हल्त्वस्यापि भावाद्दीर्घाभावः सिद्धः, सत्यम्; अज्ग्रहणमप्यन्यार्थमनुवर्त्यम्, इदमपि वैपाशो मत्स्यः, आनडुहं चर्म्मेत्यत्र यस्येति लोपाभावार्थं कर्तव्यं दण्डहस्तो दधिशीतमित्येतदुभयथापि सिद्ध्यतीति प्रदर्शनार्थमुदाहरणद्वयमुपन्यस्तम् । ऽवैपाशा ऽइति -भवार्थेऽण् । ऽआनडुहमिऽति-विकारे "प्राणिरजतादिभ्योऽञ्" ॥ ईदूदेद् द्विवचनं प्रगृह्यम् ॥ १।१।११ ॥ अत्र चत्वारः पक्षाः सम्भवन्ति-ईदादि विशेष्यम्, द्विवचनं विशेषणम्, तत्र द्विवचनान्तत्वमीदादेर्न सम्भवतीति द्विवचनसंज्ञकमीदादि प्रगृह्यमिति प्रथमः पक्षः । ईदादि विशेषणम्, द्विवचनं विशेष्यम्, विशेषणेन तदन्तविधावीदाद्यन्तं द्विवचनमिति द्वितीयः पक्षः । प्रत्ययग्रहणपरिभाषया तदन्तविधौ सति पश्चाद् द्विवचनान्तस्येदादिभिर्विशेषणादीदाद्यन्तं द्विवचनान्तमिति तृतीयः । ईदादिविशिष्टेन द्विवचनेन तदन्तविधावीदाद्यन्तं यद् द्विवचनम्, तदन्तं प्रगृह्यमिति चतुर्थः । तत्राद्ये पक्षे-अग्नी, वायू, खट्वे इत्यादावेव स्यात्; एकादेशस्य परं प्रत्यादिवद्भावेन द्विवचनमीदादीति, पचेते पचेथे पचावहे इत्यादावेकारमात्रस्याद्विवचनत्वान्न स्यात् । तृतीये तु-कुमार्योरगारं कुमार्यगारम्, वध्वोरगारं वध्वगारम्; इत्यत्रापि स्यात्-एतद्धि प्रत्ययलक्षणेन द्विवचनान्तमीदाद्यन्तं च श्रूयते । यथा हि "तावकीनः" इत्यादावादेशेन संख्याविशेषो व्यज्यते, तथेहापि सत्यां प्रगृह्यसंज्ञायां प्रकृतिभावेन द्वित्वमभिव्यज्येतेति स्याद् द्विवचनान्तस्यापि समासः । चतुर्थे कुमार्यगारमित्यादावप्रसङ्गः; द्विवचनस्यानीदाद्यन्तत्वात्, किन्त्वशुक्ले शुक्ले समपद्येतां शुक्ल्यास्तां वस्त्रे-अत्रापि प्राप्नोति, कथम् ? शुक्लशब्दाद्वस्त्रवृतेर्द्विवचनमौ, ङपुंसकाच्च" इति शीभावः, ततश्च्विः, शीशब्दस्य शुपो धातु" इति लुक्, "अस्य च्वौ" तद्धितान्तत्वात्सुः, अव्ययत्वाल्लुक्; अत्र शीशब्द ईकारान्तं द्विवचनम्, तदन्तश्च समुदायः प्रत्ययलक्षणेनेति प्रगृह्यसंज्ञा प्राप्नोति । अयं च तृतीयेऽपि पक्षे समानो दोषः । किं च-संज्ञाविधौ प्रत्ययग्रहणे तदन्तविधिप्रतिषेधात् तदन्तपक्षोत्थानमेव नास्ति, अतो द्वितीयं पक्षमाश्रित्याह-ऽईद् ऊद् एद् इत्येवमन्तं द्विवचनमिऽति । नन्वस्मिन्नपि पक्षे ईदूतोः केवलयोरेव संभव इत्यग्नी इत्यादिकं यद्यपि सिध्यति, तथाप्येकारान्तस्य तु द्विवचनस्य "पचेते" इत्यादौ सम्भवातत्रैव स्यात्, न खट्वे इत्यादौ; व्यपदेशिवद्भावेनात्रापि भविष्यति । किं पुनरत्र प्रमाणमयमेव पक्ष आश्रीयत इति ? तृतीयचतुर्थयोस्तावदसम्भव एव; संज्ञाविधौ प्रत्ययग्रहणे तदन्तविधिप्रतिषेधात् । संज्ञायाश्च संज्ञ्यपेक्षायामनन्तरश्रुतं द्विवचनमेव संज्ञीत्युक्तमिति प्रथमस्याप्यसम्भवः । अत्र चतुर्थः पक्षोऽसम्भवादेव निरस्तः; न दोषवत्वात् । शुक्ल्यास्तां वस्त्र इत्यत्र हि "अन्तरङ्गानपि विधीन् बहिरङ्गो लुग्वाधते" इति अन्तरङ्गमपि शीभावं बाधित्वा शुपो धातु" इति लुकि कृतेऽनीकारान्तं द्विवचनं भवति । अग्नी इत्यादौ प्रगृह्यत्वात् "प्लुतः प्रगृह्या अचि" इति प्रकृतिभावः । प्रत्युदाहरणेषु तदभावात् स्वरसन्धिः । तपरकरणं गुणान्तरभिन्नानां तत्कालानां ग्रहणार्थमिति चेत्, न; अभेदकत्वाद् गुणानाम् । भिन्नकालानां निवृत्यर्थमिति चेत्, न; ईदूतोरनण्त्वात् । स्यादेतत्-जातिपक्षे यद्यपि दीर्घोच्चारणसामर्थ्यात् प्रयत्नाधिक्यात् अकुर्वह्यत्रेत्यादौ ह्रस्वानां न स्यात्, प्लुतानां तु स्यादेव । एकारस्य त्वण्त्वादपि प्लुतस्य प्रसङ्गः, अतः प्लुतनिवृत्यर्थं तपरकरणमिति, तन्न; इष्टत्वात् । किमर्थं पुनः प्लुतानां प्रगृह्यसंज्ञेष्यते ? प्रगृह्याः प्रकृत्येति प्रकृतिभावो यथा स्यात् । मा भूदेवम्, प्लुतः प्रकृत्येत्येव भविष्यति । यत्र तर्हि प्लुताश्रयः प्रकृतिभावः प्रतिषिध्यते-"अप्लुतवदुपस्थिते" इति, तत्र प्रगृह्याश्रयः प्रकृतिभावो यथा स्याद् अग्नी३ इतीति । इह च अग्नी३ अप्रगृह्यस्येत्यनुनासिकपर्युदासो यथा स्यात् । अतः प्लुतानामपि प्रगृह्यसंज्ञाया इष्टत्वान्न तन्निवृत्यर्थमपि तपरकरणमित्यत आह-ऽतपरकरणमसन्देहार्थमिऽति । असति हि तस्मिन् समाहारद्वन्द्वे नपुंसकह्रस्वत्वे च कृते य्वीति निर्देशे सन्देहः स्यात् । इतरेतरयोगाद्वन्द्वेऽपि सन्देह एव । तस्मादसन्देहार्थं तपरकरणम् । यद्यसन्देहार्थमपि तपरत्वं क्रियते, तदेव प्लुतस्येष्टां संज्ञां व्यावर्तयति,तत् प्लुतस्य कथं संज्ञा ? मा भूत् प्लुतस्य, तस्य त्वसिद्धत्वात् स्थानिनि प्रवृता संज्ञा स्वारसन्धिमनुनासिकं च प्रतिभन्त्स्यति, सिद्धः प्लुतः स्वरसन्धिषु,प्लुतः प्रकृत्येति लिङ्गात् । अन्यथा कार्यिणोऽसत्वात्कस्य प्रकृतिभावो विधीयते ! यस्य च विकारप्रसङ्गः, प्लुतप्रकरणे तस्य प्रकृतिभावो विधेयः, प्लुतस्यासिद्धत्वेन तस्य विकाराप्रसङ्ग इति प्लुतस्यासतः प्रकृतिभावविधानमनुपपन्नम् । अस्तु, स्वरसन्धिप्रकरणे प्लुतः सिद्धः, संज्ञाविधावसिद्धः । संज्ञाविधौ च सिद्धः, कथम् ? कार्यकालं संज्ञापरिभाषम्, ततश्च प्रगृह्याः प्रकृत्येत्यत्रास्योपस्थानात् संज्ञापि स्वरसन्धिप्रकरणान्तर्गता । एवं तर्हि सिद्धः प्लुतः स्वरसन्धिष्विति नाश्रीयते, प्लुतभावी प्रकृत्येति स्थानिन एव प्रकृतिभावो विधास्यते ? एवमप्यनुनासिकपर्युदासो न सिध्यति, कार्यकालपक्षे संज्ञायामपि प्लुतस्य सिद्धत्वात् । एवं तर्हि "यथोद्देशं संज्ञापरिभाषम्" ततश्चास्मिन् प्रदेशे संज्ञायां क्रियमाणायां प्लुतस्यासिद्धत्वात् स्थानिनि प्रवृता संज्ञा स्वरसन्धिमनुनासिकं च प्रतिभन्त्स्यति । ननु यद्यपि संज्ञायामसिद्धः प्लुतः, अनुनासिकपर्युदासे तु सिद्धः, ततश्च यस्यानेन संज्ञा कृता द्विमात्रस्य, न सोऽनुनासिकविधिं प्रति स्थानी, किन्तु त्रिमात्र एव । न च स्थानिवद्भावातस्यापि प्रगृह्यत्वम्, अल्विधित्वात् । अवश्यं च "सिद्धः प्लुतः स्वरसन्धिषु" इत्याश्रयणीयम्, दण्ड-आ३ढकमिति प्लुतस्य सवर्णदीर्घेण निवृत्तिर्यथा स्यात् । तथा च "अङुण्" इत्यत्र सर्वैरेव ग्रन्थकारैरुक्तम् । तथा सुश्लोका३ इति सउश्लोकेति--अत्रापि "अप्लुतवदुपस्थिते" इति प्लुताश्रये प्रकृतिभावे प्रतिषिद्धे गुणो भवन् प्लुतमेव निवर्तयति, न तु स्थानिनम्; अन्यथा ह्यादेशरूपे प्लुतः श्रूयेत । तदिह यथोद्देशेऽपि संज्ञापरिभाषे, कथमिवेष्टसिद्धिः ? कथं वा ग्रन्थेषु पूर्वापरविरोधपरिहारः ? इति विपश्चितः प्रष्टव्याः । ऽमणीवादीनामिऽति ।शिद्धये" इति शेषः । न पुनर्मणीवादीनामपरः प्रतिषेधो विधेयः । न चेदं वचनम्, भाष्यवार्तिककाराभ्यामपठितत्वात्; किन्तु मणीवादीनां निर्वाहः कर्तव्य इत्यर्थः । तत्र "मणीवोष्ट्रस्य लम्बेते" इत्यत्र वाशब्दस्योपमानार्थस्य प्रयोगः । रोथसीवेत्यादौ थछान्दसत्वादिति निर्वाहः ॥ अदसो मात् ॥ १।१।१२ ॥ "स्वरितेनाधिकारः" इत्यत्र द्वौ पक्षौ-अर्थाधिकारः, शब्दाधिकारश्चेति । तत्रार्थाधिकारो नाम-यस्य यस्मिन्सूत्रे स्वरितत्वं प्रतिज्ञातं तत्र तस्य योऽर्थः स उतरत्राधिक्रियत इति । शब्दाधिकारस्तु स एव शब्दोऽविवक्षितार्थोऽधिकृतस्ततत्सूत्रानुगुणमर्थं प्रतिपादयतीति । तत्रार्थाधिकारे पूर्वत्रेदादिभिस्तदन्तं प्रत्यायितम्, इहानुवृतम् "मात्" इत्यनेन विशेष्येतेति "अमुकेऽत्र" इत्यत्रापि प्रसङ्गः, शब्दाधिकारे त्विदादिमात्रस्येहानुवृतस्यापि विशेष्याभावादसति तदन्तविधौ "मात्" इत्यनेन विशेषणाददोष इति तमाश्रित्याह-ऽतस्मात्परे ईदूदेदन्ताऽ इति । ऽप्रगृह्यसं ज्ञाऽ इति । प्रगृह्यशब्दः संज्ञा येषां ते तथोक्ताः । यद्यपि पूर्वसूत्र एव प्रगृह्यशब्दः संज्ञात्वेन विनियुक्तः, तथापीह संज्ञिनो न प्रत्याययति; स्वरूपपदार्थकस्यैव तस्येहानुवृतेः । किमर्थमिदमुच्यते, यावता स्त्रीनपुंसकयोर्द्विवचने मुत्वस्यासिद्धत्वेऽप्येकारान्तत्वात् पूर्वेणैव सिद्धा संज्ञा; स्वरसन्धिप्रकरणे च मुत्वस्यासिद्धत्वादेकारस्यैव विकारप्रसङ्गे प्रकृतिभावोऽपि सिद्धः,अनुनासिकपर्युदासश्च कार्यकालपक्षे लिङ्गत्रयेऽपि द्विवचने सिद्धः ? "अणोऽप्रगृह्यस्य" इत्यत्रोपस्थितेन पूर्वसूत्रेण संज्ञायां क्रियमाणायां मुत्वस्य सिद्धत्वात् । अतोऽनुनासिकपर्य्युदासेऽद्विवचनार्थोऽयमारम्भः, प्रकृतिभावे तु पुंसि द्विवचनार्थश्च । नन्वारब्धेऽप्यस्मिन्यथोद्देशपक्षे संज्ञायां कर्तव्यायां मुत्वमीत्वयोराश्रयात्सिद्धत्वेऽपि स्वरसन्धिप्रकरणे तयोरसिद्धत्वादयावेकादेशप्रसङ्गः, अमी आसते इत्ययादेशः, अमू आसाते इति पुंस्यावादेशः, अमी अत्र इति "एङः पदान्तादति" इत्येकादेशः । न च संज्ञाया वैयर्थ्यम्; अनुनासिकपर्युदासेनार्थवत्वात् । तत्र हि कर्तव्ये मुत्वमीत्वयोरसिद्धत्वाभावाद्ययोरनेन संज्ञा कृता तावेव ?न, न तं प्रति । कार्यकालपक्षे तु संज्ञायामपि कर्तव्यायामाश्रयात् सिद्धत्वं नाश्रयणीयम्;"अणोऽप्रगृह्यस्य" इत्यत्रोपस्थितेऽस्मिन् कर्तव्ये मुत्वमीत्वयोः सिद्धत्वात्, तावता चास्य चरितार्थत्वात् । तदेवमुभयोरपि पक्षयोः स्वरसन्धिः स्यादेव ? उच्यते; यद्यनुनासिकपर्युदास एव प्रयोजनमभविष्यद् "अणोऽप्रगृह्यस्यानुनासिकोऽदसो न " इत्येवावक्ष्यत् । अमुके, अमुयेत्यादावनण्त्वादनवसानत्वाच्चाप्रसङ्गः । अतः संज्ञारम्भसामर्थ्यात् प्रकृतिभावार्थत्वमप्यस्य विज्ञायते, तच्च स्वरसन्धिप्रकरणे मुत्वमीत्वयोः सिद्धत्वमन्तरेणानुपपन्नमित्युभयोरपि पक्षयोः सामर्थ्यादसिद्धत्वबाधः । ऽमादिति किमिऽति । "अदस" इति षष्ठी, अमी अमू इत्यत्र च मूत्वमीत्वयोः स्थानिनावेकादेशावन्तवद्भावाददस्-शब्दग्रहणेन गृह्यएते इति तदादेशयोरपि तद्ग्रहणेन ग्रहणादस्ति तावदिष्टसिद्धिः । एदिति च निवर्तिष्यते, न च मात्परावीदूतौ सम्भवत इत्यतिप्रसङ्गोऽपि नास्तीति प्रश्नः । ऽअमुकेऽत्रेतिऽ । एकयोगनिर्द्दिष्टानामेकदेशानुवृत्तिर्दुर्ज्ञानेति भावः । न च मादित्यस्मिन् सत्यपि एद्ग्रहणसामर्थ्यादत्र प्रसङ्गः; मादित्यस्य वैयर्थ्यप्रसङ्गात् । न च विकल्पः; अतुल्यबलत्वात् । तद्धि पूर्वत्र चरितार्थम्, मादिति त्वकृतार्थम् । न चानुवृत्तिसामर्थ्यम्; अन्यानुरोधेनाप्यनुवृत्तिसम्भवात् ॥ शे ॥ १।१।१३ ॥ "शे" इति श्रुतेरविशेषात् "काशे","कुशे" इत्यत्रापि प्रसङ्ग इति मत्वा पृच्छति--किमिदमिति । सुपामादेश इति । काशे तैत्यत्र तु लाक्षणिकत्वादग्रहणमिति भावः । युष्म इति । षष्ठीबहुवचनस्य "सुपां सुलुक्" इत्यादिना शे आदेशः,"शेषे लोपः" । अस्मे इति । चतुर्थीबहुवचनस्य शे । त्वे मे इति । सप्तम्येकवचनस्य त्वमावेकवचने । असमे इन्द्राबृहस्पती इति । छान्दसमुदाहरणमित्युक्त्वा, इतरतु लोकिकमनुकरणमित्युक्तेन युष्मे वाजबन्धवः, त्वे रायः, मे राय इत्येषामप्यनुकरणत्वमुक्तं स्याद् । अतो यदत्रेतरदिति विवक्षितं तत्स्वरूपेण पठति । युष्मे इतीत्यादि । लौकिकमनुकरणमित्यनेन च सूत्रस्यावश्यारभ्यात्वं दर्शंयति । "अस्मे इन्द्राबृहस्पती" इत्यादि छान्दसत्वादपि सिद्ध्येत् । इदं तु पदकारैरिति परं प्रयुज्यमानं लौकिकम्, अतो न छान्दसत्वात्सिद्धिरिति ॥ निपात एकाजनाङ् ॥ १।१।१४ ॥ " व्याहरति मृगः", "व्यवहृपणोः समर्थयोः" इति निर्देशादेकाजिति कर्मधारयः, न बहुव्रीहिरित्याह-एकश्चासाविति । यद्येवम्, तएकग्रहणमनर्थकम्, निपातोऽजित्येवास्तु, तत्र निपातेनाज् विशिष्यते । निपातसंज्ञकोऽजिति विपर्ययस्तु न भवति; "अजन्तो निपातः" इति व्यावर्त्याभावाद् हलन्तानां सत्यसति वा प्रगृह्यत्वे विशेषाभावात् । ननु पुरोस्तीति हलन्तस्य प्रकृतिभावाद्रो रुत्वं न स्यात्,नैतदस्ति; प्रगृह्यसंज्ञायां रुत्वस्यासिद्धत्वात्, सकारस्य च कार्यान्तराप्रसङ्गात् । ननु चेदमस्ति प्रयोजनमचा निपातस्य विशेषणे किम् ? अजन्तस्य यथा स्याद्, अज्मात्रस्य मा भूत् इति । एवं सत्यनाङित्यनर्थकं स्यात्, अतो निपातेनाज् विशेष्यते, नार्थ एकग्रहणेन, न; अच्समुदायनिवृत्यर्थं तर्ह्येकग्रहणम् ऐउ अपेहीति समुदायस्यैव स्याद्, नावयवानाम्; एकाज्द्विर्वचनवदजन्तस्यैव प्रकृतिभावः स्यात्, पूर्वयोस्तु स्वरसन्धिः स्यात् । ननु च निपातोऽजिति चैकत्वस्य विवक्षितत्वात् समुदायस्य न भविष्यति, एवं तर्ह्यच्समुदायग्रहणशङ्कानिरासार्थमेकग्रहणं कुर्वन् ज्ञापयति-"वर्णानिर्द्देशेषु व्यक्तिसंख्या न विवक्ष्यते, जातिरेव निर्द्दिश्यते" इति । तेन दम्भेर्हल्ग्रहणस्य जातिवाचकत्वात्सिद्धमित्युपपन्नं भवति । निपात इति किमिति । निपातस्यैवैकाचोऽर्थवत्वसम्भव इति प्रश्नः । चकारारात्रेति--कृञो लिटि तिपो णल् । अन्वयव्यतिरेकाभ्यां प्रत्ययस्याप्यर्थवत्वमिति भावः । आकारोऽत्र ङिद्विशिष्ट उपातः, प्रयोगे च न क्वचिन् ङ्कारः श्रूयते । अतोऽर्थवशेन इङ्त्वाइङ्त्वे व्यवस्थापयति । ईषदर्थ इत्यादि । ईषदर्थे-आ अ उष्णाः उ ओष्णः । आङीषदर्थ इति चोक्तम् । क्रियायोगे - आ अ इतः उ एतः । प्रादिषु पठितः । मर्यादाभिविधौ चेति । समाहारद्वन्द्व आगमस्यानित्यत्वान्नुमभावः । मर्यादासहितो वाऽभिविधिः । मर्यादायाम्- आ अ उदकान्ताद् उ ओदकान्तात् । अभिविधौ - आ अ अहिच्छत्राद् उआहिच्छत्रात् । आह च --"विना तेन मर्यादा, सह तेन इत्यभिविधिः" । "आङ्मर्यादाभिविध्योः" इति च ङिन्निर्द्दिष्टः पूर्वप्रक्रान्तस्य वाक्यस्यान्यथात्वद्योतनाय आकारः प्रयुज्यते-आ एवं नु मन्यसे, नैवं पूर्वममंस्थाः, संप्रति त्वेवं मन्यसे इति । तथा स्मृतेः सूचकः आकारः प्रयुज्यते, ततः स्मृतोऽर्थो निर्दिश्यते-आ एवं किल तदिति ॥ ओत् ॥ १।१।१५ ॥ ननु चाहोप्रभृतयो निपातसमाहाराः, अह अ उ उ अहो, उताआहोऊताहो, अथाऊअथो, या अ उ उयो, न अ उ उ नो, मा अ उ उ मो, च अ उ उचो; यद्यप्यर्थभेदो न प्रतीयते, तथाप्यनर्थकानामपि निपातानां दर्शनात् समाहारत्वं नानुपपन्नम्, ततश्चादिवद्भावात् पूर्वेणैव सिद्धा प्रगृह्यसंज्ञा, यथा--"एषो उषा अपूर्व्या" इति । एषा अ उ उ एषो इत्याशङ्क्य, एकनिपाता इति दर्शयति--ओदन्तो यो निपात इति । चादिषु तथा पाठादिति भावः । समाहारपक्षे च आहो इतीत्यादौ "उञः" "Äष्" इत्ययं विधिः प्राप्नोति । अथापि समाहार, एवमपि सूत्रं कर्तव्यम् "ओ चित्सखायम्" "ओ षुं वर्तमरुतः" इत्याद्यर्थम् । आ अ उ उ ओ इत्यत्रान्तवद्भावादनाङिति प्रतिषेधः प्राप्नोति, अत्रापि पर्युदासे सिद्धम्; आङ्नाङेरेकादेश आदिवद्भावादनाङ्ग्रहणेन गृह्यत इति । इहानदोऽदोऽभवदिति ? च्व्यन्तत्वान्निपातत्वेऽडपि प्रतिपदोक्तस्यौकारस्य ग्रहणान्न भवति । एवमप्यगौर्गौः समपद्यत गोभवदित्यत्र प्राप्नोति; गौणमुख्ययोर्मुख्ये कार्यसंप्रत्ययान्न भविष्यति । अत्र हि जड।लदिधर्मेणारोपितगोत्वे वाहीके गोशब्दो वर्तते इति गौणार्थत्वमस्य । कथं तर्हि गौर्वाहीकस्तिष्ठति, गां वाहीकमानयेति वृद्ध्यात्वे भवतोः ? उच्यते; स्वार्थे प्रवृतात्प्रातिपदिकाद्विभक्तावुत्पन्नायां कार्येषु कृतेषु शब्दान्तरसन्निधानादत्र गौणत्वं प्रतीयते । कारकाणामपि हि क्रियया सम्बन्धः, न परस्परेण; गामानय, वाहीकमानय, गौस्तिष्ठति, वाहीकस्तिष्ठतीति । पश्चातु वाक्योपन्यासात् सामानाधिकरण्याद्गौणार्थे प्रादुर्भावो भवति । इह तु गौणार्थप्रादुर्भावादुतरकालं च्व्यन्तत्वे सति प्रगृह्यसंज्ञाप्राप्तिरिति विशेषः । अतः पदकार्येष्वेवायं न्यायः, न प्रातिपदिककार्येष्विति सिद्धम् । संबुद्धौ शाकल्यस्येतावनार्षे ॥ १।१।१६ ॥ "संबुद्धौ" इत्यनेनाऽनूद्यमान ओकारो विशेष्यते, अतः क्ङितीतिवन्निमितसप्तमीयमित्याह--संबुद्धिनिमित इति । परसप्तम्यां तु त्रपो इतीत्यादौ नपुंसके न स्यादिति भावः । अवैदिक इति । अनाष इत्यस्यार्थमाह, ऋषिर्वेदः तदुक्तमृषिणेत्यादौ दर्शनात् । ननु च गवित्ययमाहेत्यत्रानुकार्येणार्थवत्वात्प्रातिपदिकत्वे सति विभक्त्या भाव्यमित्यत ताअह --अत्रेत्यादि । अत एव हि विभक्त्यभावादपदान्तत्वाच्छाकल्यस्यापि प्रत्युदाहरणे "लोपः शाकल्यस्य" इति लोपो न भवति । भेदस्याविवक्षितत्वादिति । भेदनिबन्धनो हि प्रतिपाद्यप्रतिपादकभावः, स तस्मिन्नविवक्षिते न भवति । असत्यर्थवत्व इति । यद्यनर्थकः; कथं तर्हि प्रयुज्यते ? प्रयोजनवत्वात्, प्रयोजनमनुकार्यप्रतीतिः । यद्यप्यभिधानव्यापारो नास्ति, तथापि तदानीमुच्चारितं रूपं सादृश्यादनुकार्यप्रतिपतिपरम्, भेदश्च सन्नेव न विवक्षित इति अनुकार्यस्यापशब्दत्वेऽपि नास्यापश्बदत्वम् । शाकल्यग्रहणं विभाषार्थमिति । तत्र बह्वृ चाः प्रगृह्यमेवाधीयते, तैतिरीयास्त्वप्रगृह्यम् । अञः ॥ १।११७ ॥ यद्ययमेको योगः स्याद् "अञ Äष्" इति यथापठितं सूत्रकारेण, ततः "उञः" इत्यस्य श्रुतेनादेशेन सम्बन्धः स्याद्, न प्रगृह्यसंज्ञया; सा तु "निपात एकाजनाङ्" इति नित्यैव स्यात्, शाकल्यश्रुत्यनुवृत्या चादेशे विकल्पिते रूपद्वयमेव स्याद्- उ इति, Äष् इतीति; न तु वितीति तृतीय । अतो विभज्य व्याचष्टे । तत्र यद्यपि पूर्वसूत्रेषु सामानाधिकरण्येन निर्देशात्प्रदेशेष्विव प्रगृह्यशब्दो द्विवचनाद्यभिधेयः, तथापीह षष्ठीनिर्देअषात्स्वरूपपदार्थकः सम्पद्यते । अत एवाह--उञः प्रगृह्यसंज्ञा भवतीति । प्रगृह्यमित्येषा संज्ञा भवतीत्यर्थः । पुर्वत्र तु द्विवचनं प्रगृह्यसंज्ञं भवतीत्युक्तम्, अनेन च प्रगृह्यसंज्ञाया एव विकल्पनाद्- उ इति, वितीति साधितं रूपद्वयम् ॥ Äष् ॥ १।१।१८ ॥ शाकल्यस्य मतेन प्रगृह्यसंज्ञकश्चेति । अनेनास्मिन्नपि योगे द्वयमप्येतदनुवर्त्यमिति दर्शयति । यदि "शाकल्यस्य" इति नापेक्ष्येत तदा प्रगृह्यस्योञो नित्यमादेशः स्यात्, अनुवृतस्य प्रगृह्यशब्दस्य पष्ठ।ल्न्ततया विपरिणामात्, ततश्च Äष् इति, वितीति द्वे एव रूपे स्याताम्; उ इतीति न स्यात् । शाकल्यग्रहणेन तु विकल्पे सति तदपि भवति । तथा प्रगृह्यग्रहणाननुवृतौ प्रगृह्याप्रगृह्ययोरप्यादेशे विकल्पः स्यात् । तत्र प्रगृह्यस्यादेशेऽपि सिद्धमिष्टम्, अप्रगृह्यस्य तु यण् सानुनासिको वकारः स्यात् । अतः प्रगृह्यग्रहणमप्यनुवर्त्यम् । त्रीणि रूपाणीति । त्रीण्येव रूपाणि भवन्ति । त्रीणि च भवन्तीत्यर्थः । इह यदेतनूÄ पदकारैरुच्यत इत्यनुकरणे "यरोऽनुनासिकेऽनुनासिको वा " इत्येष विधिर्भवति । ईदूतौ च सप्तम्यर्थे ॥ १।१।१९ ॥ शाकल्यस्येताविति निवृतमिति । अस्वरितत्वात् । इह चश्ब्देन प्रत्नेन प्रकृतमनुकृष्यते, तत्र संज्ञाया अननुवृतौ विधेयं नास्तीति सैवानुकृष्यते । मामक्यां तन्वामिति प्राप्त इति । सप्तम्यर्थं दर्शयति । मामकीतनूशब्दौ शुपां सुलुक्" इति लुप्तसप्तमीकौ । मामकी इति, तनू इतीति । कार्योदाहरणे । गौरी अधिश्रित इति तु संहितापाठेऽपि कार्योदाहरणमिति । स एव तत्र दर्शतः । अग्ना भवातीति । रूपप्रत्युदाहरणम्, कार्यं तु पदकाले । धीतीत्यादि । धीति-मति-सुष्टुअतिशब्देभ्यः परस्य तृतीयेकवचनस्य पूर्वसवर्ण ईकारः, तद्दर्शयतिधीत्या, मत्येत्यादिना । वाप्यश्वः, नद्यातिरिति । शंज्ञायाम्" इति सप्तमीसमासः । अथ क्रियमाणेऽप्यर्थग्रहणे कस्मादेवात्र न भवति, अस्ति ह्यत्रापि सप्तम्यर्थः ? उच्यते; जहत्स्वार्था वृत्तिरिति पक्षे समासस्यैवार्थवत्वात्पूर्वोतरपदयोर्वर्णवदानर्थक्यमिति सप्तम्यर्थो नास्ति । अजहत्स्वार्थायामपि वृतावुपसर्जनपदं न स्वार्थमात्रे पर्यवस्याति; किन्तु तत्संसृष्टे प्रधानार्थे । तत्रार्थग्रहणसामर्थ्याद्यावानर्थो वाक्ये सप्तम्यन्तेनाभिधीयते केवलोऽसंसृष्टरूपस्तसयैव ग्रहणमिति संसृष्टे न भविष्यति । तपरकरणं गुणान्तरभिन्नानां तुल्यकालानां ग्रहणार्थमिति चेत्, न; अभेदकत्वाद् गुणानाम् । भिन्नकालानां प्लुतानां निवृत्यर्थमिति चेत्, न; अनण्त्वादसंभावाच्च । न हि सप्तम्यर्थवृत्ति प्लुतान्तं सम्भवतीत्यत आह-तपरकरणमित्यादि । ईदूतावित्यादि । "ईदूतौ सप्तमी" इत्येवास्तु, ङार्थोऽर्थग्रहणेन । लुप्तेऽर्थग्रहणाद्भवेदिति । असत्यर्थग्रहणे संज्ञाविधौ प्रत्ययग्रहणे तदन्तविधिप्रतिषेधात् सप्तम्या एव संज्ञा स्यात्, ततश्च शोमो गौरी अधिश्रितः" इत्यत्र न स्याल्लुप्तत्वात् । अर्थग्रहणे त्वर्थनिमितेयं संज्ञा, न तु प्रत्ययश्रवणनिमिता । अतः "लुप्तेऽर्थग्रहणाद्भवेत्"। नात्र सप्तमी लुप्यते, पूर्वसवर्णोऽत्र भवति-सुपां सुलुगिति । ततोऽकः सवर्णे दीर्घत्वेन तस्यादिवत्वात् सप्तमीग्रहणेन ग्रहणाद् अस्त्येव सप्तमीति शङ्कतेपूर्वस्य चेदिति । दूषयति-आडाम्भाव इति । यदि ह्यत्र पूर्वसवर्णः स्यात्, दीर्घा देशं बाधित्वाऽऽडामौ स्याताम्, अतो लुगेव युक्तः । तस्मादर्थग्रहणं कर्तव्यम् ? न कर्तव्यम्, यस्मात्सर्वत्रैव लुका भाव्यमिति न क्वचित्सप्तम्यस्ति । उच्यते चेदम्-"तत्र वचनसामर्थ्यात्संज्ञाविधावपि तदन्तविधिर्भविष्यति । नेदं वचनाल्लभ्यम्,यतो वचनाद्यत्र दीर्घत्वं तत्रैव स्याद्-दृतिं न शुष्कं सरसीशयानम् " इति । अत्र हि सरः शब्दात्परस्य ङिशब्दस्य "इयाडियाजीकाराणामुपसङ्ख्यानम्" इतीकारे कृते सप्तम्येव श्रूयते इति तत्रैव स्याद्, न गौरी इत्यादौ । तत्रापि सरसी यदि । तत्रापि सिद्धम्, कथम् ? यदि सरसीशब्दो विद्यते । असंदिग्धे संदिग्धाभधानमेतद्, शास्त्राणि चेत्प्रमाणं स्युरिति यथा । अस्ति च सरसीशब्दः, दक्षिणापथे महान्ति सरांसि शरस्यः" उच्यन्ते । ततश्च सरसीशब्दोऽपि लुप्तसप्तमीक एवेति वचनातदन्तविधिरित्येतदेव स्थितम् । एवं तर्हि-ज्ञापकं स्यातदन्तत्वे । "ईदूदेद्" इत्यत्र चत्वारः पक्षा उपन्यस्ताः, तत्र तदन्तत्वे इत्यनेन तृतीयचतुर्थपक्षावुपलक्षयति । तत्र ज्ञापकं स्याद्-इह प्रगृह्यप्रकरणे प्रत्यलक्षणं न भवतीति; यदि स्यात्, पूर्वोक्तन्यायेन संज्ञाविधौ प्रत्ययग्रहणे तदन्तविधेराश्रयणात् लुप्तायामपि सप्तम्यां प्रत्ययलक्षणेन सप्तम्यन्तमिति संज्ञा भविष्यति, किमर्थग्रणेन ? तेन तदन्तत्वे यो दोष उक्तः-प्रत्ययलक्षणेन संज्ञा प्राप्नोति, स न भवतीति संज्ञाविधौ प्रत्ययग्रहणे तदन्तविधेरभावादेव तदन्तपक्षस्तत्र नैव स्थित इत्याह--मा वेति ॥ दाधा घ्वदाप् ॥ १।१।२० ॥ किमिदं प्रयोगस्थानामनुकरणम्-प्रयोगे ये दाधारूपाः श्रूयन्ते, ते घुसंज्ञा भवन्तीति ? आहोस्वित् उपदेशे धातुपाठेऽपस्थितानां यावतामनुकरणं दाधारूपं संभवति तेषामिति ? किं चातः ? यदि प्रयोगस्थानामनुकरणम्, शिति न प्राप्नोति, दो-प्रणिद्यति, देङ्-प्रणिदयते, दाण्-प्रणियच्छति, धेट्-प्रणिधयति; किं कारणम् ? अदाधारूपत्वात् । प्रणिदाता प्रकणिधाता इत्यादावेव तु स्यात् । किमुच्यते शिति न प्राप्नोतीति, यावता दोदेङ्धेटामशित्यप्यात्वे कृतेऽपि लाक्षणिकत्वान्न प्राप्नोति ? नैष दोषः; "गामादाग्रहणेष्वविशेषः" इति दोदेङे तावद्गृह्यएते । अस्याश्च परिभाषाया दैपः पित्वं लिङ्गम्; अन्यथा हि लाक्षणिक्त्वादेवास्य ग्रहणं न भविष्यति । "दो दद् घोः" इत्यत्र च "दः" इत्येतद्धेण्निवृत्यर्थं सतस्य घुसंज्ञां ज्ञापयति, दधातेस्तु "दधातेर्हिः" इति ह्यादेशाविधानादेव दद्भावाप्रसङ्गः । यदि "गामादाग्रहणेष्वविशेषः" तर्हि अर्थवत्परिभाषापि निवर्तेत, तत्र को दोषः ? प्रनिदारयति-अत्रापि प्राप्नोति । अस्तु, णत्वं कस्मान्न भवति ? "उपसर्गात्" इत्यनुवर्तते, सम्बन्धिशब्दश्चायमुपसर्ग इति, तस्मादेवं विज्ञास्यामः-गदादीनां य उपसर्गस्तत्रस्थान्निमितादुतरस्य तानेव गदादीन्प्रत्युपसर्गस्य नेरिति । प्रनिदारयतीत्यत्र च यं प्रत्युपसर्गो नासौ दारूपः, यश्च दारूपः न तं प्रत्युपसर्गः, तस्यानर्थकत्वाद् । अतः शित्येव दोषः । उपदेशस्थानां त्वनुकरणे दोदेङ्धेडनुकरणानामपि "आदेच उपदेशेशिति" इत्यात्वसद्भावातेषां दाण्दाञ्धाञां च सर्वेषां सिद्ध्यति । आत्वधिषयेऽप्येकदेशविकृतस्यानन्यत्वात् सिद्धम् । सर्वेषां च स्वरूपेणानुक्रियमाणत्वात् लक्षणप्रतिपदोक्तयोर्निरनुबन्धकेति च परिभाषयोरनुपस्थानम्, नापि प्रनिदारयतीत्यत्र प्रसङ्गः, न हि "दीङ्" इत्येतदनुकरणस्यात्वमस्ति । कृतात्वमपि किञ्चिन्मात्रसाधर्म्यादनुकरणं न विरुध्यते, यथा गवित्ययमाहेति कृतावादेशमपि गोशब्दस्येति निर्दोषं द्वितीयं पक्षमाश्रित्याह-दारूपाश्चत्वार इत्यादि । एवं च दीङेऽनुकरणस्यात्वाभावात् तृजादिषु "मीनातिमिनोतिदीङम्" इत्यात्वे दारूपस्यापि घुसंज्ञा न भवति, प्रनिदाता-णत्वं न भवति । उपादास्तास्य स्वरः शिक्षकस्य-श्थाध्वोरिच्च" इतीत्वं न भवति । केचितु संज्ञामिच्छन्ति । तेषामप्युपादास्तेत्यत्र न भवति, " सन्निपातलक्षणो विधिरनिमितं तद्विघातस्य" इति । ठ्प्रणिददातीत्यादौ नेर्गदेति णत्वम् । प्रणिद्यतीति-"ओतः श्यनि" । दातं बर्हिरति । लूनमित्यर्थः । घुसंज्ञाया अभावाद् "दो दद् घोः " इति न भवति । अवदातमित्यत्र च "अच उपसर्गातः" इति न भवति । ननु दाब्दैपोरननुकरणादेव न भविष्यति, अस्मदायतं खल्वनुकरणं दाप्दैपोर्न करिष्यामः, तन्न; असति तस्मिन्प्रतिपदोक्तमेव दाधारूपमनुकरणं गृह्यते । सति तु तस्मिन् यावतामनुकरणं दाधारूपं सम्भवति लाक्षणिकं प्रतिपदोक्तं वा, तावतां सर्वेषामनुकरणं भवति । "उदीचां माङे व्यतीहारे" इति च मेङः कृतात्वास्य निर्द्देशो ज्ञापयति-ङानुबन्धकृतमनेजन्तत्वम्" इति । न हि "माङ् माने" इत्यस्य व्यतीहारे वृत्तिः सम्भवति, तेन दैपः पकारे श्रूयमाण एवात्वं भवतीति अदाबिति प्रतिषेधो भवति । संज्ञाप्रवृत्तिसमये च यद्दाब्रूपम्, तस्य प्रतिषेध इति प्रणिदापयतीत्यत्र प्रगेव पुकः प्रवृतां घुसंज्ञामाश्रित्य णत्वं भवति । "दाधा घ्वपित्" इति वक्तव्यम्, पित् घुसंज्ञो न भवतीति । बकारो वा द्वयोरनुबन्धः, सूत्रमपि बकारान्तमेव पठितव्यम् । भाष्यवार्तिकविरोधस्तु महापदमञ्जर्यामस्माभिः प्रपञ्चितः ॥ आद्यन्तवदेकस्मिन् ॥ १।१।२१ ॥ "द्वन्द्वे घि" इत्येतद्वाधित्वा "अजाद्यदन्तम् " इत्यन्तशब्दस्य पूर्वनिपातः प्राप्नोऽस्मादेव निर्द्देशान्न भवति । न चात्यन्तबाधः, अन्तादिवच्चेति लिङ्गात् । असहायस्येत्यादिना सूत्रारम्भस्य प्रयोजनमाह । सति परस्मिन् यस्मात्पूर्वं नास्ति स आदिः, सति च पूर्वस्मिन्यस्मात्परं नास्ति सोऽन्तः, तदेतदुभयमसहाये न सम्भवति । तस्मादाद्यन्तयोर्यान्युपदिष्टानि उक्तानि कार्याणि तान्यसहायस्यापि यथा स्युरित्ययमारम्भः । असहायस्येत्यनेनासहायवचन एकशब्दो न संख्यावचन इति दर्शयति । बहुष्वपि व्यवस्थितस्यैकत्वसंख्यास्तीति "एकस्मिन्" इति व्यर्थं स्यादिति भावः । "एकस्मिन्" इत्युपमेये सप्तमीश्रवणादुपमानस्यापि सप्तमीसमर्थतेत्याह-सप्तम्यर्थे वतिरिति । वर्तमानादिति शेषः । "तत्र तस्येव" इति इवार्थे वतिः । पूर्वं त्वसहायस्येति षष्ठीनिर्देशः सप्तम्यर्थस्यैव शेषरूपविवक्षया । कार्यार्थत्वात्सर्वातिदेशानां प्राधान्यात्कार्यातिदेशोऽयमित्याह-कार्ये भवतीति । । आद्यन्तवद्व्यपदेशो निमितम् । "पूर्ववत्सनः" इति तु निर्मूलम्, व्यपदेशातिदेशे हि कुरुते, कुर्वे इत्यादौ अन्तवद्व्यपदेशेऽपि अन्त्योऽजादिरस्येत्येवं रूपस्य बहुव्रीह्यर्थस्याभावाट्टिसंज्ञाया अभावे टेरेत्वं न स्यात् । कुर्वाते इत्यादौ तु दृष्टस्य टेरेत्वाख्यस्य कार्यस्यातिदेशे न दोषः । आभ्यामिति । अत्र द्वे अन्तत्वे उपयुज्येते-आकारान्तस्याङ्गस्यालोऽन्त्यस्य दीर्घ इति । सभासन्नयन इति । असत्येकग्रहणे यत्रादिव्यपदेशो नास्ति मध्येऽसहाये च सोऽतिदेशस्य विषयः । "वृद्धिर्यस्याचामादिस्तद्वृद्धम्" इत्यत्रादिग्रहणस्याप्येतदेव व्यावर्त्यमिति विकल्पः स्यात्-कदाचिद् वृद्धसंज्ञा, कदाचिन्न इति । तस्मादाकारमाश्रित्य पक्षे वृद्धसंज्ञा न भवतीति ग्रन्थार्थः ॥ तरप्तमपौ घः ॥ १।१।२२ ॥ तरप्तमपौ घः ॥ १।१।२२ ॥ तरतेः "ऋदोप्" इत्यपि गुणे भूतपूर्वेण पकारेण यद्यपि तरबिति रूपं भवति, तथापि तमपा साहचर्यात् प्रत्ययस्यैव ग्रहणमित्याह --तरपतपौ प्रत्ययाविति । तेन नद्यास्तरो नदीतर इति ह्रस्वो न भवति । अथ वा तरबिति रूपाश्रय संज्ञा, रूपनिर्ग्रहश्च प्रयोगे उपदेशे वा । तत्र न क्वचित्प्रयोगे तरबिति रूपमस्तीत्युपदेशगतं गृह्यते । न चात्रौपदेशिकं तरब्रूपमस्ति, सत्यामपि वा घसंज्ञायां न दोषः, ह्रस्वत्वं हि समानाधिकरणे स्त्रीलिङ्गे विधीयते । आतिशायनिकप्रकरण एव तादी घः, पितौ घ इति वा कर्तव्ये प्रकरणोत्कर्षेण संज्ञाकरणमन्योऽपि तरबस्तीति सूचनार्थम्, तेन "अल्पाच्तरम्" "लोपश्च बलवतरः" इत्यादौ स्वार्थे तरप् सिद्धो भवति ॥ बहुगणवतुडति संख्या ॥ १।१।२३ ॥ यद्यपि "वतुडती" इति संज्ञाविधौ प्रत्ययग्रहणम्, तथापि केवलयोः प्रत्यययोः संज्ञायां प्रयोजनाभावात् तदन्तयोरेव ग्रहणम् । वहुकृत्व इत्यादि-शंख्यायाः क्रयाभ्यावृत्तिगणने कृत्वसुच्,"शंख्याया विधार्थे धा" "बह्वल्पार्थात्" इति वर्तमाने "संख्यैकवचनात्" इति शस् । शंख्याया अतिशदन्तायाः कन्" । तावत्कृत्व इति-"यतदेतेभ्यः परिमाणे वतुप्", "आ सर्वनाम्नः" । कतिकृत्व इति--"किमः संख्यापरिमाणे डति च" । बहुगणशब्दयोरित्यादि । कथं पुनर्गहणं नास्ति ? संख्येत्यन्वर्थसंज्ञेयम् संख्यायतेऽनयेति संख्येति । न च यो वैपुल्ये बहुशब्दः--बहुरोदन इति, संख्येये वा गणशब्दः-इक्षूणां गण इति, नाभ्यां संख्यायते । यदि तर्हि संख्यावाचिनोरेव ग्रहणं किमर्थं तयोरिह संज्ञा विधीयते ! यावता संख्याप्रदेशेषु लौकिक्यपि संख्या गृह्यते; अन्यथा पञ्चकः, सप्तक इत्यादौ शंख्याया अतिशदन्तायाः" इति कन् न स्यात्,"अतिशदन्तायाः" इति च प्रतिषेधोऽनर्थकः स्यात्, शास्त्रीयायाः संख्यायास्तिशदन्ताया अभावादित्यत आह--भूर्यादीनामित्यादि । एतेन नियमार्थमेतयोर्ग्रहणमिति दर्शयति । तुल्यजातीयापेक्षत्वाच्च नियमस्य; भूर्यादीनामेवानियतबहुत्वाचिनां निवृत्तिः, नाबहुत्वविषययोर्द्व्येकशब्दयोः, नापि नियतबहुत्ववाचिनां त्र्यादीनाम्, तदाह--भूर्यादीनामिति । अघपूर्वपदश्चेति । अर्धशब्दः पूर्वपदं यस्य, स च पूरणप्रत्यान्तः; पूरणप्रत्ययान्तस्यार्धशब्दः पूर्वपदं सम्भवति, समास एव हि पूर्वपदं सम्भवति । अर्घपञ्चमशूप इति । अर्ध पञ्चमं येषामिति वहुव्रीहिः । अर्धपञ्चमैरर्धाधिकैश्चतुर्भिः शूर्पैः क्रीत इति "तद्धितार्थ" इति समासः । "शूर्पादञन्यतरस्याम्" इति विहित स्याञष्ठञो वा "अध्यर्धपूर्वद्विगोः" इति लुक् । कथं पुनर्लुक्, यावता नायं समासः नापि कन् ? समासकन्विध्यर्थमिति सम्बन्धसामान्ये षष्ठी, तेन समासे विधीयमाने समासनिमिते वान्यस्मिन्विधीयमान इत्यर्थः । ष्णान्ता षट् ॥ १।१।२४ ॥ इह कस्मान्न भवति-विप्रुषः, पामान इति ? सङ्ख्येति वर्तते । ननु च तत्सङ्ख्याग्रहणं संज्ञाप्रधानम्, इहानुवृतमपि ष्णान्तानां संज्ञामेव विदध्याद्, न तु ष्णान्तेत्यस्य विशेष्यं समर्पभेद्; अत आह--स्त्रीलिङ्गनिर्देशादिति । "ष्णान्ता" इत्यत्र स्त्रीलिङ्गस्य विशेष्यापेक्षायां सम्बध्यमानं प्रदेशेष्विव संज्ञिप्रधाने भविष्यतीत्यर्थः । अत एवात्रान्तग्रहणम् । इतरथा वर्णग्रहणे सर्वत्र तदन्तविधिरित्येव सिद्धम् । इह कस्मान्न भवति-शतानि, सहस्राणि ? नुमि कृते तस्य पूर्वभक्तत्वान्नान्ता सङ्ख्या भवति । अस्तु, लुक्कस्मान्न भवति ? सर्वनामस्थानसन्निपातकृतो नुम् न तद् विहन्ति । अथेह कथं संज्ञा-अष्टानामिति ? कथं च न स्यात् ? अष्टन् अ आम् इति स्थिते परत्वान्नित्यत्वाच्च "अष्टन आ विभक्तौ" इत्यात्वे कृतेऽनान्तत्वादसत्यां संमज्ञायां नुड् न स्यात्, अष्टनो दीर्घग्रहणं ज्ञापकम्-कृतात्वस्याप्यष्टनः संज्ञा भवतीति । एतच्च तत्रैवोपपादयिष्यामः । यद्वा, प्रागेव विभक्त्युत्पतेरनुद्दिश्य प्रयोजनविशेषं षट्संज्ञा भविष्यति । सा च कृतेऽप्यात्वे न निवर्तते ॥ डति च ॥ १।१।२५ ॥ डत्यन्ता च या संख्येति । अनेन संख्याग्रहणानुवृत्तिं दर्शयति । असत्यां ह्यनुवृतौ पातेर्डतिः पतयः-अत्रापि स्यात् । अथेह संख्याग्रहणानुवृतावपि कस्मादेवात्र न भवति, सामान्येन हि डतेः संख्यासंज्ञा विहिता ? उच्यते; संख्यासंज्ञायां हि वतुना साहचर्यातद्धितस्य डतेर्ग्रहणम्, न त्वौणादिकस्य ॥ क्तक्तवतू निष्ठा ॥ १।१।२६ ॥ इह क्तक्तवतुरूपाश्रयेयं संज्ञा, रूपनिर्ग्रहश्च प्रयोगे उपदेशे वा भवति । न च प्रयोगे सानुबन्धकं रूपमस्तीत्युपदेशगतं ग्राह्यम् । तत्र ङपुंसके भावे क्तः" "ञीतः" इति क्तस्य क्वचिदुपदेशोऽस्ति । यदि तस्यैव स्याद्, लिङ्गान्तरे,कालान्तरे धात्वन्तरे च न स्यात् । क्तवतोस्तु न क्वचिदुपदेशः, तत्केनविहितयोः क्तक्तवत्वोरेषा संज्ञा विधीयते ? अनयैव संज्ञया । वक्ष्यति--निष्ठेति । यद्येवम्, इतरेतराश्रयः प्राप्नोति-विहितयोः संज्ञा, संज्ञया च विधानमिति, नैष दोषः; भाविनी संज्ञा विज्ञायते सूत्रशाटकवत् । तद्यथा-कश्चित्कञ्चित् तन्तुवायमाह-अस्य सूत्रस्य शाटकं वयेति । स पश्यति-यदि शाटको न वातव्यः; अथ वातव्यो न शाटकः; शाटको वातव्यश्चेति विप्रतिषिद्धम्; स मन्ये वातव्यो यस्मिन्नुते शाटक इत्येतद्भवतीति । तद्वदिहापि तौ भूते काले भवतः, ययोर्विहितयोर्निष्ठेत्येषा संज्ञा भविष्यतीति ॥ सर्वादीनि सर्वनामानि ॥ १।१।२७ ॥ द्वन्द्वतत्पुरुषयोरुतरपदलिङ्गत्वेन नपुंसकत्वायोगाद् बहुवचनासंभवाच्च सर्वादीनीति बहुव्रीहिरित्याह-सर्वशब्द इत्यादि । आदिर्येषामिति । यद्येवं बहुव्रीहेरन्यपदार्थप्रधानत्वात्सर्वशब्दोपलक्षितानां विश्वादीनामेव संज्ञा स्याद्, नोपलक्षणस्य सर्वशब्दस्य । यथा चित्रगुरानीयतामित्युक्ते अस्य ता गावः स एवानीयते, न चित्रा गाव इत्याशङ्क्याह-तानीमार्नति । अत्र "तानि" इत्येव सिद्धे इमानीति प्रत्यक्षविषयेणेदंशब्देन गणपठितेषु सर्वशब्दस्यान्तर्भावं सूचयन् तद्गुणसंविज्ञानं बहुव्रीहिं दर्शयति । तस्य उ अन्यपदार्थस्य, गुणःउवर्तिपदार्थः, सोऽपि कार्यी संविज्ञायते यस्मिन् बहुव्रीहौ स तद्गुणसंविज्ञानः । मत्वर्थे हि बहुव्रीहिः । भूमादिषु च मतुब् विधीयते । तद्यत्र स्वस्वामिभावादिसम्बन्धः प्रवृत्तिनिमितम्, न तत्रोपसर्जनस्य कार्ययोगः । यथा-गोमन्तमानयेति, संभवति ह्यरण्यावस्थिताभिरपि गोभिः स्वस्वामिभावः । यत्र तु संयोगसमवाययो रन्यतरत् प्रवृत्तिनिमितम्, तत्र स्वभावादेवोपसर्जनस्यापि कार्योयोगः, यथा-दण्डिनमानय, विषाणिनमानयेति , नो खलु गृहावस्थितेन दण्डेन दण्डसंयुक्तः पुरुषो भवति । एवं बहुव्रीहावपि-चित्रगुः, शुक्लवासा इति । इहाप्यादिशब्दोऽवयववचन उद्भूतावयवभेदः समुदायः समासार्थः, तत्र समुदायस्य युगपल्लक्ष्ये प्रयोगाभावतदन्तर्भूतानां संज्ञा भवन्ती विश्वादीनामिव सर्वशब्दस्यापि भविष्यति । अत्र च लिङ्गम्-"अदः सर्वेषाम्" इति निर्देशः, "आमि सर्वनाम्नः सुट्" । सर्वे इति--"जसः शीः । पूर्वयोस्तूपन्यासो जसन्ततामस्य दर्शयितुम् । सर्वस्मै इत्यादि--शर्वनाम्नः स्मे" "ङसिङ्योः स्मात्सिनौ" । उभशब्दो द्विवचनविषये एव प्रयुज्यते, असति द्विवचने नैव प्रयुज्यते, न हि भवति उभौ पुत्रावस्य उभपुत्र इति उभयशब्दोऽत्र तत्स्थाने भवति उभयपुत्र इत्यादि । न च द्विवचने किञ्चित्सर्वनामकार्यमस्ति; स्मैप्रभृतीनामेकवचनबहुवचनविषयत्वात्, काकचोश्च नास्ति विशेष इति तस्येह पाठे प्रयोजनमाह-उभशब्दस्येत्यादि । उभाभ्यां हेतुभ्याम्,उभयोर्हेत्वोरिति तृतीयाषष्ठयौ भवतः । उभयेषाम्, उभयस्मिन्निति । उभाववयवावस्येति व्युत्पाद्यमान उभयशब्दो यदा तिरोहितावयवभेदं समुदायमाचष्टे तदैकवचनं भवति-उभयो मणिरिति । यदा तु वर्गद्वयारब्धे समुदायिनि वर्तमानो वर्ग्यभेदानुगतं समुदायमाचष्टे तदा बहुवचनम्-उभये देवमनुष्या इति । डतर-डतमेति । संज्ञाविधौ प्रत्ययग्रहणेऽपि तदन्तयोर्ग्रहणम्; केवलयोः प्रयोजनाभावात् । वक्ष्यमाणेनेति । "प्रथमचरम्" इत्यादिना । सर्वशब्दपर्यायस्येति । अस्ति च सर्वशब्दपर्यासः समशब्दः ङभन्तामन्यके समे","मा नो वृकाय वृक्ये समस्मै","उरुष्याणोऽघायतः समस्मात्", "उतो समस्मिन्नाशिशी हि नो वसो," "मा नः समस्य दूढयः" इति यथा । एतच्च शर्वेषां नामानि" इत्यन्वर्थसंज्ञाकरणाल्लभ्यते । स एव हि समशब्दः सर्वेषां नाम भवति यः सर्वशब्दपर्यायः । यद्यन्वर्थसंज्ञा, "पूर्वपदात् संज्ञायाम्" इति णत्वं कस्मान्न भवति ? अस्मादेव निपातनात् । यदि शर्वादोति सर्वनामानि",तर्हीहापि प्राप्नोति-सर्वो नाम कश्चित् तस्मै सर्वाय देहीति, इह चातिक्रान्तः सर्वस्मै अतिसर्वाय देहीति; तस्मात्संज्ञानामुपसर्जनानां च सर्वादीनां संज्ञाप्रतिषेधो वक्तव्यः । न केवलं संज्ञायाः, पाठोऽपि तेषां गणे नास्तीति वक्तव्यम्; संज्ञामात्रप्रतिषेधे हि सर्वनामप्रयुक्तमेव कार्यं तेषां न स्यात् । पाठाश्रयं तु स्यादेव--"त्यदादीनामः" तन्नामकः कश्चित्,तत्स,तदौ, तदः; अतिक्रान्तस्तमतितत्, अतितदौ, अतितदः; "अदड्डतरादिभ्यः पञ्चभ्यः", कतरमतिक्रान्तं ब्राह्मणकुलमतिकतरमिति । संज्ञाप्रतिषेधस्तावन्न वक्तव्यः । अभिव्यक्तपदार्था ये स्वतन्त्रा लोकविश्रुताः । शास्त्रार्थस्तेषु कर्तव्यः शब्देषु न तदुक्तिषु ॥ तत्र यथा बाहुर्नाम कश्चितस्यापत्यं बाहवः, "बाह्वादिभ्यश्च" इतीञ् न भवति संज्ञा, श्वशुरस्यापत्यम् "राजश्वशुराद्यत्" न भवति, धान्यमातुः स्वसा, "मातुपितृभ्यां स्वासा" इति षत्वं न भवति; एवमिहापि संज्ञाभूतानां सर्वादीनां संज्ञा, तन्निबन्धनं च कार्यम्, अन्तर्गणकार्यं च न भविष्यति । यद्वा-"व्यवस्थायाम्" इत्यत्र "असंज्ञायाम्" इति विभज्यते, तेन च गणपाठो विशेष्यते-यान्येतान्यनुक्रान्तानि सर्वादीनि तान्यसंज्ञायां द्रष्टव्यानीति । उपसंर्जनप्रतिषेधोऽपि न कर्तव्यः, सर्वादीनां संज्ञा विधीयते, तत्र कः प्रसङ्गो यत् सर्वाद्यन्तस्य स्यात् ? सर्वशब्दस्य तु सत्यामपि संज्ञायामङ्गस्यासर्वनामत्वात् स्मायाद्यप्रसङ्गः । यद्येवम्, परमसर्वस्मै इत्यादावपि न स्याद्; यतो यदङ्गं न तत्सर्वनाम, यच्च सर्वनाम न तदङ्गमिति । मा भूदङ्गं सर्वनाम, तावयवस्यैव तु स्रवनामत्वे "अङ्गाधिकारे तस्य च तदुतरपदस्य च" इति समुदायस्य च कार्यं भविष्यति; यथा--अस्थ्यादीनामनङ् परमास्थ्नेति । न चैवमत्यस्थ्नेत्यादिवदतिसर्वायेत्यादावुपसर्जनेऽपि प्रसङ्गोऽर्थद्वारकस्य सम्बन्धस्याश्रयणात्सर्वनामार्थगतमेकत्वादिकं या विमक्तिराहेति; यथा-"अष्टाभ्य औश्" "षड्भ्यो लुक्" इति परमाष्टौ परमपञ्चेत्यादौ भवति, प्रियाष्टानः प्रियपञ्चान इत्यादौ न भवति; तद्वदत्रापि । "त्यदादीनामः" इत्याद्यन्तर्गणकार्यमप्येवमेव द्रष्टव्यम् । यतु रूपाश्रयं कार्यम् "युष्मदस्मदोरनादेशे" इति, न पाठाश्रयम्, नापि संज्ञाश्रयं तदस्थ्याद्यनङ्वदुपसर्जनएऽपि भवति । यतूपसर्जनदशायाः प्रागेव प्राप्तं तदपि भवति अतिक्रान्तो भवकन्तमतिभवकानिति, तस्मान्नार्थस्तदन्तस्य संज्ञया, उच्यते; अव्ययसर्वनाम्नामित्यकच् परमभवकानिति तदन्तान्न स्यात् । "पञ्चम्यास्तसिल्" परमसर्वतः, "सप्तम्यास्त्रल्" परमसर्वत्र,"आ सर्वनाम्नः" "विष्वग्देवयोश्च टेरद्र।ल्ञ्चतौ वप्रत्यये" परमतद्र।ल्ङ् परमयद्र।ल्ङ्त्यादिउ न स्यादिति तदन्तस्य संज्ञेषितव्या । कथं पुनरिष्यमणापि लभ्यते ? ज्ञापकादिति वक्ष्यामः । ततदन्तस्य च भवन्ती परमसर्वादिवद् अतिसर्वादेरपि स्यादिति उपसर्जनप्रतिषेधोऽपि वक्तव्यः ? न वक्तव्यः, अन्वर्थसंज्ञाविज्ञानादेव सिद्धम् । वृतौ हि प्रधानार्थसंसर्गादुपसर्जनानि न सर्वार्थानि, यथासम्भवं च सार्वार्थ्यामिति प्रत्यक्षपरोक्षतादिविषेषवाचित्वेऽपि तदिदमादीनां भवत्येव । अन्वर्थत्वादेव च संज्ञाभूतानामपि संज्ञाभावः । एवं तावत्संज्ञानिबन्धनं स्मायाद्यौपसर्जनानां निबारितम् । त्यदाद्यन्तर्गणकार्यं तु स्यादेव; पाठस्य स्थितत्वात् । एवं तर्हि तन्त्रावृत्येकशेषाणामन्यतमाश्रयणाद् द्वितीयोऽपि सर्वनामशब्द उपातः, तेन पाठो विशेष्यते-यानि सर्वेषां नामानि तानि सर्वादीनीति, तेन सर्वादिपाठोपजीवनेन प्रवर्तमानमन्तर्गणकार्यमपि व्यवस्थास्यते । यद्वा-संज्ञाया अन्वर्थत्वाततत्संबन्धयोग्यानां सर्वार्थानां तावत्पाठोऽवश्याभ्युपगन्तव्यः । ततश्च प्रकारान्तरजुषां पाठे प्रमाणाभावादेव सिद्धः पाठात्पर्युदासः ॥ विभाषा दिक्समासे बहुव्रीहौ ॥ १।१।२८ ॥ अत्र समासावयवानां सर्वादीनां संज्ञा विकल्प्यत इत वृतौ लक्ष्यते, यथाह- दिगुपदिष्ट इत्यादि । दिशामुपदिष्ट उक्ते "दिङ्नामान्यतराले" इत्यस्मिन्समासेऽवयवत्वेन वर्तमानानीत्यर्थः । न चावयवानां संज्ञाविकल्पे किञ्चित्प्रयोजनमस्ति, स्मायादिकं तावदङ्गाश्रयम्, काकचोश्च नास्ति विशेषः, दिग्वाचिनामकारान्तत्वात् । शर्वनाम्नो वृत्तिमात्रे" इति पूर्वपदस्य पुंवद्भावोषऽपि न प्रयोजनम्, तत्र हि मात्रग्रहणं क्वचित्सर्वनामत्वेन दृष्टानां संप्रत्यसर्वनामत्वेऽपि यथा स्यात्, तथा च दक्षिणपूर्वाया इति संज्ञाभावपक्षेऽपि भवति । स्यादेतत्--अवयवानामेव संज्ञा, कार्यं तु "अङ्गाधिकारे तस्य च तदुतरपदस्य च" इति । एवमपि दक्षिणपूर्वतः, दक्षिणपूर्वत्रत्यत्र तसिलादयो न स्युः; तस्मात्सर्वाद्यन्ते बहुव्रीहौ संज्ञा विकल्प्यते । "सर्वादीनि" इत्ययं तु वृत्तिग्रन्थः शर्वाद्यन्ते प्रवर्तमाना संज्ञा सर्वादीन्यपि गोचरयति" इत्येवंपरो व्याख्येयः । यद्वा--अवयवानां संज्ञाविधानेन तदन्तस्यापि सिद्ध्यति, तदन्तविधेरभ्युपगमादिति । समासग्रहणं किमिति । न बहुव्रीहिः समासत्वं व्यभिचरतीति प्रश्नः । दक्षिणदक्षिणस्यै इति । "एकं बहुव्रीहिवत्" इत्यनुवृतौ "आबाधे च" इति दक्षिणशब्दस्य द्विर्वचनम् ङ बहुव्रीहौ" इत्ययमपि निषेधो न भवति, तत्रापि समासाधिकारात् । दक्षिणोतरपूर्वाकणामिति । असति बहुव्रीहिग्रहणे यथा ङ बहुव्रीहौ" इति प्रतिषेधं बाधते, एवं "द्वन्द्वे च" इत्येतमपि बाधेत । अथ क्रियमाणऽपि बहुव्रीहिग्रहणे या पूर्वा सोतरा यस्योन्मुग्धस्य तस्मै पूर्वोतराय देहीत्यत्र कस्मान्न भवति ? प्रतिपदोक्तो यो दिक्समासः-"दिङ्नामान्यन्तराले" इति, तस्य ग्रहणम् । यद्येवम्, तत एव हेतोर्द्वन्द्वे न भविष्यति ? सत्यम्; उतरार्थमवश्यं कर्तव्यं बहुव्रीहिग्रहणमिहापि विस्पष्टार्थं भविष्यतीति मन्यते ॥ न बहुव्रीहौ ॥ १।१।२९ ॥ अत्र वृतौ द्विधा सूत्रार्थो लक्ष्यते--बहुव्रीहाविति निषेधाधिकरणम्-बहुव्रीहि संज्ञा न भवति, बहुव्रीह्याधारा संज्ञा न भवतीति; बहुव्रीहेः संज्ञा न भवतीति । सर्वाद्यधिकरणं वा--बहुव्रीहौ यानि सर्वादीनि तानि सर्वनामसंज्ञानि न भवन्तीति । तत्र सर्वनामसंज्ञायाम् इत्यादिनाऽऽद्यं पक्षं द्वितीयं सूत्रार्थं दर्शयति । कथं पुनर्ज्ञायतेऽभ्युपगतस्तदन्तविधिरिति ? अत एव निषेधात् । द्वितीयं सूत्रार्थं दर्शयति--बहुव्रीहावित्यादि । प्रथमस्योदाहरणमाह--प्रियविश्वायेति । "सर्वनामसंख्ययोरुपसंख्यानम्" इति सर्वनाम्नः पूर्वनिपाते प्राप्ते "वा प्रिययस्य" इति प्रियशब्दस्य पूर्वनिपातः । द्व्यन्यायेति । शर्वनामसंख्ययोः" इति द्व्यन्ययोः पूर्वनिपाते प्राप्ते परत्वात् सङ्ख्यायाः पूर्वनिपातः । द्वितीयस्योदहरणमाह--इह चेति । अत्र च प्रतिषेधोऽयमारभ्यत इत्यनुषङ्गः; अत्रासति निषेधेऽकचि सति त्वकत्पितृको मकत्पितृक इति प्राप्नोति, सति तु "प्रागिवात्कः" इति के सति "प्रत्ययोतरपदयोश्च" इति त्वमादेशयोस्त्वत्कपितृको मत्कपितृक इति सिद्ध्यति ङद्यःतश्च" इति समासान्ते कपि । ननु च बहुव्रीहावयं निषेधः, इह च प्रागेव; ततस्त्वकं पताऽस्यि अहकं पिताऽस्येति वाक्यावस्थायामेवाकच् प्राप्नोति ? एवं तर्हि प्रतिषेधसामर्थ्यात् यद्वाक्योपमर्देअन बहुव्रीहिर्भवति तस्यामेवावस्थायां निषेधो भविष्यति । अत्र च प्रथमः सूत्रार्थस्तदन्तविविज्ञापनायैवोपन्यस्तः, न तु प्रियविश्वायेत्यादौ समुदायस्य संज्ञाप्रसङ्गः; असर्वार्थत्वात्, यथा अतिसर्वायेत्यादौ । बहुव्रीहाविति वर्तमाने पुनर्बुहुव्रीहिग्रहणं किमर्थमित्याह--बहुव्रीहावित्यादि वस्त्रान्तरवसनान्तरा इति । वसनमन्तरं येषामिति बहुव्रीहौ द्वन्द्वः । अत्रासति बहुव्रीहिग्रहणे वर्तमानद्वन्द्वाश्रयो निषेधः स्यात्, ततश्च जसि विभाषा स्यात् । पुनर्बहुव्रीहिग्रहकणातु यदन्तो द्वन्द्वः, सोऽन्तरशब्दो बहुव्रीहेः पूर्वमत्रासीद् इति बहुव्रीह्याश्रयो नित्य एव निषेधो भवति । इदं तु "तदन्तस्य संज्ञानिषेध" इति प्रथमपक्षानुरोधेन प्रत्युदाहरणम् । न त्वत्र प्रसङ्गः; असर्वार्थत्वात् । वसन्त्यस्मिन्निति वसनं गृहम्, तेन "विरूपाणामपि समानार्थानाम्" इत्येकशेषाभावः ॥ तृतीयासमासे ॥ १।१।३० ॥ समासे इति, वर्तमाने इत्यादि । मुख्यस्यैव ग्रहणे प्राप्ते गौणस्यापि ग्रहणार्थं पुनः समासग्रहणमित्यर्थः । न च तृतीयासमासमात्रार्थे वाक्ये प्रसङ्ग इत्याह--पूर्वसदृशेत्यादि । एतच्च लक्षणप्रतिपदोक्तपरिभाषया लभ्यते । त्वयका, मयकेति । "युष्मदस्मदोस्तृतीयैकवचने","त्वमावेकवचने", "योऽचि" सुबन्तयोः प्राक् टेरकच् ॥ द्वन्द्वे च ॥ १।१।३१ ॥ अयं समुदायस्यैव निषेधो नावयवानाम्, कुतः ? त्यादादीनां तावत् "त्यदादीनि सर्वैर्नित्यम्" इति एकशेषेण भाव्यम्, प्राक् च त्यादादिभ्योऽकारान्ताः,तत्र न काकचोर्विशेषः; शर्वनाम्नो वृत्तिमात्रे पुंवद्भावः" त्विष्यत एव-दक्षिणोतरपूर्वाणामिति, सोऽयं प्रतिषेधो ज्ञापयति-"अस्ति सर्वनामसंज्ञायां तदन्तविधिः" इति ॥ विभाषा जसि ॥ १।१।३२ ॥ जसः कार्य प्रति विभाषेति । तत् कथम् ? व्यवस्थितविभाषेयम् । यद्वा, जसीति कार्यापेक्षयाधिकरणसप्तमी--जसाधारं यत्कार्यं शीभावाख्यं तत्र कर्तव्य इति । अन्ये त्वाहुः- जस ई जसी शब्दरूपापेक्षया नपुंसकह्रस्वत्वे सप्तम्या लुका निर्देशः-जस ईकारे कर्तव्य इति । किं पुनः कारकणमेवं व्याख्यायते ? तत्राह--अकझीति । हि शब्दो यस्मादर्थे । यद्यविशेषेण विकल्पः स्यात्, कतर कतम अस् इति स्थिते कुत्साद्यर्थविवक्षायां यस्यामवस्थायामकज्विधिं प्रति संज्ञा स्यात्, ततश्च तन्मध्यपतितत्वातद्ग्रहणे शीभावः स्यात्; के तु सति न भवति ॥ प्रथमचरमतयाल्पार्धकतिपयनेमाश्च ॥ १।१।३३ ॥ उभयशब्दस्येत्यादि । उभाववयवावस्य "उभादुदातो नित्यम्" इति तयपोऽयजादेशः । स्थानिवद्भावाद्भवत्ययं तयबन्तः, तथापि गणे पाठाद् नित्यैव संज्ञा भवति । ननु गणे पाठस्योभयस्मिन्नुभयेषामित्यादिरवकाशः, इह तयब्ग्रहणस्य द्वितये द्वितया इति, उभयशब्दाज्जस्युभयप्रसङ्गे परत्वादियमेव विभाषा प्राप्नोति, नैष दोषः; अन्तरङ्गा नित्या संज्ञा विभक्त्यनपेक्षत्वादिति सैव प्रवर्तते । काकचोर्यथायोगं वृत्तिरिति । नेमशब्देऽकचो वृत्तिः, अन्येषु कस्येत्येष यथायोगार्थः । कः पनर्दोषो नेमशब्दे, यदि जसः कार्यं प्रति न स्यात्, पक्षे कोऽपि स्यात् ? अस्तु; नेमके, नेमकाः"-नित्येऽप्यकचि तस्य तद्ग्रहणेन ग्रहणादस्मिन् विकल्पे सति एतद्रूपद्वयं भवत्येव, सत्यम्; प्रथमादिषु पक्षेऽकज्न भवतीत्येवम्परो ग्रन्थः ॥ पूर्वपरावरदक्षिणोतरापराधराणि व्यवस्थायामसंज्ञायाम् ॥ १।१।३४ ॥ असंज्ञायामिति । संज्ञायामसत्याम्, पूर्वादयश्चेत्संज्ञारूपा न भवन्तीत्यर्थः । व्यवस्था उ नियमः, स चात्रार्थादवध्यपेक्ष इत्याह-स्वामिधेयापेक्ष इत्यादि । पूर्वादीनां शब्दानां स्वाभिधेयो दिग्देशकालस्वभावोऽर्थस्तमपेक्षते, तेन वापेक्ष्यते यः स स्वाभिधेयापेक्षः । अवधिः उ मर्यादा; पूर्वदेशस्य यत्पूर्वत्वं तत्परदेशमपेक्ष्य भवति, परस्यापि यत्परत्वं तत्पूर्वदेशम् । एवं दिक्कालयोरपि द्रष्टव्यम् । तस्मात्पूर्वादिशब्दवाच्योऽर्थोऽवश्यमवधिं कञ्चिदपेक्ष्य भवति । तत्र योऽयमपेक्षाया नियमः सा व्यवस्थेति तावद्विवक्षितम् । तस्यां गम्यमानायां पूर्वादिशब्दानां स्वाभिधेय एव वर्तमानानामियं संज्ञा भवति, न तु वाच्यायाम् । प्रवीणा इत्यर्थ इति । अनेन व्यवस्थाभावमाह । न हि प्रवीणशब्द सापेक्षमर्थमाचष्टे । सत्यामेव व्यवस्थायामित्यनेनान्वर्थतां दर्शयति । सुमेरुमवधिमपेक्ष्य कुरुषूतरशब्दो वर्तते, अत्र जसः कार्यं प्रतीति नोक्तम्; विशेषाभावात् ॥ स्वमज्ञातिधनाख्यायाम् ॥ १।१।३५ ॥ अज्ञातिधनाख्यायामित्यस्यार्थमाह-न चेदित्यादि । यत्र शब्दान्तरनिरपेक्षः स्वशब्दो ज्ञातिधने स्वरूपेणाचष्टे तत्रासौ संज्ञारूपेण प्रवर्तते । आत्माया इत्यर्थ इति । पुत्राणां गवां सत्यपि ज्ञातिधनत्वे न तेनाकारेण तत्र वर्तते, किन्त्वात्मीयाकारेणेत्यर्थः । आख्याग्रहणे त्वसति ज्ञातिधनयोः पर्यवसानादत्रापि प्राप्नोति । धूमायन्त इत्यादि । यथोल्मुकान्यश्लिष्टानि असंहतानि धूमायन्ते, संहतानि प्रज्वलन्ति; तद्वत् ज्ञातयोऽपीत्यर्थः । स्वा ज्ञातय इति । स्वशब्दस्यानेकार्थस्य व्यक्तीकरणाय पर्यायस्यापि ज्ञातिशब्दस्य प्रयोगः, स एव तु न प्रयुक्तः; निरङ्कुशाः कविवाच इति ॥ अन्तरं बहिर्योगोपसंव्यानयोः ॥ १।१।३६ ॥ बहिरित्यनावृतो देश उच्यते । बहिरित्यनेन योगो बहिर्योग इतीतिशब्दाध्याहारेण विगृह्य समासः । स चानावृतस्य बाह्यस्य वस्तुनो भवति । उपसंवीयते विधीयते वासोऽन्तरेणेत्युपसंव्यानम्, कर्मणि ल्युट् । नगरबाह्या इति । बहिर्योगं दर्शयति । परिधानीयमन्तर्वासः, प्रावरणीयं बहिर्वासः । अन्तरे तापस इति । अत्र संज्ञाभावाद् णेóः स्मिन्न भवति । "जसि" इति वर्तमाने कथं सप्तमान्तं प्रत्युदाहरणे दीयत इत्यत आह--गणसूत्रस्य चेत्याद । गणसूत्रमप्येवमेव पठ।ल्ते । कस्मात्पुनरप्रस्तुतस्य गणसूत्रस्य प्रत्युदाहरणं दीयते, न सूत्रस्य ? "अपुरीति वक्तव्यम्" इति वक्ष्यति, तद् गणसूत्रविषयं यथा स्यादिति; तस्यायं प्रस्तावः । सूत्रस्याप्यनया दिशा प्रत्युदाहरणं गम्यत इति न पृथग्दर्शितम् । अन्तरायामिति । प्राकाराद्वहिर्वर्तिन्यामित्यर्थः । यद्यपि गणसूत्रेऽन्तरशब्दः पठ।ल्ते, तथापि तस्यैव सर्वनामत्वात् टापा सहैकादेशोऽपि तद्ग्रहणेन गृह्यत तैति स्यात् प्रसङ्गः । लिङ्गविशिष्टपरिभाषया वा टाबन्तस्यैव संज्ञाप्रसङ्गे वचनम् । विभाषाप्रकरण इत्यादि । यथायमर्थः सिद्ध्यति, तथा "विभाषा द्वितीयातृतीयाभ्याम्" इत्यत्र वक्ष्यामः ॥ स्वरादिनिपातमव्ययम् ॥ १।१।३७ ॥ तसिलादिरिति । "पञ्चम्यास्तसिल्" इत्यारभ्य "एधाच्च" इत्येतदन्तः । शस्तसी -- "बह्वल्पार्थाच्छस्", प्रतियोगे "पञ्चम्यास्तसिः" । संख्यायाः "क्रियाभ्यावृत्तिगणने कृत्वसुच्","द्वित्रिचतुर्भ्यः सुच्" । आस्थालाविति । "इण आसिः" अयाः,"प्रत्नपूर्व"-त्वं प्रत्नथाः । च्व्यर्थाः-शंपद्यकर्तरि च्विः""विभाषासातिः कार्त्स्ये","देये त्रा च", अमु चच्छन्दसि","किमेतिङ्व्ययघादामु" । निपाता वक्ष्यन्त इति । अथ किमर्थं स्वरादीनां पृथग्ग्रहणं क्रियते, ते चादिष्वेव पठ।लेरम् ? न; चादीनामसत्ववचनानां निपातसंज्ञा, स्वरादीनां पुनः सत्ववचनानामसत्ववचनानां चाव्ययसंज्ञा-स्वस्ति वाचयति, स्वः प्रश्येति । क्रियासम्बन्धेऽनेकशक्तिदर्शनात् सत्ववाचित्वम् । अथ "प्राग्रीश्वरान्निपाताः स्वरादीनि चादयोऽसत्वे" इत्येवं सूत्रन्यासः क्रियेत, कः पुनरत्र विशेषस्तत्र वा स्वरादिग्रहणं क्रियेत ? अत्र वा ? किं च ङिपात एकाजनाङ्" इति प्रगृह्यसंज्ञा स्वरादीनामप्येकाचां प्रसज्येत-"किमोऽत्","दक्षिणादाच्", "एकाच्च तद्धितः"; केन्प्रभृतयस्तु कृत एकाचस्सन्ति । अथ "चादिरेकाजनाङ्" इति क्रियते तदा चादीनामसत्ववचनत्वं विशेषणं न लभ्यते ? नैष दोषः; "चादयोऽसत्वे" इत्यत्रासत्वाग्रहणं चादीनां पाठविशेषणम्, यथा-"तिङे गोत्रादीनि" इत्यत्र कुत्सनाभीक्ष्ण्यग्रहणं गोत्रादीनाम्, तेन यत्र यत्र चादिग्रहणं तत्र सर्वत्र विशिष्टनामेव ग्रहणम्, तत्रायमप्यर्थः--"उभे संज्ञे न कर्तवंये भवतः-अव्ययम्, निपातः" इति । कथम् ? "प्राग्रीश्वरान्निपाताः" इति वा "अव्ययानि" इति वा सूत्रं कर्तव्यम्, ततः स्वरादीनि "तद्धितश्चासर्वविभक्तिः" यावद् "अव्ययीभावश्च" इति, ततः "चादयोऽसत्वे" इत्यारभ्य यावद् "अधिरीश्वरे", विभाषा कृञि" इति; तत्र यस्मिन् प्रदेशे निपातग्रहणं तत्र चादिग्रहणमस्तु, अव्ययप्रदेशेष्वव्ययग्रहणं निपातग्रहणं चेति, ततु तथा न कृतमित्येव । अव्ययमित्यन्वर्थसंज्ञति । सदृशम् इत्यादि । श्रुतिश्चेयमाथर्वणी प्रणवविद्यायां त्रिषु लिङ्गेषु स्त्रीपुन्नपुंसकेषु सदृशम्, लिङ्गविशेषप्रतिपादनेऽसामर्थ्यात् । विभक्तिष्वति । कारकेषु वचनेष्विति । एकत्वादिसंख्यासु, अव्ययीभावस्य शक्तिलिर्ङ्गविशेषयोगेऽपि वचनादव्ययत्वम्"यस्मान्न व्येति नाना न गच्छति यत्वधर्मान्न गृह्णातीत्यर्थस्ततस्मादव्ययम्" इति । यच्छब्दरूपं न व्येति तदव्ययमिति वा । किं पुनः प्रयोजनमन्वर्थसंज्ञाकरणे ? उपसर्ज्जनप्रतिषेधः-अत्युच्चैसौ, अत्युच्चैस इति । अतिक्रान्तप्रधानस्यात्र सत्वधर्मपरिग्रहात् उच्चैःशब्दः पठ।ल्ते, कः प्रसङ्गस्तदन्तस्य ? एतज् ज्ञापयत्याचार्यः--"अस्त्यव्ययसंज्ञायां तदन्तविधिः" इति । तेन परमस्वः, परमोच्चैरिति स्वरादिप्राधान्ये तदन्तस्यापि भवति । कुशब्दः स्वरादिषु पठितव्योऽव्ययसंज्ञार्थः ॥ तद्धितश्चासर्वविभक्तिः ॥ १।१।३८ ॥ इह यद्यपि संज्ञाविधौ प्रत्ययग्रहणे तदन्तविधिप्रतिषेधस्तथापि केवलस्य तद्धितस्य संज्ञायाः प्रयोजनाभावात् तदन्तविधिर्विज्ञायत इत्याह-तद्धितान्तः शब्द इति । अकच् तावत्प्रातिपदिकस्य सुबन्तस्य वा विधीयते । "अव्ययादाप्सुपः" इत्यत्राप्यव्ययाद्विहितस्य सुपो लुक्, न तु परस्य; अत्युच्चैसावित्यादावपि प्रसङ्गात् । "तत्पुरुषे तुल्यार्थ",ङाव्ययदिक्च्छब्द","खित्यनव्ययस्य" इत्यत्रापि पूर्वपदस्याव्ययस्य ग्रहणम् । सर्वा विभक्तिर्यस्य सम्बन्धिनी न भवति सोऽसर्वविभक्तिः । किं पुनरिदं तद्धितस्य वशेषणम् ? आहोस्वितदान्तस्य ? कथञ्चेदं तद्धितस्य विशेषणम्, कथं वा तदन्तस्य ? यदि सर्वा विभक्तिर्यस्य सम्बन्धिनी न भवति--कारणत्वेन यस्योत्पतौ सर्वा विभक्तिः कारणं न भवति, यथा "पञ्चम्यास्तसिल्" इत्यादाविति कार्यमन्यपदार्थः, तदा तद्धितस्य विशेषणं भवति--तद्धितस्यैव ह्युत्पत्तिर्न तदन्तस्य । एवंविशिष्टेन तद्धितेन तदन्तविधौ-तादृशतद्धितान्तोऽव्ययमित्यर्थो भवति । अथ तु सर्वा विभक्तिर्यस्य कार्यत्वेन सम्बन्धिनी न भवति-यस्मात्सर्वा विभक्तिर्नोत्पद्यत इति कारणमन्यपदार्थः, तदा तदन्तसाय विशेषणं भवति । न हि तद्धितमात्राद्विभक्तियुत्पत्तिप्रसङ्गः । तत्र पूर्वस्मिन् पक्षे विना, नानेत्यत्र न स्याद्; न हि विनञ्भ्यमामित्यत्र प्रतिनियता काचिद्विभक्तिराश्रीयत इति सर्वविभक्त्यन्ताभ्यां विनञ्भ्यां नानाञौ भवतः । अव्ययेभ्यस्तु निः सङ्ख्येभ्यः सामान्यविहिताः स्वादयो विद्यन्त एवेति पक्षे येऽपि भवदादिप्रयोगे तसिलादयो विधीयन्त--"इतराभ्योषऽपि दृश्यन्त" इति, तेऽपि स भवाÄस्ततो भवांस्तं भवन्तं ततो भवन्तमित्यादिसर्वविभक्त्यन्तेभ्य उत्पद्यन्त इति तत्रापि न स्यात् । "तस्यापत्यम्""तत्र भवः" इत्यादौ च षष्ठ।लदिकैकैव विभक्तिर्निमितम्, न तु सर्वेतत्यौपगवादावतिप्रसङ्गश्चेति द्वितीयं पक्षमाश्रित्याह--यस्मादित्यादि । तत इत्यादौ "प्राग्दिशो विभक्तिः" इति तसिलादीनां विभक्तित्वात्यदाद्यत्वम् । कथं पुनरेतेऽसर्वविभक्तयः; यावता यत्र च सङ्ख्या सम्भवति तत्रायमुपदेशाः, अव्ययेभ्यस्तु निःसङ्ख्येभ्य इत्यस्मिन्पक्षे "अव्ययादाप्सुपः" इति ज्ञापकाश्रयणे च सर्वविभक्तयः; अथ सङ्ख्याकर्मादयश्च स्वादीनामर्थास्तेन सहास्यैकवाक्यतेति पक्षः, ततोऽविभक्तित्वमेवासत्वभूतार्थानामापद्येत ? उच्यते; "द्व्येकयोर्द्विवचनैकवचने" इत्यत्रैकस्मिन्नित्यपनीय "एकवचनम्" इति पृथक् सूत्रं कर्तव्यम्, ततः "द्विबह्वोर्द्विवचनबहुवचने" इति, ततश्चैकवचनमेकस्मिन्नपि भविष्यति, सङ्ख्याकर्माद्यभावे चाप्राप्तप्रापणार्थत्वादेकवचनमित्यस्य सूत्रस्य, द्वित्वबहुत्वयोस्तु प्राप्तं द्विवचनबहुवचनाभ्यां बाध्यते, ततश्चासत्ववचनेभ्योऽपि सप्तानां विभक्तीनां सप्ताप्येकवचनानि भवन्ति । अव्ययीभावादप्येवमेव, तावतापि नाव्ययीभावात् "तृतीयासप्तम्योः" इत्यस्योपपतेः, तदिदमुच्यते-"एकवचनमुत्सर्गतः करिष्यते" इति । एवं स्थिते यस्मात्सर्वा विभक्तिर्नोत्पद्यत इत्येकवचनेन विग्रहोऽवयवकार्त्स्न्यवृत्तिः सर्वशब्दो यस्य त्रिकस्य विभक्तिशंज्ञा विहिता तन्निरवशेषं यस्मान्नोत्पद्यते, किन्तु तदेकदेश एवत्यर्थस्तदाह--यस्मान् सर्वा विभक्तिरिति । यदि तु सर्वा विभक्तय इति बहुवचनेन विगृह्यएत ततः सर्वान्नीन इतिवत् प्रकार कार्त्स्न्यऽपि सर्वशब्दस्य संभवाद् एकवचनमात्रोत्पतावपि सर्वा विभक्तयः, सप्ताप्येकवचनान्यसत्ववचनेभ्य उत्पद्यन्त इति न स्यादसर्वविभक्तित्वमिति भावः । इह "तेनैक दिक्""तसिश्च" इत्येकस्मिन्नर्थे विधीयमानयोरप्यण्तसोरण् द्रव्यप्रधानः, तसिस्तु द्रव्योपसर्जनतृतीयार्थप्रधान इति तस्यासत्ववचनता । तद्धित इति किमिति । असर्वविभक्तिरव्ययमित्येवास्तु, मा भूत्सर्वमेय प्रकरणं ये हि स्वरादयः, ये च निपाताः, ये च कृन्मेजन्ताः, ये च क्त्वादयः, यश्चाव्ययीभावः, सर्वे तेऽसर्वविभक्तय इति प्रश्नः । एकः द्वौ, बहव इति । एतेभ्योऽपि सप्तस्वपि विभक्तिष्वेकैकमेव वचनमुत्पद्यत इति स्यादतिप्रसङ्ग इति कर्तव्यं तद्धितग्रहणम् । तस्मिंश्च कृते प्रकरणमपि कर्तव्यमिति भावः । विशत्यादयस्तु कृतैकशेषा द्विवचनबहुवचनान्ता अपि भवन्तीति नासर्वविभक्तयाः । एवं द्वयत्रयोभयशब्दा अयजन्ताः । एवमपि गोदयोरदूरभवो ग्रामः "अदूरभवश्च" इत्यणः "वरणादिभ्यश्च" इति लुपि युक्तवद्भावात् सर्वासु विभक्तिषु द्विवचनस्योत्पतेरस्त्यतिप्रसङ्गः । स्यादयं पर्यनुयोगः--यदि तद्धितान्तो गोदशब्दः,वयं तु "लुब्योगाप्रख्यानाद्" "योगप्रमाणे च तदभावे दर्शनं स्याद" इत्यधीयाना नैवं पर्यनुयोज्याः; एवमपि शङ्खायास्संज्ञासङ्घसूत्राध्ययनेषु" संज्ञायां स्वार्थ उत्पाद्यः, पञ्चैव पञ्चकाः शकुनयः--अत्र प्राप्नोति, पचतिरूपं पचतिकल्पमित्यादौ च एकवचनमेवोत्पद्यत इति स्यादेवातिप्रसङ्गः । तस्मातद्धितानां पाठ एवाश्रयणीयः, तदाह--शिद्धं तु पाठातसिलादयः प्राक् पाशपः, शस्प्रभृतयः प्राक् समासान्तेभयः, मान्तः कृत्वोर्थाः, तसिवती नानाञाविति" ॥ कृन्मेजन्तः ॥ १।१।३९ ॥ अत्रापि पूर्ववतदन्तस्य संज्ञेति स्थिते मेजन्तग्रहणं कदन्तस्य विशेषणम्--"कृदन्तम्मेजन्तमब्ययम्" इति । कृत एव वा-कृद्यो मेजन्तस्तदन्तमव्यमिति । तत्राद्यो पक्षे प्रतामौ प्रतामः, लवमाचष्टे इति णिचि क्विपि णिलोपे ऊठि "एत्येधत्यूठ्सु" इति वृद्धौ लौरत्रापि प्राप्नोति, भवति ह्यएतत् प्रत्ययलक्षणेन कृदन्तम्, मेजन्तं च श्रूयत इतीमं दोषं दृष्ट्वा द्वितीयं पक्षमाश्रित्याह--कृद्य इति । नन्वत्रापि कारयाञ्चकार--आमन्तस्य न प्राप्नोति, पूर्वत्र तु लिटः कृत्वात्सिद्धम्, अत्रापि स्वरादिष्वामिति पाठात् सिद्धम् । अथापि तत्र तद्धितस्य पाठः; एवमपि कृदन्तत्वादुत्पन्नानां सुपाम् "आमः" इति लुग्भविष्यति, "लेः" इति हि तत्र नानुवर्तते । स्वादुङ्कारमिति । श्वादुमि णमुल्" स्वादुमित्यर्थग्रहणात्सम्पन्नङ्कारमित्यपि भवति, स्वादुमिति । निपातनात्पूर्वपदस्य मान्तत्वम् । "येन विधिस्तदन्तस्य" इत्येव सिद्धेरपार्थकमन्तग्रहणं तत्राह-अन्तग्रहणमित्यादि । नित्ययोगे बहुव्रीहिविज्ञानादौपदेशिकप्रतिपतिः । आधय इति । आङ्पूर्वाद्धाञः "उपसर्गे घोः किः",चतुर्थ्येकवचने "घेर्ङिति" आधये, भवत्ययं संप्रत्येजन्तः, नोपदेशे । एवं चिकीर्षवे-करोतेः सन्नन्तात् शनाशंसभिक्ष उः ", कुम्भकारशब्दः कर्मण्यणन्तः "बहुवचने झल्येत्", अत्राव्ययसंज्ञायाम् "अव्ययात्" इति लुक् स्यात्, सन्निपातपरिभाषयाऽप्येतत्सिद्धम्, तथा लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैवेति । अन्तग्रहणं तु यत्नान्तरं द्रष्टव्यम् ॥ अव्ययीभावश्च ॥ १।१।४१ ॥ लुङ्मुखस्वरोपचारा इति । अत्र मखस्वरोपचारौ निवर्त्यपानतया प्रयोजनम्, मशकार्थो धूम इतिवत् । लुक् प्रवर्त्यमानतया । उपाग्नीति । अव्ययादिति लुक् । पूर्वपदप्रकृतित्वर एवेति । समासस्वरेणान्तोदातत्वम् । उपपयः काम इति । "शीलिकामिभिक्षाचरिभ्यो णः" कर्मणि घञन्तेन वा बहुव्रीहिः, अत्र मुखस्वरनिवृत्तिरेव साक्षात्प्रयोजनम्, लुक् तु "नाव्ययीभावादतोऽम्" इति विशेषप्रतिषेधात् सिद्धः, "अतः कृकमिकंस" इत्यत्र च "अनुतरपदस्थस्य" इति वर्तते । नन्वन्यदप्यव्ययकार्यं सम्भवति-उपाग्निकमित्यकच्, उपकुम्भमन्य इति मुम्प्रतिषेधः, उपकुम्भीभूत इति "अस्य च्वौ" इतीत्वस्योपसङ्ख्यानिकः प्रतिषेधः, उपाग्न्यधीयानेति "सुबामन्त्रिते" इत्यस्यौपसंख्यानिकः प्रतिषेधः, तत्कुतोऽयं कार्यनियम इत्यत आह - सर्वमिदमित्यादि । इह चेत्यादिना ङ लोकाव्यय" इत्यत्र यद्वक्ष्यति --"अव्ययप्रतिषेधे तोसुन्कसुनोरप्रतिषेधः" इति, तस्यावक्तव्यतां दर्शयति ॥ शि सर्वनामस्थानम् ॥ १।१।४२ ॥ कुण्डानीति । "जश्शसोझ शिः" शर्वनामस्थाने" इति वर्तमाने "नपुंसकस्य झलचः" इति नुम् । शर्वनामस्थाने चासम्बुद्धौ" इति दीर्घो यद्यपि "जसः शीः" ङपुंसकाच्च" इति विहितस्य शीशब्दस्य शब्दलूपापेक्षया नपुंसक ह्रस्वत्वे "शि" इति रूपं सम्भवति, तथापि लाक्षणिकत्वान्न तस्य ग्रहणम्, सर्वनामस्थानप्रदेशेषु शिग्रहणे सुटो ग्रहणं न स्यात् । शिसुटोरिति वचने नपुंसकसुटोऽपि ग्रहणं प्राप्नोति, अतः संज्ञा तावत्कर्तव्या । किमर्थं तु महती क्रियते ? के चिदाहुः-सर्वनाम तिष्ठत्यस्मिन्नति सर्वनामसोथानम्, नाम प्रतिपदिकम्, सर्वशब्दोऽवयवकार्त्स्यवचनः सर्वावयवयुक्तं यत्र नाम तिष्ठतीत्यर्थः, तेनान्यत्र न्यूनं नाम तिष्ठतीत्यर्थो गम्यते, किं सिद्धं भवति ? "उपेयुषः" इत्यादौ सम्प्रसारणे कृते पूर्वकृतस्येटो निवृत्तिः सिद्धा भवति; अन्यथा निवृत्तिकारणाभावात् अवतिष्ठेतेति । एवं तु कस्मिन् प्रातिपदिके किं न्यूनमिति न ज्ञायेत ! तस्मात्पूर्वाचार्यानुपालब्धुमेषा महती संज्ञा प्रणीता ॥ सुडनपुंसकस्य ॥ १।१।४३ ॥ सुडिति पञ्च वचनानीति । अनेनौटष्टकारेण प्रत्याहारः, न टाशब्दस्येति दर्शयति । आदिरन्त्येनेत्यत्रान्त्यत्वप्रयुक्ता यस्येत्संज्ञा तेन प्रत्याहारः । लकारे त्वकारस्येत्संज्ञाविधानसामर्थ्यात् प्रत्याहार इति भावः । नपुंसकादन्यत्रेति । अनेन पूर्युदासतां दर्शयति । प्रज्यप्रतिषेधे हि कुण्डानि तिष्ठन्तीति जसः शौ, पूर्वेण या प्राप्तिस्तस्या अपि प्रतिषेधशङ्कायाम् "अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा" इति परिहर्तव्यं स्याद्, असमर्थसमासश्चाश्रयणीयः स्यात् । नपुंसके न विधिरिति । स्त्रीपुंससम्बन्धिनः सुट उपादानाद् । न प्रतिषेध इति । विधिप्रधानत्वात् पर्युदासस्य । तेनेत्यादि । यत एवं नपुंसकेनास्य व्यापारः तेन जसो यः शिस्तस्य पूर्वेण संज्ञा भवतीति । सामनी इति । नपुंसकाच्चेति शीभावः । "विभाषा ङिश्योः" इत्यिल्लोपाभावे दीर्घो न भवति ॥ न-वेति विभाषा ॥ १।१।४४ ॥ नवाशब्दोऽयमेकनिपातोऽप्यस्ति प्रतिषेधवावी, नवोक्तार्थत्वादिति यता, तस्य ग्रहणे "विभाषादिक्समासे" इति प्रकृते " न बहुव्रीहौ" इति प्रतिषेधोऽनर्थकः स्याद् । विभाषाप्रदेशेषु च न शब्द एवोपादेयः स्याद् । अत एव संख्यावाचिनो नकारान्तस्याप्यग्रहणम् । प्रत्यग्रस्त्रीलिङ्गवचनोऽपि न गृह्यते; प्रदेशेष्वसम्भवात् । न हि "विभाषा श्वेः" इत्यादौ विधेयस्य नवपुराण्त्वं स्त्रीलिङ्गता वा सम्भवति । तस्मान्निपातसमुदायोऽयमित्याह-नेति । प्रतिषेध इत्यादि । तयोः प्रतिषेधविकल्पयोरित्यनेनार्थयोरेषा संज्ञेति दर्शतम् । ननु च श्व रूपं शब्दस्य" इति वचनान्नवाशब्दयोरेव ग्रहणं युक्तम्, तत्राह-इतिकरण इत्यादि । कर्माणि ल्युट्, इतिश्चासौ करणश्च सोऽर्थस्य संज्ञिनो निर्देशो यथा स्यादित्येवमर्थः । इतिशब्दो हि पदार्थविपर्यासकृत् । तत्र लोके बाह्यार्थप्रधानेषु शब्देष्वितिशब्दः प्रयुक्तः, अर्थपदार्थकत्वात् प्रच्याव्य शब्दपदार्थकत्वे व्यवस्थापयति गौरित्ययमाहेति । इह तु व्याकरणे श्वं रूपम्" इति वचनात् स्वरूपपदार्थः । ततश्च नवाशब्दाभ्यां परत्र प्रयुक्त इति शब्दस्तौ स्वरूपपदार्थकत्वात्प्रच्याव्यार्थपदार्थकत्वे व्यावस्थापयति । तस्मादर्थयोरेव संज्ञा । विभाषाप्रदेशेषु इत्यादिना प्रतिषेधविकल्पयोरेकस्मिन्नेव योगे सहोपस्थापनं विषयभेदेनेति तं दर्शयति । तथा सति विषयभेदो दुर्ज्ञानः स्यादिति भावः । तत्रेत्यादिना पूर्वं प्रतिषेधः प्रवर्तते, पञ्चाद्विकल्प इति दर्शयति । यदि तु पूर्वं विकल्पः प्रवर्तेत पश्चात्प्रतिषेधः, ततो विकल्पप्रवृत्तिरनर्थिकैव स्यात् । आनुपूर्वी च संज्ञाविधिवाक्ये श्रुतैव प्रदेशवाक्येष्वप्याश्रयितुं युक्ता । उभयत्रविभाषाः प्रयोजयन्तीति । प्राप्तविभाषायामप्राप्तविभाषायां च संज्ञाकरणस्यानुपयोगात् । तथा हि--प्राप्तविभाषायां तावद् "विभाषोपपदेन प्रतीयमाने" इति श्वरितञितः" इत्यादिना नित्यमात्मनेपदे प्राप्ते विभाषा विधीयते । विभाषाशब्दश्चायं "वा" "अन्यतरस्याम्" इत्यादिवद्विकल्पवाचित्वेन प्रसिद्धः । तेन भावाभावयोः प्रतिपादितयोर्भावांशस्य प्राप्तत्वादभावांशपरता विज्ञायते, भावांशः स्थित एव । अप्राप्तविभाषायामपि "विभाषोर्णोः" इत्यभावांशस्य प्राप्तत्वाद् भावांशपरता विज्ञायते "विभाषा श्वेः" इत्यत्र तु यदि विधिमुखेन विभाषा श्रुतिः प्रवर्तते, पित्स्वेव संप्रसारणं विभाषा स्यात्, कित्सु तु यजादित्वान्नित्यमेव स्यात् । अथ प्रतिषेधमुखेन प्रवृत्तिस्तदा कित्स्वेन विकल्पः स्यान्न पित्सु । न च शक्यं वक्तुम्--पित्सु विधिमुखेन प्रवर्तते, कित्सु प्रतिषेधमुखेनेति; एकत्वाद्वाक्यस्य तस्य चान्यतरविकल्प एवोपक्षीणत्वात् । संज्ञाकरणे तु पूर्वं प्रतिषेधे कित्सु प्रवृते किदकिदाख्यो लिट् सर्व एव समीकृतो भवति; सर्वस्यासम्प्रसारणनिमितत्वात् । ततो विकल्पः सर्वत्र विधिमुखेन पक्षे सम्प्रसारणं सम्पादयति । एतच्च--"आकृतौ पदार्थे समुदाये सकृल्लक्षणं प्रवर्तते" इति दर्शने प्रयोजनम् । यदा तु प्रतिलक्ष्यं "विभाषा श्वेः" इत्यस्य व्यापारः, तदा क्वचिद्विधिमुखेन क्विचितप्रतिषेधमुखेन प्रवर्तत इति संज्ञाकरणमन्तरेणापीष्ट्ंअ सिद्ध्यति । तता च "हृक्रोरन्यतरस्याम्" इत्यादावन्यतरस्यांग्रहणे वा ग्रहणे चोभयत्रविभाषास्विष्टसिद्धः । सूत्रारम्भे तु संज्ञाप्यर्थः, विभाषेत्यर्थः । संज्ञा नवार्थयोरिति व्याख्येयम् । शुशावेति । श्वयतेर्लिटि तिपो णलि सम्प्रसारणे वृद्ध्यावादेशौ ॥ इग्यणः सम्प्रसारणम् ॥ १।१।४५ ॥ यणः स्थान इति । कथं पुनरनुवादे स्थानसम्बन्धो लभ्यते ? "षष्ठी स्थानेयोगा" इत्यत्राधिकारात् । भूत इति । कार्यान्तरार्थमनूद्यमानो भूतः, विधेयस्तु भावती, तत्र च संज्ञिनो भावित्वात् संज्ञापि भविन्येव । यथा-अस्य सूत्रस्य शाटकं वयेति । "वचिस्वपियजादीनां किति" तद्भवति यस्य भूतस्य सम्प्रसारणसंज्ञा भवतीति । इष्टम्, उप्तमिति । "वचिस्वपि" इत्यादिना सम्प्रसारणम् । गृहीतमिति । "ग्रहिज्या" इत्यादिना । "ग्रहोऽलिटि दीर्घः" । केचिदित्यादि । एवंवदतां भाविनी संज्ञा नाश्रयणीया, स्थानेयोगश्च लभ्यते । "इग्यणः" इत्यत्र भवतीत्यध्याहारात्पूर्वसूत्राच्चेतिकरणानुवृतेर्यणः, स्थाने इग्भवतीति योऽयं वाक्यार्थ इत्यर्थो लभ्यते । कथं पुनरर्थद्वयमेकस्य सूत्रस्य भवति ? तन्त्रेण,आवृत्या वा । अस्य च लिङ्गं विभक्तिविशेषनिर्देशः । यदयं "ष्यङः सम्प्रसारणम्" इत्यादौ भाव्यमानविभक्त्या निर्देशां करोति, ततो ज्ञापयति--वाक्यार्थः संज्ञेति । न हि तत्र वर्णस्य सम्भवः । "सम्प्रसारणस्य" इत्यादौ तु भूतविभक्त्या निर्देशात् ज्ञायते --वर्णः संज्ञीति । न हि तत्र वाक्यार्थः सम्भवति । तत्रेत्यादिना द्वयोरर्थयोर्विषयविभागेनोपस्थानं दर्शयति । अदुहितरामिति । दुहेर्लङ् किर्मकर्तरि उतमैकवचने इटि ङ दुहस्नुनमाम्" इति यकि प्रतिषिद्धे शब्लुकि अदुहि इति स्थिते "तिङ्श्च" इति तरपि "किमेतिङ्व्ययघाद्" इत्याम् । तत्र लकारस्य यणः स्थाने इङ्विहित इति संप्रसारणसंज्ञायाम् "हलः" इति दीर्घत्वं प्राप्नोतीति चोद्यमपाकरोति । सङ्ख्यातानुदेशादिति । तरप उपन्यासोऽङ्गसंज्ञार्थः । सङ्ख्यासाम्यात् संख्यातानुदेशे सति यकारस्थानिकस्येकारस्य संज्ञया भाव्यम्, अयं तु लकारस्थानिकः । द्यौभ्यामित्यत्र "दिव उत्" इत्युत्वे यणादेशे "हलः" इति दीर्घत्वं प्राप्तंतपरकरणान्न भवति । अक्षद्यूः, अक्षद्यौवौ, अक्षद्यौव इत्यादावूठः संप्रसारणसंज्ञायाम् शंप्रसारणाच्च" इति पूर्वरूपत्वं प्राप्तम् "वार्णादाङ्गं बलीयः" इति उवङ बाध्यते ॥ आद्यन्तौ टकितो ॥ १।१।४६ ॥ अत्र द्वौ पक्षौ सम्भवतः-संज्ञा स्यात्, परिभाषा वेति । तत्र संज्ञापक्षेऽयमर्थः-टकिताविति कर्मधारयः, इत्संज्ञकौ टकारककारौ आद्यन्तयौः संज्ञेति । तत्रेडित्यत्राद्यर्थेन टकारेण बहुव्रीहौ इकारादिः शब्दो गृहीत आदेशो विधीयमानस्तव्यस्य स्थानेऽन्तरतम इतव्यो भवतीति सिद्धमिष्टम् । एवं षुक्यन्तवचनेन ककारेण बहुव्रीहौ षकारान्तो गृहीत आदेशो भियो भीष् भवतीति सिद्धम् । नन्वस्मिन्पक्षे संज्ञा संज्ञिप्रत्यायनार्था, संज्ञिनं प्रत्याय्य स्वयमेव निवर्तिष्यत इति किमिद्ग्रहणेन, टकावित्येवास्तु ? उच्यते; इत्संज्ञकत्वेन देशविशेषो लक्ष्यते, तेनेत्संज्ञकस्य यो देशस्तद्देशावस्थितौ टकौ संज्ञे भवत इति आलजाटचौ "ठस्येकः" इत्यादौ टकौ संज्ञे न भवतः । अस्मिन्पक्षे दोषः, "लुङ्लङ्लृङ्क्ष्वडुदातः" इत्यडित्यकारादेरादेशस्य विधानातस्यैवोदातत्वमलोऽन्त्यस्य स्याद्, नाकारस्य ? नैष दोषः; "अडुदातः" इति त्रिपदो बहुव्रीहिः-उदातोऽकार आदिरस्येति । विशेषणस्याप्युदातस्य सौत्रः परिनिपातः । एवमपि --"आडजादीनाम्" इत्यत्रोदातग्रहणमेवानुवर्तत इति बहुव्रीहेरसम्भवाद्दोषः, तस्मात्परिभाषापक्षमाश्रित्याह-"आदिष्टिद्भवतीति । परेण परिभाषाप्रकरणेन साहचर्यादिति भावः । यद्वा-"षष्ठी स्थानेयोगा" इत्यत्रेदमनुवर्त्यम्, अत एवाह-षष्ठीनिर्द्दिष्टस्येति । तेन "चरेष्टः","आतोऽनुपसर्गे कः" इत्यादयः प्रत्यया आद्यन्तभूता न भवन्ति । एवमपि "गापोष्टक्" "व्रीहिशाल्योर्ढक्" इत्यत्र प्रसङ्गः, तत्र टकष्टित्वकित्वयोगे परत्वादन्त्यः स्यात्, नैष दोषः; "पुरस्तादपवादा अनन्तरान्विधीन् बाधन्ते न परान्" इति । एवमयं स्थानेयोगं बाधते, न प्रत्ययपरत्वम् । भीषयत इति । "ञिभी भये", णिच् । "भियो हेतुभये षुक्" "भीस्म्योर्हेतुभये" ॥ मिदचोऽन्त्यात् परः ॥ १।१।४७ ॥ "अचः" इति निर्धारणे षष्ठी, जातावेकवचनमित्याह--अचामित्यादि । अत्रापि जातौ बहुवचनम् । यदि पुनरन्त्यादित्यानया समानाधिकरणा पञ्चमी स्यात्, ततो हरन्तेष्वस्याः प्रवृत्तिर्न स्यात् । ततश्च ङुपंसकस्य झलचः" इति नुमिहैवान्त्यात्परः स्यात् कुण्डानीति, यशांसीत्यत्र त्वलोऽन्त्यस्य स्यात्; एवं "शे मुचादीनाम्" इत्यादौ । ततश्च तेषु मित्वमनर्थकं स्यादिति भावः । समानजातीयस्यैव निर्द्धारणं भवतीत्यन्त्योऽप्यजेव विज्ञायत इत्याह-अन्त्यादचः पर इति । पुरस्तादपवादन्यायेन स्थानेयोगत्वस्यैवायमपवादो युक्त इत्या शङ्क्याह--रथानेयोगप्रत्ययपरत्वस्यापवाद इति । स्थानेयोगश्च प्रत्ययपरत्वं चेति समाहारे द्वन्द्वः । "तृणहः "इति निर्देशात् श्नमो मकारो न श्रवणार्थः, अतो मित्करणसामर्थ्यात् प्रत्ययपरत्वस्याप्ययमपवादौ युक्त इति भावः । मस्जेरित्यादि । "मस्जिनशोर्झलि" तैति नुम् यद्यन्त्यादचः परः स्यात् ततो निष्ठायां मन्स्ज इति स्थिते श्कोस्संयोगाद्योरन्ते च " इति सलोपो न स्यात् । वहूनां समुदाये समुदायस्यैका संयोगसंज्ञा न द्वयोर्द्वयोरित्यस्मिन् पक्षे सत्यपि वा सलोपे तस्यासिद्धत्वादनुपधानकार इति "अनिदिताम्" इत्यनुषङ्गलोपए न स्यात् । नकारस्योपधायाः " अनुषङ्गः" इति पूर्वाचार्याणां संज्ञा । तस्माज्जकारात्पूर्वो नुम् कर्तव्य इत्यर्थः । मग्न इति । "ओदितश्च" इति निष्ठानत्वम्, तस्यासिद्धत्वात्कुत्वम् । अत्र "आद्यन्तौ टकितौ" इत्यतः "अन्त" इत्यनुवृतौ पूर्वस्य सङ्घातस्य मिदन्तावयवो भवति । "आदि" इत्यनुवृतौ तत्र सन्निहितस्य परस्यादिर्भवति । अथोभयं निवृतं ततोऽभक्त इति त्रयः पक्षाः । तत्राभक्ते--ताता पिण्डानामिति नलोपो न स्यात् । तच्छब्दात् "जश्शसोः शिः" तानि "शेश्च्छन्दसि बहुलम्" इति शेर्लुक् । वहंलिहः, अर्भ्रलिहः-"वहाभ्रे लिहः" इति खशि "अरुर्द्विषदजन्तस्य मुम" इति मुम् । अस्यापदान्तत्वादनुस्वारो न स्यात् । त्रपुणी इत्यत्र परत्वान्नित्यत्वाच्च नुमि कृते तेन व्यवधानादौङः शीभावो न स्यात् । अथ परादिः-त्रपुणे, "घेर्ङिति" इति गुणः प्राप्नोति, अतिसखीनि-शख्युरसम्बुद्धौ" इति णिद्वद्भावे "अचो ञ्णिति" इति वृद्धिः प्राप्नोति । त्रपुणि, "अच्च घेः", शुचीनि, ङोपधायाः" इति दीर्घत्वं न प्राप्नोति । ताता पिण्डानामिति नलोपः वहंलिह इत्यनुस्वारः । तस्मात्पूर्वान्त एवायं मिदेषितव्यः ॥ एच इग्घ्रस्वादेशे ॥ १।१।४८ ॥ परिभाषेयं स्थानिनियमार्था । "ह्रस्वो नपुंसके" इत्यादाववुपतिष्ठते । इहैचां पूर्वो भागो मात्रात्मकः कण्ठ।लेऽकारसदृशाः । एदैतोरुतरस्तालब्य इकारसदृशः । ओदौतोरोष्ठ।ल् उकारसदृशः । एवमवयवसमाहारात्मनामेचां ह्रस्वशासनेषु समुदायान्तरतमस्याभावाद् अवयवान्तरतमो ह्रस्वो भवन् कदाचिदकारः स्यात्, कदाचिदिकारोकारौ; मा कदाचिदकारो भूदित्येवमर्थमिदमारभ्यते, तदाह--इगेव ह्रस्वो भवतीति । यदि त्वयं विधिः स्यात्, तदा ह्रस्वादेश इति विषयोपलक्षणमेतत्स्याद्--यस्मिन्विषय एचो ह्रस्वादेशप्रसङ्गस्त त्रेग्भवतीति । ततश्च दीर्घाणां स्थाने दीर्धा एवकः स्युः सवर्णग्रहणात्, नैषदोषः;"भाव्यमानोऽण् सर्वर्णान्न गृह्णाति" "भाव्यमानोऽप्यकारः सवर्णान् गृह्णाति" "दिव उत्" इतितपरकरणाद् अमूभ्यामितिवत्; तथैचामिकां च साम्यात् संख्यातानुदेशोऽपि स्याद्, आदेशग्रहणं चानर्थकं स्यात् । तत आदेशग्रहणसामर्थ्याद् ह्रस्वादेशे ह्रस्वदेशनकाल इक्कर्तव्यः, ह्रस्वादेशं कुर्वन्निकं कुर्यादित्यर्थः । यद्वा -आदिश्यत इत्यादेशः, ह्रक्वश्चासावादेशश्च ह्रस्वादेशः । निर्द्धारणे सप्तमी, जातावेकवचनम् । आदिश्यमानेषु ह्रस्वेषु मध्ये इगेव ह्रस्वो भवतीति सर्वथा नियमरूपेणास्य प्रवृत्तिः । प्राप्तिपूर्वकश्च नियम इति ये प्राप्ता अन्तरतमास्तेष्वेव नियमः । न च ऋकारलृकारौ प्राप्ताविति कुतो यथासङ्ख्यम् ? कुतो दीर्घप्रसङ्गः ? एवं चेणित्येव सिद्धे इग्ग्रहणं परेण मा भूदिति । अतिरि । अतिनु । रायमतिक्रान्तं नावमतिक्रान्तं ब्राह्मणकुलमिति प्रदिसमासे नपुंसकह्रस्वत्वम् । उपग्विति । अव्ययीभावः । रैशब्दश्च्छन्दस्येवेति भाष्यम् । एकारस्याप्रसिद्धत्वादुदाहरणं न प्रदर्शितम् । हेशब्दमतिक्रान्तं ब्राह्मणकुलमतिहि । अतिखट्व इति । उपसर्जनह्रस्वः । देश्वदेतेति । आमन्त्रिताद्यौदातत्वम् । देवद३त । "गुरोरनृत" इत्यादिना प्लुतः ॥ षष्ठी स्थानेयोगा । योगनियमार्थेति । यद्यपि षष्ठी स्थानेयोगैवेत्यस्यां वचनव्यक्तौ यत एवकारस्ततोऽन्यत्रावधारणमिति षष्ठीनियमः श्रुत्या प्रतीयते तथापि स्थाननिमितक एव सम्बन्धः षष्ठ।ल वाच्य इत्यर्थात्सम्बन्धनियमोऽपि भवतीति भावः । योगे वा नियमो योगनियमः । यदि योगनियमः क्रियते लोकेऽपि नियमः प्राप्नोति, अवयवषष्ठ।लदयश्च न सिद्ध्यन्ति; ततश्च "शास इदङ्हलोः" शासेश्चान्त्यस्य स्यादुपधामात्रस्य च, "ऊदुपधाया गोहः" गोहेश्चान्त्यस्य स्याद् उपधामात्रस्य च, तत्राह-इह शास्त्रे या षष्ठ।ल्नियतयोगेति । एतेन शास्त्रेऽयं नियमः, शास्त्राङ्गत्वात्परिभाषाणाम्; तत्राप्यनियमप्रसङ्ग इति दर्शयति । अनियमप्रसङ्गे नियमः कर्तव्यो लोकवत्, तद्यथा-लोके ग्रामान्तरं जिगमिषुः कश्चित्कञ्चिदाह-"पन्थानं मे भवानुपदिशतु" इति, स यत्र संदेहः, पथि द्वैविध्यात्, तत्रैवोपदिशति-"अमुष्मिन्नवकाशेऽनेन पथा गच्छ" इति; एवमिहापि "अस्तेर्भूः" अस्तेः स्थानेऽनन्तरो वेति संदेहे नियमः क्रियते - स्थानेयोगैवेति । एतदेव स्पष्टयति-स्थानेयोगस्य निमितभूत इति । निमितभूते, निमितत्वं प्राप्ते । निमितग्रहणं कुर्वन् श्थाने" इति निमितसप्तमीति दर्शयति । स्थानशब्दोऽयमस्त्यपकर्षवचनः-गोस्थानेऽश्वो बध्यतामिति, अस्ति च निवृत्तिवचनः-श्लेष्मणः स्थाने कटुअकमौषधमिति, अस्ति च प्रसङ्गवचनः--दर्भाणां स्थाने शरैः प्रस्तरितव्यमिति, तदिह चरमस्य ग्रहणमित्याह--स्थानशब्दश्चेति । चशब्दोऽवधारणे भिन्नक्रमश्च वाचीत्यस्यानन्तरं द्रष्टव्यः । प्रसङ्गवाच्येवेति कथमिवेत्याह--यथेति । निवृत्तिवाची न गृह्यते, अस्तेरुपदेशसामर्थ्यात् । न ह्यार्धधातुके निवर्तितस्य सार्वधातुके श्रवणमुपपद्यते, न हि मथुरायां व्यापादितः स्रुघ्ने जीवति । नाप्यपकर्षवचनः, न ह्यर्थेन नित्यसम्बद्धस्य ततोऽपकर्षः सम्भवति । नाप्यार्द्धधातुकादपकर्षः, न हि नित्ये प्रकृतिप्रत्ययसमुदाये प्रकृतेरपकर्षः सम्भवति । स्वाभाविक एव ह्यस्तेरप्रयोग आर्द्धधातुके भूशब्द स्य च प्रयोगोऽनेन प्रकारेणान्वाख्यायते, अतः प्रसङ्गः एव स्थानम् । प्रसङ्गः प्राप्तिः, अस्तेः प्राप्तौ भूः प्रयोक्तव्य इत्यर्थः । अस्तिनार्थं प्रतिपादयितुमुद्यौक्त आर्द्धधातुके विषये भवतिना प्रतिपादयेदिति यावत् । प्रसङ्गसम्बन्धस्येत्यादिना सूत्रार्थमुद्राहरणे दर्शयति । ब्रुव इत्युपलक्षणम् । किं पुनर्बहवः षष्ठ।ल्र्था यत इदमुच्यत इत्यत आह --बहवो हीति । एकशतं षष्ठ।ल्र्थाः तत्र स्वस्वामिभावादयः शब्दे न सम्भवन्ति, समीपादय एव तु सम्भवन्तीत्यतो यावन्तः शब्दे सम्भवन्तीत्युक्तम् । व्यवहितमपि समीपं भवतीत्यनन्तराद्भेदेनोपादानम् । स्थानेयोगेत्यसमासश्चेद् योगेति स्त्रीलिंगं षष्ठीशब्देन च सामानाधिकरण्यमनुपपन्नम् । समासेऽपि तत्पुरुषश्चेत् तौ च पूर्वोक्तदोषौ, सप्तम्या लुक्प्रसङ्गश्च, बहुव्रीहावपि लुक्प्रसङ्गोऽनिवार्य एवेत्यत आह--षष्ठी स्थानेयोगेत्यादि । यद्वा--अयोगेति पदच्छेदः । न विद्यते योगो यस्याः साऽयोगा । तत्र योगः मन्तरेण षष्ठ।ल एवाभावाद् विशिष्टो योगो यस्या नास्तीत्यर्थः । एवं च कृत्वासंदेह एवोपस्थानमित्येवं सर्वत्र सिद्धं भवति । अथ वा - योगवती योगा, षष्ठ।लश्चावश्यम्भावी योग इति सामर्थ्याद् भूम्नि मत्वर्थीयोऽकारः, बहवो योगा यस्याः सन्तीति । अस्मिन्नपि पक्षे सन्देहविषय उपस्थानमिति सिद्धम् । भाष्ये सूत्रं प्रत्याख्यातम्, कथम् ? "अस्तेर्भूः" इत्यत्र सन्देहः --स्थानेऽनन्तरः, समीप इति ? लक्ष्यानुरोधात् स्थान इति व्याख्यास्यामः । इदं तु षष्ठ।ल्न्तं यथा स्थानेन युज्येत; अतः षष्ठयुच्चारिता । तेन ङिर्द्दिश्यमानस्यादेशा भवन्ति" इति सिद्धं भवतीति । तत्र सूत्रे षष्ठ।ल्न्तं गृह्यते--षष्ठ।ल्न्तमेव निर्द्दिश्यमानं स्थानेन युज्यते, न तु प्रतीयमानमिति । तेन "पादः पत्" इत्यस्यायमर्थः--पादन्तस्याङ्गस्य यो।वयवः पाच्छब्दः सूत्रे षष्ठ।ल निर्दिष्टः, तस्य पच्छब्द आदेशः, न तु प्रतीयमानस्य तदन्तस्येति ॥ स्थानेऽन्तरतमः ॥ १।१।५० ॥ यद्ययं स्वतन्त्रो विधिः स्याद्, अत्रापि प्राप्नोति - दघि, मघु । अस्तु; न कश्चिदन्य आदेशः प्रतिनिर्द्दिश्यते, तत्रान्तर्यतः स एव तस्य भविष्यति, न; तस्याप्यन्य इत्यनवस्थाप्रसङ्गात् । प्रयोजनमन्तरेण हि प्रवर्तमानमसकृदपि प्रवर्तते । ततश्च सर्वस्य निवृत्युन्मुखत्वादर्थप्रत्यायनाय प्रयोगो न स्यात् । अपि च बिसं मुसलमित्यादौ यदा समुदायस्य समुदायस्तदा सकारमात्रस्यानादेशत्वात् षत्वाप्रसङ्गेऽपि सकारमात्रस्य सकार इति षत्वं प्राप्नोति । अतः परिभाषाप्रकरणात् परिभाषेयं यत्र स्थानषष्ठी तत्रोपतिष्ठते । तेन विधिवाक्यानामनेन सूत्रेणैकवाक्यत्वाद् विधानकाल एवान्तरतम आदेशो विधीयत इत्याह--स्थाने प्राप्यमाणानामिति । अत्रैवशब्दाप्रयोगात् प्राप्यमाणानामिति वचनच्च विशिष्टविधिरेवायम्, न नियमः । अर्थात्वनन्तरतमव्युदास इति दर्शितं भवति । अन्तरतम इत्यस्यार्थमाह--सदृशतम इति । कुतश्चेति । शब्दत्वस्य साधारणत्वात् प्रापतिस्विकविशेषस्य चासाधारणत्वात् प्रश्नः । वतण्डी चासौ युवतिरिति । विग्रहवाक्यम्, इतरदुदाहरणम् । अत्र वतण्डस्यापत्यं स्त्री "वतण्डाच्च" "लुक् स्त्रियाम्" इति यञो लुक्, शार्ङ्गरवादिपाठान्ङीन् । "पएटायुवति" इति समासे सति पुंवत्कर्मधारयेति पुंशब्दो निर्द्दिश्यमानो वतण्डापत्यवाचिनो वतण्डशब्दस्यतदपत्यवाची वातण्ड।ल्शब्दो भवति । चकारस्येत्यादि । अल्पप्राणत्वादिकं सवर्णसंज्ञायामुक्तम् । अमुष्मै, अमूभ्यामिति । अदसश्चतुर्थ्येकवचने त्यदाद्यत्वम्, शर्वनाम्नः स्मै", भ्यामिशुपि च" इति दीर्घत्वम् । स्थान इति वर्तमान इति । पूर्वसूत्राद् । यद्यपि तत्र समस्तम्, तथापि स्वरितत्वानुषङ्गादनुवृत्तिरिविरुद्धा । पुनः स्थानेग्रहणमिति । प्रकृतेन हि स्थानशब्देन स्थाने प्राप्यमाणानामित्ययमर्थो लभ्यते, अयं तु ताल्वादिस्थानवचनो वाक्यभेदेन सम्बध्यते, स्थानैऽन्तरतमो भवति । यत्रानेकमान्तर्थं तत्र स्थानकृतान्तर्थमाश्रीयत इति वाक्यभेदस्य च तमब्ग्रहणं लिङ्गम् । स्थानकृत एव हि सादृश्ये गृह्यमाणे सादृश्यान्तरपरित्यागात् तमब्ग्रहणं व्यर्थमेव स्यात् । तमब्ग्रहणं किमिति । सुमदृश्यव्यवहारदर्शनात् तमब्ग्रहणमिति भावः । सोष्मणः, सोष्माण इत्यादि । ऊष्मशब्दोऽत्र गुणमात्रवचनः । इतिकरणो हेतौ । यस्मादूष्मगुणयुक्ताः, तस्मादूष्मगुणयुक्तस्य हकारस्य द्वितीयाः प्रसक्ता इत्यर्थः । "शादय ऊष्माणः सस्थानेन द्वितीया हकारेण चतुर्थाः" इति शिक्षा । अत्रोष्मशब्दो गुणवचनः, सस्थानेनेति इत्थंभूतलक्षणे तृतीया । हशषसाः खच्छादीनां द्वितीयानां स्थाना यथा ते ऊष्माण एवं द्वितीया अपीत्यर्थः । फकारस्य सस्थान ऊष्मा नास्ति, तस्मातस्य विशेषत ऊष्मत्वं वक्तव्यम् । हकारेण चतुर्था इति, यथाहकार ऊष्मा एवं तेऽपीत्यर्थः । एवं नादवतो नादवन्त इतीत्यत्रापि हेत्वर्थो योज्यः । इह इष्टम्, उप्तम्--आन्तर्यतोऽर्द्धमात्रस्य व्यञ्जनस्यार्द्धमात्रेक् संप्रसारणं प्राप्नोति; इह च दध्यत्र, कुमार्यत्र, ब्रह्मबन्ध्वर्थम्--मात्रिकद्विमात्रिकत्रिमात्रिकाणामिकां मात्रिकद्विमात्रिकत्रिमात्रिका यणः प्राप्नुवन्त्यान्तर्यतः । नैव लोके वेदेऽर्द्धमात्र इगस्ति, नापि मात्रिको द्विमात्रिको वा यण्, योऽस्ति स भविष्यति । इहान्तरतमशब्दः सप्तम्यन्तोऽपि पठितो भाष्ये । "स्थानेऽन्तरतम उरण् रपरः" इति संहितापाठोऽनित्यः" तत्र पदच्छेदे सप्तम्यन्तमपि सम्भवति । तत्र चायमर्थः-षष्ठीति वर्तते,अन्तरतमो य आदेशस्य स्थानी, तत्र षष्ठी, तस्यादेश इति "अकः सवर्णे दीर्घः" इत्यादौ विधीयमानस्य दीर्घस्यान्तरतमे स्थानिन्यक इति षष्ठ।लेपसंहारात् सिद्धमिष्ठम् । तथा "वान्तो यि प्रत्यये" इत्यत्रैव इत्यनुवृतायाः षष्ठ।ल वान्तादेशस्यान्तरतमयोरोदौतोरुपसंहारात् सिद्धम्, इतरथैज्मात्रस्य वान्तादेशः स्यात् । अत्र यक्षे दोषः -"इको यणचि" इति यणो येऽन्तरमा इकस्तत्र षष्ठीति दध्यत्रेत्यादावेव स्यात्, कुमार्थत्रेत्यादौ न स्यात् । तथा "इको गुणवृद्धी" गुणवृद्ध्योर्येऽन्तरतमा इकस्तत्र षष्ठीति इहैव स्याद्-नेता, लविता, नायकः, लावकः; चेता, स्तोता, चायकः, तावक इत्यत्र न स्यात् । एवं दोषवत्वादस्य पक्षस्य यथाव्याख्यातमेव साधीयः । "वान्तो यि प्रत्यये" इत्यत्र परिहारं वक्ष्यति ॥ उरण् रपरः ॥ १।१।५१ ॥ अत्र चत्वारः पक्षाः सम्भवन्ति--"उः स्थाने रपरोऽण् भवतीत्यनेन रपरत्वविशिष्टोऽण् भाव्यते" इति प्रथमः पक्षः । "उः स्थानेऽणेव भवति,स च रपर इति अणनण्प्रसङ्गेऽण् नियम्यते, तस्य च रपत्वं विधीयते" इति द्वितीयः पक्षः । "य उः स्थानेऽण्विधीयते इत्यनूद्य तस्य प्रसङ्गावस्थायामेव रपत्वमात्रं विधीयते" इति चतुर्थः पक्षः । तत्र प्रथमपक्षे--नाप्राप्तेषूदातादिषु विधीयमानोऽण् तेषां बाधकः स्यात्, तैरनवरुद्धस्य विषयस्याभावात् । एवं हि तदा वचनव्यक्तिः, षष्ठीनिर्द्दिष्टमात्रस्याभावान्नादेशोऽन्तरतमो भवति, ऋवर्णस्य त्वण् रपर इति, ततश्च कृतिरित्यत्र "ञ्नित्यादिर्नित्यम्" इति प्राप्तमृकारं बाधित्वाण् रपरः स्यात्; प्रकृतमिति शेषनिघातः स्वरितश्च, नृÄः पाहीति पूर्वसवर्णदीर्घत्वमनुनासिकं च बाधित्वाण् रपरः स्यात्, कर्ता, कारक इति च गुणवृद्धी बाधित्वाऽण् भवन्नकार एवेति नियमाभावादिकारोकारावपि रपरौ स्याताम्; ये चामी प्रातिपदमुः स्थान आदेशाः "आञ्त इद्धातोः" इत्यादयः-तेषु रपरत्वं न स्यात् । द्वितीये तु कामं गुणवृद्ध्योर्दोषो न स्यात् । तथा हि -- "सर्वेषु गुणवृद्धिसंज्ञकेषु प्राप्तेषु अणेव भवति" इति नियमादकाराकारावेव गुणवृद्धी रपरे भवत इति सिद्धं कर्तेत्यादि, शास्त्रान्तरेण योऽण् प्रसक्तः स एव नियमादपि भवतीतीकारोकारावपि न प्राप्नुतः । ननु "अनुयमप्रसङ्गे नियमः" इति वृद्धावेव स्याद्, अस्ति तत्रानियमप्रसङ्ग इति कृत्वा; गुणस्तु कर्तेत्यादौ मात्रिकस्य मात्रिकोऽकार एव प्राप्नोति;तरितेत्यादौ द्विमात्रस्य द्विमात्र एव भवेद्, अणेवेति त्र नियमाभावात् तरितेत्यादावेणेóव गुणः स्यात्; कर्तेत्यादौ तु यद्यप्यकार एव गुणो लभ्यते, तस्य रपत्वं तु न लभ्यते, यो ह्यणनण्प्रसङ्गेऽणेवेति भवतीति नियमतो योऽण् तस्यैव रपरत्वं विहितम्; अतो निमयमपक्षेऽपि गुणविषये दोषस्तदवस्थ एव ? उच्यते, द्वे एते परिभाषे आदेशनियमार्थे--श्थानेऽन्तरमः" इति च "उरण् रपरः" इति च । तत्र पूर्वस्या अवकाशः "चजोः कुघिण्ण्यतोः" इत्यादि, अस्या अवकाशो यत्रान्तरतम्ये विशेषो नास्ति, यथा तारक इत्यादौ, वृद्धीनां कर्ता तारितेत्यादौ । गुणो भवतीत्युक्ते सर्वेषु गुणेषु प्राप्तेषु श्थानेऽन्तरतमः" इति नियमोऽस्तु, "उरण् रपरः" इति वा परत्वात् "उरण्रपरः" इत्ययमेव भविष्यति । अतः सुष्ठूअक्तम्-ङियमपक्षे गुणविषये न कश्चिद्दोषः" इति । किन्तूदातादिषु दोषस्तदवस्थ एव स्यात्,तथा हि-कृतिरित्यादावुदातो भवतीत्युक्ते सर्वेषदातसंज्ञकेषु प्राप्तेषु परत्वादनेनाण एवोदाताः स्युः ते च रपराः । एवमनुदातादिष्वपि द्रष्टव्यम् । ये च प्रतिपदामादेशाः "ऋत इद्धातोः" इत्येवमादयः, तेष्वनियमप्रसङ्गाभावादस्ति नियमे रपत्वं न स्यात्, तदाह--"उरण् रपरवचनमन्यनिवृत्यर्थं चेदुदातादिषु दोषः" इति । तृतीय पक्षे उदातादिषु न दोषः; ञ्नित्यादिभिरन्तरतमस्यैव विधानात् । किरतीत्यादौ च न दौषः । गुणवृद्ध्योरुक्तदोषः स्यादेव, तथा हि--विहितस्य पश्चादनेन रपरत्वं विधीयते, विधानकाले त्वान्तर्यतो मात्रिकस्य; मात्रिके गुणे रपरे कर्तेत्यादि यद्यपि सिध्यति, तरितेत्यादौ त्वेणेóव गुणः स्याद्; वृद्धिषु च विधानसमये कस्याश्चिदान्तर्याभावात् तिसृषु प्रवृतास्वाकारस्याण्त्वात् रपरत्वे कारकस्तारक इति यद्यपि सिद्धति, वायकस्तावक इत्यद्यनिष्टमनुसज्यत एव । अत एवमेतेषु पक्षेषु दोषसद्भावाच्चतुर्थं पक्षमाश्रित्याह-- उः स्थानेऽण्प्रसज्यमान एवेत्यादि । एतच्च स्थानद्वयग्रहणानुवृतेर्लभ्यते । तत्रैकमुः स्थाने योऽण् विधीयत इत्यनुवादेऽपि स्थानसम्बन्धलाभाय । द्वितीयं तु सोऽण् प्रसङ्ग एव प्रसज्यमानावस्थायामेव रपरो भवतीति रपरत्वस्य कालविधानार्थम् । श्थानेऽन्तरतमः" इत्यत्र हि यद्यपि ताल्वादिवचनः स्थानशब्दः, तथापि न तेनात्र कश्चिदर्थोऽस्तीति प्रसङ्गवचन एवेह सम्पद्यते । एवं च गुणवृद्ध्योः प्राप्त्यवस्थायामेवाणो परपाः सम्पन्ना इति प्रमाणतोऽन्तरतमावेण्èóचौ बाधित्वा स्थानतोऽन्तरतम एव भविष्यतीति न कश्चिद्दोषः । न चानेकाल्त्वात्सर्वादेशप्रसङ्गः; आनुपूर्व्या सिद्धेः । यदाङ्गस्येति षष्ठी अन्त्येऽल्यनुसंहृता तदायमुः स्थाने, यदायमुः स्थाने तदा रपरः, यदा रपरस्तदानेकालिति न पुनः परावृत्य सर्वादेशो युज्यते । द्वैमातुर इति । "मातुरुत्सङ्ख्यासम्भद्रपूर्वायाः" । खेयमिति । "ई च खनः" । सौधातकिरिति । शुधातुरकङ् च " । अत्रायमकङदेशोऽनण्त्वाद्रपरो न भवति । अथ योऽत्राण् स परः कस्मान्न भवति ? अनादेशत्वात्, समुदायो ह्यत्रादेशः । यद्येवम्, खट्वर्श्य इत्यादावपि रपरत्वं न स्यात्, पूर्वपरयोर्हि समुदायोऽत्र स्थानी नावयव ऋकारः, उच्यते; पूर्वपरयोरिति द्विवचननिर्द्दिशातयोरेव स्थानित्वं न समुदायस्य, अनुर्देअशात् । अत एव द्वयोः स्थानिनोर्भिन्नादिषु नत्ववत् द्वावादेशौ सायाताम् इति तत्रैकग्रहणं क्रियते । तत ऋकारस्यापि स्थानित्वमस्त्येव । तदिदमुच्यते-"यो ह्युभयोः स्थाने भवति लभते सोऽन्यतरब्यपदेशम्" इति । अतस्तत्रापि रपरत्वं भविष्यति ॥ अलोऽन्त्यस्य ॥ १।१।५२ ॥ "अलः" इति जसन्तं चेदयमर्थः स्यात्-अलात्मका आदेशा अन्त्यस्येति । तत्र रहोरजसां लोपः सर्वादेशः स्याद्--नीरजीकरोतीति । अन्त्यस्य चविशेषितत्वात् "वसुस्रंसुध्वंस्वनडुहां दः" इति दत्वं पदस्याप्यन्त्यस्य स्यात्--परमानडुद्भ्यामिति । असन्देहार्थं चालोऽन्त्यस्येति वाच्यं स्याद् । अतोऽलोन्त्यस्येत्यनेन सामानाधिकरण्यात् षष्ठ।ल्न्तमिति स्थितम् । यदि "षष्ठी स्थानेयोगा" इत्येनैकवाक्यताऽस्य स्यात्, ततोऽयमर्थः स्यात्--"इह शास्त्रे या काचन षष्ठी सान्त्यस्यालो भवति सा स्थानेयोगा इति । ततश्च "आर्द्धधातुकस्येड्वलादेः" इत्यस्याप्यन्तेऽल्यनुसंहारादार्द्धधातुकान्त्यस्यैवेट् स्यात्, स च भवन् "आद्यन्तौ टकितौ" इत्यन्त्यात्प्राक् स्यात् । "आद्यन्तौ टकितौ" इत्यनेन हि स्थानेयोगात्वमेव षष्ठ।ल बाध्यते, न पुनरन्त्येऽल्यनुसंहारोऽपि । अतो भिन्नं वाक्यम्, तदाह--षष्ठीनिर्दिष्टस्येत्यादि । सामान्यवचनेऽपि "षष्ठी स्थानेयोगा" इत्याधिकारात् स्थान षष्ठीनिर्दिष्टस्येति वेदितव्यम्; अन्यथा षष्ठीमात्रस्याधिकारे यस्य षष्ठोनिर्दिष्टस्य यत्कार्यं यथाभूतमुच्यते--आदेशरूपम्, ताअथगमरूपं वा, ततथाभूतमेव तदन्तस्य भवतीत्यर्थः स्यात् । ततश्च स एव दोषो य एकवाक्यतायाम् । अतः "षष्ठी स्थानेयोगा" इति सर्वमनुवर्त्यम् । अयञ्चार्थो भवति--श्थानषष्ठीनिर्दिष्टस्य यदुच्यते ततदन्त्यस्यालो भवति, न तस्य कृत्स्नस्य" इति । सोऽयं कार्यस्यान्त्येऽल्यनुसंहारो वृत्तिकारेण दर्शितः । यद्वा-"या स्थानेयोगा षष्ठी साऽन्त्यस्यालः" इति षष्ठ।ल एवानुसंहारो वेदितव्यः । अत्र पक्षे "डिच्च" इत्यस्यायमर्थः -"यत्र ङिदादेशो इविधीयते तत्र या षष्ठी सान्त्यस्यालः" इति । एवं सर्वत्र । कार्यानुसंहारे तु यताश्रुतमेव षष्ठयाः स्याद्, अनुसंहारे "डिच्च" इत्यादावसङ्गतिः । अतः कार्यानुसंहारो वृत्तिकारेण दर्शितः ॥ ङ्च्चि ॥ १।१।५३ ॥ होतापोताराविति । "ऋतो ङिसर्वानामस्थानोयः"इति गुणः । "अप्तृन्" इत्यादिना दीर्घः । मातापितराविति । "पितामात्रा" इत्येकशेषाभावपक्षेऽभ्यर्हितत्वान्मातुः पूर्वनिपातः; "पितुर्दशगुणं माता गौरवेणातिरिच्यते"। अथ तातङ्न्त्यस्य कस्मान्न भवति ? तत्राह--तातङीत्यादि । अनन्यार्थङ्त्वेष्विनङदिषु चरितार्थमेतद् गुणवृद्धिप्रतिषेधार्थतया चरितार्थङ्त्वे तातीङ् परेण "अनेकाल्शित्सर्वस्य" इत्यनेन बाध्यत इत्यर्थः । ननूत्सर्गापवादयोरयुक्तो विप्रतिषेधः, अतुल्यकक्षत्वात्, न चान्तरेण सर्वादेशतां गुणवृद्धिप्रतिषेधार्थत्वस्योन्मेष एति चरितार्थत्वमपि ङ्त्विस्य चिन्त्यम् ? न ब्रूमो गुणवृद्धिप्रतिषेधार्थस्य निश्चितत्वाद् दुर्बलं ङ्त्विमिति; कि तु सर्वादेशेऽपि तातङ् गुणिवृद्धिप्रतिषेधः प्रयोजनं सम्भाव्यते । तावता च कियानपि विलम्बो भवति । अनङदिषु सर्वादेशत्वे न किञ्चिन् ङ्त्विस्य प्रयोजनमिति सर्वादेशार्थतासम्भावनापि नास्तीति । तेष्वेव सहसा प्रवर्तते । ततश्च त्रिप्रतिषेधोपपतिः । अथ वा - "एरुः" इत्यस्यानन्तरम् "तुह्यएस्तातङशिषि" इति वक्तव्यम्, एरित्येव । एवं वक्तव्ये ङ्त्किरणं गुणवृद्धिप्रतिषेधार्थमेवेति निश्चितमिति विप्रतिषेधोपपतिस्तदाह--तातङ् इङ्त्किरणस्य सावकाशत्वाद्विप्रतिषेधात्सर्वादेश इति । अथ वा - यथोपदर्शितं गुणवृद्धिप्रतिषेधार्थत्वं सर्वादेशतामन्तरेण नोपपद्यत इति अन्तरेणैव विप्रतिषेधं सर्वादेशस्तातङ् भवति ॥ आदेः परस्य ॥ १।१।५४ ॥ शास्त्रे न क्वचित्परस्येत्युच्चार्य्य कार्यं विधीयत इति निर्विषयमेतदित्यभिप्रायेणाह--क्व चेति । यत्रेत्यादि । पञ्चमीनिर्देशेषु "तस्मादित्युतरस्य" इति परस्य कार्यं विधीयत इत्यर्थः । आसीन इति । "आस उपवेशने" अनुदातेत् । द्वीपमिति । द्विधागता आपो।स्मिन्निति "ऋक्पूरब्धूःपथामानक्षे" इति अकारः समासान्तः ॥ अनेकाल्शित्सर्वस्य ॥ १।१।५५ ॥ अनेकालग्रहणं किमर्थम् ? "अस्तेर्भूः" सर्वस्य यथा स्यात्, अलोऽन्त्यस्य मा भूत्; नैतदस्ति प्रयोजनम्; "ङ्च्चि" इत्येतन्नियमार्थं भविष्यति--"यद्यनेकालन्त्यस्य भवति, ङ्देवि" इति । एवमप्यसत्यनेकाल्ग्रहणे "अतो भिस ऐस्" इत्यादिषु पञ्चमीनिर्देशेष्वनेकालप्यादेश आदेः परस्य स्यात्, सति तु तस्मिन् द्वावेतौ "अलोऽन्त्यस्य" इत्यस्यापवादौ--"आदेः परस्य","अनेकाल्शित्सर्वस्य" इति; तत्र "आदेः परस्य" इत्यस्यायमवकाशो य एकालदेशो लोपो वा--"ई दासः" "बहोर्लोपो भू च वहोः" आसीनः, भूयान् ; "अनेकाल्शित्सर्वस्य" इत्यस्यावकाशो यत्र पञ्चमीनिर्देशो नास्ति-"अस्तेर्भूः" । इहोभयं प्राप्नोति-"अतो भिस ऐस्", अपवादविप्रतिषेधादनेकाल्शित्सर्वस्येत्ययमेव भवतीति सिद्धमिष्टम् । शिद्ग्रहणं किमर्थम् ? "जसः शी" सर्वस्य यथा स्यात्, अनेकालित्येव भविष्यति, शकारे लुप्ते नानेकाल्, आनुपूर्व्यात्सिद्धम् । यदायं सर्वादेशस्तदा प्रत्ययः, यदा प्रत्ययस्तदेत्संज्ञा, यदेत्संज्ञा तदालोपः, यदालोपस्तदैकाल् तदिह सर्वादेशत्वमन्तरेण नैकाल्त्वमुपपद्यते । इह तर्हि "इदम इश्" "इदं किमोरीश्कीः" ? अत्र ह्यन्तरेणापि सर्वादेशतां प्रगेवेत्संज्ञा भवति । नन्वत्रापि शकारः प्रयोजनान्तराभावाद् अनेकाल्त्वमादेशस्य संपाद्य निवर्तिष्यते । इह तर्हि "घ्वसोरेद्धावभ्यासलोपश्च" इति ? लोपः शित्सर्वस्य यथा स्यात् । "इदम् इश्" इत्यादावपि प्रयोजनाभावदित्संज्ञैव शकारस्य न स्यादिति श्रवणप्रसङ्गः ॥ स्थानिवदादेशोऽनल्विधौ ॥ १।१।५६ ॥ ननु तत्स्थानापन्नस्य तद्धर्मलाभो लोकवेदयोः सिद्ध एव । लोके तावदेकस्मिन्नुपाध्याये मृते तत्स्थाननिविष्टस्याप्यबिवादनाद्यौपाध्यायधर्मलाभो भवति, एकस्मिंश्च राजनि प्रोषिते तत्स्थानेऽभिषिक्तस्य तत्पुत्रादेरपि तद्धर्मलाभो भवति । वेदेऽपि व्रीहिस्थानपतिता वीवारादयोऽवघातादीन् व्रीहिधर्मान् लभन्ते । तद्वदत्राप्यस्तिस्थानापन्नो भूरस्तिधर्मान् धातुत्वादीन् लप्स्यते, नार्थोऽनेनेत्याशङ्क्याह--स्थान्यादेशयोरित्यादि । अयमभिप्रायः--उपाध्यायत्वप्रयुक्ता उपाद्यायधर्मा राजधर्माश्चाभिषिक्तत्वप्रयुक्ता व्रीहिधर्माचापूर्वसाधनत्वनिबन्धनाः, न ततत्स्वरूपनिबन्धना इति युक्तं तत्प्रकारजुषो भवन्तीति । इह तु स्वं रूपमितिवचनादस्त्यादिस्वरूपनिबन्धना धातुत्वादयो धर्मा न भवनाद्यर्थाभिधानलक्षणकार्यप्रयुक्ताः, तच्च स्वरूपमादेशानां नास्तीति तत्स्थानापन्नानामपि न स्युरिति तदाह--पृथक्त्वादिति । रूपभेदादित्यर्थः । नन्वेतत्प्रकारजुषोऽपि तत्स्थानापन्नस्य तद्धर्मलाभो दृष्टते, यदा ह्युपाध्यायः शिष्येण यज्ञार्थमुपनिमन्त्रितः कार्यव्यासङ्गात् स्वशिष्यमन्यं प्रेरयति तदा स तत्र गत्वाऽग्रासनादीनुपाध्यायधर्मान् लभते, अत्राप्युपाध्यायप्रतिनिधित्वात् तद्बुद्ध्यैव तद्धर्मा अनुष्ठीयन्ते; एवं कृते तु सत्युपाध्याय इति न तत्स्थानापन्नतया, न चैवमत्र संभवतीत्यारब्धव्यमेव सूत्रम् । युष्मदस्मदोरादेशनिषेधात्सिद्धम् । यदयं "युष्मदस्मदोरनादेशे" इत्याह, तज् ज्ञापयति-"भवति स्थानिकृतमादेशः" इति; अलाश्रये चाप्रसङ्गः, "अदो जग्धिः" ल्यब्ग्रहणात् । यदि हि स्थान्यलाश्रयमप्यादेशे स्यात् कितीत्येव सिद्धे ल्यब्ग्रहणनर्थकं स्यात्, सत्यम्; "उतरार्थं तावत् स्थानिवदादेश इति वक्तव्यम् । अजादेशस्य विषयविशेषे स्थानिवत्वं वक्ष्यामि, पदान्तादिविधिषु प्रतिषेधं वक्ष्यामि" इति । सोऽन्यार्थः सन्निहैव क्रियते लिङ्गानाश्रयणाय । षोढातिदेशः-निमितातिदेशः, व्यपदेशातिदेशः, शास्त्रातिदेशः, रूपातिदेशः, तादात्म्यातिदेशः, कार्यातिदेश इति । तत्र निमितमशक्यमतिदेष्टुंअ ब्राह्मण्यवत्, न हि ब्राह्मणस्याग्रभोजनादिनिमितं ब्राह्मण्यं वचनशतेनापि क्षत्रियेऽतिदेष्टुंअ शक्यते । "पूर्ववत्सनः" इत्यत्रापि न प्रकृतिगतं निमितं ङ्त्वाइदि सनन्तेऽतिदिश्यते, किन्तु प्रकृतिगतमेव तत् सना व्यवधानेऽप्यात्मनेपदनिमितमिति । एतावता निमितातिदेशवाचोऽयुक्तिः । व्यपदेशातिदेशः संज्ञापक्षान्न भिद्यते, तत्र च वतेरानर्थक्यं वक्ष्यते, कः पुनरायुष्मतो व्यपदेशोऽभिप्रेतः ? किं स्थानीति व्यपदेशः, यथा "आद्यन्तवदेकस्मिन्"इत्यत्र व्यपदेशातिदेशपक्षः ? उत स्थानिनो ये व्यपदेशा धातुरङ्गमित्यादयः, त आदेशस्य भवन्ति ? इति । पूर्वः पक्षो भवतोऽप्यनभिप्रेतः, द्वितीयस्य तु संज्ञापक्षान्महान् भेदः । तथाहि --संज्ञापक्षे यत्र स्थानिरूपमुच्चार्य्यते "आङे यमहनः " इत्यादौ, तत्रैव कार्यं स्याद्, न धातोस्तव्यादयोऽह्गस्येनादय इत्यादौ; न ह्यत्र संज्ञात्वेन विनियुक्तमस्त्यादि स्थानिरूपमुच्चारितम्; यच्चोच्चारितं न सा संज्ञा, ताअदेशस्यैव कार्यं स्याद् न स्थानिनः, न हि संज्ञोच्चारिता स्वयं कार्येण युज्यते, स्थानिनस्तु व्यपदेश आदेशस्तयातिदिश्यमाने धातोस्तव्यादयोऽङ्गस्येनादय इत्यादौ स्थान्यादेशयोरुभयोरपि कार्यं सिद्ध्यति; उभयोरपि व्यपदेशसद्भावात् । "आङे यमहनः" इत्यादिकं तु स्थानिस्वरूपनिबन्धनं कार्यमादेशस्य न स्यात्,न ह्यत्र काश्चिद्व्यपदेशो य आदेशस्यातिदिश्येत । अथापि श्वं रूपम्" इति वचनाद्धन्नित्यपि हन्तेर्व्यपदेश इति तस्मिन्नतिदिष्टे कार्यं सिध्यतीत्युच्यते; एवमपि पूर्वोक्तस्तावद्विशेषो विद्यत इत्यास्तामेतत् । अप्रधानत्वातु व्यपदेशो न भवति । अत एव शास्त्रातिदेशोऽपि न भवति । स्थानिरूपे चाऽतिदिश्यमान आदेशविधानं व्यर्थं स्यात् । न च वचनद्वयप्रामाण्याद्विकल्पः, "वा लिटि" इति विकल्पारंभात् । तादात्म्यातिदेशोऽसंभवान्न भवति, द्वयोर्हि सहावस्थितयोरन्योऽन्यतादात्म्यमतिदिश्यते, सुबामन्त्रितयोरिव, इह त्वादेशेन स्थानी निवर्तित इत्यसंभवः । अतः पारिशेष्यात्प्राधान्याच्च कार्यातिदेशोऽयम्, तदाह-स्थान्याश्रयकार्यमिति, स्थान्याश्रयेषु कार्येष्विति च । तात्पर्यतश्चायं कार्यातिदेशो वर्ण्यते । अक्षराणि त्वादेशः स्थानिना तुल्यं वर्तत इत्येतावत्येव पर्यवसितानि । केन तु प्रकारेण तुल्यत्वमित्यपेक्षायां तत्कार्यापत्येति तदाह--स्थानिना तुल्य वर्तत इति । स्थानिवदिति । स्थान्याश्रयेष्विति । बहुव्रीहिः । अनल्विधावित्यस्यार्थमाह--अनलाश्रयेष्विति । एतेन विधीयते इति विधःउ कार्यम्, अलाश्रयो विधिरल्विधिरित्युतरपदलोपी समास इति दर्शयति । किमर्थं पुनरुतरपदलोपाश्रयणम् ? स्यादेतत्-सति तस्मिन्, यश्चालि विधिः, यश्चालो विधिः,यश्चालः परस्य विधिः-यजेः क्तः, इष्टः, क इष्ट इत्यत्र संप्रसारणस्य स्थानिवत्वात् को यष्टेत्यादिवत् "हशि च"इत्युत्वं प्राप्तं न भवति, स इष्ट इत्यत्र "एततदौः" सुलोपो न भवति । अलो विधिः - द्यौकामः, उकारस्य "लोपो व्योर्वलि" इति न भवति । उत्वं तु "अहर्विमलद्यौ" इत्यत्र चरितार्थम् । अलः परस्य विधिः-द्यौः, पन्थाः, सः-हल्ङ्याबिति लोपो न भवति । अला विधिः-व्यूढोरस्केन । अत्र शोऽपदादौ" इति वसर्जनीयस्य स्थाने विहितस्य स्थानिवत्वात् विसर्जनीयस्याटसूपदेशाद् "अड्व्यवाये" इति णत्वं प्राप्तं न भवति । अतः सर्वविभक्त्यर्थसंग्रहाथंमुतरपदलोपाश्रयणम् । अन्यथा हि षष्ठीसमास एवाश्रीयतेऽल्स्थानिक एव विधिराश्रितः स्यादिति, तन्न; सम्बन्धसामान्ये षष्ठ ईविज्ञानादपि सर्वविभक्त्यर्थसंग्रहस्य सिद्धत्वात् । अनुवादे हि स्थानेयोगाभावात् सर्वोऽल्सम्बन्धी विधिः प्रतिपत्स्यते । एवं तर्हि यत्र गुणभावेनाप्यलाश्रीयते, तत्रापि निषेधो यथा स्यात्-प्रपठ।लेति, अत्र हि वलादेरिति प्रत्ययः प्राधान्यनाश्रितः, वल् तु गुणभावेनेति अप्राधान्यान्न स्यात् । उतरपदलोपे तु भवति; अलाश्रयत्वादिड्विधेः । यद्यलाश्रयेषु स्थानिवत्वं न भवति, वृक्षाय--शुपि च" इति दीर्घो न स्यात्; यञादौ सुपीत्यलाश्रयत्वात् । अरुदितामित्यत्र सार्वाधातुकस्य तसस्तामादेशे "रुदादिभ्यः सार्वधातुके " इति वलाश्रय इण् न स्यात्, अत आह-स्थान्यलाश्रयाणीति । स्थानिनोऽल् स्थान्यल्, स आश्रयो येषां तानि तथोक्तानि । अयमभिप्रायः-यथा गुरुपद्गुरुपुत्रे वर्तितव्यमन्यत्रोच्छिष्टभोजनात् पादेपसंग्रहणाच्चेति अतिदेशे प्रवृते, यदा गुरुपुत्रः स्वयं गुरुर्भवति तदोच्छिष्ट्ंअ भुज्यते पादौ चोपसंगृह्यएते, तत्कस्य हेतोः ? अतिदेशेनैक्वाक्यतामापन्नः प्रतिषेध आतिदेशिकीमेव प्राप्तिं प्रतिषेधतीति, तथेहाप्यातिदेशिक एवाल्विधिः प्रतिषिध्यते । न च वृक्षाय, अरुदितामित्यत्रातिदेशापेक्षा; स्वयमेव यञादित्वाद्वलादित्वाच्च । ततश्च यत्र स्थानिन एवालाश्रीयते स एव निषिध्यते, यथा-प्रपठ।लेत्यत्र । न ह्यत्र ल्यप् स्वयं वलादिरिति । ननु च गुरुपुत्रस्य स्वयं गुरुत्व उच्छिष्टभोजनादौ न मात्रयाप्यतिदेशापेक्षा, इह तु सत्यपि स्यमेव यञादित्वे नान्तरेणातिदेशं दिर्घः सिद्ध्यति; असुप्त्वात् । अरुदितामित्यत्रापि सत्यपि स्वयं वलादित्वेऽसार्वधातुकत्वादतिदेशेनैव वेट् प्रार्थनीयः, सत्यम्; द्वे कार्ये-सुप्संज्ञा च, दीर्घत्वं च । न हि "प्रयोगसमवाय्येव कार्यमतिदेश्यम् " इति नियमोऽस्ति, यतु शास्त्रीयं तदेवातिदिश्यते । न च सुप्संज्ञाऽलाश्रयेति; तस्यामतिदिष्टायां स्वाश्रयं यञादित्वमाश्रित्य दीर्घत्वं भविष्यति । अरुदितामित्यत्राप्यातिदेशिकं सार्वधअतुकत्वं स्वाश्रयं च वलादित्वमाश्रित्येड् भविष्यति । ननु च वृक्षायेत्यत्र स्थानिन एकारस्याल्त्वातदाश्रयं सुप्त्वमलाश्रयमेव, उच्यते; कार्यापेक्षमल्विधित्वं नोदाहरणापेक्षम् । एतदुक्तं भवति--यस्मिन् कार्ये विधीयमानेऽल एवासाधारणं किञ्चिद्रूपं निमितादिरूपेणाश्रीयते--"हशि" "हलि" "व्योर्वलि""हल्ङ्याब्भ्यः""अड्व्यवाये" इति - स एवाल्विधिः; "सुपि च" इत्यत्र तु नैवंविधं किञ्चिदस्ति, केवलं वृक्षायेत्यत्रोदाहारणेऽलात्मकः स्थानीतेयतावत् किमुदाहरणमिति प्रश्नः । धात्वाद्यादेशाः प्रयोजनमित्युतरम् । तत्र "प्रयुज्यतेऽनेनेति प्रयोजनम्" उदाहरणं न प्रयुज्यत इत्यर्थात्प्रश्नानुरूपं प्रतिवचनम् । ननु चास्तिब्रुवोरार्द्धधातुके परत आदेशाभ्यां भाव्यम्, तत् किमतिदेशेनेत्यत आह--आर्द्धधातुके विषय इत्यादि । दाधिकम् । दध्नि संस्कृतम् "दध्नष्टक्" । अव्ययादेश इति । क्त्वामात्रस्य ल्यबादेशः, क्त्वान्तस्याव्ययसंज्ञा, स कथमव्ययादेशः, तस्मात् क्त्वाग्रहणेन ल्यपो ग्रहणातदन्तस्यापि संज्ञा भवतीत्येवम्परमेतत् । तत्रापि "कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणम्" इति प्रस्तुत्येति संघातस्य भवति । वक्करणं किमिति । विनापि तेन तदर्थो गम्यते, यथा ङ्त्किदित्यादाविति प्रिश्नः । स्थानीत्यादि । असति वत्करणे संज्ञाप्रकरणत्वात् स्थान्यादेशस्य संज्ञा विज्ञायेत, मैवं विज्ञायीति वत्करणमित्यर्थः । किमर्थं पुनः स्थान्यादेशस्य संज्ञा नेष्यत इत्याह--स्वाश्रयमपीति । संज्ञायां हि स्थानिस्वरूपनिबन्धनम् "आङेयमहनः" इत्यादि कार्यमादेश एव स्याद्, न स्थानिनि; न हि संज्ञोच्चारिता स्वयं कार्येण युज्यते । "आत्मनेपदेष्वन्यतरस्याम्" इति च विषयसप्तमी विज्ञायते । स्वाश्रयमपीति । कोऽर्थः ? स्थानिन्यपीत्यर्थः । तथा चोतरग्रन्थे "उभयत्र" इति सप्तमीनिर्द्देशः । आदेशग्रहणं किमिति । यथा "पितृवत्स्थूलः" इत्युक्ते सम्बन्धिशब्दात्पुत्र इति मम्यते, तथेहापि स्थानिवदित्युक्ते क इत्यपेक्षायाम् "यदपेक्षं स्थानित्वं स एवा देशः" इति गम्यत प्रश्नः । आनुमानिकस्येत्यादि । द्विविधो हि आदेशः--प्रत्यक्षश्च "अस्तेर्भूः" इत्यादिः, आनुमानिकश्च "एरुः" इत्यादिः । अत्रेकारेणेकारान्तः स्थान्यनुमीयते, विषणेनेव गौः । उकारेण चोकारान्त आदेशः ततस्तेस्तुरिति सम्पद्यते । तत्रासत्यादेशग्रहणे प्रत्यक्षस्यैव ग्रहणं स्यान्नानुमानिकस्य, पुनःश्रतेस्तु व्याप्त्यर्थत्वात् आदेशमात्रं स्थानिवद्भवति । तेन पचत्वित्यत्र "तिङ्न्तं पदम्" इति पदसंज्ञा सिद्धा भवति । ननु चेकारमात्रस्योकारमात्रमादेशोऽस्तु, किं तदन्तानुमानन ? एवं हि "एरुः" इत्येतच्च यथाश्रुतमेव व्याख्यातं भवति; आदेशग्रहणं च न कर्तव्यं भवति, "एकदेशविकृतिस्यानन्यत्वात् पदसंज्ञा भविष्यति । एवं तर्हि पुनःश्रुतिरेव लिङ्गम्, एकदेशविकारः शास्त्रे नाश्रीयत इति, तेन-- सर्वे सर्वपदादेशा दाक्षीपुत्रस्य पाणिनेः । एकदेशविकारे हि नित्यत्वं नोपपद्यते ॥ इति सिद्धं भवति । द्यौपिथित्यदादेशा इति । "दिव औत्", "पथिमथ्युभुक्षामात्","त्यदादीनामः-इत्येते । ननु सामान्यातिदेशे विशेषानतिदेशः, ततश्च यथा ब्राह्मणवदस्मिन् क्षत्रिये वर्तितव्यमिति ब्राह्मणमात्रकार्यमेव भवति, न माठरादिविषेषकार्यम्; तथा "स्थानिवदादेशः" इत्युक्ते यः स्थानी यदाकारविशिष्टः सूत्रे श्रूतस्तदादेशस्य तदाकारप्रयुक्तेनैव कार्येण भवितव्यम् । "क्त्वो ल्यप्" इत्यत्र च वस्तुस्थित्या सन्निहितमपि वलादित्वं स्थानिरूपेण नाश्रितम् । तथा हि-इडादिरपि क्त्वा भवत्येव,क्त्वा केवलोऽपि दत्वायेति यगन्तोऽपि, इष्ट्वीनमिति मान्तोऽपि; तत्र क्त्वामात्रप्रतिबद्धं यत्कार्यं कृत्वप्रत्ययत्वादि, तदादेशेऽतिदिश्यताम्, वलादित्वस्य तु कुतोऽतिदेशः ? एवं क इष्ट इत्यादावपि च यण इक् भवति, दिवोऽलोऽन्त्यस्योत्वौत्वे भवतः, पथ्यादीनामन्त्यस्याद्भवति, त्यदादीनामन्त्यस्याकारः, विसर्ज्जनीयस्य सत्वमित्येवं यणादिरूपेण स्थानिन आश्रयणम् । ततश्च ततदाकारप्रयुक्तस्यैव कार्यस्यापि अतिदेशः, न हल्त्वादिविशेषनिबन्धनस्येति नार्थोऽनल्विधावित्यनैन । यत्र तर्हि विशेषरूपमेव स्थानित्वेनाश्रीयते, यथा-"च्छ्वोः शूठ" इति वकारः, तत्र तत्कार्यमादेशस्य मा भूद्-अक्षद्यौउभ्याम् । वलि लोपो न भवति । अथात्रापि वकारान्तस्याङ्गस्यालोऽन्त्यस्योडिति रूपेण स्थानिन आश्रयणम्, एवमपि विशेषातिदेशज्ञापनार्थमिदमुच्यते; अन्यथा ल्यपो वलादित्ववत् कित्वस्याप्यतिदेशो न स्यात्, देवित्वेत्यादावकितोऽपि क्त्वः सम्भवात् । अनुबन्धाश्च स्थानिन्यसन्त एव कार्येषु युज्यन्त इति तत्कार्येष्वनल्विधाविति निषेधो न भवति । लिङ्गाच्च । यदयं शेर्ह्यपिच्च" इत्याह, तज्ज्ञापयति-भवत्यनुबन्धकार्याणामतिदेश इति ॥ अचः परस्मिन् पूर्वविधौ । अच इति स्थानिनिर्देश इति । यद्यप्यनूद्यमानादेशविशेषणत्वात् स्थानषष्ठी न लभ्यते, तथाप्यचो य आदेश इत्युक्ते तत्स्थानिक एव प्रतीयत इति । परस्मिन्निति निमितभावे सप्तमी, न परसप्तमी; परशब्देनैव परत्वस्योक्तत्वात्, परस्मिन्य आदेश इति अनुवादत्वाच्च, किति ये गुणवृद्धी इतिवत्; पूर्वविधाविति विषय इति प्रकृतत्वात् स्थानिवत्वस्य । पूर्वविधौ कर्तव्ये स्थानिवदिति । एवं पदतात्पर्यं दर्शयित्वा वाक्यार्थमाह--अजादेश इतायदि । किमर्थमिदमुच्यते, पूर्वत्र स्थानिकार्यमादेशेऽतिदिष्टम्, इह तु स्थानिनि सति पूर्वस्य यत्कार्यं तदादेशेऽपि सति पुर्वस्य भवतीत्यतिदिश्यते । ननु तत्रापि स्थानिनिमितमन्यस्य तदप्यतिदिश्यते, यथा वृक्षायेति "सुपि च" इति दीर्घत्वम् ? एवं तर्ह्याल्विध्यर्थमिदम् । तथा हि-वव्रश्चेत्युदत्वे ङ संप्रसारणे संप्रसारणम्" इति वकारस्य संप्रसारणप्रतिषेधः स्थान्यलाश्रयोऽस्माद्वचनाद्भवति । इदं च शंप्रसारणे परः प्रतिषेधः" इति पक्षे प्रयोजनम्, शंप्रसारणभाविनि यण्येव प्रतिषेधः" इति तु पक्षे न प्रयोजनम् । इहाचितीकः, बहुचितीक इति चितेः कपि दीर्घत्वे कृते "ह्रस्वान्तेऽन्त्यात्पूर्वम्" इति स्थान्यलाश्रयः स्वरो भवति । एवं यातेर्यङ्न्तात् क्तिचि अतो लोपे यलोपविधिं प्रति स्थानिवत्वनिषेधाद् यलोपे च या या ति इति स्थिते यङ्कारलोपस्य स्थानिवत्वात् "आतो लोप इटि च" इत्याकारलोपे पुनर्यलोपे यातिरिति भवति । न च पुनराकारलोपः, पुनश्च यलोप इति प्रत्ययमात्रस्य श्रवणप्रसङ्गः, आल्लोपस्य स्थानिवत्वाच्चिणोलुङ्न्यायेनासिद्धत्वाद्वा । तथा च वरेविधौ स्थानिवत्वं निषिध्यते-यायावर इति । स्थानिवद्भावादातो लोपो मा भूदिति । तथा तिष्ठ तेर्यङ्न्तात् क्तिच्, अल्लोपयलोपयोस्तेष्ठीति स्थिते अल्लोपस्य स्थानिवत्वादियङ् भवति, तथा चोतरसूत्रेकण्डूअतिरित्यत्र उपङ्प्रसङ्गं चोदयित्वा "अस्तु तस्यैव च्छ्रवोः शूडित्यूठ करिष्यते" इत्युक्तम्, इयङ् चि कृते यलोपे च तेष्ठितिरिति भवति । न च पुनरियङ्, आदिष्टादचः पूर्वत्वात् । तथा पेपीयतेः क्तिचि अल्लोपयलोपयोः "एरनेकाचः" इति यणि यलोपे पेप्तिरिति भवति । "शो तनूकरणे" यङ्न्तात् क्तिचि अल्लोपयलोपाल्लोपेषु पूर्वत्राद्धीये न स्थानिवदिति स्थानिवत्वनिषेधाच्छशां ष इति षत्वे शाष्टिरिति भवति । एवं चिचीयतेश्चेक्तिरित्येषा दिक् । तथा तितौमाचष्ट इति णिचि टिलोपस्य स्थानिवत्वादयो ञ्णितीत्यस्याभावे "अतः उपधायाः" इति स्थान्यलाश्रया वृद्धिर्भवति । न चात्र क्विलुगुपधात्वेत्युपधाविधि प्रति स्थानिवत्वनिषेधः, तस्य प्रत्ययविधिविषयत्वात्, सत्यां च वृद्धौ पुकि सति तितापयतीति भवति । न च पुक्यपि स्थानिवत्वम्; आदिष्टादचः पूर्वत्वात् । ननु पूर्वस्य कार्ये कर्तव्ये सति स्थानिवत्वेन भवितव्यम्, अत्र च सर्वत्र स्थानिवत्वे सति पूर्वस्य कार्यप्राप्तिरिति इतरेतराश्रयम् । नात्र स्थानिवत्वात् प्रगेव पूर्वस्य कार्ये प्राप्ते स्थानिवत्वम्, किं तर्हि ? प्राग्वा पश्चाद्वा पूर्वस्य कार्ये पूर्वस्य कार्ये चिकीषिते । अत एव वरेविधौ स्थानिवत्वनिषेधः । तदेवमल्विध्यर्थमिदम् । किञ्च--ब्राह्मणवदस्मिन्क्षत्रिये वर्तितव्यमित्यत्र ब्राह्मणाश्रयं कार्यं प्राप्यते, न तु स्वाश्रयं युद्धादिकं व्यावर्त्यते । पूर्वसूत्रेऽपि स्थान्याश्रयं प्राप्यते, न स्वाश्रयं व्यावर्त्यते, यथा--वृक्षायेति दीर्घत्वमादेशाश्रयं भवति; भविता, भवितुम्, भवितव्यमिति गुणः । इह तु स्थान्यलाश्रयमेवेष्यते, स्वाश्रयं नेष्यते । तथा च पटयतीति टिलोपे कृते प्राप्ता उपधावृद्धिर्न भवति, अवधीदिति हलन्तलक्षणा, बहुखट्वक इति "ह्रस्वान्तेऽन्त्यात्पूर्वम्" इतिस्वरो न भवति, वाय्वोर्यलोपो न भवति, तन्वन्तीतीण् न भवति । एवं बहूनि स्वाश्रयनिवृत्तिरुदाहरणानि । अत एव द्वर्वचनादिविधौ स्थानिवत्वनिषेधः । अतोऽजादेशः परनिमितकः पूर्वस्य विधौ स्थानिवदेव यथा स्यात्, मा भूत्स्वयं निमितमिति नियमार्थमपीदमारब्धव्यम् । कथं पुनरेकेन यत्नेनोभयं लभ्यम्, विधिश्च, नियमश्च ? विधिग्रहणसामर्थ्यादिति तन्निरूपणे वक्ष्यामः । अथ वा - विधिग्रहणं विधिमात्रे स्थानिवद्भावा यथा स्यादशास्त्रीयो च विपरीते च । तेन पटयतीत्यादौ स्थानिनि दृष्टो वृद्ध्यभावादिरशास्त्रीयोऽप्यतिदिश्यते । तत्र वृत्तिकारेण यत्नसाध्यत्वादशास्त्रीयोदाहरणनि दर्शितानि । विधिशब्दः कर्मसाधनः, पूर्वस्येति शेषलक्षणषष्ठी; पूर्वस्य व्यवस्थितस्य सतः सम्बन्धिनि कार्ये कर्तव्ये इति । पूर्वत्वं त्वत्राजपेक्षमाश्रीयते; नादेशापेक्षम्, निमितापेक्षं वा । न चाजपेक्षे पूर्वत्व विधिशब्दो भावसाधनः सम्भवति । बावसाधने हि तस्मिन्, पूर्वस्येति कर्मणि षष्ठीविज्ञानात् पूर्वस्मिन्विधात्व्ये स्थानिवदित्यर्थः स्याद् । अवस्थिते चाचि ततः पूर्वं किञ्चि द्विधेयं भवति, इह चादेशाः स्थानिवदिति वचनात् आदेशेन स्थानी निवर्तित इति नायमर्थः सम्भवति । अत्रादेशः परनिमितकः, तस्यैवादेशस्य स्थानिभूतो योऽच्, ततः पूर्वस्मिन् विधातव्य इति । तथा हि-"अचो य आदेशः" इत्यादेशात्प्रागवस्थानूद्यते, ततश्च संनिधानात् प्रतीयमानमवधित्वमपि तदवस्थस्यैवाचो युक्तम् । अत एवोच्यते-"योऽनादिष्टादचः पूर्वस्तस्य विधिं प्रति स्थानिवद्भावः" इति । आदेशनमादिष्ट्ंअ तदकृतं यस्य सोऽनादिष्टः, अकृतादेशादचः पूर्वस्येत्यर्थः । आदेशात्प्रागवस्थायामिति यावत् । न चास्या अवस्थायाः पूर्वस्मिन् विधातव्ये तदादेशः स्थानिवदिति सम्भवति । ननु कर्मसाधनेऽप्यजादेशः स्थानिवद्भवति-अकृतादेशाचः पूर्वस्य विधाविति नायमर्थः सम्भवति, स्थानिवद्भावदशायामच आदेशेन निवर्तितत्वात् । नात्र सम्प्रत्यचः पूर्वस्येत्ययमर्थः, किं तर्हि ? अचोऽवस्थानदशायां पूर्वत्वेन दृष्टस्याजवस्थाप्रभृतिपूर्वस्येत्यर्थः । तदेवमजपेक्षस्य पूर्वत्वस्याश्रयणात् कर्मसाधन एव विधिशब्दः । कि पुनः कारणमजपेक्षमेव पूर्वत्वमाश्रीयते, न पुनरादेशापेक्षं निमितापेक्षं वा ? उच्यते; तदपेक्षे पूर्वत्वे वैयाकरणः, सौवश्व इत्यत्र स्थानिवद्भावादैचोरायावौ प्राप्नुतः, तावपि हि यणादेशातन्निमिताच्च परस्मादचः पूर्वस्य कार्यम् । न च वाच्यम्--शत्यपि स्थानिवत्वेऽन्तर्भूताज्निमिततयाऽन्तरङ्गयोरायावोः कर्तव्ययोर्बहिभूततद्धितापेक्षतया बहिरङ्गावैचावसिद्धावित्यायावौ न भविष्यतः" इति; ङाजान्तर्ये बहिरङ्गप्रक्लृप्तिः" इतिवचनात् । यथा-अक्षद्यौउरिति बहिर्भूतक्विबवेक्षोऽप्यूडन्तर्भूताजपेक्षेयणि नासिद्धो भवति । अजपेक्षे तु पूर्वत्वे वि अ आकरणः, सु अ अश्व इत्यजवस्थायां य्वोरभावेनैचोरदर्शनादप्रसङ्गस्तदाह-"अचः पूर्वत्वविज्ञानादैचौः सिद्धम्" इति । किं च --निमितापेक्षे पूर्वत्वे द्वाभ्याम्, देयम्, लवनमित्यत्रात्वेत्वगुणाः स्वनिमितात्पूर्वेषां स्वेषामेव कार्येषु दीर्घगुणावादेशेषु स्थानिवत्स्युः । तथोभयोरपि पक्षयोरपीपचदित्यादौ शन्वल्लघुनि" इति सन्वद्भावो न स्यात्; उपधाह्रस्वस्य स्थानिवत्वादलघूपधत्वात् । अजपेक्षे तु पूर्वत्वे पाचि अ अत् इति स्थिते द्विर्वचनमुपधाह्रस्वत्वं णिलोपः-इत्येतेषु प्राप्तेषु परत्वादन्तरङ्गत्वाच्च णिलोपे कृते पर वान्नित्यत्वाच्च ह्रस्वत्वे च पश्चाद् द्विर्वचनेऽभ्यासस्य स्थानिनोऽचः पूर्वत्वेनादृष्टत्वान्नास्ति स्थानिवद्भावः । तथा च तत्र तत्रोच्यते-"योऽनादिष्टादचः पूर्वस्तस्य विधिं प्रति स्थानिवद्भाव आदिष्टाच्चैषोऽचः पूर्वः" इति । तस्मादजपेक्षमेव पूर्वत्वम् । यद्येवम्, तन्वन्तीत्यत्रेटि कर्तव्ये यणः स्थानिवत्वं न स्यात्, तन् उ अन्तीत्यजवस्थायां यत्पूर्वमङ्गं न तस्येट्, किं तर्हि ? ततः परस्यादेशस्यैव । निमितापेक्षे तु यणो निमितादन्त्यकारात्पूर्वस्य तस्यैव यण इड् विधेय इति कर्मसाधने भावसाधने च विधिशब्दे स्थानिवत्वं लभ्यते । आदेशापेक्षेऽपि भावसाधने यणः पूर्वत्वेनेटो विधेयत्वात्सिध्यति, नैष दोषः, "आर्द्धधातुकस्येड्" इत्यत्र "एकाच उपदेशे" इत्यतः "उपदेशे" इत्यनुवृतेरुपदेशे वलादेरिड् भविष्यति; तत्राप्युपदेश इत्यनुवृतेः । एवमपि चोरिष्यत इत्यादौ वलादिलक्षणे चिण्वदिटि च प्राप्ते नित्यत्वाच्चिण्वदिडिति । वक्ष्यति-ङित्यश्चायं वल्निमितविघाती" इति,तन्नोपपद्यते; उक्तेन प्रकारेण वलादिलक्षणस्यापीटो नित्यत्वात् । एवं तर्हि अहिरङ्गस्य यणोऽसिद्धत्वादिडभावः । यद्वा-पूर्वस्माद्विधिः पूर्वविधिरिति पञ्चमीसमासोऽप्याश्रीयते, तेन पूर्वस्मादङ्गादिटो निमितत्वेननाश्रितात्परस्य यण इति कर्तव्ये स्थानिवद्भविष्यति ॥ कानि पुनः पञ्चमीसमासप्रयोजनानि ? इदं तावत्प्रयोजनम्-तन्वन्तीति । किञ्च बेभिदिता, मार्थितिकः, अपीपचन् । बेभिद्यतेर्यङ्न्तातृचि अल्लोपस्य स्थानिवत्वान्न भवति, नैतदस्ति; बेभिद्य तृ इति स्थितेल्लोपश्च पाप्नोति इट् च; परत्वादिट् । नित्योऽल्लोपः-कृतोऽपीटि प्राप्नोति; इट् पुनरनित्यः, न हि कृतेऽल्लोपे प्राप्नोति, नित्येनाल्लोपेन बाध्यते । यस्य च निमितं लक्षणान्तरेण न विहन्यते तद् नित्यम्, अत उभयोर्नित्ययोः परत्वादिडेव भविष्यति । इदं तर्हि मथितं पण्यमस्य माथितिक इति ठस्येकादेशे कृते, यस्येति लोपे चेकस्य स्थानिवद्भावेन ठग्रहणेन ग्रहणात् "इसुसुक्तान्तात्कः" इति कादेशः प्राप्नोति, यस्येति लोपस्य स्थानिवद्भावान्न भवति । एतदपि सन्निपातपरिभाषया ठस्येति वर्णग्रहणेनाल्विधित्वेन स्थानिवद्भावाभावाद्वा सिद्धम् । इदं तर्हि अपीपचन्, अपीपचाअन् इति स्थितेऽन्त्याकारस्य चङ्कारस्य च "अतो गुणे" इति पररूपत्वे तस्य परं प्रत्यादिवद्भावाज् झिग्रहणेन ग्रहणे सति सिजभ्यस्तविदिभ्यश्च" इति जुस् प्राप्नोति, णिलोपस्यैकादेशस्य वा स्थानिवद्भावान्न भवति । तदेवमजपेक्षमेव पूर्वत्वमाश्रीयते; विधिशब्दश्च कर्मसाधनः, शेषषष्ठ।ल च समास इति न कश्चिद् दोष इति स्थितम् । पट।ल्तीति । णाविष्ठवदिति टिलोपः । अवधीदिति । "हनो वध लिङ्" "लुङि चि" इति वधादेशः । हलन्तलक्षणेति । "वदव्रज" इत्यत्र हलन्तस्येत्यनुवृतेर्हलन्तलक्षणा । बहुखट्वक इत्यत्र "स्वरदीर्घयलोपेषु लोपाजादेशो न स्थानिवद्" इति वचनात् स्वरविधावप्यत्र स्थानिवत्वं भवत्येव । प्रश्न इति । "यजयाचयत" इत्यादिना नङ्, "च्छ्रवोः शूठ" इति च्छस्य शः । तुकि न स्थानिवद्भवतीति । तुकि कर्तव्ये न स्थानिवद्भवतीत्यर्थः । नन्वन्तरङ्गत्वात् पूर्वं तुका भाव्यम्, तत्र चैकं निमितीकृत्य युगपदाङ्गवार्णयोः प्रसङ्गः, तत्र वार्णादाङ्गं बलीयः, यथा-करोतेर्लिटि णलि कृ अ इति स्थिते, गौरित्यत्र सावकाशाम् "अचो ञ्णिति" इति वृद्धिं बाधित्वाऽन्तरङ्गत्वात्प्राप्तं यणं वृद्धिरेव बाधते, प्रश्न इत्यत्र तु शस्य नङ् निमितं तुकस्तु च्छः, भिन्नकाला चानयोः प्राप्तिरिति नायमस्या विषय इति तुकि सति "च्छ्वोः शूठ" इत्यत्र सतुक्कच्छकारनिर्देशेन तस्यैवादेशः एवं च सत्यापि स्थानिवत्वे सतुक्तच्छग्रहणेन शो गृह्यते, न केवलं च्छग्रहणेनेति कुतस्तुकः प्रसङ्गः ! अत एव नङे ङ्त्विमपि विश्न इति गुणो मा भूदिति, तस्मादप्रत्युदाहरणमेतदिति प्रत्युदाहरणान्तरमाह-आक्राष्टामिति । श्पृशमृशकृषतृप्दृषां सिज् वा वक्त्व्यः" इति क्सापवादः पक्षे सिच् । अनुदातस्येत्यम्, यणि "वदव्रज" इति वृद्धिः । "पूर्वत्रासिद्धे न स्थानिवद्" इति वचनादत्राप्यतृप्यन्नाह--आगत्येति । "वा ल्यपि" । युवजानिरिति । बहुव्रीहौ पुंवद्भावः, युवतिशब्दस्य वयोवचनत्वेनाजातिवाचित्वात् "जातेश्च" इति प्रतिषेधो न भवति । यलोपे न स्थानिवदिति । ननु योऽत्रादेशो नासौ लोपस्य निमितम्, तस्य वल्मात्रनिमितत्वात्; यश्च निमितं नकारः नासावादेश इति स्थानिवत्वं न भविष्यति । न च जायाशब्दस्य जनेरौणादिके यङ्प्रत्यये "ये विभाषा" इत्यात्वे च व्युत्पादितत्वाद् निङ्ः स्थानिवत्वे सत्यातो लोपप्रसङ्गः, न ह्युणादिषु व्युत्पत्तिकार्यमवश्यं भवति, अत उदाहरणानतरोपन्यासः--वैयाघ्रपद्य इति । व्याघ्रस्येव पादावस्येति "पादस्य लोपोऽहस्त्यादिभ्यः" इत्यपरनिमितः "गर्गादिभ्यो यञ्" । ननु सत्यपि स्थानिवत्वे वचनात् पद्भावो भविष्यति; यद्येवम्, पादे इत्यत्रापि प्राप्नोति; सति तु परस्मिन्नत्यस्मिन्वैयाघ्रपद्य इत्यत्र पद्भावस्य चरितार्थत्वाद् पादे इत्येकादेशस्य स्थानिवत्वात् पद्भावाभावः । कथं पुनरेकादेशस्य स्थानिवत्वम्, न ह्ययमच आदेशः, किं तर्हि ? अचोः उच्यते; वर्णनिर्देशेषु जातिग्रहणाद्, "अच" इत्येकत्वास्याविवक्षितत्वाद् अचोरप्यादेशः स्थानिवत् । द्वयोरपि वा स्थानित्वे यदेकस्य स्थानित्वं तदाश्रयं तस्य स्थानिवत्वं भविष्यति । अत एव श्रायसौ, गौमतौ, चातुरौ, आनुडुहाविति श्रायसादिभ्योऽणन्तेभय औप्रत्यय एकादेशस्यादिवत्वात् प्राप्तौ नुमामौ न भवतः; उदकं वहति, "कर्मण्यण्" संज्ञायामुदभावः, सप्तम्येकवचन एकादेशस्यादिवत्वाद्भत्वे सति प्राप्तः "वाह ऊठ" न भवति उदवाहे इति । आदीघ्य इति । अदादित्वाच्छपो लुक् । परस्मिन्नत्युच्यमाने स्यानिवद्भावाभावात् कृते टेरेत्वे लोपो न प्राप्नोति । टेरेत्वं तु कृताकृतप्रसङ्गित्वान्नित्यमिति तदेव भवति । ननु च परस्मिन्नत्यसति शब्लुकोऽपि स्थानिवत्वात् तद्व्यवधानादेव लोपो न भविष्यति, न; "क्विलुगुपधात्वचङ्पनिह्रनिर्ह्रासकुत्वेषु" इति लुका लुप्तस्य स्थामिवत्वप्रतिषेधात् । हे गौरिति । "गोतो णित्" । बाभ्रवीया इति । बभ्रोरपत्यमिति "मधुबभ्व्रोर्ब्राह्मणकौशिकयोः" इति यञ्, "ओर्गुणः","वान्तो यि प्रत्यये" इत्यवादेशः । अवादेशो न स्थानिवद्भवतीति । ननु चासत्यपि स्थानिवद्भावे संनिपातपरिभाषया न भवितव्यमेवात्र यलोपेन, नैतदस्ति; "अचः" इत्ययं संघातो यादिसन्निपातकृतः; न च स लोपस्य निमितम्, किं तर्हि ? वकारमात्रम् । यद्येवम्, स्थानिवद्भावस्याप्यप्रसङ्गः, योऽत्रादेशो नासावाश्रीयते, यश्चाश्रीयते नासावादेशः । नैवेय इति । निपूर्वाद्धाञः "उपसर्गे घोः किः","आतो लोपः","द्व्यचः" "इतश्चानिञः" इति ढक् । ननु च पूर्वस्मादपि विधौ स्थानिवत्वमुक्तम्, तत् कथमेतानि प्रत्युदाहरणानि ? नैष दोषः; अत्राप्यजपेक्षस्य पूर्वस्याश्रयणाद् योऽनादिष्टादचः पूर्वस्ततः परस्येति । एवमपि हे गौरित्यत्र प्राप्नोति व्यवहितेऽपि परशब्दवृतेर्गकारात्परस्य सोर्लोपः, एवमितरयोरपि, नैतदेवम्; पूर्वस्य विधिरिति षष्ठीसमास एवायम्, तत्रानुवादत्वात् स्थानषष्ठ।ल्भावात् सम्भन्धसामान्ये षष्ठी-पूर्वसम्बन्धिनि विधाविति । सम्बन्धश्च द्विविधः-कार्यित्वेन, निमितत्वेन वा । यत्र कार्यित्वेन स पूर्वस्य विधिः, यत्र निमित्तत्वेन स पूर्वस्मात्; ततश्च योऽनादिष्टादच पूर्वस्तन्निमितत्वेनाश्रित्य यत्कार्यं प्राप्तं स एव पूर्वस्माद्विधिः, यथा-अपीपचन्निति । अत्र हि योऽनादिष्टो णिच् चङ् वा, ततः पूर्वमपीपच् इत्येवाभ्यस्तं परस्य झेर्जुसो निमितम् । तन्वन्तीत्यत्र योऽनादिष्टोऽच् उप्रत्ययस्ततः पूर्वं यत् तन्निमितत्वेनाश्रीयते तद्विधावङ्गस्येत्यनुवृतेः । एतदेव तत्राङ्गाधिकारस्य प्रयोजनम् । हे गौरित्यादौ तु योऽनादिष्टादचः पूर्वो गकारादिर्न तत्सम्बुद्धिलोपादेर्निमितम्, यच्च निमितमोकारादिर्नासावनादिष्टादचः पूर्व इति न दोषः । इह तर्हि वेतस्वानिति, टिलोपस्य पूर्वविधौ स्थानिवत्वात् सकारात्पूर्वस्यानुपधात्वाद् "मादुपधायाः" इति वत्वं न स्यात् । न च स्थानिवद्भावेन सन्निहितमकारमपेक्ष्याकारान्तादिति लभ्यते, तस्यानादिष्टादचः पूर्वत्वाभावात् तदपेक्षत्वे स्थानिवद्भावात्, नैष दोषः; "पूर्वत्रासिद्धे न स्थानिवतद्" । विधिग्रहणं किम्, ननु पूर्वसूत्रादेवानुवर्तते ? समासद्वयपरिग्रहार्थम् । असति हि तस्मिन् पूर्वस्येत्युक्ते पूर्वस्माद्विधौ न स्यात्, पूर्वस्मादित्युक्ते पूर्वस्य विधौ न स्यात्, नैतदस्ति; पूर्वस्येत्युक्तेऽपि अनुवादत्वात् स्थानषष्ठ।ल्भावात् सर्वः पूर्वसम्बन्धी विधिः प्रतिपत्स्यते । एवं तर्हि विधिमात्रे स्थानिवद्यथा स्यात् शास्त्रीये विपरीते च । यद्वा-विधिग्रहणं द्वितीयो यत्नः, तत्राचः परिस्मिन्पूर्वस्येत्येको योगः, विधावित्येव । तेन वव्रश्चेत्यादौ स्थान्यलाश्रयमतिदिश्यते । ततो विधौ, अचः परस्मिन्पूर्वस्येत्येव, नियमार्थमेतत्-अजादेशः परनिमितकः पूर्वविधौ स्थानिवदेव, न तु स्वयं निमितमिति । तेन पटयतीत्यादि सिद्धं भवतीति । नन्वसत्यपि द्वितीययत्ने यथा चोलवत् काश्मीरेषु व्रीहयः, मरुभूमिवदस्मिन्प्रदेशेजलमित्यादौ दृष्टान्ते प्रसिद्धस्य भावस्याभावस्य वा यथादर्शनमतिदेशः, एवमत्रापि भविष्यति ? विषम उपन्यासः; युक्तं तत्र भावस्यैवाभावस्यैव च प्रसिद्धत्वाद्, इह तूदाहरणभेदेन भावाभावयोः प्रसिद्धावपि श्थानिवदादेशः" इत्युक्तेऽश्रुतक्रियापदेषु वाक्येषु भावतीत्येवाध्याहारस्य प्रसिद्धत्वाद् भावातिदेशः स्याद् इत्यलमितप्रबन्धेन ॥ न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु ॥ १।१।५८ ॥ द्विर्वचने यलोपादौ च तावत् तदेव विधेयम्, न तु तस्य व्यवस्थितस्य किञ्चित् । कौ स्त इत्यादौ तु पदान्तस्य सतः कार्यमावादि पदान्तस्य वाऽऽवादेर्विधानमित्युभयथा सम्भवः । एवं वरेविधावपि । तथापि सर्वग्रहाय भावसाधन एव विधिशब्दः । एतेष्विति । पदान्तादिविधेयभेदेन भिन्नानि यानि विधानानि एतेष्वित्यर्थः । पूर्वविधावित्यादि । यद्यपि व्याकरणे न पदानि संस्क्रियन्ते, न वाक्यम्, तथापि वाक्यगते स्त इत्यादिके पदे व्युत्पाद्यमाने कावित्यादेः पदस्यासत्यपि निमितत्वे सन्निधानमविरुद्धम् । ततश्चानादिष्टादचः पूर्वत्वसम्भवादस्ति स्थानिवत्वप्रसङ्ग इति भावः । दध्यत्रेति । स्थानिवद्भावप्रतिषेधसामर्थ्याद् "असिद्धं बहिरङ्गमन्तरङ्गे" इत्येतदपि न प्रवर्तते । शच्यावित्यादावपि बहिर्भूताजपेक्षत्वाद्यण् बहिरङ्ग एव "वर" इति निपातनादलुक् । यायावर इति । ङित्यं कौटिल्ये गतौ" इति यङ् । अतो लोपः परनिमितक इति । " आर्द्धधातुके" इति परसप्तमीपक्ष इति भावः । तथा च "अनुदातेतश्च हलादेः" इत्यत्रादिग्रहणम् । असति हि तस्मिन् हलन्तादिति विज्ञायेत, ततश्च जुगुप्सनो मीमांसन इत्यत्र युज्न स्यादिति । यदि च सा विषयसप्तमी स्यात्, प्रगेव प्रत्ययोत्पतेरतो लोपे सति हलन्तत्वादत्रापि युच् सिद्धः स्यात् । यतु "अचो यत्" इत्यत्र वक्ष्यति--"अज्ग्रहणं किम्, यावता हलन्ताण्ण्यं वक्ष्यति ? अजन्तभूतपूर्वादपि यथा स्याद्-दित्स्यम्, धित्स्यमिति । तद्विपयसप्समीपक्ष इति वेदितव्यम् । परसप्तमीपक्षे हि प्राक्प्रत्ययोत्पतेरतो लोपाभावादनुपपन्नं तत्स्यात् । कण्डूअयतेः क्तिनि कृत इति । "क्तिन्नावादिभ्यो वक्तव्यः" इत्यनेनेति भावः । "क्तिचि" इति तु युक्तः पाठः । कण्डूअतिरित्यत्राल्लोपस्य स्थानिवत्वादुवङ् प्राप्नोति, अस्तु; च्छवोः शूठ" इत्यूट् भविष्यति । न चोठ।ल्पि स्थानिवत्वम्, आदिष्टादचः पूर्वत्वात् । अत एवोठः पुनरुवङ् न भवति । परसवर्णे न स्थानिवद्भवतीति । ननु श्नसोरल्लोपे कृते पश्चादनुस्वारो भवन्नादिष्टादचः पूर्व इति कथमस्य परसवर्णे कर्तव्ये स्थानिवत्वप्रसङ्गः ? स्यादेतत्स्थानिनो नकारस्यानादिष्टादचः पूर्वत्वादादेशोऽनुस्वारोऽपि स्थानिवद्भावादनादिष्टादचः पूर्व इति, तन्न; न ह्यनादिष्टादचः पूर्वत्वं नाम शास्त्रीयं यदतिदिश्येत । एवं तर्ह्यनादिष्टादचः पूर्वत्वापेक्षेऽचः परस्मिन्नत्यतिदेशे कर्तव्ये स्थानिवदादेश इत्येतत् प्रवर्तते, अतः सवर्णग्रहणं कृतम् । शिषन्तीति । यद्यपि शिण्ढैइत्येवानुस्वारविधेरप्युदाहरणम्, तथापि तस्मिन्नेवोदाहृते परसवर्णविधौ स्थानिवत्वनिषेधः, तस्य स्थानिनोऽनुस्वारस्यापि विधौ स्थानिवत्वप्रतिषेधमन्तरेणानुपपन्न इति पृथगनुस्वारग्रहणं न कर्तव्यमित्याशङ्का निराकरणाय केवलानुस्वारोदाहरणं दर्शितम् । प्रतिदीव्नेति । प्रतिपूर्वाद्दिवेः "कनिन्युवृषितक्षिराजिधन्विद्यौप्रतिदिवः" इति कनिन्प्रत्ययः भस्येत्यधिकृत्येति । परनिमितकत्वोपपादनार्थः । किमिदमुक्तम्हलि चोपधायां चेति दीर्घत्वं न स्यादिति, उपधायाञ्चेत्येतल्लेखकैः प्रमादाल्लिखितम्, तथा चोपधायाञ्चेत्यत्र वक्ष्यति-प्रतिदीव्नेत्यत्र "हलि च" इति दीर्घत्वमिति । अस्माद्वचनाद्भवतीति । ङ भकुर्छुअराम्" इति तु प्रतिषेधो रेफवकारान्तस्य भस्येत्यत्र न प्रवर्तते । झलो झलीति सलोप इति । सकारे सिचो लोप इत्येततु नाश्रीयते, तस्मिंस्त्वाश्रिते छान्दसत्वाद्वर्णलोपः । बहुखट्वक इति । अत्र स्थानिवद्भावद् "ह्रस्वान्तेऽन्त्यात्पूर्वम्" इति खकारा कारस्योदातत्वं न भवति,"कपि पूर्वम्" इत्येतदेव तु भवति । किर्योः, गिर्योरिति । "कृग्रोरिच्च" इति व्युत्पत्तिपक्ष एतदुदाहृतम् । "उपाधायाञ्च" (८।२।७८) इत्यत्रत्वव्युत्पत्तिपक्षमाश्रित्य वक्ष्यति--"उणादयोऽव्युत्पन्नानि प्रातिपदिकानि, इति किर्योगिर्योरित्यादिषु दीर्घो न भवति" इति । "क्विलुगुपधात्वचङ्परनिर्ह्रासकुत्वेष्वजादेशो न स्थानिवद्भवति" इति वक्तव्यम् । क्वि-क्वौ यद्विधीयते तत्र कर्तव्ये यत्र कुत्रचित् कृतोऽजादेशो न स्थानिवद्भवतीति; लवमाचक्षाणो लौः, अत्र णिचि यष्टिलोपः, यश्च क्वौ णिलोपस्तदुभयमपि "च्छवोः शूठ" इति वकारस्य क्विनिमिते ऊठि कर्तव्ये न स्थानिवद्भवतीति "एत्येधत्यूठसु" इति वृद्धिः । ये तु "क्वौ लुप्तं न स्थानिवत्" इति पठन्ति तेषामेतन्न स्यात् । तथा पिपठिषतेः क्वौ, अतो लोपे नपुंसके बहुवचने जसिझल्लक्षणे नुमि जस्निमितेऽपि कर्तव्येऽयो लोपस्य स्थानिवत्वनिषेधः स्यात्, क्वौ कृतत्वात् । क्वौ विधिं प्रतीत्यत्र तु पक्षे प्रतिषेधो न भवति, पिपठीषि ब्राह्मणकुलानि, नुम्यसति शान्तमहतः" इति दीर्घत्वं न भवति । देवयतेद्यौउÇरित्यत्रोभयथापि सिध्यति । लुक्-लुका लुप्ते न स्थानिवत्, आमलक्या विकारफलम् ङित्यं वृद्धशरादिभ्यः" इति मयटः "फले लुक्" "लुक्तद्धितलुकि" इति ङीपो लुक् परिनिमितकः यस्येति लोपे न स्थानिवद् भवति । केचित्वेतदर्थं सूत्रे वराई उ वरे इति ईकारप्रश्लेषं वर्णयन्ति, ईविधिं प्रति न स्थानिवदिति । उपधात्वेउपधात्वे कर्तव्ये न स्थानिवत् । परिखअशब्दाच्चातुरर्थिके णिकृते पारिखे भवः पारिखीय इति "वृद्धादकेकान्तखोपधात्" इति छाए न स्यात्, आकारलोपस्य स्थानिवत्वादनुपधाखकार इति । प्रत्ययविधिविषयं चैतत्, यत्रोपधासंज्ञानिबन्धन प्रत्ययो विधातुमिष्यते तत्रैवेत्यर्थः, घटयतीत्यादौ तु तन्न भवति । चङ्परो ये निर्हासो ह्रस्वस्तत्र न स्थानिवद्भवति--वादितवन्तं प्रयोजितवान् अवीवदद् वीणां परिवादकेन, योऽसौ णौ णिर्लुप्यते तस्य स्थानिवद्भावाद् णौ चङ्युपधाया ह्रस्वो न स्यात्, यश्चङ्परो णिर्न तस्मिन्नङ्गस्योपधा, यस्मिंश्चाङ्गस्योपधा न चङ्पर इति । कुत्वम्--पाचयतेः क्तिचि पाक्तिः । कुत्वमुपलक्षणम् । लेहयतेर्लेढिः, दोहयतेर्दोग्धिः, याचयतेर्याक्तिः, वेशयतेर्वेष्टिरित्यादि ॥ द्विर्वचनेऽचि ॥ १।१।५९ ॥ "अचः परस्मिन्" इत्यत्र "योऽनादिष्टादचः पूर्वः" इति स्थितम् । साच्कस्य द्विर्वचनं न त्वचः पूर्वस्येत्यप्राप्तं स्थानिवत्वं विधीयते, रूपातिदेशार्थ च । अत्र षट् पक्षाः सम्भवन्ति । अचीत्यादेशोपलक्षणम्, द्विर्वचन इति विषयनिर्देशः, अचि योऽजादेशः स द्विर्वचने स्थानिवद्भवतीति प्रथमः पक्षः । अचीत्येतदपि स्थानिवद्भावेनैव सम्बध्यते, द्विर्वचन इति विषयनिर्देशाद्, द्विर्वचने कर्तव्येऽजादेशः स्थानिवद्भवत्यचि पर इति द्वितीयः । द्विर्वचननिमितत्वादजेव द्विर्वचनग्रहणेन विषेष्यते, द्विर्वचनमस्मिन्नस्तीत्यर्शाअद्यच्प्रत्ययान्तेन वा, अधिकरणसाधनेन वा, आदेशोपलक्षणम्, द्विर्वचननिमितेऽचि योऽजादेश- स स्थानिवदिति तृतीयः । एवं विशेषितं वाज्ग्रहणं स्थानिवद्भावस्य विशेषणम्, अजादेशः स्थानिवद्भवति द्विर्वचननिमितेऽचि परत इति चतुर्थः । द्विर्वचनग्रहणमा वर्तते, तत्रैकेनाज्विशेष्यते, परेण विषयी निर्दिश्यत इति स्थिते तद्विशेषितमज्ग्रहणं स्थानिवद्भावस्य विशेषतणम्, द्विर्वचने कर्तव्येऽजादेशः स्थानिवद्भवति द्विर्वचननिमितेऽचि परत इति पञ्चमः । एवमेव स्थितेऽज्ग्रहणमादेशोपलक्षणम्, द्विर्वचननिमितेऽचि योऽजादेशः स द्विर्वचने कर्तव्ये स्थानिवद्भवतीति षष्ठः । अत्राद्ये पक्षेऽचो द्विर्वचनेनाविशेषितत्वाद् द्विर्वचननिमितेऽप्यचि आदेशः स्यानिवत्स्यात्, ततश्चाचिकीर्तद् इत्यत्र णिचि "उपधायाश्च" इतीत्वस्य "चङ्" ईति द्विर्वचने स्थानिवद्भावादचकीर्तदिति स्यात् । दुद्यौउषति--ऊठि यणादेशः स्थानिवत्स्यात् । भवनमिच्छति, भवनीयतेः सन्, बिभवनीयिषति-ल्युटि कृतयोर्गुणावादेशायोः स्थानिवत्वे बुभवनीयिषतीत्यनिष्ट्ंअ रूपं प्राप्नोति । द्वितीये तु अचिकीर्तदित्यत्र न दोषः, इत्वस्य तकारेण व्यवहितत्वात् स्थानिवद्भावभाजो ह्यादेशस्य स्थानिवत्वविधानवेलायामच्यचनन्तरे स्थानिवत्वेन भवितव्यम् । एवं ह्यचि परतः स्थानिवद्भावः कृतो भवति । दुद्यौउषतीत्यादौ तु स्यादेव । ययावित्यत्र "आत औ णलः" इत्यौकारेण वृद्धौ कृतायां संप्रत्यादेशात्परोऽज्नास्तीति स्थानिवत्वं न स्यात् । जग्मतुरित्यादौ च "गमहन" इत्युपधालोपस्य व्यवहितत्वान्न स्यात् । तृतीये तु कालावधारणं कर्तव्यम्, अन्यथा द्विर्वचनादुतरकालमपि स्थानिरूपमेवावतिष्ठेत । चतुर्थे तु ययौ, जग्मतुरित्यादौ पूर्वोक्तन्यायेन स्थानिवद्भावो न प्राप्नोति, कालावधारणं च कर्तव्यम् । पञ्चमेऽपि ययौ, जग्मतुरित्यादौ न स्यात्, अत एतेषु पक्षेष्वेवं दोषसम्भवात् षष्ठ्ंअ पक्षमाश्रित्याह-द्विर्वचननिमितेःऽचीत्यादि । अत्र हि पक्षे द्विर्वचनेनाचो विशेषणादचिकीर्तत्, दुद्यौउषति, बिभवनीयिषतीत्यादौ न दोषः । आदेशोपलक्षणत्वाच्च ययावित्यादावपि न दोषः पुनश्च द्विर्वचनग्रहणात् कालावधारणमपि लभ्यते । ननु "द्विर्वचननिमितेऽचि योऽजादेशः" इत्युच्यमाने नुनावयिषति, चक्षावयिषति, पुस्फारयिषतीत्यादौ णेरद्विर्वचननिमितत्वातन्निमितावादेशः, आकारश्च न स्थानिवत्स्यात्; ततश्चाभ्यास उकारो न श्रूयेत, नैष दोषः;"पुयण्जि" इति ज्ञापकाद् द्वित्वनिमितेऽपि णौ स्थानिवत्वापायात् । तथा हि- न हि णौ कृतस्य स्थानिवद्भावमन्तरेण ओः पराः पुयण्ज्योऽवर्णपराः सम्भवन्ति; पिपविषति, यियविषति-इत्यत्र सम्भव इति चेत्, किमेतावता पुग्रहणं प्रत्याहारग्रहणं जग्रहणं चार्थवद्भवतीति ? ज्ञापकमुक्तार्थस्य यद्येवम्; अचिकीर्तदित्यत्रेत्वस्य स्थानिवत्वादचकीर्तदिति स्यात्, नैष दोषः; ज्ञापकस्य तुल्यजातीयापेक्षत्वात् यत्रोतरभागस्याद्योऽवर्णपरो भावस्तत्रैव स्थानिवत्वज्ञापनात् । नन्वेवमपि "ओः पुयण्" इत्यत्र णेरित्यश्रवणात्सामान्येन द्वित्वनिमितं स्थानित्वं विज्ञायेत, ततश्च विभवनीयिषतीत्यत्रापि स्यात्, न ह्यत्राजमात्रं द्विर्वचननिमितम्, क्व तर्हि स्यात् ? चकार, चक्रे इत्यादौ ह्यज्मात्रं प्रत्ययः । स्यादेतत्-परस्मिन्नित्यनुव-तमचीत्यनेन विशेष्यते, तत्र यस्मिन्विधिस्तदादावल्ग्रहणमिति तदादिविधिर्भवति । अजादौ परस्मिन्निति द्विर्वचननिमितत्वेनापि अजाद्येव विशेष्यत इति । एवमपि चक्रतुरित्यत्र स्यात्, यद् द्विर्वचननिमितमजादि न तदादेशस्य निमितम्; अच्येव यणो विधानात् । यच्चादेशस्य निमितं न तद् द्विर्वचनस्य निमितम्; पपतः चख्नतुरित्यादावेन तु स्यात् । किञ्च "यस्मिन्विधिः" इति वचनाद्यत्र किञ्चिद्विधीयते तत्रैव तदादिविधिः, इह तु अचि योऽजादेश इत्यनुवादत्वातदादिविधेरेवासम्भवस्तस्यमादजेव गृह्यते, न तदादिः, उच्यते; चक्रतुरित्यादावतुसोद्विर्वचनं प्रति निमितत्वेनाश्रयणेऽप्यचि परत्रावस्थिते द्विर्वचनं दृष्टमित्येतावताजेव द्विर्वचननिमितमित्युच्यते । समुदायेऽप्ययं द्विर्वचनशब्द उपचारेण प्रवर्तते । एवमपि पपतुरित्यत्र न स्यात्, आल्लोपस्याजादिनिमितं नाज्मात्रम्, नैष दोषः; "अचि योऽजादेशः" इति कोऽर्थः ? अचि यो दृष्ट इत्यर्थः । यश्चाचि विधीयते, यश्चाजादौ-द्वावपि अचि दृष्टावेवेति सर्वत्र सिध्यति । अथ वा-अजादावाल्लोपो न हलादौ, तत्र प्राप्ताप्राप्तविवेकेनाच एव मिमितत्वम् । द्विर्वचन एव कर्तव्य इति एवकारेणैतद्दर्शयति--द्विर्वचनग्रहणमचं विशिनष्टि,कालं चावधारयतीति । एकस्योभयसम्बन्धे हि भवति एवकारः-देवदतो ग्रामं गच्छतु स एव गामानयत्विति । यद्यत्रापि पूर्ववत्कार्यातिदेशः स्यात्; चक्रतुरित्यादावनच्कत्वादप्राप्तं द्विर्वचनं स्थानिवद्भावाद् भवदपि यणाद्यादेशयुक्तस्यैव स्यादित्यभयासे स्थानिरूपं न श्रूयेत, तदर्थमाह-रूपातिदेशश्चायमिति । "च" शब्दोऽवधारणे । कथं पुनरवगम्यते रूपातिदेशोऽयमिति ? अज्ग्रहणात् । तद्धिजेघ्रीयत इत्यत्र "ई घ्राध्मोः" इति हलादौ विहितस्येत्वस्य स्थानिवत्वं मा भूदित्येवमर्थं क्रियते । यदि च रूपं स्थानिवत्, ततोऽसत्यज्ग्रहणे घ्राय्घ्रीय्ध्माय्ध्मीय् इति द्विर्वचनं स्यादिति तन्नवृतयेऽजग्रहणमर्थवद् भवति । अथ हि--कार्यं स्थानिवद् भवति, तस्य सत्यपि स्थानिवत्वे ईकारयुक्तस्यैव द्विर्वचनमिति नार्थोऽज्ग्रहणेन । भसेस्तु क्वसौ "घसिभसोर्हलि" इत्युपधालोपे कृते सत्यसति वा द्विर्वचनेभ्स्वानिति श्रुतौ विशेषाभावः । छान्दसच क्वसुः, च्छन्दसिदृष्टानुविधानमतो ज्ञापकमेवाज्ग्रहणम् । तत्र यद्यपि स्थान्येव स्वरूपमापद्यते, तथाप्यातिदेशिकानातिदेशिकरूपभेदाश्रयस्तु वतिर्द्विर्वचन एव कर्तव्य इत्येतदेव स्पष्टयति । नियतकाल इति । कृते द्विर्वचने इत्यादिना नियतकालत्वमेव दर्शयति । यदि कृते द्विर्वचने पुनरादेशरूपमेवावतिष्ठते, यथा--चक्रतुरित्यादौ द्विर्वचनादूर्ध्वं पूर्वं कृतो यणादेश एव श्रूयते तथा निन्यतुरित्यादावपि द्विर्वचनात्पूर्वमेकाच्त्वादि, यङदेशे कृते स्थानिवद्भावाद् द्विर्वचनेऽपि पूर्वप्रवृत इयणेóव स्यात् । अस्तुः तस्य "असिद्धवदत्राभात्" इत्यसिद्धत्वाद् "एरनेकाचः" इति यणि सति श्रवणं न भविष्यति । यद्वा-पूर्वप्रवृतोऽपीयङ् द्विर्वचनकालेऽपहृत इति पुनः प्रवर्तयितव्यः, तस्यां च दशायाम नेकाच्त्वाद्यणा बाध्यते । यद्येवम्, इयेष उवोषेति इषेरुषेश्च लिटि तिपि णलि प्रवृत्त्स्यापि गुणस्य द्विर्वचनकालेऽपहृतत्वात्कृते द्विर्वचने पुनः प्रवृत्तिः, ततश्चानादिष्टादचः पूर्वत्वेनाभ्यासो दृष्ट इति तस्याभ्यासस्य उवङ् किर्तव्ये गुणस्य स्थानिवद्भावादसवर्णं इति प्रतिषेधः स्यात् । असवर्णग्रहणसामर्थ्यात्स्थानिवत्वं न भविष्यति । अस्त विचनस्यावकाशः-इयर्ति, इयृतः । ह्यएकमुदाहरणमसवर्णेग्रहणं प्रयोजयति । यद्येतावत्प्रयोजनं स्यात्, अर्तावित्येव ब्रूयात् । कि तर्ह्युच्यते--द्विर्वचने पुनरादेशरूपमेवावतिष्ठत इति, अत्र हि "पुनः" शब्दाद्, "अवतिष्ठते" इति वचनाच्च पूर्वकृतस्यैवादेशस्योन्मज्जनमेवोक्तं प्रतीयत इति ? नायमर्थः; अपि तु कृते द्विर्वचने स्थानिरूपं नावतिष्ठते यत्प्राप्तं तद्भवतीत्येवंपरमेतत् । अल्लोपेत्यादि । उपलक्षणमेतत् । ततुरिः, पपुरिरित्यदौ "आञ्त ईद्धातोः" "उदोष्ठ।ल्पूर्वस्य" "बहुलं च्छन्दसि" इति इत्वोत्वयरपि स्थानिवत्वं भवति । आटिटदिति । अटतेर्ण्यन्ताल्लुङ् चिङ् "इजादेर्द्वितीयस्य" इति टिशब्दस्य द्विर्वचनम्, "आडजादीनाम्" । निनायेत्यादि । "णलुतमो वा" इति यदा णित्वं नास्ति तदा गुणः, णित्वपक्षे वृद्धिः । नेनैलोलाइति द्विर्वचनमिति । गृणवृद्ध्योस्तु स्थानिवद्भावे विशेषाभावान्नोक्तः । जग्ले, मम्ल इति । भावे लिट्, अनैमितिकमात्वम्, शिति तु प्रतिषेध इत्यात्वस्य स्थानिवत्वं न भवति । श्रवणमित्यादि । यदि कालो नावधार्येत, तदोतरकालमपि स्थानिरूपं प्रसज्येत, ततश्चाकारस्य श्रवणे सति परेण सह "वृद्धिरेचि" इति वृद्धिः स्यात् । इहाधिजगे इति "गाङ्लिटि" इति द्विलकारनिर्देशेन लकारादौ लिटि गाङदेशविधानादज्निमितत्वाभावात् स्थानिवत्वाभावः ॥ अदर्शनं लोपः ॥ १।१।६० ॥ इह दर्शनं ज्ञानमुपलब्धिः । तच्च शब्दानुशासनप्रस्तावाच्छब्दविषयं सच्छ्रवणं भवतीत्याह-अश्रवणमिति । श्रवणं च श्रोतृव्यापारः, तन्निषेधे "लोपो व्योर्वलि" इत्यस्य वकारयकारौ वल्परौ न श्रोतव्यावित्यर्थः स्यात् । ततश्च प्रयोक्तृव्यापार उच्चारणमनिषिद्धं स्यात् । असति श्रवणे उच्चारणमनर्थकमेव स्यादिति श्रवणनिषेधेन तद्धेतुभूतमुच्चारणमेव निषिद्धं भवतीत्याह-अनुच्चारणमिति । "लोपो व्योर्वलि" इत्यस्य कोऽर्थः ? वकारयकारौ वल्परौ नोच्चारयितव्याविति । अनेनापि प्रकारेणास्मिन्विषये तयोरभाव एव व्याख्यापितो भवति, न हि विद्यमानयोरनुच्चारणमुपपद्यत इत्याह-अभाव इति । स्वाभाविक एवाभाव इत्यर्थः । विनाश इति । कार्यशब्ददर्शन एतत् । अनर्थान्तरमिति । शब्दविषयाणामेषामर्थो न भिद्यत इत्यर्थः । श्वं रूपम्" इति वचनाद् अदर्शनशब्दस्यैव संज्ञायां लोपप्रदेशेषु अदर्शनशब्द एवादेशः स्यादित्यत आह--एतैः शब्दैरिति । एतच्च ङवेति विभाषा" इत्यत इतिकरणानुवृतेर्लभ्यते । अथ वा-महती संज्ञा क्रियते, अन्वर्था यथा विज्ञायेत-लोपनं लोप इति । न चादर्शनशब्दो लोपनक्रिया भवति । यद्येवम्, प्रदेशेष्वेवार्थग्रहणमस्तु, किं संज्ञया ? तन्न; असति संज्ञाकरणे श्वं रूपम्" इति वचनात् प्रदेशेषु लोपशब्द एवादेशः स्यात् । सति त्वशब्दसंज्ञेति निषेधान्न स्वरूपग्रहणं भवति । न शब्दस्येति । अर्थसिद्धमप्येतद्विस्पष्टार्थ पुनरुक्तम् । ननु विधिप्रदेशेष्वितरेतराश्रयः प्राप्नोति-सतोऽदर्शनस्य संज्ञा, संज्ञया चादर्शनं भाव्यत इति, तन्न; न हि लोपविधानात्प्रगसदेवादर्शनं वचनेन भाव्यते, अनित्यत्वप्रसङ्गात्, किं तर्हि ? सदेवादर्शनं साधुत्वेनान्वारूयायते । यद्येवम्, सर्वस्य स्वविषयादन्यत्र स्वभावतोऽदर्शनमस्तीति लोपसंज्ञा स्यात् । ततश्च दधि, मध्विति णिचोऽदर्शनस्य लोपसंज्ञायां प्रत्ययलक्षणेन वृद्धिः स्यात् । अङ्गस्य वृद्धिः, अङ्गसंज्ञा च विधानप्रतिबद्धा । क्विपस्तर्ह्यदर्शनस्य लोपसंज्ञायां तुक् प्राप्नोति, तत्राह-प्रसक्तस्येति । एवं मन्यते-श्थाने" इति वर्तते; स्थानं च प्रसङ्गः; तेन प्रसङ्गे यददर्शनं तस्य लोपसंज्ञा, न च दधीत्यत्र क्विपः केनचित्प्रसङ्गोऽस्ति । एवमपि ग्रमणीरित्यत्र कर्मधातुकर्तृसन्निधानादस्ति अणः प्रसङ्ग इति तददर्शनस्य संज्ञायां वृद्धिः स्यात् । योऽत्राणः प्रसङ्गः, क्विपा सोऽपाह्रियते । सामान्यशास्त्रं हि विशेषसन्निधौ तद्व्यतिरिक्त एव विषये प्रतीतिं जनयति । तेन शत्सूद्विष" इत्यस्य सन्निधौ "कर्मण्यण्" इत्यनेन नयतेरण् भवतीति बुद्धिरेव न जन्यते ॥ प्रत्ययस्य लुक्शलुलुपः ॥ १।१।६१ ॥ "अदर्शनम्" इति सम्बन्धात् "प्रत्ययस्य" इति कर्मणि षष्ठी । यदि प्रत्ययादर्शनस्य लुगदिसंज्ञासङ्करः प्राप्नोति, विधानदशायां यया कयाचन संज्ञया भावितस्य प्रत्ययादर्शनस्यानुवादप्रदेशेषु यत्किञ्चनसंज्ञोच्चारणेऽपि ग्रहणप्रसङ्गः, ततश्च-अतीति लुक्संज्ञाया भावितस्यापि शपोऽदर्शनस्य "श्लौ" इत्यत्र ग्रहणाद् द्विर्वचनं स्यात्; जुहोतीति-"उतो वृद्धिर्लुकि हलि" इति वृद्धिः स्यात्; हरीतक्या फलानि-"लुक्तद्धितलुकि" इति ङीषो लुक् स्यात्; "लवणाल् लुक्" लवणस्सूपः, युक्तवद्भावः स्यात्; तथा लोपसंज्ञया भावितस्यापि लुक्संज्ञाया अगोमति गोमती सम्पन्ना गोमतीभूता ब्राह्मणीति च्वेर्लोपे "लुक् तद्धितलुकि" इति लुक् स्यादित्यत आह-अनेकसंज्ञाविधानाच्चेत्यादि । यद्यतद्भावितस्याप्येताः संज्ञाः स्युः, नेकसंज्ञाकरणमनर्थकं स्यात् । एकामेव संज्ञां कृत्वा तयैव सर्वाणि कार्याणि विधीयेरन् ! तस्मादनेकसंज्ञाविधानाद्यया संज्ञया यददर्शनं भवतितं तस्यैव सा संज्ञेति संज्ञानां सङ्करो न भवति । यद्येवम्, विधिप्रदेशेष्वितरेतराश्रयः प्राप्नोति । न चात्र नित्यतया परिहारः सम्भवाति; अदर्शनमेव हि नित्यम्; न पुनर्लुगादिसंज्ञया भावितम् । तत्र यदि तया संज्ञया भावितस्यादर्शनस्य सा संज्ञेति, व्यक्तमितरेतराश्रयो भवति, तत्राह-विधिप्रदेशेषु चेति । अदिप्रभृतिभ्यः परस्य शपस्तद्भवति, यस्य भूतस्य लुक्संज्ञा भविष्यतीत्येवं भाविन्याः संज्ञाया विज्ञानान्न भवतीतरेतराश्रयत्वदोषः । लोपसंज्ञात्वदर्शनमात्रस्य विधीयत इति लुगादिसंज्ञाविषयेऽपि भवत्येव । न च लुगादिसंज्ञाभिबधिः; एकसंज्ञाधिकारादन्यत्र संज्ञानां समावेशात् । अत एव " न लुमताङ्गस्य" इति निषेधः । वरणा इति । "अदूरभवश्च" इत्यणः "वरणादिभ्यश्च" इति लुप् । प्रत्ययग्रहणं किमति । न तावदप्रत्ययनिवृत्यर्थम्; लुग्, अणिञोः, तद्राजस्य यञञोश्च, शपः, यङः, सिचः, लेः, सुपः इति सर्वत्र प्रत्ययस्यैव निर्देशाद्, अनुवादेषु च तद्भावितस्यैव तस्य संप्रत्ययात् । "गोस्त्रियोरुपसर्जनस्य" इत्यत्र योगो विभज्यते--"गोरुपसर्जनस्य स्त्रियाः" इति, "लुक् तद्धितलुकि" इति स्त्रिया इत्येव;गोरिति निवृतम्; इतरथा कृतेऽपि प्रत्ययग्रहणे गमेर्डो लुक् स्यात्, "कंसीयपरशब्ययोर्यञञौ लुक् च" इत्यत्र ङ्याप्प्रातिपदिकाधिकारात् कंसीयपरशव्ययोः प्रतिपदिकात्परस्य भागस्य लुग्विज्ञास्यते, न प्रकृतिभागस्य; अन्यथा कृतेऽपि प्रत्ययग्रहणे कमेः सः कंसः, परान् शृणाति परशुरिति उकारसकारयोर्लुक् स्यात्, अतोऽप्रत्ययनिवृत्यर्थ तावत्प्रत्यग्रहणं न कर्तव्यम् । यत्र तर्हि न कश्चिन्निर्दिश्यते--"अत्रिभृगुकुत्सवसिष्ठगोतमाङ्गिरोभ्यश्च" इति, अत्र प्रत्ययप्रतिपत्यर्थं प्रत्ययग्रहणं भविष्यति ? नैवम्; तत्रापि "यस्कादिभ्यो गोत्रे" इत्ययो गोत्रग्रहणानुवृतेरत्र्यादिभ्यो गोत्रे यो विहितस्तस्य लुक्, तथा "जनपदे लुप्" इत्यत्र "ङ्याप्प्रातिपदिकातप्रत्ययः " इत्यनुवृतेः जनपदे विहितस्य चातुरर्थिकप्रत्ययस्यैव लुप् । "लवणाल्लुक्" इत्यदिष्वपि प्रकृतस्य, अतः प्रत्ययस्य प्रतिपत्यर्थमपि न कर्तव्यं भवति । सर्वत्र चात्र्यादिभ्यः प्रतिपदिकाल्लवणादिति पञ्चम्यधिकारेण सन्निहितस्य षष्ठआआ प्रकल्पयिष्यति, सा चानियतयोगत्वात् स्थानषष्ठी भविष्यतीति स्थानषष्ठीप्रतिपत्यर्थमपि प्रत्ययग्रहणं न कर्तव्यं भवति । एवं तर्हि सर्वादेशार्थं प्रत्ययग्रहणम्; असति तस्मिन् "यञञोश्च",शुपो धातु प्रातिपदिकयोः" इत्यादिषु यत्रानेकाल् प्रत्ययः, तत्रालोऽन्त्यस्य स्यात्, "लवणाल्लुक्" इत्यादौ तु आदेः स्यात्; सति तु प्रत्ययग्रहणे तत्सामर्थ्यात् सर्वादेशो लुगादिर्भवति ? ज्ञापकात्सिद्धम्, यदयम् "घोर्लोपो लेटि वा" इति लोपे प्रकृते "लुग्वा दुहदिह" इति लुकं शास्ति,तज्ज्ञापयति--"लुगादयः सर्वादेशाः" इति । "अलोऽन्त्यस्य" ह्यदर्शनं प्रकृतेन लोपेनापि सिद्धम् । विपर्ययस्तु न भवति, "घोर्लोपः" इत्यत्र तावदसंजातविरोधित्वाद् "अलोऽन्त्यस्य" इति प्रवर्तते, पश्चाल्लुग्ग्रहणं तस्यैव सर्वादेशतां गमयति । सामान्येन च ज्ञापकं समर्थयिष्यते--"लोपव्यतिरिक्तमदर्शनं सर्वादेशः" इति । अतः सर्वादेशार्थमपि प्रत्यग्रहणं न कर्तव्यमिति प्रश्नः । इतरोऽपि विदिताभिप्रायः परिहरति । आगस्तयः कुण्डिना इति । असति प्रत्ययग्रहणे आगस्त्यकौण्डिन्ययोरित्यत्र "लुगणिञोः" इत्यतो लुग्ग्रहणमनुवर्तते वा ? न वा ? अनुवृतौ--स्थानिनौ द्वौ, लुका सह त्रय आदेशा इति वैषम्यादसति यथासङ्ख्ये एकैकस्य त्रय आदेशाः पर्यायेण स्युः । ततश्चागस्तयोऽपि कुण्डिनाः स्युः, कुण्डिनाश्चागस्तयः स्युः । लुक् च क्रियमाणो यदि ज्ञापकात्सर्वादेशः, तत उभयत्रापि विभक्तिमात्रश्रवणप्रसङ्गः । अथ निवृतम्--ततोऽगस्तयः, कुण्डिना इत्यत्र न कश्चिद्दोषः । अगस्तीनां छात्रा आगस्तीया इत्यत्र तु प्राग्दीव्यतीयेऽजादौ प्रत्यये विवक्षितेऽप्यगस्त्यादेशस्य नि,एधाभावात् प्रवृताववृद्धत्वाच्छाए न स्यात्; प्रत्ययग्रहणे तु सति लुग्ग्रहणानुवृत्याऽऽगस्त्यकौण्डिन्ययोः प्रत्ययांशस्य लुग्न भवति । परिशिष्टयोर्भागयोर्यथासंख्यमगस्तिकुण्डिनचावित्यर्थः सम्पद्यते; तेनगस्तयः, कुण्डिना इति च सिद्ध्यति । प्राग्दीव्यतीये च विवक्षिते "गोत्रे लुगचि" इति लुकि प्रतिषिद्धे तत्सन्नियोगशिष्टत्वादगस्त्यादेशेऽपि निवृते आगस्त्यशब्दस्य वृद्धत्वाच्छे कृते शूर्यतिष्यागस्त्य" इति यलोपे चगस्तीया इति सिद्ध्यति । कौण्डिन्ये च नास्ति विशेषः, निवृतेऽपि कुण्डिनजादेशे कौण्डिन्यशब्दादपि "कण्वादिभ्यो गोत्रे" इति अणि कृते "आपत्यस्य" इति यलोपे कौण्डिना इत्येव भवितव्यम् । अत आगस्त्यकौण्डिन्ययोरित्यत्रावश्यमनुवर्त्यं लुग्ग्रहणम् । ततश्च पूर्वोक्तदोषपरिहाराय प्रत्ययग्रहणमपि कर्तव्यम् । वयन्तु ब्रूमः-शर्वादेशार्थमपि प्रत्ययग्रहणं सामान्येन ज्ञापकमगतिकगति" इत ॥ प्रत्ययलोपे प्रत्ययलक्षणमिति ॥ १।१।६२ ॥ सूत्रारम्भस्य प्रयोजनमाह--प्रत्ययनिमितमित्यादि । लक्षणशब्दोऽयमस्ति भावसाधनः प्रादुर्भाववचनः, अस्ति च करणसाधनो निमितवचनः । तत्राद्यस्य ग्रहणे प्रत्ययलोपे सति प्रत्ययस्य प्रादुर्भावो भवतीत्यर्थः स्यात् । तत्र लुप्तस्यैव प्रत्ययस्य पुनः प्रादुर्भावविधौ लोपविधिर्व्यर्थः स्यात् । ननु च यः प्रत्यस्यैव लोपः "णेरनिटि" इत्यादि, तस्य वैयर्थ्यं नामास्तु; यस्तु "टेः" इत्यादिना सामान्येन विहितः, स यदा प्रत्ययस्य भवति--भिक्षुमाचष्टे भिक्षयतीति, तदा तस्य पुनः प्रादुर्भावेऽपि न तस्य वैयर्थ्यम्; उप्रत्यये चरितार्थत्वात् । एवं तर्हि लुप्तस्यैव प्रत्ययस्य पुनः प्रादुर्भाव इष्टे, न प्रत्ययस्य लोप इति वक्तव्यम्--सामान्यविहितो लोपः प्रत्ययस्य न भवतीति । अथ प्रत्ययान्तरस्य लुप्तप्रत्ययनिमितकस्य पादुर्भावो विधीयते, यथा--ग्रामणीरिति क्विपो लोपे तन्निमितस्य सोर्विधिः । एवमपि "प्रत्ययलोपे प्रत्यय" इत्येव वक्तव्यम्--प्रत्ययस्य लोपे न तन्निमितकः प्रत्ययो भवतीति । अतो निमितपर्यायेण लक्षणशब्देन बहुव्रीहिः, कार्यं चान्यपदार्थं इत्याह--प्रत्ययहेतुकं कार्यमिति । प्रत्यासतेश्च यः प्रत्ययो यस्य कार्यस्य निमितं तस्य लोपेऽपि तद्भवतीत्यर्थः । पदसंज्ञा भवतीति । ननु च स्थानिवद्भावेनापि सिद्धा पदसंज्ञा, इह तर्हि ता ता पिणाडानामिति-तच्छब्दात्परस्य जसः शिः, "शेश्च्छन्दसि बहुलम्" इति लोपे ङपुंसकस्य झलचः" इति नुम्, "सर्वनामस्थाने" इति दीर्घश्च भवति; अनड्वान्-- सोर्लोपे नुम्भवति; अधोक्--अड्गुणौ भवतः; न्यमार्ट्-मृजेर्वृद्धिः; उन्देर्लङ् इतिलोपे श्नमाटौ भवतः; "श्नान्नलोपः"--औनत्; अग्निचित्-क्विपो लोपे तुग्भवति ? एतान्यपि स्थानिवद्भावेनैव सिद्ध्यन्ति; अल्विधित्वात् । सर्वत्रैवाल्मत्रप्रत्ययः, तदाश्रयो विधिरल्विधिरिति । नैतत्सुष्ठूअच्यते, उक्तं हि कार्यापेक्षमल्विधित्वं नोदाहरणापेक्षमिति । नुमादिविधौ च सर्वत्र शास्त्रे यद्रूपमाश्रीयते--सर्वनामस्थाने सार्वधातुके पिति कृति सुप्तिङ्न्तमिति, साधारणं तदलश्चानलश्च । केवलं ताता पिण्डानामित्याद्यौदाहरणेऽर्थादलात्मकं तदित्येतावत् । इह तर्हि अतृणेट्-"तृहि हिसायाम्", लङ्, तिप्, श्नम्,"इतश्च" इतीकारलोपः, तकारस्य हल्ङ्यादिलोपे हलादौ पिति सार्वधातुके विधीयमानोऽल्विधिः "तृणहैम्" अस्माद्भवति; तथा आशीरित्यत्र "शास ईदङ्हलोः" इतीत्वं लुप्तेऽपि क्विपि भवति । ननु च "वर्णाश्रये नास्ति प्रत्ययलक्षणम्"; नैवंविधं वचनमस्ति । द्वितीयस्य प्रत्ययग्रहणस्य प्रयोजनमिदं पठ।ल्ते - अत्र हि " प्रत्ययलोपे तल्लक्षणम्" इत्येव सिद्धे पुनः प्रत्ययग्रहणाद्यत्र प्रत्ययस्यैवासाधारणं रूपं निमितत्वेनाश्रीयते सुपि सार्वधातुके कृति सुप्तिङ्न्तमिति तदेव यथा स्यात् । तेन गोहितमित्यवादेशो न भवति । न हि "एचोऽयवायावः" इत्यत्र प्रत्ययस्यासाधारणं किञ्चिद्रूपमुपातम्, किन्त्वचीति यदुपातं तद्गवे हितमित्यस्मिन्नुदाहरणे अर्थात्प्रत्ययात्मकमित्येतावत् । इत्वेमागमयोस्तु हलादौ क्ङिति हलादौ पिति सार्वधातुक इति प्रत्यय एव प्राधान्येन निमितम्, हल् तु तद्विशेषणमिति नेमौ वर्णाश्रयौ । तस्मादल्विध्यर्थमिदमारब्धव्यम् । यद्येवम्, भसंज्ञाङीप्ष्फेषु दोषः । भसंज्ञायां तावद्-राज्ञः पुरुषो राजपुरुष इति श्रूयमाणे प्रत्यये यथा संज्ञा भवति, एवं लुप्तेऽपि स्यात् । ततश्च तया पदसंज्ञाया बाधितत्वाद् लनोपो न स्यात् । ननु च द्वे अत्र पदसंज्ञे--स्वादाविति च, सुप्तिङ्न्तमिति च । तत्र या स्वादौ पदमिति पदसंज्ञा, साऽपवादभूतया बाध्यते; या तु शुप्तिङ्न्तम्" इति पदसंज्ञा, सा न बाधनीया, यथा--श्रूयमाणे प्रत्यये "राज्ञः" इति समुदायस्य ? नैतदेवम्; श्रूयमाणे प्रत्यये ततः पूर्वस्य भागस्य भसंज्ञा, समुदायस्य तु विसर्जनीयान्तस्य पदसंज्ञेति युक्तम्-विभिन्नावधिकया भसंज्ञया पदसंज्ञा न बाध्यत इति । लुप्ते तु प्रत्यये यस्यैवावधेः स्वादौ पदमिति पदसंज्ञा,सुबन्तं पदमित्यपि तस्यैवावधेः पदसंज्ञा । तत्रैवावधौ भसंज्ञा भवन्ती यथाऽयवदत्वात् स्वादिलक्षणां पदसंज्ञां बाधते, तथा सुबन्तलक्षणामपि परत्वाद्वाधते । एवं तर्हि ङ लुमताङ्गस्य" इति प्रतिषेधाद् भसंज्ञा न भविष्यति, यचीति सप्तमीनिर्देअषात् । ततः पूर्वस्य भागस्य वस्तुतोऽस्य प्रवर्तमाना भसंज्ञाप्यङ्गकार्यमेव । एवं च बुध्वा ङ ङिसंबुद्ध्योः" इत्यत्र ङै नलोपः प्रतिषिध्यते, यदि प्रत्ययलक्षणेन भसंज्ञा स्याद्, अपवादत्वादेवार्द्रेअ चर्मन्निति नलोपो न भविष्यतीति किं तेन प्रतिषेधेन ? इह तर्हि चित्रायां जाता "चित्रारेवतीरोहिणीभ्यः स्त्रियामुपसंख्यानम्" इत्यणो लुकि "लुक्तद्धितलुकि" इति टापि लुप्ते, चित्र इति स्थिते प्रत्ययलक्षणेनाणन्तत्वात् ङीप् प्राप्नोति, नैष दोषः; "टिड्ढाणञ्" इत्यत्र "अतः" इत्यनुवर्तते, तत्र चाणाकारो विशेष्यते--अणोऽकार इति, ततश्चाकार एव ङीपो निमितम्; अण् तु तद्विशेषणमिति प्रत्ययलक्षणत्वाभावाद् ङीबभावः । इह तर्हि वतण्डस्यात्यं स्त्री "वतण्डाच्च" इत्यञः "लुक् स्त्रियाम्" इति लुकि वतण्डी-शार्ङ्गरवादिलक्षणं ङीनं बाधित्वा "प्राचां ष्फस्तद्धितः सर्वत्र" इति सर्वत्रग्रहणस्य पूर्वत्रापकर्षात्प्राचां मतेन यञन्तलक्षणः ष्फः प्राप्नोति, यथा आवट।लच्चापं वा बाधित्वा ष्फ एव भवतीति ? नैष दोषः; अत्रापि यञाकारो विशेष्यते-यञोऽकार इति, यञवयवो योऽकारस्तदन्तादिति । तेनात्राप्यकार एव निमितम्, तद्विशेषणन्तु यञिति ष्फो न भवति । अयं तर्हि दोषः-परिवीरिति, परिपूर्वाद्ध्येञः क्विपो लोपे यजादित्वात् संप्रसारणे पूर्वत्वे च तुक् प्राप्नोति, "हलः" इति दीर्घश्च; तत्र विप्रतिषेधेन दीर्घ इष्यते, स विप्रतिषेधो न सिद्ध्यति । किङ्कारणम् ? इह प्रत्ययलोपे सर्वाणि प्रत्ययाश्रयाणि कार्याणि पर्यवसन्नानि, तान्यनेन प्रत्युत्थाप्यन्ते, अनेनैव तुक्, अनेनैव दीर्घः-तदेकयोगलक्षणयोरयुक्तो विप्रतिषेधः ? नैष दोषः; अवस्थिते प्रत्यये, तन्निबन्धनं यत्कार्यं भवत्येव तदेवानेन लुप्ते तस्मिन् प्रत्युत्थाप्यते, न तु यस्य प्राप्तिमात्रं तदपि । परिवीयेत्यादौ श्रूयमाणे प्रत्यये दीर्घ एव परत्वाद् भवति, न तुक्; ततश्चात्रापि यदि क्विबेवास्थास्यद्, दीर्घ एवाभविष्यदिति स एवानेन प्रत्युत्थाप्यते । तदेवमारब्धव्यं सूत्रं न कश्चिद्दोष इति स्थितम् । अत्रोच्यते--यदुक्तं "तृणह इम्" हलाश्रय इति; नायं हलाश्रयः, हलीति निवर्तिष्यते । यदि निवर्तते, तृणहानि--अत्रापि प्राप्नोति ? नाभ्यस्तस्याचीत्यतो नाचीत्यनुवर्तते, ततश्चानल्विधित्वात् स्थानिवद्भावेनैव सिद्ध इमागमः । आशीरित्यत्रापि "आसासः क्वावुपसंख्यानम्" इत्यस्माद् वचनात्सिद्धमित्वम् । आरब्धेऽपि खल्वस्मिंस्तदवश्यं वक्तव्यम् । यदि तावत् "शास इदङ्हलोः" इत्यत्र शासिमात्रस्य ग्रहणम्, ततो नियमार्थम् "आशासः क्वावेव यथा स्याद्, आशास्त इत्यादा मा भूत्" इति । अथ यस्माच्छासेरङ् विहितस्तस्य ग्रहणम्, ततो यथाऽऽशास्त इत्यादौ न भवति तथा क्विप्यपि न स्यादिति विध्यर्थमिदम् । इह तर्हि बिदस्यापत्यानि बहूनि "अनुष्यानन्तर्ये बिदादिभ्योऽञ्" बिदाः, बिदानामपत्यं युवा, "अत इञ्", तस्य ण्यक्षत्रियार्षञितः" इति लुकि कृते, अञो गोत्रबहुत्व उत्पन्नस्य लुकि प्राप्ते"गोत्रेऽलुगचि" इति प्रतिषेध इष्यते, सोऽजादाविति लुप्तेऽप्यस्माद्वचनाद्भवति ? एतदपि नास्ति प्रयोजनम्; अचीति विषयसप्तमी, तेन गोत्र इति विवक्षितेऽनुत्पन्न एव लुकि प्रतिषिद्धे पश्चादिञो लुगिति सिद्धमिष्टम् । तदेवमल्विधेः कस्यचिद् दर्शनात् स्थानिवद्भअवेनैव सिद्धमिति नार्थोऽनेन । एवं तर्हि नियमार्तमिदम्-"प्रत्ययलोपे प्रत्ययलक्षणमेव यथा स्यात् प्रत्ययाप्रत्यलक्षणं मा भूत्" इति । एतदुक्तं भवति--यस्मिन्कार्ये विधीयमाने प्रत्ययस्यैवासाधारणं किञ्चिद्रूपं निमितत्वेनाश्रीयते, तदेव प्रत्ययलोपेऽपि भवति, न पुनः प्रत्ययाप्रत्यसाधारणं रूपमाश्रित्य यद्विधीयते तदिति । तेन शोभना दृषदो यस्य सुदृषदिति शोर्मनसी अलोमोषसी" इत्युतरपदाद्यौदातत्वं न भवति । अन्यथा लुप्तेऽपि जसि स्थानिवद्भावेनासन्तमुतरपदमिति स्यात्प्रसङ्गः । प्रत्ययलक्षणं तु न भवति, "अनिनस्मन्ग्रहणान्यर्थवता चानर्थकेन तदन्तविधिं प्रयोजयन्ति" इत्यस्मातस्य ग्रहणात् । वृत्तिकारेण तु " नियमार्थमप्येतत् प्रत्ययलोपे सर्वत्र प्रवर्तते" इति मत्वोक्तं पदसंज्ञा भवतीति । आघ्नयेति । "आङे यमहनः" । संग्मीयेति । शमो गम्यच्छि" इत्यात्मनेपदम्, "इटोऽत्", बहुलं च्छन्दसि" इति शपो लुक्, उभयत्र "गमहन" इत्युपधालोपः ॥ न लुमताङ्गस्य ॥ १।१।६३ ॥ "लुमता" इति लुशब्दो यस्मिन्नस्ति स लुमानुलुगादिः संज्ञाशब्दः । करणे च तृतीया, लोपे च करणत्वम् । "प्रत्ययलोपे" इत्यनुवृतेः लुमता शब्देन प्रत्ययलोपे सति अङ्गस्य प्रत्ययलक्षणं कार्यं न भवति । तत्र च प्रत्यासतेर्लुप्तप्रत्ययापेक्षया येनाङ्गसंज्ञा प्रतिलब्धा तस्य तन्निमितं कार्यं न भवतीस्यर्थः । एतदेव वस्तुतो दर्शयति --लुमता लुप्ते प्रत्यये यदङ्गमिति । तेनोत्क्रामेत्यत्र "अतो हेः" इति लुकि कृते परस्मैपदापेक्षया ययङ्गंशबन्तं न तस्य दीर्घत्वम्, यस्य च दीर्घत्वं न तत्परस्मैपदापेक्षयाङ्गम् । किं तर्हि ? शबपेक्षयेति निषेधाभावात् प्रत्ययलक्षणेन "क्रमः परस्मैपदेषु" इति दीर्घो भवति, तथा "गमेरिट् परस्मैपदेषु" ङ वृद्भ्यश्चतुर्भ्यः" इटो विधिप्रतिप्रेधौ जिगमिष विवृत्सेति परस्मैपदलुक्यपि भवतः । लुमता लुप्ते परस्मैपदे यदङ्गं सनन्तं न तस्येटो विधिनिषेधौ, किं तर्हि ? सकारादेः प्रत्ययस्येति । इदं चान्यदस्मिन् ग्रन्थे दर्शितम्-नाङ्गस्येत्यनेनाङ्गाधिकारः प्रतिनिर्दिश्यते ङ लुमता लुप्ते प्रत्यये आङ्गं भवति" इति, किं तर्हि ? लुमता लुप्ते प्रत्यये यद्ङ्गं तस्याङ्गमनाङ्गं च सर्वं प्रतिषिध्यते इति । तेन गर्गाः, बिदाः-यञञोर्लुक्, उष्ट्रग्रीवः-"इवे प्रतिकृतौ" इति कनः "देवपथादिभ्यश्च" इति लुप्, पन्थाः प्रियोऽस्य पथिप्रियः--शुपोधातु" इति सर्वनामस्थानस्य लुक् । अत्र "ञ्नित्यादिर्नित्यम्","पथिमथोः सर्वनामस्थाने" इति चाद्यौदातस्यानाङ्गस्यापि निषेधो भवति । सप्तमीनिर्द्देशाद्ध्येतद्वस्तुतोऽङ्गस्य कार्यम् । तथाऽहर्ददाति - "रोः सुपि" इति रत्वप्रतिषेधो न भवति । यद्यनाङ्गमपि प्रतिषिध्यते, अवधि भवता दस्युः, आगायि भवता ग्रामः, अध्यगायि भवताऽनुवाकः; लुङ् पिरतोऽङ्गस्य विधीयमाना हनिणिङदेशाः "चिणो लुक्" इति लुङे लुकि न स्युः । न लुङ् हिनिणिङदेशा विधीयन्ते, किं तर्हि ? लुङ् यिदार्धधातुकं तत्र । ततश्च लुङि यदङ्गं चिणन्तं न तस्य हनिणिङदेशाः, यस्य च ते न तल्लुक्यङ्गमिति निषेधाभावः । इह तर्हि "मा हि दातां सर्पिरागच्छेत्" इति सिजामन्त्रितयोर्लुकि सति "आदिः सिचोऽन्यतरस्याम्""आमन्त्रितस्य च" इति आद्यौदातत्वं न स्यात् ? नैतदङ्गस्य चिणन्तं कार्यम्, किं तर्हि ? तदन्तस्य; षष्ठीनिर्देशात् । तेन पयः सामेत्यादौ पदसंज्ञा च भविष्यति । ननु यद्यपि तदन्तस्याद्यौदातत्वम्, पदसंज्ञाऽपि, तथा लुप्ते इदानीं प्रत्यये वस्तुतोऽङ्गस्य प्राप्नुत इति भवितव्यं निषेधेन ? नात्र लुप्ते प्रत्यये यदङ्गस्य प्राप्तं तन्निषिध्यते, किं तर्हि ? अवस्थितेऽपि प्रत्यये यततः पूर्वस्याङ्गस्य कार्यं तन्निषिध्यते । वृक्षा मा हि लाबिष्टामित्यादौ च श्रूयमाणो प्रत्यये तदन्तस्यैव पदसंज्ञा स्वरश्चेति लुप्तेऽपि भविष्यतः । एवं च राज्ञः पुरुष इति श्रूयमाणे ङसि, ततः पूर्वस्य भसंज्ञा न तदन्तस्येति अङ्गकार्यत्वात् लुप्तेऽपि तस्मिन् प्रत्ययलक्षणेन प्राप्ताऽनेन निषिध्यते ॥ इह तर्हि अत्रेरपत्यानि "इतश्चानिञः" इति ठकः "अत्रिभृगु" इति लुकि कृते अत्रय इति तद्धितस्य "कितः" इत्यन्तोदातत्वं स्यात्, तदन्तकार्यत्वात्, नैषदोषा; तद्धितस्यैवान्तोदातत्वम्, न तदन्तस्य । इह तर्हि सर्वः स्तोमो यस्य सर्वस्तोमः-शर्वस्य सुपि" इत्याद्यौदातत्वं न स्यात्, सुपीति सप्तमीनिर्द्देशात् ? कर्तव्योऽत्र यत्नः । यत्नश्च-सर्वस्य सुप इति षष्ठीनिर्द्देशः षष्ठीनिर्दशे तु तदन्तकार्यत्वात् सिच्स्वरवत् सिध्यति । ननु द्वयोरिप पक्षयोः-अभूवन्, प्रत्ययलक्षणेन जुस्प्राप्नोति, "आतः" इति नियमान्न भविष्यति । इह तर्हि देवदतं याजयाञ्चकार--"आमः" इति लुकं बाधित्वा परित्वातिबाधिषु कृतेषु तेषां च लुकि प्रत्ययलक्षणेन तिङ्न्तत्वादामन्तस्य च विधातः, ततः परस्यानिघातश्च प्राप्नोति, लेरित्यनुवृतेर्लावस्थायामेव लुग्भविष्यति । इह च देवदतो युष्मत्पुत्र इति षष्ठन्तस्य विधीयमानौ वांनानौ "द्वितीयास्थायोः इति स्थग्रहणान्न भवतः । षष्ठीचतुर्थीद्वितीयास्ववस्थानं श्रूयमाणस्यैव सम्भवति । इह तर्हि परमवाचा, परमगौदुहा, परमलिहा, परमदण्डिना, परमदिवापरमकुमार्येति समासार्था या विभक्तिः, तामाश्रित्योतरपदस्य पदसंज्ञायां प्राप्तयाम्, "चोः कुः", "दादेर्धातोर्घः","हो ढः ", नलोपः प्रतिपदिकान्तस्य" "दिव उत्","इकोऽसवर्णे शाकल्यस्य ह्रस्वश्च" इति -एते विधयः प्राप्नुवन्ति नैष दोषः; भसंज्ञाविषये तावत्सैव पदसंज्ञां बाधिष्यते । ननु च समुदायस्य पदसंज्ञा स्वादिष्वति प्राप्ता सा तुल्याविधिकया भसंज्ञया बाध्यताम्, या तुतरपदस्य सुबन्तमिति प्राप्त सा कथं बाध्यते, भिन्नावधित्वात् ? एवं तर्हि शुप्तिङ्न्तम्" इत्यतः सुबन्तमित्यनुवर्तनीयम्, ततश्चायमर्थो भवति-"यजादावसर्वनामस्थाने परतः पूर्वस्समुदायो भसंज्ञो भवति । तत्र च समुदाये यत्सुबन्तं वर्तते तदपि भसंज्ञं भवति यजादावनन्तरे" इति । तत्र च समुदायस्य भसंज्ञा प्रधानशिष्टा, अवयवस्य त्वन्वायशिष्टा । यत्र च सुबन्तं पश्यति तत्र तस्यापीति, तेन राज्ञ इत्यादौ सुबन्ताभावेऽपि भवति । सुबन्तसद्भावे तु तस्य समुदायस्य चेति विवेक्तव्यम् । सर्वनामस्थानेऽपि "असर्वनामस्थाने" इति प्रतिषेधात् पदसंज्ञा न भविष्यति । ननु "स्वादिषु" इति या प्राप्तिः समुदायस्य, तस्या एव स प्रतिषेधः, नेत्याह; तत्रापि सुबन्तमित्यनुवर्तते, प्रसज्यप्रतिषेधश्चाश्रीयते, तत्सामर्थ्यात् "अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा" इति नाश्रीयते; ततश्चायमर्थो भवति--शर्वनामस्थाने परतः पूर्वसय् समुदायसंय स्वादिष्विति प्राप्ता पदसंज्ञा न भवति । तत्र च यत्सुबन्तमवयवत्वेन वर्तते, तस्य सुबन्तस्य पदसंज्ञा न भवति" इति । यद्येवम्; सुवाक्, सुराजेति सावपि समुदायस्यावयवस्य च स्वादिष्विति वा सुबन्तमिति वा पदसंज्ञाया अभावात् कुत्वादि न स्यात् । एवं तर्हि "असर्वनामस्थाने" इत्यत्र उतरसूत्राद्यचीत्यपकृष्यते, ततो यजादौ सर्वनामस्थाने या च यावती च पदसंज्ञा, सा सर्वा प्रतिषिध्यते; सौ तु स्वादिष्विति च सुबन्तमिति च भवत्येव । यद्येवम्, श्रूयमाणएऽपि सौ पूर्वस्य पदसंज्ञा प्राप्नोति, तत्र को दोषः ? "एचोऽप्रगृह्यस्य" इत्यत्र पदान्तग्रहणं चोदयिष्यति-भद्रं करोषि गौरित्यत्र मा भूदिति । तत्र क्रियमाणेऽपि पदान्तग्रहणे प्लुतविकारः प्राप्नोति, नैष दोषः; वाक्यपदयोरन्त्यस्येत्येवमेतद्विज्ञायते, तदेवं समासेषूतरपदस्य पदत्वं नास्तीति स्थितम् । यद्येवम्, दधिसेचौ, दधिसेचः शात्पदाद्योः" इति षत्वनिषेधो न प्राप्नोति, नैवं विज्ञायते-पदस्यादिः पदादिः, पदादेर्नेति, कथं तर्हि ? पदादादिः पदादिः, दादेर्नेति । कथमग्निषु, वाक्षु, त्वक्षु ? सात्प्रतिषेधो ज्ञापयतिस्वादौ यत्पदं ततः परस्य नेति । अवश्यं च पदादादिरित्येवं विज्ञेयम्, अन्यथा "गतिकारकोपपदानां कृद्भिः सह समासवचनं प्राक् सुबुत्पतेः" इति यत्र सुबन्तमुतरपदं तत्र प्रतिषेधो न स्यात् । इह तर्हि बहुसेचौ, बहुसेचम्, बहुचोऽपदत्वात्, प्रतिषेधो न प्राप्नोति, वक्तव्यमेवैतत् "बहुच्पूर्वस्य न" इति, तत्रायं सूत्रन्यासः-साते सः षत्वं न भवति, ततो "बहुचः",बहुचः परस्य षत्वं न भवति; आदिग्रहणं न कर्तव्यम्, "आदेः परस्य" इत्येव सिद्धम् । तदिदं बहुज्ग्रहणेन निमातव्यम् । कार्यते, हार्यते इति । ण्यन्तात्कर्मणि लकारः, यक्, णिलोपः । ननु चात्रान्तरङ्गा वृद्धिरुत्पन्नमात्र एव णौ भवति, लोपस्तु यकि भवन् बहिरङ्गः । एवं तर्हि विभज्यान्वाख्यानपक्षे एतत्प्रत्युदाहृतम् ॥ अचोऽन्त्यादि टि ॥ १।१।६४ ॥ अन्ते भवोऽन्त्यः दिगादित्वाद्यत्, अन्त्यादिति बहुव्रीहिः । यद्यप्यचामित्येतदपेक्षोऽन्त्यशब्दस्तथापि सम्बन्धिशब्दत्वेन नित्यसापेक्षत्वादिविरुद्धः समासः निर्धारणे षष्ठीति । यद्येवं निर्द्धारणस्यानेकाश्रयत्वाद् अच इत्येकवचनमुनपपन्नम्, तत्राह-जाताविति । योऽन्त्योऽजिति ।निर्द्धारणस्य सजातीयविषयत्वादजिति लभ्यम् । इच्छब्द इत्यादि रूपोदहरणम् । कार्यं त्वग्निचि तमाचष्टे णिचि "णाविष्ठवत्" इति टिलोपः । पचेते इत्यादि कार्योदाहरणम् ॥ अलोऽन्त्यात्पूर्व उपधा ॥ १।१।६५ ॥ समुदाय एवान्त्यो भवतीत्याह--धात्वादाविति । "अलः" इति जसन्तं चेद् अन्त्यस्याविशेषितत्वात् समुदायादपि पूर्वस्य संज्ञायां शिष्ट इति शकारस्येत्वं स्याद्, असन्देहार्थमलित्येव च ब्रूयाद्; अतोऽन्त्यादित्यानया समानाधिकरणा पञ्चमीत्याह--अन्त्यादल इति । यद्येवम्, पूर्वस्याविशेषितत्वात् समुदायस्यापि संज्ञायां शिष्ट इति " शा" इति समुदायस्येत्वं प्राप्नोति, "अलोऽत्यस्य" इत्यन्त्यस्य भविष्यति । ङानर्थकेऽलोन्त्यविधिरनभ्यासविकारेषु", तत्र यथा-आभ्यामित्यत्र "हलि लोपः" इद्रूपस्य विधीयमानो लोपोऽन्त्यस्य न भवति, तथात्रापि न स्याद्; अतोऽलोऽन्त्यात्पूर्वोऽलिति आह-अलेवेति । एवकारः पौनर्वचनिकः, यथान्त्योऽल्, एवं पूर्वोऽप्यलेवेति । कथं पुनर्द्धितीयसल्ग्रहणमन्तरेणायमर्थो लभ्यते ? लोकतः । लोके ह्यमीषां ब्राह्मणानामन्त्यात्पूर्व आनयतामित्युक्ते एक एवान्त्यात्पूर्वोऽनन्तर आनीयते, न समुदायः । संयोगोपधग्रहणं कृञर्थमित्यत्रावयवधर्मेण समुदायस्य संयोगस्योपधाव्यपदेशः । अकार इत्यादीनि रूपोदाहरणानि । कार्यं तु पाचक इत्यादौ "अत उपधायाः" इति वृद्धिः । भेदक इत्यादौ "पुनगन्तलघूपधस्य च" इति गुणः । शिष्ट इति । शासेर्निष्ठा, "शास इदङ्हलोः" इतीत्वम्, "शासिवसिघसीनां च" इति षत्वम् ॥ तस्मिन्निति निर्दिष्टे पूर्वस्य ॥ १।१।६६ ॥ इतिकरणस्य गौरित्ययमाहेत्यादौ स्वरूपपदार्थकत्वेन व्यवस्थापकत्वादर्शनात् "तस्मिन्नणि च" इत्यत्रोपातस्यैदमनुकरणम्, ततश्च तत्रैवास्य प्रवृत्तिः स्याद् । अस्ति च तत्र व्यवच्छेद्यं हे यौष्माकीणमस्मभ्यं देहि, आस्माकीनं युष्मभ्यं ददामीति परनिवृत्तिः, तामिनां भ्रान्तिमपाकरोति--तस्मिन्निति सप्तम्यर्थनिर्देश इति । एतेन "तस्यापत्यम्" "तत्र भवः" इत्यादिवत् स्वतन्त्रस्य सर्वनाम्नोऽयं निर्देशः, तद्वदेव तस्मिन्निति सामान्यविशेषणमचि, हलीत्यादीनामुपलक्षणम्; न त्वनुकरणमिति दर्शयति । एतच्चेतिकरणाल्लभ्यते । स हि पदार्थविपर्यासकृत् । शास्त्रे च स्वारुपपादर्थः, तस्य विपर्यासोऽर्थपदार्थकता । यदि च "तस्मिन्नणि च" इत्यत्रैवैतदुपास्थास्यत तत्रैव पूर्वग्रहणमकरिष्यतेति भावः । किमर्थं पुनरिदमारभ्यते ? "इको यणचि" इत्यादौ सन्देहः-किं सत्सप्तमी ? किं वा गङ्गायां घोष इति वदौपश्लेषिकाधिकरणे सप्तमी ? इति । तत्र सत्वं परस्य च पूर्वस्य च सम्भवति, एवमुपश्लेषोऽपि । तत्र पूर्वस्य परस्य च व्यवहितानन्तरस्य यण् प्राप्तः, दध्युदकादिषु तु युगपदेकस्य कार्यित्वनिमितत्वायोगात्पर्यायेण यण् प्राप्तः; इष्यते च पूर्वस्यैव स्यादनन्तरस्यैवेति, तत्र निमार्थमिदम्--सप्तमीनिर्देशे पूर्वस्य भवति अनन्तरस्यैवेति । "इको यणचि" इत्यादेश्च सकृत्प्रवृत्तिः, सा चेवं विशोषितेति न क्वाप्यनिष्टशङ्का । तत्राद्यं नियमं दर्शयति-पूर्वस्यैवेति । व्यावत्यं दर्शयति-नोतरस्येति । पचत्योदनमिति । यद्यप्यत्रानियमप्रसङ्गो नास्ति, तथापि "इको यणचि" इत्यस्मिन्सूत्रेऽनियमप्रसङ्गे नियमः क्रियत इत्येतदपि भवत्येवोदाहरणम् । द्वितीयं नियमं दर्शयति-निर्दिष्टग्रहणमिति । दिशिरुच्चारणक्रियः, निःशब्दो नैरन्तर्ये, निरन्तरं दिष्टो निर्दिष्ट इत्येवमानन्तर्यमर्थो भवति, तत्रैवं वचनव्यक्तिः-अचि हलीत्यादौ पूर्वस्यैव कार्यं भवति, तत्र निर्दिष्टे उ निरन्तर एवोच्चारित इति तत्रार्थात्पूर्वस्यानन्तरस्येत्यर्थो भवति । तदाह-व्यवहितस्य मा भूदिति । अन्यथा व्यवहिते मा भूदिति वक्तव्यम्; पूर्वपदस्य व्यवहितेऽपि वृतेस्तस्य प्रसङ्गात् ॥ तस्मादित्युतरस्य ॥ १।१।६७ ॥ निर्दिष्टग्रहथणमनुवर्तत इति । तेनात्रापि व्यवहिते कार्यं न भवतीति भावः । अत्रापि इतिपरत्वादनुकरणमिति कस्याचिद् भ्रान्ति स्यात्; "तस्मान्नुड् द्विहलः" इत्यत्र "अत आदेः" इति दीर्घत्पूर्वस्याङ्गस्यासम्भवात् प्रयोजनाभावात् यद्यपि तस्यानुकरणं न भवति; "तस्माच्छसो नः पुंसि" "तस्मान्नु डचि" इत्यत्र तु व्यवच्छेद्यमस्ति, उच्चारितोऽनुपलभ्यते, गौरनश्व इति पूर्वस्य मा भूदिति, अतस्तयोरेवेदमनुकरणमिति तामिमा भ्रान्तिपाकरोति-तस्मादिति पञ्चम्यर्थनिर्देश इति । एतेन पूर्वससूत्रवत् स्वतन्त्रस्य सर्वनाम्नोऽयं निर्देशः । तद्वदेव च तस्मादिति सामान्यमतिङ् इत्यादीनां विशेषाणामुपलक्षणम्, न त्वनुकरणमिति दर्शयति । एतच्छेतिकरणाल्लभ्यत इत्युक्तम् । किमर्थंम पुनरिदमारभ्यते ? "तिङ्ङतिङः" इत्यादौ कारकविभाक्तेरसम्भावद्दिग्योगलक्षणा पञ्चमीति, दिक्च्छब्दस्त्वध्याहार्यः; तत्र पूर्वोतरशब्दयोरध्याहारः सम्भवतीति नियमार्था परिभाषेयम् । तदाह--उतरस्यैव कार्यमिति । तदेवं पूर्वस्य चास्य च वृत्तिकारेण नियमार्थत्वं दर्शितम् । षष्ठीप्रक्लृप्तिपक्षोऽपि भाष्ये प्रदर्शितः । कथम् ? "षष्ठी" इति वर्तते, सप्तम्यर्थनिर्देशे पूर्वस्यानन्तरस्य षष्ठी । पञ्चम्यर्थनिर्देशे, उतरस्यानन्तरस्य षष्ठीति; तत्र "इको यणचि" इत्यादौ यत्र पूर्वमेव षष्ठी विद्यते तत्र पूर्वस्यानन्तरस्य, नोतरस्यानन्तरस्य सा षष्ठीत्युच्यते । "आने मुक्" "ईदासः" इत्यादौ तु यत्र षष्ठी नास्ति, तत्र षठ।ल्पि प्रकल्प्यते सा चानियतयोगत्वात् स्थानषष्ठी भवति । यस्य च स्थानषष्ठी स्यैव कार्यमिति सर्वत्र कार्यनियमोऽपि सिध्यति । यत्र तूभयनिर्देश स्तत्र याऽनवकाशा सा इतरस्याः षष्ठआआ प्रकल्पयति, यथा-"आने मुक्" इति सप्तमी ङिरवकाशा "अतो येयः" इति पञ्चम्याः पूर्वसूत्रे सावकाशायाः । एवम् " ई दासः" इति पञ्चमी "आने मुक्" थैति सप्तम्याः,उभयोस्त्वनवकाशयोः परत्वात्पञ्चमी सप्तम्याः षष्ठी प्रकल्पयति, यथा-"आमि सर्वनाम्नः सुट्" इति सर्वनाम्न इति पञ्चम्यनवकाशामीति सप्तम्या अनवकाशायाः । अथ सप्तम्युतरार्था तथाप्यादित्यनुवृतया पञ्चम्या समानाधिकरणा शर्वानाम्नः" इति पञ्चम्यपि सावकाशा षष्ठआआ प्रकल्पयति । एवं नियमपक्षेऽपि परत्वानवकाशत्वाभ्यां व्यवस्थां द्रष्टव्य । "दीर्घाच्छे तुग्भवति" इत्यत्र षष्ठयाः स्थाने पञ्चमीव्याख्यानाद् दीर्घस्यैव तुक् भवति, न तु च्छस्य; तथा च शुराच्छाया" इति निर्देश उपपद्यते ॥ स्वं रूपं शब्दस्याश्बदसंज्ञा ॥ १।१।६८ ॥ स्वरूपस्य पर्यायाणां च ग्रहणे प्राप्ते नियमार्था परिभाषेयम् । शास्त्राङ्गत्वाच्च परिभाषाणां शास्त्र एव नियमः, न लोक इत्याह--शास्त्रे स्वमेवेत्यादि, ग्राह्यमिति । "ग्राह्मम्" इति णिजन्ताद् यत्, एतच्चाध्याहारेण लब्धम् । शब्दस्येति "कृत्यानां कर्तरि वा" इति षष्ठी, शब्दः स्वमेव रूपं ग्राहयति बोधयतीत्यर्थः । संज्ञापक्षे तु वृतावेव शब्दः संज्ञानुच्चारणं च नोपपद्येत । सूत्रे षष्ठीनिर्देशोऽपि नातीव युक्तः स्यात्; संज्ञासंज्ञिसम्बन्धे प्रायेण सामानाधिकरण्यदर्शनात् । रूपशब्देन चेहाग्निशब्दत्वादिकं शुकसारिकापुरुषादिभिरुदीरिता सुभिन्नासु शब्दव्यक्तिषु समवेतं सामान्यमिभिधीयते । "अग्नेर्ढक्" इति सूत्रकारेण या व्यक्तिरुच्चारिता, तस्याः सर्वोच्चारणेष्वनुगतं सामान्यं वाच्यमित्यर्थः । सामान्यस्य कार्ययोगो व्यक्तिद्वारक इति तेन तेनोच्चारिताया स्तस्यास्तस्या व्यक्तेर्ढग् भवतीत्यर्थः सम्पद्यते । एवकारस्य व्यच्छेद्यं दर्शयति--न बाह्यएऽर्थ इति । शब्दसंज्ञां वर्जयित्वेति । शब्दसंज्ञासु स्वरूपं ग्राह्यं नभवतीत्यर्थः । अनियमप्रसङ्गे नियमः कर्तव्यस्तं दर्शयति-शब्देनेत्यादि । लोके गौरुपलभ्यतामित्युक्तेऽर्थ एव कार्ययोगो गम्यते, न हि शब्दरूमुपलभ्य कृती भवति; व्याकरणे तु प्रत्ययविधानादिकार्यमर्थे न सम्भवति, तेन सह पौर्वापर्यायोगात् । तेन "अग्नेर्ढक्" इत्युक्ते लोकवदर्थ एव तावत्प्रतीयते, तत्र सम्भवो नास्ति; अतस्तद्वाचिनां सर्वेषां सम्प्रत्ययः स्याद्, यथा-आकृतियोदनायां व्यक्तीनाम्, मा भूदेष दोषः; उपातादेव यथा स्यादिति नियमार्थमिदमारभ्यत इत्यर्थः । औदश्वित्कमिति । उदश्विति संस्कृतमिति सप्तमीसमर्थाट्टक्, "इसुसुक्तान्तात्कः" । घुग्रहणेष्वित्यादि । अन्यथा "उपसर्गे घोः किः" इति किप्रत्ययो धातोरेव घोः शब्दार्थत्स्यात्, न तु दाधाभ्यः । "ई हल्यघोः" इत्यत्र तु घुशब्दस्यानाकारान्तत्वाद्दाधानामेव ग्रहणं सिध्यति । कुमारीघ इत्यत्र "घरूप" इति ह्रस्वप्रसङ्गः । ननु च प्रदेशेषु संज्ञिसम्प्रत्यायनार्थं संज्ञाकरणमिति सामर्थ्यात् स्वरूपग्रहणं न भविष्यति, नैतदस्ति; उभयगतिरिह शास्त्रे सम्भवतीति सङ्ख्याकर्मकरणादिष्विव स्वरूपस्य संज्ञिनश्च प्रदेशेषु ग्रहणं स्यात् । ज्ञापकात्सिद्धम्; यदयं "ष्णान्ता षट्" इति षकारान्तायाः सङ्ख्यायाः षट्संज्ञां विदधाति, तज्ज्ञापयति-संज्ञाशब्दो न स्वरूपग्राहक इति । अन्यथा "षड्भ्यो लुक्""षट्चतुर्भ्यश्च" इत्यादौ स्वरूपस्यापि षडित्यस्य ग्रहणात् षकारान्तायाः सङ्ख्यायाः षट्संज्ञां न विदध्यात् । ननु च षकारान्ता संज्ञा षकारान्तस्य कार्यमिष्यते, संज्ञापि षकारान्तैव; अतो नार्थोऽशब्दसंज्ञेत्यनेन ? सत्यम्; प्रतिपतिगौरवपरिहारार्थः प्रतिषेधः । शब्दशब्देन चाभेदीपचारात् व्याकरणमुच्यते, शब्दे संज्ञा शब्दसंज्ञा; एवं च कर्मकरणमित्यादिष्वर्थसंज्ञास्वपि शास्त्रीयासु स्वरूपग्रहणं न भवति । अथ रूपग्रहणं किमर्थम्, इह यावता प्रतीतावुपदेशानपेक्षत्वादसाधारणत्वान्नित्यसम्बन्धित्वाच्च तदेव शब्दस्य स्वार्थो हि स्वप्रतीतौ सम्बन्धग्रहणमपेक्षते, पर्यायैरपि प्रत्यायनात्साधारणश्चानित्यसंबन्धश्चानुकरणदशायामभावात्, न चार्थो ग्राहकः शक्यते कर्तुम्, ग्राह्यत्वे च सूत्रमनर्थकं स्यादिति नार्थो रूपग्रहणेन ? एवं तर्ह्योतज् ज्ञापयति--शास्त्रे स्वरूपेण समानकक्ष्योऽर्थः" इति । तेनार्थवद्ग्रहणेनानर्थकस्येत्युपपन्नं भवति । तत्र ज्ञापकादर्थोऽपि ग्राह्यः; स्वं रूपमिति वचनाद् । रूपं चेति सामर्थ्यादर्थवतो रूपस्य ग्रहणम् । तेन काशे कुशे इत्यत्र "शे" प्रगृह्यसंज्ञाभावः सिद्धः । सितद्विशेषाणामिति वार्तिकं व्याचष्टे-सिन्निर्देशः कर्तव्य इति । वृक्षस् इत्येवम् । ततो वक्तव्यमिति । स्वं रूपमित्यस्यानन्तरम् । ननु किं प्रयोजनमित्युक्ते वृक्षादीतिवक्तव्यम्, किमुच्यते-वृक्षाद्यर्थमिति ? वृक्षादिषु प्रयोजनमस्येत्युक्ते वृक्षाद्यस्य प्रयोजनमित्यर्थादुक्तं भवतीत्यदोषः । अस्यार्थस्य न्यायतः सिद्धिं विभाषेत्यत्र वक्ष्यामः । पित्पर्यायवचनस्य चेति । चकारात्स्वस्वरूवस्य विशेषाणां च । इदं वाचनिकमेव । जित्पर्यायस्येत्यास्यापि न्यायतः सिद्धिं वक्ष्यामः । झितस्य चेति । इदं वाचनिकमेव । मृगपक्षिणस्तु पिन्निर्देशः कर्तव्य इत्याहुः । अथैकस्येति । इयमिष्टिरेव ॥ अणुदित्सवर्णस्य चाप्रत्ययः ॥ १।१।६९ ॥ संज्ञासूत्रमेतत् न परिभाषा; प्रसिद्धार्थविनियोगात् । परेण णकारेणेति । एतच्च "लण्" इत्यत्र प्रतिपादितम् । स्वस्य च रूपस्येति यद्यपि प्रथमान्तं प्रकृतम्, तथापि सवर्णस्य चेति षष्ठ।ल्न्तस्यानन्तरं श्रूयमाणश्चशब्दोऽन्यस्य षष्ठन्तस्याभावात् तस्यैव षष्ठ।ल्न्ततां प्रकल्पयतीति भावः । प्रत्ययं वर्जयित्वेति । तेन तत्रोच्चारितमेव रूपं गृह्यते । "आद् गुणः" इत्यादि । यथेह भवति देवेन्द्र इति, एवं खट्वेन्द्र इत्यादावपि भवति । अस्य च्वो । यथेह भवति शुक्लीभवतीति, एवं मालीभवतीत्यादावपि भवति । यस्येति च । यथेह भवति दाक्षिः प्लाक्षिरिति, एवं चौडिर्बालाकिरित्यादावपि भवति । जूडाबलाकाशब्दौ बाह्वादी । ननु च "अकः" "अचि" इत्यादौ प्रत्याहारग्रहणे कथं मध्यवर्तिरिकारादिभिस्सवर्णग्रहणम्, उच्चारितो हि संज्ञाशब्दः संज्ञिनं प्रत्याययति, न च मध्यवर्तिनामुच्चारणमस्ति । ते ह्यगादिसंज्ञाभिः संज्ञित्वेन प्रत्याय्यन्ते, क्व तर्हि स्यात् ? "अस्य च्वौ" "यस्येति" यत्र संज्ञाया उच्चारणमस्ति । प्रत्याहारे चाद्यो वर्ण उच्चारितत्वात्सवर्णग्रहाहकः । स्यादेतत्-अक्षरसमाम्नाय उच्चारिता इकारादयः सवर्णानां ग्राहका इति । अगादिचोदनासु ईकारादयोऽपि ह्रस्ववत्संज्ञित्वेनैव प्रतीयन्ते त्विकारादिभिः प्रतीतैः प्रत्याय्यन्त इति, न; अपरकालत्वात् । इह वर्णानामुपदेशस्तावद्, उपदेशोतरकाला इत्संज्ञा, इत्संज्ञोतरकालमादिरन्त्येनैतत्प्रवर्तते, ततोऽण् सवर्णस्येति । तदनेनोपदेशादिष्वङ्गेषु निष्पन्नेषु अन्यत्र "अस्य च्वौ" इत्यादौ सवर्णानां ग्रहणं भवति, नाङ्गेषु, नापि स्वात्मनि; अनिष्पन्नत्वात् । यदि त्वस्मिन्नपि सूत्रे सवर्णग्रहणं स्यात्,"आदृगमहनः","आञ्दोरप्" इत्यादौ अकारादयोऽपि सवर्णान् गृह्णीयुः । अतोऽस्मिन् सूत्रेऽक्षरसमाम्नोये चागृहीतसवर्णानां ग्रहणम् । ततश्च तदेव स्थितम् प्रत्याहारेषु मध्यवर्तिभिः सवर्णग्रहणं न स्यादिति, नैष दोषः; उच्चार्यमाणैरेव प्रत्यायकैर्भवितव्यमिति नास्ति नियमः, बुद्ध्युपारूढास्तु प्रत्यायकाः । अस्ति च मध्यवर्तिनां बुद्ध्युपारोहः, ततश्च संज्ञित्वेन प्रत्याय्यमानस्यापि प्रत्यायकत्वं भविष्यति । अत्र ज्ञापकम्--"दीर्घाज्जासि च" इति प्रतिषेधः । स हि कुमार्यावित्यादौ "प्रथमयोः पूर्वसवर्णः" इति दीर्घो मा भूदिति । तत्र चाक इति वर्तते । खट्वे इत्यादौ तु ङादिचि" इत्येव सिद्धः प्रतिषेधः । "दीधीवेवीटाम्""ल्वादिभ्यः" इत्यादयश्च निर्द्देशा एवमेवोपपद्यन्ते,यदि मध्यवर्तिभिरपि सवर्णग्रहणं भवति । स्वरानुनासिकेत्यादिरुदातः सूत्रे गृहीतः स्वरान्तरभिन्नमपि गृह्णाति, एवमनुदातस्वरितौ च । तथा सानुनासिको निरनुनासिकम्, सोऽपि तम् । दीर्घो न भवतीति । असति त्वप्रत्यय इत्यस्मिन् प्रत्ययेनापि सवर्णग्रहणात् दीर्घोऽपि स्यात् । अत्यल्पमिदमुच्यते-"अप्रत्ययः" इति, "अप्रत्ययादेशटित्किंन्मित इति वक्तव्यम्" । प्रत्यये प्रत्युदाहृतं तत्र । आदेशे-"इदम् इश्",इतः; इह विशेष विहितत्वात्त्यदाद्यत्वं बाधित्वा त्रिमात्रिक आदेशः प्राप्नोति । टिति--"आर्द्धधातु कस्येड् वलादेः", पठितेति दीर्घोऽपि स्यात् । "ग्रहोऽलिटि दीर्घः" इत्येततु ग्रहेर्दीर्घ एव, न ह्रस्व इति नियमार्थं स्यात् । "वृतो वा" इत्येतदपि ववरिथेति लिटि दीर्घो मा भूदित्येवमर्थं स्यात् । किति-"भुवो वुग्लुङ्लिटोः" बभूव, अनुनासिकोऽपि स्यात् । मिति-"अम् सम्बुद्धो" हे अनड्वन्, आमपि स्यात्, एवं तर्ह्यप्रत्यय इति नेह संज्ञाग्रहणम्, किं तर्हि ? अन्वर्थग्रहणम्-प्रतीयते विधीयत इति प्रत्ययः, भाव्यमानः सवर्णान्न गृह्णातीत्यर्थः । इशादयोपि भाव्यन्ते । संज्ञाप्रत्ययस्य तु नावश्यकः प्रतिषेधः । येनार्थम्प्रतियन्ति स प्रत्ययः, न हि दीर्घप्लुतयोरर्थस्याभिधानमस्ति । "कुहोः श्चुः" इत्यादौ भाव्यमानस्याप्युदित्वासामर्थ्यादप्रत्यय इति निषेधाभावः । तथा च पठ।ल्ते-"भाव्यमानोऽण् सवर्णान्न गृह्णाति" इति ॥ तपरस्तत्कालस्य ॥ १।१।७० ॥ तः परो यस्मादिति बहुव्रीहिं दर्शयति । तादपि परस्तपर इति पञ्चमीतत्पुरुषम् ॥ स पुनरस्मादेव निपातनाद्वेदितव्यः । एकस्यापि तपरशब्दस्य तन्त्रावृत्योरन्यतराश्रयणादर्थभेदो न विरुद्धः । तत्र बहुव्रीहेर्लिङ्गम्--"अतो भिस ऐस्" इति तपरकरणम् । तत्पुरुषस्य लिङ्गम्-वृद्धिरादैच्" इत्यैजर्थं हि तदित्युक्तम् । तपरो वर्ण इति । वर्णस्यैव सवर्णंसम्भवाद्वर्ण इत्युक्तम् । तत्कालस्येति बहुव्रीहिः-स कालोऽस्येति । अयुक्तोऽयं निर्देशः । तदित्यनेन तपरो वर्णः परामृश्यते, प्रसिद्धपरिमाणा च क्रिया प्रसिद्धपरिमाणस्य क्रियान्तरस्य परिच्छेदिका । कालो यथा--दिवसमधीत इति, दिवसशब्देनोदयादिरस्तमयान्त आदित्यगतिप्रबन्ध उच्यते । स चाध्ययनस्य परिच्छेदकत्वात् कालः; वर्णस्तु क्रियात्मको न भवतीत्ययुक्तं वर्णवाचिनस्तच्छब्दस्य कालशब्देन सामानाधिकरण्यम् ? एवं तर्ह्युतरपदलोपी समासो द्रष्टव्यः, उष्ट्रमुखवत् । गम्यमानार्थत्वाच्च प्रयोग एव लोपः, यथा-उष्ट्रो मुखमस्येत्येव विग्रहः । न च प्रणी प्रण्यन्तरस्य मुखमिति सामर्थ्यात् सादृश्यप्रतीतिः । उष्ट्र इव मुखमस्येति मुखेनैव मुखस्य सादडश्यं प्रसिद्धम्, न कृत्स्नेनोष्ट्रेणेति सामर्थ्यादयमर्थो भवति-उष्ट्रमुखमिव मुखमस्येति । एवमिहापि वर्णः कालो न भवतीति सामर्थ्यातदीया क्रियान्तरेण निमेषादिना परिच्छिन्ना सती वर्णान्तरस्य परिच्छेदिकेति वर्ण एव परिच्छेदक इत्युच्यते । स कालोऽस्येत्यस्य कोऽर्थः ? तत्कालसंबन्धिनी क्रिया परिच्छेदिका अस्येत्यर्थः । एतदेव दर्शयति--आत्मनेत्यादिना ॥ तपरवर्णसन्नधावुच्चारितोऽप्ययमात्मशब्दस्तत्सहचरितायामुच्चारणक्रियायां वर्तते, वर्णेन क्रियायास्तुल्यत्वानुपपतेः । यादृशी तपरस्य वर्णस्योच्चारणक्रिया निमेषादिपरिच्छिन्ना, तादृश्युच्चारणक्रियाऽस्येत्यर्थः । गुणान्तरयुक्तस्येति । यद्ग्रणक उपातस्ततो गुणान्तरयुक्तस्येत्यर्थः । किं पुनरिदं नियमार्थम् ? अहोस्विद्विध्यर्थम् ? तत्राणित्यनुवृतौ नियमार्थम्-तपरो वर्णस्तत्कालस्यैवेति । निवृतौ विध्यर्थम् । तत्राद्ये पक्षे "आतो धातोः", "आतां पुङ्णौ" "यस्येति च" "विड्वनोरनुवासिकस्यात्" इत्यादौ "भेदका गुणाः" "इत्यस्मिन् दर्शने यद्ग्रणक उपातस्ततो गुणान्तरयुक्तस्य ग्रहणं न स्यादिति द्वितीयं पक्षमाश्रित्याह-विध्यर्थमिति । अत्र हेतुमाह-अणिति नानुवर्तत इति । यदि विध्यर्थमिदम्, ततोऽस्यानण्सु चरितार्थत्वादण्सु पूर्वमेव प्रवर्तेत, तत्राह-अणामन्येषांचेति । एतदेव विशदयति-अतो भिस ऐसित्येवमादिष्विति । न प्रवर्तत एवेति । परेणानेन बाधितत्वादिति भावः । विरोधो ह्यत्र वर्तते-पूर्वसूत्रेण ह्यष्टादशानां ग्रहणम्, अनेन तु षण्णामिति । किमुदाहरणमिति । अभेदकत्वात् गुणानामनण्सु सिद्धमिति प्रश्नः, अण्सु भिन्नकालनिवृत्यर्थं तावदारब्धव्यं सूत्रम् । तदेवानण्स्वपि विधिमुखेन प्रवर्तमानमिष्ट्ंअ साधयतीत्युतरम् । विड्वनोरनुनासिकस्यादिति । कस्य पुनरत्र सवर्णस्य ग्रहणमिष्यत इति चिन्त्यम् । तस्मादुपलक्षणमेतत् । "आतो धातोः" "यस्येति च" इत्यादावेव प्रयोजनम् । तत्कालस्येति किमिति । प्रधानावयवद्वारेण सूत्रमेवाक्षिप्यते । खट्वामिरिति । वर्णाश्रयविधावन्तादिवद्भावो न भवति ॥ आदिरन्त्येन सहेता ॥ १।१।७१ ॥ इदमपि संज्ञासूत्रम्, आद्यन्तयोर्मध्यापेक्षत्वान्मध्यवर्तिनां संज्ञित्वं विज्ञायते, श्वं रूपम्" इत्यनुवृतेः स्वरूपस्य चेत्याह-मध्यवर्तिनामिति । यद्यप्याद्यन्ताववयवा अवयविनः समुदायरूपस्य सम्बन्धिनौ तथापि तस्य युगपल्लक्ष्ये प्रयोगाभावात्समुदायिनां संज्ञेति दर्शयति-वर्णानामिति । स्वस्य च रूपस्येति । स्वरूपमादेरेव गृह्यन्ते, नान्त्यस्य; अप्राधान्यादिति दध्यत्रेति केवल एव यकारः प्रवर्तते, न णकारेण सहितः । सहग्रहणादाद्यन्तौ समुदितौ संज्ञेति समुदायादेव विभक्तिर्भवति "इको यण्" इति, नादिमात्रात् । टा इत्यनेन ग्रहणं मा भूदिति । तावतोऽवधेरविवक्षितत्वान्नायमन्त्यः "टाङसिङसामिनात्स्यः" "द्वितीयाटौस्वेनः" इति तृतीयैकवचनस्यासौ विशेषणार्थः ॥ येन विधिस्तदन्तस्य ॥ १।१।७२ ॥ स्वरूपविधिपरिहारायायमारम्भः । इदमपि संज्ञासूत्रम् । येनेति करणे तृतीया । विधीयत इति विधिः, कर्मसाधनः किप्रत्ययः । विधिर्विधीयत इति । वधिशब्देन विधानयोग्यं वस्त्वभिधीयते, तस्य सांप्रतिकक्रियाविशेषद्योतनायाख्यातप्रयोगः । आसने आस्ते, करणेन करोतीतिवत् । तदन्तस्येसि बहुव्रीहिः । तदित्यनेन येनेति निर्दिष्टः शब्दो निर्दिश्यते, तदाह--आत्मान्तस्येति । अन्तशब्दस्यावयववाचित्वातदाक्षिप्तस्य समुदायस्येयंसंज्ञेत्याह --समुदायस्य संज्ञा भवतीति । अवश्यलाव्यमिति । मयूरव्यंसकादित्वात्समासः, "लुम्पेदवश्यमः कृत्ये" इति मलोपः । अथेह कस्मादेजन्तस्य संज्ञा न भवति "एचोऽयवायावः" इति, किं स्यात् ? अनेकाल्त्वादयादयः सर्वादेशाः स्युः; ततश्च चयनलवनादिष्वयनमिति प्राप्नोति, प्रकरणादिवशाच्चाक्षादिवदर्थविशेषावगतिः स्यात्, नैष दोषः; "निर्दिश्यमानस्यादेशा भवन्ति" इत्येवं भविष्यन्ति । अथ वा-यथा एचा तदन्तविधिः, एवमयादिभिरपि भविष्यति । एवमपि"आद् गुणः" इत्यत्र आदित्यवर्णान्तो गृह्यते, अचीति चाजादेरिति खट्वेन्द्र इत्यादाववर्णान्तस्य समुदायस्याजादेश्च गुणप्रसङ्गः । षष्ठ।ल्निर्देशान्निर्दिश्यमानस्येत्यपि नास्ति । एवं तर्हि नैवंविधोऽस्य विषयः । येनेति करणे तृतीयेत्युक्तम्, करणं च परतन्त्रम्; कर्त्रधिष्ठितस्यैव करणत्वात् । न च "एरच्" इत्यादाविकारादीनां पारतन्त्र्यम्, धात्वादीनां च स्वातन्त्र्यं स्वरूपतोऽवभासते । वा स्यादिति । वृक्षादीनामतो विवक्षानिबन्धनं तदुभयमिति । विशेषणत्वेन विवक्षितं परतन्त्रमप्रधानम्, विशेष्यत्वेन विवक्षितं स्वतन्त्रं प्रधानम् । तेन विशेषणं विषेष्यस्य तदन्तस्य संज्ञेत्युक्तं सम्भवति । विशेष्यसन्निधौ च विशेषणं भवति, सन्निधिश्च कुत्रचित्साक्षान्निर्देशेन, यथा-"ईदूदेद्द्विवचनम्" इति द्विवचनस्य । क्वचिदधिकारद्यथा-"एरच्" इति धातोः । क्वचिदाक्षेपाद्, यथा-"इको झल्" इति सना धातोः । "एचोऽयवायावः" इत्यादौ न कथंचिद्विशेष्यसंनिधिरिति नैतत्प्रवर्तते । यदि विशेषणं तदन्तस्य संज्ञा, ततः "उदोष्ठ।ल्पूर्वस्य" इत्यत्र ऋकारस्तदन्तस्य धातोः संज्ञेति ओष्ठ।ल्पूर्वग्रहणं धातोरेव विशेषणं स्याद्, न ञकारस्य; संज्ञायाः संज्ञिप्रत्ययनार्थत्वात् । ततश्चेह स्यात्-सङ्कीर्णमिति; पूर्तमित्यादौ च न स्यात् । एवम् "उतश्च प्रत्ययादसंयोगपूर्वाद् " इत्यत्रासंयोगपूर्वग्रहणमङ्गस्य विशेषणं स्यात्, नोतः, नैष दोषः; इयं हि संज्ञा गुणप्रधानभावापेक्षा ततश्च "उतश्च प्रत्ययाद्" इत्यादौ विशेषणसम्बन्धवेलायां गुणभावास्फुरणातमनुभूय पश्चात् विशेष्येण सम्बन्धे संज्ञा भवति । समासेति । अनेनैतदाह-श्रितादयो पश्चात् विशेष्यास्तद्विशेषणं च सुप् । एवं ङडादिभ्यः फक्" इत्यादौ नडादिविशेष्यं प्रातिपदिकं विशेषणमिति । कष्ट्ंअ परमश्रित इति । श्रितान्तमेतत्सुबन्तं न भवतीति सम्बुद्ध्यन्तं पठितव्यम्, तद्धिप्रत्ययलक्षणेन सुबन्तं भवति श्रितान्तं च श्रूयते । नेत्याहेति । कः पुनराह ? उतरवादी, आचार्यो वा । उगिद्वर्णेति । उगिता वर्णेन च प्रातिपदिकं विशेष्यमित्यर्थः । यस्मिन्विधिरिति तदन्तविध्यपवादस्तदादिविधिः, अतो विशेषणेनैव भवति ॥ वृद्धिर्यस्याचामादिस्तद् वृद्धम् ॥ १।१।७३ ॥ समुदायस्यैवाचामादिः सम्भवतीति स एव यस्येत्यनेनोच्यत इत्याह--यस्येति समुदाय उच्यत इति । संज्ञिनिर्देशार्थं चेदम्; अन्यथा तच्छब्देन किं परामृश्यते, तदित्यस्यानुपादाने वृद्धेरेव सा वृद्धसंज्ञा स्यात् । अचां मध्य इत्यादि । अत्र यस्येत्यस्याचामित्यनेन सम्बन्धः, आदिश्च निर्धार्यते, वृद्धिर्विधेयो धर्मः । आदिशब्दश्चोपक्रमवचनः-उपक्रम्यत इत्युपक्रमः, प्रथम उच्चार्यत इत्यर्थः । यस्य समुदायस्य सम्बन्धिनामचां मध्ये प्रथमत उच्चार्यमाणो वृद्धिसंज्ञक इत्यर्थः । अचामिति जातौ बहुवचनमिति । तेन द्वयोरपि भवतीति भावः । एकस्यापि व्यपदेशिवद्भावाद् भवति । शालीय इति । अत्र समुदायस्य हलादित्वेऽप्यजपेक्षया प्रथमोऽच् वृद्धिरिति संज्ञा भवति । ननु च निर्द्धारणस्य तुल्यजातीयविषयत्वान्निर्द्धार्यमाण आदिरप्यजेव प्रतीयते, न वा आकारोऽच्; अक्षरसमाम्नायेऽनुपदेशात् । कथं तर्हि सोमपं ब्राह्मणकुलमिति अच्कार्यं ह्रस्वत्वं भवति; सवर्कणग्रहणात्, न त्वच्त्वात् । इहापि तर्हि सवर्णग्रहणाभावात्प्रतीयते । अस्तु, तथाप्रतीयमान एव सवर्णं ग्रहीष्यति यथाज्ग्रहणे मघ्यवर्तीकारादिः । किञ्च-अचामिति निर्द्धारणाअश्रये तावदकारस्योच्चारितत्वाद् आकारोऽपि प्रतीयते । तेन निर्द्धार्यमाणस्याप्याकारादेस्तथाभूतमेवाच्त्वं प्रतीयत इति यत्किञ्चिदेतच्चोद्यम् । वा नामधेयस्येति । नामधेयशब्दः साङ्केतिकेषु रुढः । देवदतीया इति । काश्यादिषु देशवाची देवदतशब्दः पठ।ल्ते । "एङ् प्राचां देशे" इति वृद्धसंज्ञकः काश्यादिभिः साहचर्यादित्यदेशवाचिनश्च्छ एव भवति । वाहीकग्रामवाचिनो।षपि देवदकतशब्दसर्यानादित्वेनासाङ्केतिकत्वाद् अप्राचां देशवाचित्वाच्च वृद्धसंथज्ञाया अभावात् काश्यादिलक्षणौ ठञ्ञिठौ न भवतः । गोत्रान्तादित्यादि । गोत्रशब्देन गोत्रप्रत्ययान्तं गृह्यते, तदन्तादसमस्तवत् केवलात् गोत्रान्ताद्यः प्रत्ययो भवति स एव तदन्तादपि भवतीत्यर्थः । घृतरौढैइया इति । रूढऋस्यापत्यम् "अत इञ्" शौषिकेष्वर्थेष्विञश्चेत्यणः ङ द्व्यचः प्राच्यभरतेषु" इति निषेधाद् "वृद्धाच्छः" । एवं वृद्धाम्भीयाः-अम्भसोऽपत्यम् शम्भूयोऽम्भसोः सलोपश्च" इति बाह्वादिषु पाठादिञ्, सलोपश्च । ओदनपाणिनीया इति । पणिनोऽपत्यमित्यण् "गाथिविदथि" इति प्रकृतिभावात् "टेः"च इति टिलोपाभावः, पाणिनस्यापत्यं पणिनो युवेति इञ्, तस्य छात्रा इति विवक्षिते "यूनि लुग्" इति इञो लुकि कृतेऽपि प्रत्ययलक्षणेन "इञश्च" इत्यण् प्राप्तो गोत्राधिकारान्न भवति । "कण्वादिभ्यो गोत्रे " इत्यत्र तावत् पारिभाषिकं गोत्रं गृह्यते तदेव "इतश्च" इत्यत्राप्यनुवर्तते, तेन यूनीञ् न भवति । कश्यपशब्दो बिदादिः, कतशब्दो गर्गादिः, जिह्वाचपलो हरितभक्षश्च कात्यस्ततोऽणेन भवति । कः पुनरत्र प्रत्ययातिदेशप्रस्तावः, यावता शेषाधिकारे प्राग्दीव्यतोऽणेत्र चैतद्वक्तव्यम् ? सत्यम्; कैश्चितु गौत्रान्तस्य वृद्धसंज्ञा विहिता, एवमपि वृद्धाम्भीया इति सिद्धेः । वार्तिककारस्तु--"वृद्धसंज्ञायां सत्यां पिङ्गलकाणवस्य छात्राः पैङ्गलकाण्वा इति "वृद्धाच्छः" स्यात् । प्रत्ययातिदेशे तु "कण्वादिभ्यो गोत्रे" इत्यण् लभ्यते" इति मन्यमानः पूर्ववाक्येन परमतमुपन्यस्यानेन वाक्येन निरस्यति स्म; तदेव पठितं वृत्तिकारेण ॥ त्यदादीनि च ॥ १।१।७४ ॥ उतरार्थमिति । तत्र प्रयोजनवत्वात् यस्याचामादिरेङिति सम्बन्धसम्भवाच्च । इह तु न सम्बध्यत इति । अयोग्यत्वाद् निर्द्धारणस्य सजातीय वषयत्वात् त्यदादीनां चाजात्मकत्वाभावाद् न ह्यस्ति सम्भवः । यस्याचामादयस्त्यदादय इति । न च त्यदादिस्थेऽचि त्यदादिशब्दो वर्तत इति क्लिष्टकल्पनायुक्ता; उतरार्थमप्यनुवृत्तिसम्भवात् । तदुक्तम् - उतरार्थमनुवर्तत इति । त्यादायनिरति । "उदीचां वृद्धादगोत्राद्" इति फञ्, "प्रत्ययोतरपदयोश्च" ॥ एङ्प्राचां देशे ॥ १।१।७५ ॥ प्राचां देशाभिधान इति । प्राचि देशे ये वसन्ति ते प्राचः पुरुषास्तेषां सम्बन्धी यो देशस्तदबिधान इत्यर्थः । एतेन श्रुतस्य विशेषणं प्राचां ग्रहणं नाचार्याणामिति दर्शयति । तथा हि सति मतेनेत्यध्याहार्यं स्यादिति भावः । एणीपचनीय इत्यादि । एणीपचनादिभ्यश्च्छः । दैवदता इति । "वाहीकग्रामेभ्यश्च" इति वृद्धादिति विहितौ ठञ्ञिठौ न भवतः । काश्यादिपाठादपि न भवतः; तत्रापि वृद्धाधिकारात् । एवं क्रोडो नाम ग्रामस्तत्र भवः क्रौड इत्यणेव भवति । कुणिना तु प्राचांग्रहणमाचार्यनिर्देशार्थं व्याख्यातम्, बाष्यकारोऽपि तथैवाशिश्रियत् । तेन सेपुरं स्कोनगरं च वाहीकग्रामौ, तत्र "वाहीकग्रामेभ्यश्च" इति ठञ्ञिठौ भवतः--सैपुरिकी, सौपुरिका; स्कौनागरिकी, स्कौनगरिका । अस्य व्यवस्थितविभाषाविज्ञानाच्च क्रोडदेवदतशब्दयोरप्राग्देशवाचिनोष्ठञ्ञिठौ न भवतः । शैषिकेष्वेवार्थेष्वियं वृद्धिसंज्ञेष्यते । तेनापत्यविकारयोः "उदीचां वयवस्थितविभाषयैव सिद्धम् । वृत्तिकारपक्षे त्वेत्सर्वं वचनात्साध्यम् । गौमता इति । गोमती प्रग्देशे नदी देशग्रहणेन न गृह्यते, ङदीदेशोऽग्रामाः" इति नद्याः पृथग्ग्रहणात् "एड् प्राचां देशे" "उदीचां वृद्धादगोत्राद्" इत्यादिषु प्रागुदञ्चौ श्रुतौ, तयोर्विभागज्ञानार्थमाह-प्रागुदञ्चाविति । शरावती नाम नदी उतरपूर्वाभिमुखी, तस्या दक्षिणपूर्वंस्यां दिशि व्यवस्थितो देशः प्राग्देश; उतरपरस्यामुदग्देशः, तौ शरावती विभजते; तया मर्यादया तयो र्विभागो ज्ञायते । क्षीरोदकमिति । "जातिरप्राणिनाम्" इत्येकवद्भावः । क्वचित् "क्षीरोदके" इति पाठातत्र नियतव्यक्तिविवक्षया जातिपरत्वाभावाद् द्विवचनम् । किमर्थं विभजते ? विदुषां शब्दसिद्ध्यर्थम् । यद्यपि नद्या एवमुद्देशो न भवति --विदुषां शब्दा व्यवस्थिताः सिद्ध्यन्ति; तथापि तया हेतुभूतया व्यवस्थितं शब्दसाधुत्वमिति उद्देशोऽध्यारोप्यते । सैवंभूता सा नोऽस्मान् पातु । क्वचित् प्रागुदीचाविति पाठः, तत्र "अच्प्रत्यन्ववपूर्वात्" इत्यत्राजितियोगविभागादच्प्रत्ययः । "उद ईत्" इतीत्वम् । प्रगुदीचमिति पाठे समाहारद्वन्द्वः । "द्वन्द्वाच्चुदषहान्तात्समाहारे" इति टच् । क्वचित् प्रागुदीच इति पाठः, तत्रावयवबहुत्वस्य समुदाय आरोपः प्राग्देशान्नुदग्देशाÄश्चेत्यर्थः ॥ इति हरदतमिश्रविरचितायां पदमञ्जर्या प्रथमध्यायस्य प्रथमः पादः समाप्तः । । ।अथ प्रथमाध्याये द्वितीयः पादः गाङ्कुटादिभ्योऽञ्णिनिङ्त् ॥ १।२।१ ॥ कुट आदिर्येषामिति बहुव्रीहावन्तर्वर्तिन्या विभक्त्या पदत्वेऽपि जश्त्वं न भवति; अनुक्रियमाणरूपविनाशप्रसङ्गात् । अथ वा ऽकुट कौटिल्येऽ इति धातुपाठे योऽकारस्तेन सह सानुबन्धानुकरणं द्रष्टव्यम् । अत्र चत्वारः पक्षाः सम्भवन्ति-इत्संज्ञकेन ङ्कारेण सह सम्बन्धप्रतिपादनम्, ङितो वा इविधिः, संज्ञाकरणम्, तद्वदतिदेशो वेति । तत्राद्ये पक्षे गाङ्कुटादिभ्यः परोऽञ्णितप्रत्ययो इङ्द् उइत्संज्ञकङ्कारयुक्तः, इत्संज्ञको ङ्कारस्तस्यास्तीत्यर्थः । अत्र येषामस्ति ङ्कारो यङदीनां तेषु व्यर्थोऽनुवादः, येषां नास्ति तव्यादीनां तेषु मिथ्योद्यमित्युपक्रिममात्रमयं पक्षः । अथ द्वितीयः ? ऽगाङ्कुटादिभ्यःऽ इति पञ्चम्या ऽअञ्णित्ऽ इति प्रथमायाः षष्ठ।लं प्रकल्पितायां ङिदादेशः प्राप्नोति । अत्र प्रथमाया न च वैयर्थ्यम्, लाघवार्थंत्वात् । तत्र ङिदिति कर्मधारये, असमासे वा ऽआदेः परस्यऽ इति तव्यादीनामादेण्Çóकारः प्राप्नोति, कथं पुनरित्संज्ञको नामादेशः स्यात् स्वयं निवृत्यभिमुखः ? को दोषः ? स्थानिनं निवर्त्य निवर्तिष्यते ! स्यादेतत्-इद्ग्रहणसामर्थ्यादादेशो न भविष्यति, आदेशत्वे हि ऽलशक्वतद्धितेऽ इत्येव सिद्धेत्संज्ञेत्यागमो ङ्कारो विधास्यत इति, तन्न; अनेनेत्संज्ञा यथा स्यात् तेन मा भूदित्येवमर्थमिद्ग्रहणं स्यात् । कः पुनरत्र विशेषस्तेन वा सत्यामनेन वा ? अयमस्ति विशेषः-तेन सत्यां लोपः स्यात्, अनेन पुनर्नं । तस्येति प्रकृतपरामर्शात् तस्यैतस्य प्रकृतस्येत्संज्ञकस्येति । एवं च श्रूयमाण एव ङ्कारे ङ्त्कार्याइणि भवन्ति । तत्र ऽनेड्वशि कृतिऽ इत्यत्र वरमनादौ कृतीति यदि परिगणनम्, तदात्र प्रतिषेधाभावात् कुटिङ कुटिङ्मिति प्राप्नोति । अथ तु सम्भवोदाहरणप्रदर्शनम्, तदात्रापि प्रतिषेधात् कुट्ङ कुट्ङ्मिति प्राप्नोति । बहुव्रीहौ तु येऽमी प्रसिद्धा ङ्तिश्च ङदयस्य एव तृजादीनामादेशाः स्युः । न चान्तर्यतो व्यवस्था, यत्र खल्वन्तरतमस्यानन्तरतमस्य च प्रसङ्गस्तत्रान्तरतमपरिभाषा । न चात्रान्तरतमानां तव्यङदीनां प्राप्तिः; लोके शास्त्रे वा तेषामप्रसिद्धेः । न चान्तरतमपरिभाषैव तान् कल्पयितुमर्हति; नियामकत्वातस्याः । सन्तु वा तव्याङ्दयः, तेऽपि त्वादेशा भवन्तः ऽडिच्चऽ इत्यन्त्यस्यैव स्युः । ननु च नात्र श्रौतः स्थान्यादेशभावः, किं तर्हि ? गाङ्कुटादिभ्यः परोऽञ्णित्प्रत्ययो इङ्द् इत्संज्ञकङ्कारयुक्त इति सिद्धानुवादमात्राक्षरव्यापारः । स तु सिद्धानुवादौ विधानमन्तरेण नोपपद्यते इति ङ्कारस्येत्संज्ञकस्य विधिः कल्प्यते । किमतः ? यद्येवम्, इदं ततो भवति विधिवाक्यस्याश्रुतत्वात् क्व परिभाषाङ्गतामुपेयात्--ऽषष्ठी स्थानेयोगाऽ इति वा, ऽआदेः परस्यऽ इति वा, ऽडिच्चऽ इति वा ? नैतदस्ति, यस्मात् षष्ठीप्रकल्पेनेन श्रौत एव स्थान्यादेशभाव उपपादितः । अस्तु वा कल्पितविधानम्, य एव त्वसौ विधिः कल्प्यते, तत्रैव परिभाषाङ्गभावमुपैति; विध्यङ्गत्वात्परिभाषाणाम् । परिभाषाः खलु विधेरङ्गभूता अनुवादवाक्यश्रुतार्थान्यथानुपपत्या विधिवाक्यमेव कल्पन्ते इति सर्वथा दुष्ट एवायं पक्षः । संज्ञाकरणे ऽक्ङिति चऽ इत्यत्रास्य ग्रहणं न स्यात्; संज्ञारूपस्यानुच्चारितत्वात् । ङ्च्छिब्दः संज्ञा, डिच्छब्दश्चोच्चारितः प्रत्येकसम्बन्धमपीद्ग्रहणं किद् यस्येत्येतावदेव सम्पादयेत् । न बान्वर्थाऽवयवद्वययुक्ता संज्ञेति प्रत्यभिज्ञाभावात् क्ङ्त्प्रिदेशेष्वस्य ग्रहणं न स्यादेव । तथा केवले ङ्च्छिब्द उच्चारिते तस्यैव ग्रहणं स्याद्, नयङदीनाम्; कृत्रिमाकृत्रिमयोः कृत्रिमे कार्यसम्प्रत्ययात् । ततश्च ग्रहिज्यादिसम्प्रसारणं गृह्णातीत्यादावेन स्याद्, न जरीगृह्यतेत इत्यादौ । न च यङदीनां ङ्त्कारिणस्य वैयर्थ्यम्; क्ङ्त्प्रिदेशेषु यत्र संज्ञारूपं न प्रत्यभिज्ञायते तत्र ग्रहणार्थत्वात् । ननु चैवं गाह्कुटादिभ्यः परस्य ङ्त्सिंज्ञाविधानमनर्थकमापद्यते, कथम् ? क्ङ्तिप्रदेशेष्वस्य ग्रहणं नास्तीत्युक्तमेव । केवलश्च हिच्छब्दो ग्रहिज्यादिसूत्र एव, न च तत्र गाङ् गृह्यते, नापि सर्वे कुटादयः, किं तु व्यतिरेक एव सत्यम्; न्यायागतेऽर्थे किं कुर्मः ! त्यज्यतामयं पक्षः । तदेवमेतेषां पक्षाणां दुष्टत्वात् चतुर्थं पक्षमाश्रित्याह-अतिदेशोऽयमिति । इङदेशो गृह्यते इति । ऽइङ्श्चऽऽगाङ् लिटिऽ ऽविभाषा लुङ्लृङेःऽ इति विहितः । ङ्कारस्यानन्यार्थत्वादिति । इङदेशस्य हि यो ङ्कारस्तस्यैतदेव प्रयोजनम्--इह तस्यैव ग्रहणं यथा स्यादिति । अथ सामान्यग्रहणं कस्मान्न भवति ? असमानत्वादादेशस्य । ङ्कारोऽन्यार्थः; आत्मनेपदस्य स्थानिवद्भावेनैव सिद्धत्वात्, धातोस्तुचरितार्थः । यद्येवम्, आब्ग्रहणे चाप एव ग्रहणं प्राप्नोति, पकारस्यानन्यार्थत्वात्,न; एवं हि चापोऽनुबन्धावनर्थकौ स्याताम्, टापश्च टकारः । अतो यच्च यावच्च समानं सम्भवति चरितार्थपित्वमचरितार्थपित्वमपि तत्सर्वमाश्रीयते, न चाब्रूपमेवयावत् । कुङ्शब्द इति । तदनन्तरं वृत्करणाद् ऽआकूतम्ऽ इति प्रयोगदर्शनात् ऽकूङ् दीर्घान्तो द्भवतीत्यर्थःऽ इत्यन्तरेणापि वतिं वत्यर्थो गम्यते, यथा-सिंहो माणवक इति । यद्ययमतिदेशः, ऽअसंयोगाल्लिट् किद्ऽ इति प्रकरणेऽपि कित्कार्यातिदेशोऽङ्गीकर्तव्यः, ततश्च सिसृक्षतीत्यत्र सत्यपि ऽहलन्ताच्चऽ इति सनः कित्वातिदेशे स्वाश्रयमकित्वमाश्रित्य ऽसृजिदृशोःऽ इत्यमागमः प्राप्नोति । अतिदेशेन पराश्रयं कार्यं प्राप्यते, न तु स्वाश्रयं निवर्त्यते । सिद्धं तु प्रसज्यप्रतिषेधात् किति न भवतीति । ततश्च स्वाश्रयस्य कार्यस्याभावादातिदेशिककित्वाश्रयः प्रतिषेधो भविष्यति । इह तर्हि उच्चुकुटिषति-ऽङ्तिःऽ इत्यात्मनेपदं प्राप्नोति ? इङितो धातोरात्मनेपदमुच्यते, इह चातिदेशेन सन एव ङ्त्विम्, न धातोः । यत्रावयवे लिङ्गमचरितार्थं तत्र समुदायस्य विशेषकं भवति; इह त्ववयव एव गुणप्रतिषेधादिकं ङ्त्विस्य प्रयोजनमस्ति । यङ्न्तादपि तर्हि न प्राप्नोति, तस्मान्नैवं शक्यं विज्ञातुम्--इङितो धातोरिति, ततश्चैकं सनमेव ङ्तिमाश्रित्यात्मनेपदं प्राप्नोति ? नैष दोषः, सप्तमीसमर्थाद्वतिः-ङ्तीवि त् । ननु च नात्र वतिर्निर्दिश्यते, सत्यम्; परत्र परशब्दप्रयोगात् कल्प्यमानो वतिर्व्याख्यानात् सप्तम्यन्तादाश्रीयते । एवमपि प्रतियोगिनि सप्तमी प्राप्नोति-अञ्णितीति ? एवं तर्हि ऽअनुदातङ्तिःऽ इत्यत्र ऽउपदेशेऽ इति वर्तते, उपदेशे यो ङ्त्, तित आत्मनेपदं भवति । अध्यगीषतेति । ऽविभाषा लुङ्लृङेऽ इति गाङदेशः,ऽआत्मनेपदेष्वनतःऽ घुमास्थादिसूत्रेणेत्वम् । व्यचेरित्यादि । ऽव्यच व्याजीकरणेऽ तुदादौ कुटादिभ्यः प्राक् पठ।ल्ते । उद्विचितेति । ग्रहिज्यादिना सम्प्रसारणम् । उरुव्यचा इति बहुव्रीहिः । कथं विव्यचिथ ? ऽअनसिऽ इति पर्युदासोऽयमसुन्प्रत्ययस्य कृत्वा तत्सदृशो कृति कार्यं विज्ञायते । कथं लिखितुम्, स्वयमेव लिखिष्यते, यावता कुटेः पूर्वं लिखिः पठ।ल्ते ? कश्चिदाह-" कुटस्यादिः, कुट आदिर्येषां ते कुटादयः, कुटादिश्श्च कुटादयश्चेति बहूव्रीहितत्पुरुषयोः सहविवक्षायाम् ऽस्वरभिन्नानां यस्योतरस्वरविधिः स शिष्यतेऽ इति बहुव्रीहेः शेषः । तत्र तत्पुरुषवृतया संगृहीतो लिखिरपि ङ्त्विस्य निमितम्" इति । एवं तु लिखित्वा, लेखित्वा; लिलिखिषति, लिलेखिषति; ऽशकुनिष्वालेखनेऽ इत्यनुपपन्नं स्यात् । तस्माद्यद्यवश्यमुपपादनीयम्--ऽसंज्ञापूर्वको विधिरनित्यःऽ इति गुणो न भविष्यति । ऽधू विधूननेऽ, कुटादिः, तस्य ऽअर्तिलूधूसूखनसहचर इत्रःऽ इतीत्रप्रत्यये गुणो न प्राप्नोति । नात्र गुण इष्यते, धुवित्रमित्येव भवति, कल्पसूत्रकाराणां तु प्रयोगाश्छान्दसत्वादुपपादनीयाः । अथ वा -ऽभञ्जभासमिदो घुरच्ऽऽविदिभिदिच्छिदेर्ङ्द्ऽ ईति वक्तव्ये प्रत्ययान्तरकरणं ज्ञापकम्--आतिदेशिकं ङ्त्विमनित्यमिति ॥ विज इट् ॥ १।२।२ ॥ ओविजी भयचलनयोरिति । यस्तु ऽसृजिविजि विद्ध्यनिट्स्वरान्ऽ इत् विचिः, न स गृह्यते; अनिट्त्वात् । इतरस्तु ईदित्वसामर्थ्यात् सेट्, वृद्धसंज्ञासूत्राद् यस्यादिरिति वर्तते, तेनेड्विशेष्यते-यस्यादिरिडिति । तेनोतमैकवचनस्य ग्रहणं न भवति, न ह्यसौ कस्याचिदादिः । अत एवागममात्रस्यायं ङ्त्विविधिर्न भवति, किं तर्हि ? तदादेः प्रत्ययस्येत्याह--इडादिः प्रत्यय इति । उद्विचितेति । ङ्त्वाल्लिघूपधगुणाभावः ॥ विभाषोर्णोः ॥ १।२।३ ॥ ऽऊर्णुञ् आच्छादनेऽ ञिद्, नोपधः; ऽरषाभ्याम्ऽ इति णत्वेन पाठः । प्रोर्णुनाव--रेफवियोगेऽभ्यासात्परस्य नकारस्य श्रवणं भवति । प्रोर्णुवितेति । ङ्त्विपक्षे उवङ्, अन्यत्र गुणः ॥ सार्वधातुकमपित् ॥ १।२।४ ॥ अपिदिति पर्युदासश्चेत्, च्यवन्ते इत्यत्र च्यु अ अन्ते इति स्थने नित्यत्वादन्तङ्गत्वाच्चैकादेशः । न च वार्णादाङ्गं बलीयः, नानाश्रयत्वात् । तत्र कृते परस्येहापित् आश्रितत्वातं प्रत्यादिवद्भावात् पिदपितोरेकादेशोऽपिद्ग्रहणेन गृह्यत इति शबेकादेशवतः सार्वधातुकस्य ङित्वाद् गुणिनिषेधः प्राप्नोति । प्रसज्यप्रतिषेधे तु पित्वनिमितो निषेधः पूर्वस्य कार्यमिति पूर्वं प्रत्यन्तवद्भावाद् ङ्त्वाभाविः । अस्तु तर्हि प्रसज्यप्रतिषेधः ? यद्येवम्, तुदानीत्यत्र विकरणोतमयोः पिदपितोरेकादेशः परस्य पितो ङ्त्विनिषेधे कर्तव्ये आदिवत्स्यात्, इत्यङ्तिमुतममाश्रित्य गुणः प्राप्नोति । ऽअन्तादिवच्चऽ इत्यत्र पूर्वपरौ समुदायावभिप्रेतौ, नाचौ । किं कारणम् ? आद्यन्तयोरवयवत्वात्, स्थानिनोरचोरेकादेशेन निवर्तितत्वाच्च । अतः स्थानिनावचौ पूर्वपरौ ययोः समुदाययोरन्तादी, एकादेशोऽपि तयोरेवान्तादिवद्भवतीत्ययमतिदेशार्थः । अत एव ब्रह्मबन्धूरित्यत्र एकादेशोऽपि प्रतिपदिकं प्रत्येवान्तवद्भवति, ध्रुवै तुवै इत्यत्र च उतैमैकवचने कृत्स्नयोरेव पिदपितोरेकादेश इति अचावेव प्रत्यादिवत्वे स्यादेव दोषः । एवं तर्ह्यकादेशस्य पूर्वविधौ स्थानिवद्भावात्पक्षद्वयेऽपि यथा स्थानिकाले यथायोगं गुणस्य प्रवृत्तिनिवृती भवतः, तथा कृतेऽप्येकादेशे स्थानिबुद्ध्या भविष्यतः । एवमुभयोर्निर्दोषत्वेऽपि प्रयज्यप्रतिषेध एवाश्रयणीयः । तत्र हि--तदाश्रयणसामर्थ्याद्यच्च यावच्च पितो ङ्त्विं प्राप्तं तस्य सर्वस्य निषेधादिदमपि सिद्धं भवति-अचिनोद्, अचिनवमिति । अत्र हि ङितो लिङ् आदेशस्य स्थानिवद्भावेन प्राप्तस्य निषेधो भवति । पर्युदासे त्वतिदेशेनैकवाक्यत्वात् तस्यैव पर्युदासात् स्थानिवद्भावकृतं ङ्त्विं स्यादेवेति यासुटो चनं ज्ञापकमाश्रयणीयं स्यात् । किं च ऽङ्च्चि पिन्न भवतिऽ इत्ययमप्यत्रार्थ इष्यते । अतो न ब्रूताद्भवानित्यत्र तातङ्ः स्थानिवद्भावात्प्राप्तस्य पित्वस्य निषेधात् पिदाश्रयो ब्रुव इण् न भवति, तृणाढाद्भवान्--तृणह इण् न भवतीत्येषा दिक् । अत एतदर्थमपि प्रसज्यप्रतिषेध आश्रयणीयः । तत्र हि पृथक्कृतस्य नञो यथेष्टमभिसम्बन्धो भवति--पिद् ङ्न्नि भवति, ङ्च्चि पिन्न भवति । तत्र यस्यौपदेशिकं पित्वं तस्यातिदेशप्राप्तं स्थानिवद्भावप्राप्तं च ङ्त्विं निषिध्यते; यस्य पुनरौपदेशिकं ङ्त्विं तस्य स्थानिवद्भावप्राप्तं पित्वं निषिध्यत इति विवेक्तव्यम् । कुरुत इति । ङ्त्वाइद्विकरणस्य गुणाभावः, ऽअत उत्सार्वधातुकेऽ इत्युत्वं च भवति । अत्र च तृतीयासमर्थाद्वतिराश्रयणीयः, न पूर्ववत्सप्तमीसमर्थात् । तेन पचेते इत्यत्र ऽआतो ङ्तिःऽ इति ङितो यित्कार्यं तदपि भवति । यद्येवम्, चिनुत इति ऽतास्यनुदातेत्ऽ इति लसार्वधातुकानुदातत्वं प्राप्नोति ? नैष दोषः; उपदेशग्रहणमुभाभ्यामपि सम्बध्यते-ङ्दुपिदेशाद्, अदुपदेशादिति । ऽअह्न्विङेःऽ इति वा पर्युदासात् तत्सदृशस्योपदेशङ्कारवतो ग्रहणमिति सर्वमनवद्यम् ॥ असंयोगाल्लिट् कित् ॥ १।२।५॥ लिटाऽऽक्षिप्तो धातुरसंयोगग्रहणेन विशेष्यत इत्याह असंयोगान्ताद्धातोरिति । ननु चात्र पर्युदासत्वमुक्तं प्रतीयते, ततश्च संयोगान्तसदृशाद् हलन्तदेव स्याद्-बिभिदतुः,बिभिदुरित्यादौ; निन्यतुरित्यादौ तु न स्यात् ? ज्ञापकात् सिद्धम्, यदयम् ऽऋतश्च संयोगादेर्गुणःऽ इति सस्मरतुरित्यादौ गुणं विधते, तज्ज्ञापयति-नात्र नञिवयुक्तन्यायो धातुमात्रस्यैव ग्रहणमिति । ङ्त्वे प्रिकृते कित्वातिदेशस्य प्रयोजनम् --ईजनम्, ईजत्ः, ईजुः, यजादीनां कितीति सम्प्रसारणं यथा स्यात्; जजागरतुः, जजागरुः-ऽजाग्रोविचिण्णल्ङ्त्सुऽ ईति गुणो यथा स्यात् । यदि पुनर्गाङ्कुटादिभ्योऽपि कित्वमेवातिदिश्येत ? नैवं शक्यम्; इह हि दोषः स्याद्--ऽणु स्तुतौऽऽधू विधूननेऽ तृच्, नुविदा धुविदा--ऽर्श्युकः कितिऽ इतीट्प्रतिषेधः प्राप्नोति, यथा-लूत्वा, लूनः ? नैष दोषः; पूर्वस्य कार्यतिदेशोऽयमित्युक्तम् । इह तर्हि कुटित्वा, पुटित्वा--ऽन क्त्वा सेट्ऽ इत्यातिदेशिकस्यापि कित्वस्य प्रतिषेधो नातिदेशिकस्य भवतीति, सत्यम्; असति क्त्वाग्रहणे, सति तु तस्मिन् सनः ऽन क्त्वा सेट्ऽ इति निषेधो न लभ्यते इत्यज्ञापकं वक्ष्यते-ऽन क्त्वा सेट्ऽ इति निषेधो नातिदएशिकस्य भवतीति, सत्यम्; असति कत्वाग्रहणे, सति तु तस्मिन् सनः ऽन क्त्वा सेट्ऽ इति निषेधो न लभ्यते इत्यज्ञापकं तत्र ढल्ग्रहणम् । तथा ऽसार्वधातुकमपिद्ऽ इति कित्वातिदेशे जागृतः, जाग्रतीति गुणः स्याद्, ङ्त्वाइतिदेशे त्वविचिण्णल्ङ्त्स्विति पिर्युदासो भवति । ऽऋदुपधेभ्यो लिटः कित्वं गुणात् पूर्वविप्रतिषेधेनऽ । कित्वस्यावकाशः-ऋजतुः, ऋजुः न ह्यत्र विध्यन्तरस्य कस्यचित्प्रसङ्गः; गुणस्यावकाशः--वर्तित्वा,वर्धित्वा; ववृते, ववृधुरित्यत्रोभयप्रसङ्गे कित्वं भवति पूर्वविप्रतिषेधेन । इह तु बिबिदतुः बिभिदुः, नित्यत्वादेव कित्वं सिद्धम्; तद्धि कृतेऽपि गुणे प्राप्नोत्यकृतेऽपि, गुणस्तु कित्वे सति न प्राप्नोति । ववृते इत्यत्र तु गुणे कृते संयोगान्तत्वात् कित्वं न प्राप्नोतीत्युभयमनित्यमिति पूर्वविप्रतिषेध उच्यते । स चायं कार्यातिदेशपक्षे स्फुटमेव वक्तव्यः । तथा हि-अनेनैव कित्कार्यातिदेश ईजतुरित्यादौ यत्र विध्यन्तरस्याप्रसङ्गस्तत्र सम्प्रसारणमितदिश्य चरितार्थमतिदेशं परत्वाद् गुणो बाधेत । शास्त्रातिदेशे वा ऽक्ङिति चऽ इत्येतच्छास्त्रमतिदिश्यते, तच्च यद्यपि गुणस्यापवादभूतम्, तथाप्यन्यत्र चरितार्थत्वाद् दुर्बलेनातिदेशेनातिदिष्टः ऽक्ङिति चऽ इति प्रतिषेधो दुर्बल इति तं बाधित्वा गुणः स्यादेव ॥ इन्धिभवतिभ्यां च ॥ १।२।६ ॥ इन्धेरगन्तुक इकारो न तु ऽइक्श्तिपौ धातुनिर्देशेऽ इतीक् प्रत्ययः, तेन ऽअनिदिताम्ऽ इति नलोपो न भवति । समीध इति । ऽञिङ्न्धी दीप्तौऽ अनुदातेत्, एशः कित्वाद् ऽअनिदिताम्ऽ इत्युपधालोपद्विर्वचने सवर्णदीर्घत्वम् । बभूविव, बभूविथेति । कित्वाद्यथाक्रमं वृद्धिगुणौ न भवतः । इन्धेः संयोगार्थमित्यादिना पूर्वणासिद्धं दर्शयन् सूत्रारम्भं समर्थयते । अयं योगः शक्योऽवक्तुम्, कथम् ? इन्धेरनन्तरश्च्छन्दस्येव लिड् भवति, भाषायां त्विजादेश्चेत्यामा भवितव्यम्, च्छन्दसि च ऽच्छन्दस्युभयथाऽ इति लिटः सार्वधातुकसंज्ञा, ऽसार्वधातुकमपित्ऽ इति ङित्वादुपिधालोपः । श्नमि तु कर्तव्य आर्धधतुकसंज्ञा, छान्दसत्वाद्वा श्नमभावः । भवतेरपि ऽभुवो वुग्लुङ्लिटोःऽ इति वुग्विधीयते, तत्र भूअ, भूइथ इति स्थिते वुक् प्राप्नोति, वृद्धिगुणौ च; कृताकृतपसङ्गित्वेन नित्यो वुक्, नच शब्दान्तरप्राप्तः, एकदेशविकृतस्यानन्यत्वाद्; वुकि च कृतेऽनजन्तत्वादलघूपधत्वाच्च वृद्धिगुणौ न भविष्यतः । अवश्यं चैतदेवं विज्ञेयम्-ऽवुका वृद्धिगुणौ बाध्येतेऽ इति । यो हि मन्यते-ऽकित्वादिमे गुणवृद्धेः किति नेति प्रतिषेधः, अनिग्लक्षणत्वात् । एवं तर्हि ज्ञापकार्थमिन्धिग्रहणम्, एतज्, ज्ञापयति-ऽइन्धेर्भाषायामप्यनित्य आम्ऽ इति, समीधे समीधाञ्चक्र इति भाषायामपि भवति । भवतेरपि वुगनित्यः, किं कारणम् ? उरिति वर्तते, न च गुणवृद्ध्योः कृतयोरुवर्णान्तो भवतिर्भवति; उरिति निवर्तिष्यते ? यदि विवर्तते; बोभाव, अहं किल बोभव-यङ्लुक्यपि नित्यत्वाद् वुक् प्राप्नोति । अनुवर्तमाने पुनरुरित्यस्मिन् उभयोरनित्ययोः परत्वाद् गुणवृद्ध्योः कृतयोरनुवर्णान्तत्वाद् वुङ्न भवति । अथेदानीं यङ्लुक्यप्यनेनैव लिटः कित्वं कस्मान्न भवति ? श्तिपा निर्देअषशात् । यदि पुनर्वुग्विधावेव श्तिपा निर्देशः क्रियते ? नैवं शक्यम्; इह हि दोषः स्याद्-बोभूवत्;, बोभूवुः । यदा पुनः कित्वविधौ श्तिपा निर्देशः क्रियते, न वुग्विधौ; तदा यङ्लुकि पित्सु वचनेषु लिटः कित्वाभावाद् गुणवृद्ध्योः कृतयोरुरित्यधिकाराद् वुङ्न भवति । अपित्सु वचनेषु ऽअसंयोगाल्लिट् कित्ऽ इति कित्वे सति गुणाभावादुवर्णान्तत्वाद्वुग् भवति । ननु चोक्रम्--ऽआरभ्यमाणेऽपि कित्वे वृद्धेः प्रतिषेधो न सिद्ध्यति, अग्निलक्षणत्वाद्ऽ इति, नैष दोषः; ङ्द्ग्रिहणमप्यनुवर्तते, तत्सामर्थ्यादनग्लिक्षणाया अपि वृद्धेः प्रतिषेधो भविष्यति, सत्यम्; अस्त्यं शुष्कस्तर्कः । वार्तिककारस्तु न क्षमते, यदाह-ऽइन्धेश्च्छन्दो विषयत्वाद् भुवो वुको नित्यत्वाताभ्यां लिटः किद्वचनानर्थक्यम्ऽ इति । श्रन्थिग्रन्थीत्यादि । ऽश्रन्थ ग्रन्थ संदर्भेऽ, ऽदम्बु दम्भेऽऽष्वञ्ज पिरष्वङ्गेऽ । श्रेथतु;, श्रेथुरिति कित्वादुपधालोपः, एत्वाभ्यासलोपावप्यत्र वक्तवायौ । देभतुरिति । नलोपे कृते ऽअत एकहल्मध्येऽनादेशादेःऽ इत्येत्वाभ्यासलोपौ । न च लोपस्या सिद्धत्वम्, आभाच्छास्त्रीयस्यासिद्धत्वस्यानित्यत्वात् । परिषस्वज इति । ऽष्वञ्जपरिष्वङ्गेऽ, अनुदातेत्,ऽउपसर्गात्सुनोतिऽ इति षत्वम् ऽसदिस्वञ्ज्योः परस्य लिटिऽ इति परस्य प्रतिषेधः । अत्र केचिद्वेति पठन्ति, शश्रन्थतुरित्याद्यपि भवति । अथ पित्सु वचनेषु कथम् ? यदि संयोगार्थमेव वचनम्, पित्सु न भाव्यम् । अथ संयोगान्तार्थं पिदर्थं च ? पित्स्वपि भाव्यम् । किं पुनरत्रार्थतत्वं देवो ज्ञातुमर्हति ॥ मृडमृदगुधकुषक्लिशवदवसः क्त्वा ॥ १।२।७ ॥ ऽक्लिश हिंसायाम्ऽ, अनुदातेद्, दिवादिरकर्मकः; ऽक्लिशू विबाधनेऽ र्क्यादिः सकर्मकः, परस्मैपदी-द्व्योरपि ग्रहणम् । किमर्थं पुनरिदम्, तावता किदेव हि क्त्वा ? तत्राह--न क्त्वा सेडित्यादि । अपकर्षः उ अपवादः नन्विदमेव नियमार्थं भविष्यति-ऽमृडादिभ्य एव क्त्वा किद्भवति नान्येभ्यःऽ इति नार्थः ऽन क्त्वा सेट्ऽ इत्यनेन; कथं लूत्वा पूत्वा-तुल्यजातीयस्य सेटो नियमः ? ननु ऽक्लिशः क्त्वानिष्ठयोःऽ इति विकल्पेनेड्विधानादनिट् क्त्वा सम्भवति ? एवं तर्हि मृडमृदवदवसां कित्वाविधानं नियमार्थम्, इतरेषां तु ऽरलो व्यपधात्ऽ इति विकल्पबाधेन विधिसम्भवान्नियमो न भविष्यति । एवमपि विपरीतोऽपि नियमः स्याद्--मृडादिभ्यः क्त्वैव किदिति । उदित्वा, उषित्वेति । यजादित्वात्सम्प्रसारणम् ऽशासिवसिघसीनां चऽ इति षत्वम्, ऽवसतिक्षुधोरिट्ऽ ॥ रुदविदमुषग्रहिस्वपिप्रच्छः संश्च ॥ १।२।८ ॥ सन्नर्थमिति । तत्र चरितार्थत्वादनिटः क्त्वाः कित्वाविधानं नियमार्थं न भवति ॥ इको झल् ॥ १।२।९ ॥ सनाक्षिप्तस्य धातोरिका विशेषणातदन्तविधिर्भवतीत्याह--इगन्ताद्धातोरिति । ऽइक् स्मरणेऽ इत्यास्य तु धातोर्ग्रहणं न भवति, न ह्यतः परो झलादिसन् सम्भवति, कथम् ? ऽइणो गा लुङ्ऽ ऽणिउ गमिरवबोधनेऽ ऽसनि चऽ ऽइण्वदिक इति वक्तव्यम्ऽ ऽगमेरिट् परस्मैपदेषुऽ--अधिजेगमिषति । ननु च भावकर्मणओरात्मनेपदे ऽअनुदातोपदेशऽ इत्यनुनासिकलोपार्थमेतत्स्यात्, तत्र तु रूपे विप्रतिपतिः, गमेरिङदेशस्य ग्रहणमिति वचनात् ऽअज्झनगमां सनिऽ इति दीर्घो न भवति-अधिजिगंस्यत इति केचित् । अन्ये त्वाहुः-ठ्ठ्ठज्झनगमान्ऽ इत्यत्राज्ग्रहणं न कर्तव्यम्, कथम् ? ऽसनि दीर्घःऽ इत्येको योगः, अचश्च , एवं सिद्धेऽजग्रहणं प्रवृत्तिभेदेन गमेरपि विशेषणाअर्थम्--अजादेशस्य गमेरिति; तेनास्यापि दीर्घेण भाव्यम्, अजादेशत्वाद्-अधिजिगांस्यत इति रूपमिति । तदेवं धातोरपि ग्रहणं युक्तमेव । एवं तर्हि झला साहचर्याद् गर्गादिषु जिगीषुशब्दस्य पाठाच्च प्रत्याहारस्य ग्रहणमुतरसूत्रे च इक्समीपाद्धलः पर इत्यनुपपन्नं धातुग्रहणे । झलादिरिति । कथं पुनस्सत्सप्तमीनिर्देशे तदादिविधिः शक्यो विज्ञातुम् ? झल्मात्रस्य सनोऽसम्भवात् । ननु च चिकीर्षितेत्यादवतो लोपे सति सम्भवति, अपूर्वविधत्वाच्च न लोपस्य स्थानिवत्वाम्; एवं तर्हि वृद्धिसंज्ञासूत्राद्यस्यादिरिति वर्तते सन् किद्भवति, कीदृशः ? यस्य ढलादिरिति । एतेन तदन्तविधिरपि निरस्तो वेदितव्यः । चिचीषतीति । ऽएकाचःऽ इतीट्प्रतिषेधः । तुष्टूअषतीति । ऽशर्पूर्वाः खयःऽ । शिशयिषत इति । ऽपूर्ववत्सनःऽ । किमर्थमिति । योगविभागविषयः प्रश्नः । सूत्रं तूतरार्थं कर्तव्यम् । दीर्घत्वगुणस्य बाधकं भविष्यतीति । ननु ऽकुङ्शब्देऽ कटादिः, चुकूषत इत्यस्मि दीर्घस्यावकाशः ? दीर्घान्तोऽयमित्यवोचाम् । इह तर्हि ऽगु पुरीषोत्सर्गेऽ ऽध्रु गतिस्थैर्ययोःऽ कुटादी, जुगूषति, दुधूषति । एवमपि प्रत्याहारग्रहणमनर्थकम् ऽउतो दीर्घऽ इति वक्त्वयम् ? अस्ति प्रत्याहारग्रहणे प्रयोजनम्, किम् ? प्रतिभेदेन गमिमपि विशेषयिष्यामीति । यद्येतावत्प्रयोजनं स्यात् ऽउतो दीर्घऽ इत्युक्त्वा इङ्हन्योरिति वक्तव्यम्-येषां समेरिङदेशस्य ग्रहणमिति पक्षः । येषामनिङदेशस्यापि ग्रहणं तेषामिहन्योरिति वक्तव्यम्, हना साहचर्यादिरिति धातुर्गृह्यते, नेकारः, तस्मादज्गरहणसामर्थ्याद्दीर्घत्वं गुणस्य बाधकं भविष्यतीति सुष्ठूअक्तम् । यथैव तर्हि झलादौ गुणो बाध्यते, एवमिङदावपि बाध्येत--जिजविषयति, नात्र दीर्धः प्रवर्तते, किं असति हि कित्वे नाप्राप्ते विध्यन्तरे आरभ्यमाणं दीर्घत्वं यथा गुणं बाधते एवं णिलोपमपि बाधेन । ननु यत्र नाप्राप्ते तस्य बाधकः, क्व च नाप्राप्ते ? दीर्घ आरभ्यते, गुणे णिलोपे तु ज्ञीप्सतीत्यत्र प्राप्ते, चिचीषतीत्यत्राप्राप्ते पाक्षिक एव परिहारः । यत्र बाध्यं भेदेनापेक्ष्यते--ऽइदमस्मिन्विषये प्राप्तमिदमस्तिन्विषयेऽ इति, तत्रैकबाधेनोपपतौ सत्यामनेकबाधो न न्याय्य इति किमेकं बाध्यतामित्यपेक्षायाम् ऽयेन नअप्राप्ते स बाधनीटःऽ इत्युच्यते, एवं ह्यपेक्षितविधिर्भवति । यदि तु ऽनाप्राप्ते विध्यन्तरे इदमारभ्यतेऽ इति कार्यसामान्यमपेक्ष्यते, तदा सर्वमेव बाधनीयम् । एतेन पुरस्तादपवादन्यायेन णिलोपमेव दीर्घत्वं बाधेत, न गुणमित्यपि चोद्यं निरस्तम्; यस्यादयमपि न्यायः कार्यसमान्यचिन्तायां नास्त्येव । अतः सुष्ठूअक्तम्--णिलोपमपि बाधेतेति । दीर्घत्वस्यावकाशदानायेति । एतदेव स्फुटयति-चिचीषतीत्यादि ष्विति । सति हि कत्वे चिचीषतीत्यादौ कित्वेनैव गुणो बाध्यते, न दीर्घेणेत्यबाधित्वैव विध्यन्तरं सावकाशो दीर्घः परत्वाण्णिलोपेन बाध्यत इत्यर्थः । ज्ञीप्सतीति । ऽमारणतोषणनिशामनेषु ज्ञाऽ, ऽज्ञप मिच्चऽ इति चुरादिषु पाठाद् णिचि पुकि ऽमितां ह्रस्वःऽ, सन्, ऽसनीबन्तर्द्धऽ इतीडभावक्षे ऽआप्ज्ञपृधामीत्ऽ इतीत्वम्, ऽअत्र लोपोऽभ्यासस्य ऽ । किमर्थो योगविभाग इत्यशङ्क्य प्रयोजनमाह--इकः कितवमित्यादि । गुणो मा भूदित्येवमर्थमिक उतरस्य सनः कित्वं विधीयतैत्यर्थः । दूषयति-दीर्घारम्भादिति । गुणो न भविष्यतीति शेषः । कृते भवेदिति । शास्त्रमावर्तमानं जपादिवद्भर्मे साधनमिति भावः । अनर्थकं त्विति । शास्त्रपूर्वकात्प्रयोगाद्धर्मो न तु प्रवृत्तिमात्रादिति भावः । ननु च ऽसनि मीमाघुऽ इत्यत्र मिनोतेरपि मीग्रहणएन ग्रहणार्थं दीर्घविधिः स्याद्, मा भून्मीग्रहणेन ग्रहणम्, ऽमीनातिमिनोतिदीङं ल्यपि चऽ इत्यात्वे कृते ऽगामादाग्रहणेष्वविशेषःऽ इति माग्रहणेन ग्रहणं भविष्यति; तत्रायमप्यर्थो मीग्रहणमपि न कर्तव्यं भवति । ह्रस्वार्थमिति । ह्रस्वानामेव दीर्घविधानासामर्थ्याद् गुणो न स्याद्, दीर्घाणां तु पुनः प्राप्नोति--लुलूषति; न हि दोर्घान्तेषु दीर्घशास्त्रं प्रवर्तते, पूर्वमेव तद्रूपसद्भावादिति भावः । सामार्थ्याद्धि पुनर्भाव्यमिति । सामर्थ्यम् उ प्रयोजनसद्भावः, यथा ऽमो राजि समः क्वौऽ इति मकारस्यैव मकारो विधीयते, विकारान्तरं मा भूदिति । तथा दीर्घस्यापि गुणो मा भूदिति पुनर्दीर्धो भविष्यति । यदि तर्हि प्राप्नुवन्विधिः दीर्घेण बाध्यते, आञ्दित्वामपि न प्राप्नोति-चिकीर्षति, तत्राह--आञ्दित्वं दीर्घसंश्रयमिति । दीर्घः संश्रयो निमितं यस्य ततथोक्तम् । यं विधिं प्रत्युपदेशोऽनर्थकः स विधिर्बाध्यते, यस्य तु विधेर्निमितमेव नासौ बाध्यते । न चात्राकृते दीर्घे आञ्दित्वं प्राप्नोति । इह तर्हि-तितीर्षति, अकृतेऽपि दीर्घत्वे आञ्दित्वं प्राप्नोतीति ? आञ्दित्वानिवृत्यर्थमेव दीर्घत्वं स्याद्, अत आह-दीर्घाणां नाकृते दीर्घ इति । दीर्घाणामप्यकृते दीर्घत्वे ऋदित्वं न प्राप्नोति, किं कारणम् ? इत्वोत्वाभ्यां गुणवृद्धी भवतो विप्रतिषेधेन, अतो यावद्दीर्धेण गुणो न बाधितः, तावदित्वं न पाप्नोति; तस्मान्नार्थ एतेनेति स्थिते प्रयोजनमाह--णिलोपस्त्विति ॥ हलन्ताच्च ॥ १।२।१० ॥ समीपवचनोऽन्तशब्द इति । अवयववचनस्तु न भवति, धातावन्यपदार्थे ऽयेन विधिस्तदन्तस्यऽ इत्येव तदन्तविधेः सिद्धत्वात् । इकस्त्वन्यपदार्थत्वं नैव सम्भवति, न हि वर्णो वर्णान्तरस्यावयव उपपद्यते । हल् चासावन्तश्चेति । कर्मधारयं दर्शयति । निपातनाद्विशेषणस्य परनिपातः । तत्र च कस्यान्तो हलितयपेक्षायामिक इति पञ्चम्यन्तं सन्निहितं षठ।ल्न्तं विपरिणम्यत इत्याह-इगन्तादिति । इकमपेक्षमाणस्याप्यन्तशब्दस्य नित्यसापेक्षत्वात् सूत्रे कर्मधारयः, बहुव्रीहौ तु धातोरन्यपदार्थत्वं नैव सम्भवति, अन्तशब्दो हि नियतदेशमेव समीपमाचष्टे परं नाम, न समीपमात्रम् । न च धातोः परसमीपावस्थिते हलि ततः परः सन्सम्भवति; इकि त्वन्यपदार्थे-यस्येकः परसमीपे हल् न तस्यानन्तरः सू सम्भवतीत्येकेन हला व्यवधाने विज्ञायेतेति धिप्सतीत्यत्र न स्याद् । हलिति जातिग्रहणात् सिद्धावपि प्रतिपतिगौरवप्रसङ्गः । ननु च मा भूदन्तग्रहणम्, ऽहलःऽ इत्येवास्तु, इका हल्विशेष्यते, तेन च धातुः-इकः परो यो हल् तदन्ताद्धातोरिति । न चैवमत्र शङ्कनीयम्--"असत्यन्तग्रहणे इग्वतो हलन्तादिति विज्ञायेत, ततश्च यजेः सन् ऽसन्यतःऽ यियक्षते इत्यत्रापि कित्वे सति संप्रसारणं प्राप्नोति" इति; न हीक्च्छब्दस्य मुख्येऽर्थे सम्भवति तद्वति वृत्तिर्युक्ता, किं च ऽइग्वतःऽ इत्यस्य व्यावर्त्यमपि न सम्भवति । यायज्यतेः सनि यायजिषत इत्यत्र सन्न झलादिः । तस्मादन्तग्रहणं चिन्त्यप्रयोजनम् । इह धीप्सतीति य इक्समीपे हल् नकारो न ततः परः सन्, यतश्च परः सन् भकारात् न स इक्समीप इति कित्वं न स्यादित्यत आह-दम्भेरिति । दम्भेरपि परस्य सनः कित्वं सिद्धम्, कुतः ? हल्ग्रहणस्य जातिवाचकत्वात् । ऽतत्प्रयोजकःऽ इतिवत्समासः । जातिवाची हल्शब्दः, एकैव च जातिर्नकारभकारयोः । व्यक्तिद्वारकं च जातेरिक्समीपत्वं तदपेक्षयात्र सनः परत्वम् । भकारव्यक्तिरिक्समीपे वर्तत इति जातिरपि वर्तते, भकारव्यक्तेः परः सन्निति जातेरपि परः । विपर्ययस्तु सन्नपि शास्त्रेणानाश्रितत्वादकिञ्चित्करः । नकारव्यक्तिरिक्समीपे न वर्तत इति जातिरपि न वर्तते । नकारव्यक्तेः परः सन्न भवतीति जातेरपि परो न भवतीति । धीप्सतीति । ऽदम्भ इच्चऽ कित्वादुपधालोपः ऽएकाचो बशो भष् झषन्तस्य स्ध्वोःऽ इति भष्भावः, द्विर्वचनम्, ऽअत्र लोपोऽभ्यासस्यऽ ॥ लिङसिचावात्मनेपदेषु ॥ १।२।११ ॥ आत्मनेपदेषु परत इति । एतत्सिच एव विशेषणम्, न लिङ्परस्मैपदस्य; झल्ग्रहणानुवृत्यैव व्यावर्तितत्वात् । भित्सीष्टेति । भिदिः स्वरितेत्, ऽलिङ्ः सीयुट्ऽ,ऽसुट् तिथोःऽ । भुत्सीष्टेति । बुधिरनुदातेत्, पूर्ववद् भष् । अबुद्धेति । च्लेः सिच्ऽ, झलो झलिऽ, ऽझषस्तथोर्धोऽधःऽ,ऽझलां जश् झशिऽ इति धकारस्य दकारः । यक्षीष्टेति । स्वरितेत्वादात्मनेपदम्, व्रश्चादिषत्वम्, ऽषढोः कः सिऽ । अद्राक्षीदिति । अमागमे यणि च कृते ऽवदव्रजऽ इत्यकारस्य वृद्धिः ॥ उश्च ॥ १।२।१२ ॥ लिङसिज्भ्यामाक्षिप्तस्य धातोरुरित्यनेन तदन्तविधिरित्याह- ऋवर्णान्तादिति । ऽऋ गतौऽ इत्यस्य तु ग्रहणं न भवति; ऽसर्तिशास्त्यर्तिश्चऽ इत्यङे विधानेन सिचोऽसम्भवात् । नन्वङ्विधौ कर्तरीत्यनुवृतेः कर्मणि सिजपि सम्भवति, एवं तर्हि शैलीयमाचार्यस्य यत्रास्य धातोर्ग्रहणमिच्छति तत्र श्तिपा निर्देशं करोति-ऽअर्तिपिपर्त्योश्चऽ,ऽसर्तिशास्त्यर्तिभ्यश्चऽ इति स्वरूपेणापि ग्रहणं दृष्टम् । एवं तर्हि व्याप्तिन्यायाद्वर्णग्रहणम् । अकृतेति । ऽह्रस्वादङ्गात्ऽ इति सिचो लोपः । अवरिष्टेति । ऽलिङसिचोरात्मनेपदेषुऽ इतीट् । ऽवा गमःऽ । संगंसीष्टेति । ऽसमो गम्यर्च्छिऽ इत्यात्मनेपदम् ॥ हनः सिच् ॥ १।२।१४ ॥ सौत्रत्वान्निर्देशस्याल्लोपो न कृतः । आहसतेति ।ऽआङे यमहनऽ इत्यात्मनेपदम्, ऽआत्मनेपदेष्वनतःऽ इत्यदादेशः । सिज्ग्रहणं लिङ्निवृत्यर्थमिति । प्रकृतं सिज्ग्रहणं लिङ्संबद्धमिति तदनुवृतौ तस्याप्यनुवृत्तिः स्यादिति भावः । ननु च ऽहनो वध लिङ्ऽ ईति लिङ् विधादेशो नित्यः, धानिषीष्टेति चिण्वदिटि वधादेशाभावेऽप्यझलादित्वादप्रसङ्गस्तत् किं लिङ्निवृत्येत्यत्राह-उक्षरत्रेति । उतरार्थमवश्यं सिज्ग्रहणं कर्तव्यम्, तदिहैव क्रियते, न्यायानुसरणे प्रतिपतिगौरवं मा भूदित्येवमार्थमित्यर्थः । आत्मनेपदग्रहणमित्यादि । यमः परस्मैपदेषु ऽयमरमनमाताम्ऽ इति सगिटौ भवत इति झलादिः सिज्न भवति । उपयमने तु नित्यमात्मनेपदम्, स्थाध्वोः परस्मैपदेषु सिचो लुग् भवति,ऽवा गमःऽ इत्यत्रापि परस्मैपदेष्वङ् भवति, लीङ् यासुट्निवृत्यर्थमेव च झल्ग्रहणमनुवर्त्यम्, एवमस्मिन्नप्यधानिषातामिति चिण्वदिटि मा भूदिति, तदेवम् ऽवा गमःऽ इत्यारभ्यात्मनेपदग्रहणं चिन्त्यप्रयोजनम् । किमर्थं पुनरिदम्, यावता आत्मनेपदं ङिति सिजन्तस्याङ्गस्य ऽअनिदिताम्ऽ इत्येव नलोपः सिद्धः, उच्चारणार्थो हि सिच इकारः, नानुबन्धः ? ज्ञापनार्थम् । एतज् ज्ञापयति-ऽन सिजन्तस्योपधालोपो भवतिऽ इति । तेनामास्तेति सिद्धं भवति । ननु च सिचि ऽअनुदातोपदेशऽ इति लोपो यथा स्याद्, आत्मनेपदे उपधालोपो मा भूदित्येवमर्थमिदं स्यात्, कः पुनरत्र विशेषः-सिचि वा लोपो भवतु, आत्मनेपदे वा ? अयमस्ति विशेषः-आत्मनेपदे लोपे सति ऽअतो लोपःऽ प्राप्नोति, सिचि तु न; आभीयस्यानुनासिकलोबस्यासिद्धत्वात् । यद्यपि उपधालोपोऽप्याभीयस्तथापि व्याश्रयत्वादसिद्धत्वं न प्राप्नोति-आत्मनेपदे उपधालोपः, सिच्यतो लोपः । यद्येवम्, बहिरङ्ग उपधालोपः, बहिर्भूतात्मनेपदापेक्षत्वाद्; अन्तरङ्गोऽल्लोपः, अन्तर्भूतसिजपेक्षत्वात् ऽअसिद्धं बहिरङ्गमन्तरङ्गेऽ । ननु चैषा परिभाषाप्याभाच्छास्त्रीया ऽवाह ऊठऽ इत्यत्र ज्ञापितेति तस्यामन्तरङ्गबहिरङ्गयोरसिद्धत्वाद् यथा पपुष इत्यादावल्लोपादिषु वसोः संप्रसारणस्यासिद्धत्वं न भवति, तथात्रापि न स्यात्, ततश्चातो लोपः स्यादिति सिच्येवानुनासिकलोप एषितव्य इति वक्तव्यमेव सिचः कित्वमिति ज्ञापकानुपपतेः, अमंस्तेत्यादावुपधालोपः स्यात् । तस्मात् सिच इकारोऽनुबन्ध एव, नौच्चारणार्थः । तेन ऽअदिताम्ऽ इति प्रतिषेधादुपधालोपाभावः । ऽइदितो नुम्ऽ इत्यत्र धातुग्रहणं सिजन्तनिवृत्यर्थमेव क्रियते, न धातूपदेशावस्थायामेव नुम् यथा स्यादित्येवमर्थम् । कुण्डेत्यादिसिद्धये च यत्नान्तरमास्थेयमिति केचित्; नेति वयम् । उपधालोपेऽपि नातो लोपेन भवितव्यम् । किं कारणम् ? ऽउपदेशऽ इति वर्तते उपदेशे योऽकारान्तस्तस्य लोपः, इहापि तर्हि न प्राप्नोति--ऽधिन्विकृण्व्योर चऽ धिनुतः, कृणुतः, नोपदेशग्रहणेन प्रकृतिरभिसम्बध्यते--उपदेशे या प्रकृतिरकारान्तेति, किं तर्हि ? आर्धधातुकमभिसम्बध्यते--आर्द्धधातुकोपदेशे यदकारान्तं तस्येति । तदेवमुपधालोपेऽपि न कश्चिद्दोष इति ज्ञापकार्यमेव वचनमिति सर्वमनाकुलम्॥यमो गन्धने ॥ १।२।१५ ॥ ननु यमिरुपरमे पठ।ल्ते, कथं गन्धने वर्तत इत्यत आह--अनेकार्थत्वादिति । उदायतेति । परावद्यं स्वयं प्रकाशितवानित्यर्थः । उदायंस्त पादमिति । अपकृष्टवानित्यर्थः ॥ स्थाध्वोरिच्च ॥ १।२।१७ ॥ चकारेण कित्वं समुच्चीयत इत्याह--सिच्च किदिति । प्रयोजनं गुणो मा भूदिति । इत्वं तु गुणविधानार्थमेव स्यात्; लघुत्वात् । उपास्थितेति । ऽउपान्मन्त्रकरणेऽ ऽअकर्मकाच्चऽ इत्यात्मनेपदम्, ऽह्रस्वादङ्गात्ऽ इति सिचो लोपः । न चेत्वं सिजीत्युच्यते, किं तर्हि ? इकारश्चान्तादेशस्सिच्च किद्भवतीत्येतावत् । तेनेत्वस्यासिज्निमितत्वाद् भवत्येव लोपः । इच्चेत्यादि । तकार इद्यस्य तस्य भावः तकोरेत्वम्, इच्चेत्यत्र निर्देशे कस्य, कार्यस्य सिद्धये इकारस्य तकारेत्वं क्रियत इत्यर्थः । दीर्घो मा भूदिति । आन्तर्यतः प्राप्नोतीति भावः । ऋतेऽपि स इति । इकारविधानेनापि विनेत्यर्थः । कित्वे हि घुमास्थादिसूत्रेणैव दीर्घस्सिद्धः, तस्मादित्वविधानसामर्थ्याद् अनन्तरतमोऽपि ह्रस्व एव भविष्यतीत्यर्थः । भाव्यमानोऽण्सवर्णान्न गृह्णाति इत्ययमप्यत्र परिहारः संभवति । अनन्तर इति । असदृश आदेशे क्रियमाणे ह्रस्व इव प्लुतोऽपि स्यात्,स मा भूदित्यर्थः । प्लुतश्चेति । अनेन तपरत्वं प्रत्याख्यायते । यद्यनेन प्लुतो विधीयेत, तदा यत्र विषये ऽअनन्त्यस्यापि प्रश्नाख्यानयोःऽ इत्यादिना प्लुतो विहितस्तत्राप्यनेनैव स्याद्, अस्मिन्कर्तव्ये तस्यासिद्धत्वादिति पक्षेऽनुवाददोषः प्राप्नोति,ततो ह्रस्व एव भविष्यति । अन्ये तु तपरत्वमनेन समर्थितं मन्यन्तेअसति तकार आन्तरयंतो दीर्घस्य दीर्घः प्राप्नोति । ननु चोक्तम्-ऽसिद्धोऽत्र दीर्घःऽ इति ? सिद्धे सत्यारम्भो नियमार्थः स्याद्-दीर्घ एव यथा स्यात् प्लुतो मा भूदिति तदिदमुक्तम्--अन्न्तर इत्यादिना । घुमास्थादिसूत्रेणानेन वा दीर्घे सति यद्यपि विशेषो नास्ति, तथाप्यनन्तरेऽविद्यमानेऽपि विशेषे प्लुतो मा भूदिति दीर्घः स्यादित्यर्थः । मा भूद् इति चेत् तत्राह-प्लुतश्चेति । स चासति तपरत्वे न प्राप्नोति, सति तु तस्मिन् दीर्घस्याप्रसङ्गाद्विधिरेव संपद्यत इति स्वविषये प्लुतो न व्यावर्त्यते । तदेवमन्यत्र भिन्नकालनिवृत्यर्थं तपरकरणम्, इह तु दीर्घनिवृत्यर्थं प्लुतप्रवृत्यर्थं च वस्तुबलात्समपादि ॥ न क्त्वा सेट् ॥ १।२।१८ ॥ न किद्भवतीति । कित्कार्यं न करोतीत्यर्थः । न पुनः ककारस्येत्संज्ञाभावात् किन्न भवतीति । प्रकृतो हि किच्छब्दः कित्कार्यकारिणि वर्तत इति तदर्थस्यैव निषेधो युक्तः-देवित्वेत्यादौ गुणप्रतिषेधाख्यं कित्कार्यं न भवतीति । निगृहीतिरिति । अत्र ऽतितुत्रऽ इतीट्प्रतिषेधो न भवति, तितुत्रेष्वग्रहदीनामिति वचनात् । निकुचितिरिति । ऽकुञ्च कौटिल्याल्पीभावयोःऽ । एषूदाहरणेषु संप्रसारणम्, गुणप्रतिषेधः, उपधालोपश्च कित्वाद्भवन्ति । न सेडित्यादि । पूर्वाद्धेमेको ग्रन्थः, उतरार्द्धाच्च नेत्यपकृष्यते । न सेडित्येतावतापि योगेनाकित्वे कृते गुधितो गुधितवानित्यत्र निष्ठायामवधारणान्नियमान्न भविष्यति । ऽनिष्ठा शीङ्स्विदिमिदिक्ष्विदिधृषःऽ इति नियमः-शीङदिभ्य एव परा निष्ठा न किदिति । विपरीतस्तु नियमः-निष्ठ्èअवेति व्याख्यानान्न भवति । लिटि तर्हि प्रतिषेधः स्यात्, ततश्च जग्मिव, जग्मिम ऽगमहनऽ इत्युपधालोपो न स्याद्, अत आह-ज्ञापकादिति । पूर्वाचार्यप्रसिद्ध्या परोक्षे लिडुच्यते, यथा-भवन्ती लट्, श्वस्तनी लुट् । किं ज्ञापकमित्यत आह-सनीति । ऽइको झल्ऽ इत्यत्र झल्ग्रहणस्यैतत्प्रयोजनम्--शिशयिषत इत्यत्र मा भूदिति । यदि च न सेडिति प्रतिषेध आतिदेशिकस्यापि कित्वास्य स्याद् झल्ग्रहणमनर्थकं स्यात् । प्राप्नोत्वत्र कित्वम्, ऽन सेट्ऽ इति प्रतिषेधो भविष्यति । तदेतद् झल्ग्रहणमौपदेशिकस्य कित्वस्यायं प्रतिषेधो नातिदेशिकस्येत्यस्यार्थस्य ज्ञापकं विदुः । ननु चोतरार्थं झल्ग्रहणम्, स्थाघ्वोरित्वं झलादौ यथा स्यात् चिण्वदिटि मा भूदिति-उपास्थायिषाताम्, अत्र हि उपास्थास् आतामिति स्थिते, इत्वं च प्राप्नोति चिण्वद्भावश्च, परत्वाच्चिण्वद्भावे युक्च प्राप्नोति वृद्धिश्च, कापवादत्वाद्यौकि कृते यकारस्येत्वप्रसङ्गः; न च पुनर्वृद्धिर्लभ्यते, पूर्वमेव युका बाधित्वात्, तस्मादुतरार्थं झल्ग्रहणम् ? नैतदस्ति; यस्मादित्वं कित्वसंयोगेनोच्यते, न चात्र कित्वमस्ति; न सेडिति प्रतिषेधात् । न ह्यत्रास्यां दशायां झल्ग्रहणस्य ज्ञापकत्वं स्थितमित्यातिदेशिकस्यापि कित्वस्यायं प्रतिषेधो भवति । रेण तुल्यं सुधीवनीति । शोभना धीवानोऽस्याः सुधीवा स्त्री ऽअनो बहुव्रीहेःऽ इति प्रकृतस्य ङीपो निषेधे सति ऽसंनियोगशिष्टानामन्यतराभावे उभयोरप्यभावःऽ इति यथा रेफो न भवति तद्वदिहापीत्यर्थः । वस्वर्थमिति । अर्थशब्दो निवृतौ । जग्मिवानित्यत्र क्वसौः कित्वप्रतिषेधो मा भूदित्येवमर्थं तर्हि क्त्वाग्रहणमित्यर्थः । दूषयति-किंदतीदेशादिति । सिद्धमिति शेषः । अस्त्वत्रौपदेशिकस्य कित्वस्य प्रतिषेधः, आतिदेशिकं कित्वं भविष्यति । यत्रतर्हि तत्प्रतिषिध्यते संयोगान्तष्वञ्जेः, आजिवान्-अत्र हि नलोपे कृते द्विर्वचन एकदेशे च ऽवस्वेकाजाद्धसाम्ऽ इतीडागमः, तत्र कृते कित्वप्रतिषेधाद् नलोपनिवृतौ द्विहल्तात् नुटि सत्येकाच्त्वाभावादिण्निवृतौ कित्वनलोपादीनां चक्रकप्रसह्गः । एवं तर्हि छान्दसः क्वसुः, लिट् च्छन्दसि सार्वधातुकमपि भवति ऽसार्वधातुकमपिद्ऽ इति ङ्त्विं ङ्तीत्युपिधालोपः । न च संयोगान्तेषु कित्वङ्त्वियोः कश्चिद्विशेषः, तस्माद्वस्वर्थमपि क्त्वाग्रहणं न भवति । एवं तर्हि-निगृहीतिः प्रयोजनम् । क्तिन्क्तिज्निवृत्यर्थं क्त्वाग्रहणमित्यर्थः । यदि पुनरुपरिष्टाद्योगविभागः क्रियते-न सेण्निष्टा शीङ्स्विदिमिदि क्ष्विदिधृषः, मृषस्तितिक्षायाम्, उदुपधाद्भावादिकर्मणोरन्यतरस्याम्; ततः पूङ्श्च-पूङ्श्च परा निष्ठा सेण् न किद्भवति; ततः क्त्वा च, क्त्वा च सेट् किन्न भवति । अत्र ऽपूङ्ःऽ इति निवृतमिति, ततः क्त्वाग्रहणं शक्यमकर्तुम् ॥ निष्ठा शीङ्स्विदिमिदिक्ष्विदिधृषः ॥ १।२।१९ ॥ ऽ ञिष्विदा स्नेहनमोचनयोःऽ इत्यस्य भौवादिकस्य ञिद्धातोर्ग्रहणम्, न तु ऽष्विदा गात्रप्रक्षरणेऽ इति दैवादिकस्य; ञिद्भिः साहचर्यात्, अस्य चाञित्वात् । ऽञिक्ष्विदा स्नेहनमोचनयोःऽ इति दैवादिकस्य ग्रहणम्, न तु ऽञिक्ष्विदा अव्यक्ते शब्देऽ इत्यस्य भौवादिकस्य; मिदिना साहचर्यात्,ऽञिधृषा प्रागल्भ्येऽ । शयितवानिति । ऽअत्वसन्तस्यऽ इति दीर्घः । प्रकृतिग्रहणे यङ्लुगन्तस्यापि ग्रहणं भवति, स एव धातुर्द्विरुच्यत इति कृत्वा तत्रापवादः स्मर्यते । श्तिपा शपाऽनुबन्धेन निर्द्दिष्ट्ंअ यद्गणेन च । यत्रैकाज्ग्रहणं किञ्चित्पञ्चैतानि न यङ्लुकि ॥ इति । तदहि शीङेऽनबन्धनिर्देशो यङ्लुङ्निवृत्यर्थः, शेश्यितः, शेश्यितवान्-- ऽएरनेकाचःऽ इति यण् ॥ मृषस्तितिक्षायाम् ॥ १।२।२० ॥ इदमेव तितिक्षाग्रहणं ज्ञापकम्-अनेकार्था धातव इति; अन्यथा मृषिस्तितिक्षायामेव पठ।लेत इति तदपार्थकं स्यात् । अपमृषितमिति । अविस्पष्टमित्यर्थः ॥ उदुपधाद्भावादिकर्मणोरन्यतरस्याम् ॥ १।२।२१ ॥ द्यौतितमिति । ऽद्यौत दीप्तौऽ नपुंसके भावे क्तः । प्रद्यौतित इति । ऽआदिकर्मणि क्तः कर्तरि चऽ इति कर्तरि क्तः । मुदितमिति । ऽमुदी हर्षे ऽ । लिखितमिति । शब्विकरणानामेवेति न तावत् स्थितमित्यशब्विकरणोऽपि लिखिः प्रत्युदाहृतः । एवं प्रभुक्त इतिं । स्थिते तस्मिन् खिटिकिटी भौवादी, क्रुशिश्च; खिटितं क्रुष्टमिति प्रक्युदाहर्तव्यम् ॥ पूङ्ः क्त्वा च ॥ १।२।२२ ॥ इहान्यतरस्यांग्रहणानुवृतौ सेडित्यस्य च निवृतौ इड्विधौ ऽपूङ्श्चऽ इति शक्यमकर्तुम्, उतरसूत्रे च वाग्रहणम्; कथम् ? अनिटोरेव क्त्वानिष्ठयोरनेन कित्वं विकल्प्यते,तत्र यदा कित्वं तदा ऽश्यकः कितिऽ इति प्रतिषेधात् पूतः पूतवान् पूत्वेति, अकित्वपक्षे त्विटि पवितः पवितवान् पवित्वेति भवति, सेड्ग्रहणं तु विच्छिद्येत; तस्मात्सेडित्यस्मिन्नुतार्थमनुवर्तमाने ऽपूङ्श्चऽ इत्यारभ्य उतरत्र वाग्रहणमिह नित्यतासिद्ध्यर्थम्, पुवित्वेति पक्षे मा भूतदाह-अन्यतरस्यांग्रहणं न स्वर्यते; उतरसूत्रे पुनर्वावचनादिति । न सेडिति वर्तत इति । ननु पूङ्ः परयोः क्त्वानिष्ठयोरिटो न भवितव्यम्, ऽश्युकः कितिऽ इति प्रतिषेधादत आह-पूङ्श्चेति । पूङ् परो निष्ठाप्रत्यय इत्यादि । किं पुनः कारणं साक्षात् श्रुतं क्त्वाप्रत्ययमपहारयानुवृतस्य निष्ठाप्रत्ययस्यान्वयो दर्शियत उदाहरणं च ? अत आह-क्त्वाप्रत्ययस्येति । एतदेव द्रढयति-तथा चोक्तमिति । इडाद्योः क्त्वानिष्ठयोर्नित्यमकित्वमिष्यते, ततश्च क्त्वाग्रणमुतरार्थमिति भारद्वाजीयैरेवमुक्तम् । उतरार्थमपि यदिहैव कर्तव्यं सेडित्येनेन सम्बन्धार्थम्; अन्यथा निष्ठानिवृतौ तत्सम्बद्धं सेडित्येतदपि निवर्तेत ! अनुबन्धोच्चारणं विस्पष्टार्थं न पूञो निवृत्यर्थम्; इड्विधौ पूङ् एव ग्रहणात् । पूञः क्त्वानिष्ठयोः इडभावान्नापि यङ्लुकि निवृत्यर्थम्; इड्विधावनुबन्धनिर्देशेन यङ्लुक्यपि ऽन क्त्वा सेट्ऽ इति प्रतिषेधस्य स्थितत्वात् । न च क्त्वाग्रहणसार्थ्यातस्यापि प्रतिषेधः; तस्योतरत्राप्युपयोगसम्भवात्, अनुबन्धनिर्देशस्य च निष्ठायां चरितार्थत्वात् । एवं च ऽक्त्वाग्रहणमुतरार्थम्ऽ इति वृत्तिग्रन्थस्याविरोधः, तेन पोपुवितवानिति निष्ठायां भवति । क्त्वायां तु गुणो पोपवित्वेति भवति ॥ नोपधात्थफान्ताद्वा ॥ १।२।२३ ॥ निष्ठेति निवृतमिति । पूर्वसूत्रे चानुकृष्टत्वात् । गुफित्वेति । ऽगुफ गुम्फ ग्रन्थनेऽ । रेफित्वेति । ऽरिफ कत्थनयुद्धनिन्दाहिंसादानेषुऽ । अथैतद्विकल्पाभावेऽपि ऽरलो व्युपधाद्ऽ इति विकल्पोऽत्र कस्मान्न भवति ? नोपधग्रहणसामर्थ्यात् । ननु ऋकारोपधो नोपधग्रहणस्य व्यावर्त्यः सम्भवति ऽऋफ हिंसायाम्ऽ- अर्फित्वेति, नैतदस्ति; त्रैशब्द्यं ह्यनयोर्धात्वोर्भवति । सति तावत्, अनोपधस्य ऽन क्त्वा सेट्ऽ इति निषेधे सति अर्फित्वेति भवति, नोपधस्य त्वस्मिन्विकल्पे-ऋफित्वेति । असत्यपि नोपधग्रहणे सर्वत्रास्मिन्विकल्पे प्रवृतेऽपीदमेव रूपत्रयं भवति । अन्तग्रहणं ज्ञापनार्थम्-यत्नमन्तरेणास्मिन्प्रकरणे न तदन्तविधिर्भवतीति, तेनोतरसूत्रे ऽऋतःऽ इति धातुर्गृह्यते, न ऋदन्तः ॥ वञ्चिलुञ्च्यृतश्च ॥ १।२।२४ ॥ ऽवञ्चु गतौऽ भौवादिः, ऽवञ्चु प्रलम्भनेऽ चुरादिः,सोऽपि गृह्यते, ऽअनित्यण्यन्ताश्चुरादयःऽ इति । ऽलुञ्च अपनयनेऽ, ऋतिः सौत्रो धातुः ऽऋतेरीयङ्ऽइति, स च घृणायां वर्तते ॥ तृषिमृषिकृशेः काश्यपस्य ॥ १।२।२५ ॥ ऽञितृषा पिपासायाम्ऽ,ऽमृष तितिक्षायाम्ऽ, ऽकृशतनूकरणेऽ । काश्यपग्रहणं पूजार्थमिति । ऽकाश्यपस्यैतद्विषयं विज्ञानं नान्येषाम्ऽ इत्यसाधारणज्ञानोद्भावनमाचार्यस्य पूजाद्वारेण शास्त्रस्यापि पारम्पर्यप्रतिपादनेन प्रामाण्यप्रितपादनात् पूजा भवति ॥ रलो व्युपधाद्धलादेः संश्च ॥ १।२।२६ ॥ क्त्वाप्रत्ययस्य ऽन क्त्वा सेट्ऽ इति कित्वे प्रतिषिद्धे सनोऽप्यकित्वे स्वतः सिद्ध उभयत्र विधिमुखेनेदं प्रवर्तत इत्याह-वा कितौ भवत इति । दिद्योतिषते इति । ऽद्यौतिस्वाप्योः संप्रसारणम्ऽ । एषिषिषतीति । इटि कृते--ऽअजादेर्द्वितीयस्यऽ ॥ ऊकालोज्झ्रस्वदीर्घप्लुतः ॥ १।२।२७ ॥ ऊः कालो यस्य स ऊकालः ऽतपरस्तत्कालस्यऽ इतिवन्निर्देशः समर्थनीयः । एतच्च संज्ञिनो विशेषणम्, च ऽऊऽ इत्येकस्यैव शब्दस्योच्चारणाद्विशेषणस्यैकत्वात् संज्ञाप्येकैवेति यश्चोदयेत् तं प्रत्याह--ऊ इति त्रयाणामित्यादि । प्रश्लेषणम् उ प्रश्लिष्टम्, तेन निर्देशः उ प्रश्लिष्टनिर्देशः । तेन विशेषणत्रयपरिच्छिन्नास्त्रयः संज्ञिन इत्यर्थः । प्रश्लेषणे प्रमाणमाह-ह्रस्वेति । ह्रस्वदीर्घप्लुत इति न तावदेका संज्ञा; गौरवादनावृतेश्च । अतस्तिसृणां संज्ञानां द्वन्द्वोऽयम् । न चैकस्यानेकसंज्ञाकरणे प्रयोजनमस्ति । लुगादिसंज्ञास्वपि तद्भावितत्वेन प्रत्ययादर्शनस्य भेद आशितः, प्रकारान्तरासम्भवाद् । इह तु निर्देश एव त्रयाणां सम्भवति । तस्मात्संज्ञानां त्रित्वात् संज्ञिनामपि त्रित्वमनुमीयत इति भावः । ऽबहुवचननिरासार्थमेकवद्भावःऽ इत्युक्तम्, समाहारद्वन्द्व इत्यर्थः । ऽस नपुंसकम्ऽ कैत्येततु न भवतीत्याह-पुंल्लिङ्गमनिर्देश इति । सौत्र इति भावः । प्रश्लेषे क्रममाह- उ ऊ ऊ३ इत्येकं काल इति । उकारादीनां परिच्छेदको यः कालो निमेषादिः, तत्काल इत्यर्थः । कुतः पुनरवसितमेष एव क्रम इति ? आदौ मध्ये वा त्रिमात्रे प्लुताश्रयः प्रकृतिभावः प्राप्नोति, तथा मध्येऽन्ते वा मात्रिके ऽद्वन्द्वे घिऽ इत्येतद्वाध्येतेति चेति, न; अनेन हि प्लुतसंज्ञा, ततश्चादौ मध्ये वा पठितस्य त्रिमात्रस्य प्लुतसंज्ञैव न, कुतः प्रकृतिभावः ! यदि च मात्रिको मध्येऽन्ते वा स्यात्, ह्रस्वसंज्ञैव न स्यात् कुतो घिसंज्ञा ! कुतस्तरां पूर्वनिपातः ! एवं तर्हि ज्ञापकात्सिद्धम्, यदयम् ऽविभाषा पृष्टप्रतिवचने हेःऽ इति हेः प्लुतं शास्ति, तज् ज्ञापयति-नान्ते मात्रिक इति । कथं योऽन्ते स प्लुतः ? प्लुतस्य प्लुतवचनमनर्थकम् । अनन्तरतमप्लुतार्थमेतत्स्यादिति चेत्, न हि सत्यां गतौ परिभाषा बाध्या । यच्च ऽसुपि चऽ इति दीर्घत्वं शास्ति, तज् ज्ञापयति-न मध्ये मात्रिक इति । कथं यो मध्ये स दीर्घः ? दीर्घस्य दीर्घवचनमनर्थकम् । यच्च ऽओमभ्यादानेऽ इत्योमः प्लुतं शास्ति, तज् ज्ञापयति--द्विमात्रिको नान्त्य इति । कथं योऽन्ते स प्लुतः ? प्लुतस्य प्लुतवचनमनर्थकम् । दधि,मध्विति । रूपोदाहरणे । कुमारीत्यादि कार्योदाहरणम् ऽहल्ङ्याब्भ्यःऽ इति दीर्घाश्रयः सुलोपो भवति । देवदत३ अत्र न्वसीति । ऽअनन्त्यस्यापि प्रश्नाख्यानयोःऽ इति प्लुतः । देवदत त्वमत्र भवसीति प्रश्नः । नुशब्द प्रश्नं द्योतयति । देवदतशब्दात्परस्य सोः ऽससजुषो रुःऽ इति रुत्वम्, ऽअतो रोरप्लुतात्ऽ इत्युत्वे प्रतिषिद्धे ऽभोभगोअघोअपूर्वस्य योऽशिऽ इति यत्वम्, ऽलोपः शाकल्यस्यऽ । उकारोऽयमण्, तेन द्विमात्रयोरपि ग्रहणाद् ह्रस्वसंज्ञा प्राप्नोति । न च दीर्घप्लुतसंज्ञाभ्यां बाधः; एकसंज्ञाधिकारादन्यत्र संज्ञानां समावेशाभ्युपगमाद्, अत आह-कालग्रहणमिति । कालग्रहणं तावदुकारादिभिः प्रत्येकमभिसम्बध्यते, ऊकाल इत्यस्मिन्वाक्ये सत्यपि सवर्णग्रहणे कालशब्दस्य न पुनः प्रत्येकपरिसमाप्तिर्युज्यते, कुतः ? एकस्यैव श्रुतत्वात् । द्विमात्रत्रिमात्रौ हि संज्ञित्वेन प्रतीयेते, न तु साक्षादुच्चरितौ । एवं चैकत्वाद्वहुव्रीहेरेक एव संज्ञी, तत्रैकस्य विरुद्धकालद्वयासम्भवेन सवर्णग्रहणाभावाच्छ्४%अत एवोकारः कालविशेषणमिति कालग्रहणं संज्ञिनः परिमाणार्थम् । यद्वा-ऊ अजित्येव कालार्थो लभ्यते, कथम् ? उकारादयोऽच्त्वं न व्यभिचरन्तीति नाच्त्वेन ते विशेष्यन्ते, अपि तु तैरच् । न चाज्मात्रस्योकारादित्वमुपपद्यत इति सामानाधिकरण्यान्यथानुपपत्या तत्सदृशस्याचः प्रतिपतिः । तत्र च स्थानसाम्यमसम्भवान्न गृह्यते, प्रयत्नसाम्यं चाव्यभिचारीति कालसाम्यमेव ग्रहीष्यते, नार्थः कालग्रहणेन । तत्क्रियते श्रूयमाणेनैव कालं विशेषयितुमिति कालग्रहणं परिमाणार्थम् । आलुयेति । ह्रस्वाश्रयस्तुङ् न भवति । तितौच्छत्रमिति । असत्यज्ग्रहणे चद्वयसमुदायस्य प्रत्येकवर्णकालसंकलनया द्विमात्रत्वाद्दीर्घसंज्ञा स्याद् । यस्तु मध्येऽर्द्धमात्राकालः सवर्णकालो न भवतीति समुदायस्य द्विमात्रत्वं न व्याहन्तीति स्यादेव प्रसङ्गे । अज्ग्रहणे तु न भवति; अच्समुदायस्यानच्त्वात् । यद्यपि वर्णग्रहणे जातिग्रहणम्, सा तु जातिरेकैकव्यक्तिव्यङ्ग्या न समुदायव्यङ्ग्या, तेन दीर्घसंज्ञायामभावात् ऽदीर्घात्ऽऽपदान्ताद्वाऽ इति तुग्विकल्पो न भवति । न च सत्यपि विकल्पे तेन मुक्ते ह्रस्वाश्रयस्तुग् लभ्यते; समुदाये कार्यमारभ्यमाणेऽवयवानां स्वकार्यं प्रत्यव्यापारात् ॥ अचश्च ॥ १।२।२८ ॥ ऽइको गुणवृद्धीऽ इत्यनेन समानमिदम् । स्वसंज्ञया विधाने नियमार्थमित्यत्र युक्तिमाह-अजिति वर्तत इति । ततश्च ह्रस्वादिशब्दा इहानुवृता नाचमुपस्थापर्यान्त, तस्य स्वयमुपस्थानादिति स्वरूपपदार्थका आश्रीयन्ते । तेन ह्रस्व इत्येवं योऽज्विधीयते सोऽचः स्थाने भवतीत्ययमर्थः सम्पद्यते । एवं दीर्घप्लुतयोः । द्यौरित्यादि । ऽदिव औत्ऽ ऽपथिमथ्यृभुक्षामात्ऽ,ऽत्यदादीनामःऽ,ऽदिव उत्ऽ इति औकारादयो न संज्ञया विधीयन्ते इति हल एव स्थाने भवन्ति ॥ उच्चैरुदातः ॥ १।२।२९ ॥ उदातादिशब्दा इत्यादि । सत्यं प्रसिद्धा एव ते, कुत्र प्रसिद्धाः ? धर्ममात्रे स्वरे, न तु तद्वत्यचि । ततस्च ऽउदातादनुदातस्य स्वरितःऽ इति स्वरिताख्यस्य धर्मस्यैव विधिः स्यात्, न च धर्मधर्मिणोः स्थान्यादेशभावः संभवतीति ऽषष्ठी स्थानेयोगाऽ इत्यस्यानुपस्थानात् तदङ्गभूतम् ऽतस्मादित्युतरस्यऽ इत्येतदपि न प्रवर्तेतेति पूर्वस्याप्यचः स्वरितप्रसङ्गः । स्यादेतत्-यथा ऽकृपो रो लःऽ इत्यत्र ऋकारस्य रेफस्य लृकारस्थे लकारेऽपि विहिते कृत्स्नस्य वर्णस्य कृत्स्न एव वर्णो भवति, तद्वदिहापि धर्मिणोरेव स्थान्यादेशभावो भविष्यतीति युक्तं तत्र रेफलकारावृकारलृकारयोरात्मभूतौ न तावन्तरेण तावुच्चारयितुं शक्यौ, इह तूदातादिकमन्तरेणाप्यच उच्चारणं शक्यम्, दृष्ट्ंअ च भाषायामिति धर्ममात्रमेवादेशः स्यात् । नन्वेवं स्थिते स्थान्यपि धर्म एवेति युक्त एव परिभाषाव्यापारः, सत्यम्; वर्णमात्रधर्मोऽयमुदातादिरिति व्यामोहनिवर्तनेनाचामेवायं धर्मो न हलामिति दर्शयितुमिदमारब्धम् । अत एव वर्णधर्मे इति सामान्येनोक्तम् । तद्गुणेऽचीति । स उदातादिर्गुणो यस्य । एतेन वस्तुतोऽज्धर्मत्वमुदातादेर्दर्शितम् । तथा हि, अन्तरेणापि हलमच एष धर्मा दृश्यते-आ ते पितर्मरुतां सुम्नमेरु, यथा आकारस्य, नान्तरेणयं व्यञ्जनस्योच्चारणमपि भवति, कुत एव स्वरः ! यदि च हलामप्येते गुणास्ततो हलामचां च पृथक् स्वरोऽप्युपलभ्येत । यतस्तु खल्वचामेव स्वरमनुविदधति हलस्ततो निश्चीयते-अजुपरागादेषु स्वरप्रतिभासो न स्वत इति । अजुपरगश्च पूर्वपरसंनिधानेऽपि परेणैव भवति, न पूर्वेण । परिभाष्यन्त इति । केचिदाहुः-प्रदेशे लोकप्रसिद्ध्या हलामचां च ग्रहणे प्राप्तेऽचामेव ग्रहणं नियम्यते इति परिभाषेयमिति । अन्ये तु -धर्मिण्यप्रसिद्धत्वात् संज्ञात्वेन परिभाष्यन्ते इति व्याचक्षते । उच्चै रित्यस्याधिकरणप्रधानत्वात् क्रियापेक्षत्वाच्चाधिकरणस्योपलभ्यमान इत्युक्तम् ॥ श्रुतिप्रर्षो न गृह्यत इति । यदि गृह्यते उपांशुप्रयोगे न स्यादित्यव्याप्तिः, श्रुतिप्रकर्षस्य चानवस्थितत्वाद्यदेव कञ्चित्प्रत्युच्चैस्तदेव कञ्चित्प्रति नीचैरिति सर्वमुदातं स्यात्, सर्वं चानुदातमित्यमतिव्याप्तिव्यस्था च स्याद् इति भावः । स्थानकृतमित्यादि । उच्चता नाम प्रमाणविशेष ऊर्ध्वतापर्यातः, तत्र ताल्वादिबसंन्धो वर्णानामन्तरङ्ग इति स्थानसंबन्धिन्युच्चता गृह्यते, तत्कृतमुच्चैस्त्वं संज्ञिनो विशेषणम् । ननु पूर्वमुच्चैरुपलभ्यमान इति ताल्वादिस्थानवृत्तिरुच्चैः-शब्दो दर्शितः, इह तूच्चैःस्थाननिषपन्नत्वाद् अजेवोच्चैरित्युच्यते इति उक्तिविरोधः, न; पूर्वमक्षरार्थ उक्तः, इह तु वस्त्वर्थो व्याख्यातः । ननु चोच्चैः स्थान उपलभ्यमान इत्याश्रितेऽपि प्रांशुपुरुषोच्चारितोऽनुदातोप्युदात एव स्याद्, वामनपुरुषोच्चारित उदातोऽप्यमुदातः स्यात्; तत्रान्योऽन्यमुच्चतानीचतायोगाद्, अत आह-ताल्वादिषु हीति । ताल्वादीनि स्थानानि भागवन्ति, भागाश्चौतराधर्येण व्यवस्थिताः । तत्र यः समान इति । एकपर्यायोऽयं समान शब्दः । तेनायमर्थः-एकस्मिंस्ताल्वादिके स्थाने ऊर्ध्वाधरभगयुक्ते ऊर्ध्वभागेनोच्चार्यमाणोऽजदातसंज्ञो भवति । एवं चोच्चैरित्यस्योर्ध्वभाग इत्यर्थः । सर्वश्चायमर्थो लोकप्रसिद्धेरेव लभ्यते, सूत्रं तु व्यामोहनिवृत्यर्थम् । ऊर्ध्वभागनिष्पतेरप्रत्यक्षत्वात् तन्निश्चये लिङ्गमाह-यस्मिन्निति । आयाम इत्यस्य विवरणं निग्रहः । रूक्षतेत्यस्य विवरणम् अस्निग्धतेति । संवृततेति । अणुता । अत एव वायुः शनैर्निष्क्रामन् गलावयवान् शोषयतीति स्वरस्य रूक्षता भवति । ये ते के इति । यतत्किंभ्यो जसि त्यादद्यत्वम्, ऽजसः शीऽ, आद्गुणः,ऽएकादेश उदातेनोदातः ऽ ॥ नीचैरनुदातः ॥ १।२।३० ॥ अजिति वर्तते इति । तेन हल् स्रंसनधर्मेणानुदातसंज्ञो न भवति, अन्ववसर्ग इत्यस्य विवरणं मार्दवमिति, शैथिल्यमित्यर्थः । मृदुतेत्यस्य स्निग्धतेति । उरुतेत्यस्य महतेति । महत्वादेव च शीघ्रं वायोर्निष्क्रमणाद्गलावयवानामशोषणात्स्वरस्य स्निग्धता भवति । अनुच्चानीति । सर्वादावेवमेव पठात् । फिषि तु ऽसिमस्याथर्वणेऽ इत्यन्त उदात इत्युक्तम् । अनाथर्वणेऽपि तुच्छन्दस्यन्तोदातत्वं दृश्यते, आद्रात्री वासस्तनुते सिमस्मै, उच्छ्४%अक्रमजते सिमस्मादिति, नमस्ते रुद्रेति, ऽतेमयावेकवचनस्यऽ इत्यत्र ऽअनुदातं सर्वम्ऽ इत्यधिकारातेशब्दोऽनुदातः । रुद्रादयोऽप्यामन्त्रितनिघातेन । पदकाले चानुदातस्य श्रवणम् । संहितायां तु ऽस्वरितात्संहितायाम्ऽ इत्यैकश्रुत्यं भवति ॥ समाहारः स्वरितः ॥ १।२।३१ ॥ सामर्थ्याच्चात्रेति । पारिभाषिकयोरुदातानुदातयोरचोः समाहारूपस्याचः क्वचिदप्यसम्भवः सामर्थ्यम् । ननु च समाहरणं समाहारः, विप्रकीर्णानामेकत्र राशीकरणमेकधर्मयोर्योगो वा, यथा-पञ्चपूली, षण्णगरी दृष्टेति । तत्र पूर्वो मूर्तानामेव, उतरस्तु धर्मयोरपि सम्भवति; किं तु अचा सामानाधिकरण्यं न घटते, न हि वर्णधर्मयोरुदातानुदातयोः समुदायरूपः कश्चिदज्भवतीत्यत आह -तौ समाह्रियेते अस्मिन्नचीति । नानेनाधिकरणसाधनत्वं समाहारशब्दस्य दर्शतम् । तत्र हि ऽकरणाधिकरणयोश्चऽ इति ल्युटा भवितव्यम् । वासरूपविधिश्च नास्ति; क्तल्युट्तुमुन्खलर्थेषु वासरूपविधिर्नास्तीति वचनात् । तस्मादर्थकथनमात्रमेतत् । सामानाधिकरण्यं त्वर्शाअदित्वादच्प्रत्ययान्तत्वेन समर्थंनीयम् । शिक्यम्, कन्येति । ऽशिल्पशिक्यकाश्मर्यधान्यकन्यारा जन्यमनुष्याणामन्तःऽ इति फिट्सूत्रेणान्तःस्वरितत्वम् । सामान्य इति । सामसु साधुः ऽतत्र साधुःऽ इति यत्, ऽतित्स्वरितम्ऽ । क्वेति । ऽकिमोऽत्ऽ,ऽक्वातिऽ ॥ तस्यादित उदातमर्धह्रस्वम् ॥ १।२।३२ ॥ आदौ उ आदितः, सप्तम्यन्तातसिः । अर्द्धह्रस्वमिति । ऽअर्द्धं नपुंसकम्ऽ इति समासः । ह्रस्वशब्द उभयलिङ्गः-ऽह्रस्वो नपुंसकेऽ, ऽह्रस्वंलघुऽ इति । तदिह परवल्लिङ्गत्वेन नपुंसकत्वम् । उक्तपरिमाणस्याचो ह्रस्वसंज्ञा कृतेति यत्रैव तस्यार्धमिति दीर्घप्लुतयोरेतद्विभागवचनं न स्यादित्याशङ्क्याह--अर्द्धह्रस्वमिति । चेत्यादि । ह्रस्वस्य हि मात्रा भवति अतोऽर्द्धह्रस्वग्रहणेनार्द्धमात्रोपलक्ष्यते । इह प्रकृतत्वादेव स्वरितस्य विभागाख्यानसिद्धे तस्येति वचनं स्वरितमात्रपरिग्रहार्थम् । यदि चार्द्धह्रस्वग्रहणमर्द्धमात्रोपलक्षणं तत्र स्वरितमात्रपरिग्रहोऽर्थवान् भवति । ह्रस्वग्रहणमतन्त्रमिति । अप्रधानम् उपलक्षणत्वाद्, यथा--काकेभ्यो दधिरक्ष्यतामित्यत्र काकाः । नन्वेवमप्याष्टमिकस्वरितस्य विभागो न सिद्ध्यति,तस्यासिद्धत्वात्, नैष दोषः; इत आरभ्य नव सूत्राणि असिद्धकाण्डे ऽउदातादनुदातस्यऽ इत्यस्मात्पराणि पठितव्यानि, किं प्रयोजनम् ? इदं तावद्विभागाख्यानमाष्टमिकस्यापि भवति । उतरत्रापि प्रयोजनं तत्र तत्र वक्ष्यामः । एकश्रुतिर्वेति । उदातभागस्य पटुअत्वात्पटुअत्वकृतौ विकल्पः । पटुअत्वे हि तदुपरगातद्रूपतामिवापन्नो नानुदातव्यपदेशमर्हति, नाप्युदातव्यपदेशम्; उपरागमात्रत्वात् । तेन भेदतिरोधानलक्षणमैकश्रुत्यं परो भागः प्रतिपद्यते । अन्वर्थं वा एकश्रुतित्वम्, पूर्वभागश्रुतेरेकाऽभिन्नाकारा श्रुतिरस्येति कृत्वा । अध्यर्थमात्रानुदातेति । एकश्रुतिर्वेति नोक्तम्; पूर्वानुसारेण गम्यमानत्वात्, लघुना वा महतोऽनुपरगात् । माणवका३ माणवकेति । ऽस्वरितमाम्रेडितेऽसूयाऽ इति प्लुतः स्वरितः ॥ एकश्रुति दूरात्संबुद्धौ ॥ १।२।३३ ॥ इह यद्यप्यामन्त्रितान्तस्य पदस्याप्यभिमुखीकरणं प्रति सामर्थ्यम्, तथापि ह्यर्थविशेषस्य कस्यचिदनुष्ठेयतया । संबोधनाउसंबुद्धिः, अन्तर्भावितण्यर्थो बुद्धिः, तथा च संबोधयति येनेति णिच् प्रयुक्तः, तत्र च वाक्यस्यैव करणभावो न पदस्येति मत्वाह--एकश्रुति वाक्यं भवतीति । कतरत्पुनस्तदित्यत आह--दूरादिति संबोधनं संबुद्धिरिति । अनेनान्वर्थस्य संबुद्धिशब्दग्रहणं न पारिभाषिकस्येति दर्शयति । पारिभाषिकस्य हि ग्रहणे, देवा ब्राह्मणा इत्यत्र न स्यात् । अन्वर्थग्रहणं च दूरादित्यनेन सम्बन्धाल्लभ्यते, न ह्यामन्त्रितैकवचनस्य दूरत्वमदूरत्वं वा सम्भवति । संबोधनस्य तु क्रियारूपत्वाद् अपादानतया दूरादिति विशेषणसम्भवात् । दूरत्वं च न देशस्वरूपागतमाश्रीयते, अनवस्थितत्वात्; किन्तु सम्बोधनक्रियापेक्षया दूरत्वम् । यावति देशे प्राकृतप्रयत्नोच्चारितं सम्बोध्यमानेन न श्रूयते, किन्त्वधिकं प्रयत्नमपेक्ष्यते, तत्संबुद्धौ दूरं भवति । स्वराणामित्यादि । एकश्रुतिउस्वरूपाख्यानम्, भेदीतरोधानमित्यनन्तरोक्तस्यैव विवरणम् । आगच्छत्यादि । दूराद्धूते वाक्यस्य टेः प्लुतः उदातः, परिशिष्टमेकश्रुति । ननु च प्लुतैकश्रुत्योर्द्वयोरपि दूरात्संबोधनं द्योत्यमिति फलैक्याद्विकल्पो युक्तः, कथं समावेशः ? उच्यते, वाक्यमेव प्रतिपादकत्वात् संबुद्धौ करणं प्लुतैकश्रुतीत्यस्यैव संस्कारमात्रम्, यथा-विषयग्रहणे चक्षुष उन्मीलनादि, तत्कुतः समानफलत्वमिति वाक्यापेक्षया च समावेशः । अन्त्याजपेक्षया तु बाध्यबाधकभाव एव । प्रत्युदाहरथणे त्रैस्वर्यमेव भवति । तत्राङ् ऽउपसर्गाश्चाभिवर्जम्ऽ इत्याद्यौदातः । गच्छेति तिङ्न्तस्यऽतिङ्ङतिङःऽ इति निघातः । भोःशब्दः ऽनिपाता आद्यौदाताःऽ इति आद्यौदातः, शेषयोरामन्त्रितनिघातः ॥ यज्ञकर्मण्यजपन्यूङ्खसामसु ॥ १।२।३४ ॥ ऐकश्रुत्यमिति । बहुव्रीहेर्भावप्रत्ययः, चातुर्वर्ण्यादित्वाद्वा कर्मधारयात्स्वार्थे ष्यञ् । संपाठ इति । स्वाध्यायकाले अग्निर्मूर्धा दिवः ककुत्, ऽअङ्गेर्नलोपश्चऽ इत्यग्निशब्दः प्रत्ययस्वरेणान्तोदातः, ऽमुवÕ बन्धनेऽ, ऽकनिन्युवृषितक्षिऽ इति वर्ततमाने ऽश्वन्नुक्षन्पूषन्तक्षन्ऽ इत्यत्र सूत्रे मूर्धन्शब्दः कनिन्प्रत्यान्तोऽन्तोदातो निपातितः । ऽदिवु क्रीडादौऽ, दिवेरन्तो डिविः षष्ठ।लेकवचनस्य ऽऊडिदम्ऽ इत्युदातम्, ककुच्छब्दः प्रातिपदिकस्वरेणान्तोदातः, ऽपातेर्डतिःऽ,पतिशब्दः प्रत्ययस्वरेणाद्यौदातः, प्रथेः षिवन् संप्रसारणं च षित्वात् ङीष्, षठ।लेकवचनस्य ऽउदातयणो हल्पूर्वात्ऽ इत्युदातत्वम्, इदंशब्दः प्रतिपदिकस्वरेणान्तोदातः, आप्नोतेः क्विब् ह्रस्वश्च, ऽऊडिदम्ऽ इति विभक्तेरुदातत्वम् । ऽरि गतौऽ, ऽस्रुरिभ्यां तुट् चऽ इति असुन्प्रत्ययः, नित्स्वरेणाद्यौदातो रेतः शब्दः । जिन्वतीति । जिन्वतेः प्रीणनार्थस्य तिपि निघातः ऽप्रणवष्टेःऽ इति प्रयोगकाले प्रणयः । ममेत्यादि । ऽयुष्मदस्मदोण्Çóसिऽ इत्याद्यौदातत्वम् । अग्नेशब्दस्यामन्त्रिनिघातः, वर्चशशब्दोसुन्प्रत्ययान्तः, विपूर्वाद् ह्वयतेः ऽह्वः संप्रसारणं चऽ इत्यप्प्रत्यये थाथादिसूत्रेणान्तोदातत्वम् । जपोऽनुकरणमन्त्र इति । यद्यपि स एव मन्त्र उच्चार्यते, तथापि वर्णाभिव्यक्त्यनभिव्यक्तिभ्यां भेदपरिकल्पनयाऽनुकरणव्यवहारः । अत एवाह--उपांशुप्रयोग इति । यथा जले निमग्नस्य पाठः । क्वचिदकरणमन्त्र इति पाठः, अनेनेदं कुर्यादिति चोदितः करणमन्त्रः, ततोऽन्योऽकरणमन्त्रः । प्रसिद्धस्तु पाठोऽन्तः करणमन्त्र इति । ननु वागिन्द्रियेण शब्द उच्चार्यते स कथमन्तः करणेन सर्वेन्द्रियसाधारणेन व्यपदिश्यते, सत्यम्; वागिन्द्रियस्य स्थूलो व्यापार उपांशुप्रयोगे नास्ति, स एव च तद्व्यापारत्वेन प्रसिद्ध इति सूक्ष्मव्यापारे मन एव प्रधानं मन्यते । न्यूङ्खा इत्यादि । षोडशेति पाठः, ओकारा इति च, न त्वेते मकारान्ताः, तेषु प्रथमसप्तमत्रयोदशास्त्रय उदातास्त्रिमात्राः, इतरे त्रयोदशा अनुदाता अर्धौकाराः । एतच्च आश्वलायनेन चतुर्थेऽहनीत्यस्मिन् खण्डे लक्षणेनोक्तमुदाहृतं च । ऽषडोङ्काराःऽ इति पाठे मूलान्तरं मृग्यम् । ए३ विश्वमित्यादि । एशब्दो गीतिपूरणः, निपात इत्यन्ये । विश्वशब्दः क्वन्प्रत्ययान्त आद्यौदातः, विश्वमन्त्रिणं पाप्मानं संदहेति सम्बन्धः, गीतिवशादेशब्दोऽनेकमात्रः । वाक्यविशेषस्था गीतय इति । तदुक्तमृषिणा-ऽगीतिषु सामाख्याऽ इति ॥ उच्चैस्तरां वा वषट्कारः ॥ १।२।३५ ॥ वषट्शब्देन चात्र वौषट्शब्दो लक्ष्यते इति । समानार्थत्वाद् द्वावपि हि तौ देवतासंप्रदानस्य द्योतकौ । कारग्रहणं तु ज्ञापकम्-अवर्णादपि कारप्रत्ययो भवतीति । तेन एवकार इत्यादि सिद्धं भवति । यद्येवमिति । लक्षणायां हि प्रतिपतिगौरवं भवतीति भावः । विचित्रा हीति । क्वचिदक्षरलाघवमाश्रीयते, क्वचित्प्रतिपतिलाघवमिति वैचित्र्यम् । उच्चैस्तरामिति । उच्चैःशब्द उदातभवने वर्तते, तत्र भवनक्रिययापेक्षया प्रत्ययः । उदाततर इत्यर्थो विवक्षितः, प्रकर्षश्च वौषट्शब्दे ऽब्रूहिप्रेषयश्रौषड्वहानामादेःऽ इति यः प्लुतो विहितः तदपेक्षया वेदितव्यः । सन्त्युदाताः, अयं तूदाततरः । अन्त्यसदेशस्येत्येके । प्लुतोदातस्य च विधानसामर्थ्याच्छेषनिघाताभावोऽसिद्धत्वाद्वा द्वयोरप्यचोरुदाततरो भवतीत्येके । तदा याज्यान्तापेक्षः प्रकर्षः स्वार्थि कस्तरबित्यन्ये । ततो ह्युदातमात्रम्प्रथमस्य सिद्धमिति द्वितीयस्याचो विधीयते । वषट्कारशब्दोऽयं मन्त्रब्राह्ममयोः कल्पसूत्रेषु वौषट्शब्दे निरूढः । वषट् क्रियतेऽनेनेति वषट्कारः । ऽमा मान्प्रमृजऽ इति मन्त्रे, ऽत्रयो वै वषट्काराः वौषडिति वषट्करोतिऽ इति ब्राह्मणे च वषट्कारोऽन्त्यः । ऽसर्वत्रोच्चैस्तरां बलीयान्याज्यायाऽ इति सूत्रे उच्चैस्तरामिति श्रुतिप्रकर्षो विधीयत इत्याहुः ॥ विभाषा च्छन्दसि ॥ १।२।३६ ॥ यज्ञकर्मणीत्यस्य निवृत्यर्थमिति । ननु यद्ययं योगो यज्ञकर्मणि स्यात्, पूर्वो योगो निर्विषयः स्यात् । न च जपन्यूङ्खसामान्यस्य विषयः, जपादिव्यतिरिक्तस्तु पूर्वस्य विषय इति व्यवस्था; तथा हि सत्यत्रैव जपादिग्रहणं कर्तव्यं स्यात्, किं च्छन्दोग्रहणेन ? च्छन्दोग्रहणातु च्छन्दोमात्रोऽयं विकल्प इति गम्यते, ततश्च यज्ञकर्मणीत्यस्यानुवृतौ पूर्वो नित्यो विधिर्निर्विषयः स्यात् ? एवं मन्यते--ऊहमन्त्राणामच्छन्दस्त्वाते पूर्वयोगस्य विषया इति च्छन्दोरूपेषु मन्त्रेष्वयमेव विकल्पः स्यादिति । यद्यौउहमन्त्रेषु सावकाशः पूर्वो योगः, तदा यज्ञकर्मणीत्यस्य विभाषाग्रहणेन विर्वृतावपि च्छन्दोरूपेष्वनूहितेषु मन्त्रेषु परत्वादयमेव विकल्पः प्राप्नोति, नैष दोषः; यज्ञकर्मणीत्यत्र कर्मग्रहणं यज्ञानुष्ठानमात्रे सर्वत्र नित्यो विधिर्यथा स्यादित्येवमर्थम् । यद्यप्यूह्यमाना मन्त्रा न भवन्ति, तथाप्यमन्त्राणामेव तेषां यज्ञकर्मणि प्रयुज्यमानानां पूर्वयोगस्य विषयत्वं भवत्येव । ये तु जपादिपर्युदासेन मन्त्राणामेव तत्र ग्रहणमिच्छन्ति, तेषां सामर्थ्यलभ्या यज्ञकर्मणीत्यस्य निवृत्तिरिति विभाषाग्रहणमनर्थकं स्यात् । इष इत्यादि । इडन्नम्, ऊर्ग् बलम् । चतुर्थेकवचनस्य ऽसावेकाचःऽ इत्युदातत्वम् । ऽत्वामौ द्वितीयायाःऽ इति त्वादेशोऽनुदातः । अग्ने त्यामिन्त्रिताद्यौदातत्वम् । आणुपसर्गः । याहीति । ऽतिङ्ङतिङःऽ ऽवी गत्यादिषुऽ, ऽमन्त्रे वृषेषपचऽ इत्यादिना क्तिन्नुदातः, अग्निशब्दोऽन्तोदातः । अमि पूर्वत्वम् ऽएकादेश उदातेनोदातःऽ । ईले इति । ऽईडस्तुतौऽ लडुतमैकवचनम् । बह्वृचा द्वयोरचोर्मध्ये स्थितस्य डकारस्य लकारं विदधति । पुरोहितम् । ऽपुरोऽव्ययम् ऽ इति गतिसंज्ञा, ऽगतिरनन्तरःऽ इति पूर्वपदप्रकृतिस्वरः, पुरः शब्दोऽसिप्रत्ययान्तोऽन्तोदातः । शन्शब्दो निपातः, नसादेशोऽनुदातः देवडिति पचादिषु पठ।ल्ते, टित्वान् ङीप्,ऽअनुदातस्य च यत्रोदातलोपःऽ अभिपूर्वादिषेः क्तिनि शकन्ध्वादित्वात् पररूपेऽभिष्टेत्यादौ च ऽनिति कृत्यतौऽ इति पूर्वपदप्रकृतिस्वरेणाभिशब्दस्यान्तोदातत्वं चतुर्थ्येकवचनम् । न सुब्रह्मण्यायां स्वरितस्य तूदातः ॥ १।२।३७ ॥ सुब्रह्मण्या नाम निगद इति । अपादबन्धे गदिर्वर्तते, यथा गद्यमिति, निशब्दः प्रकर्षे । उच्चैरपादबन्धं यजुरात्मकं यन्मन्त्रवाक्यं पठ।ल्ते स निगदः, नितरां गद्यत इति कर्मणि ऽनौ गदनदऽ इत्यप्, तस्य च सुब्रह्णण्याशब्दोपलक्षितत्वात् सुब्रह्मण्याशब्दोपरित्यक्तिस्त्रीलिङ्ग एव नाम । ओङ्कारस्तित्स्वरेण स्वरित इति सुब्रह्मणि साधुरिति यत्प्रत्ययः, तित्स्वरेण स्वरितः । तस्य टाबेकादेशः स्वरितानुदातयोरान्तर्यात् स्वरितः, ततो निपातेर्नौशब्देन ऽओमाङेश्चऽ इत्युदातस्वरितयोरेकादेशः स्वरित एव । ऽआमन्त्रितमाद्यौदातम्ऽ इति आष्टमिकस्तु निघातोऽसमानवाक्यत्वान्न भवति । तस्यानेनेति । न च तस्यासिद्धत्वम्, इदं हि प्रकरणमसिद्धकाण्ड उत्क्रष्टडव्यमित्युक्तम् । अत एवास्मिन्नुदाते कृते शेषनिघातोऽपि न भवति; यथोद्देशपक्षेऽनुदातपरिभाषायां कर्तव्यायाम् असिद्धत्वेन वर्ज्यमानाभावात् । तेनेह द्वावप्युदातौ सम्पन्नौ थैति । पश्चिम एकोऽनुदात इति । न च तस्य ऽउदतादनुदातस्यऽ इति स्वरितप्रसङ्गः; प्रकरणोतकर्षेणस्यासिद्धत्वाद्, ऽनोदातस्वरितोदयम्ऽ इति निषेधाच्च । द्वावनुदाताविति । वकारच्छकारौ, शिष्ट्ंअ स्पष्टम् । ऽअसावमुष्येत्यन्तःऽ एतस्मिन्नेव सुब्रह्मण्यानिगदे प्रथमान्तस्य षष्ठ।ल्न्तस्य चान्त उदातो भवति । गार्ग्यो यजते, दाक्षेः पिता यजते--तित्स्वरे प्राप्ते वचनम् । ऽस्यान्तस्योपोतमं चऽ स्यशब्दान्तस्योपोतममुतमं चोभयमुदातं भवति । गार्ग्यस्य पिता यजते ऽवा नामेधयस्यऽ । देवदतस्य पिता यजते ॥ देवब्रह्मणोरनुदातः ॥ १।२।३८ ॥ स्वरितस्योदाते प्राप्ते इति । कथं प्राप्तः, यावताऽसिद्धः स्वरितः ? एवं तर्ह्येतज्ज्ञापयत्याचार्यः-ऽतस्यादितःऽ इत्यारभ्य नबसूत्री ऽउदातादनुदातस्य स्वरितःऽ त्यिस्मात्परा द्रष्टव्येति । उक्तानि प्रयोजनानि, उतरत्र च वक्ष्यामः । सामान्यापेक्षत्वाज्ज्ञापकस्य नवसूत्र्यप्युत्कृष्यते, न सुब्रह्मण्यास्वर एव । द्वयोरपि पदयोरिति । द्वितीयस्य पदत्परस्यापि निघातो न भवति; ऽ आमन्त्रितं पूर्वमविद्यमानवद्ऽ इति पूर्वस्याविद्यमान्त्वात् । प्रथमस्यापि न भवति; भिन्नवाक्यत्वात् ॥ स्वरितात्संहितायामनुदातानाम् ॥ १।२।३९ ॥ अनुदातानामिति बहुवचनं जातौ, तेनैकस्य द्वयोर्बहूनां च भवति--एकस्य पचति, द्वयोराग्निवेश्यः; बहूनां तु वृतावेव दर्शितम् । इतमित्यन्तोदातमिति । इदं-शब्दः प्रातिपदिकस्वरेणान्तोदातः, विभक्तिरनुदाता, त्यादाद्यत्वे ऽअमि पूर्वःऽ ऽएकादेश उदातेनोदातःऽ । विधिकाल एवेति । यद्यप्यत्र विहितस्यानुदातविधानेऽपि न कश्चिद्दोषः, तथापि तत्वेन व्यवहर्तव्यमित्येवमुक्तम् । तस्मात् स्वरितादिति । न च तस्यासिद्धत्वम्; उत्कृष्टत्वाद् नवसूत्र्यास्तेन कार्यं देवदतेत्यादाविवेकश्रुतिर्भवत्येव । गङ्गेप्रभृतीनामिति । न च यमुनेप्रभृतीनां व्यवधानम्; जातेरेकत्वाद्, व्यक्तीनां सतीनामप्यनाश्रितत्वाद् अकिञ्चित्करत्वम् । ततः परेषामिति । ऽनामन्त्रिते समानाधिकरणेऽ इति माणवकशब्दस्याविद्यमानत्वं न भवति । ञवग्रहे मा भूदिति । इदमेव च संहिताग्रहणं ज्ञापकम्--पञ्चमीनिर्देशे कालो न व्यवध्यायक इति । तेन ऽतिङ्ङतिङःऽ इत्यवग्रहेऽपि भवति-अग्निमीले । उदातस्वरितपरस्य सन्नतरः ॥ १।२।४० ॥ परशब्दः प्रत्येकमभिसम्बध्यत इत्याह--उदातः परो यस्मादिति । सन्नशब्देन नीचैरर्थ उच्यते, तेनानुदातत्वं लक्ष्यत इत्याह--अनुदाततर इति । प्रकर्षः स्थान्यनुदातापेक्षः । मातर इत्यनुदात इति । समासैकदेशो निष्कृष्टानुकृतः, देवा इत्यादीनां त्रयाणामामन्त्रितानामेकीभूतानामाद्यौदातत्वे शेषनिघातः । ऽविभाषितं विशेषचने बहुवचनम्ऽ इति विद्यमानपक्षे चामन्त्रितनिघातः, जसः सकारस्य रुत्वम्, तस्य स्रंसनयुक्तस्य ऽअतो रोरप्लुतात्, इति उकारोऽनुदातः, ऽआद्गुणःऽ सोऽप्यान्तर्यतोऽनुदातः, अच्छब्दाकारस्य शेषनिघातः, तयोरनुदातयोः ऽएङः पदान्तादतिऽ इत्येकादेश आन्तर्यतोऽनुदातः । सरस्वतीकारस्येति । ननु च नवसूत्र्युत्कृष्यत इति ज्ञापितम्, ततश्च गङ्गेप्रभृतीनामिव सरस्वतीकारस्यापि पूर्वेणैकश्रुतिरेव प्राप्नोति, कः पुनः सन्नतरस्यावकाशः, यः स्वरितात्परो न भवति ? अग्निरिति । न च विप्रतिषेधेन सन्नतरो लभ्यते; पूर्वत्रासिद्धे नास्ति विप्रतिषेधोऽभावादुतरस्य । एवं तर्हि ऽन मु नेऽ इत्यत्र नेति योगविभागात् सिद्धत्वं भविष्यति । इह देवदतस्य न्यङ् इति ऽन्यधी चऽ इति पूर्वपदप्रकृतिस्वरे ऽउदातस्वरितयोर्यणःऽ इत्यञ्चत्यकारस्य स्वरितः पूर्वस्य सन्नतरं प्रत्यसिद्धो न भवति; प्रकरणोत्कर्षाद् । ऽउदातस्वरितयोःऽ इत्येव सिद्धे परग्रहणं बहुव्रीहावेकवचनविवक्षार्थमिति गङ्गेप्रभृतीनां सन्नतराभावः ॥ अपृक्त एकाल् प्रत्ययः ॥ १।२।४१ ॥ घृतस्पृगिति । ऽक्विन्प्रत्ययस्य कुःऽ इति कुत्वम् । अर्थभागिति । अत्र ऽवेरेपृक्तस्यऽ इति लोपः प्रयोजनम् । एकाल्ग्रहणं किमिति । समुदायद्वारेणायमेकपदविषयः प्रश्नः, अन्यथा प्रत्ययमात्रस्य संज्ञा स्यादिति प्रदेशेषु प्रत्ययग्रहणमेव कर्तव्यं स्यात्, किं सञ्ज्ञया ! यत्र यद्यलन्तस्य स्यात्, केवलस्य चाप्यन्तवद्भावात् अल्ग्रहणं व्यर्थं स्यादिति तत्सामर्थ्यादल्समुदायस्य न भविष्यतीति भावः । दर्विरिति । ऽदृ विदारणेऽ औणादिको विन् प्रत्ययः । वर्णग्रहणे जातिग्रहणादल्समुदाया गृह्यन्ते इति भावः । स्यादेतत्-ऽवेरपृक्तस्यऽ इत्यत्र ऽवोऽपृक्तस्यऽ इत्यस्तु, क्विबादिषु च मा भूदिकारः, न चान्यः प्रत्ययो वकारोऽस्तीति, तन्नः ऽराजनि युधिकृञःऽ राजकृत्वा, तमाचष्ट इति णिचि टिलोपे क्विपि णिलोपे च कृते क्वनिपः सम्बन्धी प्रत्ययो वकारोऽस्ति । अवश्यं च क्विबादीनामुच्चारणार्थे कश्चिदजासंजनीयः, तत्राकारे ऽसृशृभ्यां वःऽ इत्यादिष्वपि लोपः प्रसज्येत । उकारे तु ण्वुलादिषु । अन्यत्र तु गौरवमिति यथान्यासमेव साधीयः । ननु च यद्यल्समुदायोऽपि गृह्यते, अल्ग्रहणमनर्थकं स्याद् । अतो यद्यपि ऽनिपात एकाजनाङ्ऽ इत्यत्रैकग्रहणाद्वर्णग्रहणे जातिग्रहणं ज्ञापितम्, तथाप्यत्राल्ग्रहणसामर्थ्यात्समुदायस्य न भविष्यतीति चिन्त्यप्रयोजनमेकग्रहणम् । तथाऽपृक्तप्रदेशरेष्वल्ग्रहणेनैव सिद्धे नार्थः संज्ञया; नतराम्महत्या, नतमाम्पूर्वनिर्द्दिष्टया । सुरा इति । सुरां सुनोतीति क्विपि तुक् सुरासुतमाचष्टे इति णिचि टिलोपः क्विब् णिलोपः, अत्र धातुसकारस्य ऽहल्ङ्याब्भ्यऽ इति लोपो न भवति, प्रत्ययपरिभाषया सिद्धम् । तिपा साहचर्याच्चैकवचनस्य ग्रहणं सिद्धमिति प्रत्ययग्रहणमपि चिन्त्यप्रयोजनमेव ॥ तत्पुरुषः समानाधिकरणः कर्मधारयः ॥ १।२।४२ ॥ अत्र ऽतत्पुरुषःऽ ऽसमानाधिकरणःऽ इति द्वयोरपि पदयोर्मुख्यार्थत्वे ब्राह्मणराज्यं शोभनमित्यादौ यत्र बाह्यएन पदेन तत्पुरुषस्य सामानाधिकरण्यं तत्रैव संज्ञा स्याद्, न तु परमराज्यमित्यादौ; शब्दान्तरस्याप्रयोगादित्यन्यतरद्गोणार्थमिति स्थिते कामचाराद्यदि तत्पुरुषशब्दो गौणः स्यात् तत्पुरुषार्थानि पदानि समानाधिकरणानीति, ततः सहग्रहणाभावात् प्रत्यकं संज्ञा इति शङ्क्येत, अतस्तत्पुरुष इति पदं मुख्यार्थमित्याह-तत्पुष इति । समासविशेषस्येत्यादि । इतरद्गौणार्थमित्याह-समानाधिकरणपद इति । समानाधिकरणानि पदान्याश्रयत्वेन यस्य सन्ति स तथोक्तः; अवयवद्वारकं सामानाधिकरण्यमौपचारिकमपि पदान्तनिरपेक्षमन्तरङ्गमिति तदेवाश्रीयत इति भावः । भवति ह्यवयवधर्मेण समुदायस्य व्यपदेशः, यथा-समं चूर्णमिति । अत्र ह्यवयवद्वारकं चूर्णस्य साम्यम्, न तु कृत्स्नस्य चूर्णस्यान्येन । परमराज्यमिति, अकर्मधारयेराज्यम् इत्यत्राकर्मधारय इति निषेधादुतरपदाद्यौदातत्वाभावे समासान्तोदातमेव भवति । पाचकवृन्दारिकेति । ऽन कोपधायाःऽ इति प्रतिषेधं बाधित्वा ऽपुंवत्कर्मधारयऽ इति पुंवद्भावो भवति । तत्पुरुष इति किमिति । प्रतिपदोक्तत्वादधिकारावगतेर्वा समानाधिकरणाधिकारविहितस्तपुरुष एव प्रतिपत्स्यत इति प्रश्नः । पाचिकाभार्य इति । अयमेवार्थो दुरवधार इति भावः । ब्राह्मणराज्यमिति । अत्रोतरपदाद्यौदातत्वमेव भवति । अथ ऽपूर्वकालैकऽ इत्यस्य प्रकरणस्यान्ते ऽकर्मधारयऽ इति कस्मान्नोक्तम्, योऽयं समानाधिकरणाधिकारविहितस्तत्पुरुषः स कर्मधारय इति, एवं हि ऽतत्पुरुषः समानाधिकरणऽ इति न वक्तव्यं भवति ? सत्यम्; एकसंज्ञाधिकारातु कर्मधारसंज्ञया तत्पुरुषसंज्ञाया बाधः स्यादिति द्विगोरिव पुनस्तत्पुरुषसंज्ञाविधानाय कर्मधारयपदमुपादेयम् । पुनश्च पर्यायप्रसङ्गे समावेशाय चकारोऽपि वक्तव्यः नन्वेवं करिष्यते-द्विगुकर्मधारयौ चेति ? एवं तु न कृतमित्येव ॥ प्रथमानिर्दिष्ट्ंअ समास उपसर्जनम् ॥ १।२।४३ ॥ समास इत्यधिकरणनिर्देशोऽयम् । कष्टश्रितादयश्च समासाः, तेषु किं प्रथमानिर्द्देष्ट्ंअ भवितुमर्हति ? समासे सति यस्मात्प्रथमा विधीयते, न च तथाभूतं सम्भवति । समासे हि कृते तत एव प्रथमोत्पद्यते, न तदवयवाद् । अन्तर्वर्तिन्या च विभक्त्या श्रितशब्द एव प्रथमानिर्दिष्टो न कष्टशब्दः । सापि न समासे सत्युत्पन्ना, किं तर्हि ? वाक्यकाल एव । निर्दिष्टग्रहणं चानर्थकं स्यात्, समासे प्रथमान्तमित्येव वाच्यं स्यद्, अतो मुख्यस्यासम्भवाद्गौणः समासो गृह्यते इत्याह-प्रथमयेत्यादि । कथं पुनः समास इति शास्त्रस्य ग्रहणमित्याह-समासविधायीति । समासविधायित्वातादर्थ्याताच्छब्द्यमित्यर्थः । निर्दिष्टग्रहणादेव च तुल्येऽपि समासार्थत्वे वाक्यं न गृह्यते, न हि तत्र निर्देशार्था प्रथमा, अर्थप्रयुक्तत्वात् । द्वितीयेत्येतत्प्रथमानिर्दिष्टमिति । प्रथमया विभक्त्या उच्चारितम् । यद्येवम्, तस्यैव संज्ञा स्यान्न कष्टादीनाम्, न हि ते शास्त्रे प्रथमानिर्दिष्टाः । य एव द्वितीयेत्यस्य प्रथमानिर्देशः, स एव कष्टादीनामपि; तत्परत्वातस्य । यथा वक्ष्यति-ऽतस्येति सामान्यं विशेषोपलक्षणार्थं तदीयप्राथम्यं विशेषाणां विज्ञायतेऽ इति । कष्टश्रितादिषूपसर्जनत्वात् पूर्वनिपातः । महासंज्ञाकरणमन्वर्थसंज्ञाविज्ञानार्थम् । लोकेऽप्रधानमुपस्रजनमुच्यते, इहाप्यप्रधानमुपसर्जनम् । प्रधानमप्रधानमिति च सम्बन्धिशब्दावेतौ, तेन यत्प्रति यदप्रधानं तदेव प्रति तदुपसर्जनं भवति, तेन राज्ञः कुमारीश्रित इति ऽद्वितीया श्रितऽ इत्यत्र प्रथमानिर्दिष्टस्यापि कुमारीशब्दस्य संज्ञा न भवति । यदि स्यात्, पूर्वनिपातानियम उपसर्जनह्रस्वत्वं च स्यात् । अन्वर्थत्वे तु श्रितादीनेवापेक्ष्य द्वितीयान्तमुपसर्जनमिति न प्रसङ्गः । एवं राज्ञः कुमार्या इत्यत्र द्वयोरपि ऽषष्ठीऽ इत्यत्र प्रथमानिर्देशेऽपि कुमारीमपेक्ष्य राज्ञ उपसर्जनत्वम्, न तं प्रति तस्याः । यद्यन्वर्थसंज्ञा, नार्थोऽनेन, प्रदेशेष्वेवान्वर्थग्रहणमस्तु । वाक्येऽपि तर्हि स्यात्-कुमारआआ श्रिता गवां कुलम् । अथ संज्ञाविधिर्वाक्ये कस्मान्न भवति, यावता ऽसमासेऽ इति प्रथमानिर्देशस्याधारो न संज्ञायाः ? तथा गोकुलं कुमारीपुत्र इत्यत्र समासेऽपि पूर्वनिपातवद् ह्रस्वत्वं कस्मान्न भवति ? तस्मात्सत्येवोपसर्जनत्वे उपसर्जनगोशब्दन्तस्योपसर्जनत्वात् स्त्रीप्रत्ययान्तान्तस्य प्रातिपदिकस्य ह्रस्वविधानात्समासाधिकारे पूर्वनपातिवचनाच्च वाक्ये तौ न भवत इति वाच्यम् । संज्ञाविधानं तून्मतगङ्गमित्यादौ द्वयोरप्यप्राधान्ये पूर्वनिपातनियमार्थम् । यत्र चानन्यार्थः प्रथमानिर्देशस्तत्र प्रथानस्यापि यथा स्यादित्येवमर्थं च । यथा-पाचकवृन्दारकः, पुरुषव्याघ्रः, अर्द्धपिप्ली, पूर्वकाय इति अत्र ऽवृन्दारकनागकुञ्जरैः पूज्यमानम्ऽ, ऽउपमितं व्याघ्रादिभिःऽ,ऽअर्द्धं नपुंसकम्ऽ,ऽपूर्वापराधरोतरम्ऽ इति प्रथमानिर्देशस्येदमेव प्रयोजनम्; समासस्य विशेषणं विशेष्येण षष्ठीत्येव सिद्धत्वाद् । न च पूज्यमानतादिविषय एव यथा स्यादिति नियमार्थस्तदारम्भः ? उपसर्जनसंज्ञार्थत्वेऽर्द्धादिपूर्वपदस्य विशिष्टरूपस्यार्द्धपिप्पलीत्यादेः समासस्य विधिसम्भवात् तस्मादेतदर्थापि संज्ञा । अन्वर्थत्वं तु सति संभवे व्यवस्थापकम् ॥ एकविभक्ति चापूर्वनिपाते ॥ १।२।४४ ॥ विभक्तिशब्दः सुपां वाचकः, कारकशक्तिवचनो वा; विभज्यतेऽनया प्रातिपदिकार्थ इति कृत्वा । समासे विधीयमाने इति । यदुपमर्दनेन समासो भवति तस्मन्वाक्य इत्यर्थः, समासरूपप्राप्त्यभिमुखे पदत्रय इति यावत् । एतन समासार्थं वाक्यमत्र समासः, न पूर्वसूत्र इव शास्त्रमिति दर्शयति । शास्त्रे सर्वमेविभक्तिमित्येकविभक्तीत्यनर्थकं स्यात्, मुख्येऽपि समासे प्रत्ययलक्षणेनैकविभक्तित्वं समर्थनीयमिति वाक्यमेवात्र समासः । एकस्मिंश्च प्रयोगे सर्वमेकविभक्तिकमिति विशेषणओपादानसामर्थ्यतप्रयोगभेदेनापि यस्य न सर्वविभक्तित्वं तदाश्रीयत इत्याह-यन्नियतविभक्तिकमिति । एतदेव स्पष्ययति-द्वितीये सम्बन्धिनीत्यादि । केचिदाहुः-ऽयेन सह समास्यते द्वितीयसम्बन्धीऽ इति, एवं तु पञ्चानां खट्वानां समाहारः पञ्चखट्वीति वा टाबन्त इति स्त्रीलिङ्गपक्षे उपसर्जनह्रस्वत्वं न स्यात् । समाहारो ह्यत्र नानाविभक्तियुक्तो न पञ्चञ्शब्दः, तस्मातप्रधानार्थवाची शब्दो द्वितीयः सम्बन्धः । निष्कौशाम्बिरिति कौशाम्बीशब्दो निष्क्रमणक्रियापेक्षयाऽपादानशक्तियोगात् पिञ्चम्यन्ते एव, न तस्य क्रियान्तरमपेक्ष्य शक्त्यन्तरावेशः सम्भवति । निःशब्दस्तु निष्क्रान्तप्रधानो नानाशक्तिभिर्युज्यते । निष्कौशाम्बिरिति । कुशाम्बेन निर्वृता नगरी कौशाम्बी, ऽगोस्त्रियोरुपसर्जनस्यऽ इति ह्रस्वः । निर्वाराणसिरिति । अनो जलं तद्वरं यस्याः सा वराणा गङ्गा, तस्या अदूरभवा नगरी वाराणसी । पुराणे तु वरणा चासिश्च नद्यौ, शकन्ध्वादिः, तयोरदूरभवा पृषोदरादित्वाद्रेफाकारस्य दीर्घः । निसः पूर्वेणोपसर्जनत्वम्, प्रधानस्यापि हि प्रथमानिर्देशसामर्थ्यात् भवतीत्युक्तम् । इहास्यावकारशोऽप्रथमानिर्द्दिष्टः, पूर्वस्यावकाशोऽनेकविभक्तिः नीलोत्पलादिः, अर्द्धिपिप्पल्यादिश्च; कष्टश्रितादिषु कष्टादय एकविभक्तिकाः प्रथमानिर्दिष्टाश्चेत्युभयप्रसङ्गे परत्वादनेनैव प्राप्नोति, ततश्चऽअपूर्वनिपातेऽ इति प्रतिषेधप्रसङ्गः, न; अप्रतिषेधात् । नायं प्रसज्यप्रतिषेधः-पूर्वनिपाते नेति, किं तर्हि ? पर्युदासोऽयम्, पूर्वनिपाते न विधिर्न प्रतिषेधः । प्रसज्यप्रतिषेधेऽप्यनन्तरप्राप्तिः प्रतिषिध्यते, कुत एतद् ? अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा भवति, पूर्वा प्राप्तिरप्रतिषिद्धा तया भविष्यति । न चेयं प्राप्तिः पूर्वां प्राप्तिं बाधते, प्रतिषिद्धत्वात् ॥ अर्थवदधातुरप्रत्ययः प्रातिपादकम् ॥ १।२।४५ ॥ अभिधेयवचनोऽर्थशब्द इति । न प्रयोजनवचनोऽव्यभिचारात्; न निवृत्तिवचनः, स्वयं निवृतस्य किं संज्ञया ! न धनवचनः, स्वस्वामिभावस्यासम्भवात् । तच्चाभिधेयं चतुर्द्धा-चातिगुणक्रियाद्रव्यभेदेन; गौः, शुल्कः, पाचकः, डित्थ इति । यद्यर्थवतः संज्ञा, अभावशशविषाणादीनां न प्राप्नोति; अर्थाभावात् । मा भूदनेन, समास इति भविष्यति ? न; अर्थंवदित्यनुवृतेः । अन्यर्थाऽनर्थकेऽत्र विधिसम्भावत् समासग्रहणं नियमार्थं न स्यात्, उच्यते; येषां तावद्भूतलाद्याश्रयं घटादिप्रतियोगिकं नास्तीति बुद्धिबोध्यं तत्वान्तरमभावस्तन्मते तेनार्थेनार्थवत्वम्; येषामप्याश्रयाभिमतं भूतलादिस्वरूपमेव तद्बुद्धिविशेषो वा प्रतियोगिनो घटादेरभावस्तन्मते तेनैव भूतलादिनार्थऽवत्वमित्यभावस्य तावत्सिद्धा संज्ञा । शशविषाणमित्यत्रापि गवादिष्वनुभूतविषाणं शशमस्तकवर्तितया बुद्ध्योत्प्रेक्ष्य तस्यैवाभिधानाय शब्दप्रयोगः । बुद्ध्युपारोह एव चार्थस्य शब्दप्रयोगे कारणम्, न बहिः सता । यदि बहिः सन्तमेवार्थं शब्दा अभिदधति; घटो नास्तीति प्रयोगो न स्याद्; एकत्र पौनरुक्त्याद्, अपरत्र विरोधाद् । बुद्ध्युअरूढस्य बहिः सत्वासत्वाप्रतिपादनायोपपद्यतए प्रयोगः । एवमपाक्षीत्, पक्ष्यति, अस्य सूत्रस्य शाटकं वयेत्यादावपि बुद्ध्युपारूढ एव पच्यादीनामर्थः; न तु शब्दप्रयोगकाले बहिः सिद्धः । डित्थादीन्यव्युत्पन्नान्युदाहरणानि । व्युत्पतौ कृदन्तत्वादेव सिद्धम् । सर्वनाम धातुजमित्यत्रापि पक्षेऽव्ययार्थमनुकरणशब्दार्थं च सूत्रमारभ्यमेव । ननु लौकिके प्रयोगे शब्दानामर्थवताध्यवसायः, स च वाक्यस्यैव पदस्य वा विभक्त्यन्तस्य; न तु प्रकृतिभागमात्रस्येति कथं तस्य निष्कृष्यार्थवत्वनिश्चयः ! येषां हि सहैव प्रयोगस्तेषां सङ्घातस्यैवार्थवता यथा वर्णानाम् ? उच्यते; अन्वयव्यतिरेकाभ्यां शब्दार्थनिश्चयः, यस्य शब्दस्यान्वये योऽर्थः प्रतीयते, व्यतिरेके च व्यतिरिच्यते स तस्यार्थः । वृक्षौ वृक्षा इत्यादौ च प्रत्ययसामान्यव्यभिचारेऽपि तद्विशेषव्यभिचारः, वृतौ सामान्यव्यभिचारश्च वृक्षखण्डं वार्क्षी शाखेति, अर्थस्तु मूलस्कन्धफलपलाशादिमान् यावद्वृक्षशब्दं प्रतीयते । नान्तस्यावधेरिति । ननु ऽवन षण सम्भक्तौऽ,ऽधन धान्येऽ इत्येतयोर्धात्वोरेतौ शब्दौ पचाद्यचि व्युत्पादितौ, तत्राधातुरिति निषेधो भविष्यति । एवं तर्ह्यव्युत्पत्तिपक्ष एतदुक्तम्, अत एवोदाहरणत्वेनाप्यनयोरुपन्यासः । किं चासत्यर्थ वद्ग्रहणे प्रतिवर्णं संज्ञाप्रसङ्गः, न च प्रतिवर्कणं धातुसंज्ञा, न चाधातुरप्ररत्यय इति पर्युदासाश्रयणाद् अर्थवतो ग्रहणम् । अनर्थकयोरपि धातुप्रत्यययोः सम्भवाद्, यथा-अधीते, यावक इति । अत्र ह्यधिपूर्वस्येङेऽर्थवत्वं न तु इङ्; तिस्य क्वचिदप्यप्रयोगाद् । यावक इत्यत्रापि यावशब्दस्यैवार्थवत्वं न तु कनः; अन्तरेणापि तदर्थावगमात् । न च ज्ञायते-केन धर्मेण सादृश्यमिति ! न चार्थवद्ग्रहणपरिभाषयार्थवतो ग्रहणम् ? एषा हि नियतरूपोपादाने व्यवस्थापयति, न चात्र रूपविशेषोपादानम् । ननु सत्यामप्यनर्थकस्य संज्ञायां संख्याकर्मादिषु विधीयमानाः स्वादयो न भविष्यन्ति, नैतदस्ति; अविशेषेणोत्पद्यन्ते, उत्पन्ना नामर्थनियमः, ततश्चाव्ययवत् स्वादयः स्युरेव । नलोपो हि स्यादिति । विभक्तेस्तु श्रवणं न भवति, समुदायस्यापि पृथक् प्रातिपदिकसंज्ञायां तदन्तर्भावाल्लुको भावात् । यद्येवम्, द्विर्वचनन्यायेनावयवस्य न भविष्यति, युक्तं तत्र पज् इत्यत्र येनैवाचा समुदाय एकाच्, तेनैव तदवयवोऽच्छब्दः पशब्दश्च; न चैकस्यैकदाऽनेकं प्रत्यवयवत्वं निरूपयितुं शक्यम् । किञ्च--समुदायद्विर्वचनेनावयवा अपि द्विरुच्यन्ते, तदात्मकत्वात्त्स्य । इह त्ववयवानां समुदायस्य च संज्ञानिबन्धनं शब्दत्वं पृथगेव । तत्र समुदायस्य यत् तेन यस्यैव कार्यं नावयवानाम् । ननु च एति, आभ्याम्, औपगवः, अ अपेहीति, धातुप्रातिपदिकप्रत्ययनिपातानामेकवर्णानामर्थदर्शनात् वृक्षादिष्वपि वर्णा अर्थवन्तः, तथा कूप इति ककारे सति कश्चिदर्थो गम्यते, यूप इति यकारोपजनेऽर्थन्तरम्, तेन मन्यामहे यः कूपे कूपार्थः स ककारस्य, यो यूपे यूपार्थः स यकारस्येति; तथा ऽब्राह्मणऽ इत्युक्ते योऽर्थो गम्यते नासौ बकारादीनामन्यतरापायेऽपि गम्यते । येषां च संघातो यत्कार्यं करोति प्रत्येकमपि तत् कुर्वन्ति, यथा-तिलानां खारी तैलमुत्पादयति, प्रत्येकं च तिलाः । ये च यस्मिन् प्रत्येकमसमर्थास्तेषां संघातोऽपि तत्रासमर्थः, यथा-प्रत्येकं सिकतास्तैलं नोत्पादयन्ति तथा खार्यति तासाम् । अतः संघातार्थवत्वाच्चार्थवन्तो वर्णाः, तत्कथमर्थवद्ग्रहणे सत्यपि तेषां निवृत्तिः । अनर्थकास्तु, प्रतिवर्णानामर्थानुपलब्धेः, न हि ऽब्राऽ इत्युक्ते कश्चिदर्थो गम्यते । अतो धात्वादीनामेकवर्णानामर्थवत्वाद् अन्यऽपि वर्णा अर्थवन्त इत्यनुपलब्धिबाधितमेतद् । एवमन्येऽपि हेतवो बाधितविषयाः । किं च कूपो यूप इत्यन्वयव्यतिरेकाभ्यां ककारयकारयोर्थवत्वे यूप इति चतुर्णां वर्णानामानर्थक्यमभ्युपगतं स्यात्; अथ तेषामर्थवत्वं भूयिष्ठः कूपे यूपार्थः स्यात्, कूपार्थश्च यूपे, यत्र भूयसामर्थवतामन्वयः, व्यतिरेकस्तु कस्यचित्; तत्रार्थानामपि भूयसानुमपृतिर्भवति, व्यतिरेकस्तु कस्यचिद्; यथा देवदत गामभ्याज शुक्लाम्, देवदत गामभायाज कृष्णामिति । अतः संघाता एव तेनार्थवन्तः । संघातार्थवत्वाच्चेति हेतुरनैकान्तिकः, तैलाग्निवर्तिसंघातेन दीपः, न प्रत्येकम्, रथावयवैश्चक्रादिभिः संहतैर्व्रजिक्रिया । किञ्चार्थवतां विपर्यासेऽर्थप्रत्ययस्यापि विपर्यासः-आहर पात्रं पात्रमाहरेति, अपाये चापायः-गामभ्याज शुक्लां गामभ्याजेति, उपजने चोपजनः-गामभ्याज शुक्लामिति । वर्णेषु तु नैवम्, हिनस्तीति सिंहो हन्ति हतः घ्नन्ति । अतः संघाता एवार्थवन्तः । अहन्निति । हन्तेर्लङ् इतिप् ऽइतश्चऽ लोपे हल्ङ्यादिलोपोऽट्, स हन्ग्रहणेनैव गृह्यते, अत्र प्रागेव लणुत्पतेः संज्ञायां तस्यामुतरकालं पदत्वे सति नलोपः स्यात् । यद्वा प्रातिपदिकसंज्ञा पदसंज्ञासमकालेमेव स्यात्, न वाऽप्रत्यय इति प्रतिषेधः; ऽन ङसिम्बुद्ध्योःऽ इति लिङ्गात्; अन्यथा हे राजन्नित्यादावप्रत्यय इति निषेधादप्रातिपदिकत्वादेव नलोपप्रसङ्गात् । अधातुरिति शक्यमकर्तुम्, ऽसुपो धातुऽ इति धातुगुरहणं ज्ञापकम्-न धातोरियं संज्ञेति । नैतदस्ति ज्ञापकम्, प्रतिषिद्धार्थमेतत् स्यात्, श्येनायत इत्यादावप्रत्यय इति निषिद्धा संज्ञेति भिद्, भूः, पूरित्येवमादौ क्विबन्तत्वे कृदन्तत्वादुतरसूत्रेण संज्ञा । न च तस्या अपि प्रतिषेधोऽयम्, ऽमध्येऽपवादाःऽ इति न्यायात्, पर्युदासत्वाद्वा । काण्डे इति । प्रथमाद्विवचनस्य ऽनपुंसकाच्चऽ इति शीभावः, अप्रत्यय इति च प्रत्ययग्रहणपरिभाषया तदन्तस्य निषेधः । यत्र हि प्रत्ययः संज्ञिरूपेऽनुप्रविशति, यथा- ऽतरप्तमपौ घःऽ इति, तत्र पदसंज्ञायामन्तवचनेन तदन्तविधिप्रतिषेधः । इह तु पर्युदासे प्रत्ययव्यतिरिक्तः संज्ञी, प्रसज्यप्रतिषेधेऽपि न संज्ञाविधौ प्रत्ययग्रणं, किं तर्हि ? प्रतिषेध इति, नास्ति निषेधः । ननूतरसूत्रे कृतद्धितग्रहणं नियमार्थं भविष्यति-प्रत्ययान्तस्य यदि भवति कृतद्धितान्तस्यैवेति, उच्यते; अस्मिन् सत्यप्रतिषेधे संज्ञाविधौ तदन्तविधिप्रतिषेधात्प्रत्ययस्य यदि भवति कृतद्धितस्यैवेति स्थानिनियमः स्यात् । सति त्वस्मिन्, अत्र तावत्प्रत्ययान्तस्य निषेध इति उतरसूत्रेऽपि तद्धितान्तस्य ग्रहणं भवति । अथ क्रियमाणेऽप्यप्रत्यय इत्यस्मिन्नपुंसकह्रस्वत्वं कस्मान्न भवति ? पर्युदासे तावत्प्रत्ययाप्रत्यययोरेकादेशस्य पूर्वं प्रत्यन्तवद्भावः, प्रसज्यप्रतिषेधेऽप्यन्तरङ्गत्वात् प्रागेव प्रत्ययोत्पतेः काण्डशब्दस्य प्रवृता संज्ञेति एकादेशस्यान्तवद्भाव इत्यास्त्येव प्रातिपदिकत्वम् । तथा च ब्रह्मबन्धूरित्यूणेóकादेशस्यान्तवत्वात् स्वाद्युत्पत्तिः । न चाप्रत्यय इत्यस्य वैयर्थ्यम्; त्रपुणी इत्यादौ यत्रैकादेशत्वं नास्ति तत्रार्थवत्वात् । एवं तर्हि नपुंसके यद्वर्तते तस्यह्स्वः, विभक्त्यन्तं तु संख्याप्रधानं कारकशक्तिप्रधानं च, न च तयोर्लिङ्गयोगः, न चान्यवद्भावेनार्थः शक्योऽतिदेष्टुअमिति न भवति ह्स्वः । यद्येवम्, त्रपुणी इत्यादावप्येवमेव न भविष्यति, नार्थोऽनेन, न चान्यः प्रत्ययान्तो व्यावर्त्यः सम्भवति । तथा हि, षड्विधाः प्रत्ययाः--सनादयः, कृतः तिङ्ः, सुपः, स्त्रीप्रत्ययाः,तद्धिताश्चेति । प्रतिपदिककार्यमपि ऽह्रस्वो नपुंसके प्रातिपदिकस्यऽ ऽगौस्त्रियोरुपसर्जनस्यऽ इति ह्रस्वत्वम्, ऽङ्याप्प्रातिपदिकात्ऽ इति प्रत्ययविधिश्च । तच्च कृतद्धितान्तस्येष्यत थएव । सन्प्रभृतिषु येषां तावद्धातुत्वं तेषामधातुरित्येव प्रतिषेधः, श्यन्शबादीनामपि विकरणानां लिङ्गाभावः, संख्याकर्माद्यभावोऽपत्याद्यर्थायोगश्च । एवं तिङ्न्तानाम्, यथा-यः पचतिरूपम्, तस्यापत्यम् इति रूपबन्तत्वात्सत्यपि प्रातिपदिकत्वे । ये तु सम्भवन्ति स्वार्थिकास्ते ऽतिङ्श्चऽ इति ज्ञापकान्न भवन्ति । स्त्रीप्रत्ययानां तु विरुद्धेन नपुंसकेनायोग एव, कुमारीपुत्र इत्यत्र ऽगोस्त्रियोःऽ इति ह्रस्वः स्यादिति चेद् ? अथ क्रियमाणेऽपि प्रतिषेधे राजकुमारीपुत्र इत्यत्र कस्मान्न भवति, अत्र हि समासत्वादस्त्येव प्रातिपदिकत्वम् ? अतो यस्तत्र परिहारः, स एवात्रापि भविष्यति । प्रत्ययविधिस्त्विष्यत एव । ऽङ्याप्प्रातिपदिकात्ऽ इति सुबन्तस्य ह्रस्वत्वं न प्राप्नोतीत्युक्तमेव । सुपां चाप्रसङ्गः; तद्विधानदशायां तदन्तस्यासम्भवात्, लिङ्गाभावात् स्त्रीप्रत्ययाभावः । तद्धितास्त्विष्यन्त एव ऽसमर्थानां प्रथमाद्वाऽ इति । अतो नार्थोऽनेन, उतरसूत्रे तद्धितग्रहणेन च, उच्यते; ऽबहुषु बहुवचनम्ऽ ऽकर्मणि द्वितीयाऽ इत्यादिनां स्वादिविधिवाक्येन भिन्नवाक्यतापक्षे सर्वेभ्यः प्रत्ययान्तेभ्यः स्वादयः स्युः यथा-अव्ययेभ्यः । विकरणान्ताच्च स्वार्थिकास्तद्धिताः स्युरेवेत्यतोऽप्रत्ययग्रहणं कर्तव्यं तद्धितग्रहणं च । काण्डे कुड।ल् इत्येतयोस्तु प्रत्युदाहरणत्वम् ऽहस्वो नपुंसकेऽ इत्यत्रोपपादयिष्यामः । अथ प्रत्यायमात्रस्य संज्ञा कस्मान्न भविष्यति, सत्यां हि संज्ञायामुक्तेन न्यायेन बहुपटव इत्यादौ स्वादयः स्युः ? उच्यते-व्यपदेशिवद्भावेन प्रत्ययान्तवद्प्रत्यय इति प्रतिषेधो भविष्यति । यद्येवम्, कृतद्धितमात्रेऽपि विधिसम्भवात् उतरसूत्रे तदन्तविधिर्न भवति । अत्र परिहारं वक्ष्यामः ॥ कृतद्धितसमासाश्च ॥ १।२।४६ ॥ कृतो विहितास्तदादय इति वेदितव्यम् । अत्र हि कृद्ग्रहणपरिभाषा नोपतिष्ठते, तेन मूलकेनोपदंशमिति वाक्यस्य संज्ञा न भवति । मध्येऽपवादन्यायेन ह्यप्रत्यय इति निषेधः कृद्ग्रहणेन बाध्यते, न तु समासग्रहणेन कृतो नियमः । संज्ञाविधौ प्रत्ययग्रहणेऽप्यत्र तदन्तविधिर्भवतीत्यत्रीपपतिमाह--अप्रत्यय इति । प्रत्ययान्तस्य निषेधो न केवलस्य प्रत्ययस्येत्याश्रित्यैतदुच्यते । अप्राप्तप्रापणं विधिः, न च तदा कृतद्धितमात्रस्याप्राप्ता संज्ञा तदन्तस्यत्वप्राप्तेति विध्यर्थत्वातदन्तस्यैव ग्रहणम् । येषां तु पूर्वत्र प्रत्ययमात्रस्यापि निषेधस्तेषामर्थवद्ग्रहणानेवृतेरर्थवद्विशेषस्य तदन्तस्य ग्रहणं समासग्रहणमनर्थकम्, अर्थवत्वात्पूर्वेणैव संज्ञासिद्धेरित्यत आह-अर्थवत्समुदायानामिति । कर्मणि षष्ठी । नियमः उ व्यावृत्तिः । ननु सुराजा अतिराजेत्यादौ अन्तर्वतिन्यां विभक्तौ लुप्तायां समुदायस्य संज्ञा, तामपेक्ष्य सोरुत्पन्नस्य हल्ङ्यादिलोपे तस्यामवस्थायां नलोपार्थं या संज्ञा प्राप्नोति तस्याः प्रत्ययलक्षणेनाप्रत्यय इति निषेधे प्राप्ते विध्यर्थमेतत्स्यात् ? ज्ञापकात्सिद्धम्, ऽन ङिसंबुद्ध्योःऽ इति निषेधो ज्ञापयति-न प्रत्ययलक्षणेन निषेध इति; अन्यथा उक्तेन न्यायेन हे राजन्नित्यादौ नलोपप्रसङ्गात् । नैतदस्ति ज्ञापकम्; है सुराजन्नित्यादौ यत्र समासग्रहणेन संज्ञा विहिता तत्र नलोपप्रसङ्गे निषेधः स्याद् । एवं तर्ह्यत्राप्यप्रत्यय इत्यनुवर्तते, तेन प्रत्ययान्ते समासे विध्यर्थत्वासंभवान्नियमार्थमेव समासग्रहणम् । यद्वा-अनुद्दिश्य प्रयोजनविशेषं न कृत्संज्ञा प्रवर्तते, तस्यां तु सत्यां यस्यामवस्थायां यत्कार्यं प्राप्नोति तस्यां तद्भवति, न प्रतिकार्यमावर्तनीया संज्ञेत्ययं पक्ष आश्रीयते । अत्र च पक्षे सुबुत्पत्यर्थं नलोपार्थं च समाससंज्ञानन्तरमेव सकृत्संज्ञा प्रवर्तते, न तु नलोपदशायामिति विध्यर्थत्वासम्भवान्नियमार्थमेव समासग्रहणम् । तुल्यजातीयस्य च नियमेन व्यावृत्तिः, कश्च तुल्यजातीयो यस्यार्थवत्समुदायस्य पूर्वो भागस्तावत्पदम्, यश्चैव हि सुबन्तानां समासः-राजपुरुष इति, यश्चैव हि तिङ्न्तानाम्--"आख्यतमाख्यातेन क्रियासातत्येऽ, अश्नीतपिबता, खादतमोदतेति, यश्च सुबन्तानां तिङ्न्तानां च-ऽजहि कर्मणा बहुलमाभीक्ष्ण्येऽ, जहिजोडः, जहिशकट इति, यश्च सुबन्तानां प्रातिपदिकानां च--गतिकारकोपपदानामिति, वस्त्रक्रीति निष्कक्रीतीति, सर्वत्रात्र पूर्वो भागस्तावत्पदम् । अतः स तुल्यजातीयो नियमेन व्यावर्त्यते, तेन बहुपटव इत्यत्र जसन्तस्य पुरस्ताद्वहुचि कृते नोतरत्रत संघाते पूर्वो भागः पदमित्यसति नियमे ईषदसमाप्तिलक्षणेनार्थेनार्थवत्वात्सत्यां संज्ञायां पूर्वोत्पन्नस्य जसः ऽसुपो धातुऽ इति लुकि कृते चित्स्वरोऽपि भवन् ऽचतिः सप्रकृतेर्बहुजकजर्थमितिऽ पटुअशब्दोकारस्य भवति । पूर्वोत्पन्नस्य तु जसोऽवस्थाने तस्यैव स्यात् । वाक्यस्यार्थवत इति । प्रत्येकं पदैरप्रतीतस्य संसर्गस्य वाक्येन प्रतीयमानत्वातस्यार्थवत्वम्, समुदायाच्च प्रत्ययस्याविधानान्नास्त्यप्रत्यय इति निषेधः । न च ऽनास्ति यस्मिन् प्रत्ययः सोऽप्रत्ययःऽ इति बहुव्रीहिः शक्य आश्रयितुम्; बहुपटव इत्यत्रापि नि,एधप्रसङ्गात् ॥ ह्रस्वो नपुंसके प्रातिपदिकस्य ॥ १।२।४७ ॥ सूत्रे नपुंसकशब्देन तद्वद्द्रव्यं विवक्षितं न लिङ्गमात्रमित्याह-नपुंसकलिङ्गेऽर्थे इति । नपुंसकं लिङ्गमस्येति बहुव्रीहिः । ग्रामणीरिति । ऽसत्सूदिषऽ इत्यादिना क्विप् । प्रातिपदिकस्येति किमिति । नपुंसकलिङ्गं द्रव्यस्यैव धर्मः, द्रव्यवाचित्वं च प्रातिपदिकस्यैव, न सुबन्तस्य; शक्तिसङ्ख्याप्राधान्यात् । न धातोस्तिडन्तस्य वाक्यस्य वा; क्रियाप्रधानत्वात् । वर्णास्त्वनर्थकाः, स्त्रीप्रत्ययानां तु विरुद्धेन नपुंसकेनायोग इति प्रश्नः । काण्डे कुण्ड।ले इति । अत्र ऽअप्रत्ययःऽ इति निषेधात् प्रतिपदिकत्वं नास्ति । ननु च एकादेशः पूर्वं प्रत्यन्तवद्भावात् प्रातिपदिकग्रहणेन गृह्यते इति क्रियमाणेऽपि प्रातिपदिकग्रहणे ह्रस्वत्वं स्यादेवात् आह-प्रातिपदिकग्रहणसामर्थ्यादिति । कथं पुन सामर्थ्यम्, यावता यत्रान्तवद्भावो नास्ति-वाः वारी त्रपुणी इत्यादौ, तद्व्यावर्त्यं स्यात् ? अथ शक्तिसङ्ख्याप्रधानत्वात् तत्र नपुंसकेनायोगः, काण्डे इत्यादावपि एवमपे न भविष्यति । न ह्यन्तवद्भावेन प्रातिपदिकत्वे सत्यपि शक्तिसङ्ख्याप्राधान्यं हीयते । एवं मन्यते-ऽअसति प्रातिपदिकग्रहणे नपुंसकवृतेरनपुंसकवृतेश्च य एकादेशः स नपुंसकवृत्तिग्रहणेन गृह्यते नपुंसक इति स्यात्प्रसङ्गः । प्रातिपदिकग्रहणे तु मुख्यप्रातिपदिकग्रहणार्थत्वाद् अतिदिष्टप्रातिपदिकत्वस्य ह्रस्वस्याभावःऽ इति । उतार्थं च प्रातिपदिकग्रहणम् । इह वनाय, वनाभ्याम्, वनार्थम्, वनेभ्य इति ह्रस्वो न भवति, बहिरङ्गयोर्दीर्घत्वयोरसिद्धत्वात् । काण्डीभूतमित्यत्र पूर्वं नपुंसकत्वेऽपि च्व्यन्तदशायाम् अव्ययत्वेनालिङ्गत्वाद् ह्रस्वाभावः ॥ गोस्त्रियोरुपसर्जनस्य ॥ १।२।४८ ॥ स्त्रीति प्रत्ययग्रहणमिति । अत्र हेतुमाह-स्वरितत्वादिति । ऽस्वरितेनाधिकारःऽ इत्यस्य यत्र स्वरितत्वं प्रतिज्ञायते तत्र तदधिकारो ग्राह्य इत्ययमप्यर्थः । इह च स्त्रीग्रहणं स्वर्यते, तेन स्त्रियामित्यधिकृत्य विहितानां टाबादीनां ग्रहणं भवति; नार्थस्य, नापि स्वरूपस्य । क्तिन्नादीनां तु ह्रस्वभावित्वाभावादग्रहणम् । उपर्स्जनग्रहणं तयोर्विशेषणमिति । प्रत्येकं सम्बन्धातु द्विवचनं न भवतीत्याह-गोरुपसर्जनस्येत्यादि । स्त्रीप्रत्ययान्तस्येति पाठः । पारिभाषिकं ह्यत्रोपसर्जनं गृह्यते । न च स्त्रीप्रत्ययमात्रस्य पारिभाषिकोपसर्जनत्वसम्भवः । ताभ्यामिति । उपसर्जनेन गोशब्देन स्त्रीप्रत्ययान्तेन च यदि ताभ्यां तदन्तविधिर्न विज्ञायते, तदा उपसर्जनस्य गोशब्दस्य स्त्रीप्रत्ययान्तस्य च प्रातिपदिकस्य ह्रस्व इत्यर्थः स्यात्; ततश्च गोकुलं राजकुमारीपुत्र इत्यत्रापि स्यादिति भावः । इह तु ऽकुमारीपुत्रःऽ इत्यत्र प्रातिपदिकत्वादेवाप्रसङ्गः । उपसर्जनस्त्रीप्रत्ययान्तान्तस्येति पाठः । उपसर्जनं यत् स्त्रीप्रत्ययान्तं तदन्तस्येत्यर्थः । यदि तु लौकिकेनोपसर्जनेन स्त्रीप्रत्ययमात्रं विशेष्य पश्चातेन प्रातिपदिकस्य तदन्तविधर्विज्ञायिते--उपसर्जनं यः स्त्रीप्रत्ययस्तदन्तस्य प्रातिपदिकस्येति, ततो हरीतक्यः फलानीत्यत्रापि स्यात्; स्त्रीप्रत्ययार्थस्य फलं प्रत्युपसर्जनत्वातद्धितान्तत्वेन प्रातिपदिकत्वाच्च । अत एवमेवाश्रयणीयम्--स्त्रीप्रत्ययान्तं यच्छास्त्रीयमुपसर्जनं तदन्तस्य प्रातिपदिकस्येति । निष्कौशाम्बिरिति । कौशम्बीत्येकबिभक्तीत्युपसर्जनं स्त्रीः त्ययान्तं तदन्तं समासप्रातिपदिकम् । अथेह कथं ह्रस्वत्वम् अतिराजकुमारिरिति, यावता कुमारशब्दान् ङीब्विहतो न तु राजकुमारशब्दात् ? सत्यम्; अनुपर्जने स्त्रीप्रत्यये तदादिनियमो नास्ति । अथ गोशब्देन स्त्रीप्रत्ययान्तेन च प्रातिपदिकस्य तदन्तविधौ सत्यपि गोकुलं राजकुमारीपुत्र इत्यत्र कस्मान्न भवति, यावता ऽयेन विधिस्तदन्तस्यऽ इत्यत्र ऽस्वं रूपम्ऽ इत्यनुवर्तते, ततश्च येन तदन्तविधिः तत्स्वरूपस्यापि ग्रहणेन भाव्यम् ? एवं तर्हि गोशब्देन प्रातिपदिकस्य विशेषणसामर्थ्यात् केवलस्य न भवति; अन्यथा गोशब्दस्यैवोपसर्जनस्य ह्रस्वं विदध्याद्, ऽयेन विधिस्तदन्तस्यऽ इत्यत्र ऽस्वंरुपम्ऽ इति निवर्त्यम् । व्यपदेशिवद्भावोऽपि प्रातिपदिके नास्ति । राजकुमारीपुत्र इत्यत्र तु परिहारः--शास्त्रीयमप्युपसर्जनं सति सम्भवेऽन्वर्थमेवाप्रधानमुपसर्जनमिति, प्रधानं चापेक्ष्याप्रधानं भवति । स्त्रीप्रत्ययान्तस्य च प्रातिपदिकत्वं समासमन्तरेणानुपपन्नम्, समासश्चावयवात्मकः; द्वयं चात्र संनिहितम्-प्रधानमप्रधानमिति; तत्रैवं विज्ञास्यामः-यत् स्त्रीप्रत्ययान्तं समासप्रातिपदिकं तदन्तर्भूतमेवापेक्ष्य स्त्रीप्रत्ययान्तस्याप्राधान्यमिति । इह तु तत्रानन्तर्भूतं पुत्रमपेक्ष्याप्राधान्यमिति न भवति ह्रस्वः । ईयस इत्यादि । ईयसुन्नन्ताद्यः स्त्रीप्रत्ययो विहितस्तदन्तान्तस्येत्यर्थः । बहुश्रेयसीति । ऽप्रशस्यस्य श्रःऽ ङीप्, बह्व्यः श्रेयस्योऽस्येति बहुव्रीहिः, ऽनद्यःतश्चऽ इति कप्, ऽईयसश्चऽ इति प्रतिषेधः, पुंस्यपि सोर्हल्ङ्यादिलोपः । बहुव्रीहेरिति किम् ? अतिश्रेयसिः ॥ लुक्तद्धितलुकि ॥ १।२।४९ ॥ स्त्रीग्रहणमनुवर्तते इति । न तु गोग्रहणम्, कुतः ? प्रत्ययादर्शनस्य लुक्संज्ञाविधानाद् गोशब्दस्याव्युत्पन्नत्वाद् व्युत्पत्तिपक्षेऽप्यस्वरितत्वात् । उपसर्जनस्य चेति । ऽअनुवर्ततेऽ इत्यपेक्षते । लौकिकं चात्रोपसर्जनं गृह्यते, न शास्त्रीयम् । पूर्वेण ह्रस्वत्वे प्राप्ते इति क्वचित्पठ।ल्ते, तत्र क्वचिदिति विशेषः । पूर्वसूत्रेण हि शास्त्रीयमुपसर्जनं गृहीतं तस्यावकाशो यत्र न तद्धितलुग्निष्कौशाम्बिरिति; अस्यावकाशो यत्र शास्त्रीयमुपसर्जनम्-आमलकमिति । तद्धितलुक्च यथा--पञ्चेन्द्र इति, अत्र हि समासार्थे नानाविभक्तिके पञ्चेन्द्राणीत्येकविभक्तिकमिति अस्त्युपसर्जनत्वम्; तत्रोभयप्रसङ्गे परत्वादयमेव लुग् ह्रस्वं बाधत इत्यर्थः । केचित्वस्मादेव ग्रन्थात् पूर्वसूत्रेऽपि लौकिकस्योपर्जनस्य ग्रहणं मन्यन्ते, तेषां हरीतक्यः फलानि इति लुब्विषये ह्रस्वप्रसङ्ग इत्युक्तम् । स्यादेवम्--लुपि युक्तवदिति शब्दार्थयोरप्यतिदेशः प्रकृत्यर्थस्य यल्लिङ्गं यश्च तदभिधायी प्रत्ययः तयोर्द्वयोरतिदेशः, तत्रौपदेशिकस्य ह्रस्वत्व आतिदेशिकस्य श्रवणं भविष्यतीति ? यद्येवम्, युवतिरिव पुरुषः ऽलुम् मुनष्येऽ युवतिः, द्वौ तिशब्दौ श्रूयेयाताम्; तस्मात् ऽलुब्योगाप्रख्यानात्ऽ इति लुपः प्रत्याख्यानेन वात्र परिहारो वाच्यः, शास्त्रीयं वोपसर्जनं ग्राह्यम् । ग्रन्थस्य च व्याख्यात एवार्थः । अभावरूपेण लुका पौर्वाभर्यासम्भवाल्लुकीति सत्सप्तमीत्याह-लुकि सतीति । पञ्चन्द्र इति । ऽतद्धितार्थऽ इति समासः,ऽसास्य देवताऽ इत्यणः ऽद्विगोर्लुगनपत्येऽ इति लुक्, ऽइन्द्रवरुणऽ इत्यादिना विहितस्य ङीषोऽनेन लुक्, सन्नियोगविशिष्टानामन्यतराभाव इत्यानुको निवृत्तिः । पञ्चशष्कुल इति । ऽतेन क्रीतम्ऽ इत्यार्हीयस्य ठकः ऽअध्यर्द्धपूर्वऽ इति लुक् । आमलकमिति । ऽनित्यं वृद्धशरादिभ्यःऽ इति मयटः ऽफले लुक्ऽ । बदरीकुवलीशब्दाभायाम् ऽअनुदातादेश्चऽ इति अञ् । शष्कुल्यादयो गौरादिङीषन्ताः । अवन्तीत्यादि । अवन्ति-कुन्ति-शब्दाभ्यामपत्ये ऽ वृद्धेत्कोसलाजादाञ्ञ्यङ्ऽ । कुरोः ऽकुरुनादिभ्यो ण्यःऽ, स्त्रियामवन्तीति लुक्, कुरुशब्दाद् ऽऊणुतःऽ इत्युङ् । इतराभ्याम् ऽइतो मनुष्यजातेःऽ इति ङीष् । अत्रापत्यलक्षणा जातिः स्त्रीप्रत्ययान्तेन प्राधान्येनाभिधीयते ॥ इद् गोण्याः ॥ १।२।५० ॥ पञ्चगोणिरिति । गोणिशब्दः परिमाणवचनः, आवपनवचनश्च; तत्राद्यात् ऽप्राग्वतेष्ठञ्ऽ, द्वितीयादार्हीयष्ठक् । तयोः पूर्वल्लुक् । इदिति योगाविभाग इति । इहेद्ग्रहणमनर्थकम्, गोण्या इत्येवास्तु, ह्रस्व इत्येव, लुकस्तु वचनासामर्थ्यादननुवृत्तिः ? तदेतदिद्ग्रहणमेव लिङ्गं योगविभागस्य । यदि योगविभागः क्रियते, सर्वत्रेत्वं प्राप्नोति, तत्राह-स चेति । यदि सर्वत्र स्याद् गोणीग्रहणमनर्थकं स्यादिति भावः । ननु तद्धितलुकि लुगप्युक्तः, इत्वं चेति, तयोर्विकल्पप्रसङ्गे नित्यमित्वमेव यथा स्यादित्येवमर्थं गोणीग्रहणं स्यात्, तत्कर्थं ततो विशिष्टविषयत्वं योगविभागस्य ? उच्यते; एक एव तावद्योगः सूत्रकारेण पठितः, तत्सामर्थ्याद् विभागसंस्कारोऽप्यनुवर्तते, अविभक्तश्च योगो विशिष्टविषयः । इद्ग्रहणसामर्थ्यात्क्रियमाणो विभागो विशिष्टविषय एव कल्प्यते; अत एवोच्यते--योगविभागादिष्टसिद्धरिति । स पुनर्विशिष्टो विषयो व्याख्यानादवसेयः । तपरकरणं तत्कालार्थम्--दीर्घस्य दीर्घो मा भूद् । वचनं तु लुग्घ्रस्वबाधनार्थं स्याद् । असति च तकारे, प्राप्तप्रतिषिद्ध ईकार एवं प्रतिप्रसूतः स्याद्, न त्वपूर्व इकारो विहितः स्याद् इति भाव्यमानत्वमेव न स्यात् ॥ लुपि युक्तवद्व्यक्तिचवने ॥ १।२।५१ ॥ अभिधेयवल्लिङ्गवचनयोः प्राप्तयोरयमारम्भः । अभावरूपस्य लुपो लिङ्गसङ्ख्यातिदेशासम्भवादाह--लुपीति लुप्संज्ञेत्यादि । क्वचितु सप्तम्यन्तो लुप्शब्द उपादीयते तत्रापि प्रकृत्यर्थ एवाभिधातुमिष्टः । सप्तम्युपादानं तु सूत्रे पठितत्वाद्, यथा-मताविति मत्वर्थ उच्यत इति । युक्तवदिति निष्ठाप्रत्येनेत्यादि । अत्र हेतुमाह--स हीति । युनक्ति सम्बध्नाति । यद्यपि प्रत्ययार्थोऽपि प्रकृत्यर्थमात्मना युनक्ति, तथापि न तस्येह ग्रहणम्; आनर्थक्याद्, न हि तस्यैव लिङ्गसङ्ख्ये तस्यैव विधातव्ये । अथ वेत्यादि । पूर्वं ऽयुजिर्योगेऽ इत्यस्य क्तवत्वन्तस्य षष्ठीसमासो दर्शतः, इदानीं तु तस्यैव धातोः क्तान्तस्य वतिनिर्देशः, असमासश्चेति प्रदश्यते । युक्तः प्रकृत्यर्थ इति । अत्र हेतुः--प्रत्ययार्थेन सम्बद्ध इति । अस्मिन्नपि पक्षे पूर्ववदेव प्रत्ययार्थस्याग्रहणम् । सप्तम्यर्थे वतिरिति । ऽलुपिऽ इति प्रतियोगिनि सप्तमी निर्द्देशात् सप्तम्यर्थे वर्तमानादिवार्थे वतिरित्यर्थः । व्यक्तिशब्द आविर्भावादिकेऽप्यर्थे वर्तते । वचनशब्दोऽपि भीमसेनो भीम इतिवद्, एकवचनादिशब्दानां थएकदेशप्रयोगोऽपि सम्भाव्येत, तस्य च ग्रहणे ऽपञ्चालानां निवासःऽ इति वाक्यावस्थायां षष्ठीदर्शनातस्या एवातिदेशः स्यात्; कुरुपञ्चाला इति च द्वन्द्वे वाक्या वस्थायामतिदिष्टस्य वचनस्य लुकि समुदायाद् बहुवचनं न स्यात्, ततस्तत्सम्प्रत्ययो मा भूदित्याह--व्यक्तिवचने इति चेत्यादि । पूर्वाचार्यनिर्देशाश्रयणे कारणमाह -तदीयमेवेत्यादि । कुत इत्यत आह-तथा चेत्यादि । न हि स्वकृतमेव स्वयं प्रत्याचष्ट इति युक्तम्; ऽविषवृक्षोऽपि संवर्ध्य स्वयं छेतुमसाम्प्रतम्ऽ इति न्यायादिति भावः । पञ्चालाः क्षत्रिया इति । पञ्चालस्यापत्यानि बहूनि ऽजनपदशब्दात् क्षत्रियाद्ञ्ऽ ऽते तद्राजाःऽ, ऽतद्राजस्य बहुषुऽ । तेषां निवासो जनपद इति । अस्य वक्ष्यमाणेन ऽपञ्चालाःऽ इत्यनेन सम्बन्धः । ऽतस्य निवासऽ इत्यणः ऽजनपदे लुप्ऽ । कुरव इत्यादि । ऽकुरवः क्षत्रियाःऽ इत्यादिकं तु पूर्वानुसारेण गम्यमानत्वान्नोक्तम् । कुरुशब्दादपत्ये ऽकुरुनादिभ्यो ण्यःऽ मगधादिभ्यः ऽद्वयञ्मगधऽ इत्यण्, शेषं पूर्ववत् । लुपीति किमिति । तद्धितोऽनुवृतः साहचर्यादर्थमुपस्थापयिष्यतीति प्रश्नः । लुकि मा भूदिति । अन्यथा ऽतद्धितलुकिऽ इत्यनुवृतेस्तत्रैव स्यादिति भावः । लवणः सूप इति । ऽसंसृष्टेऽऽलवणाल्लुक्ऽ । व्यक्तिवचने इति किमिति । युक्तवदिति क्तान्ताद्वतिरेवाश्रयिष्यते, षष्ठीनिर्द्देशो वा करिष्यते इति मन्यते । शिरीषाणामदूरभाव इत्यादि । अरीहणादिषु वराहादिषु कुमुदादिषु शिरीषशब्दस्य पाठाद् वुञ्च्छणादिसूत्रेण वञादयोऽस्माद्भवन्ति, तेषां च विशेषविहितत्वाल्लुका न भवितव्यम्, सत्यम्; ऽऔत्सर्गिकोऽपि तत इष्यतेऽ इति वक्ष्यति, तस्य वरणादिदर्शनाल्लुप् । असति व्यक्तिवचनग्रहणे शिरीषेषु यद्वनस्पतित्वं तस्।यापि ग्रामेऽतिदेशः स्यात्, ततश्च णत्वं प्राप्नोति; णत्वविधौ विफली वनस्पतिरिति नाश्रीयते विशेषः । अत एव वृक्षवृतेर्णत्वं भवत्येव । शिरीषवनमिति । ननु च ग्रामेऽपि वर्तमानो गुणभूतं वनस्पतित्वमाहेति णत्वप्रसङ्गः, न चात्र किञ्चित्प्रधानाश्रयं कार्यमस्ति येन गुणः स्वकार्यं नारभेत । न च व्यक्तिवचनग्रहणस्य वैयर्थ्यम्, असति हि तस्मिन्प्रकृत्यर्थगतस्य व्यतिरेकस्याप्यतिदेशात् षष्ठी प्रसज्येत; सति तु तस्मिन् सङ्ख्यामात्रातिदएशे व्यतिरेकसहितायाः सङ्ख्याया अनतिदेशाद् ? नायं दोषः; एवं तर्हि णत्वविधौ प्रधानवनस्पतिग्रहणाद् अत्र तदभावः । हरीतक्यः फलानीति । हरीतकीशब्दाद् गौरादिङीषन्ताद् ऽअनुदातादेश्चऽ इत्यञः ऽहरीतक्यादिभ्यश्श्चऽ इति लुप् । अत्र व्यक्तिरेव युक्तवद्भवति, वचनं त्वभिधेयवदेव । खलतिकं वनानीति । खलतिकशब्दो वरणादिः, समासे उतर पदस्य बहुवचनस्य लुपो नियमार्थमेतद्-लुबर्थस्य बहुत्वातिदेशः समासे यदि भवति उतरपदस्यैवेति, मधुरापञ्चालाः; इह न भवति-पञ्चालमधुरे इति, बहुवचनस्येति वचनाद् । द्वित्वातिदेशः पूर्वपदस्यापि भवति-गोदौ च ग्रामः मधुरा च गोदमधुरा इति ॥ विशेषणानां चाजातेः ॥१।२।५२ ॥ पूर्वं प्रकृत्यर्थगतयोर्लिङ्गसङ्ख्ययोर्लुबर्थेऽतिदेशः कृतः, न तु लुबन्ते शब्दे इति तत्र वर्तमानानां विशेषणानां सिद्ध एव युक्तवद्भावः । वचनं तु जातिप्रतिषेधार्थम् । अथ व्यधिकरणानां विध्यर्थं कस्मान्न भवति, ब्रह्मदतस्य पञ्चाला इति ? ऽतत्पुरुषः समासनाधिकरणःऽ इत्यतः समानाधिकरणानुवृतेः । गोदाविति । गोदौ ह्रदौ वरणादिः, ग्रामजनपदशब्दौ जातिवाचिनौ ताभ्यां लुबर्थो जातिरूपेणोच्यते । जात्यर्थस्य चेत्यादि । जातिरूपस्य चार्थस्य, न जातिवाचिनः शब्दस्येत्यर्थः । तेन किं सिद्धं भवतीत्याह--तेनेति । द्वारग्रहणेनैतद्दर्शयति --जातौ प्रक्रान्तायां यद्विशेषणमुपनिपतितं तज्जातिमेव साक्षाद्विशिनष्टि, तद्द्वारेण तु लुबर्थो विशिष्टः प्रतीयते; तत्र विशेषणविषेष्यभावं प्रति कामचार इति रमणीयादीनां जात्युपनिपाते युक्तवद्भावो न भवति; लुबर्थो पनिपाते तु भवति । यद्येवम्, नार्थोऽनेन, लुपोऽन्यत्राप्ययं प्रकारो दृष्टः, यथा--बदरी सूक्ष्मकण्टका मधुरावृक्ष इति, मधुरादीनां बदर्युपनिपाते तल्लिङ्गसङ्ख्यायोगः, वृक्षोपनिपाते वृक्षलिङ्गसङ्ख्योगः, वृक्षस्य च नियतलिङ्गत ? एवं तर्हि यतत्रतत्रोच्यते--गुणवचनानां हि शब्दानां नाश्रयतो लिङ्गवचनानि भवन्तीति, तदनेन क्रियते । विशेषणानां गुणवचनानामित्यर्थः । युक्तवद्व्यक्तिवचने । आश्रयवल्लिङ्गसंख्ये इत्यर्थः । यदा तु जातिविशेषणं तदा नेति । पदसंस्कारपक्षे च वाचनिकमेतत्; पदे हि पदान्तरनिरपेक्षे संस्क्रियमाणे लिङ्गसर्वनामनपुंसकं वस्त्वन्तरानपेक्षमेकत्वं च प्राप्तमिति शुक्लं पटा इति प्राप्ते भाविनो बहिरङ्गस्याश्रयस्य लिङ्गसंख्ये विधीयेते । वाक्यसंकारे त्वयमनुबाद एव; आश्रयविशेषनिष्ठत्वेन विशेषणानामपि तल्लिङ्गसंख्ययोरसिद्धत्वात् । मनुष्यलुपीति । मुनष्यलक्षणे लुबर्थे विशेषणानां प्रतिषेधः । लुबन्तस्य तु भवत्येव-चञ्चाभिरूप इति, तृणपुरुषश्चञ्चा तत्सदृशो मनुष्यश्चञ्चा ऽसंज्ञायाम्ऽ इति कन्, ऽलुम्मनुष्येऽ इति लुप् । चर्मविकारविशेषो वर्घ्रिका ॥ तदशिष्यं संज्ञाप्रमाणत्वात् ॥ १।२।५३ ॥ संज्ञाप्रमाणत्वादिति । प्रमाणानाÄ हि प्रमाणत्वं प्रतिपादकत्वं स्वार्थप्रत्यायनलक्षणम् । एतच्च सर्वेषामेव शब्दानामस्ति, न संज्ञाशब्दानामेव । उच्यते चेदं तत्र विशेषो विज्ञायत इत्याह--संज्ञाशब्दा हीत्यादि । ये संज्ञाशब्दास्ते नानालिङ्गसंख्या अपि स्वाभिधेयगतलिङ्गसंख्यापेक्षया भिन्नलिङ्गसंख्या अपि प्रमाणम्, स्वार्थस्य प्रतिपादका इत्यर्थः । भवतु संज्ञाशब्दानामेवंविधं प्रमाणत्वम्, किमायातं यौगिकानां पञ्चालादिशब्दानामित्य आह-पञ्चाला वरणा इत्यादि । तदनेन पक्षधर्मत्वं हेतोरुक्तम्, पूर्वं तु दृष्टान्तगतो हेतुर्व्याख्यातः । दृष्टान्तमाह--यथेति । युक्तवद्भावमारभमाणोऽपि नात्र कञ्चिद्यत्नं करोति, तदवश्यमयं शब्दस्वभाव एवाश्रयणीयः । कश्चिद्धि शब्दः स्वभावात् समुदायसंख्यामभिधते, कश्चिदवयवसंख्याम्, यथा-वनं वृक्षा इति । एवं लिङ्गेऽपि द्रष्टव्यम् ॥ लुब्योगाप्रख्यानात् ॥ १।२।५४ ॥ किं कारणमिति । ऽनिमितकारणहेतुषु सर्वासां प्रायदर्शनम्ऽ इति प्रथमा द्वितीया वा । तथा च योगाप्रख्यानादित्युतरोपपतिः । योगःउजनपदादेः क्षत्रियादिभिः सम्बन्धः, तस्याप्रख्यानादनुपलब्धेरित्यर्थः । तदाह--न हीति । एतदेव विवृणोति-नैतदिति, संज्ञा एता इति । यद्यपि संज्ञाशब्दा अपि पङ्कजादयोऽपेक्षितप्रवृत्तिनिमिताः सन्ति, तथापीह प्रकरणादनेपेक्षितप्रवृत्तिनिमिता अपीति बोद्धव्यम् । अत एवाह-तस्मादत्रेत्यादि । ननु योगाप्रख्यानेऽपि तद्धित उत्पद्यते, तद्यथा--ऽकम्बलाच्च संज्ञायाम्ऽ कम्बल्यमूर्णापलशतमिति, सत्यम्; यत्र रूपे विशेषोऽस्ति । ननु च संज्ञाप्रमाणत्वादिति पञ्चालादिशब्दानामयौगिकत्वमुपपादितमित्यर्थाल्लुबपि प्रत्याख्यात् एव, किमनेन क्रियते ? उच्यते; संज्ञाप्रमाणत्वादित्यनेन दृष्टान्तगतो हेतुः शब्देनोक्तः तस्यैव त्वर्थात्पञ्चालादिगतत्वेन प्रतीयमानस्यासिद्धिमाशङ्कय योगाप्रख्यानादिति यौगिकत्वामपाकुर्वन् हेतुमेव समर्थयते ॥ योगप्रमाणे च तदभावे दर्शनं स्यात् ॥ १।२।५५ ॥ पञ्चालादय इत्यादि । पूर्वयोगस्याप्रतिभास उक्तः, यस्तु तमपजानीते तं प्रत्यनेनानिष्टमापद्यत इति दर्शयति-योगप्रमाणे हीति । ऽहिऽ शब्दो हेत्वर्थे प्रयुञ्जानः सूत्रे ऽचऽ शब्दो हेतौ प्रयुक्त इति दर्शयति । एतदेव व्याचष्टे-यदीति, अदर्शनमयोगः चस्यादिति । दर्शनं ज्ञानं तच्च प्रयोगस्योच्चारणस्य फलम्, अतः फलाभावेन हेत्वभावो विवक्षित इत्याचष्टे । योगनिमितको हि योगाभावेन प्रदर्शनं युज्यते, यथा-दण्डीशब्द इति भावः । ननु भूतपूर्वमपि निमितं भवति, ततश्च सम्प्रति वरणादियोगाभावेऽपि भूतपूर्वः स एव निमितं भविष्यति, नैतदेवम्; भूतपूर्वनिमितो हि व्यपदेशो गौणः स्याद्, न चायं गौणः; पदान्तरस्य प्रयोगमन्तरेणाऽपि प्रतीयमानत्वात् । किञ्च यौगिकत्वे पुरुषान्तरसंबंधनिबंधनोऽपि व्यपदेशः कस्मान्न प्रवर्तते ? विपर्ययो वा कस्मान्न भवति ? देशसम्बन्धाद्राजसु पञ्चालशब्द इत्यतोऽक्षादिशब्दवदनेकार्थ एवायं पञ्चालादिशब्दः ॥ प्रधानप्रत्ययार्थवचनमर्थस्यान्यप्रमाणत्वात् ॥ १।२।५६ ॥ अर्थवचनमिति । कर्मणि षष्ठयाः समासः । ननु च प्रधानप्रत्यययोः कर्त्रोर्निर्देशादुभयप्राप्तावित्यनेनात्र षष्ठी, ततश्च ऽकर्मणि चऽ इति निषेधः प्राप्नोति, नैष दोषः ; प्रधानप्रत्ययोरत्र करणत्वं विवक्षितम् । कस्तर्हि कर्ता, पुरुषः, समुदायो वा प्रधानोपसर्जनयोः प्रकृतिप्रत्यययोश्च ? एतदुक्तं भवति-प्रधानप्रत्ययाभ्यां करणाभ्यां पुरुषेण समुदायेन वा यदर्थस्य वचनशब्देन सह ऽकर्तृकरणे कृता बहुलम्ऽ, ऽकृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणम्ऽ इतिच समासः । ननु च प्रत्ययोऽपि प्रकृत्यपेक्षया प्रधानम्, कस्माद्भेदेनोपादीयते ? उच्यते; यदा ऽप्रकृतिः प्रत्ययार्थं प्रति विशेषणतया स्वार्थमभिधतेऽ इति सिद्धं भवति, तदा प्रत्ययस्य प्राधान्यम्, तदेवेदानीं परिभाष्यत इति पूर्वाचार्यैस्तावत्प्रत्ययो भेदेन निर्दिष्टः-प्रधानोपसर्जने, प्रकृतिप्रत्ययाविति, ततश्च तल्लक्षणनिराकरणे प्रत्ययोऽपि भेदेनोपादेयः । अश्क्यत्वादिति । अशक्यत्वमनन्तप्रकारत्वात् । बहुव्रीहावन्यपदार्थ उच्यते; प्लक्षन्यग्रोधमिति समाहारः; क्वचित्प्रधानयोरेव सहाभिधानम्-प्लक्षन्यग्रोधाविति । स्वार्थिकेषु च पप्रकृतिप्रत्ययौ प्रकृत्यर्थं सह ब्रूतः-शुक्लतर इति; तथा आख्यातेषु क्रियाप्रधानमाख्यातमिति; तथा ऽकर्तरि कृत्ऽ ऽकर्तरि तृतीयाऽ, तत्र ऽकृत्सु शक्तिमद् द्रव्यं प्रधानमुच्यतेऽ इति क्रियाभेदे शक्त्यन्तराविर्भावः; पाचकं पश्येति विभक्तिषु शक्तिप्राधान्यम्-इत्याद्यनन्तप्रकारमर्थाभिधानमशक्यं परिभाषितुमिति लोकत एवार्थावगतेः कथमेतदित्याह-यैरपीत्यादि ॥ कालोपसजने च तुल्यम् ॥ १।२।५७ ॥ अर्थस्यान्यप्रमाणत्वादिति । कथं पुनरयमत्र हेतुर्लभ्यत इत्याह-तुल्यशब्दो हेत्वनुकर्षणार्थ इति कथमेतदित्याह --अशिष्यविशेषणं चैतदिति । चशब्दो हेतौ । आन्याय्यादिति । रात्रेश्चतुर्द्धा विभक्तायाः पश्चिमे यामे न्याय्यं स्वापादुत्थानम्; शास्त्रीयत्वात् । प्रथमे गते च संवेशनं शयनम् । अत्र लक्षणे रात्रेर्मध्ययामद्वयं नाद्यतनम्, द्वितीये तु तदपि । उभयतोऽर्द्धरात्रमिति । बहुव्रीहिः कृत्स्नो दिवस आगामिन्या रात्रेः पूर्वार्धेनातीतायाः पश्चिमार्घेन च युक्त इत्यर्थः । यद्येवमिति । यद्यर्थस्यान्यप्रमाणत्वादित्ययमेवात्रापि हेतुरित्यर्थः । पूर्वसूत्र एवेति । एवं हि तुल्यमिति न वक्तव्यं भवतीति भावः ॥ जात्याख्यायामेकस्मिन्बहुवचनमन्यतरस्याम् ॥ १।२।५८ ॥ जात्याख्यायामिति विषयसप्तमी । एवमेकस्मिन्नित्यपि व्यधिकरणे चैते सप्तम्यौ । जातिर्नामेत्यादिना सूत्रारम्भस्य कारणमाह-एकोऽर्थ इति । यद्यपि वैशेषिकपरिभाषिता संख्या जातेर्न विद्यते, तस्या द्रव्यधर्मत्वात्; तथापि भेदगणनरूपा संख्या विद्यत एव । यथोक्तम् -- दिष्टिप्रस्थसुवर्णादि मूर्तभेदाय कल्पते । क्रियाभेदाय कालस्तु संख्या सर्वस्य भेदिका ॥ इति । बैशेषिकाश्च व्यावहरन्ति --पञ्च कर्माणि, चतुविंशतिर्गुणा इति । जातेराख्येति । आख्यानमाख्याउ प्रत्ययनम् । एकस्मिन्नर्थ इति । जात्याख्ये बहुवचनशब्दोऽयमन्वर्थो न पारिभाषिकः, उक्तिर्वचनम्, बहूनां वचनं बहुवचनम् । ततश्चायमर्थः -एकस्मिन्नर्थे बहूनामुक्तिर्भवतीति सामर्थ्याद्वत्यर्थो गम्यते-बहूनामिवोक्तिः । यदि च जात्यर्थो बहुवद्भवतीति बहूनामिवोक्तिर्भवतीति सामर्थ्यात् स एवार्थः संपद्यत इत्याह-जात्यर्थो बहुवद्भवतीति । तेन किं सिद्धं भवतीत्याह -तेनेति । यदि तु जातिशब्दाद्वहुवचनं जात्यादि विधीयेत, ततो विशेषणेभ्यः संपन्नादिभ्यो न स्यात्, तेषामजातिशब्दात्वादिति भावः । देवदत इति । यद्यपि जातिपदार्थवादिपक्षे ह्यत्राप्यवस्थाभेदानुगता जातिः शब्दवाच्या, तथापीह सामर्थ्यादभिन्नपिण्डसमवेता जातिराश्रीयत इत्यनतिदेशः । काश्यप इति । कश्यपशब्दाद्विदाद्यञ्, तत इवार्थे संज्ञायां कन् ऽलुम्मनुष्येऽ । भवत्ययं जातिशब्द इति । गुणभूताया गोत्रजातेरभिधानात् । न त्वनेन जातिराख्यायत इति । प्रधान्येनेति भावः । असत्याख्याग्रहणे जातौ वर्तमानादित्यर्थः स्यात्, तत्र यथा व्यक्तिपर्यन्ताभिधाने गवादिभ्योऽपि भवति, एवमत्रापि स्यात् । सति तु तस्मिंस्तत्सामर्थ्याज्जातिप्राधान्ये भवति । व्रीहियवाविति । ननु च यथा काशिकोसलीया इति जनपदलक्षणो वुञ् विधीयते, न च जनपदरूपः समुदायोऽवयवाभ्यामारभ्यते; अतो यत्स्वतन्त्रं प्रातिपदिकं न तज्जनपदवाचि, यज्जनवदवाचि न तत्स्वतन्त्रं प्रातिपदिकमिति कुतो वुञः प्रसङ्गः ! अयं तु जातिप्रत्यायने विधिर्न जातिशब्दादिति स्यादेव प्रसङ्गः । संख्याप्रयोगे इति । एकस्यैव बहुत्वातिदेशे क्रियमाण एकशब्दप्रयोगेऽपि स्यादिति भावः । आरभ्यमाणेऽप्येतस्मिन् गोत्वं व्रीहित्वमित्यादि निष्कृष्य जात्यभिधानेनैवायं विधिरिष्यते । व्यक्तिपर्यन्ते त्वभिधाने जातिव्यक्त्योस्तादात्म्यं सम्बन्ध इति जातिरूपेण व्यक्तीनामभिधाने एकवचनं सिद्धम् । व्यक्त्यात्मना तु जातेरभिधाने बहुवचनमिति नार्थोऽनेन ॥ अस्मदो द्वयोश्च ॥ १।२।५९ ॥ ऽअस्मदःऽ इत्यभिधेयसम्बन्धेन षष्ठीत्याह--अस्मदो योऽर्थ इति । पञ्चम्यां तु तत्र वर्तमानस्य तिङ्न्तस्य न स्यादिति भावः । एकत्वे द्वित्वे चेति । ननु चास्मतच्छब्दः प्रत्यगात्मनि वर्तते, स चैकस्तस्य कथं द्वित्वयोगः, एकत्वमपि तस्यायुक्तं विशेषणम्, अव्यभिचारात् ? उच्यते; यदाऽन्यत्रात्मत्वमध्यारोप्यते-अयं मे द्वितीय आत्मेति, यदा वा ऽत्यदादीनि सर्वैर्नित्यम्ऽ इति एकशेषः क्रियते, तदा सम्भवत्यनेकार्थत्वम् । अथ यत्रैवास्मच्छब्दो बहुवचनान्तः प्रयुज्यते, तत्र कथं द्वित्वैकत्वविशेषावसायः, प्रकरणादाराच्छब्दस्येव दूरान्तिकयोः । अहमिति । ऽणेóप्रथमयोरम्ऽ, ऽत्वाहौ सौऽ । वयमिति । ऽमपर्यन्तस्यऽ,ऽयूयवयौ जसिऽ, शेषे लोपःऽ । आवामिति । ऽयुवावौ द्विवचनेऽ, ऽप्रथमायाश्च द्विवचनेऽ इत्यात्वम् । सविशेषणस्येति । ऽत्वं राजा वयमप्युपासितगुरुप्रज्ञाभिमानोन्नताःऽ इत्यत्रोन्नतत्वमेव विधीयते । न च विधेयोऽर्थो विशेषणमिति अतिदेशो भवत्येव । युष्मदीति । भाष्यवार्तिकयोरपठितमपि शिष्टप्रयोगदर्शनात्पठितम् ॥ फल्गुनीप्रोष्ठदानां च नक्षत्रे ॥ १।२।६० ॥ चकार इत्यादि । केचिदाहुः--ज्योतिषामावस्थिकी नक्षत्रता चन्द्रयोगे सति भवति, अन्यदा तु ज्योतिष्ट्वमेव । चन्द्रयोगश्च द्वयोः समुदितयोरिति द्वयोरेव बहुवचने सिद्धे चकारेण द्वयोरित्यनुकर्षन्नाचार्यो ज्ञापयति--नक्षत्रग्रहणं ज्योतिष उपलक्षणमिति । उपलक्षितज्योतिष्ट्वमेकैकस्याप्यस्तीति एकनिवृत्यर्थं द्वयोरित्यनुकर्षणीयमिति । तत्रोच्यते--सत्यप्येकैकस्य ज्योतिष्ट्वे न तत्र फल्गुनीशब्दो वर्तते, एवं प्रोष्ठपदादिशब्द उद्भूतावयवभेदः समुदाय एव ताभ्यामुच्यते । अत एव ऽच्छन्दसि पुनर्वस्वोरेकवचनम्ऽ ऽविशाखयोश्चऽ इति सूत्रारम्भः । नक्षत्रशब्दश्च निघण्टुअषु तारकापर्याय एव पठितः । वेदेऽपि ऽनक्षत्रेभिः पितरो द्यामपंशन्ऽ ऽत्वं नक्षत्राणां मेध्यसि चित्रम्ऽ ऽनक्षत्रेण युक्तः कालःऽ इत्यत्र वृत्तिकारो वक्ष्यति-ऽकथं पुनर्नक्षत्रेण पुष्यादिना कालो युज्यतेऽ इति, तदप्यनुपपन्नम्; आवस्थिके नक्षत्ररूपे पुष्यादिभिर्योस्य कादाचित्कत्वात् । ऽतिष्यपुनर्वस्वोःऽ इत्यत्र च उदितौ तिष्यादिभिर्योगस्य कादाचित्कत्वात् । ऽतिष्यपुर्वस्वोःऽ इत्यत्र च उदितौ तिष्यपुनर्वसू दृश्येते । इत्थं चन्द्रयोगेऽप्युदाहरिष्यते । प्रत्युदाहरणे च ज्योतिःस्वभावमेवार्थं दर्शयति-तिष्यपुनर्वसवो माणवका इति, तस्मान्नायं वृत्तिकारस्य पक्षः--आवस्थिकी नक्षत्रतेति । ज्योतिर्मात्रवचन एवायम् । चकारेण द्वयोरित्यस्यानुकर्षणमपि--उद्भूतावयवभेदः समुदायोऽभिधीयते, न त्वेकैकं ज्योतिरिति प्रदर्शनार्थम् । प्रोष्टपदानामिति सप्तम्यर्थे ष,ठी, नक्षत्रे इति वा षष्ठ।ल्र्थे सप्तमीत्याह-फल्गुन्योर्द्वयोरित्यादि । नक्षत्रयोरिति प्रत्येकमभिसम्बद्ध्यते । सूत्रे तु व्यत्ययेनैकवचनम् । अत्राप्यर्थस्य बहुत्वातिदेश इति विशेषणस्यापि भवति । पूर्वे फल्गुन्याविति । फल्गुनीभ्यां फल्गुनीभिर्वा युक्तः काल इति अण्, ऽलुबविशेषेऽ,ऽलुपि युक्तवद्व्यक्तिवचनेऽ । फल्गुन्यौ माणविके इति । फल्गुन्योर्जाते ऽफल्गुन्यषाढाभ्यां टानौ वक्तव्यौऽ इति टप्रत्ययः, ऽटिड्ढाणञ्ऽ इति ङीप् ॥ च्छन्दसि पुनर्वस्वोरेकवचनम् ॥ १।२।६१ ॥ द्वयोर्द्विवचने प्राप्त इति । पूर्वसूत्रे चानुकृष्टस्य द्वयोरित्यस्येहाननुवृतावपि पुनर्वसुशब्देनोद्भूतावयवभेदस्य ज्योतिर्द्वयस्य समुदायस्याभिधानाद् द्वयोरेवायं विधिरिति दर्शयति ॥ विशाखयोश्च ॥ १।२।६२ ॥ किमर्थो योगविभागः ? इह चकारेण च्छन्दसौत्यनुवर्तयिष्यामीति तेनोतरत्र ऽच्छन्दसिऽ इति नानुवर्तते । तिष्यपुनर्वस्वौर्नक्षत्रद्वन्द्वे बहुवचनस्य द्विवचनं नित्यम् ॥ १।२।६३ ॥ तिष्यपुनर्वस्वौः इत्यनेनैव सूत्रेण द्विचनापेक्षया सप्तमीद्विवचनम् । नक्षत्रद्वन्द्वे इति सत्सप्तमीः; नक्षत्रद्वन्द्वे सति तिष्यपुनर्वस्वोरर्थयोर्द्वयोरिवोक्तिर्भवतीति द्वन्द्वापेक्षया षष्ठीद्विवचनं वा । तेषां द्वन्द्व इति । अत्र तच्छब्दाद् द्विवचनं न भवति, वाक्यस्य प्रस्तुतत्वादद्वन्द्वार्थवृत्तित्वाद् । अत्र पारिभाषिकयोर्द्विवचनबहुवचनयोर्ग्रहणे बहुवचनस्य द्विवचनमादेशः स्यात् । तत्र जसादेशे प्रथमाद्विवचने ऽजसि चऽ इति गुणः स्यात्, विशेषणानां च न स्यादिति मत्वाह-बहुवचनस्य प्रसङ्ग इति । बहूनामर्थानामुक्तिप्रसङ्ग इत्यर्थः । द्विवचनं भवति । द्वयोरिवोक्तिर्भवतीत्यर्थः । तिष्यपुनर्वसवो माणवका इति । तिष्यपुनर्वसुशब्दाभ्यां नक्षत्रणो लुपि जातार्थे सन्धिवेलादिसूत्रेणाअण्, तस्य ऽश्रविष्टाफल्गुन्यनुराधाऽ इत्यादिना लुक् । नात्र द्वन्द्वो नक्षत्रे वर्तते, किं तर्हि ? माणवकेषु । तत्रापि न गौणः; योगपरम्परया वृतेः । पर्यायाणामपीति । पुनर्नक्षत्रग्रहणसामर्थ्यादर्थस्यैवायमनपेक्षितोपातशब्दास्यातिदेशो भवति, तेन पर्यायाणामपि ग्रहणं सिद्ध्यति । द्वन्द्व इति किमिति । तिष्यश्च पुनर्वसूचेति वाक्ये समासेऽप्युतरपदार्थप्रधाने बहुत्वं न सम्भवति, तादृशः समासश्च न सुलभः, बहुव्रीहिश्च न सम्भवति व्यधिकरणत्वात्, ऽसंख्यापूर्वो द्विगुःऽ अप्यपूर्वोऽव्ययपूर्वः, अव्ययीभावश्चासम्भाव्य एवेति द्वन्द्व एव भविष्यतीति मन्यते । यस्तिष्य इत्यादि । अवयवेन विग्रहे उद्भूतावयवभेदः समुदायझ समासार्थः । उन्मुग्धाः पुरुषास्तदाह-तिष्यादय एवेति । क्विचितु इमे तिष्यपुनवसवो मगधा इति पठ।ल्ते, तत्रापि वैकृत्यवचनामुहेः कर्तरि क्तः, अविविक्ता इत्यर्थः । ऋतवो मुह्यन्तीति यथा । नक्षत्रसमास एवायमिति । समुदायसमुदायिनोरभेदादिति भावः । सर्वो द्वन्द्व इति । ननु च एकवद्भावप्रकरणे प्राण्यङ्गादीनां समाहार एव द्वन्द्वः, दधि-पयाअदौनामितरेतरयोग एवेति नियम आश्रितः; ततश्च तस्मिन् प्रकरणेऽनुपातानाम् ऽचाथेद्वन्द्वःऽ इत्येव समाहारेतरेतरयोगयोर्द्वन्द्वसिद्धः, किं ज्ञापकोपन्यासेन ? सत्यम्; विपरीतोऽपि नियमः सूत्रे सम्भाव्येत--प्राण्यङ्गादीनामेव समाहार इति । तस्माद्वहुवचनग्रहणेन प्राण्यङ्गादीनां नियम्यत्वं ज्ञाप्यते । वृक्षादिविभाषाप्रयोजनं तत्रैव वक्ष्यामः ॥ सरूपाणामेकशेष एकविभक्तौ ॥ १।२।६४ ॥ समानं रूपं येषामिति सरूपा इति । ऽज्योतिर्जनपदऽ इत्यादिना समानस्य सभावः । ऽसह रूपेण वर्तन्त इति सरूपाःऽ इति तु न भवति; व्यभिचाराभावात् । रूपशब्दश्चैह श्रोत्रग्राह्यए शब्दसम्बन्धिनि स्वरूपे वर्तते, न चक्षुर्ग्राह्यए शुक्लादौ; शब्दानुशासनप्रस्तावातदाह--सरुपाणां शब्दानामिति । निर्धारणे चैषा षष्ठी, समुदायापेक्षया वा । अत्र पञ्च पक्षाः सम्भवन्ति । समानपर्याय एकशब्दः ऽतेनैकदिक्ऽ इतिवत् । समिअन्त्वं च भेदाधिष्ठानमिति पृथक् सर्वेभ्यः समानायां विभक्तौ परत एकः शिष्यत इति प्रथमः । ऽद्वन्द्वेऽ इति वर्तते, तत्र विरूपेषु सावकाशमपि द्वन्द्वमेकशेषो न बाध्ते,निमितत्वात्; सरूपाणां द्वन्द्वे कृते समासादेकस्यां विभक्तौ परत इति द्वितीयः । अत्र पक्षे सड्ख्यावाच्येकशब्दः । ऽह्रस्वो नपुंसकेऽ इत्यतः ऽप्रातिपदिकस्यऽ इति वर्तते, एकविभक्ताविति सारूप्योपलक्षणम् । एकविभक्तौ यानि सरूपाणि दृष्टानि तेषां प्रातिपदिकानामेवानैमितिक एकशेष इति तृतीयः । विभक्तिशब्दः कारकशक्तिवचनः, विभज्यतेऽनया प्रातिपदिकार्थ इति कृत्वा; एकस्मिन्कारके विवक्षिक्तिं प्रसूत इति ; पृथग् विभक्त्यन्तानामेकशेष इति चतुर्थः । सरूपसमुदायादेकस्यां विभक्तौ परत इति पञ्चमः । तत्राद्ये पक्षे-वृक्षस् वृक्षस् वृक्षस् इति स्थिते पूर्वयोर्निवृतौ स् स् वृक्षस् इति स्थिने मध्यसम्बन्धिनः सोर्हल्ङ्यादिलोपे तदितरयोः श्रवणप्रसङ्गः । एवमाद्यन्तयोरपि निवृतौ द्रष्टव्यम् । परयोर्द्वयोर्निवृतावपि शिष्यमाणसम्बन्धिनो लोपपासिद्धिरेव । गोदौ वरणा इत्यादौ च पृथग् द्विवचनयोः परत एकशेषे तयोः श्रवणप्रसङ्गः । यत्र हि प्रत्ययनिमिता प्रकृतिनिवृत्तिस्तत्र केवलस्यापि प्रत्यस्य प्रयोगो भवत्येव, यथा--इयानिति । द्वितीये तु--अश्व अश्व औ इति स्थिते विभक्त्यपेक्षाच्छेषात्पूर्वमन्तरङ्गत्वात्समासान्तोदातत्वे कृते यदि पूर्वशेषः सर्वानुदातं पदं स्याद् परशेषे तु अश्वशब्दान्तोदातः स्यात्, इह च ऋक्च ऋक्च ऋचौ अन्तरङ्गत्वात् ऽऋक्पूरब्धूःऽ इति समासान्ते कृते विभक्तेरकारेण व्यवधानान्नैकशेषः स्यात् । समासान्तो हि समासग्रहणेन गृह्यमाणस्तमेव न व्यवदध्यात्, सरूपं तु व्यवदधात्येव । एकग्रहणं वानर्थकम्, न हि द्वन्द्वाद्यौगपदनेका विभक्तिः सम्भवति । यदि पुनरेकविभक्तावित्येतदकृत्वा द्वन्द्वक्रियानन्तरमेवैकशष इत्युच्येत, एवमपि पादौ पादा इत्यादौ द्विवचनबहुवचने न स्याताम् ; प्राण्यङ्गादीनां समाहार इव द्वन्द्व इति नियमाद् । तृतीये तु पक्षे जननीवचनो यो मातृशब्दः, यश्च ऽमाङ् मानेऽ इत्यस्मातृचि धान्यमातृवचनः, तयोरपि माता मातृभ्याम् इति क्वचिद्विभक्तौ सरूपत्वात्सर्वत्रैकशेषप्रसङ्गः । तथा हरितशब्दाद्वर्णादनुदातादिति ङीब्नकारयोर्यो हरीणीशब्दः सम्पद्यते, यश्च हरिणशब्दाज्जातिलक्षणे ङीषि, तयोर्न स्यात्; ङ्यन्तयोः सारूप्येऽपि प्रातिपदिकावस्थायामसारूप्यात् । चतुर्थे तु निवर्तमानः शब्दो यद्यपि सह विभक्त्या निवर्तते, शिष्यमाणस्य त्वेकवचनश्रवणप्रसङ्गः । अतः पञ्चमं पक्षमाश्रित्याह--सरूपाणां शब्दानामेकविभक्तौ परत इति । सरूपसमूदायादेकस्यां विभक्तौ परत इत्यर्थः । ननु ऽङ्याप्प्रातिपदिकात्ऽ इत्येकवचनान्तानां द्वन्द्वः, तत्र चैकत्वं विवक्षितम्, तत्कथं प्रातिपदिकसमुदायाद्विभक्तिः ? अस्तु प्रत्येकं प्रातिपदिकत्वम्, समुदायोऽपि त्वर्थवत्वात्प्रातिपदिकम्, कः पुनः समुदायस्यार्थः ? परस्परसम्बन्धः, एकैकेन विशकलितोऽर्थ उच्यते । समुदायेन तु सम्बन्धः तुल्यजातीयस्य चार्थवत्समुदायस्य समासग्रहणेन निवृत्तिः । कश्च तुल्यजातीयः ? यत्र पूर्वो भागः पदम् । न चात्रैवमिति समुदायाद्विभक्तिरविरुद्धा । सा त्वनुद्भूतावयवभेदत्वाद् द्विवचनं बहुवचनं वा, न त्वेकवचनम् । नावौ जनावौ कर्तारावित्यादावच्परत्वादावादिष्वपि कृतेषु विरूपाणामपि समानार्थत्वादेकशेषः । शेषशब्दोऽयं नागराजे अनन्ते अप्रधाने तौपयुक्तादन्यत्र च न वर्तते, किं तर्हि ? निवृत्तिमदवस्थान इत्याह-एकः शिष्यते इतरे निवर्तन्ते इति । नन्वस्मिन् पक्षे एकग्रहणमनर्थकम्, न हि समुदायद्यौगपदेनेका विभक्तिः सम्भवति ? उच्यते, असत्येकग्रहणए पृथक् सर्वेभ्यो विभक्तौ परत इति प्रथमोऽपि पक्षः सम्भाव्येत । अतो यत्र पक्ष एकैव विभक्तिः सरूपाणां सम्भवति स एवैकग्रहणादा श्रीयते । अथ वा चतुर्थे पक्षे ग्रन्थः-कथं तर्हि विभक्तौ परत इति, न हि कारकशक्त्या शब्दानां पौर्वापर्यं भवति, उच्यते; इष्टवाची परशब्दः एकस्यां विभक्ताविष्यायां एकस्मिन्कारके विवक्षित इति यावत् । ननु चोक्तम्-शिष्यमाणस्यैकवचनश्रवणप्रसङ्ग इति, न वेदानीं निवर्तमानसङ्ख्यावेशादुपजायमाने द्वित्वबहुत्वे द्विवचनबहुवचने उपजनयितुमुत्सहेते, प्रत्ययान्तत्वेनाप्रातिपदिकत्वात्, नैष दोषः; सहविवक्षायामेकशेषः । का पुनः सहविवक्षा ? उक्तमत्र- अनुद्भूतेव भेदानामेका प्रख्योपजायते । यदा सहविवक्षां तामाहुर्द्वन्द्वैकशेषयोः ॥ इति । अयमर्थः--यदा बहवोऽर्था एकस्यां बुद्धौ उपारूढाः, यथा--पुरोऽवस्थितस्य हस्तस्य पञ्चाङ्गुलयः, ते चैकस्मिन्गुणे क्रियायां वा तथैव विनियुज्यन्ते-शोभना इति वा, दृश्यन्त इति वा, तदा सहविवक्षा । तथा हि-आत्मनो या बुद्धिस्तां परत्र संक्रमयितुं प्रयोक्त्रा शब्दः प्रयुज्यत इति । यदि चावयवाः पृथक् पृथगवधारिताः स्युः, यथा वातायनगतेन क्रमेण गच्छन्तः ततो भिन्नैरेव शब्दैः प्रत्यकं पर्यवसायिभिरेकवचनान्तैरभिधीयतेरन् । समुदायाकारा त्वनुस्यूतावयवभैदैका बुद्धिः तां परत्र सङ्क्रमयितुमितिच्छता तदनुरूपं शब्दः प्रयोक्तव्यः । न च तादृशस्य समुदायस्यासाधारणः कश्चिच्छब्दोऽस्स्तीत्यवयवशब्दैरेवासौ प्रतिपाद्यः । उपपदाय्ते चावयवशब्दैरेवाभिधानाम्; समुदायसमुदायिनोरभेदात् । स चैकैक एवावयवशब्द उद्भूतावयवभेदसमुदायप्रतिपादानाद् द्विवचनान्तो बहुवचनानतश्च प्रवर्तत इति नैकवचनश्रवणप्रसङ्गः । यद्येवम्, एकेनैवावयवशब्देन तादृशस्य समुदायस्याभिधातुं शक्यात्वान्न यावदवयवशब्दप्रयोगप्रसङ्गः । अथ मतम्-अन्योऽन्यसन्निधावेव समुदायरूपार्थाभिधानशक्तिः प्रादुर्भवति, कथं तर्हि एकषेषारम्भे एकस्य सा भवति, न हि सतोऽसती शक्तिरेकशेषवचनेन कर्तुं शक्यते ? उच्यते; विरूपेष्वन्योऽन्यसन्निधाने समुदायार्थाभिधानशक्तिः प्रादुर्भवति । पटुअगुप्तावित्यत्रापि ह्युद्भूतावयवभेदं समुदायं प्रतिपादयितुमवयवशब्द एव प्रत्येकं द्विवचनान्तः प्रवर्तते, अन्यथा द्विवचनबहुवचनायोगात्स्वार्थमात्रपर्यवसायिभिरवयवशब्दैः क्रमेणैवोच्चरणादर्थोऽपि प्रतीयते । क्रमेण चानेकार्थप्रतीतौ द्विवचनबहुवचने न भवतः । समुच्चयश्च भवति, तद्यथा वाक्य- - पटुअश्च गुप्तश्चेति । अतो विरूपेष्वेवं दर्शनात्सरूपेष्वपि द्वन्द्वाशङ्कायां सरूपेष्वेकस्यैवानेकार्थप्रतिपादनशक्तिरस्तीति वचनेन व्युत्पाद्यते । अन्ये तु तृतीयमपि पक्षं ग्रन्थारूढ्ंअ वर्णयन्ति । सरूपाणां शब्दानामेकविभक्तौ परत एकशेषो भवति; एकविभक्तौ परतः सरूपाणामित्यन्वः, न त्वेकशेष इति । एकस्मिन्कारके विवक्षिते, एकविभक्तौ वा परतो ये सरूपा दृष्टाः शब्दास्तेषामित्यर्थः । तत्र च शिष्यमाण एव निवर्तमानस्याप्यर्थमाचष्टे । अग्निचिदिति प्रत्ययनिवृतौ प्रकृतिवदिति द्विवचनबहुवचने यथायोगं भवतः । तत्र यदुक्तम्-हरितहरिणयर्ङ्यन्तयोर्न स्यादिति, तन्न; प्रातिपदिकग्रहणं नानुवर्तते, तेन ङ्यन्तयोहेव सारूप्याद् भविष्यति । यदप्युक्तम्-मातृशब्दयोः प्रसङ्ग इति, अर्थविप्रतिषेधान्न भविष्यति । कृते ह्यएकशेषे ताभिरित्यनुप्रयोगे पुनर्थो न गम्यते, तैरित्युक्ते स्त्र्यर्थः । वक्ष्यमाणस्य वा एवकारस्येहानुकर्षणादेकविभक्तौ यानि सरूपाण्येवेत्याश्रयणात्परिच्छेतृवाचिनश्च ऽअप्तृन्तृच्ऽ इति सर्वनामस्थाने दीर्घविधानादसारूप्यादेकशेषाभावः । अत्र पक्षे एकग्रहणं चिन्त्यप्रयोजनम् । तदेवं पञ्चसु पक्षेषु त्रयः स्वीकृताः । वृक्षश्च वृक्षश्चेति । ऽअनैमितिक एकशेषः ऽ इति पक्षे विभक्तौ सारूप्यं दर्शयितुं विभक्त्यन्तेन विग्रहः । कथं पुनर्विग्रहः, यावता एकशेषवृत्तिर्नित्या ? नैतद्वृत्या समानार्थवाक्यम्, प्रत्येकमत्र विवक्षा । आतश्च प्रत्येकम्; यतोऽत्र भेदनिबन्धेन समुच्चयश्चशब्देन द्योत्यते, भिन्नार्थमपि किञ्चिन्मात्रासाधर्म्याद्वाक्यं भवत्येव । समानार्थन्तु बाध्यत एव, यथा-वृक्षौ च वृक्षौ वृक्षाश्च वृक्षाश्च वृक्षा इति । ननु यद्येतावदेकार्थाभिनिवेशिनः शब्दाः--आकाशद्रव्यत्वगोत्वादयः, न तेषु द्विवचनबहुवचनेनाप्येकशेषः; ये त्वनेकार्थाभिनिवेशिनः--गौः शुक्लः, पाचक इत्यादयः, तेष्वनुस्यूतं किञ्चिदर्थगतमेकं गोत्वादिनिमितं वक्तव्यम्; अन्यथा सम्बन्धग्रहणासम्भवादत्र गवादिषु तद्गुणता जातिर्निमितं न, यथा शुक्लादिष्वपि गुणमात्रनिष्ठषु । गुणनिष्ठेषु तु स्वगतया जात्या एकीभूतो गुणः । एवं पाचकादिष्वपि गोत्वाश्वत्वे सामान्ये, निः साम्यानि सामान्यानीत्यत्र भिन्नेष्वभिन्नप्रत्ययहेतुत्वं तावेतावित्यादौ परोक्षत्वप्रत्यक्षत्वादिकम् । अभावाश्चत्वार इत्यत्र निरूपाख्यत्वमित्यादि सर्वत्र द्रष्टव्यम् । निमिततद्वतोश्च तादात्म्यम्, सर्वं हि वस्तु एकं नाना च गवादिरूपेणैकं खण्डादि प्रातिपदिकरूपेण नाना । एवं स्थिते यदि तावज्जातिरेव शब्दार्थस्तदा तस्या एकत्वान्नानेकशब्दप्रसङ्गः । अथाप्युभयम्, एवमपि जातिरूपेणैव शब्दो द्रव्यमभिधते न प्रातिस्विकेनाकारेणेति नास्त्यनेकशब्दप्रसङ्गः । केवलद्रव्यपदार्थपक्षेऽपि अस्मिन्विषयेऽनेकार्थाभिधानसामर्थ्यं शब्दस्य द्व्यादिपदवदभ्युपगन्तव्यम्, अन्यथा सत्यप्येकशेषे तन्न स्यादिति सिद्धमेकशब्दत्वम् । द्रव्यगतसङ्ख्याप्रतिपादनाय द्विवचनबहुवचने भविष्यत; नार्थ एतेनेत्याशङ्क्याह -- प्रत्यर्थमित्यादि । एकैकस्मिन्नर्थे यस्माच्छब्दानां निवेशस्ततोऽनेकेन शब्देनानेकस्याभिधानं सिद्ध्यति । तत्रैवं स्थितेऽनेकार्थाभिधाने कर्तव्ये यावन्तस्तेऽर्थास्तावतां शब्दानां प्रयोगः प्राप्नोति, इष्यते चैकशब्दत्वम्, तस्मादेकशेष आरभ्यते । अयमभिप्रायः--केवलं जातिपक्षे अक्षाः पादाः माषा इत्यादौ अनेकशब्दत्वं स्याद्, न हि बिभीतकदेवनशकटाक्षेष्वनुस्यूतं किञ्चित्सामान्यमस्ति । अत एव तत्र व्युत्पत्तिर्भेदेनापेक्ष्यते, एवमुभयपक्षेऽपि । केवलद्रव्यपक्षेऽपि वृक्षश्चेति वाक्येऽनेकशब्ददर्शनाद्विरूपेषु द्वन्द्वदर्शनाच्चारम्भणीयमेतदिति । रूपग्रहणं किमिति । अन्तरङ्गत्वादहेयत्वादुपदेशानपेक्षत्वाच्च रूपकृतमेव समानत्वं ग्रहीष्यते इति प्रश्नः । प्रतिपतिलाघवं च समानानामित्युच्यमाने भवति रूढिशब्दत्वेन रूढिरिति तुल्यार्थावगमात् । रूपग्रहणे तु वर्तिपदार्थमवगम्यान्यपदार्थोऽवगन्तव्य इति गौरवं भवति । भिन्नेऽप्यर्थे इति । ऽस्वं रूपम्ऽ इत्यत्र रूपग्रहणेन ज्ञापितं शास्त्रे रूपवदर्थोऽपि तन्त्रमिति । ततश्चार्थरूपाभ्यां समानत्वं गृह्यएतेति भावः । एकग्रहणं किमिति । शेष इत्येकत्वं विवक्ष्यत इति प्रश्नः । द्विबह्वोरिति ।द्वित्वबहुत्वविषयस्यानेकस्य शब्दस्येत्यर्थः । ननु द्वयोर्बहूनां चेति बहुवचनप्रसङ्गाद् इह शेषविधानद्वारेण संस्क्रियमाणत्वाच्छिष्यमाणं प्रधानम्, प्रधाने च सङ्ख्या न विवक्ष्यते, यथा-ग्रहं संमार्ष्टीति, विषम उपन्यासः; संमार्गे विधौ द्वितीयानिर्देशात् ग्रहाः प्रधानभूताः, संमार्गस्तु तेषां संस्कारः । संस्कारो नाम तस्य भवति यच्छास्त्रान्तरे प्रयोजनवत्यां क्रियायां साधनत्वेन विनियुक्तम्, संस्कृतस्य वा यस्य विनियोगः, द्रव्यमात्रस्य रूपसंस्कारोऽनर्थकः स्यात् । यदिह संमार्गसंकारो विधीयमानः शास्त्रान्तरे विनियुक्तं ग्रहमपेक्षते ततर् नवसङ्क्या ग्रहा श्रुता इति तदपेक्षः संमार्गविधिर्नवानामपि भवितुमर्हति । ग्रहमित्येकवचनं तु कर्मत्वमात्रमभिधायकतार्थं भविष्यति । इह तु शेषस्य वाक्यान्तरेऽनवधारणादिदमेवोत्पतिवाक्यामिति विवक्षणीया सङ्ख्या, पशुमालभेतेतिवत्, सत्यम्; इदमेवैकग्रहणं ज्ञापकम्-शास्त्रान्तरानवगतेऽपि प्रधाने सङ्ख्या न विवक्ष्यत इति, तेन कर्तुरीप्सिततममित्यत्र ईप्सिततमस्य सङ्ख्याया अविवक्षा सिद्धा भवति । शेषग्रहणं किमिति । साध्वनुशासनप्रक्रमात्सरूपाणामेकः साधुर्भवतीति विज्ञास्यत इति भावः । आदेशो मा भूदिति । असति हि शेषग्रहणे ऽषष्ठी स्थाने योगाऽ इति वचनात् स्थानषष्ठी स्यात्, ततश्चादेशः स्याद्, अस्तु; शब्दतोऽर्थतश्चान्तरतमो भविष्यति ? नैवं शक्यम्, स्वरे हि दोषः स्याद् द्वयोरश्वशब्दयोः समुदायः स्थानी, तत्र च द्वावुदाताविति द्व्युदात आदेशः स्यादेतेन द्व्यनुदातत्वं व्याख्यातम् । एकविभक्ताविति किमिति । नानाविभक्तौ वैरूप्यमवश्यंभावीति भावः । पयः पय इति । एकविभक्तावित्यस्मिन्नसति सरूपाणां सर्वत्र सह प्रयोगो न स्याद् । अथ क्रियमाणेऽप्यस्मिन्ननैमितिकपक्षे कस्मादेवात्र न भवति, एतदपि ह्यएकस्यां विभक्तौ परतः सरूपं दृष्टमेव ? नैष दोषः; एकग्रहणमस्मिन्पक्षे अतिरिच्यत इत्युक्तम्, तत्सामर्थादेकस्यामेव विभक्तौ विषयभूतायां भविष्यति । अत्र तु सत्येकशेषे पर्यायेण विभक्तिः स्यात् । अथ वा-किं न एतेन पक्षेण क्लेशतो व्याख्येयेन ? स्तां द्वावेव पक्षौ ? इह एकश्चेति सङ्ख्याश्बदानामेकशेषो न भवति, अनिभिधानाद् । विंशत्यादीनां तु भवत्येव ॥ वृद्धो यूना तल्लक्षणश्चेदेव विशेषः ॥ १।२।६५ ॥ वृद्धशब्दोऽयं लोके चरमे वयसि प्रसिद्धः,युवशब्दो द्वितीये, तयोरिह ग्रहणे तरुणश्च वृद्धश्च युवा च स्थविरश्चेत्यादौ स्यात् । ऽवृद्धिर्यस्याचामादिस्तद्वृद्धम्ऽऽजीवति तु वंश्ये युवाऽ- -अनयोः शास्त्रीययोर्ग्रहणे औपगवश्चानन्तर औपगविश्च युवेत्यादावपि स्यात् । अतो युवशब्दस्य तावत्कृत्रिमस्य व्यवहितापत्यवाचिनोऽत्र ग्रहणम्, तत्साहचर्याद्वृद्धशब्दस्यापि व्यवहितापत्यवाचिनः शास्त्रान्तरे प्रसिद्धस्य ग्रहणमित्याह--वृद्धशब्द इत्यादि । गोत्रग्रहणे त्वपत्याधिकारादन्यत्र लौकिकस्य ग्रहणमित्यपत्यमात्रस्य ग्रहणं स्यात् । क्वचित्पुनरधिकोऽपि ग्रन्थः पठ।ल्ते--यूनेति सहयोग एषा तृतीयेति । स इदानीन्तनैः प्रक्षिप्तः, यूना सह वचन इति सहशब्दं प्रयुञ्जानः सूत्रे सहयोगे तृतीयेति दर्शयति । अत एव ज्ञाप्यते-सहविवक्षायामेकशेष इति । विशेषो वैरूप्यमिति । शब्दस्य वृद्धयुवनिमितस्य ग्रहणान्नान्य इति भावः । पदार्थं दर्शयित्वा तदयमर्थ इत्याह-वृद्धयुवनिमितकमेवेत्यादि । समानायामाकृताविति । आकृतिः शब्दस्य प्रवृत्तिनिमितं गर्गापत्यत्वादि । क्वचितु प्रकृताविति पाठः, प्रकृतिः मूलप्रकृतिर्गर्गशब्दादिः । गार्ग्यश्चेत्यादि । गर्गवत्सशब्दाभ्यां गर्गादित्वाद्यञन्ताभ्यां यूनि ऽयञिञोश्चऽ इति फक् । गार्ग्यायणाविति । प्रकरणादिनात्र जीवद्वंश्यतावसायः; शब्दस्य गोत्रद्वयस्यापि साधारणत्वाद् । यद्येवम्, गार्ग्यश्च गार्ग्यश्चेति गोत्रशब्दयोरेव पूर्वेणैकशेषोऽस्ति प्रकरणादिनैव युवत्वमन्यतरस्य गंस्यते । यूनो हि द्वावाकारौ-जीवद्वंश्यत्वम्, पौत्रप्रभृत्यपत्यत्वं च; तत्र विशेषाविवक्षायां सामान्यशब्दो न निवर्तते, यथा-वस्तुतो भूतानद्यतनेऽपि ऽअभून्नृपो विबुधसखःऽ इति लुङ् भवति, तस्मान्नार्थ एतेन ? उच्यते; प्रकरणानपेक्षेण शब्देन जीवद्वंश्यत्वं प्रतिपादयितुकामो द्वन्द्वं प्रयुञ्जीत गार्ग्यायणाविति । अतो द्वन्द्वनिवृत्यर्थं वचनम् । प्रत्युदाहरणे तु सर्वत्र द्वन्द्वो भवति--गार्ग्यवात्स्यायनाविति । नन्वत्र विशेषान्तरसद्भावेऽपि तल्लक्षणो विशेषो विद्यत इति स्यादेकशेषः, नैष दोषः; एवमर्थवचनं व्यज्यते-योऽसौ विशेषो यस्य सद्भावात्पूर्वेणापप्राप्तिः, स तल्लक्षणश्चेदिति । एवं च यावदुद्देश्यं विधेयसम्बन्धात् सूत्रारम्भहेतुभूतस्य कृत्स्नस्य विशेषस्य तल्लक्षणत्वविधानात् कुतोऽत्र प्रसङ्गः ! इह तु प्राप्नोति--भागवितिभागवितिकाविति, कृत्स्नस्य विशेषणस्य तल्लक्षणत्वात् ? एवकारेण तु व्यावर्त्यते, न ह्यत्र तल्लक्षण एव विशेषस्तदाह--कुत्सा सौवीरत्वं चापरो विशेष इति । विशेषहेतुरित्यर्थः ॥ स्त्री पुंवच्च ॥ १।२।६६ ॥ स्त्रीत्वस्य वैरूप्यकारणस्याधिक्याद्वचनं पुंवच्चेति वक्ष्यामीति च । अत्र स्त्रीशब्दस्य स्वरित्वे स्त्र्यधिकारविहितानां टाबादीनां ग्रहणादयमर्थो भवति- पुंवत् स्त्रीप्रत्ययो न भवति । यथा पुंवदस्यास्तनावित्यभावातिदेशस्तद्वत् । ततश्च स्त्रीत्वस्यानिवृतत्वाद् गार्ग्यश्च स्त्रियो गार्ग्यायणश्च गर्गा इत्यत्र ऽयञञोश्चऽ इति लुग् न स्यात् । ऽअस्त्रियाम्ऽ इत्यधिकारात् प्रसज्यप्रतिषेधेऽयं दोषः । पर्युदासे तु शिष्यमाणस्य निवर्तमानार्थाभिधायित्वादिस्ति स्त्रीसदृशोऽयं दोषः ।च पर्युदासे तु शिष्यमाणस्य निवर्तमानार्थाभिधायित्वादस्ति स्त्रीसदृशोऽर्थं इति सिद्ध्यति । इह तु गर्गान्पश्येति स्त्रीत्वस्यानिवृतत्वान्नायं पुंसां बहुत्वे शस् उत्पन्न इति नत्वं न स्यात् । स्त्र्यर्थवृतेः शब्दस्य तु ग्रहणे स्त्रीशब्दस्य पुंशब्दस्येव रूपं भवतीत्यर्थः स्यात् । स्त्रीत्वं त्वनुवृतमेव । तत्र यद्यपि गर्गा इति बहुषु पुंशब्दस्य रूपमिति तस्मिन्नतिदिष्टे जसादिषु न दोषः, नत्वं तु विभक्तिकार्यं न स्यात् । एवं स्त्र्यर्थग्रहणे तु पुमर्थातिदेशातत्प्रतिबद्धानां कार्याणां सिद्धिरिति न कश्चिद् दोषः । स्त्रीति चोक्तेऽर्थ एव प्रतियते । शब्दानामर्थपरत्वात्स्वरूपग्रहणं त्वनाशङ्क्यमेव; वृद्धो यूनेत्यनुवर्तनाद् । अतोऽर्थस्यैव ग्रहणमित्याह-स्त्र्यर्थः पुमर्थवद्भवतीति । गार्गी चेत्यादि । गार्ग्यवात्स्यशब्दाभ्याम् । ऽयञश्चऽ इति ङीप् । दाक्षीति । ऽइतो मनुष्यजातेःऽ दाक्षी इति ङीषि निवृते इञन्ताद् द्विचने ऽप्रथमयोःऽ इति दीर्घः । इतमपि द्वन्द्वनिवृत्यर्थमेव वचनम् ॥ पुमान् स्त्रिया ॥ १।२।६७ ॥ स्त्रीपुंसलक्षणश्चेदेव विशेष इति । पदान्तरगम्येऽपि तल्लक्षणे विशेषे भवति, यथा-गौश्चायं गौश्चेयमिति एतौ गावौ चरत इति । एवं कन्याखुकृकवाकुग्रामणीखलपूप्रभुतिषु पुंसः शेषो वेदितव्यः । इह कस्मान्न भवति-हंसश्च वरटा च कच्छपश्च डुलिष्वरुश्यश्च रोहिच्च अश्वश्च वडवा च पुरुषश्च योषिंच्चेति, सर्वत्राप्यत्र स्त्रीपुंसकृत एव विशेषः ? ऽसरूपाणाम्ऽ इति वर्तते, तेन समानायां प्रकृतौ यत्र स्त्रीपुंसकृत एव विशेषस्तत्रैव भवति । इह तु ब्राह्मणवत्सश्च ब्राह्मणीवत्सा चेत्यत्र प्राप्नोति, नैष दोषःऽ स्त्रीपुंसयोः सहविवक्षायामेकशेषः । सा च प्रधानयोरेव भवतीति यत्र प्रधानस्त्रीपुंसकृत एव विशेषस्तत्रैवैकशेषः, इह त्वप्रधानकृतोऽपीत्येकशेषाभावः । इहापि मृगक्षीरादिवज्जातिविवक्षायां कुक्कुटावित्यादि सिद्धम् । द्वन्द्वनिवृत्यर्थन्तु वचनम् । प्रागित्यव्ययमिति । प्रपूर्वादञ्चतेः क्विन्नन्तादस्तातेः ऽअञ्चेर्लुक्ऽ इति लुकि ऽतद्धितश्चासर्वविभक्तिःऽ इत्यव्ययत्वं सत्वासत्वयोर्द्वन्द्वैकशेषौ चिन्त्यौ ॥ भ्रातृपुत्रौ स्वसृदुहितृभ्याम् ॥ १।२।६८ ॥ इदमपि द्वन्द्वनिवृत्यर्थं वचनम् । स्वसृशब्दस्य ह्यएकापत्यत्वं निमितम्, दुहितृशब्दस्यापत्यत्वमेव । भ्रातृपुत्रशब्दयोः स्त्रीत्वपुंस्त्वं चोभयत्र विशेषः । तत्र ऽभ्रातरौ पुत्रौऽ इति स्त्रीपुंस्त्वाविवक्षायां सिद्धं स्वसृदुहित्रोरभिधानम् । एकशेषारम्भेऽप्ययमेव निर्वाहः ॥ नपुंसकमनपुंसकेनैकवच्चास्यान्यतरस्याम् ॥ १।२।६९ ॥ शुक्ला च शुक्लं चेति । विभक्तौ विभक्त्यन्तयोश्चासारूप्यादप्राप्त एकशेषः, शुक्लं च शुक्लश्चेति विभक्त्यन्तयोरसारूप्यम् । विभक्तौ सारूप्येऽपि पुंनपुंसकयोः पर्यायः स्यादिति वचनम्, एकवद्भावार्थं च । तल्लक्षणश्चेदेव विशेष इति वर्तत इति । शुक्लं च कृष्णश्चेत्यत्र मा भूत् । एवाकारस्तु हिमहिमान्यौ अरण्यारण्यान्यावित्यत्र मा भूदिति । ऽअत्र हिमारण्ययोर्महत्वेऽ इति महत्वमपरो विशेषः, अन्यतरस्यांग्रहणमानन्तर्यादेकवच्चेत्यनेन सम्बन्ध्यते, न त्वेकशेषेण चेत्याह-एकवच्चेत्यादि । अस्य ग्रहणमेकवच्चेत्यस्योतरत्रानुवृत्तिर्मा भूदिति । इह शुक्लेन च वस्त्रेण शुक्लेन च कम्बलेन तेनानेन शुक्लेनेति तल्लक्षणविशेषाभावादेकशेषो न प्राप्नोति, सामान्यविवक्षायामेकशब्दत्वमेकवचनं नपुंसकत्वं च भविष्यति । यद्येपम्, तदिदं शुक्लमित्यत्राप्येवमेव भविष्यति, नार्थ एतेन ? द्वन्द्वनिवृत्यर्थं तु वचनम् । अनपुंसकेनेति किमिति । नपुंसकेनापि सहवचने सरूपाणामित्येकशेषेण भवितव्यमिति प्रश्नः, तेन यथा स्यादेनेन मा भूदिति प्रत्युतरम् । को न्वत्र विशेष इत्यत्र आह- एकवच्चेति ॥ पिता मात्रा ॥ १।२।७० ॥ अभ्यर्हितत्वान्मातुः पूर्वनिपातः, ऽपितुर्दशगुणं माता गौरवेणातिरिच्यतेऽ । पितरावित्यभिधानं जनयितृत्वमात्रविवक्षायां लिङ्गाविवक्षायां समर्थनीयम् । एकशेषारम्भेऽपि द्वन्द्वस्त्विष्यत एवेति नार्थ एतेन ॥ श्वशुरः श्वश्र्वा ॥ १।२।७१ ॥ पितृश्वशुरौ मातृश्वक्षूभ्यामिति नोक्तम्, लाघवार्थम् । श्वश्रूशब्दोऽव्युत्पन्नं प्रातिपदिकं श्वशुरस्योकाराकारलोपश्चेत्यूङ्न्तत्वे प्रत्ययान्तत्वाद् ब्रह्मबन्धूरित्यादिवदेकदेशाभावाच्चाप्रातिपदिकत्वेऽपि श्वश्रेत्यस्मादेव निर्देशाल्लिङ्गात् सुपस्तद्धिताश्च भवन्ति । श्वश्रूश्वशुराविति । अभ्यर्हितत्वादेव पूर्वनिपातः, ऽश्वश्रूः पूर्वजपत्नी च मातृतुल्या प्रकीर्तिताऽ अत्रापि दम्पत्योर्जनयितृत्वमात्रविवक्षायां लिङ्गाविवक्षायां समर्थनीयम् । अनारम्भपक्षेऽपि श्वश्रूश्वशुरावित्यभिधाने द्वन्द्वस्त्विष्यत वेति, नार्थ एतेन ॥ त्यादादीनि सर्वौर्नित्यम् ॥ १।२।७२ ॥ सर्वशब्दस्यार्थमाह--त्यदादिभिरन्यैश्चेति । एतदेव प्रकटयति - सर्वग्रहणमिति । त्यादिभिरन्यैश्चेति । यदिदं साकल्यमुक्तं तदर्थमित्यर्थः; अन्यथा प्रत्यासतेः ऽतल्लक्षणश्चेदेव विशेषःऽ इत्यधिकाराद्वा त्यदादिभिरेव सहवचने स्यादिति भावः । स च देवदतश्चेति । ननु देवदतोऽपि सामान्यविवक्षायां तच्छब्देनैव निर्देअष्टुंअ शक्यते, ततश्च सरूपाणामित्येव सिद्धम् । न चारब्धेऽपि सूत्रे वृतौ विशेषोऽन्तर्भावयिन्तुं शक्यः, तावित्यस्य सरूपसाधारणत्वाद्विरूपाणां च नानाविधात्वात्, सत्यम्; तद्देवदतावित्यादिद्वन्द्वनिवृत्यर्थं वचनम्, अन्यथा ऽतत्पुत्रस्तदीयःऽ इत्यादिवृत्यन्तरवद् द्वन्द्वोऽपि स्यात् । यद्यत्परमिति । त्यदादिपाठे शब्दपरविप्रतिषेधाश्रयणादिति भावः । स च यश्च यावित्यादि । भाष्ये तु ऽपूर्वशेषः खल्वपि दृश्यते - स च यश्च तौऽ इत्युक्तम् । इह चाहं च भवांश्चावामिति भवतीत्याहुः । त्यदादितः शेषे पुंनपुंसकतो लिङ्गवचनानि । आद्यादित्वातसिः, त्यदादीनां शेषे सह विवक्षितो योऽर्थः पुमान्, यच्च नपुंसकं तद्वशेन लिङ्गवचनानि भवन्तीत्यर्थः । स च देवदत च तौ, सा च देवदतश्च तौ, तच्च देवदता च ते । पुंनपुंसकयोस्तु सहविवक्षायां परत्वान्नपुंसकवशेन व्यवस्था । तच्च देवदतश्च ते, इह स च कुक्कुटः सा च मयूरी - कुक्कुटमयूर्यावेते, अर्धं पिप्पल्यास्तद् अर्धंपिप्पली च सा अर्धंपिप्पल्यौ ते इति परवल्लिङ्गमिति समासार्थस्य लिङ्गातिदेशातद्विशेषणस्यापि सर्वनाम्नस्तदेव लिङ्गं भवति ॥ ग्राम्यपशुसंघेष्वतरुणेषु स्त्री ॥ १।२।७३ ॥ ग्रामे भवा ग्राम्याः । ऽग्रामाद्यखञौऽ । पुंसः शेषे प्राप्त इति । ऽपुमान् स्त्रियाऽ इत्यनेन । सामर्थ्यादिति । प्रधानस्य संघस्य तारुण्यातारुण्ये न सम्भवत इत्यस्मात्सामर्थ्याद् गुणभूतानामपि पशूनां विशेषणमित्यर्थः । एतौ गावाविति । यद्यपि द्वयोरपि संघो भवत्येव, तथापीह संघग्रहणसामर्थ्यांद्वहूनां संघो गृह्यते, अन्यथा शेषस्यानेकविषयत्वाद् अनर्थकं न स्यात् । अनेकशफेष्विति । शफाः उ खुराः । उष्ट्राणां त्वारण्यत्वादेकशेषाभावः ॥ इति श्रीहरदतदमिश्रविरचितायां पदमञ्जर्यो प्रथमस्याध्यायस्य द्वितीयः पादः समाप्तः ॥ । । ।अथ प्रथमाध्याये तृतीयः पादः पदमञ्जरी भूवादयो धातवः॥ १।३।१ ॥ "भू" इत्येवमादयः शब्दा इत्यनेन पाठनिबन्धनेयं संज्ञेति दर्शयति। यदि त्वनाद्दत्य, पाठाम्, क्रियावचनो धातुरित्युच्येत, तत आणवेदुइत्यादिष्वपि स्यात्। कथं पुनरपभ्रंशानामनुशासनमाशङ्क्यते? कुतो तु खल्वेतद् आणवेद्वित्यादयोऽपभ्रंशा इति, यावता ये शास्त्रेणानुगम्यन्ते ते साधवः? अवश्यं चातुबन्धादिविशिष्ट्ंअ रूपं पाठेनैव दर्शनीयम्, न हि तद्रूपं प्रयोगे सम्भवति। अतोऽन्यार्थः सन् गणपाठ एवाश्रितो भवतीति धातुत्वे सति लड् भवति। एधते, स्पर्द्धते इत्यनुदातेतौ। यदि पाठमात्रनिबन्धनेयं संज्ञा, या-वा-दिव्-शब्दानां सर्वनामविकल्पस्वर्गवाचिनां समानशब्दानामपि प्रसङ्गः? न च प्रापणादि रर्थो नियामकः, अनार्षत्वाद्, अभियुक्तैरुतरकालनिर्दिष्टत्वाद्, अनेकार्थत्वाभ्युपगमाच्च, सत्यम्; संज्ञायां को दोषः? न तावद्धातुप्रत्ययानां लडादीनां प्रसङ्गः; कर्त्रादीनामभावात्, इच्यते, याः पश्येति ठातो धातोःऽ इति लोपः स्यात्। ननु अधातुः इति निषेधाद् अप्रातिपादिकत्वाद्विभक्तिरेव न स्यात्, नौतदस्ति;विभक्तावुत्पन्नायां त्यदाद्यत्वे टापि च यारूपत्वे सति धातुत्वम्, सुबुत्पत्तिदशायां तु यदित्यस्य नास्ति धातुत्वम; वाशब्दातु सुबेव न स्यात्; एवं दिव्शब्दादपि। न च ठ्दिव औत्; इत्येतद्धातुत्वाभावे लिङ्गम्; क्किबन्तस्य दीव्यतिः सुपि सम्भवात्। सानुबन्धकत्वेऽपि तस्यैव ग्रहणं स्याद्, अतः समानशब्दानां प्रतिषेधो वक्तव्य इत्यत आह-धातुशब्द इत्यादि। क्कचितु ठ्भूऽइत्येवमादयः शब्दा इत्यस्यानन्तरं क्रियावाचिन इति पठ।ल्ते, तस्मिन् पक्षे यास्य ग्रन्थस्य शङ्का सा तस्य द्रष्टव्या। अस्य तु कथं पुनः सूत्रेऽनुपातः क्रियावचन इत्ययं विशेषो लभ्यते? अत आह-धातुशब्दः पूर्वाचार्यसंज्ञेति। ततः किमित्याह- ते चेति। ततोऽपि किमित्याह-तदिहापीति। महत्याः पूर्वाचार्यसंज्ञाया आश्रयणं तदीयोपाधिपरि-ग्रहार्थमेवेति भावः॥ यावित्सिद्धमसिद्धं वा साध्यत्वेनाभिधीयते। आश्रितक्रमरूपत्वात् सा क्रियेत्यभिधीयते॥ सिद्धं वा भवत्वसिद्धं वा, शब्देन तु यद्वस्तु साध्यत्वेनाभिधीयते सा क्रिया साध्यत्वे चाश्रितक्रमरूपत्वात् पूर्वापरीभूतावयवत्वं विततरूपत्वं यतद्रूपमभिधीयते तस्यैकस्मिन् क्षणेऽनवस्थानम्, यदाह-क्रिया नामेयम् अत्यन्तापरिहष्टऽशक्या च सा पिण्डीभूता निदर्शयितुम् इति। एकैकस्य क्रियाक्षणस्य प्रत्यक्षत्वेऽपि समूहरूपा धातुवाच्या क्रिया न प्रत्यक्षेत्यर्थः। क्रमवन्त एव क्षणा एकफलो द्देशेन संपाद्यामानत्वात् ऐक्यमिवापन्ना धातुवाच्याः तद्यथा-पचतीत्यधिश्रयणादयोऽधः श्रयणान्ताः क्लेदनफलावच्छिन्नाः। एवमपचदित्यत्रापि क्रिया साध्यैव। ताहशस्यैव हि रूपस्य तत्रात्ययः प्रतीयते यत्पूर्वापरीभूतं क्रियते। घट इत्यत्र तु घटशब्देन चक्रोदरगतोऽपि घटः सिद्धरूप उच्यते,एकस्मिन्नेव क्षणे यद्दर्शनयोग्यं रूपं तेन रूपेणेत्यर्थः। तदेवं क्रियावचनो धातुरित्याश्रयणादतिप्रसङ्गो नास्तीति स्थितम्। इह भूरादिर्यषामिति बहुव्रीहौ यणादेशे कृते ठ्भूवादयःऽइत्यनुपपन्नो निर्देश इत्यत आह-भूवादीनां वकारोऽयं मङ्गलार्थ इति। अभिधानधर्मस्याप्यभिधेये उपचारः, यथा-भ्रमरे द्विरेफ इति। भूवादीनां संज्ञीनां सम्बन्धी यो वकारः, तदभिधायिनि भूवादिशब्दे स्थितोऽयं प्रयुज्यते, लक्षणेनाप्रप्तो निपात्यत इत्यर्थः। स च मङ्गलार्थः । अपूर्वस्य लाभो मङ्गलम्, साधुशब्दप्रयोगेऽपि धर्मो भवति, भूवादिशब्दश्च साधुः। किं च वकारे सत्यविकृतो भूशब्दो व्यहृत्यादि स्मारयतीत्यपि धर्मो भवतीति। प्रकारान्तरमाह-भुवो वार्थं वदन्तीति। भुवो धातोरर्थं वदन्तीति वा, भूवादय इति निर्देश इत्यर्थः। अर्थकथनं चैतद् । व्युत्पत्तिस्तु भवनं भूः, क्रियासामान्यभुवं वदन्तीत्यौणादिकोऽयम्, ठ्वसिवपियजिराजिव्रजिसदिहनिवाशिवादिवारिभ्य इञ्ऽइति कर्तरि वदेः इञ् प्रत्ययः। यदि क्रियासामान्यं ये वदन्ति ते संज्ञिनः, अस्तिभवतिविद्यतीनामेव स्याद्, न प चत्यादीनां विशेषवाचिनाम्? विशेपक्षे गणपाठसामर्थ्यात् सोऽप्यङ्गीक्रियते, अन्यथा शब्विकरणा ये सेटो निरनुबन्धका अन्तर्गणकार्यवर्जिता भूप्रभृतयस्तेषां पाठोऽनर्थकः स्याद्। बहुवीहेस्तु भूत्वादिशब्दस्य पृषोदरादित्वात्साधुत्वम्। तृतीयं प्रकारमाह-भ्वर्था वा वादयः स्मृता इति। भवनं भूः सोऽर्थो येषां ते भ्वर्थाः, एवम्भूता वादयो वात्र संज्ञिनः स्मृता इत्यर्थः। किमिदं वादय इति ? ठ्वा गतिगन्धनयोः,ऽ वा आदिर्येषां ते वादयः वा गति इत्यारभ्या चुरादिसमाप्तेः। तथा च भ्वादयो वादयः भूप्रभृतय आ ठ्वा गतिगन्धनयोःऽ इत्यस्माद्। वादयश्च वादयश्च बहुव्रीहितत्पुरुषयोः सहविवक्षायां स्वरभिन्नानां यस्योतरः स्वरविधिरिति बहुव्रीहेः शेषः। ततो भुवो वादय इति वाच्यवाचकसम्बन्धे शेषषष्ठीसमासः। अस्मिन्पक्षे पाठविशेषोऽर्थश्चेत्युभयं सूत्राक्षरैरेवोपातं भवति॥ पदमञ्जरी उपदेशेऽजनुनासिक इत्॥ १।३।२ ॥ उपदिश्यतेऽनेनेत्युपदेश इति। अकर्तरि च कारके इति करणे घञ् । ननु च नेयं संज्ञा, परत्वाच्च करणाधिकरणयोः इति ल्युट् प्राप्नोति, हलश्च इत्यत्रापि संज्ञायामित्येव। ल्युट् तावन्न भवति, कृत्यल्युटो बहुलम् इति। अकर्तरि च इत्यत्र चकारो भिन्नक्रमः-संज्ञायां चेति, तेन क्कचिदसंज्ञायामपि भवति। अथोपदिश्यतेऽनेनेत्यत्रोपदेशः कोऽर्थः? विधानम्। यद्येवम् लण् एध वृद्धौ इत्यादौ न स्यात्, न ह्यत्र किञ्चिद्विधीयते। अथानिर्ज्ञातस्वरूपस्य स्वरूपज्ञापनं तत्, आचारेऽवगल्भक्लीबहोडेभ्यः क्किप् इत्यत्र गल्भाद्यकारस न स्यात् न हि गल्भादीनां स्वरूपज्ञापनार्थमुच्चारणम्;पञ्चमीनिर्द्देशेन क्किपो विधानात्। यद्येवम्, क्किबनेनानिर्ज्ञातरूपो ज्ञाप्ते, तत्र चायं भवत्यकार इति भविष्यति। शास्त्रवाक्यानीति। लण्-एध-स्पर्द्धेत्यादीनामपि विशिष्टप्रयोजनपरत्वेनोच्चारणाद् वाक्यत्वम्। अस्यैव विवरणम्-सूत्रपाठ इति। खिलपाठःउधातुपाठः प्रातिपदिकपाठः, वाक्यपाठश्च। तत्र सूत्रे मतुबादेरुकारः, धातुषु एधाद्यकारः प्रातिपदिकेषु भवच्छब्दस्योकारः,वाक्ये गल्भाद्यकारः। ननु च सर्वत्रात्र शुद्धोऽच् पठ।ल्ते, नानुनासिक इत्यत आह-प्रतिज्ञानुनासिक्या इति। प्रतिज्ञामात्रेण समधिगम्यमानुनासिक्यं येषां ते तथोक्ताः। प्रतिज्ञानुनासिका इति तु प्रसिद्धः पाठः। तत्र प्रतिज्ञासमधिगम्यत्वाद् अनुनासिके प्रतिज्ञाशब्दो द्रष्टव्यः। ततः समानाधिकरणपदो बहुव्रीहिः। तच्च प्रतिज्ञानं नानियमेन भवति, कि तर्हि? यत्राचार्याः स्मरन्ति तत्रैव। सूत्रकारेण तावद्विवक्षिताः सर्वेऽनुनासिकाः पठिताः, डुलभÄष् प्राप्तौ इतिवत्, लेखकैस्तु संकीर्णा लिखिताः तत्र स्मृतिपरम्परया निर्णेयमित्यर्थः। अभ्र आÄ अप इति। नायं सूत्रादिषु स्वरूपेणोच्चरितो।नुनासिकः किं तर्हि ? ठाङेऽनुनासिकश्च्छन्दसिऽइत्यनुनासिकशब्देन विहितः। अथ क्रियमाणेऽप्युपदेशग्रहणे उञः Äष् इत्यत्र कस्मान्न भवति ? विधानसामर्थ्याद्। इत्संज्ञायां हि तस्य लोपः इति लोपः स्यात्। यद्येवम्, अत्रापि विधानसामर्थ्यादेव न भविष्यति। एवं तर्हि उदाहरणदिगियं दर्शता । इदं तत्रोदाहरणम्-अणोऽप्रगृह्यस्यानुनासिकः कधीच्छति ब्राह्यणकुलमिति क्यजन्तात्क्विपि अल्लोपे, वलि लोपे, नपुंसकह्रस्वत्वं दधि इति। यद्यत्रेत्संज्ञा स्यात् ठिदितो नुम् धातोः इति नुम् स्यात्। अत्राप्यनुनासिकविधानसामर्थ्यादेवेत्संज्ञा न भविष्यति । ननु च यत्रेत्संज्ञायां सत्यां प्रयोजनं न सम्भवति, यथा-दधि, मध्विति प्रातिपदिकेषु तत्रेत्संज्ञाया अभावः। अत्रानुनासिकविधानमर्थवत्, नैतदेवम्; लोपस्येत्कार्यस्य सर्वत्र सम्भवात् । तस्मादणोऽप्रगृह्यस्य इत्संज्ञायामेव विधेयायामनुनासिकविधानसामर्थ्यादेवात्र लोपो न भविष्यति। एवं तर्ह्युतरार्थमवश्यम् ठुपदेशऽ इति वक्तव्यम्, तदिहापि विस्पष्टर्थं भविष्यतीति मन्यते। आतो मनिन्निति। अत्र मकारस्येत्संज्ञा न भवति। यदि स्याद्, अन्येभ्योऽपि द्दश्यन्ते इति हलन्तेऽन्त्यादचः परः स्यात् । सर्वस्येति। दरिद्राप्रभृतिसम्बन्धिनोऽपि ॥ पदमञ्जरी हलन्त्यम्॥ १।३।३ ॥ अन्तशब्दोऽत्र समाप्तौ वर्तते;नावयवे;नावयवे असम्भवात्। न समीपे;अतिप्रसङ्गात् । येन समाप्यते समुदायस्तदन्ते भवमन्त्य्, दिगादित्वाद्यत्। हलन्त्ये सर्वप्रसङ्गः, सर्वस्य हलः सांज्ञा प्राप्नोति। सर्वो हि हल् तं तमवधिं प्रत्यन्तो भवति, अन्त्यग्रहणं त्वादिनिवृत्यर्थं स्याद्, अत आह-धात्वादेरिति। आदिशब्दन सूत्रप्रातिपदिकप्रत्ययनिपातागमादेशानां ग्रहणम्। शीङ्, लण्,नदट्, सन्, आङ्, त्रपुजतुनोः षुक्, चक्षिडः ख्याञ् इति योऽयं धात्वादिरूपः समुदायस्तदर्थः स उपदेशः, न तु नान्तरीयकावान्तरसमुदायार्थ इत्यन्त्यस्य समुदायापेक्षायां प्राधान्याद्धात्वादेरेव ग्रहणमिति भावः। अग्निचिदिति। अत्रेत्संज्ञायां लोपः स्यात्। न च तुको वैयर्थ्यम्;आगत्येत्यादौ चरितार्थत्वात्। न च क्विपः पित्वस्य वैयर्थ्यम्, आग्निचितावित्यादौ चरितार्थत्वात्। यद्यप्यत्रोभयत्रापि तावतोऽवधेस्तकारोऽन्त्यः, तथापि मुख्यसमुदायस्य नान्त्य इति नास्ति प्रसङ्गः। इह च दण्डिन्निति नकारस्येत्संज्ञायां सत्याम् ठ्न ङिसंबुद्ध्योःऽइति निषेधाल्लोपाभावेऽपि समुदायस्य नित्वादाद्यौदातत्वप्रसङ्गः, यथा-श्रोत्रियशब्दे वाक्यार्थे पदवचनमिति पक्षे । अथोपदेशानुवृतावपि सनुतरित्यस्य रेफस्य कस्मान्न भवति? स्वरादिष्वन्तोदातपाठसामर्थ्यात्। इह ठ्शषसर्ऽ ठ्हल्ऽइति यो लकारस्तस्येत्संज्ञायां सत्यां हलित्ययं प्रत्याहार उपपद्यते, सति च प्रत्याहारे लणित्यत्र लकारस्य हल्त्वातस्यैव ठ्शषसर्हल्ऽ,इत्यत्रान्ते निर्दिष्टत्वादित्संज्ञा, तदाश्रयश्च प्रत्याहार इति इतरेतराश्रयत्वात् प्रत्याहारो नोपपन्नः। ततश्च सर्वेषामेव णकारादीनामित्संज्ञा न स्यादिति सर्व एव प्रत्याहारव्यवहारोऽनुपपन्नः, ठादिरन्त्येनऽइत्येतस्यापि वैयर्थ्यम्? स्यादेतथलित्यत्र हकारात् पर लृकारः, तस्य लृकारस्यैकादेशो लपरः, तस्य ठुपदेशेऽजनुनासिकःऽइति इत्संज्ञा, स एव ठ्हलन्त्यम्ऽ इत्यत्राप्येकादेशेन लपरेण निर्दिष्ट इति। एवमपीतरेतराश्रयमेव, लृकारस्येत्संज्ञेति तस्माद्वक्तव्योऽत्र परिहारस्तमाहहस्य ल् हलित्यादि। साधारणं भवेतन्त्रम्, यथा-तुल्यकक्ष्ययोर्भुञ्चानयो प्रदीपः। स चेह प्रयत्नविशेषः, यथा-श्वेतो धावतीत्यत्र साधारणेनैकेनैव प्रयत्नेन द्वयोर्वाक्ययोरुच्चारितयोः फलं सम्पद्यते, तथेहाप्येकेन तन्त्रेण प्रबलेन द्वितीयं हल्ग्रहणमुपातं परिगृहीतं वेदितव्यम् । तस्य द्वितीयस्यार्थमाह-हस्येति। समीपसमीपिसम्बन्धे षष्ठीसमास इत्यर्थः। ततःकिमित्याह-तेनेत्यादि। एतद् दर्शयति-हकारसमीपवर्तिनो लकारस्य न प्रत्याहारसमाश्ययोणएनेत्संज्ञा, किं तर्हि? साक्षादुपादानेनेति। प्रमाणम्? अगृह्यमाणविशेषत्वमेव। ननु गृह्यते विशेषः-ठ्कृत्रिमाकृत्रिमयोः कृत्रिमस्य ग्रहणम्ऽइति, कृत्रिमो हि प्रत्याहारः सत्यम्;स एवासति तन्त्रेऽनुपपन्न इति त्वयैवोक्तम्॥ पदमञ्जरी न विभक्तौ तुस्माः॥ १।३।४ ॥ वृक्षादिति तकारस्येत्संज्ञायाम् ठ्तित्स्वरितम्ऽस्यात्। ननु चादेशोतरकालं स्थानिवद्भावेनास्य विभक्तिसंज्ञा, उपदेशानन्तरमेवेत्संज्ञा प्राप्नेति? सत्यम्; प्रतिषेधसामर्थ्यतु भाविन्यपि विभक्तित्वे प्रतिषेधो भविष्यति। वर्गग्रहणं किम्?वृक्षानित्यत्रापि यथा स्यात् क्व पुनरुपदेशे नकारोऽयमन्त्यः, म तावतस्य क्वचिदुपदेशः? ठ्शसो नऽइत्यत्र त्वकारो नकारस्येत्संज्ञापरित्राणार्थ इति शक्यं वक्तुम्। इह तर्हि ठ्झस्य रन्ऽपचेरन्निति। ब्राह्यणा इति। रूपोदाहरणमेतत्। कार्योदाहरणं तु भवतः इति। अत्र ठ्सिति चऽइति पदत्वे जश्त्वं स्यात्। पचतः पचथ इत्यत्र प्रयोजनाभावादेव न भविष्यतीति शक्यं वक्तुम्। अपचतामित्यादि। तामादयस्तसादीनामन्त्यादचः परे स्युः। किमोऽत् इत्यस्य प्राग्दिशो विभक्तिः इति विभक्तित्वम्। इटोऽत् इत्यस्यापि स्थानिवद्भावेनेति तयोरपि प्रतिषेधः प्राप्नोति, तत्राह-किमोऽदित्यादि। अनित्यत्वं तु ठिदमस्थमुःऽ इति थमोरुकारोऽनुबन्धाद्विज्ञायते। क्वचितु वृतावेव ठिदमस्थमुःऽइत्युकारानुबन्धनिर्दशादनित्यत्वमुपलक्ष्यते इति पठ।ल्ते। इदानीं तदानीमिति। दानीमस्तु प्रतिष्रेधो भवत्येव। अनित्यत्वं हि ज्ञापितम्, न पुनः प्राग्दिशीयेष्वस्याप्रवृत्तिः॥ पदमञ्जरी आदिर्ञिटुअडवः ॥ १।३।५ ॥ आदिशब्दः प्रत्येकमभिसंबद्ध्यते, तेनैकवचनमुपपद्यते इति भावः। अत्र ठ्टुअऽ इति न टवर्गस्य ग्रहणम्;उकारस्याननुनासिकत्वेनानुदित्वात्,ठ्चुटूअऽइत्युतरत्र वर्गग्रहणाद्, ञिडुभ्यां साहचर्याच्च। मिन्नि इति। ठादितश्चऽ ठ्रदाभ्यां निष्ठातो नः ऽ। वेपथुरिति । ट्वितोऽथुच्। उप्त्रिममिति। ड्वितः क्त्रिः क्त्रेर्मम् नित्यम् यजादित्वात्संप्रसारणम्। पटुअयतीति। पृथ्वादिषु टुअशब्दस्योपदेशः, अत्रेत्संज्ञायां सत्यामवयवे कृतं लिङ्गं समुदायस्य विशेषकमिति समुदायादथुच्प्रसङ्गः। केवलस्यानुदाहरणत्वम्;इत्कार्याभावात्। कण्डूअयतीति। ननु चायं दीर्घान्तः कण्ड्वादिषूपदिश्यते, एवं तर्हि कण्डूअमिच्छतीति क्यजन्तात् क्विपि कण्डु ब्राह्मणकुलं तदिच्छतीति पुनः क्यचि द्रष्टव्यम्, तत्रेत्संज्ञायामन्तरङ्गत्वादकृत एव दीर्धे भवत्ययं डुशब्दः, गणपठितश्च कण्डूअशब्द एकदेशविकृत इति स्यात् प्रसङ्गः। ञिकारीयतीति। नायं समुदायः क्वचिदुपदिष्टः॥ पदमञ्जरी षः प्रत्ययस्य॥ १।३।६ ॥ रजकीति। ठ्षिद्गौरादिभ्यश्चऽ इति ङीष्। कथं पुनरत्रोपधालोपः, यावता अनिदितां हल उपधायाः क्ङिति इत्युच्यते? ज्ञापयतिरञ्जेरक्ङित्यपि क्वचिदुपधालोपो भवतीति । षोड इति। षड् दन्ता अस्य वयसि दन्तस्य दतृ षष उत्वम्, दतृदशधासूतरपदादेः ष्टुअत्वम् । षषोऽन्त्यस्योत्वम् उतरपदादेर्डकारः, षोडन्तमाचष्टे इति णिचि टिलोपे पचाद्यचि णिलोपः। ठ्षणु दानेऽठ्ञमन्ताड्डःऽ, उणादयो बहुलम् इति बहुलवचनात् इत्संज्ञासत्वयोरभावः। षडिक इति। अनुकम्पितः षड्ङ्गुलिः बह्वचो मनुष्यनाम्नष्ठज् वा ठ्ठाजादावूर्द्धं द्वितीयादचःऽ इति ङ्गुलिशब्दस्य लोपः, यस्येतिलोपस्य स्थानिवद्भावात् षकारान्तेऽवधौ भसंज्ञाया अभावादन्तर्वर्तिनीं विभक्तिमाश्रित्य पदत्वाज्जश्त्वम्। अत्रेत्संज्ञायां ङीष्प्रसङ्गः। यद्यप्येते समुदाया न क्वाप्युपदिश्यन्ते, षकारस्तु षष उत्वम्, षणु दाने इत्युपदेशस्थो भवति। अविषः महिष इति। अविमह्यएष्टिषच् । नन्वत्र प्रयोजनाभावादेव षकारस्येत्संज्ञा न भविष्यति; ईकारस्य टित्वादेव सिद्धेः। न च पक्षे ङीषर्थः षकारः, ङीपोषऽपि चितः परस्योदातनिवृत्तिस्वरेणोदातत्वात्, सत्यम्; अन्यतरस्यैव श्रवणार्थ उपदेशः स्यादिति टकारस्यापि शङ्क्योत॥ पदमञ्जरी चुटूअ॥ १।३।७ ॥ आदी इदिति। प्रारम्भे वर्तमानावित्यर्थः। कौञ्जायन्य इति। च्फञन्तात् ठ्व्रतच्फञोरस्त्रियाम्ऽइति स्वार्थे स्वर्थे ञ्यः। शण्डिकादिभ्यो ञ्य इति। सोऽस्या भिजनः इति तत्र वर्तते। मन्दुरज इति । ड।लपोस्सैज्ञाच्छन्दसोः इति ह्रस्वः। अन्नाण्ण इति । ठ्धनगणं लब्धाऽइत्यतो लब्धेति तत्रानुवर्ते। किमर्थो योगविभागः,ठ्चुटूअषाः प्रत्ययस्यऽइत्येक एव योगः क्रियतामत आह-पृथगित्यादि। केशचुञ्चुः केशचण इति । अत्र चकारस्येत्संज्ञायाम् ठ्चितःऽइत्यन्तोदातत्वं स्यात्, पित्करणन्तु पर्यायार्थं स्यात्। अवादित्यस्यानुवृत्तिर्दर्शिता॥ पदमञ्जरी लशक्वतद्धिते॥ १।३।८ ॥ प्रियंवद इति। ठरुर्द्विषदजन्तस्य मुम्ऽ । जिष्णुरिति। स्नुप्रत्ययस्य गित्वपक्षे गकारस्येदमुदाहरणम्। चूडाल इति । मत्वर्थे ठ्प्राणिस्थादातो लजन्यतरस्याम्ऽइति । अत्र प्रयोजनाभावादेव न भविष्यतीति शक्यं वक्तुम्। कर्णिकेति। ठ्कर्णललाटात् कनलङ्कारेऽइति भवार्थे कन्। अत्र ठ्किति चऽ इति वृद्धिः स्यात्, रूपञ्च न सिध्येत्। अथ तुदिर्च्छिदिर्प्रभृतिषु इरित्यस्य समुदायस्य केनेत्संज्ञा?मा भूत्समुदायस्य, रेफस्य हलन्त्यम् इति भविष्यति, इकारस्य उपदेशेजनुनासिक इत् इति। इरितो वा इत्यात्रापि-- इश्च रश्चेरौ तावितावस्येति विग्रहः, न तु इरित्ययं समुदायः स इद्यस्येति। अवश्यं च इकारस्य पृथगीत्संज्ञेषितव्या, स्वरितेत इत्यात्मनेपदं यथा स्यादिति। यद्येवम्, ठिदितो नुम् धात्तोःऽ इति नुम् प्राप्नोति, कुम्भीधान्यन्यायेन न भवति; यस्य पुनः कुम्भ्यां वान्यत्र वा, नासौ कुम्भीधान्यः। नायं न्यायो नुम्विधौ शक्य आश्रयितुम्। इह हि न स्यात्-टुअनदिऽ नन्दथुरिति। ज्ञापकात् सिद्धम्, यदयम् ठ्न हशःऽ इति क्सस्य प्रतिषेधं शास्ति, तज्ज्ञापयति-नेदितां नुम्भवति; अन्यथा हशेरिदित्वान्नुमि सति अनिगुपधात्वात् क्सस्य प्राप्तिरेव नास्ति, किं तन्निषेधेन। परिहारान्तरमप्यत्र नुम्विधौ वक्ष्यते॥ पदमञ्जरी तस्य लोपः॥ १।३।९ ॥ तस्य ग्रहणं किमर्थम्, यावताऽभावो लोपः, स च कस्यचिदेव भवति,तत्र प्रकरणादित्संज्ञकस्यैव लोपो भविष्यतीत्यत आह-तस्य ग्रहणमित्यादि। आदिर्ञिटुअडव इति । असति तस्य ग्रहणे येऽनेकाल इत्संज्ञका ञिप्रभृतयस्तेष्वलोऽन्त्यस्य लोपः स्यात्, तस्य ग्रहणसामर्थ्यातु सर्वस्य भविष्यति। एतच्च ठ्नानर्थकेऽलोन्त्यस्य विधीःऽ इत्यनाश्रित्योक्तम्॥ पदमञ्जरी यथासङ्ख्यनुदेशः समानाम्॥ १।३।१० ॥ सङ्ख्याशब्देनान्न क्रमो लक्ष्यत इति। कथम्? अव्यभिचारात् । यत्रैक एवोद्देश्यनुद्देशी च, यथा ठ्मुद्रादण्ऽइति, न तत्र नियमप्रसङ्ग इत्यनेकत्वसङ्ख्याया एवेह ग्रहणम्। सा च क्रमं न व्यभिचरति;युगपदनेकस्य शब्दस्योच्चारयितुमशक्यत्वात्। मुख्ये त्वर्थेऽयमर्थः स्यात्समानां समसङ्ख्यानामुद्देशिनां या सङ्ख्या चतुरादिलक्षणा तया उद्देश्यः त्वादेवास्यार्थस्य सिद्धत्वाद्। अतः क्रमपर एव सङ्ख्याशब्द इति । यथाक्रमग्रहणं तु न कृतम्, सङ्ख्याद्वारकं साम्यं यथा विज्ञायेत;अन्यथा स्थानप्रयत्ना दिकृतमपि समत्वं प्रतीयेत। ननु च क्रियमाणमपि सङ्ख्याग्रहणं क्रमपरमिति कथमतः संख्यासाम्यप्रतिपतिः? सत्यम्; क्रमे शब्दः पर्यवस्यति, मुख्योऽप्यर्थः प्रतीयते।स हि प्रतीतो लाक्षणिकं गमयति; तस्मात् संख्याग्रहणसामर्थ्यात् तद्द्वारकमेव साम्यं गृह्यते। यथासंख्यमिति। ठ्यथाऽसाहश्येऽ इति वीप्सायामव्ययीभावः। अनुदेशो भवतीति । सम्बन्धी भवतीति द्रष्टव्यम् । तथा च वभ्यति-अनुदेशिनः सम्बध्यन्ते इति। अनुदिश्यत इत्यनुदेश इति । अकर्तरि च कारके संज्ञायाम् इत्यसंज्ञायापि कर्मपि घञ्। अनुशब्दः पश्चादर्थे, द्दशिरुच्चाक्रिय इत्याह-पश्चच्चार्यत इत्यर्थ इति । यदुक्तं संख्याद्वारकं साम्यं गृह्यते इति तद्दर्शयति-समानां समसंख्यानाम्। अस्यैव विवरणम्-समंपठितानामिति । उद्देशिनामिति। कञ्चिद्धर्मं विधातुं प्रसिद्धवच्छब्दपरामर्शयोग्येन रूपेण उपादानमुद्देशः, तद्वन्त उद्देशिनः, विधेयतया पश्चादुच्चारणमनुदेशः, तद्वन्तोऽनुदेशिनः। यद्यपि सूत्रे उद्देशिनो न श्रुतास्तथाप्यनुदेशशब्दस्य सम्बन्धिशब्दत्वात् समसंख्यत्वस्य च प्रतियोग्यपेक्षत्वात् त एव गम्यन्ते। उद्देशिनामनुदेशिनां चेति यथाक्रममित्येतदपेक्षया षष्ठयौ। यथाक्रममिति। पूर्ववदव्ययीभावस्तृतीयान्तं चैतत्। तदयमत्रार्थः- समसंख्यानामुद्देशिनामनुदेशिनां च योयः क्रमःउप्रथमचरमभवस्तेन तेनानुदेशिनः सम्बध्यन्ते, उद्देशिभिः सहेत्यर्थाद् गम्यते । क्वचित् उद्देशिभिरिति पठ।ल्ते। तत्र सहयोगे तृतीया। प्रथमाद् प्रथम इत्यादिना सूत्रार्थमुदाहरणे योजयति। वहन्ति, वर्षन्ति, नदन्तीत्यादौ लोक एव यथासंख्यसम्बन्धस्य द्दष्टत्वान्नार्थ एतेन ? उच्यते;व्युत्क्रमेणापि सम्बन्धो लोके द्दश्यते-कन्याब्रह्मचारिणौ, दण्डकन्दुकहस्ताविति। योग्यतावशादत्र सम्बन्ध इति चेत्; क्रमेणापि सम्बन्धः, तद्वशादेव योग्या हि नद्यो वहने, घनाश्च वर्षणे। अत एवैकस्य धर्मिणि बहुषु धर्मेषु विहितेषु विधानक्रमेणान्यथा वा योग्यतानुरूप एव सम्बन्धो भवति-अमुमुद्वर्तय, स्नापय, भोजय; भोजय, स्नापयौद्वर्तयेति स्यादेतत्-स्वतः प्राप्तिरियं यदुक्तक्रमेण सम्बन्धः। तथा हि, योग्यताविशेषानवधारणे प्रथमप्रतीतयोः सम्बन्धः, बाधकाभावात्। तावता हि द्वयोरपि चरितार्थत्वम्, द्वितीयस्य धर्मिणो धर्मस्य वा प्रतियोग्ययेक्षायां प्रथमश्रुतस्य चरितार्थत्वाद्, अचरितार्थन द्वितीयेन प्रतियोगिनां सम्बन्धः । एवं सर्वत्र तस्मात् स्वतः प्राप्तः प्राप्त्या क्रमसम्बन्धः सिद्धः इति। यद्येवम्, लक्षणेत्थम्भूताख्यान इत्यादौ वैषम्येऽप्येवमेव स्याद्, यावतां साम्यं तावतामादितः क्रमेण सम्बन्धः, परिशिष्टस्य तु सर्वैरनन्तरेण वेत्यतः समानामिति वक्ष्यामीत्यारम्भः। स्वरितेनेति विशेषं वक्ष्यामीति। क्वचिद्धि साम्येऽपि नेष्यते। अथारभ्यमाणेऽप्यस्मिन् परम्सैपदानां णलादयः, लुटः प्रथमस्य डारौरसः,ठेचोऽयवायावऽइत्यत्र कथमस्य प्रवृत्तिः, यावता परस्मैपदादिसंज्ञया युगपदेव संज्ञिनां प्रतीतिः, न क्रमेण? सत्यम्; तिबादिसूत्रे, अक्षरमाम्नाये च तिबादयः क्रमेण प्रतीतिः, स एव क्रमो नियामको भविष्यति। एवं द्वन्द्वेऽपि । पाघ्रेत्यादौ युगपदधिकरणवचनतायां द्वन्द्वेऽपि क्रमस्य प्रतीतेः स एव नियामकः। ननु च तिपो णल्, तसोऽतुस, पः पिबः, जिघ्रः-इत्येवं भिन्नवाक्यतयोपदेशोऽस्तु, एवं हीदं न वक्तव्यं भवति?सत्यम्; एवं तु गौरवं स्यात् तस्य रूपेणानिदशात्, तत्र विभक्तेर्भेदेनोच्चारणाच्च। तथा ठ्विदो लटो वा ऽ इत्यत्रानन्तर्यान्मसोमेत्येव सम्बध्येत, तदाह-- संज्ञासमासनिर्देशात् सर्वप्रसङ्गोऽनुदेशस्य। तत्र यथासंख्यवचनं नियमार्थम्, संज्ञासमासनिर्देशच्च पृथग्विक्तिसंज्ञ्यनुच्चारणार्थः, प्रकरणे च सर्वसम्प्रत्यार्थः इति। तौदेय इत्यादौ ठ्सोऽस्याभिजनःऽ इत्यत्रार्थेप्रत्ययः। इहेत्यादि। एकयोगत्वपक्षे चोद्यम्, भिन्नयोगपक्षे तु योगविभागो यथासंख्यनिरासार्थ इति वक्ष्यति। केचितु विभज्य योगं पठन्ति, अन्ये त्वेकमेव। स्वरितेनेत्यादि परिहारः। कथं पुनरयं विशेषो लभ्यत इत्याह--स्वरितेनाधिकार इत्यादि। यद्येवम्, स्वरिते द्दष्टे सन्देहः स्यात्, न ज्ञायते--किमयं यथासंख्यार्थः? आहोस्विदधिकारार्थः?इति। सन्देहमात्रमेतद्, भवति, सर्वसन्देहेषु चेदमुपतिष्ठते--ठ्व्याख्यानतो विशेषप्रतिपतिर्न हि सन्देहादलक्षणम्ऽइति । तत्र व्याख्यानान्निर्णयो भविष्यति॥ पदमञ्जरी स्वरितेनाधिकारः॥ १।३।११ ॥ अत्र पारिभाषिकस्य ठ्स्वरितस्य ग्रहणे रषाभ्यान्नोणःऽइत्यादौ नकारादेर्व्यञ्जनस्याधिकारोपलक्षणं नोक्तं स्याद्, पारिभाषिकस्याञ्धर्मत्वादिति मत्वाह--स्वरितो नाम वर्णधर्म इति। वर्णमात्रधर्म इत्यर्थः। स चायं धर्मः सलाध्मातादितुल्यः केवलं सूत्रेष्वेव भवति, न प्रयोगे। क्वचितु स्वरितो नाम स्वरदोषो वर्णधर्म इति पाठः। तत्र स्वरदोषःऊच्चारणदोषः, अधिकारशब्दो भावसाधनः। विनियोग इति। व्यापारणम्। अथ शब्दस्यविनियुक्तस्य को व्यापार इत्याह--अधिकृतत्वादुतरत्रोपतिष्ठत इति । उपस्थानमप्येतदेव यदुतास्य तत्रबुद्धिस्थता। उतरत्रेत्युलक्षणम्, क्वचित् पूर्वत्राप्युपतिष्ठते;सूत्रकारेण पठितस्यास्य स्वरितत्वस्य संकीर्णत्वात् पाठस्य विषयविभागो दुर्ज्ञेय इत्याह-प्रतिज्ञास्वरिता इति। प्रत्याय इत्याद्यौदाहरणानि। किमर्थ पुनरिदमुच्यते, यावता निर्द्दिश्यमानं लोकेऽधिक्रियते, यथा-देवदताय गौर्द्दीयतां कम्बलश्चेति देवदतायेति गम्यते, तथा ठ्सृ स्थिरेऽ इत्यादीनां साकाङ्क्षत्वादनुवृतैर्घञादिभिरेव सम्बन्धो भविष्यति? अन्यनिर्देशस्तन्निवर्तकः, तद्यथा--देवदताय गौर्द्दीयताम्, विष्णुमित्राय कम्बल इति कम्बलो गोर्निवर्तको भवति, तथेहापि ठभिविधौ भावेऽ इतीनुण् घञो निवर्तकः स्यात्, ततश्च ठाक्रोशेऽवन्येर्ग्रहःऽ इत्यादिष्वनन्तर इनुणेव स्यात्, तस्मात्परिभाषा। अधिकारपरिमाणज्ञानं तु न ज्ञायते-- कियन्तमवधिमधिकारोऽनुवर्तत इति? यथा-प्रागभ्यासविकारेभ्योऽङ्गधिकारः?, धातोरिति प्राक् लादेशेभ्यः? उताध्यायस्य परिसमाप्तेः? एवं तर्ह्युभयार्थमिदम्--अधिकारार्थं च निवृत्यर्थं च । कथम्? स्वरितेनाधिकारः स्वरिते द्दष्टेऽधिकारो न भवतीत्यर्थः, तेन विंशतिकात् खः। इत्यत्र स्वरितत्वं प्रतिज्ञेयं तद्दर्शनाच्च द्वित्रिपूर्वादित्यस्य निवृत्तिरष्यते तत्र तावतिथोऽलनुबन्धनीयः, यथा--द्वित्रिपूर्वान्निष्कात् इत्यत्रेकारः। तेन द्वयोर्योगयोरनुवृत्तिर्भविष्यति । एवमन्यत्रापि यत्र तावतिथोऽल् नास्ति तत्र प्राग्वचनं कर्तव्यम्, यथा--अङ्गस्य प्राक् टेः इति तद् गुरु भवति। स्यादेतत्,व्याख्यानात् परिमाणं ज्ञास्यते इति? अधिकारोऽपि तर्हि व्याख्यानात् ज्ञायताम्। इनुण्घञिति संदेहे घञिति व्याख्यास्यामः, इनुण आनन्तर्यम्, घञोऽप्यनुवृत्तिसामर्थ्य द्दष्टमित्यस्त्येव संदेहः। ठ्ग्रहवृद्दनिश्चिगमश्चऽइत्यादिषु त्वनन्तरस्याप एवाधिकारः, न द्दष्टानुवृत्तिसामर्थ्यस्यापि घञः, सिद्धत्वाद्, व्याख्यानाद्वा। यदप्युत्प्रेक्षितम्--आकांक्षारहितेऽपि वाक्ये प्रकृतस्य सम्बन्धार्थं शास्त्रीयोऽधिकारः- यथा दूरान्तिकार्थभ्यो द्वितीया च इत्यत्र पञ्चम्यधिकार इति । तत्रापि व्याख्यानमेव शरणमिति तदेव सर्वत्रास्तु नार्थ एतेन ? इदं तर्हि प्रयोजनम्--अन्यत्र द्दष्टस्याधिकारस्य स्वरितेनोपलक्षणं यथा स्याद्, यथा--ठ्गोस्त्रियोरुपसर्जनस्यऽइत्यत्र स्त्रीग्रहणस्य, न ह्यएतल्लौकिकेनाधिकारेण सिद्धम्, आनुषङ्गिकं वास्य प्रयोजनं यत् साकाक्षेषु व्यहितस्य चानुवृत्तिः॥ पदमञ्जरी अनुदातङ्ति आत्मनेपदम्॥ १।३।१२ ॥ अविशेषेणेत्यादि। लस्य तिबादयः, ठ्लटः शतृशानचौऽठ्लिटः कानज्वाऽठ्क्वसुश्चऽठ्लृटःद्वाऽइत्यात्मनेपदपरस्मैपदयोर्विहित्वादापादपरिसमाप्तेर्नियमार्थं प्रकरणमित्यर्थः । एकवाक्यतया विधावितरेतराश्रयणप्रसङ्गः। स्यादेतत्--यथा ठ्बहुषु बहुवचनम्ऽ,ठ्कर्मणि द्वितीयाऽठ्ङ्याप्प्रातिपदिकात्ऽइत्येतैरेकवाक्यभूतैः स्वादीनां विशिष्टविधिः, एवमनेन प्रकारेण लस्य तिबादय इत्यादिभिश्च तिङमपि विशिष्टविधिरस्तु इति, यद्येवम्; आत्मनेपदपरस्मैपदसंज्ञाभ्यां तिबादीनां विधिः, विहितानां च संज्ञाभ्यां भाव्यमितीतरेतराश्रयं प्राप्नोति। स्वरूपेण विशिष्टविधौशत्रादिष्वतिप्रसङ्गः। स्यान्मतम्-लस्य तिप्तस्झिसिप्थस्थमिप्वस्मम् लस्य तिबादयो भवन्ति, ततः ठनुपरभ्यांकृञःऽ-कर्तर्यनुपूर्वात् करोतेः परस्य लस्य तिबादयो भवन्ति। किमर्थमिदम्? ठ्गन्धनावक्षेपणस्वरितञितःऽइति वक्ष्यति, तिद्वाधनार्थं कर्तृग्रहणम्;ठ्भावकर्मेणोःऽ इति वक्ष्यमाणस्य तङे बाधो मा भूदिति । एवम् ठभिप्रत्यतिभ्यः क्षिपःऽ इत्यादि ठ्लुटि च क्लुपःऽ इत्येवमन्तं कृत्वा ततः ठनुदातङ्तिस्तातांझथासाथान्ध्वमिड्वहिमहिङ्ऽ, अनुदातङ्तिः परस्य लस्य तादयो भवन्ति, तिबादीनामपवादः, ततो ठ्भावकर्मणोःऽइत्यादि, ठ्विभाषोपपदेन प्रतीयमानेऽइत्येवमन्तं करिष्यते, तत्रायमप्यर्थः-आत्यनेपदग्रहणं शेषग्रहणं परस्मैपदग्रहणं च न कर्तव्यं भवति। एवमपि प्रकरणान्तरावस्थितानां शत्रादीनां नियमो न स्याद्, अतो न स्वरूपेण विशिष्टविधिर्युक्तः। संज्ञाश्रयणे तु यत्रैत्संज्ञकयोर्विधानं तत्र सर्वत्रोपस्थानान्नायं दोषः, किं त्वितरेतराश्रयः प्राप्नोति। यदि त्वस्य सूत्रस्य शाटकंवयेतिवद् भाविनी संज्ञा विज्ञायेत, ततो नेतरेतराश्रयं लाघवं प्रति न कश्चिद्विशेष इति किं मुधा भाविसंज्ञाश्रयणखेदेनेति भिन्नवाक्यतया नियमपक्ष एवाश्रितो वृत्तिकारेण। यद्येवम्, विकरणव्यवधाने नियमाप्रसङ्गः, लिङ्लिट्श्नम्श्लुलुक्षु वचनानुबन्धयोरर्थत्वाद् । इह हि विकरणानामवकाशः- अलादेशाश्चानशादयः;नियमस्यावकाशः,यत्र विकरणा न सन्ति-स्पर्द्धिषीष्ट, पस्पर्द्धे, आस्ते, शेते, अरर्ति,जुहोति, भिनति, भूयदित्यादि;एधते, कुरुते, निविशते इत्यादावुभयप्रसङ्गे परत्वाद्विकरणेषु कृतेषु तैर्व्यवधानान्नियमो न स्याद्। असति नियमे, यदि तावत् प्रकृतिनियमोऽनुदातङ्दाइदिभ्य आत्मनेपदमेव, शेषाद्धातोः परस्मैपदमेवेति,ततोऽस्मिन् विषये उभयप्रसङ्गः;प्रत्ययनियमेऽपि तुल्यजातीयस्य नियमेन व्यावृत्तिरिति धातोरनन्तरस्य लस्य यद्यात्मनेपदपरस्मैपदे भवतः, अनुदातङ्च्छेषानिन्तरमेवेत्येवं नियमो विज्ञायमानो धात्वन्तरादेव व्यावर्तयेदिति विकरणव्यवधाने नियमाप्रवृतावुभयप्रसङ्ग एव। एकवाक्यतया विधाने तु नायं दोषः, विहितेषु लादेशेषु सार्वधातुकापेक्षैर्विकरणैर्भाव्यम्, विधानं चानेन प्रकरणेन सहेति नेतः प्राग्विकरणसम्भवः। स्यादयो लावस्थायां विधीयमाना अपि लकारविशेषापेक्षत्वद्वहिरङ्गा इति लमात्रापेक्षेष्वन्तरङ्गेष्वादेशेषु कृतेष्वेव भविष्यन्तीति न तत्रापि दोषः। ज्ञापकात् सिद्धम्, यदयं ठ्वृद्भ्यः स्यसनोःऽइति स्ये विकल्पं शास्ति, तज्ज्ञापयति-विकरणेभ्यो नियमो बलीयानिति। एतेनैतदपि निरस्तम्-चङ्ङ्भ्यामात्मनेपदप्रसङ्ग इति, कथम्?पूर्वनियमे प्रवृते पश्चात् चङ्ङै भवत इति। प्रत्येकमिच्छब्दस्यान्वय इत्याह-अनुदातेत इति। ये धातवो ङ्तिश्चेति। समुदायसम्बन्धे तु चक्षिङ् एव स्यात्;स ह्यनुदातेन पठ।ल्ते, विचक्षण इत्यत्र युज्यथा स्याद्। ञकारस्त्वनुदातेत्वनिबन्धनस्यात्मनेपदस्यानित्यत्वज्ञापनार्थः, तेन ठेवायं नागः सहति कलभेभ्यः परिभवम्ऽ,ठ्न सहामि साहसमसाहसिकिऽइत्यादि सिद्धम्। धातव इत्येतत् कुतो लभ्यते? केचिधुः-ठ्भूवादयो धातवःऽ इत्यतो धातुग्रहणमनुवर्तते, तच्च ठनुदातङ्तिःऽ इत्यनेन सामानाधिकरण्यात् पञ्चम्या विपरिणम्यते, अत एव चङ्ङ्भ्यामात्मनेपदं न भवतीति। यङ्न्तादपि तर्हि न प्राप्नोति बेभिद्यत इति, यणेóव ह्यत्र ङ्द्, नि तदन्तो धातुः, अवयवे चाचरितार्थं लिङ्गं समुदायस्य विशेषकं भवति, तस्मदिह धातोरिति नानुवर्त्यम्। प्रायोवृता तु वृतौ धतव इत्युक्तम्। चङ्ङेस्तु परिहार उक्त एव। यद्ययं प्रकृतिनियमः स्याद् अनुदातङ्ति आत्मनेपदमेवेति, तृजादयो न स्युः?वचनाद् भविष्यन्ति। अस्ति वचनस्यावकाशः-परस्मैपदिनः,तत्रापि नियमः-शेषात् परस्मैपदमेवेति, तेन वचनाद् भविष्यन्ति। तुल्यजातीयस्य च नियमेन व्यावृत्तिः, कश्च तुल्यजातीयः? आत्मनेपदस्य परस्मैपदम्, तस्य च तत्। एवमपि ठ्शेषात् कर्तरिऽइति शेषग्रहणं न कर्तव्यं प्रकृतिनियमपक्षे, कथम्? प्रकृतयो नियताः, आत्मनेपदं परस्मैपदं चानियतम्, ततो वक्ष्यामि-परस्मैपदमिति, तन्नियमार्थं भविष्यति-यत्र परस्मैपदं चान्यच्च प्राप्नोति तत्र परस्मैपदमेवेति। प्रत्ययनियमस्तु नान्तरेण शेषग्रहणं शक्यो विज्ञातुमिति शेषग्रहणं कुर्वतः सूत्रकारस्य स एवाभिप्रेत इत्याह-तेभ्य आत्मनेपदं भवति, नान्येभ्य इति । यदि प्रत्ययनियमोऽयम्? ठ्शेषात् कर्तरि परस्मैपदम्ऽ इत्यत्र यदि तावदेवं नियमः-कर्तरि यदि भवति शेषदेवेति, ततोऽशेषत् कर्तरि मा भूद्, भावकर्मणोस्तु शेषाच्च परस्मैपदं प्राप्नोति। अथ शेषाद्यदि भवति कर्तर्येवेति? ततः शेषाद् भावकर्मणोर्मा भूद्, अशेषातु भावकर्मकर्तृषु त्रिष्वपि प्राप्नोति। न चैकस्मिन्वाक्ये नियमद्वयं शक्यं विज्ञातुम्-शेषादेव भवति, तत्रापि कर्तर्येवेति । एवं तर्हि योगविभागेन नियमद्वयं तत्रैव साधयिष्यामः। आस्त इत्यादि। ठास उपवेशनेऽ ,ठ्वस आच्छादनेऽ,ठ्षूङ् प्राणिप्रसवेऽ,शीङ्स्वप्नेअदादयः। ठ्शीङ्ः सार्वधातुके गुणःऽ॥ पदमञ्जरी भावकर्मणोः॥ १।३।१३ ॥ भाव्यत इति भावः, ण्यन्ताद् भवतेः कर्मणि घञ्। धात्वर्थः क्रियात्मक उच्यते, कर्म तु पारिभाषिकम्। धञादिविधौ तु ठ्भावऽ इति शुद्धाद् भवतेर्भावे घञ्। भावःउसता,धात्वर्थस्य सिद्धतावस्थोच्यते। अयमपि नियम इति दर्शयितुमन्यतः सिद्धिमाह-लः कर्मणि चेत्यादि । कथं पुनरयं नियमः, यावता ठनुदातङ्ति एवात्मनेपद्म्ऽइति पूर्वेण नियमेन यथा शेषात् कर्तर्यात्मनेपदं व्यावर्तितम्, एवं भावकर्मणोरपीति तद्विषये विध्यर्थमिदं युक्तम्?सत्यम्;यदि पूर्वसूत्रे प्रवृत्तिः,विपर्ययोऽपि शक्यते वक्तुम्-भावकर्मणोरेवात्मनेपदमिति, अस्मिन्नियमे प्रवृते ठनुदातङ्तिःऽकर्तर्यात्मनेपदमप्राप्तमिति पूर्वसूत्रमपि विध्यर्थमिति। तेन द्वयोरपि लस्य तिबादय इत्येतदपेक्षया नियमार्थत्वम्, परस्परापेक्षया तु विध्यर्थत्वमेवमापादपरिसमाप्तेर्द्रव्यम्। अत एवस्यान्यथासिद्धं दर्शयताप्येवशब्दो न प्रयुक्तः। तिबादिसूत्रेण धातुसामान्यविहितं च लकारमाश्रित्य तिबादयो विहितास्तत्रैभ्य एव धातुभ्य इति पूर्वे नियमः, अयं त्वेतयोरे वार्थयोरिति। ननु चात्रार्थनियम एव ग्रन्थे प्रतीयते, अयं त्वत्रार्थः-ठ्लः कर्मणि चऽइति भावकर्मणोर्यो विहितो लकातो लकारस्तस्य सामान्येन तिबादयः सर्वे वक्ष्यन्ते, न त्वात्मनेपदमेव, अतस्तदेव यथा स्यादित्यमारम्भ इति। प्रत्ययनियमे तु भावकर्मकर्तृष्वपि विहितस्य लस्य सामान्येन तङ् वक्ष्यत इति वाच्यं स्यात्, सत्यम्;अयं त्वत्रार्थः-ठ्भावकर्मणोःऽइत्युपलक्षणम्, भावकर्मकर्तृष्वित्यर्थः, तिबादय इति सूत्रे तिपः प्रथमनिर्देशादेवमुक्तम्। तिबादिष्वन्तर्भूतास्तङ् इत्यर्थः, तङनाविति यावत् । किं पुनः स्याद् यद्ययमर्थनियम् स्याद्? इह को भवता लाभो लब्धः, को भवता दायो दत इति कर्मणि घञ् न स्याद्। ठकर्तरि चऽ इत्यस्य त्वपादानादिरवकाशः यद्यपि तुल्यजातीयस्य परस्मैपदस्य नियमेन व्यावृत्तिरिति परिहारोऽस्ति;तथापि पूर्वसूत्रे तावत् प्रत्ययनियम इतीहापि स एवाश्रितः। ग्लायत इति। ठ्ग्लै म्लै हर्षक्षयेऽ। सुप्यत इति । ठ्ञिष्वप् शयेऽ, ठ्वचिस्वपि इत्यादिना संप्रसारणम्। क्रियत इति। ठ्रिङ् शयग्लिङ्क्षुऽयदा ठ्कर्मवत्कर्मणाऽइत्ययं शास्त्रातिदेशोः व्यपदेशातिदेशो वा, तदा शास्त्रव्यपदेशयोरतिदिष्टयोः स्वेन शास्त्रेण ततत्कर्यं भवति तत्र कर्मण्यात्मनेपदमित्यस्यावकाशः शुद्धं कर्म, कर्तरि परस्मैपदमित्यस्य शुद्धः कर्ता,कर्मकर्तर्युभयप्रसङ्गे परत्वात्परस्मèपदं प्राप्नेति, अत आह-कमकर्तरीत्यादि। द्वितीयं कर्तृग्रहणमनुवर्तत इति। ठ्कर्तरि कर्मव्यतीहारेऽइत्यतः कार्यातिदेशपक्षे त्वात्मनेपदमेव । परमिति । नायं परिहारो वाच्यः॥ पदसञ्जरी कर्तरि कर्मव्यतीहारे॥ १।३।१४ ॥ अत्र लौकिकं कर्म गृह्यते, न पारिभाषिकमित्याह-कर्मशब्दः क्रियावाचीति। ननु कृत्रिमत्वात्पारिभाषिकस्यैव ग्रहणं युक्तं ततो देवदतस्य धान्यं व्यतिलुनन्तीत्यत्रैव स्यात्, एवं मन्यते-इह ठ्कर्तरि व्यतीहारेऽइतीयता सिद्धं, करणादिव्यतीहारे कस्मान्न भवति, उच्यते;क्रियायाः साध्यत्वात् प्राधान्यं क्रिययाप्तुमिष्टतमत्वातादर्थ्येते;तद्यदि साधनं कर्म गृह्यएत, तदा क्रियाया अपि संदर्शनप्रार्थनाध्यवसायैराप्यमानत्वात् कृत्रिमकर्मत्वमिति पुनरुभयोरपि ग्रहणात् कर्मग्रहणमनर्थकं स्यात्। किं चात्मनेपदेनाक्षिप्तोऽनुवृतो वा धातुः कर्मव्यतिहारेण विशेष्यते-तत्र वर्तमानाद्धातोरिति, न च साधनकर्मणि धातोर्वृत्तिः सम्भवति, तस्य क्रियावाचित्वादिति। विनिमयो व्यत्यास इत्यर्थः। एतदेव स्पष्टयति-यत्रेति। योग्यतावशादस्येदं साधनम्, अस्येयं क्रिया साध्येति निर्ज्ञातयोर्विपर्यासः साध्यसाधनभावस्य स व्यतीहार इति विवक्षितम्। यत्रेत्युपक्रमातु स व्यतीहारस्य विषयो विवक्षित इत्यर्थः। परस्परकरणमपि कर्मव्यतीहार उच्यते-संप्रहरन्ते राजानः, व्यात्युक्षीमभिसरणग्लहामदीब्यन्निति। व्यतिलुनत इति । ठ्लुञ् छेदनेऽ ठात्मनेपदेष्वनतःऽइत्यदादेशः, ठ्श्नाभ्यस्तयोःऽइत्याकारलोपः, ठ्प्वादीनां ह्रस्वःऽ। अन्योन्ययोग्यमन्योन्यविषये वा लवनं कुर्वन्तीत्यर्थः । एवंरूपश्चार्थोऽनेककर्तृकत्वे सति प्रतीयत इत्येकवचनं न भवतीति केचिदाहुः। व्यत्यसे, व्यतिहे इत्येकवचनमपि तत्र तत्रोदाहरिष्यते। ठन्यो व्यतिस्ते तु ममापि धर्मःऽ इति भट्टिप्रयोगः। कर्मव्यतीहार इति किमिति । कर्तृग्रहणमेव व्यतिलुनत इत्यादौ प्रापकत्वेनोपयोक्ष्यत इति भावः। अथ कर्तृग्रहणं किमर्थम् ? भावकर्मनिवृत्यर्थं न वा पूर्वेण भावाद्। भावकर्मणोर्हि पूर्वेणात्मनेपदं भवत्येव--व्यतिलूयते व्यतिपूयत् इति, तेन यथा स्याद्, अनेन मा मूत्, कः पुनरत्र विशेषः ? तेन वा स्यादनेन वा ? अयमस्ति विशेषः-अनेन सति ठ्न गतिहिसार्थेभ्यःऽ इति प्रतिषेधः प्राप्नोति--व्यतिगम्यते ग्रामः, व्यतिहन्यन्ते दस्यव इति। न वानन्तरस्य प्रतिषेधाद् व्यतिहन्यत इत्यत्र द्वे प्राप्ती--ठ्भावकर्मणोःऽइति च । तथा ठनन्तरस्य विधिर्भवति प्रतिषेधो वाऽइति अनन्तरा कर्मव्यतीहारलक्षण प्राप्तिः प्रतिषिध्यते, पूर्वा तु भविष्यति, नार्थं एतेन कर्तृग्रहणेनत्यत आह--कर्तृग्रहणमिति। ठ्शेषात्कर्तरिऽइति प्रदर्शनमेतद् । ठाङे दोऽनास्यविरहणोऽइत्यादावप्यस्योपयोगं वक्ष्यामः॥ पदमञ्जरी न गतिहिंसार्थेभ्यः॥ १।३।१५ ॥ व्यतिगच्छन्तीत्यादि। ठ्गम्लृ सृप्लृ गतौऽठ्तृहि हिसि हिंसायाम्ऽ ठ्हन हिंसागत्योःऽ,गमेः ठिषुगमियमां च्छःऽठ्छे चऽइति तुक्, सृपेर्लधूपधगुणः, हन्तेर्गमहनेत्युपधालोपः, ठ्हो हन्तेःऽइति कुत्वम्। हसादीनामिति। हसिप्रकाराणं शब्दक्रियाणामित्यर्थः। उपसंख्यानमिति। संख्यायतेउसंक्षिप्य प्रतिपाद्यतेऽनेनार्थ इति संख्यानमुसूत्रम्, तस्योपोच्चारितमुपसंख्यानं सूत्रम्, समीप इदमपि सूत्रं पठितव्यमित्यर्थः। हरतेरप्रतिषेघ इति। अर्थग्रहणसामर्थ्याह्यए शब्दान्तरनिरपेक्षागतिहिसयोर्वर्तन्ते त इह गृह्यन्त इति उपसर्गवशेन हिसार्थत्वाद्धरतेरप्रतिषेध इत्याहुः। इह तु ठ्ततः संप्रहरिष्यन्तौ द्दष्ट्वा कर्णधनञ्जयौऽइति योत्स्यमानाविति विवक्षितम्, न व्यतीहारः। इह च संव्यवहरन्ते गर्गैरिति वहेरगत्यर्थत्वादप्रतिषेधः, देशान्तरप्रापणं हि वहेरर्थंः- भारं वहतीति;नान्तरीयकस्तु गतिप्रत्ययः कन्याप्रापणमुखेन गर्गैः सम्बध्यन्त इत्यर्थः॥ पदमञ्जरी इतरेतरान्योऽन्योपपदाच्च॥ १।३।१६ ॥ उपोच्चारितं पदमुपदम्, न पारिभाषिकम्;असम्वाद्। असत्युपपदग्रहणे पञ्चमीतिर्देअशे परस्यैवानन्तरस्य स्यात्; ठ्तस्मादित्युतरस्यऽइति वचनात्। सप्तमीनिर्देशे तु ठ्तस्मिन्निति निर्दिष्टे पूर्वस्यऽइति पूर्वस्यैवानन्तरस्य स्यात्। तत्र यद्यपि लकारोऽनन्तरः परो न सम्भवति, धातुस्तु सम्भवति;पूर्वस्तु धातुरनन्तरो न सम्भवति, लकारस्तु संभवति। तृतीयानिर्देशस्तु पञ्चमीसाधारणत्वादनध्यवसान इत्युपपदग्रहणं क्रियते। इतरेतरस्यत्यादि। लौकिके तु शब्दव्यवहारे लाघवं प्रत्युनादराद् इतरेतरादिशब्दस्तङ् उपसर्गाश्च कर्मव्यतीहारद्योतनाय समुच्चीयन्ते । कर्मव्यतीहारे ठ्सर्वनाम्नो द्वे भवतस्समासवच्च बहुलम्ऽयदा न समासवत् प्रथमैकवचनं तदा पूर्वपदस्येति षष्ठ।लेकवचनान्तस्येतरशब्दस्य द्विर्वचने समासवद्भावेन सुब्लुकि समासत्वादेव प्रातिपदिकत्वात् पुनः षष्ठ।लेकवचनम्। अन्यशब्दस्य तु बहुलग्रहणादसमासवद्भावे पूर्वपदस्थस्य षष्ठ।लेकवचनस्य प्रथमैकवचनम्। एवं परस्परस्येत्यत्रापि सूत्रवाक्ययोः प्रकृतिभागमात्रस्यानुकरणं द्रष्टव्यम्॥ पदमञ्जरी नेर्विशः॥ १।३।१७ ॥ शेषात्कर्तरि परस्मैपदे प्राप्ते इति। अनारम्भस्यापि शेषपक्षे निक्षेपात्। आत्मनेपदं विधीयत इति। यद्यपि तिबादिसूत्रापेक्षया सर्वस्यैव प्रकरणस्य नियमार्थत्वम्, ठनुदातङ्ति आत्मनेपदम्ऽठ्भावकर्मणोःऽ इति सूत्रद्वयायेक्षया तु विध्यर्थत्वमपि सम्भवतीति मत्वैवमुक्तम्। एवं सर्वत्र द्रष्टव्यम्। न्यविशतेत्यत्र लङ् इनिविश् ल् इति स्थिते लादेशो लकारमात्रापेक्षत्वाद् अन्तरङ्गः, अडागमस्तु लुङदिविशेषापेक्षत्वाद्वहिरङ्ग इति पूर्वं लादेशे विकरणश्च प्राप्नोति अडागमश्च, नित्यत्वाद्विकरणः। अडागमो हि विकरणे कृते तदन्तमेव लङ् पिरतोऽङ्गम् तदादिग्रहणस्य स्यादिनुमर्थत्वादिति तस्यैव प्राप्नोति, अकृते विकरणे धातुमात्रस्योति शब्दान्तरप्राप्तेरनित्यः;ततश्च विकरणान्तस्य विधीयमानोऽडागमो धातुमात्रं प्रत्यभक्त इति नेश्च धातोश्च व्यवधायक इत्यात्मनेपदं न प्राप्नोतीत्यत आह-यदागमा इत्यदि। एवं मन्यते-बाह्यएपसर्गसम्बन्धापेक्षत्वादयं विधिर्बहिरङ्गः, अस्मिंश्चाप्रवृते लादेशोऽप्यप्रवृत एव, अपवादविषयपरिहारेण हि तेन प्रवर्तितवयम्। अनिर्वृतश्च लादेशो विकरणोत्पतौ न निमितम्, तेन लावस्थायामेवाड् भवन् धातुमात्रस्यैव भवति, ततश्च तदवयवत्वान्न तस्यैव वयवधायक इति । कथं तर्ह्युक्तम्--व्यवधानेऽपि भवतीति? श्रुतिमात्रापेक्षया। क्वचितु-अटा नास्ति व्यवधानमित्येव पाठः। मधुनि विशन्तीति अङ्गभक्तो नुम् णेóरनवयव इति निशब्दस्यानर्थक्यम्। क्वचितु मधूनि निविशन्ति भ्रमरा इति शसन्तं पठ।ल्ते॥ पदमञ्जरी परिव्यवेभ्यः क्रियः॥ १।३।१८ ॥ पर्यादय उपसर्गा गृह्यन्त इति कथं ठ्क्रियःऽ इति षष्ठी, उसर्गैरेव पर्यादिभिरर्थद्वारको विशेषणविशेष्यभावलक्षणसम्बन्धः, न च क्रियो चे उपसर्गास्तेभ्यः परं धात्वन्तरं सम्भवतीति क्रीणातेरेवात्मनेपदं भवतीति। यद्वा--पर्यादिविशेषणाय षष्ठीमनुभूयात्मनेपदसम्बन्धे ठ्क्रियःऽइति पञ्चमी सम्पद्यते, तदाह--इत्येतेभ्य उतरस्मात् क्रीणातेरिति। बहुवीति। बहवो वयः पक्षिणोऽस्मिन्निति बहुव्रीहिः, कर्मपदं चैतत्, पक्षिवाचिनो विशब्दस्य नपुंसकत्वाभावाद् विभक्त्यास्य व्यवधानात्केवलो नोदाहृतः। ननु बहुव्रीहावपि जहत्स्वार्थायां वृतौ वेरानर्थक्यम्, अजहस्त्वार्थायामपि तदर्थस्योपसर्जनत्वमिति न भविष्यति ? एवं तर्ह्युदाहरणदिगियं दर्शिता। इद तत्रोदाहरणम्-वे क्रीणासि, अत्रैकदेशविकृतस्यानन्यत्वात्प्रसङ्गः, वी क्रीणीतः- अत्रैकादेशस्य पूर्वं प्रत्यन्तवद्भावात्प्रसङ्गः॥ पदमञ्जरी विपराभ्यां जेः॥ १।३।१९ ॥ साहचर्यादिति। द्वयोर्द्दष्टापचारत्वेऽपि परस्परसाहचर्यादित्यर्थः। ठ्नेर्विशःऽ इत्यादिप्रकरणसाहचर्याद्वा । बहुवीति। अत्रापि वे जयसि, वी जयत इत्युदाहार्यम्। परा उत्कृष्टा। अथ कथं जेरिति निर्देशः, यावता प्रकृतिवदनुकरणं भवतीति ठचि श्नुधातुऽ इत्यादिनेयङदेशेन भवितव्यम्, न च दीर्घेषु सावकाशमियण्ंó परत्वाद् ठ्घेण्Çóतिऽ इति गुणो बाधत इति युक्तम्;हृस्वेष्वपि पूर्वविप्रतिषेधेन इयङ् इष्टत्वात्। तथा च ठ्क्षियःऽ इति निर्देशः? उच्यते; धातुत्वं तावदर्थाश्रयम्--क्रियावचनो धातुरिति, इह वा विवक्षितार्थं रूपमात्रमनुकृतमिति। अनुकार्यस्यापि धातुत्वं नास्ति प्रागेवानुकरणस्य॥ पदमञ्जरी आङे दोऽनास्यविहरणे॥ १।३।२० ॥ यथैवावत्सा धेनुरानीयतामित्युक्ते सम्भवद्वत्ससम्बन्धा गोधेनुरेवानोयते, न महिष्यादिधेनुः, तथेहापि सम्भवदास्यविहरणस्य ठ्डुदाञ् दानेऽ इत्यस्यैव ग्रहणम्, न तु ठ्गामादाग्रहणेष्वविशेषःऽ इति सर्वेषां दारूपाणामित्याह-आङ्पूर्वाद्दाञ इति॥ आदत इति । श्लौ द्विर्वचनम्, पूर्ववदाकारलोपः, दकारस्य चर्त्वम्। क्वचिद्-आङे ङिद्रिशिष्टस्य किम् ? भिक्क्षामाददातीति पठ।ल्ते, तत्र स्मृतावाकारः। आस्यविहरणसमानक्रियादपीति। कथमिह ठाङे दोऽनास्येऽइतीयता सिद्धं द्रव्ये धातोर्वृत्यसम्भवादास्यसमवायिन्यां क्रियायां वर्तमानस्य समुदायस्य निषेधो विज्ञायते, नचैवं स्वं मुखमादत इत्यत्रापि मुखविषयत्वादानस्य प्रतिषेधप्रसङ्गः, ग्राह्यास्य एव समवेता क्रिया, तस्यां वर्तमानो ददातिरास्ये वृत्तिर्भवति, ग्रहणन्तु ग्राह्यहिणोरुभयोरपि समवेतम्। अनास्य इति पर्युदासः, आस्यानास्यसमुदायश्चास्यादन्य इति विधिरेव भविष्यति । एवं सिद्धे विहरणग्रहणं विहरणविशेषोपलक्षार्थम्, तेनासत्यप्यास्ये ताद्दशे विहरणे भविष्यति याद्दशमास्यविहरणम् आस्यव्यादानम्। विपादिकेति । पादस्फोटःउविपादिका। स्वाङ्गकर्मकाच्चेति। स्वमङ्गं स्वाङ्गम् न तु पारिभाषिकमद्रवादिलक्षणम्। एतच्च न्यायसिद्धमेवोक्तम्, कथम् ? कर्तरीति वर्तते, आस्यशब्दश्चायं सम्बन्धिशब्दः, कस्यास्यमित्यपेक्षायां यस्मिन् कर्तर्यात्मनेपदं तस्य चेतदास्यमिति विज्ञाते तेन परकीयास्यविहरणे विधिरेव भवति॥ पदमञ्जरी क्रीडोऽनुसंपरिभ्यश्च ॥ १।३।२१ ॥ माणवकमनुक्रीडतीति। माणवकेन सह क्रीडतीत्यर्थः। ठ्तृतीयार्थऽ इत्यनुः कर्मप्रवचनीयसंज्ञकः। कर्मप्रवचनीयसंज्ञकः। आगमेरिति ण्यन्तस्येदं ग्रहणम्। आगमयस्व तावदिति। सहस्व कञ्चित्कालं मा त्वरिष्ठा इत्यर्थः। शिक्षेरिति। ठ्शिक्ष विद्योपादानेऽ इत्यस्यानुदतेत्वादेव सिद्धमिति शकेः सन्नन्तस्य ग्रहणम्। शिक्षत इति। ठ्सनि मीमाघुऽ इत्यच इस्, ठ्स्कोः संयोगाद्योःऽ इति सलोपः, ठत्र लोपोऽभ्यासस्यऽ धनुर्विषये ज्ञाने शक्तौ भवितुमिच्छतीत्यर्थः। क्रियाविषयो हि शकेः प्रयोगः- भोक्तुअं शक्नोति, गन्तुं शक्नोतीति। तदिह ज्ञानं विषयः, आत्मनेपदेनैव ज्ञानविषयत्वस्य गमितत्वाज्ज्ञानमिति न प्रयुज्यते। आशिषि नाथ इति। ठ्नाथृ नाधृ याच्ञोपतापैश्वर्याशीःषुऽ अनुदातेत्। नियमार्थतु वचनम्-आशिष्येव यथा स्याद् याञ्चादिषु मा भूदिति। अनुदातेत्वं युजर्थम्। सर्पिषो नाथ इति । ठाशिषि नाथःऽ इति कर्मणि षष्ठी सर्पिर्मे भूयादित्याशास्त इत्यर्थः। हरतेरिति। गतिः प्रकारः। पैतृकमिति। पितुरागतं प्रकारं सततं शीलयन्तीत्यर्थः ठृतष्ठञ्ऽ। प्रत्युदाहरणे साद्दश्यमात्रं विक्षितम्, न प्रकारताच्छील्यम्। किरतेरिति। विक्षेपार्थः किरतिः। हर्षादयस्तु विषयत्वेनोपताः । तत्र हर्षो विक्षेपस्य कारणम्। जीविकाकुलायकरणे तु फलम्। एतेष्वर्थेषु अपाच्चतुष्पात् इति सुसुड्विधीयते। आपृच्छत इति। ठ्प्रच्छ ज्ञीप्सायाम्ऽ तुदादिः, ग्रहीत्यादिना सम्प्रसारणम्। वाचा शरीस्पर्शनमिति । ठ्त्वत्पादौ स्पृशामि, नैतन्मया कृतम्ऽ इत्येवंरूपः शपथविशेषः। देवदतायेति। ठ्श्लाघह्नुङ्स्थाशपाम्ऽ इति सम्प्रदानसंज्ञा ॥ पदमञ्जरी समवप्रविभ्यः स्यः॥ १।३।२२ ॥ सन्तिष्ठत इति। पाघ्रादिसूत्रेण तिष्ठादेशः। अत्राप्युपसर्गग्रहणादिह न भवति-वे तिष्ठसि, वी तिष्ठत इति। अस्तिं सकारमिति। श्तः सन्तीत्यादौ सकारमात्रस्य दर्शनात् ठ्स भुविऽ इत्यवे धातुः पाठयः, अस्तीत्यादौ पिति सार्वधातुके अडागमो विधेयः, आस्ताम् आसन्नित्यादौ आडागमः स्यात्" इति आपिशला मन्यन्ते । गुणस्य त्वागमत्वे उदाहरणं मृग्यम्॥ पदमञ्जरी प्रकाशनस्थेयाख्ययोश्च॥ १।३।२३ ॥ स्वाभिप्रायकथनमिति। कथनमाविष्करणमात्रं न तु शब्देनैव, तेनाभाषमाणायामपि कन्यकायां भवति। तिष्ठत्यस्मिन्निति। प्रकरणादिनात्र विवादपदनिर्णेतुः प्रतीतिः, न तु शाब्दीति विग्रहवाक्ये आत्मनेपदं न कृतम्। संशय्य कर्णादिष्विति। संशयस्थानेषु कर्णादीन् निर्णेतृत्वेनाश्रयतीत्यर्थः॥ पदमञ्जरी उदोऽनूर्ध्वकर्मणि॥ १।३।२४ ॥ कर्मशब्दः क्रियावाचीति। साधनकर्मणि धातोर्वृत्यसम्भवादिति भावः। उद ईहायामिति । ईहाउपरिस्पन्दः। ईहाग्रहणमित्यादि। ईहात्मकं यदनूर्ध्वकर्म इत्येवमनूर्ध्वकर्मण एव विशेषणमीहाग्रहणम्, न पुनरनूर्ध्वकर्मग्रहणमपनीय ईहाग्रहणं कर्तव्यमित्युच्यते इत्यर्थः। तथा हि सत्यासनादुतिष्ठतीत्यत्रापि स्यात्, परिस्पन्दरूपत्वादुत्थानस्येति भावः। उद ईहायामित्येतत्कर्मग्रहणात् सिद्धमित्याहुः। कथम्? ठीहाऽनूर्ध्वऽ इत्येतावताऽनूर्ध्वताविशिष्ट्ंअ क्रियावाचित्वं सिद्धम्, धातोः क्रियावाचित्वात्। एवं सिद्धे कर्मग्रहणाल्लोकप्रसिद्धं परिस्पन्दात्मकं कर्म गृह्यत इति॥ पदमञ्जरी उपान्मन्त्रकरणे॥ १।३।२५ ॥ पारिभाषिकमत्र करणं गृह्यते, मन्त्रः करणं यस्यार्थस्य तस्मिन्वर्तमानादित्यर्थः। उपादित्यादि। अमन्त्रकरणार्थमिदम्। सङ्गतकरणमुपश्लेष इति। विनापि मैत्रीसम्बन्धात्। स्त्रु घ्नमुपतिष्ठते इति। प्राप्नोतित्यर्थः। भिक्षुक इति। लिप्सया हेतुभूतया ब्रह्मणकुलमुपगच्छतीत्यर्थः॥ पदमञ्जरी अकर्मकाच्च॥ १।३।२६ ॥ अत्रासम्भवात् क्रिया कर्म न गृह्यते, न ह्यास्ति सम्भवःउधातुश्च भवत्यक्रियावचनश्चेति॥ ननु च साधनकर्मणाम्यकर्मकत्वमव्यभिचारादविशेषणम्, न हि शब्दात्मकस्य धातोः कर्मणा योगवियोगौ सम्भवतः, साधनयोगस्य क्रियाधर्मत्वादत आह-अकर्मकक्रियावचनादिति। एतेनाद्वारकमेतद् धातोर्विशेषणमिति दर्शयति। यावद्भुक्तमिति। यथार्थे यदव्ययमिति वीप्सायामव्ययीभावः। सप्तम्यन्तं चैतत्। संनिधीयत इत्यर्थ इति। भावे लकारः। अर्थतोव्याख्यानं चैतत्-यो ह्युपतिष्ठते स संनिधते, यश्च संनिधते तेन संनिधीयते। अकमकादिति किमिति। पूर्वसूत्रे ठुपात्ऽ इति योगविभागादिष्टस्य सिद्धंपश्यति। न चैवमतिप्रसङ्गः, ठ्मन्त्रकरणेऽ इत्यस्य नियमार्थत्वात्-सकर्मकाद्यदि भवति मन्त्रकरण एवेति। राजानमुपतिष्ठतीति। विपरीतोऽपि नियमः स्यात्-करणे यदि भवति मन्त्रकरण एवेति, ततश्चात्र स्यादेवेति भावः॥ पदमञ्जरी उद्विभ्यां तपः॥ १।३।२७ ॥ उतपति सुवर्णमित्यत्र सन्तापने विलापने वा तपिर्वर्तत इति सकर्मकत्वम्। स्वमङ्गं स्वाङ्गमिति। यस्मिन्कर्तर्यात्मनेपदं तस्य चेत् स्वमङ्गमित्यर्थः। यद्यन्वर्थग्रहणम्? ततोऽप्राणिन्यपि कर्तरि यस्य यदङ्गं तत्कर्मकादपि प्रसङ्गः। पारिभाषिके त्वेष दोषो न भवति; तस्य प्राणिस्थत्वात्। अन्वर्थेऽपि न दोषः, तपेः प्राणिकर्तृकत्वात्। पारिभाषिकस्य त्वसम्बन्धिशब्दत्वात् कर्तुश्चेत्स्वमङ्गमित्येवं न प्रतीयेतेति भावः॥ पदमञ्जरी आङे यमहनः॥ १।३।२८ ॥ आहतेति।ठनुदातोपदेशऽइत्यनुनासिकलोपः। आघ्नत इति। पूर्ववदादेशोपधालोपौ कुत्वं च । आहन्ति शिरः परकीयमिति। ठाजघ्ने विषमविलोचनस्य वक्षःऽ इत्यत्र तु गाण्डीवी विषमविलोचनस्य वक्ष एत्य स्वं वक्षो हतवानित्यर्थः । मल्लोऽप्युत्साहवर्धनाय स्वं वक्ष एत्य एवं वक्षो हतवानित्यर्थः। मल्लोऽप्युत्साहवर्धनाय स्वं वक्ष आस्पालयति॥ पदमञ्जरी समो गम्यृच्छिप्रच्छिस्वरत्यर्तिश्रुविदिभ्यः॥ १।३।२९ ॥ ठ्समो गम्यच्छिभ्याम्ऽ इत्येतावत्सूत्रम्। प्रच्छयादयस्तु वार्तिकद्दष्टाः सूत्ररूपेण पठिताः, सूत्रकारवद्वार्तिककारोऽपि शास्त्रस्य कर्ता, न व्याख्यातेति दर्शयितुम्। तत्र हीति। उतरार्थमनुवर्तमानमपि योगविभागसामर्थ्यात् तत्र न सम्बध्यत इत्यर्थः। न लाभार्थस्येति। सताविचारणार्थयोस्त्वनुदातेत्वादात्मनेपदेन भाव्यमेवेति भावः। द्दशेश्चेत्यादि। इदं वक्तव्यरूपेणैव पठितम्। विचित्रा हि वृतेः कृतिः वृत्तिकारेण। अथास्मिन्नकर्मकाधिकारे ये सकर्मका हनिगमिप्रभृतयः, तेषां कथमकर्मकत्वम्? उच्यते-- धातोरर्थान्तरे वृतेर्धात्वर्थेनोपसंग्रहात्। प्रसिद्वेरविवक्षातः कर्मणोऽकर्मिका क्रिया॥ वहति भारमिति-प्रापणे सकर्मको वहिः, स्यन्दने त्वकर्मकः। वहन्ति नद्य इति--प्रापणे सकर्मको वहिः, स्यन्दने त्वकर्मकः। वहन्ति नद्य इति--प्राणविशिष्ट्ंअ धारणं जीवतिराह,तत्र प्राणानां धातुनैवोपातत्वान्न तेन कर्मणा सकर्मकत्वम्, न च प्राणकर्मके धारणेऽन्यस्य कर्मत्वमिति जीवतिरकर्मकः। प्रसिद्धेर्यथा--वर्षतीत्यनुपाते कर्मान्तरे नियमेन जलं प्रतीयत इति न तेन सकर्मकत्वम्, तेन ठ्वृष्टे देवेऽ इति कर्तरि क्तो भवति। व्यभचारिणा तु रुधिरादिना सकर्मक एवः रुधिरं वर्षति, शरान्वर्षतीति । कर्मविवक्षायां तत्कर्मिकैव क्रिया प्रतिषिद्धा स्याद्, न पाकमात्रमित्यविवक्षा कर्मणः॥ पदमञ्जरी निसमुपविभ्यो ह्वः॥ १।३।३० ॥ निह्वयते इति। कथं पुनरत्रात्मनेपदम्, यावता ठ्ह्वाऽ इत्याकारान्तादियं पञ्चमि, एकारान्तश्चायम्, न च विकृतिः प्रकृतिं संगृह्णाति? सत्यम्; आकारान्तात्पञ्चमी, न त्विदं प्रयोगस्थस्याकारान्तस्यानुकरणम्, किं तर्हि? धातुपाठेऽवस्थितैकारान्तस्य तस्यैव लक्षणवशादात्वम्। न चातुक्रियमाणरूपविनाशप्रसङ्गः; शास्त्रवासनया तस्यैव प्रतीतेः, यथा--ठ्यस्येति चऽ इतीकाराकारयोः॥ पदमञ्जरी स्पर्द्धायामाङ्ः॥ १।३।३१ ॥ सविषय इति । हेतुभावेन च विषयत्वम्, अत एव हेतौ शानच् प्रयुक्तः। स्पर्द्धमानस्तस्याह्वानमिति। शब्दक्रिय एवेति। यद्यपि स्पर्द्धायां पठ।ल्ते, तथाप्याङ्पूर्वस्तत्र न वर्तते, किं तर्हि? शब्दनक्रियावाचीत्यर्थः॥ पदमञ्जरी गन्धनावक्षेपणसेवनसाहसिक्यप्रतियत्नप्रकथनोपयोगेषु कृञः॥ १।३।३२ ॥ अपकारप्रयुक्तमिति अपकारेण प्रयुक्तमनेन मेऽपकृतमित्येतया बुद्ध्या कृतमित्यर्थः। अथ वा--कथं मयाऽपकृतं स्यादिति बुद्ध्या प्रवर्तितमित्यर्थः। हिसात्मकमिति। सूचितस्य वधबन्धनादिका हिंसा, इह तु तत्करणत्वात्सूचनमेव हिंसा स्वभावमित्युक्तम्। कथं पुनर्ज्ञायते गन्धनं हिंसात्मकमित्यत आह-- तथा हीति। चुरादाविति। स्वभावानुवादः। साहसिक्यमिति। सहसा वर्तते साहसिकः ठोजःसहोम्भसा वर्ततेऽ इति ठक्, तस्य कर्मणि ष्यञ् । वर्तिकाउशकुनिविशेषः। एधोदकस्येति। समाहारद्वन्द्वः। ठ्कृञः प्रतियत्नेऽ इति षष्ठी। उपस्कुरुत इति। ठुपात्प्रतियत्नऽ इत्यादिना सुट्॥ पदमञ्जरी अधेः प्रसहने॥ १।३।३३ ॥ प्रसाहनमभिभव इति। ठ्सा साहया युधा नृभिः पृतनाषाड्ऽ इत्यादौ दर्शनात्। केचितु ठ्षह मर्षणेऽभिभवे च्छन्दसिऽ इति पठन्ति, तत्र ठ्च्छन्दसिऽ इति प्रायिकं द्रष्टव्यम्। अपराजयो वेति। पराजेतुं समर्थस्यैव क्षमया यस्तदभावः स इत्यर्थः। तथा च भारविः- ठ्भवाद्दशाश्चेदधिकुर्वते परान्ऽ इति, भवाद्दशाश्चेत्परानधिकुर्वतेउ क्षमया न पराजयन्ते, क्षमन्त इत्यर्थः, तदहन वा तेन पराजित इत्यर्थ इति। तेनात्मनेपदवाच्येन कर्त्रा तमित्येद्वाच्यः कर्मभूतो न पराजित इत्यर्थः। पृथग्योगकरणमित्यादि। प्रकथनोपयोगप्रसहनेषु ठधेःऽ इत्युच्यमाने गन्धनादिष्वपि अधिपूर्वादेव स्यात्। अथ तत्राधिग्रहणं न क्रियेत, प्रसहनेऽप्यध्यभावेऽपि प्रसङ्गः;अत उत्सर्गेण प्रसहनं विशेषयिस्यामीति प्रसहने वा उत्सर्गं विशेषयिष्यामीति योगविभाग इत्यर्थः॥ पदमञ्जरी वेः शब्दकर्मणः॥ १।३।३४ ॥ ठुदोऽनूर्ध्वकर्मणिऽ इत्यादिवत् कर्मशब्दः क्रियावाची मा विज्ञायीत्याह-- कर्मशब्द इत्यादि। विपूर्वस्य करोतेः शब्दक्रियायां वृत्यसम्भवात्, कृत्रिमसम्भवे लौकिकस्य ग्रहणायोगाच्च। किंच ठ्वेः शब्दःऽ इत्येव वक्तव्यम्, कर्मग्रहणमनर्थकम्, विकरेति पय इति सकर्मकत्वाद् उतरेणापि न भवति॥ पदमञ्जरी अकर्मकाच्च॥ १।३।३५ ॥ ओदनस्य पूर्णा इति। सुहितार्थयोगे षष्ठी भवति, ज्ञापनात्, यदयं पूरणगुणसुहितार्थेति सुहितार्थयोगे या षष्ठी सा न समस्यत इत्याह, तज्ज्ञापयत्याचार्यः- भवति सुहितार्थयोगे षष्ठीति। अकर्मकादिति किमिति। पूर्वसूत्रे वेरिति योगविभागेनेष्टसिद्धिं मन्यते, न चैवमतिप्रसङ्गः, शब्दकर्मण इत्यस्य नियमार्थत्वात्--कर्मणि यदि भवति शब्द एवेति, कट्ंअ विकरोतीति। विपरीतोऽपि नियमः सम्भाव्येत-शब्दे यदि भवति कर्मण्येवेति, ततश्चात्रापि स्यादिति भावः॥ पदमञ्जरी सम्माननोत्सञ्जानाचार्यकरणज्ञानमृतिविगणनव्ययेषु नियः॥ १।३।३६ ॥ सम्माननादिषुविशेषणेषु सत्स्विति। युक्तं सम्माननाचार्यकरणवेतनानां विशेषणत्वम्, तत्र हि प्रापणमेव धात्वर्थः, सम्माननादीनि तु तमेव विषयतया व्यवच्छिन्दन्ति। उत्सञ्जनादीनां त्वयुक्तम्; तेषामेव धात्वर्थत्वात्, तद्व्यतिरिक्तस्य विशेष्यस्यासम्भवात्, उच्यते; सम्माननादेरुत्सञ्जनादेश्च विशेषणत्वं समानं पूर्वोक्तं धात्वर्थविशेषणम्, उतरस्तु धातुविशेषणमिति विशेष्यमात्रं भिद्यते, अतः सुष्ठूअक्तम्--सम्माननादिषु विशेषणेष्विति। चार्वि बुद्धिरिति। चारुशब्दात् ठ्वोतो गुणवचनात्ऽइति ङीष्। आचार्योऽपि चार्वीति । यथा यष्टीः प्रवेशयेति पुरुषेष्वजहत्स्वलिङ्ग एव यष्टिशब्दः, तद्वच्चार्वीशब्दः। ते युक्तिभिरित्यादि। पूर्वस्मिन् वाक्ये गुणभावेनापि प्रकृते। ते शिष्याः युक्तिभिः प्रतिपाद्यमानाः, निष्पाद्यमाना इत्यर्थः। स्थाप्यमाना इति तु व्याख्याने पदार्थानामचेतनत्वात् न मुख्यं सम्माननम्। उत्क्षिपतीत्यर्थ इति। तेनोत्सञ्जनं नयतेरर्थ इति दर्शयति। आचार्यकरणमाचार्यक्रियेति। सूत्रवृतौ च कारणावस्थाया विवक्षितत्वात् च्विः प्राप्तोऽपि विकल्पाधिकारान्न कृतः। तथा चाचार्यीकुर्वन्निति च्विः प्रयुक्तः। ननुपनयनं माणवकस्य संस्कारः, येनासावध्ययने योग्यो भवति, न त्वनेनाचार्ये कश्चिदतिशयो जन्यते; आचार्यशब्दस्य तु प्रवृत्तिनिमितमुपनीयाध्यापनं नाम क्रियाविशेषः, यथोपाध्यायशब्दस्यैकदेशाध्यापनं तत्कथमाचार्यकरण आत्मनेपदं विधीयते इत्यत आह--माणवकमीद्दशेनेत्यादि । एवं मन्यते--उपनियाध्यापनेनाद्दष्टरूपः कश्चिदतिशय आचार्ये जन्यते, तदेव प्रवृत्तिनिमितमाचार्यशब्दस्येति तदाह--स्वयमाचार्यः सम्पद्यते इति । ठात्मानमाचार्यीकुर्वन्ऽ इति च हेतुलक्षणे लटः शत्रादेशः। ईद्दशेनेति । याद्दशः शास्त्रोक्तो विधिस्ताद्दशेनेत्यर्थः। ननु यद्याचार्यकमुपनयनस्य प्रयोजनं तत्कर्त्रभिप्रायमिति नार्थ आचार्यकरण आत्मनेपदविधानेन? उच्यते; नोपनयनेनाचार्यकं जन्यते, किं तर्हि? तत्पूर्वकेणाध्ययनेन। उपनयनक्रियायास्तु माणवकसंस्कारः साक्षात्फलम्। एवं संस्कृतस्य माणवकस्य यदध्यापनं तेनाचार्यकं जन्यते इति न तदुपनयनायः क्रियायाः फलम्। पच्च तस्याः फलं तन्माणवकगामि, न कर्तृगामि। निश्चिनोतीत्यर्थ इति । अनेन ज्ञानं नयतेरर्थ इत्याह। कारं विनयते इति। कर एव कारः, प्रज्ञादिः, राजग्राह्यए भागः कर्षकैः कल्पितः॥ पदमञ्जरी कर्तृस्थे चाशरीरे कर्मणि॥ १।३।३७ ॥ नयतेरात्मनेपदविधानातत्सम्बन्ध्येव कर्ता लकारवाच्यः प्रत्यासन्नो गृह्यत इत्याह--नयतेः कर्तेति। तदेकदेशोऽपि शरीरमिति। अपिशब्दोऽवधारणे। इह शरीरस्यैव चैतन्यविशिष्टस्य कर्तृत्वं लौकिकाः प्रतियन्ति, न तद्व्यतिरिक्तस्य बुद्धीन्द्रियादिमतश्चतनस्य । न च शरीरमेवशरीरस्थं भवति, अतस्तदेकदेश एव तद्ग्रहणेन गृह्यते इत्यर्थः। अत्र क्रोधाद्यपनयनफलं कर्त्रभिप्रायमिति ठ्स्वरितञितःऽइत्येव सिद्धे नियमार्थमिदम्-- कर्तृस्थे कर्मण्यशरीरस्थ एवेति । अथ कथम् ठ्विगण्य्य नयन्ति पौरुषं विजितक्रोधरया जिगीषवःऽ इति? केचिदाहुः-अपगमे वर्तमानादिदमात्मनेपदविधानं भवति, अत्र तु करोत्यर्थे प्राप्त्यर्थे प्राप्त्यर्थे वा वर्तते, अनेकार्थत्वाद्धातूनामिति॥ पदमञ्जरी वृत्तिसर्गतायनेषु क्रमः॥ १।३।३८ ॥ सर्ग उत्साह इति । ठ्सृष्टश्चेद्ब्राह्मणवधेऽ, ठ्येनेन्द्रलोकापजयाय सृष्टःऽइत्यादौ दर्शनात्सृजिरुत्सहार्थः। वृत्यादिष्विति किम्? अपक्रामति॥ पदमञ्जरी उपपराभ्याम्॥ १।३।३९ ॥ उपपराभ्यामिति माणवकः कुतुपमिति। उपसर्गनियमः किमर्थ इत्यर्थः। संक्रामतीति। ठ्क्रमः परस्मैपदेषुऽ इति दीर्घः॥ पदमञ्जरी आङ् उद्रमने॥ १।३।४० ॥ आक्रामति माणवकः कुतुपमिति। अवष्टभ्नातीत्यर्थः। ह्रस्वा कुतूः कुतुपः, ठ्कुत्वा डुपच्ऽ। कुतुपमिति पाठे कुतपो दर्भसंस्तरः। आक्रामति धूमो हर्म्यतलमिति। उद्रमनपूर्विकायां व्याप्तावत्र क्रमिर्द्रष्टव्यः। इह तु ठ्नभः समाक्रामति चन्द्रमाः क्रमात्ऽ इति क्रमिर्व्याप्तौ वर्तते; नोद्रमने॥ पदमञ्जरी वेः पादविहरणे॥ १।३।४१ ॥ विक्रामत्यजिनसन्धिरिति। द्विधा भवति, स्फुटतीत्यर्थः॥ पदमञ्चरी प्रोपाभ्यां समर्थाभ्याम्॥ १।३।४२ ॥ अन्योऽन्यसाहचर्यात्प्रोपयोरुपसर्गयोर्ग्रहणम्, न प्रातिपदिकान्तकर्मप्रवचनीययोः, नापि क्रियान्तरसम्बन्धिनोः, नाप्यनर्थकयोरित्याह-प्र उप इत्येताभ्यामुपसर्गभ्यामिति। तुल्यार्थाविति। एतेन समोऽर्थो ययोरितिसमर्थौ, शकन्ध्वादित्वात्पररूपम्, संशब्दस्यैव वाऽनेकार्थत्वातुल्यार्थत्वमिति दर्शयति। ननु ठ्समर्थः पदविधिःऽइत्यादौ सम्बन्धार्थत्वं प्रसिद्धम्, सत्यम्; इह तु धात्वर्थ प्रति पारतन्त्र्यान्न परस्परेण सम्बन्धार्थत्वम् । धातुना चोपसर्गयोः सम्बन्धोऽव्यभिचारी, तस्मात्पूर्वोक्त एवार्थः। प्रक्रमते इति । आरभत इत्यर्थः॥ पदमञ्जरी अनुपसर्गद्वा॥ १।३।४३ ॥ अप्राप्तविभाषेयमिति। ठुपपराभ्याम्ऽ इत्यस्य नियमार्थत्वाद् वृत्यादिसूत्रमनुपसर्गविषयमेवेति न तत्रायं विकल्प इति भावः॥ पदमञ्जरी अपह्रवे ज्ञः॥ १।३।४४ ॥ शेषादित्यादि। असत्यस्मिन् सूत्रे अयमविशेष एव भवतीति भावः। सोपसर्गाश्चेति। तेन ठनुपसर्गाज् ज्ञःऽ इत्यनेन कर्त्रभिप्राये क्रियाफले न सिद्ध्यतीति भावः। उपजानीते इति । ठ्ज्ञाजनोर्जाऽ॥ पदमञ्जरी अकर्मकाच्च॥ १।३।४५ ॥ अकर्त्रमिप्रायार्तमिदमिति। अथ कर्त्रभिप्राये कथम्, तत्राह-कर्त्रभिप्रायो हीति। ननु सोपसर्गात्कर्त्रभिप्रायेऽप्यनेनैवात्मनेपदमेषितव्यम्--औषधस्यानुजानीते, औषधस्यानुजिज्ञासत इति; तस्मात्सर्पिषो जानीते इत्युदाहरणाभिप्रायमेतद्वेतव्यम्। कथं चायमकर्मक इति। ठ्सर्पिषःऽ इति कर्मणि शेषत्वेन षष्ठी, न माषाणामश्नीयादितिवत्। तेन सर्पिरादिना ज्ञेयेन सकर्मक इति मत्वा प्रश्नः। अकर्मकादिति किमिति। यदि सर्पिरादि करणत्वेन विविक्षितम्, तर्हि करणादिति वक्तव्यमित्यभिप्रायः। एवमुच्यमाने सकर्मकादपि स्यादेवेति दर्शयतिस्वरेणेति॥ पदमञ्जरी सम्प्रतिभ्यामनाध्याने॥ १।३।४६ ॥ उत्कण्ठास्मरणम् उत्कण्ठापूर्वकं स्मरणम्। मातुरिति। ठधीगर्थदयेशाम्ऽइति षष्ठी । ननु ठ्शेषऽ इति तत्रानुवर्तते, तेन कर्म शेषत्वेन विवक्षितव्यमिति अकर्मकत्वात्पूर्वेणात्रात्मनेपदप्रसङ्गः। ठनाध्यानेऽ इत्यस्य तु मातरं संजानातीति व्यावर्त्यं स्याद्यत्र कर्मतैव विवक्षिता, नैष दोषः; ठनाध्यानेऽइति विभज्यते, तेन पूर्वयोगस्यापि शेषो भविष्यति॥ पदमञ्जरी भासनोपसंभाषाज्ञानयत्नविमत्युपमन्त्रणेषु वदः॥ १।३।४७ ॥ भासनादिष्विति। अत्रापि किञ्चिद्धातोर्विशेषणम्, किञ्चिद्धात्वर्थस्य। उपसान्त्वनम् उ उपच्छन्दनम्, धातोः, भासनादि धात्वर्थस्य । भासमान इति । हेतौ लटः शानजादेशप्रयोगेण भासनं हेतुत्वेन विशेषणमित्याह । शिष्यैः स्तूयमानो भासते। तथा चोपर्युपरि शास्त्रार्थस्य प्रतिभासनात् सुष्ठुअ वदनं भवति, तेजोभङ्गे तु न शक्नुयाद्वदितुम्। जानाति वदितुमिति। ठ्शकवृषऽ इत्यादिना तुमुन्, अत्र वदत्यर्थो ज्ञानस्य विषयः, ज्ञानं विषयि। तद्विषयमित्यादि। अत्र यत्नस्याविष्करणरूपस्य वदत्यर्थस्य कर्म। विमतिपतिता इति हेतुगर्भविशेषणं प्रयुञ्जानो विमतिर्हेतुत्वेन विशेषणमित्याह। विमतौ हि सत्यां विचित्रभाषणरूपो वदत्यर्थो निवर्तते। उपच्छन्दयतीति। ठ्भद्रे भजस्व मास्, इदं ते दास्यामिऽ इति, स्वाभिलषिते प्रवर्तयतीत्यर्थः॥ पदमञ्जरी व्यक्तवाचां समुच्चारणे॥ १।३।४८ ॥ मनुष्याः प्रसिद्धा इति। यद्यपि कुक्कुटादिरुतमपिस्वरूपेम व्यक्तम्-अस्येदं रुतमस्येदमिति। मनुष्यवाक्तु व्यक्ततरा भवति, वर्णात्मकत्वाद्, अर्थावगतिहेतुत्वाच्च, अतस्त एव गृह्यन्ते। शुकशारिकादीनां तु पुरुषप्रयत्नवशेन क्वाचित्कं व्यक्तवाक्त्वम्, न स्वभाविकमिति ने तेषां ग्रहणम्। वरतनु सम्प्रवदन्ति कुक्कुटा इति। अपनय पादसरोजमङ्कतः, शिथिलय बाहुलतां गलाद्दताम्। क्व च वदनाअऽशुकमाकुलीकृतम्,॥॥॥इति पूर्वपादाः। क्व् चितु कृत्स्न एव श्लोकः पठ।ल्ते, तत्र वरतनुरिति बहुव्रीहौ यदि ह्रस्वन्तस्तनुशब्दः, ततः ठ्संबुद्धौ चऽ इति गुणप्रसङ्गः, दीर्घान्ते तु नदीलक्षणः कप् प्राप्नोति। केचिदाहः-तनुशब्दः स्त्रीजातौ कविभिः प्रयुज्यते, तस्माद् ठूणुतःऽ इति ऊइङ् कृते कर्मधारयोऽयमिति॥ पदमञ्जरी अनोरकर्मकात्॥ १।३।४९ ॥ व्यक्तवाचामिति वर्तत इति। न तु समुच्चारण इति सर्वानुवृतौ वचनमिदमनर्थकं स्यादिति भावः। तद्व्यक्तवाक्सम्बन्धिनो वदेरिति सूत्रार्थमाह--व्यक्तवाग्विषयादिदि। अनुः साद्दश्ये इति। तेन कलापस्येति तुल्यार्थयोगे शेषलक्षणा षष्ठीति भावः। यथेत्यादि। वदनमात्रसाद्दश्ये तात्पर्यमिति कर्म न विवक्षितमिति भावः। अनुवदति। पुनर्वदतीत्यर्थः॥ पदमञ्जरी विभाषा विप्रलापे॥ १।३।५० ॥ संवत्सरान् वदन्तीति सांवत्सराःउज्यौतिषिकाः। एवं मौहूर्तिकाः॥ पदमञ्जरी अवाद् ग्रः॥ १।३।५१ ॥ ठ्गिरःऽ इति पाठे धात्वनुकरणत्वाद् विभक्तावित्वम् । ठ्ग्रःऽइति तु पाठे रूपमात्रानुकरणं द्रष्टव्यम्। तस्य ह्यवपूर्वस्येति। नियतविषयाण्यपि क्रियाविशेषणानि भवन्ति, यथा--उर्यादयः कृभ्वस्तिभ्योऽन्यविषया न भवन्तीति भावः॥ पदमञ्जरी समः प्रतिज्ञाते॥ १।३।५२ ॥ प्रतिज्ञानमभ्युपगम इति । केचिदाहुः-"परोपदेशनिरपेक्षमात्मनैव विप्रतिपन्नस्य पक्षघ्य परिग्रहोऽभ्युपगमः, परेण प्रार्थितस्यार्थस्य नियमवचनम् ठेतावद्दास्यामिऽ इति, ठस्मिन्काले दास्यामिऽ इत्येवंरूपः प्रतिश्रवः। परेण युक्त्या साधितस्यार्थस्य सम्मान्नम्--समीचीनमुक्तमत्र भवतेत्येवं रूपमङ्गीकरणमिति, प्रतिज्ञासामान्यावान्तरभेदा एते, न तु पर्यायाः" इति। वृत्तिकारस्तु परस्परविषयोऽङ्गीकरणादिव्यहारदर्शनात् पर्यायत्वमेव मन्यते॥ पदमञ्जरी उदश्चरः सकर्मकात्॥ १।३।५३ ॥ उत्क्रम्येति उल्लङ्घयेत्यर्थः। उच्चरतीति उपरिष्टद् गच्छतीत्यर्थः॥ पदमञ्जरी समस्तृतीयायुक्तात्॥ १।३।५४॥ विभक्तिर्गृ ह्यते इति । तत्रैव तृतीयाशब्दस्य मुख्यत्वात् । यद्येवम्, तया सह धातोः सम्बन्धो न भवति; न हि तृतीया धातुवाच्या, नापि धातुस्तृतीयान्त इत्यत आह-तयेत्यादि। तृतीयार्थेन धात्वर्थस्य योगादौपचारिको धातोस्तृतीयायोग इत्यर्थः। यद्यप्यत्रेति। न हि चेष्टारूपसञ्चरणमन्तरेम करणं सम्भवति, अतोऽश्रुतेऽपि करणपदे तपसा श्रुतेन वेति गम्यमानत्वातदर्थयोगस्य सम्भवः। तृतीया त्विति। एतदर्थमेव हि पूर्वमुक्तम्--विभक्तिर्गृ ह्यत इति। तृतीयायुक्तादिति वाऽनर्थकं स्तात्। यदि तदर्थयोगः स्यात्, सर्वत्रैवं तदर्थभावादिति भावः॥ पदमञ्जरी दाणश्च सा चेच्चतुर्थ्यर्थे॥ १।३।५५ ॥ वक्तव्यमेवैतदिति। सूत्रे चेच्छब्दश्चशब्दश्चार्थे, अनेकार्थत्वान्निपानामिति। केचिद्-दाणस्तृतीयायुक्तादात्मनेपदं भवति, सा च तृतीया चतुर्थ्यवेदितव्याचक्षते; एवमपि ठशिष्टव्यवहारेऽ इति वक्तव्यमेव, अशिष्टानां सङ्कीर्णाचाराणां यो व्यवहार आचारः तस्मिन्नित्यर्थः। दास्या सम्प्रयच्छत इति । यो दास्या सह भुञ्जानस्तया दतं स्वयं च तस्यै ददाति तद्विषयोऽयं प्रयोग इत्याहुः। कथमात्मनेपदमिति। न कथञ्चित्, ठ्तस्मादित्युतरस्यऽ इत्यत्र निर्दिष्टग्रहणस्यानन्तर्यार्थत्वादिति भावः। विशेषणषष्ठीति । एवं च पूर्वसूत्रेऽप्यश्वेन समुदाचरत इत्यादावपि भवितव्यम्॥ पदमञ्जरी उपाद्यमः स्वकरणे॥ १।३।५६ ॥ इह स्वस्य सतो रूपान्तरेण यत्करणं तत्स्वकरणमिति न गृह्यते, किं तर्हि? यदाऽस्वं स्वं करोति तदा भवितव्यम्, च्विप्रत्ययस्तु विकल्पितत्वान्न भवति। पाणिग्रहणविशिष्टमिति। पाणिग्रहणं नाम कश्चित्कन्यासंस्कारस्तद्विशिष्टमित्यर्थः। भाष्ये तु-अस्वस्य सतः स्वत्वापादनमेव स्वकरणमित्युक्तम्। भट्टिकाव्येऽपि तदनुगुणः प्रयोगः- उपायंस्त महास्त्राणि, उपायंसत नासतम्, नोपायंस्त दशानन इति। देवदतो यज्ञदतस्य भार्यामुपयच्छति, यज्ञदतसम्बन्धिनीं भार्यां दास्यादिरूपेण स्वीकरोतीत्यर्थः। पाणिग्रहणाभावाद् वृत्तिकारमते युक्तं प्रत्युदाहरण्, भाष्यकारमते त्वत्रापि भवितव्यम्॥ पदमञ्जरी ज्ञाश्रुस्मृकद्दशं सनः॥ १।३।५७ ॥ श्रुद्दशोरपौति। श्रुवः सूत्र एव निर्देशाद् द्दश उपसंख्यानात्॥ पदमञ्जरी नानोर्ज्ञः॥ १।३।५८ ॥ पूर्वेणेति। अनन्तरसूत्रेण यत्प्राप्तं तत्प्रतिषिध्यते, कुत एतत्? ठनन्तरस्य विधिर्वा भवति प्रतिषेधो वाऽ इति। तथा चेति। अनन्तरस्य प्रतिषेध इत्युक्तम्, एवं सति सकर्मकस्यैवायं प्रतिषेधः सम्पद्यते, अनन्तरयोगस्य सकर्मकविषयत्वाद्, अकर्मकाविषयत्वाद् ठकर्मकाच्चऽ इति प्रागेव विहितत्वात्। तेनाकर्मकात् ठ्पूर्ववत्सनःऽ इत्यात्मनेपदं भवत्येव-औषधस्यानुजिज्ञासत इति। औषधेन प्रवर्तितुमिच्छतीत्यर्थः॥ पदमञ्जरी प्रत्याङ्भ्या श्रुवः॥ १।३।५९ ॥ उपसर्गग्रहणं चेदमिति। परस्परसाहचर्यात्। देवदतं प्रतीति। ठ्लक्षणेत्थंभूतऽ इत्यादिना प्रतिः कर्मप्रवचनीयः, नोपसर्गः॥ पदमञ्जरी शदेः शितः॥ १।३।६० ॥ यद्यत्र शदेः परो यः शित्, तत आत्मनेपदं भवतीत्येवं व्यधिकरणे पञ्चम्यावाश्रित्य व्याख्यायेत, ततोऽपि विकरणे सत्यनेन विधिना भवितव्यम्। सार्वधातुके च परतो विधीयते, ततश्च प्रागेवास्मद्विधेः सार्वधातुकं भवच्छेषत्वत्परस्मैपदं स्यात्, तस्मिंश्च सति तन्निमिते शिति विकरणे कृते परस्मैपदस्य निवृत्तिर्न सिद्ध्येत्। न हि निर्वृतस्य निर्वृत्तिर्वचनशतेनापि शक्यते कर्तुमिति-इमं व्यधिकरणपक्षे दोषं द्दष्ट्वा सामानाधिकरण्ये पञ्चम्याविति दर्शयन्नाह-शदिर्यः शिदिति। कथं पुनः शदिः शिद्भवती, विकरणे हि शकार इद् भवति, तत्राह-शिद्भावीति । शिद्भावी यस्मात् स तथोक्तः। शिद्भावित्वाद् उपचारेण शदिरेव शिदित्युक्तमित्यर्थः। शितो वा सम्बन्धीति । ठ्शितःऽ इत्यस्य षष्ठ।ल्न्ततां दर्शयति। कश्च शदिः शितः सम्बन्धी? यस्तस्य प्रकृतिः। प्रागेव च शिदुत्पत्तियोग्यतया तत्प्रकृतित्वमस्त्येव । शीयत इति । पाघ्रादिसूत्रेण शीयादेशः॥ पदमञ्जरी म्रियतेर्लुङ्लिङेश्च ॥ १।३।६१ ॥ लुङ्लिङेः इति स्थानषष्ठीयम्, विषयसप्तमी वा। नियमार्थमिति। यदि नियमः क्रियते, ङ्त्किरणं किमर्थम्, यावताऽप्राप्ते विधिरवास्तु? इह मा हि मृतेति लुङ् ठ्तास्यिनुदातेत्ऽ इति ङ्ल्लिक्षणः सार्वधातुकनिघातो यथा स्यात्। तिङ्निघातोऽत्र ठ्हि चऽ इति प्रतिषिद्धः॥ पदमञ्जरी पूर्वत्सनः॥ १।३।६२ ॥ पूर्ववदिति। ठ्तेन तुल्यम्ऽ इत्यादिना तृतीयचान्ताद्वतिः, न पञ्चम्यन्तात्; लक्षणाभावात् । यथा च ब्राह्यणेन तुल्यं वैश्यादधीत इत्युक्ते ब्राह्मणादिवद् वैश्यादधीते इति पञ्चम्यर्थो गम्यते, तथेहापि पूर्वस्मादिव सनन्तादप्यात्मनेपदमित्यर्थो लभ्यते। ठ्तुल्यार्थैःऽ इति हि तृतीया सर्वविभक्त्यर्थानन्तर्भावयति। यदि सनः पूर्वो यो धातुरिति। एतेन ठ्सनःऽ इति पूर्वस्यावधिनिर्देशः।, न त्वात्मनेपदापेक्षया परपञ्चमीति दर्शयति। यद्येवम्, सनन्तादात्मनेपदमिति न लभ्येत, ठ्सनःऽ इत्यस्य सकृच्छ्४%अतस्यावधिनिर्देशेनोपक्षीणत्वाद्, अत आह-तद्वत्सनन्तादपीति। अवधित्वेनापि तावत्सनः श्रुतत्वात् प्रत्यासत्या तदन्तादेव विधिर्विज्ञायत इति भावः। अथैवं कस्मान्न विज्ञायते सनन्तादात्मनेपदं भवति, पूर्ववदिति श्रौतोऽन्वयः, तत्र कुतः पूर्ववदित्यपेक्षायां सन्निहितत्वात्सन एव पूर्ववदिति विज्ञास्यत इति ? एवं मन्यते-एवं विज्ञायमानेऽयमेव योगः पूर्वस्यावधिः सम्भाव्येत, यथा-ठ्पूर्वत्रासिद्धम्ऽ इत्यत्र तत एव योगात् पूर्वत्रेति। ततश्चायमर्थः स्याद्-ठनुदार्तङ्तिःऽ इत्यारभ्येतः पूर्वं ये धातवो निर्दिष्टास्तेभ्यः सनन्तेभ्यस्तद्वदेवात्मनेपदं भवतीति, ततश्चोतरो विधिः सनन्तान्न स्यात्-ठ्भुजोऽनवनेऽ,बभुक्षत इति,तस्मात्सनः पूर्ववदित्येव श्रौतोऽन्वय एष्टव्य इति। यद्ययं कार्यातिदेशः शास्त्रातिदेशो वा विज्ञायेत, तदा सन्प्रकृतौ प्रयोगान्तरे द्दष्टमित्येव निमितनिरपेक्षं कार्यं शास्त्रं वातिदिश्यमार्नीमहाप्यतिदिश्येत-शिशत्सति, मुमुर्षति; शीयते, म्रियते इत्यत्र द्दष्टत्वादिति मतेऽनयोः पक्षयोर्दोषं द्दष्ट्वा निमितातिदेशमाश्रित्याह-येन निमितेनेति। निमितस्य तुल्यत्वातद्द्वारकं यदात्मनेपदाविधेस्तुल्यत्वं तदाश्रीयते इत्यर्थः। पूर्वमिति। सनुत्पतेः प्राक् प्रयोगान्तर इत्यर्थः। पूर्वस्मादिति युक्तः पाठः, तथा च सनन्तादपीति सङ्गच्छते। यद्यपि प्रकृतिगतं ङ्त्वाइदिकं सनन्ते धातौ वचनशतेनापि प्रापयितुमशक्यम् निमितं भवतीत्यतिदेशार्थः, तावता च निमितातिदेशवाचोयुक्तिः। आसिसिषत इति । इटि कृते ठजादेर्द्वितीयस्यऽ इति सिशब्दस्य द्विर्वचनम्। निविविक्षत इति।ठ्हलन्ताच्चऽ इति सनः कित्वम्, व्रश्चादिषत्वम्, ठ्षढोः कः सिऽ। आचिक्रंसत इति । आङ् आत्मनेपदनिमितत्वात् ठ्स्नुक्रमोःऽ इतीड् नैव भवति। निमितातिदेशाश्रयणस्य फलमाह-इहेति। कारणमाह-न हीति । शिदाद्यपीति। शिद्भावित्वादिकमपीत्यर्थः। आदिशब्देन लुङ्लिङेर्ग्रहणम्, तच्चेह नास्ति। कृते सनि तदन्तमेव शिद्भावि, न शदिम्रियतिभ्यात्। शिशयिषत इत्यादौ तु कृतेऽपि सनि तदानीमपि ङ्त्वाइदिकं प्रकृतिगतं विद्यत इति भावः। यदि तर्हि निमितातिदेशः, अनुचिकीर्षतीत्यत्रापि प्रसङ्गः; गन्धनादेरर्थस्य ङ्त्विस्य चात्मनेपदनिमितस्य सन्यपि परस्मैपदे निमितत्वात्। कार्यातिदेशे तु न दोषः;ठनुपरभ्यां कृञःऽ इति परस्मेपदेनापवादेनात्मनेपदस्य बाधितत्वादत आह--यस्य चेति । न योग्यतामात्रेण निमितत्वम्, किं तर्हि? कुर्वद्रूपस्येति स्नुक्रमोरित्यत्र वक्ष्यत इति भावः। यदि कुर्वद्रूपं निमितम्, जुगुप्सत इत्यादौ कथम्, न ह्यत्र प्रकृतिगतमनुदातेत्वं तत्रात्मनेपदं कदाचिदपि करोति नित्यसनत्वाद् गुपादीनामत आह--इहेत्यादि। न वात्रानेनात्मनेपदम्, किं तर्हि? ठनुदातङ्तिःऽ इत्यनेनेत्यर्थः। कथं पुनः समुदायस्य जुगुप्सादेरनुदातेत्वमत आह--अवयव इति। अवयवे ह्यचारितार्थं लिङ्गं सामर्थ्यात्समुदायस्य विशेषकं भवति। यद्येवम्, गोपयति तेजयतीत्यदावपि प्रसङ्गः। अथ यं समुदायं योऽवयवो न व्यभिचरति, तत्र कृतं लिङ्गं तस्य विशेषकं भवति; णिजन्तं च व्यभिचरति, विनापि तेन जुगुप्सत इति गुपेः प्रयोगादित्युच्येत। वक्तव्यो वा विशेषः, अयमुच्यते-ठ्गुप गोपनेऽ इत्यस्य सन्विधौ ग्रहणम्, तस्माच्च नित्यं सनेव भवति, नापरः प्रत्ययः प्रत्ययः। गोपायतीत्यादिकस्तु प्रयोगः ठ्गुपू रक्षणेऽ इत्यस्य, स चान्य एव। अवश्यञ्चैतदेवं विज्ञेयम्-अन्य एव सन्प्रकृतिः तस्माच्च सनेव भवतीति; अन्यथा निन्दाया अन्यत्र यथा णिज् भवति तथा लङदिरपि स्यात्। एवं तिजिप्रभृतयोऽपि, क्षमाद्यर्थे यत्र सन्निष्यते तत्रानुदातेतो नित्यसनन्ताश्च; क्षमादिभ्योऽन्यत्र तु तत्र णिजिष्यते तत्राननुबन्धका एव चुरादौ पठितव्याः॥ पदमञ्जरी आम्प्रत्ययवत्कृञोऽनुप्रयोगस्य ॥ १।३ ६३ ॥ नन्वामन्तस्याधातुत्वादद्दष्टमात्मनेपदम्, तत्कथं कृञोऽतिदिश्यते? स्यादियमनुपपतिः, यदि प्रत्ययग्रहणं न क्रियते, कृतेऽपि वा तस्मिन् प्रत्ययग्रहणे कर्मधारयस्तद्गुणसंविज्ञानो वा बहुव्रीहिराश्रीयेत; इह त्वतद्गुणसंविज्ञानो बहुव्रिहिः,धातुरन्यपदार्थस्तदाह--आम्प्रत्ययो यस्मादिति। विग्रहः समुदायः समासार्थ इति, आम् प्रत्ययो यस्येति वग्रहः स्यात्; प्रतियोगिनि षष्ठीनिर्देशात्, ठ्तत्र तस्यऽ इति षष्ठ।लन्ताद्वतिरित्याह--आम्प्रत्ययस्यैवेति कृञोऽनुप्रयोगस्येति। समानाधिकरणे षष्ठयौ। अनुप्रयोगशब्दः कर्मसाधनः। ईक्षाञ्चक्र इति ।ठीक्ष दर्शनेऽ ठीह चेष्टायाम्ऽ लिट्, ठिजादेश्चऽ इत्याम्, ठामःऽ इति लेर्लुक्। ठकर्त्रभिप्रायार्थोऽयमारम्भःऽ इति ब्रुवता विध्यर्थमेवैतदित्युक्तम्। तत्र दोषमुद्भावयितुमाह--यदीति। किं पुनः कारणं विध्यर्थत्वमङ्गीकृत्य तदनुगुणो दोष उद्भाव्यते, न पुनर्नियमार्थत्वमङ्गीकृत्य तदनुगुणो दोष उद्भाव्येत? सत्यम्; अकर्त्रभिप्राये याचयाञ्चक्रे, उब्जाञ्चकारेति प्राप्ते आम्प्रत्ययवदेव, तत्र विधिनियमसम्भवे विधिरेव ज्यायान्, तस्मादेवमुच्यते--ठुब्ज आर्जवेऽ, ठुन्भ पूरणेऽ। उभयमित्यादि परिहारः। कथमिति। नैकेनैव यत्नेनोभयं लभ्यमिति भावः। ईक्षाम्बभूवेति। ठ्भवतेरःऽ ठ्भुवो वुग् लुङ्लिटोःऽ। कथं पुनरिति। ठ्कृञःऽ इत्यत्र स्वरूपग्रहणं मन्यमानस्य प्रश्नः। प्रत्याहारग्रहणमिति। यदि तत्र स्वरूपग्रहणं स्याद्, इह कृञ्ग्रहणमनर्थकं स्याद्; अन्यस्यानुप्रयोगस्याभावादिति भावः। अत एव विपर्ययोऽपि न भवति-तत्र स्वरूपग्रहणं स्याद् इहि प्रत्याहारग्रहणमिति, इह हि प्रत्याहारग्रहणे भ्वस्त्योरप्यात्मनेपदविधिः प्रयोजनम्। यदि चानुप्रयोगविधिना कृञ् एवानुप्रयुक्तः स्यात्, तदा भ्वस्त्योरनुप्रयोगाभावादात्मनेपदविधिरनुपपन्नः स्यात्। तस्मादिह स्वरूपग्रहणम्, आमनुप्रयोगविधौ प्रत्याहारस्येति सिद्धम्। ठभिविधौ सम्पदा चऽ इति सम्पदोऽपि तत्रान्तर्भावादनुप्रयोगः प्राप्तः ठ्सनाद्यन्ता धातवःऽ इत्यतो धात्वधिकाराद्धातूपसर्गसमुदायस्य न भवति। योऽत्र धातुस्तस्यापि न भवति; अर्थविप्रतिषेधादिति तत्रैव वक्ष्यामः॥ पदमञ्जरी प्रोपाभ्यां युजेरयज्ञपात्रेषु॥ १।३।६४ ॥ प्रोपाभ्यां युजेरयज्ञपात्रेषु॥ युजिर्योगे इति । ठ्युज समाधौऽ इत्यस्य,न दैवादिकस्य, अनुदातेत्वादेव सिद्धम्, युजरिति च विवक्षित इकारः, न त्वागन्तुकः। यज्ञपात्रविषयता चास्यैव सम्भवतीति भावः। प्रयुङ्क्त इति। ठ्रुधादिभ्यः श्नम्ऽ ठ्श्नसोरल्लोपःऽ कुत्वचर्त्वे, अनुस्वारपरसवर्णौ। स्वराद्यन्तोपसृष्टदिति। स्वरःउअ इ, आदिरन्तो वा यस्य स स्वराद्यन्तः। तेनोपसर्गेण सम्बन्धः, स्वराद्यन्तोपसृष्टः- सम् निस् दुस् इत्येतान् वर्जयित्वा सर्व एवोपसर्गास्संगृहीताः॥ पदमञ्जरी समः क्ष्णुवः॥ १।३।६५ ॥ इह ठ्शर्परे विसर्जनीयःऽ इत्यस्यावकाशो यत्र कुप्वोरसम्भवः-पुरुषः त्सरुकः; ठ्कुप्वोःः कः पौ चऽ इत्यस्य यत्र शर्परौ कुपू न सम्भवतः- पुरुषः करोतीति; शर्परयोरुभयोः प्रसङ्गे पूर्वत्रासिद्धे नास्ति विप्रतिषेधोऽभावादुतरस्येति ठ्शर्परे विसर्जनीयःऽ इति नित्यं विसर्जनीय एव भवति । तेन ठ्समः क्ष्णुवःऽ न कर्तव्यमिति भावः। संक्ष्णुवत इति। अदादित्वाच्छपो लुक्, ठात्मनेपदेष्वनतःऽ इति झस्यादादेशः,ठचि श्नुधातुऽइत्यादिनोवङ्॥ पदमञ्जरी भुजोऽनवने॥१।३।६६ ॥ अनवनप्रतिषेधेनेत्यादि। संसर्गवद्विप्रयोगोऽपि विशेषस्मृतिहेतुः। यथा दोग्ध्रीपर्यायो धेनुशब्दः संसर्गिभिः विशेषेऽवस्थाप्यते--सवत्सा धेनुरानीयतां सकिशोरा सवर्करेति, तथाऽवत्साऽकिशोराऽवर्करेति। यस्या आनयने द्दष्टः संसर्गः सैव तत्र गृहीता आनीयते; तद्वदिहापीत्यर्थः॥ पदमञ्जरी णेरणौ यत्कर्म णौ चेत्स कर्तानाघ्याने ॥ १।३।६७ ॥ अत्र ठ्णेःऽ इति यद्यपि सामान्यनिर्देशः,तथापि पुच्छभाण्डादिणिङ् न गृह्यते; अणौ कर्मणो णावसम्भवात्, कमेर्णि ङ्स्तुठायादय आर्द्धधातुके वाऽ इति वचनादण्यन्तावस्था सम्भवति। कर्मणश्च कर्तृत्वम्--कमिष्यते योषितं देवदतः कामयिष्यते योषित्स्वयमेवेति, तथापि ङित्वादेवि सिद्धे सोऽपि न गृह्यत इति णिच एव ग्रहणमित्याह--णिचश्चेति कर्त्रभिप्राये क्रियाफले सिद्धमेवात्सनेपदमिति। अकर्त्रभिप्रायार्थ इति। उपलक्षणमेतत्, कर्त्रभिप्राये पदान्तरेण द्योतिते ठ्विभाषोपपदेन प्रतीयमानेऽ इति विकल्पं बाधित्वा नित्यो विधिर्यथा स्यादित्यपि द्रष्टव्यम्। अत्रैकवाक्यतायामयमर्थो भवति--ण्यन्तादात्मनेपदं भवत्यण्यन्तावस्थायां यत्कर्म ण्यन्तावस्थायां यदि स कर्ता भवति आध्यानादन्यत्रेति। तत्र कर्मान्तरनिवृत्तिर्न कृता स्यात्, ततश्चेहापि प्रसज्येत--आरोहन्ति हस्तिनं हस्तिपकास्तानारोहयति हस्तीति। किं च उक्तेऽर्थे ठ्णेरणौ कर्मणिऽ इत्येतावदेव वाच्यम्; कर्तरीत्येव ण्यन्तादात्मनेपदं भवति, ठणौ कर्मणि कर्तरिऽ इत्युक्ते को नाम विवक्षितोऽर्थो न सिद्ध्यति। ठ्सःऽ इत्येतच्चानर्थकम्; यतदोर्नित्यसम्बन्धादेवाध्याहारतः सिद्धेः। तस्माद्यथाश्रुतमात्रं न विवक्षितमिति मत्वा पृच्छति--कथमिति। इतरोऽपि वाक्यभेदाश्रयणेन परिहरति--अणौ यत्कर्मेत्यादि। णेरात्मनेपदं भवति आध्यानादन्यत्रेत्येकं वाक्यम्, ततोऽणौ यत्कर्मेति द्वितीयम्। अत्र वाक्ये यतदोर्नित्यसम्बन्धाद्यच्छब्देन तच्छब्द आक्षिप्यते। कर्मान्तरस्य चानिर्देशाद् उद्देश्यतयापि श्रुतं कर्मत्वमेव विधीयते। तच्च विधीयमानं सामर्थ्याण्णोरिति सन्निहितत्वाण्णयन्तावस्थायामेव विधीयते । किं तत्सामर्थ्यम्? अणौ यत्कर्मेत्यनुवादसामर्थ्यादेवाणौ कर्मत्वसिद्धेस्तत्रैव तद्विधानस्यासम्भवः। तदेवमणौ यत्कर्मेत्येतावत एवाणौ यत्कर्म णौ चेतत्कर्मेत्यर्थो भवति। अनेन च कर्मान्तरनिवृत्तिः क्रियते, न त्वणौ कर्मणो णौ कर्मभावः प्रतिपाद्यते। स कर्तेति वाक्यान्तरेण तस्य कर्तृत्वप्रतिपादनात् एकस्य युगपदेकस्यां क्रियायां कर्मत्वकर्तृत्वयोरुभयोरसम्भवात्। ततो णौ चेदिति तृतीयं वाक्यम्--अणौ यदित्येव, अणौ यत्प्रतिपाद्यं वस्तु णौ चेतदेव प्रतिपाद्यमित्यर्थः। ततः स कर्तेति चतुर्थम्। अत्राणौ यत्कर्म णौ चेदिति सर्वमनुवर्तते। ठनाध्यानेऽ इत्येतदपि प्रसज्यप्रतिषेधे पञ्चमं वाक्यम्। तत्र वृत्तिकारेण त्रीणि वाक्यानि स्ववाचा दर्शितानि-ण्यन्तादात्मनेपदं भवतीत्येकं वाक्यम्, अणौ यत्कर्म णौ चेतदेव कर्मेति द्वितीयम्, स एव कर्ता भवतीति तृतीयम्।ठ्णौ चेद्ऽ ग्रहणं समानक्रियार्थमिति तु वक्ष्यति, अतस्तदपि वाक्यमभ्युपगतमेव। आरोहन्तीत्यादि। अणौ कर्मप्रदर्शनार्थमिदमुक्तम्, इदं तत्रोदाहरणम्--आरोहयते हस्ती स्वयमेवेति। आङ्पूर्वो रुहिः न्यग्भवनोपसजंने न्यग्भावने वर्तते, न्यग्भवन्तं हस्तिनं न्यग्भवयतीत्यर्थः। यदा तु हस्तिनः सौकर्यातिशयप्रतिपादनाय हस्तिपकव्यापारो न विवक्ष्यते, तदा न्यग्भवमात्रे रुहिर्वर्तते, तत्र च हस्तिनः कर्तृत्वम्। उक्तं च-- निवृतप्रेषणं कर्म स्वक्रियावयवे स्थितम्। निवर्तमाने कर्मत्वे स्वकर्तृत्वेऽवतिष्ठते॥ इति अस्य च कर्तुः कर्मस्थक्रियेषु कर्मकार्याण्यतिदिश्यन्ते-ठ्कर्मवत्कर्मणातुल्यक्रियःऽ इति, तद्यथा-लूयते केदारः स्वयेवेति। लुनातिर्हि द्विधाभवनोपसर्जने द्विधाभावने वृतः कर्तृव्यापाराविवक्षायां द्विधा भवनमात्रे वर्तते। दुहिस्तु कर्तृस्थक्रियत्वात् कर्मकार्याणि न लभत इत्येतावत्। ततो न्यग्भवनवृते रुहेर्हस्तिपकव्यापारे णिजुत्पद्यते, तदा च य एवार्थ आरोहयन्ति हस्तिनं हस्तिपकाः, स एवार्थ आरोहयन्ति हस्तिपका इति । पुनः सौकर्यातिशयविवक्षायामविवक्षिते हस्तिपकव्यापारे न्यग्भवनमात्रे रोहिर्वर्तते-आरोहयते हस्ती स्वयमेवेति। सुष्ठुअ न्यग्भवतीत्यर्थः। उक्तं च- न्यग्भावनं न्यग्भवनं रुहौ शुद्धे प्रतीयते। न्यग्भावनं न्यग्भवनं ण्यन्तेऽपि प्रतिपद्यते॥ अवस्थां पञ्चमीमाहुर्ण्यन्तानां कर्मकर्तरि। निवृतप्रेषणाद्धातोः प्राकृतेऽर्थे णिजुच्यते॥ इति। एवं सिञ्चतेरप्यार्द्रीभवनोपसर्जनमार्द्रीभावनमर्थः। ततो निवृतप्रेषणमित्यादि पूर्ववत्। सेचयते हस्ती स्वयमेव, सेचनेऽत्यन्तमनुकूलो भवतीत्यर्थः। एवं द्दशिरपि कर्मव्यापारमात्रवृत्तिः,णिजुत्पन्ने पुनस्तत्रापरोऽपि, तदुदाहरणम्-दर्शयते राजा स्वयमेव, दर्शनेनानुकूलो भवतीत्यर्थः। सोऽयं निवृतप्रेषपक्ष उच्यते। अपरः प्रकारः-आरोहन्ति हस्तिनं हस्तिपकाः, तान् सौकर्यातिशयाद्धस्ती प्रयुङ्क्ते इति; हस्तिव्यापारे णिजुत्पद्यते-आरोहयति हस्ती हस्तिपकानिति। तत्र सौकर्यातिशयप्रतिपादने तात्पर्यमिति कर्म न विवक्ष्यते, ततोऽकर्मको भवति; यथा-नेह पच्यते, नेह भुज्यते इति पाकमात्रप्रतिषेधे तात्पर्यमिति कर्माविवक्षायां भावे लो भवति-आरोहयते हस्ती स्वयमेव, सुष्ठुअ न्यग्भवतीत्यर्थः। एष एव हि हस्तिनः प्रयोजकव्यापारः। एवमितरयोरपि द्रष्टव्यम्। सोऽयमध्यारोपितप्रेषणपक्ष इति गीयते। तदेवमुभयोरपि पक्षयोः सैव क्रिया, याऽण्यन्तावस्थायाम्। न च कर्मान्तरमस्ति, कर्तापि स एवेत्युदाहरणोपपतिः। स्वयमिति वचनं कर्त्रन्तरव्युदासार्थम्। णेरिति किमिति। अणौ कर्मत्वानुवादेन णौ कर्तृत्वविधानात् प्राधान्याण्ण्यन्तादेव भविष्यतीति प्रश्नः। साध्वारोहतीति। साघु न्यग्भवतीत्यर्थः। अत्र कर्मव्यापारमात्रे रुहिर्वर्तते, कर्तृस्थक्रियत्वातु कर्मवद्भावाभावाद्यगात्मनेपदे न भवतः, शप्परस्मैपदे भवतः, अणौ यत्कर्मेत्यण्यन्तावस्थायामपि श्रुतत्वाततोऽपि स्यादिति भाव। ननु प्राधान्याण्ण्यन्तादेव भविष्यतीत्युक्तम्, किमर्थमणौ यत्कर्म णौ चेत्स कर्तेति? अयमुपाधिर्यस्मिन्नेव प्रयोगे संभवति, तत्रैवात्मनेपदं युक्तम्, साध्वारोहतीत्यत्र च नायं प्रकारः सम्भवति। आरोहयते हस्तीत्यत्र तु णिचः प्रकृतिभूते रुहावण्यन्ते यत्कर्म ण्यन्ते स एव कर्तेति तत्रैव भविष्यति, सत्यम्; तदेवमुतरार्थमवश्यं णेरिति वक्तव्यमिहापि विस्पष्टार्थं भविष्यतीति मन्यते। अणाविति किमिति। कर्मत्वकर्तृत्वयोर्यौगपद्यासम्भवात् णौ च कर्तृत्वस्य श्रुतत्वादवस्थान्तरे णावेव कर्मत्वं विज्ञास्यत इति प्रश्नः। गमयतीति। ठ्गणसंख्यानेऽ चुरादावदन्तः पठ।ल्ते, अतो लोपस्य स्थानिवद्भावाद् उपधावृद्ध्यभावः। गण्यमानो गणो यदा गणनक्रियायामानुकूल्यं प्रतिपद्यते, तदा तद्व्यापारमात्रवृतेर्हेतुमण्णिचि पुनः कर्मव्यापारमात्रे आरोपितस्यैवायं प्रयोगः। गणयति गणः स्वयमेवेति। अत्र णावेव गणेः कर्म, णावेव कर्ता इत्यात्मनेपदं न भवति। कर्मवद्भावेनापि न भवति; कर्तृ स्थक्रियत्वात्। गणनं हि संख्यानिमितः परिच्छेदो ज्ञानविवेषः। भाष्ये तु भागशोऽवस्थापने गणिर्वर्तते। भागशोऽवतिष्ठमानं गणं गोपालकोऽवस्थापयतीत्यर्थमङ्गीकृत्य तत्रानुकूलत्वाद् गणस्यैव कर्तृ त्वविवक्षायामस्ति कर्मस्थभावकत्वमिति कर्मवद्भावादात्मनेपदमुदाहृतम्। ननु चाणावकर्मकादित्यत्र वक्ष्यति-ठ्हेतुमण्णिचो विधिःऽ इति, प्रतिषेधोऽपि प्रत्यासतेस्तस्यैव न्याय्य इति, तच्चेत्, सत्यम्; इदमपि प्रत्युदाहरणमयुक्तमेव, उच्यते-युक्तं तत्र हेतुमण्णिचो विधिरिति; तत्र बुधादिसूत्रे ठ्णःऽ इति वर्तते, बुधादिभ्यश्च हेतुमण्णिजेव सम्भवति। इह तु सामान्येन ग्रहणं विशेषहेत्वभावात्। ननु चाणौ यत्कर्मेत्युच्यते चुरादीनां च नित्यण्यन्तत्वात्केवलानां प्रयोगाभवाद् अणौ कर्मणोऽसम्भवाद् अत्रापि हेतुमण्णिच एव विधिः, नेत्याह; ठा धृषाद्वाऽ इति विभाषितणिचामपि केषाञ्चित्सम्भवात्। भाष्ये तु हेतुमण्णिचो विधिरिति स्थितम्। लावयति दात्रं स्वयमेवेति। करणस्य दात्रस्यापि तैक्ष्ण्यातिशयेन लवने यदानुकूल्यं तत्प्रतिपादनाय लावकान्प्रति प्रयोजकत्वविवक्षायां णिच्। इह ण्यन्तादात्मनेपदं भवत्यणौ यत्कर्म स चेत्कर्तेत्युक्ते गम्यत एतद्यस्माद् ण्यन्ताद्विधिः तत्रैवाण्यन्ते यत्कर्म स चेत्कर्तेति, अतो णौ चेद्ग्रहणमर्थकम्, तत्राह-णौ चेद्ग्रहणं समानक्रियार्थमिति। प्रयोज्यप्रयोजकभावलक्षणेऽपि क्रियाभेदे मा भूत्, णिच्प्रकृत्यर्थभूतायामेव क्रियायां यथा स्यादित्यर्थः। यथा पुनरयं शब्दार्थस्तथोक्तं पुरस्तात्। आरोहयमाणो हस्ती भीतान् सेचयति मूत्रेणेति। येन प्रयोज्यप्रयोजकभावलक्षणेऽपि क्रियाभेदे आत्मनेपदं वार्यत एवानेन धातुभेदादत्यन्तभेद इति मत्वैतत्प्रत्युदाहृतम्, भीताश्चात्रारोहयतेः कर्म। आरोहयमाण इति। ठ्णिचश्चऽ इत्यात्मनेपदं शानच्, भीता ह्यारेह्यमाणा भीत्या मूत्रयन्ति, तेन हस्ती सिच्यते। कर्माविवक्षायां तु सेचयतेरकर्मकत्वम्। उद्देशप्रतिनिर्देशात् लब्धे यत्सग्रहे पुनस्तद्ग्रहो वाक्यभेदेन कर्मान्तरनिवृतये इत्याह-यत्सग्रहणमनन्यकर्मार्थमिति। स्थलमारोहयति मनुष्यानित्यत्र कर्मान्तरमप्यस्ति मनुष्याः, रुहेर्गत्यर्थत्वान्मनुष्याणां कर्मसंज्ञा। कथं पुनरत्राणौ कर्मणो णौ कर्तृत्वम्,यावता स्थलमणौ कर्म हस्ती तु णौ कर्ता? स्यादेततारोहयमाण इत्यत्राणौ कर्मणो हस्तिन एव कर्तृ त्वम्, स एव च स्थलमारोहयतीत्यत्रापि कर्तेति। एवमपि प्रत्यासतेरेवात्र न भविष्यति, तथा हि ण्यन्तादात्मनेपदं भवति। अणौ यत्कर्म णौ चेत् स कर्तेत्युक्ते प्रत्यासतेरेतद् गम्यते-येन णिचा ण्यन्तादात्मनेपदं विधित्सितं तेनैव णिचाऽण्यन्ते तत्प्रकृतिभूते धातौ यत्कर्म स एव चेत्कर्ता तस्मिन्नेव ण्यन्त इति। अत्र च यत्रायमुपाधिः, कृतमेव तत्रात्मनेपदम्-आरोहयमाण इति। यत्रतु न कृतम्-स्थलमारोहयतीति, न तत्रायमुपाधिरिति नैवात्मनेपदप्रसङ्गः। इह तर्हि-आरोहन्त हस्तिनं हस्तिपकाः, तानारेहयति हस्तीति? किं पुनरत्र नेष्यते? वृत्तिकृता नेष्यते, भागवृत्तिकारेण त्विष्यते। तथा माघः प्रयुङ्क्ते-ठ्करेणुरारोहयते निषादिनम्ऽ इति। कतेति किमिति। भावकर्मणोः सिद्धत्वात् कर्तर्येव भविष्यतीति मन्यते। अणौ यत्कर्म तस्मिन्नेव कर्तरि यथा स्यात्, कर्त्रन्तरे मा भूदित्येवमर्थं कर्तृग्रहणमिति दर्शयन्नाह-तानारोहयति महामात्र इति। गत्यर्थत्वच्च रुहेः हस्तिपकानां कर्मसंज्ञा । यद्येवम्, कर्मान्तरसम्भवादेवात्र न भविष्यति? नैतदेवम्? अस्तीत्यत्राणौ कर्मणो हस्तिनो णावपि कर्मत्वेनान्वयः। न वा सति कर्तृ त्वविधौ कर्मान्तरव्यावृत्तिर्लभ्यते। यद्वा-प्रयोजकव्यापारमात्रे तात्पर्याद्यदा हस्तिपकाः कर्मत्वेनाविवक्षिताः, तदेदं प्रत्युदाहणं द्रष्टव्यम्। वनगुल्मस्येति। कर्मोपलक्षणमेतत्, न त्वत्र वनगुल्मस्य कर्मत्वमस्ति; शेषत्वेन विवक्षित्वात्। तस्माद्वनगुल्ममिति प्रदर्शनीयम्। स्मरयत्येनमिति। ठ्स्मृ आध्यानेऽ घटादिः, वनगुल्मस्य रमणीयत्वप्रतिपादनाय प्रयोजकत्वे विवक्षिते णिच्। एनमिति। बुद्ध्यर्थत्वात्कोकिलस्य कर्मसंज्ञा। एतदप्युपलक्षणम्, अत्रहि कर्मान्तरसद्भावादेव प्राप्तिर्नास्ति कर्माविवक्षायां प्रत्युदाहरणं द्रष्टव्यम्। ननु चात्र कर्मकर्तरि मूलोदाहरणानीति। ननु चाध्यारोपितप्रेषणपक्षे आरोहयतो हस्तिनः कर्मत्वाभावात्कर्मणा समानधातौ तुल्यक्रियत्वाभावात् पचत्योदनं देवदतो राध्यत्योदनं स्वयमेवेतिवत्कर्मवद्भावो न प्राप्नोति, सत्यम्; आरब्ध एवास्मिन् सूत्रे सोऽपि पक्षः सम्भवात् प्रदर्शितः, अनारब्धे तु निवृतप्रेषणपक्षप्रक्रियैवाश्रयिष्ते। ननु तत्रापि व्यापारद्वयाभिधायिषु रुहादिषु भवत्येवम्, ये तु केवलकर्तृ व्यापारवाचिनो द्दश्यादयः तेषु कथम्, न हि द्दशिः कर्मव्यापारं कञ्चदाचष्टे? स्यादेतत्-विषयभावापतिः कर्मव्यापारस्तदापादनं कर्तृ व्यापार इति। यद्येवम्, इच्छापि द्दश्यर्थः स्यात्। नन्वत्रापि विषयभावापतिः, तदापादनं च विद्यते, अथ दर्शनविषयभावापादनं द्दश्यर्थः, ननु तदेव निरूप्यते किं नाम तद्दर्शनम् इति, अत्रोच्यते; मा नामाख्यातकर्मव्यापारः, अस्ति तावत्कर्मणोऽपि व्यापारः, कारकत्वात्, तत्र णिजुत्पत्तिदशायां तावत्येव वर्तिष्यते, उदाहरणदशायां ण्यन्तोऽपीति मन्यते। तथा च रुहिः कर्तृ युक् कर्मणाभिधेय इति युक्तं केवलकर्तृ व्यापारवाचिनां गमिद्दशिप्रभृतीनां कर्तृ स्थक्रियत्वम्; कथं तु विक्लित्युपसर्जनविक्लेदवचनः पचिः, द्विधाभवनोपसर्जनद्विधाभावनवचनश्च लुनातिः कर्मस्थकियः, न्यग्भवनोपसर्जनन्यग्भावनवचनस्तु रुहिः कर्तृ स्थक्रियः? उच्यते; रुहिरपि गत्यर्थः, तथा च ठ्यद्धितुपरिं च्छन्दसिऽ इत्यत्र भाष्यकारो वक्ष्यति-हस्तिनमारोहतीत्यत्र हि उपरिगमनलक्षण एव रुहेरर्थः, तत्पुनर्न्यग्भवनहेतुत्वाद् न्यग्भावनमित्युच्यते, उपरिगमनरहितं तु न्यग्भावनमात्रं रुहेरर्थो न भवति, यदा खलु क्वचिद् भूमावेव तिष्ठन् वृक्षस्य शाखां हस्ताभ्यामवनमयति, तदा नासावारोहतीत्युच्यते। तस्माद् गतिविशेष एव रुहेरर्थः। कस्तर्हि क्रियाणां कर्मकर्तृ स्थतायां हेतुः? उक्तमत्र- विशेषदर्शनं यत्र क्रिया तत्र व्यवस्थिता। क्रियाव्यवस्था त्वन्येषां शब्दैरेव प्रकल्पिता॥ इति। विशेषदर्शनेन शब्दानुसारेण वा क्रियायास्तात्स्थ्यं कथ्यते। एतच्च कारणगतमारोहस्य कर्तृस्थत्वं प्रतिपादयति, न तु कर्मस्थताम्। न हि हस्तिनामारोहति, वृक्षमारोहति, पर्वतमारोहतीत्यादौ कर्मभेदेऽप्यारोहणे रूपभेदः प्रतीयते, यथा-घृतमासतण्डुलादिषु पाकः। न च हस्ती न्यग्भवत्वित्येवं कारकव्यापारः, किं तर्हि? हस्तिपका उपर्यासीरन्निति। पाके तु तण्डुलादिगतो विक्लित्यादिरूपो विशेषो यथा स्यादित्येव कारकव्यापारः। तस्मत्कर्मभेदे रूपभेदादुद्देशस्य च कर्मगतत्वात् पचिः कर्मस्थक्रियः,विपर्यपाद्रुहिः कर्तृ स्थक्रिय इति सिद्धम्। एव चारुह्यते हस्ती स्वयमेवेति कर्मवद्भावं प्रर्शयन्तो भाष्यन्यायविरोधादुपेक्ष्याः। द्दशिकर्तृ स्थभावक इति। अथ सिचिः कस्मादुपेक्षितः? कर्मस्थक्रियत्वाद्। आर्द्रीभवनं ह्यत्र प्रधानम्, तदर्थत्वात्कारकव्यापारस्य। किमर्थं तर्ह्युदाहृतः? विशेषाभावात्। न ह्यत्रानेन ठ्कर्मवत्कर्मणाऽ इत्यनेन वा आत्मनेपदे सति कश्चिद्विशेषः, तेनापि सति यक्चिणौ न भवतः, ठ्णिश्रन्थिग्रन्थि ऽइति प्रतिषेधात्। भाष्येऽपि कर्मवद्भावात् सिद्धिमाशङ्क्याध्यानप्रतिषेधार्थमित्युक्त्वा स्मरतेः कर्तृ स्थभावकत्वात् कर्मवद्भावस्य प्राप्तिर्नास्तीत्यभिधायोक्तम्। एवं तर्हि सिद्धे सति यदाध्यानप्रतिषेधं शास्ति, तज्ज्ञापयत्याचार्यः-भवत्येवञ्जातीयकानामात्मनेपदमिति। किमेतस्य ज्ञापने प्रयोजनम्? पश्यन्ति भृत्या राजानम्; दर्शयते भृत्यान् राजा स्वयमेव-अत्रात्मनेपदं सिद्धं भवतीति। एवञ्जातीयकानामिति कर्तृ स्थक्रियाणामित्यर्थः। एवं च ब्रुवता विध्यर्थमेतदित्युक्तं भवति, विशेषप्रतिषेधेन सामान्यविधेरनुमानात्। अत्र दर्शयते भृत्यान् राजेत्येतदेकमुदाहरणमनुपपन्नम्; कर्मान्तरसद्भावात्। तत्र वृत्तिकारः ठ्त्यजेदेकं कुलस्यार्थेऽ इति न्यायाद् उदाहरणमेतद्गमयितव्यं मन्यते। अस्मिन्नुदाहरणे कमव्यापारमात्रे विवक्षिते सिद्धं भवतीत्यर्थः। अन्ये त्वाहुः-अस्मादेवोदाहरणादणौ ये कर्तृ कर्मणी तद्व्यतिरिक्तकर्मान्तरसद्भाव एवात्मनेपदं न भवति, यथा-स्थलमारोहयति मनुष्यानिति, इह त्वणौ कर्तृणां भृत्यानां णौ कर्मत्वमिति। एवं स्मारयत्येनमिति कोकीलस्य कर्मत्वेऽपि प्रत्युदाहरणमुपपन्नम्, ठ्करेणुरारोहयते निषादिनम्ऽ इति प्रयोगश्चोपपन्न इति तेषां सूत्राक्षराण्येव तावदधिकानि, भाष्यं च सर्वमुदाहरणवर्जमनुपपन्नम्॥ प्रयोगाणां तु निर्वाहो णिचश्चेत्यात्मनेपदात्। जयादित्यस्य हृदयं गूढमेतत्प्रकाशितम्॥ पदमञ्जरी भीस्म्योर्हेतुभये॥ १।३।६८ ॥ भयमनिष्टापातशङ्गासाधनमात्रं लोकिको हेतुः, न वान्तरेण साधनं क्रिया सम्भवतीति विशेषणसामर्थ्यात् कृत्रिमत्वाच्च पारिभाषिकस्य हेतोर्ग्रहणमित्याह--हेतुः प्रयोजक इत्यादि। ततश्चेद्भयं भवतीति। यद्येवम्, स्मयत्यर्थो न विशेषितः स्यात्, न हि स्मयतेर्भयमर्थः, अऽत आह-भयग्रहणमिति। चितविकारस्योपलक्षणमित्यर्थः। विस्मयोऽपि तत एवेति। अत्र चेद्भवतीत्यनुषङ्गः। भीषयत इति। ठ्भियो हेतुभये षुक्ऽ। भाययत इति।ठ्बिभेतेर्हेतुभयेऽ इति वैकल्पिकमात्वम्। एवं च अत्र षुक् न भवति; तद्विधावाकारप्रश्लेषात्। विस्मापयत इति। ठ्नित्यं स्मयतेःऽ इत्यात्वम्। ठर्तिह्रीऽ इत्यादिना पुक्। कुञ्चिकयेति। कारणादत्र भयम्, न हेतोः। यद्यपि तद्व्यापारे णिज्विधानात् प्रयोजकसाध्यमेव भयम्, तथापि विशेषणोपादानसामर्थ्यादेवं विज्ञायते-अन्यनिरपेक्षाद्धेतोरेव यद्भयमिति। एवं च मौण्ड।ल्èनं भाययतीत्यत्रापि गुणगुणिनोर्भेदविवक्षायां न भवति। उदाहरणे तु तादात्म्यस्य विवक्षितत्वाद्धेतोरेव भयम्॥ पदमञ्जरी गृधिवञ्च्योः प्रलम्भने॥ १।३।६९ ॥ परिहरतीत्यर्थ इति। वर्जयतीति यावत्॥ पदमञ्जरी लियः सम्माननशालीनीकरणयोश्च॥ १।३।७० ॥ विशेषाभावादिति। निरनुबन्धकपरिभाषा तु ठ्वामदेवाद् ड।ल्ड्ड।लैऽ इत्यत्र ज्ञापिता प्रत्ययग्रहणविषयैवेति मन्यते। संमानने शालीनीकरणे च वर्तमानादिति। संमाननं विषयः,न धात्वर्थः। यदाह--पूजामधिगच्छतीत्यर्थ इति। धात्वर्थे तु पूजयतीति वाच्यं स्यात्, यथा न्यक्करोतीत्यर्थ इति। अकर्मकश्चायचमस्मिन् प्रयोगे पूजाख्यस्य कर्मण आत्मनेपदसहितेन धातुनैवोपातत्वात् पुत्रीयतीतिवदित्याहुः। जटाभिरिति। हेतौ तृतीया, यस्य हि जटाः सन्ति लोके स पूज्यते॥ पदमञ्जरी मिथ्योपपदात् कृञोऽभ्यासे॥ १।३।७१ ॥ उपोच्चारितं पदमुपपदम्,मिथ्याशब्द उपपदंयस्य स तथोक्तः। मिथ्या कारयते इति आत्मनेपदेनैवाभ्यासस्य द्योतितत्वात् ठ्नित्यवीप्सयोःऽ इति द्विर्वचनं न भवति। सदोषमिति। एतेन मिथ्याशब्दस्यार्थमाचष्टे। अस्यैव विवरणम्-स्वरादिदुष्टमिति। आदिशब्देन रूपं गृह्यते। असकृदिति अभ्यासं दर्शयति। उच्चारयतीत्यर्थ इति ण्यन्तस्य करोतेरुच्चारणे वृत्तिरनेकार्थत्वाद्धातूनाम्। एवं च प्रकृतिभूतः करोतिरुच्चारणे वर्तते, अकर्मकश्च॥ पदमञ्जरी स्वरितञितः कर्त्रभिप्राये क्रियाफले॥ १।३।७२ ॥ कर्तारमभिप्रैतीति कर्त्रभिप्रायम्,ठ्कर्मण्यण्ऽ,क्रियाफलं चेह कर्मैवेति नास्ति नियमः तेनाकर्मकेभ्योऽपि यजिप्रभृतिभ्यः स्वर्गादिके फले कर्तृ गामिन्ययं विधिर्भवत्येव। कर्तारं चेदिति। क्रियाफलस्य कर्तृ गामित्वह्यएतनायात्मनेपदं भवतीत्यर्थः। यदि यच्च यावच्च क्रियानन्तरभावि फलं तत्र कर्तृ गामिन्ययं विधिर्भवति, इहापि स्याद्-यजन्ति याजकाः, पचन्ति पाचका इति; दक्षिणादेः कर्तृ गामित्वादित्यत्र आह-प्रघानभूतमिति। किं पुनस्तदित्यत आह-यदर्थमिति। यदुद्दिश्येत्यर्थः। क्रिया आरभत इति। सामग्रीसमवधानात्मिका आद्या प्रवृत्तिःउआरम्भः, यामन्तरेण याजकादीनामप्रवृत्तिः, स्वर्गादिकं हि फलं प्रेक्षुः सामग्रआआ समवधाप्य प्रवर्तयति, सा प्रवर्तिता यथायथं प्रवर्तते। कथं पुनरेतल्लभ्यते-प्रधाने फले कर्त्रभिप्रायैति? प्रधानत्वादेव। किञ्च-यत् किचन फलं सर्वत्र कर्त्रभिप्रायं भवति। ननु यत्र क्रियाभ्यासमात्रे तात्पर्यम्, तत्र न किञ्चित्पलं कर्तृगामि, तत्रापि किञ्चित्फलं कर्तृगामि, तत्रापि किञ्चित्फलं कर्तृगामि, किं कौशलम्? पुनः पुनरभ्यासे हि क्रियासु कौशलं भवति, तस्मात्प्रधाने फले कर्त्रभिप्राय इति सिद्धम्। यजत इति। केचिदाहुः- ठ्देवतायै इदं न ममऽ इत्येवंविधो मानसः सङ्कल्पो याग इति, तेषां यजन्ति याजका इति ऋत्विग्व्यापारे प्रयोगो नोपपद्यते। अन्ये त्वाहुः-ठ्होमादिष्वभिष्ट्वादिऋत्विग्व्यापारो यागःऽ इति, तेषां यजतिव्यापापारप्रयोगो नोपपद्यते। एवं तर्ह्युभयं यजेरर्थः-ऋत्वग्व्यापारश्च, यजमानव्यापारश्च। तदुक्तम्-यजादिषु चाविपर्यासो नानाक्रियाणां यज्यर्थत्वादिति। न तदर्थः क्रियारम्म इति। ननु ऋत्विजामारम्भस्तदर्थ एव, नैतदेवम्; ठाद्या प्रवृत्तिरारम्भःऽ इत्युक्तम्, सा च यजमानस्य- स्वर्गमहं लभेयेति, न पुनरिमे दक्षिणां लभेरन्निति। यथा-अवघाते क्रियमाणे स्वेदश्च भवति वैतुष्यं च भवति, भृतिश्च लभ्यते, अथ च वैतुष्यार्थ एवावघागः, तद्वदत्रापि। तदुक्तं हरिणा- यस्यार्थस्य प्रसिद्ध्यर्थमारभ्यन्ते पचादयः। तत्प्रधानं फलं न लाभादि प्रयोजनम्॥ इति । इह स्वामिदासौ पचत इति। क्रियामात्रविवक्षायां परस्मैपदं भवति। स्वामिगते तु धर्मे दास आरोपिते स्वामिदासौ पचेते इत्यात्मनेपदं भवति। अथाभिप्रग्रगणं किमर्थम्? विप्रकृष्टेऽपि फले यथा स्याद्। द्विविधं क्रियाफलम्, द्दष्टम्--अन्नपुत्रवृष्टिशत्रुवधादिकम्, अद्दष्ट्ंअ च स्वर्गादि। तत्र पूर्वं प्रत्यासन्नमवश्यंभावीति प्रधानम्, इतरतु विधुरप्रत्ययोपनिपाते सति व्यभिचारसंभवाद्विप्रकृष्टत्वच्चाप्रधानम्। संभवति ह्यविकलमनुष्ठातुं यागस्यापि मध्ये वैराग्योत्पतौ मोक्षार्थप्रवृतौ सत्यामनुत्पत्तिः स्वर्गस्य। ततश्चेह तस्य ग्रहणं न स्याद्। अभिप्रग्रहणे तु सति अभिराभिमुख्ये वर्तते, प्रशब्दस्त्वारम्भ इति कर्तारं प्रत्याभिमुख्येन क्रियाफलं चेतत्प्रैति एतुम् आरभते एवमात्मनेदं भवतीत्यर्थो भवति। तथा च यद्यपि स्वर्गादिकं स्वरूपेणान्नादिवत् तदानीं नैति तस्य त्वङ्कुरावस्था कर्तारमेतीति तद्द्वारेण फलमेवैतुमारभत इति सर्वत्र सिद्ध्यति। फलस्यैव ह्यङ्करावस्था पूर्वशब्दवाच्या॥ अपाद्वदः॥ १।३।७३ ॥ पदमञ्जरी णिचश्च॥ १।३।७४ ॥ अत्र कश्चिदाह-इदमात्मनेपदं चुरादिणिचो न भवति, कुतः? ज्ञापकात्। किं ज्ञापकम्? लक्षणतेः स्वरितेत्वमिति। नात्राप्राप्तभाषित मस्ति। पारायणेऽपि चुरादिणिच आत्मनेपदमुदाहृतम्-एष विधिश्चुरादिणिजन्तात्स्यादिति। कश्चन निश्चुनुते स्म-अप्राप्तवचनेऽत्र न किंचन द्दष्टम्, लक्षयतेः स्वरितेत्वमनार्षम्॥ पदमञ्जरी समुदाङ्भ्यो यमोऽग्रन्थे॥ १।३।७५ ॥ उद्यच्छति चिकित्सामित्यत्र अधिगमपूर्वके उद्यमे यमिर्वर्तते, चिकित्साशास्त्रमधिगन्तुमुद्यमं करोतीत्यर्थः। पदमञ्जरी अनुपसर्गाज्ज्ञः॥ १।३।७६ ॥ सकर्मकार्थमिदम्, अन्यत्र ठकर्मकाच्चऽ इति सिद्धत्वात्। गां जानीत इति ।स्वर्ग लोकं न प्रतिजानातीति। ठ्संप्रतिभ्यामनाध्यानेऽ इत्यनेनापि न भवति; आध्यानविषयत्वात्। प्रजानातीति वा पाठः॥ पदमञ्जरी विभाषोपपदेन प्रतीयमाने॥ १।३।७७ ॥ अप्राप्तविभाषेयमित्याह-तदुपपदेनेति। अत्र च ठ्स्वरितञितःऽ इत्यारभ्य पञ्च सूत्राण्यनुवर्तन्ते। समीपे श्रूयमाणमिति। न तु पारिभाषिकम्;असंभवात् । एवं पञ्चसूत्र्यामुदाहार्यमिति। न केवलमुदाहृतयोर्द्धयोः; अपि तु पञ्चस्वपि सूत्रेष्वित्यर्थः। स्वं यत्नं कारयते कारयति वा। स्वं व्रीहिं संयच्छते संयच्छतीति वा। स्वं गां जानीते जानीते वा॥ पदमञ्जरी शेषात्कर्तरि परस्मैपदम्॥ १।३।७८ ॥ आत्मनेपदनियमः कृत इति। प्रकृत्याश्रयोऽर्थाश्रयश्च, अनुदातङितोरेवात्मिनेपदं भावकर्मणोरेवेति। सर्वत इति सर्वाभ्यः प्रकृतिभ्यः सर्वेषु चार्थेष्वित्यर्थः। तदर्थमिति। सर्वतः प्राप्तिनिवृत्यर्थमित्यर्थः। येन विशेषणेनेति। अनुबन्धादिना। याति वातीत्यनुबन्धशेषः, आविशति प्रविशतीत्युपसर्गशेषः, गन्धनादेरन्यत्र करोतीत्यादिरर्थशेषः। गन्धनादिविशिष्टो हि कृञादिः शेषग्रहणेन पञ्चम्यन्तेन निवर्त्यमानो नागृहीतविशेषणन्यायेन विशेषणं गन्धनाद्यपि व्यावर्तयति। शेषादेव नान्यस्मादिति। उपलक्षणमेतत्, कर्तर्येव नान्यत्रेत्यपि द्रष्टव्यम्। पच्यते, गम्यत इति। ननु क्रियमाणेऽपि कर्तरिग्रहणे यदि तावदेवं नियमः- कर्तरि यदि भवति शेषादेवेति; ततोऽशेषात्कर्तरि मा भूत्, शेषातु भावकर्म कर्तृ षु त्रिष्वपि प्राप्नोति। अथाप्येवं नियमः- शेषाद्यदि भवति कर्तर्येवेति, ततः शेषाद्भावकर्मणोर्मा भूद्, अशेषातु त्रिष्वपि प्राप्नोति । उक्तोऽत्र परिहारः- ठ्योगविभागोऽत्राभिप्रेतःऽइति। तत्र प्रथमे योगे शेषादेवेति नियमः, द्वितीये तु कर्तर्येवेति। कर्मकर्तरीत्यपि भावकर्मणोरित्यत्रोक्त एवार्थो विस्मरणशीलाननुग्रहीतुं पुनरपि स्मारितः॥ पदमञ्जरी अनुपराभ्यां कृञः॥ १।३।७९ ॥ अत्रापि द्वितीयं कर्तृ ग्रहणमनुवर्तते। अनुक्रियते स्वयमेव, पराक्रियते स्वयमेव॥ अभिप्रत्यतिभ्यः क्षिपः॥ १।३।८० ॥ प्राद्वहः॥ १।३।८१ ॥ परेर्मृषः॥ १।३।८२ ॥ व्याङ्परिभ्यो रमः॥ १।३।८३ ॥ पदमञ्जरी उपाच्च॥ १।३।८४ ॥ उपपूर्वो रमिर्निवृत्तिविनाशयोर्वर्तते, उपरतोऽध्ययनाद्, उपरतोनिधनादिदि। न चानयोरुभयोरप्यर्थयोः सकर्मकत्वमुपपद्यते, तत्कथं सकर्मकस्योदाहरणम्? अत आह-उपरमयति यावदिति। कथं पुनरण्यन्तो ण्यर्थे वर्तते? अत आह-अन्तर्भावितण्यर्थ इति॥ विभाषाऽकर्मकात्॥ १।३।८५ ॥ पदमञ्जरी बुधयुधनशजनेङ्प्रुद्रुस्त्रुभ्यो णेः॥ १।३।८६ ॥ प्राप्नोतीति। गम्यत इति वचनं तु प्राप्तिहेतुर्व्यापारः। कुण्जिका स्त्रवतीति। कुण्डिकायामुदकं कुण्डिकोदकव्यापारो वा कुण्डिकायां च्छिद्रवत्यामुपचर्यते। ननु स्यन्दनमपि द्रवद्रव्यकर्तृकं चलनमेव; तथा प्रसिद्ध्यभावात्॥ पदमञ्जरी निगरणचलनार्थेभ्यश्च॥ १।३।८७ ॥ चलयतीति। ठ्चल कम्पनेऽ घटादिः। आदयते देवदतेनेति। ठ्गतिबुद्धिऽ इत्यादिनाऽणौ कर्तुः कर्मसंज्ञा प्राप्ता, ठतिखाद्योः प्रतिषेधःऽ इति वचनान्न भवति॥ पदमञ्जरी अणावकर्मकाच्चितवत्कर्तृकात्॥ १।३।८८ ॥ अणाविति किमिति। ण्यन्तस्य प्रयोज्येन कर्मणा सकर्मकत्वमवश्यम्भावीति मन्यमानस्य प्रश्नः। चेतयमानमिति। ठ्चिती संज्ञानेऽ चुरादिः। हेतुमण्णिचो विधिरिति। बुधादिसूत्रादिह णिज्ग्रहणमनुवर्तते, बुधादिभ्यश्च हेतुमत्येव णिच् सम्भवति, तस्मादिहापि तस्यैव ग्रहणमिति भावः। तत्र यथा-ठ्ब्राह्मण आनीयन्तामन्यत्रानधीयानेभ्यःऽ इत्युक्ते प्रत्यासतेर्यदध्ययनं ब्रह्मणानां सम्भवति तदधीयानेभ्य इति गम्यते, न त्वध्येत्वयमात्रमधीयानेभ्य इति, तद्वदिहापि तस्यैव गम्यते यज्जातीयस्य विधौ ग्रहणमिति। आरोहयमाणमिति। ठ्णेरणौऽ इत्यात्मनेपदं शानच् तत्रैवास्याकर्मकत्वमुपपादितम्। प्रयुङ् क्त इति पाठः। प्रयोजयतीति पाठे णेरर्थो मृग्यः॥ पदमञ्जरी न मादम्याङ्यमाङ्यसपरिमुहरुचिनृतिवदवसः॥ १।३।८९ ॥ लुग्विकरणालुग्विकरणयोरलुग्विकरणस्य ग्रहणमिति पिबतिवसत्योर्ग्रहणम्, न पातिवस्त्योः; तेनाणावकर्मकत्वविवक्षायां परस्मैपदं भवत्येव। पाययते इति। ठ्शाच्छासाह्वाव्यावेपां युक्ऽ। पादिष्विति॥ धेडप्यस्मिन् सुत्रे पठितव्य इत्यर्थः। समीचि इति प्रथमाद्विवचने ठ्वा च्छन्दसिऽ इति पूर्वसवर्णदीर्घः॥ पदमञ्जरी वा क्यषः॥ १।३।९० ॥ लोहितायते इति। अलोहितो लोहितो भवतीत्यत्रार्थे क्यष्, ठकृत्सार्वधातुकयोःऽ इति दीर्घः। पटपटायतीति। पटच्छब्दस्य डाज्विषये द्विर्वचनम्, ठव्यक्तानुकरणात्ऽ इति डाच्, टिलोप; ठ्नित्यमाम्रेडिते डाचिऽ। कथमिति। न कथञ्चिदित्यर्थः। किं कारणमित्याह-यावतेति। न नियमेन व्यावर्तितमात्मनेपदमनेन शक्यं प्रापयितुम्,न ह्यशक्यार्थेवचनस्य व्यापारः, वावचनं तु केवलस्य लस्य प्रयोगर्थ स्यादिदि भावः। । एवं तर्हीत्यादि परिहारः। विकल्पितं विभाषितम्,पाक्षिकमित्यर्थः। कथं पुनः परस्मैपदप्रकरणेन विच्छिन्नमात्मनेपदं शक्यं विधातुम्,अत आह-तच्चेति। ननु शाब्दः सन्निधिः सम्बन्धकारणम्, प्रतिषेधेन चापवादभूतस्य भावामात्रं प्रतिपाद्यते, आत्मनेपदं तु स्वेनशास्त्रेण भवति, न भावना तस्य सन्निधिर्भवति, उच्यते; तात्पर्यतोऽपि सन्निधिः, सन्निधिरेवापवादापनयनस्य चोत्सर्गप्रवृतौ तात्पर्यम्, तेन परस्मैपदं भवतीत्यस्यात्मनेपदं भवतीति तात्पर्यार्थः। यद्वा-इहापि प्रतिषेध एव विधेयः, स च पूर्वसूत्रवदिहात्मनेपदं प्रवर्तयिष्यति। किं तर्हि उच्यते-अनन्तरं सन्निधापितामिति, नन्वेवमिहैव सन्निधापितं भवति? स्यादेवम्, यदि परस्मैपदेन क्यषन्तादात्मनेपदं बाधितं स्याद्, नियमेन तद्व्यावृत्तिः, तत्र स्वविषये परस्मैपदप्रतिषेधो विकल्प्यमानः किं कारणमात्मनेपदं प्रवर्तयेत्? पूर्वत्र त्वपवादमपनयता प्रतिषेधेनात्मनेपदं प्रवर्त्यते, तस्मादिहापि तदनुवृत्तिसामर्थ्यात् याद्दशः प्रतिषेध आत्मनेपदप्रवृत्यविनाभावी प्रकृतः, ताद्दश एव विधीयत इति मत्वोक्तम्-ठनन्तरं सन्निधापितम्ऽ इति। यद्यात्मनेपदं विधीयते, केनेदानीं परस्मैपदं पक्षे भवतीत्यत आह-तेन मुक्त इति। इह ठ्प्रोपाभ्यां समर्थाभ्याम्ऽ ठनुपसर्गाद्वाऽ इत्यनन्तरं ठ्क्यषःऽ इति सूत्रं कर्तव्यम्- क्यषन्तादात्मनेपदं भवतीति, नेदं दुःखमनुभवितव्यं भवति, ठ्वाऽ ग्रहणञ्च न कर्तव्यं भवति, उतरमपि योगद्वयं तत्रैव कार्यम्? तथा तु न कृतमित्येव॥ पदमञ्जरी द्यौद्भ्यो लुङि॥ १।३।९१ ॥ द्यौतेरेकत्वाद्वहुवचनमनुपपन्नमित्याशङ्क्याह-तत्साहचर्यादिति। च्छत्रिन्यायेनेति भावः। लुठादयोऽपीति। प्रत्यासन्नानामेव साहचर्यात् प्रतीतिः स्यादित्याशङ्कामपनेतुं दूरवर्तिनामुपादानम्। क्वचित् श्वित्यादय इत्यनन्तराणामेव पाठःष कृपूपर्यन्ता इति। तदनन्तरं वृत्करणाद एतदुक्तं भवतीत्याह-बहुवचननिर्देशादिति। व्यद्यौतदिति। ठ्पुषादिऽ इति सूत्रेणाङ्। न च तत एवाङ्विधानात् परस्मैपदं शक्यं विज्ञातुम; नित्यत्वप्रसङ्गात्, लुङेऽन्यत्रापि प्रसङ्गच्च। अनुदातेत्वं तु युजर्थं स्यात्॥ पदमञ्जरी वृद्भ्यः स्यसनोः॥ १।३।९२ ॥ ठ्स्यसनोःऽ इति सत्सप्तमी। द्यौ तादिष्वेव वृतादयः पठ।ल्न्त इति। यद्येवमियं प्राप्तिर्वृद्भ्यः पूर्वां प्राप्तिं बाधेत, ततश्च अवृतत्, अवर्तिष्टेति लुङ् इविकल्पो न स्यात् तथा चोतरत्र चकारः क्रियते-इमां प्राप्तिं पक्षे इतराप्राप्तिर्न बाधेतेति, द्यौतादिपाठसार्थ्यात्सोऽपि भविष्यति। यद्वा-लुङीत्यत्र स्वरयिष्यते, वर्त्यतीत्यादौ ठ्न वृद्भ्यश्चतुर्भ्यःऽ इति इट्प्रतिषेधः॥ पदमञ्जरी लुटि च क्लृपः॥ १।३।९३ ॥ एवं तर्हीति। सामान्यस्य विशेषो वाधक इति भावः। कल्प्तेत्यादौ ठ्तासि च क्लृपःऽ इतीट्प्रतिषेधः॥ इति हरदतविरचितायां पदमञ्जर्यां प्रथमाध्यायस्य तृतीयः पादः॥अथ प्रथमाध्याये चतुर्थः पादः पदमञ्जरी आ कडारादेका संझा॥ १।४।१ ॥ आ कडारादेका संज्ञा॥ आङ्मर्यादाभिविध्योरिति। समासस्य विकल्पितत्वाद्। ठाकडारात्ऽ इति निर्देशः, समासे त्वाकडारमिति स्यात्। इह द्वौ कडारशब्दौ भवतः-ठ्प्राक्कडारात् समासःऽ, ठ्कडाराः कर्मधारयेऽ इति च, तत्र कोऽवधिरित्यत आह-ठ्कडाराः कर्मधारयेऽ इति वक्ष्यतीति। कुतः पुनरेतत्? स्वातन्त्र्यात्। स्वतन्त्रो ह्यसौ प्रथमानिर्देशेन स्वयं कार्ययोगित्वात्। प्राक्कडारादित्ययं तु परतन्त्रोऽवधित्वेन स्वयं कार्ययोगित्वाभावाद्,व्याप्तेश्च न्यायाद्। एवं हि भूयसामनुग्रहो भवति। लिङ्गच्च, यदयं ठ्तत्पुरुषःऽ ठ्द्विगुश्चऽ इति द्विगोस्तत्पुरुषसंज्ञां शास्ति, तज् ज्ञापयति-अनुवर्तते द्वितीयेऽप्येकसंज्ञाधिकार इति; अन्यथा ठ्दिक्सङ्ख्ये संज्ञायाम्ऽ इत्यत्र तत्पुरुषाधिकारादेव समावेशसिद्धेस्तदर्थो यत्नोऽपार्थकः स्यात्। किमर्थ, पुनरियानवधिरुपादीयते, न आ द्वन्द्वात् इत्येवोच्येत, न हि ठ्चार्थे द्वन्द्वःऽ इत्यतः परत्रास्योपयोगः? उच्यते; ठ्द्वन्द्वश्च प्राणितूर्यऽ इत्ययमप्यवधिः सम्भाव्यते, ततश्च सम्बुद्धिसंज्ञामन्त्रितसंज्ञयोः समावेशो न स्यात्। का पुनरसाविति। एका संज्ञा भवतीत्येतावत् सूत्रव्यापारः, तत्र विशेषादर्शनात् प्रश्नः। ठ्या परानवकाशा चऽ इति वचनाद् न्यायाच्च व्यवस्थेति भावः। ननु यद्यारब्धेऽप्यस्मिन् परत्वानवकाशत्वाभ्यामेव व्यवस्था वाच्या, अनारब्धेऽप्यस्मिन् आभ्यामेव व्यावस्था भविष्यति,नार्थ एतेन ? तत्राह-अन्यत्रेति। अयम्भावः- यत्र प्रयोजनमेकं भवति, सहानवस्थानलक्षणे वा विरोधः, तत्रैवानवकाशः सावकाशं बाधते, यथा-नैवारश्चरुर्नखावपूतानामिति, नखावपनेन वैतुष्यफलकेन तत्फलकोऽघातो बाध्यते। अष्टाश्रियूपः कर्तव्यः, वाजपेयस्य तु चतुरश्र इति, अष्टाश्रित्वचतुरश्रत्वयोर्विरोधात् बाध्यबाधकभावः। विप्रतिषेधोऽपि विरोधात्मकत्वातत्रैव भवति, तद्यथा-कृत्कृत्यप्रत्यसंज्ञानां तद्धिततद्राजप्रत्ययसंज्ञानां च। सति त्वस्मिन् सूत्रे एकस्यैकैवेति नियमाद्विरोधो जायते, विरोधे च सति परत्वानवकाशत्वाभ्यां व्यवस्था शक्यते वक्तुमिति, तत्रानवकाशाया उदाहरणमाह-वक्ष्यतीति। शिक्षा, मिक्षेति। ठ्गुरोश्च हलःऽ इत्यकारप्रत्ययः। यद्यप्यत्र समावेशेऽपि न कश्चिद्दोष, तथापि वस्तुतः समावेशो नास्तीस्येतावता इदमुदासमावेशेऽपि न कश्चिद्दोषः, तथापि वस्तुतः समावेशो नास्तीत्येतावता इदमुदाहरणम्। सम्प्रति यत्र समावेशे सति दोषः, तद्दर्शयति-अततक्षदिति। परस्यास्तूदाहरणम्-धनुषा विध्यतीति, शराणामपायं प्रत्यवधिभूतस्यैव धनुषो व्यधनं प्रति साधकतमत्वमित्युभयप्रसङ्गे परत्वात्करणसंज्ञापादानसञ्ज्ञां बाधते। तथा ठ्कास्यपात्र्यां भुङ्क्तेऽ इत्यधिकरणसञ्ज्ञा, धनुर्विध्यतीति कर्तृसंज्ञा। उक्तं च-अपादानमुतराणीति। इह गार्ग्यो धानुष्क इति अनवकाशाभ्यां भपदसंज्ञाभ्यामङ्गसंज्ञाया धातुप्रत्ययेषु सावकाशाया बाधः प्राप्नोति? ज्ञाप कात्सिद्धम्, यदयम्ठ्सुपि चऽ,बहुवचने झल्येत्ऽ,ठ्तद्धितेष्वचामादेःऽ इति स्वादिषु तद्धितेषु चाङ्गस्य सतः कार्यं शास्ति, तज् ज्ञापयति-समाविशत्यसंज्ञा भपद संज्ञाभ्यामिति। द्वये हि स्वादयः-यजादयो हलादयश्च; तत्र यजादषु भसंज्ञा, हलादिषु पदसंज्ञेति अङ्गस्य सतः कार्यविधानमनुपपन्नं स्यात्। गुरुलघुसंज्ञे वर्णमात्रस्य विधीयेते, नदीघिसंज्ञे तु तदन्तस्येति ताभ्यां समाविशतः, तद्यथा-वात्सीबन्धुरिति। ठ्नदी बन्धुनिऽ इति पूर्वपदान्तोदातत्वं वात्सीबन्धो इति ठ्गुरोरनृतःऽ इति प्लुतश्च भवति। विश्च ना च विनरौ, ठ्द्वन्द्वे घिऽ इति पूर्वनिपातः, विन्नोर्भावो वैन्नम् ठिगन्ताच्च लघुपूर्वात्ऽ इत्यण्,विनरावचष्टे इति विनयति, प्रविनय्य गतः ठ्ल्यपि लघुपूर्वात्ऽ इत्ययादेशो भवति। भाष्ये त्विष्टविषये समावेशो न्यासान्तरेण साधितः- प्राक्कडारात् परं कार्यमिति। तत्रायमर्थः- प्राक्कडारात् संज्ञाख्यं कारयं परं भवतीति संज्ञाप्रकरणात् संज्ञैवात्र कार्यमित्युच्यते, परा संज्ञेत्येव तु नोक्तम्,ठ्विप्रतिषेधे वाऽ इति वक्ष्यति, तत्र परं कार्यमित्यनुवृत्तिर्यथा स्यादिति तत्र यस्याः संज्ञायाः परस्याः पूर्वयाऽनकाशया बाधः प्राप्तः, सा परा भवतीति विधिरूपेणास्य प्रवृत्तिः। नन्वनकाशयापिपूर्वया नैव परस्या बाधः प्राप्नोति; विरोधाभावात्, विरोधाभावात्, फलैक्याभावाच्च, संज्ञानामन्यत्र समावेशस्य द्दष्टत्वात्, सत्यम्; एतदेव ज्ञापयति--भवत्यत्र प्रकरणे संज्ञानां बाध्यबाधकभाव इति। तेन परयानवकाशया पूर्वा बाध्यते, द्वयोश्च सावकाशयोर्विप्रतिषेधे परमिति परैव भवतीति। नियमफलस्यापि सिद्धिरस्ति न्यासेऽङ्गसंज्ञा परा कार्या, पूर्वे न भपदसंज्ञे। एवं सर्वत्र यत्र समावेश इष्टोऽस्मिन्पक्षे-ठृतोरण्ऽ,ठ्च्छन्दसि घस्ऽ,ऋत्विय इति, अत्रठ्सिति चऽ इति-पदसंज्ञाविषये परं कार्यमिति वचनाद् भसंज्ञापि स्यात्। ततश्च ठोर्गुणःऽ प्राप्रोति, सित्करणं पदत्वे सति अवग्रहार्थं स्यात्। ठ्शेषो बहुव्रीहिःऽ इत्यत्र च शेषग्रहणं कर्तव्यम्, अन्यथा ठन्यपदार्थे च संज्ञायाम्ऽ इति अव्ययीभावसंज्ञैव बाधिकेति शेषग्रहणमनर्थकम्। तदेवं शेषग्रहणमेव प्रमाणम्--न्यासान्तरमपि सूत्रकारस्यवाभिमतमिति॥ पदमञ्जरी विप्रतिषेधे परं कार्यम्॥ १।४।२ ॥ विप्रतिषेध इति। ठ्षिधु शास्त्रेऽ,ठ्षिधु गत्याम्ऽ इति भौवादिकयोरन्यतरस्य रूपम्, तस्य हि ठ्सेधसिचसञ्जस्वञ्जाम्ऽ इति षत्वमिति। उपसर्गवशाच्च विरोधार्थत्वम्। धातुनां ह्युपसर्गवशादन्यश्चार्थ उपजायते,तद्यथा--प्रहारः, उपहारः, अनुहारः, संहार इति। ठ्षिधू संराद्धौऽ इत्यस्य तु दैवादिकस्य षत्वं नास्ति, ठ्सेधषिचऽ इति शपा निर्देशात्। ठादेशप्रत्यययोःऽ इति विहितस्य तु ठ्सात्पदाद्योःऽ इति निषेधः। ननु ठ्गतिकारकोपपदानां कृद्भिः सह सामासवचनं प्राक् सुबुत्पतेःऽइति वचनान्नायं सकारः पदादिः। षत्वविषये परिभाषेयं न भवति, यदि स्याद्, गोष्ठः, भूमिष्ठ इत्यादौ सकारस्यापदादित्वात् ठादेशप्रत्यययोःऽइत्येव षत्वसिद्धेरम्बादौ गावादिग्रहणमनर्थकं स्यात्। परशब्दोऽयं त्रिलिङ्गः-परो देशः, परा सेना, परं कार्यमिति। अतोऽयमव्युत्पन्नः, पचाद्यजन्तो वा, न तु ठृदोरप्ऽ इत्यबन्तः,तथा हि सति त्रिलिङ्गता न स्यात्॥ कृल्ल्युट् नपुंसके भावे स्त्रियां क्तिन्नादयो यतः। अतो घञाद्याः पुंस्येव यथा पाकश्चयो लवः॥ वासरूपविधिर्न्नास्ति, कृल्ल्युट्तुमुन्खलर्थेषु वासरूपविधिर्नास्तीति वचनात्। स्त्रियामपि नास्ति, ठस्त्रियाम्ऽ इति प्रतिषेधात्। अतो भावघञादयः पुंस्येव। कर्तृवर्जिते तु कारके पुंनपुंसकयोः, न कथाञ्चित् स्त्रियाम्। परं कार्यमिति । परं यत्कार्यमेत्वादि तद्भवतीत्यर्थः, अथ वा-यत्परं तत्कार्यं भवति, कर्तव्यं भवतीत्यर्थः। अन्ये त्वाहुः- न क्रियापदत्वेन कार्यशब्दस्यान्वयः, नापि परं कार्यं भवति, न तु शास्त्रमित्येवं शास्त्रादिव्यावृतये कार्यशब्दः, किं तर्हि? यत्कार्यं कृत्यर्हं परं तद्भवतीति वचनव्यक्तिः। अर्हे कृत्यप्रत्ययः, किं सिद्धं भवति? तुल्यबलविरोध इति सिद्धं भवति। न ह्यपवादादीनां सन्निधावुत्सर्गादीनां कृत्यर्हत्वम्, तैर्बाधितत्वादिति। विशेधो विप्रतिषेध इति। तद्वाचित्वेनैव लोके प्रसिद्धत्वाद् विप्रतिषिद्धमित्युक्ते विरुद्धमिति गम्यते, तस्य विषयं दर्शयति-यत्रेत्यादि। यत्र विषये, वृक्षाभ्याम्, वृक्षोष्वित्यादौ चरितार्थावित्यर्थः। व्यक्तिपक्षे तु तद्विषययोःउ विध्योरन्यत्र चरितार्थत्वासम्भवाद् अन्योऽर्थः प्रयोजनमनयोस्तावन्यार्थौ। द्वौ प्रसङ्गौउकार्ये दीर्घत्वेत्वादिके युगपत्प्राप्नुतः। स विप्रतिषेधः, विप्रतिषेधस्य विषय इत्यर्थः, तुल्यबलयोर्विरोधो यस्मिन् स तथोक्तः। परं कार्ये भवतीति। यत्कार्यं कृत्यर्हं परं तद्भवतीत्यर्थः। तुल्यबलविरोध इत्यस्य व्यावर्त्यं दर्शयति-उत्सर्गापवादेत्यादि। तत्र ठ्श्याद्व्यधऽ इत्याकारान्तलक्षणो णप्रत्यय उत्सर्गः, तं परमप्यनुपसर्ग सावकाशं बाधित्वाऽनवकाशत्वात् ठातश्चोपसर्गेऽ इति क एव भवति-सग्लः, सम्लः। रधेर्णिचि ठ्रधिजभोरचिऽ इति नुम् कृताकृतप्रसङ्गित्वान्नित्यः, ठत उपधायाःऽ इति वृद्धिरनित्या, नुमि कृतेऽकारस्यानुपधात्वादप्राप्तेः। तत्र पूर्वोऽपि नुमेव भवति-रन्धयतीति। अशिश्रियद्, अदुद्रुवद् इत्यात्रान्तर्भूतचङ्पेक्षत्वाद् इयणुवान्तरङ्गौ बहिरङ्गं लघूपधगुणं परमपि बाधेते, अपवादादीनां तु परस्परसंप्रधारणायां नित्यादप्यन्तरङ्गम्, तस्मादपवादः। उक्तं च-- परं विदुः पूर्वपरोपपतौ परस्य नित्यस्य च नित्यमेव। नित्यान्तरङ्गोपगमेऽन्तरङ्गं तस्माद्विधिः प्रातिपदो बलीयान्॥ इति। द्वयोरेकत्रोपनिपातःऊपपतिः, परस्य नित्यस्य चेति। अत्र उप समस्तद्याकृतौ पदार्थे द्वयोरप्यन्यत्र कृतार्थत्वाद्विप्रतिषेधे सति परस्परप्रतिबन्धादप्रवृत्तिरेव प्रप्नोति, तद्यथा--यो हि द्वयोस्तुल्यबलयोरेकः प्रेष्यो भवति स तयोः पर्यायेण कार्यं कारोति; यदा तमुभौ युगपत्प्रेषयतो नाना दिक्षु च कार्ये भवतस्तदा यद्यसावविरोधार्थो भवति उभयोर्न करोति, तत्र विध्यर्थमिदं परं भवतीति तस्मिन् कृते यदि पूर्वस्यापि निमितमस्ति तदपि भवत्येव। यथा--भिन्धकीति, भिन्द् हि इति स्थिते परत्वाद्धिभावेपुनः प्रसङ्गविज्ञानादकज् भवति। व्यक्तौ तु पदार्थे सर्वव्यक्त्युद्देशेन शास्त्रस्य प्रवृतेस्तद्विषयोपनिपातिनोऽन्यत्र चरितार्थत्वात्पर्यायेण प्रवृतौ प्राप्तायां नियमार्थमिदम्-विप्रतिषेधे परमेव भवति, न पूर्वमिति। एतत्सूत्रारम्भाच्च पूर्वस्य लक्षणस्य तत्रानारम्भोऽनुमीयते, तदुच्यते-ठ्सकृद्गतौ विप्रतिषेधे यद्वाधितं तद्वाधितमेवऽ इति। तद्यथा-जुहुतात् त्वमिति परत्वातातङदेशे कृते स्थानिवद्भावेन प्राप्तं धित्वं न भवति। लक्ष्यानुरोधेन व्यक्त्याकृतिपदार्थाश्रयणादनयोः परिभाषयोर्विषयविभागोऽवसेयः॥ पदमञ्जरी यू स्त्र्याख्यौ नदी॥ १।४।३ ॥ अत्र ह्रस्वयोरिदुतोर्ग्रहणे यद्यपि सवर्णग्रहणाद्दीर्घयोरपि संज्ञा लभ्यते, ह्रस्वयोरपि तु स्यात्;ततश्च हे शकटे, हे धेनो अत्रापि प्राप्नोति; इह च शकटिबन्धुः-ठ्नदी बन्धुनिऽ इति पूर्वपदान्तोदातत्वं प्रसज्यते; इह च बहुशकटिः बहुधेनुरिति-नद्यःतश्चऽ इति नित्यः कप्स्यात्, नैष दोषः, ठ्ङिति ह्रस्वश्चऽ इत्येतन्नियमार्थं भविष्यति-ङ्त्येवि ह्रस्वौ नदीसंज्ञौ भवतः, नान्यत्रेति। कैमर्थ्यान्नियमो भवति विधेयं नास्तीति कृत्वा, इह चास्ति विधेयम्, किम? नित्या नदीसंज्ञा प्राप्नोति, सा विभाषा विधेया, अतो हुस्वयोरपि स्यादेवेति दोषं द्दष्ट्वा दीर्घयोर्ग्रहणमिति दर्शयति--ई च ऊ च यू इति। समासविधौ सुबधिकारान्नैतद् द्वन्द्वस्य विग्रहवाक्यम्, किं तर्हि? अर्थप्रदर्शनम्। अत्र चानुकार्यानुकरणयोरभेदविवक्षया विभक्तिर्न कृता । क्वचितु विभक्त्यन्तमेव पठ।ल्ते। ननु दीर्घयोर्ग्रहणे ठ्यूऽ इति निर्देशो नोपद्यते, ठ्दीर्घाज्जसि चऽ इति पूर्वसवर्णप्रतिषेधाद्, अत आह-अविभक्तिकोऽयं निर्देश इति। ठ्दीर्घाज्जसिसुलुक्ऽ इति लुप्तत्वाद् ठ्वा च्छन्दसिऽ इति पूर्वसवर्णेनापहृतत्वाद्वा नास्मिन् विभक्तिः श्रुयते इत्यविभक्तिकः। अन्ये तु नैवायं द्वन्द्वः, किन्तु पृथक् पदे इत्युक्तमित्याहुः। अविभक्तिकत्वं चातुकार्यानुकरणयोरभेदविवक्षया। स्त्रियमाचक्षाते स्त्र्याख्याविति। ननु स्त्र्याख्या इति प्राप्नोति, ठनुपसर्गेऽ इति को विधीयते, यस्तु ठातश्चोपसर्गेऽ इति कः, अयमकर्मोपपदे चरितार्थः, कर्मणि त्वणा बाध्यते, यथा वक्ष्यति--अकारादनुपपदात् कर्मोपपदे विप्रतिषेधेनेति तत्राह--मूलविभुजादिषु दर्शनादिति। एवं च कृत्वा इदमपि सिद्धं भवति-- यस्मिन् दशसहस्त्राणि पुत्रे जाते गवां ददौ। ब्राह्मणेभ्यः प्रियाख्येभ्यः सोऽयमुञ्छेन जीवति ॥ इति॥ इह ईदूतोरेवेयं संज्ञा विधीयेत? तदन्तस्य वा? आद्ये पक्षे कृत् स्त्रियां न स्याद्--आध्यै, ब्राह्मण्यै, हे लक्ष्मि, हे यवाग्विति; समुदायो ह्यत्र स्त्र्याख्यः, न त्वीदून्मात्रम्; ङ्यूङेरेव तु स्यात्, स्त्रियां विधानादन्वयव्यतिरेकाभ्यां च स्त्र्याख्यात्वादिति द्वितीयं पक्षमाशित्याह--ईकारान्तमित्यादि। वर्णग्रहणे सर्वत्र तदन्तविधिरिति तदन्तविधिलाभः, ठ्सुप्तिङ्न्तम्ऽ इत्यत्र सुप्तिङेः प्रत्ययत्वादन्यत्रापि प्रत्ययग्रहणेषु तदन्तविधिर्निवारितः। कथं पुनर्ज्ञायतेवर्णयोरेवेदं ग्रहणं न प्रत्ययोरिति, इयणुवङ्स्थानप्रतिषेधात्। यदि तदन्तस्य संज्ञा, कथं वक्ष्यति-शीनद्योः परतः नद्यन्तादङ्गादुतरस्य इति? समुदायस्य नदीत्वातदवयवभूतावीदूतावपि तथोक्तौ। अन्ये त्वाहुः- वर्णयोरेव संज्ञा, समुदायधर्मस्य स्त्रित्वस्यावयव आरोपात्। कृत् स्त्रियामपि भवति, अत्र च लिङ्गम्-इयणुवङ्स्थानप्रतिषेध इति; तेषां गुरुनदीसंज्ञयोः समावेशो न स्याद्, एकविषयत्वात्। यू इति किमिति। ठ्णेóराम्नद्याम्नीभ्यःऽ इत्यत्र पृथगाब्ग्रहणाद् आपो न भविष्यतीति मन्यते। मात्रे दुहित्रे इति ठ्न्द्यःतश्चऽ इति ऋकारग्रहणमस्त्र्यर्थ स्याद्। बहुपितृक इत्यत्रेत्यज्ञापकम् ऋकारान्तानां संज्ञाभावस्य। ग्रामणीः खलपूरिति। रूपोदाहरणमेतत्सम्बुद्ध्यन्तं वा द्रष्ट्व्यम्। अथाख्यग्रहणं किमर्थम्, यावता यु स्त्रियामित्येतावता स्त्र्यर्थवृत्तित्वं लभ्यते, तत्राह--आख्याग्रहणमिति। आङ्पूर्वंस्य ठ्ख्याऽ इत्यस्य धातोर्ग्रहणमित्यर्थः। क्वचितु आख्यग्रहणं किमिति प्रश्नः। शब्दार्थस्त्रीत्व इति आख्याग्रहणसामर्थ्यात्पदान्तरमनपेक्ष्य यौ स्वयमेव स्त्रियमाचक्षाते इत्याश्रीयते। इष्वशनिप्रभृतीनां तूभयलिङ्गानां शब्दार्थ एव स्त्रीत्वमिति ठ्ङिति ह्रस्वश्चऽ इति नदीसंज्ञा भवत्येव। एवं पटुअरानीयतामित्युक्ते स्त्रियमप्यानीय कृतीभवति। अन्ये त्वाहुः-आख्याग्रहणसामर्थ्यान्नियम आश्रीयते-स्त्रियमेव यावाचक्षाते न तु लिङ्गन्तरयुक्तम् इति। ग्रामणीखलपूशब्दयोस्तु क्रियाशब्दत्वेन त्रिलिङ्गत्वान्न भवति। इष्विशनिप्रभृतीनां तु स्त्रीविषयन्तवाभावेऽपि ठ्ङिति ह्रस्वश्चऽ इत्यायत्र केवलस्य स्त्रीशब्दस्यैवानुवृत्तिर्नाख्याग्रहणस्येति भवतीति तेषामाङ्पूर्वस्य ध्यायतेः क्विपि सम्प्रसारणे-आध्यै ब्राह्मण्यै इत्यत्रापि न स्यात्। तस्मात्पूर्व एव प्रकार आश्रयणीयः। कथं तर्हि प्रत्युदाहरणम्-ग्रामण्यै स्त्रियै इति, खलप्वै स्त्रियै इति? उच्यते; क्रियाशब्दत्वेऽप्येतयोः पुंसि मुख्या वृत्तिः, पुंसामेव ह्यमुचितो धर्मो यदुत ग्रामनयनं नाम। एवं खलपवनमपि। आध्यानं तु स्त्रिपुंससाधारणमिति विशेषः। ठ्पथमलिङ्गग्रहणं च प्रयोजनं क्विब्लुप्समासाः,ऽ यः शब्दः प्रथमस्त्रित्वयुक्तद्रव्यमभिधाय पश्चाद्येन केनचित्प्रकारान्तरेण लिङ्गान्तरसंयुक्तं द्रव्यान्तरमाह, तस्य तदानीमस्त्र्याख्यत्वादप्राप्ता संज्ञा विधीयते। क्विप्--कुमारीमिच्छति कुमारीयति, कुमारीयतेः क्विप्, कुमारी ब्राह्मणः, तस्मै कुमार्यै ब्राह्याणाय। लुप्--ठ्लुम्मनुष्येऽ इति लुप्, खरकुट्यै ब्राह्मणाय। यद्यप्यत्र यचुक्तवद्भावात् स्त्रीत्वमप्यस्ति, तथापि स्वाश्रस्य पुंस्त्वस्यानिवृतेर्नाऽयं स्त्रियामेव वर्तत इत्याख्याग्रहणादप्राप्तिः । समासः- अतितन्त्र्यै ब्राह्मणाय। अवयवस्त्रीविषयत्वात् सिद्धम्, समासे तावदवयवस्तन्त्रीशब्दः स्त्रियामेव वर्तत इति तदानीमेव संज्ञा, ततश्च वर्णसंज्ञापक्षे समुदायस्य नद्यन्तत्वात् कार्यसिद्धिः; तदन्तपक्षे तु ठङ्गधिकारे तस्य च तदुतरपदस्य चऽ इति वचनाद् अतितन्त्रीबन्धुरित्यत्रापि ठ्नदी बन्धुनिऽ इति स्वरः सिद्धः; नद्या पूर्वपदस्य विशेषणात्, क्विब्लुपोरपि पूर्व स्त्रियामेव वर्तित्वात्, पश्चादपि तदपरित्यागेनार्थान्तरे वृत्तिः। तत्रार्थान्तरसंसर्गात्प्रागेवान्तरङ्गत्वात्प्रवृता संज्ञा सत्यपि पश्चाल्लिङ्गान्तरयोगे तस्य च बहिरङ्गत्वान्न निवर्तिष्यते। यद्येवम्, इयणुवङ्स्थानप्रतिषेधे यण्स्थानप्रतिषेधप्रसङ्गः; अवयवयोरियणुवङ्स्थानत्वाद्। यथा ह्यवयवस्य स्त्रिविषयत्वात्समुदायस्य संज्ञा भवति, तथावयवस्येयुवस्थानत्वात् समुदायस्य यण्स्थानस्यापि प्रतिषेधप्रसङ्गः, यथा--धियौ, आध्याविति? सिद्धं त्वङ्गरूपग्रहणाद्, यस्याङ्गस्येयुवौ तत्प्रतिषेधादङ्गस्येयणुवङ्विधनासमर्थ्यादङ्गस्याक्षेपः, तेन यस्याङ्गस्येयणुवङै निर्वर्तेतेतस्य नदीसंज्ञा निषेधः। आध्यै इत्यत्र त्ववयवस्याङ्गत्वं नास्ति, अङ्गस्य ठेरनेकाचःऽ इति यण्विधानाद् इयणुवङ्स्थानता नास्तीति निषेधाभावः। एतदर्थमेव तत्र स्थानग्रहणम्--इयणुवङेर्यदा स्थितिस्तदा प्रतिषेधो यथा स्याद्, यदा त्वपवादेन बाधस्तदा मा भूदिति। एवं ठ्ङिति ह्रस्वश्चऽ इत्यत्राप्यङ्गस्याक्षेपात् सोऽपि विधिरङ्गस्यैव स्त्रीत्वे भवति, नावयवस्य--शकट्यै, अतिशकटये ब्राह्मणाय; श्रियै, अतिश्रिये ब्राह्मणाय॥ पदमञ्जरी नेयणुवङ्स्थानावस्त्री॥ १।४।४ ॥ इयणुवङे स्थानमनयोरिति। वैयधिकरण्येऽपि गमकत्वाद्वहुव्रीहिः। अन्ये त्वधिकरणे ल्युट्ंअ विधाय कर्तरि षष्ठयाः समासं कुर्वन्ति। अथ कथम् ठ्विमानना सुभ्रु कुतः पितुर्गृहेऽ इति? प्रमाद एवायम्। अन्येत्वाहुः-अनित्योऽयं प्रतिषेधः, सकृद्वद्धत्वात् । तथा च परिभाषा-ठ्सकृद्वद्धमनित्यं द्विर्बद्धञ्च सुबद्धम्ऽ इति। अत्र ज्ञापकं तदो दावचनमित्याहुः॥ पदमञ्जरी वाऽऽमि॥ १।४।५ ॥ संहितासाम्येऽपि षष्ठीबहुवचनस्य ग्रहणम्, न तु द्वितीयैकवचनस्य, नदीकार्याभावात्। नापि सप्तम्येकवचनस्य; तस्य नदीसंज्ञोतरकालम्ठ्णेóराम्नद्याम्नीभ्यःऽ इति विधानात्। न च ठामि इति विषयसप्तमी युज्यते;ठ्तस्मिन्निपिनिर्दिष्टेऽ इति वचनात्, तदाह-आमि परतो वा नदीसंज्ञौ न भवत इति। श्रीणामिति । नदीसञ्ज्ञापक्षे ठ्ह्रस्वनद्यापो नुट्ऽ॥ पदमञ्जरी ङिति ह्रस्वश्च॥ १।४।६ ॥ यद्यत्र ह्रस्वविशेषणार्थम् ठ्यूऽ इति नानुवर्त्यत, तदेहापिस्याद्--मात्रे दुहित्रे इति, तस्मातदिहानुवर्तते। नन्वेवमपि विशेषणं न प्रकल्पतेयू ह्रस्वाविति; यदि यू, न ह्रस्वौ; अथ ह्रस्वौ, न यू;यू ह्रस्वौ चेति विप्रतिषिद्धम्; आहायं यू ह्रस्वाविति, तत एवं विज्ञास्यामः- य्वोः ह्रस्वाविति, कौ च य्वोः ह्रस्वौ सवर्णौ ? तदाह--ह्रस्वश्च य्वोः सम्बन्धी यः स्त्र्याख्य इति। अत्रापि समुदायधर्मस्यावयव आरोपाद् ह्रस्वयोः स्त्र्याख्यत्वम्, तदन्तविशेषणं वा। इयवणुङ्स्थानौ च यू इति। नन्वेकं ठ्यूऽ ग्रहणमनुवर्तते, तच्च ह्रस्वविशेषण एवोपक्षीणम्, तत्कथं पुनः ठ्यूऽ इति लभ्यते ? उच्यते; चकारोऽत्र क्रियते, स संज्ञिनः समुच्चयार्थः, इयणुवङ्स्थानाविति प्रकृतं य्वोरेव च तत्स्थानत्वमित्यर्थाद् ठ्यूऽ इति लभ्यते। स्वरितत्वादनुवृतं तु ठ्यूऽ इत्येतद् ह्रस्वविशेषणमिति न कश्चिद्दोषः॥ पदमञ्जरी शेषो घ्यसखि॥ १।४।७ ॥ ठा धृषाद्वाऽ इत्यस्मिन्नधिकारे ठ्शिष असर्वोपयोगे, विपूर्वोऽतिशयेऽ इति पठ।ल्ते, तत्र णिच्पक्षे कर्मणि ठेरच्ऽ, अन्यथा घञ्। ह्रस्व इति वर्तत इति। अन्यथा ग्रामण्यादेरपि स्याद् अस्त्र्याख्यत्वेन शेषत्वाद्, यस्य नदीसंज्ञा न विहिता तस्य शेषत्वे मात्रे इत्यत्रापि स्यादिति मत्वा पृच्छति--कश्चेति। इतरस्तु ह्रस्वविशेषणार्थं ठ्यूऽ इत्यस्याननुवृत्तिमाश्रित्याह--ह्रस्वमिति। ह्रस्वान्तमित्यर्थः। यदाह--इवर्णोवर्णान्तादिति। क्वचितु ह्रस्वेर्णोवर्णान्तमिति पाठः, ह्रस्वात्मको य इवर्ण उवर्णश्च तदन्तमित्यर्थः। ह्रस्वेन शेषस्य विशेषणत्वात् तदन्तविधिः। एवं च ठसखिऽ इति सखिशब्दस्य प्रतिषेधो न तत्सम्बन्धिन इकारस्य, किं सद्धं भवति? इह शोभनस्सखा अस्य सुसखिः, सुसखेरागच्छतीति घिसंज्ञा सिद्धा भवति। न ह्ययं समुदायः सखिशब्दः, तदन्तविधिश्च ग्रहणवता प्रातिषेधादिहापि न स्यात्। यदि तदन्ते निषेधो न भवति ठ्यस्येति चऽ इत्यत्र इवर्णस्य ई इति यदुदाहरणं सखिशब्दात् ठ्सख्यशिश्रीति भाषायाम्ऽ इति ङीषि सखि ई इति स्थिते इकारस्य लोपः। असति तु लोपे सवर्णदीर्धस्य पूर्व प्रत्यन्तवद्भावात् सखीमतिक्रान्तोऽतिसखिः, अतिसखेरागच्छतीत्यत्रासखीति धिसंज्ञाप्रतिषेधः स्यादिति तन्नेपपद्यते। सत्यप्यन्तवद्भावेन सखिग्रहणेन ग्रहणे समुदायस्य सखिशब्दादन्यत्वात्। यदा खलु पुंल्लिङ्गेप्यतिसखिरिति भवति, तदा कः प्रसङ्गो यदन्तवद्भावेन स्यात्? यतु तत्रोदाहरिष्यते सोऽनास्थावादो द्रष्ट्व्यः। शेषग्रहणं चिन्त्यप्रयोजनम्। एकसंज्ञाधिकारादेव हि स्त्र्याख्यस्य ङिति नदीसंज्ञापक्षे घिसंज्ञा न भवष्यति॥ पदमञ्जरी पतिः समास एव॥ १।४।८ ॥ सिद्धायामिति। प्राप्तायामित्यर्थः, न पुनर्निष्पन्नायाम्, न हि निष्पन्नायां नियमेन निवृत्तिः शक्या वक्तुम्। पतिशब्दः समास एव घिसंज्ञो भवतीति। किं पुनरिदं समासावयवस्य पतिशब्दस्य संज्ञा विधीयते? आहोस्वितदन्तसमासस्य? यदि समासस्य ? पतिश्च गृहं च पतिगृहे-अत्र द्वन्द्वे घिः इति पूर्वनिपातो न प्राप्नोति; अथ पतिशब्दस्य? प्रजापतिनेत्यादिकस्य घिसंज्ञाकार्थ न प्राप्नोति। अथ वा ठ्पतिः समासएवऽ इति नियमेन किं व्यावर्त्यते? असमस्तः पतिशब्दः। पतिशब्दस्य व्यावर्त्यमाना केन तदन्तस्य व्यावर्त्यते? पतिशब्दसम्बन्धी य ईकारस्तदाश्रया सा घिसञ्ज्ञा भवति, यदि समास एवेत्यर्थो विवक्षितः। तेन समासे पतिशब्दस्यानन्त्यस्यापि भवति-पतिश्च गृहश्च पतिगृहे, ठ्द्वन्द्वे घिःऽ इति पूर्वनिपातः। पतिशब्दान्तस्य समासस्यापि भवति-प्रजापतिनेति, अत एव वृत्तिकृता पतिशब्दानुरूपसूत्रार्थो दर्शितः। उदाहरणन्तु तदन्तानुरूपं दर्शितम्। अथ कथम् नष्टे मृते प्रव्रजिते क्लीबेऽथ पतिते पतौ। पञ्चस्वापत्सु नारीणां पतिरन्यो विधीयते॥ इति? छन्दोवद्दषयः कुर्वन्ति। अथ पूर्वत्रैव ठसखिपतीऽ इति कस्मान्नोक्तम्? उतरत्र पत्युरेव विकल्पो यथा स्यात्। किञ्च ठसखिपतीऽ इत्युच्यमाने पतिशब्दस्य समासेऽपि न स्यात्--पतिगृहे इति। तथा च सखिशब्दस्य समासावयवस्यापि घिसञ्ज्ञाया अभावात्--सखिगृहे,गृहसखायाविति चानियमः पूर्वनिपातस्य॥ पदमञ्जरी षष्ठीयुक्तश्च्छन्दसि वा॥ १।४।९ ॥ षष्ठ।ल्न्तेन शब्देनेति। षष्ठ।ल विभघक्त्या युक्त इति तु न भवति। तथा हि-षष्ठ।लमित्येव ब्रूयाद्, युक्तग्रहणमनर्थकं स्यात्। षष्ठीग्रहणं किमिति। अत्र केचिद्योगस्यावर्जनीयत्वाद्यौक्त इत्येव विशिष्टो योगः प्रत्येष्यत इति मन्यन्ते, वचनमन्तरेण विशेषो दुर्ज्ञान इत्युतरम्। अयमत्र योगविभागः कर्तव्यः-ठ्षष्ठीयुक्तः च्छन्दसिऽ,षष्ठीयुक्तः पतिशब्दः च्छन्दसि घिसञ्ज्ञो भवति; ततो ठ्वाऽ, च्छन्दसीत्येव, यच्च यावच्च शास्त्रे कार्यं तत्सर्वं च्छन्दसि विकल्पेन भवतिः सर्वे विधयश्च्छन्दसि विकल्प्यन्त इत्यर्थः। उभयत्रविभाषा चेयम्, ठ्बहुलं च्छन्दसिऽ इत्यादिकस्त्वस्या एव प्रपञ्चः॥ पदमञ्जरी ह्रस्वं लघु॥ १।४।१० ॥ इह सर्पिष्ट्वामित्यत्र ठ्ह्रस्वातादौ तद्धितेऽ इति षत्वार्थं ह्रस्वसंज्ञया गरुसंज्ञाया समावेश इष्यते। अततक्षदित्यत्र तु सन्वद्भावनिवृत्यर्थं लघुसंज्ञाया गुरुसंज्ञया बाध इष्यते। अतो ह्रस्वप्रदेशेषु संयोगपरस्यापि मात्रिकस्यग्रहणं यथा स्यात्, लघुप्रदेशेषु मा भूदिति यथाप्रदेशे संज्ञाद्वयं कर्तव्यम्॥ संयोगे गुरु॥ १।४।११ ॥ दीर्घ च॥ १।४।१२ ॥ पदमञ्जरी यस्मात्प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम्॥ १।४।१३ ॥ कर्तेति। लुट्। करिष्यतीति। लृट्। अकरिष्यदिति। लृङ्,ठृद्धनोः स्येऽ इतीट्। यस्मादिति संज्ञिनिर्देशाथमिति। ननु तदादीत्यनेन संज्ञी निर्दिश्यते, न यस्मादित्यनेन तत्राह-तदादीतिसंबन्धादिति। सति हि यस्मादित्यस्मिन् तदादीत्यनेन संज्ञा निर्देअष्टुंअ शक्यते, नान्यथा । सति हि परामर्शनीये तदित्यनेन परामर्शो भवति, अन्यथा तदादीत्यसंबद्धमेव स्यात्। ठ्नेर्विशःऽ इत्युपसर्गाद्विधिरस्तीति। यद्यपि निरत्र धातुविशेषणम्-- नेः परो यो विशिरिति, धातोस्तङ्विधानाद् नियमविधिरपि धातोरिव नोपसर्गात्, तथाप्युपसर्गस्यापि तत्रान्वयोऽस्तीति मत्वा एवमुक्तम्। विधिग्रहणं किमिति। ठ्यस्मात्प्रत्ययऽ इत्युकते साकाङ्क्षत्वाद् यस्माद्विधीयत इत्यध्याहरिष्यत इति प्रश्नः । परशब्दस्याप्यध्याहारः स्यादित्युतरम्। स्त्री इयतीति। इदं परिमाणमस्याः ठ्किमिदभ्यां वो घःऽ इयादेशः,ठिदंकिमोरीश्कीऽ,ठ्यस्येतिचऽ इति लोपः,ठुगितश्चऽ इति ङीप्, स्त्रीशब्दात् सोर्हल्ङ्यादिलोपः। अत्र इयच्छब्दे परतोऽङ्गसंज्ञा स्याद् भसंज्ञा चेति तन्निमितो यस्येति लोपः प्रसज्येत। इशादेशस्य यस्येति लोपः, तस्याभीयस्याप्यसिद्धत्वं न भवति, प्राग्भादसिद्धत्वमिति केषाञ्चिदभ्युपगमाद्। स्थानिवद्बावोऽपि नास्ति, पदान्तरनिरपेक्षे हीयतीशब्दे व्युत्पाद्यमाने स्त्रीशब्दोऽनादिष्टादचः पूर्वः। ननु क्रियमाणे विधिग्रहणे स्यादेव संज्ञा, अस्त्येव ह्यत्र स्त्रीशब्दाद् विभक्तेः प्रत्ययस्य विधिरियत्प्रत्ययश्च परः, नैषः; सति विधिग्रहणे प्रत्यासतेर्यस्माद्यः प्रत्ययो विहितस्तस्मिन्नेव प्रत्यये परतस्तदाद्यङ्गमित्यर्थो भवति। इह च स्त्रीशब्दाद्विहितो लुप्तः, श्रुयमाणश्च न ततो विहितः, तदादिग्रहणमनर्थकम्, यतदोर्नित्यसम्बन्धादेव यस्मात्प्रत्ययो विधीयते तदङ्गमित्यर्थलाभाद् अत आह-तदादिवचनमिति। स्यादयो विकरणाः। आदिशब्देन शबादेर्ग्रहणम्। असति तदादिग्रहणे यच्छब्दवतच्छब्दस्याध्याहाराद् यस्मात्प्रत्ययविधिस्तस्यैव संज्ञा स्याद् न तु तत आरभ्य आ तस्मात्प्रययाद्यः संघातः तस्य। ततश्च करिष्यावः, पचावः, दीव्यावः, तुदाव इत्यादौ ठतो दीर्घो यञि ऽ इति दीर्घो न स्यात्; स्याद्यन्तस्य समुदायस्यानङ्गत्वात्। ततश्च पापाव इत्यादावेव स्यात्, ठ्पयगतौऽ यङ्लुगन्तस्य ठ्लोपो व्योर्वलिऽ इति लोपे रूपम्। कुण्डानीति। यदा नुम् परादिः, तदा ठ्सुपि चऽ इति दीर्घः सिध्यति। दधीनीत्यादावनकारान्तत्वान्न सिध्यति, पूर्वान्तपक्षे सामानीत्यादिवत्सिध्यति। यदा त्वभक्तपक्षः तदैतत्प्रयोजनं तदादिग्रहणस्य, पूर्वान्तपक्षस्तु तत्र स्थित इत्यप्रयोजनमेतत्। ननु च ठ्प्रातिपदिकान्तनुम्विभक्तिषु चऽ इति नुम्ग्रहणं कुर्वतः सूत्रकारस्याभक्तो नुमित्यभिप्रायो लक्ष्यते, अन्यथा माषवापाणीत्यत्र प्रातिपदिकान्तत्वाद्विभक्तिनकारत्वाद्वा णत्वसिद्धेरनर्थकं तत्स्यात्? नैतत्सूष्ठूअच्यते; तत्र हि समासप्रातिपदिकान्तो न गृह्यते, किं तर्हि? पूर्वपदादित्यनुवृतेस्तदाक्षिप्तस्योतरपदप्रातिपदिकस्यान्तो गृह्यते, समुदायभक्तश्च नुम् उतरपदप्रातिपदिकान्तो न भवति। ततश्च यथा गर्गाणां भगिनी गर्गभगिनीत्यत्र णत्वं न भवति, तथा नुमोऽपि न स्यात्। न तर्हिदानीमिदं भवति-गर्गभगिणीति? भवति, यदैतद्धाक्यं भवति-गर्गाणां भगो गर्गभगः सोऽस्या अस्तीति। तदा ह्यनुतरपदस्थत्वात् पूर्वपदात् सञ्ज्ञायामेवेति नियमाभावः, तद्यथा- मातृभोगाय हितो मातृभोगीण इति। एवमपि माषान् वप्तुं शीलमस्याः माषवापिणी-अत्र न प्राप्नोति, ङीबत्रोतरपदस्यान्तो न तु नकारः। नकार एवात्रान्तः, कथम्? गतिकारकोपपदानां कृद्बिः सह समासवचनं प्राक् सुबुत्पतेः, अतः स्याद्यर्थं क्रियमाणं तदादिग्रहणं नुम्यपीष्ट्ंअ साधयतीति मत्वा नुम्ग्रहणं कृतम्। यदि तदादीत्युच्यते कर्तेत्यादौ न प्राप्नोति, न ह्यत्र तदादि किञ्चिदस्ति, किं तर्हि? तदेव, व्यपदेशिवद्भावाद्भविष्यति, वाक्यभेदाद्वा, यस्मात्प्रत्ययविधिस्तदङ्गम्, तदादि च। इहठ्प्रकृत्यादि प्रत्ययेऽङ्गम्ऽ इति इयता सिद्धे गुरुनिर्हेश एव लिङ्गं वाक्यभेदस्य। अथ कथं भिनति, संचस्करतुरित्यत्र सनुम्कस्य च समुदायस्याङ्गसंज्ञा? कथं च न स्याद्? इह तस्य वा ग्रहणं भवति? तदादेर्वा? न चेदं तन्नापि तदादि। इदमपि तदादि, कथम्? नैवं विज्ञायते-स आदिरस्यततदादीति। कथं तर्हि तस्यादिस्तदादिस्तदादिरस्येति? तथापि उष्ट्रमुखवदेकस्यादिशब्दस्य लोपः। एवं हि विज्ञायमाने भिनतीत्यत्र यस्मात्प्रत्ययविधिभिदेस्तस्य आदिर्भकारः, स आदिः सन्नन्तस्य समुदायस्येति सिध्यति। एवं संचस्करतुरित्यत्रापि ठ्तन्मध्यपतितस्तद्ग्रहणेन गृह्यतेऽ इति चात्रोभयत्र सज्ञासिद्धिः। अथात्र श्नमः पूर्वस्य भिशब्दस्यङ्गसञ्ज्ञा कस्मान्न भवति? भवतु, को दोषः? गुणस्तावत्ठ्सार्वधातुकमपिद्ऽ इति ङित्वादेवि न भविष्यति। इह अनक्ति, भनक्ति- ठतो दीर्घो यञिऽ इति दीर्घः प्राप्नोति, तिङीति तत्र वर्तते। अथ वा-ठ्यस्मात्प्रत्ययविधिःऽ इति दीर्घः प्राप्नोति, तिङीति तत्र वर्तते। अथ वा-ठ्यस्मात्प्रत्ययविधिःऽ इति वचनाद्यस्मिन् प्रत्यये विधीयमाने यत्पञ्चम्या निर्दिष्ट्ंअ तत्र तदेवाङ्गम्, श्नमि च विधीयमाने ये पञ्चम्या निर्दिष्टा रुधिरादयो न ते तत्र परतः, येऽत्र श्नमि परतोतिऽप्रभृतयो न ते पञ्चम्या निर्दिष्टा इति सञ्ज्ञअभावः। श्यर्थमिति। ठ्चतुर्थी तदर्थऽ इति समासः। अस्ति ह्यत्र चतुर्थ्येकवचनस्य विधिरित्यसति पुनः प्रत्ययग्रहणेङ्गशब्दस्य सम्बन्धिशब्दत्वाभावात् वस्तुतोऽङ्गमात्राश्रय इयङ् स्यात्। सति तु सप्तमीनिर्द्दिष्टप्रत्ययग्रहणेऽङ्गशब्दः सम्बन्धिशब्दो भवति, ततश्चाङ्गस्येयङ् भवति। अचीत्यक्ते यदपेक्षं यदङ्गम्, तत्र तस्याजादाविति विज्ञानादर्थशब्दे परत इमणुवङै न भविष्यतः। किं पुनरङ्गसंज्ञायाः प्रयोजनम्? अङ्गस्येत्यधिकारः। नैतदस्ति; यदेतदङ्गस्येत्येतत् प्रत्यय इति वक्ष्यामीति। एवमपि प्राकरोत् प्रैहिष्ट-सोपसर्गस्याडाटौ प्राप्नुतः, नैष दोषः, प्रत्ययग्रहणे यस्मात्स विहितस्तदादेर्ग्रहणं भवतीति। क्व पुनरेषा परिभाषा? नन्वेषाप्यत्रैव योगविभागेन सिद्धा, ठ्यस्मात्प्रत्ययविधिस्तदादि प्रत्ययेऽ इत्येतावानेको योगः। प्रत्यये गृह्यमाणे यस्मात् तस्य विधिस्तदादि गृह्यत इत्यर्थः, तेन ठ्ञ्नित्यादिःऽ इत्यादौ यत्र प्रत्ययः सप्तम्या निर्दिश्यते तत्र तदादेर्ग्रहणम्, तेन देवदतो गार्ग्य इति संघातस्य ञित्स्वरो न भवति। ठ्सुपाअत्मनः क्यच्ऽ इत्यत्र तु सुपा कर्मणो विशेषणातदन्तविधौ सिद्धे महान्तं पुत्रमित्यादावतिप्रसङ्गे तदादिनियमेन व्युदासः। यदि तदादिनियमः क्रियते स्त्रीप्रत्ययेऽपि स्यात्, ततः ष्यङ्न्तस्य पूर्वपदस्योच्यमानं संप्रसारणं परमकारीषगन्धीपुत्र इत्यत्र न स्याद्-यत्पूर्वपदं न तत्ष्यङ्न्तम्, यत्ष्यङ्न्तं न तत्पूर्वपदम्, नैष दोषः, ठ्नेयणुवङ्स्थानावस्त्रीऽ इत्यतःठस्त्रीऽ इत्यनुवर्तते, तच्च स्वरूपपदार्थकत्वेन प्रकृतमपीहार्थपदार्थकं संपद्यते, तदयमर्थो भवति-प्रत्ययग्रहणे तदादि गृह्यते प्रकृतमपीहार्थपदार्थकं संपद्यते, तदयमर्थो भवति-प्रत्ययग्रहणे तदादि गृह्यते स्त्री चेन्नाभिधीयते। स्त्रीप्रत्यये तदादिनियमो नास्तीत्यर्थः। यद्येवम्,अतिकारीषगन्ध्यापुत्रः-अत्रापि प्राप्नोति, प्रधानं या स्त्री तस्यामेव तदादिनियमप्रतिषेधः, अप्रधानस्त्रियां तु तदादिनियमो भवत्येव। तेन यावानंशः स्त्रियं प्राधान्येन प्रतिपादयति, तावतः स्त्रीप्रत्ययान्तस्य ग्रहणं भवति। तद्ग्रहणे तु गतिकारकपूर्वस्यापि ग्रहणं भवतीति ठ्गतिरनन्तरःऽ इत्यनन्तरग्रहणं ज्ञापयिष्यते। पदमञ्जरी सुप्तिन्तं पदम्॥ १।४।१४ ॥ सुप्तिङिति प्रत्याहारग्रहणमिति। सुबिति सप्तमीबहुवचनस्य ग्रहणं न भवति; यदि स्यात्, ङिसंबुद्ध्योः पदत्वाभावादेव नलोपस्याप्रसङ्गात् ठ्न ङिसंबुद्ध्योःऽ इति प्रतिषेधोऽनर्थकः स्यादिति भावः। सप्तमीबहुवचनस्य च पकारेण प्रत्याहारो न कपः पकारेण; तस्याहारस्तदा स्वरविधावपि तथैवेति सुप्त्वादेव स्वरसिद्धेः पित्वमनर्थकमेव स्यात्। यदि च सुब्ग्रहणेषु कपः पकारेण प्रत्याहारोऽभिमतः स्यात् ठ्सुप्यसर्वनामस्थानेऽ इत्येव ब्रूयात्, ठ्स्वादिषुऽ इति गुरुनिर्देशोऽनर्थकः स्यात्। ब्राह्मणा इति। पदत्वाद्रुत्वविशर्जनीयौ। ननु यस्मात्प्रत्ययविधिस्तदादीत्यनुवृतस्य सुप्तिङ्भ्यां विशेषणादेव तदन्तस्य ग्रहणं सिद्धम्, नार्थोऽन्तग्रहणेन, तत्राह-पदसंज्ञायामिति। इहासत्यन्तग्रहणे सुप्तिङमेव संज्ञा स्यात्, ततश्चाग्निष्वित्यादौ ठ्सात्पदाद्योःऽ इति षत्वनिषेधः स्यादित्याशङ्ग्य क्रियमाणमन्तग्रहणमुक्तस्यार्थस्य ज्ञापकं संपद्यते। गौरीब्राह्मणितरेति। तरबन्तस्य घसंज्ञायां सत्यां तत्रोतरपदे परतो गौरीशब्दस्य पुंवद्भावं बाधित्वा परत्वाद् ह्रस्वत्वं स्यात्। तरपि तु परतो ब्राह्मणीशब्दस्य न स्यात्; ततश्च गौरीब्राह्मणतरेति स्याद्, गौरब्राह्मणितरेति चेष्यते। वृतौ तु समासप्रदर्शनपरं वाक्यमुपातम्, न त्वेतत्कार्योदाहरणम्। गौरब्राह्मणितरेति समासे रूपम्॥ पदमञ्जरी नः क्येः॥ १।४।१५ ॥ क्य इति क्यच्क्यष्क्यङमिति। ठ्संज्ञायां समजऽ इत्यस्य तु क्यपोग्रहणं न भवति; प्रयोजनभावात्। न तावन्मन्येत्यत्र नलोपः प्रयोजनम्, सत्यपि पदत्वेऽप्रातिपदिकत्वात्;सुबन्तमित्यनुवृतेर्वा क्यपि विध्यर्थमेतन्न भवति। ननु क्यजादयः सुबन्ताद्धिधीयन्त इति प्रत्ययलक्षणेन सिद्धं पदत्वम्, नार्थ एतेन तत्राह-सिद्धे सतीति। नान्तमेवेति। क्य एव नान्तमित्येवं तु विपरीतनियमो न भवति; ठ्न ङसिम्बुद्ध्योःऽ इति निषेधात्। वाच्यतीति। अत्र पदत्वाभावात्कुत्वजश्त्वे न भवतः ये तु गोसमानाक्षरनान्तादेव क्यज् भवति, नान्येभ्य इत्याहुः, तेषां क्यङ्क्यषोरेव नियमस्य व्यावर्त्यं प्रदर्शनीयम्-तपस्यतीत्यादौ॥ पदमञ्जरी सिति च ॥ १।४।१६ ॥ भवदीय इति। पदत्वाज्जत्वम्। ऊर्णायुरिति पदसंज्ञाया निरस्तत्वाद् यस्येति लोपाभावः। एवम् ऋत्विय इति ठोर्गुणःऽ न भवति, चकारोऽनुक्तसमुच्चयार्थः तेन भुवद्धारयतोर्मतोश्च्छन्दसि ठ्तसौ मत्वर्थेऽ इति भसंज्ञां बाधित्वा पदसंज्ञा भवति, तेन भुवद्वद्भ्यः, धारयद्वद्भ्यः॥ पदमञ्जरी स्वादिष्वसर्वनामस्थाने॥ १।४।१७ ॥ स्वादिष्विति सुशब्दादेकवचनादिति। सप्तमीबहुवचनादारभ्य ग्रहणं न भवति; ठसर्वनामस्थानेऽ इति निषेधात्, यदि हि राजश्रित इत्यादौ सर्वनामस्थाने ठ्सुबन्तम्ऽ इति प्राप्तायाः संज्ञायाः निषेधोऽभीष्टः स्यात्, तत्रैव ठसर्वनामस्थानेऽ इति ब्रूयात्। अथ राजवानित्यादावन्तर्वर्तिनिषेध इति चेद्, न; लुमता लुप्ते प्रत्ययलक्षणाभावात्, ठ्तसौ मत्वर्थेऽ इति पदसंज्ञाबाधनाय भसंज्ञाविधानाच्च। आ कप इति। यदि पुनः सप्तमीबहुवचनपर्यन्ता एकविंशतिः प्रत्यया गृह्यएरन्, तदा सुब्ग्रहणमेव कुर्याद्, अनुवर्तयेद्वा; ठसर्वनामस्थानेऽ इत्यनेन सम्बन्धात्सप्तम्या विपरिणामात् सिद्धम्। किमथ पुनरा कपः प्रत्यया गृह्यन्ते, यावता सुबन्तातद्धितोत्पतिः समर्थाधिकारात्, स्वार्थिका अपि सुबन्तादेव,ठ्घकालतनेषुऽ इति लिङ्गत्, ततश्च राजत्वं राजतेत्यादावन्तर्वर्तिन्या विभक्त्या सुबन्तं पदमित्येव सिद्धम्? सत्यम्; भसंज्ञार्थं त्वा कपः प्रत्यया गृहीताः। राजत्वमित्यादि। सुबन्तत्वेऽपि। परत्वादनेन पदत्वं युक्तमित्येषामुपन्यासः। राजानौ, राजान इति। अत्रापदत्वान्नलोपाभावः, राजेत्यत्र तु प्रत्ययलक्षणेन निषेधो न भवति ठ्न ङसिम्बुद्ध्योःऽ इति लिङ्गान्नैतल्लिङ्गमुपपद्यते। हे वर्मन्निति नपुंसके लुमता लुप्ते सर्वनामस्थाने निषेधाभावादस्त्येव पदत्वमिति तत्रार्थवान् प्रतिषेधः। एवं तर्हि नायं प्रसज्यप्रतिषेधः- सर्वनामस्थाने नेति, किं तर्हि? पर्युदासोऽयम्-पदन्यत्सर्वनामस्थानदिति। सर्वनामस्थाने न विधिर्न प्रतिषेधः; यदि केनचित्प्राप्नोति, भवत्येव, पूर्वेण प्राप्नोति, अथ वा-अनन्तरा या प्राप्तिः सा प्रतिषिध्यते । कुतः पुनरेतद्? ठनन्तरस्य विधिर्वा भवति प्रतिषेधो वाऽ। अथ वा-ठ्सर्वनामस्थानेऽ इत्यत्र यचीत्यपकृष्य सम्बध्यते, तेन यजादौ पदसंज्ञा निषिध्यते, न हलादाविति राजेत्याते, स्वादौ, एवं हि ठसर्वनामस्थानेऽ इति न वक्तव्यं भवति? उतरार्थ सुठ।ल्पि नपुंसके भसंज्ञा यथा स्यात्, साम्नी इत्यत्र मा भूद्। भसञ्ज्ञा ठ्विभाषा ङिश्योःऽ ईति वचनसामर्थ्यादेवाभस्याप्यल्लोपो भविष्यति। तत्रायमप्यर्थो यस्येत्यादौ ठ्श्यां प्रतिषेधःऽ इति न वक्तव्यं भवति; अभत्वादेव सिद्धम्। इह तर्हि सुपदी ब्राह्मणकुले इति पद्भावो न स्यादभत्वात्, इह च सामानि पश्येति भत्वादल्लोपः स्यादिति यथान्यासमेवास्तु॥ पदमञ्जरी यचि भम्॥ १।४।१८ ॥ यकारादावित्यादि। ठ्यस्मिन्विधिस्तदादावल्प्रहणेऽ इति तदादिविधिः। गार्ग्य इत्यादौ भत्वाद्यस्येति लोपः। नभोऽङ्गिरोमनुषां वत्युपसंख्यानमिति। द्वे अप्येते उपसंख्याने छन्दोविषये इत्याहुः। नभ इवेति। तृतीयासमर्थाद्वतेर्विधानात् तुल्यार्थापदर्शनमेतत्, नभसा तुल्यं वर्तत इति विग्रहः। पदनिबन्धनकार्यनिवॄत्यथमेव चैषां भसञ्ज्ञा विधीयते, न तु भत्वनिमितं कार्यं यथा स्यादिति; असम्भवात्। नभस्वद्, अङ्गिरस्वदिति। अत्रापदत्वाद्रुत्वाभावो मनुष्वदित्यत्र पदत्वे रुत्वं स्याद् न तु षत्वम्; अपदान्तस्येति वचनात्। वृषण्वसुः वृषणाश्व इति। पदत्वे सति ठ्पदान्तस्यऽ इति प्रतिषेधाण्णत्वं न स्यात्, नलोपश्च स्याद्। भत्वेऽप्यल्लोपो न भवति; अनङ्गत्वात्॥ पदमञ्जरी तसौ मत्वर्थे॥ १।४।१९ ॥ नभस्वद्, अङ्गिरस्वदिति। अत्रापदत्वाद्रुत्वाभावो मनुष्वदित्यत्र पदत्वे रुत्वं स्याद्, न तु षत्वम्; अपदान्तस्येति वचनात्। वृषण्वसुः, वृषणश्व इति। पदत्वे सति ठ्पदान्तस्यऽ इति प्रतिषेधाण्णत्वं न स्यात्, नलोपश्च स्याद्। भत्वेऽप्यल्लोपो न भवति; अनङ्गत्वात्॥ तसौ मत्वर्थे॥ मत्वर्थीयेनाक्षिप्तायाः प्रकृतेस्तकारसकाराभ्यां विशेषणातदन्तविधिरित्याह-तकारसकारान्तमिति। मत्वर्थे प्रत्यये इति। व्यधिकरणे सप्तम्यौ, मतोरर्थो मत्वर्थस्तत्र यः प्रत्ययो वर्तते तस्मिन्नित्यर्थः। अथ वा समानाधिकरणे मतुशब्देन साहचर्यातदर्थो लक्ष्यते-मतुरर्थो यस्य तस्मिन्नित्यर्थः। उदश्वित्वानिति। भत्वात् पदत्वाभावे जश्त्वं न भवति, ठ्झयःऽ इति वत्वम्। उदकेन श्वयति वर्द्धते उदश्वित्, क्विपि ठुदश्वितोऽन्यतरस्याम्ऽ इति निपातनात् संप्रसारणाभावः, संज्ञायामुद्भावः। पयस्वीति। ठस्मायामेधास्त्राजो विनिःऽ भत्वाद्रुत्वाभावः। अथार्थग्रहणं किमर्थम्, न ठ्मतौऽइत्युच्यते, स्वादिष्विति वर्तते, व्यधिकरणे सप्तम्यौ, मतौ ये स्वादयः। कथं पुनः शब्दे नाम शब्दे वर्ततेऽसम्भवात्, अर्थे वृत्तिर्विज्ञास्यते? यद्येवं लभ्येत, कृतं स्यात्; ततु न लभ्यम्, न हि सामानाधिकरण्ये सम्भवति वैयधिकरण्यं शक्यं विज्ञातुम्, ततश्च मतावेव स्यात्-पयस्वान् यशस्वानिति, इह तु न स्यात्-पयस्वी, यशस्वीति, अतोऽर्थग्रहणं कर्तव्यम्। यद्यर्थग्रहणं क्रियते, मतुपि न प्राप्नोति; तस्यार्थविशेषणत्वात्, सत्यम्; अर्थविशेषणं मतुब्, विशेष्याकारोऽपि तत्रास्ति। अस्यास्त्यस्मिन्निति च मतुपोऽर्थः, स च विन्यादीनामिव मतुपोऽप्यविशिष्टः, यथा-देवदतशालायामासीना ब्राह्मणा आनीयन्तामित्युक्ते विशेषणभूतोऽपि देवदतः सित ब्राह्मणये आनीयते। यत्र उपलक्ष्याकारस्यासम्भवः तत्रैवोपलक्षणस्य कार्थायोगः, तद्यथा-चित्रगुरानीयतामिति, न हि चित्रगवीणां गावः सन्ति॥ पदमञ्जरी अयस्मयादीनिच्छन्दसि॥ १।४।२० ॥ यदि संज्ञा विधीयेत आनन्तर्थाद्भसंज्ञाविधानद्वारेणैव निपातनं स्यात्, पदसंज्ञा न स्याद्, भपदसंज्ञयोः समावेशो न स्यात्, तस्मात्साधुत्वमेव युक्तं विधातुमिति मत्वाह-अयस्मयादिनीत्यादि। साधुत्वे प्रकारविशेषं दर्शयति। भपदसंज्ञाधिकार इत्यादि। द्वारमूपायः। अयस्मयमिति। अयसो विकारः ठ्द्व्यचश्च्छन्दसिऽ इति मयट्॥ पदमञ्जरी बहुषु बहुवचनम्॥ १।४।२१ ॥ बहुवचनं विहितमिति। ततश्च तस्य विधेयविभक्तिनिर्द्दिष्टस्यापि प्राप्तत्वादनुवाद्यत्वम्, न तु विधेयत्वमिति भावः। बहुत्वसंख्यानुभूतविभक्तिर्निर्दिष्टाप्यप्रत्वाद्विधीयत इत्याह-तस्यानेनेति। इहं चापरमनेन ग्रन्थेन दर्शितम्-स्वादिविधिवाक्येन हि भिन्नमेतद् वाक्यम्,। तत्रापि विध्यर्थं न तु नियमार्थमिति। यदाह-बहुवचनं विहितमिति। बहुत्वसंख्यावाच्यत्वेन विधीयत इति च। यदि पुनरेकवाक्यतया विशिष्टविधिः स्याद्,इतरेतरश्रयं प्राप्नोति-विहितानां जसादीनां बहुवचनसंज्ञा,संज्ञया च विधानमिति। किं चाव्ययेभ्यो निःसंभ्यः स्वदयो न स्युरतो भिन्नवाक्यत्वमेव युक्तम्,तत्रापि विध्यर्थत्वमेव। इह केचिन्मन्यन्ते-स्वार्थद्रव्यलिङ्गसंख्याकर्माद्यात्मकः पञ्चकः प्रातिपदिकार्थ इति। आदितस्त्रिक इत्यन्ये। तत्र शब्दप्रवृत्तिनिमितं स्वार्थः, स चानेक प्रकारः- स्वरूपं जातिर्गुणः क्रिया द्रव्यं सम्बन्धश्चेति, डित्थो गौः शुक्लः पाचकः यष्टिः पुरुषः दण्डीति। जात्यादिशब्देष्वपि जात्यादिमात्रनिष्ठेषु स्वरूपमेव प्रवृत्तिनिमितम्। अभिधानाभिधेययोरभेदाध्यासात् शब्दरूपानुरक्तोऽर्थोऽभिधीयते। अस्य गौरिति नाम, अयं गौरिति च प्रतीतिवेषो भिद्यते। अत्र हेतुर्वैयधिकरण्यम्, सामानाधिकरण्यं च। तत्र जात्यादिवत् स्वरूपमपि शब्दत एव प्रतिपन्नमप्यर्थस्य विशेषणं मन्यन्ते। उक्तं च- ग्राह्यत्वं ग्राहकत्वं च द्वे शक्ती तेजसो यथा। तथैव सर्वशब्दानामेते पृथगवस्थिते ॥ इति। तेन स्वरूपमपि स्वार्थो युज्यते। स्वार्थस्य यत्र विश्रान्तिर्वाच्यं द्रव्यं तदिष्यते॥ पर्यवसानभूमिरित्यर्थः। तच्चानेकप्रकारम्-जातिर्गुणः क्रिया द्रव्यं स्वरूपमिति; गौ सूक्लः, पाकः, डित्थः,ठ्तूष्णीमि भूवःऽ इति। लिङ्गं स्त्रीत्वादि। संख्याएकत्वादि, कर्मादयो वक्ष्यमाणाः कारकविशेषाः। तदिह द्वितीयं दर्शनं वृत्तिकारेणाश्रितम्। अन्वयव्यतिरेकाभ्यां हि शब्दार्थनिश्चयः, यस्य शब्दस्यान्वये योऽर्थः प्रतीयते, व्यतिरेके च व्यतिरिच्यते स तस्यार्थः। वृक्षः वृक्षौ इत्यादौ च ततद्वचनान्वये सा सा संख्या प्रतीयते वयतिरेके च व्यतिरिच्यते सत्यपि प्रकृत्यन्वये, तेन मन्यामहे-वचनार्थः संख्येति। तथा वृक्षं वृक्षेण वृक्षायेत्यादौ ततत्रिकान्वये स स कर्मादिः प्रतीयते, व्यतिरेके च व्यतिरिच्यते, तेन मन्यामहे-त्रिकार्थः कर्मादिरिति। यद्यपि पयो दधि मध्वित्यादावन्तरेण वचनमन्तरेण च त्रिकं स सोऽर्थः प्रतीयते, नैतावता विभक्त्यर्थत्वं हीयते , न हि गर्गा इत्यत्रान्तरेणापि यञमपत्यार्थः प्रतीयते इति गार्ग्य इत्यत्रापि प्रकृतेरिवापत्यमर्थ इति युक्तं वक्तुम्, पचति पचतः पचन्तीत्यादौ वचनान्वये संख्यान्वयाद्व्यतिरेके च व्यतिरेकाद् वचनार्थ एव संख्या, न धात्वर्थः। अबिभर्भवानित्यादौ यद्यप्यन्तरेणापि तिण्ंó कर्ता संख्या च प्रतीयते, तथापि नैतावता तर्वत्र प्रकृत्यर्थत्वं यक्तम्। न हि भित्, च्छिदित्यादौ अन्तरेणापि प्रत्ययं कर्ता प्रतीयते इति भेतेत्यादावपि कर्ता प्रकृत्यर्थो भवति। तदेवं त्रिक एव प्रातपिदिकार्थः। धातोश्च क्रियैव वाच्येत्यसत्यस्मिन्ननिर्द्दिष्टार्थत्वात्स्वार्थे त्रिक एव जसादिबहुवचनं स्याद्, न बहुत्व इति बहुत्वसंख्यावाच्यत्वेन विधियते। सूत्रेऽप्यन्तरेणापि भावप्रत्ययं भावप्रधानो निर्देशः, बहुत्व इत्यर्थः। आश्रयागतस्य बहुत्वस्य गुणे आरोपाद् बहुष्विति बहुवचनम्। आरोपस्य प्रयोजनं नानाऽऽधारस्य संख्यारूपस्य बहुत्वस्य ग्रहणं यथा स्यात्। तेनैकाश्रयं वैपुल्यं बहुवचनस्य वाच्यं न भवतिबहुरोदन इति। केचिन्मन्यन्ते-संख्याकर्मादयश्च परस्परमनन्विताः, प्रकृत्यर्थेन चान्विता विभक्तिभिरभिधीयन्ते-वृक्षान्पश्य, कोऽर्थः? बहवो वृक्षाः कर्मेति, न तु कर्मीभूता वृक्षा बहव इति; नापि बहवः कर्मेति। एवमेकवचनेऽपि ठ्पशुना चजेतऽ इति पशुरेकः पशुः करणमित्यर्थः, न तु करणीभूतः पशुरेक इति, नाप्येकः पशुः करणमिति करणत्वैकत्वयोर्युगपदभिधानादिति तान्निराकरोति-कर्मादयोऽप्यपर इत्यादि। तदीये बहुत्वे इति। कर्मादिगतमेव बहुत्वं बहुवचनस्य वाच्यम्, न तु केवलप्रातिपदीकार्थगतमित्यर्थः। प्रकृत्यर्थगतमेव बहुत्वं वाच्यम्, वृक्षशब्दस्यावयवी वाच्यः, न त्ववयवा इति द्रव्यपदार्थपक्षे तावद् वृक्षं पश्येति मूलस्कन्धफलपलाशादीनां बहुत्वेऽपि तेषामनभिधेयत्वाद्वहुवचनाभावः। आकृतिपक्षेऽपि प्रत्यासतेस्तदाधारगतं बहुत्वामाश्रीयते न त्ववयवगतम्, भिन्नवाक्यतया विधिरित्युक्तं तत्प्रयोजनमाह यत्र चेत्यादि। भाष्ये तु पञ्चकपक्षाङ्गीकारेण नियमपक्षः स्थापितः। तत्र ह्यनिर्दिष्टार्थाः प्रत्ययाः स्वार्थे इति स्वार्थेऽपि जसादि बहुवचनं बहुत्वेऽपि सिद्धम्, तस्यापि स्वार्थत्वातत्राप्यर्थनियमाद्-बहुषु बहुवचनमेव, द्व्येकयोर्द्विवचनैकवचने एवेति। एवं ठ्कर्मणि द्वितीयाऽ इत्यादावपि कर्मणि द्वितीयैवेत्येवमादिकोऽर्थनियमो वेदितव्यः। एवं हि प्रत्ययानामनियतत्वादव्ययेभ्ये निःसंख्येभ्यो निष्कारकेभ्यश्च स्वादयः सिद्ध्यन्ति। अथ वा, प्रत्ययनियमः-बहुष्वेव बहुवचनं द्व्येकयोरेव द्विवचनैकवचने। तुल्याजातीयस्य च नियमेन व्यावृत्तिः-बहुष्वेव बहुवचनं न द्व्येकयोः, एकस्मिन्नेवैकवचनं न संख्यान्तरे, द्वयोरेव द्विवचनं न संख्यान्तर इति। ठ्कर्मणि द्वितीयाऽ इत्यादावप्येवम्-कर्मण्येव द्वितीया, न कारकान्तर इति। एवमपि ह्यव्ययेभ्यः स्वादयः सिद्ध्यन्ति॥ पदमञ्जरी द्व्येकयोर्द्विवचनैकवचने॥ १।४।२२ ॥ द्विशब्देन साहचर्यादेकशब्दः संख्यावाची। अयमपि भावप्रधानो निर्देशः, अत एवठ्द्व्येकयोःऽ इति द्विवचनम्, तदाह-द्वित्वैकत्वयोरिति। एतदपीत्यादि। अनेनास्यापि विध्यर्थत्वं दर्शयति। कथं तर्हि सामान्यविहितयोरिति, यावता नियमार्थत्वे एतद् घटते? उच्यते; साधारणपर्यायः सामान्यशब्दः ससंख्यनिःसंख्यसाधारण्येन विहितयोरित्यर्थः। अर्थाभिधानमिति। अर्थःउवाच्योऽभिधीयतेउकथ्यते येन तदर्थाभिधानम्। द्व्येकयोरितयत्र ठ्संख्याया अल्पीयस्यःऽ इत्येकशब्दस्य पूर्वनिपातोऽस्मादेव निपातनान्न भवति। संख्येयवचनष्वेवार्थद्वारकमल्पीयस्त्वमित्यन्ये॥ पदमञ्जरी कारके॥ १।४।२३ ॥ अधिकारोऽनेकप्रकारः। संज्ञा, विशेषणम्, स्थानी, प्रकृतिः, निमितम्, आदेश इति। ठ्प्रत्ययःऽ, ठ्शेषेऽ, ठ्पूर्वपरयोःऽ ठ्ङ्याप्प्रातिदिकात्ऽ ठ्धातोःऽठार्द्धधातुके मूर्द्धन्यःऽ इति तदिह विधेयानिर्देशात् स्वरितत्वाच्चाधिकारत्वे स्थिते प्रकारमाह-कारक इति विशेषण॥ंअधिक्रियत इति। न तावत्सञ्ज्ञात्वेनाधिकारः; सञ्ज्ञाया भाव्यमानत्वात्सप्तम्यनुपपतेः। अथ सञ्ज्ञानुरूपः प्रथमानिर्देश एव कस्मान्न कृतः, युक्तं चैतद् कारकसंशब्दनेषु वक्ष्यमाणानामपादानादीनामेव षण्णां ग्रहणस्येष्टत्वाद्; अन्यथा नटस्य श्टणोतीति कारकशेषस्यापि प्रसङ्गात्? उच्यते; सञ्ज्ञापक्षे--अपाये यद् ध्रुवं तत् कारकसञ्ज्ञं भवति, अपादानसञ्ज्ञं चेत्ययमर्थो भवति, एवमन्यत्रापि; ततश्च कारकापादानसञ्ज्ञयोर्युगपद्विधानात् परस्परं निमितनिमितिभावाभावादकारकस्यापि व्यापारशून्यस्यापादानसञ्ज्ञा प्राप्नोति। विशेषणाधिकारे तु-कारकेषु मध्ये यदपाये ध्रुवं सा न प्राप्नोति। अतो विशेषणानुरूप एव निर्देशः कृतः, न तु सञ्ज्ञानुरूपः। कारकसञ्ज्ञा त्वन्वर्थत्वाद् व्यापारशून्यस्य न भवति। किं च कारकसंज्ञाया अपादानादिसञ्ज्ञाभिः समावेशो न प्राप्नोति, ततश्चठ्स्तम्बेरमःऽ इत्यत्र सप्तम्यां श्रुयमाणायां गतिकारकोपपदादिति स्वरो न स्यात्, ठ्कारकेऽ इति निर्धारणे सप्तमी, सामान्यापोक्षं चैकवचनम्। कारकशब्दोऽयमस्ति ण्वुलन्तः-करोतीति कारकमिति, अस्त्यव्यत्पन्नः सञ्ज्ञाशब्दो निमितपर्यायः; तत्र पूर्वस्य ग्रहणेऽपादानादिषु कारकशब्दो न प्रवर्तोत, यथा कर्तृशब्दः, तेषामस्वतन्त्रत्वात्; स्वातन्त्र्ये वा पक्षे कर्तृसञ्ज्ञा प्रसज्येत, नैष दोषः; सर्वमेव खलु कारकं यथायथमवान्तरव्यापारं निर्वर्तयत् प्रधानक्रियायामुपयुज्यते, सा च सकलकारकजन्या फलभूता विक्लित्यादिरूपा क्रिया प्रधानक्रिया। यद्वा-सामान्यभूता क्रिया प्रधानक्रिया फलजनना नाम, सर्वाणि हि कारकाणि फलजननाय प्रवर्तन्ते, अतो यद्यत्फलजननारूपं तत्सर्वेष्वेव कारकेष्वविशिष्टम्। किञ्चित्खलु कारकं केनचिदेव रूपेण फलं जनयतीति फलजनना सर्वेषामभिन्नरूपा। अवान्तरभेदविवक्षायां तु करणादिरूपोन्मेषः। न च वैशेषिकाणामिवास्माकमेका क्रिया नानेकत्र समवेता, धात्वर्थो हि क्रिया, न परिस्पन्द एव। धातुना च सकलकारकानुयाय्योदनादिफलावच्छेदेन एकीकृतो व्यापारोऽभिधीयते। तस्यामेकस्यां प्रधानक्रियायामुपयोगो यथायथमवान्तरव्यापारमुखेन, तद्यथा-अपादानस्यावधिभावोपगमनं व्यापारः, सम्प्रदानस्यतु प्रेरणानुमत्यनिराकरणादिः, करणस्य काष्ठादेर्ज्वलनादिः, अधिकरणस्य सम्भवनधारणादिः, कमंणो निर्वृत्यादिः, कर्तुः प्रसिद्ध एव, प्रयोजकस्य प्रेषणादिः। न चैवं सति करणादीनामपि कर्तृसञ्ज्ञाप्रसङ्गः, परतन्त्रत्वत्। प्रधानेन हि कर्त्रा समवाये करणादीनि परतन्त्राणि, व्यवाये स्वतन्त्राणि;तद्यथा-अमात्यानां राज्ञा सह समवाये पारतन्त्रम्, व्यवाये स्वातन्त्र्यम्। यद्येवम्, कारकव्यपदेशोऽपि करणाद्यवस्थायां न स्यात्? करणम् कारकमिति अधिकारसामर्थ्यात्। कारकशब्दोपनीतस्वातन्त्र्यमवस्थान्तरगतं विज्ञास्यते। अवस्थान्तरे यत् स्वतन्त्रं तत्साधकतमं करणमिति कर्तुंरेव त्वेकस्य सांप्रतिकं स्वातन्त्र्यम्, तच्च कर्तृसञ्ज्ञाङ्गतया चोदितम्। यदि तर्हि व्युत्पत्तिपक्षेऽप्यवस्थान्तरगतमेव स्वातन्त्र्यम्, एवं तर्हि करणाद्यवस्थायां निमितभाव एवाभ्युपगतो भवति? यद्येवम्, किं दोषप्रतिविधानव्यसनेन। निमितपर्यायस्यैव ग्रहणमस्त्विति मन्यमान आह- कारकशब्दश्चेति। कस्य हेतुरिति। द्रव्यगुणविषयोऽपि हेतुः कारकं प्राप्तमित्यभिप्रायः। कारकशब्दोऽयं क्रियाहेतावेव प्रसिद्ध इत्याह-क्रियाया इति। अनाश्रितव्यापारं निमितं हेतुः, आश्रितव्यापारं कारकम्, उक्तं च-- द्रव्यादिविषयो हेतुः कारकं नियतक्रियम्। इति। अनाश्रिते तु व्यापारे निमितं हेतुरिष्यते॥ इति च। कथं तर्हि पूर्वमुक्तम्-अनर्थान्तरमिति, न हि सामान्यविशेषवचनानामनर्थान्तरवाचित्वम्? सत्यम्; सामान्यशब्दयोरपि अर्थप्रकरणादिना विशेषवृत्तिमभिप्रेत्य तु तथोक्तम्। वृक्षस्य पर्णं पततीति। पर्णविशेषणत्वेनात्र वृक्षो विवक्षितः, न त्वपायस्य निमितत्वेनेत्यपादानसंज्ञा न भवति, न वापायस्याविवक्षितत्वात्। सति ह्यवधौ गतिरपायो भवति, नान्यथा। न चात्र वृक्षोऽवधित्वेन विवक्षितः। तथा हि--वृक्षमजहत्यपि पर्णे वृक्षस्य पर्णं पततीति भवति प्रयोगो यदा वृक्षः च्छिन्नः पततीति, सत्यम्; अत एवास्मिन्नतृप्तः सन्नाह--माणवकस्य पितरमिति। अत्र पितुः सम्बन्धित्वेन माणवको विवक्षितः, न तु प्रश्नक्रियां प्रति निमितत्वेनेति कर्मसंज्ञा न भवति; असति तु कारकाधिकारे तस्यापि स्यात्। शेषलक्षणा तु षष्ठी अकथिते दुह्यादिपरिगणनाद्राज्ञः पुरुष इत्यादौ सावकाशा। यदि तर्हि विशेषणमिदम्, ध्रुवादीनां न संज्ञा, ठ्कारकद्दतश्रुतयोरेवाशिषिऽ--इत्यादौ यत्र कारकशब्दः संशब्द्यते तत्रापादानादीनां वक्ष्यमाणानां पण्णामेव ग्रहणमिष्यते, तन्न सिद्ध्यति। संज्ञापक्षे तु न दोषः, संज्ञा ह्यावर्तमाना संज्ञिनं प्रत्यायति। स्यादेतत्-प्रदेशेष्वपि क्रियानिमित्तपर्यायस्य कारकशब्दस्योपादानम्, तच्च निमितमपादानाद्येवेति, तदसत्; नटस्य श्टणोतीत्यादौ कारकशेषस्य आह-कारकसंशब्दनेषु चेति। कारकग्रहणं प्रदेशेषु स्वर्यते, स्वरितेनाधिकारावगतिर्भवतीति भावः॥ पदमञ्जरी ध्रुवमपायेऽपादानम्॥ १।४।२४ ॥ ध्रवमिति। ध्रु गतिस्थैर्ययोः इत्यस्मात्कुटादेः पचाद्यचि रूपम्। ये तु ठ्ध्रुव गतिस्थैर्ययोःऽ इति पठन्ति, तेषामिगुपधलक्षणः कः प्रत्ययः। अपायःउ विश्लेषः, विभागस्तद्धेतुभूतश्च गतिविशेषोऽवधिसापेक्षः, तत्र विभागस्य द्विष्ठत्वात् न केवलमपयन्नेव तेन युक्तः, किं तर्हि? यतोऽपैति सोऽपि युक्त एवेत्याह-ध्रुवं यदपाययुक्तमिति। कथं पुनः सप्तमीनिर्द्देशेऽप्यपाययुक्तमिति प्रतिपद्येमहीत्यत्राह-अपाये साध्य इति। साध्यत्वेन विषयत्वात् सामर्थ्यलभ्यो योग इति भावः। ध्रुवमित्येकरूपमुच्यते- ध्रुवमस्य शीलम्, ध्रुवमस्य रूपमिति, इह तदपायेन विशेष्यते-उपाये यद् ध्रुवमिति, न तु सार्वत्रिकम्, तच्चापाये ध्रुवमुच्यते-यदपायेनानाविश्यते उपयुज्यते चापाये, तच्चार्थादवधिभूतमित्याह-यदवधिभूतमिति। एवं च सार्थाद् हीनः, रथात्पतितः, धावतः पतित इत्यादौ क्रियान्तरावेशाच्चलत्वे ततद्धावनादिक्रियानावेशातन्निमितमपायं प्रत्यौदासीन्यादस्त्येव ध्रुवत्वमिति भवत्येव संज्ञा। उक्तं च-- अपाये यदुदासीनं चलं वा चदि वा चलम्। ध्रुवमेवातदावेशात् पदपादानमुच्यते॥ इति। पततः पतित इत्यत्रापि परगतपातापेक्षया ध्रौव्यमेव। तथा हि- पततो ध्रुव एवाश्वो यस्मादश्वात्पतत्यसौ। तस्य त्वश्वस्य पतने कुड।लदिर्ध्रुव उच्यते॥ इह तु परस्परम्मान्मेषावपसर्पत इति मेषान्तरक्रियापेक्षमवधित्वं पृथक् पृथक्। मेषयोः स्वक्रिययापेक्षं कर्तृत्वं च पृथक्पृथक्॥ गतिर्विना त्ववधिना नापाय इति कथ्यते॥ जुगुप्सेति। प्रश्लेषपूर्वको विश्लेषोऽपायः, स चात्र नास्ति; बुद्धिपरिकल्पितस्तु गौणः, न च मुख्ये संभवति गौणस्य ग्रहणं युक्तम्। अत एव ठ्भीत्रार्थानाम्ऽ इत्यादेरारम्भ इति वाक्यकारस्याभिप्रायः। अत्र च कारकशेषत्वात् षष्ठी प्राप्नोति-नटस्य श्टणोतीति यथा। प्रत्याख्यानं तु साधकतममिति तमब्ग्रहणं लिङ्गम, कारकप्रकरणे यथासम्भवमेव साधकत्वमिति। तदिह-अधर्माज्जुगुप्सते इत्यादौ जुगुप्सादिपूर्विकायां निवृतौ जुगुप्सादीनां वृत्तिरिति स्थिते य एष मनुष्यः प्रेक्षापूर्वकारी भवति, स पश्यति- दुःखहेतुरधर्मो नैनं करिष्यामीति; स बुद्ध्या तं प्राप्नोति, प्राप्य तच ततो निवर्तते। धर्मात्प्रमाद्यति धर्मान्मुह्यतीति। य एष नास्तिकः पुरुषः, स पश्यति-नानेन धर्मेण किंचिदाप्यते, नैनं करिष्यामीति स बुद्ध्या तं प्राप्नोति, प्राप्य च ततो निवर्तते, तत्र ध्रुमपायैत्येव सिद्धमिति। तच्चैतत्-- निर्द्दिष्टविषयं किञ्चिदुपातविषयं तथा। अपेक्षितक्रियं चेति त्रिधाऽपादानमुच्यते॥ यत्र धातुनापायलक्षणः संज्ञाविषयो निर्दिश्यते, यथा-ग्रामादागच्छतीति, तन्निर्दिष्टविषयम्। यत्र धातुर्धात्वन्तरार्थाङ्गं स्वार्थमाह, यथा-बलाहकाद् विद्योतते विद्यौद् इति, अत्र हि निः सरणाङ्गविद्योतने विद्यौतिर्वर्तते-बलाहकन्निः-सृत्य विद्योतत इत्येव; कुसुलात्पचतीत्यत्राऽऽदानाङ्गे पाके पचिर्वर्तते-कुसूलादादाय पचतीति, तदुपातविषयम्। अपेक्षितक्रियं तु-यत्र क्रिया न श्रुयते, प्रमाणान्तरेण तु प्रतीयते, यथा-आगच्छन्तं पुरुषं प्रत्यक्षेण पश्यन्नाह-कुतो भवानिति, सोऽपि तदेव प्रत्यक्षसिद्धमागमनमुपजीवन्नाह-पाटलिपुत्रादिति। ध्रुवग्रहणं किम्? ग्रामादागच्छति शकटेन--अत्र शकटस्य मा भूत्। अथ क्रियमाणेऽपि ध्रुवग्रहण इह कस्मान्न भवति--धनुषा विघ्यतीति, अत्र हि शराणामपायं प्रति अवधिभावेनैव धनुषः साधकतमत्वम्? सत्यम्; उभयप्रसङ्गे परत्वात्करणसंज्ञा भविष्यति। नन्वेवमक्रियमाणेऽपि शकटस्य नैव भविष्यति, एवं संज्ञान्तरविषये सर्वत्र। वृक्षस्य पत्रं पततीत्यत्र त्वपायस्याविवक्षितत्वादकारकत्वाच्च न भविष्यति । संज्ञिनिर्देशार्थं तु न हि ठ्कारकेऽ इति सप्तम्यन्तेन शक्यः संज्ञी निर्देअष्टुअम्, सिद्धं तु निर्द्धार्यमाणस्य संज्ञित्वादपायविषयेषु कारकेषु मध्ये यत्कारकं संज्ञान्तरस्याविषयस्तदपादानमिति, तदेवं ध्रुवग्रहणं चिन्त्यप्रयोजनम्॥ पदमञ्जरी भीत्रार्थानां भयहेतुः॥ १।४।२५ ॥ भयं भीः, त्राणं त्राः, सम्पदादित्वाद्भावे क्विप्। भीत्रौ अर्थौ येषां ते भीत्रार्थाः, षष्ठीप्रयोगापेक्षया कारकापेक्षया चेत्याह--बिभेत्यर्थानामित्यादि। अत्र बिभेतित्रायतिशब्दौ तदर्थयोर्वर्तेते, तदर्थोऽर्थो येषामित्यर्थः। त्राणं बाधकेभ्यो रक्षणम्, बाधकाश्च भयहेतव इति त्रार्थानामपि भयहेतुः कारकं भवत्येव। चोरेभ्य इति । चोरयतेः पचाद्यचि चोरः। क्वचित् चौरेभ्य इति पाठः। तत्र स्वार्थिकः प्रज्ञाद्यण्। च्छत्रादिषु वा चुराशब्दः पठ।ल्ते, स चाऽप्रत्ययादित्यस्य ठ्ण्यासश्रन्थो युच्ऽ इति युचि बाधके प्राप्ते तस्मादेव निपातनादकारप्रत्यये णिलुकि च व्युत्पाद्यते, ततश्चुरा स्तेयं शीलमस्येति णे कृते स एवार्थो भवति। बिभेतीति। ठ्ञिभी भयेऽ जुहोत्यादिः। उद्विजते इति। ठोविजीभयचलनयोःऽ तौदादिकोऽनुदातेत्। अरण्ये इति। अत्र तत्स्थेभ्यो वृक्षादिभ्यो भयम्, नारण्यात्। ननु च ध्रुवमित्यनुवर्तिष्यते, न चारण्यमविधित्वेन विवक्षितम्, परत्वाच्चाधिकरणसञ्ज्ञैव भविष्यति, सत्यम्; पूर्वस्यैवायं प्रपञ्चः, कथम्? भयादिपूर्विकायां निवृतौ भ्यादयो वर्तन्ते-बिभेतीति कोर्थः? भीत्या निवर्तत इत्यर्थः, त्रायत इति कोऽर्थः? चोरकृताद्वधादेस्त्राणेन निवर्तयतीत्यर्थः। कथं तर्हि चोरमध्यवर्तिनि चोरेभ्यो बिभेतीति प्रयोगः, न ह्यत्र निवृत्तिरस्ति? अत्रापि भीत्या निवर्तितुमिच्छतीत्यर्थो द्रष्टव्यः। तदेवं बुद्धिपरिकल्पितोऽपायोस्तीत्युपातविषयमिदमपादानमिति। कृतस्न एव प्रयोगप्रपञ्चे किमवयवपर्यनुयोगेन! ॥ पदमञ्जरी पराजेरसोढः॥ १।४।२६ ॥ अत्र धातुपाठगतस्य जीत्येतावन्मात्रस्यानुकरणम्। ततः परापूर्वो जिः पराजिरित्युतरपदलोपी समासो द्रष्टव्यः। ननु ठ्प्रकृतिवदनुकरणं भवतिऽ इत्यधातुरिति प्रातिपदिकसञ्ज्ञायाः प्रतिषेधादसुबन्तत्वात्समासो न प्राप्नोति, न; अप्रतिषेधात्, नायं प्रसज्यप्रतिषेधः-धातोर्नेति, किं तर्हि? पर्युदासोऽयम्--यदन्यद् धातोरिति, धातोर्न विधिर्न प्रतिषेधः। एवमपीयङदेशः प्राप्रोति, परत्वाद् घेर्ङ्तीइति गुणो भविष्यतीति, समुदायस्य वा, समुदायोऽनुकरणम्, क्वस्थस्यसमुदायस्य? प्रयोगस्य। यद्येवम्, अध्ययनात्पराजयते-अत्र प्राप्नोति, न ह्यत्र पराजीति रूपमस्ति, क्व तर्हि स्याद्? यत्र पराजीति रूपमस्ति-अध्ययनात्पराजित इति। उदाहरणे पराजिर्न्युनीभावे वर्तते-अध्येतुं ह्रसति ग्लायतीत्यर्थः। अकर्मकश्चायमत्रार्थे, तत्र षष्ठ।लं प्राप्तायां वचनम्, प्रत्युदाहरणे त्वभिभवे वर्तते। ठ्विपराभ्यांजेःऽ इत्यत्रार्थद्वयेऽपि वर्तमानस्य ग्रहणम्। अयमपि प्रपञ्चो न्यूनीभावपूर्विकायां निवृतौ वृतेः सिद्धम्। अध्ययनात्पराजयते-कोऽर्थः? न्यूनीभावेन ग्लान्या ततो निवर्तते इत्यर्थः। तेन प्रत्युदाहरणे परत्वात्कर्मसञ्ज्ञा भविष्यतीति न चोदनीयम्॥ पदमञ्जरी वारणार्थानमीप्सितः॥ १।४।२७ ॥ ईप्सितशब्दोऽयमस्त्यभिप्रेतपर्यायः, तस्य ग्रहणे यवानामान्मीयत्वे गवां च परकीयत्व एव स्याद्, न विपर्यते? न खल्वस्यैतदभिप्रेतं यदुतात्मीया गावः परकीयान्यवान्मा घसन्निति, मा भूवन्यवा वारयितुमीप्सिताः; वार्यमाणानां तु गवामीप्सिताः, न वात्र विशेषः श्रुतः कर्तुरीप्सित इति। इह तर्हि न स्याद्-अग्नेर्माणवकं वारयति कूपादन्धमिति, न ह्यग्रिकूपौ वारयितुर्वार्यमाणस्य वाभिप्रेतौ? क्रियाशब्दस्य तु ग्रहणे वार्यमाणस्यान्थादेर्गमनादिक्रियया कूपादेराप्यमानत्वात् सिद्ध्यति, अन्धश्चापश्यन्नपि गन्तव्यं जिगमिषति, अन्यथा न क्वचितस्य प्रवृत्तिः स्यात्। यवेभ्यो गा वारयतीति। ठ्वृञ् आवरणेऽ चुरादिः। अथात्र गवामपादानसंज्ञा कस्मान्न भवति, ईप्सिततमोऽपीप्सितो भवत्येव, यथा शुक्लतमोऽपि शुक्लः? परत्वात्कर्मसंज्ञा भविष्यति। कर्मसंज्ञाया अवकाशः- वारणार्थेभ्योऽन्यत्र, अपादानसंज्ञायास्तु प्रकर्षरहितमीत्सितम्, इप्सिततमस्य तूभयप्रसङ्गे परत्वात्कर्मसंज्ञा। अयमपि प्रपञ्चः, अस्ति ह्यत्रपि बुद्धिव्यवस्थितोऽपायः, कथम्? पश्यत्ययम्-यदि गावः क्षेत्रे गच्छेयुर्ध्रुवं सस्यविनाशः, सस्यविनाशेऽधर्मश्च राजभयं च; स बुद्ध्या संप्राप्य नविर्तयतीत्यतो न चोदनीयम्-प्रत्युदाहरणे क्षेत्रस्याधिकरणसंज्ञा भविष्यतीति॥ पदमञ्जरी अन्तर्द्धौ येनादर्शनामच्छति॥ १।४।२८ ॥ अन्तर्द्धौ इति नेयं ठ्निमितात्कर्मयोगेऽ इति सप्तमी, यथा हि-वेतनेन धान्यं लुनातीत्यत्र वेतनस्य धान्येन योगोऽस्ति,तथेहाप्यदर्शनमिच्छतीतीच्छाकर्मणाऽदर्शनेनान्तर्द्धेर्योगो नास्ति। अथादर्शनस्य यत्कर्म आत्माख्यमात्मनोऽदर्शनमिच्छतीति तेनान्तर्द्धेर्योगोऽस्ति? यस्यैवादर्शनंतस्यैवान्तर्द्धानमित्युच्येत। एवमपि ठ्निमितात्कर्मयोगेऽ इति किं निमितं गृह्यते, कारणम्? प्रयेजनं वा? कारणं चेज्जाड।लेन बद्धः- अत्रापि प्राप्नोति, य एव बद्ध्यते तत्रैव जाड।ल्मिति; तस्मात् प्रयोजनस्य तत्र ग्रहणम्। यथा-चर्मणि द्वीपिनं हन्तीति चर्म द्वीपिहननस्य प्रयोजनम्। इह त्वन्तर्द्धानमदर्शनस्य कारणम्, अन्तर्हितः खल्वसौ न द्दश्यते। तस्माद्विषयसप्तम्येषा, सत्सप्तमी वा। येनेति कर्तरि तृतीया। ननु च दर्शनेन योगात् ठ्कर्तृ कर्मणोः कृतिऽ इति षष्ठ।ल भाव्यम्। उभयप्राप्तौ कर्मण्येवेति नियमात् तृतीया भविष्यति। कम त्वत्रादर्शनस्यात्मा। नन्वात्मने इति न श्रूयते, मा श्रावि; येनादर्शनमिच्छतीत्युक्ते कस्येत्यपेक्षायामात्मन इति गम्यते। अन्तर्द्धिनिमितमिति। अन्तर्द्धिना कारणेनेत्यर्थः। ठ्निमितकारणहेतुषु सर्वासां प्रायदर्शनम्ऽ इति प्रथमा। अथ वा-बहुब्रीहिरदर्शनस्य समानाधिकरणं विशेषणम्। सूत्रऽनुपातोऽपि तच्छब्दो यतदोर्नित्यसम्बन्धाल्लभ्यत एवेत्याह-तत्कारकमिति। अन्तर्द्धते इति। तिरोभवतीत्यर्थः। निलीयते इति। ठ्लीङ् श्लेषणेऽ दैवादिकः। चौरान्न दिद्दक्षते इति। आत्मानं ते मा द्राक्षुरित्येवमर्थम्। ननु परत्वात्कर्मसंज्ञा भविष्यति, सत्यम्; अयमपि प्रपञ्चः, कथम्? पश्यत्येवम्-यद्यौपाध्यायः पश्येद् ध्रुवं मे प्रेषणमुपालम्भो वा भवेदिति, स बुद्ध्या संप्राप्य निवर्तते। येनेत्यस्मिन्नसत्यदर्शनमिच्छतः शिष्यस्यैव स्यात्, ध्रुवमित्यनुवर्तिष्यते। एवं तर्हि सूत्रस्यावाचकत्वं मा भूत्। असति हि तस्मिन्नन्तर्द्धौ ध्रुवमपादानसंज्ञं भवति तच्चेद् ध्रुवमदर्शनमिच्छतीत्यर्थः स्यात्। न च ध्रुवमिच्छति, यच्चेच्छति न तद् ध्रुवमित्यवाचकं स्यात्॥ पदमञ्जरी आख्यातोपयोगे॥ १।४।२९ ॥ नियमपूर्वकं विद्याग्रहणमिति। तत्रैवोपयोगशब्दस्य रूढत्वात्। यथा तेषां मन्त्राणामुपयोगे द्वादशाहमधः शय्योति नियमो भिक्षाचरणादिः। नटस्य श्रृणोतीति। किं पुनर्नटः कारकम्? उताहो न ?, यदि कारकम्? कर्म संज्ञा प्राप्नोति-ठकथितं चऽ इति। अथाकारम्? उपयोगग्रहणमनर्थकं स्यात्। अस्तु कारकम्, न ह्युपाध्यायान्नटस्य व्यापारे कश्चिदन्यो विशेषः; अन्यदतो नियमात्। दुह्यादिपरिगणनातु कर्मसंज्ञा न भवति। क्वचितु नटस्य गाथां श्रृणोति, ग्रन्थिकस्य कथां श्रृणोतीति पाठः, तत्रापि नटादिनिमितं गाथादेः श्रवणं करोतीत्यर्थ; न तु गाथादिविशेषणं नटादिः; अकारकत्वप्रसङ्गात्। ग्रन्थिकःउकथाया वाचयिता। अयमपि प्रपञ्चः, कथम्? उपाध्यायान्निस्सरन्तं शब्दं गृह्णातीति स्फुट एवात्रापायः। इदं तर्हि प्रयोजनम्-ठुपयोग इति वक्ष्यामि, नटस्य मा भूत्ऽ इति? ननु नटस्य सत्यप्यवधित्वे शेषरूपेण विवक्षणात् षष्ठी भविष्यति, यथा न माषाणामश्नीयादिति वस्तुतः कर्मत्वं माषाणाम्, सत्यम्; स एव विवक्षानियमः सूत्रकारेण प्रदर्श्यते-उपयोगेऽवधित्वं विवक्षितम्, अन्यत्र शेषत्वमिति॥ पदमञ्जरी जनिकर्तुः प्रकृतिः॥ १।४।३० ॥ जनेः कर्ता जनिकर्तेति कर्मणि षष्ठयाः समासः। अयमेव च निर्देशो ज्ञापयति-ठ्कर्तरि चऽ इति प्रतिषेधोऽनित्य इति। कः पुनरसावित्यत आह-जन्यर्थस्येति। एतदुक्तं भवति-जनिशब्दोऽयम्ठिञ्जादिभ्यःऽ इति जनेर्भाव इञमुत्पाद्य व्युत्पादितः। ठ्जनिवध्योश्चऽ इति वृद्धिप्रतिषेधो जन्यार्थवाची, न तु ठिक्स्तिपौ धातुनिर्देशेऽ इति इक्प्रत्ययान्तः, ठ्गमहनऽ इत्युपधाया लोपप्रसङ्गत्। नाप्यागन्तुकेनेकारेण धातोर्निर्देशः; शब्दात्मकस्य धातोः कर्त्रा सम्बन्धायोगात्। अथाप्यर्थद्वारको योगः स्याद्? एवमपि धातुनिर्देशे तस्यैव प्रयोगे स्याद्, न पर्यायस्य; अङ्गादङ्गास्तम्भवोऽस्तीति। अर्थग्रहणे त्वत्रापि भवतीति। प्रकृतिरित्यस्य विवरणम्--कारणमिति। उपादानकारणमित्यर्थः। अन्ये तु ध्रुवग्रहणानुवृतेरेव प्रकृतिपरिग्रहे सिद्धे प्रकृतिग्रहणं कारणमात्रपरिग्रहार्थं वर्णयन्ति। अत एव वृतावुक्तम्-कारणमिति, न पुनरुपादानकारणमिति। तेन च पुत्रात्प्रमोदो जायत इत्यादावपि भवतीति। किं पुनः सत् जायते? उतासत्? न तावत्सत्; जन्मवैयर्थ्यात्। यदि जन्मनः प्रागेव सत्, किं जन्मना? अथैवमपि जन्म, जायस्व जायस्वेत्येव घटो जायते। नाप्यसत्; असतः कर्तृत्वायोगात्, शशविषणादेरपि जन्मप्रसङ्गच्च। उक्तमत्र-- पूर्वावस्थामविजहत्संस्पृशन् धर्ममुतरम्। संमूर्च्छित इवार्थात्मा जायमानोऽभिछीयते॥ इति। एतच्च ठान्महतःऽ इत्यत्रोपपादयिष्यामः। किञ्चास्माकमनेन दुस्तर्केअण, अस्ति तावत् ठ्श्रृङ्गाच्छरो जायतेऽ इति प्रयोगः, स उपपादनीय इत्येतावत्! अयमपि प्रपञ्चः। लोके हि यद्यस्माज्जायते तततो निर्गच्छतीत्युच्यते, लोकप्रसिद्ध्यनुसारेण शब्दप्रयोगः, अर्थतत्वं तु तथा भवत्वन्यथा वा॥ पदमञ्जरी भुवः प्रभवः॥ १।४।३१ ॥ भवनं भूः, सम्पदादित्वात्क्विप्। अत्रापि प्रशब्दो द्रष्टव्यः। न हि कोवलस्य भवत्यर्थस्य प्रभवनेन योगः किं तर्हि? सोपसर्गस्य भुवः। कर्तेति। भवत्यर्थस्य कर्तेत्यर्थः, भुवो वा धातोः। कथं पुनर्धातोर्नाम कर्ता स्याद्, धातुर्वै शब्दः, शब्देऽसम्भवेऽर्थे कार्थं विज्ञास्यते। ठ्तसु उपक्षयेऽ भावे क्तः, ठ्वि गतौऽ तस्ता, वितस्तेति, अशोष्येत्यर्थः। प्रथमत उपलभ्यते इति। उपलभतेः कर्मव्यापारे प्रभवतिः, प्रवर्तत इत्यर्थः। प्रकाशत इति यावत्। एतेन जन्यर्थाभावात्पूर्वेणासिद्धं दर्शयति। अनेकार्थत्वाद्धातूनामस्मिन्नर्थे वृत्तिः। अयमपि प्रपञ्चः। कथम्? भवनपूर्वके निःसरणे प्रभवतिर्वर्तते॥ पदमञ्जरी कर्मणा यमभिप्रैति स संप्रदानम्॥ १।४।३२ ॥ कर्मणा करणभूतेनेति। कथं पुनरेकमेव वस्तु युगपत्कर्म च करणं च भवति? क्रियाभेदाद्दानक्रियायां कर्माभिप्रायेण क्रियायां करणम्, दीयमानाया हि गवा शिष्य उपाध्यायामभिप्रैति संबध्नाति ईप्सति वा, अभप्रपूर्वो हीण् ईप्सतिना समानार्थः। अभिप्रेर्तामत्युक्ते ईप्सितमिति गम्यते। उक्तं च-- अनिराकरणात्कर्तुस्त्यगाङ्गं कर्मणोप्सितम्। प्रेरणानुमतिभ्यां वा लभते सम्प्रदानताम्॥ इति। त्यागो दानम्, त्यागस्याङ्गं शेषभूतं कर्मणा गवादिनेप्सितमाप्तुमिष्ट्ंअ संप्रदानतां लभते, अनिराकरणाद्वा, एवमस्त्विति अनुमानाद्वा, देवेभ्यः सुमनसो ददाति, याचकाय भिक्षा ददाति, उपाध्यायाय गां ददाति; न तु निराकुर्वन् संप्रदानं भवतीति श्लोकार्थः। अत्र केचिदाहुः- ठ्कुगतिप्रादयःऽ इत्यत्र वार्तिकम्- ठुदातवता तिङ गतेः समासवचनम्ऽ इति। यो जात एव प्रथमोमहस्वावो देवा क्रतुना पर्यभूषत्, यो यः शम्बरमन्वविन्दत्, यस्मान्न ऋते किं वजयन्ते, यो वै प्रयवयतामप्येनं प्रतिपद्यते-इत्याद्यौदाहरणानि। अत्र सर्वत्र ठ्यद्वृतान्नित्यम्ऽ इति निपातप्रतिषेधात् तिङ्न्तमुदातवत्, ततश्चायमभिप्रैतीत्यत्रापि समासे सति प्रातिपदिकत्वात् विभक्त्युत्पत्तिः स्यादिति। नेति वयम्; तस्य छन्दोविषयत्वात्। यदि कर्मणा यमभिप्रैति स संप्रदानम्, अजां नयति ग्राममिति अजैर्नयतिक्रिया कर्मभिस्संबध्यमानस्य ग्रामस्य संप्रदानतां प्राप्नोति? न प्राप्नोति, किं कारणम्? कर्मणेति करणे तृतीयेत्यक्तम्। न च यथा शिष्यस्योपाध्यायसम्बन्धे गौः करणम्, एवमजा ग्रामसम्बन्धे। ईप्सतिना समानार्थे तु सुतरामप्राप्तिः। तथा हि- ठ्यमभिप्रैतिऽ इत्युक्ते यमिति निर्दिष्टस्य शेषित्वम्, कर्मणेति निर्दिष्टस्य गवादेः करणस्य शेषत्वं च प्रतीयते; यथा-ठ्कर्त्रभिप्राये क्रियाफलेऽ इति कर्तुः शेषित्वं क्रियाफलस्य शेषत्वम्, न चात्र शेषशेषिभावः प्रतीयते। किं च ठ्नीवह्यएर्हरतेश्चऽ इति द्विकर्मकेषु नयतिः परिगण्यते, अतोऽपि ग्रामस्य न भविष्यति। अथ किमर्थं महती संज्ञा क्रियत इत्याह-अन्वर्थसंज्ञाविज्ञानादिति। सम्यक्प्रदीयते यस्मै तत्संप्रदानमित्यन्वर्थत्वात्सञ्ज्ञाया ददातिकर्मणा यमभिप्रैति स संप्रदानमित्यर्थः। एवमपि रजकस्य वस्त्रं ददाति, घ्नतः पृष्ठ्ंअ ददातीत्यत्र कस्मान्न भवति? अदानत्वात्, किं पुनर्दानम्? दानं किञ्चदुद्दिश्यापुनर्ग्रहणाय स्वद्रव्यत्यागाः, यथा-वृक्षाय जलं ददाति, देवेभ्यः सुमनसः, याचकाय भिक्षाम्, उपाध्यायाय गाम्, खण्डिकोपाध्यायस्तस्मै चपेटिकां ददाति, न शूद्राय मतिं दद्यादिति। करतलप्रहारःउचपेटिका। रजके तु पुनर्ग्रहणाद्दानाभावः, उपमानातु ददातिप्रमोगः,तत्र कारकशेषत्वान्नटस्य श्रृणोतीतिवत् षष्ठी कर्मणेति किम्, यावता उपाध्यायाय गां ददातीत्यत्र गोरुपाध्यायस्य वाभिप्रेयमाणत्वम्,यतो गौर्दानक्रियया करणभूतयाभिप्रेयते, गवा तूपाध्यायः; तत्र परत्वाद्रोः कर्मसंज्ञेति पारिशेष्याद् उपाध्यायस्यैव संप्रदानसंज्ञा भविष्यति? नैतदस्ति;सत्यप्युभयोरभिप्रेयमाणत्वेऽन्तङ्गत्वात्कर्मण एव गवादेः स्यात्। कर्मसज्ञा तु ददातिकर्मणोऽन्यत्र सावकाशा, कारकप्रकरणे च प्रकर्षो नाश्रीयते, न त्वन्तरङ्गबहिरङ्गभावोऽपि । यंसग्रहणेऽक्रियमाणेऽभिप्रेतुरेव संप्रदानसंज्ञा स्यात्; श्रुतपदार्थसम्बन्धे सति तेनैव निराकाङ्क्षत्वादध्याहारानुपपतेः। सत्यपि वाध्याहारे यः स इत्येवाध्याहारात् तत उपाध्यायाय शिष्येण गौर्दीयत इत्यत्रार्थे शिष्यायोपाध्यायस्य गौर्दीयत इति स्यात्। कर्मसंज्ञायां हि कर्तृग्रहणं स्वतन्त्रोपलक्षणार्थमिति तेन शिष्यस्य कर्तृ त्वाभावेऽपि गोः कर्मसंज्ञा युज्यत एव। तथा च सार्थाद्धीयत इति कर्मणि लकारोत्पतिः। अभिप्रग्रहणं किम्, यावता कर्मणा यमेति गच्छति प्राप्नोति संबध्नातीत्यर्थः, अभिप्रैतीत्युक्ते स एव? अभिप्रग्रहणेऽक्रियमाणे कालविवक्षा स्यात्; ततश्च यमेव संप्रत्येति तत्रैव स्यात्, यमगात् यं चैष्यति तत्र न स्यात्; अभिप्रग्रहणे पुनः क्रियमाणे न दोषो भवति। अभिराभिमुख्ये वर्तते, प्रशब्दश्चादिकर्मणि, ततश्चोपसर्गद्वयोपादानसामर्थ्यात्कालान्तरावच्छिन्ना क्रिया नाश्रीयते। ननु यथा ठ्तेन दीव्यतिऽ इत्यादौ सङ्ख्याकालयोरविवक्षा, तथेहापि संख्यावत्कालस्याप्यविवक्षा सिद्धा, सत्यम्; अयमेव न्यायसिद्धोऽर्थ उपसर्गद्वयोपादानेन प्रदर्श्यते। यदा त्वभिप्रैतीत्यस्य ईप्सतीत्यर्थः, तदाभिप्रग्रहणं कर्तव्यमेव। क्रियाग्रहणमपि कर्तव्यमिति वार्तिकम्, एतद्व्याचष्टे-क्रिययेत्यादि। ननु क्रियामपि लोके कर्मेत्युपचरन्ति-किं कर्म करिष्यसि, कां क्रियामिति, तत्र कर्मणा यमभिप्रैतीत्येव सिद्धम्। एवमपि कर्तव्यम्; ठ्कृत्रिमाकृत्रिमयोः कृत्रिमे कार्यसंप्रत्ययो भवतिऽ संदर्शनप्रार्थनाध्यवसायैराप्यमानत्वात्। क्रियापि कृत्रिमं कर्म, तथा हि-य एव मनुष्यः प्रेक्षापूर्वकारी भवति, स बुद्ध्या तावत्कञ्चिदर्थं संपश्यति-इदमीद्दशमिति, तद् द्दष्ट्ंअ प्रार्थयते-अयि ममेदं स्यादिति, ततस्तदुपायभूतां क्रियां पश्यति-अस्या एतत्फलमिति, ततः प्रार्थयते-कथमियं निष्पपाद्यतामिति, ततस्तत्साधनानि समवधार्य कर्तुमध्यवस्यति। प्रतीयमानक्रियापेक्षोऽपि कारकभावो भवत्येव, यथा-प्रविश पिण्डीमित्यत्र भक्षयेति गम्यते। सूत्रकारश्च सूत्रयति-ठ्क्रियार्थोपपदस्य च कर्मणि स्थानिनःऽ इति। एवमपि क्रियाग्रहणं कर्तव्यम्; ददातिकर्मत्वात्। निगर्हते इति। नास्तिक्यान्निन्दतीत्यर्थः। ठ्गर्ह गल्ह कुत्सायाम्ऽ अनुदातेत्। युद्धायेति। युद्धविषयं संनाहपूर्वकं निश्चयं करोतीत्यर्थः। नह्यतिः स्वरितेत्। पत्ये शेते इति। पतिमुपसृत्य शेत इत्यर्थः। यदि तर्हि क्रिययाभिप्रेयमाणस्यापि भवति कटङ्करोतीत्यादावपि प्राप्नोति, वचनाद्धि कर्मसंप्रदानसंज्ञयोः पर्यायः स्यात्? नैतत्सार्वत्रिकम्, किं तर्हि? प्रयोगदर्शनवशेन नियतविषयम्। कर्मणः करणसंज्ञेत्यादि। एतछन्दोविषयम्, सर्वे विधयश्च्छन्दसि विकल्पन्ते, इति यथाप्राप्तमपि प्रयोगो भवति। भाष्ये तु ददातिकर्मणेति नाश्रितम्, प्रयोगाश्च बहवः-अर्यम्णे चरुं निर्वपेत्, देवेभ्यो ब्रह्माएदनमपक्षत्, देवेभ्यो हव्यं वहन्तः च्छन्दांसि वै देवेभ्यो हव्यमूर्धा, यदङ्गमाशुषे त्वम्, शं नः करत्पर्वते इत्यादयः, तन्मते क्रियाग्रहणं न कर्तव्यम्। कथं यत्र संप्रदानत्वमिष्यते? तत्र संदर्शनादीनां क्रियायाश्च भेदो विवक्ष्यते, ततश्च तैराप्यमाना क्रियापि कृत्रिमं कर्मेति सिद्धं तयाभिप्रेयमाणस्य संप्रदानत्वम्, यत्र तु नेष्यते तत्र भेदो न विवक्ष्यते, ततश्चौदनाद्येकफलावच्छेदेनैकीकृतया क्रिययाऽऽप्यमानस्य कर्मत्वमेव भविष्यति-कटङ्करोति, ओदनं पचतीति। गत्यर्थेषु तूभयं विवक्ष्यते-भेदः, अभेदश्च; तत्र भेदविवक्षायां ग्रामं गच्छतीति प्रयोग इति ठ्गत्यर्थकर्मणिऽ इत्येतदपि न वक्तव्यं भवति॥ पदमञ्जरी रुच्यर्थानां प्रीयमाणः॥ १।४।३३ ॥ रुचिना समानार्था इति। वस्तुकथनमेतत्। विग्रहस्तु रुचिरर्थो येषामिति। ते च रुचिना धातुना धातुना समानार्था भवन्ति। प्रीयमाण इति। ठ्प्रीञ् तर्पणेऽ इत्यस्मात् क्रैयादिकात् सकर्मकात्कर्मणि लः। दैवादिकस्तु ङ्दिकर्मकः, तर्पमाण इत्यर्थः। अन्यकर्तृक इति। योऽभिलाषस्याश्रयः प्रीयमाणस्ततोऽन्यकर्तृक इत्यर्थः। कथं पुनरन्याश्रयस्याभिलाषस्यान्यः कर्ता भवति, यावता यदाश्रयव्यापारं धातुः प्राधान्येनाचष्टे स कर्ता? नेदं कर्तृ लक्षणम्, किन्तु स्वातन्त्र्यमेव। तच्च क्वचिद्वास्तवम्, क्वचिद्वैवक्षिकम्। तदत्र माधुर्यातिशयेन स्वविषयं देवदताश्रयमभिलाषं जनयन्मोदकस्तत्र कर्तेति गीयते। न चैवं लषेरपि प्रसङ्गः, देवदतो मोदकमभिलष्यतीति? अभिधानशक्तिवैचित्र्यादाश्रयकर्तृ कोऽभिलाषो लषेर्वाच्यः, रुचेस्तु विषयकर्तृकः। द्दष्टश्चायमभिधानप्रकारनियमोऽन्यत्रापि, तद्यथा-घटः पश्यतीति द्दशेराश्रयकर्तृ कं ज्ञानं वाच्यम्। घटः प्रकाशते इत्यत्र प्रकाशेर्विषयकर्तृकम्। विषय एव हि स्पष्टालोकमध्य वर्तित्वादिना सौकर्येण देवदताश्रये ज्ञाने कर्तेति व्यपदिश्यते, न तु ज्ञानेन कश्चिदतिशयो विषयो जन्यते। कोऽयं प्रकाशो नाम, यं प्राकठ।ल्माचक्षते भाट्टाः, तत्र कारकशेषत्वेन षष्ठीप्रसङ्गे वचनम्। अन्ये तु प्रीयमाणं देवदतं मोदकः प्रीणयतीति कर्मसंज्ञां प्राप्तां मन्यन्ते। अपरे त्वेवमाहुः- देवदतो रोचयति मोदकमिति हेतुत्वे प्राप्ते वचनमिति, देवदतं हि प्राप्य रोचते मोदको न सर्वान्, नानेच्छा हि प्राणिन इति। एवमुतरेष्वपि योगेषु द्रष्टव्यम्। उक्तं च-- हेतुत्वे कर्मसंज्ञायां शेषत्वे चापि कारकम्। रुच्यर्थादिषु शास्त्रेण संप्रदानाख्यमुच्यते॥ इति। पथीति। हेतुकर्मसंज्ञावदधिकरणसंज्ञा बाध्येतेति भावः। किं च प्रीयमाणग्रहणादेवादित्यो रोचत इति दीप्तिवाचिनामग्रहणम्॥ पदमञ्जरी श्लाघहूनुङ्स्थाशपां ज्ञीप्स्यमानः॥ १।४।३४ ॥ ज्ञीप्स्यमान इति। ठ्मारणतोषणनिशामनेषु ज्ञाऽ इति घटादिषु पठ।ल्ते, तस्मान्निशामनेऽर्थे हेतुमण्णिचि सनि ठाप्ज्ञपृधामीत्ऽ,ठत्र लोपोऽभ्यासस्यऽ,कर्मणि लटः शानजादेशः। निशामनं चेह ज्ञानमात्रमुच्यते, न चक्षुर्विज्ञानमेव, यदाह-बोघयितुमभिप्रेत इति। कथं तर्हि प्रयुज्यते--तज्ज्ञापयत्याचार्थः, विज्ञापना भर्तृषु सिद्धिमेतीति? तस्मान्निशानेष्विति पाठः। ठ्शो तनूकरणेऽ ल्युडन्तः, संज्ञपितः पशुरित्युदाहरणम्। ज्ञीप्स्यमानो ज्ञपयितुमिष्यमाण इति प्रयोगःठ्ज्ञप मिच्चऽ इति चुरादिणिजन्तस्य। अन्ये तु -ठ्मितां ह्रस्वःऽ इत्यत्र ठ्वा चितविरागेऽ इत्यतो वेत्यनुवृतेर्व्यवस्थितविभाषाविज्ञानाच्चानिष्टे विषये ह्रस्वाभावमाहुः। देवदतं प्रति श्लाघमानास्तां श्लाघां तमेव ज्ञपयितुमिच्छतीत्यर्थ इति। श्लाघा स्तुतिः, प्रत्यक्षेण देवदतं स्तौतीति यावत्। एवं हि तां देवदतः शक्यते ज्ञापयितुम्। अन्ये त्वाहुः- देवदतायात्मानं परं श्लाघ्यं कथयतीत्यर्थ इति। तथा च भट्टिकाव्यम्-- श्लाघमानः परस्त्रीभ्यस्तत्रागाद्राक्षसाधिपः॥ इति। आत्मानं श्लाघ्यं परस्त्रीभ्यः कथयन्नित्यर्थः। एवं देवदताय निह्नुत इति। ठ्ह्नुङ् अपनयनेऽ देवदतं प्रति निह्न्वानस्तां निह्नुतिं तमेव ज्ञापयितुमिच्छतीत्यर्थः। इत्येष एवंशब्दस्यार्थः। निह्नुतिरपलापः, संनिहितमेव देवदतं धनिकादेरपलपतीत्यर्थः। अन्ये तु ह्नोतव्यं किञ्चिद्देवदतं ज्ञापयतीत्यर्थ इत्याहुः- देवदताय तिष्ठत इति। ईद्दशोऽहमिति देवदतस्य स्थनेन प्रकाशयतीत्यर्थः। देवदताय शपते इति। शपथेन किञ्चित्प्रकाशयतीत्यर्थः। देवदतः श्लाघते इति। ज्ञीप्स्यमानवचनात् कर्मसंज्ञैव बाध्यते, न कर्तृसंज्ञेत्यर्थः। एवं गार्गिकया श्लाघते सभायामिति करणाधिकरणसंज्ञे न बाध्येते। क्वचितु देवदतं श्लाघते इति पाठः। तत्रायं भावः-यस्मायाख्यायते स ज्ञीप्स्यमान इत्याख्यायामाना द्विनीयैव न्याय्येति। ये त्वाख्यायमानं ज्ञीप्स्यमानं वदन्ति तेषां यस्मायाख्यायते ततः षष्ठी भवति--देवदताय श्लाघते यज्ञदतो विष्णुमित्रस्येति॥ पदमञ्जरी धारेरुतमर्णः॥ १।४।३५ ॥ उतममृणं यस्येति। उतममूत्कुष्टतमम्, उत्कृष्टार्थवृतेरुच्छब्दातमपि द्रव्यप्रकर्षत्वादामभावः। अर्तेः क्तः, ऋणम् ठृणमाधमर्ण्येऽ इत्यत्र कालान्तरे देयद्रव्यविनिमयोपलक्षणार्थमाधमर्ण्यग्रहणमित्युतमर्णेऽपि नत्वं भवति। अत्र बहुव्रीहौ निष्ठायाः पूर्वनिपाते ठ्जातिकालसुखादिभ्यःऽपरवचनम् इति सुखादेराकृतिगणत्वादस्मादेव वा निपातनाद्दणशब्दस्य परनिपातः। शतं धारयतीति। ठ्धृङ् अवस्थानेऽ,ध्रियमाणं स्वरूपेणावतिष्ठमानं स्वभावादप्रच्यवमानं शतं प्रयुङ्क्त इति णिच्। ग्राम इति। नन्वत्र परत्वादधिकरणसंज्ञैव भविष्यति; उतमर्णेऽपि तर्हि हेतुसञ्ज्ञा स्यात्॥ पदमञ्जरी स्पृहेरीप्सितः॥ १।४।३६ ॥ चुरादावदन्तः पठ।ल्त इति। तेन स्पृहयतीत्यत्रातो लोपस्य स्थानिवद्भावाल्लघूपधगुणो नेति भावः। ईप्सित इति। ठ्मतिबुद्धिऽ इत्यादिना वर्तमाने क्तः। ईप्सितमात्रे इयं संज्ञा। प्रकर्षविवक्षायां तु परत्वात् कर्मसंज्ञैव भवति--पुष्पाणि स्पृहयतीति। यदा त्वीप्सितमीप्सिततमं वा शेषत्वेन विवक्ष्यते, तदा षष्ठी भवति॥ पदमञ्जरी क्रुधद्रुहेर्ष्यासूयार्थानां यं प्रति कोपः॥ १।४।३७ ॥ गुणेष्विति। शौचाचारादिषुः दाषा विष्करणमिति। दम्भादिदोषाध्यास इत्यर्थः। तत्र क्रुधद्रुहावकर्मकाविति कारकशेषत्वान्नटस्य श्रृणोतीतिवत् षष्ठ।लं प्राप्तायां वचनम्, इतरयोस्तु सकर्मकत्वाद् द्वितीया प्राप्नोति। अत्र च चितदोषरूपत्वं यद्यपि क्रोधादीनामविशिष्टम्, तथाप्यन्येषामेवञ्जातीयकानां द्वेषादीनामग्रहणार्थमवान्तरभेदविवक्षया पृथगिमे निर्दिष्टाः, न तु चितदोषार्थानामिति। तेनास्मान् द्वेष्टीत्यत्र न भवति, अनभिनन्दनं ह्यस्यार्थः। तथा चाचेतनेष्वपि प्रयुज्यते--औषधं द्वेष्टीति। कथं पुनरेकेन क्रुधिना सर्वे क्रुधादयः शक्या विशेषयितुमत आह--क्रोधस्तावदिति। भार्यामीर्ष्यतीत्यत्र केवलं परैर्द्दश्यमानां भार्यां, न तु तां प्रति कोपः॥ पदमञ्जरी क्रुधद्रुहोरुपसृष्टयोः कर्म॥ १।४।३८ ॥ उपसर्गेण सम्बद्धयोरिति। ठुपसर्गाः क्रियायोगेऽ उपसृजन्तीत्युपसर्गाः, पचाद्यचि न्यङ्क्वादित्वात् कुत्वम्। तेनोपसृष्टयोरित्यस्योपसर्गेण सम्बद्धयोरित्ययमर्थो भवति। स्वनिकायप्रसिद्धिर्वा॥ पदमञ्जरी राधाक्ष्येर्यस्य विप्रश्नः॥ १।४।३९॥ यस्येति कर्मणि षष्ठी, यद्विविधं पृच्छयत इत्यर्थः। यत्सम्बन्धीत्यादि। यत्सम्बन्धिनः शुभाशुभस्य विप्रश्न इति। देवदताय राघ्यतीति। ठ्राधोऽकर्मकाद्वद्वावेवऽ इति दिवादौ, तत्र वृद्धावित्युपलक्षणमकर्मकादिति वचनाद् वृद्धावकर्मकत्वाव्यभिचारात्। एवकारस्तु भिन्नक्रमः- राधोऽकर्मकादेव श्यन् भवति, यथा-वृद्धाविति। तेन सत्यप्येवकारे पर्यालोचनस्य वृत्तिरविरुद्धा। तत्र धात्वर्थेनोपसंग्रहाज्जीवत्यादिवद् राधोऽकर्मत्वमविरुद्धम्। निमितं वेद नैमितिकः, उञ्छादिषु वसन्तादिषु वा निमितशब्दो द्रष्टव्यः। यस्यग्रहणमनर्थकम्, यं प्रतीत्येव, तत्र यं प्रति विप्रश्न इत्यन्वये किं नाम विवक्षितं न सिध्यति॥ पदमञ्जरी प्रत्याङ्भ्यां श्रुवः पूर्वस्य कर्ता॥ १।४।४० ॥ द्विवचननिर्देशात् प्रत्येकमुपसर्गसम्बन्ध इत्याह-- आङ्पूर्वस्य प्रतिपूर्वस्य चेति। कः पुनरत्र पूर्वो व्यापार इत्यत्राह--प्रत्याङ्पूर्वश्चेत्यादि परेण प्रयुक्तस्येति। इदं मे देहीत्येवं प्रार्थितस्येत्यर्थः। पूर्वस्याः क्रियाया इति। सूत्रे तु व्यापाररूपविवक्षया पूर्वस्येति निर्देशः, यत्र हेतुसञ्ज्ञायां प्राप्तायां देवदतेन प्रतिश्रावयतीति प्रयोगनिवृतये वचनमित्याहुः। विवक्षान्तरे च देवदतो गां प्रतिश्रावयतीति भवत्येव॥ पदमञ्जरी अनुप्रतिगृणश्च॥ १।४।४१ ॥ पूर्वेण साहचर्यादत्रापि प्रत्येकमुपसर्गसम्बन्ध इत्याह--अनूपूर्वस्य प्रतिपूर्वस्य चेति। कः पुनरत्र पूर्वो व्यापार इत्यत्राह--होता प्रथममित्यादि। अन्य इति। अध्वर्युः। कथं पुनर्ज्ञायते-अनुप्रतिपूर्वो गृणातिः शंसितुः प्रोत्साहने वर्तत इत्याह--अनुगरः प्रतिगर इत्यादि। अनुगीर्यते प्रोत्साह्यते येन शब्देन सोऽनुगरः। एवं प्रतिगरः, ओथामो दैवेत्येवमादिकः शब्दः; तेन हि प्रतिगीर्यते। पदमञ्जरी साधकतमं करणम्॥ १।४।४२ ॥ ठ्षिधू संराद्धौऽ इत्यस्य हेतुमण्ण्यन्तस्य ठ्सिद्ध्यतेरपारलौकिकेऽ इत्यात्वे ठ्राध साध संसिद्धौऽ इत्यस्य वा ण्यन्तस्य साधकशब्दः। क्रियात्मकश्चार्थः। प्रयोज्यः कर्ता, सिध्यतः साध्यवतो वा क्रियात्मनोऽर्थस्य प्रयोजकतमं साधकतमम्। ननु सामग्«अधीना क्रियासिद्धिर्नो खलु कर्त्रादीनामन्य तमापायेऽपि क्रिया निष्यद्यते, तत्किमपेक्षः कारकाणां मध्ये एकस्यातिशययोगः स्यात्? उच्यते; छेद्यद्रव्यानुप्रवेशो व्यापारः, काष्ठादे पाके प्रज्वलन जनितोष्णस्पर्शानुप्रवेशः, तदनन्तरमेव क्रियासिद्धिः नैवं कारकान्तरेष्वनुप्रवेशः तद्व्यापारानन्तरं वा क्रियानिष्पतिः समस्ति, अतः- क्रियायाः परिनिष्पतिर्यद्व्यापारादनन्तरम्। विवक्ष्यते यदा तत्र करणं ततदा स्मृतम्॥ ठ्विवक्ष्यतेऽ इत्यनेनैतद् दर्शयति-देशकालावस्थादिवशेन यस्य क्रिया प्रत्युपयोगातिशयेन व्यापारः प्रत्यासीदन् विवक्ष्ये, तदा तस्य करणत्वं भवतीति। यथा स्थाल्यधिकरणत्वेन प्रसिद्धा, तस्या अपि तनुतरकपालतया प्रकर्षविवक्षायां करणत्वं भवति-स्थाल्या पच्यत इति। उक्तं च-- वस्तुतस्तदनिर्देश्यं न हि वस्तु व्यवस्थितम्। स्थाल्या पच्यत इत्येषा विवक्षा द्दश्यते यतः॥ इति। न चैवं कर्तुरपि करणत्वविवक्षाप्रसङ्गः; भिन्नजातीयत्वात्। सकलसाधनविनियोगकारी खल्वसौ, न च शतधनो निष्कधनेन सह स्पर्द्धते!कथं तर्ह्यश्वेन दीपिकया रथेन सञ्चरते इति बहूनां करणत्वम्, यावता तेष्वपि यदासन्नोपकारकं तदेव करणं युक्तम्? उच्यते; कारकान्तरापेक्षः करणस्यातिशयः, न स्वकक्षायाम्; तेन सर्वेषां क्रियानिष्पतौ संनिपत्योपकारकत्वात् सिद्धं करणत्वम्। तमब्ग्रहणं किमिति। कारकाधिकारात् सिद्धे साधकत्वे पुनः साधकश्रुतिः प्रकर्षार्था भविष्यतीति प्रश्नः। गङ्गायां घोष इति। असति तमब्ग्रहणे आधारो नाम यत्राधारात्मा व्याप्तो भवत्याधेयेन, तेनेहैव स्यात्- तिलेषु तैलम्, पयसि सर्पिरिति; गङ्गायां घोष इत्यत्र न स्यात्। तमब्ग्रहणं तु ज्ञापयति-इह प्रकरणे सामर्थ्यगम्यः प्रकर्षो नाश्रीयते, तेनेहापि भवति। यदा च देशधर्मो घोषं प्रत्याधारभावः स्त्रोतस्युपचर्यते, तदेवं तमब्ग्रहणस्य प्रयोजनम्; यदा तु गङ्गाशब्दस्तीरे वर्तते तदा न प्रयोजनम्। आधेयेन व्याप्तिसम्भवान्मुख्य एवाधारभाव इति॥ पदमञ्जरी दिवः कर्म च॥ १।४।४३ ॥ ननु चाक्षान् दीव्यतीत्यत्र पातयतीत्यर्थस्तत्र कर्मत्वं सिद्धम्; अक्षैर्दीव्यतीति, क्रिडतीत्यर्थः, तत्र करणत्वं सिद्धम्, किमर्थमिदमित्याशाङ्क्याह--पूर्वेण करणसंज्ञायामिति। अक्षैः क्रीडतीत्यस्यामेव विवक्षायामक्षान् दीव्यतीतीष्यते, अत्र च करणसंज्ञैव प्राप्नोति, अक्षान्पातयतीत्यत्र चार्थेऽक्षैर्दीव्यतीति नेष्यते, अतः साधकतमस्यैव करणसंज्ञायां प्राप्तायामयमारम्भ इत्यर्थः। अथ किमर्थश्चकारः? करणसंज्ञापि यथा स्यात् नैतदस्ति प्रयोजनम्; वक्ष्यमाणमन्यतरस्यांग्रहणमिहैव करिष्यामि, तत्राह--चकारात्करणसंज्ञं चेति। युगपत्संज्ञाद्वयं यथा स्यादिति भावः। अन्यतरस्यांग्रहणे तु पर्यायः स्यात्--यदा कर्म न तदा करणम्, यदा करणं न तदा कर्म; चकारातु युगपदेव संज्ञाद्वयं भवतीत्यर्थः। यौगपद्यप्रयोजनं मनसा दीव्यतीति कर्मत्वादण् प्रत्ययः, करणत्वाच्च तृतीयाठ्मनसः संज्ञायाम्ऽ इत्यलुक्-मनसा देवः। इह चाक्षैर्देअवयते देवदतो यज्ञदतेनेति, अक्षैरिति तृतीयाप्रयोगेऽपि धातोः सकर्मकत्वाद् ठ्गतिबुद्धिऽ इत्यादिनाऽण्यन्तावस्थायां कर्तुर्यज्ञदतस्य कर्मसंज्ञा न भवति, ठणावकर्मकात्ऽ इति परस्मैपदं च। यदि तर्हि समावेशः- अक्षान् दीव्यतीति परत्वात् तृतीया प्राप्नोति; पर्याये तु नायं दोषः, कर्मसंज्ञापक्षे करणसंज्ञाया अभावात्। समावेशे तु करणसंज्ञाया अवकाशः-विदेवना अक्षाः, ठ्करणाधिकरणयोश्चऽ इति ल्युट्; कर्मसंज्ञाया अवकाशः-दीव्यन्ते भवताक्षाः, ठ्भावकर्मणोःऽ इति यगात्मनेपदे; अक्षानित्यत्र भयसंज्ञाकार्यप्रसङ्गे परत्वातृतीया स्यात्, नैष दोषः; कार्यकालं हि संज्ञापरिभाषम्, ततश्च ठ्कर्मणि द्वितीयाऽ इत्यत्र यदस्योपस्थानं तदनवकाशमिति द्वितीया भविष्यति। अयं तर्हि समावेशे दोषः- दीव्यन्तेऽक्षा इति कर्मण्यभिहितेऽपि करणस्यानभिहितत्वातृतीया स्यात्, देवना अक्षा इति ल्युटा करणस्याभिधानेऽपि कर्मणोऽनभिधानेन द्वितीया स्यात्? नैष दोषः; एकैव कारकशक्तिः संज्ञाद्वययोगिनी। ततश्यैकस्मिन् कारकेऽभिहिते कारकान्तरमप्यभिहितमेव भवति; शक्तेरेकत्वात्॥ पदमञ्जरी परिक्रयणे संप्रदानमन्यतरस्याम्॥ १।४।४४ ॥ परिक्रयणशब्दे धातुगतमेव रेफमाश्रित्य ठ्रषाभ्याम्ऽ इत्येव णत्वम्, प्रथमोपनिपतितत्वाद्, यथोपसर्गाभावे क्रयणमिति; न तूपसर्गस्थमाश्रित्य ठ्कृत्यचःऽ इत्यनेन तस्य पश्चादुपनिपतितत्वेन बहिरङ्गत्वात्। वेतनादिनेति। वेतनं भृतिः, नियतकालत्वमेव स्पष्टयति। नात्यन्तिकः क्रय एवेति। परिशब्दः सामीप्यं द्योतयति। क्रयो नामात्यन्तिकं स्वीकरणम्, नियतकालं तु तस्य समीपमेवेति परिशब्दस्यार्थः॥ पदमञ्जरी आघारोऽधिकरणम्॥ १।४।४५ ॥ आध्रियन्तेऽस्मिन् क्रिया इत्याधार इति ठध्यायन्यायोद्यावऽ इत्यादिनाऽधिकरणे घञ्। क्रियापेक्षत्वात् कारकभावस्य क्रियाग्रहणम्। यदि क्रियाधारस्याधिकरणसंज्ञा, कर्तृकर्मणोरेव स्यात्। कर्तृस्था हि क्रिया भवति कर्मस्था वा। कर्तृसंज्ञायाः कोऽवकाशः? ये कर्मस्थक्रियाः- पचत्योदनं देवदत इति। नन्वत्राप्यधिश्रयणादेराधारः कर्तेति स्यादेव प्रसङ्गः? अयं तर्ह्यवकाशः- देवदताय रोचते मोदक इत्युक्तम्, अत्र देवदतस्थस्याभिलाषस्य मोदकः कर्तेति। अथाप्यनवकाशा कर्तृसंज्ञा? एवमपि पर्यायः स्यात्। अथ कर्मसंज्ञायाः कोऽवकाशः? ये कर्तृस्थक्रियाः-आदित्यं पश्यतीति। अतः कर्तृकर्मणोरेवाधिकरणसंज्ञाप्रसङ्ग इत्यत आह--कर्तृ कर्मणोरित्यादि। कथं पुनः साक्षात्क्रियाधारे सम्भवति क्रियाधारभूतकर्तृ कर्मव्यवधानेन क्रियाधारस्य गौणस्य ग्रहणं शक्यं विज्ञातुम्? करणसंज्ञायां तमब्ग्रहणेन ज्ञापितमेतद्-यथाकथञ्चित्क्रियाधारस्यापि करणसंज्ञा भवतीति। मुख्यस्यापि तु कस्मान्न स्याद्? आस्त इति कर्तृस्थायाः क्रियाया उदाहरणम्। पचतीति कर्मस्थायाः। त्रिविधं च तदधिकरणम्--औपश्लेषिकम्, वैषयिकम्, अभिव्यापकं चेति। कटे आस्ते,गुरौ आवसति, तिलेषु तैलमिति॥ अधिशीङ्स्थासां कर्म॥ १।४।४६ ॥ पदमञ्जरी अभिनिविशश्च॥ १।४।४७ ॥ नेरल्पाच्तरस्यापूर्वनिपाताद् ठभिनिऽ इति समुदायानुकरणमित्याह--अभिनिपर्वूस्येति। अन्यथाऽभिपूर्वस्य निपूर्वस्य चेति ब्रूयात्॥ पदमञ्जरी उपान्वध्याङ्वसः॥ १।४।४८ ॥ वसरेश्यर्थस्येति। अर्थशब्दो निवृत्तिवचनः, व्यधिकरणे षष्ठयौ, अश्यर्थस्य यो वाचकस्तस्येत्यर्थः। भोजननिवृत्तिवाचिन इति यावत्। यद्वा--शीङेऽर्थः श्यर्थः, न श्यर्थस्तस्य, अस्थानार्थस्येत्यर्थः। स्थानेऽपि हि शीङ् वर्तते-जलाशयमिति। तेन ग्रामे तिष्ठतीत्यत्रार्थे ग्राममुपवसतीति भवति। अस्थानार्थत्वे ग्राम उपवसतीति, स तर्हि प्रतिषेधो वक्तव्यः? न वक्तव्यः, कथम्? नात्रोपपूर्वस्य वसेः ग्रामोऽधिकरणम्, किं तर्हि? अनुपसर्गस्य--ग्रामे वसन् त्रिरात्रमुपवसति। एतदुक्तं भवति--विशिष्टाधारावस्थितत्वेन निश्चिते देवदते भोजननिवृत्तिविशिष्टकालं प्रतिपादयितुमिदं प्रयुज्यते--ग्राम उपवसतीति, तत्रान्तरङ्गत्वात् प्रतीयमानवसिक्रियापेक्षो ग्रामस्याधिकरणभावः। उपवसनं तु स्वरूपेणैव कालमपेक्षत इति कालेनैवान्तरङ्गः सम्बन्धः, ग्रामादिना तु बहिरङ्ग इत्यप्रयुक्तमपि त्रिरात्रादिकं कर्म भवति॥ पदमञ्जरी कर्तुरीप्सिततमं कर्म॥ १।४।४९ ॥ कर्तुः क्रिययेत्यादि। कर्तुर्यदाप्तुमिष्टतममित्यन्वयः, कर्तुरिति चेप्सितापेक्षाया ठ्क्तस्य च वर्तमानेऽ इति कर्तरि षष्ठी। ईप्सित इति ठ्मतिबुद्धिऽ इत्यादिना वर्तमाने क्तः। क्रिययेति करणे तृतीया, कर्ता हि नाम यः क्रियामनुतिष्ठति तेन कर्तुर्यदिष्टतममित्युक्ते तत्क्रियावेशादसौ कर्ता भवति तया करणभूतयेति गम्यते, कर्त्रा यदाप्तुमिष्यते आत्मीयया क्रिययेत्यर्थः। ईप्सितशब्दोऽयमस्त्यभिप्रेते रूढः-ईप्सितोऽभिप्रेत इति; अस्ति क्रियाशब्दः- ठाप्लृव्याप्तौऽ सन्, ठाप्ज्ञपृधामीत्ऽ, आप्तुमिष्टमीप्सितमिति; तत्र क्रियाशब्दस्येह ग्रहणमिति दर्शितम्--आप्तुमिष्टतममिति। कर्मण इति। अश्वस्य। स हि भक्षणक्रियया माषानाप्तुमिच्छति। यद्येवम्, यथाश्वस्य वस्तुतो भक्षणे कर्तृत्वे सत्यपि सम्प्रति बन्धनं प्रति कर्मत्वेन विवक्षितत्वादकर्तृत्वाद् माषाणां कर्मसंज्ञया न भवति, तथा सार्थाद्धीयत इत्यत्रापि हीयमानं सार्थो जहातीति वस्तुवृतेन त्यागेन कर्तुरपि सार्थस्य संप्रत्यपादानरूपेण विवक्षितत्वाद् अकर्तृत्वात्कर्मणि यगात्मनेपदे न स्याताम्। अत्राहुः- कर्मकर्तर्यत्र यगात्मनेपदे, कथम्? जहातिरयं गमनायां वर्ततेदेवदतं सार्थो जहाति, अपगमयतीत्यर्थः, एषैव च सार्थस्यापगमना यदुत क्षुदुपघातादिना देवदतस्यापगमे तत्समर्थाचरणम्। यदा तु क्षुधादिना स्वयमेवापगच्छति, तदा कर्मकर्तृ त्वम्, तदायं प्रयोगः। ततश्च हीयत इति सार्थः स्वयमेवापगच्छतीति, पुनः कुतो हीयते? इत्यपेक्षायां सारर्थेन सम्बन्ध इति। तमब्ग्रहणं किमिति। ईप्सिततमस्यापीप्सितत्वसम्भवाद् उदाहणसिद्धिं मन्यते। पयसौदनं भुङ्क्त इति। करणसंज्ञा तु दात्रेण लुनातीत्यादौ सावकाशा, न हि दात्रं लवनेप्सितम्। ठ्तथा युक्तम्ऽ इत्यनेनापि न भवति, द्वेष्योदासीनप्राप्ययोस्तत्र गहणात्। सत्यप्यत्र पयसो भुजिक्रियायां प्रकृष्टोपकारकत्वे ईप्सायाः प्रकर्षाभावः। यत्र तर्हि पय एवेप्सिततमम्, तत्र प्राप्नोति, तद्यथा कश्चित् कञ्चिदाह-सिद्धं भुज्यतामिति, स आह-प्रभूतं भुक्तमस्माभिरिति, इतर आह-पयो भविष्यतीति, अपरस्त्वरमाण आह-पयसा खलु भुञ्जीयेति, अत्र प्राप्ताप्राप्तविवेकेन पयस एवेप्सिततमत्वं न त्वोदनस्य, अत्राप्योदनमेवेप्सिततमम्; पयसस्तु संस्कारकत्वात्करणत्वम्। न त्वस्य केवले गुणे आदरः, किं तर्हि? तत्संस्कृते ओदने, न ह्यसौ केवलस्य पयसः पानेन संतुष्यतीति। यदि तमब्ग्रहणं क्रियते, पयसौदनं भुङ्क्त इत्यत्रैव स्यात्, पचत्योदनमित्यादौ न स्यात्, न हीप्सिततमं युक्तम्, असति प्रतियोगिनि वस्तु यतुल्यजातीयं तदेव प्रतियोगितां भजते। कारकं चात्र न किञ्चिदिष्टमीप्सितं पयसस्त्वीप्स्यमानात्वाद् युज्यते प्रतियोगिता,नैष दोषः; अत्रापि क्रियापेक्षः प्रकर्षः, आदौ हि कर्ता फलार्थ क्रियामभीप्सति, अतः फलार्थमिष्यमाणत्वादीप्सिता क्रिया। फलं तु स्वरूपेणेष्यमाणमीप्सिततमं क्रियाया अपि कर्मत्वं संदर्शनादिविशेषान्तरस्पर्धया। यत्र तर्हि फलाभावस्तत्र न स्यात्, क्व च फलाभावः ? विकार्ये-काष्ठनि भस्मीकरोतीति, न हि काष्ठानि फलरूपाणि। मा भूवन् तानि स्वरूपेण फलानि, भस्मात्मना तु फलानि? प्राप्ये तर्हि न स्यात्--आदित्यं पश्यति, हिमवन्तं श्रृणोतीति, न ह्यत्र क्रियया कश्चिदतिशयो जन्यते। अत्राप्यतिशयो जन्यते--प्राकट।ल्ं नाम? यो हि यं पश्यति शृणोति वा तस्यासौ प्रकटो भवति, प्रतिपत्राद्यतिरिक्तपुरुषापेक्षया तु विशेषोनास्तीत्युच्यते। यद्वा--तमब्ग्रहणेन यत्रापकृष्टेच्छा तदेव व्यावर्त्यते, तेन पश्यतीत्यादावादित्यादीनामपि प्रतियोगिनोऽसत्वेनापकर्षाभावाद् भविष्यति, अत्र च लिङ्गम् ठ्ललाटकुक्कुट्यौ पश्यतिऽ इति। कर्मेत्यनुवर्तमान इति। अधिशीङ्स्थासामित्यतः। आधारनिवृत्यर्थमिति। प्राच्यं कर्मग्रहणामाधारेण संबद्धमिति तदनुवृतौ तस्याप्यनुवृत्तिः स्यादिति भावः। आधारानुवृतौ को दोषस्तत्राह--आधारस्यैव हि स्यादिति। क्वेत्याह--गेहमित्यादि। यत्र तु न स्यातदाह--ओदनं पचतीत्यादि। एतच्चेप्सिततमं कर्म त्रिविधम्--निर्वर्त्यम्, विकार्यम्, प्राप्यमिति। तथायुक्तमपि द्विविधम्--द्वेष्यम्, इतरच्च। ठकथितं चऽ इत्यपरम्। संज्ञान्तरप्रसङ्गे चान्यत्--ठ्दिवः कर्म चऽ इत्यादि। तदेवं सप्तविधं कर्म। उक्तं च-- निर्वर्त्य च विकार्यं च प्राप्यं चेति त्रिधा मतम्। तच्चेप्सिततमं कर्म चतुर्धाऽन्यतु कल्पितम्॥ औदासीन्येन यत्प्राप्यं यच्च कर्तुरनीप्सितम्। संज्ञान्तरैरनाख्यातं यद्यच्चाप्यन्यपूर्वकम्॥ इति। तथा-- यदसत्, जायते सद्वा जन्मना यत् प्रकाश्यते। तन्निर्वर्त्यं विकार्यं तु कर्म द्वेधा व्यवस्थितम्॥ प्रकृत्युच्छेदसम्भूतं किञ्चित्काष्ठादि भस्मवत्। किञ्चिद् गुणान्तरोत्पत्या सुवर्णादिविकारवत्॥ क्रियाकृतविशेषाणां सिद्धिर्यत्र न गम्यते। दर्शनादनुमानाद्वा तत्प्राप्यमिति कथ्यते ॥ इति। तत्र निर्वर्त्यम्--घट्ंअ करोतीति, व्यक्त्यभिप्रायोण जन्मसामान्याभिप्रायेण प्रकाशनम्। ननु च यदि घटः? न कर्तव्यः; अथ कर्तव्यः? न घटः ; इत्यनुपपन्न घट करोतीति? नैष दोषः; तथाविधं वस्तु करोति यस्य निष्पन्नस्य घट इति संज्ञेति--अयमत्रार्थः। एवमोदनं पयतीत्यादावपि। विकार्यम्--काष्ठानि भस्म करोति, सुवर्णं कुण्डलं करोतीति। प्राप्यम्--आदित्यं पश्यतीति। न ह्यत्र प्रत्यक्षेण अनुमानेन वा क्रियाजन्यः कश्चिदतिशयो गम्यते, यथा--निर्वर्त्यविकार्ययोः रज्जुं सृजति, काष्ठ्ंअ दहति, देवदतं रोषयतीति। कारकत्वं तु प्राप्यस्याभासोपगमादिभिः, आदित्यो ह्यभासमुपगच्छति, यतो द्दश्यते अभिव्यक्तिमुपयाति, यतो व्यक्तमुपलभ्यते सहते च दर्शनम्, यतः शक्यते द्रष्टुंअ तदेवाभासोपगम; व्यक्तिः, सोढत्वमिति कर्मणो विशेषाः प्राप्यमाणस्य क्रियासिद्धौ विवक्षिताः॥ पदमञ्जरी तथा युक्तं चानीप्सितम्॥ १।४।५० ॥ तथेति पृथक् पदम्, नोपसमस्तम्; लक्षणाभावात्। चकारोऽवधारणे, अनेकार्थत्वान्निपातानाम्, तथेत्यस्य चानन्तरे द्रष्टव्य इत्याह--तेनैवेति। ईप्सितादन्यत्सर्वमनीप्सितमिति। यथा अधर्मानृतादिभिरुतरपदार्थप्रतिपक्षभूतं यद्वस्तु तत्प्रतिषेधद्वारेणाभिधीयते, तथेहानीप्सितशब्देनेप्सितप्रतिपक्षभूतं न द्वेष्यमेवाभिधीयते, किं तर्हि? अश्व--लोष्ट--इत्यादिवदीप्सितव्यतिरिक्तं सर्वमिति सर्वशब्दस्यार्थः। विषं भक्षयतीति। न कस्यापि विषमीप्सिततममिति भावः। ननु य एव मनुष्यो व्याध्यादिना सर्वतः पीडितो मरणमेव ज्यायो मन्यते, तस्य विषमपीप्सिततममेव; यदिष्ट्ंअ गुडादिभ्रान्त्या विषे प्रवर्तते तस्यापि तदीप्सिततममेव, यदिष्ट्ंअ गुडादि, तद्बुद्धिरेव तत्र प्रवर्तते; अतोऽत्र पूर्वेणैव सिद्धमित्युदाहरणान्तरोपन्यासः। ग्रामं गच्छन्निति। नात्र वृक्षमूलानीप्सिततमानि पूर्वमनभिसंहितत्वान्नान्तरीयकं हि तदुपसर्पणम्। न चात्रापि यावद् ग्रामं गच्छन्निति न प्रयुज्यते तावन्नान्तरीयकता न प्रतीयत इति पूर्वेणैव सिद्धम्, यथा--नदी कूलं कषतीत्यत्राचेतनत्वादीप्साभावः, पदान्तरसम्बन्धात्प्रतीयमानो बहिरङ्गत्वात्कर्मसंज्ञां न प्रतिबध्नाति? भवत्वयं प्रतिपतारं प्रति उपपादनप्रकारः, यस्तु प्रयुङ्क्ते स पूर्वमेवेप्साप्रकर्षाभावं जानन् तत्कथं प्रयुक्तमिति पूर्वेणासिद्धिरेव। एवं च नदीकूलमित्यत्रापि अनेनैव कर्मसंज्ञा। तथा यत्र क्रियायामेव तात्पर्यं न फले, नान्तरीयका तु फलसिद्धिः, तत्राप्यनेनैव भवति। अथ क्रियाफलयोगि कर्मेति कस्माद् नोक्तम्? यदीप्सिततमं यद् द्वेष्यमितरच्च तत्र सर्वत्रानुगतमेतद्, यदुत क्रियाफलयोगित्वं कर्तुरपि तर्हि कर्मत्वं स्यात्, क्रियाफलस्य संयोगस्य तत्रापि भावात्। भावात्। अथ परसमवेतक्रियाफलयोगीति लक्षणम्? एवमप्यात्मा ज्ञातव्य इत्यत्र न स्यात् , संविदश्च स्वयं प्रकाशाभिमतायाः कर्मत्वं स्यात्। घटमहं जानामीत्यत्र हि त्रितयमेव भासते--घटः, ज्ञानम्, आत्मा चेति। तत्र ज्ञानं क्रिया, तत्फलं शब्दप्रयोगादिरूपो व्यवहारः, तेन युज्यमानस्य घटस्य यथा कर्मत्वं तथा ज्ञानस्यापि स्यात्। ज्ञानं हि क्रिया भवति व्यवहारूपस्य फलस्याश्रयभूतम्, तस्यैव ज्ञानस्य यत् स्वरूपं तदपेक्षया यः पर आत्मा तत्र च समवैतीत्यलमियता। चोरानित्यत्रापि मर्तृकामो वा मित्रादिरूपेण विपर्यस्यमानो वा चोरानुपसर्पतीति पूर्वेणैव सिद्धम्॥ पदमञ्जरी अकथिनं च॥ १।४।५१ ॥ अकथितशब्दोऽयमस्त्यप्रधाने रूढः, तद्यथा--अकथितोऽहमस्मिन् ग्रामे, अप्रधानभूत इति गम्यते। अस्ति च क्रियाशब्दोऽकीर्तितपर्यायः। ठ्कथ वाक्यप्रवन्धेऽ, चुरादावदन्तः पठ।ल्ते, तत्र पूर्वस्य ग्रहणे ठ्पाणिना कांसपात्र्यां दोग्धि पयःऽ इत्यत्र पाणिकांसपात्र्योरपि स्यात्। करणाधिकरणसंज्ञयोस्तु पचत्यादिरवकाशः, न हि तत्रास्य प्रसङ्गः; ठ्दुहियाचिऽ इति परिगणनात्, अतो द्वितीयस्य ग्रहणम्, तदाह--केनाकथितम्? अपदानादिभिर्विशेषकथाभिरिति। किमत्र प्रमाणं तदाह--केनेति। करणनिर्देशः। रूढिशब्देषु हि व्युत्पत्यर्थमेव क्रियोपादीयते; न तत्र करणादि सम्बध्यते, न हि गच्छतीति गौरित्यत्र केनेति प्रश्नो रथेनेति प्रतिवचनं वा भवति। इह ठ्कारकेऽ इत्यनुवर्तनात् सत्येव कारकत्वेऽकथितस्य संज्ञया भाव्यमिति सामर्थ्याद्विशेषकथाभिरित्युक्तम्। परिगणनं कम धर्मादीति। तस्य तु प्राधान्यं तदर्थत्वात् प्रवृतेः। सम्बध्यत इति। सचत इत्यस्यार्थकथनमेतत्,ठ्षच समवायेऽ स्वरितेत्। केचितु परस्मैपदिभिः सह धातुमेनं पठन्ति ठ्षच सवायेऽठ्रप लप व्यक्तायां वाचिऽ इति। तत्राहुः-ठ्षचसेवनेऽ इत्यस्यानुदातेतोऽनेकार्थत्वात्समवाये प्रवृत्तिरिति, सम्बध्नातेश्च कर्मव्यापारे सचिर्वर्तत इति कर्तृपदस्य कर्मपदेनार्थकथनं नानुपपन्नम्, यथा--राध्यत्योदन इत्यस्य पच्यत इति। उक्तमिति। आचरितमित्यस्य विवरणम्। सूत्रकारेणेति। कविशब्दो मेधाविमात्रवचनोऽपि प्रकरणात् सूत्रकारे प्रयुक्त इति दर्शयति। गां दोग्धि पय इति। ननु चात्रायमर्थः- गौः पयस्त्यजति, दोग्धा गवा पयस्त्याजयतीति; तत्र प्रयोजकव्यापारेणाप्यमानत्वात् सिद्धा गोः कर्मसंज्ञा। न च वाच्यम्--ठ्प्रयोजकव्यापारेणाप्यमानस्य यदि भवति गत्यर्थादिष्वेवेत्युतरसूत्रे नियमादत्र न प्राप्नोपि, यथा--पचन्तं देवदतं प्रयुङ्क्ते, पाचयति देवदतेनेत्यत्रऽ इति;ण्यन्तष्वेव स नियमः, अयं तु प्रकृत्यन्तः, नैतदस्ति; यथा ण्यन्तेषु धातुषु क्रियाविशिष्टस्य प्रयुक्तिः प्रतीयते--गमयतीति, नैवमत्र विष्क्रियस्यापि गवादेर्दोहननयनादिषु विनियोगात्। तथा ह्यदुहानापि गौर्दुह्यते, अगच्छन्तो भारादयः शिरसा नीयन्ते, तस्माद्देग्धीत्येकस्या एव क्रियायाः श्रवणाद् गोपयसोर्भेदेन कर्मत्वं न भवति। णिचि तु सति प्रकृत्यंशस्य प्रत्ययांशस्य च भेदेन द्वे वाच्ये इति कर्मभेदोपपतिः। गमयति ग्रामं देवदतमिति। यदा तु दुहेः क्षरणमर्थः-क्षरति गोः क्षीरम्, क्षीरं क्षारयति देवदत इति, तदा यद्यपि गोरपायेऽवधिभावो विद्यते; तथाप्यविवक्षिते तस्मिन्निमितत्वमात्रापेक्षायामुदाहरणोपपतिः। एवं चावधित्वविवक्षायामपादानसंज्ञायां भवत्येव--गेर्दुह्यते पय इति। यदा तु पयस्येव विशेषणं गौः, तदा षष्ठी--गोः पयो दोग्धीति। पौरवं गां याचते इति। पुरोरपत्यं पौरवः। ननु विहितात्रापादानसंज्ञा पौरवादसौ गामादते, न याचनादेव तत आदते, याचितोऽसौ यदि ददाति तत आदते, ननु मा नामादिताऽऽदित्सते तावत्, तदपि न; यतः स्वभावपरिचिच्छित्सुरनादित्समानोऽपि याचते। गामवरुणद्धि व्रजमिति। ननु च गां व्रजं प्रवेशयतीत्ययमत्रार्थः, ततश्च सिद्धं व्रजस्य कर्मत्वम्? अथ व्रजे गामवस्थापयतीत्यर्थः, तर्हि कथितात्राधिकरणसंज्ञा; यदा तर्ह्यवरोधनक्रियां प्रति निमितत्वमात्रं विवक्ष्यते न कर्मत्वं नाधिकरणत्वं तदेदमुदाहरणम्। व्रजेन हेतुनाऽवस्थापयतीत्यर्थः। माणवकं पन्थानं पृच्छतीति। ठ्प्रच्छ ज्ञीप्सायाम्ऽ, तुदादिः, ग्रहिज्यादिना संप्रसारणम्। ननु च कथितात्रापादानसंज्ञा, स हि तस्मादुपदेशमादते न प्रश्नमात्रादादते, पृष्टोऽसौ यद्यौपदिशति तत आदते। मा नामादिता, आदित्सते तावत् तदपि न, अनादित्समानोऽपि स्वभावपरिज्ञानाया पृच्छति। भिक्षिर्याचिवद्व्याख्येयः। किमर्थं पुनर्याचिभिक्ष्योरुभयोरुपादानम्, न ह्यनयोरर्थे भेदोऽस्ति, अर्थाश्रया चेयं संज्ञा, न दुह्यादिस्वरूपाश्रया। समानार्थेऽपि हि गृह्यते--देवदतं शतं प्रार्थयत इति? उच्यते, अननुयार्थस्य याचतेर्ग्रहणार्थम्। तेनाविनीतं विनयं याचते, क्रुद्धं प्रसादं याचत इत्यत्रापि भवति। सकृदुपातस्य चोरभयरूपानुपपतेः भिक्षिरपि गृहीतः। वृक्षमवचिनोति फलनीति। यद्यप्यवचिन्वद् वृक्षान् फलमादते इत्यपादानसंज्ञाया अयं विषयः, तथापि यदा वृक्षो नावधित्वेन विवक्ष्यते निमितरूपेणैव तु विवक्ष्यते, तदेदमुदाहरणम्। ब्रूतेऽनुशास्तीति। ठ्ब्रूञ् व्यक्तायां वाचिऽ ठ्शासु अनुशिष्टौऽ, अदादी, यद्यद्यप्यत्र धर्मेण वचनानुशासनकर्मणा माणवकस्याभिप्रेयमाणत्वम्, तथापि ददातिकर्माभावात्संज्ञाया अप्रसङ्गः। ये तु तत्र ददातिकर्मणेति नाश्रयन्ति, तेषामपि निमितत्वमात्रं विवक्षितं नाभिप्रेयमाणत्वमित्युदाहरणोपपतिः॥ अथान्येऽपि द्विकर्मकाः- नीवह्यएर्हरतेश्चापि गत्यर्थानां तथैव च। द्विकर्मकेषु ग्रहणं द्रष्टव्यमिति निश्चयः॥ ठ्गत्यर्थानाम्ऽ इत्युतरसूत्रोपलक्षणम्। नी--अजां नयति ग्रामम्। वहिवहति भारं ग्रामम्। हरति--भारं हरति ग्रामम्। चकारेण जयत्यादयः समुच्चीयन्ते--शतं जयति देवदतम्, शतं मुष्णाति देवदतम्, शतं दण्डयति देवदतम्, कर्षति ग्रामं शाखाम्। इदं विचार्यते--द्विकर्मकेभ्यो धातुभ्यः कर्मणि लादय उत्पद्यमानाः किमीप्सिततमे कर्मणि प्रधाने उत्पद्यन्ते? आहोस्विदनेन यस्य कर्मत्वं तस्मिन् गुणकर्मणीति? तत्रोक्तम्-- प्रधानकर्मण्याख्येये लादीनाहुर्द्विकर्मणाम्। अप्रधाने दुहादीनां ण्यन्ते कर्तुश्च कर्मणः॥ इति॥ अयमर्थः- ये द्विकर्मका धातवस्तेषां प्रधाने कर्मणीप्सिततमे वाच्ये लादीनाहुःउलादयो भवन्तीत्याहुः। लादयःउलकृत्यक्तखलर्थाः। प्रधानाप्रधानयोर्भिन्नकक्षयोर्युगपदभिधानासंभवे प्रधानस्यैवाभिधानं न्याय्यम्, प्रधानत्वादेवेति भावः। नी--नीयते ग्राममजा, नेया, नीता, सुनया। वहि--उह्यते भारो ग्रामम्, वोढव्यः, ऊढः, सुवहः। हृञ्--ह्रियते भारो ग्रामम्, हर्तव्यः, हृतः, सुहरः। कृष्--कृष्यते शाखा ग्रामम्, क्रष्टव्या, कृष्टा, सुकर्षा। अप्रधाने दुहादीनामिति। अत्र दण्डिप्रभृतयोऽपि गृह्यन्ते, न तु दुहियाचीति श्लोकपठिता एव। एतेषां दुहादीनामप्रधाने कर्मण्याख्येये लादीनाहुः । एतदपि न्यायसिद्धम्; यतः पयोऽर्थी पूर्वं गवि प्रवर्तते, अतः शूद्धस्य दुहेर्गवाभिसम्बन्धः, गोदोहेन तु पयस इत्यन्तरङ्गत्वादकथितकर्मणस्तत्रैव लादयो भवन्ति। एवं सर्वत्र। दुहि--गौर्दुह्यते पयः, दोह्या, दुग्धा, सुदोहा। याचि--पौरवो गां याच्यते, याच्यः, याचितः, सुयाचः। रुधि--व्रजोऽवरुध्यते गाम्, अवरोध्यः, अवरुद्धः,स्ववरोधः। प्रच्छि--माणवकः पन्थानं पृच्छयते, प्रष्टव्यः, पृष्टः, सुप्रच्छः। भिक्षि--पौरवो गां भिक्ष्यते, भिक्षितव्यः, भिक्षितः, सुभिक्षः। चिञ्--वृक्षोऽवचीयते फलानि, अवचेतव्यः, अवचितः, स्ववचयः। ब्रूञ्--उच्यते माणवको धर्मम्, वक्तव्यः, उक्तः, सुवचः। शामु--अनुशिष्यते माणवको धर्मम्, अनुशासितव्यः, अनुशिष्टः, स्वनुशासः। दण्डि--गर्गाः शतं दण्ड।ल्न्ते, दश्ड्याः, दण्डिताः, सुदण्डाः। जि-शतं जीयते देवदतः, जेतव्यः, जितः, सुजयः। मुषि--मुष्यते देवदतः शतम्, मोषितव्यः, मुषितः, सुमोषः। ण्यन्ते कर्तुश्च कर्मण इति। अभिधान इति शेषः। अण्यन्तावस्थायां कर्तुर्ण्यन्तावस्थायां कर्मणः सतोऽभिधाने लादीनाहुरित्यर्थः। एतदुक्तं भवति-ये गत्यर्थादयोऽण्यन्तावस्थायामपि सकर्मका ण्यन्तावस्थायामुतरसूत्रेण द्विकर्मका जाताः, तेषु ण्यन्तावस्थायां यदुतरसूत्रेणोपजातं कर्म तत्र लादयो भवन्तीत्यर्थः। गमयति ग्रामं देवदतम्, गम्यते ग्रामं देवदतः, गमयितव्यः, गमितः; सुगमः। बुध्यर्थः- बोध्यते माणवको धर्मम्, बोधयितव्यः, बोधितः, सुबोधः। प्रत्यवसानार्थः- भोज्यते माणवक ओदनम्, भोजयितव्यः, भोजितः, सुभोजः। शब्दकर्म-पाठ।ल्ते माणवको वेदम्, पाठयितव्यः, पाठितः, सुपाठः। अकर्मकः- आस्यते माणवको मासम्, आसयितव्यः, आसितः, स्वासः। बुद्धिप्रत्यवसानार्थशब्दकर्मकेषु गुणकर्मणि लादय इति मतान्तरम्। बोध्यते माणवकं धर्मः, भोज्यते माणवकमोदनः, पाठ।ल्ते माणवकं वेद इत्यादि। तदयमत्र निर्णयः- नीवहिहृकृषिभ्यः प्रधानकर्मणि लादयः; तत्सम्बन्धस्य पूर्वभावित्वात्। दुह्यादिभ्यो जिदण्डमुषिभ्यश्चाप्रधाने; तत्सम्बन्धस्यानन्तरङ्गत्वात्। बुद्धिप्रत्यवसानार्थशब्दकर्मकेषु गुणकर्मणि प्रधाने वा यथेष्टम्; गत्यर्थाकर्मकयोः हृक्रोश्च ण्यन्तयोः प्रयोज्ये कर्मणीति। प्रयोज्यस्य च प्राधान्येनाभिधीयमानाप्रयोजकव्यापारेणाप्यमानत्वात् प्राधान्यम्। गुणभूतप्रयोज्यव्यापारकर्मणस्तु गुणभाव आर्थन न्ययेन प्रयोज्यव्यापारप्राधान्यम्, तदर्थत्वात् प्रयोजकव्यापारस्य। तत्प्राधान्याच्च तत्कर्मणोऽपि प्राधान्यमित्यन्ये। सर्वथा लादयः प्रयोज्यकर्मणीति स्थितम्। अकर्मकाणां च धातूनां कालभावाध्वगन्तव्यदेशाः कर्मसंज्ञका इष्यन्ते। उक्तं च--ठ्कालभावाध्वगन्तव्याः कर्मसंज्ञा ह्यकर्मणाम्, देशश्चाकर्मकाणां तु कर्मसंज्ञो भवतीति वक्तव्यम्ऽ इति। अध्वगन्तव्येति--गन्तव्योऽध्वा, अध्वा गन्तव्यः, कडारादिष्वध्वशब्दे द्रष्टव्यः। गन्तव्यत्वेन प्रसिद्धस्य नियतपरिमाणस्य क्रोशादेर्ग्रहणार्थं गन्तव्यग्रहणम्, तेनाध्वानं स्वपितीति न भवति। ननु च ठ्कालाध्वनोःऽ इति सिद्धा द्वितीया, किं कर्मसंज्ञया? देशस्य तावद्वक्तव्या। कालाध्वनोरपि लादिविधानार्थ कर्मत्वमेषितव्यम्। आस्यते मासः, आसितः, आसितव्यः,स्वासः। एवं शय्यते क्रोश इत्यादि। भावः- गोदोहमास्ते। यावता कालेन गौर्दुह्यते तावन्तं कालमास्त इत्यर्थः। गोदोहादीनां मासादिवत् कालत्वेनाप्रसिद्धत्वाद्भावस्य पृथग् ग्रहणम्। देशः- कुरून् स्वपिति, कुरवः सुप्यन्त इत्यादि। ठ्कालाध्वनोरत्यन्तसंयोगेऽ इति तु सूत्रमक्रियात्यन्तसयोगार्थम्--मासं गुडधानाः, सर्वरात्रं कल्याणी, क्रोशं कुटिला नदीति। न तर्हि वक्तव्यम्--कालाभावाध्वगन्तव्या इति? न वक्तव्यम्, नात्रासिरासनमात्रे वर्तते, किं तु तत्पूर्वके व्यापने वर्तते--मासमास्ते । कोऽर्थः? मासमासनएन व्याप्नोतीति। एवं वदेमधीते, मासं वेदाध्ययनेन व्याप्नोतीत्यर्थः। अथ ठ्कर्तृ कर्मणोः कृतिऽ इति षष्ठी द्विकर्मकेषु किं प्रधाने कर्मणि भवति? आहोस्विद् गुणे भवति? आहोस्विदुभयोः? उभयोरिति प्राप्तं द्वितीयावद्भाष्यकारवचनातु गुणकर्मणि विकल्पेन षष्ठी। प्रधानकर्मणि नित्या--नेताऽश्वस्य स्त्रुघ्नमिति वा। इहाकथितं कर्मेत्येतावदस्तु, मास्तु पूर्वसूत्रद्वयम्, तद्विषयस्याप्यकथीतत्वात्, सत्यम्; नटस्य श्रृणोतीत्यत्र मा भूदिति दुह्यादिपरिगणनमवश्यं कर्तव्यम्, तस्मिंश्च क्रियमाणे ओदनं पचति, वृक्षमूलान्युपसर्पतीत्यत्र न स्यादिति पूर्वमपि योगद्वयमारभ्यत इति॥ पदमञ्जरी गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्ता स णौ॥ १।४।५२ ॥ गमयति माण वकं ग्राममिति। कथमत्र ग्रामस्य कर्मत्वम्, यावता कर्तुरीप्सिततमं कर्मेत्युच्यते,न च संप्रति माणवकः कर्ता; अनेन कर्मसंज्ञकत्वात्। तत्र यथा माषेष्वश्वं बध्नातीत्यत्र वस्तुतो बक्षणेनेप्सिततमानामपि माषाणां कर्मसंज्ञा न भवति, तत्कस्य हेतोः? अश्वस्य संप्रत्यकर्तृत्वात्, तद्वदत्रापि न प्राप्नोति; मा भूण्णिच्युत्पन्ने माणवकः कर्ता, प्राक्तदुत्पतेः प्रकृत्यर्थे कर्ता भवति, तदानीमेव च ग्रामस्याभिसम्बन्धः ग्रामकर्मण्यसौ गमने प्रेष्यते--ग्रामं गच्छेति। अतो यस्यामवस्थायां ग्रामस्य कर्मत्वं न तस्यां माणवकस्य कर्मत्वम्, यस्यां च ण्यन्तावस्थायां माणवकस्य कर्मत्वं न तस्यां ग्रामस्य कर्मत्वम्; पूर्वप्रवृतत्वाद्। माषेष्वश्वमित्यत्र तु नैवं संभवति। यापयतीति। ठ्या प्रापणेऽ इत्यत्र प्राप्त्या गतिर्लक्ष्यतैति यातिर्गत्यर्थः। नीवह्यएरिति। नन्वेतयोर्गतिफलं प्रापणमर्थो न गतिः, ठ्न गतिहिंसार्थेभ्यःऽ इत्यत्र च भाष्यम्--न ठ्वहिर्गत्यर्थःऽ इति, सत्यम्; गुणभावेनापि गतिः प्रतीयत इति मत्वा प्रतिषेध उक्तः। वहेरनियन्तृकस्येति। वक्ष्यामीति चोपक्षेपः। वाहयति बलीवर्दान्यवानित्यत्राणौ बलीवर्दाः कर्तारः, ण्यन्ते तु नियन्ता सारथिः कर्ताः, तत्र प्रतिषेधप्रतिषेधाद्विधिरेव भवति। बुध्यर्थग्रहणेन ज्ञानमात्रवाचिनामेव ग्रहणम्, न तु तद्विशेषवाचिनां स्मरत्यादीनामित्याहुः। वृतावपि तथैवोदाहृतम्। आदिखाद्योरिति। अपर आह--सर्वमेव प्रत्यवसानकार्यमदेर्न भवति, नावश्यमियमेव कर्मसंज्ञेति ठ्निगरणचलनार्थेभ्यश्चऽ इति पदमपि न भवति, इदमेकमिष्यते--ठ्क्तेऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यःऽ--इदमेषां जग्धमिति। भक्षेरिति। गत्यर्थादिषु प्रायेण हेतुमण्णिच एव संभवाद् हेतुमण्णिचो विधिरिति प्रतिषेधोऽपि प्रत्यासतेस्तस्यैव न्याय्य इति चुरादिणिजन्तोऽप्यण्यन्तएवेति भक्षेः प्राप्तिः। भक्षयति बलीवर्दान् सस्यमिति। क्षेत्रस्थानां यवानां भक्ष्यमाणानां हिसा भवति, तस्यामवस्थायां कैश्चिच्चैतन्याभ्युपगमात्। स्वामिनो वा हिसा द्रष्यव्या। इह कर्मशब्देन क्वचित्क्रिया गृह्यते, यथा--ठ्कर्तरि कर्मव्यतीहारेऽ इति, क्वचित् साधनकर्मा--ठ्वेः शब्दकर्मणःऽ इति, इह शब्दक्रियाणामिति चेत्? ठ्ह्वयत्यादीनां प्रतिषेधःऽ--ह्वयति पुत्रं देवदतः, ह्वापयति पुत्रं देवदतेन; क्रन्दति पुत्रं देवदतः, क्रन्दयति पुत्रं देवदतेन; शब्दायते देवदतः, शब्दाययते देवदतेन। अकर्मकत्वादथात्र प्रसङ्गः, शब्दलक्षणकस्य कर्मणोऽन्तर्भावात् कर्मान्तरायोगाच्च। ठ्श्रृणोतेश्चोपसङ्ख्यानम्ऽ --अशब्दक्रियत्वात् श्रृणोति श्लोकं देवदतः, श्रावयति श्लोकं देवदतम्; न च बुध्यर्थत्वादत्र सिद्धिः, चेतत्यादयो हि ज्ञानमात्रवचना बुध्यर्थाः। अस्तु तर्हि साधनकर्मणो ग्रहणम्, शब्दकर्मण इति चेत्? जल्पतिप्रभृतीनामुपसंख्यानम्, जल्पति पुत्रं देवदतः, जल्पयति पुत्रं देवदतम्; विलपति पुत्रं देवदतः, विलापयति पुत्रं देवदतम्; आभाषते पुत्रं देवदतः आभाषयति पुत्रं देवदतम्। द्दशेः सर्वत्र, यद्यपि क्रियाग्रहणम् अथापि साधनग्रहणम्, अथाप्युभयग्रहणम्-सर्वथा द्दशेरुपसंख्यानम्। पश्यति रूपतर्क कार्षापणम्, दर्शयति रूपतर्क्ंअ कार्षापणम्। यदा चायंद्दशिः चक्षुः साधनके ज्ञानविशेषे वर्तते तदेतद्वक्तव्यम्; ज्ञानमात्रवचनत्वे तु बुध्यर्थत्वादेव सिद्धम्; तदेवमुभयोरपि पक्षयोर्द्दोषान्तं भाष्यं नान्यतरः पक्षो निरणायि। वृत्तिकारस्तु ये शब्दक्रियाः शब्दसाधनकर्माणश्च तानविवादसिद्धानुदाहरतिवचनेन बोधयतीत्यर्थः। एमन्यत्रापि। तत्र बुद्ध्यर्थत्वादेव सिद्धम्। यद्यप्यन्या बुद्धिरन्या बोधना, उपसर्जनीभूतापि तावद्बुद्धिरस्तीति बुद्धर्थत्वमस्त्येव, उपसर्जनीभूतोऽपि च गत्यादिरर्थो गृह्यते, अन्यथा गमयतीत्यादीनामगत्यर्थत्वादेवाप्रसङ्गादणिग्रहणमनर्थकं स्यादिति, अस्तु चेतनविषये, एवमचेतनविषये कथम्? यः कंचिज्जल्पति तमन्यो जल्पयति, न ह्यत्र प्रबोधनाप्यस्ति। अकर्मकाणामिति। कालभावाध्वगन्तव्यदेशव्यतिरिक्तकर्मरहितानामित्यर्थोऽत्र ग्राह्यः, अन्यथा मासमास्ते देवदतः, मासमासयति देवदतम्, गोदोहमासयति, क्रोशमासयति, कुरूनासयतीत्यत्र न स्यात्; कालादिकर्मणा सकर्मकत्वात्। एवं ठ्लः कर्मणि चऽ इत्यादावपि यत्राकर्मकग्रहणं तत्र सर्वत्र द्रष्टव्यम्, तेन मासमास्यते देवदतेनत्यादौ भावे लादयः सिद्धा भवन्ति। उक्तञ्च--सिद्धं तु कालकर्मणाकर्मकत्वद्वचनादिति। कालग्रहणमुपलक्षणम्। वत्करणात्स्वाश्रयमपि भवति--मास आस्यते देवदतेन--मासकर्मणि लो भवति। स तर्ह्यकर्मकवचनाद् भावे वक्तव्यः? न वक्तव्यः; अकर्मकाणामित्युच्यते, न च कालादिभिः केचिदकर्मकाः। कालादिभिरप्यकर्मकाः यदा ते न विवक्ष्यन्ते, तद्यथा--शेते देवदतो न भुङ्क्ते इति। नाप्यविवक्षितकर्माणोऽकर्मकाः, किं तर्हि? येऽत्यन्ताविद्यमानकर्माणो धातवोऽकर्मकाः, नार्थाः। यस्य धातोः स्वरूपावधिकमकर्मकत्वम्, न च कालादिकर्मकाः, नार्थाः। यस्य धातोः स्वरूपावधिकमकर्मकत्वम्, न च कालादिकर्मणा स्वरूपावधिकमकर्मकत्वं कस्यापि सम्भवतीति सामर्थ्यातद्व्यतिरिक्तेन कर्मणाऽकर्मकत्वं विज्ञायते। किमर्थं पुनरिदमुच्यते, यावता स्वव्यापारे स्वतन्त्रस्यापि प्रयोज्यस्य प्रयोजकव्यापारे विवक्षिते तेन प्रधानभूतेनाप्यमानत्वाद् अन्तरङ्गत्वेन पूर्वप्रवृतामपि कर्तृ संज्ञां बाधित्वा कर्मसंज्ञा भविष्यतीति? एवं तर्हि सिद्धे सत्यारम्भो नियमार्थः-प्रयोजकव्यापारेणाप्यमानस्य यदि भवति गन्यर्थादीनामेव, नान्येषामिति। तेन पाचयत्योदनं देवदतो यज्ञदतेनेत्यत्र पूर्वं प्रवृताया एव कर्तृ संज्ञाया अवस्थानात् कर्तरि तृतिया भवति। उक्तं च-- गुणक्रियायां स्वातन्त्र्यात्प्रेषणे कर्मतां गतः। नियमात् कर्मसंज्ञायाः स्वधर्मेणाभिधीयते॥ इति। कर्तुः स्वधर्मार्तृतीया। अथ कथम्-- अयचितारं न हि देवदेवमद्रिः सुतां ग्राहयितुं शशाक। इति? स्वतन्त्राः कवयः। यद्वा--सुतां प्रति किञ्चिदुद्वाहविषये ग्राहयितुं बोधयितुं न शशाकेत्येवं व्याख्येयम्; तत्र बुध्यर्थत्वात् सिद्धम्॥ पदमञ्जरी हृक्रोरन्यतरस्याम्॥ १।४।५३ ॥ गत्यर्थादयो निवृताः तेनोभयत्र विभाषेयम्। यदा हरतिर्गतौ वर्तते-हरति भारं देवदत इति, अभ्यवहारे वा-अभ्यवहरति माणवकमोदनमिति। करोतिश्चाप्यकर्मकः- ओदनस्य पूर्णाः छात्राः विकुर्वत इति, तदा पूर्वेण प्राप्ते। ननु ठनन्तरस्य विधिर्वा भवति प्रतिषेधो वाऽ इति नियमस्यैव विकल्पो युक्तः, गत्यर्थादिष्वेवेति योऽयं नियमः स ठ्हृक्रोरन्यतरस्याम्ऽ इति, ततश्च पक्षे नियमाभावात् गत्याद्यर्थादन्यत्र पक्षे कर्मत्वं पक्षान्तरे च कर्तृ त्वं भवतु, गत्याद्यर्थत्वे तु नित्यवत् कर्मसंज्ञा प्राप्नोति। एवं तर्हि वार्तिककारेण उभयत्रविभाषास्वियं पठिता, तत्सामर्थ्यादनन्तरस्य विधिरिति नाश्रीयते, अविशेषेण हृक्रोर्विकल्पः प्रवर्तते। अभिवादिद्दशोरिति। अभिवादयतेरप्राप्ते विभाषा द्दशेर्बुध्यर्थत्वात् द्दशेः सर्वत्रेति वा प्राप्ते। अभिवादयते इति। ठ्णिचश्चऽ इत्यात्मनेपदम्। परस्मैपदे तु अभिवादयति गुरुं देवदेतेनेति कर्तृ संज्ञैव भवति। दर्शयते इति। कर्मसंज्ञाभावपक्षे कर्मान्तरस्याभावात् ठ्णेरणौऽ इत्यात्मनेपदम्, अन्यत्र तु ठ्णिचश्चऽ इति॥ पदमञ्जरी स्वतन्त्रः कर्ता॥ १।४।५४ ॥ स्वतन्त्रशब्दोऽयं तन्तुवायवचनोऽप्यस्ति--स्वं तन्त्रमस्य स्वतन्त्रः, विततास्तन्तवस्स्वतन्त्रमित्युच्यते; अस्ति च साधारणद्रव्ये पुरुषे वर्तते साधारणं भवेतन्त्रम्, स्वं धनं तन्त्रं साधारणमस्य स्वतन्त्रः; अस्ति च प्रधानवचनः- स्व आत्मा तन्त्रं प्रधानमस्य स्वतन्त्र इति। तत्राद्ययोर्ग्रहणे तयोरपादानादिविषये कर्तृसंज्ञा स्यात्, परत्वाद्विशेषविहितत्वाच्च तन्तुवायादागच्छतीत्यादौ; इह च न स्यात्-देवदतो गच्छतीति, इदमाद्ययोर्ग्रहणे दोषं द्दष्ट्वा तृतीयमर्थमाश्रित्याह--स्वतन्त्र इति। प्रधानभूत उच्यत इति। स्वतन्त्रशब्दस्य तत्रैव प्रसिद्धतरत्वादिति भावः। किं च कारकधिकारात् क्रियाविषयं स्वातन्त्र्यं गृह्यते, न च तन्तुवायस्तन्तुवायतया क्रियायामुपयुज्यते, किं तर्हि? प्रधानतयैवेति तद्वाचिन एव ग्रहणं युक्तम्। यदि प्रधानभूत उच्यते, एवं सत्यप्रधानापेक्षत्वात् प्रधानभावस्य यत्राधिकरणादीन्यप्रधानानि कारकाणि सन्ति--काष्ठ्èअः स्थाल्यामोदनं पचतीति अत्रैवः स्यात्; न त्वास्ते शेते इत्यादावित्यशङ्क्य प्राधान्येनागुणभावो लक्ष्यत इति दर्शयति--अगुणीभूत इति। तेन यस्य गुणभावो नास्ति, स कर्ता। कारकान्तराविवक्षायामप चागुणिभावोऽस्त्येव। कः पुनरत्र कारकाणां गुणगुणिभावः? यदा एकापायेऽपि क्रिया न निर्वर्तते, उक्तमत्र-- प्रागन्यतः शक्तिलाभान्न्यग्भावापादनादपि। तदधीनप्रवृत्तित्वात् प्रवृतानां निवर्तनात्॥ अद्दष्टत्वात्प्रतिनिधेः प्रविवेकेऽपि दर्शनात्। आरादप्युपकारित्वात् स्वातन्त्र्यं कर्तुरिष्यते ॥ इति। काष्ठादीनि कर्त्रा प्रवर्तितानि करणादिशक्तिं प्रतिलभन्ते, कर्ता तु प्रागेव। कर्तृ संनिधौ च करणादिनि न्यग्भवन्ति, तदधीने च तेषां प्रवृत्तिनिवृती। प्रधानकर्तृश्च प्रतिनिधिर्न द्दष्टः, करणादीनां तु द्दष्टः-व्रीह्यपचारे नीवारैरिज्यते। प्रविवेकःउ अभावः। करणाद्यभावेऽप्यास्ते, शेते इत्यादौ केवलः कर्ता द्दश्यते, न तु कर्तुरभावे करणादीनि द्दश्यन्ते। आरादप्युपकारित्वादिति। यद्यप्यसौ तटस्थः फलसिद्धावुपकरोति, न तु करणादिवदनुप्रविश्य तथापीत्यर्थः। एतच्च प्रायेण चेतनेष्वेव सम्भवति, नाचेतनेषु--रथो यातीत्यादौ, नैष दोषः; उक्तलक्षणे कर्तरि द्वयं द्दष्टम्--प्रधान्यम्,आगुणभावश्च। तत्रागुणभावः अचेतनेषु चेतनेष्वपि सम्भवति। स चायमगुणभावो न प्रतिनियतविषयः, यस्यैव तु विवक्ष्यते, तस्यैवेत्याह--स्वातन्त्र्येण विवक्ष्यत इति। विवक्ष्यत इत्यस्योदाहरणम्--स्थाली पचतीति। अन्ये तु व्याचक्षते--अगुणभावेनाभिधीयमानव्यापारो गुणभूतो गुणभूतधातूपातव्यापारः कर्तेत्यर्थः। कस्य च व्यापारो धातुनाऽगुणभावेनोपादीयते? यस्य विवक्ष्यते तस्येति सर्वत्र सिद्धमिति॥ पदमञ्जरी तत्प्रयोजको हेतुश्च॥ १।४।५५ ॥ तदित्यनेनन कर्ता सम्बद्ध्यते इति। कर्तृ संज्ञाविशिष्टः स्वतन्त्र इत्यर्थः। ननु च प्रयोजकसन्निधौ प्रयोज्यस्य पारतन्त्र्यं कर्तृ सन्नि धाविव करणादीनाम्, तत्कथं स्वतन्त्रः परामृश्यते? कथन्तरां च कर्तृ संज्ञाविशिष्टः? कथन्तमां च पाचयत्योदनं देवदतो यज्ञदतेनेति? प्रयोज्ये तृतीया भवति, पूर्वमेव च स्वतन्त्रस्य कर्तृः सतः प्रयुक्तिरपि किमर्था? मायं विरंसीदिति प्रयुङ्क्ते इति चेद्, भवत्वेवं प्रवृतप्रवर्तने, यत्र तु बलात्कारेण प्रवर्त्यते तत्र कथम्? उच्यते; अप्रवृतप्रवर्तनेऽपि यावत्स्वार्थादर्शनात् प्रयोज्ये न प्रवर्तते तावत्प्रयोजकः पाचयतीति न व्यपदिश्यते, तदानीमपि च स्मृत्यारूढा प्रयुक्तिर्विद्यत इति अनुवर्तमाना हि प्रसक्तिः प्रयोज्यस्याफलनिष्पतेः प्रवृतौ हेतुर्न मध्ये विच्छिन्ना। लोडादिवाच्यस्तु प्रैषः प्रयोज्यस्या प्रवृतावपि भवति। उक्तं च-- द्रव्यमात्रस्य तु प्रैषे पृच्छादेर्लोड् विधीयते। प्रवृतस्य यदा प्रैषस्तदा स विषयो णिचः॥ इति। तदेवं णिज्वाच्या प्रयुक्तिः प्रवृतप्रवर्तनारूपेण प्रतीयत इति प्रकृत्यर्थे कर्तृः सतः प्रयोजक इत्यविरुद्धम्। इममेव चार्थ दर्शयितुं तच्छब्दोपादानम्; अन्यथा कस्य प्रयोजक इत्यपेक्षायाम्, प्रकृतत्वादेव स्वतन्त्रस्य प्रयोजक इति लाभादनर्थकं तत् स्यात्। तस्य प्रयोजकस्तत्प्रयोजक इति। ननु ठ्तृजकाभ्यां कर्तरिऽठ्कर्तरि चऽ न्न्न्न्न्तिषेधात् कथमत्र समास इत्यत आह-निपातनात्समाप्त इति। अत्र विचन्न्न्न्न्न्पासप्रकरण एव विचारयिष्यामः। संज्ञासमावेशार्थश्चकार इति। असति हि तस्मिन् एकसंज्ञाधिकारात् कर्तृ संज्ञा न स्यात्। कुर्वाणं प्रयुङ्क्ते इति। कुर्वाणदशायां या प्रयुक्तिः स्मृत्यारूढा, सैव णिज्वाच्येत्येवं विग्रहः। हेतुत्वादित्यादिना समावेशस्य प्रयोजनं दर्शयति॥ पदमञ्जरी प्रागीश्वरान्निपाताः॥ १।४।५६ ॥ प्राग्रीश्वरान्निपाताः॥ प्राचि काले देशे वा प्राक्। अधिरीश्वरे इति वक्ष्यतीति। ईश्वरप्रकृतिभागस्य पूर्वपदान्तेन रेफेण सहानुकरणं द्रष्टव्यम्। अनुकार्येणार्थेनार्थवत्वात् विभक्त्यत्पतिः, च वा इत्यत्र निपातत्वे सति ठ्स्वरादिनिपातमव्यम्ऽ इत्यव्ययसंज्ञा भवति। ठ्निपाता आद्यौदाताःऽ इति तु स्वरो न भवति, उदाहृतानामनुदातानां गणे पाठात्। अन्येषां तु तदपि भवति। ननु यथा ठ्प्रत्ययःऽ इत्यादिरधिकारो विनाप्यवधिनिर्देशेनाभिमतविषये प्रवर्तते, तथायमपि प्रवर्तिष्यते, निपाताःऽ इत्येवास्तु, नार्थोऽवधिनिर्देशेनेत्यत आह-- प्राग्वचनमिति। प्राग्वचनद्वारेणावघिनिर्देशस्य प्रयोजनमुक्तम्। अयमर्थः- असत्यवधिनिर्देशे ठ्निपाताःऽ इत्यस्य प्रतियोगमनुवृतौ सत्यामप्येकसंज्ञाधिकारात् पर्यायः स्यात्, न तु समावेशः; सति तु तस्मिन् ईश्वरात् प्राग्यावन्तः संज्ञिनः सर्वास्तान्नैकध्यमिहापेक्ष्य सकृत्संज्ञा विधीयते, प्रतिसूत्रमधिकारात्वपरावृत्तिः, तस्याश्च समावेशः प्रयोजनमिति। अथ वा प्राग्वचनं किमर्थम्, यावता पञ्चम्येव प्रागिति दिक्शब्देऽध्याहरिष्यते, परागित्यस्य त्वध्याहारो न भविष्यति, ठ्चादयोऽसत्वेऽ ,ठ्प्रादयःऽ इत्यनयोर्विधेयासम्भवेनानर्थक्यप्रसङ्गात्? अत आह--प्राग्वचनमिति। अयं भावः- अध्याहारेण सिद्धे प्राग्ग्रहणसामर्थ्यातन्त्रेण द्वौ प्राक्च्छब्दावुच्चार्येते। तेनायमर्थो भवति--प्राग्रीश्वराद्ये व्यवस्थितास्ते प्राक् निपातसंज्ञा भवन्ति, निपाताः सन्तो गत्यादिसंज्ञा इति। तेन निमितमेव निपातसंज्ञा गत्यादिसंज्ञानामिति समावेशसिद्धिरिति। रीश्वरादिति सह रेफेणानुकरणे प्रयोजनमाह--रीश्वराद्वीश्वरान्मा भूदिति। रीश्वरादित्युच्यते, ठधिरीश्वरेऽ इत्ययमीश्वरशब्दोऽवधिर्यथा स्यात्,ठ्शकिण्यमुल्कमुलौऽ ठीश्वरे तोमुन्कसुनौऽ इत्ययं मा भूद् इत्येवमर्थमित्यर्थः। यदा संहीतया सूत्राणि पठ।ल्न्ते, तदा शीश्वरशब्दोऽस्तीत्यभिप्रेत्य रीश्वरादित्युक्तम्। ज्ञापकात्, सिद्धम्, यदयं ठ्कृन्मेजन्तःऽ इति कृतो मान्तस्यैजन्तस्य वाऽव्ययसंज्ञां शास्ति, तज्ज्ञापयति--अनन्तर ईश्वरशब्दोऽवधिर्न व्यवहित इति, अन्यथा सेसेन्प्रभृतीनां णमुल्कमुलोश्च निपातत्वादेवाव्ययसंज्ञायाः सिद्धत्वादनर्थकं तत्स्यात्? नैतदस्ति ज्ञापकम्, कृन्मेजन्तः परोऽपि सः, ठीश्वरे तोसुन्कसुनौऽ इत्यस्मात्परोऽपि कृन्मान्त एजन्तश्चस्ति कृत्यार्थे तवैकेनित्याद्येजन्तः, णमुलादिश्च मान्तः, तदर्थमेतत् स्यात्। यतर्ह्यव्ययीभावस्याव्ययत्वं शास्ति, तज्ज्ञापयति--अनन्तरस्य ग्रहणमिति; अन्यथा द्वितीये निपातसंज्ञाव्यापाराद् अव्ययीभावस्य निपातत्वादेवाव्ययसंज्ञायाः सिद्धत्वादनर्थकं तत्स्यात्, नैतदस्ति; ठ्समासेष्वव्ययीभावःऽ तुल्यजातीयव्यावृतये नियमार्थमेतत्स्यात्, न त्वनन्तरस्य ग्रहणे ज्ञापकमित्यर्थः। एवं तर्हि लौकिकन्यायादेवानन्तरस्य ग्रहणं भविष्यति, लौकिके ह्यएदकान्तात्प्रियं प्राप्यमनुव्रजेदिति य एवानन्तर उदकान्त आ ततोऽनुव्रज्य बान्धवा निवर्तन्ते तद्वदत्रापि? तत्राह--लौकिकं चातिवर्तते इति। लौकिकं न्यायं लोक एवातिवर्तते; यतो द्वितीयमप्युदकान्तं स्नोहातिशयादनुव्रज्य निवर्तन्ते तस्माद्रीश्वरादित्युच्यते वीश्वरान्मा भूदिति स्थितम्। ननु च ठ्न लोकाव्ययऽ इत्यत्र लोकादीनामव्ययत्वादेव षष्ठीप्रतिषेधे सिद्धे पुनरुपादानं ज्ञापकं भविष्यती--अनन्तरस्य ग्रहणमिति, नैतदस्ति; अव्ययसंज्ञाया एवाभावं ज्ञापयेत्, निपातसंज्ञा तु स्यादेव; ततश्च चिकीर्ष्वर्थ इत्यादौठ्निपात एकाजनाङ्ऽ इति प्रगृह्यसंज्ञा स्यातु। प्रोथमिति। पर्याप्तमित्यर्थः। ठ्प्रोथ यर्याप्तौऽ, पचाद्यचि क्रियाविशेषणत्वान्नपुंसकत्वम्॥ पदमञ्जरी चादयोऽसत्वे॥ १।४।५७ ॥ न चेत्सत्वे वर्तते इति। सत्वे चेद् वर्तते तदा संज्ञा न भवतीत्यर्थस्तदाह--प्रसज्यप्रतिषेधोऽयमिति। अथ पर्युदासे को दोषः? पशुशब्देऽत्र पठ।ल्ते सा जातिविशिष्टे द्रव्ये वर्तते, तस्य निपातत्वं स्यात्, जातिद्रव्यसमुदायरूपो ह्यर्थः केवलादन्यो भवति; तथा प्रादय इत्यत्र विप्रातीति विप्रः, ठातश्चोपसर्गेऽ इति कः। अत्र प्रशब्दः क्रियाविशिष्टे द्रव्ये वर्तते। तत्र क्रियाद्रव्यसमुदायस्य द्रव्यादन्यत्वान्निपात्वान्निपातत्वे सत्यव्ययसंज्ञायां तदन्तविधेरभ्युपगमात् विप्रशब्दस्याव्ययसंज्ञा स्यात्, प्रसज्यप्रतिषेधे तु यत्र द्रव्यगन्धस्तत्र सर्वत्र प्रतिषेधो भवति। क्व तर्हि वर्तमानः पशुशब्देऽसत्ववचनो भवति? द्दश्यर्थे, लोधं नयन्ति पशु मन्यमाना इत्यत्र द्दश्यर्थेन मननं विशेष्यते--दर्शनमेतन्मननम्, सम्यक् मन्यमाना इत्यर्थः। सत्वशब्दोऽयं सतो भावः सत्वमिति सताजातिवचनो गृह्यत इति भ्रान्तिमपनयति--सत्वमिति च द्रव्यमुच्यते इति। इदं तदिति सर्वनामपरामर्शयोग्यं वस्तु द्रव्यमुच्यते। उक्तञ्च-- वस्तुपलक्षणं यत्र सर्वनाम प्रयुज्यते। द्रव्यमित्युच्यते सोऽर्थो भेद्यत्वेन विवक्षितः॥ इति। स्वार्थेनेति शेषः। सिद्धरूपो योऽर्थः स्वार्थेन विशेष्यतया विवक्षितस्तद् द्रव्यमित्यर्थः। उक्तं च-- स्वार्थस्त यत्र विश्रान्तिर्वाच्यं द्रव्यं तदुच्यते। इति। एवं च कृत्वा--सीदति, निविशते यत्र जात्यादिकं शब्दप्रवृत्तिनिमितं विशेषणभावेनेति सत्वं द्रव्यम्। सदेरौणादिकस्त्वप्रक्ययः ठ्ताभ्यामान्यत्रोणादयःऽ इत्यधिकरणसाधनः। चणिति पठ।ल्ते, स चेदर्थे वर्तते, णकारश्चण्कच्चिद्यत्रयुक्तमिति विशेषणार्थः। नञो ञकारः ठ्नलोपो नञःऽ इति विशेषणार्थः। नलोपो नस्येत्युच्यमाने वामनपुत्रः- अत्रापि प्राप्नोति? पाक्षिक एष दोषः; ठलुगुतरपदेऽ इति वर्तते, तत्र यदोतरपदेनाक्षिप्तं पूर्वपदं नस्य विशेषणम्, तदा पूर्वपदभूतस्य नस्य लोप इत्युच्यमाने नैवात्र प्राप्नोति, नशब्देन पूर्वपदे विशेष्यमाणे तदन्तविधिसद्भावादत्रापि स्यात्। अथास्मिन्पक्षे ठ्नञःऽ इत्युच्यमानेऽपि स्त्रैणपुत्र इत्यत्र नञः कस्मान्न भवति? अतुल्यत्वात्प्रत्ययस्य ञकारो वृद्धिस्वरयोश्चरितार्थः, निपातस्य त्वचरितार्थः। तथेति पठ।ल्ते, सोऽव्युत्पन्नः समुच्चये वर्तते, तस्य तु थालन्तस्य लित्स्वरेणाद्यौदातत्वं सिद्धम्। अव्ययत्वमपि ठ्तद्धितश्चसर्वविभक्तिःऽ इत्येव सिद्धम्। नन्वव्युत्पन्नस्यापि विभक्तप्रतिरूपका इत्येव सिद्धम्, सत्यम्; प्रपञ्चार्थः पाठः। एवं वेलायाम्, मात्रायामित्यादेरपि। स्वरप्रतिरूपका इति। ऋति ऋ वा वचनमित्यादयः, तेषां निपातसंज्ञाविधानद्वारेण सद्भाव एव प्रतिपाद्यते, न पुनरेषां निपातत्वे किञ्चित्प्रयोजनमस्तीति॥ पदमञ्जरी प्रादयः॥ १।४।५८ ॥ अयं योग उतरस्माद्विभज्यते, पूर्वस्माच्च; यदि पुनःठ्प्रादय उपसर्गाः क्रियायोगेऽ इत्युच्यते, नैवं शक्यमित्याह-पृथग्योगकरणमिति। उतरस्या उपसर्गसंज्ञाया एव ठ्क्रियायोगेऽ इति विशेषणं यथा स्यात्, निपातसंज्ञायां मा भूदित्येवमर्थमुतरस्माद् योगादस्य विभाग इत्यर्थः। अथ वा--चादिष्वेव प्रादीनपि पठित्वा पूर्वस्माद्योगात् किमर्थ विभज्यते, तत्राप्याह--उपसर्गाः क्रियायोग इति। वादीनामिति। चलोपोऽत्र द्रष्टव्य इति च--वदीनामिति। परा जयन्ति सेना इति। परा उत्कुष्टाः। परदेशस्थिता वा द्रव्यत्वातत्र वर्तमानस्य पराशब्दस्य न भवति, यत्र त्वेकवचनं पठ।ल्ते--परा जयति सेनेति, तत्र रूपोदाहरणं द्रष्टव्यम्; हल्ङ्याबिति सुलोपात्, पराशब्दस्याद्यौदातत्वाच्च॥ पदमञ्जरी उपसर्गाः क्रियायोगे॥ १।४।५९ ॥ क्रियायोगे इति तृतीया, निपातनात् समासः, ठ्कर्तृ करणे कृताऽ इति बहुलवचनाद्वा। यद्वा--क्रियया करणभूतया प्रादीनां धातुभिर्योगात् करणे तृतीयया एव समासः। प्रणयतीति। ठुपसर्गादसमासेऽपि इति णत्वम्। प्रनायक इति। नन्वत्रापि गमिक्रियायोगोऽस्त्येव, सत्यम्; प्रादयः पुनरेवमात्मकाः, यदुत श्रुतायां क्रियायां तामेव विशिंषन्ति, अश्रुतायां तु ससाधनां क्रियामाक्षिपन्ति। तत्र क्रियायोगग्रहणसामर्थ्याद् यत्क्रियायुक्ताः प्रादयस्तं प्रत्युपसर्गसंज्ञा भवतीत्ययमर्थो भवति। अत्र च यत्क्रियायुक्तः प्रादिः स गमिर्न प्रयुज्यते, यश्च प्रयुज्यते न तत्क्रियायुक्त इति नास्ति णत्वप्रसङ्गः। मरुच्छब्दस्येति। उपसर्गसंज्ञैवेष्यते, न निपातसंज्ञा। तस्यां हि सत्यां निपाताद्यौदातत्वम्ठ्तृतीया कर्मणिऽ इति पूर्वपदप्रकृतिस्वरेण स्यात्, अन्तोदातश्च मरुतशब्द इष्यते। ननूपसर्गसंज्ञायामपि ठुपसर्गाश्चाभिवर्जम्ऽ इत्याद्यौदातत्वं स्यादेव, न; नानेनापूर्वमाद्यौदातत्वं विधीयते, किं तर्हि? ठ्निपाताःऽ इत्येव सिद्धेऽथेः प्रतिषेधार्थमेतत्। किं च निपातसंज्ञायामव्ययसंज्ञा स्यात्। अथ ठुपसर्गे धोः किःऽठातश्चोपसर्गेऽ इत्येतौ विधी कस्मान्न भवतः? अनभिधानात्। मरुत इति। मरुच्छब्दतकारस्य ठनचि चऽ इति द्विर्वचने ठ्झरो झरिऽ इति मध्यमस्य मध्यमयोर्मध्यमानां वा लोपे त्रैरूप्यं भवति, कथं पुनरत्र तत्वम्, यावतायमनजन्त इत्यत आह--संज्ञाविधानसामर्थ्यादिति। उक्तः प्रयोजनान्तराभावः। एवं तु मरुन्नयतीति तकारव्यवायेऽपि णत्वं प्राप्रोति तस्मातत्वविधावेवेष्यते। श्रच्छब्दस्येति। अङ्विधावेवेष्यते, किप्रत्ययो हि न भवति, तदाह--आतश्चोपसर्गे इति। भिदादिपाठात् ठ्प्रज्ञाश्रद्धार्चाऽ इति निपातनाद्वा सिद्धम्॥ पदमञ्जरी गतिश्च॥ १।४।६० ॥ ठ्गतिरनन्तरःऽ इति पुंल्लिङ्गनिर्देशाद् गम्यत इति गतिः, ठ्क्तिच्क्तौ च संज्ञायाम्ऽ इति क्तिचम, निपातनाच्च ठ्न क्तिचि दीर्धश्चऽ इति न भवति। प्रकृत्येति। अत्र गतित्वात् कृत्स्वरो भवति, समासस्तु प्रादित्वादेव सिद्धः। प्रादिभ्योऽन्यत्र समासोऽपि प्रयोजनम्। प्रकृतमिति। ठ्गतिरनन्तरःऽ इति पूर्वपदप्रकृतिस्वरः। यत् प्रकरोतीति। तिङ्लक्षणस्य निघातस्य ठ्निपातैर्यद्यदिऽ इति निषेधे तिपः पित्वादनुदातत्वम्, विकरणस्य प्रत्ययस्वरो धातोः शेषनिघातः, ठ्तिङ्चोदातिवतिऽ इति प्रशब्दस्यानुदातत्वम्। एतच्च प्रयोजनचतुष्टयं गतिसंज्ञा प्रकरणे सर्वत्र द्रष्टव्यम्। चकारः संज्ञासमावेशार्थ इति। अन्यथैकसंज्ञाधिकारादेकत्र संज्ञाद्वयविधानाच्च पर्यायः स्यादिति भावः। कारिकाशब्दस्येति। कारिका क्रिया मर्यादास्थितिरित्यर्थः। यत्न इत्यपरे, धात्वर्थनिर्देश इति ण्वुल्। यस्तु कर्तरि कारिकाशब्दः कारिका दासीति, यच्च श्लोकवाची--तयोर्ग्रहणं न भवति; क्रियायोगग्रहणेन कारिकाशब्दस्य विशेषणात् क्रियावृतर्ग्रहणात्। यत्कारिकां करोतीति। निपातत्वादव्ययत्वे सति विभक्तेर्लुक्। पुनरुत्स्यूतमिति। गतित्वात्समासः। ठ्गतिर्गतौऽ इति निघातो भवतीति। यद्यप्यत्र ठ्प्रवृद्धादीनां चऽ इत्युतरपदान्तोदातत्वेन शेषनिघातः सिद्धः, तथापि परत्वादयमेव निघातो युक्त इति भावः। इह च पुनराधेयमिति। गतित्वात्समासे कृते कृदुतरपदप्रकृतिस्वरेणठ्यतोऽनावःऽ इति धेयशब्द आद्यौदातः। चनोहित इति। निपातत्वादाद्यौदातस्य चनःशब्दस्य ठ्गतिरनन्तरःऽ इति प्रकृतिस्वरः॥ पदमञ्जरी ऊर्यादिच्विडाचश्च॥ १।४।६१ ॥ च्व्यन्ता डाजन्ताश्चेति। यद्यपि पदसंज्ञायामन्तग्रहणेन ठ्संज्ञाविधौ प्रतययग्रहणे तदन्तविधिर्नास्तिऽ इति ज्ञापितम्, तथापिठ्क्रियायोगेऽ इत्यनुवृतेस्तदन्तग्रहणमिति भावः। न हि प्रत्ययमात्रस्य क्रियायोगः सम्भवति, स्वार्थिकत्वेन स्वयमनर्थकत्वात्, च्वेरश्रावित्वाच्च। कृभ्वस्तियोग इति। न केवलम्, संज्ञाप्रयोगोऽप्यन्यत्र भवति, न हि भवति उरीसंपद्यते इति, श्रौषडादीनां स्वाहापर्यन्तानां चादिषु पाठाद् अक्रियायोगेऽपि निपातत्वम्। आविःशब्दस्य साक्षात्प्रभृतिषु पाठात् कृञो योगे विकल्पः, कृभ्वस्तियोगे त्वनेन नित्यम्। कथं तर्हि ठाविश्चक्षुषोऽभवदसाविव रागःऽ, ठभवन् युगपद्विलोलजिह्वा युगलीढोभयसृक्कधारमाविः इति? स्वतन्त्रा कवयः। शुक्लीकृत्येति। ठस्य च्वौऽ इतीत्वम्। पटपटाशब्दः ठ्वा क्यषःऽ इत्यत्र व्युत्पादितः॥ पदमञ्जरी अनुकरणं चानितिपरम्॥ १।४।६२ ॥ इतिः परो यस्मादिति। पञ्चमीसमासस्तु लक्षणाभावान्नाश्रितः। तेनेति खाट्कृत्येत्यत्र इतेः परत्वेऽपि भवति। खाडिति कृत्वा निरष्ठीवदिति। अत्रासति प्रतिषेधे गतिसंज्ञायां समासः स्यात्, धातोश्चानन्तरः प्रयोग इति रूपमेवैतन्न सिध्येत्। ठ्ष्ठिवु निरसनेऽ, ठ्ष्ठिवुक्लमुचमां शितिऽ इति दीर्घः। भूतकालोपन्यासः किमर्थः? कस्यचित्कवेरयं प्रयोग उदाहृतः- ठ्चुम्बनसक्तः सोऽस्याः च्युतमूलं दशनमात्मनो वदने। जिह्वामूलस्पृष्ट्ंअ खाडिति कृत्वा निरष्ठीवत्॥ऽ पदमञ्जरी आदरानादरयोः सदसती॥ १।४।६३ ॥ प्रीतिसंभ्रम इति। प्रीतिपूर्विका प्रत्युत्थानादिविषया त्वरेत्यर्थः। परिभवौदासीन्यमिति। अवज्ञया कर्तव्यं प्रत्यत्थानादिक प्रत्युपेक्षेत्यर्थः। असदनादरग्रहणं किमर्थम्? असत्कृत्येत्यत्रापि यथा स्यात्। मा भूदसच्छब्दस्य गतिसंज्ञा, सत्कृत्येत्यनेन नञ्समासो भविष्यति? नैवं शक्यम्; सति शिष्टत्वात् कृदुतरपदप्रकृतिस्वरं बाधित्वा अव्ययपूर्वपदप्रकृतिस्वरेणाद्यौदातत्वं स्याद्। असत्कृतमित्यत्र तु सत्कृतशब्दे ठ्गतिरनन्तरःऽ इति स्वरे प्रवृते प्रश्चान्नञ्समासेऽपि तस्येव स्वरः। असच्छब्दस्यापि कृतशब्देनापि समासे तस्य निपातत्वादाद्यौदातस्य गतित्वात्प्रकृतिभावेऽपि स एव स्वर इति नास्ति विशेषः। इह च यदासत्करोतीत्यसच्छब्दस्य निघातो न स्याद्, अव्ययसंज्ञापि तस्य न स्यादित्यसच्छब्दस्यैव गतिनिपातसंज्ञे एषितव्ये। न चात्र सच्छब्देन तदन्तविधिर्लभ्यते; विशेष्यस्याभावात्। नन्वत्र सच्छब्दस्यैव संज्ञास्तु, कार्यप्रदेशेषु प्रकृतस्य तेन तदन्तविधिर्भविष्यति, अव्यसंज्ञायां तावदस्त्येव तदन्तविधिः-परमोच्चैरिति, यथा ठ्कुगतिप्रादयःऽ इत्यत्रापि सुबिति प्रवर्तते, सुपेत्येव निवृतम्, तद्रतिना विशेष्यते ठ्गतिरनन्तरःऽ इत्यत्र पूर्वपदम् ठ्गतिर्गतौऽ इत्यत्रापि पदस्येति प्रकृतम्। भवतु तदन्तविधिना कार्यम्, अनादरावगतिस्तु कुतः? असत्यनादरग्रहणे, न सदसदित्यादरनिषेधान्नैव शक्यम्, आदरप्रसङ्ग एव हि स्यात्, गुरुमसत्कृत्येति चाण्डालमसत्कृत्येत्यत्र न स्यात्। यथाऽब्राह्मण इति क्षत्रियादिरेवोच्यते, न लोष्टादिः, अनादरग्रहणे तु सति बहुव्रीहिर्विज्ञायते--अविद्यामानादरोऽनादर इति। बहुव्रीहिश्चात्यन्ताभावे, प्रसक्ताभावे, अप्रसक्ताभावे च भवतीति सर्वत्र संज्ञा सिध्यति, तस्मादनादरग्रहणं कर्तव्यम्। असद्ग्रहणं तु शक्यमकर्तुम्। आदरानादरयोः सदित्येवास्तु, तत्र यथा गोष्पदं सेवित्यत्रासेविते गोष्पदशब्दो न संभवतीत्यगोष्पदार्थमसेवितग्रहणम्; एवमनादरेऽपि सच्छब्दो न सम्भवतीत्यसच्छब्दार्थमानदरग्रहणं भविष्यति। सत्कृत्वा, असत्कृत्वेति। शोभनवचनो विद्यमानवचनो वा सच्छब्दः तद्विपरीतवचनोऽसच्छब्दः॥ पदमञ्जरी भूषणेऽलम्॥ १।४।६४ ॥ अलमिति प्रतिषेध इत्यादि। तद्यथा अलं--कृत्वा, अलं भोक्तुम्, अलं भुङ्क्ते, अलं करोति कन्यामिति॥ पदमञ्जरी अन्तरपरिग्रहे॥ १।४।६५ ॥ अन्तर्हत्वा, मध्ये हत्वेत्यर्थः। अन्तः शब्दस्येत्यादि। उपसर्गसंज्ञायामेवैतन्नोक्तम्--अन्तः शब्दप्रसङ्गेन वक्ष्यामीति। यदा चोपसर्गसंज्ञोच्यते; तदान्तर्णयतीत्यादिवदन्तर्हण्यात्, अन्तर्हणनमित्यादावपि ठ्हन्तेरत्पूर्वस्यऽ इति णत्वं सिद्धम्। अन्तरयणमित्यत्रापि ठ्कृत्यचःऽ इत्येव सिद्धमिति ठन्तरदेशेऽठयनं चऽ इति सूत्रद्वयमपि देशप्रतिषेधार्थं द्रष्टव्यम्॥ पदमञ्जरी कणेमनसी श्रद्धाप्रतीघाते॥ १।४।६६ ॥ कणेशब्दः सप्तमीप्रतिरूपको निपातोऽभिलाषातिशये वर्तते। मनःशब्दोऽपि साहचर्यादभिलाषावृत्तिरेव विज्ञेयः। कणेहत्येति। अतिशयेनाभिलष्य तन्निवृत्तिपर्यन्तं पिबतीत्यर्थः। तदाह--तावदिति। श्रद्धा प्रतिहन्यत इत्यर्थः। इति यावदस्येत्यपेक्षते। प्रत्युदाहरणे कणेशब्दः पूक्ष्मतण्डुलावयवोऽधिकरणभूते वर्तते। मनःशब्दोऽपि चेतसि॥ पदमञ्जरी पुरोऽव्ययम्॥ १।४।६७ ॥ असिप्रत्ययान्तः पुरः शब्दोऽव्ययमिति। ठ्पूर्वाधरावाराणामसिपुरधवश्चैषाम्ऽ इत्यसिप्रत्ययः, पूर्वशब्दस्य पुरादेशः, ठ्तद्धितश्चासर्वविभक्तिऽ इत्यव्ययसंज्ञा, विसर्जनीयस्थानिकः सकार उपचारः। पुरस्कृत्येति। पूर्वस्मिन्देशे कृत्वेत्यर्थः। पूः पुरौ, पुरः कृत्वेति। एतदत्र प्रत्युदाहरणम्। इतरयोस्तूपन्यासस्तत्साहचर्यात्पुर इति शसन्तम्, नाव्ययमिति प्रदर्शनार्थः। अत्र ठ्नमस्पुरसोर्गत्योःऽ इति सत्वं न भवति, समासश्च न भवति॥ पदमञ्जरी अस्तं च॥ १।४।६८ ॥ अस्तं कृत्वेति। ठसु क्षेपणेऽ,निष्ठा, उदितो वाऽ ठ्यस्यविभाषाऽ इति इट्प्रतिषेधः। ननु लाक्षणिकत्वादेवात्र न भवति, किमव्ययग्रहणानुवृत्या? एवं तर्ह्यस्तंशब्दोः अव्ययमिति ज्ञाप्यते। न ह्ययं चादिषु स्वरादिषु वा पठ्यते॥ पदमञ्जरी अच्छ गत्यर्थवदेषु॥ १।४।६९ ॥ अच्छेत्यनुकरणत्वेऽविभक्तिको निर्देशः, ठ्सुपां सुलुक्ऽ इति विभक्तेर्लु प्तत्वात्। अभिशब्दस्यार्थ इति। आभिमुख्ये। अच्छाएद्योति। यजादित्वात् संप्रसारणम्, उदकमच्छ्ंअ गच्छति, अकलुषमित्यर्थः॥ पदमञ्जरी अदोऽनुपदेशे॥ १।४।७० ॥ उपदेशः परार्थः इति। वाक्यप्रयोग इत्यर्थाद् गम्यते। अदः- कृत्येति। एतत्कर्तव्यमिति स्वयमालोच्येत्यर्थः॥ पदमञ्जरी तिरोऽन्तर्द्धौ॥ १।४।७१ ॥ तिरोभूयेति। समासकृत्स्वरौ प्रयोजनम्। तिरोभूतमिति। भवतेरकर्मकत्वात्कर्तरि क्तः ठ्गतिरनन्तरःऽ इत्यत्र च कर्मणीति वर्तते, तस्मात् समासथाथादिस्वरावत्र प्रयोजनम्। तिरो भूत्वेति। पार्श्वतो भूत्वेत्यर्थः॥ पदमञ्जरी विभाषा कृञि॥ १।४।७२ ॥ तिरस्कृत्येति। ठ्तिरसोऽन्यतरस्याम्ऽ इति सत्वम्। प्रत्युदाहरणे तु न भवति, तत्र गत्यनुकार्यानुकरणयोर्भोदस्याविवक्षितत्वात् सूत्रे विभक्त्यभावः॥ पदमञ्जरी उपाजेऽन्वाजे॥ १।४।७३ ॥ साक्षात्प्रमृतीनि च॥ १।४।७४ ॥ साक्षात्प्रभृतिष्विति। असाक्षाद्भूतं यदा साक्षात्क्रियते तदा यथा स्यात् यदा यतु साक्षाद्भूतमेव रूपान्तरेण क्रियते तदा मा भूदित्येवमर्थम्। मिथ्याप्रभृतिष्वपि द्रष्यव्यम्। एतच्चान्तरङ्गत्वाल्लभ्यते, तथा हि--साक्षात्कृतमित्युक्ते श्रुतस्य तस्यैव रूपस्य करणं प्रतीयते, न त्वश्रुतरूपान्तरस्य। नन्वसत्यामपि प्रकृतिविवक्षायां तस्यैव रूपस्य करणं प्रतीयते, अथ च च्व्यर्थवृत्तिता नास्ति, तस्माच्च्व्यर्थग्रहणमेव कर्तव्यम्। अथ च्व्यन्तेष्वपि साक्षादादिषु अयं विकल्पः कस्मान्न भवति? अस्तु, अनेन मुक्ते पुनः प्रसङ्गविज्ञानाद् ठूर्यादिच्विडाचश्चऽ इत्येषा भविष्यति? नैवं शक्यम्, यदेतल्लवणादीनां मकारान्तत्वनिपातनं तदपि च्व्यन्तेषु स्यात्। एवं लवणादीनां मान्ता लवणादय आदेशाः करिष्यन्ते, तत्र यद्येकदेशविकृतस्यानन्यत्वाल्ल्लवाणीशब्दस्यापि पक्षे लवणमादशः क्रियते न कश्चिद् दोषः; त्रैशब्द्यं हि नः साध्यम्--लवणंकृत्य, लवणं कृत्वा, लवणीकृत्येति, तच्चैवं सिद्धम्। वृत्तिकारस्तु ठ्मकारान्तत्वं निपात्यतेऽ इति वदति, स मन्यते--च्व्यन्तेषु पूर्वविप्रतिषेधेन नित्या संज्ञा भवति, विकल्पेन तु सन्नियुक्तं मान्तत्वं निपातनमिति। अग्नौ, वशेप्रभृतयो विभक्तिप्रतिरूपका निपाताः, प्रादुराविशब्दयोरूर्यादित्वात् प्राप्ते विभाषा॥ पदमञ्जरी अनत्याधान उरसिमनसी॥ १।४।७५ ॥ उरसिमनसिशब्दौ निपातौ। उरसिकृत्येति। अभ्युपगम्येत्यर्थः। मनसिकृत्य, निश्चित्येत्यर्थः॥ पदमञ्जरी मध्ये पदे निवचने च॥ १।४।७६ ॥ मघ्ये पदे निवचने च ॥ अविभक्तिको निर्देशः, मध्येपदेशब्दौ निपातौ। निवचनं वचनाभाव इति। तत्र निपातनादेकारान्तत्वं न पुनरेषा सप्तमी। वाचं नियम्येति। व्याख्यानान्निपातनं चाविशेषेण, न तु संज्ञासन्नियुक्तं निवचने कृत्वेति उदाहृतत्वादित्याहुः॥ पदमञ्जरी नित्यं हस्ते पाणावुपयमने॥ १।४।७७ ॥ दारकर्मेति। अन्ये तु स्वीकरणमात्रमिच्छन्तिहस्तेकृत्य महास्त्राणीति, हस्तेपाणौ शब्दौ निपातौ॥ पदमञ्जरी प्राध्वं बन्धने॥ १।४।७८ ॥ मकारान्तमव्ययमिति। चादिषु पाठात्। आनुकूल्ये वर्तते इति। तेन बन्धने वर्तमानः प्राध्वंशब्दः इत्ययमर्थो न भवति। कथं तर्हि बन्धने इत्यस्यान्वय इत्यत आह--तदिति। बन्धन इति। सत्सप्तम्यर्थद्वारकश्च प्राध्वमित्यनेन सम्बन्धः, बन्धने सति यदानुकूल्यं तद्वन्धनहेतुकमिति भावः। प्राध्वं कृत्वा गत इति। प्रस्थितोऽध्वानं प्राध्वः, ठत्यादयः क्रान्ताद्यर्थेऽ इति समासः, ठुपसर्गादध्वनःऽ इत्यच् लाक्षणिकत्वादेवात्र न भविष्यति; तस्मादव्ययस्यैवायं प्रयोगः, आनुकूल्यं तु बन्धनहेतुकं न विवक्षितमिति व्याचक्षते॥ पदमञ्जरी जीविकोपनिषदावौपम्ये॥ १।४।७९ ॥ जीविकाउजीवनोपायः, ठ्संज्ञायाम्ऽ इति करणे ण्वुल्। ण्यन्ताद्वा कर्तरि उपिनिपूर्वात्सदेः ठ्सत्सूद्विषऽ इति क्विप्, ठ्सदिरप्रतेःऽ इति षत्वम्, उपनिषदुरहस्यं वेदान्तजन्यं ज्ञानम्, वेदान्तभागो वा। आपम्य इति। उपमीयतेऽनयेत्युपमा ठातश्चोपसर्गेऽ इत्यङ्, तस्या भाव औपम्यम्। विषयसप्तमी चैषा, उपमानोपमेयसम्बन्धनिमितादभेदोपचाराद्यावुपमेयनिष्ठौ भवतः, तावौपम्यविषयौ। जीविकाकृत्य, उपनिषत्कृत्येति। जीविकामिव कृत्वा, उपनिषदमिव कृत्वेत्यर्थः। यद्यपि गतिसमासो नित्यः, तथापीवशब्दप्रयोगे स्वार्थनिष्ठत्वादीद्दशवाक्यं भवत्येव॥ पदमञ्जरी ते प्राग्धातोः॥ १।४।८० ॥ नियमार्थमिदम्। स पुनर्नियमः संज्ञानियमो वा स्यात्, प्रयोग नियमो वा स्यात्? तत्र संज्ञानियमे तेशब्देन प्रादय उपनिषत्पर्थन्ताः स्वरूपेण परामृश्यन्ते, न गत्युपसर्गसंज्ञाविशिष्टेन रूपेणा; संज्ञयोरनिष्पादनात्। अनेनेकवाक्यतापन्नैः पूर्वसूत्रैस्तयोर्विधानात्। ते प्रादय उपनिषत्पर्यन्ता धातोः प्रागेव प्रयुज्यमाना गत्युपसर्गसंज्ञा भवन्तीत्यर्थः। प्रयोगनियमे तु लब्धगत्युपसर्गसंज्ञाः परामृश्यन्ते। ते गत्युपसर्गसंज्ञका धातोः प्रागेव प्रयोक्तव्या इत्यर्थः। तत्राद्ये पक्षे स्वरूपेण परामर्शः प्रादीनामिव चादीनामपि स्यात्, ततश्च निपातसंज्ञाया अपि नियमः स्यात्। अथापि गत्युपसर्गसंज्ञयोरेव नियमः, एवमप्यनर्थकं वचनम्, प्रयोग एव हि तेषामप्राङ् नेष्यते। न पुनरप्राक् प्रयुज्यमानानां संज्ञायां किञ्चिदनिष्टमापद्यते। ठ्च्छन्दसि परेऽपिऽ व्यवहिताश्चऽ इति रूपद्वयं चानर्थकम्,परव्यवहितानां संज्ञैव निषिद्धा, न तु प्रयोगः। न च तेनापि संज्ञैव विधीयते, निष्प्रयोजनत्वात्। किंच ठनुकरणं चानितिपरम्ऽ इत्यनितिपरग्रहण मनर्थकं स्यात्, ठ्खाडिति कृत्वा निरष्ठीवत्ऽ इत्यत्र व्यवहितस्यानुकरणस्य गतिसंज्ञैव निषिद्धा, प्रयोगस्तु केन वार्यते! प्रयोगनियमे तु धातोः प्रागेवानुकरणस्य प्रयोगः स्याद्, न त्वितिशब्देन व्यवहितस्येति अनितिपरमिति वक्तव्यम्। अतः प्रयोगनियम एवायं युक्त इति मत्वाह--ते गत्युपसर्गसंज्ञका इति। अथास्मिन्नपि पक्षे निपातानामपि तेशब्देन परामर्शः कस्मान्न भवति? व्यवहितत्वात्। कथं तर्ह्युपसर्गाणां परामर्शः, नोपसर्गास्तेन रूपेण परामृश्यन्ते, किं तर्हि? गतिरूपेण, तेषामपि गतित्वात्। अनेनैवाभिप्रायेण वृतावुपसर्गाणां पृथग् ग्रहणम्। चादयस्तु नैवमिति न ते परामृश्यन्ते। ननु यत्र लोके संकीर्णः प्रयोगः- गौर्गावीति, तत्र साधुपरिज्ञानाय शास्त्रमर्थवत्। यत्र त्वसंकीर्ण एव प्रयोगो न तत्र शास्त्रकृत्यमस्ति; न च कश्चित् प्रपचतीति प्रयोक्तव्ये पचतीति प्रेति प्रयुङ्क्ते। यद्यपि लोके प्रयोगो न द्दश्यते विपरीतः, च्छन्दसि तु परव्यवहितप्रयोगदर्शनाद् भाषायामपि तथा प्रयोगः शङ्क्येत, दर्शितश्चाद्यत्वेऽपि भाषायामेव गतेराविःशब्दस्य परव्यवहितप्रयोग ऊर्यादिसूत्रे। किं च ठुदि कूले रुजिवहोःऽ कूलमुद्वह इत्यत्र ठुदिऽ ठ्कूलऽ इति द्वयोरपि सप्तमीनिर्देशादुपपदत्वात्समासे कृते ठुपसर्जनं पूर्वम्ऽ इति शास्त्रवशात्पर्यायेण पूर्वनिपातं मन्येरन् इत्युपसर्जनसंनिपाते पूर्वपरव्यवस्थार्थमिदं वक्तव्यम्। यद्येवम्, ठ्कर्तृकर्मणोश्च भूकृञोऽः- सुखेन कटः क्रियते, सुकट्ंअकराणि वीरणानि, दुष्कट्ंअकराणि, अत्र सुदुसोः प्राग्धातोः प्रयोगः प्राप्नोति--कट्ंअ सुकराणीति। खलः खित्करणमिदानीं किमर्थं स्यात्? अनव्ययस्य हि मुमुच्यते, खित्करणसामर्थ्याद् अव्ययस्य भवतु, यदि वा ठ्कृद्रहणे गतिकारकपूर्वस्यापि ग्रहणम्ऽ इति सुकरशब्दे परतः कटस्य भविष्यति, कर्तव्योऽत्र यत्नः। धातुग्रहणमनर्तकम्, कुतः? प्रागित्यपेक्षायां यत्क्रियायुक्ताः प्रादयस्ततः प्रागिति विज्ञास्यते; नैवं शक्यम्, इह च कर्तुं प्रेच्छति प्रचिकीर्षतीति सन्वाच्यया इच्छया प्रशब्दस्य योग इति सन एव प्राक् प्रशब्दः प्रयुज्येत, धातुग्रहणात् तु धातोरेव चिकीर्षतेः प्राक् प्रयुज्यते। तेग्रहणमुपसर्गार्थमिति। ननु यदि गतिसंज्ञारहिताः केवलोपसर्गसंज्ञा एव प्रादयः स्युः, ततोऽसति तेग्रहणे गतीनामनन्तरत्वात एव संबध्येरन्, न तूपसर्गा इति तदर्थं तेग्रहणं कर्तव्यम्? तेऽपि तु गतिसंज्ञकाः, ततश्चानन्तराणां गतीनामपि सम्बन्धे प्रादीनामपि गतित्वादेव ग्रहणं सिद्धम्। स्यादेतत्--असति तेग्रहणे गतिसंज्ञैव केवला येषाम्, तेषामेव स्याद्; नोभयसंज्ञकानां प्रादीनामिति? न; केवलगतेरभावात्। ननु चायमस्ति ठनुकरणं चानिति परम्ऽ इति, न; तस्यापि निपातत्वात्, उच्यते; असति तेग्रहणे प्रकृतेष्वपेक्षा चेत् कतिपये संबध्येरन्; नोपसर्गपर्यन्ताः। व्याप्तिन्यायातु भूयसामपेक्षायां न प्रादिष्वेव पर्यवसाने कारणमस्तीति चादयोऽप्यपेक्ष्येरन् । तेग्रहणे तु सति गतिसंज्ञाया अनन्तरत्वातेन रूपेण परामर्शो न कतिपयानामेव भवतीति प्रादीनपि व्याप्नोति, चादआआश्च परिसंचष्टे इति तेग्रहणमुपसर्गार्थं भवति। तत्पर्यन्तानां च यथा स्यात् तेषामेव च यथा स्यादित्यर्थः। गतयो ह्यनन्तरा इति। येऽनन्तरास्त एव कतिपये गृह्यएरन्, प्रत्यासताविति भावः। व्याप्तौ तु दोषः सुज्ञानत्वान्न कण्ठोक्तः॥ पदमञ्जरी च्छन्दसि परेऽपि ॥ १।४।८१ ॥ न च परेषामिति। नच ठ्गतिर्गतौऽ इत्यस्यापि सम्भवः, परभूतानामेकाकिनामेव दर्शनादिति मन्यते॥ पदमञ्जरी व्यवहिताश्च॥ १।४।८२ ॥ दिक्च्छब्दानामव्यवहिते मुख्या वृत्तिरिति प्राक् परस्ताच्च व्यवहितानां प्रयोगार्थमिदं वचनम्। अत एव भाषायां व्यवहितानामप्रयोगः। कथं तर्हि गतिव्यवाये प्रयोगः-अभ्युद्धरति, समुदाहरतीति? न तुल्यजातीयं व्यवधायकं भवति, तद्यथा--किमनन्तरे एते ब्राह्मणकुले इति पृष्टः सन्नाह--नानन्तरे, वृषलकुलमनयोर्मध्य इति विजातीयं व्यवधायकं निर्दिशति, जातेर्वा समाश्रयणान्नास्ति व्यवधायकत्वम्। एवं च गतिरनन्तरग्रहणम्, ठ्गतिर्गतौऽ इति वचनम्, ठभिप्रैतिऽ इतिनिर्देशश्चोपपन्नो भवति॥ पदमञ्जरी कर्मप्रवचनीयाः॥ १।४।८३ ॥ वक्ष्यामाणानां संज्ञिनां बहुत्वाद्वहुवचनम्, यथा--निपाताः, कृत्या इति। क्वचितु सामान्यविवक्षयैकवचनम्, ठ्गतिश्चऽ,ठ्प्रत्ययःऽठ्कृत्ऽ इति। महासंज्ञाकरणमन्वर्थसंज्ञाकरणमन्वर्थसंज्ञाविज्ञानार्थम्--कर्मौक्रियां प्रोक्तवन्तः कर्मप्रवचनीया इति। भूते ठ्कृत्यल्युटो बहुलम्ऽ इति कर्तरि कृत्यः। के च कर्म प्रोक्तवन्तः? ये प्रयुज्यमाने क्रियापदे--ठनुभूयते कम्बलःऽ इत्यादौ क्रियाविशेषं द्योतितवन्तः, न संप्रति क्रियाविशेषं द्योतयन्ति, किं तर्हि? सम्बन्धविशेषम्, तद्यथा--शाकल्यस्य संहितामनुप्रावर्षदिति। न ह्यत्रानुरनुभूयते इत्यादाविव क्रियाविशेषं द्योतयति, क्रियापदाभावात्; नापि षष्ठीवत्सम्बन्धमाचष्टे--संहितामिति; द्वितीयायास्तदर्थत्वात्। नापि क्रियापदमाक्षिपति, यथा--प्रादेशं विपरिलिखतीति, विशब्दो विमानक्रियां प्रादेशं विमाय परिलिखतीति । तथा हि--सति प्रादेशमितिवत् कारकविभक्तिप्रसङ्गः, शेषसम्बन्धस्य वा प्रतीतिप्रसङ्गः। तदेवमनुः संहिताप्रवर्षणयोर्यः शेषसम्बन्धो द्वितीयाभिहितस्तं विशेषेऽवस्थापयति। हेतुहेतुमद्भावेन रूपेण विशिष्टक्रियाजनितत्वेन वा सम्बन्धस्य तत्संनिधौ सम्प्रत्ययात् संहितामनुनिशम्य प्रावर्षदिति। उक्तं च-- क्रियाया द्योतको नायं न सम्बन्धस्य वाचकः। नापि क्रियापदाक्षेपी सम्बन्धस्य तु भेदकः॥ इति। क्वचितु प्रवृत्तिनिमिताभावेऽपि वचनसामर्थ्यादियं संज्ञा प्रवर्तते, यथा--ठ्सुः पूजायाम्ऽ ठतिरतिक्रमणे च इति॥ पदमञ्जरी अनुर्लक्षणे॥ १।४।८४ ॥ यावतेति। यावताशब्दो निपातो नन्वित्यर्थे। अन्येत्यर्थ इत्यन्ये। लक्षणेत्थभ्भूताख्यानेतिष सिद्धेति। तत्र चावश्यमनोर्ग्रहणं कर्तव्यमिर्त्थभूताख्यानादिषु याथा स्यात्। लक्षणग्रहणं च प्रत्याद्यर्थम्, अतोऽर्थान्तरसंज्ञान्तरसंज्ञान्तरसाधारणत्वातदेवास्तु, इदं तु न कर्तव्यमिति भावः। हेत्वर्थन्त्विति । तु शब्दः पक्षं व्यावर्तयति। हेतुःउ करणम्, अर्थःउ प्रयोजनं प्रयोजकोऽस्य वचनस्येत्यर्थः। ननु च तत्र चात्र च लक्षणग्रहणमेव क्रियते, तद्यदि हेतुर्लक्षणं न भवति, इहापि न गृह्यते, अथ भवति तत्रापि नार्थ एतेन? तत्राह--हेतुतृतीयामिति। सत्यम्; लक्ष्यतेऽनेन तल्लक्षणमु चिह्नं ज्ञापकम्, कारणमपि नियतं कार्यविशेषावगतिहेतुत्वाद् लक्षणं भवत्येव। उक्तं भाष्ये--लक्षणेन हेतुरपि व्याप्तो नावश्यं तदेव लक्षणं येन पुनः पुनर्लक्ष्यते,किं तर्हि? यत्सकृदपि निमितत्वाय कल्पते पदपि लक्षणमिति। किन्तु येन नाप्राप्तिन्यायेन कर्मप्रवचनीययुक्ते द्वितीया षष्ठ।ल एवापवादः। ततश्च लक्षणेत्थंभूतेत्यनोर्लक्षघणे कर्मप्रवचनीयसंज्ञाया अवकाशो यो हेतुर्न भवति-वृक्षमनुविद्योतते, हेतुतृतीयाया अवकाशः- धनेन कुलमिति; हेतुभूते तु लक्षणे उभयप्रसङ्गे परत्वात् तृतीया स्यात्, तामपि बाधित्वा द्वितीयैव यथा स्यात्। पुनः संज्ञाविधाने कक्षान्तरप्राप्तत्वाद् द्वितीयैव तृतीया बाधते। उक्तं च-- हेतुहेतुमतोर्योगपरिच्छेदोऽनुना कृते। आरम्भाद्वाध्यते प्राप्ता तृतीया हेतुलक्षणा॥ इति। ठ्तृतीयार्थऽ इत्यनेन तु पुरस्तादपवादन्यायेन ठ्सहयुक्तेऽप्रधानेऽ इत्यस्यैव बाधः, न हेतुतृतीयाया इति वक्तव्यमेतत्॥ पदमञ्जरी तृतीयार्थे॥ १।४।८५ ॥ नदीमन्ववसितेति। सहार्थोऽत्र तृतीयार्थः। अन्ववपूर्वात्ठ्षिञ् बन्धनेऽ इत्यस्मात् कर्तरि क्तः॥ पदमञ्जरी हीने॥ १।४।८६ ॥ हीनेत्कृष्टसम्बन्धे संज्ञेति। कर्मप्रवचनीयविभक्तिस्तु तेन व्यतिरिच्यमान उत्कृष्ट एव भवति, न हीने, अभिधानाशक्तिस्वाभाव्यात् नोभाभ्यामेकयैव द्वितीयया द्विष्ठस्यापि सम्बन्धस्याभिधानात् षष्ठीत्॥ पदमञ्जरी उपोऽधिके च॥ १।४।८७ ॥ अत्राप्यधिकिना विनाधिकस्यासम्भावद् अधिकाधिकिसम्बन्धे संज्ञा विधीयते। विभक्तिरप्यधिकिन एव भवति, नाधिकात्। उपखार्यो द्रोण इति। खारशब्दो गौरादिः, खारी तावदस्ति, अधिकोऽपि तस्यां द्रोणोऽस्तीत्यर्थः। ठ्यस्मादधिकम्ऽ इति सप्तमी॥ अपपरी वर्जने॥ प्रकृतेन वाक्ये प्रतिपाद्यमानेनेत्यर्थः। परिपरित्रिगर्तेभ्य इति ठ्पञ्चम्यपाङ्परिभिःऽ इति पञ्चमी, ठ्परेर्वर्जनेऽ इति द्विर्वचनम्, कर्मप्रवचनीयेन पञ्चमीसहितेन द्योतितेऽपि वर्जने भवति, उभयोरपि विधानसामर्थ्यात्। परिषिञ्चतीति। परिः सर्वतो भावे, अत्रास्याः संज्ञाया अभावाद् उपसर्गत्वे सति ठुपसर्गात्सुनोतिऽ इति षत्वं भवति, ठ्शे मुचादीनाम्ऽ इति नुम्॥ पदमञ्जरी आङ् मर्यादावचने॥ १।४।८९ ॥ मर्या मरणधर्माणो मनुष्याः, औणदिको यप्रत्ययः, तैरादीयते मर्यादा, ठातश्चोपसर्गेऽ इत्यङ्प्रत्ययः। अवधिर्मर्यादेति। ननु यत्रावधिः कार्येण युज्यते सोऽभिविधिः, यत्र न सा मर्यादा; अवधिस्तु साधारणं तत्काथमवधिर्मर्यादा? नायमत्रार्थो योऽवधिः सा सर्यादेति, किं तर्हि? या मर्यादा सोऽवधिरित्यर्थः। वचनग्राणदिति। इह मर्यादायामिति वाच्ये वचनग्रहणं क्रियते, तस्यैतत्प्रयोजनमेवं यथा विज्ञायेत--उच्यतेऽस्मिन्निति वचनम्, मर्यादाया वचनमिति कर्मणि षष्ठयाः समासः। मर्यादाशब्दो यत्रोच्यते ठाङ्मर्यादाभिविध्योःऽ इति तस्याङे ग्रहणम्, स चाभिविधिवृत्तिरपीत्यत्राप्यभिविधेर्ग्रंहणं भवति। यद्वा--वचनग्रहणसामर्थ्यादवान्तरभेदो न विवक्ष्यते, अवधिमात्रं गृह्यते। आ मथुराया इति। वृष्टो देव इत्यपेक्ष्यते, ठ्मन्थ विलोडनेऽ औणादिकः कुरच् प्रत्ययः। ईषदर्थे क्रियायोगे च मा भूदिति। वाक्यस्मरणयोस्त्वङित्वादेवाप्रिसङ्गः, तत्रेषदर्थे आ कडारः पञ्चमी न भवति, क्रियायोगे समाहार इति ठ्गतिर्गतौऽ इति निघातो भवति॥ पदमञ्जरी लक्षणेत्थंभूताख्यानभागवीप्ससु प्रतिपर्यनवः॥ १।४।९० ॥ लक्ष्यते येन तल्लक्षणमु चिह्नं ज्ञापकम्। अयं प्रकार इत्थम्, प्रथमान्तादिदमस्थमुः इह त्विदमा प्रत्यवमृश्यस्य सन्निहितस्य कस्यचिदभावात्प्रकारविशेषमात्रवृत्तिरित्थंशब्दः। ठ्भू प्राप्तौऽ आत्मनेपदी, ठा धृषाद्वाऽ इति णिजभावपक्षे गत्यर्थत्वात्कर्तरि क्तः। तत इत्थंशब्दादव्ययादपि वृत्तिविषये सत्वधर्मोपादानात्कर्मणि द्वितीया, श्रितादिषु गम्यादीनामिति सामसः, कञ्चित् प्रकारं प्राप्त इत्थंभूतः, इत्थंभूतस्याख्यानमित्थंभूताख्यानम्। स्वीक्रियमाणाआऽशो भागः, यस्त्वंशमात्रे प्रयोगः प्रियङ्गोर्भाग इति स भागसाद्दश्यात्। व्याप्तुमिच्छा वीप्सा, सा चाष्टमे स्षष्टयिष्यते, एते लक्षणादयो यथा विभक्तिसमीपादयोऽव्ययार्था नेवं प्रत्यादीनामर्थाः, किं तर्हि? संज्ञायाः प्रत्यादीनां विषयत्वेन निर्दिष्टाः इत्याह--वीप्सायां च विषयभूतायामिति। एतच्च लिङ्गविपरिणामेन लक्षतणादिभिरपि सम्बन्धनीयम्। वृक्षं प्रतीति। अत्र वृक्षो लक्षणं विद्योतनस्य, प्रत्यादयस्तु प्राप्तिक्रयाजनितो लक्ष्यलक्षणभाव इत्येवं सम्बन्धविशेषेऽवस्थापयन्ति--वृक्षं प्राप्य विद्योतते, वृक्षे प्रदेशे विद्योतत इत्यर्थः। साधुरिति। अत्रापि प्राप्तिक्रियाजनित एव विषयविषयिभावसम्बन्धः, यथा वृक्षे द्दष्टे विद्योतनं लक्ष्यते, नैवमत्रासाधुत्वापतिरितीत्थम्भूताख्यानग्रहणम्। यदत्र मामिति। यो मम भागः स दीयतामित्यर्थः। अत्र स्वीकरणक्रियाजनितः स्वस्वामिसम्बन्धः। वृक्षं वृक्षमिति। वीप्सा द्विर्वचनेन द्योत्यते। परिशब्दस्तु क्रिययैव सम्बध्यते, द्वितीया चेह कर्मणि। कर्मप्रवचनीयसंज्ञा तूपसर्गसंज्ञा--निवृत्यर्था तेन ठुपसर्गात्सुनोतिऽ इति षत्वं न भवति। अशब्दसाहचर्यादिति। परिशब्दोऽयं द्दष्टापचारो वर्जने चावर्जने च कर्मप्रवचनीयः। अपशब्दस्तु वर्जने एव। कर्मप्रवचनीयाधिकारे पञ्चमी विधीयते, तत्र साहचर्यं व्यवस्थाहेतुः॥ पदमञ्जरी अभिरभागे॥ १।४।९१ ॥ अभागैति किमिति। अभिधेयं प्रयोजनं च परिज्ञातुं प्रश्नः। अत एवोभयं दर्शयति । भागः स्वीक्रियमाणाआऽशः। यदत्र ममाभिष्यादिति। ननु अन्वर्थसंज्ञाविज्ञानादेवात्र न भविष्यति, संप्रत्येव ह्यसौ विभजनक्रियां द्योतयति? प्रत्यादीनामपि तर्हि न स्याद्? वचनाद्भविष्यति। अभेरपि तर्हि प्राप्नोति, तस्माद् ठभागेऽ इति वक्तव्यम्, तत्रोपसर्गत्वात् ठुपसर्गप्रादुर्भ्यामस्तिर्यच्परःऽ इति षत्वम्। अथैवं कस्मान्न कृतम्--ठ्लक्षणेत्थंभूताख्यानवीप्सास्वभिः, प्रतिपरी भागे च, चकाराल्लक्षणादिषु च, अनुर्लक्षणतृतीयार्थयोश्च, चकाराद्भागे लक्षणादिषु च, ततो हीने, उपोऽधिके चऽ; इत्येवं हि द्विरनोर्ग्रहणम्, अभाग इति च न वक्तव्यं भवति। एवं हि द्विश्चग्रहणं क्रियते इति पदयोः साम्यम्, अक्षरलाघवं तु नाद्दतम्॥ पदमञ्जरी प्रतिः प्रतिनिधिप्रतिदानयोः॥ १।४।९२ ॥ मुखसद्दश इति। मुख्यः क्वचित्कार्ये शत्रुवधादौ द्दष्टसामर्थ्यः। यस्तु तदभावे तत्कार्यकरणाय प्रतिनिधीयते उपादायते स प्रतिनिधिः, कर्मणि किप्रत्ययः। दतस्येति उतमर्णेन । प्रतिनिर्यातनमिति। प्रत्यर्पणम्। अर्जुनतः प्रतीति। ठ्प्रतिनिधिप्रतिदाने च यस्माद्ऽ इति पञ्चमी, प्रतियोगो पञ्चम्यास्तसिः। माषानिति। तिलान् गृहीत्वा माषान् ददातीत्यर्थः॥ पदमञ्जरी अधिपरी अनर्थकौ॥ १।४।९३ ॥ ननु चानर्थकयोः क्रियायोगाभावाद् गत्युपसर्गसंज्ञयोः प्राप्त्यभावान्न तद्वोधनार्थ कर्मप्रवचनीयसंज्ञाविधानमुपपद्यते, नापि परिशब्दयोगे पञ्चमीविधानार्थम्, तद्विधौ वर्जनार्थस्य ग्रहणाद्। अपादानत्वाच्च सिद्धा पञ्चमी, यथाऽधिशब्दस्य प्रयोगे--कुतोऽध्यागच्छतीति। अत एव द्वितीयाविधानार्थमपि नोपपद्यते; तस्मादनर्थकयोः संज्ञाविधानमनर्थकमित्यत आह--अनर्थान्तरवाचिनाविति। यथा तिष्ठति, नितिष्ठति, परिभवतीत्यादौ धातूपातादर्थादर्थान्तरवाचित्वम्, नैवमत्रार्थान्तरवाचित्वम्; किन्त्वागच्छतीति प्रयोगे योऽर्थः स एवाधिपरियोगे ताभ्यामुच्यते तदत्र विषये धातोरधिपर्योश्च सहाभिधायित्वम्; यथागजशब्दे योऽर्थः स एव मतङ्गज इति सर्वैः सहाभिधीयते। एवं वृषशब्दे योऽर्थः स एव वृषभशब्दे। तदेवमनर्थान्तरवाचित्वादनर्थककल्पत्वादनर्थकावित्युक्तम्, न त्वभावात्। तयोश्च गतिसंज्ञाबाधाय कर्मंप्रवचनीयसंज्ञा विधेयेति दर्शितं भवति। कुतोऽध्यागच्छतीति। किंशब्दात् ठपादाने चाहीयरुहोःऽ इति तसिः, तस्य ठ्तसेश्चऽ इति तसिलादेशः, ठ्गतिर्गतौऽ इति निघाताभावः॥ पदमञ्जरी सुः पूजायाम्॥ १।४।९४ ॥ सुसिक्तं भवतेति। भवच्छब्दात्कर्तरि तृतीया। कर्मप्रवचनीययुक्ते द्वितीया न भवति; ठुपपदविभक्तेः कारकविभक्तिर्बलीयसीऽ इति। सुषिक्तं किं तवात्रेति। क्षेपोऽयम्, न पूजा॥ पदमञ्जरी अतिरतिक्रमणे च॥ १।४।९५ ॥ पदमञ्जरी अपिः पदार्थसंभावनान्ववसर्गगर्हासमुच्चयेषु॥ १।४।९६ ॥ पदान्तरस्येत्यादि। स्वार्थस्तावदव्यभिचारान्न गृह्यते इति पदान्तरस्यार्थः पदार्थः। तत्रापि पदान्तरप्रयोगे सत्यपिः प्रयुज्यमानस्तदर्थे कञ्चिद्विशेषमाधते। यथा--नीलशब्द उत्पले, न तु तस्मिन्नेवान्यूनानतिरिक्ते वर्तते; तथा सति पर्यायत्वप्रसङ्गेनाप्रयोगार्हत्वात्। अतः पदान्तरस्याप्रयोग एव तदर्थे प्रवृतो भवतीति भावः। सर्पिषोऽपि स्यादिति। प्रार्थनायां लिङ्, तस्या एव दुर्लभविषयतामपिशब्दो द्योतयन् स्यादित्यनेन सम्बध्यते इति षत्वप्रसङ्गः, दुर्लभत्वं च विषयस्यैव भवति, यदि तस्या बिन्दुमात्रमपि न लभ्यत इत्यत्रापिशब्दसामर्थ्याद्विन्दुरिति गम्यते, तदाह--मात्राबिन्दुस्तोकमित्यस्थार्थेऽपिशब्दो वर्तत इति। तदुपजनिते च व्यतिरेके सर्पिष इति षष्ठी। द्वितीया तु न भवति, अपिना योगाभावात्। स हि स्यादित्यनेन सम्बध्यत इत्युक्तम्। अधिकार्थवचनेनेति तत्सम्भावनमित्यर्थः। अपि सिञ्चेदिति। सम्भावने लिङ तस्यैव दुष्करविषयतामपिराह। कामचार इच्छाप्रवृत्तिः। अपि सिञ्चेदेति । सिञ्च वा मा वा, स्तुहि वा मा वा, यथेष्ट्ंअ कुर्वित्यर्थः। जाल्मोऽपशब्दः। अपि सिञ्चेदिति। गर्हार्थे लिङ्। उपसर्गसंज्ञाबाधनादिति। स्यादित्यत्र ठुपसर्गप्रादुर्भ्याम्ऽ इति सिचः ठुपसर्गात्सुनोतिऽ इति षत्वप्रसङ्गः॥ पदमञ्जरी अधिरीश्वरे॥ १।४।९७ ॥ तदयमिति। यथा ठ्हीने इत्यत्र हीनोत्कृष्टसम्बन्धे संज्ञा, ठुपोऽधिके चऽ इत्यत्राधिकाधिकिसम्बन्धे, तथात्रापीत्यर्थः। विभक्तिस्तु तत्रान्यतरस्मादुच्यते, इह तु न तथेत्याह--तत्र कदाचिदिति। ठ्यस्य चेश्वरवचनम्ऽ इत्यत्रार्थद्वयम्--ईश्वरशब्दो भावप्रधानः, यस्य स्वस्येश्वर उच्यते तम्मात्स्वात्सप्तमीत्यपरः। तत्र यदा स्वाम्यर्थे व्यतिरेकविवक्षा तदा ततः सप्तमी, स्वस्य तु व्यतिरेके तत इति। न पुनरुभाभ्यां युगपद्भवति, एकयैव विभक्त्या द्विष्ठस्यापि सम्बन्धस्याभिधानादिति मत्वा ठ्कदाचिद्ऽ इत्यक्तम्। ब्रह्मदत इति। ब्रह्मदतस्य स्वाः पञ्चाला इत्यर्थः। आधपञ्चालेष्विति। पञ्चालनां ब्रह्मदतः स्वामीत्यर्थः॥ पदमञ्जरी विभाषा कृञि॥ १।४।९८ ॥ ठधिरीश्वरेऽ इत्यनुवृतेः प्राप्ते विभाषेयम्। यदत्र मामधिकरिष्यतीति। अधिपूर्वः करोतिर्विनियोगे वर्तते, यथा--अधिकृतोऽयमिह ग्रामे। ठ्स्वरितेनाधिकारःऽ इति च, ईश्वरो भवत्येवमत्र मां विनियोक्ष्यत इत्यर्थः। कर्मणि द्वितीयैषा। यद्येवम्, संज्ञाविधानस्य किं प्रयोजनं तत्राह--कर्मप्रवचनीयसंज्ञापक्ष इति। ठ्निपातैर्यद्यदिऽ इति निधातप्रतिषेधात् स्यप्रत्ययस्वरेण तिङ्न्तमुदातवत्॥ पदमञ्जरी लः परस्मैपदम्॥ १।४।९९ ॥ ल इति षष्ठीति। अथ प्रथमाबहुवचने को दोषः, ठामःऽ इति लावस्थायामेव लुप्यमानस्य लिटः संज्ञा स्यात्। ततश्चेक्षामित्यत्राम्न स्याद्, न ह्यतो लिट्परः सम्भवति, शेषादेव, शेषादेव परस्मैपदमिति नियमात्? ज्ञापकात् सिद्धम्, यदयमाम्प्रत्ययवदित्याह, तज् ज्ञापयति--भवत्यात्मनेपदिभ्योऽप्यामिति। अयं तर्हि दोषो लकारस्यैव संज्ञा स्यान्न तदादेशानां तिबादीनामिति? स्थानिवद्भावातेषामपि भविष्यति। ठ्तङनावात्मनेपदम्ऽ इत्यत्र तर्हि ठ्लऽ इति प्रथमान्तस्य तङनाभ्यां सम्बन्धो न स्यात्, न हि तङनौ लौ भवतः। ननु चैवं विज्ञास्यतेतङनभावी लकार एव, तङनावित्यक्त इति। एवमपि गत्यन्तरे सति न क्लिष्टकल्पना युक्ता, तस्मात् ठ्लःऽ इति षष्ठी। आदेशापेक्षेति। न च संज्ञापेक्षा, लकारस्य परस्मैपदमिति संज्ञा भवतीति, कुतः? सामानाधिकरण्येन प्रायेण संज्ञाविधानात्। किञ्च--जसि यो दोषः, सोऽस्मिन्नपि स्यात्; उभयत्र लकारस्य संज्ञित्वात्। तस्मादादेशापेक्षा षष्ठी। यद्येवम्, अनवकाशा पुरुषसंज्ञा परस्मैपदसंज्ञां शतृक्वसोः सावकाशां बाधेत। जसि तु लकारस्य परस्मैपदसंज्ञा तिङं तु पुरुषसंज्ञेति भिन्नविषयत्वान्नास्ति बाधप्रसङ्गः। यद्यपि जस्पक्षेऽपि तिबादीनामादेशानामपि ठ्स्थानिवदादेशःऽ इत्यनेन परस्मैपदसंज्ञा भविष्यति; तथापि तस्या अनाकडारीयत्वात्समावेशसिद्धिः। षष्ठीपक्षेऽपि ज्ञापकात्सिद्धम्, यदयम् ठ्सिचि वृद्धिः परस्मैपदेषुऽ इत्याह, तज् ज्ञापयति--भवति तिङमप्येषा संज्ञेति। न हि सिज्विषये शतृक्वसू सम्भवतः, सामान्यापेक्षं च ज्ञापकमिति आत्मनेपदसंज्ञया पुरुषसंज्ञानां समावेशसिद्धिः, अन्यथा परस्मेपदेषु सावकाशाः पुरुषसंज्ञाः तङ्क्ष्वनवकाशयात्मनेपदसंज्ञया बाध्येरन्। अथ वा--पुरुषसंज्ञायां परस्मैपदात्मनेपदग्रहणानुवृतेरयमर्थो भवति, लटः परस्मैपदात्मनेपदसंज्ञकाः सतस्त्रीणि त्रीणि पदानि भूत्वा प्रथमादिसंज्ञा भवन्तीति तेन समावेशसिद्धिः॥ पदमञ्जरी तङनावात्मनेपदम्॥ १।४।१०० ॥ अथ कस्माल्लस्येत्यस्यानन्तरमेते संज्ञे न विहिते, एवं हि पुरुषसंज्ञाभिरन्यत्रसिद्धोऽनयोः समावेशो भवति, तत्राह--पूर्वेणेति। आत्मनेपदसंज्ञया परस्मैपदसंज्ञाया बाधो यथा स्यादित्येवमर्थमस्मिन् प्रकरणेऽनयोर्विधानमिति भावः। महासंज्ञाकरणं पूर्वाचार्यानुरोधेन॥ पदमञ्जरी तिङ्स्त्रीणि त्रीणि प्रथममध्यमोतमाः॥ १।४।१०१ ॥ त्रीणि त्रीणीति वीप्सायां द्विर्वचनम्। तत्र च समुदायस्यावयवस्च पृथक्पदत्वमिष्यते, आ पचसि पचसि देवदतेत्येकान्तता यथा स्यात्, कुण्डं कुण्डं वाग् अपचन्नपचन्नित्यादौ पूर्वपदेऽप्यनुस्वारादि पदकार्यं यथा स्यादिति; तेन पदच्छेदकाले त्रीणित्रीणीत्येकं पदम्, द्वे वा। इह तिङं त्रिकाः संज्ञास्तु तिस्त्र इति वैषम्यात् संख्यातानुदेशो न प्राप्नोति। अत्र यद्यप्येकैकस्य त्रिकस्यानेकसंज्ञाविधाने प्रयोजनं नास्ति, नैतावता यथाभिमतविषयलाभः, तत्राह--तिङेऽष्टादश प्रत्यया इति। एवं मन्यते--संज्ञा अपि षडेव, कथमेकशेषनिर्देशोऽयम्? तत्र यदि प्रथमश्च प्रथमश्च प्रथमौ, मध्यमश्च मध्यमश्च मध्यमौ, उतमश्च उतमश्चोतमौ; प्रथममध्यमोतमा इति कृतैकशेषाणां द्वन्द्वः क्रियेत, ततो नाभिमतसंख्यातानुदेशः स्यात्। तस्मात्कृतद्वन्द्वानामेकशेषः-प्रथममध्यमोतमाश्च प्रथममध्यमोतमाश्च प्रथममध्योतमा इति। न चैवमपि विज्ञायते, किमादित आरभ्य त्रीणि वचनानि गृह्यन्ते? आहोस्विदिच्छतस्त्रिकपरिग्रहेऽपि यथासंख्यशास्त्रं क्रमते, किं तर्हि? विहितेषु संज्ञानां क्रमेण सम्बन्धं विधते। एवं तर्हि लोकत एतत्सिद्धम्, तद्यथा--विहव्यस्य द्वाभ्यामग्निरुपस्थेय इति, न चोच्यते आनुपूर्व्यणेति, अथ च विहव्याख्यस्य सूत्रस्यादित आरभ्य आनुपूर्व्येण द्वाभ्यां द्वाभ्यामृग्भ्यामग्निरुपस्थीयते, न याभ्यां काभ्याञ्चित्; तत्र तिङेऽष्टादश प्रत्यया इत्यनेनादित आरभ्य त्रिकाणामानुपूर्व्येण ग्रहणं नेच्छात इति दर्शयितुं तिङ्ग्रहणेन संनिवेशोऽस्तीति दर्शितम्। न च ठ्परस्मैपदसंज्ञकःऽ इत्यादिना तु कृतद्वन्द्वानामेकशेषो न कृतैकशेषाणां द्वन्द्व इति दर्शितम्। यदि वा परस्मैपदग्रहणमात्मनेपदग्रहणं चानुवर्तते, तिङ्ग्रहणं तु सतृक्वसोर्निवृत्यर्थम्। तदनुवृतौ च द्वौ राशी भवतः, तयोश्च व्यापारभेदेन सूत्रमेतत्प्रवर्तते। तत्र चैकैकं त्रयस्त्रिका इति। यथासंख्यसिद्धिः। तत्र न चेत्यादिना राशिद्वयं द्वर्शितम्। तत्रेत्यादिना तु व्यापारभेदः। अत्रापि महासंज्ञाकरणं पूर्ववत्॥ पदमञ्जरी तान्येकवचनद्विवचनबहुवचनान्येकशः॥ १।४।१०२ ॥ एकश इति। ठ्संख्यैकवचनाच्च वीप्सायाम्ऽ इति प्रथमान्ताच्छस्। प्रकृतत्वादेव त्रीणीत्यस्य सम्बन्धे सिद्धे तानिवचनं पुरुषवचनसंज्ञयोः समावेशार्थम्, अन्यथा ह्यएकसंज्ञाधिकारे वचनप्रामाण्यात्पर्यायः स्यात्, ततश्च ठाडुतमस्य पिच्चऽ ठ्नित्यं ङ्तिःऽ इति कार्यं वचनसंज्ञापक्षे उतमसंज्ञाया अभावान्न स्यात्। तानीत्यस्मिस्तु सति तान्येतानि प्रथमादिसंज्ञाविशिष्टानि त्रीणित्रीणीत्येवं परामर्शाल्लब्धप्रथमादिसंज्ञाविधानाद् भवति समावेशः। ननु त्रिकाणां पुरुषसंज्ञा एकैकस्य वचनसंज्ञेति विषयभेदान्नायमेकसंज्ञाधिकारविषयः, तन्न; यथा वृद्धिसंज्ञा प्रत्येकमादैचां भवति, तथा पुरुषसंज्ञापि त्रीपित्रीणीति वचनात् त्रिषु प्रवर्तमानापि तिबादिषु प्रत्येकमेव प्रवर्तते, न समुदाये; तस्य प्रयोगेऽभावात्, प्रत्येकमेव तेषां धातोरुत्पतेः। त्रिग्रहणं तु मर्यादार्थमादित आरभ्य त्रयाणां प्रथमसंज्ञा भवतीति, न पुनः समुदाये संज्ञाप्रवृतर्थं तानि तिङ्स्त्रीणित्रीणि पदानि भूत्वेति। तिबादिसूत्रे समाहारद्वन्द्वेऽष्टादशावयवपदानि तिङ्शब्दस्य त्रीणित्रीणीति समानाधिकरणस्यापि पुंल्लिङ्गतापि सूत्रवद्भवति॥ पदमञ्जरी सुपः॥ १।४।१०३ ॥ सुबिति प्रत्याहारग्रहणं प्रथमैकवचनादारभ्य सुपः पकारात्। कपस्तु पकारेण न भवति, प्राग्दिशीयानां विभक्तिसंज्ञाविधानात्; अन्यथा विभक्तिसंज्ञायामपि इदमेव सुब्ग्रहणमनुवर्तत इति सुप्त्वादेव सिद्धेऽनर्थकं तत्स्यात्। तिङं त्रिकेष्विति। किमर्थं पुनरिदमुक्तम्? इह कश्चिन्मन्यते--सूत्रे चकारस्याकरणात्संज्ञामात्रमिह सम्बध्यते, नान्यत्किञ्चिदिति तत्र द्दष्टान्तप्रदर्शनेन त्रीणित्रीण्येकश इत्यनयोरनुवृत्तिं यथा तिङं वचनसंज्ञा विहिता तथैव सुपामपीत्यर्थः। तथा च स्वयं च शब्दं पठित्वा व्याचष्टे--सुपश्चेत्यादि॥ पदमञ्जरी विभक्तिश्च॥ १।४।१०४ ॥ चकारः पुरुषवचनसंज्ञाभ्यां समावेशार्थः। तिङं व्यवहितानामपि स्वरितत्वादनुवृत्तिः। तिङं विभक्तित्वे प्रयोजनम्--आतामादौ ठ्न विभक्तौ तुस्माःऽ इति निषेधः, सुपां तु त्यदाद्यत्वादिकमपि॥ पदमञ्जरी युष्मद्यौपपदे समानाधिकरणे स्थानिन्यपि मध्यमः॥ १।४।१०५ ॥ ठ्लस्य तिबादयःऽ इत्यनेनैकवाक्यतामापन्नेनानेन तिबादीनां विशिष्टविधानम्, उत विहितानां तिबादीनां भिन्नेनानेन वाक्येन नियमः? इति संशये नियम इत्याह--लस्येत्यधिकृत्येति। विशिष्टविधाने त्वितरेतराश्रयं स्यात्--सतां तिबादीनां प्रथमादिसंज्ञा, संज्ञायां च तिबादयो भाव्यन्त इति। स पुनर्नियम उपपदनियमो वा स्याद्--युष्मदि मध्यम एव अस्मद्यौतम एव, शेषे प्रथम एवेति; पुरुषनियमो वा--युष्मद्येव मध्यमः, अस्मद्येवोतमः, शेष एव प्रथम इति। तत्राद्ये पक्षे कुर्वंस्त्वं कुर्वाणस्त्वमिति युष्मदि शतृशानचौ च न स्याताम्, तृजादयश्च न स्युः--कर्ता त्वं कारकस्त्वमिति? नैष दोषः; एतावान् विषयो युष्मदस्मदुपपदं शेषश्च सर्वश्चासौ पुरुषेषु नियतः। उच्यन्ते च तृजादयस्ते वचनाद्भविष्यन्ति। तुल्यजातीयस्य च नियनेन व्यावृत्तिः--युष्मदि मध्यम एव, न प्रथमोतमौ; अस्मद्यौतम एव, न प्रथममध्यमौ; शेषे प्रथमोतमाविति। एवं तर्हि तिबादिसूत्रे विधीयमानत्वात् प्राधान्यातेषामेव नियमो युकः, शेषग्रहणाच्चोपपदनियमे हि युष्मदस्मदी नियते, पुरुषा अनियताः, शेषश्चानियतः। तत्र प्रथम इत्येतावदप्युच्यमानं नियमार्थं विज्ञायते, तत्र च नियमान्तरस्यासंभवात् प्रथम एवेति नियमः; यत्र च प्रथमाप्रथमप्रसङ्गस्तत्रैवंविधो नियमः कर्तव्यः; शेष एव च तथा प्रसङ्ग इति तत्रैव नियमो भविष्यति, किं शेषग्रहणेन! पुरुषनियमे तु मध्यमोतमौ नियतौ युष्मदस्मदी वा नियते, प्रथमश्च तत्र युष्मदस्मदोरपि प्रथमप्रसङ्गो शेष एव प्रथम इत्येवं प्रथमनियमः कर्तव्यः। न चान्तरेण शेषग्रहणमेवंनियमः शक्यते कर्तुमिति कर्तव्यमेव शेषग्रहणम्। अतः शेषग्रहणम्। सूत्रकारस्यापि पुरुषनियम एवाभिप्रेत इति तमेवाश्रयति--तेषामयं पुरुषनियमः क्रियत इति। तेषामित्युद्भूतावयवभेदस्तिबादिसमुदाय उच्यते, पुरुषापेक्षयाऽवयवषष्ठी। तेषां तिबादीनामवयवो यो मध्यमपुरुषस्तस्योपपदनियमः क्रियत इत्यर्थः, सापेक्षस्यापि पुरुषशब्दस्य गमकत्वात् समासः। अथ वा तेषामिति कर्मणि षष्ठी, पुरुषद्वारको नियमः पुरुषनियमः, पुरुषद्वारेण ते नियम्यन्त इत्यर्थः। उपोच्चरितं तदमुपपदम्, शाकपार्थिवादित्वादुतरपदलोपी समासः, उपशब्दः सामीप्ये, ततश्च व्यवहिते न भवितव्यमिति शङ्गामपनयति। व्यवहिते चेति। समीप इत्येव सिद्धे उपपदग्रहणादापेक्षिकस्यापि सामीप्यस्य ग्रहणम्। व्यवहितमपि च व्यवहिततरापेक्षया संनिकृष्टमिति भावः। उपपदग्रहणं तु पूर्वभूतेऽपि युष्मदि यथा स्याद्, अन्यथा ठ्तस्मिन्निति निर्दिष्टे पूर्वस्यऽ इति परभूते एव स्यात्। ननु यथा स्थानिन्यपीति वचनात् सर्वथाऽप्रयुज्यमानेऽपि भवति तथा पूर्वप्रयोगेऽपि परभूतस्याप्रयोगात् स्थानिनीति भविष्यति, नैतदस्ति; सप्तमीनिर्देशात् प्रयोगपक्षे परभूत एव स्यात्। समानाभिधेय इति। अधिकरणशब्दोऽभिधेयवचन इति दर्शयति। पुनः समानाभिधेये लकारेण नियिम्यमानेन वा पुरुषेणः त्रिविधं चाभिधेयं लकाराणाम्भावः कर्म कर्ता च, तत्र द्रव्यवाचिनोर्युष्मदस्मदोर्भाववाचिना लान्तेन सामानाधिकरण्यासंभवात् कर्तृकर्मणोरेव ग्रहणमित्याह--तुल्यकारक इति। तुल्यमेकं कारकं यस्य ततथोक्तम्, स्थानिन्यपीति स्थानशब्द प्रसङ्गवाची, स्थानमस्यास्तीति स्थानी। तत्र च प्रयुज्यमानस्याप्रयुज्यमानस्य च प्रसङ्गोऽस्ति। उच्यते चेदं स्थानमस्यास्तीति, तत्र सामर्थ्यादवधारणं विज्ञायते--प्रसङ्ग एव यस्य, न तु प्रयोग इति। यद्वा स्वनिकायप्रसिद्धिरेषा--यस्य स्थाने आदेशो विधीयते स स्थानीति। इह त्वप्रयुज्यमानता साद्दश्यात् युष्मदि प्रयुज्यते, सर्वथा स्थानिन्यपीत्यस्याप्रयुज्यमानेऽपीत्यर्थः। अपिशब्दात्प्रयुज्यमानेऽपि, तदाह--स्थानिन्यपीत्यादिना। स्थानिन्यपीति कोऽर्थः? प्रयुज्यमानेऽप्यप्रयुज्यमानेऽपीत्यर्थः। उपपदग्रहणप्राप्तस्य चार्थस्यापिशब्दोऽनुवादः। समानाधिकरण इति किम्? त्वया गम्यत इत्यत्र मा भूत्। क्वचितु वृतावेवायं ग्रन्थः पठ।ल्ते, इह च अतित्वं पचति अत्यहं पचतीत्यत्रातिक्रान्तप्रधाने समासे युष्मदस्मदोरसामानाधिकरण्यात् प्रथम एव भवति, इह त्वीषदसमाप्तस्त्वं त्वत्कल्पः पचसि, मत्कल्पः पचामीति कालान्तरद्दष्टगुणरहितो युष्मदस्मदर्थ एव त्वत्कल्पमत्कल्पशब्दाभ्यामुच्यत इति मध्यमोतमौ भवतः, तत्सद्दशपदार्थान्तराभिधाने तु प्रथमः, तथा त्वतरः पचसि, मतरः पचामि, परमत्वं पचसि,परमाहं पचामीति, कालान्तराद्दष्टगुणातिशयविशिष्टो युष्मदस्मदर्थ एवोच्यते इति भवत्येव। एवं च युष्मदर्थे मध्यमः, अस्मदर्थ उतम इतीयता सिद्धं युष्मदस्मदर्थे चेल्लकार उत्पन्नस्तर्ह्येव मध्यमोतमावित्यर्थः, तथा तु न कृतमित्येव। इह चात्वं त्वं संपद्यत इति त्वद्भवतीति भवति; प्रकृतेरेव विकाररूपेण सम्पतौ कर्तृत्वात्। एतच्च ठ् आन्महतःऽ इत्यत्रोपपादयिष्यामः। तथा च मन्त्रे--ठ्यदग्ने स्यामहं त्वं त्वं वास्या अहम्ऽ इति, अहं त्व स्यां त्वं वाहं स्याम्ऽ इति प्रकृत्याश्रयः पुरुषो द्दश्यते। इह भवान्पचत्विति युष्मदर्थप्रतीतेः स्थानिन्यपीति मध्यमः प्राप्नोति, न वा युष्मदर्थत्वात्, अलिङ्गः सम्बोधनविषयश्च युष्मदर्थः। भवदर्थस्तु लिङ्गवान् न च सम्बोधनैकविषयः। यथैव हि माणवकाधीष्टेत्यभिमुखीभावो गम्यते, एवं त्वमधीष्वेत्यपि। तथा च युष्मदः सर्वत्रैव संबोधने प्रथमा आमन्त्रिताद्यौदातत्वं च भवति, पदात्परत्वे च निघात इति केचिदाहुः। उक्तं च--- सम्बोधनार्थः सर्वंन्न मध्यमे कैश्चिदिष्यते। तथा सम्बोधने सर्वां प्रथमां युष्मदो विदुः॥ युष्मदर्थस्य सिद्धत्वान्नियतावाद्यौदातता। युष्मदः प्रथमान्तस्य परश्चेन्न पदादसौ ॥ इति। सत्यम्; सम्बोधनैकविषयो युष्मच्छब्दः, प्रथमा तु शुद्धैव; अभिमुखीभावेऽस्यापि प्रातिपदिकार्थ एवान्तर्भावात्, यत्र त्वनन्तर्भावः, तत्र तदभिद्योतनाय सम्बोधने चेति प्रथमा विधीयते स्वरोपि; अन्यथा युवं हि स्थः स्वर्पती, यूयं यात स्वस्तिभिः, हये देवा यूयमिदापयस्थऽ इति पादादावप्यन्तोदातत्वं पदात्परत्वेऽप्यनिघातः। तदेवं भवच्छब्दस्यासम्बोधनविषयत्वाल्लिङ्गवत्वाच्चायुष्मदर्थत्वाद् मध्यमो न भवतीति स्थितम्॥ पदमञ्जरी प्रहासे च मन्योपपदे मन्यतेरुतम एकवच्च॥ १।४।१०६ ॥ प्रहासे गम्यमान इति। यत्र भूतार्थाभावाद्वञ्चनैव केवलं तत्र वक्तुरभिप्रायाविष्करणे प्रहासो गम्यते। मन्यति शब्दस्येकदेशानुकरणं मन्येति, मन्य उपपदं यस्य स तथोक्तः। लस्य धातोर्विधानातदादेशत्वाच्च मध्यमस्य धातुरन्यपदार्थ इत्याह। मन्योपपदे धाताविति। प्रकृतिभूते सतीत्यर्थः। स चैकवदिति। अर्थद्वारकश्चोतमस्यैकवद्भावः, एकस्य वाचको भवतीत्यर्थः, द्वयोर्बहुषु मन्तृषु एकवचनमेव भवतीति यावत्। यत्र हि द्वौ मन्तारौ बहवो वा, तत्रैकवद्भावो विधेयः; अन्यत्र तु मन्तुरेकत्वादेव सिद्धम्। एकवच्चेति। च शब्देन्वाचये, तेनैकवद्भावावेऽपि एकस्मिन्नपि मन्तरि प्रधानशिष्टौ मध्यमोतमौ भवतः। अन्वाचयमेव दर्शयितुमयत्नसाध्यमेकं मन्तारमुदाहरति--एहि मन्ये ओदनं भोक्ष्यस इति। सत्यप्योदने भोक्तुमागतं श्यालादिकं प्रति एतत्प्रयुज्यत इति परिहासावगतिः। द्विबह्वोस्तूदाहरणे--एहि मन्ये ओदनं भोक्षघ्येथे नहि भोक्ष्येथे भुक्तः सोऽतिथिभिः; एहि मन्ये रथेन यास्यथ यातस्तेन पिता इति। मध्यमोतमयोः प्राप्तयोरिति। युष्मदस्मदर्थस्य गम्यमानत्वात् प्रत्युदाहरणवत् प्रकृतमुपपदग्रहणं युष्मदा सम्बद्धम्। तच्च तथैवैहाप्यनुवर्त्यमिह मा भूत्--एतु भवान्मन्यते ओदनं भोक्ष्ये भुक्तः सोऽतिथिभिरिति। तदशक्यं मन्यतिना सम्बन्धुमिति पुनरिहोपपदग्रहणम्, अनयथा मन्यतौ परत एव स्यात्। श्यनानिर्देशान्मन ज्ञानैत्यस्य ग्रहणम्, न तु ठ्मनु अवबोधनेऽ इत्यस्य, एहि मनुषे रथेन यास्यामीति एवं तस्य भवति। प्रत्युदाहरणे अतिथिं प्रति तथाभूतार्थवाचनम्॥ पदमञ्जरी अस्मद्यौतमः॥ १।४।१०७ ॥ यत्र युष्मदस्मदी द्वे अप्युपपदे भवतस्तत्र यदि कर्तृशक्ती स्वाधारनियते विवक्ष्येते, तदा लकारोऽपि भेदेनोत्पद्यते--त्वं चाहं च पचसि, पचामि चेति। सहविवक्षायां तु द्वयोरपि शक्त्योरेको लकार उत्पद्यते। तत्र युष्मदि मध्यमः, अस्मद्यौतमो विप्रतिषेधेन--त्वं चाहं पचावः, अहं च त्वं च वृत्रहन् संयुज्यावःऽ इति। यदापि त्यदादीनां यद्यत्परमित्यस्मदः शेषस्तदापि स्यानिन्यपीति मध्यमप्राप्तौ परत्वादुतम एव भवति--आवां पचावः॥ पदमञ्जरी शेषे प्रथमः॥ १।४।१०८ ॥ उपपद इति निवृतम्। शेष इति विषयसप्तमी, न पुनः परत इति तदाह--शेष इति। मध्यमोतमविषयादन्य उच्यत इति। अन्यो विषय इत्यर्थः। यत्र युष्मदस्मदी समानाधिकरणे न स्तस्तत्र शेष इत्यनेन युष्मदस्मदोरभावः शेषः, न पुनरन्यसद्भाव इति दर्शयति। किं सिद्धं भवति? त्वं च देवदतश्च पचथः, अहं च देवदतश्च पचावः, त्वं चाहं च देवदतश्च पचाम इति। अत्र यद्यपि युष्मदस्मदोरन्यस्य च यः समुदायः स युष्मदस्मद्भ्यामन्यः, तथापि युष्मदस्मदी तावत्स्त इति तत्सद्भावनिमिते स्यादेव प्रथमः। यदाह--तत्र युष्मदन्येषु प्रथमप्रतिषेधः शेषत्वादिति॥ पदमञ्जरी परः सन्निकर्षः संहिता॥ १।४।१०९ ॥ परशब्दोऽतिशये वर्तत इति। यथा परं सुखं परं दुःखमिति, दिगादिषु वर्तमानस्य ग्रहणं न भवति सन्निकर्षस्य दिग्देशकालायोगात्। अर्थान्तरापेक्षमन्यत्वम्, अव्यभिचारिसन्निकर्षः प्रत्यासतिरिति, न तु संश्लेषः, तस्य वर्णेष्वसंभवात्। स हि संयोगश्चेद् द्रव्यधर्मत्वान्न शब्दस्य गुणस्य संभवति। समवायश्चेन्न वर्णे वर्णः समवैति; शब्दस्याकाशसमवायित्वात्। येषां तु शब्दो द्रव्यं तेषां न क्वापि शब्दः समवैति। अतिशयोऽपि संयोगसमवाययोः कीद्दश इति न विद्मः। प्रत्यासतेस्त्वपेक्षाभेदात् सम्भवति प्रकर्षाप्रकर्षयोगः, तस्मात्प्रत्यासतिरेव सन्निकर्षः। ननु च क्रमेणोच्चार्यमाणेषु वर्णेषु पूर्वस्य वर्णस्य ये निष्पादकाः स्थानादयस्तेषां व्यापरोपरतौ वर्णान्तरस्य ये निष्पादकास्तेषां व्यापारारम्भः। तत्रावश्यंमध्ये कियत्यपि कालकला भवति, सूक्ष्मत्वातु नोपलभ्यते; पद्मपत्रशतव्यक्तिभेदवत्, तत्कथं परः सन्निकर्ष इत्यत्राह--अर्धमात्राकालव्यवधान इति। सत्यम्, एतावद्व्यवधानमवर्जनीयत्वात्सह्यते, अधिकेन तु कालेन व्यवधानं परग्रहणेन व्यावर्त्यत इत्यर्थः। यद्येवम्, द्रुतायामेव वृतौ स्यान्न मध्यमायां विलम्बितायां वा, न हि तथा तयोः सन्निकर्षो यथा द्रुतायां तुल्यः सन्निकर्षः। सर्वासु वृत्तिषु नैरन्तर्येणोच्चारणाद्यवर्णोपलम्भकभेदातु वृत्तिविशेषः। द्रुतायां स्वल्प उपलब्धिकालः, मध्यमायामधिकः, विलम्बितायामधिकतरः। द्विविधा हि ध्वनयः- प्राकृताः, वैकृताश्च। प्राकृता वर्णानामुत्पादकाः, वैकृते तु पुनः पुनरुपलम्भः, मध्यवर्ती तु कालः सर्वासु वृत्तिषु तावानेव। यद्वा--यस्यां वृतौ यावता कालेन व्यवायोऽवश्यम्भावी, ततोधिकेन व्यवायः परग्रहणेन व्यावर्त्यते। पदस्य पदान्तरेण यदानन्तर्थं तत्रैव लोके संहिताशब्दः प्रसिद्धः। तथा च--संहितामधीते न पदानि, ततश्च कुमार्यावित्यादौ पदावयवे संहिताकार्यं न स्यादितिसूत्रारम्भः॥ पदमञ्जरी विरामोऽवसानम्॥ १।४।११० ॥ विरतिर्विराम इति। विराम इति भावे घञ्। विरामःउ वर्णोच्चारणाभावः। अर्थान्तरमाह--विरम्यतेऽनेनेति वा विराम इति। ठ्कृत्यल्युटो बहुलम्ऽ इत्यसंज्ञायामपि ठ्हलश्चऽ इति करणे घञ्, पूर्वत्राभावः संज्ञी उतरत्रान्त्यो वर्णः, तेन हि विरम्यते। तत्राद्ये पक्षेठ्खरवसानयोःऽ इति परसप्तमी, कथं पुनरवसानेन, पौर्वापर्यमभावो हि सः, खरा वा, कथम्? न हि यदा खरस्ति तदा रेफः, यदा रेफस्तदा खर्; वर्णानां क्रमभावित्वाद्, उच्चरितप्रध्वंसित्वाच्च। अथ तत्र बुद्धिपरिकल्पितं पौर्वापर्यं तदभावेऽपि समानम्। एवं ठ्वावसानेऽ इत्यत्रापि। द्वितीये तु पक्षे खरवसानयोरित्येकापि सप्तमी विषयभेदाद्भद्यते--खरि परतो रेफस्य विसर्जनीयो भवति, अवसाने च रेफे स्थानिनि विसर्जनीय इति स्थन्यादेशस्य विषयता विवक्ष्यते। एवं ठ्वाऽवसानेऽ इत्यत्रापि। दधिं मधुÄ इति । ठणोऽप्रगृह्यस्यानुनासिकःऽ अत्र ठ्वावसानेऽ इति वर्तते। ननु च लोकएवावसानशब्दो विरामे प्रसिद्धः, यद्यप्यवपूर्वः स्यतिरवगतौ वर्तते केनैतदवसीयत इति? पराभवेऽपि अवसितो देवदत इति। अवसानशब्दस्तु विराम एव प्रसिद्धः। न च रेफस्यावगतिपराभवयोः करणत्वं सम्भवतीति नार्थः संज्ञाकरणेन, तदाह--संहितावसानयोर्लोकविदितत्वात् सिद्धमिति। संहिताशब्दोऽपि सन्निकर्षमात्रे प्रसिद्धः, न पदयोरेव सन्निकर्ष इति वार्तिककारो मन्यते॥ हरदतमिश्रविरचितायां पदमञ्जर्यो प्रथमाध्यायस्य चतुथः पादः॥काशिकावृत्तिः - २ पदमञ्जरी अथ द्वितीयाध्याये प्रथम पादः १ समर्थः पदविधिः ॥ २-१-१ ॥ परिभाषेयमिति। नाधिकारः, पदविधिग्रहणात्, अन्यथा वक्ष्यमाणानां पराङ्वद्भावदीनां पदविधित्वाव्यभिचारादनर्थकं तत्स्यात्। परितः उ सर्तत्र, परत्र, व्यवहिते च, अनन्तरे च - भाष्यते कार्यमानयेति करणे ठ्गुरोश्च हलःऽ अत्यकारप्रत्ययः। भावसाधन एव वाऽभेदोपचारात्सूत्रे प्रयुज्यते। इदंशब्दस्य सूत्रे प्रयुक्तस्यापि विधेयपरिभाषाशब्दसामानाधिकरण्यात् स्त्रीलिङ्गता। स कर्व इति। ननु यः कश्चित्पदविधिरिति सामान्यनिर्देशेनैव तध्दर्मभूता व्याप्तिरुक्ता, किं कर्मग्रहणेन? नैतदस्तिः ठ्यः कश्चिद् ब्राह्मण आनीयताम्ऽ इत्युक्ते क्षत्रियादिनिवृत्तिः प्रतीयते, न व्याप्तिः। प्रथमपठितमपि समर्थसब्दमुल्लङ्घ्योद्देश्यसमर्पकत्वबलादार्थेन क्रमेण प्रथमे भाविनं पदविधिशब्दं व्याख्यास्यान्विधिशब्दः कर्मसाधन इति दर्शयति-विधीयत इति विधिरिति। कार्यमित्यर्थः। पदानामिति। शेषलक्षणा षष्ठी। पदानां सतां यत्कार्यं विधीयत इत्यर्थः। यदि तु भावसाधनो विधिशब्द आश्रीयेत-विधानं विधिरिति, ततः पदेषु कृद्योगलक्षणा कर्मणि षष्ठ ई-पदानामसतां निष्पादनं पदविधिरिति, तत्र समासतध्दितसुब्धातुवृतयो न संगृहीताः स्युः। तत्र हि पदानां सतां समासादिकार्यं विधीयते, न पुनः पदत्वम्। ननु च कर्मसाधनपक्षेऽपि विभक्तिविधानमसंगृहीतं स्यात्, पदान्येव हि तत्र विधीयन्ते न तु पदानां सतां किञ्चिद्? उच्यते-ठ्कर्मणि द्वितायाऽ इत्यादिना तु नियमः क्रियते, न पदविधिः। अथाप्येकवाक्यतया स्वादिसूत्रेण विभक्तीनां विधानम्? एवमपि कारकविभक्तिषु तावत्क्रियाकारकयोरविनाभूतः सम्बन्धः, उपपदविभक्तीनां तु ठनतरान्तरेणयुक्तेऽ इत्यादीनामुपसर्गविभक्तीनां च ठ्नेर्विशःऽ इत्यादीनामेकवाक्यतायां भिन्नवाक्यतायां च पदविधित्वमस्त्येव; उपपदानामुपसर्गाणां च पदत्वात्। समासादिरित्यादिशब्देन तध्दितवृत्यादीनां ग्रहणम्, तध्दिता अपि सुबन्तादुत्पद्यन्ते। ठ्समर्थानां प्रथमाद्वाऽ इत्यस्य तु समर्थग्रहणस्य प्रयोजनं तत्रैव वक्ष्यामः। एवम् ठिसुसोःऽ सामर्थ्येऽ इत्यादीनामपि समर्थः शक्त इति; तत्रैव समर्थसब्दस्य रूढत्वात्। स्वकार्यनिष्पादनक्षमो हि लोके ठ्समर्थःऽ इत्युच्यते। अर्थप्रतिपादनं च शब्दानां स्वकार्यव्युत्पाद्यत्वेन चाधिकृता लौकिकाः वैदिकाञ्च यस्य कस्यचित्प्रतिपादने समर्थाः, उच्यते चेदं समर्थ इति, तत्र सामर्थ्याद्विशेषोऽवगम्यते, स तु विशेषः प्रत्यासतेरेवंरूप इत्याह-विग्रहवाक्यार्थाभिधाने इति। विशेषेण गृह्यते उ ज्ञायतेऽनेन समासार्थ इति विग्रहः। तादृशं च तद्वाक्यं चेति विशेषणसमासः। यद्वा-विशेषेण ग्रहणं विग्रहः, तदर्थं वाक्यं विग्रहवाक्यम्, अश्वघासादिवत्षष्ठीसमासः। अथ वा-अभेदोपचाराद्विग्रहार्थवाक्यं विग्रह इति विशेषणसमासः, तद्यथा-राजपुरुष इत्ययं समासः, तदर्थं विग्रहवाक्यं राज्ञः पुरुष इति, अस्य योऽर्थस्तदभिधाने राजपुरुषशब्द समर्थः, अतोऽपि तत्प्रतीतेः, स पुना राजविशिष्टः पुरुषः। समर्थो वेदितव्य इति। साधुत्वेनेति शेषः। यः पदविधिः स विग्रहवाक्यार्थाभिधाने समर्थः सनासाधुर्भवतीत्यस्मिन्पक्षे सूत्रार्थः, नार्थान्तरं साधीयः पश्यामः। ततु सामर्थ्यं प्रयोगतोऽनुसर्तव्यम्। न पुनरियं वृत्तिरस्य वाक्यस्यार्थाभिधानसमर्था, नान्यस्येत्येतत्सूत्राक्षरैर्लभ्यते। अत एवास्मिन्व्याख्यानेऽपरितुष्टः सन्व्याख्यानान्तरमाह--अथ वेति। अत्र पक्षे उपचरितवृत्तिः समर्थशब्दः, तदाहसमर्थपदाश्रयत्वादिति। समर्थानां पदानां सम्बध्दार्थानां संसृष्टार्थानासिति। यः पदानां विधिः स समर्थानअं विदितव्यः। समर्थानामिति कोऽर्थः? संबध्दार्थानां संसृष्टार्थानां वेत्यर्थः। तत्र वाक्ये संबध्दार्थता। व्यपेक्षा हि तत्र सामर्थ्यम्। अन्योऽन्यापेक्षा उ व्यपेक्षा। आकांक्षामन्निधियोग्यत्वेषु सत्सुः यः परस्परसम्बन्धः सा व्यपेक्षा। वाक्ये हि ठ्राज्ञःऽ इति पदनियतसंबन्ध्यपेक्षयोद्भूतसंबन्धं विशेषणभूतमर्थमाचष्टे, स्वसंनिहितं योग्यं च पुरुषमपेक्षते। ममायमिति ठ्पुरुषःऽ ईत्येनेनापि पुरुषः स्वनिष्ठोऽभिधीयमानः स्वसंनिहितं राजत्वमवच्छेदकत्वेनापेक्षते-अहमस्येति। अतो विशेषणविशेष्यभावेन सम्बन्धोऽनियतसंबन्धिविषयत्वाच्चापेक्षया यो यः सन्निहितो योग्यश्च तेन सम्बध्यते-राज्ञः पुरुश्चाश्चश्च, राज्ञो देदतस्य च पुरुष इति, नार्थान्तरस्य। वृतो तु संसृष्टार्थता। एकार्थीभावो हि तत्र सामर्थ्यम्। वृतौ हि राजपदं राजानमभिधाय न तावति पर्यवस्यति, पुरुषमप्याचष्टे, यथा-ठ्गङ्गायां घोषःऽ इति गङ्गापदं तीरम्। यदि तु तावत्येव पर्यवस्येततो यथा वाक्ये राज्ञः पुरुषोऽश्वश्चेति द्वाभ्यां सम्बन्धो भवति, तथा राजपुरुषोऽश्वश्चेत्यत्रापि स्यात्। स्वविशेषणसम्बन्धोऽपि स्याद्-ऋध्दस्य राडपुरुष इति यथा ऋध्दस्य राज्ञः पुरुष इति तथा पुरुषपदमपि राजविशिष्टमेव पुरुषमाचष्टे, न पुरुषमात्रम्। यदि तथा स्याततो यथा वाक्ये राज्ञः पुरुषो देवदतस्य चेति द्वाभ्यां सम्बन्धो भवति, तथा रापुरुषो देवदतस्य चेत्यपि स्यात्। अतो यस्य विशेषस्य भावादयं विशेषः स एकार्थीभावः। भाष्योक्ताश्चापरे विशेषाः-ठ्सुबलोपो व्यवधानं यथेष्टमन्यतरेणाभिसम्बन्धः स्वरभेदश्च संख्याविशेषो व्यक्ताभिधानमुपसर्जनविशंषणं च योगश्च ऽ इति। तथा सुपि अलोपश्च भवति वाक्ये-राज्ञः पुरुषः, नीलमुत्पलमिति समासे तु द्योरेकस्मिन्विशिष्टेऽर्थे वृतेः पृथगर्थाभावात्स्वभावत एव विभ्क्तनिवर्तते। सैव च स्वाभाविकी निवृत्तिः शास्त्रेणान्वाख्यायते-ठ्सुपो धातुप्रातिपदिकयोःऽ इति प्रत्ययलक्षणेन नलोपादिकार्थं यथा स्यादिति। पृथगर्थाभावे तु पथग्विभक्तिर्न भवति। तथा वर्णेषु व्यवधानं च पृथगपर्थत्व एव दृष्टः--राज्ञः पुरुष इति द्वावपि नित्स्वरेणाद्यौदाती। अभेदेन दृष्टः, यथा--पुरुष इति वृतौ चैकस्वर्यं दृश्यते। किं च, संख्याविशेषोऽवगम्यते पृथगरेथेषु--राज्ञः राज्ञोः राज्ञां पुरुष इति। वृतौ त्वव्यक्तमभिधानं विष्ठति, ब्राह्मणकम्बल इति मन्देहो भवति-संबुध्दिर्वा स्यात्? षष्ठीसमासो वा? इति, न चात्रस्वरान्नर्णयः। वाक्येऽप्यामन्त्रितनिघातः कम्बलशब्दो घृतादितावादन्तोदातः, समासेऽप्यन्तोदातता। उपसर्जनविशेषणं च व्याख्यातम्। योगश्च भवति पृथगर्थेषु-राज्ञो गौश्चाश्चश्च कम्बलश्चेति। वृतौ त्वेकार्थ्याद्भेदनिबन्धनस्य समुच्च यस्याभावाच्चशब्दो निवर्तत-राज्ञो गवाश्वकम्बला इति, तदेतैर्विशेषैर्वज्ञायते संभिन्नोभयरूपः पासूदकवदविभागापन्नो वृतावर्थ इति। तेन राज्ञः पुरुषमानय राजपुरुषमानयेति च यद्यचप्येक एवानीयत इति कार्ययोगिनोऽभेदस्तथाच्यभिधानप्रकारो भिद्यते, यथा-ब्राह्मणानां शतं भोज्यतामिति। तदेवं वृत्तिवाक्ययोरर्थो भिद्यत इति स्थितम्। एवं च त्र तत्र वावचनं चिन्त्यप्रयोजनम्; भिन्नार्थया वृत्या वाक्यस्य बाधाऽप्रसङ्गात्। अन्ये तु जहत्स्वार्था वृत्तिरिति वदन्तो वर्तिपदानामानर्थक्यमेवाहुः, ततु न रोचयामहे। किं राजपुरुष इत्यत्र राजार्थो न गम्यते? ओमिति चेत्, पुरुषमात्रानयनं प्राप्नोति। अथ गम्यते? किंनिबन्धना तस्यावगतिः? न तावत् समासस्य तत्र शाक्तिः कल्प्या; राजशब्दनिबन्धनायामपि तस्यामनर्थाभावात्। न च वाक्ये राजपदं व्युत्पन्नं पुनः समासे वियुत्पत्तिमपेक्षते, तावत्येव च प्रतिपद्यते राजार्थः। अते न जहत्स्वार्था वृत्तिः, अर्थाभिधानप्रकारभेद इत्येतदेव सांप्रतम्। तत्र सम्बध्दार्थानां संसृष्टार्थानामिति स्थतं परिभाषाप्रवृतौ हेतुर्नान्यतरत्, यतो मा भूद्व्यपेक्षामात्राश्रयेण सापेक्षस्यापि वृत्तिः। यदेयेवम्, पराङ्गवद्भावे विभक्तिविधाने च सा न प्रवर्तेत; तत्रैकार्थीभावस्यासम्भवात्। मा प्रवर्तिष्ट, पराङ्गवद्भावेत्न्निमितग्रहणं नोदयिष्यति। विभक्तिविधानेऽपि क्रियाकारकयोर्व्यपेक्षाऽविनाभाविनी क्वचिद्यौक्तग्रहणम्; क्वचिद्योगग्रहणम्, क्वचित्-तृतीयया योगस्याक्षेप इति न क्वापि दोषः। अत एवानन्तरमपि पराङ्गवद्भावमुल्लङ्घ्य समासमुदाहरति--वक्ष्यतीति। समर्थग्रहणं किमिति। सूत्रं किमर्थमित्यर्थः। न हि केवलेन पदविधिग्रहणेन किञ्चत्क्रियते। पश्येत्यादि। ननु च श्रितादिभिर्द्वितीयां विशेषयिष्यामः-श्रितादियोगे या द्वितीयोति। एवमपि सापेक्षस् प्रसङ्गः-महत्कष्ट्ंअ श्रित इति, भवति ह्यत्र श्रितादिनिमिता द्वितीया, समर्थग्रहणे तु सति न भवति। यद्यप्यत्र वाक्यावस्थायां व्यपेक्षानक्षणसामर्थ्यमस्ति, वृत्यवस्थायान्तु नैकार्थीभावः संभवतीत्यवोचाम। कथं तर्हि देवदतस्य गुरुकुलमिति सापेक्षस्य वृत? नात्र गुरुण देवदतस्य सम्बन्धः; किं तर्हि? समुदायेन, गुरुद्वारकश्च सुलेन सम्बन्ध इत्यर्थाद् गुरुणापि योगो भवति। उक्तं च- समुदायेन सम्बन्धो येषां गुरुकुलादिना। संस्पृश्यावयवांस्तेऽपि युज्यन्ते तद्वता सह॥ इति अथ वा--परिपरूर्णार्थस्यान्येन सहैकार्थीभावः स्वार्थपरिपूर्तिश्च समाबन्धि शब्दस्य प्रतियोगिनेति भवति तदपेक्षस्यापि वृत्तिः। उक्तं च - सम्बन्धिशब्दः सापेक्षो न्त्यं सर्वः प्रयुज्यते। स्वार्थवत्सा व्यपेक्षाऽस्य वृतावपि न हायते॥ इति किं त्वं करिष्यसीत्यादि अत्र शक्यं वक्तुम्। तत्कृतार्थेनेति। तच्छब्दः प्रकृतपरार्म्शाय तृतीयान्तं समस्यत--तदर्थेन यः कृचो गुणस्तद्वचनेनेति। अत्र च यस्य समासः शह्क्यते--शंकुलयेति, न तदर्थेन कृतं खण्डनम्; यदथंन च कृतं खण्डनमुपलेनेति, न तस्य समासः शङ्क्यच इति न भविष्यतीति। तस्मान्महत्या शंकुलया खण्ड इति सापेक्षमुदाहर्तव्यम्। गच्छ त्वं यूपायेति। ठ्गत्यर्थकर्मणिऽ इति चतुर्थी। तद्वा-ठ्क्रियार्थापपदस्य च कर्मणिऽ इति, यूपमाहर्तु गच्छेति, अत्राप्येतदर्थत्वादेव दारुणो न भविष्यतीति सापेक्षं प्रत्युदाहर्तव्यम्-महते यूपाय दार्विति। यणादेशो नित्यश्च तुग्भवतीति। द्वावप्येतौ वर्णविधी, नित्यस्तुक् च ठ्दीर्घात्ऽ इत्यायमेव, यस्तु ठ्पदान्ताद्वाऽ इति विकल्पितस्तुक् स पदविधित्वादत्र न भवति। अन्ये तु यणादेशोऽनित्यश्च तुगभवतीत्यकारप्रश्लेषं वर्णयन्तः ठ्पदान्ताद्वाऽ इति विकल्पितस्तुग्भवतीति व्याचक्षते। नन्वसौ पदविधिर्नेति? आह-तत्रन्तग्रहणं एवं सिध्देऽन्तग्रहणस्यैतत्प्रयोजनम्-पदान्तस्य दूर्घस्य वर्णस्य विधिस्तुग् यथा स्याति, दीर्घान्तस्य पदस्य मा भूदिति॥ २ सुबामन्त्रिते पराङ्वत्स्वरे ॥ २-१-१ ॥ परस्याङ्गवदिति। तस्यैव पदस्यामन्त्रितस्याङ्गवदेकदेशवद्भवति, तद्ग्रहणेन गृह्यत इत्यर्थः। तादात्म्यातिदेशोऽयमिति। अङ्गश्बदस्यावयववचनत्वात् तस्यामन्त्रितस्यात्मा तदात्मा, तस्य भावस्तादात्म्यम्, तत्स्वभावत्वमित्यर्थः। एतदेव स्पष्टयति-सुबन्तमिति। अनुप्रविशति उ अन्तर्भवति, सुबन्तामन्त्रितसमुदाय एकस्मिन्नामन्त्रिते संपन्ने यः स्वरः शक्यते कर्तुं स कर्तव्य इत्यर्थः। कः पुनरसौ? आद्यौदातत्वम्, समुदायस्य च पदात्परत्वे निघातः। कुण्डेनाटन्निति। नन्वत्र सति तावत्पराङ्गवद्भावे समुदायस्याद्यौदातत्वं शेषनिघामन्त्रितं निहन्यते। यदा तर्ह्यटन्नित्येतत्पादादौ वर्तते तदा नास्ति निघात इति द्वयोराद्यौदातत्वं स्यात्। किं च पुंल्लिङ्गोऽपि कुण्डशब्दोऽस्ति-पत्यौ जीवति कुण्डः स्यान्मृते भर्तरि गोलकः। इति। कुण्डीति च जानपदादिसूत्रेण ङीषि भवति। परशुना वृश्चन्निति। ठाङ्परयोः खनिश्रृभ्यां डिच्चऽ इति कुप्रत्ययान्तत्वादन्तोदातः परशुशब्दः, मद्रशब्दः ठ्मदेश्चऽ इति रक्प्रत्ययान्तः, कश्मीरशब्दो धृतादित्वादन्तोदातः, ठ्सुबन्तस्य पराङ्गवद्भावे तन्निमितग्रहणम्ऽ तस्यामन्त्रितवाच्यस्यार्थस्य यन्निमितं तदभ्धाय्येव सुबन्तं पराङ्गवदित्यर्थः। उदाहरणेषु तृतीयान्तस्य तावन्निमितत्वमस्त्येव;षष्ठ।ल्न्तस्याप्यस्ति, भृत्यनिमिता हि राजता, देशनिमिता वा। एवं गोषु स्वामिन्नित्यत्रापि भवति। तन्निमितत्वाभावे तु न भवति-मरुत्वां इन्द्र वृषभो रणाय, मरुद्भिरिन्द्र सख्यं ते अस्तु, मायाभिरिन्द्रमायिनम्, एतेनाग्ने ब्रह्मणा वावृधस्व, क्षेत्त्रेणाग्ने स्वायुस्सम्भरस्व, मित्रेणाग्ने मित्रधेये यतस्व। सुबिति किमिति। तन्निमितग्रहणादेव तिङ्न्तस्य सिध्दो निरास इति प्रश्नः। पीड।ले पूड।ल्मानेति। न हि सूत्रकारो वार्तिककारवचनेनातिव्याप्तिनिवारणं मन्यत इति भावः। ठ्पीड अवगारहनेऽ चुरादिणिच्, उभयत्र कर्मणि लट्, एकत्रोतमैकवचनमिट्, अवपत्र शानच्, यकि णिलोपः, ठ्तास्यनुदातेत्ऽ इति इटोऽ नुदातत्वम्, यकः प्रत्ययस्वरः, ठेकादेश उदातेनोदातःऽ इत्येकार उदातः, पीड।ल्मानेत्यत्रामन्त्रितनिघातः। ननु च समर्थग्रहणानुवतयैवात्र न भविष्यति, अस्त्य त्रापि सामर्थ्यम्, कथम्? सम्बोधनपदं क्रियाया एव विशेषकम्, तथा च ब्रजानि देवदतेत्यत्रामन्त्रितनिधातो भवति। उक्तं च सम्बोधनपदं यद्यतत्क्रियाया विशेषकम्। ब्रजानि देवदतेति निधातोऽत्र तथा सति॥ इति। अथ वा- हेतुहेतुमद्भावलक्षणोऽत्र सम्बन्धः, हे पीड।ल्मान त्वत्पीडयाहमपि पीड।ल् इति। गेते गार्ग्य इति। गेहशब्द उञ्छादित्वादन्तोदातः, एकस्यामासनादिकायां क्रियायां द्वयोरपि कारकत्वातद्द्वारेणास्ति सामर्थ्यम्। परग्रहणं किमिति। सन्निधानादामन्त्रितस्ययैव भविष्यतीति प्रश्नः। पूर्वस्य मा भूदिति। निमितभाव एवामन्त्रितस्योपक्षीणतया पूर्वस्यापि स्यादिति भावः। एवं च पूर्वस्यामन्त्रितत्वमतन्त्रम्। गार्ग्यः कुण्डेनाटन्नित्यादावपि भवति सन्निधानात्। अमन्त्रितत्वमपि तन्त्रमिति चेत; यद्येवम्, परमेव संनिहितमिति न पूर्वं प्रत्यङ्गत्वप्रसह्गः। देवदतः कुण्डेनाटन्नित्यत्र पूर्वं प्रत्यङ्गत्वे सति समुदायस्याद्यौदातत्वं शेषनिघातः। अटन्नित्यामन्त्रितनिघात इति स्वरः। परग्रहणे तु सति देवदतशब्दस्यामन्त्रिताद्यौदातत्वम्। तथा कुण्डेनाटन्नित्यम्यापि निधातस्तु न भवति; ठमन्त्रितं पूर्वमविद्यमानवत्ऽ इति देवदतशब्दस्याविद्यमानवत्वाद्। च्छन्सि तु परमपि पूर्वस्याङ्गवद्ष्यते-आ ते पितर्मरुतां सुम्नमेतु। पुतरित्यनेन सह मरुतामित्यस्यापि निघातः। यथा मत्पुण्डीभूतः। तत्र सुबन्तस्य मृत्पिण्डात्मना परणामासम्भवादेकीभावप्रतिपादनपरमेतत्। मृत्पिण्ड इवैकतामापन्न इत्यर्थः। यद्वा, पिण्डीशब्दोऽप्यस्ति-प्रविश पिण्डीमिति, तस्यायं प्रयोगः। भूतशब्दौपमार्थः-पितृभूत इति यथा। किमर्थं पुनरेवंभूतस्यस्वरप्राप्तये यत्न इत्यत आह-उभयोरपीति। असत्यङ्गग्रहणे कार्यव्यपदेशशास्त्राणामन्यतमातिदेशः स्याद्। यथा परस्य कार्यमामन्त्रितस्य स्वरः आमन्त्रितव्यपदेशः स्वरशास्त्रं वा, तथा सुबन्तस्यापि तद्भवतीति। एवं चोभयोराद्यौदातत्वं स्यात्। ननु च पदात्परस्य निघातादुभयोरनुद्तत्वं मा भूद्ति वाच्यम्; सत्यम्, आमन्त्रितस्यापादादित्वे सति, पादादित्वे तदुक्तम्। वत्करणं किमिति। परत्र परशब्दप्रयोगादेव वत्यर्थो लप्स्यत इति प्रश्नः। स्वाश्रयमपि यथा स्यादिति। नानेन क्वाचित्कत्वमस्योच्यते। एवं हि विषयविभागे न ज्ञायते-क्वाह्गवद्भवति? क्व नेति? नापि कादाचत्कत्वम्-कदाचिदङ्गवत्, कदाचिन्नेति, एवं हि सर्वत्र विकल्पः स्यात्। तस्मादमयत्रार्थ--असति वद्ग्रहणे आम् कुण्डेनाटन्निति स्थिते अटन्नित्यस्य निघाते प्राप्ते कूण्डेनेत्यस्यानुप्रवेशात्कुण्डेनाटन्नित्येकमामन्त्रितं सम्पन्नम्। न च तदेकान्तरमिति प्रतिषेधाभावान्निघात एव स्यात्। वत्करणे तु सति अटन्नित्यस्य तावदेकान्तरत्वान्निघातप्रतिषेधे आद्यौदातत्वं प्राप्तम्। तस्यां दशायां कुणडेनेत्यम्यानुप्रवेशात्समुदायस्याद्यौदातत्वं भवति। तदेवं समुदायस्यानैकान्तरत्वेऽपि अटन्नित्यस्य यदेकान्तरत्वं वत्करणेन लब्धं तेनैव समुदायस्य निघातनिवृत्तिराद्यौदातत्वं च भवति। कूपे स्ञ्चन्निति। अत्र पराङ्गवद्भावे सति ऐकपद्यत्षत्वप्रसङ्गः, स्वाश्रयं पदादित्वं भविष्यति, सर्वातिदेशेषु ह्यविरुध्दं स्वाश्रयं भवति। किं च नात्रातिदेशिकं सकारस्य किञ्चिच्छास्त्रीयं कार्यमस्ति, अतोऽपि स्वाश्रयं भवत्येव, यथा नमते दण्डः स्वयमेवेत्यत्र यक्प्रतिषेधे शप्। इदं तर्हि-ठ्चर्म नम्न्ऽ, अत्र पराङ्गवद्भावे सति समानपदस्थत्वाण्णात्वं स्यात्। सत्यपि समानपदत्वे ठ्पर्वपदात्संज्ञायामगःऽ इति नियमादसंज्ञायां न भविष्यति। नायं नियमस्य विषयः, पूर्वपदशब्दो हि समासावयवे रूढः। तेन समास ए नियम्। अथ तु पूर्वं पदं पूर्वपदंपूर्वपदादत्यविशेषेण नियमो व्याख्यायेत, ततः स्वरग्रहणं शक्यमकर्तुम्। अक्रियमाणे च तस्मिन्, समानाधिकरणस्योपसंख्यानमित्येतदमपि शक्यमकर्तुम्। कथं परस्याङ्गवद्भावे कृते चिणो लुङ्न्यायेन विष्यभेदाल्लक्षणस्यावृतौ पूर्वस्यापि पराङ्गवद्भावो भविष्यति? सति तु स्वरग्रहणे स्वहादन्यत्र परशुना वृश्चन्नित्यत्र वृश्चन्निति प्रतिपदिकम्; न च प्रत्ययलक्षणेनाप्रत्यय इति प्रतिषेषः, ठ्न ङ्गिंबुध्द्योःऽ इति निषेधाल्लिङ्गात्; तत्र पराङ्गवद्भावेन प्रातिपदिकानुप्रवेशात् ठ्सुपो धातुप्रातपदिकयोःऽ इति सुब्लुक् प्रसज्येत; स्वहग्रहणे तु सतु सुब्लुकि कर्तव्ये पराङ्गवद्भावाभावः? नैतदस्ति; पराङ्गवदित्यामन्त्रितं संनिधानात्परशब्देन गृह्यते; तस्य रूपस्य सूबन्तैकान्तत्वात्सुबन्तकार्य एव पराङ्गवद्भावः, न प्रातिपदिककार्ये। उच्चैरधीयानेति। उच्चैर्नीचैः शब्दौ स्वराद्ष्वन्तोदातौ पठितौ, अधिकरणशक्तिप्राधान्याञ्च तस्मिन्निमितं च ॥ ३ प्राक्कडारात्समासः ॥ २-१-३ ॥ठ्यथाऽसादृश्येऽ इति अनन्तरसूत्रातिक्रमे न किञ्चत्कारणम्। ननु ठ्प्रत्ययःऽ इत्यादिवत्समास इत्येव स्वरितत्वादध्कारोऽस्तु, किं प्राग्वचनेन? तत्राह-प्रागावचनमिति। प्राक्कडारादित्यवधितनिर्देश इत्यर्थः। संज्ञासमावेशार्थमिति। अन्यथैकसंज्ञाध्कारात्पर्यायः स्यात्। अवधिनिर्देशे तु सति तत्सामर्थ्यात्प्राग्ग्रहणमावर्तते। तेन प्राक् समाससंज्ञा भवन्ति, समासाः सन्तोऽव्ययीभावादिसंज्ञा इति समावेशसिध्दिः। अथ वा-कडारादिति पञ्चम्यैव प्रागिति दिक्शब्दोऽध्याहरिष्यते। न च प्रागित्यस्याध्याहारप्रसङ्गः, तदध्याहारे हि ठ्दिक्समासे बहुव्रीहौऽ ठ्तृतीयासमासेऽ ठ्द्वन्द्वे च ऽ समास इत्याद्यनुपपन्नं स्यात्; कडारात्प्राङ्निर्दिष्टानां समाससंज्ञाया अबावात्। तस्मात्प्रागित्येवाध्याहरिष्यते, नार्थः प्राग्वचनेन, तत्राह-प्राग्वचनमिति॥ ४ सह सुपा ॥ २-१-४ ॥ सहवचनं किमर्थम्, यावता तृतीयैव सहार्थमाक्षेप्स्यति, यथा ठ्वृध्दो यूनाऽ इति? सहभूतयोः समाससंज्ञा यथा स्याद् एकैकस्य मा भूद्; अन्यथा पूत्रेण सहागतः पितेत्यत्र यथा द्वयोरप्यागमनेन सम्बन्धः, एवं समाससंज्ञापि प्रत्येकमेव स्यात्, सहग्रहणे तु सहभूतयोरेका संज्ञा भवति। किं च स्याद् यद्येकैकस्य संज्ञा स्यात्? इह ऋक्पाद इति समासान्तः प्रसज्येत, द्वौ च स्वरौ स्याताम्। ठ्कृतध्दितसमासाश्चऽ इत्यत्र तु समासश्च समासश्चोत्योकशेषो व्याख्यास्यते, तेन समाससमूहस्य संज्ञाविधिनियमार्थ इति वाक्यस्य न भविष्यति; अन्यथा त्वेकैकस्य समासस्य प्रत्ययान्तत्वाद्विध्यर्थं समासकग्रहणं स्यत्। ठ्समासाञ्च तद्विषयात्ऽ इत्यत्रापि प्रातिपदिकादित्यनुवर्तते, समूहस्य च प्रातिपदिकत्वम्, न त्वेकाकस्य समासस्येति समासादित्येकत्वादिवक्षया समूहादेव सिध्दः प्रत्ययः। तदेवं समुदायस्य यथा स्यादेकैकस्य मा भूदिति सहग्रहणम्। नैतदस्ति प्रयोजनम्, ठ्समासःऽ इति महती संज्ञा क्रियते-अन्वर्थसंज्ञा यथा विज्ञायेत। यस्मिन्समुदायो दपद्वयं परस्परं समस्यते स समासः। ठ्हलश्चऽ इत्यधिकरणे घञ्। तस्मादनर्थकं सहग्रहणम् तत्राह-सहग्रहणं योगविभागार्थमिति। सहेत्येको योगः, सुबित्येव, सुप् सह समस्यते, केन? पदविधित्वात्समर्थेन। अनुव्यचलदिति। तत्र सुबित्येकत्वस्य विवक्षितत्वाध्देः पूर्वं समासः, पश्चादनोः, तत्र नित्यसमासत्वाध्देः शाकलाभावः। समासान्योदातत्वं तु न भवति;ठ्तिङ्ङतिङःऽ इति निघातात्। अनोः ठ्गतिर्गतौऽ इति निघातः, वेèर्यणादेशे ठुदातस्वरितयोःऽ इत्यटः स्वरितत्वम्। अन्ये तु-सतिशिष्ट्ंअ समासान्योदातत्वं भवतीत्याहुः। विभक्तिस्तु सत्यपि समासत्वेन प्रातिपदिकत्वेन भवति; तिण्èóकत्वस्योक्तत्वात्। यद्वा-वचनग्रहणमुक्तेष्वप्येकत्वादिषु यथा स्यादिति प्रथमैकवचनम्, हल्ङ्यादिलोपः। एवं चैकपद्यादामनुव्यचलद्देवदतेति ठाम एकन्तरमामन्त्रितमनन्तिकेऽ इति निघातप्रतिषेधो भवति। यौगविभागश्चेष्टसिध्द्यर्थ इत्यतिप्रसङ्गो नीद्भावनीयः॥ ५ अव्ययीभावः ॥ २-१-५ ॥ इह लघ्वर्थ संज्ञाकरणमित्येकाक्षरा संज्ञां कार्या, किमर्थं महती क्रियते इत्याहृ-अन्वथसंज्ञा चेयमिति। अनवव्ययमव्ययं भवतीत्यव्ययीभावः, ठ्भेवतेर्ण उपसंख्यानम्ऽ इति णप्रत्ययः। अन्वर्थत्वे किं सिध्यतीत्यत आहतेनेति। पूर्वपदग्रङ्णमव्ययस्योपलक्षणार्थम्। सूपप्रति, शाकप्रतीत्यादावुतरपदार्थप्रधान्यान्न स्यातस्मादव्ययीभावेऽव्ययार्थः प्रधानमिति सूत्यते। एवं ह्यव्ययानव्ययसमुदायोऽव्ययधर्मभादव्ययं भवतीति। किं सिध्दं भवति? समृध्दा मद्राः समद्रा इत्यादावुतरपदार्थप्रधान्येऽव्ययीभावस्यातिप्रसङ्गः परिहृतो भवति। पारेगङ्गम्, द्विमुनि, उन्मतगङ्गमित्यादौ चच वचनादव्ययीभावः। एवं चानव्ययमव्ययं भवतीत्यन्वर्थतयैवाव्ययकार्यस्यापि लाभाद् ठव्ययीभावश्चऽ इत्येतदपि न तदिति चोत्, न; अत्रैव परिगणय्यान्वर्थत्वेन वा विशिष्टकार्यविषयमव्ययत्वमनुनीयताम्॥ ६ अव्ययं विभाक्तसमीपसमृध्दिव्यृध्द्यर्थाभावात्ययासम्प्रतिशब्दप्रादुर्भावपश्चाद्यथानुपूर्व्ययौगपद्यसादृश्यम्पतिसाकन्यान्तवचनेषु ॥ २-१-६ ॥ श्रुतत्वादव्ययस्यैव विभक्त्यदयो विशेषणानि, न समासस्येत्याह-विभक्त्यादिष्विति। समस्यत इति। यद्यपि ठ्समासऽ इति संज्ञामात्रं विधूयते, तथाप्ययमबुधवोधनाय भ्न्नयोः शब्दयोः संश्लेषः प्रक्रियायां क्रियत इति ठ्समस्यतेऽ इत्युक्तम्। वचनग्रहणं प्रत्येकमभिसम्बध्यत इति। तञ्च कर्मसाधनं विभक्त्यादिभिः समानाधिकरणम्। विभक्त्यादिषु वाच्येषु यदव्ययं वरतते उ विभक्त्यादीनर्थान्यदव्ययं वक्ति, द्यौतयतीत्यर्थः। विभक्तिशब्देन कारकशक्तिरभिधायते विभज्यतेऽनया प्रतिपदिकार्थ इति कृत्वा। स्त्रीष्वधिकृत्येति। स्त्रीषु कथा प्रवर्त्यत इत्यन्वयः। अधिकृत्येति, प्रस्तुत्येत्यर्थः। संनिधानाञ्च स्त्रिय एव प्रसुतत्येति गम्यते, स्त्रीविषया कथा प्रवर्त्यत इत्यर्थः। प्रायेण तु प्रवर्तते इति। अत्राहुः-अधिकृत्य या कथा मा स्त्रीषु प्रवर्तत इकत्यर्थः, तत्र प्रस्तावने कथने च कर्तुरेकत्वात्सिध्दः क्त्वाप्रत्यय इति। अन्ये त्वाहुः-कृत्यस्य कथा कर्तव्यकथेत्यर्थः, सा स्त्रीषु अधिप्रवर्तते स्त्रीष्वधाति च प्रक्रियावाक्यम्, न त्वेतत्प्रयोगार्हम्; समासस्य नित्यत्वात्। अधिस्त्रीति। ठव्ययूभावश्चऽ इति नपुंसकत्वाद ठ्ह्रस्वो नपुंससकेऽ इति ह्रस्वः। सप्तम्यर्थे यदव्ययमिति। विभक्तिवचनतां दर्शयति। उपकुम्भमिति। कुम्भस्योपेति प्रक्रियावाक्यं षष्ठ।ल्न्तेन समासः। दुःशकम् दुर्यवनमिति। मनुष्यजातिवचनौ शकयवनशब्दौ, किमर्थं पुनर्वृध्दिग्रहणम्, अर्थाभाव इत्येव सिध्दम्? न सिध्द्यति; येन समस्यते तद्रथस्याभावोऽर्थाभावः, न चात्र शकानामभावः, किं तर्हि? तदीयाया ऋध्देः। अर्थाभाव इत्यर्थग्रहणं यत्र धर्मिस्वरूपस्यैवाभावस्तत्र यथा स्यात्, धर्ममात्रप्रतिषेधे मा भूत्, तद्यथा-ब्राह्मणेन ब्राह्मण्यामुत्पादितत्वेन कस्यचिद्ब्राह्मणत्वं प्रसज्य प्रतिषेधति-नायं ब्राह्मणो यस्तिष्ठन्मूत्रयति। इतरेतराभावे च मा भूत्-गौरश्चो न भवतीति; अत्रापि वस्त्वन्तनं प्रतिषिध्यते, न धर्मिस्वरूपम्। अतिशीतमित्यरिथाभावः। कालनवच्छिन्नोऽभाव आश्वीयते, इह तु संप्रत्यभाव इत्ययस्य भेदेनोपादानम्। अतितैसृकमिति। तिसृका नाम ग्रामः, ठ्तिसृभावे संज्ञायां कन्युपसङ्ख्यानम्ऽ तत्र भवं तैसृकम् उ आच्छादनम्। तच्च कालविशेष उपभोग्यम्। उष्णे शीते वा अतिशब्दो नेदानीमित्यस्यार्थे वर्तते। उपभोगक्रिया च वृतौ स्वावादेवान्तर्भवति, यथा-दध्युपसिक्त ओदनो दध्योदन इति। तद्ध्दरेण पूर्वोतरपदयोः सामर्थ्यम्, नेदानूमुपभोगार्हं तैसृकमाच्छादनमित्यर्थः। आच्छादनापेक्षस्यापि दैसृकशब्दस्य गमकत्वात्समासः। नात्र तैसृकस्य कालानवच्छिन्नो भावः, नापि संप्रति तसायाभावः, किं तर्हि? तदुपभोगस्येत्यर्थाभावादत्ययाच्चासंप्रतिभिद्यते। तत्पाणिनीति। तच्छब्दो निपातोऽप्यस्ति। प्रत्यर्थमिति। अर्थमर्थं प्रतीति वाक्यमप्यत्र भवति; भाष्यप्रयोगात्। यदि वा नात्राव्ययं वीप्सावृत्ति, किं तर्हि? कर्मप्रवचनूयत्वात्सम्वन्धमवच्छिनति। वीप्सा तु द्विर्वचनद्योत्या। अनुपूर्वस्य भाव आनुपूर्व्यम्-ब्राह्मणादित्वात्ष्यञ्, ष्यञः षित्करणात्स्त्रियामपि भवति तस्य प्रयोगः। एवं ज्येष्ठ अनुपूर्व्येणेति। सचक्रमित। सहशब्दसस्य समासः, ठव्यीभावे चाकालेऽ इति सभावः, एवमुतरेष्वप्युदाहरणेषु। गुणभूतेऽपीत्यादि। यदि ठ्सादृश्येऽ इति नोच्यते, पूर्विपदार्थप्रधानोऽव्ययीभाव इति यदा सादृश्यं विशंष्यत्वात्प्रधावनं तदैव स्यात् सादृश्यं किख्येति, गुणभूते न स्यात्। सदृशः किख्येति। सादृश्यवतः प्राधान्यदर्शनेन सादृश्यस्य गुणभावं दर्शयचति। सरिखीति। पूर्ववद्ध्रस्वः। अपचितपरिमाणः श्रृंगालः किखी। अप्रसिध्दोदाहणम्; चिरन्तनप्रयोगात्। सम्पतिशब्दस्य समृध्दौ रूढत्वात्पुनरुपादानं व्यर्थमित्याश्ङ्क्याह-सम्पतिरनुपरूप आत्मभाव इति। सब्रह्म ब्राभ्रवाणामिति। तेषामनुरूपो ब्रह्मभाव इत्यर्थः। सतृणामिति। न चात्र तृणभक्षणं वास्तवमित्याह--न किञ्चिदति। तृणभक्षणमधिकोऽर्थः, तद्वचनेन किंचिदभ्यवहार्यं न परित्यजतीत्ययमर्थः प्रतिपद्यते तृणानि भक्षयन्कथमन्यत्परित्यजेदिति। परग्रहापेक्षयेति। ठिदानीमेतावान्प्रदेशोऽध्येतव्यःऽ इति यावतः प्रदेशस्य परग्रहस्तदपेक्षया समाप्तिः उ अनुतः, स चासकलेऽप्यध्ययने भवतीति भावः। साग्नीति। अग्न्यादयः शब्दास्तदर्थे ग्रन्था वर्तन्ते, तदानीं परिगृपीतस्य प्रदेशस्याग्न्यादिरन्तः, न तु ततः परेणाध्ययनं नास्ति; ततश्च न साकल्यमित्याह इयमिति॥ ७ यथाऽसादृश्ये ॥ २-१-७ ॥ सादृश्ये समासस्य पूर्वेणैव सिध्दत्वादसंदेहार्थं सादृश्ये यथेत्यवचनाच्च नञोऽत्र प्रश्लेषः। असादृश्ये इति कितिति। सूत्रं किमर्थमित्यर्थः। यथा देवदत इति । देवदतस्य यज्ञदतं प्रत्युपमानत्वं यथाशब्दो द्योतयति। तत्रोपमानस्योपमेयापेक्षत्वेऽपि यथा-देवदतशब्दयोः सामर्थ्यात्परस्परेम समासप्रसङ्ग इति भावः। अथ पूर्वेणात्र सादृश्य इति वा, यथार्थ इति वा कस्मान्न भवतीत्याह पूर्वेणैवेति॥ ८ यावदवधारणे ॥ २-१-८ ॥ यावन्ति पात्राणीति। यावदित्यव्ययं चास्ति, तध्दितान्तं च विद्यते, अतो नित्यमसासेऽपि तध्दितान्तेन विग्रहः। ९ सुप्प्रतिना मात्रार्थे ॥ २-१-९ ॥ अस्त्यत्र किचित्सूप इति किञ्चिदित्यव्ययं सूप इति पुंल्लिङ्गेन समानाधिकरणम्। सुबिति वर्तमान इति। ठ्सुबामन्त्रितेऽ इत्यतः। अव्ययनिवृत्यर्थमिति। पूर्वहि सुब्ग्रहणमव्ययग्रहणेन सह विग्रहः कृतः। स्वरादीनां च दोषामन्यमहः, दिवामन्या रात्रिरिति वृत्तिविषयो सत्वप्रधानतादर्शनान्मात्रावति वृत्तिरविरुध्देत्यव्यस्यैव समासः स्यात्॥ १० अक्षशलाकासङ्ख्या परिणा ॥ २-१-१० ॥ अक्षशालाकासङ्क्याशब्दा इति। अक्षशलाकाशब्दौ सह्क्यावाचिनश्च शब्दा इत्यर्थः। क्वचितु-अक्षशब्दः शलाकाशब्दः सङ्ख्याशब्दाश्चोति पाठः। कितवव्यवहार इति कितवा उ द्यौउतकाराः, तेषां व्यवहालेऽक्षशलाकानां पाततं तत्रैवायं समास इष्यते, एतच्चाभुधानस्वाभाव्याल्लभ्यते। कर्व उताना इति। शलाकानामपि प्रकृतत्वात्सर्वे च सर्वाश्च सर्वे, उतानाश्च उतानाश्च उतानाः, अवाश्चश्चावाच्यशाचावाञ्चः, ठ्पुमान्स्त्रियाऽ इति पुंसः शेषः। तस्यैवास्येति। पातयितुरित्यर्थः। विपातः उ पराजयः। अन्यथापाते सति, जये यादृशः पातः सर्वे उतानाः पतन्त्यवाञ्चो वेति ततोऽन्यादृशेषु केषुच्जुतानेषु, केषुचिदवाक्षु पतत्सिवत्यर्थः। अक्षेशेति। वृतापेक्षया कर्तरि तृतीया। परमेणेति। अतिशयेनातः परमित्यर्थः पञ्चपरूति न भवतीति यावत्। अस्योपपदानं स्लोकेन क्रियते। पञ्चसु त्वेकरूपेष्विति। अत्रापि पुंसः शेषः। एकरूपास्विति प्रायेण पाठः। तत्र शलाकानामेव ग्रहणम्। जय एव भविष्यतीति। लृटोऽर्थो मृग्यः, यतः पञ्चस्वेकरूपेषु जय एव भवति, तेन परमेण चतुःपरीत्यन्वयः। अक्षादयस्तृचीयान्ता इति। अन्यथा वृतावयं समास इष्यते, तत्र चाक्षादीनां कर्तृत्वातःतीयैव युक्तेति भावः। पूर्वेक्तस्येति। पूर्ववृतस्येत्यर्थः। अनेकार्थत्वाध्दातूनां वचिरिह वर्तने वर्तते, तदेव यथा न तदिति तच्छब्देन परामृश्यते। पूर्वजये वृतस्याक्षादेर्यथा दत्वृतमभूत्, यदि संप्रति तथा न भवति एवं समासो भवतीत्यर्थः। पूर्वोक्तस्येति सामान्यापेक्षमेकवचनम्। जयकालेऽक्षादीनां यदेकरूपं वर्तनं तध्दिपरीते वर्तने परिणा द्योत्ये समास इति यावत्। एकतेवऽक्षशलाकयोरिति। अक्षशलाकाशब्दयोरेकवचनान्तयोः समास इत्यर्थः। इदमप्यभिधानस्वाभाव्यादेव लभ्यते, अन्था ठ्राजपुरुषःऽ इत्यादाविवाभेदैकत्वमवगम्येत, न तु शुध्दमेकत्वम्। प्रायेण तु ठ्कितवव्यवहारे च एकत्वेऽक्षशलाकयोःऽ इति श्लोकरूपेम पठ।ल्ते, तत्रार्थान्तरं मृग्यं संहिताकार्यप्रसङ्गश्च। कितवव्यवहार इति किम्? अक्षेणेदं न तथा वतं यथा पूर्वशकटे। एकत्व इति किम्? अक्षाभ्यामक्षैर्वा इदं न तथा वृतम्। अक्षादय इति किम्? प्रसङ्गेनेदं न तथा पूर्वजये, परिणेति वचनात्सुबन्तमात्रेण न भवति॥ ११ विभाषा ॥ २-१-११ ॥ १२ अपपरिबहिरञ्चवः पञ्चम्या ॥ २-१-१२ ॥ ननु बहिःशब्देन योगे न केनचित्पञ्चमी विधीयते, तत्कथं यस्य पञ्चम्यन्तेन समासः? बहिर्गतो ग्रामादित्यत्र त्वसामर्थ्यान्नैव समासेन भवित्वयमत आह-बहिःशब्देनेति। न च वचनसामर्थ्याद्वहिः शब्दस्यापञ्चम्यन्तेन समासो भवत्विति वाच्यम्; पञ्चमीग्रहणाद्। इह ह्यपपरिशब्दौ परस्परसाहचर्ययाद्वर्जनार्थौ गृह्यते, तौ च कर्मप्रवचनीयौ, तद्यौगे च पञ्चम्येव विहिता। अञ्चतिरप्यपपरिसाहचर्यादव्ययमेव गृह्यते, तद्योगेऽप्यञ्चूतरपदलक्षणा पञ्चम्येवास्ति। तदेतत्पञ्चमीग्रहणं ज्ञापयति-षष्ठीविषये बहिर्योगे पञ्चमी भवतीति। १३ आङ् मर्यादाभिविध्योः ॥ २-१-१३ ॥ ठ्मर्यादाभिविध्योःऽ इति शक्यमकतुंम्, कथम्? पञ्चम्येति वर्तते, आङ च कर्मप्रवचनूयेनैव योगे पञ्चमी विहिता, एतयोश्यैवार्थयोराङ्ः कर्मप्रवचीयसंज्ञा-ठाङ् मर्यादावचनेऽ इति। तत्र हि वचनग्रहणं मर्यादोक्तिमात्रे यथा स्याद् इत्यभिविधावपि भवति। तत्रैव वाऽभिविधिग्रहणमेवास्तु॥ १४ लक्षणेनाभिप्रती आभिमुख्ये ॥ २-१-१४ ॥ अभ्याग्न, प्रत्यग्नीति। अग्नि प्रतीति विग्रहः, ठभिरभागेऽ ठ्लक्षणेत्थम्भूतऽ इति अभिप्रत्योः कर्मप्रवचनीयत्वाद् द्वितीया। तत्राग्निर्लक्षणम्, तेन हि शलाभानां पातो लक्ष्यते, अभिप्रती च लक्ष्यलक्षणभावं द्योतयित्वाभिमुख्यमपि द्योतयतः। स्रुघ्नं प्रतिगत इति येन देशेनाग्निर्गतस्तेनेति प्रतीतिर्भवति, गमनस्याग्निर्लक्षणभाभिमुख्यं चास्ति, ठ्येन-तेनऽ शब्देन सह समासः स्यात्। अभ्यङ्काः, प्रत्यङ्काः इति। अभिनवोऽङ्क आसाम्, प्रतिनवोऽङ्क आसामिति बहुव्रीहिः। अङ्कोऽत्र भवति गवां लक्षणम्, आभिमुख्यं तु नास्ति। ननु च सति संभवेऽव्ययार्थे प्रधानेऽव्यीभाव इत्युक्तम्, कथमत्र प्रसङ्गः? एवं तर्ह्येतज्ज्ञापयति-भवतियत्र प्रकरणे बहुव्रीहिविषयेऽव्ययीभाव इति। तेन ठ्संख्या वंश्येनऽ, द्विमुनि व्याकरणमित्येतत्सिध्दं भवति॥ १५ अनुर्यत्समया ॥ २-१-१५ ॥ यत्समयेति षष्ठीसमासोऽयम्। कथं पुनः समायाशब्देन योगे षष्ठी, यावता ठभितः परितः समयाऽ इति द्वितायया भवितव्यम्? नैष दोषः; समयाश्बदस्य मुख्योऽर्थः सामीप्यम्, तद्योगे द्वितीया। इह तु समयाशब्दवाचिन्यनुशब्दे समयाशब्दो वर्तते, तदाह--अनर्यत्समया। समयावाचीति। यस्य समयेति कोऽर्थः? समयावाचीत्यर्थः, तदिह मुख्येनार्थेनायोगद् द्वितीया न भवति, षषठ।लेव तु भवति, तस्याश्च समासः। न च पूरणगुणेति प्रतिषेधः; अनव्ययत्वात्। सामीप्ये हि वर्तमान- समयाशब्दोऽसतववाचित्वादव्ययम्। इह त्वनूशब्दार्थे वर्तते, तत्र यथा ठभिराभागेऽ इत्यादावनुकरणस्याव्ययसंज्ञा न भवति, तथास्यापि। एवं च यत्समयेत्यविभक्तिकः सौत्रो निर्देशः। वृतावपि यत्समयेति सूत्रानुकरणेन विभक्त्यभावः। तेनेति। तद्वाचिना शब्देनेत्यर्थः। अनुवनमिति। वनस्यान्विति सामूप्यसम्बन्धे षष्ठीसमासः, अस्यार्थमाह-वनं समयेति॥ १६ यस्य चायामः ॥ २-१-१६ ॥ लक्षणेनेति वर्तत इति। अन्यथा आयामो गङ्गाया इत्यस्यार्थेऽनुगङ्गमिति स्यात्। अत्राप्यायामवाचित्वादनुरेवायामशब्देनोच्यते, इत्याह अनुर्यस्यायामवाचीति। अनुगङ्ग वाराणसीति। षष्ठ।ल्न्तेन गङ्गाशब्देन समासः। गङ्गाया अन्विति। आयामो लक्षमत्वं चानुना द्योत्यते, लक्षणस्य लक्ष्यापेक्षत्वाल्लक्ष्यं समासार्थ इत्यर्थादुपमानोपमेयभावे समास इति वाराणस्या सामानाधिकरण्यम्-गङ्गाया इवायामो यस्याः, गङ्गेवायता वाराणसीत्यर्थः। तद्वदत्यन्तायतेत्यर्थ इति केचित्। तथा च ठनुगङ्गमेतत्सुत्रम्ऽ इत्येकशेषसूत्रे भागवृत्तिकारः प्रयुङ्क्ते। नेति वयम्। किं प्रागायता वाराणसी? उतोदगायता? इति संदेहे इदमुच्यते-अनुगङ्गं वाराणासीति, यथोदगायता गङ्गा तथोदगायता वारामसीत्यर्थः। गङ्गायामानुसारेण वाराणस्यायाम इत्यर्थः। यमुनायामेन मथुरायामो लक्ष्यत इति। न यमुना स्वरूपेण लक्षणम्, किं तर्हि? आयामेन, मथुरापि न स्वरूपेण लक्ष्यम्, किं तर्हि? आयामेन। तत्र प्राप्ताप्तविवेकेनेदमुच्यते-यमुनायामेन मथुरायामो लक्ष्यत इति॥ १७ तिष्ठद्गुप्रभृतीनि च ॥ २-१-१७ ॥ समुदाया एव निपात्यन्त इति । गणे तथा पाठ एव तेषां निपातनम्। तेन शतृशानजाद्यपि भवति। ठ्सुपो धातुप्रातिपदिकयोःऽ इति च प्रक्रियाकार्यं न कर्तव्यमिति भावः। अव्ययीभावसंज्ञानि भवन्तीति। समाससंज्ञापि विधेया, अन्तोदातत्वं च । प्रातिपदकसंज्ञा च यथा स्यादिति। तिष्ठद्गु कालविशेष इति। कालविशेष इत्येतदुतरैरपि सम्बध्यते, अत एवान्ते वक्ष्यति-ठेते कालशब्दाःऽ इति, एतावान्कालविशेष इत्यस्याधिकार इत्यर्थः। विभक्त्यन्तरेण न समाबध्यन्ते इति। अव्यतिरिक्त एव प्रातिपदिकार्थे प्रयोग एषां कर्तव्यः, नान्यत्रेत्यर्थः। अन्यपदार्थे च वर्तन्त इति। तिष्ठद्गु, वहद्गु, आयतीगवमित्येतैरप्यस्य सम्बन्धः; अन्यथा कालशब्दत्वायोगात्। चकारोऽवधारणार्थ इति। अनेकार्थत्वान्निपातानाम्। अपरः समासो न भवतीति। वृत्यन्तरं न भवतीत्यर्थः। ठातिष्ठद्गुजपन्सध्याम्ऽ इति तु पञ्चम्या ठव्ययात्ऽ इति लुक्, न समासः। तिष्ठद्गु, वहद्ग्विति। लटः शत्रादेशो निपातनात्, ठ्गोस्त्रियोःऽ इति ह्रस्वः। आयतीवगमित्यत्र तु पुंवद्भावाभावः शत्रादेशयः समासन्तश्च। खलेयवं खलेबुसमिति सप्तम्या अलुक्। लूयमानयवादिषु शानजादेशः। समभूमि, समपदातीति॥ समत्वं भूमएरिति पूर्वपदार्थप्राधान्येऽव्ययीभावः। कचित् समंभूमि समंपदातीति पाठः, तत्र पूर्वपदस्य मुमागमः। अन्ये तु संभूमि संपदातीति पठन्ति, तत्र समस्यान्तलोपः, संशब्दस्य वा समासः। सुषामादौ शोभनत्वं समस्य विगतत्वं दुष्टत्वं निर्गतत्वमपगतत्वं समस्येति। विग्रहः। आयतोसमा आयतीसमम्, शत्रादेशः, पूर्ववत् पुंवद्भावश्च । समा उ संवत्सरः। एवं पापसमं पुण्यसममिति। प्राह्वादिषु चतुर्षु प्रगतत्वमह्न इत्यादिविग्रहः। सङ्गतं प्रतिगतमस्य सम्प्रति। विपरीतम् असम्प्रति। इच् कर्मव्यतीहार इति। अयमेव द्विदण्ड।लदिष्वपि विधीयत इति तत्राप्यव्ययीभावः। दण्डादण्डीति। दण्डेश्च दण्ड्èअश्च प्रहृत्येदं युध्दं प्रवृतम्, ठ्तत्र तेनेदमिति सरूपेऽ इति बहुव्रीहिः। ठन्येषामपि दृश्यतेऽ इति पूर्वपदस्य दीर्घः। इच अव्ययीभावत्वेनाव्ययत्वात्सुपो लुक्॥ १८ पारे मध्ये षष्ठ।ल वा ॥ २-१-१८ ॥ वावचनादिति। ननु महाविभाषयैवापवादेऽव्ययीभावे विकल्पिते पक्षे षष्ठी समासोऽपि भविष्यति, सोऽपि विकल्पित इति वाक्यमपि भविष्यति? उच्यते--इह वाक्येनाभिधाने प्राप्ते वृत्तिरारभ्यमाणा वाक्यस्य बाधिका प्राप्नोतीति विकल्पेन वाक्यमेव पक्षेऽभ्यनुज्ञायते। तत्रापवादविकल्पो वाक्यस्यैव प्रापक इत्युत्सर्गस्य नित्यो बाधकः स्याद्, वावचनात्सोऽपि पक्षेऽभ्यनुज्ञायत इति त्रैरूप्यसिध्दिः। एतदेव वावचनं ज्ञपकम्--यत्रोत्सर्गापवादौ महाविभाषया विकल्पितौ तत्रापवादेन मुक्ते उत्सर्गो न भवतीति। तेन पूर्वं कायस्येत्यत्रैकदेशिसमासेन मुक्ते षष्ठीसमासो न भवति, दक्षस्यापत्यं दाक्षिरित्यत्र इञा मुक्तेऽण्न भवति। एकारान्तत्वनिपातनं यत्र सप्तम्यर्थो न सम्भवतिपारेगङ्गादानयेति, तदर्थम्। म्बवे तु ठ्तुत्पुरुषे कृति बहुलम्ऽ इति बहुलवचनादलुका सिध्दम् ॥ १९ संख्या वंश्येन ॥ २-१-१९ ॥ एकलक्षण इति। एकस्वभावः सन्तानः उ सम्बन्धः, सन्तानिनामेकलक्षणत्वात्सन्तानस्यैकलक्षणत्वम्। द्वौ मुनी इति। पाणिनिकात्यायनौ। त्रिमुनीति। तौ च भाष्यकारश्च। जन्मना त्वेकलक्षणस्योदाहरणम्-एकविंसति भारद्वाजमिति। यदा तु विद्यया सहेति ठ्लक्षणेनाभिप्रतीऽ इत्यत्र प्रकारान्तरेणाप्ययमर्थः साधितः ॥ २० नदीभिश्च ॥ २-१-२० ॥ नदीवचनैः शब्दैरिति। नदीभिरिति बहुवचननिर्देशात्स्वरूपस्य संज्ञा नद्याश्च ग्रहणमिति भावः। समाहारे चायमिष्यत इति। अन्यथा पुरस्तादपवादन्यायेन ठ्पूर्वकालैकऽ इत्यस्यायं बाधकः स्यात्। समाहारे तु परत्वाद् द्विगुहेव स्यात्, ततश्चैकनदीत्यत्राव्ययीभावे सति तन्निबन्धनः ठ्नदीपौर्णमास्याग्रहायणीभ्यःऽ इति टच् प्राप्नोति नपुंसकत्वं च, न ह्यत्र विशेषवाचिनामेव ग्रहणमिति प्रमाणमस्ति। यस्तु ठ्गोदावर्याश्च नद्यश्चऽ इत्यच् समासान्तः, स पञ्चनदमित्यादावव्ययीभाव एव भवति, एकनदीत्यत्र तत्पुरुषे न भवति। समाहारविवक्षायां च एकापूपीवदेकनदमित्यपि भवति। तथान्यपदार्थेऽप्यव्ययीभावः स्याद् द्वीरावतीको देश इति। न चात्र परत्वाद्वहुव्रीहिः; अशेषत्वात्, न ह्यसति समाहारग्रणेऽयं शेषो भवति। तस्मात्सुष्ठूअक्तम् - समाहरे चायमिष्यत इति। एतच्चाभिधानस्वाभाव्याल्लभ्यते॥ २१ अन्यपदार्थे च संज्ञायाम् ॥ २-१-२१ ॥ २२ तत्पुरुषः ॥ २-१-२२ ॥ उतरपदार्थप्रधान इति। पूर्वाकायः, अर्ध्दपिप्पलीत्यादौ त्वधिकार वशातत्पुरुष इति संज्ञा॥ २३ द्विगुश्च ॥ २-१-२३ ॥ समासान्ता इति। यद्यपि ठ्राजाहःसखिभ्यष्टच्ऽ ठ्तत्पुरुषस्यांगुलेः संख्याव्ययादेःऽ इति टजचौ तत्पुरुषनिबन्धनौ, तथापि प्रकृतिभेदाद्भेदविवक्षयां वहुवचनम्। पञ्चराजमिति। उकतरपदस्यानकारान्तत्वात्स्त्रीत्वाभावः। समासार्थोतरपदस्यान्ताः समासान्ता इति तु पक्षे पात्रादित्वात्। क्वचत् पञ्चराजीति स्त्रील्ङ्गस्य पाठः, स भाष्यविरोधादपपाठः। द्व्यह इति। १ठह्नष्टखोरेवऽ इति टिलोपः, ठ्रात्राह्नाहाः पुंसिऽ। पञ्चगवमिति। ठ्गोरतध्दितलुकिऽ इति टच्, पूर्ववत्स्त्रीत्वाभावः॥ २४ द्वितीयाः श्रितातीतपतितगतात्यस्तप्राप्तापन्नः ॥ २-१-२४ ॥ श्रितादिषु गत्यर्थत्वात्कर्तरि क्तः। पतिरपि सकर्मकः, नेज्जिह्मायन्तो नरकं पतामेति यथा। अत्यासः उ व्यतिक्रमः, गतिविशेष एव। प्राप्तिरप्यत्र गतिरेव, न फलम्। एवमापतिरपि। इह श्रितपतितगतैरयं सासो न विधेयः, कथम्? यः कष्ट्ंअ श्रितः कष्ट्ंअ तेन श्रितं भवति तत्र बहुव्रीहिणा सिध्दम्; नार्थभेदः, न रूपभेदः, न स्वरभेदः। तत्पुरुषेऽपि ठहीनेद्वितीयाऽ इति श्रितपतितागेभ्यः पुर्वपदप्रकृतिस्वर एव भवति। अतीतादिभिस्तु स्वरसिध्दये विधेयः, तथा हि- तैस्तत्पुरुषे थाथादिस्वरेण भाव्यम्, नाहीनस्वरेण; ठतीतात्यस्तयोरहीनेऽ इति निषेधात्, प्राप्तापन्नयोस्त्वहीने द्वितीयानुपसर्ग इति वचनात्। बहुव्रीहौ तु पूर्वपदप्रकृतितस्वरेण भाव्यम्, तस्माच्छ्रितादिभिरयं समासो न विधेयः। तत्रायमब्यर्थः, ठहीने द्वितीयाऽ इत्येतदपि न वक्तव्यं भवति। जातिस्वरप्रसङ्गस्तु, यदा जातिकालसुखादिभ्यः परे श्रितादयो भवन्ति तदा पूर्वपदप्रकृतिस्वरं बाधित्वा ठ्जातिकालसुखादिभ्योऽनाच्छादनात्ऽ इत्यन्तोदातत्वप्रसङ्गः। ननु च तत्पुरुषारम्भोऽपि बहुव्रीह्यर्थविवक्षायां न दण्डवारितो बहुव्रीहिरिति जातिस्वरः स्यादेव? एवमप्यस्ति भेदः, तत्पुरुषे ठहीने द्वितीयअऽ इति पूर्वपदप्रकृतिस्वरः, बहुव्रीहो ठ्जातिकालऽ इत्यन्तोदातत्वमिति द्वौस्वरौ भवतः; अनारम्भे तु जातिस्वर एव स्यादिति। एवं तर्हि यदेतद्वा जात इति तद्वा जातश्रितपतितगतेष्विति वक्तव्यम्? एवमपि ठहीने द्वितीयाऽ इत्येतदपि न वक्तव्यमित्यस्त्येव लाघवम्। एतावाÄस्तु विशेषः - तत्पुरुषारम्भे तत्र पूर्वपदप्रकृतिस्वरत्वम्, बहुव्रीहौ तु जातिस्वर इति द्वयोः समासयोद्व्êअस्वर्यम्; अनारम्भे तु बहुव्रीहावेव द्वैस्वर्यमिति? अत्रोच्यते - जातिकालसुखादिव्यतिरिक्तैः सह बहुव्रीहौ श्रितादीनां निष्ठेति पूर्वनिपादप्रसङ्गाद्रूपभेतः, तथा सर्वत्र कबपि प्राप्नोति। नन्वसौ ठ्शेषाद्विभाषाऽ इति विकल्पितः, स च तत्पुरुषारम्भेऽपि भवत्येव, बहुव्रीहेरप्यभ्युपगमात्? एवमपि बहुव्रीहावपि द्वैस्वर्याभ्युपगमात्पुर्वपदप्रकृतिस्वरपक्षेऽपि बहुव्रीहित्वानपायात्पक्षे कपः प्रसङ्गः; तत्पुरुषारम्भे तु तत्रैव ठहीने द्वनितायाऽ इति पूर्वपदप्रकृतिस्वरः, बहुव्रीहौ तु जातिस्वर एव नित्यमित्यन्तोदातादेव कब्न पूर्वपदप्रकृतिस्वरादित्यस्त्येव विशेषः। तथाऽर्थभेजोऽपि ठ्गत्यर्थाकर्मकऽ इति कर्तरि क्तो धात्वर्थस्य सर्वात्मनाऽनिष्ठितत्वेऽपि भवति - आरुढो वृक्षं देवदत इति वृक्षस्य एवोच्यते। कर्मणि तु भवन्सर्वात्मना निष्ठतत्वे भवति - आरूढो वृक्षो देवदतेनेति, तथेहापि कष्ट्ंअ श्रित इति कष्टमनुभवन्नेवमुच्यते, कष्ट्ंअ श्रितमनेनेत्यनुभूतकष्टः श्रितशबदविवक्षितस्यार्थस्य साक्षादवगतिर्भवति तत्पुरुषे। बहुव्रीहौ त्वर्थात्, तद्यथा - राज्ञः सखेत्युक्ते नूनं हाजाप्यस्य सखेति स एष सूक्ष्मदृशामेव विषयः। गमिगाम्यादीनामिति। उणादीनामन्येषां च संग्रहार्थमुभयोरुपादानम्। ग्रामं गमीति। ठ्गमेरिनिःऽ इत्यौणादिक इनिप्रत्ययः ठ्भविष्यति गम्यादयःऽ इति भविष्यति काले। ग्रामं गामीति। आवश्यके णिनि। ठ्गत्यार्थकर्मणिऽ इत्यत्र द्वितीयाग्रहणमपवादविषयेऽपि विधानार्थमिति कृत्प्रयोगे द्वितीयैव भवति। ओगनं बुभुक्षुरिति। भुजेः सन्, ठ्सनाशंसभिक्ष उःऽ। ठ्न लोकाव्ययऽ इति षष्ठीनिषेधः॥ २५ स्वयं क्तेन ॥ २-१-२५ ॥ ठ्धावु गतिशुध्द्योःऽ, ठुदितो वाऽ इति क्त्वायां विकल्पितेट्त्वात् ठ्यस्य विभाषाऽ इतीट्प्रतिषेधः, ठ्च्छवोः शूडनुनासिके चऽ इत्यूठ, ठेत्येदत्यूठसुऽ इति वृध्दिः। स्वयंविलीनमिति। ठ्लीङ् श्लेषणेऽ, ठ्स्वादयओदितःऽ, ठोदितश्चऽ इति निष्ठानत्वम्, कृद«अहणे गतिकारकपूर्वस्यापि ग्रहणाद्विलीनशब्दः क्तान्तः। ऐकपद्यमैकस्वर्ये समासत्वादिति। समसनं समासः, संज्ञा वा, ततो हेतोरित्यर्थः ॥ २६ खट्वा क्षेपे ॥ २-१-२६ ॥ खट्वारोहणं चत्यादि। विनिन्दितो मार्गः उ विमार्गः। भूमिशयनार्हो ब्रह्मचारी, वेदाध्ययनकाले तेनाधीत्य स्नात्वा गुरुभिरनुज्ञातेन खट्वा रोढव्या। यत्वन्यथा खट्वारोहणं तद्विमार्गप्रस्थानम्। तच्चोदाहरणमन्यस्याप्येवंविधस्योपलक्षणम्, तेन खट्वामारोहतु मा वाऽरुक्षद्विमार्गप्रस्थितः खट्वारूढ इत्युच्यत इत्यर्थः। २७ सामी ॥ २-१-२७ ॥ तस्यासत्ववाचित्वादिति। द्रव्याधारा हि कर्मशक्तिः; अतो द्रव्यवाचिन एव द्विताया भवति, नाद्रव्यवाचिन इत्यर्थः॥ २८ कालाः ॥ २-१-२८ ॥ इह ठ्काला अत्यन्तसंयोगेऽ इत्येको योगः कर्तव्यः, तत्र ठ्क्तेनऽ इत्यस्य निवृतत्वात्सर्वत्र समासः सिध्द्यति, किमर्थं योगविभागे क्तान्तेन समासो विधीयत इत्यत आह - अनत्यन्तसंयोगार्थ वचनमिति। अनत्यन्तसंयोगमेव दर्शयति - षण्मुहूर्ता इति। चराचरा इति। चरेः पचाद्यचि ठ्चरिचलिपतिवदीनामुपसंख्यानमाक् चाभायासस्यऽ इति द्विर्वचनमागागमश्चाभ्यासस्येति। चरन्तोऽनवस्थिता इत्यर्थः। कदाचिदहरिति। उतरायणे। कदाचिद्रात्रिमिति। दक्षिणायने। ततस्तैश्च षड्भिर्मुहूर्तैरह्नो रात्रेश्च नास्त्यत्यन्तसंयोगः। मासप्रमित इति। माङ् आदिकर्मणि कर्तरि क्तः, मासं परिच्छेतुमारब्धवानित्यर्थः। प्रतिपच्चन्द्रमा इति। न च तेन मासस्यात्यन्तसंयोग इति भावः॥ २९ अत्यन्तसंयोगे च ॥ २-१-२९ ॥ ३० तृतीया तत्कृतार्थेन गुणवचनेन ॥ २-१-३० ॥ तृतीयायाश्च्छन्दसे लुकि ठ्गूणवचनेनऽ इत्यनेन सामानाधिकरण्यम्। अर्थेनेति पृथक् पदम्, अत एव गुणवचनेनार्थशब्देन चेति। कीदृशेन गुणवचनेन? तत्कृतेनेति। तदिति सर्वनाम्ना प्रकृतस्य तृतीयान्तस्य प्रत्यवमर्शः, स च शब्दः। न च शब्देन गुणवचनस्य करणं सम्भवतीत्यतः सामर्थ्यातदर्थकृतेनेति विज्ञायत इत्याह - तृतीयान्तार्थकृतेनेति। यावदिति। यावच्छबदो निपातस्तात्पर्यपर्यायतां दर्शयति। अर्थद्वारकं चेदं गुणवचनस्य विशेषयणम्, अर्थ एव हि तृतीयार्थेन क्रियते, न गुणवचनः शब्दः। वचनग्रहणं किम्, यावार्थेन समासासम्भवाद् गुणवचनेवैव भविष्यति? एवं यथा विज्ञायेतगुणमुक्तवान् गुणवचनः, ठ्कृत्यल्युटडो बहुलम्ऽ इति लक्षितो गृह्यते, न तु यस्य गुणस्य हि भावाद् द्रव्ये शब्दनिवेश इति तच्छब्दप्रवृत्तिनिमितम्; तृतायान्तार्थकृते सर्वत्रैव तस्य भावात्। शंकुलाखण्डः, किरिकाण इति। ठ्खडि भेदनेऽ, ठ्कण निमीलनेऽ इत्याभ्यां घञि व्युत्पादितावेतौ क्रियारूपापन्ने गणे वर्तित्वान्मतुब्लोपादभेदोपचाराद्वा त्दवति द्रव्ये वर्तेत इति गुणवचनौ भवतः। धान्येनार्थ इति। अर्थ्यत इत्यर्थः उ प्रयोजनम्, अर्थनं वार्थः उ प्रार्थना, अभिलाषः। सर्वत्र करणे तृतीयायअः समासः। अक्ष्णा काण इति। नात्राक्ष्णत्म्, किं तर्हि? अन्येनैव केनापि किर्यादिना, अक्ष्णा तु केवलं काणो लक्ष्यत इति तत्कृतत्वाभावः। किंच दघ्ना पटुअनित्यत्र मा भूदित्येवमर्थमपि तत्कृतग्रहणं कर्तव्यम्। ननु यदि दधिकृतं पाटवं विवक्षितम् - दध्ना कृतः पटुअरिति, ततो भवितव्यमेव समासेन; अथ भोजनाद्यपेक्षो दध्नः करणभावः - दध्ना भुङ्क्ते पटुअरिति, ततोऽसामर्थ्यादेव न भविष्यति? इहापि तर्हि न स्यात् - कुअंकुमेन लोहितं कोपेनं मुखमिति, अत्रापि हि कोरोतिक्रियया करण्सय सम्बन्धः - कुअंकुमेन कृतं लोहितामिति। क्व तर्हि स्यात्? शंकुलया खण्ड इत्यादावेव तु स्यात्, यत्र पूर्वोतरपदयोः क्रियाकारकलक्षणः सम्बन्धः। तस्माद्यत्रोतरपदे क्रिया न गम्यते तत्रापि तत्कृतत्वे सति यथा स्याद्भोजनादिद्वारके सामर्थ्ये मा भूदिति तत्कृतग्रहणम्। गुणवचनेनेति किमिति। जातिवचनेषु जातेर्नित्यत्वातत्कृतस्यासम्भवः। क्रियावचने त्विष्यत एव। ठ्कर्तृकरणे कृता बहुलम्ऽ इति द्रव्यवाचिष्वपि तत्कृतस्यासम्भव एव। न ह्याकाशस्य तत्वं केनचित् क्रियते, अतो गुणवचनेनैव भविष्यतीति प्रश्नः। गोभिर्वपावानिति। गोसम्बन्धिदध्याद्यौपयोगादेव तस्य वपावत्वं पूवरत्वमित्यस्ति तत्कृतत्वम्, न त्वसौ गुणवचनः॥ ३१ पूर्वसदृशसमोनार्थकलहनिपुणमिश्रश्लक्ष्णैः ॥ २-१-३१ ॥ पूर्वसूत्रेऽर्थशब्देन समासस्य साध्तत्वादिहार्थग्रहणमर्थनिर्देशार्तम्। तच्चानन्तरेणोनशब्देनैव सम्बध्यते, न पूर्वादिभिः; समसदृशब्दयोः पृथगुपादानात्। एतदेवेत्यादि। समसदृशशब्दाभ्याम्न्यत्रेदं तद्योगे तुल्यार्थैरिति तृतीयास्ति। इह तुल्यार्थयोगे षष्ठ।ल्पि पक्षे विधीयते, ततस्तस्याः समासे मातुः सदृशो मातृसदृश इति सिध्दम्, किमर्थमिह सदृशग्रहणम्? ठ्तत्पुरुषे तुल्यार्थतृतीयाऽ इति पूर्वपदप्रकृतिस्वरो यथा स्यात्, सिध्दोऽत्र प्रकृतिस्वरः - ठ्सतृशप्रतिरूपयोः सादृश्येऽ इति । तच्च तत्र सदृशग्रहणमवश्यं कर्तव्यम्, यदा षष्ठीसमासस्तदान्तोदातत्वं मा भूदिति। ननु चेदानीमनभिधानात् षष्ठीसमासो न भविष्यति? नैवं शक्यम्, अनुक्समासे हि दोषः स्यात्, ठ्षष्ठ।ल आक्रोशेऽ - दास्याः सदृशः, वृषल्याः सदृश इति, तस्मातत्कर्तव्यम्, इदं तु न कर्तव्यम्? इदमपि कर्तव्यम्, हेतुतृतीयार्थं विद्यया हेतुना सदृशो विद्यासदृश इति, न ह्यत्र ठ्तुल्यार्थैःऽ इति षष्ठी भवति, प्रतियोगिन्येव हि सा विधीयते। एवमपि न कर्तव्यम् - तत्कृततत्वात्पुर्वेणैव सिध्दम्, यो हि विद्यया सदृशः, विद्याकृतं हि तत्सादृश्यम्, तत्र पूर्वेणैव सिध्दम्। ठ्मिश्रग्रहणे सोपसर्गस्यापि ग्रहणम्ऽ गुडसंमिश्रा धाना इत्येवमर्थम्? ज्ञापकात्सिध्दम्, यदयं ठ्मिश्रं चानुपसर्गमसन्धौऽ इत्यनुपसर्गग्रहणं करोति, तज्ज्ञापयति - मिश्रग्रहणे सोपसर्गस्यापि ग्रहणमिति। पूर्वादिष्विति। अवरशब्दोऽपि सूत्रे पठितव्य इत्यर्थः॥ ३२ कर्तृकरणे कृता बहुलम् ॥ २-१-३२ ॥ ठ्कर्तृकरणेऽ इति प्रथमाद्विवचनम्। वृतौ वस्तुव्याख्यानं कृतम् - कर्तरि करणे च या तृतीयेति। तथा चोतरत्र वक्ष्यति ठ्कर्तृकरणे कृत्यैः सहाधिकार्थवचने समस्येतेऽ इति। पर्वोपाधिव्यभिचारार्थमिति। अव्याप्त्यतिव्याप्तिपरिहार्थमित्यर्थः। पादहारक इति। ह्रियत इति हारक इति ठ्कृत्यल्युटो बहुलम्ऽ इति कर्मणि ण्वुल्, पादाभ्यामित्यपादानपञ्चम्यन्तस्य समासः। गले चोपक इति। ठ्चुप मन्दायाआ गतौऽ, हेतुमण्णिजन्तात्कर्मणि ण्वुल्, ठमूर्ध्दमस्तकात्ऽ यत्युल्क्। कृद्रहणमनर्तकम्; अन्यस्याभावात्। इह कर्तृकरण क्रियाया एव भवतः क्रिया च धातुव्च्या, ध्तोश्च द्वये प्रत्ययाः - कृतस्तिङ्श्च। तत्र सुपेत्यधिकारातिङ्न्ते न प्रसङ्गः। तद्वितनिवृत्यर्थं तु - इह काष्ठ्èअः पचतितराम्, काष्ठ्èअः पचतिरूपम्, काष्ठ्èअः पचतिदेश्यम्, हस्तेन कृतपूर्वी, दध्ना भुक्तपूर्वी, धृतेनेष्टीति॥ ३३ कृत्यैरधिकार्यवचने ॥ २-१-३३ ॥ स्तुतिनिन्दाप्रयुक्तमिति। स्तुत्या निन्दया च प्रवर्तितं स्तोतुं निन्दितं च कृतमित्यर्थः। अध्यारोपितार्थवचनमिति। असन्नेवारोपितोऽध्यारोपितः। काकपेयेति। एवं नाम पूर्णतोया नदी यतटस्थैः काकैरपि शक्या पातुमिति स्तुतिः; एवं नामाल्पतोया चत्काकैरपि शक्या पातुमिति निन्दा; उभयत्र शक्यार्थे कृत्यः। श्वलेह्य इति। एवं नामाशुचिः कूपो यज्जलं श्वान एव लेढुअमर्हन्तीति निन्दा; अह्रार्थे कृत्यः। बाष्पच्छेद्यानीति। एवं नाम कोमलानि तृणानि यद्वाष्पेणापि छेतुं शक्यानीति स्तुतिः; एवं नाम कथितानि तृणानि यद्वाष्पेणापि छेतुं शक्यानीति निन्दा। कण्टकसंचेय इति। एवं नाम क्लिन्न ओदनो यत्कण्टकैः शक्यः संचेतुमिति स्तुतिः; एवं नामाल्प ओदनो यत्कण्टकैः संचीयत इति निन्दा। पूर्वस्यैवायं प्रपञ्च इति। यद्यपि स्तुतिनिन्दापरत्वात्क्रियोपादानस्य कर्तृकरणयोर्गौणत्वम्, तथापि बहुलवचनात्पूर्वेणैव सिध्दम्, तथा च काकपीता नदात्यत्राकृत्यैरप्यधिकार्थवचनैः समासो दृश्यते, अतः प्रपञ्च एवायम्, नाप्राप्तविधिः, नापि नियम इत्यर्थः॥ ३४ अन्नेन व्यञ्जनम् ॥ २-१-३४ ॥ दध्योदन इति। ननु च नेह क्रिया श्रूयते, न चान्तरेण क्रियां द्रव्याणां परस्परेण सम्बन्ध इत्यसामर्थ्यादत्र समासो न प्राप्नोति, अथासप्यपि सामर्थ्ये वचनाप्समासः? इहापि तर्हि स्यात् - किं दध्ना, ओदनो भूज्यतामिति, तत्राह - वृतौ क्रियाया अन्तर्भावादिति। स्वभावादेव वृतावन्तर्भूता क्रियेति तद्द्वारकस्य सम्बन्धस्य सद्भावात्सामर्थ्यमित्यर्थः॥ ३५ भक्ष्येण मिश्रीकरणम् ॥ २-१-३५ ॥ खरविशदमिति। खरम् उ कठिनम्, विभक्तावयवम्; खरं च तद्विशदं च खरविशदम्, हनुचलनेनादनीयमित्यर्थः। यदभ्यवहार्यं तद्भक्ष्यमित्युच्यते; तत्रैव यदन्तस्य एरजन्तस्य च भक्षयते रूढत्वात्। भक्षयतिस्त्वन्यत्रापि भवति-अब्भक्षः, वायुभक्ष इति। गौणोऽत्र भक्षयतिरित्यन्ये ॥ ३६ चतुर्थी तदर्थार्थबलिहितसुखरक्षतै ॥ २-१-३६ ॥ अर्थः पराभृश्यत इति। यद्यपि चतुर्थीति चतुर्थ्यन्तः शब्दः सन्निहितः, तथापि शब्दं प्रति तादर्थ्यासम्भावातदर्थ एव परामृश्यते इत्यर्थः। इत्येतैः शब्दैः सहेति। तत्र तदर्थेन सुबन्तेनेत्यर्थध्दरकं विशेषमम्, स्वरूपेण सुबन्तस्य तादर्थ्यासम्भवात्। द्वितीयस्त्वर्थशब्दः पृथगेव निभतम्। प्रकृतिविकारभावे समास इष्यत इति। ज्ञापकात्। यदयं बलिरक्षितग्रहणं करोति तज्ज्ञापयति - विकृतिश्चतुर्थ्यन्ता प्रकृत्या समस्यत इति; अन्यथा कुबेरबलिः, गोरक्षितमित्यत्रापि तादर्थ्यसम्भवादनर्थकं तत्स्यात्। हितसुखग्रहणं तु ठ्हितयोगे चतुर्थी वक्तव्याऽ, ठ्चतुर्थी चाशिषिऽ इत्यतादर्थ्येऽपि चतुर्थीसम्भवान्न ज्ञापकम्। यदि विकृतिः प्रकृत्या समस्यते - अश्वेभ्यो घासः, अश्वेभ्यः सुरा ऽश्वसुरम्, ठ्विभाषासेनाऽ इति नपुंसकत्वम्, हस्तिभ्यो विधा हस्तिविधा, विधा उ अन्नविशेषः; अत्र न प्राप्नोति? अश्वघासादयः षष्ठीसमासा भविष्यन्ति। ननु स्वरे विशेषो भवति चतुर्थीसमासे हि सति ठ्चतुर्थी तदर्थऽ इति पूर्वपदप्रकृतिस्वरेण भाव्यम्, षष्ठीसमासे तु समासान्तोदातत्वेन? नैषोऽस्ति विशेषः; चतुर्थीसमासेऽपि नैव पूर्वपदप्रकृति स्वरेण भाव्यम्; ज्ञापकात्, यदयं ठ्क्ते चऽ इति चतुर्थ्यन्तं पूर्वपदं प्रकृतिस्वरं भवतित्याह, तज्ज्ञापयति - प्रकृतिविकारभावाभाव एष स्वरो न भवतीति; अन्यथा गोरक्षितमित्यत्रापि ठ्चतुर्थी तदर्थऽ इत्येव सिध्देरनर्थकं तत्स्यात्। नैतदस्ति ज्ञापकम्; हितार्थमेतत्स्यात् - गोहितमित्यत्र हि तादर्थ्यं नास्ति। एवमपि ठ्हिते चऽ इति वक्तव्ये ठ्क्ते चऽ इति साम्न्यवचनं ज्ञापकमेव, सर्वथा कुबेरवलिरित्याद ऐ मा भूदित्येवमर्थ प्रकृतिविकारभावे स्वर एषितव्यः। अथ रन्धनाय स्थालीत्यत्र षष्ठीसमासः कस्मान्न भवति? कश्चिदाह भवत्येव, तद्यथा - गोग्रासः, लालाम्बुजम्, क्रीडासरः, वासभवनम्, नाट।ल्शालेति। अपर आह - रन्धनस्थाल्यादयोऽनभिधानात् षष्ठीसमास न भवन्तीति। उभावपि प्रतिब्रूमः येषु षष्ठीसमास इष्यते तेषु चतुर्थीसमास एवास्तु, येषु तु नेष्यते तेषु तु चतुर्थीसमास एवानभिधानान्नेष्यताम्, माकारिज्ञापनार्थं बलिरक्षितग्रहणम्, स्वरस्तु चतुर्थीसमासेऽपि पूर्वोक्तेन प्रकारेण प्रकृतिविकारभाव एव व्यवस्थास्यते। किं चैवं सति सूत्रेमेवैतदनर्थकम्, यूपदार्वादावपि षष्ठीसमास एवास्तु, ठ्चतुर्थी तदर्थऽ इत्येततु ठ्षष्ठी तदर्थऽ इति क्रियताम्, ज्ञापकाच्च स्वरस्य व्यवस्था क्रियत्म्। नन्वर्थभेद। भवति-षष्ठीसमासे सम्बन्धमात्रं गम्यते, चतुर्थीसमासे तु तादर्थ्यं सम्बन्धविशेषः? नैषोऽस्ति विशेषः, आरभ्यमाणेऽपि चतुर्थीसमासे न दण्डवारित- षष्ठीसमासः, तत्रार्थप्रकरणादिना विशेषोऽवसेयः। यद्येवम्, केवलेऽपि षष्ठीसमासे तथा विशेषोऽवसंस्यते, किञ्च सिध्दन्तेऽश्ववघासादिषु तावदर्थप्रकरणादिना तादर्थ्यविसायः सर्वत्रैव तथास्तु, नार्थौऽनेन? उच्यते-हितशब्देन तावत्षष्ठीसमासो न भवति; तद्योगे चतुर्त्या नित्यत्वादिति चतुर्थीसमास एव वक्तव्यः। ततश्च ठ्क्ते चऽ इत्यत्रापि चतुर्थीग्रहणं कर्तव्यं गोहितमित्याद्यर्थम्। एवं च गोरक्षितमित्यत्र न स्यात्, चतुर्थ्या असम्भवात्। ठ्षष्ठी तदर्थऽ इत्यस्य चाप्रसङ्गः, प्रकृतिविकाराभावादिति रक्षितेनापि चतुर्थीसमास एव विधेयः। अर्थशब्देनापि योगे तादर्थ्यसंबव्धविशेषस्यनियमेन प्रतीयमानत्वाच्चतुर्थ्या सम्भवितव्यमिति नेनापि चतुर्थीसमास एव चर्तव्यः। बलिसुखग्रहणमपि कर्तव्यम्, तादर्थ्यस्य समासे नियमेन प्रतीतिर्यथा समयादित्येवमर्थम्। तस्मादारव्धव्यमेव सूत्रम्। प्रकृतिव्कारभाव एव समास इत्यस्य तु प्रयोजनं चिन्त्यम्। अर्थेन नित्यसमासवचनमिति। अन्था महाविभाषाधिकाराद् ब्राह्मणायार्थ इति वाक्यमपि स्यात्। सर्वेलिङ्गता चेति। परलिङ्गताया अपवादः, अभिदेयवशेन च सर्वलिङ्गता न सर्वत्रेति दर्शयति। ब्राह्मणार्थे पय इत्यादि। सर्थबिति चेत्, इत्संज्ञाभावः, इयणुवङ्प्रसङ्श्च। स्यादेतत् - तदर्थं विकृतेः प्रकृतावित्यत्र तदर्थे सर्थविति सूत्रं कर्तव्यम्, चतुर्थी वर्तते, चतुर्थसिमर्थातदर्थेऽभिधेये सर्थप्प्रत्ययो भवति, सकारः पदसंज्ञार्थः - राजार्थः, गवार्थः, पित्वादनुदातत्वम्; एवं चार्थ इति पूर्वपदप्रकृतिस्वरो न विधेयः, प्रत्ययत्वाच्च न तेन विग्रहः, तध्दितत्वाच्चाभिधेयवल्लिङ्गता सिध्द्यतीति? तन्न; सकारस्येत्संज्ञाभावप्रसङ्गात्। अथ ठादिर्ञिटुअडवःऽ ठ्षः प्रत्ययस्यऽ इति द्विषकारकनिर्देशाश्रयणेनेत्संज्ञा स्याद्? एवमपि वुञ्च्छणादिषु तृणादिभ्यः से प्रसङ्गः, र्श्यर्थम् भ्वर्थमित्यत्र चेयणुवङै स्याताम्, बहुव्रीहावात्वकपोः प्रसङ्गः। स्यैदेतत् - यद्ब्राह्मणार्थः पयस्तस्य ब्राह्मणोऽर्थः प्रयोजक इति शक्यते वक्तुम्, अतो ब्राह्मणोऽर्थोऽस्येति विगृह्य बहुव्रीहिः करिष्यते, तेन चतुर्थ्यन्तेन । विग्रहाभावः पूर्वपदप्रकृतिस्वरत्वमभिधेयवन्नङ्गता च सिध्द्यतीति? तन्न; महदर्थमित्यत्रत्वकपोः प्रसङ्गात्। तदर्थस्यार्थादेश उदभावप्रसङ्गः। स्यादेतत् - ठ्चतुर्थी तदर्थऽ इत्यनेन समासं विधायार्थ इत्यनेनाशेन तदर्थवाचन उतरपदस्यार्थशब्द आदेशो विधीयते, विभाषाधिकाराच्च यूपार्थं दारु यूपदार्वितुयभयं भाविष्यति, ततो बलिरक्षितयोरपि विभाषार्थशब्द आदेशो भवति कुबेरार्थो बलिः कुबेरबलिरित्यादि। किमर्थमिदम्, पूर्वेणैव सिध्दम्? ज्ञापकार्थम्, एतज् ज्ञापयति - प्रकृतिविकाराभावादन्यत्र नित्योऽर्थादेश इति। तेन रन्धनार्था स्थालीत्यादि भवति, न तु रन्धनस्थालीत्यादि। अश्वघासादयस्तु पूर्ववत्। अत्र समासे कृते उतरपदस्य विधीयमानेनार्थशब्देन विग्रहो न भविष्यति, यस्यावस्थानेऽर्थादेशस्तल्लिङ्गता स्थानिवद्भाधेन भविष्यति, अर्त इति पूर्वप्रदप्रकृतिस्वरस्तु विधेय एवेति, तन्न; उदकार्थो वीवध इति वीवधशब्दस्यार्थादेशे कृते स्थानिवद्भावेन मन्थौदनादिसूत्रेणोदभावप्रसङ्गात्। अतश्चतुर्थीसमास एव विधयः। तथा चार्तेन नित्यसमासः सर्वलिङ्गता च वक्तव्या? न वक्तव्या, ब्राह्मणायेति चतुर्थ्या तादर्थ्यस्योक्तत्वादर्थशब्देन विग्ररो न भविष्यति। ठ्लिङ्गमशैष्यं लोकाश्रयत्वाल्लिङ्गस्यऽ इति कर्वलिङ्गता च सिध्दा। तदेतत्प्रतिपद्यन्तां भाष्ये कृतपरिश्रमाः। नान्ये सहस्त्रमप्यन्धाः सूर्यं पश्यन्ति नाञ्जसा॥ ३७ पञ्चमी भयेन ॥ २-१-३७ ॥ भेयेनेति स्वरूपग्रहणादव्याप्तिरिति मत्वाऽऽह -- भयभीभीतिभीभिरिति वक्तव्यमिति। एवं सूत्रन्यासः कर्तव्य इत्यर्थः। व्याख्यानात्वर्थग्रणे ठ्वृकेभ्यस्त्रासःऽ इत्यादावपि प्रसङ्गः इति भावः। स तर्हि तथा न्यासः कर्तव्य? नेत्याह - पूर्वस्यैव बहुलग्रहणस्येति। यथा हि ठ्पादहारकःऽ इत्यादै बहुलग्रहणात्सर्वेपाधिव्यभिचारार्थाद्भवति, एवमत्रापि भविष्यतीत्यर्थः। अधमजुगुप्सुरिति ठ्जुगुप्साविरामऽ इत्यधर्मस्यापादानसंज्ञा॥ ३८ अपेतापोढमुक्तपतितापत्रस्तैरल्पशः ॥ २-१-३८ ॥ अल्पशब्दाद् ठ्बह्वल्पार्थात्ऽ इति शस, ठ्शसि बह्वल्पार्थस्यऽ इति पुंवद्भावः। कारकत्वं तु समसनक्रियायां कर्मत्वात्। अत एव पञ्चमी समस्यत इति कर्मणि लकारः। तत्र तु बह्वल्पार्थान्मङ्गले वचनमिति वक्ष्यति। तस्मादत एव निपादनादत्र शसति युक्तम्। अल्पा पञ्चमीति। अल्पाभ्यः प्रकतृतिभ्य उत्पन्नेत्यर्थः। ३९ स्तोकान्तिकदूरार्थकृच्छ्राणि क्तेन ॥ २-१-३९ ॥ ४० सप्तमी शौण्ड्èअः ॥ २-१-४० ॥ अत्र साहचर्याद् धूर्तादिष्वजहत्स्वार्थ एव शौणडशब्दः प्रयुज्यते, यथा - च्छत्रिणो गच्छन्तीति। अत्र च प्रमाणं बहुवचननिर्द्देशः, अतेऽन्तरेणाप्यादिशब्दं तदर्थो गम्यते इत्याह - शौण्हादिभिरिति। गणपाठसामर्थ्यातु बहुवचननिर्देशोऽर्थनिर्देशार्यः, बहुवचनान्तस्य वा समासार्थ इति न चान्यत्सप्तम्या निम्तमस्ति। न चैतदेव ज्ञापकं शक्यमाश्रयितुम्; शौण्डो देवदत इत्यादावपि प्रसङ्गाद्, अत आह - वृताविति। अन्तःशब्दोऽत्र पठ।ल्ते, तद्योगेऽवयविन आधारत्वविवक्षायां सप्तमी, यथा वृक्षे शाखेति, वनेऽन्तर्वनान्तः। अस्य विकल्पितत्वादव्ययीभावोऽपि भवति, अन्तर्वणम्, ठ्प्रनिरन्तःऽ इति णत्वम्। अधिशब्दः पठ।ल्ते, तस्याविकरणप्राधान्येऽव्ययीभावः - अधिसत्रीति। आधेयप्राधान्ये ह्ययं तत्पुरुषः - ब्राह्मणाधैइनमिति। ठद्यौतरपदात्खःऽ इति खः। ब्राह्मणेष्वधीति वाक्यम्॥ ४१ सिध्दशुष्कपक्वन्धैश्च ॥ २-१-४१ ॥ साङ्काश्यसिध्दिः काम्पिल्यसिध्द इति। सङ्काशेन निर्वृतं वनं साङ्कायम्। कम्पिलेन निर्वृतं काम्पिल्यम्। चातुर्थिकः सङ्काशादिभ्योण्यः तत्र तपसा सिध्द इत्यर्थः॥ ४२ ध्वाङ्क्षेण ॥ २-१-४२ ॥ ठ्स्वं पूपं शब्दस्यऽ इति वचनात्पर्यायाणां न प्राप्नेतीत्य आह - ध्वाङ्क्षेणेत्यर्थग्रहणमिति। व्याख्यानाच्चैतदवसीयते। तीर्थे ध्वाङ्क्ष इवेति। उपमानोपमोयभावे सति क्षेपो गम्यते, नान्यथेतीवशब्दः प्रयुक्तः। यथा तीर्थे ध्वाङ्क्षा न चिरं स्थातारो भवन्ति, एवं कार्येष्वनवस्थितस्तीर्थध्वाङ्क्ष इर्तर्थः, तदाह - अनवस्थित इत्यर्थ इति। वृतौ त्विवार्थस्यान्तर्भावादिवशब्द्सयाप्रयोगः॥ ४३ कृत्यैरृणे ॥ २-१-४३ ॥ यत्प्रत्ययान्तेनैवेष्यते इति । ठल्पशःऽ इत्यनुवृतेरेतल्लभ्यते। कृत्यैरिति बहुवचनं तु प्रकृतिभेप्रायम्। ऋणग्रहणं च नियोगोपलक्षणार्थमिति। नियोगः उ अवश्यम्भावः। ऋणमवश्यदेयमिति नियोगसाहचर्यान्नियोगमात्रमुपलक्षयति। तेन किं सिध्दं भवतीत्याह - इहापीति। पूर्वाह्णोगेयमिति। ठ्तत्पुरुषे कृति बहुलम्ऽ इत्युलुक्। यथा ऋणमवश्यं देयम्, एवमिदमपि पूर्वाह्णेऽवश्यं गेयमिति नियोगोऽस्ति॥ ४४ संज्ञायाम् ॥ २-१-४४ ॥ ४५ क्तेनाहोरात्रावयवाः ॥ २-१-४५ ॥ दिवा वृतमिति। ऐकपद्यमैकस्वर्यं च न भवति। ननु च दिवाशब्दोऽधिकरमशक्तिप्रधानः तत्रभिहितः सोऽर्थोऽन्तर्भूतः प्रातिपदिकार्थः सम्पन्न इति प्रथमैवास्माद्भवति, अतः सप्तम्यभावादेवात्राप्रसङ्गः। नैषोऽस्ति नियमः - अधिकरणक्तिप्रधान इति; दिवामन्या रात्रिरित्यपि दर्शनात्। कथं ठ्रात्रिवृतमनुयोक्तुमुद्यतऽ इति? ठ्कर्तृकरणे कृता बहुलम्ऽ इति मन्यते। एवं चान्यजन्मकृतमित्याद्यपि भवति॥ ४६ तत्र ॥ २-१-४६ ॥ तत्रेत्येतत्सप्तम्यन्तमिति। तत्रभवानित्यादौ विभक्त्यन्तरेऽपि दर्शनादध्रकणप्रतिपादने तत्रशब्दादपि सप्तम्येवापेक्ष्येति मन्यते॥ ४७ क्षेपे ॥ २-१-४७ ॥ अवतप्तेनकुलस्थितं तवैतदिति चिरन्तनप्रयोगः, तस्यार्थमाह - चापलमेततवेत्यर्थ इति। यथा अवतप्ते प्रदेशे नकुला न चिरं क्थातारो भवन्ति, एवं कार्याण्यारभ्ययश्चापलेन न चिरं तिष्ठति स एवमुच्यत इत्यर्तः। ठ्कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणम्ऽ इति नकुलस्थितशब्देन समासः, पूर्ववदलुक्॥ ४८ पात्रेसमितादयश्च ॥ २-१-४८ ॥ युक्तारोह्यादिपरिग्रगर्थमिति। युक्तारोह्यादयश्चेत्यत्रैषामपि परिग्रहो यथा स्यादित्यर्थः। प्रत्र एव समिता इति। भोजनसमय एव सङ्गता इत्यर्थः। पात्रेबहुला इति। भोजनसमय एव सङ्घीभवन्ति, नान्यकार्य इत्यर्थः। उबुम्बरमशकादिष्विति। यस्तत्रैव तृप्तो नास्मात्परमस्तीति मन्यते, सोऽयमदृष्टविस्तारः पुरुष उदुम्बरमशकादिरुच्यत इत्यर्थः। प्रतिषिध्दसेवनेनेति। शत्रुषु भार्यायां वा पुरुषायितव्यम्, मातरि पुरुषायितं प्रतिषिध्दप्। निरीहतयेति। पिण्डी उ ओदनपिण्डः, तत्रैव शूरो नान्यत्रेति निरीहता। परमपात्रेसमिता इति। एवंरूपं वृत्यन्तरं न भवति, परमाः पात्रेसमिता इति वाक्यमेव भवतीत्यर्थः॥ ४९ पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन ॥ २-१-४९ ॥ भिन्नप्रवृत्तिनिमितस्येत्यादि। भिन्नग्रहणं पर्यानिवृत्यर्थम्। एकग्रहणं गौरश्च इत्यादिनिवृत्यर्थम्। क्वचिद् भिन्नन्मितप्रयुक्तस्येति पाठः, भिन्नेन निमितेन प्रवृत्तिनिमितेन प्रवर्तितस्येत्यर्थः। ठ्विशेषणं विशेष्येणऽ इति सिध्दे पूर्वकालादीनां पूर्वनिपातार्थं वचनम्, एकशब्दस्य तु ठ्दिक्संख्ये संज्ञायाम्ऽ इति नियमात्प्राप्त्यर्थमेव। पूर्वकाल इत्यर्थग्रहणमिति। पूर्वः कालोऽस्य पूर्वकालः, पूर्वमनुष्ठत इत्यर्थः। स च चरमानुष्ठितमपेक्ष्य भवतीत्यर्थातेनैव समासो विज्ञायत इत्याह - परकालेनेति। स्नातानुलिप्त इति। पूर्वं स्नातः पश्चादनुलिप्त इत्यर्थः। अत्र क्रियाशब्दत्वात्पाचकपाठकादिवत्पूर्वनिपातः पर्यायात्स्यात्। एकशाटिति। शाटशब्दाज्जतिलक्षणो ङीष्, ठेकतध्दिते चऽ इति ह्रस्वः। सर्वमनुष्य इति। अत्र विशेषणमित्यपि समेसे न दोषः, तस्मात्क्रियावाचिनां कूणवाचिनां वा समासो दर्शनीयः। एवं जरदादिष्वपि एकस्याः शाटीति। अत्र भवितव्यमेव षष्ठीसमासेन, तस्मादेकरस्याः शौक्ल्यगिति प्रत्युदाहर्तव्यम्। अत्र हि गुणेन नेति प्रतिषेधः॥ ५० दिक्संख्ये संज्ञायाम् ॥ २-१-५० ॥ ठ्विशेषणं विशेषणऽ इति सिध्दे नियमार्थमेतत् - संज्ञायामेव ,नान्यत्रेति। पूर्वसूत्रमित्यादौ त्वदिग्वाचित्वात् समासः॥ ५१ तध्दितार्थोतरपदसमाहारे च ॥ २-१-५१ ॥ तध्दितार्थोतरपदसमाहारे च ॥ ठ्विशेष्येणऽ इति सिध्दस्य पूर्वेशानियमादप्राप्तविधिरयम्। अगृह्यमाणविषयत्वाद्वायमपि नियमः शक्यते वक्तुम् - अयं नियमः पूर्वो विधिरिति। एकापि सप्तमी विषयभेदाद्भिद्यत इत्याह - तध्दितीर्थे विषयभूत इत्यादिना। तध्दितार्थेऽभिधेय इत्येवं तु विज्ञायामाने पाञ्चनीपितिरित्यादौ दध्दितो दुर्लभः स्यात्; तदर्थस्य समामेनैवोक्तत्वादिति भावः। अस्मिन् पक्षेऽर्थग्रहणं चिन्त्यप्रयोजनम्। दध्दिते विषय इत्येवास्तु, तध्दिते परत इति तु विज्ञायमाने इतरेतराश्रयं प्राप्नोति - समासातध्दितो विधेयः, तध्दिते च समास इति। किञ्च - ठ्तध्दितार्थेऽभिधेयेऽ इत्यास्मन् पक्षे न दोषः, ठ्द्विगोर्लुगलपत्येऽ इति लुग्वचनं ज्ञापकमुत्पद्यते - द्विगोस्तध्दित इति सर्वतध्दितसाधारणो द्विगुः, तत्रावश्यं विशेषाभिधाअनाय तध्दित उत्पद्यत इत्यपि श्कयं विज्ञातुम्। अथेवं कस्मान्न वज्ञायते - तध्दितार्थे द्विगुर्भवति, तध्दितो यथा स्यादिति द्विगुर्भवतीति, यथादारार्थं घटामहे, दारा यथा स्युरिति घटामह इति? नेवं शक्यं विज्ञातुम्; एवं हि विज्ञायमाने दध्दितोत्पतये विधीयमाना समाससंज्ञा विषयान्तरे न स्यात्। एवं तस्यैव समासस्य विधीयमाना द्विगुसंज्ञापि, ततश्च पञ्चारत्निरित्यत्र इगन्ते द्विगाविति स्वरो न स्यात्, तस्य तु समाहारद्विगुरवकाशः, यथा - स्वरे विधीयमानः पराङ्गवद्भावः षत्वणत्वयोर्न भवति, तथात्रापि। पौर्वशाल इति। पूर्वस्यां शालायां भव इति तध्दितार्थे विवक्षते समासः, ततस्तध्दितः। पूर्वशालाप्रिय इति। पूर्वा शाला प्रियास्येति त्रिपदे बहुव्रीहौ प्रियशब्दे उतरपदे परतः पूर्वयोस्तत्परुषे सति समासान्तोदातत्वं शालाशब्दस्य भवति, असति त्ववान्तरतत्परुषे सतदि समासान्तोदातत्वं शालाशब्दस्य भवति, असति त्ववान्तरतत्पुरुषे पूर्वपदप्रकृतिस्वरेण पूर्वशब्दस्याद्यौदातत्वमवतिष्ठेत। समाहारे दिक्शब्दो न सम्भवतीति। स हि समूहरुपत्वाद्भेदनिबन्धनः, संख्यैव च भेदमाचष्टे, दिक्शब्दस्तु प्रत्यर्थनियतः। विभक्तिरपि समासे निवर्तते। ननु यथा ठ्काकसमूहःऽ इत्यत्र विभक्त्यभावेऽपि भेदावगतिस्तथात्रापि भविष्यति, तस्मात्प्रयोगाभावादित्येवात्र हेतुर्वक्तव्यः। पाञ्चनापितिरिति। पञ्चानां नीपितानामपत्यमिति समासे, अत इञ्। पञ्चकपाल इति। पञ्चसु कपालेषु संस्कृत इति समासे ठ्संस्कृत भक्षाःऽ इत्यणः ठ्द्विगोर्लुगलपत्येऽ इति लुक्। पञ्चगवधन इति। पञ्च गावो धवमस्येति त्रिपदे बहुव्रीहौ कृते धनशब्द उतरपदे परतः पूर्वयोस्तत्पुरुषे ठ्गोरतध्दितलुकिऽ इति टचि। अयमुतरपदे तत्पुरुषो महाविभाषाधिकाराद्विकल्पेन प्राप्नोति, नित्यो बक्तव्यः; अन्यथा पञ्चगोधन इत्यपि स्यात्। उक्तं च ठ्द्वन्द्वतत्पुरुषयोरुतरपदे नित्यसमासवचनम्ऽ इति, वाक्च दृषच्च प्रिये अस्य वाग्दृषदप्रिय इति त्रिपदबहुव्रीहौ पूर्वयोर्द्वन्द्वः, स च नित्य इष्यते - नित्यं समासान्तो यथा स्यादिति। पञ्चपूलिति। पञ्चानां पूलानां समाहार इति विग्रहः, न तु पञ्चपूलाः समाहृता इति। भावसाधनो हि समाहारशब्दः - समाहरणं समाहारः उ विप्रकीर्णानामेकत्र राशीकरणम्। पञ्चग्रामः, षण्णगरी, त्रिपुरीत्यत्रैकस्मिन् क्षणे क्रियायां समन्वयाद्भिन्नदेशानामपि बुध्द्या राशोकरणं भवति। अथ कर्मसाधने को दोषः? इह पञ्चकुमारीति, कुमार्यर्थप्रधान्यात्समासशास्त्रे चाप्रधमानिर्द्दिष्टत्वादेकविभक्तित्वाभावाच्चोपसर्जनत्वाभावाद् ठ्गोस्त्रियोरुपसर्जनस्यऽ इति ह्रस्वो न स्यात्, काममत्र नुपंसकह्रस्वत्वं सिध्दम्। इह पञ्च खट्वाः समाहृताः पञ्चखट्वीति वा टाबन्त इति सत्रीलिङ्गपक्षे ह्रस्वाभावाद् ठ्द्विगोःऽ इति ङीब् न स्यात्। भावसाधने तु समासार्थे समाहारे नानाविभक्तिभिर्युज्यमानेऽपि कुमारीशब्दस्य नित्यं षष्ठ।ल्èव योग इतेयकविभ्क्तिकत्वात्सिध्दमुपसर्जनत्वम्। तस्माद्भावसादनः। द्विगुरेकवचनमित्येततु ठ्स नपुंसकम्ऽ इति वक्ष्यामीत्याहभ्यते, कथं पञ्चपूलामानयोत्युक्ते पूलानामानयनम्, नान्तरेण द्रव्यानयनं भावानयनं सम्भवति, यथा नान्तरेण प्रत्रानय्नमग्नेरानयनं सम्भवति? एवमपि समाहारग्रहणमनर्थकम्, भावसाधनो हि समाहारशब्दः समूहपर्याययः, समूहश्च तध्दितार्थस्तत्र ठ्तध्दितार्थऽ इत्येव सिध्दम्। यद्येवम्, दध्दितोत्पतिः प्राप्नोति? उत्पद्यतां दध्दितः, ठ्द्विगोःऽ इति लुग्भविष्यति। लुक्कृतानि प्राप्नुवन्ति, पञ्चपूली-ठपरिमाणबिस्ताचितऽ इति ङीप्प्रातिषेधः प्राप्नोति, ठ्पञ्चगवम्, ठ्गोरतद्वितलुकिऽ इति टच् न प्राप्नोति? नैष दोषः; अपरिमाणेत्यत्र न तध्दितलुकीत्यपास्य ठ्समाहारऽ इति वक्तव्यम्, तन्नियमार्थम् - अविशेषेण द्विगोङीब्भवति, अपरिमाणान्ताद्विस्ताचितकम्बल्यान्ताच्च समाहार एवेति, पञ्चानामश्वानां समाहारः पञ्चश्वी। क्व मा भूत्? पञ्चभिरश्वैः क्रीता पञ्चाश्वा। ठ्गोरतद्वितलुक्ऽ इत्यत्राप्यतध्दितलुकीत्यपास्य ठ्द्विगोः समाहारऽ इति वक्तव्यम्, तन्नियमार्थम् - गोशब्दन्तस्य तत्पुरुषस्याविशेषेण टज् भवति, द्विगोस्तु समाहार एवेति, पञ्चानां गवां समाहारः पञ्चगवम्। क्व मा भूत्? पञ्चभिर्गोभिः क्रीतः पञ्चगुः पटः। एवमपि पञ्चकुमारीत्यत्र ठ्लुक् तध्दितलुकिऽ इति स्त्रीप्रत्ययस्य लुक् प्राप्नोति। तस्मातध्दितनिवृत्यर्थम्। समाहारग्रणातु समासस्यैव समाहारो वाच्यः, न तध्दितस्येति व्याख्यानातध्दितो नोत्पद्यत इति सिध्दमिष्टम्। इह पञ्च गावोऽस्य सन्ति पञ्चगुः पुरुष इति मत्वर्थम्य तध्दितार्थत्वादयं समासः प्राप्नोति, न बहुव्रीहिः; अशेषत्वात्, तस्य तु चित्रग्वादिरवकाशः, यत्र दिक्संख्ये न स्तः। सति चास्मिन्समासे मतुपः श्रवण स्यात्। अप्राग्दीव्तीयत्वाद् द्विगोर्लुगापि नास्ति। तस्मान्मत्वर्थे प्रतिषेधो वक्तव्यः॥ ५२ संख्यापूर्वो द्विगः ॥ २-१-५२ ॥ क्वचिदनन्तरोऽपोक्ष्यते, यत्रैतदुच्यते - ऽअनन्तस्य विधिर्वा भवति प्रतिषेधो वाऽ इति; क्वचित्समुदायः, यथा - ठ्न षट्स्वस्रादिभ्यःऽ इत्यत्र वक्ष्यते - तस्मान्नोभाविति, तदिह समुदायोऽपेक्ष्ते? अनन्तरो वा? इति संशयेऽनन्तर इत्याह - तध्दितार्थ इत्यादि। अयं भावः - समुदायापेक्षायां संख्यापूर्वपदसमानाधिकरमसमासमात्रपरिग्रहे द्विमुनि व्याकरणस्येत्यव्ययीभावस्यापि स्यादितीगन्ते द्विगाविति स्वरप्रसङ्गः। समानाधिकरणतत्पुरुषापेक्षायामपि एकशाटीत्यत्रापि स्यात्। संख्याशब्दोपादनविहितत्पुरुषपरिग्रहेऽपि ठ्दिक्सख्ये संज्ञायाम्ऽ इत्यस्यापि ग्रहणात्सप्तरषय इत्यत्र द्विगुस्वरप्रसङ्गः। योगविभागश्चानर्थकः, ठ्दिक्सख्ये संज्ञायां तध्दितार्थोतरपदसमाहारेऽ इत्येकयोगः कर्तव्यः स्यादिति। कथमेकापूपीति? अत्र ह्यएकश्चासावपूपश्चेति पूर्वकालेति समासे कृते द्विगत्वे सति ठकारान्तोतरपदो द्विगुः स्त्रियां भाष्यतेऽ इति ठ्द्विगोःऽ इतैइकारः सिध्द्यति, नान्यथा। न चैकशाटीतिवज्जातिङीष्नेन समासः सक्यतेकर्तुम्, केवलस्यापूपशब्दस्य पूंल्लिङ्गत्वात्? उच्यते - अत्रानन्तरसूत्रेण समाहार एव समासः। नन्वनेकविषयः समाहारो नेकस्य सम्भवति, कथम्? एहैसमप्यपूपं कश्चित्कृपणो दददनेकं मन्यते, तथा दानश्रध्दातिशयादपूपमहतवाद्वाऽनेकस्मिन्यः संगमस्तमेकस्मिन्नपि करोति। अनेन प्रतिग्रहीता कृपणो व्याख्यातः, तत्ररोपितबहुत्वाश्रयः समाहार इति सध्दम्॥ ५३ कुत्सितानि कुत्सनैः ॥ २-१-५३ ॥ कुत्सितानीति। ठ्कुत्स अवक्षेपणेऽ मत्यादिसुत्रे चकारस्यानुक्तसमुच्चयार्थत्वाद्वर्तमाने क्तः। बहुवचननिर्देशादुभयत्रार्थग्रहणं न स्वरूपग्रहणमित्याह - कुत्सितवाचीनीति। वैयाकरणखसूचिरिति। सूचयतेः ठिच्चऽ इतीकारः। यः पृष्टः सन् प्रश्नं विस्मारयितुं खं सूचयति उ खं निरीक्षते - अहो निर्मलं गगलमिति, स एवसुच्यते। अत्र व्याकरणस्य वेदाङ्गस्याध्ययनं प्रशस्तमपि प्रतिभानाभावेन निष्फलत्वात्कुत्स्यते। याज्ञिककितव इति। किं तवास्तीति धनमात्रप्रश्नेन जात्यादिनिरपेक्षो द्यौउते प्रवर्तमानः कितवः। इह तु कितव इव कितवः, यो याज्ञिको याज्यस्य धनसतामेवापेक्षते न यागार्हताम्, स याज्ञिककितव इत्युच्यते, तदाह - अयाज्ययाजकस्तृष्णपपर इति। मीमांसकदुर्दुरूट इति। ठ्दुल उत्क्षेपेऽ, दुःपुर्वः औणादिकः कूटप्रत्ययः। ठ्बहुलमन्यत्रापिऽ इति णिलुक्, लरयोरेकविषयत्वस्मरणाद् दुर्दुरुट इति भवति। वैयाकरणश्चौर इति। कथमेतत्प्रत्युदाहरणम्, यावता चौरतवेन गर्ह्यमाणत्वाद्भवत्येव वैयाकरणकुत्सा, तत्रह - न ह्यत्रेति। प्रत्यासतेः शब्दप्रवृतेः शब्दप्रवृत्तिनिमितकुत्सायां समासेन भवितव्यम्, अत्र च वैयाकरणः कुत्स्यते चौरत्वेन, न तु वैयाकरणत्वम्। कुत्सिनो ब्राह्मण इति। अत्र ठ्विशेषणं विशेष्यणऽ इति भवितव्यमेव समासेन। यदि नेष्यते, बहुलग्रहणं शरणम्॥ ५४ पापाणके कुत्सितैः ॥ २-१-५४ ॥ ५५ उपमानानि सामान्यवचनैः ॥ २-१-५५ ॥ उपमीयतेनेऽनेत्युपमानमिति। उपपूर्वान्माङ्ः करणे ल्युटि समास इति दर्शयति। भाष्ये तु मानस्य समीपमुपमानमित्यर्थकथनमात्रम्। अव्ययीभावे उपमानानीति रूपासिधिदिप्रसङ्गादिति भावः। उपपूर्वकश्च माङसादृश्यहेतुके परिच्छेदे रूढः। येन वस्त्वन्तरं सादृश्येन परिच्छिद्यते तदुपमानम्, तद्यथा - गौरिव गवय इति; गौः करणम्, पुरुषः परिच्छेता, स हि गोः सादृश्येन गवयं परिच्छिनति - गोसदृशो गवय इति। सामान्यवचनैरिति। समानशब्दः धर्मः - सामान्यम्, चच्चोपमानस्य श्रुतत्वातस्य चोपमेयापेक्षत्वातयोरेव साधारणो धर्मो विज्ञायत इत्याह - उपमानोपमययोरित्यादि। तद्विशिष्टोपमेयवनैरिति। तेन साधारणेन धर्मेण विशिष्ट्ंअ यदुपमेयं तद्वचनैः, न तु साधारणधर्ममात्रवचनैरितियर्थः। वचनग्रहणाच्चायमर्थौ लभ्यते, सामान्यमुक्तवन्तः उ सामान्यवचनाः। ये सामान्यमुक्त्वा तद्वति द्रव्ये पर्यवस्यन्ति ते तथोक्ताः, यथा गुणमुक्तवान् गुणवचन इति। तच्च सामान्यवदुपमानशब्दस्य संबन्धिश्बदत्वातदाक्षिप्तमुपमेयमेव विज्ञायत इति सुष्ठूअक्तम् - तद्विशिष्टोपमेवचनैरिति। शस्त्रीश्यामेति। अत्र श्यामगुणविशिष्टत्वेन प्रमिध्दत्वादुपमानं शस्त्री, उपमेया देवदता, तयोः सअधारणो धर्मः श्यामत्वम्, तदभिधाय तद्विशिष्टायां श्यामाशब्दः पर्यवस्यातीति भवति सामान्यवचनः। ननु च समानाधिकरणेनेति। वर्तते, इह च शस्त्रीशब्दः शस्त्र्यां वर्तते, श्यामाशब्दस्तु देवदतायाम्, यदाह - ठुपमानवाचीनि सुबन्तानि तद्विशिष्टोपमेयवचनैःऽ इति; तथा विग्रहवाक्ये इवशब्दः प्रयुक्तः - शस्त्रीव श्यामेति? सत्यम्; वचनसामर्थ्यातु वैयधिकरण्येऽपि समासः। यद्येवम्, मृगीव चपला मृगचपला, हंसीव गद्गदा हंसगद्गदा, पुंवत्कर्मधारयेति सामानाधिकरण्यलक्षणः पुवद्भावो न प्राप्नोति? नैष दोषः; जातायन्तरनिवृत्तिपरायां चोदनायां स्त्रीत्वमकिञ्चित्करम्, तत्र कुक्कुटाण्डम्, मृगक्षीरमित्यादिवदिदमपि सिध्दम्। ननु चान्यदेव चापलं स्त्रियाः, अन्यदेव पुंसः? सत्यम्; जातिमात्रोपादानेऽपि प्रकरणादिवशात् स्त्रीत्वं प्रत्यायिष्यते, तच्च बहिरङ्गत्वान्न स्त्रीप्रत्ययस्य निमितम्। अन्यथा पुंवद्भावेन निवृतौ स्त्रीप्रत्ययस्य तवापि कथं विशंषावगतिः। अस्त्वेवम्, यदि तु मृगीव चपलेति स्त्रीप्रत्ययान्तस्य समासः क्रियते, तदा मृगीचपलेति प्राप्नोति, न हि तेन समासो दण्डवारितः, समानाधिकरणाधिकारश्च बाध्येत। एवं तर्हि समानाधिरकणसमास एवायम् - शस्त्री चासौ श्यामा चेति, कथं पुनर्देअवदतायां शस्त्रीश्बदः, जातिवचनो ह्यसौ सादृश्यनिमितादभोदोपचारात्, यथा - गौर्वाहीक इति। यद्येवम्, शस्त्रशब्दोऽप्युपमेये संक्रान्त इत्युपमानवाचित्वं नोपपद्यते? सत्यम्; पूर्वावस्थाश्रयेण तूपमानत्वं द्रष्टव्यम्। इवशब्दप्रयोगस्तूपमानप्रदर्शनार्थः, न प्रक्रियावाक्याङ्गमिति न कश्चिद्दोषः। ननु श्यामगुणत्वेन साधर्म्येण शस्त्रीशब्दो देवदतायां प्रयुज्यत इति श्यामशब्दो न प्रयोगार्हः, तन्न; बहवो हि शस्त्र्यां गुणाः - तीक्ष्णा सूक्ष्मा पृथुः श्यामेति, तत्रासति श्यामगुणेन शस्त्रीत्वसारोपितमिति। ननु सदपि श्यामपदं देवदतामुपस्थाप्य चरतार्थमिति नैव शस्त्रीगुणो निर्द्दिश्यते, नैतदस्ति; नैवमत्र वचनं व्यज्यते या श्यामा सा शस्त्रीवेति। कथं तर्हि शस्त्रीव श्यामा देवदतेति? अस्यां तु वचनव्यक्ताविवशब्देन तावदुपमेयनिष्ठत्वेन प्रतीयते, उपमेयनिष्ठो गुण उपमानं स्पृशत्येव। अथ वा चन्द्रमुखीत्यादावनिर्दिष्टोऽपि गुणः प्रियदर्शनत्वादिः प्रसिध्दिवशादुपमाननिमितत्वेन प्रतीयते, तदोपमेयेऽपि तावच्श्रुतः कथमुपमानं न स्प्रक्ष्यति। फाला इव तण्डुला। दीर्घत्वादिना धर्मेण॥ ५६ उपमितं व्याघ्रादिभिः सामान्याप्रयोगे ॥ २-१-५६ ॥ उपमितमित्यत्र भूतकालो न विवक्ष्यत इत्याह - उपमोयमुपमितमिति। सामर्थ्यादिति। उपमेयमुपमानापेक्षमित्येतत्सामर्थ्येन चेत्सामान्यवाचीति यदा प्रकरणादिवशान्नियतः साधारणगुणः प्रतीयते तदा समासः, यदा तु गुणान्तरव्यवच्छेदाय विशिष्टः साधारणगुणवचनः शब्दः प्रयुज्यते तदा न समास इत्यर्थः। पुरुषोऽयं व्याघ्र इवेति। उपमानप्रदर्शनमेतत्, अत्र हि वैयधिकरण्यात्समासस्याप्रसङ्गः। यदा तु व्याघ्रश्बदस्ताध्दर्म्यात्पुरुषे वर्तते तदा सामानाधिकरण्ये सति समासः। अत एवोक्तम् - विशेषणं विशेष्येणेति प्राप्ते इति। पुरुषोऽयं व्याघ्र इव शूर इति। ननु सामान्यशब्दप्रयोगे सति तदपेक्षत्वादसामर्थ्यादेव न भविष्यति, एवं तर्ह्यतज्ज्ञापयति - भवति प्रधानस्य सापेक्षस्य वृत्तिरिति। तेन राजपुरुषोऽभिरुप औपगवः शोभन इत्यादि सिध्दं भवति। न्यायसिध्द एवार्थे लिङ्गदर्शनमिदम्। प्राधान्यादेवानेकोपकार्यत्वसम्भवात्पुरुषव्याघ्रोऽभिरुप इति भवत्येव। शौर्यं ह्यत्र समानधर्मः, नाभिरुपम्। अत एव ठ्सामान्याप्रयोगेऽ इत्युक्तम्, न तु ठ्गुणाप्रयोगेऽ इति॥ ५७ विशेषणं विशेष्येण बहुलम् ॥ २-१-५७ ॥ भेदकमिति। असिश्च्छिनतीतिवत् करणस्य कर्तृत्वविवक्षायां ण्वल्। विशेषणमिति। ठ्शिष्लृ शेषणेऽ विपूर्वः, विशेष्यतेऽनेनेति विशेषणम्, करणे ल्यट्। यत्साधारणाकारेण प्रतिपन्नं बहुप्रकारं वस्तु प्रकारान्तरेभ्यो व्यवच्छद्य एकस्मिन्प्रकारे व्यवस्थापयति तत्पदं विशेषणं भेदकमिति चोच्यते। वियवस्थाप्यमानं विशेष्यं भेद्यमिति च। ननु च विशेष्यमिति च सम्बन्धिशब्दावेतौ, ततश्च विशेषणमित्युक्ते गम्यत एव - विशेष्येणेति, एवं विशेष्येणेत्युक्ते गम्यते-विशेषणमिति, तत्किमर्थमुभयमुपादीयते? यत्र पूर्वोतरपदयोर्द्वयोरपि प्रत्यकं विशेषणविशेष्यभावस्तत्रैव यथा स्याद्, यथा-नीलोत्पलमिति। अत्र हि नीलार्थो भ्रमरादिसाधारणरुपेण प्रतिपन्न उत्पलार्थेनोत्पले व्यवस्थाप्यते, उत्पलार्थो हि रक्तादिसाधारणरुपेण प्रतिपन्नो नीलार्थेन नीले व्यपस्थाप्यत इति भवति प्रत्येकमुभयभावः। यत्र तु स नास्ति न तत्र समासो भवति, यथा प्रत्युदाहरणे-तक्षकः सर्प इति, न हि तक्षकः सर्पत्वं व्यभिचरति। ननु व्यभिचरति, क्रियानिमितकोऽपि तक्षकशब्दोऽस्ति - तक्ष्णोतीति तक्षत इति? सत्यमस्ति; न त्वसौ नामधेयेन गाहते तुल्यकक्षताम्, द्रागेव रूढौ प्रतिभा क्रियाशब्दो विलम्बिता। इह तु शिंशपावृक्ष इति, शिशंपाशब्दस्य फलेऽपि दर्शनाद्वक्षव्यभिचाराद्भवत्येव समासः, न चात्र वृक्षप्रतीतिपूर्विका फले प्रतीतिर्येन बहिरङ्गा स्यात्। यथेव हि पञ्चालादयः शब्दा जनपदिनां जनपदस्य च साधारण्येनान्योऽन्ययोगमपेक्षन्ते तद्वदेदेऽपि। यथोवाच भगवान्-ठ्लुब्योगाप्रख्यानात्ऽ इति इह तर्हि कथम् ठथ जयाय नु मेरुमहीभृतःऽ इति, न मेरुर्महीभृत्वं व्यभिचरति? निरंकुशाः कवयः। यदि तर्हि यत्र प्रत्येकमुभयभावस्तत्र समासः, उभयोरपि विशेषणत्वमिति प्रथमानिर्दिष्टत्वादुपसर्जनत्वे सति पूर्वनिपातानियमः स्याद् - नीलोत्पलम्? अर्थ तश्चाप्राधान्यम्। तदिह द्रव्यगुणोपनिपाते द्रव्यं प्रधानम्, अप्रधानं गुणः। द्रव्यं हि क्रियासिध्दौ साक्षादुपयुज्यते, गुणस्तु द्रव्यावच्छेदद्वारेण। अतो गुणवचनस्यैव पूर्वनिपातः, न द्रव्यवचनस्य। ननूत्पलशब्दोऽपि जातिशब्दः, न द्रव्यशब्दः; यदि तु जातिविशिष्टे द्रव्ये पर्यवसानाद् द्रव्यशब्दत्वम्, हन्तैवं नीलशब्दोऽपि गुणिविशिष्टे द्रव्ये पर्यवस्यन् द्रव्यशब्दः स्यात्? अत्रोच्यते-उत्पतेः प्रभृत्या विनाशाज्जातिर्द्रव्यं न जहाति, न तु भवति शाबलेयस्य गौरिति। तस्माज्जात्यात्मकमेव द्रव्यं प्रतीयत इति जातिशब्दो द्रव्यत्वेन व्यवस्थाप्यते। गुणाः पुनः सत्येव द्रव्ये कदाचिदुपयन्ति, कदाचिदपयन्ति - पटस्य शक्ल इति, व्यतिरिक्ता अपि द्रव्यात्स्वशब्दैः प्रत्याय्यन्त इति न गुणात्मकं द्रव्यं भवतीति न गुणशब्दो द्रव्यशब्दत्वे व्यवस्थातुमर्हति। अत एव ठ्श्वेतं छागमालभेतऽ इति चोदनायां श्वेताभावे कृष्णाश्छाग आलभ्यते, न तु छागाभावे पिष्टपिण्डीमालभ्य कृती भवति। क्रियाद्रव्ययोरुपनिपातेऽप्येवमेव द्रष्टव्यम् - याचकब्राह्मण इति। यत्र तु गुणशब्दयोः, क्रियाशब्दयोः, गणक्रियाशब्दयोश्चोपनिपातः, तत्रानियम एव भवति - खञ्जकुब्जः, कुब्जखञ्जः; पाचकपाठकः, पाठकपाचकः; खञ्जपाचकः, पाचकखञ्ज इति। शिशपावृक्ष इति। द्रव्यशब्दयोरेवोपनिपातेऽपि वृक्षत्वस्य व्यापकत्वान्महाविषयत्वाद् दूरात्प्रथमत एवोपलम्भाच्च प्राधान्यम्, शिशपात्वस्य तु विपर्ययादप्रधान्यमिति न तत्राप्यनियमः। विशेषणमिति किमिति॥ विशेष्यशब्दस्य सम्बन्धिशब्दत्वादेव विशेषणमिति लप्स्यत इति प्रश्नः। तक्षकः सर्प इति। ननु तक्षकशब्दोऽपि विशेषणं भवत्येव? एवं मन्यते-विशेष्यशब्दस्य सम्बन्धिशब्दत्वादेव पूर्वपदस्य विशेषणत्वे लब्धे पुनर्विशेषणग्रहणमुतरपदस्य विशेषणत्वप्रतिपत्यर्थम्-विशेषेयेण विशेषणं समस्यते, तच्चेद्विशेष्यं विशेषणमिति। न चात्रोतरपदं विशेषणम्; तक्षकस्य तपंत्वाव्यभिचारादिति। लोहितस्तक्षक इति। नात्र तक्षतो विशेष्यः, तस्य लोहितत्वाव्यभिचारात्। यद्येवम् लोहितो विशेषणं न स्यात्; तस्यापि विशेष्यापेक्षत्वात्? एवं तर्हि ठ्पाठक्रमादथक्रमो बलायम्ऽ इति तक्षको लोहित इति पाठो द्रष्टव्यः, अत्र हि तक्षको विशेषणं भवति; लोहितत्वस्य तक्षतकत्वव्यभिचारात्। यद्येवम्, लोहितत्वस्य विशेष्यत्वमपि स्यात्? अस्त्येव तस्य विशेष्यत्वम्, पूर्वपदस्य तु विशेष्यत्वाभावात्प्रत्युदाहणत्वम्। एवं च कृत्वा तक्षकः कर्प इत्येतदेवास्मिन्नपि प्रश्ने प्रत्युदाहरणं भवति। विस्पष्टार्थं तूभयोरुपादानम्॥ ५८ पूर्वापरप्रथमचरमजघन्यसमानमध्यमध्यमवीराश्च ॥ २-१-५८ ॥ पूर्वस्यैवायं प्रपञ्च इति। गुणक्रियाशब्देन सह समासे पूर्वादीनां पूर्वनिपातनियमार्थं तु न भवति, बहुंड्लग्रहणेनैव सिध्दत्वादिति मन्यते॥ ५९ श्रेण्यादयः कृतादिभिः ॥ २-१-५९ ॥ एकेन शिल्पेन पण्येन वा येदीवन्ति, तेषां समूरः उ श्रेणिः। तत्र पृथक्स्थितानां श्रेणिकरणे यथा स्यात्, श्रेणिस्थानामेव तु दण्डादिरूपेण करणे मा भूदित्याह - श्रेण्यादिषु च्व्यर्थव्चनमिति इति। श्रण्यादयः पठ।ल्न्ते इति। तेन तत्रादिशब्दो व्यवस्थावाची। कृतादिराकृतिगण इति। प्रयोगदर्शनेनाकृतिग्राह्यए गणः उ आकृतिगणः। अत्रादिशब्दः प्रकारे। च्व्यन्तानामित्यादि। परत्वादिति भावः। आकृतिगणेऽप्युदाहरणरुपेण कतिपयान्पठति। कृत॥ंअतेत्यादि॥ ६० क्तेन नञ्विशिष्टेनानञ् ॥ २-१-६० ॥ विशिष्टशब्दोऽयमधिके वर्तते, तच्चाधिक्यं क्वचित्सावधारणम्, तद्यथा - देवदतो यज्ञदतात्स्वाध्यायेन विशिष्टः, स्वाध्यायेनैव विशिष्टोऽन्ये गुणाः समा इति गम्यते। क्वचिन्निरवधारणम्, तद्यथा - देवदतो यज्ञदत्स्वाध्यायेन विशिष्टः, स्वाध्यायेन तावद्विशिष्टोऽन्ये गुणाः समा भूयांसो वा नेतन्निरुप्यते। वाक्यस्यैकरूपत्वेऽर्थप्रकरणादिना विशेषनिर्णयः। तत्र निरञ्धारणपक्षे - सिध्दं च तदभक्तं चेत्यत्रापि स्यात्, क्तान्तयोः प्रकृतिभेदेऽपि नव तावधिक इति विशिष्टग्रहणं चानर्थकं स्यात्, क्तेन सनञा नञित्येव वाच्यं स्यात्, अतः सावधारणपक्षमाश्रित्याह - नञैव विशेषो यस्येति। प्रकृत्यादिकमित्यादिशब्देन प्रत्ययोपसर्गयोर्ग्रहणम् तत्र सिध्दं च तदभक्तं चेति प्रकृतिरतुल्या, कर्तव्यमकृतमिति प्रत्ययः, प्रकृतं चानपकृतं चेत्युपसर्गः, एवं च पूर्वपदमपि क्तान्तमेव लभ्यत इत्याह - अनञ्क्तान्तमिति। अनञिति शक्यमकर्तुम्, न हि पूर्वपदे सनञि उतरपदे नञधिको भवति। कृतं च तदकृतं चेति। अवयवधर्मेणायं समुदायस्य व्यपदेशः, एकमेव च वस्त्वेकदेशकरणात्कृतं च भवत्येकदेशाकरणादकृतं चेति नात्र कश्चिद्विरोधः। यदि तर्हि सावधारणपक्ष आश्रीयते, एवं सति यस्य नुडपरो।धिकैडागमे वा, तेन सह समासो न स्यादित्यत आह -- नुडिटाविति। नुडिड्ग्रहणमागमोपलक्षणम्, न्यायस्य तुल्यत्वातेनच्छन्नाच्छन्नमिति तुगधिकस्यापि गहणम्। अशितानशितेनेति। ठश भोजनेऽ ठ्तस्मन्नुडचिऽ। क्लिष्टाक्लिशितनेति। ठ्क्लिशः क्त्वानिष्ठयोःऽ इति पक्षे इट्; तत्र नुट् प्रत्ययान्तभक्तः, इट् प्रत्ययभक्तस्तुक् नञ्भक्त इति सर्वेषामुतरपदेऽन्तर्भावः। इह तु छाताच्छितमिति ठ्शाच्छाएरन्यतरस्याम्ऽ इतीत्वे कृते नेनाधिक्यात्समासो न प्राप्नोति? अत्र केचिदाहुः - नुडिड्ग्रहण मर्थाभेदकस्य विकारमात्रस्योपलक्षणम्, तेनेहापि समासो भवतीति। त्रातात्राण मर्थाभेदकस्य विकारमात्रस्योपलक्षणम्, तेनेहापि समासो भवतीति। त्रातात्राणमित्यत्र तु निष्ठानत्वस्यासिध्दत्वाद्भेदकत्वाभावः, गौणत्वात्सामानाधिकरण्यस्य पूर्वेण न प्राप्नोतीत्यारम्भः। पूर्वनिपातनियमार्थश्च - कृताकृतमित्येव यथा स्यात्, अकृतमिति मा भूत्। कृतापकृमिति। एकदेशस्येष्टस्य करणादेकदेशस्य चानिष्टस्य करणादेकमववस्तु कृतं भवत्यपकृतं च। भुक्तं च तदत्यवहऋतत्वात्, विभुक्तं चाशोभनत्वाद्भुक्तविभुक्तम्, विशब्दोऽत्रोशोभनत्वं द्योतयति विरूपम्। एवं पीनविपीतम्। गमनम् उ गतम्, प्रत्यागमनम् उ प्रत्यागतम्, तत् क्षुण्णभुवा प्रत्यागमनेन सह चरितं गमनं गतप्रत्यागतम्, यातं च तदनुयातं तदानीमेव पुनर्गमनात् यातानुयातम्। क्रयाक्रयिकेति। ठल्पेऽ इति कप्रत्ययः, तदन्तश्च स्वभावात्स्त्रियां वर्तते। क्रयाक्रयिकेति ठन्येपामपि दृश्यतेऽ इति दीर्घः। महान् क्रयः क्रयशब्देनोच्यते गोबलीवर्दन्यायेन। एवं पुटापुटिका, फलाफलिका, मानोन्मानिकेति। शाकपार्थवादीनामिति। ठ्सिध्दयेऽ इति शेषः। पृथोरपत्यं पार्थवः, केचित्पाथिवेति पठन्ति, पृथिव्या ईश्वरः पार्थिवः, ठ्तस्येश्वरःऽ इत्यञ्, तस्याभ्यवहार्येषु शाकं प्रियत्वात्प्रधानम्। तत्र साहचर्यादेव तद्व्यपदेशत्वलाभादुतरपदलोपो न वक्तव्यः। समासस्तु वक्तव्यः, गौणत्वात्सामानाधिकरण्यस्य॥ ६१ सन्महत्परमोतमोत्कृष्टाः पूज्यमानैः ॥ २-१-६१ ॥ पूज्यमानैरिति वचनादिति। पूज्यमानस्य पूजापेक्षत्वादिति भावुः। अत एव सदिति स्वरूपग्रहणं न शतृशानचोः, न हि तौ पूजामाहतुः। उत्कृष्टो गोरिति। उध्दृत इत्यर्थः। महाजनः, महोदधिरित्यादौ पूजाभावेऽपि विशेषणं विशेष्येणेति समासः। वचनं तु गुणक्रियाश्बदैरपि समासे सदादीनामेव पूर्वनिपातनियमार्थम्॥ ६२ वृन्दरकनागकुञ्जरैः पूज्यमानम् ॥ २-१-६२ ॥ वृन्दाकरश्बदो देवजातिवचजनः, इतरौ हस्तिजातिवचनौ, तत्रोपमानत्वे सति पूजावचनता सम्भवति। तत्र व्याघ्रादेराकृतिगणत्वात्सिध्दे समासे पूजायामेव यथा स्यान्निन्दायां मा भूदित्येवमर्थं वचनम्। इह मा भूत् - माणवकोऽयं नागो यस्मान्मूर्क इति। समान्यप्रयोगेऽपि यथा स्यादित्यन्ये। सुषीम इति संज्ञेयं नागविशेषस्य। यद्येवम्, विशेषणं विशेष्येणेत्यधिकारादेवात्र न भविष्यति, न ह्यनागः सुषीमोऽस्ति? तस्यम्; प्रत्युदाहरणदिगियं दर्शिता, माणवकोऽयं नाग इति प्रत्युदाहरणम्॥ ६३ कतरकतमौ जातिपरिप्रश्ने ॥ २-१-६३ ॥ कतरकठ इति। ठ्गोत्रं च चरणैः सहऽ इति जातिः तथा च प्रत्युदाहरणमिति। पूर्वं वृत्तिषूपन्यस्तमुपपन्नं भवतीति शेषः॥ ६४ किं क्षेपे ॥ २-१-६४ ॥ ६५ पोटायुवतिस्तोककतिपयकृष्टिधेनुवशावेहब्दष्कयणीप्रवक्तृश्रोत्रियाध्यापकधूर्तैर्जातिः ॥ २-१-६५ ॥ उभयव्यञ्जनेति। व्यज्यतेऽनेन स्त्रीत्वादिकमिति व्यञ्जनम् उ स्तनादि, उभयोः स्त्रीपुंसयोर्व्यञ्जनं यस्याः सा तथोक्ता, नपुंसके पोटेत्यर्थः। पोटाशब्दस्तु तत्रपि स्त्रीत्वयुक्तः प्रवर्तते। शब्दानां चित्रशक्तित्वात् षण्डशब्दो यथा पुमान्॥ धूर्तग्रहणमकुत्सार्थमिति। कुत्मायां तु ठ्कुत्सितानि कुत्सनैःऽ इति सिध्दमिति भावः। तत्र कठधूर्त इति। यः कठः स धूर्त इत्यर्थः, न तु कठत्वं कुत्स्यते॥ ६६ प्रशंसावचनैश्च ॥ २-१-६६ ॥ रूढिशब्दाः प्रशंसावचना गृह्यन्त इति। प्रशंसयेति वक्तव्ये वचनग्रहणादिह ग्रहणं रूढिशब्दानां प्रशंसामात्रवाचिमाम्। तेन ये यौगिकाः प्रशस्तशोभनरमणीयादयः, ये च विशेषवचनाः शुचिमृद्वायः, ये च जातिशब्दाः सन्तः परत्र प्रयोगात्प्रशंसां गमयन्ति सिंहो माणवक इति, ते सर्वे व्युदस्ता भवन्ति। मतल्लिकादय इति। ठ्मतल्लिका मचर्चिका प्रकाण्डमुध्दतल्लजौ। प्रशस्तवाचकान्यमूनिऽ इत्यमरः। आविष्टलिङ्गत्वादिति। नियतलिङ्गत्वादित्यर्थः। स्वलिङ्गोपादाना इति। स्वस्यैव लिङ्गस्योपादानं येषु ते तथोक्ताः। ठ्प्रशंसावचनपोटायुवतिऽ इत्येकयोगे कर्तव्ये योगविभागश्चिन्त्यप्रयोजनः॥ ६७ युवा खलतिपालितवलिनजरतीभिः ॥ २-१-६७ ॥ संज्ञायूनो गहणे गार्ग्यायणः खलतिरित्यादाबेव तु स्यान्न च तस्य जरतीशब्देन सामानाधिकरण्यम्। न च गार्ग्यायणी युवतिरस्ति; सत्रियां युवसंज्ञाप्रातिषेधात्, अतो युवेति स्वरूपग्रहणमित्याह - युवाशब्द इति। खलत्यादिभिः समानाधिकरणैरिति। कथं पुनर्युवशब्दस्य जरतीशब्देन सामानाधिकरण्यम् पुंल्लिङ्गस्य स्त्रीलिङ्गेनेति, तत्राह - स्त्रीलिङ्गनिर्देश इति। अस्यां हि परिभाषायां सत्यां युवशब्दस्य ग्रहणे युवतिशब्दस्यापि ग्रहणादुपपद्यते युवतिजरतीशब्दयोः समानाधिकरण्यम्, असत्यां तु नोपपद्यत इत्यर्थापत्या परभाषा ज्ञायते। युवखलतीति। ठ्कृदिकारादक्तिनःऽ ठ्सर्वतोऽक्तिन्नर्थादित्येकेऽ इति ङीष्। वलिशब्दः पामादिः। युवजरन्निति। जरद्भिरित्यपि पाठः केनचिदाचार्येण बोधित इति पुल्लिङ्गेनापि समासो भवतीति भावः। युवतिर्जरतीति। कथं विरुध्दवाचनोः सामानाधिकरण्यम्, अन्योऽन्याधर्मोपलम्भातद्रूपत्वारोपाद्भविष्यति। यद्येवम्, विभिन्नलिङ्गयोरप्येवमेव समानाधिकरण्यसम्भवात्कथं परिभाषा ज्ञाप्यत इति चिन्त्यम्; युवशब्दस्य पूर्वानिपातनियमार्थं वचनम्, अनियमो हि गुणशब्दत्वात्स्यात्॥ ६८ कृत्यतुल्याख्या अजात्या ॥ २-१-६८ ॥ तुल्यापर्यायाश्चेति। आख्याग्रहणं स्वरूपनिराकरणार्थमिति भावः। भोज्योष्णादावनियमे प्राप्ते पूर्वनिपातनियमार्थं वचनम्। तुल्यमहानिति। ठ्सन्महत्ऽ इत्यस्याकृत्यतुल्याख्येषु सावकाशत्वात्कृत्यतुल्याख्येषु परत्वादयमेव समासो यक्त इति भावः। भोज्य ओदन इति। प्रतिषेधसामर्थ्याद् विशेषणमित्यपि न भवति॥ ६९ वर्णो वर्णेन ॥ २-१-६९ ॥ ठ्विशेषणं विशेष्येणऽ इति वर्तते, तत्र द्वयोः स्वरूपग्रहणेन विशेषणता भवेत्। वर्णश्चासौ वर्णैति। किं व्यावृतम्? किमन्वितम्? अथैकत्र विशेषाणां रूपस्यान्यत्र च ग्रहः? शक्लश्चासौ वर्ण इति न स्यात्, वर्णो विशेषणं शुक्लस्य वर्णत्वाव्यभिचारात्, तस्मादुभयत्र विशेषग्रहणमित्याह - वर्णविशेषवाचीत्यादि। कृष्णसारङ्ग इत्यादि। नानावर्णसमाहारः सारङ्गः, तथा सबलः, तस्य वर्णान्तरसमाहारेऽपि भावात्कार्ष्यान्वयो नियते न स्यादिति कृष्णो विशेणम्। एवं लोहिताशब्देऽपि द्रष्टव्यम्। ननु च कृष्णशब्दोऽत्रावयवे वर्तते, न समुदाये; तस्य सारङ्गत्वात्, तत्कथमवयववृतेः कृष्णशब्दस्य समुदायवृत्तिना सारङ्गशब्देन सामानाधिकरण्यमत आह - अवयवद्वारेणेत्यादि। कृष्णावयवसम्बन्धात्समुदाय एव कृष्ण उच्यत इत्यर्थः। अत एवात्र गौणं सामानाधिकरण्यमिति सूत्रारम्भः। ननु ठ्तृतीया तत्कृतेनऽ इत्येवात्र सिध्दः समासः कथम्? सारङ्गशब्दो गुणवचनः सारङ्गत्वं कृष्णावय्वकृमित्यस्त्येव सिध्दिः; तत्रायमप्यर्थः - ठ्वर्णो वर्णेष्वनेतेऽ इति पूर्वपदप्रकृतिस्वरो न वक्तव्यो भवति, तत्पुरुषे तुल्यार्थतृतीयेत्येव सिध्दत्वात्, तदवयवं वक्तव्यमेतत्प्रतिषेधार्थम्, इह मा भूत् - कृष्णैतो लोहितैत इति। इदं तु न वक्तव्यम्? इदमपि वक्तव्यम्, इहापि यथा स्यात्-शुक्लबभ्रुः कृष्णशुक्ला हरितशुक्लः बभ्रूकपिलः, यस्य कश्चिदवयवः शुक्लः कश्चिद् बभ्रुः स समुदायोऽवयवय्वशब्दाभ्यां तथोच्यत इति नात्र तत्कृतत्वसंभवः। अत्र कृष्णसारङ्ग इत्यादौ यत्रैकोऽवयवयवशब्दः, अपरः समुदायशब्दः, तत्राव्यवस्याप्रधानत्वादुपसर्जनत्वात्पुर्वनिपातः। द्वयोस्त्ववयवशब्दयोः पर्याय इति द्रष्टव्यम्। इह यस्मिन् प्रयोगे वीरैः पुरषंस्तद्वान् ग्रामः प्रतिपादयितमिष्टस्तत्र प्रथममेवान्यपदार्थविवक्षा कार्या वीराः पुरुषा अस्मिन्सन्तीति वीरपुरुषको ग्राम इति बहुव्रीहिरेव नित्यं यथा स्यात्; अन्यथा पूर्वमनपेक्षितेऽन्यपदार्थे वीराः पुरुषा वीरुपुरुषा इति कर्मधारये कृते पश्चादन्यपदार्थविवक्षायां मत्वर्थीये सति वीरपुरुषवान् ग्राम इत्याद्यनिष्टमपि कदाचिदनुषज्येत। सर्वशब्दस्य त्वकारान्तैः कर्मधारयोऽपीष्यते। तस्माच्च मत्वर्थविवक्षायाम् ठत इनिठनौऽ इति ठनं बाधित्वा इनिरेव भवतीति वक्तव्यम् सर्व धनं सर्वधनं तदस्यास्तीति सर्वधनी, सर्वबीजी, कर्वकेशी। यत्र कर्मधारयो जातिविशेषवचनः, तत्र कर्मधारयान्मत्वर्थीयो भवति - कृष्णसर्पवान्वल्मीकः, लोहितशालिमान् ग्रामः, गौरखरवदरण्यम्, गौरमृगवदिति। न हि बहुव्रीहिणा तज्जात्या तद्वतवं शक्यं प्रतिपादयितुम्॥ ७० ॥ कुमारः श्रमणादिभिः ॥ २-१-७० ॥ कुमारशब्दस्य पूर्वनिपातनियमार्थ वचनम् ॥ ७१ चतुष्पादो गर्भिण्या ॥ २-१-७१ ॥ चतुष्पाज्जातिरिति। केचिदाहुः - पोटादिसूत्राज्जातिग्रगणमनुवर्त्यमिति। अन्ये त्वाहुः - ये शब्दान्तरनिरपेक्षाश्चतुष्पाज्जातिवचनाः, त एवान्तरङ्गत्वाद् गृह्यन्ते, न तु कालाक्ष्यादयो यौगिकाः शब्दान्तरसंनिधानाच्चतुष्पाद्विषया इति। गर्भिणीशब्दस्य परनिपादार्थं वचनम्॥ ७२ मयूरव्यंसकादयश्च ॥ २-१-७२ ॥ व्यंसकः उ धूर्तः, मयूरश्चासौ व्यंसकश्येति व्यंसकशब्दस्य गुणवचनत्वात्पुर्वनिपाते प्राप्ते वचनम्। एवं छात्रव्यसकादीनां कम्बोजमुण्डपर्यन्तानाम्। अन्ये त्वाहुः - मयूरैव व्यंसकः, छात्रैव व्यंसकः कम्बोज इव मुण्डः, यवन इव मुंडः, उमानसमासोऽयम्, ठुपमानानि समान्यवचनैःऽ इत्येव सिध्दे पूनर्विधानं तत्पुरुषं तुल्यार्थतृतीयेति पूर्वपदप्रकृतिस्वरो मा भूदिति, स ह्युपमानसंश्बदेनेन विहिते समासे विधीयत इति। पुनर्दायेति। ठ्पुनश्चनसौ च्छन्दसिऽ इति गतिसंज्ञा वार्तिककारीयेति॥ गणकारेणेदं पठितम्, एहि इडेति यस्मिन्कर्मणि तद् एहीडम्, एवम् एहीयवम्। एहि वाणिजेति यस्यां क्रियायां सा एहिवाणिजा। एवम्-अपेहि वाणिजा, प्रेहिवाणिजा। एहि स्वागतमिति यस्यां क्रियायां सा एहिस्वागता। इहवितर्का, लोण्मध्यमैकवचनम्। प्रोह करटमिति यस्यां सा प्रोहकरटा; एवं प्रोहकर्दमादय आहरवसनान्ताः। ठ्कृती छेदनेऽ तदेव वचनम्, मुचादित्वान्नुम्। कृन्त विचक्षणेति यस्यां क्रियायां सा कृन्तविचक्षणा। उध्दर उत्सृजेति यस्यां सोध्दरोत्सृजा। ठाख्यातमाख्यातेनऽ इति सिध्देऽसातत्यार्थ वचनम्। एवम् उध्दमविधमा, उत्पचविपचा, उत्पतनिपता। उदक्च अवाक्च उच्चावचम्, उच्चैश्च नीचैश्च उच्चनीचम्, आचितं चोपचितं च आचोपचम्, निश्चितं च प्रचितं च निश्चप्रचम् - सर्व एते निपात्यते। न किञ्चन विद्यते यस्य सोऽकिञ्चनः, स्नात्वाकालकादिषु समासान्तोदातत्वं ल्यबभावश्च निपातनात्। प्रतीयमानक्रियापेक्षं च समानकतृकत्वम्-स्नात्वाकालकः संपन्न इति। जहि कर्मणेति। जहीति लोण्यमध्यमैकवचनम्; तदेतत्कर्मणा बहुलं समस्यते आभीक्ष्ण्ये गम्यमाने समासेन चेत्कर्ता विधीयते। जहि जोडमित्याभीक्ष्ण्येन य आह स जहिजोडः। अश्नीत पिबतेत्येवं यत्र सततमभिधीयते सा अश्रातपिबता। एवं पचतभृज्जता, ठ्भ्रस्ज पाकेऽ भिन्धि लवणमिति यस्यामभिधीयते सा भिन्धिलवणा। एवं पचलवणा। अविहितलक्षमस्तत्पुरुष इति। यस्य ततपुरुषस्य लक्षणं न कृतम्, प्राप्तप्रयोगश्च भवति, स मयूरख्यंसकादेराकृतिगणत्वादत्रैव द्रष्टव्य इत्यर्थः॥ इति श्रीहरदतमिश्रविचितायां पदमञ्जयौ द्वितीयाध्यायस्य प्रथम पादः ॥ अथ द्वितीयाध्याये द्वितायः पादः १ पूर्वापराधरोतरमेकदेशिनैकाधिकरणे ॥ २।२।१ ॥ एकदेशोऽस्यास्तीत्येकदेशीति। एकगोपूर्वादिति ठञ् प्राप्नोति, अत एव निर्देशादिनिर्द्रष्टव्यः। एकदण्डीत्ययं त्वपशब्दः एको दण्डो यस्येति बहुव्रीहिणैव गतत्वान्मत्वर्थ एव दुर्लभः, किं पुनरिनिष्ठञा बाधितः? एकदेशब्दस्तु कर्मधारय एवावयववचन इति न तत्र बहुव्रीहिणा गतत्वम्, यथा - कृष्णसर्पवानिति। सामर्थ्यादेकदेशवचना इति। एकदेशमपेक्ष्यैकदेशी भवति, नान्यथेत्येतत्सामर्थ्यम्। एकाधिकरणग्रहणमेकदेशिनो विशेषणमिति। सत्सप्तम्यन्तवैयधिकरण्येनेति भावः, तदाह - एक चेदिति। एकत्वसंख्याविशिष्टमित्यर्थः। समानाभिधेयवचन एकाधिकरणशब्दो न भवति, अवयवावयविशब्दयोः सामानाधिकरण्यानुपपतेः, समानाधिकरण्येनेति प्रकृतत्वाच्च। स्यादेतत् - ठ्समुदायेषु हि दृष्टाः शब्दाः अवयवेष्वपि वर्तन्तेऽ इति न्यायेन समानाधिकरण्ये सति पूर्वश्चासौ कायश्चेति विशेषणमित्येव सिध्दः समासो नार्थ एतेन, एवं च कृत्वा परवल्लिङ्गमित्यत्र तत्पुरुषग्रहणं न कर्तव्यं भवति, कथम्? उतरपदार्थप्रधानत्वादेव सिध्दमिति, तत्रह - षष्ठीसमासापवादोऽयं योग इति। सिध्दं तु कथञ्चित्पूर्वकाय इति, कायपूर्व इत्यस्य निवृत्यर्थमेव तु सूत्रं कर्तव्यमित्यर्थः। पूर्वे कायस्येति। यद्यपि दिशि दृष्टः शब्दो दिक्शब्द इत्याश्रयणात्सम्प्रत्यदिग्वृत्तिनीपि योगे पञ्चमी भवति, ठ्तस्य परमाम्रेडितम्ऽ इति लिङ्गादवयववृत्तिभिर्योगे षष्ठी भवति। पूर्वे नाभेः कायस्येति। नाभेरिति दिग्योगलक्षणा पञ्चमी, मायसम्बन्धी नाभ्यपेक्षया पूर्वो भाग इत्यर्थः। तत्र नाभिरेकदेशी न भवतीति न तेन समासो भवति। यस्त्वेकदेशी कायस्तेन समासो भवत्येव - पूर्वकायो नाभेरिति, पूर्वशब्दस्य सम्बन्धिशब्दत्वेन नित्यसापेक्षत्वादिति केचिदाहुः। अन्ये तु - यत्रार्थप्रकरणादिनावधिर्गम्यते तत्रैव समासः, न शब्दोपादाने इत्याहुः। पूर्वे छात्राणामिति। नेयं निर्ध्दारणे षष्ठी, किं तर्हि? समुदायः छात्राणामित्यनेनोच्यत इति बहुवचनम्, यथा-छात्राणां पञ्चम इति, ततश्च छात्राणामेकदेशित्वमस्त्येव, किं तु बहुत्वसंख्याविशिष्टानामिति समासाभावः। संख्याविसायपूर्वस्येत्यादि। न ह्यन्यथा सायपूर्वत्वमह्वस्योपपद्यते इति भावः। केचितु - सर्वेणैकदेशवाचिना कालवाचिनः समासो भवति, न त्वमहन्शब्दस्यैवेति ज्ञापकशरीरं वर्णयन्ति, तेन मध्यरात्र इत्यपि सिध्दं भवति॥ २ अर्ध्दं नपुंसकम् ॥ २।२।२ ॥ आविष्टलिङ्ग इति। नियतलिङ्ग इत्यर्थः। तस्येदं ग्रहणमिति। तत्रैवार्थे नपुंसकत्वस्याव्यभिचाराद्। अवयववाची ह्यभिधेयवुशेन त्रिलिङ्गः - अपूपार्ध्दं मया भक्षितम्, दन्तार्ध्दमास्यात्पतितम्, ग्रामार्ध्दः, नगरार्धः, सर्पिषार्ध्यया व्यनक्ततोति। ठ्तस्यार्ध्दाः शस्त्वार्ध्दाः परिशिष्य मध्ये निविदं दधातिऽ इति। भाष्ये त्ववयववाची पुंलिङ्ग इत्युपलक्षणम् । क्वचितु समप्रविभागे स्त्रीलिङ्गता दृश्यते - एकान्तृचेर्ध्दा युग्मासुऽ इति, यग्मासु ऋक्षु अर्ध्दाः शस्त्वा निविदं दध्यादित्यर्थः, तस्यार्षत्वेन निर्वाहः। अर्धमिति नपुसकनिर्देशः शब्दरूपापेक्षयापि सम्भाव्येत, यथा ठ्स्वमज्ञातिधनाख्यायाम्ऽ ठ्बन्धुनि बहुव्रीहौऽ इति, तस्मान्नपुंसकमित्युक्तम्। अर्ध्दपिप्पलीति। पिप्पलीशब्दस्य ठेकविभक्ति चऽ इत्युपसर्जनसंज्ञा न भवति; एकविभ्कायवषष्ठ।ल्न्तमिति वचनात्। अर्ध्दं पिप्पलीनामिति। न तर्हीदानीमिदं भवति - अर्ध्दानि पिप्पलीनामर्ध्दपिप्पल्य इति; नैतदस्मिन्विग्रहे भवति, खण्डसमुदाये भवति - अर्ध्दपिप्पली चार्ध्दपिप्ली चार्ध्दपिप्पल्य इति। देवददतशब्देन समासो न भवतीति। देवदतोऽत्र स्वामी, न त्वेकदेशी। यस्त्वेकदेशी पशुस्तेन भवत्येव समासः - अर्ध्दपशुर्देअवतदतस्येति, देवदतस्वामिकं पशोरर्ध्दमित्यर्थः। तत्र समुदायेन सम्बन्धान्नास्ति सापेक्षत्वम्। अयं योगः शक्योऽवक्तुम्। कथमर्ध्दपिप्पली? सामानाधिकरण्ये भविष्यति अर्ध्दं चासौ पिप्पली चेति। ननु च यद्यर्ध्दं न पिप्पली, अथ पिप्पली नार्ध्दम्, अर्ध्दं पिप्पली चेति विप्रतिषिध्दम्? नास्ति विप्रातिषेधः; समुदाये हि दृष्टाः शब्दा अवयवेष्वपि वर्तन्ते। किञ्च समप्रविभागादन्यत्रार्ध्दन्द्रादावयमेव गतिप्रकारः, समप्रविभागेऽपि तथास्तु। इदं तर्हि प्रयोजनम् -- म्प्रविभागे षष्ठीसमासो मा भूदिति? इष्यते षष्ठीसमासोषऽपि, तथा च भगवान्पिङ्गलनागः प्रयुङ्क्ते ठ्स्वरार्ध्दं चार्यार्ध्दम्ऽ इति। एवं तर्हि गौणत्वात्सामानाधिकरण्यस्य विशेषणसमासो न किल स्यादित्यमारम्भः॥ ३ द्वितायतृतीयाचतुर्थतुर्याण्यन्यतरस्याम् ॥ २।२।३ ॥ अन्यतरस्यांग्रहणात्सोऽपि काशिकावृतौ पदमञ्जरी द्वितीयतृतीयचतुर्थतुर्याण्यन्यतरस्याम्। २।२।३॥ द्विदीयतृतीयचतुर्थतुर्याण्यन्यतरस्यात्॥ अन्यतरस्यांग्रहणात्सोऽपि भवतीति ननु च पूरणप्रत्ययान्ता एवैते द्वितीयादयः, तत्र पूरणगुणसुहितेत्यादिना प्रतिषेधेन भवितव्यम्, यदापि ठ्पूरणाद्भगे तीयादन्ऽइति स्वार्थिकोऽन्प्रत्ययः क्रियते, तदापि ठ्पूरणगुणसुहितार्थऽ इत्यर्थशब्दस्य प्रत्येकमभिसम्बन्धात्पूरणार्थग्रहणम्, न तु तदधिकारविहितप्रत्ययग्रहणमिति भवितव्यमेव प्रतिषेधेन, तत्कथं सोऽपि भवतीत्याह--पूरणगुणेत्यादि। वाक्यस्य महाविभाषयैव सिद्धत्वात्षष्ठीसमासप्राप्त्यर्थमेवान्यतरस्यांग्रहणमिति भावः। पूर्वं तु षष्ठीसमासापवादो योग इत्याद्यप्राप्त्यभिप्रायेणोक्तम्। यद्वा---सत्यस्मिन्योगे षष्ठीसमासप्रतिषेधस्यास्य च षष्ठीसमासबोधकत्वमविशिष्टमिति मत्वा तथोक्तम्। अयमपि योगः शक्योऽवक्तुम्, कथम्? समुदायावयवयोरौपचारिके सामानाधिकरण्ये सति द्वितीयभिक्षादि सिद्धम्, मुख्यार्थवृतौ षष्ठीसमासे तु भिक्षाद्वितीयमित्यादि भविष्यतीति। नैतत्सुष्ठूअच्यते, अनेनैव खल्वन्यतरस्यांग्रहणेन षष्ठीसमासः प्राप्यते, कथमस्मिन्योगेऽसति भविष्यति॥ प्राप्तापन्ने च द्वितीयया॥ २।२।४ ॥ प्राप्तापन्ने च द्वितीयया॥ प्राप्तजीविक इति। ठेकविभक्तिऽ इत्युपसर्जनत्वाद् ह्रस्वत्वम्। प्राप्ता जीविका येनेति कर्मणि क्तान्तेन बहुव्रीहावप्येतत्सिद्धम्, समासान्तोदातत्वार्थं तु वचनम्। इह प्राप्तमुखः, प्राप्तदुः ख इत्यादिषु ठ्जातिकालसुखादिभ्यःऽ इति प्राप्तापन्नयोः परनिपातप्रसङ्गश्च। इह लिङ्गविशिष्टपरिभाषया प्राप्ताशब्दस्याप्ययं समासो भवति---प्राप्ता जीविकां प्राप्तजीविका इति पुवद्भावो वक्तव्यः। भाष्ये त्वकारः पूर्वपदस्य विधीयत इत्युक्तम्। चकारेण समुच्चयार्थेनाकारप्रश्लेषोऽनुमीयते, सौत्रत्वाच्च निर्देशस्य प्रकृतिभावाभावः, प्राप्तापन्ने द्वितीयान्तेन सह समस्येते, अ च अत्वं च भवति प्राप्तापन्नयोरित्यर्थः॥ कालाः परिमाणिना॥ २।२।५ ॥ कालाः परिमाणिना॥ सामर्थ्यात्परिमाणवचना इति। परिमाणमपेक्ष्यपरिमाणो भवति, नान्यथेत्येतत्सामर्थ्यम्। तत्र च यद्यपि कालः प्रस्थादिवत्सर्वतो मानं न भवति, तथापि परिच्छेदहेतुत्वात्परिमाणमित्युच्यते। मासो जातस्येति कस्य पुनरयं मासः परिच्छेदकः; न तावज्जातस्य, तस्य हि दिष्ट।लदि परिमाणं न तु मासः; नापि जननक्रिया, तस्या एकक्षणभावित्वान्मासेन सम्बन्धाभावात्? उच्यते---जननक्रियावधिर्मासे न परिच्छद्यते। मासो जातस्येति, कोऽर्थः? जननक्रियाया ऊर्ध्वमस्य मासो जातः, अतीते मासेऽस्य जननमिति यावत्। अनेन प्रकारेण मासो जातस्य परिमाणम्, यथा---मासे देयमृणमिति ऋणदानस्यावधिर्मासेन परिच्छिद्यते। मासजात इति। यथा गावोऽस्य सन्तीति गोमानिति वाक्ये षष्ठीनिर्दिष्टस्यापि तद्वतो वृतौ प्राधान्यम्, तत्कस्य हेतोः? अभिहितः षष्ठ।ल्र्थोऽन्तर्भूतः प्रातिपदिकार्थः संपन्न इति, यथा---चित्रा गावोऽस्य चित्रगुः पुरुष इति बहुव्रीहाविति, तद्वदत्रापि वाक्ये षष्ठीनिर्देअष्टस्यापि तद्वतो जातस्य वृतौ प्राधान्यां द्रष्टव्यम्। तथा च मासजातो दृश्यतामिति क्रियायोगो जातस्यैव भवति, न पुनरर्द्धपिप्पल्यादिवत्पूर्वपदार्थस्य। द्व्यहजात इति। द्वयोरह्नोः समाहारः ठ्राजाहः सखिभ्यष्टच,ऽठ्न संख्यादेः समाहारेऽ इत्यह्नादेशस्य प्रतिषेधः। कथं तर्हि द्व्यहजात इति, द्वे अहनी अस्य जातस्येति त्रयाणां पदानां युगपदनेन समासे कृते जातशब्द उतरपदे परतः पूर्वयोर्द्विगुर्भविष्यति? ननु च ठ्सुप्सुपाऽइत्येकत्वसंख्याया विवक्षितत्वाद् द्वयोर्द्वयोः न बहूनां युगपत्? उच्यते----वक्तव्यमेवैतद् उतरपदेन परिमाणिना द्वयोः समासवचनमिति; परिमाणिवचनेनोतरपदेन द्विगोः सिद्धये समासो वक्तव्यः। अथ द्वयोर्युगपदिति गम्यते, तस्माद्वचनाद्बहूनामप्ययं समासो भवति। एवं द्वौ मासौ जातस्य द्विमासजातः, त्रिपदे तत्पुरुषे जातशब्द उतरपदे परतः पूर्वयोस्तत्पुरुषे सति कालान्ते द्विगावपि पूर्वपदप्रकृतिस्वरो भवति। द्वयोर्मासयोः समाहारो द्विमासम् पात्रादि, द्विमासं जातस्येति विगृह्य समासे क्रियमाणे सति शिष्टत्वात्समासान्तोदातत्वं स्यात्। इह मासौ जातस्य, मासा जातस्येति द्विवचनबहुवचनान्तानामयं समासो भवति। वृतौ विभक्तौ निवृतायां द्वित्वबहुत्वावगतौ प्रमाणाभावाद् अभेदैकत्वसंख्याप्यत्र न भवति, शुद्धमेव त्वेकत्वं गम्यते। यत्र द्वयोर्बहुषु वानुस्यूत एकः शब्दार्थस्तत्रैवाभेदैकत्वसंख्य, मासशब्दस्त्वक्तपरिमाणमर्थमाचष्ट इति द्वित्वबहुत्वावगतौ विभक्तिमपेक्षते, स्वतस्त्वेकत्वस्यैवासाधारणः॥ नञ्॥ २।२।६ ॥ नञ्॥ विभक्तिञकारयोर्विशेषाभावाद् ञकारोच्चारणम्। सुपानशब्दस्य विशेषणात्पामादिलक्षणस्य नस्यासुवन्तत्वादेवाग्रहणं सिद्धम्। इहाब्राह्मणादिशब्देः क्षत्रियाद्यभिधानमिष्यते, तत्र जातिमात्रपरे ब्राह्मणशब्दे न विद्यते ब्राह्मण्यं यस्य सोऽब्राह्मणः क्षत्रियादिरित्यन्यपदार्थप्रधानः समासो भवति। तत्र नाप्राप्ते बहुव्रीहावारम्भादनेन तस्य बाधनादब्राह्मणको देश इत्यपि न सिद्ध्यति; न हि प्रवृत्तिनिमितमात्रनिष्ठेषु ब्राह्मणादिशब्देष्वयं समासः, नद्वन्निष्ठेष्विति नियामकमस्ति। इह चावर्षा हेमन्त इति हेमन्तस्य यद्वचने तत्समासस्य प्राप्नोति, लिङ्गे तु परवल्लिङ्गमिति वचनाद्दोषाभावः। इह च असोऽसर्वस्मै इत्युतरपदार्थस्योपसर्जनत्वात्यदादिकार्यं सर्वादिकार्यं च न स्यात्। यदा त्वसत्सामान्यवर्तमानो नञ् ब्राह्माणादिभिर्विशेष्यते, ब्राह्मणत्वेनासत्क्रियान्तरेण तु सन् क्षत्रियादिकोऽब्राह्मण इति, तदा पूर्वपदार्थप्रधानम्; तत्र नञर्थस्य प्राधान्यात्संख्यायोगः चसमासस्य न स्यात्, वाचनिकी तु परवल्लिङ्गता भवतु। स्यादेतत्----शब्दशक्तिस्वाभाव्यादसत्वरूपमर्थं वाक्ये न नञाचष्टे, समासे तु सत्वरूपम्, तेन सिद्धः संख्यअयोगः? एवमप्यपवादेनानेनाव्ययीभावस्य बाधादमक्षिकमिति न सिद्ध्यति, तस्य तु निर्मक्षिकमित्यादिरवकाशः, असोऽसर्वस्मै इति च पूर्ववत्स्मायाद्यसिद्धिः। अस्तु तर्ह्यत्रोतरपदार्थप्रधानः? यद्येवम्, ब्राह्मणमात्रस्यानयनं प्राप्नोति? यद्यौतरपदार्थप्रधानता तत्र हेतुः, इहापि तर्हि राजपुरुषमानयेत्युक्ते पुरुषमात्रस्यानयनं प्राप्नोति? अस्त्यत्र विशेषः, राजा विशेषकः प्रयुज्यते। इहापि तर्हि नञ् विशेषकः प्रयुज्यते? कथं नञ् नाम स्यात्, अनियतगुणस्य गुणविशेषप्रतिपादनाय हि विशेषणं प्रवर्तते, न तदुपघाताय। नञा च ब्राह्मणार्थः सर्वात्मना प्रतिषिध्यमानः प्रतिषिध्यत इति कथमसतः प्राधान्यं स्यात्!तस्मादुतरपदार्थप्राधान्यमिच्छताऽस्मिन्विषये नञनर्थकः, अन्वाख्यनसामर्थ्यातु साधुत्वमेवंभूत स्यार्थवदनर्थकावयवस्य समासस्येति वाच्यम्, ततश्च ब्राह्मणमात्रस्यानयनं प्राप्नोति? नैष दोषः; निवृतपदार्थकोऽत्र ब्राह्मणशब्दः, सा च निवृत्तिः स्वाभाविकी नञा द्योत्यते, कोऽपर्थः? केवलो ब्राह्मणशब्दः प्रयुज्यमानः प्रसिद्धिवशान्मुख्यमेव ब्राह्मणमाचष्टे; नञ्प्रयोगेण तु क्षत्रियादौ सादृश्यादिना निमितेनाध्यारोपितं ब्राह्मण्यं न तात्विकमिति द्योत्यते। तदेवं मुख्यो ब्राह्मणशब्दस्यार्थो निवृतः जातश्चामुख्यः क्षत्रियादिरिति न ब्राह्मणमात्रानयनम्, नापि न कस्यचिदानयनमिति सिद्धम्। उक्तं च---- ठ्प्राक् समासात्पदार्थानां निवृत्तिर्द्योत्यते नञा। स्वभावतो निवृतानां रूपभेदादलक्षिता॥ऽ इति। स्यादेतत्---अर्थप्रत्यायनाय शब्दः प्रयुज्यते ब्राह्मणार्थश्चेन्निवृत्तिः, किं मुधा ब्राह्मणपदं प्रयुज्यते? तन्न; असति ब्राह्मणपदे नेत्येतावत्सुच्यमाने कस्यार्थोऽत्र निवर्तयितुमिष्ट इति न ज्ञायते। ब्राह्मणपदे तु सति तदर्थस्य क्षत्रियादौ मुख्यः सताविरहः प्रतीयते। अन्यद्दर्शनम्---सर्व एते शब्दा गुणसमुदाये वर्तन्ते, स्मर्यन्ते च---- ठ्तपः श्रुतं च योनिश्चेत्येतद्ब्राह्मण्यकारणम्। तपः श्रुताभ्यां यो हीनो जातिब्राह्मण एव सः॥"इति तथा च श्रुतिः---- ठ्षड् व्याधयो यं पुरुषं तपन्ति जैह्वो हार्द औदरो रैतसश्च। तप्तश्च घर्मः शिशिरश्च शीतः ब्राह्मणस्तं स्मरार्थं गरुत्मन्ऽ॥ इति गौरः शुच्याचारः पिङ्गलकेश इत्यादयश्च धर्माः, तदेषां समुदाये ब्राह्मणशब्दः, एवं क्षत्रियादिशब्देष्वपि द्रष्टव्यम्। एवं स्थिते समुदायेषु वृताः शब्दाः अवयवेष्वति वर्तन्त इति न्यायाज्जातिभिन्ने गुणभिन्ने वा यदा ब्राह्मणशब्दो वर्तते तदा स्वाभाविकी जातिगुणनिवृत्तिर्नञा द्योत्यते, अविष्टांशसद्भावप्रतिपादनाय ब्राह्मणशब्दप्रयोगः। यद्येवम्, द्वयोरपि भिन्नविषयत्वप्रसङ्गः, कथम्? यस्यांशस्य सद्भावं ब्राह्मणशब्द आह, न तस्याभावं नञाह; यस्याभावं नञाह, न तस्य सद्भावं ब्राह्मणशब्द आह? नैष दोषः; द्वावप्येतौ समुदायावलम्बिनौ कृतवत्, तद्यथैकदेशकरणाकरणाभ्यामेकमेव वस्तु कृतं चाकृतं च भवति, तथेहाप्येकदेशविभागात् समुदाय एव निवृत उत्यते, एकदेशसद्भावाच्च स एव सन्नभिधीयत इति सर्वमनवद्यम्। इहानेको जन आगत इति द्व्यादिष्वेकत्वमारोपितं प्रतीयते, मुख्यं तु प्रतिषिध्यते, क्षत्रियादाविव ब्राह्मण्यमित्येकवचनमेव भवति द्व्यादिसंख्या प्रतीयते। तदेवमुतरपदार्थप्रधान इति स्थितम्। अत्र च लिङ्गम्---ठेततदोः सुलोपोऽकोरनञ्ऽ इत्यत्रानञ्समासग्रहणम्। अन्यथैततदोरर्थद्वारेण सम्बन्धिनः सोर्लोपो विधीयमानो नैषो ददात्यसो ददातीत्यत्र कथं प्राप्नुयात्। इह न ब्राह्मणस्य भाव इति भावेन नञा च युगपत्सम्बन्धे विवक्षिते त्वतलौ च प्राप्नुतः, समासश्च; तत्र यदि परत्वात्वतलौ कृत्वा पश्चात्पुनः प्रसङ्गविज्ञानान्नञ्समासः, क्रियते, ततः ठ्तत्पुरुषे तुल्यार्थऽ इति पूर्वपदप्रकृतिस्वरेणाद्यौदातं पदं स्यात्, प्रत्ययस्वरो नञ्स्वरश्चेष्यत इति समासे कृते त्वतलौ कार्यौ। आह च---त्वतल्भ्यां नञ्समासः पूर्वविप्रतिषिद्धं त्वतलोः स्वरसिद्ध्यर्थमिति। तत्र भावप्रत्ययस्तावत्प्रकृत्यर्थस्य सापेक्षत्वेनासामर्थ्यान्न भवति, नञ्समासस्तु प्रधानस्य सापेक्षत्वाद्भवति॥ ईषदकृता॥ २।२।७ ॥ ईषदकृता॥ ईषद् गुणवचनेनेति वक्तव्यमिति। अकृतेत्यपनीय सूत्रे गुणवचनग्रहणं कर्तव्यमित्यर्थः। अकृतेति चोच्यमान ईषद्रार्ग्य इत्यादावतिव्याप्तिः, ईषदुन्नतित्यादावव्याप्तिः स्यादिति भावः। ईषद्रार्ग्य इति। ननु च गार्ग्यो भवति वा न वा न पुनरीषद्रार्ग्यः कश्चित? उच्यते; गार्ग्यत्वेन सह य एकार्थसमवेताः क्रियागुणास्तदपेक्षया जातेः प्रकर्षादियोगः----गार्ग्यतरः, गार्ग्यकल्पः, ईषद्रार्ग्यः, गार्ग्यपाश इति; यथा----गोतरः, गोकल्पः, गोपाश इति॥ षष्ठी॥ २।२।८ ॥ षष्ठी॥ कृद्योगा चेत्यादि। ठ्कर्तृकर्मणोः कृतिऽ इति कृच्छब्दोपादानेन या विहिता सा कृद्योगा। इध्मप्रव्रश्चन इति। ठोव्रश्चू च्छेदनेऽ, ठ्करणे ल्युट्। पलाशशातन इति। पलाशानि शात्यन्तेउपात्यन्ते येन दण्डादिना स पलाशशातनः। किमर्थमिदमुच्यत इति। सूत्रेण सिद्धिं मन्वानस्य प्रश्न। प्रतिपदविधाना चेत्यादि। यदा तस्य वक्तव्यस्यारम्भः तदेदमपि वक्तव्यम्। तस्य त्वनारभ्यतां तत्रैव वक्ष्यामः। अपकर्ष इति। अपवाद इत्यर्थः॥ याजकादिभिश्च॥ २।२।९ ॥ याजकादिभिश्च॥ प्रतिप्रसवार्थमिति। अन्येन निवर्तितस्य पुनः प्रवृत्यभ्यनुज्ञानमुप्रतिप्रसवः। तत्स्थैश्च गुणैः षष्ठी समस्यत इति वक्तव्यमिति क्वचिद्वृतौ पठ।ल्ते, तस्यार्थः----तच्छब्देन सन्निधानाद् गुणा एव परामृश्यन्ते, तस्मिंस्त्वात्मनि ये गुणाः स्थितास्तैः षष्ठी समस्यते। न च स्वात्मन्यवस्थानं कस्यचित्सम्भवति, भेदनिबन्धनो ह्याधाराधेयभावः; विशेषतो गुणानां द्रव्याश्रितत्वात्। तस्मादभिधानव्यापारापेक्षया तत्स्थत्वमुच्यते। गन्धादयो हि गुणाः स्वशब्दैर्द्रव्यात्पृथक्कृता एव च प्रत्याय्यन्ते ---चन्दनस्य गन्ध इति, न तु कदाचिद् द्रव्येणैकत्वमापन्नाः न हि भवति चन्दनं गन्ध इति। शुक्लादयस्तु कदाचिद् द्रव्यात्पृथग्भूताः प्रत्याय्यन्ते--पटस्य शुक्ल इति, कदाचिद् द्रव्यस्योपञ्जकास्तेनैकत्वमापन्नाः----शुक्लः पट इति। तत्र ये गुणा द्रव्यात्पृथग्भूता एव स्वशब्देन प्रत्याय्यन्ते तत्परिग्रहाय ठ्तत्स्थैःऽ इत्युक्तम्। बलाकायाः शौक्ल्यमित्यत्र तु यद्यपि शौक्ल्यशब्देन द्रव्यात्पृथग्भूतस्यैवाभिधानम्, तथापि तदेव शौक्ल्यं शुक्लः पट इत्यत्र द्रव्येणैकतामापन्नं प्रत्याय्यते। अर्थस्य तत्स्थत्वमाश्रीयते, इति शब्दभेदेऽप्यर्थः स एवेति नास्ति शौक्ल्यस्य तत्स्थत्वमिति समासाभावः। रूपवान्पट इत्यत्र भेदाश्रयेणैव मत्वर्थीयेनाभेदोऽध्यवसीयते इति तत्स्थमेव रूपमिति पटरूपमिति भवत्येव समासः। अयमपि ठ्गुणेन नऽ इति प्रतिषेधस्य पुरस्तादपकर्षः। चन्दनगन्ध इति। ठ्गन्धं विक्रीणीतेऽइति चन्दनगन्धादौ गन्धशब्दो जातिनिमितकः, न गुणशब्दः; मालतीकुसुमादिष्वदर्शनादिति तत्स्थ एव गन्धः। भाष्ये तु ठ्न तु तद्विशेषणैःऽ इति पठितम्, तेषां गुणानां यानि विशेषणानि तैः सह समासो न भवति---घृतस्य तीव्रो गन्धः, चन्दनस्य मृदुः स्पर्श इति तीव्रमृदुशब्दाभ्यां समासो न भवति। तदिदमन्यथासिद्धमिति वृत्तिकारेण उपेक्षितम् कथम्? घृतस्य गन्धेन सम्बन्धः, न तद्विशेषणेन तीब्रेण। यदापि प्रकरणादिवशातीव्रशब्द एव विशेषे गन्धे वर्तते, तदुपजनित एव व्यतिरेके घृतस्येति षष्ठी, तथापि तीव्रं घृतमिति दर्शनातत्स्थत्वाभावादेव समासाप्रसङ्गः॥ ----------॥॥॥॥॥॥॥------------ काशिकावृत्तिः द्वितीयाध्याये द्वितीयः पादः इपदमञ्जरी न निर्घारणे॥ २।२।१० ॥ न निर्द्धारणे॥ जातिगुणक्रियाभिरिति। उपलक्षणमेतत्; कतरो भवतोर्देअवदत इति संज्ञायामपि निर्द्धारणदर्शनात्। क्षत्रियो मनुष्याणां शूरतम इति। अत्र क्षत्रियशब्देन समासप्रसङ्गः; तदपेक्षया हि मनुष्याणामिति षष्ठी, न शूरतमापेक्षया, गुणशब्दत्वाच्च न तेन समासप्रसङ्गः। कृष्णा गवामिति। नात्रायमर्थः----गवां मध्ये या कृष्णा सा सम्पन्नक्षीरतमेति, एवं हि कृष्णाशब्दस्य गवामित्यनेन सम्बन्धः। न च तस्य समासप्रसङ्गः; गुणेन नेति प्रतिषेधात्। तस्माद्रवां मध्ये या सम्पन्नक्षीरतमा सा कृष्णेत्ययमत्रार्थः। धावन्नध्वगानामिति। अत्र धावच्छब्देन समासाप्रसङ्गः; सत्संज्ञकत्वात्। शीघ्रतमशब्दस्तु गुणशब्दो न वेति चिन्त्यम्। प्रतिपदविधाना चेति। शेषलक्षणां मुक्त्वा सर्वान्या प्रतिपदविधाना षष्ठी। कथं गृहस्वामी, विद्यादायादः, पृथिवीश्वर इति, यावता ठ्स्वामीश्वरऽ इत्यादिना प्रतिपदमत्र षष्ठी ? नानेन षष्ठी विधीयते, किं तर्हि? सप्तमी। सा तु षष्ठआआ मा बाधिष्टेति चकारेण शेषलक्षणैवाभ्यनुज्ञायते। अत एव ठ्न निर्द्धारणेऽ इति सूत्रारम्भः। ठ्यतश्च निर्द्धारणम्ऽ इत्यत्रापि हि चकारेण शेषलक्षणैव षष्ठी प्रतिप्रसूयते; अन्यथा सापि प्रतिपदविधानैव स्यादिति किं ठ्न निर्द्धारणेऽ इत्यनेन। सर्पिषो ज्ञानमिति। ठ्ज्ञोऽविदर्थस्य करणेऽ इति षष्ठी। अत्राहुः---ठ्ज्ञोऽविदर्थस्य करणेऽ इति षष्ठीप्रकरणे ठ्शेषेऽ इति वर्तते, तत्र न माषाणामश्नीयादितिवत् ठ्षष्ठी शेषेऽ इत्यनेनैव सिद्धा षष्ठी, प्रकरणं तु नियमार्थम्। षष्ठी भवत्येव श्रूयत एव, न तस्याः समासो भवतीत्यर्थः। समासे ठ्सुपो धातुप्रातिपदिकयोःऽ इति सुब्लुक् स्यात्। तस्मात्प्रतिपदविधाना चेति न वक्तव्यम्, एवं च कृत्वा ठ्कृद्योगा चऽ इत्यपि न वक्तव्यम्, ठ्कर्तृकर्मणोः कृतिऽ इत्यत्र हि ठ्शेषेऽ इति निवृतमिति वक्ष्यते, तेन कर्तृकर्मविवक्षायामप्राप्तैव षष्ठी तेन विधीयत इति कुतः समासनिवृत्तिरिति॥ पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन॥ २।२।११ ॥ पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन॥ प्रत्येकमिति। पूरणादिभिरित्यर्थः। स्वरूपविधिरिति। पूरणादीनामर्थपर्यन्तानां चतुर्णामित्यर्थः। अत एव गुणशब्देन नादेङं ग्रहणम्, किं तर्हि ? ठ्सत्वे निविशतेऽपैतिऽ इत्यादिलक्षणलक्षितस्य गुणस्य ग्रहणम्; नापि नञो गुणप्रतिषेधे यस्य गुणस्य हि भावादिवत्प्रवृत्तिनिमितमात्रस्य ग्रहणम्, सामान्यादेरपि प्रसङ्गात्; नापि लोकप्रसिद्धस्य शुक्लादेरेव ग्रहणम्, कण्टकस्य तैक्ष्ण्यमित्यादेरपीष्टत्वात्; गुणशब्देन च केवलगुणवाचिनो गुणोपसर्जनद्रव्यवाचिनश्च व्याप्तिन्यायाश्रयेण गृह्यन्ते। तत्र गुणस्य गुण्यपेक्षत्वात्केवलगुणवचनैर्गुणेन समासनिषेधः----कण्टकस्य तैक्ष्ण्यमिति। गुणवचनैस्तु तत्सम्बन्धिनो निषेधः----ब्राह्मणस्य शुक्ला दन्ता इति, न चात्र दन्तापेक्षया ब्राह्मणस्येति षष्ठी, ततश्च शुक्लेनासम्बन्धादप्रसङ्ग एव समासस्य। यदा तर्ह्यर्थात्प्रकरणाद्वा दन्ता द्यर्थं एव शुक्लादिशब्दस्य वृत्तिर्विज्ञाता भवति, तदा तत्सम्बन्ध एव षष्ठीत्यस्ति समासप्रसङ्गः, ठ्शतसहस्रान्ताच्च निष्कात्ऽ, ठ्क्रोशशतयोजनशतयोरुपसंख्यानम्ऽ ठ्खारीशतमपि न ददातिऽ इत्यादि मुनित्रयप्रयोगाद् गोविंशतिरित्यादौ संख्यया समासो न निषिध्यते। संज्ञाप्रमाणत्वादुतरपदार्थप्राधान्यमित्यादिप्रयोगदर्शनादनित्यो गुणेन निषेध इति करणपाटवं बुद्धिमान्द्यं यत्नगौरवमित्यादिसिद्धिः। फलानां सुहित इति। करणस्यैव शेषत्वविवक्षया षष्ठी, शेषत्वविवक्षैव च नियता सुहितार्थयोगे करणस्येत्याहुः, कृद्योगलक्षणाया एव षष्ठ।ल निष्ठायोगे निषेधः। ब्राह्मणस्य कुर्वन्निति। नेयं घटाद्यपेक्षया षष्ठी---ब्राह्मणस्य घट्ंअ कुर्वन्निति, एवं ह्यसामर्थ्यादेव समासस्याप्रसङ्गः; किं तर्हि? कुर्वन्निति किङ्कर उच्यते, स हि कुर्वन् भवति, ततो यथा ब्राह्मणस्य पाचक इति साक्षादेव पाचकेन सम्बन्धो न पुनरोदनद्वारेण, तद्वदिहापतीति द्रष्टव्यम्। चोरस्य द्विषन्निति च सत उदाहरणम्, अत्र ठ्द्विषः शतुर्वा वचनम्ऽ इति पक्षे षष्ठी भवति। ब्राह्मणस्य कृत्वेति। ब्राह्मणार्थं कृत्वेत्यर्थः, सम्बन्धसामान्यरूपेण विवक्षितत्वात् षष्ठी। पुरा सूर्यस्योदेतोरिति चोदाहरणम्, अत्र ह्यव्ययप्रपिषेधे ठ्तोसुनोरप्रतिषेधःऽ इति कर्तर्येव षष्ठ।ल्स्ति। एवं वृक्षस्योपरीत्यादिकमप्युदाहरणम्। तव्यता सानुबन्धकेनेति। ठ्निरनुबन्धकग्रहणे न सानुबन्धकस्य ग्रहणम्ऽ इति भावः। ब्राह्मणकर्तव्यमिति। कर्तरि षष्ठयाः समासः कृदुतरपदप्रकृतिस्वरेणान्तस्वरितमेतत्, निरनुबन्धकेन तु समासे उतरपदं मध्योदातं स्यात्, सोऽयं स्वरार्थस्तव्येननिषेधः। शुकस्य माराविकस्येति। मा रावीत्याहेति माराविकः, ठ्तदाहेति मा शब्दादिभ्य उपसंख्यानम्ऽ इति ठक्, शब्देन क्रियायाः प्रतिषेधको माराविकः, संज्ञैषा शुकविशेषस्य, क्वचितु माराविदस्येति पाठः, तत्र माराविशब्दं ददातीति माराविदः, स एवार्थः। किं च स्यादिति। भवितव्यमेवात्र विशेषणसमासेन, तत् षष्ठीसमास एवास्तु, को दोष इति प्रश्नः। पूर्वनिपातानियमः स्यादिति। द्वयोरपि प्रथमानिर्दिष्टत्वेनोपसर्जनत्वादिति भावः। ननु विशेषणसमासेऽपि द्वयोरपि यत्र विशेषणविशेष्यभावस्तत्रेष्युक्तम्, अतस्तेनापि समासे विशेषणमिति प्रथमानिर्देशो द्वयोरपि तुल्यः। अथ तत्राप्रधानमुपसर्जनमार्थं चाप्राधान्यमिति द्रव्यगुणादिषु तेन प्रकारेण व्यवस्था, षष्ठीसमासेऽपि तथैव व्यवस्था भविष्यति। तस्माद्यतत्र प्रत्युदाहरणम्---तक्षकः सर्प इति, तयोः षष्ठ।ल्न्तयोः समासप्रसङ्ग एव दोषः, तन्निवृतये च प्रतिषेध इति वाच्यम्। तदिह ठ्किं च स्यात्ऽ इत्यादिकमेवानुपपन्नम्, उदाहरणं तूपपन्नम् यदि माराविकशब्दः संज्ञा। अथ सोऽपि योगवृत्तिः तर्हि तदप्यनुपपन्नम्। एवं पाटलिपुत्रकेऽपि द्रष्टव्यम्॥ क्तेन च पूजायाम्॥ २।२।१२ ॥ क्तेन च पूजायाम्॥ तस्येति। मत्यादिसूत्रविहितस्य सर्वस्यैव क्तस्य ग्रहणं न तु पूजायामेव विहितस्येत्यर्थः। कथं तर्हि पूजाग्रहणमित्याह----पूजाग्रहणमिति। विवक्षितस्य क्तस्य तटस्थमुपलक्षणं पूजाग्रहणम्, गृहस्येव काकः, न तु समासनिषेधार्थमित्यर्थः। तेन मतिबुद्ध्योरपि विहितस्य ग्रहणं भवतीति भावः। पूजायां विहित इति। वर्तमानादिति शेषः। राज्ञामिति। ठ्क्तस्य च वर्तमानेऽ इति षष्ठी। कथं राजाभिमत इति, अस्ति हि भट्टिकाव्ये प्रयोगः----ठ्कानहं स राममहितः कृतवान्ऽ इति, ठ्मह पूजायाम्ऽ रामस्य महित इत्यर्थः? कश्चिदाह----"यदा वर्तमाने क्तस्तदा षष्ठीसमासनिषेधश्च, यदा भूते क्तस्तदा कर्तरि तृतीयैव भवति, यथा----ठ्पूजितो यः सुरैरपिऽ इति, तस्याः ठ्कर्तृ करणे कृता बहुलम्ऽ इति समासः" इति। स्यादेवं यदि भूते क्तो लभ्यः, न; नाप्राप्ते तस्मिन्नारभ्यमाणः ठ्भतिबुद्धिपूजार्थेभ्यश्चऽ इति वर्तमाने क्तस्तस्य बाधको भवति, यथा च वडवाया वृषे वाच्य इति अपत्ये प्राप्तो ठक् ततोऽपकृष्य विधीयते, अपत्ये त्वणेव भवतीति वक्ष्यति। एवं च ठ्पूजितो यः सुरैरपिऽ इत्यचिकत्स्योऽपशब्दः। त्वया ज्ञातो मया ज्ञात तु भवत्येव; तेनेत्यधिकारे उपज्ञात इति निर्देशात्। अपर आह---ठ्क्तेन च पूजायाम्ऽ इत्यादिषु कारकषष्ठ।ल एव निषेधः। तदेव तु कर्तादिकारकं यदा शेषरूपेण विवक्ष्यते तदा भवत्येव समास इति। तत्र स्वरे विशेषः, कारकषष्ठयाः समासे कृत्स्वरो भवति, शेषषष्ठयाः समासे समासान्तोदातत्वमिति। एवं तु यत् ठ्जनिकर्तुः प्रकृतिःऽ, ठ्तत्प्रयोजको हेतुश्चऽ इत्यादावुच्यते---ठ्निपातनात्समासःऽ इति, तदनुपपन्नम्; शेषषष्ठ।ल एव समासस्य सिद्धत्वात्। अथ येऽमी नवीना वैयाकरणा आरभन्ते तदपार्थकमापद्येत। तस्मादाप्तप्रयोगस्य यथाकथंचिन्निर्वाहः, न तु यथारुचि पद्ययोग इति धीरा मन्यन्ते॥ ठ्क्तेनऽ इति निवृतम्। कर्मग्रहणं षष्ठीविशेषणम्। कर्मणि च या षष्ठी सा न समस्यते। ठुभयप्राप्तौ कर्मणिऽ इति षष्ठ।ल इदं ग्रहरगम्। आश्चर्यो गवां दोहोऽगोपालकेन। रोचते ओदनस्य भोजनं देवदतेन। साधु खलु पयसः पानं देवदतेन। विचित्रा सूत्रस्य कृतिः पाणिनिना॥ अधिकरणवाचिना च॥ २।२।१३ ॥ अधिकरणवाचिना च॥ ठधिकरणऽ इत्येव सिद्धे वाचिग्रहणं चिन्त्यप्रयोजनम्, कथम्? ठ्कवृते लिप्सायाम्ऽ,ठ्यद्वृतान्नित्यम्ऽ इति, नायमधिकरणे क्तः, क तर्हि? भावे। किमो वृतं यस्मिन् यदो वृतं यस्मिन्निति व्यधिकरणपदो बहुव्रीहिः॥ कर्मणि च॥ २।२।१४ ॥ कर्मणि च ॥ उभयप्राप्तौ कर्मणीति। अनेकार्थत्वान्निपातानामितीत्यर्थे चशब्दोऽयम्, तेन कर्मणीत्युच्चार्य या षष्ठी विधीयते सा न समस्यत इत्यर्थः। यदि च या काचन कर्मणि षष्ठी गृह्यएत ठ्कर्तरि चऽ इति निषेधं न कुर्याद्; अनेनेव सिद्धत्वात्। साधु पयसः पानमिति। कर्मणि च येन संस्पर्शादिति नित्यसमासार्थवचनमिति वक्ष्यति, तत्र पयः सुखमित्युदाहरिष्यते। इदं तु शरीरसुखस्याविवक्षायां रोगाद्यभिभूतोऽशक्नुवन्नेव यदा साधु पिबति, तदा द्रष्टव्यम॥ तृजकाभ्यां कर्तरि॥ २।२।१५ ॥ तृजकाभ्यां कर्तरि॥ कर्तृ ग्रहणं षष्ठीविशेषणमिति। अथ कस्माद्विपर्यययो नाश्रीयते---इह तृजकविशेषणं कर्तृ ग्रहणमुतरत्र षष्ठीविशेषणमिति, एवं तृज्ग्रहणमुतरार्थमिति न वक्तव्यं भवति? उच्यते; ठ्नित्यं क्रीडाजीविकयोःऽ इत्यत्र तृज्ग्रहणस्याननुवृत्तिः शङ्क्येत ठ्कर्तरि चऽ इत्यत्र सम्बन्धासम्भवात्, न हि तृज्प्रयोगे कर्तरि षष्ठी सम्भवतीति। ननु च ठ्तृज्क्रीडाजीविकयोर्नास्तीत्यकएवोदाह्रियतेऽ इति वक्ष्यति, एवं तर्हि तथानाश्रितमित्येव। भवतः शायिकेति। ठ्पर्यायार्हणोत्पतिषु ण्वुच्ऽ। तृच्प्रयोगे कर्तरि षष्ठी नास्तीति। तेनैव कर्तुरभिहितत्वात्। इक्षुभक्षिकामिति। कर्मणि षष्ठ।ल समासः। म इति। ठ्धारेरुतमर्णऽ इति संप्रदाने चतुर्थी॥ कर्तरि॥ २।२।१६ ॥ कर्तरि॥ सम्भवे व्यभिचारे च सति विशेषणविशेष्यभावो भवतीत्याह सामर्थ्यादिति। सम्बन्धिशब्दस्येति। अवयवप्रसिद्धेः समुदायप्रसिद्धिर्बलीयसीति भावः। अन्यस्त्वाह---होतृशब्दसाहचर्यादिति; तन्न, न हि तत्र बह्वचो होता गृह्यते। स एव सम्बन्धिशब्दः क्षीरहोतेत्यादौ क्षीप्तेत्येव गम्यते॥ नित्यं क्रीडाजीविकयोः॥ २।२।१७ ॥ नित्यं क्रीडाजीविकयोः॥ नेति निवृतमिति। नित्यग्रहणाद्, महाविभाषाधिकाराद्विलक्पेनैव पाक्षिकस्य प्रतिषेधस्य सिद्धत्वान्नित्यः प्रतिषेधो भविष्यति, किं नित्यग्रहणेन ! तृच् क्रीडाजीविकयोर्नास्तीति। वामनस्तु ठके जीविकार्थऽ इत्यत्र ठक इति किं रमणीयकर्ताऽ इति जीविकायां तृचं प्रत्युदाहरिष्यति। स मन्यते---मा भूत्क्रीडायां तृच्, लक्षणाभावात्, जीविकायां तु ण्वुल्तृचाविति ण्वुलिव तृच् कस्मान्न स्यादिति। अन्ये तु तदनुसारेणेदमप्येवं व्याचक्षते---क्रीडाजीविकयोर्नास्तीति द्व्योर्नास्ति, किन्त्वन्यतरत्रैवेत्यर्थः। अक एवोदाह्रियत इति। उभयत्रेत्यर्थः। उद्दालकपुष्पभञ्जिकेत्यादौ। संज्ञायामिति ण्वुल। नित्यग्रहणमुतरार्थम्। न हि वाक्येन क्रीडाजीविकयोरवगतिरस्ति, क्रियाकारकसम्बन्धमात्रावगमात्॥ कुगतिप्रादयः॥ २।२।१८ ॥ कुगतिप्रादयः॥ कुशब्दोऽव्ययं गृह्यत इति। स्वरादिष्वपठितोऽप्ययं पठितव्य इति भावः। नित्यसमासविषयस्यास्य पूर्वपदप्रकृतिस्वराणामव्ययत्वम्, यथा वक्ष्यति---अव्यये नञ्कुनिपातानामिति वक्तव्यमिति। न द्रव्यवचन इति। पृथिव्यादिद्रव्ये यो वर्तते स न गृह्यत इत्यर्थः। दुर्निन्दायामिति। प्रशप्ते द्वेषान्निन्दा भवति, पापं तु वस्तुस्थित्या गर्हितमिति द्वयोरप्युपादानम्। प्रायिकमिति। अन्यथेषदर्थे चेति कोः कादेशविधानमनुपपन्नं स्यात्। दुष्कृतमिति। दुर्निन्दायामिति विषयनिर्देशो गतित्वेन प्राप्तस्यापि समासस्य नियामकः स्यादिति मन्यते। यदा तु प्रादिग्रहणप्राप्तस्यैव नियामकस्तदा गतित्वादेवात्र सिद्धः समासः। दुरत्र कृच्छ्रार्थोऽनभिधानात्कृतेः खल् न भवति, दुष्कर इत्यादावुपपदसमासः, आमन्द्रैरिन्द्र हरिभिरित्याङे मन्द्रं प्रत्यगतित्वादनीषदर्थत्वाच्च समासाभाव इत्यैकस्वर्थं न भवति। सुष्टुअतमिति। सुशब्दोऽतिशये, न पूजायाम्। अत एवोपसर्गनिबन्धनं षत्वम्। अतिस्तुतमिति। ठतिरतिक्रमणे चऽ इति कर्मप्रवचनीयत्वात्षत्वाभावः॥ प्रादयो गताद्यर्थ इति। वृत्तिविषये गताद्यर्थवृतयः प्रादयो गतित्वाभावेऽपि प्रादिग्रहणेन समस्यन्त इति। पर्यध्ययन इति। परिश्रान्तोऽध्ययनार्थमित्यर्थः। वाससी इवेति। ठ्वसेर्णिच्चऽ इत्यसुन्प्रत्ययान्तो वासः शब्दः, वस्त्रशब्दः ष्ट्रन्प्रत्ययान्तः, द्वावपि नित्याद्यौदातौ। प्रादिप्रसङ्ग इति। सूत्रे प्रादिग्रहणमगत्यर्थमिति कर्मप्रवचनीयानां प्रतिषेध उच्यते, प्रत्यादिविषयश्चायं निषेधः। स्वत्योस्तु समासो भवत्येव। वृक्षं प्रतीति। कर्मप्रवचनीयेन योगाद् द्वितीयावत्समासस्यापि प्रसङ्गः, उदातवता सिङ गतेः समासवचनम्---यो जात एव पर्यभूषत्, यः शम्बरमन्वविन्दत्, योऽन्तरिक्षं विममे, यौ वै प्रजवं याताम्, अपथेन प्रतिपद्यते॥ उपपदमतिङ्॥ २।२।१९ ॥ उपपदमतिङ्॥ एधानाहारको व्रजतीति। ठ्तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम्ऽ इति ण्वुल्। अतिङिति किमिति। येनाभिप्रायेण पृष्ट्ंअ तमाविष्करोति। ननु चेति। एतज्ज्ञापयतीति। स्यादेतत्---मुख्यस्य तिङ्न्तस्य प्रतिषेधोऽनर्थक इति। यस्तेन समानार्थः सुबन्तस्तस्य प्रतिषेधो विज्ञायते। तत्र यद्यपि कालकारकसंख्योपग्रहयुक्तः पूर्वापरीभूतः क्रियारूपस्तिङ्न्तार्थप्रधानोऽर्थो न सुबन्तस्य सम्भवति, तथापि क्रियावाचित्वमात्रेण तदर्थत्वमाश्रीयते, क्रियावाच्युपपदं न समस्यत इत्यर्थः। तेन कारको गतः, कारकस्य व्रज्येति गतब्रज्याशब्दयोः कारकशब्देन समासो न भवति; अन्यथा हि क्रियार्थायामिति सप्तमीनिर्देशेनोपपदत्वादनयोरपि समासः स्यादिति? तन्न; अनुपपदत्वात्। क्रियायां क्रियार्थायामिति सप्तमीनिर्देशेन क्रियावाचिन उपपदत्वम्, धातुरेवात्र क्रियावचनस्तदाश्रयश्च ण्वुल् प्रत्ययः। गतशब्दस्तु क्रियोपसर्जनं कर्तारमाह, व्रज्याशब्दोऽपि यस्तस्य सिद्धता नाम धर्मस्तत्र धञादयो भवन्तीति धात्वर्थस्य सिद्धतायां वर्तन्ते, अतो यत्क्रियावाचित्वादुपपदं न तत्सुबन्तम्, यत्मुबन्तं न तत्क्रियावाचि नाप्युपपदमिति नार्थ एवमनातिङ्ग्रहणेन। एतयोर्योगयोरिति। ननु चास्मिन्नेव योगे तदनभिसम्बन्धो युक्तः, यत्रातिङ्ग्रहणमस्ति, न पूर्वत्र? एवं मन्यते---योगविभागेनातिङ्ग्रहणं पूर्वसूत्रेणापि सम्बन्धनीयमिति। यद्येवम्, कुशब्दे प्रादिषु चातिप्रसङ्गः, तत्रापि प्राक् सुबुत्पतेः समासः स्यात्? एवं तर्हि पूर्वसूत्रे गतिग्रहणं पृथक्कृत्य तेनैवातिङ्ग्रहणं सम्बन्धनीयम्। गतिकारकोपपदानाम्, अस्यायमर्थः---गतीनां कारकाणामुपपादानां च कृद्भिः सह यः समासस्तेनतेन लक्षणेन स उतरपदात्सुबुत्पतेः प्रागेव कार्यः, पूर्वपदन्तु सुबन्तमेव समस्यत इति। गतीनां तावत्---व्याजिघ्रतीति व्याघ्री,ठ्पाघ्राध्माधेट्द्दशः शःऽ इति प्राप्तस्य जिघ्रतेः ठ्संज्ञायां प्रतिषेधो वक्तव्यःऽ इति निषेधात् ठातश्चोपसर्गेऽ इति कः, व्याङेर्घ्रशब्देन गतिसमासः, स यद्यौतरपदे सुबन्ते जाते पश्चात्स्यात्, ततः सुबुत्पतये संख्याकर्मादियोगो विवक्षितव्यः, तद्योगाच्च प्रागेव लिङ्गयोगः स्वार्थमभिधाय शब्द इति न्यायात्, ततश्च लिङ्गनिमितः प्रत्ययो भवन् घ्रशब्दमात्रस्याजातिवाचित्वादाप् स्यात्, ततश्च व्याङेर्घ्राशब्देन समासः, ततो व्याघ्राशब्दस्य जातित्वेऽप्यनकारान्तत्वाज्जातिलक्षणो ङीष् न स्यात्; प्राक् सुबुत्पतेः समासो भवन् लिङ्गयोगमपि नापेक्षत इत्यन्तरङ्गत्वात्स एव तावद्भवति पश्चात्स्त्रीप्रत्ययो भवन्ङीषेव भवति, पूर्वपदस्य तु सुबन्तत्वात्पदकार्याणि भवन्ति, निर्गत इति रुत्वम्, संय्यन्तेति परसवर्णविकल्प इत्यादीनि। कारकाणाम् अभ्रेर्लिप्ताऽभ्रलिप्ती, ठ्कर्तृ करणे कृता बहुलम्ऽ इति समासः, यद्यौतरपदस्य सउबन्तत्वं स्यात्पूर्ववट्टाप् स्यात्, ततः ठ्क्रीतात्करणपूर्वात्ऽ ठ्क्तादल्पाख्यायाम्ऽ इति ङीष् न स्याद्; अत इत्यधिकारात्, वचनसामार्थ्याद्वा पूर्वशब्दं व्यवस्थावचनमाश्रित्य वाक्यावस्थायामेव स्यात्, अत इत्यधिकारो वा व्यवच्छिद्येत। प्राक् सुबुत्पतेः समासे पूर्ववत्सिद्धमिष्टम्। अत्रापि पूर्वपदस्य सुबन्तात्वाच्चर्मक्रीतीत्यादौ नलोपादिकार्याणि भवन्ति। उपपदानाम्--कच्छेन पिबतीति ठ्सुपि स्थःऽ इत्यत्र सुपीति योगविभागात्कः, कच्छपी, व्याघ्रीतुल्यम्, माषान्वपति ठ्सुप्यजातौ णिनिस्ताच्छील्येऽ माषवापिणी, ङीपः प्राक् समासे प्रातिपदिकस्यान्तो नकार इति णत्वं भवति। सुबन्तस्य तु समासे ङीप्समासस्यान्तो न तु नकार इति न स्यात्। अत्रापि पूर्वपदस्यसुबन्तत्वाच्चर्मकारादौ नलोपादिपदकार्य भवत्येव। अत्रोपपदग्रहणं गतिकारकव्यतिरिक्तोपपदपरिग्रहार्थम्--मृषावापिणी, इषद्दर्शाया अपत्यं ऐषद्दर्शेयः, अत्र दर्शशब्देन समासे सति समुदायात्स्त्रीभ्यो ढकं बाधित्वा दर्शाशब्दात् स्त्रीप्रत्ययलक्षणो ढक् स्यात्, स्त्रीप्रत्यये तदादिनियमाभावेऽपि दर्शाशब्दादपि कदाचित्स्यादित्येषा दिक्। जातान्यस्याः परिभाषायाः प्रयोजनानि। कथं पुनतिङ्ग्रहणेनायमर्थः साधयितुं शक्यः, यावता प्रथमान्तमतिङ्ग्रहणं प्रथमान्तस्यैव सुब्ग्रहणस्य निवृत्तिं सूचयेदिति पूर्वपदे पदकार्याणि न स्युः, उतरपदे चोक्तमिष्ट्ंअ न सिध्यति, तदेतत्क्रियमाणमतिङ्ग्रहणं विपर्ययमेव साधयति, तदपि गत्युपपदयोरेव कारकेषु तु ठ्कर्तृ करणे कृता बहुलम्ऽ इत्यादावस्याः कथाया अप्रसङ्ग एव? उच्यते---योगविभागेनातिङ्ग्रहणं गतिनापि संबध्यत इत्युक्तम्, एवं स्थिते योगद्वयविहितसमासमतिङ्ग्रहणेन विशेषयिष्यामः----गतिः समस्यते अतिङ् समासो भवति, उपपदं समस्यते अतिङ् च समासो भवतीति। तदेवम्ठ् माइङ् लुङ्ऽ मा कार्षीदित्यादौ तिङ्न्तेन समासो मा भूदित्येवमर्थं क्रियमाणमतिङ्ग्रहणं सुपेति तृतीयान्तस्य निवृत्तिं साधयतीति गत्युपपदयोस्तावत्सिद्धिमिष्टम्। वृतावपि ठ्सुप् सुपेति न संबध्यतेऽ इति समुदायस्य निवृत्तिर्विवक्षिता, न केवलस्य सुब्ग्रहणस्य। प्रत्युदाहरणमपि दिङ्मात्रं प्रदर्शितम्, न हि तत्र तिङ्न्तेन समासः, कि तर्हि? तिङ्न्तस्य सुबन्नेन, ठ्कर्तृ करणे कृता बहुलम्ऽ इत्यत्रापि कृतेति न वक्तव्यम्, कथम् ? कर्तृ करणयोः क्रियापेक्षत्वात्क्रियावचनेन तावत्समासः,धातुश्च क्रियावचनः, धातोश्च द्वये प्रत्ययाः---कृतस्तिङ्श्च, तत्र सुबधिकारातिङ्न्तेनाप्रसङ्गः, तदेतत् कृद्ग्रहणं कृदन्तावस्थायामेव यथा स्यादित्येवमर्थमिति केचित्। नेति वयम्। काष्ठ्èअः पचतितराम्, दध्ना भुक्तपूर्वीत्यादौ तद्धितान्तेन समासो मा भूदित्येवमर्थं कृद्गहणं कर्तव्यं कष्टश्रितादिषु प्राक्सुबुपतेः समासो न साधित इति कष्टश्रितेत्यादि न सिद्ध्यति। एव तर्हि गतिकारकोपपदानामिति परिभाषा पूर्वाचार्यैः पठिता सूत्रकारेणाप्यतिङ्ग्रहणेन तद्देश आश्रीता। तत्र सामान्यापेक्षां ज्ञाप्रकमिति कृत्स्नमेव परिभाषार्थं ज्ञापयतीति सिद्धमिष्टम्। तदेतत्प्रतिपद्यन्तां भाष्ये कृतपरिश्रमाः। नान्ये सहस्रमप्यन्धाः सूर्य पश्यन्ति नाञ्जसा॥ अमैवाव्ययेन ॥ २।२।२० ॥ अमैवाव्ययेन॥ स्वादुङ्कारमिति। स्वादुमि णमुल्, स्वादुमीत्यत एव निपातनात्पूर्वपदस्य मान्तत्वम्। स्वादुमीत्यर्थग्रहणम्, तेन संपन्नकारमित्यत्रापि भवति। ननु सिद्धे विधिरारभ्यमाणो नियमाय भवति, एवकारः किमर्थः? इष्टतोऽवधारणार्थः, एवं यथा विज्ञायेत---अमैवाव्ययेनेति, मैवं विज्ञायि---अमाव्ययेनैवेति। अनव्ययस्यासम्भवादेवायं नियमो न भविष्यति। ननु चायमस्ति स्वशयं ब्राह्मणकुलमिति---ठधिकरणे शेतेःऽ इत्यच्, ठतोऽम्ऽ इति सोरम्भावः, अनेनानव्यवेन समासो मा भूदित्येवमर्थो नियमः स्यात्, न; अत्र ह्यन्तरङ्गत्वादनुत्पन्न एव सावुपपदसमासेन भाव्यम्, पश्चात्सुपेति विधानवेलायामनव्ययस्यामोऽसम्भवान्नियमान्तरेण वचनस्य चरितार्थत्वाद्विपरीतनियमो न भविष्यतीत्यत आह----एवकारकरणमिति। अमैव यदुपपदं तत्समस्यते, तदेव समस्यत इत्यक्षरार्थः, न पुनरमैव समस्यत इति। तत्रामैव यदुपपदमित्यत्र तुल्यविधानमिति वाक्यशेषः। किं चामैव तुल्यविधानं येन वाक्येनामेव केवलो विधीयते, न प्रत्ययान्तरसहितस्तेन वाक्येन यदुपपदं विधीयते तत्र सप्तमीनिर्देशातदमैव तुल्यविधानम्। नियमाङ्गभूतस्त्वेवकारो नियमस्वभावादेव लभ्यते---अमैव यतुल्यविधानं न तु प्रत्ययान्तरोत्पतौ निमितमिति तदपेक्षयाऽनुपपदत्वाद् अव्ययान्तरेण समासो नाशङ्कनीयः। अग्रे भोजमिति। ठ्विभाषाग्रेप्रथमपूर्वेषुऽ इति क्त्वाणमुलौ। अव्ययग्रहणं किम्? असत्यव्ययग्रहणे ठमैव तुल्यविधानं तदेवोपपदं समस्यतेऽ इत्युच्यमाने कुम्भकारादाविपि न स्यात्। अथ पूर्वसूत्रस्यानवकाशत्वादमैव तुल्यविधानस्योपपदस्याव्ययविषयत्वातद्विषय एव नियमो विज्ञास्यत इत्युच्यते? एवं त्वमैव नियमः स्याद्---अमन्तेनोपपदस्य यः समासः सोऽमैव तुल्यविधानस्येति, तत्र को दोषः? अग्रेभोजमित्यत्रैव न स्यात्, अग्रे भुक्त्वा, कालो भोक्तुमित्यत्र तु स्यादेव; अव्ययग्रहणे तु सति अव्ययेनोपपदस्य यः सोऽमैव तुल्यविधानस्येति विज्ञानान्न कश्चिदोषः॥ तृतीयाप्रभृतीन्यतरस्याम्॥ २।२।२१ ॥ तृतीयाप्रभृतीन्यतरस्याम्॥ तृतीयाप्रभृतीनीति। यत्पुनरमा चान्येन तस्याप्राप्त इति उपपदविशेषणार्थ एवकारोऽत्र नानुवर्तत इति भावः। उच्चैः कारमिति। यदा समासस्तदा कृदुतरपदप्रकृतिस्वरः, ठादिर्णमुल्यन्यतरस्याम्ऽ इत्याद्यौदातत्वम्। यदा तु न समासः, तदोच्चैरित्यन्तोदातम्; स्वरादिषु तथा पाठात्। कारमित्याद्यौदातम्॥ क्त्वा च॥ २।२।२२ ॥ क्त्वा च॥ क्त्वेति तृतीयान्तम्। ठातःऽ इत्याकारलोपः, यथा---ठ्समासेऽनञ्पूर्वे क्त्वे ल्यप्ऽ इति ठ्क्त्वि स्कन्दिस्यन्द्योःऽ इति॥ शेषो बहुव्रीहिः॥ २।२।२३ ॥ शेषे बहुव्रीहिः॥ उपयुक्तादन्यः शेष इति। ठ्शिष असर्वोपयोगेऽ इत्यस्मात्कर्मणि घञ्। कश्च शेष इति। ननु चोपयुक्तादन्यः शेष इत्युक्तम्, सत्यम्, सर्वेषामेव पदानां सामान्यविशेषरूपेणोपयोगात्सर्वेषु च पूर्वोतरान्यपदार्थेषु यथायोगं तत्पुरुषाव्ययीभावयोर्विधानादुपयुक्तादन्यो न सम्भवतीति पुनः प्रश्नः। उक्तं च---ठ्शेषग्रहं पदतश्चेन्नाभावादर्थतश्चेदविशिष्टम्ऽ इति। यत्रान्यः समासो नोक्त इति। येषां पदानां यस्मिन्नर्थेऽव्ययीभावादिकः समासो न विहितः स शेष इत्यर्थः। अथैवं कस्मान्न विज्ञायते----स्पतसु सुपां त्रिकेषु यस्य त्रिकस्य श्रृङ्गग्राहिकया समासो नोक्तः, यथा---प्रथमायाः,स शेष इति? कण्ठेकाल इत्यादावप्रथमान्तानामपि समासस्येष्टत्वात्। शेषग्रहणं प्राक्कडारात्परं कार्यमित्यस्मिन्पक्षे कर्तव्यम्, एकसंज्ञाधिकारपक्षे न कर्तव्यमित्याकडारसूत्र एव प्रतिपादितम्॥ अनेकमन्यपदार्थे॥ २।२।२४ ॥ अनेकमन्यपदार्थे॥ अनेकं सुबन्तं सह समस्यत इति। परस्परमित्यर्थः। तदनेन सुबित्येतदत्रानुवर्तते, न सुपेत्येतद्; उतरपदस्याप्यनेकमित्यनेनैव प्रतिपादितत्वादिति दर्शयति। सर्वेषु विभक्त्यर्थेष्विति। पदेन प्रकृत्यर्थोपसर्जनः प्रत्ययार्थोऽभिधीयत इति विभक्त्यर्थस्य प्राधान्यातस्यैवान्यपदार्थग्रहणेन प्रहणमिति भावः। अत एव प्राप्तोदकोऽयं ग्राम इति ग्रामशब्दानुप्रयोगः, अन्यथा यावानेवार्थो ग्रामपदस्य तावतोऽभिधाने गतार्थत्वान्न स्यात्, यथा---द्वन्द्वे च--शब्दस्य। यदा तु समासेन विभक्त्यर्थ एव सम्बन्धादिरभीप्स्यते तदा विभक्तिर्मानुप्रयोजि, द्रव्यस्यानभिहितत्वातद्वाचिनोऽनुप्रयोगः कस्मान्न स्यात् यदि विभक्त्यर्थोऽभिधीयते, कथं ग्रामादिभिः सामानाधिकरण्यं तल्लिङ्गसंख्यायोगे वा बहुव्रीहिर्भवतिप्राप्तोदको ग्रामः, उद्धृतौदना स्थालीति? उच्यते---विभक्त्यर्थस्य सम्बन्धादेराश्रितत्वेन गुणत्वादभेदोपचारात्सामानाधिकरण्यमाश्रयतश्च लिङ्गवचनानि भविष्यन्ति शुक्लादिवत्, यथा---शुक्लं वस्त्रम्, शुक्ला पटी, शुक्लः कम्बलः, शुक्लैः, शुक्ला इति। नन्वेवं यथा शुक्लशब्देन कदाचिद्गुण उच्यते, कदाचित् गुणी; तथा बहुर्वीहावपि प्राप्नोति। नैषोऽस्ति नियमः----गुणशब्देन कदाचिद्गुणमात्रमभिधीयत् इति, पट्वादिष्वदर्शनात्, न हि भवति देवदतस्य पटुअरिति; तद्वदिहापि नित्यमेव गुणिनिष्ठता भविष्यति। एवमपि बहुव्रीहिणा यथा विभक्त्यर्थस्याभिधानात् षष्ठ।लदयो न भवन्ति, तथा लिङ्गसंख्ययोरप्यभिधानातयोर्वाचकाः प्रत्यया न प्राप्नुवन्ति ? नैष दोषः; स्वाथिंकाष्टाबादयः, स्त्रियां यद्वर्तते तस्मात्स्वार्थिकाष्टबादयो भवन्तीति तेन बहुव्रीहिणाऽभिहितेऽपि स्त्रीत्वे भविष्यन्ति। एवं च कृत्वा ठनो बहुव्रीहेःऽ इत्याद्यौपपन्नं भवति। समासेन च बाह्यक्रियापेक्षा या कर्मादिशक्तिस्तद्रहितसमासप्रातिपदिकार्थमात्रस्यैवैकत्वादेरुक्तत्वादिति कर्मादिगतैकत्वादिप्रतिपादनाय वचनानि भविष्यन्तिचित्रगुं पश्य, चित्रगुणा कृतमिति। एवमपि प्रथमा न प्राप्नोति, समासेन संख्याया अभिधानात्? वचनग्रहणादेकः, द्वौ, बहव इतिवद्भविष्यति। अथ वा----लिङ्गमात्रं संख्यामात्रं बहुव्रीहिणाभिहितं न विशेषस्तत्रावश्यं विशैषार्थिना तद्वाची शब्दः प्रयोक्तव्यः, एवं च कृत्वा सह प्रकृत्वा सह प्रकृत्यर्थेन विभक्त्यर्थे बहुव्रीहिणाभिधीयमानेऽपि न कश्चिद्दोषः। कथं सामान्यमनभिहितं विशेषस्यानुप्रयोगः? सामान्यस्य तर्हि न प्राप्नोति----देवदतः कश्चिदिति, सामान्यमपि विशेषः, यथा विशेषेण विशेषान्तरं व्यावर्त्यते तद्वत्सामान्येन विशेषो व्यावर्त्यते, अन्यथा सन्देहः स्यात्---सामान्यमत्र विवक्षितम्? विशेषो वा ? इति। प्राप्तोदको ग्राम इत्यादिनि द्वितीयाद्यर्थेषु यथाक्रममुदाहरणानि। ऊढो रथो येन, उपहृतः पशुर्यस्मै, उद्धृत ओदनो यस्याः, चित्रा गावो यस्य, वीराः पुरुषा यस्मिन्निति विग्रहाः। प्रथमार्थे तु न भवतीति। अनभिधानात्, एवमनन्तरादिषु न भवति----चित्रा गावो यस्यानन्तरा इति। अनेकमिति किमिति। सुप्सुपेत्यधिकारादेव तत्पुरुषवद्वहुव्रीहिरप्येकस्य न भविष्यतीति प्रश्नः। बहूनामपि यथा स्यादिति। अन्यथा सुप्सुपेति संख्याया विवक्षितत्वाद्यथा तत्पुरुषो बहूनां न भवति---महत्कष्ट्ंअ श्रित इति, तथा बहुव्रीहिरपि न स्यादिति भावः। ज्ञापकात्सिद्धिम्, यदयं तद्धितार्थेत्युतरपदे द्विगुं रास्ति तज्ज्ञापयति---बहूनामपि समास इति। यद्येवम्, तत्पुरुषेऽपि प्रसङ्गः, अथ चित्रगुरित्यत्रोतरपदस्याप्युपसर्जनसंज्ञा प्रयोजनं कस्मान्न भवति, सत्यनेकग्रहणे सुपेत्यस्य निवर्तितत्वादुतरपदमपि तेनैव प्रत्याय्यते, तदपि समासशास्त्रे प्रथमानिर्दिष्ट्ंअ भवति, नान्यथा? एवं मन्यते----चित्रगुस्तिष्ठति, चित्रगुं पश्येति प्रधानस्यान्यपदार्थस्य नानाविभक्तियोगेऽपि वर्तिपदयोर्नित्यप्रथमान्तत्वादेकविभक्तीत्येव सिद्धमुपसर्जनत्वमिति। सुसूक्ष्मजटकेशेनेति। सुष्ठुअ सूक्ष्मा जटाः केशा अस्येति चतुर्णां बहुव्रीहौ ठ्ङ्यापोः संज्ञाच्छन्दसोर्बहुलम्ऽ इति बहुलवचनाध्रस्वत्वम्,यद्वा सुष्ठुअ सूक्ष्मा जटा येषु ते सुसूक्ष्मजटास्ताद्दशाः केशा अस्येति पुनर्बहुव्रीहिः। एवं सुष्ठुअ गजाजिनं वास आच्छादनं यस्य तेन सुगजाजिनवाससा, तृतीयान्तोदाहरणम्; श्लोके तथा पठितत्वात्। ठ्सुसूक्ष्मजटकेशेन सुगजाजिनवाससा। समन्तशितिरन्ध्रेण द्वयोर्वृतौ न सिद्ध्यतिऽ॥ इति भाष्ये श्लोकः पठितः तत्र तु श्लोकपूरणार्थं तृतीयानिर्देशः। अन्यग्रहणं बहुव्रीहितत्पुरुषयोर्विषयविभागार्थम्, असति तस्मिन् कण्ठेकाल इत्यादौ व्यधिकरणपदे सावकाशं बहुव्रीहि स्वपदार्थ इव नीलोत्पलं सर इत्यादौ समानाधिकरणे तत्पुरुषो बाधेत। अन्यग्रहणे तु सति स्वपदार्थे सावकाशं तत्पुरुषं परत्वाद्वहुव्रीहिर्बाधत इति न कश्चिद्दोषः। पदग्रहणं किम्? पदार्थे यथा स्याद्वाक्यार्थे मा भूत्। कश्चित्कञ्चिन्नद्यां सिष्णासुमाह----नद्यां ग्राहाः सन्तीति, एतानि पदानिठ्तस्मातत्र मा स्नासीःऽ इति वाक्यार्थं गमयन्तीति तेषां बहुव्रीहिसंज्ञा प्राप्नोति। अर्थग्रहणं किम्, यावता पदेपदान्तरस्य वृत्यसम्भवादेव पदार्थे भविष्यति? कृत्स्ने पदार्थे यथा स्यात्, अन्यथा प्राधान्याद्विभक्त्यर्थ एव स्यान्न प्रकृत्यर्थे द्वव्ये। तत्र यदुक्तम्----अभेदोपचाराद्धर्मिणोऽभिधाने सिद्धेऽपि शुक्लादिवद्धर्ममात्रस्यापि कदाचिदभिधानं प्राप्नोति, तदनेनापाक्रियते। पट्वादिशब्दवन्नित्यं धर्मिनिष्ठो बहुव्रीहिरिति प्रतिपादनेन बहुव्रीहिः समानाधिकरणानामित्यादिरभिधानसिद्धस्यार्थस्य प्रपञ्चः। उच्चैर्मुख इति। उच्चैसोऽथिकरणप्रधानत्वाद्वैयधिकरण्याद्वचनम्। सप्तम्युपमानेति। सप्तम्यन्तमुपमानवाचि च पूर्वपद यस्य तस्य शब्दान्तरेण समासस्तत्रस्थस्योतरपदस्य लोप इत्यर्थः। कण्ठेस्थ इति। ठ्सुपि स्थःऽ इति कः। ठमूर्द्धमस्तकात्ऽ इत्यलुक्। कण्ठेस्थित इति पाठेतु सप्तमीति योगविभागात्समासः। समानाधिकरणत्वात्समासे सिद्धे वचनमुतरपदलोपार्थम्, तेन वैयधिकरण्येऽप्यत्र गमकत्वमस्तीति प्रदर्श्यते। उष्ट्रखमिवोति। अवयवधर्मेण समुदायव्यपदेशादुष्ट्रस्योपमानतेत्युपमानपूर्वपदमुष्ट्रमुखशब्दः, अत्रोपमानोपमेययोर्वौयधिकरण्यवद्वचनमुतरपदलोपार्थं च। उष्ट्रमुख इति। उष्ट्रो मुखमस्येति। विग्रहः, न च प्राणी प्राण्यन्तरस्य मुखमुपपद्यत इति सामर्थ्यात् साद्दश्यावगतिः, मुखेन च सुखस्य साद्दश्यं प्रसिद्धमित्युष्ट्रमुखमिव मुखमस्येत्ययमर्थो भवति। तस्मादुतरपदलोपो न वक्तव्यः। समुदायविकारषष्ठ।ल इति। समुदायावयवसंबन्धे प्रकृतिविकारसंबन्धे च या षष्ठी तदन्तात्परं यदुतरपदं तदन्तस्य समासस्य शब्दान्तरेण सह बहुव्रीहिरित्यर्थः। केशचूड इति। इदमपि केशसमाहारे केशशब्दस्य वृतेः सिद्धम्। एवं स्वर्णविकारे स्वर्णशब्दस्य वृतेः स्वर्णालङ्कार इति सिद्धम्। वचनं तु केशमसाहारचूडः, स्वर्णविकारालङ्कार इत्युतरपदस्य श्रवणं मा भूदिति। प्रादिभ्यो धातुजस्येति। इदं न वक्तव्यमेव, प्रादयो हि ससाधनां क्रियां प्राहुः---यथा निष्कौशाम्बीः, निर्वाराणसिः, प्राचार्य इति। एवं नञोऽस्त्यर्थानामित्येतदपि। सुबधिकार इति। अस्तीति तिङ्न्तमिति मत्वा वचनं निपातत्वात्सिद्धम्। उपसर्गविभक्तिप्रतिरूपका निपाताः, स्वरादिषु चास्तिशब्दः पठ।ल्ते। इह किं सब्रह्मचारीति? बहुव्रीहिरयम्। के सब्रह्मचारिणस्तव, किं सब्रह्मचारी त्वमिति पूर्वपदप्रकृतिस्वरो ह्यत्रेष्यते, तत्र कठसब्रह्मचार्यहमिति सम्भावितम्प्रतिवचनम्। यतु कठोऽहमिति न तत्साक्षात्प्रतिवचनम्,किं तर्हि? आर्थिकम्। अहं तावत्कठ इत्युक्ते गम्यत एतन्नतु तेऽपि कठा इति। कठस्य हि कठा एव सब्रह्मचारिणो भवन्ति, नान्ये। समाने ब्रह्मणि व्रतचार्येव सब्रह्माचारी भवति। के सब्रह्मचारिणस्तवेति वाक्येन तु प्रश्ने कठा इति प्रतिवचनम्। समासेन तु प्रश्ने कठा इति प्रतिवचनं कदाचिदपि न भवति; वर्तिपदार्थानामुपसर्जनत्वात्, किं सब्रह्मचारीतिसमासेन सब्रह्मचारिणामभिधानात्। इह द्वौ द्रोणावर्द्धद्रोणाश्चार्द्धतृतीया द्रोणा इति? अर्द्धस्तृतीयो येषामिति बहुव्रीहावुद्भूतावयवभेदः समुदायः समासार्थ इति बहुवचनं द्रोणशब्दश्च द्रोणयोरर्द्धद्रोणेऽपि लक्षणया वर्तत इति सामानाधिकरण्यं च भवति॥ संख्ययाव्ययासन्नादूराधिकसंख्याः संख्येये॥ २।२।२५ ॥ संख्ययाव्ययासन्नादूराधिकसंख्याः संख्येये॥ उपदशा इति। ठ्बहुव्रीहौ संख्येये डजबहुगणात्ऽ इति डचि टिलोपः, दशानां समीपे ये भवन्ति त उच्यन्ते, ते पुनर्नवैकादश वा। पूर्वपदार्थप्रधानोऽयं समासः। उपशब्दोऽयमाराच्छब्देनैकार्थत्वात्समीपे समीपिनि च वर्तते। तत्र समीपिप्राधान्येऽयं बहुव्रीहिः। सामीप्यप्राधान्ये ठव्ययं विभक्तिसमीपऽ इत्यव्ययीभावः। उपदशं दन्तोष्ठा इति। अत्र धर्मधर्मिणोपभेदोपचारात्सामानाधिकरण्यम्। उपविशा इति। ठ्ति विंशतेर्डितिऽ इति लोपः। आसन्ना दशानामासन्नदशाः, तेऽपि नवैकादश वा। अधिकदशास्त्वेकादश। द्वौ वा त्रयो वा द्वित्राः, वार्थेऽयं समासः। वार्थश्च यदि विकल्पः स्यात्, ततो यदि द्वौ भवतस्तदा बहुवचनं न स्यात्। तस्मात्संशयोऽत्र वार्थः, स चानियतसंख्याविमर्शः, तत्र तु त्रयोऽपि सर्वदा परिस्फुरन्तीति तदपेक्षं बहुवचनम्। अथ वा----पञ्चैवात्र सर्वदा भवन्ति, कथम्? विमर्शज्ञानमुभयपक्षालम्बि एकं च तत्र, यथा---द्वौ वा त्रयो वा पुरुषा आनीयन्तामित्यत्र पुरुषशब्दे तिङ्न्ते च बहुवचनमेव भवति, कस्य हेतोः? मिश्रितेषु तयोर्वृतेः। एवं द्वित्रिपदमपि मिश्रितेषु वर्तत इति सैषा पञ्चाधिष्ठाना वाक्, अतो बहुवचनमेव भवति। आनयनादिकार्थं तु द्वयोस्त्रयाणां वा यथारुचि भवति। वाक्यवदेव समासस्य चैषा हि आपत्, अतस्तेषु मिश्रितेषु वृत्तिः, तेन द्वौ वा पुरुषा आनीयन्तामिति वाक्ये द्विशब्दाद् द्विवचनमेव भवति। त्रिचतुरा इति। ठ्चतुरोऽच्प्रकरणे त्र्युपाभ्यामुपसंख्यानम्ऽ इत्यच्। द्विदशा इति। अत्र द्विशब्देन दशत्वावृत्तिगता द्वित्वसंख्या प्रतिपाद्यते, न दशत्वसंख्या; एकत्वात्। नापि संख्यायुक्ताः, बहुत्वात्। तत्र वाक्ये सुचमन्तरेणाभ्या वृतेरनवगमात्सुच् भवति, ततश्चास्वपदविग्रहः क्रियते---द्विर्दश द्विदशा इति। वृतौ तु स्वभावादेव सुचमन्तरेणाभ्यावृत्तिसंख्यां द्विशब्द एवाहेति संख्यावाचित्वात्समस्यते। नन्वत्र वार्थः सुजर्थश्चान्यपदार्थे इति पूर्वेणैव सिद्धम्, तन्न; सुचः स्वार्थिकत्वातदर्थोऽपि पदार्थ एव। मत्वर्थे पूर्वयोगः; अमत्वर्थार्थोऽयमारम्भः। ननु प्राप्तोदकादि प्रथमार्थं वर्जयित्वा सर्वविभक्त्यर्थेषु यथाभिधानं भवतीत्युक्तम्, एवं तर्हि प्रथमार्थेऽपि यथा स्यादित्ययमारम्भः। अथ प्रथमार्थं वर्जयित्वेत्येतदनाद्दत्य यथाभिधानं भवतीत्युच्यते, एवं तर्हि तस्यैव प्रपञ्चः संख्यायाः समासः, अव्ययानां तु चतुर्दशादिभिः संख्येयवाचिभिः समासो विधेय एव। केचितु ये विंशत्यादयः संख्याने वर्तन्ते तैः पूर्वेणैव सिद्धम्---अधिका विंशतिर्येषां त इमेऽधिकविंशाः, विंशतिसंख्या आसन्ना येषां ते आसन्नविंशा इति, तत्र ठ्सर्वनामसंख्ययोःऽ इति विंशतिशब्दस्य पूर्वनिपातः प्राप्नोति, तस्माद्विंशत्याद्यर्थमप्यव्ययादीनां ग्रहणं कर्तव्यमेव॥ दिङ्नामान्यन्तराले॥ २।२।२६ ॥ दिङ्नामान्यन्तराले॥ दक्षिणपूर्वेति। अन्तरालस्यान्यपदार्थत्वात्पूर्वणैव सिद्धे वचनमिदं त्वमत्वर्थेपि यथा स्यात्प्रथमार्थेपि यथा स्याद्वैयधिकरण्येऽपि यथा स्यात्। किं च ठ्विभाषा दिक्समासे बहुव्रीहौऽ इत्यत्र दिशां प्रतिपदोक्तस्य बहुव्रीहेर्ग्रहर्ण यथा स्यात्, यास पूर्वा सोतरास्योन्मुग्धस्य तस्मै उतरपूर्वाय देहीत्यत्र मा भूदित्येवमर्थः। अतस्तदर्थोऽप्ययमारम्भः। कबभावार्थं च ठ्शेषाद्विभाषाऽ इत्यत्र शेषाधिकारविहितस्य बहुव्रीहेर्ग्रहणम्। ठनेकमन्यपदार्थेऽ इत्यत्रैव शेषग्रहणमनुवर्तते, तेनात्र कम्न भवति। ठ्सर्वनाम्नो वृत्तिमात्रेऽ इति मात्रग्रहणाद् ठ्विभाषा दिक्समासेऽ इति यदा सर्वनामसंज्ञा नास्ति तदापि भवति॥ तत्र तेनेदमिति सरूपे॥ २।२।२७ ॥ तत्र तेनेदमिति सरूपे॥ इतिकरण इत्यादि। ततः समासाल्लौकिकस्य यदि विवक्षा भवति---एवमर्थं समासो भवति, नान्यार्थमित्येवमर्थं सूचयितुमितिशब्द इत्यर्थः, तेन किं सिद्धं भवतीत्याह---लौकिकमर्थमिति। कः पुनरसौ लौकिकोऽर्थ इत्याह---ततश्चेत्यादि। एतदेव विवृणोति---यतत्रेत्यादि। गृह्यतेऽस्मिन्निति ग्रहणमुकेशादि, प्रहरणमुदण्डादि, कर्मव्यतीहारःऊउपरस्परग्रहणं परस्परप्रहरणं च। स चाव्ययमिति। तिष्टद्गुप्रभृतिषु पाठेनाव्ययत्वात्। नन्वत्र युद्धस्यान्यपदार्थत्वात्पूर्वेणैव सिद्धम्, न; वैयधिकरण्यादेकशेषप्रसङ्गाच्च। तथा हि---ग्रहणप्रहरणे च केशादीनां सहविवक्षितत्वादेकविभक्तित्वाच्चैकशेषः प्राप्तोऽनेन वचनेन बाध्यते। कथम्? न समूहविवक्षायां बहुव्रीहिसंज्ञा, समूहश्चैकशेषे नोपपद्यते। ननु चासत्यस्मिन्पूर्वयोगेनैव परत्वादेकशेषो बाधिष्यते? न शक्यते बाधितुम्; अन्तरङ्ग एकशेषः बहुव्रीहिश्चान्यपदार्थापेक्षत्वाद्वहिरङ्गः॥ तेन सहेति तुल्ययोगे॥ २।२।२८ ॥ तेन सहेति तुल्ययोगे॥ तुल्ययोग इति। तुल्ययोगःऊसमानसम्बन्धः। सपुत्र इति। ठ्वोपसर्जनस्यऽ इति सभावः। नन्वत्र पिता प्रधानमन्यपदार्थोऽभिधेयः, सत्यम्; व्यधिकरणयोः प्रथमार्थेऽपि यथा स्यादित्ययमारम्भः, कबभावार्थं च। उक्तश्चात्र कबभावः। दशभिः पुत्रैरिति। इत्थम्भूतेत्यर्थः। प्रायिकमिति। ज्ञापकात्, यदयं ठ्विभाषा साकाङ्क्षेऽ, ठ्च्छन्दस्यनेकमपि साकाङ्क्षम्ऽ, ठ्पूर्वादिनिःऽ ठ्सपूर्वाच्चऽ, ठ्सपूर्वायाः प्रथमायाःऽ,ठ्विभाषा सपूर्वस्यऽ इति विद्यमानार्थेऽपि समासं निर्द्दिशति, तज्ज्ञापयति----प्रायिकं विशेषणमिति॥ चार्थे द्वन्द्वः॥ २।२।२९ ॥ चार्थे द्वन्द्वः॥ समुच्चयेत्यादि। यदा परस्परनिरपेक्षाः पदार्था एकस्मिन्प्रतिसम्बन्धिनि समुच्चीयन्ते तदा समुच्चयः, यथा---अहरहर्नयमानो गामश्वं पुरुषं पुशुं वैवस्वतो न तृप्यति सुराया इव दुर्मदीति। दुर्मदी यथा सुराया न तृप्यति तथा यमो गवादीन्नयमान इत्यर्थः। अत्र नयतिक्रियायामेकस्यां गवादीनां समुच्चयः, गम्यमानत्वाच्च च--शब्दस्याप्रयोगः। एवं राज्ञो गौश्चाश्वश्चेति द्रव्ये द्रव्ययोः, रक्तः शुक्लश्चेति द्रव्ये गुणयोः, रक्तः पटः कुण्डलं चेति गुणे द्रव्ययोः समुच्चय इत्यादि द्रष्टव्यम्। यदानेकस्य प्राधान्यातदनुरोधेन त्वितरदन्वाचीयते तदान्वाचयः, यथा---भिक्षामट गाञ्जानयेति। अत्र ह्यदर्शनादनानयन्नपि गामटत्येव भिक्षाम्, अनट्Äअस्तु भिक्षां न गामानयति,अटन्नपि नान्विष्य गामानयति। इतरेतरयोगस्तु परस्परापेक्षाणामवयवभेदानुपगमेन समुदायरूपतामापन्नानामेकस्मिन्नर्थेऽन्वये सति भवति, यथा----देवदतयज्ञदताभ्यामिदं कार्यमिति। तथैकापायेऽपि तद्भवति, उद्भूतावयवभेदत्वाच्च द्विवचनबहुवचने भवतः, ताद्दशानामेवावयवतिरोधानसंहतिरूपेणान्वये तत्समाहारः, यथा---च्छत्त्रोपानहमिति, संहतिप्रधानत्वात्वेकवचनम्। तत्रेत्यादि। स्यअदेतत्----समुच्चये परस्परानपेक्षत्वेऽपि गवादीनामेकक्रियाद्वारकं सामर्थ्यं दध्योदनादिवदस्त्येवेति, तन्न युक्तम्; दध्योदनादावेकत्वात् क्रियायाः। इह तु कर्मभेदात्क्रिया भिद्यते, तथा च ठ् समुच्चयेऽन्यतरस्याम्ऽ इत्यत्र भ्राष्ट्रमट मठमटेत्यादिकं कर्मभेदनिबन्धनं क्रियाभेदमाश्रित्योदाहरिष्यते। अन्वाचये त्वप्रधानमेव चार्थे वर्तते, न प्रधानमित्यनेकस्य पदस्य चार्थे वृत्यभावादपि समासाभावः। इह पटुअश्चासौ खञ्जश्चेत्येकस्मिन्धर्मिण्यनेकधर्मसमुच्चयाच्चार्थसद्भावात्समानाधिकरणयोरपि द्वन्द्वसंज्ञाप्रसङ्गः, ततश्च ठ्द्वन्द्वे घिऽ इति नियमः स्यात्, विशेषणमित्यादिना तु तत्पुरुषकरणे खञ्जपटुअरित्यपि सिद्ध्यति? नैष दोषः; एकसंज्ञाधिकाराद्विशेषविहितत्वातेत्पुरुषसंज्ञैव भविष्यति, अन्यथा नीलं च तदुत्पलं चेत्यादावपि द्वन्द्वः स्यात्। यद्वा---ठ्शेषऽ इति वर्तते, अतो विशेषणमित्यत्रोपयुक्तत्वान्न भविष्यति। सामानाधिकरण्याभावे तु द्वन्द्व एव---पटुअखञ्जावागताविति। प्लक्षन्यग्रोधाविति। चशब्दस्याव्ययत्वेऽपि तदर्थे विधीयमानस्य द्वन्द्वस्य स्वभावादेव लिङ्गसंख्यायोगः। कथं पुन रत्र द्विवचनम्, यावता शब्दपौर्वापर्यादर्थाभिधानेऽपि पौर्वापर्यम्, ततश्च प्लक्षशब्दः सहार्थेन निवृतः न्यग्रोधशब्द उपस्थितः, एक एवार्थस्तस्यैकत्वादेकवचनमेव प्राप्नोति, तथा च ठाद्यन्तौ टकितौऽ इति क्रमेण प्रतीतिमङ्गीकृत्य यथासंख्यमित्यस्य प्रवृत्तिः, न च क्रमेण द्वयोरर्थयोः प्रतीतौ द्विवचनं भवति;यथा वा वाक्ये प्लक्षश्च न्यग्रोधश्चेति, अत्र न्यग्रोधार्थप्रतीतिदशायां प्लक्षार्थस्याप्रतीतितरेव कारणम्? अस्तु तर्हि युगपदधिकरणवचने द्वन्द्वः। किमिदं युगपदधिकरणवचन इति? अधिकरणं वर्तिपदार्थः, अधिकरणे युगपद्वचनं युगपदधिकरणवचनम्, तत्र द्वन्द्वो भवति। केन पुनर्युगपद् द्वयोर्वचनम्? एकैकेन पदेन। एतदुक्तं भवति---यावतां पदानां द्वन्द्वो यदि तावतामन्योऽन्यार्थाभिधानं युगपद्भवत्येवं द्वन्द्वो भवतीति। अत्र हि द्विवचनबहुवचनान्यथानुपपतिरेव प्रमाणम्; विग्रहे चापि दर्शनात्। विग्रहे खल्वपि युगपद्वचनता द्दश्यते---प्रमित्रयोर्वरुणयोः, द्यावाचिदस्मै पृथिवी नमेते इति; किं पुनः समासे, यत्र चान्याचान्या च शक्तिः प्रादुर्भवति! कथं पुनः प्लक्षशब्देन न्यग्रोधाभिधानम्, तेन वा तस्य? साहचर्यादिति। यद्वा तद्वा निमितं भवतु, यद्यपि य लोकव्यवहारे केवलस्य प्लक्षशब्दस्य न्यग्रोधाभिधायित्वं न द्दष्ट्ंअ न्यग्रोधशब्दस्य वा प्लक्षाभिधायित्वम्, द्वन्द्वावयवानां त्वनेकार्थाभिधायित्वं न केवलानामित्यदोषः। नियतविषयाश्चापि शब्दार्था भवन्ति, यथा---भ्रातृशब्दस्यैकशेष एव स्वसरि वृत्ति, पुत्रशब्दस्य दुहितरि। एतेनैतदपि निरस्तम्----एकेनोक्तत्वातस्यार्थस्य परस्य प्रयोगो नोपपद्यत इति। कथं द्वन्द्वावयवानामेव परस्परसन्निधानादेषा शक्तिर्वह्निसन्निधाविव घृते द्रवता, नो खलु वह्निविगतौ भवति, यदि तर्हि प्लक्षोऽपि द्व्यर्थो न्यग्रोधोऽपि द्व्यर्थः, बहुत्वाद्वहुचनं प्राप्नोति? नात्र चत्वारोऽर्थाः, किं तर्हि? याभ्यामेवात्रैको द्व्यर्थस्ताभ्यामेवापरोऽपि। स्यादेतत्---उभयोरत्र पर्यायत्वे यथा प्लक्षन्यग्रोधौ प्लक्षन्यग्रोधाविति द्विर्वचने प्रतीतिः, एवं प्लक्षन्यग्रोधावित्यत्रापि प्राप्नोति, तन्न; युगपदुत्पादात्। तद्यथा द्वयोरक्ष्णोर्युगपद्विस्फारितयोः पुरोवर्तिन्यर्थद्वये युगपदेका प्रतीतिर्जन्यत तथेहापि द्रष्टव्यम्। ननु यदा प्लक्षशब्दो न तदा न्यग्रोधशब्दः, यदा न्यग्रोधशब्दो न तदा प्लक्षशब्द इति कथमत्र युगपद्व्यापारः? स्मृतिस्थयोर्युगपद्व्यापाराददोषः। पदानि हि श्रुतमात्राणि स्वं स्वमर्थं स्मारयन्ति, पश्चादाकाङ्क्षासन्निधियोग्यत्वेषु परामृष्टेषु स्मृतिस्थान्यभिदधति, तस्यामेव स्मृतौ युगपदारोहात्सम्भवत्येव युगपद्व्यापारः। या च सा पदार्थानां स्मृतिः सा क्रमभाविनीति तत्क्रमेणैव यथासंख्यादिव्यवस्था युगपदभिधानेऽप्युपपद्यते। तदेवं युगपदधिकरणवचने द्वन्द्व इति स्थितम्। इहैकविंशतिर्द्वाविशतिरिति, यद्ययं द्वन्द्व स्याद् एकं च विंशतिश्चेतीतरेतरयोगे द्विवचनबहुवचनप्रसङ्गः, समाहारे च ठ्स नपुंसकम्ऽ इति नपंसकप्रसङ्गः, अत एव एकाधिका विंशतिरेकविशतिरिति शाकपार्थिवादित्वात्समासः क्रियते? नैवं शक्यम्, ठ्राजन्यबहुवचनद्वन्द्वेऽन्धकवृष्णिषु संख्याऽ इति पूर्वपदप्रकृतिस्वरो न स्यात्। तस्माद् द्वन्द्व एवायम्। स समाहारे नेतरेतरयोगे, अनभिधानात्। नपुंसकत्वन्तु ठ्लिङ्गमशिष्यं लोकाश्रयत्वाल्लिङ्गस्यऽ इति न भवति॥ उपसर्जनं पूर्वम्॥ २।२।३० ॥ उपसर्जनं पूर्वम्॥ आनयमो हि स्यादिति। यद्यपि विपरीतप्रयोगो लोके न द्दष्टः परपुरुषापराधातु वाक्यवत्सम्भाव्येतेत्यर्थः। इह राज्ञः पुरुषस्य पुत्रो राजापुरुषपुत्र इति षष्ठीसमासशास्त्रे द्वयोरपि प्रथमानिर्द्दिष्टत्वेऽप्युपसर्जनसंज्ञाऽन्वर्थत्वादप्रधानस्यैव भवति, पुरुषश्चात्र राजापेक्षया प्रधानमिति पूर्वनिपातनियमः॥ राजदन्तादिषु परम्॥ २।२।३१ ॥ राजदन्तादिषु परम्॥ न केवलमित्यादि। अत्र विहितपूर्वनिपातस्येति पाठे विहितः पूर्वनिपातो यस्य तस्येत्यर्थः। प्रायेण तु विहितस्येति पाठः। तत्रापवाद इति शेषः। अन्यस्यापि घ्यादेर्यः पूर्वनिपातो यथालक्षणं विहितस्तस्याप्यपवाद इत्यर्थः। अग्रे वणमिति। ठ्वनं पुरगाऽ इत्यादिना णत्वम्। तदेव तर्हि णत्वविधानं परनिपातस्य ज्ञापकं भविष्यति? तन्न, ठुपसर्जनं पूर्वम्ऽ इति नियमो न प्रवर्तत इत्येतावतोऽप्यर्थस्य ज्ञापकत्वेन तदुपपन्नम्, तस्मात्कथं नियमेन परनिपातः स्यात्! इह च निपातनादलुगिव णत्वमपि न भविष्यतीति तत्राग्रेग्रहणं शक्यमकर्तुम्। पूवेकालस्येति। ठ्पूर्वकालैकऽ इति प्रथमानिर्द्देशादुपसर्जनस्येत्यर्थः। उलूखलमुसलादिद्वन्द्वेषु क्वचिदल्पाक्षरत्वात्क्वचिद् घ्यन्तत्वात्क्वचिदजाद्यदन्तत्वात्पूर्वनिपातप्रसङ्गः, क्वचिदनियमः। द्दषदुपलमिति। प्रमाद पाठः; तेन परनिपातस्यापि सिद्धत्वादिह पाठः शक्योऽकर्तुम्॥ द्वन्द्वे घि॥ २।२।३२ ॥ द्वन्द्वे घि॥ द्वन्द्वेऽनेकमिति प्रथमानिर्देशात्सर्वेषामेवोपसर्जनत्वादनियमे प्राप्ते वचनम्। अनेकप्राप्ताविति। आकृतौ पदार्थे समुदाये सकृल्लक्षणं प्रवर्तते, न प्रतिव्यक्त्यावृत्या। तत्रैकस्यैव पूर्वनिपातेन जातौ लक्षणं प्रवृतमेवेति न पुनः प्रवर्तते। नन्वाकृतिपक्षेऽपि पटुअगुप्तौ मृदुगुप्तावित्यादिषु बहुषु व्यक्तिषु यथा युगपत्प्रवर्तते, तथात्रापि प्रवर्तताम्? एवं मन्यते---एकस्य युगपदवध्यवधिमद्भावो विरोधान्न सम्भवति। न चान्तमपेक्ष्योभयोः पूर्वत्वमन्यतरेण व्यवधानादिति, अत्र च यदा पटुअमृद्वोर्द्वन्द्वं कृत्वा पश्चाच्छुक्लशब्दस्य द्वन्द्वः कियते तदाल्पाच्तरत्वातस्य पूर्वनिपाते शुक्लमृदुपटवः, शुक्लपटुअमृदव इति च भवति। विस्पष्टपटुअरिति। विस्पष्टशब्दः प्रवृत्तिनिमितस्य पाटवस्य विशेषणमिति विस्पष्ट्ंअ पटुअरिति विगृह्य ठ्सुप्सुपाऽ इति समासः॥ अजाद्यदन्तम्॥ २।२।३३ ॥ अजाद्यदन्तम्॥ अजादीति पृथक् पदम्, विशेषणसमासो वा। अश्वेन्द्ररथा इति। रथशब्दस्य पश्चात्समासे रथाश्वेन्द्रा इत्यपि भवति। द्वन्द्वे घ्यन्तादजाद्यदन्तं विप्रतिषेधेनेति। ठ्द्वन्द्वे घिऽ इत्यस्यावकाशः---पटुअगुप्तौ; ठजाद्यदन्तम्ऽ इत्यस्यावकाशः---उष्ट्रखरम्; इन्द्राग्नी इत्यत्रोभयप्राप्तौ परत्वाद् ठजाद्यदन्तम्ऽ इत्येतद्भवति विप्रतिषेधेनेति॥ काशिकावृतौ द्वितीयाध्याये प्रथमः पादः इपदमञ्जरी अल्पाच्तरम्॥ २।२।३४ ॥ अल्पाच्तरम्॥ अत एव निपानतात्स्वार्थे तरप्, कुत्वाभावश्च। यदि तु प्रकर्षे तरप् चेतदा ठ्धवखदिरपलाशाःऽ इत्यादौ बहुषु सन्निहितेषु द्विवचनोपपदत्वाभावादस्याप्रवृतावनियमः स्यात्। द्वयोरेव तु स्यात्---प्लक्षन्यग्रोधाविति। शङ्खदुन्दुभिवीणा इति। तूर्याङ्गानामित्येकवद्भावो न भवति; तूर्यशिल्पोपजीविनामेव तत्र ग्रहणात्। नियतद्रव्यविवक्षायां जातिरत्वाभांवात् ठ्जातिरप्राणिनाम्ऽ इत्येतदपि न भवति। शङ्खवीणाभ्यां दुन्दुभेर्द्वन्द्वे दुन्दुभिशङ्खवीणा इत्यपि भवति। एवं मृदङ्गश्च शङ्खपणवौ च मृदङ्गशपणङ्खवाः, धनपतिश्च रामकेशवौ च प्रासादो धनपतिरामकेशवानामित्यादि भवति। तथा होता च पोता च नेष्टा चोद्राता चेति बहूनां युगपद् द्वन्द्वे तृतीयस्योतरपदमनन्तरमिति तस्यैवानङ् भवति, नेतरयोः---होतृपोतृनेष्टोद्रातारः। द्वयोर्द्वयोर्द्वन्द्वे त्रयाणामप्यानङ् भवति---होतापोतानेष्टोद्रातार इति। एवमन्यत्रापि द्वन्द्वक्रियायामानुपूर्व्यविशेषाद्रूपविशेषो वेदतव्यः। पूर्वाभ्यामल्पाच्तरमित्येतत्पूर्वानुसारेण गम्य मानत्वाद् वृतौ न पठितम्। ठ्द्वन्द्वे घिऽ इत्यस्यावकाशः---पटुअगुप्तौ, ठल्पाच्तरम्ऽ इत्यास्यावकाशः---प्लक्षन्यग्रोधौ; वअगग्नी इत्यत्रोभयप्राप्तौ अल्पाच्तरमित्येतद्भवति। अजाद्यदन्तमित्यस्यावकाशः----उष्ट्रखरम्, अल्पाच्तरमित्यस्य स एव; वागिन्द्रावित्यत्रोभयप्राप्तौ ठल्पाच्तरम्ऽइत्येतद्भवति। ऋतुनक्षत्राणामिति। ऋतूनामानुपूर्व्यं प्रादुर्भावकृतम्, नक्षत्राणामुदयकृतम्। मातापितराविति। ठाचायं!श्रेष्ठो गुरूणाम्, मातेत्येके, इति स्मृतिः। ठ्पितुर्द्दशगुणं माता गौरवेणातिरिच्यतेऽ इति च। श्रद्धामेधे इति। सत्यां श्रद्धायामर्थक्रियाकारिणी मेधेत्यभ्यर्हितत्वं श्रद्धायाः। दीक्षातपसी इति दीक्षार्थं तप इत्यभ्यर्हितत्वं दीक्षायाः। लघ्वक्षरादपि तपसो विप्रतिषेधादभ्यर्हितमित्येतदेव भवति। समानाक्षराणामित्यत्र नास्तीति। तेन ऋतुनक्षत्राणामित्यत्रैव वर्णग्रहणं न कृतमिति भावः। वर्णानामुत्पत्तिकृतमानुपूर्व्यं श्रूयत एव---ठ्मुखतो ब्राह्मणमसृजद्वाहुभ्यां राजन्यमूरुभ्यां वैश्यं पद्भ्यां शूद्रम्ऽ इति। संख्याया अल्पीयस्या इति। द्वन्द्वे चाद्वन्द्वे चेत्याहुः। अल्पीयस इति पाठे अल्पीयसोऽर्थस्य वाचिकाया इत्यर्थः। नवतिशतमिति। द्वन्द्वः, ठ्द्व्येकयोःऽ इति तु सौत्रो निर्देशः॥ सप्तमीविशेषमे बहुव्रीहौ॥ २।२।३५ ॥ सप्तमीविशेषमे बहुव्रीहौ॥ कण्ठेकाल इति। यदा कण्ठे किञ्चिदस्तीति निर्ज्ञाते काल इति विशेषणं प्रयुज्यते तदा सप्तमीग्रहणेन प्रयोजनम्, अन्यदा तु विशेषणत्वादेव सिद्धम्। सम्प्रधारणायामिति। इदमस्तु इदमेवेति निरूपणाऊउसम्प्रधारणा। परत्वादिति। शब्दपरविप्रतिषेधादित्यर्थः। एवमर्थमेव च ठ्संख्यासर्वनाम्नोःऽ इति नोक्तम्। गड्वादिभ्य इति गड्वादयः प्रयोगतो द्रष्टव्याः॥ निष्ठा॥ २।२।३६ ॥ निष्ठा॥ अवमुक्तोपानत्क इति। उरः प्रभृतित्वात्कप्। ननु चेत्यादि। यथा चित्रगुरिति। गुणद्रव्यशब्दयोरुपनिपाते गुणशब्दस्य विशेषणत्वम्, क्रियाद्रव्य शब्दयोरपि क्रियाया एव विशेषणत्वम्। ततश्च पूर्वेणैव सिद्धमिति भावः। विवक्षानिबन्धनत्वादिति। यदा कृत किञ्चिदनेनेति निर्ज्ञाते कट इति प्रयुज्यते तदा कटो विशेषणमिति मन्यते। कटे कटेन कृतमिति वा विग्रहीतव्यमिति। एवं विग्रहे कृतस्य विशेषणत्वशङ्कैव नास्तीति भावः। क्वचितु वाशब्दो न पठ।ल्ते, तत्र विवक्षानिबन्धनत्वादित्युक्ते तामेव विवक्षां दर्शयतीति व्याख्येयम्। जातिकालसुखादिभ्यः परवचनमिति। ज्ञापकात्सिद्धम्, ठ्जातिकालसुखादिभ्योऽनाच्छादनाद्ऽ इत्याह, तज्ज्ञापयति---जात्यादिभ्यः परा निष्ठा निपततीति। शार्ङ्गजग्धीति। शार्ङ्ग जग्घमनयेति बहुव्रीहिः। ठ्क्तादल्पाख्यायाम्ऽ,ठस्वाङ्गपूर्वपदाद्वाऽ इति ङीष्। अत्राहुः----निष्ठाशब्देन या विहिता निष्ठा तस्या ग्रहणम्। तेन सुस्थितम्, चारुहसितमित्यादौ ठ्नपुंसके भावे क्तःऽ इत्यस्य परनिपात इति॥ वाऽऽहिताग्न्यादिषु॥ २।२।३७ ॥ कडाशः कर्मधारये॥ २।२।३८ ॥ कडाराः कर्मधारये॥ बहुवचननिर्द्दशादाद्यर्थोऽवगम्यत इत्याह---कडारादय इति॥ इति श्रीहरदतमिश्रविरचितायां पदमञ्जर्यां द्वितीयाध्यायस्य द्वितीयः पादः॥ -----॥॥॥-----काशिकावृतौ अथ द्वितीयाध्याये तृतीयः पादः अनभिहिते॥ २।३।१ ॥ अनभिहिते॥ अनभिहितशब्दोऽयमनेकार्थः, तथा हि---अभिपूर्वस्य दधातेर्हिनोतेश्चैतद्रूपं सम्भवति; अभिपूर्वश्च दधातिर्बन्धनेऽपि द्दष्टः----अश्वाभिधानीमादत इति, उच्चारणेऽपि---अभिहितः श्लोक इति, प्रतिपादनेऽपि----अभिहितोऽर्थ इति; हिनोतिरपि गतौ वृद्धौ च वर्तते, इह तु वक्ष्यमाणानां कर्मादीनां बन्धनाद्यर्थचतुष्टयासम्भवात्प्रतिपादनवचनोऽभिहितशब्द इत्याह---अनभिहिते अनिर्दिष्टे अनुक्त इति। वचिरत्र प्रतिपादनवचनः। उक्तार्थानामप्रयोग इति यथा सामान्येन ठभिहितेऽ इत्येतावत्युच्यमाने कट्ंअ करोति भीष्णमुदारं दर्शनीयमित्यत्र कटशब्दाद्विशेष्यवाचिन उत्पद्यमानया द्वितीययाऽनवयवेन कटगतस्य कर्मत्वस्याभिहितत्वाद्भीष्मादिभ्यो द्वितीया न स्यादिति मन्यमानः पृच्छति---केनानभिहित इति। इतरोऽपि विदिताभिप्राय आह---तिङ्कृतद्धितसमासैरिति। बहुषु प्रयुक्तेषु केषाञ्चिद्वर्जनेन केषाञ्चित्कार्यान्वप्रतिपादनमूउपरिसंख्यानम्, प्रत्युदाहरणेषु सर्वत्र द्वितीया न भवति। कट्ंअ करोति भीष्ममित्यादि। कटः कृतो भीष्म उदारो दर्शनीय इति करोतेरुत्पद्यमानः क्तप्रत्ययोऽनवयवेन सर्वकर्माभिधते तद्वद् द्वितीयापीति यो मन्दधीर्मन्यते तं प्रतीदं परिगणनभ्, सूक्ष्मद्दशस्तु प्रति न वक्तव्यमेव। तथा हि प्रातिपदिकादुत्पद्यमाना द्वितीया यदाकारविशिष्टोऽर्थः प्रातिपदिकेनाभिधीयते तदाकारविशिष्टस्यैव कर्मभावमाचष्टे। कठशब्देन कटत्वजातिविशिष्टोऽर्थोऽभिधीयते,न भीष्माद्याकारविशिष्ट इति तत्प्रतिपादनाय यथा भीष्मादिशब्दप्रयोगो भवति तथा तदाकारविशिष्टस्य कर्मत्वाभिधानाय द्वितीया भविष्यति। क्तप्रत्ययस्तु प्रकृत्यर्थस्य न कर्मतामाचष्टे, किन्तु प्रकृत्यर्थं प्रति यस्य कर्मभावः तमिति युक्तं यदनवयवेन सर्वकर्माभिधते। ननु च कर्मादयो विभक्त्यर्थास्तेषां च तिङदिभिरभिरितवचनमनर्थकम्, अन्यत्रापि विहितस्याभावादभिहिते, यत्राप्यनभिहिताधिकारो न क्रियते तत्रापि शब्दान्तरप्रतिपादितेऽर्थे नैव विहितं भवति, तद् यथा---बहुपटुअरिति बहुचोक्तत्वादीषदसमाप्तेः सत्यपि सम्भवे कल्पबादयो न भवन्ति, द्विर्दश द्विदशाः---समासेनोक्तत्वात्सुजर्थस्य सुज्न भवति, पटुअगुप्तौ---द्वन्द्वेनोक्तत्वाच्चार्थस्य च--शब्दो न प्रयुज्यते; तद्वदत्रापि तिङदिभिरभिहितत्वादेव द्वितीयादयो न भविष्यन्ति। नन्वभिहितार्थस्यापि प्रयोगो द्दष्टः----अपूपौ द्वाविति, सत्यम्; अयं तु न्यायः यदुताभिहिते विहितं न स्यात्, न हि व्यसनितया शब्दः प्रयुज्यते, अपि त्वर्थाभिधानाय, स चेदर्थः शब्दान्तरेणाभिहितः किमिति शब्दान्तरं प्रयुज्यते, अक्षिनिकोचादिभिरप्यवगतेऽर्थे शब्दो नैव प्रयुज्यते, किं पुनः शब्देनैवाभिहिते। अपूपौ द्वावित्यादौ तु द्वावानय कौ द्वौ ताविति सामान्योपक्रमे वाक्यमिति यथाकथञ्चिदुपपादनीयम्, तस्मान्नार्थ एतेनेत्याशङ्क्य संख्यापि विभक्त्यर्थ इति दर्शयन्नाह---बहुषु बहुवचनमित्येवमादिनेति। अयमर्थः----ठ्त्रिकः प्रातिपदिकार्थःऽ इत्यस्मिन्दर्शने कर्मादिवदेकत्वादिसंख्याविभक्त्यर्थः, तत्र कर्मादीनां युगपद्विभक्तिभिरभिधीयमानानां परस्परं विशेषणविशेष्यभावमनापन्नानां केवलप्रातिपदिकार्थगतानामभिधानं वृक्ष एको वृक्षः कर्म पशुरेकः पशुः करणमिति वाभिधानम्, पश्चाच्चैकक्रियान्वयबलेन परस्परसम्बन्ध इति प्राभाकरा मन्यन्ते। भाट्टास्तु परम्परासम्बद्धस्य स्वतन्त्रस्यानेकार्थस्याक्षाः, पादाः, माषा इत्यादावभिधानदर्शनेऽप्येकशेषमन्तरेणादर्शनात् यजेतेत्यादौ च कृतिकार्ययोर्युगपल्लिङभिधीयमानयोरपि विशेषणविशेष्यभावस्य प्राभाकरैरप्यभ्युपगमातद्वदेव विशिष्टाभिधानं मन्यन्ते। अस्माकमप्ययमेव पक्षः। तत्र कर्मादयो विशेषणम्, एकत्वादयो विशेष्याः, कर्मणि यदेकत्वं तत्र द्वितीयैकवचनमिति। विपर्ययो वा---एकत्वादिविशिष्ट्ंअ यत्कर्म तत्र द्वितीयेति। तत्र यद्यपि कर्मादिप्राधान्यपक्षे तिङदिभिः प्रधानभूतानां कर्मादिनामभिहितत्वादप्रसङ्गः, द्वितीयादीनां संख्याप्राधान्यपक्षे कर्मादिष्वभिहितेष्वपि प्रधानभूतसंख्याभिधानाय द्वितीयादयः स्युरेव। प्राभाकरे तु पक्षे कर्माद्यंशाभिधानेऽपि संख्यांशस्यानभिहितस्याभिधानाय द्वितीयादयः स्युरिति। अनभिहितकर्माश्रयेष्विति। अनभिहितानि कर्मादीन्याश्रयो येषां तेष्वित्यर्थः। एतेन कर्मणीत्यादिसप्तमीनिर्द्देश एकत्वादीनामाधारतया, न पुनरभिधेयतयेति दर्शितम्। अनभिहित इति। यदि प्रसज्यप्रतिषेधः स्याततो द्वयोः क्रिययोः कारकेऽन्यतरेणाभिहितेऽपि विभक्त्यभावप्रसङ्गः, प्रासाद आस्ते इत्यत्र सदिक्रियाया आसिक्रियायाश्चैकमधिकररगं प्रासादाख्यं तच्चान्यतरेण सदिप्रत्ययेन घञाभिहितम्---प्रसीदन्त्यस्मिन्प्रासाद इति, तत्राभिहिते न भवतीत्युच्यमाने सप्तमी न स्यात्। पर्युदासे त्वासिप्रत्ययेन यदनभिधानं तदाश्रया सप्तमी सिद्व्यति। ननु च प्रासादाख्यस्य द्रव्यस्य कारकत्वादभिहितत्व दन्यत्वं नास्ति? नैष दोषः; शक्तिः कारकम्, तत्र सदिक्रियाशक्त्यभिधानेऽप्यासिक्रियाशक्तेरनभिधानम्। नन्वेवं प्रसज्यप्रतिषेधेऽपि या शक्तिरभिहिता तत्र मा भूद्विभक्तिः, या त्वनभिहिता तत्र भविष्यति? उच्यते---अनभिहिते कर्मणीत्येकत्वादीनामाधारनिर्द्देशः संख्या च द्रव्यधर्मः, अतोऽनभिहिते कर्मणीत्यादिभिरपि शक्तिद्वारेण द्रव्यमेवोच्यते----अनभिहिता या कर्मादिशक्तिस्तदाधारभूतं यद् द्रव्यं तस्यैकत्वादिषु विभक्तय इति। एवं च यदि प्रसज्यप्रतिषेधः स्याततोऽभिहितशक्तिद्वारेण द्रव्यस्याभिहितत्वात्प्रतिषेधः स्यात्; पर्युदासे तु अनभिहितशक्तिद्वारे विधिरिति स्पष्ट एव फलभेदः। यत्र तर्हि शक्तिभेदो नास्ति तत्र कथम्---आसने आस्ते, शयने शेत इति? अत्राप्यासनशयनादिशब्दैरासनादिक्रियायोग्यं वस्तुमात्रमनुद्भुतशक्तिकमभिहितमिति तस्य शक्त्युद्भवप्रतिपादनाय विभक्तिर्भविष्यति। यदि तर्हि पर्युदासोऽयमिति निर्मीयते, इह पक्त्वा भुज्यत ओदना इति भुजिप्रत्ययेनाप्यभिहित ओदने क्त्वाप्रत्ययेनानभिधानमाश्रित्य द्वितीया प्राप्नोति, भावे हि क्त्वाप्रत्ययः; प्रसज्यप्रतिषेधे तु भुजिप्रत्ययेनाभिधानमाश्रित्य प्रतिषेधः सिद्ध्यति? उच्यते; नात्रौदनस्य युगपदुभाभ्यां शाब्द एवान्वयः, किं तर्हि? भुजिनैव, सन्निधानातु पचिनान्वयः। केवलशब्दव्यापारनिरूपणे तु किमिष्टकाः पक्त्वौदनो भुज्यते, उतौदनमेवेति न ज्ञायते, अतः शब्दव्यापारापेक्षयाभिधानमेवेति द्वितीया न भविष्यति। अनभिहितवचनमनर्थकम्; प्रथमाविधानस्यानवकाशत्वात्। कृतः कट इत्यादिषु द्वितीयादयो मा भूविन्निति सूत्रारम्भः। यदि चात्रापि स्युः, क्वेदानीं प्रथमा स्यात्। नन्वनवकाशत्वात्प्रथमा भवन्ती कृतः कट इत्यादावेव भवतीति न पुनः कट्ंअ करोतीत्यादावपीति कुतोऽयं नियमः? उच्यते---कृतः कट इत्यादौ यद्यपि कृतशब्दसन्निधाने कटस्य कर्मता प्रतीयते, तथापि तत्र वाक्यार्थत्वादव्यतिरिक्त एव प्रातिपदिकार्थ इति प्रथमा भविष्यति, यथा---विरः पुरुष इति। कट्ंअ करोतीत्यत्र तु कटशब्देनैव कर्मशक्तिमानर्थोऽभिधीयत इति व्यतिरिक्तत्वात्प्रातिपदिकार्थस्य प्रथमा न भविष्यति। नन्वकारकेषु सावकाशा प्रथमा,यथा---वृक्ष इति? अत्राप्यस्तीति प्रतीतेः कर्तृ त्वातृतीयाप्रसङ्गः। यत्र ह्यन्यत्क्रियापदं न श्रूयते तत्रान्तरङ्गत्वादस्तीति गम्यते, लब्धसताकस्य हि विशेषणान्तरयोगो भविष्यति। अथापि यत्र विशेषणान्तरनिवृतौ तात्पर्यम्, न क्रियासम्बन्धे, यथा---नीलमुत्पलं न रक्तम्, राज्ञोऽयं पुरुषो न देवदतस्येति, न ह्यत्र नीलमुत्पलमुत्पलमस्ति, राज्ञः पुरुषोऽस्तीति प्रतीतिः, अतोस्त्येवाकारकमवकाश इत्युच्येत? एवमपि विप्रतिषेधात्प्रथमा भविष्यति। द्वितीयादीनामवकाशो यत्र प्रातिपदिकार्थस्य व्यतिरेकः----कट्ंअ करोतीति; प्रथमायास्त्वकारकमवकाशः----नीलमुत्पलमिति; कृतः कट इत्यत्रोभयप्रसंगे परत्वात्प्रथमैव भविष्यति। ननु तामपि बाधित्वा परत्वात्, षष्ठी प्राप्नोति, शेषलक्षणा षष्ठी प्रातिपदिकार्थमात्रस्य प्रथमाविधावुपयोगादशेषत्वान्न भविष्यति। इह तर्हि कर्तव्यः कट इति कृत्प्रयोगे प्रथमां बाधित्वा ठ्कर्तृ कर्मणोः कृतिऽ इति षष्ठि स्यात्, तत्प्रतिषेधार्थमनभिहिताधिकारः कर्तव्यः। तदेवं संख्याविभक्त्यर्थ इत्यस्मिन्पक्षे कर्तव्यं सूत्रमिति स्थितम्॥ कर्मणि द्वितीया॥ २।३।२ ॥ कर्मणि द्वितीया॥ द्वितीयादयः शब्दा इति। स्वनिकायप्रसिद्धिरेषेत्यर्थः। उभसर्वतसोरिति। उभयसर्वशब्दयोस्तसिलन्तयोः प्रयोग इत्यर्थः। उभयशब्दैकदेश उभशब्दोऽनुकृतः; उभशब्दस्य तसिलन्तस्याभावात्, तस्य द्विवचनटाब्विषयत्वात्। धिगित्यविभक्तिको निर्द्देशः। आम्रोङ्तान्तेष्विति। कृतिद्विर्वचनेष्वित्यर्थः। उभयतः सर्वत इति। पञ्चम्यास्तसिल्। धिगिति। निन्दार्थोऽयम्। उपर्युपरीति। ठुपर्यध्यधसस्सामीप्येऽ इति द्विर्वचनम्। ततोऽन्यत्रापीत्युक्तम्, तानेवान्यान्परिगणयति---अभित इत्यादि। अभितो ग्राममिति। उभयत इत्यर्थः। परित इति। सर्वत इत्यर्थः। ठ्पर्यभिभ्यां चऽ इति तसिल्। आभिमुख्यवृत्तिरपि विभक्तिप्रतिरूपको निपातोऽभितः शब्दोऽस्ति, सोऽपि गृह्यते। समयानिकषाशब्दौ समीपवचनौ गृह्यएते। हाशब्दः शोकादिवृत्तिः हा कन्ये इत्यादौ कारकविभक्तित्वादन्तरङ्गत्वात्सम्बोधनविभक्तिर्मवति। बुभुक्षितं न प्रतिभातीति। प्रतिरत्र क्रियाविशेषकत्वा दुपसर्गो न कर्मप्रवचनीय इति पठ।ल्ते। तृतीया च होश्च्छन्दसि॥ २।३।३। ॥ तृतीया च होश्च्छन्दसि॥ यवाग्वाग्निहोत्रमिति। क्व पुनरग्निहोत्रशब्दो वर्तते? हविषि; तेष्वग्निहोत्रमधिश्रयेत्, अग्निहोत्रं शरशरायत्, तदाहुर्यस्याग्निहोत्रमधिश्रितममेध्यमापद्येतेत्यादिषु दर्शनात्। जुहोतिरपि प्रक्षेपे। एकस्मिन्नेव प्रयोगे यवागूशब्दात् तृतीया, अग्निहोत्रशब्दाद् द्वितीया; यवाग्वाख्यं हविर्देअवतोद्देशेन प्रक्षिपतीत्यर्थः। अयं योगः शक्योऽवक्तुम्, कथम्? अग्निहोत्रशब्दो ज्योतिष्यति वर्तते---अग्निहोत्रं प्रज्वलितमिति। जुहोतिरपि प्रीणने। तद्यदा यवागूशब्दात् तृतीया तदा यवाग्वाग्निहोत्रं प्रीणयतीत्यर्थः, यदा तु द्वितीया तदा यवाग्वाख्यं द्रव्यमग्निहोत्रं हविरग्नौ प्रक्षिपतीत्यर्थः। मीमांसकास्त्वाहुः----अग्निहोत्रशब्दः कर्मनामधेयमिति, द्दश्यते च---स एष यज्ञ पञ्चविधोऽग्निहोत्रं दर्शपूर्णमासावित्यादि। तस्य वा एतस्याग्निहोत्रस्य सप्त च शतानि च, एतद्वा अग्निहोत्रमन्येद्यौर्हूड्यते अजरामर्य वा एतद्यदग्निहोत्रमिति च त इत्याहुः। करणत्वात् तृतीयायां प्राप्तायां पक्षे द्वितीयार्थं वचनम्। इदं च सूत्रानुगुणं न भवति, कर्मणीति हि वर्तते॥ अन्तरान्तरेण युक्ते॥ २।३।४ ॥ अन्तरान्तरेण युक्ते॥ अन्तरान्तरेणशब्दावित्यादि। ननु यथा नौर्नावि बद्धा नेतरेतरत्राणाय भवति ताद्दगेतत्, द्वयोरपि निपातत्वव्यभिचारात्, सत्यम्; साहचर्यात्साजात्यं लक्ष्यते, सजातीयविजातीयभावे सजातीयप्रत्ययो भवति, तद्यथा--गुरुभार्गवावित्युक्ते ग्रहयोरेव प्रतीतिर्भवति, न त्वाचार्यपरशुरामयोः। यद्वा अन्तराशब्देनातृतीयान्तेन साहचर्यादन्तरेणेत्यस्याप्यतृतीयान्तस्य ग्रहणम्, स च निपात एव। तथान्तरेण शब्देनाटाबन्तेन साहचर्यादन्तराशब्दस्याप्यटाबन्तस्यैव ग्रहणम्, स च निपात एव। षष्ठएयपवादो योग इति। असत्यस्मिन्योगे शेषत्वात् षष्ठी प्राप्नोति। सति त्वस्मिन्नुपयुक्तत्वात् षष्ठी न भवतीत्यपवादत्वमेतत्। मध्यमाधेयेति। आधेयपरतन्त्रमित्यर्थः। सपब्तम्यन्तस्य मध्यशब्दस्यार्थे वर्तत इति यावत्। अन्तरा त्वां च मां च कमण्डलुरिति। तव च मम च मध्ये कमण्डलुरित्यर्थः। अत्र यथा मध्यस्यावध्यपेभायामवधिभूताभ्यां युष्मदस्मद्भ्यां योगः, तथाऽऽधारस्याधेयपरतन्त्रत्वादाधेयेन कमण्डलुनापि योगततोऽपि द्वितीया प्राप्नोति, नैष दोषः, कमण्डलुरित्यत्र तिष्ठत्यस्तीति वा क्रियापदानुषङ्गात्कमण्डलुः कर्ता, स च तिङभिहित इति प्रथमैव भविष्यति, कारकविभक्तित्वात्। तदेतत् ठ्सहयुक्तेऽप्रधानेऽ इत्यत्रोपपादयिष्यामः। निपातयोर्ग्रहणादिह न भवति, किं तेन तयोरन्तरेण ज्ञातेन! विशेषवचनोऽयम्---अन्तरायां पुरि वसतीति स्रुघ्नस्य प्राकार इति, नात्र स्रुघ्नस्यान्तराशब्दार्थेन योगः, किं तर्हि? प्राकारेण॥ कालाध्वनोरत्यन्तसंयोगे॥ २।३।५ ॥ कालाध्वनोरत्यन्तसंयोगे॥ मासमधीत इति। ननु कर्मत्वादेवात्र द्वितीया सिद्धा, कथम्? ठ्कालभावाध्वगन्तव्याः कर्मसंज्ञा ह्यकर्मणाम्ऽ। अवश्यं कर्मसंज्ञैवाश्रयणीया---आस्यते मासः, आसितव्यः आसित इति कर्मणि लकृत्यक्तखलर्था यथा स्युरिति, सत्यम्; इदमप्यवश्यं वक्तव्यम्---द्रव्यगुणाभ्यामत्यन्तसंयोगे द्वितीयायथा स्यादिति। तत्र क्रियात्यन्तसंयोगेऽपि परत्वादनेनैव युक्ता द्वितीया। मासस्येतिठ्कृत्वोऽर्थप्रयोगे कालेऽधिकरणेऽ इति षष्ठी॥ अपवर्गे तृतीया॥ २।३।६ ॥ अपवर्गे तृतीया॥ अपवर्गः फलप्राप्तौ सत्यां क्रियापरिसमाप्तिरिति। तत्रैवापवर्गशब्दो लोके प्रसिद्ध इति भावः। कर्तृव्यावृताविति। अशक्त्यादिना कर्तुरुपरमादित्यर्थः, तत्र मध्ये क्रिया विच्छिन्नेति प्रवृत्यपायः, न त्वपवृक्तेति॥ सप्तमीपञ्चम्यौ कारकमध्ये॥ २।३।७ ॥ सप्तमीपञ्चम्यौ कारकमध्ये॥ कारकमध्य इति। मध्यस्यावधिद्वयापेक्षत्वाद् द्विवचनान्तेन समासः, कालाध्वनोश्चैतद्विशेषणमित्याह---कारकयोर्मध्ये यौ कालाध्वानाविति। अद्य भुक्त्वेत्यादि। ननुं चात्र देवदत एकः कर्ताः तत्कथं कारकयोर्मध्ये काल इत्याह---कर्तृशकत्योरिति। स्यादेवं यदि द्रव्यं कारकं स्यात्, शक्तिस्तु कारकम्, सेह भिद्यते--एका अद्य भुजेः साधनम्, अपरा द्व्यहभुजेः, तेनानयोर्मध्ये काल इत्यर्थः। कर्तृकर्मणोरिति। इषूनस्यतीष्वासः पुरुषः स कर्ता, इष्वसने व्यधने स्थाने वा कर्म लक्ष्यम्। अर्मापादानयोरिति। कर्म तदेव सामर्थ्याद् गम्यमानं धनुरपादानं यतः शरा अपयन्ति। कर्माधिकरणयोर्वेति। कर्म तदेवाधिकरणमिहेति निर्द्दिष्टः प्रदेशः। इह कालाध्वानौ द्वौ, सप्तमीपञ्चम्यावपि द्वे, ततश्च संख्यातानुदेशः प्राप्नोति---कालात्सप्तमी, अध्वनः प्रञ्चमीति, अत आह---संख्यातानुदेश इत्यादि। अस्वरितत्वादिति। स्वरितेन लिङ्केन यथासंख्यमित्येतत् तत्रैव प्रतिपादितम्॥ कर्मप्रवचनीययुक्ते द्वितीया॥ २।३।८ ॥ यस्मादधिकं यस्य चेश्वरवचनं तत्र सप्तमी॥ २।३।९ ॥ यस्मादधिकं यस्य चेश्वरवचनं तत्र सप्तमी ॥ यस्मादधिकं तदस्मिन्नधिकमिति च निर्देशादधिकशब्दयोगे पर्यायेण सप्तमीपञ्चम्यौ भवतः। उपखार्थो द्रोण इति। ठुपोऽधिके चऽ इति कर्मप्रवचनीयसंज्ञा। यस्य चेश्वरवचनमित्यादि। द्वयमनेनोच्यते, द्वयोरपि भवति, तत्रापि पर्यायेणेति तत्र द्वयोरपि तावद्भवति, कथम्? ईश्वर उच्यते येन तदोश्वरवचनमैश्वर्यम्, अथ वा ईश्वरशब्दो भावप्रधानः ईश्वरः तस्योक्तिरीश्वरचनम्, यस्य स्वामिन ईश्वरत्वमुच्यते ततः सप्तमीत्यर्थः। अथ वा---यस्येति स्वं निर्दिश्यते, यस्य स्वस्येश्वर उच्यते ततः स्वात्सप्तमीत्यर्थः। पर्यायेण वा भवति; शेषविषये कर्मप्रवचनीयविभक्त्यारम्भादेकत उत्पन्नया विभक्त्या द्विष्ठस्यापि संबन्धस्याभिधानात्। अधि ब्रह्मदत इति। ठ्सप्तमी शौण्ड्èअःऽ इति समासपक्षे ब्रह्मदताधीना इति भवति विभक्त्यर्थवृत्तित्वेऽधिब्रह्मदतमित्यव्ययीभावः। अयं योगः शक्योऽवक्तुम्, स्वामिन्याधारे पञ्चालाः स्थिता स्वेष्वाधारेषु ब्रह्मदतः स्थितः, तत्र यदा यदधिकरणं तत्र सप्तमी भविष्यति, एवं च कृत्वा ठधिरीश्वरेऽ इति कर्मप्रवचनीयसंज्ञा न वक्तव्या, ऐस्वर्यवषयश्चाधिः क्रियया नैव युज्यते। अतो गत्युपसर्गत्वबाधार्थापि न युज्यते॥ पञ्चम्यपाङ्परिभिः॥ २।३।१० ॥ प्रतिनिधिप्रतिदाने च यस्मात्॥ २।३।११ ॥ प्रतिनिधिप्रतिदाने च यस्मात्॥ यस्मादित्यनेनैव सूत्रैण पञ्चमी। मुख्यसद्दशः प्रतिनिधिरिति। मुख्यः क्व चित्कार्ये रूढः, यश्च तदभावे तत्कार्ये प्रतिनिधीयते स तत्प्रतिनिधिः। कर्मणि ठुपसर्गे घोः किःऽ। एवं प्रतिदानमित्यपि, कर्मण्येवल्युट्। दतस्येति। अथात्रानेनैव सूत्रेण पञ्चमी प्राप्नोति, यथा----यस्मादिति, एवं तर्हि कर्मणि षष्ठी। ननु न दतमेव प्रत्यर्प्यते, किं तर्हि? द्रव्यान्तरम्, सत्यम्; तुल्यमूल्यत्वातदेव प्रत्यपितमिति प्रतिपतिः, प्रतिनिर्यातनमुप्रत्यपंणम्, अत्र भावे ल्युट। यस्मात्प्रतिनिधिरिति। सूत्रवदेव पञ्चमी। एवं यतश्चेत्यत्रापि। उर्जुनतः। प्रतीति। प्रतियोगे पञ्चम्यास्तसिः। अर्जुनो युद्धादौ प्रसिद्धस्तत्सद्दशोऽभिमन्युरित्यर्थः। माषानित्यादि। ये पूर्व गृहीतास्तिलास्तेभ्यो माषाः प्रतिदानम्। संबन्धिसंभबन्धादिति। प्रतिनिधिर्मुख्यमपेक्ष्य भवति, प्रतिदानमपि पूर्वदतम्, ततश्च यस्य कर्मप्रवचनीयस्य प्रतिनिधिप्रतिदानाभ्यां योगस्तस्य ताभ्यामपि मुख्यपूर्वदताभ्यां तद्द्वारको योगोऽस्तीत्यर्थः॥ गत्यर्थकर्मणि द्वितीयाचतुर्थ्यौ चेष्टायामनध्वनि॥ २।३।१२ ॥ गत्यर्थकर्मणि द्वितीयाचतुथ्याé चेष्टायामनध्वनि॥ चेष्टाक्रियाणामिति। वस्तु व्याख्यानमेतत्, सूत्रे तु सप्तमी चेष्टायामिति। परिस्पन्दनक्रियाणामिति। परिस्पन्दन एव चेष्टाशब्दः प्रसिद्ध इति भावः। ठ्स्वं रूपम्ऽ इति वचनात्स्वरूपग्रहणाशङ्कायामाह---अध्वन्यर्थग्रहणमिति। सप्तमीनिर्देशादिति भावः। सप्तमीनिर्देशे ह्यनध्वनिकर्मणीत्यन्वयः। नानध्वनः प्रकृतेरिति अर्थ एव कर्म नाध्वशब्दः, तेनाध्वपर्यायेभ्योऽपरि चतुर्थी न भवति। द्वितीया तु ठ्कर्मणि द्वितीयाऽ इति भवति। आस्थितः संप्राप्त इति गन्त्राधिष्ठित इत्यर्थः। यत्र त्विति। यदोत्पथेन पन्था एवाक्रमितुमिष्यते तदा भवत्येव चतुर्थीत्यर्थः। इह कस्मान्न भवति---अजां नयति ग्रममिति? अगत्यर्थत्वात्। प्रतीता ह्यत्र गतिर्न त्वसौ नयतेरर्थः; प्रापणवाचित्वात्। इह तर्हि स्त्रियं गच्छतीति चतुर्थी प्राप्नोति? सिद्धं त्वसंप्राप्तवचनात्, असंप्राप्तं यद्वस्तु गमनेन संप्रेप्स्यते तस्मिन्कर्मणीति वक्तव्यम्, स्त्री तु संप्राप्तैवेति चतुर्थ्यभावः। अध्वनश्चानपवादः। संप्राप्तो ह्यध्वा, यदा त्वसंप्राप्तः संप्रेप्स्यते तदा भवितव्यमेव चतुर्थ्येत्युक्तं पुरस्तात्। न चतुर्थ्येवेति। नञः काक्वा प्रयोगाद्विकल्पेतेत्यनेनान्वयः। कर्मणि चतुर्थ्यां विकल्पितायाम् ठ् तथायुक्ते कर्मणि द्वितीयाऽ इत्येव द्वितीया भविष्यतीति भावः। ग्रामाय गन्तेति। द्वितीया तावत्कृद्योगे षष्ठआआ बाधते, तया च तुल्यकक्षा चतुर्थी द्वन्द्वेन प्रतिपाद्यत इति चतुर्थ्यपि कृह्यएगे भवतीति भावः। अयं योगः शक्योऽवक्तुम्, कथम्? संदर्शनप्रार्थनाध्यवसायैराप्यमानत्वात्क्रियापि कृत्रिमं कर्म। तत्र यदा गमनस्य संदर्शनादीनां च स्वरुपभेदो विवक्ष्यते तदा संदर्शनादिकर्मणा गमनेनाभिप्रेयमाणस्य ग्रामस्य संप्रदानत्वाच्चतुर्थी। अभेदविवक्षायां तु गमनस्य कर्मत्वाभावाद् ग्रामः कर्मैव भवतीति द्वितीया सिद्धा नार्थ एतेनेति भा,यकारस्य पक्षः। तत्र कृत्प्रयोगे षष्ठ।लेव भवति। चतुर्थी संप्रदाने॥ २।३।१३ ॥ चतुर्थी संप्रदाने॥ तादर्थ्य इति। तच्छब्देन कार्थं प्रति निर्दिश्यते, तस्मै इदं तदर्थमिति समासेन विशिष्टकार्यप्रयोजनं कारणमभिधीयते। तदर्थस्य भावस्तादर्थ्यमिति ष्यञा कार्यकारणसम्बन्धोऽभिधीयते; समासकृतद्धितेषु सम्बन्धाभिधानां भावप्रत्ययेनेति वचनात्। तत्र द्विष्ठत्वेऽपि सम्बन्धस्य षष्ठीवद्विशेषणादेव चतुर्थी भवती---यूपाय दार्विति। हेतुतृतीयापि विशेष्यान्न भवति। हेतुहेतुमद्भावस्यापि चतुर्थ्यैव प्रत्यायितत्वात्, षष्ठीविषये च हेतुतृतीया। इह तु प्रातिपदिकार्थस्याव्यतिरेकात्प्रथमैव भवति। यदि तर्हि तादर्थ्य उपसंख्यानं क्रियते, नार्थः संप्रदाने चतुर्थ्या, योऽपि ह्युपाध्यायाय गौर्दीयते उपाध्यायार्थः स भवति। अवश्यं संप्रदानग्रहणं कर्तव्यम् ठ्रुच्यर्थानां प्रीयमाणःऽ इत्याद्यर्थम्। वलृपि संपद्यमान इति। संपतिरभूतप्रादुर्भावरूपोत्पतिरिह गृह्यते, तत्र यद्रूपमुपजायते ततो विकाराच्चतुर्थी। मूत्राय कल्पते यवागूरिति । प्रकृतिविकारयोर्भेदविवक्षायां चतुर्थी। अभेदविवक्षायां तु मूत्रं संपद्यते यवागूरिति प्रथमैव भवतीति केचिदाहुः। अन्ये त्वभेदविवक्षायामेव चतुर्थीमिच्छन्ति। यदा तु ठ्जनिकर्तुः प्रकृतिःऽ इत्यपादानत्वं विवक्ष्यते, तदा विकाराच्चतुर्थी न भवतीति केचिदाहुः---मूत्रं संपद्यते यवाग्वा इति। अन्ये तत्रापि चतुर्थीमिच्छन्ति---मूत्राय संपद्यते यवाग्वा इति। उत्पातेनेति। प्राणिनां शुभाशुभयो सूचको भूतविकार उत्पातः। अरोचकिन इति। अरुचिःउअरोचकम्, ठ्रोगाख्यायाम्ऽ इति ण्वुल्, बहुलवचनादस्त्रीलिङ्गता॥ क्रियार्थोपपदस्य च कर्मणि स्थानिनः॥ २।३।१४ ॥ क्रियार्थोपपदास्य च कर्मणि स्थानिनः॥ क्रिया क्रियार्थोपपदं यस्येति। ननु नास्मिन्नर्थेऽक्षराणि सन्ति तत्राह---तुमुन्ण्वुलावित्यादि। परिभाषितमुपपदं क्रियार्थमन्यत्र सम्भवतीत्ययमेव विषयो गृह्यते। अत्र च विषये क्रियैव क्रियार्थोपपदं तेनायमर्थो लभ्यते इति भावः। ठ्यत्र गम्यते चार्थो न च प्रयुज्यते शब्दः स स्थानीऽ इति स्वनिकायप्रसिद्धिमाश्रित्याह---स्थानिनोऽप्रयुज्यमानस्येति। एधेभ्यो व्रजतीति। ननु चात्र ठ्तादर्थ्येऽ इत्येव चतुर्थी सिद्धा, इहापि तर्हि प्राप्नोति--एधानाहर्तु व्रजतीति? हरणार्था व्रजिक्रिया, न पुनरेधार्था चेदुदाहरणेऽपि तर्ह्येवमेव। एतावांस्तु विशेषः---प्रत्युदाहरणे शब्दः प्रयुज्यते, उदाहरणे तु नेति प्रतीयमाना च क्रिया कारकव्यपदेशस्य निमितम्। तत्र यथा प्रत्युदाहरणे आहरणापेक्षया द्वितीया सम्भवत्येवमुदाहरणेऽपि प्रतीयमानहरणापेक्षा द्वितीयैव स्यादित्ययमारम्भः। भक्षिरत्र स्थानीति। प्रविश गृहं पिण्डआआ भक्षयेति गम्यमानत्वात्। न तु क्रियार्थोपपद इति। यद्यपि पिण्डीभक्षणार्थ गृहप्रवेशनं तथापि पारिभाषिकमुपपदं न भवतीति भावः। शकटेनेति। ननु ठ्मध्येऽपवादाःऽ इति द्वितीयामेव चतुर्ती बाधिष्यते, न करणतृतीयाम्, एवं तर्हि प्रत्युदाहरणदिगियं दर्शिता। इदं त्वत्र प्रत्युदाहरणं द्रष्ट्व्यम्---ब्राह्मणस्यैधेभ्यो व्रजतीति। असति कर्मग्रहणे इतरोपपदविभक्तिवदियमपि शेषविषयैव स्यात्॥ तुमर्थाच्च भाववचनात्॥ २।३।१५ ॥ तुमर्थाच्च भाववचनात्॥ तुमुना समानार्थस्तुमर्थ इति। वस्तुव्याख्यानमेतत्, विग्रहस्तु तुमर्थोऽस्येति तुम्शब्देन तुमर्थो लक्ष्यते। तुमर्थभाववचनप्रत्ययान्तादिति। तुमर्थो भाववचनः प्रत्ययोऽन्तेऽस्य ततथोक्तम्। तस्येदं ग्रहणमिति। स एव हि तुमर्थो भाववचनः, नान्यः। पाकाय व्रजतीति। नन्वत्र तादर्थ्यैव सिद्धम्; न चैवं पाचको व्रजतीत्यभाववचनादपि प्रसङ्गः, अत्र कर्ता प्रधानं न च तं प्रति तादर्थ्यमस्ति, किं तु प्रक-त्यर्थ प्रति; एवं तर्हि भाववचनेनैव तादर्थ्यस्य द्योतितत्वाच्चतुर्थी न सिद्ध्यतीति सूत्रारम्भः। न ह्यएतल्लक्षणनेत्रो ज्ञातुमर्हति---धञादीनां चतुर्थीसापेक्षाणामेव तादर्थ्यप्रकाशने शक्तिरिति। तुमर्थग्रहणं शक्यमकर्तुम्, कथम्? पाकः, त्यागः, राग इति क्रियार्थो पपदग्रहणमनुवर्तिष्यते। नन्वेतत् षष्ठीनिर्दिष्टम्, पञ्चमीनिर्देअषेटेन चेहार्थः; अर्थाद्विपरिणामो भविष्यति, भाववचनादित्यनेन सम्बन्धात्। न वै भाववचनस्य क्रियार्थोपपदत्वं सम्भवति, किं तर्हि? धातोः। धातोर्भाववचनस्यासम्भवादेवं विज्ञास्यते--क्रियार्थोपपदाद्धातोर्यो विहितो भाववचन इति॥ नमः स्वस्तिस्वाहास्वधालंवषड।लेगाच्च॥ २।३।१६ ॥ नमः स्वस्तिस्वाहास्वधालंवषड।लेगाच्च॥ अलमिति पर्याप्त्यर्थग्रहणमिति। अलमित्यर्थग्रहणं तत्रापि पर्याप्तिग्रहणमित्यर्थः। तत्र तावदर्थग्रहणं तस्मै प्रभवतीति निर्देशात्, इह चालं कुरुते कन्यामिति ठुपपदविभक्तेः कारकविभक्तिर्बलीयसीऽ इति द्वितीया भविष्यति। एवमलमोदनेनेत्यत्रापि करणे तृतीया, ओदनेन न किञ्चित्साध्यमित्यर्थावगमात्, तेन भूषणप्रतिषेधयोरग्रहणात्पर्याप्तेरेवग्रहणम्। चकारः पुनरित्यादि। अन्यथा स्वस्तियोगे चतुर्थ्या अवकाशः---स्वस्ति जाल्माय, जाल्मत्वादाशीरभावाद् भूतकथनमेतत्; कुशलार्थैराशिषि चतुर्थी चेत्यस्यावकाशः---अन्ये कुशलार्थाः, कुशलं देवदतस्य कुशलं देवदताय; स्वस्ति गोभ्यो भूयात्, उभयप्रसङ्गे परत्वात्पक्षे षष्ठी स्यात्॥ मन्यकर्मण्यनादरे विभाषाऽप्राणिषु॥ २।३।१७ ॥ मन्यकर्मण्यनादरे विभाषाऽप्राणिषु॥ मन्यतेः कर्म मन्यकर्मेति। ठ्मन ज्ञानेऽइत्यस्य दैवादिकस्य धातोः श्यना उपलक्षणम्, न तु प्रयोगस्थस्य श्यनन्तस्यानुकरणमित्यर्थः। तेन श्यनोऽभावेऽपि भवति---ठ्तृणाय मत्वा रघुनन्दनोऽपि बाणेन रक्षः प्रधनान्निरास्थत्ऽ इति। श्याना तु तानादिकस्य ठ् मनु अवबोधनेऽ इत्यस्यैव निरासः। अनादरस्तिरस्कार इति। न त्वादराभावमात्रम्, कथम्? अनृतादिवन्नञः प्रतिपक्षवाचित्वादिति भावः। मन्यकर्मणि प्रकृष्टकुत्सितग्रहणमिति वार्तिकम्, यद्वाचिनश्चतुर्थी विधीयते ततः प्रकर्षेण यदि कुत्सा प्रतिपादयितुमिष्यते तदा चतुर्थी भवति, न तु सामान्यविवक्षायाम्। तेन प्रतिषेधयुक्तायां कुत्सायां चतुर्थीविधानं संपद्यत इति मत्वाह---न त्वा तृणायेति। ठ्मन्यकर्मण्यनादर उपमाने विभाषा प्राणिषुऽ इति आपिशलिरधीते स्म, न तत्र प्रतिषेधापेक्षा, तथा च भट्टिप्रयोगो निदर्शनीयः। अश्मानं द्दषदमित्यादि। तत्वाख्यानमेतत्। यस्य माता न पश्यतीति। दर्शनयोग्यम्। व्यवस्थितविभाषा चेति। ननु येषु प्राणिषु नेष्यते, ते नावादयो भविष्यन्तीति किं व्यवस्थितविभाषया? वृत्तिकार एवात्र साक्षात्प्रयोजनं वक्ष्यति। नत्वा नावमिति। नावा तार्यमुदकं नाव्यं तद्यदैव तीर्णं तदैव नावमपि सन्तीं त्वां नाहं नावं मन्ये, प्रयोजनस्य निष्पन्नत्वादिति भावः। एवं यावन्नभुक्तं श्राद्धिमित्यत्रापि द्रष्टव्यम्। प्राणिषु तूभयमिति। विषयविभागेन। एतदपीति। एतदेव साक्षात्प्रयोजनमन्यत्र नावादित्वादेव सिद्धेरित्यवोचाम॥ कर्तृकरणयोस्तृतीया॥ २।३।१८ ॥ कर्तृकरणयोस्तृतीया॥ प्रकृत्याभिरूप इति। क्रियाया अश्रवणात्कर्तृकरणयोरभावात्षष्ठी प्राप्नोति। प्रायेण याज्ञिक इति। प्रायशब्दो बह्वर्थः, बहवो याज्ञिका इत्यर्थः। गार्ग्योऽस्मीति। प्रथमा षष्ठी वा प्राप्नोति। समेनेति। अत्र द्वितोया प्राप्नोति। द्विद्रोणेनेति। द्वयोर्द्रोणयोः समाहारो द्विद्रोणं पात्रादिः, द्वौ द्रोणौ कृत्वेत्यर्थः, अत्रापि द्वितीया प्राप्नोति। पञ्चकेनेति। पञ्च पात्रादिः, द्वौ द्रोणौ कृत्वेत्यर्थः, अत्रापी द्वितीया प्राप्नोति। पञ्चकेनेति। पञ्च परिमाणमस्य पञ्चकः सङ्घः, तत्र संघसंघिनोरभेदविवक्षायां पशूनित्यनेनैतत्समानाधिकरणमित्यत्रापि द्वितीयैव प्राप्नोति। साहस्रेणेति। सहस्रपरिमाणः संघः साहस्रः। सर्वमन्यत्पूर्ववत्। इत्युपसंख्यानमारभमाणस्याभिप्रायः। प्रत्याख्यानं तु---इह तावत्प्रकृत्याभिरूप इति गम्यमानापि क्रिया करणादिव्यपदेशस्य निमितम्। इह च करोतिक्रिया गम्यते, करणान्तरव्युदासाय च प्रकृतेः करणत्वं विवक्षितं स्वभावेनायमभिरूपः कृतः, न वस्त्रालङ्कारादिनेत्यर्थः। प्रायेणेत्ययमर्थः---अस्मिन् ग्रामे ये विप्राः सन्ति ते बाहुल्येन यज्ञमवीयत इति तत्र याज्ञिकशब्दाभिधेयमध्ययनं प्रति बाहुल्यस्य करणत्वं संधीभूय यज्ञमधीयत इति तत्र याज्ञिकशब्दाभिधेयमध्ययनं प्रति बाहुल्यस्य करणत्वं संधीभूय यज्ञमधीयत इत्यर्थः। इह तर्हि कथं विशिष्टवेषं कंचित् द्दष्ट्वाध्यवस्यति---प्रायेणायं याज्ञिक इति? अत्राप्ययमर्थः----अस्मिस्तावद्याज्ञिकानामाचारादिबाहुल्यमुपलभ्यते, अतोऽनेनाचारादिबाहुल्येन याज्ञिकोऽयं जनैर्ज्ञायत इति। तत्र प्रतीयमानज्ञानं प्रति करणत्वम्। केचित्---प्रायेणशब्दो विबक्तिप्रतिरूपको निपातो ज्ञातमित्यस्यार्थे वर्तते इत्याहुः। द्दश्यते च प्रायेण सामग्र्यविधौ गुणानामिति, प्रायेण निष्क्रामति चक्रपाणाविति च। गात्रेणेति। अनेनाहं ज्ञाये इति ज्ञानक्रियायामस्मीति भवनक्रियायां वा गोत्रस्य करणत्वम्। समेनेति। पथो गमने करणत्वं समेन पथेत्यर्थः। द्विद्रोणेनेति। द्विद्रोणाद्यर्थे मूल्ये द्विद्रोणादिशब्दस्तस्य च क्रयं प्रति कारणत्वम्, द्विद्रोणादीनां च मूल्यम्, तेन द्विद्रोणाद्येव क्रीयते इत्यर्थभेदोऽपि नास्ति॥ सहयुक्तेऽप्रधाने॥ २।३।१९ ॥ सहयुक्तेऽप्रधाने॥ क्रियागुणद्रव्यैर्द्वयोः सम्बन्धे सति सहशब्दस्य प्रयोगो भवति, अतः ठ्पुत्रेण सहगतः पिताःऽ इत्यादीनि क्रियादिसम्बन्धे यथाक्रममुदाहणान्युपन्यस्तानि। नन्वत्र सर्वतः सहार्थस्वभावादेव पितुः पुत्रस्य वा गमनादिना सम्बन्धः प्रतीयते, तत्कुतः पितुः प्राधान्यम्? केचिदाहुः----यस्य क्रियादिसम्बन्धो विशिष्टकालः प्रज्ञातः स यदान्यस्याप्रज्ञातविशिष्टकालक्रियासम्बन्धस्य तत्प्रतिपादनार्थमुपादीयते, यथा---ठयं पुरुषः कदागतःऽ इत्यपेक्षायाम् ठ्राज्ञा सहागतःऽ इति पुरुषागमनं विषिष्टकालमुपपादयितुं वाक्यं प्रवर्तत इति पुरुषस्य प्राधान्यम्, राज्ञस्तूपलक्षणत्वेनोपातत्वादप्राधान्यमिति। एवं तु ठ्भृत्यैः सह राजागतःऽ इत्यत्र न स्याद्, न हि भृत्यागमनं प्रसिद्वकालं येन तत्कालत्वं राजागमनस्य प्रतिपाद्येत। यत्र चोभयोरप्यज्ञातक्रियादिसम्बन्धस्तत्रापि न स्यात्---पुत्रेण सहागतः पितेति। तस्माद्वक्तव्यमप्राधान्यमत आह----पितुरत्रेत्यादि। पूर्वं प्रज्ञातोऽप्रज्ञातो वा यस्य क्रियादिसम्बन्धः शब्देनोच्यते तस्य प्राधान्यम्। यस्य तु सहार्थान्यथानुपपत्या प्रतीयते तस्याप्रधान्यम्। कस्य तुनः शब्देनोच्यते? कस्य वा प्रतोयते? यस्य विवक्ष्यते। एतदुक्तं भवति---द्वयोस्तावत्क्रियासम्बन्धे सति सहशब्दस्य प्रयोगः, तत्र यदा द्वयोरपि क्रियादिसम्बन्धः शब्देनोच्यते--सहागतौ पितापुत्राविति, तदा द्वयोरपि प्राधान्यान्न भवति; यदा त्वेकस्य क्रियादिसम्बन्धं शब्देन प्रतिपिपादयिषत्यपरस्य सहार्थान्यथानुपपत्या तदा तस्याप्राधान्यातद्वाचिनस्तृतीयेति। एवं च कृत्वा सह शाखया प्रस्तरं प्रहरतीति यद्यपि प्रस्तरस्य प्रहरणसम्बन्धः प्रज्ञातः, सूक्तवाकेन प्रस्तरं प्रहरतीति, शाखायास्त्वज्ञातः; तथाप्युक्तेन न्यायेन शाखाशब्दातृतीया सिद्ध्यतीति विभक्तिव्यत्यासो न वाच्यः। ननु पुत्रेण सहागत इत्यादौ पितुरेव कर्तुः क्तादिभिरभिधानम्, न त्वप्रधानस्य पुत्रादेस्तस्यापि तु सहार्थसामर्थ्यात्कर्तृत्वं प्रतीयत--इत्यनभिहिते कर्तृकरणयोरिति तृतीया सिद्धा। इह तर्हि पुत्रेण सहागमनं पितुरिति ठ्कर्तृ कर्मणोः कृतिऽ इति षष्ठी प्राप्नोति, इह च तिलैः सह माषान्वपति तिलान्माषान्वपतीत्यर्थप्रतीतेर्द्धितीया प्राप्नोति, इह च पुत्रेण सह स्थूलः, पुत्रेण सह गोमानिति द्रव्यगुणसम्बन्धप्रतिपादन एव तात्पर्थमिति क्रियागन्धस्यैवाभअवात्कर्तृगन्धोऽपि नास्तीत्यारभ्यमेवावश्यं सूत्रम्। सहार्थेन योगे विधानादिति। युक्तग्रहणादर्थग्रहणं लभ्यते, अन्यथा ठ्सहे प्रधानेऽ इत्येव वाच्यं स्यात्। विनापि सहशब्देन वृद्धो यूनोति निपातनादिति क्वचित्पठ।ल्ते। इहाप्रधानवचनं प्रधाननिवृत्यर्थ क्रियते, पितुस्तृतीया मा भूदिति; तत्र प्रातिपदिकमात्रापेक्षत्वादन्तरङ्गत्वात्प्रथमा भविष्यति, नार्थोऽप्रधानवचनेनेति मन्यमानः पृच्छति---ऊ प्रधान इति किमिति। शिष्येण सहोपाध्यायस्य गौरिति। यथात्राप्रधाने षष्ठीविषये तृतीया, एवं प्रधानेऽपि स्यादिति मन्यते। अत्राहुः----यथा ग्रामं न गच्छतीत्यादौ ग्रामगमनयोः पूर्वमभिसम्बन्धः प्रश्चान्नञा प्रति षिध्यते, एवमुपाध्यायस्य पूर्वं गवा सम्बन्धः पश्चातत्सम्बन्धविषिष्टस्य गोः सहार्थेन योगः; अन्यथा कस्य सहत्वं प्रतिपाद्येत, अतो गवा सम्बन्धस्यान्तरङ्गत्वा दुपाध्यायात् षष्ठी भविष्यतीति नार्थ एतेन॥ येनाङ्गविकारः॥ २।३।२० ॥ येनाङ्गविकारः॥ अङ्गशब्दोऽवयववाची प्रसिद्ध; ततश्चायं सूत्रार्थः स्याद्---येन गुणेनाङ्गस्याक्ष्यादेर्विकारस्ततस्तृतीयेति, ततश्चाक्षि काणमस्येत्यादावेव तु स्यात्, काणादेर्गुणवचनादेव च स्याद्; अक्ष्णा काण इत्यादावक्ष्यादेर्न स्यादित्यालोच्यान्यथा व्याचष्टे--अङ्गशब्दोऽत्रेत्यादि। अर्श आद्यच्प्रत्ययान्तः शरीरवचनोऽङ्गशब्दः सूत्रे उपात इत्यर्थः। येनेति च यदपेक्षमङ्गिनोऽङ्गित्वं स हेतुत्वेन निर्द्दश्यते, हेतुत्वेनेतिवदन्येनेति हेतौ तृतीयेति दर्शयति। विकृतेनेति। सामर्थ्यादेवैतल्लभ्यते, न ह्यविकृतमङ्गमङ्गिनो विकारं प्रति हेतुः। अक्ष्णा काण इति। कथं पुनः पुरुषः काणः यावताक्षिधर्मः काणता, तेनाक्ष्येव काणं भवति न पुरुषः? इत्याह---अवयवधर्मेणेति। तदेवं यदङ्गगतो विकारोऽवयवधर्मः समुदाय आरोपादङ्गिनः प्रतिपाद्यते, तत्र यदङ्गगतो विकारस्ततस्तृतीया भवति। कथं पुनरक्षिशब्दः प्रयुज्यते, यावता काणशब्दोऽक्षिगतमेव विकारमाचष्टे, तत्र काणो देवदत इत्युक्ते नैव संदेहो भवति---किं स्वयमेव काणः, किं वाक्ष्णः काणतयेति,नाप्येवं संदेहः----किमक्ष्णः काणतयासौ काणः, किं वा पादस्येति,तदनर्थकोऽक्षिशब्दस्य प्रयोगः? एवं पादेन खञ्जः, पाणिना कुणिरित्यादौ पादादीनाम्? उच्यते---अक्ष्याद्यौपक्रमे वाक्येऽक्ष्णेत्युक्ते न ज्ञायते किं निरूपयति? किं वा काण इति? तत्र निरूपयत्यादिनिवृतये काणशब्दप्रयोगः, यथा---द्वावानय कौ तौ द्वावित्युक्ते ब्राह्मणावति। अङ्गविकार इति किमिति। अङ्गगहणं प्रति प्रश्नः। क्वचितु तथैव पाठः। अक्षि काणमस्येति। नन्वत्र परत्वात्प्रथमा भविष्यति, न; असत्यङ्ग्रहणेऽवैव स्यात् मुख्यो ह्यत्र विकारः। उदाहरणे तु गौणः, अवयवधर्मस्यावयविन्यारोपात्॥ इत्थम्भूतलक्षणे॥ २।३।२१ ॥ इत्थम्भूतलक्षणे॥ इदंशब्दात्सन्निहितवाचिनः प्रकारवचने थाल्, ठिदमस्थमुःऽ इति थमुप्रत्यये कृते इत्थमिति भवति। न चात्र किञ्चित्सन्निहतमस्तीतीत्थंशब्दः सन्निहितपरित्यागेन प्रकारविशेषमाचष्टे, ठ्भू प्राप्तावात्मनेपदी चऽ,ठा धृषाद्वाऽ इति णिजभावपक्षे गत्यर्थत्वात्कर्तरि क्तप्रत्ययस्तदाह--कञ्चिदिति। तस्येति कर्मणि षष्ठी। लक्ष्यते येनेति लज्ञणम्। येन श्वेतच्छत्रादिना राजत्वादिप्रकारविशेषापन्नतयान्यो लक्ष्यते तदित्थम्भूतलक्षणम्। तत्रेति। वर्तमानादित्यर्थः। कमण्डलुना छात्त्रोपाध्याययोर्गच्छतोश्छात्रस्य हस्ते कमण्डलुर्भवति, कमण्डलुना छात्त्रोऽयमिति ज्ञातवानित्यर्थः। यद्येवम्, ईद्दशे ज्ञाने कमण्डलोः करणत्वादेव तृतीया सिद्ध्यति? एवं तर्हि प्रमाता प्रमिति दशायामेवात्मनः प्रमितिविशेषं प्रतिपादयितुं वाक्यं प्रयुङ्क्ते--कमण्डलुनायं छात्र इति, तदा ज्ञानक्रियाया अप्रतिभासादप्रतिपाद्यत्वाच्च करणत्वासम्भवः। उदाहरणं त्वेवं व्याख्येयम्---कमण्डलुना छात्र इत्येवं रूपं ज्ञानमभूदिति। कोऽर्थः? अद्राक्षीदिति निदिष्टस्य द्रष्टुअर्ज्ञानविशेपोऽत्र कथ्यते, न प्रयोक्तुरित्यर्थः। इह कमण्डलुपाणिश्छात्र इति बहुव्रीहौ कृते कमण्डलुशब्दातृतीया प्राप्नोति; न च प्रत्यलक्षणेनाप्रत्यय इति प्रातिपदिकसंज्ञाप्रतिषेधः, ठ्न ङिसंबुद्ध्योःऽ इति लिङ्गत्; न च ठ्सुपो धातुप्रातिपदिकयोःऽ इति संप्रत्युत्पन्नायास्तृतचीयाया लुग्लभ्यते, तस्याः समास्प्रातिपदिकं प्रत्यनव्यवत्वादित्यत आह---इह न भवतीति। समासेऽन्तभूतत्वादिति। समासार्थं प्रति गुणभूतत्वादित्यर्थः। इत्थम्भूतस्य लक्षणं यत्प्रधानं तत्र तृतीया। बहुव्रीहौ तु वर्तिपदानां स्वार्थोपसर्जनान्यपदार्थाभिधायित्वान्नास्ति प्राधान्यम्॥ संज्ञोऽन्यतरस्यां कर्मणि॥ २।३।२२ ॥ संज्ञोऽन्यतरस्यां कर्मणि॥ संजानीत इति। ठ्संप्रतिभ्यामनाध्यानेऽ इत्यात्मनेपदम्, ठ्ज्ञाजनोर्जाऽ इति जादेशः। आध्याने तु ठधीगर्थदयेशाम्ऽ इति षष्ठी भवति---मातुः संजानातीति। कृत्प्रयोगे त्वनाध्यानेऽपि परत्वात्ठ्कर्तृ कर्मणोः कृतिऽ इति षष्ठी भवति---मातुः संज्ञातेति॥ हेतौ॥ २।३।२३ ॥ हेतौ॥ ठ्तत्प्रयोजको हेतुश्चऽ शास्त्रीयस्य हेतोश्चकारेण कर्तृसंज्ञाविधानात्कर्तृकरणयोरित्येव तृतीयायाः सिद्धत्वाल्लौकिकौ हेतुर्गृह्यत इत्याह---फलसाधनयोग्य इत्यादि। लोके ह्यङ्कुरादिकार्योत्पादने योग्यतामात्रप्रयुक्तोऽनाश्रितव्यापारो द्रव्यगुणक्रियाविषयो बीजादिर्हेतुः। उक्तं च---- द्रव्यादिविषयो हेतुः कारकं नियतक्रियम्। इति। अनाश्रिते तु व्यापारे निमितं हेतुरुच्यते॥ इति च। उदाहरणेषु क्रियाया अभावात्करणत्वमनाशङ्कनीयम्। यूपाय दार्वित्यत्र तादर्थ्य विवक्षितम्, न तु सदपि हेतुत्वमिति दारुशब्दात् प्रथमैव भवति॥ अकर्तर्यृणे पञ्चमी॥ २।३।२४ ॥ अकर्तर्यृणे पञ्चमी॥ बन्धित इति। बन्धेर्ण्यन्तस्य निष्ठान्तस्य रूपम्ऽ शतमृणं च भवतीति। उतमर्णाय धार्यमाणत्वात्। प्रयोजकत्वाच्च कर्तृसंज्ञकमिति। ठ्तत्प्रयोजको हेतुश्चऽ इति चकारेण कर्तृ संज्ञाविधानात्। ननु च पूर्वसूत्रे लौकिकस्य हेतोर्ग्रहणम्, अयं तु शास्त्रीयः; शास्त्रीयस्यापि लौकिकत्वमस्त्येव। अथ वा कस्य हेतोः पूर्वसूत्रे शास्त्रीयस्याग्रहणम्---कर्तरि सिद्धा तृतीयेति? न त्वेवम्, पञ्चम्या असिद्धत्वादिहार्थमेव सामान्यग्रहणं स्यात्॥ विभाषा गुणेऽस्त्रियाम्॥ २।३।२५ ॥ विभाषा गुणेऽस्त्रियाम्॥ ठ्सत्वे निविशतेऽपैतिऽ इति लक्षितस्य गुणस्य ग्रहणम्; तदनुरूपत्वादुदाहरणप्रत्युदाहरणयोरिति केचित्। अन्ये तु ठ्पर्वतो वह्निमान् धूमवत्वात्ऽ इत्यादावनेनैव पञ्चमीमिच्छन्तः परतन्त्रमात्रस्य ग्रहणं वर्णयन्ति, यथा---यस्य हि गुणस्य भावादिति। ठ्विभाषा गुणेऽ इति योगविभागात् ठ्नास्तीह पटोऽनुपलब्धेःऽ इति स्त्रियामपि क्वचिद्भवति। केचित्वपादानपञ्चमीमेतामिच्छन्ति, तथा च ठ्नास्तीह घटोऽनुपलब्धितःऽ इति ठपादाने चाहीयरुहोःऽ इति तसिलपि भवति, योगविभागवादिनां त्वाद्यादित्वातसिः॥ षष्ठी हेतुप्रयोगे॥ २।३।२६ ॥ षष्ठी हेतुप्रयोगे॥ हेतुशब्दस्येति। प्रयोगस्य शब्दधर्मत्वादेवमुक्तम्, न त्वनेनार्थग्रहणं व्यावर्त्यते; यर्यायप्रयोगेऽपि ठ्निमितकारणहेतुषुऽ इति वक्ष्यमाणेन षष्ठ।ल इष्टत्वात्। हेतुशब्दस्य प्रयोगे सति हेतुहेतुमद्भावलक्षणस्यैव सम्बन्धविशेषस्य नियमेन प्रतीतौ ठ्हेतौऽ इति ततीयापवादो योगः॥ सर्वनाम्नस्तृतीया च॥ २।३।२७ ॥ सर्वनाम्नस्तृतीया च॥ ठ्सर्वनाम्नःऽ इति प्रयोगापेक्षा षष्ठी। सर्वनाम्नी हेतुशब्दस्य च प्रयोग इति। पञ्चम्यां तु हेतुशब्दादयं विधिर्न स्यात्। कथं तर्हि सर्वनाम्नस्तृतीया भवतीति? अत्रापि सर्वनाम्नः प्रयोग इत्यर्थो द्रष्ट्व्यः। निमितकारणहेतुष्विति। यद्यप्यस्मिन् सूत्र इदं वृत्तिकारेण पठितम्, भाष्यकारेण तु ठ्हेतौऽ इत्यत्र पठितत्वादसर्वनाम्नोऽप्येतद्विभक्तिविधानं गम्यते, तत्र च प्रायग्रहणादेवासर्वनाम्नः प्रथमाद्वितीये न भवतः, अन्यास्तु यथादर्शनं भवन्ति---अन्नेन कारणेन वसति, अन्नाय कारणाय वसति, अन्नात्कारणाद्, अन्नस्य कारणस्य, अन्ने कारणे इति। पर्यायोपादानं त्विति। ननु विपरीतमिदं स्वरूपविधौ पर्यायोपादानं कर्तव्यम्, अर्थग्रहणे तु न कर्तव्यमिति; किं चार्थग्रहणे सत्येकशेषप्रसङ्गः, विरूपाणामपि समानार्थानामेकशेषवचनात्? एवं मन्यते---यथा आकृतिगमेषु केचिदुपलक्षणार्थं पठ।ल्न्ते, एवमिहापि स्वरूपपरा एव निमितादिशब्दा उपलक्षणार्थाः----एवमर्थानां शब्दानामिति॥ अपादाने पञ्चमी॥ २।३।२८ ॥ अपादाने पञ्चमी॥ प्रासादादिति। अत्र ल्यबन्तस्याप्रयोगेऽप्यर्थो गम्यत इति द्वितीया प्राप्नोति। आसनादिति। सप्तम्यत्र प्राप्नोति। प्रत्याख्यानं तु---प्रेक्षणमुचक्षुषा पदार्थानां ज्ञानम्, तैजसं चक्षुर्बहिर्निः सृत्य विषयान् गृह्णाति, निःसरणाङ्गके च प्रेक्षणे धातुर्वर्तते, तत्राङ्गभूतनिः सरणं प्रति प्रासाद उपातविषयमपादानं भवति---प्रासादात्प्रेक्षत इति, कोर्थः? प्रासादप्रदेशाच्चाक्षुषं तेजो निः सार्य पदार्थान् गृह्णातीति। प्रश्नाख्यानयोश्चेति। विशिष्टे प्रश्नाख्याने गृह्यएते यत्र लोके पञ्चमी प्रयुज्यते। इह न भवति--कस्यायमर्थो राज्ञोऽर्थ इति। कुतो भवानिति। क्रियाया अभावादनपादानत्वात् फलवद्वचनप्रत्यक्षादिप्रमाणसिद्धामागमनादिक्रियामपेक्ष्येदं प्रयुज्यते, तत्र प्रयोक्तुराख्यातुश्च मनसि विपरिवर्तमानमागमनं प्रत्यपेक्षितक्रियमपादानम्---पाटलिपुत्रादिति। यतश्चेति। यदवधित्वेनाश्रित्याध्वकालयोः परिच्छेदस्तत इत्यर्थः। गवीधुमन्नाम नगरम्, सांकाश्यं तपोवनम्। कृतिकायुक्ता पौर्णमासी कार्तिकी, पौर्णमास्याम् ठ्लुबविशेषेऽ इति लुब्न भवति ठ्सास्मिन्पौर्णमासीऽ इत्यधिकारे ठ्विभाषा फल्गुनीश्रवणाकार्तिकीचैत्रीभ्यःऽ इति निर्देशात्। अग्रे हायनमस्या इत्याग्रहायणी, प्रज्ञादेराकृतिगणत्वात्स्वार्थिकोऽण्, ठाग्रहायण्यश्वत्थात्ऽ इति निपातनाण्णत्वम्। तद्यौ क्तादिति। तेन पञ्चम्यन्तार्थेनार्थद्वारेण युक्तात्काले वर्तमानान्मासादिशब्दादित्यर्थः। यद्वा---तया पञ्चम्या युक्तो योऽर्थः कार्तिक्यादिस्ततः परो यः कालो मासादिस्तत्र वर्तमानादित्यर्थः। अर्थतश्च परत्वं न शब्दत इति व्यवहितेऽपि भवति, कार्तिक्याग्रहायण्योर्मध्यवर्ती मासः कार्तिक्याः परो भवति। अध्वन इति। तद्यौक्तादित्यपेक्ष्यते। प्रत्याख्यानं तु-वाक्यैकदेशस्यात्र प्रयोगः। तदयमर्थः----गवीधुमतो निःसृत्य यदा चत्वारि योजनानि गतानि बवन्ति ततः सांकाश्यम्, चतुर्षु योजनेषु गतेषु सत्सु सांकाश्यमितिष गतानिति क कर्मणि निष्ठा, यदा जनैर्योजनानि गतानि भवन्ति ततस्तैः सांकाश्यं प्राप्यत इत्यर्थः। यद्वा----अध्ववर्तिनां निः सरणं गमनं वाध्वन्यारोप्य निःसृत्य गतानिति ल्यपः कर्तरि क्तस्य च प्रयोगः तस्य प्रतीयमाननिः सरणक्रियापेक्षपापादानत्वम्, गतानीति च प्रातिपदिकार्थस्याव्यतिरेकात्प्रथमा गतेषु सत्स्विति ठ्यस्य च भावेन भावलक्षणम्ऽ इति सप्तमी, आग्रहायणी माम इति कार्तिक्याः परत्र मासे गते सति आग्रहायणी भवतीत्यर्थः। तत्र दिग्योगलक्षणा पञ्चमी, सप्तमी पूर्ववत्॥ अन्यारादितरर्तेदिक्शब्दाञ्चृतरपदाजाहियुक्ते॥ २।३।२९ ॥ अन्यारादितरर्तेदिक्शब्दाञ्चृतरपदाजाहियुक्ते॥ अन्य इत्यथेग्रहणमिति। व्याख्यानात्। निर्द्दिश्यमानप्रतियोगीति। यथा देवदतयज्ञदतयोः प्रकृतयोराह---देवदतः शूरः, इतरः कातर इति; तस्यान्यार्थान्तर्भावोऽस्तीति चिन्त्यम्। ऋते यज्ञदतादिति। कथं यत्किञ्चिद्राजसूयमृते सोममिति? छान्दसत्वात्, कथं ठ्न मामृते राम बालीऽइति? क्व कर्म प्रध्वस्तं फलति पुरुषाराधनमृतेऽ इति च? निरंकुशाः कवयः। शब्दग्रहणमिति। सति हि तस्मिन् दिशि द्दष्टः शब्दो दिक्शब्द इत्युतरपदलोपी समासो लभ्यते, तेन यदा कदाचिद्दिशि द्दष्टेन संप्रति देशकालवर्तिनापि योगे भवति---ग्रामात्पूर्वो देशश्चैत्रात्पूर्वः फाल्गुन इति। अवयववाचिभिस्तु योगे न भवति---पूर्व कायस्येति, ठ्तस्य परमाम्रेडितम्ऽ इति निर्देशात्। ननु चायमपीति। सध्«अङ् देवदतेनेत्यादावदिक्शब्दार्थमञ्चूतरपदग्रहणं न भवति, दिक्शब्दैः साहचर्यादस्यापि दिक्शब्दस्यैव ग्रहणादिति भावः। दक्षिणेति। ठ्दक्षिणादाच्ऽ ; आहि च दूरेऽ उतराच्चऽ इत्याजाही प्रत्ययौ॥ षष्ठ।ल्तसर्थप्रत्ययेन॥ २।३।३० ॥ षष्ठ।ल्तसर्थप्रत्ययेन॥ अत्र तस्यतेर्नञ्पूर्वस्य क्विप्यतसिति रूपसम्भवेऽपि प्रत्यक्षश्रुतत्वात्प्रत्ययाप्रत्ययपरिभाषया च प्रत्ययस्यैव ग्रहणमिति सिद्धं नार्थः प्रत्ययग्रहणेन। पुरस्तादिति। ठ्पूर्वाधरावराणामसिपुरधवश्चैषाम्ऽ ठस्ताति चऽ इति पूर्वशब्दस्य पुरादेशः। उपर्य परिष्टादिति। ऊर्ध्वशब्दस्योपशब्द आदेशो रिल्रिष्टातिलौ प्रत्ययौ भवतः, ठ्ततः पश्चाद्धस्तीऽ इति भाष्यकारप्रयोगात्पञ्चमी॥ एनपा द्वितीया॥ २।३।३१ ॥ एनपा द्वितीया॥ ठ्तत्रागारं धनपतिगृहादुतरेणास्मदीयम्ऽ---स्त्र्यधिकारात्परेण वासरूपविधिनाऽवश्यं भवति, ततः परेण नायमनुवर्तत इत्यादीनां चिन्त्यं साधुत्वम्॥ पृथग्विनानानाभिस्तृतीयान्यतरस्याम्॥ २।३।३२ ॥ पृथग्विनानानाभिस्तृतीयान्यतरस्याम्॥ अन्यतरस्यांग्रहणेन पक्षे यथाप्राप्तस्याभ्यनुज्ञानात् तृतीयया मुक्ते शेषत्वात्पक्षे षष्ठी प्राप्नोति। अथ स्यादनेकार्थत्वा न्निपातानामन्यतरस्यांग्रहणं समुच्चयार्थम्, न विकल्पार्थमिति? एवमप्यनन्तरा द्वितीया समुच्चीचेत। अथापि योगविभागेनास्या अपि सिद्धिः, एवमपि तदनन्तरा षष्ठी समुच्चीयेत न कथञ्चन पञ्चमी, सा चेष्यते, तत्कथमित्याह---पञ्चमीग्रहणमिति। इहेति। न पूर्वयोर्योगयोः मण्डूअकगतयोऽधिकारा भवन्ति, यद्यनुवृत्तिसामर्थ्यात्पञ्चमी, अन्यतरस्यांग्रहणं तर्हि किमर्थम्? समुच्चयार्थम्। तत्र किं समुच्चीयते? इत्यपेक्षायाम् ठ्पञ्चमीग्रहणमिहानुवर्ततेऽ इत्युच्यते। योगविभागः कर्तव्य इति। असत्यपि मुनित्रयवचने प्रयोगबाहुल्यादेवं व्याख्यातम्॥ करणे च स्तोकाल्पकृच्छ्रकतिपयस्यासत्ववचनस्य॥ २।३।३३ ॥ करणे च स्तोकाल्पकृच्छ्रकतिपयस्यासत्ववचनस्य॥ यदा धर्ममात्रमिति। यद्योगाद् द्रव्यं स्तोकादिव्यपदेशमासादयति ते गुणा धर्माः, उभयवचना ह्यएते द्रव्यमाहुर्गुणं च शुक्लादिवत्। यदा गुणवचनास्तदाऽसत्ववचनतेत्यर्थः। क्रियाविशेषणे कर्मणीति। आख्यातेन हि क्रिया साध्यमानावस्थोच्यते---चलति, चलनं करोतीति। अतस्तद्विशेषणं स्तोकादि कर्म भवति---स्तोकं चलनं ,करोतीति। एवं तु विशेष्यवचनस्स्तोकशब्दो द्रव्यवचन इति नात्र प्रसङ्गः। यत्र च फलान्तरं साव्यं प्रति धात्वर्थः करणतया विवक्ष्यते तत्र विशेषणत्वं न स्यात्--शोभनं ज्योतिष्टोमेन स्वर्गकामो यजेतेति। अत्र हि यथा फलभावनायां करणभूतस्य यागस्याभिधायकाद् ज्योतिष्टोमशब्दात् तृतीया भवति, तथा तद्विशेषणाच्छाएभनशब्दादपि स्यात्। अन्यस्त्वाह---संदर्शनप्रार्थनाध्यवसायैराप्यमानत्वात्क्रियायाः कर्मत्वात् तद्विशेषणस्य कर्मत्वं स्यादिति तस्यापि संदर्शनादीनां क्रियायाश्चाभेदविवक्षायां कर्मत्वं न स्याद्, न हि तत्र क्रियायाः कर्मत्वमस्ति॥ दूरान्तिकार्थैः षष्ठ।ल्न्तरस्याम्॥ २।३।३४॥ दूरान्तिकार्थैः षष्ठ।ल्न्तरस्याम्॥ पक्षे पञ्चम्यर्थे वचनम्, षष्ठी तु शेषत्वादेव सिद्धा। यद्योवम्, अन्यतरस्यांग्रहणमनर्थकं षष्ठीमात्रवचने वैय्यर्थ्यादेव प्रकृता पञ्चमी विधायिष्यते, तत्राह---अन्यतरस्यांग्रहणमिति। वचनसामर्थ्याद्धि प्रकृतविधाने विज्ञायमाने तृतीयाया अपि विधिः स्यात्। ननु कृतमप्यन्यतरस्यां ग्रहणं विकल्पार्थम्, समुच्चयार्थ वा; विकल्पार्थे तावत् षष्ठ।ल मुक्ते स्वादिसूत्रेणा प्राप्ताः सर्वा एव विभक्तयः स्युः, समुच्चयार्थेऽपि प्रकृता तृतीया कस्मान्न समुच्चीयते? उच्यते---ठ्पृथग्विनानानभिःऽ इत्यत्र तावद् ठन्यतरस्यांग्रहणेन पञ्चमी समुच्चीयतेऽ इत्युक्तम्, अत इहाप्येकप्रघट्टकत्वात्सैव समुच्चीयते। अत एतदपि न चोदनीयम्---ठन्यतरस्यांग्रहणे प्रकृते पुनरन्यतरस्यांग्रहणं किमर्थम्ऽ इति; तत्रापि हि पक्षे तृतीया स्यात्॥ दूरान्तिकार्थेभ्यो द्वितीया च॥ २।३।३५ ॥ दूरान्तिकार्थेभ्यो द्वितीया च॥ प्रातिपदिकार्थे विधानमिति। अर्थान्तरस्यानिर्द्देशादिति भावः। नन्वनिर्देशेऽप्यर्थान्तरस्य शेषविषये पूर्वविभक्तिविषये च विधानमेतद्यःक्तम्, प्रथमाविषये तु परत्वात्सैव प्राप्तोति? नेष दोषः; उतरत्राप्येतदनुवर्तते, तेनोतरविभक्तिविषयेऽपि सर्वत्र यथाभिधानं भवति। तथा च दूरादावसथान्मूत्रमित्यधिकरणेऽपि भवति----आवसथस्य दूर इत्यर्थः। प्रातिपदिकार्थे विधानमित्येततदाहृतविषयं द्रष्टव्यम्। तथा च---ठ्सत्ववचनेभ्यो यथायथं विभक्तयो भवन्तिऽ इति वक्ष्यति, प्रतिपदिकार्थ एव तु विधाने यथायथमित्यनुपपन्नम्, प्रथमैव भवतीति वाच्यं स्यात्॥ सप्तम्यधिकरणे च॥ २।३।३६ ॥ सप्तम्यधिकरणे च॥ क्तस्येन्विषयस्येति। इन्नन्तः शब्दो विषयो वृत्तिभूमिर्यस्यक्तान्तस्य तस्येत्यर्थः। अधीती व्याकरण इति। अधीतमनेनेति विगृह्य श्राद्धमनेनभुक्तमित्यतोऽनेनेति वर्तमाने ठिष्टादिभ्यश्चऽ इतीनिप्रत्यये कृते तद्धितार्थेन कर्त्रा सहैकीभूतस्याधीतस्य निष्कृष्य व्याकरणादिना सम्बन्धाभावात् क्तप्रत्ययेनानभिहिते व्याकरणादौ गुणभूतयापि प्रकृतिवाच्ययाऽध्ययनक्रिययाऽधीतवान् व्याकरणमितिवत् कर्मतया सम्बन्धमाने कृतपूर्वी कटमितिवद् द्वितीयायां प्राप्तायां सप्तमी विधीयते। इह मासमधीती व्याकरण इति कालकर्मणोर्बहिरङ्गत्वात्सप्तम्यभावः। साधुर्देअवदतो भातरीति। अत्र साधुत्वासाधुत्वयोर्मातापितृविषयत्वेऽपि क्रियाया अभावादधिकरणत्वाभावाद्वचनम्। ठ्साधुनिपुणाभ्याम्ऽ इत्येव सिद्धेऽनर्चार्थमत्र साधुग्रहणम्, तेन तत्वकथनेऽपि भवति। अर्चाग्रहणं तत्र निपुणार्थम्। कथं तर्हि तत्र प्रत्युदाहरिष्यते--अर्चायामिति किं साधुर्भृत्यो राज्ञ इति? उच्यते,राज्ञौ भृत्येन सह शाब्दोऽन्वयः, न साधुना---राज्ञो भृत्यः स साधुरिति। तत्र राजनि वान्यत्र वेति नैतच्छब्देन स्पृश्यते, प्रत्यासत्या तु राजविषयमेव साधुत्वं गम्यत इत्येतावता तं प्रत्युदाहरणं द्रष्टव्यम्। कारकार्हाणामिति। कारकशब्दो भावसाधनः, कारकत्वार्हाणामित्यर्थः। ऋद्धेष्विति। ऋद्धा भोजनक्रियामर्हन्तीति कारकर्हाः, लक्ष्यलक्षणभावाविवक्षायामपि यथा स्यादिति वचनम्। दरिद्रेष्वासीनेष्विति दरिद्रा भोक्तुअं नार्हन्तीत्यकारकार्हाः। तद्विपर्यासे चेति। कारकार्हाणामकारकत्वेऽकारकार्हाणां च कारकत्व इत्यर्थः। निमितात्कर्मयोग इति। यत् क्रियाप्रयोजनं यदर्थः क्रियारम्भस्तत्फलमिह निमितम्, तद्वाचिनः सप्तमी भवति। यदि तस्य निमितस्य कर्मणा कर्तुरीप्सिततमेन सह समवायादिलक्षणः सम्बन्धो भवतीत्यर्थः, तत्र हेतुतृतीयायां प्राप्तायां वचनम्, तत्र हन्तिकर्मणा द्वीप्यादिना चर्मादेर्निमितस्य समवायः सम्बन्धः। चमरीमिति। चमरशब्दाज्जातिलक्षणो ङेष्। पुष्कलकःउशंकुः, स सीम्नि सीमाज्ञानार्थ हतो निखात इत्यर्थः, तेन च निहन्यमानेन शङ्कुना सीम्नः संयोगः सम्बन्धः। कर्मसम्बन्ध इति किम्? वेतनेन धान्यं लुनाति॥ यस्य च भावेन भावलक्षणम्॥ २।३।३७ ॥ यस्य च भावेन भावलक्षणम्॥ इह भूयो दर्शनाश्रयो लक्ष्यलक्षणभावः, यथा---अग्निधूमयोः, ततश्चोदित आदित्ये तमो नष्टम्, उदिते चन्द्रमसि समुद्रः प्रवृद्ध इत्यादावेव स्याद्; त्वग्निषु हूयमानेषु गत इत्यग्निहवनं यदा गमनेन सह पुनः पुनर्न द्दष्टचनं तदा न ततस्य लक्षणमितीह न स्यादित्याशङ्क्याह---प्रसिद्धा च क्रियेति। प्रसिद्धिरेव क्रियायाः क्रियां प्रति लक्षणत्वे उपयुज्यते, न पुनर्दर्शनम्, एतदुक्तं भवति---निर्ज्ञातकाला क्रिया अनिर्ज्ञाताया क्रियायाः सकृदपि कालपरिच्छेदहेतुत्वेनोपाता भवत्येव लक्षणमिति॥ षष्ठी चानादरे॥ २।३।३८ ॥ षष्ठी चानादरे॥ ठनादरेऽ इति पूर्वेण सप्तमी, एतच्च भावलक्षणभावस्य विशेषणम्, यश्चानादरे सति भावलक्षणः, सोऽनादराधिको भवतीत्याह---अनादराधिक इति। अनादरविषिष्टेऽनाद्रियमाण इत्यर्थः। रुदतः प्राव्राजीदिति। पित्रादिकस्ये रोदनमनाद्दत्य प्रव्रज्यां कृतवानित्यर्थः॥ स्वामीश्वराधिपतिदायादसाक्षिप्रतिभूप्रसूतैश्च॥ २।३।३९ ॥ स्वामीश्वराधिपरिदायादसाक्षिप्रतिभूप्रसूतैश्च॥ गवां दायाद इति। दीयत इति दायःउ अंशः, दायमादत इति सोपसर्गादपि दायाद इति निपातनात्कः। गवामित्येतत्समुदायस्य विशेषणमवयवमपि दायांशं स्पृशतीति गवात्मकस्य दायस्यादातेत्ययमर्थो भवति। गवां प्रसूत इति। गा एवानुभवितुं जात इत्यर्थः॥ आयुक्तकुशलाभ्यां चासेवायाम्॥ २।३।४० ॥ आयुक्तकुशलाभ्यां चासेवायाम्॥ आयुक्तो गौः शकट इति। आङीषदर्थे ईषद्यौक्त इत्यर्थः॥ यतश्च निर्धारणम्॥ २।३।४१ ॥ यतश्च निर्धारणम्॥ जातिगुणक्रियाभिरिति। प्रदर्शनमेतत्। अमीषां छात्राणां देवदतः पटुअरिति संज्ञयापि निर्धारणदर्शनात्॥ पञ्चमी विभक्ते॥ २।३।४२ ॥ पञ्चमी विभक्ते॥ विभक्तमस्यास्तीति। निर्द्धार्यमाणात्। एतदुक्तं भवति---निर्द्धार्यमाणस्य निर्द्धारणाश्रयस्य च विभागे सति निर्द्धारणं भवति, ततश्च सर्वत्रैव निर्द्धारणाश्रये विभक्तमस्तीति सामर्थ्यादवधारणमाश्रीयते---यस्मिन्निर्धारणाश्रये विभाग एव, न केनचिदात्मभाव इति। तेन गवां कृष्णेत्यादौ यद्यपि गोमण्डलात्कृष्णा गौः पृथक् क्रियते, तथापि गवात्मनान्तर्भावोऽस्तीति न भवति। उदाहरणे चु माथुपाटलिपुत्रेषु प्राणित्वेनान्तर्भावेऽपि शब्दोपाताकारापेक्षयानन्तर्भावाद्विभाग एव भवति। प्रत्याख्यातं चैतत्सूत्रमपादानप्रकरणे--- बुद्ध्या समीहितैकत्वात्पञ्चालान् कुरुभिः पृथग्। यदाः विभजते वक्ता तदाऽपायः प्रतीयते॥ इति॥ साधुनिपुणाभ्यामर्चायां सप्तम्यप्रतेः॥ २।३।४३ ॥ साधुनिपुणाभ्यामर्चायां सप्तम्यप्रतेः॥ साधुशब्दः ठ्कृवापाजिमिऽ इत्युणन्तः, ठ्पुण कर्मणि शुभेऽ इत्यस्मान्निपूर्वात् ठिगुपपधऽ इति के, निपुण इति भवति। ठर्च भाव्यम्ऽ इत्यस्माद्भौवादिकात्ठ्गुरोश्च हलःऽ इत्यकारः, चौरादिकातु युचा भाव्यम्। अप्रतेरित्यत्र प्रयोग इत्यध्याहार्यम्, तदाह---न चेत्प्रतिः प्रयुज्यत इति साधुर्मृत्यो रा५ इति। पूर्वमेवैतद् दूषितमुपपादितं च। निपुणः पुत्रो मातुरिति तु ततत्वकथने न्याय्यं प्रत्युदाहरणम्॥ प्रसिदोत्सुकाभ्यां तृतीया च॥ २।३।४४ ॥ प्रसिदोत्सुकाभ्यां तृतीया च॥ ठ्षिञ् बन्धनेऽ प्रकर्षेण बद्धःऊउप्रसितः, तदाह---यस्तत्रनित्यमवबद्ध इति नित्यमित्यनेन प्रशब्दस्यार्थमाचष्टे। अवबद्ध इवावबद्धः, यो हि यत्र प्रसक्तः स तत्रावबद्ध इव भवतीति भावः। तेन प्रकषण मितः शुक्लतर इत्यस्य ग्रहणं न भवतीति प्रदर्शितं भवति। केशेषु प्रसित इति। तत्पर इत्यर्थः। नक्षत्रे च लुपि॥ २।३।४५ ॥ नक्षत्रे च लुपि॥ नक्षत्रे प्रकृत्यर्थे सति यो लुप्संज्ञया लुप्यमानस्य प्रक्ययस्यार्थस्तत्र वर्तमानादिति सूत्राक्षरान्वयः। यच्चोच्यते---नक्षत्रे लुपीतित पञ्चम्यर्थे सप्तमी लुबन्तान्नक्षत्रवाचिन इत्यर्थ इति, तत्रोतराभ्यां फल्गुनीभ्यां नोतरा गच्छेदिति विशेषणान्नस्यात्, तस्यालुबन्तत्वात्। कथं तर्हि लुबन्तान्नक्षत्राभिधायिनः शब्दादिति वृत्तिः? प्रायोवृत्यैतदुक्तम्---लुबन्तार्थाभिधायी प्रायेण लुबन्तो भवति। लुबर्थाभिधायिनः शब्दमात्रादित्यर्थः। लुबन्तादिति। लुबन्ते समाप्तावस्येति बहुव्रीहिः, स्थानिर्वारकं च लुपोऽन्त्यावयवत्वं द्रष्टव्यम्। अधिकरण इति वर्तत इति। एवं च पुष्पं प्रतीक्षते, पुष्पाय स्पृहयति, पुष्पस्य समीप इत्यादावपि न भवति॥ प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा॥ २।३।४६ ॥ प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा॥ प्रातिपदिकाथः सतेति। अत्र जिघृक्षितस्येदं लक्षणम्, न प्रातिपदिकार्थमात्रस्य; गौः, शुक्लः, पाचकः, डित्थ इत्यादावसम्भवात्। योऽर्थः सन्नेव केवलं न जात्यादिरूपो न लिङ्गसंख्याकारकशक्तियोगी, स इह प्रातिपदिकार्थत्वेन विवक्षितः, यथा---अव्ययार्थ इत्यर्थः। अव्ययार्थो हि केवलमस्तीति शक्यते वक्तुम्, न पुनरीद्दशस्ताद्दश इति। गौः शुक्ल इत्यादौ तु सत्वरूपेऽर्थे लिङ्गग्रहणादेव सिद्ध्यतीति भावः। अन्ये त्वाहुः----अन्वयव्यतिरेकाभ्यां यस्य योऽर्थः प्रतीतो यमर्थं प्रातिपदिकं न व्यभिचरति येन विना प्रातिपदिकस्याप्रयोगः, स सर्वः प्रातिपदिकार्थः। सताग्रहणं तूपलक्षणम्, तेन सता गोत्वं शोक्ल्यं शुक्लो गुणः पाचको डित्थो गौः शुक्ल इत्यादिकमप्युदाहरणमिति। नन्वत्र सर्वत्र लिङ्गग्रहणादेव सिद्धम्, न; मात्रग्रहणं क्रियते, तच्चावधारणार्थम्, पयोमात्रं व्रतयतीतिवत्। ततश्च स्त्री पुमान्नपुंसकमित्यादावेव तु स्याद्---यत्र लिङ्गमेवार्थः, सतेत्यादौ तु जात्याद्यविकार्थसद्भावान्न स्यात्। अथ कन्यामात्रं वरयतीतिवन्मात्रशब्दस्य व्याप्तिवचनत्वाल्लिङ्गमात्रे प्रथमा लिङ्गमस्तीत्येव प्रथमा भवतीति व्याख्यानादधिकार्थसद्भावेऽपि प्रथमा भवतीति? उच्यते---हन्तैवं वृक्षं पश्येत्यादौ कर्मादिसद्भावेऽपि चलिङ्गमस्तीत्येव प्रथमा स्यात्; कर्मण्येव द्वितीयेत्यस्मिन्प्रत्ययनियमपक्षे कर्मादीनां द्वितीयादिष्वनियतत्वात्! वचनमेकत्वादीति। पूर्वाचार्यप्रसिद्धेरिति भावः। उच्चैरिति। अत्र प्रथमायां सत्यां ग्राम उच्चैस्तव स्वमित्यादौ ठ्सपूर्वायाः प्रथमाया विभाषाऽ इति तेमयादिविकल्पो भवति, पदत्वं तु षठ।लपि सिद्धम्, यस्मिन् ह्यर्थे द्वितीयादयो न विहिताः स शेषः। नन्वसङ्ख्यत्वादव्ययार्थस्य कथं षष्ठी स्यात्? एकत्वाद्यर्थनियमे षठयाः सङ्ख्यायामनियतत्वात्, प्रत्ययनियमेऽपि तुल्यजातीयापेक्षत्वान्नियमस्यैकत्वादिभिः परस्परमेव व्यावर्तनात्। विधिवाक्यपक्षे तु स्वादिसूत्रेण भिन्नवाक्यस्य ठ्बहुषु बहुवचनम्ऽ इत्यादेः सङ्ख्यासम्भवे विध्यर्थत्वात्। ननु ङ्याप्प्रातिपदिकात्स्वादयो विधास्यन्ते, तत्रार्थे प्रथमेत्युक्ते कस्यार्थ इत्यपेक्षायां यस्मात्स्वादिविधिस्तदर्थ इति विज्ञास्यते, नार्थः प्रातिपदिकग्रहणेन,तत्रायमप्यर्थः---लिङ्गग्रहणं न कर्तव्यं भवति कुमारी सीमेत्यादावप्यत एव सिद्धम्, प्रातिपदिकग्रहणे तु क्रियमाणे सीमादिशब्दानां स्त्रीयुक्तार्थाव्यभिचारेऽपि प्रत्ययान्तत्वेनाप्रातिपदिकत्वातदर्थे प्रथमासिद्ध्यर्थं लिङ्गग्रहणं कर्तव्यं स्यात्? उच्यतेप्रातिपदिकग्रहणं तावदर्थपदेनासम्बद्धमित्यत्रैव वक्ष्यते, लिङ्गहणमनेकलिङ्गार्थम्--तटः, तटम्, तटी; कुमारः, कुण्डम्, कुण्डः, कुण्डिका; अन्यथा येनार्थेन विना प्रकृतेरप्रयोगस्तदर्थमात्रे विधीयमाना प्रथमा नानालिङ्गेभ्यस्ततद्विशेषमन्तरेण प्रयुज्यमानेभ्यो न स्यात्। अथ मात्रग्रहणमकृत्वा व्याप्तिवचनं वाङ्गीकृत्याधिकार्थसद्भावेऽपि प्रकृत्यर्थस्यान्वय इति स्यात्? यद्येवम्, वृक्षं पश्येत्यादौ कर्माद्याधिक्येऽपि स्यात्प्रत्ययनियमपक्षे, तदिह वृतौ कुमारी, कुण्डमित्युदाहरणम्, वृक्षशब्दस्त्वर्थादुदाहृतः। ननु मा भून्मात्रग्रहणम्, मा च भूल्लिङ्गग्रहणम्, मा च कारि ठ्संबोधने चऽ इति सूत्रम्, सर्वत्रार्थ इत्येव प्रथमा भविष्यति; न चैवं कर्मादिष्वपि प्रसङ्गः, कर्मणि द्वितीयेवेत्येवमर्थनियमस्याश्रयणात्? एवमपि ठ्राज्ञः पुरुषःऽ इति षष्ठ।ल्र्थेऽपि स्यात्, शेषलक्षणा हि षष्ठी, उपयुक्तादन्यश्च शेषः, तत्र यदि प्रकृत्यर्थस्याधिक्येऽपि प्रथमा स्यात्। ततस्तस्यापि प्रथमाविधावुपयुक्तत्वात्षष्ठी न स्यात्। अथ वचनसामर्थ्यात्स्वस्वामिभावादौ षष्ठी भवन्ती लिङ्गाधिकोऽपि स्याद्। अतो मात्रग्रहणं तावत्कर्तव्यम्, तस्मिंश्च क्रियमाणे लिङ्गग्रहणम्, ठ्संबोधने चऽ इति सूत्रं च कर्तव्यम्; तदाधिक्येऽपि यथा स्यादिति। परिमाणग्रहणं किमिति। अर्थ इति वा लिङ्ग इति वा सिद्धिं मन्यते। द्रोणः, खारीति। अयं भावः----येनार्थेन विना प्रकृतेरप्रयोगस्तस्मिन्नर्थे प्रथमा। द्रोणादयश्च लौहं दारुमयं परिमाणमेवार्थ न व्यभिचरन्ति। यदा तु द्रोणादिपरिमिते व्रीह्यादौ वर्तन्ते तदा तस्य व्यभिचारित्वान्न स्यात्। न च लिङ्गग्रहणादपि सिद्धिः----तदाधिक्यमात्रे हि तेन स्यादिति, परिमाणग्रहणं चोन्मानादीनामुपलक्षणम्, तेन घृतं पलमित्यादावपि भवति। अथ लवणेन संसृष्टः, लवणः सूपः, लवणं शाकमित्यत्र कथं प्रथमा, लवणशब्दो हि लवणजातीयमेव द्रव्यं न व्यभिचरति, व्यभिचरति तु संसृष्टम्? उच्यते---साधारणशब्दोऽयम्, लवणजातीयस्य संसृष्टस्य चाक्षादिशब्दवत्। एवं च ठ्लवणाल्लुक्ऽ इति वचनाद्विज्ञायते। तत्र यथा दधिदादिकशब्दयोः प्रथमा भवत्येवमत्रापि भविष्यति। इह तर्हि कथं शुक्लः पट इति, शुक्लशब्दो गुणमेव न व्यभिचरति, व्यभिचरति तु तद्वन्तम्, पटस्य शुक्ल इति दर्शनात्? अत्रापि ठ्गुणवचनेभ्यो मतुपो लुग् वाच्यःऽ इति वचनात्साधारणशब्दतैव। इह तर्हि कथं गौर्वाहीक इति, गोशब्दो हि सास्नादिमन्तमेव न व्यभिचरति, व्यभिचरति तु वाहीकम्? अत्रापि वाहीके सास्नादिमद्रूपारोपाद्रोशब्दः प्रयुज्यते, तत्र यथा सास्नादिमद्वृतेर्भवत्येवं वाहीकवृतेरपि भविष्यति। यद्येवम्, द्रोणः खारीत्यादावप्येवमेव भविष्यति, लवणादिशब्दवत्साधारणशब्दाः स्युः गौर्वाहीक इत्यादिवद्रौणा वा, गङ्गायां घोष इतिवल्लाक्षणिका वा; नान्या गतिरस्ति, सर्वथा सिद्धा प्रथमा। किं च परिमेयवृत्तिभ्यो द्वितीयादयो यथा भवन्ति तथा प्रथमापि भवति। अथ प्रस्थेन परिमिता व्रीहय इत्येवं प्रातिपदिकार्थव्यतिरेकेऽपि यथा स्यादिति परिमाणग्रहणम्। यद्येवम्, प्रस्थेनेति तृतीया न स्यात्, शेषविवक्षायां च षष्ठी न स्यात्, प्रास्तिक इति तद्धितश्च न स्यात् तदेतत्परिमाणग्रहणं चिन्त्यप्रयोजनम्। उक्तेष्वपीति। अन्यथानभिहिताधिकारात् ठ्बहुषु बहुवचनम्ऽ इत्यादिनास्यैकवाक्यत्वातिङ्कृतद्धितसमासैरिति परिगणनस्य प्रत्याख्यातत्वादेकादिशब्दैरेकत्वादीनामभिहितत्वादुक्तार्थत्वाद् वा न स्यादिति भावः। एकः द्वो बहव इति। अथ कथमेकं कृतमित्यादौ द्वितीयादयो भवन्ति, न हि तत्र कश्चिद्यत्नोऽस्ति? उच्यते, तत्रार्थद्वयमस्ति---कर्मादयः, एकत्वादयश्च। तत्रैकत्वादीनामभिधानेऽपि कर्मादिप्रतिपादनाय द्वितीयादयो भविष्यन्ति; इह त्वनभिहितार्थान्तराभावान्न स्यात्। नन्वत्राप्येकादिभिः शब्दैरेकत्वादिविशिष्ट्ंअ द्रव्यमभिधीयते तत्रैकत्वादिगुणस्य निष्कृष्याभिधानाय प्रथमा भविष्यति, यथा गुणोपसर्जनद्रव्यवचनाच्छुक्लादिशब्दात्प्रवृत्तिनिमितभूतस्य गुणस्य निष्कृष्याभिधाने भावप्रत्ययः---पटस्य शौक्लमिति। तदेवं वचनग्रहणमपि शक्यमकर्तुम्। प्रातिपदिकग्रहणं किमिति। उक्तोऽत्र प्रष्टुअरभिप्रायः। निपातस्यानर्थकस्येति। अन्यथार्थाभावान्न स्यादिति भावः। प्रलम्बत इति। किं पुनरत्र प्रथमया प्रार्थ्यते? पदत्वम्; षष्ठ।लमप्येतत्सिद्धम्, तथा हि--कर्मादिषु द्वितीयादयो विहिताः प्रक-त्यर्थमात्रे प्रथमा, तत्र प्रकृत्यर्थाभावे स्वस्वामिभाबादिर्सबन्धसद्भावे चापयुक्तादन्यत्वात्सिद्धा षष्ठी। न च तस्या एकत्वादिषु नियमः; उक्तोतरत्वात्। तदेवमर्थलिङ्गमात्रे प्रथमेत्येतावदेवावश्यं कर्तव्यम्, मात्रग्रहणमपि न कर्तव्यम्। कर्माद्याधिक्ये कस्मान्न भवति? ज्ञापकात्, यदयम् ठ्संबोधने चऽ इत्याह। यदि ह्याधिक्येऽपि स्यातदनर्थर्क स्यात्। उतरार्थे हि ठ्संबोधने सामन्त्रितम्ऽ इत्येव वक्तव्यं किं योगविभागेन! इहावधारणार्थान्मात्रग्रहणात् ठ्संबोधने चऽ इति ज्ञापकाद्वाऽऽधिक्ये प्रथमया न भवितव्यम्, ततश्च ठ्वीरः पुरुषःऽ इत्यादौ पदसामानाधिकरण्ये विशेषणविशेष्यभावस्याधिकार्थस्य प्रतीतेः प्रथमा न प्राप्नोति, न; वाक्यार्थत्वात्। यदत्राधिक्यं स वाक्यार्थः, पूर्व स्वार्थमात्रनिष्ठाभ्यामुभाभ्यां प्रथमा विधीयते, पश्चात्वाकांक्षावशेनान्योन्यान्वये विशेषावगतिरुपजायमाना बहिरङ्गत्वात्प्रथमप्रवृतं संस्कारं न बाधत इत्यर्थः। अपर आह---अभिहिते प्रथमेति लक्षणं कर्तव्यम्, तिङदिभिरभिहिते कर्त्रादौ वृक्षस्तिष्ठति, कृतः कटः, शत्यः, प्राप्तोदको ग्राम इत्यादौ प्रथमा भवतीत्यर्थः, तत्र वीरः पुरुषः इत्यादावाधिक्येऽप्यभिहितत्वात्सिद्धा प्रथमेति। अत्र को दोषः? यत्र क्रिया नास्ति तत्र न स्यात्---वृक्षः, प्लक्षः। तत्रापि क्रियाऽस्ति, कथम्? वृक्षः प्लक्षः, अस्तीति गम्यते। इह तर्हि प्रासाद आस्त इति सदिक्रयायाः, आसिक्रियायाश्चैकमधिकरणं प्रासादाख्यम्, तच्च सदिप्रत्ययेन घञाभिहितं प्रसीदत्यस्मिन्प्रासाद इति आसिप्रत्ययेन तिङनभिहितम्, तत्र सदिप्रत्ययेन यदभिधार्न तदाश्रया प्रथमा प्राप्नोति। यत्र च विशेषणसंबन्धे तात्पर्यम्---नीलमुत्पलं न रक्तमिति, तत्रापि न स्यात्; क्रियाया अभावात्। अन्यस्त्वाह---तिङ्समानाधिकरणे प्रथमेति लक्षणं तिङ्न्तेन यत्समानाभिधेयं देवदतः पचतीति, तत्र प्रथमा; प्रासाद आस्त इत्यत्र तु वैयधिकरण्यातदभावः, वीरः पुरुष इत्यादौ चाधिक्येऽपि तिङसामानाधिकरण्यं प्रति योग्यत्वाद्भवतीति। अत्र को दोषः? देवदतः पचतीति देवदतः पच् लट् इति स्थिते यावतिङमुत्पत्तिर्नास्ति तावतिङसामानाधिकरण्याभावात्प्रथमैवेति नियमस्याप्रवृतौ देवदतशब्दादविशेषेण विहिताः स्वादयः स्थिता इति शतृशानचोर्निमितस्याप्रथमासामानाधिकरण्यस्य विद्यमानत्वातावेव स्याताम्, तिङं त्वाभावः स्यात्। न च तिङ्विधेरानर्थक्यम्; तिडादिषु सावकाशत्वात्। प्रथमैवेति। नियमस्यापि स एव विषयः स्यादिति दोष। पक्षे चायं दोषः, कतरस्मिन् पक्षे? ठ्लटः शतृशानचौऽ इत्यत्र द्वौ पक्षौ--अप्रथमेति पर्युदासः, प्रसज्यप्रतिषेधो वेति। तथा ठ्कर्मणि द्वितीयाऽ इत्यादावपि प्रकरणे द्वैतं भवति--विभक्ति नियमः स्यात्, अर्थनियमो वेति; तद्यदार्थनियमः पर्युदासश्चाश्रीयते तदाऽयं दोषः। कथम्? अर्मणि द्वितीयेवेत्यस्मिन् नियमे द्वितीयादीनामनियतत्वात् प्रातिपदिकार्थमात्रेऽपि भावातदाश्रयौ शतृशानचौ प्राप्नुतः, प्रसज्यप्रतिषेधे तु प्रथमाया अपि तत्र भावातदाश्रयः प्रतिषेधः प्रतिषेधः प्रवर्तत इति न दोषः; शतृशानचोरभावातिङ्क्षु सत्सु तत्सामानाधिकरण्यात्प्रथमैवेति नियमेन द्वितीयादीनां व्यावर्तितत्वात्। यदा तु द्वितीयादीनां कर्मादिषु नियमः---कर्मण्येव द्वितीयेति, तदा तदभावे तासामभावादनियतायाश्च प्रथमायाः सन्निधानात्पर्युदासे प्रसज्यप्रतिषेधे च नास्ति शतृशानचोः प्रसङ्गः; तदभावे च तिड्भु सत्सु तत्सामानाधिकरण्यातत्रैव प्रथमा भवतीति नियमेन कर्मादिषु प्रथमाव्यावृत्तिरिति न दोषः। ननु च विभक्तिनियमे कर्माद्यभावेन यद्यपि द्वितीयादीनां तत्राभावस्तथापि शेषषष्ठी प्राप्नोति, तथा हि---यदि तिङसामानाधिकरण्य एव प्रथमेत्यस्मान्नियमात्प्रागेव द्वितीयादिवत् षष्ठ।ल्पि नियता स्यात्? स्यातत्राप्रसङ्गस्तस्याः। सा तु शेषलक्षणा। यत्र च विभक्त्यन्तरस्य नियमो न कृतः स शेषः, ततश्च तिङसामानाधिकरण्यात्प्राक् शेषत्वात् षष्ठी प्राप्नोतीति तत्समानाधिकरण्याच्छतृशानचावेव स्याताम्। पर्युदासे प्रसज्यप्रतिषेधे तु न दोषः, प्रथमाया अपि भावात्? सत्यम्; द्वयोरपि पक्षयोः पर्युदासे भवत्येव दोषः। भाष्ये तु विभक्तिनियमे पर्युदासेऽपि न दोष इत्यनास्थावादः पाक्षिक एष दोष इत्यत्रैव तात्पर्यम्। क्षन्तव्यं च किञ्चिदुद्ग्रन्थाभिधानमित्युपरम्यते॥ सम्बोधने च॥ २।३।४७ ॥ सम्बोधने च॥ आभिमुख्यकरणमिति। यद्वस्तु येनाकारेण सिद्धं तस्य तेनाकारेणाभिमुखीकरणं सम्बोधनम्, न त्वेकश्रुतिविधाविव कस्यचिदर्थस्यानुष्ठेयता प्रत्यायनम्; वाक्यार्थो हि सः। अभिमुखीकरणं तु न वाक्यार्थः, येन वीरः पुरुष इत्यादिवद्यदत्राधिक्यं स वाक्यार्थ इति प्रथमा सिद्ध्येत्। यस्य पदान्तरसंप्रयोगे सत्येव प्रतीतिः स वाक्यार्थः। इह तु देवदतेत्येतावत्युक्ते आभिमुख्यकरणं गम्यते, अतः पदार्थ पदार्थ एवात्राधिक्यमिति षष्ठ।लं प्राप्तायामिदं वचनं तदाह---तदधिके प्रातिपदिकार्थ इति। असिद्धेन चाकारेणाभिमुखीकरणं न संभवति---राजा भव युध्यस्व स्वाहेन्द्रशत्रुर्वर्द्धस्वेति। हे पचन् हे पचमानेत्यादौ शतृशानचोः संबोधने विधानेऽपि विभक्तिरहितयोस्तयोः कर्त्राद्यभिधान एव सामर्थ्यम्; यथा लोटो द्विर्वचननिरपेक्षस्येत्यनेन प्रथमा भवति। यद्वा---अभिहितः सोऽर्थोऽन्तभूतः प्रातिपदिकार्थः संपन्न इति पूर्वेण भविष्यति, योगविभाग उतरार्थः॥ साऽऽमन्त्रितम्॥ २।३।४८ ॥ सामन्त्रितम्॥ तदन्तं यच्छब्दरूपमिति। महासंज्ञाकरणमन्वर्थसंज्ञाविज्ञानार्थम्--आमन्त्रणमामन्त्रितमिति। अभेदोपचारातत्साधने शब्दे वर्तते विभक्त्यन्तेन केवलया संज्ञाविधौ प्रत्ययग्रहणे तदन्तस्य ग्रहणमिति भावः। उदाहरणेषु ठामन्त्रितस्य चऽ इत्याद्यौदातत्वं भवति, सेति वचनं प्रातिपदिकार्थसूत्रेणापि संबोधने विहिता या प्रथमा तदन्तस्यापि संज्ञा यथा स्यात्---हे पचन्! हे पचमान!;असति तु तस्मिन् ठनन्तरस्य विधिर्वा प्रतिषेधो वाऽ इत्यनन्तरसूत्रविहिताया एव स्यात्॥ एकवचनं संबुद्धिः॥ २।३।४९ ॥ एकवचनं संबुद्धिः॥ हे पटो इति। संबुद्धौ च ठ्ह्रस्वस्य गुणःऽ इति गुणः, ठ्सुः संबुद्धिःऽ इति वक्तव्ये एकवचनग्रहणमेकोऽर्थ उच्यते येन तावन्मात्रस्य प्रत्ययस्य संज्ञार्थम्; अग्न्यथा प्रक्रमाभेदाय तदन्तस्य स्यात्॥ षष्ठी शेषे॥ २।३।५० ॥ षष्ठी शेषे॥ उपयुक्तादन्यः शेषः, कर्मादयश्च प्रातिपदिकार्थपर्यन्ता उपयुक्ता इत्याह---कर्मादिभ्योऽन्य इति। ननु न कर्मादिभ्योऽन्यः प्रातिपदिकार्थस्य व्यतिरकः संभवति, कथम्? क्रियामन्तरेण संबन्धानुपपतेः, सर्वत्र स्यास्तन्निमितानां कर्मादीनां चावश्यम्भावात्। तथा हि---राज्ञः पुरुष इति राजा कर्ता; राजा द्रव्यं पुरुषाय ददातीत्यर्थसंप्रत्ययात्। वृक्षस्य शाखेति। लोकप्रसिद्ध्या वृक्षोऽधिकरणम्, तार्किकप्रक्रियया तु शाखा। देवदतस्य गौरित्यादौ तु प्रतिग्रहणादौ कर्तृत्वं प्रतीयते---देवदतः प्रतिग्रहीता क्रेता विनिमाताऽपहर्ता वेति; उच्यते, नटस्य शृणोतीत्यत्र तावत्क्रियाकारकसंबन्धरूप एव शेषः, कथम्? ठाख्यातोपयोगेऽ इत्युपयोगग्रहणान्नटस्यापादनसंज्ञा नास्ति, दुह्यादिपरिगणनाच्चाकथितत्वेऽपि कर्मसंज्ञा नास्ति, तदयं नटः कारकमेव शेषः। यच्चोक्तम्---क्रियायास्तन्निमितानां च सर्वत्र भावान्नान्यः प्रातिपदिकार्थस्य व्यतिरेक इति, तन्न;प्रतिग्रहक्रयादिजन्यस्य सर्वलोकप्रसिद्धस्य स्वस्वाभिभावादिसंबन्धस्यापि दुरपलापत्वात्। यदि च परस्परमुपकार्योपकारकभावे संबन्धानुपपतेः क्रियाकारकसंबन्धोऽपि सर्वत्र वस्तुस्थित्याऽस्तीत्युच्येत्, अस्तु तथा, न कश्चिद्दोषः; न हि यद्यद्वस्तुस्थित्यास्ति ततदभिधातव्यम्, यदेव तु विवक्षितं तदेव स्वनिमितां विभक्तिं प्रसूते। तत्र स्वस्वामिभावादिसंबन्धविवक्षायां सन्नपि क्रियाकारकसंबन्धो न विवक्ष्यत इति द्वितीयाद्यभावे षष्ठी भविष्यति। एवं च मातुः स्मरति, न माषाणामश्नीयात्, अनुकरोति भगवतो नारायणस्येत्यादौ श्रूयमाणेऽपि क्रियाशब्दे मातृसंबद्धं स्मरणमिति संबन्धमात्रं विवक्षितम्, कर्मत्वं तु सदप्यविवक्षितमिति षष्ठी भवति। उक्तं च--- संबन्धः कारकेभ्योऽन्यः क्रियाकारकपूर्वकः। श्रुतायामश्रुतायां च क्रियायां सोऽभिधीयते॥ इति॥ ठ्षष्ठी शेषेऽ इति चेद्विशेष्यस्य प्रतिषेधः स्वस्वामिभावादिसंबन्धः षष्ठ।ल्र्थः, स च द्विष्ठः। तत्र यद्यप्येकस्मादप्युत्पन्नयापि षष्ठ।ल द्विष्ठस्यापि संबन्धस्यावगमादुभाभ्यां षष्ठी न भवति, तथापि कदाचिद्विशेष्यादपि प्राप्नोति, प्रथमा च न प्राप्नोति; संबन्धस्याधिकस्य भावात्, न वा वाक्यार्थत्वात्। यदत्र पुरुषस्याधिक्यं स वाक्यार्थः, राज्ञ इत्येतत्पदसन्निधानात्पुरुषस्य संबन्धः प्रतीयते, पुरुषप्रातिपदिकं तु स्वार्थमात्रे वर्तत इति तत्र प्रथमा च भविष्यति, षष्ठी च न भविष्यतीति। एतदुक्तं भवति---राज्ञ इति केवलपद उच्चार्यमाणे संबन्धित्वमनियतप्रतियोगिकमवगम्यते, पुरुषपदसन्निधौ तु सविशेषस्य प्रतीतिरित्येतावत्, ततश्चानियतं स्वमपेक्ष्य प्रथममेव संबन्धाश्रया षष्ठी भवति। ननु च षष्ठयुच्चारणानुच्चारणकृतो यो विशेषोऽङ्ग भवान् पुरुषपदादपि षष्ठीमुच्चारयतु, गंस्यते स विशेषः? नैतत्सुष्ठूअच्यते, न हि शब्दस्य भावाभावाभ्यामर्थस्य भावाभावौ क्रियेते, किं तर्हि? विद्यमान एवार्थः प्रतिपिपादयिषितश्च वाचकपदप्रयोगे हेतुर्भवति। तत्र गुणस्य परोपकाकत्वेन विवक्षितत्वातदन्ते षष्ठी भवति, पुरुषस्य तूपकार्यत्वात्वात्स्वनिष्ठत्वेन विवक्षितत्वात्प्रथमा भवति। तत्र च संबन्धो गुणे पदं निधाय प्रधानमपि स्पृशति, गुणश्च प्रधानोपकाराय प्रवृतोऽन्यथानुपपते रूपान्तरमाश्रयति। प्रधानं तु स्वनिष्ठत्वेन न रूपान्तरं भजते, उक्तं च---- द्विष्ठोऽप्यसौ परार्थत्वाद् गुणेषु व्यतिरिच्यते। तत्राभिधीयमानः सन् प्रधानेऽप्युपयुज्यते॥ इति। यदा तु पुरुषस्याप्रधान्यं राज्ञश्च प्राधान्यं विवक्ष्यते, तदा पुरुषस्य राजेत्यपि भवत्येव; यदा च राज्ञः पुरुषस्य गृहमिति तत्पुरुषस्य गृहादिसंबन्धो विवक्ष्यते तदैकस्यापि वस्तुनो भिन्नविषयो गुणप्रधानभावो न विरुद्ध्यत इति द्वाभ्यामपि षष्ठी भवति। राज्ञ इति हि षष्ठ।ल राजपुरुषयोरेव संबन्धोऽभिहितः, न पुरुषस्य गृहस्य च। इह पञ्चके प्रातिपदिकार्थे ठ्कर्मणि द्वितीयाऽ इत्यादौ चार्थनियमपक्षे शेषग्रहणं शक्यमकर्तुम्, कथम्? कर्मादयो नियताः, शेषोऽनियतः, ततश्च स्वादिसूत्रेण द्वितीयादिषु षष्ठ।लं च शेषे प्राप्तेषु षष्ठीत्येतावदप्युच्यमानं नियमार्थं सम्पद्यते---षष्ठ।लेव भवतीति। यत्र च षष्ठी च प्रत्ययान्तरं च प्राप्नोति तत्रैवंविदधो नियम इत्यर्थाच्छेष एव भविष्यतीति उतरार्थमेव तदवश्यं शेषग्रहणं कर्तव्यम्। त्रिकपक्षे तु स्वार्थे षष्ठी मा भूदिति द्वितीयादीनामिव कर्मादिः शेषो वाच्यत्वेन विधातव्यः। तथा प्रत्ययनियमपक्षे कर्मादीनामनियतत्वातेष्वपि षष्ठ।लं प्राप्तायां शेष एव षष्ठी न कर्मादिष्विति षष्ठीनियमार्थं शेषग्रहणं कर्तव्यम्॥ ज्ञोऽविदर्थस्य करणे॥ २।३।५१ ॥ ज्ञोऽविदर्थस्य करणे॥ असंदेहार्थं विदर्थस्य ज्ञः करण इत्येव वक्तव्ये तदकरणादविदर्थस्येति पदच्चेदः, लुग्विकरणश्च विदिर्गृह्यते तदर्थ एव जानातेर्वृत्तिसंभवात्, तदाह---अविदर्तस्याज्ञानार्थस्येति। सर्पिषो जानीत इति। ठपह्नवे ज्ञःऽ ठकर्मकाच्चऽ इत्यात्मनेपदम्। प्रवृत्तिवचन इति ज्ञानपूर्विकायां प्रवृतौ वर्तमान इत्यर्थः। सर्पिषि रक्त इति। रागो मिथ्याज्ञानस्य हेतुः, द्रौपद्यां रक्तो हि कीचको रहसि भीमसेनमालिङ्ग्यावोचद्---अहो उतमाङ्गनामीद्दशी सुस्पर्शतेति। प्रतिहितो वेति। प्रतिघातो द्वेषस्य हेतुः, द्वेषश्च मिथ्याज्ञानस्य हेतुः, यो हि परिहासशीलेन केनचित्पूयादिकमशुचि द्रव्यं निर्द्दिश्योक्तः----सर्पिरेतत्पिबेति, स तत्र प्रतिहतस्तत आरभ्य सर्पिद्वेष्टि, द्विषतश्चातस्मिन्नपि तज्ज्ञानमुत्पद्यते। यदि सर्वमेव ग्राह्यम्, तदात्मना सर्पिः स्वभावतया प्रतिपद्यते, एवं सत्यविदर्थत्वं नोपपद्यते तत्राह--मिथ्याज्ञानमेवेति। ज्ञानकार्याकरणादिति भावः। अविप्लुतविषयपरिच्छेदो हि ज्ञानकार्यम्, तच्च मिथ्याज्ञानेन न क्रियते, अस्मिन्पक्षे उदकादिकर्मणासकर्मकत्वाद् ठकर्मकाच्चऽ इत्यात्मनेपदानुपतेः परस्मैपदमुदाहार्यं मन्यते॥ अधीगर्थदयेशां कर्मणि॥ २।३।५२ ॥ अधीगर्थदयेशां कर्मणि॥ ठिक् स्मरणेऽ ककारोऽत्रैव विशेषणार्थः, अधिपूर्वस्यैवोच्चारणमेवमेवायं प्रयोक्तव्य इति ज्ञापनार्थम्। शेषत्वेन विवक्षित इति। ननु शेषत्वेन विवक्षिते पूर्वेणैव सिद्धा षष्ठी, यथा---न माषाणामश्नीयाद्, अनुकरोति भगवतो नारायणस्येति? सत्यम्, प्रकरणं तु नियमार्थम्----अस्मिन्विषये षष्ठी भवत्येव श्रूयत एव न लुप्यत इति। किं कृतं भवति? समासो निवर्तितो भवति---मातुः स्मरणमिति। एवं पूर्वसूत्रे परत्र च प्रकरणे सर्वत्र द्रष्टव्यम्। समासे सति ठ्सुपो धातुप्रातिपदिकयोःऽ इति षष्ठी लुप्येत, तेन प्रतिपदविधानषष्ठी न समस्यत इति सिद्धं भवति। कथं तर्हि विशेषस्मृतेः संशय इति समासः? उच्यते; शेषष्ठ।ल एव समासनिषेधः इह तु ठ्कर्तृकर्मणोः कृतिऽ इति कर्मरूपविवक्षायामेव षष्ठी समासो भविष्यति। कः पुनरत्र विशेषः---शेषषष्ठयाः समासः स्यात्, कारकषष्ठ।ल वा? अयमस्ति विशेषः---कारकषष्ठयाः समासे कृत्स्वरो भवति, शेषषष्ठयाः समासे तु समासान्तोदातत्वं स्यात्, अन्तोदातसमासनिवृतये प्करणम्। यत्र च कारकषष्ठी प्रतिषिध्यते, यथा---मातुः स्मृतमिति, तत्र समासोऽपि मा भूत्। एवं चात्र प्रकरणे येऽनुपाताः, यानि चात्र प्रत्युदाहरणानि, तेषूभयेष्वपि निष्ठायोगे शेषषष्ठयाः समासः, अन्यत्र कारकषष्ठ।ल अपीति वेदितव्यम्। गुणैरिति। गुणेषु शेषत्वेन विवक्षितेषु अस्य नियमस्याभावात्समासो भवत्येवेत्यर्थः। इयमेवास्मिन्प्रकरणे प्रत्युदाहरणगतिरिति॥ कृञः प्रतियत्ने॥ २।३।५३ ॥ कृञः प्रतियत्ने॥ एधोदकस्येति। ठ्जातिरप्राणिनाम्ऽ इत्येकवद्भावः। उपस्कुरुत इति। गन्धनादिसूत्रेणात्मनेपदम्। ठुपात्प्रतियत्नऽइत्यादिना सुट्॥ रुजार्थानां भाववचनानामज्वरे॥ २।३।५४ ॥ रुजार्थानां भाववचनानामज्वरे॥ ठ्रुजो भङ्गेऽभिदादिपाठादस्मादेव निपातनाद्वाऽङ्। भाववचनानामिति। नायमर्थो भाववाचिनामिति, धातूनां भाववाचित्वाव्यभिचारात्। किं तर्हि? भावशब्देन घञादिवाच्यः सिद्धरूपो भाव उच्यते। वचन इति कर्तरि ल्युट्। तत्र प्रकृत्यर्थो न विवक्ष्यते, न हि रुजार्थानां भावो वक्ता प्रतिपादयितोच्चारयिता वोपपद्दाते। तस्मात्प्रत्ययार्थ एव कर्ता विवक्षितः--भावो वचनः कर्ता येषामित्यर्थः, तदाह--भावकर्तृकाणामिति। चौरस्यामयतीति। ठम रोगेऽ चुरादिः,ठ्नान्ये मितोऽहेतौऽ इति चुरादौ वचनात् ठ्जनीजृष्क्नसुरञ्जोऽमन्ताश्चऽ इति मित्वं न भवति। ठ्ज्ञप मिच्चऽ इत्यारभ्य ठ्नान्ये मितोऽहेतौऽ इतः प्राग्ये पठितास्त एव चुरादिषु मितो भवन्ति, नान्य इत्यर्थः। आमय इति आङ्पूर्वस्य मीनातेरेच्, ठ्मीनातिमिनोतिऽ इत्यात्वस्य ठ्निमिमीलीयां खलचोःऽ इति प्रतिषेधः। नदीकूलं रुजतीति। अत्र नदी कर्त्री, न भावः। ननु रुजाशब्दो व्याधौ रूढ इति नात्र प्रसङ्गः? एवं तर्हि प्रत्युदाहरणदिगियं दर्शिता, इदं तु प्रत्युदाहरणम्---श्लेष्मा पुरुषं रुजतीति, व्याधिना कासादिना ग्राहयतीत्यर्थः। ज्वरयतीति। ठ्ज्वर रोगेऽ घटादिः। सन्तापयतीति। ठ्हेतुमति चऽ इति णिच्, सन्तापोऽत्र भावः, कर्ता च॥ आशिषि नाथः॥ २।३।५५ ॥ आशिषि नाथः॥ नाथत इति। ठाशिषि नाथःऽ इत्युपसंख्यानादात्मनेपदम्, तच्चानुदातेत्वादेव सिद्धे नियमार्थम्---आशिष्येव नाथ इति, तेन प्रत्युदाहरणे परस्मैपदम्॥ जासिनिप्रहणनाटक्राथपिषां हिंसायाम्॥ २।३।५६ ॥ जासिनिप्रहणनाटक्राथपिषां हिंसायाम्॥ न दैवादिकस्येति। ठ्जासिऽ इति निर्देशाद् ठ्हिसायाम्ऽ इति वचनाच्च निप्राभ्यां यथासंभवमुपसृष्टो हनो निप्रहणः, ठ्हन्तेरत्पूर्वस्यऽ इति णत्वम्। प्रणिहन्तीति। ठ्नेर्गदऽ इत्यादिना णत्वम्। ठ्नट अवस्यन्दनेऽ चुरादिः, ठ्नट नृतौऽ इत्यस्य तु घटादिपठितस्याग्रहणम्, विकृतनिर्देशात्। निपातनाद्वद्धिरिति। घटादिपाठस्तु ठ्घटादयः षितःऽ इत्यातिदेशिकोऽङ्यथा स्यात्, ठ्चिण्णमुलोर्दीर्घोऽन्यतरस्याम्ऽ इति दीर्घश्च यथा स्यादित्येवमर्थः॥ व्यवहृपणोः समर्थयोः॥ २।३।५७ ॥ व्यवहृपणोः समर्थयोः॥ समर्थयोरिति। संशब्दो वृतौ समानार्थः, समशब्दस्य वा निपातनात्पररुपमिति भावः। संबद्धार्थयोरिति तु न विज्ञायते, व्याख्यानात्। संभवति हि व्यवहृपणोर्हेतुहेतुमद्भावः संबन्धः। शतस्य व्यवहरतीति। शतं क्रयविक्रयरूपेण विनियुङ्क्ते, दीव्यति वेत्यर्थः। शलाकां व्यवहरतिगणयतीत्यर्थः॥ दिवस्तदर्थस्य॥ २।३।५८ ॥ दिवस्तदर्थस्य॥ अत्र ठ्शेषऽ इति नानुवर्तते, उतरसूत्रद्वयारम्भसामथ्यत्। इथ पूर्वसूत्र एव दिविरपि कस्मान्न पठितः, एवं हि तदर्थस्येति न वक्तव्यं भवति? तत्राह---योगविभाग इति॥ विभाषोपसर्गे॥ २।३।५९ ॥ विभाषोपसर्गे॥ शलाकां प्रतिदीव्यतीति। अत्र विजिगीषादौ दिविर्वर्तते, न व्यवहारे॥ द्वितीया ब्राह्मणे॥ २।३।६० ॥ द्वितीया ब्राह्मणे॥ मन्त्रव्यतिरिको वेदभागःऊउब्राह्मणम्। गामस्य तदहः सभायामिति। गामस्य सभायामित्यन्वयः। तदहरित्येतदुदाहरणम्, ठ्स्वमोर्नपुंसकात्ऽ इति लुक्, ठहन्ऽ इति रुत्वम्। अनुपसर्गस्य नित्यं षष्ठ।लं प्राप्तायामिति। ठ्दिवस्तदर्थस्यऽ इत्यनेनऽ अथ सोपसर्गस्यापि पूर्वेण षष्ठ।लमपि प्राप्तायां नित्यद्वितीयार्थं कस्मान्न भवतीत्याह--सोपसर्गस्येत्यादि॥ प्रेष्यब्रुवोर्हविषो देवतासंप्रदाने॥ २।३।६१ ॥ प्रेष्यब्रुवोर्हविषो देवतासंप्रदाने॥ इष्यतेद्êअवादिकस्येति। ठिषु गतौऽ इत्यस्य श्यना निर्देश इच्छतीष्णात्योरिच्छाभीक्ष्ण्यार्थयोर्निवृत्यर्थः। तद्विषय एवेति। लोण्मध्यमैकवचनान्तः। देवतासंप्रदान इति। देवता संप्रदानं यस्यार्थस्य तत्र वर्तमानयोः कर्मणि कारक इत्यन्वयः। हविषः हविर्विशेषवाचिन इत्यर्थः। प्रे३ष्येति। ठ्ब्रूहिप्रेष्यऽ इत्यादिना प्लुतः। अग्यये गोमयानि प्रेष्येति। गोमयं हविष्ट्वेन क्वापि न चोदितम्। हविषः प्रस्थितस्येति। प्रस्थितशब्देन यद्विशेष्यते तस्येत्यर्थः। इदं च भाषायामपि भवति; उतरत्र च्छन्दोग्रहणात्॥ चतुर्थ्यर्थे बहुलं च्छन्दसि॥ २।३।६२ ॥ चतुर्थ्यर्थे बहुलं च्छन्दसि॥ या खर्वेणेति। रजस्वलायाः खर्वपानादिप्रतिषेधार्तोऽयमर्थवादः। ततर्हि वक्तव्यम्---षष्ठ।ल्र्थे चतुर्थीति? न वक्तव्यम्, योगविभागात्सिद्धम्। चतुर्थ्यर्थ इति नायं समासः, किं तर्हि? चतुर्थी अर्थ इति योगो विभक्तव्यः, षष्ठीत्यनुवर्तते---अर्थे षष्ठी भवति, चतुर्थी चेति, तत्र स्वार्थ एव षष्ठीचतुर्थ्योर्विधानमनर्थकमित्यन्योऽन्यसन्निधानादन्योऽन्यार्थे विभक्तिद्वयं विज्ञायते॥ यजेश्च करणे॥ २।३।६३ ॥ कृत्वोऽर्थप्रयोगे कालेऽधिकरणे॥ २।३।६४ ॥ कृत्वोऽर्थप्रयोगे कालेऽधिकरणे॥ कृत्वसुचोऽर्थो लक्ष्यते, कृत्वोऽर्थो येषां ते कृत्वोऽर्थाः। पञ्चकृत्व इति। ठ्संख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसुच्ऽ द्विरिति। ठ्द्वित्रिचतुर्भ्यः सुच्ऽ अर्थग्रहणमेतदर्थम्॥ कर्तृकर्मणोः कृति॥ २।३।६५ ॥ कर्तृकर्मणोः कृति। इह क्रियायाः साधनं भवतीति। कर्तृकर्मभ्यां क्रिया सन्निधाप्यते, धातुरेव क्रियावाची, धातोश्च द्वये प्रत्ययाः---कृतस्तिङ्श्च। तत्र तिङ्प्रयोगे ठ्न लोकाव्ययऽ इति लप्रतिषेधेन भाव्यम्। स चावश्यं लप्रतिषेधः कर्तव्यः, ये कृतो लादेशास्तदर्थम्---ओदनं पचन्, ओदनं पचमानः पपिः सोमम्,ददिर्गा इति, इह तु नार्थः कृद्ग्रहणेनेति मत्वा पृच्छति---कृतीति किमिति। कृतपूर्वी कटमिति। ननु कृतः कटः पूर्वमनेनेत्यस्मिन्विग्रहे क्तस्य कर्मणि विधानातेनैव कर्मणोऽभिहितत्वान्नैव द्वितीया भाव्यम्, एवं च तदपवादः षष्ठ।ल्पि न प्राप्नोति; इहाप्यनभिहिताधिकारात्, कृतशब्दस्य च कटापेक्षस्य समासो दुर्लभः, एतेन तद्धितो व्याख्यातः, तस्मादयमसाधुरेव प्योगः? सत्यम्, विशेषविवक्षायां नैव समासतद्धितौ भवतः, यदा तु कृतं पूर्वमनेनेति कर्मसामान्ये भावे वा क्त उत्पद्यते तदा सापेक्षत्वाभावात्समासः, केन? ठ्सुप्सुपाऽ इति, ततः ठ्पुर्वादिनिःऽ,ठ्सपूर्वाच्चऽइतीनिः प्रत्ययः। न च कटस्य क्तेनाभिधानं करोतेरुत्पद्यमानः क्तप्रत्ययः कर्मसामान्यमेवाह, विशेषकर्मसंबन्धातु तस्याभिधानम्, न चात्र तद्धितेनैकार्थीभूतस्य निष्कृष्य कटेन संबन्धः सम्भवति, क्रियया तु गुणभूतया कारकाणां सम्बन्धो भवति, यथा---कट्ंअ कृतवानिति। कृतपूर्वीशब्दश्चायं पूर्व कृतमनेत्यस्मिन्नर्थे व्युत्पादितः पूर्वं कृतवानित्यनेन समानार्थः संपद्यते, तत्र करोतिक्रियापेक्षमस्ति कटस्य कर्मत्वम्, अनभिहितं च तदिति कृद्ग्रहणे षष्ठी स्याद्। यत्र च निष्ठान्तेन शब्देन कर्तृकर्मणोः संबन्धस्तत्रैव निष्ठाश्रयः प्रतिषेधः, यथा----कट्ंअ कृतवान्, कृतः कटो देवदतेनेति, इह तु कृतस्य कटेन संबन्धो न भवतीत्युक्तमेव। अथ तु वस्तुतो निष्ठान्ते पदे धातुवाच्यक्रियापेक्षे ये कर्तृकर्मणी तयोः प्रतिषेधः, तथा सति नेदं कृद्ग्रहणस्य प्रयोजनम्, तेनैतदपि निरस्तम्। असति कृद्ग्रहणे, कट्ंअ कारयति पाचयत्योदनं देवदतो यज्ञदतेनेति णिच्प्रकृतेः पचेरर्थ प्रति कर्तृकर्मणोः षष्ठीप्रसङ्गः। सति तु कृद्ग्रहणे, णिचोऽकृत्वान्न भवतीति कथमिव निरस्तम् ठ्न लोकऽ इत्यत्र नैवं ज्ञायते---लप्रकृतिभूतस्य धातोर्ये कर्तृकर्मणी इति, किं तर्हि? लान्ते पदे या क्रियोच्यते प्राधान्येन गुणभावेन वा, तत्र ये कर्तृकर्मणी तयोः षष्ठी न भवतीति तेनेदमप्यप्रयोजनम्। अथ स्याद्--ठ्नलोकाव्ययऽ इत्यत्राव्ययविशेषणार्थं कृद्ग्रहणम्, तेनोच्चैः कटानां स्प्रष्टेत्यत्राकृतोऽप्यव्ययस्य प्रयोगे निषेधाभाव इति, तदपि न; अव्ययेन कर्तृकर्मणी विशेषयिष्यामः----अव्ययस्य ये कर्तृकर्मणी तयोः षष्ठी नेति, न चाकृत उच्चैसः कर्तृकर्मणी सम्भवतः। इह तर्हि करोतीति कृदिति कृच्छब्देन कर्तोच्यते, तत्र कर्तृकर्मणोरित्येव षष्ठ।लमपि सिद्धायां पुनर्विधानं गुणभूतेऽति कर्तरि यथा स्यात्----भेदिकादेवदतस्य यज्ञदतस्य काष्ठानामिति, भिदेर्ण्यन्तात्पर्यायादिनाण्वुच्, अत्र ण्यर्थस्य प्राधान्यात्प्रयोजककर्ता प्रधानम्, प्रयोज्यकर्ता तु प्रकृत्यर्थस्य गुणभावाद्गुणभूत इति प्रधानेतरसन्निधौ प्रधानादेव स्यात्, कृद्ग्रहणादप्रधानादपि भवति, एतदपि नास्ति प्रयोजनम्; तृतीयावत् सिद्धम्, तद्यथा---पाचित ओदनो देवदतेन यज्ञदतेनेत्यादौ प्रधानाप्रधानयोर्द्वयोरपि कर्त्रोस्तृतीया भवति, तत्कस्य हेतोः? एकशब्दवाच्यत्वाभावेन विरोधाभावात् तथा षष्ठ।ल्पि भविष्यति। इह तर्हि प्रयोजनम्, ठुभयप्राप्तौ कर्मणिऽ इति बहुव्रीहिर्यथा स्याद्, अन्यथान्यपदार्थस्यानुपातत्वातत्पुरुषः स्यातत्र चानिष्ट्ंअ वक्ष्यते। यद्येवम्, उतरत्रैव कृद्ग्रहणम् कर्तव्यम्, अथ वा---अनुपातेऽप्यन्यपदार्थे व्याख्यानाद् बहुव्रीहिर्भविष्यति, यथा---ठेकाचो द्वे प्रथमस्यऽ इति, तदेतत्कृद्ग्रहणं चिन्त्यप्रयोजनम्। केचिदाहुः---इहैव तद्धितनिवृत्यर्थं कृद्ग्रहणमिति प्रजानातिति प्रज्ञः प्रज्ञ एव प्राज्ञः ठ्प्रज्ञादिभ्यश्चऽइति स्वार्थिकेऽणि कृते व्याकरणं प्राज्ञ इत्यत्र षष्ठी न भवति। ननु क्रियमाणेऽपि कृद्ग्रहणे कस्मादेवात्र न भवति, यावता भवत्येव कृतोऽत्र प्रयोगः,न ह्यत्रैतच्छक्यं वक्तुम्---प्रत्ययार्थेनैकार्थीभूतस्य कृदन्तस्य निष्कृष्य व्याकरणेन संबन्धो न सम्भवतीति प्रत्ययस्य स्वार्थिकत्वेनार्थान्तराभावात्? नैष दोष;कृद्ग्रहणसामर्थ्यात्कृदन्तेनैव योगे षष्ठी विज्ञास्यते, इह तु कृता तद्धितेन चैकरूपः संबन्ध इति न भविष्यतीत्यलमतिक्षोदेन! शेष इति निवृतमिति। तेनाप्राप्ता षष्ठी विधीयत इत्यस्याः समासो भवतीति कृद्योगा च षष्ठी समस्यत इति न वक्तव्यं भवति॥ उभयप्राप्तौ कर्मणि॥ २।३।६६ ॥ उभयप्राप्तौ कर्मणि॥ उभयशब्देन प्रकृतत्वात्कर्तृ कर्मणी संबध्येते। उभयप्राप्ताविति बहुव्रीहिरिति। न तत्पुरुषः। उभयोः कर्तृकर्मणोः षष्ठीप्राप्तौ सत्यामिति। अत्र प्रयोजनं वक्ष्यति---कर्मण्येवेति। विपरीतस्तु नियमो न भवति---उभयप्राप्तावेव कर्मणीति। एवं हि पूर्वसूत्रे कर्मग्रहणमनर्थकं स्याद्, अनेनैव विशिष्टविधानमाश्रयणीयं भावः। आश्चर्य इति। सकर्मकेभ्यो भावे कृति विहिते कर्मणि कर्तरि च षष्ठी प्राप्ता नियमेन कर्तुरपनीयते। प्राप्तिग्रहणाच्च प्राप्तिमात्रे नियम इति कर्तृकर्मणोः प्रयोगेऽपि कर्तरि तृतीया भवति, ठन्तर्धौ येनादर्शनमिच्छतिऽ इति अत्र ह्यात्मन इति गम्यमानत्वादस्त्युभयोः प्राप्तिः। अत्र च ठनन्तरस्य विधिर्वा प्रतिषेधो वाऽ इति कर्तृकर्मणोरिति प्राप्तिर्नियम्यते, शेषषष्ठी तु कर्मर्यति भवत्येव। नियमस्य प्रयोजनं पक्षे तृतीयाश्रवणम्। कर्मापि यदा शेषत्वेन विवक्ष्यते तदा तत्रापि शेषषष्ठी भवत्येव। तस्याश्च ठ्कर्मणि चऽ इति निषेधाभावात्समासेऽपि भवति। निषेधस्य तु प्रयोजनं कृत्स्वरो मा भूदिति। एतदपि सूचितम्---पूर्वेण षष्ठी प्राप्तौ नियम्यत इति। आश्चर्यमिदमित्येतावदेकं वाक्यम्, किं तदित्याह---ओदनरयेति। अत्र पाके ओदनस्य कर्मत्वम्, प्रादुर्भावे च ब्राह्मणानां कर्तृत्वमित्यनेकत्वात्कृदुभयप्राप्तिर्भवति भेदिकेति। पर्यायादिषु ण्वुच्। चिकीर्षेति। ठ प्रत्ययात्ऽ। अत्रोभयत्रापि कर्तरि तृतीया न भवति। षष्ठी तु शेषविवक्षयापि सिद्ध्यति। समासोऽप्यत्र भवति---धर्मजिज्ञासा देवदतस्य, शिष्यस्याचार्यशुश्रूषेति ठ्शेषे विभाषाऽ इति। तत्र यदा नियमेन कर्तरि तृतीया तदा ठ्कर्मणि चऽ इति निषेधात्पाणिनिना सूत्रकृतिः, आचार्येण शब्दानुशासनमित्यसाधुः समासः; पाणिनेः सूत्रकृतिः, आचार्यस्य शब्दानुशासनमिति तु साधुः॥ क्तस्य च वर्तमाने॥ २।३।६७ ॥ क्तस्य च वर्तमाने॥ राज्ञां मत इति। ठ्मतिबुद्धिपूजार्थेभ्यश्चऽ इति वर्तमाने क्तः। शेषविज्ञानादिति। उपसंख्यानं प्रत्याचष्टे, सदप्यत्र छात्रस्य कर्तृत्वमविवक्षायां तिरोधीयते, संबन्धित्वमात्रमेव तु विवक्षिष्यते, ततश्च न माषाणामश्नीयदितिवत्सिद्धा षष्ठीत्यर्थः। तथा चेति। उपसंख्याने त्वेतन्न सिद्ध्यतीति भावः॥ अधिकरणवाचिनश्च॥ २।३।६८ ॥ अधिकरणवाचिनश्च॥ तस्य च प्रयोगे षष्ठी विभक्तिर्भवतीति। यथासम्भवं यत्र कर्तैव सम्भवति तत्र कर्तरि--इदमेषामासितमिति, सकर्मकेभ्यस्त्वधिकरणे क्ते विहिते द्वयोरपि कर्तृकर्मणोरनभिहितन्वाद् द्वयोरपि षष्ठी भवति---इदमेषां भुक्तमोदनस्येति। उभयप्राप्तौ कर्मणीत्ययं तु नियमः ठ्कर्तृकर्मणोः कृतिऽ इत्यस्या एव प्राप्तेः। वाचिग्रहणं किम्? अधिकरणऽ इत्युच्यमाने क्तोपलक्षणं विज्ञायेत, ततश्चार्थान्तरवृतेरपि ध्रौव्यादेरुत्पन्नस्य क्तस्य प्रयोगे षष्ठी स्यात्; वाचिग्रहणे तु सति यदाधिकरणं कर्ति तदैव षष्ठी भवति, पदार्थान्तरे तदा कर्तरि तृतीया कर्मणि द्वितीया भवति---इहैभिरासितं ग्रामे गत इति; इह गत्यर्थे चातुश्शब्द्यं भवति--इदमेषां गतमित्यधिकरणे, इदमेते गता इति कर्तरि, इहैभिर्गतमिति नपुंसके भावे, कर्तृविवक्षायां इदमेषाङ्गतमिति तत्रैव शेषविवक्षायाम्॥ न लोकाव्ययनिष्ठाखलर्थतृनाम्॥ २।३।६९ ॥ न लोकाव्ययनिष्ठाखलर्थतृनाम्॥ जिघृक्षितरूपविनाशप्रसङ्गात् तृनामित्यत्र णत्वाभावः। उ उकेति। अनेनोकारप्रश्लषं दर्शयति। तत्र लश्चेति पूर्वद्वन्द्वे उकारस्य पूर्वनिपातः स्यात्, परनिपातेऽपि लवुकेति स्यात्; तस्मात्परयोर्द्वन्द्वं कृत्वा पश्चाल्लशब्दस्य द्वन्दः कार्यः, उकारेण च कृतो विशेषणातदन्तविधिः, व्यपदेशिवद्भावात्केवलस्यापि ग्रहणम्। शतृशानचाविति। तेन शानजर्थं तृन्निति प्रत्याहारो नाश्रयणीय इति भावः। किकिनौ चेति। ननु लग्रहणेन लकारास्तदादेशाश्च ग्रहीतुं युक्ताः---कट्ंअ कारयाञ्चकार, ओदनं पाचयति; किकिनोस्त्वयुक्तं ग्रहणम्, अलत्वादलादेशत्वाच्च, नैष दोषः; ठ्किकिनौ लिट् चऽ इत्यनेन लिट्त्वातिदेशः क्रियते, न लिट्संज्ञा। तत्र ठ्कारयाम्ऽ ठ्पचानःऽ इत्यादौ लिटि तदादेशे च द्दष्टः प्रतिषेध किकिनोरपि भविष्यति। उदाहरणेषु सर्वत्र कारकषष्ठयाः प्रतिषेधः। शेषषष्ठी तु भवत्येव---ब्राह्मणस्य कुर्वन्, ओदनस्य पचन्, अपां पेरुरसि, नरकस्य जिष्णवो गुणैः, तानि द्विषद्वीर्यनिराकरिष्णुरिति। आगामुकमिति। ठ्लषपतपदऽ इतायदिनोकञ्, रक्षांसि वाराणसीं प्रत्यागमनशीलानि भवन्ति, शापादिमोक्षार्थमित्यर्थः। दास्याः कामुक इति। द्वितीया निवृत्यर्थ वचनम्, षष्ठी तु शेषविज्ञानादेव सिद्धा। पुरा सूर्यस्येति। ठ्भावलक्षणेऽ इत्यादिना तोसुन्। विसृप इति। ठ्सृपितृदोः कसुन्ऽ ठ्पूङ्यजोः शानन्ऽ ठ्ताच्छील्यवयोवचनशक्तिषु चानश्ऽ ठिङ्धार्योः शत्रकृच्छ्रिणिऽ इत्येतेषु ठ्लऽ इति नानुवर्तत इति स्थापयिष्यते, तेन लग्रहणादसिद्धिरिति मत्वाऽऽह----तृन्निति प्रत्याहारग्रहणमिति। द्विषः शतुर्वा वचनमिति। ठ्द्विषोऽमित्रेऽ इति योऽयं शतृप्रत्ययः, तत्प्रयोगे विकल्पेन प्रतिषेधो वक्तव्य इत्यर्थः। प्रत्याख्यानं तु शेषविवक्षायां षष्ठ।ल्न्यत्र द्वितीयेति, सता च समासप्रतिषेधात्समासे कृत्स्वरार्थ कारकषष्ठी विधेयेत्यपि नास्ति॥ अकेनोर्भविष्यदाधमर्ण्ययोः॥ २।३।७० ॥ अकेनोर्भविष्यदाधमर्ण्ययोः॥ अकस्य भविष्यति काले इनस्तु आधमर्ण्ये चेति। संख्यातानुदेशस्तु व्याख्यानान्न भवतीति भादः। ग्रामं गमीति। ठ्भविष्यति गम्यादयःऽ ननुच नात्र षष्ठयाः प्रसंगः, कथम्? गत्यर्थकर्मणीत्यत्रोक्तम्---ठ्द्वितीयाग्रहरगं किम्? न चुतर्थ्येव विकल्प्येत, अपवादविषयेऽपि यथा स्याद्ग्रामस्य गन्ताऽ इति, सत्यम्; श्रौते तावत् प्रतिषेधे लभ्यमाने किं द्वितीयाग्रहणसामर्थ्याश्रयणेनेति मन्यते॥ कृत्यानां कर्तरि वा॥ २।३।७१ ॥ कृत्यानां कर्तरि वा॥ कर्तरोति किमिति। ठ्तयोरेव कृत्यक्तखलर्थाःऽ इति वचनादकर्मकेभ्यो भावे सकर्मकेभ्यश्च कर्मणि कृत्यानां विधानात्कर्तुरेव तैरनभिधानं सम्भवतीति कर्तृकर्मणोर्द्वयोरधिकारेऽपि कर्तयेव षष्ठी भविष्यतीति प्रश्नः। गेय इति। ठ्भव्यगेयऽ इत्यादिना कर्तरि यत्प्रत्ययः। साम्नामिति। कर्मणि नित्यमेव षष्ठी भवति। उभयप्राप्तौ कृत्य इति। उभयो कर्तृकर्मणोः प्राप्तिर्यस्मिन् कृत्ये तत्र द्वयोरपि कर्तृकर्मणोः षष्ठी न भवतीत्यर्थः। क्रष्टव्येति। कृषेद्विकर्मकत्वात्प्रधाने कर्मणि कृत्यप्रत्ययः, न त्वप्रधान इति तस्मिन् कर्मणि कर्तरि च प्राप्ता षष्ठी न भवति। एतच्चयोगविभागाल्लभ्यते, कथम्? कृत्यानामित्येको योगः, अत्रोभयप्राप्तौ नेति च वर्तते, युगपदुभयप्राप्तीनां कृत्यानां प्रयोगे षष्ठी न भवतीत्यर्थः; ततः कर्तरि वा, अत्र षष्ठीत्येवानुवर्तते, अन्यत्सर्वं निवृतम्॥ तुल्यार्थैरतुलोपमाभ्यां तृतीयान्यतरस्याम्॥ २।३।७२ ॥ तुल्यार्थैरतुलोपमाभ्यां तृतीयाऽन्यतरस्याम्॥ शेषविषये विधानादिति। शेषैत्यधिक्रियत इति भावः। बहुवचननिर्देशादेव स्वरूपग्रहणाभावे सिद्धेऽर्थग्रहणं पदान्तरनिरपेक्षा ये तुल्यानाहुस्तत्परिग्रहार्थम्। तेन द्योतका इवादयो निवर्तिता भवन्ति---गौरिव गवयः, यथा गौस्तथा गवय इति। तुला देवदतस्येति। तुलोपमाशब्दौ कर्मसाधनौ तुल्यार्थौ तत्र प्रतिषेध्या तृतीया, षष्ठी तु भवत्येव। इह ठ्स्फुटोपमं भूतिसितेन शम्भुनाऽ इति श्म्भुना स्फुटोपमा यस्येत्युपमाशब्देनापि योगे करणे तृतीया भवति, भावसाधनत्वातस्य, यथा---उपमीयतेऽनेनेत्यादौ; इतरथा हि तृतीयानुकृष्येतेति तस्यानन्तरसूत्रे श्रुतत्वाद् अन्यतरस्यांग्रहणे तु सति तस्य प्रयोजनान्तराभावातदेव चकारेणानुकृष्यते॥ चतुर्थी चाशिष्यायुष्यमद्रभद्रकुशलसुखार्थहितैः॥ २।३।७३ ॥ चतुर्थी चाशिष्यायुष्यमद्रभद्रकुशलसुखार्थहितैः॥ आयुष्यादीनां सुखपर्यन्तानां द्वन्द्वं कृत्वार्थशब्देन बहुव्रीहीविधानादर्थशब्देनायुष्यादिभिः प्रत्येकं सम्बन्धः। तत्र मद्रभद्रशब्दयोः पर्यायत्वात्सूत्रे भद्रशब्दो न पठितव्य इति केचिदाहुः। अन्ये त्वर्थशब्दोऽपि पृथगेव निमितम्, व्याख्यानाच्च सर्वत्रार्थग्रहणं वर्णयन्ति। वृतावपि क्वचिदर्थशब्दोऽप्युदाह्रियते। हितं देवदतस्येति। ठ्हितयोगे चतुर्थी वक्तव्याऽ इत्यस्यानाशिषि चरितार्थत्वादाशिषि हितयोगेऽप्यनेन विकल्पेन भाव्यम्; अन्यथाऽत्र हितग्रहणमनर्थकमिति मन्यते॥ इति श्रीहरदतमिश्रविरचितायां पदमञ्जर्या द्वितीयाध्यायस्य तृतीयः पादः॥ -------------काशिकावृतौइ पदमञ्जरी अथ द्वितीयाध्याये चतुर्थः पादः द्विगुरेकवचनम्॥ २।४।१ ॥ द्विगुरेकवचनम्॥ अत्र यदि पारिभाषिकमेकवचनं गृह्यएतानुप्रयोगत एकवचनं न स्यान्---पञ्चपूलीयं शोभनेति, तस्याद्विगुत्वाद् ठ्द्विगोःऽ इति पञ्चम्या च निर्द्देशः स्यात्, अतोऽन्वर्थस्यैकवचनस्येदं ग्रहणमिति मत्वाऽऽह---एकस्य वचनमेकवचनमिति। वक्तीति वचनम्, ठ्कृत्यल्युटो बहुलम्ऽ इति कर्तरि ल्युट्, एकस्यार्थस्य वचनमेकवचनमिति कर्मणि षष्ठयाः समासः। तत्र चैकस्यार्थस्य वाचर्क भवतीति सामान्यनोपक्रमः, पश्चात्किं तदित्यपेक्षायां द्विगुरित्यस्य पुंल्लिङ्गस्य सम्बन्ध इत्येकवचनमिति नपुंसकोपपतिः। एतदेव व्यनक्ति---एकस्यार्थस्येति। एवं च द्विगुरेकार्थस्य वाचको भवति। यदि द्विग्वर्थ एको भवति, न च वस्तुतोऽनेकार्थस्य वचनशतेनाप्येकार्थत्वामापादयितुं शक्यमिति सामर्थ्यादतिदेशो विज्ञायते, तदाह--तदनेन प्रकारेणेति। तदिति वाक्योपन्यासे किमुक्तं भवतीत्याहद्विग्वर्थ एकवद्भवतीति। समाहारद्विगोश्चेदं ग्रहणमिति। तद्वितार्थे यो द्विगुस्तस्यैकवद्भावो मा भूदित्येवमर्थ पञ्चभैर्गोभिः क्रीताः पञ्चगवः पटा इति। अथ क्रियमाणेऽपि समाहारग्रहणे इह कस्मान्न भवति---पञ्चपूली च पञ्चपूली च पञ्चपूल्य इति, शिष्यमाणस्यद्विगुत्वातदर्थस्यैकवद्भावः प्राप्नोति? न वा; बहिरङ्गत्वाद्, बहिरङ्गोऽयं द्विग्वर्थः सत्येव द्विगावेकशेषात्प्रगभावादेकशेषे सति पश्चादुपजायमान्तवादन्तरङ्गे प्राथमकल्पिके द्विग्वर्थे चरितार्थ एकवद्भावोऽत्र न भविष्यति। यद्येवम्, पञ्चगवः पटा इत्यत्राप्येवमेव भविष्यति? सत्यम्; यदा पटाः प्रत्येकं पञ्चभिर्गोभिः क्रिताः, यदा तु बहवः पटाः संहताः पञ्चभिर्गोभिः क्रियन्ते तदाऽयमेकशेषस्याविषयः। यदि तर्हि समाहारद्विगोर्ग्रहणम्, नार्थोऽनेन, कथम्? समाहारःउ समूहः, तस्यैकत्वाद्यौउथं वनमित्यादिवदेकवचनं भविष्यति। यदि तर्हि समाह्रियत इति समाहार इति कर्मसाधनः समाहारशब्दः, तदाऽपेक्षितपरस्पराः पञ्चपूलाः समासार्थ इति बहुवचनप्रसङ्गेऽतिदेश आरभ्यते, तदाह---प्रत्यधिकरणं वचनोत्पतेः संख्यासामानाधिकरण्याच्च द्विगोरेकवचनविधानमिति। अधिकरणं द्रव्यम्, संख्यावाची पञ्चादिशब्दः, यत्संख्याविशिष्ट्ंअ द्रव्यमभिधीयते तदभिधानयोग्यं वचनमुत्पद्यते। पञ्चपूलीशब्देन पञ्चपूलाः समाह्रियमाणा उच्यन्ते, अतः समासार्थस्य पञ्चादिभिः सामानाधिकरण्याद् द्विवचनबहुवचनप्रसङ्गे एकवचनं विधीयत इत्यर्थः। संख्यासामानाधिकरण्यादित्यनेन कर्मसाधनत्वं समाहारशब्दस्य दर्शयति, भावसाधने तु वैयदिकरण्यंपञ्चानां पूलानाम्। न वा समाहारैकत्वादिति, अयमर्थः----तिरोहितावयवभेदः समूहरूपः समाहारो द्विग्वर्थस्तस्यैकत्वाद्वनादिवदेकवचनसिद्धेर्नात्र सूत्रेण प्रयोजनम्। अवश्यं च तद् भावसाधनः समाहार आश्रयणीयः अन्यथा पञ्चानां खट्वानां समाहारः पञ्चखट्वीत्यत्र वा टाबन्त इति स्त्रीत्वपक्षेखट्वाशब्दस्यानुपसर्जनत्वात् ह्रस्वो न स्यात्। अनुपसर्जनत्वं चाप्रथमानिर्द्दिष्टत्वादनेकविभक्तित्वाच्च। भावसाधने तु पञ्चानां खट्वानां समाहारः, समाहारं समाहारेणेति समासार्थस्य नानाविभक्तियोगेऽपि खट्वाशब्दस्य नित्यं षष्ठ।ल्न्तत्वात् ठेक विभक्ति चऽ इत्युपसर्जनत्वाद् ह्रस्वत्वं सिध्यति, एकवचनमित्येतदुतरार्थं कर्तव्यमेव। पञ्चपूलीति। ठकारान्तोतरपदो द्विगुः स्त्रियां भाष्यतेऽ इति स्त्रीलिङ्गत्वाद् ठ्द्विगोःऽ इति ङीप्॥ द्वन्द्वश्च प्राणितूर्यसेनाङ्गानाम्॥ २।४।२ ॥ द्वन्द्वश्च प्राणितूर्यसेनाङ्गानाम्॥ इह यस्य द्वन्द्वस्य कश्चिदवयवः प्राण्यङ्गवाची, कश्चितूर्याङ्गवाची, कश्चित्सेनाङ्गवाची; यथा---पाणिमार्दङ्गिकाश्वारोहा इति, स व्यतिकीर्णावयवोऽपि प्राण्यङ्गादीनां द्वन्द्वी भवत्येवेत्येकवद्भावः प्राप्नोति, तत्राह---अङ्गशब्दस्येत्यादि। ननु पूर्वपक्षेऽपि प्रत्येकमेव परिसमाप्तिरङ्गशब्दस्य, न हिप्राणितूर्यसेनानामेकमङ्गं सम्भवति? एवं तर्ह्यङ्गानामेव रूपस्य बहुवचनान्तस्य सतोऽङ्गशब्दस्य प्रत्येकं सम्बन्धः, न तु प्रत्येकपरिसमाप्तस्य पश्चाद्वहुवचनसम्बन्धः। त्रीणि वाक्यानि संपद्यन्त इति। सूत्रं तु तेषामेव ग्रहणकवाक्यमिति भावः। तत्र प्रथमेन वाक्येन प्राण्यङ्गानां प्राण्यङ्गयोरेव द्वन्द्वः कृतस्तस्यैकवद्भावो विधीयते, द्वितीयेन तूर्याङ्गानां तूर्याङ्गैरेव, तृतीयेन सेनाङनां सेनाङ्गैरेवेति न संकरप्रसङ्गः। तथा तूर्याङ्गानामिति द्वन्द्व एकवद्भवतीत्यपेक्षते, अत्राङ्गब्द उपकारकवचनः पूर्वत्रोतरत्र चावयववचनः सेनाङ्गानां चेति पूर्ववदपेक्षा। पाणिपादमिति। अत्र ठ्जातिरप्राणिनाम्ऽ इत्येव सिद्धे व्यतिकरनिरासार्थं वचनम्। मार्दङ्गिकपाणविकमिति। ठ्शिल्पम्ऽ इति ठक्। वीणावादकएति। ठ्नित्यं क्रीडाजीविकयोःऽ इति समासः, विपञ्ची परिवादिनी, तज्जीविकःउ परिवादकः। पणवमृदङ्गमित्यादौ तु ठ्जातिरप्राणिनाम्ऽ इत्येव सिद्धम्। रथिकाश्वारोहमिति। कथं रथवाजिपतिकरिणीसमाकुलमिति, यावतैकवद्भावे सति नपुंसकह्रस्वत्वेन भाव्यम्? निरङ्कुशाः कवयः। रथवाजिपतिसहिताः करिण्यो रथवाजिपतिकरिण्यस्ताभिः समाकुलमिति वा समर्थनीयम्। द्वन्द्वश्चेत्यारभ्य ठ्विभाषा समीपेऽ इत्यन्तस्य प्रकरणस्यानारम्भणीयतां शङ्कतेइतरेतरयोग इत्यादि। सिद्धमेवैकवचनमिति। ततश्चानारम्भणीयं प्रकरणमिति भावः। परिहरति--इदं त्विति। कः पुनरसौ विषयविभाग इत्याह---प्राण्यङ्गादीनामिति। कथं पुनः प्राण्याङ्गादीनां द्वन्द्व एकवचनो भवतीत्यस्य वचनस्य प्राण्यङ्गादीनां समाहार एवेत्यर्थो भवतीति? वचनव्यक्तिभेदात्। एवं ह्यत्र वचनं व्यज्यते--य एकवचनो द्वन्द्वः स एषां भवतीति, न पुनः प्राण्यङ्गादीनां यो द्वन्द्व इत्यनूद्य तस्यैकवचनता विधीयते। एकवचनान्तश्च द्वन्द्वः समाहारद्वन्द्वः, स प्राण्यङ्गदीनामपि ठ्चार्थे द्वन्द्वःऽ इत्येव सिद्ध इति स एवैषामिति नियमः संपद्यते; दधिपय आदिष्वपि येषां ब्रह्मप्रजापत्यादीनामनेन प्रकरणेन नियमस्याप्राप्तिस्तेषां तावत् ठ्चार्थे द्वन्द्वःऽ इत्यनेन प्राप्तो द्वन्द्वः प्रतिषिध्यते। य एकवचनो द्वन्द्वः स एषां न भवतीति वचनव्यक्त्या श्रयेण येषामपि दधिपयसी इत्यादीनां ठ्जातिरप्राणिनाम्ऽ इति नियमस्य प्राप्तिस्तेषाम् ठनन्तरस्य विधिर्वा भवति प्रतिषेधो वाऽ इति यद्यपि नियमस्य प्रतिषेधो युक्तः, तथापि ब्रह्मप्रजापत्यादिभिः साहचर्यादेकवचनो द्वन्द्व इत्येतावन्मात्रस्यापेक्षणात्समाहारद्वन्द्व एव प्रतिषिध्यते, न नियमः। वृक्षादिविभाषाप्रयोजनं तु तत्रैव वक्ष्यामः। अथैवं कस्मान्न विज्ञायते----इतरेतरयोगपक्षेऽप्राप्त एकवद्भावो विधीयत इति? उच्यते--यदीतरेतरयोगविहितद्वन्द्वस्यैकवद्भावो विधीयेत, ठ्द्वन्द्वाच्चुदषहान्तऽ इत्यादिना समाहारनिबन्धनं कार्थ न स्याद्। दधिपयाअदिषु तु यस्य द्वन्द्वस्यैकवचनप्राप्तिस्तस्य प्रतिषिध्येतेति समाहारद्वन्द्वस्यैकवचनतायां प्रतिषिद्धायामपि द्वित्वबहुत्वाभावाद् द्विवचनबहुवचने न स्यातामतो नियम एवाङ्गीकर्तव्यः। अत्र च व्याख्यानमेव शरणम्। अथ नियमोऽपि भवन्नेवमेव कस्माद्भावति---प्राण्यङ्गादीनां समाहार एवेति? न पुनः-----प्राण्यङ्गादीनामेव समाहार इति? उच्यते---एवं हि विज्ञायमाने दधिपयाअदिषु येषामनेन प्रकरणेन नियमो न प्राप्नोति तेषु प्रतिषेधोऽनर्थकः स्यात् तिष्यपुनर्वस्वोरिति बुवचनग्रहणमनर्थकं स्यात्। तद्धितसमाहारद्वन्द्वपक्षे तिष्यपुनर्वस्विदमित्यत्रैकवचनस्य प्रसङ्गे द्विवचनं मा भूदित्येवमर्थम् यदि च त्वदुक्तो नियमः स्यातिष्यपुनर्वस्वोरत्र प्रकरणेऽसङ्कीर्तितयोः समाहारद्वन्द्वाभावादनर्थकं तत्स्यात्, अतो वृत्तिकारोक्तमेव नियमस्वरूपमिति निरवद्यम्॥ अनुवादे चरणानाम्॥ २।४।३ ॥ अनुवादे चरणानाम्॥ चरणसब्दः कठकालापादिषु शाखाभेदेषु मुख्यः, तदध्यायिषु पुरुषेषु गौणः। उभयेषां चैषां ठ्गोत्रञ्च चरणैः सहऽ इति चातिसंज्ञा, तत्र शाखाभेदवाचिनः ठ्जातिरप्राणिनाम्ऽ इत्येकवद्भावस्य सिद्धत्वाद् गौणोऽपि पुरुषवृत्तिरेव गृहयत इत्याह---चरणशब्दः शाखानिमितक इति। शाखाध्ययननिमितक इत्यर्थः। गौण इति क्वचित्पठ।ल्ते, क्वचिन्न। प्रमाणान्तरावगतस्येति। शब्दादन्यत्प्रमाणं प्रमाणान्तरमु प्रत्यक्षादि। सङ्कीर्तिनमात्रमिति। मात्रशब्दोऽवगतिव्युदासाय। नन्वर्थप्रतिपादनाय प्रयोगः, स चेदर्थुः प्रमाणान्तरेणावगतः, किमिति शब्दः प्रयुज्यते? कार्यान्तरविधानार्थम्। यदा हि कठकालापेषूदितेषु आवाभ्यां तत्र गन्तव्यमिति संवादः कृतो भवति, स च विस्मृत्योदास्ते तदा तं प्रतीदमुच्यते---ननूदस्थात्कण्ठकालापं किमास्यते इति। कठेन प्रोक्तमधीयते कठाः, वैशम्पायनान्तेवासित्वाण्णिनिः, ठ्कठचरकाल्लुक्ऽ, कलापिशब्दात् ठ्कलापिनोऽणऽ, नान्तस्य टिलोपे सब्रह्मचारीत्यादिना टिलोपः, उभयत्राध्येत्रणो लुक्। एतेन कौथुमो व्याख्यातः। यदा तु प्रथमत एव शब्दोपदेश इति। प्रमाणान्तरेणानवगतस्य शब्देनाद्यं प्रत्यायनमित्यर्थः। उदगुरिति। ठातःऽ इति झेर्जुस्, ठुस्यपदान्तात्ऽ इति पररूपत्वम्। ठद्यतनीऽ इति लुङ्ः पूर्वाचार्यसंज्ञा। अनन्दिषरिति। ठ्टुअनदि समृद्धौऽ,ठ्सिजभ्यस्तऽ इति जुस्। अध्वर्युक्रतुरनपुंसकम्॥ २।४।४ ॥ अध्वर्युक्रतुरनपुंसकम्॥ अध्वर्युशब्द ऋत्विग्विशेषे प्रसिद्धः, न च तेन क्रतोर्विशेषणमुपपद्यते, न हि सोऽस्ति क्रतुर्यत्राध्वर्योरनन्वयः, नापि सोऽस्ति यत्राध्वर्योरेवान्वय इति मुख्यार्थासम्भवादौपचारिकग्रहणमित्याह---अध्वर्युवेद इति। यजुर्वेद इत्यर्थः। तत्र ह्याध्वर्यवं विधीयते। कर्मस्वरूपस्येतिकर्तव्यतायाः। फलस्य चोपदेशःऊउविधानम्। अध्वर्युक्रतुवाचिनां शब्दानामनपुंसकलिङ्गानामिति। कथं तर्हि सूत्रे सामानाधिकरण्यमित्याह---अध्वर्युक्रतुरिति। ताद्दशावयवत्वाद् द्वन्द्व एव तथोक्त इत्यर्थः। यदि पुनरनपुंसकमित्यनेन मुख्यया वृत्या द्वन्द्व एवोच्येत तदा ठ्स नपुंसकम्ऽ इत्यस्यायमपवादो विज्ञायेत। न वाऽबाधेनोपपतौ सत्यां बाधो न्याय्यः। अर्कश्चाश्वमेधश्च अर्काश्वमेधम्। सायाह्नश्चातिरात्रश्च सायाह्नातिरात्रम्। इषुवज्राविति। सामवेदे एषां विधानम्। राजसूयवाजपेयशब्दावर्द्धर्चादिषु पठितौ, ततस्तौ नपुंसकलिङ्गौ प्रत्युदाहरणम्॥ अध्ययनतोऽविप्रकृष्टाख्यानाम्॥ २।४।५ ॥ अध्ययनतोऽविप्रकृष्टाख्यानाम्॥ आख्यायतेऽनेनेत्याख्येति शब्दमात्रमिहाख्याशब्देनोच्यते, न रूढिशब्द एव। असंदेहार्थं विप्रकृष्टाख्यानामध्ययनत इत्यकरणादविप्रकृष्टेति पदच्छेदः। आख्यानञ्च न स्वरूपेणाविप्रकर्षः, किन्तु प्रवृत्तिनिमितद्वारेण, तच्चेहाध्ययनम्, तदाह---अध्ययनत इति। अधीतिःउअध्ययनम्, अध्ययनेनाध्ययनतः, आद्यादित्वातसिः, प्रवृत्तिनिमितभूतस्याध्ययनस्याविप्रकृष्टत्वातद्द्वारेणाविप्रकृष्टा आख्या येषां तेऽध्ययनतोऽविप्रकृष्टाख्याः। एतदेवाह---अध्ययनेन निमितेनेत्यादि। पदकक्रमकमिति। पदान्यधीते पदकः, ठ्क्रमादिभ्यो वुन्,ऽ एवं क्रमकः। वृत्तिःउ संहिता, तामधीते वार्तिकः, उक्थादित्वाट् ठक्, अत्र प्रवृत्तिनिमितस्याध्ययनस्याविप्रकर्षं दर्शयति---संपाठ इति। संपाठ इति। संपठनं संपाठः, अध्ययनमित्यर्थः। प्रत्यासन्न इति। पदान्यधीत्य क्रमोऽध्येतव्य इति कृत्वा। एवं क्रमकवार्तिकमित्यत्रापि नानधोत्य संहितां क्रमोऽध्येतुं शक्य इति प्रत्यासतिर्विज्ञेया॥ जातिरप्राणिनाम्॥ २।४।६ ॥ जातिरप्राणिनाम्॥ जातिवाच्यवयवत्वाज्जातिर्द्वन्द्व इति गौणो निर्द्देशः। आराशस्त्रीति। आराउप्रतोदः। धानाशष्कुलीति। षण्णां रसानां कुलं शष्कुली, गौरादिपाठाद्रूपसिद्धिः। नन्दकपाञ्चजन्याविति। सञ्ज्ञाशब्दावेतौ, ठ्खङ्गोऽस्यनन्दकः, शङ्खः पाञ्चजन्यः प्रकीर्तितः। जातिपरत्वे चेति। जातिप्राधान्ये इत्यर्थः। न नियतद्रव्यविवक्षायामिति। यदा क्वचिद्देशादौ नियतानां द्रव्यविशेषाणां विवक्षा तदा जातिशब्दत्वेऽप्येकवद्भावो न भवतीत्यर्थः। बदरामलकानीति। फलजातिवाचिनावेतौ॥ विशिष्टलिङ्गो नदी देशोऽग्रामाः॥ २।४।७ ॥ विशिष्टलिङ्गो नदी देशोऽग्रामाः॥ विशिष्टलिङ्गानामित्यस्य विवरणम्---भिन्नलिङ्गानामिति। विपूर्वः शिषिर्भिदिना समानार्थः। तथा च भेदक विशेषणं भेद्यं विशेष्यमित्युच्यते। ठ्क्तेन नञ्विशिष्टेनऽ इत्यत्रापि भेदद्वारेणैवाधिक्यमर्थो व्याख्यातः---यस्य हि नञ् भेदकः स नञाधिको भवति। नदीवाचिनामित्यादि। कथं तर्हि सूत्रे विशिष्टलिङ्गादिशब्दानां द्वन्द्वेन सामानाधिकरण्यमित्याह---नद्यवयव इत्यादिना। अग्रामावयवोऽग्राम इत्यपि द्रष्टव्यम्। अग्रामा इति चैकवचनस्थाने बहुवचनम्। असमासनिर्देश एवायमिति। समासे हि व्यतिकीर्णावयो द्वन्द्व एकवत्स्यात्। गङ्गाकुरुक्षेत्रे इति समासो हि भवन्नितरेतरयोगे चेद् द्विवचनप्रसङ्गः, समाहारे चेन्नपुंसकत्वप्रसङ्ग इति भावः। उध्यैरावतीति। ठुज्झ उत्सर्गेऽ, ठ्भिद्योध्यौ नदेऽ। देशः खल्वपीति। उदाह्रियत इति शेषः जाम्बवशालूकिन्याविति। जाम्बवं नगरम्, शालूकिनी ग्रामः, तत्रोभयतश्च ग्रामाणामिति प्रतिषेध एव भवति। ग्रामोभयावयवस्तु द्वन्द्वो नोदाहृतः। जनपदो हि देश इति। जना यत्र सञ्चरन्ति स देश इत्यर्थः। अवश्यं जनपदो देश इत्यङ्गीकर्तव्यमित्याह---तथा चेति। ग्रामे नाध्येयम्। अभक्ष्या ग्रामकुक्कुटा इत्यादौ ग्रामग्रहणेन नगरमपि गृह्यते, तद्वदिहापिनगरावयवस्यापि द्वन्द्वस्यात्र प्रतिषेधः स्यात्, ज्ञापकात्सिद्धम्, यदयम् ठ्प्राचां ग्रामनगरावयस्यापि द्वन्द्वस्यात्र प्रतिषेधः स्यात्, ज्ञापकात्सिद्धम्, ठ्प्राचां ग्रामनगराणाम्ऽ इति ग्रामग्रहणे नगरग्रहणं करोति, तज्ज्ञापयति----इह शास्त्रे ग्रामग्रहणे न नगरं गृह्यत इति? नैतत्सुष्ठूअच्यते, वक्ष्यति हि तत्र ठ्ग्रामत्वादेव सिद्धे नगरग्रहणं प्रवृत्तिभेदज्ञापनार्थम्, ग्रामग्रहणमङ्गविशेषणम्----पूर्वैषुकामशमी, नगरग्रहणं तूतरपदविशेषणम्---पूर्वपाटलिपुत्रकःऽ इति, वाहीकग्रामेभ्यश्च उदीच्यग्रामाच्चेत्यादौ ग्रामग्रहणेन नगरग्रहणं न स्यातस्मादाह---अग्राम इत्यत्र नगरप्रतिषेध इति। ग्रामाश्रयस्य प्रतिषेधस्य प्रतिषेध इत्यर्थः। उभयतश्चेति। ग्रामनगरात्मके उभयस्मिन्सति ग्रामाश्रयः प्रतिषेध एव वक्तव्यः, न पुनर्नगराश्रयः प्रतिषेध इत्यर्थः॥ क्षुद्रजन्तवः॥ २।४।८ ॥ क्षुद्रजन्तवः॥ क्षुद्रशब्दोऽयमस्त्येव कृपणे---क्षुद्रोऽयं पुरुष इति, अस्त्यङ्गहोने शीलहीने च---ठ्क्षुद्राभ्यो वाऽ इति, अस्ति परिमाणापचये---क्षुद्रास्तण्डुला इति; इह तु जन्तुशब्दसमभिव्याहारादन्तिमस्य ग्रहणमित्याह--अपचितपरिमाणः क्षुद्र इति। अल्पशरीर इत्यर्थः। अपचयस्यापेक्षिकत्वादनवस्था मा भूदिति स्मृतिमुपन्यस्यति---क्षुद्रजन्तुरनस्थिः स्यादिति। यस्यास्थीति न विद्यन्ते सोऽनस्थिः। स्मृत्यन्तरमाह---अथ वेति। क्षोतव्यः क्षुद्रः, अर्हार्थेऽपि ठ्स्फायीतञ्चिऽ इत्यादिना रक् प्रत्ययः, यः क्षुद्यमानोऽपि न म्रियते, यथा---जलूका, स क्षुद्रजन्तुः; यस्तु म्रियते स पापनिमितत्वान्न क्षोदार्हः। क्षुद्र एव य इति व्युत्पत्तिवशादेवायं प्रसिद्ध इत्यर्थः। स्मृत्यन्तरमाह----शतं वेति। प्रसृतिरञ्जलेरर्द्धं येषां शतं प्रसृतौ भवति, शतेनार्द्धाञ्जलिः पूर्यत इत्यर्थः। स्मृत्यन्तरमाह---केचिदा नकुलादपीति। नकुलपर्यन्ताः क्षुद्रजन्तव इत्यर्थः। इतरासां तद्विरोधादिति। अनस्थादिभिः स्मृतिभिर्ये प्रयोगा उपदर्शिता न ते सर्वे ताभिः संगृह्यन्त इत्ययमत्र विरोधः॥ येषां च विरोधः शाश्वतिकः॥ २।४।९ ॥ येषां च विरोधः शाश्वतिकः॥ विरोधो वैरमिति। न सहानवस्थानादिः, छायातपावित्यादावपि प्रसङ्गात्। पूर्वसूत्राच्चानुवृतेन जन्तुग्रहणेन विरोधस्य विशेषणात्। जन्तूनां हि विरोधो वैरमेव भवति। शाश्वतिको नित्य इति। शश्वदिति त्रैकाल्यमाह। ठ्तत्र भवाःऽ इति कालाट्ठञि तान्तादपि निपातनादिकादेशः, अव्ययानां भमात्रे टिलोपाभावश्च। गोपालस्यापत्यानि गौपालयः, अत्र कादाचित्को विरोधः। चकारः पुनारित्यादि। पशुशकुनिद्वन्द्वावकाशः----महाजोरभ्रं महाजोरभ्राः, हंसचक्रवाकं हंसचक्रवाकाः; विरोधिनामेकवद्भावस्यावकाशः---श्रमणब्राह्मणम्, मार्जारमूषिकम्; अश्वमहिषं काकोलूकमित्यत्रोभयप्रसङ्गे परत्वात्पशुशकुनिविभाषा स्यात्, चकारादयमेव भवति॥ शूद्राणामनिरवसितानाम्॥ २।४।१० ॥ शूद्राणामनिरवसितानाम्॥ शूद्रशब्दोऽत्र त्रैवर्णिकव्यतिरिक्तजातिमात्रवचनः, न वृषलपर्यायः, निरवसितप्रतिषेधात्। निरवसित इति। निरवपूर्वात्स्यतेः कर्मणिक्तः। तत्र प्रकृत्यर्थमाह----निरवसानं बहिष्करणमिति। अनेकार्थत्वाद्धातूनामुपसर्गवशाद्वेति भावः। पात्राद्वहिष्करणमिह विवक्षितमित्याह---यैरिति। संस्कारेणापीति। ठ्भस्मना शुध्यते कांस्यम्ऽ इत्यादिना स्मृतिकारैरुक्तेन न शुध्यति, तेन तत्र भोक्तुअं न लभन्त इति ततो बहिष्कृता भवन्ति॥ गवाश्वप्रभृतीति च॥ २।४।११ ॥ गवाश्वप्रभृतीति च॥ द्वन्द्वरूपाणीति अन्वयात्प्रभृतीनीति नपुंसकोपपतिः। गवाश्वप्रभृतीनि कृतैकवद्भावान्येव पठ।ल्न्ते, तेषामनेन साधुत्वमात्रं विधीयते, न त्वेकवद्भाव इत्याह---गवाश्वप्रभृतीनीति। गवाश्वादीनां चतुर्णाम्पशुद्वन्द्वे विभा षायां प्राप्तायां वचनम्। एवमुष्ट्रखरम्, उष्ट्रशशमिति। दर्भशरादीनां तृणोलपपर्यन्तानां तृणद्वन्द्वे विभाषायां प्राप्तायां दासीदासादीनाम् ठ्पुमान्स्त्रियाऽ इत्येकशेषाभावोऽपि निपातनात्। शाटीपटीकमित्यादीनामप्राणिजातिवचनानामबहुप्रकृत्यर्थः पाठः। अन्येषां कुब्जवामनादीनामप्राप्ते वचनम्। यथोच्चारितं द्वन्द्ववृतमिति। गणे याद्दशाः कृतावङदेशाः पठितास्ताद्दशानामेव द्वन्द्ववृतं द्वन्द्वकार्यमेकवद्भावलक्षणं भवति। रूपान्तरेष्विति। ठवङ् स्फोटायनस्यऽ इति विकल्पितत्वाद्यदा नास्ति तदेत्यर्थः। एतेन गणपाठे रूपमेषां विवक्षितम्, न पूर्वोतरपदनिर्देशमात्रे तात्पर्यमित्युक्तं भवति॥ विभाषा वृज्ञमृगतृणधान्यव्यञ्जनपशुशकुन्यश्ववडपूर्वापराधरोतराणाम्॥ २।४।१२ ॥ विभाषा वृक्षमृगतृणधान्यव्यञ्जनपशुशकुन्यश्ववडपूर्वापराधरोतरणाम्॥ अत्र वृभादिभिः प्रत्येकं द्वन्द्वे विशेष्यते। न चैको वृक्षशब्दो द्वन्द्वः, न च द्वयोः सहप्रयोगः, एकशेषात्। न च पर्यायाणामपि सहयोगः, विरूपाणामपि समानार्थानाम्ऽ एकशेषवचनात्, नापि विशेषेण सहप्रयोगः----वृक्षश्च धवश्चेति, वृक्षशब्देनैवाशेषविशेषाक्षेपाद्धवादिशब्दप्रयोगस्य निष्फलत्वात्। कथं तर्हि ठ्गोबलीवदाêऽ इत्यादौ सामान्यविशेषयोः सह प्रयोगः? बलीवर्दशब्दसंनिधौ गोशब्दस्य स्त्रीगवीष्वेव वृतेर्द्धयोरपि विशेषवचनत्वादिति चेद्, इहापि तर्हि धवपदसंनिधौ वृक्षशब्दस्य तद्व्यतिरिक्तविषयतया द्वन्द्वप्रसङ्गः? किं च वाक्येऽपि कथं सहप्रयोगः----ब्राह्मणा आगता वसिष्ठोऽप्यागत इति ? प्रादान्यख्यापनार्थमुक्तार्थस्यापि प्रयोग इति चेद्, द्वन्द्वेऽपि तर्हि प्राप्नोति। तस्मानदनभिधानमेवाश्रयणीयम्, न हि वृक्षधवमिति लोकेऽभिधानमस्ति, अतो वृक्षविशेषवाचिनां ग्राहणम्। एवं मृगादिष्वपि द्रष्टव्यम्। इत्येतेषां द्वन्द्व इति। एतेषामित्येकापि षष्ठी विषयभेदाद्भिद्यते---वृक्षादीञ्च्छकुनिपर्यन्तान्प्रत्यवयवषष्ठी, अश्ववडवादीन् प्रति निर्द्धारणषष्ठी। येऽत्राप्राणिनस्तेषां ठ्जातिरप्राणिनाम्ऽ इति नित्यं समाहारद्वन्द्वे प्राप्ते उभयत्र विधीयते । यो विभाषाप्राप्तैकवचनो द्वन्द्वः स एषां भवतीति वचनव्यक्त्याश्रयणेन तेषामेव वृक्षादीनामन्यैः सह द्वन्द्वे यथाप्राप्तं नित्यो विकल्पितो वा एकवद्भावो भवति----व्रीहिकुशप्लक्षमिति, ठ्जातिरप्राणिनाम्ऽ इति नित्यः, प्लक्षशब्दस्पर्शा इत्यत्राद्रव्यवाचित्वात्ठ्जातिरप्राणिनाम्ऽ इत्यस्याप्रवृतौ ठ्चार्थे द्वन्द्वःऽ इत्युभयत्र प्राप्तो भवति। पशुग्रहणं हस्त्यश्वादिषु परत्वात् सेनाङ्गलक्षणस्य नित्यविधेर्बाधनार्थम्। मृगशकुनिग्रहणं किमर्थम्, न ह्यएतेषामनेन प्रकरणेन नित्य एकवद्भावः प्राप्तः, यद्वाधनाय विकल्पोऽभ्यनुज्ञायते, अन्यत्र प्राप्त्यभावादेषामुभयत्रैव द्वन्द्व इति नियमो न सम्भवति? अथैषामेवोभयत्र द्वन्द्व इति नियमः स्यात्, क्व तर्ह्येषां स्यात्? क्वचिदिति चेत्, यद्येवम्, ठ्चार्थे द्वन्द्वःऽ इति सामान्यलक्षणमनवकाशस्यात्, विषिष्टविधानमेव तदानीमाश्रयणीयं स्यात् प्राण्यङ्गादीनां समाहारे दधिपयाअदीनामितरेतरयोगे वृक्षादीनामुभयत्रेति? अथैषामेवोभयत्रेत्यनेनान्येषामुभयत्रापि द्वन्द्वो वार्यते, अन्यतरत्र तु भवत्येव। एवमपि क्वान्यत्रेति न ज्ञायते, ठ्सर्वो द्वन्द्वो विभाषयैकवद्भवतिऽ इति चानुपपन्नं स्यात्? उच्यते---यतुल्यजातीयानामेवायं विकल्पस्तत्रैव नियमः प्रवर्तते---मृगविशेषवाचिनां मृगविशेषवाचिभिरेवोभयत्र द्वन्द्वः, अन्यैस्तु सहान्यतरत्रेति। नन्वेमपि न ज्ञायते---क्वान्यतरत्रेति, स्यादेतद् एवम्, यद्यौभयत्रैषां द्वन्द्व इति श्रुतं स्यात्। इह तु विभाषैकवचनो द्वन्द्व इति श्रूयते, ततश्च यो विभाषाप्राप्त एकवचनो द्वन्द्वः स मृगविशेषवाचिनां मृगविशेषवाचिभिरेव नान्यैरिति वचनव्यक्तौ व्यक्तमेव ज्ञायते---अन्यैः सहेतरएतरयोगद्वन्द्व इति। अथास्यां वचनव्यक्तौ विभाषाग्रहणं किमर्थम्, यावता विभाषैवैकवचनान्तो द्वन्द्वः प्राप्तस्तत्रैतावदेवास्तु--य एकवचनो द्वन्द्वः स एषामेभिरेवेति ? उच्यते---असति विभाषाग्रहणे वचनव्यक्त्यन्तरमपि सम्भाव्येत---एषामेभिः सहैकवचन एव द्वन्द्व इति, यथा प्राण्यङ्गदिषु। सति तु तस्य नियमस्यासम्भवादभिमतो नियमः संपद्यते। एवं पूर्वापरम्, अधरोतरमित्यत्रापि नियमस्वरूपं विज्ञेयम्। ठ्पशुद्वन्द्वऽ इत्येव सिद्धेऽश्ववडवग्रहणं प्रतिपदविधानार्थम्। तत्र प्रतिपदविधानादश्ववडवमित्येकवद्भावपक्षे ठ्पूर्ववदश्वडवौऽ इत्येतद्वाधित्वा ठ्स नपुंसकम्ऽ इत्येतदेव भवति, तच्छब्देन ह्यएकवद्भावभाजं परामृश्य विधीयमानं नपुंसकत्वमेकवद्भाववदेव प्रतिपदविहितं भवति। ठ्पूर्ववदश्ववडवौऽ इत्येततु एकवद्भावाभावपक्षे प्रवर्तते----अश्वडवौ, अश्ववडवान् इति। एतदेवाभिप्रेत्य वृत्तिकारस्तत्र वक्ष्यति---अश्ववडवयोर्विभाषैकवद्भाव उक्त इत्यादि। बहुप्रकृतिरिति। बहवो बहुत्वसंख्यायुक्ता वर्तिपदार्थाः प्रकृतिः कारणं यस्य द्वन्द्वार्थस्य स बहुप्रकृतिः, तदर्थाभिधायित्वाद् द्वन्द्वोऽपि बहुप्रकृतिः। नेदं स्वतन्त्रं लक्षणम्, स्वातन्त्र्ये नित्यं चेद्वनस्पत्यादीनामपि एतत्सूत्रविहितं विकल्पं बाधित्वा बहुप्रकृतित्वे नित्य एकवद्भावः स्यात्, विकल्पे फलादीनामपि ठ्जातिरप्राणिनाम्ऽ इत्यादिलक्षणान्तरेण प्राप्तं नित्यमेकवद्भावं बाधित्वा बहुप्रकृतित्वे विकल्पः स्यात्। अतो लक्षणान्तरस्य शेषोऽयम्। तत्रापि यदि ठ्विभाषा वृक्षऽ इत्यत्र पठितत्वादस्यैव शेषत्वं स्याततो वनस्पत्यादिष्वबहुप्रकृतित्वे एवद्विकल्पाभावेऽपि ठ्जातिरप्राणिनाम्ऽ इति नित्यो विधिः स्यात्, फलादिषु तु न दोषः; एतद्विकल्पप्राप्त्यभावाल्लक्षणान्तरप्राप्तेरेव नियमनात् तस्मात्सर्वस्यैव प्रकरणस्यार्थशेषस्तदेतदाह---एषां बहुप्रकृतिरेवेति। एषां फलादीनां द्वन्द्वोऽनेन लक्षणान्तरेण वा एकवद्भवन् बहुप्रकृतिरेवैकवद्भवतीत्यर्थः। बदरामलके इति। अत्र ठ्जातिरप्राणिनाम्ऽ इति न भवति। रथिकाश्वारोहाविति। अत्र सेनाङ्गलक्षणः। प्लक्षन्यग्रोधाविति। अत्रायं विकल्पः, ठ्जातिरप्राणिनाम्ऽ नित्यश्च न भवति। अवनस्पतीनां तु वृक्षिविशेषाणामबुहुप्रकृतित्वेऽप्ययं विकल्पो भवत्येव---आम्रपलाशम्, आम्रपलाशौ। अन्ये तु वनस्पतिग्रहणं वृक्षमात्रोपलक्षणं मन्यन्ते। रुरुपृषतौ, हंसचक्रवाकाविति। अत्राप्यस्य विकल्पस्याभावः। यूकालिक्षे इति। ठ्क्षुद्रजन्तवःऽ इत्यस्याभावः। व्रीहियवौ, कुशकाशावित्यत्र तूभयोः॥ विप्रतिषिद्धं चानधिकरणवाचि॥ २।४।१३ ॥ विप्रतिषिद्धं चानधिकरणवाचि॥ पस्परविरुद्धमिति। सहानवस्थानादिलक्षणो विरोधः, ठ्विप्रतिषिद्धानाम्ऽ इत्यादिसूत्रे तु तद्वाच्यवयवत्वाद् द्वन्द्वरूपमेव तथोक्तमिति भावः। अद्रव्यवाचिनामिति। एतेनाधिकरणशब्दो द्रव्ये वर्तते, नाधार इति दर्शयति। न हि द्वन्द्वावयवानामाधारे वृत्तिः सम्भवति; विभक्त्यर्थत्वादाधारस्येति भावः। अयमपि नियमार्थः प्रारम्भ; नियमस्वरूपं च---य एकवचनो द्वन्दो विभाषाप्राप्तः स यदि विप्रतिषिद्धवाचिनां भवत्यद्रव्यवाचिनामेव, द्रव्यवाचिनां त्वितरेतरयोग इति॥ न दधिपय आदीनि॥ २।४।१४ ॥ न दधिपय आदीनि॥ यथायथमिति। व्यञ्जनत्वाद्विकल्पस्य प्राप्तिस्तत्रादितिस्त्रिषु, पूर्वसूत्रविकल्पस्य शुक्लकृष्णाविति, न त्विह। यद्येवम्, प्रतिषिद्धेऽस्मिन्विकल्पे जातिलक्षणो नित्यः स्यादेकवद्भावः? परिहारोऽत्र वक्ष्यते---स्त्रियां यदुक्तं तन्नेति। यथा षट्स्वभिधास्यते तथात्राप्येकवद्भावमात्रमेव निषिध्यते । किं च, ब्रह्मप्रजापत्यादिष्वत्र पठितेषु समाहारद्वन्द्वनिषेधमुखेनेतरेतयोगद्वन्द्वो व्यवस्थाप्यते, तत्साहचर्यादेतेष्वपि चतुर्षु तदेव युक्तम्॥ अधिकारणैतावत्वे च॥ २।४।१५ ॥ अदिकारणैतावत्वे च॥ वृत्तिर्वर्तःउ समासः, सोऽस्यास्तीति समासावयवभूतं वर्तिपदम्, तस्यार्थोऽधिकरणमित्युच्यते, कथं पुनस्तदधिकरणमित्याह--स हीति। नियमस्य चात्र प्रतिषेधः प्राण्यङ्गादीनां समाहार एवेति नियमो वर्तिपदार्थस्येयतायां गम्यमानायां न भवतीति, न पुनः पूर्वसूत्रवत्समाहारद्वन्द्वस्य प्रतिषेधः। यद्येवम्, प्रतिषिद्धेऽपि नियमे ठ्दश दन्तोष्ठाःऽ इत्यधिकरणैतावत्वेऽपि ठ्चाथे द्वन्द्वःऽ इत्यनेन समाहारेऽर्थे द्वन्द्वः स्यादेव, ये चात्र प्रकरणेऽसंकीर्तितास्तेषु नियमस्याप्रसङ्गादसत्यस्मिन्प्रतिषेधे ठ्चार्थे द्वन्द्वःऽ इत्यनेन समाहारे द्वन्द्वः स्यादेव---दश ब्राह्मणक्षत्रिया इति, अतः प्रकृतानामन्येषां च सर्वेषामेकवचनो द्वन्द्वो न भवति, ठधिकरणैतावत्वेऽ इति समाहारद्वन्द्व एव प्रतिषेध्यः? उच्यते---ठधिकरणं वर्तिपदार्थःऽ इत्युक्तम्, न च समाहारद्वन्द्वे वतिपदार्थस्यैतावत्वं शक्यं प्रतिपादयितुम्, दशादिशब्दप्रयोगेऽपि हि तस्यैव द्वन्द्वार्थस्य समाहारस्य सङ्ख्याविशेषोऽवगम्यते, न वर्तिपदार्थस्य, यथा द्विगौ---दशपञ्चपूल्य इति। अतो वर्तिपदार्थस्य सङ्ख्याविशेषं प्रतिपिपादयिषताऽवश्यमितरेतरयोग द्वन्द्वो विधेय इति दशब्रह्माणक्षत्रिया इत्यादौ तावददोषः। यद्येवम्, अनेनैव न्यायेन ठ्दश दन्तोष्ठःऽ इत्यादावपि समाहारद्वन्द्वो न भविष्यतीति नार्थः प्रतिषेधेन? मैवम्; असत्यस्मिन्प्रतिषेधे प्राण्यङ्गादीनां समाहार एवेति नियमादितरेतरयोगद्वन्द्वो न स्यात्। न च समाहारद्वन्द्वे दशादिप्रयोगेऽपि वर्तिपदार्थस्य सङ्ख्याविशेषः प्रतिपादयितुं शक्य इति अधिकरणैतावत्वे प्रतिपिपादयिषिते द्वन्द्व एव न स्यादित्यारभ्यः प्रतिषेधः। दश दन्तोष्ठा इति। अत्र दशशब्दस्य प्रत्येकं सम्बन्धाद्वर्तिपदार्थस्येयता गम्यते, समुदायसम्बन्धेऽपि दन्तोष्ठात्मकवर्तिपदार्थगतैव सङ्ख्या॥ विभाषा समीपे॥ २।४।१६ ॥ विभाषा समीपे॥ ठधिकरणैतावत्वेऽ इत्यधिकारात्समीपरूप एतस्मिन्निति गम्यते, वृतौ त्वर्थमात्रं दर्शितम्। अधिकरणैतावत्वस्य समीप इति। अत्र च भावप्रधानः समीपशब्दः, अधिकरणैतावत्वस्य सामीप्ये परिच्छितावित्यर्थः। अत्र विस्पष्ट एव नियमस्य प्रतिषेधः, न हि विभाषा समाहारद्वन्द्वः प्रतिषेध्यः। अव्ययीभावो विहित इति। ठव्ययं विभक्तिऽ इत्यादिना। यद्यप्यत्र सङ्ख्ययेति नास्ति, सङ्ख्ययापि तु भवत्येव। बहुव्रीहिरिति। ठ्सङ्ख्ययाव्ययासन्नऽ इत्यादिना। तत्रैकवद्भावपक्षेऽव्ययीभावोऽनुप्रयुज्यत इति एकार्थस्यैकार्थ इति भावः। ऐकार्थ्यञ्च तस्य सामीप्यप्रधानत्वात्। यद्यप्यव्ययीभावोऽव्ययत्वान्निः----सङ्ख्यस्तथापि भेदाभावरूपमैकार्थ्यमस्त्येव। सामानाधिकरण्यं च सामीप्यतद्वतोरभेदाश्रयेण प्रतिपाद्यम्। अधिकरणैतावत्वमपि समाहारसमाहारिणोर्भेदाविवक्षयैवोपपाद्यम्। इतरत्र बहुव्रीहिरिति। बह्वर्थस्य बह्वर्थ इति भावः। बह्वर्थत्वं च तस्य समीपिप्रधानत्वात्। ननु द्वन्द्वार्थस्यैकवद्भावादनुप्रयोगस्याप्येकवचनता सिद्धा, किमेतया क्लिष्टकल्पनया? उच्यते--अव्ययीभावस्यैवानुप्रयोगे तस्याव्ययत्वा द्वहुत्वाभावाद् बहुवचनं न स्यात्,सत्यपि वा तस्मिन्नम्भावे कृते उपदशा इति न स्यात्। बहुव्रीहेरेव चानुप्रयोगे उपदशस्य पाणिपादस्येति षष्ठी स्याद्, उपदशम्पाणिपादस्येति चेष्यते; अतो यथोक्तमेव साधीयः॥ स नपुंसकम्॥ २।४।१७ ॥ स नपुंसकम्॥ परवल्लिङ्गतापवादो योगः। सग्रहणं व्यवहितस्य द्विगोरपि यथा स्याद्, अन्यथाऽव्यवहितस्य द्वन्द्वस्यैव स्यात्, नैतदस्ति; एकवचनमित्येतावन्मात्रमेवापेक्षिष्यामहे, नैकवचनविशेषं द्वन्द्वम्। एवं तर्हि योऽत्र प्रकरणेऽसङ्कीर्तितः समाहारद्वन्द्वस्तस्यापि यथा स्यात्? अन्यथा प्रकृतस्यैव द्वन्द्वस्य द्विगोश्च स्यात्। ननु प्रकरणमपि नापेक्षिष्यते, यद्येवम्, एकसङ्ख्य इत्यादावेकार्थस्य स्यात्, अतोऽवश्यापेक्ष्यं प्रकरणम्। तस्मिंश्चापेक्ष्यमाणे प्राण्यङ्गादिसम्बन्धादिरूपेण द्वन्द्वः प्रकृत इति तस्यैव स्यात्। स इत्येतस्मिंस्तु सति अपेक्ष्यमाणेऽपि प्रकरणे प्राण्यङ्गादिसम्बन्धपरित्यागेन योऽत्र प्रकरणे संकीर्तितो द्वन्द्वो द्विगुश्च ठ्स नपुंसकम्ऽ इति सर्वस्य समाहारद्वन्द्वस्य नपुंसकत्वं लभ्यते, एकादौ चातिप्रसङ्गो न भवति। तथा च ठ्युवोरनाकौऽ इत्यादावुच्यते---युवोरिति समाहारद्वन्द्वे स नपुंसकप्रसङ्गः। अतो यावान्कश्चन समाहारद्वन्द्वः प्राण्यङ्गादिसम्बन्धी, अन्यो वा, सर्वस्यास्य नपुंसकत्वं विधीयत इति सिद्धम्। अकारान्तोतरपद इति। अत्रात इत्यधिकारे ठ्द्विगोःऽ इति ङीब्विधानं लिङ्गम्। पञ्चखट्वीति। स्त्रीत्वपक्षे उपसर्जनह्रस्वत्वम्। अनो नलोपश्चेति। ठुतरपदत्वे चापदादिविधौऽ इति प्रत्ययलक्षणप्रतिषेधात्पदत्बाभावान्नलोपवचनम्। पात्रादिभ्य इति तादर्थ्य एषा चतुर्थी पात्राद्यन्तानां द्विगूनां सिद्धय इत्यर्थः। पात्रादिराकृतिगणः॥ अव्ययीभावश्च॥ २।४।१८ ॥ अव्ययीभावश्च॥ पूर्वपदार्थप्रघानस्येति। अधिस्त्रीत्यादौ पूर्वपदार्थस्यालिङ्गत्वादिलिङ्गतैव प्राप्नोति। अन्यपदार्थप्रधानस्येति। उन्मत्त्गङ्गमित्यादेः। पुष्याहमिति। कर्मधारये ठ्राजाहः सखिभ्यष्टच्ऽ, ठ्रात्राह्नाहाः पुसिऽ इत्यस्यापवादः। सुदिनमिति। सुदिनशब्दः प्रशस्तवचनः। सुदिनासु समासु कार्यमेतदिति तथा। त्रिपथमिति। षष्ठीसमासः। द्विगोः पात्रादित्वात्सिद्धम्। विरूपः पन्था विपथम्,प्रादिसमासः। क्रियाविशेषणानां चेति। क्रियाद्वारेण स्त्रीलिङ्गत्वे प्राप्ते वचनम्॥ तत्पुरुषोऽनञ्कर्मधारयः॥ २।४।१९ ॥ तत्पुरुषोऽनञ्कर्मधारयः॥ असन्देहार्थं नञ्कर्मधारयस्तत्पुरुष इत्यन्यासादनञ्कर्मधारय इति पदच्छेदः। अत्र कर्मधारयशब्दो भावप्रधानः, नञ्च कर्मधारयश्च नञ्कर्मधारयौ, तौ न विद्येते यस्मिंस्तत्पुरुषे सोऽनञ्कर्मधारय इति बहुव्रीहिः। तत्पुरुषे त्वस्मिन्नञ्मात्रस्य तत्पुरुषस्याभावातद्यौक्ततत्पुरुषो नञ्शब्देन लक्षणोयः स्यात्, लिङ्गवचनयोश्चान्यतरस्य व्यत्ययो वाच्यः स्यात्, अतो बहुव्रीहिरेव न्याय्यः। वृतौ वस्तुमात्रं दर्शितम्---नञ्समासं कर्मधारयं च वर्जयित्वेति। विभाषा सेनेति। अनन्तरेषु सूत्रेष्वस्य नातीवोपयोगः, ठ्सञ्ज्ञायां कन्थाऽ इत्यत्र तावदनादिः सञ्ज्ञा गृह्यते, न वा तत्पुरुषो नञ्समासः कर्मधारयो वा उशीनरेषु सञ्ज्ञास्ति, उपज्ञोपक्रममित्यत्रापि षष्ठीतत्पुरुषाद्विना तदादित्वासम्प्रत्ययः। ठ्छाया बाहुल्येऽ इत्यत्रापि पूर्वपदार्थधर्मो बाहुल्यं षष्ठीतत्पुरुषमन्तरेण न गम्यते। सभाराजेत्यत्र तु राजाऽमनुष्यपूर्वेति वचनान्नञ्समासस्य कर्मधारयस्य च सभान्तस्याप्रसङ्गः। द्वन्द्वस्य तु प्राप्नोति---ईश्वरश्च सभा च ईश्वरसभे इति, अतस्तत्रापि तत्पुरुष इत्यस्यांशस्योपयोगोऽस्त्येव। ठशाला चऽ इत्यत्र समूहवचनः सभाशब्दः, समूहस्य च समूह्यपेक्षा स्फुटतरेति षष्ठी तत्पुरुषस्यैव भविष्यति, नान्यस्य, ब्राह्मणश्च सभा च ब्राह्मणसभे, असभा, परमसभेति। अतः ठ्विभाषासेनाऽ इत्यत्रैवास्य साक्षादुपयोग इति भावः॥ संज्ञायां कन्थोशीनरेषु॥ २।४।२० ॥ संज्ञायां कन्थोशीनरेषु॥ तत्पुरुषस्य कन्थया विशेषणातदन्तविधिरित्याह---कन्थान्तस्तत्पुरुष इति। सौशमिकन्थमिति। सुशमस्यापत्यानि सौशमयः॥ उपज्ञोपक्रमं तदाद्याचिख्यासायाम्॥ २।४।२१ ॥ उपज्ञोपक्रमं तदाद्याचिख्यासायाम्॥ उपज्ञायत इत्युपज्ञेति। कर्मणि ठातश्चोपसर्गेऽ इत्यङ्प्रत्ययः। उपक्रम्यत इत्युपक्रम इति कर्मण्येव घञ् । ठ्नोदातोपदेशस्यऽ इति वृद्धिप्रतिषेधः। उपज्ञा चोपक्रमश्चेति समाहारद्वन्द्वः। तदन्तस्तत्पुरुष इति। सूत्रे तु उपज्ञोपक्रमं तत्पुरुषरूपमित्येवं सामानाधिकरण्येन विशेषणम्,तयौरुपज्ञोपक्रमयोरित्यादेर्विवरणम्---यदीति। आदिःउप्राथम्यम्। पाणिन्युपज्ञमिति। कर्तरि षष्ठयाः समासः। पूर्वाणि व्याकरणान्यद्यतनादिकालपरिभाषायुक्तानि, तद्रहितं तु व्याकरणं पाणिनिप्रभृतिप्रवृतमित्यस्ति तदादित्वस्याख्यानम्। व्याड।लु पज्ञमिति। अडः वृश्चिकलाङ्गूलम्, तेन च तैक्ष्ण्यं लक्ष्यते, विगताडो व्यडः, तस्यापत्यंव्याडिराचार्यः। स्वागतादिपाठात् ठ्न य्वाभ्याम्ऽ इत्येष विधिर्न भवति। दुषिति सङ्केतशब्दः, यथात्र वृत्करणम्। नन्दो राजा। मानानि प्रस्थादीनि। वाल्मीकिश्लोका इति षष्ठीसमासः। अस्त्यत्र तदादित्वस्याचिख्यासा; वाल्मीकिः प्रथमं श्लोकप्रबन्धं ददर्शति प्रसिद्धेः। देवदतो यज्ञदतेनोपज्ञायते यज्ञदतेनोपक्रम्यते इति क्रियासम्बन्धमात्रमत्र विवक्षितम्॥ छाया बाहुल्ये॥ २।४।२२॥ छाया बाहुल्ये॥ पूर्वपदार्थधर्मो बाहुल्यमिति। कथम्? बाहुल्य इति निमितसप्तमी। बाहुल्ये सति या छाया तद्वाची यश्छायाशब्दस्तदन्तस्तत्पुरुष इति सूत्रेऽक्षरान्वयः। तत्र कस्य बाहुल्यमित्यपेक्षायामावारकरद्रव्यनिमितकत्वाच्छायायास्तद्वाहुल्य इति गम्यते। तेन यानि बहूनि सम्भूयोपलम्भयोग्यामुपजीव्यां वा छायामारभन्ते तेष्वयं विधिः॥ सभा राजाऽमनुष्यपूर्वा॥ २।४।२३ ॥ सभा राजामनुष्यपूर्वा॥ इह सभाशब्दः शालावचनः। इह कस्मान्न भवतीति। ठ्स्वं रूपम्ऽ इति वचनादिहैव भवितुं युक्तमिति प्रश्नः। पर्यायवचनस्यैवेति। न स्वरूपस्य, नापि विशेषाणां चन्द्रगुप्तादीनामित्यर्थः। एतदेवाप्तोक्तेन द्रढयति----तदुक्तमिति। कथं पुनरेतल्लभ्यते? द्वावत्र नञौ---अराजपूर्वा, अमनुष्यपूर्वाचेति, तत्र नञिवयुक्तन्यानयेन राजशब्दसद्दशाः पर्याया एव गृह्यन्ते, अमनुष्यशब्दो रूढिरूपेणेति। कथं तर्हि ठमनुष्यकर्तृके चऽ इत्यत्र पितघ्नं घृतमित्युदाहरिष्यते? व्याख्यानातत्र मनुष्यादन्यमात्रस्य ग्रहणं न रूढिरित्यर्थः॥ अशाला च॥ २।४।२४ ॥ अशाला च॥ सभाशब्दोऽयं शालावचनः, संघवचनश्च, तत्र शालाप्रतिषेधादितरस्य ग्रहणमित्याह---संघातवचन इत्यादि। तत्र पूर्वसूत्रेण राजामनुष्यपूर्वत्वे शालावचनस्यापि भविष्यति, अशालावचनस्य त्वनेन राजामनुष्यपूर्वत्वाभावेऽपीति॥ विभाषा सेनासुराच्छायाशालानिशानाम्॥ २।४।२५ ॥ विभाषा सेनासुराच्छायाशालानिशानाम्॥ तत्पुरुष इति प्रकृतं षष्ठीबहुवचनान्तं विपरिणम्यते, नपुंसकमिति च भावप्रधानं संपद्यते। सेनाद्यन्तानां तत्पुरुषाणां नपुंसकत्वमित्यक्षरार्थः। वृतौ तु वस्तुमात्रं दशितम्। यद्वा---प्रथमास्थाने षष्ठी। कुड।ल्च्छायमिति। बाहुल्याभावेऽनेन विकल्पः, बाहुल्ये नित्यार्थम् ठ्छाया बाहुल्येऽ इत्युक्तम्। श्वनिशमिति। यस्यां निशायां श्वान उपवसन्ति सा श्वनिशमित्युच्यते। सा पुनः कृष्णचतुर्दशी तस्यां हि श्वान उपवसन्तीति प्रसिद्धिः॥ परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः॥ २।४।२६ ॥ परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः॥ किमर्थमिदम्? इह द्वन्द्वे त्रीणि दर्शनानिअवयवार्था एवापेक्षितपरस्पराः द्वन्द्वार्थो न तु तद्व्यतिरिक्तः समुदायो नामेत्येकम्; अवयवार्थव्यतिरिक्त एव समुदायो द्वन्द्वर्थः, स चावयवलिङ्गेन लिङ्गवानिति द्वितीयम्; स एव स्वयं लिङ्गशून्य इति तृतीयम्। तत्र पूर्वके दर्शनद्वये विभिन्न लिङ्गावयवद्वन्द्वे युगपदुभयलिङ्गतानुपपतेः पर्यायेण लिङ्गद्वयप्रसङ्गे परस्यैव लिङ्गं भवतीति नियमार्थ भवति। तृतीये तु समासार्थस्यालिङ्गस्य परवल्लिङ्गता भवतीति विध्यर्थः। तत्पुरुषोऽपि द्विविधः----पूर्वपदार्थप्रधानोऽर्धपिप्पाल्यादिः; उतरपदार्थप्रधानो राजकुमार्यादिः। तत्रोतरपदार्थप्रधाने प्राधान्यादेव परवल्लिङ्गस्य सिद्धत्वात्पूर्वपदार्थप्रधाने विध्यर्थ भवति। तत्र वृत्तिकारेण विधिपक्ष आश्रितस्तदाह---परस्य यल्लिङ्गं तद्भवतीति। एवं हि सूत्रस्यैकरूपा वचनव्यक्तिर्भवति, इतरथा तत्पुरुषे विधिरूपा द्वन्द्वे नियमरूपेति वचनव्यक्तिभेदः स्यादिति भावः। द्वन्द्वस्य तत्पुरुषस्य वेति। एतेन द्वन्द्वतत्पुरुषयोरिति षष्ठीयमिति दर्शयति। सप्तम्यां त्वयमर्थो भवति---द्वन्द्वे तत्पुरुषे च यत्परं तद्वल्लङ्गिं भवतीति। तत्र कार्यिणोऽनुपादानात्परशब्दत्वातदाक्षिप्तस्य पूर्वपदस्य लिङ्गविधिर्भवति। यद्वा---द्वन्द्वे तत्पुरुषे च विषये परस्यैव लिङ्गं भवतीत्यक्षरार्थः। तत्रापि पूर्वपदस्यैव लिङ्गविधिः। अत्र पक्षे मयूरीकुक्कुटावित्यत्रोतरपदार्थलिङ्गे पूर्वपदार्थस्यातिदिष्टे स्त्रीप्रत्ययस्य निवृत्तिः प्राप्नोति; कुक्कुटमयूर्यौ, राजकुमारी, अर्द्धपिप्पलीत्यादौ पूर्वपदे स्त्रीप्रत्ययप्रसङ्गः। कि पुनरस्मिन्पक्षे किंचिदिष्ट्ंअ सिध्यति? आहोस्विद्दोषान्तमेव? सिध्यतीत्याह। इह पूर्वकायः अर्धद्रोण इति, यत्र पूर्वपदं नपुंसकमुतरपदं च पुंल्लिङ्गम्, तत्र परस्य लिङ्गे पूर्वस्यातिदिष्टे समासस्यापि तदेव भवति, न च पूर्ववदिह किंचिदनिष्टमापद्यते। द्वन्द्वेऽपि पूर्वके दर्शनद्वये गुणकर्मणी द्रव्यगुणावित्यादौ यत्र पुंनपुंसकाभ्यां भिन्नलिङ्गे पूर्वोतरपदे, यत्र वाऽवर्णान्तं स्त्रीप्रत्ययान्तं वा पदं न भवति----गतिस्थाने, योषित्पूरुषौ, तितिरिबलाके इति, तत्रोतरपदार्थलिङ्गे पूर्वपदार्थस्यातिदिष्टे द्वन्द्वस्य पर्यायेण द्वयोरपि लिङ्गे प्रवृतेऽपि सर्वमिष्ट्ंअ सिध्यति, पूर्ववदेव न किं ञ्चिदनिष्टमापद्यते। ठ्व्यतिरिक्तो द्वन्द्वार्थः स्वयं लिङ्गशून्यःऽ इत्यत्र तु पक्षे द्वन्द्वार्थस्यालिङ्गत्वं तदवस्थमेवेत दोषान्तिमेव। द्वन्द्वस्य तत्पुरुषस्य चेति। द्वन्द्वार्थस्य तत्पुरुषार्थस्य चेत्यर्थः। तेनानुप्रयोगेऽपि तदेवं लिङ्गं भवति। यदि तर्हि षष्ठ।लश्रयणेन समासार्थस्य परवल्लिङ्गमतिदिश्यते, ठ्पूर्ववदश्ववडवौऽ इत्यत्रापि पूर्वपदार्थलिङ्गं समासार्थेऽतिदिश्यते, ततश्चोतरपदार्थस्य स्त्रीत्वं स्थितमेवेति टापः श्रवणप्रसङ्गः। सप्तमीपक्षे तु ठ्पूर्ववदश्ववडवौऽ इत्यत्रापि पूर्वपदार्थलिङ्गमुतरपदार्थस्यातिदिश्यत इति वडवाशब्दस्य पुंस्त्वातिदेशात् स्त्रीत्वाभावे टापोनिवृत्तिः सिध्यति। निपातनात्सिद्धम्। किं निपातनम्? न तावत् ठ्पूर्ववदश्ववडवौऽ इति निपातनमाश्रयितुमुचितम्, वचनान्तरेऽनतिदेशप्रसङ्गाद् अश्ववडवान्, अश्ववडवैरिति। एवं तर्ह्यश्ववडवपूर्वापराधरोतराणामित्यत्र टापोऽनुच्चारणान्निपातानादश्ववडवयोर्द्वन्द्वे टाब्निवर्तिष्यते। अपर आह---ठ्चार्थे द्वन्द्वःऽ इत्यत्रानेकमित्यधिकारात्सर्वेषामेव वर्तिपदार्थष्यति। इहापि तर्हि प्राप्नोति----कुक्कुटमयूर्याविति? अस्तु, का रूपसिद्धिः? परवल्लिङ्कमिति शब्दशब्दार्थो, कोऽर्थः? लिङ्गशब्देन लिङ्गाभिधायी प्रत्ययोऽर्थश्चतन्त्रेणैकशेषेण वाच्यते। तदयमर्थो भवति---द्वन्द्वार्थस्य तत्पुरुषार्थस्य परस्येव लिङ्गं भवति, तदभिधायी प्रत्ययश्च परस्यैव भवति ताभ्यामिति। तत्र च यत्र द्रव्यगुणौ गुणकर्मणी----अर्द्धद्रोण इत्यादौ, लिङ्गाभिधायी प्रत्ययो न संभवति तत्रार्थ एवातिदिश्यते, उभयसम्भवे तूभयम्---यथा कुक्कुटमयूर्याविति, ततश्चौपदेशिकस्य ह्रस्वत्वेऽप्यातिदेशिकस्य श्रवणं भविष्यति; तस्य चानुपसर्जनत्वातदन्तस्य चाप्रातिपदिकत्वात्पुनर्ह्रस्वत्वाभावः। इह तर्हि दतागार्ग्यायण्यौ, दताकारीषगन्ध्ये इति ह्रस्वत्वे कृते समासात्पुनः ष्फष्यङै प्राप्नुतः? स्ताम्, ठ्भस्याऽढेअ तद्धितेऽ इति पूर्वोत्पन्नयोर्निवृत्तिर्भविष्यति। यत्र तर्हि पुंवद्भावो नास्ति अभत्वाद्, यथा---दता च युवतिश्च दतायुवती इति, तत्र द्वयोः स्त्रीप्रत्यययोः श्रवणप्रसङ्गः, तस्मादुपसर्जनह्रस्वत्वं द्वन्द्वे न भवति। अन्वर्था ह्युपसर्जनसंज्ञाऽप्रधानस्य विधीयते, द्वन्द्वे चावयवार्थानामेव कार्यान्वयादप्राधान्याभावः। परवल्लिङ्गमिति चार्थ एवातिदिश्यते, अश्ववडवाविति च निपातनादित्येतदेव सम्प्रति। द्विगुप्राप्तापन्नेत्यादि। स तर्हि प्रतिषेधो वक्तव्यः? न वक्तव्यः, तत्पुरुषग्रहणं न करिष्यते, परवल्लिङ्गं द्वन्द्वस्येत्येव। कथं पूर्वकायः, अर्धपिप्पलीति? एकदेशिसमासो नारप्स्यते, कर्मधारय एवात्र भविष्यति---पूर्वश्चासौ कायश्च, अर्धं चासौ पिप्पली चेति। पूर्वादयः शब्दा एकदेशे वर्तन्ते, कायादयस्तु समुदाये, कथमेषां सामानाधिकरण्यम्? अवयवेन समुदायोपचारात्। तदेवं कर्मधारये कृते प्राधान्यादेवोतरपदार्थस्य लिङ्गं भविष्यति, नार्थस्तत्पुरुषग्रहणेन, नाप्येकदेशिसमासेन षष्ठीसमासप्रङ्गः इति चेन्न; इष्टत्वादनभिधानाच्च। तत्रैत्स्यात्--यद्यपि पूर्वकाय इत्यादीति रूपाणि कर्मधारयेणापि सिध्यन्ति, तथापि मुख्यार्थवृत्तिषु कायादिशब्देषु यथा पूर्वं कायस्येत्येवमादि वाक्यं भवति, तथा कायपूर्व इत्यादि षष्ठीसमासोऽपि स्याद्, अतस्तन्निवृतये एकदेशिसमास आरब्ध इति? तच्च नैवम्; इष्टत्वादनभिधानाच्च। तत्र तावद् ठ्द्वितीयतृतीयऽ इत्यत्रान्यतरस्यांप्रहणात्सूत्रकारस्य षष्ठीसमास इष्टः---भिक्षाद्वितीयमिति, ठर्द्धं नपुंसकम्ऽ इत्यत्रापि भाष्यकार आह---ठिष्यतेऽत्र षष्ठी समासोऽपि, तद्यथा---अपूपार्धं मया भक्षितम्ऽ इति। अस्ति च पैङ्गलेसूत्रे प्रयोगः---स्वरार्धं चार्यार्धमिति। पूर्वापरेत्यत्र त्वनभिधानात् षष्ठीसमासो न भविष्यति॥ पूर्ववदश्ववडवौ॥ २।४।२७ ॥ पूर्ववदश्ववडवौ॥ अश्वडवयोरिति। ठ्विभाषा वृक्षऽ इत्यत्र ठ्पशुद्वन्द्वऽ इत्येव सिद्धेऽश्ववडवग्रहणं प्रतिपदविधानार्थम्, तत्र प्रतिपदविधानादश्ववडवमित्येकवद्भावपक्षे इमं विधं बाधित्वा ठ्स नपुंसकम्ऽ इत्येतदेव भवति। तच्छब्देन ह्यएकवद्भावभाजं परामृश्य विधीयमानं नपुंसकत्वमप्येकवद्भाववदेव प्रतिपदविहितं भवति। यस्तु पूर्ववदित्यतिदेशः स एकबद्भावाभावपक्षे चरितार्थः, तदाह---तत्रैकवद्भावादन्यत्रेति। न निपातनमिति। निपातने हि पूर्ववदिति वचनमनर्थकम्, अविवक्षितमित्यर्थः। निपातने तु तद्विवक्षितं स्याद्, यथोच्चारितरूपविषयत्वान्निपातस्य॥ हेमन्तशिशिरावहेरात्रे च च्छन्दसि॥ २।४।२८ ॥ हेमन्तशिशिरावहेरात्रे च च्छन्दसि॥ हेमन्तशिशिराविति। अत्र नपुंसकत्वं प्राप्तं शिशिरशब्दस्य नपुंसकत्वात्। केचितु ठ्हेमन्तः शिशिरोऽस्त्रियाम्ऽ इत्युभयलिङ्गंमन्यन्ते, तेषामत्र हेमन्तशिशिरावित्यनर्थकम्। अहोरात्रे इति। अत्र ठ्रात्राह्नाहाः पुठ्सऽ इति पुंस्त्वं प्राप्तम्। लिङ्गव्यत्यय उक्त इति । ठ्व्यत्ययो बहुलम्ऽ इत्यनेन॥ रात्राह्नाहाः पुंसि॥ २।४।२९ ॥ रात्राह्नाहाः पुंसि॥ इत्येते पुंसि भाष्यन्ते इति। केचिदाहुः---रात्रादीनामेवानेन पुंस्त्वं विधीयते, तदन्तस्य तु परवल्लिङ्गमित्येव सिद्धमिति। एवं तु समाहारे ठ्स नपुसकम्ऽ इत्येतदेव स्यात्, परवल्लिङ्गपवादत्वातस्य, तस्माद्रात्राद्यन्तस्य समासस्यैवेदं लिङ्गविधानं युक्तम्,। एवं हि समाहारेऽपि परत्वादिदमेव प्रवर्तते। इत्येते पुंसि भाष्यन्ते इत्यत्र त्वेतदन्ता इत्यर्थो द्रष्टव्यः। त्रिरात्र इति। समाहारे द्विगुः, ठहः सर्वैकदेशेऽ इत्यच् समासान्तः। पूर्वाह्ण इति। अह्नः पूर्वो भागः, एकदेशिसमासः। ठ्राजाहः सखिभ्यष्टच्ऽ,ठह्नेह्न एतेभ्यःऽ इत्यह्नादेशः, ठह्नोऽदन्तात्ऽ इति णत्वम्। द्व्यह इति। ठ्न संख्यादेः समाहारेऽ इत्यह्नादेशाभावः, ठह्नष्टखोरेवऽ इति टिलोपः। अनुवाकादयः पुंसिति। वाक्यविशेषस्य ताः संज्ञाः कर्मणि घञन्ता इति नपुंसकत्वे प्राप्ते वचनम्॥ अपथं नपुंसकम्॥ २।४।३० ॥ अपथं नपुंसकम्॥ ठ्पथः संख्याव्ययादेःऽ इत्यस्यापरकालभावित्वादयमारम्भः। अपथमिति। ठ्पथो विभाषाऽ इति यदा समासान्तप्रतिधेषो न भवति तदा ठृक्पूरब्धूःऽ समासान्तः। समासान्तनिर्देशाच्च तदभावपक्षे पुंस्त्वमेव भवति--अपन्था इति। तत्पुरुष इति वर्ततैति। एतदर्थमेव ठ्स नपुंसकम्ऽ इत्यस्यानन्तरं न कृतम्॥ अर्धर्चाः पुंसि च॥ २।४।३१ ॥ अर्धर्चाः पुंसि च॥ साहचर्याच्छत्रिन्यायेन कार्षापणादीनामप्यर्धर्चशब्देन ग्रहणमित्याह----अर्धर्चादय इति बहुवचनमत्र प्रमाणम्। शब्दरूपाश्रया चेयं द्विलिङ्गतेति। अस्मिंश्च्छब्दरूपे लिङ्गद्वयं भवतीत्येतावदत्र विवक्षितम्, न पुनरस्य शब्दस्य यावानर्थस्तत्र सर्वत्र लिङ्गद्वयं बवतीत्येवमपीत्यर्थः। किमेवं सति सिद्धं भवतीत्याह----क्वचिदिति। अर्थभेदेन व्यवस्थयापि भवल्लिङ्गद्वयं तत्रैव शब्दे संप्रवृतमिति भावः। अत्रोदहरणमाह---यथेति। ठ्शङ्खः पद्मश्च विज्ञेयौ धनदस्य महानिधीऽ। क्रियाशब्दस्येति। तद्यथा---भूतं काण्डम्, भूता शाला, भूतो घट इति। यौगिकस्याभिधेयवल्लिङ्गमिति। यद्यपि लवणवृतेरपि सैन्धवशब्दस्य योगोऽपि निमितम्, तथापि रूढिशक्तिरपि तत्र निमितम्। अतो यौगिकस्येति केवलयोगनिमितस्येत्यर्थः। अभिधेयवल्लिङ्गमिति, यथा---सिन्धौ भवं सैन्धवं जलम्, सैन्धवो मत्स्यः, सैन्धवी शफरीति। उत्कर्षे तुंल्लिङ्ग इति। चन्दनसारः, खदिरसार इति। धर्म इत्यपूर्वे पुंल्लिगा इति। यागादिक्रियाजन्यः स्वर्गादिफलानुगुणः कर्तर्युत्पन्नः संस्कारविशेषःऊअपूर्वम्। भाट्टास्तु अपूर्वसाधने यागादावेव धर्मशब्दं पुंल्लिङ्गम्मन्यन्ते----ठ्चोदनालक्षणोऽर्थो धर्मःऽ, ठ्द्रव्यक्रियागुणादीनां धर्मन्वं स्थापयिष्यतेऽ इति। शाबरेऽप्युक्तम्----ठ्यो यागमनुतिष्ठति तं धार्मिक इत्याचक्षतेऽ इति॥ इदमोऽन्वादेशेऽशनुदातस्तृतीयादौ॥ २।४।३२ ॥ इदमोऽन्वादेशेऽशनुदातस्तृतीयादौ॥ अन्वादेशोऽनुकथनमिति। शब्दार्थकथनमेतत्, याद्दशस्त्वत्राभिप्रेतस्ताद्दशं पश्चाद्वक्ष्यति। आभ्यां छात्राभ्यामिति। आदेश एषः। अथो आच्छभ्यामिति। एषोऽन्वादेशः। अथोशब्देन चात्रान्वादेशऽभिव्यज्यते। ननु तृतीयादावयमादेशस्ततत्र च टायामोसि चैनादेशो वक्ष्यते, अन्याः सर्वा हलादयः, तत्र हलिलोपेनैवाभ्यामित्यादिरूपं सिद्धम्; नार्थ आदेशवचनेन, तत्राह--आदेशवचनमिति। अज्ञाताद्यर्थविवक्षायामकचि कृते ठ्हलि लोपःऽ इत्यत्र ठनाप्यकःऽ इत्यतोऽक इत्यधिकारादिद्रूपलोपो न स्यात्, सत्यपि च तस्मिन्नाभ्यामित्यादि रूपं न सिद्ध्यत्; तस्मात्साकच्कार्थमादेशवचनम्। साच्कार्थे चास्मिन् शित्करणं सर्वादेशार्थम्, न वान्त्यस्य विकारवचनानर्थक्यात्। यदि ह्ययमन्त्यस्य विकारः स्याद्वचनमिदमनर्थकं स्यात्; त्यदाद्यत्वेनैव सिद्धेः। अर्थवद्वादेशप्रतिषेधार्थम्। अन्त्यस्यापि विकारवचनमर्थवदेव, येऽन्य आदेशा आभ्यामित्यादौ दीर्घादयस्ते मा भूवन्नित्यकारस्याप्यकारवचनं स्यात्, यथा---मोराजिसमः क्वौऽ इति मकारस्य मकारवचनमनुस्वारनिवृत्यर्थम्। ननु च कृतेऽप्य कचि अनेनादेशे सत्याभ्यामित्यादिरूपस्य साधारण्या९दज्ञाताद्यर्थगतिः प्रकरणाधीना। यद्येवम्, अनुत्पत्तिरेवाकचोऽस्तु, प्रकरणादिनैवाज्ञाताद्यर्थः प्रतिपत्स्यते,। अतोऽनुदातत्वमेव विधेयम्, नादेशः? उच्यते----असत्यादेशे प्रकरणादिकमन्तरेणाकचैव कश्चिदज्ञातादिकं प्रतिपादयेत्, मैवं प्रतिपीपददित्यादेशवचनम्। उतरार्थ च। अनुदातवचनं किमर्थम्, यावता ठूडिदम्पदादिऽ इति विभक्तेरुदातत्वं शेषनिघातेनैव सिद्धम्। अनुदातवचनं विभक्त्वयन्तस्यानुदातार्थम्, शेषनिघातेन हि प्रकृतेरेवानुदातत्वं सिद्ध्यति। कथं पुनरिदमस्तृतीयादावशादेशो भवति, स चानुदात इत्यनेन विभक्त्यन्तस्यानुदातत्वं विधातुं शक्यम्? नानेन विभक्त्यन्तस्यानुदातत्वं विधीयते, किं त्वनेन प्रकृतेरनुदातत्वे कृते ठूडिढम्ऽ इत्यत्रान्तोदातादित्यदिकारादसति विभक्तेरुदातत्वेठ् अनुदातौ सुप्पितौऽ इत्यनुदातत्वादाभ्यामित्यादि पदं कृत्स्नमेवानुदातं भवति। यद्यन्वादेशोऽनुकथनम्, इहापि प्राप्नोति---देवदतं भोजजय, इमं च यज्ञदतमिति, अस्ति ह्यत्रान्वादेशः, तत्र द्विदीयाटौस्स्वेनःऽ इत्येनादेशः प्राप्नोति? इत्यत आह---नेहेति। एकस्यैवाभिधेयस्येत्यादि। तत्रैवान्वादेशशब्दः प्रसिद्धतर इति भावः॥ एतदस्त्रतसोस्त्रतसौ चानुदातौ॥ २।४।३३ ॥ एतदस्त्रतसोस्त्रतसौ चानुदातौ॥ पुनर्वचनमनुदातार्थमिति। पाञ्चमिकोऽशादेश उदातः स्याद्, अनुदातश्चेष्यते इत्यनुदातार्थ पुनर्वचनम्। त्रतसोरिति वचनं निमितभावार्थम्; अन्यथा ठ्त्रतसौ चानुदातौऽ इत्यन्वाचयो विज्ञायेत---यत्र त्रतसौ पश्यसि तत्र तावनुदाताविति। किमर्थं पुनस्त्रतसोरनुदातत्वमिष्यते, यावताऽत्रात इत्यादौ त्रतसोः कृतयोः प्रकृतेर्लित्स्वरे कृते शेषनिघातेन प्रत्ययानुदातत्वेसत्यशनुदातः करिष्यते? यद्येवं लभ्यते, कृतं स्यात्; ततु न लभ्यम्। इह हि त्रतसोः कृतयोर्लित्स्वरश्च प्राप्नोति, अनेन चानुदातोऽशादेशः, तत्र येन नाप्राप्तिन्यायेनापवादत्वान्नित्यत्वाच्चानुदातेऽशादेशे कृते तद्विधानसामर्थ्यादपवादस्य लित्स्वरस्याप्रवृतानुत्सर्गः प्रत्ययस्वर एव त्रतसोः स्यात्, यथा---गोष्पदप्रमित्यत्र णमुल उलोपेन सहि विधानाल्लित्स्वराप्रवृतौ प्रत्ययाद्यौदातत्वे सति कृदुतरपदप्रकृतिस्वरेणान्तोदातं पदं भवति। तस्मात् ठ्त्रतसौ चानुदातौऽ इति वक्तव्यम्॥ द्वितीयाटौस्स्वेनः॥ २।४।३४ ॥ द्वितीयाटौस्स्वेनः॥ अनन्तरत्वादेतद एवैनादेशः प्राप्नोति, इदमोऽपीष्यते, तदिदमो ग्रहणं कर्तव्यम्? न कर्तव्यम्, ठिदमोऽन्वादोशेऽ इत्यत इदम इत्यनुवर्तिष्यते, एतदस्त्रतसोरित्यत्रापि संबन्धातस्यापि त्रतसोरादेशप्रसङ्गस्तत्राह---इदमो मण्डूअकप्लूतिन्यायेनानुवृत्तिरिति। इदमप्यत्र वक्तव्यम्----इदमो हप्रत्ययेन बाधितत्वात्रलोऽसम्भावात्रतसोहित्यत्रासम्बन्ध इति। यदि परमनुवृत्तिसामर्थ्यातस्याप्यादेशेन भाव्यम्, न चासति त्रलि तद्विधानमुपपद्यत इति त्रलः सता परिकल्प्यते? कल्प्यते? तदपि न; उतरार्थमप्यनुवृत्तिसम्बवादिति। एनदिति नपुंसकैकवचने वक्तव्यमिति। एनादेशे कृते ठतोऽम्ऽ इत्यम्भावे सत्येनमिति प्राप्नोत्यत एनदादेशो वक्तव्यः। यद्येवम्, अयमेव सर्वत्रास्तु, नार्थ एनादेशेन, कथम्---एनम् एनौ एनान्, ऐनेन, एनयोरिति? त्यदाद्यत्वे कृते भविष्यति, नपुंसकैकवचने तु नित्यत्वात् ठ्स्वमोर्नपुंसकात्ऽ इति लुकि कृते एनदिति स्यादिति सिद्धम्, इह त्वेनं श्रित इति द्वितीयासमासे यद्यप्येनादेशोऽथाप्येनदादेशः, उभायभ्यामपि न भाव्यम्, कथम्? ठन्तरङ्गानपि विधीन् बहिरङ्गो लुग्बाधतेऽ,तस्मादेतच्छ्रित इति भवति। एकमएव विधानमिति। ठयं दण्डःऽ इत्यनेन दण्डस्य सतामात्रमुपलक्ष्यते, न तु किञ्चिद्विधीयते। एवमीषदर्थ इत्यादिना आकारस्य स्वरूपमात्रं निर्दिश्यते, न तु किञ्चिद्विधीयते॥ आर्धधातुके॥ २।४।३५ ॥ आर्धधातुके॥ वध्यादिति। आशिषि लिङ्, ठ्लिङशिषिऽ इत्यार्धधातुकसंज्ञा। हन्यादिति। विध्यादिलिङ्। विषयसप्तमी चेयमिति। सामान्यनिर्देशोऽयम्। तत्र व्यापित्वान्नित्यत्वाच्च न तेन सह देशकालकृतं पौर्वापर्यं सम्भवति, तस्याद्विषयसप्तमी। यदि तु व्यक्तिनिर्देशेन परसप्तमी स्यात्, भव्यमित्यादि न स्यात्। तथा हिहलन्तत्वादस्त्यादीनाम्ठृहलोर्ण्यद्ऽ इति ण्यति कृते तत्र परत आदेशैर्भाव्यम्। तत्र द्वयोर्वृद्धौ कृतायां तृतीयस्य च युकि---भाव्यम्, प्रवैयम्, आख्याय्यमिति प्रसज्येत। इह च ठ्ब्रुवो वचिःऽ ब्रुवोऽजन्तत्वाद्यति कृते वच्यादेशे च वच्यमिति प्राप्नोति, विषयसप्तम्यां तु नैष दोष इत्याह---तेनेति। यथाप्राप्तमिति। यो यतः प्राप्नोति, स ततो भवतीत्यर्थः। ठसिद्धवदत्राभात्ऽ इत्यस्य भावाभावव्यवस्थार्थम्। अत्र चाङ्गाधिकारे च द्विरार्धधातुकाधिकारः क्रियते। यदि ह्यएतेऽप्यादेशास्तत्रैववीधीरेयन्, जक्षतुः, अधिजगे, अध्यगीष्ट, बभूव, विव्यतुरिति घसाद्यादेशानामसिद्धत्वादुपधालोपातल्लोपे त्ववुग्यणो न स्युः। यदि त्वतोलोपादयोऽप्यत्रविधीयेरन्; गतः, गतवानित्यनुनासिकलोपस्यासिद्धत्वात्ठ्ग्रतो लोपःऽ स्यादित्येषा दिक्॥ अदो जग्धिर्ल्यप्ति किति॥ २।४।३६ ॥ अदो जग्धिर्ल्यप्ति किति॥ ठ्ल्यप्ऽ इति पृथक् पदं लुप्तसप्तमीकम्। इह पदद्वयापेक्षं समासमपेक्षमाणो ल्यब्बहिरङ्गः, क्त्वाप्रत्ययमात्रापेक्षस्तु जग्ध्यादेशोऽन्तरङ्गः; तत्र क्त्वावस्थायामेव जग्धौ कृते प्रजग्ध्येति सिद्धम्, नार्थो ल्यब्ग्रहणेन। एवं तर्हि ल्यब्विषयेऽप्यन्तरङ्गत्वाति कितीत्येव सिद्धे जग्धौ ल्यबिति यदुच्यते तज्ज्ञापयति---अन्तरङ्गाणामपि विधीनां हिप्रभृतीनां ल्यपा भवति बाधनमिति। विधाय,विहाय, प्रदाय, प्रखाय, प्रखन्य, प्रस्थाय, प्रकम्य, आपृच्छय, प्रदीव्य, प्रपठ।लेत्येषु विधिषु ठ्दधातेर्हिःऽ ठ्जहातेश्च क्त्विऽ दो दद् घोःऽ ठ्जनसनखनां सञ्झलोःऽ ठ्द्यतिस्यतिमास्थामिति कितिऽ ठनुनासिकस्य क्विझलोः क्ङितिऽ ठ्च्छवोः शूडनुनासिके चऽ ठार्धधातुकस्येड्वलादेःऽ इत्येते विधयः क्त्वावस्थायामेव प्राप्ता बहिरङ्गेन ल्यपा बाध्यन्ते। एष एवार्थः श्लोकान्तरेण भाष्ये कथितः----जग्धिविधिर्ल्यपि यतदकरणम्। अकरणं निष्प्रयोजनमित्यर्थः। सिद्धमदस्ति कितीति विधानात्। अदो जग्धिविधानमित्यर्थः। ज्ञापकार्थ ल्यपि जग्धिविधानमित्याह---हिप्रभृतीस्तु सदा बहीरङ्गो ल्यब्भरतीति कृतं तदु विद्धि। ल्यब्भरतीति, ल्यबादेशो हरतिउव्यपनयति, बाधते इत्यर्थः। ठुऽ इति निपातोऽवधारणे। तदेवास्य प्रयोजनमित्यर्थः॥ लुङ्सनोर्घस्लृ॥ २।४।३७ ॥ लुङ्सनोर्धस्तु॥ ननु ठ्सृघस्यदः क्मरच्ऽ इति वचनाद् न्न्न्न्न्न्न्न्न्त्यन्तरमस्ति? सत्यम्; अदेरात्सीद् अत्सिषतीत्यनिष्ट्ंअ रूपं मा भूदिति योगारम्भः। प्रातीति प्रघस इति, पचाद्यच्। अस्यापि सूत्रवदेव प्रयोजनम्॥ घञपोश्च॥ २।४।३८ ॥ बहुलं च्छन्दसि॥ २।४।३९ ॥ बहुलं च्छन्दसि॥ घस्तामिति। लुङ् ठ्मिन्त्रे घसऽ इत्यादिना चलेर्लुक्, ठ्बहुलं च्छन्दस्यमाङ्योगेऽपिऽ इत्यडभावः। सग्घिरिति। ठ्घसिभसोःऽ इत्युपधालोपः, ठ्झलो झलिऽ, समाना ग्धिरिति चठ्समानस्य च्छन्दसिऽ इति सभावः। अन्यतरस्यांग्रहणमेव कस्मान्न क्रियत इति, कः पुरनेवं सति गुण इत्याह----तदेवेति। प्रकृत्यन्तरस्य सद्भावादस्य प्रयोजनं प्रयोजनं मृग्यम्॥ लिट।ल्न्यतरस्याम्॥ २।४।४० ॥ लिट।ल्न्यतरस्याम्॥ प्रकृत्यन्तरस्यासर्वविषयत्वज्ञापनार्थमिदम्। तेन यत्र लिङ्गं वचनं वा नास्ति, तत्र तस्य प्रयोगो न भवति। तत्र लृदित्करणं लुङ् प्रियोगस्य लिङ्गम्, घसिश्च सान्तेष्वित्यनुदातपाठो वलादावार्द्धधातुक, ठ्सृघस्यदः क्मरच्ऽ इति वचनं क्मरचि। भूवादौ परस्मपदिषु पाठात्परस्मैपदे प्रयोगः॥ वेञो वयिः॥ २।४।४१ ॥ हनो वध लीङ्॥ २।४।४२ ॥ हनो वध लिङ्॥ यिकारान्तश्चायमादेश इति। कुत एतत्? शैलीयमाचार्यस्य यत्र व्यञ्जनान्त आदेशस्तत्रेकारमुच्चारयति, यथा जग्ध्यादौ। तस्मादिकाराकरणादकारान्तोऽयमादेशः। हलन्तलज्ञणा वृद्धिर्न भवतीति। उतरसूत्रेण वधादेशे कृत इति भावः॥ लुङ् चि॥ २।४।४३ ॥ आत्मनेपदेष्वन्यतरस्याम्॥ २।४।४४ ॥ आत्मनेपदेष्वन्यतरस्याम्॥ आहसतेति। ठाङे यमहनःऽ इत्यात्मनेपदम्। ठात्मनेपदेष्वनतः, ठ्हनः सिच्ऽ इति सिचः कित्वात् ठनुदातोपदेशऽ इत्यनुनासिकलोपः॥ इणो गा लुङि॥ २।४।४५ ॥ इणो गा लुङ्॥ इगुरिति। ठ्गातिस्थाऽ इति सिचो लुक्, ठातःऽ इति झेर्जुस्, ठुस्यपदान्तात्ऽ। इण्वदिक इति वक्तव्यमिति। यद्यस्यैवायं प्रकरणस्य शेषः स्यात् ठिणिकोर्गा लुङ्---ईति सूत्रन्यासः कर्तव्यःऽ इत्यवक्ष्यत; यतस्तु खलु पृथगिण्वदिक इत्याह, तेन मन्यामहे---सर्वस्य शास्त्रस्य शेषोऽयमिति। तेन ठिणो यण्ऽ ठेतिस्तु शासुऽ इत्याद्यपि भवति----अधियन्ति, अधीत्येति॥ णौ गमिरबोधने॥ २।४।४६ ॥ सनि च॥ २।४।४७ ॥ इङ्श्च॥ २।४।४८ ॥ गाङ् लिटि॥ २।४।४९ ॥ गाङ् लिटि॥ द्विलकारकोऽयं निर्देशः---लिटि लकारादाविति। तेन प्रागेवादेशेभ्यो लावस्थायामेवादेशो भवति। किं सिद्धं भवति? अधिजगे---ठ्द्विर्वचनेऽचिऽ इति स्थानिवद्भावो न भवति। ङ्त्किरणमनर्थकं स्थानिवद्भावादेव सिद्धमात्मनेपदमित्याशङ्क्याह---गाङ्यनुबन्धकरणमिति। गाङिति ग्रहणं यथा स्यादिति। ननु चैतदपि स्थानिवद्भावादेव सिद्धम्, नेत्याह---न हीति। ठ्गाङ्कुटादिभ्यःऽ इति उच्यमाने ठ्कै गै रै शब्देऽ इणो गा लुङीत्येतयोरपि ग्रहणं प्राप्नोति, ततश्चागासीन्नटः, अगासातां ग्रामौ देवदतेनेत्यत्रापि घुमास्थादिसूत्रेणेत्वं प्रसज्येत। अपर आह---यत्र सानुबन्धकात्षष्ठयुच्चार्यते, तत्राकृतायामेवेत्सञ्ज्ञायामादेशः प्रवर्तते, सत्यामपि वा तस्यामनुबन्धकार्यमादेशे न भवतीत्यस्यार्थस्य ज्ञापनार्थ गाङ्यनुबन्धकरणमिति। किं प्रयोजनम्? ठ्चक्षिङ्ः ख्याञ्ऽङ्ति इत्यात्मनेपदं न भवति; ञिदादेशकरणसामर्थ्यात् ठ्स्वरितञितःऽ इत्येतदेव भविष्यति। इह तर्हि ठ्लटः शतृशानचौऽ, लट इति सानुबन्धकात्षष्ठी, पचमानः, ठ्टितःऽ इत्येत्वं न भवतीति?प्रकृतानामात्मनेपदानामेत्वविधानादिह न भवति। इह तर्हिठ्युवोरनाकौऽ इत्यत्र भुज्यः, शंयुरित्यत्र मा भूदिति, अनुनासिकोकारानुबन्धौ युवू सूत्रे निर्दिष्टौ; ततश्च नन्दनः, कारकः, नन्दना, कारिका स्थानिवद्भावादुगिल्लक्षणौ ङीब्नुमौ प्राप्नुतः, अस्माज् ज्ञापकान्न भवतः। अनुनासिकयणोस्तत्र ग्रहणम्, न त्वनुनासिकोकारानुबन्धयोरिति नात्रोगित्कार्यप्रसङ्गः। इह हि ठ्सेर्ह्यपिच्च,ऽसिपो हिरिति वक्तव्यम्, अपिच्चेति न वक्तव्यम्, इह च ठ्तुह्यएस्तातङ् इति तिप्सिपोस्तदाशिषीति सानुबन्धकात्षष्ठीमुच्चार्थादेशो विधेयः, ङ्त्किरणं न कर्तव्यम्। इह च ठ्तस्थस्थमिपाम्ऽ इति पकारो नोच्चार्थः, तेनाचिनवमित्यादौ गुणसिद्धिः, ठणिञोरनार्षयोः क्त्वो ल्प्ऽ इत्यादऐ यत्र स्थान्यनुबन्धकार्यमिष्यते तत्राननुबन्धकः स्थान्युपादेयः। वाराह्या प्रकृत्येत्यादौ वृद्धिर्गुणप्रतिषेधश्च भब्रति तदेवमस्य पक्षस्य मन्दत्वादनुपन्यासः॥ विभाषा लुङ्लृङे॥ २।४।५० ॥ णौ च संश्चेङेः॥ २।४।५१ ॥ णौ च संश्चेङे॥ अध्यापिपयिषतीति। ठ्क्रीङ्जीनां णौऽ इत्यात्वम्। अध्यजीगपदिति। लुङ् चिङ् ठ्णिउ चङ्युपधाया ह्रस्वःऽ,ठ्सन्वल्लघुनिऽ, ठ्दीर्घो लघोःऽ॥ अस्तेर्भूः॥ २।४।५२ ॥ अस्तेर्भूः॥ भवतेरेव भवितेत्यादौ सिद्धेऽसेतरसितेत्यादिनिवृतये योगारम्भः। अनुप्रयोगे त्विति। अनुप्रयोगेउविषये भुवाउभूभावेनास्तेरनिवृत्तिं मनीषिणः स्मरन्ति। कर्तुःऊ सूत्रकारस्य वचनात्। मनीषिणः कर्तुरिति वा॥ ब्रुवो वचिः॥ २।४।५३ ॥ ब्रु वो वचिः॥ ब्रुव आर्धधातुके प्रयोगनिवृत्यर्थ वचनम्। वक्तेत्यादिकं तु वचेरेव सिद्धम्॥ चक्षिङ्ः ख्याञ्॥ २।४।५४ ॥ चक्षिङ्ः ख्याञ्॥ कर्त्रभिप्राये क्रियाफले आख्यास्यते, आचख्ये इत्यात्मनेपदं यथा स्यात्, तृजादौ चक्षितेत्यादि मा भूदिति च योगारम्भः। आख्यातेत्यादि ठ्ख्या प्रकथनेऽ इत्यस्यैव सिद्धम्। अत्र यथान्यासे आकारात्पूर्वो भागः खकारयकारात्मेति स्यादाख्यातेति, ककारशकारात्मापि त्विष्यते---आक्शातेति, तदेतदाह--क्शादिरप्ययमिति। ककारेऽकार उच्चारणार्थः। अपर आह---ख्यादिरेवायमादेश इति। अत्राप्यकार उच्चारणार्थः। तत्र चर्त्वे कृते क्शातेत्यादि भवति। कथमाख्यातेति खकारयकारयोः श्रवणम्? असिद्धकाण्डे णत्वविधानानान्तरं ख्शाञः शस्य यो वेति शस्य यत्वं विभाषा वक्तव्यम्। तत्र चर्त्वे यत्वं सिद्धमित्याख्यातेत्यादि यत्वपक्षे रूपम्, अन्यदा कशातेति रूपम्। अवश्यं च शस्य यत्वमित्याश्रयणीयम्। इह सुप्रचष्टे सुप्रख्यः, ठातश्चोपसर्गेऽ इति कः, ततो यत्वस्यासिद्धत्वात्सुप्रख्यस्य भाव इति ठ्योपधाद्गुरूपोतमात्ऽ इति वुञ् न भवति, अयोपधत्वात्। तस्मिन्सति ष्यञ् भवति----सौप्रख्यमिति। तथा सुप्रख्येन निर्वृते देशे भवः सौप्रख्यीयः, सौप्रख्यीयः, धन्वयोपधादिति वुञ् न भवति, ठ्वृद्धाच्छःऽ एव भवति। अख्यातः, यत्वस्यासिद्धत्वाद्यण्वत्वा भावात् ठ्संयोगादेःऽ इति नत्वं न भवति, ठ्न ध्याख्यापृमूर्च्छिमदाम्ऽ इत्यत्र ख्याग्रहणं न कर्तव्यं भवति। पुंसः ख्यानं पुंख्यानमित्यत्र यत्वस्यासिद्ध्त्वात् ठ्पुमः खय्यम्परेऽइति रुविधिर्न भवति। पर्याख्यानम्, यत्वस्यासिद्धत्वाच्छकारेणानटा व्यवायात् ठ्कृत्यचःऽ इति णत्वाभावः। नटः ख्यातेत्यत्र यत्वस्यासिद्धत्वात् खरः शर्परत्वात् ठ्शर्परे विसर्जनीयःऽ इतेयष विधिर्भवति। नन्वसिद्धे शस्य यवचनेऽपि ठ्ख्या प्रकथनेऽ इत्यस्यौत्पतिक एव यकार इति तत्र वुञादिप्रसङ्गः? एवं तर्हि सोऽपि ख्शादिः, शस्य यवचनमपि साधारणं द्रष्टव्यम्। नृचक्षा रक्ष इति। छान्दसः प्रसोगः। भाषायां तु नृचक्षौ रक्ष इति। विचक्षण इति। ठनुदातेतश्च हलादेःऽ इति युच्। वधक इति। अतो लोपस्य स्थानिवत्वाद्वृद्ध्यभावः। गात्रमिति। ष्ट्रनिगादेशः। अजिरमिति। ठजिरशिशिरऽ इति निपातनमनाद्दत्योक्तम्॥ वा लिटि॥ २।४।५५ ॥ अजेर्व्यघञपोः॥ २।४।५६ ॥ अजेर्व्यघञपोः॥ प्रवयणीयः, प्रवायक इत्यादौ गुणवृद्धिविषये ह्रस्वदीर्घयोरविशेषं मन्वानः पृच्छति---दीर्घोच्चारणं किमिति। दीर्घव्याख्यानमित्यर्थः। घञपोः प्रतिषेधे क्यप उपसङ्ख्यानमिति। क्यपि यः प्रतिषेधस्तस्य क्यप्सम्बन्धी भवतीति क्यप इत्युक्तम्। यस्त्वाह---अपीत्येव क्यपि सिद्धः प्रतिषेधः, कथम्? अबिति प्रत्याहारः, अपोऽकारादारभ्या क्यपः पकाराद् इति, तस्य संवीतिरिति क्तिन्यपि प्रतिषेधः प्राप्नोति, तस्मात्संज्ञाग्रहणात्समज्येत्यत्र वीभावाभावः। न ह्यादेशेन संज्ञा गम्यते। वलादावार्घधातुके वेष्यत इति। नार्थोऽनयेष्ट।ल, नापि घञपोः प्रतिषेधेन, नापि क्यप उपसङ्ख्यानेन, नापि ठ्वा यौऽ इति सूत्रेण; एतावदस्तु---ठ्वा लिटिऽ, अजेर्वीत्येव, व्यवस्थितविभाषेयम्, तेन घञपाः क्यपि नैव भवति, वलादौ यौ च विकल्पः, अन्यत्र नित्यम्॥ वा यौ॥ २।४।५७ ॥ ण्यक्षत्रियार्षञितो यूनि लुगणिञोः॥ २।४।५८ ॥ ण्यक्षत्रियार्षञितो यूनि लुगणिञोः॥ ण्यादयो गोत्रप्रत्यया इति। ठ्गोत्राद्यौउन्यस्त्रियाम्ऽ इति गोत्रप्रत्ययान्तादेव यूनि प्रत्ययविधानात्। क्षत्रियगोत्रस्यक्षत्रियादभेदोपचारात् क्षत्रियशब्देनाभिधानम्। ऋषेरपत्यमार्षम्, ठितश्चानिञःऽ इति ढकि प्राप्ते शिवादिपाठादण्। ढगपीष्यते----आर्षेयं वृणीते इति। तस्माच्छुभ्रादिष्वपि पठनीयः। एवं गोत्ररूपाभ्यां क्षत्रियार्षाभ्यां प्रत्ययस्योपलक्षणाद् ण्यादयो गोत्रप्रत्यया इत्युक्तम्। क्षत्रियादिति। क्षत्रियगोत्रप्रत्ययान्तादित्यर्थः। आर्षादिति। ऋष्यभिधायिनो गोत्रप्रत्ययान्तादित्यर्थः। प्रथमनिर्दिष्टाद् ण्यान्तादणोऽसम्भवाच्चरमनिर्द्दिष्टोऽपीञेव प्रथममुदाहृतः। क्षत्रियगोत्रस्य तत्र ग्रहणमिति। औरसशब्देन साहचर्यात्। स हि ठ्जनपदशब्दात् क्षत्रियादञ्ऽ इत्यञन्तत्वात्क्षत्रियशब्दः। उरसशब्दः सकारोपधो जनपदवाची, तस्माद्यौउनि प्राग्दीव्यतीयोऽणिति। ठ्फेश्च्छ चऽ इति च ञच्छौ तु न भवतः, यमुन्दश्च सुयामा चेति परिगणनात्। कण्वादिभ्यो गोत्रे इति शैषिकोऽणिति। वामरथस्य कण्वादिवत्स्वरवर्जमिति कुर्वादिषु पाठादिति भावः। अब्राह्मणगोत्रमात्रादिति। अत्र भाष्ये त्रीणि वाक्यान्युपन्यस्तानि---अणिञोर्लुकि तद्राजाह्युवप्रत्ययस्योपसंख्यानमिति प्रथमम्, अस्योदाहरणम्---बौधिः पिता, बौधिः पुत्रा; औदुम्बरिः पिता, औदुम्बरिः पुत्रः, बुधोदुम्बराभ्यां शाल्ववयवालक्षण इञ् ठ्यञिञोश्चऽ इति फक्, तस्य लुक्। अनणिञर्थमेतद्वचनभ्। शाल्वावययवेत्यत्रोदुम्बरास्तिलखिला इत्यादि संभवोदाहरणं न परिगणनमिति बुधशब्दादपीञ् भवति। क्षत्रियगोत्रमात्राद्यौवप्रत्ययस्योपसंख्यानमिति द्वितीयम्। मात्रशब्दो व्याप्त्यर्थः, तद्राजादिति नियमो नास्ति---क्षत्रियगोत्रमात्रादिति। तेन जाबालशब्दादत इञोऽतद्राजादपि परस्य फको लुग् भवति---जाबालिः पिता, जाबालिः पुत्रः। वृत्तिकारेणोन्यस्तं तृतीयम्। अत्रापि मात्रशब्दो व्याप्त्यर्थः। क्षत्रियादित्यापि नियमो नास्ति---अब्राह्मणगोत्रमात्रादिति, तेन वैश्यगोत्रादपि भवति। भाण्डिजङ्घकर्णखरकौ वैश्यौ, ताभ्यामत इञ् तदन्तात्फको लुक्। व्यापकत्वाच्चेदमुपन्यस्तं वृत्तिकारेण॥ पैलादिभ्यश्च॥ २।४।५९ ॥ पैलादिभ्यश्च॥ पीडयतेः पचाद्यचि कपिलादिदर्शनादस्य लत्वे पीला। अन्ये पैलादय इञन्ता इति। तत्र बाह्वादिषु ठुदञ्चुऽ इति पठ।ल्ते। उकार उच्चारणार्थः,क्विनि नोपधत्वं निपात्यते। औदञ्चिः। ठचःऽ इत्यकारलोपः, ठुद ईत्ऽ इतीत्वं च न भवति; लुप्तनकारस्य तत्र ग्रहणात्। भूलिङ्गशब्दः शाल्वावयवः। सात्यकिशब्दमपि केचित्पठन्ति, सोऽपि बाह्वादीञन्तः। सत्यकशब्दाद् ठृष्यन्धकऽ इत्यणा भाव्यम्। शेषा अत इञन्ताः। शालङ्किरिति। अस्मादेव निपातनाच्छलङ्कोरिञ्, शलङ्कादेशश्च। तद्राजाच्चाण इति। तद्राजसंज्ञकादणः परस्य युवप्रत्ययस्य लुग्भवति। ठ्द्वञ्मगधऽ इत्यणन्तादाङ्गशब्दात् ठणो द्व्यचःऽ इति फिञो लुक्। आङ्गः पिता, आङ्गः पुत्रः। तदेवं गणवाक्यमेतदेकम्, पूर्वपतठ ताइनि त्रीणीति चत्वारि यथोतरमधिकविषयाणि॥ इञः प्राचाम्॥ २।४।६० ॥ इञः प्राचाम्॥ ठ्प्राचामवृद्धम्ऽ इत्यादौ प्राग्ग्रहणं विकल्पार्थम्, इह तु न तथेत्याह---गोत्रविशेषणमिति। युवप्रत्ययस्य लुग्विधानादर्थादाक्षिप्तं गोत्रमिति भावः। पन्नम् उ प्राप्तम् अगारं येन स पन्नागारः। मन्थरा उ मन्दीभूता एषणा यस्य स मन्थरैषणः॥ न तौल्वलिभ्यः॥ २।४।६१ ॥ न तौल्वलिभ्यः॥ ठ्तुल उपमानेऽ, औणादिको वलच्। तुल्वलः। धारयतिपारयतिभ्यां नन्द्यादिल्युः---धारणः, पारणः। देवा मित्रमस्येति देवमित्रः। देवेभ्यो यज्ञोऽस्य देवयज्ञः। ठ्पुष पुष्टौऽ, क्यप्, पुष्यः। विलक्षणौ कर्णावस्य विकर्णः। करेणुं पालयति करेणुपालः। ठसु क्षेपणेऽ, कुरच्---असुरः। ठ्हृञ्हरणेऽ, अनुपूर्वाल्लटः शत्रादेशः, पुष्करे सीदतीति पुष्करसत्, बाह्वादी अनुशतिकादी च। परिशिष्टाः पारायणे द्रष्टव्याः॥ तद्राजस्य बहुषु तेनैवास्त्रियाम्॥ २।४।६२ ॥ तद्राजस्य बहुषु तेनैवास्त्रियाम्॥ इह बहुष्वित्यनेन जसादिबहुवचनं वा गृह्यएत? अर्थो वा ? आद्ये पक्षेऽयमर्थो भवति---जसादिषु बहुवचनेषु परतस्तद्राजस्यास्त्रीलिङ्गस्य लुगिति। द्वितीये---बहुष्वर्थेषु वर्तमानस्येति। बहुवचनशब्दे हि जसादिषु विनियुक्ते तदेकदेशेन बहुशब्देनापि जसादि शक्यं लक्षयितुम्। संज्ञानामेकदेशस्यापि प्रयोगदर्शनाद् भीमो भीमसेनः, सत्या सत्यभामेति। जसादीनां च बहुत्वाद् बहुष्विति बहुवचनोपपतिः। नन्वेवमपि मुख्यत्वादर्थग्रहणमेव युक्तम्? सत्यम्; तेनैव ग्रहणादस्य पक्षस्य सम्भवः। तद्धि प्रियवाङ्गा इत्यादौ बहुवचनं परमिति लुकः प्रसक्तस्य निवृतये कृतम्। अर्थग्रहणे चात्र तद्राजस्य बहुत्वे वृत्यभावादेव लुकोऽप्रसङ्गः। यद्येवम्, अस्मादेव लिङ्गाद् बहुवचनस्यैव निश्चयादर्तग्रहणस्यासम्भवः? उच्यते---अस्त्रियामिति प्रतिषेधादस्य पक्षस्य सम्भवः। तद्ध्याङ्ग्यः स्त्रिय इत्यादौ तद्राजस्य बहुषु वर्तमानस्य लुङ्मा भूदिति कृतम्। बहुवचनग्रहणे चात्र स्त्रीप्रत्ययेन व्यवधानादेव लुकोऽप्रसङ्गः। न चाम्बष्ठस्यापत्यानि बह्व्यः स्त्रियः ठ्वृद्धेत्कोसलाजादाञ् ञ्यङ्ऽ ठ्यङ्श्चाप्ऽ आम्बष्ठ।ल इत्यत्रेकादेशस्यान्तवद्भावादव्यवधानाल्लुक्प्रसङ्गः; एकादेशस्य पूर्वविधौ स्थानिवद्भावादत्रापि चापा व्यवधानात्। तदेवं लिङ्गद्वयदर्शनात्पक्षद्वयसम्भवः। एवमुतरेष्वपि योगेषु द्रष्टव्यम्। तत्राद्यो पक्षेऽतिक्रान्तोऽङ्गानत्यङ्गः, अतिगर्गः, अङ्गेभ्य आगतोऽङ्गरूप्यः, गर्गरूप्य इत्यादौ बहुवचनपरत्वाभावाल्लुङ्न स्यात्। न चच वृत्यर्थे वाक्ये यच्छसादि बहुवचनं तत्रैव परतस्तस्यामेवावस्थायां लुग्लभ्यतेऽन्तरङ्गत्वादिति वाच्यम्; ठन्तरङ्गानपि विधीन् बहिरङ्गो लुग्बाधतेऽ इति वचनात्। न च लुप्तेऽपि तस्मिन्प्रत्ययलक्षणेन लुग्लभ्यः, ठ्न लुमताङ्गस्यऽ इति निषेधात्। ननु च न लुगङ्गस्य कार्यम्, किं तर्हि? तदेकदेशस्य प्रत्ययमात्रस्य, अङ्गरूप्य इत्यादौ च समर्थातद्धितोत्पतेः वृत्यर्थे वाक्ये यद्वहुवचनमङ्गेभ्य इत्यादि तत्रैव लुक् भविष्यति। इदं तर्हि----अत्रेरपत्यानि बहूनि ठितश्चानिञःऽ इति ढक्, तस्य ठ्कितःऽ इत्यन्तोदातत्वम्, तस्य जसि परतः ठत्रिभृगुऽ इति लुकि कृते उदातनिवृत्तिस्वरः प्राप्नोति, तस्माद् द्वितीयं पक्षमाश्रित्याह---बहुषु वर्तमानस्येति। नन्वत्रापि पक्षे आङ्गश्च वाङ्गश्च सौह्मश्र अङ्गवङ्गसुह्माः, गार्ग्यश्च वात्स्यश्च वाजयश्च गर्गवत्सवाजा इत्यादौ द्वन्द्वे लुग्न स्यात्; अत्र ह्यएकैकस्मिन्नेवार्थे प्रत्यय उत्पन्नः, पूर्वत्र तु पक्षेऽन्तिमस्यापि तावत्सिद्ध्यति, बहुवचनपरत्वात्? नैष दोषः; युगपदधिकरणतायां द्वन्द्वः, तत्रैकैकस्य वर्तिपदस्य बह्वर्थकत्वाल्लुग्भविष्यति। नन्वेवमपि तद्धिते उत्पत्तिदशायामेकैकस्मिन्नेवार्थे उत्पन्न इति तद्राजो यो बहुषु यञ् यो बहुषु अञ् यो बहुष्वित्युच्यमानो लुङ् न स्यादेव। नन्वत्र बहुष्वित्यनेन न प्रत्ययमात्रं विशेष्यते, किं तर्हि? प्रत्ययग्रहणपरिभाषया तदन्तग्रहणे सति तदन्तं विशेष्यते---तद्राजान्तं यद्वहुषु यञन्तं यद्बहुषु अञन्तं यद्वहुष्विति। यद्येवम्, कश्यपस्यापत्यं काश्यपः बिदाद्यञ्, तस्य प्रतिकृतय इति ठिवे प्रतिकृतौऽ इति कन्, तस्य ठ्जीविकार्थे चापण्येऽ इति देवपथादिषु अर्चासु पूजनार्थास्विति पाठाद्वा लुपि कृते काश्यपा इत्यञन्तस्य प्रतिकृतिबहुत्वे लुक् प्राप्नोति? नैष दोषः; ठ्यञञोश्चऽ इत्यत्र ठ्यस्कादिभ्यो गोत्रेऽ इत्यतो ठ्गोत्रेऽ इत्यनुवर्तते, तेन गोत्रबहुत्वे लुक् प्रतिकृतिबहुत्वे न भविष्यति। नन्वेवमप्याङ्गस्यैकस्य प्रतिकृतयो बह्व्य इति तद्राजान्तस्य बहुषु वृतेर्लुक्प्रसङ्गः। नह्मत्रेदमस्ति---तद्राजान्तं यदपत्यं बहुत्वे वर्तत इति । एवं तर्हि तेनैव ग्रहणमस्मिन्पक्षे न कर्तव्यमित्युक्तं तदत्रोपयोक्ष्यामहे---यस्मिन्नर्थे लुग्भावी प्रत्यय उत्पन्नस्तेनैव चेत्कृतं बहुत्वमिति। इह चापत्ये प्रत्यय उत्पन्नः प्रतिकृतिकृतं च बहुत्वम्, यद्येवम्, आङ्गस्यापत्यानि ठणो द्व्यचःऽ इति फिञ्, तस्याब्राह्मणगोवमात्रादिति वा ठ्तद्राजाच्चाणःऽ इति वा लुक्, अङ्गाः, बैदस्यापत्यानि ठत इञ्ऽ, ठ्ण्यक्षत्रियऽ इति लुक्, बिदाः, अत्र गोत्रे प्रत्यय उत्पन्नो युवकृतं चात्र बहुत्वामिति लुङ् न स्यात्? नैष दोषः; तेनैवेत्यस्य तज्जातीयेनैवेत्यर्थः, युवा चापत्यतया तज्जातीयो न प्रतिकृतिः। एवं च कृत्वा द्वन्द्वो यदा लोपिनामलोपिनां च भवति तदा न भवति----आङ्गदेवदतयज्ञदताः, गार्ग्यदेवदतयज्ञदताः। इह तु भार्गवश्च वात्स्यश्चाग्रायणश्च भृगुवत्साग्रायणा इति, यद्यपि नलोपिभिरेव कृतं बहुत्वम्, आग्रायणे नडादिफको लुगभावात्; तथाप्यपत्यतया तज्जातीयत्वमस्तीति लुग्भवत्येव। यद्येवम्, गार्ग्यश्च काश्यपश्च गालवश्च गार्ग्यकाश्यपगालवानामित्यत्र गालवे ऋष्यणो लुगभावेऽप्यपत्यतया तज्जातीयत्वाद्यञञोर्लुक्प्रसङ्गः। एवं तर्हि भृगुवत्साग्रायणेषु ठगार्ग्यकाश्यपगालवानाम्ऽ इति निर्देशद्वयाल्लोपिभिरपत्यप्रत्ययैः कृते बहुत्वे विकल्पः। तदेवं तद्राजान्तस्य बहुत्वे वर्तमानस्येति स्थितम्। वृतौ तु तद्राजसञ्ज्ञकस्य प्रत्ययस्य बहुषु वर्तमानस्येति व्यधिकरणो षष्ठ।ले, बहुषु वर्तमानस्यास्त्रीलिङ्गस्य तद्राजान्तस्य योऽवयवः प्रत्ययस्तस्येत्यर्थः। तेनैव चेतद्राजेनेति। अत्रापि तद्राजान्तेनेत्यर्थः। तद्राजेत्यापि लोपिप्रत्ययोपलक्षणम्। अङ्गगर्गलोहध्वजा इत्यादावपि भवतीत्याहुः। इहाङ्गस्यापत्यानि बहून्यङ्गास्तेषामपत्यं युवा युवानौ वा आङ्गः आङ्गाविति युवसङ्क्रान्तेः प्राग्गोत्रेऽलुगचीति प्रतिषेधाल्लुगभावः, पश्चातु बहुत्वाभावाद्। अचीति च विषयसप्तमी, तेन युवप्रत्यये पश्चाल्लुमता लुप्तेऽपि विषयभूत एव तस्मिन् प्रागेव लुकः प्रतिषेधः, लुप्तेऽपि वा प्रत्ययलक्षणेन। नन्वचीति वचनाद्वर्णाश्रयोऽयम्, नेत्याह; अचीति प्राग्दीव्यतीयस्य प्रत्ययस्य विशेषणं प्रत्ययश्च लुकि निमितम्। आङ्ग्यः स्त्रिय इति। इह च आङ्गी च वाङ्गश्च सौह्मश्चेति द्वन्द्रे आङ्गोतिशब्देन स्त्रीत्वयुक्तानामभिधानातदणो लुग्न भवति, आङ्गीवङ्गसुह्मा इति भवतीत्याहुः॥ यस्कादिभ्यो गोत्रे॥ २।४।६३ ॥ यस्कादिभ्यो चगोत्रे॥ प्रत्ययविधेश्चान्यत्रेति। गोत्रे यत्र प्रत्ययो विधीयते ठ्गोत्रे कुञ्जादिभ्यश्च्फञ्ऽ इत्यतोऽन्यत्रेत्यर्थः। तत्र तावदपत्याधिकारे गोत्रग्रहणादेव पारिभाषिकस्य ग्रहणम्, अन्यत्र लौकिकस्येत्यत्र ज्ञापकं वक्ष्यामः। पुष्करसच्छब्दस्येति। किमर्थ पुनरयमत्र पठ।ल्ते, यावता ठ्बह्वच इञः प्राच्यभरतेषुऽ इत्येव सिद्धं पुष्करसदः प्राच्यत्वात्, तथा चेतः प्राचामिति प्राप्तस्य लुकः प्रतिषेधाय तौल्वल्यादिषु पठितः? एवं तर्हि गोपनादिषु केचितौल्वल्यादयश्चेति पठन्ति, तौल्वल्यादिषु प्रकृतिभागा अपि गोपवनादिषु द्रष्टव्या इत्यर्थः। तेन ठ्न गोपवनादिभ्यःऽ इति निषेधे प्राप्तेऽत्रास्य पाठः। अयमेव च पाठो ज्ञापयति---गोपवनादिषु तौल्वल्यादयोऽपि पठिता इति॥ यञञोश्च॥ २।४।६४ ॥ यञञोश्च॥ गोत्रप्रत्ययस्य बहुषु वर्तमानस्येति। अत्रापि व्यधिकरणे षष्ठयौ। बहुषु वर्तमानस्य समुदायस्य सम्बन्धी यो गोत्रप्रत्ययो यत्र अञ् च तस्येत्यर्थः। तेन द्वन्द्वेऽपि भवति---गर्गवत्सवाजाः, बिदौर्वभरद्वाजा इति। गार्ग्यः स्त्रिय इति। ठ्यञश्चऽ इति ङीप्, ठ्हलस्तद्धितस्यऽ। बैद्य इति। ठ्शाङ्गर्रवाद्यञो ङीन्ऽ। एकद्वयोरिति। एकत्वद्वित्वयोरित्यर्थः। ठ्संख्याया अल्पीयस्याःऽ इत्येकशब्दस्य पूर्वनिपातः। ठ्द्व्येकयोःऽ इति निर्देशाद् द्विशब्दस्यापि भवति। गार्ग्ययोः कुलं गार्ग्यकुलमिति। प्रकरणादिवशाद् द्वित्वावगतौ द्विवचनान्तस्यापि विरुद्धः समासः॥ अत्रिभृगुकुत्सवसिष्ठगोतमाङ्गिरोभ्यश्च॥ २।४।६५ ॥ बह्वच इञः प्राच्यभरतेषु॥ २।४।६६ ॥ बह्वच इञः प्राच्यभरतेषु॥ भरतापत्येषु भरतशब्दाऽभेदोपचाराद्वर्तते, यथा----ठ्रघूणामन्वयं वक्ष्येऽ इति। युधिष्ठिरार्जुनशब्दाभ्यां कुर्वाणोऽपवादो बाह्वादिलक्षण इञ्। बलाकाशब्देऽपि बाह्वादिः। भरताः प्राच्या एवेति। ठ्प्राच्यभरतेषुऽ इति द्वन्द्वस्तु सामान्यविशेषवाचिनोर्गोबलीवर्दन्यायेनेति भावः॥ न गोपवनादिभ्यः॥ २।४।६७ ॥ न गोपवनादिभ्यः॥ परिशिष्टानां हरितादीनां प्रमादपाठ इति। ननु चेह स्थाने न गोपवनादयः पठ।ल्न्ते, किं तर्हि? चतुर्थ एव बिदादिषु तदुपजीवनेनैतत्प्रवर्तते। अथ चतुर्थ पाठः प्रमादज इत्युज्यते, बिदाद्यञपि तर्हि न प्राप्नोति। अथ गोपवनादिभ्यः परत्र पाठः प्रमादजः पूर्वत्र पाठयः----इत्युच्येत्, एवमपि ठ्हरितादिभ्योऽञ्ऽ इत्येष विधिर्गोपवनादीनामपि प्राप्नोति। तस्माद्यथाव्यवस्थित एव पाठे मध्ये वृत्करणं वर्तव्यम्, इह वा प्राक् हरितादिभ्य इति वक्तव्यम्। यथोक्तम्----ठ्गोपवानादिभ्यः प्रितिषेध प्राग्घरितादिभ्यःऽ इति। वृत्तिकारस्तु चतुर्थेऽत्र चपृथक् पाठ्ंअ मन्यते॥ तिककितवादिभ्यो द्वन्द्वे॥ २।४।६८ ॥ तिककितवादिभ्यो द्वन्द्वे॥ द्वन्द्वरूपाण्येव गणे पठ।ल्न्ते। तिकादीनि पूर्वपदानि कितवादीन्युतरपदानि, तत्र ठ्तिकादिभ्यो द्वन्द्वेऽ इत्युच्यमाने पूर्वपदेष्वेव लुगाशङ्क्येत उतरपदेष्वपि यथा स्यादिति तिककितवादिभ्य इत्युक्तम्। आदिशब्दः प्रत्येकमभिसम्बध्यते, तदाह---तिकादिभ्यः कितवादिभ्यश्चेति॥ उपकादिभ्योऽन्यतरस्यामद्वन्द्वे॥ २।४।६९ ॥ उपकादिभ्योऽन्यतरस्यामद्वन्द्वे॥ द्वन्द्वे चाद्वन्द्वे चेति। कथम् ठद्वन्द्वेऽ इत्युच्यमाने द्वन्द्वे चाद्वन्द्वे च भवति, तदाह----अद्वन्द्वग्रहणं द्वन्द्वाधिकारनिवृत्यर्थमिति। नात्र शास्त्रीयोऽधिकारः स्वरितत्वनिबन्धनो विवक्षितः न हि पूर्वसूत्रे द्वन्द्वशब्द आसक्तस्वरित, तस्माल्लौकिकोऽधिकारो व्यपेक्षालक्षणः। तदिह द्वन्द्वशब्देन तद्विषया व्यपेक्षाभिधीयते, तस्या नञा निषेधः---अद्वन्द्वे इति। किमुक्तं भवति? द्वन्द्व इति नापेक्ष्यत इति, तदनपेक्षायां द्वद्वे चाद्वन्द्वे च भवति। ठद्वन्द्वऽ इत्यस्मिन्नसति लौकिकोऽधिकारो द्वन्द्वस्य शङ्क्येत्, द्वन्द्वचैषामेव परस्परं गृह्यते, तेषां पूर्वेण नित्यं लुग्भवतीति। भाष्ये तु भ्राष्टकिकापिष्ठलय इत्युदाहरणातिककितवादिष्वस्य पाठोऽनार्ष इति निश्चयः॥ आगस्त्यकौण्डिन्ययोरगस्तिकुण्डिनच्॥ २।४।७० ॥ आगस्त्यकौण्डिन्ययोरगस्तिकुण्डिनच्॥ कुण्डिनोशब्दस्य यञि ठ्भस्याऽढेअ तद्धितेऽ इति पुंवद्भावे ठ्नस्तद्धितेऽ इति लोपे कौण्ड।ल् इति प्राप्नोति, अस्मादेव निपातनात्पुंवद्भावः। असति च तस्मिन्नीकारस्य यस्येति लोपः, तस्य स्थानिवत्वादाभीयत्वेनासिद्धत्वाद्वा टिलोपाभावः। आगस्त्यकौण्डिन्येत्येतयोर्गोत्रप्रत्यययोरिति व्यधिकरणे षष्ठयौ, एतयोर्याववयवावीत्यर्थः। तावेव स्वरूपेण दर्शयति---अणश्च यञश्चेति। मध्योदातो हि कुण्डिनीशब्द इति। कुण्डमस्यातीति ठतैनिठनौऽ प्रत्ययस्वरः, ङीबनुदातः। ननु मानुवृतं लुग्ग्रहणम्, प्रत्ययान्तयोरवादेशौ स्तामत आह---तयोरित्यादि। यदि हि प्रत्ययान्तयोरेवादेशौ स्याताम्---ठ्गोत्रेऽलुगचिऽ इति प्रतिषेधो न स्याद्, लुको ह्यसौ निषेधो नादेशस्य, ततश्चादेशे सत्यवृद्धत्वादणेव स्यात्; लुकि तु सति तस्य प्रतिषेधे तत्सन्नियोगशिष्टस्यादेशस्याप्यभावाद्धृद्धलक्षणश्चो भवति। तत्र विशेषो नास्तीति किमर्थ तर्हीदमुक्तम्---अणश्च यञश्च बहुषु लुग्भवतीति? एवं मन्यते----यदि कुण्डिनजादेशः समुदायस्य स्याद् अगस्त्यादेशोऽपि तथा स्याद्; अतोऽवश्यं लुगनुवर्त्त्यः, अनुवृतस्य च कौण्डिन्येनापि संबन्धः; विरएधाभावादिति॥ सुपो धातुप्रातिपदिकयोः॥ २।४।७१ ॥ सुपो धातुप्रातिपदिकयोः॥ अत्र ठ्सुपःऽ इति सप्तमीबहुवचनं न गृह्यते; ठ्पञ्चम्या स्तोकादिभ्यःऽ इत्यादिना पञ्चम्यादीनामलुग्विधानात्। नापि कपः पकारेण प्रत्याहारः, तद्धितानां विधानसामर्थ्यात्; अन्यथा तद्धितान्तस्य प्रातिपदिकत्वातदवयवस्य सर्वस्यैव तद्धितस्य लुक् स्यात्, ठ्द्विगोर्लुगनपत्येऽ इत्येतच्चानर्थकं स्यात्। अतः सुशब्दादारभ्य सुपः पकारेण प्रत्याहार इत्याह--सुपो विभक्तेरिति। धातुप्रातिपदिकयोरिति यदि सप्तमी स्याद् धातुप्रातिपदिकयोः परतः सुपौ लुक् स्यात्---काष्ठ्èअः पचति, शोभनैः काष्ठ्èअरिति, तस्मात्षष्ठीयमित्याह---सुपो विभक्तेर्धातुसंज्ञायाः प्रातिपदिकसंज्ञाया इति। धातुः संज्ञा यस्यास्तस्या इत्यर्थः। कथं पुनर्विभक्तिर्धातुसंज्ञा प्रातिपदिकसंज्ञा वा भवति, तत्राह---तदन्तर्गता इति। एवमपि धातुप्रातिपदिकयोरवयवभूता विभक्तयः स्युर्न तत्संज्ञाः? नेष दोषः; समुदायेषु हि वृताः शब्दा अवयवेष्वपि वर्तन्ते। धातुप्रातिपदिकयोरवयवस्य सुप इत्यपि व्याख्याने न कश्चिद्दोषः। प्रत्युत ठ्सुपःऽ इत्यस्य द्विवचनान्तेन सम्बन्धो न दुरुपपादो भवति, तथा तु न व्याख्यातमित्येव॥ अदिप्रभृतिभ्य शपः॥ २।४।७२ ॥ अदिप्रभृतिभ्य शपः॥ कथम् ठ् न विश्वसेदविश्वस्ते विश्वस्तेऽपि न विश्वसेद्ऽ इति, तथा भट्टिकाव्ये---ठाश्वसेयुर्निशाचराःऽ इति, तथा ठ्न विश्वसेत्पूर्वविरोधितस्यऽ इति? निरङ्गशाः कवयः। अपर आह---ठ्क्षमूष् सहनेऽ घटादिः; तत्र ठ्घटादयः षितःऽ इति सिद्धे षित्करणं ज्ञापकम्---अनित्यं गणकार्थमिति, तेनैवमादिप्रयोगोपपतिरिति नात्र किञ्टचिदपभाषितमस्ति॥ बहुलं च्छन्दसि॥ २।४।७३ ॥ यङेऽचि च॥ २।४।७४ ॥ यङेऽचि च॥ अचि प्रत्यये परत इति। पचाद्यचीत्यर्थः। एतदेव ज्ञापकम्---सर्वधातुभ्यः पचाद्यच् भवतीति। प्रत्याहारग्रहणं तु न भवति, तथा हि सति---अणीत्येव वक्तव्यम्; अन्याजादेः प्रत्ययस्यासंभवात्। न तु च्छन्दसीति। ठ्हुश्नुवोः सार्वधातुकेऽ इत्यत्र वार्तिकम्---ठ्हुश्नुग्रहणमनर्थकमन्यस्याभावात्ऽ। यान्ति वातीत्यत्र क्ङ्तीत्यिधिकारान्न भविष्यति, यातः वातः, अचीत्यनुवर्तते। यान्ति वान्ति, ओरिति। युवन्ति रुवन्ति, अनेकाच इति वर्तते। अयुवन्, अरुवन्, अडागमोऽसिद्धः। प्रोर्णवन्ति, असंयोगपूर्वस्येति वर्तते। यङ्लुङ्निवृत्यर्थ तर्हि हुश्नुग्रहणम्---योयुवति, रोरुवति। यङ्लुगर्थमिति चेदार्धधातुकत्वास्तिद्धम्, छान्दसो यङ्लुक्, तत्र ठ्च्छन्दस्युभयथाऽ इत्यार्धधातुकत्वादेव न भविष्यति। तदेवं यङ्लुकश्छान्दसत्वमभ्युपगम्य हुश्नुग्रहणं प्रत्याख्यातं वार्तिककारेण। स मन्यते---चकारेणात्र ठ्बहुलं च्छन्दसिऽ इति सर्वमनुवर्तिष्यते, तेनाचि प्रत्यये परतः च्छन्दसि भाषायां यङे लुग् भवतीत्येकं वाक्यम्, च्छन्दसि बहुलमनैमितिको लुगिति द्वितीयम्, प्रसिद्धश्च तथा छान्दसो यङ्लुगिति। प्रयोगश्च चिरन्तनः पद्ये गद्ये च काव्याख्यायिकादौ विकटपदएपन्यासप्रधानैरपि कविभिर्न कृतो द्दश्यते। भाष्यकारस्तु ठ्हुश्नुवोरिति वक्ष्यन्ति, एवं तर्ह्येतज्ज्ञापयति---भाषायामपि यङ्लुक्ऽ इति, तेन चेचिदीति, चेच्छिदीति, योयवीतीत्यादि सिद्धं भवति। वृत्तिकारस्तु मन्यते----ठ्यदि ज्ञापकेनापि तावद्भाषायामपि यङ्लुकः प्रयोगे भवति, हन्तैवमत्रैव च्छन्दोग्रहणं मानुवृतत्! प्रयेगस्तु ज्ञापकाश्रयेणैव यथाभिधानं व्यवस्थास्यतेऽ इति, अतो न भाष्यवार्तिकविरोधो वृतेः शङ्कनीयः॥ जुहोत्यादिभ्यः श्लुः॥ २।४।७५ ॥ जुहोत्यादिभ्यः श्लुः॥ शबनुवर्तते, न यडिति। श्लाविति द्विर्वचनविधानात्। यङ्नुवृतौ हि श्लुना तत्र लुप्तेऽपि ठ्सन्यङेःऽ इति षष्ठ।लश्रयणाद् द्विर्वचनसिद्धेरनर्थकं तत्स्यात्। बिभर्तीति। ठ्भृञामित्ऽ इत्यभ्यासस्येत्वम्। नेनेक्तीति। ठ्णिजिर्शौचपोषणयोःऽ,ठ्णिजां त्रयाणां गुणः श्लौऽ॥ बहुलं च्छन्दसि॥ २।४।७६ ॥ गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु॥ २।४।७७ ॥ गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु॥ अभूदिति। ठ्भूसुवोस्तिङ्ऽ ईति गुणप्रतिषेधः। लुगनुवर्तते, न श्लुरिति। व्याख्यानात्। इण्पिबत्योर्ग्रहणमिति। इणादेशो गा इणित्युक्तः, तत्र गातीत्यादाविकस्येणोय आदेशस्तदनुकरणो गा तिपि शब्लुका निर्दिष्टः, स्थानिवद्भावात्प्रकृतिवदनुकरणं भवतीति चच। तेन ठ्गामादाग्रह८णेष्वविशेषःऽ इति लाक्षणिकस्यापि गारुपस्य यद्यपि ग्रहणं प्राप्तम्, तथापि गातीति निर्देशादेव तस्य निवृत्तिः। तथा ठ्लुग्विकरणालुग्विकरणयोरलुग्विकरणस्यैव ग्रहणम्ऽ इति पिबतेरेव ग्रहणम्। अगासीत्, अपासीदिति। ठ्कै गै रै शब्देऽ पा रक्षणेऽ यमरमनमातां सक्चऽ इति सगागमः, सिचश्चेट्, ठस्तिसिचोऽपृक्तेऽ इतीट्, ठिट ईटिऽ। पै ओवै शोषणेऽ इत्यस्य लाक्षणिकं पारूपमिति ग्रहणाभावः। अगासातामिति। कर्मण्यात्मनेपदम्, आताम्॥ विभाषा घ्राघेट्शाच्छासः॥ २।४।७८ ॥ विभाषा घ्राघेट्शाच्छासः॥ धेटः सानुबन्धकस्य निर्देश आत्वपरिहारार्थः। ठ्धाऽ इत्युच्यमाने प्रतिपदोक्तत्वाद्धाञ एव ग्रहणं स्यात्। ननु सत्यप्यनुबन्धो च्चारणेऽनुबन्धानामनेकान्तत्वात् ठ्नानुबन्धकृतमनेजन्तत्वम्ऽ इत्युदीचां माङ् इतिवदात्वं प्राप्नोति? सत्यम्; अयमेव निर्देशो ज्ञापयति---सानुबन्धानुकरणे नावश्यकमात्वमिति। तेन सूत्राद्वहिरपि वेञः, धेटः, दैप इत्यादि प्रयोगोपपतिः। अघ्रासातामिति। कर्मण्यात्मनेपदम्, आताम्। सुमनसाविति। ठ्स्त्रियः सुमनसः पुष्पम्ऽ इत्यमरसिंहः, ठप्सुमनस्समासिकतावर्षाणां बहुत्वं चऽ इति पाणिनीयं सूत्रम्। तद्वहुत्वं प्रायिकं मन्यते, एका च सिकता तैलदाने समर्थाऽ इति भाष्ये प्रयोगात्॥ तनादिभ्यस्तथासोः॥ २।४।७९ ॥ तनादिभ्यस्तथासोः॥ उदाहरणेषु स्वरितेत्वादात्मनेपदम्। थासा साहचर्यादिति। यद्यपि तावदयं तशब्दो द्दष्टापचारः---अस्त्यात्मनेपदमस्ति च परस्मैपदम्, अस्ति चैकवचनमस्ति च बहुवचनम्। अयं तु खलु थाः शब्दोऽद्दष्टापचार---आत्मनेपदमेकवचनं च, तस्यास्य कोऽन्यः सहायो भवितुमर्हति, अन्यदत आत्मनेपदादेकवचनाच्चेति भावः। आत्मनेपदस्येति। उपलक्षणमेतत्। एकवचनस्येत्यपि द्रष्टव्यम्॥ मन्त्रे घसह्वरणशवृदहाद्वृचकृगमिजनिभ्यो लेः॥ २।४।८० ॥ मन्त्रे गसह्वरणशवृदहाद्वृचकृगमिजनिभ्यो लेः॥ च्लेरेवात्र ग्रहणमिष्यते, न लिङदीनाम्, तदर्थं ठ्सिचःऽ इत्यनुवर्तयन्ति---सिचो यो लिः स्थानिभूतस्तस्येति व्याचक्षते। सिचि प्रकृते लिग्रहणम् ठादिः सिचोऽन्यतरस्याम्ऽ इत्यादिसिच्कार्यं मा भूदिति। पूर्वत्र हि मा हि दातामिति सिच्स्वरो भवत्येव। ह्वरेति विहितगुणस्यानुकरणम्, अकारश्चाग्न्तुक उच्चारणार्थः। अक्षन्निति। ठ्लुङ्सनोर्घस्लृऽ, ठ्गमहन्ऽ इत्युपधालोपः, ठ्शासिवसिऽ इति षत्वम्। प्राणडिति। ब्रश्चादिना षत्वे जश्त्वचत्वे। प्राणगिति पाठे ठ्नशेर्वाऽ इति कुत्वम्। आप्रादिति। ठ्प्रा पूर्तौऽ आङ्पूर्वः। अज्ञतेति। ठ्जनी प्रादुर्भावेऽ, अनुदातेत्। बहुवचनस्य ठात्मनेपदेष्वनतःऽ इत्यदादेशः, पूर्ववदुपधालोपः, श्चुत्वम्। ब्राह्मणे प्रयोगोऽयमिति। मन्त्रव्यतिरिक्तो वेदभागःउब्राह्मणम्। यथाह भगवाञ्जैमनिः----ठ्यच्चोदकेषु मन्त्राख्या इति मन्त्रलक्षणान्तरम्, शेषे ब्राह्मणशब्दःऽ इति। बह्वचानां हरिश्चन्द्रब्राह्मणे हरिश्चन्द्रं प्रति वरुणस्यैतद्वाक्यम्---अज्ञत वा अस्य दन्ता इति। कथं पुनर्मन्त्रग्रहणे ब्राह्मणग्रहणं भवति? तत्राह---मन्त्रग्रहणन्त्विति। मन्त्रस्य च्छन्दोरूपत्वातएन तदुपलक्ष्यते। बाहुल्येन तु मन्त्रे दर्शनान्मन्त्राग्रहणं कृतम्॥ आमः॥ २।४।८१ ॥ आमः॥ आम उतरस्य लेर्लुग्भवतीति। यद्यपि सिचा लिर्विशेषितः, तथापीह लेरित्येवानुवर्तत इति भावः। विदामक्रन्विदाङ्गुर्वन्त्वित्यत्र लुङ्लोटोर्निपातनाल्लुग्भवति। तरबादीनां चामन्तादनुत्पत्तिरेव, तस्यानभिव्यक्तपदार्थत्वात्। अयं च लुग्नाप्राप्तेषु तिबादिषु विधीयमानत्वाल्लादेशानामपवादः। तेनामन्तस्यातिङ्न्तत्वाच्चक्षुः कामम्, याजयाञ्चकारेत्यत्र ठ्तिङ्ङतिङःऽ इति, तस्य चानिघातः, तस्माच्च निघातः सिद्धो भवति। कथमामन्तस्य पदत्वम्? सुबन्तत्वात्। लकारस्य कृत्वात्प्रातिपदिकत्वम्। तिङ्भाविनो हि लकारस्यातिङिति प्रतिषेधः, न चायं तिङ्भावी। सुपः श्रवणं कस्मान्न भवति? आमः स्वरादिषु पाठादव्ययत्वात्। तद्धितेनामा साहचर्येऽपि तद्धित एव न गृह्यते, अपि तु व्याप्तेरतद्धितोऽपि नञा तुच समासप्रसङ्गः, न कारयां न हारयां ठ्नञ्ऽ सुबन्तेन समस्यत इति समासः प्राप्नोति? नैष दोषः; अभिव्यक्तपदार्थेन हि याजयाञ्चकारेति नञः सामर्थ्यम्, न त्वनभिव्यक्तपदार्थेनामन्तमात्रेण। आमन्तेभ्यो णलः प्रतिषेधः----शशाम, तताम;वृद्धौ कृतायां स्थानिवद्भावेन णलो लिग्रहणेन ग्रहणे लुक् प्राप्नोति? अर्थवद् ग्रहणात्सिद्धम्। अर्थवत आमन्तस्य ग्रहणम्, न चैषोऽर्थवान्। एवमपि ठमगत्यादिषुऽ, तिपो णल्, आम----अत्र प्राप्तोति, अर्थवत्वात्? ठ्लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणम्ऽ इति अत्र न भविष्यति॥ अव्ययादाप्सुपः॥ २।४।८२ ॥ अव्ययादाप्सुपः॥ तत्र शालायामिति। शालाशब्दसन्निधौ स्त्रीत्वयुक्तद्रव्यगतकारकशक्त्यभिधानातस्यामितिवतत्रेत्यत्रापि यदि स्त्रीप्रत्ययः स्यात्पदादेव स्त्रीत्वं प्रतीयेतेति व्यामोहनिवृत्यर्थ टापो लुग्वक्तव्यः, यथा----षट्सञ्ज्ञकेभ्यः प्रतिषेध इति भावः। वार्तिककारस्त्वाह----ठव्ययादापो लुग्वचनानर्थक्यं लिङ्गाभावात्ऽ इति। कृत्वा, हृत्वेति। यदा ठ्बहुषु बहुवचनम्ऽ इत्यादेः स्वादिविधिवाक्येनैकवाक्यता, तदा निस्सङ्ख्येभ्यो निष्कारकेभ्यश्चाव्ययेभ्योऽस्मादेव लुग्विधानाल्लिङ्गत्स्वादयो भवन्ति, भिन्नवाक्यतायामपि नियमपक्षे तुल्यजातीयस्य नियमेन व्यावृत्तिः----बहुष्वेव बहुवचनं न द्वयोरेकस्मिन्, द्वयोरेव द्विचनं नैकस्मिन्न बहुषु, एकस्मिन्नेवैकवचनं न द्वयोर्न बहुषु, इत्यव्ययेभ्यः स्वादीनां सम्भवः। त्रिकपक्षे तु यत्र सङ्ख्या सम्भवति तत्रैव सा वाच्यत्वेन विधीयते, अव्ययेभ्यस्तु निः सङ्ख्येभ्यः सामान्यविहिताः स्वादयो विद्यन्त एवेति सर्वथाव्ययेभ्यः सुबुत्पत्तिरेषितव्या---प्रत्ययलक्षणेन पदसञ्ज्ञा यथा स्यादिति। तुबिति च सप्तमीबहुवचनस्य पकारेण प्रत्याहारः, न कपः; आपः पृथगुपादानात्॥ नाव्ययीभावादतोऽम्त्वपञ्चम्याः॥ २।४।८३ ॥ नाव्ययीभावादतोऽम्त्वपञ्चम्याः॥ किमर्थः प्रतिषेधः? पूर्वसूत्रेण लुङ्माभूदिति। अमत्र विधीयते, स नाप्राप्ते लुकारभ्यमाणस्तस्य बाधको भविष्यति, यत्र तर्हि प्रतिषिध्यते, पञ्चम्यास्तत्र लुक् प्राप्नोति। प्रतिषेधे तु सतित तत्सामर्थ्याद् द्वे वाक्ये भवतः-----नाव्ययीभावादित्येकम्, अम्त्वपञ्चम्या इति द्वितीयम्। अत्र चात इत्यपेक्ष्यते। तत्रापञ्चम्या इत्यनेनानन्तरस्य विधिर्वा भवति प्रतिषेधो वेति पञ्चम्या आदेशः प्रतिषिद्ध्यते, न पूर्ववाक्यविहितः प्रतिषेधः। इममेवार्थ तुशब्देन द्योतयति---अविशेषेण प्रितषेधः अम्त्वपञ्चम्या इति, तदेतदुक्तम्----तस्मिन्प्रतिषिद्धे पञ्चम्याः श्रवणमेव भवतीति। वाक्यभेदस्तु वृतावेव स्पष्टः। उपकुम्भादिति। समीपभूतात्कुम्भादित्यर्थः। कुम्भस्य समीपादित्यपरे। उन्मतगङ्गादिरन्यपदार्थप्रधानः सत्ववाच्यव्ययीभावः क्रियासम्बन्धसद्भावादपादानत्वात्पञ्चम्या मुख्यमुदाहरणम्॥ तृतीयासप्तम्योर्बहुलम्॥ २।४।८४ ॥ तृतीयासप्तम्योर्बहुलम्॥ सुभद्रमिति। मद्राणां समृद्धिरित्यव्ययीभावः, ततः सप्तमी, तस्या नित्यमम्भावः। एकविशतिभारद्वाजमिति। एकविशतिर्भरद्वाजा वंश्या इति ठ्सङ्ख्या वंश्येनऽ इति समासः। तत्र वर्तिपदार्थानां स्वार्थोपसर्जनार्थान्तराभिधायित्वाद्भारद्वाजशब्द एकत्वविशष्टार्थान्तरे सङ्क्रान्त इत्यञो लुगभावः। नेति वयम्, गर्गाणां कुलं गर्गकुलमित्यादावपि प्रसङ्गात्। तस्माद् भाष्यकारप्रयोगादत्र लुगभावः॥ लुटः प्रथमस्य डारीरसः॥ २।४।८५ ॥ लुटः प्रथमस्य डारीरसः॥ परस्मीपदस्यात्मनेपदस्य चेति। यद्येवं परस्मैपदे त्रयः प्रथमपुरुषसंज्ञकास्तिबादयः, आत्मनेपदेष्वपि त्रयस्तादय इति षट् स्थानिनस्त्रय आदेशा इति वैषम्यात्संख्यातानुदेशो न प्राप्नोति। मा भूत्संख्यातानुदेशः, आन्तर्यतो व्यवस्था भविष्यति? अर्थतश्चान्तर्यम्, एकार्थस्यैकार्थो द्व्यर्थस्य द्व्यर्थो बह्वर्थस्य बह्वर्थः। कथं पुनर्डादीनामैकार्थ्याध्यवसायः, यावता यस्तिपः स्थाने स एकार्थः, यस्तस्स्थाते स द्व्यर्थः यो झेः स्थाने स बह्वर्थः? नेत्याह, प्रयोगदर्शनादप्यैकार्थ्यादिकमध्यवसातुं शक्यम्। अथ वाऽऽदेशा अपि षडेव निर्दिश्यन्ते, कथम्? एकशेषनिदशात्, डारौरसश्च डारौरसश्चेति कृतद्वन्द्वानामेकशेषः। यदि तु डा च डा च डा, रौ च रौ च रौ, रस् च रस् च रस्, डा च रौ च रस् च डारौरस इति कृतैकशेषणां द्वन्द्वः स्यात्? अनिष्टः संख्यातानुदेशः प्राप्नोति तिप्तसोर्डा, झितयो रौ, आतांझयो रसिति। कर्तिति। लुट्,तिप्, तस्य डा इत्ययं सर्वादेशः। नानुबन्धकृतमनेकाल्त्वम्। अस्तु तर्ह्मन्त्यस्यैव, तिपस्तकारेण सह टिलोपो भवति। ननु तकारान्तमङ्गं न भवति, डित्करणसामर्थादनङ्गस्यापि भविष्यति, यथा---सिद्धान्तेऽभस्यअपि। अथ वाऽऽनुपूर्व्यात्सिद्धम्, कथम्? अन्त्यस्याप्ययं स्थाने भवन्नप्रत्ययः स्याद्, असत्यां प्रत्ययसंज्ञायां डकारस्येत्संज्ञा नास्ति, असत्यां चेत्संज्ञायामनेकाल्, यदानेकाल् तदा सर्वादेशः, यदा सर्वादेशस्तदा प्रत्ययः, यदा प्रत्ययस्तदेत्संज्ञा, यदेत्संज्ञा तदा लोपस्तदैकाल्, न चेदानीं प्रत्यावृत्यान्तादेशो भवितुमर्हति? तदेतदानुपूर्व्यात्सिद्धम्। कर्तारौ, कर्तार इति। ठ्रि चऽ इति तासस्त्योर्लोपः। अध्येतेति। ठिङ् अध्ययनेऽ। अथात्र डारौरस्सु कृतेषु टेरेत्वं कस्मान्न भवति? पूर्वमेवास्मिन्योगे स्थानिषु प्रवृतत्वात्। इह हि तशब्दस्य टेरेत्वं च प्राप्नोति, डादेशश्च; द्वयोरपि शब्दान्तरप्राप्तेरनित्यत्वात्परत्वाट्टेरेत्वे कृते पुनः प्रसङ्गविज्ञानाड्डादेशः। एवं रौरसोरपि द्रष्टव्यम्। अथ वा--- पूर्वमेव डारौरसो भवन्तु, थासः सेवचनं ज्ञापकम्----ये तिङदेशास्तेषां टेरेत्वं न भवतीति, अन्यथा ठ्थासः सऽ इत्येव वाच्यं स्यात्। कर्तासीति। ठ्तासस्त्योःऽ इति सलोपः॥ इति श्रीहरदतमिश्रविरचितायां पदमञ्चर्यो द्वितीयाध्यायस्य तुरीयश्चरणः॥ । समाप्तोऽयं द्वितीयोऽध्यायः । -------॥॥॥-------तस्मै श्रीगुरवे नमः काशिकावृत्तिः अथ तृतीयाध्याये प्रथमः पादः इ पदमञ्जरी प्रत्ययः॥ ३।१।१ ॥ प्रत्ययः॥ इह यदि सर्वानेव संज्ञिनः स्वरूपेण निर्द्दिश्य संज्ञा विधीयेत---सन् प्रत्ययः क्यच् प्रत्ययः, क्यङ् प्रत्यय इति, ततो गौरवं स्यात्। अथ ठ्सप्ऽ प्रत्यय इति सनः सशब्दादारभ्य कपः पकारेण प्रत्याहाराश्रयेणात्र वा प्रदेशान्तरे वा संज्ञा विधीयेत, तदानेकस्य पकारस्य सम्भवात्सन्देहः स्यात्। तथा हि र्प्यासतिन्याये आश्रीयमाणे सिपः पकारेण स्याद्, व्याप्तौ तु ठ्तप्तनप्तनथनाश्चऽ इति तनपः। स्यादेतत्----व्याप्तिरेवाश्रयिष्यते, अथ च तनपः पकारेण प्रत्याहारो न भविष्यति; ज्ञापकात्, यदयम् ठिच एकाचोऽम्प्रत्ययवच्चऽ इत्यमः प्रत्ययवद्भावं शास्ति, अन्यथा षष्ठेऽपि प्रत्ययसंज्ञाव्यापारादमोऽपि स्वत एव प्रत्ययत्वातद्वद्भावो नातिदेश्यः स्यादिति ? तन्न; तत्र ह्यमिति द्विरावर्तते, ततश्चाप्रत्ययप्रतिबद्धम् ठौतोऽम्शसोःऽ इत्यादिविशिष्ट्ंअ कार्यं यथा स्यादिति सोऽतिदेशः स्यात्। नन्वेवमपि प्रत्ययग्रहणमनर्थकम्, अम्वदिति वक्तव्यम्, अतः प्रत्ययग्रहणात्प्रत्ययप्रयुक्तमपि कार्यमतिदेश्यमति प्रतीयते, तज्ज्ञापकमुक्तार्थस्य भविष्यति? एवमप्यम आगमत्वात्पुगादिवदप्राप्तेः प्रत्ययत्वातिदेशः स्यात्। अस्तु वा ज्ञापकम्, एवमपि कुत एतद्व्याप्तिराश्रीयते, न पुनः प्रत्यासतिरिति? किञ्च यथान्यासाद्रौरवं स्थितमेव, सबित्यस्याधिकस्य करणात्? अतो गौरवातिप्रसङ्गपरिहारायाधिकारेणेयं संज्ञा विधीयते। तदाह---प्रत्ययशब्दः संज्ञात्वेनाधिक्रियते इति।ठ्कारकेऽ इति तद्विशेषणमधिक्रियते, स्वादिषु कप्पर्यन्तेषु प्रकृतिरियमधिक्रियत इतिवत्। ठ्प्रत्ययशब्दः संज्ञाधिक्रियतेऽ इति वक्तव्ये संज्ञात्वेनेति वचनमनर्थभेदात्। तथा ह्यमत्र कर्मकरत्वेनाधिकृतः, अयमत्र कर्मकरोऽधिकृतः, नार्थभेदोऽस्ति; किन्तु ठ्कर्मकरोऽधिकृतःऽ इत्युक्ते यः कर्मकरः सोऽधिकृतो रूपान्तरेणेत्यपि गम्यते, कर्मकरत्वेनेति पुनरुच्यमाने तस्यैवाकारस्याधिकृतत्वं गम्यते। अधिक्रियतेउ विनियुज्यते सूत्रकारेण। यानु नादीननुक्रमिष्यामःउ अनुक्रमेण विधास्यामः। सूत्रकारायमाणस्य वृतकारस्यैतद्वचनम्। यदि तर्ह्यधिकारेण संज्ञा क्रियते, प्रतियोगमुपस्थानात्प्रकृत्युपपदोपाधिविकारागमानामपि प्राप्नोति---ठ्हरतेर्द्दतिनाथयोः पशौऽ हरतेरिति प्रकृतिः, द्दतिनाथयोरित्युपपदम्, पशावित्युपाधिः; ठ्हनस्त चऽ इत्यादिर्विकारः, ठ्त्रपुजतुनोः पुक्ऽ इत्यागमः। सत्यां च संज्ञायां प्रकृतिप्रत्यययोः तर्यायेण परस्परापेक्षं परत्वं स्यात्; शब्दान्तरापेक्षं वा प्रकृतेः, प्रकृत्यपेक्षं तु प्रत्ययस्य? उपपदस्यापि परत्वात् ठुपसर्जनं पूर्वम्ऽ इत्येतद्राजपुरुषादिषु सावकाशं बाधित्वा परत्वं स्यात्, यत्र समासाभावात्ठुपसर्जनं पूर्वम्ऽ इत्यस्याप्रसङ्गः, तत्रोपपदस्य परत्वं स्यात्? एवं च सति भोक्तुअं व्रजतीत्येवमेव नित्यं स्यान्न तु व्रजति भोक्तुमिति, उपाधेरप्यर्थस्य परत्वासम्भवेऽपि तद्वाचिनः प्रयोगानियमे प्राप्ते परश्चेति नियमः स्यात्? आद्यौदातत्वं च यथायथं स्वरान्तरं बाधित्वा स्यात्? अङ्गसंज्ञा तु विधानप्रतिबद्धा, न चेह प्रकृत्यादयः कुतश्चिद्विधीयन्ते इति न सा प्रकृत्यादिषु परतः पूर्वस्य प्राप्नोति? ननु च प्रतियोगमुपस्थानेऽपि वाक्यभेदप्रसङ्गात्प्रकृत्यादीनां संज्ञा न भविष्यति, तथा हि---हरतेर्द्दतिनाथयोः कर्मणोरुपपदयोः पशौ कर्तरीन् प्रत्ययो भवतीत्येकं वाक्यम्, ते च हरत्यादयः प्रत्ययसंज्ञका इति द्वितीयम्, सम्भवत्येकवाक्यत्वे वाक्यभेदस्तु नेष्यते? नैतदस्ति; सनादीनामप्यसतां संज्ञानुपपतेर्वाक्यभेदेनैव संज्ञा विधेया, ततश्च सनादीनामेकेन वाक्येन विधिरपरेण संज्ञाविधिः, एवं प्रकृत्यादीनामपि प्राप्नोति? तत्राह---प्रकृत्युपपदेत्यादि। अयमभिप्रायः----प्रकृत्यादीनां सनाद्यौत्पतौ निमितत्वेनोपादानात्पारार्थ्यात्स्वसंस्कारं प्रति प्रयोजकत्वाभावः यथा--यः पीठे स देवदत इति पीठस्य देवदतसंज्ञा न भवति। ननु सनाद्यौत्पतिवाक्ये प्रथमे तेषां पारार्थ्यम्, न द्वितीये संज्ञासंज्ञिसम्बन्धप्रतिपादनपरे वाक्ये, ततश्च संज्ञाविधानपरमेवंरूपमेव---गुप्तिज्किद्भ्यः सन् प्रत्यय इति, ततश्च तत्रापि भूतविभक्त्यानिर्द्देशान्निमितत्वात्पारार्थ्यं स्थितमेव। किञ्च, योग्यविभक्त्यभावाच्च न प्रकृत्यादीनां संज्ञा, प्रथमान्तस्य षष्ठ।ल्न्तस्य वा संज्ञासम्बन्धः ठ्वृद्धिरादेच्ऽ ठ्स्वं रूपं शब्दस्यऽ इति। न च द्वितीये वाक्ये योग्यविभक्त्यध्याहारेण संज्ञा भवितुमर्हति; योग्यविभक्तिनिर्द्दिष्टेषु सनादिषु चरितार्थत्वात्। उपपदसंज्ञा तु सप्तमीनिद्दिष्टस्य विधीयमाना युक्तं यद्वाक्यभेदेन योग्यविभक्त्यध्याहारेण च भवतीति। किञ्च, प्रधानेतरसन्निधौ प्रधाने कार्यसंप्रत्ययो भवति, यस्य चापूर्वविधानं तत्प्रधानम्; अतः प्रथमवाक्ये तावत्सनादीनामेव प्राधान्यम्, द्वितीयेऽपि संज्ञा संज्ञिनमपेक्षमाणा यत्पूर्ववाक्ये प्रधानतयावगतं तदेवापेक्षते, न तु पारतन्त्र्यादप्रधानमिति सिद्धमिष्टम्। एवमपि विकारागमानां प्राप्नोति? नैष दोषः; महती संज्ञा क्रियते, अन्वर्थसंज्ञा यथा विज्ञायेत---प्रतियन्त्यनेनार्थमिति प्रत्यय इति। न च विकारागमाभ्यामर्थं प्रतयिन्ति। यद्येवम्, ठवेः कःऽ इत्यादीनां समासान्तानां च न स्याद्, न ह्यएषामन्वयव्यतिरेकाभ्यां कश्चिदर्थोऽवधार्यते, तदभावेऽपि केवलाया एव प्रकृतेस्तदर्थावगमात्। यदप्युच्यते----अनिर्द्दिष्टार्थाः प्रत्ययाः स्वार्थे भवन्तीति स्वार्थ एवैषामर्थ इति, तदपि कल्पनामात्रम्; अन्वयव्यतिरेकगम्यत्वादर्थवत्वस्य। इतरेतराश्रयत्वं च भवति---सति प्रत्ययत्वे स्वार्थे विधानम्, स्वार्थे विधानाच्चार्थवत्वे सति प्रत्यय संज्ञेति। एवं तर्हि प्रयोजनाभावान्न भविष्यति? तथा हि तेषां स्थानषष्ठ।लसम्बन्धस्यावयसम्बन्धस्य च प्रतिपादनात्परत्वं तावन्न सम्भवति, आगमानां चानुदातत्वविधानादाद्यौदातत्वस्यासम्भवः, सति तु प्रयोजने आगमस्यापि श्नमः शकारस्येत्संज्ञार्थ भवत्येव संज्ञा। अथ ठ्हनश्च वधःऽ ठ्नाभि नभञ्चऽ ठ्विराग विरङ्गञ्चऽ इत्यादौ वधादीनामनेकालानामादेशानां संज्ञा कस्मान्न भवति, सम्भवति हि तेषु परत्वं प्रयोजनम्? यद्यपि स्थानिन आदेशेन निवर्तितत्वान्न तदपेक्षं परत्वम्, शब्दान्तरापेक्षया स्यादेव परत्वम्। यथोक्तं प्राक्--गुपादिषु अर्थवत्वं च तेषामस्ति, विधेयत्वात्प्राधान्यं च, योग्या च विभक्तिः। अतः सर्वथा वधादिषु संज्ञानिवृतये यत्नः कर्तव्यः। कर्तव्यम्, करणीयामति। अत्र प्रत्ययसंज्ञायां धातोरङ्गसंज्ञा, अङ्गस्य गुणः। अनन्तरमपि सनादिकमतिक्रम्य व्यवहितोऽपि तव्यदादिरुदाहःतः, तत्राद्यौदातादेरपि प्रत्ययकार्यस्य सम्भवात्। सनादौ तु नित्स्वरेण धातुस्वरेण च तद्वाध्यते॥ परश्च॥ ३।१।२ ॥ परश्च॥ अयमप्यधिकार इति। न केवलम् ठ्प्रत्ययऽ इत्ययमेवेत्यपिशब्दार्थः। योगे योगे उपतिष्ठते इति। अनेन परिभाषातोऽधिकारस्य भेदको धर्मो दर्शितः। परिभाषा हि न प्रतियोगमुपतिष्ठते, किन्त्वेकदेशस्थितैव सर्वशास्त्रे व्याप्रियते। परश्च स भवतीत्यादि। अनेनेहस्थाया एवास्याः परिभाषायाः प्रत्ययविधौ सर्वत्र व्यापारो दर्शितः। लिङ्गवती चेयं परिभाषा, प्रत्ययसंज्ञा च लिङ्गम्। धातोर्वेति। क्रियावाचिन्याः प्रकृतेस्तिङ्न्तादेरप्युपलक्षणमेतत्। प्रातिपदिकाद्वेति। अक्रियावाचिन्याः प्रकृतेरिदमुपलक्षणम्, तेन ङ्यापोरपि ग्रहणम्। तैतिरीयमिति। तितिरिणा प्रोक्तमधीते, ठ्तितिरिवरन्तुखण्डिकोखाच्छण्ऽ ठ्च्छन्दोब्राह्मणानि च तद्विषयाणिऽ,ठ्तदधीते तद्वेदऽ, ठ्प्रोक्ताल्लुक्ऽ, ब्राह्मणकुलस्याभिधेयत्वान्नपुंसकन्वम्। चकारः पुनरस्यैव समुच्चयार्थ इति। अन्यस्य समुच्चेतव्यस्याभावात्। तेनेति। अन्यथा बहुलवचनस्य सर्वोपाधिव्यभिचारार्थत्वादुणादिषु परत्वस्यापि विकल्पः सम्भाव्येत, इह ठ्गुप्तिज्किद्भ्यः सन्ऽ इत्यादौ दिग्योगलक्षणा पञ्चमी, तत्र पूर्वः पर इति वा दिक्शब्दस्याश्रवणादनियमेनाध्याहारे सत्यनियमेन प्रयोगप्रसङ्गे नियमार्थमिदम्---पर एव प्रत्ययो न पूर्व इति। ठ्गापोष्टक्ऽ इत्यादौ षष्ठीनिर्द्देशेऽप्यानन्तर्यसम्बन्धे षष्ठीविज्ञानादानन्तर्यस्य च पूर्वत्वेऽपि भावादनियमप्रसङ्ग एवेति तत्रापि नियमार्थमेव। नैतदस्ति प्रयोजनम्, ठ्विभाषा सुपो बहुच् पुरस्तातुऽ इत्येतन्नियमार्थ भविष्यति---बहुजेव पुरस्ताद्भवति नान्यः प्रत्यय इति, ततश्च बहुचि पूर्वत्वस्य नियतत्वादन्यः प्रत्ययः पर एव भविष्यति, षष्ठीनिर्देशेषु मध्यशब्दाध्याहारेण मध्येऽपि प्रसङ्ग इति चेत्, न;ठव्ययसर्वनाम्नामकच् प्राक्टेःऽ इति नियमात् अकजेव प्रकृतिमध्ये भवति, नान्य इति? नैतदेवम्; यदि तावदेवं नियमः----बहुजेव पुरस्तादकजेव मध्ये इति, ततो बहुजकचोर्नियमो न स्यात्। अथ बहुच् पुरस्तादेव अकज्मध्य एवेति, ततो देशस्यानियतत्वातत्र प्रत्ययान्तरं स्यादेवेति सर्वथानिष्टप्रसङ्गः। किञ्च अकजेव प्राक् टेरित्येवं नियमे प्राक् टेः प्रत्ययान्तरं मा भूत्, मध्यान्तरे तु स्यादेव; मध्यविशेषाश्रयत्वान्नियमस्य। न च ठ्तस्मादित्युतरस्यऽ इत्यनया परिभाषयात्र परत्वं सिद्ध्यति, यत्र हि प्रागोव सतः कस्यचित् किञ्चिद्विधीयते, यथा---पदात्परयोरपादादौ वर्तमानयोर्युष्मदस्मदोर्वानावौ भवत इति, स तस्या विषयः; इह तु प्रागसन्त एव सनादयो विधीयन्ते, न तेषां सम्बन्धि किञ्चित्, प्रत्ययसंज्ञैव तेषां कार्यमिति चेत्, न; एवमपि प्रागुत्पत्तिरनिवारिता स्यात्। तथा हि---असतां सनादीनां सज्ञाविधिरनुपपन्न इत्येकेन वाक्येन सनादीनां विधिर्द्वितीयेन च तेषामेव संज्ञाविधिरित्यङ्गोकरणीयम्, ततश्च द्वितीये वाक्ये सतः कार्यमिति कृत्वा परिभाषोपस्थानेन प्राक् प्रयुक्तानां संज्ञैव केवलं न स्यादुत्पत्तिस्त्वनियतदेशैव स्यात्; प्रथमवाक्ये परिभाषानुपस्थानात्। स्यादेतत्---ठ्गुप्तिज्किद्भ्यः सन्ऽ इत्यादावेकैव पञ्चमी, सा चैकमेव दिक्शब्दमध्याहरेत्, तत्र पूर्वः परो वेति संशये पूर्वशब्दाध्याहारे द्वितीयस्य वाक्यस्य स्वरसभङ्गः स्यात्। गुपादिभ्यः परः सन् प्रत्ययसंज्ञो भवतीति हि तस्य स्वरसतः प्राप्तोऽर्थः, स च पूर्ववाक्ये पूर्वशब्दाध्याहारे सति भग्नः स्यात्, अतस्तत्परिरक्षणाय परशब्द एवाध्याहरिष्यते। भवतु वोत्पतिरनियतदेशा, पश्चातु सत एव परस्य यत्कृत्यप्रत्ययसंज्ञादिशास्त्रकार्यम्, तन्नान्यदेशस्य,यद्देशस्य च शास्त्रीयं कार्यं तद्देशोऽन्यदेशं निवर्तयिष्यति; विशेषशास्त्रान्वितत्वेन तस्यैव साधुत्वादिति? अस्त्वेवम्, अथ येषु प्रत्ययसंज्ञैव न भवति----ठ्शमेः खःऽ शङ्खः, ठ्कणेष्ठःऽ कण्ठ इत्यादिषु, तेषु कथं परत्दम्, द्वितीयवाक्यव्यापाराभावात्? भवतो वा कथं भवानपि हि ठ्यः प्रत्ययः स परःऽ इति प्रत्ययपूर्वकं परत्वं परिभाषते? सत्यम्; परिभाषापक्षे न स्यात्परत्वम्, अधिकारपक्षे तु प्रत्ययत्वपूर्वकं परत्वं न भवति; किन्तु परत्वविशिष्टस्यैवोत्पन्नस्य पश्चात्प्रत्ययसंज्ञा, इह तु बहुलवचनात्प्रत्ययत्वाभावेऽपि परत्वमविरूद्धम्। एवमपि नार्थ एतेन, बहुलवचनादेव परत्वमेवात्र व्यवस्थास्यते? एवं तर्हि प्रयोगनियमार्थमिदम्---पर एव प्रत्ययो न केवल इति; अन्यथा प्रत्ययार्थमात्रविवक्षायां केवलोऽपि प्रत्ययः प्रयुज्येत, यथा---किमस्य द्वयसम्, किमस्य मात्रमिति; यथा वा प्रकर्षविवक्षायां तरतमभावः तारतम्यमिति। ननु प्रकृतिविशेषं निर्द्दिश्यैव विधीयते, तत्र पूर्वोक्तया नीत्या परत्वविशिष्टस्यैव विधानमिति नास्ति केवलस्य प्रयोगः? एवमपि प्रकृत्यर्थमात्रविवक्षायां केवलायाः प्रकृतेः प्रयोगः स्यादेव, यथा---पच्, वृक्षेति। यत्र पुनरुभयं विवक्षितम्----प्रकृत्यर्थः, प्रत्ययार्थश्च, न तत्र केवलायाः प्रकृतेः प्रयोगप्रसङ्गः ; न केवला प्रकृतिः प्रत्ययार्थमभिधातुं समर्थेति। लक्षणया समर्थेति चेत्? नो खल्वारभ्यमाणमप्येतल्लक्षणया प्रयोगं निवारयितुमर्हति, अतः केवलप्रकृत्यर्थविवक्षायां केवला प्रकृतिर्मा प्रयोजीति सूत्रारम्भः। चशब्दश्चावधारणे, प्रत्ययः परो भवत्येव, न तु कदाचिन्न भवतीति वचनव्यक्तिः। आ पदत्वनिष्पतेश्चायं नियमः, निष्पन्ने तु पदे तावदेव प्रयुज्यते। अपत्याद्यर्थान्तरविवक्षायां तु तस्मादपि प्रत्ययान्तरं भवति॥ आद्युदातश्च॥ ३।१।३ ॥ आद्युदातश्च॥ उहास्वरकस्याच उच्चारणासम्भवात्सर्व एव स्वरविधिर्नियमार्थः, तत्र ठ्चितःऽ एवान्त उदातः, रित्येव मध्य उदातः, तिदेव स्वरितः, सुप्पितावेवानुदातो, दूरात्सम्बुद्धावेवैकश्रुत्यमति। स्वरान्तराणामन्यत्र नियमात् पारिशेष्यादाद्यौदात एव प्रत्ययो भविष्यति, नास्वरकः नाप्यन्यस्वरकः, तत्राह---अनियतस्वरप्रत्ययप्रसङ्ग इति। अनियतः स्वरो यस्य सोऽनियतस्वरः, स चासौ प्रत्ययश्चानियतस्वरप्रत्ययः तस्य प्रसङ्गे प्रत्ययोऽनियतस्वरो मा भूदित्येवमर्थमित्यर्थः। अनियतस्वरप्रसङ्ग इति पाठे त्वनियतस्य स्वरस्य प्रसङ्ग इत्यर्थः। अयमभिप्रायः---आद्यौदातत्वमपि ठ्ञ्नित्यादिर्नित्यम्ऽ इत्यादौ नियतत्वान्न स्याद्, अन्यत्रानियमः स्यादेव यत्रायं नियमो नास्ति। किञ्च त्वदुक्ते नियमे चिदातीनामनियमः स्याद्। अतश्चितोऽन्त एव, तित्स्वरित एवेत्यादिकं तत्र तत्र नियमस्वरूपमाश्रणीयम्, ततश्च प्रत्ययस्यानियतस्वरत्वमेव स्यात्। किञ्च, रित्येवोपोतमनुदातमित्यपि नियमेऽन्यत्रोपोतमनुदातं मा भूद्। मध्यान्तरं तु स्यादेव; मध्यविशेषाश्रयत्वान्नियमस्य। तस्माद्ये एकाचः प्रत्ययास्तेष्वनियतस्वरप्रसङ्गे वचनमिदमुदातार्थम्। ये पुनरनेकाचः प्रत्ययास्तेषु देशस्याप्यनियमः प्राप्नोतिकदाचिदादेः, कदाचिन्मध्यस्य, कदाचिदन्त्यस्येति। तेषु वचनमिदमुदातार्थम्, तत्राप्यदेरुदातार्थमिति। किमर्थ पुनः प्रत्ययसंज्ञासन्नियोगेनायं स्वर उच्यते, न ठ्ञ्नित्यादिर्नित्यम्ऽ प्रत्ययस्य च लसार्वधातुकमनुदातं सुप्पितौ चेति स्वरप्रकरण एवोच्येत, एवं हि प्रकरणमभिन्नं भवति? किञ्च, द्विराद्यौदातग्रहणं द्विश्चाद्यौदातग्रहणं न कर्तव्यं भवति? स्यादेतत्--तत्र क्रियमाणे प्रत्ययग्रहणपरिभाषया तदन्तस्य स्वरः प्राप्नोति, इह तु क्रियमाणे नायं दोषो भवेद्, उत्पन्नो हि प्रत्ययस्तदाश्रयाणां तदन्तविध्यादीनां निमितं भवति, न तूत्पद्यमानः, न खलूत्पद्यमानो घट उदकाहरणादीनां निमितमवकल्पते, ततश्च ठाद्यौदातश्चऽ इत्यस्य प्रतियोगमुपस्थाने सति उत्पद्यमान एव तव्यदादिराद्यौदातो भवति, एवं तिबादिरनुदात इति दोषाभावः, अतः प्रत्ययसंज्ञासन्नियोगेन चस्वरो विधीयत इति? तन्न; ज्ञापकात्सिद्धम्, यदयं ञ्नित्यादिरुदातो भवतीत्याह, तज् ज्ञापयति---प्रत्ययस्य चेत्यत्र न तदन्तविधिर्भवतीत्यनुदातत्वमपि तदन्तस्य न भविष्यति; धातोरन्त उदातो भवतीत्यादेः प्रकृतिस्वरस्य विधानसामर्थ्यात्। यत्र ह्यनुदातः प्रत्ययः----याति, वृक्षाभ्यामित्यादौ, तत्र प्रकृतिस्वरः श्रूयते; यातः, यान्ति, वृक्षत्वमित्यादौ सतिशिष्टेन प्रत्ययाद्यौदातत्वेन बाध्यते। यदि च प्रत्ययान्तस्यानुदातत्वं स्याद् निर्विषयं धातुप्रातिपदिकान्तोदातत्वं स्यात्। इदं तर्हि प्रयोजनम्---लवितव्यमित्यादौ प्रत्ययोत्पतिकाले एवाग्युदातत्वे कृते पश्चाद्भवन्निडनुदातो यथा स्यात्, अन्यथा लूअतव्य इति स्थिते आद्यौदातत्वं शब्दान्तरप्राप्त्याऽनित्यम्, इट् तु स्वरभिन्नस्य प्राप्नोति, उभयोरनित्ययोः परत्वादिटि कृते तस्य प्रत्ययग्रहणेन ग्रहणे सति इट एवाद्यौदातत्वं स्यात्? एतदपि ज्ञापकात्सिद्धम्, यदयम् ठ्यासुट्परस्मैपदेषूदातो ङ्च्चिऽ इत्याह, तज्ज्ञापयति---आगमा अनुदाता इति; अन्यथा चिनुयातामित्यादौ यासुटः प्रत्ययादित्वात्सिद्धमुदातत्वमित्यनर्थकं तत्सस्यात्। ननु पिदर्थमेतत्सस्यात्, अन्यथा चिनुयादित्यादौ पिद्भक्तो यासुङ्नुदातः स्यात्? यद्योतावत्प्रयोजनं स्याद्, यासुट् परस्मैपदेषु भवति, अपिच्च लिङ्भवतीति पित्वमेव प्रतिषेधेत्। अवश्यं चैतज्ज्ञापकमाश्रयणीयम्, अन्यथा प्रत्ययसंज्ञासन्नियोगेनाद्यौदातत्वविधावपि लविषीयेत्यादौ लावस्थायामनच्कत्वादसति स्वरे विशेषविहितत्वात्परत्वाच्च सीयुटि कृते पश्चाल्लादेशे प्रत्ययाद्यौदातत्वमित्यानुपूर्व्या सीयुट एव स्यात्। ज्ञापकाश्रयणे तु सीयुडनुदातः ठिटोऽत्ऽ इत्यकार उदातो भवति। कथं भवति, यावता सीयुटि कृतेऽकारस्य विच्छिन्नमादित्वम्? नैष दोषः; यासुट उदातवचनं ज्ञापकम्---प्रत्ययाद्यौदातत्वे कर्तव्ये आगमा अविद्यमानवद्भवन्तीति; अन्यथा चिनुयातामित्यादौ यासुटः प्रत्ययादित्वात्सिद्धमुदातत्वमित्यनर्थकं तत्स्यात्। किञ्च, लवितव्यमित्यादौ पूर्वमाद्यौदातत्वे सत्यपि पश्चाद्भवन्निट् किमित्यनुदातो भवति शेषनिघातेन? नायं शेषनिघातस्य विषयः, स्वरविधिशेषत्वातस्य। यस्मिन्पदे यस्यामवस्थायां यस्याच उदातः स्वरितो वा विधीयते तस्मिन्पदे तस्यामवस्थायां सन्निहितमजन्तरं निहन्यत इत्यर्थः। न चायं प्रकारोऽत्र सम्भवति। इह तर्हि स्त्रुघ्ने भवा स्त्रौघ्नी प्रत्ययसन्नियोगेनाण उदातत्वे सति ङीप उदातनिवृत्तिस्वरः सिद्धो भवति; अन्यथा स्त्रौघ्न ई इति स्थिते ठ्प्रत्ययस्य चऽ इत्याद्यौदातत्वं बाधित्वा परत्वाद्यस्येति लोपे कृते उदातनिवृत्यभावान्न स्यात्, न वा बहिरङ्गलक्षणत्वात्। लोपो हि ङीप उत्पत्तिमपेक्षते, स्वरस्तु निरपेक्षः। अवश्यं चात्रान्तरङ्गत्वमेवाश्रयणीयम्, अन्यथा कंसेन क्रीता ठ्कंसाट्टिठन्ऽ टित इति ङीप्, कंस ठ ई इति स्थिते ठ्ञ्नित्यादिःऽ इत्याद्यौदातत्वं बाधित्वा परत्वाद्यस्येति लोपः स्यात्, ततश्च नित्स्वरे लोपेन बाधिते प्रत्ययसंज्ञासन्नियोगेन विधीयमानमाद्यौदातत्वमकारस्य स्थितमिति तस्य लोपे ङीप उदातनिवृत्तिस्वरः स्यात्। ननु च ठचश्चित्करणात्पूर्वमिकारदेशस्ततः प्रत्ययाद्यौदातत्वमिति नास्त्युदातलोपः। इह तर्हि उत्से जाता ठुत्सादिभ्योऽञ्ऽ,ङीप्, उत्स अ ई इति स्थिते ञित्स्वरं बाधित्वा परत्वाद्यस्येति लोपे पूर्वाक्तया नीत्या डीप उदातनिवृत्तिस्वरः स्यात्? नैष दोषः; नित्स्वरो हि प्रत्ययस्वरस्यापवादः, न चापवादविषय उत्सर्गोऽभिनिविशते, तत्र तावदत्र प्रत्ययाद्यौदातत्वं भवति, अपवादं ञ्नित्स्वरं प्रतीक्ष्यत इति कुत उदातलोपः! इह तर्हि अत्रेरपत्यम् ठितश्चानिञःऽ इति ढक्, आयन्नादिषूपदेशिवचनं स्वरसिद्ध्यर्थमिति प्रत्ययस्वरात्पूर्वमेयादेशः, ङीप् आत्रेय ई इति स्थिते तद्धितस्य कित इति स्वरं बाधित्वा परत्वाद्यस्येति लोपे कृते उदातनिवृत्तिस्वर ईकारस्य न प्राप्नोति तस्मादान्तरङ्गत्वमेवाश्रयणीयम्। एवं च स्रौघ्नीत्यत्रापि अन्तरङ्गत्वादेव सिद्धमिष्टमिति नार्थ एतदर्थेन प्रत्ययसंज्ञासन्नियोगेनाद्यौदातवचनेन। इदं तर्हि प्रयोजनम्---गोपायाति धूपायति, उत्पत्तिसन्नियोगेनाद्यौदातत्वे पश्चात् ठ्सनाद्यन्ता धातवःऽ इति धातुसंज्ञायां धातोरित्यन्तोदातत्वं भवति। यदि तु ञ्नित्यादिर्नित्यं प्रत्ययस्य चेत्युच्येत, परत्वाद्धातुस्वरं प्रत्ययस्वरो बाधेत। स्यादेतत्। अनुदातस्य तर्ह्यत्र प्रदेशे करणे किं प्रयोजनम्? स्यादेतत्----कार्यशब्दाट्टापि स्वरितत्वात्प्रागेकादेशे कृते तस्य पूर्व प्रत्यन्तवद्भावातित्स्वरितश्च प्राप्नोति, परं प्रत्यादिवद्भावात्पित्स्वरश्च, परत्वात्स्वरितो भवति। यदि तु लसार्वधातुकमनुदातं सुप्पितौ चेत्युच्येत परत्वादनुदात्वं स्यादिति? तन्न; तत्र हि टाबु त्पतेरपि प्रागेव स्वरितो भवति, सत्यपि वा टापि स्वरितैकादेशयोरुभयोरनित्ययोः परत्वात्स्वरितत्वे कृते आन्तर्यतः स्वरितानुदातयोरेकादेशः स्वरितो भविष्यति। इदं तर्हि---आम्बष्ठ।ल यङ्श्चाप्येकादेशे कृते पित्स्वरश्च प्राप्नोति चित्स्वरश्च, परत्वाच्चित्स्वरो भवति, अन्यत्र क्रियमाणो पित्स्वरः स्यात्? अत्रापि चापश्चित्करणसामर्थ्यादेवच चित्स्वरो भविष्यति। सामान्यग्रहणाविघातार्थे हि चकारे टाप्प्रकरण एव यङ्ष्टापं विदधीत। एवं तर्हि तदेव तस्मिन्प्रयोजनं तदन्तविधिर्मा भूदिति। यदुक्त प्रकृतिस्वरस्य विधानसामर्थ्यादिति? तत्र आस्ते शेत इत्यादौ लसार्वधातुकमात्रस्यानुदातत्वे सति धातुस्वरस्य सावकाशत्वात्। प्रातिपदिकान्तोदातत्वमपि अग्निमान्, वायुमान्, अग्रीनामित्यादौ ठ्ह्रस्वनुड्भ्यां मतुप्ऽ ठ्नामन्यतरस्याम्ऽ इति स्वरसिद्ध्यर्थ स्यात्, अत्र ह्यन्तोदातादिति वर्तत इत्यलमपि कर्कशेन क्षोदेन॥ अनुदातौ सुप्पितौ॥ ३।१।४ ॥ अनुदातौ सुप्पितौ॥ सुबिति प्रत्याहारस्येदं ग्रहणम्, न स्पतमीबहुवचनस्य; पित्वादेवानुदातत्वस्य सिद्धत्वात्। अत एव वृतौ ठ्सुपःऽ इति बहुवचनम्। पित एततु प्रक्रमानुरोधेन बहुवचनम्। सुपश्च पकारेण प्रत्याहारः, न कप; टाबादीनां पित्करणात्। पचतीति। शबन्तोदाहरणम्, तिपस्त्वदुपदेशात् ठ्लसार्वधातुकम्ऽ इत्येव सिद्धम्॥ गुप्तिज्किद्भ्यः सन्॥ ३।१।५ ॥ गुप्तिज्किद्भ्यः सन्॥ गुप गोपने इति। ठ्गुप व्याकुलत्वेऽ, ठ्गुपू रक्षणेऽइत्येतयोस्तु ग्रहणं न भवति; तिजिना सह गणे पठितस्यानुदातेन एव गुपेरिहापि ग्रहणात्। प्रत्ययसंज्ञा चाधिकृतैवेति। का पुनरत्र विस्मरणाशङ्का, किन्त्वन्वर्था प्रत्ययसंज्ञा, अनर्थकस्य गुपादिसनो न स्यादित्याशङ्कानेन निवार्यते। अधिकारसामर्थ्यादनर्थकस्यापि भवतीत्यर्थः। अन्वर्थता त्वर्थवदनर्थकसम्भवेऽर्थवतो ग्रहणेहेतुः। निन्दादयस्तु गुपादीनामर्था न सनः, अन्यथा गुपादीनामानर्थक्यप्रसङ्गात्। धातूनां चानेकार्थत्वं तत्र तत्र द्दश्यते। प्रत्ययास्तु स्वार्थिका अपि भवन्ति समासान्तादिवत्। जुगुप्सते इति। धातोरित्येवमनभिधानादस्य सनोऽनाद्धधातुकत्वादिडभावः। निन्दाक्षमेति। प्रायिकमेतदुपाधिवचनम्। तथा च ठ्क्षेत्रियच् परक्षेत्रे चिकित्स्यःऽ इत्यत्र ग्रन्थः----ठथ वा क्षेत्रियाणि तृणानि सस्यार्थे क्षेत्रे जातानि चिकित्स्यानि विनाशयितव्यानि, अथ वा क्षेत्रियः पारदारिकः, परदाराः परक्षेत्रेम्, तत्र चिकित्स्यो निगृहीतव्यःऽ इति। संशयेऽपि द्दश्यते----तद्व्यचिकित्सन्, य एवं विद्वान्विचिकित्सति, तच्छुश्रुवानृषिर्व्यचिकित्सदिति च। अन्यत्रेति। अर्थान्तरवृतेर्द्धात्वन्तरादित्यर्थः। एतच्च ठ्पूर्ववत्सनःऽ इत्यत्र निपूणतरमुपपादितम्। गुपादिष्वनुबन्धकरणमात्मनेपदार्थमिति। एतदपि तत्रैवोपपादितम्। गुपादीष्विति बहुवचनं मान्वधादिसूत्राभिप्रायम्। कितिस्तुपरस्मैपदी, तथा चानन्तरमेव प्रयोगा दर्शिताः। सनो नकारः स्वरार्थः, नित्करणसामर्थ्याद्धातुस्वरो न भवति---यत्स्तोतारं जिघांससि सखायम्। विशेषणार्थश्च---ठज्झनगमां सनिऽ ठ्हनेः सःऽ हंस इत्यत्र मा भूत्। ठ्स्तौतिण्योरेव षण्यभ्यासात्ऽ,सुषुपिष इन्द्रमित्यत्र मा भूत्। ठ्सन्यङेःऽ इत्यत्रापि ठ्लिटि धातोःऽ इत्यतो धातोरित्यनुवृतैर्यद्यपि तृणादिभ्यः सेऽप्रसङ्गः। हंसः, वत्स इत्यादौ तु स्यादेवोणादीनां व्युत्पत्तिपक्षे। प्रतीषिषतीत्यत्र प्रतिपूर्वादिणः सनि विहिते ठजादेर्द्वितीयस्यऽ इति शब्दस्य द्विर्वचनं यथा स्यादेवमर्थः। ठ्यथष्ट्ंअ नामधातूनामिति वक्तव्यम्ऽ पुत्रीयिषिषति। अन्यत्र त्वार्द्धधातुके ठतो लोपःऽ सार्वधातुके शपा सहैकादेश इति नास्ति विशेषः॥ मान्बधदान्शान्भ्यो दीर्घश्चाभ्यासस्य॥ ३।१।६ ॥ मान्बधदान्शान्भ्यो दीर्घश्चाभ्यासस्य॥ अत्र मान्बधी अनुदातेतौ, शेषौ स्वरितेतौ। अभ्यासस्य चेकारस्यदीर्घो भवतीति। ठ्सन्यतःऽ इतीत्वे दीर्घो भवतीत्यर्थः। ननु विशेषविहितो दीर्घः सामान्यविहितमित्वं बाधित्वाऽवर्णस्यैव प्राप्नोति? ज्ञापकात्सिद्धम्, यदयं ठ्दीर्घोऽकितःऽ, इत्यत्राकित इत्याह, तज्ज्ञापयति----नाभ्यासविकारेषु बाध्यबाधकभाव इति। तद्धि यंयम्यते इत्यादौ नुकि कृते मा भूदिति। यदि चाभ्यासविकारेषु बाध्यबाधकभावः स्याततो विशेषविहितत्वान्नुकि कृतेऽनजन्तत्वादेव न भविष्यति दीर्घः, किं प्रतिषेधेन? अत एव डीढोक्यते इत्यादौ ह्रस्वत्वे कृते गुणो भवति, अन्यथा बबाधे चरितार्थं ह्रस्वं पापच्यते इत्यादौ चरितार्थो दीर्घः परत्वाद्वाधेत। अपर आह---सूत्रोपात एवार्थो वृत्तिकारेणोक्त इति कथमभ्यासस्येति पदच्छेदः, अभ्यासस्य विकार अभ्यासः, स चेत्वमेव। तथा हि---लोपस्य तावदभावरूपत्वाददैशो विधातुमशक्यः, यदि च ह्रस्वस्य दीर्घत्वं स्यात्च तद्धितनिर्देशोऽनर्थकः स्यात्, दीर्घश्रुत्या ठचश्चऽ इत्युपस्थानादजन्तस्य दीर्घविधानाद्दीर्घस्य ह्रस्वस्य वा दीर्घो विशेषाभावातस्मादित्वमेव तद्धितेन प्रत्याय्यते। अथ वा सन्याहत्य विहितस्य विकारस्य ग्रहणं तदाह---अभ्यासस्य चेकारस्येति। सर्वशेष इति । न केवलं तस्यैवापि तु पूर्वयोरपि द्वयोरित्यर्थः। तेन क्वचिन्न भवतीति। अर्थान्तरवृत्तिभ्यो दात्वन्तरेभ्य इत्यर्थः। एतच्च ठ्पूर्ववत्सनःऽ इत्यत्रोपपादितम्। मानयतीत्यादयश्चुरादिण्यन्ताः। निशान इति ण्यन्तादेव पचाद्यच्। मानेर्जिज्ञासायामिति। यद्येवम्, ज्ञानार्थवृतेर्मानेरुतरसूत्रेणैव सन् सिद्धः? सत्यम्, दीर्घविघानार्थ वचनमिडभावार्थ च। बधेर्वैरुप्ये इति। चितस्य दुर्गन्धाद्यनुभवनिमितो विकारो वैरूप्यम्। शानेनिंशाने इति। निशानमुतीक्ष्णीकरणम्, यत्रैवायं पठितः ठ्शान तेजनेऽ इति तत्रैवेत्यर्थः॥ धातोः कर्मणः समानकर्तृकादिच्छायां वा॥ ३।१।७ ॥ धातोः कर्मणः समानकर्तृकादिच्छायां वा॥ कर्मत्वसमानकर्तृकत्वयोः क्रियापेक्षत्वादिच्छायायश्च प्रत्ययार्थत्वेनापि तावच्छुतत्वातदपेक्षे एव ते विज्ञायेते इत्याह ---इषिकर्म यो धातुरिषिणैव समानकर्तृक इति। अर्थद्धारकमिति। धात्वर्थस्य कर्मत्वात्समानकर्तृकत्वाच्च धातुस्तथा व्यपदिश्यते न स्वरूपेणेत्यर्थः, किं कारणम्? असम्भवात्। यद्यपि करोतिमिच्छतीत्यादौ धातोः स्वरूपेणापि कर्मत्वसम्भवः, तथापि न तस्य स्वरूपेणार्थद्वारेण वा समानकर्तृकत्वं सम्भवति। किं चात्र श्तिपा निर्देशात्स्वरूपपरत्वम्, सन्प्रकृतेस्तु लोकव्युत्पत्यनुसारेणार्थपरत्वमेव, अतः सुष्ठूअक्तम्---धातोरर्थद्वारकं विशेषणमिति। इच्छायाः क्रियायाः कर्मभूत इच्छयैव समानकर्तृकोऽर्थो यस्य धातोस्तस्मात्सन् भवतीत्यर्थः। चिकीर्षति, जिहीर्षतीति। कृहृञ्भ्यां सन्, ठिको झल्ऽ इति कित्वम्, ठज्झनगमां सनिऽइति दीर्घः, ठृत इद्वातोःऽ,ठ्हलि चऽ इति दीर्घ;, सनः षत्वम्, द्विर्वचनम्, हलादिशेषः, ह्रस्वः, ठ्कुहोश्चुःऽ इति चुत्वम्---ककारस्य चकारः, हकारस्य झकारः, ठभ्यासे चर्चऽ इति जश्त्वम्---जकारः, ठ्सनाद्यन्ता धातवःऽ इति धातुसंज्ञायां लडादिः। धातुग्रहणं किमिति। ठ्कर्मणः समानकर्तृकात्ऽ इति वचनाद्वाक्यान्न भविष्यति। न ह्यएतदुभयं वाक्यार्थस्य सम्भवति, सुबन्तादपि---पुत्रमिच्छतीत्यादौ असमानकर्तृकत्वान्न भविष्यति, यत्रापि समानकर्तृकत्वम्---गमनमिच्छति, आसनमिच्छतीत्यादौ, तत्रापि क्यज्बाधको भविष्यति। यद्यपि पुत्रमिच्छतीत्यादौ असमानकर्तृके क्यच् सावकाशः तथापि चिकीर्षतीत्यादावसुबन्ते सावकाशं सनं सुबन्तेषु समानकर्तृकेषु परत्वाद्वाधिष्यते। यत्रापि क्यच् प्रतिषिध्यते क्यचि मान्ताव्ययप्रतिषेध इति----कर्तुमिच्छतीति, तत्रापि काम्यज्बाधकः।ङ्याप्प्रातिपदिकेष्वपि खट्वाकुमारीपुत्रादिषु न समानकर्तृकत्वम्। आसनशयनादौ त्वकर्मत्वम्, न हि ङ्याप्प्रतिपदिकं कर्माभिधायि, विभक्त्यभिधेयत्वात्कर्मादीनाम्। धातोरपि तर्हि न स्यात्? अथ तत्र वस्तुतो धात्वर्थस्येच्छया व्याप्यमानत्वात्कर्मत्वम्, प्रातिपदिकादपि स्यात्, अथात्र कर्मरूपानभिधानान्न स्यात्, धातोरपि न स्यादिति समानं वचः? एवं तर्ह्यसमानकर्तृकत्वादेवात्र न भविष्यति। शयनासनादौ हि प्रकृत्यर्थस्यैव समानकर्तृकत्वक्रियारूपत्वाद्, न प्रत्ययार्थस्याक्रियारूपस्य, ठ्क्रियारूपस्य सिद्धता नाम यो धर्मस्तत्र घञादयःऽ इति स्मरणात्। तिङ्न्तादपि यत एव हेतोः पाकमिच्छतीत्यत्रार्थे पचतीच्छतीति न भवति, तत एव हेतोः सन्नपि न भविष्यति। तदेवं न धातुमपहाय क्वचिदपि प्रसङ्ग इति प्रश्नः। सोपसर्गादुत्पत्तिर्मा भूदिति। अन्यथा सङ्घातस्य विशिष्टक्रियावचनत्वातत एव सन्स्यात्, ततश्च सन्नन्तत्वेन तस्यैव धातुत्वातत एव लङ्युपसर्गात्पूर्वोऽडागमः प्राप्नोति। ननु लिङ्यप्युपसर्गस्य द्विर्वचनप्रसङ्गो दोषः शक्यो दर्शयितुम्? सत्यम्; अट्प्रसङ्गमप्यपरं दोषं दर्शयितुं लणुदाहृतः। ननु धातुरेव विशिष्टक्रियावाची, उपसर्गस्तु सन्निधिमात्रेणोपकारको न तु कस्यचिदर्थस्याभिधानेन, यथा---भुङ्क्ते इत्यत्र भुजिरेवाभ्यवहारे वर्तते, आत्मनेपदं तु कर्तरि, अथ चान्तरेणात्मनेपदं नाभ्यवहारो गम्यते; तद्वदुपपसर्गसन्निधाने धातुरेव विशिष्टां क्रियामाह, ततश्चार्थद्वारके कर्मत्वसमानकर्तृकत्वे अपि धातोरेव, न सङ्घातस्य, अवश्यं चैतदेवं विज्ञेयम्----धातुरेव च क्रियावची, कथम्? यो हि मन्यते सङ्घातः क्रियावाचीति, क्रियमाणेऽति, क्रियमाणेऽपि तस्य धातुग्रहणे योऽत्र धातुर्न तस्मादुत्पत्तिः प्राप्नोति, अकर्मत्वादसमानकर्तृत्वाच्च? एवं मन्यते---प्रशब्दसन्निधौ तावत्प्रकर्षाख्यो विशेषो गम्यते, न च प्रकर्षमपि धातुरेवाचष्टे; प्रशब्दस्य वैयर्थ्यप्रसङ्गात्; सति चैवं समुदायस्यैव कर्मत्वम्। न ह्यसौ करोत्यर्थमात्रेण सन्तुष्यति, नापि प्रकर्षमात्रेण। न चैवं योऽत्र धातुस्तस्मादनुत्पत्तिप्रसङ्गः, तस्यापि कर्मत्वात्। तथा च कट्ंअ करोति, भीष्ममुदारं दर्शनीयमिति समुदायचिकीर्षायामपि भीष्मादिभ्यो द्वितीया भवति; तेषामपि कर्मत्वात्। नन्वेवमपि यथा जनपदसमुदायो जनपदग्रहणेन न गृह्यते, तथा कर्मसमुदायस्याकर्मत्वात्समुदायादुत्पत्तिर्न भविष्यति। यत्र तर्हि समुदायस्यैव कर्मत्वं तत्र कथम्, यथा---प्रस्थातुमिच्छति प्रतिष्ठासत इति, अत्र हि तिष्ठतीति गतिनिवृत्तिः प्रतीयते, प्रशब्दासन्निधौ तु गतिः, तत्र यथा जिगमिषतीत्येकमेव कर्म तद्वदत्रापि ततश्च समुदायादेव स्यात्? यद्येवम्, योऽत्र धातुः कथं ततः सन्, न ह्यसौ कर्म, कर्मण इति नैषा धातुसमानाधिकरणा पञ्चमी, किं तर्हि? षष्ठी---कर्मणोऽवयवाद्धातोरिति? चिकीर्षतीत्यादावपि केवलस्यापि व्यपदेशिवद्भावेन कर्मावयवत्वम्। एवमप्यसमानकर्तृत्वान्न प्राप्नोति, धातुमात्रस्याक्रियावाचित्वात्। अतः समानकर्तृकादित्यपि षष्ठ।ल्र्थे पञ्चमीति व्याख्येयम्। तदेवं सङ्घातनिवृत्यर्थ धातुग्रहणमिति स्थितम्। कर्मम इति किमिति। जिगमिषतीत्यादौ प्रयोगे प्रत्ययवाच्याया इच्छायाः कर्मापेक्षायां प्रत्यासत्या प्रकृत्यर्थ एव कर्म प्रत्येष्यते। यद्यपि क्रिया करणमप्यपेक्षते, स्फुटतरा त्विच्छायाः कर्मापेक्षेति सैव प्रकृत्यर्थेन पूरयिष्यते, नार्थः कर्मग्रहणेनेति प्रश्नः। गमनेनेच्छतीति। अस्यां विवक्षायां गमेर्मा भूदित्यर्थः। असति हि कर्मग्रहणे सत्यापरीच्छायाः कर्मापेक्षायां यथैतद्वाक्यं भवति---गमनेनेच्छतीति, तथा सन्नपि स्यादिति भावः। इच्छायामिति किमिति। शब्दवैरादिसूत्रे यत् ठ्करणेऽ इति तदिहैवास्तु, अभिधानशक्तिस्वाभाव्याच्च करणविशेष इच्छायामेव सन् भविष्यति, नमस्प्रभृतिभ्यः क्यजिति प्रश्नः। कर्तुजानातीति। लक्षणैकशरणो नैवं प्रतिपाद्येतेति भावः। वावचनाद्वाक्यमपि भवतीति। ननु ठ्समानकर्तृकेषु तुमुन्ऽ इति तुमुन्विधानसामर्थ्यादेव वाक्यं भविष्यति, अस्ति तस्यावकाशः---चिकीर्षितुमिच्छतीति। न ह्यत्र सनः प्रसङ्गः; ठ्सनन्तान्न सनिष्यतेऽ इति वक्ष्यमाणत्वात्। धातोरिति विधानादित्यादिना धातुग्रहणस्य प्रयोजनान्तरं दर्शयति। न पूर्वत्रेति। तथा च जुगुप्सते इत्यादाविडभावः। आशङ्कायामिति। आशङ्काउसम्भावना, प्रयोक्तृधर्मः, तद्विशिष्टक्रियावचनात्स्वार्थे प्रत्ययः। कूलं पिपतिषतीति। कूलस्याचेतनत्वादिच्छाया असम्भवः। श्वामुमूर्षतीति। शुनश्चेतनत्वेऽपि जीवितस्य प्रियत्वाद्व्याध्याद्यभिभवेऽपि तिर्यक्त्वान्मर्तुमिच्छा न भवतीति, शङ्के पतिष्यति कूलम्, शङ्के मरिष्यति श्वेत्यत्रार्थः। प्रत्याख्यानं तु---यो यदिच्छति स तस्य पूर्वरूपाणि करोति, यथा---देवदतः कट्ंअ चिकीर्षुः सन्नह्यति रज्जुकीलपूलादिकं चादते; कूलस्यापि च पूर्वरूपाणि द्दश्यन्ते---लोष्टाः शीर्यन्ते, भिदा जायन्ते। श्वानः खल्वपि मुमूर्षव एकान्तशीलाः स्थूलाक्षाश्च भवन्ति, तदिह पूर्वरूपदर्शनादिच्छाध्यारोप्यते---इच्छत्येवायं य एवमिच्छाविनाभूतानि पूर्वरूपाणि करोति। गौणमुख्यन्यायश्च क्वचिल्लक्ष्यापेक्षया नाश्रीयते, ततश्चाध्यारोपितेच्छाश्रयः प्रत्यय इति। विशेषणं किमिति। इच्छाग्रहणं किमित्यर्थः। शेषिकादिति। सन्प्रसङ्गादन्योऽनिष्टः प्रत्ययो वार्यते। शेषाधिकारविहितः शैषिकः मतुर्बन्थे भवो मतुबर्थीयः, गहादेराकृतिगमत्वाच्छः, मतुपोऽर्थो मतुबर्थः, सोऽस्यास्तीति मतुबर्थिकः। ठत इनिठनौऽ। शैषिकप्रत्ययान्ताच्छ्èअषिकः सरूपप्रत्ययो नेष्टः, तद्यथा---शालायां भवो घटः शालीयः, तत्र भवमुदकम्, पुनश्छाए न भवति; विरूपस्तु भवत्येव---अहिच्छत्रे भवमाहिच्छत्रम्, तत्र भवमाहिच्छत्रीयम्, अणन्ताच्छाए भवति। तथा दण्डोऽस्यास्तीति दण्डिकः, ठत इनिठनौऽ सोऽस्यास्तीति पुनष्ठन्न भवति; विरूपस्तु भवत्येव---दण्डिमती सेनेति। सननन्तान्न सनिष्यते इति। सरूप इत्येव। सारूप्येण चात्र साद्दश्यं लक्ष्यते, तच्चार्थद्वारकमिति इच्छासनन्तादिति पूर्वोक्त एवार्थो भवति, एतच्च न्यायसिद्धम्। तथा हि---जातौ पदार्थे समुदाये सकृल्लक्षणं प्रवर्तते, ततश्च तत्प्रवृतेः प्राक् तत्प्रत्ययान्तप्रकृत्यसम्भवातदन्तान्नास्ति तत्प्रत्ययप्रसङ्गः। इह यो ग्रामं गन्तुमिच्छति तस्य यद्यपि ग्रामो न स्वरूपेणेष्टः----ग्रामो मे स्यादिति, तथापि गम्यमानतारूपेण सोऽपीष्ट एव। ग्रामो जिगंस्यते, जिगमिषितः, जिगमिषितव्यः, सुजिगमिष इति इच्छा वाचिनः सनन्तात् ग्रामे कर्मणि लादयो भवन्ति। गमिं प्रति कर्मत्वं ग्रामस्य स्पष्टमेव। अत एव ग्रामं जिगमिषति, ग्रामाय जिगमिषतीति ठ्गत्यर्थकर्मणिऽ इति द्वितीयाचतुर्थ्यौ भवतः॥ सुप आत्मनः क्यच्॥ ३।१।८ ॥ सुप आत्मनः क्यच्॥ अत्रापीच्छायामित्यनुवृतेस्तदपेक्षमेव सुबन्तस्य कर्मत्वं विज्ञायते इत्याह---इषिकर्मण इति। आत्मशब्दोऽयं परव्यावृत्तिवचनः स्वशब्दपर्यायो गृह्यते, न चेतनद्रव्यवचनः। स हि गृह्यमाण इच्छया वा सम्बध्येत, सुबन्तेन वा। तत्रेच्छया सम्बन्धे कर्तरि षष्ठी, आत्मनः इच्छायामात्ककर्तृकायामिच्छायामात्मा चेदिच्छतीत्यर्थः स्यात्, ततश्चात्मग्रहणमनर्थकं स्यात्, सर्वैवेहेच्छाऽऽत्मकर्तृका, तस्यास्तद्धर्मत्वात्। सुबन्तसम्बन्धे तु देवदतस्य पुत्रमिच्छति यज्ञदत इत्यत्रापि प्राप्नोति, परस्यापि हीष्यमाण आत्मन एवेष्टो भवति; तस्याप्यात्मत्वात्। अनर्थकं चात्मग्रहणं स्याद्; व्यावर्त्याभावात्। वृक्षस्य जलमिच्छति, खट्वायाः पादमिच्छतीत्यादौ यत्राचेतनार्थ किञ्चिदिष्यते तद्व्यावर्त्यमिति चेत्, न; तत्रापि चेतनस्यैव परमशेषित्वात्। सर्वमेव हि भोग्यं चेतनानामेव शेषभूतं खट्वायाः पादमिच्छतीत्यत्रापि यस्य तत् ख्टवादिकमुपभोग्यं तदर्थमेव तदिष्यते, खट्वादिकं तु तस्यैव द्वारमात्रम्; अतः परव्यावृत्तिवचन एवात्मशब्दः। तत्रापि यदीच्छया सम्बन्धः स्यात्, पूर्ववत् कर्तरि षष्ठ।लमात्मग्रहणमनर्थकं स्यात्, सर्वस्या एवेच्छाया एषितृकर्तृकत्वा दिति सुबन्तेन सम्बध्यते, सुबन्तात्कर्मण इच्छायामभिधेयायां क्यज् भवलि, तच्चेत्सुबन्तमात्मनः स्वस्य सम्बन्धि भवति। कस्य स्वस्येत्यपेक्षायामिच्छया एषितुः सन्निधापितत्वात् तस्येवैषितुरात्मनः सम्बन्धि इति विज्ञायते, तदाह----एषितुरेवात्मसमम्बन्धिनः सुबन्तादिति। न चैवमात्मनः पुत्रं परस्य दासमिच्छतीत्यत्रापि सुबन्तस्यात्मसम्बन्धित्वात्प्रसङ्गः, नात्र यथाकथंचिदात्मसम्बन्धित्वं विवक्षितम्, किं तर्हि? इष्यमाणमेव रूपमात्मसम्बन्धित्वेन यदेष्यते तदा प्रत्ययः। पुत्रीयतीति। ठ्क्यचि चऽ इतीत्वम्। सुप इति किमिति। कर्मण इति वचनातिङ्न्तादप्रसङ्गः, न हि तिङ्न्तं कर्म। धातोश्चाप्रसङ्गः विशेषविहितेन सना बाधितत्वात्। ङ्याप्प्रातिपदिकादुत्पतावपि न कश्चिद्दोषः; ठ्नः क्येऽ इति पदसंज्ञाविधानात्। तच्च क्रियमाणे सुब्ग्रहणे नियमार्थम्---नान्तमेव क्ये पदमिति। तदेव ङ्याप्प्रातिपदिकादुत्पतौ विध्यर्थ भविष्यति। नन्वसति सुब्ग्रहणे ङ्याप्प्रातिपदिकात्सुबन्ताच्चोत्पत्त्व्यमविशेषात्, ततश्च ठ्नः क्येऽ इत्येतद्यद्येवं विध्यर्थम्, उभयथापि दोषः; नियमार्थे हि वाच्यतीत्यादौ प्रातिपदिकात्सुबन्ताच्चोत्पतौ यद्यपि दोषाभावः, नकारान्तेषु प्रातिपदिकादुत्पत्तिपक्षे नलोपो न स्यात्। अथ तेषु प्रातिपदिका दुप्तौ विध्यर्थम्, एवं सति वाच्यतीत्यादौ सुबन्तादुत्पत्तिपक्षे जश्त्वादिपदकार्यं स्यात्, अतः सुबन्तादेव यथा स्यात्प्रातिपदिकान्मा भूदिति नियमार्थं सुब्ग्रहणं कर्तव्यमेव। एवं तर्हि कर्मग्रहणाद् ङ्यप्प्रातिपदिकादप्रसङ्गः सुबन्तमेव हि कर्माभिधायि; पञच्कपक्षेऽपि द्योतकविभक्तेरपेक्षितत्वात्। तदेवं सुबन्तमपहाय न क्वचित्प्रसङ्ग इति मत्वा प्रश्नः। वाक्यादिति। पदसमूहादित्यर्थः। महन्तं पुत्रमिच्छतीति। किं च स्याद्यद्यत्र स्यात्? प्रत्ययार्थे गुणभूतयोर्महत्पुत्रशब्दयोरसति परस्परसम्बन्धे समासो न स्यात्, तथा च तन्निबन्धनमात्वं न स्यात्। किमिदानीं न भवति---महापुत्रीयतीति? भवति, यदैतद्वाक्यं भवति----महान्पुत्रो महापुत्रः महापुत्रमिच्छीति। अथ क्रियमाणेऽपि सुब्ग्रहणे कस्मादेवात्र न भवति? प्रत्ययग्रहणपरिभाषया समुदायस्यासुबन्तत्वात्। किं पुनरयं कर्मणोः समुदायः? आहोस्वित्समुदायः कर्म? किं चातः? यदि कर्मणोः समुदायः, न कर्मग्रहणेन गृह्यते इति समुदायादप्रसङ्ग? अथ समुदायः कर्म, अवयवाद् द्वितीया न प्राप्नोत्यकर्मत्वात्? एवं तर्हि कर्मणोरेवायं समुदायः, सुब्ग्रहणं तु यदत्र कर्म तस्मान्मा भूदिति। अथ क्रियमाणेऽपि सुब्ग्रहणे कस्मादेव तस्मान्न स्यात्, सुबन्तमेव हि तत्? असामर्थ्यात्। कथमसामर्थ्यम्? सापेक्षमसमर्थ भवतीति। अक्रिययाणे पुनः सुब्ग्रहणे नायं पदविधिर्भवति। यत्र हि पदस्यैवासाधारणं किञ्चिद्रूपमाश्रितं स पदविधिः, कर्मग्रहणं तु न पदस्यैवासाधारणम्, ठ्धातोः कर्मणःऽ इत्यपदेपि द्दष्टत्वात्। अन्ये त्वाहुः----समुदायस्यापि कर्मत्वमवयवयोश्च महत्वविशिष्टस्य पुत्रस्यैष्यमाणत्वादिति तेषां समुदायादवयवाच्च मा भूदिति सुब्ग्रहणम्। राज्ञः पुत्रमिच्छतीति। नन्वसामर्थ्यादेवात्र न भविष्यति, कथमसामर्थ्यम्? सापेक्षमसमर्थं भवतीति? यत्र तर्ह्यन्तरेणापि तृतीयस्य पदस्य प्रयोगं परस्येति गम्यते तत्र मा भूत् यथा---अघमिच्छति, व्यसनमिच्छतीति, न हि कश्चिदात्मनोऽघमिच्छति। ककार इत्यादि। स्यादेतत्----ठ्नः क्येऽ इत्यत्रापि मा कारि ककार इति? यद्येवम्, सामसु साधुः अत्रापि प्राप्नोति। चकात्स्तदविघातार्थ इति। स्वरस्तु प्रत्ययस्वरेण सिद्धो धातुस्वरेण वा, अकारस्तु द्दषदमिच्छति द्दष्यद्यति, द्दषद्यतेर्ण्वुल्, ठतो लोपःऽ,ठ्यस्य हलःऽ,ठ्क्यस्य विभाषाऽ----द्दषदकः, अत्रातो लोपस्य स्थानिवद्भावात् ठत उपधायाःऽ इति वृद्धिर्मा भूत्। मृदमिच्छति मृद्यति, मृद्यतेः ठचो यत्ऽ, अतो लोपादि पूर्ववत्---मृद्यम्, ठ्यतोऽनावःऽ इत्याद्यौदातत्वं यथा स्यादिति। पुत्रीयतीत्यादौ च शपा सहैकादेश उदातो भवति। क्यचि मान्ताव्ययप्रतिषेध इति। मान्तग्रहणं प्रातिपदिकस्य विशेषणम्, न सुबन्तस्य । तेन पुत्रमिच्छतीत्यादौ क्यज् भवति, काविच्छति कानिच्छतीत्यादौ च न भवति। उच्चौर्नीचैरिति। अधिकरणप्रधानयोरप्यनयोराधेये यदा वृत्तिस्तदा कर्मत्वम्, गोसमानाक्षरनान्तादित्येके। गोशब्दात्समानाक्षरान्नान्ताच्च क्यज् भवतीत्येके मन्यन्ते। अकारादयो दश समानाक्षराः; तत्र लृवर्णान्तस्य, ऋकारान्तस्य च प्रातिपदिकस्याभावादेकारान्पूर्वेषां सप्तानामचां ग्रहणम्। अस्मिन्पक्षे वाच्यतीत्यादि न सिद्ध्यति, तस्मान्नायं स्थितः पक्ष इत्याहुः। अत एवास्य वृतावनुपन्यासः। परेच्छायामिति। शेषष्ठयाः समासो न कर्तृषष्ठयाः, सुबन्तद्वारकश्च परस्येच्छया सम्बन्धः, परस्य सुबन्तार्था या इच्छा तस्यामित्यर्थः। अघायव इति। ठ्क्याच्छन्दसिऽ इत्युप्रत्ययः, ठश्वाघस्यात्ऽ इत्यात्वम्। एतदेव क्यचि परत आत्वविधानं ज्ञापकम् च्छन्दसि परेच्छायामपि क्यज् भवतीति, न हि कश्चिदात्मनोऽघमिच्छति। न चाचारक्यजर्थम्, च्छन्दस्यघशब्दाचारे क्यचोऽदर्शनात्। अथास्मात्क्यजन्ताल्लकृत्यक्तखलर्था भवन्तः क्व भवन्ति? यथायोगं भावे कर्तरि च, न तु कर्मणि। प्रकृत्यर्थविशिष्टाया नियतविषयअया इच्छायाः क्यजन्तेनाभिधानम्, न सा वस्त्वन्तरं विषीयकरोति, अतो जीवत्यादिवदकर्मकः क्यजन्तः। आचारक्यजन्ते तूपमानकर्मणः पुत्रादेरन्तर्भावेऽपि उपमेयस्यच्छात्रादेरनन्तर्भावातस्मिन्कर्मणि लादयो भवन्त्येव---पुत्रीय्यतेच्छात्रः पुत्रायितव्य इत्यादि, यथा----श्येनायते काक इति उपमानकर्तुरन्तर्भावेऽपि उपमेयकर्तरिलो भवति, तद्वत्। इह च माणवकं मुण्डं करोति मुण्डते माणवकः, मुण्डयितव्यो माणवक इति ण्यन्तो धातुर्मौण्ड।ल्गुणविशिष्टद्रव्यमात्रमन्तर्भावयितुं शक्तः, न तु माणवकादिकं विशेषमिति तस्य धातावनन्तर्भावातत्र लादयो भवन्ति। यद्येवम्, अनेन हेतुना क्यजन्तादपि प्राप्नोति। माणवकं मुण्डमिच्छति मुण्डीयति माणवकम्, मुण्डीय्यते माणवक इति, नात्र क्यचा भवितव्यमसामर्थ्यात्? कथमसामर्थ्यम्? सापेक्षमसमर्थ भवतीति। णिजपि तर्हि न प्राप्नोति? स्यादेतत्----नोभौ करोतियुक्तौ मौण्ड।ल्ं माणवकश्च, न हि माणवकत्वं क्रियते, ततश्च मुण्डं करोतीत्यत्रैवार्थे मुण्ड।ल्तोति णिजुत्पद्यते। मुण्डं करोति माणवकमित्यत्र वाक्येऽपि मुण्डस्यैव कर्मत्वम्, तत्सामानाधिकरण्यातु माणवकाद् द्वितीयोत्पतिः। तदेवं माणवकादयो मौण्ड।ल्स्याधारविशएषप्रतिपादनार्थमुपादीयमानाः करोतियुक्ता न भवन्ति। यदा पुनरुभौ करोतियुक्तौ भवतः, न भवति तदा वृत्तिः, तद्यथा---बलीवर्द्दं करोति तं च मुण्डं करोति मुण्डयति बलीवद्दमिति णिज्भवति। यद्येवम्, अनेनैव हेतुना क्यजपि न प्राप्नोति। यदि चाधारत्वेनापि माणवकोऽपेक्ष्यते, पुनरपि सापेक्षता। किञ्च, यदि न माणवकः करोतियुक्तः, कथं तत् लकार उत्पद्यते---मुण्ड।ल्ते माणवक इति? कश्चायं न्यायो न माणवकः करोतियुक्त इति? न ह्यसौ मौण्ड।ल्मात्रेण सन्तुष्यति,माणवकस्थमसौ मौण्ड।ल्भिनिर्वत्तयति, ततश्च स्वरूपेणाक्रियमाणोऽपि माणवको मुण्डपरूपेण क्रियते, इष्यते च। तदेवं सति यदि णिज् भवति क्यजपि स्याद् अथ क्यज्न भवति णिजपि न स्यादिति समानं वचः। एवं तर्हि मुण्डादयो गुणवचनाश्च सापेक्षाः, उच्यते च णिच्, स वचनात्सापेक्षेभ्योऽपि भविष्यति, क्यच् पुनरनपेक्षेभ्यः पुत्रादिभ्यः सावकाश इति माणवकं मुण्डमिच्छतीत्यादौ सापेक्षेभ्यो न भविष्यतीति? यद्यप्ययमपि णिज् गुणमात्रकरणविवक्षायां सावकाशः---मुण्डयत्ययं नापितः प्रवीणो मौण्ड।ल्करणैति, तथापि तत्करोतीति सिद्धे णिचि पुनर्विधानमिदं सापेक्षेभ्योऽपि यथा स्यादित्येवमर्थमेव। यद्वा--द्विविधा मुण्डाद्यः---धातवः, प्रातिपदिकानि च। तत्र सूत्रे धातव उपातास्तेभ्यः स्वभावत एव विशिष्टक्रियावचनेभ्यो णिज्भविष्यति, प्रातिपदिकानां तु विग्रह एव---माणवकं मुण्डं करोतीति। अथ वा नेदं युगपदुभयं भवति----वाक्यं च प्रत्ययश्च, ततश्च मुण्डयतीति द्रव्यमात्रं प्रतीयते, तत्र विशेषार्थिना विशेषोऽनुप्रयोक्तव्यः। अथ वा---मुण्डस्यैव शुद्धेन करोतिनाऽन्वयः, मौण्ड।ल्विशिष्टेन तु माणवकस्य, यथा---गां दोग्धि पय इति शुद्धस्य दुहेः पूर्वं गवभिसम्बन्धः, पश्चातु गोदुहिना पयसः। क्यच्प्रत्ययस्त्वनभिधानान्न भवति। माणवकं मुण्डयतीत्युक्ते माणवकं मुण्डमिवाचरतीत्यर्थान्तरमेव प्रतीयते। तदेवमिच्छाक्यजन्ताद्भावे कर्तरि च लादय इति स्थितम्॥ काम्यच्च॥ ३।१।९ ॥ काम्यच्च॥ किमर्थो योगविभागः, न ठ्सुप आत्मनः क्यच्काम्यचौऽ इत्येकयोग एव क्रियते, एवं हि चकारो न कर्तव्यो भवति? तत्राह---योगविभाग इत्यादि। एकयोगे हि सति उतरसूत्रे द्वयोरप्यनुवृत्तिः स्यात्। ननु योगविभागेऽप्यानन्तर्यात्काम्यच एवानुवृत्तिः प्राप्नोति? नैष दोषः; चकारोऽत्र क्रियते, स क्यचोऽनुकर्षणार्थः, तदनुकर्षणस्य चैतदेव प्रयोजनम्--उतरत्रानुवृत्तिर्यथा स्यात्। काम्यचस्तु योगविभागसामर्थ्यादननुवृत्तिः। प्रयोजानाभावादिति। अग्निकाम्यतीत्यादौ गुणनिषेधो न प्रयोजनम्, अनार्द्धधातुकत्वादेव गुणस्याप्रङ्गत्। ठ्विजुपे च्छन्दसिऽ उपयट्, उपयजमिच्छति उपयट्काम्यतीत्यत्र न संप्रसारणं प्रयोजनम्; यजादिभिः कितो विशेषणात्---यजादिभ्यो यो विहितः किदिति। वाक्काम्यतीत्यत्रापि धातोः सरूपग्रहणे कार्यविज्ञानान्न संप्रसारणं प्रयोजनम्। चकारादित्वाद्वेति। केचिद्व्याचक्षते---अन्तेऽस्य चकारोऽनर्थकः, धातुस्वरेणैवान्तोदातत्वस्य सिद्ध्त्वात्, स आदौ कर्तव्यः। अथ वा---अन्तेऽपि कृतो नियमार्थः संपद्यते---चिद्वायं व्यपदेष्टव्यो नानुबन्धान्तरेणेति तेनान्ते कृत आदित्वफलसंपादनादादितः संपद्यत इति। अन्ये तु ठ्सुप आत्मनः क्यच्ऽ ठ्काम्यच्चऽ इति द्विचकारकनिर्देशाश्रयेण चकारादित्वं वर्णयन्तिऽ चित्करणं तु पुत्रकामिष्यतीत्यत्र सति शिष्टमपि स्यस्वरं चित्स्वर एव यथा स्यादिति॥ उपमानादाचारे॥ ३।१।१० ॥ उपमानादाचारे॥ ठ्कुड।लेऽ इत्युपमेये सप्तमीश्रवणादुपमानमपि सप्तम्यन्तमेवेति कर्मविवक्षायामेतत्प्रयोगसम्भवाद्वचनारम्भः। कुट।लमिति तु युक्तः पाठः॥ कर्तुः क्यङ् सलोपश्च॥ ३।१।११ ॥ कर्तुः क्यङ् सलोपश्च॥ आचार इति वर्तत इति तेन तदपेक्षमुपमानस्य कर्तृत्वं विज्ञायत इति भावः। सलोपश्चेति। यद्ययं चशब्दः समुच्चयवृत्तिर्गृह्यएत तदेकमेव वाक्यं स्यात्----क्यङ्सलोपौ भवति इति, ततश्च यत्रैव सलोपस्तत्रैव क्यङपि स्याद्---ओजायत इति, इह तु न स्यात्----श्येनायते काक इति। अतोऽन्वाचये चशब्दे वाक्यभेदश्चाश्रयणीयः---अविशेषेणोपमानात्कर्तुः क्यङ् भवति, यत्र तु सकारः सम्भवति तत्र तस्य लोप इति तदिदमुक्तम्। अन्वाचयशिष्टः सलोपस्तदसम्भवेऽपि क्यङ् भवतीति। श्येनायत इति ठकृत्सार्वधातुकयोर्दीर्घःऽ। सलोपविधावपीति। सलोपस्यान्वाचयशिष्टत्वेन वाक्यभेदे सत्ययमपि गुणो भवतीत्यर्तः। अपिशब्देनैतद्दर्शयति---क्यङ्विधौ तावत्सम्बद्ध्यते वाक्यसंपादनाय, एवं सलोपविधावपीति। ओजायत इति। ओजः शब्दो वृत्तिविषये तद्वति वर्तते। ओजसोप्सरसोनित्यं पयसस्तु विभाषयेति। अन्यस्य तु यशः प्रभृतेर्नैव भवतीत्येके, नेति वयम्। ओजोप्सरोव्यतिरिक्तस्य सकारान्तस्योपलक्षणार्थं पयोग्रहणम्। अत एव सलोपो वा। ओजसोप्सरसोर्नित्यमिति सामान्येन वार्तिकम्; तेन यशायते इत्याद्यपि भवतिसलोपोऽप्सरस एवेत्ययं तु पक्षो भाष्येऽपि न स्थितः। सलोपविधो कर्तुरिति स्थानषष्ठी संपद्यते इति। प्रत्ययविधौ यत्पञ्चम्यन्तं तदेव लोपेन सम्बन्धेऽर्थाद्विभक्तिविपरिणामो भवतीति षष्ठ।ल्न्तं सम्पद्यत इत्यर्थः। तत्रालोऽन्त्यस्येति नियमे सतीति। सकारेण कर्तुर्विशेषणातदन्तविधिविज्ञानातदर्थमेव च सेति पृथक् पदं लुप्तषष्ठीकम्। क्वचित् अलोऽन्त्यनियमे सतीति पाठः, तत्र सूत्रैकदेशानुकरणत्वात्समासेऽपि विभक्तेर्लुगभावः, यथा----अस्यवामीयमिति। आचार इत्यादि। क्यङ्पवादोऽयम्। ठ्गल्भ धार्ष्ट।ले, ठ्क्लीबृ अधार्ष्ट।लेऽ ठ्होड्ःअ अनादरेऽ---एते पचाद्यजन्ता गृह्यन्ते, त्सय चाकारस्य वाक्येऽनुदातत्वानुनासिकत्वे प्रतिज्ञायेते, तेन क्विबन्तादात्मनेपदं भवति। वावाचनात्क्विपा मुक्ते क्यङ् भवति, क्विप्सन्नियोगेनानुनासिकत्वप्रतिज्ञानात् क्यङ्पक्षे इत्संज्ञा न भवति। किमर्थ पुनरिदम्, यावता गल्भादयो धातव एवानुदातेनः पठ।ल्न्ते, तेभ्यो गल्भत इत्यादि सिद्ध्यति, एतेभ्य एव पचाद्यजन्तेभ्यः क्यङ् इवगल्भायते इत्यादि, यद्यपि धार्ष्ट।लदावर्थे गल्भादयः पठ।ल्न्ते, तथाप्यनेकार्थत्वाद्धातूनाम् अवगल्भ इवाचरतीत्यत्रार्थेऽपि त एव वर्तिष्यन्ते? सत्यम्; अवगल्भांचक्रे इत्यादौ प्रत्ययान्तत्वादाम्यथा स्यादित्येवमर्थ क्विब् विधीयते। अथ यदा धातुभ्य एव लिड् विधीयते तदा कथं भवितव्यम्? अवजगल्भे, विचिक्लीबे, विजुहोडे इति। अन्ये तु---धातुभ्य एव क्विब् विधीयते इति वदन्त एतानि रूपाणि न सम्भवन्तीत्याहुः, भाष्यविरोधात्। भाष्यकारस्तावत्सर्वप्रातिपदिकेभ्य इत्यनेन सिद्धिमाशङ्कते---न तर्हीदानीमित्यादिना। न हि धातुग्रहणे सति तेन सिद्धिशङ्कोपपद्यते। वार्तिककारोऽपि ठ्सर्वप्रातिपदिकेभ्यःऽ इति वदन् गल्भादिष्वपि प्रापितदिकग्रहणमेव मन्यते। न केवलं गल्भादिभ्य एव, अपि तर्हि सर्वेभ्य एव प्रातिपदिकेभ्य इति हि तस्यार्थः। ठ्सर्वप्रातिपदिकेभ्यःऽ इत्यत्र ठ्सर्वेभ्यःऽ इति वक्तव्ये प्रातिपदिकग्रहणात् प्रातिपदिकादेव क्विब् विधीयते, न सुबन्तात्; तेन पदत्वाभावादश्वतीति ठतो गुणेऽ इति शपा पररूपं भवति, विधुरविशब्दाभ्यां क्विपि शपि गुपे ठेङः पदान्तादतिऽ इति न भवति। विधवति, रवयति, राजनतीति नलोपो न भवति। वाचतीत्यादौ तु कुत्वजश्त्वादि न भवति। येऽपि सर्वप्रातिपदिकेभ्यः क्विपमिच्छन्ति, तैरपि गल्भाद्यनुक्रमणं कर्तव्य मात्मनेपदार्थाननुबन्धानासंक्ष्यामीति॥ भृशादिभ्यो भुव्यच्वेर्लोपश्च हलः॥ ३,१,१२ ॥ भृशादिभ्यो बुव्यच्वेर्लोपश्च हलः॥ लोपविधौ ठ्भृशादिभ्यःऽ इति पञ्चमी स्थानषष्ठ।ल विरिणम्यते, हला च भृशादयो विशेष्यन्ते, तत्र तदन्तविधौ सति हलन्तानां लोपो विधीयमानो भृशायते इत्यादावहलन्तेन चभवति, तदाह----हलन्तानां च विज्ञायमानेऽहलन्तानां पाठोऽनर्थकः स्यात्। अच्वेरिति प्रत्येकमभिसम्बन्धयते इति। तेनैकवचनमुपपद्यते इति भावः। किमर्थे पुनरिदमुच्यते इति। ठच्वेःऽ इत्येतदधिकृत्य प्रश्नः। तेनेति। अनुप्रयुज्यमानेन भवतिनेत्यर्थः। न च भवतेरनुप्रयोगं बाधित्वा क्यङ् भवितुमर्हति, अच्व्यन्तेषु सावकाशत्वात्। किञ्च, भवतेरभावे च्वेरपि निवृत्तिप्रसङ्गः, तद्योगे तस्य विधानात्। कथं तर्हि डाजन्तात्क्यष् भवति, यावता डाजपि भवतियोगे विधीयते? अत्र परिहारं वक्ष्यति---कृभ्वस्तिभिरिव क्यषापि योगे डाज् भवतीत्येतदेव ज्ञापकमिति। तत्सद्दशप्रतिपत्यर्थ तर्हीति। नञिवयुक्तन्यायेन च्व्यन्तसद्दशा भृशादयः कथन्नाम प्रतीयेरन्निति च्व्यन्तपर्युदासः क्रियते, साद्दश्यं चाभूतद्भावविषयत्वेनेत्याह---अभूततद्भावविषयेभ्यो मृशादिभ्य इत्यादि। भृशायते इत्यादि। अजन्तानाम् ठकृत्सार्वधातुकयोःऽ इति दीर्घः, हलन्तानां तु लोपः----असुमनाः सुमना भवति सुमनायते, दुर्मनायते इत्यादि। भृशीभवतीति। इदानीमेवोक्तम्---नास्त्यत्र प्रसङ्गः इति, तस्मादच्व्यर्थविषयं प्रत्युदाहरणं प्रदर्शनीयम्----क्व दिवा भृशा भवन्तीति। ये रात्रौ भृशा नक्षत्रादयस्ते दिवा क्व प्रदेशे भवन्तीत्यर्थः। इह मनः शब्दः सोपसर्गः पठ।ल्ते----सुमनस्, दुर्मनस्, अभिमनस्, उन्मनस्; अत्र किं सोपसर्गात्सङ्घातात्प्रत्ययो भवति? आहोस्विदुपसर्गरवितान्मनः सब्दादेव? इति विचारः तदर्थ च किमुपसर्गः प्रकृत्यर्थविशेषणं सुमनः शब्दादिति? उत प्रत्ययार्थविशेषणम्---सुभवतो, दुर्भवतौ, अभिभवतौ, उद्भवताविति ? कथं पुनर्मनः शब्देन सह पठित उपसर्गे प्रत्ययार्थविशेषणमाशङ्क्यते, तद्विशेषणत्वे हिप्राग्भवतेः पठ।लेत? नैष शक्यः प्राग्भवतेः पठितुम्, एवं हि सर्वेभ्य एव भशादिभ्य उपसर्गविशिष्ट एव भवत्यर्थे प्रत्ययः स्याद्, मनः शब्दादेव च विशिष्टेऽर्थे इष्यत इत्येवमर्थो मनः----शब्देन सह पाठः स्यात्। तत्र यदा मनाः शब्देन स्वादीनां बहुव्रीहीस्तदा प्रकृत्यर्थविशेषणं ते भवन्ति; यदा त्वसमस्ता एव तदा प्रत्ययार्थविशेषणम्। मनः शब्दश्च वृत्तिविषये तद्वति वर्तते मनस्वी सुष्ठुअ भवतीत्यादावर्थे क्यङ् प्रत्ययः। प्राप्त्यर्थस्य वा भवतेः ठा धृषाद्वाऽ इति विकल्पितणिचोऽत्र विषये ग्रहणम्, तेन मनः कर्म शोभनं प्राप्नोतीत्यादिरर्थो भवति। तत्राद्ये पक्षेऽडाड्ल्यब्द्विर्वचनेषु दोषः, अट्---स्वमनायत, दुरमनायत। आट्---अभ्यमनायत, उदमनायत। उपसर्गस्यापि क्यङ्न्ते धातावन्तर्भावाततः पूर्वमडाटौ प्राप्नुतः, परौ चेष्येते। ल्यप्---सुमनाय्य, अभिमनाय्य, उपसर्गस्य क्त्वान्तेऽनुप्रवेशातद्व्यतिरिक्तपदाभावादसति समासे ल्यपोऽभावात्सुमनायित्वेति स्यात्। द्विर्वचनम्---क्यडन्तात्सनि कृते उपसर्गस्य सनन्तेऽनुप्रवेशातस्य द्विर्वचने सति सुसुमनायिषते अबिभिमनायिषते इति स्याद्, सुमिमनायिषते अभिमिमनायिषत इति चेष्यते? नैष दोषः, चुरादौ ठ्संग्राम युद्धेऽ इति पठ।ल्ते, स न पाठयः; संग्रामशब्दाद् युद्धवाचिनः ठ्तत् करोति तदाचष्टेऽ इत्येव णिचः सिद्धत्वात्। पठ।ल्मानस्तु ज्ञापयति----सोपसर्गात्सङ्घाताद्धातुसंज्ञानिमितकप्रत्यये विधित्सिते उपसर्गाः पृथक् क्रियन्ते, परिशिष्टादेव तु प्रत्यय इति। संग्रामशब्दो हि सोपसर्गः संघात एव चुरादावपि पठ।ल्ते, न तूपसर्गसद्दशावयवं शब्दान्तरम्। तथा च ठ्वा पदान्तस्यऽ इति परसवर्णविकल्पो भवति, अन्यथा स न स्यात्। स एवमर्थः पठ।ल्ते---असंग्रामयत शूरः, संग्रामयित्वा, सिसंग्रमयिषत इत्यादि रूपं यथा स्यादिति, ततश्चोक्तस्यार्थस्य ज्ञापकः। नियमार्थो वा---धातुसंज्ञाहेतुः प्रत्ययः सोपसर्गाद्यदि भवति संग्रामशब्दादेवेति। ननु चात्रानुदातेदयं संग्रामयतिरिष्यते, ततश्चात्मनेपदार्थमनुबन्धमांक्ष्यामीति पाठः स्यादिति कथं ज्ञापको नियमार्थो वा भवेत्? स्यादेतत्---अनुबन्धासञ्जनार्थे हि पाठे ठ्ग्राम युद्धेऽ इत्येव पठितव्यम्, संशब्दस्तु द्योतकः प्रयोगदर्शनादेव लभ्यते इङ्कोइरिवाधिः, नियमार्थस्तु संग्रामेति पाठ इति। एवमपि यथा इङ्कोरिधेः पूर्वमाण् न भवति, तथाऽस्यापि न स्यात्, तस्माद् द्वितीयः पक्ष आश्रीयते। यद्येवम्, यथा श्येनायत इति आचारार्थस्य क्यङेक्तत्वादाङ्ः प्रयोगो न भवति तथा स्वदीनामपि न स्यात्। तद्विशिष्ट एवार्थे क्यङे विधानाद् युक्तमेको पसर्गेण विशिष्टार्थे क्यणुत्पद्यत इति तस्य तेनाभिधानम्, इह पुनरनेकेन। तत्र---मनायत इत्युक्ते संदेहः स्यात् सुभवतौ दुर्भवतौ वेति? तत्रासंदेहार्थमुपसर्गः प्रयोक्तव्यः। अयं तर्हि दोषः---मनः शब्दात्क्यङ् कृते मिनायत इत्यस्य तिङ्न्तस्य स्वादेरतिङ्न्तादुतरस्य निघातः प्राप्नोति। पक्षान्तरे तु सुमनायत इत्यादि तिङ्न्तं संपद्यते इतै तद्व्यतिरिक्ताभावान्निघाताभावः। एवं तर्हि भृशादिषूपसर्गस्य पराङ्गवभावं वक्ष्यामि ठ्सुबामन्त्रितेऽ इत्यस्यानन्तरं भृशादिषूपसर्ग इति। इहापि तर्हि प्राप्नोति---अभिभृशायते सुभृशायत इति? यदि नेष्यते ठ्मनस्युपसर्गेऽ इति वक्ष्यामि, मनः शब्दे परत उपसर्गस्तस्यैव परस्य मनः शब्दस्याङ्गवद्भवति स्वरे कर्तव्ये इति। एवं च देवदतः सुमनायत इत्यादौ उपसर्गस्यापि ठ्तिङ्ङतिङःऽ इति निघातो भवति। योऽप्याह---सुमनःशब्दात्प्रत्यये विधित्सिते उपसर्गः पृथक् क्रियते, परिशिष्टादेव प्रत्यय इति, तेनापि स्वरे पराङ्गवद्भावो वक्त्व्य एव। तदेवं प्रत्ययार्थविशेषणं स्वादयः, मनः शब्दादेव केवलात्प्रत्यय इति स्थितम्। यदि तु सामान्येन ज्ञापकमिष्यते सङ्घातात्प्रत्यये विधित्सिते उपसर्गाः पृथक् क्रियन्ते इति, नात्रैव, यथा ठ्प्रभौ परिवृढःऽ इत्यत्र वक्ष्यते----परिवृढमाचष्टे इति णिचि कत्वाप्रत्यये कृते परिवृढय्येति ल्यब् भवतीति, ततो ज्ञापकान्तरं मृग्यम्। च किंचिदुद्ग्रन्थाभिधानं सूरिभिरित्युपरम्यते॥ लोहितादिढान्भ्यः क्सष्॥ ३।१।१३ ॥ लोहितादिडाजभ्यः क्सष्॥ पटपटायतीति। अव्यक्तानुकरणादिति डाचि विवक्षिते ठ्डाचि बहुलं द्वे भवतःऽ इति द्विर्वचनम्, ततो डाप्, पटत्पटा इति स्थिते ठ्नित्यमाम्रेडिते डाचिऽ इति पटच्छब्दस्य यस्तकारे यश्च परः पकारस्तयोः पररूपं पकारः, लोहितडाज्भ्यः क्यष्वचनं भृशादिष्वितराणिऽ इति वार्तिकम्, तदेतत्पठिताभिप्रायं न पुनरनेनादिग्रहणं प्रत्याख्यायत इत्याह---यानि पठ।ल्न्ते इति। निद्राकरुणाकृपाशब्दा वृत्तिविषये तद्वति वर्तन्ते, अनिद्रो निद्रावान् भवति, अकरुणः करुणावान् भवति, अकृपः कृपावान् भवतीत्यत्रार्थे प्रत्ययः। ऊपरिपठितेभ्यस्तु क्यषेव भवतीत्यस्योपपादनम्। आकृतिगणश्चायमिति। कुत इत्यत आह---तथा चेति। क्व पुनः सामान्यग्रहणार्थः ककारः? क्यच्व्योश्चेति। ठापत्यस्यऽ इति वर्तते, न चायमापत्यादिष्यते। इह तर्हि ठ्क्यस्य विभाषाऽ? ठ्हलःऽ इति वर्तते, न चायं हलन्तादिष्यते। इह तर्हि ठ्क्याच्छन्दसिऽ ? एतद्याच्छन्दसीति वक्तव्यम्----भुरण्युस्तुरण्युरिति, कण्ड्वादियगन्तादपि यथा स्यादिति। ठ्वा क्यषःऽ इत्येतद्वा यादित्येवास्तु। न चैवम् ठ्पाशादिभ्यो यःऽ पाश्या, अत्र प्रसङ्गः? सामान्यविहितानान्तिङं नियमार्थ प्रकरणम्। न च पाशादयात्पिरस्मैपदमात्मनेपदं वा प्राप्तमस्ति। अथाप्याचारक्विबन्तात्सम्भवेद्? एवमपि ठ्वा यषःऽ इत्येवास्तु तत्राह--नः क्ये इति। ककारमनुबन्धमासञ्जतः सूत्रकारस्याप्याकृतिगणत्वमभिप्रेतमित्याह---न हीति। भाष्ये त्वादिग्रहणप्रत्याख्यानपरमेव वार्तिकं व्याख्यातम्। ककारोऽपि प्रत्याख्यातः। कथं पुनः पटपटायताति क्यष्योगे डाज् भवति, यावता कृभ्वस्तियोगे स विधीयते? तत्राह---कृभ्वस्तिभिरिवेत्यादि। भवत्यर्थे क्यष् विधीयते, स भवतिप्रयोगे न भवति, तेनैवोक्तत्वातस्यार्थस्य। अतो भवतेरप्रयोग एव क्यषा भवितव्यम्। यदि च क्यषा योगो डाज्च न स्याड्डाजन्तात् क्यष्विधानमनुपपन्नं स्यादिति भावः। अथ किमर्थम् ठ्वा क्यषऽइति सूत्रमारभ्यते, न क्यष् चेति चकारोऽत्र कर्तव्यः, लोहितादिभ्यः क्यष् भवति चकारात् क्यङ् च, तत्र क्यङ्पक्षे आत्मनेपदम्, क्यष्पक्षे परस्मैपदमिति सिद्धमिष्टम्? अहो सूक्ष्मदर्शी देवानांप्रियः, यदिदमपि न द्दष्टम्---ठ्क्यङ्मानिनोश्चऽ इति। इह तर्हि ठ्प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम्ऽ इति लोहिनीशब्दादप्ययं क्यष् भवति, सति चैवं क्यङ्न्तादात्मनेपदं क्यषन्तात्परस्मैपदमिति विज्ञायमाने आत्मनेपदपक्षे ठ्क्यङ्मानिनोश्चऽ इति पुंवद्भावे सति अलोहिनी लोहिनी भवति लोहितायत इति प्राप्नोति, अद्य पुनः क्यषन्तादात्मनेपदे विकल्पिते लोहिनीयते लोहिनीयतीतीष्ट्ंअ सिद्ध्यतीति स्पष्ट एव फलभेदः॥ कष्टाय क्रमणे॥ ३।१।१४ ॥ कष्टाय क्रमणे॥ चतुर्थीसमर्थादिति। सङ्गतार्थःऊउसमर्थः, ठ्चतुर्थ्या समर्थऽ इति तृतीयासमासः। प्रत्ययार्थेन क्रमणेन सह सङ्गतार्थत्वं यस्य चतुर्थीकृतं तस्मादित्यर्थः। एतच्च ठ्कष्टायऽ इति निर्देशादेव लभ्यते। क्रमणशब्दस्य पादविहरणे प्रसिद्धत्वातत्रैव प्रत्ययो मा विज्ञायीत्याह---क्रमणेऽर्थेऽनार्जव इति। अनार्जवं कौटिल्यम्, इह त्वनार्जवशब्दोऽनाकरणरूपे क्रमणे पर्यवस्यत्यर्थात्। किं पुनः क्रमणम्? उत्साहः, यथा व्याकरणाध्ययनाय क्रमते उत्सहत इत्यर्थ इति व्याख्यातम्। कष्टाय कर्मणे क्रमत इति। ठ्कृच्छ्रगहनयोः कषःऽ इति कृच्छ्र इडभावः, कृच्छ्रमुदुः खम्। इह तु तत्कारणं पापं कर्म, कृच्छ्र्ंअ पापं कर्म कर्तुमुत्सहत इत्यर्थः। ठ्वृत्तिसर्गऽ इत्यात्मनेपदम्। प्रायेण तु परस्मैपदं पठ।ल्ते, तत्र पापं कर्म कर्तुकामः कुटिलमाचरतीत्यर्थः अनुत्साहत्वात्परस्मैपदम्। अत्यल्पमिदमुच्यत इति। सर्वलक्ष्यासंग्रहात्। कथं तर्हि वक्तव्यमित्याह---सत्रकक्षेत्यादि। अस्मिन्पक्षे द्विदीयान्तेभ्यः प्रत्ययः; चिकीर्षां प्रति कर्मत्वात्। कण्वचिकीर्षायामिति। प्रकृतिप्रत्ययसमुदायस्यायमर्थनिर्देशः। कण्वमुपापम्। सत्रादयो हि वृत्तिविषये पापपर्यायास्तेभ्यश्चिकीर्षायां प्रत्ययः, पापं चिकीर्षतीत्यस्वपदेन विग्रहः। अजः कष्ट्ंअ क्रामतीति। क्रमिरत्र पादविहरणे वर्तते, कष्ट्ंअ गहनदेशं क्रामति गच्छतीत्यर्थः॥ कर्मणो रोमन्थतपोभ्यां वर्तिचरोः॥ ३।१।१५ ॥ कर्मणो रोमन्थतपोभ्यां वर्तिचरोः॥ ठ्कर्मणःऽ इति पञ्चमी, रोमन्थतपोभ्यामित्यनेन सामानाधिकरण्यात्। प्रत्येकसम्बन्धात्वेकवचनम्। वर्तीति। ण्यन्ताद् वृतेः ठ्ण्यासश्रन्थो युच्ऽ इति युचि प्राप्तेऽस्मादेव निपातनात् क्तिन्। युजपि भवति---वर्तना । चरणं चर्, संपादित्वाद्भावे क्विप्। हनुचलन इति। हनुचलनसहचरितं चर्वितस्य मुखप्रदेशे आकृष्य चर्वणं तत्रेत्यर्थः। कीटो रोमन्थं वर्तयतीति। अवगीर्णमपादानप्रदेशान्निः सृतं रोमन्थाख्यं द्रव्यं वर्तयतिउ वृतं करोति, गुलिकां करोतीत्यर्थः। नात्र हनुचलनमस्ति। तपसः परस्मैपदं चेति। एवं च ठ्नमोवरिवःऽ आदिसूत्रे तपः शब्दः पठितव्यस्तथा तु न कृतमित्येव। इह ठ्तपस्यते लोकं जिगीषुरग्नेःऽ इति ठ्तपस्यते लोकं जिगीषुरग्नेःऽ इति छान्दसत्वादात्मनेपदम्॥ बाष्पोष्मभ्यामुद्वमने॥ ३।१।१६ ॥ शब्दवैरकलहाभ्रकण्वमेघेभ्यः करणे॥ ३।१।१७ ॥ सुखादिभ्यः कर्तृवेदनायाम्॥ ३।१।१८ ॥ सुखादिभ्यः कर्तृवेदनायाम्॥ वेदनायामिति। ठ्विद चेतनाख्याननिवासेषुऽ इत्यस्माच्चुरादिण्यन्ताद्भावे ठ्ण्यासश्रन्थो युच्ऽ , ठ्घट्टिवन्दिविदिभ्यश्चऽ इत्यौपसंख्यानिको वा। वेदनायामर्थेऽनुभव इति। प्रत्यक्षज्ञानमुअनुभवः। यद्यपि वेदनाशब्दो ज्ञानमात्रवचनस्तथापि कर्तृग्रहणेन सुखादीनि विशेष्यन्ते, कर्तृगतानां च सुखादीनां वेदनाऽनुभवरूपैवेति मत्वैवमुक्तम्। क्रियापेक्षं कर्तृत्वं वेदनासंनिधानातदपेक्षमेव विज्ञायते। कर्त्रा च सुखादीनि विशेष्यन्ते न वेदना; व्यभिचाराभावात्। सर्वैव हि वेदना वेदयितुरेव भवति, तदेतदाह----वेदयितुश्चेत्कर्तुः सुखादीति भवन्तीति। आश्रयाश्रयिभावलक्षणश्च सम्बन्धः, न जन्यजनकभावलक्षणः। एवं च कर्तृग्रहणं लुप्तषष्ठीकं पृथक्पदम्। वेदयत इति। ठा कुस्मादात्मनेपदीऽ इत्यधिकारे वेदिः पठितः। एवं च प्रत्युदाहरणे परस्मैपदपाठः प्रमादजः। प्रसाधकः उ अभ्यङ्गादेः कर्ता, संप्रसाध्यमानस्य नेत्रविकारादिना सुखमनुमानतो जानाति॥ नमोवरिवश्चित्रङ्ः क्यच्॥ ३।१।१९ ॥ नमोवरिवश्चित्रडः क्यच्॥ करणविशेषे पूजादाविति। ठ्करणेऽ इति सामान्यानुवृतावप्यभिधानशक्तिस्वाभाव्याद्विशेष उपलभ्य इति भावः। नमस्यति देवानिति। ठ्नमः स्वस्तिस्वाहाऽ इति चतुर्थी न भवति, प्रत्ययार्थे गुणीभूतस्य नमः शब्दस्य निष्कृष्य सम्बन्धाभावात्। अथ वा---नमस्यति नमस्कारेण पूजयतीत्यर्थः। तत्र ठुपपदविभक्तेः कारकविभक्तिर्बलीयसीऽ इति द्वितीयेव भवति। एवं च नमस्करोति देवानित्यादावपि द्वितीयेव भवति। परिचर्यायामिति। परिचर्याउ शुश्रूषा। चित्रीयते इति। अवयवकृतं लिङ्गं समुदायस्य विशेषकं भवतीति क्यजन्तादात्मनेपदं भवति, ठ्क्यचि चऽ इतीत्वम्। एतदर्थमेव च शब्दवैरादिसूत्रे चित्रशब्दो न पठितः। चित्रीयत इति। विस्मयत इत्यर्थ इत्येके। विस्मापयत इत्यर्थ इत्यन्ये। तथा च भट्टिकाव्ये मायामृगं प्रकृत्य भवति ठ्ततश्चित्रीयमाणोऽसौऽ इति॥ पुच्छभाण्डचीवराण्णिङ्॥ ३।१।२० ॥ पुच्छभाण्डचीवराण्णिङ्॥ पुच्छादुदसने पर्यसने वेति। उदसनमूत्क्षेपणम्। पर्यसनमुपरितः क्षेपणम्। उत्पुच्छयत इति। ननु यथाऽऽचारे क्यङ् इविहिते आङ्ः प्रयोगो न भवति, तत्कस्य हेतोः? आङ्विशिष्टस्यैव चरत्यर्थस्य क्यङभिधानात्, तद्वदिहाप्युत्क्षेपणे णिङे विधानादुदः प्रयोगो न प्राप्नोतीति? अस्त्यत्र विशेषः----पर्यसनेऽप्ययं विधीयते। तत्रोदसनं द्योतयितुमुच्छब्दः, पर्यसनं द्योतयितुं परिशब्दश्च प्रयोक्तव्यः। समाचयनमुराशीकरणम्, अर्जनमु द्रव्यलाभोपायः, याच्ञादि। ङ्कार आत्मनेपदार्थ इति। तेनोतरसूत्रे पुच्छादयो न शक्याः पठितुमिति भावः॥ मण्डमिश्रश्लक्ष्णलवणव्रतवस्त्रहलकलकृततूस्तेभ्यो णिच्॥ ३।१।२१ ॥ मण्डमिश्रश्लक्ष्णलवणव्रतवस्त्रहलकलकृततूस्तेभ्यो णिच्॥ किमर्थमिदम्, न प्रातिपदिकाद्धात्वर्थ इत्येव सिद्धम्; न च तत्करोतीत्यादिना तत्र धात्वर्थनियमः क्रियते, राजानमतिक्रान्तवानत्यरराजदित्यपि दर्शनात्? मुण्डं करोति माणवक मित्यादौऽ सापेक्षेभ्योऽपि णिज् यथा स्यादित्येवमर्थ प्रपञ्चार्थ वा। हलिकल्योस्त्वदन्तत्वनिपातनार्थम्, अन्यथा हलि इ कलि इ इति स्थिते ठचो ञ्णितिऽ इति वृद्धिः प्राप्नोति, ठ्णाविष्ठवत्ऽ इति टिलोपश्च; तत्र लोपः शब्दान्तरप्राप्त्याऽनित्यः, वृद्धिस्तु टिलोपे कृतेऽप्राप्तेवैत्युभयोरनित्ययोः परत्वाद् वृद्धौ कृतायामैकारस्य लोपस्तन्नाग्लोप्यङ्गं भवतीति ठ्सन्वल्लघुनिऽ इति सन्वद्भावः स्यात्, ठ्दीर्घो लघोःऽ इति दीर्घश्च, अत्वनिपातने तु यद्यपि परत्वाद् वृद्धिस्तथाप्यगेव लुप्यते इति सन्वद्भावो न भवति, तदाह---हलिकल्योरदन्तत्वनिपातनं सन्वद्भावप्रतिषेधार्थमिति। उपलक्षणमेतत्, ठ्दीर्घो लघोःऽ इति दीर्घाभावार्थ च। ठ्दीर्घो लघोःऽ इत्यत्राप्यनग्लोप इति वर्तते। एवं च बलिपटुअप्रभृतिभ्यो णिचि अबिवलत्, अपीपटदिति भवति, न त्वबबलत् अपपटदिति। ठ्सत्यापपाशऽ इत्यत्र मुण्डादयः पठितव्यास्तथा तु न कृतमित्येव॥ धातोरेकाचो हलादेः क्रियासमभिहारे यङ्॥ ३।१।२२ ॥ धातोरेकाचो हलादेः क्रियासमभिहारे यङ्॥ ठ्हलादेःऽ इति विशेषणादेकाच इति बहुव्रीहिः। क्रियासमभिहारे वर्तत इति। समभिह्रियमाणायां क्रियायां हि वर्तत इत्यर्तः। अनेन समभिहारस्य प्रकृतिविशेषणत्वं दर्शयति। क्रिया हि धातुवाच्या। समभिहारविशिष्टापि क्रियैव भवति, अतः प्रकृतिविशेषणत्वमेव युक्तम्, यथा अतिशयेन शुक्लोऽपि शुक्ल एवेत्यतिशयानं प्रकृत्यर्थस्तद्वत्। तस्माद्यङ्प्रत्ययो भवतीति। क्व? अनिर्दिष्टार्याः प्रत्ययाः स्वार्थे भवन्तीति तत्रैव। समभिहारे द्योत्ये प्रकृत्यर्थसमभिह्रियमाणत्वद्योतनायेत्यर्थः, यथा प्रकृत्यर्थस्यातिशयद्योतनाय तरबादयस्तद्वत्। इह बिप्रकीर्णानं मूर्तानामेककालानामेकत्र राशीकरणं समुदायभावापतिर्मुख्यः समभिहारः, यथा---पूलादीनाम्। धातुवाच्या तु क्रियैकैव। यद्यपि ठ्दिवु क्रीडाविजिगीषाव्यवहारद्यौतिस्तुतिकान्तिगतिषुऽ इत्यनेकार्थे दिविः पठ।ल्ते, तथापि न युगपदनेकार्थमाचष्टे, किं तर्हि? प्रयोगभेदेन। यद्यपि चाश्रयभेदाद्विषयभेदाच्च भिद्यते पाकः----अन्य एव हि देवदतकर्तृकः पाकः, अन्य एव चान्यकर्तृकः, अन्यश्चौदनस्य पाकोऽन्य एव तैलादीनाम्; तथापि धातुना निवृतभेदैव सा प्रत्याय्यते। अत एव भवद्भिरास्यत इत्यादौ बहुवचनं न भवति। न खलु कर्तृभेदः कर्तृ-भेदः क्रियाव्यक्तिभेदेन व्याप्तः, एकफलावच्छिन्नामेकामेव क्रियां कुर्वत्स्वपि बहुषु पचन्तीति दर्शनात्। तदेवं धातुवाच्या समूहरूपा प्रधानक्रियैकैवेति समभिहाराभावः। अधिश्रयणादीनां तु गुणक्रियाणां युगपदेकधातुवाच्यत्वेऽपि क्रमजन्यत्वादुत्पन्नापवर्गित्वेन युगपदवस्थानाभावादमूर्तत्वाच्च कधातुवाच्यत्वेऽपि क्रमजन्यत्वादुत्पन्नापवर्गित्वेन युगपदवस्थानाभावादमूर्तत्वाच्च समभिहाराभावः। तदेवं मुख्यस्य समभिहारस्य धात्वर्थविषयेऽसम्भवाद् गौणो गृह्यते, तद्दर्शयति, तद्दर्शयति---पौनः पुन्यं भृशार्थो वेति। द्रव्याणां द्रव्यान्तरैरव्यपेतानां समभिहारो भवति, तथा क्रियाणामपि क्रियान्तरैरव्यपेतानामेतदुभयं भवति। तत्र प्रधानक्रियाणां पौनः युन्यं समभिहारः, पुनः पुनरनुष्ठीयमानविषयं हि तत्। प्रधानक्रियैव च पुनः पुनरनुष्ठीयते। अवयवक्रियाणां तु भृशार्थता समभिहारः, बुद्धिगोचरानेकसकलावयवक्रियाविषया हि सा। पापच्यत इति। ठ्दीर्घोऽकितःऽ इति दीर्घः। देदीप्यत इति। ठ्गुणो यङ्लुकोःऽ यण्èóव समभिहारस्य द्योतितत्वात्। ठ्क्रियासमभिहारे द्वे भवतः ऽ इति वा ठ्नित्यवीप्सयएःऽ इति वा द्विर्वचनं न भवति। धातोरिति किमिति। अन्यस्य क्रियासमभिहारे वृत्त्यसंभवात्प्रश्नः। भृशं प्राटतीति। अत्र धातूपसर्गसमुदायस्य विशिष्टक्रियावचनत्वाततो यङ्स्यात्, ततश्चोपसर्गस्य द्विर्वचनं स्यात्। यदि सोपसर्गसंघातस्यैव क्रियासमभिहारे वृत्तिः, प्रपापच्यत इत्यादौ यङ् न प्राप्नोति ? योऽत्र धातुः स न क्रियासमभिहारे, यश्च क्रियासमभिहारे न स धातुरिति। तस्माद्वातुरेव समभिहारविशिष्टक्रियावाची, उपसर्गस्तु सन्निधिमात्रेणोपकारकः। ततश्च संघातात्प्राप्त्यभावान्नार्थो धातुग्रहणेन। यत्र तर्हि संघातेनैव विशिष्टा क्रियोच्यते----प्रतेष्ठीयत इति, अत्र हि केवलस्तिष्ठतिर्गतिनिवृत्तिवचनः प्रपूर्वेण तु संघातेन गतिक्रियैवोच्यते, यथा---जङ्गम्यत इति? अत्राप्यनेकार्थत्वाद्धातूनां तिष्ठतिरेव गतौ तन्निवृतौ च वर्तते, उपसर्गस्तु सन्निधिमात्रेणोपकारक इति धातोरुत्पत्तिरविरुद्धा, तस्मादार्धधातुकसंज्ञार्थमेव धातुग्रहणम्। तेन ठ्ब्रुवो वचिःऽ इत्यादि भवति। आनुषङ्गिकी त्वथातुनिवृत्तिः। अथ कथं यङ्न्तादात्मनेपदं भवति? कथं च न स्यात्? इङितो धातोरात्भनेपदमुच्यते, यश्चात्र धातुर्न स ङ्त्, नि ह्ययं समुदायस्यानुबन्धः। यश्च ङ्त्प्रित्ययो नासौ धातुः। यत्र चावयवे कृतं लिङ्गमचरितार्थ तत्र समुदायस्य विशेषकं भवति, अयं ङ्कारस्तु बेभिद्यत इत्यादौ गुणनिषेधादौ चरितार्थः? कश्चिदाह---क्रियासमभिहारे यङ्त्यिकारोऽत्र प्रश्लिष्यते, स चानुदातोऽनुनासिकः प्रतिज्ञायते,तत्रानुदातत्वमवयवेऽचरितार्थ समुदायस्य विशेषकं भवति, ठनुदातेतश्च हलादेःऽ इत्येतच्च न भवति ठ्जुचङ्क्रम्यदन्द्रम्यऽ इत्यत्र चङ्क्रम्यदन्द्रम्यग्रहणाल्लिङ्गदिति, स वक्तव्यः। अथ कथं ऋतेरोयङ्न्तादात्मनेपदं भवति, सोऽपि हि ङ्कारो गुणनिवृतौ चरितार्थ इति? स चेद् ब्रूयातस्याप्यादित इकार ईकारे वा अनुदातः प्रश्लिष्यत इति, प्रतिब्रूयादेनम्---इकारे नुम्प्रसज्येत, ईकरे ठ्श्वीदितो निष्ठायाम्ऽ निष्ठायाम्ऽ इतीण्निषेधः स्यादिति? नैष दोषः; नुम्विधौ ठ्गौः पादान्तेऽ इत्यतोऽन्तग्रहणमनुवर्तते, तेनान्ते इकार इत्सञ्ज्ञको येषां तेषां नुम्। ठ्श्वीदितो निष्ठायाम्ऽ इत्यत्राप्येकाच इति वर्तते? सत्यम; प्रतिविहितमायुष्मता, मुधा पुनरयं प्रयासः, तथा हि---ठनुदातङ्तिःऽ इत्यत्र न धातुग्रहणमस्ति, ततः किम? इदं ततो भवति---प्रत्ययमेव ङ्तिमाश्रित्यात्मनेपदं सिद्धं भवति। न चैवमशिश्रियद् अवोचदित्यादौ चङ्ङ्भ्यामपि प्रसङ्गः; प्रागेव विकरणेभ्यः ठनुदातङ्तिःऽ इत्येतत्प्रकरणं प्रवर्तते; अन्यथा ठ्वर्ततेऽ इत्यादौ विकरणव्यवधानान्नियमो न स्यात्। यथा च प्रागेव विकरणेभ्यो नियमः प्रवर्तते, प्रवृते तु नियमे विकरण इति तथा तत्रैव प्रतिपादितमित्यलमियता। सूचिसूत्रीत्यादि। सूच्यादिभ्यो यङ् वक्तव्यः, किमर्थम्? सूच्यादीनामनेकाजर्थम्, अशादीनामहलाद्यर्थम्, ऊर्णोतेस्त्वनेकाजर्थमहलाद्यर्थं च। सोसूच्यत इति। ठ्सूच पैशुन्येऽ, सूत्र अवमोचनेऽ, मूत्र प्रस्रवणेऽ चुरादिण्यन्ताः। अत्र णिलोपोऽपि यङ् आर्धधातुकत्वे प्रयोजनम्। अटाट।ल्ते। ठट पट गतौऽ, ठजादेर्द्वितीयस्यऽइति ट।ल्शब्दस्य द्विर्वचनम्। अशर्यते इति। ठृ गतौऽ ठ्गुणोऽतिसंयोगाद्योःऽ ठ्यङ् चिऽ इति गुणः, ठ् न न्द्राः संयोगादयःऽ इत्यत्र ठ्यदा रपरस्य प्रतिषेधःऽ इति वचनाद्रेफस्य द्विर्वचनम्। अशाश्यते इति। अश्नोतेरशेश्च ग्रहणमित्यागमः। प्रोर्णोनूयते इति। ठूर्णुञ् आच्छादनेऽ नोपधोऽयम्, आष्टमिकं तु णत्वम्, तस्यासिद्धत्वान्नुशब्दस्य द्विर्वचनम्। ननु ठ्पूर्वत्रासिद्धयिमद्विर्वचने? स्यादेतत्----आष्टमिकं तु द्विर्वचनमभिप्रेत्य तदुच्यते, यथा चौजढदित्यत्र ढत्वादीनामसिद्धत्वाद्धत इत्येतद् द्विरुच्यते इति? तन्न; एवं हि षुपिभूतो द्विरुच्यत इति वक्ष्यमाणं व्याहन्येत। एवं तर्हि पूर्वत्रासिद्धीयमद्विर्वचन इत्येतदनित्यम्, ठुभौ साभ्यासस्यऽ इति लिङ्गात्; अन्यथा ठनितेःऽ इति णत्वे कृते तस्य सिद्धत्वाण्णिशब्दस्य द्विर्वचने सति सिद्धं स्यात्प्राणिणिषतीति। इह कस्मान्न भवति---लुनीहि लुनीहित्येवायं लुनातीति? भवत्येव। लोलूयत इति लोट् तर्हि न प्रप्नोति यङ बाधितत्वात्, अन्तरङ्गो यङ् क्रियासमभिहारमात्रापेक्षत्वात्; लोट् तु बहिरङ्गः, क्रियाभेदाश्रये धातुसम्बन्धे भावकर्मकर्तृषु च विधानात्। सावकाशश्च लोट्, कोऽवकाशः? अनेकाजहलादिश्च---जागृहि जागृहीत्येवायं जागर्ति, ईक्षस्वेक्षस्वेत्येवायमीक्षत इति। एवं तर्हि वेत्यनुवृतेः पक्षे पङ्, यदा न यङ् तदा लोड् भविष्यति। यङेऽकारोऽटाट।ल्ते इत्यादौ द्विर्वचनार्थः॥ नित्यं कौटिल्ये गतौ॥ ३।१।२३ ॥ नित्यं कौटिल्ये गतौ॥ ठ्धातोःऽ इति वर्ते, गताविति तस्य विशेषणम्, गतौ वर्तमानाद्धातोरिति। कौटिल्ये इति। संनिधानाद् गतिविषयमेव कौटिल्यं गम्यते। चक्रम्यते, दन्द्रम्यत इति ठ्क्रमु पादविक्षेपेऽ, द्रम मीमृ गतौ, ठ्नुगताऽनुनासिकान्तस्यऽ, योऽल्पीयस्यध्वनि गतागतानिकरोति स कुटिलां गति सम्पादयन्नेवमुच्यते। नित्यग्रहणमनर्थकम्, अनभिधानादेव वाक्यं न भविष्यति, न हि चंक्रम्यत इति वृतेरर्थ कुटिलं क्रमातीति वाक्यं शक्नोति गमयितुम्; संशयो हि वाक्याद्भवति----किं गतिकौटिल्यम्? उत वक्रहृदयत्वनिबन्धनं जिह्वाचरणमिति? वृतौ तु गतिकोटिल्यमेव नियतं गम्यते, कौटिल्यमात्रप्रतिपादने च वाक्यं निवारयितुमशक्यमनिष्ट्ंअ चात आह---नित्यग्रहणं विषयनियमार्थमिति। गतिकौटिल्यं विषयः, तत्रैव यङ् यथा स्यादित्येवमर्थमित्यर्थः, तदाह---गतिवचनान्नित्यं कौटिल्य एव भवतीति। व्यवच्छेद्यं दर्शयति---न तु क्रियासमभिहार इति। ननु यथा ठ्वडवाया वृषे वाच्येऽ इत्यपत्येप्राप्तस्ततोऽपकृष्य विधीयते, यथा वा ठ्ञीतः क्तऽ भूते प्राप्तस्ततोऽपकृष्य वर्तमाने विधीयते, एवमत्रापि धातुमात्रात्क्रियासमभिहारे यङ् विहितः, गतिवचनात् तु कौटिल्य इति? तक्रकौडिन्यन्यायेनैव बाधः सिद्धः। यथा वा विवक्षितार्थानभिधानाद्वाक्यं न भवति तथा समभिहारानवगमाद्त्र प्रत्ययो न भविष्यति। अथैवमपि वचनापेक्षा? वाक्यनिवृतावपि वचनमपेक्षस्व! तदेतन्नित्यग्रहणं चिन्त्यप्रयोजनम्॥ लुपसदचरजपजभदहदशगृभ्यो भावगर्हायाम्॥ ३।१।२४ ॥ लुपसदचरजपजभदहदशगृभ्यो भावगर्हायाम्॥ लुप्लृ च्छेदनेऽ, ठ्षद्लृ विशरणगत्यवसादनेषुऽ। ठाङ्ः सदिः पद्यर्थेऽ इत्यस्य तु चोरादिकणिजन्तस्य एकाच इत्यस्यानुवृतेरग्रहणम्। ठ्चर गत्यर्थःऽ,ठ्जप जल्प व्यक्तायां वाचिऽ,ठ्जभी जृभी गात्रविनामेऽ,ठ्दह भस्मीकरणेऽ, ठ्दन्श दशनेऽ। अनुनासिकलोपनिर्देशो यङ्लुक्यप्यनुनासिकलोपार्थ---दन्दशीतीति। ठ्गृ निगरणेऽ तुदादिः, ठ्गृ शब्देऽ र्क्यादिः, तत्राकारान्तविकरणेन साहचर्यादाद्यस्य ग्रहणमित्येके। द्वयोरपीत्यपरे। धात्वर्थगर्हायामिति। भावशब्दो धात्वर्थे वर्तत इति दर्शयति। गर्हितमिति क्रियाविशेषणम्, तेन भावगर्हाऽत्र गम्यते। गर्हितत्वं तु छेदनस्य, निषिद्धतृणादिविषयत्वात्, ठ्लोष्ठमर्दी तृणच्छेदी नखखादी च यो नरःऽ इति एवमुतरत्रापि यथासम्भवं गर्हितत्वं भेदेन द्रष्टव्यम्। चञ्चूर्यते इति। ठ्चरफलोश्चऽ इति नुक्, ठुत्परस्यातःऽ, ठ्हलि चऽ इति दीर्घः। जञ्जप्यते इत्यादौ ठ्जपजभदहदशभञ्जपशां चऽ इति नुक्। निजेगिल्यत इति। ठृत इद्धातोःऽ, रपरत्वम्, द्विर्वचनम्, अभ्यासस्य गुणः, जेगिर्य इति स्थिते ठ्ग्रो यङ्ऽ ईति लत्वं च प्राप्नोति, ठ्हलि चऽ इति दीर्घश्च, तत्र दीर्घस्यासिद्धत्वाल्लत्वे कृते विहतनिमितत्वाद्दीर्घाभावः। अन्ये तु ठ्न मु नेऽ इत्यत्र नेति योगविभागेनासिद्धत्वं बाधित्वा दीर्घे कृते लत्वामिच्छन्ति, नात्राप्तवाक्यमस्ति। गर्हायामिति किमिति। भावस्येत्येव तद्धर्मविशेषो लप्स्यते इति प्रश्नः। धर्मविशेषानुपादाने प्रशंसायामपि स्यादित्याह---साधु जपतीति। जपति वृषलो मन्त्रमिति। अत्र स्वरवर्णादिभ्रेषाभावाद्भावगर्हा नास्ति। वैदिकमन्त्रजपं प्रति शूद्रस्यानधिकारातु साधनभावे गर्हितः, यस्य खल्वीद्दशी गतिः----ठ्शूद्रस्य वेदमुपश्रृण्वतस्त्रपुजतुभ्यां श्रोत्रप्रतिपूरणम्, उच्चारणे जिह्वाच्छेदः धारणे शरीरभेदःऽ इति नासौ जपितुमर्हति। नित्यग्रहणमित्यादि। पूर्ववदेतद्व्याख्येयम्॥ सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवमवर्णचूर्णचुरादिभ्यो णिच्॥ ३।१।२५ ॥ सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवमवर्णचूर्णचुरादिभ्यो णिच्॥ स्त्यापेत्यकार उच्चारणार्थः। सत्यमाचष्ट इति। ननु भाष्ये सत्यस्य कृञ्यापुक्, सत्यशब्दात्कृञि करोत्यर्थे णिज्भवति आपुक्च, सत्यं करोति सत्यापयतीत्युक्तम्? सत्यम्; कृञ्ग्रहणमनार्षम्, प्रदर्शनार्थो वा करोतिर्द्रष्टव्य इति मन्यते। आपुग्वक्तव्य इति। आपुग्वचनसामर्थ्याट्टिलोपो न भवति। क्वचितु वृतावेवायं ग्रन्थः पठ।ल्ते। अथ कथं पुनः शब्दापयेदिति? छन्दोवद्दषयः कुर्वन्ति। एतेन प्रक्षालापयेदिति गृह्यप्रयोगो व्याख्यातः। पाशाद्विमोचने इति। प्रायिकोऽयमर्थनिर्देशः, अन्यत्रापि भवति; अन्यथा विपाशतीति विशब्दस्य प्रयोगो न स्यात्, विशब्दविशिष्टस्यैव मोचनस्य ण्यर्थत्वात्, यथाचारक्यच्याङ्ः प्रयोगो न भवति। एवमुपवीणयदीत्यादावपि द्रष्टव्यम्। तूलमुतृणाग्रं तेनानुकृष्णाति अनुघट्टयतीत्यर्थः। अनुगृहणातीति तु पाठाअ न समीचीनोऽर्थः। अभिषेणयतीति। ठुपसर्गात् सुनोतिऽ इत्यादिना षत्वम्। अकारान्तस्त्वचशब्द इति। ठ्त्वच संवरणेऽ इत्यस्माद्धातोः ठ्पुंसि संज्ञायाम्ऽ इति घः। अवघ्वंसयतीति। विकिरतीत्यर्थः। ठ्प्रातिपदिकाद्धात्वर्थेऽ इत्येव सिद्धे सत्यस्यापुग्विधानार्थ वचनमन्येषां प्रपञ्चार्थम्। भालिन्यो ह्युपश्लोकयन्तीत्यादौ सापेक्षेभ्यो यथा स्यादित्येवमर्थ वा। कथं पुनर्विमोचनादिरर्थोऽनिर्दिष्टो लभ्यत इत्यत आह---स्वाभाविकत्वादिति। प्रत्ययार्थो निर्दिश्यत इति। सूत्रकारेणानिर्दिष्टोऽपि प्रत्ययार्थो व्याख्याकारैर्निर्दिश्यत इत्यर्थः॥ हेतुमति च॥ ३।१।२६ ॥ हेतुमति च॥ लोके फलसाधनयोग्यः पदार्थो हेतुरित्युच्यते, तस्य ग्रहणे अध्ययनेन वसतीत्यत्रापि प्रसज्येत, हेतुमद्ग्रहणं चानर्थकं स्यात्, कथम्? ठ्करणेऽ इति वर्तते, तस्य विशेषणं हतुमतीति, करणं क्रिया, सर्वैव च क्रिया हेतुमतोति किं विशेषणोपादानेन ! ननु शब्दोपाते हेतौ यथछा स्यादित्येवमर्थमेतत्स्याद्यथा ठ्समस्तृतीयायुक्तात्ऽ इत्यत्र श्रयमाणायां तृतीयायामात्मनेपदं यथा स्यातदर्थयोगमात्रे मा भूदित्येवमर्थ तृतीयायुक्तग्रहणम्। एवं तर्ह्यसति विरोधे कृत्रिमाकृत्रिमयोः कृत्रिमस्यैव ग्रहणं युक्तमिति ठ्तत्प्रयोजको हेतुश्चऽ इति यस्य संज्ञा विहिता तस्यैव पारिभाषिकस्य ग्रहणमिति मत्वाऽऽह---हेतुः स्वतन्त्रस्य कर्तुः प्रयोजक इति। तदीयो व्यापार इति। प्रवर्तना। तस्यास्त्ववान्तरभेदमाह----प्रेषणाध्येषणादिलक्षण इति। भृत्यादेर्निकृष्टस्य प्रवर्तनाउप्रेषणम्, आज्ञेत्यर्थः। गुर्वादेराराध्यस्य प्रवर्तनाउ अघ्येषणम्, प्रार्थनेत्यर्थः। आदिशब्देन तत्स्थमर्थाचरणं गृह्यते, तच्च बहुधा भिद्यते---अनुमतिः, उपदेशः, अनुग्रह इति। तत्र यस्यानुमतिमन्तरेणार्थो न निर्वर्तते तस्य राजादेरनुमत्या प्रयोजकत्वम्, वैद्यादेस्तु ठ्मुस्तापर्पटकं पिबेज्ज्वरितःऽ इत्याद्यौपदेशेन प्रवर्तकत्वम्, यः पुनः केनचिज्जिघांसितं पलायमानं निरुणद्धि, निरुणद्धिश्च हन्यते, तत्र निरोद्धा हन्तुरनुग्रहं करोतीत्यनुग्रहेण तस्य प्रवर्तकत्वम्। सर्वश्चायं विशेषः प्रकरणादिगम्यः। सर्वत्रानुगतं प्रवर्तमानमेव तु णिजर्थः। ननु यथा पितृमानित्युक्ते यं प्रति पितृत्वं स एव गम्यते तथात्रापि यं प्रति हेतुत्वं स एव हेतुमानिति युक्तम्, कञ्च प्रति हेतुत्वम्? ठ्तत्प्रयोजकम्ऽ इति वचनात्कर्तारं प्रतीति प्राप्तं ठ्कारकेऽ इत्यधिकारात्क्रियापेक्षत्वाच्च कारकभावस्य यस्मिन्व्यापारे प्रयोजकरूपेणोपयुज्यते तमेव प्रति, स च प्रयोज्यव्यापारोऽधिश्रयणादिः सर्वसाधनसाध्यो विक्लित्यादिर्वेति तयोरेव हेतुमत्वं युक्तम्, न पुनः प्रयोजकव्यापारस्य। न हि तत्रासौ प्रयोजकरूपेणोपयुज्यते, किं तर्हि? कर्तॄऊपेण, यथा काष्ठस्य पाकापेक्षं करणत्वं न तु ज्वलनापेक्षम्, तदपेक्षं तु कर्तृत्वमेव? उच्यते---णिचः प्रकृतिभूतेन धातुनैवाभिधीयते सोऽर्थस्तेन फलाभावातत्र णिज्न भविष्यति। ननु पचतीत्युक्ते न ज्ञायते----किं स्वयमेव पचति? उतान्येन प्रवर्तितः? इत्यतोऽन्येन प्रवर्तितस्येयं प्रवृत्तिरिति द्योतनाय णिज् भवतु? एवं तर्हि हेतोरिति वक्तव्यम्, ठ्करणेऽ इत्येव, हेतोः करणे व्यापारे अभिधेये णिज् भवतीत्यर्थः। तथा तु न कृतम्। का गतिरिदानीं सूत्रस्य? अभिधानस्वाभाव्यमत्र हेतुः, स्वभावतो हि णिच् प्रत्ययः प्रयोजकव्यापारमाचष्टे। तेन पाकाद्यपेक्षया यो लब्धहेतुव्यपदेशः स हेतुत्वेनोपलक्षितो यस्यास्तीत्येवं प्रयोजकव्यापार एव मतुपोच्यते। अत्र द्वौ पक्षौ सम्भवतः----हेतुमतीति प्रकृत्यर्थनिर्द्देशः----हेतुमति यो धातुर्वर्तत इति, प्रत्ययार्थो वा---हेतुमति करणेऽभिधेये णिज् भवतीति। ननु पचति पाचयतीति च व्यक्तमर्थान्तरं गम्यते, तत्कथमस्य प्रकृत्यर्थत्वं शङ्क्यते? उच्यते---इह हि कः पचेः प्रधानार्थः? यासौ तण्डुलानां विक्लितिः, अधिश्रयणादीनां तु तादर्थ्यातदवच्छेदेन पच्यर्थता। यो हि पानार्थमुदकमाहरति, विक्रयार्थ च काष्ठान्याहरति, शीतं चापनेतुमग्निं समिन्धे नासौ पचतीत्युच्यते, तत्कस्य हेतोः? विक्लिति प्रति तादर्थ्याभावात् तदवच्छेदाभावाच्च। अतस्तादर्थ्यादेवाधिश्रयणादीनां पच्यर्थता, तद्वत्प्रयोजकव्यापारोऽपि तादर्थ्यादेव पच्यादिवाच्यो भविष्यति। णिच्प्रत्ययस्तु द्योतकः, तथा च योऽप्येकान्ते तूष्णीमासीनो भक्तबीजबलीवर्द्दैः प्रतिविधते, स उच्यते----पञ्चभिर्हलैः कृषतीति। तदेवं पक्षद्वयसम्भवे यद्याद्यः पक्ष आश्रीयते ततो यथा प्रकृत्यभिहिते णिज् भवति, एवमुक्तप्रेषितादिशब्दाभिरितेऽपि स्याद्--उक्तः करोति, प्रेषतितः करोतीति, हेतुमद्विषयत्वात्करोत्यर्थस्य, प्रत्ययार्थपक्षे तूक्तार्थत्वाण्णिजभावः? नैष दोषः; प्रयोजकव्यापारस्य द्योतनाय णिज्विधीयते तस्य स्वशब्देन द्योतितत्वाद् द्योत्याभावान्न भविष्यति। इह तर्हि पाचयत्योदनं देवदतो यज्ञदतेन द्वयोः कर्त्रोर्लेनाभिधानं प्राप्नएति, धातुवाच्यव्यापारे हि कर्तरि लो भवति पचिना च प्रयोजकव्यापारोऽप्यभिधीयते, प्रत्ययस्तु द्योतक इति धातुवाच्यव्यापारत्वसाम्यात् कर्त्रोरपि साम्यमिति द्वयोरप्यभिधानं प्राप्नोति---पाचयतो देवदतयज्ञदताविति। प्रत्ययार्थपक्षे तु प्रकृत्यर्थोपसर्जनस्य ण्यर्थस्य प्राधान्यातस्यैव कर्तरि लकारः। इह च गमितो ग्रामं देवदतो यज्ञदतेनेति प्रयोजकव्यापारस्यापि गमिवाच्यत्वादव्यतिरिक्तो गत्यर्थ इति कृत्वा गत्यर्थानां कर्तरि क्तः प्राप्नोति, प्रयोज्यस्य तु कर्मत्वातत्रैवेष्यते। उक्तं हि ठ्ण्यन्ते कर्तुश्च कर्मणःऽ इति। इह च व्यतिच्छेदयन्ते, व्यतिभेदयन्ते---अव्यतिरिक्तो हिसार्थ इति कृत्वा प्रयोजकव्यापारव्यतिहारविवक्षायामपि ठ्न गतिहिंसार्थेभ्यःऽ इति प्रतिषेधः प्राप्नोति। तदेवमाद्ये पक्षे दोषदर्शनाद् द्वितीयं पक्षमाश्रित्याह---तस्मिन्नभिधेय इति। किं चान्वयव्यतिरेकाभ्यां शब्दार्थावसायः। न च पचति पठति गच्छतीत्यादावन्तरेण णिचं क्वचिदपि प्रयोजकव्यापारोऽवसीयते, उत्पन्ने तु णिचि प्रतीयते, अतस्तदर्थत्वमेव युक्तम्। पञ्चभिर्हलैः कृषतीत्यत्र त्वनेकार्थत्वाद्धातूनां कृषिरेव प्रतिविधानेऽपि वर्तत इति युक्तम्, न पुनस्तद्दर्शनेन सर्वत्र प्रकृत्यर्थत्वम्। नन्वत्रापि पक्षे पाचयत्योदनं देवदतो यज्ञदतेनेत्यत्र ण्यर्थस्य प्राधान्यातेन व्याप्यमानस्य प्रयोज्यस्य कर्मसञ्ज्ञा प्राप्नोति? गतिबुद्धिप्रत्यवसानार्थेति नियमान्न भिवष्यति। इह तर्हि ग्रामं गमयति, ग्रामाय गमयतीति व्यतिरिक्तो गत्यर्थ इति कृत्वा ठ्गत्यर्थकर्मणिऽ इति द्वितीयाचतुर्थ्यौ न प्राप्नुतः? नैष दोषः; ग्रामोऽत्र गमेरेव कर्म, ग्रामकर्मकं गमनं कुर्विति प्रैषार्थः। इह तर्हि एधो दकस्योपस्कारयतीति व्यतिरिक्तः करोत्यर्थे इति ठ्कृञः प्रतियत्नेऽ इति षष्ठी न प्राप्नोति, सुट् तु करोतिधातुमात्राश्रयत्वाण्णिजुत्पतावपि तस्य रूपस्य भावात्सिद्ध्यति? अत्राप्येधोदककर्मके करोत्यर्थे प्रयुज्यते इति षष्ठी भविष्यति। इह तर्ह इभिषावयतीति व्यतिरिक्तः सुनोत्यर्थ इति ठुपसर्गात्सुनोतिऽ इति षत्वं न प्राप्नोति? अथात्राप्यभिषवं कुर्वित्युपसर्गविशिष्टे प्रकृत्यर्थे प्रयुक्तिरिति सिद्धं षत्वम्, यदा तु ण्यतैनैवोपसर्गस्य संबन्धस्तदा षत्वं भवति न वेति चिन्त्यम्। इह तर्हि भेदिका देवदतस्य यज्ञदतस्य काष्ठानामिति प्रयोज्ये कर्तरि कृद्योगलक्षणा षष्ठी न प्राप्नोति, अप्रधानत्वात्? तृतीयावद्भविष्यति, तद्यथा---पाचयत्योदनं देवदतो यज्ञदतेनेति प्रयोज्ये कर्तर्यञधानेऽपि तृतीया भवति व्याप्तेस्तथा षष्ठ।ल्पि भविष्यति। अथेह कथं णिज् भवति----भिक्षा वासयन्ति, कारीषोग्निध्यापयतीति? कथं च न स्यात्? अचेतनत्वात्, चेतनावत एतद्भावति---प्रेषणम्, अध्येषणमिति? नैष दोषः; नावश्यं स एव वासं प्रयाजयति य आह---उष्यतामिति, योऽपि तूष्णीमासीनस्तत्समर्थमा चरति सोऽपि वासं प्रयुङ्क्ते, भिक्षाश्च प्रचुराश्च व्यञ्जनवत्यश्च लभ्यमाना वासं प्रयुञ्जते। तथा कारीषोऽग्निर्निर्वात एकान्ते सुप्रज्वलितः शीतकृतमध्ययनविरोधिनमुपद्रवमपनयन् अध्ययनेऽनुकूलो भवति। तत्र यथा--अनुमतिरुपदेशोऽनुग्रहः----इत्येतेषु णिज् भवति तथाऽत्रापि भविष्यति। यद्यप्यनुमत्यादिषु प्रयोज्यव्यापारचोद्देशेन प्रवृत्तिः, इह तु न तथा; तथाप्यनुकूलाचरणमेव प्रयोजकव्यापारत्वेनाध्यारोप्यते। इह कश्चित्कञ्चिदाह---पृच्छतु मां भवान्, अनुयुक्तां मां भवानिति, तत्र प्रष्टा प्रयोज्यस्तस्य प्रेरकः प्रयोजक इति तद्व्यापारे णिज् प्राप्नोति, एकविषयत्वच्च णिचो लोडादीनां च पर्यायप्रसङ्गः? नैष दोषः, कर्तुः प्रयोजको हेतुरित्युक्तम्, प्रयोज्यश्चात्र न कर्ता। न ह्यसौ सम्प्रति पृच्छति तूष्णीमास्ते तस्य निर्व्यापारत्वात् कारकत्वमेव नास्ति कुतस्तद्विशेषः कर्तृत्वम्? कर्तृत्वमेव हि तस्य विधीयते प्रश्नक्रियायां कर्ता भवेति, यथा----राजा भव युध्यस्वेति राजत्वमेव विधीयते तत्र तदेवं प्रयोज्योऽकर्तेति प्रयोजकोऽपि न हेतुः, किमिदानीं पूर्वमेव कर्तुः सतः प्रयोजको हेतुः! यद्येवम्, व्यर्था प्रयुक्तिः। अथाप्युपरतिशङ्कया कचित्प्रयुक्तेरर्थवत्वं तथापि यत्राप्रवृतो बलादिना प्रवर्त्यते तत्र णिज् न प्राप्नोति? न ब्रूमः----प्रवृत्तिप्रवर्तन एव णिजिति, किन्तु प्रवर्ततितोऽपि प्रयोज्यो यत्र प्रवर्तत एव, न तु निवर्तते तत्र णिज् भवति। अनुवर्तमाना प्रयुक्तिः प्रयोज्यप्रवृतौ हेतुः, न मध्ये विच्छिन्ना। अतः प्रयोज्यप्रवृ-तिवेलायामपि बुद्धौ विपरिवर्तमाना सैव प्रवृत्तिहेतुस्तस्यामेव च दशायां णिज्वाच्यो भवति। तदेवं प्रयोज्यप्रवृत्युपहितप्रयुक्तिर्णिजर्थः, केवला तु लोडर्थ इति विवेकः। उक्तं च---- द्रव्यमात्रस्य तु प्रैषे पृच्छयादेर्लोड् विधीयते। सक्रियस्य यदा प्रैषेस्तदा स विषयो णिचः॥ इति॥ किश्च---प्रयोक्तृधर्मः प्रयुक्तिर्लोडर्थः अनियतकर्तृकातु प्रयुक्तिर्णिजर्थः। तत्करोतीत्युपसंख्यानमिति। तदिति कर्मपरमेतत्, तेन द्वितीयान्तात्प्रत्ययः करोतीत्यत्र प्रकृत्यर्थमात्रं विवक्षितं न प्रत्ययार्थः, तेन ण्यन्ताद्भावकर्मणोर्भूतभविष्यतोर्द्धित्वबहुत्वयोश्च लो भवति। सूत्रं करोति सूत्रयतीति। इह व्याकरणस्य सूत्रं करोतीति वाक्ये द्रव्यरूपं सूत्रं सूत्रशब्देनोच्यते, तत्र व्यपदेशिवद्भावेन व्यतिरेकनिबन्धना षष्ठो, वृतौ तु व्याकरणं सूत्रयतीति प्रत्ययार्थभूतकरोत्यर्थाभिधायी सूत्रशब्दः सम्पद्यते। उक्तं हिठ्परार्थाभिधानं वृत्तिःऽ इति। तेन सत्वभावो निवृत इति सूत्रव्याकरणयोरभिसम्बन्धो निवर्तते। अस्ति च व्याकरणस्य करोतिना सामर्थ्यमिति द्वितीया भवति। यदि तु व्याकरणं सूत्रं करोतीति वाक्ये एव सामानाधिकरण्यं तदा माणवकं मुण्डयतीतिवद् व्याकरणं सूत्रयतीत्ययत्नसिद्धम्। ठ्सूत्र अवमोचनेऽठ्मूत्र प्रस्रवणेऽ इति चुरादौ पाठादेव सूत्रयतीति सिध्यति। अनेकार्थत्वाच्चार्थान्तरेऽपि भविष्यति। गणपाठसिद्ध एव त्वर्थ उपसंख्यानेनापि प्रदर्शितः। आख्यानादिति वाक्यं व्याचष्टे----आख्यानात्कृदन्तादिति। आख्यायत इत्याख्यानम्, ठ्कृत्यल्युटो बहुलम्ऽ इति कर्मणि त्लुट्। यत्किञ्चिदाख्यायते तत्सर्वं राजागमनादिकमप्याख्यानमिहाभिप्रेतम्,न कंसवधनलोचपाख्यानादिकमेव संज्ञा भूतम्। कृदन्तादिति कृद्ग्रहणेन गतिकारकपूर्वस्यापि ग्रहणमिति कंसवधराजागमनसूर्योद्गमनादेररि कृदन्तत्वम्। प्रकृतिप्रत्यापतिरिति। कृतो या प्रकृतिः सा विकारपरित्यागेन स्वेनैव रूपेणावतिष्ठत इत्यर्थः। प्रकृतिवच्च कारकमिति। यतत्र कृदन्ते संनिहितं कारकं तत्प्रकृतिवद्भवति। कृत्प्रकृतेः शुद्धे णिचि याद्दशं भवति ताद्दशमस्यापि ण्यन्तस्य भवतीत्यर्थः। कंसं घातयतीति हन्तेः ठ्हनश्च वधःऽ इत्यप् प्रत्ययो वधादेशश्च। हननमुवधः , कंसस्य वध इति कर्मणि षष्ठ।ल समासः, ततो णिच्, कृतो लुक्, प्रकृतेः प्रत्यापतिर्वधादेशपरित्यागेन हन्तिरूपेणावस्थानम्। यद्यप्यत्र सन्नियोगशिष्टानामन्यतराभावादुभयोरप्यभाव इत्येव वधादेशनिवृत्तिः सिद्ध्यति; तथापि पुष्येण योगं जानाति, पुष्येण योजयतीत्यत्र कुत्वस्यासन्नियोग शिष्टत्वातन्निवृत्तिर्न सिद्ध्यतीति प्रकृतिप्रत्यापतविचनम्। अथ कथं कंसमघातयत्, राजानमजीगमत्, यावता कंसवधराजागमनशब्दाभ्यां णिचि विहितेऽङ्गसंज्ञा नामधातुत्वं च तयोरेव स्याताम्, ततश्चाड्द्विर्वचने अपि तयोरेव स्याताम्? नैष दोषः; ठ्प्रकृतिवच्च कारकम्ऽइत्युक्तम्। कृत्प्रकृतेश्च शुद्धे णिचि विहिते कंसादिकारकं कीद्दशं भवति? धातावनन्तर्भूतं द्वितीयाद्यन्तम्, तेनात्रापि ताद्दशेनैव रूपेण भवितव्यम्। तेन राजानमागमयतीत्यत्र नलोपाभावोऽप्युपपन्नो भवति। एवमपि कंसं घातयतीत्यत्र ठ्हो हन्तेर्ञ्णिन्नेषुऽ इति कुत्वम्, ठ्हनस्तो चिण्णलोःऽ इति तत्वं च न प्राप्नोति, किं कारणम्? धातोः स्वरूपग्रहणे तत्प्रत्यये कार्य विज्ञायते। एवं तर्हि प्रकृतिवच्च कारकमिति चकारोभिन्नक्रमः कारकमित्यस्यानन्तरं द्रष्टव्यः, कार्यशब्दश्चाध्याहार्यः। एतदुक्तं भवति----कृत्प्रकृतिर्हन्त्यादिः, तस्याः शुद्धे णिचि याद्दशं रूपं भवति तथाऽस्यापि ण्यन्तस्य भवति, कार्यं च तद्वदेव भवतीति । एतेनाड्द्विर्वचने अपि व्याख्याते। बलिबन्धमिति। बन्धनमुबन्धः, पूर्ववत्कर्मणि षष्ठयाः समासः। शेषं पूर्ववत्। राजागमनमिति। अत्र कर्तरि षष्ठयाः समासः। राजानमागमयतीति। अत्र कृत्प्रकृतौ राजा कर्ता, तस्य गमेः शुद्धे णिचि ठ्गतिबुद्धिऽइत्यादिना कर्मसंज्ञा भवतीत्यस्मिन्नप्यौपसंख्यानिके णिचि तथैव कर्मसंज्ञा भवति। इह तु देवदत पाकमाचष्टे इति णिचि विहिते देवदतेन पाचयतीति भवति। न हि देवदतस्य शुद्धे णिचि कर्मसंज्ञाऽस्ति; गत्यर्थादीनामेवेति नियमात्। इह तु मृगरमणमाचष्टे मृगान् रमयतीति यदा प्रतिपाद्यस्य दर्शनार्थमाख्यानं तदा णिजिष्यते, नान्यदा। तत्र यदाऽरण्यस्थो रममणान्मृगान्प्रतिपाद्यमाचष्टे----एत स्मिन्नवकाशे एवं मृगा रमन्त इति, तदा तस्य प्रतिपाद्यदर्शनार्था प्रवृत्तिरिति णिज् भवति। यदा तु ग्रामे मृगरमणमाचष्टे तदा तत्र मृगाणामसम्भवान्न तद्दर्शनार्था प्रवृत्तिरिति मृगरमणमाचष्ट इति वाक्यकेव भवति। एतच्च मृगरमणादिविषयमेव, राजागमनादौ त्वन्यदापि भवति। आङ्लेप इति। अत्राख्यानादिति न स सम्बद्ध्यते, मर्यादायां य आकारस्तस्य लोपो भवति। कृल्लुगित्यादि पूर्ववत्। आरात्रिविवास इति। विवसनमुविवासः, अतिक्रमणम्, रात्रेर्विवासो रात्रिविवासः, कर्तरि षष्ठयाः समासः, ततः ठाङ् मर्यादाभिविध्योःऽ इत्यव्ययीभावः। यावद्रात्रेरतिक्रमणं तावत्कथाः कथयतीत्यर्थः। वसेरकर्मकत्वाद् ठ्गतिबुद्धिऽ इत्यादिना रात्रेः कर्मसंज्ञा हेतुमण्णिचि भवति, तद्वदस्मिन्नपि णिचि भवति---रात्रि विवासयतीति। चित्रीकरणे प्रापीति। तदित्येव। चित्रीकरणमुआश्चर्यकरणम्। प्रापिउप्राप्नोत्यर्थे चित्रीकरणे गम्यमाने तत्प्राप्नोतीत्यस्मिन्नर्थे णिच् भवति, कृल्लुगित्यादि पूर्ववत्। सम्भावयते इति ठ्भू प्राप्तावात्मनेपदीऽ, उज्जयित्या माहिष्मती विदूरे देश इति तावतो देशस्य प्रागुदयादतिक्रमणमाश्चर्यम्। सूर्यमुद्गमयतीति। ठ्प्रकृतिवच्च कारकम्ऽ इति सूर्यशब्दस्य पृथक्करणम्। संग्रामयतेरेव सोपसर्गादिति न्यायादुच्छब्दस्यापि पृथक्करणम्। अत्रापि सूर्यस्य हेतुमण्णिचि कर्मत्वादस्मिन्नपि णिचि कर्मत्वम्। नक्षत्रयोगे ज्ञीति। तदित्येव। ज्ञि जानात्यर्थेनक्षत्रयोगे यत्कृदन्तं वर्तते तस्मातज्जानातीत्यस्मिन्नर्थे णिज् भवति, कृल्लुगित्यादि पूर्ववत्। पुष्ययोगमिति। पुष्येण चन्द्रमसो योगः पुष्ययोगः, पुष्येणेति कर्तरि तृतीया, ठुभयप्राप्तौ कर्मणिऽ इति नियमात् षष्ठी न भवति। चन्द्रमस इति। नियमेन गम्यमानत्वादुभयप्राप्तिः, पुष्यो हि चन्द्रमसं युननक्तिउसम्बध्नाति, तत्र युजेर्गत्यादिष्वनन्तर्भावादणौ कर्तुः पुष्यस्य सुद्धे णिचि कर्तृत्वमेवेत्यस्मिन्नपि णिचि कर्तृत्वातृतीया भवति। पुष्येण योजयतीति। लकारस्तु प्रधान एव कर्तरि बवति, यथा शुद्धे णिचि। ततर्हीदं बहु वक्तव्यम्? वक्तव्यम्, इह तावत्सूर्यमुद्गमयतीति यो यस्य प्रवर्त्त्यः स तस्याभिप्रायं निर्वर्तयति। गन्तुश्चायमभिप्रायः---माहिष्मत्यां सूर्योद्गमनं सम्भावयेयमिति, तं च सूर्यो निर्वर्तयति, एनदेव प्रवर्त्यस्य प्रवर्त्यत्वं यदुत प्रवर्तयितुरभिप्रायसम्पादनम्। न हि कश्चित्परोऽनुगृहीतव्य इति प्रवर्तन्ते सर्व इमे स्वभूत्यर्थम्। ये तावदेते गुरून् शुश्रूषन्ते, तेऽपीह---प्रीतो गुरुरध्यापयिष्यति परत्र चाभ्युदेष्याभ इति प्रवर्तन्ते। दासाश्चापि---भक्तं च लप्स्यामहे, परिभाषाश्च न नो भविष्यन्तीति प्रवर्द्धन्ते। ठ्यः सनिन्द उपालम्भस्तत्र स्यात्परिभाषणम्ऽ। शिल्पिनोऽपि---मित्राणि च नो भविष्यन्ति वेतनं च लप्स्यामह इति प्रवर्तन्ते। यद्यप्यत्र सर्वत्र ततदुद्देशेन प्रवृत्तिः, सूर्ये तु नः तथाप्यभिप्रायसंपतिमात्रेण प्रयोज्यप्रयोजकभावाध्यारोपेण णिज् भविष्यति। इह च कंसं घातयतीति----ये तावदेते कंसधातानुकारिणां नटानां व्याख्यानोपाध्यायास्ते कंसानुकारिणं नट्ंअ सामाजिकैः कंसबुद्ध्य गृहीतं ताद्दशेनैव वासुदेवेन घातयन्ति, येऽपि चित्रं व्याचक्षते---अयं मथुराप्रासादः, अयं कंसः अयं भगवान्वासुदेवः प्रविष्टः, एताः कसंकर्षिण्यो रज्जवः, एते उद्गूर्णा निपातिताश्च प्रहाराः, अयं हतः कंसः अयमाकृष्ट इति, तेऽपि चित्रगतं कंसं ताद्दशेनैव वासुदेवेन घातयन्ति, चित्रेऽपि हि तद्बुद्धिरेव पश्यताम्। एतेन चित्रलेखला व्याख्याताः। येऽपि ग्रन्थं वाचयन्तः कंसवधमाचक्षते काथिका नाम, तेऽप्युत्पत्तिप्रभृत्या विनाशात्कंसादीन् वर्णयन्ति, तेऽपि वर्ण्यमानाः श्रोतृणां बुद्धिस्थाः प्रत्यक्षवद्भवन्ति। चितमपि तेषां तदात्मकमिव भवति, अत एव व्याश्रिताश्च भवन्ति।नानापक्षसमाश्रयःउव्याश्रयः। केचित्कंसभक्ताः, केचिद्वासुदेवक्ताः। वर्णान्यत्वं खल्वपि पुष्यन्ति---केचिद्रक्तमुखाः केचित्कालमुखाः। त्रैकाल्यमपि लोके लक्ष्यते, कथायां वाच्यमानायां हि वक्तारो भवन्ति---गच्छ हन्यते कंसः, गच्छ घानिष्यते कंसः, किं गतेन---हतः कंसः! इति। तदेवं काथकोऽपि बुद्धिस्थेन वासुदेवेन घातयति, श्रोतापि॥ शब्दोपहितरूपाÄश्च बुद्धेर्विषयतां गतान्। प्रत्यक्षमिव कंसादीन् साधनत्वेन मन्यते॥ एवं राजानमागमयतीत्यादावपि यथासम्भवं द्रष्टव्यम्॥ कण्ड्वादिभ्यो यक्॥ ३।१।२७ ॥ कण्डवादिभ्यो यक्॥ यदीमे कण्ड्वादयो धातव एव स्युस्ततो वाग्रहणमनुवर्तते वा? न वा? अनुवृतौ यगभावपक्षे लडादिषु सत्सु कण्डवतीत्याद्यनिष्ट्ंअ प्रसज्येत्, कण्डूअरित्यादि च न स्यात्; धातो- सुबभावात्। क्विबन्तात्सुप्सम्भवेऽपि कण्डूअरिति न वेदनामात्रं गम्यते; कर्तरि क्विपो विधानात्? संपदादित्वाद्भावे क्विब्भविष्यति। एवमिप कण्ड्वौ कण्ड्वः, ठचिश्नुधातुऽ इत्युवङ् प्राप्नोति, कण्ड्वा, कण्ड्वे ठ्नोङ्धात्वोःऽ इति विभक्तेरुदातनिषेधः स्यात्, मन्तुवल्गुरित्यत्र च तुक् प्रसङ्गः? अथ नानुवर्तते, कण्डूअरिति न सिध्यति, यगन्तात्सम्पदादित्वाद्भावे क्विप्यल्लोपयलोपयोः कृतयोर्भविष्यति? न चैवमल्लोपस्य स्थानिवत्वादुवङ् ठ्क्वौ लुप्तं न स्थानिवत्ऽ इति वचनात्। ननु च क्वौ विधि प्रति स प्रतिषेधः, अन्यथा लवमाचक्षाणो लौरित्यत्र क्वौ लुप्तस्य णेः स्थानिवत्वाभावेऽपि स्थानिवत्वाभावेऽपि णौ कृतस्य टिलोपस्य स्थानिवत्वादूठ न स्यात्, अतोऽत्र स्थानिवत्वे सत्युवङ् स्यादेव? च्छस्तु ठ्च्छवोः शूङ्ऽ इत्यूठ करिष्यते। न चोठ।ल्पि कर्तव्ये स्थानिवत्वम्; तस्यक्वौ विधित्वाद् आदिष्टादचः पूर्वत्वाच्च, अत एवोठि कृते पुनरुवङेऽप्रसङ्गः। एवमपि कण्ड्वौ, कण्ड्वः, कण्ड्वे---धातुविधिः प्राप्नोति, मन्तुर्वल्गुरिति च न सिद्ध्यति, यकि दीर्घे कृते मन्तूर्वल्गूरिति स्यात्। अथ प्रातिपदिकान्येव? तत्रापि वाग्रहणाननुवृतौ स एव दोषो यो धातुपक्षे। अनुवर्ततां तर्हि वाग्रहणम्, सन्तु च प्रातिपदिकान्येव, तत्राप्ययमर्थः-----ककारो नानुबन्धव्यो भवति अनार्द्धधातुकत्वादेव गुणो न भविष्यति? नैवं शक्यम्; इह हि सुख्यति, दुःख्यति, मगध्यतीत्यतो लोपो न स्याद्; अनार्धधातुकत्वादेव। न च व्यञ्जनान्त एव शक्यः पठितुम्, यगभावपक्षेऽपि तथा प्रयोगप्रसङ्गदत उभये कण्ड्वादय इत्याह----द्विविधाः कण्ड्वादय इति। धातुभ्य एव प्रत्ययो विधीयत इति। नित्यमिति भावः। तेन पक्षे कण्डवतीत्यादि न भवति। न तु प्रातिपदिकेभ्य इति। तेन कण्ड्वौ, कण्ड्वः, मन्तुरित्यादिप्रयोगसिद्धिः। न चास्मिन्नपि पक्षे यगन्तात्सम्पदादिक्विब्विधीयते तदा पूर्वोक्तदोषानुषङ्गः, किं कारणम्? द्दशिग्रहणादेतेभ्यः क्विब् स्याद्, न चैतेभ्य इदानीं क्विब् द्दश्यते। पूर्वत्र तु पक्षे कण्डूअरित्यादिसिद्ध्यर्थमेव क्विब् द्रष्टव्यः। कथं पुनर्ज्ञायते---उभये कण्ड्वादय इति? तच्चलोकेन दर्शयति----घातुप्रकरणादिति। अनुवृतेन धातुग्रहणेन विशेषणात्ककारासञ्जनाच्च धातुत्वमेषाभिमतमिति विज्ञायत इत्यर्थः। यतस्तु खल्वयमाचार्यः क्वचिद्दीर्घमुच्चारयति---कण्डूअञ् हृणीञ् महीङिति, ततो मन्ये---धातुर्विभाषित इति। धातुत्वमेषां विभाषितमिति मन्य इत्यर्थः। अथ कण्ड्वादीनार्थनिर्देशः। कण्डूअञ् गात्रविकर्षणे। मन्तु अपराधे। हृणीङ् रोषे। वल्गु पूजामाधुर्ययोः। अस्मनस् उपतापे। महीङ् वृद्धिपूजनयोः। लेट लोट् धौर्त्ये पूर्वभावे स्वप्ने। इरस इरज् इरञ् ईर्ष्यायाम्। द्रवस् परिचरणे। मेधा आशुग्रहणे। कुषुभ क्षेपे। मगध परिवेष्टने। तन्तस् पम्पस् दुःखे। सुख दुः ख तत्क्रियायाम्। सपर पूजायाम्। अरर आराकर्मणि। भिषज् चिकित्सायाम्। भिष्णजुपसेवायाम्। इषुध शरधारणे। चरण भुरण गतौ। चुरण चौर्ये च। तुरण त्वरायाम्। भुरण धारणपोषणयोः। गद्गद वाक्स्स्वलने। एला केला खेला विलासे। लिट् अल्पार्थे कुत्सायां च। लोट् दीप्तौ॥ गुपूधूपविच्छिपणिपनिभ्य आयः॥ ३।१।२८ ॥ गूपूधूपविच्छिपणिपनिभ्य आयः॥ विच्छायतीति। विच्छिरयं तुदादौ पठ।ल्ते, तत्सामर्थ्यादायप्रत्ययान्तादपि शविकरणो भवति, न तु शप्, यथा---जुगुप्सते इत्यात्मनेपदम्, तेन विच्छायन्ती विच्छायतीति ठाच्छीनद्योर्नुम्ऽ इति नुम्विकल्पो भवति। अन्ये तु सार्वधातुकेऽप्यायप्रत्ययस्यैव तुदादिपाठसामर्थ्येन विकल्पमाहुः। स्तुत्यर्थेनेति। भट्टिकाव्ये तु व्यवहारार्थादप्यायः---ठ्न चपोलेभे वणिजां पणायान्ऽ इति। अनुबन्धः केवलेऽचरितार्थ इति। अवयवेष्वचरितार्थ लिङ्गं समुदायस्य विशेषकं भवति, यथा---गुपादीनामनुदातत्वमिति भावः। ये तु व्यवहारार्थादप्यायमिच्छन्ति तेषामपि पणिष्यते पाणयिष्यतीत्यादावनुबन्धः केवले चरितार्थः॥ ऋतेरीयङ्॥ ३।१।२९ ॥ ऋतेरीयङ्॥ सौत्र इति। अस्मिन्नेव सूत्रे उच्चरित इत्यर्थः। घृणायां वर्तत इति। नात्र कृपायां घृणाशब्दः, किं तर्हि? जुगुप्सायास; ठ्घृणा जुगुप्साकृपयोःऽ इति वचनात्। जुगुप्साउनिन्दा, बीभत्सेत्यर्थः। ऋतीयाशब्दो बीभत्सापर्यायो निघण्टुअषु पठितः। अथ कस्मादीयणुच्यते न च्छणेóवोच्यते, तस्य ईयादेशे कृते ऋतीयत इति सिद्धम्, परत्वादिडागमे कृते सत्यप्रत्ययादित्वादीयादेशोच न स्यादिति चेत्? न; अन्तङ्गत्वात्, आयन्नदिषूपदेशिवद्वचनं स्वरसिद्ध्यर्थमिति वचनादन्तरङ्गत्वम्। ज्ञापनार्थ तु, एतज्ज्ञापयति---धातुप्रत्ययानामयन्नादयो न भवन्तीति, तेन ठ्कणेष्ठःऽ इत्यत्रेकादेशो न भवति। क्वचितु वृतावेवं पठ।ल्ते---ठृतेश्च्छङ्ऽ इत्येव सिद्धे ईयङ्वचनं ज्ञापक्---धातुविहितानामायन्नादयो न भवन्तीति। अत्र ब्रूमः---ठ्द्विवचनविभज्योपपदे तरप्च्छसुनौऽ इत्येव सिद्धे ईयसुन्वचनं ज्ञापकं प्रातिपदिकप्रत्ययानामायन्नादयो न भवन्तीति। उच्यन्ते चायन्नादयस्ते वचनादुभयेषामपि स्युः, तस्माद्दतेश्च्छङ्त्याइदि वृतौ न पठनीयमिति॥ कमेर्णिङ्॥ ३।१।३० ॥ कमेर्णिङ्॥ इह णिङे णकारः ठ्णेरनिटिऽ इति विशेषणे चरितार्थो ङ्कारोऽप्यात्मनेपदार्थ इत्युभयोश्चरितार्थयोः प्राप्नोति, ज्ञापकात्सिद्धम्, यदयम् ठ्न कम्यमिचमाम्ऽ इति कमेर्मित्संज्ञायां प्रतिशेधं शास्ति, तज् ज्ञापयति---भवत्यत्र वृद्धिरिति, तस्य हि प्रयोजनम्---ठ्मितां ह्रस्वःऽ इति ह्रस्वो मा भूदिति यदि चात्र वृद्धिर्न स्याद् ह्रस्व एवोपधेति कृत्वा नित्संज्ञाप्रतिषेधोऽनर्थकस्स्यात्। नैतदस्ति ज्ञापकम्, यदा णिङ्न्ताद्धेतुमण्णिच् क्रियते तदा णिङ्न्तस्य णिचि या वृद्धिस्तस्या ह्रस्वो मा भूदित्येवमर्थमेतत्स्यात्, न च णिजपेक्षाया अपि वृद्धेर्णिङ्मेव ङ्तिमपेक्ष्य प्रतिषेधः। किं कारणम्? ङ्तीइति निमितसप्तमी। ननु च न णिङ्न्तस्य णिचि वृद्ध्या भवितव्यम्; णिङ व्यवहितत्वात्, णिलोपे कृते स्थानिवद्भावाद्व्यवधानमेव। यदा तर्हि णिडन्ताच्चिण्णमुलौ सवतस्तदा ठ्चिण्णमुलोदीर्घोऽन्यतरस्याम्ऽ इत्येव विधिर्मा भूदित्येवमर्थो मित्संज्ञाप्रातिषेधः स्यात्। किं पुनः कारणम्? तत्र ठ्दीर्घोऽन्यतरस्याम्ऽ इत्युच्यते न प्रकृतो ह्रस्व एव विकल्प्येत, एवं हि कमेर्मित्संज्ञाप्रतिषेधो न र्तव्यो भवति। कथम्? यदा णीङ् वृद्धिर्नास्ति तहा ह्रस्व एवोपधेति सत्यपि ह्रस्वविकल्पे नैवानिष्टप्रसङ्गः, अशमि अशामीत्यादि च सिद्धम्? नैवं शक्यम्; यदा शमिप्रभृतिभ्यो णिजन्तेभ्यो द्वितीयो णिच् क्रियते तदा न स्यात्। यश्च णमुल्परो णिज् द्वितीयः, न तस्मिन् प्रथमेन णिचा व्यवहितत्वात्। यस्मिश्च मिदङ्गं प्रथमे णिचि, नासौ चिण्णमुल्परः, द्वितीयेन व्यवहितत्वात्। णिलोपेऽपि कृते स्थानिवद्भावाद्व्यवधानमेव। ठ्दीर्घोऽन्यतरस्याम्ऽ इत्युच्यमाने पुनरत्रापि भवति, दीर्घविधिं प्रति स्थानिवद्भावनिषेधात्। तथा शमिप्रभृतिभ्यो यङ्न्तेभ्यो णिच्यल्लोपयलोपयोरल्लापस्य स्थानिवद्भावादसत्यां वृद्धौ चिण्णमुलोः कृतयोरशंशमि, असंशामि, शंशमम्, शंशाममिति न स्यात्। दीर्घः पुनर्विकल्प्यमानोऽत्रापि भवति; तद्विधौ स्थानिवद्भावप्रतिषेधात्। तथा ठ्हेड्ःअ अनादरेऽ घटादिः, ठेच इग्घ्रस्वादेशेऽ, हिड।ल्ति, तत्र चिण्णमुलोः कृतयोर्ह्रस्वे विकल्प्यमाने अहिडि, अहेडीति स्यात्; दीर्घे तु पुनरहिडि, अहीडीति भवति। तस्माद्दीर्घ एव विकल्पनीयः, ततश्च मित्संज्ञाप्रतिषेधोऽपि तन्निवृतये वक्तव्यः। तथा ठायादय आर्द्धधातुके वाऽ इति णिङ्भावे णिचि सति वृद्धौ कृतायाम् ठ्मितां ह्रस्वःऽ इति ह्रस्वो मा भूदित्येवमर्थोऽपि सित्संज्ञाप्रतिषेधो वक्तव्य एवेत्यज्ञापकमेतत्। एवं तर्ह्यस्थानेऽयं यत्नः क्रियते, नैवात्र प्रतिषेधः प्राप्नोति, किं कारणम्? इग्लक्षणयोर्गुणवृद्ध्योः प्रतिषेधः न चैषा इग्लङ्णा वृद्धिरित्यलमति कर्कशप्रक्रियातर्कानुसरणेन॥ आयादय आर्द्धधातुके वा॥ ३।१।३१ ॥ आयादय आर्द्धधातुके वा॥ ठार्द्धधातुकेऽ इति परसप्तम्यामायादिविधिभिरेकवाक्यता स्यात्, भिन्नवाक्यतायामयमर्थो भवति----गुपादिभ्य आर्द्धधातुके परतो वाऽऽयप्रत्ययो भवति, एवमुतरत्रापि, ततश्चार्द्धधातुके एव विकल्पेनायादयः स्युः, सार्वधातुके नैव स्युः? नैष दोषः, पृथागारम्भाद्यदि ह्यार्द्धधातुक एवायादीनामुत्पत्तिः स्याततो गुपादिभिः संयुज्यैव निर्दिशेत्---गुपादिभ्य आर्द्धधातुके वेति, एवं हि आयादय इति न वक्तव्यं भवति। पृथकतं निर्दिशति, तेन मन्यामहे---व्यापारभेदेनैकवाक्यतेति। ततश्चायमर्थो भवति---गुपादिभ्यो नित्यमायादयो भवन्त्यार्द्धधातुके वेति। एवमपि गुपादेर्यदार्द्धधातुकं प्राप्तं तत्र ततो विहिते विकरणविकल्पे नायादयः स्यु; ततश्च स्त्रीभावविवक्षायं गुपेरप्रत्ययान्तत्वाभावात् क्तिनि कृते यदायप्रत्ययो न भवति तदा गुप्तिरिति काममिष्ट्ंअ सिद्ध्यति। यदा तु भवति तदाऽल्लोपयलोपयोर्गोपातिरित्यनिष्ट्ंअ प्राप्नोति, गोपायेति चेष्ट्ंअ न सिद्ध्यति। भिन्नवाक्यतायामायाद्यन्ताद्यदार्द्धधातुकं प्रप्तं तत्र ततो विहिते आयादयो वा भवन्तीत्यर्थः स्यात्। तत्र चायाद्यान्ताद्यदार्द्धधातुकमिति वदता तेषामुत्पत्तिस्तावदङ्गीकृतअ। न चोत्पन्नानामुत्पत्तिविकल्पः शक्यते कर्तुमिति लोकन्यायेन निवृत्तिविकल्पो भवति। ततश्चायप्रत्ययान्तात् स्त्रीभावविवक्षायामप्रत्ययादित्यकारे कृते निवृत्यभावपक्षे गोपायेति काममिष्ट्ंअ सिद्ध्यति। निवृत्तिपक्षे तु गोपेत्यनिष्ट्ंअ प्राप्नोति, गुप्तिरिति चेष्ट्ंअ न सिद्ध्यति। लिटि च निवृत्यभावपक्षे गोपायाञ्चकारेति काममिष्ट्ंअ सिद्ध्यति, निवृत्तिपक्षे तु यदि लिटि परतो निवृत्तिस्तथापि प्रत्ययलक्षणेन कास्प्रत्ययादित्यामा भवितव्यम्, अथाप्यामि कृते निवृत्तिस्तथापि तस्यैव श्रवणं प्राप्नोतीति सर्वथा गोपांचकारेत्यनिष्ट्ंअ प्राप्नोतीति, जुगोपेति चेष्ट्ंअ न सिद्ध्यति। तस्माद् दुष्ट एवायं परसप्तमीपक्ष इति मत्वाह---आर्द्धधातुके विषय इति। कोऽर्थः? इत्याह---आर्द्धधातुकविवक्षायामिति। आर्धधातुकमिहोत्पादयिष्यामीति बुद्धौ सत्यामित्यर्थः। विषयसप्तमीपक्षेऽपि भिन्नवाक्यतायामार्द्धधातुके विधित्सिते आयादयो भवन्तीत्युक्ते, कुतो विधित्सिते? इत्यपेक्षायामायाद्यन्तस्यापि धातुत्वातत इति गम्यते ततश्च निवृत्तिपक्ष एवाश्रित इति स एव दोषो यं पूर्वमवोचाम। तस्मादेकवाक्यतयोत्पतिविकल्प इत्याह---नित्यप्रत्ययप्रसङ्गे तदुत्पत्तिरार्द्धधातुकविषेये विकल्प्यत इति। किमेवं सति सिद्धं भवतीत्याह--तत्रेति॥ सनाद्यन्ता धातवः॥ ३।१।३२ ॥ सनाद्यन्ता धातवः॥ सनादयोऽन्ते येषामिति। अन्तशब्दः समीपवचनः, वैयधिकरण्येऽपि गमकत्वाद्वहुव्रीहिः। अथ वा---वृतावर्थमात्रं दर्शितम्, सूत्रे त्ववयववाचिनोऽन्तशब्दस्य समानाधिकरणस्यैव बहुव्रीहिः। सनादयोऽन्तावयवा येषां समुदायानामित्यनेन तद्गुणसंविज्ञानो बहुव्रीहिरिति दर्शयति। धातुसंज्ञा इति। धातुशब्दोऽत्र स्वरूपपदार्थः, न भूवादिपदार्थकः; तावतीनां संज्ञानां विधाने प्रयोजनाभावात्। ठ्सुप्तिङ्न्तम्ऽ इत्यत्रान्तग्रहणज्ञापिता संज्ञाविधौ प्रत्ययग्रहणे प्रत्ययग्रहणपरिभाषा न प्रवर्तत इति, ततश्चासत्यन्तग्रहणे तदन्तविधिर्न स्यादित्यत्रान्तग्रहणं कृतम्। एवं स्थिते यद्यपूर्व एवानेन तदन्तविधिः क्रियते, ततो देवदतश्चिकीर्षतीत्यत्र देवदतादेः समुदायस्य संज्ञा प्रसज्येतेति मत्वाह----प्रत्ययग्रहणपरिभाषैवेत्यादि। अपूर्वविधौ गौरवम्, प्रतिप्रसवे तु यत्नस्य लाघवं भवतीति भावः। ठ्भूवादयःऽ इत्यस्यानन्तरं सनाद्यान्ताश्चेत्युच्यमाने सनादीनामियतापरिच्छेदो न स्यात्। एवं तर्हि ठ्सङ्न्ताश्चऽ इत्युच्यताम्, सङिति प्रत्याहारः सनः सशब्दारभ्या णिङे ङ्कारात्। एवमपि सन्देहस्स्यात्, चङदिष्वपि ङ्कारस्य भावात्। एवं तर्हि ठ्सनाद्यन्ताःऽ इत्यस्यानन्तरम् ठ्भूवादयश्चऽ इति वक्तव्यम्। स्यादेतत्----एवमुच्यमाने सनाद्यन्तशब्दवद् भूवादिशब्दोऽपि प्रकृतापेक्षः स्याततश्चानुक्रान्तानां गुपादीनामेव स्यादिति? एवमपि भूवादिग्रहणमनर्थकं गुपादयश्चेति वक्तव्यम्। नानर्थकम्; भुवो वादयो भूवादय इत्येवमर्थमेव स्याद्। भूवादिपाठ इदानीं किमर्थः स्याद् ? अन्तर्गणकार्यार्थः, अनुबन्धासञ्जनार्थश्च। येषां तर्हि तदुभयं न संभवति भूरणिप्रभृतीनां तेषां पाठः किमर्थः? अलमतिनिर्बन्धेन॥ स्यतासी लृलुटोः॥ ३।१।३३ ॥ स्यतासी लृलुटोः॥ इह यद्यपि ठ्लृऽ इत्यनुकरणमुच्चारितमेकमेव, तथापि तस्य प्रतिपाद्यभूतमनुकार्थं भिद्यते---लृट्, लृङ् इति। यत्र च प्रतिपाद्यानां संख्यांसाम्यं तत्र संख्यातानुदेशः, न तूच्वारितरूपसाम्ये; अन्यथा परस्मैपदानामित्येकं णलादयस्तु नवेति वैषम्यान्त स्यात्। तथा डारौरसः प्रथमस्येत्यत्रापि न स्यात्। तदेवम् ठ्लृऽ इत्यस्य द्वे प्रतिपाद्ये, लुटिति चापरमिति त्रीणि निमितानि, निमितिनौ तु द्वाविति वैषम्यात्संख्यातानुदेशो न प्राप्नोतीत्यत्राह----लॄऊपमुत्सृष्टानुबन्ध सामान्यमेकमेवेति। नात्र प्रतिपाद्यं भिद्यते यतदुभयानुगतमुत्सृष्टानुबन्धम् ठ्लृऽ इति सामान्यरूपं तदनुक्रियते। एतच्च लृलुटोरिति द्विवचन निर्देशादवसीयते, तत्रयथानुकरणे न भेदस्तथानुकार्येऽपीत्यर्थः। करिष्यतीति। ठृद्धनोः स्येऽ इतीट्। श्वः कर्तेति। ठ्श्वःऽ इत्यस्योपन्यासस्तृजन्तशङ्कानिवृत्यर्थः। इदित्करणमिति। इत्संज्ञकस्येकारस्य करणमित्यर्थः। अनुनासिकलोपप्रतिषेधार्थमिति। अन्यथा मन्तास् आ इति स्थिते टिलोपे कृते नकार उपधेत्यात्मनेपदे ङिति परतः ठनिदिताम्ऽ इति नलोपः प्राप्नोति, तस्य ठनिदिताम्ऽ इतीदित्वनिबन्धनः प्रतिषेधो यथा स्यादित्यर्थः। मन्ता, सङ्गन्तेति। कोऽर्थः? मन्तेत्येतत्पदं सङ्गन्तं भविष्यतीत्यर्थः, न तु सङ्गन्तेत्येतदुदाहरणम्; अनोपधत्वात्। अनुस्वारपरसवर्णयोः कृतयोरपि तयोरसिद्धत्वादनोपध एव। अन्ये त्वाहुः----यद्यसिद्धत्वात्सङ्गन्तेत्येतदनुदाहरणम्, मन्तेत्येतदपि उदाहरणं न भवति, अत्रापि टिलोपस्याभीयस्यासिद्धत्वाद् मन्तास् आ इति स्थिते नकार उपधा न भवतीति। यदि मतम्----आ भाच्छास्त्रीयमसिद्धत्वमनित्यम्, ठ्श्नसोरल्लोपःऽ इति तपरकरणात्? तद्ध्यास्तामासन्नित्यादौ मा भूदित्येवमर्थम्, तत्राटोऽसिद्धत्वादेव लोपो न भविष्यति, किं तन्निवृत्यर्थेन तपरत्वेन! तज्ज्ञापयति----असिद्धत्वमनित्यमिति। तेन देभतुर्देअभुरित्यत्र ठ्श्रन्थिग्रन्थिदम्भिस्वञ्जिनाम्ऽ इति लिटः कित्वान्नलोपे तस्यासिद्धत्वाभावादेत्वाभ्यासलोपौ भवतः, तदत्र टिलोपस्यासिद्धत्वान्मन्त आ इति स्थिते उपधैव नकार इत्युदाहरणमिति। यद्येवम्, पूर्वत्रासिद्धीयमसिद्धत्वमप्यनित्यम् ठ्न मु नेऽ इत्यत्र नेति योगविभागात्, तथा चैकादेशस्वरोऽन्तरङ्गः सिद्धो भवति, सिज्लोप एकादेशे सिद्धो भवति, निष्ठादेशः षत्वादिषु सिद्धो भवति, द्विर्वचनविषये च पूर्वत्रासिद्धीयं न भवति, ततश्चानुस्वारपरसवर्णयोः सिद्धत्वात् सङ्गन्तेत्येतदप्युदाहरणमेवेति। अन्ये तु संहन्तेति पठन्ति, हन्तेः ठ्भावकर्मणोःऽ इत्यात्मनेपदम्, तत्र सम्पूर्वस्य पाठे प्रयोजनं मृग्यम्। एवं तावज्जयादित्येनासिद्धत्वमनित्यमाश्रित्य ठ्तासेरिदित्करणमनुनासिकलोपप्रतिषेधार्थम्ऽ इत्युक्तम्। वामनस्तु टिलोपस्य सिद्धत्वादेव नलोपो न भविष्यतीति मन्यमानः ठिदितोओऽ इत्यत्र वक्ष्यति---ठ्तासि सिचोरिदित्कार्य नास्तीत्युच्चारणार्थो निरनुनासिक इकारः पठ।ल्तेऽ इति। यदि तु तासेरिकारोऽनुबन्धः स्याततो नुम्विधौ धातोस्तासेर्मा भूदित्येवमर्थं स्यात्, ततश्चधातूपदेशावस्थायामेव नुम् भवतीत्ययमर्थो न साधितः स्यादिति तस्याभिप्रायः। जयादित्यस्तु ठ्नुम्विधावुपदेशिवद्वचनं प्रत्ययसिद्व्यर्थम्ऽ इति वचनमेव शरणमशिश्रयत्। इह विकरणाः केचन लकारोपादानेन विधीयन्ते, यथा-----स्यादयः, ते किं लावस्थायामेव भवन्ति ? उताहो आदेशेषु कृतेषु? यदि लावस्थायामेव, ततस्तास्यनुदातेदित्यत्र यद्वक्ष्यते----तासेः परस्य लसार्वधातुकस्यानुदातवचनं ज्ञापकम्, सतिशिष्टोऽपि विकरणस्वरो लसार्वधातुकस्वरं न बाधत इत्यस्यार्थस्येति, तन्नोपपद्यते; लावस्थायामेव तासौ कृते तस्य च प्रत्ययाद्यौदातत्वे पश्चाल्लादेशेषु क्रियमाणेषु तेषामेव स्वरः सतिशिष्टो भवति, ततश्चानुदातवचनमप्राप्तविधिरेव स्यात्। तत्र को दोषः? चिनुतः चिन्वन्तिः, चिन्वन्ति; क्रीणीतः, क्रीणन्ति, सतिशिष्टो विकरणस्वर एव प्राप्नोति, द्वितीये तु पक्षे पूर्व तिबादयः पश्चातासिरिति तस्यैव स्वरः सतिशिष्टः, ततश्च निघातस्वरेणैव सार्वधातुकानुदातत्वे सिद्धे तासिग्रहणं क्रियमाणमुक्ता र्थस्य ज्ञापकं सम्पद्यते। अस्तु तर्हि तथा। यद्येवम्, धातुमात्रात्सार्वधातुकमात्रे भावकर्मणोर्यक् कर्तरि तु शब्विधीयत इति यक्शपावुत्सर्गौ तेष्वेवार्थेषु धातुमात्रात्सार्वधातुकविशेषे स्यादय इति तेऽपवादाः? तथा दिवादेर्धातुविशेषात्कर्तरि श्यनादयः शपोऽपवादाः, तत्र देविष्यति तनिष्यतीत्यादावुभयप्रसङ्गेऽपवादविप्रतिषेधात् श्यनादयः स्युः? पक्षान्तरे त्वन्तरङ्गाः स्यादय एव सिद्ध्यन्ति? नैष दोषः; ठ्दिवादिभ्यः श्यन्ऽ इत्यादिषु स्यादयोऽनुवर्तिष्यन्ते---दिवादिभ्यः श्यन् भवति, लृलुटोस्तु स्यतासी भवतो दिवादिभ्य इति। एवं सर्वत्र। एतेनैतदपि निरस्तं यत्खल्विदमाशंक्यते----परेण लावस्थायां विधीयमानाः स्यादयः किमिति सार्वधातुकोत्पतिं प्रतीक्षन्त इति, कथम्? उतरत्रानुवृतेरेव, सार्वधातुके यग्भवति, भावकर्मणोर्लृ लुटोस्तु स्यतासी भवतः सार्वधातुके। एवं सिजादिष्वपि द्रष्टव्यम्। तदेवमादेशेषु कृतेषु स्यादय इति स्थितम्॥ सिब्बहुलं लेटि॥ ३।१।३४ ॥ सिब्बहुलं लेटि॥ जोषिषन्मन्दिषदिति। ठ्जुषी प्रीतिसेवनयोःऽ ठ्मदि स्तुतिमोदस्वप्नगतिषुऽ, अनुदातौ, व्यत्ययेन परस्मैपदम्, सिच इट् ठ्लेटोऽडाटौऽ इति तिपोऽट्, ठितश्च लोपः परस्मैपदेषुऽ इतीकारलोपः, तत्र च वेति वर्तते। तारिषदिति। ठ्तृ प्लवनतरणयोःऽ,ठ्सिब्बहुलं च्छन्दसि णिद्वक्तव्यःऽ इति वचनाद्वृद्धिः, अमीषां भविता भाविषदिति यथा। छान्दसो वा दीर्घः। पतातीति। ठ्शल हुल पत्लृ गतौऽ, लेटोऽडाटौऽ इत्याट् शपासहैकादेशः। च्यावयातीति। ठ्च्युङ् प्रुह् प्लुङ् गतौऽ ण्यन्तः। इहावयासिषीष्ठा इति यातेरवपूर्वाल्लिङ् बिहुलवचनास्तिप्, थासः सीयुट्, इट्। ठेकाच उपदेशेऽनुदातात्ऽ इति तु प्रतिषेधो न भवति; सिपा व्यवधानात्॥ कास्प्रत्ययादाममन्त्रे लिटि॥ ३।१।३५ ॥ कास्प्रत्ययादाममन्त्रे लिटि॥ आम् प्रत्ययो भवतीति। हलन्तपक्षे एतदुक्तम्, अदन्तपक्षे त्वामः प्रत्ययो भवतीति वक्तव्यम्। अमन्त्रविषय इति। मन्त्रविषयश्चेत्प्रयोगो न भवतीत्यर्थः। ऋग्यजुः सामलक्षणो मन्त्रम्, तत्रैवाभियुक्तैर्मन्त्रशब्दस्य प्रयोगात्। आथर्वणा अपि मन्त्रा ऋग्यजुष एवान्तर्भवन्ति। तान्त्रिकेषु मन्त्रशब्दप्रयोगो मन्त्रवदुपचारात्। च्छन्दसीति नोक्तम्, ब्राह्मणेऽपि यथा स्यात्---अथ ह शुनः शेप ईक्षांचक्रे ते ह तदन्तर्वेद्यासाञ्चक्रिरे अविज्ञातानि च दर्शयाञ्चकार। कासाञ्चक्र इति। आमन्तस्य पदत्वम्ठ् आमःऽ इत्यत्रोपपादितम्। नोनावेति। नौतेर्यङ्लुगन्तात्प्रत्ययलक्षणेन प्राप्त आम् न भवति। कारयनेकाच इति वक्तव्यमिति। यथान्यासे हि कशब्दादशब्दाद्वागादिभ्यश्चाचारक्विबन्तेभ्य एकाज्भ्योऽपि प्रत्ययान्तत्वादाम्प्रसङ्ग, चुलुम्पादिभ्यश्चाप्रत्ययान्तत्वादप्रसङ्गः; अतोऽव्याप्त्यतिव्याप्तिपहिहाराय प्रत्ययग्रहणमपनीयानेकाज्ग्रहणं कर्तव्यमित्यर्थः। तत्र कशब्दस्य णलि ठचो ञ्णितिऽ इति वृद्धौ ठात औ णलःऽ चकौ, अन्यत्र ठतो लोपःऽ चकतुः, चकुः; अशब्दस्य णलि रूपम्---औ इति, अन्यत्र ठत आदेःऽ इति दीर्धत्वे ठातो लोप इटि चऽअतुः, उः। चकासांचकारेति। ठ्चकासृदीप्तौऽ। दरिद्राञ्चकारेति। ठात औ णलःऽ इत्यत्र ओकारे विधातव्ये औकारविधानं दरिद्रातेरार्द्धधातुकलोप उत्याकारलोपेऽप्यौकारस्य श्रवणार्थम्, तेन ददरिद्रावित्यपि भवतीत्याहुः। चुलुम्पाञ्चकारेति! चुलुम्पतिर्वार्तिककारवचनात्साधुः। आमो मकारस्य ठ्हलन्त्यम्ऽ इतीत्संज्ञा कस्मान्न भवतीत्याह---आमो मित्वमिति। कारयाश्चकारेत्यादौ प्रयोगे य आम्शब्दस्तस्यामित्वं मकार इत्संज्ञको यस्य नास्ति सोऽमित् तस्य भावः अमित्वम्। कुत इत्याह? अदन्तत्वादिति। अद् अन्ते समीपे यस्य सोऽदन्तः, सूत्रे विधानवेलायां समीपेऽकारवत्वादित्यर्थः। तेनैतन्न चोदनीयम्---आम् चेत्कथमदन्तः, अथादन्तः कथमामिति। सूत्रे विधीयमानस्यैव वा प्रत्ययस्योपलक्षणमाम इति। अगुणत्वं विदेस्तथेति। विदाञ्चकारेत्यत्र विदेरामि गुणाभावोऽपि तथा, अदन्तत्वादेवेत्यर्थः। अदन्तत्वादित्येतत्प्रसङ्गेन चेदमिहोक्तम्, ठुषविदजागृभ्योऽन्यतरस्याम्ऽ इत्यत्र तु वक्तव्यम्। तत्र हि विदेरकारान्तत्वमाम्प्रत्ययसन्नियोगेन निपात्यते, तत्रातो लोपस्य स्थानिवत्वाद् गुणो न भवति। न पुनः ठ्विद ज्ञानेऽ इत्यकारो विवक्षित इत्युच्यते; वेतीत्यादौ श्रवणप्रसङ्गात्। अभ्युपेत्यापि मकारान्तत्वमित्संज्ञाभावमाह---आस्कासोराम्विधानाच्चेति। आमोऽमित्वमित्यनुषङ्गः, सति हि मित्वे आस्कासोराम् भवन्नप्यचामन्त्यात्परः स्यात्, तथा च सवर्णदीर्घत्वे सत्यकिञ्चित्करः स्यात्। अतः ठ्दयायासश्चऽ कास्प्रत्ययादिति आस्कासोराम्विधानादप्यामऽमित्वमवसीयते त्यिर्थः। आस्चकासोर्विधानाच्च इत्यन्ये पठन्ति, तदयुक्तम्; न हि सूत्रे चकास आम्विधानमस्ति। यदपि कास्यनेकाज्ग्रहणं तदपि चुलुम्पादौ सावकाशम्। नन्वदन्तत्वपक्षे आमामन्त्र इति निर्देश्यं स्यातत्राह---पररूपं कतन्तवदिति। यथा ठ्सर्वत्र लोहीतादिकतन्तेभ्यःऽ इत्यत्र पररूपम्, एवमत्रापि निपातनात्पररूपमित्युक्तं भवति॥ इजादेश्च गुरुमतोऽनृच्छः॥ ३।१।३६ ॥ इजादेश्च गुरुमतोऽनृच्छः॥ ऋच्छतिवर्जित इति। ऋच्छतिना त्यक्तः तद्रूपरहित इत्यर्थः। ऋच्छतेरन्य इति यावत्। इयज, उवपेति। यजिवप्योरुतमे णलि ठ्णलुतमो धाऽ इति णित्वाभावपक्षे वृद्ध्यभावाद् गुरूपोतमत्वाभावः। अथ थलि प्रत्युदाहरणम्---इयजिथ, इयष्ठ; उवपिथ, उवप्थेति। नन्वत्र सन्निपात परिभाषयैव न भविष्यति, लिट्सन्निपातजं हि अभ्यासम्य संप्रसारणं तद्विघातकस्यामो निमितं न भवति, आमि हि सति लेर्लुका भवितव्यमिति लिट्सन्निपातमसौ विहन्यात्? इदं तर्हि प्रत्युदाहरणम्---इयेषेति, न ह्यत्र लिट्सन्निपातजमिजादित्वम्। अथ क्रियमाणेऽपि गुरुमद्ग्रहणे कस्मादेवात्र न भवति, यावता गुणे कृते गुरुमानेष भवति? एवमीषतुरित्यादावपि सवर्णदीर्धत्वे कृते गुरुमानेव भवति? सत्यम्; सति गरुमद्ग्रहणे सन्निपातपरिभाषयैवात्राप्याम् न भवति, लिडानन्तर्यहेतुकत्वाद् गुरुमतायाः। अथ वा ठ्गुरुनतःऽ इति नित्ययोगे मतुप्, नित्यं यस्य गुरुणाभिसम्बन्धः। यद्येवम्, ठुछी विवासेऽ व्युच्छाञ्चकार, ठुच्छ उञ्छेऽ उच्छाञ्चकार आगमनिमिता चास्य गुरुमता, तस्मादाम् न प्राप्नोति? ज्ञापकात्सिद्धम्, यदयमनृच्छ इत्याह, तज्ज्ञापयति---भवत्येवञ्जातीयके आमिति। स तर्हि ज्ञापकार्थमृच्छतिप्रतिषेधो वक्तव्यो भवति। ननु चचाम्निवृत्यर्थ एवासौ कर्तव्यः, नार्थ आम्निवृत्यर्थेन? ज्ञापकात्सिद्धम्, यदयम् ठृच्छत्यृताम्ऽ इति लिटि परतो गुणं शास्ति, तज्ज्ञापयति---नास्मादाम् भवतीति। न च तत्रर्छतीत्यर्तेश्तिपानिर्द्देशः; ठृच्छति ऋ ऋताम्ऽ इत्यर्तेरपि स्वरूपेणैव प्रश्लेषात्। प्रश्लेषे बहुवचनमत्र प्रमाणम्। अर्तेश्च लिटि गुणवि धाने प्रयोजनं तत्रेव वक्ष्यामः। तस्माद्दच्छतेर्गुणविधानं ज्ञापकमेव। तस्मादाम्न भवतीति स एषोऽनृच्छ इति प्रतिषेधो ज्ञापकार्थ एव कर्तव्यः स्यात्। एवं हि लिटीति विहितविशेषणम्----इजादेर्गुरुमतो यो लिड्विहितस्तत्रेति। तेन लिड्निमिता यस्य गुरुमता तस्माच्च न भविष्यति, आगमनिमिता यस्य गुरुमता तस्माच्च भविष्यति। ठनृच्छऽ इति प्रतिषेधस्तु क्रियताम्, मा वा कारि। क्वचितु गुरुमत इति किम्, उबोषेति पठ।ल्ते, तत्र उवोषेत्युदाहरणमयुक्तम्, ठुषविदजागृब्यःऽ इति विकल्पविधानमनवकाशं स्यात्। प्रोर्णुनावेति।ठजादेर्द्धितीयस्यऽ ठ्न न्द्राः संयोगादयःऽ इति नुशब्दस्य द्विर्वचनं कार्यान्तरसिद्ध्यर्थम्, अवश्यमूर्णोतेर्णुवद्भाववो वाच्यः, तेनैवामोऽपि प्रतिषेधः सिद्ध इत्याह---अथ वा वाच्य इति। तत्र यङ् भावाइतिदेशः, आमिटोस्त्वभावातिदशः; नौतेस्तयोरभावात्। उडुपग्रहःऊउइट्प्रतिषेधः, ठ्विभाषा गुणेऽ इति पञ्चमी। फलस्य चात्र हेतुत्वं यथा---अध्ययनेन वसतीति। एकाच इति वर्तमाने र्ठ्श्युकः कितिऽ इति य इट्प्रतिषेधः ततोऽपि हेतोर्णुवद्भावो वाच्य इत्यर्थः। उदाहरणानि---प्रोर्णोनूयते, प्रोर्णुनाव, प्रोर्णुतः, प्रोर्णुतवानिति॥ दयायासश्च॥ ३।१।३७ ॥ दयायासश्च॥ दयायासः सर्वऽप्यनुदातेतः। पलायाञ्चक्रे इति। ठुपसर्गस्या यतौऽ इत्युपसर्गस्य लत्वम्॥ उषविदजागृभ्योऽन्यतरस्याम्॥ ३।१।३८ ॥ उषविदजागृभ्योऽन्यतरस्याम्॥ विद ज्ञाने इति। सताविचारणार्थयोस्त्वात्मनेपदिनोर्लाभार्थस्य चोभयपदिनो ग्रहणं न भवति, परस्मैपदिभ्यामुषिजागृभ्यां जागर्तिनाऽऽदादिकेन साहचर्यादिति भावः। विवेदेति। आम्प्रत्ययसन्नियोगेनादन्तत्वप्रतिज्ञानादत्र गुणो भवत्येव। अत एवाह---विदेरदन्तत्वप्रतिज्ञानादामि गुणो न भवतीति॥ भीह्रीभृहुवां श्लुवच्च॥ ३।१।३९ ॥ भीह्रीभृहुवां श्लुवच्च॥ श्लुवत्कार्यापेक्षया सूत्रे षष्ठी, सन्नियोगरिष्टत्वाच्चाम्, प्रत्ययोऽपि तेभ्य एव विज्ञायते। द्वित्वेत्वे इति। ठ्श्लौऽ इति द्विर्वचनम्, ठ्भृञामित्ऽ इतीत्वम्, तत्र ठ्श्लौऽ इति वर्तते। ठ्न लुमताङ्गस्यऽ इति गुणप्रतिषेधस्तु न भवति, किं कारणम्? ठ्प्रत्ययलोपे प्रत्ययलक्षणम्ऽ इत्यस्याः प्राप्तेरयं प्रतिषेधः। श्रूयमाणत्वादामःऽ॥ कृञ्चानुप्रयुज्यते लिटि॥ ३।१।४० ॥ कृञ्चानुप्रयुज्यते लिटि॥ अनुप्रयुज्यत इत्यनुशब्दः पश्चादर्थे। तत्र कस्य पश्चादित्यपेक्षायामामः प्रकृतत्वातस्यैवेति विज्ञायत इत्याह---आम्प्रत्ययस्येति। योऽयमाम्प्रत्ययो विहितः----कर्मधारयोऽयम्, न तु बहुव्रीहिः---आम्प्रत्ययो यस्मात्सोऽयमाम्प्रत्ययस्तस्येति। तथा हि सत्याम्प्रत्ययवदितिवादमः प्रत्ययस्य प्रकृत्युपलक्षणत्वाद्धातोरामश्च मध्ये कृञः प्रयोग उक्तः स्यात्। पश्चात्कृञनुप्रयुज्यत इति। पश्चाच्छब्दसन्निधावनुशब्दोऽयमनुवादः। लिटि परत इति। लिटि परतः स्थितो यः कृञ् सोऽनुप्रयुज्यत इत्यर्थः। सूत्रेऽपि लिटीति नानुप्रयोगस्य निमितनिर्देशः, किं तर्हि? ठ्परोक्षे लिट्ऽ इत्यनेन विहिते लिटि परभूते यः कृञ् सोऽनुप्रयुज्यत इति वचनव्यक्तिः। चकारेत्यादिपदमनुप्रयुज्यत इति यावत्। कृजिति प्रत्याहारेणेति। ठ्कृभ्वस्तियोगेऽ इति कृशब्दादारभ्यऽ कृञो द्वितीयऽ इत्या कृञो ञकारात्प्रत्याहारः। अत्र च प्रमाणमाम्प्रत्यय इत्यत्र कृञ्ग्रहणम्। यदि ह्यत्र स्वरूपग्रहणं स्यातदान्यस्यानुप्रयोगस्याभावादनर्थर्क तत्र कृञ्ग्रहणं स्यात्। अत एव विपर्ययोऽपि न भवति---तत्र प्रत्याहारग्रहणम्, इह स्वरूपग्रहणमिति; न ह्यत्र स्वरूपमार्त्गग्रहणे तत्र कृभ्वस्तीनामनृप्रयोगत्वानुवाद उपपद्यते। तत्सामर्थ्यादिति। प्रत्याहारग्रहणमामर्थ्येत्यर्थः। अस्तेर्भूभावो न भवतीति। अन्यथाऽसन्देहार्थ ठ्कृभ्वनुप्रयुज्यते लिटिऽ इत्येव ब्रूयादिति भावः। तत्र एषि इटि च रूपे विप्रतिपन्ना उभयत्र ठ्ह एति----ईक्षामाह इति केचित्। अन्ये तु तासिमाहचर्यादिट।लेव हत्वमिति! अपरे तु साहचर्यादेव सार्वधातुक एवेति हत्वमित्युभयत्र ईक्षामास इति रूपमिति स्थिताः। इहामन्तमेतदनभिव्यक्तपदार्थकम्, नास्माद्भावकर्मकर्तृविशेषः पुरुषविशेषः संख्याविशेषो वा गम्यते, केवलं पूर्वापरीभूतानद्यतनकालं परोक्षे साधनादिविशेषाकाङ्क्षं क्रियारूपमर्थमाह। तत्रावश्यं तदाकाङ्क्षनिवृतये विशेषवाचिपदमनुप्रयोक्तव्यम्, तस्मादनुप्रयुज्यत इत्यंशो न विधातव्यः? इदं तर्हि प्रयोजनम्-----कृभ्वस्तीनामेव यथा स्याद्धात्वन्तरस्य मा भूत्। कस्य पुनः प्राप्नोति? सामान्यवचनस्यानुप्रयुज्येत---कारयां पपाचेति। विशेषवचनस्य वा, तत्रापि सोऽनुप्रयुज्येत----उषामुवोष, विदांविवेद, जागराञ्जजागारेति। तत्समानार्थो वा---उषान्ददाहे तीत्यादि। अर्थान्तरवचनो वा---उषाम्पपाचेति। प्रथमे पक्षे यावदपेक्षमेव नानुप्रयुक्तं स्यादधिकोऽप्यर्थो गम्येत पाकादिविशेषो नाम, द्वितीयतृतीययोस्त्वनुप्रयोगेणैव सकलार्थावगतेरासप्रयोगो व्यर्थः स्यात्, चतुर्थे त्वर्थान्तरगत एव विशेषो गम्येत, न त्वामवगतः, तद्रतविशेषाभिधानाय त्वामनुप्रयोगव्यसनम्। अत एव प्रत्याहारान्तर्भूतस्यापि सम्पद्यतेरनुप्रयोगो न भवति, अन्यथा तस्यापि स्यात्। ठ्सनाद्यन्ता धातवःऽ इत्यतो धात्वधिकाराद्वा धातूपसर्गसमुदायस्य न भविष्यति। एवमपि योऽत्र धानुप्रयोक्ष्यते। एवं हि सामान्यस्य सन्निहिते एव विशेषे पर्यवसानातद्रतसाधनादिविशेषाभिधानमामन्तर्गतविशेषाभिधानमेव संवर्तते। तथा भ्वस्त्योरनुप्रयुज्यमानयोरामन्तवशेन सकर्मकत्वं भवति----ठ्तस्यातपत्रं विभराम्बभूवे,ऽ ठहं किल व्यपेक्षामासऽ इति, तदुपपद्यते, तेन द्वयोः सहप्रयोगः। यदि तु सामान्यवचन एव प्रयुज्येत; क्रियाविशेषो न गम्येत, आमन्तस्यैवानभिव्यक्तिः। तस्मात्कृञ्चेत्ययमप्यंशो न विधेयः। इदं तर्हि प्रयोजनं लिट्परस्यैव यथा स्यात्, प्रत्ययान्तरपरस्य मा भूत्। किंपरस्य पुनः प्राप्नोति? कृत्परस्य। न कृत्परस्यानुप्रयोक्ष्यमाणपुरुषविशेषाभिव्यक्तिः। लिटि तु विरुद्धकालतैव लृलुटोरपि। लिङदिष्वपि विध्याद्यर्थान्तरप्रतीतिप्रसङ्गः, लुङ् भूतिमात्रं गम्येत नानद्यतनविशेषः, लटि न पारोक्ष्यं गम्येत। ननु च यथानुप्रयोगे प्रकृतिवाच्यस्य सामान्यस्यामन्तर्वाच्ये विशेषे पर्यवसानम्, एवं प्रत्ययवाच्यस्याप्यामन्तर्वाच्येऽनद्यतने परोक्षे च विशेषे पर्यवसानाद्यौज्यत एव लुङेऽनुप्रयोगः, तथा ठ्हशश्वतोर्लङ् चऽ इति लिडर्थ एव लङ् विधीयते, लङ्न्तस्यानुप्रयोगः प्राप्नोति? नैष दोषः; एकस्या आकृतेश्चरितः प्रयोगो द्वितीयस्यास्तृतीयस्याश्चभविष्यति। कोऽर्थः? यया प्रकृत्या प्रयोगः प्रारभ्यते तयैव समापनीयः, यथा---खादिरे बध्नाति पालाशे बघ्नातीति यूपद्रव्यविकल्पे खादिरेण प्रयोगे प्रारब्धे दैवान्मानुषाद्वा कस्माच्चिदपराधात्खादिरापचारे मुख्ये पलाशे लभ्यमानेऽपि तत्परित्यागेनालभ्यमानस्यापि खादिरस्य प्रतिनिधिना बादरादिना प्रयोगः परिसमाप्यते। एवं हि प्रारब्धः प्रयोगः परिसमापितो भवति। द्रव्यान्तरोपादाने तु प्रयोगान्तरं स्याद्; द्रव्यभेदे क्रियाभेदात्। प्रतिनिधिस्तु मुख्यबुद्ध्यैवोपादीयते; तदवयवानां तत्र भूयसां सम्भवात्। तथेहाप्यामन्तेन लिट्प्रयोगः प्रारब्धोऽपरिसमाप्तः साकाङ्क्षः तस्याकाङ्क्षापूरणेन स एव प्रयोगोऽनुप्रयोगेण परिसमाप्यमानो युक्तं यल्लिट्परस्यैवानुप्रयोगेण परिसमाप्यते, तस्मान्नास्ति प्रत्ययान्तरपरस्यानुप्रयोगप्रसङ्गः। तस्माल्लिटीत्ययमप्यंशो न विधातव्यः। इदं तर्हि प्रयोजनम्--अनुप्रयोगःउपश्चात्प्रयोगो यथा स्यात्-ईक्षांचक्रे, चक्रेईक्षामिति मा भूत्। व्यवहितनिवृत्यर्थ च--ईक्षां देवदतश्चक्रे। कथं व्यवहितनिवृत्तिः? आमपेक्षया पश्चाद्भावस्य तत्रैव मुख्यत्वात्। तदेवं पूर्वनिवृत्तिर्व्यवहितनिवृत्तिश्च प्रयोजनमिति स्थितम्। इह तु तान्ह राजा मदयामेव चकारेति बह्बृचव्राह्मणे व्यवहितप्रयोगश्छान्दसः। कथं भट्टिकाव्ये ठुक्षां प्रचक्रे नगरस्य मार्गान्, ठ्बिभयां प्रचकारासौऽ इति? कथं वा ठ्तं तातयां प्रथममासऽ,ठ्प्रभ्रंशयां यो नहुषं चकारऽ इति? वार्तिककारः पृच्छयताम्, यः पठति---ठ्विपर्यासनिवृत्यर्थ वाच्यम्, व्यवहितनिवृत्यर्थ चऽ इति!॥ विदांकुर्वन्त्वित्यन्यतरस्याम्॥ ३।१।४१ ॥ विदांकुर्वन्त्वित्यन्यतरस्याम्॥ इहोतरत्र चानुप्रयोगानुसारेण आमन्ते लकार उन्नेयः। विदेर्लोट।लम्प्रत्यय इति। निपात्यत इत्यनुषङ्गः, तथा गुणाभावश्चेत्यत्र। एवं लोटो लुगित्यत्र, तथा कृञश्च लोट्परस्यानुप्रयोग इत्यत्र। सर्वमेतदप्राप्तमिति निपात्यते। इतिकरणः प्रदर्शनार्थ इति। सर्वेषां लोड्वचनानामुपलक्षणार्थ इत्यर्थः। किमेवं सति सिद्धं भवतीत्याह---न केवलमिति। प्रचुरप्रयोगत्वातु सूत्रे बहुवचनं पठितम्। कश्चितु भाष्यवार्तिककारानुक्तत्वादुपलक्षणत्वं नेच्छति, स इतिकरणस्य प्रयोजनं ब्रवीतु॥ अभ्युत्सादयांप्रजनयांचिकयांरमयांमकः पावयांक्रियाद्विदामक्रिन्नितिच्छन्दसि॥ ३।१।४२ ॥ अभ्युत्सादयांप्रजनयांचिकयांरमयांमकः पावयांक्रियाद्विदामक्रिन्नितिच्छन्दसि॥ अकरिति। कृञो सिपि च्लेः ठ्मन्त्रे घसऽ इत्यादिना लुकू, सिपो हल्ङ्यादिलोपः। क्रन्निति। तत्रैव बहुवचनं झिः। क्रियादिति। तस्यैवाशिषि लिङ्, ठ्लिङशिषिऽ इत्यार्द्धधातुकत्वाद्विकरणाभावः, ठ्रिङ्शयऽ इति रिङ्। द्विर्वचनं चेति। चकारात्कुत्वं न। अभ्युदसीषददिति! सदेर्ण्यन्ताल्लुङि चङ्युपधाया ह्रस्वः, ठ्चङ्ऽ ईति द्विर्वचनम्। ठ्हलादिः सेषःऽ,ठ्सन्बल्लघुनिऽ इतीत्वम्, ठ्दीर्घो लघोःऽ। भाषायामिति। अन्यतरस्यामित्यनुवृतेश्च्छन्दस्यपि यथादर्शनं भवत्येव। भाषायां त्वेतदेव रूपमिति अभ्युदसीषददिति भाषायामित्युक्तम्॥ च्लि लुङि॥ ३।१।४२ ॥ च्छि लुङ्॥ इकारि उच्चारणाथ इति। चकारलकारसंयोगचस्यकेवलस्योच्चारयितुमशक्यत्वात्। न त्वयमनुबन्धः, प्रयोजनाभावात्। चकारः स्वरार्थ इति। एतदुतरसूत्रे वक्ष्यामः। अस्य सिजादीनादेशान्वक्ष्यतीति। यद्येवम्, किमर्थोऽयमु पदिश्यते, यावता श्रवणार्थो वा भवत्युपदेशः? कार्यार्थो वा? न चायं च्लिः क्वचिच्श्रुयते, नापि क्विबादीनामिवाश्रीयमाणस्यैवास्य किञ्चित्कार्य द्दश्यते, तस्मात् सिचमेवोत्सृज्य तस्यापवादाः क्सापवादाः विधीयेरन्? नैवं शङ्क्यम्, एवं हि ठ्मन्त्रे घसऽ इत्यादिसूत्रे बहूनां ग्रहणं कर्तव्यं स्याद्---गम्यर्थमङे ग्रहणम्, आकारान्तेषु धेटोन्तर्भावातदर्थं च चङे ग्रहणम्, तस्य हि ठ्विभाषा धेट्श्व्योःऽ इति चङ्, धात्वन्तरार्थ सिचो ग्रहणम्, यदि जनेः----ठ्दीपजनऽ इति विहितस्य चिणो लुक् च्छन्दसि द्दश्यते ततस्तस्यापि; तान्येतानि त्रीणि चत्वारि वा ग्रहणानि भवन्ति। च्ल्युत्सर्गे पुनः सर्वेषां स्थानिभूतस्य तस्यैवैकस्य ग्रहणम्। ननु च क्रियमाणेऽप्युत्सर्गे तान्येव त्रीणि ग्रहणानि भवन्ति----ठ्च्लि लुङ्ऽ, ठ्च्लेःऽ इसिच्ऽ,ठ्मन्त्रे घसऽ आदिसूत्रे च यदेतल्लेरिति। एवं तर्हि यदेतद् ठ्गातिस्थाघुपाभूभ्यः सिचःऽ इति च्लेरिति वक्ष्यामि, तदेव च मन्त्रेघसादिसूत्रेऽप्यनुवर्तिष्यते, तल्लाघवं भवति। यदि लेरित्युच्यते, किं ल्यवस्थायामेव लुकं करिष्यति? उताहो आदेशेषु कृतेषु स्थानिवद्भावेन? यदि ल्यवस्थायामेव लुक्; अगुः, अस्थुः----ठ्सिजभ्यस्तविदिभ्यश्चऽ इति जुस् न प्राप्नोति ? मा भूत् ठ्सिज्ऽ इत्येवम्, ठातःऽ इत्येवं भविष्यति? तत्रापि सिज्ग्रहणमनुवर्तते। सिज्ग्रहणं निवर्तिष्यते? यदि निवर्तते, अभूवन्नित्यत्रापि प्राप्नोति। केन? ठ्सिजभ्यस्तऽ इति। नेत्याह; इदानीमेव ह्युक्तम्---ल्यवस्थायामेव लुगिति। तदेवम् ठातःऽ इत्यत्र ठ्ङ्तिःऽ इत्येवानुवर्तते, न ठ्सिचःऽ इति, लङ्यपि तथैव स्यात्। धेटश्च ठ्विभाषा धेट्ऽ ठ्लङ् शाकटायनस्यैवऽ इति नियमाद्विकल्पो भविष्यति। एवमपि मा हि स्थाताम्, ठादिः सिचोऽन्यतरस्याम्ऽ इत्येव स्वरो न प्राप्नोति। अथादेशेषु कृतेषु ततोः ठ्विभाषा घ्राधेट्ऽ इत्यत्रापि तथैव स्यात्, धेटश्च ठ्विभाषा धेट्श्व्येःऽ इति चङपि विकल्पितः। तत्र यथा सिचा लुगलुकौ, तथाऽधात् अधाताम् अधुः, अधासीत् अधसिष्टां आधासिषुरिति सिद्धमिष्टम्; चङेऽपि लुगभावपक्षे अदधत्, अदधताम्, अदधन् इति सिद्धम्, लुक्पक्षे तु प्रत्ययलक्षणेन द्विर्वचनेऽदधादित्यपि चतुर्थ रूपं प्राप्नोति? न चङे लुकि द्विर्वचनम्; ठ्न लुमताङ्गस्यऽ इति प्रतिषेधात्। बहुवचने तर्हि चङे लुकि अधानित्यनिष्ट्ंअ रूपं प्राप्नोति, त्रैशब्द्यमेव चेष्यते----अधुः, अधासिषुः, अदधन्निति? ननु च चङेऽपि लुकि आत इति जुस् भविष्यति, यथा सिचः? नैतदस्ति; सिज्ग्रहणं तत्रानुवर्तते। निवर्तिष्यते सिज्ग्रहणम्? यदि निवर्तते, ठातःऽ इत्येतद्धेटश्चङे लुकि विध्यर्थत्वसम्भवान्नियमार्थ न स्यात्, ततश्चाभूवन्नित्यत्र प्रत्ययलक्षणेन सिच इति जुस् प्राप्नोति, इदानीमेव ह्यक्तं कृतेष्वादेशेषु लुगिति? एवं तर्हि यदेतस्तिजभ्यस्तेति, एनत् ठ्च्ल्यभ्यस्तऽ इति वक्ष्यामि। किं कृतं भवति? लुङ्लुक्यपि च्ल्यभ्यस्तेति जुस् सिद्धो भवति, ठातःऽ इत्यत्रापि सिज्ग्रहणानुवृतेर्नियमादभूवन्नित्यत्र जुसभावश्च सिद्धो भवति। कृतेष्वादेशेषु लुगिति सिज्लक्षणः स्वरः सिद्धो भवति। यदि च्ल्यभ्यस्तेत्युच्यते, च्ल्यङ्चङ्क्षु दोषः----अधुक्षन्, अवोचन्, अपीपचन्नत्रापि जुस् प्राप्नोति। तस्मात्सिजभ्यस्तेत्येव वक्तव्यम्। ठातःऽ इत्यत्रापि सिज्ग्रहणमेवानुवर्तनीयम्----नियमो यथा स्याद्विदिर्मा भूदिति। ततश्च तदेव स्थितम्----बहुवचनेऽधानिति प्राप्नोति। यदा च धेटश्चङे लुक् क्रियते तदा न केवलं बहुवचने, सर्वेष्वेव वचनेषु सिज्लक्षणस्वराभावात्स्वरे चातुः शब्द्यप्रसङ्गः। तस्माद् ठ्गातिस्थाघुपाऽ इत्यत्र सिच इत्येव वक्तव्यम्, ततश्च तदेव स्थितम्----तान्येव त्रीणि ग्रहणानिति। प्रत्युताक्रियमाणे उत्सर्गे मन्त्रेघसादिसूत्रे द्वयोरेव ग्रहणम्, कथम्? धेटो जनेश्च चङ्चिणौ विकल्पितौ, तत्र यानि लुक उदाहरणानि, सिच एव तानि भविष्यन्ति । को न्वत्र विशेषः? अयमस्ति विशेषः---सिचो लुकि ठादिः सिचोन्यतरस्याम्ऽ इत्यनेन स्वरेण भवितव्यम्, चङ्चिणोस्तु नेति। तस्माद् द्वयोरपि पक्षयोस्त्रीमि ग्रहणानि, नार्थश्चोत्सर्गेण? तदुच्यते---असति ह्युत्सर्गे ठ्मन्त्रेघसऽ इत्यत्र येभ्यः सिचो लुक् क्रियते तेषाम् ठादिः सिचोऽन्यतरस्याम्ऽ इत्येष स्वरः प्राप्नोति। सति त्वस्मिंल्लेरिति तदवस्थायामेव लुग्विधानात् सिजभावात् यथायथं स्वरः सिद्धो भवति। तथाऽऽकारान्ते सिचो लुकि क्रियमाणे ठ्सिजभ्यस्तऽ ठातःऽ इति जुस् प्राप्नोति, लेस्तु लुक्यन्तर्भाव एव भवति। तस्मादुत्सर्गः कर्तव्यः। तथा ठ्शल इगुपधादनिटः क्सःऽ इत्यत्रानिट इति लेर्विशेषणं यथा स्याद्। असति पुनश्च्ल्युत्सर्गे तस्यैव तद्विशेषणं भवति धातोः न विद्यते यस्मात्परस्येडिति, तत्र च लुङदेशानां सार्वधातुकत्वात्सम्प्रतिपन्नमनिट्त्वमव्यभिचारादविशेषणमिति प्रत्ययान्तरगतं तदाश्रयणीयम्----न विद्यते प्रत्ययान्तरस्य यस्मात्परस्येडिति। ततो गुहेर्न स्यात्---अघुक्षदिति, विद्यते ह्यस्मात्परस्य गूहितेत्यादाविट् स्वरत्यादिसूत्रेण विकल्पितम्। अथापि पाक्षिकेणेडभावेनानिडिति व्यपदिश्येत? नित्यं क्सः प्राप्नोति, ह्युत्सर्गे पुनरनिड् इति तस्यैव विशेषणं भवति। स च कदाचिदनिट् कदाचित्सेट्। यदानिट् तदा क्सः, यदा सेट् तदा सिजिति सिद्धमिष्टम्---अघुक्षत्, अगुहीदिति। तस्माच्च्ल्युत्सर्गः कर्तव्य इति। स्थानित्वेन विधानं कर्तव्यमित्यर्थः॥ च्लेः सिच्॥ ३।१।४४ ॥ च्लेः सिच्॥ इकार उच्चारणार्थ इति। न त्वनुबन्धः। यद्येवम्, असंस्तेत्यत्र सिजन्तस्याङ्गस्यात्मनेपदं ङ्तिमपेक्ष्य ठनिदिताम्ऽ इति नलोपः प्रपानोति? ज्ञापकात्सिद्धम्, यदयम्, ठ्हनः सिच्ऽ इति हन्तेः परस्य सिचः कित्वं शास्ति, तज् ज्ञापयति---न सिजन्तस्योपधालोपो भवतीति। यथा चैतज्ज्ञापकं तथा तत्रैवोक्तमिति तत्रैवावधार्यम्। चकारः स्वरार्थः इति। अन्तोदातार्थः। ननु सिचोऽनच्कत्वात् कथं चकाराः स्वरार्थः, इति कृते साच्को भवति? एवमपि प्रत्ययस्वरेण सिद्धम्। न सिद्ध्यति, नाप्राप्ते स्वरान्तरे विधीयमानमागमानुदातत्वं प्रत्ययस्वरं बाधेन? एवं तर्हि च्लेश्चित्वात्स्थानिवद्भावाच्चित्स्वरो भविष्यति, तत्राह---आगमानुदातत्वं हीति। चित्स्वरमपि बाधेतेति। स्थानिवद्भावकृतम्। ननु च यदि मा हि लावीदित्यत्रागमानुदातत्वं स्यात्, च्लेश्चिक्तरणमनर्थकं स्यात्? एवं मन्यते---च्लेश्चकारो मन्त्रेघसादिसूत्रे सामान्यग्रहणे चरितार्थः; अन्यथा निरनुबन्धकत्वादस्यैव ग्रहणं स्यात्, न लिटः, ततश्च ठामःऽ इत्यत्र निरनुबन्धकस्य लेरसम्भवाल्लेरिति नानुवर्तेत, ततश्च परत्वादन्तरङ्गत्वाच्च तिबादिषु कृतेषु पश्चाल्लुकि कारयामित्यस्य प्रत्ययलक्षणेन तिङ्न्तत्वाद् देवदतः कारयाञ्चकारेति तस्य च निघातः, तस्माच्चानिघातः स्यात्। तस्मादाम इत्यत्र लेरित्यनुवर्तनीयम्। तस्य च तत्रानुवृत्तिः पूर्वत्रसामान्यग्रहणे सत्युपपद्यते। तस्माच्च्लेश्चकारस्य चरितार्थत्वात्स्थानिवद्भावात्प्राप्तं चित्स्वरमपि बाधेतेति सम्भावने लिङ्, सम्भाव्येत बाधनमित्यर्थः। अनुबन्धान्तरेणापि सामान्यग्रहणसिद्धे चकारानुरोधेन चित्स्वर एव भविष्यतीति शक्यते वक्तुमिति भावः। स्पृशभृशेति। ठ्स्पृश स्पर्शनेऽ,ठ्मृश आमर्शनेऽ ठ्कृष विलेखनेऽ---- इत्येतेभ्यः क्से आप्ते,ठ्तृप प्रीणनेऽ ठ्द्दप हर्षविमोचनयोःऽ ----आभ्यां पुषादित्वादङ् प्रिप्ते सिजपि पक्षेऽभ्यनुज्ञायते। अस्पृक्षदिति। व्रश्चादिषत्वे ठ्षढोः कः सिऽ कत्वम्। कास्प्राक्षीदिति। ठनुदातस्य चर्दुपधस्य चऽ इति पक्षे अमागमः, ऋकारस्य यण, ठ्वदव्रजऽ इत्यादिनाकारस्य वृद्धिः, अमभावपक्षे ऋकारस्यैव वृद्धिः। एवमुतरत्रापि॥ शल इगुपधादनिटः क्सः॥ ३।१।४५ ॥ शल ङ्गुपधादनिटः क्सः॥ शलन्तो यो धातुरिगुपध इति ननु च्लेर्गुणनिमितत्वादकृत एव क्से लावस्थायामेव गुणः प्रप्नोति, ततश्चेगुपधादिति विशेषणं न प्रकल्प्यते? नैष दोषः; विशेषणसामर्थ्यात्प्रागेव गुणात् क्सो भविष्यति। ननु च कृतेऽपि गुणे भूतपूर्वगत्या विहितविशेषणाश्रयणेन वा क्सो भविष्यति, कित्करणमिदानीं किमर्थं स्यात्? ठ्क्सस्याचिऽ इति विशेषणार्थम्। ठ्सस्याचिऽ इत्युच्यमाने पुनर्वदिहनिकमिकषिभ्यः से वत्सौ वत्साः---अत्रापि प्राप्नोति? ठुणादयोऽव्युत्पन्नानि प्रातिपदिकानिऽ इत्यनर्थकत्वान्न भविष्यति। एवमपि वुञ्च्छणादिषु तृणादिभ्यः से प्रसङ्गः---तृणान्यस्मिन्देशे सन्ति तृणसौ तृणसा इति? नैतदेवम्; ठ्घोर्लोपो लेटि वाऽ इति प्रकरणे---धातुप्रत्ययानां ग्रहणम्, किं च ठ्लुग्वादुहदिहऽ इत्यत्राचिऽ इत्यतः क्सस्येति वर्तते, तेच दुहादिषु यस्य सम्भवः, पूर्वसूत्रेऽपि तस्यैव ग्रहणं भविष्यति। तदेवं कित्करणसामर्थ्याद् गुणो न भवतीति स्थितम्। च्लेरनिट इति। यद्यपि च्लेः सिजादिभिरादेशैर्भवितव्यमिति क्वचिदप्यश्रवणान्न सेट्त्वमनिट्त्वं वा, तथापि दुह् ल इति स्थिते क्सस्यायं विषय इति सिचा न भाव्यम्। क्सोऽपि तावन्न भवति, यावदस्यानिट्त्वं न ज्ञातम्, तत्र लकारस्यैवेटः प्राप्तौ तन्निषेधात्सेट्त्वमनिट्त्वं च निरूप्यते इति विशेषणोपपतिः। अघुक्षदित्यादि। ठ्दादेर्द्धातोर्घःऽ, ठेकाचो वशो भष्ऽ। अलिक्षदिति। ठ्लिह आस्वादनेऽ ठ्हो ढःऽ। ठ्भिदिर् विदारणेऽ ठ्च्छिदिर् द्वैधीकरणेऽ,ठ्कुष निष्कर्षेऽ,ठ्मुष स्तेयेऽ॥ श्लिष आलिङ्गने॥ ३।१।४६ ॥ श्लिष आलिङ्गने॥ श्लिपेर्धातोरिति। ठ्श्लिष आलिङ्गनेऽ इत्यस्य, न तु ठ्श्रिषु श्लिषु प्रुषु प्लुषु दाहेऽ इत्यस्य; आलिङ्गने वृत्यभावाद्, अनिट इति चाधिकारात्सानुबन्धकत्वाच्च। अत्र नियमार्थमेतदिति। ननु श्लिषिरयं पुषादिः, तथा च प्रत्युदाहरणे अङ् भवति, ततश्च पुषादिपाठात्प्रप्तमण्ंó बाधित्वाऽऽलिङ्गने क्सो यथा स्यादित्येवं विधिसम्भवान्नियमो नोपपद्यते। अस्तु विधिः, एवमप्यालिङ्गने क्सः, अन्यत्राङिति सिद्धमिष्टम्? सत्यम्; सिद्धं परस्मैपदे, आत्मनेपदे त्वङ्भावादालिङ्गनेऽनालिङ्गने च पूर्वेण क्सः प्राप्नोति, इष्यते च तत्राप्यालिङ्गने क्सोऽन्यत्र सिच्, तच्च नियमे सत्युपपद्यते। स च नियमो नोपपद्यते; विधेयभावात्? योग विभागात्सिद्धम्---ठ्श्लिषः इत्यको योगः श्लिषश्च क्सो भवति। किमर्थमिदम्? पुषाद्यङे बाधनार्थम्। यथैब तर्ह्यण्ंó बाधते तथा चिणमपि बाधेत---समाश्लेषि कन्या देवदतेनेति? ठ्पुरस्तादपवादा अनन्तरान्विधीन्बाधन्ते नोतरान्ऽ इति तत्रालिङ्गनेऽनालिङ्गने च श्लिषः क्सो भवति। इदमिदानीं किमर्थम्? नियमार्थम्---आलिङ्गन एव, नान्यत्र। योगविभागसामर्थ्याद्या च यावती च क्सस्य प्राप्तिः सा सर्वा नियम्यते, न त्वनन्तरस्य विधिर्वा भवतीति। श्लिष इति या प्राप्तिः, ङ्बाधनार्था सैव। एवमपि नियमो नोपपद्यते, कथम्? श्लिष इत्येतदङ्बाधनार्थम्। न च तदत्यन्तायाण्ंó बाधितुं प्रभवति; पुषादिपाठसामर्थ्यात्, ततश्चाङ्क्सयोः सर्वत्र विकल्पे प्राप्ते, द्वितीयो योगः-----आलिङ्गने क्स एव नित्यं यथा स्यान्मा कदाचिदङ् भूदित्येवमर्थः स्यात्, किं तर्ह्युच्यते---नियमो नोपपद्यते इति! ननु तत्रभवतापि मुखान्तरेण नियम एवोक्तः? एतावांस्तु विशेषुः----मया प्रत्ययनियम उक्तः---आलिङ्गन एव क्स इति, त्वया पुनरर्थनियमः---आलिङ्गने क्स एवेति, सर्वथा नियमान्न मुच्यामहे। तत्र लक्ष्यानुरोधाद्विधेयविभक्तिनिर्द्देशेन प्रधानत्वाद्वा प्रत्ययनियम एव भविष्यति॥ न द्दशः॥ ३।१।४७ ॥ न द्दशः॥ पूर्वेणेति। ठ्शल इगुपधात्ऽ इत्यनेन। अङसिचौ भवत इति। परस्मैपदेष्वन्यत्र सिजेव। अदर्शदिति। ठृद्दशोऽङ् गुणिःऽ। अद्राक्षीदिति। ठ्सृजिद्दशोर्झल्यमकितिऽ। अथ ठ्च्लेः सिच्ऽ इत्यस्यानन्तरं क्सस्य बाधनार्थ सिजेव कस्मान्न विहितः, इरित्वसामर्थ्यादङपि भविष्यति? सत्यम्; तत्रापि ठ्द्दशश्चऽ इति चकारः कर्तव्य इति लाघवे नास्ति विशेषः॥ णिश्रिद्रुस्रुभ्यः कर्तरि चङ्॥ ३।१।४८ ॥ णिश्रिद्रुस्रुभ्यः कर्तरि चङ्॥ चकारो विशेषणार्थ इति। ठ्चङ्ऽ इत्यित्र ठङ्ऽ इत्युच्यिमाने ठस्यतिवक्तिख्यातिभ्योऽङ्ऽ ठ्षिद्भिदादिभ्योऽङ्ऽ अत्रापि प्राप्नोति। यदि पुनरयं ङे विधीयते चकारः शक्योऽकर्तुम्। चिन्त्यं प्रयोजनमस्य। अशिश्रियदित्यादि। अत्र चैङ् धातुरङ्गं चङ्न्तं तु तिपि तत्र चङश्रयस्य गुणस्य चङ्मेव ङ्तिमपेक्ष्य प्रतिषेधः, किं कारणम्, क्ङितीति निमितसप्तमी? नैष दोषः; अन्तरङ्गवियणुवङै अन्तर्भूतचङ्पेक्षत्वात्, बहिरङ्गो गुणो बहिर्भूततिबपेक्षत्वात्। अकारयिषातामिति। ण्यन्तात्कर्मणि लुङ्, द्विवचनम्, आताम्। कमेरुपसङ्ख्यानमिति। ननु कमेर्णिङ् विहितः, न च प्रकृत्यन्तरं कमिः सम्भवति, णिङ्न्तातु सूत्रेणैव सिद्धं तत्राह---आयादय आर्द्धधातुके वेति यदा णिङ् नास्तीति। णिङ्पक्षे सन्वद्भाव इति। सन्वत्सूत्रे चङ्परो णिरित्याश्रयणात्। तत्र हि ठ्सन्वल्लघुनि चङ्ऽ ईति वक्तव्ये परग्रहणं बहुब्रीह्यर्थम्, तत्र णिरन्यपदार्थः, अन्यस्यासम्भवात्॥ विभाषा धेट्श्व्योः॥ ३।१।४९ ॥ विभाषा धेट्श्व्योः॥ अङेऽप्यत्र विकल्प इति। ठ्जृस्तम्भुऽ इत्यादिना। अश्वदिति। ठ्श्वयतेरःऽ। अश्वयीदिति। ठ्ह्म्यन्तऽइत्यादिना सिचि वृद्धेः प्रतिषेधाद् गुणः। अधिषातामिति। कर्मणि द्विवचनम्, आताम्। ठ्स्थाघ्वोरिच्चऽ इति कित्वेत्वे॥ गुपेश्च्छन्दसि॥ ३।१।५०॥ गुपेश्च्छन्दसि॥ यस्मादायप्रत्ययो नाम्ति तत्रायं विधिरिति। सूत्रे केवलस्योच्चारणाद् ठ्गुप गोपनेऽ ठ्गुप व्याकुलत्वेऽ इत्यनयोस्तु ग्रहणं न भवति; च्छन्दसि द्दष्टानुविधानात्। दर्शने तु तयोरपि ग्रहणम्। अजूगुपतमिति। ठ्गुपू रक्षणेऽ ठ्तस्थस्थमिपाम्ऽ इति थसस्तम्, ठ्तुजादीनां दीर्घोऽभ्यासस्यऽ। अगौप्तमिति। ऊदित्वादिडभावपक्षे ठ्झलो झलिऽ इति सिचो लोपः। अगोपायिष्टमिति। आयप्रत्ययान्तात्सिच्॥ नोनयतिध्वनयत्येलयत्यर्दयतिभ्यः॥ ३।१।५१ ॥ नोनयतिध्वनयत्येलयत्यर्दयतिभ्यः॥ अर्द्द गतौ याचने चेति। ठर्द्द हिंसायाम्ऽ इत्यस्यापि ग्रहणम्, यदिच्छन्दसि दर्शनमस्ति। एतेभ्य इति। तत्रोनयतिश्चुरादिः,ध्वनिरपि ठ्गर्व माने इति प्रागेतस्माददन्ताःऽ इत्यधिकारे चुरादिः पठितः, घटादौ चापि पठ।ल्ते। एलयतिश्चुरादिः, अर्द्दयतिर्हेतुमण्ण्यन्तः। पूर्वेणेति। ठ्णिश्रिऽइत्यादिना। ऊनयीरिति। मध्यमपुरुषैकवचनम्, पूर्ववद्वृद्धौ प्रतिषिद्धायां गुणः, ठ्न माङ्योगेऽ इत्याडागमप्रतिषेधः। मा त्वायतो जरितुः काममूनयीः---इदं प्रतिसव्यस्य ऋषेर्वचनम्। त्वायतःऊत्वामिच्छतः, जरितुःऊस्तोतुर्मम, काममुअभिलाषं मा ऊनयीःऊउनं मा कार्षीरित्यर्थः। प्रायेण तु तिबन्तं पठ।ल्ते, कृताडागमं च, तदन्यत्र द्रष्टव्यम्। औनिन इति। सिपि चैङ् ठजादेर्द्धितीयस्यऽ इति नशब्दस्य द्विर्वचनम्। प्रायेण तूदाहरणवदिदमपि तिबन्तं पठ।ल्ते। ध्वनयीदिति। तिप्, ठ्न माङ्योगेऽ इत्यडागमप्रतिषेधः। आर्द्दिददिति। ठजादेर्द्वितीयस्यऽ ठ्न न्द्राः संयोगादयःऽ इति दशब्दस्य द्विर्वचनम्॥ अस्यतिवक्तिख्यातिभ्योऽङ्॥ ३।१।५२ ॥ अस्यतिवक्तिख्यातिभ्योऽङ्॥ ब्रूञादेशो वेति। वाशब्दः समुच्चये। एवमुतरत्रापि। पुषादित्वादेव सिद्ध इति। परस्मैपदेषु। पर्यास्थतेति। ठुपसर्गादस्यत्यूह्यएर्वावचनम्ऽ इत्यात्मनेपदेऽइङ् ठस्यतेस्थुक्ऽ। अवोचदिति। ठ्वच उम्ऽ। आख्यदिति। ठातो लोप इटि चऽ॥ लिपिसिचिह्वश्च॥ ३।१।५३ ॥ लिपिसिचिह्वश्च॥ लिपिसिचिसहितो ह्वा---इति ठ्मयूरव्यंसकादयःऽ इति समासः। समाहारद्वन्द्वे तु नपुंसकह्रस्वत्वं स्यात्, इतरेतरयोगे बहुवचनम्। ङ्सौ ठातो धातोःऽ इत्याकारलोपः। योगविभाग उतरार्थ इति। ठस्यतिवक्तिख्यातिलिपिसिचिह्वःऽ इत्येकयोगे त्वस्यादीनामप्युतरत्रानुवृत्तिः स्यात्, ततश्च तेभ्योऽप्यात्मनेपदे विकल्पः स्यात्॥ आत्मनेपदेष्वन्यतरस्याम्॥ ३।१।५४ ॥ आत्मनेपदेष्वन्यतरस्याम्॥ अलिप्त, असिक्तेति। ठ्झलो झलिऽ इति सलोपः, ठ्लिङसिचावात्मनेपदेषुऽ इति कित्वाद् गुणाभावः॥ पुषादिद्यौताद्य्लृदितः परस्मैपदेषु॥ ३।१।५५ ॥ पुषादिद्यौताद्य्लृदितः परस्मैपदेषु॥ एकेनैवादिशब्देन प्रत्येकं सम्बन्धादेव सिद्धे द्वयोरुपादानं चिन्त्यप्रयोजनम्। दिवाद्यन्तर्गण इति। ठ्पुष पुष्टौऽ ठ्शुष शोषणोऽ इत्येवमादिरा गणसमाप्तेः। यतु मध्ये ठ्ष्णिह प्रीतौ वृत्ऽ इति वृत्करणं तद्रधादिपरिसमाप्त्यर्थम्। एतच्च ठस्यतिग्रहणमात्मनेपदार्थ पुषादित्वात्ऽ इति वार्तिकारवचनाद्विज्ञायते। न भूवादिरिति। ठ्पुष पुष्टौऽ,ठ्श्रिषु श्लिषु प्रुषु प्लुषु दाहेऽ इत्येवमादिः, अस्य यदि ग्रहणं स्यात्पुषाद्यनन्तरं पाठाद् द्यौतादीनां पृथग्ग्रहणं न कुर्यात्। र्क्याद्यन्तर्गणो वेति। ठ्पुष पुष्टौऽ ठ्मुष स्तेयेऽ इत्येवमादिः। तत्र हि चत्वार एव पठ।ल्न्ते, तत्र यदि ते जिघृक्षिताः स्युर्लृदित एव तान् कुर्यात्; स्वरितेत्वादेरपि नेनैव सिद्धत्वात्। अथ पुषादयो द्यौतादयश्च लृदित एव कस्मान्न पठिताः? अशक्यस्ते तथा पठितुम्; आदितामौदितामुदितामूदितां च तत्र भावात्। तद्यथा---पुषादिषु तावत् ठ्ञिष्विदा गात्रप्रक्षरणेऽ,ठ्मदी हर्षेऽ,ठ्समु उपशमनेऽ,ठ्षिधू राद्धौऽ इति; द्यौतादिष्वपि ठ्श्विता वर्णेऽ,ठ्ञिमिदा स्नेहनेऽ ठ्ञिक्ष्विदा स्नेहविमोचनयोःऽ,ठ्स्रंसु ध्वंसु भ्रंसु अवस्रंसनेऽ ठ्स्यन्दू प्रस्रवणेऽ ठ्कृपू सामर्थ्येऽ इति। अद्युत्, अश्वितदिति। ठ्द्यौद्भ्यो लुङ्ऽ ईति पक्षे परस्मैपदम्। अलोटिष्टेति। ठ्लुट लुठ प्रतिघातेऽ॥ सर्तिशास्त्यर्तिभ्यश्च॥ ३।१।५६ ॥ सर्तिशास्त्यर्तिभ्यश्च॥ शासेरदादित्वाच्छपो लुक्, इतरत्र निपातनात्। शासु अनुशिष्टाविति। सर्त्यर्तिभ्यां परस्मैपदिभ्यां साहचर्यादस्यैव ग्रहणम्, न तु ठाङ्ः शामु इच्छायाम्ऽ इत्यात्मनेपदिन इति दर्शयति। ऋ गताविति। ठृ गतिप्राणयोःऽ इति भौवादिकः, ठृ सृ गतौऽ इति जौहोत्यादिकः। दुयोरप्यत्र निर्द्देश इति केचित्, वयं तु जौहात्यादिकयोरेवार्तिसर्त्योर्ग्रहणं मन्यामहे। असरदिति। ठृद्दशोऽङ् गुणिःऽ। अशिषदिति। ठ्शास इदङ्हलोःऽ। ठ्शासिवसिघसीनाञ्चऽ इति षत्वम्। पृथग्योगकरणमात्मनेपदार्थमिति। अन्यथा पुषादिद्यौताद्य्लृदित्सर्तिशास्त्यर्तिभ्यःऽ इत्येकमेव योगं कुर्यात्। एवं हि पृथग्विभक्तिनिर्द्देशश्चकरश्च न कर्तव्यो भवति। समरन्तेति। ठ्समो गम्यृच्छिऽ इत्यात्मनेपदम्, ठ्बहुलं च्छन्दस्यमाङ्योगेऽपिऽ इत्याड्भावः, छान्दसत्वादस्य प्रयोगस्य----समन्यवो यत्समरन्त सेनाः, सङ्कल्पा अस्य समरन्त। तथा भट्टिकाव्ये ठ्समारन्त ममाभीष्टाः सङ्कल्पास्त्वय्युपागतेऽ इति। कश्चिदाह---भाष्यविरुद्धमिदम्, भाष्यकारेण हि ठ्समो गम्युच्छिऽ इत्यत्र मासमृषातां मासमृपतेति आत्मनेपदे सिजुदाहृत इति। अत्राहुः--शासिसाहचर्यादर्तिसर्त्योरविद्यमानशपोजौहोत्यादिकयोरिह ग्रहणम्; ठ्समो गम्यृच्छिऽ इत्यत्र तु भौवादिकस्याप्यर्तेर्ग्रहणम्, तत्र भौवादिकेऽर्तौ सिच उदाहरणमविरुद्धमिति॥ इरितो वा॥ ३।१।५७ ॥ इरितो वा॥ अभितेति। स्वरित्वादात्मनेपदम्॥ जृस्तम्भुम्रुचुम्लुचुग्रुचुग्लुचुग्लुञ्चुश्विभ्यश्च॥ ३।१।५८ ॥ जृस्तम्भुम्रुचुम्लुचुग्रुचुग्लुचुग्लुञ्चुश्विभ्यश्च॥ अस्तम्भदिति। ठनिदिताम्ऽ इत्युपधालोपः। अन्यतरोपादानेऽपि रूपत्रयं सिद्ध्यतीति। कथम्? यदि तावद् ग्लुचिरुपादीयते तस्मादङसिचोः----ग्लुचत्, अग्लोचीदित्येतद् द्वयं सिद्ध्यति, ग्लुञ्चेस्तु सिचि तृतीयमग्लुञ्चीदिति। अथ ग्लुञ्चिरुपादीयते तस्याग्लुचत् अग्लुञ्चोदिति रूपद्वयं सिद्ध्यति, ग्लुचेस्तु सिचि तृतीयमग्लोचीदिति, किमर्थ तर्हि उभयोरुपादानमित्यत्राह---अर्थभेदात्विति। केचिदित्यादि। इदं भाष्यविरुद्धम्; भाष्यकारो हि ठनेकार्थत्वाद्धातूनामर्थभेदो न प्रयोजक उभयोपादानस्यऽ इत्यन्यतरोपादानं प्रत्याख्यातवान्॥ कृमृद्दरुहिभ्यश्च्छन्दसि॥ ३।१।५९ ॥ कृमृद्दरुहिभ्यश्च्छन्दसि॥ अमरदिति। व्यत्ययेन परस्मैपदम्॥ चिण् ते पदः॥ ३।१।६० ॥ चिण् ते पदः॥ सामर्थ्यादिति। धातोरात्मनेपदित्वात्परस्मैपदबहुवचनस्य स्थाने यस्तशब्दः ठ्तस्थस्थमिपाम्ऽ इति विहितः, तस्यास्मिन्विषयेऽसम्भवः। सामर्थ्यादुदपादीति। ठ्चिणो लुक्ऽ। उदपत्सतेति। ठात्मनेपदेष्वनतःऽ इत्यदादेशः। इह वेति निवृतम्; उतरत्रान्यतरस्यां ग्रहणात्॥ दीपजनबुधपूरितायिप्यायिभ्योऽन्यतरस्याम्॥ ३।१।६१ ॥ दीपजनबुधपूरितायिप्यायिभ्योऽन्यतरस्याम्॥ जनी प्रादुर्भावे, बुध अवगमने इति । ठ्जन जननेऽ बुध बोधनेऽ सैत्येतयोस्तु परस्मैपदिनोरिह ग्रहणं न भवति; दीप्यादिभिरात्मनेपदिभिः साहचर्यात्। तेन परस्मैपदिभ्यां कर्मव्यतीहारे आत्मनेपदैकवचनेऽपि तशब्दे चिण् न भवति। यदि परस्मैपदिनोरिह ग्रहणं स्यात्, आत्मनेपदिनोर्न स्यात्; सानुबन्धकत्वात्। कर्तरि चायं विकल्पः, भावकर्मणोस्तु ठ्चिण् भावकर्मणोःऽ इति नित्यमेव चिण् भवति, परत्वादिह कर्तरीत्यनुवृतेर्वा॥ अचः कर्मकर्तरि॥ ३।१।६२ ॥ अचः कर्मकर्तरि॥ कर्मकर्तरीरि। यत्कर्म भूत्वा कर्ता भवति तत्रैत्यर्थः। प्राप्तविभाषेयमिति। ठ्कर्मवत्कर्मणाऽ इत्यतिदेशेन नित्यं चिणः प्राप्तेः। अकारि कटो देवदतेनेति। अत्र शुद्धे कर्मणि ठ्चिण् भावकर्मणोःऽ इति नित्यमेव चिण् भवति। नन्विह कर्तरोत्यनुवर्तिष्यते, यद्येवम्, शुद्धे कर्तरि स्यात्, कर्मणीति वाक्यभेदेन कर्ता विशेषयिष्यते----कर्मणि कर्तरीति ? नैतदेवं शक्यते लब्धुम्; कर्मणीत्युच्यमाने कर्तुर्निवृत्तिरेव स्यात्, चकारेऽपि क्रियमाणे कर्मणि च भवति कर्तरि च भवतीत्यधिकरणयोरेव समुच्चयः स्याद्, न सामानाधिकरण्ये प्रमाणमस्ति॥ दुहश्च॥ ३।१।६३ ॥ दुहश्च॥ अप्राप्तविभाषेयम् ठ्न दुहस्नुनमां यक्चिणौऽ इति चिणः प्रतिषेधात्। तत्र दुहिग्रहणे यक्प्रतिषेधार्थ चिण्ग्रहणं स्न्वाद्यर्थम्। अदुग्धेति। ठ्क्सस्याचिऽठ्लुग्वा दुहदिहऽ इति क्सस्य लुक्॥ न रुधः॥ ३।१।६४ ॥ न रुधः॥ रुधिर आवरणे इति। ठनो रुध कामेऽ इत्यस्य तु ग्रहणं न भवति, कर्तृस्थभावकत्वेन कर्मकर्तुरभावात्॥ तपोऽनुतापे च॥ ३।१।६५ ॥ तपोऽनुतापे च॥ कर्मकर्तरीति। ठ्तपस्तपः कर्मकस्यैवऽ इति यत्र कर्मवद्भावोविहितः। तत्र भावकर्मणोरपीति। अपिशब्दात् ठ्कर्मवत्कर्मणाऽ इति यत्र कर्मवद्भावोऽतिदिष्टस्तत्रापि भवति। अतप्त तपस्तापस इति। अस्यार्थम् ठ्तपस्तपः कर्मकस्यैवऽ इत्यत्र वृत्तिकार एव वक्ष्यति। अन्ववातप्त पापेनेति। पापेनेति पूर्व यत्पापं कर्म कृतं तेन पश्चातप्तोऽभ्याहत इत्यर्थः। शुद्धे कर्मणि लकारः, पापेनेति कर्तरि तृतीया। कर्माविवक्षायान्तु शोकार्थे वा तपौ बावे लकारः, पापेनेति हेतौ तृतीया। यदाभ्याहननार्थस्य कर्मकर्ता विवक्ष्यते, तदा कर्मवत्कर्मणेत्यतिदेशादात्मनेपदम्, तदापि हेतौ तृतीया॥ चिण् भावकर्मणोः॥ ३।१।६६ ॥ चिण् भावकर्मणोः॥ चिण्ग्रहणं विस्पष्टार्थमिति। ठ्चिण् ते पदःऽ इत्यतस्तेशब्दवदनुवृतेः। यतु दीपजनेत्यादावन्यतरस्यांग्रहणम्, तन्न; ठ्रुधऽ इति तत्प्रतिषेधविधावेव निवृतम्, अन्यथा प्रतिषेधविधानमनर्थकं स्यात्। न च प्रतिषेधस्यानुवृत्तिशङ्का, प्राप्तिपूर्वको हि प्रतिषेधः। न च भावकर्मणोः केनचिच्चिणः प्राप्तिरस्ति॥ सार्वधातुके यक्॥ ३।१।६७ ॥ सार्वदातुके यक्॥ इहाशिषि लिङ् इलिटि चान्तरेणापि विकरणं सर्वेष्वेव धातुषु तिङमेव सद्भावे भावकर्मकर्तारस्त्रयोऽपि प्रतीयन्ते-----भविषीष्ट त्वया, कृषीष्ट घटः, भूयात्, क्रियात्, बभूवे, चक्रे घटः, बभूव, चकारेति। अतिजुहोल्यादौ कर्ता। क्वचितिङमभावेऽपि प्रतीयन्ते त्रयोऽप्यमी। अशाय्यकारि गच्छेति चिणः सन्निधिमात्रतः॥ अधोगबिभरित्यादौ धातुमात्रेऽपि कर्तृधीः। तथा व्यतिस इत्यादौ धात्वभावेऽपि कर्तृधीः॥ एवं स्थिते भूयोविषयाभ्यामन्तवयव्यतिरेकाभ्यां शब्दार्थावसायः। व्यभिचारभूमिषु तु तस्मिंस्तस्मिन्विषये तस्य तस्य शब्दस्य स स महिमेति कल्पयितुमुचि तम्। न पुनः क्वचिद्व्यभिचारदर्शनेन सर्वत्रानाश्वासः। ताद्दशौ चान्वयव्यतिरेकौ तिङमेवेति तेषामेव भावकर्मकर्तारो वाच्याः। सूत्रकारोऽप्याह---ठ्लः कर्मणि च भावे चाकर्मकेभ्यःऽ इति, लादेशाश्च तिङ्ः, ततोऽपि तेषामेव तेऽर्था इति मन्यमान आह----भावकर्मवाचिगि सार्वधातुके परत इति। उतरसूत्रे च कर्तृवाचिनि सार्वधातुके परत इति शय्यत इति। ठयङ् चि क्ङितिऽ। अथ यदा द्वौ कर्तारौ बहवो वा, तदा कथमास्यते भवद्भ्याम्, आस्यते भवद्भिः----द्विवचनबहुवचने कस्मान्न भवतः? भावे भेदाभावाद्। धत्वर्थो हि भावः। कर्तृभेदेऽपि नावश्यं धात्वर्थो भिद्यते यतः। एकामेव क्रियाव्यक्ति बहुषूत्पादयत्स्वपि॥ द्दष्टमेते पचन्तीति कर्मभेदोऽपि ताद्दशः। पश्यैकस्यां क्रियाव्यक्तौ पच्यन्ते तण्डुला इति॥ न कालभेदे शब्दैक्यमास्यासिष्यत आस्यते। पाकौ पाका इति त्वत्र शब्दैक्यादेकशेषता॥ अतश्च--- निवुतभेदा सर्वैव क्रियाऽऽख्यातेभिधीयते। श्रुतेरशक्या भेदानां प्रविभागप्रकल्पना॥ इति। तदेवमाख्यातेन भावस्वरूपगतो भेदः प्रतीयत इति द्विवचनबहुवचनाभावः। यत्र तु स्वरूपगत एव भेदस्तत्र भवत्येव, यथा----उष्ट्रासिका आस्यन्ते, हतशायिकाः शय्यन्ते इति। उष्ट्राणां ह्यासिकाः स्वत एव विलक्षणाः, हताश्च नानाप्रकारं शेरते उताना अवाताना विकीर्णकशा विस्रस्तवस्त्रा इति तत्साम्यादाख्यातवाच्यस्यापि भावस्य स्वरूपगतभेदावभासाद् बहुवचनम्। इवशब्दप्रयोगमन्तरेणापि चेवार्थावगतिर्भवति, तदयमर्थः----याद्दशानि हतानामनेकप्रकाराणि शयनानि ताद्दशानि देवदतादिभिः क्रियन्त इति। केचित्वत्र कर्मणि लकारमिच्छन्ति, उष्ट्रासिकाहतशायिकालक्षणस्य भावस्यः ठ्कालाभावाध्वगन्तव्याःऽ इति कर्मत्वात्, यथा----गोदोहः सुप्यते इति। ककारो गुणवृद्धिप्रतिषेधार्थ इति। मृज्यत इत्यत्र वृद्धिप्रतिषेधः। यग्विधान इति। ननु च ठ्कर्मवत्कर्मणा तुल्यक्रियःऽ इत्यतिदेशादेव यक् सिद्धः, किमुपसङ्ख्यानेन तत्राह---विप्रतिषेधाद्धीति। यदा ठ्कर्मवत्कर्मणाऽ इत्ययं शास्त्रातिदेशः, तदा तेनतेन शास्त्रेण कर्मकार्याणि भवन्ति। तत्र कर्मणि यग्भवतीत्यस्यावकाशः----शुद्धं कर्म, पच्यते ओदन इति; कर्तरि शबित्यस्यावकाशः----शुद्धः कर्ता, भवति पचतीति; कर्मकर्तर्युभयप्रसङ्गे परत्वाच्छबेव स्यादित्यर्थः। ततर्हि उपसङ्ख्यानं कर्तव्यम्? न कर्तव्यम्; ठ्न दुहस्नुनमां यक्चिणौऽ इति यक्प्रतिषेधो ज्ञापयति----भवति कर्मकर्तरि यगिति। कार्यातिदेशे तु तस्मिंस्तेनैव सूत्रेण भवन्यगेव परो भवति॥ कर्तरि शप्॥ ३।१।६८ ॥ कर्तरि शप्॥ पकारः स्वरार्थ इति। उपलक्षणमेतत्, ङ्त्विप्रतिषेधार्थः, ठ्शप्श्यनोर्नित्यम्ऽ इति विशेषणार्थश्च। शकारः सार्वधातुकार्थ इति। सञ्ज्ञापरोऽत्र सार्वधातुकशब्दो न सञ्ज्ञिपरः, सार्वधातुकसञ्ज्ञार्थ इत्यर्थः। कर्तृग्रहणस्य ठ्कर्मवत्कर्मणाऽ इत्यत्रोपयोगः। इह तु सार्वधातुके शब् भवति, श्यन् भवतीति सामान्यविधानेऽपि भावकर्मणोर्यगपवाद इति कर्तर्येव शबादयो भविष्यन्ति॥ दिवादिभ्यः श्यन्॥ ३।१।६९ ॥ दिवादिभ्यः श्यन्॥ ठ्मृग अन्वेषणेऽ इति चुरादावदन्तेष्वात्मनेदी पठ।ल्ते, तत्र मृगयत् इति भवितव्यम्। दिवादिष्वपि पाठान्मृग्यतीति साधुः। कण्ड्वादिषु वा मृगशब्दो द्रष्टव्यः॥ वा भ्राशभ्लाशभ्रमुक्रमुक्लमुत्रसित्रुटिलषः॥ ३।१।७० ॥ वा भ्राशभ्लशभ्रमुक्रुमुक्लमुत्रसित्रुटिलषः॥ उभयत्रविभाषेयम्। अनवस्थानार्थो भ्रमिः, क्रमित्रसी च दिवादयः, त्रुटिस्तौदादिकः, इतरे भौवादिकाः। भ्राम्यतीति। ठ्शमामष्टानां दीर्गः श्यनिऽ इति दीर्घः। भौवादिकस्य तु न भवति, अशमादित्वात्। क्रमेः ठ्क्रमः परस्मैपदेषुऽ इति दीर्घः। क्लमेस्तु ठ्ष्ठिवुक्लम्वाचमां शितिऽ इति त्रसेर्दिवादिपाठे चिन्त्यं प्रयाजनम्। क्लमेस्तु पुषादिकार्यार्थः॥ यसोऽनुपसर्गात्॥ ३।१।७१ ॥ यसोऽनुपसर्गात्॥ दैवादिक इति। दिवादिपाठोऽस्य सोपसर्गार्थः। अनुपसर्गादिति किमिति। ठ्सम्यसश्चऽ इत्येतत्सम एवोपसर्गान्नान्यस्मादिति नियमार्थ भविष्यतीति भावः। आयस्यति, प्रयस्यतीति। तुल्यजातीयानां हलन्तानामेव व्यावृत्तिः स्यादिति मन्यते॥ संयसश्च॥ ३।१।७२ ॥ संयसश्च॥ इह ठ्समःऽ इत्येवास्तु, ठ्यसःऽ इत्यनुवर्तिष्यते, ठ्षम ष्टम् वेक्लव्येऽ इत्यस्य ग्रहणशङ्कानिवृत्यर्थ तु ठ्संयसःऽ इत्युक्तम्। एवं तर्हि ठ्समो यसःऽ, ठनुपसर्गाच्चऽ इत्यस्तु॥ स्वादिभ्यः श्नु॥ ३।१७३ ॥ स्वादिभ्यः श्नु॥ सिनोतीति। ठ्षिञ् बन्धनेऽ र्क्यादिपाठात्सिनातीत्यपि भवति॥ श्रुवः श्रृ च॥ ३।१।७४ ॥ अक्षोऽन्यतरस्याम्॥ ३।१।७५ ॥ तनूकरणे तक्षः॥ ३।१।७६ ॥ तनूकरणे तक्षः॥अनेकार्थत्वादिति । अत एव विशेषणोपादानादनेकार्थ्वं विज्ञायते। प्रदर्शनार्थस्तु गणे धातूनामर्थनिर्द्देशः। सन्तक्षति वाग्भिरिति। निर्भर्त्सयतीत्यर्थः॥ तुदादिभ्यः शः॥ ३।१।७७ ॥ तुदादिभ्यः शः॥ तुदतीति। तुदति इति स्थिते परत्वात्प्राप्तमपि गुणं नित्यः शो बाधते॥ रुधादिभ्यः श्नम्॥ ३।१।७८ ॥ रुधादिभ्यः श्नम्॥ श्नम्प्रत्ययो भवतीति। यद्यपि प्रत्ययसंज्ञायां प्रकृत्युपपदोपाधिकारागमान्वर्जयित्वेत्युक्तम्, तथापि विधीयमानत्वेन प्राधान्यात् शबादिवदर्थवत्वाच्श्नमः प्रत्ययसंज्ञा भवतीति भावः। तेन शकारस्य प्रत्ययादित्वादित्संज्ञा। शपोऽपवाद इति। देशभेदेनोभयोः सत्यपि सम्भवे नाप्राप्ते तस्मिन्नारभ्यमाणत्वादेकार्थत्वाच्चापवादत्वम्। विकरणा हि सार्वधातुकस्य धातोश्चार्थाभिधाने सहायतां प्रतिपद्यन्ते। शकारः श्रान्नलोप इति विशेषणार्थ इति। अथार्द्धधातुकसंज्ञा मा भूदित्येवमर्थः कस्मान्न भवति? सत्यां हि तस्यामनक्ति, भनक्ति----ठतो लोपःऽस्यात्, रुणद्धि, गुणः स्यात्; हिनस्ति, तृणेढि---इडागमः स्यात्; ठ्नेड्वशि कृतिऽ इत्येतदपि नास्ति, अकृत्वात्? सर्वमेतत् श्रमः पूर्वभागस्यानङ्गत्वान्न भविष्यति। कथमङ्गत्वम्? यस्मात्प्रत्ययविधिरिति। कोऽर्थः? प्रत्यये विधीयमाने यत्पञ्चम्या निर्द्दिष्ट्ंअ धातोः प्रारिपदिकादिति तदादि तस्मिन्प्रत्यये परतोऽङ्गमिति। यच्चाम्या निर्द्दिष्ट्ंअ रुधादिभ्यो धातुभ्य इति न तस्मात्प्रत्ययः, यस्माच्च प्रत्ययः पूर्वभागात्स न तस्मिन्विधीयमाने पञ्चम्या निर्द्दिष्टः, तस्माच्छनादिति वशेषिणार्थ एव शकारः। ठ्नान्नलोपःऽ इत्युच्यमाने ठ्यजयाचयतविच्छप्रच्छरक्षो नङ्ऽ यज्ञानाम्, यत्नानामत्रापि प्राप्नोति, ठ्नामिऽ इति दीर्घत्वे कृते नादिति व्यपदेशाभान्न भविष्यति, परत्वाल्लोप एव प्राप्नोति। यतु ठतो दीर्घो यञिऽ,ठ्सुपि चऽ इति दीर्धत्वम्, न च तदत्र प्रवर्तते, किं कारणम्? ठ्सन्निपातलक्षणो विधिरनिमितं तद्विघातस्यऽ इति। इहापि तर्हि न स्याद्---वृक्षायेति? ठ्कष्टाय क्रमणेऽ इति निर्देशाद्भविष्यति। इहापि तर्हि---यत्नानामिति? निर्द्दिशात्सामान्यापेक्षाया ज्ञापनाद्दीर्घो भविष्यति। एवमपि तस्य पूर्वस्माद्विधौ स्थानिवत्वान्नशब्द एवायमिति नलोपः स्यादेव। तस्माद्विशेषणार्थः शकारः कर्तव्यः। अथ क्रियमाणेऽपि शकारे इह कस्मान्न भवति----विश्नानाम्, प्रश्नानामिति? ठ्लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य ग्रहणम्ऽ॥ तनादिकृञ्भ्य उः॥ ३।१।७९ ॥ तनादिकृञ्भ्य उः॥ तनीतीत्यादि। ठ्तनु विस्तारेऽ,ठ्षणु दानेऽ,ठ्क्षणु हिसायाम्ऽ। अन्यतनादिकार्यमिति। तनादिकार्यापेक्षो नियम इत्यर्थः। व्यावर्त्यदर्शयति---तनादिभ्यस्तथासोरिति विभाषा सिचो लुग् न भवतीति। नन्वस्तु लुग्विकल्पः, तदभावे ठ्ह्रस्वादङ्गात्ऽ इति लोपो भविष्यति, न च विकल्पेन बाधः, विकल्पं प्रति नित्यस्यासिद्धत्वात्; न च तनादिपाठसमार्थ्यादपदावो वचनप्रामाण्यादिति न्यायेनासिद्धत्वबाधाद्विकल्पेन नित्यस्य वाधः,तनादिपाठस्य विकरणविधौ चरितार्थत्वात्; विकल्पोऽप्यततः अतथा इत्यादौ चरितार्थः; प्रत्युत क्रियमाणे कृञ्ग्रहणे तनादिषु कृञः पाठस्यानन्यार्थत्वाद्येननाप्राप्तिन्यायेन विकल्पो नित्यविधिं बाधेत? इदं हि कृञ्ग्रहणविधौ तनादिषु पाठश्चरितार्थो मा विज्ञायीत्येवमर्थमेव स्यादिति कृञ्ग्रहणप्रत्याख्यानमेव न्याय्यं मन्यामहे॥ धिन्विकृण्व्योर च॥ ३।१।८० ॥ धिन्विकृण्व्योर च॥ अतो लोपस्य स्थानिवद्भावाद् गुणो न भवतीति। तेन प्रक्रियालाघवाय धिन्विण्व्योर्लोप एव नोक्त इति भावः। लोपे हि गुणस्स्यात्। न चच ठ्न धातुलोप आर्द्धधातुकेऽ इति निषेधः, प्रत्ययसन्नियोगशिष्टत्वेन लोपस्यानार्द्धधातुकनिमितत्वात्। ननु नुमनुषक्तयोर्ग्रहणं किमर्थम्? नुमि कृतेऽत्वं यथा स्याद्, ठ्धिविकृव्योःऽ इत्युच्यमानेऽत्वे कृतेऽत एव परो नुम् प्रसज्येत; अत्वं ह्यन्तरङ्गं प्रत्ययसन्नियोगेन विधानात्; नुमागमस्तु बहिरङ्गः, उत्पन्ने प्रत्ययेऽङ्गस्य सतो विधानात्। ननु चास्त्वङ्गस्य नुम्, लावस्थायामेव भविष्यति; तिबादीनामन्तरङ्गत्वात्। तिबादिष्वेव तर्हि भविष्यति, न; नित्येनात्वेन बाधनात्। नुमागमस्तु शब्दान्तरप्राप्तेरनित्यः। अन्तरङ्गस्तर्हि नुमागमस्तद्विधौ धातुग्रहणात्? तद्धि धातुसंज्ञाप्रवृत्तिकाल एव नुम् यथा स्यादित्येवमर्थम्; अन्यस्योदितोऽसम्भवात्। कथमसम्भवः? यदिदानीमेवोक्तम्----तासेरिदित्करणमनुनासिकलोपप्रतिषेधार्थमिति। नन्वत्रापि पक्षे ठ्नुम्विधावुपदेशिवद्ववचनं प्रत्ययसिद्ध्यर्थम्ऽ इति वचनादुपदेश एव नुम् भविष्यति ? एवं तर्ह्यन्तरङ्गत्वादेव प्राप्तस्य नुमोऽयं निर्द्देशः॥ र्क्यादिभ्यः श्रा॥ ३।१।८१ ॥ स्तम्भुस्तुम्भुम्कम्भुस्कुम्भुस्कुञ्भ्यः श्नुश्च॥ ३।१।८२ ॥ स्तम्भुस्तुम्भुस्कम्भुस्कुम्भुस्कुञ्भ्यः श्नुश्च॥ उदित्विप्रतिज्ञानादिति। एषां ह्युकारोऽनुनासिक इत्संज्ञकः प्रतिज्ञायते, तस्य प्रयोजनम्----ठुदितो वाऽ इति क्त्वाप्रत्यये इड्विकल्पः। यदि चैतद्विकरणविषया एवैते स्युस्तन्नोपपद्यते। तस्मादुदित्वेन प्रतिज्ञानात्सर्वार्थत्वं विज्ञायते, सर्वे प्रत्ययाः प्रयोजनमेषामित्यर्थः। सर्वप्रत्ययशेषत्वभिति वा॥ हलः श्रः शानज्झौ ॥ ३।१।८३ ॥ हलः श्रः शानज्झौ॥ पुषाण्, मुषाणेति। लोट्, सिप्, तस्य हिः, र्ठ्क्यादिभ्यः श्नाऽ,तस्य शानच्। चकारः स्वरार्थः। अत्र सन्निपातपरिभाषया अनित्यत्वाद् ठतो हेःऽ इति हेर्लुक्। ननु च श्नाप्रत्ययस्य प्रकृतत्वातस्यैव शानजादेशो भविष्यति, नार्थः श्न इति स्थानिनिर्द्देशेनात आह---श्र इति स्थानीत्यादि। आदेश इत्येष संप्रत्ययः---अवगमो यथा स्यादित्येवमर्थः। असति तु तस्मिन् किं स्यादित्याह---प्रत्ययान्तरमिति। अस्तु प्रत्ययान्तरम्, र्ठ्क्यादिभ्यःऽ इत्यनुवृतेस्तेभ्य एव हलन्तेभ्यो भविष्यतीति न कश्चिद्दोष इत्यत आह----सर्वविषयमिति। अर्क्यादिविषयमपीत्यर्थः। र्क्याद्यनुवृत्तिर्दुर्ज्ञानेति मन्यते। शानचः शित्करणञ्चिन्त्यप्रयोजनम्; स्थानिवद्भावेनैव सिद्धेः। इह ठ्ञिमिदा स्नेहनेऽ दिवादिः, व्यत्ययेन च्छन्दसि श्ना, तस्य शानजादेशः, मिदान। ठ्मिदेर्गुणःऽ इति प्रतिषेधविषये विधीयमानो गुणो न भवति, पुनः शित्करणेन ठ्सार्वधातुकमपित्ऽ इत्यस्यापि पुनः प्रवृतेरिति केचित्। नेति वयम्; यथैव व्यत्ययेन श्ना भवति, एवं गुणविषये इकारो भविष्यति॥ च्छन्दसि शायजपि॥ ३।१।८४ ॥ च्छन्दसि शायजपि॥ गृभायेति। ग्रहिज्यादिसूत्रेण संप्रसारणम्, ठ्हृग्रहोर्भश्च्छन्दसिऽ इति हकारस्य भकारः। बधानेति। ठ्बन्ध बन्धनेऽ,ठनिदिताम्ऽ इति नलोपः॥ व्यत्ययो बहुलम्॥ ३।१।८५ ॥ व्यत्ययो बहुलम्॥ यथायथमिति। स्वस्मिन् स्वस्मिन्विषये इत्यर्थः। व्यतिगमनं व्यत्यय इति। व्यतिपूर्वादिणो भावे ठेरच्ऽ। अन्योऽन्यविषयावगाहनमित्यर्थः। क्वचिदित्यादिना व्यत्ययस्य प्रकारं दर्शयति। न मरतीति। परस्मैपदमप्यत्र व्यत्ययेन। नेषत्विति। नयतेर्लोटि शप्सिपौ। तरुषेमेति। तरतेर्विध्यादौ लिङ्, तथा च ठ्तरेमेति प्राप्तेऽ इति वृत्तिः;इतरथा ठ्तीर्यास्मेति प्राप्तेऽ इति वक्तव्यं स्यात्, ततश्शप् सिप् उ त्यय इति त्रयो विकरणाः, धातोर्गुणः। तरुषमस्, ततो यासुट्, ठ्लिङ्ः सलोपोऽनन्त्यस्यऽ ठ्नित्यं ङ्तिःऽ ठतो येयःऽ यलोपः, ठाद्गुणःऽ तरुषेम। बहुलग्रहणमनर्थकम्, पूर्वसूत्रादपिशब्दस्यानुवृतौ च्छन्दसि व्यत्ययोऽपि भविष्यति, अपिशब्दाद्यथाप्राप्तञ्चेति सर्वमिष्ट्ंअ सिद्ध्यति। अत आह----बहुल ग्रहणमिति। सर्वस्य प्रकृतस्याप्रकृतस्य च विधेर्व्यभिचारो व्यत्ययलक्षणो यथा स्यादित्येवमर्थमित्यर्थः। एवमर्थे बहुलग्रहणे सति यदिष्ट्ंअ सिद्ध्यति तत्श्लोकेन दर्शयति---सुप्तिणुपग्रहेत्यादि। तत्र सुपाम् व्यत्ययः---धुरि दक्षिणायाः। दक्षिणस्यामिति प्राप्ते। तिङम्----चषालं ये अश्वयूपाय तक्षति। तक्षन्तीति प्राप्ते। लादेशव्यङ्ग्यः क्रियासाधनविशेषः स्वार्थपरार्थत्वव्यक्तवाक्त्वादिको यः स मुख्य उपग्रहः। यथोक्तम्---- य आत्मनेपदाद्भेदः क्वचिदर्थस्य गम्यते॥ अन्यतश्चापि लादेशान्मन्यन्ते तमुपग्रहम्॥ इति। आत्मनेपदाद्धेतोरित्यर्थः। एवमन्यतश्चापि लादेशदिति, इह तु तद्व्यक्तिनिमितत्वात्परस्मैपदात्मनेपदयोरुपग्रहशब्दो वर्तते। स ब्रह्मचारिणमिच्छते। इच्छतीति प्राप्ते। ऊर्मिर्युव्यति, युध्यत इति प्राप्ते। लिङ्गम---मधोस्तृप्ता इवासते, मधुन इति प्राप्ते। भाषायामपि मधुशब्दं पुंल्लिङ्गं प्रयुञ्जते----ठ्मधूंश्च बिभ्रति र्मयसुरविटपिन इतिऽ, तच्चिन्त्यम्। नरःउपुरुषः----अधा स वीरेर्द्दशभिर्वियूयाः, वियूयादिति प्राप्ते, ठ्यु मिश्रयेऽ ठ्विपूर्वः, आशिषि लिङ्। कालवाची प्रत्ययः कालः----श्वोऽग्नीनाधास्यमानेन, लुटो विषये लृट्। हल्---त्रिष्टुअभौजः "सुफितमुग्रवीरम्,ठ्शुभ शोभार्थेऽ भकारस्य फकारः। आश्वलायनसूत्रे तैतिरीये च भकार एव पठ।ल्ते अच्----उपगायन्ति मा पत्नयो गर्भिणयः, दीर्घस्य ह्रस्वः। स्वरव्यत्ययः----ठ्परादिश्च्छन्दसि बहुलम्ऽ इत्यत्र वक्ष्यते। कर्तृ शब्दः कारकमात्रस्योपलक्षणार्थः, तद्वाचिनां शब्दानां व्यत्यय इत्यर्थः। विभक्तीनां व्यतत्य इति यावत्। यङम्---यङिति प्रत्याहारः यङे यशब्दादारभ्य ठ्लिङ्याशिष्यङ्ऽ इति ङ्कारेण, तेषां व्यत्ययः----आण्डा शुष्मस्य भेदतीत्यादिना वृतावेव दर्शितः। एषां सुप्रभृतीनां व्यत्ययमिच्छति चशास्त्रकृत् पाणिनिराचार्यः। सोऽपि तथाविधो व्यत्ययो बाहुलकेन सिद्ध्यति। बहुलस्य भावो बाहुलकम्, मनोज्ञादित्वाद्रुञ्। तत्पुनर्बहुलशब्दस्य प्रवृत्तिनिमितं यद्वह्वर्थादानम्। च---शब्दो हेतौ। यस्मादेवमुक्तप्रकारो व्यत्ययो बहुलग्रहणेनैव सिद्ध्यति, तस्माद्वहुलग्रहणं कृतमित्यर्थः॥ लिङ्याशिष्यङ्॥ ३।१।८६ ॥ लिङ्याशिष्यङ्॥ शषोऽपवाद इति। लिङशिषीत्यार्द्धिधातुकत्वात्कथमत्र शपःप्राप्तिरित्यत आह---च्छन्दस्युभयथेति। शब्ग्रहणं चोपलक्षणम्। शकेः श्नोरपवादः, स्थादिष्वेवायमङ् प्रायेण द्दश्यत इत्याह----स्थागागमीत्यादि। उपस्थेयमिति। उपपूर्वातिष्ठतेराशिषि लिङ्, मिपोम्भावः, यासुटस्सार्वधातुकत्वात् ठ्लिङ्ः स्सलोपोऽनन्त्यस्यऽ, अङ् ठातो लोपि इटि चऽ, ठतो येयःऽ,ठाद्गुणःऽ। एवमुपगेयमिति। गमेमेति। मस्। वोचेमेति। अङ्, ठ्वच उम्ऽ, यासुट्, इयादेशः,वलि लोपः। द्दशेरग्वक्तव्य इति। अङ् इहि सति ठृद्दशोऽङ्ऽ ईति गुणस्स्यात्॥ कर्मवत् कर्मणा तुल्यक्रियः॥ ३।१।८७ ॥ कर्मवत् कर्मणा तुल्यक्रियः॥ कर्मणा, तुल्यं वर्तत इति कर्मवत् ठ्तेन तुल्यम्ऽ इत्यादिना वतिः,न तु ठ्तत्र तस्येवऽ इति; तुल्यक्रिय इति प्रतियोगिनि प्रथमानिर्देशात्। अन्यथा तुल्यक्रिये तुल्यक्रियस्येति वा निर्द्देश्यं स्यात्। तथा हि वाक्ये तावद्यतो वतिर्भवति, यश्य प्रतियोगी---उभाभ्यामपि ताभ्यां षष्ठीसप्तम्यौ भवतः,विप्रस्येवास्य शीलम्, मथुरायामिव पाटलिपुत्रे प्राकार इति; उभयोरपि सम्बन्धित्वाद्, आधारत्वाच्च। ततश्चोत्पन्नेऽपि वतौ प्रतियोगिनस्ते एव षष्ठीसप्तम्यावुपतिष्ठेते। तुल्यार्थयोगे तु या तृतीया सोपमानादेव भवति, नोपमेयात्; तुल्यशब्दस्योपमेयनिष्ठत्वात्, तद्यथा---चन्द्रेण तुल्यं मुखमिति ततश्योत्पन्नेऽपि वतावुपमेयात्प्रथमैवावतिष्ठते। कर्मणेति परिभाषिकं कर्म गृह्यते, न लौकिकं क्रिया कर्म; तस्य हि ग्रहणे क्रियया तुल्या क्रिया यस्येति किमुक्तं स्यात् क्रियायाः, यया कयाचन क्रियया तुल्यत्वाद्! अतस्साधनकर्मणो ग्रहणम्। तत्र साध्यसाधनयोरत्यन्तभेदान्मुख्येन कर्माअ क्रियायाः साद्दश्यासम्भवात्कर्मशब्देन तत्स्था क्रिया लक्ष्यते। भवति हि तात्स्थ्याताच्छब्द्यम्, यथा---मञ्चाः क्रोशन्तीति। तदेतदाह---कर्मणि क्रिया कर्मेति। विशेषणस्य वैयर्थ्यं न चेदानीं प्रसज्यते। कर्मणः क्रियया तुल्या न सर्वस्य क्रिया यतः॥ इति ॥ कर्मणः क्रियया तुल्यक्रियः, न साधानान्तरस्येत्येवं प्रतिपत्यर्थत्वादित्याह---कर्मस्थया क्रियया तुल्यक्रिय इति। तुल्यशब्दस्य नित्यसापेक्षत्वात्कर्मस्थया क्रिययेत्येतदपेक्षस्यापि सूत्रवद्वहुव्रीहिर्नानुपपन्नः। तुल्यशब्दोऽयमस्ति साधारणवचनः----एतौ तुल्यधनाविति, साद्दश्यवचनस्तु प्रसिद्ध एव; तत्राद्यस्य ग्रहणे कर्मणेति यदि मुख्यवृत्तिस्तदा कर्तुः कर्मणश्च या साधारणी क्रिया, तत्र यः कर्ता कर्मणा सह साधारणक्रियः सकर्मकेषु यः कर्तेत्युक्तं भवति। तत्र तुल्यक्रिय इत्यनर्थकम्, कर्मणेत्येव वाच्यं स्यात्। कर्मणा सह यः कर्ता प्रतिपाद्यत इत्यर्थः। अथ गौणवृत्तिस्तदायमर्थ----क्रियया हेतुना साधारणक्रियः। कया क्रियया? कर्मस्थया क्रिययेति। एवमपि पचत्योदनं देवदत इत्यत्रापि प्राप्नोति, यासौ कर्मस्था विक्लितिरूपा क्रिया तया साधारणक्रियत्वात्। अतोऽस्मिन्पक्षेऽनिष्ट्रप्रसङ्गः, प्रसिद्धतरश्च सद्दशपर्यायस्तुल्यशब्द इति प्रयुञ्जानः ठ्साद्दश्यवचनस्तुल्यशब्दः, न साधारणवचनःऽ इत्याचष्टे। कर्तृभूत इति। कर्तरि सम्पन्न इत्यर्थः। च्वेर्विकल्पितत्वादत्राभावः। अथ वा--कर्तृशब्दः कर्तृत्वे वर्तते, भूत इति ठ्भू प्राप्तौऽ इत्यस्य ठा धृषाद्वाऽ इति णिजभावे रूपम्, कर्तृत्वं प्राप्त इत्यर्थः। तत्र पचत्योदनमित्यत्र कर्तृकर्मव्यापारह योरतन्यन्तभेदेन साद्दश्याभावात्कर्मवद्भावाभावः। एवमपि भिद्यमानः कुसुलः पात्राणि भिन्नतीत्यत्रापि प्राप्नोति, याद्दशी हि पात्रेषु क्रियाऽवयवविशरणात्मिका ताद्दश्येव कुसूलेऽपि कर्तरि लक्ष्यत इति? नैष दोषः; कर्मस्थया क्रियया तुल्या क्रिया यस्य कर्तुरित्युक्ते कर्तुत्वोपयोगिनी या क्रिया यदावेशादसौ कर्ता भवति सैव क्रिया गम्यते; इह तु पात्रेषु द्दश्यमानं द्विधाभवनं कुसूलेऽपि दैवगत्या द्दष्टमित्येतावन्न पुनस्तत्समावेशादसौ भिनति, स्वयमभिद्यमानोऽपि कुसूल उपरि पतन् पात्राणि भिनत्येव। एवमप्यन्योऽन्यमाश्लिषतः, अन्योऽन्यं स्पृशतः, अन्योऽन्यं गृह्णीतः ----अत्र प्राप्नोति, अत्र हि यत्क्रियावेशात्कर्ता भवति सैव कर्मण्यपि दृश्यते? सत्यं द्दश्यते; न सा कर्मत्वोपयोगिनी, न ह्यसौ तदावेशात्कर्म भवति; स्वयमनाश्लिष्यतोऽपि परेणाश्लिष्यमाणस्य कर्मत्वसम्भवात्। तदेतदुक्तं भवति----कर्मणः कर्मत्वोपयोगिनी या क्रिया तया तुल्या यस्य कर्तृत्वोपयोगिनी क्रिया स कर्मण तुल्यक्रियः। एवञ्च यस्यैव कर्मणः कर्मावस्थायां या क्रिया कर्त्रवस्थायामपि यदि सैव क्रिया भवति स कर्ता कर्मवदित्युक्तं भवति। इदमप्यत्रैवोक्तम्----ठ्यस्मिन् कर्मणि कर्तृभूतेऽपिऽ इति। तस्मिन्नेव कर्मणि कर्त्रवस्थां प्राप्त इति ह्यत्रार्थः। एवञ्च कर्तृकर्मावस्थाभेदादेकस्या अपि क्रियाया भेदाश्रयं साद्दश्यमुपपाद्यम्। अतिदेशो रूपनिमिततादात्म्यव्यपदेशशास्त्रकार्यातिदेशभेदेनानेकविधः, तवादिस्त्रयाणामसम्भवः। व्यपदेशातिदेशस्तु संज्ञापक्षान्न भिद्यते। तत्र वक्तरणमनर्थकम्। अतः शास्त्रातिदेशः, कार्यातिदेश इति द्वावेव पक्षौ। तत्र शास्त्रातिदेशे ठ्भावकर्मणोःऽ इत्यादिषु शास्त्रेष्वतिदिष्टेषु तेन तेन शास्त्रेण ततत्कार्यं प्रवर्तते, ततश्च ठ्भावकर्मणोःऽ इत्यस्यावकाशः---शुद्धं कर्म, पच्यते ओदनः, ठ्शेषात्कर्तरि परस्मैपदम्ऽ इत्यस्यावकाशः---शुद्धः कर्ता, पचति पठति; कर्मकर्तर्युभयप्रसङ्गे परत्वात्परस्मैपदं प्राप्नोति? नैष दोषः; ठ्कर्तरि कर्मव्यतीहाहे इत्यतः कर्तृग्रहणमनुवर्तते, तेन कर्तैव यः कर्ता तत्र परस्मैपदम्, कर्मकर्तरि न भविष्यति। इह तर्हि कर्मणि यग् भवतीत्यस्यावकाशः---शुद्धं कर्म, पच्यते, ओदनः, ठ्कर्तरि शप्ऽ इत्यस्यावकाशः---शुद्धः कर्ता, पचति पठति; कर्मकर्तर्युभयप्रसणेó परत्वाच्छप् प्राप्नोति? नैष दोषः; ठ्कर्तरि शप्ऽ इत्यत्र कर्तृग्रहणन्न कर्तव्यम्, सार्वधातुके शबिति सामान्यस्य भावकर्मणोर्यगपवादो भविष्यति, एवं सिद्धे यत्कर्तृग्रहणं क्रियते तस्यैतत्प्रयोजनम्----कर्तैव यः कर्ता तत्र शबादयो यथा स्युः, कर्मापदिष्टे मा भूवन्निति? सत्यं प्रतिविहितमायुष्मता! वृथा पुनरयम्प्रयासः, कार्यातिदेशाश्रयेणैव सिद्धेः। तत्र ह्यनेनैवात्मनेपदम्, अनेनैव यगिति परत्वाद्यगात्मनेपदे सिद्ध्यतः। प्रधानं च कार्यम्, तदर्थत्वादतिदेशान्तराणाम्। अतः कार्यातिदेश कर्तृग्रहणमस्ति, यदपि प्रकृतम्ठ्कर्तरि शप्ऽ इति, तदपि सप्तम्यन्तम् ठ्तुल्यक्रियऽ इति प्रथमान्तेन सम्बद्धुअं नार्हति, तत्राह---कर्तरि शबित्यत इति। यगात्मनेपदेत्यादि। लान्तस्य कर्ता कर्मवदिति वक्ष्यमाणत्वाद्यगादीनामेव सम्भव इति भावः। मिद्यते इत्यादीनि त्रीण्यात्मनेपदस्योदाहणानि यगादीनां क्रमेण। कथं पुनः काष्ठस्य भिदां प्रति कर्तृत्वम्, यावता भिद्यतेऽसौ देवदतेन? यो ह्युद्यमननिपातनादि कुठारस्य करोति स भेदने कर्ता उच्यते। सर्वेषामेव कारकाणां प्रातिस्विकोऽवान्तरव्यापारोऽस्ति, अकिंचित्करस्य कारकत्वानुपपतेः। एतच्च कारकप्रकरणे एवोपपादितम्। तत्र च स्वव्यापारे स्वतन्त्रत्वं सर्वत्रैवास्ति। कारके कर्तृव्यापारेण तिरस्कृतत्वातु न्यग्भूतं स्वातन्त्र्यमिति कर्तृत्वं न भवति, करणादिसंज्ञैव भवतीत्येतावत्। सकर्मकास्तु केचिद्धातवः कर्मव्यापारमप्यभिधाय तावत्येवापर्यवस्यन्तस्तदुपसर्जनं कर्तृव्यापारमाचक्षते, तद्यथा----भिदिर्द्धिधाभवनोपसर्जनं द्विधाभावनमाह। न खल्वयमुद्यमननिपातनमात्रवचनः; रजकेऽपि प्रसङ्गात्, सोपि हि वस्त्रमुद्यच्छति निपातयति च। अथ च न भिनतीत्युच्यते; द्विधाभवनाभावात्। एतेन च्छिनतिलुनती व्याख्यातौ। तथा पचिरपि विक्लित्युपसर्जनं विक्लेदनमाह। तत्र यदा कर्मणः सौकर्यातिशयप्रतिपादनाय कर्तृव्यापारो न विवक्ष्यते, तदा निवृतप्रेषणं कर्म स्वक्रियावयवस्थितं निवर्तमाने कर्मत्वे स्वे कर्तृत्वेऽवतिष्ठते। धातुरपि तद्व्यापारमात्रे वर्तते। कथं पुनरुभयवचनो धातुः कर्मव्यापारमात्रवचनो भवति? को विरोधः? अनेकार्था धातवः, समुदायेषु च वृताः शब्दा अवयेष्वपि वर्तन्ते, तदेवं कर्मव्यापारमात्रवाचिषु कर्तृत्वमेव काष्ठादीनाम्, न तु कर्मत्वगन्धोऽप्यस्ति; धातवश्चैते प्रयोगेऽस्मिन्नकर्मकाः, यथा---विक्लिद्यति द्विधा भवतीति; कथं तर्हि कर्मणा तुल्यक्रियः कर्ता? न ब्रूमः----अस्मिन् प्रयोगे यत्कर्म तेन तुल्यक्रिय इति, किं तर्हि? प्रयोगान्तरे यत्कर्म तेन तुल्यक्रिय इति। नन्वेवं पचत्योदनं देवदतः, राध्यत्योदनः स्वयमेव---अत्रापि प्राप्नोति? अत्र परिहारं वक्ष्यति---धात्वधिकारादिति। कर्तृकर्मणोर्धातोरन्यत्रासम्भवादेव सिद्धेस्तदनुवृत्तिरेकत्वविक्षार्था----यस्मिन्नेव धातौ यत्कर्म तेन तुल्यक्रियस्तस्यैव धातोः कर्तेति। तेन धातुभेदे न भविष्यति? आह--अध्यारोपोऽयमस्तु, कोऽर्थः? कृत्स्न एव धात्वर्थः कर्मण्यध्यारोप्यते किमत्र देवदतेन ओदन एव पाकं करोतीति। एवं हि सौकर्यातिशयः सुतरां प्रतिपादितो भवति, करणाधिकरणवत्, यथा---साध्वसिश्च्छिनति, साधु स्थाली पचतीति। तत्र येषु तावत्कृत्स्न एव धात्वर्थः कर्मण्यपि सम्भवति---आत्मना बुद्ध्यते, आत्मना मुच्यते, आत्मना हन्यते, आत्मना ताड।ल्ते इति, तेषु शुद्धे कर्मणि लकारः केन चिद्रूपेण कर्तृत्वम्, केनचिद्रूपेण कर्मत्वमिति। तथा भिद्यते कुसूल इति यत्रापि चेतनो भेता न द्दश्यते तत्र वातातपकालाभिवर्षणानामन्यतमस्य कर्तृत्वम्, अध्यारोपो वा। पच्यते ओदनः स्वयमेव, लूयते केदारः स्वयमेवेत्यादावध्यारोप एव, आत्मनैवोवनः पच्यते, न तु देवदतेनेति, कएवं नाम पाकेऽनुकूलो भवतीत्यर्थः। तदेवं शुद्धे कर्मणि लकारोत्पतेर्नार्थ एतेन। यद्येवम्, भिद्यते कुसूलेनेति भावे लो न स्यात्, सकर्मकत्वात्? अथाप्यत्र भिद्यते कुसूलेनात्मेति कर्मणि व्याख्यायेत। एवमपि भेतव्यं कुसूलेन, ईषद्भेदं कुसूलेनेति भावे कृत्यक्तखलर्था न स्युः? न च तत्रापि कर्मणीति शक्यमाश्रयितुं नपुंसकलिङ्गदर्शनात्। तथा नमते दण्डः स्वयमेव, कारयते कटः स्वयमेव, अचीकरत कटः स्वयमेव---यक्चिणोः प्रतिषिद्धयोरपि शप्चङै न स्याताम्, अकर्तृत्वात्। तस्मात्कर्मव्यापारमात्रवाचिभ्यः कर्तरि भावे च लादय इत्येतदेव साधीयः। तथा च श्रृतं पाक इत्यत्र पचेः कर्मव्यापारे कर्तृव्यापारे च श्रृतमिति भवति; द्वयोरपि पाकशब्दाभिधेयत्वात्। एवं हि या विमृष्टा शास्त्रं न करिष्यामिति मतिः, सापि त्याज्या। असति सूत्रे ठ्न दुहस्नुनमां यक्चिणौऽ इति प्रतिषेधस्य विषयो न प्रदर्शितः स्यात्। किञ्च, यद्यपि पच्यते ओदनः स्वयमेवेत्यादिकः प्रयोगः कर्मणि समर्थ्यते, कर्तरि तु लकारोत्पतौ पचत्योदन इत्यादिकः प्रयोगोऽपि प्रसज्येत। तस्मादारब्धव्यं सूत्रम्। अत्रोदाहरणेषु कर्त्रन्तरव्युदासार्थ स्वयमिति प्रयुज्यते, न त्वेतदुदाहरणाङ्गम्। प्रयुक्त एतस्मिन्नात्मनेत्यस्यार्थे वृतेः प्राकृतमेवैतत्कर्म स्यात्---स्वाश्रयमपि यथा स्यादिति। असति वत्करणे कर्तुः कर्मसंज्ञा ज्ञायेत, ततश्चानेन कर्मणा सकर्मकत्वाद् ठ्भावे चाकर्मकेभ्यःऽ इति भावे लो न स्यात्। सति तु तस्मिन्स्वतः प्राप्तस्याकर्मकव्यपदेशस्यानिवर्तनादकर्मकाणां भावे लः सिद्धो भवति, अकर्म काणां भावे यो लो विधीयते स सिद्धो भवतीत्यर्थः। कथं सिद्धो भवति, यावता नित्योऽयमतिदेशः, नित्ये चास्मिंस्तत्र लविधिरपि कर्मकार्यमेवेति स्यादेवातिदेशः? आतिदेशिकाविरुद्धं स्वाश्रयं वतिना प्राप्तते, न तु विरुद्धमपि। न ह्ययं विकल्पार्थः---कदाचित्कर्मवत्, कदाचिन्नेति। अथ लान्तस्य कर्तेति वक्ष्यमाणत्वादेतत्सूत्रप्रवृतेः प्रागेव ठ्लः कर्मणि चऽ इत्येतत्प्रवृत्तिरङ्गीक्रियते, तच्च प्रवर्तमानमकर्मकत्वाद्भावे कर्तरि च प्रवर्तते, यदा कर्तरि तदाऽयमतिदेश इति भावे लविधिः समर्थ्येत। यद्येवम्, मा भूद्वतिः, लकारवाच्यस्य कर्तुः कर्मसञ्ज्ञैवास्तु, यगात्मनेपदयोस्त्वप्रसिद्धिः परत्वाच्छबादीनां परस्मैपदस्य च प्रसङ्गः; न च कर्मसञ्ज्ञया कर्तृसञ्ज्ञाया बाधः, एकसञ्ज्ञाधिकारादन्यत्र सञ्ज्ञानां समावेशात्? सत्यम्; उक्तोऽत्र परिहारः----तदेतद्वत्करणं सर्वसाद्दश्यार्थम्। तेनोदाहरणेषु काष्ठादिभ्यो द्वितीया न भवति; इत्यरथा कर्मकार्यत्वात्प्राप्नोति, अभिहितत्वान्न भविष्यति। भवेदयं परिहारः शास्त्रातिदेशे, कार्यातिदेशे त्वनेनैव कर्मकार्याणि प्राप्यन्ते, न चात्रानभिहिताधिकारोऽस्तीति स्यादेव द्वितीया। वत्करणातु सर्वसाद्दश्यार्थाद्यथा कर्मण्यभिहितेन भवति, एवं कर्तर्यपीति द्वितीयाभावः। यदा तर्ह्यकर्मकत्वाद्भावे लकारस्तदा प्राप्नोति, तत्राह-----लिङ्याशिष्यङ्त्याइदि। तत्र लग्रहणमनुवृत षष्ठ।ल विपरिणम्यते इत्यभिप्रायेणाह---लान्तस्य कर्तेति। लकारवाच्यः कर्तेत्यर्थः। कुसूलाद् द्वितीया न भवतीति। भिद्यते कुसूलेनेत्यनन्तरोदाहृतेषु उदाहरणेषु तु वत्करणादेव सर्वसाद्दश्यार्थाद् द्वितीयाया अभाव इति भावः। तदेवं वृत्तिकारस्याभिप्रेतम्----एतद्वतिः सर्वसाद्दश्यार्थ इति। किञ्च, नावश्यं द्वितीयैव, कृत्यक्तखलर्था अप्यस्मिन्विषये कर्तर्यतिदेशेन प्राप्नुवन्ति----भेतव्यः कुसूलः स्वयमेव, भिन्नः कुसूलः स्वयमेव, ईषद्भेदः कुसूलः स्वयमेवेति; भअव एव चेष्यन्ते---भेतव्यं कुसूलेन कुसूलस्य वा, ठ्कृत्यानां कर्तरि वाऽ,ठ्भिन्नं कुसूलेन, ईषद्भेदं कुसूलेनेति। अत्र वार्तिके क्तग्रहणमन्यत्र सहपाठात्पठितम्, यथा-----ककारो गुणवृद्धिप्रतिषेधार्थ इति। भवत्येव ह्यएभ्योऽकर्मकत्वाद् ठ्गत्यर्थाककर्मकऽ इति कर्तरि क्तः। तथा च ठ्सिनोतेर्ग्रासकर्मकर्तृकस्येति वक्तव्यम्ऽ इति निष्ठा---नत्वे। सिनो ग्रासः स्वयमेवेति कर्तरि क्त उदाहरिष्यते। तस्मात्कृत्यखलर्थेष्वेवैष दोषः, अतस्तत्र लान्तस्य कर्तेत्याश्रयणादेवातिदेशाभावः। कर्मणेति किमिति। धातुवाच्या क्रिया कर्तृ कर्मणोरेव समवेता, तत्र साद्दश्यस्य भेदाधिष्ठानत्वात्कर्तृस्थया क्रियया तुल्यक्रियः कर्ता न सम्भवतीति कर्मस्थैव क्रिया आश्रयिष्यत इति मत्वा प्रश्रः। करणाधिकरणाभ्यामिति। तत्स्थक्रिययेत्यर्थः। साध्वसिश्च्छिनतीति। किं पुनरत्र करणाधिकरणव्यापारमात्रे धातुर्वर्तते? आहो स्वितत्र कृत्स्नधात्वर्थाध्यारोपः? न तावदाद्यकल्पः, तावति धातोरवृतेरसिना च्छिनतत्यत्रापि नैव करणव्यापारो धातुनोपादीयते, केवलं करणत्वादवान्तरव्यापारोऽस्तीत्येतावत्। द्वितीये तु भिन्नक्रियत्वादेवाप्रसङ्गः। तस्मात्करणाधिकरणव्यापारमात्रेऽपि धातोर्वृत्तिमङ्गीकृत्य प्रत्युदाहृतं द्रष्टव्यम्। क्वचितु करणेनापि तुल्यक्रियस्य कर्मवद्भाव इष्यते, यदाह---करणेन तुल्यक्रियः कर्ता बहुलमिष्यते, परिवारयति कण्ट कैर्वृक्षम्, परिवारयन्ते कण्टका वृक्षम्----आत्मनेपदं भवति। वृत्तिकारस्तु ठ्णिचश्चऽ इत्यात्मनेपदमुपपद्यत इति मन्यमानो नैतदुपसमचष्ट। धात्वधिकारात्समाने धाताविति। एकस्यैव धातोरित्यर्थः। एतच्च प्रागेव व्याख्यातम्। कर्मस्थभावकानामित्यादि। यद्यपि क्रियाभावशब्दयोरभिन्न एवार्थः, तथा च ठ्यस्य च भावेन भावलक्षणम्ऽ इति क्रियापि गृह्यते, ठ्लक्षणहेत्वोः क्रियायाःऽ ठ्कर्मणा तुल्यक्रियःऽ इति च वाचोऽपि; तथाप्यस्मिन् ग्रन्थे भेदेनोपादानादर्थभेदो द्रष्टव्यः---अपरिस्पन्दरूपो धात्वर्थो भावः, परिस्पन्दरूपस्तु क्रिया। क्व पुनरसौ कर्मस्थः? क्व ववा कर्तृ स्थः? केचिदाहुः----येषु कर्मब्यापारोपसर्जनः कर्तृव्यापारोऽभिधीयते तेषु कर्मस्थः, येषु कर्तृ व्यापार एव तेषु कर्तृ स्थ इति। नेति वयम्; प्रधानक्रिया यत्र समवैति कर्तरि कर्मणि वा तत्स्थो धात्वर्थः, यदुद्देशेन कारकव्यापारः सा प्रधानक्रिया, यथा---पचेर्विक्लितिः, गमेर्देअशान्तरप्राप्तिः। एवञ्च कृत्वा न्यग्भवनोपसर्जनन्यग्भाववचनोऽपि रुहिः कर्तृस्थक्रियः---आरोहन्ति हस्तिनं हस्तिपका इति; उपरिदेशप्राप्तेरुद्देश्यायाः कर्तरि समवायात्, तत्रेह कर्मस्थेन व्यापारेण कर्तृव्यापारस्योपमानात्। अस्य चार्थस्य कर्तृस्थव्यापारेष्वसम्भवान्न्यायप्राप्त एवार्थो वृत्तिकारेण दर्शितः। तत्र कर्तस्थव्यापारस्य कर्तृस्थस्य चोदाहरणमात्रं श्लोकेन दर्शयति----कर्मस्थः पचतेर्भाव इति। पच्यते घट इत्यत्र तद्देशस्यैव घटस्य पाक इति भावोऽसौ भवति, कर्मस्थश्च---पच्यते ओदन इत्यत्र परिस्पन्दत एव, पाक्यस्य पाकाभिनिर्वृत्तिरिति कर्मस्थैव पचेः क्रिया भवति। कर्मस्था च भिदेः क्रियेति। भिद्यते कुसूल इत्यत्रावयवविशरणात्मिका भिदिक्रिया भेदस्य परिस्पन्दे सति भवतीति कर्मस्था च भिदेः क्रिया भवति। मासासिभावः कर्तृस्थ इति। मासमास्ते इत्यत्र ठ्कालभावाध्वगन्तव्याः कर्मसञ्ज्ञा ह्यकर्मणाम्ऽ इति मासकर्मकोऽयमासिधातुः, तत्र मासासिधातौ प्रतीयमानोऽर्थो भावः; अपरिस्पन्दरूपत्वात्, स च कर्तृस्थ इत्यर्थः। कर्तृ स्था च गमेः क्रियेति। गमेरर्थः क्रिया, सा च कर्तृ स्थेत्यर्थः। तेनास्यते मासः स्वयमेव, गम्यते ग्रामः स्वयमेवेति न भवति। अथेह कथं कर्मवद्भावः---तस्मादुदुम्बरः सलोहितं पच्यते फलमिति? अत्राहुः---पचिरत्र विषये द्विकर्मकः, वृक्षस्य पाकमन्तरेण फलस्य पाकासम्भवात्। तत्र ठप्रधाने दुहादीनाम्ऽ इति वृक्षोऽकथितं कर्मेति तत्र लकारः, कालस्तु कर्तेति। इदं तु वक्तव्यमेव, ठ्सृजियुज्योः श्यंस्तुऽ इति ठ्सृजि विसर्गेऽ,ठ्युजिर्योगेऽ---अनयोः सकर्मकयोः कर्ता कर्मवद्भवति; तत्र सृजेः श्रद्धोपपन्ने कर्तरि कर्मवद्भावः, यग्विषये च श्यन्, चिण्विषये तु चिणेवेष्यते; सृज्यते मालां देवदतः, श्रद्धया निष्पादयतीत्यर्थः। श्यनि सति प्रकृतेराद्यौदातत्वं भवति, यकि तु सार्वधातुकानुदातत्वे यक एवोदातत्वं स्यात्-----असजि मालाम्, श्रद्धया निष्पादयति स्मेत्यर्थः। ठ्युजिर्ऽ---युज्यते ब्रह्मचारी योगेन॥ तपस्तपः कर्मकस्यैव॥ ३।१।८८ ॥ तपस्तपः कर्मकस्यैव॥ ठ्क्रियाभेदाद्विध्यर्थमिदम्ऽ इति वक्ष्यति। कथं तर्ह्येवकारस्यान्वय इत्याशङ्क्य वाक्यभेदेन व्याचष्टे---तप सन्तापे, अस्य कर्ता कर्मवद्भवति, स च तपः कर्मकस्यैवेति। एवकारस्य व्यवच्छेद्यं दर्शयति----नान्यकर्मकस्येति। एतच्च श्रुतस्यैवकारस्यान्वयो वक्तव्य इति मत्वोक्तम्, न पुनरस्य किञ्चित्प्रतोजनमस्ति। क्रियाभेदादिति। अत्यन्तभेदादित्यर्थः। नियमपक्षेऽपि क्रियाणां च भेदोऽपेक्षितः; तुल्यत्वस्य भेदाधिष्ठानत्वात्। क्रियाभेदमेव दर्शयति---उपवासादीनीति। दुः खयन्तीत्यर्थ इति। ठ्सुखदुःख तत्क्रियायाम्ऽ इति चुरादिपाठाण्णिच्। अनेन तापसस्य कर्मत्वे तपेर्दुः खनमर्थ इति दर्शितम्। अर्जयतीत्यर्थ इति। अनेनापि तापसस्य कर्तृत्वे तपेरर्जनमर्थ इति दर्शितम्। क्वचितु आर्जयतीति पाठः, तत्राङ्पूर्वस्य प्रयोगः। नन्वेमपि शरीरसन्तापलक्षणा क्रियाऽवस्थाद्वयोऽपि तुल्या, न हि शरीरसन्तापादन्यदर्जनं तापसस्य व्यापारः? तदसत्; वस्तुस्थित्या सतोऽपि शरीरसन्तापस्याशब्दार्थत्वात्, कथमन्यथा तपसः कर्मत्वम्! तस्मादर्जनमु निष्पादनम्, अलब्धस्य लाभः; दुःखं तु शरीरसन्ताप एवेति स्पष्ट एव क्रियाभेदः। विध्यर्थमेतदिति यदुक्तं तदेवोपसंहरति---पूर्वेणाप्राप्तः कर्मवद्भावो विधीयत इति। अतप्त तपस्तापस इति। ठ्तपोऽनुतापे चऽइति चिणः प्रतिषेधात्सिच्, ठ्झलो झलिऽ इति लोपः॥ न दुहस्ननमां यक्चिणौ॥ ३।१।८९ ॥ न दुहस्ननमां यक्चियौ॥ ठ्दुह प्रपूरणेऽ,ठ्ष्णु प्रस्रवणेऽ। ठ्टुअदु उपतापेऽ, ठ्हमे हसनेऽ,ठ्णु स्तवनेऽ इत्येतेषां तु ग्रहणं न भवति, नौतिहसत्योरकर्मस्थक्रियत्वात्। यदि च तेषां ग्रहणामिष्ट्ंअ स्यादसन्देहार्थम् ठ्न दुनुहस्नमाम्ऽ इत्येव ब्रूयात्, अवयवप्रसिद्धेश्च समुदायप्रसिद्धिर्बलीयसी। कर्मवद्भावापदिष्टाविति। एतेन ठनन्तरस्य विधिर्वा भवति प्रतिषेधो वाऽ इति कर्मवत्कर्मणेति प्राप्तयोर्यक्चिणोरयं प्रतिषेधः; न तु ठ्चिण् भावकर्मणोःऽ, ठ्सार्वधातुके यक्ऽइति शुद्धे कर्मणि भावे प्राप्तयोरिति दर्शयति। दुग्ध इति। यकि प्रतिषिद्धे शप्, तस्य अदादित्वाल्लुक्, ठ्दादेर्धातोर्घःऽ, ठ्झषस्तथोर्धोऽधःऽ जश्त्वम्। दुहिरयं द्विकर्मकः, तत्र ठप्रधाने दुहादीनाम्ऽ इति यस्मिन्कर्मणि लकारस्तस्य कर्तृत्वविवक्षा, प्रधानं तु कर्म कर्मैवेति, यथा----ठ्स्वयं प्रदुग्धेऽस्य गुणैरुपस्नुता वसूपमानस्य वसूनि मेदिनीऽ इति। अदुग्धेति। णिच् भावे क्सः, ठ्लुग्वा दुहऽ इत्यादिना तस्य लुक्। नन्विदानीमेवोक्तम्----ठ्दुहेरनेन यक् प्रतिषिध्यते, चिण् तु ठ्दुहेश्चऽ इति पूर्वमेव विकल्पितःऽ इति, तस्मान्नैतदत्रोदाहर्तव्यम्। प्रस्नुत इति। यकि प्रतिषिद्धे पूर्ववच्छपो लुक् प्रास्नोष्टेति। चिण्प्रतिषेधे सिच्। नमत इति। अन्तर्भावितण्यर्थोऽत्र नमिः। तत्र यथा नयमति दण्डं देवदतः, नमयते दण्डः स्वयमेवेति ण्यन्तस्य कर्मस्थक्रियत्वम्, एवमस्यापि द्रष्टव्यम्। णिश्रन्थिग्रन्थीत्यादि। णीति णिङे णिचश्च सामान्येन ग्रहणम्। ठ्श्रन्थ ग्रन्थ सन्दर्भेऽ चुरादावाधृषीयौ, तयोर्णिजभावपक्षे ग्रहणम्। तथा र्क्यादिष्वपि पठ।लेते तयोरपि ग्रहणम्। ठ्ब्रूञ् व्यक्तायां वाचिऽ। आत्मनेपदविधावकर्मका ये धातवो निर्द्दिष्टास्ते यदान्तर्भावितण्यर्थाः सकर्मका भवन्ति त इमे आत्मनेपदाकर्मकाः। वृतौ क्वचिदेषामुदाहरणानि पठ।ल्न्ते, क्वचिन्न। णिचि-----कार्यते कटः स्वयमेव, अचीकरत कटः स्वयमेव, यक्चिणोः प्रतिषिद्धयोः शप्चङै भवतः। णिङ्-----पुच्छमुदस्यति, उत्पुच्छयते गौः, स यदान्तर्भावितण्यर्थस्तदा उत्पुच्छयते गाम्। पुनः सौकर्यातिशयेन कर्तृत्वविवक्षायामुत्पुच्छयते गौः स्वयमेव, उदपुपुच्छत गौः स्वयमेव। श्रन्थिग्रन्थ्योराधृषीययोः-----ग्रन्थति ग्रन्थं देवदतः, श्रन्थति मेखलाम्, ग्रन्थते ग्रन्थः स्वयमेव, अग्रन्थिष्ट ग्रन्थः स्वयमेव; श्रन्थते मेखला स्वयमेव, अश्रन्थिष्ट मेखला स्वयमेव। क्रैयादिकयोस्तु----ग्रथ्नीते ग्रन्थः स्वयमेव, श्रथ्नीते मेखला स्वयमेव। ब्रञ्---ब्रवीति कथां देवदतः, ब्रूते कथा स्वयमेव। वचनं शब्दप्रकाशनफलत्वात्कर्मस्थम्। आत्मनेपदाकर्मक-----ठ्वेः शब्दकर्मणःऽ ठकर्मकाच्चऽ विकउर्वते सैन्धवाः, वल्गन्तीत्यर्थः। तान्यदाऽन्यो वल्गयति तदा तेषां कर्मत्वम्। पुनः सौकर्यातिशयात्कर्तृत्वविवक्षायाम्----विकुर्वते सैन्धवाः स्वयमेव, व्यकृषत सैन्धवाः स्वयमेव, यक्चिणौ न भवतः। क्वचितु बृतौ---आहन्ति माणवकम्, आहते माणवकः स्वयमेवेति पठ।ल्ते, तदयुक्तम्; आहन्ति माणवकमिति सकर्मकत्वादात्मनेपदाभावाच्च। अन्ये पुनराहुः-----आत्मनेपदाकर्मकेति धातुपलक्षणम्, हन्तिश्रायम् ठाङे यमहनःऽ इत्यत्र यदा कर्माविवक्षयाऽकर्मकस्तदात्मनेपदस्य निमितं स्यात्, तस्याद्यसकर्मकत्वेऽप्यविरुद्धमुदाहरणमिति। भूषाकर्मकिरादिसनां यक्चिणोः प्रतिषेधो वक्तव्यः। कर्मशब्दः क्रियावाची, भूषाफलं च शोभाख्यं कर्मणि द्दश्यत इति कर्मस्था भूषा। अलंकुरुते कन्या स्वयमेव, अलंकरिष्यते कन्या स्वयमेव, अलमकृत कन्या स्वयमेव; अवकिरते हस्ती स्वयमेव, अवाकीर्ष्ट हस्ती स्वयमेव, अवकरिष्यते हस्ती स्वयमेव----यक्चिण्चिण्वद्भावा न भवन्ति। सन्---मुमुक्षते वत्सः स्वयमेव, अमुमुक्षिष्ट वत्सः स्वयमेव; चिकीर्षते कटः स्वयमेव, अचिकीर्षिष्ट कटः स्वयमेव----प्रकृत्यर्थापेक्षमत्र कर्मस्थक्रियत्वम्, इच्छा तु कर्तृस्था। आर्थ च प्रकृत्यर्थस्य प्राधान्यम्; तदर्थथ्वादिच्छायाः॥ कुषिरजोः प्राचां श्यन् परस्मैपदं च॥ ३।१।९० ॥ कुषिरजोः प्रायां श्यन् परस्मैपदं च॥ यगात्मनेपदयोरपवादाविति। श्यन्यकोऽपवादः, परस्मैपदमात्मनेपदस्य। श्यन्यकोश्चात्र नुमिस्वरे च विशेषः----कुष्यन्ती जङ्घा, श्यनि ठ्शप्श्यनोर्नित्यम्ऽ इति नित्यं नुमागमः, नित्वाच्चाद्यौदातत्वं भवति; यकि तु ठाच्छीनद्योर्नुम्ऽ इति नुम्विकल्पः, लः सार्वधातुकानुदातत्वे च यक एवोदातत्वं स्यात्।रज्यतीति। ठनिदिताम्ऽ इति नलोपः। कुष्यते, रज्यते इति पक्षे यगात्मनेपदे भवतः। लिङ्लिटोरिति। आशिषि लिङ्त्र गृह्यते, यदुक्तम्---कुषैरजोः श्यन्विधाने सार्वधातुकवचनम्, अवचने हि लिङ्लिटोः प्रतिषेध इति। स्यादिविषये चेति। आदिशब्देन सिजादीनां ग्रहणम्। चुकुषे, ररञ्च इति। लिट्, आत्मनेपदम्, तस्य एशादेशः। कोषिषीष्टेति। ठ्लिङ्ः सौयुट्ऽ, ठ्सुट् तिथोःऽ लघूपधगुणः। रङ्क्षीष्टेति। ठेकाचःऽ इतीट्प्रतिषेधः, ठ्चोः कुःऽ इति कुत्वम् गकारः, तस्य चर्त्वम्ककारः। अकोषि, अरञ्चीति। चिण्॥ धातोः॥ ३।१।९१ ॥ धातोः॥ आ कुतोऽयमधिकारः किं प्राग्लादेशाद्? आहोस्विदाध्यायपरिसमाप्तेः? इति विचारे द्वितीयं पक्षमाश्रयति--आ तृतीयाध्यायपरिसमाप्तेरिति। एशः शित्करणात्, तद्धि धातोरित्यधिकारे सति ठ्तस्मादित्युतरस्यऽ ठादेः परस्यऽ तकारस्य स्थाने एत्वे सति अकारस्य स्थाने टेरेत्वे अयादेशे च सत्ययेशब्दस्य श्रवणं मा भूदित्येवमर्थ कियते। प्राग्लादेशात्पुनर्द्धात्वधिकारेऽलोऽन्त्यस्य विधयो भवन्तीति एकारस्यैकारवचने प्रयोजनं नास्तीति कृत्वान्तरेणापि शकारमन्त्येऽल्यनुसंहारं बाधित्वा सर्वादेशो भविष्यति, किं शकारेण! यद्याध्यायपरिसमाप्तेरयमधिकारः? आद्ये योगे न व्यवाये तिङ्ःस्युः, आद्ये योगे तिबादिसूत्रे येऽमी लावस्थायां स्यादयो विधीयन्ते तेषु कृतेषु तैर्व्यवधाने तिबादयो न स्युः। करिष्यति, हरिष्यति, कर्ता, शबादिषु तु न दोषः; तेषां सार्वधातुकाश्रयत्वादकृते लादेशे प्राप्त्यभावात्; तिबादयश्च तत्र सावकाशाः। न स्यादेत्वम्, टेष्टितां व्यवाय इत्येव---पचते यजते, क्व तर्हि स्यात्? आस्ते, शेते, धते, रुन्धे, बेभिदाते इत्यादौ यत्र न विकरणाः सन्ति। एशः शित्वम् ठ्लिटस्तझयोरेश्ऽ इत्ययमेश् शित्कर्तव्यः। एतच्चोपक्रम एव व्याख्यातम्। यच्च लोटो विधते तच्च विकरणव्यवाये न स्यात्---ठ्लोटो लङ्वत्ऽठेरुःऽ ठ्सेर्ह्यपिच्चऽ इत्यादि, पचतु, पचतमित्यादि, स्तौतु, जुहोतु, भिनतु, आस्तामित्यादावेव स्यात्। यच्चाप्युक्तं लङ्लिङेस्तच्च न स्यात्---ठ्नित्यं ङ्तिःऽ,ठितश्चऽ,ठ्तस्थस्थमिपां तान्तन्तामःऽ ठ्लिङ्ः सीयुट्ऽ ठ्यासुट् परस्मैपदेषूदातो ङ्च्चिऽ इत्यादि, तथा ठ्थासः सेऽ पचसे इत्यादौ न स्यात्? नैष दोषः; विहितविशेषणं विज्ञास्यते---धातोर्विहितस्य लोट इति। यद्येवम्, ठ्विदो लटो वाऽ इत्यत्रापि विदेर्द्धातोर्विहतस्य लटस्तिबादीनां णलादय इति विज्ञायमाने विन्दति, विन्दतः, विन्दन्तीति लाभार्थस्य विकरणेन व्यवायेऽपि णलादयः प्राप्तुवन्ति? न क्वचिद्धिहितविशेषणं धातुग्रहणमिति सर्वत्र तथा भवितव्यम्। अथ वात्र धातुना विहितं विशेषयिष्यामः, विदिनाऽऽनन्तर्यम्---धातोर्विहितस्य लटो विदेरनन्तरस्येति, ठ्सिजभ्यस्तविदिभ्यश्चऽ इत्यवापि धातुना विहितं विशेष्यते, अभ्यस्तेन चानन्तर्यम्---धातोर्विहितस्याभ्यस्तादनन्तरस्य ङितो झेइरिति; तेनाजक्षिष्यन्, अजागरिष्यन्नित्यादौ न भविष्यति। ठातःऽ इत्यत्र कथम्, यदि तावद्धातोर्विहितस्याकारादनन्तरस्येति, अलुनन् अपुनन् अत्रापि प्राप्नोति? अथ आकारान्ताद्वातोर्वेहितस्येति, अपिबन्नित्यत्र प्राप्नोति? अस्तु धातोर्विहितस्याकारादनन्तरस्येति, अलुनन् इत्यत्र लुना झि इति स्थिते ठ्श्नाभ्यस्तयोरातःऽ इति लोपे कृते आकाराभावान्न भविष्यति, नात्र लोपः प्राप्नोति? ठी हल्यघोःऽ इतीत्वेन बाध्यते। एवमप्याकारान्न भविष्यति? नात्रेत्वं प्राप्नोति, अन्तिभावेन बाध्यते? नात्रान्तिभावः प्राप्नोति, जूस्भावेन बाधनात्? तदेवं लोप ईत्वेन्, ईत्वमन्तिभावेन, अन्तिभावो जुस्भावेन, जुस्भावो लोपेन, लोप ईत्वेनेति लोप ईत्वेनेति चक्रकमव्यवस्था प्राप्नोति? नैष दोषः; आयन्नादिषूपदेशिवद्वचनादुपदेशकाल एव झस्यान्तिभावे कृते लोपः, लोपेन व्यवस्था। किं चात इत्यत्र सिज्ग्रहणमनुवर्तते---आकारान्तात्सिज्लुगन्तादिति, तेन न क्वाप्यनिष्टप्रसङ्गः। तदेवमाध्यायपरिसमाप्तेर्धात्वधिकार इति स्थितम्। वक्ष्यति तव्यतव्यानीयर इति। किं च स्यात् यदि तव्यादिविधो धातोरितित नानुवर्तेत ङ्याप्प्रातिपदिकादपि तव्याद्यः स्युः? साधने तव्यादयो विधीयन्ते, साधनं च क्रियायाः। क्रियाया अभावात्साधनाभावः, साधनाभावाद् ङ्याप्प्रातिपदिकातव्यादयो न भविष्यन्ति। कथं तर्हि कर्मादिषु विधीयमाना द्वितीयादयो भवन्ति, नैव प्रातिपदिकार्थस्य साधने द्वितीयादयः, किं तर्हि? शब्दान्तरवाच्यक्रियापेक्षे तस्यैव कर्मादिभावे; तव्यादयस्तु प्रकृतिवाच्यक्रियापेक्षे साधने चरितार्था न ङ्याप्प्रातिपदिकाद्भविष्यन्ति? इदं तर्हि प्रयोजनम्----सत्याणवयेत्यादयो येऽपभ्रंशाः क्रियावचनास्तेभ्यस्तव्यादयो मा भून्निति; न हि ते धातवः, भूवादिपाठाश्रयत्वाद्धातुसंज्ञायाः। किञ्च, सोपसर्गाल्लङदयो मा भूवन्निति धात्वधिकारः क्रियते; अन्यथा प्राकरोत, प्रास्थित, अध्यैष्टेति धातूपसर्गसमुदायस्य विशिष्टक्रियावचनत्वाततः प्रत्ययविधावङ्गसंज्ञायामडादिप्रसङ्गः। चोदयति----धातुग्रहणमनर्थकम्, यङ्विधौ धात्वधिकारादिति। ठ्धातोरेकाचःऽ इत्यत्र यङ्विधौ धात्वधिकारादिति ठ्धातोरेकाचःऽ इत्यत्र यङ्विधौ यद्धातुग्रहणं तस्येहाधिकारादित्यर्थः। परिहारति-----कृदुपपदसंज्ञार्थ त्विति। एतदेव व्याचष्टे----अस्मिन्निति। अस्मिन्नेवेत्यवधारणं द्रष्टव्यम्। तद्दर्शयति---पूर्वत्र मा भूतामिति। असत्यस्मिन्नधिकारे धात्वधिकारे यत्सप्तम्या निर्द्दिष्ट्ंअ तदुपपदमित्येतावानर्थः स्यात्, ततश्च पूर्वत्रापि स्यात्-----ठ्च्लि लुङ्ऽ लुङ्न्ति उपपदे च्लिरिति। एवं कृत्संज्ञापि धातोर्विहितस्यातिङे भवतीति पूर्वत्रापि स्यात्, ततश्च करिष्यतीत्यत्र स्यप्रत्ययस्य कृत्संज्ञायां कृदन्तं प्रातिपदिकमिति प्रातिपदिकत्वे सति तिङेक्तेऽप्येकत्वे वचनग्रहणादेकवचनस्य चोत्सर्गत्वात्सोरुत्पत्तिः प्रसज्येत। तस्मादस्मिन्धात्वधिकारे यथा स्यातां पूर्वत्र मा भूतामिति पुनर्द्धात्वधिकारः क्रियते। ननु चाधिकारेण ते संज्ञे विधास्येते, प्रत्ययसंज्ञा च तत्र, ते पूर्वत्र भविष्यत इत्याशंक्य प्रयोजनान्तरमाह----आर्द्धधातुकसंज्ञार्थे चेति। कः पुनरार्द्धधातुकसंज्ञायां द्वितीयधातुग्रहणस्योपयोग इत्यत आह----धातोरित्येवं विहितस्येति। लूभिरिति। अत्र सत्यपि प्रातिपदिकत्वे धातुत्वमप्यस्ति; पूर्वप्रवृताया धातुसंज्ञाया अनिवर्तनात्। ततश्च धातोरेवायं विहित इति आर्धधातुकसंज्ञा स्यादेव। यदि तु शमिधातोरित्यत्र धातुग्रहणस्य द्वितीयस्यार्द्धधातुकसंज्ञार्थं स्वरितत्वं प्रतिज्ञायेत, अयमप्यधिकारः शक्योऽकर्तुम्। वासरूपविधिरप्यधिकारेण सिद्धः, तेन क्सादिभिः सिचः समावेशो न भविष्यति॥ तत्रोपपदं सप्तमीस्थम्॥ ३।१।९२ ॥ तत्रोपपदं सप्तमीस्थम्॥ ठ्सप्तमोस्थम्ऽ इत्यस्यार्थमाह--सप्तम्या निर्दिष्टमिति। सप्तम्या विभक्त्योच्चारितमित्यर्थः। सप्तम्यन्तेन पदेन प्रिपादितमिति वा। अस्मिन्पक्षे सूत्रे सप्तमोशब्देन सप्तम्यन्तमुच्यते। सप्तम्यन्तेपदे कर्मणीत्यादौ प्रतिपाद्यत्वेन स्थितं कुम्भादिकमित्यर्थः। प्रथमे तु पक्षे कमणीत्यादेर्यः सप्तम्या निर्देशः, स एव कुम्भमित्यादेरपि प्रयोगगतस्य सप्तम्या निर्देशः, यथा----ठ्तस्यापत्यम्ऽ इत्यादौ तस्येति सामान्यं विशेषापलक्षणार्थमिति तदोयमेव प्राथम्यं विशेषाणामपि भवति, तद्वदत्रपि। कुम्भकार इति अत्रोपपदत्वात्समासः, कृदुतरपदप्रकृतिस्वरत्वं च भवति। स्थग्रहणमित्यादि। सूत्रेषु यः सप्तम्या विभक्त्या निर्देश उच्चारणं सप्तम्यन्तेन वा पदेन प्रतिपादनं तदेव संज्ञाङ्गमिति प्रतिपत्यर्थमित्यर्थः। ननु सप्तमीशब्देन साहचर्यात्सूत्रादिषु सप्तम्या निर्दिष्ट्ंअ ग्रहीष्यते, नार्थ एतदर्थेन ग्रहणेन? तत्राह----अन्यथा हीति। मुख्यार्थसम्भवे गौणस्याग्रहणात् सप्तम्या एव संज्ञास्यात्; संज्ञाविधौ प्रत्ययग्रहणे तदन्तविधिप्रतिषेधात्। न चासतस्संज्ञिनः संज्ञाशक्या विधातुमिति यत्र सप्तमी श्रूयते तत्रैव स्यादित्यर्थः। स्तम्बेरम इति। ठ्स्तम्बकर्णयोरमिजपोःऽ इत्यच्, ठ्तत्पुरुषे कृति बहुलम्ऽ इत्यलुक्। यत्र वेति। यत्र सूत्रे सप्तमीश्रुतिः, सप्तमीशब्दस्य श्रवणमित्यर्थः। अशब्दसंज्ञेति स्वरूपग्रहणप्रतिषेधादभ्युपगम्यवादोऽयम्, सर्वथेष्ट्ंअ सिध्यतीत्यत्र तात्पर्यम्। स्थग्रहणात्विति। स्थग्रहणे सति सौत्रसप्तम्युपलक्षितस्य संज्ञाविधानात्सर्वत्र सिध्यतीत्यर्थः। ननु च लघ्वर्थ संज्ञाकरणम्, तत्किमर्थ गुर्वी संज्ञा क्रियत इत्यत आह----गुरुसंज्ञाकरणमिति। ठुपोच्चारितं पदमुपपदम्ऽ---इत्येवमर्थानुगता संज्ञा अन्वर्थसंज्ञा। समर्थपरिभाषाव्यापारार्थमिति। इह यदा स्वार्थद्रव्यलिङ्गात्मकस्त्रिकः। प्रातिपदिकार्तः, तदा नान्तरेण विभक्रिं कर्माधिकरणाद्यौपपदमुपपद्यत इत्यवश्यमुत्पाद्या विभक्तिरिति पदविधित्वादेव सिद्धः परिभाषाव्यापारः, पञ्चकपक्षेऽपि तु प्रातिपदिकस्यैव कर्माद्यभिधायित्वेन पदविधित्वाभावात्परिभाषाव्यापारो न स्यादित्यन्वर्थया संज्ञया बलात्प्रवर्त्यते? नैतदस्ति; पञ्चकपक्षेऽपि विभक्युत्पत्या पदत्वे सत्येव प्रत्यय इति प्रतिपादनात्। ननु ठ्गतिकारकोपपदानां कृद्भिः सह समासवचनं प्राक् सुबुत्पतेःऽ इति वचनात्कथमुपपदस्य मुबन्तत्वम्----सामि स्मर्ता भवान्? ठुपपदमदिङ्ऽ इत्यत्र हि सुपेति तृतीयान्तमेव निवृतम्, सुबिति प्रथमान्तमनुवर्तत इत्यवोचाम, कथमपरथा चर्मकारादौ नलोपादि स्यात्! पश्य कुम्भं करोति कटमिति। धातोरिति वर्तते, कर्मादिशब्दाश्च सम्बन्धिशब्दाः, तत एवं विज्ञास्यामः----यस्य धातोर्यत्कर्मेति। एवमपि महान्तं कुम्भं करोतीत्यत्र प्राप्नोति? न वा भवति; धातोर्यत्कर्मेति। एवमपि महान्तं कुम्भं करोतीत्यत्र प्राप्नोति? न वा भवति; महाकुम्भकार इति भवति, यदेतद्वाक्यम्----महान् कुम्भो महाकुस्भः महाकुम्भं करोतीति। यदा त्वेतद्वाक्यम्-----महान्तं कुम्भं करोतीति, तदा नेष्यते। किं च स्याद् यद्यत्र स्यात्? कुम्भशब्दस्य कारशब्देन समासे कृते तदर्थ एकार्थीभावात् महच्चब्देन समासो न स्याद्, अन्वर्थत्वादेव संज्ञायाः सप्तमीनिर्दिष्टत्वेऽपि प्रकृत्यर्थविशेणातद्विशेषणानां च उपोच्चारितपदत्वाभावादुपपदसंज्ञा न भवति। अथ तत्र---ग्रहणं किमर्थम्? धात्वधिकारः प्रतिनिर्दिश्यते------तत्रैतस्मिंस्तृतीये धात्वधिकार इति। नैतदस्ति प्रयोजनम्, अधिकारादप्येतत्सिद्धम्? इदं तर्हि प्रयोजनम्---सप्तमीस्थस्य प्रत्ययोत्पतिं प्रति निमितत्वं यथा स्यादिति, कथम्? प्रत्यय इति वर्तते---सप्तमीस्थमुपपदसंज्ञं भवति, तत्र चोपपदे सत्येव प्रत्यय इति। अथ कर्मणीत्यादिका सत्सप्तमी, तत्कुतोऽसत्युपपदे प्रत्ययप्रसङ्गः? न; कर्मणीत्यादिका सौत्री स्पतम्यर्थापेक्षा, तथा हि सत्यण्प्रत्ययस्याभिधेयं कर्म स्यात्----यथा---ठ्धः कर्मणि ष्ट्रन्ऽ इति, तथा चोपपदत्वं न प्रतीयेत, अतो यथेत्संज्ञार्थमनुनासिकत्वं प्रतिज्ञायते तथार्थनिरपेक्षा केवलमुपपदसंज्ञाया लिङ्गं सप्तमी, तथा न छातोरण् भवति कर्म चोपपदमित्येतावानर्थः स्यात्। कर्मणः प्रत्ययोत्पतिं प्रति निमितत्वं न प्रतीयेत, तस्मातदर्थं तत्र---ग्रहणम्, किमिदानीं हेय एवायं ग्रन्थस्तत्रैतस्मिन्धात्वधिकार इति? न ब्रूमो हेय इति, सोपस्कारस्तु भवति---एत---स्मिन्धात्वधिकारे यत्सप्तम्या निर्दिष्ट्ंअ तदुपपदसंज्ञं भवति, तत्र च सति प्रत्यय इति॥ कृदतिङ्॥ ३।१।९३ ॥ कृदतिङ्॥ तिङ्वर्जित इति। तिङ्त्वेन त्यक्तस्तिङ्त्वेन रहितः, तिङेऽन्य इति यावत्। अतिङिति किमिति। इह क्रियमाणोऽप्ययं प्रतिषेधः स्वाश्रयामेव तिङ्ः कृत्सञ्ज्ञं बाधीतुं प्रभवति, न तु लकारस्य कृत्वात्स्थानिवद्भावेन प्राप्ताम्; ठनन्तरस्य विधिर्वा भवति प्रतिषेधो वाऽ इति वचनादिति मत्वा प्रश्नः। तिङ्भाविनो लकारस्यैव कृतसञ्ज्ञा प्रतिषिद्ध्यते, प्रतिषेधसामर्थ्याद्वा स्थानिवद्भावो न भविष्यतीत्युतरम्। चीयात्स्तूयादिति। ननु च ज्ञापकादेतत्सिद्धम्, यदयम् ठकृत्सार्वधातुकयोःऽ इति पृथक् सार्वधातुके प्रतिषेधं शास्ति, तद् ज्ञापयति----अकृदिति प्रतिषेधो न तिङ्क्षु भवतीति। यदि स्यात्; चिनुयात्, सुनुयादित्यादौ सार्वधातुकेऽपि कृत्प्रतिषेधादेव दीर्धो न भविष्यति, किं पृथक् सार्वधातुकपर्युदासेन! इह तर्हि पचति, पठति----ठ्ह्रस्वस्य पिति कृति तुक्ऽ इति तुङ् मा भूदिति? तुग्विधौ धात्वादेरित्यतो धातुग्रहणमनुवर्तिष्यते। एवमपि---चिकीर्षति, जिहीर्षतीत्यत्र प्राप्नोति? शपा व्यवधानान्न भविष्यति। एकादेशे कृते नास्ति व्यवधानम्? ठेकादेशः पूर्वविधौ स्थानिवद्भवतिऽ इति व्यवधानमेव। नात्र स्थानिवद्भावः प्राप्नोति; परत्वादन्तवद्भावेन बाद्ध्यते। तस्माच्चिकीर्षतीत्यादौ तुङ्मा भूदित्यतिङिति प्रतिषेधः कर्त्तव्यः। किञ्च, तिङ्न्तस्य कृदन्तं प्रातिपदिकमिति प्रातिपदिकसंज्ञायां पचेरन्---नलोपः प्राप्नोति, पपाच ब्राह्मणी-----टाप्प्राप्नोति, सर्वत्र च स्वद्यौत्पतिः प्रसज्येत, तदेतदस्मादन्यार्थादतिङिति प्रतिषेधादेव सिद्धे चीयादित्यादौ ज्ञापकं नाश्रयितव्यमिति वृत्तिकारो मन्यते स्म॥ वाऽसरूपोऽस्त्रियाम्॥ ३।१।९४ ॥ वाऽसरूपोऽस्त्रियाम्॥ ठसरूपःऽ इति पदच्छेदः, अन्यथा लाधवे विशेषाभावलादसन्देहर्थ ठ्सरूपोऽस्त्रियां वाऽ इति ब्रूयात्। अपवादविषयेऽपि केषाञ्चित्कृतां प्रवृत्तिर्यथा स्यादित्येवमर्थमिदं वचनम्। यथोक्तम्-----असरूपस्य वावचनमुत्सर्गस्य बाधकविषये निवृत्यर्थमिति। परिभाषा चेयम्, अस्मिन्धात्वधिकारे स्त्र्यधिकारव्यतिरेकेण यान्यसरूपस्यापवादस्य विधायकानि शास्त्राणि तच्छेषभूता, तत्र तत्र वचने क्रियमाणे गौरवं स्यादिति साधारणरूपेण परिभाष्यते। तत्र च ठसरूपःऽ इति व्यर्थ कृण्मात्रस्य विकल्पने सर्वस्यैवासरूपत्वाद्यत्किञ्चित्कृदपेक्षया; असरूपपदं चैतत्सापेक्षं प्रतियोगिनि यतोऽत्र भिन्नरूपत्वमसरूपत्वमित्यते। केनचिद्धि किञ्चित्सरूपमसरूपं वा भवति, तत्र केनासरूप इत्यपेक्षायां स्वविधानवेलायां यः स्वस्मिन्विषये प्राप्तः स एव बुद्धिस्थः प्रतियोगी गम्यते, अपवादविधानसमये चोत्सर्गः, तमपि विषयमवागाऋढुअमुढौकमान उपारूढो बुद्धौ भवतीति तदपेक्षया भिन्नरूपोऽपवाद एवात्रासरूपो विवक्षित इत्याह---असरूपोऽपवादप्रत्यय इति। एवं स्थिते यद्ययमुत्पत्तिविकल्पस्स्याद्, अपवादप्रत्ययो वा भवतीति, ततः स्वविषये कामं विकल्पस्तस्य लभ्यते, न तूत्सर्गः प्रवर्तेत। तत्रातद्विषयो ह्यसौ, उत्सर्गापवादशास्त्रयोर्हि प्रमितिव्यापारे पर्यवसिते पश्चादियमत्रैव प्रदेशेस्थिताऽपवादस्य पक्षे प्रवॄति प्रतिबध्नाति। अपवादशास्त्रेण यः स्वीकृतो विषयस्तद्व्यतिरिक्तविषया सामान्यशास्त्रस्य प्रमितिरित्यपवादस्याप्रवृतावपि नैवोत्सर्गस्य तस्मिन्विषये प्रमितिः प्रवृत्तिर्वोपपद्यते, तद्धितवत्; तद्यथा----दक्षस्यापत्यम् अत इञि विकल्पिते पक्षेऽण् न भवति, अपि तु वाक्यमेव भवति, तत्कस्य हेतोः? ठ्समर्थानां प्रथमाद्वाऽ इति तटस्थेन पक्षे प्रवृत्तिर्निरुद्ध्यते, न पुनरेकवाक्यतया प्राप्तिरेव विकल्परूषितेति, तथेहापीति। अपवादाभावपक्षे प्रकृतिरेव कर्त्राद्यभिधानायानुज्ञाता स्याद्, यथाग्निचिदित्यादौ क्विबादिलोपे, तदाह---तत्रोत्पतिर्वा प्रसङ्गो यथा तद्धित इति। तमिममुत्पत्तिविकल्पपक्षे दोषं द्दष्ट्वा बाधकत्वं विकल्प्यत इत्याह---वाबाधको भवतीति। उक्तं च ठ्सिद्धं त्वसरूपबाधकस्य वावचनात्ऽ इति, असरूपो वा बाधको भवतीति वक्तव्यमित्यर्थः। ननु तत्रतत्रोच्यते---यत्रान्यत्क्रियापदं न श्रूयते तत्रास्तिर्भवतिपर इति, ततश्चासरूपो वेत्युक्ते भवतीत्येवाध्याहारो युक्तः, न पुनर्वा बाधक इति? उच्यते---उत्पत्तिविकल्पस्य प्रयोजनं केवलायाः प्रकृतेः प्रयोगः, केवला च प्रकृतिः स्वार्थमात्रमभिधातुमसमर्था, किं पुनः कर्त्रादिकमभिधास्यति! प्रकृतिप्रत्ययसमुदाये हि प्रयुज्यमानेऽन्वयव्यतिरेकाभ्यामयं प्रकृत्यर्थः, अयं प्रत्ययार्थ इति व्यवस्थाप्यते; अनुत्पन्नप्रत्यया तु प्रकृतिर्न कञ्चिदप्यर्थ गमयति। प्रयोगोऽपि हि तस्या दुर्लभः; परश्चेति नियमात्। तद्धिते त्वनुत्पत्तिपक्षेऽप्युत्सर्गप्रवृत्तिव्यतिरेकेण प्रत्ययान्तरमस्ति षष्ठी, इह तु न तथेति सामर्थ्याद्वहिरङ्गमपि बाधकत्वमपि कल्प्यते। ननु चच शास्त्रं शास्त्रेण बाद्ध्यते, न पुनः कार्य कार्येण, निदानोच्छेदेनैव हि निदानिन उच्छेदः शक्यते कर्तुम्, न हि प्रदीपेऽनुच्छिन्ने तत्प्रकाश उच्छिद्यते, तत्किमुच्यते---अपवादप्रत्यय इति, एवं तु वक्तव्यम्----अपवादशास्त्रमिति? उच्यते----सर्वस्यैवापवादशास्त्रस्य स्वगतमसारूप्यमव्यभिचारीति प्रत्ययद्वारकं तदाश्रयणीयमित्यपवादप्रत्यय इत्युक्तम्। एवम्भूतस्य प्रत्ययस्य विधायकं शास्त्रमित्यर्थः। यद्वा----प्रत्ययस्य बाधकत्वविकल्पसामार्थ्याच्छास्त्रमपि पक्षे बाधकं भविष्यति। अथ वा वृतौ वस्तुमात्रं दर्शितम्; यथा त्वयमर्थ उपपद्यते तथा सूत्रं व्याख्येयम्। तत्रेदं व्याख्यानम्---परिभाषेयमित्युक्तम्, तत्रेक्परिभाषावदियमपि पदमुपस्थापयति----अस्मिन्धात्वधिकारे यत्रासरूपोऽपवादप्रत्ययो विधीयते तत्र वेत्युपतिष्ठते, स्त्र्यधिकारे तु नेति। किं कृतं भवति? ठ्ददातिदधात्योर्विभाषाऽ इत्यादिवत् प्रमितिरेव विकल्परूषिता भवति, ततस्तद्वदेवोत्सर्गस्य प्रवृत्तिसिद्विरिति। अथ ठसरूप उत्सर्गप्रत्ययोऽपवादविषये वा भवतिऽ इति विज्ञायमाने को दोषः? न खलु कश्चिद्दोषः; अपवादविकल्पे प्राप्ते विभाषा, उत्सर्गविकल्पे त्वप्राप्तविभाषेति, किन्तु प्रतियोग्यपेक्षमसरूपपदमप्यपवादमेव गोचरयतीत्युक्तम्। ठस्त्रियाम्ऽ इत्यत्र पक्षत्रयं सम्भवति---अभिधेयसप्तमी वा स्यात्---स्त्रियामभिधेयायां वासरूपो न भवतीति, स्त्रियामित्येव वा विहितस्यासरूपस्य निषेधः स्यात्---स्त्रियामित्युच्चार्य ये विधीयन्ते ते नेति, स्त्रीग्रहणं वा स्वर्यते स्वरितेनाधिकारावगतिर्भवतीति---स्त्रियां क्तनिन्नित्यस्मिन्नधिकारे नेति। तत्राद्ये पक्षे विक्षिपा, विक्षोपिका, विक्षेप्तेति कविषये ण्वुल्तृचौ न स्याताम्। द्वितीये तु ठ्कर्मव्यतिहारे णच् स्त्रियाम्ऽ व्यावक्रोशी, व्यावक्रुष्टिरिति णयो विषये क्तिन् न स्यात्, द्वयोरपि स्त्रियामित्युच्चार्य विधानादिति, ममाद्ययोः पक्षयोर्दोषं द्दष्ट्वा तृतीयं पक्षमाश्रित्याह----स्त्र्यधिकारविहितप्रत्ययं वर्जयित्वेति। केचिदाहुः----अपवादप्रत्ययं वर्जियित्वेति वक्तव्ये प्रत्ययं वर्जयित्वेति वचनं प्रत्ययमात्रपरिग्रहार्थम्, तेनोत्सर्गापवादयोर्द्वयोरपि स्त्र्यधिकारनिवेशिनोरयं प्रतिपेधः। किं सिद्धं भवति? आसना, आस्या-----स्त्र्यधिकारविहितेनापि युचापवादेन ऋहलोर्ण्यतः समा वेशः सिद्धो भवति। घञस्तु क्तिन्नादिभिरनभिधानादसमावेश इति। अन्ये तु----अपवादो वा बाधको भवतीति प्रकृतत्वात्स एवात्र प्रत्यय इति व्याचक्षते, तेन घञः क्तिन्नादिभिरसमावेशः। आस्येत्यत्र कृत्यल्युटो बहुलमिति ण्यदिति। ण्वुल्तृचावुत्सर्गाविति। चावुत्सर्गाविति। धातुमात्रे विधानात्। इगुपघज्ञाप्रीकिरः क इत्यपवाद इति। धातुविशेषे विधानात्। किं पुनः प्रयोगगतमसारूप्यम्? आहोश्विदुपदेशगतम्? किं चातः? प्रयोगे लादेशेषु प्रतिषेधः----ह्यएऽपचदित्यत्र लुङपि प्राप्नोति, प्रयोगे ह्यसरूपत्वात्, लङ्यनच्कस्तकारः प्रत्ययः लुङ् इपाक्षीदितीच्छब्दः; श्वः कर्तेत्यत्र लृडपि प्राप्नोति? ज्ञापकात्सिद्धम्, यदयम् ठ्हशश्वतोर्लङ् चऽ इति लिड्विषये लण्ंó शास्ति, तज् ज्ञापयति----न लादेशेषु वासरूपविधिरिति। एवमपि ग्रामणीः, ग्रामनाय इति क्विबादिविषयेऽणादयो न स्युः, न हि क्विबादयः प्रयोगे रूपवन्तः, लोपविधानातेषाम्। तस्मादुपदेशगतमसारूप्यम्। यद्येवम्, अनुबन्धभिन्नेषु विभाषाप्रसङ्गः, काणोरपि ह्युपदेशे भिन्नं रूपम्, प्रयोगे तु समानम्, तत्राह---नानुबन्धकृतमिति। अनुबन्धानामनेकान्तत्वातत्कृतमसारूप्यं नाश्रीयते, तथा च ठुदीयां माङ्ःऽ इति श्रूयमाणेऽपि ङ्कारे तस्यानेकान्तत्वादव्याहतमेजन्तत्वमित्यात्वं प्रयुक्तम्। ठ्ददातिदधात्योर्विभाषाऽ इति विभाषाग्रहणं च लिङ्गमस्यार्थस्य; अन्यथाऽनुबन्धकृतादसारूप्यादेव शविषये णो भविष्यतीति किं तेन! इह क्तल्युट्तुमुन्खलर्थेषु वासरूपवधिः प्राप्नोति। हसितं छात्रस्य शोभनं हसनं छात्रस्य, अत्र क्तल्युडविषये घञपि प्राप्नोति। तुमुन----इच्छति भोक्तुम्, अत्र ठिच्छार्थेषु लिङ्लोटौऽ इति लोट् प्राप्नोति, तुमुना च बाध इष्यते, लिङ् तु ठ्लिङ् चऽ इति वचनाद्भवात्येव। यद्येवम्, अस्मादेव नियमाल्लोडपि न भविष्यति। कलर्थ----आतो युच्ऽ ईषत्पानः, अत्र खलपि प्राप्नोति। ननु स्त्र्यधिकारे तावदस्त्रियामिति प्रतिषेधादस्याप्रवृत्तिः परस्तादपि विच्छिन्नत्वादेव न भविष्यति? स्यादेतदेवम्, यद्ययमधिकारः स्यात्, परिभाषा त्वेषेत्युक्तम्। इष्यते च स्त्र्यधिकारादूर्ध्वमपि वासरूपविधिः-----आसित्वा भुङ्क्ते,आस्यते भोक्तुमित्यपि यथा स्याद्; अन्यथा भोजनार्थत्वादासनस्य पौर्वकाल्यमवगम्यते तुमर्थाधिकाराद्भावे क्त्वाप्रत्ययस्तत्रैव च लकार इति समानविषयत्वाद्वाध्यबाधकभावः स्यात्। तथा कालो भोक्तुम्, कालो भोजनस्य---मुमुना ल्युटो बाधः स्यात्। तस्मात् स्त्र्यधिकारस्य परस्तादपि वासरूपविधिरेषितव्यः, ठर्हे कृत्यतृचश्चऽ इत्यत्र कृत्यतृज्ग्रहणं ज्ञापकम्---स्त्र्यधिकारस्य परस्तादनित्यैषा परिभाषेति। तस्मात् क्तल्युट्तुमुन्खलर्थेषु प्रतिषेधो।वक्तव्य एव॥ कृत्याः प्राङ् ण्वुलः॥ ३।१।९५ ॥ कृत्याः प्राङ् ण्वुलः॥ ण्वुलतृचाविति वक्ष्यतीति। ठ्रोगाख्यायां ण्वुल् बहुलम्ऽ मित्ययं त्ववधिर्न भवति; ठर्हे कृत्यतृचश्चऽ इति पृथक् तृचो ग्रहणात्। यद्येवम्, ठ्प्राङ् ण्वुलःऽ इति न वक्तव्यम्, ठ्कृत्याःऽ इत्येवास्तु, तृज्ग्रहणादेव ज्ञापकात्परतोऽनुवृत्तिर्न भविष्यति, योगापेक्षं च ज्ञापकम् ठ्ण्वुल्तृचौऽ इत्यस्माद्योगात्प्राक् कृत्यसञ्ज्ञाधिकार इति? सत्यम्; ठ्कृत्याःऽ इत्येतावदेव पठितं सूत्रकारेण। वृत्तिकारस्तु, भाष्ये पूर्वपक्षरूपेण पठितं सूत्रे प्रचिक्षेप। विचित्रा हि वृतेः कृतिर्वृत्तिकारेण! ठ्कृत्याःऽ इति बहुवचनमनुक्तसमुच्चयार्थम्, तेन ठ्केलिमर उपसङ्ख्यानम्ऽ इत्यादि नोपसंख्येयं भवति॥ तव्यतव्यानीयरः॥ ३।१।९६ ॥ तव्यतव्यानीयरः॥ वसेरिति। ठ्वस निवासेऽ इत्यस्य ग्रहणम्, न तु ठ्वस आच्छादनेऽ इत्यस्य लुग्विकरणस्य। ठ्तयोरेव कृत्यक्तखलर्थाःऽ इति वचनात्कर्तरि न प्राप्नोतीति वचनम्, णिद्वद्भावार्थं च। वास्तव्य इति। तद्वितान्तो वा पुनरेषभविष्यति, वास्तुनि भावो वास्तव्यः, दिगादित्वाद्यत्। अवास्तव्य इत्यत्र स्वरभेदो नास्ति, ठ्कृत्योकेष्णुच्ऽ इति यदन्तोदातत्वं तदेव ठ्ययतोश्चातदर्थेऽ इत्यनेन भविष्यति। केलिमर इति। ककारो गुणवृद्धिप्रतिषेधार्थः, रेफस्स्वरार्थः। कर्मकर्तरि चायमिष्यत इति। भाष्ये तु ठ्पचेलिमा माषाः, पक्तव्याः; भिदेलिमास्सरलाः, भेतव्याःऽ इति शुद्धे कर्मणि प्रदर्शितम्॥ अचो यत् ॥ ३।१।९७ ॥ अचो यत्॥ अज्ग्रहणं किमिति। पूर्वसूत्र एव यद्ग्रहणं कर्तव्यमिति प्रश्नः। यावतेत्यादि। द्वये हि धातवः----अजन्ताः, हलन्ताश्च। तत्र हलन्ताद् ण्यतं वक्ष्यति, अतः पारिशेष्यादजन्तादेव यद्भविष्यतीत्यभिप्रायः। अजन्तभूतपूर्वादपीति। पूर्व भूतो भूतपूर्वः सुप् सुपाऽ इति समासः, अजन्तश्चासौ भूतपूर्वश्च अजन्तभूतपूर्वः। दित्स्यं धित्स्यमिति। दाञो धाञश्च सन्, द्विर्वचनम्, ठ्सनिमीमाघुऽ इत्यादिना इस, ठ्सः स्यार्द्धधातुकेऽ इति तत्वम्, ठत्र लोपोऽभ्यासम्यऽ दित्स धित्स इति स्थिते, अनुत्पन्न एवार्द्धधातुके बुद्धिस्थे एवातो लोपे कृते सम्प्रत्ययं कृते सम्प्रत्ययं हलन्त हि ण्यत् स्याद्; अज्ग्रहणातु भूतपूर्वमजन्तत्वमाश्रित्य यद्भवति। तेन ठ्यतोऽनावःऽ इत्याद्यौदातत्वम्, ण्यति तु तित्स्वरितं स्यात्। चिकीर्ष्यमित्यादौ तु ण्यद्यतोर्विशेषाभावः। ठ्यतोऽनावःऽ इत्यत्र हि ठ्द्व्यचःऽ इति वर्तते। यदा त्वाद्धंधातुके परतो लोपः, तदैतदज्ग्रहणं न कर्तव्यमेव। तकिशसीत्यादि। ठ्तकि हसनेऽ,ठ्शसु हिसायाम्ऽ,ठ्चते चदे याचनेऽ,ठ्यती प्रयत्नेऽ,ठ्जनी प्रादुर्भावेऽ,ठ्यतोऽनावःऽ इति स्वरार्थ जनेर्यद्विधानं जन्यमिति रूपम्, न तु ण्यतापि सिद्धम्; ठ्जनिवध्योश्चऽ इति वृद्धिप्रतिषेधात्। शसिमपि केचित्पठन्ति-----तद्वा नाराशंस्यं राद्व्यं च। हनो वा वध चेति। हन्तेर्वा यत्प्रत्ययो भवति, तत्सन्नियोगेन च वधादेशः। वध्यमिति। तद्धितान्तो वा पुनरेष भविष्यति---वधमर्हतीति वध्यः, ठ्दण्डादिभ्यःऽ इति यत्।यदि तद्धितः, समासो न प्राप्नोति---असिवध्यः, मुसलवध्य इति, कृति पुनः सति ठ्कॄतृकरणे कृता बहुलम्ऽ इति समासः सिद्धो भवति। घात्यमिति। ठ्हनस्तोचिण्णलोःऽ इति तत्वम्, ठ्हो हन्तेर्ञ्णिन्नेषुऽ इति कुत्वम्॥ पोरदुपधात् ॥ ३।१।९८ ॥ पोरदुपधात्॥ पाक्यं वाक्यमिति। ठ्चजोः कु घिण्ण्यतोःऽ इति कुत्वम्। कोप्यं गोप्यमिति। ठ्कुप कोपनेऽ, ठ्गुप व्याकुलत्वेऽ। आप्यमिति। ठाप्लृ व्याप्तोऽ एषु त्रिषु ठ्यतोऽनावःऽ इत्याद्यौदातत्वं न भवति, तित्स्वरित एव तु भवति॥ शकिसहोश्च॥ ३।१।९९ ॥ शकिसहोश्च॥ शक्लृ शक्ताविति। उपलक्षणमेतत्, ठ्शक विभाषितो मर्षणेऽ इत्यस्यापि ग्रहणम्। षह मर्षण इति। ननु ठ्षह शक्यर्थेऽ इत्यस्यैव परस्मैपदिनोऽननुबन्धकस्य ग्रहणं प्राप्तम्, नैष दोषः; प्रत्ययविधिविषयत्वादननुबन्धकपरिभाषायाः, तस्माद् द्वयोरपि ग्रहणम्। अन्ये तु ठ्कृत्यल्युटो बहुलम्ऽ इति वृत्तिकारोक्तयोरेव ग्रहणमिच्छन्ति॥ गदमदचरयमश्चानुपसर्गे॥ ३।१।१०० ॥ गदमदचरयमश्चानुपसर्गे॥ अनुपसर्गेम्य इति। सूत्रे ठनुपसर्गेऽ इति व्यत्ययेन पञ्चम्यर्थे सप्तमीति भावः। अत एवोपसर्गादन्योऽनुपसर्गस्तस्मिन्ननुपसर्गे उपपद इत्यर्थो न भवति। एवं हि केवलेभ्यो न स्यात्, ठ्वदः सुपि क्यप् चऽ इत्यत्र सुब्ग्रहणमनर्थकं स्यात्? ठनुपसर्गेऽ इति हि वर्तते तत्र नञिवयुक्तन्यायेयेनोपसर्गसद्दशस्य सुबन्तस्य ग्रहणं भविष्यति। नियमार्थमिति। अनुपसर्गादेव यथा स्यात्सोपसर्गान्मा भूदिति। कथं तर्हि तेन न तत्र भवेद्विनियम्यमिति? प्रमादपाठोऽयम्, विनियाम्यमिति पाठः। एतेन ठिति यत्नोपचर्यम्ऽ इति व्याख्यातम्। चरेराङ् चागुराइविति। सोपसर्गार्थ वचनम्। आचया देश इति गन्तव्य इत्यर्थः। उपनेताउगुरुः॥ अवद्यपण्यवर्या गर्ह्यपणितव्यानिरोधेषु॥ ३।१।१०१ ॥ अवद्यपण्यवर्या गह्यपणितव्यानिरोधेषु॥ अवद्यमिति। निपात्यत इति। वदेर्नञ्युपपदे ठ्वदः सुपि क्यप् चऽ इति यत्कपोः प्राप्तयोर्यदेव यथा स्याद्----गर्ह्य एव च यथा स्यादित्युभयार्थ निपातनम्। अवद्यं पापमिति। अवदनार्हत्वात्। अनुद्यमन्यदिति। गुरुनामादि। तद्धि गर्ह्यं न भवत्यथ च वदनार्हमपि न भवति। अत्र क्यबेव भवति, यजादित्वात्सम्प्रसारणम्, ठ्नलोपो नञःऽ,ठ्तस्मान्नुडचिऽ। पण्यं व्यवहर्तव्यमिति। निपातनस्य रूढ।ल्र्थत्वात् पण्यशब्दस्य च तत्रैव रूढत्वात्। उक्तं च----- धातुसाधनकालानां प्राप्त्यर्थ नियमस्य च। अनुबन्धविकाराणां रूढ।ल्र्थं च निपातनम्॥ इति। पाण्यमन्यदिति। स्तुत्यमित्यर्थः। वर्येति स्त्रियां निपात्यत इति। सूत्रेऽवद्यादीनि अविभक्तिकानि पृथक् पदानि, न तु द्वन्द्वस्य जसन्तनिर्देश इति भावः। शतेन वर्येति। ठ्वृङ् सम्भक्तौऽ इत्यस्येदं निपातनम्; तत्रैवानिरोधसम्भवात्। वृत्यान्येति। ठ्वृञ् वरणेऽ ठेतिस्तुशास्वृऽ इत्यादिना क्यप्। वार्या ऋत्विज इति। ठेतिस्तुशास्वृऽ इत्यत्र वृञो ग्रहणम्, वृङ्स्तु स्त्रीलिङ्गादन्यत्र ऋहलोर्ण्यदेव भवति। भट्टिकाव्ये तु पुÄल्लिङ्गेऽपि यदेव प्रयुक्तः----ठ्सुग्रीवो नाम वर्योऽसौ भवता चारुविक्रमःऽ इति॥ वह्यं करणम्॥ ३।१।१०२ ॥ वह्यं करणम्॥ वहेर्द्धातोः करणे यत्प्रत्ययो निपात्यत इति। अर्थव्याख्यानमेतत्। ठ्वह्यमिति निपात्यते करणं चेद्भवतिऽ इति वक्तुअं युक्तम्॥ अर्यः स्वामिवैश्ययोः॥ ३।१।१०३ ॥ अर्यः स्वामिवैश्ययोः॥ स्वमिन्यन्तोदातत्वञ्चेति। अथ यो वैश्यः स्वामी च, तत्र कथम्? उच्यते-----वैश्याख्यायामाद्यौदातत्वम्, स्वाम्याख्यायामन्तोदातत्वम्। तथा च ठर्यस्य स्वाम्याख्यायाम्ऽ इति फिट्सूत्रे आख्याग्रहणं कृतम्। आर्यो ब्राह्मण इति। प्राप्तव्य इत्यर्थः॥ उपसर्या काल्या प्रजने॥ ३।१।१०४ ॥ उपसर्या काल्या प्रजने॥ उपपूर्वात्सर्तेरिति। भौवादिकस्य जौहोत्यादिकस्य च ठ्सर्तिशास्त्यर्तिभ्यश्चऽ इति निर्देशात्सूत्राद्वहिरपि लुका निर्द्देशः। प्राप्तकाला काल्येति। ठ्तदस्य प्राप्तम्ऽ इति वर्तमाने ठ्कालाद्यत्ऽ इति यत्। प्रजननमुप्रजनः, भावे घञ्, ठ्जनिवध्योश्चऽ इति वृद्धिप्रतिषेधः। उपसर्या गौरिति। गर्भाधानार्थ वृषभेणोपगन्तुं योग्येत्यर्थः, वृषभोपगमनस्य प्राप्तकालेति यावत्। उपसार्येति। उपसरणीया, प्राप्तव्येत्यर्थः॥ अजर्य सङ्गतम्॥ ३।१।१०५ ॥ अजर्य सङ्गतम्॥ सङ्गमने कर्तरीति। सूत्रे ठ्सङ्गतम्ऽ इति ठ्नपुंसके भावे क्तः।ऽ इति दर्शयति। कर्तरीति ठ्तयोरेव कृत्यक्तखलर्थाःऽ इति भावे भा भूदिति निपातनाश्रयणम्। तेन भावे सङ्गतकर्तृकेऽपि ण्यदेव भवति----अजार्य सङ्गतेनेति। अजरितेति। तृच्॥ वदः सुपि क्यप् च॥ ३।१।१०६ ॥ वदः सुपि क्यप् च॥ अनुपसर्गे इति वर्तत इति। ठ्सत्सूद्विषऽ इत्यादौ सूत्रे वक्ष्यति----उपसर्गग्रहणं ज्ञापकमन्यत्र सुब्ग्रहणे उपसर्गग्रहणं न भवतीति। तच्चावश्यं तथैवाश्रयणीयम्----ठ्सुप्यजातौऽ ठ्स्पृशोऽनुदके क्विन्ऽ इत्यादावुपसर्गग्रहणं मा भूदिति, ततश्च नार्थ इहानुपसर्गग्रहणानुवृत्या। सुबन्ते उपपदे अनुपसर्ग इति। यद्यपि पूर्व बहुव्रीहेः पञ्चम्यर्थे सप्तमीति व्याख्यातम्, इह तु विरोधाभावातत्पुरुषात्स्वार्थ एव सप्तमीति भावः। ब्रह्माएद्यमिति। भावे क्यप्, पूर्ववत्संप्रसारणम्। ब्रह्मवेदः, तस्य वदनमित्यर्थः। कथं पुनः सकर्मकाद्भावे कृत्यप्रत्ययः यावता भावे चाकर्मकेभ्यः ठ्तयोरेव कृत्यक्तखलर्थाःऽ इति वक्ष्यति; न च कर्माविवक्षयाऽकर्मकत्वम्; ब्रह्मएति कर्मणः श्रुतत्वात्? तस्मादुतरसूत्रादिह भावग्रहणमपेक्षणीयमित्याहुः॥ भुवो भावे॥ ३।१।१०७ ॥ भुवो भावे॥ यतु नानुवर्तत इति पूर्वसूत्रे चानुकृष्टत्वात्। ननु ठ्तयोरेव कृत्यक्तखलर्थाःऽ इति भावकर्मणोः कृत्या विधीयन्ते, ठनुपसर्गेऽ इति चानुवर्तते, अनुपसर्गश्च भवतिरकर्मक एव, अतः सामर्थ्याद्भाव एव भविष्यति? ननु च प्राप्त्यर्थः सकर्मक एव? सत्यम्; व्यक्तिनिर्द्देशात्, प्राथम्याच्च सतार्थस्यैव ग्रहणम्। न चच कालादिकर्मणि प्रसङ्गः अनभिधानात्, तत्किमर्थ भावग्रहणम्? इत्यत्राह---भावग्रहणमुतरार्थमिति। ठ्हनस्त चऽ इति सकर्मकादपि हनो भावे यथा स्याद्---ब्राह्महत्या वर्तत इति, कर्मणि मा भूत्----त्वया घात्यो वृषल इति॥ हनस्त च॥ ३।१।१०८ ॥ हनस्त च॥ ब्रहामहत्येति। स्वभावतः स्त्रीलिङ्गत्वमस्य क्यबन्तस्य, यथान्येषां भावे कृत्यानां नपुंसकत्वम्। च्छन्दसि तु क्यबन्तस्यापि नपुंसकत्वमिष्यते----सनादेव दस्युहत्याय जज्ञिषे। च्छन्दिस च स्त्रियां चिद्वक्तव्यः----अस्यै ब्रह्महत्यायै तृतीयं परिगृहाणेति। प्रघातो वर्तत इति। किं पुनः कारणं घञ् प्रत्युदाह्रियते, न ण्यदित्यत आह----ण्यतु भावे न भवतीति। कर्माविवक्षायामकर्मकत्वे सत्यपीति भावः। सकर्मकातु भावे ण्यतः प्राप्तिरेव नास्ति॥ एतिस्तुशास्वृद्दजुषः क्यप्॥ ३।१।१०९ ॥ एतिस्तुशास्वृद्दजुषः क्यप्॥ ठेतिऽ इति तिपा निर्द्देशः किमर्थः? धातोग्रंहणं यथा स्यादिवर्णान्तस्य मा भूदिति। अत्र चेण एव ग्रहणम्, नेङ्कोः, तियोरधिपूर्वयोरेव प्रयोगादेतीति निर्देशानुपपतेः। तथा च----ठ्रक्षार्थ वेदानामध्येयं व्याकरणम्ऽ इति भाष्ये यदेव प्रयुक्तः। केचितु ठिण्वदिक इति वक्तव्यम्ऽ इति वचनादधीत्या मातेत्यप्युदाहरन्ति। स्तुत्य इति। ह्रस्वस्य तुक्। शिष्य इति। ठ्शास इदङ्हलोःऽ इतीत्वम्, ठ्शासिवसिघसीनां चऽ इति षत्वम्, ठाङ्ः शासु इच्छायाम्ऽ इत्यस्यापि ग्रहणमविशेषात्। तेनाशास्यमिति धातुस्वरेण मध्योदातं पदं भवति। ण्यति तु ठ्गतिकारकोपपदात्कृत्ऽ इति अन्तस्वरितत्वं स्यात्। केचितु ठ्शासु अनुशिष्टौऽ इत्यस्यैव ग्रहणमिच्छन्ति। ओरावश्यक इत्यादि। इह स्तुग्रहणस्यावकाश आवश्यकाविवक्षायाम्----स्तुत्य इति; ठोरावश्यकेऽ इत्यस्यावकाशः----अवश्यलाव्यमिति; अवश्यस्तुत्य इत्यत्रोभयप्रसङ्गे परत्वाद् ण्यत्स्यात्, पुनः क्यब्ग्रहणात्क्यबेव भवति। वृग्रहणे वृञो ग्रहणमिष्यते न वृङ् इति। ज्ञापकात्, यदयम् ठीडवन्दवृशंसदुहां ण्यतःऽ इति वार्यशब्दस्याद्यौदातत्वं शास्ति, तत्र चेडिवन्दिभ्यां साहचर्यादात्मनेपदिनो वृङ्ए ग्रहणम्। शंसिदुहीत्यादि। ठ्शंसु स्तुतौऽ ठ्दुह प्रपूरणेऽ गुहू ठ्संवरणेऽ । शस्यमिति। क्यप्पक्षे उपधालोपः। भाष्ये एतदुपसङ्ख्यानं न द्दष्टम्। आङ्पूर्वादिति। ठञ्जू व्यक्तिम्रक्षणकान्तिगतिषुऽ। आज्यमिति। ठ्कृत्यल्युटो बहुलम्ऽ इति करणे क्यप्, पूर्वदुपधालोपः। अथ कस्माद् ण्यत्येवोपधालोपो नोक्तः? कुत्वप्रसङ्गातित्स्वरप्रसङ्गाच्च। तस्मात्क्यबन्त एषः। यद्येवम्, अवग्रहः प्राप्नोति---आज्यमित्या अज्यमिति? अवगृह्यताम्, को दोषः? न हि लक्षणेन पदकारा अनुवर्त्त्याः, किन्तु पदकारैर्नाम लक्षणमनुवर्त्यम्। पदविच्छेदो हि पौरुषेयः, संहितैव तु नित्या। अर्थ चार्थनिश्चयाभावे नावगृह्णन्ति; यथा---- हरिव इति, किं हरिशब्द इकारान्त उत हरिच्छब्दस्तकारान्त इति सन्देहात्। कथमिति। इण एवैतद्रूपमिति मन्यमानस्य प्रश्नः। एरिति। ठि गतौऽ इत्यस्य॥ ऋदुपधाच्चाक्लृपिचृतेः॥ ३।१।११० ॥ ऋदुपधाच्चाक्लृपिचृतेः॥ क्लृपिचृती वर्जयित्वेति। ठ्क्लृपू सामर्थ्येऽ ठ्चृती हिंसाग्रन्थनयोःऽ कृपेर्लत्वस्यासिद्धत्वाद्दकारलृकारयोस्सवर्णसंज्ञाविधानाच्च ऋदुपधात्वम्। कृत संशब्दने ण्यदेव भवतीति। ठनित्यण्यन्ताश्चुरादयऽ इति णिजभावपक्ष इति भावः। इदमेव च तपरकरणं लिङ्गम्----अनित्यण्यन्ताश्चुरादय इति। णिजन्तातु णिलोपे कृते चाकृते च दित्स्यं धित्स्यमितिवद्यदेव भवति। पाणिसर्ग्येति। पाणिभ्यां सृज्यत इत्युपपदसमासः, पूर्ववत्कुत्वम्। एवं समवसर्ग्येत्यत्रापि॥ ई च खनः॥ ३।१।१११ ॥ ई च खनः॥ दीर्घोच्चारणं किमर्थम्, न ठि च खनःऽ इत्येवोच्येत, दीर्घस्य ह्रस्वस्य वा आद्गुणे नास्ति विशेषः, ह्रस्वादेशे ठ्षत्वतुकोरसिद्धःऽ इत्येकादेशस्यासिद्धत्वाद् ध्रस्वाश्रयस्तुक् स्यादिति चेत्? न; पदान्तपदाद्योरेकादेशस्तुग्विधावसिद्धः, अन्यथा वृक्षेच्छत्रमिति ङवाद्गुणस्यासिद्धत्वाद् ठ्छे चऽ इति ह्रस्वाश्रयो नित्यस्तुक् स्यादित्यत आह----दीर्घनिर्द्देश इत्यादि। एतेन ह्रस्वद्वयमत्र विधीयते, न दीर्घ इति दर्शयति। पूर्व तु यथाश्रुताश्रयणेनोक्तमीकारश्चान्तादेश इति। तत्रेति। प्रश्लेषे सति। ये विभाषेत्यात्वबाधनार्थ इति। अन्यथा ठ्ये विभाषाऽ इत्यस्यावकाशः---खायते, खन्यते; अस्य त्ववकाशः----यस्मिन्पक्षे आत्वं नास्ति; आत्वपक्षे उभयप्रसङ्गे परत्वादन्तरङ्गत्वाच्चात्वं स्यात्। एतच्च ठ्ये विभाषाऽ इति विषयसप्तमीपक्ष उच्यते। तदा हि यकारादौ बुद्धिस्थ एव भवदात्वमन्तरङ्गम्, अयं त्विकारः क्यपा सह विधानाद्वहिरङ्गः। परसप्तमीपक्षे त्विदमेवेत्वमन्तरङ्गम्, परनिमितमनपेक्ष्य विधानात्॥ भृञोऽसंज्ञायाम्॥ ३।१।११२ ॥ भृञोऽसंज्ञायाम्॥ भर्तव्या इत्यर्थ इति। एतेन क्रियाशब्दत्वं दर्शयन् संज्ञात्वमपाकरोति। संपूर्वाद्विभाषेति। असंज्ञायामेव सूत्रेण नित्यं प्रसक्तस्य क्यपोऽयं विकल्पः। प्राप्तविभाषेत्यर्थः। संज्ञायामित्यादि। प्रतिषेधस्येति शेषः। असंज्ञायामित्यस्य प्रतिषेधस्य भार्यो नाम क्षत्रिय इत्यत्र पुंसि द्दष्टत्वाच्चरितार्थत्वान्न तेउसूत्रकारस्य भार्या शब्दः सिद्ध्यतीत्यपर्थः। पुंसि चरितार्थे हि प्रतिषेधे स्त्रियां क्यपा भवितव्यम्। ननु भार्याशब्दोऽपि संज्ञा, अभ्रियमाणापि हि भार्या भार्येत्युच्यते, तत्कुतोऽस्य क्यपः प्रसङ्गः? न ब्रूमोऽनेन क्यपा भवितव्यमिति; यस्तु संज्ञायामेव विधीयते ठ्संज्ञायां समजनिऽ इत्यादिना, तस्यात्र प्रसङ्गः। न च तस्यापि प्रतिषेधसामर्थ्यान्निवृत्तिः, पुंसि प्रतिषेधस्य चरितार्थथ्वादिति चोद्यम्। उतरमाह---स्त्रियां बावाधिकारोऽस्तीति। ननु ठ्सञ्ज्ञायां समजनिषदऽ इत्यत्र वक्ष्यति---ठ्भाव इति न स्वर्यते पूर्वक एवार्थाधिकारःऽ इति, यथा---समजन्ति तस्यामिति समज्या, निषदन्ति तस्यामिति निषद्येत्यादि भवति, तत्कथमिदमुच्यते----स्त्रियां भावाधिकारोऽस्तीति? नेदमपूर्व चोद्यम्, वृत्तिकार एव हि तत्र वक्ष्यति----कथं तदुक्तं स्त्रियाम् भावाधिकारो ऽस्तीति। स्त्रियां स्त्रीप्रकरणे ठ्संज्ञायां समजनिऽ इत्यादिना क्यपि विधीयमाने भावस्याधिकारोऽभिधेयभावोपगमलक्षणो व्यापारोऽस्ति; शब्दशक्तस्वाभाव्याद्। भावि एव तेन क्यब् भवति, न कर्मणि, तेन भार्या प्रसिद्ध्यतीति कर्मणीत्यभिप्रायः। ठेकानुबन्धकग्रहणे न द्व्यनुबन्धकस्यऽ इति ठ्भृञ् भरणेऽ इत्यस्यैव क्यब्विधौ ग्रहणम्, न ठ्डुभृञ् धारणपोषणयोःऽ इत्यस्य। अतस्तस्माद्वा ठ्भृञ् भरणेऽ इत्यस्माद्दीर्घान्ताद्वा भार्येति प्रसिद्ध्यतीति परिहारान्तरमप्यत्र सम्भवति॥ मृजेर्विभाषा॥ ३।१।११३ ॥ मृजेर्विभाषा॥ परिमार्ग्य इति। ठ्मृजेर्वृद्धिःऽ पूर्ववत्कुत्वभ्॥ राजसूयसूर्यमृषोद्यरुच्यकुप्यकृष्टपच्याव्यथ्याः॥ ३।१।११४ ॥ राजसूयसूर्यमृषोद्यरुच्यकुप्यकृष्टपच्याव्यथ्याः॥ राज्ञा सोतव्य इति। अभिषिक्तः क्षत्रियो राजा, तेन सोतव्योऽभिषवद्वारेण निष्पादयितव्य इत्यर्थः, कर्मणि क्यब् दीर्घत्वं च निपात्यते। राजा वा इह सूयत इति। अत्र पक्षे लतात्मकः सोमो राजा, राजानं क्रीणन्तीत्यादौ दर्शनात्। सुनोतिरत्राप्यभिषवे। अधिकरणे क्यब्निपातनं रूढ।ल्र्थम्, तेन ज्योतिष्टोमादौ न भवति। पूर्वस्मिन्नपि पक्षेऽश्वमेधादावतिप्रसङ्गः। सूसतिभ्यामिति। ननु ठ्सर्तेरुत्वं सुवतेर्वा रुडागमःऽ इत्यभिधानाद्विकल्पोऽत्राभिप्रेत इति चार्थाभावाद् द्वन्द्वानुपपतिः? भाष्यकारप्रयोगातु द्वन्द्वः। प्रयुक्तं हि भाष्ये ठ्सूसर्तिभ्यां च सर्तेरुत्वं सुवतेर्वा रुडागमःऽ इति। सर्तरुत्वमिति। दीर्घत्वं तु रपरत्वे सति ठ्हलि चऽ इत्येव सिद्धम्। सुवतेर्वा रुडागम इति। सुवतेरिति पञ्चमी, सुवतेः परस्य क्यप इत्यर्थः। रुगागम इति पाठे षष्ठी। सरतीति आकारो। ठ्षू प्रेरणेऽ तुदादिः, कर्मणि लोकं प्रेरयतीत्यर्थः, उदिते हि तस्मिन्क्रियासु लोकस्य प्रवृत्तिः। कर्तृ प्रत्ययेन कर्तरि निपातनं दर्शयति। एवं रुच्याव्यथ्ययोरपि द्रष्टव्यम्। आह च ठ्सूर्यरुच्याव्यथ्याः कर्तरिऽ इति। कुप्यमिति। संज्ञायामेतदिष्यते, सुवर्णरजतव्यतिरिक्तस्य धनस्येयं संज्ञा। सर्वत्रातिप्रसङ्गो निपातनाश्रयेण परिहार्यः। कर्मकर्तरि निपातनमिति। अन्तोदातस्य चेति द्रष्टव्यम्। आह हि----ठ्कृष्टपच्यस्यान्तोदातत्वं कर्मकर्तरि चऽ इति। शुद्धे तु कर्मणि कृष्टपाक्य इत्येव भवति॥ भिद्योद्ध्यौ नदे॥ ३।१।११५ ॥ पुष्यसिद्ध्यौ नक्षत्रे॥ ३।१।११६ ॥ पुष्यसिद्ध्यौ नक्षत्रे ॥ पुष्यन्त्यस्मिन्नर्था इति। आरब्धा इति शेषः। सिद्धन्त्यस्मिन्निति। अत्रार्था इत्यपेक्ष्यते। पुष्पसिद्धशब्दौ पर्यायौ। स्वरूपपरत्वातु सूत्रे द्वन्द्वः॥ विपूयविनीयजित्या मुञ्जकल्कहलिषु॥ ३।१।११७ ॥ लिपूयविनीयजित्या मुञ्जकल्कहलिषु॥ विपूयो मुञ्ज इति। रज्वादिकरणाय शोधयितव्य इत्यर्थः। विनीयः कल्क इति। कल्कशब्दोऽयमस्ति पिष्ट औषधे----ठ्पथ्या सुण्ठी सैन्धवांशस्य कल्कः पेयो नित्यं सर्वरोगक्षयायऽ इति, तैले घते वा औषधे प्रक्षिप्ते यदजीषं तत्रापि वर्तते, तापे च प्रसिद्धः----ठ्तपो न कल्कोऽध्ययनं न कल्कःऽ इत्यादौ; इह तु प्रथमस्य ग्रहणमिति केचित्। विशेषेणेति वयम्, तथा च माघः प्रायुङ्क्त----ठविनीय संभ्रमविकासिभक्तिभिःऽ इति। जित्य इति। बलेनाक्रष्टव्यः। कृष्टसमीकरणार्थं स्थूलं काष्ठ्ंअ हलिरिच्युत्यते॥ प्रत्यपिभ्यां ग्रहेश्च्छन्दसि॥ ३।१।११८ ॥ पदास्वैरिबाह्यापक्ष्येषु च॥ ३।१।११९ ॥ पदास्वैरिबाह्यापक्ष्येषु च॥ अस्वैरिणीति। ठीर प्रेरणेऽ स्वयमेवेरितुं शीलमस्या इति ताच्छीलिको णिनिः, ठ्स्वादीरेरिणोःऽ इति वृद्धिः। बाह्यायामिति। बहिर्भवा ठ्बहिषष्टिलोपश्चऽ इति यञ्टिलोपौ, पक्षे भवः पक्ष्यः दिगादित्वाद्यत्। यस्य प्रगृह्यसंज्ञा विहितेति। ननु पदावयवस्य द्विवचनादेः प्रगृह्यसंज्ञा, न तु पदस्य? सत्यम्; यौगिकस्त्वयं पदशब्दः----पद्यते मग्यतेऽनेनार्थ इति। यद्वा प्रातिशाख्ये द्विवचनान्ते पद एव प्रकृह्यशब्दः प्रसिद्धः। सन्निकर्षोऽत्र गृह्णातेरर्थः। स्वरसन्ध्यभावादग्नी इत्यादौ कियतापि कालेन व्यवधानात्परस्परमचो न सन्निकृष्यन्ते। अवगृह्यमिति। समासे पूर्वपदम्, तत्र हि पदकालेऽवग्रहो विच्छेदः गृह्यका इमे गृहीतिका इत्यर्थ इति। उभयत्रानुकम्पायां कन्। पञ्जरादिबन्धेन परतन्त्रीकृताः शुकादय उच्यन्ते। ग्रामगृह्यएति। शेषलक्षणायाः षष्ठयाः समासः। वासुदेवगृह्यएत्यत्र तु कर्तरि षष्ठयाः शेषषष्ठ।ल वा समासः॥ विभाषा कृवृषोः॥ ३।१।१२० ॥ विभाषा कृवृषोः॥ वृष्यमिति। ठ्वृषु सेचनेऽ॥ युग्यं च पत्त्रे॥ ३।१।१२१ ॥ युग्यं च पत्त्रे॥ पतत्यनेनेति पत्रमिति। ठ्दाम्नीशसऽ इत्यादिना करणे ष्ट्रन्। ठ्तद्वहति रथयुगप्रसङ्गम्ऽ इति प्राग्दीव्यतीयेनैव यथा सिद्धम्। स्वरेऽपि नास्ति भेदः----क्यपि धातुस्वरः, यत्यपि ठ्यतोऽनावःऽ इत्याद्यौदातत्वम्, अयुग्यमित्यत्रापि न स्वरे भेदः, ठ्ययतोश्चातदर्थेऽ ठ्कृत्योकेष्णुच्चार्वादयश्चऽ इत्युभयत्रान्तोदातविधानात्॥ अमावस्यदन्यतरस्याम्॥ ३।१।१२२ ॥ अमावस्यदन्यतरस्याम्॥ अमाशब्दः सहार्थे वर्तत इति। अमात्य इत्यादौ दर्शनात्। तस्मिन्नुपपद इति। उपपदत्वमपि निपातनादेव, अमेति वा सप्तम्या लुका निर्देशः। तकारोच्चारणात्प्रकृतस्य क्यपस्तावन्निपातनं न भवति। यदि तु परमप्रकृतस्य यतो निपातनं स्यात् स्वरे दोषः----स्यात्---यति सति वस्याशब्दे ठ्यतोऽनावःऽ इत्याद्यौदातत्वम्; कृदुतरपदप्रकृतिस्वरत्वेऽपि स एव स्वरोऽवतिष्ठेत, ण्यति त्वन्तस्वरितत्वं भवति। तथा यता मुक्तेऽमावास्येत्यधिकरणे ण्यन्न प्राप्नोति, ठ्कृत्यल्युटो बहुलम्ऽ इति भविष्यति। एवमप्युपपदसमासो न प्राप्नोति? मयूरव्यंसकादित्वाद्भविष्यति। एवमपि ठ्गतिकारकोपपदात्ऽ इति स्वरो न प्राप्नोति? तथा ठमावास्याया वाऽ इति ण्यदन्तस्य यत्कार्थ तद्यदन्तस्यामावस्यशब्दस्य न स्याद्, भिन्नत्वात्? इति यदन्तपक्षे दोषं द्दष्ट्वा प्रकृतस्यापि ण्यत एव निपातनमित्याह----ण्यत्प्रत्ययो भवतीति। किं तर्हि उच्यते-----ण्यत्प्रत्ययो भवतीति, न पुनर्ण्यत्प्रत्ययो निपात्यत इति? सत्यम्, स एवार्थः, निपातनाद् ण्यत्प्रत्यो भवतीत्यर्थः। अन्यतरस्यां वृद्ध्यभावो निपात्यत इति। ण्यत्प्रत्ययो नित्यः, वृद्ध्यभावस्तु पाक्षिक इत्यर्थः। सह वसत इति। सन्निकृष्टौ वसत इत्यर्थः। यदुक्तम्---ण्यत्प्रययो निपात्यत इति, तत्रायं गुण इत्याह---एकदेशविकृतस्यानन्यत्वादिति। ण्यति ह्यमावास्येति स्वतः प्राप्तं रूपम्, वृद्ध्यभावस्तु तस्यैव विकार इति भावः। यद्वा-----ण्यति वृद्धौ कृतायां पक्षे ह्रस्वोऽपि निपात्यते, स एव वृद्ध्यभाव उक्तः। एवं श्लोकेऽप्यवृद्धितामिति। किमत्र निपात्यत इत्याशङ्कायां श्लोकः-----अमावसोरित्यादि। वृद्धिभावाभावकृतविशेषाश्रयो द्विवचननिर्द्देशः। निपातयामीति। एकस्यैवेति शेषः, अभापूर्वयोर्वसोर्ण्यन्तयोर्मध्य एकस्य वृद्ध्यभावमहं निपातयामीत्यर्थः। सूत्रकारेणैक्यमापन्नस्यैतद्वचनम्। तथा सति किं सिद्धमित्यत्राह---तथेति। एका तद्धितवृत्तिरेकदेशविकृतस्यानन्यत्वाद् एतयोर्द्वयोरपि सिद्ध्यतीत्यर्थः। स्वरश्च मे प्रसिद्ध्यतीति। एवं निपातयतो मम स्वरोऽपि सिद्ध्यति। व्याख्यातः स्वरः॥ च्छन्दसि निष्टर्क्यदेवहूयप्रणीयोन्नीयोच्छिष्यमर्थस्तर्याध्वर्यखन्यखान्यदेवयज्यापृच्छच्यप्रतिषीव्यब्रह्मवाद्यभाव्यस्ताव्योपचाय्यपृडानि॥ ३।१।१२३ ॥ च्छन्दसि निष्टर्क्यदेबहुयचप्रणीयोन्नीयोच्छिष्यमर्यस्तर्याध्वर्यखन्यखान्यदेवयज्यापृच्छयप्रतिषीव्यब्रह्मवाद्यभाव्यस्ताव्योपचाय्यपृदानि॥ नुगभावश्चेति। यदा जुहोतेस्तदेति भावः। उपचाय्यपृडमिति। ठ्मृड सुखेऽठ्पृड चऽ इत्येतस्मात् ठिगुपधलक्षणः कः, उपचाय्यं च तत्पृडं चेति कर्मधारयः। हिरष्ये चेति वक्तव्यमिति। हिरण्येऽभिधेय इत्यर्थः। व्यत्ययमिति। आद्यन्तविपर्यास इत्यर्थः। ण्यदेकस्मादिति। एकस्माद्वातोर्ण्यत्प्रत्ययो निपात्यते, तदनन्तरेषु देवहूयादिषु चतुर्षु चतुर्भ्यो धातुभ्यः क्यब् निपात्यते, उपसर्गभेदान्नयतेर्भेदः। द्वौ क्यपाविति। द्वाभ्यां धातुभ्यां द्वौ क्यपौ निपात्येते इत्यर्थः। ण्यद्विधिश्चतुरिति। सुजन्तमेतत्, क्रियाभ्यावृत्तिवाचिचतुरो वा ण्यद्विधीयत इत्यर्थः॥ ऋहलोर्ण्यत्॥ ३।१।१२४ ॥ ऋहलोर्ण्यत्॥ ऋवर्णान्तादिति। अर्तेस्तु ग्रहणं न भवति; हला साहचर्यात्, परं कार्यमिति निर्द्देशाद्, ठीडवन्दवृशंसदुहां ण्यतःऽ इति लिङ्गाच्च॥ ओरावश्यके॥ ३।१।१२५ ॥ ओरावश्यके॥ अवश्यं भाव आवश्यकमीति। मनोज्ञादित्वाद् वुञ्, अव्ययानां भमात्रे टिलोपः। किं पुनरवश्यार्थवाचिन्युपपदे प्रत्यये? आहोस्विदावश्यके द्योत्ये? तत्राद्ये पक्षे उपपदरहितात्प्रत्ययो न स्यात्---लाव्यं पाव्यमिति, तस्माद् द्वितीयः पक्ष आश्रीयत इत्याह---आवश्यके द्योत्य इति। स्वरसमासानुपपतिरिति। उपपदपक्षे उपपदसमासो लभ्यते, गतिकारकोपपदात्कृदित्युतरपदप्रकृतिस्वरत्वं च; द्योत्यपक्षे त्वेतदुभयमपि न सिद्ध्यतीत्यर्थः। अवश्यलाव्यमीति। ठ्लुम्पेदवश्यमः कृत्येऽ इति मलोपः। द्योतितार्थस्यापि क्वचित्प्रयोगो द्दश्यते, लाघवं प्रत्यनादरात्। न त्वेतदत्र वक्तव्यम्; ठ्लुम्पेदवश्यमः कृत्येऽ इति वचनादेव द्योतिते अवश्यमः प्रयोग इति तस्यावश्यकर्तव्यादौ चरितार्थत्वात्। मयूरव्यंसकादित्वादिति। तस्याकृतिगणत्वादिति भावः। उतरपदप्रकृतिस्वरत्वे चेति । मयूरव्यंसकादिनिपातनादेव स्वरोऽपि भविष्यतीत्यपि शक्यं वक्तुम्॥ आसुयुवपिरपिलपित्रपिचमश्च॥ ३।१।१२६ ॥ आसुयुवपिरपिलपित्रपिचमश्च॥ पुप्रभृतीनां द्वन्द्वेन आसुनोतेर्द्वन्द्व इत्याहुः। सुनोतेरभिसम्बन्धस्तदाह---आङ्पूर्वात्सुनोतेरिति। ठ्षु प्रसवैश्वर्ययोःऽ इत्यस्यत्वग्रहणम् ठ्कृत्यल्युटो बहुलम्ऽ इति। ठ्युऽ इति ठ्युमिश्रणे इत्यस्य ग्रहणम्। ठ्युञ् बन्धनेऽ इत्यस्य तु सानुबन्धकत्वादग्रहणम्। यतोऽपवाद इति। ठचो यत्ऽ ठ्पोरदुपधात्ऽ इति यथायोगं प्राप्तस्य। दाभ्यमिति। दभेर्धातुष्वपठितस्यापि चुरादौ ठ्बहुलमेतन्निदर्शनम्ऽ इति वचनाच्छिष्टप्रयोगाच्च क्षपयत्यर्थयत्यवधीरयत्यादिवद्धातुत्वं द्रष्टव्यम्॥ आनाय्योऽनित्ये॥ ३।१।१२७ ॥ आनाय्योऽनित्ये॥ रूढिरेषेति। तेन घटादावतिप्रसङ्गो नोद्भावनीय इति। निपातनाच्च रूढित्वम्। उक्तं हि----रूढ।ल्र्थं च निपातनमिति। कुतः पुनरनित्यत्वमित्यत्राह---तस्य चानित्यत्वमिति। नित्यमजागरणादिति। सततमज्वलनादित्यर्थः, ज्वलनमेव हि तस्य जागरणम्। दक्षिणाग्नावपि विशिष्ट एवेष्यते, न सर्वत्रैवेति दर्शयति---यश्चेति। योनिःऊत्पतिस्थानम्। वैश्यकुलादित्यादिनायोनिविकल्पं दर्शयति। आनाय्योऽनित्य इति चेदिति। घटादिष्वपि प्रसङ्ग इति शेषः। भवेदिति। सम्भावने लिङ्। निपातनादेव सम्भाव्यत इत्यर्थः। एकयोनाविति। आहवनीयेन। आनेयो ह्यन्यथा भवेदिति। घटादावनित्येभिन्नयोनौ च दक्षिणाग्नौ, ठचो यत्ऽ इति यदेव भवतीत्यर्थः॥ प्रणाय्योऽसम्मतौ॥ ३।१।१२८ ॥ प्रणाय्योऽसम्मतौ॥ असम्मताविति बहुब्रीहित्याह---अविद्यमाना संमतिरस्मिन्निति। सम्मतिश्चात्र संमननं प्रीतिविषयभावोपगमनं कर्मव्यापारो विवक्ष्यते, न संमन्तृव्यापारः; तथा सत्यसंमन्तरि निपातनप्रसङ्गात्, तस्य चानिष्टत्वादित्यभिप्रायेणाह----संमतता संमतिरिति। संमतिरमिलाषोऽप्युच्यत इति। भोगविषयोऽप्यादरः सम्मतिशब्देनोच्यते, तन्त्रेणेत्यर्थः॥ पाय्यसान्नाय्यनिकाय्यधाय्या मानहविर्निवाससामिधेनीषु॥ ३।१।१२९ ॥ पाय्यसान्नाय्यनिकाय्यधाय्या मानहविर्निवाससामिधेनीषु॥ मीयतेऽनेनेति मानम्, हूयत इति हविः, निवसत्यस्मिन्निति निवासः, समिधामाधानी ऋक् सामिधेनी। माङे ण्यत्प्रत्यय इति। करणे तत्र ठातो युक् चिण्कृतोःऽ इति युक्। मेयमन्यदिति। भावकर्मणोर्यदेव भवतीत्यर्थः। सान्नाय्यमिति। सम्यग्नीयते होमार्थमग्निं प्रतीति कर्मणि ण्यत्। हविर्विशेष इति। ऐन्द्रं दध्यमावास्यायामैन्द्रं पयोऽमावास्यायामिति विहितयोर्दधिपयसोः। माघस्तु यथाश्रुतार्थग्राही हविर्मात्रे प्रायुङ्क्त----ठ्हुतमयमवलीढेअ साधु सान्नाय्यमग्निःऽ इति। निचीयतेऽस्मिन्धान्यादिकमिति अधिकरणे ण्यत्। धाय्येति। धीयतेऽनया समिदिति करणे ण्यत्, पूर्ववद्यौक्। ऋग्विशेषस्येति। ठ्प्रवोवाजा अभिद्यवःऽ इत्यादिकस्य। कि तर्हि काचिदेवेति। समिध्यमानवतीं समिद्धवतीं चान्तरेण विकृतिषु प्रक्षिप्यमाणा पृथुयाजा अमर्त्य इत्यादिका। कथं पुनरयं विशेषो लभ्यत इत्याह----रूढिशब्दोह्य यमिति। अत एव निपातनाश्रयणमिति भावः। रूढित्वमेव द्रढयति----तथा चेति। धाय्याः शंसतीति ज्योतिष्टोमे मरुत्वतीये शस्त्रे विधानमेतत्। सामिधेनीग्रहणं प्रयोगविषयोपलक्षणार्थमिति भावः॥ क्रतौ कुण्डपाय्यसंचाय्यौ॥ ३।१।१३० ॥ क्रतौ कुण्यपाय्यसंचाय्यौ॥ण्यति प्रकृते यत्प्रत्ययान्तः कुण्डपाय्यशब्दो निपात्य इत्युक्तम्, तत्र प्रयोजनमाह---यतोऽनाव इतीति। यदुतरपदस्याद्यौदातत्वं कृदुतरपदप्रकृतिस्वरेण स एव स्वरः सिद्धो भवतीत्यर्थः। ण्यति तु स्वरितत्वं स्यात्॥ अग्नी परिचाय्योपचाय्यसमूह्याः॥ ३।१।१३१ ॥ अग्नी परिचाय्योपचाय्यसमूह्यः॥ अग्नाविति। न ज्वलने, किं तर्हि? तदर्थैष्टकाचयनविशेषे; तत्रैव रूढत्वात्। इह संपूर्वात् ठूह वितर्केअ, इत्यस्मादनेकार्थत्वाद्वहेरर्थे वर्तमानाद्धलन्तत्वाद् ण्यति समूह्यमिति सिद्धम्। तथा च----ठ्समूह्यं चिन्वीत पशुकामः पशवो वै पुरुषः पशूनेवास्य तत्समूहतिऽ इति वह्यर्थेनोहिना ब्राह्मणे समूह्यशब्दो निरुक्तः॥ चित्याग्निचित्ये च॥ ३।१।१३२ ॥ चित्याग्निचित्ये च॥ चित्योऽग्निरिति। कर्मणि यदपवादः क्यब् निपात्यते, तेनाद्यौदातत्वं भवति। भावे यकारप्रत्यय इति। किमर्थ पुनरत्रापि क्यबेव न निपातितः, एवं हि तुग निपात्यो न भवति, तत्राह---तेनान्तोदातत्वं भवतीति। अग्नावित्येवेति। तच्च चित्यशब्दस्यैव विशेषणार्थम्, नाग्निचित्याशब्दस्य; तस्य भावे निपातितत्वात्। तदेतद्दर्शितम्---चेयमन्यदिति॥ ण्वुल्तृचौ॥ ३।१।१३२ ॥ नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः॥ ३।१।१३४ ॥ नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः॥ आदिशब्दः प्रत्येकमभिसम्बद्ध्यत इति। गणपाठादिति भावः। अपोद्धृत्य ये पठ।ल्न्त इति। ते गृह्यन्त इत्यन्वयः। अपोद्धृत्येति बुद्ध्या पृथक्कृत्येत्यर्थः। किमर्थ पुनरपोद्धृत्य प्रत्ययविधानम्, यावता नन्दनादीनां गणपाठादेव सिद्धं साधुत्वम्? उच्यते---असत्यस्मिन्नष्टाध्याय्यां क्वचिदप्यनुपयोगाद्रणत्रपयाठोऽनार्षोऽध्यवसीयेत। नन्दिवाशीत्यादि। ठ्टुअनदि समृद्धौऽ, ठ्वाश्रृ शब्देऽ,ठ्मदी हर्षेऽ, ठ्दुष वैकृत्येऽ,ठ्राध साध संसिद्धौऽ,ठ्वृधु वृद्धौऽ,ठ्शुभ शुम्भ शोभार्थेऽ,ठ्रुच दीप्तौऽ। दूषण इति। ठ्दोषो णौऽ इत्यूत्वम्। सहितपीत्यादि। ठ्षह मर्षणेऽ, तप सन्तापेऽ,ठ्शमु दमु उपशमेऽ। जल्पन इत्यादि। ठ्जल्प जप वक्तायां वचिऽ। ठ्रमु क्रीडायाम्ऽ,ठ्द्दप हर्षविमोचनयोःऽ,ठ्क्रदि आह्वाने रोदने चऽ। ठ्कृष विलेखनेऽ,ठ्हृषु अलीकेऽ। ठर्द्द हिंसायाम्ऽ,जनमर्द्दयतीति जनार्दनः, कर्मण्यणि प्राप्ते। एवमुतरत्रापि कर्मण्युपपदे द्रष्टव्यम्। ठ्यु मिश्रणेऽ,ठ्षूद क्षरणेऽ। मधुनाऽसुरः, तं सूदयतीति मधुसूदनः। ठ्ञिभी भयेऽ, णिचि ठ्भियो हेतुभये षुक्ऽ। ठ्लूञ् छेदनेऽ,ठ्णश अदर्शनेऽ,ठ्दमु उपशमे,----ण्यन्तौ, चितं नाशयतीति चितनाशनः, कुलं दमयतीति कुलदमनः। ग्राहीत्यादि। ठ्ग्रह उपदानेऽ,ठ्षह मर्षणेऽ,ठ्तसु उपक्षयेऽ,ठ्दसु चऽ,ठ्भस भर्त्सनदीप्त्योःऽ। तिष्ठतेरातो युक्। ठ्मत्रि गुप्तभाषणेऽ चुरादिः, अर्द्द हिसायाम्। रक्षेत्यादि। ठ्रक्ष पालनेऽ,ठ्श्रु श्रवणेऽ,ठ्डुवप् बीजसन्तानेऽ,ठ्शो तनूकरणेऽ---एषा निशब्द उपपदे णिनिः। याचीत्यादि। ठ्टुअयाचृ याच्ञायाम्ऽ,ठ्हृञ् हरणेऽ,ठ्व्रज गतोऽठ्वदव्यक्तायां वाचिऽ,ठ्वस निवासेऽ---एषां प्रतिषिद्धानां णिनिभवति, प्रातषिद्धार्थानामित्यर्थः। प्रतिषिद्धार्थता च नञ्पूर्वाणां भवतीति दर्शयति। अयाचीत्यादि। यद्यपि विशब्दोऽपि विगर्द्दभरथिरित्यादौ प्रतिषेधे द्दष्टः, याच्यादीनां तु विपूवाणा णिनिर्न द्दश्यत इति नञ्येव णिनिर्विज्ञायते। अचामित्यादि। अजन्तानां धातूनामचितकर्तृकाणां प्रतिषिद्धार्थानां णिनिर्भवति, न विद्यते चितमस्येत्यचितः स कर्ता येषां ते तथोक्ताः। विशयी विषयीति। ठ्शीङ् स्वप्नेऽ,ठ्षिञ् बन्धनेऽ, वृद्ध्यभावो निपातनात्। अभिभावी भूत इति। अभिभूतवानभिभावी। अपराधी, अवरोधी। ठ्राध साध संसिद्धौऽ,ठ्रुधिर् आवरणेऽ। परिभवी, परिभावीति। पक्षे वृद्ध्यभावः। पचेत्यादि। ठ्डुपचष्पाकेऽ। ठ्वच परिभाषणेऽ,डुवपिरुक्तार्थः, एवं वदिरपि। ठ्चल कम्पनेऽ,ठ्पत्लृ गतौऽ। नदडिति। ठ्नद अव्यक्ते शब्देऽ। ठकारो ङीबर्थः, एवमुतरत्रापि। ठ्भष भर्त्सनेऽ,प्लुङ् गतौऽ,ठ्चर गत्यर्थःऽ,ठ्गृ निगरणेऽ,ठ्तृ प्लवनतरणयोःऽ,ठ्चुर स्तेयेऽ,ठ्दिवु क्रीडादौऽ,ठ्सूदिरुक्तार्थः,ठ्जृष् वयोहानौऽ,मृङ् प्राणत्यागेऽ,ठ्क्षमूष् सहनेऽ,ठ्षिवु तन्तुसन्तानेऽ,ठ्मिष स्पर्द्धायाम्ऽ,ठ्कुप क्रोधेऽ,ठ्मिधृ मेधाहिसनयोःऽ,ठ्व्रण गात्रचूर्णनेऽचुरादिः, ठ्नृती गात्रविक्षेपेऽ,ठ्द्दशिर् प्रेक्षणेऽ,ठ्सृप्लृगतौऽ। ठ्डुभृझ् धारणपोषणयाःऽ,जारं विभर्तीति जारभरा। एवं श्वानं पचतीति श्वपचा, न्यङ्क्वदिषु श्वपाकशब्दस्य पाठात्पक्षे कर्मण्यणपि भवति। पचादिराकृतिगण इति। तत्सम्बन्धिन आदिशब्दस्य प्रकारवचनत्वात्। तथा च ठ्शिवशमरिष्टस्य करेऽ इति कृञोऽच् प्रत्ययः कृतः। घटेश्च ठ्कर्मणि घटोऽठच्ऽ इति। तथा यङ्न्तानां ठ्यङेऽचि चऽ इति यङेऽस्मिन्नचि लुगुक्तः। भाष्ये च ठजपि सर्वधातुभ्यो वक्तव्यःऽ इत्युक्तम्। पचाद्यनुक्रमणं तु नदडित्यादावनुबन्धासञ्जनार्थम्, कर्मोपपदानाम् इगुपधानां च बाधकबाधनार्थम्, देवेडित्युभयार्थम्, अन्येषां तु प्रपञ्चार्थ द्रष्टव्यम्॥ इगुपधज्ञाप्रीकिरः कः॥ ३।१।१३५ ॥ इगुपधज्ञाप्रीकिरः कः॥ इगुपधादीनां समाहारद्वन्द्वे नपुंसकत्वेन ह्रस्वप्रसङ्गदितरेतरयोगे द्वन्द्वः, व्यत्ययेन भ्यसः पञ्चम्येकवचनम्। तत्र कृशब्दस्य धात्वनुकरणत्वात्प्रकृतिवदनुकरणम्, विभक्तावित्वम्। ज्ञ इति। ठातो लोप इटि चऽ प्रिय इति। ठ्प्रीञ् तर्पणेऽ,इयङदेशः। किर इति। ठ्कृ विक्षेपेऽ,ठृत इद्धातोःऽ। पचादिषु द्रष्टव्या इति यद्यप्यजपि तृजादिवत्सर्वधातुभ्यो भवति, तथाप्यपवादबाधनार्थमेते पचादिष्ववश्यं पाठ।ल इत्यर्थः॥ आतश्चोपसर्गे॥ ३।१।१३६ ॥ पाघ्राध्माधेट्द्दशः शः॥ ३।१।१३७ ॥ पाघ्राध्माधेट्द्दशः शः॥ ठ्पा पानेऽ,ठ्घ्रा गन्धोपदानेऽ,ठ्ध्मा शब्दाग्निसंयोगयोःऽ,ठ्धेट् पानेऽ,ठ्द्दशिर् प्रेक्षणेऽ।ठ्पा रक्षणेऽ इत्यस्य तु लुग्विकरणत्वादग्रहणम्। उत्पिब इत्यादि। पाघ्रादिसूत्रेण यथायोगं पिबादय आदेशाः। व्याघ्र इति। अत्र ठातश्चोपसर्गेऽ इति क एव भवति; अत्र च ठ्व्याघ्रादिभिःऽ इति वचनं लिङ्गम्॥ अनुपसर्गाल्लिम्पविन्दधारिपारिवेद्यौदेजिचेतिसातिसाहिभ्यश्च॥ ३।१।१३८ ॥ अनुपसर्गाल्लिम्पविन्दधारिपारिवेद्यौदेजिचेतिसातिसाहिभ्यश्च॥ ठनुपसर्गात्ऽ इति व्यत्ययेनैकवचनमित्याह----अनुपसर्गेभ्य इति। ठ्लिप उपदेहेऽ,ठ्विद्लृ लाभेऽआगामिना नुमा सनुम्कयोर्ग्रहणम्, तेन विध्यन्तराणामग्रहणम्। ठ्धृञ् धारणेऽ,ठ्धृञ् अवस्थानेऽ----ण्यन्तयोर्द्वयोरपि ग्रहणम्। ठ्पार तीर कर्मसमाप्तौऽ,ठ्विद चेतनाख्यानादिषुऽ चुरादिः, ज्ञानाद्यर्थानामन्यतमो वा हेतुमण्ण्यन्तः। ठेजृ कम्पनेऽण्यन्तः, ठ्चिती संज्ञानेऽ चुरादिः, सातिर्हेतुमण्ण्यन्तः, ठ्षह मर्षणेऽ चुरादिर्हेतुमण्ण्यन्तो वा। लिम्पः, विन्द इति। ठ्तुदादिभ्यः शःऽ ठ्शे मुचादीनाम्ऽ इति नुम्। धारयादिषु शब्गुणायादेशाः। नौ लिम्पेरिति। च्छन्दसि तु ठ्च्छर्ता च विधर्ता च विधारयऽ इति द्दश्यते। अरविन्द इति। अराकाराणि दलान्यरशब्देनोच्यन्ते॥ ददातिदधात्योर्विभाषा॥ ३।१।१३९ ॥ ददातिदधात्योर्विभाषा॥ ददः, दध इति। शपः श्लुः, द्विर्वचनम्, ठ्श्नाभ्यस्तयोरातःऽ इत्याकारलोपः। ठ्दद दानेऽ,ठ्दध धारणेऽइत्येताभ्यामचि कृते ददः दध इति सिद्धम्, दाधाभ्यामपि णे कृते दायो धाय इति, इदं तु वचनं स्वरार्थम्---अददः अदध इति ठच्कावशक्तौऽ इत्यन्तोदात्वं मा भूत्, नञ्स्वर एव यथा स्यादिति॥ ज्वलितिकसन्तेभ्यो णः॥ ३।१।१४० ॥ ज्वलितिकसन्तेभ्यो णः॥ इतिशब्द आद्यर्थ इति। अनेकार्थत्वान्निपातानाम् ठुच्चावचेष्वर्थेषु निपतन्तीति निपाताःऽ इति निरुक्तकारो निपातशब्दं निराह। ज्वलितीत्यविभक्तिको निर्द्देशः, ज्वलादिभ्य इत्यर्थः। कसिरन्ते येषां ते कसन्ताः, तत्र ये कसमधीत्य वृदिति पठन्ति तेषां मते कसन्तग्रहणं चिन्त्यप्रयोजनम्। ननु च ठ्ज्वल दीप्तौऽ इति द्विः पठ।ल्ते----घटादिषु, परस्ताच्च; तेषामसत्यस्मिन्विशेषणे सन्देहः स्यात्----किं पूर्वो ज्वलिरादिः? उत पर इति? अतः कसः समीपभूतेभ्यो ज्वलादिभ्य इति विशेषणमर्थवत्, नैतत्सुष्ठूअच्यते; यद्यन्तशब्दः समीपवचनः, बहुव्रोहौ तत्पुरुषे च कसेर्ग्रहणं न प्राप्नोति, पूर्वत्र ज्वलतावादावभिप्रेते तदनन्तर एव धातुरुपादीयेत; परोपदेशेनैव ज्वलतेर्ग्रहणसिद्धेः। घटादिपाठश्च मित्संज्ञायां चरितार्थः, इतरस्त्वचरितार्थ इति स एवादिर्भविष्यति। अचोऽपवाद इति। तस्यापि सर्वधातुविषयत्वादिति भावः। ठ्भ्रमु चलनेऽ इत्यस्य ज्वलादिपाठः किमर्थः,यावता पचाद्यचि भ्रम इति सिद्धम्, णेऽप्येतदेव रूपम्, ठ्नोदातोपदेशस्यऽ इति पृद्धिप्रतिषेधात्? इहाभ्रम इति ठच्कावशक्तौऽ इति स्वरो मा भूदिति॥ श्याद्व्यधास्रु संस्वतीणवसावहृलिहश्लिषश्वसश्च॥ ३।१।१४१ ॥ श्याद्व्यधासु संस्वतीणवसावहृलिहश्लिषश्वसश्च॥ अनुपसर्गादिति निवृतमिति। उतरसूत्रे पुनरनुपसर्गग्रहणात्। विभाषेति चेति। निवृतमित्यपेक्ष्यते। विभाषा ग्रहणं ह्यनुपसर्गग्रहणेन सम्बद्धम्, अतस्तन्निवृतावस्यापि निवृत्तिः। श्यैङ् इति । ठ्श्यैङ् गतौऽ इत्यस्मात् शी आत् श्यादिति शीङे यणादेशेन ग्रहणं न भवति; व्याख्यानात्, झटिति प्रतीतावनारोहाच्च। आकारान्तेभ्य इति। एतेन अतेरच्छब्दान्तानां पतिप्रभृतीनामकारान्तानां च ग्रहणं न भवतीति दर्शयति। एतदपि व्याख्यानादेव। ठ्व्यध ताडनेऽ,ठ्स्रु गतौऽ आङ्पूर्वः, संपूर्वश्च, ठिण् गतौऽ अतिपूर्वः, ठ्षोऽन्तकर्मणिऽ ठ्हृञ् हरणेऽ अवपूर्वौ, ठ्लिह आस्वादनेऽ,ठ्श्लिष आलिङ्गनेऽ,ठ्श्वसप्राणनेऽ। येऽत्र सोपसर्गास्तेभ्यः सोपसर्गेभ्य एव भवति, शेषेभ्यस्त्वविशेषेण। बाधकबाधनार्थमिति। ठातश्चोपसर्गेऽ इति विशेषविहितः कः सामान्यविहितस्य णस्य बाधकः, तद्वाधनार्थमिदम्। एतेनावस्यतेरुपादानं व्याख्यातम्। अवश्याय इति। पूर्ववद्यौक्॥ दुन्योरनुपसर्गे॥ ३।१।१४२ ॥ दुन्योरनुपसर्गे॥ दाव इति। वनवह्निः। कथं तत्रैव दव इति? नयतिसाहचर्यात्सानुबन्धकस्य दुनोतेरिह ग्रहणम्। निरनुबन्धकाद्दवतेः पचाद्यचि भविष्यति। करणसाधनो वा ठृदोरप्ऽ इत्यबन्तः॥ विभाषा ग्रहः॥ १।३।१४३ ॥ विभाषा ग्रहः॥ व्यवस्थितविभाषा चेयमिति। एतदेव स्पष्टयति---जलचर इति। भव इति। भवत्येव न तु कदाचिन्न भवतीति भवःउदेवः, संसारश्च। भावाःउपदार्थाः॥ गेहे कः॥ ३।१।१४४ ॥ गेहे कः॥ गेह इति। प्रत्ययाथंस्य कर्तुर्विशेषणम्, नोपपदम्; ठ्गृहपतिना संयुक्तःऽ इति निर्देशादित्याह---गेहे कर्तरीति। तास्त्थ्याद्दाराश्चेति। गेहमित्यपेक्ष्यते, तेन गौणस्यापि गेहस्य ग्रहणमिति दर्शयति। तच्च तन्त्रावृत्योरन्यत राश्रयणेन लभ्यते, तत्र वेश्मनि पुंल्लिङ्गबहुवचनान्त एव----गृहान्ह दाहको भवति, गृहानुतरया संकाशयते, गृहान्गच्छ, गृहानहं सुमनसः प्रपद्य इति। नपुंसकलिङ्गोऽभिधेयवचनः, एवं दारेष्वपि। अन्ये तु---गृहशब्दो वेश्मन्येव मुख्यः, दारेषु गौण इति वदन्ति, तथा ठ्न गृहं गृहमित्याहुर्गृ हिणी गृहमुच्यतेऽ इति वेश्मन्येव मुख्यतां दर्शयन्ति। यथा वृत्तिकारेणोक्तं तथा दारेष्वपि मुख्य एवेति लक्ष्यते॥ शिल्पिनि ष्वुन्॥ ३।१।१४५ ॥ शिल्पिनि ष्वुन्॥ पूर्वेण साहचर्यात् सिल्पिनीत्यपि प्रत्ययार्थस्य विशेषणम्, नोपपदमित्याह----शिल्पिनि कर्तरीति। क्रियासु कौशलं शिल्पं तद्यस्यास्तीति सिल्पो। नृतिखनीत्यादि। एतद्वचनमेव; तेनाह्वाता, आह्वायक इत्यादौ न भवति। रञ्जेनुनासिकलोपश्चेति। एततु ज्ञापकात्सिद्धम्, यदयम् ठ्जनीजृष्क्नुसुरञ्जोऽमन्ताश्चऽ इति मित्संज्ञां शास्ति, तज्ज्ञापयति----रञ्जेरकित्वेऽप्यनुनासिकलोपो भवतौति॥ गस्थकन्॥ ३।१।१४६ ॥ गस्थकन्॥ गायतेरिति। ठ्कै गै शब्देऽ,ठ्गामादाग्रहणे ष्वविशेषःऽ इति ठ्गाङ् गतौऽ इत्यस्यापि ग्रहणं प्राप्तम्, अनभिधानान्न भवति। थकन्प्रत्ययो हि गायत्यर्थविषयमेव शिल्पिनमभिधातुं समर्थः॥ ण्युट् च॥ ३।१।१४७ ॥ ण्युट् च॥ णकारो युगर्थः, टकारो ङीबर्थः। योगविभाग उतरार्थ इति। उतरत्र ण्युट एवानुवृत्तिर्यथा स्यात्, थकनो मा भूदिति॥ हश्च व्रीहिकालयोः॥ ३।१।१४८ ॥ हश्च व्रीहिकालयोः॥ जहातेरिति। ठोहाक् त्यागेऽ। जिहातेरिति। ठोहाङ्गतौऽ। प्रायेण जिहीतेरिति पाठः, स त्वयुक्तस्तिपः पित्वादीत्वाभावात्। जहातेः ककारोऽत्र सामान्यग्रहणार्थः, अन्यथा एकानुबन्धकत्वादस्यैव स्यात्। अथ हाङ् इत्युच्येत, एवमपि तस्यग्रहणं न स्यात्, तस्माद् द्वयोरपि ग्रहणम्। ठ्ब्रीहिकालयोःऽ इति कर्तुर्विशेषणम्, नोपपदम्; त्रिचतुर्भ्यो हायनस्य ठ्दामहायनान्ताच्चऽ इति वचनादिति मत्वाह---व्रीहौ काले च कर्तरीति। जहत्युदकमिति। कृत्वेति। व्रीहौ हायनशब्दस्य प्रवृत्तिनिमितं दर्शितम्। जाङ्गलदेशोद्भवाः केचिद् व्रीहयो हायना इत्याहुः। जिहीते भावानिति। भावाः पदार्थास्तान् जिहीते गच्छति परिच्छेदकत्वेन व्याप्नोतीत्यर्थः॥ प्रुसृल्वः समभिहारे वुन्॥ ३।१।१४९ ॥ प्रुसृल्वः समभिहारे वुन्॥ ठ्प्रुसृल्वऽ इति पञ्चम्याः स्थाने जस्, ठोस्सुपिऽ इति यणादेशः। साधुकारित्वं लक्ष्यत इति। प्रायः सहचरित्वात् पुनः पुनरनुष्ठानं समभिहारः, यश्च यां क्रियां पुनः पुनरनुतिष्ठति तस्य प्रायेण कौशलमुपजायते, अतः प्रायः साहचर्यात्साधुकारित्वं लक्ष्यते, लक्षणया तत्र वर्तत इत्यर्थः, तेन किं सिद्धं भवतीत्याह----सकृदपीति॥ आशिषि च॥ ३।१।१५० ॥ आशिषि च॥ आशिषि गम्यमानायामिति। न वाच्यायाम्; कर्तरि कृत्ऽ इति कर्तुरेव वाच्यत्वात्। प्रार्थनाविशेष इति। अप्राप्तस्याभिलषितस्य प्राप्तुमिच्छा प्रार्थनाउआशीः। स चेत्क्रियाविषय इति। ठ्धातोःऽ इत्यधिकाराद्, धातोश्च क्रियावचनत्वात्। अमुष्याः क्रियाया इति। जीवनादिकायाः, अनेन प्रयोक्तृधर्मत्वमाशिषो दर्शयति। जीवतादिति। आशिषि लोट्प्रयोगेणोदाहरणे आशिषं दर्शयति॥ इति श्रीहरदतमिश्रविरचितायां पदमञ्जर्यो तृतीयस्याध्यायस्य प्रथमः पादः॥ --------॥॥॥॥॥।--------काशिकावृतौ अथ तृतीयाध्याये द्वितीयः पादः इपदमञ्जरी कर्मण्यण्॥ ३।२।१ ॥ कर्मण्यण्॥ कर्मणीति। नेदं स्वरूपग्रहणम्; अशब्दसंज्ञा इति प्रतिषेधात्। ननु चार्थस्येयं सञ्ज्ञा न शब्दस्य, अशब्दसञ्ज्ञेति नैवं विज्ञायते-----शब्दस्य सञ्ज्ञा शब्दसञ्ज्ञेति, किं तर्हि? शब्दे संज्ञा सब्दसंज्ञेति। शब्दशब्देन शब्दानामनुशासनं व्याकरणमुच्यते, असति च बाधे कृत्रिमाकृत्रिमयोः कृत्रिमस्यैव ग्रहणं युक्तम्। तस्मात्पारिभाषिकस्य कर्मणो ग्रहणमङ्गीकृत्य तस्यावान्तरभेदमाह----त्रिविधं कर्मेति। ता एव तिस्रो विधा दर्शयति---निर्वर्त्ये विकार्ये प्राप्यं चोति। यदसज्जायते सद्वा जन्मना यत्प्रकाशते तन्निर्वत्यम्, यथा-----कुम्भं करोति, पुत्रं प्रसूत इति। यस्य तु सत एव कश्चिद्विकारः क्रियते तद्विकार्यम्, स च विकारः क्वचित्प्रत्यक्षगम्यः, यथा---काष्ठानि भस्म करोति, सुवर्ण कुण्डलं करोतीति, क्वचिच्छास्त्रगम्यः----ब्रीहीन् प्रोक्षतीति, अत्र प्रोक्षणेन ब्रीहीषु कश्चिदतिशयो जन्यत इति शास्त्रादेव गम्यते। एतावता च भेदेन संस्कार्यमेतत्कर्मेति चातुर्विध्यं मीमांसका मन्यन्ते। क्रियाकृतविशेषाभावे तु प्राप्यं कर्म, यथा-----वेदमधीते, चर्च्चां पारयतीति। ननु न ठ्कर्तुरीप्सिततमम्ऽ इत्येतदेव कर्म त्रिविधम्, अन्यदप्यस्ति ठ्तथायुक्तं चानीप्सितम्ऽ इति, तच्च द्विविधम्---द्वेष्यमितरच्च; तथा ठकथितं चऽ, एवं ठ्दिवः कर्म चऽ, तथा ठधिशीङ्स्थासां कर्मऽ इति। तदेवमवान्तरभेदविवक्षायां सप्तविधं कर्म। उक्तं च---- निर्वर्त्य च विकार्य च प्राप्यं चेति त्रिधा मतम्। तत्रेप्सिततमं कर्म चतुर्धान्यतु सञ्ज्ञितम्॥ औदासीन्येन यत्प्राप्यं यच्च कर्तुरनीप्सितम्। सञ्ज्ञान्तरैरनाख्यातं यद्यच्चाप्यन्यपूर्वकम्॥ इति। तत्किमुच्यते त्रिविधं कर्मेति? केचिदाहुः----कर्तुरीप्सिततममेवात्र गृह्यतेऽन्यत्राण् न भवतीति। अन्ये त्वाहुः-----आदित्यं पश्यतीत्यादौ मा भूदित्येवमर्थ कर्मणि निर्वर्त्यमाने विक्रियमाण इति वक्तव्यमित्याशङ्क्य वार्तिककारेणोक्तम्----कर्मणि निर्वर्त्यमानेविक्रीयमाण इति चेद्वेदाध्यायानामुपसंख्यानमित्यादि। तदनेन प्रदर्श्यते त्रिविधमपि कर्म गृह्यते, न पुनः प्राप्यं न गृह्यत इति, न तु सूत्रान्तरोक्तं व्यावर्त्यते। तथा च ठ्दिवः कर्म चऽ इत्यत्र समावेशस्य प्रयोजनमुक्तम्---मनसा देव इत्यत्र कर्मत्वादण्, करणत्वातृतीयेति। एवं च वृक्षावासः पर्वताधिवास इत्याद्यपि यथादर्शनं भवतीति। अनभिधानादिति। तच्चानभिधानं यत्राप्तैरुक्तं तत्रैव। अन्यत्र तु यथालक्षणं भवत्येव, तथा च पठति----यथालक्षणमप्रयुक्तेऽइति। शीलिकामीत्यादि। ठ्शील समाधोऽ,ठ्भक्ष अदनेऽ चुरादिः, ठ्कमु कान्तौऽ णिङ्न्तः, ठ्चर गत्यर्थेऽ आङ्पूर्वः, णस्य णित्करणं चरेर्वृद्ध्यर्थम्। पूर्वपदप्रकृतिस्वरत्वं चेति। कृदुतरपदप्रकृतिस्वरस्यापवादः। मांसशीलेति। अत्राणि सति ङीप्स्यात्, णेऽपि क्वचिदण्कृतं भवतीत्येततु ताच्छीलिक एव णे भवति। ठ्मनेर्दीर्घश्चऽ इति सप्रत्ययान्तो मांसशब्दः। कल्याणशब्दः ठ्लघावन्ते द्वयोश्च बह्वषो गुरुःऽ इति मध्योदातः। अस्यायमर्थः----अन्ते लघोः परतो द्वयोश्चान्तयोर्लघ्वोः परतो बह्वषः शब्दस्य यो गुरुः स उदातो भवति। बह्वष इति बह्वच इत्यर्थः।ठष्ऽ इत्यचः पूर्वाचार्यसञ्ज्ञा। ईक्षिक्षमिभ्यां चेति। अत्रापि पूर्वपदप्रकृतिस्वरत्वं चेत्येव, वाक्यभेदस्तु वैचित्र्यार्थः। इह यो मासं भक्षयति मांसं तस्य भक्षो भवति, तत्र भक्षयतेः कर्मण्येरजन्तस्य बहुव्रीहिणा सिद्धम्। एवमन्यत्रापि। यः पुनरण्यन्तस्तस्य घञन्तस्य बहुव्रीहिः, नार्थ एतेन। ननु बहुभक्ष इत्यत्र बहोर्नञ्वदित्युतरपदान्तोदातत्वं प्राप्नोति? एवं तर्हि भावेऽजन्तेन व्यधिकरणपदो बहुव्रीहिर्भविष्यति----बहुषु भक्षोऽस्य बहुभक्ष इति, तत्रोतरपदार्थस्य बहुत्वाभावाद्वहुस्वरो न भविष्यति? सत्यम्; अण्बाधनार्थ तु वचनम्, अकारादनुपपदात्कर्मोतपपदो विप्रतिषेधेन। पचादिभ्योऽच्, अनुपपदोऽकारस्तस्यावकाशः----पचतीति पचः, कर्मोपपदस्यावकाशः----काण्डलावः शरलावः; ओदनपाव इत्यत्रोभयप्रसङ्गे परत्वादयमेवाण् भवति। तेनोपधावृद्धिः, उपपदसमासश्च नित्यो भवति। अचि तु षष्ठीसमासो विकल्पितः स्यात्। न चच वाच्यं युगपद्विवक्षायां भवतु विप्रतिषेधः, केवले पच्यर्थे विवक्षितेऽचि कृते पश्चादोदनसम्बन्धे विवक्षिते ओदनपच इत्यपि प्राप्नोति? एकत्वात्प्रयोगस्य। न हि तस्मिन्नेव प्रयोगे विवक्षितं चाविवक्षितं च कर्म भवति। तस्मादोदनपच इत्यसाधुरेव। गङ्गाधरः, श्रीधरः, वज्रधरः, भूधरः, स्रग्धरेति तु सञ्ज्ञाशब्दाः। यदा त्वजपि सर्वधातुभ्य इति पक्षः, तदापवादत्वादेव तस्याण् बाधकः। तथा ठिगुपधज्ञाप्रीकिरः कःऽ अनुपपदस्तस्यावकाशः---विक्षिपः, विलिखः, कर्मोपपदस्य स एव; काष्ठभेद इत्यत्रोभयप्रसङ्गे परत्वादयमेवाण् भवति। तथा ठनुपसर्गाल्लिम्पविन्दऽ इत्यनुपपदः शस्तस्यावकाशः----लिम्पतीति लिम्पः, कर्मोपपदस्य स एव; कुङ्मलेप इत्यत्रोभयप्रसङ्गे परत्वादयमेवाण् भवति। ठातश्चोपसर्गेऽ इति कोऽनुपपदस्तस्यावकाशः----सुग्लः सुग्लः, कर्मोपपदस्य स एव; गोसन्दाय इत्यत्रोभयप्रसङ्गे परत्वादयमेवाण् भवति॥ ह्वावमश्च॥ ३।२।२ ॥ ह्वावमश्च॥ वेञ् तन्तुसन्ताने इति। ठ्वा गतिगन्धनयोःऽ इत्यस्य ग्रहणं न भवति; अकर्मकत्वात्। भ्रमणार्थो ह्यसौ----सर्वा दिश आवाति वात आवातु भेषजमिति। सोपसर्गस्य तु सकर्मकत्वेऽप्यग्रहणम्; पूर्वेणैवाणः सिद्धत्वात्। वाता वान्ति दिशो दशेति प्रयोगश्चिन्त्यः। अथापि क्वचित्कथञ्चित्सकर्मकत्वम्, तथापि ह्वेञा साहचर्यात्सानुबन्धकस्यैव वेञो ग्रहणम्। माङ् माने इति। इङितो मारूपस्योपलक्षणमेतत्, तेन ठ्मेङ् प्रणिदानेऽ इत्यस्यापि ग्रहणम्। ठ्मा मानेऽ इत्यस्य तु संभावनार्थस्याकर्मकत्वादग्रहणम्। आतोऽनुपसर्गे कः॥ ३।२।३ ॥ आतोऽनुपसर्गे कः॥ कविधौ सर्वत्र प्रसारणिभ्यो डो वक्तव्यः। संप्रसारणभाजःऊउप्रसारणिनः। ठ्ज्या वयोहानौऽ ब्रह्म जिनातीति ब्रह्मज्यः, सर्वत्रग्रहणान्नावश्यमिहैव ठातश्चोपसर्गेऽआह्वः प्रह्वः, के हि संप्रसारणप्रसङ्गः, आह्व अ इति स्थिते संप्रसारणे पूर्वत्वे च कृते उवङदेशे आहुवः प्रहुव इति प्राप्नोति, एवं ब्रह्मजिय इति प्राप्नोति। ननु संप्रसारणे कृते आतो लोपस्तस्य स्थानिवद्भावादियणुवङै न भविष्यतः, लोपो न सिद्ध्यति----अन्तरङ्गत्वात्पूर्वत्वं प्राप्नोति, समानाश्रये च वार्णादाङ्गं बलीय इति? एवं तर्हि प्रागेव संप्रसारणादातो लोपो भविष्यति, परत्वाद् नित्यं संप्रसारणम्, कृताकृतप्रसङ्गित्वात्ऽ आतो लोपस्त्वनित्यः, कृते संप्रसारणे पूर्वत्वेन बाद्ध्यते---यस्य च निमितं लक्षणान्तरेण विहन्यते तदनित्यम्। तदेवं परत्वादातो लोपः, ततः संप्रसारणम्, तत इयणुवङै प्रसक्तावाल्लोपस्य स्थानिवत्वान्न भविष्यतः। ननु योऽनादिष्टादचः पूर्वस्तस्य विधिं प्रति स्थानिवद्भावः, आदिष्टाच्चैषोऽचः पूर्वम्---इदानीमेव ह्युक्तं पूर्वमल्लोपः पश्चात् संप्रसारणमिति? एवं तर्ह्याकारलोपस्यासिद्धत्वादुवङ् न भविष्यति। इहापि तर्हि जुहुवतुः जुहुवतुः आल्लोपस्यासिद्धत्वादुवङ् न प्राप्नोति? आभीयमसिद्धत्वमनित्यमित्यत्र न भविष्यति। अथ वा ठ्संप्रसारणाच्चऽ ठेडः पदान्तात्ऽ इत्यत्र एङ् इति योगविभागः---संप्रसारणादेङ् पिरतः पूर्वपरयोः पूर्वमेकादेशो भवतीति। किमर्थमिदम्, न ठ्संप्रसारणाच्चऽ इत्येव सिद्धम्? ज्ञापनार्थम्-----यत्र संप्रसारणात्पर एङ् संभवति तत्र ठादेच उपदेशेऽशितिऽ इत्यात्वं न भवतीति। यदि स्यात्पूर्वत्वेन तस्य निवृत्तिविधानमनुपपन्नं स्यात्। तेन जुहुवतुरित्यत्रानैमितिकत्वेनान्तरङ्गमप्यात्वमकृत्वा एङ्भावादेव लिटि विहिते संप्रसारणे पूर्वत्वे न स्थानिवत्वं नासिद्धत्वमिति सिद्धमिष्टम्। आह्वः, प्रह्वः, ब्रह्मज्य इत्यत्र त्वाकारान्तलक्षणः प्रत्ययो नासत्यात्वे भवितुमर्हतीति पूर्वमात्वम्, ततः प्रत्ययः, आल्लोपः, संप्रसारणम्, असिद्धत्वादियणुवङेरभावः॥ सुपि स्थः॥ ३।२।४ ॥ सुपि स्थः॥ सुपीति न सप्तमीबहुवचनस्य ग्रहणम्, किं तर्हि? प्रत्याहारस्य; ठ्सुप्तिङ्न्तं पदम्ऽ,ठ्सुप आत्मनः क्यच्ऽ,ठ्सुपो धातुप्रतिपदिकयोःऽ,ठव्ययादाप्सुपःऽ इत्यादौ तस्यैव प्रसिद्ध्वात्। द्वाभ्यं पिबतीति। ननु रूढिशब्दा द्विपादयः, ततश्चासन्तमप्यवयवार्तमाश्रित्य कर्मोपपद एव कः करिष्यते? नैतदेवम्; द्वाभ्यां पिबतीत्यादेरवयवार्थस्य सम्भवतोऽपरित्यागेनैव व्युत्पतौ सम्भवत्यामस्याः कल्पनाया अयुक्तत्वात्। यत्र त्वत्यन्तमसम्भवः, युक्ता तत्रैव सा कल्पना, यथा---तैलतपायिकादौ। अनेन भावे यथा स्यादिति। आरम्भसामर्थ्यातावदयं कर्तुरपकृष्यते, न चान्योऽर्थो निर्द्दिश्यते। अनिर्द्दिष्टार्थाश्च प्रत्ययाः स्वार्थे भवन्ति, स्वार्थस्च धातूनां भाव एव। ननु ठ्घञर्थे कविधानम्ऽ इति भावे कः सिद्धः? सत्यम्; नित्यसमासार्थन्तु वचनम्, अन्यर्था पाक्षिकः षष्ठीसमासः स्याद्। नित्य एव तूपपदसमासो भवति, तथा चाखूनामुत्थानमित्यस्वपदेन विग्रहः कृतः। घञर्थे कविधानमित्यत्र स्थग्रहणं कर्तृवर्जिते कारकेऽपि यथा स्यादिति॥ तुन्दशोकयोः परिमृजापनुदोः॥ ३।२।५ ॥ तुन्दशोकयोः परिमृजापनुदोः॥ तुन्दपरिमृज इति। मृजेरजादौ संक्रम इत्यत्र ठ्यस्मिन्विधिस्तदादौऽ इत्येव सिद्धे आदिग्रहणं मुख्याजादिपरिग्रहार्थम्, तेन व्यपदेशिवद्भावेनाजादावत्र के वॄअद्धिर्न भवति। आलस्य इत्यादि। आलस्ये गम्यमाने सुखोत्पादने च प्रत्यय इत्यर्थः। तत्र सामर्थ्यादलसे कर्तरि सुखस्य चाहर्तरि प्रत्ययो भवतीत्युक्तं भवति। शोकापनोद एवान्य इति। यस्संसारानित्यताद्यौपदेशेन शोकमेव केवलमपनुदति, न तु सुखमुत्पादयति स शोकापनोदः। मूलविभुजादिभ्य इति। तादर्थ्य एषा चतुर्थी, मूलविभुजादिसिद्ध्यर्थमिर्त्थः। आकृतिगणश्चायम्, तेन महीध्र---कुध्र---शिरोरुहादि सिद्धं भवति। काकगुहा इति। काकेभ्यो गूहितव्या इति कर्मणि कप्रत्यय इष्यते, अतो घञर्थे कविधानमित्यत्रेदं द्रष्टव्यम्॥ प्रे दाज्ञः॥ ३।२।६ ॥ प्रे दाज्ञः॥ ददातेरिति। उपलक्षणमेतत्। ठ्गामादाग्रहणेष्वविशेषःऽ इति सर्वेषामेव दारूपाणां ग्रहणमिष्यते। जानातेश्चेति। जनेस्त्वल्लोपेनायं निर्देशो न भवति; ठ्खनो घ चऽ ठ्हनश्च वधःऽ इत्यादौ धातुनिर्द्देशेऽल्लोपस्याकरणात्। प्रेणोपसृष्टादिति। प्रशब्देनोपसर्गेण सम्बद्भादित्यर्थः। ठनुपसर्गेऽ इति चानुवर्तते, तेन केवलेन प्रेणोपसृष्टादित्यर्थः। अतश्च गोसम्प्रदाय इत्यणेव भवति॥ समि ख्यः॥ ३।२।७ ॥ गापोष्टक्॥ ३।२।८ ॥ गापोष्टक्॥ गायतेरिति। ठ्गामादाग्रहणेष्वविशेषःऽ इति गाङे लुग्विकर रणस्यापि ग्रहणं प्राप्तं पिबतिसाहचर्यातु न भवति। सामगीति। टकः कित्वादातो लोपः, टित्वान् ङीप्। सुराशीध्वोः पिबतेरिति वक्तव्यमित्य। पिबतेरिति लुग्विकरणालुग्विकरणपरिभाषालभ्यस्यैवार्थस्य कथनम्, उपपदपरिगणनं तु वाचनिकमेव। क्षीरपेति। स्त्रियामेव विशेषात् स्त्रीलिङ्गमुदाहृतम्॥ हरतेरनुद्यमनेऽच्॥ ३।२।९ ॥ हरतेरनुद्यमनेऽच्॥ अच्प्रकरण इति। लिङ्गविशिष्टपरिभाषयैव घटग्रहणेन घटीग्रहणेऽपि सिद्धे घटीग्रहणम् परिभाषाया अनित्यत्वज्ञापनार्थम्। सूत्रग्राह एवान्य इति। यस्सूत्रं केवलमुपादते, न तु धारयति तत्राणेव भवतीत्यर्थः॥ वयसि च॥ ३।२।१० ॥ वयसि च॥ संभाव्यमानं वेति। तेनासत्यपि कवचग्रहणे वयसि गम्यमाने कवचहर इति भवतीति भावः॥ आइङ् ताच्छील्ये॥ ३।२।११ ॥ आङ् ताच्छील्ये॥ पुष्पाद्याहिरणे इत्यादिना ताच्छील्यमुदाहरणे दर्शयति। स्वाभाविकीति। स्वभावे भवा स्वाभाविकी, अध्यात्मादिः। स्वशब्दो द्वारादिषु पठ।ल्ते, तदादिविधिश्च तत्रेष्यते। भाष्यकारप्रयोगातु द्वारादिकार्याभावः, स्वार्थिकस्वाभाविकश्ब्दौ भाष्ये प्रयुक्तौ। अस्य विवरणम्---फलानपेक्षेति। कथं पुनः फलमनपेक्ष्य तत्र प्रवर्तते, न हि स्वभावः पर्यनुयोगमर्हति॥ अर्हः॥ ३।२।१२ ॥ स्तम्बकर्णयो रमिजपोः॥ ३।२।१३ ॥ स्तम्बकर्णयो रमिजपोः॥ रमेरकर्मकत्वादिति। ननु ठ्व्याङ्परिभ्यो रमःऽ ठुपाच्चऽ इत्यत्रोदाहृतम्---देवदतमुपरमतीति? एवं मन्यते---ठनुपसर्गेऽ इति वर्तत इति। जपेश्च शब्दकर्मकत्वादिति। मन्त्रं जपतीत्यादौ तत्रैव प्रयोगदर्शनात्। कर्म न संभवतीति। केवलस्य रमेर्जपेश्च कर्माद्यशब्दात्मकमिति भावः। सूचकःऊपिशुनः। स्तम्बेरम इति। ठ्तत्पुरुषे कृति बहुलम्ऽ इत्यलुक्। कर्णे जपिता मशक इति। उपांशुशब्दायितेत्यर्थः॥ शमि धातोः संज्ञायाम्॥ ३।२।१४ ॥ शमि धातोः संज्ञायाम्॥ धातुमात्रादिति। मात्रग्रहणेनापवादविषयेऽपि विधानं भवतीति दर्शयति। शङ्कर इति। एहिकमामुष्मिकं मोक्षाख्यं च सुखं करोतीति शङ्करः। धातुग्रहणस्य प्रयोजनं दर्शयन्मात्रग्रहणप्रतिपादितमेवार्थ स्पष्टीकरोति---शमिसंज्ञायामिति। अस्मिन्सूत्र इत्यर्थः। असति धातुग्रहणे शमिशंज्ञायामित्यस्यावकाशः----शम्भवः, शंवद इति, ठ्कृञो हेतुताच्छील्येऽ इत्यस्यावकाशः----श्राद्धकर इति; शङ्करा इत्यत्रोभयप्रसङ्गे परत्वाट्ट एव स्याद्, धातुग्रहणसामर्थ्यादजेव भवति। कुण्डखाडवस्त्वाचार्यो मन्यते---गृणातेः शब्दकर्मण एतद्रूपम्, पृषोदरादित्वाद्रकारस्य ककार इति, तन्मते धातुग्रहणं चिन्त्यप्रयोजनम्॥ अधिकरणे शेतेः॥ ३।२।१५ ॥ अधिकरणे शेतेः॥ पर्श्वादिष्विति। अनधिकरणार्थमिदम्। तद्विग्रहेण दर्शयति----पार्श्वाभ्यामिति। दिग्धसहशय इति। दिग्धेन सह शेते इत्यचि कृते मयूरव्यंसकादित्वात्समासः। दिग्दसहशब्दो मयूरव्यंसकादिस्तस्योपपदसमासः। अवमूर्द्धशय इति। अवनतां मूर्द्धा यस्य अवमूर्द्धा अधोमुखः शेत इत्यर्थः। गिरौ डश्चन्दसीति। यदि च्छन्दसीत्युच्यते, कथम् ठ्गिरिशमुपचचार प्रत्यहं सा सुकेशीऽ,ठारोपितं यद्रिरिशेन पश्चात्ऽ इति? निरंकुशाः कवयः। अन्ये त्वाहुः-----इह यो गिरौ शेते गिरिस्तस्यास्तीति लोमादिषु दर्शनाच्छप्रत्ययः। तथा चात्रैव वार्तिकम्----तद्धितो वेति। न च लोमादिष्वपि च्छन्दोग्रहणमस्ति, तेन भाषायामपि गिरिश इति भवति। एवं च कृत्वा निघण्टुअषु पाठोऽप्युपन्नो भवति। गिरौ शेत इति। गिरावास्त इत्यर्थः॥ चरेष्टः॥ ३।२।१६ ॥ भिक्षासेनादायेषु च॥ ३।२।१७ ॥ भिक्षाशेनादायेषु च॥ भिक्षाचर इति। चरतिरत्र तत्पूर्वके अर्जने वर्तते, चरणेन भिक्षामर्जयतीत्यर्थः। सेनाचर इति। सेनां प्रविशन्नुच्यते। आदायचर इति। आदाय गच्छतीत्यर्थः, भक्षयतीति वा। कथं सहचरः, सहचरीति? पचादिषु चरडिति पठ।ल्ते, सुप्सुपेति समासः॥ पुरोऽग्रतोऽग्रेषु सर्तेः॥ ३।१।१८ ॥ पुरोऽग्रतोऽग्रेषु सर्ते॥ अग्रे इत्येतेष्विति। एतेनाग्रशब्दस्यैकारान्तत्वं निपात्यत इति दर्शयति। एतच्चाग्रेशब्दस्यच परनिपातनादेव विज्ञायते, अन्यथा ठजाद्यदन्तम्ऽ इति पूर्वनिपातः स्यात्। किमर्थ पुनरेकारान्तत्वं निपात्यते, यावता सप्तम्या अलुकाप्यग्रेसर इति सिद्धम्? यदा तर्ह्यग्रं सरति अग्रेण सरतीति वा विगृह्यते तदाप्यग्रेसर इत्येव यथा स्यात्। कथं ठ्यूथं तदग्रसरगर्वितकृष्णसारम्ऽ इति? ठ्कृत्यल्युटो बहुलम्ऽ इति समर्थनीयम्॥ पूर्वे कर्तरि॥ ३।२।१९ ॥ कृञो हेतुताच्छील्यानुलोम्येषु॥ ३।२।२० ॥ कृञो हेतुताच्छील्यानुलोम्येषु॥ करोतेर्द्धातोरिति। प्रसिद्धतरत्वाद् द्व्यनुबन्धकस्याप्यस्यैव ग्रहणम्, न तु ठ्कृञ् हिसायाम्ऽ इत्यस्येति भावः। आनुलोम्ये च गम्यमान इति। एतेन हेत्वादीनि नोपपदानीति दर्शयति, एतच्च ठ्शमि धातोःऽ इत्यत्र धातुग्रहणात्कृञो हेत्वादिषु टप्रतिषेधार्थाद्विज्ञायते। उपपदत्वे हि शम्यपपदे टप्रत्यस्य प्राप्त्यभावादनर्थकं तत्स्याद्। अतौ नैषामुपपदत्वम्, नापि प्रत्ययार्थत्वम्,ठ्कर्तरि कृत्ऽ इत्सस्य बाधप्रसङ्गात्। न चासति विरोधे बाधा युक्ता। हेतुरैकान्तिक कारणमिति। एकान्तशब्दो विनयादिषु द्रष्टव्यः, नियतमव्यभिचारीत्यर्थः। एतेन लौकिकस्य हेतोर्ग्रहणमिति दर्शयति। न हि केवले कृञि प्रयोजककर्ता सम्भवतीति भावः। ननु लौकिकेनापि हेतुना कर्तुर्विशेषणमयुक्तम्, अव्यभिचारात्, न हि कर्तुरनिमितत्वमस्ति? सत्यम्; पुनर्हेतुशब्दोपादनादैकान्तिकत्वमाश्रीयते, अन्यथा निमितमात्रमुपादीयेत। अनुकूलताऊआराध्यचितानुवर्तनम्। यशस्करी विद्येति। ठतः कृकमिऽ इत्यादिना विसर्जनीयस्य सत्वम्॥ दिवाविभानिशाप्रभाभास्करान्तानन्तादिबहुनान्दीकिंलिपिलिबिबलिभक्तिकर्तृचित्रक्षेत्रसंख्याजङ्घाबाह्वहर्यतद्धनुररुष्षु॥ ३।२।२१ ॥ दिवाविभानिशाप्रभाभास्करान्तानन्तादिबहुनान्दीकिंलिपिलिबिबलिभक्तिकर्तृचित्रत्रेत्रसंख्याजङ्घाबाह्वहर्यतद्धनुररुष्षु॥ यथायोगमिति। तत्र दिवाशब्दोऽह्रीति सप्तम्यन्तस्यार्थे वर्तत इति तस्य कर्मत्वानुपपतेः ठ्सुपिऽ इत्यनेनाभिसम्बन्धः, शेषाणां तु कर्मणीत्यनेन। यदि तु दोषामन्यमहः, दिवामन्या रात्रिरितिवद् वृत्तिविषये कर्मत्वमभ्युपगम्येत, तदा दिवाशब्दस्यापि कर्मणीत्यनेन संबन्धः। सकारस्येति। भास्करान्तेति भाशब्दस्य प्रत्ययसन्नियोगेन सकारो निपात्यते, तस्माद्भास्कर इत्यत्र विसर्जनीयजिह्वामूलीयौ न भवतः। अथ वा----सकारस्य विसर्जनीयजिह्वामूलीयौ न भवतः, कुतः? निपातनात्। भास्करान्तेति सूत्रे सकारोच्चारणमेव निपातनम्। कारकर इति। कर एव कारः, प्रज्ञादित्वात्स्वार्थेऽण। अनन्तकर इति। अन्तकरशब्देन नञ्समासेऽप्येतद्रूपं सम्भवति, स्वरे हि दोषः स्यात्----सतिशिष्टोऽव्ययपूर्वपदप्रकृतिस्वरः प्रसज्येत, इष्यते हि गतिकारकोपपदात्कृदिति कृदुतरपदप्रकृतिस्वरेणान्तोदातत्वम्। बहुकर इति। बहुशब्दो वैपुल्यवचनः, संख्यावचनस्य तु चसंख्याग्रहणेनैव सिद्धम्। लिपिलिबिशब्दौ पर्यायौ। अहस्कर इति। अहन् ठ्रोः सुपिऽ इति रोफः, पूर्ववत्सत्वम्। धनुष्करः, अरुष्कर इति। ठ्नित्यं समासेऽनुतरपदस्थस्यऽ इति षत्वम्, ठ्किंयतद्वहुषु कृञोऽज्विधानम्ऽ इति वार्तिकेन सूत्रस्य बाधितत्वाट्टस्याभावाद्धेत्वादिष्वन्यत्र किंकरीत्यसाधुरित्याहुः। क्वचिद् ग्रन्थः---अथ वा वचादिषु पाठः करिष्यत इति। तत्रायमर्थः----इह किमादिग्रहणमपनीय पचादिष्वेव ठ्किंयतद्वहुषु कृञःऽ इति पठितव्यमिति॥ कर्मणि भृतौ॥ ३।२।२२ ॥ कर्मणि भृतौ॥ कर्मणीति स्वरूपग्रहणमिति। अनुवृतेन कर्मणीत्यनेन विशेषणात्। कर्मनिर्वेश इति। कर्म क्रिया, तस्य निष्क्रयाय देयं भक्तादिद्रव्यमित्यर्थः॥ न शब्दश्लोककलहगाथावैरचाटुअमूत्रमन्त्रपदेषु॥ ३।२।२३ ॥ स्तम्बशकृतोरिन्॥ ३।२।२४ ॥ स्तम्बशकृतोरिन्॥ स्तम्बकरिरिति। नित्वात्कृदुतरपदप्रकृतिस्वरेणोतरपदमाद्यौदातं भवति॥ हरतेर्द्दतिनाथयोः पशौ॥ ३।२।२५ ॥ हरतेर्द्दतिनाथमोः पशौ॥ पशौ कर्तरीति। एतेन प्रत्ययार्थस्य कर्तुः पशुर्विशेषणम्, न तु तस्य बाधक इति दर्शयति। धातोर्हि प्रत्ययविधानातदर्थस्य येन सम्बन्धस्तत्र वाच्ये प्रत्ययो भवितुमर्हति। धात्वर्थस्य च क्रियायाः साधनेन सम्बन्धः। पशुशब्दस्तु चतुष्पाज्जातीयं वस्तुस्वरूपेणाचष्टे, न शक्तिमद्रूपेण, नतरां शक्तिरूपेणेति। न पश्वर्थः स्वरूपेण प्रत्ययार्थो भवितुमर्हतीति युक्तमुक्तम्पशौ कर्तरीति। एवं सर्वत्र प्रत्ययार्तविशेषणं द्रष्टव्यम्॥ फलेग्रहिरात्मम्भरिश्च॥ ३।२।२६ ॥ फलेग्रहिरात्मम्भरिश्च॥ उपपदस्यैकारान्तमिति। च्छन्दस्यकारान्तत्वमपि द्दश्यते---या वनस्पतीनां फलग्रहिरिति। स कुक्षिम्भरिवच्चकारेण समुच्चेतव्यः॥ च्छन्दसि वनसनरक्षिमथाम्॥ ३।२।२७ ॥ च्छन्दसि वनसनरक्षिमथाम्॥ वन षण संभक्ताविति। गणे सहपठितयो र्भौवादिकयोरेव ग्रहणम्, न तु ठ्वनु याचनेऽ ठ्षणु दानेऽ इति तानादिकयोरिति भावः। अत्र साहचर्यमेव हेतुः, निरनुबन्धकत्वं च। ब्रह्मवनिमिति। ब्रह्म वनति, क्षत्रं वनतीति विवक्षयामिन् प्रत्ययः, तदन्ताद् द्वितीयैकवचनम्। गौसनिमिति। गांसनतोति विग्रहः। पथिरक्षी इति। पन्थानं रक्षत इति विग्रहः। हविर्मथन्तीति हविर्मथयस्तेषां हदिर्मथीनाम्॥ एजेः खश॥ ३।२।२८ ॥ एजेः खश॥ ण्यन्तादिति। एजेस्त्वयमिका निर्देशो न भवति; खशः शित्करणात्। तद्धि सार्वधातुकत्वे सति शब्यथा स्यादिति। न चैजेः प्रकृत्यन्तरस्य शपि सत्यसति वा विशेषोऽस्ति। न चेवमिहार्थत्वे सम्भवति, केवलोतरार्थत्वं युक्तम्। सित्करणं मुमर्थमिति। खित्कार्योपलक्षणमेतत्। शुनिन्धयः नाडिन्धयः, नासिकन्धय इति ह्रस्वत्वमपि प्रयोजनम्। शकारः सावधातुकार्थ इति। सार्वधातुकसंज्ञार्थ इत्यर्थः। वातशुनीत्यादि। वातादिषु यथासंख्यमुपपदेषु अजादिभ्यो धातुभ्यः खश् प्रत्ययो भवति। शर्द्धजहा इति। ठोहाक् त्यागेऽ जुहोत्यादित्वाच्छपः श्लौ द्विर्वचने ठ्श्नाभ्यस्तयोरातःऽ इत्याकारलोपः॥ नासिकास्तनयोर्ध्माधेटोः॥ ३।२।२९ ॥ नासिकास्तनयोर्ध्माधेटोः॥ नासिकन्धम इति। पाघ्रादिसूत्रेण धमादेशः। तच्चैतदित्यादिना यथासंख्याभावे हेतुमाह, तच्चैतत् यथासंख्याभावलक्षणं कार्यम्। एतेन च व्याख्यातृणां मूलत्वेन सूत्रकारस्याप्यत्र किंचिदभिप्रेतमित्येतावत्प्रदर्श्यते। तेनैतन्न नोदनीयम्-----उतरसूत्रवत्प्रत्येकमभिसम्बन्धः कस्भान्न भवति, विपर्ययो वा कस्मान्न भवतीति। स्तनन्धयति। अत्रैव ङीबिष्यते, नान्यत्रेत्याहुः॥ नाडीमुष्ट।लेश्च॥ ३।२।३० ॥ नाडीमुष्ट।लेश्च॥ घटिन्धमः, खरिन्धम इति। घटीउघटः, खरीउगर्द्दभी, जातिलक्षणो ङीष्। खारीत्यन्ये पठन्ति स च परिमाणवचनः। वातशब्दो न द्दष्टः॥ उदि कूले रुजिवहोः॥ ३।२।३१ ॥ उदि कूले रुजिवहोः॥ यत्र प्रत्येकमुपपदत्वमिच्छति तत्र समुदायात्सप्तमीमुच्चारयति, यथा---नाडीमुष्ट।लेरिति। इह तु विपर्ययः कृतः; तस्मात् ठुदिऽ इति सत्सप्तमी। ठ्कूलेऽ इति त्वर्थनिरपेक्षैवोपपदसंज्ञायां लिङ्गम्। तत्र च ठ्ते प्राग्धातोःऽ इति उच्छशब्दस्य धातोः प्राक् प्रयोगः। ततः पूर्वः कूलशब्दः। तदेतद्दर्शितम्----उत्पूर्वाभ्यां कूले कर्मण्युपपद इति॥ वहाभ्रे लिहः॥ ३।२।३२॥ परिमाणे पचः॥ ३।२।३३ ॥ परिमाणे पचः॥ परिमाणशब्दः काष्ठादिनिर्मिते प्रस्थादौ वर्तते, न तस्य लिक्लेदवाचिना पचिना कर्मत्वेनान्वयः। अतो न स्वरूपग्रहणम्, किं तर्हि? तद्विशेषाः प्रस्थादयो गृह्यन्ते, ते च परिमेये परिमेये व्रीह्यादौ च वर्तन्ते। तत्र परिमाणनिष्ठानां न पचिनान्वय इति परिमेयनिष्ठेषु प्रत्ययः। न तर्हि परिमाणवाचित्वम्, न; परिमामाध्यारोपेण परिमेये प्रस्थादिशब्दस्य प्रवृतेः॥ मितनखे च॥ ३।२।३४ ॥ मितनखे च॥ नखम्पचेति। पचिरत्र तापवचनः॥ विध्वरुषोस्तुदः॥ ३।२।३५ ॥ विध्वरुषोस्तुदः॥ अरुन्तुद इति। ठरुर्द्विषदजन्तस्य मुम्ऽ इति उकारात्परो मुम्, संयोगान्तस्य लोपः॥ असूर्यललाटयोर्द्दशितपोः॥ ३।२।३६ ॥ असूर्यललाटयोर्द्दशितपोः॥ असूर्यम्पश्या इति। पाघ्रादिसूत्रेण पश्यादेशः। गुप्तपरं चैतदिति। यद्वचनम्---ठसूर्यम्पश्या राजदाराःऽ इति, एतद् गुप्तिप्रधानम्; तेन सत्यपि सूर्यदर्शने प्रयोगो न विरुद्ध्यत इति भावः। गुप्तिपरत्वमेव प्रकटयति एवं नामेति॥ उग्रम्पश्येरम्मदपाणिन्धमाश्च॥ ३।२।३७ ॥ उग्रम्पश्येरम्मदपाणिन्धमाश्च॥ उग्र पश्यतीति। क्रियाविशेषणमेतत्। इरम्मद इति। ठ्मदी हर्षेऽ दिवादित्वाच्छयनि प्राप्ते तदभावो निपातनात्। इराऊदकम्। पाणिन्धमाः पन्थान इति। ते पुनर्येषु गच्छद्भिः सर्पाद्यपनोदनाय पाणयो ध्मायन्तेउशब्द्यन्ते॥ प्रियवशे वदः खच्॥ ३।२।३८ ॥ प्रियवशे वदः खच्॥ चकारः खचि ह्रस्वः इति विशेषणार्थ इति। ठ्खे ह्रस्वःऽ इत्युच्यमाने ठेजेः खश्ऽ अङ्गमेजयः, जनमेजयः---अत्रापि प्राप्नोति?ठेकानुबन्धकग्रहणे न द्व्यनुबन्धकस्यऽ इत्यत्र न भविष्यति। इह तर्हि---ठ्कुलात्खःऽ कुलीनः, यस्येति लोपनिवृतये ह्रस्वः स्यात्? तत्र धातुप्रत्ययस्य ग्रहणं तत्प्रकरणसाहचर्यादेष चिन्त्यप्रयोजनश्चकारः। प्रत्ययान्तरकणमुतरार्थमिति। ठ्द्विषन्तपःऽ इत्यत्र ह्रस्वणिलोपौययास्याताम्, शप् च मा भूदिति। यद्येवम्, उतरत्रैव कर्तव्ये इह करणे किं प्रयोजनम्? अन्येभ्योऽपि भवतीति ज्ञापनार्थम्। तेन ठ्गमेः सुप्युपसंख्यानम्ऽ इति न वक्तव्यं भवति। मितङ्गम इति। असंज्ञार्थमिदम्, संज्ञायां तु ठ्गमश्चऽ इति वक्ष्यमाणेनैव सिद्धम्। द्विषत्परयोस्तापेः॥ ३।२।३९ ॥ द्विपत्परयोस्तापेः॥ द्विषन्तप इति। मुमि संयोगान्तलोपः। द्वितकारको निर्देश इति। तत्रैकेन द्विषच्छब्दो विशेष्यते-----तकारान्तो यो द्विषच्छब्द इति, सौत्रत्वान्निर्द्देशस्य विशेषणस्य परनिपातः। तेन स्त्रियां न भवतीति। अन्यथा लिङ्गविशिष्टपरिभाषया स्यादेव प्रसङ्ग इति भावः॥ वाचि यमो व्रते॥ ३।२।४० ॥ वाचि यमो व्रते॥ शास्त्रि इति। शास्त्रशब्दाद्विधाने धात्वर्थे णिच्, तदन्तात्कर्मणि क्तः। शास्त्रे विहितः, शास्त्रेण वाउशास्त्रितः। नियम इति। सङ्कल्पविशेषः। वाचंयम इति। ठ्वाचंयमपुरन्दरौ चऽ इति पूर्वपदस्यामन्तत्वम्। तत एव तर्हि निपातनात्प्रत्ययो भविष्यति। व्रतादन्यत्रापि तर्हि प्राप्नोति? तत्रैव ब्रतग्रहणं करिष्यते----ठ्वाचंयमो ब्रते पुरन्दरश्चऽ इति, तदेतच्चिन्त्यप्रयोजनम्। एतेन पुरन्दरो व्याख्यातः। वाग्याम इति। योऽशक्त्यादिना वाचं यच्छति तत्राणेव भवति॥ पूः सर्वयोर्दारिसहोः॥ ३।२।४१ ॥ पूः सर्वयोर्दारिसहोः॥ ठ्द्द विदारणेऽ इत्यस्य ग्रहणम्; न ठ्द्द भयेऽ,ठ्द्दङ् आदरेऽ-----इत्येतयोरित्युपदेशः। असंज्ञार्थं सहिग्रहणम्, संज्ञायां तु वक्ष्यति। सर्वेसहो राजेति। सर्व संपादयितुं समर्थ इत्यर्थः॥ सर्वकूलाभ्रकरीषेषु कषः॥ ३।२।४२ ॥ मेघर्तिभयेषु कृञः॥ ३।२।४३ ॥ मेघर्तिभयेषु कृञः॥ करोतेरिति। कृणोतेस्तु पूर्ववदेवाग्रहणम्। शिवंकर इत्यपि च्छन्दसि द्दश्यते----शिव एको ध्येयः शिवंकर इति॥ क्षेमप्रियमद्रेऽण् च॥ ३।२।४४ ॥ आशिते भुवः करणभावयोः॥ ३।२।४५ ॥ आशिते भुवः करणभावयोः॥ अत्र सुपीत्युपतिष्ठते इति। न तु कर्मणीति, भवतेरकर्मकत्वात्। सोपसर्गात्प्राप्त्यर्थाच्च खचा न भवितव्यम्, अनभिधानादिति भावः। आशितशब्दोऽयम् ठश भोजनेऽ इत्यस्मादाङ्पूर्वादविवक्षिते कर्मणि क्तप्रत्ययान्तो गृह्यते---आशितः कर्तेति, यस्याद्यौदातत्वं विधास्यते। यस्तु ठ्ध्रौव्यगतिप्रत्यवसानार्थेभ्यःऽ इति भावकर्माधिकरणेषु क्तः, न तदन्तो गृह्यते, अनभिधानादित्याहुः। अन्ये त्वशेर्ण्यान्तात्प्रयोज्ये कर्मणि क्तप्रत्यये कृते य आशितशब्दः स गृह्यते। एवमाशितः कर्तेति यस्याद्यौदातत्वं तत्रापि प्रयोज्य एव भूतपूर्वगत्या कर्तोच्यते, ठ्गतिबुद्धिप्रत्यवसानार्थऽइति अणौ कर्तुर्णौ कर्मसंज्ञाविधानात्। तथा च कृषन्नित्फाल आशितं कृष्णोतीति आद्यौदातस्यावग्रहो न द्दश्यते। कर्तृग्रहणं तु तत्र भावनिवृत्यर्थमिति। आशितम्भव ओदन इति। यावतौदनेनातिथ्यादिराशितो भवति स एवमुच्यते॥ संज्ञायां भृतृवृजिधारिसहितपिदमः॥ ३।२।४६ ॥ संज्ञायां भृतृवृजिधारिसहितपिदमः॥ संज्ञावशादित्यादि। ठ्शत्रुन्तपःऽ इत्यादौ यत्र कर्मार्थानुगमस्तत्र कर्मणीति सम्बध्यते। यत्र तु न रथन्तरमित्यादौ तत्र सुपीति। अरिन्दम इति। अन्तर्भावितण्यर्थो दमिः सकर्मको भवति॥ गमश्च॥ ३।२।४७ ॥ गमश्च॥ योगविभाग उतरार्थ इति। उतरत्र गमेरेवानुवृत्तिर्यथा स्याद्, भृतृप्रभृतीनां मा भूत्॥ अन्तात्यन्ताध्वदूरपारसर्वानन्तेषु डः॥ ३।२।४८ ॥ अन्तात्यन्ताध्वदूरपारसर्वानन्तेषु डः॥ अनुबन्धकरणसामर्थ्यादिति। श्रवणार्थस्तु डकारो न भवति, ठ्पादस्य पदाज्यातिगोपहतेषुऽ इति कृतटिलोपस्य डप्रत्ययान्तस्य निर्देशात्। अत्रात्यन्तानन्तग्रहणमनर्थकम्, अन्तशब्दोऽत्र गृह्यते, तेन कर्मणो विशेषणातदन्तविधिर्भविष्यति। उपपदविधौ तु न सर्वत्र तदन्तविधिः, उपपदविधौ तदाद्यादिग्रहणमिति नियमात्। पन्नं पतितं यथा गच्छतीति पन्नगः। ठ्सुदुरोरधिकरणेऽ इति कर्मणि खलेव भवति----सुगमः, दुर्गम इति। अन्यत्रापि द्दश्यत इति। एवं च सूत्रमपि प्रपञ्चार्थम्॥ आशिषि हनः॥ ३।२।४९ ॥ आशिषि हनः॥ दाराविति। दारुशब्द इत्यर्थः। शब्दापेक्षया पुंल्लिङ्गः,टविधानार्थ वचनम्, अण् ठ्कर्मण्यण्ऽ इत्येव सिद्धः। अन्तग्रहणं विस्पष्टार्थम्, ठलोऽन्त्यस्यऽ इत्येव सिद्धम्॥ अपे क्लेशतमसोः॥ ३।२।५० ॥ कुमारशीर्षयोर्णिनिः॥ ३।२।५१ ॥ कुमारशीर्षयोर्णिनिः॥ ठ्सुप्यजातौऽ इति सिद्धेऽताच्छीत्यार्थमिदं वचनम्,शिरसः, शीर्षभावार्थ च॥ लक्षणे जायापत्योष्टक्॥ ३।२।५२ ॥ लक्षणे जायापत्योष्टक्॥ लक्षणवतीति। एतेनार्श आद्यच्प्रत्ययान्तो लक्षणशब्द इति दर्शयति। एतच्च सूत्रारम्भादेवावसीयते, केवले हि लक्षणे उतरेणैव सिद्धः प्रत्ययः। जायाध्नो ब्राह्मण इति। यस्य तिलकालादि जायामरणलिङ्गमस्ति स तां हन्तीति गौणो गदः। एतेन पतिघ्नी व्याख्याता। ठ्गमहनऽ इत्युपधालोपः, टित्वान्ङीप्॥ अमनुष्यकर्तृके च॥ ३।२।५३ ॥ अमनुष्यकर्तृके च॥ अमनुष्यशब्दो रक्षः पिशाचादिषु रूढ इति पूर्वमुक्तम्, इह तु मनुष्यादन्यः सर्व एव गृह्यते। ननु यथा पूर्वसूत्रे लक्षणग्रहणं प्रत्ययार्थस्य कर्तुविशेषणम्, एवमिहाप्यमनुष्यग्रहणं भविष्यतीति नार्थः कर्तृग्रहणेन? ठमनुष्येऽ इत्युच्यमाने उपपदत्वमपि विज्ञायेत, तस्मात्कर्तृ ग्रहणम्। कृतघ्नशब्दो मूलविभुजादिषु द्रष्टव्यः॥ शक्तौ हस्तिकपाटयोः॥ ३।२।५४ ॥ शक्तौ हस्तिकपाटयोः॥ विषेण हस्तिनं हन्तीति। नन्वत्राप्यशक्तस्य कर्तृत्वानुपपतेरस्त्येव शक्तिः? सत्यम्; शक्तिग्रहणसामर्थ्यात्प्रकर्षविज्ञानादन्यतिरपेक्षस्वबलेनैव हन्तुं या शक्तिः सा गृह्यते, तद्दर्शयति----हस्तिनं हन्तुं समर्थो हस्तिध्नो मनुष्य इति। एवं च हस्तिनं हन्तु मा वा वधीत् सामर्थ्ययोगाद्धस्तिघ्न इत्युच्यते। कं पाटयति प्रविशत इति। कपाटशब्दं व्युत्पादयति। कवाटमिति तु प्रसिद्धः, तत्राटतेः पचाद्यच्। ठ्कवङ् चोष्णोऽ इति योगविभागात्कोः कवादेशः॥ पाणिघताडघौ शिल्पिनि॥ ३।२।५५ ॥ आढ।ल्सुभगस्थूलपलितनग्नान्धप्रियेषु च्व्यर्थेष्वच्वौ कृञः करणे ख्युन्॥ ३।२।५६ ॥ आढ।ल्सुभगस्थूलपलितनग्नान्धप्रियेषु च्व्यर्थेष्वच्वौ कृञः करणे ख्युन्॥ आढ्यदिष्विति। अनेन आढ्यदीनामुपपदत्वं दर्शयति। करणे कारके इत्यनेनापि करणस्य प्रत्ययार्थत्वम्। अथैवं कस्मान्न विज्ञायते---करण उपपदे आढ्यदिषु कर्तृष्विति? उच्यते----ठ्च्व्यर्थेष्वच्चौऽ इति वचनाद् आढ्यदिशब्दाः स्वरूपप्रधानाः, न च शब्दानां कर्तृत्वमुपपद्यते। ननु च श्रवणेन करोति सुखमाढ्यशब्द इत्यत्र शब्दस्यापि कर्तृत्वं सम्भवति? एवं तर्हि व्याख्यानातथा नाश्रीयते। अच्वाविति तत्पुरुषो बहुव्रीहिर्वा, अच्व्यन्त इत्यर्थः। प्रत्येकं सम्बन्धात्वेकवचनम्। कथं पुनच्व्यर्थाश्च भवन्त्यचव्यन्ताश्च भवन्तीत्याह----च्वेविकल्पेन विधानादिति। आढ।ल्ङ्करणमिति। ख्युनः खकारो मुमर्थः, लिङ्गविशिष्टपरिभाषया स्त्रालिङ्गष्वाढ्यदिषूपपदेषु ह्रस्वार्थश्च। नकारः स्वरार्थः। योरनादशः। अभ्यञ्चयन्तीत्यर्थ इति। अनेकार्थत्वाद्धातूनाम्। तेनात्र प्रागनाढयः सन्नाढयः क्रियत इति अभूततद्भावाभावः। भवतु वाऽभूततद्भावः, तथापि युक्तमेवेदं प्रत्युदाहरणमित्याह---प्रकृतेरविवक्षायामिति। प्रकृतिरेव परिणामित्वेन यत्र विवक्ष्यते, यथा-----तन्तवः पटो भवतीति, तदा च्विप्रत्ययः, तथा च वार्तिकम्----ठ्प्रकृतिविवक्षाग्रहणं चऽ इति, प्रकृतिः कार्यस्य पूर्वावस्था। अच्वाविति किमिति। अस्य वक्ष्यमाणोऽभिप्रायः, तमाविष्करोति----ननु चेति। ल्युटात्र भवितव्यमिति। ठ्करणाधिकरणयोश्चऽ इति। न च ल्युटः ख्युनश्च विशेषोऽस्तीति, ल्युटि तावदाढ्योकरणमिति रूपम्, स्वरोऽपि लित्स्वरेणोतरपदाद्यौ९दातत्वम्; ख्युन्यपि नित्स्वरेणाद्यौदातत्वम्, ठ्खित्यनव्ययस्यऽ ठरुर्द्विषदजन्तस्य मुम्ऽ इति ह्रस्वत्वम्, मुम् चानव्ययस्य विधीयते, च्व्यन्ताश्चाव्ययम्; ठूर्यादि च्विडाचश्चऽ इति निपातत्वात्। स्त्रियामप्युभयत्र ठ्टिड्ढाणञ्ऽ इत्यादिना ङीब् भवति, अतो रूपे स्वरे च नास्ति विशेषः। उतरार्थश्चोति। उतरसूत्रे खिष्णुच्खुकञ्भ्यां मुक्ते तृजादिभिर्भवितव्यमित्यस्ति विशेषः, कथं तर्हि पूर्वमुक्तम्---प्रतिषेधसामर्थ्यादिति? अस्मिन्सूत्रे प्रतिषेधसामर्थ्यादिति भावः। केवलोतरार्थत्वे हि तत्रैव ठच्वौऽ इत्यवक्ष्यत्, यथा वक्ष्यते----इह किंचित्रपो इति। भाष्ये तूतरार्थमेव स्थितम्॥ कर्तरि भुवः खिष्णुच्खुकञौ॥ ३।२।५७ ॥ कर्तरि भुवः खिष्णुच्खुलञौ॥कर्तग्रहणं करणनिवृत्यर्थम्, उतरार्थं च, खकारो मुमर्थः, चकारः स्वरार्थः, ञकारो वृद्ध्यर्थश्च। किमर्थं खिष्णुजिकारादिः क्रियते, न ख्स्नुरित्येवोच्येत, तत्रायमप्यर्थः---स्वरार्थश्चकारो न कर्तव्यो भवति, प्रत्ययस्वरेणैव सिद्धम्? केनेदानीमिकारादित्वं सिद्ध्यति? तत्राह---उदातत्वादिति। भवतिरयमुदातः, तस्योदातत्वादिड् भविष्यति। नञस्त्विति। ठ्नञःऽ इति पञ्चमी, नञ उतरस्य खिष्णुजन्तस्य स्वरमिद्ध्यर्थमित्यर्थः। यद्ययमिकारादिर्नक्रियेत्, ततः सत्यपीटि ठ्कृत्योकेष्णुच्चार्वादयश्चऽ इत्यस्य ग्रहणं न स्याद् अस्य चकाराभावात्। अथास्यापि चकारः क्रियेत? एवमपि लाक्षणिकत्वात् षत्वणत्वयोश्चासिद्धत्वादिष्णुजिति रूपाभावाद् ग्रहणं न स्यादेव, तत इकारादित्वं क्रियते। ननु च सत्यपीकारादित्वे ठ्तदनुबन्धकग्रहणे नातदनुबन्धकस्यऽ,ठेकानुबन्धकग्रहणे न द्व्यनुबन्धकस्यऽ इति वा अलंकृञादीष्णुच एव ग्रहणेन भवितव्यम्,नास्य? इकारोच्चारणसामर्थ्यादस्यापि ग्रहणं भविष्यतीति मन्यते। यद्येवम्, ख्ष्णुजयमस्तु, तत्र षत्वणत्वयोश्चकारस्य चज करणसामर्थ्यादिटि कृतेऽस्यापि ग्रहणं सिद्धमिति चिन्त्यप्रयोजनमकाराइदित्वम्॥ स्पृशोऽनुदके क्विन्॥ ३।२।५८ ॥ स्पृशोऽनुदके क्विन्॥ ननु चेत्यादि। ठ्सुपि स्थःऽ इत्यत्रोक्तम्----सकर्मकेषु कर्मणीत्युपतिष्ठतेऽन्यत्र सुपीति, ततश्च सुबन्त उपपदे क्विन् प्रत्यय इत्युक्तमनुपपन्नमिति भावः। तत्कर्तृप्रचयार्थमिति। ठ्कर्तरि कृत्ऽ इत्येव कर्तरि क्विनः सिद्धत्वात्कर्त्रनुवृतेर्नान्यत्प्रयोजनमस्तीति भावः। कर्तृप्रचयो लभ्यत इति। कर्मण्युपपद एकः कर्ता, करणादौ चापर इत्येवं प्रचयो भवति। घृतस्पृगिति। ठ्क्विन्प्रत्ययस्य कुःऽ इति शकारस्य षकारः सोष्मत्वेनान्तरतम्यात्, ठ्झलां जशोऽन्तेऽ। क्विनः ककारो गुणवृद्धिप्रतिषेधार्थः, इकारः ठ्वेरपृक्तस्यऽ इति विशेषणार्थः। नकारः किमर्थः, एकाज्भ्यो ह्ययं विधीयते तत्र धातुस्वरेणैव सिद्धम्? यस्तर्ह्यनेकाज्----दधृगिति, वक्ष्यत्येतद्धृषेर्द्धिर्वचनमन्तोदातत्वञ्चेति? एवं तर्हि ठ्क्विन्प्रत्ययस्य कुःऽ ठ्क्विप्रत्ययस्यऽ इत्युच्यमाने सन्देहः स्यात्----क्वेः क्विपो वा निर्देश इति। क्वेरपि निर्देशे पकारस्य ठनचि चऽ इति द्विर्वचनम्॥ ऋत्विग्दधृक्स्रग्दिगुष्णिगञ्चुयुजिक्रुञ्चां च॥ ३।२।५९ ॥ ऋत्विग्दधृक्स्रग्दिगुष्णिगञ्चुयुजिक्रुञ्चां च॥ ऋतौ यजतीति। वसन्तादिके। ऋतुं यजतीति। यस्मिन्यागे ऋतुर्द्देवता, यथा-----वसन्ताय कपिञ्जलानालभते पिशङ्गास्त्रयो वासन्ता इत्यृतुपशूनालभते, ग्रीष्मो हेमन्त उत नो वसन्तः शरद्वर्षा इत्यादौ तदभिप्रायमेतत्। ऋतुप्रयुक्तो वेति। वसन्ते वसन्ते ज्योतिषा यजेतेत्यादौ यत्कर्तृत्वं तदभिप्रायमेतत्। षत्वञ्चेति। अन्यथा ठ्सात्पदाद्योःऽ इति निषेधः स्यात्। सुबन्तमात्र इति। अन्यथा सकर्मकत्वात्कर्मण्येव स्यात्। केवलादेवेति। एततु क्विन्विधानसामर्थ्यादपि लभ्यते, न हि सोपपदाद्यौजेः क्विनि क्विपि वा विशेषोऽस्ति, कुत्वस्य ठ्चोः कुःऽ इत्यनेनैव सिद्धत्वात्। अनुपपदे तु ठ्युजेरसमासेऽ इति नुमि कृते नकारस्य कुत्वार्थ क्विनो विधानं भवति सार्थकम्। यदि तु निपातनसाहचर्यात्सोपपदादनुपपदाच्च युजेः क्विन् भवतीत्युच्येत, तदा ठ्सत्सूद्विषऽ इत्यत्र युजिग्रहणं शक्यमकर्तुम्। नलोपः कस्मान्न भवतीति। ठ्कुञ्च क्रुञ्च कौटिल्याल्पीभावयोःऽ इति नोपधावेतौ धातू। तथा निकुचितिरिति नलोपो द्दश्यते, चुत्वेन तु जकारस्य श्रवणम्, तस्यासिद्धत्वाच्चकारे परतः ठ्चोः कुःऽइति कुत्वं न भवति। कुञ्चौ कुञ्च इत्यादऐ नकारोपधं तु पठतां स्यात्, तत्र सङ्झिलीति वचनान्न भवतीति वक्तव्यम्। सङिति प्रत्याहारः सनः सशब्दादारभ्या महिङे ङ्कारात्। अन्ये तु कुञ्चिरेक एव धातुः, तस्य ककारात्परो रेफोऽपि क्विन्सन्नियोगेन निपात्यते इत्याहुः। तदेतत् ठ्चोः कुःऽ इत्यत्र वामनो वक्ष्यति॥ त्यदादिषु द्दशोऽनालोचने कञ्च॥ ३।२।६० ॥ त्यदादिषु द्दशोऽनालोचने कञ्च॥ ठ्पश्यार्थैश्चऽ इत्यत्र वक्ष्यति----आलोचनं चक्षुस्ताधनं विज्ञानमिति, इह तु ज्ञानमात्रप्रतिषेधं मन्यते। याद्दक् ताद्दगिति। ठ्द्दग्द्दशवतुषुऽ इति वर्तमाने ठा सर्वनाम्नःऽ इत्यात्वम्। ञकारो विशेषणार्थ इति। आद्यौदातत्वस्य नकारेणापि सिद्धत्वात् ञकारोपधस्य प्रयोजनं विशेषणमेवेत्यर्थः, न तु स्वरो न प्रयोजनमित्युच्यते। तं पश्यति तद्दर्श इति चक्षुर्विज्ञानेऽणेव भवति। कथं पुनः प्रयुज्यमानस्यैव द्दशेरनालोचनार्थत्वमित्याह---ताद्दशादयो रूढिशब्दा इति। ततः किमित्याह---नैवात्रेति। रूढिशब्दा ह्यसताप्यवयवार्थेन व्युत्पाद्यन्ते, यथा----तैलपायिकादयः। एतदर्थमेवानालोचन इत्युक्तम्। द्दश्यर्थाभावेऽयं विधिः, सति तु द्दश्यर्थेऽणेव भवतीति। भाष्ये तु कर्मकर्तरि व्युत्पत्तिर्दर्शिता----तमिवेमं पश्यन्ति जनाः सोऽयं स इव द्दश्यमानस्तमिवात्मानं पश्यतीति। तत्र कर्मव्यापारमात्रे वा द्दशेर्वृत्तिः, कृत्स्नधात्वर्थाध्यारोपो वा सौकर्यादिशयप्रतिपादनायेति द्रष्टव्यम्। समानान्योश्चेति। समानस्य द्दग्द्दशवतुषु सभावविधानात्सिद्धम्। क्सश्चेति। त्यदादिषु समानान्योश्च। ताद्दक्षः, सद्दक्षः, अन्याद्दक्ष इति। ठ्द्दक्षे चेतिऽ वक्तव्यम्ऽ इति सभाव आत्वं च॥ सत्सूद्विषद्रुहदुहयुजविदभिदच्छिदजिनीराजामुपसर्गेऽपि क्विप्॥ ३।२।६१ ॥ सत्सूद्विषद्रुहदुहयुजविदभिदच्छिदजिनीराजामुपसर्गेऽपि क्विप्॥ अतः प्रभृतीति। भाष्यकारप्रयोगात्प्रभृतिशब्दयोगे पञ्चमी। वदः सुपि क्यप् चेति। प्रयोजनदिगियं दर्शिता। अत्र ह्यनुपसर्ग इति वर्तते, तस्मात् ठ्स्पृशोऽनुदके क्विन्ऽ इत्यादौ प्रयोजनं द्रष्टव्यम्। सुवतेरिति। न्यायस्य तुल्यत्वाद्दैवादिकस्याप्यग्रहणम्। शुचिषदिति। छान्दसोऽयं प्रयोगः-----हंसः शुचिषदिति। ठ्पूर्वपदात्ऽ इति षन्वम्। शुचिसदिति पाठे लौकिकः प्रयोगः। कथमत्र णत्वमिति। ग्रामणीविषयः प्रश्नः। प्रणीरित्यत्र तु ठुपसर्गादसमासेऽपिऽ इति णत्वमस्त्येव। ज्ञापकादिति। पूर्वपदस्थान्निमितादुतरस्य नयतिनकारस्यासञ्ज्ञायामपि णत्वं भवतीति सामान्येन ज्ञापकमित्यर्थः। तेनाग्रणीरित्यत्रापि भवति। कर्मण्यणि तु न भवति, नीरूपविषयत्वाज् ज्ञापनस्य । अन्ये तु ठग्रग्रामाभ्यां नयतेरिति वक्तव्यम्ऽ इति वचनाज्ज्ञापनमपि तद्विषयम्, तत्रापि नीरूपविषयमिति स्थिताः॥ भजो णिवः॥ ३।२।६२ ॥ च्छन्दसि सहः॥ ३।२।६३ ॥ च्छन्दसि सहः॥ तुरासाहं पुरोधाय, पृतनाषाट् द्विषो योद्धुं पुरुहूतः पृतनाषाड् इति भाषायां प्रयोगाश्चिन्त्याः॥ वहश्च॥ ३।२।६४ ॥ कव्यपुरीषपुरीष्येषु ञ्चुट्॥ ३।२।६५ ॥ हव्येऽनन्तः पादम्॥ ३।२।६६ ॥ जनसनखनक्रमगमो विट्॥ ३।२।६७ ॥ जनसनखनक्रमगमो विट्॥ विशेषणार्थश्चोति। ठ्विवनोःऽ इत्युच्यमाने हि क्विबादीनामपि ग्रहणं स्यात्। अथात्र निरनुबन्धकत्वादस्यैव ग्रहणम्? ठ्वेरपृक्तस्यऽ इत्यत्राप्यस्यैव ग्रहणं स्यात्। अथात्र क्विबादीनामपि ग्रहणं स्यात्? ठ्विड्वनोरनुनासिकस्यात्ऽ इत्यत्रापि स्यादिति समानं वच इति भावः। गोषा इति। ठ्सनोतेरनःऽ इति षत्वम्। अग्रेगा इति। पूर्ववदलुक्॥ अदोऽनन्ने॥ ३।२।६८ ॥ अदोऽनन्ने॥ अन्नाद इति। भाषायामणेव भवति। च्छन्दसि त्वकारादनुपपदादित्यणि प्राप्ते पचाद्यजिष्यते, तेनान्नाद इत्यन्न इत्यन्न अद इत्यवग्रहो भवति॥ क्रव्ये च॥ ३।२।६९ ॥ क्रव्ये च॥ वाऽसरूपबाधनार्थमिति। तथा च वार्तिकम्----अदोऽनन्ने क्रव्यग्रहणं वासरूपनिवृत्यर्थमिति। कथं तर्हीति। यदि वाऽसरूपविधिबाधनार्थमिति भावः। कृतविकृतेति। कृतं च्छिन्नं तदेव पुनर्विशेषतः कृतमिति ठ्पूर्वकालऽ इति समासः, तस्य पक्वशब्देन पुनः स एव समासः, ततो मांसशब्देन पुनर्विशेषणसमासः। पृषोदरादित्वात्क्रव्यभाव इति। यद्येवम्, क्रव्याद इत्यस्य रूपस्यावर्जनीयत्वादलं वाऽसरूपबाधनार्थेनानेन वचनेन, वार्तिकविरोधश्चैवं वदत इत्याशङ्क्याह----कृतविकृतेत्यादि। अर्थमेदादुभयमपि नास्ति किलेत्ययमभिप्रायः॥ दुहः कब्धश्च॥ ३।२।७० ॥ दुहः कब्धश्च॥ कामदुधेति। काम्यन्ते इति कामाः, तान् दुग्धे कामदुघा अर्घःउमधुपर्कः॥ मन्त्रेश्वेतवहोक्शास्पुराडाशो ण्विन्॥ ३।२।७१ ॥ मन्त्रेश्वेतवहोक्शास्पुराडाशो ण्विन्॥ एतेभ्य इति। श्वेतादिपूर्वेभ्यो वहादिभ्यो धातुभ्य इत्यर्थः। धातूपपदसमुदाया इति। किमर्थमित्याह---अलाक्षणिकेति। ठ्श्वेतवाःऽ इत्यादिषु ठवयाः श्वेतवाः पुरोडाश्चऽ इति निपातनाद्रुत्वम्। उक्थशा इति। नलोपे ठत उपधायाःऽ इति वृद्धिः, रुत्वम्। डस्पदस्येति। प्रत्येकमभिसम्बद्ध्यते, भाविपदत्वाश्रयेण चेदमुच्यते, यत्र डसन्तस्य पदत्वं भविष्यति तत्र ण्विनोऽपवादो डस्प्रत्ययो वक्तव्य इत्यर्थः। यद्येवम्, अनेन डसि कृते सौ ठत्वसन्तस्यऽ इति दीर्घे रुत्वे च श्वेतवा इत्यादि सिद्धम्, नार्थः ठवयाः श्वेतवाःऽ इति निपातनेन? एवं तर्हि सम्बुद्ध्यर्थ निपातनम्---हे श्वेतवा इन्द्रेति, ठत्वसन्तस्यऽ इत्यत्र हि ठसम्बुद्धौऽ इति वर्तते, डसपि वक्तव्यः। उत्वार्थम्----श्वेतवोभ्याम्, उक्थशोभ्यामिति। एवं चोक्यशा इत्यपि सम्बुद्ध्यर्थ निपातनं कर्तव्यं यदि मन्त्रे दर्शनमस्त्रि॥ अवे यजः॥ ३।२।७२ ॥ अवे यजः॥ अवया इति। निपातनाद्रुत्वम्। योगविभाग उतरार्थ इति। ठ्पुरोडाशवयजो ण्विन्ऽ इत्येकयोगे श्वेतवहादीनामप्युतरत्रानुवृत्तिः स्यात्, यजेश्चावपूर्वस्यैवानुवृत्तिः स्यात्, केवलस्यैव चेष्यते, तदर्थो योगविभाग इत्यर्थः॥ विजुपे च्छन्दसि॥ ३।२।७३ ॥ विजुपे च्छन्दसि॥ अथ च्छन्दोग्रहणं किमर्थम्, यावता मन्त्र इत्यनुवृतेरेवभाषायां न भविष्यति, तत्राह---च्छन्दोग्रहणं ब्राह्मणार्थमिति। मन्त्रव्यतिरिक्तो वेदभागःउब्राह्मणम्, यथोक्तम्---तच्चोदकेषु मन्त्राख्या, शेषे ब्राह्मणशब्द इति। किमर्थ पुनरिदमिति। उतरसूत्र एव विज्ग्रहणं च्छन्दोग्रहणं च क्रियतामिति प्रश्नः। नियमार्थमिति। ननु द्दशिग्रहणादेव भाषायां न भविष्यति, सत्यम्; तस्यैव प्रपञ्चार्थमिदम्॥ आतो मनिन्क्वनिब्वनिपश्च॥ ३।२।७४ ॥ आतो मनिन्क्वनिब्वनिपश्च॥ अश्व इव तिष्ठति अश्वत्थामा, पृषोदरादित्वात्सकारस्य तकारः। सुधीवा, सुपीवेति। घुमास्थादिसूत्रेण ईत्वम्। चकारो विचोऽनुकर्षणार्थः। यद्येवम्, उतरत्रानुवृत्तिर्न स्यात्? एवं तर्हि चकारोऽप्युतरत्रानुवर्तिष्यते॥ अन्येभ्योऽपि द्दश्यते॥ ३।२।७५ ॥ अन्येभ्योऽपि द्दश्यते॥ अपिशब्दः सर्वविधिव्यभिचारार्थ इति। विधीयतेऽनेनेति विधिःऊपाधिः। सर्वोपाधिव्यभिचारार्थ इति युक्तः पाठः। द्दशिग्रहणं प्रयोगानुसरणार्थमिति। ठ्यथा प्रयोगे द्दश्यन्ते तथैव भवन्तिऽ इति वचनव्यक्त्याश्रयेणेति भावः॥ क्विप् च॥ ३।२।७६ ॥ क्विप् च॥ निरुपपदेभ्यश्चेति। एतदपिशब्दस्य सर्वोपाधिव्यभिचारार्थश्यानुवृतेर्लभ्यते, न तु सुपीत्यस्य निवृतेः; उतरसूत्रे ठ्सुप्युपसर्गेऽपीति वर्ततेऽ इति वक्ष्यमाणत्वात्, ठ्च्छन्दसि भाषायाञ्चऽ इति पूर्वसूत्र एव ठ्च्छन्दसिऽ इत्यस्य निवृतत्वात्। उखास्रदिति। ठ्स्रंसु ध्वंसु भ्रंसु अवस्रंसनेऽ,ठनिदिताम्ऽ इत्युपधालोपः, ठ्वसुस्रंसुऽ इत्यादिना दत्वम्। वाहभ्रडिति। ठ्भ्रंशु अधः पतनेऽ,व्रश्चादिना षत्वम्, ठन्येषामपि द्दश्यतेऽ इति दीर्घः। उखायाः स्रंसते पर्णानि, ध्वंसते, वाहाद् भ्रश्यतीति विग्रहः। ध्वंसिरन्तर्भावितण्यर्थः सकर्मकः। क्वचितु वृतावेव विग्रहवाक्यानि पठ।ल्न्ते॥ स्थः क च॥ ३।२।७७ ॥ स्थः क च॥ केत्यविभक्तिको निर्देशः। अन्येभ्योऽपि द्दश्यत इति। क्विबिति सिद्ध एवेत्यपेक्षते। ननु तच्छीलादिग्रहणं तत्रानुवर्तते, तस्मात् ठ्क्विप् चऽ इति क्विप् सिद्ध एवेति वक्तव्यम्। यद्वा तच्छीलादिग्रहणं तत्र न सम्बन्धनीयमिति मन्यते। नन्वेवमपि ठ्सुपि स्थःऽ इति विशेषविहितः कः सामान्यविहितं क्विपं बाधेत? वाऽसरूपविधिना सोऽपि भविष्यति। शमि धातोः संज्ञायामचम् बाधत इति। अन्यथा यथा कृञो हेत्वादिषु ट्ंअ बाधते धातुग्रहणातथा तिष्ठतेरपि कक्विपौ बाधेत, अतस्तमप्यचं बाधित्वा कक्विपावेव यथा स्यातामिति पुनर्वचनमित्यर्थः। शंस्था इति। क्विपि लुप्ते प्रत्ययलक्षणेन घुमास्थादिसूत्रेणेत्वमत्र प्राप्नोति, भाष्यकारप्रयोगातु न भवति। केचितु---ईत्वमवकारादाविति वचनं पठन्ति, तेषां सुपीवा सुधीवा, अत्रापि न स्यात्॥ सुप्यजातौ णिनिस्ताच्छील्ये॥ ३।२।७८ ॥ सुप्यजातौ णिनिस्ताच्छील्ये॥ ब्राह्मणानामन्त्रयितेति। ताच्छील्यस्य विवक्षितत्वातृन् प्रत्युदाहृतः, ठ्न लोकाव्ययऽ इति षष्ठीप्रतिषेधः। उत्प्रतिभ्यामिति। पुनः सुब्ग्रहणस्योपसर्गनिवृत्यर्थत्वादयमारम्भः। साधुकारिणि चेति। अताच्छील्यार्थमिदम्, तच्चैतज्ज्ञापकात्सिद्धं यदयम् ठाक्वेस्तच्छीलऽ इत्यत्र तच्छीलेत्यभिधाय साधुकारिग्रहणं करोति, तज्ज्ञापयति---साधुकारिण्यताच्छील्येऽपि णिनिर्भवतीति। ब्रह्मणि वद इति। ब्रह्मौवेदः। इदमप्यताच्छील्यार्थम्॥ कर्तर्युपमाने॥ ३।२।७९ ॥ कर्तर्युपमाने॥ उपमानस्योपेमेयापेक्षत्वात् कर्तरि च प्रत्ययविधानातस्यैवोपपदकर्तोपमानं विज्ञायेत इत्याह---उपपदकर्तेति। उष्ट्रक्रोशीति। इवशब्दो गतार्थत्वाद्वृतौ नैव प्रयुज्यते। समास उपमानानां शस्त्रीश्यामादिके यथा॥ व्रते॥ ३।२।८० ॥ व्रते॥ समुदायोपाधिश्चायमिति। न प्रत्ययार्थविशेषणम्। तथा हि सति व्रत एव कर्तरि प्रत्ययः स्यान्न तद्वतीति भावः। समुदायोपाधित्वमेव स्पष्टयति---धातूपपदेत्यादि। कामचारःउइच्छाप्रवृत्तिः, तत्प्राप्तौ सत्यां नियमः, स च द्विविधः सम्भवति---स्थण्डिले शेते एव अश्राद्धं भुङ्क्ते एवेत्येवंरूपो वा। तत्र पूर्वके नियमे यदैवासावशक्त्यादिनाऽश्राद्धं न भुङ्क्ते तदैव व्रतलोपः प्राप्नोति। न चैवंविधं शास्त्रमस्ति---स्थण्डिले शयितव्यमेव, अश्राद्धं भोक्तव्यमेवेति। अस्ति तु स्थण्डिल एव शयितव्यम्, अश्राद्धमेव भोक्तव्यमिति। ठ्व्रतेऽ इति तु शास्त्रितो नियमाः---इत्युक्तम्, तस्माद् द्वितीयो नियमो विज्ञायत इत्याह---सति शयन इत्यादि॥ बहुलमाभीक्ष्ण्ये॥ ३।२।८१ ॥ बहुलमाभीक्ष्ण्यो॥ आभीक्ष्ण्यं पौनः पुन्यमिति। पुनः पुनर्भवितरि वर्तमानाभ्यामव्ययाभ्यां भावे ष्यञ्, अव्ययानां भमात्रे टिलोपः। ताच्छील्यादन्यदिति। एतेनठ्सुप्यजातौऽ इत्यनेनागतार्थत्वं दर्शयति। फलानपेक्षा प्रवृत्तिःउताच्छील्यम्। गान्धारादयस्तु वातादिसाम्यार्थ देशाचारवशेन कषायादिपाने प्रवर्तन्ते। उदाहरणेषु ठातो युक् चिण्कृतोःऽ इति युक्, ठ्प्रातिपदिकान्तनुम्विभक्तिषु चऽ इति णत्वम्॥ मनः॥ ३।२।८२ ॥ मनः॥ मन्यतेर्ग्रहणमिति। ठ्मन ज्ञानेऽ इत्यस्य दैवादिकस्य। न मनुतेरिति। ठ्मनु अवबोधनेऽ इत्यस्य तानादिकस्य। तिपि गुणेन भवितव्यम्। यदि नेष्यते, संज्ञापूर्वको विधिरनित्यः। किं पुनः कारणं प्रयत्नेन मनोतेर्ग्रहणं निवार्यते, यावता इह द्वयोरपि णिनिः तदेव रूपम्, न चार्थभेद इत्याह----उतरसूत्र इति॥ आत्ममाने खश्च॥ ३।२।८३ ॥ आत्ममाने खश्च॥ चकाराण्णिनिश्चेति। वाऽसरूपविधिना सिद्धोऽपि णिनिरविच्छेदाय समुच्चीयते। तेन ठ्करणे यजःऽ इत्यत्र णिनेरेवानुवृत्तिर्भवति, नानन्तरस्य खशः। आत्मशब्दोऽयं परव्यावृत्तिं कुर्वाणो यस्तत्प्रतियोगिनमर्थमाचष्टे स स्वशब्दपर्यायो गृह्यते, न चेतनद्रव्यवचनः। मननं मानः, भावे घञ्, आत्मनो मान आत्ममानः----कर्मणि षष्ठ।ल समासः। तत्र कस्येत्यपेक्षायां प्रत्ययार्थस्य सन्निहितस्य मन्तुरेवात्मन इति गम्यते, तदाह---प्रत्ययार्थः कर्तेति। दर्शनियत्वादिना धर्मेणेति विशिष्टमिति शेषः। कर्तरि षष्ठ।लस्तु समासो न भवति, सर्वस्या एव मतेर्मन्तृकर्तृकत्वाव्यभिचाराद्। एवं चेतनद्रव्यवचनेऽप्यात्मशब्दे कर्तरि षष्ठ।लमव्यभिचारादविशेषणं कर्मणि षष्ठ।ल, न तु चेतनान्तरे कर्मणि प्रत्ययप्रसङ्गः, तस्मात्स्वशब्दपर्याय एवात्मशब्दः। दर्शनीयम्मन्य इति। शरीरधर्ममपि दर्शनीयत्वादिकमात्मधर्ममेव मन्यन्ते संसारिणः शरीरशरीरिणोरग्न्ययोगोलकयोरिवाभेदं मन्यमानाः। पण्डितम्मन्य इति। एकस्याप्यात्मनस्स्वरूपेण कर्तृत्वं पण्डितत्वादिविशिष्टरूपेण कर्मत्वं च युज्यत एव। यथोक्तमाचार्यैः---- अस्मत्प्रयोगसम्भिन्ना ज्ञानस्यैव च कर्तरि। भवन्ती तत्र संवितिर्युज्येताप्यात्मकर्तृका॥ इति। खशः खकारो मुमर्थः, दर्शनीयम्मन्या कुमारीत्यादौ ह्रस्वार्थश्च। शकारः सार्वधातुकसंज्ञार्थः, दिवादित्वाच्छयन्। स्वरस्तु सतिशिष्टोऽपि विकरणस्वरः सार्वधातुकस्वरं न बाधते इति खश एव भवति, न नित्स्वरः। दर्शनीयमानी देवदतो यज्ञदतस्येति। कर्मणि षष्ठी, तदपेक्षयास्यापि दर्शनीयशब्दस्य गमकत्वात्समासः॥ भूते॥ ३।२।८४ ॥ भूते॥ यस्य सता व्यपवृक्ता तत्सर्व भूतशब्देनोच्यते, तत्र न ज्ञायते कस्मिन् भूते? किं वा धात्वर्थे? तत्राह---धात्वधिकाराच्चेति। चशब्दः पूर्वोक्तेनार्थेनास्य सङ्गतिं द्योतयति। धात्वर्थभूत इति। ननु धात्वधिकाराद्धातौ भूत इति युक्तम्, न धात्वर्थे भूत इति? उच्यते---प्रयोगे प्रत्ययस्य द्योत्यं भूतत्वमर्थस्यैव विशेषणं भवितुर्हति, विशेषणान्तरवत्, न तु शब्दस्य; तस्य स्वाभिधेयप्रतिपादने व्यग्रत्वाद्विशेषणसम्बन्धं प्रत्ययोग्यत्वात्। किञ्च---नित्योधातुरनित्यत्वेऽपि भूतात्प्रत्ययविदिरनुपपन्नः, उच्चारितलक्षणे भूतत्वे विशेषणं व्यर्थ तर्ह्यनुच्चारितात्प्रत्ययविधिः सम्भवति। नित्यश्चायं भूतशब्दोऽतिक्रान्तवाचीति निष्ठायामितरेतराश्रयत्वादप्रसिद्धिरित्यचोद्यम्॥ करणे यजः॥ ३।२।८५ ॥ करणे यजः॥ णिनिरनुवर्तते न खशिति। अत्रोक्तो हेतुः। अग्निष्टोमयाजीति। ननु चाग्निष्टोमशब्दः कर्मनामधेयम्, तत्कथमग्निष्टोमस्य यजिं प्रति करणत्वम्, न हि तदेव तत्र करणं भवति; इदं तु युक्तमुदाहरणम्---सोमेनेष्टवान् सोमयाजी, सान्नाय्येनेष्टवान् सान्नाय्ययाजीति? तत्राह---अग्निष्टोमः फलभावनायां करणं भवतीति। सत्यं याग एवाग्निष्टोमः; यागोऽपि फलभावनायां करणम्, फलस्य स्वर्गादेर्भवतो या भावना उत्पादना तस्यामित्यर्थः। ननु दीक्षणीयादिरुदवसानीयान्तो ज्योतिष्टोमाख्यो याग एव स्वर्गभावना न तदतिरिक्तः कश्चिद्व्यापारो यजनस्यास्ति यत्रः यागः कारण्यमश्नुते? उच्यते, द्विविधो यजमानव्यापारः---सामान्यरूपः, विशेषरूपश्चेति। तत्र समान्यरूप आभ्यन्तर औदासीन्यप्रच्युतिरूपः कृतिप्रयत्नादिपदाभिलप्यः; बाह्मस्तु दीक्षणीयादिरुदवसानीयान्तः प्रसिद्ध एव। एवमोदनं पचनीत्यादिष्वप्यात्मगुणः प्रयत्नः बाह्यश्चादिश्रयणादिर्द्रष्टव्यः। फलं हि प्रेप्सन् तदर्थ प्रयतते, नोदास्ते; यतोऽयमुपायं जिज्ञासते, जानीते च, ज्ञात्वा चोपायमनुतिष्ठति। सैषा स्वर्गादिफलोद्देशेन प्रवृता कृतिर्भावनेत्युच्यते। सा च भाव्यम्, करणम्, इतिकर्तव्यतां चेति त्रितयमपेक्षते---इदमनेनेत्थं भावयेदिति। यथाह---- भावनापेक्ष्यमाणा हि साधनं कि फलस्य मे। साधनानुग्रहः को वेत्यनृस्यूतमपेक्षते॥ इति॥ सैषा सामान्यरूपा वृत्तिर्न शास्त्रकटाक्षमपेक्षते। विशेषरूपा त्वपेक्षते, तथा हि---फलार्थी तदुपायं जिज्ञासते, तदुपायं जिज्ञासमानः श्रृणोति---ज्योतिष्टोमेनस्वर्गकामो यजेतेति। तत्र च पुरुषप्रवर्तनारूपो विधिः श्रूयते, न चापुरुषार्थे पुरुषः प्रवर्तत इति विध्यवरूद्धा भावना भाव्यापेक्षायां समानपदोपातमपि दुःखरूपं धात्वर्तमपहाय पदान्तरोपातमपि पुरुषोपसर्जनमपि सुखरूपं स्वर्गमेवावलम्बते। ततः करणापेक्षायां समानपदोपातो धात्वर्थः करणं भवति, पश्चात्सन्निधिसमाम्नातं दीक्षणीयादीतिकर्तव्यतयान्वेतीत्येषा मीमांसकमर्यादा। यत्र तु न विध्यवरोधो भावनायास्तत्र धात्वर्थ एव भाव्यो भवति, यथा---पचति पाकं करोति, गच्छति गमनं करोतीत्यादि निर्दिश्यते। ननु भावनया सम्पद्यमानस्य ब्राह्यव्यापारस्य कथं तत्र करणत्वम्? को दोषः? करणं खलु सर्वत्र कर्तृव्यापारगोचरः, कुठारेण च्छिनतीत्यत्रापि उद्यमननिपातनरूपेण कर्तृव्यापारेणाप्यमानस्यैव कुठारस्य तत्र करणत्वम्, तदेव कथं द्विधाभवनरुपेण फलेनावच्छिन्नयोस्तयोश्छेदनरूपत्वं न स्वरूपत्वम्, न स्वरूपेण रजके दर्शनात्, सोऽपि हि वस्त्रमुद्यच्छते निपातयति च। अथ द्विधाभवनाभावान्न च्छिनतीत्युच्यते, तदेवमुद्यमननिपातयोश्छेदरूपत्वं कुठारगोचरत्वनिबन्धनमिति तस्य तत्र करणत्वम्, तथेहापि भावनायां स्वर्गभावनारूपत्वमग्निग्टोमाख्ययागगोचरत्वनिबन्धनमिति तस्य तत्र करणत्वम्। तदिदमुक्तम्---फल्भावनायां करणमिति। इयं हि फलं धात्वर्थं च सम्पादयति, तत्र फलभावनारूपत्वे ब्राह्यए व्यापारः करणमित्यर्थः। नन्वेवमपि यज्यर्थ प्रति अग्निष्टोमः करणं न भवति? मा भूतत्र करणत्वम्, करणं तावत् सम्बन्धि च यजिना सामानाधिकरण्येन । अथ वा---भावनापि धातोरेव वाच्या, न प्रत्ययस्य; तत्र धात्वर्थैकदेश एकदेशान्तरस्य करणम्, अग्निष्टोमशब्दश्च तत्रैकदेशान्तरे वर्तत इति न किञ्चिदनुपपन्नम्॥ कर्मणि हनः॥ ३।२।८६ ॥ कर्मणि हनः॥ कुत्सितग्रहणमिति। पितृव्यवधादिना यः कर्ता कुत्स्यते तत्रायं प्रत्यय इति वक्तव्यमित्यर्थः॥ ब्रह्मभ्रूणवृत्रेषु क्विप्॥ ३।२।८७ ॥ ब्रह्मभ्रूमवृत्रेषु क्विप्॥ धातूपपदकालप्रत्ययविषयः। भाष्ये तूपपदविषयनियमद्वयं प्रदर्शितम्, तदुपलक्षणम्, न तु नियमान्तरव्यावृत्यर्थमिति गम्यते। ब्रह्मादिष्वेव हन्तेरिति धातुनियमः, अत्रापि नियमे भूत इत्याश्रयणात् कालान्तरे उपपदान्तरेऽपि भवत्येव----पुरुषं हन्ति हनिष्यति वा पुरुषहेति। ब्रह्मादिषु हन्तेरेवेत्युपपदनियमः, अत्रापि भूत इत्याश्रयणात्कालान्तरे धात्वन्तरादपि भवत्येव---वृत्रं जयति जेष्यति वा वृत्रजिदिति। भूतकाले क्विबेवेति कालनियमः। नान्यः प्रत्यय इति। यथा ठ्कर्मणि हनःऽ ठ्कर्णण्यण्ऽ इति। उपपदान्तरे तु भतेऽपि प्रत्ययान्तरं भवत्येव--पितृव्यं हतवान्पितृव्यघातीति, सोपपदश्च प्रत्ययो नियमेन व्यावर्त्यते। निष्ठा तु भवत्येव---वृत्रं हतवानिति। तथा भूत एवेति प्रत्ययनियमः, अत्रापि ब्रह्मादिषु हन्तेरित्याश्रयणादुपपदान्तरे धात्वन्तराच्च कालान्तरेऽपि भवत्येव। कथं पुनरेकस्मिन्नेव योगे चतुर्विधो नियमो लभ्यते? इत्याह---तदेतदिति। अगृह्यमाणविशेषत्वादेव चतुर्विधो नियमो लब्धुं शक्यते, तत्रैव तूपोद्वलकमेतदुक्तं वेदितव्यम्। बहुलं च्छन्दसि॥ ३।२।८८ ॥ सुकर्मपापमन्त्रपुण्येषु कृञः॥ ३।२।८९ ॥ सुकर्मपापमन्त्रपुण्येषु कृञः॥ स्वादिष्विति। सुशब्दं वर्जयित्वेत्यनन्तरमेवाभिधानादतद्गुणसंविज्ञानो बहुव्रीहिः, बाहुल्याश्रयणेनैवमुक्तम्, आढ्यो ग्राम इतिवत्। त्रिविधश्चेति। एतद्वहुलग्रहणानुवृतेरेव लभ्यते। कालोपपदप्रत्ययविषय इति। तत्र कालनियमात्कर्म कृतवान्कर्मकार इत्यण् न भवति। उपपदनियमात् मन्त्रमधीमधीतवान्मन्त्राध्याय इत्यणेव भवति, न तु क्विप्। प्रत्ययनियमात् मन्त्रं करोति करिष्यति वेति विवक्षायामणेव भवति, न तु क्विप् शास्त्रकृदिति। ठ्क्विप् चऽ इति क्विप्॥ सोमे सुञः॥ ३।२।९० ॥ सोमे सुञः॥ कालधातूपपदप्रत्ययविषय इति। तत्र भूतकालस्य क्विपि नियतत्वात्सोमं सुतवान्सोमसाव इत्यण् न भवति। तथा धातोः सोम एवोपपदे नियतत्वात्सुरां सुतवान्सुरासाव इत्यणेव भवति। तथा सोमस्य सुनोतावेव धातौ नियतत्वात्सोमं क्रीतवान् सोमक्रीरिति क्विब् न भवति, अणेव तु भवति। तथा क्विपो भूते नियतत्वात्सोमं सुनोति सोष्यति वेति विवक्षायां क्विब् न भवति, अणेव तु भवति॥ अग्नौ चेः॥ ३।२।९१ ॥ अग्नौ चेः॥ अत्रापीत्यादि। तत्र भूतकालस्य क्विपि नियतत्वादग्निं चितवानग्निचाय इत्यण् न भवति। धातोश्चाग्नावुपपदे नियतत्वादिष्टकाचिदिति न भवति। अग्नेश्चिनोतावेव नियतत्वादग्निभृदिति न भवति। क्विपश्च भूत एव नियतत्वादग्निं चिनोति चेष्यति वेत्यत्राभावः॥ कर्मण्यग्न्याख्यायाम्॥ ३।२।९२ ॥ कर्मण्यग्न्याख्यायाम्॥ ठ्कर्मणि हनःऽ इत्यतोऽनुवृतं कर्मग्रहणमुपपदम्, इदं तु कर्मप्रत्ययार्थमित्याह---कमण्येव कारक इति। एवकारः पौनर्वचनिकः। उपपदं तावत्कर्मप्रत्ययार्थोऽपि कर्मैवेति। आख्याग्रहणं रूढिसम्प्रत्ययार्थमिति। अग्निशब्दो लोके ज्वलने रूढः, वेदे त्वग्न्यर्थ इष्टकाचयेऽपि प्रचुरः प्रयोगः----य एवं विद्विअनग्निं चिनुते, अग्निं चेष्यमाण इति, स मुख्यो जघन्यो वा भवतु; इह त्वसत्याख्याग्रहणे लोकप्रसिद्धिवशेन ज्वलन एव गृह्यएत, मा ग्राहि, इष्टकाचय एव गृह्यतामित्याख्याग्रहणमित्यर्थः॥ कर्मणीनिर्विक्रियः॥ ३।२।९३ ॥ कर्मणीनिर्विक्रियः॥ कर्मणीति वर्तमान इति। ठ्कर्मणि हनःऽ इत्यतः कर्तुः कुत्सानिमिते कर्मणीति यत्कर्म क्रियासम्बद्धं कर्तुः कुत्सामावहति तत्रेत्यर्थः। सोमादीनां विक्रयः शास्त्रे निषिद्धः॥ द्दशेः क्वनिप्॥ ३।२।९४ ॥ द्दशेः क्वनिप्॥ प्रत्ययान्तरनिवृत्यर्थमिति। प्रत्ययान्तरं सह निर्दिष्ट्ंअ मनिनादि, अणादि च। सोपपदान्निष्ठा तु भवत्येव---पलोकं द्दष्टवानिति॥ राजनि युधिकृञः॥ ३।२।९५ ॥ राजनि युधिकृञः॥ ननु च युधिरकर्मक इति। तत्कथं राजन्शब्दे कर्मवाचिन्युपपद इत्युक्तमिति भावः। अन्तर्भावितण्यर्थ इति। अनेकार्थथ्वाद्धातूनां लक्षणया वा यदा ण्यर्थमपि युधिरेवान्तर्भावयति तदा प्रयोज्येन कर्मणा सकर्मको भवतीत्यर्थः॥ सहे च॥ ३।२।९६ ॥ सहे च॥ असत्ववचनत्वान्नोपपदं कर्मणा विशेष्यत इति। अतश्च ठ्कर्मणिऽइति नानुवर्तते इति भावः। न पुनरनुवर्तमानस्यैवान्नासम्बन्धः, उतरत्राप्यनुपयोगात्॥ सप्तम्यां जनेईः॥ ३।२।९७ ॥ सप्तम्यां जनेईः॥ मन्दुरज इति। ठ्वाजिशाला तु मन्दुराऽ। ठ्ङ्यापोस्संज्ञाच्छन्दसोर्बहुलम्ऽ इति ह्रस्वः॥ पञ्चम्यामजातौ॥ ३।२।९८ ॥ पञ्चम्यामजातौ॥ बुद्ध्यादय आत्मगुणाः, खेदःउरागः, खेदात् स्त्रेषु प्रवृत्तिरिति दर्शनात्॥ उपसर्गे च संज्ञायाम्॥ ३।२।९९ ॥ उपसर्गे च संज्ञायाम्॥ प्रजेति प्राणिजातस्यैषा संज्ञा॥ अनौ कर्मणि॥ ३।२।१०० ॥ अनौ कर्मणि॥ पुमांसमनुजात इति। पुमांसमनुरुद्ध्य जात इत्यर्थः, तेनास्य सकर्मकत्वम्। पुमनुज इति पुंसः संयोगान्तलोपः॥ अन्येष्वपि द्दश्यते ॥ ३।२।१०१ ॥ अन्येष्वपि द्दश्यते॥ द्विर्जात इति। मातुरग्रे विजननं द्वितीयं मौञ्जिबन्धनम्। तत्रास्य माता सावित्री पिता त्वाचार्य उच्यते॥ निष्ठा॥ ३।२।१०२ ॥ निष्ठा क्तक्तवतू निष्ठेत्युक्तमिति। ककारः कित्कार्यार्थः, उकार उगित्कार्यार्थः, ठत्वसन्तस्यऽ इति विशषणार्थश्च। निष्ठायामित्यादि। अप्रसिद्धिःउअनिष्पतिः, कस्य? संज्ञायाः, संज्ञिनो वा। कथमित्याह---संज्ञयेति। यदि द्विः क्तक्तवतूपग्रहणं क्रियेत--इह, संज्ञाविधौ च, ततो न स्यादितरेतराश्रयत्वमिति संज्ञयेत्युक्तम्। सतोश्च तयोरिति। लोके शास्त्रे वा न तावल्लोके सानुबन्धावेतौ स्तः, शास्त्रेऽपि यद्यपि ठ्ञीतः क्तःऽ ठ्नपुंसके भावे क्तःऽइति क्तः स्वरूपेण विहितोऽस्ति, भूते तु काले नास्ति, क्तवतुस्तु न क्वाप्यस्तीति भावः। भाविनी संज्ञेति। संज्ञिनो भावित्वात् संज्ञापि भाविनी सूत्रशाटकवत् तद्यथा----अस्य सूत्रस्य शाटकं वयेति तन्तुवाय उक्तः, स पश्यति यदि शाटको न वातव्यः, अथ वातव्यो न शाटकः, शाटको वातव्यश्चेति विप्रतिषिद्धम्, मन्ये स वातव्यो यस्मिन्नुते शाटक इत्येतद्भवतीति। सामर्थ्यादिति। ठ्क्तक्तवतू निष्ठाऽइति वचनात् अन्यस्योत्पन्नस्य निष्ठेति संज्ञाया अभावःउसामर्थ्यम्। आदिकर्मणीति। कर्मशब्दः क्रियावाची, एकफलोद्देशप्रवृतक्षणसमूहरूपा क्रिया, तत्राद्ये क्रियाक्षणेऽपवृक्तेऽपि धात्वर्थरूपायाः क्रियाया अनपवृक्तत्वाद्वचनम्। न्याय्या त्वाद्यपवर्गात्। न्याय्या त्वेषा भूतकालता, कुतः? आद्यपवर्गात्। आदिभूतक्रियाक्षणोऽपवृक्तः तस्मिन्नेव चावयवे समूहरूपो धात्वर्थः परिसमाप्तः उक्तं च---- समूहः स तथाभूतः प्रतिभेदं समूहिषु। समाप्यते ततो भेदे कालभेदस्य सम्भवः॥ इति। तथा च प्राकार्षीत्कट्ंअ देवदत इति लुङपि प्रयुज्यते। कटावयवे वा कटशब्दो द्रष्टव्यः, ततः केषाञ्चित्कटावयवक्षणानामपरिसमाप्तेः प्रकरिष्यति कट्ंअ देवदत इति लृट्प्रयोगोऽप्यविरुद्धः। अपर आह---ज्ञापकात्सिद्धं यदयम् ठादिकर्मणि क्तःऽ ठ्कर्तरि चऽठुदुपधाद्भावादिकर्मणोरन्यतरस्याम्ऽ इति चाह, तज्ज्ञापयति---भवत्यादिकर्मणि क्त इति। नैतदस्ति ज्ञापकम्, ठ्ञीतः क्तःऽ इति योऽयं वर्तमाने क्तस्तद्विषयमेतत्स्यात्? यदि तद्विषयमेव स्याद्वर्तमानग्रहणमेव कुर्यात्॥ सुयजोङ्र्वनिप्॥ ३।२।१०३ ॥ सुयजोङ्र्वनिप्॥ सुनोतेरिति। ठ्सु स्त्रु गतौऽ,ठ्सु प्रसवैश्वर्ययोःऽ----इत्यनयोरेव निरनुबन्धकयोर्ग्रहणं प्राप्तम्; अनभिधानादुभयपदिना साहचर्याद्वा न भवति। ङ्कारः सुनोतेर्गुणप्रतिषेधार्थः, इकार उच्चारणार्थः, पकारः स्वरार्थस्तुगर्थश्च॥ जीर्यतेरतृन्॥ ३।२।१०४ ॥ च्छन्दसि लिट्॥ ३।२।१०५ ॥ च्छन्दसि लिट्॥ आततानेति। ठ्णलुतमो वाऽ इति णित्वपक्षे वृद्धिः। धातुसम्बन्धे स विधिरिति। ठ्धातुसम्बन्धे प्रत्ययाःऽ इत्यधिकारात्। लिट इकारटकारौ विशेषणार्थौ, ठ्लिटः कानज्वाऽ ठ्लिट।ल्भ्यासम्योभयेषाम्ऽ इत्यादौ ठ्लऽ इत्युच्यमानेऽन्येषामपि लङदीनां ग्रहणं स्यात्, निरनुबन्धकत्वादस्यैव ग्रहणं भविष्यति। परोक्षे लिटोऽपि तर्हि न प्राप्नोति? टकारष्टेरेत्वार्थश्च॥ लिटः कानज्वा॥ ३।२।१०६ ॥ लिटः कानज्वा॥ चिक्यान इति। ठ्चिञ् चयनेऽ,ठ्विभाषा चेःऽ इति कुत्वम्, ठेरनेकाचःऽ इति यणादेशः। न च भवतीति। वावचनस्य प्रयोजनं दर्शयति। वाऽसरूपविधिश्च लादेशेषु नास्ति, ठ्हशश्वतोर्लङ् चऽ इति वचनादित्युक्तम्। नन्वनन्तरसूत्रविहितस्य लिटो नित्यमादेशोस्तु, यस्तु ठ्च्छन्दसि लुङ्लङ्लिटःऽ इति लिट्, तत्र तिङं श्रवणं भविष्यति? न; तस्य धातुसम्बन्धविषयत्वादधातुसम्बन्धे तिङं श्रवणं न स्यात्। लिण्मात्रस्य च ग्रहणमित्यनन्तरमेव वक्ष्यति। पूर्वस्यैवेत्यादि। प्रत्ययान्तरं तु कानज् न भवति, वावचनाद्वाऽसरूपविधिनैव लुङदीनां सिद्धत्वादिति भावः। लिण्मात्रस्येति। भाष्ये त्वन्तरस्यैव लिटोऽयमादेशः, लिङ्ग्रहणं च प्रत्ययान्तरत्वं मा विज्ञायीति। वावचनं चोतरार्थमिति स्थितम्। कानचश्चित्करणं स्वरार्थम्। कित्करणं किमर्थम्, न ठसंयोगाल्लिट् कित्ऽ इत्येव सिद्धम्, तेन ईजानस्तेपान इत्यादौ संप्रसारणैत्वाभ्यासलोपादिकार्य भविष्यति? संयोगान्तार्थम्----ठ्बन्ध बन्धनेऽ ठ्वृतस्य यद्वद्वधानस्य, त्वमर्णवान् बद्वधाना अरम्णाऽअत्र ठनिदिताम्ऽ इति नलोपः, छान्दसत्वादभ्यासधकारस्य हलादिश्शेषेण निवृत्यभावे ठ्झलां जश् झशिऽ इति जश्त्वं दकारः। ननु छान्दसः कानच् लिट् च च्छन्दसि सार्वधातुकमपि भवति, ठ्च्छन्दस्युभयथाऽइति वचनात्, तत्र ठ्सार्वधातुकमपित्ऽ इति ङ्त्विं ङ्तीत्युपिधालोपो भविष्यति? न च संयोगान्तेषु कित्वङ्त्वियोर्विशेषोऽस्ति। ऋकारान्तगुणप्रतिषेधार्थ तु, ठृच्छत्यृताम्ऽइति ऋकारान्तानां प्रतिषेधविषये गुण आरभ्यते स यथेह भवति---परितस्तरे इति, एवमिहापि स्यात्----परितिस्तिराण इति, तस्मात्कित्करणम्। कित्करणसामर्थ्याद्भाषायामपि कानजस्तीत्येततु भाष्यविरोधातुपेक्ष्यम्॥ क्वसुश्च॥ ३।२।१०७ ॥ क्वसुश्च॥ क्वसोरुकार उगित्कार्यार्थः, जक्षिवानित्यादौ ठुगिदचाम्ऽ इति नुम्, उपसेदुषीत्यादौ ठुगितश्चऽ इति ङीप्, ठ्वसोः संप्रसारणम्ऽइत्यत्र सामान्यग्रहणमप्युकारस्य प्रयोजनम्। कित्करणं किमर्थ न ठसंयोगाल्लिट् कित्ऽ इत्येव सिद्धम्? संयोगान्तार्थम्।अञ्जेः आजिवान्---उपधालोपो भवति, छान्दसः क्वसुः लिट्। च्छन्दसि सार्वधातुकमपि तत्र ठ्सार्वधातुकमपित्ऽ इति। तत्वङ्तीत्युपिधालोपो भविष्यति। ऋकारान्तगुणप्रतिषेधार्थन्तुऽ, ठृच्छत्यृताम्ऽ इत्ययं गुणः प्रतिषेध आरभ्यते स यथेह भवति---तेरतुस्तेरुरिति, तथा तितीर्वानित्यत्रांपि स्यात्। कित्करणसामर्थ्याद्भाषायामपि क्वसुर्भवतीत्येतु भाष्यविरोधादुपेक्ष्यम्। उतरसूत्रानर्थक्यं च, यदि भाषायामपि क्वसुर्भवति॥ भाषायां सदवसश्रुवः॥ ३।२।१०८ ॥ भाषायां सदवसश्रुवः॥ आदेशविधानादेवेत्यादि। यदि भाषायां सदादिभ्यो भूतसामान्ये लिण्न स्यात्, ततस्ताद्दशस्य लिट आदेशविधानमनुपपन्नं स्यादिति मन्यते। ननु च ठ्लिटः कानज्वाऽ इत्यत्र पुनर्लिड्गहणस्य प्रयोजनमुक्तम्---योऽपि परोक्षे लिड्विहितस्तस्याप्ययमादेशो भवतीति, तच्चेत्सत्यम्, इहापि यः परोक्षे लिट् स भाषायामपि सदादिभ्यः सम्भवतीति तस्येवेदमादेशविधानं स्यात्? उच्यते---लिङ्लिड्विषयेऽपि परस्तादनुवृतेर्भवतीति वक्ष्यति, ततो नानेन परोक्षे लिट आदेशाभिधानम्, किं तर्हि? भूतसामान्ये, ततश्चादेशविधानादेव लिडपि तद्विषयोऽनुमातव्यः। यद्येवम्, तस्य पक्षे क्वस्वादेशः पक्षान्तरे तिङं श्रवणं प्राप्नोति? न वावचनेन क्वसुरभिसम्बद्ध्यते क्वसुर्वा भवतीति, किं तर्हि? लिडभिसम्बद्ध्यते, भाषायां सदादिभ्यो वा लिट्; तस्य नित्यं स्वसुरादेशो भवतीति। वृत्तिग्रन्थोऽप्यस्मिन्नेवार्थ योजनीयः। उपासददिति। लृदित्वादङ्। उपासीददिति पाघ्रादिसूत्रेण सीदादेशः। अनूषिवानिति। यजादित्वात्सम्प्रसारणम्ठ्शासिवसिघसीनां चऽ इति षत्वम्। अन्ववात्सीदिति। ठ्सस्यार्द्धधातुकेऽ इति तत्वम्। अनूवासेति। ठ्लिट।ल्भ्यासस्योभयेषाम्ऽ इत्यभ्यासस्य सम्प्रसारणम्। लुङ्लङ् विषयेऽपि परस्तादनुवृतेर्भवतीति। अन्यथा भूतसामान्ये लुङ् विहितस्त्रैव धातुविशेषेऽनेनादेशविधानेनानुमितो लिडपवादः। तथा भूतविशेषे लङ्लिटौ लुङ् एवापवादौ। सदादिभ्यस्तु भूतविशेषे एतत्सूत्रविहितं च कार्य प्राप्नोति, लङ्लिटौ च; अपवादविप्रतिषेधाल्लङ्लिटावेव स्याताम्॥ उपेयिवानाश्वाननूचानश्च॥ ३।२।१०९ ॥ उपेयिवानाश्वननूचानश्च॥ उपपूर्वादिणः क्वसुरिति। निपात्यत इत्यर्थः। लिडादेशश्चायम्; अन्यथा द्विर्वचनाभ्यासदीर्घत्वे अपि निपातयितव्ये स्याताम्। तथा ग्राममुपेयिवानित्यत्र ठ्न लोकाव्ययऽ इति षष्ठीप्रतिषेधो न स्यात्। द्विर्वचनमिति। इडागमात्पूर्व नित्यत्वात्क्रित इत्यर्थः। अभ्यासदीर्घत्वमिति। ठ्दिर्घैणः कितिऽ इत्यनेन। तत्सामर्थ्यादिति। यदि ह्यएकादेशः स्याद्दीर्घविधानमनर्थकं स्याद्; एकादेशेनैव दीर्घस्य सिद्ध्त्वात्। ननु चाभ्यासदीर्घत्वस्येयतुरित्यादिरवकाशः स्यात्, अत्र हि इ इ अतुस् इति स्थिते दीर्घत्वमेकादेशश्च प्राप्नोति, ठिणो यण्ऽ इति यणादेशश्च; तत्र ठ्वार्णादाङ्गं बलीयःऽ इति बह्वाश्रयत्वेनैकादेशस्य बहिरङ्गत्वाद्वा यणेव भवति, ततश्च दीर्घविधानमर्थवद्भवति ? एवं मन्यते----अत्रापि पूर्वपरविधिरेकादेशः पूर्वविधिरिति, तत्र कर्तव्ये यणादेशस्य स्थानिवत्वात्स्यादेवैकादेशः; तदेवमभ्यासदीर्घत्वमनवकाशत्वात्सवर्णदीर्घत्वं बाधत इति। तस्मात्सुष्ठूअक्तम्-----तत्सामर्थ्यादेकादेशप्रतिबन्ध इति। तत्रेति। एवं सतीत्यर्थः। स निपात्यत इति। निपातनाश्रयणमिडर्थम्। अन्यत्सर्वं पूर्वत्रैवेण्ग्रहणादेव सिद्धमित्यर्थः। यदि तहीडर्थमेतन्निपातनं संप्रसारणविषयेऽपि प्राप्नोति; अत्र वलादेरिति विशेषानुपादानात्, यथा वक्ष्यति----नित्यश्चायं वल्निमितो विघातीति, तत्राह-----क्रादिनियमात्प्राप्तश्चेति। चशब्दो हेतौ। नात्रापूर्व इङ् विधीयते, किं तर्हि? योऽयं वलादिलक्षण इट् क्रादिनियमेन प्राप्तः ठ्वस्वेकाजाद्धसाम्ऽ इति नियमेन प्रतिषिद्धः, स एव प्रतिप्रसूयतेउप्रतिबन्धपनयनेन पुनः प्रवर्त्यते। तेनाजादा वतिप्रसङ्गो न भवतीत्यर्थः। अन्ये तु----अभ्यासदीर्घत्वे कृते धात्विकारस्य व्यञ्जनं यणादेशं निपातयन्ति, ईय्वसु इति स्थिते ठ्वस्वेकाजाद्धसाम्ऽ इत्येवेट् सिद्धः, स च वलादिलक्षण इति नास्त्यतिप्रसङ्गः। अपर आह---पूर्वसूत्र एवेग्रहणं कर्तव्यम्, नार्थो निपातनाश्रयणेन। अत्र यदुक्तम्---ईयतुरित्यत्राभ्यासदीर्घत्वे कृते एकादेशात्पूर्व वार्णादाङ्गं बलीय इति यणि कृतेऽपि तस्य स्थानिवत्वादेकादेशः प्राप्नोति, ततश्चावश्यमभ्यासदीर्घत्वेन बाधितव्य एकादेश इति, तन्न; न हि स्थानिवद्भावेन रूपमतिदिश्यते, रूपाश्रयश्च पूर्वपरयोरेकादेशो न यकारस्य भवितुमर्हति। किञ्च, यणादेशेन बाधितस्यैकादेशस्य पुनस्स्थानिवद्भावेनापि प्रवृत्यभावो बाधितत्वादेव। किमतो यद्येवामिदं ततो भवति? इणः क्वसौ विहिते द्विर्वचनं च प्राप्नोति, ठ्वस्वेकाजाद्घसाम्ऽ इतीडागमश्च। किमत्र कर्तव्यम्? परत्वादिट् नित्यं द्विर्वचनं कृतेऽपीटि प्राप्नोति, अकृतेऽपि प्राप्नोतीति। इडपि नित्यः, कृते द्विर्वचनेऽभ्यासदीर्घत्वे एकादेशे च एकाच्त्वात्प्राप्नोति; इदानीगेव ह्युक्तम्---अभ्यासदीर्घत्वेन न बाधितव्य एकादेश इति। तदेवमुभयोर्नित्ययोः परत्वादिट्, द्विर्वचनम्, अभ्यासदीर्घत्वं परस्य यणादेशः ईयतुरित्यादिवत्सिद्धमुपेयिवानिति। बिभिद्वानित्यादौ नित्यत्वात्पूर्व द्विर्वचनमेव भवति। न चात्रोपसर्गस्तन्त्रमिति। एवमाचार्याणामुपदेश इति भावः। अनुपसर्गाच्चेति। ठीयिवांसमतिस्त्रिधःऽ इति हि च्छन्दसि द्दश्यते। लुङदयो भवन्तीति। लङ्लिड्विषयेऽपि परस्तादनृवृतेरयं विधिर्भवतीति दर्शयति। उपागादिति। ठिणो गालुङ्ऽ,ठ्गाइतिस्थाघुपाभूभ्यःऽ इति सिचो लुक्। उपैदिति। अदादित्वाच्छपो लुक्,ठाडजादीनाम्ऽ,ठाटश्चऽ। उपेयायेति। तिपो णलि वृद्ध्यायादेशौ, ठ्द्विर्वचनेऽचिऽ इति स्थानिवद्भावादिकारस्य द्विवचनम् ठभ्यासस्यासवर्णेऽ। अश्नातेरिति। ठश भोजनेऽ। नञ्पूर्वादिति। तेनान्यपूर्वात्केवलाच्च न भवति। नाशीदिति। तिपि सिचि ठ्नेटिऽ इति वृद्धिप्रतिषेधः, ठाडजादीनाम्ऽ ठाटश्चऽ, नञा सह सवर्णदीर्घत्वम्। नाशेति। तिपि णलि द्विर्वचने ठत आदेःऽ इत्यभ्यासदीर्घः, नञा परेण च सवर्णदीर्घत्वम्। वचेरिति। ठ्ब्रुवो वचिःऽ इत्यस्य। तथा च लैङ् अन्वब्रवीदित्युदाहरिष्यते। अन्ये तु ठ्वच परिभाषणेऽ इत्यस्यापि ग्रहणमिच्छन्ति। कर्तरीति। न भावकर्मणोः। एतच्च निपातनाल्लभ्यम्। अन्ववोचदिति। ठ्वच उम्ऽ। अन्वब्रवीदिति। ठ्ब्रु व ईट्ऽ। अनूवाचेति। पूर्ववदभ्याससंप्रसारणम्। लुङ्॥ ३।२।११० ॥ लुङ्॥ इह भूतसामान्ये लुङ् विधीयते, तस्य विशेषेऽनद्यतने लङ्लिटावपवादौ, तद्विषयेऽपि लुङ् द्दश्यते, आगमाम घोषात्, अपास पयः, अशेयिष्महि पूतीकतृणेषु, अभून्नृपो विवुधसखः परन्तपः, इति चिरवृतं कथयतः प्रयुञ्चते? नैष दोषः; विशेषे सामान्यमस्ति, तत्र विशेषाविवक्षायां सामान्याश्रयणेन वस्तुतोऽनद्यतनेऽपि लुणुपपद्यते, द्रूपविवक्षायामेव तु लङ्लिटौ, विवक्षोपारूढो ह्यर्थः शब्दप्रयोगनिमितः, न वस्तुतः सन्निति। गतमेतत्। वसेरिति। ठ्वस निवासेऽ रात्रेश्चतुर्थे यामे पृष्टो यदा वाक्यं प्रयुङ्क्ते तदा तस्यातिक्रान्तरात्रिप्रहरत्रयवसनमनद्यतनमिति लङ्प्रयोगे लुङ् वक्तव्यः। लङ्निवृत्तिपरं चैतत् लुङ् भूतसामान्यविवक्षया सिद्धः। जागरणसन्तताविति। यदा प्रयोक्ता सकलमतिक्रान्त रात्रिप्रहरत्रयं जागरिवतान् तदा लुङ्प्रयोगः यदा सुप्त्वा प्रबुद्ध्य तदा लङ्प्रत्यय एवेत्यर्थः॥ अनद्यतनेलङ्॥ ३।२।१११ ॥ अनद्यतनेलङ्॥ ठनद्यतनेऽ इति तत्पुरुषपक्षे पर्युदासश्चेद्व्यामिश्रेऽपि प्राप्नोति---अद्य ह्यए वाऽभुक्ष्महीति, भवति ह्यद्यतनानद्यतनसमुदायोऽद्यतनादन्यः, प्रसज्य प्रतिषेधे तु योऽत्राद्यतनस्तदाश्रयः प्रतिषेधो भवति, किन्तु भूतसमान्ये प्राप्नोति, भूतविशेषे हि प्रतिषेधः। न च सामान्यं विशेशो भवति। पर्युदासेऽप्ययं दोषो द्रष्टव्यः। बहुव्रीहौ न विद्यतेऽद्यतनो यस्मिन् सोऽनद्यतनो भूतो धात्वर्थः, तत्र वर्तमानाल्लङ् भवति, ततश्चाद्यतनसमुदायेऽद्यतनस्यैकदेशस्य सम्भवान्न भवति प्रसङ्गः। भूतसामान्येऽपि न भवत्येव, विद्यते हि सामान्ये विशेषः, अतो बहुव्री---हिरेवायं युक्त इत्याह---अनद्यतन इति बहुव्रीहिनिर्देश इति। बहुव्रीहिणा विवक्षितार्थस्य प्रतिपादनं बहुव्रीहेर्वोच्चारणमित्यर्थः। यदि बहुव्रीहिनिर्द्देशः, एवं सत्यद्यतने प्राप्नोति, न ह्यद्यतनेऽद्यतनो विद्यते? अद्यतनेऽपि मुहूर्तादिरद्यतनो विद्यते, मुहूर्तादावपि क्षणादिः, कथम्? व्यपदेशिवद्भावेन यथा मुख्ये भेदे आधाराधेयभावो भवति---तटे तिष्ठतीति, तथेहापि समुदायावयवभेदाश्रयेण समुदायेऽद्यतनेऽवयवा अद्यतनाः सन्तीत्यनद्यतनो न भवतीत्युच्यते, न तु तत्वतः अवयवव्यतिरिक्तोऽत्र समुदाय आधारोऽस्ति। तदुक्तं हरिणा----- कालस्याप्यपरं कालं निर्द्दिशन्त्येव लौकिकाः। न च निर्द्देशमात्रेण व्यतिरेकोऽनुगम्यते॥ इति। अद्य ह्य इति॥ अद्य ह्यश्चेत्यर्थः। गामश्वं पुरुषं नयमान इतिवच्चशब्दस्याप्रयोगः। अभुक्ष्महीति। ठ्भुजोऽनवनेऽ इत्यात्मनेपदम्, महिङ् ठिलिङसिचावात्मनेपदेषुऽ इति सिचः कित्वाद् गुणाभावः, ठ्चोः कुःऽ इति कुत्वम्---गकारः, ठ्खरि चऽ इति चर्त्वम्----ककारः, सिचः सस्य षत्वम्। परोक्षे चेत्यादि। परोक्षशब्दोऽयमतीन्द्रियार्थे वर्तते, लोकविज्ञाते लोकप्रसिद्धे प्रयोक्तुर्दर्शनविषये लङ्न्तस्य शब्दरूपस्य यः प्रयोक्ता तस्य दर्शनविषये लङ् वक्तव्यः। ननु विप्रतिषिद्धमिदम् यदि परोक्षः, कथं दर्शनविषयः? अथ दर्शनविषयः, कथं परोश्रः? शक्यदर्शनत्वाद्दर्शनविषयः, क्वचिद्व्यासङ्गादननुभूतत्वात्परोक्षैति विरोधाभावः। अरुणदिति। ठ्रुधिर् आवरणेऽ,ठ्रुधादित्वात् श्नम्, तिपो हल्ङ्यादिना लोपः। साकेतरोधस्तदानीं प्रयोक्तुर्दर्शनविषयः, शक्यदर्शनत्वात्। लोकप्रसिद्धश्च, क्वचिद्व्यासङ्गादननुभूतत्वात्परोक्षश्च। परोक्ष इति किम्? उदगादादित्यः, इणो लुङ्, गादेशादिकार्यम्। लोकविज्ञात इति। किम? चकार कट्ंअ देवदतः। प्रयोक्तुदर्शनविषये इति। किम्? जघान कंसं किल वासुदेवः, हन्तेः परोक्षे लिट्,द्विर्वचनम्,ठभ्यासाच्चऽइति कुत्वम्---हकारस्य घकारः। कंसवधश्चिरकालान्तरवृतत्वादिदानीं प्रयोक्तुर्दर्शनविषयो न भवति। यस्तु कंसवधेन तुल्यकालः प्रयोक्ता स लङ्मेव प्रयुक्तवान्----आहत कंसं वासुदेव इति। मूलोदाहरणेऽपि प्रयोक्ता साकेतरोधेन तुल्यकालो वेदितव्यः, तस्येव ह्यसौ दर्शनविषयः, नान्यस्य॥ अभिज्ञावचने लृट्॥ ३।२।११२ ॥ अभिज्ञावचने लृट्॥ वत्स्याम इति। वसेलृट् मस्, ठ्स्यतासां लृलुटोःऽ इति स्यप्रत्ययः, ठ्सस्यार्द्धधातुकेऽ इति सस्य तकारः, ठतो दीर्घो यञिऽ इति दीर्घः। वचनग्रहणमित्यादि। असति वचनग्रहणेऽभिज्ञाशब्द एवोपपदे स्यात्, तस्मिंस्तु सति यावन्तोऽभिज्ञानवचनास्तेषु भवति। बुद्ध्यसे चेतयसे इति। अर्थप्रकरणादिना स्मृतिरूपे ज्ञाने यदानयोर्वृत्तिस्तदात्रापि भवतीति भावः॥ न यदिः॥ ३।२।११३ ॥ न यदि॥ यदीति सतिसप्तमीयम्। अभिज्ञावचनं चानुवर्तते, तेन यत्र यच्छब्दोऽस्ति, तत्र यदभिज्ञावचनं तन्नियोगतो यच्छब्देन सहितं भवतीत्यभिप्रेत्याह-----यच्छब्दसहित इत्यादि। अवसामेति। वेसर्लङ् मस्, ठ्नित्यं ङ्तिःऽ इति सलोपः, दीर्घः, वासमात्रमित्यादिनोतरसूत्रस्य नायं विषय इति दर्शयति। यदि तत्रापरं किञ्चिल्लक्ष्यमपेक्ष्येत तदोतरसूत्रेण पाक्षिको विधिस्स्यात्, तच्च नेष्यते, तस्मान्न तस्य विषयः॥ विभाषा साकाङ्क्षे॥ ३।२।११४ ॥ विभाषा साकाङ्क्षे॥ उभयत्रविभाषेयमिति। प्राप्ते चाप्राप्ते च। असति यच्छब्दे ठभिज्ञावचने लृट्ऽ इति प्राप्ते सति यच्छब्दे प्रतिषेधे प्राप्ते। आकाङ्क्षणमुआकाङ्क्षा, आकाङ्क्षया सह वर्तते साकाङ्क्षः। आकाक्षङ्क्षा च चेतनावतो धर्मः, तस्मात्साकाक्षङ्क्ष इत्येतत्प्रयोक्तृविशेषणम्, तेन सकर्मक इत्यादिवत्समासः। साकाङ्क्षश्चेत्प्रयोक्तेति। ठङ्गयुक्तं तिङकाङ्क्षम्ऽ इत्यत्र तु प्रयोक्तृगताकाङ्क्षाध्यारोपेण तिङ्न्तमाकाङ्क्षमिति वक्ष्यते। इह तु मुख्ये प्रयोक्तरि सम्भवति, गौणकल्पनया धात्वर्थविशेषणमयुक्तमिति भावः। ईद्दशे पुनर्विषये प्रयोक्ता साकाङ्क्षो भवतीत्याह---लक्ष्यलक्षणयोः सम्बन्धे इति। यत्रैको धात्वर्थो लक्ष्यः, अपरो लक्षणम्, तत्र द्वयोर्लक्ष्यलक्षणभावेन सम्बन्धे सति प्रयोक्तुराकाङ्क्षा भवति, तत्र न वासमात्रं प्रतिपाद्य प्रयोक्ता चरितार्थो भवति, किन्तु तेन प्रसिद्धेन भोजनादिकं स्मारयितुं प्रवर्तते॥ परोक्षे लिट्॥ ३।२।११५ ॥ परोक्षे लिट्॥ परोक्षशब्दोऽयमतीन्द्रियवाचो प्रसिद्धः। व्युत्पत्तिस्तु परमक्ष्णः परोक्षम्, मयूरव्यंसकादित्वात्समासः, ठच्प्रत्यन्ववपूर्वात्ऽ इत्यत्राजिति योगविभागादच् समासान्तः। वृत्तिविषये चाक्षिशब्दः सर्वेन्द्रियवचनः, न चक्षुः पर्यायः; अन्यथेन्द्रियान्तरविज्ञातं वस्तु परोक्षमापद्येत । एवं च कृत्वा दर्शनपर्यायोऽक्षिशब्दो न भवतीति ठक्ष्णोऽदर्शनात्ऽ इत्येवाच् समासान्तोऽस्तु। अन्ये तु ठ्प्रतिपरसमनुभ्योऽक्ष्णःऽ इति शरत्प्रभृतिषु पाठादच् समासान्त इत्याहुः। स च यद्यप्यव्ययीभावे विधीयते, तथापि परशब्देनाव्ययीभावासम्भवात्समासान्तरे विज्ञायते। एवं तु ठ्क्रियायां परोक्षायाम्ऽ इति भाष्यप्रयोगे टिल्लक्षणो ङीप् प्राप्नोति, तस्मादजन्त एवायम्। तत्र परतः परशब्दस्य परो भावोऽस्मादेव निर्द्देशाद्भवति, परशब्दादुतरस्याक्षिशब्दस्यादेरुत्वं वा। ननु चेत्यादि। एकफलोद्देशेन प्रवृतत्वादैक्यमिवापन्ना विततरूपः क्षणप्रवाहो धात्वर्थः, स कार्त्स्न्येनैकस्मिन्क्षणे न सम्भवतीति सद्वस्तुविषयैरिन्द्रियैर्न गह्यते, ततश्चैकैकस्य क्रियाक्षणस्य प्रत्यक्षत्वेऽपि समूहरूपो धात्वर्थः सर्वः परोक्ष एव, ततश्चाव्यभिचारादविशेषणमिति भावः। सत्यमेतदिति। अनन्तरोक्तं मन्यते। किमर्थ तर्हि परोक्षग्रहणमित्याह---अस्त्विति। यत्र साधनशक्त्याश्रयभूतं फूत्कारसीत्कारादिविशिष्ट्ंअ संरब्धरूपं द्रव्यं प्रत्यक्षम्, तत्र धात्वर्थ एव प्रत्यक्षाभिमानो लौकिकानाम्। अभिमानःउमिथ्याज्ञानम्, तद्व्यावृतये परोक्षग्रहणम्। यदि तर्हि यत्र साधनशक्त्याश्रयं द्रव्यं परोक्षम्, तत्र लिङ् भवति तर्हि उतमो न प्राप्नोति, तत्र हि बुद्धीन्द्रियशरीरादिसंघातः कर्ता, स चात्मनः प्रत्यक्ष एव। ठ्परस्मैपदानाम्ऽ इति तु णलादेशवचनं ठ्णलुतमो वाऽ इति च, ठ्च्छन्दसि लुङ्लङ्लिटःऽ,ठत्यन्तापह्नवेऽ इति चापरोक्षे यो लिट् तद्विषयं भविष्यतीत्यत आह---उतमविषयेऽपि चितव्याक्षेपादिति। मदस्वप्नादिभिश्चिते व्याक्षिप्ते भवति वै कश्चित्स्वकृतमेव न जानाति, पश्चादेव त्वया कृतमिति पार्श्वस्थेभ्यः श्रुत्वा प्रयुंक्ते---सुप्तोऽहं किल विललापेति। किलेत्यज्ञानं सूचयति। अत्यन्तापह्नव इति। अपह्नवःउअलापः। कलिङ्गो नामजुगुप्सितो देशः, तत्र प्रविश्य त्वया चिरकालं स्थितमिति कश्चिदुक्तस्सन्नाह---नाहं कलिङ्गं जगामेति। न केवलमवस्थानमेव प्रतिषिध्यते, किं तर्हि? तद्धेतुभूतगमनमपीति भवत्यत्यन्तापह्नवः। तथा दक्षिणापथं प्रविश्यायाज्ययानादिकं त्वया कृतमिति कश्चिदुक्तः सन्नाह---नाहं दक्षिणापथं प्रविवेशेति। अत्राप्ययाज्ययाजनादेर्हेतुभूतः प्रवेश एव प्रतिषिद्ध्यत इत्यत्यन्तापह्नवः। क्वचित् दक्षिणापथं प्रविष्टोऽसीति वृतावेव पठ।ल्ते, तत्र प्रविश्येदं कृतवानित्यर्थः॥ हशश्वतोर्लङ् च॥ ३।२।११६ ॥ प्रश्ने चासन्नकाले ॥ ३।२।११७ ॥ प्रश्ने चासन्नकाले॥ भूतानद्यतनपरोक्ष इति वर्तत इति। अयमर्थोऽनुवर्तत इत्यर्थः,न पुनरेवंविधस्समासः प्रकृतोऽस्ति। प्रष्टव्यः प्रश्न इति। कर्मसाधनं प्रश्नशब्दं दर्शयति। करणसाधने तु प्रश्नक्रियासाधनभूते धातावासन्नकाल इत्यर्थस्स्यात्, तत्रासन्नकाल इत्यनर्थकम्, न ह्यनुच्चारितात्प्रत्ययविधानम्, उच्चारितश्चासन्नकाल एव। भावसाधनेऽप्यासन्नकाले प्रश्रे वर्तमानादित्यर्थस्स्यात्, ततश्चार्थान्तरवाचिभ्यो लङ् न स्यात्, अतः कर्मसाधनोऽयं प्रश्रशब्दः। तत्र पञ्चवर्षाभ्यन्तरमासन्नकालम्, पञ्चवर्षातीतं तु विप्रकृष्टकालमिति वर्णयन्ति॥ लट् स्मे॥ ३।२।११८ ॥ लट् स्मे॥ नडेन स्म पुराधीयते इति। अधिपूर्वादिङ्ः कर्मणि लकारः, कर्माविवक्षायां वा भावे, नडेनेति कर्तरि तृतीया। अथ वा---अधीयते इति कर्तरि बहुवचनम्, ठात्मनेपदेष्वनतःऽ इत्यदादेशः, नडेनेति सहयोगे तृतीया। अन्ये तु व्याचक्षते---पुराकल्पे---पुराकल्पे नडाख्यं तृणविशेषं हस्ते गृहीत्वाधीयाना अधीयते स्मेति॥ अपरोक्षे च॥ ३।२।११९ ॥ अपरोक्षे च॥ पूर्वसूत्रेण परोक्षे विधानादपरोक्षे न प्राप्नोतीत्ययमारम्भः, पूर्वसूत्र एव परोक्षग्रहणं निवर्तिष्यते। यद्येवम्, तत्सम्बन्धादनद्यतनग्रहणमपि निवर्तेत मा निवृतदित्येवमर्थमिदम्, द्वयोर्हि प्रकृतयोरेकनिवृत्तिर्यत्नेन क्रियमाणा इतरस्यानिवृत्तिमनुमापयति॥ ननौ पृष्टप्रतिवचने॥ ३।२।१२० ॥ ननौ पृष्टप्रतिवचने॥ पृष्टमिति कर्मणि क्तः, पृष्टस्य प्रतिवचनं पृष्टप्रतिवचनम्। वृतौ तु वस्तुमात्रं दर्शितम्। प्रश्नपूर्वके प्रतिवचन इति। उदाहरणे पूर्वशः प्रश्रः,उतर उदाहरणम्। पृष्टग्रहणार्थकं प्रश्नपूर्वकमेव प्रतिवचनम्? तन्न; विरुद्धमपि वचनं प्रतिवचनं वचनाभिमुखं प्रतिवचनमित्यपि सम्भवात्। तस्मात् पृष्टग्रहणम्। अत्यन्तासन्नकाले चायं विधिरिष्यते, तत्र निर्वृतायामपि पाकादिक्रियायां तत्कृतस्य श्रमादरेनुवृत्तिः। एवं च श्रमादिदर्शनेन सैव क्रिया वर्तत इति शक्यं वक्तुमिति। ठ्वर्तमाने लट्ऽ इत्येव सिद्धेः प्रत्याख्यातमिदम----ठ्ननौ पृष्टप्रतिवचनेऽइत्यशिष्यम्, क्रियासमाप्तेरविवक्षितत्वादिति॥ नन्वोर्विभाषा॥ ३।२।१२१ ॥ पुरि लङ् चास्मे॥ ३।२।१२२ ॥ पुरि लङ् चास्मे॥ अनद्यतनग्रहममित्यादि। लुङ्ग्रहणं चात्र लिङ्गम्। यदि हि भूतमात्रेऽयं विधिः स्यात् विभाषा लटो विधानातेन मुक्ते लुङपि भविष्यति, कि लुङ्ग्रहणेन! अनद्यतनग्रहणानुवृतौ तु लटा मुक्ते लणेóव स्यादिति कर्तव्यं लुङ्ग्रहणम्। अन्येऽपीति। लङ्लिटौ, अभिज्ञावचने लृट्---अभिजानासि देवदत वत्स्यन्तीह पुरा छात्रा इति॥ वर्तमाने लट्॥ ३।२।१२३ ॥ वर्तमाने लट्॥ प्रारब्धोऽपरिसमाप्तश्चेति। अधिश्रयणादिरधः श्रयणपर्यन्त ओदनफलावच्छिन्नो विततरूपो व्यापारनिचयः पचेरर्थः। एवं सर्वत्र स यावता कालेन निवर्तते स कालो वर्तमानः, तद्योगाद्वर्तमानो धात्वर्थ इत्यर्थः। तेन निष्पन्नस्यार्थस्य भूतत्वादनिष्पन्नस्य च भावित्वान्निष्पन्नानिष्पन्नव्यतिरेकेण राश्यन्तरस्याभावाद्वर्तमानाभाव इति चोद्यं परिहृतम्। इहाध्ययने प्रवृता यदा भोजनादिक्रियां कुर्वन्तो नाधीयते तदा अधीयत इति प्रयोगो न प्राप्नोति? नैष दोषः; आफलनिष्पतेरध्ययनमपरिसमाप्तमन्तरालवर्तितु भोजनादिक्वं नान्तरीयकं तस्यैव वावयवक्रिया। यमपि भवान्मुक्तसंशयं वर्तमानकालं न्याय्यं मन्यते----भुङ्क्ते देवदत इति, अत्राप्यवश्यं भुञ्जानो हसति जल्पति पानीयं वा पिबति, तत्र चेद्यौक्ता वर्तमानकालता, इहापि युक्ता द्दश्यताम्। उक्तं च---- व्यवधानमिवोपैति निवृत इव द्दश्यते। क्रियासमूहो भुज्यादिरन्तरालप्रवृत्तिभिः॥ न च विच्छिन्नरूपोऽपि स विरामान्निवर्तते। सर्वैव हि क्रियाऽन्येन सङ्कीर्णैवोपलभ्यते॥ तदन्तरालद्दष्टा वा सर्वैवावयवक्रिया। साद्दश्यात्सति भेदे तु तदङ्गत्वेन गृह्यते॥ इति। एतदप्यनेनैवोक्तं प्रारब्धोऽपरिसमाप्तश्च वर्तमान इति। इह तिष्ठन्ति पर्वताः, स्रवन्ति सिन्धव इति पर्वतादिस्थित्यादेः सर्वदाभावाद् भूतभविष्यदभावातत्प्रतिद्वन्द्विरूपस्य वर्तमानस्याप्यभाव इति लण् न प्राप्नोति? नैष दोषः; कालत्रयवर्तिनां राज्ञां याः क्रियाः पालनादिका भूतादिभेदेन भिन्नास्ताः पर्वतस्थित्यादेर्भेदिकाः, ततश्च ये सम्प्रति राजानस्तत्क्रियाभेदेन भिन्नाया पर्वतादिस्थितेर्वर्तमानत्वम्। एवं च कृत्वा भूतभविष्यत्कालयोगोऽप्युपपद्यते-----तस्थुः पर्वता नलदुष्यन्तादिकाले, स्थास्यन्ति पर्वताः कल्किविष्णुकाले। लटष्टकारष्टेरेत्वार्थः॥ लटः शतृशानचावप्रथमासमानाधिकरणे॥ ३।२।१२४ ॥ लटः शतृशानचावप्रथमासमानाधिकरणे॥ शकारः सार्वधातुकसंज्ञार्थः, ऋकार उगित्कार्यार्थः, चकारः स्वरार्थः। प्रथमाशब्दस्सुपामाद्ये त्रिके प्रसिद्धः, प्रथमाया अन्याऽप्रथमाउद्वितीयादिः, तत्र प्रत्ययग्रहणपरिभाषया तदन्तविधिः, अप्रथमान्तं द्वितीयाद्यन्तमित्यर्थः। अधिकरणमुअभिधेयम्, समानमुसाधारणम्, अभिधेयं यस्य तत्समानाधिकरणम्, अप्रथमान्तेन समानाधिकरणमप्रथमासमानाधिकरणम्। तृतीयेति योगविभागात्समासः। द्विपदो वा बहुव्रीहीः-----अप्रथमासमानाधिकरणं यस्येति। ठ्यस्य च भावेनऽ इति सप्तमी अप्रथमासमानाधिकरणे लटि सति, तस्य लट इति षष्ठ।ल्र्थे सप्तमी। एष पर्युदासपक्षो दर्शितः। प्रसज्यप्रतिषेधपक्षे तु नञो भवतिना संबन्धः। प्रथमाशब्देन प्रथमान्तं गृह्यते। शेषं समानम्। तत्राद्ये पक्षे कुर्वतोऽपत्यं कौर्वतः, पाचतः, कुर्वतो भक्तिः कुर्वद्भक्तिः कुर्वाणभक्तिरिति प्रत्ययोतरपदयोः शतृशानचौ न स्याताम्, न ह्यत्र द्वितीयाद्यन्तेन सामानाधिकरण्यम्, न हि कुर्वतो देवदतस्य भक्तिः कुर्वतो देवदतस्यापत्यमित्यत्र समासतद्धितौ भवतः, सापेक्षत्वात् पदान्तरनिरपेक्षत्वे प्रथमान्तेन सामानाधिकरण्याभावः। प्रसज्यप्रतिषेधे तु प्रथमान्तेन सामानाधिकरण्याभावाददोषः। अस्तु तर्हि स एव? एवमपि कुर्वतो भक्तिरस्य कुर्वद्भक्तिः, कुर्वाणभक्तिरत्र न प्राप्नोति, ये चाप्येते समानाधिकरणवृतयस्तद्धितास्तेषु न स्यात्---कुर्वतरः, कुर्वाणतरः; कुर्वद्रूपः कुर्वत्कल्प इति? पर्युदासेऽप्येष दोषो द्रष्टव्यः। एवं तर्हि ठ्प्रत्ययोतरपदयोश्चऽ इति लक्षणशेषः कर्तव्यः, तत्र पृथगुतरपदग्रहणम् ठन्तरङ्गानपि विधीन् बहिरङ्गो लुग्बाधतेऽ इति समासार्थाया विभक्तेर्लुकिकृते प्रत्ययलक्षणप्रतिषेधात्प्रत्ययपरत्वार्थम्। ननु च प्रत्ययोतरपदयोः सतोः शतृशानचौ भवतः, तयोश्च कृत्वात्प्रातिपदिकत्वे सति विभक्त्युत्पतौ सत्यां तद्धिताः, समासश्च, समासे च सत्युतरपदं तदितरेतराश्रयं भवति? नैष दोषः; ड।लप्प्रतिपदिकातद्धिताः, ते लकारस्य कृत्वाद्भविष्यन्ति, उतरपदेऽपि विधानसामर्थ्यातिङदेशं बाधित्वा लान्तस्य प्रातिपदिकत्वमाश्रित्य सुबुत्पतौ समास इति सिद्धम्। एवमपि वीक्षमाणस्यापत्यं वैक्षमाणिरित्यकृते शानचि अकारान्तत्वाभावादत इञोऽप्रसङ्गः, पचतितरामित्यत्र शतृशानचौ प्राप्नुतः, तथा पचतिरूपमित्यादौ ठ्तिङ्श्चऽ इत्येततु लङदिविषयमेव स्यात्। तदेवं सर्वत्र दोषसद्भावे समासोऽपि तावन्न्याय्यो भवतीति पर्युदासमाश्रित्याह----अप्रथमान्तेन चेदित्यादि। तस्येति। लटः। कथं पुनर्लटो द्वितीयाद्यन्तेन सामानाधिकरण्यम्, यावता ठ्लः कर्मणि चऽ इत्यनेन कर्तृकर्मणोर्विधीयमानो लकारः क्रियां प्रति गुणभूते कर्तृकर्मणी प्रतिपादयति, तथा च क्रियाप्रधात्वादाख्यातस्य क्रियान्तरयोगाभावाच्छक्त्यन्तरावेशाभावः, न हि भवति पचत्योदनं देवदतं पश्य पच्यते ओदनेन तृप्तः अपचदोदनं देवदतं पश्य पच्यते ओदनेन तृप्त इति, यथा----अन्येषु कृत्सु पाकं पश्य, पाकेन तृप्त इति? सत्यम्; तिङ्भाविनो लकारस्यायं स्वभावः यदुक्तगुणभूते कर्तृकर्मणी प्रतिपादयति, शत्रादिविषयस्य क्रियोपसर्जनकर्त्राद्यभिधानम्, ततश्च क्रियान्तरयोगे सति तन्निमितं द्वितीयाद्यन्तसामानाघिकरण्यमुपपद्यते। यद्यपि केवलस्य लटः प्रयोगाभावादप्रथमान्तेन सामानाधिकरण्यं न क्वचिदुपलब्धम्, तथापि तदादेशयोः शतृशानचोर्दर्शनात् स्थानिनो लकारस्यापि तद्योग्यत्वमनुमीयते, तेन लटः प्रक्रियार्थ विहितस्य काल्पनिकप्रथमान्तेन सामानाधिकरण्यमस्तीति दोषाभावः। अथ लड्ग्रहणं किमर्थम्----आदेशौ यथा स्यातां प्रत्ययान्तरं मा भूतामिति? नैतदस्ति; पूर्वसूत्रत एव लड्ग्रहणं स्वरयिष्यते, तस्येहानुवृतस्यार्थात् षष्ठ।ल विपरिणामे तस्यैवादेशौ भविष्यतः, न प्रत्ययान्तरमत आह----लडिति वर्तमाने पुनर्लड्ग्रहणमिति। क्वचित्प्रथमासामानाधिकरण्येऽपि भवत इति। अप्रथमासमानाधकरणत्वाभावोपलक्षणमिदम्, तेन कौर्वतः, कुर्वद्भक्तिरित्यादयोऽपि भवन्ति। सन्निति। ठस् भुविऽ,ठ्श्नसोरल्लोपःऽ। विद्यमान इति। ठ्विद सतायाम्ऽ,ठ्दिवादिरनुदातेत्। जुह्वदिति। ठ्नाभ्यस्ताच्छतुःऽ इति नुमभावः। माङ्याक्रोश इति। माङ् लुङेऽपिवादः, तथा पुनर्लड्ग्रहणाद्योऽपि भूते लट् ठ्ननौ पृष्टप्रतिवचनेऽ इति तस्यापि भवतः----ननु मां कुर्वन्तं पश्य, ननु मां कुर्वाणम्पश्येति। एतच्च ठ्ननौ पृष्टप्रतिवचनेऽ इत्यत्र भाष्यकारेणोक्तम्। केचिदित्यादि। न चैवं पचन्तम्पश्येत्यादावपि विकल्पप्रसङ्ग इत्यत आह---व्यवस्थितविभाषा चेयमिति। यथादर्शनमिति। प्रथमासमानाधिकरणे विकल्पः, पचन्तं पश्येत्यादौ ठ्प्रत्ययोतरपदयोश्चऽनित्यम्पचतितरामित्यादौ नैव भवतः, अन्यथा तिङेऽपि स्थानिवद्भावात्स्यात्प्रसङ्गः। न तर्हीदानीमिदं वक्तव्यम्---अप्रथमासमानाधिकरण इति? वक्तव्यं च। किं प्रयोजनम्? नित्यार्थम्। नन्वेतदपि विभाषयैव सिद्धम्? सत्यम्; स एवार्थो वचनेन स्पष्टीक्रियते। एतेन ठ्सम्बीधनै चऽ ठ्लक्षणहेत्वोःऽ इति च व्याख्यातम्॥ सम्बोधने च॥ ३।२।१२५ ॥ सम्बोधने च॥ हे पचन्निति। संयोगान्तलोपस्यासिद्धत्वान्नलोपाभावः। अत्र सम्भोधने प्रथमा, अयमादेशश्चेत्युभयं मिलितं सम्बोधनं द्योतयति॥ लक्षणहेत्वोः क्रियायाः॥ ३।२।१२६ ॥ लक्षणहेत्वोः क्रियायाः॥ लक्ष्यते चिह्न्यते येनेति। चिह्नयतिरवधारयत्यादिवच्चुरादिषु द्रष्टव्यः। धात्वर्थविशेषणं चैतदिति। नोपपदं क्रियाया इति वचनात्। उपपदं हि धातोर्भवति, स च क्रियावचन इति क्रियाग्रहणमनर्थकमुपपदत्वे स्यात्। क्रियायाश्च लक्षणापेक्षया कर्मत्वम्, हेत्वपेक्षया तु शेषत्वम्, तत्रोभयानुग्रहाय कर्मणोऽपि शेषत्वविवक्षया शेषलक्षणैव षष्ठी, वृतौ तु वस्तुमात्रं प्रादर्शि। क्रियाविषयाविति। शयाना भुञ्जत इति। अत्र शयनं लक्षणं भोजनस्य। तिष्ठन्तोऽनुशासतीति। अत्रापि स्थानमनुशासनस्य। अर्जयन्वसतीति। ठर्ज प्रतियत्नेऽ चुरादिराङ्पूर्वः। लक्षणहेत्वोरिति किमिति। क्रियासम्बन्धिन्यर्थे वर्तमानादिति विज्ञायमाने लक्षणहेत्वोरपि भविष्यत इति प्रश्नः, अतिप्रसङ्गेन तूतरम्। पचति च पठतिचेति। अत्र द्वयोः क्रिययोरेकस्मिन्साधने समुच्चयातद्द्वारेण परस्परसम्बन्धोऽप्यस्तीत्युभयत्रापि प्रसङ्गः। यः कम्पते सोऽश्वत्थ इति। बहुषु वृक्षेषु तिष्ठत्सु कम्पनेनाश्वत्थो लक्ष्यते, तच्च द्रव्यम्। यदुत्प्लवते तल्लघ्विति। अत्राप्युत्प्लवनेन लाघवं गुणो लक्ष्यते। निषदनं निमज्जनं तेन गौरवं गुणो लक्ष्यते। इह तु योऽधीयान आस्ते स देवदत इति आसिक्रियाया एवाध्ययनक्रियालक्षणम्, न देवदतस्य, आसिक्रिया तु तस्य लक्षणम्। एवं यस्तिष्ठन्मूत्रयति स ब्राह्मणब्रुव इति, अत्रापि स्थितिक्रिया मूत्रणक्रियाया एव लक्षणम्, सैव तु देवदतस्याशौ चादेर्लक्षणं न स्थितिक्रियेति सूत्रेणैव सिद्ध आदेशः। कथं शयाना वर्धते दूर्वा, आसीनं वर्धते विषमिति, न ह्यासनशयते वृद्धेर्लक्षणम्, किं तर्हि? स्वभावमात्रकथनमेतत्? भवति वै स्वभावाख्यानमपि लक्षणम्, यथा----चैतन्यलक्षणं पुरुष इति। पूर्वनिपातव्यमिचारलिङ्गमिति। ठ्द्वन्द्वे घिऽ,ठल्पाच्तरम्ऽ इति यौ पूर्वनिपातौ तयोर्व्यभिचारे लिङ्गमित्यर्थः। तेन धूमाग्नी, मृदङ्गशङ्खपणवा इत्यादिप्रयोगोपपतिः॥ तौ सत्॥ ३।२।१२७ ॥ तौ सत्॥ तौग्रहणं किमर्थम्, संज्ञाविधिर्यथा स्यात् सदित्यस्य प्रत्ययस्य विधिर्मा भूदिति? नैतदस्ति प्रयोजनम्, पूर्वसूत्रे शतृशानचौ स्वरयिष्येते, तत्सामर्थ्यातयोरनुवृतयोः संज्ञैव भविष्यति, तत्राह----तौग्रहणमुपाध्यसंसर्गार्थमिति। लट्स्थानिकत्वाद् वर्तमानकालविहितत्वं चोपाधिः, तेनोपाधिनाऽसंबन्धार्थः, तौग्रहणमित्यर्थः, किं सिद्धमित्याह---शतृशानज्मात्रस्येति। असति तौग्रहणे याद्दशौ शतृशानचौप्रकृतौ लट्स्थानिकौ वर्तमानकालौ च ताद्दशयोरेव संज्ञा स्यात्, ततश्च लृडादेशयोर्न स्यात्। ठ्लृटस्सद्वाऽ इत्येततु वचनं सत्संज्ञकप्रतिरूपयोर्विधानार्थ स्यात्, यथा----अमी पिष्टपिण्डाः सिंहाः क्रियन्तामिति तदाकाराः क्रियन्ते। विहितयोस्तूतरकालं संज्ञा न सिध्यति, ततश्च ब्राह्मणस्य पक्ष्यन्, ब्राह्मणस्य पक्ष्यमाण इति समासप्रतिषेधो न स्यात्; तस्यां दशायां सत्संज्ञाया अभावात्। एवं भूतकालयोरपि न स्यात्। ठ्वर्तमानसामीप्ये वर्तमानवद्वाऽ इति वचनाद्भूतेऽपि शतृशानचौ भवतः। एवं तत्रापि वर्तमानवदित्यतिदेशेन विधानमेव तयोर्भूते सिद्ध्यति, न तु संज्ञा। प्रत्ययाधिकाराद्वि प्रत्यय एवातिदिश्यते, न सज्ञा। तथा ठ्ननौ पृष्टप्रतिवचनेऽइत्यपि लटः शतृशानचौ भवत इत्युक्तम्, तयोरपि संज्ञा न भवेत्, तौग्रहणे सति तयोरपि संज्ञा भवति----ननु मां ब्राह्मणस्य कुर्वन्तम्पश्य ननु मां ब्राह्मणस्य कुर्वाणम्पश्येति। अथ क्रियमाणेऽपि तौग्रहणे कथमिव कालान्तरविहितयोः संज्ञा सिद्ध्यति, यावता प्रकृतस्यैव वस्तुनस्सर्वनाम्ना परामर्शः? सत्यम्; तौग्रहणसामर्थ्यातु विशेषणांशरित्यागेन शतृशषानचो रूपमात्रं परामृश्यते॥ पूङ्यजोः शानन्॥ ३।२।१२८ ॥ पूङ्यजोः शानन्॥ इहैते शानन्नादयो यदि लटोऽनुवृत्तिमाश्रित्य तस्यैवादेशाः क्रियेरन्, वेति वक्तव्यम्, पवमानः यजमानः, पवते यजत इत्यपि यथा स्यात्, वाऽसरूपविधिना तिङे बविष्यन्ति, न लादेशेषु वाऽसरूपविधिरस्तीत्युक्तम्। साधनाभिधानम्---साधनस्य चाभिधानं प्राप्नोति ठ्लः कर्मणि च भावे चाकर्मकेभ्यःऽ इति भावकर्मणोरपि प्रसङ्गः। परस्स्वरश्च न सिद्ध्यति---कतीह पवमानाः, ठदुपदेशाल्लसार्वधातुकम्ऽ इत्यनुदातत्वं प्राप्नोति। आत्मनेपदसंज्ञा---ठ्तङनावात्मनेपदम्ऽ इत्यात्मनेपदसंज्ञा च प्राप्नोति, ततश्च परस्मैपदिभ्यश्चानश् न स्यात्कतीह नन्दमानाः। तस्मादशक्या एवैते लादेशा विज्ञातुमिति मत्वाह---शानन्प्रत्ययो भवतीति। शकारस्सार्वधातुकसंज्ञार्थः, नकारस्स्वरार्थः। यदीत्यादि। ठ्न लोकाव्ययऽ इत्यत्र स्वरूपस्य ग्रहणं मन्यमानस्य प्रश्नः। तृन्निति प्रत्याहारनिर्देशादिति। षष्ठीप्रतिषेध इत्यनुषङ्गः। द्विषश्शतुर्वा वचनमिति। ठ्द्विषोऽमित्रेऽ इति योऽयं शतृप्रत्ययस्तस्य प्रयोगे वा षष्ठी भवति, प्रत्याहारेऽन्तर्भावान्नित्यं प्रतिषेधे प्राप्ते वचनम्। यस्यापि तन्निति स्वरूपग्रहणं तेनाप्येतद्वक्तव्यम्---पक्षे षष्ठी यथा स्यान्नित्यं मा भूदिति। शेषविज्ञानात्सिद्धम्, कर्मणि शेषत्वेन विवक्षिते षष्ठी, कर्मरूपेण विवक्षिते द्वितीयेति॥ ताच्छील्यवयोवचनशक्तिषु चानश्॥ ३।२।१२९ ॥ ताच्छील्यवयोवचनशक्तिषु चानश्॥ मण्डयमाना इत्यादि। ठ्मडि भूषायाम्ऽ,ठ्भूष अलङ्कारेऽ चुरादी, ठसु क्षेपणेऽ,पर्यासःऊउसन्नहनम्, शिखापर्यायः शिखण्डशब्दः। वचनग्रहणं विस्पष्टार्थम्॥ इङ्धार्योः शत्रकृच्छ्रिणि॥ ३।२।१३० ॥ इङ्धार्योः शत्रकृच्छ्रिणि॥ अकृच्छ्रः सुखसाध्यो यस्य धात्वर्थ इति। अस्तीति शेषः। ठत इनिठनौऽ इतीनिः, अपुत्रा भार्यादिवद् बहुव्रीहिणैव सिद्धे तत्पुरुषान्मत्वर्थीयः कृतः; लघुत्वम्प्रति सर्वत्रानादरात्। इङ् आत्मनेपदित्वाद्धारयतेश्च कर्त्रभिप्राये शता न सिद्ध्यति, लसार्वधातुकानुदातत्वं च प्राप्नोतीत्ययमारम्भः॥ द्विषोऽमित्रे ॥ ३।२।१३१ ॥ द्विषोऽमित्रे॥ असन्देहार्थम् ठ्मित्रे द्विषःऽ इति सूत्रान्यासादकारप्रश्लेषो विज्ञायत इत्याह---अमित्रश्शत्रुरिति। अमेर्द्विषतीति त्रच्प्रत्ययः, न पुनरयं नञ्समासः, परवल्लिङ्गप्रसङ्गात् लोकाश्रयत्वाल्लिङ्गस्य। स्वरे दोषः, चित्स्वरो हीष्यते। बह्वचास्तु मध्योदातममित्रशब्दमधीयते---अमित्रस्य व्यथया मन्युमिन्द्रः, अमैरमित्रमर्दय। द्विषेस्स्वरितत्वात्कर्त्रभिप्राये शता न प्राप्नोतित्ययमारम्भः॥ सुञो यज्ञसंयोगे॥ ३।२।१३२ ॥ सुञो यज्ञयंयोगे॥ कर्मसाधनस्संयोगशब्द इत्याद---यज्ञसंयुक्तेऽभिषव इति। सर्वे सुन्वन्त इति। प्रयोगः। तस्य विषयमाह---सर्वे यजमानास्सत्रिण उच्यन्ते इति। सूत्रेषु हि ये यजमानास्ते ऋत्विज इति सर्वे प्रधानकर्तारः। इह ठ्सुञो यज्ञेऽ इत्येव सिद्धम्, यज्ञविषयश्चेत्सुनोत्यर्थो भवतीत्यर्थः, तत्किं संयोगग्रहणेन? तत्राह---संयोगग्रहणमिति। ठ्लटः शतृशानचौऽ इत्यनेनाप्यप्रधाने कर्तरि न भवति, संयोगग्रहणसामर्थ्यात्प्रधानकर्ताउअधिकारी॥ अर्हः प्रसंसायाम्॥ ३।२।१३३ ॥ अर्हः प्रसंसायाम्॥ अर्हति चौरो वधमिति। ठ्लटः शतृशानचौऽ इत्यनेनापि न भवति, प्रथमासमानाधिकरणत्वात्। अस्तु वा ठदुपदेशाल्लसार्वधातुकम्ऽ इत्यनुदातः॥ आ क्वेस्तच्छीलतद्धर्मतत्साधुकारिषु॥ ३।२।१३४ ॥ आ क्वेस्तच्छीलतद्धर्मतत्साधुकारिषु॥ तदित्यादि। ठ्धातोःऽ इति वर्तते, धातुश्च शब्दः, न तस्य शीलादिप्रतिविशेषणत्वमुपपद्यते, तस्मातस्य योऽर्थः स शीलादीनां त्रयाणां विशेष्याणां विशेषणत्वेन त्रिभिस्तच्छब्दैर्निर्दिश्यते। तत्र धात्वर्थे शीलं यस्य स धात्वर्थो धर्मो यस्य तस्य धात्वर्थस्य साधुकारीत्येवमित्यर्थः। तद्धर्मा तदाचार इति। धर्मशब्दस्याचारे प्रसिद्धत्वात्। विनापि शीलेनेति। तच्छीलाद्भेदं दर्शयति। यो धात्वर्थ साघु करोतीति। विनापि शीलेनेत्यनुषङ्गः॥ तृन्॥ ३।१।१३५ ॥ तृन्॥ मुण्डयितार इति। श्राविष्ठायनानां गोत्रविशेषाणामेष कुलधर्मः। अपहर्तार इति। अह्वरदेशे भवा आह्वरकाः, ठ्रोपधेतोः प्राचाम्ऽ इति वुञ्, तेषामेव देशधर्मः। श्राद्धे सिद्धेः। निर्वृते। उन्नेतार इति। अयमपि कुलधर्मः। तृन्विधाविति। अताच्छील्याद्यर्थ आरम्भः। तृजेव भवतीति। तृन्तृचौ ठ्शंसिक्षदादिभ्यः संज्ञायां चानिटौऽ इत्यनेन। स्वरे विशेष इति। तृनि ठ्तादौ च निति कृत्यतौऽ इति गतेः प्रकृतिस्वरस्स्यात्, तचि तु कृत्स्वरो भवति। ठ्तृन्तृचौऽ इत्यस्यैव विषयव्यवस्थार्थमिदम्। अनुपसर्गेभ्यस्तृन्, सोपसर्गेभ्यस्तृजिति प्रपञ्चार्थ वा, तथा च प्रशास्तेति। तृच्यपीण्नास्ति। नयतेः षुक् चेति। गुणे कृते षुग् वेदितव्यः, प्रकृत्यन्तरं वा; नेषति, नेषतुः, नेषिथेति दर्शनात्। अनिट्त्वं चोत। त्विषः स्वत एवानिट्त्वादुक्तवक्ष्यमाणसर्वोपसंख्यानशेषभूतमिदम्। तेन पोता, क्षतेत्यनिटत्वं भवति। क्षदेरिति। धातुष्वपठितोऽपि क्षदिरस्मादेव वचनादभ्युपगम्यते, आत्मनेपदी चायम्। उक्षाणा वा वहतं वाक्षदन्त इति बह्वृचब्राह्मणप्रयोगात्। क्वचिदधिकृत इति। द्वाररक्षणे, रथप्राजने च॥ अलंकृञ्निराकृञ्प्रजनोत्पचोत्पतोन्मदरुच्यपत्रपवृतुवृधुसहचर इष्णुच्॥ ३।२।१३६ ॥ अलंकृञ्निराकृञ्प्रजनोत्पचोत्पतोन्मदरुच्यपत्रपवृतुवृधुसहचर इष्णुच्॥ कृञिति करोतेर्ग्रहणम्, प्रसिद्धेः, न हिसार्थस्य। ठ्जनी प्रादुर्भावेऽ ठ्डुपचष्पाकेऽ,ठ्पचि व्यक्तीकरणे इत्यस्येदित्वान्नुमा भाव्यमिति नायं निर्द्देशः सम्भवति। ठ्शल हुल पत्लृ गतौऽ ठुत्पत्तिष्णू च चेरतुः खरदूषणौऽ इति भट्टिकाव्ये प्रयोगः।ठ्पद गतौऽ इत्यन्ये पठन्ति। ठ्मदो हर्षेऽ,ठ्मद तृप्तियोगेऽ इत्ययं तु चुरादिः, तस्योन्मदेति निर्द्देशो न सम्भवति। ठ्रुच दीप्तौऽ,ठ्त्रपूष् लज्जायाम्ऽ,ठ्वृतु वर्तनेऽ ठ्वृधु वृधौऽ,ठ्षह मर्षणेऽ,ठ्चर गत्यर्थः। येऽत्र सोपपदा उपातास्तत्रोपातादेव रूपाद्भवति, तत एतन्न नोदनीयम्----ठुदः पचपतमदऽ इति वक्तव्यम्, किं स्वरूपतः? प्रत्येकमुत्पूर्वपाठेनेति तेन समुत्पत्तिष्णुरिति न भवतीत्याहुः। ये तु निरुपपादा उपातास्तेभ्यो यथादर्शनं भवति॥ णेश्च्छन्दसि॥ ३।२।१३७ ॥ णेश्च्छन्दसि॥ पारयिष्णव इति। ठयामन्ताल्वाय्येत्न्विष्णुषुऽ इत्ययादेशः॥ भुवश्च॥ ३।२।१३८ ॥ भुवश्च॥ च्छन्दसीत्युच्यते, तत्कथम्----ठ्जगत्प्रभोरप्रभविष्णु वैष्णवम्ऽ ठ्विष्णवे प्रभविष्णवेऽ इति? निरंकुशाः कवयः। भ्राजिष्णुनेति। नैतद्भाष्ये समाश्रितम्॥ ग्लाजिस्थश्च ग्स्नुः॥ ३।२।१३९ ॥ ग्लाजिस्थश्च ग्स्नुः॥ चर्त्वभूत इति। चर्त्वं प्राप्तश्चर्त्वेन वा प्राप्त इत्यर्थः। र्श्युकः कितीत्यत्रापीति। गकारोऽपि चर्त्वभूतो निर्द्दिश्यत इत्यनुषङ्गः। वस्नोर्गित्वान्न स्थ ईकारः। स्थास्नुरित्यत्र ईकारो न भवति, क्स्नोर्गित्वात्। कङितोरीत्विशासनात्। ककारेऽकार उच्चारणार्थः। क्ङितोहिण्त्वमुच्यते, अयं तु गित्। यद्येवं जिष्णुर्भूष्णुरित्यत्र गुणः प्राप्नोति? ----गुणाभावस्त्रिषु स्मार्यः। गित् कित् ङिदिति त्रिषु गुणाभावः स्मर्तव्यः; ठ्क्ङिति चऽ इत्यत्र गकारप्रश्लेषात्। इह तर्हि भूष्णुरिति र्ठ्श्युकः कितिऽ इतीट्प्रतिषेधो न प्राप्नोति?----र्श्युकोऽनिट्त्वं गकोरितोः। र्श्युकः परस्य यदनिट्त्वं तद्गकारककारयोर्द्वयोरपीतोर्भवति, न केवलं ककारे; तत्रापि गकारस्य चर्त्वभूतस्य निर्द्देशात्। यद्येवम्, चर्त्वस्यासिद्धत्वाद् ठ्हशि चऽ इत्युत्वं प्राप्नोति? सौत्रो निर्द्देशः, असंहितया वा निर्द्देशः करिष्यते च्छन्दसि। दंक्ष्णवः पशव इति। क्स्नोर्गित्वादुपधालोपाभावः॥ त्रसिगृधिधृषिक्षिपेः क्नुः॥ ३।२।१४० ॥ त्रसिगृधिधृषिक्षिपेः क्नुः॥ त्रस्नुरिति। ठ्नेड्वशि कृतिऽ इतीट्प्रतिषेधः॥ शमित्यष्टाभ्यो घिनुण्॥ ३।१।१४१ ॥ शमित्यष्टाभ्यो घिनुण्॥ इतिशब्द आद्यर्थे इति। अनेकार्थत्वान्निपातानाम्। तत्र ठ्शम्ऽ इति आदिर्येषामिति बहुव्रीहौ सुपो लुक्, ठ्शमु उपशमनेऽ,ठ्तमु काङ्क्षायाम्ऽ,ठ्दमु उपसमनेऽ,ठ्श्रमु तपसि खेदे चऽ,ठ्भ्रमु अनवस्थानेऽ,ठ्क्षमूष् सहनेऽ,ठ्क्लमु ग्लानौऽ,ठ्मदी हर्षेऽ। उकार उच्चारणार्थ इति। नानुबन्धः, अनुबन्धे हि सति शमिनौ शमिन इत्यत्र ठुगिदचाम्ऽ इति नुम् प्रसज्येत;शमिनितरा, शमिनितमेत्यत्र नद्याः शेषस्यान्यतरस्याम् ठुगितश्चऽ इत्यन्यतरस्यां ह्रस्वः स्यात्; ठ्घरूपकल्पचेलड्ऽ इति नित्यमिष्यते, तस्मान्नायमनुबन्धः, किं तूच्चारणार्थ इति व्याचक्षते। भाष्ये तु ठकार उगित्कार्यार्थोऽनुबन्ध एवऽ इति स्थितम्। तत्र ह्रस्वत्वं विकल्पेनेष्यते, न नित्यम्। नुम्विधौ तु झल्ग्रणमनुवर्तिष्यते, अझलन्तत्वान्न प्रविष्यति। शमीति। ठ्नोदातस्यऽ इति वृद्धिप्रतिषेधः। उन्मादीति। ननु मादीत्यत्र चरितार्थमेतत्, उत्पूर्वात्वलंकृञादिसूत्रेण विशेषविहित इष्णुजेव प्राप्नोति, वाऽसरूपविधिना घिनुण् भविष्यति, ताच्छीलिकेषु वाऽसरूपविधिर्नास्तीत्येततु प्रायिकमिति वक्ष्यते। असितेति। ठसु क्षेपणेऽ,तृन्नेव भवति॥ सम्पृचानुरूधाङ्यमाङ्यसपरिसृसंसृजपरिदेविसंज्वरपरिक्षिपपरिरटपरिवदपरिदहपरिमुहदुषद्विषद्रुहदुहयुजाक्रीडविविचत्यजरजभजातिचरामुषाभ्याहनश्च॥ ३।२।१४२ ॥ सम्पृचानुरुधाङ्यमाङ्यसपरिसृसंसृजपरिदेविसंज्वरपरिक्षिपपरिरटपरिवदपरिदहपरिमुहदुषद्विषद्रहदुहयुजाक्रीविविचत्यजरजभजातिचराचरामुषाभ्यहनश्च॥ ठ्पुची संपर्केअऽ, रुधिर् आवरणेऽ; ठनो रुध कामेऽ इत्यस्य तु दैवादिकस्याग्रहणम्; पृचिना साहचर्यात्। अनुना सह पठितस्य दैवादिकस्य ग्रहणमित्यन्ये। ठ्यम उपरमेऽ,ठ्यसु प्रयत्नेऽ, ठ्सृ गतौऽ,ठ्सृज विसर्गेऽ, देवृ देवनेऽ,ठ्ज्वर रोगेऽ,ठ्क्षिप् प्रेरणेऽ,ठ्रट परिभाषणेऽ,ठ्वद व्यक्तायां वाचिऽ,ठ्दह भस्मीकरणेऽ,ठ्मुह वैचित्येऽ,ठ्दुष वैकृत्येऽ,द्विष अप्रीतौऽ,ठ्द्रुह जिघांसायाम्ऽ,ठ्दुह प्रपूरणेऽ,ठ्युजिन् योगेऽ,ठ्क्रीड्ःअ विहारे, ठ्विचिर् पृथग्भावेऽ,ठ्त्यज हानौऽ,ठ्रञ्ज रागेऽ,ठ्भज सेवायाम्ऽ,ठ्चर गत्यर्थः, ठ्मुष स्तेयेऽ,ठ्हन हिसागत्योःऽ। परिदेविर्बूवादिरिति। गृह्यते इति सम्बन्धः। क्रीडार्तस्य तु ण्यन्तस्याग्रहणम्, अण्यन्तैः साहचर्यात्, प्रतिपदोक्तत्वाच्च। अत एव ठ्दिव परिकूजनऽ इत्यस्य चौरादिकस्यापि न भवति। संपर्कीति। ठ्चजोः कु घिण्ण्यतोःऽ इति कुत्वम्। येऽत्र संपूर्वाः तेषां द्वन्द्वं कृत्वा ठ्सम एतेभ्यःऽ इति वक्तव्यम्, एवमाङ्पूर्वेषु परिपूर्वेषु च, एवं सिद्धे यत्प्रतिपदं पठति तस्यैतत्प्रयोजनम्---उपातादएव रूपाद्यथा स्यात्, उपसर्गान्तरयुक्तान्मा भूदिति॥ वौ कषलसकत्थस्रम्भः॥ ३।२।१४३ ॥ अपे च लषः॥ ३।२।१४४ ॥ प्रे लपसृद्रुमथवदवसः॥ ३।२।१४५ ॥ प्रे लपसृद्रुमथवदवसः॥ ठ्रप लप व्यक्तायां वाचिऽ,ठ्सृ गतौ,ऽठ्द्रु गतौऽ, ठ्मथे विलोडनेऽ॥ निन्दहिंसक्लिशखादविनाशपरिक्षिपपरिरटपरिवादिव्याभाषासूयो वुञ्॥ ३।२।१४६ ॥ निन्दहिंसक्लिशखादविनाशपरिक्षिपपरिरटपरिधादिव्याभाषासूयो वुञ् ॥ ठ्णिदि कुत्सायाम्ऽ ठ्तृह हिसि हिंसायाम्ऽ,ठ्क्लिश विबाधनेऽ,ठ्खाद्द भक्षणेऽ,ठ्णश अदर्शनेऽ ण्यन्तः, भाविना णिलोपेन निर्देशः, अकारस्त्वागन्तुकः। केचितु विनाशीति ण्यन्तमेव पठन्ति। क्षिपिरटी उक्तार्थौ, वदिर्ण्यन्तः, ठ्भाष व्यक्तायां वाचिऽ,असूयतिः कण्ड्वादियगन्तः। अथ किमर्थ निन्दादिभ्यो वुञ् विधीयते, न ठ्ण्वुल्तृचौऽ इति ण्वुलैव सिद्धम्, तदेव रूपम्, स्वरोऽप्यसूयतिमेकं वर्जयित्वान्यत्र स एव; असूयतेस्तु ण्वुलि प्रत्ययात्पूर्वमुदातं स्यात्, वुञि तु ठ्ञ्नित्यादिःऽ इति। तस्मादेवैकस्माद् वुञ् विधेयः, अन्येभ्यस्तु ण्वुलैव सिद्धम्, योऽयं तच्छीलादिषु तृन्विधीयते स बाधकः प्राप्नोति, वाऽसरूपविधिना ण्वुलपि भविष्यति, तत्राह---ण्वुलैव सिद्ध इति। तृजादयो न भवन्तीति। न केवलं ण्वुल्विषयमेव ज्ञापकम्, किं तर्हि? प्रत्ययमात्र विषयमित्यर्थः॥ देविक्रुशोश्चोपसर्गे॥ ३।२।१४७ ॥ देविक्रुशोश्चोपसर्गे॥ देवयतेरिति। दीव्यतेर्हेतुमण्णिजन्तस्य, ठ्दिवि कूजनेऽ इत्यस्य चुरादिण्यन्तस्य च॥ चलनशब्दार्थादकर्मकाद् युच्॥ ३।२।१४८ ॥ चलनशब्दार्थादकर्मकाद् युच्॥ चोपन इति। ठ्चुप मन्दायां गतौऽ। शब्दन इति। ठ्शब्द शब्दनेऽ चुरादिः, शब्दप्रातिपदिकाद्वा ठ्तत्करोतिऽ इति णिच्॥ अनुदातेतश्च हलादेः॥ ३।२।१४९ ॥ अनुदातेतश्च हलादेः॥ जुगुप्सन इति। ठ्गुपादिष्वनुबन्धकरणमात्मनेपदार्थम्ऽ इत्युक्तत्वाद् ठवयवे कृतं लिङ्गं समुदायस्य विशेषकं भवतिऽ इति समुदायस्यानुदातेत्वम्। तत्रासत्यादिग्रहणे तदन्तविधिः स्यात्, ततश्चात्र न स्यात्, अतस्तदन्तविधिर्मा बूदित्येवमर्थमादिग्रहणम्॥ जुचंक्रम्यदंद्रम्यसृगृधिज्वलशुचलषपतपदः॥ ३।२।१५० ॥ जुचंक्रम्यदंद्रम्यसृगृधिज्वलशुचलषपतपदः॥ ठ्जुऽ इति सौत्रो धातुः। गतिवचन इत्येके। वेगवचन इत्यन्ये। ठ्क्रमु पादविक्षेपेऽ,ठ्द्रम हम्म मीमृ गतौऽ,ठ्सृ गतौऽ,ठ्गृधु अभिकांक्षायाम्ऽ,ठ्ज्वल दीप्तौऽ,ठ्शुच शोकेऽ,ठ्लष इच्छायाम्ऽ,ठ्शल हुल पत्लृ गतौऽ,ठ्पद गतौऽ। ननु चात्र चंक्रम्यप्रभृतयः केचिच्चलनार्थः पदिस्त्वनुदातेत्, तेभ्यो यथायोगं पूर्वसूत्राभ्यामेव युच् सिद्धः, किमर्थमिह ग्रहणमित्यत्राह---चलनार्थानामित्यादि। प्रपूर्वः पदिः सकर्मकः। ज्ञापकार्थमिति। ज्ञापनं ज्ञापकम्, भाष्यकारप्रयोगाद्भावे ण्वुल्। अन्ये पदिग्रणं वर्णयन्तीति। भाष्यकारादयः। ते हि मन्यन्ते---सकर्मकात्पदेर्युचा न भवितव्यम्; अनिभाधानादिति। यथाह---पदिग्रहणमनर्थकमनुदातेतश्च हलादेरिरि सिद्धत्वात्? वासरूपनिवृत्यर्थ त्विति। ताच्छीलिके वाऽसरूपविधिर्नास्तीति निन्दादिसूत्रे तच्छीलादिषु कर्तृषु वाऽसरूपविधिना तृजादयो न भवन्तीति ज्ञापितम्। इह तु ताच्छीलिकेषु परस्परं वाऽसरूपविधिर्नास्तीति ज्ञाप्यते। अलंकर्तेति। एवमलंकृञास्तृन्न भवतीत्यर्थः। यथा तु पदिग्रहणं ज्ञापकं तथा दर्शयति----तथा हीति। उकञा विशेषविहितेनेति। ठ्लशेषविहितेनेति। ठ्लषपतपदऽ इत्यादिना। प्रायिकं चैतदिति। एतच्च ठ्सूददीपदीक्षश्चऽ इत्यत्र वक्ष्यते। गन्तेति। गमेर्लषपतपदाद्यौकञ्विषये तृन् भवति। विकत्थन इति। ठ्वौ कषलषऽ इति घिनुण्विषयेऽनुदातेल्लक्षणो युज् भवति॥ क्रुधमण्डार्थेभ्यश्च॥ ३।२।१५१ ॥ न यः॥ ३।२।१५२ ॥ नयः॥ ठय वय नय तय गतौऽ इति नयतेरनुदातेत्वादेव युचः सिद्धत्वान्नतस्येदं ग्रहणम्, किं तर्हि? प्रतिषेध एवेति मत्वाऽऽ----यकारान्तादिति। पूर्वेणेति। ठनुदातेतश्चऽ इत्यादिना। क्नूयिता, क्ष्मायितेति। ठ्क्नूयी शब्देऽ,ठ्क्ष्मायी विधूननेऽ॥ सूददीपदीक्षश्च॥ ३।२।१५३ ॥ सूददीपदीक्षश्च॥ ठ्षूद क्षरणेऽ,ठ्दीपी दीप्तौऽ,ठ्दीक्ष मौण्ड।लेऽ। ननुताच्छीलिकेषु वासरूपविधिर्नास्तीति ज्ञापितम्, तत्कथं वाऽसरूपेण युजिह प्राप्नोति? तत्राह---ताच्छीलिकेष्विति। प्रायिकत्वस्य चायमेव प्रतिषेधो लिङ्गम्, सर्वत्र वाऽसरूपविधेरभावे विशेषविहितेन रप्रत्ययेन बाधितत्वादेव युज् न भविष्यतीति प्रतिषेधोऽयमनर्थकस्स्यात्। तथा चेत्यादिना प्रायिकत्वस्य प्रयोजनं दर्शयति। नानेन प्रतिषेधेन युज्रयोरेव समावेशो ज्ञाप्यते, यथा भाष्ये प्रतिभासः, किं तर्हि? ज्ञापकस्यैव प्रायिकत्वम्। तेन ठ्गन्ता खेट्ंअ विकत्थनःऽ इत्यपि भवति। एतच्च पूर्वमेवोक्तम्। अथ वा नन्द्यदिष्विति। योगविभागस्त्विदानीं वैचित्र्यार्थः॥ लषपतपदस्थाभूवृषहनकमगमशृभ्य उकञ्॥ ३।२।१५४ ॥ लषपतपदस्थाभूवृषहनकमगमशृभ्य उकञ्॥ अपलाषुकमिति। अशोभनमित्यर्थः। नन्वत्र विशेषविहितत्वाद् ठपे च लषःऽ इति घिनुणा भाव्यम्, अयं तु केवलेऽन्योपसर्गपूर्वे च लषौ चरितार्थः, वाऽसरूपविधिनोकञ् भविष्यति? ताच्छीलिकेषु वाऽसरूपविधिर्नास्तीत्येततु प्रायिकमित्युक्तम्। आघातुकं पाकलिकस्य मूत्रमिति। पाकलो नाम गजानां व्याधिविशेषः, स यस्यास्ति स पाकलिकोः, ठ्द्वन्द्वोपतापगर्ह्यात्ऽ इतीनिरेव प्राप्नोति, व्रीह्यादिपाठान्न भवति। पाकलिको गजस्तस्य मूत्रं स्पृष्टमाघ्रातं वान्यान् गजान्हन्ति, एष तस्य स्वभावः। आगामुकं वाराणसी रक्ष आहुरिति। यः शापादिना रक्षोभूतः तं मोक्षार्थ वाराणसीं प्रत्यागमनशीलमाहुरित्यर्थः॥ जल्पभिक्षकुट्टलुण्टवृङ्ः षाकन्॥ ३।२।१५५ ॥ जल्पभिक्षकुट्टलुण्टवृङ्ः षाकन्॥ठ्जल्प जप व्यक्तायां वाचिऽ, ठ्भिक्ष याच्ञायाम्ऽ,ठ्कुट्ट छेदनेऽ ठ्लुण्ठ स्येये----चौरादिकौ, ठ्वृङ् सम्भक्तौऽ॥ प्रजोरिनिः॥ ३।२।१५६ ॥ प्रजोरिनिः॥ इनेरिकारो नकारस्येत्संज्ञा मा भूदिति॥ जिद्दक्षिविश्रीण्वमाव्यथाभ्यमपरिभूप्रसूभ्यश्च॥ ३।२।१५७ ॥ जिद्दक्षिविश्रीण्वमाव्यथाभ्यमपरिभूप्रसूभ्यश्च॥ ठ्जी जयेऽ जि अभिभवेऽ---द्वयोरपि ग्रहणम्, ठ्द्दङ् आदरेऽ,ठ्श्रिञ् सेवायाम्ऽ,ठिण् गतौ,ठ्टुअवम् उद्वमनेऽ,ठ्व्यथ भयचलनयोःऽ नञ्पूर्वः, नञः कृतलोपस्य निर्द्देशः, निपातनाच्च नञो धातुना समासः, ततो वलोपः, ततः प्रत्ययः। ठम रोगेऽ,ठ्भू सतायाम्ऽ। द्वयोरपि ग्रहणमिति। ठ्क्षिष् हिंसायाम्ऽ इत्यस्य तु सानुबन्धकत्वादग्रहणम्। षू प्रेरण इत्यस्य ग्रहणमिति। ठ्षूङ् प्राणिगर्भविमोचनेऽठ्षूङ् प्राणिप्रसवेऽ इत्येतयोस्तु सानुबन्धकत्वादग्रहणम्। प्रजोरप्यत्रैव ग्रहणं कर्तव्यम्, एवं हि चकारो न वक्तव्यो भवति? तथा तु न कृमित्येव॥ स्पृहिगृहिपतिदयिनिद्रातन्द्राश्रद्धाभ्य आलुच्॥ ३।२।१५८ ॥ स्पृहिगृहिपतिदयिनिद्रातन्द्राश्रद्धाभ्य आलुच्॥ चुरादावदन्ताः पठ।ल्न्त इति। तेन णौ कृतस्यातो लोपस्य स्थानिवद्भावात्पतयतेः ठत उपधायाःऽ इति वृद्धिर्न भवति, स्पृहयतिगृहयत्योश्च लघूपधगुणो न भवतीति भावः। श्रत्पूर्वो धाञिति। धेटस्तु श्रत्पूर्वस्याप्रयोग एव। अथ किमर्थमालुज्विधीयते, न लुजेवोच्येत? का रूपसिद्धिः? स्पृहयालुः शपि कृते ठतो दीर्घो यञिऽ इति दीर्घो भविष्यति? तत्र हि ठ्तुरुस्तुशम्यमः सार्वधातुकेऽ इति सार्वधातुकग्रहणमनुवर्तते, न तु तिङ्ग्रहणम्, लकारस्येत्संज्ञाप्रयोजनाभावान्न भविष्यति, यकारादित्वाद्वा। किं यकारो न श्रूयते? लुप्तनीर्दिष्टो यकारः, एवमपि श्रद्धालुर्न सिद्ध्यति, कथम्? शपः श्लुर्द्विर्वचनम्, ठ्श्नाभ्यस्तयोरातःऽ श्रद्दध्लुरिति प्राप्नोति? अथापि ठ्संज्ञापूर्वको विधिरनित्यःऽ इति द्विर्वचनं न प्रवर्तिष्यत इत्युच्येत? एवमपि ज्ञापनार्थमालुज् विधीयते, एतज् ज्ञापयति---यत्रालुचैव रूपसिद्धिस्ततोऽप्ययं भवतीति। तेनालुचि शीङे ग्रहणमित्येतन्न वक्तव्यं भवति॥ दाधेट्सिशदसदो रुः॥ ३।२।१५९ ॥ दाधेट्सिशदसदो रुः॥ ठ्गामादाग्रहणेष्वविशेषःऽ इति दारूपाणां यथाभिधानं ग्रहणम्। धेट् पाने, ठ्षिञ् बन्वनेऽ, ठ्शद्लृ शातनेऽ,ठ्षद्लृ विशरणगत्यवसादनेषु॥ सृघस्यदः क्मरच्॥ ३।२।१६० ॥ सृघस्यदः क्मरच्॥ घसिः प्रकृत्यन्तरमस्ति॥ भञ्चभासमिदो घुरच्॥ ३।२।१६१ ॥ भञ्चभासमिदो घुरच्॥ठ्भञ्चो आमर्द्दनेऽ,ठ्भासृ दीप्तौ,ऽठ्ञिमिदा स्नेहनेऽ॥ विदिभिदिच्छिदेः कुरच्॥ ३।२।१६२ ॥ विदिबिदिच्चिदेः कुरच्॥ न लाभार्थस्येति। ज्ञानार्थस्येदमुपलक्षणं न लाभार्थस्येत्यर्थः। कुत इत्याह---स्वभावादिति। तेन ठ्लुग्विकरणालुग्विकरणयोरित्येतदपि न प्रवर्तत इत्यर्तः। विदिभिदिच्छिदेर्ङिदिति प्रकृतस्यैव घुरचो ङ्त्वाइतिदेशेनैव सिद्धे ठ्प्रत्ययान्तरकरणमातिदेशिकं ङ्त्विमनित्यम्ऽ इति ज्ञापनार्थम्। तेन ठ्धू विधूननेऽ कुटादिः, ततः ठर्तिलूधूऽ इतीत्रप्रत्ययो कृते ङित्कार्य न भवति। केचितु---धुवित्रमित्येवेच्छन्ति, प्राणा वै धुवित्राणीति छान्दसं तदनुसारेण कल्पसूत्रेषु प्रयोगः। कर्मकर्तरीति। माघस्तु शुद्धे कर्तरि प्रयुङ्क्ते---ठ्गुरुमत्सरच्छिदुरया दुरयाचितमङ्गनाऽ इति॥ इण्नश्जिसर्तिभ्यः क्वरप्॥ ३।२।१६३ ॥ इण्नश्जिसर्तिभ्यः क्वरप्॥ क्वरपः पकारः स्वरार्थः, तुगर्थश्च। इत्वरीति। ठ्टिड्ढाणञ्ऽ इत्यादिना ङीप्॥ गत्वरश्च॥ ३।२।१६४ ॥ जागरूकः॥ ३।२।१६५ ॥ यजयपदशां यङः॥ ३।२।१६६ ॥ नमिकम्पिस्म्यजसकमहिंसदीपो रः॥ ३।२।१६७ ॥ नमिकम्पिस्म्यजसकमहिंसदीपो रः॥ अजसेत्यकार आगन्तुकः। क्रियासातत्ये इति। क्रियाणामविच्छेदेन प्रवृत्तिःऊउक्रियासातत्यम्। कथं तर्हि अग्निषु प्रयोगः----अजस्रानजुहूत इन्धीरन्निति, आधानाद् द्वादशरात्रमजस्रा इति? अत्राप्यजस्रजागरणादजस्राः॥ सनाशंसभिक्ष उः॥ ३।२।१६८ ॥ सनाशंसभिक्ष उः॥ न सनिर्धातुरिति। ठ्षणु दानेऽ ठ्वन षण संभक्तौऽ इति च धातुर्न गृह्यते, कुतः? गर्गादिषु विजिगीषुशब्दस्य पाठात्। न शंसेः स्तुत्यर्थस्येति। एतदाङ सह निर्द्दशाद्विजायते---इच्छार्थो हि स तेन सह पठ।ल्ते, न स्तुत्यर्थः॥ विन्दुरिच्छुः॥ ३।२।१६९ ॥ विन्दुरिच्छुः॥ विदेरिति। ज्ञानार्थस्य ग्रहणं नेतरेषाम्, अभिधानात्, निपातनाद्वा। बिन्दुशब्दस्तु पवर्गादिः ठ्बिदि अवयवेऽ इत्यस्मादौणादिके ठ्मृगय्वादयश्चऽ इत्युप्रत्यये भवति। वकारस्यच्छन्दसि पक्षे भकार इष्यते---वैश्वदेवा भिन्दव इति। इषेरिति। ठिषु इच्छायाम्ऽ इत्यस्य। ठिषु गतौऽ ठिष ठाभीक्ष्ण्येऽ इत्येतयोस्तु पूर्ववदग्रहणम्॥ क्याच्छन्दसिः॥ ३।२।१७० ॥ क्याच्छन्दसिः॥ क्य इति क्यच्क्यष्कयङं सामान्येन निर्देश इति। सूत्रे वृतौ च ककारानुबन्धवतो धातुसंज्ञानिमितस्य प्रत्ययस्योपलक्षणात् कण्ड्वादियकोऽपि ग्रहणम्, तेन भुरण्युः तुरण्यवोऽङ्गिरसो नक्षत्रसपर्येम सपर्यव इत्यादि भवति। भाषायां च सुम्नयुशब्द उणादिषु मृगय्वादिषु पाठाद् द्रष्टव्यः। मित्रयुरिति। ठ्क्यचि चऽ इतीत्वम्, ठकृत्सार्वधातुकयोःऽ इति दीर्घत्वं च न भवति, ठ्न च्छन्दस्यपुत्रस्यऽ इति निषेधात्॥ आद्दगमहनजनः किकिनौ लिट् च॥ ३।२।१७१ ॥ आद्दगमहनजनः किकिनौ लिट् च॥ किकिनौ लिट् चापरार्थे प्रयुज्यमानाः शब्दा वतिमन्तरेणापि वत्यर्थ गमयन्ति, गौर्वाहीक इतिवदित्याह---लिड्वच्च तौ भवति इति। किकिनौ भवतः, लिट् च प्रत्ययो भवतीत्ययं त्वर्थो न भवति; तथा हि सति ठ्लिट् किकिनःऽ इत्येव ब्रूयात्। कार्यातिदेशश्चायम्। यद्येवम्, ठ्लः परस्मैपदसंज्ञा किकिनोः स्यात्, ततश्च देङ्द्दङदिभ्य आत्मनेपदिभ्यो न स्याताम्। न लकारस्य परस्मैपदसंज्ञा, किं तर्हि? तदादेशानाम्, न चैतावादेशौ। एवमपि भावकर्मकर्तृषु त्रिष्वपि लिड्वद्भावात्किकिनौ प्राप्नुतः? नैषः;उत्पन्नयोर्लिट्कार्यमतिदेश्यम्। उत्पत्तिश्च तयोः कर्तर्येव भवति; ठ्कर्तरि कृत्ऽ इत्यनेनास्यैकवाक्यत्वात्। अनभिधानाद्वा भावकर्मणोर्न भविष्यतः। वर्तमानाधिकाराच्च वर्तमाने किकिनोर्विधानमिति भूतकालतापि विरोधान्नातिदिश्यते। स्वरूपाबाधेन च कार्यादिदेशः प्रवर्तत इति तिबादीनां कानच्क्वस्वोश्चाभावः। आदिति दकारो मुखसुखार्थ इति। आदित्ययं दकारः, स च मुखसुखार्थ इत्यर्थः। न त्वयं तपर इति। तश्चासौ परश्च तपरो नायमकारात्परस्तकारो जश्त्वेन निर्द्दिष्ट इत्यर्थः। किं कारणमित्याह---मा भूदिति। तकारो मुखसुखार्थ इति पाठे तु आदित्ययं तकारः स मुखसुखार्थः, न तु तपरकार्यसम्पादनार्थ इत्यर्थः। पपिः सोममिति। ठ्न लोकाव्ययऽ इति षष्ठीप्रतिषेधो लिटः कार्यमिति सोमशब्दाद् द्वितीया। ततुरिरिति। ठ्बहुलं च्छन्दसिऽ इत्युत्वम्। ठ्द्विर्वचनेऽचिऽ इति स्थानिवद्भावात् ठ्तृऽ इत्येतद् द्विरुच्यते। जज्ञिरिति। ठ्गमहनऽ इत्युपधालोपः, चुत्वम्। तद्वाघनार्थ कित्वमिति। अर्तेरृकारान्तानां च किकिनोर्गुणो मा भूदित्येवमर्थमित्यर्थः। उत्सर्ग इति। धातुमात्राद्विधानं कर्तव्यमित्यर्थः। कस्मादित्यत्राह---सदादिभ्यो दशनादिति। सेदिः नेमिरिति। सदेर्नमेश्चैत्वाभ्यासलोपौ। सहिवहित्यादि। अत्र भाषायामित्यपेक्ष्यते। पापतिरिति। ठ्नीग्वञ्चुऽ इत्यादिना नीगागमः प्राप्तः सासहिवावहिचाचलिपापतीनां निपातनम्ऽ इति वार्तिककारवचनान्न भवति। इदं तु वृतौ पठितं वाक्यम्। अपर आहेति भाष्ये पठितम्, तत्रापि भाष्यकारवचनान्नीगभावः। उक्तं हि तेन---तान्येवोदाहरणानीति॥ स्वपितृषोर्निजिङ्॥ ३।२।१७२ ॥ शृवन्द्योरारुः॥ ३।२।१७३ ॥ भियः क्रुक्लुकनौ॥ ३।२।१७४ ॥ स्थेशभासपिसकसो वरच्॥ ३।२।१७५ ॥ स्थेशभासपिसकसो वचच्॥ ईश्वर इति। ठ्नेड्वशि कृतिऽ इतीट्प्रतिषेधः। स्त्रियामीश्वरा। विन्यस्तमङ्गलमहौषधिमीश्वरायाः। ठीश्वरआआ सर्वभूतानाम्ऽ इति तु छान्दसः। औणादिको वरडित्यन्ये। ठ्पुंयोगादाख्यायाम्ऽ इत्यन्ये। ठन्येभ्योऽपि द्दश्यन्तेऽ इति क्वनिपि ठ्वनो र चऽ इति ङीब्रावीत्यन्ये॥ यश्च यङः॥ ३।२।१७६ ॥ यायावर इति पूर्ववदिटि प्रतिषिद्धे ठतो लोपःऽ,ठ्लोपो व्योर्वलिऽ,ठल्लोपस्य स्थानिवत्वादाल्लोपः प्राप्तो वरे कृतस्य स्थानिवत्वनिषेधान्न भवति॥ भ्राजभासधुर्विद्यौ तोर्जिपृजुग्रावस्तुवः क्विप्॥ ३।२।१७७ ॥ भ्राजभासधुर्विद्यौ तोर्जिपृजुग्रावस्तुवः क्विप्॥ ठ्भ्राजृ दीप्तौऽ,ठ्भासृ दीप्तौऽ,ठ्तुर्वी थुर्वी धुर्वी हिंसायाम्ऽ,ठ्द्यौत दीप्तौऽ,ठुर्ज बलप्राणनयोःऽ,ठ्पृ पालनपूरणयोःऽ,ठ्जुऽ इति सौत्रो धातुः,ठ्ष्टुअञ् स्तुतौऽ ग्रावपूर्वः। जवतेर्दीर्घत्वं चेति। केचिदाहुः---सूत्रे ठ्जूऽ इति दीर्घः पठितव्य इति। विध्य न्तरोपसंग्रहार्थ द्दशिग्रहणमुतरसूत्रादपक्रष्टव्यमित्यन्ये। ग्रावस्तुदिति। ग्रावशब्दः सप्तमीनिर्देशाभावेऽप्युपपदसंज्ञ इष्यते। अन्ये तु सूत्रनिर्देशाद्धातुनैव समासे पश्चात्क्विपं कुर्वन्ति॥ अन्येभ्योऽपि द्दश्यते॥ ३।२।१७८ ॥ अन्येभ्योऽपि द्दश्यते॥ विध्यन्तरोपसंग्रहार्थमिति। द्दशिग्रहणे सति यथा क्विबन्ता धातवो द्दश्यन्ते, तथैव तेऽनुगन्तव्या इत्यर्थो भवति। एवं च ते तथानुगता भवन्ति यदि यथायोगं द्विर्वचनादयो--भवन्ति। विध्यन्तरमेव दर्शयतिक्वचिदिति। तथा चाहेति। वार्तिककारः। आयतं स्तौत्यायतस्तूः। कट्ंअ प्रवते कटप्रूः। दिद्युदिति। ठ्द्यौतिस्वाप्योः सम्प्रसारणम्ऽ इत्यभ्यास्य सम्पसारणम्। कथं पुनरभ्याससंज्ञा, यावता प्रत्यासतेः षाष्ठिक एव द्विर्वचने सा विधीयते, अत एवाष्टमिके न भवति? एवं तर्हि द्दशिग्रहणादेव सम्प्रसारणम्, अभ्याससंज्ञा च द्रष्टव्या। जगदिति। ठ्गमः क्वौऽ इति मलोपः। अत्रापि पूर्ववदेन्न्न्न्न्न्सकार्यम्। द्वे चेति चकारेण दीर्घः समुच्चीयमानो दीर्घश्रुत्या ठचश्चऽ इत्युपस्थानादचा च तदन्तविध्याश्रयणाज्जुहोतेरेवाजन्तस्य विज्ञायते, न द्यौतिगम्योरित्याह---जुहोतेर्दीर्घित्वं चेति। जुहूरिति। करणस्यात्र कर्तृत्वविवक्षा। धीरित्यत्रापि करणस्यैव कर्तृत्वविवक्षा, पुरुषो हि ध्यायति, न धीः॥ भुवः संज्ञान्तरयोः॥ ३।२।१७९ ॥ भुवः संज्ञान्तरसोः॥ धनिकाधमर्णयोरिति। यस्मै ऋणं धार्यते स धनिकः, यो धारयति सोऽधमर्णः, तयोरन्तरे मध्ये यस्तिष्ठति विश्वासार्थ स प्रतिभूरित्युच्यते। ग्रामयोरन्तरे यस्तिष्ठति तत्र न भवति। एतच्च द्दशिग्रहणानुवृतेर्लभ्यते। यद्येबम्, संज्ञेयं भवति, तत्र ठ्संज्ञायाम्ऽ इत्येव सिद्धम्? अत्राहुः-----यावद्भव्यभाविन्यः संज्ञा भवन्ति, प्रतिभूशब्दस्तु सत्येव तस्मिन्नृणप्रतिदाने निवर्तते॥ विप्रसंभ्यो ङ्वसंज्ञायाम्॥ ३।२।१८० ॥ विप्रसंभ्यो ङ्वसंज्ञायाम्॥ मितद्रवादिभ्य इति। मितादिपूर्वेभ्यो धातुभ्य इत्यर्थः। शम्भुरिति। अन्तर्भावितण्यर्थोऽत्र भवतिः॥ धः कर्मणि ष्ट्रन्॥ ३।२।१८१ ॥ धः कर्मणि ष्ट्रन्॥ कर्मणि कारक इति। उपपदं तु कर्म न स्मभवति, यदि स्यात् ठ्कर्मण्यण्ऽ इत्यस्मिन्नेव प्रकरणे ष्ट्रनं विदध्यात्। ननु चोतरसूत्रे पुनः ष्ट्रन्ग्रहणं कर्तव्यं स्यात्, अस्तु लघीयो हि कर्मग्रहणात्ष्ट्रन्ग्रहणम्। न चेह वर्तमानकाले ष्ट्रन्प्रत्ययः, धात्रीत्युक्ते क्रियाकारकसम्बन्धमात्रं गम्यते। अतः ठ्कर्मणिऽ इति प्रत्ययार्थ एव, नोपपदम्॥ दाम्नीशसयुयुजस्तुतुदसिसिचमिहपतदशनहः करणे॥ ३।२।१८२ ॥ दाम्नीशसयुयुजस्तुतुदसिसिचमिहपतदशनहः करणे॥ दाप् लवन इति। ठ्दैप् शोधनेऽ इत्यस्य त्वग्रहणम्, अनभिधानात्। युजिर्योग इति। ठ्युज समाधौऽ इत्यस्य तु पूर्ववदेवाग्रहणम्, अनभिधानात्। युजिर्योग इति। ठ्युज समाधौऽ इत्यस्य तु पूर्ववदेवाग्रहणम्। करणे कारके इति। उपपदं तु करणं न भवति, अजादिषु दंष्ट्राशब्दस्य पाठात्। अत एव च पाठात्सूत्रेऽनुनासिकलोपेन निर्द्देशेऽपि ष्ट्रनि न भवति ल्युट।लेव तु भवति। योऽत्र सेट् ततः ठ्तितुत्रऽ इत्यादिनेट्प्रतिषेधः॥ हलसूकरयोः पुवः॥ ३।२।१८३ ॥ हलसूकरयोः पुवः॥ तच्चेत्करणं हलसूकरयोरवयवो भवतीति। एतेन हलसूकरयोरभिधेयत्वमुपपदत्वं च निरस्यति। मुखमुच्यते इति। नान्यः कर्णादिः। एतदपि स्वभावादेव लभ्यते॥ अर्तिलूधूसूखनसहचर इत्रः॥ ३।२।१८४ ॥ अर्तिलूधूसूखनसहचर इत्रः॥ इकारोपदेशः ठ्तितुत्रऽ इति ठेकाचःऽ इति च यथायोगमिट्प्रतिषेधो मा भूदिति। स्वरार्थश्च, इटि हि सत्यागमानुदातत्वं स्यात्, इका तु प्रत्ययाद्यौदातद्तत्वम्॥ पुवः संज्ञायाम्॥ ३।२।१८५ ॥ पुवः संज्ञायाम्॥ बर्हिष्पवित्रमिति। बर्हिषा कृतं बर्हिषः पवित्रं भवति, तत्र षष्ठीसमासः, ठ्नित्यं समासेऽनुतरपदस्थस्यऽ इति षत्वम्। येनाज्यमुत्पूयते तत्पवित्रम्। अनामिकायाश्चाङ्गुलेर्वेष्ठनं जपादिषु॥ कर्तरि चर्षिदवतयोः॥ ३।२।१८६ ॥ कर्तरि चर्षिदेवतयोः॥ ऋषौ करणे इति। ऋषिःऊवेदमन्त्रः, ठ्तदुक्तमृषिणाऽ इति दर्शनादित्याहुः॥ ञीतः क्तः॥ ३।२।१८७ ॥ ञीतः क्तः॥ भूते निष्ठा विहितेत्यादि। तत्र येननाप्राप्तिन्यायेन क्तस्यैव वर्तमानविषयतया भूतविषयता बाध्यते, यथा---ठ्वडवाया वृषे वाच्येऽ इत्यत्र वक्ष्यते---अपत्ये प्राप्तस्ततोऽपकृष्य वृषे विधीयत इति। एवमुतरविहितस्यापि। ज्ञातमित्येततु भूतेऽपि भवति, तेनेत्यधिकारे उपज्ञात इति तद्धितविधानात्। वर्तमाने हि ठ्क्तस्य च वर्तमानेऽ इति षष्ठ।ल भाव्यम्। एवं च ठ्पूजितो यः सुरैरपिऽ इत्यादीनां साधुत्वं चिन्त्यम्॥ मतिबुद्धिपूजार्थेभ्यश्च॥ ३।२।१८८ ॥ मतिबुद्धिपूजार्थेभ्यश्च॥ मतिरिच्छेति। बुद्धेः पृथगुपादानाद् बुद्धिर्न गृह्यते। मत इति। ठनुदातोपदेशऽ इत्यनुनासिकलोपः। शीलित इत्यादि। ठ्शील समाधौऽ,ठ्रक्ष पालनेऽ,ठ्क्षमूष् सहनेऽ,ठ्क्रुश आह्वाने रोदने चऽ,ठ्जुषी प्रीतिसेवनयोःऽ,ठ्रुष रोषेऽ,ठ्हृञ् हरणेऽ;ठ्हृषु अलीकेऽ,ठ्हृष् तुष्टौऽ इति वा; ठ्तुष तुष्टौऽ,ठ्कमु कान्तौऽ,ठ्यम उपरमेऽ,ठ्कष हिंसायाम्ऽ मृङ् प्राणत्यागेऽ। तत्राद्यौ सेटौ, उदितामुदितां च ठ्यस्य विभाषाऽ इतीट्प्रतिषेधः, ईदितः ठ्श्वीदितो निष्ठायाम्ऽ इति। हृष्ट इति। ठ्हृषेर्लोमसुऽ इति। कषेः ठ्कृच्छ्रगहनयोः कषःऽ इति। रुषेः ठ्रुष्यमत्वरसंधुषास्वनाम्ऽ इति विकल्पः। सुप्त इति। सुपेः ठ्त्रीतः क्तःऽ इत्येव सिद्धे नजिङ तच्छीलादिषु बाद्या मा भूदिति समुच्चीयते। क्वचितु सृप्त इति पठ।ल्ते॥ इति श्रीहरदतमिश्रविरचितायां पदमञ्चर्यो तृतीयस्याध्यायस्य द्वितीयः पादः॥ ----॥॥।----अथ तृतीयाध्याये तृतीयः पादः उणादयो बहुलम् ॥ ३।३।१ ॥ पदमञ्जरी वर्तमाने इत्येवेति । ठ्वर्तमाने लट्ऽ इत्यतो वर्तमानग्रहणानुवृतेरविच्छेदमेवकारेण दर्शयति । संज्ञायामिति चेति । ठ्पुवः संज्ञायाम्ऽ इत्यतः ॥ ठुणादयःऽ इत्येव सूत्रमुणादीनां शास्त्रान्तरपरिपठितानां साधुत्वानुज्ञानार्थमस्तु, किं बहुलग्रहणेन ? तत्राह---बाहुलकमिति । ठ्ला आदानेऽ, बहूनर्थान् लाति---बहुलम्, तस्य भावो बाहुलकम्, मनोज्ञादित्वाद् वुञ् । तत्पुनर्बह्वर्थादानं बहुलशब्दप्रवृत्तिनिमितम् । बहवः पुनरर्थाः---क्वचित्प्रवृत्तिः, क्वचिदप्रवृत्तिरिति वक्ष्यमाणलक्षणाः । प्रकृतेरिति । जातावेकवचनम् । तनुशब्दोऽत्र वृत्तिविषये गुणमात्रवचनः । प्रकृतीनां तानवमल्पत्वं दृष्ट्वा तद्बाहुलकमुक्तम्, तेनापठिताभ्योऽपि प्रकृतिभ्य उणादयो भवन्ति, यथा---हृषेरुलजुक्तः शकेरपि भवति---शङ्कुलेति । तथा तेषामुणादीनां पञ्चपाद्यां प्रायेण समुच्चयनं कृतम्, न तु साकल्येन; बहुलवचनात्वविहिता अपि भवन्ति, यथा---अर्तेः फिडफिड्डौ भवतः---ऋफिडः, ऋफिड्ड इति । कार्यसशेषविधेश्च । कार्याणि च सशेषाणि विहितानि न निः शेषाणि । बहुलवचनात्वविहितान्यपि भवन्ति । ठ्षणु दानेऽ, ठ्ञमन्ताड्डःऽ, ठ्धात्वादेः पः सऽ इति सत्वं न भवति, कृते वा सत्वे षत्वं भवति । स्यादेतत्---यावत्यः प्रकृतयः पञ्चपाद्यामुपाताः, यावन्तश्च प्रत्ययाः, यावन्ति च कार्याणि विहितानि तावन्त्येव भवन्तु, मा भूदन्येषां बहुलग्रहणेन संग्रह इति ? तत्राह---नैगमरूढिभवं हि सुसाध्विति । निगमःउच्छन्दः, तत्र भवा नैगमाः । निगमशब्दस्थाथादिस्वरेणान्तोदात इति ठ्बह्वचोऽन्तोदाताट्ठञ्ऽ इति ठञि प्राप्ते ऋगयनादिपाठादण् । रूढिःउप्रसिद्धिः, तत्र भवा रूढिभवाःउसंज्ञाशब्दाः, तेषां साधुत्वमनुपातानां प्रकृत्यादीनां बहुलग्रहणेन संग्रहे सति भवति, नान्यथा । हिशब्दो हेतौ । यस्मादेवं तस्माद्वाहुलकमुक्तमित्यर्थः । अन्यैरप्याचार्यैर्नैगमरूढिभवानां प्रकृत्यादिविभागेन व्युत्पादनं कृतम्, अतोऽस्माभिरपि तत्कर्तव्यमेवेत्यभिप्रायेणाह---नाम चेति । निरुक्तकारो हि यास्क आचार्यः स्वशास्त्रे निरुक्तैः सर्वमेव नाम धातुजमाह । तोकमित्यपत्यंनाम । शकटस्य तोकम् शाकटायनः । यन्नेति । पदमर्थः प्रयोजनमप्त्य व्युत्पाद्यत्वेनेति पदार्थःउप्रकृत्यादिः, पदार्थश्चासौ विशेषश्च पदार्थविशेषः, तस्मात्समुत्थितं पदार्थविशेषसमुत्थम् । यदेवंविधं न भवति, प्रकृत्यादिविशेषोपादानेनाव्युत्पादितमित्यर्थः, तद्धातुजत्वेनोह्यम् । कथमूह्यम् ? प्रत्ययतः प्रकृतेश्च । यत्र शब्दरूपे परभागः प्रत्ययत्वेन प्रसिद्धेन केनचित्सदृशः श्रुतः, तत्र तं भागं प्रत्ययं कल्पयित्वा परिशिष्टो भागः प्रकृतित्वेनोह्यते । ठ्हृषेरुलच्ऽ इति प्रत्ययं दृष्ट्वा शङ्किः प्रकृतिरूह्यते, तेन सिद्धं शङ्कुलेत्यस्य धातुजत्वम् । यत्र तु पूर्वो भागो धातुत्वेन प्रसिद्धेन केनचित्सदृशस्तत्र तं भागं प्रकृतिं कल्पयित्वा परिशिष्टो भागः प्रत्ययन्वेनोह्यः । यथा----ऋफिडः, ऋफिड्ड इति, फिडफिड्डौ प्रत्ययौ । स चायमूहोऽनादिप्रत्युक्तास्वेव संज्ञासु, न सर्वत्रेत्याह---संज्ञास्विति । कार्याद् गुणप्रतिषेधादिकाद् अनूबन्धं ककारादिकं विद्यात् । तेन फिडफिड्डौ कितावूह्याइ । एतदेवानन्तरोक्तमूहात्मकं शास्त्रमुणादिष्वनुक्तेषु ॥ भूतेऽपि दृश्यन्ते ॥ ३।३।२ ॥ पूर्वत्र वर्तमानाधैकारादिति । तत्रैव वर्तमानग्रहणं न निवर्तितम्, बाहुल्येन वर्तमाने भवन्ति, क्वचिदेव भूते भवन्तीति किल विवेकप्रदर्शनायेति भावः । उदाहरणेषु ठ्ताभ्यामन्यत्रोणादयःऽ इति संप्रदानापादानव्यतिरिक्ते कारके मनिन् प्रत्ययः, ठ्नेड्वशि कृतिऽ इतीट्प्रतिषेधः ॥ भविष्यति गम्यादयः ॥ ३।३।३ ॥ यथा ठ्स्यदो जवेऽ इत्युक्ते जवशब्दपर्यायः स्यदशब्दो भवति, तथेहापि भविष्यच्छब्दपर्याया गम्यादयः प्राप्नुवन्तीत्याशङ्क्याह---प्रत्ययस्यैवेत्यादि । प्रकृत्यर्थगता भविष्यत्कालता । प्रत्ययस्यैव द्योत्यत्वेन विधीयते, न पुनः प्रकृत्यर्थपरित्यागेन समुदायस्येत्यर्थः । न प्रकृतेरिति । न प्रकृतेरपीत्यर्थः । गम्यादिषु केचिदुणादयः, केचिदष्टाध्यायीगताः । गमी, आगामीति । ठ्गमेरिनिःऽ ठाङ् इणिच्चऽ इतीनिः । भावी, प्रस्थायीति । अस्मिन्नेवाधिकारे ठ्भुवश्चऽ ठ्प्रात्स्थःऽ इतीनिः, णित्वाद् वृद्धिर्युक्च । रुधिबुधियुधियातिभ्यः प्रतिपूर्वेभ्यो प्रहादिनिः । अस्मादेव निपातनादित्यन्ये । ठ्सुप्यजातौऽ इत्यन्ये । प्रतियोगीति । संपृचादिसूत्रेण घिनुणि ठ्चजोः कु घिण्ण्यतोःऽ इति कुत्वम् । णिनि प्रत्यय एव न्यङ्क्वादिपाठादस्मादेव निपातनाद्वा कुत्वमित्यन्ये । अनद्यतन उपसंख्यानमिति । किं पुनः कारणं न सिद्ध्यति ? लृटायं निर्देशः क्रियते लृ ट् चानद्यतने लुटा बाध्यते, तेन लृट एव विषये एते स्युः । न वा वाक्यार्थत्वाद् गम्यादयः शब्दा विशेषे यत्सामान्यं तदाश्रयेण प्रवतन्ते । अनद्यतनाख्यस्तु विशेषः श्वः शब्दमहिम्ना गम्यते । विशेषविवक्षायां तु लुडेव भवति---श्वो गन्ता ग्राममिति । वासरूपविधिना च लृडपि भवति । तेन भविष्यति, गमिष्यतीत्यादयः प्रयोगा उपपद्यन्ते ॥ यावत्पुरानिपातयोर्लट् ॥ ३।३।४ ॥ ठ्पुराऽ इत्यविभक्तिको निर्देशः, कर्मधारयो वा । निपातनाद्विशेषणस्य परनिपातः । निपातौ चैतौ निश्चयं द्योतयतः । एतयोश्च प्रयोगे वर्तमाने लण्न भवति; भविष्यत्कालतया वर्तमानकालताया बाधनात् । यावद्दास्यतीति । यत्परिमाणमस्य ठ्यतदेतेभ्यः परिमाणे वतुप्ऽ, ठा सर्वनाम्नःऽ इत्यात्वम् । पुरा व्रजिष्यतीति । ठ्पृ पालनपूरणयोःऽ ठ्भ्राजभासऽ इत्यादिना क्विप्, ठुदोष्ठ।ल्पूर्वस्यऽ इत्युत्वम् । अस्य तृतीयान्तत्वं द्योतयितुं करणभूतयेत्युक्तम् । प्रतिपदोक्तत्वादेव निपातयोर्ग्रहणे सिद्धे निपातग्रहणं लक्षणप्रतिपदोक्तपरिभाषाया अनित्यत्वज्ञापनार्थम् । तेन ठातां पुग्णौऽ इत्यत्र लाक्षणिकरयाप्याकारान्तस्य पुग्भवति, ठ्क्रीङ्जीनां णौऽ क्रापयति, जापयतीति ॥ विभाषा कदाकर्ह्योः ॥ ३।३।५ ॥ ठनद्यतने लुट्ऽ इत्यत्राप्ययं योगोऽनुवर्तनीयः, तेन लुड्विषयेऽपि पक्षे लड् भवति । अत एव पक्षे लुडप्युदाहृतः । एतच्च पूर्वयोगेऽपि द्रष्टव्यम् । कहिं भोक्ष्यते इति । ननु च कर्हिशब्दोऽनद्यतनविषयः, तत्प्रयोगे लुडेव भवितुमर्हति, न लृट्; न वा वाक्यर्थत्वात् । भोक्ष्यत इति पदं भविष्यत्सामान्ये वर्तते, अनद्यतनावगतिस्तु कर्हि-शब्दाधीना । न च वाक्यार्थः पदसंस्कार उपयुज्यते ॥ किवृते लिप्सायाम् ॥ ३।३।६ ॥ किमो वृतं किवृतमिति । वर्ततेऽस्मिन्निति वृतम्, ठ्क्तोऽधिकरणे चऽ इत्यधिकरणे क्तः । अस्मादेव निपातनाद् ठधिकरणवाचिंना चऽ इति षष्ठीसमासप्रतिषेधाभाव, शेषषष्ठ।ल वा समासः । यत्र किंशब्दोऽवयवत्वेन वर्तते तत्सर्वं किंवृतम् । ततश्च कीदृशः, किमीयः, किन्तरामित्यादावतिप्रसङ्गात्परिगणनम् । वृतग्रहणेनेति । तदिति शब्दरूपापेक्षं नपुंसकत्वम् । डतरडतमौचेति । डतरडतमान्तं किंशब्दरूपमित्यर्थः । कं भवन्तो र्भोजयितार इति । अस्यापि ठनद्यतने लुट्ऽ इत्यत्रानुवृत्तिरिति भावः । एवमुतरेष्वपि योगेषु द्रष्टव्यम् ॥ लिप्स्यमानसिद्धौ च ॥ ३।३।७ ॥ ठ्लिप्स्यमानसिद्धौऽ इति षष्ठीसमासः । वृतौ तु वस्तुमात्रमदर्शि । लिप्स्यमानात्सिद्धिरिति । अस्मादेव निपातनाद्वा पञ्चमीसमासः । लिप्स्यमानं भक्तादि तन्निमिता या स्वर्गादेः सिद्धिस्तस्यामित्यर्थः । ननु च यत्र लिप्स्यमानस्य सिद्धिर्गम्यते, लिप्सापि तत्र भवति, ततश्च पूर्वेणैव सिद्धं नार्थ एतेन ? तत्राह---अकिंवृतार्थोऽयमारम्भ इति । पूर्वसूत्रे किवृतग्रहणं लिप्स्यमानसिद्धिरहिते लिप्सामात्रे किंवृत एव यथा स्याद्, अकिंवृते मा भूदित्येवमर्थम् ॥ लोडर्थलक्षणे च ॥ ३।३।८ ॥ अध्ययनप्रैषस्येति । ठ्कर्तृकरणे कृता बहुलम्ऽ इत्यत्र साधनं कृतेति वा पादहारकाद्यर्थमिति वचनात्सप्तमीसमासः ॥ लिङ् चौर्ध्वमौहूर्तिके ॥ ३।३।९ ॥ निपातनात्समास उतरपदवृद्धिश्चेति । ठञ्प्रत्ययश्चाध्यात्प्रादित्वात् । ठ्बह्वचोऽन्तोदातात्ऽ इत्यत्र तु ठ्व्याख्यातव्यनाम्नःऽ इति वर्तते । उपाध्यायश्चेदागन्तेति । ऊर्ध्वमौहूर्तिकेऽनद्यतनत्वं सम्भवतीति चिन्त्यम् ॥ तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम् ॥ ३।३।१० ॥ भिक्षिष्य इत्यस्य जटा इति । अत्र भिक्षणक्रियार्थत्वं जटानाम्, न तु क्रियात्वम्; द्रव्यत्वाज्जटानाम् । धावतस्ते पतिष्यति दण्ड इति । अस्त्यत्र धावनक्रियोपपदम्, न त्वसौ दण्डपातनार्थं धावति, किं तर्हि ? धावतोऽर्थात्पतिष्यति दण्डः । उद्दे शेन हि तादर्थ्यं विविच्यते, न तु हेतुत्वमात्रेण तादर्थ्यम् । अथेत्यादि चोद्यम् । परिहरति---लृटा क्रियार्थोपपदेनेति । तुमुना तु बाधो नाशङ्कनीयः; भिन्नार्थत्वात्---कर्तरि ण्वुल्, तुमुन् पुनर्भावे । कथम् ? ठ्तुमर्थे सेसेन्ऽ इत्यत्र तुमर्थग्रहणात् । यदि हि ठ्कर्तरि कृत्ऽ इति वचनात्कर्तरि तुमुन् स्यातद्वदेव सेसेन्प्रभृतयोऽपि कर्तरि भविष्यन्ति । अतस्तुमर्थग्रहणात्कर्तुस्तावदयमपकृष्यते । न चान्योऽर्थो निदिश्यते, अनिदिष्टार्थाश्च प्रत्ययाः स्वार्थे भवन्ति । कश्च धातोः स्वार्थः ? भाव एव । लृट् तु यद्यपि भावकर्मणोश्चरितार्थस्तथापि क्रियायां क्रियार्थायामुपपदे भविष्यति काले च विधानाद्विसेषविहितः । ण्वुल्विधौ तु कर्तरीति न श्रूयते, अतोऽसौ विशेषविहितेन लृटा बाध्यते । अथ वा किं न एतेन विशेषविहित इति, द्वयोःसावकाशत्वेऽपि परत्वाल्लृट् ण्वुलं बाधएत । पुनश्चोदयति---वासरूपविधिनेति । परिहरति---एवं तर्हीति । नन्वसति प्रयोजने ज्ञापकं भवति, अस्ति चात्र प्रयोजनम्, किम् ? ठकेनोर्भविष्यदाधमर्ण्ययोःऽ इति षष्ठीप्रतिषेधो भविष्यदधिकारविहितस्याकस्य प्रयोगे यथा स्यात्, वर्षशतस्य पूरकः पुत्रपौत्राणां दर्शक इत्यत्र मा भूदिति ? एवं मन्यते---पदान्तरसन्निधानादत्र भविष्यत्कालत्वं गम्यते । यदा हि बालविषयमेतत्प्रयुज्यते तदा तस्यामवस्थायां वर्षशतपूरणस्य पुत्रपौत्रदर्शनस्य चासम्भवातावन्तमसौ कालं जीविष्यतीत्यर्थाद्गम्यते, न त्वत्र पदार्थो भविष्यत्कालत्वमिति । स्थिते त्वस्मिन् ण्वुल्विधाने ठ्वषशतस्य पूरकःऽ इत्यादौ भविष्यत्कालस्य पदार्थत्वेऽपि न दोष इत्यभिप्रायेण ठकेनोर्भविष्यदाधमर्ण्ययोःऽ इत्यत्रोक्तम्---भविष्यदधिकारविहितस्याकस्येदं ग्रहणम्, तेन वर्षशतस्य पूरकः पुत्रपौत्राणां दर्शक इत्यत्र न भवतीति ॥ भाववचनाश्च ॥ ३।३।११ ॥ वक्तीति वचनः, ठ्कृत्यल्युटो बहुलम्ऽ इति कर्तरि ल्युट्, करण एव वा---भाव उच्यते येन स भाववचनः । अत्र पुरुषाः कर्तारः, भावाधिकारविहिता एव भाववचना भवन्तीत्याह---भाव इति प्रकृत्येति । तुमुना बाध्येरन्निति । लृट् तु भावकर्मकर्तृषु त्रिषु विधानादसमानार्थः । किञ्चि, धात्वर्थस्य सिद्धतायां घञादयः, शुद्धे तु धात्वर्थे लकारः, अतोऽप्यसमानार्थत्वम् । इह ठ्भावेऽ इत्येतावद्वक्तव्यम्, एवमपि ह्युच्यमाने भावे ये विहितास्ते क्रियायां क्रियार्थायामुपपदे भवन्तीत्यर्थो लभ्यत एव, तदपार्थकं वचनग्रहणमिति मत्वा पृच्छति---अथेति । वाचका यथा स्युरिति । वचनग्रहणे हि सति भाववचनाः सन्तो घञादयोऽस्मिन्विषये भवन्तीत्यर्थो भवति, भावस्य वाचकाः सन्तो भवन्तीत्यर्थः । एतदेव प्रश्नपूर्वकं विवृणोति---कथं चेति । याभ्य प्रकृतिभ्य इति । इवर्णान्तेभ्योऽच्, ऋवर्णान्तेभ्य उवर्णान्तेभ्यश्चाबिति । एवम् येन विशेषणेनेति । ठ्हस्तादाने चेरस्तेयेऽ, ठ्श्रिणीभुवोऽनुपसर्गेऽ इत्यादिना । असामञ्जस्यमुव्यतिकरः, अन्योऽन्यविषयावगाहनमिति यावत् । पाकायेत्यादौ ठ्तुमर्थाच्च भाववचनात्ऽ इति चतुर्थो ॥ अण् कर्मणि च ॥ ३।३।१२ ॥ चकारः सन्नियोगार्थ इति । अन्यथा पर्यायेण स्यात्---कदाचित्क्रियार्थायामेव क्रियायामुपपदे, कदाचित्कर्मण्येव केवले; वचनं तु भविष्यति काले कादीनामपवादानां बाधनार्थं स्यात् । चकारातु सन्नियोगार्थात्समुदायस्यैव प्रत्ययोत्पति प्रति निमितत्वम् । उपपदसंज्ञा तु प्रत्येकमेव भवति; प्रत्येकं सप्तमीनिर्देशात् । तेन केवलस्यापि कर्मणः समासो भवति । काण्डलावो व्रजतीति । सोऽपवादत्वात् ण्वुलं वाधत इति । ण्वुल्विधाने च क्रियायां क्रियार्थायामुपपदे वासरूपेण तृजादयो न भवन्तीति ज्ञापितम्, न पुनरस्मिन् प्रकरणे वासरूपविधिर्नास्तीति । तेन योऽयम् ठ्तुमुन्ण्वुलौऽ इति ण्वुल्, सोऽस्याणो विषयेऽपि वासरूपविधिना भवत्येव---एधानाहारको व्रजतीति । तथा च ठकेनोर्भविष्यदाधमर्ण्ययोःऽ इति भविष्यदधिकारविहितस्याकस्य भविष्यति प्रयोगे कर्मणि षष्ठी प्रतिषिद्ध्यते । परत्वाच्च कादीनिति । ननु चापूर्वविधानात्प्रतिप्रसववचनस्य लाघवमस्तीति अण्विषय एव ण्वुलं बाधित्वाण स्यान्नापवादविषये ? एवं मन्यते---इह कर्मणीति न वक्तव्यं वचनग्रहणानुवृतेरेव यो वचनेऽण् सोऽस्मिन्विषये भवतीति वचनव्यक्तथा कर्मण्येवोपपदेऽण् सिद्धः, तत्र पुनः कर्मग्रहणं कर्ममात्रपरिग्रहार्थमित्यपवादविषयेऽपि भवतीति । एवं च परत्वादिति कोऽर्थः ? उत्कृष्टत्वादाधिक्यादित्यर्थः । अन्ये तु विप्रतिषेधमेव व्याचक्षते ॥ लृट् शेषे च ॥ ३।३।१३ ॥ शेषः क्रियार्थोपपदादन्य उच्यते इति । क्रिया क्रियार्थोपपदं यस्मिन् भविष्यति काले ततोऽन्यो भविष्यदित्यर्थः । चकारादिति । यदि तहि शेषे चाशेषे च भवति लृडित्येवास्तु, क्रियायां क्रियार्थायामिति निवर्तिष्यते, तेन सर्वत्र भविष्यति ? एवमपि शेष एव स्यात्, अशेषे तु तुमुन्ण्वुलौ बाधकौस्याताम् । वासरूपविधिना लृडपि भविष्यति । तदेतत् ठ्शेषे चऽ इति वचनं चिन्त्यप्रयोजनम् । करिष्यामीति व्रजतीति । इतिशब्दः परस्परसम्बन्धज्ञापनार्थः ॥ लृटः सद्वा ॥ ३।३।१४ ॥ ठ्लृटःऽ इति वचनं स्थानिनिर्देशार्थम्, अन्यथा सत्संज्ञकौ प्रत्ययौ स्वतन्त्रौ स्यातां न त्वादेशौ । अप्रथमासमानाधिकरणादिष्विति । आदिशब्देन ठ्सम्बोधने चऽ ठ्लक्षणहेत्वोः क्रियायाःऽ इत्यस्मिन्विषये, तथा ठ्प्रत्ययोतरपदयोश्चऽ---करिष्यतोऽपत्यं कारिष्यतः, कारिष्यमाणिः, करिष्यतो भक्तिः करिष्यद्भक्तिः, करिष्यमाणभक्तिः, करिष्यन्ती भक्तिरस्य करिष्यद्भक्तिः, करिष्यमाणा भक्तिरस्य करिष्यमाणभक्तिः, करिष्यतरः, करिष्यमाणतरः, करिष्यमाणतमः, करिष्यद्रूपः, करिष्यमाणरूपः, करिष्यत्कल्पः, करिष्यमाणकल्पः । कथं ठ्श्वोऽग्नीनाधास्यमानेनऽ इत्यनद्यतने शतृशानचौ भवतः ? उक्तोऽत्र परिहारः---ठ्व्यत्ययो बहुलम्ऽ इति कालव्यत्ययेन लृट् । अथ वा---उतरत्रानद्यतन इति योगविभागः, ठ्लृटः सद्वाऽ इत्येव अनद्यतने यो लृट् तस्यापि सत्संज्ञकौ भवतः । केन पुनरनद्यतने लृट् भवति ? एतदेव ज्ञापयति---भवत्यनद्यतने लृडिति, यदयमनद्यतने लृटः सत्संज्ञकौ शास्ति ॥ अनद्यतने लुट् ॥ ३।३।१५ ॥ अनद्यतन इति बहुव्रीहिनिर्द्देश इति । ठनद्यतने लङ्ऽ इत्यत्रैवैतद्व्याख्यातं तत एवावधार्यम् । परिदेवने इति । परिदेवनमुअनुशोचनम् । श्वस्तनीति । लुटः पूर्वाचार्यसंज्ञा । भविष्यन्त्यर्थ इति । भविष्यन्तीति लृटः संज्ञा, तस्या अर्थे भविष्यत्सामान्यैत्यर्थः । भावष्यदर्थ इति वा पाठः । भविष्यत्सामान्यरूपेऽर्थ इत्यर्थः । येवमिति । विलम्बितम् । अनभियुक्तःउपरिचयरहितः ॥ पदरुडविशस्पृशो घञ् ॥ ३।३।१६ ॥ पद्यतेऽसाविति । करणस्यात्र कर्तृत्वेन विवक्षा । पदमित्येततु ठ्खनो घ चऽ इत्यत्र साधयिष्यते । रोग इति । ठ्चजोः कु घिण्ण्यतोःऽ इति कुत्वम् । स्पृश उपतापे इति । उपतापःउरोगः ॥ सृस्थिरे ॥ ३।३।१७ ॥ ठ्सृऽ इत्यविभक्तिको निर्देशः । सर्तेरिति । ठ्सृ गतौऽ, ठृ सृ गतौऽ इति द्वयोरपि ग्रहणम् । स्थिरे कर्तरीति । एतेन स्थिरग्रहणं प्रत्ययार्थस्य कर्तुर्विशेषणं नोपपदमिति दर्शयति । एतच्चार्धर्चादिषु सारशब्दपाठाद्विज्ञायते । ननु स्थिरशब्दस्तिष्ठतेर्गतिनिवृत्तिवाचिन उणादिषु करिच्प्रत्ययान्तो निपातितः, सतिस्तु गतिवचनः, तत्कथं सरणस्य स्थिरकर्ता युज्यते ? इत्याह---स्थिर इति कालान्तरस्थायीत्यादि । यतः कालान्तरगमनं सम्भवति, ततश्च सर्तेर्धातोरर्थस्य कर्ता युज्यत इत्यर्थः । तिष्ठन्निति च हेतौ शतृप्रत्ययः । खदिरसार इति खदिरास्थि, तत् दृढत्वात् स्थिरम् । अतीसारो व्याधिरिति । शरीरान्तरावस्थितं रुधिरादिद्रव्यमतिशयेन सारयतीति कृत्वा । अन्तर्भावितण्यर्थोऽत्र सरतिः । ठुपसर्गस्य घञ्यमनुष्ये बहुलम्ऽ इति दीर्घः । विसारो मत्स्य इति । विविधं सरतीति कृत्वा । सारो बलमिति । सारयति चेष्टयतीति कृत्वा । अत्राप्यन्तर्भावितण्यर्थः । सरतिः । बलवान्हि चेष्टते, सारशब्द उत्कर्षे पुंल्लिङ्गः, न्यायादनपेते नपुंसकलिङ्ग इति च दृश्यते ॥ भावे ॥ ३।३।१८ ॥ नित्यानामेव शब्दानां साङ्कर्यस्य निवृतये । अन्वाख्यानाद्भावशब्दे घञि नान्योऽन्यसंश्रयः ॥ राग इति । ठ्रन्जेश्चऽ ठ्घञि च भावकरणयोःऽ इति नलोपः । कथं पुनः पाकादिरुदाहरणं भवति, यावता भवतिनार्थनिर्देशः क्रियमाणोऽस्तिभवतिविद्यतिविषय एव कृतो भवति, न पचादिविषयः ? तत्राह---क्रियासामान्यवाची भवतिरिति । सताख्यं सामान्यमपि भवतिना साध्यत्वेनाभिधीयत इति क्रियासामान्यवाची भवतिर्भवति । तेनार्थनिर्द्देशः क्रियमाण इति । हेतौ शानच्, यस्मात्सामान्यवाचिनार्थनिर्देशः क्रियते, न विशेषवाचिना पचादिना; तस्मात्सर्वधातुविषयः कृतो भवति सामान्यस्य, सर्वेष्वे विशेषेषु भावात्, षण्डादिषु गोत्ववत् विशेषरूपाश्रयनिषेधस्याभावाच्च । इह भावो धात्वर्थः, स च पूर्वापरीभूतोऽपरिनिष्पन्नः, तस्य घञ्वाच्यस्य कथं लिङ्गसङ्ख्यायोग इत्याह---धात्वर्थश्चेति । यथा पचति पाचक इत्यादौ प्रकृतिभागेन क्रियोच्यते, प्रत्ययभागेन तु तदीयं साधनम्; तथा पाकादिषु प्रकृतिभागः साध्यरूपमर्थमाह, प्रत्ययभागस्तु तस्यैव सिद्धरूपतां द्रव्यधर्मैर्लिङ्गसङ्ख्याकारकशक्तिभिः सम्बन्धयोग्यमाकारमाहेत्यथः । उक्तं च--- आख्यातशब्दे भागाभ्यां साध्यसाधनवर्तिता । प्रकल्पिता यथा शास्त्रे स घञादिष्वपि क्रमः ॥ साध्यत्वेन क्रिया तत्र धातुरूपनिबन्धना । सत्वभावस्तु यस्तस्याः स घञादिनिबन्धनः ॥ इति ॥ बहुवक्तव्योऽयमर्थः । इह ठ्भावेऽ इति पुंल्लिङ्गेनायं निर्देशः क्रियते, एकवचनेन च तत्र पुंल्लिङ्ग एव, भावे एकवचन एव च प्रत्ययाः स्युर्न लिङ्गान्तरे, न च सङ्घ्यान्तरे; ततश्च ठ्स्त्रियां क्तिन्ऽ इत्यत्र स्त्रियां भाव इति सामानाधिकरण्येन सम्बन्धासम्भवात्---स्त्रियामकर्तरि कारके क्तिन् प्रत्ययः स्यात्, भावे तु पुंसीव ठ्नपुंसके भावे क्तःऽ इत्यत्र ठकर्तरि च कारकेऽ इत्यस्य निवृतत्वान्नपुंसके कर्तरि क्तः स्याद्भावे तु पुंसि, द्वित्वबहुत्वयोश्च पाकौ पाका इत्यादौ प्रत्यया न स्युरित्यत आह---पुंल्लिङ्गमेकवचनं चातन्त्रमिति ॥ न विना लिङ्गसङ्ख्याभ्यां सत्वभूतोऽर्थ उच्यते । इत्यतन्त्रमुपादानं तयोर्न तु विवक्षितम् ॥ धान्याथिनामुपादानं पलालादेर्यथा मतम् । शब्दसंस्कारमात्रं तु तन्निर्देशप्रयोजनम् ॥ अकर्तरि च कारके संज्ञायाम् ॥ ३।३।१९ ॥ प्रासःउकुन्तः, प्रसेवःउसूच्या प्रसेवनेन निष्पाद्य आवपनविशेषः । मधुराहार इति । कर्मधारयः, षष्ठीसमासो वा । मेष इति । पचादिषु पाठमनपेक्ष्यैतदुदाहृतम्, तथा च ठिगुपधज्ञाप्रीऽ इत्यत्रोक्तम्---देवसेवमेषादयः पचादिषु द्रष्टव्या इति । न हि पाठे सति द्रष्टव्यत्ववचनमुपपद्यते । अथ वा---प्रत्युदाहरणदिगियं दर्शिता, इदं तु प्रत्युदाहरणम्---बिभर्त्यसौ भर्तेति । चकार इत्यादि । चकारोऽयं भिन्नक्रमः---ठ्संज्ञायां चऽ इति, तेनासंज्ञायामपि घञ् भवति । यद्येवम्, मा भूत्संज्ञायामिति, मा च भूच्चकारः ठकर्तरि कारकेऽ इत्येवास्तु ? सत्यम्; बाहुल्येन संज्ञायां भवति, क्वचिदेवासंज्ञायामिति सूचयितुं संज्ञाग्रहणं कृतम् । दाय इति । दीयमानं सर्वमुच्यत इति नेयं संज्ञा, एवं लाभ इत्यत्रापि, उभयत्र कर्मणि घञ् । कारकग्रहणमित्यादि । पर्युदासे हि नञिवयुक्तन्यायेन कर्तुरन्यस्मिंस्तत्सदृसे कारक एव प्रतीतिर्भवति, यथा---अब्राह्मण इति क्षत्रियादौ । तस्मात्पर्युदासे कारकग्रहणं न कर्तव्यम् । प्रसज्यप्रतिषेधे तु वाक्यभेदेन संज्ञायां घञ् भवति, कर्तरि तु न भवतीत्येषोऽर्थो भवति । तत्र प्रथमे वाक्येऽर्थनिर्देशाभावाद् ठनिर्दिष्टार्थाः प्रत्ययाः स्वार्थे भवन्तिऽ इति स्वार्थ एव स्यात् । ननु च विहितः स्वार्थे पूर्वेणैव ? नेत्याह; धात्वर्थस्य हि सिद्धताख्ये धर्मे घञादयो भवन्तीत्युक्तम्, इह तु साध्यरूपे शुद्धे प्रकृत्यर्थेस्यात् । ननु च कर्तरि प्रतिषेधसामर्थ्यादनिर्दिष्टार्थोऽपि घञ् धात्वर्थसम्बन्धिनि कारक एव विज्ञास्यते ? नैतदस्ति; असति हि प्रतिषेधे ठ्कर्तरि कृत्ऽ इति वचनान्नायमनिर्दिष्टाथः स्याद् । अतः प्रसज्यप्रतिषेधार्थं काकग्रहणम् । पर्यदासे तु न कर्तव्यम् । यद्येवम्, स एवाश्रयिष्यते, किं कारकग्रहणेन ? तत्राह---तत्क्रियत इति । किं पुनः कारणं प्रसज्यप्रतिषेधे प्रत्यत्नलभ्यः समासः ? असामर्थ्यातत्र हि नञः क्रियया सन्बन्धः, कर्त्रि न भवतीति न कर्तृशब्देन । आदेच उपदेशेऽशितीति । अत्र यदि ठशितिऽ इति पर्युदासः स्यात्, तदा शितोऽन्यत्र तृजादौ प्रत्ययो परत आत्वेन भवितव्यम् । ततश्च सुग्लः, सुम्ल इत्यत्र ठातश्चोपसर्गेऽ इति को न स्यात्, प्राक् प्रत्ययोत्पतेरनाकारान्तत्वात्। प्रतिषेधेत्वनैमितिकमात्वम्, शिति तु प्रतिषेध इति सिद्धमिष्टम् ॥ परिमाणाख्याया सर्वेभ्यः ॥ ३।३।२० ॥ परिमाणाख्यायामिति । भावसाधनः परिमाणशब्दः, आख्यानमाख्या उ उक्तिः, परिच्छितेरुक्तौ सत्यामित्यर्थः । कस्य पुनः परिच्छितिः ? प्रत्ययार्थस्य भावस्य कर्तृवजितस्य कारकस्य च । परिमाणाख्यायां गम्यमानायामिति वृतेरप्ययमेवार्थः । तण्डुलनिचाय इति । निचीयते राशीक्रियते इति निचायःउराशिः, तण्डुलानां निचाय इति षष्ठीसमासः । अत्र राश्येकत्वेन परिच्छितिर्गम्यते । अत्रैरचि प्राप्ते घञ् । प्रायेण तु निश्चाय इति पाठः, तत्राप्यर्थः स एव, ठ्ग्रहवृदृनिश्चिगमश्चऽ इत्यपि प्राप्ते घञ् शूर्पनष्पावाविति । निष्पूयते शोद्ध्यते तुषाद्यपनयनेन यस्तण्डुलादिः । शूर्पेण निष्पावः शूर्पनिष्पाव इति ठ्कर्तृकरणे कृता बहुलम्ऽ इति समासः । अत्र शूर्पसङ्ख्यया परिच्छितिः । यद्यप्यत्र ठ्निरभ्योः पूल्वोःऽ इति घञ् सिध्यति, तथापि सर्वापवादार्थसर्वग्रहणोपादानादनेनैव घञ् भवितुमर्हतीत्यस्योपन्यासः । काराविति । ठ्क विक्षेपेऽ कर्मणि घञ्, विक्षिप्तो धान्यादिःउ कारः, अत्रापि सङ्ख्यया परिच्छितिः । ननु च धातोरिति सामान्याधिकारादन्तरेणापि सर्वग्रहणं धातुमात्राद् घञ् भविष्यति, नार्थः सर्वग्रहणेन ? तत्राह---सर्वग्रहणमिति । किं पुनः कअरणमपो बाधनं यत्नसाध्यमित्यत आह---पुरस्तादिति निश्चय इति । अत्र न केनचिदियता गम्यते । ननु च परिमाणशब्दस्य प्रस्थादिषु रूढत्वात्प्रस्थस्तण्डुलनिश्चाय इत्यादावेव युक्तं भवितुम्, न तु द्वौ शूर्पनिष्पावावित्यत्र ? इत्यत आह---आख्याग्रहणं रूढिनिरासार्थमिति । प्रस्थादिषु जिघृक्षितेषु परिमाण इत्येव वक्तव्यं किमाख्याग्रहणेन ? आख्याग्रहणातु मात्रचो लोपो विज्ञायते परिमाणमात्रस्याख्यायामुक्तौ सत्यामिति । तेन परिमाणशब्दः क्रियाशब्द उपजायते---परिमितिःउपरिमाणम् परिच्छितिरिति, सङ्ख्ययापि परिच्छितिर्भवति । एवञ्चोन्मानादावपि यथाभिधानं घञ् भवति । यदि तर्हि सर्वग्रहणात्परमप्ययं घञमं बाधते, स्त्रीप्रत्ययानपि बाधेत, तत्राह---घञनुक्रमणमजपोर्विषय इति । एतच्च ठ्सर्वेभ्यःऽ इति पञ्चमीनिर्देशाल्लभ्यते । पञ्चम्यन्तो हि सर्वशब्दो धातुशब्देन समानाधिकरणो भवति, तेन प्रकृत्याश्रय एवापवादो बाध्यते, नार्थाश्रयः । तिलोच्छितिरिति । कर्मणि भावे वा क्तिन् । ऊर्ध्वीकृतो राशिः । णिलुक्चेति । णिलोपे सति तस्य स्थानिवद्भावाद् घञाश्रया वृद्धिर्न स्यादिति लुग्विधीयते, तस्य परनिमितकत्वात्क्विलुगुपधात्वेति प्रतिषेधाद्वा स्थानिवत्वाभावाज्जारशब्दः सिध्यति । जरयन्तीति । ठ्जनीजृष्क्नसुरञ्जोऽमन्ताश्चऽ इति मित्वाद् ह्रस्वत्वम् । जारःउ प्रच्छन्नपतिः ॥ इङ्श्च ॥ ३।३।२१ ॥ उपाध्याय इति । उपेत्यस्यादधीयत इति अपादाने घञ् । अध्याय इत्यत्र कर्मणि घञ् । अपादाने स्त्रियामिति । ठ्घञनुक्रमणमजपोर्विषयेऽ इति वचनात् स्त्रियामप्राप्तो घञ् विधीयते । उपाध्याया, उपाध्यायीति । या स्वयमध्यापयति तस्यामेतद्रूपम् । पुंयोगे तु नित्यमेव ङीष् भवति । अत्र च ठुपाध्यायमातुलाभ्यां वाऽ इति वचनात्पक्षे आनुगागमः---उपाध्यायी, उपाध्यायानी । ठ्शृवायुवर्णनिवृतेध्विति । शृऽ इत्यविभक्तिको निर्देशः । शारो वायुरिति । करणे घञ्। शारो वर्ण इति । चित्रीकरणमत्र धात्वर्थः---चित्रीक्रियतेऽनेनाश्रय इति, अत्रापि करणे घञ् । वर्णान्तरसंपृक्तश्चेद्वर्णः शारः । निव्रियते आव्रियतेऽनेन शरीरमिति निवृतमावरणमुच्यते, ठ्कृत्यल्युटो बहुलम्ऽ इति करणे क्तः । नीशार इति । पूर्ववद्दीर्घः । अकृतनीशार इति । अकृतप्रावरण इत्यर्थः । ठ्प्रदक्षिणप्रसव्यगामिनां शाराणाम्ऽ इति वार्तिककारप्रयोगादक्षेष्वपि शार इति भवति ॥ समि युद्रुदुवः ॥ ३।३।२३ ॥ संयावःउपिष्टविकारोऽपूपविशेषः, सम्पूयते मिश्रीक्रियते गुडजीरकादिभिरिति कृत्वा ॥अवोदोर्नियः ॥ ३।३।२६ ॥ अधो नयनमवनायः, ऊर्ध्वं नयनमुन्नायः, उन्नयस्तु उत्प्रेक्षा ॥ निरभ्योः पूल्वोः ॥ ३।३।२८ ॥ निष्पावौकोशी धान्यविशेषः, निष्पूयते शूर्पादिभिरिति कृत्वा ॥ उन्योर्ग्रः ॥ ३।३।२९ ॥ उद्गारःउअतिप्रवृद्धः शब्दः; निगारोःउभक्षणम् ॥ कृ धान्ये ॥ ३।३।३० ॥ धान्यमिह प्रकृत्यर्थो वा स्यात्प्रत्ययार्थस्य वा कारकस्योपाधिः ? प्रकृत्यर्थस्तावन्नोपपद्यते, धान्यस्य द्रव्यत्वात्, धातोश्च क्रियावाचित्वात् । प्रत्ययार्थोपाधित्वे तु प्रत्ययेनाभिहितात्वादुत्कारो धान्यस्येति धान्यशब्दस्य प्रयोगो न प्राप्नोति । अथापि विस्पष्टप्रतिपत्यर्थं प्रयोगः स्यात् । एवमपि प्रत्ययार्थेऽन्तर्भूतत्वाद्धन्ये षष्ठी न स्यात्, दृतिहरिः पशुरितिवत्सामानाधिकरण्यमेव तु स्यात् । तस्मान्नायं प्रत्ययार्थस्योपाधिः; नापि प्रकृत्यर्थः; किन्तु प्रत्ययार्थस्य विषयत्वेन विशेषणमित्याह---धान्यविषयश्चेदिति । उपपदत्वमपि न न भवति, व्याख्यानात् । अनभिधानादिति । शब्दशक्तिस्वाभाव्यात् । उत्करनिकारशब्दाभ्यां धान्यविषयो विक्षेप एवाभिधीयते, न हिंसा । सापि धान्यस्य कीदृशीति चिन्त्यम् ॥ यज्ञे समि स्तुवः ॥ ३।३।३१ ॥ समेत्य स्तुवन्ति यस्मिन्देश इति । अधिकरणे ल्युटोऽपवादो घञिति दर्शयति । संस्तवःउपरिचयः ॥ प्रे स्त्रोऽयज्ञे ॥ ३।३।३२ ॥ ठ्यज्ञेऽ इति प्रकृतत्वाद् ठयज्ञेऽ इति पदच्छेदः । शङ्खादिषु प्रस्तारःउविस्तारः । बर्हिष्प्रस्तर इति । प्रस्तरःउमुष्टिविशेषः । बर्हिर्विकारः प्रस्तरो बर्हिष्प्रस्तरः, ठृदोरप्ऽ इत्यप्, ठिदुदुपधस्य चऽ इति षत्वम् ॥ प्रथने वावशब्दे ॥ ३।३।३३ ॥ विस्तारःउ तिर्यगायतिः ॥ च्छन्दोनाम्नि च ॥ ३।३।३४ ॥ अक्षराणामियताविशिष्टो विन्यासविशेषोःउवृतम् । यस्य गायत्र्यादय इति । प्रसदिद्धत्वादेवमुक्तम् । न मन्त्रब्राह्मणमिति । ठ्बहुलं च्छन्दसिऽ इत्यादौ यद्यपि तेषामेव ग्रहणं प्रसिद्धं तथापीह तेषां ग्रहणं न भवति, कुतः ? इत्याह---नामग्रहणादिति । विष्टारपङ्क्तिरिति । विस्तीर्यन्तेऽस्मिन्नक्षराणीत्यधिकरणे घञ्, ततः कर्मधारयः, ठ्च्छन्दोनाम्नि चऽ इति षत्वम् । यद्यप्यत्र प्रथनं गम्यते, तथापि शब्दविषयत्वात्पूर्वेण न सिध्यति । केचितु ठ्वौऽ इति नानुवर्तयन्ति, तेन प्रस्तारपङ्क्तिः, आस्तारपङ्क्तिः, संस्तारपङ्क्तिरित्यपि भवतीत्याहुः । ठ्कर्मण्यग्न्याख्यायाम्ऽ इत्यादौ यथा प्रत्यययान्तश्चेदाख्या भवतीत्ययमर्थो भवति, एवमिहापि प्रत्ययान्तश्चेच्छन्दोनाम भवतीत्यर्थः स्याद् ? इति शङ्कमानं प्रत्याह---विष्टारपङ्क्तिशब्दोऽत्र च्छन्दोनामेति । अवयवत्वेन वर्तत इति । घञन्तशब्दरूपमित्यनुषङ्गः । क्वचितु तद्वर्तत इति तच्छब्दः पठ।ल्ते, तत्र नानुषङ्गः । कथं तर्हि च्छन्दोनाम्नीत्यस्य निर्वाहः ? इत्याह---च्छन्दोनाम्नीत्याधकरणसप्तम्येषेति । प्रत्ययान्तस्याधिकरणं च्छन्दोनाम, अवयवाश्चावयविनि वर्तन्त इति लौकिका मन्यन्ते, तेन न काचिदनुपपतिरिति भावः ॥ उदि ग्रहः ॥ ३।३।३५ ॥ अपवाद इति । ठ्ग्रहवृदृनिश्चिगमश्चऽ इति प्राप्तस्य । च्छन्दसि नीत्यादि । अवयवसन्निवेशविशिष्टा यज्ञपात्रविशेषाः स्रुचः । इह तु जुहूपभृतोर्ग्रहणम्; ठुद्ग्राभं चेति जुहूमुद्यच्छति निग्राभं चेत्युपभृतं नियच्छतिऽ इति वचनात् । ठ्हृग्रहोर्भश्च्छन्दसिऽ इति भत्वम् ॥ समि मुष्टौ ॥ ३।३।३६ ॥ मुष्टिविषयश्चेद्धात्वर्थो भवतीति । ठ्कृ धान्येऽ इत्यत्र धान्यविषयश्चेद्धात्वर्थो भवतीति एतदनुसारेणायं ग्रन्थो योज्यः । मुष्टिशब्दोऽयमस्त्येव परिमाणे---चतुरो मुष्टीन्निर्वपतीति, अङ्गुलीनां रचनाविशेषवचनोऽप्यस्ति---मुष्टिना हन्तीति; तत्र पूर्वस्य ग्रहणे परिमाणाख्यायामित्येव सिद्धत्वाद् द्वितीयस्य ग्रहणमित्याह---मुष्टिरङ्गुलिसन्निवेश इति । अहोशब्द आश्चर्ये । मुष्टौ कुशलो मुष्टिकः, आकर्षादिपाठात्कन्॥ परिन्योर्नीणोद्यौउÇताभ्रेषयोः ॥ ३।३।३७ ॥ अक्षादिभिः क्रीडनं द्यौउतम् । ठ्भ्रेप चलनेऽ भ्रेषणं भ्रेषःउचलनम् । अभ्रेषःउअचलनम् । भ्रेषविषयश्चेदिति । अयमपि ग्रन्थः पूर्वानुसारेण योज्यः । अनपचार इति । कुत्सितश्चारोऽपचारः, तस्मादन्यः प्रशस्तः चारोऽनपचारः । एतदेवस्पष्टयति---यथाप्राप्तस्येति । यथा येन प्रकारेण प्राप्तिर्यस्येति बहुव्रीहिः । अव्ययीभावे त्वम्भावः प्राप्नोति । क्वचितु यथाप्राप्तकरणमिति पठ।ल्ते । परिणायेनेति । ठुपसर्गादसमासेऽपिऽ इति णत्वम् । हन्तीति बाधते । समन्तान्नयनेनेति । परिणायेनेत्यस्येदमर्थकथनम् । एषोऽत्र न्याय इति । एतदत्र यथाप्राप्तमित्यर्थः । परिणयःउविवाहः । न्ययःउनाशः ॥ परावनुपात्यय इणः ॥ ३।३।३८ ॥ इह द्विः परिग्रहणम्, द्विश्चेण्ग्रहणं क्रियते, सकृदेव तु कर्तव्यम्, एवं वक्ष्यामि---परौ नियो द्यौते इणोऽनुपात्यये नावभ्रेष इति ? सत्यम्; तथा तु न कृतमित्येव ॥ व्युपयोः शेतेः पर्याये ॥ ३।३।३९ ॥ पूर्वसूत्रेणानुपात्यये पर्यायशब्दो व्युत्पादितः, ततश्चानुपात्यय इत्यधिकारेणैव सिद्धे पर्यायग्रहणं पुनर्विधानार्थम् । तेनाभिविधिविवक्षायां परमपीनुणं बाधित्वाऽयमेव घञ् भवति । राजानमुपशयितुं पर्याय इत्यर्थ इति । ठ्कालसमयवेलासु तुमुन्ऽ इत्यत्र कालेऽत्यर्थग्रहणम् । पर्यायोपादानं तु प्रपञ्चार्थम्, यथा---ठ्निमितकारणहेतुषु सर्वासां प्रायदर्शनम्ऽ इति । तेन पर्यायशब्दयोगेऽपि तुमुन् भवति । तथा चावसरो भोक्तुम्, अवकाशो भोक्तुमित्याद्यपि दृश्यते । विशयःउ संशयः, उपशयःउसमीपशयनम् ॥ हस्तादाने चेरस्तेये ॥ ३।३।४० ॥ हस्तादानग्रहणेनेत्यादि । यत्रोपायान्तरनिरपेक्षेण हस्तेनैवादेयमादीयते, तत्रावश्यमादेयस्य ग्राह्यस्य प्रत्यासतिर्भवति, अतः साहचर्यं लक्षणाहेतुः । वृक्षशिखर इति । वृक्षाग्रे यानि फलानि तेषां यष्ट।लदिना प्रचयं करोतीत्यर्थः । यद्वा---आरुह्य हस्तेनादानेऽप्यादेयस्य प्रत्यासत्यभावाद् घञभावः ॥ निवासचितिशरीरोपसमाधानेष्वादेश्च कः ॥ ३।३।४१ ॥ एतेष्वर्थेष्विति । अत्रोपसमाधानं धात्वर्थः, अन्ये प्रत्ययार्थस्य कारकस्योपाधिभूताः । चिखल्लिनिकाय इति । चिखल्लिः---जनपदविशेषः, तत्सम्बन्धी ग्रामादिर्निवासदेश इत्यर्थः । आकायमिति । आचीयतेऽस्मिन्नष्टका इत्यधिकरणे घञ् । काय इति । चीयन्तेऽस्मिन्नस्थ्यादीनि, अधिकरण एव घञ् । गोमयनिकाय इति । प्रकीर्णानां गोमयानामेकत्र राशीकरणमित्यर्थः । बहुत्वमत्र गम्यते इति । तत्र तत्र विक्षिप्तानामेव काष्ठानामित्यर्थः । ठ्चः कःऽ इति वक्तव्ये आदेरिति वचनं यङ्लुगन्तेऽप्यादेरेक्यथा स्याद्, अनन्त्यस्याभ्यासस्य चोभयोर्मा भूदिति---गोमयानां निकेचायः, गोमयानां पुनः पुना राशीकरणमित्यर्थः ॥ सङ्घे चानौतराधर्ये ॥ ३।३।४२ ॥ प्राणिनां समुदायः सङ्घ इति । ठ्सङ्गोद्घौ गणप्रशंसयोःऽ इति गणमात्रे निपातितोऽपि सङ्घशब्दः प्राणिनामेव समुदाये रूढ इति भावः । एकधर्मसमावेशेनेति । एकधर्मोऽनुगतः । औतराधर्येणेति । उतरे चाधरे चोतराधराः, तेषां भाव औतराधर्यम् । सूकरनिचय इति । स्तनपानाय यदोतराधरभावेन शेरते तदेदं प्रत्युदाहरणम्, यदा तु भिक्षुवत्पृथक्पृथगेव तिष्ठन्ति, तदेदमुदाहरणमेव भवति ॥ कर्मव्यतिहारे णच् स्त्रियाम् ॥ ३।३।४३ ॥ ठ्धातुःऽ इति वर्तते, तस्य विशेषणं कर्मव्यतिहारग्रहणम्, कर्मव्यतिहारे वर्तमानादित्यर्थः । धातोश्च क्रियावाचित्वम्, न तस्य साधनकर्मव्यतिहारे वृत्तिः सम्भवति, अतो लौकिकस्य क्रियाकर्मणो ग्रहणमित्याह---कर्मव्यतिहारः क्रियाव्यतिहार इति । स्त्रीलिङ्गे भावे इति । कर्तूवर्जिते तु कारके न स भवति; अनभिधानादिति भावः । चकारो विशेषणार्थ इति । न स्वारार्थः, प्रत्ययस्वरेणैव सिद्धत्वात् । अस्य चाकारो न क्वापि श्रूयते, णजन्ताञ्च नित्यमञ् विधीयते, तत्र सतिशिष्टत्वाञ्ञित्स्वरेणैव भवितव्यम् । णचः स्त्रियामित्यत्र णात्स्त्रियामित्युच्यमाने ठ्ज्वलितिकसन्तेभ्यो णःऽ इत्यस्यापि ग्रहणं स्यात् । व्यावक्रोशीत्यादि । ठ्क्रुश आह्वानेऽ, ठ्लिख अक्षरविन्यासेऽ, ठ्हसे हसेनऽ णजन्तादञ् । स च कृद्ग्रहणपरिभाषया सोपसर्गादपि भवति, तद्धितत्वादादिवृद्धिः । ठ्न य्वाभ्याम्ऽ इत्ययं तु विधिर्न भवति; न कर्मव्यतिहार इति प्रतिषेधात् । ठ्स्त्रियां क्तिन्ऽ इत्यत्र प्रकरण एतन्नोक्तम् वासरूपविधिर्यथा स्यात्, तेन व्यावक्रुष्टिरिति क्तिन्नपि भवति । व्यावचोरीत्यत्र ठ्ण्यासश्रन्थोयुच्ऽ इति युच् प्राप्नोति, क्तिनोऽपवादः, तथाऽयमपि णच् येन नाप्राप्तिन्यायेन क्तिन एवापवादः, तत्रापवादविप्रतिषेधाद्यौचि प्राप्तेऽयमेव णजिष्यते । व्यतीक्षा, व्यतीहेति । अत्र क्तिनपवादः ठ्गुरोश्च हलःऽ इत्यकार एवेष्यते । व्यात्युक्षीति ठुक्ष सेचनेऽ, अत्राकारविषयेऽप्ययमेवेष्यते । तदेतद्वैचित्र्यं कथं भवतीति । न कथञ्चिदिति भावः । कृत्यल्युटो बहुलमिति । एवंविधं वैचित्र्यं कर्तुं बहुलग्रहणमेव भवतीति भावः ॥ अभिविधौ भाव इनुण् ॥ ३।३।४४ ॥ क्रियागुणाभ्यामिति । अभिविधिस्वरूपकथनमेतत्, इह तु धातोः प्रत्ययविधानात्क्रियाविषय एवाभिविधिर्गृह्यते । सांकूटिनमिति । ठ्कूट दाहेऽ दीर्घोपधादिनुण्, ठणिनुणःऽ इतीनुणन्तात्स्वाथिकोऽण् प्रत्ययः, स च पूर्ववत्सगतिकारकाद्भवति, ठिनण्यनपत्येऽ इति प्रकृतिभावात् ठ्नस्तद्धितेऽ इति टिलोपाभावः । समन्ताद्दाह इत्यर्थः संशब्दोऽभिविधिद्योतकः । सांराविणमिति । ठुपसर्गे रुवःऽ इति घञ् उपसर्गान्तरेऽनभिवैधौ चरितार्थः । संराव इति । अत्र संशब्दः पूजायाम् । क्वचित्सन्द्राव इति प्रत्युदाहणं पठ।ल्ते, तदयुक्तम्; ठ्समियुद्रुदुवःऽ इत्यस्यानवकाशात् । ननु च ठ्भावे कारकेऽ इति द्वयेऽपि प्रकृते शब्दस्वाभाव्यात्पूर्ववत्कारके न भविष्यति, तत् कि भावग्रहणेन ? तत्राह---भाव इति वर्तमान इति । तेन घञ्, ठ्नपुंसके भावे क्तःऽ इति क्तश्च न भवति । ल्युटा त्वित्यादि । गतार्थम् । स्वभावतश्चेदमिनुणन्तं नपुंसकलिङ्गम् ॥ आकोशेऽवन्योर्ग्रहः ॥ ३।३।४५ ॥ ठ्ग्रहवृदृनिश्चिगमश्चऽ इत्यापि प्राप्तेऽयमारम्भः । दृष्टानुवृत्तिसामर्थ्यादिति । दृष्टमनुवृत्तिसामर्थ्यं यस्येति बहुव्रीहौ ठ्द्व्येकयोःऽ इतिवद्भावप्रत्ययमन्तरेणापि भावप्रधानो निर्देशो दृष्टानुवृत्तिसामर्थ्यत्वादित्यर्थः । यद्वा---अनुवृतौ सामर्त्यमनुवृत्तिसामर्थ्यम्, ततो दृष्टशब्देन कर्मधारयः । आक्रोशः शपनमिति । न क्षेपः, स्वभावतो घञन्तस्य शपनविषयत्वात् । शपनमुअनिष्टाशंसनम् । अवग्रहःउअभिभवः । निग्रहःउबाधः । हन्तशब्दः कोपं द्योतयति । अवग्रहःउपदस्य छेदः । निग्रहः निरोधः ॥ प्रे लिप्सायाम् ॥ ३।३।४६ ॥ लब्धुमिच्छा लिप्सा । पात्रप्रग्राहेण चरतीति । भिक्षापात्रोपादानेन गृहीतपात्र इति यावत् । स्रुवग्रहणं तु दक्षिणार्थिनो लिङ्गम्, दाक्षिणहोमस्य स्रुवसाधनत्वात् । प्रग्रहो देवदतस्येति । प्रग्रहो मदः, प्रकृष्टो वाभिनेवेशः ॥ परौ यज्ञे ॥ ३।३।४७ ॥ उतरपरिग्राह इति । भावे घञ् । वेदेः स्फ्येन स्वीकरणं परिग्राहः, ततः कर्मधारयः । क्वचिदुतरः परिग्राह इत्यसमास एव पठ।ल्ते ॥ नौ वृ धान्ये ॥ ३।३।४८ ॥ नीवारा नाम व्रीहय इति । धान्यसामान्योक्तावपि धान्यविशेषरूपव्रीहिविशेषे स्वभावतो घञन्तस्य वृत्तिरिति दर्शयति । अत्र कर्मणि घञ्, पूर्ववदुपसर्गस्य दीर्घः । निवरा कन्येति । ठ्ग्रहवृदृनिश्चिगमश्चऽ इत्यप् कर्मण्येव । ननु च क्तिना स्त्रियां भवितव्यम्, ठजब्भ्यां स्त्रीखलनाः स्त्रियाः खलनौ विप्रतिषेधेनऽ इति वचनात् ? सत्यम्; ठ्कृत्यल्युटो बहुलम्ऽ इति बहुलवचनात् क्वचित् क्तिनादिविषयेऽप्यच् भवति, प्रवरा सेना, प्रवरा गौरितिवत् । एवं च ठ्घञजबन्ताः पुंसिऽ इति प्रायिकं द्रष्टव्यम् ॥ उदि श्रयतियौतिपूद्रुवः ॥ ३।३।४९ ॥ वक्ष्यमाणमिति । एवं च यौतिप्रभृतिभ्यो विकल्पः प्राप्नोति । यदि नेष्यते, ठ्कृत्यल्युटो बहुलम्ऽ इति न भविष्यति ॥ अन्ये तु भाष्येऽनुक्तत्वादसाधुरेवायं प्रयोगः । प्रदर्शितस्तु भारतप्रयोग आर्षत्वेन निर्वाह्य इत्याहुः ॥ अवे ग्रहो वर्षप्रतिबन्धे ॥ ३।३।५१ ॥ कुतश्चिन्निमितादिति । ठ्सत्वकर्मापराधादेरनावृष्टिर्भवेन्नृणाम्ऽ। सत्वशब्दः प्राणिवचनः, कर्मापराधःउकर्मविषयो दोषः, विहितानाचरणप्रतिषिद्धाचरणनिमितं पापं सत्वकर्मापराधः । आदिशब्देन ठ्तयोर्मध्यगतो भानुः समुद्रमपि शोषयेत्ऽ इत्यादेर्ग्रहणम् । अवग्राहो देवस्येति । देवकर्तृको वर्षाभाव इत्यर्थः ॥ प्रे वणिजाम् ॥ ३।३।५२ ॥ पणन्ते व्यवहरन्तीति वणिजः, ठ्पणेरिज्यादेश्च वःऽ, ठ्पण व्यवहारेऽ इत्यस्मादिजिप्रत्ययो भवत्यादेश्च वकारः । वणिक्सम्बन्धेनेति । तुलासूत्रं प्रायेण वणिजां भवतीति साहचर्यं लक्षणाहेतुः । अनयो वेति । न तु वणिजस्तन्त्रमित्यस्येदं प्रयोजनम् ॥ रश्मौ च ॥ ३।३।५३ ॥ रथादियुक्तानामिति । आदिशब्देन शकटस्य ग्रहणम् । अश्वादेरिति । अनुडुदादेरप्युपलक्षणमेतत् । संयमनमुनियमनम् । सा रश्मिरिह गृह्यत इति । रश्मिशब्दः पुंल्लिङ्गः, सेति रज्जुपरामर्शात्स्त्रीलिङ्गता । चन्द्रादिसम्बन्धिनां तु रश्मीनामग्रहणम्; अनभिधानात् । इह तु बहुकृत्वो ग्रहिरुपादीयते, सकृदेव तु कर्तुं शक्यम्; कथम् ? एवं वक्ष्यामि ठुदि ग्रहः समि मुष्टौ आक्रोशेऽवन्यो प्रे लिप्सायां परौ यज्ञेऽवे वर्षप्रतिबन्धे विभाषा प्रे वणिजाम्ऽ इत्यादि, ठ्परौ भुवोऽवज्ञानेऽ इत्यस्यानन्तरमाङ् रुप्लुवोइरिति ? तथा तु न कृतमित्येव ॥ वृणोतेराच्छादने ॥ ३।३।५४ ॥ अत्राप्याच्छादन इति सामान्येनोक्तावपि पूर्ववद्विशेषप्रतिपतिरित्याह---प्रत्ययान्तेन चेदिति । प्रावार इति । पूर्ववद्दीर्घः । प्रवरा गौरिति । प्रशस्तेत्यर्थः ॥ एरच् ॥ ३।३।५६ ॥ चकारो विशेषणार्थ इति । विना हि तेन थाथादिसूत्रेऽप्रत्ययादित्यस्यापि ग्रहणं स्यात् । वर्षमिति । वृषभो वर्षणादिति भाष्यकारप्रयोगादूर्षणमित्यपि भवति । जवसवाविति । अपि प्राप्तेऽज् विधीयते । स्वरे विशेषः । एरजण्यन्तानामिति तु नास्ति वचनम्, ठ्कल्प्यादिभ्यः प्रतिषेधवचनम्ऽ इत्येतदेवास्ति । कल्प्यते इति कल्पः, अर्थ्यते इत्यर्थः, मन्त्र्यते इति मन्त्रः । अचि प्रतिषिद्धे घञेव भवति ॥ ऋदोरप् ॥ ३।३।५७ ॥ लव इति । न च तादपि परस्तपर इति उकारस्य तपरत्वान्नात्रापा भवितव्यम् ? तत्राह---दकारो मुखसुखार्थ इति । नायं तकारः, किं तर्हि ? दकारः । एतच्च ठ्निरभ्योः पूल्वोःऽ इत्याद्यारम्भाद्विज्ञायते । मुखशब्देन ताल्वादिश्थानमुच्यते, तस्य सुखमनायासः । अचोर्हि हल्व्यवहितयोरुच्चारणे मुखस्य लाघवं भवति । असन्देहः, यस्यानुषङ्गिकं प्रयोजनम् ॥ ग्रहवृदृनिश्चिगमश्च ॥ ३।३।५८ ॥ निश्चिनोतेस्त्वचोपवाद इति । ठेरच्ऽ इति प्राप्तस्य यस्तु ठ्हस्तादाने चेरस्तेयेऽ इति घञ् स निपूर्वादपि पूर्वविप्रतिषेधेनेष्यते, यथोक्तम्---अस्तेयार्थमिति चेन्नानिष्टत्वादिति । कः पुनर्निश्चय इत्यत्राजपोर्विशेषः, यावता तदेव रूपं स एव स्वरोऽपि; थाथादिसूत्रेणोभयत्रान्तोदातत्वविधानादित्यत आह---निश्चिग्रहणं स्वरार्थमिति । निश्चिग्रहणसामर्थ्यात् थाथादिस्वरोऽत्र न प्रवर्तते, कृत्स्वरेण तु मध्योदातत्वमेव भवतीति भावः । वशिरण्योरिति । घञि प्राप्ते वचनम् । वशनं वशः । रणन्ति शब्दायन्तेऽस्मिन्निति रणः संग्रामः । धञर्थ इति । भावः कर्तृवर्जितं च कारकं घञर्थः । प्रस्थः सानुः, प्रस्नः कटाहः, प्रपा पानीयशाला---सर्वत्र ठातो लोप इटि चऽ इत्याकारलोपः । आविध इति । ग्रहिज्यादिसूत्रेण सम्प्रसारणम् । आयुधशब्दपर्यायोऽयम् ॥ उपसर्गेऽदः ॥ ३।३।५९ ॥ अदेर्धातोरिति । दारूपाणां धातूनामयं निर्देशो न भवति; ठ्घञपोश्चऽ इत्यपि परतोऽदेर्घस्लादेशविधानात् । व्यद्यत इति विघसःउ वैश्वदेवशिष्टमन्नम् । घासस्तु चतुष्पदां भक्ष्यम् । घसिः प्रकृत्यन्तमस्ति तस्मादेवाब्विधेयः । एवं ह्यदेरपि घस्लृभावो न वक्तव्यो भवति । उतरार्थं त्वदेर्ग्रहणम्---नौ ण ठ्चऽ अदेर्यथा स्याद्, घसेर्मा भूदिति ॥ व्यधजपोरनुपसर्गे ॥ ३।३।६१ ॥ व्यधजपोरिति पञ्चम्यर्थे षष्ठी, अनुपसर्ग इति प्रसज्यप्रतिषेधः---उपसर्गे सति न भवतीति । तेन केवलाभ्यामेव भवति, न तूपसर्गव्यतिरिक्तेऽन्यस्मिन्नुपपदे । वृत्तिग्रन्थोऽप्यस्मिन्नेवार्थे व्याख्येयः । उपजापःउमन्त्रभेदः ॥ क्वणो वीणायां च ॥ ३।३।६५ ॥ सोपसर्गार्थमिदं वीणाग्रहणमिति । निव्यतिरिक्तोपसर्गार्थमिदं द्रष्टव्यम्; निपूर्वादनुपसर्गाच्च सामान्येन विधानात् । कल्याणप्रक्वाणेति बहुव्रीहिः ॥ मदोऽनुपसर्गे ॥ ३।३।६७ ॥ विद्यामद इत्यादि । ठ्कर्तृकरणेऽ इत्यादिना समासः । ठ्क्वणो वीणायां चऽ इत्यस्यानन्तरं ठ्नित्यं मदः प्रमदसंमदौ हर्षे पणः परिमाणेऽ इति यदि सूत्रन्यासः क्रियेत, अत्रानुपसर्गग्रहणं शक्यमकर्तुम्, अनुवृतेरेव सिद्धत्वात् ? सत्यम्; एवं विन्यासे हि क्रियमाणे ठ्पणः परिमाणेऽ इत्यत्राप्यनुपसर्ग इत्यस्यानुवृत्तिः शङ्क्येत । यथान्यासे तूतरत्राप्यनुपसर्ग इति वचनात् ठ्नित्यं पणः परिमाणेऽ इत्यत्रानुपसर्ग इति न संबद्ध्यत इति विज्ञायते । तेनोपसर्गेऽपि भवति यदि परिमाणाभिधानमस्ति । अपर आह---"मदोऽनुपसर्गेऽ इति सूत्रप्रणयनमस्य विधेरनित्यत्वज्ञापनार्थम्, तेन माद इति सिद्धं भवति" इति, नात्राप्तभाषितमस्ति ॥ प्रमदसंमदौ हर्षे ॥ ३।३।६८ ॥ निपातनं रूढ।ल्र्थमिति । उपातस्यैव रूढिरूपस्य साधुत्वं यथा स्यादित्यर्थः । ठ्प्रसंभ्याम्ऽ इत्युच्यमाने प्रसंमदः, संप्रमदः, विप्रमद इत्यादावपि प्राप्नोतीति मन्यते ॥ अक्षेषु ग्लहः ॥ ३।३।७० ॥ अक्षस्य ग्लह इति । भावेऽप्, अक्षस्य ग्रहणमित्यर्थः । अन्ये त्वाहुः---अक्षशब्देनात्र तत्साधनं देवनं लक्ष्यते, अक्षकर्मणि देवनविषये यत्पणरूपेण ग्राह्यं तद् ग्लहशब्देनोच्यते । तथा च माघः---ठ्व्यात्युक्षीमभिरणग्लहामदीव्यन्ऽ इति । वृतावप्यक्षस्य ग्लह इत्यक्षसाधनस्य देवनस्य पणबन्ध इत्यर्थः ॥ प्रजने सर्तेः ॥ ३।३।७१ ॥ प्रजननं प्रजनः, भावे घञ्, ठ्जनिवध्योश्चऽ इति वृद्धिप्रतिषेधः, ण्यन्ताद्वैरच् । प्रशब्दो धात्वर्थं विपरीतयति, यथा---प्रतिष्ठते इत्यत्र प्रादुर्भावस्य च वैपरीत्यं गर्भग्रहणम्, तदाह---प्रजनः प्रथमं गर्भग्रहणमिति । कथमवसरः, प्रसर इति ? अधिकरणे ठ्पुंसि संज्ञायां घः प्रायेणऽ ॥ ह्वः संम्प्रसारणं च न्यभ्युपविषु ॥ ३।३।७२ ॥ निहव इत्यादि रूपं तु जुहोतेरेव सिद्धम्; अनेकार्थत्वाद्धातूनाम् । अथेभेदोऽप्यकिञ्चित्करः । इदं तु वचनं ह्वयतेर्घञि निह्वाय इति रूपं मा भूदिति ॥ निपानमाहावः ॥ ३।३।७४ ॥ आहाव इति रूपं तु जुहोतेरेव सिद्धम्, अनेकार्थत्वाद्धातूनाम् । अर्थभेदोऽप्यकिञ्चित्करः । इदं तु वचनं ह्वयतेर्घञि आह्वाय इति रूपं मा भूदिति । आहाव इत्यधिकरणे निपातनमित्याह---तत्र हीति ॥ भावेऽनुपसर्गस्य ॥ ३।३।७५ ॥ भावग्रहणमित्यादि । ननु च द्वयेऽप्यधिकृते लक्ष्यदर्शनवशाद्भाव एवार्थे विधिर्भविष्यति, यथा---ठ्कर्मव्यतिहारे णच् स्त्रियाम्ऽ इत्यत्र ? सत्यमेष एवार्थो भावग्रहणेनाक्यायते । अथ यथा---ठभिविधौ भाव हनुण्ऽ इत्यत्र वासरूपनिवृत्यर्थं भावग्रहणम्, तथेहापि कस्मान्न भवति ? असरूपस्य बाधनीयस्याभवात् । घञ् तावत्सरूपः, क्तल्युट्क्तिनस्तु नास्योत्सर्गाः, न हि तेषु नाप्राप्तेष्वस्यारम्भः, इष्यन्ते च ते---हूतः, ह्वानम्, हूतिरिति ॥ हनश्च वधः ॥ ३।३।७६ ॥ स चान्तोदात इति । सूत्रे तथैवोच्चारणात् । किमर्थं पुनरकारान्तत्वम्, किमर्थं चान्तोदातत्वम्, यावता नायमकारः क्वचिच्छ्र यतोऽतो लोपोऽस्य भवति ? तत्राह---तत्रेति । अन्तोदातत्वे सतीत्यर्थः । उदातनिवृत्तिस्वरेणेति । ठनुदातस्य च यत्रोदातलोपःऽ इत्येव उदातनिवृत्तिनिमितत्वादुदातनिवृत्तिस्वरः । घात इति । अत्र कर्मादौ कारके घञ् । किं तर्हि प्रकृतेन प्रत्ययेनेति । अथ धातोरनन्तरं श्रुतः प्रकृतेन धातुना कस्मान्न सम्बद्धयते---हनश्च वधादेशो भवति, ह्वयतेश्चेति ? पूर्वसूत्रेऽ सम्प्रसारणविधानसामर्थ्यात् ॥ मूर्तौ घनः ॥ ३।३।७७ ॥ अभ्रघन इति । अभ्रस्य काठिन्यमित्यर्थः । धर्मशब्देनेति । शुल्कादिवदिति भावः । यद्येवम्, गुणेनेति प्रतिषेधात्समासो न प्राप्नोति, तत्स्थैश्च गुणैरित्येतदपि नास्ति ? इदानीमेव ह्युक्तम्---ठ्धर्मशब्देन धर्मी भण्यतेऽ इति वक्तव्योऽत्र समासः ॥ अन्तर्घनो देशे ॥ ३।३।७८ ॥ तदपि ग्राह्यमेवेति । उभयथाप्याचार्येण शिष्याणां प्रतिपादितत्वात् ॥ अगारैकदेशे प्रघणः प्रघाणश्च ॥ ३।३।७९ ॥ द्वारप्रकोष्ठो बाह्य उच्यत इति । द्वार प्रदेशे द्वौ प्रकोष्ठावलिन्दौ---आभ्यन्तरः, बाह्यश्च । तत्र बाह्यए प्रकोष्ठे निपातनम्, नागारैकदेशमात्रे । ऐतच्च निपातनाल्लभ्यते । प्रविशद्भिर्जनैः पादैः प्रकर्षेण हन्यत इति अप् कर्मणि, पक्षे वृद्धिश्च ॥ उद्घनोऽत्याधानम् ॥ ३।३।८० ॥ अत्याधानमिति । अतिशब्द उपरिभावे वर्तते, आदधातिः स्थापने, अधिकरणे ल्युट् । उद्घन इत्यत्राप्यधिकरण एवाप् ॥ अपघनोऽङ्गम् ॥ ३।३।८१ ॥ अपघन इति । करणेऽप् ॥ करणेऽयोविद्रुषु ॥ ३।३।८२ ॥ द्रुघन इति । द्रुरिति वनस्पतिनाम्, ठ्वनस्पतयो वै द्रवःऽ इति निगमो भवति । पूर्वपदात्संज्ञायामग इति वेति । संज्ञा चैषा कुठारविशेषस्य ॥ स्तम्बे क च ॥ ३।३।८३ ॥ तत्र चेति । अनन्तरोक्तेऽपि के तु घनादेशो न भवति; पूर्वमेव घनादेशस्याप्सम्बन्धित्वात् । स्तम्बघ्न इति । उपपदसमासः, ठ्गमहनऽ इत्युपधालोपः, ठ्हो हन्तेःऽ इति कुत्वम् । स्त्रियामित्यादि । एतच्च कापोः प्रतिपदविधानात्सर्वापवादत्वात् ठ्कृत्यल्युटो बहुलम्ऽ इति वचनाद्वा लभ्यते अन्ये पुनः ठूतियूतिजूतिसातिहेतिऽ इति हन्तेः क्तिनि निपातनान्निपातनस्य च सर्वापवादत्वात् स्तम्बहेतिरितीच्छन्ति । अपरे तु ठ्करणाधिकरणयोश्चऽ इति ल्युटि स्तम्बहननीति भवितव्यम्, यथा---रक्षोयातूनां हननीत्युक्तमित्याहुः । स्तम्बघात इति । भावे घञ्, षष्ठीसमासः ॥ प्ररौ घः ॥ ३।३।८४ ॥ पलिघ इति । ठ्परेश्च घाङ्कयोःऽ इति विभाषा लत्वम् ॥ उपघ्न आश्रये ॥ ३।३।८५ ॥ आश्रयशब्द इत्यादि । आश्रयणमाश्रयः, स प्रत्यासत्याऽविनाभावीत्येतल्लक्षणहेतुः । पर्वतोपघ्न इति । पर्वतेनोपहन्यतेउसामीप्येन गम्यत इति कर्मण्यम् ॥ संघोद्घौ गणप्रशंसयोः ॥ ३।३।८६ ॥ संहननं सङ्घः, भावेऽप् । उद्घन्यतेऊत्कृष्टे ज्ञायत इति कर्मण्यप् । गत्यर्था बुद्ध्यर्था इति हन्तिर्ज्ञाने वर्तते । उद्घो मनुष्याणामिति । मनुष्याणां मध्ये प्रशस्त इत्यर्थः ॥ निघो निमितम् ॥ ३।३।८७ ॥ समारोहपरिणाहमिति । आरोहःऊच्छ्रायः, परिणाहःउविस्तारः, तौ समानौ यस्य ततथोक्तम् । निघा वृक्षा इति । निविशेषं हन्यन्ते ज्ञायन्ते इति कर्मण्कम् ॥ ड्वितः क्त्रिः ॥ ३।३।८८ ॥ भावेऽकर्तरि च कारके इति वर्तत इति । अधिकारस्याविच्छेदं दर्शयति । अयं तु क्त्रिप्रत्ययः स्वभावाद्भाव एव भवति---पाकेन निर्वृतं पक्त्रिममित्युच्यते, न तु पक्वेनेति । केवलो न प्रयुज्यत इति । तेनावश्यमन्यशब्देनैव विग्रहः कर्तव्यः । तद्दर्शयति---पाकेन निर्वृतं पक्त्रिममिति । उप्त्रिममिति । यजादित्वात्सम्प्रसारणम् । अथ ड्विनः क्त्रिममित्येव कस्मान्नोक्तम्, एवं हि ठ्क्त्रेर्मम् नित्यम्ऽ इति न वक्तव्यं भवति ? नैवं शक्यम्, ठ्भावेऽ इत्यधिकाराद्भावेऽपि कृत्रिममिति प्राप्नोति । अथाप्यभयानुवृतावप्यभिधानस्वाभाव्यात्कारक एव कर्मणि भवेत् ? एवमपि भूतकालो न गम्येत । एतदप्यभिधानस्वाभाव्याद्भवतु नाम ? एवमर्थाभिधाने प्रकारभेदो न स्यात्, न हि पक्वपक्त्रिमशब्दयोः पर्यायतां मन्यन्ते ॥ ट्वितोऽथुच् ॥ ३।३।८९ ॥ अयमपि स्वभावाद्भाव एव भवति । घञादेरपवादः । वासरूपविधना सोऽपि भवत्येव ॥ यजयाचयतविच्छप्रच्छरक्षो नङ् ॥ ३।३।९० ॥ नङे ङ्कारो विच्छेर्गुणप्रतिषेधार्थः, अन्यथान्तरङ्गत्वातुकि ठ्चछवोः शूडनुनासिके चऽ इति सतुक्कस्य च्छस्यादेशे कृते लघूपधत्वाद् गुणः स्यात् । नङ्न्ताः सर्वे पुंल्लिङ्गाः । याचिस्तु स्त्रीलिङ्गः । वासरूपविधिश्च यथाभिधानं भवति । प्रश्न इति । अत्र ग्रहिज्यादिसूत्रेण सम्प्रसारणं कस्मान्न भवतीत्याह---प्रच्छेरिति ॥ कर्मण्यधिकरणे च ॥ ३।३।९३ ॥ कर्माधिकरणयोः पृथक् पृथक् सप्तमीनिर्देशान्न तावदुभयोरुपपदत्वम्, तत्र व्याख्यानात्कर्मोपपदम्, अधिकरणं तु प्रत्ययार्थ इत्याह---कर्मण्युपपद इति । अथिकरणग्रहणमर्थान्तरनिरासार्थमिति । अर्थान्तरं भावः, करणादि च कारकम् ॥ स्त्रियां क्तिन् ॥ ३।३।९४ ॥ घञजपामपवाद इति । येन नाप्राप्तिन्यायेन घञोपवादः, अजपोस्तु परत्वादपवादो बाधक इत्यर्थः । उक्तं च ठजव्भ्यां स्त्रीखलनाः स्त्रियाः खलनौ विप्रतिषेधेनेऽ इति । अजपोरवकाशः--चयः, जयः, लव इति, क्तिनोऽवकाशः---कृतिः, दृतिः, चितिः, स्तुतिरित्यत्रोभयप्राप्तौ क्तिन् भवति विप्रनिपेधेन । लब्धिः । षित्वादङपि भवति---लभेति । ननु निष्ठायां वा सेटोऽकारवचनात्सिद्धमिति ब्रुवतो वातिककारस्य ठ्गुरोश्च हलःऽ इत्यकारप्राप्तावेवाबादिभ्यश्चेति क्तिन्नभिमत इति गम्यते, तत्कथमङ्विषये क्तिन्नुदाहृतः ? सत्यम् ; प्रयोगबाहुल्यादिदमपि भवतीति मन्यते । एवं च युज्विपयेऽपि क्तिन्प्रयुज्यते---आस्तिरिति । अत एवाबादयः प्रयोगतोऽनुसर्तव्या इत्युक्तम् । श्रुयजिस्तुभ्यः करण इति । ल्युटि प्राप्ते वचनम्, श्रुतिः श्रोत्रम्, इज्यतेऽनया देवता इष्टिः । ऋकारल्वादिभ्य इति । ऋकारान्तेभ्यो ल्वादिभ्यश्च परः क्तिन्निष्ठाकार्यं लभते---ठ्रदाभ्यां निष्ठातो नःऽ, ठ्ल्वादिभ्यःऽ इति च; निष्टायां विधीयमानं नत्वं क्तिनोऽपि भवतीत्यर्थः । क्तिन्नपीष्यते इति । ठस्त्रियाम्ऽ इति प्रतिपेधाद्वासरूपविधेरभावादिदमुक्तम् ॥ स्थागापापचो भावे ॥ ३।३।९५ ॥ अङेऽपवादस्य बाधक इति । स्थादिभ्यः ठातश्चोपसर्गेऽ इति प्राप्तस्य । पचेस्तु पित्वात्प्राप्तस्याङेऽपवादः । कांस्थायिकाम्, स्थायिमित्यत्र ठ्विभाषाख्यानपरिप्रश्नयोःऽ इति प्राप्तयोर्ण्वुलिञोरपि बाधकः कस्मान्न भवति ? ठ्पुरस्तादपवादा अनन्तरान्विधीन् बाधन्ते नोतरान्ऽ इति । कथमिति । न कथञ्चिद्; वासरूपबिधेरभावात् । नात्यन्तायेति । नियमेन चतुर्थ्यन्तप्रतिरूपकोऽयं निपातः, यथा---चिरायेति ॥ मन्त्रे वृषेषपचमनविदभूवीरा उदातः ॥ ३।३।९६ ॥ प्रकृतिप्रत्यययोरिति । प्रकृतिसामान्यविवक्षायां द्विवचनम्; अन्यथा बहुत्वात्प्रकृतीनां बहुवचनप्रसङ्गात् । विभक्तिविपरिणामेनेति । वृषादीनां द्वन्द्वे या प्रथमा तस्याः पञ्चमीभावेन यो विपरिणामस्तेन प्रकृतिप्रत्यययोः संबन्धः, अन्यथा संबन्धानुपपतिरित्यर्थः । ठ्वृषु सेचनेऽ, ठिषु इच्छायाम्ऽ वृषिसाहचर्यादुदितो ग्रहणम् । सूत्रे त्वकारो न विवक्षितः । ठ्मन ज्ञानेऽ, ठ्मनु अवबोधनेऽ द्वयोरपि ग्रहणम् । विदादीनामपि यथादर्शनम् । सर्वत्रेति । मन्त्रे चामन्त्रे चेत्यर्थः । वृषादिभ्यः क्तिप्रत्यये विधातव्ये उदातवचनमुतरार्थम्, व्रजयजोर्भावे क्यबुदातो यथा स्यात् । प्रमतिरित्यादौ च ठ्तादौ च निति कृत्यतौऽ इति पूर्वपदप्रकृतिस्वरार्थं च । पिबतेरपि मन्त्रे क्तिन्नुदातो दृश्यते---त्वं सुतस्य पीतये, मध्वः सोमस्य पीतये इति ॥ ऊतियूतिजूतिसातिहेतिकीर्तयश्च ॥ ३।३।९७ ॥ मन्त्रे इति नानुवर्तत इति । तेन ब्राह्मणे भाषायां चाथं विधिर्भवति । स्यतेरिति । ठ्षोऽन्तकर्मणिऽ इत्यस्य । हत्वाभाव इति । ठ्द्यतिस्यतिऽ इत्यादिना प्राप्तस्येत्वस्याभावः । सनोतेर्वेति । ठ्षणुदानेऽ इत्यस्य । हन्तेर्हिनोतेर्वोत । यदा हन्तेस्तदा नकारस्येत्वं निपात्यते, यदा हिनोतेस्तदा तु गुणः । कीर्तयतेरिति । ठ्कृत संशब्दनेऽ इत्यस्य चुरादिणिजन्तस्य ठ्ण्यासश्रन्यो युच्ऽ, इति युचोऽपवादः क्तिन्निपात्यते, उदांतत्वं च । इडभावस्तु ठ्तितुत्रऽ इत्यादिना सिद्धः, ठुपधायाश्चऽ ठ्हलि चऽ ठुपधायां चऽ इति दीर्घत्वम् । कालापास्तु युचमपीच्छन्ति---कीर्तनेति ॥ व्रजयजोर्भावे क्यप् ॥ ३।३।९८ ॥ इज्येति । वच्यादिसूत्रेण संप्रसारणम् । यद्यौदात इति वर्तते, पित्करणं किमर्थमित्यत आह--पित्करणमुतरत्र तुगर्थमिति ॥ संज्ञायां समजनिषदनिपतमनविदषुञ्शीङ्भृञिणः ॥ ३।३।९९ ॥ भाव इति न स्वर्यत इति । पूर्वसूत्रे यद्भावग्रहणं तस्येहास्वरितत्वान्नानुवृत्तिरित्यर्थः । समज्येति । घञपोः प्रतिषेधे क्यप उपसंख्यानमिति वचनाद्वीभावाभावः । अन्ये तु सज्ञायामित्येव क्यपो विधानात् रूढ।ल्नुगमार्थत्वाच्च संज्ञाग्रहणस्य वीभावाभावमाहुः । न हि वीभावे सति संज्ञा गम्यते । समज्याउसभा, निषद्याउआपणः, निपत्याउपिच्छिला भूमिः, मन्याउ गलपार्श्वशिरा मन्यन्तेऽनयेति कृत्वा । तया हि क्रुद्धो ज्ञायते । क्यपोऽझलादित्वाद् ठनुदातोपदेशऽ इत्यनुनासिकलोपोन भवति, तदभावातुगपि न भवति । अन्ये तु---संज्ञायामिति वचनाद्यथा समज्येत्यत्र वीभावो न भवति, एवं मनेरनुनासिकलोपस्तत्र कृते तुगपीत्याहुः; नात्राप्तवचनमस्ति । विद्यते गृह्यतेऽनयार्थैति विद्या । सूयतेभिषूयते सोमोऽस्यामिति सुत्याउअभिषवदिवसः । सुत्यमहरुतममिति त्वार्षं नपुंसकत्वम्, शय्यतेऽस्यामिति शय्याउखट्वादिः, भरणं भृत्याउजीविका, ईयते गम्यतेनयेतीत्याउदीपिका । ठ्भृञोसंज्ञायाम्ऽ इत्यत्रोक्तम्---ठ्स्त्रियां भावाधिकारोऽस्ति तेन भार्या प्रसिद्ध्यतिऽ इति, इह तु ठ्भाव इति न स्वर्यतेऽ इत्युक्तम्, तत्र पूर्वापरविरोधं मन्यमानः पृच्छति---कथं तदुक्तमिति । परिहरति---भावाधिकार इति । संज्ञायामित्युच्यते, भऋञश्च भाव एवोत्पद्यमानेन क्यपा संज्ञा गम्यते अतः संज्ञावशाद्योऽयं भावस्य भृत्याशब्दवाच्यत्वेन व्यापारः स एव तंत्र भावाधिकारो विवक्षितः, न तु शास्त्रीयः स्वरितत्वनिबन्धन इत्यर्थः । संज्ञायामिति वर्तमाने पुनः संज्ञाग्रहणं भावार्थम्, पूर्वकं हि संज्ञाग्रहणं कारकेण सम्बद्धम् । असंज्ञायां तु क्तिन्नेव भवति ॥ कृञः श च ॥ ३।३।१०० ॥ योगविभाग इति । कृञः क्यब् भवति, ततः श च, चकाराद्यथाप्राप्तं चेति । तेन त्रीणि रूपाणि भवन्ति; अन्यथा चकारेणानन्तरस्य क्यप एव समुच्चयः, न तु क्तिन इति क्तिन्न स्यात् । शकारः सार्वधातुकसंज्ञार्थः, तत्र यदा भावकर्मणोः शस्तदा ठ्सार्वधातुके यक्ऽ ठ्रिङ्शयग्लिङ्क्षुऽ इति रिङदेशः, अन्यत्र शकार एव परतो रिङदेशः, ठचि श्नुधातुऽ इत्यादिनेयङ् ॥ इच्छा ॥ ३।३।१०१ ॥ इषेर्धातोरिति । ठिषु इच्छायाम्ऽ इत्यस्माद्भावे शप्रत्ययो भवतीति; न त्वकर्तरि कारके, स्वभावात् । परिचर्येत्यादि । परिचर्यादीनामपि निपातनस्योपसंख्यानम्, परिचर्यादयोऽपि शप्रत्ययान्ता निपातयितव्या इत्यर्थः । तत्र सर्वत्र शप्रत्ययो यक्च निपात्यते । परिचर्याउपूजा । परिसर्याउ परिसरणम्, अत्र गुणोऽपि निपात्यते । ठ्मृग अन्वेषणेऽ चुरादावदन्तः, अत्रातो लोपाभावः; निपातनात् । शे यकिणिलोपः---मृगया । अटतेः शे यकि यका सह टकारस्य द्विर्वचनम्, पूर्वभागे यकारस्य निवृत्तिर्दीर्घत्वमित्येतत्सर्वं निपात्यते । हलादिशेषस्तु नास्ति; षाष्ठिके द्विर्वचनेऽभ्याससंज्ञाविधानाद् । यदा त्वट।ल्र्त्यसूर्णोतीनामिति यङ्न्तात् ठप्रत्ययात्ऽ इत्यकारः, तदातो लोपे यलोपे चाटाटेति भवति । जागर्तेरकारो वेति । वाशब्दात्पक्षे शः, तदा सार्वधातुके यक्, ठ्जाग्रोऽविचिण्णल्ङ्त्सुऽ ईति गुणः ॥ गुरोश्च हलः ॥ ३।३।१०३ ॥ प्रकृतस्य धातोर्हला विशेषणातदन्तविधिरित्याह---हलन्तो यो धातुरिति । अज्विशेषवाचिनो गुरुशब्दस्य हलन्ते धातौ न मुख्या वृत्तिः सम्भवतीति तद्वति तच्छब्दो विज्ञायत इत्याह---गुरुमानिति । विपर्ययस्तु न न भवति---गुर्वन्तो यो धातुर्हल्वानिति; ठ्चेष्टायामनध्वनिऽ ठाशंसायां भूतवच्चऽ इति निर्देशात् । कुण्डा, हुण्डेति । ठ्कुडि दाहेऽ, ठ्हुडि संघातेऽ ॥ षिद्भिदादिभ्योऽङ् ॥ ३।३।१०४ ॥ गणपरिपठितेष्विति । गणे तावद्भिदा च्छिदेत्यङ्न्ता एव समुदायाः पठ।ल्न्ते, तेषु भिदिच्छिदिप्रभृतयोऽङ्ः प्रकृतयो यास्ता इह भिदादिशब्देन निर्दिश्यन्त इत्यर्थः । कुत एतत् ? धात्वधिकारात् । भिदादिभ्यो धातुभ्य इति । ठ्भिदिर् विदारणेऽ, ठ्च्छिदिर् द्वैधीकरणेऽ, ठ्विद ज्ञानेऽ, ठ्क्षिप प्रेरणेऽ, ठ्गुहू संवरणेऽ, ठ्डुधाञ् धारणपोषणयोःऽ, ठ्मिधृ मेधृ हिसासंक्लेशनयोःऽ, ठृ गतौऽ, ठ्हृञ् हरणेऽ, ठ्क्षि क्षयेऽ, अथ वा ठ्क्षि निवासगत्योःऽ, ठ्तृप्लवनतरणयोःऽ, ठ्धृञ् धारणेऽ, ठ्लिख अक्षरविन्यासेऽ, ठ्चुद प्रेरणेऽ, ठ्पीड अवगाहनेऽ, ठ्डुवप् बीजतन्तुसन्तानेऽ, ठ्वस निवासेऽ, ठ्मृजूष् शुद्धौऽ, ठ्क्रप कृपायाम्ऽ इत्येते वेदितव्याः । जरेति । ठृदृशोऽङ् गुणिःऽ । गुहा गिर्योषध्योरिति । गिरिशब्देन तदेकदेश उच्यते, अन्यत्र गूढिः, क्तिन्नेव भवति । आरा॥॥॥ढारेति । गुणे कृते दीर्घत्वं च निपात्यते । रेखा, लेखेति । लिखेः पक्षे लकारस्य रेफो निपात्यते, गुणश्च । चूडेति । चुदेर्डत्वं दीर्घत्वं च निपात्यते । मितिरन्येति । भिद्यत इति भितिःउकुड।ल्म्, च्छितिःउच्छिद्रम् । आरा शस्त्र्यामिति । शस्त्री शस्त्रजातिः, स्वभावाच्च विशेषः परिगृह्यते । आराउप्रतोदः, अर्यन्ते प्रेर्यन्तेऽनयाश्वा इति कृत्वा । आतिंरन्येति । आङेऽर्तेश्च ठुपसर्गादृति धातौऽ इति वृद्धिः । धार्यते प्रपात्यते इति धारा । धृतिरन्येति । प्रीतिर्धैर्यं च ॥ चिन्तपूजिकथिकुम्बिचर्चश्च ॥ ३।३।१०५ ॥ युचि प्राप्त इति । सर्वेषामेव ण्यन्तत्वात् । कुम्ब्राउअग्रम् । ठुदीचीनकुम्बां शम्याम्ऽ इति हि दृश्यते । चकारोऽनुक्तसमुच्चयार्थः---तुलयतेस्तुला । अथ ठ्गुरोश्च हलःऽ इत्यस्यानन्तरं कस्मान्न कृतम्, किमङ्विधानेन ? तत्राऽपि कर्तव्यम्, को न्वत्र विशेषः । अपर आह---अङ्विधानसामर्थ्यात्पक्षे णिलोपो न भवति, चिन्तियेत्यादि भवतीति, नात्राप्तभाषितमस्ति ॥ आतश्चोपसर्गे ॥ ३।३।१०६ ॥ श्रदन्तरोरित्यादि । उपसर्गे यादृशी वृत्तिः प्रत्ययोत्पतिलक्षणा तादृश्येव तयोरपि भवतीत्यर्थः । तत्र श्रद्धाशब्दस्तारकादिपाठात्सिद्धः, यदयम् ठन्तर्धौ इत्युसर्गनिबन्धनं किप्रत्ययं निद्दिशति तद् ज्ञापयति---अन्तः-शब्दः उपसर्गवृत्तिरिति । एवं च कृत्वा अन्तर्णयतीति ठुपसर्गादसमासेऽपिऽ इति णत्वमपि भवति ॥ ण्यासश्रन्थो युच् ॥ ३।३।१०७ ॥ ण्यद्भविष्यतीति । ननु वासरूपविधिना ण्यत्स्यात् स चास्त्रियामिति प्रतिषिद्धः ? तत्राह---वासरूपप्रतिषेधश्चेति । उत्सर्गापवादस्येति । समाहारद्वन्द्वः । द्वयोरप्युत्सर्गापवादयोः स्त्र्यधिकारावस्थितयोरित्यर्थः । घट्टिवन्दिविदिभ्यश्चेति । विदिर्लाभार्थो गृह्यते, न ज्ञानार्थः; ठ्विद चेतनाख्याननिवासेषुऽ इत्यस्यैव चुरादेर्वेदनेति ज्ञाने सिद्धत्वात् । न च वेतेः क्तिनो निवृत्यर्थं वचनम्; संवितिरिति दर्शनात् । अन्वेषणेति । ठिष आभीक्ष्ण्येऽ ठिषगतौऽ इति वा । युचश्चकारश्चिन्त्यप्रयोजनः, ठुदातःऽ इति हि वर्तते तत्सामर्थ्यादन्तोदातत्वं भविष्यति; प्रत्ययस्वरैणैवाद्यौदातत्वसिद्धेः ॥ रोगाख्यां ण्वुल्बहुलम् ॥ ३।३।१०८ ॥ आख्याग्रहणमित्यादि । यदि प्रत्ययान्तं रोगस्य नाम भवति, एवं प्रत्ययो भवति, नान्यथेत्येवमर्थमाख्याग्रहणमित्यर्थः । तेन पदान्तरद्योत्ये रोगे न भवति---बुभुक्षा भस्मकेनेति । भस्मको नाम रोगविशेषस्तत्राशितपीतादिकं शरीरस्य व्यापकं न भवति, सर्वदा च बुभुक्षा भवति । बहुलग्रहणं व्यभिचारार्थमिति । ठ्क्वचित्प्रवृत्तिः क्वचिदप्रवृत्तिः क्वचिद्विभाषा क्वचिदन्यदेवऽ इत्ययं व्यभिचारः । प्रच्छदिकेति । विचचिकेति । ठ्चर्च अध्ययनेऽ प्रत्ययोपसर्गाभ्यां रोगप्रतीतिः, पामा विचचिका । शिरोतिःउशिरस्तोदः । ठर्द हिंसायाम्ऽ, ठ्तितुत्रऽ इतीडभावः, पूर्वपदस्य रुत्वम्, ठतोरोरप्लुतात्ऽ इत्युत्वम्, आद्गुणःऽ, ठेङः पदान्तादतिऽ । धात्वर्थनिर्देश इति । क्रियानिर्देश इत्यर्थः । इक्शतपौ धातुनिर्देश इति । धात्वनुकरण इत्यर्थः । बहुलवचनाच्च क्वचिन्न भवति---ठ्गुप्तिज्किद्भ्यः सन्ऽ, ठ्मान्वधदान्शान्भ्यःऽ इति । श्तिपः शित्करणसामर्थ्यादकर्तृवाचिन्यप्येतस्मिन् शबादयो भवन्ति । एवमभावकर्मवाचिन्यपि । क्वचिद्यगपि भवति, यथा---ठ्विभाषा लीयतेःऽ, अत्र लीलीङेर्यका निर्देशः कृतः, श्यनि तु लीङ् एव ग्रहणं स्यात्, न तु लीनातेः । कथं पुनः शित्करणस्य सामर्थ्यम्, यावता पिबतिजिघ्रतिरित्यादौ श्तिपि पिबाद्यादेशार्थं ग्लायत्यदावात्वप्रतिषेधार्थं च शित्करणं स्यात् ? एवं तर्हि ठुपसर्गात्सुनोतिसुवतिस्यतिऽ, ठ्विभाषा लीयतेःऽ, ठ्भवतेर्ण उपसंख्यानम्ऽ, ठ्ध्यायतेः सम्प्रसारणं चऽ इत्येवमादिनिर्देशाच्छबादयो भविष्यन्ति । वर्णादिति । वर्णवाचिनो वर्णानुकरणादित्यर्थः, न तु वर्णादुच्चार्यमाणादिति । किं सिद्धं भवति ? ककार इत्यादौ साच्कादपि संघातात्कारः सिद्धो भवति; अकारस्योच्चारणाथत्वेन वर्णमात्रस्यानुकार्यत्वात् । ककारस्येत्संज्ञा प्रत्योजनाभावान्न भवति । बहुलग्रहणाद् ठस्य च्वौऽ ठ्यस्येति चऽ इत्यादौ कारप्रत्ययो न भवति । बहुलवचनादेव क्वचिद्वर्णसङ्घातादनुकरणादपि भवति---एककार इति । अधातु विहितत्वेऽपि कारप्रत्ययस्य कृत्संज्ञाधिकारसामर्थ्याद्भवति । तेन कृदन्तत्वात्प्रातिपदिकसंज्ञा भवति, इडागमस्त्वनार्द्धधातुकत्वान्न भवति । किमर्थं पुनः कारप्रत्ययो विधीयते, यावता करणं कारः, अस्य कारोऽकार इत्येवमस्तु ? नैवं शक्यम्; एवं हि विज्ञायमाने ककारकरणमिति न स्यात्, करोतेः पौनरुक्त्यात् । रादिफ इति । कारस्यायमपवादः । कथं तर्हि ठ्रकारादानि नामानिऽ? वासरूपविधिना कारोऽपि भविष्यति, पूर्ववत्कृत्संज्ञायां प्रातिपदिकत्वम् । मत्वार्थाच्छ इति । मतुना समानार्थो मत्वर्थस्ततः स्वार्थे च्छः । बहुलवचनादभत्वेऽपि यस्येति लोपः, पूर्ववत्प्रतिपदिकत्वम् । बहुलवचनात्क्वचिन्न भवति, यथा---ठ्तसौ मत्वर्थेऽ इति । बहुलवचनादेव च मतुबर्थशब्दादपि भवति---शैषिकान्मतुबर्थीयादिति । आजिरिति । बहुलवचनाद्वीभावाभावः । इक्कृष्यादिभ्य इति । धात्वर्थनिर्देशे ण्वुलोऽपवादः ॥ संज्ञायाम् ॥ ३।३।१०९ ॥ उद्दालःउश्लेष्मतकः, तस्य पुष्पाणि भज्यन्ते यस्यां सा उद्दालपुष्पभञ्जिका । वरणपुष्पाणि प्रचीयन्ते यस्यां वरणपुष्पर्पचायिका । अभ्यूषःउपूलिकाऽपूपविशेषः, स खाद्यते यस्यां सा अभ्यूषखादिका । तालस्य भञ्जनं यस्यां सा तालभञ्जिका । एवं शालभञ्जिका ॥ विभाषाख्यानपरिप्रश्नयोरिञ्च ॥ ३।३।११० ॥ ननु पूर्वं परिप्रश्नः, पश्चादाख्यानं भवति, तत्कथं क्रमव्युदासेन सूत्रे पूर्वमाख्यानस्य निर्देशः, पश्चात्परिप्रश्नस्य ? तत्राह---पूर्वं परिप्रश्न इत्यादि । सत्यं पूर्वं प्रश्नः पश्चादाख्यानमिति, सूत्रे तु लक्षणवशाद्विपर्यय आश्रित इत्यर्थः । स्वयं तु व्यत्स्यासेन व्याचक्षाणोऽर्थक्रमेण व्याचष्टे, उदाहरति च । कारिकामिति । ण्वुल् । क्रियां कृत्यामिति । ठ्कृञः श चऽ, चकारात्क्यप्च । कृतिमिति । योगविभागात् क्तिन् । गणिमिति । ठ्गण सङ्ख्यानेऽ चुरादिरदन्तः । गणनामिति । युच् । एवमित्यादि । कां पाचिकां, पचाम् । षित्वादङ् । पक्तिः---ठ्स्थागापापचऽ इति क्तिन् । कां याजि याजिकामिम् । कां पाठि पाठिकां पठितिम् । तितुत्रेष्वग्रहादीनामिति वचनादिट् ॥ पर्यायार्हर्णोत्पतिषु ण्वुच् ॥ ३।३।१११ ॥ परिपाटीति । पटेः परिपूर्वात् ठिणजादिभ्यःऽ इति इण् तदन्तात् ठ्कृदिकाराक्तिनःऽ इति ङीष् । तद्योरयतेति । तच्छब्देन धात्वर्थ उच्यते । परस्मै इति । ठ्धारेरुतमर्णःऽ इति सम्प्रदानसंज्ञा । परस्येति तु पाठे परस्य विस्त्वित्यर्थः । धार्यतेउबाध्यते । ग्राममामिकेति । कर्मणि षष्ठयाः समासः । उदपादीति । ठ्चिण् ते पदःऽ इति कर्तरि चिण् । स्वरार्थमिति । ठ्चितःऽ इत्यन्तोदातत्वं यथा स्यात् । ण्वुलि तु ठ्लितिऽ इति प्रत्ययात्पूर्वमुदातं स्यात् ॥ आक्रोशे नञ्यनिः ॥ ३।३।११२ ॥ आक्रेशःउशपनम्, न क्षेपः; स्वभावाद् । अकरणिरित्यादिकं शपनवाक्यम् ॥ कृत्यल्युटो बहुलम् ॥ ३।३।११३ ॥ स्नानीयमिति । करणे कृत्यः । दानीय इति । संप्रदाने अवसेचनादौ कर्मणि ल्युट् । प्रस्कन्दनः, प्रपतन इति । कर्तरि । बहुलग्रहणं न कर्तव्यम्, आरम्भसामर्थ्यादेव कृत्यल्युटो यत्र विहितास्ततोऽन्यत्र भविष्यन्ति, ततो बहुलग्रहणात् कृन्मात्रस्य स्वार्थव्यभिचारः साधितो भवति । ठ्तयोरेव कृत्यक्तखलर्थाःऽ ठ्कर्तरि कृत्ऽ इत्ययं त्वर्थनिर्देशः ठ्बाहुल्याद्भावादिषु भवन्ति, क्वचिदेव त्वन्यत्रऽ इति ज्ञापनार्थः । पादहारक इति । कर्मणि ण्वुलि पञ्चम्यन्तस्य साधनं कृतेति समासः । गलेचोपक इति । ठमूईर्द्धमस्तकात्ऽ इत्यलुक् ॥ नपुंसके भावे क्तः ॥ ३।३।११४ ॥ ननु च ठ्तयोरेव कृत्यक्तखलर्थाःऽ इति नपुंसके भावे क्तः सिद्धः ? सत्यं भूते सिद्धः, कालसामान्ये तु नपुंसके न प्राप्नोतीत्ययमारम्भः । इह सकर्मकेभ्योऽपि यथा भावे घञादयो भवन्ति---ओदनस्य पाकः, ओदनस्य भोजनमिति, तथायमपि क्तः सकर्मकेभ्यो भावे भवति; अत्राकर्मकेभ्य इत्यवचनादिति केचिदाहुः । अथ तदा कर्मणि का विभक्तिर्भवति ? कृद्योगलक्षणा कर्मणि षष्ठी । सा निष्ठायोगे प्रतिषिध्यते ? नपुंसके भावे उपसंख्यानमिति षष्ठी भविष्यति---ओदनस्य भुक्तमुदकस्य पीतमिति । अस्मिन्पक्ष एतदर्थोप्ययमारम्भः, न हि तयारेवेत्यनेन सकर्मकेभ्यो भावे क्तः सिद्ध्यति । अन्ये तु तयोरेवेत्येतदस्यापि क्तस्य विषयव्यवस्थापकं मन्यन्ते । तद्धि ठ्निष्ठाऽ इति विहितस्य क्तस्य भावमर्थं विद्यते, ठकर्मकेभ्यःऽ इति च विषयं व्यवस्थापयति । अस्य तु ठ्भावे क्तःऽ इत्यनुवादेनाकमकेभ्य इति विषयं व्यवस्थापयति ॥ ल्युट् च ॥ ३।३।११५ ॥ योगविभाग उतरार्थ इति । उतरत्र ल्युट एवानुवृत्तिर्यथा स्यात्, क्तस्य मा भूदित्येवमर्थम् ॥ कर्मणि च येन संस्पर्शात्कर्तुः शरीरसुखम् ॥ ३।३।११६ ॥ कर्तुरिति कर्मणि षष्ठी । ठुभयप्राप्तौ कर्मणिऽ इति नियमाद्येनेति कर्तरि तृतीया, तदाह---येन कर्मणा संस्पृश्यमानस्येति । कस्य शरीरसुखमित्यपेक्षायां कर्तुः सन्निधानातस्यैव विज्ञायत इत्याह---कर्तुः शरीरसुखमुत्पद्यत इति । किमिदं शरीरस्य सुखमिति ? ननु शरीरव्यतिरिक्तस्यात्मनो धर्मः सुखम् ? सत्यम्; यस्मिन् सुखे समुत्पन्ने शरीरेऽपि स्वास्थ्यमुत्पद्यते तच्छरीरसुखमित्युच्यते । नित्यसमासार्थं वचनमिति । कथं तर्हि ठुभयप्राप्तौ कर्मणिऽ इत्यत्रोदाहृतम्---साधु खलु पयसः पानं देवदतेनेति ? यत्र प्रतिकूलतया सुखं नोत्पद्यते तत्र तदुदाहृतं द्रष्टव्यम् । पयः पानं सुखमिति । तत्र पानेन सुखं न स्पर्शेन, इदं तूदाहर्तुमुचितम्---चन्दनानुलेपनं सुखमिति ? नैषदोषः; यत्र संस्पर्शनमन्तरेण न सुखमुत्पद्यते तद्विषयोपलक्षणं संस्पर्शग्रहणम् । तत्र स्पर्शनादेव सुखं भवतु तत्पूर्वकात्पानादेर्वा सर्वत्र भविष्यति । तूलिकाया इति । तूलेन निर्मितः कशिपुस्तूलिका, तत्र शयित्वोत्थानं सुखम् । अग्निकुण्डस्योपासनमिति । अत्राग्निकुण्डेनास्पृश्यमानस्यैव सुखम् । गुरोः स्नापनमिति । यद्यप्यत्र गुरुः सुखानुभवस्य कर्ता, तथापि न तदत्राश्रितम्; अव्यभिचारात्, किं तर्हि ? ल्युट् प्रकृतौ यत्कर्तृत्वं तदाश्रितम्, तदाह---स्नापयतेर्न गुरुः कर्तेति । मानसी तु प्रीतिरिति । पुत्त्रेण बलवत्परिष्वज्यमानस्य शरीरतोद एव भवति, मानसी तु प्रीतिः । ननु प्रत्युदाहरणेष्वपि सर्वत्र ल्युट् प्रयुज्यते, तत्कथं प्रत्युदाहरणत्वम् ? तत्राह---सर्वत्रासमासः प्रत्युदाह्रियत इति ॥ करणाधिकरणयोश्च ॥ ३।३।११७ ॥ करणे चाधिकरणे चाभिधेये इति । उपपदे तु करणाधिकरणे न भवतः, करणाधिकरणयोरित्यत एव निर्देशात् । क्रियतेऽनेनेति करणम्, अधिक्रियतेऽस्मिन्नित्वधिकरणमिति करणाधिकरणसाधनौ ह्यएतौ । यद्येवम्, सति निर्देशे प्रत्ययविधानम्, सति च प्रत्ययविधाने निर्देश । इतीतरेतराश्रयः प्राप्नोति ? न; नित्यात्वाच्छब्दानां नास्मान्निर्देशात्करणाधिकरणशब्दौस्तः । इध्मप्रव्रश्चन इति । कर्मणि, षष्ठयाः समासः । दात्रादिरुच्यते । पलाशशातन इति ॥ ठ्शद्लृ शातनेऽ हेतुमण्णिच, ठ्शदेरगतौ तःऽ इति तत्वम् । येन दण्डेन वृक्षस्य पर्णानि पात्यन्ते स एवमुच्यते । गोदोहनी, सक्तुधानी पात्री । योगश्चायं येन नाप्राप्तिन्यायेन घञोऽपवादः । अजपौ स्त्रीप्रत्ययांश्च परत्वाद्वाधते । उक्तं हि ---ठजब्भ्यां स्त्रीखलनाः स्त्रियाः खलनौ विप्रतिषेधेनऽ इति ॥ पुंसि संज्ञायां घः प्रायेण ॥ ३।३।११८ ॥ दन्तच्छद इति । ठ्च्छद आवरणेऽ चुरादिः,ठ्छादेर्घेऽद्व्युपसर्गस्यऽ इति ह्रस्वः । एत्यास्मिन्कुर्वन्ति व्यवहारमित्याकरःउ उत्पत्तिस्थानम् ॥ गोचरसंचरवहव्रजव्यजापणनिगमाश्च ॥ ३।३।११९ ॥ गावश्चरत्यस्मिन्निति । रूढिशब्दोऽयं विषयपर्यायः, तस्य यथाकथंचिन्निर्वचनम् । तथा च गोचरः, इन्द्रिंयगोचर इत्याद्यपि । सञ्चरन्तेऽनेति । ठ्समस्तृतीयायुक्तात्ऽ इत्यात्मनेपदम् । सञ्चरःउमार्गः, वहःउ स्कन्धः, व्रजःउगोष्ठम्, व्यजःउतालवृन्तम्, आपणःउ पण्यस्थानम्, निगमःउच्छन्दः । अयं योगः शक्योऽवक्तुम्, पूर्वेणैवघः सिद्धः । ठ्हलश्चऽ इति घञ् कस्मान्न भवति ? प्रायेणग्रहणं तत्रानुवर्तते, यथा---कषो निकष इत्यत्र घञ् न भवति, एवं गोचरादिष्वपि न भविष्यति ॥ अवे तृस्त्रोर्घञ् ॥ ३।३।१२० ॥ अवतारःउरूपादिः, अवस्तारःउजवनिकादिः । नद्यवतारःउतीर्थम् । प्रायेणग्रहणानुवृतेरसंज्ञायामपि भवतीति । ननु घञ् विधेयः प्रधानम्, तस्य प्रायग्रहणमुपाधिः, ततश्च संज्ञायामेव क्वचिन्न भवतीत्यर्थः स्यात् ? एवं मन्यते---संज्ञायामित्युपाधेरेव प्रायग्रहणमुपाधिः । उपादेरुपाधिर्भवति, विशेषणस्यैव वा विशेषणमिति तु नाश्रीयते; लक्ष्यानुरोधादिति ॥ हलश्च ॥ ३।३।१२१ ॥ लेखःउलेखनी । वेष्टःउ वस्त्रादिः । ठ्विष्ट वेष्टनेऽ । विद्येते ज्ञायेते अनेन धर्माधर्माविति वेदः । अपमृज्यतेऽनेन व्याध्यादिरित्यपामार्गःउ वीरुद्विशेषः । वीमार्गःउ समूहनी, पूर्ववत्कुत्वदीर्घत्वे ॥ अध्यायन्यायोद्यावसंहाराधारावायाश्च ॥ ३।३।१२२ ॥ आवयन्तीति । एत्यावयन्तीत्यर्थः । चकारोऽनुक्तसमुच्चयार्थ इति । ठ्घञ्विधाववहारावायानामुपसंख्यानम्ऽ वार्तिकम् । वृत्तिकारस्तु आधारावायशब्दौ सूत्रे प्रक्षिप्य चकारेणावहारशब्दं साधयति स्म, विचित्रा हि वृतेः कृतिर्वृत्तिकारेण ॥ उदङ्कोऽनुदके ॥ ३।३।१२३ ॥ तैलमुदयच्यते, उद्ध्रियतेऽस्मिन्निति तैलोदकमुचर्ममयं भजनम् ॥ घः कस्मादिति । ठ्पुंसि संज्ञायाम्ऽ इत्यादिना घे प्राप्ते घञ्विहितः, ततश्च तेन मुक्ते घ एव भवितुमर्हतीति भावः । विशेषाभावादिति । ननु घे सति प्रत्ययस्वरः घञि ञित्स्वरेणाद्यौदातः, तत्कथं विशेषाभावः ? स्तत्राह---घञ्यापहीत्यादि ॥ जालमानायः ॥ ३।३।१२४ ॥ ठ्जल घात्येऽ इत्यतः ठ्ज्वलितिकसन्तेभ्यो णःऽ इति णे कृते जालमिति भवति । आनीयन्ते मत्स्यादयोऽनेनेत्यानायः ॥ खनो घ च ॥ ३।३।१२५ ॥ घित्करणं किमर्थम्, यावता न खनः कश्चिदवयवः कुत्वभागस्ति ? ज्ञापनार्थं तु, एतज् ज्ञापयति---अन्येभ्योऽप्ययं भवतीति । तेन भजेर्भगः, पदेः पदम्---करणे घः, ठ्खल सञ्चलनेऽ अधिकरणे घः खल एवमादि सिद्धं भवति । आखनादयः खनित्रवचनाः ॥ ईषद्दुः सुषु कृच्छ्राकृच्छ्रार्थेषु खल् ॥ ३।३।१२६ ॥ तद्दुर इति । ठ्सुदुरोरधिकरणेऽ इतिनिर्देशाद् दुः शब्दो रेफान्तोऽप्यस्ति । साम्भवादिति । दुर एव कृच्छ्रे सम्भवः इतरयोरेवाकृच्छ्रे, अतः सामान्येनोक्तावपि विशेषणस्य विषयविभागो लभ्यत इति भावः । ईषत्कार्यमिति । मनागित्यर्थे ईषच्छब्दः ॥ कर्तृकर्मणेश्च भूकृञोः ॥ कर्तरि कर्मणि चोपपदे इति । प्रत्ययार्थत्वं तु कर्तृकर्मणोर्न भवति; चकारस्योपपदसमुच्चयार्थत्वात् । किं च, यदि तयोः प्रत्ययार्थत्वं स्याद् ईषदादिष्वेवोपपदेषु प्रत्ययः स्यात्, तश्च खित्करणमनर्थंकंस्याद्; अनव्ययस्य हि नुम् विधीयते । तस्मात्सुष्ठूअक्तम्---कर्तरि कर्मणि चोपपदे इति । अत्र चकारः सन्नियोगार्थः क्रियते, यदा कर्तृकर्मणेरीषदादीनां च युगपदुपपदत्वं तदा प्रत्ययो भवति, समासस्तु युगपत्पर्यायेण वा भवति । किं पुनरत्र परमुपपदम् ? कर्तृकर्मणी । कुत एतत् ? खलः खित्करणात् । तद्धिमुमर्थम्, मुमागमश्चानव्ययस्य । तत्रेषदादीनां धातोश्चानन्तर्ये खित्करणमनर्थकंस्यात् । ननु मा भूदीषदो धातोश्चानन्तर्यम्, यत्रैतन्नास्ति---ते प्राग्धातोरिति, यत्र त्वस्ति सुदुरोः, तत्र तयोरेव प्राक् प्रयोगो युक्तः, खित्करणं त्वीषदाढ।ल्म्भवन्तीम् इत्यादौ मुमर्थं स्यात्, सुदुरोरपि ठ्कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणम्ऽ इति तत्रापि मुमर्थं स्यात्, यथा ठुदिकूले रुजिवहोःऽ कूलमुद्रुज इति ? वक्तव्योऽत्र परिहारः---कृत्यल्युटो बहुलमिति । बहुलग्रहणं वाऽत्राश्रयणीयम् । ईषदाढ।ल्म्भवमिति । अनअढ।लेन भवता सुखेनाढ।लेन भूयत इत्यर्थः । ईवदाढ।ल्ङ्कर इति । अनाठ।ले देवदतः सुखेनाढयः क्रियत इत्यर्थः । स्वाढ।लेन भूयत इति । प्रमाद पाठोऽयम् । अत्र हि खलभावात्सुशब्दस्य धातोः प्राक् प्रयोगेण भाव्यम्, तस्मादाढ।लेन सुभूयते इति पाठः ॥ अन्येभ्योऽपि दृश्यते ॥ ३।३।१३० ॥ अन्येभ्योऽपि चातुभ्यो गत्यर्थेभ्य इति । गत्यर्थेभ्यो येऽन्ये धातवस्तेभ्य इत्यर्थः । अथ वा नञोऽत्र प्रश्लेषः---अन्येभ्योऽपि धातुभ्यः, कोऽर्थः ? अगत्यर्थेभ्य इति । भाषायामिति । ठ्च्छन्दसिऽ इत्यधिकारादयमारम्भः । ठ्शासु अनुशिष्टौऽ, ठ्युध संप्रहारेऽ, दृशिर् प्रेक्षणेऽ, ठ्ञिधृषा प्रागलभ्येऽ, ठ्मृष तितिक्षायाम्ऽ॥ वर्तमानसामीप्ये वर्तमानवद्वा ॥ ३।३।१३१ ॥ अत्र केचिद्व्याचक्षते---शमीपस्य भावः सामीप्यम्, भावे ष्यञ्, वर्तमानस्य सामीप्यं वर्तमानसामीप्यम्, षष्ठीसमासः, वर्तमानस्य भूतभविष्यन्तौ प्रति यत्सामीप्यं तत्र वर्तमानवत्प्रत्ययातिदेशोऽनर्थकः, ये हि वर्तमाने प्रत्ययास्ते समीपभूतेऽपि तस्मिन् भवन्त्येव, अतो वर्तमानं प्रति भूतभविष्यतोर्यत्सामीप्यं तदत्र वर्तमानसामीप्यमित्युच्यते, समीपद्वारकाच्च वर्तमानस्य सामीप्येनाभिसम्बन्धात्समासो नानुपपन्नः, यथा---देवदतस्य गुरुकुलमिति । गुणेन नेति प्रतिषेधोऽपि न भवति; यस्माद्गुणशब्दस्य सम्बन्धिशब्दत्वाद् गुणाक्षिप्तस्य गुणिन एव समासनिषेदः । न च वर्तमानः सामीप्यस्य गुणी, भूतभविष्यतोस्तद्गुणित्वात्" इति । तदिदं क्लिष्ट्ंअ व्याख्यानम्, ष्यञ्निर्देशश्च केवलं गौरवायैव स्यादित्यन्यथा व्याचष्टे---समीपमेव सामीप्यमिति । न चास्मिन् पक्षे ष्यञो वैयर्थ्यमित्याह---ष्यञः स्वार्थिकत्वं ज्ञाप्यत इति । स्वार्थेऽपि ष्यञ् भवतीति एतमर्थं ज्ञापयितुं ष्यञा निर्देशः कृतः इत्यर्थः । चातुर्वर्ण्यादिसिद्ध्यर्थमिति । आदिशब्देन चातुराश्रम्यम्, अन्यस्य भावोऽन्यभावः, अन्यभाव एवान्यभाव्यमित्येवमादीनां ग्रहणम् । कदा दएवदत आगतोऽसीति । भूतकालेन प्रश्नः, उदाहरणे भूतकालाभिव्यक्तयेऽयमेष इत्यागमनाविनाभूतं यद्रूपं श्वेतपरिकरबन्धादियुक्तं तद्रूपं प्रतिनिर्दिश्यते । इदानीमागममित्यर्थः । एवं च कदेति प्रश्ने चोतरं सङ्गच्छते, सामीप्यं च द्योतितं भवति । आगममिति । लुङ्, मिपोऽम्भावः, लृदित्वादङ् । कदा देवदत गमिष्यसीति । अत्रापि भविष्यत्कालेन प्रश्न उदाहरणे भविष्यत्कालाभिव्यक्तये । गन्तास्मीति । अनद्यतने लुट् । अत्रापि सामीप्यं यथासम्भवं द्रष्टव्यम् । अथ वत्करणं किमर्थम्, यावताऽसत्यपि तस्मिन् प्रत्ययाधिकाराद्वर्तमाने ये प्रत्यया विहितास्ते वर्तमानसामीप्ये भवन्तीत्येषोऽर्थो लभ्यत एव, नार्थो वत्करणेनात आह---वत्करणं सर्वसादृश्यार्थमिति । असति वत्करणे वर्तमाने ये प्रत्यया इत्यनेन प्रत्ययानां रूपमात्रं लक्ष्येत, ततश्च सङ्करोऽपि स्यात्---अन्यस्माद्धातोर्यो वर्तमाने विहितः प्रत्ययः स धात्वन्तरादपि स्यात् । वत्कणे तु सति सर्वसादृश्यावगतेः सङ्करो न भवति । सर्वसादृश्यावगतेः सङ्करो न भवति । सर्वसादृश्यमेव दर्शयति---येन विशेषणेनेति । आदिशब्देनोपाधेरभिधेयस्य च ग्रहणम् । पचमानो यजमान इति । वर्तमाने पूङ्यजोः शानन्विहितः, सामीप्ये स ताभ्यामेव भवति । अलङ्करिष्णुरिति । तच्छीलादिविशिष्टे कर्तर्यलम्पूर्वात्कृञ् इष्णुज्विहितः, स सामीप्येऽपि तस्मादेव तत्पूर्वादेव तस्मिन्नेवार्थे भवति । परुत् पूर्वस्मिन् संवत्सरे । यो हि मन्यते इत्यादिना प्रतिपतृविशेषं प्रति प्रकरणं प्रत्याचष्टे । कालान्तरगतिस्त्विति । कालान्तरं वर्तमानसमीपो भूतो भविष्यंश्च कालः तस्य या गतिःउ प्रतीतिः सा ठयं गच्छामिऽ इत्यतो वाक्यात् ठ्कदा देवदत गमिष्यसिऽ इत्यस्योतरत्वेन प्रयुक्ताद्भवति, ततः किमित्यत्राह---न चेति । वाक्यार्थप्रतिपतारमिति । वाक्यार्थोऽयं न पदार्थ इति यः प्रतिपद्यते स वाक्यार्थप्रतिपता, कर्मणि षष्ठयाः समासः । ठ्कर्तरि चऽ इति प्रतिषेधस्त्वनित्यः; ठ्जनिकर्तुःऽ इति निर्देशात्, शेषषष्ठ।ल वा समासः । प्रकरणमिति । इत आरभ्याष्टडसूत्री प्रकरणशब्देनोच्यते । तथा च श्वः करिष्यतीत्यादि । यदि वाक्यगम्योऽपि कालः पदसस्कार उपयुज्यते, तदा नैवमाद्यौपपद्यते---अनद्यतने लुटैव भवितव्यमिति कृत्वा ॥ आशंसायां भूतवच्च ॥ ३।३।१३२ ॥ तस्याश्च भविष्यत्कालो विषय इति । भविष्यत्कालोऽस्येति भविष्यत्कालो धात्वर्थः, स आशंसाविषयः, सा तु वर्तमानकालैव । एवं च सामर्थ्याद्भविष्याद्विषयोऽयमतिदेशो विज्ञायत इत्याह---भविष्यत्काल इति । आशंसायां गम्यमानायामिति । आशंस्यमानक्रियावचनाद्धातोरित्यर्थः । उपाध्याश्चेदित्यादिकमांशसावाक्यम्, तत्रोपाध्यायागमनं व्याकरणाध्ययनं चोभ्यमाशंस्यमानमित्युभयत्रापि प्रत्ययः । अध्यगीष्महीति । ठ्विभाषा लुङ्लृटोःऽ इति इङेः गाङदेशः, ठ्गाङ्कुटादिभ्यःऽ इति सिचो ङ्त्विम्, घुमास्थादिसूत्रेणेत्वम् । सामान्यातिदेशे इति । अत्र सूत्रे भूतशब्देन भूतमात्रमुच्यते, न तु तद्विशेषोऽनद्यतनः । सामान्यातिदेशे च विशेषो नातिदिश्यते, व्राह्मणवदस्मिन्क्षत्रिये वतितव्यमित्युक्ते ब्राह्मणमात्रप्रयुक्तं कार्यंगम्यते, न तु माठरादिविशेषप्रत्युक्तम्, तेनानद्यतनप्रयुक्तौ लङ्लिटौ न भवतः । इहानिष्पन्ने निष्पन्नशब्दः शिष्यः शासितव्यः, देवश्चेद्वृष्टो निष्पन्नाः शालय इति वस्तुस्वरूपकथनमेतत्, नात्राशंसा, तेन सूत्रेणाप्राप्तिः ? नैष दोषः; अप्शालिबीजसंयोग एव निष्पतिः शालीनां तत्रैव निष्पतेर्वृतेः । अत एव लोको भविष्यद्वाचिनः शब्दस्य प्रयोगं न मृष्यति । देवश्चेद्वृष्टः सम्पत्स्यन्ते शालय इति उक्ते, वक्तारो भवन्ति---मैवं वोचः, सम्पन्नाः शालय इति ब्रूहीति, हेतुभूतकालसम्प्रेक्षितत्वात्सिद्धम् । हेतुभूतस्य वर्षादेर्यः कालः स एव कार्यस्य सम्प्रेक्षितः स एव कार्यस्यापि कालो व्यवस्थाप्यते कारणान्तरापेक्षाभावप्रतिपादनाय । ततश्च कारणस्यैव कार्यरूपेण विवक्षितत्वादभेदाध्यवसायात्कारणस्य भूतत्वात्कार्यस्यापि भूतत्वं सिद्धमित्यर्थः । इह तु कश्चिदध्वानं जिगमिषुः पश्यति अमुष्मिन्नवकाशे कूपो भविष्यतीति, अनद्यतने कूपो भवितेति समासाद्य कूपोऽस्तीति, अतिक्रम्यकूपोऽभूदिति, अतिक्रम्योषितत्वात् कूप आसीदिति, अतिक्रम्याषित्वा विस्मृत्य कूपो बभूवेत; तदत्र सर्वत्र कूपसताया वतेमानत्वं भूतभविष्यद्रूपत्वमिति सर्वत्र लडेव प्राप्नोति, लुङदयस्तु वक्तव्याः ? तदाह---ठस्त्यर्थानां भवन्त्यर्थे सर्वा विभक्तयः कर्तुविद्यमानार्थत्वात्ऽ इति । भवन्तीशब्दो लटः पूर्वाचार्याणां संज्ञा । यदि वचनेन वर्तमान एव लुङदयो विधीयन्ते कूपोऽभूदिति प्रयोक्तव्ये कूपो भविष्यतीत्यपि प्रयुज्येत, तस्माद्यथास्वमेता विभक्तयः कालेषु प्रयुज्यन्ते । कथम् ? इन्द्रियव्यापारस्य कालस्य कूपसतां प्रति भेदकत्वेनाश्रयणातस्या अपि तत्कालत्वम्; ततश्चेन्द्रियव्यापारे भाविनि भविष्याद्विभक्तिः, वर्तमाने वर्तमानविभक्तिः, भूते भूतविभक्तिरिति सिद्धमिष्टम् । उक्तं च--- सतामिन्द्रियसम्बन्धात्सैव सता विशेष्यते । भेदेन व्यवहारो हि वस्त्वन्तरनिबन्धनः ॥ अस्तित्वं वस्तुमात्रस्य बुद्ध्या तु परिगृह्यते । यः समासादनाद्भेवः स तत्र न विवक्षितः ॥ इति ॥ क्षिप्रवचने लृट् ॥ ३।३।१३३ ॥ वचनग्रहणं पर्यायार्थमिति । असति तस्मिन् ठ्स्वं रूपं शब्दस्यऽ इति वचनात्क्षिप्रशब्द एवोपपदे स्यात्, सति तु पर्यायेष्वपि भवति । ननु भूतवच्चेत्यस्यायमपवादः, स च भविष्यत्कालविषयस्तत्र नेत्येव वक्तव्यम्, तस्मिन्प्रतिषिद्धे ठ्लृट् शेषे चऽ इत्यनेनैव लृट् सिद्धः, तत्किं लृड्ग्रहणेन ? तत्राह---नेति वक्तव्ये इत्यादि । नेत्युच्यमाने ठ्लृट् शेषे चऽ इत्यनेन लृड् भवन्ननद्यतने न स्यात्; लुटा बाधितत्वाद् । अतो लुड्विषयोऽपि यथा स्यादिति लृड्ग्रहणं क्रियत इत्यर्थः ॥ आशंसावचने लिङ् ॥ ३।३।१३४ ॥ अधीयीयेति । इङे लिङ्ः ठिचोऽत्ऽ, सीयुट्, लिङ्ः सलोपः, धातोरियङ्, उपसर्गेण सह सवर्णदीर्घत्वम् । क्षिप्रवचने लृट्, आशंसावचने लिङ् विप्रतिषेधेन । क्षिप्रवचने लृडित्यस्यावकाशः---क्षिप्रमध्येष्यामह इति, आशंसावचने लिङ्त्यिस्यावकाशः---आशंसे युक्तोऽधीयीयेति; इहोभयं प्राप्नोति---आशंसे क्षिप्रमधीयीयेति, लिङ् भवति विप्रतिषेधेन । तदेतदुदाहरणे दर्शयति---आशंसे क्षिप्रमधीयीयेति ॥ नानद्यतनवत्क्रियाप्रबन्धसामीप्ययोः ॥ ३।३।१३५ ॥ कालानां सामीप्यमिति । ठ्वर्तमानसामीप्येऽ इत्यारभ्य कालप्रायत्वादस्य प्रकरणस्य सामान्येनोक्तावपि कालसम्बन्धिन एव सामीप्यस्याश्रयणमिति भावः । लुल्यजातीयेनेति । तत्रैव लोके सामीप्यव्यवहारादिति भावः । अदादिति । ठ्गातिस्थाऽ इत्यादिना सिचो लुक् । अध्यापिपदिति । इङे णिच्, ठ्क्रीङ्जीनां णौऽ इत्यात्वम्, ठर्तिह्रीऽ इत्यादिना पुक्, लुङ् चिङ् ठिजादेर्द्वितीयस्यऽ इति पिशब्दस्य द्विर्वचनम्, णिलोपः । येयं पौर्णमास्यतिक्रान्तेति । पोर्णमास्यन्तरेणाव्यवहिता या पौर्णमासी तामधिकृत्येदमुच्यते । सापि यद्यप्यमावास्ययान्याभिश्च तिथिभिर्व्यवहिता; तथापि तुल्यजातीयेन पोर्णमास्याख्येनाव्यहितत्वात्समीप्यं नातिवर्तते । आधितेति । दधातेराङ्पूर्वस्य ठ्स्थाघ्वोरिच्चऽ इतीत्वम्, ठ्ह्रस्वादङ्गात्ऽ इति सिचो लोपः । अयष्टेति । ठ्झलो झलिऽ इति सिचो लोपः, व्रश्चादिसूत्रेण षत्वम् । अदितेति । ददाते रूपं पूर्ववत् । यक्ष्यते इति । व्रश्चादिषत्वे ठ्षढोः कः सिऽ इति कत्वम्, सर्वत्र ठ्स्वरितञितःऽ इत्यात्मनेपदम् । इह क्रियाप्रबन्धसामीप्ययोरद्यतनप्रत्ययौ लुङ्लृटौ इष्येते, नानद्यतनप्रत्ययौ लङ्लृटौ, तौ च लुङ्लृटौ ठद्तनवत् क्रियाप्रबन्धसामीप्ययोःऽ इत्यच्यमानेऽपि सिद्ध्यत एव, किमर्थं द्वौ प्रतिषेधावुच्येते ? इत्यत आह---द्वौ प्रतिषेधाविति । यथाप्राप्तस्येति । यथा येन प्रकारेण प्राप्तं प्राप्तिर्यस्येति बहुव्रीहिः । अव्ययीभावे त्वम्भावः स्यात् । इहाद्यतनवचने सति विधानमिदं विज्ञायते, तत्र लड्विधिप्रसङ्गे पूर्वविधाने ह्यद्यतनसंशब्दनेन विहितस्य कस्यचित्प्रत्ययस्याभावादद्यतने दृष्टस्यातिदेशः, लट् चाप्यद्यतने दृष्टस्तेन तस्यापि भूतभविष्यतोः प्रसङ्गः, लुङ्लृटोश्चायथाकालं विधिः प्रसज्येत---लुङे विषये लृट्, लृटश्च विषये लुङ् । ननु च वत्करणात्सादृश्यार्थात्सङ्करो न भविष्यति ? नैतदस्ति; इह लुङ्लृटौ भूतभविष्यतोरद्यतने च दृष्टौ, तत्राद्यतनवदित्युच्यमाने तस्मिन्नेवाद्यतने तयोरतिदेशोऽनथक इति कश्चिदंशो हातव्यः । तत्राद्यतनांशत्यागेनातिदेशे विज्ञायमाने भूतानद्यतने लुङ्, भविष्यदनद्यतने लृडिति सिद्धम् । यदा तु भूतभविष्यदशपरित्यागेनातिदेशः; तदा भूताद्यतने दृष्टस्य भविष्यदद्यतने, भविष्यदनद्यतने च दृष्टस्य भूताद्यतने विधानमिति सङ्करः स्यादेव, लट् चोभयत्र प्रसज्येत । वत्करणंतु यस्माद्धातोर्यस्मिन्नुपाधौ यः प्रत्ययो विहितः स तस्मादेव तस्मिन्नुपाधावेव यथा स्यादित्येवमर्थं स्यात् । तेन---ठ्पूङ्यजोः शानन्ऽ इत्यादौ कालव्यत्यास एव भवति, न धात्वादिव्यत्यासः । यदि पुनरयं द्वौ प्रतिषेधौ कृत्वा तूष्णीमास्ते, स्वैरेव विधायकैर्लडादय उत्सर्गाः स्वेषु स्वेषु कालेषु अपवादविनिर्मुक्तेषु भवन्तीति न सङ्करप्रसङ्गः । अतो यथाप्राप्तस्याभ्यनुज्ञानान्नायं वतिः; किं तर्हि ? मतुप्---अनद्यतनमस्यास्तीत्यनद्यतनवत्, सामान्यविवक्ष्यां नपुंसकत्वम् । अनद्यतनवत्प्रत्ययविधिर्न भवतीति । अस्याप्यनद्यतनवांश्चासौ प्रत्ययश्च तस्य विधिरित्यर्थ इति सर्वथा यदनद्यतने विहितं तत्सर्वं न भवति । वतौ ठ्लङ्लुटौ विहितौ तयोः प्रतिषेधःऽ इत्युपलक्षणम् ॥ भविष्यति मर्यादावचनेऽवरस्मिन् ॥ ३।३।१३६ ॥ अक्रियाप्रबन्धार्थमसामीप्यार्थं च वचनमिति । ठ्क्रियाप्रबन्धसामीप्ययोःऽ इति नानुवर्तते, तदनुवृतौ हि नियमार्थमेतत् स्याद्---भविष्यत्येव मर्यादावचन एवावरस्मिन्नेवेति वा । विधिनियमसम्भवे च विधिरेव ज्यायानिति भावः । मर्यादावचने सतीति । मर्यादोक्तौ सत्यामित्यर्थः । वचनग्रहणमभिविध्यर्थम्, वचनग्रहणे हि सति मर्यादामात्रवचने मर्यादावचन इत्यर्थो भवति । सैव हि मर्यादा यदा कार्येणाभिसम्बद्ध्यते तदा ठभिविधिःऽ इत्युच्यते । अवरस्मिन्प्रविभाग इति । अपरभागविषयश्चेद्धात्वर्थो भवतीत्यर्थः, अपरस्मिन्निति वचनाद्यस्य मर्यादा तस्य द्वौ भागौ कल्पयितव्याविति गम्यते । गन्तव्य इति । अध्वगमनस्य भविष्यत्वं दर्शयÄस्तत्र कर्तव्यस्य भोजनादेर्भविष्यत्वं दर्शयति । तस्य यदपरमिति । अनेनाध्वनो विभागो द्विरित्यनेनापि क्रियाप्रबन्धाभावो द्विरेव, नानवरतमिति । योऽयमध्वागत इति । भूतकालतां दर्शयति । अध्यैमहीति । इङे लङ्, शपो लुक्, ठाडजादीनाम्ऽ, ठाटश्चऽ। अभुञ्ज्महीति । ठ्भुजोऽनवनेऽ इत्यात्मनेपदम्, ठ्श्नसोरल्लोपःऽ, चुत्वम् । तत्र उतरसूत्रे विशेषं वक्ष्यतीति । अनहोरात्राणामित्यनेन ॥ कालविभागौ चानहोरात्रणम् ॥ ३।३।१३७ ॥ कालमर्यादाविभागे सतीति । मर्यादा च विभागश्च मर्यादाविभागम्---समाहारद्वन्द्वः, तेन कालशब्दस्य षष्टीसमासः । न चेदहोरात्रसम्बन्धी विभाग इति । एतेनानहोरात्राणामिति सम्बन्धसामान्ये षष्ठी, न ठ्कर्तृकर्मणोःऽ इति दर्शयति । एवं सति यदिष्ट्ंअ सिद्धं तद्दर्शयति---तैरिति । तैरन्यस्य कालस्य विभागोऽन्येन वा तेषां तैरेव वा सर्वथा प्रतिषेधः । ननु पूर्वसूत्रे एवानहोरात्राणामिति वक्तव्यम्, एवमपि हि सामर्थ्यात्कालविभागस्यैव प्रतिषेधो विज्ञायते, न हि देशविभागस्याहोरात्रैः सम्बन्धोऽस्ति, तत्किं योगविभागेन ? तत्राह---योगविभाग उतरार्थ इति । उतरसूत्रे कालविभाग एव विभाषा यथा स्याद्, देशविभागे मा भूदिति । आग्रहायणीउमार्गशीर्षी । त्रिविधमुदाहरणमिति । प्रथमं तैविभागस्य, द्वितीयं तेषां विभागस्य, तृतीयं तैस्तेषामहोरात्रसंस्पर्शे उ अहोरात्रगन्धे, एतच्च प्रसज्यप्रतिषेधसमाश्रयणाल्लभ्यते । दर्शितश्च प्रसज्यप्रतिषेधः ठ्न चेदहोरात्रसम्बन्धी विभागःऽ इति; अन्यथा ठनहोरात्रसम्बन्धिनि विभागःऽ इत्यवक्ष्यत् ॥ लिङ्निमिते लृङ् क्रियातिपतौ ॥ ३।३।१३९ ॥ कुतश्चिद्वैगुण्यादिति । प्रतिबन्धकोदयः सामग्रीवैकल्यं वा वैगुण्यम् । दक्षिणेन मार्गेण न शकट्ंअ पर्याभविष्यदिति । तस्यमार्गस्य ऋजुत्वात्स्थाण्वादेरभावाच्च । पर्याभवनमुभङ्गः । कमलकःउकश्चित्पुरुषः, स शकटादीनां विषमेष्वपि स्थानेषु मुसलाद्यवष्टम्भयोगेन नेता । अमोक्ष्यत भवान् घृतेनेति । घृतमात्रस्यातिपतौ भोजनक्रियाभिनिर्वृतावपि लृङ् भवति; कारणभेदाद्विभिन्नैव भोजनक्रिया, ततो घृतातिपतौ घृतभोजनक्रियाप्यतिपन्नैव । भविष्यत्कालविषयमेतद्वचनमिति । कथं तर्हि भविष्यतोऽर्थस्येदानीमवगतिस्तत्राह---भविष्यदपर्याभवनमिति । हेतुमत् तत्र हेतुभूतमिति । एतेन लिङ्निमितं हेतुहेतुमद्भावं दर्शयति । लिङ्गेन बुध्वेति । असकृत्प्राक्कमलकाह्वाने सति शकटापर्याभवनं दृष्ट्वा भाविनोऽपि कमलकाह्वानस्य शकटापर्याभवनं दृष्ट्वा भाविनोऽपि कमलकाह्वानस्य शकटापर्याभवनहेतुभूत्वं लिङ्गेन बुध्वा । लिङ्गं पुनः कमलकाह्वानत्वम् । ठ्भविष्यत्कमलकाह्वानमपि शकटापर्याभवनस्य हेतुः कमलकाह्वानत्वात्पूर्वकमलकाह्वानवत्ऽ इति एवं बुध्वेत्यर्थः । तदतपतिमिति । प्रकरणाद् द्विचनान्तस्य समासः, तयोराह्वानापर्याभवनयोरतिपतिमित्यर्थः, तत्र कमलकस्य देशान्तरगमनादिना तदाह्वानस्यातिपतिरवसीयते; तदतिपत्यैव च पर्याभवनस्याप्यति पतिः, शकटस्य गुरुतरभारारोपणादिना । भविष्यत्कालयोरतिपतिरितो वाक्याद् गम्यति इति । नेदानीं कमलक आह्वातुं शक्यते, तच्च शकटमपि पर्याभविष्यत्येवेत्यवगमात् ॥ भूते च ॥ ३।३।१४० ॥ अन्नार्थी चङ्क्रम्यमाण इति । भोक्तुकामः क्षुधा कुटिलं गच्छन्नित्यर्थः । अपरश्च द्विजो ब्राह्मणार्थीति । चङ्क्रम्यमाणो दृष्ट इत्यनुषड्गः । ब्राह्मणार्थो भोक्तारं मार्गयमाण इत्यर्थः । सोऽपि संभ्रमात्कुटिलं गच्छति । ततः किमित्यत आह---यदीत्यादि । यदि दृष्टोऽभविष्यदिति क्वचित्पठ।ल्ते ततु ठ्यदायद्योरुपसंख्यानम्ऽ इति यदिलिङ्निमितत्वात् लृङ्, किं तूतरसूत्रेण विकल्पितः । दृष्ट इत्येव तु पाठो युक्तः । न तु भुक्तवानिति । क्रियातिपतिं दर्शयति । तत्र हेतुः---अन्येन पथा स गत इति ॥ वोताप्योः ॥ ३।३।१४१ ॥ वा आ उताप्योरिति आङ्ः प्रश्लेषं दर्शयति । तत्राङ् उताप्योरित्यनेन सम्बन्धादल्पापेक्षत्वेनान्तरङ्गत्वाद्वा पूर्वं परेण सहाद्गुणे कृते पूर्वं प्रत्यन्तवद्भावाद् ठोमाङेश्चऽ इति पररूपम्, यथा---आऔउढा उ ओढा, अद्य ओढा अद्योढा, कदोढेअति । अत्रोताप्योः समर्थयोरिति यत्सप्तम्यन्तं तदवधित्वेनापादीयते, तत्र प्रकृतिवदनुकरणं भवतीत्यनुकरणस्याप्यप्रत्यय इति प्रतिषेधेनाप्रातिपदिकत्वादाङेऽपि योगे पञ्चम्यभावः । मर्यादायामाङिति । एतच्च विभाषा गर्हाप्रकृतौ प्रागुतापिभ्यामिति स्मरणादवसीयते । गर्हाप्रकृतौ गर्हाविशिष्टे प्रकृत्यर्थे । गर्हाग्रहणमनवक्लृप्त्यादेरपि लिङ्निमितस्योपलक्षणम् । ठ्विभाषा कथमि लिङ्चऽ इति लिङ्निमिताभावादुतरसूत्रातिक्रमः ॥ गर्हायां लडपिजात्वोः ॥ ३।३।१४२ ॥ कालसामनये न प्राप्नोतीति । विधीयते इत्यनेन भविष्यतीत्यादेः कालविशेषवाचिनो निवृत्तिं सूचयन् कालसामान्ये विधिरिति दर्शयति । कालविशेषविहितांश्चेत्यादि । भाष्ये त्वेष निर्णयः---ठ्गर्हायां लड्विधानानर्थक्यम्, क्रियासमाप्तेरवविवक्षितत्वात् । ताच्छील्यप्रतिपादनेनात्र गर्हा, ततश्च यदनेन क्रियते तत्सर्वं वृषलयाजनार्थमिति सर्वदासौ वृषलं याजयन्नेव भवति, ततश्च क्रियायाः समाप्तिरविवक्षितेति ठ्वर्तमाने लट्ऽ इत्येव सिद्धः । यद्येवम्, शतृशानचावपि प्राप्नुतः, दृश्येते च शतृशानचावपि मां याजयन्तं पश्यत, अपि मां याजमानं पश्येति, प्रत्युत सूत्रारम्भे सत्यवर्तमानकालविहितत्वाल्लुटस्तौ न न प्राप्नुत इति दोषवानेन सूत्रारम्भःऽ इति ॥ विभाषा कथमि लिङ् च ॥ ३।३।१४३ ॥ विभाषाग्रहणमित्यादि । स्वस्मिन् स्वस्मिन् काले ये लृडादयो विहितास्तेषां च बाधा मा भूदित्येवमर्थमित्यर्थः । यद्येवम्, विभाषाग्रहणादेव लडपि भविष्यति, नार्थश्चकारेण ? सत्यम्; वर्तमाने सिद्ध्यति, कालान्तरे तु न सिद्ध्यति तस्मातदर्थश्चकारेण लटः गमुच्चयः । अत्र लिङ्निमितमस्तीति । कथमीत्येतद्गर्हा च ॥ किंवृते लिङ्लृटौ ॥ ३।३।१४४ ॥ ठ्किंवृते लिप्सायाम्ऽ इत्यत्र किंवृतं व्याख्यातम् । इह किंवृते लृट् चेति वक्तव्यम्, चकारात्प्रकृतो लिङ् भविष्यति, नार्थो लिङ्ग्रहणेन ? तत्राह---लिङ्ग्रहणमिति । चकारेण लिङ् इव लटोऽपि समुच्चयः स्यात्; तस्यापि प्रकृत्वात्, तस्मात् तन्निवृत्यर्थमिति भावः ॥ अनवक्लृप्त्यमर्षयोरकिंवृतेऽपि ॥ ३।३।१४५ ॥ अपिग्रहणं शक्यमकर्तुम्, कथम् ? यथा ठुपकादिभ्योऽन्यरस्यामद्वन्द्वेऽ इत्यत्राद्वन्द्वग्रहणं द्वन्द्वाधिकारनिवृत्यर्थम्, तथेहाप्यकिंवृतग्रहणं किंवृताधिकारनिवृत्यर्थम्, अस्मिन्नवृते किंवृते चाकिंवृते च प्रत्ययद्वयं भविष्यति, तत्क्रियते विस्पष्टार्थम् । तथाऽकिंवृत इत्यपि विस्पष्टार्थमेव, अस्वरितत्वादेव ठ्किंवृतेऽ इत्यस्याननुवृतेरविशेषेण प्रत्ययद्वयं भविष्यति । आह च---किंवृतस्यानधिकारादुतरत्राकिंवृतग्रहणानर्थक्यमिति । नु चाकिंवृतग्रहणेन किंवृतादन्यत्पदं पर्युदासाश्रयणेन गृह्यते, तस्योपपदसज्ञां वक्ष्यामीत्यकिंवृतग्रहणं स्यात् । किं पुनरुपपदसंज्ञायाः प्रयोजनम् ? समासः ? न; अतिङिति प्रतिषेधात् । यदा तर्हि लृटः सत्संज्ञकौ भवतस्तदा समासो यथा स्यात्, नास्य लृटः सत्संज्ञकौ भवतः, ठ्लटः सद्वाऽ इत्यत्र भविष्यतीत्यधिकाराद्भविष्यतीत्येवं विहितस्य लृटो ग्रहणम् । अयं तु कालमात्रे विधानाद्यद्यपि भवति, तथापि भविष्यदधिकारविहितो न भवतीति नास्य शतृशानचौ भवतः ॥ किंकिलास्त्यर्थेषु लृट् ॥ ३।३।१४६ ॥ समुदाय उपपदमिति । केवलस्य किंशब्दस्यानवक्लृप्त्यमर्षयोर्वृत्यसम्भवात् । लिङेऽपवाद इति । पूर्वेणाप्रप्तस्य । अस्तितामेत्यादि । भवत्कर्तृकं वृषलयाजनमस्तीत्यर्थः । उक्तं हि ठ्पच्यादयः क्रिया भवतिक्रियायाः कर्त्र्यो भवन्तिऽ इति ॥ जातुयदोर्लिङ् ॥ ३।३।१४७ ॥ लृटोऽपवाद इति । अनवक्लृप्त्यादिसूत्रेण लिङ्लृटोर्द्वयोरपि प्राप्तयोर्लिणेóव यथा स्यात्, लृण्मा भूदित्यवमर्थ इत्यर्थः । यदायद्योरुपसङ्ख्यानमिति । सूत्रवत् लृटोऽपवादः ॥ यच्चयत्रयोः ॥ ३।३।१४८ ॥ लृट एवापवाद इति । पूर्ववत्प्राप्तस्य । एवकारः पौनर्वचनिकः । योगविभाग उतरार्थ इति । उतरत्र यच्चयत्रयोरेवानुवृत्तिर्यथा स्यात्, जातुयदोर्माभूदिति । इहानवक्लृप्त्यमर्षौ द्वौ, यच्चयत्रयोरित्युपपदे अपि द्वे एव, ततश्च यथासङ्ख्यं प्राप्नोति ? तत्राह---यथासङ्ख्यमिह नेष्यते इति । पूर्ववल्लक्षणव्यभिचारचिह्नात् बह्वचः पूर्वनिपातात् ॥ गर्हायां च ॥ ३।३।१४९ ॥ दरिद्रश्चेद्वृषलयाजनमपि युक्तं स्यात्, तत उक्तम्---ऋद्धैति । ऋद्धस्याप्युपभोगबाहुल्येन सम्भाव्येत, अत उक्तम्---वृद्ध इति । वृद्धस्यापि जातिमात्रब्राह्मणस्य युक्तं स्यात्, अत उक्तम्---सद्ब्राह्मण इति । सद्वंशजः सदाचारश्चेत्यर्थतो गर्हामर्ह इति ॥ शेषे लृजयदौ ॥ ३।३।१५१ ॥ यच्चयत्राभ्यामिति । चित्रीकरणापेक्षस्तु शेषो न भवति, तस्येह स्वरितत्वेनाधिकारात् । आश्चर्यं यदि स भुञ्जीतेति । अत्रानवक्लृप्तिराश्चर्यं च द्वयं गम्यते, तत्राश्चर्यनिमिते लृटि प्रतिषिद्धे जातुयदोर्लिङ्विधाने यदायद्योरुपसङ्ख्यानमित्यनवक्लृप्तौ लिङ् । भाष्ये तु शम्भावनार्थो यदिशब्दः प्रयुज्यते, ततश्च सम्भावनमत्र तात्पर्यार्थः, न चित्रीकरणम्; ततश्चायदाविति न वक्तव्यम्, लिङपि ठ्सम्भावनेऽलम्ऽ इत्यनेनैव" इत्युक्तम् । यदाह---चित्रीकरणे यदिप्रतिपेधानर्थक्यमर्थान्यत्वादिति ॥ उताप्योः समर्थयोर्लिङ् ॥ ३।३।१५२ ॥ समर्थयोरिति । सूत्रे समशब्दस्य निपातनाद् ठतोलोपःऽ शकन्ध्वादित्वाद्वा पररूपत्वम् । संशब्द एव वा वृतौ समशब्देन समानार्थः, यथा---ठ्प्रोपाभ्यां समर्थाभ्याम्ऽ, यथा---मुखसंमुखस्येत्यत्रेति भावः । प्रश्नः प्रच्छादनं च गम्यत इति । आद्ये प्रश्नो गम्यते, द्वितीये प्रच्छादनम् । ननु चापिशब्दोऽपि प्रश्ने दृष्टः---ठप्यग्रणीर्मन्त्रकृतृमृषीणाम्ऽ अपि प्रसन्नं हरिणेषु ते मनःऽ इति ततश्च प्रश्नेऽपि समानार्थत्वमनयोरिति उत दण्जः पतिष्यतीति प्रत्युदाहरणानुपपतिः ? एवं मन्यते---अप्यग्रणीरित्यादौ प्रष्टव्यमर्थान्तरमपेक्ष्य समुच्चयार्थ एवापिशब्दः, प्रश्नस्त्वर्थः प्रकरणादिना गम्यते; तेन नानयोः प्रश्ने समानार्थत्वमिति ॥ कामप्रवेदनेऽकच्चिति ॥ ३।३।१५३ ॥ स्वाभिप्रायाविष्करणं कामप्रवेदनमिति । एतदेवावयवार्थप्रकाशनेनोपपादययति---काम इच्छेति । माराविद त्वां पृच्छामीति । माराविशब्दं ददातीति माराविदः, मारावि रवो माकारीत्यर्थः । संज्ञैषा शुकविशेषस्य, तं हस्ते निधाय कश्चिल्लालयति । पार्वत्यपि शुकस्यैव काचिदिष्टा । प्रायेण तु मातापितरौ पृच्छामीति पाठः, तत्र तदुपक्रमं वाक्यम्---मातापितरौ पृच्छामि । किमत्र पृच्छयते ? कच्चिज्जीवति ते मातेति ॥ संम्भावनेऽलमिति चेत्सिद्धाप्रयोगे ॥ ३।३।१५४ ॥ योग्यताध्यवसानमिति । योग्यताया निश्चयः । एतदेव स्फोरयति---शक्तिश्रद्धानमिति । शक्तिःउ सामर्थ्यम्, श्रद्धीयते विषयीक्रियते येन ज्ञानेन ततथोक्तं तदिति । सम्भावनपर्याप्त्येत्येतेन पर्याप्ताविहालंशब्दः, न भूषणादावित्याह---यद्येवं सम्भावन इति । सप्तम्यन्तस्य कथमलमिति चेदित्येद्विशेषणमुपपद्यत इत्याशङ्क्य विपरिणामेन व्याचष्टे---तच्चेत्सम्भावनमिति । सम्भावनमलमिति चावर्तते---सम्भावने लिङ् भवति तच्चेत्सम्भावनमलमात्मकं भवतीति । एवं पर्यवसानेनालमा सम्बन्धः, अतोऽत्रेतिशब्दो न सम्बन्धनीयः । ततोऽलमित्यस्मिन् सिद्धाप्रयोगे सतीत्यन्वयः । अत्र चेच्छब्दो न सम्बन्धनीयः; सप्तम्यन्तेन सम्बन्धासम्भवात् । वृतौ तु वस्तुमात्रं दर्शितम्---सिद्धश्चेदलमोऽप्रयोग इति, न पुनरत्र चेच्छब्दस्यान्वयः । पर्याप्तमिति । स्वकार्यनिर्वर्तने समर्थम्, स्वकार्यं पुनस्तस्याविपरीतमविषयपरिच्छेदः, तद्दर्शयति---अवितथमिति । अतथाभूतार्थविषयत्वं ज्ञानस्य वैतथ्यम्, यथा---शुक्तिकायां रजतज्ञानस्य; तद्विपरीतमवितथम्, तथाभूतार्थविषयमित्यर्थः । तदीदृशसम्भावनोपाधिक इति । तदिति वाक्योपन्यासे ईदृशमलमर्थविशिष्ट्ंअ सम्भावनमुपाधिर्यस्येतै त्रिपदो बहुव्रीहिः । क्वचितुईदृशे सम्भावनोपाधक इत्यसमासः पठ।ल्ते, तत्रेदृश इति न सङ्गच्छते; न हि धात्वर्थस्य किञ्चिद्रूपं प्राङ्निदर्शितं यदीदृशमित्युच्येत । सर्वलकाराणमपवाद इति । सम्भावनस्य भविष्यद्विषयत्वाद्भविष्यद्विषयाणां सर्वलकाराणामित्यर्थः । अपि पर्वतं शिरसा भिन्द्यादिति । अत्र यत्पर्वतभेदविषयं सामर्थ्यं पुंसः सम्भाव्यते तद्यस्य भीमसेनादेर्विद्यत एव, तत्र सम्भावनमवितथमिति तद्विषयमुदाहरणम् । अपि द्रोणपाक भुञ्जीतेति । यत्पक्वस्य भोजनं तदेव पाकस्य भोजनम्, कर्मसाधनो वा पाकशब्दः । विदेशस्थायीउदेशान्तरगतः । प्रायेणगमिष्यतीति । प्रायिकस्वदक्षिणाक्षिस्पन्दनादेर्लिङ्गाभासादागमनं सम्भाव्य तत एतत्प्रयुज्यते, ततथ्यमपि भवति, विपरीतमपि भवति । अलं देवदत इति । पर्याप्तं हनिष्यतीत्यर्थः । भाविविषयत्वात् सम्भावनस्य सर्वत्र लृट् प्रत्युदाहृतः । अपरा व्याख्या---सम्भावनं भाविवस्तूत्प्रेक्षणम्, असति विरुद्धप्रत्ययोपनिपाते भवितव्यमनेनेति ज्ञानम्, यथा प्रत्युदाहरणे---प्रायेणागमिष्यतीति, तस्य विशेषणमलमिति चेदिति, अलमिति चेत् तत्सम्भावनमिति विपरिणामेनान्वयः । तत्र यथा घट इति ज्ञानं पट इति ज्ञानमित्युक्ते ज्ञानस्य विषयनिर्देशः प्रतीयते, तथेहापि सम्भावनाख्यस्य ज्ञानस्य विषयनिर्देशोऽयमलमिति चेत् तत्सम्भावनमलमर्थविषयं चेदित्यर्थः । अलमर्थश्च पर्याप्तिर्न भूषणादिः, धातोश्च प्रत्ययविधानातदर्थगोचरमेव सामर्थ्यं गृह्यते । इमं धात्वर्थमनुष्ठातुं समर्थ इत्येवं रूपं चेत् तत्सम्भावनमित्यर्थः । सिद्धाप्रयोगे कस्मिन् सन्निधानादलंशब्दः । एवं तावत्सूत्राक्षराणां निर्वाहः । वृतेस्तु---यत्क्रियासु योग्यताध्यवसानमिति तदिह सूत्रे जिघृक्षितस्य सम्भावनस्य लक्षणं न सम्भवनमात्रस्य; अन्यथा प्रत्युदाहरणमनुपपन्नं स्यात्, न हि तत्र शक्तिश्चद्धानं गम्यते । कथं पुनरत्रेदृशं सम्भावनं गृह्यत इत्यत्राह---तदिदानीमिति । तत्खलु सम्भावनमेतत्सूत्रप्रणयनकालेऽस्मिन्सूत्र इत्यर्थः । अलमर्थेन विषयेणाविशेष्यते अलमिति चेत् सम्भावनमिति, पर्याप्तिमिति । पर्याप्तिमित । पिर्याप्तिरलमर्थः, न भूषणादिरित्यर्थः । विपरिणामेनान्वयं दर्शयति---तच्चेत्सम्भावनमिति । पर्याप्तिविषयत्वात् पर्याप्तम्, अवितथविषयत्वात् अवितथम्, एतद्धात्वर्थानुष्ठाने पर्याप्तो वितथारम्भोऽयमस्मिन् धात्वर्थ इत्येवंरूपं चेत्सम्भावनमित्यर्थः । अपि पर्वतं शिरसाभिन्द्यादिति । एवं नामायं बलवानित्यर्थः, पर्वतं तु भिनतु मा वा भिदत् ॥ विभाषा धातौ सम्भावनवचनेऽयदि ॥ ३।३।१५५ ॥ सम्भावयामि भुञ्जीत भवानिति । भोजने भवांश्च्छक्त इत्युत्प्रेक्ष इत्यर्थः ॥ हेतुहेतुमतोर्लिङ् ॥ ३।३।१५६ ॥ भविष्यति च काल इति । इष्यत इत्यपेक्ष्यते । कथं पुनरेतद् द्वयं सूत्रेऽनुपातमेव लभ्यते ? इत्याह---तत्रेति । लिङिति वर्तमाने इति । ठुताप्योःऽ इत्यादेः सूत्रात् । हन्तीति पलायत इति । अत्र हननं हेतुः, पलायनं हेतुमत् । वर्षणं हेतुः, सरणं हेतुमत् । पलायत इति । ठुपसर्गस्यायतौऽ इति लत्वम् । अत्र ठ्लक्षणहेत्वोः क्रियायाःऽ इति शत्रादेशोऽपि न भवति, ठ्हतियोगे च सद्विधिःऽ इति व्यवस्थितविभाषासु पठितत्वात् ॥ इच्छार्थेषु लिङ्लोटौ ॥ ३।३।१५७ ॥ कामप्रवेदन इति वक्तव्यमिति । ठ्कामप्रवेदनेऽकच्चिति इत्ययं तर्हि योगः किमर्थः, यावता कामो मे भुञ्जीत भवान्, अभिलाषो मे भुञ्जीत भवानित्यत्राप्यनेनैव सिद्धम् ? यत्रेच्छार्थमुपपदं न भवति, अर्थप्रकरणादिना तु कामप्रवेदनं गम्यते, तत्रापि लिङ् यथा स्यात् । इदं तर्हि किमर्थम् ? लोर्ड्थम्, लिङ्ग्रहणं तु लोटा बाधा मा भूदिति । एवमपि ठ्लेट् चऽ इति वक्तव्ये किं लिङ्ग्रहणेन ? प्रकृतं लिङ्ग्रहणं विभाषासम्बन्धम्, अतस्तदनुकर्षणे विभाषाग्रहणस्याप्यनुकर्षणं सम्भाव्येत ॥ समानकर्तृकेषु तुमुन् ॥ ३।३।१५८ ॥ तुमुन्प्रकृत्यपेक्षमिति । तुमुन्प्रकृतौ यः कर्ता स चेदिच्छार्थेष्वपि भवतीति, एतच्च सान्निध्याल्लभ्यते । इच्छति भोक्तुमिति । आत्मनो भोजनमिच्छतीत्यर्थः । य एवेषेः कर्ता स एव भुजेरपीत्यस्तीह समानकर्तृकत्वम् । इच्छाया भुजिक्रियां प्रति तादर्थ्यस्याप्रतीतेः ठ्तुमुन्ण्वुलौऽ इत्यादिना तुमुन् न सिद्ध्यतीत्ययमारम्भः । अथापि कथञ्चितादर्थ्यं स्यात्, एवमपि समानकर्तृकेष्विति वक्ष्यामीत्यायमारम्भः, तेन देवदतेन भोक्तुमिच्छति यज्ञदत इति न भवति । इच्छन्करोतीति । अत्रार्थे इच्छन्कर्तुमिति न भवतीत्यर्थः । इच्छन्कर्तुं गच्छतीत्यादौ ठ्तुमुन्ण्वुलौऽ इत्यादिना तुमुन् । ननु भावे तुमुन् विधीयते, तत्कथमिच्छन्करोतीत्यत्र कर्तरि प्रसङ्गः ? एवमपीच्छता क्रियते इत्यत्र प्रसङ्गादनभिधानमेवाश्रयणीयम् ॥ लिङ् च ॥ ३।३।१५९ ॥ किमर्थमिदमुच्यते ? लिङ् यथा स्यात् । सिद्धोऽत्र लिङ् ठिच्छार्थेषु लिङ्लोटौऽ इति ? तस्य समानकर्तृकेषु तुमुन् बाधकः प्राप्तः । वासरूपविधिश्च क्तल्युट्तुमुन्खलर्थेषु प्रतिषिद्धस्तत्र यथा लोण्न भवति एवं लिङपि नस्यात् । अथापि वासरूपविधिः स्याद् ? एवमपि लिणेóव यथा स्याल्लोण्माभूदित्येवमर्थमेतदारब्धव्यमेव ॥ इच्छार्थेभ्यो विभाषा वर्तमाने ॥ ३।३।१६० ॥ अश्यादिति । ठ्वश कान्तौऽ अदादिः ग्रहिव्यादिना सम्प्रसारणम् ॥ विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ् ॥ ३।३।१६१ ॥ विधिः प्रेरणमिति । भृत्यादेर्निकृष्टस्य क्वचित्प्रवर्तनमाज्ञापनमित्यर्थः । नियोगतोऽवश्यम्भावेन यत्करणमनुष्ठानं तन्निमन्त्रणम्, स निमन्त्रणस्य विषय इत्यर्थः । अवश्यकर्तव्ये, श्राद्धभोजनादौ दौहित्रादेः प्रवर्तनेति यावत्, श्राद्धे हि निमन्त्रितो दौहित्रादिरभुञ्जानः प्रत्यवैति । कामचारकरणमिति । कामचार इच्छाप्रवृत्तिस्तया यत्करणमनुष्ठानं तदामन्त्रणम्, तद्विषयमामन्त्रणमित्यर्थः । यत्राननुष्ठानेऽपि न प्रत्यवायस्तत्र प्रवर्तनेति यावत् । कल्याणादौ ह्यामन्त्रितोऽभुञ्जानोऽपि न प्रत्यवैति । अधीष्टमिति । अधिपूर्वादिच्छतेर्नपुंसके भावे क्तः । पुंल्लिङ्गेन पाठस्त्वयुक्तः । सत्कारपूर्वको व्यापार इति । गुर्वादेरारीध्यस्य व्यापारणेत्यर्थः, ण्यन्तादेरच् । इदं वा कर्तव्यमिदं वा कर्तव्यमित्येव भूतविचारणासम्प्रधारणम् । यथेदमिह सम्प्रधार्यते इति याच्ञा प्रसिद्धा । न्यायव्युत्पादनार्थं च प्रपञ्चार्थमथापि वा । विध्यादीनामुपदानं चतुर्णामपदितः कृतम् ॥ अस्ति प्रवर्तनारूपमनुस्यूतं चतुर्ष्वपि । तत्रैव लिङ् विधातव्यः किं भेदस्य विवक्षया ॥ अयं विध्यादिः प्रकृत्यर्थः, प्रत्ययार्थः, प्रकृत्यथेविशेषणम्, प्रत्ययार्थविशेषणं वेति चत्वारः पक्षाः । तत्राद्ये पक्षे विध्यादिषु वतमानाद्धातोरित्यर्थः स्यात्, ततश्च यत्र प्रकृतिरेव विध्यादीनाचष्टे तत्रैव स्यात्---विदध्यान्निमन्त्रयेत, आमन्त्रयेत, अधीच्छेत्, संप्रच्छेत्, प्रार्थयेतेति; तत्रापि प्रकृत्यर्था भावकर्मकर्तारश्चेत्येतावदगम्येत, न प्रकृत्यर्थव्यतिरेकेणापरं विध्यादिकम् । यथा चेच्छार्थेभ्यः ठ्विभाषा वर्तमानेऽ इत्यत्र लीङ् इच्छेदिति लडादयश्च न स्युः; अनेन लिङ बाधितत्वात् । द्वितीये नाप्राप्तेपु भावकर्मकर्तृपु विध्यादयोऽर्था निद्दश्यमानास्तेषां बाधकाः स्युरिति लिङ कर्त्रादीनामभिधानं न स्यात्, द्विवचनबहुवचनानुपपतिश्च, विध्यादीनामेकत्वात् । तृतीये तु यत्र प्रकृतिरेव विध्यादीनाचष्टे तत्र न स्यात्---विदध्यान्निमन्त्रयेतेति, न ह्यत्र प्रकृत्यर्थादन्ये तद्विशेषणभूता विध्यादयः सन्ति । चतुर्थे तु विध्यादीनां कर्त्रादीनां च स्पष्ट एव भेद इति दोषाभाव इति तमेवाश्रयति---विध्यादयश्चैत इति । विध्यादिविशिष्टेष्विति । विध्यादयः प्रवर्तनाविशेषास्तैर्विशिष्टेषु प्रवतितेष्वित्यर्थः । सम्प्रश्नप्रार्थनयोस्तु सम्पृच्छयमाने प्रार्थ्यमाने च कर्तरि । ननु च प्रकृत्या योऽर्थो नाभिधीयते तत्रैव प्रत्ययेन भाव्यम्, न तु प्रकृत्याभिहिते; ठुक्तार्थानामप्रयोगःऽ इति न्यायात्, ततश्चास्मिन्नपि पक्षे विदध्यादित्यादौ तदवस्थ एवाप्रसङ्गः ? एवं तर्हि सन्त्येवात्र व्यतिरिक्ता विध्यादयो विषयभेदात्, तथा हि---श्राद्धे मां निमन्त्रयेत भवानिति मत्कर्मकं निमन्त्रणं तवानुष्ठेयमित्यर्थः, तत्र प्रकृत्यभिहितं निमन्त्रणं भोजनविषयम्, लिङ्भिहितं तु निमन्त्रणविषयमिति विस्पष्ट एव निमन्त्रणभेदः । यथैषितुमिच्छतीति कालसाधनभेदादिच्छयोर्भेदाश्रयो योगस्तद्वत् । एवं विध्यादिष्वपि द्रष्टव्यम् । एवं च कृत्वा प्रकृत्यर्थविशेषणपक्षेऽपि नातीव दोषः । आमन्त्रणे इह भवान् भुञ्जीतेति । यदीच्छतीत्यर्थः । अध्येप्यामह इत्यपपाठोऽयम्; न हीच्छतेरेतद्रूपं सम्भवति, इष्यतिरपि परस्मैपदी, गुणश्च श्यनि दुर्लभः; इङ्श्चात्रार्थो नास्ति, सूत्रे चाधीष्टेति इङ् न प्रयुक्तः, तस्मादधीच्छाम इति पाठः । उपनयेतेति । आचार्यकरण आत्मनेपदम् ॥ लोट् च ॥ ३।३।१६२ ॥ योगविभाग उतरार्थ इति । उतरत्र लोट एवानुवृत्तिर्यथा स्याल्लिङे मा भूदिति । अध्ययै इति । इट्, उतमैकवचनम्, टेरेत्वम्, ठेत ऐऽ, ठाहुतमस्य पिच्चऽ इत्याडागमः, ठाटश्चऽ इति वृद्धिः, प्रकृतेर्गुणायादेशौ ॥ प्रैषातिसर्गप्राप्तकालेषु कृत्याश्च ॥ ३।३।१६३ ॥ कृत्य इति । ठ्विभाषा कृवृषोःऽ इति क्यप् । भवान् हि प्रेषित इत्यादिर्वाक्यशेषः सर्वेष्वेवोदाहरणेषु योज्यः । न सामान्येनेति । भावकर्मणोरित्युपलक्षणम्; भव्यगेयादीनां कर्तर्यपि भावात् । एवं तर्ह्येतज्ज्ञापयतीति । ठ्प्रैषादिष्वेव कृत्या भवन्ति नान्यत्रऽ इति नियमार्थं चैतन्न भवति, अनिष्टत्वात् । अन्यत्रापिकृत्यादृश्यन्ते---तृणेनशोष्यम्, बुधेन बोध्यमिति, अग्निस्तोकं तृणेन दीपनीय इति । वस्तुस्वरूपकथनमेतत्, न त्वत्र प्रैषादिप्रतीतिः । अधिकारात्परेणेति । एनपा योगे पञ्चमी मृग्या । नावश्यमिति । क्वचिद्भवति, क्वचिन्नेत्यर्थः । को विशेष इति । विधिः प्रेरणमिति पूर्वत्र व्याख्यातत्वात् नास्त्येव भेद इति प्रश्नः । यद्यविशेषः, कथं द्वन्द्वनिर्देश इति चेत् ? शब्दरूपस्याभिधेयत्वात् । ठ्को विशेषःऽ इति कोऽनयोः शब्दयोविशेषोऽभिधेय इत्यर्थः । केचिदिति । एवमामन्त्रणातिसर्गयोरपि विशेषो ज्ञेयः । केचिदिति वचनादपरेऽनयोर्विसेषं नेच्छन्तीत्युक्तं भवति । तेषामपि प्रैषातिसर्गग्रहणं कर्तव्यमेव, तत्रैव कृत्या यथा स्युरिति । ठ्प्राप्तकाले चऽ इति ह्युक्ते निमन्त्रणादावपि कृत्याः स्युः । चकारेण लोडप्यनुकर्षणीयः---प्राप्तकाले यथा स्यादिति ॥ लिङ् चोर्ध्वमौहूर्तिके ॥ ३।३।१६४ ॥ चकाराद्यथाप्राप्तं चेति । लोट्, कृत्याश्च ॥ स्मे लोट् ॥ ३।३।१६५ ॥ लिङ्कृत्यानामपवाद इति । अनन्तरसूत्रेण प्राप्तानाम् । करोतुस्मेति । स्मशब्दोऽधिकारं सूचयति---भवानत्राधिकृत इत्यर्थः ॥ अधीष्टे च ॥ ३।३।१६६ ॥ अङ्ग स्म राजन्निति । अङ्गशब्दोऽनुनये । ब्राह्मणानामेवाध्यापनं वृत्तिरतो राजन्नित्यभ्यर्हितेत्यर्थः ॥ कालसमयवेलासु तुमुन् ॥ ३।३।१६७ ॥ प्रैषादिग्रहणं सम्बद्ध्यते इति । न चेह प्रैषादयो गम्यन्त इति भावः । इह कस्मादिति । कालो भोजनस्येति । तस्माद्भुङ्क्तां भवानिति वाक्यार्थः, तेन गम्यतेऽत्र प्रैष इति प्रश्नः । वासरूपविधिनेति । ननु प्रैषादिषु कृत्यविधानात् स्त्र्यधिकारात्परेण वासरूपविधिरनास्तीति ज्ञापितम् ? तत्राह---उक्तमिति । अनित्यत्वमेव तत्र ज्ञापितं न सर्वथाभाव इत्यर्थः । पर्यायोपादानं पर्यायान्तरविवृत्यर्थम् । अन्ये त्वाहुः---अवसरो भोक्तुमित्यादावपि तुमुन् दृश्यते, ठ्व्युपयोः शेतेःऽ इत्यत्र राजानमुपशयितुं पर्याय इति प्रयुक्तोवृत्तिकारेण । तस्मादर्थग्रहणार्थं पर्यायोपादानम्, यथा---ठ्निमितकारणहेतुषुऽ इत्यत्रेति ॥ लिङ् यदि ॥ ३।३।१६८ ॥ तुमुनोऽपवाद इति । कर्तृकर्मणोः सावकाशोऽपि लिङ् प्रतिपदविधेर्बलीयस्त्वात्परत्वाच्च भावे तुमुनो बाधक इत्यर्थः ॥ अर्हे कृत्यतृचश्च ॥ ३।३।१६९ ॥ अर्हतीत्यर्ह इति । पचाद्यच् । तद्योग्य इति । तच्छब्देन धात्वर्थः परामृश्यते । अर्हे कर्तरि गम्यमान इति । क्वचिद्वाच्ये, क्वचिद्गम्यमान इत्युभयथानुग्रहाय गम्यमान इत्युक्तम् । क्वचिद् वाच्ये गम्यमाने वेति पाठः, तत्र यथासम्भवमित्यन्वयः । तत्र तृच् अजर्यकुप्यादिषु, कृत्याश्च वाच्यत्वे भवन्ति; लिङ् भव्यगेयादिषु, कृत्याश्चोभयत्र भवन्ति । अथ कस्मात् ठ्कृत्यतृचौऽ इति सूत्रे कृत्यभेदविवक्षया बहुवचनम्, इह तु सामान्यविवक्षया द्विवचनम् ? क्वचितु वृतावपि बहुवचनमेव पठ।ल्ते । तेन बाधा मा भूदिति । वासरूपविधिश्च नावश्यं भवतीत्यनन्तरमेवोक्तम् ॥ आवश्यकाधमर्ण्ययोर्णिनिः ॥ ३।३।१७० ॥ अवश्यं भाव आवश्यकमिति । मनोज्ञादित्वाद् वुञ्, अव्ययानां भमात्रे टिलोपः । उपाधिरिति । प्रत्ययार्थविशेषणमित्यर्थः । नोपपदमिति । ठ्शीतोष्णाभ्यां कारिणिऽ, ठ्सेनान्तलक्षणकारिभ्यस्चऽ इति निर्देशात् । उपपदत्वे हि केवलाण्णिनिर्न स्यात्, तत्साहचर्यादाधमर्ण्यमप्युपाधिरेव, नोपपदम् । शतं दायीति । ठकेनोर्भविष्यदाधमर्ण्ययोःऽ इति षष्टीप्रतिषेधाद् द्वितीयैव भवति ॥ कृत्यश्च ॥ ३।३।१७१ ॥ भव्यगेयादयः कर्तृवाचकाः कृत्या इति । भव्यगेयादिष्ववयत्वेन स्थिताः कृत्या इत्यर्थः । आदिशब्देन न भव्यगेयादिसूत्रनिर्द्दिष्टानामेव ग्रहणम्, किं तर्हि ? अजर्यरुच्यकुप्यकृष्टपच्याव्यथ्याव्यथ्यादीनामपि ग्रहणम् । योगविभाग उतराथेः ॥ शकि लिङ् च ॥ ३।३।१७२ ॥ प्रकृत्यर्थविशेषणमिति । नोपपदम्, ठ्क्षय्यजय्यौ शक्यार्थेऽ इति लिङ्गात्, उपपदत्वे हि केवलौ क्षय्यजय्यौ शक्यार्थे न सम्भवतः । भवान्खलु शक्त इति वाक्यशेषः सर्वेषु योज्यः । लिङ बाधा मा भूदिति । स्त्रियाः परेण वासरूपविधेरनित्यत्वाल्लिङ बाधाशङ्का । ठ्पराजेसोढःऽ इत्यत्रासोढो योऽर्थः----सोढुंअ न शक्यत इति । शक्यार्थे क्तप्रत्ययो व्याख्यातः स ठ्कृत्यल्युटो बहुलम्ऽ इति वा, वासरूपविधिना वा समर्थनीयः ॥ आशिषि लिङ्लोटौ ॥ ३।३।१७३ ॥ आशीर्विशष्ट इत्याशास्यमान इत्यर्थः । विध्यादिसूत्र एवाशीर्ग्रहणं न कृतम्, ठ्स्मे लोट्ऽ इत्यादिविषयेऽपि परत्वादेष विधिर्यथा स्यादिति । अवश्यं चोतरार्थमिहाशीर्ग्रहणं कर्तव्यम् ॥ क्तिच्क्तौ च संज्ञायाम् ॥ ३।३।१७४ ॥ तन्तिरिति । ठनुदातोपदेशऽ इत्यादिनानुनासिकलोपः प्रापनोति, ठनुनासिकस्य क्विझलोः क्ङितिऽ इति दीर्घत्वं च, तदुभयमपि न भवति; ठ्न क्तिचि दीर्घश्चऽ इति प्रतिषेधात् । सातिरिति । सनः क्तिचि ठ्लोपश्चास्यान्यतरस्याम्ऽ इत्यात्वम् । क्तिचश्चकारश्चिन्त्यप्रयोजनः; ठ्न क्तिचि दीर्घश्चऽ इत्यत्र एकानुबन्धकपरिभाषया क्तिनो निवृतेः सिद्धत्वात् ॥ स्मोतरे लङ् च ॥ ३।३।१७५ ॥ अत्रोतरशब्द आदिक्यवचनो न दिग्वचनः, तेन पूर्वभूतेऽपि स्मशब्दे भवति, तद्दर्शितम्---स्मशब्दसहित इति ॥ इति श्रीहरदतमिश्रविरचितायां पदमञ्जर्यां तृतीयाध्यायस्य तृतीयः पादः ॥अथ तृतीयाध्याये चतुर्थः पादः पदमञ्जरी धातुसम्बन्धे प्रत्ययाः ॥ ३।४।१ ॥ प्रयोगे स्वार्थाभिधानव्यग्रयोर्धात्वोः परस्परेण सम्बन्धाभावादुपचरितवृत्तिरत्र दातुशब्द इत्याह---धात्वर्थे धातुशब्द इति । धात्वर्थानां सम्बन्धो धातुसम्बन्ध इति । सम्बन्धस्यानेकाधिष्ठानत्वात् वृतावपि संख्याविशेषोऽवगम्यत इति भावः । सकलविषयापेक्षया च बहुवचनम् । एकैकं विवक्षायां तु धात्वर्थयोः सम्बन्ध इति द्रष्टव्यम् । यदि तु कर्मत्वं समानकर्तृकत्वं च धातोरर्थद्वारकं विशेषणमितिवद्धात्वोरेवार्थद्वारकः सम्बन्ध आश्रीयेत, इह तु न स्यात्---गोमानासीत्, गोमान् भवितेति, द्वयोर्हि प्रयुज्यमानयोः सम्बन्धो भवति, न चात्र वर्तमानकालेऽस्तिः प्रयुज्यते । कीदृशः पुनरयं धातुसम्बन्धः ? इत्याह---विशेषणविशेष्यभाव इति । तत्र तिङ्न्तवाच्योऽर्थो विशेष्यं तत्प्रधानत्वाद्वाक्यस्य; सुबन्तवाच्यस्तु विशेषणम्, कारकस्य क्रियां प्रति गुणभावात् । अयथाकालोक्ता अपीति । यस्मिन्काले विहितास्ततोऽन्यत्रापि प्रयुक्ता इत्यर्थः । एतेन कालमात्रस्यात्र बाधः, न तूपपदोपाधिप्रकृतिप्रत्ययार्थानामिति दर्शयति । एतच्च ठ्वर्तमानसामीप्येऽ इत्यारभ्य प्रायेण कालान्यत्वप्रतिपादनाल्लभ्यते । अग्निष्टोमयाजीति भूतकाल इति । भूतः कालो यस्येति बहुव्रीहिः, एतेन भविष्यत्काल इति व्याख्यातम् । तत्रेति । तयोर्मध्ये । भूतकालोऽग्निष्टोमयाजीत्येवशब्दो भविष्यत्कालेन जनितेत्यनेन सम्बद्ध्यमानः साधुर्भवति । अयमपि भविष्यत्कालः सन्साधुर्भवतीत्यर्थः । अथ वा---स्वयमपि भविष्यत्कालेना भिसम्बद्ध्यमानः, स्वकालपरित्यागेन भविष्यत्कालः सन्नित्यर्थः । अयं ह्यत्रार्थः---पुत्त्रोऽस्य जनिता स चाग्निष्टोमेन यष्टेति, तत्र यदि भूतकाल एव णिनिरवतिष्ठेन तदा यागस्य भविष्यतावगमो न प्राप्नोतीत्ययमारम्भः । एवमितरयोरप्युदाहरणयोर्द्रष्टव्यम् । अथ विपर्ययः कस्मान्न भवति, भविष्यत्कालो भूतकालेनाभिसम्बद्ध्यमानः स्वकालपरित्यागेन भूते साधुर्भवति, ततश्चाग्निष्टोमयाज्यस्य पुत्त्रो जात इत्ययं वाक्यार्थ इति ? तत्राहौविशेषणं गुणत्वादिति । प्रधानानुवर्ता गुणः, न गुणानुवतिं प्रधानम्, उभयोश्च स्वकालनिष्ठयोः स्म्बन्धानुपपतिरिति प्रधानानुरोधेन गुणस्य कालपरित्याग इत्यर्थः । प्रत्ययाधिकार इति । यद्यपि प्रकृतः प्रत्ययशब्दः स्वरूपपदार्थकः, तथापीह संज्ञेनामनिर्देशात्संज्ञिपदार्थको विज्ञास्यत इति भावः । अधात्वधिकारविहिता अपीति । अन्यथा प्रकृतानां धातुप्रत्ययानामेव ग्रहणं स्यात् । प्रत्ययग्रहणातु सर्वपरिग्रहार्थातद्धितानामपि कालान्तरेऽपि साधुत्वं भवति । गोमानासीत्, गोमान्भवितेति । ठ्तदस्यास्त्यस्मिन्ऽ इति मतुप्प्रत्ययो वर्तमानसताविशिष्टेन प्रकृत्यर्थेन विशिष्टेऽर्थे विहितः । धातुसम्बन्धे तु प्रकृत्यर्थस्य भूतभविष्यत्वेऽपि साधुर्भवति । ततश्चायमत्रार्थः---गावोऽस्यासन् गोमानासीत्, गावोऽस्य भवितारः गोमान् भवितेति । धात्वधिकारादेव धातुग्रहणे सिद्धे पुनर्धातुग्रहणं धातुविशेषपरिग्रहार्थम्, तेनास्तिभूजनिसम्बन्धे तद्विशेषणानामेव कालान्यत्वेन साधुत्वं भवतीति केचित् । न चायं पक्षो भाष्ये सिद्धान्तत्वेन स्थापितः, तस्मादविशेषेण भवतीत्यन्ये । दृश्यते चान्यत्रापि कालान्यत्वलम्---ठ्साटोपमुर्वीमनिशं नदन्तो ये प्लावयिष्यन्ति समन्ततोऽमीऽ इत्यत्र । नदन्त इति वर्तमानकालः प्लावयिष्यन्तीति अवर्तमानेनाभिसम्बद्ध्यमानो भविष्यत्कालः सम्पद्यते । सूत्रप्रत्यख्यानं तु---अग्निष्टोमयाजीति भूत एव णिनिः, जनितेत्येतत्सम्बन्धातु केवलं व्यपदेशस्य भावित्वप्रतीतिः, अस्य सूत्रस्य शाटकं वयेतिवत् । ततश्च भाविव्यपदेशविज्ञानाद्विशेषणस्य कालान्यत्वं वाक्यार्थवशादसत्यपि सूत्रारम्भे प्रत्येष्यते । अवश्यं च स्वकाल एव प्रत्ययविधिरेष्टव्यः, अन्यथा भाविकृत्यमासीदित्यत्र भाविशब्दस्य भूतकालत्वे भाव्यासीच्छब्दयोः पर्यायत्वाद्यौगपत्प्रयोगो न स्यात् । तस्मादिदानीमासीदित्येवं तत्रार्थः । गोमानासीदित्यत्रापि देवदतस्य विधमानत्वेऽपि गोमद्रूपस्यातीतत्वाद् भूतप्रत्ययः । तत्रार्थाद् गवामप्यतीतत्वं प्रतीयते, गोमच्छब्दस्तु स्वमहिम्ना वर्तमानसताविशिष्टमेव प्रकृत्यर्थमाह ॥ क्रियासमभिहारे लोट् लोटो हिस्वौ वा च तध्वमोः ॥ ३।४।२ ॥ धातुसम्बन्ध इति वर्तत इति । अनुप्रयोगधातुना च सम्बन्धः । क्वचित्वयं ग्रन्थो न पठ।ल्ते । प्रकृत्यर्थविशेषणं चैतदिति । उपपदत्वाशङ्कां निरस्यति । व्याख्यानाच्चोपपदत्वाभावः । समभिहारविशष्टक्रियावचनादिति । क्रियाधर्मे समभिहारमात्रे धातोर्वृत्यसम्भवादेतदुक्तम् । अत्र यदि ठ्लोटो हिस्वौऽ इति वचनातस्यैव हिस्वौ स्याताम्, तदा सामान्यविहितानां तिङं शतृशानौभ्यामिव हिस्वाभ्यां बाधा स्यात्, ततस्तध्वमोर्लोट्स्थानिकयोरभावात् ठ्वा च तध्वमोःऽ इति तयोः स्थानित्वेनोपादानमनुपपन्नमिति लोट्शब्देन तदादेशानां ग्रहणमित्युपलक्ष्यते । अस्तु तथा, को दोषः ? इह हि तिप्सिप्मिपां स्थाने विहितस्य हेः स्थानिवद्भावेन पित्वान्ङ्त्वाभावाल्लुनीइहितीत्वं न स्यात्, ब्रूहीति ठ्ब्रुव ईट्ऽ स्यात्, तृण्ढैइति ठ्तृणह इम्ऽ स्यात्, अनुदातत्वं च हेः प्रसज्येत ? नैष दोषः; ठ्सेर्ह्यपिच्चऽ इत्यत्र योगविभागः करिष्यते, तत्सामर्थ्याद् ठनन्तरस्य विधिर्वा भवति प्रतिषेधो वाऽ इति नाश्रीयते, सेर्हिर्भवति अपिच्च भवति यावान्कश्चिद्धिर्नामेति । यौ तर्ह्युतमादेशौ हिस्वौ, तरोयराडागमः प्राप्नोति---लुनीहिलुनीहीत्येवाहं लुनामि, अधीष्वाधीध्वेत्येवाहमधीय इति ? नैष दोषः; आटि कृते साट्कस्यादेशौ भविष्यतः, सकृत्प्रवृत्या लक्षणस्य चरितार्थत्वात् । हिस्वयोः पुनराट् न भविष्यति, इह ह्याट् क्रियातां हिस्वाविति सम्प्रधारणायामुभयोरनित्ययोः ठ्शब्दान्तरस्य प्राप्नुवन्विधिरनित्यो भवतिऽ इति परत्वादाटि कृते साट्कस्य हिस्वाविति सिद्धमिष्टम् । एवमपि हेर्योगविभागेन पित्वाभावेऽपि स्वशब्दस्योतमादेशस्य पित्वाद्भुङ्क्ष्वभुङ्क्ष्वेत्येवाहं भुञ्जे इत्यत्र ठ्श्नसोरल्लोपःऽ इत्यकारलोपो न प्राप्नोति, ब्रूष्वब्रूप्वेत्येवाहं ब्रुवे ठ्ब्रुव ईट्ऽ प्राप्नोति, सर्वेषां च तिङं द्वावपि हिस्वौ पर्यायेण स्यातां न तु ठ्परस्मैपदानां हिः, इतरेषाअं स्वःऽ इति नियामकमस्ति । तस्माद्दुष्ट एवायं पक्ष इति मत्वा लकारस्यैवादेशौ हिस्वावाश्रयणीयाविति दर्शयति । तस्य च लोट इति । नन्वस्मिन्पक्षे ठ्वा च तध्वमोःऽ इत्यनुपपन्नमित्युक्तं तत्राह---तध्वम्भाविनस्तु वा भवति इति । मुख्यार्थासम्भवे तध्वम्भावी लोडेव तथोच्यते इत्यर्थः । यदि तर्हि लोट एव हिस्वावादेशौ न तदादेशानाम्, ठ्लः परस्मैपदम्ऽ इति द्वयोरपि परस्मैपदसंज्ञा स्यात्, ततश्च द्वावपि परस्मैपदिभ्य एव स्याताम् । तिङ्क्ष्वसन्निवेशाच्च तदन्तस्य तिङ्न्तता न स्यात्, ततश्च ठ्तिङ्ङतिङःऽ इति निघातो न प्राप्नोति । हिस्वयोश्च कृत्वातदन्तस्य शतृशानजन्तस्यैव प्रातिपदिकत्वात्स्वाद्यौत्पतिः प्राप्नोति, तत्र च विभक्तिसंज्ञकहिस्वसदृशत्वादनयोर्हिस्वयोः ठ्विभक्तिस्वरप्रतिरूपकाश्च निपाताःऽ ठ्निपातोऽव्ययम्ऽ इत्यव्ययसंज्ञायां यद्यपि विभक्तीनां श्रवणं न भवति, तथापि ततः परस्य ठ्तिङ्ङ्तिङ्ऽ इति निघातः प्राप्नोति, द्वावपि च कर्तर्येव स्याताम्, न तु स्वादेशो भावकर्मकर्तृषु स्यात् । तस्मादयमपि पक्षो दुष्ट एव, तत्राह---लोडित्येवेति । एतेन द्वितीययोगे प्रथमान्तस्य लोड्ग्रहणस्यानुवृत्ति दर्शयति । तत्र च सामानाधिकरण्येन लोडित्यनेन हिस्वौ विशेष्येते, न षष्ठ।ल विपरिणामेन, च न हिस्वौ लोटौ भवतः; उच्यते चेदं लोटो हिस्वाविति, ततश्च धर्मातिदेशो विज्ञायते, तदाह---लोड्धर्माणौ तौ भवत इत्यर्थ इति । अत्र च लोट्शब्देन लोट्संबन्धिनौ हिस्वावुच्येते मुख्यलोट्संबन्धिनो धर्मस्यातिदेश्यस्यासम्भवात्प्रसिद्धौ लोट्संबन्धिनौ यौ हिस्वौ, ठ्सेर्ह्यपिच्चऽ ठ्सवाभ्यां वामौऽ इति विहितौ, तद्धर्माणावित्यर्थः । किं सिद्धं भवति ? तद्दर्शयति---तेनेति । तयोहि परस्मैपदात्मनेपदत्वं भेदेन व्यवस्थितम्---हेः परस्मैपदत्वम्, स्वस्यात्मनेपदत्वमिति । अतस्तद्धर्मातिदेशादिहापि तदुभयं भेदेन, व्यवतिष्ठते, भेदेन भविष्यतीत्यर्थः । तिङ्त्वं च भवतीति । तथा च---हीत्यस्य कर्ता वाच्यः, स्वशब्दस्य तु भावकर्मकर्तारः । पुरुषैकवचनसंज्ञे तु विधानसामर्थ्यान्न भवतः, यदि हि ते अपि स्याताम्, हिस्वयोरनेन विधानमनुपपन्नं स्याद्; वचनान्तरेणैव तयोस्तादृशयोः सिद्धत्वात् । लुनीहि लुनीहीत्यादि । पुनः पुनर्लवनमयं करोतीत्यादिरर्थः । तत्र च लोडन्तं पुनः पुनर्लवनमाह, अनुप्रयोगधातुस्तु कृतिं तद्विषयां वदन् अभिव्यनक्ति, संमुग्ध तद्गतं साधनादिकम् । एवं च सामान्यविशेषयोर्विशेषणविशेष्यभावाद् धातुसम्बन्ध उपपद्यते, इत्येवशब्दौ, लोडन्तानुप्रयोगयोः सम्बन्धार्थौ, अयन्त्वमहंशब्दाः पुरुषविशेषाभिव्यक्तिहेतवः । अथ वेति । ठ्वा च तध्वमोःऽ इत्यस्य फलं दर्शयति । अलावीदिति । लुङ्, सिचि वृद्धिः, सिच इट्, तिपः ठस्तिसिचोऽपृक्तेऽ इतीट्, ठिट ईटिऽ इति सिचो लोपः, ठ्सिज्लोप एकादेशे सिद्धो वक्तव्यःऽ इति सवर्णदीर्घत्वम् । एवं मध्यमोतमयोरुदाहार्यमिति । लुनीहि तुनीहीत्येव त्वमलावीः अलाविष्टमलाविष्ट । अथा वा लुनीत लुनीतेत्येव यूयमलाविष्ट । लुनीहि लुनीहीत्येवाहमलविषम् अलाविष्व अलाविष्म । एवं मध्यमोतमयोरपीति । लुनीहि लुनीहीत्येव त्वं लविष्यसि लविष्यथः लविष्यथ । अथ वा लुनीत लुनीतेत्येव यूयं लविष्यथ । लुनीहि लुनीहीत्येवाहं लविष्यामि लविष्यावः लविष्यामः । एवं सर्वेषु लकारेषूदाहार्यमिति । लुनीहिलुनीहीत्येवायमलुनात् लुनातु लुनीयात् लूयात् लुलाव लविता लविष्यति अलविष्यत्; अधीष्वाधीष्वेत्येवायमध्यैत अधीताम् अधीयीत अध्येषीष्ट अधिजगे अध्यगीष्ट अध्यैष्ट अध्येता अध्यैष्यत अध्येष्यते । कर्मणि---लूयस्व लूयस्वेत्येवायं केदारो लूयत इत्यादि । भावे तु प्रसिद्धः स्वशब्दो दृष्टो न वेति चिन्त्यम् । अथोदाहरणेषु कथं द्विर्वचनम्, यावता क्रियासमभिहारं द्योतयितुं द्विर्वचनं विधीयते, स चात्र तस्मिन्नेव विधीयमानेन लोटैव द्योतितः, अथ द्योतितेऽपि तस्मिन् ठ्क्रियासमभिहारे द्वे भवतःऽ इति वचनसामर्थ्यादत्र द्विर्वचनं यङ्न्तेऽपि प्राप्नोति, वक्तव्यो वा विशेषः ? तत्राह---क्रियासमभिहाराभिव्यक्ताविति । ठ्लः कर्मणि चऽ इति वचनाद्भावकर्मकर्तारोऽस्य वाच्याः, समभिहारस्तु द्विर्वचनेनैव द्योत्यः, यङ्स्तु न किञ्चिदन्यद्वाच्यं द्योत्यं वा विद्यते इति तेनैव क्रियासमभिहारस्य द्योतितत्वाद् द्विर्वचनाभावः । ननु च सन्तु भावकर्मकर्तारोऽस्य वाच्याः, समभिहारोऽप्युपाधित्वेन श्रुतः, सोऽपि लोटो द्योत्यो भवतु, यथा---लडादिषु वर्तमानादयः ? एवं तर्ह्यसति द्विर्वचने शुद्धस्य लोटोऽस्य च साधारणं रूपमिति समभिहाराभिव्यक्तयेऽवश्यं द्विर्वचनमपेक्ष्यते । शब्दशक्तिवैचित्र्यं चात्र हेतुः, यथा स्त्रीत्वं क्वचिदेकेनैव प्रत्ययेन द्योत्यते, क्वचिद् द्वाभ्याम्, क्वचित् दृषदित्यादो प्रातिपदिकेनैवेत्यलं प्रबन्धेन ॥ समुच्चयेऽन्यतरस्याम् ॥ ३।४।३ ॥ ठ्समुच्चयेऽ इति समान्योक्तावपि क्रियासमुच्चय एव दृश्यते, धातोः प्रत्ययविधानादित्याह---अनेकाक्रयाध्याहारः समुच्चय इति । अनेकासां क्रियाणामेकस्मिन् सम्बन्धिनि निचीयमानतेत्यर्थः । एतेनैकक्रियाविषयात्समभिहारात्समुच्चयस्य भेदो दर्शितः । धातोः क्रियावाचित्वात्क्रियाधर्मे समुच्चयमात्रे वृत्तिर्न भवतीत्यभिप्रायेणाह---समुच्चीयमानक्रियावचनादिति । एकस्मिन्साधने याः क्रियाः समुच्चीयन्ते तद्वाचिभ्यो धातुभ्यः प्रत्य इत्यर्थः । भ्राष्ट्रमटेत्यादि । भ्राष्ट्राटनादीनि करोतीत्यर्थः । तत्रानुप्रयुज्यमानो धातुः साधनभेदेन भिन्नेष्वटनेष्वनुवर्तमानं कृतिव्यापारं वद्Äअस्तद्गतानि साधनादीनि प्रिकाशयतीति परस्परसम्बन्धः । भ्राष्ट्रमुचुल्लि, खस्य दूरं खदूरमुअपवरकम्, स्थाल्यः प्रक्षालिता यत्र निधाय पिधीयन्ते तत्स्थाल्यपिधानम् । अथ वेति । प्रथमेनाथवाशब्देन ठ्वा च तध्वमोःऽ इत्यस्य व्यापारं दर्शयति, द्वितीयेनान्यतरस्याङ्ग्रहणस्य । एवं द्वितीयेऽप्युदाहरणे द्रष्टव्यम् ॥ यथाविध्यनुप्रयोगः पूर्वस्मिन् ॥ ३।४।४ ॥ यथाविधीति । पदार्थनतिवृतौ ठ्यथार्थे यदव्ययम्ऽ इत्यव्ययीभावः, अनुप्रयोग इत्यनुशब्दो धात्वर्थानुवादी, न पश्चाद्भावेनानन्तर्येऽर्थे । तेन पूर्वव्यवहितप्रयोगोऽपि भवति । पूर्वस्मिन्निति वचनं विस्पष्टार्थम् । समुच्चये हि सामान्यवचनस्यानुप्रयोगं वक्ष्यति, तेन ततोऽन्यत्रायं विधिरन्यश्च विषयः पूर्वमेव लोड्विधानम् । धातुसम्बन्धे प्रत्ययविधानादिति । ननु च हिस्वान्तमेतदनभिव्यक्तपदार्थकम्, सख्याकालपुरुषाणामनभिव्यक्तत्वात्, अतस्तदर्थाभिव्यक्त्यर्थभेवानुप्रयोगः सिद्धः ? अस्त्वेवम्, किमेतावता वृत्तिकारोक्तो हेतुर्न भवति । अथ वा यावन्तमर्थमभिव्यङ्क्तुअं हिस्वान्तं समर्थं तावतो विवक्षायामनुप्रयोगासिद्धि मत्वैवमुक्तम् । यथाविध्यर्थ वचनमिति । ननु च ठ्समुच्चये सामान्यवचनस्यऽ इति वक्ष्यति, तत्र नियमो विज्ञास्यते---समुच्चय एव धात्वन्तरस्यानुप्रयोग इति, ततश्च क्रियासमभिहारे यथाविध्यनुयोगो भविष्यति ? एवं मन्यते---समुच्चये सामान्यवचनस्यैवानुप्रयोग इति नियमादन्यत्र धात्वन्तरस्यापि स्यादिति च्छिनतीति नानुप्रयुज्यत इति । पचतीत्यादेभिन्नार्थस्य त्वप्रसङ्गः, लोडन्तेनानन्वयात् । समानार्थस्य तु सम्भवति सम्बन्धः, यथा--तस्यैव । एवं सामान्यवचनस्य करोत्यादेरप्यनुप्रयोगप्रसङ्गः, तस्यापि हि सन्निहेतलोडन्तवाच्ये विशेषे पर्यवसानात्सम्भवत्येवान्वयः । ननु चैकस्या आकृतेश्चरितः प्रयोगो न द्वितीयस्यास्तृतीयस्याश्च भवति, एतच्च ठ्कृञ्जानुप्रयुज्यतेऽ इत्यत्र व्याख्यातम्, तत्र यथा गवां स्वामी अश्वेषु चेति न भवति, तथेहापि येनैव धातुना लोट्प्रयोगः प्रारब्धस्तेनैवासौ समापयिष्यते ? न; अस्यापि न्यायस्य वेदे लोके च व्यभिचारात् । वेदे तावत्---इन्द्राय राज्ञे सूकर इति चतुर्थोप्रयोगप्रकरणे क्षिप्रश्येनस्य वर्तिका ते धातुरिति षष्ठी, मयुः प्राजापत्य इति तद्धितश्च देवतासम्बन्धे दृश्यते । लोकेऽपि---सस्नुः, पयः पपुरिति लिटा सहानेनिजुरिति लङ् प्रयुक्तः । तस्मादारभ्यमेवैतत् ॥ समुच्चये सामान्यवचनस्य ॥ ३।४।५ ॥ ननु च हिस्वान्तस्यानभिव्यक्तपदार्थकत्वाद्धातुसम्बन्धे प्रत्ययविधानाच्चानुप्रयोगः सिद्धः, नार्थ एतेन ? तत्राह---सर्वविशेषेति । असत्यस्मिन्यतो धातोर्लोड्विहितः स तस्यानुप्रयुज्येत । एवमपि हिस्वान्तार्थस्याभिव्यक्तिर्भवत्येव धातुसम्बन्धश्चोपपद्यते । ननु च सर्वेषु विशेषेषु यदनुगतं सामप्त्न्यं तद्वाचिनोऽनुप्रयोगेऽपि तस्य सामान्यस्य सन्निहितेषु विशेषेषु पर्यवसानादर्थाभिव्यक्तिश्च सर्वेषां भवति, धातुसम्बन्धश्च । तत्र सामान्यवचनस्यैकस्यानुप्रयोगोऽस्तु, बहूनां विशेषवाचिनां वेति सम्प्रधारणायामेकस्यैव भविष्यति, लघुत्वातत्राह---लाघवं चेति । अन्यथा तरुद्रुमादीनामेव प्रयोगः स्यात्, न वनस्पत्यादिशब्दानामिति भावः । ननु भ्राष्ट्रमटेत्यादौ तस्यैवानुप्रयोगात्कथं सामान्यवचनता ? तत्राह---भ्राष्ट्रमटेत्यादि । कारकभेदात् क्रियाभेदे सतीति । भेदनिबन्धनः समुच्चयोऽप्येवमेवात्रोपपाद्यः ॥ च्छन्दसि लुङ्लङ्लिटः ॥ ३।४।६ ॥ उदाहरणेषु धातुसम्बन्धो मृग्यः । अकरदिति । ठ्कृमृदॄउहिभ्यश्च्छन्दसिऽ इति च्लेरङदेशः, ठृदृशोऽङ् गुणिःऽ ॥ लिर्ङ्थे लेट् ॥ ३।४।७ ॥ जोषिषदिति । ठ्जुषी प्रीतिसेवनयोःऽ अनुदातेत्, व्यत्ययेन परस्मैपदम्, ठितश्च लोपः परस्मैपदेषुऽ, ठ्लेटोऽडाटौऽ इति तिपोऽडागमः, ठ्सिब्बहुलं लेटिऽ इति सिप्, इडागमः । तारिषदिति । सिब्विधौ बहुलं णिद्वद्भाव उक्तः, ततो वृद्धिः । पतातीति । ठ्पत्लृ गतौऽ, तिप आडागमः ॥ उपसंवादाशङ्कयोश्च ॥ ३।४।८ ॥ यदि मे भवानित्यादिनोपसंवादस्य स्वरूपं दर्शयति । कारणत इत्यादिना । शङ्कायाः अनुसरणमनुगमनमित्यर्थः । अहमेवेत्यादि । त्रिपुरविजये देवैः प्रर्थितस्य देवस्यैतद्वचनम् । ठीश ऐश्वर्येऽ, उतमैकवचनमिट्, टेरेत्वम्, ठ्वैतोन्यत्रऽ इत्यैकारः । पशवो द्विपादश्चतुष्पादश्च । ठ्वायुं देवा अब्रुवन्सोमं राजानं हनामेति, सोऽब्रवीदूरं वृणै, मदग्रा एव वो ग्रहा गृहायान्तै इति । मद्ग्रहोऽग्रं प्रथमं येषां ते तथोक्ताः, ग्रहेः कर्मण्यात्मनेपदं यक्, ग्रहिज्यादिना सम्प्रसारणम्, झस्याडागमः, पूर्ववदैत्यम् । ठ्देवाः सोममघ्नन्, सोऽपूयदशक्यतामागमत्, ते वायुमब्रुवन् इमं नः स्वदयेति, सोऽब्रवीद्वरं वृणै, मद्देवतान्येव वः पात्राण्युच्यान्तै इति । अहं देवता येषां तानि तथोक्तानि । उच्यान्तै इति वचेः ठ्वचिस्वपिऽ इत्यादिना सम्प्रसारणम्, शेषं पूर्ववत् । नेज्जिह्यायन्त इति । इच्छब्द आशङ्कां द्योतयति । जिह्मचरणेन नरकपातः सम्भाव्यते, स मा भूदित्यर्थः । जिह्ममुकुटिलं पापम्, ठ्च्छन्दसि परेच्छायाम्ऽ इति क्यच्, ठश्वाघस्यात्ऽ इति योगविभागोनात्वम् । वृतौ तु वस्तुमात्रं दर्शितम् । जिह्माचरणेनेति । न पुनराचारे उपमानादन्यत्र क्यजस्ति । हेतौ शतृप्रत्ययः । लिर्ङ्थ एवायमिति । हेतुहेतुमद्भावे, कथम् ? उपसंवादे तावत्करणं हेतुः, दानं हेतुमत्; अन्यथा यदि मे भवानिदं कुर्यादिति लिङ् न स्यात्, विभाषा तु लिङिति । अहमपि ते इदं दास्यामीति लृट् । भाष्ये तु ददातेरपि लिङ् प्रयुक्तः । आशङ्कापि कारणतः कार्यानुसरणम्, तत्र कारणं हेतुः, कार्यं हेतुमत् । अथापि करणमवधिः, दानमवधिमदित्यवध्यवधिमद्भाव उपसंवादे प्रतीयते, न हेतुहेतुमद्भावः, आशङ्कायामपि निश्चितो हेतुहेतुमद्भावो नास्तीत्युच्येत, तथापि लिङ्प्रयोगसिद्धयेऽवश्यं वक्तव्योऽत्र हेतुहेतुमद्भावः, अतो लिर्ङ्थ एवायमित्यर्थः । नित्यार्थं तु वचनमिति । च्छन्दसि नित्योऽत्र लिङ् दृश्यत इति मन्यते, तथापि व्यवस्थितविभाषया सिद्धमिति चेतदेव तर्हि वचनेन ज्ञाप्यते ॥ तुमर्थे सेसेनसेअसेन्क्सेकसेनध्यैअध्यैन्कध्यैकध्यैन्शध्यैशध्यैन्तवैतवेङ् तवेनः ॥ ३।४।९ ॥ कथं ज्ञायत इति । ठ्कर्तरि कृत्ऽ इति वचनात् भावस्तुमर्थो नोपपद्यत इति प्रश्नः । अपकर्षःउअपनयः, स्वार्थश्च धातूनां भाव इति साध्यमानरूपः । स एव हि धातुवाच्यो भावः । घञादिवाच्यस्तु भावो धात्वर्थव्यतिरिक्तः सिद्धतारूपः । पिबध्यै इति । ठ्यको बहुलं च्छन्दसिऽ इति लुकि पिबादेशः । मादयर्ध्यै इति । यकः प्रसङ्गे व्यत्ययेन शप् ॥ दृशे विख्ये च ॥ ३।४।११ ॥ योगविभागश्चिन्त्यप्रयोजनः ॥ ईश्वरे तोसुन्कसुनौ ॥ ३।४।१३ ॥ वितृद इति । ठोतृदिर् हिंसानादरयोःऽ ॥ कृत्यार्थे तवैकेन्केन्यत्वनः ॥ ३।४।१४ ॥ कृत्यानामर्थो भाकर्मंणी इति । यद्यपि भव्यगेयादिषु कर्ताप्यर्थः, वह्यं करणम्, स्नानीयं चूर्णित्यादिषु करणादयः; तथापि न तत्र कृत्यत्वेन कर्त्रादिषु विधानम्, किं तर्हि ? स्वरूपेण, अतः कृत्यतया विधानं भावकर्मणोरेवेति भावः । दिदृक्षेण्य इति । दृशेः सन्नन्तात्केन्यः । शुश्रूषेण्य इति । श्रृणोतेः । सयादिसूत्रेऽपीति । येन सयादयो विधीयन्ते तत्र ठ्तुमर्थे सेसेनसेऽ इत्यत्रेत्यर्तः । तस्य तुमर्थादन्यत्रेति । अन्यथाऽनेनैव तुमर्थे भावेऽपि सिद्धत्वादनर्थकं तत्स्यात् ॥ अवचक्षे च ॥ ३।४।१५ ॥ एश्प्रत्यय इति । शित्करणं सार्वधातुकत्वार्थम्, तेन चक्षिङ्ः ख्याञ् न भवति ॥ भावलक्षणे स्थेण्कृञ्वदिचरिहुतमिजनिभ्यस्तोसुन् ॥ ३।४।१६ ॥ संस्थानादीनामवधित्वेन लक्षणभावः । आ समाप्तेरिति । सम्पूर्वो हि तिष्ठतिः समाप्तौ रूढः; सन्तिष्ठते पिण्डपितृयज्ञ इत्यादौ दर्शनात् । आतामितोरिति । ठ्तमु ग्लानौऽ ॥ अलंखल्वाः प्रतिषेधयोः प्राचां क्त्वा ॥ ३।४।१८ ॥ ठ्तुमर्थेऽ इत्येव । अलंकृत्वेति । ठमैवाव्ययेनऽ इति नियमादुपपदसमासाभावः । न कर्तव्यमित्यर्थः । वासरूप इति चेदिति । पूर्वं तु प्रैषादिषु कृत्यानां वचनेन ठ्स्त्र्यधिकाराधूर्ध्वं वासरूपविधिर्नावश्यमस्तिऽ इति ज्ञापितत्वादिह तदभावमभिप्रेत्य प्राग्ग्रहणं विकल्पार्थमित्युक्तम् ॥ उदीचां माङे व्यतीहारे ॥ ३।४।१९ ॥ अपमित्येति । ठ्मेङ् प्राणिदानेऽ क्त्वो ल्यपि ठ्गयतेरिदन्यतरस्याम्ऽ इतीत्वं, ह्रस्वस्य तुक् । अपूर्वकालत्वादिति । पूर्व ह्यसौ याचते पश्चादपमयते । यदा चास्माद्वचनान्मयतेः क्त्वो भवति तदा ठ्समानकर्तृकयोःऽ इत्यादिना याचने भवति, अनेन बाधितत्वात्, यथा---द्वितीयद्विर्वचनेन प्रथमद्विर्वचनम् । अनभिधानाद्वा । मेङ् इत्यादि । मेङेऽयं कृतात्वस्य निर्देशः कृतः, न पुनः ठ्माङ् मानेऽ इत्यस्य, तस्य व्यतिहारे वृत्यसम्भवादित्यर्थः । यद्येवम , मेङ् इत्येव वक्तव्यम्, तत्रायमप्यर्थो व्यतीहारग्रहणं न कर्तव्यं भवति, तत्राह---ज्ञापनार्थमिति । किं ज्ञाप्यत इत्याह---नानुबन्धकृतमिति । प्रयोजनमाह---तेनेति । यद्ययमर्थो न ज्ञाप्येत, ततः श्रूयमाणे पकारे दैप आत्वं न स्यात्; अनेजन्तत्वात्, ततश्चादाबिति प्रतिषेधे तस्य ग्रहणं न स्यात्, ठ्दाप् लवनेऽ इत्यस्यैव तु स्यात् ॥ परावरयोगे च ॥ ३।४।२० ॥ परावरशब्दयोः सम्बन्धिशब्दत्वाद्यपदेक्षं परावरत्वम्, तयोः पूर्वपरयोरेव परावराभ्यां योगो गम्यते, इत्याह---परेण पूर्वस्येति । पूर्वशब्देनात्रावरो विवक्षितः । अप्राप्य नदीमिति । नद्याः पूर्वदेश इत्यर्थः । ततश्च नदी परा भवतीति । परनदीयोगेन पर्वतो विशेष्यति । अतिक्रम्य पर्वतमिति । पर्वतस्य परस्तादित्यर्थः । ततश्चावरः पर्वतो भवति तेनावरपर्वतयोगेन नदी विशेष्यते । अयमप्यपूर्वकालार्थ आरम्भः, अतिक्रमोऽत्र कीदृश इति चिन्त्यम् ॥ समानकर्तृकयोः पूर्वकाले ॥ ३।४।२१ ॥ क्रियापेक्षत्वात्कर्तृभावस्य धात्वधिकारेऽपि तदर्थस्यैव समानर्क्तृकत्वं विज्ञायते, न धातोरित्याह---समानः कर्ता ययोर्धात्वर्थयोरिति । कमानशब्दोऽयमेकवाची, तत्रेति निर्द्धारणे सप्तमीं दर्शयति । षष्ठ।लमपि न दोषः । सप्तमी त्वाश्रिता । पूर्वकाले धात्वर्थे वर्तमानादिति । प्राभाकरास्तु पूर्वप्रयुज्यमानादिति व्याचक्षते, अनुष्ठाने पौर्वकाल्यं नाद्रियन्ते; तद्भाष्यवार्तिकविरोधादुपेक्ष्यम् । उक्तं हि---आस्यं व्यादाय स्वपिति संमील्य हसतीत्युपसंख्यानमपूर्वकालत्वादिति । ननु च शक्तिः कारकम्, सा च प्रतिक्रियं भिद्यते, तत्कुतः समानकर्तृकत्वम् ? इत्यत आह---शक्तिशक्तिमतोरिति । इह समानकर्तृकयोरिति द्विवचननिर्देशः क्रियते, तेन द्वयोरेव पौर्वकाल्ये स्यात्, बहूनांन स्यात्, तत्राह---द्विवचनमतन्त्रमिति । अवश्यं येन केनचिद्ववचनेन निर्देशः कर्तव्यः, तत्र समानकर्तृकत्वस्य पूर्वकालत्वस्य च भेदाधिष्ठानत्वाद्भेदनिबन्धनयोर्व्दिवचनबहुवचनयोः प्रथमभावित्वाद् द्विवचनं प्रयुक्तम्, न त्वैततन्त्रमित्यर्थः । एवमपि लोकविज्ञानान्न सिद्ध्यति, तद्यथा लोके---अमीषां ब्राह्मणाअनां पूर्व आनीयताम् इत्युक्ते सर्वपूर्व एवानीयते, एवमिहापि सर्वपूर्वायाः क्रियायाः प्राप्नोति, तस्मादेवं वक्तव्यम्---सर्वेषामेवात्र व्रजि प्रति पौर्वकाल्यम्, स्नात्वा व्रजति भुक्त्वा व्रजति पीत्वा व्रजतीति । आख्यातवाच्या हि क्रिया विशेष्यत्कात्प्रधानम्, तेन तां प्रति सर्वासां विशेषणत्वात्परस्परेणासम्बन्धः, तदुक्तम्---ठ्गुणानां च परार्थत्वादसम्बन्धः समत्वात्स्यात्ऽ इति । एवं च कृत्वा प्रयोगोऽप्यनियतो भवति---स्नात्वा भुक्त्वा पीत्वा व्रजति, पीत्वा स्नात्वा भुक्त्वा व्रजतीति । भुक्तवति ब्राह्मण इति । ननु तुमर्थाधिकाराद्भावे क्त्वाप्रत्ययः, क्तवतुस्तु कर्तरि ? एवं तर्ह्यस्मिन्विषये भावे न भवतीति प्रत्युदाहरणत्वं वाच्यम्, ठ्श्रीशैलशिखरं दृष्ट्वा सर्वपापैः प्रमुच्यतेऽ इत्येवमादीनां कर्तृभेदविषयाणां प्रयोगाणामसाधुत्वमेव । व्रजति जल्पति चेति । यौगपद्यादिह पूर्वकालता नास्ति । अपूर्वकालत्वादि । पूर्वं ह्यसौ स्वपिति पश्चाद्व्याददाति, यदैव हसति तदैव संमीलयति, न वा स्वप्नस्यापरकालत्वात्, अस्यं त्वसौ व्यादाय मुहूर्तमपि स्वपिति संमील्य च हसति, ततश्चोतरकालभाविस्त्वापहासाद्यपेक्षं पौर्वकाल्यं तदाश्रयश्च प्रत्ययः । इह कस्मान्न भवति---पूर्वं भुङ्क्ते, ततो व्रजतीति ? स्वशब्देनोक्तत्वात् । ठ्विभाषाग्रेऽ इत्यनेनापि न भवति, किं कारणम् ? साधनपौर्वाकाल्यविषयाणामग्र्यादीनां तत्र ग्रहणम्, अन्येभ्यो भोक्तृभ्यः पूर्वं भुक्त्वा ततो व्रजतीति । इह तु व्रज्यपेक्षं भोजनस्य यत्पौर्वकाल्यं तत्र क्त्वाप्रत्ययश्चोद्यते, तत्पूर्वशब्देनोक्तम् । न च वचनसामर्थ्यादुक्तेऽपि प्रसङ्गः; साधनपौर्वकाल्यविषयेऽग्र्यादावुपपदे चरिताथेत्वात् । क्रियाविषयत्वाच्च कालव्यवहारस्य तद्द्वारकमेव साधनपौर्वकाल्यं द्रष्टव्यम् । उक्तं हि--- क्रियाभेदाय कालस्तु संख्या सर्वस्य भेदिका । इति । इहास्यते भोक्तुमिति वासरूपेण लड् भवति, यदा आसेः क्त्वा भवति तदा भुजेर्लडादय एव भवन्ति---आसित्वा भुङ्क्त इति, न तु तुमुन् ; अनभिधानात् । आसित्वा भोक्तुमित्युक्ते प्रक्रमत इत्यादीनां सम्बन्धः प्रतीयते ॥ आभीक्ष्ण्ये णमुल् च ॥ ३।४।२२ ॥ द्विर्वचनसहिताविति । केन पुनरत्र द्विर्वचनमित्याह---आभीक्ष्णये द्वे भवत इत्युपसङ्ख्यानाद् द्विर्वचनमिति । ठ्नित्यवीप्सयोःऽ इत्यत्र तु वामनो वक्ष्यति---ठ्तिङ्क्षु नित्यता अव्ययकृत्सु चऽ इति । तन्मते नित्यग्रहणादेवात्र द्विर्वचनम् । पायंपायमिति । ठातो युक्ऽ ॥ न यद्यनाकाङ्क्षे ॥ ३।४।२३ ॥ अनाकाङ्क्ष इति । पचाद्यजन्तेन नञ्समासः, तद्दर्शितम् । नापरं किञ्चिदाकाङ्क्षते इति । क्त्वा तु पूर्वसूत्रविहितोऽपीति । णमुल् चेत्युक्तम्, तदपेक्षं पूर्वत्वमपिशब्दादनन्तरसूत्रविहितोऽपि आभीक्ष्ण्येनाभीक्ष्ण्ये च क्त्वामात्रस्य प्रतिषेध इत्यर्थः । एतच्च पूर्वकाले यत्प्राप्नोति तन्न भवतीत्येवं प्रकरणापेक्षया प्रतिषेधविज्ञानाल्लभ्यते ॥ विभाषाग्रेप्रथमपूर्वेषु ॥ ३।४।२४ ॥ अग्रशब्दो देशविशेषवचनोऽप्यस्ति---प्रभोरग्रे भुङ्क्ते इति, इह तु प्रथमशब्दसाहचर्यात्कालविशेषवाचिनो ग्रहणम् । अनुकरणत्वाच्चाग्रे इति विभक्तेर्लुगभावः---अस्यवामीयमिति यथा । आमीक्ष्ण्य इति नानुवर्तत इति । अप्राप्तविभाषेयमित्यत्रेयंयुक्तिः । तदनुवृतौ हि पूर्वसूत्रेण प्राप्ते विभाषा स्याद्, एवं च ब्रुवता साधनपोर्वकाल्यविषया अग्र्यादय इत्युक्तं भवति । क्रियापौर्वकाल्ये हि अग्र्यादिभिरेव तस्योक्तत्वादाभीक्ष्ण्येऽपि क्त्वाणमुलोरप्राप्तिरिति ठाभीक्ष्ण्येऽ इत्यनुवृतावप्यप्राप्तविभाषैव स्यात् । न च द्विर्वचनमन्तरेणाभीक्ष्ण्यं द्योतयितुं शक्यमिति न तद्द्योतनायापि क्त्वाणमुलोर्विधानमुपपद्यते । नन्वननुवर्तमानेऽप्याभीक्ष्ण्यग्रहणे पूर्वसूत्रस्यावकाशो यत्राग्र्यादयो न सन्ति, अस्य तु यत्राभीक्ष्ण्यं नास्ति सोऽवकाशः; आभीक्ष्ण्ये चाग्र्यादिषु च सत्सूभयप्रसङ्गे परत्वादियमेव विभाषा प्राप्नोतीत्युभयत्र विभाषेयं युक्ता ? एवं मन्यते---पूर्वविप्रतिषेधेनाभीक्ष्ण्ये नित्य एव विधिर्भवतीति---अग्रेभोजंभोजं व्रजति, अग्रेभुक्त्वाभुक्त्वा व्रजति । एवं पूर्वप्रथमयोरपि द्रष्टव्यम् । नन्वेवं णमुल्यप्राप्ते क्त्वाप्रत्यये तु ठ्समानकर्तृकयोःऽ इत्यादिना प्राप्ते सत्ययमारम्भ इति पुनरप्युभयत्रविभाषैव युक्ता ? नैतदस्ति; सह विहितौ यौ क्त्वाणमुलौ यद्विषये वासरूपविधेरभावो ज्ञापयितुमिष्टः, तावनन्तरसूत्रविहितौ क्त्वाणमुलावभिप्रेत्याप्राप्तविभाषेयमुच्यते, न तु क्त्वाणमुल्मात्रपेक्षया । क्त्वाणमुलौ प्रत्ययौ भवत इति । किमर्थं पुनः क्त्वा विधीयते, यावता नाभीक्ष्म्येऽपि समानकर्तृकयोरित्येवासौ सिद्धः ? सत्यम् ; विभाषाग्रहणेन वासरूपविधेरभावो ज्ञाप्यत इति वक्ष्यति । न च केवलं णमुल्विधौ तदभावो ज्ञापयितुमिष्यते, किं तर्हि ? क्त्वासहितणमुल्विधौ । तस्माण्णमुलः क्त्वासहितस्य विधिर्यथा स्यादिति णमुल् चेत्यनुवृत्या क्त्वोऽप्यनुवादः क्रियते । एवं हि द्वयोः सह विधातुमुपादीयमानं विभाषाग्रहणं तादृश एव विषये वासरूपविधेरभावं ज्ञापयतीति सिद्धमिष्टम् । अग्रेभोजं व्रजतीति । अन्येभ्यो भोक्तृभ्यः पूर्वं भुक्त्वा व्रजतीत्यर्थः । आमीक्ष्ण्ये लडादयो न भवन्तीति । अग्रे भुङ्क्ते भुङ्क्ते ततो व्रजतीत्येवं न भवतीत्यर्थः । उपपदसमासः कस्मान्न भवतीति । प्राप्तविभाषायामस्यामग्र्यादीनां पक्षे प्रत्ययनिवृतौ निमितत्वम्, न तु प्रत्ययोत्पतौ, तयोः ठाभीक्ष्ण्ये णमुल् चऽ इत्यनेनाविशेषेण विहितत्वादित्यनुपपदत्वम् । अप्राप्तविभाषायां त्वग्र्यादीनां प्रत्ययोत्पतिं प्रति निमितत्वान्निमितस्य चोपपदसंज्ञाविधानादुपपदसमासः प्राप्नोतीति भावः । अमैव यतुल्यविधानमिति । एतच्च तत्रैव व्याख्यातम् ॥ कर्मण्याक्रोशे कृञः खमुञ् ॥ ३।४।२५ ॥ उदाहरणेषु करोतिरुच्चारणे वर्तते, तस्य शब्दात्मकमेव कर्म भवति । तत्र चोरादिशब्दाः शब्दप्रधानाः । चोरङ्कारम् । कोऽथेः ? चोरशब्दमुच्चार्येत्यर्थः, तदाह---चोरोऽसीत्यादि । चोरकरणमिति । चोरशब्दोच्चारणम् । आक्रोशसम्पादनार्थमिति । निन्दितशब्दोच्चारणमन्तरेण तस्य सम्पादयितुशक्यत्वात् । न त्वसाविति । न हि चोरोऽसीति वचनेन चोरः क्रियते ॥ स्वादुमि णमुल् ॥ ३।४।२६ ॥ स्वादुमीत्यर्थग्रहणमिति । एतच्च व्याख्यानाल्लभ्यते । स्वाद्वर्थेष्विति । मान्तत्वमपि सर्वेषां भवति; अर्थे सम्भावत् । लवणसम्पन्नशब्दावपि स्वादुशब्दापर्यायो । अथ ठ्स्वादुमिऽ इति मकारान्तनिपातनं किमर्थम्, याषता खमुञ् प्रकृतः, सोऽनुवतिष्यते, तत्र ठरुद्विषदजन्तस्य मुम्ऽ इति मान्तत्वं सिद्धमिति ? तत्राह---मकारान्तनिपातनमीकाराभावार्थमिति । भावप्रत्ययविषये मान्तत्वे निपात्यमाने ठ्वोतो गुणवचनात्ऽ इति ङीप् न भवति, मकारान्तत्वादुकारान्तत्वाभावादित्यर्थः । च्व्यन्तस्येति । खमुञ्यपि न सर्वत्र मुम् सिद्ध्यति; तद्विदौ ठनव्ययस्यऽ इत्यधिकारादिति भावः । एवं तर्हि मान्तत्वमेव निपात्यताम्, प्रत्ययस्तु प्रकृतः खमुञेव विधेयः ? नैतदस्ति; अव्ययार्थमेव मान्तनिपातनं स्यादिति ङीप्स्यादेव । णमुलि तु मान्तत्वमपूर्वं विधीयमानमीकाराभावार्थं च च्व्यन्तस्य च मकारान्तार्थं विज्ञायते । अवश्यं चोतरत्र णमुल् विधेय इति लाघवाभावादिहैव कृतः । अस्वाद्वीं स्वाद्वीं कृत्वेति । द्वयोर्वाक्ययोस्तन्त्रेणोपादानमेतत् । स्वाद्वीं कृत्वा यवागूं भुङ्क्त इतीकाराभावस्योदाहरणम्, अस्वादुअं स्वादुअं भुङ्क्त इत्यव्ययस्य । इह यदि क्त्वादयः प्रत्ययाः ठ्कर्तरि कृत्ऽ इति वचनात्कर्तरि स्युः, इह पक्त्वोदनो भुज्यते देवदतेनेति देवदतातृतीया न स्यात्, क्त्वाप्रत्ययेनाभिहितः कर्तेति । अथ क्त्वाप्रत्ययेनाभिधाने सत्यपि भुजिप्रत्ययेनानभिहितः कर्तेति कृत्वाऽनभिहिताश्रया विभक्तिर्भवति तृतीया ? यद्येवम्, ओदने द्वितीया प्राप्नोति, किं कारणम् ? भुजिप्रत्ययेनाभिधानेऽपि क्त्वाप्रत्ययेनानभिहितं कर्मेति । तथा यदि कर्मणि स्युः, पक्त्वौदनं भुङ्क्ते देवदतेन, पक्त्वौदनं भुङ्क्ते देवदत इत्येव तु भवति । तथास्मिन् णमुल्यपि स्वादुङ्कारं भुज्यते यावगूर्देअवदतेनेति यवाग्वा द्वितीया न भवति, स्वादुङ्कारं यवागूं भुङ्क्ते देवदत इत्यत्रापि कर्मणि द्वितीया भवति, कर्तरि तृतीया च न भवति । एवमा तुमुनो द्रष्टव्यम् । तथा ठ्तमुन्ण्वुलौ क्रियायां क्रियार्थायाम्ऽ ठ्समानकर्तृकेषु तुमुन्ऽ इत्यत्रापि तुमुनि भोक्तुमोदनः पच्यते देवदतेन, इष्यते ग्रामो गन्तुं देवदतेन, भोक्तुमोदनं पचति देवदतः, ग्रामं गन्तुमिच्छति देवदत इति सर्वत्रानुप्रयोगात् यत्र लादयस्तदनुरोधेनैव कर्तृकर्मणोर्विभक्तिर्भवति । तस्मादव्ययकृतः समानाधिकरण इति वक्तव्यम्, केन सामानाधिकरण्ये ? अनुप्रयोगेण । एतदुक्तं भवति---अनुप्रयुज्यमानाद्धातोर्यस्मिन्कारके लादयो विहितास्तत्रैवाव्ययकृतोऽपि भवन्तीति । एवं ह्युभाभ्यां कर्तृकर्मणोरभिहितत्वाद्यथायथं विभक्तयः सिद्ध्यन्ति । वृत्तिकारस्त्विममर्थमन्यथा साधयितुमाह---तुमर्थाधिकाराच्चेति । तत्र सयादिसूत्रे तुमर्थग्रहणातमुन् भावे भवतीति ज्ञापितम्, तदेव च तुमर्थग्रहणं ठ्शकधृषज्ञाऽ इतियावदनुवर्तते, अतः सर्व एते क्त्वादयो भावे भवन्तीति तत्र चोदयति----यद्येवमिति । तृतीया कस्मान्न भवतीति । एतच्चोपलक्षणम्, स्वादुङ्कारं यवागूःभुज्यते देवदतेनेत्यत्र कर्मणि द्वितीया कस्मान्न भवतीत्यपि द्रष्टव्यम् । ठनभिहितेऽ इति पर्युदासे चैतच्चोद्यम्---तदा हि सत्यभिधानेऽनभिधाने च यतोऽनभिधानं तदाश्रया विभक्तिः प्राप्नोति । परिहरति---भुजिप्रत्ययेनेति । ठनभिहितेऽ इति प्रसज्यप्रतिषेध आश्रीयते इति भावः । तदा हि यतोऽभिधानं तदाश्रयः प्रतिषेधो भवति । ननु च शक्तिः कारकम्, अन्या च करणविषया शक्तिः, अन्या च भुजिविषया, तत्र यद्येकस्या शक्तेरभिधानमनभिधानं च स्यात्, स्यादयं परिहारः, यतोऽभिधानं तदाश्रयः प्रतिषेध इति शक्तिभेदात्वयुक्तः ? इत्यत्राह---न चास्मिन्निति । किं कारणं भेदो न विवक्षितः ? इत्याह---समानकर्तृकत्वं हि विरुध्यत इति । ननु च मा नामास्मिन्प्रकरणे शक्तिभेदो विवक्षितः, ठनभिहितेनऽ इत्यत्र कस्मान्न विवक्ष्यते ? असम्बद्धमेतत् ; कथं हि तस्मिन्नेव प्रयोगे तदैव विवक्षाविवसे स्याताम् । किञ्चि---ठनभिहितेऽ इत्येकत्वादीनामाधारनिर्देशोऽनभिहिते कर्मादौ यदेकत्वादि तत्रेति, द्रव्यमेव चैकत्वादीनामाधारो न शक्तिः, अतस्तत्रापि द्रव्यमेवानभिहितमित्युच्यते, तस्य च शक्तिद्वारेणाभिधानानभिधानयोः सतोर्यतोऽभिधानं तदाश्रयः प्रतिषेधो भवतीति युक्तमेव । अभ्युपेत्यापि शक्तिभेदविवक्षां परिहारमाह---प्रधानशक्त्यभिधाने चेति । आख्यातपदवाच्या क्रिया विशेष्यत्वात्प्रधानम्, विशेषणभूता त्वप्रधानम्, तद्द्वारेण तद्विषययोः शक्त्योरपि गुणप्रधानभावः । तत्र प्रधानानुवतित्वाद् गुंणानां तन्मुखप्रेक्षित्वातद्विरुद्धस्वकार्यारम्भाभावाद्यथायथं विभक्तिसिद्धिरित्यर्थः । उक्तं च--- प्रधानेतरयोर्यत्र द्रव्यस्य क्रिययोः पृथके । शक्तिर्गुणाश्रया तत्र प्रधानमनुरुद्ध्यते ॥ प्रधानविषया शक्तिः प्रत्ययेनाभिधीयते । यदा गुणे तदा तद्वदनुक्तापि प्रतीयते ॥ इति । वयं तु ब्रूमः---सकृत् श्रुतस्य युगपदुभाभ्यां सम्बन्धाभावादेकेनैव प्रधानेन शाब्दोऽन्वय इति, इतरेण तु सन्निधानादार्थ इति ॥ अन्यथैवंकथमित्थंसु सिद्धाप्रयोगश्चेत् ॥ ३।४।२७ ॥ कथं पुनरसौ सिद्धाप्रयोग इति । सिद्ध ओदन इत्यादौ सिद्धशब्दो निष्पन्नवचनः, ततश्च सिद्धश्चेदप्रयोगः कथमप्रयुज्यमानाततो णमुल्विधिरिति प्रश्नः । ठ्सिद्धे सत्यारम्भोनियमार्थःऽ इतिवत्प्राप्तवचनः सिद्धशब्द इत्युतरम् । निर्थकत्वादिति । निष्प्रयोजनत्वात् । एवमेवेति । निरर्थक एव सन्नित्यर्थः । एतदेव स्फोरयति---अन्यथा भुङ्क्त इति । यावानर्थ इति । उदाहरणेष्वनुप्रयोगेषु या क्रिया तत्प्रकारवचना अत्रान्यथादयः । अन्यथा कृत्वा शिरो भुङ्क्त इति । अत्र तु विना करोतिना शिरसोऽन्यथाकरणं न प्रतीयते, भुजिक्रियागत एव प्रकारे गम्यते, अतोऽवश्यं प्रयोज्यः करोतिः ॥ यथातथोरसूयाप्रतिवचने ॥ ३।४।२८ ॥ यद्यसूयन् पृच्छति प्रतिवक्तीति । पृच्छति सति यद्यसूयन्प्रतिवक्तीत्यर्थः । ठसु मानसोपतापेऽ कण्ड्वादिः । तत्रेति । एवम्भूते विषये यत्प्रतिवचनं तदसूयाप्रतिवचनमित्यर्थः । यथाकारमिति । प्रष्टुअमनर्हः सन्यदि पृच्छति तदेदमुतरम् । यथा कृत्वाहं भोक्ष्य इति । तत्वकथनमेतत् । कथं पुनरत्र क्त्वाप्रत्ययः, यावता ठ्सिद्धाप्रयोगेऽ इति वचनादनर्थकोऽत्र करोतिः, ततश्च भेदनिबन्धनस्य पौर्वकाल्यस्य समानकर्तृकत्वस्य चाभावान्नात्र प्राप्नोति, णमुल् पुनरुभयाभावेऽपि वचनसामर्थ्याद्भवति ? उच्यते; क्रियासामान्यवचनः करोतिस्तद्विषयप्रकारो यथातथाशब्दाभ्यामुच्यते, तत्र सामान्यस्य सन्निहिते विशेषे पर्यवसानातद्विषय एव प्रकार उक्तो भवदि, ततश्च यथा भोक्ष्यते इति यावानर्थस्तावानेन सत्यपि करोतावित्येतावता सिद्धाप्रयोगत्वमुच्यते, न पुनरत्यन्तमबिदेयाभावात्, ततश्च क्रियाभेदनिबन्धन उपपन्न एव क्त्वाप्रत्ययः । एवं च कृत्वा पूर्वसूत्रेऽपि वासरूपेण क्त्वा भवति । भाष्येऽपि तत्र तत्र प्रयुज्यते--ठन्यथा कृत्वा चोदितमन्यथा कृत्वा परिहार उक्तःऽ, ठ्कथं कृत्वा बाधकम्ऽ इत्यादि ॥ कर्मणि दृशिविदोः साकल्ये ॥ ३।४।२९ ॥ कर्मण्युपपदे साकल्यविशिष्ट इति । सकलस्य भावः साकल्यम्, तद्विशिष्टे कर्मण्युपपदे इत्यर्थः । कन्यादर्शं वरयतीति । अत्र दर्शनविषयभूतानां सर्वासामेव कन्यानां वाक्यार्थेनान्वयात्साकल्यम्, सर्वाः कन्या वरयतीत्यत्रापि दर्शनविषयभूता इत्यर्थः । अतिशयप्रतिपादनपरं चैतत्; यस्मात्कस्याश्चित्परित्यागेऽपि भवत्येव । जानाति लभते विचारयति वेति । सतार्थस्य तु विदेरकर्मकत्वादग्रहणमिति भावः ॥ यावति विन्दजीवोः ॥ ३।४।३० ॥ विन्देति विदेर्लाभार्थस्यानुकरणम्, तस्य हि विन्दतीत्यादौ ठ्शे मुचादीनाम्ऽ इति नुमस्ति । यावल्लभते ताक्द् भुङ्क्ते इत्यर्थ इति । एतेनासाकल्यं दर्शयति, साकल्ये हि पूर्वेणैव सिद्धम् ॥ चर्मोदरयोः पूरेः ॥ ३।४।३१ ॥ कर्मणीत्यनुवृतेः पूरेरिति ण्यन्तस्येदं ग्रहणम्, केवलस्याकर्मकत्वादित्याह---पूरयतेरिति । उदरपूरं भुङ्क्त इति । उदरं पूरयन् भुङ्क्त इत्यर्थः । एवमादिषु प्रायेण पौर्वकाल्यं नास्ति, तस्मात् ठ्पूर्वकालेऽ इति न सम्बन्धनीयमित्याहुः ॥ वर्षप्रमाण ऊलोपश्चास्यान्यतरस्याम् ॥ ३।४।३२ ॥ गोष्पदपूरमिति । गोः पदं पूरयन्वृष्ट इत्यर्थः, वृषरेकर्मकत्वात्कर्तरि क्तः । अत्रापि ठ्पूर्वकालेऽ इति न सम्बन्धनीयमित्याहुः । सीतापूरमिति । सीताउलाङ्गलपद्धतिः । अस्यग्रहणं किमर्थमिति । सन्निधानादेव पूरयतेरूलोपो विज्ञास्यत इति प्रश्नः । उपपदस्य मा भूदिति । अस्येत्यनुच्यमाने वर्षप्रमाणवदूलोपोऽपि समुदायविषयो विज्ञायेत---प्रकृत्युपपदसमुदाये सन्निहितो य ऊकारस्तस्य लोप इति, ततश्चोपपदस्यापि स्यादिति भावः । ठूलोपश्चास्यान्यतरस्याम्ऽ इति शक्यमकर्तुम् । कथं गोष्पदप्रमिति ? ठ्प्रापूरणेऽ इत्यस्माद्धातोः ठातोऽनुपसर्गे कःऽ, क्रियाविशेषणत्वात्कर्मत्वनपुंसकत्वे, न रूपभेदः, नार्थभेदः, न स्वरभेदः । कप्रत्यये थाथादिसूत्रेणान्तोदातत्वम्; णमुल्यूलोपे कृते पूर्वस्य स्वरभाजोऽभावात् ठ्लितिऽ इत्यस्याप्रवृतौ प्रत्ययखरः, तस्य कृदुतरपदप्रकृतिस्वरेणावस्थानमित्यन्तोदातत्वमेव । ननु च णमुलि सति ठ्कृन्मेजन्तःऽ इत्यव्ययत्वाद्विभक्तीनां श्रवणं न भवति, तरपि च गोष्पदप्रतरपमिति भवति, कल्पबादौ च गोष्पदप्रकल्प इति भवति, अज्ञातादिषु चाव्ययत्वादकज्भवति, के तु सति सर्वमेतन्न सिद्ध्यति ? उच्यते; इष्यते तावद्विभक्तीनां श्रवणमेकेन गोष्पदप्रेणेति, तरबादिषु चोपन्यस्तानि रूपाणि नेष्यन्त एव । एतच्च भाष्ये ऊलोपप्रत्यख्यानादवसीयते । ननु च गोष्पदपूरमित्याद्यपि घञैव सिद्धम् ? न सिद्ध्यति, यदि तावत्करणे घञं विधाय तदन्तेन कर्मणि षष्ठयाः समासः क्रियते, ततस्थाथादिस्वरेणान्तोदातत्वं स्याद् । अथ भावे घञि व्यधिकरणपदो बहुव्रीहिः क्रियते---गोष्पदस्य पूरणमस्मिन्वर्ष इति, ततः पूर्वपदप्रकृतिखरप्रसङ्गः । गोष्पदपूरन्तराम्, गोष्पदपूरङ्कल्पमित्यादि च न सिद्ध्यति, तस्माद् ठ्वर्षप्रमाणेऽ इति वक्तव्यम् ॥ चेलेः क्नोपेः ॥ ३।४।३३ ॥ अस्माद्धातोर्ण्यन्तादिति । पुका निर्देशादेव ण्यन्तत्वमवसीयते, व्याख्यानाच्चेल इत्यर्थग्रहणमित्याह---चेलार्थेष्विति । चेलक्नीपं वृष्ट इति । चेलं क्नोपयनुशब्दाययन्वृष्ट इत्यर्थः । यथा वर्षणे चेलानि शब्दायन्ते तथा वृष्ट इति यावत् ॥ निमूलसमूलयोः कषः ॥ ३।४।३४ ॥ अत्र प्रकरणे समानकर्तृकत्वमेव । निमूलकाषमिति । कषतिर्हिसार्थः । एकस्यैव धात्वर्थस्य सामान्यविशेषभावेन भेदे सति विशेषणविशेष्यभावः । निगतं मूलमस्य निमूलम् । सह मूलेन समूलं कषणं करोति, सह मूलेन कर्षतीत्यर्थः । एवं सर्वत्र प्रकरणे द्रष्टव्यम् ॥ समूलाकृतजीवेषु हन्कृञ्ग्रहः ॥ ३।४।३६ ॥ जीवग्राहमिति । जीवतीति जीवः, इगुपधलक्षणः कः । जीवन्तं गृह्णातीत्यर्थः ॥ करणे हनः ॥ ३।४।३७ ॥ नित्यसमासार्थं चेति । ठ्हिसार्थानाम्ऽ इत्यनेन णमुलि ठ्तृतीयाप्रभृतीन्यन्यतरस्याम्ऽ इति विकल्पितः समासः स्याद्, अतो हिंसार्थेऽप्यनेनैव णमुलेषितव्य इत्यर्थः । कथं पुनरिष्यमाणोऽपि लभ्यते, यावताऽहिंसार्थे हन्तौ सावकाशोऽयं विधिः, ठ्हिंसार्थानाम्ऽ इत्यस्य तु हन्तिव्यतिरिक्तो हिंसार्थोऽवकाशः; हिंसार्थे हन्तावुभयप्रसङ्गे परत्वात्स एव विधिः प्राप्नोति ? तत्राह--पूर्वविप्रतिषेधेनेति । कथं तर्हि ठ्हिंसार्थानाम्ऽ इत्यत्रोदाहरिष्यते---दण्डोपघातं गाः कालयति, दण्डेनोपघातं वेति ? अत्राहुः---यत्रैक एव धात्वर्थः सामान्यविशेषभावेन भिद्यमानो विशेषणविशेष्यबावमनुभवति सोऽस्य विषयः; ठ्कषादिषु यथाविध्यनुप्रयोगःऽ इति वचनात् । अत्यन्तभिन्नधात्वर्थसम्बन्धे तु तेनैव णमुल् भवतीति । एवं च नित्यसमासार्थो यथाविध्यनुप्रयोगार्थश्चेति, कोऽर्थः ? यथाविध्यनुप्रयोगार्थः सन्नित्यसमासार्थ इत्यर्थः । इह द्वर्हन्ग्रहणं समूलग्रहणं च क्रियते, सकृदेव तु शक्यं कर्तुम्, कथम् ? एवं वक्ष्यामि---जीवाकृतयोर्ग्रहकृञः; शुष्कचूर्णरुक्षेषु पिषः, निमूले कषः, समूले हनश्च, चकारात्कषश्च, ततः करणे हन इत्येव, यदेतत्कषादिषु यथाविध्यनुप्रयोग इति एतद्ग्रहादिष्विति वक्तव्यम् । तथा तु न कृतमित्येव ॥ स्नेहने पिषः ॥ ३।४।३८ ॥ व्याख्यानात्स्नेहने इत्यर्थग्रहणमित्याह---स्नेहनवाचिनीति । उदपेषमिति । ठ्पेषंवासवाहनधिषु चऽ इत्युदकस्योदभावः । ठ्शुष्कचूर्णऽ इत्यत्र स्नेहनग्रहणं न कृतम्, कर्मणि तत्र प्रत्ययः, इह तु करणे ॥ हस्ते वर्तिग्रहोः ॥ ३।४।३९ ॥ ठ्जीवे ग्रहः, हस्ते च, वर्तेश्चऽ इति नोक्तम्, तत्र कर्मोपपदम्, इह तु करणम् । वर्तिर्ण्यन्त इति । निर्देश एवात्र प्रमाणम् । हस्तवर्तं वर्तयतीति । हस्तेन वर्तयति, गुलिकां करोतीत्यर्थः ॥ स्वे पुषः ॥ ३।४।४० ॥ स्वपोषमिति । पित्पर्यायवचनस्य चेति । स्वरूपेऽपि भवति ॥ संज्ञायाम् ॥ ३।४।४२ ॥ अनधिकरणार्थोऽयमारम्भः, पूर्वयोगस्त्वसंज्ञार्थः । कथं तर्हि ग्रामे बन्ध इति ? वासरूपविधिना घञ् भविष्यति ॥ कर्त्रोर्जीवपुरुषयोर्नशिवहोः ॥ ३।४।४३ ॥ जीवेन नष्ट इति । जीवेन करणेनापदं प्राप्त इत्यर्थः । पुरुषेणोढ इति । पुरुषेण करणेन देशान्तरं प्रापितो देवदतादिरित्यर्थः ॥ ऊर्ध्वे शुषिपूरोः ॥ ३।४।४४ ॥ ऊर्ध्वशोषं शुष्यतीति । वृक्षादिरूर्ध्व एव तिष्ठन् शुष्यतीत्यर्थः । ऊर्ध्वः पूर्यत इत्यर्थ इति । ऊर्ध्वमुख एव सन् घटादिर्वर्षोदकादिना पूर्णो भवतीत्यर्थः ॥ उपदंशस्तृतीयायाम् ॥ ३।४।४७ ॥ इतः प्रभृति पौर्वकाल्यमप्यस्ति । मूलकोपपदंशं भुङ्क्ते इति । ननु च नात्र तृतीयान्तस्योपदंशिना संबन्धः, न हि मूलकेनान्य उपदश्यते, किं तर्हि ? तदेवोपदश्यते, भुजिना तु संबन्ध उपपद्यते ; तम्प्रति करणत्वात्, किं तूपदंशिना समार्थ्याभावात्प्रत्ययो न प्राप्नोति, उपपदसंज्ञा च नस्यात्, तदभावादुपपदसमासोऽपि न प्राप्नोति, वचनस्य तु दशनैरुपदश्य भुङ्क्ते इत्यादिरवकाशः स्यात् ? इत्यत आह---मूलकादि चेति । सत्यं मूलकादेर्भुजिनैव शाब्दोऽन्वयः, उपदंशिना तु कर्मापेक्षायां सन्निधानाद्योग्यत्वाच्च वस्तुतः सम्बन्धोऽस्त्येव, भुजिं प्रति करणत्वमन्यथा नोपपद्यते, ततश्चायमर्थः---मूलकेन भुङ्क्ते, किं कृत्वा ? उपदश्य, किमुपदश्य ? तदेव मूलकमिति । यदि तु यत्र तृतीयान्तेनैव शाब्दोऽन्वयस्तत्रैवायं प्रत्ययोऽभिमतः स्यात्, करण इत्येव ब्रूयाद्, यथा--करणे हन इति । तस्मादार्थेन सम्बन्धेन सामर्थ्ये सति प्रत्ययादिकं सर्वं भविष्यति ॥ हिसार्थानां च समानकर्मकाणाम् ॥ ३।४।४८ ॥ ठ्धातुसम्बन्वेऽ इत्यधिकारादनुप्रयोगधातुना समानकर्मत्वं विज्ञायते, इत्याह---अनुप्रयोगधातुनासमानकर्मकाणामिति । कालयति । ठ्कल विक्षेपेऽ चुरादिः । दण्डताडमिति । ठ्तड आघातेऽ चुरादिरेव । उपहत्येति । ठ्वा ल्यपिऽ इत्यनुनासिकलोपः, ह्रस्वस्य तुक् ॥ सप्तम्याञ्चीपपीडरुधकर्षः ॥ ३।४।४९ ॥ उपशब्दः प्रत्येकमिति । पीडादीनां समाहारद्वन्द्वं कृत्वोपपूर्वः ठ्पीडरुधकर्षऽ इत्युतरपदलोपी समासः । सौत्रः पुंल्लिंङ्गनिर्देशः । करणाधिकरणविवक्षाभेदेनोपपदेषु विभकर्तिदूयम् । कर्षतेरिति भौवादिकस्य, न कृषतेरिति; तौदादिकस्य शपा निर्देशात् । शपा निर्देशस्तु विहितगुणस्योच्चारणाद्विज्ञायते । सूत्रे तु पञ्चम्यर्थे प्रथमा, किञ्च स्याद्यदि तौदादिकस्य ग्रहणं स्यात्, यावतोभयोरपि विलेखनार्थत्वान्नार्थभेदो नापि रूपभेदः ? यद्याप्युभयोरपि विलेखने पाठः, तथापि तौदादिकस्य क्षेत्रविषये विलेखने वृत्तिः---पञ्चभिर्हलैः कृषतीति । तेन क्षेत्रे उपकृष्य हलेनोपकृष्येति तौदादिकात् क्त्वाप्रत्यय एव भवति, न णमुल् ॥ समासतौ ॥ ३।४।५० ॥ सप्तम्यां तृतीयायामित्यनुवर्तते इति । पूर्वसूत्रेऽपि स्वरितत्वादेव तृतीयाऽनुवर्तते, सप्तम्यां तु तस्या निवृत्तिर्मा विज्ञायीति चकारः क्रियते । तेन चानुकृष्टमुतरत्र नानुवर्तते इति न चोदनीयम् । युद्धसंरम्भादिति । कोपादिना मनः क्षोभपूर्वको वाक्कायविकारःउसंरम्भः, युद्धार्थः संरम्भो युद्धसंरम्भः, अश्वघासादिवत्षष्ठीसमासः । अत्यन्तं सन्निकृष्य युद्ध्यन्ते इत्यर्थ इति । सन्निकर्षप्रतिपादनपरमेतत्केशग्रहणं भवतु, मा वा भूदिति ॥ प्रमाणे च ॥ ३।४।५१ ॥ तृतीयासप्तम्योरित्येवेति । अर्थानुवृत्तिप्रदर्शनमेतत्, न ह्यएवंविधः शब्दः प्रकृतोऽस्ति । द्व्यङ्गुलोत्कर्षंमिति । द्वयोरङ्गुल्योः समाहारो द्वयङ्गुलम्, ठ्तत्पुरुषस्याङ्गुलेःऽ इत्यच्समासान्तः, द्व्यङ्गुलेनोत्कृष्य परिच्छिद्येत्यर्थः । ह्रस्वाः खण्डाःउखण्डिकाः । अपादाने परीप्सायाम् ॥ ३।४।५२ ॥ परीप्सा त्वरिति । ठ्ञित्वरा सम्भ्रमेऽ घटादिः, ठ्घटादयः षितःऽ, षित्वादङ् । शय्योत्थायमिति । ठुदः स्थास्तम्भोःऽ इति तिष्ठतिसकारस्य तकारः, पूर्वद्यौक् । अवश्यकर्तव्यमपीति । अक्षिप्रक्षालनादिकम् । द्वितीयायां परीप्सायामित्येवेति । ठनुदातं पदेमकवर्जम्ऽ इत्यत्रापि परीप्सा भवत्येव, कथम् ? परिभाषेयम्, पदग्रहणं च परिभाषार्थम् । तेनोदातः स्वरितो वा यत्र विधीयते तत्र तत्समकालमेवैकमचं वर्जयित्वा परिशिष्टमनुदातं कर्तव्यम्, न विलम्बितव्यमिति ॥ स्वाङ्गेऽध्रुवे ॥ ३।४।५४ ॥ स्वाङ्गलक्षणं चतुर्थे वक्ष्यते---अद्रवं मूर्तिमदित्यादि । अक्षिनिकाणमिति । ठ्कण निमीलनेऽ चुरादिनिपूर्वः । उत्रिप्य शिरः कथयतीति । ननु च ध्रुवमिति नित्यमुच्यते---ध्रुवा द्यौर्ध्रुवा पृथिवीति यथा; अध्रुवमनित्यम्, शिरश्चाप्यनित्यमेव, प्राणिनामेवानित्यत्वादत आह---यस्मिन्नङ्ग इति । अयं भावः---विशेषणसामर्थ्यात्प्रकर्ष आश्रीयते, प्रकर्षेण यदध्रुवमिति । प्रकर्षश्च जीवत्यपि प्राणिनि कदाचिदभाव इति ॥ परिक्लिश्यमाने च ॥ ३।४।५५ ॥ परिक्लिश्यमान इति । ठ्क्लिशू विबाधनेऽ इत्येतस्यैतद् रूपम्, न तु ठ्क्लिश उपतापेऽ इत्यस्य, परिश्च सर्वतो भाव इत्याह---परिक्लेशः सर्वंतो विबाधनमिति ॥ विशिपतिपदिस्कन्दां व्याप्यमानासेव्यमानयोः ॥ ३।४।५६ ॥ अनवयवेनेति । साकल्येन । पदार्थानामिति । गेहादीनाम् । तात्पर्यमिति । पौनः पुन्यमाभीक्ष्ण्यमित्यर्थः । द्रव्ये व्याप्तिरित्यादिना व्याप्त्यसेवयोर्विषयविभागं दर्शयति । गेहानुप्रवेशमिति । ननु व्याप्तौ वीप्सा गम्यते, आसेवायां च नित्यत्वमिति ठ्नित्यवीप्सयोःऽ इति द्विर्वचनं प्राप्नोति, तत्कस्मान्न भवतीत्याह---समासेनेति । यद्यपि समास एतयोरर्थयोर्न विधीयते, तथापि स्वभावत एतयोस्तेनाभिदानम्, यथा---सप्तपर्वा इति, पर्वगताया वीप्सायाः---पर्वणिपर्वणि सप्त पर्णान्यस्येति । तथा च वक्ष्यतीति । ठ्नीत्यवीप्सयोःऽ इत्यत्र वक्ष्यति । भाष्यकारः । तिङ्क्षु नित्यतेति । उपलक्षणम्, ठव्ययकृत्सु चऽ इत्यपि द्रष्टव्यम् । क्त्वानिवृत्यर्थमिति चेदिति । ठाभीक्ष्ण्ये णमुल् चऽ इत्यनेन क्त्वाणमुलौ द्वावपि विहितौ, तत्र विश्यादिभ्यो णमुलेव यथा स्यात्, क्त्वाप्रत्ययो मा भूदित्येवमर्थं पुनर्ममुलुच्यत इति चेदित्यर्थः । दूषयति---नेष्टत्वादिति । इष्यते ह्यासेवायां विशिप्रभृतिभ्यः क्त्वा---गेहमनुप्रविश्यानुप्रविश्यास्त इति । द्वितीयोपपदार्थं तर्हीति । अत्र हि ठ्द्वितीयायां चऽ इत्यधिकारद् द्वितीयान्तस्योपपदसंज्ञा लभ्यते, किमर्थं पुनरुपपदत्वमिष्यते ? इत्याह---उपपदसमास इति । ठ्तृतीयाप्रभृतीन्यन्यतरस्याम्ऽ इति वचनात्पक्ष इत्युक्तम् । तेन हि सत्युपपदाभाव इति । सप्तमीस्थस्य कस्यचिदभावात् ॥ अस्यतितृषोः क्रियान्तरे कालेषु ॥ ३।४।५७ ॥ ठसु क्षेपणेऽ, ठ्ञितृषा पिपासायाम्ऽ । क्रियामन्तरयतीति क्रियान्तर इति । व्यवधानवाचिनोऽन्तरशब्दातत्करोतीति णिचि ठ्कर्मण्यण्ऽ । पाययतीति । पिबतेर्णिचि ठ्शाच्छासाह्वाऽ इत्यादिना युक् । अत्यसनेनेत्यादि । यच्चाद्य पानं यच्च द्व्यहे गते भविता, तन्मध्यवर्तित्वादत्यसनतर्षणयोः, एतदेव स्पष्टयन्नुदाहरणस्यार्थमाह---अद्य पाययित्वेत्यादि । द्व्यहमुपोष्येति । उपपूर्वाद्वसेः क्त्वा ल्यप्, यजादित्वात्सम्प्रसारणम्, ठ्शासिवसिघसीनां चऽ इति षत्वम्, अत्रोपवासेन भोजनं व्यवधीयते । अहरिति । ठ्कालाध्वनोःऽ इति द्वितीया । कृत्स्नमहरिषूनत्यस्य क्षिप्त्वा गत इत्यर्थः । योजनमत्यस्येति । क्वचित्स्रुघ्नादौ पाययित्वा तता योजनमतिक्रम्य पाययतीत्यर्थः ॥ नाम्न्यादिशिग्रहोः ॥ ३।४।५८ ॥ आदिशेर्ग्रहेश्चेति । एतेनाङे दिशिनैव सम्बन्धः, न ग्रहिणेति दर्शयति ॥ अव्ययेऽयथाभिप्रेताख्याने कृञः क्त्वाणमुलौ ॥ ३।४।५९ ॥ ठयथाभिप्रेताख्यानेऽ इति नञः प्रश्लेषः पश्चान्निर्देशाद्विज्ञायते, अन्यथाऽसन्देहार्थं पूर्वं निर्दिशेत्, अयथाभिप्रेतशब्दश्चाख्यानक्रियाविशेषणं यथाभिप्रेतं न भवति तथाख्यान इत्यर्थः । पुत्रजन्म प्रार्थमानं ब्राह्मणं गत्वा केनचिद्गोपनीयवन्नीचैराख्यातम्--ब्राह्ण पुत्रस्ते जात इति तममृष्यमाणो ब्राह्मण आह--किं तर्हीति । पुत्रजन्माख्यानस्य प्रियत्वेऽपि आख्यानप्रकारस्यानभिप्रेतत्वाद्भवत्युदाहरणम्, त एवायथाभिप्रेताख्यान इत्युक्तम्, न पुनरप्रियाख्यान इति । आचक्ष इति । लट्, ठ्थासस्सेऽ, शपो लुकि ठ्स्कोः संयोगाद्योःऽ इति ककारलोपः, ठ्षढोः कः सिऽ । उदाहरणेऽयथाभिप्रेताख्यानं दर्शयति---उच्चैर्नामेति । नामशब्दः प्रसिद्धौ, न पुनरिदं ब्राह्मणवाक्यमुक्तमिति ठुपदंशस्तृतीयायाम्ऽ इत्यत्रेदमुक्तम् । समासार्थं वचनमिति । एतदेवोपपादयति---तथा हीति । ठ्क्त्वा चऽ इत्यत्र ठ्तृतीयाप्रभृतीन्यन्यतरस्याम्ऽ इति वर्तते, तस्मादनेन यः क्त्वा विहितस्तेनैव पक्षे समासो लभ्यते, न तु समानादिसूत्रविहितेन, न हि तेन तृतीयाप्रभृतिषूपपदेषु क्त्वा विधीयत इत्यर्थः । णमुल्ग्रहणमनर्थकम्, प्रकृतो ह्यसौ तत्र क्त्वा चेति वक्तव्यम् ? इत्यत आह---णमुलधिकार इत्यादि । तुल्यकक्षत्वमुतुल्यबलत्वम् ॥ तेनेत्यादि । यदि तु चकारेण णमुलनुकृष्येत, उतरत्र नानुवर्तेत; यत्नाभावात् । पुनर्णमुल्ग्रहणे तु द्वन्द्वनिर्दिष्टयोर्द्वयोरप्युतरत्रानुवृत्तिः सिद्धा भवति ॥ तिर्यच्यपवर्गे ॥ ३।४।६० ॥ तिर्यवकृत्येति । तिरोऽञ्चतीति ठृत्विग्ऽ इत्यादिना क्विन्, ठ्तिरसस्तिर्यलोपेऽ इति तिर्यादेशः । व्युत्पत्तिमात्रं चैतत्, न त्वत्रावयवार्थोऽस्ति, समुदायो ह्ययमपवर्गे वर्तते तद्दिर्शितम् । समाप्य गत इत्यर्थ इति । तिर्यवकृत्वेति । अनृजु कृत्वा, अग्रतः स्थितं पार्श्वे क्षिप्त्वेत्यर्थः । ठ्तिर्यचिऽ इत्ययुक्तोऽयं निर्देशः, भसंज्ञायां सत्याम्, ठचःऽ इत्यकारलोपे तिरश्चीति भवितव्यम् ? अत आह--तिर्यचीति शब्दानुकरणमेतदिति । ठचऽ इत्यर्थवतोऽजित्यस्य ग्रहणम् । स चार्थो लोकप्रसिद्धो गृह्ते; ठभिव्यक्तपदार्था ये स्वतन्त्रा लोकविश्रुताःऽ इति न्यायात् । अतोऽञ्चेः स्वार्थे वर्तमानस्याल्लोपः । एततु तत्र स्थितस्य शब्दरूपस्यानुकरणम्, तेनानुकार्येण रूपेणार्थवन्न तु लौकिकार्थेन, तेन लोपाभाव इति भावः । नन्वेवमपि ठ्प्रकृतिबदनुकरणं भवतिऽ इति लोपः प्राप्नोत्येवात आह---न च प्रकृतिवदनुकरणेन भवितव्यमिति । कस्मादित्याह---अनुक्रियमाणरूपविनाशप्रसङ्गादिति । यादृशं रूपमनुकर्तुमिष्ट्ंअ तादृशं न प्रतीयेत, लौकिक एव त्वर्थः प्रतीयेतेत्यर्थः । क्व च यथा प्रकृतिवदनुकरणं भवतीत्याह---एतदोऽशित्यादि । यद्यनुक्रियमाणरूपविनाशेऽपि प्रकृतिवदनुकरणं स्यात्, एतदः, अदस इत्यत्रोभयत्रापि त्यदाद्यत्वादिके प्रकृतिकार्ये सति एतस्य, अमुष्येति रूपं स्यात् । ननु प्रयोजनानुवतिं प्रमाणं ततश्चेल्लोपः प्राप्नोति कर्तव्य पवायम् ? कथम् ? ठ्यतदेतेभ्यःऽ इति त्यदाद्यत्वम् , अस्यवामीयमिति यस्येति लोपः, गवित्ययमाहेत्यवादेशः, पटिति करोतीत्यनुक्रियमाणरूपविनाशे सत्यपि ठव्यक्तानुकरणस्यात इतौऽ इति पररूपत्वं वा भवति । तस्मादुभयथा निर्देशदर्शनात् क्वचित्प्रकृतिबदनुकरणं भवति, क्वचिन्नेति वाच्यम् । तथा चास्मिन्नेव सूत्रे भाष्यम्---सौत्रो निर्देश इति ॥ स्वाङ्गे तस्प्रत्यये कृभ्वोः ॥ ३।४।६१ ॥ ठ्तस्प्रत्ययेऽ इति बहुव्रीहिनिर्देश इत्याह---तस्प्रत्ययोयतः स्वाङ्गातदेवमुच्यत इति । न च ठ्क्विन्प्रत्ययस्य कुःऽ इतिवत्कदाचितस्प्रत्ययान्तत्वेन दृष्टे संप्रत्यतदन्तेऽपि स्वाङ्ग प्रसङ्गः, तस्प्रत्ययग्रहणसामर्थ्यात् । कर्मधारयो वायम्---तस्प्रत्यये परतो यत्स्वाङ्गं तस्मिन्नुपपदे इति । वृतौ तु वस्तुमात्रं प्रदर्शितम् । यथासंख्यमत्र नेष्यत इति । व्याख्यानात् । मुखत इति । आद्यादित्वात्सप्तम्यर्थे तसिः । मुखे तस्यतीत्यादि । ठ्तसु उपक्षयेऽ इत्यस्मान्मुखशब्द उपपदे ठन्येभ्योऽपि दृश्यतेऽ इति क्विप्---मुखतः, ठत्वसन्तस्य चऽ इति दीर्घो न भवति; ठधातोःऽ इति प्रतिषेधात् । प्रत्ययाप्रत्ययपरिभाषयैवात्राप्रसङ्गात् नार्थः प्रत्ययग्रहणेन ॥ नाधार्थप्रत्यये च्व्यर्थे ॥ ३।४।६२ ॥ नार्थो धार्थश्चेति । नाधासहचरितोऽर्थो नाधा शब्दाभ्यामुक्तः, नार्थो यस्य स नार्थः, नार्थार्थ इत्यर्थः । एतेन धार्थो व्याख्यातः । प्रत्ययो यस्मादिति । यदि पञ्चम्यां विग्रहः क्रियते, ततः प्रकृतेरुपलक्षणं नाधार्थग्रहणं स्यादिति सम्प्रत्यतदन्तत्वेऽपि प्रकृतिमात्रे प्रसङ्गः ? न प्रसङ्गः, एवं हि विनञ्सङ्ख्यास्विति वक्तव्यं स्यात्, षष्ठ।ल विग्रहः कर्तव्यः---नाधार्थः प्रत्ययो यस्य समुदायस्यावयव इति । ल्यब्लोपे वा पञ्चमी व्याख्येया यं समुदायामुद्दिश्य नाधार्थः प्रत्ययो विधीयत इति । विनाकृत्य नानाकृत्येति । ठ्विनञ्भ्यां नानाञौ नसहऽ इति नानाञौ । द्विधाकृत्येति । ठ्सङ्ख्याया विधार्थे धाऽ । द्वैधंकृत्येति । ठ्द्वित्र्योस्च धमुञ्ऽ । हिरक्पृथक्शब्दौ विनार्थे । नाना कृत्वा काष्ठानि गत इति । पूर्वमेव नाना सन्ति काष्ठान्यन्यत्र कृत्वा गत इत्यर्थः । धार्थमर्थग्रहणमिति । बहवो हि धार्थाः प्रत्ययाः, तत्रासत्यर्थग्रहणे प्रत्ययस्यैव ग्रहणं स्यात्, नान्येषाम्; तदर्थानामर्थग्रहणे तु तेषामपि भवति । यश्चाधादेशो धार्थः ठ्धमुञन्तात्स्वार्थे डदर्शनम्ऽ इति तदर्थमर्थग्रहणम्---द्वैधकृत्य द्वैधकारं द्वैधभूय द्वैधभावमिति । धमुञादीनां तु स्थानिवद्भावादेव सिद्धं तद्विधौ ध इत्यधिकारेणादेशपक्षस्याश्रयणात् । अथ नार्थमप्यर्थग्रहणं कस्मान्न भवतीत्यत आह---ना पुनरेक एवेति । ननु च नाप्रत्ययावपि द्वौ भवतः---निरनुबन्धकः, सानुबन्धकश्चेति, तत्रासत्यर्थग्रहणे निरनुबन्धकस्यैव ग्रहणं स्यात्, नेतरस्य ? एवं मन्यते---तन्त्रावृत्यैकशेषाणामन्यतमस्याश्रयणातस्यापि भविष्यति ॥ अन्वच्यानुलोम्ये ॥ ३।४।६४ ॥ अन्वग्भूयेति । अग्रतः पार्श्वत- पृष्ठतो वाऽनुकूलो भूत्वाऽऽस्ते इत्यर्थः । अन्वग्भूत्वेति । पृष्ठतो भूत्वेत्यर्थः । अनुकूलोऽननुकूल इति शब्देन न स्पृश्यते ॥ शकधृषज्ञाग्लाघटरभलभक्रमसहार्हास्त्यर्थेषु तुमुन् ॥ ३।४।६५ ॥ अत्रानन्तरेणास्तिशब्देनैवार्थशब्दः सम्बद्ध्यते, शकधृषज्ञानां घटाईयोश्च पृथगुपादानात्, तदाह---शकादिषूपपदेषु अस्त्यर्थेषु वैति । तुमुन् प्रत्ययो भवतीति । भावे । अक्रियार्थोपपदार्थ आरम्भ इति । ठ्क्रियार्थोपपदे तुमुन्ण्वुलौऽ इत्यादिनैव सिद्धत्वात् । तत्र तावत् शक्नोति भोक्तुम्, धष्णोति, जानातीति भोजने प्रावीण्यं गम्यते । ग्लायति भोक्तुमिति । तत्राशक्तिः । घटतेऽर्हतीति योग्यता । आरभते प्रक्रमत इति । भुजेरेवाद्यावस्था । लभते भोक्तुमिति । अप्रत्याख्यातं भोजनं लभते इत्यर्थः । उत्सहते भोक्तुमिति । भोजने व्याप्रियत इत्यर्थः । अस्ति भोक्तुमिति । भोजनमस्तीत्यर्थः । प्रवीणो भोक्तुम्, कुशलो भोक्तुम्, पटुअर्भोक्तुमित्यादौ पर्याप्तिविवक्षायामुतरसूत्रेण तुमुन् भवति ॥ पर्याप्तिवचनेष्वलमर्थेषु ॥ ३।४।६६ ॥ पर्याप्तिःउअन्यूनता, परिपूर्णतेत्यर्थः । अन्यूनता च द्विधा सम्भवति---भोजनस्य प्रभूततया वा, भोक्तुः समर्थतया वा, अतः सामर्थ्येनालमर्थेन विशिनष्टि । अलमर्थेषु पर्याप्तिवचनेष्विति । प्रयाप्तो भोक्तुमिति । भोजने न न्यूनीभवति समर्थ इत्यर्थः । पुर्यप्तमिति । प्रभूतमित्यर्थः । शक्यमेवं कर्तुमिति । सुकरमेतदित्यर्थः । सम्भवमात्रं वाऽत्र विवक्षितम्---सम्भवत्येवंविधस्य करणमिति ॥ कर्तरि कृत् ॥ ३।४।६७ ॥ किमर्थमिदमुच्यते ? कर्तरिकृद्वचनमनोदेशे स्वार्थविज्ञानात् । यत्र वचनेनार्थो निर्दिश्यते तत्र प्रत्यासत्या प्रकृत्यर्थ एव प्रत्ययो भवति, तद्यथा---ठ्गुप्तिज्किद्भ्यः सन्ऽ, ठ्यावादिभ्यः कन्ऽ इति, एवमिमेकृतः स्वार्थे स्युः, स्वार्थे मा भूवन् कर्तरि स्युरिति । ननु च यमिच्छति स्वार्थे, आह तं भावे घञ् भवतीति ? तन्नियमार्थं भविष्यति---घञेव भावे नान्यः कृदिति । असति ह्यतेतस्मिन्सूत्रे घञित्येतावत्सूत्रं कर्तव्यम्---धातोर्घञ् भवतीति, तत्रानिर्दिष्टार्थत्वाद्भाव एव घञ भविष्यतीति; ततः ठ्पदरुजविशऽ इति द्वितीयं सूत्रं कर्तव्यम्, ततश्च ठ्भावेऽ इति न कर्तव्यम्, क्रियमाणं तु नियमार्थं भविष्यति---घञेव भावे नान्यः कृदिति, ततश्चान्यः कृद्धात्वर्थाक्षिप्ते कर्तरि भविष्यति । स्यादेतत्---कर्मादीनामपि धात्वर्थेनाक्षेपातेष्वपि कृतः स्युरिति ? न; ठ्धः कर्मणि ष्ट्रन्ऽ, ठ्करणाधिकरणयोर्ल्युट्ऽ, ठ्दाशगाघ्नौ सम्प्रदानेऽ, ठ्भीमादयोऽपादानेऽ इत्यत्र ठ्ष्ट्रनेव कर्मणि नान्यःऽ इत्यादिको नियमो विज्ञास्यते । यद्येकं कर्मादि नियतं प्रत्ययास्त्वनियता इति कारकान्तरेऽपि ष्ठरनादयः स्युः ? नैष दोषः; एकमिदं वअक्यम्---धः कर्मणि ष्ट्रनिति, तेन च कर्मणि विधीयमानः कथं कारकान्तरेऽपि स्यात् ! द्वितीयोऽपि वा नियमो विज्ञास्यते---कर्मण्येव ष्ट्रनिति, एवं सर्वत्र । य इदानीमतोऽन्यः प्रत्ययः शेषः सोऽन्तरेणापि वचनं कर्तर्येव भविष्यति । ठ्कर्तरि भुवः खिष्णुच्खुकञौऽ ठ्कर्तरि चर्षिदेवतयोःऽ इत्युभयत्रापि करणनिवृत्यर्था कर्तृश्रुतिर्विध्यर्थैवेति खिष्णुजादिषु कर्तृनियमो न भविष्यति । तदेव तर्हि प्रयोजनम्---स्वार्थे मा भूवन्निति ? ननु चोक्तम्---ठ्भावे इति नियमो विज्ञास्यतेऽ इति ? स्वार्थादन्यः स भावो धात्वर्थस्य सिद्धता नाम । शुद्धे स्वार्थे कृतः स्युः, लः कर्मणि च भावे चेति । अयं तर्हि नियमो भविष्यति---ल एव भावे इति ? नायं नियमः शक्यो विज्ञातुम्, कर्तृकर्मणोर्निर्देशेन निर्दिष्टार्थत्वात् लकाराः स्वार्थे न स्युः, ठकर्म्केभ्यःऽ इति च वक्ष्यामीत्येवमर्थमेतत्स्यात् । अतः सुष्ठूअक्तम्---कर्तरि कृद्वचनमनादेशे स्वार्थविज्ञानादिति । अत्र च द्वैधम्---एतद्वाक्यनिरपेक्षैः स्वैर्विधायकैर्वाक्यैर्विहितानां कृतां पश्चादेनेनार्थ आदिश्येत ? कृदुत्पत्तिवाक्यानां वायं शेषः स्यात् ण्वुल्तृचौ कर्तरि नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः कर्तरीति ? तत्राद्ये पक्षे यथानेन तृजादीनामर्थ आदिश्यते, तथा ख्युनादीनामप्यादिश्येत; विशेषानुपादानात् । ततश्चैतेऽप्यनेन कर्तरि च स्युः, स्वेषु स्वेषु विधिवाक्येषु करणादीनामप्युपादानात्करणादिषु च । ननु च ख्युनादिषु करणादिरर्थो विशेषविहितत्वात् कर्तुश्च बाधको भविष्यति ? न; नानावाक्यत्वात् । इह ठ्दधि ब्राह्मणेभ्यो दीयतां तक्रं कौण्डिन्यायऽ इति अभिन्नकालत्वादेकं वाक्यं विशिष्टदानस्य प्रतिपादकमिति तक्रेण दधि बाध्यते । यदा तु पूर्वाह्णे ब्राह्मणभोजनप्रकरणे ठ्दधि ब्राह्मणेभ्यो दीयताम्ऽ इत्युच्यते, अपराह्णे तु ठ्तक्रं कौण्डिन्याय दीयताम्ऽ इति, न तदा बाध्यबाधकभावः । तथास्मिन्पक्षेऽपि कालभेदेन वाक्यद्वयोच्चारणाद्वाध्यबाधकभावो न लभ्यते । तस्माद् दुष्ट एवायं पक्ष इति द्वितीयं पक्षमाश्रित्याह---कृदुत्पत्तिवाक्यानामयं शेषः स्यादिति । प्रागुक्तो दोषस्तदवस्थ एव ? तत्राह---येष्वित्यादि । कुत एतदित्याह---अर्थाकाङ्क्षत्वादिति । येषु वाक्येष्वर्थो न निर्दिश्यते तान्यर्थाकाङ्क्षाणि । तथा हि---ठ्ण्वुल्तृचौ भवतःऽ इत्युक्तेऽर्थविषया आकाङ्क्षा जायते---क्वैतौ भवति इति ? ठ्कर्तरि कृत्ऽ इत्यस्याकाङ्क्षा भवति---कः कृत् कर्तरि भवतीति ? अतस्तृजादिविध्यनुपस्थाने शेषशेषिणोरुभयोरप्याकाङ्क्षापूतये ततस्तत्रैवोपतिष्ठत इत्यर्थः । ख्युनादिवाक्येष्विति । उपतिष्ठत इत्यनुषङ्गः । कारणमाह---साक्षादर्थनिर्देशे सति तेषां निराकाङ्क्षत्वादिति । न च रक्तपटन्यायेनाकाङ्क्षोत्थापनेनोप्रस्थानं युज्यते; स्वत एव साकाङ्क्षे तृजादिविध्यनुपस्थानेन शेषस्यापि चरितार्थत्वात् । रक्तः पटो भवतीत्यत्र तु पटो भवतीत्यस्य निराकाङ्क्षत्वेऽपि रक्तपदार्थस्य साकाङ्क्षत्वादाङ्क्षोत्थापनेनान्वयः । न च विदेशस्थानां कथमेकवाक्यत्वमिति वाच्यम्; शास्त्रे विदेशस्थानामप्यवान्तरवाक्यानामाकाङ्क्षावशादेकवाक्यत्वदर्शनात् । यथा ---द्वितीयेऽध्याये लुगुच्यते, तस्य चतुर्थषष्ठयोरलुगपवादः ठ्गोत्रेऽलुगचिऽ, ठलुगुतरपदेऽ इति ॥ भव्यगेयप्रवचनीयोपस्थानीयजन्याप्लाव्यापात्या वा ॥ ३।४।६८ ॥ भव्य इति । ठचो यत्ऽ, गुणः, ठ्वान्तो यि प्रत्ययेऽ इति वान्तादेशः । गेयो माणवकः साम्नामिति । एतेन ठ्कै गै शब्देऽ इत्यस्येदं निपातनम्, न ठ्गाङ् गतौऽ इत्यस्येति दर्शयति । एतच्च निपातनाल्लभ्यते । ठीद्यतिऽ इतीत्वम् । जन्य इति । ठचो यत्ऽ इत्यत्र ठ्तकिशसिचतियतिजनीनामुपसङ्ख्यानम्ऽ इति वचनाद्यत् । आप्लाव्य इति । ठोरावश्यकेऽ । आपात्य इति । ठृहलोर्ण्यत्ऽ ॥ लः कर्मणि च भावे चाकर्मकेभ्यः ॥ ३।४।६९ ॥ ठ्लःऽ इति लङ्लटोरकारानुबन्धयोः सामान्येन ग्रहणमेकवचनं चेति शङ्कामपाकरोति---ल इत्युत्सृष्टानुबन्धसामान्यमेकं गृह्यत इति । प्रथमाबहुवचनं चैतदिति । सामान्यस्यैकत्वेऽपि ठ्जात्याख्यायामेकस्मिन् बहुवचनम्ऽ । अथादेशापेक्षया षष्ठ।लेकवचनं कस्मान्नाश्रीयते---लः लस्य य आदेश इति, यथा---ठ्लः परस्मैपदम्ऽ इति ? उच्यते; एवं विज्ञायमाने लादेशानामनेनार्थो निदिश्येत, ततश्चाम्विषयस्य लकारस्यार्थो न निर्दिष्टः स्यात्, लुगत्रादेशः । न चाबावरूपस्य तस्यार्थादेशनं युज्यते, ततश्चासौ ठ्कर्तरि कृत्ऽ इति कर्तर्येव स्यात् । ननु च तस्य आमःऽ इति लुकापहारे सत्यनुप्रयोगे ये लादेशास्तैरेव भावादीनामभिव्यक्तिर्भविष्यति ? नैतदस्ति; यदा ह्यम्विषयो लकारः कर्तर्येवेति स्थितम्, तदा विरोधाद्भावकर्मवाचिप्रत्ययपरोऽनुप्रयोगो नैव प्राप्नोति, श्रुतस्यैव च संबन्धोपपतावादेश इत्यध्याहारो न युक्तः । तस्मात्प्रथमाबहुवचननान्तमेव युक्तम् । तत्र द्विविधो लकारः---तिङ्भावी, अतिङ्भावी च । तत्र तिङ्भावनिनः कृत्संज्ञानिषेधात् ठ्कर्तरि कृत्ऽ इत्यस्यानुपस्थानात्स्वार्थे भावे विधानं प्राप्नोति, अतिङ्भाविनस्तु ठ्कर्तरि कृत्ऽ इति वचनात्कर्तर्येव साधुत्वं प्राप्नोति, न भावकर्मणोः---आस्यमानं शय्यमानमित्यादाविति वचनमिदमारभ्यते । ननु च भावकर्मणोरात्मनेपदं विधीयते, शेषात्कर्तरि परस्मैपदम्, ततश्च लकारस्य भावकर्मकर्तारोऽर्था अनुमास्यन्ते । यद्वा लकारस्य प्रयोगेऽसमवायादादेशानामेव तेऽर्था भविष्यन्ति, नार्थ एतेन ? इत्याशङ्क्याह---सकर्मकेभ्यो भावे न भवन्तीति । अनारभ्यमाण एतस्मिन्यथा भावे विधीयमाना घञादयः सकर्मकेभ्योऽपि भावे भवन्ति---ओदनस्य पाकः, सूत्रस्य कृतिरिति, तथा ठ्भावकर्मणोः, इत्यनेन भावे आत्मनेपदं सकर्मकेभ्योऽपि स्यात्, ततश्तच पच्यते यवगूं देवदतेनेति प्रयोगः प्राप्नोति, अतः ठ्भावे चाकर्मकेभ्यःऽ इति वक्ष्यामीत्ययमारब्धः । अथ तत्रैव ठ्भावकर्मणोरकर्मकात्ऽ इत्युच्यते, तत्राकर्मकग्रहणं कर्तव्यं स्यात्, ननु चेहापि क्रियते ? इहावश्यं कर्तव्यम्---ठ्तयोरेव कृत्यक्तखलर्था भावे चाकर्मकेभ्यःऽ इति, तस्मात्सकर्मकेभ्यो भावे मा भूदित्यवमर्थमयमारम्भ इति स्थितम् । किं चाम्विषयस्य लकारस्यार्थादेशनार्थमपीदं वक्तव्यम्; इतरथा पूर्वोक्तदोषप्रसङ्गादित्यलमियता ॥ तयोरेव कृत्यक्तखलर्थाः ॥ ३।४।७० ॥ तयोर्भावकर्मणोरिति । पूर्वसूत्रे साक्षात् श्रुतयोर्भावकर्मणोस्तच्छब्देन परामर्शः, न चकारेण संनिधापितस्य कर्तुरिति भावः । अत एवोतरसूत्रे पुनः ठ्कर्तरि चऽ इत्युक्तम् । यदि ह्यनन्तरवाक्ये चकारेण संनिधापितस्य कर्तुर्भावस्य चात्र इत्यवमर्शः स्यात् तत्र कर्तृग्रहणमनर्थकं स्यात् ; कर्तर्यनेनैव सिद्धत्वात् । एवकार इत्यादि । कृत्वात्कर्तरि कृत्याः प्राप्ता एवकारेण कर्तुरवकृष्यन्तेउव्यावर्त्यन्ते । ननु च तक्रकौण्डिन्यन्यायेन न कर्तुरप कर्षो भविष्यति, यथा ठ्वडवाया वृषे वाच्येऽ इत्यत्र वक्ष्यते---अपत्ये प्राप्तस्ततोऽपकृष्य वृषे विधीयते, अपत्ये त्वणेव भवति इति ? सत्यम् ; न्यायप्राप्त एवाथं एवकारेणानूद्यते । शयितमिति । ठ्निष्ठाशीङ्ष्विदिमिदिक्ष्विदिधृषःऽ इत्यकित्वाद्गुणो भवति । भावे चाकमकेभ्य इति वर्तत इति । वयं तु ब्रूमः---एवकारः कर्तुरपकर्षणाय न कर्तव्य इत्युक्तम्, तस्यात्रोपयोगः---ययोर्भावकर्मणोर्लकार उक्तस्तयोरेवान्यूनानतिरिक्तयोः कृत्यादयो भवन्तीति । यदि च सकर्मकेभ्यो भावे स्युस्तयोस्तादृशयोरेव तु न कृताः स्युरिति ॥ आदिकर्मणि क्तः कर्तरि च ॥ ३।४।७१ ॥ कर्मधारयः, कर्मशब्दश्च क्रियावचन इत्याह---आदिभूतः क्रियाक्षण आदिकर्मेति । साधनकर्म तु न गृह्यते, आदिशब्देन विशेषणात् । बहूनां समवाये आदिमध्यान्तभावः, साधनकर्म कत्वेमेवेति कि तत्रादिशब्देन । तस्मिन्नादिकर्मणि भूतत्वेन विवक्षित इति । एतेन ठ्निष्ठाऽ इत्यनेनैवादिकर्मणि क्तः सिद्धः, न पुनरादिकर्मणि निष्ठा वक्तव्येति दर्शयति । आद्ये हि क्रियाक्षणे भूते समूहरूपारोपादेकदेशे समूहे चेति न्यायाद्वा धात्वर्थ एव भूतो भवतीति युक्त एव क्तः । प्रकृतः कट्ंअ देवदत इति । प्रारब्धवानित्यथः । प्रकृतं देवदतेनेति । अत्र कर्मणोऽविवक्षितत्वेन धातोरकर्मकत्वाद्भाव एव क्तः । एवं प्रभुक्तं देवदतेनेत्यत्रापि ॥ गत्यर्थाकर्मकश्लिषशीङ्स्थासवसजनरुहजीर्यतिभ्यश्च ॥ ३।४।७२ ॥ अनूषित इति । ठ्वसति क्षुधोरिट्ऽ । अनुप्राप्य जातोऽनुजातः । एवमनुजीर्णः । सकर्मकेभ्यः कर्माविवक्षायां भावे क्तः ॥ दाशगोघ्नौ संम्पदाने ॥ ३।४।७३ ॥ गोघ्न इति । अत्र दानपूर्वके हनेन हन्तिर्वर्तते । अर्घार्ह इति । अर्घःउमधुपर्कः, तदङ्गत्वेन गोहननं विहितम् । एतावद् गोरालम्भनस्थानम्---अतिथिः, पितरः, विवाहश्चेति । यदि सम्प्रदाने गोघ्न इति निपात्यते चाण्डालादेरपि तेनाभिधानं प्राप्नोति, अस्मै अपि ह्यागताय गां दातुमर्हन्ति सुहृदादयः ? अत आह---निपातनसामर्थ्यादिति । असत्यपि चेति । यथाऽपचन्नपि योग्यतया ठ्पाचकःऽ इत्युच्यते, तथेहापीत्यर्थः ॥ भीमादयोऽपादाने ॥ ३।४।७४ ॥ उणादिप्रत्ययान्ता एत इति । बाहुल्यादेतदुक्तम्, प्रस्कन्दनप्रपतनयोरप्यौणादिकत्वात् । ताभ्यामन्यत्रोणादय इति पर्युदासे प्राप्त इति । यद्यप्यसत्यस्मिन्सूत्रेऽपादानस्य प्रकृतत्वाताभ्यामिति निर्देशो नोपपद्यो तथाप्ययमर्थस्तावतत्र वक्तव्यः---ततोऽपादानाच्चान्यत्रोणादय इति, ततश्च स्यादेव पर्युदास इत्यर्थः ॥ ताभ्यामन्यत्रोणादयः ॥ ३।४।७५ ॥ ननु च ठन्यत्रोणादयःऽ इत्यप्युक्ते प्रकृतत्वादेव ताभ्यामन्यत्रेति विज्ञास्यते ? अत आह---सम्प्रदानार्थ इति । कृषित इत्यादिना कर्मणि वृत्तिं दर्शयति । अत्रेडागमश्चिन्त्यः । एवं तनित इत्यत्राअपि । केचिदाहुः---ठ्यस्य विभाषाऽ इतीट्प्रतिषेधोऽनित्यः, कृतिनृत्योरीदित्करणात् । तद्धि ठ्श्वीदितो निष्ठायाम्ऽ इतिट्प्रतिषेधार्थं क्रियते तत्र ठ्सेऽसिचि कृतिऽ इति विभाअषितेट्त्वादेव ठ्यस्य विभाषाऽ इतीट्प्रतिषेधो भविष्यतीति किमीदित्करणेन । अपर आह---चुरादावदन्तौ कृपितनी पठितव्याविति ॥ क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः ॥ ३।४।७६ ॥ स्वनिकायप्रसिद्धिरिति । यथा यूपचषालादयो याज्ञिकानामेव प्रसिद्धास्तथा वैयाकरणानां निकाये एषां प्रसिद्धिः । निघण्टुअषु तु अभ्यवहारपर्यायतया प्रत्यवसानशब्दस्य पाठो वैयाकरणप्रसिद्धिमूलः । इदमेषामासितमिति । ठधिकरणवाचिनश्चऽ इति षष्ठी । कथमित्यादि । कर्तरि निष्ठां मन्यमानस्य प्रश्नः । अकारो मत्वर्थीय इति । अर्शाअदेराकृतिगणत्वादच् प्रत्यय इत्यर्थः । इह द्विर्गत्यर्थाकर्मकग्रहणं च क्तग्रहणं च क्रियते, सकृदेव तु शक्यं कर्तुम्, कथम् ? एवं वक्ष्यामि---ठ्क्त्वोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः, ततो गत्यर्थाकर्मकेभ्यः कर्तरि च, चकारादधिकरणे च, अनुवृताच्चकाराद्यथाप्राप्तं च, ततः श्लिषशीङ्स्थासवसजनरुहजीर्यतिभ्यश्च, कर्तरीत्येव, एतेभ्यश्च कर्तरि क्तो भवति चकाराद्यथाप्राप्तं च, अधिग्रहणग्रहणं तु नात्रानुवर्तते, योगविभागकरणसामर्थ्यात्, तत आदिकर्मणि च कर्तरि क्तो भवति चकाराद्यथाप्राप्तं च, ततो दाशगोघ्नावित्यादि ? तथा तु न कृतमित्येव ॥ लस्य ॥ ३।४।७७ ॥ अकार उच्चारणार्थ इति । नानुबन्धः, अन्यथा लङ्लंटोरेव ग्रहणं स्यात् ; ततश्च परस्मैपदानां णलादयः, ठ्लोटो लङ्वत्ऽ, ठेरुःऽ इत्यादिकार्यविधानमनुपपन्नं स्यात् ; लिङ्लोटोस्तिबादीनामभावात् । लकारमात्रं स्थानित्वेनाधिक्रियत इति । ननु चेत्संज्ञायां लोपः प्राप्नोति ? वचनसामर्थ्यात्सत्यामपीत्संज्ञायां लोपो न भविष्यति । एवमपि लित्स्वरः प्राप्नोति ? णलो लित्करणं ज्ञापकम्---न लादेशेषु लित्स्वरो भवतीति । किञ्चेदमिति । लकारमात्रस्य ग्रहणं प्राप्नोतीति मन्यमानस्य प्रश्नः । ठ्धात्वधिकारोऽनुवर्ततेऽ इति वक्ष्यमाणाभिप्रायेणाह---दश लकारा इति । अक्षरसमाम्नाये ययानुपूर्व्याऽकारादयःष तदानुपूर्वोविशिष्टैरकारादिभिरनुबन्धैः कथ्यन्ते; न तु विधानक्रमेणेत्यर्थः । लकारमात्रस्य ग्रहणं कस्मान्न प्राप्नोतीति । विशेषानुपादानात्प्राप्नोत्येवेति भावः । वर्णग्रहणेषु चार्थवद्ग्रहणपरिभाषा न प्रवर्तते, तथा च यस्येति लोपोऽनर्थकस्यापि भवति---दैवदतिरिति, अकुर्वह्यत्रेति यणादेशः । धात्वधिकारोऽनुवर्तत इति । धातुग्रहणमनुवर्तत इत्यर्थः । एवमप्यग्निचिल्लुनाति---अत्रापि प्राप्नोति ? विहितविशेषणं धातुग्रहणम् । एवमपि ठ्शामामलिभ्यो लःऽ औणादिकः---शाला, माला, मल्लः, अत्रापि प्राप्नोति ? उणादयोऽव्युत्पन्नानि प्रातिपदिकानि । तथापि परिहारान्तरमाह---कर्त्रादय इति । ठ्लः कर्मणि चऽ इत्यत्र निर्दिष्टा अर्थाः कर्तृकर्मभावा इहानुवर्तन्ते, तैश्च लकारो विशिष्यते---कर्त्रादिषु विहितस्य लस्येति, तेन विशिष्टविषयस्यैव लस्य ग्रहणम्, न सर्वस्य ॥ तिप्तस्झिसिप्थस्थामब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् ॥ ३।४।७८ ॥ तिबादीनां समाहारद्वन्द्वः । पकारः स्वरार्थ इति । प्रदर्शनमेतत्, ठ्सार्वधातुकमपित्ऽ इत्याद्यपि प्रयोजनम् । इटष्टकार इत्यादि । ननु ठिटोऽत्ऽ इत्यत्र लिङ्त्यिनुवर्तते, तेनेकारस्यात्वविधानेऽपि नास्त्यतिप्रसङ्गः ? एवमपि तिबाद्यवयवस्य प्राप्नोति, यथा ठेरुःऽ इत्येतल्लोट इत्यनुवृतावपि तिबाद्यवयस्य भवति । न हि तत्रावयवषष्ठी, लिङ् इति तु स्थानषष्ठीत्यत्र प्रमाणमस्ति । अथ ठाद्यन्तौ टकितौऽ इति देशविध्यर्थष्टकारः कस्मान्न भवतीत्याह---तिबादिमिरित्यादि । तुल्यत्वमुसदृशत्वम्, तच्चैकयोगनिर्दिष्टत्वेन लस्येत्येका षष्ठी, तत्र तिबादयः सप्तदशादेशाः स्थाने योगं प्रयोजयन्ति, तानेको नोत्सहते विहन्तुमित्यर्थः । महिङे ङ्कार इत्यादि । तिङ्त्युपिलक्षणम् । तङ्त्यिपि प्रत्याहारो भवति । चिनुमहे इत्यादौ तु गुणप्रतिषेधार्थो न भवति ; सार्वधातुकमपित्ऽ इत्यनेनैव सिद्धत्वात् । यत्र ह्यार्धधातुकमेषिषिमहीति, तत्र ङ्त्वार्थिः कस्मान्न भवति ? प्रत्याहारे चरितार्थस्य समुदायानुबन्धस्यावयवानुबन्धत्वे प्रमाणाभावात् । तृनि कथम् ? तस्यापि हि नकार ठ्न लोकाव्ययऽ इत्यत्र प्रत्याहारे चरितार्थः, ठौङ् आपःऽ इत्यत्र च वक्ष्यते---ठ्सामान्यग्रहणार्थो ङ्कारः, अन्यथा निरनुबन्धकस्य प्रथमाद्विवचनस्यैव ग्रहणं स्याद्, न सानुबन्धकस्यौटःऽ इति, तच्च विरुध्यते; तस्यापि टकारस्य सुडिति प्रत्याहारे चरितार्थतया औकारस्य निरनुबन्धकत्वात् । तस्मान्महिङे ङ्कारः प्रत्याहारार्थः, न त्ववयवानुबन्ध इत्याचार्याणां स्मृतिपरम्परैवात्र शरणम् ॥ टित आत्मनेपदानां टेरे ॥ ३।४।७९ ॥ टितो लकारस्य स्थाअने इति । एतेन टितः, आत्मनेपदानामिति व्यधिकरणे षष्ठ।लविति दर्शयति । यदि तु प्रत्येकसंबन्धादेकवचनमित्याश्रित्य टितामात्मनेपदानामित्याश्रीयते, अकुर्वीत्यत्रापि प्रसज्येतेति भावः । प्रकृतैरित्यादि । य एते तिबादयः प्रकृतास्तेषाअं मध्ये यान्यात्मनेपदानि विहितानीत्येवमात्मनेपदानि विशिष्यन्ते । न च तिबादीनां मध्ये शानच् सन्निविशिष्टस्ततो न तस्य प्रसङ्ग इत्यर्थः । एवं च तङमित्येव वक्तव्यम् । केचितु ठाने मुक्ऽ इति निर्देशं ज्ञापकं वर्णयन्ति---तिङमेवैत्वं नान्येषामिति; इतरथा ह्यानयीति वक्तव्यं स्यात् । नेति वयम्, योऽलादेश आनः ठ्पूङ्यजोः शानन्ऽ तस्यायं निर्देशः स्याद्---वयमानः, यजमान इति ॥ थासः से ॥ ३।४।८० ॥ पेचिषे इति । लिट्, ठत एकहलमध्येऽ इत्यादिना एत्वाभ्यासलोपौ, क्रादिनियमादिट् । इह ठ्थः सःऽ इति वक्तव्यम्, थकारस्य सकारे कृते परभागस्य टेरेत्वे सति सिद्धमिष्टम् । पचथः पचथ अत्रापि प्राप्नोति ? ठात्मनेपदानाम्ऽ इति वर्तते । एवमप्याथामस्थकारस्य प्राप्नोति ? धातोरिति वर्तते---धातोरनन्तरो यस्थकार इति । इहापि तहि न प्राप्नोति---पचसे, चिनुषे इति ? विकरणेन व्यवधानात् । क्व तर्हि स्यात् ? य एते लुग्विकरणाः, श्लुविकरणाः, श्नम्विकरणाः । तस्मात् ठ्थासः सेऽ इति वक्तव्यम् । एवमपि सशब्द एवादेशो विधेयो टेरेत्वेनैव सिद्धम् ? ज्ञापकार्थम् । एतज्ज्ञापयति---आत्मनेपदानां य आदेशास्तेषां टेरेत्वं न भवतीति । तेन पक्ता, पक्तारौ, पक्तार इति डारौरसामेत्वं न भवति ॥ लिटस्तझयोरेशिरेच् ॥ ३।४।८१ ॥ पूर्वसूत्रे ज्ञापितम्---आत्मनेपदादेशानां टेरेत्वं न भवतीति, तेन इशिरच् इत्येतावादेशौ न विहितौ । शकारः सर्वादेशार्थ इति । अन्यथा धातोरित्यधिकाराद् ठादेः परस्यऽइति तकारस्य प्रसज्येत । अथ ठ्शेऽ इत्येव कस्मान्नोक्तम्, शैरेजिति ह्युक्ते मात्रालाघवं भवति ? नैवं शक्यम् ; ठ्शेऽ इति प्रगृह्यसंज्ञा स्यात् । इह च पपे सोममिति पिबादेशः प्राप्नोति, जग्ले मम्ले इत्यादौ चात्वं न स्यात् । एशि तु न दोषः, ठ्वर्णे यत्स्यातच्च विध्यातदादौऽ इति न्यायात् ॥ परस्मैपदानां णलतुसुस्थलथुसणल्वमाः ॥ ३।४।८२ ॥ तिबादीनामिति । एतच्च प्रकरणाल्लभ्यते, तेन क्वसोर्णलादयो न भवन्ति, विधानसामर्थ्याद्वा क्वसोर्णलाद्यभावः । लकारः स्वार्थ इति । अन्यथा प्रत्ययस्य पित्वादनुदातत्वेऽपि धातुस्वरे कृते द्विः प्रयोगो द्विर्वचनमिति द्वयोरप्युदातत्वं प्राप्नोति । ठनुदातं पदमेकवर्जम्ऽ इति नास्ति, यौगपद्येन सम्भवः पर्यायेण प्रसज्येत । णकारो वृद्ध्यर्थ इति । इदमन्यथासिद्धम्, ठ्णलुतमो वाऽ इत्यत्र योगविभागः---अल् णिद्भवतीति, तत उतमो वा---वा णिद्भवतीति । पपाचेति । कथमयं सर्वादशः, यावता ठ्नानुबन्धकृतमनेकाल्त्वम्ऽ, ततश्च ठ्धातोःऽ इत्यधिकाराद् ठादेः परस्यऽ इति वकारस्य प्राप्नोति ? अनित्वात्सिद्धम् ? न ह्ययं णल्विधानसमये प्रत्यय इत्यनित्वाद् णकारस्यानेकालत्वात्सर्वादेशः, ततो णकारस्योत्संज्ञेत्यानुपूर्व्यात्सिद्धम् । ननु च णकारो न कर्तव्य इत्युक्तम् ? एवं तर्हि लकार आदौ क्रियते तस्याप्यनित्वात्सिद्धम्, ल उतमो वेति वक्तव्यम्, एवम् आत औ लस्येति, हल्ङ्यादिसूत्रे चाप्यपृक्तं हलिति हल्ग्रहणं लिङ्गं सर्वादशो णलिति, तद्धि पपाचेत्यादौ मा भूदिति । सर्वादेशत्वे च तदुपपद्यते । पपक्थेति । क्रादिनियमात्प्राप्त इट् ठुपदेशेऽत्वतःऽ इति प्रतिषेधान्न भवति । क्वचित्पेचिथेति पाठः, ठृतो भारद्वाजस्यऽ इति नियमादिट्, ठ्थलि च सेटिऽ इत्येत्वाभ्यासलोपो । पेचेति । धातोरित्यधिकारात् ठ्तस्मादित्युतरस्य ठादेः परस्यऽ इति थकारस्याकारे द्वयोरतो गुणे पररूपत्वम् ॥ विदो लटो वा ॥ ३।४।८३ ॥ विद ज्ञाने इति । सताविचारार्थयोस्त्वात्मनेपदित्वातिबादीनामसम्भवः, लाभार्थस्यापि विकरणेन व्यवधानादनन्तराणामसम्भव इति भावः ॥ ब्रुवः पञ्चानामादित आहो ब्रुवः ॥ ३।४।८४ ॥ पञ्च णलादय इति । आदेशा अपि पञ्चैव, तत्राप्यादितो णलादयः पञ्च, न पुनरिच्छातः पञ्चेत्यर्थः । कथं पुनद्वितीयं पञ्चग्रहणमादिग्रहणं चान्तरेणादेशेष्वयं विशेषो लभ्यते, ननु सर्वैरेव णलादिभिः पञ्चानां स्थाने युक्तम्भवितुम् ? उच्यते; पूर्वसूत्रे तावद्यथासङ्ख्यं प्रवर्तते, ततश्च तत्रैव निर्ज्ञातः स्थानिविशेषेण णलादीनां सम्बन्धः, त एवेहानुवर्तन्त इत्यत्रापि तथैव भविष्यति, ततश्च स्थानिसम्बन्धादिति पूर्वसूत्रे स्थानिविशेषेण सम्बन्धस्य निर्ज्ञातत्वादित्यर्थः । आत्थेति । ठाहस्थःऽ । परेषामिति । थादीनाम् । ननु च ठ्ब्रुवःऽ इति यदेतत्पञ्चम्यन्तं तदेवार्थाद्विभक्तिविपरिणामो भवतीत्यादेशसम्बन्धे षष्ठ।ल्न्तं विज्ञास्यते, नार्थो ब्रुव इति पुनर्वचनेन ? तत्राह---ब्रुव इति । पुनर्वचनमित्यादि । परस्मैपदानामेव हि स्यादिति । असति श्रुते सम्बन्धिनि विभक्तिविपरिणामो भवति, इह तु परस्मैपदानामिति श्रुतत्वातेषामेव स्यादित्यर्थः ॥ लोटो लङ्वत् ॥ ३।४।८५ ॥ लोटो लङ्वत्कार्यं भवतीति । अत्र लोडादेशेषु लोट्शब्दो वर्तते, लङदेशेषु च लङ्शब्दः, लोडादेशानां लङदेशवत्कार्यं भवतीत्यर्थः, तदाह---तामादयः सलोपश्चेति । यद्यप्येते लङ्याहत्य न विहितास्तथापि लङ्दृष्टित्वादतिदिश्यन्ते । अडाटौ कस्मान्न भवति इति । लङ्येवाहत्य विहितत्वात्, प्रत्युत तचोरेवातिदेशो युक्त इति प्रश्नः । तथा झेर्जुसादेश इति । कस्मान्न भवतीति विभक्तिविपरिणामेनानुषङ्गः । ठ्लङ्ः शाकटायनस्यऽ इति जुस्भावोऽपि लङ् एवाहत्य विहितः । इह तु जाग्रतु, विदन्तु ठ्सिजभ्यस्तविदिभ्यश्चऽ इति लङ् दृष्टो जुस्भाविः प्राप्नोति । वाग्रहणमनुवर्तत इति । लोट इत्युपमेये षष्ठीनिर्देशादुपमानं पष्ठ।ल्न्तं विज्ञायते---लङे यत्कार्यं तल्लोटो भवतीति, न तु लङ् यित्कार्यं तल्लोटीत्यडाटोः परिहारान्तरम् । झेर्जुस्भावस्य तु परिहारान्तरम् ठ्लङ्ः शाकटायनस्यऽ इत्यत्र स्वयमेव वक्ष्यति ॥ एरुः ॥ ३।४।८६ ॥ लोडादेशानामिकारस्येति । अथ तु---लोडादेशो य इकारस्तस्य इत्यर्थोऽभिप्रेतः स्यादिट इत्येव ब्रूयात, ठ्तुह्योः विदाङ्कुर्वन्तुऽ इति च निर्देशोऽनुपपन्नः स्याद् । अथेदानीमिटोऽपि व्यपदेशिवद्भावेनेत्वं कस्मान्न भवति ? पुनः प्रसङ्गविज्ञानात् टेरेत्वं भविष्यति । न वोच्चारणसामर्थ्यादिति । यदि हिन्योरुत्वं स्यात् ठ्सेर्हुःऽ ठ्मेर्नुःऽ इत्येव ब्रूयाद्, एवं हि प्रक्रियालाघवं भवतीति भावः । ठानि लोट्ऽ, हुझल्भ्यो हेधिःऽ इति लिङ्गं हिनयोरुत्वाभावस्य ॥ सेर्ह्यपिच्च ॥ ३।४।८७ ॥ लुनीहीति । पित्वाभावान्डित्वे सति ठी हल्यघोःऽ इतीत्वं भवति । राघ्नुहीत्यत्र गुणाभावः । इह सेहिर्ङ्च्चेइति वक्तव्यम् । नन्वेवं ङ्त्वानिङित्कार्यं भवतु, स्थानिवद्भावेन पित्वमप्यस्तीत्यनुदातत्वमपि प्राप्नोति ? ठ्ङ्च्चि पिन्न भवतिऽ इति वचनान्न भविष्यति, यथा---अपि स्तुयाद्राजानमिति, अत्र ठुतो वृद्धिर्लुकि हलिऽ इति पिति विधीयमाना वृद्धिर्न भवति । ब्रूताद्भवानिति, ब्रुव इण्न भवति । किं च नाप्रप्ते पित्वे ङ्त्विमारभ्यमाणं तद्वाधिष्यते ॥ वाच्छन्दसि ॥ ३।४।८८ ॥ अपित्वं विकल्प्यत इति । अनन्तरत्वात् । नादेश इति, व्यवहितत्वात् । युयोधीति । ठ्बहुलं च्छन्दसिऽ इति शपः श्लौ द्विर्वचनम् । अत्र पित्वान् ङ्त्वाभावे ठिङ्तिश्चऽ इति धिभावः ॥ मेर्निः ॥ ३।४।८९ ॥ उत्वलोपयोरपवाद इति । यथाक्रमम् ठेरुःऽ ठ्लोटो लङ्वत्ऽ इति प्राप्तयोः, ठितश्चऽ इतीकारलोपस्यापि लङ् दृष्टित्वादतिदेशतः प्राप्तिः । वयं तु ब्रूमः---ठ्लोटो लङ्वत्ऽ इति प्राप्तस्यामादेशस्यापवाद इति ॥ आमेतः ॥ ३।४।९० ॥ लोट्सम्बन्धिन इति । लोडादेशसम्बन्धिन इत्यर्थः । एतेन लोटैकारो विशेष्यत इति दर्शयति । एकारेण तु लोटि विशेष्यमाणे तदन्तविधौ सत्येकारान्तस्य लोट आम्विधीयमानोऽनेकाल्त्वात्सर्वादेशः स्यात्, तत्र हि ठ्निर्दिश्यमानस्यादेशा भवन्तिऽ इति परिहारो वाच्यः स्यादित्यर्थः ॥ आडुतमस्य पिच्च ॥ ३।४।९२ ॥ स चोतमपुरुषः पिद्भवतीति । आट एव पित्वं कस्मान्न विज्ञायते, तुल्यविभक्तिकयोहि युक्तः सम्बन्धः---आट् पिदिति ? निर्थकत्वात् । अनुदातत्वं तावदागमत्वादेव सिद्धम् ; करवाणि, मार्जानीत्यादौ गुणवृद्ध्योरपि प्रत्यय एव निमितं न त्वागमः ॥ एत ते ॥ ३।४।९३ ॥ इह कस्मादिति । गुणस्यान्तवद्भावेन लोड्ग्रहणेन ग्रहणादस्ति प्रसङ्ग इति भावः । बहिरङ्गलक्षणत्वादिति । द्विपदाश्रयत्वाद् गुणस्य बहिरङ्गत्वम्, ऐकारस्त्वेकपदाश्रयत्वादन्तरङ्गः, अत एव हेतोः ठामेतःऽ इत्ययमपि विधिर्न भवति ॥ लेटोऽडाटौ ॥ ३।४।९४ ॥ पर्यायेणति । न यौगपद्येन; अड्विधानसामर्थ्यात्, अन्यथा सवर्णदीर्घत्वे सत्यड्विधानमकिञ्चित्करं स्यात् । आत ए ॥ ३।४।९५ ॥ करवैते इति । ठ्च्छन्दस्युभयथाऽ इति सार्वधातुकत्वाद्विकरणः, आर्द्धधातुकत्वान् ङ्त्वाभावे इविकरणस्य गुणः, करोतेश्चोत्वाभावः, पवैते, अश्नवैथे, प्रवैते, विग्रन्थैथे ॥ वैतोऽन्यत्र ॥ ३।४।९६ ॥ एतद्विषयमिति । षष्ठीसमासः । एवंविषयमिति तु युक्तः पाठः । उदाहरणानि ठुपसंवादाशङ्कयोश्चऽ इत्यत्र व्युत्पादितानि । दधस इति । ठ्थासः सेऽ, शपः श्नुः, अट्, ठ्घोर्लोपो लेटि वाऽ इत्याकारलोपः ॥ इतश्च लोपः परस्मैपदेषु ॥ ३।४।९७ ॥ परस्मैपदग्रहणमित्यादि । अन्यथा टेरेत्वस्यावकाशः---अन्ये लकाराः, लेट।ल्पीकारादन्यत्र इतो लोपस्य---परस्मैपदानि; इडादिषूभयप्रसङ्गे परत्वादितो लोपः स्यात् ॥ स उतमस्य ॥ ३।४।९८ ॥ करवाव, करवामेति । पूर्ववद्गुणोत्वाभावौ, ठ्लेटोऽडाटौऽ इत्याट् । उतरग्रहणमित्यादि । इह वस्मस्ग्रहणमेव कर्तव्यम् । ठ्तत्रायमप्यर्थः---स इति न वक्तव्यं भवति, ठलोऽन्त्यस्यऽ इत्येव सिद्धम् । यदा च पुरुषान्तरस्य स्थाने वस्मसौ भवतः, एतयोश्च स्थाने सकारान्तं पुरुषान्तरम्, तदापि वाग्रहणानुवृत्यैव लोपालोपौ यथादर्शनं व्यवस्थितौ भविष्यतः । यथाक्रियमाणेऽप्युतम प्रहणे वाग्रहणं चानुवर्तते, उतरत्र नित्यग्रहणं स्यात् ठ्नित्यं ङ्तिःऽ ॥ लिङ्ः सीयुट् ॥ ३।४।१०२ ॥ लिङ्शब्दोऽत्र लिङदेशेषु स्थानिवद्भावात् प्रयुक्त इत्याह लिङदेशानामिति । सीयुट्सकारस्यार्धदातुके लिङ् श्रिवणम्, सार्वधातुके ठ्लिङ्ः सलोपोऽन्त्यस्यऽ इति सलोपः । यकारस्याजादिषु श्रवणम्, अन्यत्र लोपः ॥ यासुट् परस्मैपदेषूदातो ङ्च्चि ॥ ३।४।१०३ ॥ परस्मैपदविषयस्येति । लिङ्ः परेषा परस्मैपदानामसम्भवात् । सीयुटोऽपवाद इति । नाप्राप्ते तस्मिन्नारम्भात्, तेन यासुटि कृते तस्य तिङ्भक्तत्वातदादेः सीयुट्प्रसङ्ग इति न चोदनीयम् । सत्यपि हि सम्भवे सामान्यविधेर्वशेषविधिर्बाधकः । कथं तर्हि कृषीष्ट इत्यादिषु सुटि कृते सीयुड् भवति, ननु तत्रापि सुटा सींयुड् बाधनीयः ? अत्र परिहारं सुड्विधौ वृत्तिकारः स्वयमेव वक्ष्यति । आगमत्वादनुदातत्वै प्राप्त इति । अत एव यासुडुदातवचनाद्विज्ञायते---आगमा अनुदाता भवन्तीति, अन्यथा यासुटः प्रत्ययभक्तत्वात्प्रत्ययस्वरेणैव सिद्धमुदातत्वम् । नैतदस्ति ज्ञापकम्, यानि पिद्वचनानि तदर्थमेतत्स्यात् । यद्येतावत्प्रयोजनम्, अपिदित्येव ब्रूयात् ! तदेतदुदातवचनं ज्ञापकमेव---आगमा अनुदाता भवन्तीति । तत्र तत्कार्याणां सम्भवादिति । ग्रहिज्यादिसूत्रेऽपि धातोः स्वरूपग्रहणे तत्प्रत्ययो कार्यविज्ञानात्प्रत्ययस्यैव ग्रहणम् । कुर्यादिति । विकरणाश्रयो धातोर्गुणः, ठत उत्सार्वधातुकेऽ इत्युत्वम्, ठ्ये चऽ इत्युकारलोपः । कुर्युरिति । झेर्जुस्, ठ्लिङ्ः सलोपोऽनन्त्यस्यऽ ठुस्यपदान्तात्ऽ । स्थानिविद्भावादेवेति । ठ्सार्वधातुकमपित्ऽ इत्यतिदेशादिति नोक्तम् ; पिदर्थत्वान् चनम्य । यासुटो चनमिति । यासुडादेर्लिङे चनमित्यर्थः । इदानीमेव ह्युक्तम्--ङ्त्विं तु लिङ् एव विधीयते इति ? एतच्च ज्ञापनम्---ठ्पिच्च ङ्न्नि भवतिऽ इत्येतदनाश्रित्योच्यते । तदाक्षयणे तु स्थानिवद्भावेन प्राप्तं ङ्त्विमौपदेशिकेन पित्वेन बाध्यते इति प्राप्त्यर्थमेव चनं स्यात् ॥ किदाशिषि ॥ ३।४।१०४ ॥ तस्य यासुट्॥।किद्वद्भवतीति । तस्य यासुड् भवति स च लिङ्किद्वद्भवतीत्यर्थः । अन्यथा ठ्प्रत्ययस्येदं कित्वम्ऽ इत्यनन्तरग्रन्थेन विरोधः स्यात् । प्रयोजनाभावादिति । ठ्वचिस्वपिऽ इत्यत्रापि ठ्धातोः स्वरूपग्रहणेऽ इति प्रत्यस्यैवेदं ग्रहणं स्यात्; अन्यथा वाच्यति वाचिकं कथयति, वाग्जहातीत्यत्रापि स्यात् । गुणवृद्धिप्रतिषेधस्तुल्य इति । किमर्थं तर्हि कित्वविधानमित्यत आह---सम्प्रसारणमिति । जगर्यादिति । ठ्जाग्रोऽविचिण्णल्ङ्त्सुऽ ईति गुणः ॥ झस्य रन् ॥ ३।४।१०५ ॥ झस्येत्यकारोच्चारणात्सङ्घातस्यैव ग्रहणं न वर्णस्य, अन्यथान्तादेशविधाविव ठ्झःऽ इत्येव ब्रूयादिति मन्यमान आह---लिङदेशस्य झस्येति । झोऽन्तापवाद इति । झकारस्य योऽन्तादेशस्तस्यापवाद इत्यर्थः । ठ्झोऽन्तःऽ इत्यस्य वा विधेरपवाद इत्यर्थः । ननु झवर्णस्यान्तादेशः समुदायस्य रन्निति कथं भिन्नविषययोर्बाध्यबाधकभावः ? विरोधात्, येन नाप्राप्तिन्यायाच्च । झोऽन्तापवाद इत्युपलक्षणम् ; कृषीरन्, तृषीरन्नित्यत्र ठात्मनेपदेष्वनतःऽ इत्यस्याप्यपवादः । ननु चापवदाविप्रतिषेधादद्भाव एव प्राप्नोति, न; प्रतिपदविधेर्बलीयस्त्वात्, प्रतिपदविहितो हि रन्भावः । यद्वा---कृषीरन्, तृषीरन्नित्यत्रापि प्रवर्ततामद्भावः, सत्यपि तु तस्मिन्पुनः प्रसङ्गविज्ञानात्सङ्घातस्य रन् भविष्यति ॥ इटोऽत् ॥ ३।४।१०६ ॥ नैवायमादेशावयव इति । ते नास्तेत्संज्ञया प्रयोजनम्, स्वयमेव निवृतत्वादित्यर्थः । प्रत्युतेसंज्ञायां स्वरितत्वं स्यात्, ठ्न विभक्तौ तुस्माःऽ इत्यत्राभ्युपगमवादेनोक्तम्---ठ्किमोदिटोदिति चात्र प्रातेषेधो न भवत्यनित्यत्वादस्यऽ इति । अर्थवद्ग्रहण इत्यादि । ल स्थाने य इडिति विशेषणादप्यागमस्येटो ग्रहणाभावः ॥ सुट् तिथोः ॥ ३।४।१०७ ॥ ठ्तिथोःऽ इति सप्तमी वा स्यात् ? षष्ठी वा ? आद्ये पक्षे ठ्यस्मिन्विधिस्तदादावल्ग्रहणेऽ इति तकारथकारोदेर्लिङदेशस्य सुटा भाव्यमिति कृषीष्ट कृषीष्ठा इत्यत्रैव स्यात्, कृषीयास्तां कृषीयास्थामित्यत्र न स्यात्; सुटा च सीयुटो बाधः स्यात्, उभयोरपि लिङादेशभक्तत्वादिति द्वितीयं पक्षमाश्रित्याह---लिङ्सम्बन्धिनोस्तकारथकारयोरिति । एतदेव स्पष्टयति---तकारथकाराविति । लिङ् तद्विशेषणमिति । लिङ्शब्देन तदादेशा उच्यन्ते । एवं लिङ्संबन्धिनोरित्यत्रापि कृषीष्टेति । विध्यादौ लिङ् सार्विधातुकत्वात् ठ्लिङ्ः सलोपःऽ इति लोपेन सुटः श्रवणाभावादाशिषु लिणेóवोदाहृतः ॥ झेर्जुस् ॥ ३।४।१०८ ॥ झोऽन्तापवाद इति । पूर्ववद् व्याख्येयम् । जागृयुरित्यादौ च पूर्ववदेव ठदभ्यस्तात्ऽ इत्यस्यापि बाधः । पचेयुरिति । ठतो येयःऽ इतीयादेशः, शपा सह ठाद्गुणःऽ ॥ सिजभ्यस्तविदिभ्यश्च ॥ ३।४।१०९ ॥ सताविचारणार्थयोर्विदोरात्मनेपदित्वादसम्भव एव झेः, लाभार्थस्यापि विकरणेन व्यवधानादनन्तरस्य झेरसम्भवः, तस्माल्लुग्विकरणस्यैव विदेर्ग्रहणमित्याह---वेतेश्चेति । अभ्यस्तविदिग्रहणमसिजर्थमिति । न चैवं लोडादिष्वपि प्रसङ्ग इत्याह---ङ्ति इति चानुवर्तत इति ॥ आतः ॥ ३।४।११० ॥ सिच आकारान्ताच्च परस्य झेरिति । द्वाभ्यामनन्तरस्येत्यर्थः । कथमिति । आतः सिचा व्यवधानाद् द्वाभ्यामानन्तर्य न सम्भवतीति प्रश्नः । सिज्लुगन्ताद् झेर्जुस् भवतीत्युक्तं भवति । अभूवन्निति । ठ्भुवो वुग्लुङ्लिटोःऽ इति वुक् । तुल्यजातीयापेक्षत्वाच्चेति । द्वाभ्यामानन्तर्यस्याश्रवणात् सिज्लुगन्तस्य ग्रहणमित्युक्तम् । तेन---सिज्लुगन्ताद्यदि भवति आत एवेति नियमाश्रयणात् श्रूयमाणे सिचि अकार्षुरित्यादावनाकारान्तादपि भवत्येवेत्यर्थः ॥ लङ्ः शाकटायनस्यैव ॥ ३।४।१११ ॥ अयुः, अवुरिति । शपो लुक्, ठुस्यपदान्तात्ऽ इति पररूपत्वम् ॥ लणेóवेति । लुड्लिङेस्तावद्भवितव्यम्, लृङ्स्तु स्यप्रत्ययेन झेर्व्यवधानमिति भावः । यान्तु, वान्त्विति । ठ्लोटो लङ्वत्ऽ इत्यत्र तु वाग्रहणानुवृत्याप्ययमर्थः साधितः । ननु च लङ्ग्रहणाद्यत्नज्जुस्भावोऽयं लोटो मा भूत्, ठ्सिजभ्यस्तऽ इत्ययं तु स्यादेव ? तत्राह---सिजभ्यस्तेत्यादि । कथमित्यत्राह---जुस्भावमात्रं हीति । कथं पुनः ठातःऽ इत्यनुवर्तमाने जुस्भावमात्रं मुख्येन लङ शक्यं विशेषयितुम् ? ठ्लङ्ःऽ इति योगविभागः कर्तव्य इति मन्यते । ननु च ठात इत्येतत्सिज्ग्रहणानुवृत्या नियमार्थम्ऽ इत्युक्तम् , ततश्चायुरित्यत्र केनचिदप्राप्तत्वाद्विध्यर्थमेतत्किमेवकारेण ? इत्यत्राह---एवकार उतरार्थ इति । ठ्लिट् चऽ, ठ्लिङशिषिऽ इत्यत्रास्य प्रयोजनं दर्शयिष्यति ॥ द्विषश्च ॥ ३।४।११२ ॥ द्विषिरदादिः ॥ तिङ्शित्सार्वधातुकम् ॥ ३।४।११३ ॥ तरति नयतीति । तिङ्ः सार्वधातुकत्वाच्छप्, शपः सार्वधातुकत्वाद्धातोर्गुणः । रोदितीति । शपो लुकि ठ्रुदादिभ्यः सार्वधातुकेऽ इतीट् । पवमानो यजमान इति । पूर्ववच्छब्गुणौ ॥ आर्धधातुकं शेषः ॥ ३।४।११४ ॥ धातुसंशब्दनेनेति । धातुशब्दमुच्चार्येत्यर्थः । अत्र हि यङ्विधौ यद्धातुग्रहणं शमिधातोरिति वा, यच्च धातोरिति, तदुभयमनुवर्तते; तत्रैकेनाधातुप्रत्ययो व्यावर्त्यते, अपरेण धातुप्रत्ययो विशिष्यते, धातोरित्येवं यो विहित इति, तेनायमर्थः । लूभ्याम्, लुभिः, जुगुप्सते इति । यद्यप्यत्र धातोरेव विहिस्तथापि धातुशब्दमुच्चार्य न विहित इति भवति प्रत्युदाहरणम् । शेषग्रहणम्---तिङ्शितोर्मा भूत; अन्यथैकसंज्ञाधिकाराभावात्प्रत्ययादिसंज्ञानामिव समावेशः स्यात् । सद्येवकारोऽनुवर्तते शक्यं शेषग्रहणमकर्तुम् ॥ लिट् च ॥ ३।४।११५ ॥ पेचिथ, शेकिथेति । ठृतो भारद्वाजस्यऽ इति नियमादिट्, ठ्थलि चऽ सेटिऽ इत्येत्वाभ्यासलोपौ । जग्ले मम्ल इति । आर्धधातुकत्वात् ठातो लोप इटि चऽ इत्याकारलोपः । यदुक्तम्---सार्वधातुकसंज्ञाया अपवाद इति, तद्विघटयति---ननु चेति । सत्यमित्यादिना अपवादत्वं समर्थयते ॥ च्छन्दस्युभयथा ॥ ३।४।११७ ॥ सर्वमेव प्रकरणमिति । ठ्तिङसित्सार्वधातुकम्ऽ इत्यारभ्य चतुः सूत्रीप्रकरणम् । भूभावो न भवतीति । तदानीभेवार्धधातुकत्वात् ठ्श्नसोरल्लोपःऽ इत्यस्याभावः ॥ इति श्रीहरदतमिश्रविरचितायां पदमञ्जर्यां तृतीयाध्यायस्य चतुर्थः पादःकाशिकावृत्तिः--४ पदमञ्जरी ङ्याप्प्रातिपदिकात् ॥ ४।१।१ ॥ अधिकारोऽयमिति । विधेयपरिभाष्ययोरनिर्देशाद्वक्ष्यमाणानां च स्वादीनां प्रकृत्यपेक्षत्स्वरितत्वाच्च । आ पञ्चमाध्यायपरिसमाप्तेरिति । अधिकारस्यावधिं दर्शयति । अधिकारोऽनेकप्रकारः----संज्ञाधिकारः, विशेषणाधिकारः, प्रकृत्यधिकारश्चेति, तत्र कीदृसोऽयमधिकारः ? इत्यत आह---स्वादिषु कप्पर्यन्तेषु प्रकृतिरधिक्रयते इति । टाब्डाप्चापामाव्रितीति । सामान्यहणमित्यनुषङ्गः । समाहारनिर्द्देश इति । समाहारद्वन्द्वेन तेषां ङ्यादीनामयं निर्देश इत्यर्थः । ततश्च समाहारस्यैकत्वादेकवचनमेव युक्तम्, न बहुवचनमिति भावः । किमर्थमिदमुच्यते ? ङ्याप्प्रातिपदिकात्परे स्वादयो यथा स्युरिति केवलानां प्रयोगो मा भूत् । ठ्परश्चऽ इति वचनात्केवलानां प्रयोगो न भविष्यति ? इदं तर्हि प्रयोजनम्---ङ्याप्प्रातिपदिकादेव यथा स्युरित प्रकृत्यन्तरान्मा भूवन् । असतिह्यस्मिन्नधिकारे धातुः, तिङ्न्तम्, वाक्यम्, सुबन्तं चेति ङ्याप्प्रातिपदिकव्यतिरिक्ताति चतुर्विधा प्रकृतिरस्ति, वक्ष्यमाणाश्च प्रत्ययाश्चतुर्विधाः---स्वादयः, टाबादयः, अणादयः, स्वार्थिकाश्चेति; तदिह चतुर्विधाभ्यः प्रकृतिभ्यश्चतुर्विधाः प्रत्यया मा भूवन्निति कर्तव्य एवायमधिकारः । न कर्तव्यः । ननु चासत्यस्मिन् धात्वधिकाराद्धातोरेव स्युः, कृदुपपदसंज्ञे च स्याताम्, वासरूपविधिश्चस्यात् ? न; निवृतत्वाद्धातुग्रहणस्य । यदि परं धातोरपि स्युः, तदपि न; कर्मादीनामभावात् । कर्मादिषु च कारकेष्वेकत्वादिकायां च संख्यायां स्वादयो विधीयन्ते, न च धात्वर्थस्य कर्मादिभिर्योगः सम्भवति । कथं तर्हि कर्मणि तत्र्यदादयो भवन्ति ? नैव धात्वर्थस्य कर्मत्वे तव्यदादयो भवन्ति, किं तर्हि ? धात्वर्थं प्रति यत्कर्म तस्मिन्वाच्ये---कर्तव्यः कट इति । स्वादयस्तु प्रकृत्यर्थस्य कर्मत्वे चरितार्था नान्यस्य कर्मत्वे भवितुमर्हन्ति, तव्यदादिभिश्च बाधितत्वाद्धातोः स्वादीनामभावः । ननु च धात्वर्थस्यैव कर्मत्वं दृष्टम्---सन्प्रकृतौ चिकीर्षतीत्यादौ ? एवमपि संख्याभावः सिद्ध एव, अव्ययेभ्यस्तु ठव्ययादाप्सुपःऽ इति ज्ञापकात्स्वादयो भवन्ति । यत्पुनः ठ्बहुषु बहुवचनम्ऽ इत्यत्रोक्तम्---यत्र च संख्या सम्भवतीति, तदस्यां दशायां तथा नाश्रीयते । टाबादयस्तर्हि धातोर्मा भूवन्निति ? स्त्रियां टाबादयो विधीयन्ते, न च धात्वर्थस्य स्त्रीत्वेन योगोऽस्ति । कथं तर्हि स्त्रियां क्तिन्नादयो विधीयन्ते ? नैवात्र धात्वर्थस्य स्त्रीत्वे क्तिन्नादयः स्मर्यन्ते, कस्य तर्हि ? यस्तस्य सिद्धत्वं नाम धर्मस्तस्य । क्तिन्नादिभिश्च बाधितत्वाट्टाबादीनामभावः । अणादयस्तर्हि धातोर्मा भूवन्निति ? अपत्यादिष्वर्थेष्वणादयो विधीयन्ते, न च धात्वर्थस्यापत्यादिभिर्योगोऽस्ति, समर्थविभक्त्यभावाच्चाणादीनामनुत्पत्तिः, ठ्तस्यापत्यम्ऽ, ठ्तेन रक्तम्ऽ, ठ्तत्र भवःऽ इत्येवमादिभिः षष्ठ।लदिविभक्त्यन्तादणादयो विधीयन्ते, न च धातोर्विभक्तिः सम्भवति । स्वाथिका अपि स्वार्थकैस्तुमुन्नादिभिर्बाधितत्वादेव धातोर्न भविष्यन्ति । तिङ्न्तातर्हि स्वादयो मा भूवन्निति ? तिङ्न्तेषु क्रिया प्रधानभूता, साधनं गुणभूतम्, तत्र प्रधानभूतायाः क्रियायाः कर्मादीनामभावात्स्वादयो न भविष्यन्ति । पचति भवति, भवति वै किञ्चिदाचार्याः क्रियमाणमपि चोदयन्तीत्यादौ कर्तृत्वं दृष्टमिति चेत्, एवमपि संख्याया अभावः सिद्ध एव । यस्तु गुणभूतः कर्ताऽभीधीयते; तत्र अभिहितत्वादेव विभक्त्यभावः सिद्धः । न च गुणभूतस्य कर्तुः क्रियान्तरावेशः सम्भवति; यतः पाचकं पश्येत्यादिवद् द्वितीयादयो भवेयुः । ननु पुत्रीयवदेतत्स्यात्, तद्यथा---पुत्रीयशब्दादन्तर्भूतक्रियाकर्मवाचिनः कर्तरि लकार उत्पद्यते---पुत्रीयतीति, तथेहापि पचतिशब्दात् कर्तृविशिष्टक्रियावाचिनः क्रमादिषु द्वितीयादयः स्युरेव ? नैष दोः ; उक्तमेतत्---प्रकृत्यर्थस्य कर्मत्वे चरितार्थाः स्वादयो नान्यस्य कर्मत्वे भवितुमर्हन्तीति । न चैकक्रियापेक्षयोर्भिन्नयोः साधनयोरेकस्मिन्पदे युगपदभिधानं सम्भवति । पुत्रीयशब्दस्तु जीवत्यादिधातुवद्विशिष्टक्रियावचन इति, ततः कर्तरि लकारोत्पतिरविरुद्धा । अवश्यं चैतदेवं विज्ञेयम्---अर्थाभावादेव तिङ्न्ताद् द्वितीयादयो न भवन्तीति । यो हि मन्यते---ङ्याप्प्रातिपदिकाधिकारान्न भवन्तीति; रूपबाद्यन्तातस्य द्वितीयादयः स्युरेव, पचतिरूपं पश्य, पचतिरूपेण कृतमित्यादि, भवति ह्यएतत्प्रातिपदिकम् । कथं तर्हि रूपबाद्यन्तात्प्रथमैकवचनमपि भवति ? उक्तत्वात्सङ्ख्यायाः, न हि तत्कर्तुः सङ्ख्यायामेकवचनम् । यदि तथा स्यात् पचतेरूपं पचन्तिरूपमिति द्विवचनबहुवचने स्याताम् । ठ्प्रातिपदिकार्थऽ इत्यत्र तु प्रातिपदिकग्रहणात्प्रातिपदिकमात्रानुबन्धिनी प्रथमा भवति । तत्राप्येकवचनमेव; ठेकवचनमुत्सर्गः करिष्यतेऽ इति वचनात् । न चैवं तिङ्न्तेऽपि प्रसङ्गः तस्याप्रातिपदिकत्वात् । टाबादयस्तर्हि तिङ्न्तान्मा भूवन्निति ? स्त्रियां टाबादयो विधीयन्ते, न च तिङ्न्ते प्रधानस्यार्थस्य स्त्रीत्वेन योगोऽस्ति । यदि परं साधनस्य स्त्रीत्वे टाबादयः स्युः पचेद् ब्राह्मणः, पचेरन् ब्राह्मण्य इति ? तदपि न; स्वभावतो हि तिङ्न्तानि साधनाश्रयां सङ्ख्यामेवोपाददते, न लिङ्गम् । उक्तं च--- एकत्वेऽपि क्रियाख्याते साधनाश्रयसंख्यया । भिद्यते न तु लिङ्गाख्यो भेदस्तत्र तदाश्रयः ॥ इति । शोभनं पचतीत्यादौ क्रियाविशेषणस्यैव लिङ्गेन योगः, न क्रियायाः, तत्रापि नपुंसकेन । पचति रूपमित्यादावपि रूपबाद्यन्तवाच्यायाः क्रियायाः स्वभावतो लिङ्गेन योगः, तत्रापि नपुंसकेन । विचित्रा हि शब्दानां शक्तयो यथादर्शनमभ्युपगन्तव्याः, न सामान्यतो दृष्टेनानुमानेन व्यवस्थापयितुं शक्यन्ते । अवश्यं चैतदेवं विज्ञेयम्---स्त्रीत्वाभावातिङ्न्ताट्टाबादयो न भवन्तीति, अन्यथा पचतिरूपं ब्राह्मणीत्यादौ रूपबाद्यन्ताट्टाप्स्यादेव । अणादयस्तरिहि तिङ्न्तान्मा भूवन्निति ? अपत्यादिष्वर्थेष्वणाअदयो विधीयन्ते, न च तिङ्न्ते प्रधानस्यापत्यादिभिर्योगोऽस्ति । अप्रधानस्य त्वप्रधानत्वादेवापत्यादिभिर्योगाभावः, समर्थविभक्त्यभावाच्चाणाद्यभावः सिद्धः । अवश्यं चैतदेवं विज्ञेयम्, अन्यथा यः पचतिरूपं तस्यापत्यमिति रूपबाद्यन्तादणादयः स्युरेव । स्वाथिका अपि ज्ञापकातिङ्न्तान्न भविष्यन्ति, यदयं क्वचितद्धितविधौ तिङ्ग्रहणं करोति---ठतिशायने तमबिष्ठनौऽ, ठ्तिङ्श्चऽ इति । वाक्यादपि नैव स्वादयो भवितुमर्हन्ति; अर्मादीनामभावात् । न खलु क्रियारूपस्य संसर्गरूपस्य भेदरूपस्य वा वाक्यार्थस्य कर्मादिभि स्त्रीत्वेनापत्यादिभिर्वा योगः सम्भवति । ठ्पश्य मृगो धावतिऽ इत्यादौ दृष्टमिति चेत् ? एवमपि संख्यायोगाभावः सिद्धः । स्वार्थिका अप्यभिधानाभावान्न वाक्याद्भविष्यन्ति । तथा हि---ठ्देवदतारोहाश्वम्ऽ इत्यस्माद्वाक्यात्प्रागिवीयेष्वर्थेषु के सुल्बुकि च कृते वाक्यार्थस्यासत्वभूतत्वाच्छक्तिलिङ्गसङ्ख्यायोगाभावात्स्वाद्यौत्पतेरभावाद् देवदतारोहाश्वकेति भवितव्यम्, न चैवम्भूतेन वाक्यार्थगताः कुत्सादयो गम्यन्त इति । सुबन्तादपि नैव स्वादयो भवितुमर्हन्ति । नहि स्वादिषु विधीयमानेषु तदन्ता प्रकृतिः सम्भवति, यथोक्तम्---ठ्सनन्तान्न सनिष्यतेऽ इति । किञ्च सुबन्तमपि सङ्ख्याप्रधानं कारकशक्तिप्रधानं वा, न चास्यापरैः कर्मादिभिर्योगः सम्भवति । टाबादयोऽपि स्त्रीत्वाभावान्न भविष्यन्ति । अणादिषु पुनर्नास्ति विशेषः, सुबन्ताद्वोत्पतौ सत्यां प्रातिपदिकाद्वा । यथा चैततथा ठ्समर्थानां प्रथमाद्वाऽ इत्यत्र प्रतिपादयिष्यामः । सर्वथा रूपबाद्यन्तात्प्रातिपदिकादप्यनिष्टः प्रत्ययो यद्वात् तद्वद्धात्वादिकादपीति नार्थ एतेनेत्याक्षेप्ता शङ्कते तावत्---यद्यपीति । प्रत्ययपरत्वेन प्रकृतिर्लभ्यते । पारिशेष्याच्चेयमेव प्रकृतिर्लभ्यत इत्यर्थः । परिहरति---तथापीति । वृद्धादयो लक्षणं निमितं यस्य प्रत्ययविधेस्तत्र ङ्याप्प्रातिपदिकस्य विशेष्यत्वेन सम्प्रात्ययो यथा स्यादित्येवमर्थमित्यर्थः । इतरथा हीति । यदि ङ्याप्प्रातिपदिकग्रहणं न क्रियेतेत्यर्थः । समर्थविशेषणमेतत्स्यादिति । ठ्समर्थानां प्रथमाद्वाऽ इत्यधिकारात् । किं च समर्थम् ? सुबन्तम् । समर्थविशेषणे सति को दाषः ? ठुदीचां वृद्धादगोत्रात्ऽ इति फिन् । इह च प्रसज्येत---ज्ञानां ब्राह्मणानामपत्यमिति, एतद्धि समर्थंवृद्धम् । इह च न स्यात्---ज्ञानां ब्राह्मणानामपत्यमिति, न ह्यएतत्समर्थमवृद्धम् । यत्र ह्यादेशादिवशेन सङ्ख्याविशेषाभिव्यक्तिर्भवति न भवति तत्र द्विवचनबहुवचनान्तानामपि वृत्तिः---तावकः, मामक इति । यथा इह च फिञुत्पद्यमानो बहुत्वमन्तरेण वृद्धत्वानुपपतेर्बहुत्वं गमयेत्, एवं फिन्नपि द्वित्वमिति स्यादेवायं प्रसङ्गः । अवर्ण---ठत इञ्ऽ इहैव स्यात् दक्षस्यापत्यमिति, दक्षयोः दक्षाणामित्यत्र तु न स्यात् । स्वर---ठनुदातादेरञ्ऽ, इह च प्रसज्येत---वाचो विकारः, त्वचो विकारः, एतद्धि समर्थमनुदातादि, ठ्सावेकाचःऽ इति विभक्तेरुदातत्वात् । नन्वत्रैकाचो नित्यं मयटमिच्छन्तीति मयटा भाव्यम् ? इदं तर्हि पञ्चानां विकार इति ठ्षट्त्रिचतुर्भ्यो हलादिःऽ इति विभक्तेरुदातत्वे सति समर्थमनुदातादि, प्रातिपदिकं तु ठ्न्रः सङ्ख्यायाःऽ इत्याद्यौदातम् । इह च न स्यात्---सर्वेषां विकार इति, ठ्सर्वस्य सुपिऽ इत्याद्यौदातं पदम्, प्रातिपादिकं त्वन्तोदातं निपातितम् । द्व्यच्---ठ्नौद्व्यचष्ठन्ऽ, इह च प्रसज्येत---वाचा तरति, त्वचा तरति,एतद्धि समर्थं द्व्यच् । नौग्रहणं तु नियमार्थं स्यात्---औकारान्ताद्यदि भवति नौशब्दादेवेति । इह च न स्यात्---घटेन तरतीति । साम्ना तरतीत्यादौ पुनरुभयथापि सिद्धम् । ङ्याप्प्रातिपदिकग्रहणे तु सति तत्सामर्थ्यातस्यैव विशेषणं वृद्धादि भवति, समर्थाधिकाराच्च समर्थात्प्रत्ययः । तत्रैवमभिसम्बन्धः---वृद्धादि यद् ङ्याप्प्रातिपदिकं तस्मात् समर्थात् प्रत्ययः इति । ठ्यस्मात्प्रत्ययविधिःऽ इति प्रत्ययविधौ पञ्चमीनिर्दिष्टस्य विधीयमाना अङ्गभपदसंज्ञा ङ्याप्प्रातिपदिकस्य यथा स्युरित्येततु प्रयोजनंन भवति, कथम् ? दैवेन हि जानता यतः प्रत्ययो विहितस्तस्यैताः संज्ञाः पञ्चम्या निर्द्दिश्यतां मा वा निर्देशि । इह च ठ्कंसीयपरशव्ययोर्यञञौ लुक्चऽ इति प्रातिपदिकात्परयोश्च्छयतोर्लुग्यथा स्यादौणादिकयोरुकारसशब्दयोर्मा भूदित्येतदपि न प्रयोजनम्, कथम् ? ठुणादयोऽव्युत्पन्नानि प्रातिपदिकानिऽ, उणाअदिषु नावश्यं व्युत्पत्तिकार्यं भवतीत्यर्थः । एतच्च ठतः कृकमिकंसऽ इत्यत्र कमिग्रहणेनैव सिद्धे पुनः कंसग्रहणाद्विज्ञायते, तस्माद् वृद्धाद्येव प्रयोजनमधिकारस्य । ङ्याब्ग्रहणं क्रियते; प्रत्ययान्तत्वेनाप्रातिपदिकत्वात् । ठ्यूनस्तिःऽ युवतिरित्यस्य तु तद्धितान्तत्वात्प्रातिपदिकत्वम् । ठूणुतःऽ इत्युवर्णान्तादूङ् विधीयते, तत्रैकादेशस्यान्तवद्भावात्प्रातिपदिकत्वम् । ठ्श्वशुरस्योकाराकारलोपश्चऽ इति श्वश्रूरित्यत्र ठ्श्वशुरः श्वश्र्वश्चऽ इति निपातनाद्विभक्त्यादिसिद्धिः, एवं स्थिते चोद्यम्---अथेति । न प्रातिपदिकग्रहण इति । नञः काक्वा प्रयोगात्सिद्धमेवेत्यथः । अनेकार्थत्वाद्वा निपातानाम् । ननुशब्दस्यार्थे नशब्दो द्रष्टव्यः । लिङ्गविशिष्टस्येति । लिङ्गनिमितप्रत्ययेनाधिकस्येत्यर्थः । अस्याश्च परिभाषायाः प्रयोजनम्---सर्वनामस्वरसमासोपचारेष्ठवद्भावाः । सर्वनाम---भवच्छब्दस्य विधीयमाना सर्वनामसंज्ञा भवतीशब्दस्यापि भवति, ठ्सर्वनाम्नास्तृतीया चऽ, भवता हेतुना, भवतो हेतोः, भवत्या हेतुना, भवत्या हेतोरिति । स्वर---ठ्कुशूलकूपवुम्भशालं बिलेऽ, कुशूलबिलं कुशूलीबिलम् । समास---ठ्पूर्वसदृशऽ, मातृसदशः, मातृसदृशी; ठ्सदृशप्रतिरूपयोःऽ इति स्वरोऽप्यत्र भवति । तथा ठ्कुमारः श्रमणादिभिःऽ । कुमारीश्रमणा, कुमारश्रमणा, एवं युवतिर्वलिना, युववलिना । उपचार---ठतः कृकमिकंसकुम्भऽ, अयस्कुम्भः, अयस्कुम्भी । इष्ठवद्भाव---ठ्णाविष्ठवत्प्रातिपदिकस्यऽ, कुमारीमाचष्टे कुमारयति । इह तु ठचितहस्तिधेनोष्ठक्ऽ, हस्तिनीनां समूहो हास्तिकरमिति, ठ्भस्याढेअ तद्धितेऽ इति पुंवद्भावेन ङीपि निवृते हस्तिशब्द एवायमिति ठक्सिद्धिः । ठ्तद्धितेऽ इत्येषा हि विषयसप्तमी । अवश्यं च पुंवद्भाव एवाश्रयणीयः, अन्यथा हस्तिनीशब्दाट्ठकि यस्येतिलोपग्य स्थानिवद्भावात् ठ्नस्तद्धितेऽ इति टिलोपो न स्यात् । इह च ठ्नेन्त्सिद्धबध्नातिषु च स्थण्डिलशायिनिऽ इति ठ्गतिकारकोपपदानां कृद्भिः सह समासवचनं प्राक् सुबुत्पतेःऽ इति वचनादनुत्पन्न एव ङीपि समासे सतीन्नन्तमेवोतरपदमित्यलुक्प्रतिषेधः सिद्धः । एवं ठ्शयवासवासिष्वकालात्ऽ ग्रामेवासिनीत्यलुक् । तथा ठ्क्यङ्मानिनोश्चऽ ठ्स्वाङ्गाच्चेतोमानिनिऽ दर्शनीयमानिनी, दीर्घमुखमानिनी---मानिन्शब्द एवोतरपदमिति पुंवद्भावः सिद्धः । इह च ठ्तृजकाभ्यां कर्तरिऽ ठ्कर्तरि चऽ इति कर्तरि यौ तृजकौ ताभ्यां योगे या षष्ठी तस्या येन सह समासः प्राप्तः स सर्वो न भवतीति विज्ञानादपां स्रष्ट्रीत्यत्रापि समासनिषेदः सिद्धः । यदि ठ्प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम्ऽ भवति, अतिप्रसङ्गो भवति---ठ्द्विषत्परयोस्तापेऽ द्विषतीतप इत्यत्रापि स्यात्, उक्तमत्र---ठ्द्विषत्परयोरिति द्वितकारकोऽयं निर्देशः तकारान्तो द्विषच्छब्दःऽ इति । इह च गार्ग्या अपत्यम्, दाक्ष्या अपत्यमिति ठ्यञिञोश्चऽ इति फकं परत्वात् स्त्रीभ्यो ढग्बाधते । इह च ठ्ञ्नित्यादिनित्यम्ऽ दाक्षिः, ग्लुचुकायनिरित्यस्यामवस्थायामाद्यौदातत्वे कृते पश्चात् ठितो मनुष्यजातेःऽ इति ङीषि सति शिष्टः प्रत्ययस्वर एव भवति---दाक्षी, ग्लुचुकायनी । न चास्यामवस्थायामाद्यौदातत्वं पुनः प्रवर्तते; पूर्वमेव प्रवृतत्वात् । तथा बहवो गोमन्तोऽस्यां बहुगोमतीति प्रागेव बहुस्वरे प्रवृते पश्चान्ङीप्, पित्वादनुदातो भवति । न च पुनरपि ठ्बहोर्नञ्वद्ऽ इत्यम्य प्रवृत्तिः पूर्वमेव प्रवृतत्वात्समासाच्चात्र ङीबुत्पन्न इत्युतरपदं न लिङ्गविशिष्टम् । इह तर्हि ठ्राजाहः सखिभ्यष्टच्ऽ मद्राणां राज्ञीति टच् स्यात्, ततश्च ठ्भस्याढेअ तद्धितेऽ इति पुंवद्भावेन ईकारे निवृते टिलोपे च टित्वान्ङीपि मद्रराजीति स्यात्, मद्रराज्ञीति चेष्यते । तथा महती प्रिया यस्य महतीप्रिय इति पुंवद्भावप्रतिषेधविषये ठान्महतःऽ इत्यात्वं स्यात् । तथाऽऽर्ययोर्ब्राह्मणकुमारयोः, राजा च राजब्राह्मणीत्यत्रापि स्यात् । तथा विभक्त्याश्रयं यत्कार्यं विभक्तौ परतो विभक्तेर्वा तत्रापि दोषः, यथा---ठ्न गोश्वन्साववर्णऽ इति शुना, शुन इत्यत्र ठ्सावेकाचःऽ इति प्राप्तं विभक्तेरुदातत्वं न भवति । तथा गौरादिङीषन्तात् शुन्या, शुन्यै इत्यादावपि ठुदातयणो हलपूर्वात्ऽ इत्यस्यापि निषेधः स्यात् । ठुगिदचाम्ऽ इति नुम् गोमतीत्यादावपि स्यात् । ठ्चतुरनडुहोराम्ऽ अनडुहीत्यत्रेकारात्परः स्याद् । ठ्पथिमथ्यृभुक्षामात्ऽ शोभनः पन्था अस्यामिति ठ्न पूजनात्ऽ इति समासान्ते निषिद्धे ऋन्नेभ्यो ङीपि भस्य टेर्लोपे सुपथीत्यत्रापि स्यात् । अङ्गाधिकारे तदन्तस्यापि ग्रहणात्सुपन्था इतिवत् ठ्पुंसोऽसुङ्ऽ सुपंसीत्यत्रापि स्यात् । शोभनाः पुमांसोऽस्यामिति, उरः प्रभृतिषु पुमानिति विभक्त्यन्तस्य पाठादेकवचनान्तादेव नित्यं कप् भवति, बहुवचनान्तस्य तु ठ्शेषाद्विभाषाऽ इति विकल्पित एवेति कबभावपक्षे पूङे ह्रस्वः, मसुश्च प्रत्ययः, आकार उच्चारणार्थः, तत्र प्रत्यस्योगित्वात् ठुगितश्चऽ इति ङीप् । ठ्सख्युरसम्बुद्धौऽ ठनङ् सौऽ इति णित्वानङै सखौ सख्यावित्यादावपि स्याताम् । ठ्सख्यशिश्वीति भाषायाम्ऽ इति ङीष्विधानं तु सखीभ्यामित्याद्यर्थं स्यात् । ठ्विभाषा भवद्भगवदघवताम्ऽ इत्यत्र त्ववशब्दः सम्बुद्धाविति विश्ष्यते, तत्र ठ्येन नाव्यवधानम्ऽ इत्येकेन वर्णेन व्यवाये ओत्वं प्रवर्तमानमिह न भवति---हे भगवति, हे अघवतीति, तदभावातत्सन्नियोगशिष्टस्य रुत्वस्याप्यभावः । ठ्श्वयुवमघोनामतद्धितेऽ इत्यत्रापि ठल्लोपोऽनःऽ इत्यतः ठनःऽ इत्यपकर्षाद्यौवतीः पश्येति सम्प्रसारणाभावः । तदेवं लिङ्गविशिष्टपरिभाषायाः सन्ति प्रयोजनानि, सन्ति च दोषाः । यानि प्रयोजनानि तदर्थमेषा कर्तव्या, प्रतिविधेयं दोषेषु । प्रतिविधानं च ठ्शक्तिलाङ्गलऽ इत्यत्र घटग्रहणेनैव सिद्धे घटीग्रहणमस्याः परिभाषाया अनित्यत्वज्ञापनार्थमिति । तदेवं स्थितमेतत्---ङ्याब्ग्रहणमनर्थकं प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणादिति । परहरति---नैतदस्तोति । स्वरूपविधिविषय इति । स्वरूपाश्रयो विधिः स्वरूपविधिः, स चासौ विषयश्च तत्रेत्यर्थः । किमुक्तं भवतीत्याह---प्रातिपदिकस्वरूप ग्रहणे सतोति । कुत एतदित्यत आह---तथा चेति । यथा च युवञ्च्छब्दस्य जरतीशब्देन समासवचनमत्रार्थे ज्ञापकं तथा तत्रैव प्रतिपादिकम् । तादृशमेवेति । ठ्प्रातिपदिकस्वरूपग्रहणे लिङ्गविशिष्टस्यापि ग्रहणं भवतिऽ इति यदुक्तं तदनुगुणमेवेत्यर्थः । यदि स्वरूपविधिविषये परिभाषेयम्, कथमिष्ठवद्भावः---कुमारीमाचष्टे कुमारयतीति ? बाहुलकात्सिद्धिं मन्यते, चुरादौ हीदं पठ।ल्ते---ठ्प्रातिपदिकाद्धात्वर्थे बहुलमिष्ठवच्चऽ इति । भाष्ये तु यथाकथंचित्प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणमिति स्थितम् । तथा च ठ्सर्वप्रातिपदिकेभ्य इत्येकेऽ इति क्विप् ङ्यन्तादपि भवति---यामिनयन्त्यहानीति । किञ्चेत्यादिना प्रयोजनान्तरं समुच्चिनोति । कालितरेति । कालशब्दात् जानपदादिसूत्रेण ङीषि तरपि ठ्घरूपकल्पऽ इत्यादिना ह्रस्वः । किं पुनः कराणं तदन्तातद्धितविधिर्न सिध्यतीत्याह--- विप्रतिषेधाद्धीति । स्त्रीप्रत्ययस्यावकाशः---प्रकर्षाविवक्षायां कालीति, प्रकर्षप्रत्ययस्यावकाशः---स्त्रीत्वाविवक्षायां कालतर इति ; उभयविवक्षायामुभयप्रसङ्गे परत्वातद्धितः स्यात् । ङ्याब्ग्रहणे तु सति तरब्विधौ प्रकृतित्रयाधिकारसामर्थ्यात्पूर्वं ङ्यापौ भवतः, पश्चातरबिति सिद्धमिष्टम् । ननु च स्त्रीत्वस्यान्तरङ्गत्वातन्निमितः प्रत्ययोऽन्तरङ्गः, प्रकर्षस्तु बाह्यप्रतियोग्यपेक्षत्वाद्बहिरङ्गः, ततस्तन्निमितस्य प्रत्ययस्यापि बहिरङ्गत्वम् । योऽप्यज्ञातादिष्वर्थेषु ठ्प्रागिवात्कःऽ विधीयते सोऽप्यज्ञाताद्यर्थापेक्षत्वाद्बहिरङ्ग एव, विभक्त्यन्तस्य हि सतः पश्चादज्ञातादियोगो भवति, विभक्तयश्च संख्याकर्माद्यपेक्षाः । प्रागेव संख्याकर्मादियोगाल्लिङ्गेन प्रातिपदिकं युज्यते । उक्तं च---ठ्स्वार्थमभिधाय शब्दो निरपेक्षो द्रव्यमाह समवेतम्, समवेतस्य तु वचने लिङ्गं संख्यां विभक्तिं चाभिधाय तान्विशेषानवेक्षमाणश्च पूर्णमात्मानमप्रियकुत्सनादिषु ततः विशेष्ये बुद्धिरिति पूर्वं विशेषणभूतः स्वार्थोऽभिधातव्यः, पश्चातद्विशिष्ट्ंअ द्रव्यम्; तस्य धर्मित्वेन प्रधानत्वात्, ततो लिङ्गमन्तरङ्गत्वात् । संख्या हि भेदापेक्षत्वाद्बहिरङ्गा, सापि तु सजातीयापेक्षा विजातीयकर्मादिकारकशक्त्यपेक्षेभ्यः कारकेभ्योऽन्तरङ्गेति ततस्तस्या अभिधानम्, ततः कारकाणाम्, एवं परिपूर्णार्थस्य पश्चात्कुत्सनादिभिर्योगः । स्वार्थादयो हि कुत्सनादिहेतवः, द्रव्यस्य पण्डितक इत्यादौ तथावसायात् । तदेवमन्तरङ्गः स्त्रीप्रत्ययः, बहिरङ्गास्तद्धिताः, अन्तरङ्गबहिरङ्गयोश्चायुक्तो विप्रतिषेधः ? इह तहि ठ्वर्णे चानित्येऽ, ठ्रक्तेऽ ठ्कालाच्चऽ इत्यस्यावकाशः स्त्रीत्वाविवक्षायां कालक इति, स्त्रीप्रत्ययस्य कालीत्यवकाशः; कालिकेत्यत्रोभयप्रसङ्गे परत्वान्कन् स्यात् । तस्य चात्यन्तस्वाथिकत्वान्न तदपेक्षं स्त्रीप्रत्ययस्यान्तरङ्गत्वमस्ति । नास्त्यत्र विशेषः, कालशब्दादप्युत्पतौ ठ्प्रत्ययस्थात्ऽ इतीत्वे कालिकेति सिद्धम् ? यदा तहिं हरितशब्दात् ठ्न सामिवचनेऽ इति ङीब्नकारौ बाधित्वा परत्वात्कन् स्यात्, ततश्च हरिणिकेति न स्यात् । हरितशब्देन समानार्थो हरिणशब्दोऽस्ति, ततः कर्मत्वे च भविष्यति, हरितशब्दातु हरितिकेति ? अयं तहि---ठ्लोहितान्मणोऽ इत्यत्यन्तस्वर्थिकः कन् ठ्वर्णादनुदातात्ऽ इति ङीब्नकारौ परत्वाद्बाधेत, ततश्च लोहितिकेत्येव स्यात्, न लोहिनिकेति;उभयमपीष्यते, तदर्थं ङ्याब्ग्रहणम् । ननु च ठ्लोहिताल्लिङ्गबाधनं चऽ इत्यनेनैवैतत्सिद्धम्, तन्न वक्तव्यं भवति, कथम् ? ठ्वर्णादनुदातात्ऽ इत्यत्र वेति वर्तते, तत्र ङ्याबन्ताभ्यां लोहिनीलोहिताशब्दाभ्यां कनि विहिते यतायोगं ह्रस्वत्वेत्वयोः कृतयोर्लोहिनिका लोहितिकेति सिद्धमिष्टम् । तदेवं सति ङ्याब्ग्रहणे लिङ्गनिमितेन प्रत्ययेन विकल्पेन बाधा यथा स्यान्नित्यं मा भूदित्येवमर्थं तावन्न वक्तव्यम्---लोहिताल्लिङ्गबाधनं वेति । नापि प्रतिपदविहितत्वेन कना लिङ्गनिमितस्य प्रत्ययस्य नित्ये बाधे प्राप्ते । विकल्पेन बाधा यथा स्यादित्येवमर्थमपि वक्तव्यम्; ङ्याब्ग्रहणस्यानन्यार्थत्वात् । यदि ह्यएतश्वेतशब्दाभ्यामत्यन्तस्वार्थिकः कन्निष्यते, तदा तत्र ङ्याब्ग्रहणस्य चरितार्थत्वाल्लोहितशब्दात्प्रतिपदविहितेन कना ङीपो नित्ये बाधे प्राप्ते तद्वक्तव्यम् ? तदापि वा न वक्तव्यम्, ठ्लोहितान्मणौऽ इत्यस्यापि पुनन्नपुंसकयोश्चरितार्थत्वात् । तदेवमत्यन्तस्वार्थिकोऽपि कन् ङ्यन्ताद्यथा स्यादिति ङीब्ग्रहणं तावत्कर्तव्यम् । आब्ग्रहणं तु विस्पष्टार्थम् । तत्र समासान्तेषु दोषः---बहवो गोमन्तोऽस्यां नगर्यामिति बहुव्रीहौ कृते स्त्रिया अन्यपदार्थत्वान्ङीप् च प्राप्नोति कप् च, ङ्याब्ग्रहणान् ङीपि कृते कप् स्यात्, ततश्च बहुगोमतीकेति रूपं स्यात्, बहुगोमत्केति चेष्यते ? नैष दोषः समासार्थादुतरपदादकृत एव समासे समासान्ता भवन्ति पश्चातदन्तेन समासः, एवं हि समासं प्रत्यन्तावयवत्वमुपपद्यते समासान्तानाम्, तथा च ठ्न कपिऽ इत्यत्र वक्ष्यति । तत्र चोतरपदे समासार्थाया विभक्तेः पुरस्तात्समासान्ता इति केचित् । परस्तात्समासान्तेषु सुब्लुकि तद्धितान्तत्वेन ततः सुपि सुबन्तस्य समास इत्यन्ये । सर्वथा बहुचर्मिकेतीत्वं प्राप्नोति, ठसुपःऽ इति प्रतिषेधात्, यथा बहुपरिव्राजका मदुरेति ? कर्तव्योऽत्र यत्नः । ठ्नञस्तत्पुरुषात्ऽ इत्यादौ तु ग्रन्थविरोधं तत्र तत्र परिहरिष्यामः । तदेवं स्थितमेतत्---तदन्तातद्धितविधानार्थं ङ्याब्ग्रहणं विप्रतिषेधाद्धि तद्धितबलीयस्त्वमिति । यद्येवम्, ठ्यूनस्तिःऽ ठूणुतःऽ इति त्यूङेरपि ग्रहणं कर्तव्यं तदन्तातद्धितविधानार्थम्---युवतितरा । भाष्यकारप्रयोगात् ठ्तसिलादिष्वाकृत्वसुचःऽ इति पुंवद्भावो न भवति, खिद्धादिषु पुंवद्भावाद् ह्रस्वत्वं विप्रतिषेधेनेति वा पर्जन्यवल्लक्षणप्रवृत्या ह्रस्वेन बाधितत्वात् । ब्रह्मबन्धूतरा ठ्नद्याः शेषस्यान्यतरस्याम्ऽ इति ह्रस्वाभावपक्षे ठ्जातेश्चऽ इति पुंवद्भावप्रतिषेधः । पूर्वत्र त्वनेन प्रतिषेधो न लभ्यते; यौवनस्याजातित्वात् । यावद्द्रव्यभाविनी हि जातिः, तथा च युवजानिरित्युदाहृतम् । नन्वत्रान्तरङ्गत्वादेव त्यूङै भविष्यतः, अत्यन्तस्वार्थिके तु कनि ब्रह्मबन्धुकेत्यत्र ठ्केऽणःऽ इति ह्रस्वे सति नास्ति विशेषः---ऊङ्न्ताद्वोत्पतौ सत्याम्, उकारान्ताद्वा, युवतिशब्दादपि कनि पुंवद्भावेन भ्वायमिति नास्त्येव विशेषः । न चास्मात्कन्निष्यत इत्यत्रापि प्रमाणमस्ति । तस्मान्नार्थस्त्यूङेर्ग्रहणेन ॥ स्वौजसमीट्च्छष्टाभ्यांभिस्णेóभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङ्सोसाम्ङ्योस्सुप् ॥ ४।१।२ ॥ उकारादयोऽनुबन्धा इत्यादि । तत्र प्रथमैकवचनस्योकारः ठेततदोः सुलोपःऽ, ठ्दीर्घात्सुतिसिऽ इत्यत्र केवलस्य व्यञ्जनस्योच्चारयितुमशक्यत्वादुच्चारणार्थः । अत्र तु सूत्रे औकारोपश्ले षाच्छक्यते सकारमात्रमुच्चारयितुम् । ठनङ्सौऽ इत्यत्र विशेषणार्थस्तु न भवति; व्यावर्त्यस्याभावात् । न च ठनङसिऽ इत्युच्यमाने वर्णनिर्देशे च तदादिविधिसम्भवात्सप्तमीबहुवचनेऽपि प्रसङ्गः; ठ्सर्वनामस्थानेऽ इत्यनुवृतेः । जसो जकारोऽस्मिन्नेव सूत्रेऽसन्दिग्धोच्चारणार्थः; अन्यथा ह्याइकारस्यावादेशे सन्देहः स्यात्---किमौकारस्योच्चारणम्, अथावित्यस्येति । ठ्जसः शीऽ इत्यादौ विशेषणार्थस्तु न भवति; ठसः शीऽ इत्युच्यमानेऽप्यतिप्रसङ्गाभावात्, शसादीनां सानुबन्धकत्वात् । शसश्शकार औटष्टकारस्यासन्दिग्धोच्चारणार्थः; अन्यथा डकारष्टकार इति सन्देहः स्यात्। ठ्तस्माच्छसःऽ इत्यादौ विशेषणार्थस्तु न भवति; जसादीनां सानुबन्धकत्वात् । ठ्टाऽ इत्यत्र टकारः ठ्टाङसिङसामिनात्स्याःऽ इति विशेषणार्थः; अन्यथा ठ्सुपां सुलुक्ऽ इत्यादिना विहितस्याकारस्यापि ग्रहणं स्यात् । तदेवमेषां चतुर्णामुकारादय उच्चारणविशेषणार्थाः । इत्संज्ञाप्येषां प्रयोगे श्रवणं मा भूदिति, न पुनरित्कार्यं किञ्चिदस्ति । औटष्टकारः सुडिति प्रत्याहारग्रहणार्थः । णेóप्रभृतिषु ङ्कारः ठ्घेर्ङितिऽ इति विशेषणार्थः । ङ्सेरिकारः ठ्युष्मदस्मद्भां ङ्सोऽश्ऽ इत्यत्र ग्रहणं मा भूदित्येवमर्थः । पकारः प्रत्याहारग्रहणार्थ इति । उकारादयोऽनुबन्धा यथायोगमुच्चारणविशेषणार्था इत्यनेनागतार्थत्वादिदमुक्तम् । एवं च---ठौटष्टकारः सुडिति प्रत्याहारार्थःऽ इत्यग्रिमग्रन्थेन भवितव्यम् । क्व पुनरिमेऽर्थे स्वादयो भवन्तीत्याह---संख्याकर्मादयश्चेति । शास्त्रान्तरेणेति । ठ्बहुषु बहुवचनम्ऽ, ठ्कर्मणि द्वितीयाऽ इत्यादिना । तेन सहास्यैकवाक्यतेति । पूर्वं त्ववान्तरवाक्यभेदापेक्षया शास्त्रान्तरेणेत्युक्तम् । आकांक्षायोग्यतावशेन भिन्नप्रकरणपठितानामप्येकवाक्यता भवत्येव । प्रकरणभेदेन तु पाठस्तिङदिविधिनाप्येकवाक्यत्वं यथा स्यादिति । ठ्बहुषु बहुवचनम्ऽ इत्यत्र तु भिन्नवाक्यत्वमाश्रित्योक्तम्-ङ्याप्प्रतिपदिकात्स्वादयो लस्य तिबादय इति बहुवचनं विहितं तस्यानेन बहुत्वं संख्यावाच्यत्वेन विधीयते इति । अव्ययेयस्तु निः संख्येभ्यः सामान्यविहिताः खादयो विद्यन्त एवेति च । एकवाक्यतायां तु विशिष्टे एवार्थे कर्मादिसम्बन्धिन्येकत्वादौ स्वादीनां विधानात्सामान्यविहितत्वं नोपपद्यते । तस्माद् ठव्ययादाप्सुपःऽ इत्यव्ययादुत्पन्नस्य सुपो लुग्विदानाल्लिङ्गादव्ययेभ्योऽस्मिन्पक्षे स्वाद्यौत्पतिः । उदाहरणानि यथायोगं स्वे स्वे वाक्ये प्रकटीकरिष्यन्ते ॥ स्त्रियाम् ॥ ४।१।३ ॥ ङ्यापोरनेनैव विधानादिति । प्रातिपदिकमात्रमत्र प्रकरणेऽभिसम्बध्यत इत्यत्रायं हेतुः । प्रकरणापेक्षया चैतदुच्यते, सूत्रान्तरव्यापारसमये तु सूत्रान्तरविहितप्रत्ययान्ता प्रकृतिः सम्भवत्येव । ननु चात्र प्रकरणे सर्वत्र सति सम्भवे ठतःऽ इति सम्बध्यर्ते, न च ङ्याबन्तमदन्तम् । उक्तार्थत्वाच्च ङ्याबन्तात् ङ्यापोरप्रसङ्गः ? सत्यम् ; न्यायस्तु निरूप्यते । चोदयति---स्त्रियामित्युच्यते इति । सप्तमीनिर्देशेन कार्यान्तरविधानार्थमनूद्यते इत्यर्थः । ततः किमित्याह---केयं स्त्री नामेति । इह शास्त्रे स्त्रिया अपरिभाषितत्वाल्लौकिकस्त्रीग्रहणे च खट्वादावव्याप्तिप्रसङ्गात्प्रसिद्धवदनुवादोऽनुपपन्न इत्यर्थः । स्वरूपस्य च जिज्ञासितत्वात्प्रथमान्तेन प्रश्नः, कस्यां स्त्रियामिति तूच्यमाने विशेषविषयः प्रश्नः स्यात् । स्त्रीग्रहणं च प्रसङ्गेन पुन्नपुंसकयोरपि प्रदर्शनार्थम् । अत एवोतरे सामान्यविशेषाः स्त्रीत्वादय इति त्रयाणां स्वरूपं दर्शितम् । एवं च प्रथमोपनिपातिनि ठ्ह्रस्वो नपुंसकेऽ इत्यत्र लिङ्गस्वरूपनिरूपणमुचितम्, तथा तु न कृतमित्येव । तत्र लौकिकानां लक्षणम्--- स्तनकेशवती स्त्री स्याल्लोमशः पुरुषः स्मृतः । उभयोरन्तरं यच्च तदभावे नपुंसकम् ॥ इति । भूमादौ मतुप्, तथैव लोमश इति शः । स्तनकेशवत्वं च प्रसिद्धत्वादन्यस्यापि कुमार्यादिगतस्य स्त्रीप्रतिपतिहेतोरुपलक्षणम् । लोमशत्वं च पुंविज्ञानहेतोः कुमारादिगतस्य । उभयोरपि स्त्रीपुंसयोर्यदन्तरं सदृशं स्तनलोमाद्यौभयव्यञ्जनं तन्नपुंसकमित्यर्थः । तेनाव्ययाख्यातार्थस्य स्त्रीपुंसत्वाभावेऽपि नपुंसकत्वं न भवति, अन्यथा ठ्तदभावेऽ इत्येतावत्युक्ते स्यात्पसङ्गः, तदभाव इत्यनेन कुक्कुटमयूर्यादेः स्त्रीपुंससमुदायरूपस्य द्वन्द्वार्थस्य नपुंसकत्वं न भवति । भवति हि समुदायः समुदायिनः सदृश इति स्यात्प्रसङ्गः । नायं प्रसङ्गः, ठ्परवल्लिङ्गम्ऽ इत्यनेन समुदायस्य परवल्लिङ्गातिदेशात् ? सत्यम्; इदं तु वस्तुस्वरूपनिरूपणपरं द्रष्टव्यम् । तदनेन स्तनकेशादिसम्बन्धः, स्तनादय एव वा विशिष्टसंस्थानाः, तदुपव्यञ्जना वा जातयः स्त्रीत्वादय इत्युक्तं भवति । अत्र पक्षे भ्रुकुअंसे टाप् प्रसज्येत, भ्रुकुअंसःउस्त्रीवेषधारी नटः, तस्य स्तनकेशसम्बन्धं उपलभ्यते, खरकुट।लदीनां च लोमशत्वात्पुंस्त्वे सति खरकुटीः पश्येत्यत्र नत्वं प्राप्नोति । खरकुटीउनापितगृहमुच्यते । ननु च स्वाभाविकपरिणामशालिभिः स्तनादिभिरत्र सम्बन्धो विवक्षितः, न यथाकथञ्चित् ; स्तनादि च प्रसिद्धस्यान्यस्याप्युपलक्षणमुक्तं तत्कुतोऽयं प्रसङ्गः ? एवं तहि खट्वावृक्षौ न सिध्यतः, खट्वावृक्षादीनां स्तनलोमाद्यभावात् । स्यादेतत्---यथा वस्त्रान्तर्हितानि द्रव्याणि नोपलभ्यन्ते, तद्वत्खट्वावृक्षयोः सदेव लिङ्गं नोपलभ्यत इति ? तन्न; वस्त्रान्तर्हितानि द्रव्याणि वस्त्रापाये उपलभ्यन्ते खट्वावृक्षयोस्तिलशस्तत्क्षणेऽपि लिङ्गं नोपलभ्यते । यथा तर्ह्यादित्यगतिः सती प्रत्यक्षेण नोपलभ्यते देशान्तरप्राप्त्या त्वनुमीयते, तथा खट्वावृक्षयोरपि सदेव लिङ्गं सूक्ष्मत्वान्नोपलभ्यते । सतामपि हि भावानां षड्भिः प्रकारैरनुपलब्धिर्भवति---अतिसन्निकर्षाद्, यथा---स्वचक्षुर्गतस्याञ्जनादेः । अतिविप्रकर्षात्, यथा-उड्डीनस्य शकुनेः । मूर्तान्तर्द्धानात्, यथा---कुड।लदिव्यवहितस्य सुवर्णादेः । अन्धकारावृतत्वात्, यथाअन्दकाराक्रान्तस्य घटादेः । इन्द्रियदौर्बल्यात्-तिमिराद्यौपघाते चक्षुरादेः । अतिप्रमादात्---ठ्प्रामादोऽनवधानताऽ, विषयान्तरव्यासक्तचितो हि सन्निकृष्टमप्रयर्थं नोपलभ्यते । सौक्ष्म्यं तु---इन्द्रियदौर्बल्य एवान्तर्भूतम्, दिव्यचक्षुः श्रोत्रो हि सूक्ष्ममप्यर्थमुपलभते । एवं समानाभिहारोऽपि तत्रैवान्तर्भूतः, तद्यथा माषराशौमाषः प्रक्षिप्तः पृथग्नोपलभ्यते । एवमभिभवोऽपि, तद्यथा---सौरीभिः प्रभाभिरभिभूतानि नक्षत्राणि दिवा नोपलभ्यन्ते । केम पुनरेतदवसीयते खट्वावृक्षयोः सदेव लिङ्गं नोपलभ्यत इति ? टाबादेस्तत्कृतस्यानन्यकार्यस्य दर्शनात् । यद्येवम्, इतरेतराश्रयं प्राप्नोति---लिङ्गावगमाट्टाबादिशब्दप्रयोगः, तद्योगाल्लिङ्गावगतिरिति ? इन्द्रियदौर्बल्यं कदाचिदुपलब्धस्य कदाचिदनुपलम्भे कारणं शक्यमभिधातुम्, खट्वादिषु च लिङ्गस्य कदाचिदप्यनुपलम्भाल्लिङ्गविविक्तखट्वादिवस्तुग्राहिणा प्रत्यक्षेण लिङ्गाभावनिश्चयातद्विरुद्धमनुमानं नोदेतुमर्हति । न हि शक्यते वक्तुम्---भिक्षुगृहं गजवद् देशत्वाद्गजशालावत्, प्रत्यक्षेणेन्द्रियदौर्बल्यातु गजो नोपलभ्यत इति, तस्मादसदेव लिङ्गं शब्दप्रयोगमहिम्न खट्वादिषु प्रतीयते । भवत्वेवं श्रोतुः प्रतीतिः, यस्त्वसौ प्रयोक्ता स केन लिङ्गमगम्य तदनुरूपं शब्दं प्रयुङ्क्ते ! किञ्च---कुमार्यर्थः, कुमारी वस्त्विति कुमार्यादिष्वर्थवस्तुशब्दयोः पुन्नपुंसकयोरनुपपतिः । भाष्ये तु--- आविर्भावस्तिरोभावः स्थितिश्चेत्यनपायिनः । धर्मा मूर्तिषु सर्वासु लिङ्गत्वेनानुदर्शिताः ॥ आविर्भावःऊपचयः, पुंस्त्वम् ; तिरोभावःउअपचयः, स्त्रीत्वम् ; अन्तरालावस्था स्थितिर्नपुंसकत्वमित्यर्थः । कस्य पुनराविर्भावादिकं लिङ्गम् ? सत्वरजस्तमसां गुमानां तत्परिणामरूपाणां च तदात्मकानां शब्दस्पर्शरूपरसगन्धानाम् । शब्दादिसङ्घातरूपाश्च सर्वा मूर्तयः प्रतिक्षणपरिणामस्वभावाश्च सत्वादयो गुणा न स्वस्मिन्नात्मनि मूहूर्तमप्यवतिष्ठन्ते । एवं शब्दादय आकाशादयो घटादयश्च । उक्तञ्च--- सर्वमूर्त्यात्मभूतानां शब्दादीनां गणे गणे । त्रयः सत्वादिधर्मास्ते सर्वत्र समवस्थितः ॥ इति । क्वथितोदकवच्चैषामनवस्थितवृत्तिता । अजस्रं सर्वभावानां भाष्य एवोपवर्णिता ॥ इति च । तथा--- रूपस्य चात्ममात्राणां शुक्लादीनां प्रतिक्षणम् । काचित्प्रलीयते काचित् कथंचिदभिवर्धते ॥ इति । प्रवृत्तिमन्तः सर्वे हि तिसृभिश्च प्रवृत्तिभिः । सततं न वियुज्यन्ते वाचश्चैवात्र सम्भवः ॥ इति च । टाबाद्यन्तः शब्द एवैता अवस्था गोचरयतीत्यर्थः । पुरुषो यद्यप्यपरिणामी, तथापि--- उचेतनेषु सङ्क्रान्तं चैतन्यमिव दृश्यते । प्रतिबिम्बकधर्मेण यतद्वाचो निबन्धनम् ॥ ततश्च--- यश्चाप्रवृत्तिधर्मार्थस्चितिरूपेण गृह्यते । अनुयातीव सोऽन्येषां प्रवृत्तिविष्वगाश्रया ॥ सामान्यमपि गोत्वादि व्यक्तेरव्यतिरेकतः । प्रवृत्तिधर्मं तद्द्वारा शशश्रृङ्गादिवाक्षु तु ॥ तस्मादुक्तपदार्थस्य सम्भवाल्लिङ्गयोगिता । प्रवृतेरपि विद्यन्ते तिस्रो ह्यएताः प्रवृतयः ॥ पुन्नपुंसकता स्त्रीत्वं तेन स्यादन्यलिङ्गता । तदेवं सर्वपदार्थव्यापित्वादुपचयान्तरालावस्थास्त्रीणि लिङ्गानि । एवं च नक्षत्रे तारका तिष्यः, कुमार्यर्थो वस्तु इति एकस्याप्यर्थस्य नानालिङ्गयोग उपपद्यते; आविर्भावादित्रयस्यापि गुणभेदेन नस्मिन्नेवार्थे सर्वदा सम्भवात् । न चैवं तद्वृतेः सर्वस्यैव शब्दस्य त्रिलिङ्गताप्रसङ्गः; न ह्यस्ति नियमः---यः शब्दो यत्रार्थे पर्यवस्यति तत्र विद्यमानः सर्व एवाकारस्तेन शब्देनाभिधातव्य इति, किन्तु य आकारोऽभीधीयते तेन सता भवितव्यमित्येतावत् । तद्यथा---तक्षा, युवा, कृष्णः, कामुक इति तक्षादशब्दानामेकार्थपर्यवसितानामपि व्यवस्थित एवाकारो वाच्यः । तथा लिङ्गेष्वपि द्रष्टव्यम् । उक्तं च--- सन्निधाने पदार्थानां किञ्चिदेव प्रवर्तकम् । यथा तक्षादिशब्दानां लिङ्गेषु नियमस्तथा ॥ इति । उपचीयते कुमारीत्यत्रापि कुमारीशब्दः स्वमहिम्ना कस्यचिद्धर्मस्यापचयमेवाह । शब्दान्तरप्रयोगातु धर्मान्तरस्योपचयः प्रतीयते । एवं क्षीयते वृक्ष इत्यत्रापचयः, तदेवं सर्वमनाकुलमिदं दर्शनम् । वृत्तिकारस्तु लौकिकानामेवं प्रतिपतेरभावातत्प्रतिपत्यनुगुणं पक्षं दर्शयति---सामान्यविशेषा इति । कानिचित्सामान्यानीत्यर्थः । यद्वा---सताव्यतिरिक्तेषु सामान्येषु सामान्यविशेषशब्दो रूढः । तिस्रोऽवान्तरजातय इत्यर्थः । उक्तं च--- तिस्रो जातय एवैताः केषाञ्चित्समवस्थिताः । अविरुद्धा विरुद्धाभिर्गोमहिष्यादिजातिभिः ॥ हस्तिन्यां वडवायां च स्त्रीत्वबुद्धेः समन्वयः । अतस्तां जातिमिच्छन्ति द्रव्यादिसमवायिनीम् ॥ इति । ननु चैषां त्रयाणामपि सामान्यविशेषाणां सर्वार्थेषु सद्भावोऽभ्युपगन्तव्यः, न गोत्वादिकत्कतिपयेष्वेवार्थेषु, कथमन्यथार्थव्यक्तिवस्त्वादिशब्दानां भिन्निलिङ्गानामेकस्मिन्नर्थे प्रयोगः स्यात् । ततश्च सर्वत्र त्रिलिङ्गपतिभासंप्रसङ्ग इत्यत आह---बहुप्रकाराव्यक्तय इति । व्यज्यन्ते सामान्यविशेषा आभिरिति व्यक्तयःउ आश्रयाः । एतदुक्तं भवति---विचित्रत्वादाश्रयाणां व्यञ्जकानां कश्चिदाश्रयः कस्यचित्सामान्यविशेषस्य व्यञ्जकः, न सर्वः सर्वस्येति । तत्र चेतनेषु स्तनादिमती व्यक्तिः स्त्रीत्वस्य व्यञ्जिका, लोमशत्वादिमती पुंस्त्वस्य, उभयव्यञ्जना नपुंसकत्वस्य ; अचेतनेषु कथम्, न हि तत्र किञ्चिदपि लिङ्गं व्यज्यते ? तथा चेतनेऽप्यर्थव्यक्तिवस्त्वादिशब्दानां भिन्निलिङ्गानामप्यनुपपतिः, दारशब्दस्य च पुंल्लिङ्गस्य भार्यायामनुपतिः ? अत आह---क्वचिदाश्रयविशेषाभावादिति । तदभिव्यञ्जनसमर्थ आश्रयविशेषः । तत्राचेतनेषु सर्वत्रोपदेशादेवाभिव्यक्तिः । उपदेशः पुनर्लिङ्गानुशासनादिषु । अत्रैव दृष्टान्तमाह---यथा ब्राह्मणत्वादय इति । ब्राह्मणक्षत्रियादिव्यक्तीनामत्यन्तसादृश्यादुपदेशादेव ब्राह्मणत्वादीनामभिव्यक्तिर्भवति; नो खलु ब्राह्मणक्षत्रिययोः पुरोऽवस्थितयोरयं ब्राह्मणः, अयं क्षत्रिय इति प्रागेवोपदेशात्प्रत्यय उदेति । यथा गवाश्वव्यक्त्योरभावे शशविषाणादावप्युतरपदार्थद्वारकः सामान्ययोगः, सामान्यं जातिः, स्त्रीत्वं स्त्रीता पुंस्त्वं पुंस्तेत्यादौ सामान्वेऽपि सामान्यान्तरस्य सद्भावः, यथा---गोत्वादौ सतासामान्यस्य । न ह्यस्माकं वैशेषिकाणामिव निः सामान्यानि सामान्यानि । स्त्रीशब्दोऽयं शुक्लादिशब्दवद्गुणमात्रे गुणिनि च वर्तते, तत्र यदा गुणमात्रे स्त्रीशब्दो वर्तते तदा द्रव्यवाचिनः प्रातिपदिकात्स्त्रीत्वेऽभिधेये टाबादयो भवन्तीति स्त्रीत्वं प्रत्ययार्थ इति पक्षो भवति । यदा तु स्त्रीत्वयुक्तं द्रव्यं स्त्रीशब्देनोच्यते तदा परं पक्षद्वयं सम्भवति---स्त्रीत्वमुपलक्षणम्, विशेषणं वेति । तत्राद्ये स्त्रीत्वोपलक्षितद्रव्याचिनः प्रातिपदिकाट्टाबादय इति, अयं स्त्रीसमानाधिकरणादिति पक्षो भवति । द्वितीये तु स्त्रीत्वयुक्तद्रव्यवाचिनोऽङ्गोकृतस्त्रीत्वात्प्रातिपदिकादिति प्रकृत्यर्थविशेषणं स्त्रीत्वमिति पक्षो भवति । तत्र स्त्रीसमानाधिकरणादिति चेद् भूतादिष्वतिप्रसङ्गः---बूतमियं ब्राह्मणी, प्रधानमियं ब्राह्मणी आवपनमियमुष्ट्रिकेति । उभयोस्तु पक्षयोर्नैष दोषः, कथम् ? भूतादयः चैतन्यप्राधान्यसम्भवनवद्वृतयः, न तु स्त्रीत्वाङ्गीकारेण वर्तन्ते । तदेवमत्र पक्षे दोषदर्शनादितरयोरन्यतरदाश्रयणीयमित्याह---स्त्रीत्वं चेति । उभयथापि युज्यते इति । ननु प्रत्ययार्थपक्षे द्विवचनबहुवचनानेकप्रत्ययानुपपतिः, कथम् ? एकोऽयमर्थः स्त्रीत्वं नाम, तदेव च प्रकृत्यर्थोपसर्जनं प्रत्ययेनाभिधीयते, तस्यैकत्वादेकवचनमेव प्राप्नोति ? अनेकश्च प्रत्ययो नोपपद्यते---गार्ग्यायणी, कारीषगन्ध्या, कालितरेति, कथम् ? एकोऽयमर्थः स्त्रीत्वं नाम तस्यैकेनोक्तत्वाद् द्वितीयः प्रत्ययो न प्राप्नोति---उक्तार्थानामप्रयोग इति ? स्त्रीशब्दे चेकारो न प्राप्नोति, संस्त्याने ठ्स्त्यायतेर्ड्रट्ऽ इति ड्रट्प्रत्ययान्तेन स्त्रीशब्देनोक्तत्वात् संस्त्यानं स्त्रीत्वम् ? सामानाधिकरण्यं च न स्यात्---कुमारी देवदतेति, स्वस्वप्रकृत्यर्थावच्छिन्नयोः स्त्रीत्वयोः प्राधान्येनाभिधानात्, तत्र व्यतिरिकनिबन्धा षष्ठी प्राप्नोति, कुतः ? न तावदन्यऽन्यतः ; परस्परं गुणगुणिभावाभावात्, नापि स्त्रीप्रत्ययप्रकृतेः ; टाबादिभिर्बाधित्वात् ? यत्र तर्हि प्रतियोगिनि स्त्रीप्रत्ययः प्रतिषिध्यते तत्र षष्ठी प्राप्नोति---पञ्च ब्राह्मण्यः, स्वसाभिरूपेति ? पक्षान्तरे तु द्वयोरपि द्रव्यनिष्ठत्वाद्व्यतिरेकाभावः सामानाधिकरण्यं च भवति, द्रव्यस्य चानेकत्वाद् द्विवचनबहुवचने अपि युक्ते । यथैव च प्रातिपदिकेनोक्तेऽपि स्त्रीत्वे टाबादयो भवन्ति, तथानेकोऽपि प्रत्ययो नानुपपन्नः, तद्द्योतको हि तदा नानाप्रत्ययः, प्रदीपादेश्चानेकस्यापि द्योतकत्वं दृष्टम् । प्रत्ययार्थपक्षेऽपि न दोषः । यद्यपि स्त्रीत्वमात्रे वाच्ये प्रत्ययः क्रियते, तथापि स्त्रीत्वतदाश्रययोरभेदविवक्षया स्वाभाविकत्वाद्वा गुणप्रधानभावस्य द्वयोरपि दृष्टत्वेन सामानाधिकरण्यं वचनभेदश्च भविष्यति । गार्ग्यायणीत्यादौ च द्वाभ्यामेव स्त्रीत्वमभिधातुं शक्यते, नैकेन; स्वभावात् । यद्वा---ष्फस्य षित्करणसामर्थ्यान्ङीष् सिद्धः, ष्यङ् ठ्यिङ्श्चाप्ऽ इति वचनसामर्थ्याच्चाब् भविष्यति । तथा हि---अत्र यङ्ष्यङेः सामान्यग्रहणाय तदविघाताय च ष्यङेनुबन्धद्वयं कृतम्, कालितरेत्यत्रान्यः प्रकर्षयुक्तोऽन्यश्चाप्रकर्षयुक्तः, तत्रावस्थाभेदादेक एवार्थो भिद्यत इति प्रकर्षयुक्तस्यानभिहितं स्त्रीत्वमिति तदभिधानाय टाबपि भविष्यात । स्त्रीशब्देऽपि ठ्स्त्रियाम्ऽ इत्यस्मादेव निपातनादीकारः सिद्ध इति सुष्ठूअक्तम्---उभयथापियुज्यत इति ॥ अजाद्यतष्टाप् ॥ ४।१।४ ॥ अदन्ताच्चेति । अकारान्तादित्यर्थः । स्वरूपग्रहणं तु न भवति; अच्छब्दान्तात् नीतत् परीतत् कलिङ्गगदित्यादेः स्त्रीलिङ्गादिति, ठ्तदाद्याचिख्यासायाम्ऽ इत्यादेर्निर्देशात् । पकारः सामान्यग्रहणार्थ इति । ठ्ङ्याप्प्रातिपदिकात्ऽ इत्यादौ । पकारानुरोधस्तु टाब्डापोः स्वर्थः । टकारः सामान्यग्रहणाविघातार्थ इति । अन्यथैकानुबन्धकत्वादस्यैव ग्रहणं स्यात्, न तु डाप्चापोः । खट्वेति । कथं पुनरत्राकारान्ता प्रकृतिरवधार्यते, यावता नित्यमेवायमाबन्तः स्त्रियां वर्तते ? शास्त्रात्प्रयोगाच्च । शाकटायनदर्शने हि सर्वेषामेव व्युत्पत्तिः । पञ्चभिः खट्वाभिः क्रीतः पञ्चखट्व इत्यादौ स्त्रीप्रत्यये लुप्ते प्रयोग एवाकारान्तत्वं दृश्यते । शुभंयाः, कीलालपा इति । ठन्येभ्योऽपि दृश्यन्तेऽ इति विच् । कः पुनरत्र टापि सति दोष इत्याह---हल्ड।लब्भ्य इति सुलोपः स्यादिति । क्वचिज्जातिलक्षण इति । गणपाठावसरे विभागं दर्शयिष्यति । हलन्तानां त्वित्यादि । अजादिग्रहणमिति । प्रकृतस्य प्रथमान्तस्यान्वयासम्भवातदर्थमजादिग्रहणमिति शेषः । अमहत्पूर्वेति । महच्छब्दस्यानुकरणत्वाल्लौकिकार्थाभिधायित्वाभावात् ठान्महतःऽ इत्यात्वं न भवति । पुंयोगे तुङीषैवेति । जातिग्रहणस्य प्रयोजनमाह । ननु पुंयोगे सोऽयमित्यभिसम्बन्धात्परशब्दः परत्र वर्तत इति गौणत्वादेव न भविष्यति ? तस्मात्सुखप्रतिपत्यर्थं जातिग्रहणम् । अमहत्पूर्वेत्यस्याथेमाह---महत्पूर्वस्वेति । अत्रापि जातिरिति सम्बध्यते, इह प्रतिषेधो मा भूत्---महती शूद्रा महाशूद्रेति, न ह्यत्र महत्पूर्वः समुदायो जातिवचनः । क्व तर्हि प्रतिषेधः ? यत्र समुदायो जातौ वर्तते । तदिदं दर्शितम्---महाशूद्रशब्दो ह्याभीरजातिवचन इति । यद्येवम्, समुदाये जातिवचने गौरखरादिवदवयवार्था भावाद्व्युत्पत्तिमात्रं क्रियते, तत्रावयवार्थस्य स्त्रीत्वस्याविवक्षितत्वात् पुंसि समासे कृते टापः प्रसङ्ग इति ? तत्रामहत्पूर्वेति प्रतिषेधः सार्थकः । ततः किम् ? अमहत्पूर्वेत्यत्र जातिरिति न सम्बन्धनीयम् । कथं महती शूद्रा महाशूद्रेत्यत्रान्तरङ्गत्वाट्टापि कृते पश्चात्सुप्, सुबन्तस्य समासः, ततश्चाभिनिर्वृतत्वाट्टापः प्रतिषेधस्याप्रसङ्गः ? सत्यम्, विस्पष्टार्थमेवात्रापि जातिरिति सम्बध्यते । ननु च शूद्रशब्दः पठ।ल्ते, कः प्रसङ्गो यन्महाशूद्रशब्दात्स्यात् ? अत आह---तदन्तविधिर्नेति । अतिधीवरी, अतिपीवरीति । दधातेः पिबतेश्च ठातो मनिन्क्वनिब्वनिपश्चऽ इति क्वनिपि कृते घुमास्थादिसूत्रेणेत्वम्, धीवानमतिक्रान्ता पीवानमतिक्रान्तेति प्रादिसमासः, अत्र ठ्वनो र चऽ इति ङीब्रौ भवतः । असति तु ज्ञापने वन इति प्रत्ययग्रहणम् । अथापि कृद्ग्रहणम् ? सर्वथातिक्रान्तप्रधाने समासे न स्यात् । अतिभवती, अतिमहतीति । ठुगितश्चऽ इत्यत्रोगिदित्युगित्प्रातिपदिकस्यैवं ग्रहणमित्यङ्गीकृत्येदं प्रयोजनं दर्शितम् । तत्र तु वक्ष्यति---ठुगिदिति प्रातिपदिकाप्रातिपदिकग्रहणम्, तेन ग्रहणवता प्रातिपदिकेनेति निषेधाभावातदन्तविधिःऽ इति । यदाह---ठुगिद्यस्य सम्भवति यथाकथ्चिदिति तदन्तात्प्रातिपदिंकात्ऽ इति च ॥ अतिमहतीत्यत्र शतृवद्भावादौणादिकादुगिल्लक्षणो ङीप् । केचिद्गौरादिपाठाद् ङीषं वर्णयन्ति, तदयुक्तम् ; अनुपसर्जनाधिकारात् । किञ्च, गौरादिपाठस्य प्रयोजनमपि न पश्यामः । ननु च महतीशब्दोऽन्तोदात इष्यते, सत्यम्; ठ्शतुरनुमःऽ इत्यत्र नद्यजाद्यौदातत्वे ठ्बृहन्महतोरुपसंख्यानम्ऽ इत्यनेनैव सिद्धम् । विभवत्युदातार्थं तदिति चेत् ? तदेव ङीबुदातार्थमपि भविष्यति । अतिमहतीत्यादौ च ङीषभावस्योक्तत्वान् ङीबुदातार्थमप्युपसंख्यानमेष्टव्यम्, युदि तदन्तविधिर्ज्ञाप्यते, पञ्चानामजानां समाहारः पञ्चाजी---द्विगोरपि टाप् प्राप्नोति ? अत्राहुः---ठजाद्यतःऽ इति षष्ठी अजादीनामजन्तानां च या स्त्री तद्वाच्येऽर्थे यत् स्त्रीत्वं समवेतं तत्र टाबिति, प्रत्यासत्या च स्त्रीत्वविशेषोपलक्षणानामेव प्रकृतित्वं विज्ञायते इति मत्वा वृत्तिकारेणोक्तम्---ठजादिभ्यः प्रातिपदिकेभ्योऽदन्ताच्चऽ इति । न च पञ्चाजीत्यत्राजार्थे समवेतं स्त्रीत्वम्, किं तर्हि ? समाहारे । एवं चामहत्पूर्वेति प्रतिषेधः शक्योऽकर्तुम्, न हि महाशूद्रीत्यत्र शूद्रार्थगतं स्त्रीत्वम् । तदन्तविधिस्तु ठ् अनुपसर्जनात्ऽ इत्यत्र ज्ञापयिष्यते । सत्प्राक्काण्डेति । पाककर्णेत्यत्र वार्तिकम्---ठ्सदच्काण्डप्रान्तशतैकेभ्यः पुष्पात्प्रतिषेधःऽ इति, तत्रैव भाष्यम्---ठ्प्राक्पुष्पा च प्रत्यक्पुष्पा चऽ इति । तस्मादत्रापि प्राक्शब्दो न पठनीयः, सदच्काण्डेत्येव पठनीयम् ॥ ऋन्नेभ्यो ङीप् ॥ ४।१।५ ॥ ङ्कारः सामान्यग्रहणार्थ इति । ठ्ङ्याप्प्रतिपदिकात्ऽ इत्यादौ । ठ्पकारः सामान्यग्रहणाविघातार्थःऽ इति तु पूर्वानुसारेण गम्यमानत्वान्नोक्तम्, अत्रापि पकारानुरोधोऽनुदातार्थः ॥ उगितश्च ॥ ४।१।६ ॥ यथाकथञ्चिदिति । यदि वर्ण उगित् संभवति, यदि वा प्रत्ययः, अथापि प्रातिपदिकम्---सर्वथा यत्रैषामन्यतमः प्रकारः संभवतीत्येष यथाकथञ्चिदित्यस्यार्थः । एतदेव स्पष्टयति---तदुगिच्छब्दरूपमिति । प्रत्ययाप्रत्ययोः प्रातिपदिकाप्रातिपदिकयोः शब्दरूपमन्यपदार्थः, न प्रातिपदिकमेव, नापि प्रत्यय एवेत्यर्थः । तत्रोगिता प्रातिपदिकस्य विशेषणतदन्तविधिर्भवतीत्याह---तदन्तादिति । पचन्तीति । अत्र शतृप्रत्यय उगित् तदन्तं प्रातिपदिकम्---अतिभवती अतिमहतीत्यत्रापि भवति । ठ्ग्रहणवता प्रातिपदिकेनऽ इत्ययं तु प्रतिषेधो यत्र सूत्रोपातं प्रातिपदिकस्यासाधारणं रूपं तत्रैव भवतीत्यत्रापि व्यपदेशिवद्भावेन भवति । ठ्व्यपदेशिवद्भावोऽप्रातिपदिकेनऽ इत्ययं तु निषेधः प्रातिपदिकस्यैवा साधारणरूपग्रहणे अतिगोमतीत्यत्रापि भवति । प्रत्ययग्रहणपरिभाषा तु प्रत्ययस्यैवासाधारणरूपग्रहणे भवति । घातोस्तूगितः प्रतिषेध इति । वक्तव्य इति शेषः । स तर्हि वक्तव्यः ? न वक्तव्यः, ठुगिदचाम्ऽ इत्यत्रोगित्वादेव सिद्धेऽञ्चतिग्रहणं नियमार्थम्---इह शास्त्रे उगितो यत्कार्यं विधीयते तद्धातोर्यदि भवति अञ्चतेरेवेति कार्यमात्रं नियम्यते, न नुमागम एव । अधातुग्रहणं चाधातुपूर्वस्यापि नुमर्थमिति तत्रैव वक्ष्यते । अपर आह---ठुगितश्चऽ इति योऽयं चशब्दः सोऽञ्चतेर्लुप्तनकारस्याकरणम्, विभक्तेश्च ठ्सुपां सुलुक्ऽ इति लुक्, भाविनं चाकारलोपमाश्रित्य चेति निर्देशः कृतः, ततश्चाञ्चतिग्रहणं नियमार्थम्---"अकारनकारलोपयोश्चातन्त्रत्वात् ठ्नाञ्चेः पूजायाम्ऽ इति लोपनिषेधविषयेऽपि ङीब् भवति, प्राञ्ची प्रत्यञ्ची ब्राह्मणी" इति । उखास्रत्, पर्णध्वदिति । ठ्क्विप् चऽ इत्यत्रानयोर्व्युत्पत्तिः कृता ॥ वनो र च ॥ ४।१।७ ॥ ठ्वनःऽ इति क्वनिब्वनिब्ङ्वनिपां प्रत्ययानां सामान्येन ग्रहणम्, न ठ्वन षण संभक्तौऽ, ठ्वनु याचेनऽ इति धात्वोर्विजन्तयोः, कुतः ? ठ्प्रत्ययाप्रत्ययोः प्रत्ययस्यैव ग्रहणम्ऽ इति । अत एव शुनो निष्क्रान्ता युवानमतिक्रान्ता निः शुनी अतियूनीत्यत्रापि न भवति, अनर्थकत्वाद्वा । शर्वरीति । ठ्शृ हिंसायाम्ऽ, ठन्येभ्योऽपि दृश्यन्तेऽ इति वनिप् । परलोकदृश्वरीति । ठ्दृशेः क्वनिप्ऽ । वनो न हश इति । विहितविशेषणं हश्ग्रहणम्, हशन्ताद्धातोर्यो वन्विहितस्तदन्तात्प्रातिपदिकान् ङीब्रौ न भवत इत्यर्थः, तेन "सर्वरीत्यत्र प्रतिषेधाभावः । तथा ठोणृ अपनयेनऽ वनिपि ठ्विड्वनोरनुनासिकस्यात्ऽ इत्यात्वे अवादेशेअवावन्नित्यत्र संप्रति हशः । परत्वाभावेऽपि हशन्ताद्विहितत्वात् प्रतिषेधो भवत्येव---अवावा ब्राह्मणीति । तष एव स्थितः सिद्धान्तः । बहुलं च्छन्दसि ङीब्रौ वक्तव्यौ---यज्वरीरिषः । प्रैइरिशवोस्तुट् च---प्रेर्त्वरी ॥ पादोऽन्यतरस्याम् ॥ ४।१।८ ॥ पाद इति कृतसमासान्तः पादशब्दो निर्दिश्यत इति । उतरसूत्रे ऋच्यभिधेयायां तस्यैव सम्भवात्, तेन पादयते क्विबन्तस्य ग्रहणं न भवति । द्विपदीति । द्वौ पादावस्य इति ठ्बहुव्रीहौ संख्यासुपूर्वस्यऽ इत्यकारलोपे ठ्पादः पत्ऽ इति पद्भावः ॥ टाबृचि ॥ ४।१।९ ॥ ऋचीत्यभिधेयनिर्देश इति । व्याप्तेः । विषयनिर्देशे हि ऋग्वेदविषय एव प्रयोगे स्यात्, नान्यत्र ॥ न षट्स्वस्रादिभ्यः ॥ ४।१।१० ॥ ठ्टाबृचिऽ इति पादन्ताद्विहितस्य टापोऽत्राप्रसङ्गातदनन्तरस्य ङीपोऽयं प्रतिषेध इत्याशङ्कामपनयति---यो यत इति । तत्र सर्वेभ्य एव ङीप्प्राप्नोति, टाप्तु नलोपे सत्यकारान्ततायामुपजातायां षड्भ्य एव । यो यः प्राप्त इति तु युक्तः पाठः, अन्यथा स ततो न भवतीति वाच्यं स्यात्, व्याप्तिश्च न गम्येत । पञ्च ब्राह्मण्य इति । ननु चात्र ब्राह्मणीशब्दसामानाधिकरण्यात् स्त्रीत्वावगतिः, संख्याशब्दस्तु स्वमहिम्ना भेदगणनमाह । तथा हि---पञ्चेत्युक्ते नानात्वमात्रं द्रव्यस्य गम्यते, न लिङ्गविशेषः ; तथा च लिङ्गानुशासनेषु ठ्ष्णान्ता संख्याऽ इत्यलिङ्गत्वमुक्तम् । यद्येवम्, एका, द्वे, बह्व्य इत्यत्रापि प्रत्ययो न स्यात् ? संख्याशब्दत्वेन भेदगणनामात्रस्य शब्दार्थत्वात् । अथ तत्र स्त्रीत्वमपि शब्दार्थः ? पञ्चादिष्वपि स्यात् । वक्तव्यो वा विशेषः---सति तस्मिन् प्रतिषेधे नान्तरेणानुप्रयोगं पञ्चेत्यादौ स्त्रीत्वाद्यभिव्यक्तिरिति लिङ्गानुशासनेष्वलिङ्गत्वमुक्तम् ; असति तु प्रतिषेधे पञ्चादिभ्यः स्त्रीप्रत्ययो न भवति, एकादिभ्यस्तु भवतीति न शास्त्रैकशरणः प्रतिपतुमर्हति । ननु विभक्तौ परतः ठ्त्रिचतुरोः स्त्रियाम्ऽ तिसृचतसृभावः, तत्रं संनिपातपरिभाषयैव ङीबभावः सिद्धः, तत्किं तिसृचतसृशब्दयोः स्वस्रादिपाठेन ? ज्ञापनार्थ तु । एतज्ज्ञापयति---अनित्या संनिपातपरिभाषेति, तेन त्यदाद्यत्वे कृते टाब् भवति---या, सा, इमे, द्वे इति । ङीपोऽनन्तरस्यायं प्रतिषेधो युक्त इत्याश्रित्य चोदयति---षट्संज्ञानामिति । कस्मान्न स्यादिति । अत इति हि प्राप्नोति, असिद्धो नलोपः, तस्यासिद्धत्वान्नैतददन्तम् । परिगणितेषु कार्येषु नलोपोऽसिद्धो भवति, ठ्नलोपः सुप्स्वरऽ इत्यस्य नियमार्थत्वात् । नेदं तत्र परिगण्यते ? इदमपि तत्र पिगण्यते, कथम् ? सुबिति न सप्तमीबहुवचनेन प्रत्याहारः, किं तर्हि ? यङ्श्चाबिति चापः पकारेण, ततश्च टापोऽपि प्रत्याहारेऽन्तर्भावातद्विधिरपि सुब्विधिरेवेति । तदेतदाह---प्रत्याहाराच्चापेति । न स्यादित्यनुषङ्गः, कस्मान्न स्यादिति प्रश्नः । चापा प्रत्याहारान्न स्यादिति परिहारः । इदं चाचार्यदेशीयस्य वचनम् । आचार्यसिद्धान्तं दर्शयितुमेतद् दूषयति---सिद्धं दोषस्त्वित्व इति । सत्यं सिद्धमिदं चापा प्रत्याहारे, इत्वे तु दोषो भवति---सिद्धं दोषस्त्वित्व इति । सत्यं सिद्धमिदं चापा प्रत्याहारे, इत्वे तु दोषो भवति---बहूनि चर्माण्यस्याः बहुचर्मिकेति, कथम् ? तत्र सुब्विधिरित सर्वविभक्यन्तावयवः समास आश्रितः---सुपो विधिः, सुपि विधिरिति; ततश्च यथा राजभ्यामित्यत्र ठ्सुपि चऽ इति दीर्घत्वं न भवति, तथा टापि सुपि विधीयमानमित्वमपि सुब्विधिरिति तत्र वर्तव्ये नलोपस्यासिद्धत्वात्कात् पूर्वोऽकारो न भवतीतीत्वं न स्यादित्यर्थः । सिद्धान्तमाह---तस्मान्नोभाविति । ठ्स्त्रियाम्ऽ इत्यर्थमात्रमपेक्ष्य तत्र यदुक्तं तन्न भवति, इत्येवं ङीप्टापावुभावपि प्रतिषेध्यावित्यर्थः । ननु च सकृत्प्रतिषेधस्य प्रवृत्तिः, स च स्वप्रवृत्तिसमये यस्य प्रसङ्गस्तमेव प्रतिषेधति, ततश्च पूर्वं ङीपि प्रतिषिद्धे नलोपे च कृते पश्चात्प्राप्नुवतष्टापः कथं प्रतिषेधः ? आत्माश्रयो हि स्यात्---स्वप्रवृत्तिमपेक्ष्य स्वप्रवृत्तिरिति । तस्मातन्त्रावृत्येकशेषाणामन्यतमाश्रयणेन द्विरस्य प्रवृत्तिः, तत्र द्वितीयया प्रवृत्या टापः प्रतिषेधः ॥ मनः ॥ ४।१।११ ॥ अनिनस्मन्ग्रहणानीति । अन्, इन्, अस्, मन्---इत्येतेषां ग्रहणे अर्थवत्परिभाषा न व्याप्रियते, तेनैषामनर्थकानामपि ग्रहणं भवति । एभिश्चार्थवद्भिरनर्थकैश्च तदन्तविधिर्भवतीत्यर्थः । सीमन्शब्दोऽव्युत्पन्नं प्रातिपदिकम् । अतिक्रान्ता महिमानमतिमहिमा, अत्रापीमनिच एवार्थवत्वम्, न तु मनः ॥ अनो बहुव्रीहेः ॥ ४।१।१२ ॥ ञनुपधालोपी बहुव्रीहिरिहोदाहरणमिति । कुत एतत् ? इत्याह---उपघालोपिनो हीत्यादि, विभाषां वक्ष्यतीति । ठन उपधालोपिनोऽन्यतरस्याम्ऽ इत्यनेन । सुपर्वेत्यादि । शोभनं पर्वास्याः, शोभनं चर्मास्या इति बहुव्रीहिः । अयं च ठ्न संयोगाद्वमन्तात्ऽ इत्यल्लोपस्य प्रतिषेधातनुपधालोपी । बहुव्रीहेरिति किमिति । समासादिति वाच्यमिति भावः । अतिराज्ञीति । ठ्राजाहः सखिभ्यःऽ इति टज् न भवति; समासान्तविधेरनित्यत्वात् । डाबुभाभ्यामन्यतरस्याम् ॥ ४।१।१३ ॥ अन्तरस्यांग्रहणं किमिति । डापा मुक्ते प्रतिषेधो यथा स्यादित्येवमर्थं तावदेतन्न कर्तव्यम्, कथम् ? डाबुप्युच्यते, प्रतिषेधोऽपि तावुभौ वचनाद्भविष्यतः । यदि हि नकारान्तस्य श्रवणं न स्यात्, तदा डापैवापवादेन ङीपो बाधात् प्रतिषेधोऽनर्थकः स्यात् । अथ डाप्प्रतिषेधाभ्यां मुक्ते ङीबपि यथा स्यादित्येवमर्थमन्यतरस्यांग्रहणम् ? तदपि न; बहुराज्ञीत्यादौ ठन उपधालोपिनोऽन्यतरस्याम्ऽ इत्यनेनैव ङीपः सिद्धत्वात् । यत्र तर्हि तेन न सिद्धयति---अतिशर्मेत्यादौ, तदर्थमेतत्स्यात् ? यद्येवम्, अनेनैवोपधालोपिनोऽपि सिद्धत्वाद् ठन उपधालोपिनःऽ इत्येतदनर्थकं स्यात् । एवं तर्हि तदन्यतरस्यां ग्रहणं न करिष्यामीतिदमन्यतरस्यांग्रहणं क्रियते, कथम् ? अनेनैवान्यतरस्यांग्रहणेनोपधालोपिनोऽनुपधालोपिनश्च ङीपि प्रापिते सति ठन उपधालोपिनःऽ इत्येतावदपि क्रियमाणं नियमार्थं भविष्यति---अनो बहुव्रीहेर्यन् ङीब्विधानं तदुपधालोपिन एवेति, ततश्च तदन्यतरस्यांग्रहणं न कर्तव्यं भवति ? तदवश्यं कर्तव्यम्, असति हि तस्मिन्ननेनान्यतरस्यांग्रहणेन बहुव्रीहिमात्राद् डाप्प्रतिषेधङीप्सु त्रिष्वपि प्राप्तेषूपधालोपिनो डाप्प्रतिषेधौ बाधित्वा नित्यं ङीबेव यथा स्यादित्येवमर्थं तत्स्यात् । अतस्तदवश्यं कर्तव्यम्, इदं तु न कर्तव्यमिति प्रश्नः । परिहरति---बहुव्रीहाविति । अयमभिप्रायः---डाप्प्रतिषेधाभ्या मुक्ते ङीबपि यथा स्यादित्येवमर्थमिदं तावदन्यतरस्याग्रहणम् । न च ठन उपधालोपिनःऽ इत्यस्य वैयर्थ्यम् ; नियमार्थत्वात्---अनो बहुव्रीहेर्यदन्यतरस्यां ङीब्विधानं तदुपधालोपिन एवेति । तेन सुपर्वा, सुशर्मेत्यादावनेनान्यतरस्यांग्रहणेन प्रापितो ङीब् न भवति, बहुराज्ञीत्यादावेव तु भवति । नन्वेवमिदमन्यतरस्यांग्रहणं मा भूत्, ठन उपधालोपिनःऽ इत्येतदेव विध्यर्थमस्तु, को वा विशेषः ? अनेनान्यतरस्यांग्रहणेन बहुव्रीहिमात्रान् ङीपि प्रापिते तन्नियमार्थं स्याद्, असति वास्मिन् डाप्प्रतिषेधयोरेव प्राप्तयोरुपधालोपिनोऽप्राप्तो ङीप् पक्षे विधीयते इति ? अयमस्ति विशेषः---अस्मिन्नन्यतरस्यांग्रहणे सति डाप्प्रतिषेधाभ्यां मुक्ते स्वेन स्वेन सास्त्रेण ङीब् भवन् वन्नन्तेषु ठ्वनो र चऽ इत्यनेनैव भवतीति बहुधीवरीत्यादौ रेफोऽपि भवति । एवमनेन वन्नन्तादुपधालोपिनोऽनुपदालोपिनश्च बहुव्रीहेर्बहुधीवन्सुपर्वन्नित्यादेर्ङीब्रेफयोः प्रापितयोरन्यत्र बहुराजन्सुशर्मन्नित्यादौ केवले ङीपि प्रापिते सतिठन उपधालोपिनोऽन्यतरस्याम्ऽ इत्येतन्नियमार्थं भवति, तेन च नियमेन सुशर्मेत्यादौ ङीब् व्यावर्त्यते । सुपर्वेत्यादौ ङीपि व्यावर्तिते तत्सन्नियोगशिष्टत्वाद्रेफोऽपि न भवति । बहुराज्ञीत्यादौ तु यथाप्राप्तो ङीबवस्थितः, बहुधीवरीत्यादौ च ठ्वनो र चऽ इत्यनेन प्राप्तौ ङीब्रेफाववस्थिताविति सर्वमिष्ट्ंअ सिध्यति । असति त्वस्मिन्, तस्मिंश्च विध्यर्थेऽपूर्व एव ङीप् तेन विधीयत इति वन्नन्ते बहुव्रीहौ ठृन्नेभ्यो ङीप्ऽ इत्येतत्सन्नियुक्तं ठ्वनो र चऽ इत्येतन्न प्रवर्तेतेति केवले ङीपि सति बहुधीव्नीति स्यात् । अतः ठन उपधालोपिनःऽ इत्यतन्नियमार्थं यथा स्यात्स्वतन्त्रो विधिर्मा भूदित्येवमर्थमिहान्यतरस्यांग्रहणं क्रियत इति । तदिदम् ठन उपधालोपिनःऽ इत्यत्र वृत्तिकारः स्पष्टयिष्यति । यद्यनेनान्यतरस्यांग्रहणेन पक्षे ङीबपि प्राप्यते दामेत्यादौ मन्नन्तादपि प्राप्नोति ? नैष दोषः; योगविभागः क्रियते---डाबुभाभ्यां भवति, ततः ठन्यतरस्याम्;ऽ ठनो बरुव्रीहेःऽ इत्येव वर्ते, ठ्मनःऽ इति निवृतम् ॥ अनुपसर्जनात् ॥ ४।१।१४ ॥ प्रसज्यप्रतिषेधोऽयमित्याह---उतरसूत्रेषूपसर्जनप्रतिषेधं करोतीति । पर्युदासे को दोषः ? कुक्कुटीपाद इत्यत्र न स्यात् पूर्वपदस्योपसर्जनत्वात्, न; अन्तरङ्गत्वात्प्रागेव ङीषि कृते तदन्तस्य समासः । न चेदानीमुपसर्जनत्वे ङीषः पर्युदासः, पूर्वमेवाभिनिर्वृतत्वात् । किञ्च प्रसज्यप्रतिषेधेऽप्येष दोषः समानः । कुक्कुटीत्यत्रैव तर्हि न प्राप्नोति, किं कारणम् ? अन्वर्थमुपसर्जनम्, अप्रधानमुपसर्जनमिति ? अस्त्वेवम् ; अनुपसर्जनं तूपसर्जनादन्यत्सर्वम्, न तु प्रधानमेव, तेनापेक्षणीयस्याभावेऽप्यप्रधानादन्यत्वाद्भविष्यति । यदा तर्ह्यधर्मानृतादिवद्विरोधिवचनोऽनुपसर्जशब्दस्तदा न प्राप्नोति, तस्मात्प्रसज्यप्रतिषेधः । अनुपसर्जनादित्येवं तदिति । उपसर्जनान्न भवतीत्येवमित्यर्थः । वक्ष्यति---टिड्ढाणञिति ङीबिति । कथं प्रथमान्तस्य वक्ष्यतीत्यनेन सम्बन्धः ? अत्राहुः---वक्ष्यति टिड्ढाणञित्येतावान् ग्रन्थः । टिड्ढाणञिति वक्ष्यतीत्यर्थः । कः पुनरत्र प्रत्यय इत्यत्राह---ङीबिति । एवं जातेरिति ङीष् इत्यत्रापि ग्रन्थच्छेदः, तत्र च पूर्वस्मिन् ठ्वक्ष्यतिऽ इत्यनुषङ्गः । कुरुचरीति । ठ्चरेष्टःऽ बहुकुरुचरेति । बहुव्रीहिः सर्वोपसर्जनः । कथं पुनरित्यादिः । प्रत्युदाहरणे यदुपसर्जनं न तत् स्त्रियां वर्तते, यदा च स्त्रियां वर्तते तदा भवत्येव प्रत्ययः---बह्व्यः कुरुचर्योऽस्यां बहुकुरुचरीका, बहुकुक्कुटीका मदुरेति, यः स्त्रियां वर्तते बहुव्रीहिस्ततोऽटित्वादजातित्वाच्चाप्रसङ्गः । तथा हि---टित्प्रातिपदिकं गृह्यते, तच्च किञ्चित्साक्षाट्टिद्भवति, यथा---नदट्, चोरडिति; किञ्चित्ववयवटित्वद्वारेण । यत्र ह्यवयवटित्वमकिञ्चित्करं तत्र समुदायार्थं तद्विज्ञायते । स चावयवः क्वचिद्धातुः---स्तनन्धयीति, क्वचित्कृल्ल्युडादिः, क्वचितद्धितष्ट।लुट।लुलादिः । तत्र यं समुदायं योऽवयवो न व्यभिचरति तदर्थं तस्य टित्वमिति कुरुचरशब्द एव टित्, तत्कुतो बहुकुरुचरशब्दात्प्रसङ्ग इति प्रश्नः । परिहरति---तदन्तविधिनेति । ननु ग्रहणवता प्रातिपदिकेन तदन्तविधिः प्रतिषिध्यते, ग्रहणं चोपादानमात्रम्, न तु स्वरूपेणोच्चारणमेव, तत्कथं तदन्तविधिः ? स्यादेतत्--यत्र गृह्यमाणं रूपं प्रातिपदिकस्यैवासाधारणं तत्र तदन्तविधिप्रतिषेधः, इह चोरडित्यादि प्रातिपदिकमपि टित्, ल्युडादिप्रत्ययोऽपि, धेडिति धातुरपि, ततश्च यथा ठुगितश्चऽ इत्यत्र वर्णोऽप्युगित्प्रत्ययोऽपि प्रातिपदिकमपीति तदन्तविधिर्भवति, तथेहापि प्रसङ्ग इति ? स्यादयं प्रसङ्गो यदि टिता प्रातिपदिकं विश्ष्येत, टिति च प्रातिपदिकेन विशेष्यमाणे नानेन विशेष्येण तदन्तविधिः, प्रातिपदिकेन चासम्भवादिति नैव बहुकुरुचरशब्दात्प्रसङ्ग इत्यत आह---ज्ञापितं चैतदिति । ठ्शूद्रा चामहत्पूर्वाऽ इत्यत्र ज्ञापितमेतत् । अवश्यञ्चैतज् ज्ञापितमुतरत्रापि परिपालनीयमित्याह---तथा चेति । अनाश्रीयमाणे ज्ञापकेऽणन्ताद्विधीयमानो ङीप् प्रत्ययग्रहणपरिभाषया कारशब्दादेव स्याद्, न त्वणन्तात्कुम्भकारशब्दात् । ज्ञापकातु ततोऽपि भवतीत्यर्थः । ननु च कृद्ग्रहणपरिभाषया कुम्भकारशब्दस्याणन्तत्वम् ? नेत्याह---न चाणिति । कृद्ग्रहणमिति । किं कारणमित्यत्राह---तद्धितोऽप्यणस्तीति । यत्र तु गृह्यमाणं रूपं कृत एवासाधारणं तत्रैषा परिभाषा । इह त्वौपगवीति तद्धितस्यापि ग्रहणमिति नायमस्या विषय इत्यर्थः । अथ कारशब्दादुत्पतौ सत्यां को दोषः ? कौम्भकारेयो न सिध्यति, प्रत्ययग्रहणपरिभाषया कारीशब्दात्स्त्रीभ्यो ढकि तस्यैव वृद्धिस्वरौ स्याताम् । ष्यङः सम्प्रसारणवद्भविष्यति, तद्यथा---ष्यङ्न्तस्योच्यमानं सम्प्रसारणं परमकारीषगन्धीपुत्र इत्यत्रापि भवति, स्त्रीप्रत्यये तदादिनियमाभावात्; तथा कारशब्दादप्युत्पतौ कुम्भकारीशब्दस्यापि स्त्रीप्रत्ययान्तत्वाद्भविष्यति, एवमपि कारीशब्दादपि कदाचित्स्यात् । अथ ब्रूयाः---कारीशब्देन कुम्भशब्दः समसिष्यते, ठ्स्त्रीभ्यो ढक्ऽ इत्यत्र च ठ्ङ्याप्प्रातिपदिकात्ऽ इति त्रितयाधिकारसामर्थ्यात्स्त्रीप्रत्ययान्तात्प्रातिपदिकादिति प्रत्ययो विधास्यते, स्त्रीप्रत्ययान्तस्य च प्रातिपदिकत्वं समासमन्तरेणानुपपन्नमिति कुम्भकारीशब्दादेव ढगुत्पत्स्यते, ढ्यब्ग्रहणामुवृत्या च सौपर्णेय इत्यत्रापि भविष्यतीति ? एवमपिङ्याबनुवृतेः सौपर्णेय इतिवत् कारीशब्दादपि स्यात् । ठ्गतिकारकोपदानाम्ऽ इतिवचनाच्चङ्यन्ते समासो दुर्लभः, ततः कुम्भकारशब्दादेवङीब्यथा स्यादित्युतरत्रापि तदन्तविधिरभ्युपगन्तव्यः । न च कुम्भकारशब्दादप्युत्पतौ तदादिनियमाभावात्कारीशब्दादपि ढक्प्रत्ययप्रसङ्गः, किं कारणम् ? ठ्स्त्रीप्रत्यये चानुपसर्जने नऽ इत्यनेन, प्रत्यग्रहणे यस्मात्स तदादेरधिकस्य ग्रहणमभ्यनुज्ञायते, न न्यूनस्यापि । ननु च सत्यप्युतरत्र तदन्तविधौ कुम्भकारीत्यत्र समुदायादपि भवतु, केवलात्कारशब्दादपि प्रसङ्गः, यथा---औपगवीत्यादौ, ततश्च कौम्भकारेयः पक्षे दुष्यत्येव ? एवं तर्हि कारशब्दादप्युत्पतौ कुम्भेनैकार्थीभूतस्य तावतो निष्कृष्यापत्येनायोगातदादिनियमाभावाच्च समुदायादेव ढगभविष्यति । यद्वा---कुम्भेनैकार्थीभूतस्य कारस्य स्त्रीत्वेनायोगात्स्त्रीप्रत्यय एव न भविष्यति, असति पुनरुतरत्र तदन्तविधौ स्त्रीप्रत्ययस्यात्राप्रसङ्गः, किं कारणम् ? यदणन्तं न तस्य निष्कृष्य स्त्रीत्वेन योगः, यस्य च स्त्रीत्वेन योगो न तदणन्तम्, अत उतरत्राप्यवश्यं प्रधानेन तदन्तविधिरभ्युपगन्तव्यः, तत्र यथा प्रधानेन भवति तथोपसर्जनेनापि स्यादिति प्रतिषेधोऽयमारभ्यते । तथा च पूर्वत्रोपसर्जनेनापि तदन्तविधिर्भवति, ठ्न षट्स्वस्रादिभ्यःऽ----प्रियपञ्चा द्रौपदीति, अतिक्रान्ता भवन्तमतिभवतीति । स्यादेतत्---पूर्वत्रोपातं तदन्तं वा ठ्स्त्रियाम्ऽ इत्यनेन विशेष्यते, ठ्टिड्ढाणञ्ऽ इत्यादिषूपातेमेव टिदादिकम्, तेन ज्ञापितेऽपि तदन्तविधौ बहुकुरुचरेत्यादौ टिदादेरस्त्रीत्वान्न भविष्यति, कुम्भकारीत्यत्र त्वणन्तस्य स्त्रियां वृतेस्तदन्तादपि भविष्यति, नार्थ एतेनेति ? तन्न; त्वदुक्तस्य विषयविभागस्य दुर्ज्ञानत्वात्, अतो विषयविभागज्ञापनार्थमदमारभ्यते । नन्वारब्देऽप्यस्मिन्नैष विषयविभागः शक्य आस्थातुम्, पञ्चाजीत्यत्राजानामस्त्रीत्वेन तदन्तस्य स्त्रियां वृतेः ठजाद्यतष्टाप्ऽ इति टाप्प्रसङ्गात् । अतो विशेषणविशे,यभावं प्रति कामचारात् ठजाद्यतष्टप्ऽ इत्यत्र ठ्टिड्ढाणञ्ऽ इत्यादौ चोपातं स्त्रीत्वेन विशेष्यते, ठ्वनो र चऽ इत्यादावुपातं तदन्तस्य चेति नार्थ एतेन ? एवं तर्हि तदन्तविधिज्ञापनार्थमिदमारभ्यते । अमहपूर्वेत्येततु शक्यमकर्तुम्, न हि महाशूद्रेत्यत्र समुदाये जातिवचने शूद्रशब्दः स्त्रियां वर्तते । अपर आह---लौकिकस्याप्रधानस्योपसर्जनस्येह ग्रहणम्, तेनापिशिलिना प्रोक्तम्, ठिञश्चऽ इत्यण्, ततोऽध्येत्र्याम् ठ्तदधीतेऽ इत्यण्, तस्य ठ्प्रोक्ताल्लुक्ऽ इति लुक् आपिशिला ब्राह्मणी, अत्र ठिञश्चऽ इति विहितस्य प्रोक्तप्रत्ययस्याणोऽप्रधानत्वातदन्तान्ङीब् न भवति । नन्विदानीमध्येतृप्रत्यये लुप्ते प्रकृतिरेव तदर्थमाहेति प्रधानस्त्रियामध्येत्र्यामणन्तस्य वृतेः स्यादेव ङीप् प्रत्ययः ? स्यादेतदेवम्, यद्यणन्तादनुपसर्जनादित्युच्येत । वयं त्वणमेवानुपर्सजनत्वेन विशेषयिष्यामः---अम्योऽनुपर्जन इति, अर्थद्वारकं चाणः प्राधान्यम्, अप्राधान्यं च । तदेतदुक्तं भवति---यस्मिन्नर्थेऽणुत्पन्नः स यदा प्राधान्येनोच्यते तदा तदन्तान्ङीब् भवति; यदा तु गुणभावेने, तदा नेति । इह चाध्येत्र्यां सङ्क्रान्तत्वात्प्रथमस्याणोऽर्थो गुणभूत इति तदाश्रयस्तावन्ङीब् न भवति । यस्त्वध्येत्र्यामुत्पन्नस्तदाश्रयोऽपि न भवति; तस्य लुप्तत्वात् । प्रत्ययलक्षणेनापि न भवति, अणाअकारस्य विशेषणात् । ठ्टिड्ठाणञ्ऽ इत्यत्र ह्यत इति वर्तते । तत्राणन्तादकारान्तादिति । विज्ञायमाने स्यात् प्रत्ययलक्षणम्, अणा त्वकारे विशेष्यमाणे वर्णनिमितए ङीप्प्रत्ययः कथं प्रत्ययलक्षणेन स्यात् ! ननु स्त्रियामित्यनुवृतेनाणं विशेषयिष्यामः---योऽण् स्त्रियां विहित इति ? एवमपि काशकृत्स्निना प्रोक्ता मीमांसा काशकृत्स्नी, तामधीते काशकृत्स्ना ब्राह्मणीति द्वितीयेऽणि ठ्प्रोक्ताल्लुक्ऽ इति लुप्तेऽपि प्रथमोऽप्यण्स्त्रियामेवोत्पन्नः,तदन्ताद् ब्राह्मण्यां वतमानान्ङीप्प्रसङ्गः । तस्मात्प्रधानाद्यथा स्यादप्रधानान्मा भूदित्येतत्प्रयोजनं सूत्रस्येति ॥ टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरप्ख्युनाम् ॥ ४।१।१५ ॥ इह कस्मादिति । लडादेशस्य स्थानिद्भावेन टित्वमस्तीति प्रश्नः । पवामाना, यजमानेति । ननु शानन्नादिषु लट इत्यस्य निवृतत्वाद् अनादेशपक्षः स्थापितः, पवमानेत्यादिषु शानजुदाहर्तव्यः । द्व्यनुबन्धकत्वाल्लट इति । लडादिष्वकारादयोऽप्यनुबन्धा इति भावः । एतेन लिड्लृटौ व्याख्यातौ---अनूचाना, यक्ष्यमाणेति । ल्युडादिषु कथमिति । द्व्यनुबन्धकत्वातेषामपि ग्रहणे न भाव्यमिति प्रश्नः । टित्करणसामर्थ्यादिति । न च लडादिष्वपि टित्करणसामर्थ्यमित्याह---इतरत्रेति । पठिता विद्येति । कथमित्यनुषङ्गः । इटष्टित्वमुभयार्थं स्यादिति प्रश्नः । आगमटित्वमनिमितमिति । आगमानां टित्वं ङीपो निमितं न भवतीत्यर्थः । कुत इत्यत आह---ट।लुट।लुलौ तुट् चेति लिङ्गादिति । यद्यागमटित्वं ङीपो निमितं स्याततः सायन्तनीत्यादौ तुट आगमस्य टित्वान्ङीप् सिद्ध इति ट।लुट।लुलोष्टित्करणमनर्थकं स्यादिति भावः । ननु च ठ्पुराणप्रोक्तेषुऽ इति निर्देशेन यदा तुड् न भवति तदा ङीबर्थं तयोष्टित्वं स्यात् ? तन्न; पुराणशब्दाद्वह्वादिषु पाठान्ङीषा भवितव्यम्, अन्तोदातो हि पुराणीशब्दः---पुनः पुनर्जायमाना पुराणीति यथा । एवमपि न ज्ञापकम्, ठ्बह्वादिभ्यश्चऽ इत्यत्र वेति वर्तते, ततश्च ङीषा मुक्ते ङीब् यथा स्यादिति ट।लुट।लुलोष्टित्वं स्यादिति चिन्त्यमेतत् । सौपर्णेयीति । सुपर्णशब्दात्पाककर्णादिङीषन्तात्स्त्रीभ्यो ढक् । ननु च सानुबन्धकत्वादस्य ग्रहणेन भवितव्यमत आह---निर नुबन्धक इति । यद्यपि ठ्शिलायाढःऽ इति निरनुबन्धको ढशब्दोऽस्ति, स इह स्वभावान्नपुंसकलिङ्ग इति स्त्रियां नास्तीत्युक्तम् । योऽपि ठ्सभाया यःऽ, ठ्ढश्च्छन्दसिऽ इति ढः, सोऽपि स्त्रियां न वर्तते, कथम् ? तत्र ठ्तत्र साधुःऽ इति वर्तते, कथं च स्त्री नाम सभायां साध्वी स्याद्यज्ञसभायां हि विदुषामधिकारः ! ननु मा नाम भूद्यज्ञसभायां साध्वी, शालायां स्त्रीसभे च साध्वी भविष्यति, तत्र यज्ञसभायां साध्वी ब्राह्मणपरिषदित्यत्रापि प्रसङ्गः ? एवं तर्ह्येवंविधे विषये च्छन्दसि सभेयीशब्दस्य प्रयोगाभावोऽत्र हेतुः । णेऽपि क्वचिदण्कृतं कार्यं भवतीति । शीलम् ठ्च्छत्रादिभ्यो णःऽ इति यो णस्तत्राण्कृतं कार्यं भवतीति । कथम् ? ज्ञापकात्, यदंयम् ठ्कार्मस्ताच्छील्येऽ इति टिलोपार्थं निपातनं करोति । यदि हि ताच्छीलिके णेऽण्कृतं कार्यं न स्यान्निपातनमनर्थकं न स्यात्, कर्मशब्दाच्छत्रादिलक्षणे णे कृते ठ्नस्तद्धितेऽ इत्येव टिलोपस्य सिद्धत्वात् । न च ठन्ऽ इति प्रकृतिभावः, अणि हि स प्रकृतिभावः । चौरी, तापसीति । चुरातपः शब्दौ च्छत्रादिषु पठितव्यौ । क्वचिदित्यस्य व्यावर्त्यं दर्शयति---दाण्डा, मौष्टेति । द्रण्डमुष्टिशब्दाभ्यां ठ्तदस्यां प्रहरणम्ऽ इति णः । औत्सी, औदपानीति । उत्सोदपानशब्दाभ्यां भवार्थे ठुत्सादिभ्योऽञ्ऽ । अथ सार्ङ्गरवादिसूत्रे पुनरञ्ग्रहणं किमर्थम्, यावताऽनेनैव सिद्धम्, न रूपभेदो न स्वरभेदः ? तत्राह---शार्ङ्गरवाद्यञ इत्यादि । बिदस्यापत्यं बैदी, ठनुष्यानन्तर्ये बिदादिभ्योऽञ्ऽ गोत्रं च चरणैः सहऽ इति जातिः, तत्रौत्सीत्यादौ चरितार्थमिमं ङीपं बाधित्वा जातिलक्षणो ङीष् प्राप्नोति । यदि तर्हि तस्य निबन्धनमस्ति तदेवाञ्ग्रहणमस्तु, किमत्राञ्ग्रहणेन ? न वा जात्यधिकारात्, ठ्जातेःऽ इति हि तत्र वर्तते, अनधिकारे हि पुंयोगादाख्यायां ङीप्प्रसङ्गः---बैदस्य स्त्री बैदी । उरुद्वयसीत्यादौ ठ्प्रमाणे द्वयसच्दघ्नञ्मात्रचःऽ । पञ्चतयीति । ठ्सख्याया अवयवे तयप्ऽ । द्वयसजादिषु अनुबन्धोच्चारणं प्रातिपदिकानां ग्रहणं मा भूत्---किमस्य द्वयसम्, किसमस्य मात्रमिति । तयशब्दोऽपि तयतेः पचाद्यजन्तः सम्भवति । ठनादिनिवृत्यर्थमिति । दण्डोऽस्या अस्ति ठत इनिठनौऽ इण्डिका, ठ्काश्यादिभ्यष्ठ ञ्ञिठौऽ काशिकेत्यादौ मा भूदित्येवमर्थम् । तादृशीति । ठ्त्यदादिषु दृशोऽनालोचने कञ्चऽ, ठा सर्वनाम्नःऽ । कञो ञकारोच्चारणम् ठातोऽनुपसर्गे कःऽ गोदेत्यादौ मा भूत् । इत्वरीति । ठिण्नश्जिसर्तिभ्यः क्वरप्ऽ । आढ।ल्ङ्कारणीति । ठाढ।ल्सुभगऽ इत्यादिना ख्युन् । नञ्स्नञीकक्तरुणतलुनानामिति । भाष्ये तु ठ्कञ्क्वरपःऽ इत्येतावत्सूत्रम्, ख्युनः पाठोऽनार्ष इति तस्याप्युपसंख्यानमेव कृतम् । स्त्रैणी, पाéस्नीति । ठ्स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात्ऽ । शक्तीकी, याष्टीकीति । प्रहरणाधिकारे ठ्शक्तियष्ट।लेरीकक्ऽ । तरुणी, तलुनीति । एतयोरवयोऽर्थं ग्रहणम्---तरुणी सुरति, वयसि तु ठ्वयसि प्रथमेऽ इत्येव सिद्धम् ? न सिध्यति; गौरादिपाठान्ङीष प्राप्नोति । तस्माद्वयस्यवयसि च ङीब्ङीषोविकल्पः । क्वचिद् गौरादिपाठात्सिद्धमिति पठ।ल्ते, तद्रूपमात्रसिद्ध्यभिप्रायं द्रष्टव्यम्, स्वरार्थं तूपसंख्यानं कर्तव्यमेव ॥ यञश्च ॥ ४।१।१६ ॥ आपत्यग्रहणमिति । अपत्ये भव आपत्यः, यञ्, आपत्यादिति सूत्रं कर्तव्यमित्यर्थः । द्वैप्येति । भवादावर्थे यञ् । योगविभाग उतरार्थ इति । उतरत्र यञ एवानुवृत्तिर्यथा स्यात्, टिदादीनां मा भूदिति ॥ प्राचां ष्फ तद्धितः ॥ ४।१।१७ ॥ षकारो ङीषथे इति । ननु च ष्फप्रत्ययेनैव स्त्रीत्वस्य द्योतितत्वान्ङीषा न भाव्यम् ? तत्राह---प्रत्ययद्वयेनेति । तद्धितग्रहणं प्रातिपदिकसंज्ञार्थमिति । प्रातिपदिकसंज्ञा तु ङीषर्था । ननु च सिद्धोऽत्र ङीष्, पित्करणसामर्थ्यात्, धातोस्तु त्रपादेः षित्वमङ्विधौ चरितार्थमिति त्रपा, क्षमेत्यादौ ङीषभावः ? तदेतत्सान्न्यासिकं तिष्ठतु तावत् । सर्वत्रग्रहणमित्यादि । सर्वत्रग्रहणं तावद् उतरसूत्रे न कर्तव्यम्, आरम्भसामर्थ्यादेव ठ्प्राचाम्ऽ इत्यस्य निवृतौ सर्वत्र सिद्धत्वात्, अतस्तदिहापकृष्यते, तदयमर्थो भवति---सर्वत्र बाधकविषयोऽपि प्राचां मतेन यञन्तात्ष्फो भवतीति । एवं सप्तम्यर्थोऽपि समञ्जसो भवति । आवट।लच्चापं वक्ष्यतीति । असति पुनरपकर्षे आवट।लच्चाबुदीचां मते सावकाशः परत्वात्ष्फं बाधेत, सर्वत्रग्रहणात्ष्फ एव भवति । एवं च ठ्षाच्च यञःऽ इति चाब्विषयेऽपि प्राचां ष्फ एव भवति---शार्कराक्ष्यायणी, पौतिमाष्यायणी, गोकक्ष्यायणीति ॥ सर्वत्र लोहितादिकतन्तेभ्यः ॥ ४।१।१८ ॥ लोहितादीति पृथक्पदं लुप्तविभक्तिकम्, पूर्वत्र च प्राचां मते ष्फो विहितः, इह तु सर्वत्र मते । कोऽर्थः ? सर्वेषाअं मत इत्यर्थः, तदाह---सर्वेषामाचार्याणां मत इति । मतेनेति तृतीयान्तपाठे सूत्रे पष्ठ।ल्न्तात्रल् । स्वतन्त्रमिति । योऽन्यस्यावयवो न भवति तत्स्वतन्त्रं प्रातिपदिकम्, कः पुनरसावित्यत्राह---कपिशब्दात्पर इति । लौहित्यायनीत्यादिर्गर्गाद्यन्तर्गणः । बभ्रुशब्दोऽपि तत्रैव पठ।ल्ते, यञ्तु ठ्मधुबब्भ्र्वोर्ब्राह्मणकौशिक्योःऽ इत्यननैव भवति । कण्वात्वित्यादि । कण्वशब्दात्पूर्वः कतशब्दातूतरः शकलशब्द इष्यते, कतशकलकण्वेत्येवभेषां संनिवेशः कार्य इत्यर्थः । किमेवं सति भवति ? इत्याह---पूर्वोतराविति । शकलशब्दोऽन्त आदिश्च यथाक्रमं ययोः पूर्वोतरयोर्गणयोस्तौ तथोक्तौ । पूर्वो गणो लोहितादिः शकलशब्दान्तो भवति, उतरश्च गणः शकलशब्दादिर्भवतीत्यर्थः । सत्यमेवं भवति, प्रयोजनं तु किम् ? इत्यत आह---ष्फाणाविति । श्लोकं व्याटष्टे---प्रातिपदिकेष्वन्यथा पाठ इति । कपिकत, कुरुकत, अनडुह्, कण्व, शकलेत्येवं गर्गादिषु गणसन्निवेशः । स एवं व्यवस्थापयितव्य इति । एवमिति श्लोकोक्तयाऽऽनुपूर्व्येत्यर्थः । अनडुह्कुरुकतशब्दावस्मात्स्थानादपकृष्यान्यत्र पाठयौ, शकलशब्दस्तु कतकण्वयोर्मध्ये पठितव्य इति यावत् । नन्वेवं गणद्वयादपि प्रच्युतः शकलशब्दः ष्फाणौ द्वावपि न प्रतिपद्येत, तत्राह---कतन्तेभ्य इति । बहुव्रीहितत्पुरुषयोरेकशेष इति । कतस्यान्तः समीपभूतः कतन्त इति तत्पुरुषेण शकलशब्द उच्यते, शकन्ध्वादित्वान्निपातनाद्वा पररूपम् । तथा कतोऽन्तो येषां तानि कतन्तानीति बहुव्रीहिः, तत्र बहुव्रीहितत्पुरुषयोः सह विवक्षायां बहुव्रीहिः शिष्यते; ठ्स्वरभिन्नानां यस्योतरस्वरविधिः स शिष्यतेऽ इति वचनात् । तथेत्यादि । ठ्कण्वादिभ्यःऽ इत्यपि बहुव्रीहितत्पुरुषयोरेकेशेष इत्यर्थः । कण्वस्यादिः समीपभूतः कण्वादिः शकलशब्दः, कण्व आदिर्येषां तानि कण्वादीनि, ततः पूर्ववदेकशेषः । तत्र बहुव्रीहितत्पुरुषयोर्मध्ये तत्पुरुषसमासेन । मध्यवर्तीति । गणद्वयस्य । प्रत्ययद्वयमपीति । ष्फाणावित्यर्थः । शाकला इति । ठापत्यस्य चऽ इति यलोपः । अपर आह---पूर्वोतरौ तदन्तादी ग्राह्याविति शेषः, पूर्वो गणस्तदन्तो ग्राह्यः---सर्वत्र लोहितादिशकलान्तेभ्य इति, उतरो गणस्तदादिर्ग्राह्यः---शकलादिभ्यो गोत्र इति । एवं ष्फाणौ प्रयोजनमिति ॥ कौरव्यमाण्डूअकाभ्यां च ॥ ४।१।१९ ॥ कौरव्यमाण्डूअकयोरित्यादि । अस्मिन्सूत्रे आसुरेरपि ग्रहणं कर्तव्यम् । आसुरिकौरव्यमाण्डूअकेभ्यश्चेति वक्तव्यमित्यर्थः । आसुरायणीति । ष्फस्य तद्धितत्वाद् ठ्यस्येति चऽ इति इञो लोपः । तदिदं तद्धितग्रहणमेव लिङ्गं भवति---आसुरेरपि ष्फ इति । यञादिष्वकारान्तेषु सवर्णदीर्घत्वेनापि रूपं सिद्धम् । शैषिकेषु चार्थोष्वति । आसुरीप्रसङ्गादिदमत्रोक्तम् ; अन्यथा द्विरासुरिग्रहणं कर्तव्यं स्यात् । आसुरीय इति । असुरस्यापत्यमासुरिः, तेन प्रोक्त आसुरीयः कल्प इति ॥ वयसि प्रथमे ॥ ४।१।२० ॥ श्रुत्येति । श्रवणमात्रेण प्रकरणाद्यनपेक्षयेत्यर्थः । कुमारीति । प्रथमवयोवचन एवायम्, न पुंयोगाभावहेतुकः पुंस्यपि प्रयोगात् । यस्तु वृद्धायां प्रयोगः---वृद्धकुमारीति, स पुंयोगाभावात्साधर्म्याद्वेदितव्यः । वयस्यचरम इति । चरम् उ अन्त्यम्, अचरमे उ अनत्ये । इह केचिच्चत्वारि वयांसीच्छन्ति---कौमारप्, यौवनम्, मध्यत्वम्, वृद्धत्वमिति । यथाहुः--- ठ्प्रथमे वयसि नाधीतं द्वितीये नार्जितं धनम् । तृतीये न तपस्तप्तं चतुर्थे किं करिष्यतिऽ ॥ इति । अन्ये तु त्रीणि--- ठ्पिता रक्षति कौमारे भर्ता रक्षति यौवने । पुत्रस्तु स्थविरिभावे न स्त्री स्वातन्त्र्यमर्हतिऽ ॥ इति । अन्ये तु बालत्व-मध्यत्व-वृद्धत्वानि त्रीणि--- ठाषोडशाद्भवेद्वालो यावत् क्षीरान्नवर्तकः । मध्यमः सप्ततिर्यावत्परतो वृद्ध उच्यतेऽ ॥ इति । एषु सर्वेषु दर्शनेषु यौवनं द्वितीयं वयो भवति, यौवनवचनौ च वधूटचिरण्टशब्दौ, अतो न प्राप्नोति, तदाह---द्वितीयवयोवचनावेताविति । यदा तु द्वे एव वयसी उपचयापचयलक्षणे, तदैतन्न वक्तव्यम् ; यौवनस्यापि प्रथमवयोरूपत्वात् । श्रुत्या वर्तते इति यदुक्तं तस्य व्यावर्त्यं दर्शयति---उतानशया लोहितपादिकेति नैता वयः श्रुतय इति । श्रुत्या उ श्रवणमात्रेण नैते वयः प्रतिपादयन्तीत्यर्थः । इह तावदुतानशयेति क्रियाकारकसम्बन्धमात्रं प्रतीयते, तदेव च प्रवृत्तिनिमितम् । उतानादिषु कर्तृष्विति शेरतेरच् प्रत्ययः, सर्वैव च कदाचिदुताना शेते, उच्यते चेदम्---उतानशयेति, तत्र नियमो गम्यते---अन्यथा स्वप्तुमसामर्थ्यादुतानैव शेत इति । एवमपि सन्देहः---बाला, वृद्धेति ? तस्मादुतानैव शेत इति नियमे वृद्धत्वाभावे च प्रकरणादिनाऽवसिते बाल्यं गम्यते, लाहितपादिकेत्यत्रापि अन्यपदार्थमात्रं श्रुत्या प्रतीयते । प्रकरणादिना स्वभावत एवास्य रक्तौ पादो नालक्तकादिनेति प्रतीतौ सत्यां बालेति गम्यते । इतिशब्दः प्रकारे, एवप्रकारा न वयःश्रुतय इत्यर्थः । अत एव बहुवचनम्, तेन द्विवर्षेत्यादावपि न भवति । अत्रापि प्रकरणादिना वयो गम्यते, परिमाणमात्रं तु शब्दार्थः, शालादावपि प्रयोगात् । द्वे वर्षे भूता इति ठञः ठ्वर्षाल्लुक्चऽ, ठ्चितवति नित्यम्ऽ इति लुक् ॥ अपरिमाणविस्ताचितकम्बल्येभ्यो न तद्धितलुकि ॥ ४।१।२२ ॥ परसप्तमी त्वषा नोपपद्यते, अभावरूपेण लुका पौर्वापर्यासम्भवात् । सर्वतो मानं परिमाणमिति । ठ्परिमाणं तु सर्वतःऽ इत्यस्य ग्रहणम्, न परिच्छेदकमात्रस्येत्यर्थः । पञ्चमिश्वैः क्रीतेति । तद्धितार्थे द्विगुः, आर्हीयष्ठक् । कालः सङ्ख्या च न परिमाणमिति । न हि ताभ्यां सर्वत आरोहतः परिणाहतश्च मीयते । एवं च कालः सङ्ख्या चेति प्रदर्शनार्थत्वात्प्रमाणमपि परिमाणं न भवति, तथा चोतरसूत्रे ठ्काण्डशब्दस्यापरिमाणवाचित्वात्ऽ इति वक्ष्यति, ठ्प्रमाणविशेषः काण्डम्ऽ इति च । तेन द्वौ शमौ प्रमाणमस्या इति मात्रचः ठ्प्रमाणे लो द्विगोर्नित्यम्ऽ इति लुकि द्विशम्, त्रिशमेति भवति । यद्येवम्, उन्मानमपि परिमाणं न स्यात् ? कश्चिदाह---इष्टमेवैतत्, उन्मानमपि नैवात्र परिमाणग्रहणेन गृह्यते---द्वाभ्यां निष्काभ्यां क्रीता, प्राग्वतीयस्य ठञोः ठ्द्वित्रिपूर्वान्निष्कात्ऽ इति लुक्, द्विनिष्का त्रिनिष्वेति भवतीति । अपर आह---बिस्तकम्बल्यग्रहणं ज्ञापकम्---उन्मानमप्यत्र परिमाणग्रहणेन गृह्यत इति; तयोरुन्मानविशेषत्वात्, सुवर्णबिस्तौ हेस्नोऽक्षे, ठ्कम्बलाच्च संज्ञायाम्ऽ कम्बल्यमूर्णापलशतमिति । न्यासकारस्तु द्वौ विस्तौ परिमाणमस्येति विगृह्णन् बिस्तं परिमाणं मन्यते । द्विवर्षेति । कृतव्युत्पादनमेतत् । द्विशता, त्रिशतेति । द्वाभ्यां शताभ्यां क्रीतेति ठ्पणपादमाषशताद्यत्ऽ इति नित्ये यति प्राप्ते ठ्शाणाद्वाऽ इत्यत्र ठ्शताच्चेति वक्तव्यम्ऽ इति वचनात्पक्षे ठ्सङ्ख्याया अतिशदन्तायाः कन्ऽ इति कन्, तस्य ठध्यर्धपूर्वात्ऽ इति लुक् । द्विबिस्तेति । परिमाणत्वे ठञो लुक्, उन्मानत्वे ठकः । द्व्याचितेति । आचितो दशभाराः स्युः । द्वावाचितौ पचति, ठाढकाचितपात्रात्खोन्यतरस्याम्ऽ, ठ्द्विगोष्ठ्ंअश्चऽ इति पक्ष ठन्खौ, ताभ्यां मुक्ते प्राग्वतीयष्ठञ्, तस्य पूर्ववल्लुक् । द्विकम्बल्येति । क्रीतार्थे ठञो लुक् । द्व्याढकी द्व्याचितेत्यनेन तुल्यम् । पञ्चाश्वीति । समाहारे द्विगुः । इमौ द्वौ प्रतिषेधावुच्येते, तत्रैकः शक्योऽवक्तुम्, कथम् ? एवं वक्ष्यामि---परिमाणान्तातद्धितलुकीति, तन्नियमार्थं भविष्यति---परिमाणान्तादेव तद्धितलुकि ङीब् भवतीति, तेन द्व्याढकीत्यादौ च भविष्यति, पञ्चाश्वेत्यादौ च न भविष्यति, ततो बिस्ताचिकम्बल्येब्योनेति ? नैवं शक्यम् ; विपरीतोऽपि नियमः सम्भाव्येत---द्विकुडवी, पञ्चाढकी । पञ्चाश्वेत्यादौ तु व्यावर्तकाभावात्स्यादेव डीप् । तस्माद्यथान्यासमेवास्तु ॥ काण्डान्तात्क्षेत्रे ॥ ४।१।२३ ॥ मानदण्डःउकाण्डम् । ठ्द्विगोःऽ इत्यधिकारादेव पूर्वसूत्रवतदन्तविधौ सिद्धे किमर्थमन्तग्रहणम् ? अक्रियमाणेऽन्तग्रहणे क्षेत्र इत्येतत् काण्डस्यैव विशेषणं विज्ञायेत---क्षेत्रे यः काण्डशब्दः, तदन्ताद् द्विगोरिति श्रुतत्वात् न तदन्तस्य, यथोतरसूत्रे प्रमाणे यः पुरुषशब्दस्तदन्तादिति, ततश्चेह प्रसज्येत---द्वाभ्यां काण्डाभ्यां काण्डामिताभ्यां क्षेत्राभ्यां क्रीता द्विकाण्डी वडवेति; इह तु न स्यात्---द्वे काण्डे प्रमाणमस्याः द्विकाण्डा क्षेत्रभक्तिरिति । अन्तग्रहणे तु सति तदन्तस्यैव विशेषणं क्षेत्रम्, न काण्डस्य; बहुव्रीहौ गुणभूतत्वात् ॥ पुरुषात्प्रमाणेऽन्यतरस्याम् ॥ ४।१।२४ ॥ प्रमाणे यः पुरुषशब्द इति । पञ्चारत्निः पुरुष इति शुल्बविदः, तत्र द्वौ पुरुषो प्रमाणमत्या इति वाक्ये प्रमाणशब्देन सम्बन्धाज्जातिवचनोऽपि पुरुषशब्दः प्रमाणे वर्तते । वृतौ तु तत्स्वभावादेव प्रमाणे वृत्तिर्द्रष्टव्या ॥ बहुव्रीहेरूधसो ङीष् ॥ ४।१।२५ ॥ ठूधसोऽनङ्ऽ इति । समासान्ते कृत इति समासार्थादुतरपदाद्भवन्समासान्तः पूर्वं भवति, ततः स्त्रीप्रत्ययः । अनो बहुव्रीहेरिति । उपल७णमेततत् । ठनो बहुव्रीहेःऽ, ठ्डाबुभाभ्याभन्यतरस्याम्ऽ इति चेत्यर्थः । कुण्डोध्नीति । कुण्डमिव ऊधोऽस्या इति विग्रहः, ङीषि ठल्लोपोऽनःऽ इत्यकारलोपः । प्राप्तोधा इति । ठ्प्राप्तापन्ने च द्वितीययाऽ इति तत्पुरुषः, ठत्वसन्तस्यऽ इति दीर्घः । अन उपधालोपिन इत्यादि । असत्यां पुनरनुवृतौ मध्येऽपवादन्यायेन डाप्प्रतिषेधयोरेवायं ङीष् बाधकः स्यात्, न ठन उपधालोपिनःऽ इत्यस्य ङीपः । ननु च ठ्डाबुभाभ्याम्ऽ इत्यत्रानेनान्यतरस्यांग्रहणेन ङीबपि प्राप्यते, ठन उपधालोपिनःऽ इत्यय तु नियम इत्यावीदीति कुतोऽयमनिष्टप्रसङ्गः ? सत्यम् ; अन ठुपधालोपिनःऽ इत्यस्य तु विधित्वाभ्युपगमेनैतदुक्तम् । इह बहुव्रीहेरूधसो ङीष् नश्चेति वक्तव्यम्, ऊधः शब्दान्ताद्वहुव्रीहेः स्त्रियां ङीष् भवति तत्सन्नियोगेन चान्त्यस्य नकारः, समासान्तप्रकरणे तु ऊधसऽनङिति न वक्तव्यम्, ठ्धनुषोऽनङ्ऽ इत्येव पठितव्यम्, कः पुनरेवं सति गुणो भवति ? ठन उपधालोपिनःऽ इत्यत्रास्यानुवृत्तिर्नाश्रयितव्या भवति; अपि च महोधाः पर्जन्यः, वुण्डोधो धैनुकमिति सिद्धं भवति, अन्यथा ठूधसोऽनङ्ऽ इत्यत्र स्त्रियामिति वक्तव्यं स्यादत आह---समासान्तश्च स्त्रियामेवेति । इष्यत इत्यनुषङ्गः, तत्रैव स्त्रियामिति वक्तव्यमित्यर्थः, इतरथा हि कब्विधिप्रसङ्गः । कपोऽवकाशोऽन्यो बहुव्रीहिः---अयवकः अव्रीहिकः, ङीषस्तु---विभाषा कप्, यदा न कप् सोऽवकाशः; कप्प्रसङ्गे उभयं प्राप्नोति परत्वात्कप् स्यात् ॥ संख्याव्ययादेर्ङीप् ॥ ४।१।२६ ॥ पूर्वेण ङीषि प्राप्ते ङीब् विधीयत इति । यत्र पूर्वपदप्रकृतिस्वरस्तत्र बहुव्रीहौ । अन्तोदाते तु बहुव्रीहौ ङीब्ङीषोर्नास्ति विशेषः, सूध्नी, ठ्नञ्सुभ्याम्ऽ इत्यन्तोदातत्वम्, तत्राल्लोपे ङीबप्यदातनिवृतनिवृतस्वरेणोदातो भवति । द्व्यूध्नीत्यादि । द्वे ऊधसी यस्याः, अतिगतमूधोऽस्याः, निर्गतमूधोऽस्या इति विग्रहः । आदिग्रहणं किमिति । संख्याव्ययाभ्यामुतरो य ऊधः शब्दस्तदन्ताद्वबहुव्रीहेरिति विज्ञायमाने द्वयूध्नीत्यादि सिद्धमिति प्रश्नः । द्विविधोध्नीति । असत्यादिग्रहणे ठ्संख्याव्ययाभ्याम्ऽ इति पञ्चमीनिर्देशाताभ्यामनन्तरो य ऊधः--शब्दस्तदन्तादेव स्यात्, पदान्तरव्यवाये तु न स्यादिति भावः ॥ दामहायनान्ताच्च ॥ ४।१।२७ ॥ ठ्स्वीरितेनाधिकारःऽ इत्यत्र द्वौ पक्षौ---शब्दाधिकारः, अर्थाधिकारश्चेति । तत्राद्ये पक्षे यस्यैव शब्दस्य स्वरितत्वं प्रतित्रातं स एवानुवर्तते, द्वितीये तु द्वन्द्वार्थस्यैकत्वातस्यैवानुवृत्तिः स्याद्वा न वा, तदिहाद्यं पक्षमाश्रित्याह---सख्याग्रहणमनुवर्तते नाव्ययग्रहणमिति । हायनो वयसि स्मृत इति । प्रकृतिरिति शेषः । हायनान्तो बहुव्रीहिर्वयसि गम्यमाने ङीपः प्रकृतिराचार्यैः स्मृत इत्यर्थः । त्रिहायना शालेति । प्राणिधर्मो वयः शालाया न सम्भवति । अथ मूलोदाहरणवत् ठ्त्रिचतुर्भ्या हायनस्यऽ इत्यौपसंख्यानिकं णत्वं कस्मान्न भवतीत्यत आह---णत्वं चेत्यादि । बहुव्रीह्यधिकारादेव तदन्तविधिसिद्धेरन्तग्रहणं विस्पष्टार्थम् ॥ अन उपधालोपिनोऽन्यतरस्याम् ॥ ४।१।२८ ॥ इति परत उपधालोपे यस्य सम्भवति स उपधालोपी । ननु सिद्धा एवेत्यादि । एतच्च ठ्डाबुभाभ्याम्ऽ इत्यत्रैव व्याख्यातम् । अनुपधालोपिनो ङीप्प्रतिषेधार्थं वचनमिति । अनो बहुव्रीहेर्यदन्यतरस्यां ङीब्विधानं तदुपधालोपिन एवेत्येवं नियमार्थमित्यर्थः । अस्य च नियमस्यानुपधालोपिनो ङीब्निवृत्तिः फलमिति फलतः प्रतिषेधवाचो युक्तिः । बहुराजे इति । ठौङ् आपःऽ इति शीभावः । द्विवचननिर्देशो डापोऽभिव्यक्तये; एववचने डाप्प्रतिषेधयो रूपस्य तुल्यवात् । बहुमत्स्येति । ठ्सूर्यतिष्यागस्त्यऽ इत्यादिना उपधालोपविधानादुपधालोप्येष बहुव्रीहिः । सुपर्वेति । ठ्न संयोगाद्वमन्तात्ऽ इति निषेधान्नायमुपधालोपी ॥ नित्यं संज्ञाच्छन्दसोः ॥ ४।१।२९ ॥ ननु च्छन्दसि दृष्टमेवानुविधीयते नापूर्वमुत्प्रेक्ष्यते; तत्र च ङीबेव चेद् दृश्यते तस्य च लक्षणमस्ति, क इदानीं तदभावं प्रयोक्तुअं प्रभवति, संज्ञाशब्दा अप्यनदिप्रयुक्ता नियतानुपूर्वीकास्तत्रापि ङबेव चायं दृश्यते न तदभावः शक्यते कर्तुम्, किमर्थमिदं सूत्रम् ? संज्ञाच्छन्दसोरिति पदमुतरार्थं वक्तव्यम् । नित्यग्रहणमुतरत्र विकल्पनिवृत्यर्थम् ॥ केवलमामकभागधेयपापापरसमानार्यकृतसुमङ्गलभेषजाच्च ॥ ४।१।३० ॥ केवलेति भाषायामिति । असंज्ञाविषये इति भावः । मामकीति । ममेयमिति ठ्युष्मदस्मदोरन्यतस्यां खञ्चऽ इत्यम्, ठ्तवकममकावेकवचनेऽ इति ममकादेशः, तत्राणन्तत्वात् ठ्टिड्ढाणञ्ऽ इत्येव सिद्धे नियमार्थं मामकग्रहणम्---संज्ञाच्छन्दसोरेव ङीब्नान्यत्रेति । मामिकेति । टापि ठ्मामकनरकयोरुपसंख्यानम्ऽ इतीत्वम् । भागधेयीति । भागशब्दापुंल्लिङ्गात्स्वार्थे धेयप्रत्ययः, स्वाथिकाश्च क्वचिदतिवर्तन्ते प्रकृतितो लिङ्गमिति स्त्रीलिङ्गता । पापेति । अभेदोपचारातद्वति वर्तमानः पापशब्दोऽभिधेयवल्लिङ्गः । अवरीत्यत्र द्वितीयो वर्णो दन्त्योष्ठयः, न पवर्ग्यः । आर्येण कृतेति । प्राक् सुबुत्पतेः समासेऽकारान्तत्वम् । भेषजीति । भिषज इयमित्यणि आदिवृद्धेरभावोऽस्मादेव निपातनादेकारः । एवं च भेषजग्रहणमपि नियमार्थम् ॥ रात्रेश्चाजसौ ॥ ४।१।३१ ॥ कथमित्यादि । दीर्घान्ताज्जसि ठ्दीर्घाज्जसि चऽ इति पूर्वसवर्णदीर्घप्रतिषेधाद्यणादेशे ठ्रात्र्यःऽ इति प्रयोग उपपद्यते, ह्रस्वान्तस्य तु ठ्जसि चऽ इति गुणे ठ्रात्र्यःऽ इति रूपं स्यात् । दीर्घान्तश्च रात्रिशब्दः संज्ञाच्छन्दसोरपि जसि न सम्भवति, अजसाविति प्रतिषेधात्, किं पुनर्भाषायामिति प्रश्नः । ङीषयमित्यादि । बह्वादिषु रात्रिशब्दो न पठ।ल्त इति चेत्, तत्राह-तत्र हीति । कृत इकारः कृदिकारः, तदन्तान्ङीष् भवति ठ्दृजागृभ्यां विःऽ, दविः, दर्वी; यस्तु क्तिन्सम्बन्धी तदन्तान्न भवति---कृतिः, हृतिः । सर्वत इति । कृदिकारादकृदिकाराच्चेत्यर्थः । यस्तु क्तिन्नर्थस्तस्मान्न भवति---ठाक्रोशे नञ्यनिःऽ, अकरणिः, अहरणिः । रात्रिशब्दोऽयम् ठ्राशदिभ्यां त्रिप्ऽ इति व्युत्पत्तिपक्षे कृदिकारान्तः, अव्युपतिपक्षे ठ्सर्वतोऽक्तिन्नर्थात्ऽ इति ङीष् । सूत्रं तु ङीबर्थम्---रात्री व्यख्यात्, रात्रीभिरस्मा अहभिर्दशस्येत्; अत्राद्यौदातत्वं भवति ॥ अन्तर्वत्पतिवतोर्नुक् ॥ ४।१।३२ ॥ निपातनसमार्थ्याच्चेति । कार्यान्तरवदर्थविशेषवृत्तिरपि लभ्यत इति भावः । कस्मिन्विशेष इत्यत्राह अन्तर्वत्पतिवदिति । गभभर्तृसंयोगे इति । अन्तर्वदिति । गर्भसंयोगे, गर्भिण्यामित्यर्थः । पतिवदिति । भर्तृसंयोगे, भर्तृमत्यामित्यर्थः, जीवपत्यामिति यावत् । इह न भवति अन्तरस्यां शालायां विद्यते इति । अस्मिन्विषये एवंविधं वाक्यमेव भवति, न तु मतुबादीत्यर्थः । क्वचिद् अन्तर्वती शालेति पठ।ल्ते, तदयुक्तम् ; अत्र मतुबभावस्योक्तत्वात् । पतिमती पथिवीति । स्वामिपर्यायोऽत्र पतिशब्दः । मतुब्निपात्यत इति । अधिकरणप्रधानस्यान्तः शब्दस्यास्तिनाऽसामानाधिकरण्यान्न प्राप्नोतीति कृत्वा । वत्वं तु सिद्धमिति । ठ्मादुपधायाश्चऽ इत्यनेनादुपधत्वात् । अन्तर्वत्पतिवतोरित्यादि । एतयोः शब्दयोर्निपातनान्मतुब्वत्वे भवतः, नुक्तु विधीयते यथाक्रमं गर्भिण्यां जीवपत्यां चाभिधेयायाम्--जीवः पतिरस्याः जीवपतिः ठ्विभाषा सपूर्वस्यऽ इति ङीम्नकारयोरभावपक्षे रूपम् । तत्र ङितिह्रस्वश्चऽ इति नदीसंज्ञापक्षे ठिदुद्भ्याम्ऽ इति णेóरामादेशः, जीवपत्यामिति भवति । वा तु च्छन्दसि नुग्विधिः । च्छन्दसि विषये तु विकल्पेन नुग्विधिर्भवति---अन्तर्वती, अन्तर्वत्नी । पुंस्यापि दृश्यते---सोऽन्तर्वानभवत् ॥ पत्यर्नो यज्ञसंयोगे ॥ ४।१।३३ ॥ यद्यत्र यज्ञशब्देन पतिशब्दस्य सम्बन्धात् यज्ञसंयोग इत्यर्थः स्यात् ? यज्ञस्य पतिरियं ब्राह्मणीत्यत्रैव स्यात्, अस्ति ह्यत्रार्थद्वारकः सम्बन्धः, स्वरूपेण चानन्तर्यलक्षणः । अथ यज्ञवाचिना संयोगो यज्ञसंयोगः ? तथापि पत्नीसंयाज इत्यादावेव स्यात्, न त्वियमस्य पत्नीत्यादौ । तस्माद्यज्ञशब्दस्य योऽर्थस्तेन पतिशब्दार्थस्य सम्बन्धो यज्ञसंयोग इत्याह---यज्ञेन संयोग इति । अन्यथा ठ्यज्ञशब्देनऽ इत्यवक्ष्यत् । एवं च पतिशब्दार्थस्येत्यप्युक्तं भवति, न हि पतिशब्दस्य यज्ञेनार्थेन वाच्यवाचकभावः सम्बन्धान्तरं वा सम्भवति । तत्साधनत्वादिति । देवतोद्देशेन स्वद्रव्यत्यागः उयागः । मध्यकंचदम्पत्योर्धनम्, ठ्कुटुअम्बिनौ धनस्येशाते जायापत्योर्न विभागो विद्यतेऽ इति हि स्मर्यते, ततश्च त्यागे भार्याया अप्यनुमतिरपेक्ष्यत इति तत्रास्या अनुमत्या साधनत्वम् । मदर्थं कर्मेत्येवंरूपोऽधिकारलक्षणसम्बन्धोऽस्तीत्याह---फलग्रहीतृत्वादिति । कर्तृत्वमात्रं विवक्षितम्, न स्त्रीत्वमिति ङीब्न कृतः । ठ्कर्तरि चऽ इति समासप्रतिषेधः कर्मणि षष्ठ।ल एव, न शेषपष्ठ।ल इति तस्यानेनोपपन्नः समासः । फलगृहीतत्वादिति पाठे गृहीतं फलं ययेति बहुव्रीहौ फलशब्दस्य जातिवचनत्वाद् निष्ठायाः पूर्वनिपाते ठ्जातिकालसुखादिभ्यः परवचनम्ऽ इति गृहीतशब्दस्य परनिपातः । कथमित्यादि । शूद्रस्यैव यज्ञेऽनधिकृतत्वाद्यज्ञेनासंयोगात्कथं तद्भार्याया यज्ञसंयोग इति प्रश्नः । उपमानादिति । अग्निसाक्षिकं यत्पाणिग्रहणं तद् वृषलादीनामप्यस्ति, तदाश्रयमुपमानम् ॥ विभाषा सपूर्वस्य ॥ ४।१।३४ ॥ सहशब्दोऽयमस्ति तुल्ययोगे, यथा---सशिष्यो गुरुरागत इति; अस्ति च विद्यमानवचनः, यथा---ठ्सहैव दशभिः पुत्रैर्भारं वहति गर्दभीऽ इति, इत्थम्भूतलक्षणे तृतीया, विद्यमानेष्वेव पुत्रेष्वित्यर्थः । पूर्वशब्दोऽप्यस्ति व्यवस्थावचनः---पूर्वं मधुरायाः पाटलिपुत्रमिति; अस्ति चावयवशब्दः---पूर्वं कायस्येति । तत्र तुल्ययोगे सहशब्दः, पूर्वशब्दश्च व्यवस्थायामिति पक्षे ग्रामस्य पतिरियमिति वाक्ये प्राप्नोति, पूर्वस्य चापि प्राप्नोति, विद्यमानवचनसहशब्दः पूर्वशब्दश्च व्यवस्थावचन इति पक्षे पूर्वस्य मा भूत्, वाक्ये तु स्यादेव । अपयववचनः पूर्वशब्दः तुल्ययोगे सहशब्द इति पक्षे वाक्येऽपि स्यात्, तत्रापि पतिशब्दस्य पूर्वोऽवयवः पकारस्तस्यापि स्यात्, तस्माद्विद्यमानवचनः सहशब्दः पूर्वशब्दश्चावयववचन इति पक्ष आश्रीयते । ठ्तेन सहऽ इत्यत्र ठ्तुल्योगेऽ इति विशेषणस्य प्रायिकत्वात्समासः । एवं च स्थिते ठ्सपूर्वस्यऽ इति पतिशब्दविशेषणं नोपपद्यते, कथम् ? पकारेण सपूर्वत्वमव्यभिचारादविशेषणम् । शब्दान्तरं तु पतिशब्दस्यावयवो न सम्भवति, ततश्च सामर्थ्यात् प्रातिपदिकं पतिशब्देन विशेष्यते, न तु तेन । पतिशब्द इति । पतिशब्देन तदन्तस्य ग्रहणम्, अनुपसर्जनग्रहणेनापि तदन्तं प्रातिपदिकमेव विशेष्यते, न विशेषणभूतः पतिशब्दः, अन्यथा बहुंड्व्रीहौ न स्यात्---जीवः पतिरस्याः जीवपतिर्जीवपत्नीति । षष्ठी समास एव तु स्याद्---आशापतिः, आशापत्नीति । तदेतत् सर्वमालोच्याह---पतिशब्दान्तस्य सपूर्वस्यानुपसर्जनस्येति । ग्रामस्य पतिरियमिति । असति सपूर्वग्रहणे तदन्तविधेरभावादत्रैव स्यात् । अथाप्यमहत्पूर्वेति ज्ञापकातदन्तेऽपि भवेत् केवलस्यापि स्यादेव । तस्मात् ठ्सपूर्वस्यऽ इति वक्तव्यम् ॥ नित्यं सपत्न्यादिषु ॥ ४।१।३५ ॥ यानि समानादिपूर्वपदानि पत्यन्तानि प्रातिपदिकानि ते सपत्न्यादयः । कुत एतत् ? समानादीनामेव गणे पठात्, सपत्न्यादीनां चापाठात् । यद्येवम्, समानादिष्विति वक्तव्यम्, पूर्वग्रहणानुवृतेः; समादिषु पूर्वेष्ववयवेषु सत्स्वित्यर्थः ? सत्यम् ; समानस्य सभावार्थं तु ठ्सपत्न्यादिषुऽ इत्युक्तम् । क्वचितूदाहरणानन्तरं समानादिष्विति वक्तव्यं सभावार्थमेवमुक्तमिति वृतावेव पठ।ल्ते । अपर आह---समुदायोच्चारणसामर्थ्यात्सपत्नीभार्य इत्यत्र पुंवद्भावो न भवतीति नात्राप्तोक्तिरस्ति । किञ्च---सभावार्थं समुदायोच्चारणमिदमिति सामर्थ्यमपि चिन्त्यम् । तथा हे सपत्नि, निःसपत्निः, सपत्न्यृच्छति, सपत्न्या, सपत्न्यै इत्यादावपि ह्रस्वयणादेशौ न स्याताम् । तस्मात्सभावार्थमेव सपत्न्यादिष्वित्युक्तम् । नित्यग्रहणं विस्पष्टार्थमिति । आरम्भसामर्थ्यादेव नित्यं भविष्यतीति भावः । दासाच्छन्दसीति । दासपत्नीरहिगोपाः । पूतक्रतोरै च ॥ ४।१।३६ ॥ यद्ययमैकारः प्रत्ययः स्यादुतरसूत्रे उदातवचनमनर्थकं स्यात्; प्रत्ययत्वादेव सिद्धेः । तस्मादादेशोऽयं विज्ञायत इत्याह---ऐकारश्चान्तादेश इति । त्रय एते योगा इति । ठ्पुंयोगादाख्याम्ऽ इत्यत्रानुवर्तयितव्या इत्यर्थः । इह करणसामर्थ्याच्च ङीप्सहिता एवानुवर्तन्ते, तेन यदा पुंयोगात्स्त्रियां पूतक्रत्वादयो वर्तन्ते तदा ङीषं बाधित्वा ऐकारादिसहितो ङीब् भवति ॥ वृषाकप्यग्निकुसितकुसीदानासुदातः ॥ ४।१।३७ ॥ वृषाकपिशब्दो मध्योदात इति । ठ्लघावन्ते द्वयोश्च बह्वषो गुरुःऽ इति वचनात् । अस्यार्थः---अन्ते एकस्मिन्लघौ द्वयोश्च लघ्वोः परतो बह्वषः शब्दस्य गुरुरुदातो भवतीति । ठ्बह्वषःऽ इति वह्वच इत्यर्थः । योऽस्माकं चकारेण प्रत्याहारः सोऽन्येषां षकारेण । अग्न्यादिषु पुनरिति । ठ्फिषःऽ इत्यनेनाग्न्यादीनामन्तोदातत्वम् । फिषिति प्रातिपदिकस्यान्याचार्यसंज्ञा । ये तु कुसीदेति मध्ये गुरुमधीयते तेषाम् ठ्लघावन्तेऽ इति मध्योदातप्रसङ्गः ॥ मनोरौ वा ॥ ४।१।३८ ॥ ऐकारश्चोदात इति । औकारस्त्वनुदात एव । वाग्रहणेन द्वावपि विकल्प्येते इति । यदा च द्वावपि न भवतस्तदा ङीबपि न भवति; सन्नियोगशिष्टत्वात् । मनुशब्द आद्यौदात इति । ठ्मन ज्ञानेऽ, ठ्मृमृशीतृचरित्सरितनिधनिमिमस्जिभ्य उःऽ इति वर्तमाने ठ्धान्ये नित्ऽ इति च, ठ्शृस्वृस्निहित्रप्यसिवसिहनिक्लिदिबन्धिमनिभ्यश्चऽ इति उप्रत्ययः, नित्वादाद्यौदातत्वम्, भरुः, मरुः, शयुः, तरुः, चरुः, त्सरुः, तनुः, धनुः, मयुः, मद्गुः, न्यङ्क्वादिपाठात् कुत्वम्---प्रथमस्योदाहरणानि । शरुः, स्वरूः, स्नेहुः, त्रपु, असुः, वसुः, हनुः, क्लेदुः, बन्धुः, मनुः---इति द्वितीयस्य ॥ वर्णादनुदातातोपधातो नः ॥ ४।१।३९ ॥ वर्णानां तणतिनितान्तानामिति । तशब्दान्तानामेतादीनां णशब्दान्तानां सोणादीनां तिशब्दान्तानां शितिप्रभृतीनां निशब्दान्तानां पृश्निप्रभृतीनां तकारान्तानां च पृषत्प्रभृतीनां वर्णवाचिनामादिरुदातो भवतीत्यर्थः । गतिस्वरेणेति । ठ्गतिरनन्तरःऽ इत्यनेन । घृतादित्वादिति । ठ्घृतादीनिऽ इति फिषि पठ।ल्ते । पिशङ्गादिति । ठ्लघावन्तेऽ इति मध्योदातत्वादुतरसूत्रेण ङीषि प्राप्ते हीब्विधीयते । असितपलितयोरिति । ठ्वर्णानां तणतिनितान्तानाम्ऽ इत्याद्यौदातावेतौ । च्छन्दसीत्यादि । ठ्तो नःऽ इति नकारे प्राप्ते क्नशब्दं ङीप्सहितमिच्छन्ति । भाषायामपीष्यते इति । भाष्ये तु नैतत्प्रदशितम् । अवदातशब्दो न वर्णवाची, किं तर्हि ? विशुद्धवाची । एवं ह्याह--- त्रीणि यस्यावदातानि विद्या योनिश्च कर्म च । एतत्रयं विजानीहि ब्राह्मणाध्यस्य लक्षणम् । इति । तेनावदातेत्यत्र ङीब्न भवति । अन्यतो ङीप् ॥ ४।१।४० ॥ सारङ्गकल्माषशब्दौ ठ्लघावन्तेऽ इति मध्योदातो, ठ्शप आक्रोशेऽ, ठ्कल तृपःऽ, ठ्शपेर्बश्चऽ इति कलप्रत्ययः, पकारस्य बकारः, प्रत्ययस्वरेण मध्योदातः शबलशब्दः । खट्वाशब्दो नित्स्वरेणाद्यौदातः, ठ्खट् काङ्क्षेऽ, ठसूप्रुषिलटिकणिखटिविशिभ्यः क्वन्ऽ । कृष्णशब्दोऽन्तोदातः, ठ्कृषेर्वर्णेऽ इति नक् प्रत्ययः, इलचि प्रकृते ठ्कपेश्चऽ इति उणादिषु सूत्रम् । कपिः सौत्रो धातुः, कपिलशब्दोऽन्तोदातः ॥ षिद्गौरादिभ्यश्च ॥ ४।१।४१ ॥ षिद्भ्यः प्रातिपदिकेभ्य इति । ष्वुनादेः प्रत्ययस्य षित्वमवयवेऽचरितार्थं समुदायस्य विशेषकं भवतीति प्रातिपदिकानां षित्वम्, धातोस्तु त्रपादेः षित्वमङ्विधौ चरितार्थमिति न तेन प्रातिपदिकं षिद्भवति । रजकीति । ठ्शिल्पिनि ष्वुन्ऽ इत्यत्र व्युत्पादितम् । गौरादिषु गौरशब्दस्य वर्णवाचिनोऽप्यन्तोदातत्वात्पाठः । मत्स्यादानां योपधानाम् ठयोपधात्ऽ इति जातिलक्षणस्य ङीषः प्रतिषेधात्पाठः । अन्येषां जातिशब्दानां स्त्रीविषयार्थः पाठः । श्वन्नक्षन्निति एतयोर्डापि प्राप्ते । अनडुही, अनड्वाहीति । अनकारान्तत्वादप्राप्ते ङीषि सप्रत्यययोः पाठः, ङीषि परतो विकल्पेनान्यथा स्यात् । एषणः करण इति । करणसाधन एषणशब्दो ङीषमुत्पादयति---इष्यतेऽनयेत्येषणी । अधिकरणे ल्युडिति टित्वान् ङीबेव भवति । अन्येषामपि ल्युङ्न्तानां ङीपि प्राप्ते पाठः । मेधशब्दस्याजातिवाचित्वाद्, गौतमस्य शार्ङ्गरवादित्वान् ङीनि प्राप्ते वचनात्पक्षे सोऽपि भवति । आयस्थूणशब्दः शिवाद्यणन्तः । भौरिक्यादय इञन्ताः, तेषाम् ठणिञोःऽ इति ष्यङ्प्राप्तौ । आपिच्छिका नाम राजानः, ठ्जनपदशब्दात्क्षत्रियादञ्ऽ, ठ्तस्य आतश्चऽ इति लुकि कृते प्रत्ययलक्षणेन ङीप्प्राप्नोति । अग्रे हायनमस्य आग्रहायणः, प्रज्ञादित्वात्स्वार्थिकोऽण्, अस्मादेव निपातनाण्णत्वम्---आग्रहायणः, ङीपि प्राप्ते पाठः । केचिदाग्रहायणीति इकारान्तं पठन्ति, तस्य प्रयोजनम्---आग्रहायणीभार्य इत्यादौ पुंवद्भावो मा भूदित्याहुः । एतेन प्रत्यवरोहणीति व्याख्यातम् । सुमङ्गलात्संज्ञायामिति । ठ्केवलमामकऽ इति ङीपि प्राप्ते पक्षे सोऽपि भवति । स्वरे विशेषः, सुमङ्गलशब्दो बहुव्रीहिः, तत्र ठ्नञ्सुभ्याम्ऽ इत्यन्तोदातत्वान्ङीप्यपि सत्युदातनिवृतस्वरेण भाव्यमिति नास्ति विशेषः । तथा च च्छन्दसि । सुमङ्गलीरियं वधूरित्यन्तोदातत्वं दृश्यते । तस्माज्जातिवचनोऽव्युत्पन्नः स्त्रीविषयः सुमङ्गलशब्दः ठ्लघावन्तेऽ इति मध्योदातो द्रष्टव्यः । तरुणतलुनयोः ठ्नञ्स्नञीकक्तरुणऽ इति ङीपि प्राप्ते पक्षे सोऽपि भवति । बृहन्महच्छब्दयोरनर्थकः पाठ इति प्रागेवोक्तम् । ऋष्यणन्तः सौधर्मशब्दः । रोहिणी नक्षत्रे इति । नक्षत्रादन्यत्र रोहिणी । रेवती नक्षत्र इति । रयिरिति धननाम, रयिर्विद्यतेऽस्या इति मतुपि ठ्रयेर्मतौ बहुलम्ऽ इति सम्प्रसारणम्, निपातनाद्वत्वम् । नक्षत्रादन्यत्र ङीब् भवति । विकलादीनां टापि प्राप्ते । कटाच्छ्राएणिवचने । कटी श्रोणिः, अन्यत्र कटा । पिप्ल्यादयश्चेति । गणसूत्रम्, पिप्पलि, हरीतकीत्यादिकं तु तस्योदाहरणप्रदर्सनम् । पृथिवीति । ठ्प्रथेः षिवन्सम्प्रसारणं चऽ इति षित्वादेव सिद्धे प्रत्ययान्तस्य पाठः पुंवद्भावनिवृत्यर्थः---पृथिवीभार्य इति । स्त्रीवषियस्यास्य पुंवद्भावप्राप्तिश्चिन्त्या । क्रोष्टुअशब्दस्य ठ्स्त्रियां चऽ इति तृज्वद्भावः । क्रोष्ट्रीत्यत्र निरूपणीयमस्ति ठ्स्त्रियां चऽ इत्यत्र निरूपयिष्यामः । षित्वादेव सिद्ध इति । ठ्मातरि षिच्चऽ इति वार्तिककारवचनात्षित्वम्, निपातनसामर्थ्याद्वा । उक्तं हि--- धातुसाधनकालानां प्राप्त्यर्थं नियमस्य च । अनुबन्धविकाराणाअं रूढ।ल्र्थं च निपातनम् ॥ इति । दंष्ट्रेति । येषामजादिषु दंष्ट्रेति पाटो नास्ति तेषामिदं प्रयोजनम् ॥ जानपदकुण्डगोणस्थलभाजनागकालनीलकुशकामुककबराद् वृत्यमत्रावपनाकृत्रिमाश्राणास्थौल्यवर्णानाच्छादनायोविकारमैथुनेच्छाकेशवेशेषु ॥ ४।१।४२ ॥ वर्ततेऽनया सा वृत्तिः उ जीविका । स्वरे विशेष इति । तमेव दर्शयति---उत्सादिपाठादञि कृत इति । अमत्रमुभाजनम् । कुण्डान्येति । क्रियाशब्दोऽयम् । ठ्कुडि दाहेऽ, ठ्गुरोश्च हलःऽ इत्यकारप्रत्ययः । अवटपर्यायस्तु कुण्डशब्दो नपुंसके नियतः । यस्तु ठ्पत्यौ जीवति कुण्डः स्यात्ऽ इति मनुष्यजातिवचनस्ततो जातिलक्षणो ङीष् भवत्येव---कुण्डीयं न गोलीति । अमत्रवाचिनस्तु जातिशब्दादपि स्त्रीविषयत्वान्ङीष् विधीयते । आवपनं चेदिति । यत्र धान्यादि प्रक्षिप्य नीयते सा गोणी, यस्याः पुनर्यादृच्छिकं नाम सा गोणा । स्थलान्येति । कृत्रिमा पुरुषव्यापारेण निष्पादिता, यथा---स्थलयोदकं परिगृह्णन्तीति । भाजीति । ठ्भज विश्राणनेऽ चुरादिः, ठ्ण्यासश्रन्थो युच्ऽ इति युचि प्राप्तेऽसमादेव निपातनात् स्त्रियामप्येरच् । श्राणेति । ठ्श्रा पारेऽ, क्तः, ठ्संयोगादेःऽ इति नत्वम् । स्थौल्यं चेदिति । द्रव्ये वर्तमानस्य नागशब्दस्य स्थौल्यं चेत्प्रवृत्तिनिमितमित्यर्थः । नागशब्दो गुणवचन इति । गजवाची नागशब्दस्तत्सहचरितं स्थोल्यमुपादाय स्त्र्यन्तरे प्रयुक्त उदाहरणम् । सर्पे दृष्टस्तद्गतं दैर्घ्यमुपादाय स्त्र्यन्तरे प्रयुक्तः प्रत्युदाहरणमित्यर्थः । वर्णश्चेदिति । प्रवृत्तिनिमितमित्यर्थः । कालान्येति । यस्या यादृच्छिकीयं संज्ञा । नीलान्येति । नील्या रक्ता शाटी, ठ्नील्या अन्वक्तव्यःऽ इत्यन् । अयोविकारश्चेदिति । ठ्फालऽ इति यस्याभिधानम् । कुशान्येति । च्छन्दोगाः स्तोत्रिया गणनार्थानौदुम्बरान् शङ्कून ठ्कुशाऽ इति व्यवहरन्ति । कामुकान्येति । यस्या मैथुनादन्यत्कामयितुं शीलम् । मैथुनेच्छावतो भण्यत इति । कामुकशब्दस्य ठ्लषपतपदऽ इति कर्तरि व्युत्पादितत्वात्, इच्छामात्रे वृत्यभावात् । सूत्रे तु प्रवृत्तिनिमितमात्रं निष्कृष्योक्तम् । मैथुने इच्छा यस्याः सा मैथुनेच्छेति व्यधिकरणपदो बहुव्रीहिराश्रयणीय इति भावः । केशवेश इति । केशसन्निवेशविशेष इत्यर्तः ॥ शोणात्प्राचाम् ॥ ४।१।४३ ॥ शोणशब्दोऽयं वर्णवाची ठ्वर्णानां तणतिनितन्तानाम्ऽ इत्याद्यौदातः, तत्र ठन्यतो ङीष्ऽ इत्येव सिद्धे नियमार्थं वचनम्---प्राचामेव नान्येषामिति ॥ वोतो गुणवचनात् ॥ ४।१।४४ ॥ गुणमुक्तवान्गुणवचन इति । ठ्कृत्यल्युटो बहुलम्ऽ इति भूते कर्तरि ल्युट्ंअ दर्शयति । स पुनर्यः प्राग्गुणमभिधाय पश्चान्मतुब्लोपादभेदोपचाराद्वा तद्वति वर्तते स वेदितव्यः । शुचिरिति । उत इत्यस्मिन्नसत्वेऽपि पट्वीत्यादिसिध्यर्थमेवात इत्यस्यासम्बन्धो व्याख्येयः, ततश्चेहापि प्रसङ्ग इति भावः । गुणवचनान्ङीबिति । ठ्मनोरौ वाऽ इत्यस्यानन्तरमिदं पठितव्यमित्यर्थः । उतरसूत्रम् ठ्बह्वादिभ्यो वाऽ इति पठितव्यम् । आद्यौदातार्थमिति । आद्यौदातेषु गुणवचनस्य ङीब्विधानस्य प्रयोजनमित्यर्थः । अन्तोदातेषु ठुदातयणो हल्पूर्वात्ऽ इति ङीबप्युदात इति नास्ति विशेषः । आद्यौदातेषु तु ङीबनुदात एवावतिष्ठते । वस्वीति । ठ्शृस्वृस्निहिऽ इत्यादिना वसेरुप्रत्ययः, नित्वादाद्यौदातो वसुशब्दः, गुणवचनश्चायं नैर्मल्यवचनः । प्रशस्तवचन इत्यन्ये । तथा च---अतिशयेन वसुर्वसिष्ठो भवति पटुअशब्दोऽप्याद्यौदातः, ठ्धान्ये नित्ऽ इत्यधिकारे ठ्फलिपाटिनमिमनिजनां गुक्पटिनाकिधतश्चऽ इति उप्रत्ययः, फलेर्गुगागमः, पाटेश्च पटिरादेशः, फल्गुः, पटुअः, नाकुः, मधुः, जतु---इत्युदाहरणानि । मृदुशब्दस्त्वन्तोदातः, ठ्म्रद क्षोदेऽ ठ्कुर्भ्रश्चऽ इत्यधिकारे ठ्प्रथिम्रदिभ्रस्जां सम्प्रसारणं सलोपश्चऽ इति कुप्रत्ययः, पृथुः, मृदुः । ठ्भ्रस्जेः सलोपः सम्प्रसारणञ्चऽ, न्यङ्क्वादित्वात्कुत्वम्, भृगुः । खरुरीति । ठ्खरुः कन्या पतिवराऽ इति निघण्टुअः, तत्र पाणिग्रहणोत्कण्ठाभिधायित्वाद् गुणवचनत्वाम् । तपरकरणं किम् ? पटुअमिच्छति पटूअयति, पटूअयतेः क्विप्, पटूअः स्त्री---अत्र मा भूत् । यद्यप्ययं सम्प्रति क्रियावचनः, तथापि पूर्वं गुणमुक्तवानिति कृत्वा स्यात्प्रसङ्गः । इह ठुतः इति विशेषणाद्वचनग्रहणाच्च शास्त्रीयोऽदेङ्गुणो न गृह्यते । लोके तूपसर्जनं मुण उच्यते, शास्त्रेऽपि यस्य गुणस्य हि भावादिति विशेषणमात्रं गुणो गृह्यते, शुक्लादौ च प्रसिद्धतरो गुणशब्दः, वैशेषिकादयस्तु रूपरसादयश्चतुर्विशतिर्गुणा इति प्रतिपन्नाः; तदिह जिघृक्षितं गुणं लक्षयति---सत्वे निविशत इत्यादि । सीदन्त्यस्मिञ्जातिगुणक्रिया इति सत्वमुद्रव्यम् । तत्र यो निविशतेउसमवैति स गुणः । ठ्यो निविशते स गुणःऽ इत्युच्यमाने गुणक्रियाजात्योर्गुणत्वप्रसङ्गात्सत्व इत्युक्तम् । एवमपि सता जातिर्गुणः स्यात्, सा हि द्रव्यगुणकर्मसु त्रिष्वपि समवैति ? तदर्थं द्रव्य एवेत्यवधारणं द्रष्टव्यम् । एवमपि द्रव्यत्वजातिर्गुणः स्यात्सत्वे निवेशातत्रैव च निवेशात् ? इत्यत आह---अपैतीति । ततः सत्वादपैतिउअपगच्छति, क्वचिद्वा कदाचिद्वा न भवतीत्यर्थः । यथा---आम्रफले श्यामता पूर्वमुपैति, रक्ततायां तत्र जातायामपैति च द्रव्यत्वजातिस्तु सर्वदा द्रव्ये निविशते नापैति, यदि हि कदाचित्क्वचिद्वा न स्याद् द्रव्यमेवैतन्न स्यात् । एवमपि गोत्वादिजातिर्गुणः स्यात्, सा हि सत्वे निविशते, अपैति च, ततोऽश्वादिष्वभावअत् ? इत्यत आह---पृथग् जातिष्विति । पृथगिति पृथक्पदम्, पृथग्भूतासु जातिष्वित्यर्थः । जात्याधारेषु द्रव्योषु दृश्यमानो जातिषु दृश्यत इत्युपचर्यते, समासे तु सति ठ्जात्यन्ताच्छःऽ इति नित्याधिकारपरिगणितश्च्छः प्रसज्येत । तदेवमुक्तलक्षणोपेतो यः पृथग्जातीयेषु दृश्यते स गुणः, न चैवंरूपा गोत्वादिजातिः । यद्यपि खण्डमुण्डादिरूपेण खण्डमुण्डादयः पृथग्जातीयाः, तथापि गोत्वेन तासामेकजातीयत्वमेव । ये त्वपैतीत्यस्य सत्येवाधारे तत्परित्यागमर्थमाहुः, तेषां ठ्पृथग्जातिषुऽ इत्यनर्थकम् ; गोत्वादिजातेरप्यपैतीत्यनेनैव व्यावृत्तिसिद्धेः । तस्मात्पूर्वोक्त एवार्थः । एवमपि हि क्रिया गुणः स्यात्, सा हि द्रव्ये निविशते यदा सक्रियं तत्रैव च निविशते, अपैति च ततो यदा निष्क्रियं द्रव्यं पृथग्जातीयेषु गवाश्वादिषु दृश्यते ? अत आह---आधेयश्चेति । आधेयःउनिष्पाद्यः, यथा---पाकनिक्षिप्तेषु घटादिषु रक्तता गुणः । अक्रियाजःउअनुत्पाद्यः, यथा---तेजः परमाणुषु स एव रक्तता गुणः । तदेवमाश्रयभेदेनोत्पाद्यानुत्पाद्यस्वभावो गुण इति नित्योत्पाद्यस्य कर्मणो गुणत्वाभावः। एवमपि द्रव्यं गुणः प्राप्नोति, तदपि शरीरादिकं पादादिषु द्रव्येष्वेव पृथग्जातीयेषु निविशते संयोगविनाशे च ततोऽपैति, आधेयं चाक्रियाजम्, अवयविद्रव्यस्योत्पाद्यत्वादाकाशादेश्चानुत्पाद्यत्वादित्यत आह---सोऽसत्वप्रकृतिर्गुण इति । य उक्तलक्षणोपेतः सत्वप्रकृतिर्न भवतिउद्रव्यस्वभावको न भवति, स गुण इत्यर्थः । अत्रोतरार्द्धेनैव सर्वजातीनां व्यावृत्तिसिद्धेः पूर्वार्द्धं व्यर्थम्, जातीनां नित्यत्वेनोत्पाद्यत्वाभावात् ? नैतदेवम् ; असति पूर्वार्द्धे न जातिर्व्यावर्तते, यथा---तैजसानां परमाणूनां यद्रूपम्, यच्चेष्टकादिपाक्यद्रव्यगतम्---तदुभयं मिलतमुत्पाद्यानुत्पाद्यस्वभावमित्युभयोरपि गुणत्वं भवति, न पुनः प्रत्येकम्; उभयस्वभावत्वात् । तथा पाक्यद्रव्यरूपं जातिश्च---इत्युभयं मितितमुत्पाद्यानुत्पाद्यस्वभावमिति जातिरपि गुणः स्यादेव, न हि सजातीयत्वे सतीति विशेषणमुपातम्, अतः पूर्वार्द्धेन जातिव्यावृत्तिः । नन्वेवमपि ठ्पृथग्जातिषु दृश्यतेऽ इत्यनेनैव सर्वजातिव्यावृत्तिसिद्धेः पूर्वकं विशेषणद्वयं व्यर्थमेव, तस्मात् ठ्सत्वे निविशतेऽ इति स्वभावकथनम् । ततः ठपैतिऽ ठ्पृथग्जातिषु दृश्यतेऽ इति च विकल्पेन जातीर्व्यावर्तयतः, अपैतीत्यस्य च तत्रैव कियन्ताञ्चित्कालं स्थित्वा तमाधारं त्यजतीत्ययमर्थः । नन्वेवमपि ठ्पृथग्जातिषु दृश्यतेऽ इत्यनेनैव सर्वजातिव्यावृत्तिसिद्धेः पूर्वकं विशेषणद्वयं व्यर्थमेव, तस्मात् ठ्सत्वे निविशतेऽ इति स्वभावकथनम् । ततः ठपैतिऽ ठ्पृथग्जातिषु दृश्यतेऽ इति च विकल्पेन जातीर्व्यावर्तयतः, अपैतीत्यस्य च तत्रैव कियन्ताञ्चित्कालं स्थित्वा तमाधारं त्यजतीत्ययमर्थः । तदेवम् ठ्सत्वे निविशते अपैति आदेयश्चाक्रियाजश्चऽ इत्येकं लक्षणम् । ठ्सत्वे निविशते पृथग्जातिषुऽ इत्यादिकं चापरमिति लक्षणद्वयमनुसर्तव्यम् ॥ बह्वादिभ्यश्च ॥ ४।१।४५ ॥ शक्तिः शस्त्र इति । शक्तिशब्दः शस्त्रेऽभिधेये ङीषमुत्पादयति---शक्तिः, शक्ती । शस्त्र इति किम् ? शक्तिःउसामर्थ्यम् । अन्ये शक्तिशस्त्री इति शब्दद्वयं पठन्ति---शस्त्रिः, शस्त्री । इतः प्राण्यङ्गादित्यादीनि त्रीणि वाक्यानि यथोतरमधिकविषयाणि । तत्रोतरं वाक्यद्वयम् ठ्रात्रेश्चाजसौऽ इत्यत्रैव व्याख्यातम् । इकारान्तात्प्राण्यङ्गवाचिनो वा ङीष् भवति---धमनिः, धमनी । ठ्सर्वतोऽक्तिन्नर्थात्ऽ इत्येव ङीषि सिद्धे शकट।लदीनामिकारान्तानां पाठः प्रपञ्चार्थः । पद्धतिशब्दः क्तिन्नन्तः, पादस्य हतिः पद्धतिः, ठ्हिमकाषिहतिषु चऽ इति पद्भावः । अहन्निति पठ।ल्ते, न स केवलः स्त्रियां वर्तते, तस्मातदन्तो बहुव्रीहिरुदाहार्यः---दीर्घमहरस्याः दीर्घाह्री शरत्, पाठसामर्थ्यात् ठनुपसर्जनात्ऽ इति न प्रवर्तते । अस्य ङीषो विकल्पितत्वाड् डाप्प्रतिषेधावपि भवतः, ठन उपधालोपिनःऽ इति ङीप् च । बहुशब्दो गुणवचन इति । अन्तोदातश्च ठ्लङ्घिबंह्यएर्नलोपश्चऽ इत्यप्रत्ययान्तः । किमर्थं तर्हि तस्येह पाठः ? इत्यत आह---तस्येति ॥ नित्यं च्छन्दसि ॥ ४।१।४६ ॥ नित्यग्रंहणमुतरार्थमिति । इह त्वारम्भसामर्थ्यादेव नित्यो विधिः सिद्धः, योगारम्भश्चिन्त्ययोजनः ॥ भुवश्च ॥ ४।१।४७ ॥ विभ्वी, प्रभ्वीति । ठ्विप्रसंभ्यो ड्वसंज्ञायाम्ऽ इति डुप्रत्ययान्ताद् ङीष् । स्वयंभूरिति । भवतेः क्विप् । ह्रस्वादेवेयमिति । यद्येवं ठ्घेर्ङितिऽ इति गुणे कृते ठ्भोःऽ इति निर्देशः प्राप्नोति तत्राह---सौत्रोऽयं निर्देश इति । गुणस्यैव कृतस्य छान्दस उवङदेश इत्यर्थः ॥ पुंयोगादाख्यायाम् ॥ ४।१।४८ ॥ पुंसा योगः पुंयोग इति । योगः उ सम्बन्धः । पुंयोगाद्धेतोरिति । हेतौ पञ्चमीं दर्शयति । आख्याग्रहणं गुणभूतेनापि पुंसैव सम्बध्यते; अन्येन सम्बन्धासम्भवात् । गणकादयो हि शब्दाः पुंयोगात्स्त्रियां वर्तमाना न पुंयोगस्याख्या भवन्ति, स्त्रियां च पुंयोगमन्तरेण न प्रवर्तन्ते इति स्त्रिया अपि नाक्यास्तदाह---पुंस आख्याभूतमिति । बूतग्रहणेनैतद्दर्शयति---यत्प्रातिपदिकं प्राक् पुंसो वाचकमभूत्, सम्प्रति तु पुंयोगाद्धेतोः स्त्रियां वर्तत इति । गणकीत्यादि । गणयतीति गणकः, ण्वुल । प्रतिष्ठते प्रष्ठः, ठ्प्रष्ठोऽग्रगामिनिऽ इति षत्वम् । कथं पुनरेते पुंशब्दाः ? इत्यत आह---पुंसि शब्दप्रवृत्तिनिमितस्य सम्भवादिति । गणयति प्रतिष्ठत इति व्युत्पत्या पुंसि रूईढा एते, न स्त्री गणयति प्रतिष्ठते वा । महामात्रशब्दस्यापि प्रवृत्तिनिमितं हस्तिपकानामाज्ञापनम् । हस्तिपकाधिपतिर्हि महामात्रः । या तु स्वयं गणयति प्रतिष्ठते वा, न तस्यां पुंयोगाच्छब्दप्रवृत्तिः, अपि तर्हि स्वयमेव क्रियासम्बन्धादिति टापैव तत्र भाव्यम् । कथं तर्हि स्त्रियां प्रवृत्तिरित्य आह---तद्योगादिति । कोऽर्थः ? तस्येदमिति सम्बन्धादिति चेतद्धितो भवेत् । ङीषेव बाधक- स्याच्चेन्नित्यं बाधः प्रसज्यते ॥ गणकस्येयमिति भेदसम्बन्धे विवक्षिते ठ्तस्येदम्ऽ इति तद्धितः प्राप्नोति । अथ नाप्राप्ते तद्धिते ङीषारभ्यमाणस्तस्य बाधक इत्युच्यते, कदाचिदपि तद्धितो न स्यात, उभयमपि त्विष्यते---प्राष्ठी, प्रष्ठीति ? स्यान्मतमेतत्---ठेतदेव ङीष्विधानं ज्ञापकम्---भेद विवक्षायामपि तद्धितमन्तरेण प्रष्ठादयः स्त्रियां वर्ततेऽ इति । तेन ठ्न केवला प्रकृतिः प्रयोक्तव्याऽ इति नियमोऽत्र बाध्यते, सति हि तद्धिते प्राष्ठीत्यणि ङीबेव सिद्धः, तस्य चोदातनिवृत्तिस्वरेणोदातत्वमिति किं ङीष्विधानेनेति ? तन्न; येऽनीकारान्तास्तद्धिताः---भानोरियं भानवीयेति, तदर्थमेतत्स्यात् । एवं तर्ह्याख्याग्रहणं ज्ञापकम्---नात्र तद्धितोत्पतिरिति, न हि तद्धितान्तः प्रकृत्यर्थे पुंसि वर्तते ? एवमपि ज्ञापकेन तद्धितस्य नित्यं बाधात्प्राष्ठीति न स्यात् । तस्माद् दुष्ट एवायं पक्षः । एवं तर्हि यथा---मञ्चाः क्रोशन्ति, गौर्वाहीकः, गङ्गायां घोषः, यष्टीः प्रवेशयेत्यादौ तात्स्थाताद्धर्म्यातत्सामीप्यातत्साहचर्याच्चातस्मिन्नपि तत्वाध्यारोपेण तच्छब्दप्रवृत्तिस्तद्वदत्रापि प्रष्ठादिसाहचर्यातच्छब्दप्रवृत्तिर्भविष्यति ? तत्राभेदेन भेदसम्बन्धस्य निवृतत्वान्न तद्धितप्रसङ्गः । विवक्षिते च भेदे तद्धितोत्पत्या प्राष्ठीत्यादि भविष्यति ? तत्राहुः---यस्त्वया धर्मश्चरितव्यः सोऽनया सहेति भार्यायाः शास्त्रसिद्धं साहचर्यमिति तस्यामेवैतन्ङीष्विधानमिति । भट्टिकाव्ये तु दुहितृष्वपि दृष्टः प्रयोगः---ठ्कौसल्ययाऽसावि सुखेन रामः प्रक्केकयीतो भरतस्ततोऽभूत्ऽ इति, केकयस्य दुहिता केकयी, जनपदशब्दादपत्यप्रत्यये तु कैकयीति प्राप्नोति, न च तस्य ठातश्चऽ इति लुक्, न प्राच्यभर्गादीति प्रतिषेधातत् । तस्मात्सोऽयमित्यभिसम्बन्ध इत्ययमेव पक्षो ग्राह्यः । यद्वा---यथा स्वामिदासौ पचत इति स्वामिनः संविधातृत्वात्पक्तृत्वम्, दासस्य तु साक्षात्; तथा पुरुषः साक्षात्प्रतिष्ठते स्त्र्यपि संविधातृत्वात्पुरुषगतायाः प्रस्थानक्रियायास्तस्यामारोपात्प्रतिष्ठत इति, तस्यामेव प्रष्ठशब्दो व्युत्पाद्यते, न तु पुरुषे व्युत्पादितः सन् तेन सहाभेदोपचारातस्यां वर्तते । न चैतावता पुंयोगादेव हेतोः स्त्रियां वर्तत इत्यस्य हानिः, साक्षात्स्वयमकर्तृत्वात् । अत्र पक्षे प्रस्थ इति स्थिते सुबन्तस्य समासः, सुप् च संख्यानिमितम्, प्रातिपदिकं च पूर्वं लिङ्गमभिधते, पश्चात्सङ्ख्यामिति तन्निमितसुबपेक्षात्समासात्प्रागेवोतरपदात्स्थशब्दाट्टाप्प्रसङ्गः, न च स्थशब्दादप्यनेनैव ङीष् लभ्यते, प्रष्ठशब्दो हि पुंस आख्या, न तु स्थशब्दमात्रम्, ? नैष दोषः; ठ्गतिकारकोपपदानां कृद्धिः सह समासवचनं प्राक् सुबुत्पतेःऽ इति कृदन्तावस्थायामेव समासः, सा पुंस आख्येति ङीष् भविष्यति । परिभाषाप्रयोजनानि ठुपपदमतिङ्ऽ इत्यत्र प्रतिपादितानि । देवदतेति । स्त्रिया एव कस्याश्चिदेषा संज्ञा---परिसृष्टा, प्रजातेति । प्रसूतेत्यर्थः । पुंयोगादेते शब्दाः स्त्रियां वर्तन्त इति । परिसर्गः, प्रसवः, प्रजन इत्यर्थान्तरम् । स च न पुंयोगमन्तरेण सम्भवति, तस्मात्पुंयोगाद्धेतोः स्त्रियां वर्तते । परिसृष्टा प्रजातेति । द्वौ प्रकृतौ । एते शब्दा इति बहुवचनं तु एवंजातीयकाः शब्दाः प्रसूतादयस्तदपेक्षं द्रष्टव्यम् । गोपालिकादीनामिति । सिद्धये इति शेषः । सूर्याद्देवतायां चाब्वक्तव्य इति । ङीष एव प्रतिषेधे वक्तव्याअ चाब्विधानमन्तोदातार्थम् । सूर्यशब्दोऽयमाद्यौदातः, तत्र टापि सति आद्यौदातत्वमेवावतिष्ठेन । सूरीति । सूर्यस्य स्त्री मानुषी कुन्त्यादिः, ठ्सूर्यतिष्यऽ इति यलोपः ॥ इन्द्रवरुणभवशर्वरुद्रमृडहिमारण्ययवयवनमातुलाचार्याणामानुक् ॥ ४।४।४९ ॥ येषायिति । इन्द्रादीनां मृडान्तानां मातुलाचार्ययोश्च । अन्येषामिति । हिमादीनाम् । हिमारण्ययोर्महत्व इति । महत्वयोगेनानयोः स्त्रीत्वम्, अन्यत्र नपुंसकत्वम् । दुष्टो यव इति पाठः । यवानीति । जात्यन्तरमेवाभिधीयते, अयमेव च दोषो यदुत यवत्वजातेरभावे तदाकारानुकृतिः । यवनाल्लिप्यामिति । केचिज्जनपदिनो यवनास्तेषां लिपिः, ठ्तस्येदम्ऽ इत्यणो बाधको ङीष् । लिपिशब्दः स्त्रीलिङ्गः । उपाध्यायमातुलाभ्यां वेति । उपाध्यायमातुलाभ्यां यो ङीष् तत्सन्नियोगेनानयोर्वाऽऽनुगागमो भवतीति वक्तव्यमित्यर्थः । तत्रोपाध्यायस्याप्राप्तो मातुलस्य तु नित्यं प्राप्त आनुग्विकल्प्यते । आचार्यादणत्वं चेति । क्षुभ्नादिषु पठितव्यमित्युक्तं भवति । अर्यक्षत्रियाभ्यां वेति । ङीषानुकौ द्वावप्यप्राप्तौ विकल्प्येते । स्वार्थ एवायं विधिरिति । यदि तु पुंयोगेऽयं विधिः स्याच्छूअद्रापि क्षत्रियस्य भार्या क्षत्रियाणी स्यात्, ब्राह्मणभार्या च क्षत्रियाणी न स्यात् । तस्मात्स्वार्थ एव स्त्रीत्वविशिष्टोऽयं विधिः । मुद्गलादिति । ङीषो लित्वादानुगाकारस्य लित्स्वरः । अथ किमर्थमानुग्विधीयते, न अनुगेवोच्येत, अकारोच्चारणसामर्थ्यादतो गुणे पररूपं बाधित्वा सवर्णदीर्घत्वं भविष्यति, अन्यथा नुगेवोच्येत, यथैव तर्हि पररूपं न भवति तथैव सवर्णदीर्घत्वमपि न स्यात् ? नैष दोषः; यं विधिं प्रत्युपदेशोऽनर्थकः स विधिर्बाध्यते, तस्य तु विधेर्निमितमेव नासौ बाध्यते, तस्मादानुगेव वक्तव्यः । अपर आह---ठिन्द्रमाचष्टे इन्द्रयति, इन्द्रयतेः क्विप्, णिलोपः, इन्द्रः स्त्री इन्द्राणी, अत्र दीर्घस्य श्रवणम्, दीर्घाच्चारणसामर्थ्यादत इत्यधिकारो बाध्यतेऽ इति, एवमपि क्विबन्तः पुंस आख्या न भवति ॥ क्रीतात्करणपूर्वात् ॥ ४।१।५० ॥ पूर्वशब्दोऽवयववचन इत्याह---करणं पूर्वमस्मिन्नित्यादि । व्यवस्थावाचिनि तु पूर्वशब्दे करणं पूर्वमस्मादिति वाच्यं स्यात् । एवं च क्रीतस्य करणवाचिशब्दान्तरमवयवो नोपपद्यत इति तद्व्यतिरिक्तमेव प्रातिपदिकं करणपूर्वत्वेन विशेष्यते, क्रीतशब्देनापि विशेषितस्यैव विशेषणातदन्तविधिरित्याह---क्रीतशब्दान्तात्प्रातिपदिकादिति । यदि तु व्यवस्थावाचिनं पूर्वशब्दमाश्रित्य क्रीतशब्दो विशेष्यति---करणं पूर्वमस्मादिति, ततो वाक्येऽपि स्याद्---अश्वेन क्रीतेति । तस्मादवयववाची पूर्वशब्दः, प्रातिपदिकं च विशेष्यमिति सम्यगुक्तम् । वस्त्रक्रीतिति । ठ्गतिकारकोपपदानाम्ऽ इति वचनात् प्रागेव सुबुत्पतेः क्रीतशब्देन सह समासः । चाबन्तेन समास इति । एकादेशस्य पूर्वं प्रत्यन्तवत्वात्कृदन्तताया अविघातादविरुद्धष्टाबन्तेन समासः । अथ टाबन्तेनापि समासे कस्मादेवात्र न भवति ? तत्राह---अत इतीति । ननूदाहरणवत्प्रागेव टाबुत्पतेरत्रापि समासः प्राप्नोति, वक्तव्यो वा विशेषः ? अत आह---गतिकारकोपपदानामित्यादि । न तत्र बहुलग्रहणमस्तीति चेतत्राह---कर्तृकरणे कृता बहुलमिति । ठ्कर्तृकरणे कृता बहुलम्ऽ इत्यनेन तावदत्र समासः, स च बहुलग्रहणात् प्राक् सुबुत्पतेः क्वचिद्भवति, क्वचिदुत्पन्ने सुपीति मन्यते । एतावतैव च बहुलं तदुच्यते इति सामन्येनोक्तम्, न पुनः ठ्कर्तृकरणे कृता बहुलम्ऽ इत्ययमेव समासः प्राक् सुबुत्पतरिष्यते । यथा तु भाष्यं तथा नैतदिष्यते ॥ क्तादल्पाख्यायाम् ॥ ४।१।५१ ॥ अल्पाख्यायामिति समुदायोपाधिरिति । ननु चाल्पैरभ्रैर्विलिप्तेति पूर्वपदार्थस्यैवाल्पता गम्यते, न विलिप्तार्थस्य ? एवं मन्यते---अभ्राणांमल्पत्वे सति तद्विलेपनस्याल्पत्वमवश्यम्भावीति । अभ्रविलिप्तीति । वृतौ गतार्थत्वादल्पशब्दस्याप्रयोगः । चन्दनानुलिप्तेति । बहुलेन चन्दनेनानुलिप्तेत्यर्थः । कृद्ग्रहणपरिभाषया समुदायस्य क्तान्तत्वम् ॥ बहुव्रीहेश्चान्तोदातात् ॥ ४।१।५२ ॥ बहुव्रीहिर्योऽन्तोदाक्त इति । अत्र ठ्क्तात्ऽ इत्यनुवृत्तिसामर्थ्यात्प्रत्ययग्रहणपरिभाषा, कृद्ग्रहणपरिभाषा च न प्रवर्तते इति बहुव्रीहेः क्तान्तत्वम् । शङ्खभिन्निति । ठ्निष्ठाऽ इति पूर्वनिपातो न भवति; ठ्जातिकालसुखादिभ्यः परवचनम्ऽ इति वचनात् । शङ्खादयो हि जातिवचनाः, अत एव ठ्जातिकालसुखादिभ्यःऽ इत्यन्तोदातत्वं भवति । गलोत्कृतीति । ठ्कृती छेदनेऽ, उत्पूर्वात् क्तः । गलमुत्कृतमस्या इति विग्रहः । पादपतितेति । ठ्कर्तृकरणे कृता बहुलम्ऽ इति समासः, थाथादिस्वरेणान्तोदातत्वम् । अन्तोदाताज्जातप्रतिषेध इति । अन्तोदाताद्वहुब्रीहेर्ङीष्विधाने जातशब्दान्तात्प्रतिषेधो वक्तव्यः, स त्वन्तग्रहणादेव सिद्धः । कथम् ? इहान्तग्रहणं न कर्तव्यम्, वर्णादनुदातादितिवद् उदातान्तादिति विज्ञास्यते, तत् क्रियते नित्ययोगे यथा बहुव्रीहिर्विज्ञायेत । दन्तजातादौ तु ठ्वा जातेऽ इति विकल्पेनान्तोदातत्वम् । पाणिगृहीत्यादीनां विशेष इति । सिद्धये इति शेषः । अग्निसाक्षिकं यस्याः पाणिर्गृह्यते सा पाणिगृहीतीति भवति । कथञ्चिदिति । यथोक्तात्प्रकारादन्येन प्रकारेणेत्यर्थः । अबहुनञित्यादि । बह्वादिपूर्वपदाद्वहुव्रीहेर्ङीष् न भवतीति वक्तव्यमित्यर्थः । बहुकृतेति । बहुनि कृतान्यनयेति विग्रहः, ठ्बहोर्नञ्वदुतरपदभूम्निऽ इत्यन्तोदातत्वम् । अकृता, सुकृतेति । न विद्यते कृतमनया, शोभनं कृतमनयेति विग्रहः, ठ्नञ्सुभ्याम्ऽ इत्यन्तोदातत्वम् । मासजातेति । मासो जातोऽतीतोऽस्याः । सुखं जातं प्राप्तमनया, दुः खं जातमनयेति विग्रहः । सुखादयः ठ्सुखादिभ्यः कर्तृवेदनायाम्ऽ इत्यत्र पठिता गृह्यन्ते । अथ वा---बहुव्रीहेश्च जातिपूर्वादिति वक्तव्यम्, बहुव्रीहावन्तोदातनिमितेष्वन्येषु प्रतिषिद्धेषु जातिरेवान्तोदातनिमितं क्तान्तस्यावशिष्यते इति जातिग्रहणमेवात्र कर्तव्यमित्यर्तः ॥ अस्वाङ्गपूर्वपदाद्वा ॥ ४।१।५३ ॥ शार्ङ्गजग्धीत्यादि । शार्ङ्ग जग्धमनया, पलाण्डुर्भक्षितोऽनयेति विग्रहः । शार्ङ्गादिरभक्ष्यजातिः । सर्वत्र ठ्जातिकालसुखादिभ्यःऽ इत्यन्तोदातत्वम् । वस्त्रच्छन्नेति । ठ्च्छद अपवारणेऽ चुरादिः, ठ्वा दान्तशान्तऽ इत्यादिनो च्छन्न शब्दो निपातितः, अत्र ठनाच्छादनात्ऽ इति प्रतिषेधात्पूर्वपदप्रकृतिस्वरत्वमेव भवति । प्रवृद्धा चेत्यादिना विग्रहविशेषेण तत्पुरुषं दर्शयति ॥ स्वाङ्गाच्चोपसर्जनादसंयोगोपघात् । अतिकेशीति । अतिक्रान्ता केशानिति तत्पुरुषः, ठेकविभक्ति चऽ इति केशशब्दस्योपसर्जनत्वम् । अशिखेति । असत्युपसर्जनग्रहणेऽत्रैव प्राप्नोति, न मूलोदाहरणेषु; ठनुपसर्जनात्ऽ इत्यधिकारात् । अथ बहुव्रीह्यधिकारादत्र न भविष्यतीत्युच्येत ? अतिकेशीत्यत्रापि तर्हि न स्यात् । ठङ्गात्रऽ इत्यादिभाष्येऽनुक्तमप्येतत्प्रयोगबाहुल्याद् वृत्तिकारेणोक्तम् । यद्यत्र स्वमङ्गं स्वाङ्गं गृह्यएत---श्लक्ष्णमुखा शाला, अत्रापि प्राप्नोति, मुखस्य शालाङ्गत्वात् ; दीर्घकेशी रथ्येत्यत्र च न स्यात्, केशानां रथ्याङ्गत्वाभावात् ? तदव्याप्त्यतिव्याप्तिपरिहारार्थं स्वाङ्गं परिभाष्यते---अद्रवमिति । तत्र प्राणिस्थं स्वाङ्गमित्यनेन श्लक्ष्णमुखा शालेत्यत्र न भवति । एवमपि बहुकफा अत्र प्राप्नोति ? तदर्थमाह---अद्रवमिति । द्रवतीति द्रवम्, ततोऽन्यदद्रवम् । एवमपि बहुज्ञाना---अत्रापि प्राप्नोति ? अत आह---मूर्तिमदिति । असर्वगतद्रव्यपरिमाणा मूर्तिः, असर्वगतानि यानि द्रव्याणि तेषां यत्परिमाणं ह्रस्वत्यादि सा मूर्तिः; स्पर्शवद् द्रव्यपरिमाणं मूतिरित्यन्ये, सा यस्यास्ति तन्मूर्तिमत् । एवमपि बहुशोफा अत्र प्राप्नोति ? इत्यत आह---अविकारजमिति । विकारःउवातादिवैषम्यम्, ततो यज्जायते तन्न भवतीत्यविकारजम् । शोफस्तु श्वयथुसंज्ञको विकारजः । यदि प्राणिस्थं स्वाङ्गम्, रथ्यादिपरिगतानां केशानां स्वाङ्गत्वं न स्यात्, सम्प्रत्यप्राणिस्थत्वात्, ततश्च दीर्घकेशी रथ्येति न सिद्ध्यत्यत आह---अतत्स्थमिति । सम्प्रत्यप्राणिस्थमपि कदाचित्प्राणिनि दृष्ट्ंअ चेतदपि स्वाङ्गं भवत्येवेत्यर्थः । एवमपि प्रतिमावयवानां मुखादीनां स्वाङ्गत्वं न प्राप्नोति, अप्राणिस्थत्वात्, ततश्च दीर्घमुखी प्रतिमेत्यत्र न सिद्ध्यति ? तत्राह--तेन चेदिति । अतत्स्थमित्यनुषङ्गः । अप्राणिस्थमपि मुखादि स्वाङ्गं तेन चेन्मुखादिना तदप्राणिद्रव्यं तथा युतं भवति यथा प्राणिद्रव्यमित्यर्थः । अन्येषां पाठः---तस्य चेततथा युतमिति । तत्रार्थः---अप्राणिस्थमपि मुखादि स्वाङ्गं तस्य चेदप्राणिनः तन्मुखादि तथा युतं भवति, तादृशं संस्थानं भवति यादृशं संस्थानं प्राणिन इत्यर्थः ॥ नासिकोदरौष्ठजङ्घादन्तकर्णश्रृङ्गाच्च ॥ ४।१।५५ ॥ सहनिञ्विद्यमानलक्षणस्तु प्रतिषेधो भवत्येवेति । कथम् ? नासिकोदरयोस्तावदयं योगः पुरस्तादपवादन्यायेनानन्तरं बह्वज्लक्षणमेव प्रतिषेधं बाधते, ओष्ठादिष्वपि मध्येऽपवादन्यायेन पूर्वं संयोगोपधलक्षणंमेव प्रतिषेधं बाधते, न सहादिलक्षणम्; अतोऽसौ भवत्येव---सनासिका, अनासिका, विद्यमाननासिकेति । बिम्बोष्ठीति । ठोत्वोष्ठायोर्वा समासे पररूपं वक्तव्यम्ऽ इति पररूपम् । कबरपुच्छीति । कबरमुनानावर्णं पुच्छमस्याः सा मयूरी । मणिः पुच्छमस्याः मणिपुच्छी, विषं पुच्छमस्याः विषपुच्छी वृश्चिकी । उलूक इव पक्षोऽस्याः उलूक इव पुच्छमस्या इति विग्रहः ॥ न क्रोडादिबह्वचः ॥ ४।१।५६ ॥ कल्याणक्रोडेति । अश्वानामुरः क्रोडा, स्त्रीलिङ्गोऽयम् । तत्र बहुव्रीहौ पूर्वपदस्य पुंवद्भावः, उतरपदस्योपसर्जनह्नस्वत्वम् । अल्याणनखेति । अग्रन्थोऽयम्; ठ्नखमुखात्संज्ञायाम्ऽ इति प्रतिषेधात्, असंज्ञायां ङीष इष्टत्वात्, तस्मात् कल्याणेखेति पाठः । उखेति हि पठ।ल्ते---ठ्क्रोडा बालसुरोखाः शफो गुदं भगगलौ चऽ इति ॥ सहनञ्विद्यमानपूर्वाच्च ॥ ४।१।५७ ॥ पूर्वग्रहणमकृत्वा ठ्सहनञ्विद्यमानेभ्यःऽ इत्युच्यमाने सहादिभ्यः परं यत्स्वाङ्गं तदन्तान्ङीष् न भवतीत्यर्थो भवति, ततश्चेह प्रतिषेधः प्रसज्येत---विद्यमानं मुखमस्य विद्यमानमुखः, कल्याणो विद्यमानमुखोऽस्याः कल्याणविद्यमानमुखीति, भवति ह्यएतद् यथोक्तविशेषणम्; इह च न स्याद्---विद्यमानकल्याणमुखेति, न ह्यत्र यथोक्तं विशेषणमस्ति, तस्मात्पूर्वग्रहणम् ॥ नखमुखात्संज्ञायाम् ॥ ४।१।५८ ॥ शूर्पणखेति । ठ्पूर्वपदात्संज्ञायायामगःऽ इति णत्वम् । एवं च शूर्पणखा वा राक्षसी शूर्पनखी वा । यदि योगमात्रं न संज्ञा---शूर्पनखी, संज्ञायाम्---शूर्पणखा; न पुनः शूर्पणखीति णत्वङीषो समावेशः साधुः ॥ दीर्घजिह्वी चच्छन्दसि ॥ ४।१।५९ ॥ निपातनं नित्यार्थमिति । ठ्दीर्घजिह्वात्ऽ इत्युच्यमाने प्रकृतस्य ङीषो विकल्पितत्वादिहापि विकल्पो विज्ञायते ॥ दिक्पूर्वपदान्ङीप् ॥ ४।१।६० ॥ दिक्पूर्वपदान्ङीषोऽनुदातत्वम्, ठ्स्वाङ्गाच्चऽ इत्यादिना विहितस्य ङीष एवास्मिन्विषयेऽनुदातत्वं वक्तव्यम्, ङीब्विधाने ह्यन्यत्रापिङीष्विषयान्ङीप्प्रसङ्गः । अपूर्वे हि ङीपि विधीयमाने प्राग्गुल्फा, प्राग्जघनेति ङीष्विषयादन्यत्रापि ङीप्प्राप्नोति; ङीषः प्रतिषेधाभावात् ? इत्यस्मिन्पूर्वपक्षे इदमाह---विधिप्रतिषेधविषयः सर्वोऽप्यपेक्ष्यते इति । तत्र विधिविषयापेक्षायाः फलं दर्शयति---यत्र ङीष्विहित इति । स्वरे बिशेष इति । ङीपः पित्वादनुदातत्वं भवति, ङीषस्तु प्रत्ययाद्यौदातत्वप्रसङ्गः । प्राङ्मुखेति । ङीपा मुक्ते ठ्स्वाङ्गाच्चो पसर्जनात्ऽ इति ङीषपि न भवति, कथम् ? उक्तमेतत्---ठ्यत्रोत्सर्गापवादौ द्वावपि विकल्पितौ तत्रापवादेन मुक्ते उत्सर्गो न प्रवर्ततेऽ इति । प्रतिषेधापेक्षायाः फलं दर्शयति---इह न भवतीति । एवं च कृत्वा वाक्यभेदः कर्तव्यः---दिक्पूर्वपदादसंयोगोपधस्वाङ्गान्तान्नासिकाद्यन्तान्ङीष् भवति; क्रोडादिबह्वजन्तातु नेति अपरः कल्पः, अत्र ङीषनुवर्तते, तस्य दिक्पूर्वपदादिति पञ्चम्या षष्ठी प्रकल्प्यते, दिक्पूर्वपदादुतरस्य ङीषो ङीबादेशो भवतीत्यर्थः । तेन यत्र ङीष् तत्रैव ङीबिति सिद्धम् । एवं चोतरत्र ङीषेव स्वर्यत इत्युपपन्नं भवति ॥ वाहः ॥ ४।१।६१ ॥ सामर्थ्यादिति । कर्मण्युपपदे वहेर्ण्विधानात्केवलस्य वाहः सम्भवो नास्तीत्येतत्सामर्थ्यम् । दित्यौहीति । ठ्च्छन्दसिसहःऽ, ठ्वहश्चऽ इति ण्विः, उपधावृद्धिः, ङीषि ठ्वाह ऊठऽ, तत्र सम्प्रसारणमित्यनुवृतेः ठ्सम्प्रसारणाच्चऽ इति पूर्वरूपत्वम्, ठेत्येधत्यूठ्सुऽ इति वृद्धिः ॥ सख्यशिश्वीति भाषायाम् ॥ ४।१।६२ ॥ भाषायामित्युच्यते, तत्रैतन्न सिध्यति---सखी सप्तपदी भव, आ धेनवो धुनयन्तामशिश्वीरिति ? नैष दोः; इतिकरणोऽत्र क्रियते, स भिन्नक्रमो भाषायामित्यस्यानन्तरं द्रष्टव्यः, स च प्रकारे वर्तते, तेन च्छन्दस्यपि क्वचिद्भविष्यति । भाषाग्रहणं तु नित्यार्थम् ॥ जातेरस्त्रीविषयादयोपधात् ॥ ४।१।६३ ॥ अस्त्रीविषयादित्यनन्यभावे विषयशब्द इत्याह---न च स्त्रैयामिति । स्त्रियामेव यस्य नियमेन वृत्तिस्तत्स्त्रीविषयम्, ततोऽन्यदस्त्रीविषयमित्यर्थः । इह लौकिकजातिग्रहणे ब्राह्मणत्वादीनां गोत्रस्य च नाडायनादेर्जातित्वे वादिनां विप्रतिपतेः, चरणशब्दानां च कठादीनामध्ययनक्रियासम्बन्धनिबन्धनत्वेन पाचकादिवत्क्रियाशब्दत्वेनाव्याप्तिरित्यभिमतां जाति लक्षयति---आकृतिग्रहणा जातिरिति । गृह्यतेऽनेनेति ग्रहणमिति करणसामान्ये पदं संस्क्रियते, पश्चादाकृतिशब्दसमवधाने स्त्रीत्वं प्रतीयमानं बहिरङ्गत्वात् प्रत्ययस्य निमितं न भवति । ग्रहणमाकृतिर्यस्या इति ग्रहणरूपोद्देशेनाकृतिरूपता विधीयते, न त्वाकृतिरूपोद्देशेन ग्रहणरूपतेत्यर्थः । आकृतिःउसंस्थानम्, सा ग्रहणं यस्याः साऽऽकृतिग्रहणा, अवयवसन्निवेशविशेषव्यङ्ग्येत्यर्थः । अनेन गोत्वादिजातिर्लक्षिता । ब्राह्मणत्वादिजातिस्तु न संगृहीता भवति, ब्राह्मणक्षत्रियादीनां संस्थानस्य सदृशत्वादिति तत्संग्रहायाऽऽह---लिङ्गानां चेति । सर्वाणि लिङ्गानि न भजतीत्ययमर्थो विवक्षितः । तत्र सर्वशब्दस्य लिङ्गापेक्षत्वेऽपिगमकत्वाद्भजो ण्विप्रत्ययः, समासश्च । ठ्लिङ्गानाम्ऽ इति कर्मणि षष्ठी । अप्राप्तप्रापणार्थं चेदं वचनम्, न त्वाकृतिग्रहणेत्यस्य सङ्कोचकम्; तेन तटादेः सर्वलिङ्गत्वेऽपि आकृतिग्रहणत्वाज्जातित्वं भवत्येव । इह कस्मान्न भवति---देवदतः, देवदतेति ?उपदेशापेक्षमिदं लक्षणम् । कोऽर्थः ? असर्वलिङ्गेषु येषु जातिवाचित्वमाचार्या उपदिशन्ति तेष्वेव भवतीत्यर्थः । आकृतिग्रहणाया जातेरेकत्वनित्यत्वप्रत्येकपरिसमाप्तत्वलक्षणान् धर्मानाह---सकृदिति । एकस्मिन्पिण्डे सकृदुपदिष्टा ठयं गौःऽ इति पिण्डान्तरे निर्ग्राह्या, निश्चेतुं शक्येत्यर्तः । यदि चैका न स्यात्, नैव गृह्यएत । तथा नित्यत्वाभावेऽपि पिण्डेन सह विनाशात्पिण्डान्तरे न गृह्यएत । यदि च प्रत्येकं सर्वात्मना परिसमाप्ता न स्यात्, तस्मिन्नपि तावत्पिण्डे सर्वात्मना न गृह्यएत यत्राख्याता, किं पुनः पिण्डान्तरे ! कथं पुनरेकमेव वस्तु बहुत्र युगपत्कार्त्स्येन वर्तते, न हि देवदतस्तदानीमेव स्रुघ्ने भवति मधुरायां च ? दृश्यते चेत्को दोषः, न हि दृष्टेऽनुपपन्नं नाम ! गोत्रमिति । अपत्यमित्यर्थः । चरणशब्देन शाखाध्यायिनो गृह्यन्ते, गोत्रस्यानाकृतिग्रहणत्वात् सर्वलिड्गत्वाच्च पृथगुपादानम्, ठ्नाडायनं नपुंसकम्ऽ इति दर्शनात् । चरणशब्दस्त्वध्ययनक्रियासम्बन्धेन प्रवृतत्वात्क्रियाशब्द एव, न जातिशब्दः । कुक्कुटी, सूकरीति । आकृतिग्रहणाया जातेरुदाहरणम् । ब्राह्मणैइ, वृषलीत्यसर्वलिङ्गायाः । तत्र ब्राह्मणीति रूपोदाहरणम् । शार्ङ्गरवादिष्वस्य पाठाद् वृषलीत्येतदेव ङीप उदाहरणम् । नाडायनी, चारायणीति । गोत्रलक्षणायाः ठ्नडादिभ्यः फक्ऽ । अपत्यमात्रस्य ग्रहणादनन्तरापत्येऽपि भवति---अवन्ती, कुन्तीति, ठितो मनुष्यजातेःऽ इति ङीष्भवति । इह तु कुलस्यापत्यं कुलीना ब्राह्मणीति ङीष् न भवति; अजादिषु दर्शनादित्याहुः । कठीति । कठेन प्रोक्तम्, वैशम्पायनान्तेवासित्वाण्णिनिः, तस्य ठ्कठचरकात्ऽ इति लुक्, ततः ठ्तदधीतेऽ इत्यण्, तस्य ठ्प्रोक्ताल्लुक्ऽ इति लुक् । बहवृचीति । बह्व्य ऋचोऽस्या इति बहुव्रीहिः, ठ्बह्वृश्चरणाख्यायाम्ऽ इत्यकारः समासान्तः । कथं पुनः स्त्री नामाधीते ? मा नामाधिगीष्ट, तद्वंश्यत्वातु ताच्छद्ब्यं भविष्यति, यथा---अनधीयमाने माणवके । अत्रापरं जातिलक्षणमुक्तं भाष्ये--- प्रादुर्भावविनाशाभ्यां सत्वस्य युगपद्गुणैः । असर्वलिङ्गां बह्वर्थां तां जातिं कवयो विदुः ॥ इति । सत्वस्य प्रादुर्भावविनाशाभ्यां याऽऽविर्भावतिरोभावो प्राप्नोति, यावद्द्रव्यभाविनीत्यर्थः । गुणैश्च युगपद् द्रव्येण सम्बध्यते यथा निर्गुणं द्रव्यं न भवति, तथा जातिरहितमपीत्यर्थः । बह्वर्थामिति । अर्थशब्दो विषयवाची, बहुविषयां बहुव्यक्तिव्यापिनीमित्यर्थः । असर्वलिङ्गामिति । पूर्वल्लक्षणान्तरम् । तत्र यथा पूर्वलक्षणं तथा कुमारीभार्या इति भवितव्यम्, कथम् ? कौमारमयावद्द्रव्यभाव्यपि आकृतिग्रहणत्वाद्भवनति जातिः, ततश्च ठ्जातेश्चऽ इति पुंबद्भावप्रतिषेधः । वृद्धा, स्थविरेत्यादौ च जातिलक्षणो ङीष्प्राप्नोति, यथा पुनरुतरं तथा कौमारादिकं जातिर्न भवति; अयावद्द्रव्यभावित्वात् । तत्र पूर्वकं लक्षणं भाष्यकारस्याभिमतम्, नोतरम्; अपर आहेत्यभिधानात् । तथा च ङ्याप्सूत्रे युवतितरेत्यत्र ठ्तसिलादिषुऽ इति प्राप्तस्य पुंवद्भावस्य ठ्जातेश्चऽ इति निषेध आश्रितः । अत एव वृत्तिकारेणाप्येतदेव लक्षणमुपन्यस्तमिति केचिदाहुः । एवमपि युवजानिरित्यत्र पुंवद्भावो न प्राप्नोति, तस्माद् द्वितीयमेव लक्षणं साधीयो मन्यामहे । अत एव वृद्धा, स्थविरेति जातिलक्षणो ङीष्न भवति । युवतितरेत्यत्र तु भाष्यकारप्रयोगात्पुंवद्भावाभावः । मुण्डेति । गुणशब्दोऽयम् । मक्षिकेति । स्त्रियामेवायं नियतः । इह कस्मान्न भवति---माला, बलाकेति ? मालाशब्दो मलनं माल इति घञन्तः पुंल्लिङ्गः, क्षेत्रविशेषे नपुंसकः, स्रजि स्त्रीलिङ्गः । बलाकाशब्दो हि बलां कायतीति यौगिकः सर्वलिङ्गः, बकजातिवचनः स्त्रीलिङ्गः । नात्र यथाकथञ्चिदस्त्रीलिङ्गविषयत्वं विवक्षितम् , किं तर्हि ? यस्मिन्प्रवृत्तिनिमिते स्त्रीलिङ्गस्तस्मिन्नेव निमिते यल्लिङ्गान्तरेऽपि वर्तते तदस्त्रीविषयम् । यथा पुनरयं शब्दार्थस्तथा ठ्स्त्रियाः पुंवत्ऽ इत्यत्र वक्ष्यामः । तेन निमितभेदेन नानालिङ्गेषु नायं विधिर्भवति । यद्येवम्, द्रोणी, वुटी, पात्रीत्यत्र न प्राप्नोति ? द्रोणशब्दः प्रमाणविशेषे पुंल्लिङ्गः; गवादिन्यां तु स्त्रीलिङ्गः; कुटशब्दो घटे पुंल्लिङ्गः, गेहे तु स्त्रीलिङ्गः; गौरादिपाठात्सिद्धम् । हयगवयेत्यादि । गौरादिष्विदानीन्तनैर्हयादयः प्रक्षिप्ता इति वार्तिककारवचनाद्विज्ञायते ॥ पाककर्णपर्णपुष्पफलमूलबालोतरपदाच्च ॥ ४।१।६४ ॥ स्त्रीविषयत्वादेतेषामिति । पूर्वत्र समानायामाकृतौ यदस्त्रीविषयमित्याश्रयणान्निमितभेदेन नानालिङ्गानामेषां न सिध्यतीति भावः । ओदनपाकादयः संज्ञाशब्दा यथाकथञ्चिद्व्युत्पाद्याः ॥ इतो मनुष्यजातेः ॥ ४।१।६५ ॥ अवन्ती, कुन्तीति । अवन्ति-कुन्तिशब्दाभ्यामपत्येऽर्थे ठ्वृद्धेत्कोसलाजादाञ्ञ्यङ्ऽ तस्य ठ्स्त्रियामवन्तिकुन्तिकुरुभ्यश्चऽ इति लुक् । दाक्षैइ, ल्पाक्षीति । ठत इञ्ऽ । विट्, दरदिति । विट्शब्दाज्जनपदशब्दात्क्षत्रियादञ्, दरच्छब्दाद् ठ्द्व्यञ्मगधऽ इत्यादिनाण, तयोः ठतश्चऽ इति लुक् । उदाहरणसिद्ध्यर्थमेव ठतःऽ इत्यस्यानुवृत्तिर्न शक्याऽऽश्रयितुमित्यत्रापि प्रसङ्गः । औदमेयीति । उदकं मेयमस्य उदमेयः, ठुदकस्योदः संज्ञायाम्ऽ इत्युदभावः, ठ्तस्यापत्यम्ऽ, ठत इञ्ऽ। सौतङ्गमी, मौनिचितीति । सुतङ्गममुनिचितशब्दाभ्यां ठ्तेन निर्वृतम्ऽ इत्यत्रार्थे इञ्प्रत्ययः ॥ ऊणुतः ॥ ४।१।६६ ॥ कुरुरिति । ठ्कुरुनादिभ्यो ण्यःऽ तस्य ठ्स्त्रियामवन्तिऽ इत्यादिना लुक् । व्रह्मबन्धूर्जीवबन्धूरिति । वृतस्वाध्यायहीनाया ब्राह्मणजातावेतौ बहुव्रीही वर्तेते । ङ्कार इत्यादि । ठ्नोधात्वोःऽ इत्युच्यमाने, यवाग्वा, यवाग्वै---अत्रापि ठुदातयणो हल्पूर्वात्ऽ इति प्राप्तस्य विभक्त्युदातस्य निषेधः स्यात्, वर्णग्रहणे ह्यर्थवद्ग्रहणपरिभाषा नोपतिष्ठते । अथ दीर्घोच्चारणं किमर्थम्, न ठुणुतःऽ इत्येवोच्येत, सवर्णदीर्घत्वेन सिद्धम् ? न सिध्यति; सत्यपि सवर्णदीघत्वे, ठ्गोस्त्रियोरुपसर्जनस्यऽ इति ह्रस्वत्वं प्राप्नोति । न प्राप्नोति, किं कारणम् ? ठुभयत आश्रयणे नान्तादिवत्ऽ, तथा हि एकादेशस्यान्तवत्वेन प्रतिपदिकसंज्ञा सम्पाद्या, ठप्रत्ययःऽ इति निषेधात् । आदिवत्वेन च स्त्रीप्रत्ययत्वं सम्पाद्यम् । इति तर्हि ब्रह्मबन्धूच्छत्रम्---षत्वतुकोरसिद्धत्वाद् ह्रस्वलक्षणो नित्यस्तुक् प्रसज्येत, दीर्घोच्चारणात्वेकादेशस्यासिद्धत्वेऽपि दीर्घ एवायमिति ठ्दीर्घात्पदान्ताद्वाऽ इति विकल्पः सिध्यति ? एतदपि नास्ति प्रयोजनम् ; पदान्तपदाद्योरेकादेशोऽसिद्धः, न चैप पदान्तपदाद्योरेकादेशः । तस्मादनर्थकं दीर्घोच्चारणम् ? इत्याशङ्क्याह---दीर्घोच्चारणं कपो बाधनार्थमिति । ठ्शेषाद्विभाषाअऽ इति कपोऽवकाशः---अयवकः, अव्रीहिकः, ऊङेऽवकाशः--कुरूरिति; ब्रह्मबन्ध्वादेर्बहुव्रीहेरुभयप्रसङ्गे परत्वात्कप् प्राप्नोति, दीर्घोच्चारणान्न भवित, कथम् ? उकारद्वयं दीर्घेण निर्दिष्टम्, तत्र द्वितीय उकारः कपो बाधनार्थः । अध्वर्युरिति । अध्वरं यातीति ठ्मृगय्वादयश्चऽ इत्युणादिषु दर्शनात् कुप्रत्ययोऽध्वरशब्दस्यान्तलोपश्च । चरणलक्षणेयं जातिः, अध्वर्युशाखाध्यायिनि वंशे भवेत्यर्थः । अप्राणिजातेश्चेति । अत्र ठुतःऽ इति नापेक्ष्यते तेनालाबू-कर्कन्धूशब्दाभ्यां दीर्घान्ताभ्यामपि भवति । ठ्कृषिचमितनिधनिसजिखर्जिभ्य ऊःऽ इति वर्तमाने ठ्णित्कशिपद्यर्तेःऽ इत्यतो णिदिति च, ठ्नञि लम्बेर्नर्लोपश्चऽ, ठ्लबि अवुस्रंसनेऽ, तस्मान्नञ्पूर्वादूप्रत्ययो भवति नलोपश्च णित्वाद् वृद्धिः, ठन्दूदृम्भूकर्कन्धूःऽ इति निपातनादूकारान्तः कर्कन्धूशब्दः । एवमलाबू-कर्कन्धूशब्दौ दीर्घान्तौ । ऊङ्विधानमलाब्वा, कर्कन्ध्वा इत्यादौ ठ्नोङ्धात्वोःऽ इति विभक्त्युदातत्वप्रतिषेधार्थम् । कृकवाकुरिति । ठ्कृके वचः कश्चऽ कृकशब्द उपपदे वकेर्धातोरुण् प्रत्ययो भवति, कश्चनान्तादेशः । रज्जुरिति । ठ्सृजेरसुम् चऽ, आदिलोपः प्रकृतः, सृजेरु प्रत्ययः, आदेश्च लोपोऽसुगागमश्च, ऋतो यणादेशः, सकारस्य जश्त्वचर्त्वे, सृज्यतेऽसौ रज्जुरिति । हनुरिति । ठ्युस्निहिऽ इत्यादिना हन्तेरुप्रत्ययः ॥ पङ्गोश्च ॥ ४।१।६८ ॥ श्वशुरस्येति । पुंयोगलक्षणस्य ङीषोऽपवाद ऊङ् विधीयते, ठ्शावशेराप्तौऽ शुशब्देऽश्नोतेरुरन् प्रत्ययो भवति । किमिदं शु इति ? आशुशब्दस्यायमादिलोपो निपातितः । आश्वाप्तव्यः श्वशुरः, तस्य स्त्री श्वश्रूः, ठ्श्वशुरः श्वववाऽ इत्यदिनिपातनाद्विभक्त्यादि प्रातिपदिककार्यं भवति ॥ ऊरूतरपदादौपम्ये ॥ ४।१।६९ ॥ उपमीयतेऽनयेत्युपमा, तद्भाव औपम्यम् । कथं ठ्विचकरे च करेणुकरोरुभिःऽ इति ? निरङ्कुशाः कवयः; ठ्करेण वरोरुभिःऽ इति पाठः---करेण विचकरे वरोरुभिरिति ॥ संहितशफलणक्षवामादेश्च ॥ ४।१।७० ॥ संहितशब्दः सहितपर्यायः, लक्षणशब्दोऽर्शाअद्यच्प्रत्ययान्तः, वामशब्दः शोभनपर्यायः । सहितसहाभ्यां चेति । ठ्समो वा हितततयोःऽ इति मलोपे सति यः सहितशब्दस्तस्य संहितग्रहणेनैव सिद्धम्, एकदेशविकृतस्यानन्यत्वात् । यस्तु सह हितेन वर्तते इति व्युत्पन्नः सहितशब्दस्तस्येदं ग्रहणमित्याहुः । सहोरूरिति । सहेते इति सहौ, तादृशावूरू यस्या इत्यर्थः । विद्यमानस्य वा सहशब्दस्य ऊर्वतिशयप्रतिपादनाय प्रयोगः ॥ कद्रुकमण्डल्वोश्च्छन्दसि ॥ ४।१।७१ ॥ गुग्गुल्वादीनां च्छन्दसि व्यत्ययेन स्त्रीत्वम् । पतयालुशब्दः ठ्स्पृहिगृहिऽ इत्यादिनाऽऽलुजन्तः ॥ शार्ङ्गरवाद्यञो ङीन् ॥ ४।१।७३ ॥ एतेऽणन्त इति । श्रृङ्गरु, कपटुअ, गुग्गुलु, ब्रह्मन्---इत्येतेभ्यः प्राग्दीव्यतोऽण्, गोतमशब्दादृष्यण्,, गौरादिष्वप्ययं पठितः । एते ढगन्ता इति । बाहुल्यादेवमुक्तम् । कणण्डलुशब्दाच्चतुष्पाद्भ्यो ढञ्, इतरेभ्यस्तु शुभ्रादिलक्षणो ढक् । एतौ फगन्ताविति । वात्स्यशब्दाद् गर्गादियञन्ताद्यौउनि ठ्यञिञोश्चऽ इति फक् । ननु न स्त्रियां युवसंज्ञा, ठ्गोत्राद्यौउन्यस्त्रियाम्ऽ इति वचनात्, गोत्रे च ठेको गोत्रेऽ इति नियमः ? एवं तर्हि वात्स्यायनशब्दस्यास्मिन् गणे पाठसामर्थ्यात्स्त्रियां युवसंज्ञा भविष्यति, गोत्र एव वा प्रत्ययद्वयम् । मुञ्जशब्दो नडादिः । जातिरिति । गोत्रलक्षणा । ढगन्त इति । कीकसाशब्दः शुभ्रादिः । ञ्यङ्न्ताविति । ठ्वृद्धेत्कोसलाजादाञ्ञ्यङ्ऽ इति कवि-शिविभ्यां ञ्यङ्, ठ्यङ्श्चाप्ऽ अत्र प्राप्नोति । एहि, पर्येहीति । ठीह चेष्टायाम्ऽ आङ्पूर्वात्पर्याङ्पूर्वाच्च ठ्सर्वधातुभ्य इन्ऽ इतीन् प्रत्ययः, अश्मरथशब्दो गर्गादिः, उदपानशब्दः शुण्डिकादिः, उत्सादिश्च, तत्राह---शुण्डिकाद्यणन्तः प्रयोजयतीति । अन्ते तु ङीपो ङीनो वा नास्ति विशेषः । जातिरिति । अराल--चण्डालयोरसर्वलिङ्गत्वाज्जातित्वम् । वतण्डशब्दस्य गोत्रत्वात् । वतण्डस्यापत्यं स्त्री ठ्वतण्डाच्चऽ इति यञ्, ठ्लुक् स्त्रियाम्ऽ इति तस्य लुक् । भोगवद्गोरिमतोरिति । मत्वन्तत्वात् ठुगितश्चऽ इति ङीपि प्राप्ते वचनम् । ननु भोगशब्दो घञन्तः, गौरिशब्दः ठत इञ्ऽ इतीञन्तः, तौ ञित्स्वरेणाद्यौदातौ, ताभ्यां मतुप्, पित्वादनुदातः, ततश्च न ङीब्ङीनोरत्रास्ति विशेषः ? तत्राह---घादिषु नित्यमिति । उगिल्लक्षणे ङीपि सति ठ्नद्याः शेषस्यान्यतरस्याम्ऽ, ठुगितश्चऽ इति विकल्पेन ह्रस्वत्वं स्यात्, ङीनि तु सति ठ्घरूपकल्पऽ इति नित्यं सम्भवति । कथं भवति, यावता उगितः परा या नदी तस्या विकल्पो विहितः, ङीनपि चोगितः परा नदी, बोगवद्गौरिमतोरुगित्वात् ? नैष दोषः; ठुगितश्चऽ इति इत्यर्थेऽयं चशब्दः, उगित इत्येवमुगित्संशब्दनेन या नदी विहिता न चानेन विहितो ङीनेवं विहिता नदी भवति । यथा तु ठ्युवोरनाकौऽ इत्यत्र भाष्यम्, तथोगितः परा या नदीत्येतदेव स्थितम् । संज्ञाया अन्यत्र हीबेव भवति ह्रस्वश्च विकल्पितः । नृनरयोर्वृद्धिश्चेति । नृशब्दादृन्नेभ्यो ङीपि, नरशब्दाज्जातिलक्षणे ङीषि प्राप्ते वचनम् । वृद्धिश्चेति, वक्ष्यामीति च अन्यतरस्य ग्रहणेऽपि नारीतीष्ट्ंअ सिद्धम्, अन्यतरस्यानिष्टनिवृत्यर्थं तु द्वयोरुपादानम् । तत्र नरशब्देऽन्त्यस्य वृद्धौ सत्यां यस्येतिलोपादानर्थक्यमिति यस्येति लोपस्तावद्भवति, तत्र कृते रेफस्य वृद्धिः प्राप्नोति, का ? अविशेष्त्पर्यायेण सर्वैव ? नैष दोषः; ठ्स्थानेऽन्तरतमःऽ इत्यत्रान्तरतमे स्थाने षष्ठीत्यपि पक्षो व्याख्यातः, ततो नृनरयोरिति यैषा षष्ठी सा वृद्धेरन्तरतमे नृनरावयवे स्थानिन्यनुसंह्रियते । यत्र च षष्ठी तत्रादेश इत्यकारस्यैव भविष्यति । अत्र पुत्रशब्दं केचित्पठन्ति, न स केवलः स्त्रियां वर्तत इति तदन्तस्य समासस्य ग्रहणम् । तत्रापि बहुपुत्रा, अतिपुत्त्रेत्यादावनुपसर्जनाधिकारान्न भवति । क्व तर्हि भवति ? पुत्रप्रधाने । ननु पुत्रप्रधानं समासे सैव पुंल्लिङ्गता ? सत्यम् ; ठ्सूतोग्रराजभोजमेरुभ्यो दुहितुः पुत्रड् वाऽ इति वातिककारेण यत्र पुत्रडादेशो विहितस्तान्युदाहरणानि । सूतपुत्री, राजपुत्रीति---अत्र स्वभावात्पुत्रशब्दो दुहितृशब्देन समानार्थः, न पुत्रडादेश इति पठतामभिप्रायः । अन्ये तु ठ्प्रद्योतपुत्री शैलपुत्रीति वार्तिकविषयादन्यदेव ङीन उदाहरणम्, पुत्रडादेशस्तु ङीपि स्वरार्थःऽ इति मन्यन्ते, नात्राप्तभाषितमस्ति ॥ यङ्श्चाप् ॥ ४।१।७४ ॥ पकारः ङ्याप्प्रातिपदिकात्ऽ इत्यत्र सामान्यग्रहणार्थः, स्वरस्तु परत्वाच्चित्स्वर एव भवति । ञ्यङः ष्यङ्श्च सामान्यग्रहणमिति । यद्यपि ष्यङ्स्त्रियामेव विधीयते, तथापि डित्करणसामर्थ्यातस्याप्यत्र ग्रहणमिति भावः । आम्बष्ट।लेत्यादि । अम्बष्ठादिभ्योऽपत्ये ठ्वृद्धेत्कोसलाजादाञ्ञ्यङ्ऽ । कारीषगन्ध्येति । स्वादिसूत्रे व्युत्पादितम् । वराहशब्दात् ठत इञ्ऽ। शर्कराक्ष-पूतिमाषगोकक्षशब्दा गर्गादयः । ननु च गौकाक्ष्यशब्दः क्रौड।लदिषु पठ।ल्ते, ततः ष्यङः ठ्यिङ्ऽ इत्येव चाप् सिद्धः ? मा पाठि, तत्र ठ्षाच्च यञःऽ इत्यनेनैव शर्कराक्ष्यादिवद् गौकाक्ष्येति सिद्धम् । यद्येवम्, गौकाक्षीपुत्रः---ष्यङः सम्प्रसारणं न प्राप्नोति ? नात्र सम्प्रसारणमिष्यते, गौकाक्ष्यापुत्र इत्येव भवति । एवं हि सौनागाः पठन्ति---ठ्ष्यङः सम्प्रसारणे गौकक्ष्यायाः प्रतिषेधःऽ ॥ तद्धिताः ॥ ४।१।७६ ॥ युवतिरिति । तद्धितसंज्ञायां सत्यां ठ्कृतद्धितसमासाश्चऽ इति प्रातिपदिकसंज्ञा भवति । बहुवचनमित्यादि । ठ्प्रत्ययःऽ इत्यादिवदेकवचन एव कर्तव्ये बहुवचनेनसंज्ञिनां बहुत्वसूचनादनुक्तोऽपि तद्धितः परिगृह्यत इति मन्यते । स्त्रीप्रत्ययानामादितस्तद्धिताधिकारे क्रियमाणे ठ्प्राचां ष्फ तद्धितःऽ इत्यत्र तद्धितग्रहणं न कर्तव्यम्, ठ्यस्येति चऽ इत्यत्र चकारग्रहणम्, ठ्ङ्याप्प्रातिपदिकात्ऽ इत्यत्र तु तदन्तातद्धितविधानार्थं ङ्याव्ग्रहणं कर्तव्यमेव ? सत्यम्; ङीबादीनां ङ्कारस्येत्संज्ञा न स्यात्, ठतद्धितेऽ इति प्रतिषेधात् । सत्यामपि वा पट्वीत्यादौ ठोर्गुणःऽ स्यात् । तस्माद्यथान्यासमेवास्तु ॥ यूनस्तिः ॥ ४।१।७७ ॥ युवतिरिति । त्यन्तात् ठितो मनुष्यजातेःऽ इति ङीष्न भवति; तिप्रत्ययेनैव स्त्रीत्वस्योक्तत्वात् , यौवनस्य वाऽजातित्वात् ॥ अणिञोरनार्षयोर्गुरूपोतमयोः ष्यङ् गोत्रे ॥ ४।१।७८ ॥ इह सम्भवे व्यभिचारे च सति विशेषणविशेष्यभावो भवति, तेन ठ्गोत्रेऽ ठनार्षयोःऽ इति चाणिञ्मात्रस्य विशेषणम्, ठ्गुरूपोतमयोःऽ इत्येततदन्तस्य, तदाह---गोत्रे यावणिञौ विहितावनार्षौ तदन्तयोरिति । यद्यप्यपत्याधैकारादन्यत्र लौकिकस्य गोत्रस्य ग्रहणम्, तथाप्यत्र पारिभाषिकस्य ग्रहणम् ; लौकिकग्रहणस्य ठनार्षयोःऽ इति पर्युदासाश्रयणेनैव सिद्धत्वात् । इहायं ष्यङ् प्रत्ययो वा स्यात् ? आदेशो वा ? प्रत्ययविधावपि हि गापोष्टक्ऽ इत्यादौ षष्ठीदर्शनात्, उतरत्र ठ्क्रौड।लदिभ्यश्चऽ इति पञ्चमीनिर्देशाच्च प्रत्ययपक्षोऽपि सम्भवत्येव । तत्राद्यपक्षे उदमेघस्यापत्यं स्त्री, ठत इञ्ऽ, औदमेघि इति स्थिते तदन्तात् ष्यङ् इविहिते औदमेघ्यायाश्छात्रा औदमेघाश्छात्त्राः, औदमेघ्यानां सङ्घः, ठिञश्चऽ ठ्सङ्घाङ्कलक्षणऽ इति च इञन्ताद्विधीयमानोऽण् न स्यात् । अथापि लिङ्गविशिष्टपरिभाषया इञन्ताद्विधीयमानोऽण् ष्यङ्न्तादपि स्यात्, एवमपि ठापत्यस्य च तद्धितेऽनातिऽ इति यलोपो न स्यात्, ष्यङेऽनापत्यत्वात् ? नैष दोः ; ठ्भस्याढेअ तद्धितेऽ इति पुंवद्भावात्प्रागेवण उत्पतेः ष्यङ्निवर्तते, तस्मिन्निवृते ठिञःऽ इत्यण्भविष्यति, यकारस्य च श्रवणंन भविष्यति । इह तह्याइÇदमेघ्याया उपत्यम् ठ्स्त्रीभ्यो ढक्ऽ, औदमेघेय इति यलोपो न स्यात्, पुंवद्भावश्च नास्ति, ठढेअऽ इति प्रतिषेधात् ? इतीममाद्ये पक्षे दोषं दृष्ट्वा द्वितीयं पक्षमाश्रित्याह---ष्यङदेशो भवतीति । नन्वस्मिन्पक्षे उडुलोम्नोऽपत्यं स्त्री बाह्वादिषु लोमन्शब्दस्य पाठात्केवलस्यापत्येन योगाभावात्सामर्थ्यातदन्तस्य ग्रहणादिञि तस्य ष्यङदेशे सति ठ्ये चाभावकर्मणोःऽ इति प्रकृतिभावात् ठ्नस्तद्धितेऽ इति टिलोपो न स्यात्, ततश्चौडुलोमन्येति स्यात्, औडुलोम्येति चेष्यते, प्रत्ययपक्षे इञा व्यवधानान्नास्ति प्रकृतिभावः, यस्येति लोपेऽपि कृते स्थानिद्भावाद्व्यवधानमेव ? नैष दोषः ; नात्राकृते टिलोपे ष्यङ् प्राप्नोति, किं कारणम् ? अगुरूपोतमत्वात्, तस्मादिञ्येव टिलोपः, ततो गुरूपोतमत्वम्, ततः ष्यङ्त्यानुपूर्व्यात्सिद्धिम् । अयं तर्हि दोषः---प्रत्ययग्रहणपरिभाषयाऽणिञन्तयोर्ग्रहणम्, तयोर्विधीयमानः ष्यङ्नेकाल्त्वात्सर्वादेशः प्राप्नोति ? ठ्ङ्च्चिऽ इत्यन्त्यस्य भविष्यति, तातङ्न्यायेन सर्वादेशः प्राप्नोति । यत्र हि ङ्कारस्य प्रयोजनान्तरमपि सम्भाव्यते तत्र ठ्ङ्च्चिऽ इत्येतदनन्यार्थङ्त्वेष्विनङदिषु सावकाशं बाधित्वा ठनेकाल्शित्सर्वस्यऽ इत्येतद्भवति, यथा तातङ् । इहि च सर्वादेशत्वेऽपि ठ्यङ्श्चाप्ऽ इति विशेषणं प्रयोजनं सम्भवति, तस्मात्सर्वादेशः प्राप्नोति, तत्राह---निर्दिश्यमानस्येत्यादि । यद्ययमुतमशब्दो व्युत्पन्नः स्यात्, तदोच्छब्दातमपि कृते ठ्किमेतिङ्व्ययघाद्ऽ इत्याम्प्राप्नोति ? न वा द्रव्यप्रकर्षत्वात् । उच्छब्दो हि ससाधनक्रियावचन उद्गते वर्तते, तस्य क्रियाद्वारकः प्रकर्षः---अतिशयेनोद्गत इति, ततश्च द्रव्यनिष्ठत्वात्प्रकर्षस्य ठद्रव्यप्रकर्षेऽ इति प्रतिषेधो भविष्यति । एवमपि तमपः पित्वादाद्यौदातत्वप्रसङ्गः ? न वोञ्छादिषु पाठात्, उञ्छादिषु हि उतमशश्वतमौ सर्वत्रेति पठ।ल्ते । एवमपि स तावत्पाठः कतेव्यः, क्रियामात्रस्य च प्रकर्षे उतमामित्याम्प्रसङ्गश्च, अतोऽनभिदानावुच्छब्दातमपोऽनुत्पत्तिरेषितव्या । किञ्चव्युत्पन्न उतमशब्दश्चतुष्प्रभृतिषु वर्तते, कथम् ? ऊर्ध्वमुच्चारित उद्गतः, स च प्रथमोच्चारितमपेक्षते, ततश्च त्रिषु द्वावुद्गतौ, तयोश्च द्वितीयोऽतिशयेनोद्गतः, द्वयोश्च सम्प्रधारणायां तरपा भाव्यम्, ततश्च यत्रोद्गता एव त्रयस्तत्रैव स्यात्---कारीषगन्ध्येत्यादौ; वाराह्यएत्यादौ तु न स्यात् । तदेवं व्युत्पत्तिपक्षे दोषं पश्यन्नव्युत्पत्तिपक्षमाश्रित्याह---उतमशब्द इति । स्वाभावादिति । न व्युत्पत्तिवशादित्यरय्थः । त्रिप्रभृतीनामिति वचनाद्दाक्षी प्लअक्षीत्यादौ न भवति । टिड्ढाणञिति ङीबेव भवतीति । प्राप्तिमात्राभिप्रायेणेदमुक्तम् । अत्र हि जातित्वात् ठ्शार्गरवाद्यञःऽ इति ङीना भाव्यम् । वासिष्ठीति । ठृष्यन्धकऽ इत्यादिनाण् । आहिच्छत्रीति । जातादावर्थेऽण् । एवमत्रादेशपक्षः स्थापितः । यद्येवम्, हस्तिशिरसोऽपत्यम्, बाह्वादित्वादिञ्, ठचि शीर्षःऽ इति शीर्षादेशः, इञः ष्यङदेशः, ततः स्थानिवद्भावेन शीर्षशब्दस्य शिरोग्रहणेन ग्रहणाद् ठ्ये च तद्धितेऽ इति शीर्षन्नादेशः प्राप्नोति ? अस्तु; ठ्नस्तद्धितेऽ इति टिलोपो भविष्यति । ठ्ये चाभावकर्मणोःऽ इति प्रकृतिभावः प्राप्नोति, ततश्च हास्तिशीर्षण्येति स्यात्, प्रत्ययपक्षे त्विञाऽव्यवहितत्वान्नास्ति शीर्षन्नादेशः, यस्येति लोपेऽपि कृते स्थानिवद्भावाद्व्यवधानमेव, तेन हास्तिशीर्षेति सिद्ध्यति, तस्मात्प्रत्ययपक्ष आश्रणीयः । तदेतद् ठ्ये च तद्धितेऽ इत्यत्र वामनो वक्ष्यति---ठ्यदि प्रत्ययः, कथमौदमेघेय इति, आपत्याद्विहितः ष्यङ् सोऽप्यापत्य एव, तत्र यलोपे सिद्धम्ऽ इति । जयादित्यस्तु मेने---शीर्षादेशसन्निपातेन ष्यङ्, स तद्विघातं न करिष्यतीति । यद्येवम्, अजादिप्रत्ययनिबन्धः शीर्षादेशः कथं तमजादि विहन्यात् ? ततः किम् ? ष्यङदेशोऽपि न प्राप्नोति, अनित्या सन्निपातपरिभाषा, तेन ष्यङ् भवति, शीर्षादेशश्च न भविष्यति । अयं तर्ह्यादेशपक्षे दोषः---अनुबन्धौ कर्तव्यौ यङ्श्चाबिति सामान्यग्रहणतदविघातार्थौ, अन्यथाऽणादेशे ष्यैङ् ठ्टिड्ढाणञ्ऽ इत्यादिना ङीप्स्यात्, इञादेशे तु ठिञ उपसङ्ख्यानम्ऽ इति ङीष्प्रसङ्गः ? नैष दोषः; ठ्टिड्ढाणञ्ऽ इत्यत्रात इति वर्तते, तत्र चाणाऽकारो विशेष्यते---अण्योऽकार इति । तत्र ष्यङदेशे ठनल्विधौऽ इति स्थानिवद्भावाभावान्ङीब्न भविष्यति । अणन्तादकारान्तादिति हि विज्ञायमाने स्वाश्रयमकारान्तत्वं स्थानिवद्भावादणन्तत्वं चेति स्यान्ङीपः प्रसङ्गः । ठिञ उपसङ्ख्यानम्ऽ इत्यत्रापि ठितो मनुष्यजातेःऽ इत्यत ठितःऽ इत्यपेक्ष्यते---इञ्य इकारः तदन्तादिति । इञन्तादिकारान्तादिति वा विज्ञायमाने ष्यङदेशे सति वाराह्यएत्यादिविकाराभावान्डीषभावः सिद्धः । एवमपि स्वरार्थश्चाबेष्टव्यः, अन्यथा इञादेशः ष्यङ् स्थानिवद्भावेन ञित्, टाबपि पित्वादनुदात इति ञित्स्वरेणाद्यौदातं पदं स्यात् । स्यादेतत्---इञो ञकारस्येत्संज्ञायाः प्रागेव प्रतिपदविधानात्ष्यङदेशः कारिष्यते, तत्र ञित्स्वराभावात् प्रत्ययस्वरे सति टाप्यपि सिद्धः स्वर इति, यथैव तर्हि ञित्स्वरो न भवति एवं वृद्धिरपि न स्याद्, अतो ञकारस्य सत्यामित्संज्ञायामादेश इत्यास्थेयम्, ततश्च स्वरे दोषप्रसङ्गाच्चाबर्थमनुबन्धौ कर्तव्यावेव । प्रत्ययपक्षे तु सति शिष्टे ष्यङः प्रत्ययस्वरे कृते तदन्तादापि सिद्धमिष्टम्, न रूपभेदो न स्वरभेदः । ननु च ष्यण्èóव स्त्रीत्वस्य द्योतितत्वादाब्न स्यात् ? नैष दोषः; यथा गार्ग्यायणीत्यादौ द्वाभ्यां स्त्रीत्वं द्योत्यते, तथाऽत्रापि द्वयोरेव सामर्थ्यमिति टाबपि भविष्यति । ठ्ष्यङः सम्प्रसारणम्ऽ इत्यत्र विशेषणार्थं तर्हि त्वयाप्यनुबन्धौ कर्तव्यौ, इह मा भूत्---पाशानां समूहः पाश्या, ठ्पाशादिभ्योयःऽ, पाश्यापतिरिति ? एवं तर्ह्येकोऽनुबन्धः करिष्यते, क एवः ? षकीरे ङीष्प्रसङ्गः । ङ्कारे ठ्यङः सम्प्रसारणम्ऽ इत्युच्यमाने लोलूयापुत्र इत्यत्रापि प्राप्नोति ? अप्रत्ययादित्यकारेऽतो लोपे च सति अकारेण व्यवहितत्वान्न भविष्यति । वाराहीपुत्र इत्यत्राअपि तर्हि टापा व्यवधानम् ? एकादेशस्य पूर्वं प्रत्यन्तवत्वान्नास्ति व्यवधानम् । ननु ठ्,ष्यङः सम्प्रसारणम्ऽ इत्यत्र ठ्लिटि धातोःऽ इत्यतोधातुग्रहणमनुवर्तते, ठादेच उपदेशेऽशितिऽ इत्यात्वं धातोर्यथा स्याद्, गोभ्यामित्यादौ मा भूदित्येवमर्थम् । तत्र यडन्तस्य धातोः पुत्रपत्योरनन्तरयोः सम्प्रसारणं भवतीत्युक्ते यो धातुर्लोलूयादिर्नासावनन्तरः, यश्चानन्तरो वाराह्यादिर्न स धातुः, तत्र धातुत्वानन्तर्ययोरन्यतररूपपरित्यागेन भवत्सम्प्रसारणं यथा वाराहीपुत्र इत्यादौ असत्यपि दातुत्वे आनन्तर्यमात्राश्रयणेन भवति, तथा लोलूयापुत्र इत्यत्रासत्यप्यानन्तर्ये धातुत्वाश्रयणेन स्यात् । अथ ब्रूयाः---यङ्धात्वोर्न परस्परेण विशेषणविशेष्यभावः, अपि तर्हि समुच्चयः---पुत्रपत्योरनन्तरस्य यङे धातोश्चेति ? तत्र वाराहीपुत्र इत्यादौ भविष्यति, न तु लोलूयापतिरित्यादौ; धातोर्व्यवधानात् । ततश्च सामर्थ्याद्धातुग्रहणस्योतरार्थैवानुवृत्तिः सम्पद्यत इति । यद्येवम्, वाक्पतिरित्यत्र वचेः सम्प्रसारणप्रसङ्गः ? एवं तर्हि धातोरिति निवर्तिष्यते, आत्वं पुनर्गवादेः प्रातिपदिकस्य न भवति; उपदेशोभावात् । स्वरूपज्ञापनप्रधानो निर्देशौउपदेशः । ठ्गोद्व्यचःऽ, ठ्नौद्व्यचःऽ इत्यादो तु कार्यान्तरार्थमुच्चारणम्, न स्वरूपज्ञापनार्थम् । तदेवं प्रत्ययपक्ष एक एवानुबन्धः कर्तव्यः । अत्र संग्रहश्लोकाः--- पुंवद्भावाद्यजातौ यलुगणपि परस्मिन् ष्यङ् ह्यिऐदमेघे स्वार्थे ष्यङ् तद्यलुग्ढेअ क्रमत इह भवेदौडुलोम्या परस्मिन् । ष्यङ्शीर्षाधीनलाभस्तदभिविहतये न प्रभूर्हास्ति शीर्ष्ये सर्वादेशोऽपि तातङ्ङ्वि न यङ्णिञोः स्थानिनोरुक्तिहेतोः ॥ स्त्र्युक्तावप्याप्परस्मिन्निह सुलभ इति ष्ङै विधेयौ न वा ये- ऽणादेशे ङीनिवृत्यै त्वण इञ इति चेद् द्वौ विशेष्यौ न दोषः । ञित्वादादेरुदातः प्रसजति सहजादेशने वृद्ध्यभावः पाश्यापुत्त्रे निवृत्यै यण इक इह षित्वेकके ङीष्यङेस्तु ॥ लोलूयापुत्र इत्यद्व्यवहित इतरत्रापि दीर्घाऽन्तवत्स्याद् धात्वानन्तर्ययोगे विधिरिति स यथानन्तरेऽधौ तथा धोः । धात्वानन्तर्ययोश्चेन्मिथ इह न हि तेऽपेक्षिता वाक्पताविक् धोर्नात्राधिक्रियात्वे ह्युपदिशिरिति गोर्नो तदेवं ममैकः ॥ गोत्रावयवात् ॥ ४।१।७९ ॥ गोत्रशब्दोऽयमस्ति पारिभाषिकः ठपत्यं पौत्रप्रभृति गोत्रम्ऽ इति, अस्ति च लौकिकोऽपत्यमात्रवचनः, अस्ति च व्युत्पन्नः---गूयन्ते शब्द्यन्तेऽनेन स्वसन्तानप्रभवा इति प्रधानभूत आदिपुरुषः, स्वप्रभवस्यापत्यं सन्तानस्य संज्ञाकारी गोत्रमित्युच्यते, यथा---भरतः, रघुः, यदुरिति । अवयवशब्दोऽप्यस्ति एकदेशे यत्सम्बन्धादवयवतीति समुदाय उच्यते; अस्ति च पृथग्भावे, अवयुत्यानुवाद इत्यादाववपूर्वस्य यौतेः पृथग्भावेऽपि दर्शनात्; अस्ति चाप्रधाने---अवयवभूतोऽयमस्मिन् ग्राम इति । तत्र पारिभाषिके गोत्रे एकदेशे चावयवे च वचनमनर्थकमिदं स्यात्, कथम् ? पौत्रप्रभृत्यपत्यसमुदायो गोत्रं तदवयवश्चतुर्थादिस्तदपि गोत्रमेव, तद्वाचिनोऽणिञन्तात्पूर्वेणैव सिद्धः ष्यङ् । अथ कस्मिश्चिन्महागोत्रे यान्यवान्तरगोत्राणि, यथा---भार्गवगोत्रस्य च्यवनादीनि, ते गोत्रावयवास्तेष्वगुरूपोतमार्थोऽयमारम्भः । यद्येवम्, सप्तर्षीणामगस्त्याष्टमानामष्टौ महागोत्राणि प्रवराध्याये पंठ।ल्न्ते तद्व्यतिरिक्तेभ्यः सर्वेभ्यः ष्यङः प्रसङ्गः; न चैतदिष्टम्, अगुरूपोतमेभ्योऽपि पुणिकादिभ्य एवेष्यते । पृथग्भाववचने त्ववयवशब्दे गोत्रादन्यवाचिनोऽणिञन्तअत्ष्यङ् इविधीयमाने पूर्वसूत्रे गोत्रग्रहणमनर्थकम् । अथाप्रधानवचनोऽवयवशब्दः, पारिभाषिकमेव गोत्रं प्रवराध्याये पाठाच्चाप्राधान्यम्, ततोऽयमर्थः स्यात्---येऽणिञन्ता गोत्रापत्यवाचिनः प्रवराध्याये न पठ।ल्न्ते तेभ्यः ष्यङिति । तत्रानृषिभ्यो गुरूपोतमेभ्यः पूर्वेणैव सिद्धः, अगुरूपोतमेभ्यस्तु संज्ञाकारिभ्य एवेष्यते, पारिभाषिके च गोत्रे संज्ञाकारित्वं विशेषो न लभ्यत इति । इहापि प्रसज्येत---तुषजको नाम कश्चितस्य गोत्रं स्त्री ठत इञ्ऽ तौषजकी, अपत्यमात्रे तु गोत्रे यद्येकदेशोऽवयवस्ततोऽपत्यसमुदायस्य पौत्रप्रभृत्यपत्यमवयव इति तद्वाचिनोऽणिञन्तात्पूर्वेणैव सिद्धः । पृथग्भावे त्वपत्यादन्यवाचिन आहिच्छत्रादेरेव प्रसङ्गः । अप्रधाने त्वप्रधानापत्यवाचिनोऽणिञन्ताद् गुरूपोतमान्न सर्वत्रेष्यते, किन्तु संज्ञाकारिभ्यः, तत्रापि गोत्रे । व्युत्पन्ने गोत्रे एकदेशवचनोऽवयवशब्दो न सम्भवति, न हि येन पुरुषेण स्वसन्तानप्रभवा गूयन्ते तदवयवाद्धस्तपादादेर्गोत्रेऽणिञोऽसम्भवः । अथ गोत्रं च तदवयवश्चेति कर्मधारयस्तदा भार्गवादिगोत्रेषु येऽवान्तरव्यपदेशकारिणश्च्यवनादयस्तेभ्यः प्रसङ्गः । पृथग्भावे च ये संज्ञाकअरिभ्यः पृथग्भूतास्तुषजकादयस्तेभ्य एव स्यात् । अत एवमेषु पक्षेषु दोषसम्भवाद्व्युत्पन्नो गोत्रशब्दः, अप्रधानावचनोऽवयवशब्दः, कर्मधारयश्चसमासः । निपातनाद्विशेषणस्य परनिपातः, प्रवराध्यायेऽपाठाच्चाप्राधान्यम् । तदेतदाह---गोत्रावयवा गोत्राभिमता इति । गोत्रमित्येवमभिमताः, गोत्राभिधायिन इत्येव लोके प्रसिद्धाः, न पुनः प्रवराध्याये पठिता इत्यर्थः । काः पुनस्ता इत्यत्राह---कुलाख्या इति । कुलमाख्यायते आभिरिति कुलाख्याः, पुणिकादिभिर्हि कुलमाख्यायते---पुणिकावयंगोत्रेणेत्येवमादि । तत इति । तथोक्तविशेषणविशिष्टाभ्यः कुलाख्याभ्यः । अगुरूपोतमार्थ आरम्भ इति । ठ्गुरूपोतमयोःऽ इति निवृतम्, अन्यत्सर्वमनुवर्तत इति भावः । पौणिक्येत्यादिः । पुणिक-भुणिक-मुखरशब्देभ्यः ठत इञ्ऽ, तस्य ष्यङदेशः । ते क्रौड।लदिषु द्रष्टव्या इति । अवृत्कृतत्वातस्येति भावः ॥ क्रौड।लदिभ्यश्च ॥ ४।१।८० ॥ ष्यङ् प्रत्ययो भवतीति । क्रौड।लदिभ्य इति पञ्चमीनिर्देशात्प्रत्ययपक्षेऽप्यत्र दोषाभावाच्चैवमुक्तम् । अगुरूपोतमार्थ इत्यादि । तत्र क्रोड।लदयः प्राक्चोपयतशब्दादत इञन्ताः, चौपयतप्रभृतयः प्राग् सौधातकिशब्दादणन्ताः, सौधातकिशब्दः ठ्सुधातुरकङ्चऽ इति इञन्तः । सूत युवत्यामिति । सूतशब्दः ष्यङ्मुत्पादयति युवत्यां प्राप्तयौवनायामभिधेयायाम्---सूत्या, अन्यत्र क्रियाशब्दाट्टाब् भवति---सूता, जातिवाचिनस्तु ङीष् भवति---सूती । भोज क्षत्रिये इति । जातिलक्षणस्य ङीषोऽपवादः---भोज्या, क्रियाशब्दातु टाबेव भवति---भोजयतीति भोजा, ततः परे इञन्ताः । गौकक्ष्यशब्दो गर्गादियञन्तः ॥ दैवयज्ञिशौचिवृक्षिसात्यमुग्रिकाण्ठेविद्भिभ्योऽन्यतरस्याम् ॥ ४।१।८१ ॥ देवा यज्ञा यष्टव्या अस्य देवयज्ञः, शुचिर्वृक्षोऽस्य शुचिवृक्षः, सत्यमुग्रमस्य सत्यमुग्रः, निपातनाद्विशेष्यस्य पूर्वनिपातो मुमागमश्च, कण्ठे विद्धमस्य कण्ठे विद्धमस्य कण्ठे वा विद्धः, ठमूर्द्धमस्तकात्ऽ इत्यलुक् । काण्डेविद्भिभ्य इत्यन्ये पठन्ति, काण्डेन विद्धः, ठ्कर्तृकरणे कृता बहुलम्ऽ इति समासः, निपातनात्काण्डशब्दस्यैकारः । सर्वे इञन्ताः ॥ समर्थानां प्रथमाद्वा ॥ ४।१।८२ ॥ प्रत्येकमत्र पदानां स्वरितत्वं प्रतिज्ञायते, न समुदायस्यैकमित्याह---त्रयमपीति । अत्र च प्रयोजनम्---एकस्य निवृतावपरस्य निवृत्तिर्मा भूदिति । एतदेव स्पष्टयति---समर्थानामिति चेति । स्वाथिंकप्रत्ययावधिश्चायमिति । स्वस्याः प्रकृतेरर्थे भवाः स्वार्थिकाः, अध्यात्मादिः, भाष्यकारप्रयोगाद् द्वारादिकार्याभावः, स्वशब्दस्य तु द्वारादिषु पाठादस्ति प्रसङ्गः । तदादिविधिर्हि तत्र भवति; आद्यज्विशेषणत्वाद् द्वारादीनाम्, यथा---द्वारपालस्येदं दौवारपालमिति । प्राग्दिशो विभक्तिरिति यावदिति । तत आरभ्य हि स्वार्थिकाः प्रत्यया विधीयन्ते, किं पुनः कारणं स्वार्थिकेष्वेष न प्रवर्तते ? इत्याह---स्वार्थिकेष्वित्यादि । तत्र समर्थानामिति सम्बद्धार्थानां चेत्यर्थः । तत्र वाक्ये सम्बद्धार्थता, व्यपेक्षा हि तत्र सामर्थ्यम्, अपेक्षा आकाङ्क्षा, अन्योऽन्यापेक्षाउव्यपेक्षा । अनयाऽऽकाङ्क्षासन्निधियोग्यत्वेषु सत्सु यः सम्बन्धः स लक्ष्यते । वृतौ संसृष्टार्थता । एकार्थीभावो हि तत्र सामर्थ्यम् । वृतौ ह्युपसर्जनपदानि स्वार्थमुपसर्जनीकृत्य प्रधानार्थपराणि भवन्ति, यथा---गङ्गायां गोष इति गङ्गोपसर्जनं तीरमाह । तथौपगव इत्यत्रोपगुशब्दः खार्थोपसर्जनमपत्यमाह । अत एव ऋद्धस्यौपगव इति ऋद्धत्वमुपगोविंशेषणं न भवति । यत्र हि शब्दः पयवस्यति तत्रैव विशेषणसम्बन्धः । यदि च वाक्यवद् वृतावपि खार्थ एव पर्यवस्येतद्वदेव विशेषणसम्बन्धो भवेत्, प्रधानपदान्यप्युपसर्जनविशिष्टमेव खार्थं ब्रुवते । यदि तु वाक्यवद् वृतावपि प्रधानपदानि स्वार्थमेव ब्रुवीरन् ततो यथोपगोरपत्यं देवदतः कल्याणश्चेत्युभाभ्यामपत्यार्थस्य सम्बन्धः, तथौपगवः कल्याणश्चेत्यप्युक्तेस्यात्, न चैवम् । अतो यादृशस्य सम्बन्धस्य भावादयं विशेषः स एकार्थीभावः । न च स्वार्थिकेषु प्रकृत्यर्थादर्थान्तरं सम्भवति यत्प्रत्यायनाय शब्दन्तरं प्रयुज्येत, येन सह समर्थता स्यात् । एतेन प्राथम्यं व्याख्यातम् । अतः प्रतियोग्यपेक्षया सामथ्येप्राथम्ययोरभावात्स्वाथिकेषु नास्योपयोग इति सिद्धम् । विकल्पोऽपि तत्रानवस्थित इति । क्वचित्प्रवर्तते । एतच्चाषडक्षादिसूत्रे वक्ष्यते । इह ठ्प्रथमात्ऽ इत्येतद्विशेषणं शास्त्रवाक्यगतमाश्रीयते, न विग्रहवाक्यगतम्; अनियतत्वात् । वाक्ये हि प्रयोगोऽनियत इति सर्वेषां प्राथम्यसम्भवात् । कदाचिदपत्यवद्वाचिनोऽपत्ये प्रत्ययः स्यात्, कदाचिदपत्यवाचिनस्तद्वति । अयं च प्रकारोऽसत्यपि ठ्प्रथमात्ऽ इत्यस्मिल्लभ्यत इत्यनर्थकं तत्स्यात् । ननु च यस्मिन्वाक्ये यत्प्रथमोच्चारितं तस्मिस्तत एव यथा स्यात्, चरमोच्चारितान्मा भूदित्येतत्प्रयोजनं स्यात् ? तन्न; न हि वृत्तिवाक्ययोः सहप्रयोगः, ततश्च वाक्यगते प्राथम्ये व्यवस्थापके सति वृतेः प्रयोगो न नियत इति व्यर्थमेव ठ्प्रथमात्ऽ इति विशेषणं स्यात्, तस्माच्छास्त्रवाक्यगतमेव प्राथम्यं व्यवस्थापकमित्याह---लक्षणवाक्यानीत्यादि । समर्थानामिति निर्धरणे षष्ठीति । ततश्च निर्धारणस्य तुल्यजातीयविषयत्वात्प्रथमात्समर्थात्प्रत्ययो भवति, तत्र ठ्समर्थात् प्रथमात्ऽ इति वक्तव्ये ठ्समर्थानां प्रथमात्ऽ इति वचनं प्रधानपदस्याप्युपसर्जनपदेनैकार्थीभावप्रतिपादनार्थम्; अन्यथा वाक्यवद् वृतादपि प्रधानपदस्यान्येनापि सम्बन्धः शङ्क्येत । यदि तर्हि लक्षणवाक्ये प्रथमोच्चारितात्प्रत्ययः, एवं सति ठ्तस्यापत्यम्ऽ इत्यादौ सर्वनाम प्रथमनिर्दिष्टमिति तत एव प्रत्ययः स्यात्, नोपग्वादेः, न हि तल्लक्षणवाक्ये प्रथमनिर्दिष्टमित्यत आह---तस्येति । सामान्यमित्यादि विशेषलक्षणम्, विशेषोषलक्षणमित्यर्थः । ठ्तस्मापत्यम्ऽ इत्यादौ हि विशेषा एव निर्देअष्टुअमिष्टाः, तेषां तु सर्वेषां प्रत्यकमुपादाने गौरवं स्याद्, एकस्योपादानेऽनुपाताद्विशेषान्तरान्न स्याद्, यथा---अद्भिः संस्कृतमित्यादाविति सर्वेषामुपलक्षणत्वेन तस्येत्यादिकमुपातम् । तस्योपग्वादेरिति । न तु स्वयं कार्यितया, न हि तस्येत्यस्य सामान्यवचनस्य प्रकरणाद्यभावेन विशेषेऽनवस्थितस्यापत्यं प्रति सम्बन्धिविशेषप्रतिपादनेन सग्बन्ध्यन्तरव्यवच्छेदाख्य उपकारः सम्भवति । सम्बन्धिसामान्यंत्वपत्यशब्दस्य सम्बन्धशिब्दत्वादेवावगतम्, अतो यत्सूत्रे साक्षात्प्रथमोच्चारितं सामान्यवाचि न तस्मात्प्रत्ययः, यस्माच्च प्रत्ययो न तत्सूत्रे साक्षात्प्रथमोच्चारितमिति अगत्या उपलक्षणगतं प्राथम्यमुपलक्ष्याणां विज्ञायते । तदाह---तदीयं प्राथम्यं विशेषणां विज्ञायत इति । कम्बल उपगोरित्यादि । यथापत्यशब्दस्य पूर्वपराभ्यां यथेष्टमभिसम्बन्धो भवति, एवमणोऽपि सम्भाव्येतेति भावः । अत्र च प्रत्यये सत्यनर्थकस्यापि समुदायस्य तद्धितान्तत्वेन प्रातिपदिकसंज्ञायामेकत्वाद्यभावेऽपि अव्ययेभ्य इव स्वादयः स्युः । ननु ठ्तस्यापत्यम्ऽ इति श्रूयमाणसम्बन्ध्यपेक्षायां विभक्तौ विज्ञायमानायां नात्र प्रसङ्गः ? नैतदेवम्; न हि लक्षणवाक्ये विभक्त्युच्चारणम्, सम्बन्धप्रतिपादनार्थसामान्यस्य सम्बन्धासम्भवात्, किं तर्हि ? षष्ठ।ल्न्तात्प्रत्ययविध्यर्थम् । तथापि विशेषोपलक्षणद्वारेण सम्बन्धः स्याद् ? एवमपि ऋद्धस्योपगोरपत्यमित्यादौ सापेक्षादपि स्यादेव । समर्थपरिभाषया तर्हि व्यवस्था भविष्यति ? स्यादेव यद्येतस्मात्सूत्रात्प्रागेव सुबन्तातद्धिता इति व्यवस्थितं स्यात् । इह तु ङ्याप्प्रातिपदिकाधिकारात् षष्ठ।लदिविभक्त्यर्थवृतेस्तत एव तद्धिताः स्युः । सति त्वस्मिन्सम्बन्धप्रतिपतेर्विभक्त्यायतत्वात्सुबन्तादेव तद्धिता भवन्ति, न चैवं सति पदकार्यप्रसङ्गः । तथा हि---राजन्ये वार्त्रघ्न इत्यादौ भसंज्ञयोपजातया लुप्तविभक्त्याश्रयापि पदसंज्ञा एकसंज्ञाधिकाराद् बाधिष्यते । राजत्वं राजतेत्यादौ तु प्रातिपदिकादप्युत्पतौ ठ्स्वादिषुऽ इति पदसंज्ञा भवत्येव । ननु तद्धितलुकि सर्वनामस्थाने दोषः, काश्यपेन प्रोक्तमधीयते ठ्काश्यपकौशिकाभ्यामृषिभ्यां णिनिःऽ, ठ्च्छन्दोब्राह्मणानिऽ इति तद्विषयतायाम् । ठ्तदधीते तद्वेदऽ इति द्वितीयान्तात्काश्यपिन्शब्दादुत्पन्नस्याणः प्रोक्ताल्लुकि यद्यपि काश्यपिन इत्यादौ भसंज्ञाया लुप्तविभक्तिनिमितया अपि पदसंज्ञाया बाधाददोषः, काश्यपिभ्यामित्यादौ तु भवत्येव पदसंज्ञा; तथापि काश्यपनौ, काश्यपिन इत्यादौ सर्वनामस्थाने भसंज्ञाया अभावाल्लुप्तामन्तर्वर्तिनीं विभक्तिमाश्रित्य पदसंज्ञा स्यात् । न चासर्वनामस्थान इति प्रतिषेधः, किं कारणम् ? स्वादिष्विति या प्राप्तिस्तस्या एव सनिषेधः । एवं तर्हि ठसर्वनामस्थानेऽ इति विभज्यते, प्रसज्यप्रतिषेधश्चाश्रीयते, तत्सामर्थ्याद् ठनन्तरस्य विधिर्वाऽ इत्येतन्नाश्रीयते, तेन सर्वनामस्थाने परतः पूर्वस्यावधेर्या च यावती पदसंज्ञा स्वादिष्विति वा सुबन्तमिति वा सा सर्वा प्रतिषेत्स्यते । यद्येवम्, राजा दण्डीत्यादौ सावपि न स्यात्, ठ्यच्चिभम्ऽ इत्यतोऽचीत्येतदसर्वनामस्थाने इत्यत्रापेक्ष्यते, तेनाजादावेव सर्वनामस्थाने सर्वा पदसंज्ञा निषेत्स्यते ? सौ हलादौ स्वादिष्विंति वा सुबन्तमिति वा भविष्यतीत्यदोषः । तदेवं सत्यस्मिन् वचने सुबन्तातद्धिते न कश्चिद्दोष इति स्थितम् । अत एव पूर्वाह्णेतरां पूर्वाह्णेतमामित्यादौ ठ्घकालतनेषुऽ इत्यलुक् विधास्यते । ननु सत्यप्यस्मिन् स्वार्थिकेष्वस्याव्यापारात्कथं सुबन्तातरप् स्यात् ? एवं तर्ह्यर्थक्रम एवायमीदृशो यदुत पूर्वं विभक्त्या योगः, पश्चातरपा । उक्तं हि प्रियकुत्सनादिषु ततः प्रवर्ततेऽसौ विभक्त्यन्त इति । एवं च कृत्वाऽलुग्विधानमप्युपद्यते । यदि तु तदेवालुग्विधानं ज्ञापकम्, तस्यापत्यमित्यादौ न विभक्त्यर्थमात्रे तात्पर्यम्, किन्तु षष्ठ।लदिविभक्त्यन्ता एवोपलक्षयितुमिष्टाः । ङ्याप्प्रातिपदिकाधिकारस्तु वृद्धादिविशेषण्त्वेनैवोपयुज्यत इति, तथा सति पदविधित्वात् समर्थपरिभाषयैव व्यवस्था सिद्ध्यति । किञ्चि---अनभिधानादसामर्थ्येन भविष्यति, नार्थः समर्थवचनेन । इदं तर्हि प्रयोजनम्---यदर्थाभिधानसमर्थं तस्माद्यथास्यात् । किं पुनस्तत् ? कृतवर्णाअनुपूर्वीकं पदम्---सौत्थितिः, वैक्षमाणिरिति, अत्र सवर्णदीर्घत्वे कृते प्रत्ययो भवति, सुऔत्थित विऐइक्षमाण---इत्यस्यामवस्थायां न भवति । यदि स्यात्, सावुत्थितिः वायीक्षमाणिरिति प्राप्नोति, ठ्वार्णदाङ्गं बलीयःऽ इति वृद्धिप्रसङ्गात् । नन्वन्तरङ्गत्वाद्वार्णेषु कृतेषु प्रत्ययो भविष्यति ? एवं तर्ह्येतदर्थं समर्थवचनं कुर्वन्नेतज्ज्ञापयति---अस्तीयं परिभाषा ठकृतव्यूहाः पाणिनीयाःऽ कृतमपि शास्त्रं निवर्तयन्तीति । व्यूहःउशास्त्रकार्यम्, तदन्तरङ्गत्वात्प्राप्तमपि पश्चादस्य निमितविघातो भविष्यतीति बुद्ध्या न कृतं यैस्तेऽकृतव्यूहाः, एवंभूता भवन्ति पाणिनीया इत्यर्थः । कृतमपीत्यत्र वाशब्दोऽध्याहार्यः, कृमपि वा शास्त्रकार्यं निवर्तयन्ति निमिताभाव उत्पत्स्यमाने इत्यर्थः । तेन पपुष इत्यादि सिद्धं भवति । अत्रान्तरङ्गत्वात्पूर्वकृतोऽपीडागम एतत्परिभाषावशान्निवर्तते, पूर्वमेव वान क्रियते, ततः शसि सम्प्रसारणे कृते वलादित्वादिडभावः । प्रथमान्तादिति । प्रथमानिर्दिष्टादपत्यविशेषवाचिनो देवदतादिशब्दादित्यर्थः । अन्यथा ठ्सास्य देवताऽ इति यथा इन्द्रो देवतास्य ऐन्द्रः स्थालीपाक इति प्रथमान्तात् षष्ठ।ल्र्थे प्रत्ययो भवति, एवमिहापि स्यात्---देवदतोऽपत्यमस्य दैवदतिरुपगुरिति । वाग्रहणं किमिति । वृत्तिवाक्ययोर्व्यपेक्षैकार्थीभावलक्षणादर्थभेदादेव बाध्यबाधकभावो न भविष्यतीति प्रश्नः । वाक्यमपि यथा स्यादिति । तद्यथा गोशब्देन गावीशब्दो निवर्तते सत्यामपि स्त्रीत्वप्रतिपतौ, तथेहाप्यौपगवमानयेत्युक्ते य एवानीयते ठुपगोरपत्यमानयऽ इत्युक्ते स एवेति प्रधानार्थभेदाद् वृत्या वाक्यं बाध्येतेति भावः । यद्येवं समासवृत्तिस्तद्धितवृत्या बाध्येतेति । ठ्यत्रोत्सर्गापवादौ विभाषा तत्रापवादेन मुक्ते उत्सर्गो न प्रवर्ततेऽ इति राज्ञोऽनन्तरो राजानन्तर इत्यादिषु सावकाशा समासवृत्तिस्तद्धितवृत्या बाध्येत, यथा---दाक्षिरित्यण् प्रत्यय इञेति भावः । एतदपीति । समासवृत्याख्यं कार्यमित्यर्थः ॥ प्राग्दीव्यतोऽण् ॥ ४।१।८३ ॥ तेन दीव्यतीति वक्ष्यतीति । यदि तस्येदमनुकरणं प्राग्दीव्यतेरिति वक्तव्यम्, कथं प्राग्दीव्यत इति निर्देशः ? अत आह---तदेकदेश इति । भवति हि समुदायगुणीभूतस्याप्येकदेशस्य पृथक्कृत्यानुकरणम्, यथा---अस्यवामीयमित्यत्रेति भावः । ठ्प्रत्ययःऽ इत्यादिवदणित्येवाधिकारे सति ठत इञ्ऽ इत्यादिनापवादप्रकरणेन विच्छिन्नस्याणः ठ्तेन रक्तं रागात्ऽ इत्यादिष्वर्थेषूपस्थानं न स्यात् । तस्मादधिकारपरिमाणख्यापनार्थं प्राग्दीव्यंत इत्युक्तम् । त्रिष्वपि दर्शनेष्वित्यादि । नन्वधिकारपक्षेऽपि प्रतियोगमुपस्थानादत इञ् अण्वेत्यणपि प्राप्नोति, परिभाषापक्षेऽपि प्राग्दीव्यतीयाः प्रकृतयस्ताभ्यः सर्वाभ्योऽण् परिभाष्यमाणः केनापवादविषये न स्यात्, एवं विधिपक्षेऽपि सर्वत्र प्रसङ्गः ? एवं मन्यते---यदयं ठ्पीलाया वाऽ इति सूत्रमारभते, तद् ज्ञापयति---नापवादविषयेऽण् भवतीति; अन्यथा ठ्द्वयचःऽ इति ढक् सिद्धः, अनेन चाणित्यनर्थकं तत्स्यादिति । ठुदश्वितोऽन्यतरस्याम्ऽ इति विकल्पवचनमप्यस्मिन्नर्थे लिङ्गम् । वयं तु ब्रूमः---ठ्प्राग्दीव्यतःऽ इति नेदं दीव्यतीतिशब्दैकदेशस्य दीव्यच्छब्दस्यानुकरणम्, किं तर्हि ? तत्रत्योऽर्थो निर्दिश्यते---दीव्यतोऽर्थात्प्रागिति । तत्र दिवेर्लटि कृतेऽर्थादित्यनेन गम्यमानार्थत्वादप्रयुक्तेनाप्यप्रथमान्तेन सामानाधिकरण्याल्लटः शत्रादेशः कृतः । तत्रावधेरर्थत्वादवधिमन्तोऽप्यर्था एव प्रतीयन्ते, सजातीयविषयत्वेन प्रसिद्धतरत्वादवध्यवधिमद्भावस्य, ततश्च प्राग्दीव्यतो येऽर्थास्तेष्वेवास्य त्रिष्वपि पक्षेषु व्यापारः । तत्र समानेऽर्थे प्रकृतिविशेषादुत्पद्यमानोऽपवादोऽणं बाधत इति सिद्धमिष्टम् ॥ अश्वपत्यादिभ्यश्च ॥ ४।१।८४ ॥ प्राग्दीव्यतीयेष्विति । ठपपरिबरिरञ्चवः पञ्चम्याऽ इत्यव्ययीभावाद्भवार्थे ठ्वृद्धाच्छःऽ । ठव्ययानां भमात्रेऽ इति टिलोपो न भवति; ठ्लुङ्मुखस्वरोपचाराःऽ इति परिगणनात् । अत एवाव्ययातयबपि न भवति, ठमेहक्वतसित्रेभ्यःऽ इति परिगणनाद्वा । गणपतिशब्दस्यात्र पाठाद्गाणपत्यो मन्त्र इत्यपशब्दः । एतेन क्षैत्रपत्यं व्याक्यातम् । ठ्क्षैत्रपत्यं चरु निर्वपेत्ऽ इति तु छान्दसम् । क्षैत्रपत्यं प्राश्नन्तीति, छन्दोवदृषयः कुर्वन्ति ॥ दित्यदित्यादित्यपत्युतरपदाण्ण्यः ॥ ४।१।८५ ॥ पतिशब्दस्योतरपदशब्देन बहुव्रीहौ कृते पश्चाद् द्वन्द्वः, न तु द्वन्द्वस्योतरपदशब्देन बहुव्रीहिरित्याह---पत्युतरपदाच्चेति । एतच्च प्रत्यासतेर्व्याख्यानाद्वा लभ्यते । अदितिग्रहणं तु तदुतरपदपरिग्रहार्थं स्यात्, न ह्यदित्युतरपदं दित्युतरपदं भवति । पत्यन्तादिति नोक्तम्, बहुच्पूर्वान्मा भूदिति । वाडमतिपितृमतामिति । कुर्वादिषु मतिपुतृमच्छब्दयोः पाठोऽपत्यार्थो भाषायामपि ण्यो यथा स्यादिति । अनेन तु च्छन्दसि सर्वेष्वेव प्राग्दीव्यतीयेषु ण्यविधिः । केचिद्वाक्शब्दमपि तत्रैव पठन्ति, तेन ठ्याना वाच्या एते वत्साःऽ इति प्रयोगोपपतिः । यमाच्चेति । यमशब्दोऽपि सूत्रे पठितव्य इत्यर्थः । पृथिव्या ञाञाविति । ञाञोः स्त्रियां विशेष इत्याह---पाथिवा, पार्थिवीति । स्थाम्न इति । बलवचनोऽयम् । तस्य केवलस्य यद्यप्यपत्येन योगो नास्ति, जातादिना तु योगः सम्भवत्येव । सर्वेषु च प्राग्दीव्यतीयेष्वयं विधिः, तस्मादश्वत्थाम इति भाष्योदाहरणादत्र तदन्तविधिर्भवति । अश्वत्थाम इति । अश्वस्येव्र स्थाम यस्येति बहुव्रीहौ अकारष्टिलोपः, पृषोदरादित्वात्सकारस्य तकारः । लोम्नोऽपत्ये बहुष्विति । बाह्वादिष्वयं पठ।ल्त इतीञि प्राप्ते बहुष्वकारः, केवलस्यापत्याअनायोगात्समर्थ्यातदन्तविधिः । उडुलोमा इति । उडूअनीव लोमान्यस्य, शरा इव लोमान्यस्येति बहुव्रीहिः । ननु बाह्वादिलक्षणे इञ्यपि कृते तस्य बह्वच इति लुकि सुबन्तादिञुत्पन्न इति प्रत्ययलक्षणेन ठ्सुबन्तं पदम्ऽ इति पदसंज्ञायां नलोपेन सिद्धम् ? सिद्ध्यतु नामेदम् ; उडुलोमेभ्य इत्येवमादौ सुब्विधौ नलोपस्यासिद्धत्वादैसादिर्न स्यात्, इञो लुगपि प्राच्यभरतगोत्रादन्यत्र न सिध्यति, न वात्र पदसंज्ञा, ठसर्वनामस्थानेऽ इति निषेधात् । यथा च प्रत्ययलक्षणेन प्राप्तायाः सुबन्तमित्यस्या अपि पदसंज्ञायाः स निषेधस्तथोक्तं पुरस्तात् । सर्वत्रेति । नापत्य एव । यद्वा प्राग्दीव्यतीयेऽन्यत्र च, तेन गवा चरतीत्यत्रापि गव्य इति भवति । गोरूप्यमिति । ठ्हेतुमनुष्येभ्योऽन्यतरस्यां रूप्यःऽ, ठ्मयड् चऽ इति रूप्यमयटौ । ण्यादय इति । येन नाप्राप्तिन्यायेनाण एव ण्यादयोऽपवादाः, अमापवादैस्तु ढगादिभिः सह सम्प्रधाराणायां परत्वात एव स्युरिति वार्तिकारम्भः । अर्थविशेषोऽपत्यादिलक्षणं निमितं यस्य सोऽर्थविशेषलक्षणः । यस्तु तस्वेदमित्यर्थसामान्यलक्षणोऽणपवादः स परत्वाद्भवति, उष्ट्रपतिर्नाम पत्रं तस्येदमौष्ट्रपतम् ठ्तत्राध्वर्युपरिषदश्चऽ इत्यञ् भवति, न तु ण्यः । दितेरपत्यमिति । अत्र ठितश्चानिञःऽ इति ढग्न भवति, डौलेय इत्यादावेव तु भवति । वानस्पत्यमिति । अचितादिलक्षणष्ठग्न भवति, आपूपिकादावेव तु भवति । कथं दैतेय इति । अत्र तर्हीति । गम्यमानत्वान्न प्रयुक्तम् । यदि ण्यादयोऽर्थविशेषलक्षणादणपवादात्पूर्वविप्रतिषेधेन भवन्ति, कथं तर्हि दैतैयः सिध्यतीत्यर्थः । दितिशब्दादित्यादि । ननु ठ्प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम्ऽ इति ङीषन्तादपि ण्य एव प्राप्नोति ? तत्राह---लिङ्गविशिष्टपरिभाषा चानित्येति । अन्ये तु भाष्वार्तिकयोरनुक्तत्वाद् दैतेय इत्यसाधुरिति स्थिताः ॥ उत्सादिभ्योऽञ् ॥ ४।१।८६ ॥ तदपवादानां चेति । इञादीनाम् । बष्कयास इति । बष्कयशब्दोऽञमुत्पादयति, असे, असमास इत्यर्थः । पूर्वाचार्यसंज्ञेयम्, बाष्कयः । अस इति किम् ? गोबष्कयिः । ग्रहणवता प्रातिपदिकेन तदन्तविधिप्रतिषेधादेवात्र न भविष्यति ? ज्ञापनार्थं तु । एतज्ज्ञापयति---भवत्यत्र तदन्तविधिरिति । किं सिद्धं भवति ? धेनुशब्दोऽत्र पठ।ल्ते, तदन्तादपि भवति---अधेनूनां समूह आधेनवमिति । उदस्थान देश इति । उदस्थानशब्दोऽञमुत्पादयति देशे वाच्ये---औदस्थानो देशः । देशादन्यत्र यदृच्छया कश्चिदुदस्थानः, तस्यापत्यमौदस्थानिः । पृषदंश इति । पृषच्छब्दोऽञमुत्पादयति अंशे वाच्ये---पार्षताआऽशः, अंशादन्यत्राणेन भवति । ग्रैष्मी त्रिष्टुअबिति । ग्रीष्मो देवता अस्या इत्यशेषार्थविवक्षायामौत्सर्गिकोऽणेव भवति, ग्रीष्मे भवेत्यादिशेषविवक्षायां तु ऋत्वणेव सिद्धम् । न ह्यनेनाञा शैषिकस्याणो बाधप्रसङ्गः, अर्थविशेषलक्षणानामेव प्रत्ययानां ण्यादिभिर्बाधनात् । ऋत्वण् तु शेषमात्रे विधानान्नार्थविशेषलक्षणः, कक्षान्तरप्राप्तश्च । कथम् ? ठ्कालट्ठञ्ऽ अणोऽपवादः, त्सयाप्यृत्वण् । च्छन्दश्चेह वृतं गृह्यत इति । यस्य त्रिष्टुअबादयो विशेषाः । न वेद इति । तेन वेदवषियेऽपि वृतेऽभिधेयेऽञः प्रतिषेधादणेव भवति---ग्रैष्मी त्रिष्टुअबिति । स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात् ॥ ४।१।८७ ॥ स्त्रीशब्दात्पूंशब्दात्पुंस्शब्दाच्चेति । स्त्र्यधिकारविहितानां टाबादीनां ठ्पुंसि संज्ञायां घःऽ इत्येतदधिकारविहितानां च प्रत्ययानां ग्रहणं न भवति, स्त्रीपुंस्शब्दयोरस्वरितत्वात् । नापि स्त्रीपुंसार्थग्रहणम्, ठ्स्वं रूपं शब्दस्यऽ इति वचनात् । पाéस्नमिति । संयोगान्तस्य लोपःऽ इति पुंस्शब्दसकारस्य लोपः, तत्र कर्तव्येऽनुस्वारस्यासिद्धत्वात्सकारस्य संयोगान्तत्वात् । अत एव संयोगान्तलोपप्रसङ्गान्नञेवोभाभ्यां न विधीयते । एवं हि मा भून्नञ्, मा च भूत्स्नञ् , अञ् प्रकृतस्तत्रैतावदस्तु स्त्रीपुंसयोर्नुक्येति; तत्रायमप्यर्थः, स्त्रैणी पौस्नी अञ इतीकारः सिद्धो भवति ? नैव शङ्क्यम्; स्त्रैणाः, पाéस्नाः---ठ्यञञोश्चऽ इति बहुषु लुक् प्राप्नोति । इह च स्त्रैणानां सङ्घः ठ्सङ्घाङ्कलक्षणेष्वञ्यञिञाम्ऽ इत्यण् प्राप्नोति ? नैष दोषः; उभयत्रापि गोत्र इति वर्तते, लौकिकस्य च गोत्रस्य ग्रहणं ऋषिप्रजनं च लोके गोत्रमुपचरन्ति, न च स्त्र्यर्षिणापि पुंशब्दवाच्यं सामान्यम् । ठ्नस्तद्धितेऽ इति टिलोपस्तर्हि प्राप्नोति ? ठ्प्रकृत्यैकाच्ऽ इति प्रकृतिभावो भविष्यति, ठिष्ठेमेयस्सुऽ इति तत्रानुवर्तते । एवं तर्हि नुग्विधानसअमर्थ्याट्टिलोपो न भविष्यति ? यं विधि प्रत्युपदेशोऽनर्थकः स विधिबाध्यते, यस्य तु विधेर्निमितमेव नासौ बाध्यते, तत्र टिलोपार्थमेव नुग्विधानं स्यात् । स्त्रीशूब्दस्यापि नुगेव लोपस्य निमितम्, अन्यथा यस्येति लोपात्परत्वाद् वृद्धिः स्यात्, यथा---श्रीर्देअवता अस्य श्रायं हविरिति । तस्माद्यथान्यासमेवास्तु । योगापेक्षं चेति । स्त्रीपुंसाभ्यामित्ययं योगो वत्यर्थे न प्रवर्तत इत्येवं ज्ञापनशरीरम्, न तु स्नञ् वत्यर्थे न प्रवर्तत इतियर्थः । कथं स्त्रीत्वं स्त्रीता पुंस्त्वं पुंस्ता चेति ? ठा च त्वात्ऽ इत्यत्र परिहारो भविष्यति ॥ द्विगोर्लुगनपत्ये ॥ ४।१।८८ ॥ द्विगोरिति षष्ठीति । आनन्तर्यलक्षणायां तु पञ्चम्यां पञ्चकपालस्य पुरोडाशस्येदम् ठ्तस्येदम्ऽ इत्यण्, पाञ्चकपालमित्यत्रापि प्राप्नोतीति भावः । षष्ठ।ल्पि यद्यानन्तर्ययोगे स्यात्स एव दोषो यः पञ्चम्याम्, ततश्च षष्ठ।लश्रयणमनर्थकं स्यादिति मत्वाऽऽह---द्विगोर्यः सम्बन्धी निमितत्वेनेति । यस्य तद्धितस्यार्थे ठ्तद्धितार्थोतरपदऽ इति द्विगुविहितः स निमितत्वेन सम्बन्धी । पञ्चकपाल इति । ठ्संस्कृतं भक्षाःऽ इत्यत्रार्थे विवक्षिते द्विगुः, अम्, तस्य लुक् । द्विवेद इति । ठ्तदधीते तद्वेदऽ इत्यत्रार्थे द्विगुः । द्वैदेवदतिरिति । द्वयोर्देअवदतयोरपत्यम्, ठत इञ्ऽ, अपतनादपत्यम्, यस्य पित्रादिषु द्वौ देवदतसंज्ञकौ स एवमुच्यते, एकस्य वा दतपुत्रोऽन्यस्य साक्षात्पुत्रः । द्विगुनिमितविज्ञानादिति । द्विगुनिमितस्य प्रत्ययस्य लुग्विधानादित्यर्थः । पञ्चकपालस्येदमिति । अत्र संस्कृतार्थे यः प्रथममुत्पन्नः प्रत्ययः स एव---द्विगोर्निमितं न द्वितीय इति तस्य लुग्न भवति । अथ वैत्यादि । पूर्वं लुगित्यनेनोपस्थापतिस्य प्रत्ययस्य द्विगोरित्यनेन वैयधिकरण्यमाश्रित्य व्याख्यातम्, इदानीं सामानाधिकरण्यमित्येष विशेषः । कथं पुनद्विगोरेव लुग् लभ्यत इत्याह---द्विगोरिति स्थानषष्ठीति । ननु चेत्यादि । ठ्प्रत्ययस्य लुक्श्लुलुपःऽ इति प्रत्ययादर्शनस्य लुगादयः संज्ञा विहिताः, ततश्च द्विगोर्लुगिति नैव समञ्जसमिति भावः । उपचारेण त्वित्यादि । अतस्मिंस्तद्रूपारोपःऊपचारः, परत्र परशब्दप्रयोगःउलक्षणा, उपचारेण निमितेन या लक्षणा तयेत्यर्थः । अन्ये तूपचारेणेत्यस्य विवरणं लक्षणयेत्येतदित्याहुः । अद्विगुरूपस्तद्धितो द्विगुरूपतया यथा बुद्ध्या विवक्ष्यते सा लक्षणा उपचार एवेति । उपचारस्य निबन्धनं द्विगुनिमितत्वम् । भवति हि कारणे कार्योपचारः---आयुर्घृतमिति यथा । द्विगुनिमितकोऽपि तर्हीत्यादि । कार्येऽपि कारणवदुपचारो दृश्यते, यथा---पुरातनं कर्म भुज्यत इति, ततश्च द्विगुर्यस्य प्रत्ययस्य निमितं सोऽपि गुणकल्पनया गुणशब्देनोपचारस्य निमितभूतो धर्मो विवक्षितः, तन्निमिता कल्पना गुणकल्पना, मा पुनरुपचांरात्मिका बुद्धिः, तया कस्मान्न द्विगुरित्यच्यते ? अर्हत्येवायमेवंविधं वचनमित्यर्थः । परिहरति---न तस्येति । तत्र हि सन्निहितमपि द्विगुत्वं प्रत्ययोत्पतौ नोपयुज्यते, न ह्यसौ द्विगोरित्येवं विधीयते, किं तर्हि ? प्रातिपदिकादित्येवमित्यर्थः । इतरस्त्विति । प्रत्ययः, यस्य लुग्दर्शितः । द्विगुत्वस्यैव निमितमिति । तदर्थे हि समासो विधीयते, तस्यैव च द्विगुसंज्ञा, तेनासौ द्विगुत्वस्यैव निमितम् । यद्येवमित्यादि । उभयोरपि पक्षयोरेतच्चोद्यम् । न ह्यत्र द्विगोर्निमितत्वेन सम्बन्धी तद्धितः, नापि द्विगुनिमितत्वादु पचारेण तद्व्यपदेशार्हः, अत्र हि समाहारे द्विगौ निष्पन्ने पश्चातद्धित उत्पद्यते, स च द्विगोर्निमितं न भवतीति चोद्यार्थः । परिहरति---नैवात्र तद्धित उत्पद्यत इति । अनभिधानादिति भावः । यदि नोत्पद्यते, कथमस्मिन्नर्थे पञ्चकपाल इति रूपसिद्धिस्तस्मादुत्पद्यत एवात्र तद्धितः, तस्य च लुग्विधेयः ? इत्यत आह---त्रैशब्द्यं हीति । त्रय एव शब्दास्त्रैशद्ब्यमुचातुर्वर्ण्यादिः । इह ह्यस्माभिस्त्रैशद्ब्यं साध्यम्, तच्च पञ्चकपालीशब्दातद्धितोत्पतिमन्तरेणापि सिद्ध्यतीति नास्मातद्धित उत्पद्यते । तानेव त्रीन् शब्दान्दर्शयति---पञ्चसु कपालोष्विति । द्वयोः शब्दयोरिति । यः समाहारे द्विगुः, यश्च तद्धितार्थे, द्वावपि तौ समानार्थौ, तयोरेकेन पूर्वेण विग्रहः । अवधारणमत्र द्रष्टव्यं विग्रह एव, न तद्धितोत्पतिः; अनभिधानात् । अपरस्मात् पञ्चकपालादुत्पत्तिः । सोऽयमव्यविकन्याय उच्यते, तद्यथा अवेर्मांसमित्यविशब्देन विग्रह एव, अविकशब्दादुत्पत्तिर्विग्रहश्च आविकमविकस्य मांसमिति । सा च व्यवस्थितविभाषेति । एवं कृत्वा त्रैविद्यः, पाञ्चनदम्, षाट्कुल इत्यत्रापि लुग्न भवति । अथ वा---त्र्यवयवा विद्या त्रिविद्या, शाकपार्थिवादिः, तामधीते त्रैविद्यः, विद्यात्रयरूपस्य च समुदायस्य विद्यात्वं विवक्षितमित्यर्थभेदाभावः । पञ्चानां नदीनां समाहारः पञ्चनदम्, ठ्नदीभिश्चऽ इत्यव्ययीभावः ठ्गोदावर्याश्च नद्याश्चऽ इत्यच्समासान्तः, पञ्चनदे भवः पाञ्चनदः । अथ वा---अभिधाने हि सति समाहारद्विगोरपि भवत्येव तद्धितः । तथा षण्णामादिपुरुषाणां कुलानि तत्र भवः षाट्कुलः । अव्यविकन्यायाच्च तिस्रो विद्या अधीते, पञ्चसु नदीषु भवः, षट्सुकुलेषु भव इति विग्रह एव; न द्विगुः, नापि तद्धितः ॥ गोत्रेऽलुगचि ॥ ४।१।८९ ॥ पूर्वत्रोतरत्र च लुग्विधानादिह नञ् प्रश्लिष्यते । यस्कादिभ्यो गोत्र इत्यादिनेति । ठ्प्राग्दीव्यतःऽ इत्युपजीवनाय तु प्रकरणोत्कर्षः, प्रसज्यप्रतिषेधश्चायम् । अचीति । यद्येषा परसप्तमी स्याच्छविधावितरेतराश्रयं प्राप्नोति---गार्गीया वात्सीया इतिच्छे परतोऽलुका भवितव्यम्, अलुकि च सति वृद्धत्वाच्छेन भवितव्यमिति । ननु च छे परतोऽलुग्विधीयते, किं तर्हि ? ठजादिमात्रे, तत्र य एवाजादिः सम्भवति तत्रैवालुग्भविष्यति, तद्यथा---गर्गाणां छात्त्राः, ठ्प्राग्दीव्यतोऽण्ऽ, तत्र परतः ठ्यञञोश्चऽ इति प्राप्तस्य लुकः प्रतिषेधे गर्गा इति भवति । यद्यप्यत्र सत्यसति वा लुकि नास्तिविशेषः, ठापत्यस्य च तद्धितेऽ इति यलोपविधानात् । इह त्वत्त्रेरपत्यानि बहूनि ठितश्चानिञःऽ इति ढकः ठत्रिभृगुऽ इति लुकि कृतेऽत्रीणां छात्रा इत्यणि परतः प्रतिषेधे सति आत्त्रेया इति भवति, असति तु प्रतिषेधे आत्रा इति स्यात् ? स्यादेतदेवं यदि लुप्तस्य प्रत्ययस्य पुनः प्रादुर्भावो विधीयतेत, इह त्वलुगिति वचनाल्लुकः प्रतिषेधो विधेयः, प्राप्तस्य चानभिनिर्वृस्य प्रतिषेधेन निवृत्तिः शक्यते कर्तुम्, ततश्च यद्यत्राणजादिरभिप्रेतः स्यात्, प्रागेव लुकः प्रवृत्तिरभ्युपगन्तव्या; अन्यथा वृद्धत्वाच्छ एव स्यात्, लुक चेत्प्रवृतः प्रतिषेधः किं करिष्यति ! यो हि भुक्तवन्तं प्रति ब्रूयान्मा भुङ्क्था इति, किं तेन कृतं स्यात् ! तदिहाजादौ प्रवृतेऽलुका भवितव्यम्, अलुकि च प्रवृतेऽजादिना भवितव्यमिति व्यक्तमितरेतराश्रयम् । विप्रतिषेधात्सिद्धम्, लुकोऽवकाशो यत्र प्राग्दीव्यतीयार्थो न विवक्ष्यते---गर्गा वत्सा इति, च्छस्यावकाशः---शालीय इति; गर्गाय इत्यत्रोभयप्रसङ्गे परत्वाच्छाए भविष्यति । तत्र परतो लुकः प्रतिषेधः, अन्तरङ्गो लुग् अपत्यबहुत्वमात्रापेक्षत्वात्, बहिरङ्गश्च्छः प्राग्दीव्यतीयार्थापेक्षित्वात्, अन्तरङ्गबहिरङ्गयोश्चायुक्तो विप्रतिषेधः । एवं तर्ह्युच्यते चेदमजादौ परतो लुग्भवतीति, यदि च तावत्येव निमितमस्तीति बहुत्वमात्रापेक्षो लुक् प्रवर्तेत प्रतिषेधविधानमनर्थकं स्यादिति यावत्प्राग्दीव्यतीयोऽजादिर्नोत्पद्यते तावल्लुग् न प्रवर्तत इति कल्प्यते, ततश्च वृद्धत्वाच्छे सति लुकि प्रतिषिद्धे गर्गीय इति सिद्धमिष्टम् । विषयसप्तम्यां तु न किञ्चिद्यत्नसाध्यम्, गर्गाणां छात्रा इत्यर्थविवक्षायामजादौ प्रत्यये विवक्षिते बुद्धिस्थेऽनुत्पन्न एव लुकि प्रतिषिद्धे वृद्धत्वाच्छाए भवतीति, तस्माद्विषयसप्तमीमाश्रित्याह---प्राग्दीव्यतीये प्रत्यये विषयभूत इति । खारपायणीया इति । खरपस्यापत्यानि बहूनि ठ्नडादिभ्यः फक्ऽ, ठ्यस्कादिभ्यो गोत्रेऽ इति प्राप्तस्य लुकः प्रतिषेधः । कौबलम्, बादरमिति । कुबली-बदरीशब्दौ गोरादिङीषन्तावन्तोदातौ, ताभ्यां फले विकारे ठनुदातादेश्चऽ इत्यञ्, तस्य ठ्फले लुक्ऽ इति प्राप्तस्य लुकः तस्येदमित्यर्थविवक्षायां प्रतिषेधो न भवति, तेनावृद्धत्वादणेन भवति । गर्गरूप्यमिति । यद्यत्रालुक् स्याद्, सार्ग्यरूप्यमिति स्यात् । गार्गीयमिति । ठ्तस्मै हितम्ऽ इति प्राक्क्रीताच्छः । विषयसप्तम्या एव फलं दर्शयति---गोत्रस्येत्यादि । गोत्रस्येति गोत्रप्रत्ययस्येत्यर्थः । वहुषु लोपिन इति । बहुष्वर्थेषु विधीयमानलोपस्येत्यर्थः । बहुवचनान्तस्य प्रंवृताविति । प्रवृत्तिःउअर्थान्तरसंक्रान्तिः, बहुवचनान्तस्य सतोऽर्थान्तरसंक्रान्तौ सत्यामित्यर्थः । द्व्येकयोरिति । यत्रार्थान्तरे संक्रान्तस्य द्वित्वैकत्वयोः सतोरित्यर्थः । सा चार्थान्तरसंक्रान्तिस्तदन्ताद्यदा यनि प्रत्यय उत्पद्यते तस्य च लुक् क्रियते तदा भवति लुप्ते हि युवप्रत्यये प्रकृतिरेव तदर्थमाहेति भवति संक्रान्तिः । बिदानामिति । बदस्यापत्यानि बहूनि, ठनृष्यानन्तर्ये बिदादिभ्योऽञ्ऽ, बिदाः, तेषां बिधानामपत्यं युवा युवानौ वेति विवक्षायाम् ठतःऽ इति इञि विवक्षिते गोत्रप्रत्ययस्याञो लुकः प्राप्तस्यानेन प्रतिषेधः । इञः ठ्ण्यक्षत्रियार्षऽ इति लुकि बैदः, बैदाविति भवति । परसप्तमीपक्षे त्वलुग्न प्राप्नोति; अजादेरभावात् । इदमिह सम्प्रधार्यम्---इञो लुक् क्रियतामयं वाऽलुगिति ? परत्वादलुग्भवति । इञो लुग्नित्यः, कृतेऽप्यस्मिन्नलुकि प्राप्नोति अकृतेऽपि, अयं पुनरलुगनित्यः, न हीञो लुकि कृते प्राप्नोति; अजादेरभावात् ? प्रत्ययलक्षणेन भविष्यति । वर्णाश्रये नास्ति प्रत्ययलक्षणम् ? नात्र वर्णो निमितम्, किं तहि ? प्रत्ययः, तस्यैव तु विशेषणमचीति । तत्र यथा हलादौ पिति सार्वधातुके विधीयमानः ठ्तृणह इम्ऽ अतृणेडित्यत्रापि भवति प्रत्ययलक्षणेन तद्वदिहापि भविष्यति ? सत्यम्; विषयसप्तमीपक्षे नैवं क्लेशोऽनुभवनीयो भवति । ननूभयोरपि पक्षयोरिहापि न प्राप्नोति---बिदानामपत्यं बहवो माणवका बिदा इति ? नैष दोषः; द्वे अत्र बहुत्वे---युवबहुत्वं गोत्रबहुत्वं च, तत्र गोत्रबहुत्वाश्रयस्य लुकः प्रतिषेधोऽस्तु पुनर्युवबहुत्वाश्रयो लुग्भविष्यति । लुग्विधौ हि लौकिकस्य गोत्रस्य ग्रहणम्, युवापि च लोके गोत्रमित्युपचर्यते---गार्ग्यायणोऽस्मि गोत्रेणेति । अथ युवबहुत्वाश्रयस्यापि लुकः पुनः प्रतिषेधः कस्मान्न भवति ? विषयसप्तम्यां तावद् यस्यामवस्थायां लुक् प्राप्तः तस्यामवस्थायां यदि कश्चिदजादिर्विषयभूतस्ततोऽलुका भवितव्यम्, इह चाजादिर्विषयभूत उत्पन्नो लुप्तश्च, पश्चाद्यौवसु बहुषु संक्रान्तौ सत्यां लुक् प्राप्तः, न चास्यामवस्थायां कश्चिदजादिविषयभूत इति पुनर्लुग्न भविष्यति । परसप्तम्यामपि गोत्रे वर्तमानस्या लुग्भवत्यजादौ परतः । कस्मिन्नजादौ ? प्राग्दीव्यतो येऽर्थास्तेषु योऽजादिस्तस्मिन्नित्युच्यमाने यस्मिन् गोत्रे वर्तमानस्य लुक् प्राप्तस्तद्व्यतिरिक्ते प्राग्दीव्यतीयेऽर्थे योऽजादिस्तत्रेति गम्यते । इह चेञेवाजादिस्तदर्थ एव च गोत्रे लुगिति प्रतिषेधो न भविष्यति । यद्वा---ठ्समर्थानां प्रथमात्ऽ इत्यतः प्रथमादिति वर्तते, तच्च षष्ठ।ल्न्तं विपरिणम्यते, प्रथमार्थवृत्तित्वाच्च प्राथम्यमाश्रीयते, तदयमर्थो भवति---प्रथमस्य गोत्रप्रत्ययस्य लुग्न भवति, यस्मिन्नर्थे प्रत्यय उत्पन्नस्तत्रैवार्थे वर्तमानस्य यो लुक् प्राप्तः स न भवति । इह तु द्वितीयमर्थमुपसंक्रान्तस्य लुक् प्राप्त इति न प्रतिषिध्यते । अवश्यं चैतदेवं विज्ञेयम्---प्रथमस्य लुक् प्रतिषिध्यत इति, अन्यथा अत्त्रेरपत्यम् ठितश्चानिञःऽ इति ढक्, तस्यापत्यं बहवो युवानः, अत इञः ठ्ण्यक्षत्रियार्षऽ इति लुक्, ढकः ठत्रिभृगुऽ इति लुक्, अत्रयः; भरद्वाजशब्दाद्विदाद्यञ्, तदन्ताद्यौवबहुत्वे इञो लुक्, अञः ठ्यञञोश्चऽ इति लुक्, अत्रयश्च भरद्वाजाश्च अत्रिभरद्वाजास्तेषां मैथुनिकाद् द्वन्द्वाद् वुन्---अत्रिभरद्वाजिका, तत्रालुक् प्राप्नोति; कुत्सादृष्यणः ठत्रिभृगुऽ इति लुक्, कुशकादञन्तादिञो लुकि कुशिकाः, कुत्सकुशिकिकाः, वसिष्ठकश्यपिकाः, भृग्वङ्गिरसिकाः । अय वा--गोपवनादिषु गर्घभार्गविकाशब्दः पठ।ल्ते, भार्गवशब्दस्य युवबहुत्वे प्राप्तस्य लुकः प्रतिषेधार्थं तन्नियमार्थं भविष्यति---एतस्यैव द्वितीयमर्थमउपसंक्रान्तस्यालुग्भवतीति । नैव वा पुनरत्र युवबहुत्वे वर्तमानस्यालुक्प्राप्नोति, किं कारणम् ? गोत्र इत्युच्यते, यद्यप्यपत्याधिकारादन्यत्र लौकिकं गोत्रं गृह्यते, इह तु पारिभाषिकस्य ग्रहणम्, युवशब्दसाहचर्यात् ; अन्यथा गोत्रयुवसंज्ञयोः समावेशे योऽयं दोषो वक्ष्यते---शालङ्केरपत्यं ठ्यञिञोश्चऽ इति फक्, तस्य ठ्पैलादिभ्यश्चऽ इति लुक्, शालङ्केर्यूनश्छात्रा इत्यर्थविवक्षायाम् ठ्गोत्रेऽलुगचिऽ इत्यलुक् प्राप्नोति, ततश्च ठ्यूनि लुक्ऽ इत्यस्य ठ्फक्फिञोरन्यतरस्याम्ऽ इति विकल्पितत्वात्पक्षे फकः श्रवणं प्राप्नोतीति स तदवस्थ एव स्यात्, असमावेशेऽपि यूनो लौकिकगोत्रत्वादेवालुक्प्रसङ्गात् । तदेवं गोत्रस्य बहुषु लोपिन इत्यादि न वक्तव्यमिति स्थितम् । एकवचनद्विवचननान्तस्येत्यादि । एकवचनान्तस्य गोत्रप्रत्ययस्य द्विवचनान्तस्य वा बहुष्वर्थेषु युवसंज्ञकेषु प्रवृतौ संक्रान्तौ सत्यामित्यर्थः । लोप इति । लुगित्यर्थः । लोपे हि प्रत्ययलक्षणेन वृद्धिस्वरप्रसङ्गः । ननु च युवबहुत्वाश्रयो ठ्यञञोश्चऽ इत्येवात्र लुक् सिद्धस्तत्राह---न ह्यत्राञ्बहुषूत्पन्न इति । अञ्यो बहुषु, यञ्यो बहुष्विति विज्ञायमाने लुग्न सिध्यतीत्यर्थः । यदा त्वञन्तं यद्वहुषु, यञन्तं यद्वहुष्विति विज्ञायते; तदाञन्तस्य बहुषु युवसु वृतेर्लौकिकस्य च गोत्रस्यापत्यमात्रस्य तत्र ग्रहणात्सिद्ध एव लुक् । तथा च---गार्ग्यश्च वात्स्यश्च वाज्यश्च गर्गवत्सवाजाः, बैदश्च और्वश्च भारद्वाजाश्च बिदौर्वभारद्वाजा इति यञञोरुत्पत्तिवेलायामबहुत्वेऽपि द्वन्द्वे युगपधिकरणवचनतया यञन्तस्याञन्तस्य बहुत्वोपजनाल्लुग्भवति । न चैवं काश्यपस्यैकस्य बह्व्यः प्रतिकृतयः काश्यपा इति ठिवे प्रतिकृतौऽ इति विहितस्य कनः ठ्जीविकार्थे चापण्येऽ इति लुप्, ठ्हरीतक्यादिषु व्यक्तिःऽ इति वचनाद् युक्तवद्वचनाभावेऽञन्तस्य बहुषु वृतेर्लुक्प्रसङ्गः; गोत्रबहुत्वे लुग्विधानात् ॥ यूनि लुक् ॥ ४।१।९० ॥ अत्रापि यद्यचीति परसप्तमी स्यात्, प्रत्ययस्य यथेष्टप्रसङ्गः । युवप्रत्यये श्रूयमाणे यः प्राप्नोति स तावत्कतव्यः, तत्र कृते युवप्रत्ययस्य लुकि तस्य श्रवणं प्राप्नोति, विषयसप्तम्यां त्वजादौ विषयभूत एव युवप्रत्यये लुप्ते यो यतः प्राप्नोति ततः स स भवतीति सिद्धमिष्टम् । एतच्चोदाहरणेषु व्यक्तीकरिष्यते, तदेतदाह---अजादौ प्रत्यये विवक्षित इत्यादि । इञश्चेत्यण् भवतीति । परससप्तम्यां तु वृद्धाच्छ एव स्यात् । फेश्च्छ चेति । ठ्यमुन्दश्च सुयामा च वार्ष्यायणिः फिञः स्मृताःऽ इति परिगणनं भाष्यकारेण नाश्रितम्, तेन तैकायनेरपिच्छाए भवति । तैकायनीया इति । अत्र परसप्तम्यामप्यदोषः, ठ्ण्यक्षत्रियार्षञितःऽ इत्यत्र तु वृत्तिकारेणाणो लुगुदाहृतः---तैकायनिः पिता तैकायनिः पुत्र इति, स परिगणनाश्रयेण द्रष्टव्यः, तदा च तैकायनीया इत्यनुदाहरणम् । कापिञ्जलादा इति । अत्रापि परसप्तम्यां वृद्धाच्छः स्यात् । एवं ग्लौचुकायना इत्यत्रापि द्रष्टव्यम् । इह तु औपगवेर्यूनश्छात्रा इञो लुकि वृद्धाच्छाए भवति, परसप्तम्याम्, ठिञश्चऽ इत्यण्स्यात् । नैतदस्य योगस्योदाहरणम्, कथम् ? ठिञश्चऽ इत्यत्र ठ्गोत्रेऽ इति वर्तते, तेनेञं विशेषयिष्यामः---गोत्रे य इञ् विहित इति पारिभाषिकं च गोत्रं गृह्यते, कथम् ? ठ्कण्वादिभ्यो गोत्रेऽ इत्यत्र तावद् ठ्गोत्रेकुञ्जादिभ्यःऽ इत्यस्य गोत्रस्यानुवादः---कण्वादिभ्यो गोत्रे यः प्रत्ययो विहितस्तदन्तादण् भवतीति, तत्र च पारिभाषिकं गृह्यते तस्यैव चानुवादः, तदेव च ठिञश्चऽ इत्यत्राप्यनुवर्तते, तत्कुतो युवप्रत्ययान्तादणः प्रसङ्गः ! अवश्यं चैतदेवं विज्ञेयम्, अन्यथा लुप्तेऽपीञि प्रत्ययलक्षणेनाण् स्यादेव । इमानि तर्ह्यत्रोदाहरणानि---यत्खच्छान्ताः । यत्---ठ्राजश्वशुराद्यत्ऽ, श्वशुरस्यापत्यं श्वसुर्यः, तस्यापत्यं श्वाशुरिस्तस्य छात्रा इति लुकि ठ्प्राग्दीव्यतोऽण्ऽ भवति श्वाशुरः, अन्यथा ठ्वृद्धाच्छःऽ स्यात् ; ठ्कुलात्खःऽ कुलीनः, तस्यापत्यं कौलीनिः, तस्य छात्त्राः, इञो लुकि कौलीनः; ठ्स्वसुश्च्छःऽ, स्वस्रीयः, तस्यापत्यं स्वास्रीयिः, तस्य छात्रा इञो लुकि स्वस्रीयाः ? नैतान्युदाहरणानि; ठब्राह्मणाद् गोत्रमात्राद्यौवप्रत्ययस्योपसङ्ख्यानम्ऽ इतीञो लुकि कृते श्वशुर्यः पिता श्वशुर्यः पुत्रः, कुलीनः पिता कुलीनः पुत्रः, स्वस्रीयः पिता स्वस्रीयः पुत्र इति भवितव्यम् । न च ब्राह्मणगोत्रे कश्चिदवृद्धिनिमितः प्रत्ययः सम्भवति, यत इञि कृते च्छः प्राप्नोति; वृद्धिनिमिते तु गोत्रप्रत्यये नास्ति विशेषः, यतः श्रूयमाणोऽपीञि छेन भवितव्यम् । लुप्तेऽपि तस्मिन् गोत्रप्रत्ययान्तस्यापि वृद्धत्वाच्छेन भवितव्यम्, तद्यथा---औपगवीया इति । तदेवमिञ उदाहरणं न सम्भवतीति स्थितम् । यदि तु पूर्वसूत्रे लौकिकस्य गोत्रस्य ग्रहणं तदा स्यादेवेञ उदाहरणम् । तथा हिश्वशुर्यादिभ्य उत्पन्नस्येञः, सत्यप्यौपसङ्ख्यानिके लुकि तस्य प्राग्दीव्यतीयविवक्षायाम् ठ्गोत्रेऽलुगचिऽ इति प्रतिषेधेन पुनः प्रादुर्भावादिञाश्रयः ठ्वृद्धाच्छःऽ स्यात्, यदि तस्य ठ्यूनि लुक्ऽ इति लुग्न क्रियेत । अतोऽस्मादिञ उदाहरणत्वप्रतिषेधायप्यवसीयते---पारिभाषिकं गोत्रं पूर्वसूत्रे भाष्यकारस्याभिमतमिति । किमर्थं पुनरिदमुच्यते, यावता यूनोऽपिगोत्ररूपे विवक्षिते गोत्रप्रत्ययेनाभिधानातन्निबन्धन एव प्रत्ययो भविष्यति, अर्थप्रकरणादिना च युवविशेषसिद्धिः, अवश्यं चार्थप्रकरणादिनैव विशेषोऽवसातव्यः, आरब्धेऽपियस्मिन्सूत्रे शब्दस्य साधारणत्वात् । न हि ज्ञायते---किं भागवितेश्छात्रा भागविताः ? आहोस्विद्भागवितिकस्येति ? यदा तर्हि विशेषविवक्षा, तदापि भागविता इत्येव यथा स्याद्, भागवितिकीया इति जातुचिन्मा भूदित्येवमर्थमिदम् ॥ फिक्फञोरन्यतरस्याम् ॥ ४।१।९१ ॥ किमर्थमिदम्, यावता युवरूपविवक्षायां गार्ग्यायणीय इति, गोत्ररूपविवक्षायां च गार्गीया इति शब्दस्य साधारणत्वात् ? इत्यत आह---पूर्वसूत्रेणेति । ठ्यूनि लुक्ऽ इत्येतदारम्भणीयमित्युक्तम्, तस्मिश्चारभ्यमाणे यदीदं नोच्येत, फक्फिञोरपि नित्यमेव लुक् स्यात्, ततश्च गार्ग्यायणीया इति न स्यात् । तस्मादिदमप्यारम्भणीयमित्यर्थः ॥ तस्यापत्यम् ॥ ४।१।९२ ॥ अर्थनिर्देशोऽयमिति । प्रकृत्यर्थविशिष्टः षष्ठ।ल्र्थोऽपत्यरूपः प्रत्ययार्थोऽनेन निर्दिश्यत इत्यर्थः । तेन समर्थविभक्तेरपि षष्ठ।ल निर्देशो दर्शित एव । पूर्वैरुतरैश्चेति । पूर्वैस्तावदणादिभिः सम्बद्ध्यते; असंयुक्तविधानात्, अन्यथा ठ्तस्यापत्यमत इञ्ऽ इत्येकं योगमेव कुर्यात्, यतस्त्वसंयुक्तं करोति, ततो ज्ञायते---पूर्वैः सम्बध्यत इति । उतरैरपि सम्बध्यते; स्वरितत्वात्साकांक्षत्वाच्चतेषाम् । तस्येति षष्ठीसमर्थादिति । तस्येति सामान्यं षष्ठ।ल्न्तविशेषोपलक्षणार्थम्, ठ्समर्थानाम्ऽ इति च निर्द्धारणे षष्ठी । तत्र तुल्यजातीयस्य निर्द्धारणादयमर्थः सम्पद्यते---षष्ठ।ल्न्तात्समर्थादिति । अपत्यमित्येतस्मिन्नर्थ इति । प्रथमान्तस्यापत्यशब्दस्यान्यथासम्बन्धानुपपतेरयमध्याहारो लब्धः । यथाविहितमिति । ठ्यथार्थे यदव्ययम्ऽ इति वीप्सायामव्ययीभावः । ठ्प्राग्दीव्यतोऽण्ऽ इत्यादिभिर्यो यतो विहितः स तस्मादित्यर्थः । इह ठ्तस्यऽ इति पुंनपुंसकयोरन्यतरेणायं निर्देशः क्रियते, एकवचनान्तेन च, तेन लिङ्गान्तराद्वचनान्तराच्च न स्यात्---सुमातुरपत्यं सोमात्रः, क्षत्रस्यापत्यं क्षात्त्रिः, उपगोरपत्यमौपगव इति । अपत्यमिति चैकवचनेन नपुंसकेन च निर्देशः क्रियते, तेनैकस्मिन्नेवापत्ये स्यात्, न द्वयोः, नापि बहुषु, नपुंसक एव स्यात्, न स्त्रीपुंसयोरित्याशङ्क्याह--प्रकृत्यर्थेत्यादि । प्रकृत्यर्थ उपग्वादिर्विशेषः; तस्येत्यस्य विशेषोपलक्षणार्थत्वात् । अपत्यमात्रं चेति । मात्रशब्दोऽयं लिङ्गवचनयोर्व्यवच्छेदाय । लिङ्गवचनादिकमिति । आदिशब्देन कालस्य ग्रहणम्; अत्र हि वर्तमानकालेन निर्देशोऽस्तीति प्रतीतेः, यथोक्तम्---यत्रान्यत्क्रियापदं नास्ति तत्रास्तिर्भवतिपरः प्रथमपुरुषोऽप्रयुज्यमानोऽप्यस्तीति गम्यत इति । ततश्च तस्य कालस्य विवक्षायतं कालान्तरे न स्यात् । सर्वमविवक्षितमिति । नान्तरीयकत्वादुपादानस्यावश्यं हि केनचिल्लिङ्गादिना निर्देशः कर्तव्यः । तस्येदमित्यपत्येऽपीति । अणादीनां विधानं सिद्धमिति शेषः । तस्येदंविशेषा ह्यपत्यसमूहविकारादयः; सम्बन्धसामान्येऽपि सर्वविशेषान्तर्भावात्, ततश्च ठ्तस्येदम्ऽ इत्यनेनैवापत्येऽप्यणादीनां विधानं सिद्धम्, तत्किं योगविभागेनापत्येऽणादयो विधीयन्ते, न ठ्तस्यापत्यमत इञ्ऽ इत्यपवादैः संयुक्त एवापत्यार्थो निर्दिश्यते इति चोद्यार्थं परिहरति---बाधनार्थं कृतं भवेदिति । ठ्तस्येदम्ऽ इत्यनेन विधीयमानानामणादीनां यो बाधकश्च्छः, तस्य बाधनार्थमपत्येऽणादीनां विधानं कृतं भवेदित्यर्थः । ननु शैषिकश्च्छः, अपत्यादिचतुर्थपर्यन्तेभ्यो योऽन्योऽर्थः स शेषः, तत्कथमपत्ये च्छस्य प्रसङ्गो येन तद्वाधनार्थमिदम् ? इत्याह---उत्सर्गः शेषं एवासविति । यदि योगविभागमकृत्वा ठ्तस्यापत्यमत इञ्ऽ इत्युच्येत तदा प्रकृतिविशेषसम्बद्धस्यैवापत्यार्थस्योपयोगः, अतोऽन्योऽपत्यार्थः शेष एव स्यादिति स्यादेव वृद्धादपत्ये च्छः । योगविभागे तु---अपत्यार्थस्याणादिविधावुपयोगाच्छेषत्वाभावाच्छस्याप्राप्तिरेव, सैवात्राप्राप्तिर्बाधेत्युच्यते । उत्सर्ग इति प्रकृतिसामान्यसम्बद्धः सामान्यभूतोऽपत्यर्थ उक्तः । बाधनार्थस्योदाहरणमाह--वृद्धान्यस्य प्रयोजनमिति । श्यअमगव इति । श्यामा गावोऽस्य श्यामगुरिति ॥ एको गोत्रे ॥ ४।१।९३ ॥ एकशब्दोऽयमन्यप्रधानासहायसङ्ख्याप्रथमसमानसाधारणवाची, अन्यार्थे तावद्---ठेकान्याभ्यां समर्थाभ्याम्ऽ, ठ्प्रजामेका रक्षत्यूर्जमेकाऽ, ठेकान् बन्धुरपरान्निरासुःऽ, ठित्येके मन्यन्तेऽ, ठ्यजुष्येकेषाम्ऽ इति; केचित्वनयोः प्रयोगयोः केचिच्छब्दपर्याय एकशब्द इत्याहुः । ठेकः पार्थो धनुष्मताम्ऽ इति प्रधानार्थे । ठाद्यन्तवदेकस्मिन्ऽ, ठेकहलादौऽ, ठेकहल्मध्येऽ इत्यसहायार्थे । ठेको द्वौ बहवःऽ इति सङ्ख्यार्थे । ठेकेऽल्पप्राणः ।ऽ इति प्रथमार्थे । ठ्तेनैकदिक्ऽ इति समानार्थे । ठ्देवदतयज्ञदतावेकधनौऽ इति साधारणार्थे । तत्र सङ्ख्यावचनः साधारणवचनः, प्रथमवचनो वा गृह्यते; अर्थान्तराणामसम्भवात् । गोत्रं पारिभाषिकम्; कृत्रिमाकृत्रिमयोः कृत्रिमे कार्यसम्प्रत्ययात्, अपत्याधिकारे गोत्रग्रहणाच्च । किमर्थमिदमुच्यते, पौत्रप्रभृतावपत्ये विवक्षिते मूलप्रकृतेरुपरवादेरेव प्रत्ययो यथा स्याद्, औपगवादेः प्रत्ययान्तान्मा भूदिति । नैतदस्ति प्रयोजनम्, सन्विधिवदेतद्भविष्यति, तद्यथा---धातोर्विधीयमानः सन् सनन्तान्न भवति, तत् कस्य हेतोः ? आकृतौ पदार्थे समुदाये सकृल्लक्षणं प्रवर्तते, न च सनि विधीयमाने सनन्तो धातुः सम्भवति, तद्वदिहाप्यपत्यप्रत्यये विधीयमानापत्यप्रत्ययान्ता प्रकृतिः सम्भवतीति ततः प्रत्ययो न भविष्यति ? विषम उपन्यासः; एकः सन् प्रत्ययः, विधायकं च लक्षणमेकमेव तत्र युक्तम्, न तस्मिन्विधीयमाने तदन्ता प्रकृतिः सम्भवतीति । इह पुनः ठ्तस्यापत्यम्ऽ ठत इञ्ऽ ठ्यञिञोश्चऽ इति बहूनि लक्षणानि, प्रत्ययाश्च बहवः; तत्र कस्मिश्चित्प्रत्यये विधीयमाने प्रत्ययान्तरेण तदन्ता प्रकृतिः सम्भवत्येव, तथा च गुपादीनां सनः सन् भवति---जुगुप्सिषते इति ? किं पुनः स्याद्यद्येतन्नारभ्येत ? उच्यते; इह केचिन्मन्यन्ते---पुत्रशब्दपर्यायोऽपत्यशब्दः; निघण्टुअषु तथा पाठाल्लोके च दृष्टत्वात् । तद्यथा पितामहस्योत्सङ्गे दारकमासीनं दृष्ट्वा कश्चित्पृच्छति---कस्य पुत्रोऽयमिति, कस्यापत्यमिति ? स देवदतस्य यज्ञदतस्य वेत्युत्पादयितारं व्यपदिशति, नात्मानम्, ततश्च यथा पितामहं प्रति पुत्त्रो न भवति तथापत्यमिति । उत्पादयितैवैकोऽपत्येन युज्यते, न तु पितामहादयोऽपीति । अन्ये तु---क्रियानिमितकोऽपत्यशब्दः, न पतन्त्यनेनेत्यपत्यमिति औणादिको यत्प्रत्ययः, यस्य च येनापतनं ततस्यापत्यम् । व्यवहितजनितोऽपि पौत्रादिः पितामहादेरपतनहेतुर्भवति, श्रूयते हि---ठ्जायमानो वै ब्राह्मणस्त्रिभिरृणवा जायते ब्रह्मचर्येणर्षैभ्यो यज्ञेन देवेभ्यः प्रजया पितृभ्यः, एष वा अनृणो यः पुत्रीऽ इति, एतेन पुत्रमुत्पाद्य पितृणामनृणो भवतीति प्रतिपादनात् पुत्रोत्पादितया प्रजया पतृणामुपिकारी दृश्यते । स्मर्यते च--- पुत्रेण लोकाञ्जयति पौत्रेणानन्त्यमश्नुते । अथ पुत्रस्य पौत्रेण ब्रध्नस्याप्नोति विष्टपम् ॥ इति । इतिहासेषु च जारत्कारवादिषु महती वार्ता---व्यवहितजनितोऽप्युपकारक इति । सूत्रकारश्च शब्दविदां मूर्द्धाभिषिक्तः सूत्रयति---ठपत्यं पौत्रप्रभृति गोत्रम्ऽ इति, ततो विज्ञायते क्रियानिमितकोऽप्यपत्यशब्द इति; अन्यथा यथा पौत्रप्रभृतिः पुत्र इत्यनुपपन्नं तादृगेव तत्स्यात् । एवं सति साक्षात्परम्परया वा यस्य य उत्पाद्यः स तं प्रत्यपत्यामिति सर्वेऽपि पितामहादयोऽप्यपत्येन युज्यन्ते, न तूत्पादयितैवेति । तत्राद्ये पक्षे यद्येतन्नारभ्येत, ततस्तत्र तत्रापत्ये ततत्पितृवचनात्स स प्रत्ययः स्यात्, तद्यथा---उपगोरौपगवः, तस्यौपगविः, तस्यौपगवायनः । एवं शततमेऽपत्ये एकोनशतमपत्यप्रत्ययाः---इत्यनिष्ट्ंअ प्राप्नोति, इष्ट्ंअ च न सिद्ध्यति---औपगव इति, तृतीयादेरुपगुं प्रत्यनपत्यत्वात् । द्वितीये तूपगोः पञ्चमः पूर्वेषां चतुर्णामपत्यं ततो यदोपगोः प्रत्ययस्तदौपगव इतीष्ट्ंअ तावत्सिद्ध्यति; अनिष्टमपि च प्राप्नोति, तच्चानिष्टमनियतमौपगविः, तत औपगवायनः, तत औपगवायनिरिति । पञ्चमे त्रीण्यनिष्टानि, षष्ठे चत्वारीत्येवं यावतिथमपत्यमभिधित्सितम्, तावन्ति द्व्यूनान्यनिष्टानि प्राप्नुवन्ति, तद्यथा---शततमेऽष्टौ नवतिश्चेति । एवं स्थिते इदमारभ्यते । आरभ्यमाणेऽप्येतस्मिन्यदि प्रथमः पक्ष आश्रीयते ततो विध्यर्थमेतत्स्याद्, नियमार्थं वा ? कथं चेदं विध्यर्थं कथं वा नियमार्थम् ? यदि गोत्रशब्देन पौत्रप्रभृत्यपत्यसमुदाय एकैकमपत्यमभिधीयते ततो विध्यर्थम्, तर्हि तथा नियमार्थः सम्भवति, एकस्मिन्नपत्येऽनेकप्रत्ययप्रसङ्गस्याभावाद् । न तावदेकस्मिन्प्रयोगे एकस्याः प्रकृतेरनेकप्रत्ययप्रसङ्गः; एकेनैवोक्तत्वात्त्स्यार्थस्य । नापि प्रयोगभेदेन नानाप्रकृतिभ्यो नानाप्रत्ययप्रसङ्गः, सर्वदा स्वपितृवचनादेव प्रसङ्गादिति परमप्रकृतेस्तृतीयादावपत्येऽप्राप्तः, एवमौपगवाच्चतुर्थादाविति, ततः किं न विधीयते वचनव्यक्तिभेदात् ? एवं ह्यत्र वचनं व्यज्यते---गोत्र एकः प्रत्ययो भवति, यत एक एव प्रत्ययः कर्तुं शक्यते, तत एव प्रत्ययो भवतीत्यर्थः । एकग्रहणसामर्थ्याच्चायमर्थो लभ्यते । ननु विधीयमानेऽपि प्रत्यये प्रकृतिप्रत्ययावसम्बन्धौ स्याताम् ? वचनसामर्थ्यादपत्यापत्यस्यापत्यत्वोपचारात् प्रत्ययो भविष्यतीत्यदोषः । मुख्येऽपत्ये चरितार्थः प्रत्ययो न स्यादिति विधातव्यमपि, अस्मिन्पक्षे सर्वेष्वौपगव इतीष्ट्ंअ सिद्ध्यति, प्रत्ययमालाप्रसङ्गस्तदवस्थ एव । न ह्यनेन ततत्पितृवचनात्प्राप्तः प्रत्ययः प्रतिषिद्ध्यते । तथा पञ्चमेऽपत्ये उपगुशब्दादनेन प्रत्यये विहिते तस्यापत्यमिति षष्ठ औपगविः स्यात् । यदा तु ठपत्यं पौत्रप्रभृतिगोत्रम्ऽ इत्यपत्यशब्देन पौत्रप्रभृत्यसमुदायं लक्षयित्वा तस्यैव गोत्रसंज्ञा विधीयते, एकैकस्मिन्नपत्ये गोत्रशब्दप्रयोगः, समुदायेषु वृताः शब्दा अवयवेष्वपीति न्यायात् । अत्रत्येन वा गोत्रशब्देनावयवधर्मेण समुदायव्यपदेशात्पौत्रप्रभृत्यपत्यसमुदायोऽभीधीयते तदा नियमार्थम्---गोत्रसमुदाये एक एव प्रत्ययो भवतीति । यद्यप्येकैकस्मिन्नपत्ये एकैकः प्रत्ययः प्राप्नोति, तथापि पौत्र एकस्तदपत्ये चापर इति सकलनिरूपणे समुदाये बहवः प्रत्ययाः कृताः स्युरिति नियम उपपद्यते । अस्मिन्पक्षे दोषः---अनन्तरापत्यप्रत्ययान्तातृतीये प्रत्ययः प्राप्नोति, गोत्रशब्दोपादानेन हि नियमः क्रियते---गोत्र एक एवेति, ततश्च गोत्रेऽनेकः प्रत्ययो मा भूत् । अनन्तर एकस्तृतीये चापर इत्येवमनेकः कस्मान्न स्यात् ? एवमपि गोत्रे एक एव हि कृतो भवति । अथ वा---गोत्रसमुदाये एव एवेत्यनेन किं क्रियते ? तृतीयादेश्चतुर्थादौ प्राप्तः प्रतिषिध्यते । यदि तृतीयादेः स्यात्समुदायेऽनेकः प्रत्ययः कृतः स्यादिति । यस्त्वनन्तरस्तृतीये प्राप्तः सोऽभ्यनुज्ञायते---एक एवेतीतरव्यावृतौ नियमेषु तात्पर्यम् । ततश्च यतः प्रत्यये क्रियमाणे समुदायेऽनेकः प्रत्ययः कृतो भवति । ततो न भवतीत्येव वचनार्थो भवति । एवं चतुथस्यापत्यप्रत्ययेनाभिधानं न प्राप्नोति, द्वितीयादुत्पन्नस्तृतीयमेवाचष्टे न तृतीयादुत्पद्यत इति, किन्तु औपगवेरपत्यमिति वाक्यमेव । पञ्चमादेस्तु वाक्येनाप्यभिधानं न प्राप्नोति, न हि ततत्पितृवचनः कश्चिदपत्यप्रत्ययान्तः शब्दोऽस्ति येन विगृह्यएत । परमवकृतेश्च तृतीयादौ न कुत्रचित्प्रत्ययः प्राप्नोति, ओयोगात् । तदेवमस्मिन्पक्षे परमप्रकृतेश्चोत्पतिर्वक्तव्या, अनन्तराच्च तृतीये प्राप्तस्य प्रतिषेधो वक्तव्यः । स्यादेतत्---न परमप्रकृतेरुत्पत्तिर्वक्तव्या, अभेदोपचारेणैव सिद्धेः । अभेदोपचारश्चोपग्वौपगवयोरौपगवतदपत्ययोर्वा । तदेवं शततमेऽप्यपत्येऽभेदोपचारपरम्परया औपगव इत्यभिधानं सिध्यति, न चैवमभेदोपचारेणैवेष्टस्य सिद्धेः सूत्रस्य वैयर्थ्यम्, भेदविवक्षायां प्रत्ययमालाप्रसङ्गनिवृत्यर्थत्वादिति ? एवमप्यनन्तरस्य तृतोयस्य च भेदविवक्षायां तृतीय औपगविः स्यात्, तथाऽनन्तरे तृतीयादौ च यत्र प्रत्ययो भिद्यते, यथा---गर्गादौ, तत्राप्यनिष्टप्रसङ्गः । यदि तावद् गार्ग्ये गर्गापचारस्तदा तदपत्यमपि गार्गिः स्याद्, गार्ग्यश्चेष्यते । अथापि गर्गेस्तदपत्यस्य चाभेदोपचारः, एवमपि गार्गिः स्यादितीत्यादौ विषये दोषवानेवाभेदोपचारः । तदेवं प्रथमपक्षे विधौ नियमे च दोषप्रसङ्गाद् द्वितीयः पक्ष आश्रीयते, तत्रापि नियमः । यद्यप्येकैकस्मिन्प्रयोगे एकस्याः प्रकृतेरेक एव प्रत्ययः प्राप्नोति, तथाप्युपगोः पञ्चमे पूर्वाभ्यश्चतसृभ्यः प्रकृतिभ्यः प्रयोगभेदेन नानाप्रत्ययप्रसङ्गे नियमः क्रियते---एव एवेति । तदिदमुक्तम्---भेदेन प्रत्ययप्रसङ्गे नियमः क्रियते । ननु न ज्ञायते--क एवो भवतीति, यो वा परमप्रकृतेर्यो वा प्रत्ययान्तादिति ? नन्वेक इत्युच्यते, यदि च प्रत्ययान्तात्प्राप्तः प्रत्ययः स्यादनेकः कृतः स्यात् । क्व ? न तावत्पञ्चमे; पूर्वेषां प्रत्ययानामस्मिन्प्रयोगे प्रसङ्गोऽपत्यान्तरविषयत्वात् । अथ गोत्रसमुदाये केनासौ निवार्येत ? न तावदनेनैव, न हि गोत्रसमुदायो गोत्रग्रहणेन गृह्यते । अथापि गृह्यएत, एवमपि न ज्ञायते---यो वा परमप्रकृतेः, यो वाऽनन्तरादिति ? यदि पुनर्गोत्रग्रहणं न क्रियते, क्रियमाणं वाऽपत्यमात्रपरं विज्ञायते, न स्यादेष दोषः; अपत्ये समुदाये एक एवेति नियमात् । अपत्याधिकारे गोत्रग्रहणात्वेष दोषो जायते ? नैष दोषः; अपत्यमिति वर्तते, गोत्रेऽपत्ये एक एवापत्यप्रत्ययो भवतीति वचनव्यक्तिः । यदि च प्रत्ययान्तात्प्रत्ययः स्यादपत्यप्रत्ययोऽनेको गोत्रे कृतः स्यात्, सामर्थ्येन वा प्रत्ययो विशेष्यते---गोत्राभिधाने समर्थानां मध्ये एक एवेति । यदि च प्रत्ययान्तात् प्रत्ययः स्याद् गोत्राभिदानसमर्थोऽनेकः कृतः स्यात्प्रथमस्यापि समर्थत्वात् । यद्यप्यस्मिन्प्रयोगेऽपत्यान्तरे वर्तते पञ्चमं प्रत्यपि सामर्थ्यं तावदस्ति, यदि वा ठ्तस्यापत्यम्ऽ इत्यादिलक्षणैरेक एव प्रत्ययः कर्तव्यः, क्व ? गोत्रे, यस्मिन्प्रत्यये गोत्रम्भिदित्सितं तत्रेत्यर्थः । प्रत्ययान्ताच्च प्रत्यये तस्मिन्नेव प्रयोगे प्रकृतिरूपसम्पादनायापि तावदनेक कृतः स्यात् । यदि वा प्रथमवचन एकशब्दः, कश्च प्रथमः ? यमकृत्वा प्रत्ययान्तरं कर्तुं न शक्यते । साधारणवचनो वा, अपत्याधिकाराच्च यः सर्वापत्यसाधारणः स एव गोत्रे भवतीति, गर्गशब्दाद्यञेव भवतीति । गर्गशब्दाद्यो यञ् प्राप्तः स एव भवति, न प्रकृत्यन्तरेभ्यः प्राप्ताः प्रत्यया इत्यर्थः, तदाह---प्रत्ययो नियम्यत इति । प्रत्ययान्तरं वार्यत इत्यर्थः । एतेन प्रकृतिर्नियम्यते इत्यपि व्याख्यातम् । अथ वेत्यादि । अस्मिन्पक्षे प्रथमवचन एव शब्द इति दर्शितम् । प्रथमा प्रकृतिरिति । सूत्रे तु शब्दापेक्षया पुंल्लिङ्गनिर्देश इति दर्शितम् । एक एव शब्द इति । अथ वा---अस्मिन्पक्षे साधारणवचन एकशब्दः परमप्रकृतिश्च सर्वप्रत्ययसाधारणी, सङ्ख्यावचनो वा प्रथमातिक्रमे कारणाभावात्परमप्रकृतिरेकशब्देन गृह्यते । अनयोः पक्षयोः प्रथमा प्रकृतिरिति । एकशब्दस्यार्थतो विवरणं द्रष्टव्यम् ॥ गोत्राद्यौउन्यस्त्रियाम् ॥ ४।१।९४ ॥ अत्राप्यनारभ्यमाणेऽस्मिन्योगे उत्पादयितर्यपत्ययुक्ते गोत्रसंज्ञाया युवसंज्ञया बाधितत्वादसति पूर्वसूत्रव्यापारे चतुर्थे तृतीयात्पञ्चमे चतुर्थात्षष्ठे पञ्चमादौ यूनि तृतीयादुत्पत्तिर्न प्राप्नोति, तं प्रत्यनपत्यत्वादितीष्ट्ंअ न सिध्यति । सर्वेषु त्वपत्ययुक्तेषु पञ्चमे यूनि पूर्वेभ्यश्चतुर्भ्यः प्रत्ययः प्राप्नोति । तत्र यदा तृतीयातदा गार्ग्यायण इतीष्ट्ंअ तावत्सिध्यति, अनिष्टमपि प्राप्नोति; प्रकृत्यन्तरेभ्योऽपि प्रत्ययप्रसङ्गादित्यत इदमारभ्यते । अत्रापि यदि पूर्वः पक्ष आश्रीयते ततो विध्यर्थमेतत्स्यात्, नियमार्थं वा ? यदि युवशब्देनैकमपत्यमुच्यते, तत एकस्मिन्यूनि गोत्रादगोत्राच्च प्राप्त्यभावात् चतुर्थेन व्यवहिते पञ्चमादौ यूनि गोत्राद्विध्यर्थं भवति । अथ चतुर्थप्रभृत्यपत्यसमुदायो युवशब्देनोच्यते, ततो गोत्राच्चतुर्थे चतुर्थादगोत्रात्पञ्चम इति गोत्रादगोत्राच्च युवसमुदाये प्रत्ययप्रसङ्गे गोत्रादेवेति नियमार्थं भवति । तत्र विधौ गर्ग्यायण इतीष्ट्ंअ सिध्यति, प्रत्ययमालाप्रसङ्गदोषः स्यादेव; तत्पितृवचनात्प्राप्तस्य प्रत्ययस्यानिषिद्धत्वात् । नियमे चतुर्थादेः प्राप्तस्य प्रत्ययस्य प्रतिषेधोऽयं सम्पद्यते---यदि चतुर्थादेः स्याद् युवसमुदाये गोत्रादपि प्रत्ययः कृतः स्यादिति, ततश्च नानिष्टप्रसङ्गः; किन्तु पञ्चमादौ यूनि गोत्रादुत्पत्तिर्न प्राप्नोति, तं प्रत्यनपत्यत्वादिति पञ्चमस्य वाक्येनाभिधानंस्याद्---गार्ग्यायणस्यापत्यमिति । षष्ठस्य तु वाक्येनापि न सिद्ध्यति, न हि तत्पितृवचनोऽपत्याप्रत्ययान्तः शब्दोऽस्ति, येन विगृह्यएत । तदेवमत्रापि द्वितीयः पक्ष आश्रीयते, नियमश्च, तदाह---अयमपि नियम इति । गोत्रादेवेति । यून्येवेत्येष विपरीतं नियमो न भवति; ठेको गोत्रेऽ इति नियमाद्यौउनोऽन्यत्र गोत्रप्रत्ययस्य प्रसङ्गाभावात् । न परमप्रकृत्यनन्तरयुवभ्य इति । अन्यथा प्रयोगभेदेन तेभ्योऽपि स्यात् । कि पुनरत्र प्रतिषिध्यत इति । सर्वस्मिन्नपि प्रतिषिध्यमाने दोषदर्शनात्प्रश्नः । तमेव दोषमाविष्करोति---यदि नियम इति । तदेकवाक्यत्वात्प्रतिषेधस्येति भावः । स्त्रियामनियमः प्राप्नोतीति । परमप्रकृत्यनन्तरयुवलक्षणाः प्रत्ययाः प्रयोगभेदेन पर्यायेण स्युरित्यर्थः । अथ युवप्रत्ययः प्रतिषिध्यत इति । अस्त्रियामिति योगविभागेन प्रसज्यप्रतेषेधाश्रयेण चेति भावः । गोत्रप्रत्ययेनाभिधानं न प्राप्नोतीति । तद्यथा ठ्गर्गादिभ्यो यञ्ऽ गार्गी गार्ग्यायणी, अपत्यसामान्यलक्षण एव तु प्रत्ययः स्यात् । किं कारणमनभिधानं प्राप्नोतीत्यत आह---गोत्रसंज्ञाया युवसंज्ञया बाधितत्वादिति । यथा च बाधस्तथा तत्रैव वक्ष्यते । स्यादेतत्---युवप्रत्ययस्य स्त्रियां लुक्करिष्यते, कथम् ? ठ्यूनि लुक्ऽ इत्यस्यानन्तरं स्त्रियां चेति वक्ष्यामि, यूनि लुगित्येव, ठ्प्राग्दीव्यतःऽ इत्येतन्निवृतम् । यद्वा ठ्वतण्डाच्च, लुक् स्त्रियाम्, यूनि चऽ इति वक्ष्यामि, लुक् स्त्रियामित्येव, ततश्च गार्ग्यशब्दादुत्पन्नस्य फको लुकि कृते लुप्तस्याप्यर्थं प्रकृतिरेवाहेति यञन्तात्स्त्रियां वर्तमानान्ङीष्ष्फौ भविष्यत इति ? एवमप्यौपगवशब्दादत इञो लुकि कृते, अनुपसर्जनाधिकारादण्योऽनुपसर्जनमित्युच्यमान ईकारो न प्राप्नोति; अणर्थस्याप्रधानत्वात्, यूनि संक्रान्तत्वात् । मा भूदेवमण्योऽनुपसर्जनमिति, अणन्तादनुपसर्जनादित्येवं भविष्यति ? नैवं शक्यम्; इह हि दोषः स्याद्---आपिशलिना प्रोक्तं व्याकरणम्, ठिञश्चऽ इत्यण्, तदधीते आपिशला ब्राह्मणी, ठ्तदधीतेऽ इत्यणः प्रोक्ताल्लुकि अणन्तस्याध्येत्र्यां प्रधानस्त्रियां संक्रान्तत्वान्ङीप्प्राप्नोति, तस्मादण्योऽनुपसर्जनमित्येवाश्रयणीयम्, स्त्रियां योऽण्विहित इति वा । यथा च सत्यौपगवीतीकारो न प्राप्नोति । यद्यप्यत्र प्रत्ययलक्षणेन इञ उपसङ्ख्यानमितीकारः स्यात्, इह तु ग्लुचुकायनेरपत्यमौत्सर्गिकस्याणो लुकि ङीन्न प्राप्नोति, ठितो मनुष्यजातेःऽ इति ङीष् भविष्यति । इह तर्हि यस्कस्यापत्यं शिवाद्यण् यास्कः, तस्यापत्यं स्त्री, ठणो द्व्यचःऽ इति फिञ्, स्त्रियां लुकि ईकारो न प्राप्नोति ? न ह्यत्र लुप्तः प्रत्यय ईकारस्य निमितम्, यश्च श्रूयते न स स्त्रियां विहित उपसर्जनं च । तर्हि का गतिः ? इत्यत आह---तस्मादिति । युवसंज्ञैव प्रतिषिध्यत इति । ननु यूनि यदुक्तं तत्स्त्रियां न भवतिऽ इत्युक्तम्, न च युवसंज्ञा यून्यूक्ता, नहि युवसंज्ञायाः प्राग्युवसंज्ञास्ति ? चतुर्थादेर्जीवद्वंश्यस्यापत्यस्योपलक्षणं युवशब्द इत्यदोषः । अपर आह---स्वरूपपरो युवशब्दः, परिभाषा चेयम्---यत्र युवशब्दः श्रूयते तत्र ठस्त्रियाम्ऽ इत्युपतिष्ठते । ठ्जीवति तु वंश्ये युवा अस्त्रियाम्ऽ इति वा व्यक्तमेव पठितव्यमिति ॥ अत इञ् ॥ ४।१।९५ ॥ अकारान्तात्प्रातिपदिकादिति । ठत सातत्यगमनेऽ इत्यस्य वाऽच्छब्दान्तानां वा कुर्वदादीनां ग्रहणं न भवति, यदि स्याच्छिवादिषु येषामस्येञो बाधनार्थः पाठः, शिवप्रोष्ठप्रौष्ठिकप्रभृतीनां तेषां पाठोऽनर्थकः स्यात् । व्यपदेशिवद्भावादिहापि भवति---अस्यापत्यमिरिति, यस्येति लोपे प्रत्ययमात्रस्य श्रवणम् । इह तु---एरपत्यमस्य युव्रेति, ठ्यञिञोश्चऽ इति फकि यस्येतिलोपं बाधित्वा परत्वादादिवृद्धौ कृतायाम्---आयायन इति भवति ॥ बाह्वादिभ्यश्च ॥ ४।१।९६ ॥ क्वचिदिति । अजीगर्तादिषूदङ्कपर्यन्तेष्वदन्तत्वात्पूर्वेणेञ् प्राप्तः, तस्य ठृष्यन्धकवृष्णिकुरुभ्यश्चऽ इत्यण् बाधकः प्राप्तः । अन्ये सर्वेऽनकारान्ताः, तेषु च बाहुप्रभृतिषूवर्णान्तेषु, पुष्करसदादिषु हलन्तेषु चाण् प्राप्तः । चूडाशब्दाद् ठ्द्व्यचःऽ इति ढक्, वृकलादिभ्यस्तन्नामिकण्प्राप्तः । शिरस्, लोमन्निति तदन्तयोर्ग्रहणम् । ठ्सम्भूयोम्भोमितौजसां सलोपश्चऽ इत्येव वक्तव्ये पृथक् सलोपश्चेति वचनं वैचित्र्यार्थम् । उदञ्चु इति पठ।ल्ते, तत्र नायमुकारान्तात्प्रत्ययः; किन्तु क्विन्नन्तात्प्रत्ययः, नलोपाभावस्तु निपात्यते---उदीचोऽपत्यमौदञ्चिः । एतत्सर्वं पैलादिष्वौदञ्चिशब्दपाठाद्विज्ञायते । बाह्वादिप्रभृतिष्विति । प्रभृतिग्रहणेन वक्ष्यमाणानां कुञ्जादीनां ग्रहणम् । लोके विदितो लौकिको गोत्रभावः, संज्ञाकारित्वम् आदिपुरुषत्वमित्यर्थः । एतच्च न्यायसिद्धम्, कथम् ? अर्थवद्ग्रहणे नानर्थकस्येति अर्थवतां बाह्वादीनां ग्रहणम्, स चार्थः प्रसिद्धः; झटिति प्रतीतेः । स्मृतिशास्त्रस्य चार्थतोऽनादित्वादनाद्यर्थाभिधायिनामेव ग्रहणं न्याय्यम् । बाहुर्नाम कश्चिदिति । एवं कुञ्चो नाम नडो वा, तस्मादिञेव भवति---कौञ्जिः, नाडिरिति । यतु कार्यं न स्वरूपोपादानेन विधीयते, किन्तु प्रकारान्तरेण; तदिदानीन्तनार्थाभिधायिनामपि भवति, ठत इञ्ऽ, दैवदतिरिति । सम्बन्धिशब्दानां चेति कार्यापेक्षया षष्ठी, सम्बन्धिशब्दानां श्वशुरादीनां यत्कार्यमुच्यते तस्य तत्सदृशे प्रतिषेधो भवति । संज्ञाश्वसुरस्येति । संज्ञया यः श्वसुरः, न सम्बन्धेन । श्वासुरिरिति । उणादिषु नावश्यं व्युत्पत्तिकार्यं भवति, तेन ठ्सावसेराप्तौऽ इति व्युत्पन्नस्य श्वसुरशब्दस्य ठ्न य्वाभ्याम्ऽ इत्येष विधिर्न भवति । तथा ठ्मातृपितृभ्यां स्वसाऽ इति षत्वं धान्यमतरि न भवति । इदमपि न्यायसिद्धम्; संज्ञाश्वशुरस्यादिमत्वात्सम्बन्धिशब्दस्यानादित्वात् । मातृपितृभ्यामित्यत्रापि प्रसिद्धतरत्वाज्जननीवाचिनो ग्रहणम् । उक्तं च--- अभिव्यक्तपदार्था ये स्वतन्त्राः लोकविश्रुताः । शास्त्रार्थस्तेषु कर्तव्यः शब्देषु न तदुक्तिषु ॥ इति । चकारोऽनुक्तसमुच्चयार्थ आकृतिगणतामस्य बोधयतीति । पठितशब्दापेक्षः समुच्चय इति भावः ॥ सुधातुरकङ् च ॥ ४।१।९७ ॥ व्यासरुडेत्यादि । वेदं व्यस्यतीति देवव्यासः, ठ्करण्यण्ऽ, तस्यैकदेशप्रयोगः---व्यास इति, भीमसेनो भीम इतिवत् । वरुडादयो जातिविशेषाः । ततर्हि वक्तव्यम् ? न वक्तव्यम् ; प्रकृत्यन्तराण्येवैतानि स्वार्थिककन्प्रत्ययन्तानि, अव्यविकन्यायेन च कन्, न हि तैर्वाक्यमेव भवति । व्यासशब्दादृषिवाचिनोऽपि बाह्वादेराकृतिगणत्वादिञ् भवति ॥ गोत्रे कुञ्जादिभ्यश्च्फञ् ॥ ४।१।९८ ॥ चकारो विशेषणार्थ इति । यद्यत्र चकारो न क्रियेत ततो ठ्व्रातफञोरस्त्रियाम्ऽ इति वक्तव्यम्, ततोः ठश्वादिभ्यः फञ्ऽ इत्यस्याग्रहणं स्यात् । कौञ्जायन्य इति । स्वार्थे ञ्यः बहुषु तु ठ्ञ्यादयस्तद्राजाःऽ इति तद्राजत्वात् ठ्तद्राजस्य बहुषुऽ इत्यादिना लुक् । किं पुनरत्र ञित्स्वरो भवति ? उत चित्स्वरः ? इत्यत्राह---एकवचनद्विवचनयोरिति । तत्र हि ञ्यप्रत्ययः श्रूयते, स च पश्चाद्भावीति तन्निबन्धनो ञित्स्वरः सतिशिष्टः । बहुवचने तु ञ्ये निवृते सम्प्रधारणा---ञित्स्वरो वा, चित्स्वरोवेति ? तत्र परत्वाद् ञित्स्वरः प्राप्नोति, चित्करणसामर्थ्याच्चित्स्वरो भविष्यति । ञित्करणसामर्थ्याद् ञित्स्वरः प्राप्नोति, अस्त्यन्यत् ञित्करणस्य प्रयोजनम्, किम ? वृद्ध्यर्थो ञकारः । चित्करणेऽपि तर्ह्यस्त्यन्यत्प्रयोजनम्, किम् ? विशेषणम् । शक्योऽत्र विशेषमार्थोऽन्योऽनुबन्ध आसंक्तुम् । तत्र चकारानुरोधाच्चित्स्वरो भविष्यति । वृद्ध्यर्थोऽपि तर्ह्यन्योऽनुबन्धः आसंक्तुम् । तत्र चकारानुरोधाच्चित्स्वरो भविष्यति । वृद्ध्यर्थोऽपि तर्ह्यन्योऽनुबन्धः शक्य आसंक्तुम्, तत्र ञकारानुरोधाद् ञित्स्वरः प्राप्नोति ? एवं स्थिते इदमुच्यते---परमपि ञित्स्वरं त्यक्त्वा चित्स्वर एवेष्यत इति । एवं मन्यते---स्वरे योगविभागः कर्तव्यः, इतमस्ति ठ्चितःऽ---चितोऽन्त उदातो भवति, ततः ठ्तद्धितस्यऽ चित इत्येव, तद्धितस्य चितोऽन्त उदातो भवति । किमर्थमिदम् ? परत्वात्प्राप्तस्य ञित्स्वरस्य बाधनअर्थम् । ततः ठ्कितःऽ, कितश्च तद्धितस्यान्त उदातो भवतीति । यदि तु क्फप्रत्ययः क्रियते, तद्धितस्येति योगविभागः शक्योऽकर्तुम् । अथैवं कस्मान्न क्रियते---ठ्गोत्रे कुञ्जादिभ्यश्च्फञ्, बहुषु फक्, नडादिभ्यस्चऽ इति ? नैवं शक्यम्; इह हि दोषः स्यात्---कौञ्जायनानामपत्यं माणवकः कौञ्जायन्यः, कौञ्जायन्यौ; ऐकेन यशब्दः श्रूयते, द्व्येकयोर्हि च्फञ्विधीयते । यदा तु च्फञन्तात् ञ्यो विधीयते तदा यून्युत्पन्नस्येञः ठ्ण्यक्षत्रियार्षञितःऽ इति लुकि कृते ठ्तद्राजस्यऽ इतिञ्यस्य लुकि प्राप्ते ठ्गोत्रेऽलुगचिऽ इति प्रतिषेधाद्यशब्दस्य श्रवणं भवति । यथा कौञ्जायन्यस्यापत्यानि बहूनि, अत इञो लुकि तद्राजस्यैव बहुषु वर्तमानत्वाद् ञ्यस्य लुकि कौञ्जायना इति भवति ॥ नडादिभ्यः फक् ॥ ४।१।९९ ॥ शलङ्कु शलङ्कं चेति । द्वे अपि प्रथमान्ते । शब्दरूपापेक्षया नपुंसकनिर्देशः । ठ्शलङ्कुऽ इत्येतच्छब्दरूपं शलङ्कं भवति, तद्रूपेण परिणमते इत्यर्थः । इञेवान्यत्रेति । बाह्वादेराकृतिगणत्वादिति भावः । अम्युपेत्यापि गोत्रमात्रे फको विधानम्, परिहारमाह---अथ वेति । इञो भावस्येति । शलङ्कभावापतेरप्युपलक्षणमेतत्, पूर्वत्र परिहारे तस्याः स एव पाठो ज्ञापको वेदितव्यः । अग्निशर्मन्वृषगण इति । अग्निशर्मन्शब्दः फकमुत्पादयति वृषगणे गोत्रे, आग्निशर्मायणो भवति वार्षगण्यश्चेद्, आग्निशर्मोऽन्यः । अमुष्येति पठ।ल्ते, तत्रादः शब्दे प्रातिपदिकमात्रे पठितव्ये विभक्त्यन्तस्य पाठादुत्पन्नेऽपि फकि लुग्न भवति । आमुष्यायणा, आमुष्यपुत्रिकेत्यलुग्विधावस्य ग्रहणं न कर्तव्यं भवति । कृष्णरणौ ब्राह्मणवासिष्ठयोरिति । कार्ष्णायनो भवति ब्राह्मणश्चेत्, कार्ष्णिरन्यः । राणायनो भवति वासिष्ठश्चेद्, राणिरन्यः । क्रोष्टुअ क्रोष्ट्ंअ चेति । क्रौष्टायनः ॥ हरितादिभ्योऽञः ॥ ४।१।१०० ॥ ठ्हरितादिभ्यःऽ, ठञःऽ इति व्यधिकरणे पञ्चम्यौ । हरितादिभ्यः परो योऽञ् तदन्तात्प्रातिपदिकादित्यर्थः । वृत्तिकारोऽप्येतदेव वस्तुतो व्याचष्टे---हरितादिभ्योऽञन्तेभ्य इति । ठ्हरितादिभ्यो गोत्रापत्येऽञ्प्रत्ययो भवतिऽ इत्ययं त्वर्थो न भवति; बिदादिषु पाठात् । सामर्थ्यादिति । गोत्रप्रत्ययान्तादपरो गोत्रप्रत्ययो न भवतीत्येतत्सामर्थ्यम् । तस्माद्गोत्राधिकारेऽपि यूनि प्रत्ययो विज्ञायते । न चैवं गोत्राधिकारस्य विच्छेद इत्याह---गोत्राधिकार इति । उतरार्थं गोत्रग्रहणमनुवर्तत एवेत्यर्थः ॥ यञिञोश्च ॥ ४।१।१०१ ॥ गोत्रग्रहणेन यञिञौ विशेष्येति इति । गोत्रे यौ यञिञौ विहितावित्येवम् । न चैव प्रत्ययार्थस्यापत्यस्याविशेषितत्वादपत्यमात्रे प्रत्ययप्रसङ्ग इत्याह---तदन्ताद्यौउन्येवायं प्रत्यय इति । एवकारः पौनर्वचनिकः--न केवलं पूर्व एव प्रत्ययो यूनि भवति, यमपि यून्येवेति । कस्मात् ? इत्याह---गोत्राद्यौउनीति वचनादिति ॥ शरद्वच्छुनकदर्भाद् भृगुवत्साग्रायणेषु ॥ ४।१।१०२ ॥ शरद्वदादीनां भृग्वादिवंशप्रभवानां कृत्रिमा अपि पुत्राः सन्ति, स्ववंशप्रभवा अपि, तत्रापत्यविशेषणं क्रियते । तत्र भृगुः शरद्वतोऽपत्यं न भवति; पूर्वभावित्वात् । एवं शुनकस्य वत्सः, तस्माद्भार्गंवश्च वात्स्यश्च आग्रायणश्चेति द्वन्द्वे युगपदधिकरणवचनतया वर्तिपदस्य बहुषु वृतेरत्रिभृग्विति ठ्यञञोश्चऽ इति च गोत्रप्रत्ययस्य लुक्, तदाह---भार्गवश्चेद्वात्स्यश्चेदिति । दार्भिरिति । दर्भशब्द ऋषिवचनो न भवति, बाह्वादिषु वा पाठयः ॥ द्रोणपर्वतजीवन्तादन्यतरस्याम् ॥ ४।१।१०३ ॥ पूर्वमुक्तम्--गोत्राधिकारश्च शिवादिभ्योऽण् इति यावदिति, इहाप्युक्तम्---गोत्र इत्येवेति, तत्र नोदयति---कथमिति । नैवात्रेति । यस्य ग्रहणमूरीकृत्य भवानानन्तर्ये दोषमाह, स नैव गृह्यत इत्येवशब्दस्यार्थः । महाभारतेद्रोणोमहाभारतद्रोणः । अनादिरिति । इदानीमेव ह्युक्तम्---बाह्वादिप्रभृतिष्वित्यादि । नन्वेवं प्रयोगस्यात्यन्तमनुपपतिः ? इत्यत आह---इदानीं त्विति । अर्वाचीनादित्यर्थः, न पुनर्महाभारतद्रोणो वृत्तिकारेण समानकालः; अनादेरिदानीन्तनस्य च द्रोण इति श्रुतिः समाना । तत्रानादिद्रोणस्य ये वंश्या अश्वत्थाम्ना समानकालास्ते द्रोणायना इत्युच्यन्ते । तत्र यद् दृष्ट्ंअ गोत्रत्वं तदश्वत्थाम्न्यपि द्रोणशब्दावाच्यापत्यत्वात् स्खलितबुद्धयः प्रतिपतारोऽध्यारोपयन्ति । तेनाध्यारोपेणाअश्वत्थामनि तथा द्रौणायन इत्येतद् गोत्रप्रत्ययेनाभिधानं भवति ॥ अनृष्यानन्तर्ये बिदादिभ्योऽञ् ॥ ४।१।१०४ ॥ गोत्र इत्येवेति । एतेन येऽत्र ऋषिशब्दा बिदौर्वप्रभृतयस्तेभ्यो गोत्र एवान्यथा स्यादिति गोत्र इत्येतदिहानुवर्तनीयमिति दर्शयति---ये पुनरित्यादि । कथं पुनर्गोत्राधिकारे सत्ययमर्थो लभ्यते ? इत्यत्राह---अनृष्यानन्तर्य इत्यस्यायमर्थ इति । ठनृषिऽ इति पञ्चम्या लुका निर्देशः, ठानन्तर्येऽ इति स्वार्थेष्यञ् । एवं च पौत्रा इत्यादावनन्तरस्यैवाभिधानम्, न गोत्रस्य, नापत्यसामान्यस्य च । यद्ययमर्थ इति । अस्मिन् ह्यर्थेऽनृषिभ्योऽनन्तरापत्ये विध्यर्थमिदं भवति, ततश्च ऋष्यपत्यनैरन्तर्ये, ऋषयश्च तेऽपत्यानि च ऋष्यपत्यानि, तेषां नैरन्तर्ये, ऋषिरूपाण्यपत्यानि निरन्तराणि यत्र तस्मिन्विषये प्रतिषेधो न कृतः स्यात्, तत्र को दोषः ? इत्यत्राह---तत्रेदमिति । कश्यप ऋषिस्तस्यापत्यमप्यृषिः, एवम् ठ्सप्त नैरन्तर्येण ऋषयस्तेषां सप्तम इन्द्रहूर्नाम तत्र काश्यपानाम्ऽ इति प्रयोगो नोपपद्यते; अञि सति ठ्यञञोश्चऽ इति लुक्प्रसङ्गात् । तस्माद् ठनृष्यानन्तर्येऽ इत्यस्य ऋषीणामानन्तर्येऽव्यवधाने प्रत्ययो न भवतीत्ययमर्थो व्याख्येय इति भावः । प्रयोगं तावदुपपादयति---अनन्तरापत्यरूपेणेति । अपत्यसामान्यरूपेणेत्यर्थः । न पुनरृष्यणनन्तरापत्ये विधीयते । तत्र यथा ठभून्नृपःऽ इत्यादौ वस्तुतो भूतविशेषेऽपि सामान्यविवक्षया लुग् भवति, तद्वदिहापि वस्तुतो गोत्रेऽपि तद्रूपतिरस्कारेणापत्यसामान्यरूपविवक्षया ऋष्यण्भवतीत्यर्थः । किं पुनः कारणमियं क्लिष्टकल्पनाऽऽश्रीयते ? इत्याह---अवश्य चैतदेवं विज्ञेयमिति । ऋषीणामपत्यानां नैरन्तर्यं विषयो यस्य प्रतिषेधस्य स तथोक्तः । कौशिको विश्वामित्र इति दुष्यतीति । कि कारनम् ? विश्वामित्रस्तपस्तेपे---नानृषिः स्यामपि तु ऋषिरेवस्यामिति, तत्र भवानृषिः सम्पन्नः; स पुनस्तपस्तेपे---नानृषेः पुत्रः स्यामिति, तत्र भावन् गाधिरप्यृषिः सम्पन्नः; स पुनस्तपस्तेपे---नानृषेः पौत्रः स्यामिति, तत्र भवान्कुशिकोऽपि ऋषिः सम्पन्नः । तदेतदृष्यानन्तर्यं सम्भवति । परस्त्री परशुं चेति । द्वितीयानिर्देशादापद्यते इति शेषः । परस्त्रीशब्दः प्रत्ययमुत्पादयति, परशुं चादेशमापद्यते, परस्त्रिया अपत्यं पारशवः, ब्राह्मणस्य शूद्रायामूढायामुत्पन्नः, सा च जातितः वरस्त्री भवति । यस्तु परभार्यायामुत्पन्नः पारस्त्रैणेयः स भवति कल्याण्यादिः, अनुशतिकादिश्च । पारशव इत्यत्र पूर्वोतरपदसम्प्रमोहादनुशतिकादिकार्याभावः ॥ गर्गादिभ्यो यञ् ॥ ४।१।१०५ ॥ अपत्यसामान्ये भविष्यतीति । अन्ये तु---ठ्मनुतन्तुशब्दसमुदाय एकः, न तु द्वौ शब्दौ पठितौ इति वदन्ति, तथा च ब्राह्मणे---मानुतन्तव्यमुवाचेति प्रयोगः । कालवमनुतन्तुकुशिकानामिति च प्रवरे । कथं मानवीति । लोहितादिपाठान्नित्येन ष्फेण भाव्यमिति भावः । अनन्तरापत्यविवक्षायां त्विति । गोत्रस्यापीति बोद्धव्यम्, तथा च जामदग्नाः, वात्सा इति प्रवरे प्रयोगः । वाजाऽसे इति । वाजशब्दो यञमुत्पादयति, असेउअसमासे । समासे तु सौवाजिः, ठ्ग्रहणवता प्रातिपदिकेनऽ इत्यस्यानित्यत्वज्ञापनार्थः---ठसेऽ इति प्रतिषेधः ॥ मधुबर्भ्वोर्ब्राह्मणकौशिकयोः ॥ ४।१।१०६ ॥ गण एव बभ्रुकौशिक इति वक्तव्यम्, एवं हि द्विबेभ्रुग्रहणं न कर्तव्यं भवति ? तथा तु न कृतमित्येव ॥ कपिबोधादाङ्गिरसे ॥ ४।१।१०७ ॥ कापेय इति । ठितश्चानिञःऽ इति ढक् । बौधिरिति । अनृषित्वादिञ्, बाह्वादिर्वा ॥ वतण्डाच्च ॥ ४।१।१०८ ॥ किमर्थमिति । ठ्वतण्डाल्लुक् स्त्रियाम्ऽ इत्येव कस्मान्नोक्तम्, किमर्थो योगविभाग इति प्रश्नः । परिहरति---शिवादिष्वपीति । वतण्डो नाम ऋषिः, तत ऋषित्वादेवाणि सिद्धे शिवादिषु तस्य पाठो गोत्रे गर्गादियञा समावेशार्थः । तत्र यथाऽनाङ्गिरसे समावेशो भवति, एवमाङ्गिरसेऽपि स्यादिति तन्निवत्यर्थो योगविभाग इत्यर्थः ॥ लुक् स्त्रियाम् ॥ ४।१।१०९ ॥ वातण्ड।लयनीति । लोहितादिलक्षणः ष्फः । वातण्डीति । ऋषित्वात् ष्यञ्न भविष्यति ॥ अश्वादिभ्यः फञ् ॥ ४।१।११० ॥ ये त्वत्र गोत्रप्रत्ययान्ताः पठ।ल्न्त इति । वैल्य, आनडुह्य, आत्त्रेय---इत्येते । तत्र बैल्यशब्द ठ्वृद्धेत्कोसलाजादाञ्ञ्यङ्ऽ इति ञ्यङ्न्तः, विलिर्नाम राजर्षैः, आनडुह्यशब्दो गर्गादियञन्तः, आत्त्रेयः ठितश्चानिञःऽ इति ढगन्तः । शय आत्त्रेये इति । शयशब्दात्फञ् भवति आत्त्रेयश्चेत्, शायायनः । आत्त्रेयादन्यत्र शायिः, अनृषित्वादिञ्, बाह्वादिर्वा । अन्ये त्वणमेव प्रत्युदाहरन्ति । पुंसि जात इति । पुंसीति प्रकृतिविशेषणम्, जातस्यापत्यं जातायनः । स्त्रियां तु जाताया अपत्यं जातेय इति ढगेव भवति, अन्यथा लिङ्गविशिष्टपरिभाषया फञेव स्यात् । आत्त्रेय भरद्वाजे इति । आत्त्रेयायनो भवति भारद्वाजश्चेत्, अन्यत्रात इञः ठ्ण्यक्षत्रियऽ इति लुक् । भारद्वाजात्त्रेये इति । अत्रिगोत्रजो यदा भारद्वाजगोत्रजेन पुत्रत्वेन स्वीक्रियते तदा प्रत्ययः । स ह्यत्त्रेयश्च भवति भारद्वाजस्य च गोत्रं भवति । भारद्वाजायन आत्त्रेयश्चेद्, भारद्वाजोऽन्यः, बिदाद्यञेव भवति ॥ शिवादिभ्योऽण् ॥ ४।१।११२ ॥ यथायथमित्यादि । तत्रादन्तेष्विञोऽपवादः, मुनि--सन्धिभूमिप्रभृतिषु ठितश्चानिञःऽ इति ढकः, स्त्रीप्रत्ययान्तेषुं ठ्स्त्रीभ्यो ढक्ऽ ठ्द्र।ल्चःऽ इति प्राप्तस्य ढकः, गङ्गाविपाट्शब्दयोस्तु यस्मिन्प्राप्ते स वृत्तिकारणैवोक्तः, जरत्कारुशब्दस्य तु पाठे प्रयोजनं चिन्त्यम् । केचिदाहुः---शुभ्रादिष्वयं पठनीयः, जारत्कारेय इति यथा स्यात्, तत्र तु ढका समावेशार्थोऽस्य पाठ इति । ण्यप्रत्ययस्य तु बाधो नेष्यत इति । अत्रा हेतुम् ठुदीचामिञ्ऽ इत्यत्र वक्ष्यति । शुभ्रादिढका चेति । ठ्शुभ्रादिभ्यश्चऽ इत्यत्र वक्ष्यति--ठ्चकारोऽनुक्तसमुच्चयार्थ आकृकिगणतामस्य बोधयति, तेन गाङ्गेयः पाण्डवेय इत्यादिसिद्धं भवतिऽ इति, तदभिप्रायेणेदमुक्तम् । रवणविश्रवणशब्दौ पठ।लेते, तौ विश्रवः शब्दस्यादेशौ प्रकृत्यन्तरे वा वृत्तिविषये तत्समानार्थे, विश्रवसोऽपत्यं वैश्रवणो रावणः । द्व्यचो नद्या इति । नदीवाचिनो ये द्व्यचः कुल्याप्रभृतयस्तेभ्यस्तन्नामिकाणोऽपवादे ठ्द्व्यचःऽ इति ढकि प्राप्तेऽण् भवति । त्रिवेणी त्रिवणं चेति । त्रिवेण्या अपत्यं त्रैवणः, तन्नमिकाणि सिद्धे आदेशार्यं वचनम् । अथाण्ग्रहणं किमर्थम्, न यताविहितमित्येवोच्येत, एवगुच्यमाने इञादय एव स्युस्ते विहिताः, पुनरारम्भसामर्थ्याद्यो विहितो न च प्राप्नोति स एवाण् भविष्यति ? इदं तर्हि प्रयोजनम्---ऋष्टिषेणशब्दोऽत्र पठ।ल्ते, तत्र यथाविहितमित्युच्यमाने ठत इञ्ऽ प्राप्तः, तस्य सेनान्तलक्षणो ण्यो बाधकः प्राप्तः, तत्रारम्भसामर्थ्यादिञ् प्रसज्येत, पुनरण्ग्रहणादणेव भवति ॥ अवृद्धाभ्यो नदीमानुषीभ्यस्तन्नामिकाभ्यः ॥ ४।१।११३ ॥ अपत्यमन्तर्हितं वृद्धमिति शास्त्रान्तरे यत्परिभाषितं तस्यापि ग्रहणं दृष्टम्, वृद्धस्य च पूजायाम् ठ्वृद्धो यूना इति, इह तु प्रत्यासतेरेतच्छास्त्रसिद्धस्यैव वृद्धस्य ग्रहणमित्याह---वृद्धिर्यस्येति । अवृद्भाभ्य इति शब्दधर्म इति । वृद्धपर्युदासे सति नञिवयुक्तन्यायेन तत्सदृशस्यैव शब्दस्य सम्प्रत्ययात् । स्त्रीलिङ्गनिर्देशस्तु ठ्नदीमानुषीभ्यःऽ इत्यनेन सामानाधिकरण्यात् । कथं पुनरर्थवृतेः शब्दवृत्तिना सामानाधिकरण्यम् ? अभेदोपचारात् । अवृद्धशब्दवाच्यत्वान्नदीमानुष्य एवावृद्धा उक्ताः । नदीमानुषीभ्य इत्यर्थधर्म इति । स्वरूपग्रहणं तु न भवति, बहुवचननिर्देशात्, वृद्धपर्युदासाच्च संज्ञानद्या अपि ग्रहणं न भवति; लौकिकार्थवृत्तिना मानुषीशब्देन साहचर्यात् । तन्नामिकाभ्य इति सर्वनाम्ना प्रत्ययप्रकृतेः परामर्श इति । ता अवृद्धाः प्रकृतयो नामानि यासां नदीमानुषीणामिति बहुव्रीहिः । तदेवं त्रिभिरपि पदैरर्थ एव निर्दिश्यते, तत्रार्थात्प्रत्ययविधानानुपपतेस्तद्वाचिनीभ्यः प्रकृतिभ्यः प्रत्ययो विजायते । तदिदमुक्तम्---तेनाभेदात्प्रकृतयो निदिश्यन्त इति । तेनार्थोनाबेदात् । एतदुक्तं भवति---अवृद्धशब्दाच्यास्तन्नामिका या नदीमानुष्यस्ताभ्योऽण् प्रत्ययो भवति, कोऽर्थः ? तद्वाचिनीभ्यः प्रत्ययो भवतीति । तदेतदाह---आवृद्धानि यानीत्यादि । एवं च कृत्वा---अवृद्धेभ्यो नदीमनुषीनामभ्य इति वक्तव्यम्, तथा तु न कृतमित्येव । ढकोऽपवाद इति । स्त्रीलिङ्गनिर्देशात् भैद्योद्ध्यशोणादिष्वयं विधिर्न भवतीति भावः ॥ ऋष्यन्धकवृष्णिकुरुभ्यश्च ॥ ४।१।११४ ॥ ऋषयः प्रसिद्धा वसिष्ठादय इति । ऋषयःउमन्त्रदर्शिनः, ते च प्रसिद्धा वसिष्ठादयः, यथा इन्द्रादयो देवताः, तेन तेन परिभाषणीया इति भावः । वंशाख्या इति । केषाञ्चिद्वंशानामेता आख्या इत्यर्थः । एवं केचिद्वंशा आख्यायन्त इति यावत् । ठ्मध्येऽपवादाः पूर्वान्विधीन्बाधन्ते नोतरान्ऽ इत्यभिप्रायेणाह---इञाआऽपवाद इति । अत्त्र्यादिभ्य इति । तत्र ऋष्यणोवकाशः---वासिष्ठः, ठितश्चानिञःऽ इति; ढकोऽवकाशः---डुलेरपत्यं डौलेयः; आत्त्रेय इत्युभयप्रसङ्गे परत्वाड्ढग् भवति । सेनान्तलक्षणस्य ण्यस्यावकाशः--- हारिषेण्यः, अत्र हि ठेति संज्ञायामगात्ऽ इति षत्वस्यासिद्धत्वात्सेनान्तमेतद्भवति, ऋष्यणः स एव; जातसेनो नाम ऋषिः, तस्मादुभ्यप्रसङ्गे परत्वाद् ण्यो भवति--जातसेन्यः । एवमुदीचामिञ्---जातसेनिः, अन्धकाणोऽवकाशः---श्वाफल्कः, ण्यस्य स एव, उग्रसेनादन्धकादुभयप्रसङ्गे परत्वाण्ण्यो भवति---औग्रसेन्यः । वृष्ण्यणोऽवकाशः---वासुदेवः, ण्यस्य स एव; विष्वक्सेनाद् वृष्णेर्वैष्वक्सेन्यः । कुर्वणोऽवकाशः---नाकुलः, ण्यस्य स एव, भीमसेनात्कुरोर्भैमसेन्यः । काकतालीयन्यायेनेति । यदृच्छया । असङ्करेणेति । शब्दान्तरैरसङ्कीर्णा इत्यर्थः । सङ्कलिताःउसंहताः । सुबहव इति । व्युत्पपादयिषिताः सर्वे इत्यर्थः । अनित्योऽपाश्रयेणापि नित्यस्यान्वाख्यानं दृष्टम्, यथा---शकाश्रयेण कालस्य । अथ वेत्यादि । ठ्त्रिपुरुषानूकं नाम कुर्यात्ऽ इत्यनेन न्यायेनान्धकादिवंशा अपि नित्या एव । तेषु ये शब्दा इति । अन्धकादिष्वेवाद्यत्वेऽपि ये शब्दाः प्रयुज्यन्ते तेभ्य इत्यर्थः । मातुरुत्संख्यासम्भद्रपूर्वायाः ॥ ४।१।११५ ॥ द्वैमातुर इति । तद्धितार्थ द्विगुः, पश्चातद्धितः । एकस्या औरसः सुतोऽपरस्याः कृत्रिम इति द्वैमातुरत्वम् । साम्मातुर इति । प्रादिसमासातद्धितः । भाद्रमातुर इति । विशेषणसमासादण् । तेनेत्यादिनाऽर्थापेक्ष्यस्य स्त्रीलिङ्गनिर्देशस्य फलं दर्शयति । धान्यमातुरिति । धान्यं यो मिमीते स धान्यमाता, याजकादित्वात्षष्ठीसमासः । धान्यमातरि यो मातृशब्दस्तस्य ग्रहणं न भवतीत्यर्थः, तेन सम्मिमीते तस्याप्तयं साम्मात्र इत्युत्वं न भवति, न्यायानुवादश्चायं स्त्रीलिङ्गनिर्देशः । सम्बन्धिशब्दस्य हि प्रसिद्धतरत्वातस्यैव ग्रहणं न्याय्यम् । सङ्ख्यासम्भद्रपूर्वाया इति किमिति । न तावत्केवलात्प्रसङ्गः, न हि मातुरपत्यमिति विशेषणं सम्भवति; अपत्ये मातृसम्बन्धस्याव्यभिचातत् । तेन तदन्तस्य ग्रहणात् सङ्ख्यादिपूर्वस्य तावत्सिद्धमिति प्रश्नः । अन्यपूर्वस्यापि स्यादित्युतरम् । सौमात्र इति । क्वचिदस्यानन्तरं ग्रन्थः---शुभ्रादिपाठाद्वैमात्रेय इति । तेन विपूर्वो मातृशब्दो न प्रत्युदाहर्तव्य इति भावः । वयं ब्रूमः---ठ्स्त्रीभ्यो ढक्ऽ इत्यत्र स्त्रीप्रत्ययविज्ञानादसत्यर्थग्रहणे इह न भवति । ऐडविडो दारदः (४।१।१२० सूत्रे) इत्यस्यानन्तरमयं ग्रन्थः, इह तु लेखकैः प्रमादाल्लिखित इति ॥ कन्यायाः कनीन च ॥ ४।१।११६ ॥ ढकोऽपवाद इति । ठ्द्व्यचःऽ इति प्राप्तस्य । कन्याया अपत्यं कानीन इति । शास्त्रोक्तविवाहसंस्कारपूर्वस्य पुरुषसम्प्रयोगस्याभावः कन्याशब्दनिमितं नाक्षतयोनित्वम् । या तु विवाहसंस्कारेण विना पुरुषेण सम्प्रयुज्यते सा कन्यात्वं न जहाति । तेनैतन्न नोदनीयम्---यदि कन्या नापत्यम्, अथापत्यं न सा कन्या, कन्या चापत्यं चेति विप्रतिषिद्धमिति । अपर आह---मुनिदेवतामाहात्म्याद्या पुंयोगेऽपि न कन्यात्वं जहाति, यथा---कुन्ती, यथा---सत्यवती, सात्रोदाहरणमिति, तदाह---कानीनः कर्णः, कानीनो व्यास इति ॥ विकर्णशुङ्गच्छगलाद्वत्सभरद्वाजात्रिषु ॥ ४।१।११७ ॥ अत्र वत्सादीनां मूलप्रकृतीनां वकर्णादीन्प्रत्यपत्यत्वायोगादपत्यप्रत्ययान्तानां वात्स्यादीनां शब्दानां द्वन्द्वेयुगदधिकरणवचनतया प्रत्येकं बहुत्वोपजननातस्य बहुत्वस्य लोपिभिरेव कृतत्वादपत्यप्रत्ययस्य लुका निर्देशः, तदाह---वैकर्णो भवति वात्स्यश्चेदित्यादि ॥ स्त्रीभ्यो ढक् ॥ ४।१।१२० ॥ स्त्रीग्रहणेनेत्यादि । स्वरूपग्रहणं तु न भवति; बहुवचननिर्देशात् । स्त्र्यर्थस्यापि ग्रहणं न भवति; विमातृशब्दस्यार्थस्य सुभ्रादिषु पाठात् । तस्य तु स्त्र्यर्थत्वं विधवाशब्दसाहचर्याद्विज्ञेयम् । किञ्च---स्त्रीशब्दस्य स्वरितत्वं प्रतिज्ञायते, स्वरितेन चाधिकारावगतिर्भवति, तेन टाबादिस्त्रीप्रत्ययान्तानामेव ग्रहणं युक्तम् । क्तिन्नादयस्तु व्यवधानान्न गृह्यन्ते । ऐडविडः, दारद इति । इडविट्शब्दात् ठ्जनपदशब्दात्क्षत्रियादञ्ऽ, दरच्छब्दाद् ठ्द्व्यञ्मगधऽ इत्यण्, तयोः स्त्रियाम् ठतश्चऽ इति लुक्, ततस्तदपत्येऽणेव भवति । वृष वाच्ये इति । वृषःउबीजाश्वः, तेन चार्थेन विशेषविहितेनापत्यलक्षणेऽर्थे ढका बाध्यते, तेनापत्येऽणेव भवति । वाडव इति । चतुष्पाल्लक्षणो ढञपि न भवति; अचतुष्पाद्वाचित्वात् । अण् क्रुञ्चेति । वृष इति नापेक्ष्यते, अपत्य एवायं विधिः । ढकोऽपवादः । क्रुञ्चा च कोकिला च समाहारद्वन्द्वे नपुंसकह्रस्वत्वम् ॥ द्व्यचः ॥ ४।१।१२१ ॥ तन्नामिकाणोऽपवाद इति । अन्यत्र पूर्वेणैव सिद्धत्वात् ॥ शुभ्रादिभ्यश्च ॥ ४।१।१२३ ॥ यथायोगमित्यादि । तत्रादन्तेष्विञोऽपवादः, शलाकादिषु तन्नामिकाणः, विधवाशब्दातु क्षुद्रालक्षणस्य ढ्रकः, चतुष्पाद्वाचिषु चतुष्पाल्लक्षणस्य ढञः, गोधाशब्दाद्गोधाया ढ्रकः; वचनात्सोऽपि भवति । क्वचिदौत्सर्गिकस्याणः । पाण्डवेय इति । ठ्ढेअलोपोऽकद्रवाऽ इति लोपो न भवति, कद्रूपर्युदासेन स्त्रीलिङ्गस्य ग्रहणात्, पाण्डवशब्दाद्वा प्रत्ययः । लक्षणश्यामयोर्वासिष्ठ इति । लाक्षणेयो भवति वासिष्ठश्चेत्, लाक्षणिरन्यः; श्यामेयो वासिष्ठः, श्यामायनोऽन्यः, अश्वादित्वात्फञ् ॥ कुलटाया वा ॥ ४।१।१२७ ॥ कुलान्यटतीति कुलटेति । मूलविभुजादिषु दर्शनात्कः प्रत्ययः । पचाद्यच् तु न लभ्यते, अकारादनुपपदात्कर्मोपपदो विप्रतिषेधेनेत्यण्प्रसङ्गात् । या तु कुलान्यटन्ती शीलं भिनतीति । एकत्र कुले प्रविष्टा स्वैरिणी या कुलान्तरमटति सा दुः शीला कुलटेत्यर्थः । क्षुद्राभ्यो वेति परत्वादिति । क्षुद्राःउअङ्गहीनाः शीलहीनाश्च । या पुनर्भिक्षालिप्सया सुशीलापि कुलान्यटति, तस्या इह ग्रहणम् ॥ चटकाया ऐरक् ॥ ४।१।१२८ ॥ स्त्रीलिङ्गनिर्देशात्पुंल्लिङ्गान्न प्रसज्यत इत्याह---चटकाच्चेति वक्तव्यमिति । एवं च पुंल्लिङ्गनिर्देश एव कर्तव्यः, लिङ्गविशिष्टपरिभाषया स्त्रीलिङ्गादपि भविष्यति, तथा तु न कृतमित्येव । स्त्रियामपत्ये लुग्वक्तव्य इति । चटकाया अपत्यमिति । चटकस्यापीति द्रष्टव्यम् । चटकेति । ठ्लुक्तद्धितलुकिऽ इति टापो लुकि कृते पुनरजादिलक्षणष्टाप् कर्तव्यः ॥ आरगुदीचाम् ॥ ४।१।१३० ॥ रका, सिद्धत्वादिति । ठ्न लक्षणेन पदाकारा अनुवर्त्याःऽ इत्यवग्रहेऽपि नास्ति विशेषः । ज्ञापकार्थं त्विति । भावप्रधानो ज्ञापकशब्दः । ज्ञापनार्थमिति वा पाठ।ल्म् । जाडारः, पाण्डारैति । ह्रस्वान्तादयं प्रत्यय इति रका नास्ति सिद्धिः ॥ क्षुद्राभ्यो वा ॥ ४।१।१३१ ॥ अङ्गहीना इति । काणादयः । शीलहीना इति । अनियतपुंस्कादासीप्रभृतयः ॥ ढकि लोपः ॥ ४।१।१३३ ॥ कथं पुनरित्यादि । ढग्विधौ टाबादिस्त्रीप्रत्ययान्तानां ग्रहणाच्छुभ्रादिष्वस्यापाठात् प्रश्नः । एतदेवेत्यादि । न ह्यसतो निमितभावः सम्भति ॥ मातृष्वसुश्च ॥ ४।१।१३४ ॥ पितृष्वसुरित्येतपेक्ष्यते इति । चकारेणानुकृष्यत इत्यर्थः । तदनुवृतौ योऽर्थः सम्पद्यते, तं दर्शयति---पितृष्वसुर्यदुक्तमिति । किं पुनस्तदित्याह---च्छण् प्रत्ययो ढकि लोपश्चेति । तेन ठनन्तरस्य विधिर्वा भवति प्रति षेधो वाऽ इति ढकि लोप एव प्राप्नोति, न तु च्छणिति न चोदनीयमिति भावः ॥ चतुष्पाद्भ्यो ढञ् ॥ ४।१।१३५ ॥ कमण्डलुशब्दश्चतुष्पाद्वचनोऽस्ति, दृश्यते हि---कमण्डलुपद आदधीतेति । जम्बुःउश्रृगालः ॥ गृष्ट।लदिभ्यश्च ॥ ४।१।१३६ ॥ अणादीनामिति । आदिशब्देन ढकः । बहुवचनं तु प्रकृतिभेदेन तयोरेव बहुत्वात् तत्राजबस्ति-मित्रयुशब्दयोरणोऽपवादः, शेषाणाम् ठितश्चानिञःऽ इति ढकः । गृष्टिशब्दो य इति । सकृत्प्रसूता स्त्री सर्वेव गृष्टिर्न धेव्नादिश्चतुष्पादेवेति भावः । अपर आह---सकृत्प्रसूतत्वसाधर्म्येणाचतुष्पदीष्वपि गौणो गृष्टिशब्द इति ॥ राजश्वशुराद्यत् ॥ ४।१।१३७ ॥ क्षत्रियजातिश्चेदिति । प्रकृतिप्रत्ययसमुदायेन क्षत्रियजातिश्चेद् गम्येतेत्यर्थः । राजन्य इति । ठ्ये चाभावकर्मणोःऽ इति प्रकृतिभावः । राजनोऽन्य इति । स पुनर्वैश्याशूद्रयोरुत्पन्नः, ठन्ऽ इति प्रकृतिभावः ॥ क्षत्राद्धः ॥ ४।१।१३८ ॥ घप्रत्ययो भवतीति । घशब्द एव, न तरप्तमपौ; अन्यथा सर्वत्रैव प्रत्ययविधौ घ इति तरप्तमपोर्ग्रहणात्प्रत्ययादेर्घकारस्येयादेशवचनमनुपपन्नं स्यात्, न च ठ्तुग्राद्धन्ऽ, ठ्घच्छौ चऽ इति घन्घचाववकाशौ, तत्रापि संज्ञाशब्दः सानुबन्ध उपातः । अनुबन्धस्तु संज्ञ्यर्थ इति सम्भवात्, ठ्ङ्मुण्नित्यम्ऽ इतिवत् । ठ्किमिदभ्यां वो घःऽ इत्यत्रापि तरप्तमपोरेवादेशत्वं विज्ञाअयते । अयमपि जातिशब्द एवेति । राजन्यजात्यभिधाने घो भवति, वैश्याशूद्रयोरुत्पादिते तु इञेवेत्यर्थः ॥ कुलात्खः ॥ ४।१।१३९ ॥ उतरसूत्र इत्यादि । पूर्वपदप्रतिषेधस्यैतत्प्रयोजनम्---आढ।ल्कुलादेर्माभूदिति । ग्रहणवता प्रातिपदिकेन तदन्तविधिप्रतिषेधादेवाढ।ल्कुलादेर्न भविष्यति, पश्यति त्वचार्यः---नायं प्रतिषेधः कुलशब्दे प्रवर्तत इति । तेनात्र तावतदन्तस्य ग्रहणम् ठ्येन विधिस्तदन्तस्यऽ इत्यत्र स्वरूपमित्यनुवृतेः केवलस्याति ग्रहणम् । सामान्यापेक्षं च ज्ञापकम्---ठ्प्रातिपदिकश्रुतिमती परिभाषा कुशलशब्दे न प्रवर्तते इति, तेन ठ्व्यपदेशिवद्भावोऽप्रातिपदिकेनऽ इत्यस्या अप्यप्रवृत्तिः । कुलीन इति उतरसूत्रेऽन्यतरस्यांग्रहणात्केवलादप्यनेन खो भवति । प्रशस्तो वंशःउकुलम्, तस्यापत्यं तत्प्रभवस्यापत्यमित्यर्थः ॥ अपूर्वपदादन्यतरस्यां यड्ढकञौ ॥ ४।१।१४० ॥ ननु च पूर्वपदशब्दः समासावयवे रूढः, न स्य कुलशब्दे प्रसङ्गः ? इत्यत आह---समाससम्बन्धिन इत्यादि । समाससम्बन्धिपूर्वपदं कुलशब्दस्यापि कथञ्चित्सम्बन्धि भवति, द्वयोरप्येकसमासावयवत्वात् । व्यवस्थावचनस्तु नैवात्र शङ्कनीयः; पूर्वपदसभ्दस्य समासावयवे रूढत्वात् । तेन ठ्देवदतः कुलीनःऽ इत्यादौ वाक्ये प्रतिषेधशङ्का न कार्या । बहुच्पूर्वादपीति । अपूर्वादित्युच्यमाने बहुकुलशब्दो बहुचा सपूर्व इति, ततः प्रत्ययो न स्यात् । किञ्च---देवदतः कुलीन इत्यादावपि प्रतिषेधः स्यात् । तस्माद्रूढिपरिग्रहार्थमपि पदग्रहणं कर्तव्यम् ॥ व्यन्सपत्ने ॥ ४।१।१४५ ॥ ननु च ठ्नित्यं सपत्न्यादिषुऽ इति सपत्नीशब्द एव स्त्रीलिङ्गो व्युत्पादितः, तत्कथं पुंल्लिङ्गस्य प्रयोगस्तत्राह---सपत्नशब्द इत्यादि । इवार्थ इति । सादृश्ये, यथा पत्नी दुः खहेतुस्तथा शत्त्रुरपीत्येतत्सादृश्यम् । समुदायेन चेदिति । एतेन समुदायार्थः सपत्नो न प्रकृत्यर्थः, नापि प्रत्ययार्थविशेषणम्, अनर्थकावेवात्र प्रकृतिप्रत्ययाविति दर्शयति । अथानुवृतस्यापत्यस्य विशेषणमेव सपत्नः कस्मान्न भवति ? तत्राह---अपत्यार्थोऽत्र नास्त्येवेति । एतदेवोदाहरणेन स्पष्टयति---पाप्मना भ्रातृव्येणेति । न हि पाप्मा भ्रातुष्पुत्रो भवति, अतः सपत्नमात्रे भ्रातृव्यशब्दस्य दर्शनादपत्यार्थोऽत्र नास्ति । किञ्च, योऽपि सपत्नो भ्रातुरपत्यं सम्भवति, सोऽप्याद्यौदाताद् भ्रातृव्यशब्दात्सपत्नरूपेणैव प्रतीयते, नापत्यरूपेण । तथा च भ्रातृव्यो भ्रातृव्य इति सहप्रयोगोऽपि व्यन्व्यदन्तयोर्भवति, अतः सुष्ठूअक्तम्---ठपत्यार्थो नास्त्येवऽ इति ॥ रेवत्यादिभ्यष्ठक् ॥ ४।१।१४६ ॥ ढगादीनामपवाद इति । तत्र रेवतीशब्दो ङीषन्तः, अश्व, मणि, द्वारशब्दोपपदात्पालयतेः कर्मण्यणि ङीप्, तेषु ढक्प्राप्तः । ठ्वञ्चु प्रलम्भनेऽ, अस्माद्वृकोपपदात् ठ्कर्तर्युपमानेऽ इति णिनिः, अस्मादण्प्राप्तः वृककर्णदण्डोपपदाद् ग्रहेः ठ्कर्मण्यण्ऽ, कुक्कुटस्येवाक्षिणी यस्य स कुक्कुटाक्षः, एष्विञ् प्राप्तः ॥ गोत्रस्त्रियाः कुत्सने ण च ॥ ४।१।१४७ ॥ पारिभाषिकस्य गोत्रस्य ग्रहणमित्याह---अपत्यं पौत्रेति । लौकिकस्य त्वपत्यमात्रस्य ग्रहणं न भवति, यदि स्यात् ठ्तत्स्त्रियाःऽ इत्येव ब्रूयात्, तच्छब्देन प्रकृतस्यापत्यस्य परामर्शादेव तदर्थलाभात् । गार्ग इति । गार्गीशब्दो ठ्यञश्चऽ इति ङीबन्तः, तस्य ठ्भस्याऽढेअ तद्धितेऽ इति पुंवद्भावेन पुंशब्दस्यातिदेशात्गार्ग्यशब्दाद्गोत्रस्त्र्यभिधायिनः प्रत्ययः, ठ्यस्येति चऽ, ठापत्यस्य च तद्धितेऽनातिऽ इत्यल्लोपयलौपौ । ग्लौचुकायन इति । ग्लुचुकस्यापत्यम् ठ्प्राचामवृद्धात्फिन्बहुलम्ऽ इति फिन्, ठितो मनुष्यजातेःऽ इति ङीष्, तस्य पुंवद्भावेन निवृत्तिः, ततः प्रत्ययः, णस्य णित्कणभत्र वृद्ध्यर्थम्, गार्ग्यादौ प्रकृतेरेव वृद्धत्वात् । इह तु वतण्डस्यापत्यं गोत्रं स्त्री, ठ्वतण्डाच्च लुक् स्त्रियांम्ऽ वतण्डी, तस्या अपत्यं वातण्डो जाल्म इति पुंवद्भावेन ङीनि निवृते ठ्लुक्ऽ स्त्रियाम्ऽ इत्यस्य ठ्गोत्रेऽलुगचिऽ इति प्रतिषेधाद्वातण्ड।ल्शब्दादेव प्रत्ययः । इह च गार्ग्या अपत्यं स्त्री गार्गा, सा भार्या यस्य स गार्गाभार्य इति ठ्जातेश्चऽ इत्येव पुंवद्भावप्रतिषेधसिद्धिः, ठ्गोत्रं च चरणैः सहऽ इत्यपत्यमात्रं गृह्यते, तेन वृद्धिनिमितस्य चेति पुंवद्भावप्रतिषेधो न प्रयोजनम् । किञ्च---गार्ग्या अपत्यं स्त्रीत्यत्रार्थे नास्ति प्रत्ययः, ठस्त्रियाम्ऽ इति युवसंज्ञाया निषेधाद्गोत्रसंज्ञैवावतिष्ठते, तत्र ठेको गोत्रेऽ इति नियमान्नैव गोत्रप्रत्ययान्तादपरो गोत्रप्रत्ययः सम्भवति, तेन नास्ति गार्गा, नतरां गार्गाभार्यः । अपर आह---अस्ति गार्गा, कथम् ? गार्ग्या अपत्यं या स्त्री न सा युवतिर्नापि गोत्रम्; न हि सा गर्गस्यापत्यं पौत्रप्रभृतेश्चापत्यस्य सोत्रसंज्ञा विधीयते, तदभावाद् ठेतो गोत्रेऽ इति नियमाभावः, ततश्च णस्य भावादस्ति गार्गेति । ये तु नास्ति गार्गेत्याहुः, तेन मन्यन्ते---मातृवंशः पितृवंशश्च द्वावपि वंशौ प्रतीयमपत्यं भवति; अपातहेतुत्वात् । ततश्च गार्ग्या अपत्यं यत्र स्त्री सा गर्गस्या पत्यं भवत्येव, ठ्पौत्रप्रभृतिग्रहणं च व्यवहितापत्योपलक्षण्, तेन गर्गापेक्षया तस्या गोत्रत्वाद् ठेको गोत्रेऽ इति नियमात्प्रत्ययान्तराभाव इति । वृतौ तु क्वचित्पठ।ल्ते---गोत्राद्यौउनीति यूनि प्रत्ययो भवतीति । तदप्यस्मिन्नेव पक्षे घटते, तदाह---गार्ग्या अपत्यं पुमान्युवा भवति गार्गेयो माणवक इति । मातामहादेरुपलक्षणार्थोऽयं प्रयोग इति नास्ति कुत्सा ॥ वृद्धाट्ठक् सौवीरेषु बहुलम् ॥ ४।१।१४८ ॥ अत्र ठ्वृद्धिर्यस्याचामादिस्तद्वृद्धम्ऽ इति वृद्धं गृह्यते, न त्वपत्यमन्तर्हितं वृद्धमिति शास्त्रान्तरपरिभाषितम् । उतरसूत्रे हि वक्ष्यति---फिञो ग्रहणं न फिनः, वृद्धाधिकारादिति । सौवीरेष्विति प्रकृतिविशेषणमिति । ठ्गोत्रस्त्रियाःऽ इत्यतो गोत्रग्रहणानुवृतेर्गोत्रप्रत्ययान्ता या प्रकृतिस्तस्या विशेषणमित्यर्थः । वृद्धात्सौवीरगोत्रादिति । इदमपि पारिभाषिकस्यैव वृद्धस्य ग्रहणे घटते, अन्यथा सौवीरेषु यद्वृद्धं तस्मादिति वक्तव्यम् । भागवितायन इति । ठ्यञिञोश्चऽ इति फक् । तृणबिन्दोरपत्यमिति औत्सर्गिकोऽण्तार्णबिन्दवः, ततष्ठक् । पूर्वठग्ग्रहणं णेन सम्बद्धम्, अतस्तदनुवृतौ तस्याप्यनुवृत्तिः स्यादिति पुनरिह ग्रहणम् । भागपूर्वपदौ वितिरिति । वित्यन्त इत्यर्थः । भागवितिशब्द इति यावत् । गोत्राट्ठग्बहुलं तत इति । ठ्गोत्रस्त्रियाःऽ इत्यतो गोत्रग्रहणानुवृत्या गोत्रवचनात्प्रातिपदिकाद्वहुलं यष्ठगुच्यते स ततस्तेभ्य एव भागवितिप्रभृतिभ्यस्त्रिभ्य एव भवति, नान्येभ्य इति परिगणनश्लोकार्थः । ननु गोत्रग्रहणमनुवर्तते, यच्च सौवीरसगोत्रवृत्तिप्रातिपदिकं तद्वृद्धमेव, तत्किमर्थं वृद्धग्रहणम् ? अत आह---वृद्धग्रहणं स्त्रीनिवृत्यर्थमिति । तद्धि गोत्रग्रहणं स्त्रिया विशेषणम्, अतस्तदनुवृतौ स्त्रीग्रहणमप्यनुवर्तेत, वृद्धग्रहणसामर्थ्यातु गोत्रग्रहणमेवानुवर्तते, न स्त्रीग्रहणमिति व्याचक्षते । अपत्यमन्तर्हितं वृद्धमित्यस्य तु वृद्धस्य ग्रहणेऽसमञ्जसोऽयं ग्रन्थः स्यात् । औपगविरिति । ननु च परिगणनादेवात्र न भविष्यति ? तन्न; न हि सूत्रकारोऽर्वाचीनपरिगणनाश्रयेणातिप्रसङ्गनिवारणं मन्यते, वाग्रहण एव कर्तव्ये यद्वहुलग्रहणं कृतं तस्य प्रयोजनमाह---बहुलग्रहणमित्यादि । वैचित्र्यमेव दर्शयति---गोत्रस्त्रिया इत्यारभ्येति । तत्रान्त्यः सौवीरगोत्र एवेति । अयमेवार्थो यत्नसाध्यः ॥ फेश्च्छ च ॥ ४।१।१४९ ॥ यमुन्दश्चेत्यादि । अत्र वार्ष्यायणीति शब्दरूपापेक्षाया नपुंसकनिर्देशः । फिञ इति । फिञन्ता इत्यर्थः । स्मृता इति । एते त्रयः फिञन्ताः प्रकृतयः स्मृता इत्यर्थः । सौवीरेषु च कुत्सायामिति । पुनश्चकारो वृतभङ्गभयान्न पठितः । बहुलग्रहणात्सिद्धोऽयमर्थः पूर्वं वृत्तिकृता दर्शितः, इदानीं तु श्लोकवार्तिककारेणेत्यपौनरुक्त्यम् । सुयामशब्दोऽपि तिकादिः । वृषस्यापत्यं वार्ष्यायणिः । अयमपि तिकादिरेव, ठ्दगुकोसलकर्मारच्छागवृषाणां युड् वादिष्टस्यऽ इति वचनाद् आयनादेशे कृते युडागमः ॥ फाण्टाहृतिमिमताभ्यां णफिञौ ॥ ४।१।१५० ॥ तेन यथासंख्यामिह न भवतीति । एवं च कृत्वा णस्य णित्करणमर्थवद्भवति, तद्धि मिमतशब्दे वृद्ध्यर्थम् । यथासंख्ये तु फाण्टाहृतेर्वृद्धत्वाणिणत्करणमनर्थकं स्यात् । इह तु फाण्टाहृताभार्य इति गार्गाभार्य इतिवत्पुंवद्भावप्रतिषेधादिकं द्रष्टव्यम् । यथा तु वार्तिकं तथा यथासंख्यमत्रेष्यते, यथाह---ठ्फाण्टाहृतेर्णस्य णित्करणानर्वस्यं वृद्धत्वात्ऽ, ठ्प्रातिपदिकस्य पुंवद्भावप्रतिषेधार्यं तुऽ, ठुक्तं वाऽ इति ॥ कुर्वादिभ्यो ण्यः ॥ ४।१।१५१ ॥ ननु च ठ्कुरुनादिभ्यो ण्यःऽ इत्येव कुरुशब्दाण्णयः सिद्धः, किमर्थमिह पठ।ल्ते ? अत आह---कुरुशब्दादपरोऽपीति । सत्यमपरोऽपि ण्यप्रत्ययो भविष्यति । स तु त्रत्रियादित्यनेनार्थभेदमाह । तद्राजसंज्ञक इत्यजेन रूपभेदमाह । तिकादिषु पाठादिति । कुरुकौरव्यशब्दौ द्वावपि पठ।लेते । कारिणस्तु रथकारशब्दादिति । कारिणःउशिल्पिनः । रथकारजातिस्तु शिल्पिवृत्तिर्न भवतीति मन्यते । तस्य पुंवद्भावो न भवतीति । ठ्भस्याऽढेअ तद्धितेऽ इति विधीयमानः, यदि हि स्यात् ठ्नस्तद्धितेऽ इति टिलोपः स्यात् । कस्मान्न भवतीत्याह---स्त्रीप्रत्ययनिर्देशसामर्थ्यादिति । पुंलिङ्गस्यापि पाठे लिङ्गविशिष्टपरिभाषया केशिनीशब्दादपि सिद्धः प्रत्ययः, पुंल्लिङ्गात्वनभिधानान्न भविष्यतीति भावः । वामरथस्य कण्वादिवत्स्वरवर्जमिति गणवाक्यं व्याचष्टे---वामरथशब्द इत्यादि । तस्येति प्रकरणाण्ण्यप्रत्ययान्तस्येति विज्ञेयम् । कण्वादिबदिति । केवलानां तेषां कस्यचित्कार्यस्याविधानाद्यञन्तानां कण्वादीनां यत्कार्यं तस्यातिदेशः । लुगादिकमिति । कण्वादिषु यञन्तेषु दृष्टमात्रस्य कार्यस्यातिदेशः, न तु कण्वादित्वप्रत्युक्तस्य, अत एव स्वरवर्जमित्याह । तेन लुगादिकमप्यतिदिश्यते, न तु ठ्कण्वादिभ्यो गोत्रेऽ इत्येव प्रत्ययविधिः । वामरथा इति । ठ्यञञोश्चऽ इति बहुषु लुक् । यञश्च ठ्प्राचांष्फ तद्धितःऽ, यूनि ठ्यञिञोश्चऽ इति फक्; शैषिकेष्वर्थेषु छे प्राप्ते ठ्कण्वादिभ्यो गोत्रेऽ ठ्सङ्घाङ्कलक्षणेषुऽ इति चाण् भवति । सम्राजः क्षत्रिय इति । सम्राजोऽपत्यं साम्राज्यो भवति, क्षत्रियश्चेत्; साम्राजोऽन्यः ॥ सेनान्तलक्षणकारिभ्यश्च ॥ ४।१।१५२ ॥ लक्षणेति स्वरूपग्रहणमित्याह---लक्षणशब्दादिति । कारीत्यर्थग्रहणमित्याह---कारिवचनेभ्यश्चेति । साधु कुर्वन्तीति कारिणःउशिल्पिनः । नापित्य इति । प्राचां मते ण्य उदाहृतः । उदीचां तु मते परत्वाद् ठुदीचां वृद्धात्ऽ इति फिञेव भवति---नापितायनिरिति ॥ उदीचामिञ् ॥ ४।१।१५३ ॥ ताक्ष्ण इति । ठ्षपूर्वहन्धऋतराज्ञामणिऽ इत्यल्लोपः । ताक्षण्य इति । ठ्ये चाभावकर्मणोःऽ इति प्रकृतिभावः । इह ठ्सेनान्तलक्षणकारिभ्यो वाऽ इति वक्तव्यम्, नार्थोऽनेनेञ्वचनेन, नापि शिवादिषु तक्षन्शब्दस्य पाठेन, ण्ये हि विकल्पिते यो यतः प्राप्नोति सततो भवतीति लक्ष्णः ठ्प्राग्दीव्यतोऽण्ऽ, अन्येभ्यश्च ठत इञ्ऽ भविष्यति ? नैवं शक्यम्; एवं हि जातसेनादिभ्य ऋष्यादिलक्षणोऽण् प्राप्नोति ॥ तिकादिभ्यः फिञ् ॥ ४।१।१५४ ॥ क्षत्रियवचन इति । यः ठ्कुरुनादिभ्यो ण्यःऽ इति व्युत्पादितः । औरशशब्देनेति । उरसा शेते उरशः क्षत्रियः, पृषोदरादित्वाद्रूपम्, तस्यापत्यम् ठ्जनपदशब्दात्क्षत्रियात्ऽ इत्यञ् । किं पुनरेवं प्रयत्नेन क्षत्रियवचनस्य ग्रहणं व्याख्यायते ? इत्यत्राह---तथा चेति । उदाहृतमिति । पूर्वैरपि वृत्तिकारैरित्यर्थः । तिक्नोतेरिगुपधात्कः, तिकः । किं तवास्तीति प्रवर्तते कितवः, पृषोदरादिः । सम्पूर्वाज्जानातेः ठातश्चोपसर्गेऽ इति कः, स्त्रियां टाप्, संज्ञा । बालैर्बद्धा शिखास्य स बालशिखः । द्वौ शब्दावित्यन्ये, बलतेर्णिजन्तादच् बालः, तस्य बालायनिः । शिखाशब्देन तद्वान् लक्ष्यते, शैखायनिः । उरशशब्दो व्युत्पादितः । ठ्शटकुत्सायाम्ऽ पचाद्यच्, ततो गर्गादित्वाद्यञ्---शाट।ल्ः; ततो यूनि फिञ् । सिन्धुशब्दाद् ठ्द्व्यञ्मगधऽ इत्यण्, सैन्धवः, अत्रापि यूनि फिञ् । यममुनतीतियमुन्दः, शकन्ध्वादि । प्रशस्तं रूपमस्यास्ति ठ्रूपादाहतप्रशंसयोर्यप्ऽ, रूप्यः । ग्रामे भवो ग्राम्यः । नील वर्णे, इगुपधात्कः नीलः । ठम् रोगेऽ, औणाअदिक इत्रः, अमित्रः । गौकाक्ष्यो गर्गादियञन्तः । ठ्कृग्रोरुःऽ, कुरुः । देवस्येव रथोऽस्य देवरथः । तिलेतिलः, तितिलः, पृषोदरादिः, ततो मत्वर्थीय इन्, तितिलिनोऽपत्यमौत्सर्गिकोऽण्, ठ्नस्तद्धितेऽ इति टिलोपः, तैतिलः । औरशशब्दो व्युत्पादितः । ठ्कुरुनादिभ्यो ण्यःऽ, कौरव्यः । भूरि अस्यास्ति भूरिको व्रीह्यादिः, तस्यैव पक्षे कपिलादित्वाल्लत्वं भूलिकः, ताभ्यामत इञ्, भौरिकिः, भौलिकिः । ठ्चुप मन्दायां गतौऽ ण्यन्ताल्लटः शत्रादेशः, तस्यापत्यं चौपयतः, एवं चैतयतः । ठ्चिट परप्रेष्येऽ, ण्यन्ताल्लटः शत्रादेशः, तस्यापत्यं चैटयतः । ठ्शीकृ सेचनेऽ, णिजादि पूर्ववत्, शैकयतः । क्षितमाचष्टे क्षितयन्, तस्यापत्यं क्षैतयतः । ध्वजोऽस्यास्ति ध्वजवान्, तस्यापत्यं ध्वाजवतः । द्वौ शब्दावित्यन्ये, ठ्ध्वज गतौऽ ण्यन्तात्पचाद्यच्, ध्वाजः; वनोतेस्तःष वतः । ठ्चदि आह्लादनेऽ, ततो रमस् चन्द्रमाः, तस्यापत्यं चान्द्रमसायनिर्बुधः । शोभतेऽसौ शुभः, इगुपधात्कः । गमेर्गन्, गङ्गा । वृञ एण्यः, वरेण्यः । सर्वधातुभ्यो मनिन्, यानं यामा, शोभनं यामास्य सुयाम् । आरदो नाम जनपदः, ततोऽपत्ये ठ्जनपदशब्दात्ऽ इत्यञ्---आरदः । वह्यं करणम्, वह्यमेव वह्यका, निपातनादित्वाभावः । खलाय हिता खल्या, ठ्खलयवऽ इति यत् । ठ्वृषु सेचनेऽ इगुपधात्कः---वृषः । लोमानि कामयति लोमका । उदकमिच्छत्यात्मन उदन्यः, ठशनायोदन्यधनायऽ इत्युदकस्योदन्भावः, ततः पचाद्यच् । यज्ञयोगाद्यज्ञः । एते तिकादयः ॥ कौसल्यकार्मार्याभ्यां च ॥ ४।१।१५५ ॥ कोसलशब्दाद् ठ्वृद्धेत्कोसलाजादाञ् ञ्यङ्ऽ, कर्मारशब्दात्कारिलक्षणो ण्यः, एतयोरिह ग्रहणमिति शङ्कामपाकरोति---परमप्रकृतेरेवेति । कथं तर्हि विकृतं प्रकृतिरूपं श्रूयते ? तत्राह---प्रत्ययसंयोगेन त्विति । न चेयं स्वमनीषिकेत्याह---तथा चेति । युड्वादिष्टस्येति । पूर्वान्तकरणे दांगव्यायनिः, ओर्गुणो न स्यात्, अतः परादिकरणम् । आदिष्टेस्येति । कृतायनादेशस्येत्यर्थः । एतस्मिन्ननुच्यमानेऽनवकाशत्वाद्यौटि कृतेऽनादित्वादायनादेशो न स्यात् ॥ अणो द्वयचः ॥ ४।१।१५६ ॥ कार्त्रायणिरिति । कर्तुरपत्यमित्यण्, कार्त्रः, ततो यूनि फिञ्, तस्याब्राह्मणगोत्रादिति लुग्न भवति, विधानसामर्थ्यात् । अपर आह--- कर्तुश्छात्त्रः कार्त्रः, ठ्तस्यापत्यम्ऽ इत्यादावगोत्रे चरिर्त्थं वचनमिति । अपर आह---अपत्यग्रहणमावर्तते, तत्रैकेनाण् विशेष्यते, अपरेण प्रत्ययार्थो निदिश्यते, ततश्चापत्यस्यैवाणो ग्रहणादस्त्येव वचनसामर्थ्यमिति ॥ उदीचां वृद्धादगोत्रात् ॥ ४।१।१५७ ॥ कारिशब्दादपीति । कारिलक्षणस्योदीचामिञोऽवकाशः---तान्तुवायिः, फिञोऽवकाशः---आम्रगुप्तायनिः; नापितादुभयप्रसङ्गे फिञ् भवति । याज्ञदतिरिति । ठ्वा नामदेयस्य वृद्धसंज्ञा वक्तव्याऽ । पक्षे याज्ञदतायनिरिति भवत्येव ॥ वाकिनादीनां कुक् च ॥ ४।१।१५८ ॥ यदिह वृद्धगोत्रमिति । वाकिन-गारेध-काक--इत्येते त्रयः । वचनं वाकः सोऽस्यास्ति वाकिनः, बर्हिणवदुपपाद्यः । अगारे एधते गारेधः, पृषोदरादित्वादादिलोपः, शकन्ध्वादित्वात्पररूपम् । कायतेः काकः, ठन्येषामपिऽ इति कः । कर्कटस्यापत्यं कार्कट।ल्ः, गर्गादिः, कुर्वादिर्वा । ठ्लंघयतेर्लङ्का, अस्मादेव निपातनाद् घस्य कादेशः । वर्मचर्मशब्दौ व्रीह्यादी । इञाद्यपवाद इति । वर्मिचर्मिणोरण् प्राप्तः, लङ्काशब्दात् ठ्द्व्यचःऽ इति ढक् प्राप्तः, यञन्ताद् ठ्यञिञोश्चऽ इति फक्; सेषभ्य इञ् प्राप्तः, ठ्वर्मिचर्मिणोर्नलोपश्चऽ इति कुकि कृते प्रातिपदिकस्यानकारान्तत्वान्नलोपो न प्राप्नोतीति विधीयते । यदि पुनरयं कुक् परादिः क्रियते, आयनादेशो न स्यात्; फस्यानादित्वात् । यदा न लिङ्गविशिष्टपरिभाषया वर्मिणी-चर्मिणीशब्दाभ्यां प्रत्ययो भवति, तदा ठ्भस्याऽढेअ तद्धितेऽ इति पुंवद्भावो न स्यात् ॥ पुत्रान्तादन्यतरस्याम् ॥ ४।१।१५९ ॥ पूर्वेणाइव प्रत्ययः सिद्ध इति । तेनासाविह विधीयते । कथं तर्हि पञ्चम्या निर्देश इत्याह---पुत्रान्तादित्यादि ॥ प्राचामवृद्धात्फिन्बहुलम् ॥ ४।१।१६० ॥ विकल्पार्था इति । विकल्पप्रयोजनम् । तत्राऽऽचार्योपादानं मतान्तरे प्रत्ययस्याभावं द्योतयति, बहुलग्रहणं तु क्वचित्प्रवृत्यादिकम्, अन्यतरस्यांशब्दस्तु विकल्पमेव, तेषामेकेनैव सिद्ध्यतीति प्रकरणाद्विकल्प इति गम्यते । किमर्थं तर्हि सर्वेषां ग्रहणम् ? तत्राह---तत्रेति । बहुलग्रहणं वैचित्र्यार्थमिति । पारिशेष्यादन्यस्य ग्रहणं विकल्पार्थमित्युक्तं भवति । वैचित्र्यमेव दर्शयति---क्वचिदिति ॥ मनोर्जातावञ्यतौ षुक्च ॥ ४।१।१६१ ॥ तथा चेति । अपत्यार्थे तु सति ठ्यञञोश्चऽ इति बहुषु लुक् प्रसज्येत; लौकिकस्य गोत्रस्य तत्र ग्रहणात् । अपत्ये कुत्सित इति । णत्वविधानार्थमिदम्, अणः सिद्धत्वात् । न च ठ्न दण्डमाणवान्तेवासिषुऽ इति णत्वसिद्धिः, अर्थविशेषस्यानिश्चायाद् । अनधीतवेदत्वान्मूढत्वम् । विहिताकरणात्प्रतिषिद्धसेवनाच्च कुत्सितत्वम् ॥ अपत्यं पौत्रप्रभृति गोत्रम् ॥ ४।१।१६२ ॥ तद्गोत्रसंज्ञं भवतीति । अपत्यमात्रस्य लोके गोत्रत्वादपत्यविशेषे गोत्रशब्दस्य नियमात्परिभाषेयं युक्ता, न संज्ञेति चेत् ? न; लिङ्गवती परिभाषा भवति, यथा---ठिको गुणवृद्धीऽ इति, विध्यन्तरशेषभूता वा, यथा---ठ्विप्रतिषेधे परं कार्यम्ऽ इति, न चेयं तथा; किञ्च वृद्ध्यादयोऽपि सर्वार्थप्रत्यायनयोग्याः संज्ञिविशेषे शक्त्यवच्छेदेन नियम्यन्ते । अथ च ताः संज्ञास्तथेयमपि भविष्यति । उक्तं च--- व्यवहाराय नियमः संज्ञानां संज्ञिनि क्वचित् । नित्य एव तु सम्बन्धो डित्थादिषु गवादिवत् ॥ वृद्ध्यादीनां च शास्त्रेऽस्मिन् शक्त्यवच्छेदलक्षणः । अकृत्रिमो हि सम्बन्धो विशेषणविशेष्यवत् ॥ इति । यदि पौत्रप्रभृतेरपत्यस्य गोत्रसंज्ञा क्रियते, गर्गस्यापि प्राप्नोति, सोऽपि कञ्चित्प्रति पौत्रो भवत्येव, तत्र को दोषः ? ठ्गोत्राद्यौउन्यस्त्रियाम्ऽ इति यूनि प्रत्ययप्रसङ्गः, गार्ग्यादेव तु यूनीष्यते ? नैष दोषः; इहापत्यग्रहणं न कर्तव्यम्, पौत्रस्यापत्यत्वातत्प्रभृतेरपत्यस्यैव ग्रहणं सिद्धम्, तत् क्रियते---अपत्यरूपेण प्रतिभासामानस्य यथा स्यात्, वस्तुतोऽपत्यस्य मा भूदित्येवमर्थम् । अतोऽपत्यरूपेण प्रतिभासमानस्य गर्गस्य न भविष्यति । ननु चासत्यप्यपत्यग्रहणे पौत्रप्रभृतिरूपेण प्रतिभासमानस्य संज्ञाया विज्ञानातेन रूपेणाप्रतिभासमानस्य मर्गस्य न भविष्यतीति किमपत्यग्रहणेन ! यद्येवम्, औपगवस्यापि न स्यात्, सोऽपि ह्यपत्यरूपेण प्रतिभासते, न तु पौत्रप्रभृतिरूपेण, अपत्यमात्रे प्रत्ययविधानाद् गार्ग्यादेरेव तु स्याद्---यत्र गोत्र एव प्रत्ययः । कुतश्चायमर्थो लभ्यते---पौत्रप्रभृतिरूपेण प्रतिभासमानस्येति ? तद्ग्रहणसामर्थ्यादिति चेत्, सर्वस्यापि यत्किञ्चित्प्रतिवस्तुतः पौत्रप्रभृतित्वाव्यभिचारात् पौत्रप्रभृतिग्रहणं न कर्तव्यं भवति । तद्ग्रहणसामर्थ्यादयमर्थो लभ्यत इति ? तन्न; संज्ञिनिर्देशार्थत्वादचेतनव्यावृत्यर्थत्वाच्च । ठ्गोत्रम्ऽ इत्येतावति ह्युक्ते कस्य संज्ञा स्यात्, रथादीनां च वस्तुतोऽपि पौत्रप्रभृतित्वं नास्ति । अतो वस्तुतः पौत्रप्रभृतेर्गर्गस्य मा भूत्, अपत्यरूपेण प्रतिभासमानस्य यथा स्यादित्येवमर्थं त्वपत्यग्रहणं कर्तव्यम् । सम्बन्धिशब्दत्वाच्च पौत्रप्रभृत्यपत्यशब्दयोर्यं प्रति पौत्रप्रभृतित्वमपत्यत्वं च तमेव प्रति गोत्रसंज्ञा विज्ञायते । तेनाङ्गिरसः पौत्रे गर्गस्यानन्तरे न भवति ठ्गर्गादिभ्यो यञ्ऽ । तदेतत्सर्वमुक्तम् । सम्बन्धिशब्दत्वादित्यादि । यस्य यदपत्यमिति । प्रतिभासत इति भावः । तदयमत्र सूत्रार्थः---वस्तुतः पौत्रप्रभृतिरपत्यरूपेणं प्रतिभासमानोऽर्थो यं प्रत्यपत्यरूपेण प्रतिभासते यं च प्रति वस्तुतः पौत्रप्रभृतिः, तं प्रति गोत्रसंज्ञ इति । अपत्यमिति व्यपदेशायेति । संज्ञिन इति शेषः । अपत्यरूपेण प्रतिभासमानस्य संज्ञिनो व्यपदेशो यथा स्यादित्येवमर्थमित्यर्थः । इह कस्मान्न भवति---गर्गापत्यस्य तृतीयादेरपत्यमिति, अत्र हि गर्गापत्यशब्देन गर्गं प्रत्यपत्यरूपेण प्रतिभासमानस्य वस्तुतः पौत्रप्रभृतेर्गर्गं प्रति गोत्रसंज्ञायां सत्यां गर्गस्य चतुर्थे जीवद्वंश्ये ठ्गोत्राद्यौउनिऽ इति गर्गापत्यशब्दात्प्रत्ययः प्राप्नोति ? नैष दोषः; संज्ञाप्रकरण एवास्मिन्कर्तव्येऽपत्यप्रत्ययेषु विधीयमानेषु मध्ये संज्ञाकरणं प्रत्ययवाच्यस्यापत्यस्य परिग्रहार्थम् । यदिदं ठ्तस्यापत्यम्ऽ इत्यारभ्य प्रत्ययार्थत्वेन निर्दिष्टमपत्यं तद्गोत्रसंज्ञमिति, तेनापत्यशब्देन प्रतिभासमानस्यापत्यस्य संज्ञा न भविष्यति । ननु च ठ्ते तद्राजाःऽ इत्यत्र तच्छब्देनाजादीनामेव परिग्रहो यथा स्यात्पूर्वेषां मा भूदिति मध्ये संज्ञाकरणं स्यात् । यद्येतावत्प्रयोजनं स्याद्, ठञादयस्तद्राजाःऽ इत्येव ब्रूयात्, तस्मादुक्तमेव साक्षात्प्रयोजनमस्मिन् प्रकरणे संज्ञाकरणस्य । स्थिते त्वेवमुक्तमपि प्रयोजनं भवत्येव, अत एव तत्र वक्ष्यति---गोत्रयुवसंज्ञा काण्डेन व्यवहितत्वादिति ॥ जीवति तु वंश्ये युवा ॥ ४।१।१६३ ॥ अभिजनप्रबन्धो वंश इति । अभिजनाःउपित्रादयः, अभिजायन्ते येभ्यः पुत्रादय इति कृत्वा । प्रबन्धःउसन्तानः । तत्र भवो वंश्य इति । दिगादित्वाद्यत् । पौत्रप्रभृत्यपत्यमिति षष्ठीसमासः, यद्यत्रापि पूर्ववत् ठ्पौत्रप्रभृतिऽ इत्येतत्सामानाधिकरण्येनापत्यं विशेषयेत्, तृतीयस्यापि जीवद्वंश्यस्य युवसंज्ञा स्यात्; तत्र को दोषः ? युवसंज्ञया गोत्रसंज्ञाया बाधितत्वाद्गर्गादिभ्यो यञ् स्यात्, न कश्चिदपत्यप्रत्ययः । किं कारणम् ? गोत्रादेव यूनीति नियमात्, नानन्तरान्न मूलप्रकृतेः । तस्माद्वाक्येनैवाभिधानं प्राप्नोति---गर्गस्यापत्यं गार्गेरपत्यमिति । एतेनोपगोस्तृतीयो जीवद्वंश्यो व्याख्यातः, तस्माद्वैयधिकरण्येन विशेषणमित्याह---पौत्रप्रभृतीति । षष्ठी विपरिणम्य इति । अत्र च व्याख्यानमेव शरणम् । तुशब्दोऽवधारणार्थ इति । अनेकार्थत्वान्निपातानां भिन्नक्रमो युवशब्दानन्तरं द्रष्टव्य इत्याह---युवैव भवति, न गोत्रमिति । असत्यवधारणे एकसंज्ञाधिकारादन्यत्र संज्ञायां समावेशाभ्युपगमात्कृत्यप्रत्ययसंज्ञानामिव गोत्रयुवसंज्ञयोः समावेशः स्यात् । अस्तु, को दोषः ? यस्कस्यापत्यं गोत्रम् ठ्शिवादिभ्योऽण्ऽ तदन्ताद्यौउनि ठणो द्व्यचःऽ इति फिञ्, वृद्धौ, यस्येति लोपे कृते यास्कायनिरिति । बहुषु ठ्यस्कादिभ्यो गोत्रेऽ इति फिञो लुक् प्रसज्येत; एकदेशविकृतस्यानन्यत्वात् । यस्कादिभ्योऽनन्तरस्य गोत्रप्रत्ययस्थ लुगुच्यते, न चात्रानन्तरः फिञ् । शिवाद्यणो यस्येति लोपः, तस्य पूर्वस्मादपि विधौ स्थानिवद्भावाद्यस्कादिभ्योऽनन्तरस्य विहितस्येति वा विज्ञास्यते । इह च कण्वस्यापत्यं काण्व्यः, तस्यापत्यं युवा काण्व्यायनः, तस्यच्छात्त्राः काण्वायनीया इति, ठ्कण्वादिभ्यो गोत्रेऽ इत्यण् न भवति, कण्वादिभ्यः परो योऽनन्तरो यो वा तेभ्यो गोत्रे विहितस्तदन्तादित्याश्रयणात् । इह च औपगवस्यापत्यमौपगविरिति ठ्गोत्राद्यौउनिऽ इति प्रतिपदविधानात्, ठेको गोत्रेऽ इति नियमो बाधिष्यते । यदि बाध्यते, औपगवेर्यूनोऽपत्यमिति चतुर्थस्य यूनो गोत्रत्वात्पञ्चमे यूनि फक् प्राप्नोति ? नैष दोषः; पञ्चमे यूनि विवक्षिते उत्पन्नस्येञः यूनि ठ्लुक्ऽ इति लुकि कृते औपगवशब्दादणन्तात्पुनरपीञेव भविष्यति । इह तर्हि दाक्षेरपत्यं दाक्षायणस्यापत्यमित्यर्थविवक्षायाम् ठ्फक्फिञोरन्यतरस्याम्ऽ इति फको लुगभावपक्षे तदन्तादिञ् प्राप्नोति ? किञ्च औपगवेरपत्यमित्यत्रापि लुप्तेऽपीञि प्रत्ययलक्षणेन फक्प्राप्नोति ? एवं तर्हि ठ्गोत्राद्यौउनिऽ इत्यत्र एकग्रहणनुवर्तिष्यते, तेनानेकः प्रत्ययो न भविष्यति । यस्तर्हि ठ्गोत्रेऽलुगचिऽ इत्युलक् सोऽत्रीणां यूनां छात्र इत्यादौ प्राप्नोति, यूनोऽपि गोत्रत्वात् ? प्राप्नोतु, तं बाधित्वा परत्वाद्यौउनि लुग्भविष्यति ? नैवं शक्यम्, फक्फिञोर्हि दोषः स्यात्---शालङ्केरपत्यं शालङ्किः, पैलादिषु पाठादिञ् शलङ्कादेशश्च, ततः शालङ्केरपत्यं युवा ठ्यञिञोश्चऽ इति फक्, ठ्पैलादिभ्यश्चऽ इति लुक्, ततः शालङ्केर्यूनश्छात्रा इति प्राग्दीव्यतीयार्थविवक्षायाम् ठ्गोत्रेऽलुगचिऽ इति पैलादिषु लुकः प्रतिषेधे सति ठ्यूनिलुक्ऽ इति लुकि नित्ये प्राप्ते ठ्फक्फिञोरन्यतरस्याम्ऽ इति पक्षे फकः श्रवणप्रसङ्गः । असत्यां तु यूनो गोत्रसंज्ञायाम् ठ्गोत्रेऽलुगचिऽ इत्यस्याप्रवृतौ पैलादिषु लुग्भवत्येव । ठ्फक्फिञोरन्यतरस्याम्ऽ इत्ययं तु विकल्पोः यूनि ठ्लुक्ऽ इत्यस्यानन्तरस्य, न तु पैलादिषु लुको व्यवहितस्यान्तरङ्गस्य, तत ठिञश्चऽ इत्यण्---शालङ्का इति भवति । तथा पीलाया अपत्यम्, ठ्पीलाया वाऽ इत्याण्, पैलः, तस्यापत्यं युवा, ठणो द्व्यचःऽ इति फिञ्, तस्य ठ्पैलादिभ्यश्चऽ इति लुक्, ततः पैलस्य यूनश्छात्त्राः पैलीया इति ॥ भ्रातरि च ज्यायसि ॥ ४।१।१६४ ॥ कनीयान् भ्रातेति । भ्रातृज्यायः---शब्दयोः सम्बन्धिशब्दत्वादयमर्थो लभ्यते । अकारणत्वादिति । यः साक्षात्परम्परया वा कारणं भवति, स लोके ठ्वंश्यऽ इत्युच्यते । गार्ग्ये जीवतीति । ज्यायसि भ्रातरि जीवतीत्यर्थः । एवं वात्स्यायनादावपि द्रष्टव्यम् ॥ वान्यस्मिन् सपिण्डे स्थविरतरे जीवति ॥ ४।१।१६५ ॥ सप्तमपुरुषावधय इति । आत्मनः प्रभृति पित्रादिषु पुत्रादिषु वा गण्यमानेषु सप्तमपुरुषोऽवधिर्येषां ते तथोक्ताः । प्रायेण तु पूरणप्रत्ययो न पठ।ल्ते, सप्तपुरुषावधय इत्येव पठ।ल्ते, न तत्र समीचीनमर्थं पश्यामः । समानः पिण्डो येषामिति सपिण्डाः, निपातनात्सभावः । स्मर्यन्त इति । तद्यथा---ठ्सपिण्डता तु पुरुषे सप्तमे विनिवर्ततेऽ इति । सप्तमेऽतीते विनिवर्तत इत्यर्थः । उभयत्रेति । जनेन मरणे चेत्यर्थः । एवमादिकायां क्रियायामिति । आदिशब्देन ठ्दानं प्रतिग्रहो होमः स्वाध्यायश्च निवर्ततेऽ इत्यादिका क्रिया गृह्यते । जीवदेवेति । वस्तुव्याख्यानमेतत् । सूत्रे तु जीवतीत्याख्यातपदम्, तच्चेदपत्यं जीवतीति, प्रथमार्थे वा शत्रन्तात्सप्तमी व्याख्येया । तरब्निर्देश इत्यादि । असति तस्मिन्स्थविरशब्दाद्वयः प्रकर्षमात्रं गम्येत, तरपा तु स्थानप्रकर्षो द्योत्यते, ततस्तदु पादानसामर्थ्यात्, यथा गोतरः, अश्वतर इत्यादावप्रवृत्तिनिमितभूतस्यापि वाहदोहादेः प्रकृत्यर्थसम्बन्धिनः प्रकर्षेतरब् भवति, तथात्रापि । स्थानमुपदम्, पितृत्वादिकम् । स्थानवयोन्यूने इति । स्थानेन वयसा च न्यूने इत्यर्थः । ननु च ज्यायसीत्यनुवृतेरेवोभयोः प्रकर्षो लभ्यते, ठ्प्रशस्यस्य श्रःऽ, ठ्ज्य चऽ, ठ्वृद्धस्य चऽ इत्युभयोर्ज्यादेशविधानात् ? तन्न; नहि सकृत्प्रयुक्तः शब्दोऽनेकार्थमभिधातुं समर्तः । एवमपि तरब्निर्देशो न कर्तव्यः, ज्यायसीत्यनुवृतेरेव स्थानप्रकर्षलाभात् ? एतदपि नास्ति; स्थविर इति विशेषणान्तरोपादाने सति ज्यायसीत्यस्यनुवृतेरेव दुर्ज्ञानत्वात् । जीवतीति किमिति । श्रुतं प्रकृतं चोभयमधिकृत्य प्रश्नः । अत एवोभयोः प्रयोजनं दर्शयति---मृते मृतो वेति । तत्र मृत इति स्वपितरि, मृतो वेति पौत्रप्रभृतेरपत्यभूतोऽर्तः ॥ वृद्धस्य च पूजायाम् ॥ ४।१।१६६ ॥ अपत्यमन्तर्हितमित्यादि । एतच्चापत्यग्रहणेन वृद्धस्य विशेषणाद् इह परिभाषितस्य च शब्दात्मकस्यापत्यत्वासम्भवात् विज्ञायते । पूजायां गम्यमानायामिति । का पुनरत्र पूजा ? यद्यौवत्वमेव । यद्यपि युवशब्दोऽनपेक्षितप्रवृत्तिनिमितमेव संज्ञा, तथापि प्रायेणाल्पवयसो जीवद्वंश्यत्वं सम्भवतीति तदध्यारोपे सति तत्सहचरितं वयोऽपि प्रत्यायितं भवतीति पूजा भवति । संज्ञासामर्थ्यादिति । गोत्रस्य सतो युवसंज्ञा विधीयते, गोत्रसंज्ञा चेत्प्रवृता ठेको गोत्रेऽ इति नियमः प्राप्नोति, ततश्च परमप्रकृतेरेवोत्पन्नेन प्रत्ययेनाभिहितत्वादप्राप्तोऽपि प्रत्ययोऽस्माद्वचनाद्भवतीत्यर्थः । इह पूर्वत्र सामानाधिकरण्येन संज्ञाविधानात्प्रक्रमाभेदाय तथैव संज्ञा विधातुं युक्ता, कोऽयं वृद्धस्येति षष्ठीनिर्देशः इत्यत्राह---वृद्धस्येति । षष्ठीनिर्देश इति । इतिकरणो हेतौ, वातिंककारीयं चेदं सूत्रम् । वृत्तिकारेण तु सूत्रेषु प्रक्षिप्तम् । एतेनोतरसूत्रं व्याख्यातम् ॥ यूनश्च कुत्सायाम् ॥ ४।१।१६७ ॥ निवृत्तिप्रधानो विकल्प इति । न पुनः प्रवृत्तिप्रधान इति; पूर्वमेव प्रवृतत्वात् । यदाह---यूनश्चेति । न ह्यप्रवृतायां तस्यामेष निर्देश उपपद्यते । ननु च निवृत्तिरप्यनिर्वृता या न शक्यते कर्तुम्, यो हि भुक्तवन्तं ब्रूयान्मा भुङ्क्था इति किं तेन कृतं स्यात् । तस्माद् ठ्यूनश्चऽ इति निर्देशो युवसंज्ञाविषयो ल७णार्थः । जीवद्वंश्यस्य चतुर्थादेरिति, न तु युवसंज्ञाशिष्टस्य निर्देश इति वक्तव्यम् । एवं च प्रवृत्तिविकल्पोऽप्युपपद्यते, सा त प्रवृत्तिरसत्यपि सूत्रे लभ्यत इति मत्वा निवृत्तिप्रधान इत्युक्तम् । युवसंज्ञायां प्रतिषिद्धायामिति । तस्या अभावपक्ष इत्यर्थः । गार्ग्यो जाल्म इति । का पुनरत्र कुत्सा ? गोत्रत्वारोपिणामेव, अजीवद्वंश्या हि गोत्रसंज्ञकाः, ते प्रायेण चरमवयसो भवन्तीति तदारोपे भवति कुत्सा ॥ जनपदशब्दात्क्षत्रियादञ् ॥ ४।१।१६८ ॥ जनपदशब्दोयः क्षत्रियवाचीति । नन्वेते पञ्चालादयः शब्दाः क्षत्रियशब्दा एव, तत्सम्बन्धातु ठ्तस्य निवासःऽ इति तद्धिते कृते ठ्जनपदे लुप्ऽ इति च लुपि जनपदे वर्तन्ते, तत्कथमवरकालया जनपदशब्दतया नित्यक्षत्रियशब्दता लक्ष्यते ? कः पुनराह---क्षत्रियसम्बन्धादेव ते जनपदे वर्तन्त इति, सूत्रकारस्तावत् ठ्लुब्योगाप्रख्यानात्ऽ इति वदन् क्षत्रियेष्विव जनपदेऽपि स्वाभाविका पञ्चालादिशब्दस्य प्रवृत्तिरित्याह---पाञ्चाल इति । यदपि पञ्चालादयः शब्दा जनपदे बहुवचनान्ताः, क्षत्रिये त्वेकवचनान्ताः, तथापि प्रातिपदिकस्य विशेषणं जनपदत्वम्, न सुबन्तस्येत्येकवचनान्तादपि प्रत्ययो भवत्येव । ऐक्ष्वाक इति । इक्ष्वाकुशब्दस्य दाण्डिनायनादिसूत्रे टिलोपो निपातितः । द्रौह्यव इति । क्षत्रियवचन एवायं न जनपदशब्दः । ब्राह्मणस्य पञ्चालस्येति । बाह्वादिप्रभृतिषु येषां दर्शनमित्युक्तत्वात्कथमत्र प्रसङ्ग इति चिन्त्यम् । क्षत्रियसमानशब्दादिति । समानः शब्दो यस्य यमानशब्दः, क्षत्रियेण यस्य समानशब्दस्तस्माज्जनपदशब्दात् तस्येति षष्ठीसमर्थाद्राजन्यभिधेयेऽपत्यवत्प्रत्ययो भवति । अवृद्धादपीति प्राप्तस्य वुञोऽपवादः । क्वचितु वृतावेवाय ग्रन्थः पठ।ल्ते । मागध इति । ठ्द्व्यञ्मगधऽ इत्यण् ॥ वृद्धेत्कोसलाजादाञ्ञ्यङ् ॥ ४।१।१७१ ॥ ड।ल्ण्वक्तव्य इति । डकारष्टिलोषार्थः, णकारो वृद्धिनिमितस्येति पुंवद्भाव प्रतिषेधार्थः । अन्यस्मादिति । गुणवचनाद्यौधिष्ठिरपितृवचनाच्च । पुरीरण्वक्तव्यः पौरव इति क्वचित्पठ।ल्ते, तत्र पुरुशब्दस्याजनपदशब्दत्वात्प्राग्दीव्यतीयेऽणि सिद्धे तद्राजसंज्ञार्थं वचनम् । जनपदवाचित्वे ठ्द्व्यञ्मगधऽ इत्येव सिद्धम् ॥ कुरुनादिभ्यो ण्यः ॥ ४।१।१७२ ॥ आदिशब्दो नकारेणैव सम्बध्यते, न कुरुशब्देन; तदादेर्जनपदस्याभावात्, तदाह---कुरुशब्दान्नकारादिभ्यश्चेति । अमञोरपवाद इति । कुरुशब्दाद् ठ्द्व्यञ्मगधऽ इत्यणोऽपवादः, नादिभ्यस्त्वञः । नैषध्य इति । कथं ठ्नैषधोऽर्हति चेदघम्ऽ इति ? स्वच्छन्दवाच ऋषयः । कथं ठ्स नैषधस्यार्थपतेः सुतायाम्ऽ इति ? निराङ्कुशाः कवयः । शेषविवक्षायां वोभयत्राण्समर्थनीयः ॥ साल्वावयवप्रत्यग्रथकलकूटाश्मकादिञ् ॥ ४।१।१७३ ॥ सल्वा क्षत्रियेति पाठः, तन्नामिकेति वचनात्, इदं हि तन्नामिकाणः प्राप्त्यर्थमुक्तम् । न च साल्वाशब्दातस्य प्राप्तिः, वृद्धत्वात, सलेर्वप्रत्ययः । अणपीष्यत इति । साल्वावयवे अपदातौ साल्वादिति निर्देशात्, न च निपातितोऽण् ढकोऽपवादः, ठ्साल्वेयगान्धारिभ्या चऽ इति निर्देशात् । तेभ्यः क्षत्रियवृत्तिभ्य इति । ठ्जनपदशब्दात्क्षत्रियात्ऽ इत्यनुवृतेरेतल्लभ्यते । ठुदुम्बरास्तिलखलाःऽ इति श्लोकः प्रदर्शनार्थः । तेन बुस, अजमीढ, आजकन्द--इत्येतेभ्यो।ञपि भवति; तथा च भाष्य उदाहृतम्---बौसिः, आजमीढिः, आजकन्दिरिति । साल्वावयवसंज्ञिता इति । साल्वावयव---इत्येवं शब्दिता इत्यर्थः ॥ ते तद्राजाः ॥ ४।१।१७४ ॥ तथा चैवोदाहृतमिति । तत्र ठ्तद्राजस्य बहुषु तेनैवास्त्रियाम्ऽ मित्यत्र कार्याश्रयमुदाहृतम्, इह तु प्रकरणे रूपाश्रयम् ॥ कम्बोजाल्लुक् ॥ ४।१।१७५ ॥ चोलः, शक इति । ठ्द्व्यञ्मगधऽ इत्यस्याणः । केरल इत्यत्राञः ॥ स्त्रियामवन्तिकुन्तिकुरुभ्यश्च ॥ ४।१।१७६ ॥ अवन्ती, कुन्तीति । लुकि कृते ठितो मनुष्यजातेःऽ इति ङीष । कुरूरिति । ठूणुतःऽ ॥ अतश्च ॥ ४।१।१७७ ॥ तकारो विस्पष्टार्थं इति । असति हि तस्मिन् ठस्यऽ इति निर्देशः स्यात्, ततश्च सन्देहः स्यात्---किमयं वर्णनिर्देशः ? आहोस्विदिदम इति ? इदमश्च निर्देशेऽनन्तरस्येञो लुक् प्रसज्येत, तकारे सत्येष दोषो न भवति, तपरनिर्देशस्य भूयसा वर्णेष्वेव प्रसिद्धत्वात् ठ्तपरस्तत्कालस्य ऽ इति संज्ञाकरणाच्च । कथं ठ्माद्रीसुतौ पुष्पफले समृद्धेऽ इति ? स्वच्छन्दवाच ऋषयः, मद्रीसुतावित्येव वा पाठ।ल्म् । अवन्त्यादिभ्यो लुग्वचनादिति । यद्यत्र तदन्तविधिः स्यादवन्त्यादिभ्यो लुग्वचनमनर्थकं स्याद्; अनेनैव सिद्धत्वात् । तदन्तविधौ त्वसति अकारमात्रस्य ग्रहणेन सिध्यतीत्यवन्त्यादिभ्यो लुग्वचनमर्थवद् भवति ॥ न प्राच्यभर्गादियौधेयादिभ्यः ॥ ४।१।१७८ ॥ पाच्चालीत्यादि । पञ्चालादयः शरवत्याः प्राञ्चो जनपदाः । भर्गादिग्रहणमप्रागर्थम् । भृञो गः, भर्गः । कृञ उः, करुः, तमोषतिउद्वेष्टि, मूलविभूजादित्वात्कः, करूषाः । चिनोतेः कयः आदेश्च कः, बहुलवचनादित्संज्ञाभावः, केकयः । कशेर्मिरः, कश्मीरः । साल्वशब्दो निरुक्तः । शोभनानि स्थलान्यस्य सुस्थलः । उरसा शेते उरशः । ठ्कुरुनादिभ्यो ण्यःऽ कौरव्यः । यौधेयीत्यादि । युधाया अपत्यम्, शुभ्राया अपत्यम्, ठ्द्व्यचःऽ इति ढक् । शुभ्राशब्दात् ठ्शुभ्रादिभ्यश्चऽ इति, ततः स्वार्थे ठ्पर्श्वादियौधेयादिभ्यःऽ इत्यञ् । यद्यञो लुक् स्याड्ढग्लक्षणे ङीपि सति उतादतनिवृत्तिस्वरः स्यात्, लुकि तु प्रतिषिद्धे ठ्शार्ङ्गरवाद्यञःऽ इति ङीनि सत्याद्यौदातं भवति । कस्य पुनरिति । अस्य वक्ष्यमाणोऽभिप्रायः, तमेव प्रकाशयति---कथं पुनरिति । परिहरति---एतदेवेति पर्शुरिति । पर्शुः क्षत्रियो जनपदेन समानशब्दः, तस्यापत्यं सङ्घः, स्त्रीत्वविशिष्टः, ठ्द्व्यञ्मगधऽ इत्यण्, तस्य ठतश्चऽ इति लुक्, पुनः पर्श्वादिलक्षणः स्वार्थिकोऽण्, तस्यापि लुक् । एवं रक्षा इति । रक्षसः क्षत्रियस्यापत्यम्, स्त्रीत्वविशिष्टः सङ्घः, पूर्ववदण्, द्वयस्यापि लुक्, ठत्वसन्तस्यऽ इति दीर्घः । आसुरीति । जनपदलक्षणस्याञो लुकि पर्श्वादिलक्षणस्याणो लुक्, जातिलक्षणो ङीष् । ज्ञापकत्वमेव द्रढयति---तथा चोक्तमिति । वार्तिककारेणैदुक्तम् । यौधेयादिषु त्रयो निरुक्ताः; ज्यायासहितो बाणो यस्याः सा ज्याब्राणा, तस्या अपत्यं ज्याबाणेयः । ज्यावानेय इत्यन्ये पठन्ति, तत्र ज्यावानो यस्या ज्यावाना । ठ्घृ क्षरणेऽ ठ्धृ धारणेऽ आभ्यां क्तिजन्ताभ्याम् ठितश्चानिञःऽ इति ढक्, घार्तेयः, धार्तेयः । त्रयो गर्ता येषां ते त्रिगर्ताः । ठ्भृञोऽतच्ऽ, भरतः । वशेः कर्मणि किः, उशिः, उशयः, उष्टा नरा यस्य स उशीनरः, ठन्येषामपि दृश्यतेऽ इति दीर्घः ॥ इति श्रीहरदतमिश्रविरचितायां पदमञ्जर्यां चतुर्थाध्यायस्य प्रथमः पादः -------------------॥॥॥॥॥॥॥॥॥॥।------------------अथ चतुर्थाध्याये द्वितीयः पादः ---४ पदमञ्जरी तेन रक्तं रागात् ॥ ४।२।१ ॥ रञ्जिरयमस्त्येवाभिष्वङ्गे----भोजने रक्त इति; अस्ति वर्णविशेषे---रक्ता गौः, लोहितेत्यर्थः; अस्ति शुक्लस्य वर्णान्तरापादने---रक्तः पट इति । तत्राद्ययोरर्थयोर्ग्रहणे, रूपेण कान्तायां रक्तः, कोपेन रक्तं मुखमित्यत्रापि प्राप्नोतीति मन्यमानस्तृतीयमर्थमाश्रित्याह---शुक्लस्येत्यादि । एतच्चाभिधानस्वाभाव्याल्लभ्यते । रज्यतेऽनेन राग इति । ठ्घञी च भावकरणयोःऽ इति नलोपः । भावसाधनस्तु रागशब्दो न भवति, न हि रञ्जनक्रियैव रञ्जनक्रियायाः करणं भवति । रागविशेषवाचिन इति । स्वरूपग्रहणं तु न भवति; उतरत्र लाक्षादीनां रागग्रहणेन विशेषणात् । रागादिति किमिति । अनभिधानादेव कर्तृवाचिनो न भविष्यति, ठ्दैवदतं वस्त्रम्ऽ इति ह्युक्ते स्वस्वामिभावस्यैव सम्प्रत्ययादिति प्रश्नः । लक्षणैकशरणो नैतत्प्रतिपतुमर्हतीत्युक्तम् । कथमिति । न ह्यत्र वर्णान्तरमाहितमिति प्रश्नः उपमानादिति । रूपसादृश्यनिमितात् ॥ लाक्षारोटनाट्ठक् ॥ ४।२।२ ॥ शकलकर्दमयोर्वार्तिके दर्शनात्सूत्रे प्रक्षेपः । नील्या इति । ओषधिविशेषो नीलि, अम्बाधनार्थवचनम्, नीलशब्दस्तु गुणशब्दत्वादेव नीलीरक्ते वस्त्रे सिध्यति । पीतादिति । रागविशेषिवाची पीतशब्दः । इदमपि वचनमण्बाधनार्थमेव । स्वार्थिककन्प्रत्ययान्तस्तु पीतकशब्द गुणवचनो वस्त्रे लभ्यते ॥ नक्षत्रेण युक्तः कालः ॥ ४।२।३ ॥ इह पारमर्षाः कालं क्रियात्मानमिच्छन्ति, यथोक्तम्--- आदित्य---ग्रह---नक्षत्र---परिस्पन्दमथापरे । भिन्नमावृत्तिभेदेन कालं कालविदो विदुः ॥ इति । वैशेषिकास्तु द्रव्यमाकाशकल्पम्, उक्तं च--- व्यापारव्यतिरेकेण कालमेके प्रचक्षते । नित्यमेकं विभु द्रव्यं परिमाणं क्रियावताम् ॥ इति । द्वयोरपि दर्शनयोर्नक्षत्रेण कालस्य योगो न सम्भवति, किं कारणम् ? अप्राप्तिपूर्विका प्राप्तिःउयोगः, कालविशेषावधारणार्थो हि लोके पौषादिशब्दप्रयोगः, एवंविध एव च योगः कालविशेषावधारणहेतुर्भवति । द्रव्यपक्षे तावद् द्वयोरपि नक्षत्रकालयोर्नित्यत्वात्कालस्य च सर्वगतत्वान्न कदाचिदयोगः । क्रियापक्षेऽपि नक्षत्रगतायाः क्रियायाः कालख्यायाः समवायलक्षणो योगोऽव्यभिचारादविशेषणम् । सूर्यादिगतायास्त्वसम्भवादविशेषणम् । यदि तु यथाकथञ्चिद्योगः, तदा व्यभिचाराभावः । न हि सोऽस्त्यहोरात्रो यः पुष्येण न युक्तः । तस्मात् ठ्नक्षत्रेण युक्तः कालःऽ इत्यनुपपन्नो निर्देशः । कथं तर्हि निर्देशः कर्तव्यः, नक्षत्रादेर्युक्तान्ताद्यौक्ते काले प्रत्ययविधानं युक्तलोपश्च, पुष्येण युक्तश्चन्द्रमां पुष्ययुक्तः, पुष्ययुक्तेन युक्तः काल इति पुष्ययुक्तशब्दाच्चन्द्रमसि वर्तमानात्प्रत्ययः, युक्तशब्दस्य च लोपः, पौषी रात्रिः, पौषमहः, एवं सर्वत्र । तत्र युक्तवद्भावे दोषः, मधायुक्तशब्दात्प्रत्यये क्रियमाणे तस्य लुपि मघा इति स्त्रीत्वबहुत्वे न सिद्ध्यतः, युक्तस्यैव तु चन्द्रमसो लिङ्गवचनप्रसङ्गः, अतो नक्षत्रवाचिन एव प्रत्यययोर्योगः सम्भवतीति मत्वा पृच्छति---कथं पुनरिति । न चन्द्रमसैव योगे पुष्यादीनां नक्षत्रता; ज्योतिर्मात्रवचनत्वान्नक्षत्र शब्दस्य । ये तु पुष्यादीनामावस्थिकी नक्षत्रता चन्द्रमसा योगे भवतीत्याहुः, तेषामयं प्रश्नोऽनुपपन्नः । पुष्यादिसमीपस्थ इति । मुख्यार्थासम्भवे गौणस्याश्रयणमिति भावः । तत्र मघादयः शब्दा अपरित्यक्तस्वलिङ्गसङ्ख्या एव चन्द्रमसि वर्तन्ते, यथा---मञ्चादयः, मञ्चान् स्त्रियः पश्येति । तेन युक्तवद्भावविषयेऽपि दोषाभावः । पुष्यसमीपस्थेन चन्द्रमसा युक्त इत्यर्थ इति । यद्यपि चन्द्रमसा कालस्य योगो नित्यः, चन्द्रमसो नित्यत्वात्; पुष्यसमीपेन तु कादाचित्कः, पुष्यसमीपतायाः कादाचित्कत्वात् । पौषीति ठ्सूर्यतिष्यऽ इत्यादिना यलोपः ॥ लुबविशेषे ॥ ४।२।४ ॥ यद्यविशेषे लुब् भवति, इहापि प्राप्नोति---पौषी रात्रिः, पौषमहरिति, अत्राप्यद्य ह्यए वेति विशेषो न गम्यते । अथ रात्रिरहरिति । विशेषा वसायातदाश्रयः प्रतिषेधो भवति, इहापि तर्हि न स्याद्---अद्य पुष्यो ह्यः कृतिका इति, अद्यत्वादिविशेषावसायात्; ठ्पुष्ये पायसमश्नीयात्ऽ इत्यादावेव तु स्याद् यत्र नमनागपि विशेषावसायः ? अत आह---नचेदित्यादि । रात्र्यादिरित्यादिशब्देन मुहूर्तादेः परिग्रहः । विशेषोऽभिधीयते इति । प्रत्ययान्तेन । एतदेव स्पष्टयति--यावानिति । कियाÄश्च कालो नक्षत्रेण युज्यते ? इत्याह---अहोरात्र इति । षष्टिनाडिकात्मक इत्यर्थः तावन्तं हि कालमेकस्य नक्षत्रस्य समीपे चन्द्रमा वर्तते । तदेतदेवं यावान्कालो नक्षत्रेण युज्यते तस्य सर्वस्य प्रत्ययान्तेनाभिधानमविशेषः, तदेकदेशस्याभिधानं विशेषः । एतच्च प्रत्ययान्तेऽनुप्रवेशादन्तरङ्गत्वाच्च लभ्यते । प्रसज्यप्रतिषेधश्चायम्, तेन पौषोऽहोरात्र इत्यत्र समुदायेनापि प्रतीयमानोऽवयवद्वयात्मकः प्रतीयत इति तदाश्रयः प्रतिषेधो भवति, इह पुष्येण युक्ता पौर्णमासी पौषी, मघाभिर्युक्ता माघीत्यादौ लुप् प्राप्नोति ? ज्ञापकात्सिद्धम्, यदयम् ठ्विभाषा फल्गुनीश्रवणाकार्तिकीचैत्रीभ्यःऽ इति निर्दिशति, तज्ज्ञापयति---पौर्णमास्यां लुब्न भवतीति । श्रवणाशब्दातु भवति---ठ्श्रवणाकार्तकीऽ इति निर्देशादेव । कथं तर्हि श्रावण्यां पौर्णमास्यामिति ? अबाधकान्यपि निपातनानि भवन्ति ॥ संज्ञायां श्रवणश्वत्थाभ्याम् ॥ ४।२।५ ॥ विशेषार्थोऽयमारम्भ इति । न तु संज्ञायां नियमार्थः; विधिसम्भवे नियमायोगात्, ठ्श्रवणाकार्तिकीऽ इत्यसंज्ञायामपि लुपो दर्शनाच्च । लुपि युक्तवद्भावः कस्मान्न भवतीति । श्रवणा रात्रिरित्यत्र । निपातनादिति । ङीप्त्वत्र प्रत्ययलक्षणेन भवति; ठण् योऽकारःऽ इति विज्ञानात् ॥ द्वन्द्वाच्छः ॥ ४।२।६ ॥ नक्षत्रग्रहणमनुवृतं षष्ठ।ल्न्ततया विपरिणम्यते, तच्च द्वन्द्वस्य विशेषणमित्याह---नक्षत्रद्वन्द्वादिति । राधानुराधीया रात्रिरिति । एकदेशद्वारेण रात्र्यादेर्नक्षत्रद्वययोगः । अद्य राधानुराधीयमिति । अद्येत्यस्यालिङ्गत्वेऽपि तद्विशेषणस्य नपुंसकत्वम्, लोकाश्रयत्वाल्लिङ्गस्य, लुपं परत्वाद्वाधते । च्छ इति । ननु युगपत्प्राप्तयोर्विप्रतिषेधः, न च लुप्च्छयोर्युगपत्प्रसङ्गः, प्रत्ययादर्शनस्य हि लुपसंज्ञा, तस्य कथं प्रत्ययेन सह प्रसङ्गः ? तस्मादयमत्रार्थः---ठ्मध्येऽपवादाः पूर्वान्विधीन्बाधन्ते नोतरान्ऽ इति, एवमयं लुबण एव भवति, नास्य च्छस्य । तेनायं छाए लुपो विषये श्रूयते, एतदेव लुपं परत्वाद्वाधते च्छ इति बाधकत्वम् । परत्वादिति । यतोऽयं परस्तेन लुबस्य न भवति, तेन तद्विषयेऽप्यसौ श्रूयत इति ॥ दृष्ट्ंअ साम ॥ ४।२।७ ॥ यस्य साम्नो विशिष्टकार्यविषये विनियोगो येन ज्ञातस्तेन दृष्टमित्युच्यते ॥ कलेर्ढक् ॥ ४।२।८ ॥ सर्वत्रेति । न केवलमग्नेः ठ्सास्य देवताऽ इत्यस्मिन्नेवार्थे ढक्, नापि केवलं दृष्ट्ंअ सामेत्यत्रैवार्थे कलेर्ढग्; अपि तु सर्वेष्वे व प्राग्दीव्यतीयेष्वित्यर्थः । संग्रहश्लोके जति च द्विरण् डिद्वा विधीयते इति पाठः । जातेऽर्थे योऽण् विधीयते स वा डिद्भवतीत्यर्थः । न विद्याया इति । विद्यावाचिन ईकग् न भवतीत्यर्थः । गोत्रादङ्कवदिति । अङ्के यो दृष्टः प्रत्ययः स सर्वोऽतिदिश्यते, न त्वङ्क एवाहत्य विहितः, तेन ठ्सङ्घाङ्कलक्षणेषुऽ इत्यस्याणः ठ्गोत्रचरणाद् वुञ्ऽ इत्यस्य च वुञोऽतिदेशः ॥ वामदेवाद् ड।ल्ड्ड।लै ॥ ४।२।९ ॥ डिस्कारणं किमर्थमिति । यस्येति लोपेनैव सिद्धि मत्वा प्रश्नः । अनयोर्ग्रहणं मा भूदिति । अथ ठ्क्रियमाणेऽपि डित्करणे कस्मादेवानयोर्ग्रहणं न भवति ? तत्राह---अननुबन्धकेति । ठननुबन्धकस्य ग्रहणे न सानुबन्धकस्यऽ इति यग्रहणे ड।ल्ड।ल्तोर्ग्रहणं न भवति, एकानुबन्धकपरिभाषया तु यद्ग्रहणे ड।ल्तो ग्रहणाभावः । अवामदेव्यमिति । अव्ययपूर्वपदप्रकृतिस्वरेणाद्यौदातत्वमेव भवति । संग्रहश्लोके अतदर्थे इत्यनेन ठ्ययतोश्चातदर्थेऽ इत्येतत्सूत्रं लक्ष्यते । नञ्स्वर इति । नञाश्रयः स्वरो नञ्स्वरः, उतरपदान्तोदातत्वं तस्मिन्विधीयमाने इत्यर्थः ॥ परिवृतो रथः ॥ ४।२।१० ॥ चार्मण इति । ठन्ऽ इति प्रकृतिभावः । परिवृतो रथ इति । तदेकान्तग्रहणम्, येन परिवृतो रथस्तदेकान्तश्चेद्भवतीति वक्तव्यम् । तेन चर्मवस्त्रादावेव भवति, इतरथा छात्रादावपि प्रसङ्ग इत्याह---समन्ताद्वेष्टित इत्यादि । वृणोतिर्वेष्टने परिः सर्वतो भावे । यस्य न कश्चिदवयव इति । बाहुल्याभिप्रायमेतत्, न हि चक्रनेमिप्रभृतयश्चर्मणा पिधीयन्ते नाप्यन्तरावयवाः । ननु तत्कारी चायं यदाह---छात्त्रैः परिवृत इति । तद्द्वेषी च, यदाह---समन्ताद्वेष्टित इत्यादि । नायं तत्कारी, औपचारिकोऽयं प्रयोगः, परिवृतः इव परिवृतः ॥ पाण्डुकम्बलादिनिः ॥ ४।२।११ ॥ मत्वर्थीयेनैव सिद्ध इति । यो हे येन परिवृतः स तस्यास्ति । अणो निवृत्यर्थमिति । यद्येतन्नारभ्येत, परिवृतो रथ इति विवक्षायां पूर्वेणाण् प्रसज्येत ॥ द्वैपवैयाघ्रादञ् ॥ ४।२।१२ ॥ द्वीपिव्याघ्रयोरिति । ठ्विरूपाणामपि समानार्थानाम्ऽ एकशेषः प्राप्नोति, तत्रावान्तरजातिभेदेन भिन्नार्थत्वान्न भविष्यतीति समाधातव्यम् । चर्मणैव रथस्य परिवरणं सम्भवति, न विकारमात्रेणेति ठ्चर्मणीऽ इत्युक्तम् । द्वीषिव्याघ्रशब्दाभ्याम् प्राणिरजतादिभ्योऽञ्ऽ इत्यञ्प्रत्ययः, द्वीपिनष्टिलोपः ॥ कौमारापूर्ववचने ॥ ४।२।१३ ॥ अपूर्ववचन इति । अपूर्वशब्दो भावप्रधानः । अपूर्वत्वस्य वचनमपूर्ववचनम्, तस्मिन्नपूर्ववचने । कस्य पुनरपूर्वत्वोक्तावित्याह---पाणिग्रहणस्येति । एतच्च निपातनसामर्थ्याल्लभ्यते । उभयतः । आद्यादित्वातसिः । स्त्रीपुंसयोरुभयोरप्येतन्निपातनमिष्यते, उभयोश्च पक्षयोरपूर्वत्वं स्त्रिया एव, न पुंस इत्यर्थः । तत्र कौमारेति स्त्रीपुंससाधारणप्रातिपदिकमात्रनिर्देशादवसीयते---उभयोरपि निपातनमिति । स्त्रिया एवापूर्वत्वमित्येततु निपातनबलाल्लभ्यते । अपूर्वपतिमिति । यस्याः पाणिर्न केनचिद्गृहीतपूर्वः साऽपूर्वपतिः, न विद्यते पूर्वः पतिरिति कृत्वा, तामुपपन्नःउप्राप्तः, भार्यात्वेन स्वीकृतवानित्यर्थः । स तु पूर्वकृतोद्वाहो भवतु मा वा भूत् । अपूर्वपतिरिति । अयमपि बहुव्रीहिः, अत्रापि पुरुषः पूर्ववत् । कोमारेत्यादि । कौमारेति निपात्यतेऽपूर्वचने । किमत्र निपात्यते ? कुमार्या अण् विधीयते । कदा ? अपूर्वत्वं यदा तस्याः । यदा कुमार्या अपूर्वत्वं न पुंसस्तदेत्यर्थः । कुमार्या भवतीति वेति । अनेन योगः प्रत्याख्यायते; यः कुमारीमुपपन्नस्तस्यामसौ भवति, तदायतत्वाद्धर्माचरणादेः, ततश्च ठ्तत्र भवःऽ इत्यवाण सिद्धः । यद्यपि वाण्याद्यपि कुमार्यां भवति तथापि सत्यभिधाने ठ्तत्र भावःऽ इति भवत्येव । सूत्रारम्भेऽपि हि नासौ दण्डवारितः, एवं तावत्कौमार इति सिद्धम् । स्त्रियामपि सिद्धम्, कथम् ? कौमारस्य स्त्री कौमारी, प्रत्यासत्या च यस्यामसाभवन् कौमारव्यपदेशं लभते सैवाभिधीयते न स्त्र्यन्तरम्, एतच्च सूत्रारम्भेऽप्यङ्गीकर्तव्यम् ॥ तत्रोद्धृतममत्रेभ्यः ॥ ४।२।१४ ॥ अत्रोद्धरतिरुद्धरणपूर्वके निधाने वर्तते, तेन सप्तमीसमर्थाद् विभक्तिर्नोपपद्यतदे । भुक्तोच्छिष्टमिति । शिष्टमेवोच्छिष्टम्, यथा वच्छिनष्टि न सर्वं जुहोतीति भुक्तशिष्टमित्यर्थः । यस्योद्धरणमिति प्रासिद्धिरिति । कृत्यल्युटो बहुलम्ऽ इति भूते कर्मणि ल्युट् । शरावेषूद्धृत इति । उद्धृत्यनेहित इत्यर्थः ॥ स्थण्डिलाच्छयितरि व्रते । ४।२।१५ ॥ शास्त्रित इति । संजातशास्त्र इत्यर्थः । यद्वा---तृतीयासमर्थाद्विधानेऽर्थे ठ्प्रातिपदिकाद्धत्वर्थेऽ इति णिच्, कर्मणि क्तः, शास्त्रेण विहित इत्यर्थः । स्थण्डिले शयितुं व्रतमस्येति । तुमुनत्र वक्तव्यः; व्रतस्याक्रियारूपत्वात् ॥ संस्कृतम्भक्षाः ॥ ४।२।१६ ॥ संस्कृतमित्येतत् कर्मसामान्ये व्युत्पाद्यते, तेन नपुंसकलिङ्गमेकवचनं च, भक्षा इत्येततु अपूपाद्यभ्यवहार्यविशेषे व्युत्पाद्यते, तेन पुलिङ्गं बहुवचनं च । तत्र वाक्यार्थगम्यस्यार्थस्य पदसंस्कारेऽनुपयोगात्संस्कृतमित्येनद्भवति, अत एव विरम्य सम्बन्धं दर्शयति---यतत्संस्कृतम्भक्षास्ते चेद् भवन्तीति, अणौ यत्कर्म णौ चेत् स कर्तेतिवत्, तच्छब्दस्य प्रतिनिर्दिश्यमानलिङ्गता । खरविशदमिति । खरमु कठिनम्, विशदमु विभक्तम् । भक्षशब्देनोच्यत इति । यद्यप्यब्भक्षो वायुभक्ष इति भक्षयतेरन्यत्रापि प्रयोगः, भक्षशब्दस्तु तत्रैव प्रसिद्ध इति भावः ॥ शूलोखाद्यत् ॥ ४।२।१७ ॥ शूलोखादिति । समाहारद्वन्द्वः, उखाउपात्रविशेषः । यस्तु स्वाङ्गवाच्युखाशब्दस्तस्येह ग्रहणं न भवति; स्वाङ्गे संस्कर्तव्यस्याभावात् । कथमुख्योऽग्निरिति । न ह्यसौ भक्षः, भवार्थे दिगादित्वाद् द्रष्टव्यः ॥ दध्नष्ठक् ॥ ४।२।१८ ॥ इह तु दधि केवलमाधारभूतमिति । यथा शूरे संस्क्रियमाणस्यमांसस्य शूलम् । यद्यप्यत्र दध्यपि संस्कारकम्, तथापि न तद्विवक्षितम्, किन्तु तदाधारस्य द्रव्यान्तरेण यः संस्कारः स एव विवक्षित इति भावः ॥ उदश्वितोऽन्यतरस्याम् ॥ ४।२।१९ ॥ औदश्वित्क इति । ठिसुसुक्तान्तात्कःऽ ॥ क्षीराड्ढञ् ॥ ४।२।२० ॥ अत्र संस्कृतमित्येव सम्बध्यते, न भक्षा इति; तेन यवाग्वामपि भवति । क्षेरैयीति । ठ्टिड्ढाणञ्ऽ इत्यादिना ङीप् ॥ सास्मिन्पौर्णमासीति संज्ञायाम् ॥ ४।२।२१ ॥ ततश्चेद्विवक्षेति । ततः प्रत्ययान्ताल्लोकस्य विवक्षा भवति चेद् एवं प्रत्ययो भवति, नान्यथेत्यर्थः । संज्ञायामिति समुदायोपाधिरिति । एतदेव स्पष्टयति---प्रत्ययान्तेन चेदिति । पौषी पौर्णमासीति । ठ्लुबविशेषेऽ इति पौर्णमास्यां लुब्न भवतीति पूर्वमेवोक्तम् । भृतकमासे चेति । भृता एव भृतकाः, कर्मकरास्तेषां यो मासः कर्मकरणादारभ्य त्रिशद्रात्रलक्षणः स यदा पौष्या पौर्णमास्या तद्वान् भवति । वस्तुतश्च न माघादिव्यपदेशभाक् तत्रेत्यर्थः । तुल्यमेव फलमिति । कि पुनस्तदित्याह---प्रयोगानुसारणमिति । ण्यर्थाल्ल्यट् । संज्ञाशब्देन तुल्यतामिति । तुल्यफलतामित्यर्थः । इति कणस्य ज्ञापयितुमिति । किं पुनरिदं ज्ञापकसाध्यम् ? तत्राह---न ह्ययमिति । ज्ञापनस्य प्रयोजनं दर्शयति--संज्ञार्थत्वे त्विति । संज्ञाब्देन तुल्यफलत्वे इत्यर्थः । प्रवृत्तिभेदेन चायमर्थो ज्ञाप्यत इति । संज्ञायामिति द्वितीयाप्रवृत्तिः, इह शाल्त्रे ठ्संज्ञायाम्ऽ इत्यस्यार्थे इतिशब्दो वेदितव्य इति परिभाषा सम्पद्यते । पूर्णमासादणिति । पूर्णो मासोऽस्यां तथाविति बहुव्रीहौ प्रज्ञादेराकृतिगणत्वादस्मादेव वा निपातनादण् । मा इति चन्द्रमा उच्यत इति । चन्द्रमश्शब्दैकदेशप्रयोगः, सत्याभामा भामेतिवत् ॥ आग्रहायण्यश्वत्थाट्ठक् ॥ ४।२।२२ ॥ अग्रे हायनमस्या इत्याग्रहायणी, प्रज्ञादेराकृतिगणत्वादण्, ठ्पूर्वपदात्संज्ञायाम्ऽ इति णत्वम् । अश्वत्थेन युक्ता पौर्णमासी अश्वत्थ इति । निपातनात्पौर्णमास्यामपि लुप् ॥ सास्य देवता ॥ ४।२।२४ ॥ यागसम्प्रदानं देवतेति । यद्यपि देवशब्दो मनुष्यादिवज्जातिवचनः, स्वार्थिकश्च तल्; तथापि समुदायशक्त्या देवताशब्दो यागे दर्श पूर्णमासौ यद्यत्सम्प्रदानत्वेन चोदितं तत्र सर्वत्र वर्तते, न स जातिविशेष इत्यर्थः । देयस्य पुरोडाशादेः स्वामिनीति । दिवेरैश्वर्यकर्मणो देवताशब्दव्युत्पत्ति दर्शयति, एवं च कृत्वा ठ्वाय्वृतुपित्रुषसो यत्ऽ,ठ्कालेभ्यो भववत्ऽ इति वचनमुपपद्यते, न ह्यृतुषु पितृषु उषसि वा जातिरस्ति । तथा पितृदेवत्यम्, देवदेवत्यमिति प्रयोगोऽप्येवमेवोपपद्यते । कथमिति । पुरोडाशादिकस्य देयस्याभावादिन्द्रस्य सम्प्रदानत्वं नास्तीति प्रश्नः । मन्त्रस्तुत्यामपीत्यादि । नानेनौपचारिकत्वं प्रयोगस्योच्यते, अपि तु मुख्य एव प्रयोगः, यागसम्प्रदाने सार्वलौकिकः प्रयोगः, अयं तु नैरुक्तानामित्येतावान्विशेषः । उपचरन्तीति ब्रुवते, प्रयुञ्जत इत्यर्थः । कथमित्यादि । पूर्वोक्तं प्रकारद्वयमत्र नास्तीति प्रश्नः । उपेमानादिति । काषायौ गर्दभस्य कर्णावितिवद् गौणोऽयं प्रयोग इत्यर्थः । सेति प्रकृत इति । प्रकृतं हि साग्रहणं संज्ञया सम्बद्धमिति तदनुवृतौ संज्ञाया अप्यनुवृत्तिः स्यात् ॥ कस्येत् ॥ ४।२।२५ ॥ किमो विभक्तौ कादेशं कृत्वा कस्येति निर्दिष्टमित्याशङ्कामपनयति---कशब्द इति । एवं च कृत्वा कायानुब्रूहीति सम्प्रैषः । कस्मै अनुब्रूहीति, ठ्न कस्मै देवाय हविषा विधेमऽ इति तु छान्दसः स्मैभावः, यदिन्द्राग्नी अवमस्यामित्यादिवत् । कायमिति । इत्वे कृते यस्येति लोपः प्राप्तः परत्वादादिवृद्ध्या बाध्यते, श्रीर्देअवतास्य श्रायमितिवत् । ठ्सोमाट्ट।ल्ण्ऽ इत्यत्र कग्रहणे च क्रियमाणे यद्यपि यस्येति लोपात्परत्वाद् वृद्धिर्भवति, कृतायामपि वृद्धौ यस्येति लोपः स्यादेव ॥ अपोनप्त्रपान्नप्तृभ्यां घः ॥ ४।२।२७ ॥ अपोनपात् अपांनपादिति देवतानामधेये इति । पृषोदरादित्वादनयोः साधुत्वम् । तयोस्तु प्रत्ययसन्नियोगेनेति । एवं च अपोनपाते अनुब्रूहि, अपांनपातेऽनुब्रूहि, अपोनपातं यज, अपां नपातं यजेति सम्प्रैषः । वेदे तु अपोनप्त्रे स्वाहेति छान्दसः प्रयोगः ॥ च्छ च ॥ ४।२।२८ ॥ योगविभाग इत्यादि । पूर्वसूत्र एव च्छग्रहणे सति घच्छौ द्वौ प्रत्ययौ, प्रकृती अपि द्वे इति स्यात्सङ्ख्यातानुदेशः । शतरुद्रीयमिति । शतशब्दोऽनन्तवचनः, शतं रुद्रा देवताऽस्येति घच्छौ, तयोविधानसामर्थ्याद् ठ्द्विगोर्लुगनपत्येऽ लुग्न भवति ॥ महेन्द्राद्घाणो च ॥ ४।२।२९ ॥ सौमीति । टित्वान्ङीप्, ठ्हलस्तद्धितस्यऽ इति यलोपः ॥ वाय्वृतुपित्रुषसो यत् ॥ ४।२।३१ ॥ वायव्यमिति । ठोर्गुणःऽ, ठ्वान्तो यि प्रत्ययेऽ पित्र्यमिति । ठ्रीण्ःóतःऽ इति रीङ्, यस्येति लोपः ॥ द्यावापृथिवीशुनासीरमरुत्वदग्नीषोमवास्तोष्पतिगृहमेधाच्छ च ॥ ४।२।३२ ॥ अणो ण्यस्य चापवाद इति । वास्तोष्पतिशब्दात्पत्युतरपदस्य ण्यस्यापवादः, शेषेभ्योऽणः । द्यावापृथिव्याविति । ठ्दिवो द्यावाऽ, ठ्दिवसश्च पृथिव्याम्ऽ इति द्यावादेशः । शुनासीराविति । ठ्देवता द्वन्द्वे चऽ इत्यानङदेशः । शुनो वायुः, सीर आदित्य इति । अन्ये तु एकमेव शुनसीरमिन्द्रस्य, गुणममन्यन्त, यथाहश्वलायनः---ठिन्द्रो वा शुनासीरःऽ इति । मन्त्रलिङ्गञ्च भवति---इन्द्रं वयं शुनासीरमस्मिन्यज्ञे हवामहेऽ इति । मरुतोऽस्य सन्ति मरुत्वानिन्द्रः । अग्नीषोमीयमिति । ठीदग्नेः सोमवरुणयोःऽ वास्तोः पतिर्वास्तोष्पतिः, अस्मादेव निर्देशात्साधुः । गृहमेधशब्दमकारान्तं बह्वृचा मन्यन्ते । ठ्मरुद्भ्यो गृहमेधेभ्य उतराऽ इत्याश्वलायनः । ठ्गृहमेधास आगताऽ इति च मन्त्रलिङ्गम् । ठ्मरुद्भ्यो गृहमेधिभ्यः सर्वासां दुग्धे सायमोदनम्ऽ इति तु तैतिरीयकम् । तत्र देकारान्तो नकारान्तो वेति विप्रतिपन्नाः ॥ अग्नेर्ढक् ॥ ४।२।३३ ॥ कलेर्ढगित्यत्रोक्तमेवार्थं स्मरयति---प्राग्दीव्यतीयेष्विति ॥ कालेभ्यो भववत् ॥ ४।२।३४ ॥ कालविशेषवाचिभ्य इति । स्वरूपग्रहणं तु न भवति; बहुवचननिर्देशात् । वत्कारणमित्यादि । असति वत्करणे ठ्कालेभ्यो भवःऽ इत्युच्यमाने यदि तावदेवं सम्बन्धः, कालेभ्यो भवे ये प्रत्यया विधास्यन्ते ते ठ्सास्य देवताऽ इत्यत्रार्थे भवन्तीति देवताप्रकृतिरविशेषिता स्यात्, ततश्च ठ्कालट्ठञ्ऽ इति ठञिन्द्रादेरपि प्राप्नोति । अथ पुनरेवं सम्बन्धः---भवे ये प्रत्यया विधास्यन्ते ते भवन्ति कालेभ्यो देवताभ्य इति ? एवमपि भवप्रत्यया न विशेषिताः स्युः, ततश्च ठ्दिगादिभ्यो यत्ऽ इति यत् प्रत्ययोऽपि भवे विहितः कालवाचिभ्योऽस्मिन्नर्थे प्राप्नोति । अथाप्येवं सम्बन्धः---कालेभ्यो भवे ये प्रत्ययास्ते भवन्ति, कालेभ्य एव देवतार्थे इति तत्र सकृत् श्रुतस्य तस्य कालशब्दस्यैवमुभयसम्बन्ध एव तावद् दुर्लभः । अथापि लभ्येत, एवमपि यः कश्चित्कालाद्भवे प्रत्ययो यतः कुतश्चिदेवतायाः स्याद् ऋतुभ्योऽण् मुहूर्तादेरपि प्राप्नोति । वतिनिर्देशे तु सति सादृश्यपरिग्रहो भवति, तेन याभ्यः प्रकृतिभ्यो येन विशेषणेन भवेऽर्थे विधास्यन्ते ये प्रत्ययाः, इहापि ताभ्य एव प्रकृतिभ्यस्तेनैव विशेषणेन त एव प्रत्यया भवन्तीति न किञ्चिदनिष्टम् ॥ महाराजप्रोष्ठपदाट्ठञ् ॥ ४।२।३५ ॥ महाराजो वैश्रवणः, प्रोष्ठपदशब्दात्पूर्वेण नक्षत्राणि प्राप्ते वचनम्, नवयज्ञ आग्रयणम् । पूर्णमासादणिति । अस्मिन्वर्तत इत्येव । पौर्णमासीति । पूर्णो मासोऽस्या तिथौ वर्तत इति विग्रहः, एषेव च व्युत्पत्तिः ठ्सास्मिन्पौर्णमासीऽ इत्यत्रापि दर्शिता ॥ पितृव्यमातुलमातामहपितामहाः ॥ ४।२।३६ ॥ पितृमातृभ्यामिति । स्वरूपपदार्थकत्वेनाभ्यर्हितत्वे विशेषाभावाल्लघ्वक्षरस्य पूर्वनिपातः, अयोनिसम्बन्धवाचित्वादनङेऽभावश्च । डामहजिति । कथं तर्ह्याकारेऽवग्रहः---माता अ महः, पिता अ मह इति ? तसमान्महप्रत्ययः पितृमातृभ्यां निपातितस्तयोश्चानङदेश इति केचित् । वृत्तिकारस्तु संहितापाठस्यैव नित्यत्वात् ठ्नलक्षणेन पदकारा अनुवर्त्त्याःऽ इति न्यायेनावग्रहो मा कारीति मन्यते । मातरि षिच्छेति । षित्वमुपसङ्ख्येयमित्यर्थः । न पुनः षकारोऽनुबन्धः कर्तव्य इति देशाभावात्---मातामहा इत्यपि मन्त्रे दृश्यते । अवेर्दुग्ध इति । दुग्धं क्षीरम् । सोढादीनाम् ठादेशप्रत्यययोःऽ इति षत्वं न भवति, सकारोच्चारणसामर्थ्यात् । निष्फलस्तिल इति । सस्यावस्थायां फलरहित उच्यते, धान्यावस्थायां प्रयोजनशून्य इत्यन्ये ॥ तस्य समूहः ॥ ४।२।३७ ॥ सर्वस्यैव विषयस्यापवादैरवष्टब्धत्वात्पृच्छति---किमिहोदाहरणमिति । काकशुकवकशब्दा आद्यौदाताः ठ्प्राणिनां कुपूर्वाणाम्ऽ इत्यनेन, अस्यार्थः---व्यधिकरणे षष्ठयौ, अथादिः प्राक् शकटेरित्यत आदिरित्यनुवृतं षष्ठीबहुवचनान्तं विपरिणम्यते, प्राणिवाचिनां ये आदिभूताः कवर्गात्पूर्वे अचस्तेषामुदातो भवतीति । तत्र शौकमित्यनुदाहरणम् ; खण्डिकादिषु पाठात् । वकशब्दस्तूदाहार्यः ॥ भिक्षादिभ्योऽण् ॥ ४।२।३८ ॥ अण्ग्रहणं बाधकबाधनार्थमिति । भिक्षाशब्दोऽयम् ठ्गुरोश्च हलःऽ इत्यकारप्रत्ययान्तत्वादन्तोदातः, ततः ठनुदातादेःऽ इत्यञ् अणो बाधकः प्राप्नोति, तस्य बाधनार्थमण्ग्रहणम् । ननु च यद्यत्राञ्, स्यात्पुनर्वचनमनर्थकं स्यात् ? नानर्थकम्; परत्वादचि ततल्लक्षणष्ठक् प्राप्नोति, तद्वाधनार्थमत्र पुनर्वचनं स्यादित्यञ् स्यादेव, पुनरण्ग्रहणादणेव भवति । गार्भिणमिति । ठ्भस्याऽढेअ तद्धितेऽ इति पुंवद्भावेन ङीपो निवृत्तिः, ततोऽणि ठिमण्यनपत्येऽ इति प्रकृतिभावात् ठ्नस्तद्धितेऽ इति टिलोपाभावः । तस्य ग्रहणसामर्थ्यात्पुंवद्भावो न भवतीति । यदि स्यात्, ठ्सिद्धत्वात्प्रत्ययविधौऽ इति वचनादनुत्पन्न एव तद्धिते पुंवद्भावेन भवितव्यम् । युवशब्दश्चऽ कनिन्युवृषऽ इति कनिन्प्रत्ययान्तत्वादाद्यौदात इत्यौत्सगिक एवाण् सिद्ध इति तस्येह पाठोऽनर्थकः स्यात् । यौवतमिति । यथा तु वातिकं तथा पुंवद्भाव इष्यते । आह हि---ठ्भिक्षादिषु युवतिग्रहणानर्थक्यं पुंवद्भावस्य सिद्धत्वात् प्रत्ययविधौऽ इति ॥ गोत्रोक्षोष्ट्रोरभ्रराजाराजन्यराजपुत्रवत्समनुष्याजाद् वुञ् ॥ ४।२।३९ ॥ अपत्याधिकारादन्यत्रेति । यद्येवम्, राजन्यमनुष्ययोरुपादानमनर्थकम्, गोत्र इत्येवसिद्धम् । न तावपत्यप्रत्ययान्तौ; जातेः प्रत्ययार्थत्वात् । उक्तं हि---ठ्राज्ञोऽपत्ये जातिग्रहणम्, मनोर्जातावञ्यतौ षुक्चेति । किंतर्ह्युच्यते ठ्प्रकृत्याऽके राजन्यमनुष्ययुवानःऽ इति यलोपो न भवतीति, यावताऽनापत्ययकारत्वेनैव न भविष्यति ? सत्यम् ; अपत्यार्थत्वमभ्युपेत्यैतदुच्यते । यद्यपत्यार्थत्वमभ्युपेयते, राजन्यमनुष्ययोर्ग्रहणमनर्थकम् ? नानर्थकम्; ज्ञापनार्थत्वात्, एतज् ज्ञापयति---नैतयोरपत्यकृतं भवतीति, तेन यलोपो न भवति, सर्वथा ठ्प्रकृत्याऽके राजन्यमनुष्ययुवानःऽ इति न वक्तव्यम् । औपगवकमिति । यथात्र परोऽप्यनुदातादेरञ् न भवति, तथा ठ्खण्डिकादिभ्यश्चऽ इत्यत्र वक्ष्यते ॥ ब्राह्मणमाणववाडवाद्यन् ॥ ४।२।४२ ॥ नकारः स्वार्थ इति । ठ्ञ्नित्यादिर्नित्यम्ऽ इत्याद्यौदातत्वं यथा स्यात् । किमर्थं पुनर्ब्राह्मणादिभ्यो यन्विधीयते, न प्रकृतो यञेव विधीयते, न हि वृद्धेषु यञो यनो वा विशेषोऽस्ति---तदेव रूपम्, स एव स्वरः, ठञस्त्वस्वरितत्वादननुवृत्तिः ? ज्ञापनार्थं तु । एतज् ज्ञापयति---अन्येभ्यऽप्ययम् । किं सिद्धं भवति ? पृष्ठादुपसङ्ख्यानं चोदयिष्यति तन्न वक्तव्यं भवति । पृष्ठानां समूह इति । पृष्ठशब्दः स्तुतिविशेषवचनः । पृष्ठयः षडह इति । तद्वति तदुपचारः । णस्वक्तव्य इति । सकारः पदसञ्ज्ञार्थः, तेन पार्श्वमित्यत्र भत्वाभावादोर्गुणो न भवति ॥ अनुदातादेरञ् ॥ ४।२।४४ ॥ अचितात्परत्वाद् ठका भवितव्यमिति । चितवन्त उदाहृताः, कपोतमयूरशब्दौ ठ्लघावन्तेऽ इति मध्योदातौ, इगुपधात्कः, तरतेः सन्वतुक् चाभ्यासस्येति किप्रत्ययान्तस्तितिरिशब्दः प्रत्ययस्वरेणान्तोदातः । सन्वद्भावेनाद्यौदातत्वं न भवति; ठुणादयो बहुलम्ऽ इति बहुलवचनात् ॥ खण्डिरकादिभ्यश्च ॥ ४।२।४५ ॥ क्षुद्रकाश्चेति । क्षुद्रकस्यापत्यानि, जनपदशब्दादिति विहितस्य तद्राजस्य लुक्, मालवातु वृद्धलक्षणस्य ञ्यङः । पूर्वेणाञि सिद्धे इति । समासान्तोदातत्वे सति शेषनिघातेनानुदातादित्वात् ॥ ननु च परत्वादिति । अभ्युपेत्य गोत्रत्वमेतदुक्तम्, तदेव तु नास्तीत्याह---न च गोत्रसमुदायो गोत्रमिति । तत्र च यथा जनपदसमुदायो जनपदग्रहणेन न गृह्यत इति काशिकोसलाया इत्यत्र च्छ एव भवति, न जनपदलक्षणो वुञ्, तद्वदत्रापि गोत्रलक्षणो वुञ् न प्राप्नोतीति भावः । स्यादेतत्---मा भूत्समुदायो गोत्रम्, मालवशब्दस्तु गोत्रं भवति, ततश्च तदन्तविधिना समुदायादपि वुञ्प्राप्नोतीति ? तत्राह---न चेति । ठ्येन विधिस्तदन्तस्यऽ इत्यत्र हि ठ्समासप्रत्ययविधौ प्रतिषेधःऽ इत्युक्तम् । एवं तर्हीत्यादि । कथमेकेन यत्नेनोभयं शक्यं ज्ञापयितुम् ? शक्यमित्याह, अन्यथानुपपत्या ज्ञापकं भवति, उभयेन च विना नास्मादञ्विधानमुपपद्यत इति । किमात्रानुपपन्नम् ? तत्र पूर्वविप्रतिषेधज्ञापनस्य प्रयोजनमौपगवकं कापटवकमिति । वुञोऽवकाशः यदाद्यौदातम्---ग्लुचुकस्यापत्यं ग्लुचुकायनिः, ठ्प्राचामवृद्धात्फिन्ऽ तेषां समूहो ग्लौचुकायनकमिति; अञस्तु कापोतमित्याद्यगोत्रमवकाशः; गोत्रादनुदातादेरुभयप्रसङ्गे परत्वादञ्, स्यात्, अस्मातु ज्ञापकाद् वुञेव भवति । तदन्तविधिज्ञापनस्य प्रयोजनम्---वनहस्तिनां समूहो वानहस्तिकम् । गौधेनुमिति । ठ्जङ्गलधेनुवलजानतस्यऽ इत्युतरपदवृद्धिविकल्पः । पुनरस्यैव नियमार्थत्वं वर्णयिष्यन् कथमेकेन यत्नेनोभयं लभ्यम्---ज्ञापनं च नियमश्च ? इत्याशङ्क्याह---क्षुद्रकमालवादित्येतावतेति । योगविभागेन यत्नद्वयमाश्रीयत इत्यर्थः । क्षौद्रकमालवी, क्षौद्रकमालवकमिति । उभयत्रापि मालवादुत्पन्नस्य ञ्यङः ठ्गोत्रेऽलुगचिऽ इति लुकि प्रतिषिद्धे ठापत्यस्यऽ इति यलोपः । अञ्सिद्धिरित्यादि अनुदातादेरिति । हेतुगर्भं विशेषणम्; यतोऽयं क्षुद्रकमालवशब्दोऽनुदातादिस्तेन तस्यादनुदातादेरित्येवाञः सिद्धिरस्ति । कोर्थः तस्य गणपाठेनेति शेषः । न किञ्चित्प्रयोजनम् इत्यर्थः । गोत्रलक्षणो वुञ् प्राप्नोति, अतस्तद्वाधनार्थः पाठ इति चेतत्राह---गोत्राद्वुञिति । गोत्राद्वुञ् विधीयते, न च तत्क्षुद्रकमालवेतिशब्दरूपगोत्रमित्यर्थः । तदन्तादिति । मालवशब्दस्य गोत्रत्वातदन्तविधिना प्राप्नोत्येव । न स सर्वत इति । आद्यादित्वात्सप्तम्यन्तातसिः, स तदन्तविधिः सर्वत्र न भवतीत्यर्थः । तदन्तत्वे इति । तदन्तविधिरस्तीत्यस्मिन्नर्थ इत्यर्थः । तथा चेति । धेनुरनञिकमुत्पादयतीति आपिशलेः सूत्रम् । अत्र वृद्ध्यर्थोऽनुबन्धो मृग्यः, इकस्यैव चेसुसुक्तान्तात्परस्य कादेशो द्रष्टव्यः । अर्थमात्रं वा भाष्कारेण निर्दिष्टम् । इकगिति ठकमित्यर्थः । धेनूनां समूहो धैनुकम् । अनञिति किम् ? अधेनूनां समूह आधेनवम्, उत्सादिपाठादञ् । यद्यपि धेनुशब्दः सूत्रे पठ।ल्ते, तथापि बष्कयास इति लिङ्गादधेनुशब्दादपि भवति । तत्र यदि सामूहिकेषु तदन्तविधिर्न स्यात्, अनञिति प्रतिषेधोऽर्थकः स्यात् । प्रयोजनान्तरमप्याह---सेनायामिति । यथेति । पूर्वविप्रतिषेधेन वुञाऽञो बाधा यथा स्यादित्येवमर्थश्च तस्य गणे पाठ इत्यर्थः । उलूकशब्दोऽत्र पठ।ल्ते स ठ्लघावन्तेऽ इति मध्योदातः । च्छन्दसि तु यदुलूको वदति मोघमेतत्, इत्था उलूक आपप्तदिति यदाद्यौदातत्वम्, तच्छान्दसम् । भाषायां तु मध्योदातमेव, तत्र पूर्वेणैवाञ् सिद्धः, तस्मादेवं वक्तव्यम्---औलूक्यशब्दो गर्गादियञन्तः, यतः ठ्यञञोश्चऽ इति बहुषु लुकि कृते रूपम्, तदिह पठ।ल्त इति । असति हि तस्य पाठे उलूकानां समूह इत्यर्थविवक्षायां ठ्गोत्रेऽलुगचिऽ इति लुकः प्रतिषेधादौलुक्यशब्दाद् गोत्राश्रयो वुञ्प्रप्नोति । शुकशब्दोऽत्र पठ।ल्ते, ठ्तस्य समूहःऽ इत्यत्र तु ठ्यस्य च नान्यत्प्रतिपदविधानमस्तिऽ इत्युक्त्वोदाहृतम्--काकं शौकमिति, तस्मातत्र शौकमित्यस्य स्थाने बाकमिति पठितव्यम् । बकशब्दः ठ्प्राणिनां कुपूर्वाणाम्ऽ इत्याद्यौदातः । युगवरत्रेति पठ।ल्ते, तत्सङ्घातविगृहीतार्थमिच्छन्ति---यौगवरत्रम्, यौगम्, वारत्रमिति, तत्र सङ्घातपक्षे ठ्जातिरप्राणिनाम्ऽ इति द्वन्द्वैकवद्भावे नपुंसकह्रस्वत्वे सति युगवरत्रेति दीर्घनिर्देशोऽनुपपन्नः, तस्माद्यौगसहिता वरत्रेति समासः कर्तव्यः, जातिपरत्वाभावाद्वा एकवद्भावाभावः ॥ चरणेभ्यो धर्मवत् ॥ ४।२।४६ ॥ गोत्रचरणाद्वुञित्यारभ्य प्रत्यया वक्ष्यन्ते इति । ननु च न तत्र धर्मग्रहणमस्ति, तत्कथं धर्मवदित्यतिदेशो युज्यत इत्याह---तत्रेदमिति । इदमेव धर्मवदितिवचनं लिड्गमस्ति, तत्र चरणाद्धर्माम्नाययोरिति । वतिः सर्वसादृश्यार्थ इति । असति तस्मिन् ठ्चरणेभ्यो धर्मःऽ इत्युच्यमाने यदि तावदेवं सम्बन्धः, चरणेभ्यो धर्मे ये प्रत्यया विधास्यन्ते ते भवन्ति, समूह इति समूहप्रकृतिरविशेषिता स्यात्, ततश्च काकादिभ्योऽपि वुञादयः प्रसज्येरन् । अथ पुनरेवं सम्बन्धः---धर्मे ये प्रत्यया विधास्यन्ते ते चरणेभ्यः समूहे भवन्तीति ? एवमपि धर्मप्रत्यया न विशेषिताः स्युः, ततश्च ठ्तस्येदम्ऽ इति विधास्यमाना अणादयोऽपि कठादिभ्य आपद्येरन् । अथाप्येवं सम्बन्धः---चरणेभ्यो धर्मे ये प्रत्ययास्ते भवन्ति चरणेभ्य एव समूह इति ? तत्र सकृत् श्रुतस्य चरणशब्दस्यैवमुभयसम्बन्ध एव तावद् दुर्लभः, अथापि लभ्येत ? एवमपि यः कश्चिद्धर्मे प्रत्ययो यतः कुतश्चिच्चरणशब्दात्स्यात्, ठ्कौपिञ्जलहास्तिपदादण्ऽ कठादिभ्योऽपि स्यात्, वतिनिर्देशे तु सति सर्वसादृश्यपरिग्रहो भवति । तेन याभ्यः प्रकृतिभ्यो येन विशेषणेन ये प्रत्यया धर्मे विधास्यन्ते, इहापि ताभ्यः प्रकृतिभ्यस्तेनैव विशेषणेन त एव भवन्तीति न किञ्चिदनिष्टम् । काठकम्, कालापकमिति । गोत्रचरणाद्वुञ् । छान्दीग्यमिति । ठ्च्छन्दोगौक्थिकऽ इति ञ्यः । आथर्वणमिति । ठाथर्वणिकस्येकलोपश्चऽ इत्यण्, इकलोपश्च ॥ अचितहस्तिधेनोष्ठक् ॥ ४।२।४७ ॥ अणञोरपवाद इति । अचितार्थेषु येननाप्राप्तिन्यायेनाणोऽपवादः । कपोतादिषु चितवत्सु चरितार्थस्याञोऽपि परत्वाद्वाधक इत्यर्थः । हस्तिधेनुशब्दयोस्तु प्रत्ययस्वरेणान्तोदातयोरनुदातादिलक्षणस्याञोऽपवादः । हस्तिशब्दः ठ्हस्ताज्जातौऽ इतीनिप्रत्ययान्तः । धेनुशब्दः ठ्घेटोऽनुश्चऽ इति नुप्रत्ययान्तः । आधेनवमिति । अत्सादिपाठादञ्, ठ्जङ्गलधेनुवलजान्तस्यऽ इति पक्षे वृद्ध्यभावः ॥ पाशादिभ्यो यः ॥ ४।२।४९ ॥ यप्रत्यययान्तं स्वभावतः स्त्रीलिङ्गम् । वातशब्दोऽत्र पठ।ल्ते---वातानां समूहो वात्या, पृथग्वातादर्शनादयुक्तोऽत्र समूहः, तस्माच्छीघ्रत्वे प्रत्ययो वक्तव्यः ? नैष दोषः; एकस्यापि वातावयविनो दिग्भेदेन भेदोऽध्यारोपः, तदाश्रयश्च समूहः । अथ वा---प्रतिदिशं वातावयविन एव भिद्यन्ते, तथा च प्रतिभासः---वूर्वोवातः, उतरो वातः, सर्वतो वान्ति वाता इति । आह च---वायोर्वायुसम्मूर्छनं नानात्वे लिङ्गमिति । खलगोरथात् ॥ ४।२।५० ॥ अथ कस्मात्खलादयोऽपि पाशादिष्वेव न पठिताः, एवं हि विभक्तिर्नोच्चारयितव्या भवति ? तत्राह---पाशादिष्वपाठ इति ॥ इनित्रकट।ल्चश्च ॥ ४।२।५१ ॥ योगविभागो यथासङ्ख्यार्थः, अन्यता हनित्रकट।ल्चस्त्रयश्चकाराद्यश्चेति चत्वारः प्रत्ययाः, प्रकृतयस्तु तिस्र इति वैषम्यं स्यात् । खलादिभ्य इति । खलादयः प्रयोगतो गम्याः । एतेऽपि प्रत्ययाः स्वभावतः स्त्रियामेव ॥ विषयो देशे ॥ ४।२।५२ ॥ ननु च विषयस्य देशत्वाव्यभिचाराद् देश इति विशेषणं व्यर्थमित्यत आह---विषयशब्दोऽयमिति । अत्यन्तशीलितःउअत्यन्ताभ्यस्तः । तत्र देशग्रहणं ग्रामसमुदायप्रतिपत्यर्थमिति । यद्येवम्, देशग्रहणमेवास्तु मा भूद्विषयग्रहणम् ? नैवं शक्यम्; देशशब्दोऽपि नानार्थः, देशनं देश इति क्रियाशब्दस्यापि भावात् । शिबीनां विषयो देशः शैब इति । कथं शिबयो देश इति ? निवासविवक्षायाम् ठ्तस्य निवासःऽ ठ्जनपदे लुप्ऽ इति लुपि भविष्यति । नन्वर्थभेदो भवति, शिबीनां निवासो जनपद इत्यत्र स्वास्वामिभावो न प्रतीयते, अन्यदीयेऽपि जनपदे निवाससम्भावत्; शिबीनां विषय इत्यत्र तु स्वस्वामिभावः प्रतीयते, न तु निवासार्थः, तत्रावसतामपि स्वामित्वसम्भवात् ? सत्यम् ; य एवासौ येषां विषयस्तत्रैव तेषां निवासे जनपदे लुप् स्मर्यते, न निवासमात्रे । अत्र चाभिदानस्वाभाव्यं हेतुः । एवं च शिबीनां विषयः शैब इत्यत्रार्थे विबय इत्यपि भवति । एवं वसातीनां विषयो वासातः, तेषामेव निवासो वसातयः । तथा गान्धारीणां विषयो गान्धारः, निवासो गान्धारयः । अङ्गाः, वङ्गा, स्रुघ्नाः पुण्ड्रा इति---निवासरूपतैव विवक्ष्यते, न विषयरूपता । एषं राजन्यादिब्यो वुञित्यत्रापि विषयविवक्षायां राजन्यकम्, निवासो राजन्याः । तत्रैव बैल्वतादिषु विषयविवक्षैव, तेन बैल्वतकम्, आम्बरीषपुत्रकमित्याद्येव भवति । सर्वत्र चाभिधानशक्तिरेव हेतुः, तदाह---विषयाभिधाने जनपदे लुप्, बहुवचनविषयाद् गान्धार्यादिभ्यो वा राजन्यादिभ्यो नित्यम्, न वाभिधेयस्य निवासविषयत्वात् । निवासविवक्षायां लुप्, विषयविवक्षायां तु प्रत्यय इति ॥ सोऽस्यादिरितिच्छन्दसः प्रगाथेषु ॥ ४।२।५५ ॥ च्छन्दस इति न स्वरूपग्रहणम्, नापि मन्त्रब्राह्मणयोः, कस्य तर्हि ? अक्षराणामियतावचनश्च्छन्दः शब्दोऽस्ति, यस्य जगत्यादयो विशेषास्तस्य ग्रहणम् ; प्रागाथानामादौ तस्यैव सम्भवात्, तेन पङ्क्त्यादिशब्देभ्यः प्रत्ययः । यत्र द्वे ऋचौ तिस्रः क्रियन्त इति चतुर्थषष्ठौ पादौ बार्हतो प्रगाये पुनरभ्यसित्वोतरयोरवस्येदित्येवमादिना प्रकारेण । तद्यथा---यज्ञायज्ञा वः प्रियं मित्रं न शंसिषाआ प्रियं मित्रं न शंसिषमूजे निपातमिति । तत्र योऽयमुच्चारणप्रकारस्तद्ग्रथनम् । प्रग्रथनादिति । प्रगाथशब्दप्रवृत्तिनिमितं दर्शयति, प्रग्रथ्यत इति प्रगाथः, ठकर्तरि च कारकेऽ इति कर्मणि घञ्, पृषोदरादित्वाद्रेफनकारयोर्लोपः । प्रागाणाद्वेति । ठ्कृत्यचःऽ इति णत्वम्, ठ्कौ गौ शब्देऽ, प्रगीयत इति प्रगाथः, ठुषिकुषिगर्तिभ्यस्थन्ऽ । त्रैष्टुअभमिति । कुटीर इति स्वार्थिकस्यापि रप्रत्ययस्य यथा भिन्नलिङ्गता, तथेहापि नपुंसकत्वं द्रष्टव्यम् ॥ संग्रामे प्रयोजनयोद्धृभ्यः ॥ ४।२।५६ ॥ ठ्समर्थानां प्रथमाद्वाऽ इति वचनात्संग्रामवाचिभ्यः प्रत्ययः प्राप्नोति, न प्रयोजनयोद्धृभ्यश्चरमनिर्दिष्टेभ्य इत्याशङ्क्याह--सोऽस्येति समर्थविभक्तिरित्यादि । प्रथमासमर्थविशेषणमिति । तेन विशेष्यद्वारेण प्रयाजनयोद्धार एव प्रथमनिर्दिष्टाः । प्रत्ययार्थविशेषणं संग्राम इति । तेन तद्द्वारेण संग्रामश्चरमनिर्दिष्टः ॥ घञः सास्यां क्रियेति ञः ॥ ४।२।५८ ॥ अस्यामिति प्रत्ययार्थः स्त्रीलिङ्ग इति । तेन लिङ्गस्य विवक्षितत्वं दर्शयति । घञन्तात्क्रियावाचिन इति । भावे यो घञ् तदन्तादित्यर्थः । श्यैनम्पातेति । पतनं पातः, श्येनानां पात इति कर्तरि षष्ठयाः समासः, ततो ञः, ठ्श्येनतिलस्य पाते ञःऽ इति मुम् । प्राकार इति । द्रव्यवचनोऽयं कर्मणि घञन्तः, ठुपसर्गस्य घञ्यमनुष्ये बहुलम्ऽ इति प्रशब्दस्यदीर्घत्वम् । सामान्येन चेदं विधानमिति । एतदेवोदाहरणेन द्रढयात---दणाडपात इति ॥ तदधीते तद्वेद ॥ ४।२।५९ ॥ इह योऽयं ग्रन्थमधीते स तं स्वरूपता वेति, यश्च वेति सोऽवश्यमधीते---इत्यन्यतरोपादानेन सिद्धम्, किमर्थमिमावर्थावुपदिश्येते, नैतयोरावश्यकः समावेशः, अध्ययनम् उ शब्दपाठः, अर्थावबोधः उ वेदनम्, भवति च---कश्चित्संपाठ्ंअ पठति नार्थं वेति, कश्चिच्चार्थं वेति न संपाठ्ंअ पठति । द्विस्तद्ग्रहणमित्यादि । ठ्तदधीते वेदऽ इत्युच्यमाने समुच्चयो विज्ञायेत, ततश्च यस्तदधीते वेद च तत्रैव स्यात्, यस्तु केवलमधीते वेद वा न तत्र स्यात्; द्विस्तद्ग्रहणे तु वाक्यभेदेनाधीयानविदुषोः पृथक्प्रत्ययविधानं सिध्यति । ननु च ठ्तदस्य तदस्मिन्स्यात्ऽ इत्यत्र नानार्थनिर्देशे प्रत्येकं समर्थविभक्तिः सम्बन्धनीयेति द्विस्तद्ग्रहणेन न्यायो व्युत्पादयिष्यते, अत एव ठ्तेन दीव्यतिऽ इत्यत्र प्रत्यर्थं प्रत्ययो भवति ? न ब्रूमः---इहैव द्विस्तद्ग्रहणमधीयानविदुषोः पृथग्विधानार्थमिति, किं तर्हि ? उतरत्र ठ्क्रतूक्थादिसूत्रान्ताठठक्ऽ, ठ्वसन्तादिभ्यष्टक्ऽ इत्यत्रापि, किं च कारणं न स्यात् ? क्रतुशब्दः कर्मनामदेयं वसन्तादयोऽप्यर्थाः, न तेषामध्ययनं सम्भवति, तस्य शब्दविषयत्वात्, तत्सहचरिते तु ग्रन्थे सम्भवति, गौणत्वातु न गृह्यते, मुख्य एव त्वर्थे वेदनं सम्भवतीति तेभ्यो विदुष्येव स्याद्, नाध्येतरि । पुनस्तद्ग्रहणातु यत्नाद् गौणस्यापि ग्रहणातत्रापि भवति ॥ क्रतूक्थादिसूत्रान्ताट्ठक् ॥ ४।२।६० ॥ क्रतुविशेषवाचिभ्य इति । स्वरूपस्य तु ग्रहणं न भवति, यदि स्यादुक्थादिष्वेव पठेत् । क्रतुसामान्यवाचिनामपि सोभयागादीनां पर्यायाणां न भवति; उक्थादिषु यज्ञशब्दस्य पाठात् । तस्माद्विशेषवाचिनामेव ग्रहणं तेभ्यो मुख्यार्थवृत्तिभ्यो वेदितरि प्रत्ययः, तत्प्रतिपादनपरग्रन्थवृत्तिभ्यस्त्वध्येतरि । वार्तिकसूत्रिक इति । वृतौ साधु वार्तिकम् ठ्कथादिभ्यष्टक्ऽ । वार्तिकं च तत्सूत्रं चेति कर्मधारयात्प्रत्ययः । एवं सांग्रहसूत्रिक इति । कल्पसूत्रमिति कर्मधारयः, समाहारद्वन्द्वो वा । यज्ञायज्ञीयात्परेणेति । एनपा योगे पञ्चमी चिन्त्या, एनबपि परशब्दात्पाक्षिकः, यदा तद्विधौ ठुतराधरदक्षिणादातिःऽ इति नानुवर्तते, दिक्शब्देभ्य इत्येवानुवर्तते । न च तान्यधीयाने प्रत्यय इष्यत इति । ठग्, अण्---च प्रत्ययद्वयमपि नेष्यते, तेनोक्थान्यधीयत इति वाक्यमेव भवति । अत्र च अभिधानमेव शरणम्, सामलक्षणं प्रातिशाख्यम् । औक्थिक्य इति । औक्थिकानामान्नायः, इदमर्थे ठ्च्छन्दोगौक्थिकऽ इति ञ्यः । औक्थिक्यशब्दाच्च प्रत्ययो न भवतीति । अण्प्रत्यय इत्यर्थः, इदं प्रसङ्गादुक्तम् । सूत्रान्तादिति । अत्यल्पमिदमुच्यत इत्याह---विद्यालक्षणकल्पसूत्रान्तादिति वक्तव्यमिति । विद्या चेत्यादिवाक्येनातिप्रसक्तस्यापवादः । अङ्गादिपूर्वो विद्याशब्दः प्रत्ययं नोत्पादयतीत्यर्थः । त्रैविद्य इति । त्र्यवयवा विद्या त्रिविद्या, तामधीते त्रैविद्यः । तिस्रो विद्या अधीत इति तु विग्रहे ठ्द्विगोर्लुगनपत्येऽ इति लुक्प्रसङ्गः । यावक्रीतिक इति । यवक्रीतमधिकृत्य कृतमाख्यानं यवक्रीतशब्देनोच्यते, एवं प्रैयङ्गवमधिकृत्य कृतमुपचारात्प्रैयङ्गवमुच्यते । वासवदतिक इति । वासवदतामधिकृत्य कृता आख्यायिका, ठधिकृत्य कृते ग्रन्थेऽ इत्यत्रार्थे ठ्वृद्धाच्छःऽ, तस्य ठ्लुबाख्यायिकाभ्यो बहुलम्ऽ इति लुप्, ततोऽनेन ठक् । एवं सौमनोतरिकः, ऐतिहासिक इति । इति हासीदिति यत्रोच्यते स इतिहासः, पृषोदरादित्वात्साधुः । सर्वसादेरिति । सर्वादेः, सादेर्द्विगोश्चोत्पन्नस्य पत्ययस्य लो भवति लुग्भवतीत्यर्थः, अर्थवतः सशब्दस्य ग्रहणात्सर्वशब्दः पृथगुपातः, ठ्द्विगोश्चऽ इत्यनेन ठ्द्विगोर्लुगनपत्येऽ इत्ययमेव लुक् स्मारितः । सर्ववेद इति । सर्ववेदानधीते इत्यणो लुक् । सवार्तिक इति । वर्तिकान्तमधीते इति अन्तवचने सहशब्दस्याव्ययीभावः, ठव्ययीभावे चाकालेऽ इति सभावः, ततोऽणो लुक् । अनुसूरिति । अनुसूशब्दष्ठकमुत्पादयति, लक्ष्यलक्षणशब्दौ चेत्यर्थः । आनुसुक इति । अनुसूमधीत इति ठक्, तस्य ठिसुसुक्तन्तात्कःऽ इति कादेशः, ठ्केऽणःऽ इति ह्रस्वः । पदोतरपादिति । पदशब्द उतरपदं यस्य स तथोक्तः, पूर्वपदमधीते पूर्वपदिकः । एवमुतरपदिकः । शतषष्टेरिति । शतशब्दात्षष्टिशब्दाच्च परो यः पथिन्शब्दस्तदन्तात् षिकन् भवति । षकारो ङीषर्थः ॥ अनुब्राह्मणादिनिः ॥ ४।२।६२ ॥ ब्राह्मणासदृश इति । ठ्यथार्थे यदव्ययम्ऽ इति सादृश्येऽव्ययीभावः । चोदयति---मत्वर्थ इति । परिहरति---तत्रैतस्मादिति । दूषयति---अनभिधानादिति । साक्षात्परिहारमाह---अणो निवृत्यर्थं तु वचनमिति । क्वचितु मत्वर्थ इत्यादि न पठ।ल्ते ॥ वसन्तादिभ्यष्ठक् ॥ ४।२।६३ ॥ वसन्तसहचरित इति । यत्र वसन्तो वर्ण्यते यो वा वसन्तेऽध्येयः । वसन्तसाहचर्याताच्छद्यं लभते । उक्थादिष्वेते पठितव्याः, ते वा वसन्तादिषु ? तथा तु न कृतमित्येव । अथर्वन्शब्दोऽत्र पठ।ल्ते, स उपचारेण प्रोक्ते ग्रन्थे वर्तते । अथर्वणमधीते आथर्वणिकः, ठ्दाण्डिनायनहास्तिनायनऽ इति निपातनात् ठ्नस्तद्धितेऽ इति टिलोपाभावः ॥ प्रोक्ताल्लुक् ॥ ४।२।६४ ॥ प्रोक्तसहचरित इति । अर्थस्य प्रोक्तत्वादर्थेन च प्रत्ययस्य पौर्वापर्यायोगान्मुख्यार्थासम्भवाद् गौणस्य ग्रहणमित्यर्थः । अपर आह---प्रोक्तशब्द इह स्वर्यते, तेन तदधिकारविहितः प्रत्ययो गृह्यत इति । यदि वा प्रोक्ते भवः प्रोक्त इति सौत्रोऽयमतद्धैतनिर्देशः । पाणिनीयमिति । ननु पणोऽस्यास्तीति पणी, तस्यापत्यं पाणिनः, पाणिनस्यापत्यं पणिनो युवा पाणिनिः, ततः ठ्तेन प्रोक्तम्ऽ इत्यर्थविवक्षायां ठ्यूनि लुक्ऽ इति इञो लुकि कृते प्रत्ययलक्षणेन ठिञश्चऽ इत्यण् प्राप्नोति ? नैष दोषः; ठिञश्चऽ इत्यत्र ठ्कणावादिभ्यो गोत्रेऽ इत्यतः ठ्गोत्रेऽ इत्यनुवर्तते, तेनेञं विशेषयिष्यामः---गोत्रे य इञ् विहितस्तदन्तादिति । तत्र च पारिभाषिकं गोत्रं गृह्यते, तेन यूनीञो न भविष्यति, ततो वृद्धाच्छः; आपिशलिशब्दाद् ठिञश्चऽ इत्यण्, उभयत्राध्येतृप्रत्ययस्य लुक् । नन्वत्र लुकि सति, असति वा तदेव रूपमिति नास्ति विशेषः ? तत्राह---स्त्रियां स्वरेच विसेष इति । असति लुकि स्त्रियाम् ठ्टिड्ढाणञ्ऽ इत्यादिना ङीप् स्यात्, अण्स्वरेणान्तोदातत्वं च । लुकि तु सति टाब् भवति, च्छस्वरेण मध्योदातत्वं च । आपिशले तु स्वरे नास्ति विशेषः, यथा तु लुकि सत्यपिशलेत्यत्र ङीब्न भवति, तथा ठनुपसर्जनाद्ऽ इत्यत्र प्रत्यपादि ॥ सूत्राच्च सोपधात् ॥ ४।२।६५ ॥ अष्टकं सूत्रमिति । अष्टावध्यायाः परिमाणमस्य, ठ्संख्यायाः संज्ञासङ्घसूत्राध्ययनेषुऽ इति ठ्संख्याया अतिशदन्तायाः कन्ऽ । संख्याप्रकृतेरिति वक्तव्यमिति । संख्या प्रकृतिर्यस्य प्रत्ययस्य तदन्तात्कोपधादिति वक्तव्यमित्यर्थः । कालापकमधीते कालापक इति । कलापिना प्रोक्तमेधीयते कालापाः, ठ्कलापिनोऽण्ऽ, ठ्नान्तस्य टिलोपे सब्रह्मचारिऽ इत्यौपसंख्यानिकष्टिलोपः, ततः ठ्तदधीतेऽ इत्यण्, प्रोक्ताल्लुक् । कालापानामाम्नाय इति ठ्गोत्रचरणाद् वुञ्ऽ, कालापकम्, ततः ठ्तदधीतेऽ इत्यण्, तस्य लुग्न भवति । यदि स्याद् ञित्स्वरेणाद्यौदातत्वं स्यात्, लुगभावे त्वण एव स्वरो भवति, स्त्रियां च ङीब् भवति । चतुष्टय इति । चत्वारोऽवयवा अस्य ठ्संख्याया अवयवे तयप्ऽ, ठ्ह्रस्वातादौ तद्धितेऽ इति मूर्द्धन्यः ॥ च्छन्दोब्राह्मणानि च तद्विषयाणि ॥ ४।२।६६ ॥ प्रोक्तग्रहणमनुवर्तते इति । तद्ध्यनुवर्तमानमेव पूर्वसूत्र आरम्भसामर्थ्यान्न सम्बध्यते । च्छन्दांसि च ब्राह्मणानि चेति । तद्वाचीनि शब्दरूपाणीत्यर्थः । स्वरूपग्रहणं तु न भवति; बहुवचननिर्देशात्, अप्रोक्तप्रत्ययान्तत्वाच्च । प्रोक्तप्रत्ययान्तानीति । प्रोक्तादिति पञ्चम्यन्तं प्रकृतं प्रथमाबहुवचनान्तं विपरिणम्यते, ठ्च्छन्दोब्राह्मणानिऽ इत्यनेन सामानाधिकरण्यादिति भावः । अध्येतृवेदितृप्रत्ययविषयाणीत्यनेनैतद्दर्शयति---तच्छब्देनाध्येतृवेदितृप्रत्ययः परामृश्यते, विधेयतया प्रधानत्वात्; नाध्येतृवेदितासवर्थौ, तयोः प्रत्ययविधौ गुणभावादिति । किं सिद्धं भवति ? अध्येतृविषयमपि वाक्यं निवर्तितं भवति । अनन्यभावो विषयार्थ इति । ग्रामसमुदायादिवृत्तिस्तु विषयशब्दोऽसम्भवान्न गृह्यते । अत्र यद्यधीते वेदेत्यनुवर्तेत, ततोऽध्येतृवेदितृविवक्षायामेव तद्विषयता विधीयेत, ततश्च तद्विषयमेव वाक्यं निवर्तयेत्, न क्रियान्तरविषयम्, नापि स्वातन्त्र्यमुपाध्यन्तरयोगं च । यदाह---तत्र ठ्यथाधिकारातद्विषयप्रसङ्गःऽ इति । तस्मात्प्रोक्तग्रहणमेवानुवर्तते, नाधीयते वेदेति । तच्छब्देन च प्रत्ययः परामृश्यते, विषयशब्दश्च अनन्यभावार्थः । तेन सर्वमेतत्स्वातन्त्र्यादि निवर्तते । आह च---ठ्सिद्धं तु प्रोक्ताधिकारे तद्विषयवचनात्ऽ इति । प्रोक्तग्रहणमेवाधिक्रियते, नाधीते वेदेत्येतावर्थावित्यर्थः । इह प्रोक्तप्रत्ययान्तस्य बहुप्रकारता दृश्यते---स्वातन्त्र्यम्, उपाध्यन्तरयोगः, वाक्यम्, अध्येतृवेदित्रोः प्रत्यय इति । स्वातन्त्र्यं तावत्---पाणिनिना प्रोक्तं पाणिनीयमिति । प्रोक्तार्थ एव वृत्तिः; उपाध्यन्तरयोगः । महत्पाणिनीयमिति वाक्यम् । पाणिनीयमधीत इति प्रत्ययः---पाणिनीयाश्छात्रा इति । च्छन्दोब्राह्मणवाचिनां तु प्रोक्तप्रत्ययान्तानां नित्यमध्येतृवेदितृप्रत्ययान्तवैवेष्यते, न तु स्वातन्त्र्यादि, तदर्थमिदमारभ्यते, तदाह---तेनेति । एवं च कृत्वाऽर्थद्वयस्यापिं तन्त्रेण विग्रहः कर्तव्य इति दर्शयति । कठेन प्रोक्तमधीयते कठाः, वैशम्पायनान्तेवासित्वाण्णिनिः, तस्य ठ्कठचरकाल्लुक्ऽ इति लुक् ततः ठ्तदधीतेऽ इत्यण्, ततस्तस्यापि ठ्प्रोक्ताल्लुक्ऽ इति लुक् । मुदपिप्पलादशब्दाभ्यां प्रोक्तार्थो औत्सगिकोऽण् । शेषं यथायोगं पूर्ववत् । ऋचाभःउवैशम्पायनान्तेवासी । एवं ताण्ड।ल्ः । वाजसनेयशब्दः शौनकादिः । ताण्डिन इति । ठपत्यस्यऽ इति यलोपः । भाल्लविशब्द इञन्तः । शाट।ल्शब्दाद् गर्गादियञन्ताद् ठ्यञिञोश्चऽ इति फक् । ऐतरेयशब्दः शुभ्रादिढगन्तः, तेभ्यः ठ्पुराणप्रोक्तेषुऽ इति णिनिः, सर्वत्राध्येतृप्रत्ययस्य लुक् । ब्राह्मणविशेषप्रतिपत्यर्थमिति । ब्राह्मणस्य विशेषः पुराणप्रोक्तत्वम् । याज्ञवल्क्यानीति । याज्ञवल्क्यशब्दः कण्वादिः, सुलभादौत्सर्गिकोऽण्, अत्र स्वातन्त्र्यं भवति । ठ्पुराणप्रोक्तेषुऽ इत्यत्र वक्ष्यति---ठ्याज्ञवल्क्यादयो ह्यचिरकालप्रवृता इत्याख्यानेषु वार्ताऽ इति । काश्यपिनः, कौशिकिन इति । ठ्काश्यपकौशिकाभ्यामृषिभ्यां णिनिःऽ । पाराशरिण इति । पाराशर्यशब्दाद् गर्गादियञन्तात् ठ्पाराशर्यशिलालिभ्याम्ऽ इति णिनिः, पूर्ववद्यलोपः । कर्मन्दिन इति । ठ्कर्मन्दकृशाश्वादिनिःऽ । पिङ्गशब्दात्पुराणप्रोक्तेषुऽ इति णिनिः ॥ तदस्मिन्नस्तीति देशे तन्नाम्नि ॥ ४।२।६७ ॥ इतिकरणस्ततश्चेद्विवक्षेति । ननु तन्नामग्रहणादेवातिप्रसङ्गो न भविष्यति ? तन्न; द्विविधं नाम---कदाचित्केनचित्सङ्केतितम्, नित्यं व्यवहारानुपाति । तत्र द्वितीयस्य परिग्रहार्थमितिकरणः क्रियते, भूमादिविशेषपरिग्रहार्थं च । ठ्तन्नाम्निऽ इत्येततु नामधेयताविरोधिनो बलीयसोऽपि प्रत्ययान् बाधितुम् , अन्यथा नाप्राप्ते मतुप्यारम्भातस्यायं बाधकः । तदपवादैस्त्विनिठनादिभिः सह सम्प्रधारणायामपवादविप्रतिषेधादिनिठनादय एव स्युः ॥ तेन निर्वृतम् ॥ ४।२।६८ ॥ निर्वृतमित्यन्तर्भावितण्यर्थाद् वृतेः कर्मणि क्तः ॥ तस्य निवासः ॥ ४।२।६९ ॥ ऋजुनावामिति । ऋज्वी नौर्येषां तेषामित्यर्थः ॥ अदूरभवश्च ॥ ४।२।७० ॥ अदूरमन्तिकं तत्र भवतीत्यदूरभवः, निपातनात्सप्तमीसमासः । विदिशाया इति । ठ्दूरान्तिकार्थैः षष्ठ।ल्न्यतरस्याम्ऽ इति षष्ठी । चकार इत्यादि । असति तु तस्मिन्नानन्तर्यादयमेवार्थ उतरत्र सम्बध्येत ॥ औरञ् ॥ ४।२।७१ ॥ अरडुःउक्षत्रियविशेषः । नद्यां तु मतुप्परत्वादिति । आरडवमित्यादिरञोऽवकाशः, ठ्नद्यां मतुप्ऽ इत्यस्योदुम्बरावतीत्यादिः ॥ मतोश्च बह्वजङ्गात् ॥ ४।२।७२ ॥ चतुरर्थिक इति । चतुर्णामर्थानां समूहश्चतुरर्थी, तत्र भवः, अध्यात्मादित्वाट्ठञ् । तद्धितार्थे द्विगौ तु ठञो लुक् स्यात् । अङ्गग्रहणं किमिति । ठ्मतोश्च वह्वचःऽ इत्येवास्तु, व्यधिकरणे पञ्चम्यौ, बह्वचो यो विहितो मतुप् तदन्तादिति विज्ञायमाने सिद्ध्यत्येव विवक्षितमिति प्रश्नः । मतुबन्तविशेषणं मा भूदिति । अन्यथा सामानाधिकरण्ये सम्भवति, वैयधिकरण्यस्यायुक्तत्वात् तस्यैव । वशेषणं स्यादिति विभावः । अस्ति चेदिदानीं क्वचिदबह्वञ् मत्वान्तो यदर्थं बह्वज्ग्रहणं स्यात् ? अस्तीत्याह---स्ववान्, श्ववान् ॥ उदक्च विपाशः ॥ ४।२।७४ ॥ महती सूक्ष्मेक्षिकेति । एवं नाम स्वरेऽप्याचार्योऽवहित इति आचार्यस्य प्रशंसैषा ॥ सुवास्त्वादिभ्योऽण् ॥ ४।२।७७ ॥ अञ इति । ठण्ग्रहणरहितसूत्राभिप्रायमेतत् । तस्य तु प्रयोजनं स्वयमेव वक्ष्यति---अण्ग्रहणं मतुपो बाधनार्थम्ऽ इति । तेन वस्तुतो मतुपोऽप्ययमपवादः । अथाण्ग्रहणंकिमर्थम्, न सुवास्त्वादिभ्यो यथा विहितमित्येवोच्येत, पुनर्वचनाद्धै को विहितो न च प्राप्नोति स एव भविष्यति स चाणेव ? तत्राह---अण्ग्रहणमिति । असत्यण्ग्रहणे मध्येऽपवादन्यायेन यताविहितमित्युच्यमानोऽणञ एव बाधकः स्याद्, नदीमतुपा तु परत्वाद्वाध्येत, पुनरण्ग्रहणातु मतुपो विषये भवतीत्यर्थः । किञ्च---ठोरञ्ऽ इत्यस्य नद्यां मतुप्परत्वाद्वाधक इत्युक्तम्, तत्रासत्यण्ग्रहणे यताविहितमित्युच्यमाने नद्याम् ठोरञ्ऽ एव स्याद्, वचनं तु मतुपो बाधनार्थं स्यात् । तस्मादेतदर्थमप्यण्ग्रहणं कर्तव्यम् ॥ रोणी ॥ ४।२।७८ ॥ केवलस्तदन्तश्चेति । अन्यथा ग्रहणवता प्रातिपदिकेन तदन्तविधिप्रतिषेधात्केवलादेव स्यात्, न तदन्तात् । रोणीति पुनः शास्त्रनिरपेक्षेण निर्देशेन शास्त्रनिरपेक्षत्वमिह सच्यत इति परिभाषया अनपेक्षणातदन्तादपि भवति । ननु च रोणीति नेदं प्रातिपदिकम्, स्त्रीप्रत्ययान्तत्वात्; न च ठ्ग्रहणवता प्रातिपदिकेनऽ इत्यत्र लिङ्गविशिष्टस्य ग्रहणम्, येन स्त्रीप्रत्ययान्तेनापि तदन्तविधिः प्रतिषिध्येत, स्वरूपविधिविषया परिभाषेयं प्रातिपदिकस्य स्वरूपग्रहणे लिङ्गविशिष्टस्यापि ग्रहणं भवतीत्युक्तत्वात् ? यथाकथञ्चित्प्रातिपदिकग्रहणे लिङ्गविशिष्टस्य ग्रहणं भवतीति भाष्यकारपक्षः, तदाश्रयेणैतदुक्तम् । एवं च वृत्तिकारस्याप्ययमेव पक्षः । ङ्याप्सूत्रेतु परपक्षो दर्शित इति गम्यते । कि सिद्धं भवति ? कुमारीमाचष्टे कुमारयति---ठ्णाविष्ठवद्ऽ इति टिलोपः सिद्धो भवति ॥ वुञ्च्छण्कठजिलसेनिरढञ्णययफक्फिञिञ्ञ्यकक्ठकोरीहणकृशाश्वर्यकुमुदकाशतृणप्रेक्षाश्मसखिसङ्काशबलपक्षकर्णसुतङ्गमप्रगदिन्वराहकुमुदादिभ्यः ॥ सूत्रे कुमुदशब्दो द्विरुपादीयते, तत्रारीहणकृशाश्वर्श्यकुमुदाश्च काशतृणादयश्चेति द्वन्द्वयोर्द्वन्द्करणादेकशेषाभावः । कुमुदादिष्विति । ऋश्यादेरनन्तरेषु औत्सर्गिकोऽपि तत्र इष्यत इत्यादि यदुक्तं तदेवाप्तप्रयोगेण द्रढयति---तथा चोक्तमिति । ठ्लुपियुक्तवद्ऽ इत्यत्र भाष्यकारणैतदुक्तम् । अथास्मात्प्रयोगाद्विशेषविहितानामेव पक्षे लुब् भवतीति कस्मान्नोच्यते ? तथा वा भवतु; सर्वथा चातूरूप्यमेवात्र नः समीहितम् ॥ शर्कराया वा ॥ ४।२।८३ ॥ कुमुदादिष्विति । ऋश्याद्यनन्तरेषु । पाठसामर्थ्यादिति । नित्ये हि लुपि गणयोरस्य पाठोऽनर्थकः स्यात् । शकरेति । अणे लुप् । शार्करमिति । तस्यैव श्रवणम् । शर्करिकमिति । कुमुदादित्वाट्ठच् । शार्करकमिति । वराहादित्वात्कक्, ठ्केऽणःऽ इति ह्रस्वः । शार्करिकम्, शर्करीयमिति । उतरसूत्रेण ठक्छौ ॥ नद्यां मतुप् ॥ ४।२।८४ ॥ ठ्तदस्यास्त्यस्मिन्ऽ इति मतुपि सिद्धे वचनमिदं तदस्मिन्नस्तीति प्राप्तस्याणो बाधनार्थं निवृताद्यर्थं च, तत्सूचितम्---चातुरथिंक इति । देशस्य विशेषणं नदीति । यद्यपि ठ्विशिष्टलिङ्गऽ इत्यत्रोक्तम्---ठ्नदीग्रहणमदेशत्वात् जनपदो हि देशःऽ इति, इह तु नद्यां देश इति; सम्बन्धसामर्थ्यादजनपदो देशग्रहणेन गृह्यते, एवं च पर्वतेष्वपि चातुरर्थिको भवति । अन्ये त्वाहुः---नद्यपि देश एव, लोकप्रसिद्धेः; ठ्विशिष्टलिङ्गऽ इत्यत्र तु नदीग्रहणं यस्य द्वन्द्वस्य सर्व एवावयवो नदीवचनस्तत्परिग्रहार्थम्, यत्र कश्चिदवयवोनदीवचनः, कश्चिदन्यदेशवाची---तत्र मा भूदित्येवमर्थमिति । उदुम्बरावतीत्यादौ ठ्मतौ बह्वचोऽनजिरादीनाम्ऽ इति दीर्घत्वम् । भागीरथीति । ठ्तेन निर्वृतम्ऽ इत्यण् ॥ कुमुदनडवेतसेभ्यो ड्मतुप् ॥ ४।२।८७ ॥ कुमुद्वानित्यादौ झयः ठ्मादुपधायाश्चऽ इति वत्वम् । अथ वकारादिरेव कस्मान्न विहितः ? ज्ञापनार्थम्, एतज्ज्ञापयति---अन्येभ्योऽप्ययं भवतीति । तेन महिष्मानिति सिद्धं भवति, महिषाच्चेति न वक्तव्यं भवति । एतेनैतदपि निरस्तम्---प्रकृतस्यैव मतुपो डित्वातिदेशेन सिद्धमिति, न हि डित्वातिदेशे पूर्वोक्तं ज्ञापनं समर्थितं भवति ॥ नडशादाड् ड्वलच् ॥ ४।२।८८ ॥ शादशब्दो दोपधः, ठ्पङ्कोऽस्त्री शादकर्दमौऽ इति ॥ शिखाया वलच् ॥ ४।२।८९ ॥ शिखाया वलज्वक्ष्यतीति । ठ्दन्तशैखात्संज्ञायाम्ऽ इत्यनेन । तददेशार्थं वचनमिति । इदं तु निवृताद्यर्थम्, देशे तन्नाम्न्यणो बाधनार्थं च ॥ नडादीनां कुक् च ॥ ४।२।९१ ॥ तक्षन्नलोपश्चेति । यदि पुनरयं कुक् परादिः क्रियेत, नान्तस्य पदत्वात्सिद्धो नलोपः; किन्तु कुटि प्रत्ययादेरादेशानुपपतिः, च्छस्याप्रत्ययादित्वादीयादेशो न प्राप्नोति ॥ शेषे ॥ ४।२।९२ ॥ अपयुक्तादन्यः शेष इति । शब्दार्थकथनमेतत् । तस्यैव प्रकंरणादागतं विशेषमाह---अपत्यादिभ्य इति । एते ह्यत्रोपयुक्ताः । चतुरर्थपर्यन्तेभ्य इति । चत्वारोऽर्थाः ठ्तदस्मिन्नस्तिऽ इत्यादयः पर्यन्तो येषामिति विपदो बहुव्रीहिः । चातुरर्थ्यपर्यन्तेभ्य इति पाठे समाहारद्विगोश्चातुर्वर्ण्यादित्वात्स्वार्थे ष्यञ् । ये तु पठन्ति---चातुरर्थपर्यन्तेभ्य इति, ते प्रज्ञादेराकृतिगणत्वादणमिच्छन्ति । किमर्थं पुनः शेषवचनम् ? शेषे घादयो यथा स्युः, अपत्यादिषु मा भूवन् । चिरनिवृता अपत्यादयः ? चतुर्ष्वर्थेषु तर्हि मा भूवन् ; अन्यथा ठोरञ्ऽ इत्यादयः ठ्नडादीनां कुक् चऽ इत्येवमन्ता यथा चतुरर्थेषु भवन्ति, तथा घादयोऽपि ठ्विभाषाअ पूर्वाह्णाभ्याम्ऽ इत्येवमन्तास्तत्रैव स्युः । न ह्यकस्मात्प्रकरणं विच्छिद्यते । निवर्तिष्यते तर्हि चतुर्ज्ञ्थाः ? अस्वरितत्वाल्लिङ्गाच्च, यदयमुत्करादिषु कांश्चिद् वृद्धान् शब्दान्पठति---आर्द्रका, शालेति; अन्यथा ठ्वृद्धाच्छःऽ इत्येव सिद्धः स्यात् । स्वार्थे तर्हि घादयो मा भूवन् ? अनिर्दिष्टार्थत्वाद्धि स्वार्थ एवस्युः, नामी अनिर्दिष्टार्थाः । जातादिष्वर्थेषु घादयोऽनुवर्तिष्यन्ते ? यद्यनुवर्तन्ते या या परा प्रकृतिः तस्यास्तस्याः पूर्वः पूर्वः प्रत्ययः प्राप्नोति । नार्थनिर्देशं प्रति व्यग्रयोरन्योऽन्यमभिसम्बन्धो भवति । लिङ्गाच्च, यदयं क्कचिच्चकारेण प्रकृतं समुच्चिनोति ठ्रङ्कोरमनुष्येऽण् चऽ इति, तज्ज्ञापयति---न पूर्वः पूर्वः प्रत्ययः परस्याः परस्याः प्रकृतेर्भवतीति । अथ वा---लौकिकोऽधिकारोऽपेक्षालक्षणः । न च घादीनां प्रकृत्यन्तरापेक्षा, नापि ग्रामादीनां प्रत्ययान्तरापेक्षा, तस्मादप्रयोजनमेतत्स्वार्थे मा भूवन्निति । तदेव तर्हि प्रयोजनम्---अपत्यादिषु तर्हि मा भूवन्निति । ननु चोक्तम्---चिरनिवृता अपत्यादयश्चातुरर्थी च नापेक्ष्यत इति ? न ब्रूमोऽपत्यादीनामत्राभिसम्बन्ध इति, किं तर्हि ? तस्येदमित्यनेनापत्यादिष्वपि प्राप्नुवन्ति । कथम् ? इत्याह---तस्येदंविशेषा ह्यपत्यसमूहादय इति । यथा ठ्तस्येदम्ऽ इत्यनेन पाणिनीयाश्छात्रा इति छात्रादिषु विशेषेषु प्रत्ययो भवति, एवमपत्यादिष्वपि विशेषेषु घादयः स्युः; विशेषेषु सामान्यभावात् । ननु च विशेषशब्दसंनिधौ सामान्यशब्द उपातः, तत्र विशेषे पर्यवस्यति---कौण्डिन्यो ब्राह्मण इति, विशेषान्तरे वा---दधि ब्राह्मणेभ्यस्तक्रं कौण्डिन्यायेति । तत्रापत्यादिविशेषसन्निधावुपातं तस्येदमिति सामान्यम्, यद्यपत्यादिष्वेव पर्यवस्येत् सामान्योपादानं व्यर्थं स्यादिति विशेषान्तर एव पर्यवसास्यति । किञ्च यद्यपत्यादिष्वपि घादयः स्युः, ठ्प्राग्दीव्यतोऽण्ऽ इत्यत्रैवाणादिभिः सह विधीयेरन्, लिङ्गाच्चापत्यादिषु घादयो न भविष्यन्ति, किं लिङ्गम् ? ठ्फेश्च्छ चऽ इत्यत्र ठ्फेर्वाऽ इत्येव ठग्विधानार्थं वक्तव्यम्, ठका मुक्ते ठ्वृद्धाच्छःऽ इति तावच्छः सिद्धः, तदेव च्छविधानं ज्ञापनार्थम्---न ह्यपत्यादिषु घादयो भविष्यन्ति । तथा गोत्रचरणाद्वुञिति समूह इदमर्थान्तर्भूते वुञि सिद्धे ठ्गोत्रोक्षोष्ट्रऽ इति पुनर्विधानमपि लिङ्गमस्यार्थस्य; तथा ठ्राजन्यादिभ्यो वुञ्ऽ इति राजन्यादिषु दैवयातशब्दः पठ।ल्ते, स च देवयातूनामपत्यानि दैवयातवा इति गोत्रप्रत्ययान्तः; तथाऽरीहणादिषु भास्त्रायणशब्दो गोत्रप्रत्ययान्तः पठ।ल्न्ते, तत्रापि ठ्गोत्रचरणाद् वुञ्ऽ इत्येव सिद्धः; तदेतैर्लिङ्गैरपत्यादिषु घादयो न भविष्यन्ति । तदेवमेतत्प्रयोजनं नोपपद्यत इति प्रयोजनान्तरमाह---किञ्चेति । असति हे शेषग्रहणे प्रथमेनैवार्थेन सम्बन्धमनुभवतां कृतार्थता विज्ञायेत, द्वितीयादिषु त्वर्थेषु ठ्प्राग्दीव्यतःऽ इति विशिष्टावधिपरिच्छिन्नेष्वर्थेषु विधीयमाना अणादय एव स्युः, शेषशब्दस्तूपयुक्तादन्यतमान् जातादीनर्थान्वीशीकृत्य शक्नोत्यभिधातुमिति सर्वत्र घादयः सिध्यन्ति । अतः साकल्यार्थमपि विशेषवचनं कर्तव्यम् । लक्षणं चाधैकारश्चेति । तत्र ठ्तस्येदम्ऽ इत्येव चाक्षुषादयः सिध्यन्ति, पार्षदादयस्तु ठ्संस्कृतं भक्षाःऽ इति तस्माल्लक्षणत्वं नातीवोपयुज्यते ॥ राष्ट्रावारपाराद्धखौ ॥ ४।२।९३ ॥ विगृहीतादपीष्यते इति । सूत्रे तु संघातस्यैव ग्रहणम्; अन्यथा वैषम्यात्संख्यातानुदेशो न स्यात् । विपरीताच्चेति । इयमपीष्टिरेव ॥ ग्रामाद्यखञौ ॥ ४।२।९४ ॥ ग्रामशब्दः कत्र्यादिषु पठ।ल्ते, तेन ढकञपि भवति ॥ कत्त्र्यादिभ्यो ढकञ ॥ ४।२।९५ ॥ कात्त्रेयक इति । कुत्सितास्त्रयः कत्रय इति बहुव्रीहिर्वा । अस्मादेव निपातनात्कोः कद्भावः, तेन कद्भावे ठ्त्रौ उपसंख्यानम्ऽ इति न वक्तव्यं भवति । कुल्याया यलोपश्चेति । केचितु तृतीयं वर्णं लकारं पठन्ति, अन्ये तु डकारम् ॥ कुलकुक्षिग्रीवाभ्यः श्वास्यलङ्कारेषु । अयं योगः शक्योऽवक्तुम् । कथम् ? कौलेयकः श्वा यदा कुलशब्दः श्वकुले वर्तते तदा तस्यापत्यमपि श्वैव भवति, तत्र ठपूर्वपदादन्यतरस्याम्ऽ इति ढकञा सिद्धम्; कुक्षिग्रीवाशब्दाभ्याम् ठ्दृतिकुक्षिकलशिवस्त्यस्त्यहेर्ढञ्ऽ इति ढञि कृते आस्यलङ्कारयोस्स्वार्थिकः कन् भविष्यति ॥ नद्यादिभ्यो ढक् ॥ ४।२।९७ ॥ गणे नदीति स्वरूपग्रहणम्, न संज्ञा; नद्याः मह्यादीनां पृथग्रहणात् । पौरेयमित्यादिषु पुरि भवम्, वने भवम्, गिरौ भवमिति विग्रहः । उभयमपि दर्शनं प्रमाणमिति । उभयथाप्याचार्येण शिष्याणां प्रतिपादितत्वात् ॥ दक्षिणापश्चात्पुरसस्त्यक् ॥ ४।२।९८ ॥ दक्षिणाशब्दः ठ्दक्षिणादाच्ऽ इत्याजन्तोऽव्ययं गृह्यते; पश्चात्पुरोभ्यां साहचर्यात् । तेन न टाबन्तस्य प्रवीणवाचिनो ग्रहणम् ॥ कापिश्याः ष्फक् ॥ ४।२।९९ ॥ बहल्युदिपर्दीति । ठवृद्धादपिऽ इति वुञि प्राप्ते वचनम् ॥ रङ्कोरमनुष्येऽण्च ॥ ४।२।१०० ॥ रङ्कवो नाम जनपदः, ततः ठ्प्राग्दीव्यतोऽण्ऽ प्राप्तः, तस्य ठवृद्धादपिऽ इति वुञ् बाधकः, तस्य ओर्देअशे ठञ्, ततः कोपधादण्, ततः ठ्कच्छादिभ्यश्चऽ इत्यण् प्राप्तः, ततः ष्फगणौ विधीयेते । कोपधत्वादेवाणि सिद्धे रङ्कुशब्दस्य कच्छादिषु पाठो मनुष्यतत्स्थयोर्वुञ्विधानार्थः । मनुष्ये परत्वादिति । उत्कृष्टत्वाद् अपवादत्वादित्यर्थः । कच्छादिपाठारमनुष्येऽणपि सिद्ध इति । ननु च मनुष्यतत्स्थयोर्वुञ्विधानार्थस्तत्र पाठः स्यात्, ततश्च तद्व्यतिरिकते विषये ष्फगेव स्यात्, यत्राण् विधीयते ? नैतदस्ति; कच्छादिपाठस्योभयार्थत्वे बाधकाभावात् । नञिवयुक्तन्यायेन मनुष्यसदृशे प्राणिनि प्रतिपतिः क्रियते इति । यस्त्वमनुष्यशब्दो रक्षः पिशाचादिषु रूढः, न तस्यैव ग्रहणम् ; अनभिधानादिति मन्यते, अथैवं कस्मान्न विज्ञायते---परत्वादेव वुञि सिद्धे मनुष्यप्रतिषेधो ज्ञापयति---ठ्मनुष्यतत्स्थयोःऽ इत्यस्याप्येतौ ष्फगणौ बाधकाविति, तेन तत्स्थे ष्फगणावेव भवतो न वुञिति ? तन्न; अनिष्टत्वात् । न हि तस्थे ष्फगणाविष्येते, किं तहि ? वुज्ञेव । राङ्कवः कम्बल इति ष्फग्न भवतीति । यथा तु वार्तिकं भाष्यं च तथात्र ष्फगिष्यते, मनुष्यप्रतिषएधश्च प्रत्याख्यातः । यथाऽऽह---ठ्रङ्कोरमनुष्यग्रहणानर्थक्यं मनुष्यतत्स्थयोर्वुञ्विधानात्, तत्स्थे ष्फगणोर्ज्ञापकमिति चेन्नानिष्टत्वादण्ग्रहणानर्थक्यं च कच्छादिभ्योऽणिवधानात्ऽ इति । विशेषविहितेन च ष्फकेति । अन्यथा कच्छादिपाठस्य प्राणिनि चरितार्थत्वात्प्राणिनि ष्फगेव स्यात् ॥ द्यौप्रागपागुदक्प्रतीचो यत् ॥ ४।२।१०१ ॥ ठ्द्यौऽ इति दिव उत्वेन निर्देशः । द्यौशब्दस्य तु ग्रहणं न भवति, व्याख्यानात् । अवाच्यमिति । अवाची उ दक्षिणा दिक् । अव्ययातुकालवाचिन इति । यथाव्ययात्कालवाचिनः ठ्कालाट्ठञ्ऽ इति ठञ्न भवति; न्यायस्य तुल्यत्वात् ॥ वर्णौ वुक् ॥ ४।२।१०३ ॥ तत्समीपो देशो वर्णुरिति । ठदूरभवश्चऽ इत्यर्थे ठ्सुवास्त्वादिभ्योऽण्ऽ इत्यण्, तस्य ठ्जनपदे लुप्ऽ इति लुप् । तद्विषयार्थवाचिन इति । स वर्णुर्देअशो विषयो यस्यार्थस्य तद्वाचिन इत्यर्थः । विषयग्रहणेन वर्णाविति विषयसप्तमी दर्शयति ॥ अव्ययात्यप् ॥ ४।२।१०४ ॥ अमेहेति । योऽव्ययात्यब्विहितः सोऽमादिभ्य एव स्मृत इत्यर्थः । अमाशब्दः समीपवाची स्वरादिः, अमा समीपे भवोऽमात्यः । औपरिष्ट इति । उपरिष्टाद्भव इत्यणि कृते ठव्ययानां भमात्रे टिलोपःऽ इति टिलोपः । परतः शब्दः ठ्विभाषा परावराभ्याम्ऽ इत्यतसुजन्तः, तत्र भवः । आरातीय इति । ठ्बहिषष्टिलोपश्चऽ इत्यनित्यत्वज्ञापनादत्र टिलोपाभावः । त्यब्नेर्ध्रुव इति । निशब्दाद् ध्रुवे वाच्ये त्यब्भवति । नियतं सर्वकालं भवो नित्यः । निसो गते इति । निः शब्दाद् गते वाच्ये त्यब्भवति । निष्ट।ल् इति । ठ्ह्रस्वातादौ तद्धितेऽ इति षत्वम्, तकारस्य ष्टुअत्वम् । एवमाविर्भूतमाविष्ट।ल्म् । अरण्याण्ण इति । अणि सति ङीप् स्यादिति णो विधीयते । दूरेत्य इति । ठ्तत आगतःऽ इत्यत्रार्थे एत्यः । उतरादाहञिति । आद्यौदातार्थं वचनम् । औतराहमिति । ठुतराच्चऽ इत्याहिप्रत्ययः, उतराहिशब्दात्परिगणनेन त्यपोऽभावादणि सति सिद्धम् ॥ ऐषमोह्यः श्वसोऽन्यतरस्याम् ॥ ४।२।१०५ ॥ ठञपि तृतीयो भवतीति । विधिवाक्यापेक्षं तृतीयत्वम्, प्रत्ययापेक्षया तु ठञ् चतुर्थः, ठ्श्वसस्तुट् चऽ इत्यत्र विकल्पाधिकारात् ट।लुट।लुलावपि भवतः ॥ तीररूप्योतरपदादञ्ञौ ॥ ४।२।१०६ ॥ अञ्जपोः स्त्रियांविशेषः---काकतीरी, चाणाररूप्या । बहुच्पूर्वान्मा भूदिति । अन्यथा बहुतीरशब्दादपि स्यात्, उतरपदशब्दस्य तु समासविषये नियतत्वान्नास्ति बहुच्पूर्वात्प्रसङ्गः ॥ दिक्पूर्वपदादसंज्ञायां ञः ॥ ४।२।१०७ ॥ असंज्ञायामिति । न चैवमसंज्ञाया इति पञ्चम्या निर्देशः, विषयसप्तम्यापि तदर्थलाभादित्याह---संज्ञाविषयादिति । पौर्वशाल इति । पूर्वस्यां शालायां भव इति तद्धितार्थे समासः, ततः प्रत्ययः । पदग्रहणमित्यादि । ठ्दिक्पूर्वाद्ऽ इत्युच्यमाने स्वरूपं स्यात्, ततश्च दिग्गज इत्यादेरेवस्यात् । पदग्रहणे तु सति दिग्विशेषवाचिनां ग्रहणं भवति, कथम् ? व्यधिकरणपदो बहुव्रीहिः---दिशः पूर्वपदमस्मिन्निति, ठ्दिशःऽ इति वाचकापेक्षया षष्ठी, दिशो वाचकं पूर्वपदस्मिन्नित्यर्थः ॥ मद्रेभ्योऽञ् ॥ ४।२।१०८ ॥ मद्रशब्दो जनपदवचनः, बहुवचननिर्देशो जनपदवाचिनः परिग्रहार्थः, तेन मद्रपर्यायो न गृह्यते । पौर्वमद्र इति । मद्रैकदेशे मद्रशब्दस्य वृतेर्दिक्शब्देन सामानाधिकरण्ये सति ठ्तद्धितार्थऽ इति समासः ॥ उदीच्यग्रामाच्च बह्वचोऽन्तोदातात् ॥ ४।२।१०९ ॥ शैवपुरमिति । ठ्प्रस्थपुरवहान्तात्ऽ इति वुञ् न भवति; ठ्वृद्धात्ऽ इति तत्र वर्तते ॥ प्रस्थोतरपदपलद्यादिकोपधादण् ॥ ४।२।११० ॥ उदीच्यग्रामलक्षणस्याञोऽपवाद इति । ततोऽन्यत्र व्रीहिप्रस्थ--गिरिप्रस्थ--करिकादावौत्सगिक एवाण्, कैलासप्रस्थ--काक--शाकादिषु वृद्धेषु ठ्वृद्धाच्छःऽ भवति, देशवाचिनि तु मालाप्रस्थादौ ठ्प्रस्थपुरवहान्ताच्चऽ इति वुञ्, इक्ष्वाकुप्रभृतिषु जनपदवुञोऽपवादः ठ्कोपधादण्ऽ इत्यण्वक्ष्यते, अरीहणकादौ च ठ्वृद्धादकेकान्तऽ इति छाए भवति, तस्मादञोऽपवाद इति सुष्ठूअक्तम् । उतरपदग्रहणादिह न भवति---उतरोमाहकिप्रस्थ उतरमाहकिप्रस्थः, तत्र भ इति । ठ्प्रस्थान्तात्ऽ इति तूच्यमानेऽत्रापि स्यात् । अण्ग्रहणं बाधकबाधनार्थमिति । यद्यण्ग्रहणं न क्रियेत, तदा यदत्र वृद्धं वाहीकग्रामवाचि तस्मात् ठ्प्राग्दीव्यतोऽण्ऽ इत्यणि प्राप्ते ठ्वृद्धाच्छःऽ प्राप्तः, तस्मिन्ठ्वाहीकग्रासेभ्यश्चऽ इति ठञ्ञिठाभ्यां बाधिते पुनर्विधानाच्छ एव स्यात् । तस्माद्वाधकमपि तं छ्ंअ बाधित्वा अण्ग्रहणादणेव भवति । यकृल्लोमशब्दः पठ।ल्ते, यकृल्लोम्नि भः याकृल्लोमः, ठन्ऽ इति प्रकृतिभावो न भवति, गणे नलोपनिपातनादित्याहुः ॥ कण्वादिभ्यो गोत्रे ॥ ४।२।१११ ॥ गोत्रमिह न प्रत्ययार्थ इति । शेषाधिकारस्य बाधप्रसङ्गात् । न च प्रकृतिविशेषणमिति । कण्वादीनामगोत्रप्रत्ययान्तानां गोत्रे वृत्यसम्भवात् । कण्वादिभ्यो गोत्रे यः प्रत्ययो विहित इति । प्रतिपदविहितो यञेव गृह्यते । एवं च कृत्वा गोत्रमपि पारिभाषिकं गृह्यते, न त्वपत्याधिकारादन्यत्र लौकिकं गोत्रं गृह्यत इत्यपत्यमात्रस्य ग्रहणम्---कण्वो देवताऽस्येति । ननु ठ्कण्वादिभ्यःऽ इत्युच्यमाने कथमणन्तात्प्रसङ्गः ? कथं वा यञन्तेभ्यः स्याद् येनेष्ट्ंअ तावत्सिद्ति ? एवं मन्यते---केवलेभ्यः कण्वादिभ्य औत्सर्गिक एवाण्, सिध्यति, छापवादत्वाद्योगस्य कण्वाद्यवयवे तद्धितान्ते कण्वादिश्ब्दो वर्तिष्यत इति ॥ इञश्च ॥ ४।२।११२ ॥ गोत्र इत्येवेति । पूर्वत्र पारिभाषिकस्य गोत्रस्य ग्रहणमित्युक्तम्, इहापि तदेवानुवर्तते, तेनात्रापि पारिभाषिकस्यैव ग्रहणादिह न भवति---पाणिनेर्यूनच्छात्त्राः पाणिनीया इति सौतङ्गमेरिदमिति । सुतङ्गमशब्दाद् वुञ्च्छणादिसूत्रेण चातुर्थिक इञ् । अत्रापत्यत्वमेव नास्तीति सुतरामगोत्रत्वाद्भवति प्रत्युदाहरणम् ॥ न द्व्यचः प्राच्यभरतेषु ॥ ४।२।११३ ॥ ननु च भरताः प्राच्या एव, तत्किमर्थं तेषां स्वशब्देन ग्रहणम् ? तत्राह---ज्ञापकादन्यत्रेति । ठ्बह्वच इञः प्राच्यभरतेषुऽ इत्यत्रायमर्थो ज्ञापतिः---ठन्यत्र प्राच्यग्रहणे भरतानां ग्रहणं न भवतिऽ इति । अपर आह---ज्ञापकादन्यत्रेत्यन्वयः, अन्यत्रास्यार्थस्य ज्ञापितत्वादित्यर्थः ॥ वृद्धाच्छः ॥ ४।२।११४ ॥ अव्ययतीरेत्यादि । अव्ययात्यब् भवतीत्यस्यावकाशः---अमात्यः, च्छस्यावकाशः---शालीयो मालीयः, आराच्छब्दाच्छाए भवति---आरातीयः । ठमेहक्वतसित्रेभ्यःऽ इति परिगणनमनपेक्ष्यायं विप्रतिषेधः । तीरोतरविधेरवकाशः---काश्यतीरः, च्छस्य स एव; वायसतीराच्छाए भवति वायसतीरियः । रूप्योतरविधेरवकाशः---चाररूप्यः, च्छस्य स एव; माणिरूप्याच्छः प्राप्तः, तं चापि योपधलक्षणो वुञ् बाधते---माणिरूप्यकः । प्राप्तिमात्राश्रयेण तु च्छस्य रूप्योतरपदलक्षणस्य च ञस्य विप्रतिषेध उक्तः । उदीच्यग्रामलक्षणस्य विधेरवकाशः--शिवपुर---शैवपुरः, वाडवकर्षाच्छाए भवति---वाडवकर्षीयः। कोपधविधिः---ठ्प्रस्थोतरपदपलद्यादिकोपधादण्ऽ इत्ययं विवक्षितः, स तस्माद्धि परस्थस्तस्यावकाशः---ठ्प्रस्थोतरपदपलद्यादिकोपधादण्ऽ इत्ययं विवक्षितः, स तस्माद्धि परस्थस्तस्यावकाशः---निलीनक---नैलीनकम्, उलूका अस्मिन्सन्ति ठ्तदस्मिन्नस्तिऽ इत्यण्, औलको नाम ग्रामस्तत्र भवः, तस्माच्छाए भवति---औलूकीयः । यस्तु ठ्कोपधादण्ऽ इत्यण्, स जनपदवुञोऽपवादः, तस्यापि ठ्वृद्धादकेकान्तऽ इत्यत्र ठ्कोपधग्रहणं सोसुकाद्यर्थम्ऽ इति विहितश्छाए बाधको भवति ॥ भवतष्ठक्च्छसौ ॥ ४।२।११५ ॥ ठक्च्छस् इत्येताविति । सित्करणादवसीयते---च्छसोऽयं निर्देशः, न शस इति, शसि हि स्वादिपदत्वेनैव सिद्धम् । सकारः पदसंज्ञार्थ इति । तेन भवदीय इत्यत्र जश्त्वं भवति । भावत्क इति । ठिसुसुक्तान्तात्कःऽ प्रक्रियालाघवार्थं ककि विधातव्ये ठग्विधानं स्त्रियां ङीबर्थम्---भावत्की । अवृद्धातु भवति इति । शत्रन्तात् । क्वचितु भवतः शतुरित्येव पाठः ॥ काश्यादिभ्यष्ठञ्ञिठौ ॥ ४।२।११६ ॥ वृद्धादित्येवेति । कथं तर्ह्यवृद्धेभ्यो युवराजादिभ्यः प्रत्यय इत्यत आह---ये त्विति । यद्यवृद्धेभ्यो वचनप्रामाण्यात्प्रत्ययौ भवतः, किमर्थं तर्हि वृद्धाधिकारः ? इत्यत आह---देवदतशब्द इत्यादि । कथं भाष्ये उदाहृतमिति । यद्यपि तत्र स्वयमपि च्छप्रत्ययमुदाहरत्येव, ततु भाष्यकारप्रामाण्येन न स्वातन्त्र्येणेति ठ्भाष्येऽ इत्युक्तम् । आपदादिपूर्वपदादिति । आपदादिराकृतिगणः । कालादिति । कालशब्दान्तादित्यर्थः ॥ वाहीकग्रामेभ्यश्च ॥ ४।२।११७ ॥ च्छस्यापवादौ इति । एवं च ये छेनैव बाधिता अव्ययतीररूप्योतरपदोदीच्यग्रामकोपधविषयास्तद्विषयेऽप्येतावेव भवतः, न चेदन्येन बाधः, तद्यथा---आरान्नाम वाहीकग्रामः आरात्की, आरात्का, ठिसुक्तान्तात्कःऽ । तथा कास्तीरं नाम वाहीकग्रामः कास्तीरिकी, कास्तीरिका । इह तु दाशरूप्यं नाम वाहीकग्रामः, ठ्धन्वयोपधात्ऽ इति वुञ् ठञ्ञिठौ बाधते---दाशरूप्यकः । तथा शकलान्यस्मिन्सन्ति शाकलं नामोदीच्यग्रामः भूयो वाहीकग्रामः, ततष्ठञ्ञिठौ भवतः---शाकलिकी, शाकलिका । इह तु सौसुकं नाम वाहीकग्रामः प्रस्थोतरपदादिसूत्रेण प्राप्तं कोपधलक्षणमणं छाए बाधते, परत्वातमप्यपवादत्वाद् ठ्वृद्धादकेकान्तऽ इत्यत्र ठ्कोपधग्रहणं सोसुकाद्यर्थम्ऽ इति कोपलक्षणश्लो बाधते, सौसुकीयः ॥ ओर्देअशे ठञ् ॥ ४।२।११९ ॥ नैषादकर्षुकः, शाबरजम्बुक इति । निषादकर्षू-शबरजम्बूशब्दाभ्यां ठञ्, ठिसुसुक्तान्तात्कःऽ, ठ्केऽणःऽ इति ह्रस्वः ॥ वृद्धात्प्राचाम् ॥ ४।२।१२० ॥ वृद्धादेव प्राचामिति । विपरीतस्तु नियमो न भवति---प्राचामेव वृद्धादिति, अप्राग्देशवाचिनो वृद्धस्योवर्णान्तस्याभावाद् यत्र पूर्वसूत्रस्यातिप्रसङ्गः स्यात् । आढकजम्बुक इति । पूर्ववत्कादेशह्रस्वत्वे ॥ धन्वयोपधाद् वुञ् ॥ ४।२।१२१ ॥ धन्ववाचिन इति । धन्वविशेषवाचिन ऐरावतादेरित्यर्थः । स्वरूपस्य पर्यायाणां च ग्रहणं न भवति, वृद्धाधिकारात् । पारेधन्वक इति । ठ्पारेमध्ये षष्ठ।ल वाऽ इत्यव्ययीभावः, ठचश्चऽ इति टच् समासन्तः, वुञि यस्येति लोपः । यदि तु धन्वशब्दो नपुंसकलिङ्गः, ततः ठ्नपुंसकादन्यतरस्याम्ऽ इति टजभावपक्षे वुञिऽ नस्तद्धितेऽ इति टिलोपः । साङ्काश्यकाम्पिल्यशब्दौ वुञ्च्छणादिसूत्रेण ण्यान्तौ ॥ प्रस्थपुरवहान्ताच्च ॥ ४।२।१२२ ॥ वृद्धादिति वर्तते इति । यद्येवमन्तग्रहणनर्थकं प्रस्थादीनामवृद्धत्वादेव तदन्तविधिर्भविष्यति ? नैतदस्ति; ठ्वा नामधेयस्यऽ इति प्रस्थादीनामेव पदानां वृद्धत्वसम्भवात् । अथाप्येवंनाम्नो देशस्याभावः, तथापि यथा पूर्वसूत्रे धन्वविशेषग्रहणं तथेहापि सम्भाव्येत नादीपुरं नाम वाहीकेषु ग्रामः, तत्र वाहीकग्रामलक्षणौ ठञ्ञिठौ च्छस्यापवादौ, अयमपि वुञ् च्छस्यापवादः । इह त्वपवादविप्रतिषेधाद् वुञ् भवति । एवं च पातनप्रस्थकः, कौञ्जीवहक इत्यत्रापि वुञेव भवति ॥ रोपधेतोः प्राचाम् ॥ ४।२ १२३ ॥ ईकारान्ताच्चेति । ह्रस्वस्य तु ग्रहणं न भवति, तदन्तस्य प्राग्देशवाचिनोऽसम्भवात्। एकचक्र इति । एकचक्रा नाम पाग्देशे नगरी, तत्र ठेङ् प्राचां देशेऽ इति वृद्धसंज्ञा, ककन्देन निर्वृता नगरी काकंन्दी, स्त्रीषु ठ्सौवीरसाल्वप्राक्षऽ इत्यञ् । तपरकरणं विस्पष्टार्थमिति । न तु ह्रस्वप्लुतयोनिवृत्यर्थम् ; तदन्तस्य प्राग्देशवाचिनोऽसम्भवात्, ईकारस्यानण्त्वेन तयोरघणाच्च । असति तु तकारे ठ्रोपधयोःऽ इत्युच्यमाने किमत्र गृहीतमिति विस्पष्ट्ंअ न ज्ञायते । तकारे तु सति वर्णनिर्देशो निश्चीयते, तत्रैव तस्य प्रसिद्धत्वात् । ठीकाररोपधयोःऽ इति निर्देशे गौरवप्रसङ्गः ॥ जनपदतदवध्योश्च ॥ ४।२।१२४ ॥ तदवधिरपि जनपद एव गृह्यते इति । स चासाववधिरिति कर्मधारय आश्रीयते, न तु तस्यावधिस्तदवधिरिति षष्ठीसमास इत्यर्थः । तथा हि सति मौञ्जी नामावधिभूतो ग्रामः, तत्र भवो मौञ्जीय इत्यत्रापि स्यात् । कस्य पुनरसाववधिरिति चेत् ? सन्निधानाज्जनपदस्यैवेति विज्ञायते ॥ गर्तोतरपदाच्छ्ंअ बाधित्वेति । अन्यथा तु गर्तोतरपदाच्छाए भवतीत्यस्यावकाशः---वृकगर्तीयः, जनपदवुञोऽवकाशः---आङ्गकः; त्रिगर्तशब्दादुभयप्रसङ्गे परत्वाच्छः स्यात्, ततश्च गर्तोतरपदाच्छविधेर्जनपदाद् वुञ् पूर्वविप्रतिषिद्ध इति पूर्वविप्रतिषेधः पठितव्यो भवति । त्रैगर्तक इति । उतरसूत्रेण वुञ् । एतेनोतरत्र तदवधिग्रहणस्योपयोगं दर्शयति ॥ अवृद्धादपि बहुवचनविषयात् ॥ ४।२।१२५ ॥ अण्च्छयोरपवाद इति । अवृद्धादणोऽपवादो वृद्धाच्छस्य । इहावृद्धादपि बहुवचनादित्येव सिद्धम्; यौगिको बहुवचनशब्दः---बहूनामर्थानां वचनो बहुवचन इति । यदि वा बहुवचनाद्वहुवचनान्तादित्यर्थः, नार्थो विषयग्रहणेन ? तत्राह---जनपदैकशेषबहुत्व इति । जनपदस्यैकशेषवशेन यद्वहुत्वं तत्रेत्यर्थः । वर्तन्य इति । अवयवभेदेन भेदमाश्रित्य एकशेषः । नायं नित्यबहुवचनान्तः; द्व्येकयोरपि दर्शनात् । तक्रकौण्डिन्यायेनेति । पूर्वसूत्रे हि जनपदसामान्ये वृद्धाद् वुञ् विहितः, यथा---ब्राह्मणसामान्ये दधिदानम् । इह तु बहुवचनविषये विशेषेऽवृद्धाद् वुञ्, यथा---कौण्डिन्ये तक्रदानम्, ततश्च बहुवचनादपि वृद्धाद् वुञि प्राप्ते आरभ्यमाणोऽवृद्धाद् वुञ् वृद्धाद् वुञो बाधकः स्यादित्यापिशब्देन समुच्चीयत इत्यर्थः । इह बहुवचनविषयादित्येतावता सिद्धमवृद्धार्थोऽयमारम्भः । वृद्धाधिकारविच्छेदार्थं त्ववृद्धादपीति वचनम् ॥ काच्छाग्निवक्त्रगर्तोतरपदात् ॥ ४।२।१२६ ॥ कच्छशब्दार्थमुतरपदग्रहणम् । स हि केवलोऽपि कूलाख्ये देशे वर्तते, इतरेषां तु केवलानां देशवृत्यसम्भवादेव तदन्तविधिः सिद्धः । कच्छाद्यन्तादित्युच्यमाने बहुच्पूर्वादपि स्यादित्युतरपदग्रहणम् ॥ धूमादिभ्यश्च ॥ ४।२।१२७ ॥ अणाअदेरपवाद इति । अवृद्धेभ्यो धूमादिभ्योऽणोऽपवादः, वृद्धेभ्यश्च्छस्य, उदीच्यग्रामेभ्यस्त्वञः, वाहीकग्रामेभ्यष्ठञ्ञिठयोः । कूलात्सौवीरेष्विति । कौलको भवति सौवीरेषु, कौलमन्यत्र ॥ नगरात् कुत्सनप्रावीण्ययोः ॥ ४।२।१२८ ॥ केनेदं मुषितमिति प्रश्नः, इह नगरे मनुष्येणेत्युतरम् । सम्भाव्यत एतदित्यादि प्रष्टुअर्वचनम् । संज्ञानगरं पठ।ल्त इति । माहिष्मतीशब्दसाहचर्यात् संज्ञानगरं संज्ञाभूतो नगरशब्द इत्यर्थः ॥ अरण्यान्मनुष्ये ॥ ४।२।१२९ ॥ औपसंख्यानिकस्येति । ठरण्याण्णो वक्तव्यःऽ इत्युपसंख्यानप्राप्तस्य । ठ्मनुष्येऽ इत्यल्पमिदमुच्यते, इत्याह---पथ्यध्यायेति । आरण्यकोऽध्याय इति । योऽरण्येऽधीयते उपनिषद्भागः स उच्यते । विहारः उ क्रीडा ॥ विभाषा कुरुयुगन्धाराभ्याम् ॥ ४।२।१३० ॥ कुरुशब्दः कच्छादिषु पठ।ल्ते इति कथं तर्हि कुरुशब्दाद् वुञः प्राप्तिरुक्ता, ताभ्यामवृद्धादपीति नित्यं वुञि प्राप्त इति ? आद्यप्राप्त्यभिप्रायेण तदुक्तम्, न पुनर्योऽनेन विकल्पेन बाध्यते तदभिप्रायेण । येऽपि पठन्ति--वुञि सिद्ध इति, प्राप्त इत्यर्थः । यथा सिद्धे सत्यारम्भो नियमार्थ इति कुरुशब्दार्थं विभाषाग्रहणं न कर्तव्यमिति प्रतिपादयिष्यन्नाह---कुरुशब्दः कच्छादिषु पठ।ल्ति इति । ततः किमित्यत्राह---तत्रेति । किमर्तं तर्हि विभाषाग्रहणमित्याह--सैषेति । ननु युगन्धरशब्दादपि ठवृद्धादपिऽ इति नित्ये वुञि सिद्धेऽन्तरेणापि विभाषाग्रहणं पुनर्वचनाद्विकल्पो विज्ञास्यते ? नैवं शक्यम् ; विपर्ययोऽपि स्यात् । युगन्धरशब्दान्नित्यो वुञ्, ठवृद्धादपिऽ इत्यनेन तु विभाषित इति पुनरारम्भो ह्यएवमप्युपपद्यते । मनुष्यतत्स्थयोस्त्विति । एतच्च कच्छादिषु पाठसामर्थ्याल्लभ्यते, अन्यथाऽनयैव विभाषया वुञणोः सिद्धत्वातत्रास्य पाठोऽनर्थकः स्यात् ॥ मद्रवृज्योः कन् ॥ ४।२।१३१ ॥ मद्रशब्दः ठ्स्फायितञ्चिऽ इति रक्प्रत्ययान्तः, ठ्वृजी वर्जनेऽ ठिगुपधात्किःऽ इति किप्रत्ययान्तो वृजिशब्दः । जनपदवुञोऽपवाद इति । ठवृद्धादपिऽ इति ॥ कोपधादण् ॥ ४।२।१३२ ॥ किं पुनरदेशवाचिनोऽयं नेष्यते यतो देशग्रहणमनुवर्तते ? इत्यत आह---अन्यत्रेति । पूर्वेण, प्रस्थोतरपदादिसूत्रेण, एवं चोतरार्थं देशानुवृत्तिः न त्वदेशनिवृत्यर्था । नन्वदेशवाचिनः प्राग्दीव्यतीय एवाण् सिद्धः, प्रस्थोतरपदादिसूत्रं तु उदीच्यग्रामलक्षणाञो बाधनार्थम्, तत्किमुच्यते---अन्यत्र पूर्वेणैवेति, सत्यम् ; सति त्वेवमर्थे तस्यारम्भे प्रतिपदविधानातेनैव सर्वत्राण्विधिर्युक्तः, अथाण्ग्रहणं किमर्थम्, न कोपधाद्यथाविहितमित्येवोच्येत, आरम्भसामर्थ्याद्धियो विहितो न च प्राप्नोति स एव भविष्यति ? इत्यत आह---अण्ग्रहणमिति । इक्ष्वाकुशब्दाद् ठोर्देअशे ठञ्ऽ प्राप्तः, तस्मिन् जनपदवुञाबाधिते यद्यण्ग्रहणं नक्रियते पुनर्वचनाद् वुञेव स्याद्, अण्ग्रहणे त्वणेव भवति । ऐक्ष्वाक इति । दाण्डिनायनादिसूत्रेण टिलोपः, एवं चाण्ग्रहणादेवायमोर्देअशे ठञो बाधको न परत्वात् ॥ कच्छादिभ्यश्च ॥ ४।२।१३३ ॥ वुञोदेरपवाद इति । ये जनपदवाचिनो बहुवचनविषयाः, तेभ्यो वुञोऽपवादः, सिन्धुवर्णुशब्दाभ्यामोर्देअशे ठञः । साल्वशब्दः पठ।ल्ते---जनपदलक्षणो वुञ्मा भूदिति । ठपदातौ साल्वात्ऽ ठ्गोयवाग्वोश्चऽ इति नियमार्थं भविष्यति---अपदातावेव गोयवाग्वोरेवेति, वृद्धत्वाच्छः प्राप्नोति ॥ अपदातौ साल्वात् ॥ ४।२।१३५ ॥ पादाभ्यामततीति ठ्पादस्य पदाज्यातिगोपहतेषुऽ इति पदादेशः, न पदातिरपदातिः । अपदातिःउअश्वरोहादिः । अपदातावेव मनुष्ये तत्स्थे चेति । द्वन्द्वनिर्दिष्टत्वेन तत्स्थे चेत्युक्म्, न तु तत्स्थस्य पदातेः सम्भवोऽस्ति । अपदातौ साल्वादेवेत्येष तु विपरीतनियमो न भवति; ठ्गोयवाग्वोश्चऽ इत्यारम्भात् ॥ गर्तोतरपदाच्छः ॥ ४।२।१३७ ॥ वाहीकग्रामलक्षणमिति । यद्यपि ठ्वाहीकग्रामेभ्यश्चऽ इति ठञ्ञिठौ विहितौ, तथाप्युत्सृष्टानुबन्धयोस्तयोष्ठरूपाविशेषाद्वाहीकग्रामलक्षणमित्येकवचननिर्देशः । श्वाविद्गर्तीयमिति । श्वानं विध्यतीति व्यधेः क्विप्, सम्प्रसारणम्, ठ्नहिवृत्तिऽ इति दीर्घः, श्वाविधां गर्तः श्वाविद्गर्तः ॥ गहादिभ्यश्च ॥ ४।२।१३८ ॥ अणादेरपवाद इति । तत्र माहकिप्रस्थशब्दात् ठ्प्रस्थपुरबवन्ताच्चऽ इति वुञोऽपवादः, वाल्मीकिप्रभृतिभ्य इञन्तेभ्यः ठिञश्चऽ इत्यणः, शेषेभ्य औत्सर्गिकस्याणः । सम्भवापेक्षमिति । येषां देशे चादेशे च वृत्तिः सम्भवति गहादीनां तेषामेव विशेषणम्, न त्वन्तस्थपूर्वपदादीनामित्यर्थः । पृथिवीमध्यस्येति । पृथिवीमध्यवाच्येव मध्यशब्दो ग्राह्यः, न मध्यान्तरवाचीत्यर्थः । चरणसम्बन्धेन निवासलक्षणोऽणिति । चरणसम्बन्धेन योऽण्विधीयतेऽण् चरण इत्यनेन स निवासलक्षणौ द्रष्टव्यः । ठ्सोऽयं निवासःऽ इत्यज्ञैवार्थे भवतीत्यर्थः, तेन पृथिवीमध्यं निवास एषां कठादीनां चरणानामित्यत्रार्थे मध्यमा इति भवति । मुखपार्श्वतसोर्लोप इति । मुखपार्श्वशब्दयोस्तसन्तयोः प्रत्ययसन्नियोगेन लोपो भवति, स च ठलोऽन्त्यस्यऽ, तत्र कृते यस्येति लोपः, लोपवचनम्, ठव्ययानां भमात्रे टिलोपःऽ इत्यस्यानित्यत्वज्ञापनार्थम्, तेनारातीय इति सिद्धं भवति ॥ वृद्धादकेकान्तखोपधात् ॥ ४।२।१४१ ॥ आरीहणकीयम्, द्रौहणकीयमिति । ठ्तेन निर्वृतम्ऽ इत्यत्रार्थे वुञ्च्छणादिसूत्रेण यो वुञ् तदन्ताभ्यां प्रत्ययः, उदाहरणदिक्चेयमकान्तस्य दर्शिता । ठ्वृद्धाच्छःऽ इत्येव ह्यत्र चः सिद्धः, न ह्यएतौ जनपदवाचिनौ, येन कोपधादणः प्रसङ्गः स्यात् । इदं त्वत्रोदाहरणं द्रष्टव्यम्---ब्राह्मणको नाम जनपदो यत्र ब्राह्मणा आयुधजीविनः ठ्ब्राह्मणकोष्णिके संज्ञायाम्ऽ इति निपातनात् साधुः, तत्र जातो ब्राह्मणकीय इति । अकेकान्तग्रहणे कोपधग्रहणमिति । सूत्रेऽकेकान्तग्रहणमपनीय कोपधादिति वक्तव्यम्, व्यापकत्वाल्लघुत्वाच्चेत्यर्थः ॥ अन्यापलदनगरग्रामह्रदोतरपदात् ॥ ४।२।१४२ ॥ अन्तग्रहणेनैव सिद्धम्, नार्थ उतरपदग्रहणेन । न च बहुच्पूर्वे प्रसङ्गः, ठ्प्राचां देशेऽ इत्यधिकारात् ॥ विभाषाऽमनुष्ये ॥ ४।२।१४४ ॥ यद्यत्र नञः प्रश्लेषो न स्यादसन्देहार्थम् ठ्मनुष्ये विभाषा इत्येव ब्रूयात्, लाघवे विशेषाभावादिति मत्वाऽऽह---अमनुष्येऽभिधेय इति । अमनुष्यशब्दो यौगिकोऽत्र गृह्यते, न तु रक्षः पिशाचादिषु रूढ इति दर्शयत्युदाहरणेन पर्वतीयानि फलानीति ॥ कृकणपर्णाद् भारद्वाजे ॥ ४।२।१४५ ॥ न गोत्रशब्द इति । कुत इत्याह---प्रकृतिविशेषणं चैतदिति । चशब्दो हिशब्दार्थे ॥ इति श्रीहरदतमिश्रविरचितायां पदमञ्जर्यां चतुर्थस्याध्यायस्य द्वितीयः पादः -------------------॥॥॥॥॥॥॥॥॥॥।---------------------अथ चतुर्थाध्ये तृतीयः पादः ---४ पदमञ्जरी युष्मदस्मदोरन्यतरस्यां खञ्च ॥ ४।३।१ ॥ षष्ठीनिर्देश उतरार्थः । एते त्रयः प्रत्यया भवन्तीति । ननु चान्यतरस्यांग्रहणेन खञ्च्छयोः पक्षेऽनुत्पत्तिः प्रतिपाद्यते, तदनुत्पतावपवादाभावात्स्वशास्त्रेण ठ्प्राग्दीव्यतःऽ इत्यनेनैवाण् भवति, तत्कुतोऽनेन प्रत्ययत्रयस्य विधानम्, छाएऽपि तर्हि नैवानेन विधीयते, तस्यापि हि चकारोऽभ्यनुज्ञापक एव---यद्यन्योऽपि कश्चित्प्राप्नोति सोऽपि भवतीति, ततश्छाएऽपि स्वशास्त्रेण ठ्वृद्धाच्छःऽ इत्यनेनैव भवति, एक एव त्वपूर्वः खञ् विधीयते । अथ यस्य प्रवृतावस्य तात्पर्यं स सर्वोऽनेन विधीयत इति च्छस्यानेन विधानम् । यद्येवम्, अणोऽप्यनेनैव विधानम्, न खञ्च्छयोरनुत्पत्तिमात्रेऽन्यतरस्यांग्रहणस्य तात्पर्यम्, तस्य महाविभाषयैव सिद्धत्वात्, किं तर्हि ? अणः प्रवृतावपि । तस्मातात्पर्यतस्त्रय एते प्रत्यया भवन्तीत्युक्तम्, प्रत्येकं प्रत्ययत्रयं विधीयत इति च । तत्र खञ्प्रत्ययो भवतीत्यनेन खञ एवापूर्वस्य विधानमिति दर्शितम् । अन्यतरस्यांग्रहणाद्यथाप्राप्तं चेत्यनेनाणोऽभ्यनुज्ञानम् । त्यदादित्वाद्यौष्मदस्मदोश्छे प्राप्त इत्यनेनापि छ्ंअस्याभ्यनुज्ञानम् । भाष्ये तु योगविभागेन यथासंख्याभावः प्रतिपादितः---ठ्युष्मदस्मदोःऽ इत्येको योगः, अत्र ठ्गर्तोतरपदाच्छःऽ इत्यतश्छाएऽनुवर्तते; ततः ठ्खञ्चऽ इति द्वितीयो योगः ॥ तस्मिन्नणि च युष्माकास्माकौ ॥ ४।३।२ ॥ साक्षादिति । प्रत्यक्षेण विहितः, स्वरूपोपादानेन विहित इत्यर्थः । हेतुगर्भं चेदं विशेषणम्---यतः साक्षाद्विहितः ततः खञेव निर्दिश्यत इति । तस्मिन्नियुक्ते तत्रैव झटिति प्रत्ययो भवति, न चानुकृष्टश्च्छ इति । चकारो हि समीपवर्तिनः खञः सहायतामात्रमभिधाय निवर्तते । तत्र सहायस्यानिर्देशात्प्रकृतान्वेषणम्, तत्र ठ्गर्तोतरपदाच्छःऽ इति यावदन्वेषणे च्छस्य प्रतीतिश्चिरेण भवति, तेन च नासौ प्रत्यवमर्शार्हः । यदा तु यथासंख्यनिरासाय पूर्वसूत्रे योगविभागस्तदा नैव चकारेण च्छस्यानुकर्षणमिति न तस्य परामर्शशङ्का । निमितयोरित्यादि । द्वे हि निमिते---खञणौ, निमितिनावपि द्वावेव---आदेशौ, ततश्च साम्याद्यथासंख्येन भवितव्यमिति मत्वा प्रश्नः । योगविभागः करिष्यत इति । ठ्खञणोर्युष्माकास्माकौऽ इति वक्तव्ये ठ्तस्मिन्नणि चऽ इति वचनाच्चकारेण वाक्यभेदस्य सूचनादादेशयोर्निमिताभ्यां प्रत्येकमनभिसम्बन्ध इत्यर्थः ॥ तवकममकावेकवचने ॥ ४।३।३ ॥ ठ्कृत्रिमाकृत्रिमयोः कृत्रिमस्यैकवचनस्य ग्रहणम्ऽ, तस्य च कृताकृतप्रसङ्गित्वेन ठ्सुपो धातुप्रातिपदिकयोःऽ इति लुकि कृते युष्मदस्मदोरेकवचनपरता न सम्भवतीति प्रत्ययलक्षणेन समर्थयितव्या । तदपि प्रत्ययलक्षणं विघटयन्नाह---ननु चेति । वचनादिति । यदि पुनरेकवचनपरत्वेनाणाखञौ विशेष्येयाताम्, को दोषः ? इह च स्याताम्---युष्माकं छात्त्रो यौष्माकीणः, आस्माकीन इतिः, इह च न स्याताम्---तव छात्रास्तावकीनाः, मामकीना इति । तस्मात्पूर्वसूत्रे खञण्परतया विशेष्येते---युष्मदस्मदी, एकवचनपरतथापि ते एवात्र विशेष्येते, ततश्च वचनाद् आस्माकीनः---प्रत्ययलक्षणं भवतीत्येषैव गतिः । अन्वर्थग्रहणमिति । एकोऽर्थ उच्यते येन तदेकवचनम् । अत्र च पक्षे ठेकवचनेऽ इति प्रथमाद्विवचनान्तम्, न सप्तम्यन्तम् । अर्द्धाद्यत् ॥ ४।३।४ ॥ बल्यर्थं वस्तु बालेयम्, तस्यार्धमुएकदेशः, तत्र भवं बालेयार्द्धिकम् ॥ परावराधमोतमपूर्वाच्च ॥ ४।३।५ ॥ ठ्सपूर्वपदाट्ठञ् वक्तव्यःऽ इत्यौपसङ्ख्यानिके ठञि प्राप्ते वचनम् । अर्द्धादिति वर्तते इति । ततश्च परावराधमोतमेभ्यः परो योऽर्द्धशब्द इत्येवं विशेषणसामर्थ्यादेवार्द्धशब्दस्य परावरादिपूर्वता विज्ञास्यते, तत्किं पूर्वग्रहणेनेति ? एवमनन्तरोक्तस्य चोद्यस्यैवैतत्समर्थनं परिहति---परावरशब्दाविति । अस्मातु पूर्वग्रहणाद्यत्प्रत्यय एव भवतीति । पूर्वविप्रतिषेधसूचनद्वारेणेति भावः । द्विक्पूर्वपदाट्ठञ्च ॥ ४।३।६ ॥ अणोऽपवाद इति । सौत्रीं प्राप्तिमभिप्रेत्यैतदुक्तम्, ठ्सपूर्वपदाट्ठञ् वक्तव्यःऽ इत्युक्तत्वात् । पदग्रहणमित्यादि । ठ्दिक्पूर्वात्ऽ इत्युच्यमाने स्वरूपविधिः स्यात्, ततश्च दिगर्धे जात इत्यत्रेव स्यात् । पदग्रहणे तु सति---पद्यतेऽनेनेति पदम्, दिशः पदं पूर्वमस्मादिति निपातनात्समासः ॥ ग्रामजनपदैकदेशादञ्ठञौ ॥ ४।३।७ ॥ पौर्वार्द्धा इति । ग्रामस्य पूर्वस्मिन्नर्द्धे भव इति तद्धितार्थे समासः, ततः प्रत्ययः । यद्यप्यर्द्धशब्दो ग्राममपेक्षते, तथाप्यस्य नित्यसापेक्षत्वात्प्रधानत्वाच्च वृत्तिद्वयमप्यविरुद्धम्---समासवृत्तिः, तद्धितवृत्तिश्च । ठञ्ग्रहणं किमर्थम्, नाञ्चेत्येवोच्येत ? न चैवमुच्यमाने यतोऽपि समुच्चय प्रसङ्गः; पूर्वसूत्रे चानुकृष्टत्वात् । तस्माद्विस्पष्टार्थं ठञ्ग्रहणम् ॥ अ साम्प्रतिके ॥ ४।३।९ ॥ साम्प्रतिकं युक्तं न्याय्यमुचितं सममुच्यत इति । कस्यचित्कश्चित्प्रसिद्ध इत्यनेकशब्दोपादानम् । सम्प्रतिशब्द इदानीमित्यत्राअर्थे प्रसिद्धोऽपि न्याय्येऽपि वर्तते । दृश्यते हि---ठनाप्तश्चतूरात्रोऽतिरिक्तः षड्रात्रोऽथ वा एष सम्प्रति यज्ञो यत्पञ्चरात्र इतिऽ, न न्यूनो नातिरिक्तः, सम इत्यर्थः । स च प्रज्ञादौ पठ।ल्ते । तेन साम्प्रतम्, सम्प्रतीति च पर्यायौ ॥ द्वीपादनुसमुद्रं यञ् ॥ ४।३।१० ॥ अनुसमुद्रमिति । ठनुर्यत्समयाऽ इत्यव्ययीभावः । सप्तम्यन्तं चैतद्, तद् द्वीपस्य विशेषणम्, तदाह---समुद्रसमीपे यो द्वीप इति ॥ कालट्ठञ् ॥ ४।३।११ ॥ कालविशेषवाचिन इति । स्वरूपस्य च पर्यायाणां च ग्रहणं न भवति; सन्धिवेलादिसूत्रेण सन्धिवेलात्रयोदशीप्रभृतिभ्योऽवृद्धेभ्योऽण्विधानात् । तद्धि ठञो बाधनार्थः, अर्थग्रहणे च तेभ्यष्ठञः प्रसङ्गः । इह ठ्गौणमुख्ययोर्मुख्ये सम्प्रत्ययःऽ इति न्यायान्मुख्यया वृत्या ये काले वर्तन्ते मासोऽर्द्धमास इति, तत एवायं प्रत्ययः स्याद्; न तु गौणवृत्या कालवृतेः, कदम्बपुष्पसाहचर्यात्कदम्ब कालः, व्रीहिपलालसाहचर्याद् व्रीहिपलालं काल इत्यादेरित्याशङ्क्याह---यथाकथञ्चिदिति । येन केनचित्प्रकारेण । एतदेव स्पष्टयति---गुणवृत्यापीति । परत्र परशब्दप्रवृतेर्यन्निबन्धनं स गुणः, तन्निबन्धना वृत्तिर्गुणवृत्तिः । एतच्च सन्धिवेलादिसूत्रेऽनेन कालग्रहणेन नक्षत्राणि यद्विशिनष्टि ततो लभ्यते । न हि मुख्याथः कालशब्दोऽस्ति नक्षत्राणां सम्भवति । पुष्पादिसमीपस्थेन हि चन्द्रमसा योगाल्लक्षितलक्षणया पुष्पादिशब्दानां काले वृत्तिः । सैव च ठ्लुबविशेषेऽ इति लुब्विधानेनाप्यन्वाख्यायते पौषादिनिवृत्यर्थम्, न त्वेतावता कालस्तेषां मुख्योऽर्थः ॥ श्राद्धे शरदः ॥ ४।३।१२ ॥ श्राद्ध इति कर्म गृह्यते इति । श्रद्धास्मिन्विद्यत इति ठ्प्रज्ञाश्रद्धार्चाऽ इति मत्वर्थीयोऽणः, श्रद्धया सम्पाद्यं पित्र्यं कर्म श्राद्धशब्देन उच्यत इत्यर्थः । न श्रद्धावान् पुरुषं इति । यदा स एव णः षष्ठ।ल्र्थे भवति तदा पुरुषवृत्तिः श्राद्धशब्दः । कथं पुनः शब्दसाधारण्येऽप्ययं विशेषो लभ्यते ? इत्याह---अनभिधानादिति । शारदिकं श्राद्धमिति । यद्यत्र विहितं ततत्र भवमिति भवे प्रत्यययः ॥ श्वसस्तुट् च ॥ ४।३।१५ ॥ तस्य चेति । ठञः, न तु श्वः शब्दस्य । कुत एतत् ? ठञो विधेयत्वेन प्राधान्यात् । स च तुडागम इकादेशे कृते भवतीति वेदितव्यम् । ननु चान्तरङ्गत्वादिकादेशात्प्राक् ठञस्तुट् प्राप्नोति, इकादेशस्त्वङ्गधिकारे विधानादसङ्गसंज्ञायामभिनिर्वृतायां पश्चाद् भवन्बहिरङ्गः, तुटि च कृते प्रत्ययादेष्ठस्येकादेशविधानाद्यथा कर्मठ इत्यत्र न भवति एवमत्रापि न स्यात्, यदि पुनरयं तुक् पूर्वान्तः क्रियते; नैवं शक्यम्, ठिसुसुक्तान्तात्कःऽ इति कादेशः स्यात्, तस्मादस्तु परादिरेव । कथमिकादेशः ? ज्ञापकात्सिद्धम्, यदयं वुञ्च्छणाअदिषु ठचश्चित्करणं करोति, तज्ज्ञापयति---अन्तरङ्गेभ्योऽपि पूर्वमिकादेश एव भवतीति । यदि न स्यात्, प्रत्ययसंज्ञासन्नियोगशिष्टे प्रत्ययस्वरे कृते पश्चादिकादेश इति सिद्धमन्तोदातत्वं स्यात् । ट।लुट।लुलावपि भवति इति । ठ्सायंचिरम्ऽ इत्यादिना श्वः शब्दोऽव्ययम्, कालवाची चेति कृत्वा । शौवस्तिकमिति । द्वारादित्वाद् वृद्धिप्रतिषेधः, ऐजागमश्च ॥ सन्धिवेलाद्यःतुनक्षत्रेभ्योऽण् ॥ ४।३।१६ ॥ अण्ग्रहणं वृद्धाच्चस्य बाधनार्थमिति । असत्यण्ग्रहणे सन्धिवेलादिभ्यो यथाविहितमित्युच्यमाने यद्यप्यारम्भसामर्थ्यात्कालाट्ठञ् न भवति; तथापि सन्धिवेलादिषु पठितात्पौर्णमासीशब्दात्स्वात्यादेश्च वृद्धाच्छः स्याद्, वचनं तु कालाट्ठञो बाधनार्थं स्यात् । तस्मादण्ग्रहणं कर्तव्यं वृद्धाच्छस्य बाधनार्थम् । सौवातमिति । ठत सातत्यगमनेऽ सुपूर्वात् ठज्यतिभ्यां चऽ इतीण् प्रत्ययः, स्वात्या युक्तः काल इत्यण्, तस्य ठ्लुबविशेषेऽ इति लुप्, ततो भवादावर्थेऽनेनाण्, ठ्न य्वाभ्याम्ऽ इति वृद्धिप्रतिषेधः, ऐजागमश्च । जातार्थे तु ठ्श्रीविष्टाफल्गुनी, इति लुकि स्वातिरिति भवति । तैषमिति । अत्रापि जातार्थे पूर्ववल्लुका भवतव्यमिति भवादौ प्रत्ययः, ठ्तिष्यपुष्ययोर्नक्षत्राणि यलोपःऽ इति यलोपः । संवत्सरात्फलपर्वणोरिति । सांवत्सरं फलं पर्व वा, सांवत्सरिकमन्यत् ॥ प्रावृष एण्यः ॥ ४।३।१७ ॥ प्रवर्पतीति प्रावृट्, क्विपि ठ्नहिवृत्तिऽ इत्यादिना दीर्घः । प्रावृषेण्य इति । भवार्थे प्रत्ययः, जाते तु प्रावृषष्ठपं वक्ष्यति । ठ्रषाभ्याम्ऽ इत्येव सिद्धे प्रत्यये णकारोच्चारणम्---प्रावृषेण्यमाचष्टे प्रावृषेण्ययतेः क्विप्, णिलोपः, ठ्लोपो व्योर्वलिऽ इति यलोपः, प्रावृषेणित्यत्र णत्वार्थम् ; अन्यथा ठ्पदान्तस्यऽ इति प्रतिषेधः स्यात् ॥ वर्षाभ्यष्ठक् ॥ ४।३।१८ ॥ वार्षिकं वास इति । ठ्कालात्साधुपुष्प्यत्पच्यमानेषुऽ इति साध्वर्थे ठक् ॥ च्छन्दसि ठञ् ॥ ४।३।१९ ॥ नभश्च नभस्यश्च वार्षिकावृत् इति । ठ्तस्येदम्ऽ इत्यत्रार्थे प्रत्ययः, ऋतुशब्दश्च ऋत्ववयवयोर्मासयोर्वर्तते, वर्षर्तोरेतौ मासाववयवावित्यर्थः ॥ सर्वत्राण् च तलोपश्च ॥ ४।३।२२ ॥ हैमनमिति । यदा तशब्दस्य समुदायस्य लोपस्तदा ठन्ऽ इति प्रकृतिभावात् ठ्नस्तद्धितेऽ इति टिलोपो न भवति । यदा तु तकारस्यानेन लोपोऽकारस्य तु यस्येति लोपः, तदा तस्य ठसिद्धवदत्राभात्ऽ इत्यसिद्धत्वात्स्थानिवद्भावाच्च टिलोपाभावः । ननु च च्छन्दसीति नानुवर्तिष्यत इति । अस्वरितत्वात् । सैवेत्यादि । यासावस्वरितत्वादनुवृत्तिः सैव सर्वत्रेत्यनेन शब्देनाख्यायते, किमर्थम् ? इत्याह--प्रत्यत्नाधिक्येनेति । ननु च तत एवास्वरितत्वात्पूर्वसूत्रेऽपि च्छन्दसीति नानुवर्तिष्यते, तस्माद्विस्पष्टार्थमेव सर्वत्रग्रहणम् । भाषायामपि ठञं स्मरन्तीति । भाष्ये तु नैतदिष्यते, तथा हि---सूत्रमिदं प्रत्याख्यातम्, कथम् ? हेमन्तपर्यायो हेमन्शब्दोऽस्ति---ठ्हेमन्नागनीगन्ति कर्णौ, तस्मादेतौ हेमन्नशुष्यतः, तदि हेमन् प्रमीयते हेमन्तो भवतिऽ इति दर्शनात्, तत्र भाषायां देमन्-हेमन्तशब्दयोरृत्वणि हैमनं हैमन्तमिति रूपद्वयं सिद्धम्, च्छन्दसि तु हेम्नो हैमनम्, हेमन्तस्य ठ्हेमन्ताच्चऽ इति ठञि हैमन्तिकम्, ठ्सर्वे विधयश्च्छन्दसि विकल्प्यन्तेऽ इति हेमन्तशब्दादेवाणि हैमन्तमिति रूपत्रयं सिद्धमिति । सूत्रकारेण तु भाषायामेतद्वृत्तिविषयादन्यत्रर्तुवाचिनो हेमञ्च्छब्दस्य प्रयोगाभावान् नलोपो विहितः, यथाप्राप्तं च ऋत्वणिति, अनन्तरस्तु ठञ् सर्वत्रग्रहणस्य पूर्वत्रान्वयेनैव सर्वत्र सिद्धिरिति नासौ समुच्चीयते । कः पुनरनयोर्विशेष इति । न कश्चिदिति भावः त्रीणिरूपाणि भवन्तीति । पूर्वेण ठञि एकम्, अनेनाण्तलोपयोर्द्वितीयम्, ऋत्वणि यस्येति लोपे परमिति त्रीणि रूपाणि ॥ सायम्चिरम्प्राह्णेप्रगेऽव्ययेभ्यष्ट।लुट।लुलौ तुट् च ॥ ४।३।२३ ॥ इह ठ्युवोरनाकौऽ इत्यङ्गाधिकारे विहितत्वादनादेशो बहिरङ्गः, तुडागमस्तु प्रत्ययसन्नियोगेन विधानादन्तरङ्ग इति तेनैव तावद्भवितव्यम्, तत्र कृतेऽनादेशो न प्राप्नोति, किं कारणम् ? अङ्गस्य निमितं यो युस्तस्यानादेशः, तुटि त्वत्र सति त्युशब्दोऽङ्गस्य निमितं न युशब्दमात्रम्, ततश्च यथा मृत्युरित्यत्रानादेशो न भवति, तथात्रापि न स्यात् । यदि पुनरयं तुक् पूर्वान्तः क्रियते ? नैवं शक्यम् ; प्रातस्तनमित्यत्र ह्रि विसर्जनीयो न स्यात्, अपदान्तत्वात् । तस्मात्परादिरेवायं कर्तव्यः, तत्र चानादेशो न प्राप्नोति ? तत्राह---तयोश्चादिष्टयोस्तुडागमो भवतीति । आदिष्टयोरिति कृतादेशयोरित्यर्थः । एष चार्थ आदिष्टशब्दस्य अशेआद्यच्प्रत्ययान्तत्वेन लभ्यते, आदिश्यत इत्यादिष्टः, स ययोरस्ति तावादिष्टौ, तयोरादिष्टयोरिति । एतच्च ठ्घकालतनेषुऽ इति निर्देशाल्लभ्यते, न ह्यनादिष्टयोस्तुड्विधाने नतशब्द उपपद्यते । प्रातस्तनमित्यत्र वृद्धाच्छ्ंअ परत्वाद्वाधत इति नोक्तम् ; च्छस्य बाधकमपि ठञं बाधमानयोष्ट।लुट।लुलोरुत्कृष्टबलयोर्दुर्बलेन छेन सह सम्प्रधारणाभावात् । मकारान्तं पदमव्ययमिति । स्वरादिषु पठितम् । अन्तकर्मण इति । अन्तक्रियस्य, ठ्षोऽन्तकर्मणिऽ इत्यस्येत्यर्थः । यद्यप्यसाववसानमात्रवनाची, घञन्तस्तु सायशब्दो दिवसान्तवचन इति न कालाधिकारस्य बाधशङ्का । प्रत्ययसन्नियोगेनेति । अन्यत्र त्वकारान्त एव, यथा---सायाह्नः, सायतर इति । आह च---संख्याविसायपूर्वस्याह्नस्येति । एकारान्तत्वमिति । निपात्यत इत्यनुषङ्गः । यत्र सप्तम्यर्थो नास्ति---प्राह्णः सोढोऽस्येत्यादौ, तदर्थं निपातनम् । जातादिके त्वर्थे ठ्घकालतनेषुऽ इत्यलुका सिद्धम् । चिरपरुत्परारिभ्य इति । चिरशब्दस्य सूत्र उपादानात् ट।लुट।लुलावाप भवतः, न तु ठ्कियतद्वहुषु कृञोऽज्विधानात्ऽ इतिवत्सूत्रस्य बाधः । परुत् उ पूर्वस्मिन् संवत्सरे, परारि उ पूर्वतरे । प्रत्नशब्दः पुराणवचनः । अग्रपश्चाड्डिमजिति । केचिदत्रादिशब्दमपि पठन्ति---अग्रादिपश्चादिति, ते ठ्मध्यान्मःऽ इत्यत्रादेश्चेति वक्तव्यमिति न पठन्ति । डित्करणं पश्चादित्यत्र टिलोपार्थम् । ठव्ययानां भमात्रे टिलोपःऽ इत्यस्यैवायं प्रपञ्चार्थः ॥ विभाषा पूर्वाह्णापराह्णाभ्याम् ॥ ४।३।२४ ॥ सप्तम्या अलुगिति ठ्ङ्याप्प्रातिपदिकात्ऽ इत्यत्र निरणायि---सुबन्तातद्धितोत्पतिरिति, ततत्रैव द्रष्टव्यम् । यदि सुबन्तातद्धित उत्पद्यते, कथं पूर्वाह्णतन इत्यत्र भवति ? तत्राह---यदा त्विति ॥ तत्र जातः ॥ ४।३।२५ ॥ तेषामतः प्रभृत्यर्थाः समर्थविभक्तयश्च निर्दिश्यन्त इति । तदिदमुभयमनिर्देश्यम्, कथम् ? ठ्शेष इति लक्षणं चाधिकारश्चऽ इत्युक्तम्, तत्र लक्षणतया चाक्षुषं रूपमित्यादाविव जातादिष्वप्यर्थेष्वणादयः सिद्धाः, अधिकारतया च घादय इत्यर्थास्तावन्न निर्देश्याः प्रत्ययार्थेन चाभिदानस्वाभाव्येन समर्थविभक्तयोऽपि लभ्यन्ते इति तन्निर्देश्याः प्रत्ययार्थेन चाभिदानस्वाभाव्येन समर्थविभक्तयोऽपि लभ्यन्ते इति तन्निर्देशोऽपि न कर्तव्य एव । नियमार्थमिति चेन्न; अनिष्टत्वात् । तत्रैतत्स्यात्---जातादिष्वेव तद्धिता यथा स्युः, तत्रास्ते तत्र शेत इत्यादौ मा भूवन्निति जातादयोऽर्था अनुक्रम्यन्त इति ? तच्च नैवम्; अनिष्टत्वात् । अन्यत्रापि हि तद्धिता इष्यन्ते---चाक्षुषं रूपम्, श्रावणः शब्दः, चातुर्दशं रक्षः, दार्षदाः सक्तव इति । यत्र तु नेष्यन्ते, तत्रास्त इत्यादौ---तत्रानभिधानान्न भविष्यन्ति, यथा---अङ्गुल्या खनतीत्यादौ । तस्मान्नार्थो जाताद्यनुक्रमणेन । अपवादविधानार्थं तु, प्रावृषष्ठबादीनपवादाÄस्तत्र तत्रासङ्करेण वक्ष्यामीति अवश्यानुक्रमितव्या अर्थाः, तेऽन्यार्थाः सन्तो योगविभागेनाणादीनामप्यर्था निर्दिश्यन्ते । विश्पष्टार्थम्, यानि पुनरनपवादान्यर्थादर्शनानि, यथा---ठ्कृतलभ्धक्रीतकुशलाःऽ इति, तानि शक्यान्यवक्तुम् ॥ संज्ञायां शरदो वुञ् ॥ ४।३।२७ ॥ समुदायेन चेदिति । प्रकृतिप्रत्ययसमुदायश्चेत्संज्ञा भवतीत्यर्थः । कृतलब्धक्रीतकुशला इति यावदिति । यावच्छब्दोऽवधिद्योतको निपातः ॥ अमावास्याया वा ॥ ४।३।३० ॥ एकदेशविकृतस्यानन्यत्वादिति । ठमावस्यदन्यतरस्याम्ऽ इत्यत्र ठमापूर्वस्य वसेर्ण्यति पक्षे वृद्ध्यभावो निपात्यतेऽ इत्युक्तम् । ण्यति च ठत उपधायाःऽ इति सामान्येन वृद्धिविधानात्, अमावास्याशब्दस्य न्याय्यत्वादवृद्ध्युपधस्तस्यैवैकदेशविकार इति भावः । ये त्विह सूत्रे सन्धिवेलादिषु च ह्रस्वोपधमधीयते, तेषां दीर्घोपधस्य न स्यात्; अतद्विकारत्वात् ॥ अ च ॥ ४।३।३१ ॥ किमर्थो योगविभागः, न चठमावास्याया वाऽ इत्युच्येत, चकाराद्वुञ्, वावचनादुभयोरभावेऽणपि भविष्यति ? सयत्म् ; उतरत्र तु विकल्पानुवृत्तिः शङ्क्येत । योगविभागे तु सन्धिवेलाद्यणोऽभ्यनुज्ञानाय पूर्वसूत्रे वाग्रहणसामर्थ्यादस्यापि विकल्पसिद्धेरिह वाग्रहणÄ नानुवर्त्यमिति व्यवधानादुतरत्र विकल्पस्य निवृत्तिः सिद्धा भवति ॥ अणञौ च ॥ ४।३।३३ ॥ योगविभागो यथासंख्यार्थः ॥ श्रविष्ठाफल्गुन्यनुराधास्वातितिष्यपुनर्वसुहस्तविशाखाषाढाबहुलाल्लुक् ॥ ४।३।३४ ॥ कृतिकापर्यायस्य बहुलाशब्दस्यात्र द्वन्द्वैकवद्भावेन नपुंसकह्रस्वत्वेन निर्देशः, न बह्वर्थादाननिमितस्य बहुलाशब्दस्य; श्रविष्टादिभिः साहचर्यात् । चित्रेति । ठ्लुक्तद्धितलुकिऽ इति लुकि कृते पुनष्टाप् । गौरादिपाठान् ङीषिति । ठ्रेवती नक्षत्रे, रोहिणी नक्षत्रेऽ इति तत्र पठ।ल्ते, न चेमौ नक्षत्रवाचिनौ; जातार्थवृत्तित्वात् । तस्माद् ठ्गौरादिषु पिप्पल्यादयश्चऽ इति पाठातेषां चावृत्कृतत्वादत्र ङीषित्यर्थः । टानौ वक्तव्याविति । स्त्रियामित्यपेक्ष्यते, टकारो ङीबर्थः, नकारः स्वरार्थः, विधानसामर्थ्याच्चानयोर्लुग्न भवति । च्छणपि वक्तव्य इति । अत्र च ठ्स्त्रियाम्ऽ इति नापेक्ष्यते ॥ स्थानान्तगोशालखरशालाच्च ॥ ४।३।३५ ॥ गोशालेति । ठ्विभाषा सेनाऽ इति नपुंसकत्वे ह्रस्वत्वम् । तत्साहचर्यात्खरशालस्यापि नपुंसकस्य ग्रहणम्, न तु द्वन्द्वैकवद्भावेन ह्रस्वत्वम् । एकादेशस्य पूर्वं प्रत्यन्तवद्भावाल्लिङ्गविशिष्टयपरिभाषया स्त्रीलिङ्गाभ्यामपि लुग्भवत्येव । यद्यपि टाबन्तयोरपि पाठे एकदेशविकृतस्यानन्यत्वान्नपुंसकाभ्यामपि लुक् सिद्ध्यति, लाघवार्थं तु ह्रस्वस्य पाठः ॥ वत्सशालाभिजिदश्वयुवच्छतभिषजो वा ॥ ४।३।३६ ॥ वत्सशालेति । ह्रस्वान्तस्य दीर्घान्तस्य वा ग्रहणम् । बहुलग्रहणस्यैवायं प्रपञ्च इति । अश्वयुक्शतभिपक्शब्दावभिप्रेत्यैतदुक्तम् ; अन्ययोरनक्षत्रवाचित्वात् । अभिजिदिति । यद्यपि नक्षत्रमप्यस्ति---ठभिजिन्नाम नक्षत्रपुमपरिष्टादषाढानामितिऽ, मुहूर्तमप्यस्ति ॥ नक्षत्रेभ्यो बहुलम् ॥ ४।३।३७ ॥ वाग्रहणानुवृतेर्व्यवस्थितविभाषाविज्ञानाच्च लुग्व्यवस्थायां सिद्धायाम्, बहुलवचनं क्वचिदन्यदेवेत्येतदर्थम्, तेन टानौ वक्तव्यावित्यादि सिद्धं भवति । रोहिण इति । ठ्चित्रारेवतीरोहिणीयः स्त्रियामुपसङ्ख्यानम्ऽ इत्येततु स्त्रियां नियमेन लुगर्थे, न तु स्त्रियामेव लुगर्थम् । कृतलब्धक्रीतकुशलाः ॥ ४।३।३८ ॥ यद्यत्र कृतं जातमपि ततत्र भवतीति । यद्यपि जातं सर्वं कृतं न भवति, स्वयं जातस्यापि भावात् ; कृतं तु सर्वं जातं भवति, न ह्यजननस्वभावंक्रियते, यथा--व्योमेति भावः । यच्च क्रीत लब्धमपि ततत्र भवतीति । अत्रापि लब्धं सर्वं क्रीतं न भवति ; दानादिनापि लाभसम्भावात् । क्रीतं तु लब्धमेव ; क्रयस्यापि लाभहेतुत्वादित्यर्थः । तत्किमर्थं भेदेनोपादानं क्रियत इति । जातलब्धाभ्यामेव गतमिति प्रश्नः । शब्दार्थस्याभिन्नत्वादिति । परव्यापारोपहितं रूपं कृतमित्युच्यते, तद्रहितं तु जातमिति; तथा मूल्यप्रदानरूपो यः स्वीकर्तुर्व्यापारस्तदुपहितं रूपं क्रीतामत्युच्यते, तद्रहितं तु लब्धमिति । तत्र यथा---विक्लिन्न ओदनः, पक्व ओदन इति शब्दार्थाभेदः, तथात्रापीत्यर्थः । एतदेव स्पष्टयति---वस्तुमात्रेणेति । वस्तुत इत्यर्थः । एतदुक्तं भवति---क्रीतं वस्तुतो लब्धं भवतीत्येतावत्, शब्देन तु रूपान्तरमभिधीयते । एवं कृतमपि वस्तृतो जातं भवति, शब्देन तु रूपान्तरमभिधीयत इति द्रष्टव्यम् । उपसंहरति---शब्दार्थस्तुभिद्यत एवेति । तत्राक्रियमाणे कृक्रीतयोरुपादाने यथा---क्वायं घटः कृतः, क्रीतो वा इति पृष्टे स्रुघ्ने जातो लब्ध इति चोतरं नं प्रयुज्यते; तथा तद्धितोऽपि न स्यात्। तस्मात्कृतक्रीतयोस्तद्धितेनाभिधानाय भेदेनोपादानमिति ॥ प्रायभवः ॥ ४।३।३९ ॥ प्रायेण भवः, ठ्कर्तृकरणे कृता बहुलम्ऽ इति समासः । तत्र भवेन कृतत्वादिति । यत्प्रायभव इत्यस्य साध्यम्, तस्य ठ्तत्र भवःऽ इत्यनेनैव साधितत्वादित्यर्थः । यो हि राष्ट्रे प्रायेण भवति तत्रैवासो भवतीति ठ्तत्र भवःऽ इत्येव सिद्धम् । शङ्कते---अनित्यभवः प्रायभव इति चेदिति । यस्तत्र कदाचिद्भवति कदाचिन्न स प्रायभवः, यस्य तु नियत आधाराधेयभावः स ठ्तत्र भवःऽ इति पृथगुपादानसामर्थ्याद्भेद आश्रीयत इति यद्यौच्येतेत्यर्थः । निराकरोति---मुक्तसंशयेन तुल्यमिति । यं भवान्मुक्तसंशयं न्याय्यं तत्रभव उदाहरणं मन्यते---स्रौघ्नो देवदत इति, तेनैव तुल्यम्, सोऽपि हि कदाचितस्मादुदक्देशादभिनिष्क्रामति । तत्र चेद्यौक्ता तत्र भवता, इहापि युक्ता दृश्यताम् । अथैतदपि प्रायभवस्योदाहरणम्---स्रौघ्नो देवदत इति । तत्रभवनस्य किमुदाहरणम् ? तत्र नित्यभवः स्रौघ्नः प्राकार इति । यद्येवम्, ठ्तत्र भवःऽ इति प्रकृत्य जिह्वामूलाङ्गुलेश्छाए विधीयते स तस्मिन्दृष्टापचारे न स्यात्, दृश्यते च-- वानरोऽहं महाभागे दूतो रामस्य धर्मतः । रामनामाङ्कितं चेदं पश्य देव्यङ्गुलीयकम् ॥ इति । तस्मातत्रभवे सामान्ये प्रायभवस्य विशेषस्यान्तर्भावादनर्थकं प्रायग्रहणम् ? इदं तर्हि प्रयोजनम्---ठुपजानूपकर्णोपनीवेष्ठक्ऽ प्रायभवे यथा स्यान्नित्यभवे मा भूत्---उपजानु भवं गड्विति । अथेदानीं जानुसमीपस्थशरीरावययववाचिन उपजानुशब्दातत्र भव इति प्रकृत्य ठ्शरीरावयवाद्यत्ऽ इति यत्कस्मान्न भवति ? अनभिधानात् । ठगपि तर्ह्यनबिधानादेव न भविष्यति ? तदेवं स्थितम्---एतत्प्रायग्रहणमनर्थकम्, तत्र भवेन कृतत्वादिति ॥ उपाजानूपकर्णोपनीवेष्ठक् ॥ ४।३।४० ॥ उपजान्वादयः सामीप्येऽव्ययीभावाः, समाहारद्वन्द्वस्य सौत्रः पुंल्लिङ्गनिर्देशः ॥ सम्भूते ॥ ४।३।४१ ॥ अवक्लृप्तिः प्रमाणनतिरेकश्चेति । सकृत्प्रयुक्तस्याप्यनेकार्थत्वमविरुद्धम्, तन्त्राद्याश्रयणाअदिति भावः । तत्रावक्लृप्तिः उ सम्भावना, इदमेवं भवेदिति बुद्धिः; प्रमाणानतिरेकः उ आधारपरिमाणादाधेयपरिमाणास्यानतिरेकता, यस्यां सत्यां सर्वमाधेयमाधारेऽनुप्रविशति । स्रौघ्न इति । देवदत इदानीं स्रुघ्ने सम्भाव्यत इत्यर्थः, स्रुघ्नप्रमाणाद्वाऽनतिरिच्यते सेनादिकोऽर्थ इत्यर्थः ॥ कोशाड् ढञ् ॥ ४।३।४२ ॥ कौशीयं वस्त्रमिति । ननु च न वस्त्रं कोशे सम्भवति, वस्त्रदायां तत्कारणस्य कोशस्य परावृतत्वात्, न च कोशान्तरे वस्त्रस्य सम्भवः, न च तत्रेष्यते, तस्माद्विकारे कोशाड्ढञ् सम्भूते ह्यर्थानुपपतिरिति वार्तिकमेव शरणम् । ठ्तस्य विकारःऽ इत्यत्र प्रकरणे ठेण्या ढञ्ऽ इत्यस्यानन्तरम् ठ्कोशाच्चेति वक्तव्यम्ऽ इत्यर्थः । अर्थानुपपतिरिति । कौशेयशब्दस्य योऽर्थो लौकिकः सूत्रवस्त्रलक्षणस्तस्यानुपपतिः स्यात्, लौकिकोऽर्थः शास्त्रेण नानुसृतः स्यात् । कृमिरेव त्वभिधेयः प्राप्नोति स हि कोशे सम्भवति । किञ्चाविशेषाभिधानात्खङ्गकोशादपि प्रत्ययः प्रसज्येत, इत्यत आह---रूढिरेषेति । रूढिशब्देषु नावश्यमवयवार्थोऽन्वेष्यः, यथा तैलपायिकादिष्विति मन्यते । सूत्रकारेण तु सत्कार्यवलादाश्रयेण सम्भूते प्रत्ययो विहितः, तत्र हि कारणदशायामपि कार्यस्य सत्वात् तत्र तत्सम्भवति तदनुपपन्नम् । कार्यकारणयोर्हि तादात्म्यमभिसम्बन्धः, न त्वाधाराधेयभावः ॥ कालात्साधुपुष्यत्पच्यमानेषु ॥ ४।३।४३ ॥ कालविशेषवाचिभ्य इति । स्वरूपग्रहणं तु न भवति; उतरत्राश्वयुज्यादीनामनेन कालशब्देन विशेषणात् ॥ उप्ते च ॥ ४।३।४४ ॥ सूत्रे भूतकालस्याविवक्षां दर्सयति । हेमन्ते उप्यन्ते इति । योगविभाग उतरार्थ इति । उतरयोगयोरुक्त एव प्रत्ययो यथा स्यात्, साध्वादिषु मा भूत् ॥ आश्वयुज्या वुञ् ॥ ४।३।४५ ॥ वुञो ञकारः स्वरार्थः, उतरत्र वृद्ध्यर्थश्च, अश्वयुग्भ्यां युक्तेति पाठः, अश्वयुजोद्वित्वात् ठ्नमोऽश्विभ्यामश्वयुग्भ्याम्ऽ इति दर्शनात् । अश्विनीपर्याय इति पाठः । ठ्तारा अश्वयुगश्विनीऽ इत्यमरसिहः । अश्वनीपर्यायैति प्रसिद्धः पाठः, तत्राशुपूर्वादनेरौणादिक इन्प्रत्ययः, पृषोदरादित्वादादेर्ह्रस्वः ॥ कलाप्यश्वत्थव्यवबुसाद् वुन् ॥ ४।३।४८ ॥ मयूरादिषु प्रसिद्धानां कलाप्यादीनां शब्दानां काले वृत्तिर्न सम्भवति, तत्कथम् ठ्कालविशेषविचिभ्यःऽ इत्युक्तम् ? अत आह---कलाप्यादयः शब्दा इति । अश्वत्थेन वृक्षेण कालस्य सम्बन्धोऽव्यबिचारादविशेषणमिति ठ्फले लुक्ऽ इति लुगन्तोऽश्वत्थशब्द इत्याह---यस्मिन्नश्वत्थाः फलन्तीति । अपकृष्टे यवो यवबुसं जात्यन्तरं वा यवादिवत्, यवानामेव वा बुसं यवबुसम् ॥ ग्रीष्मावरसमाद्वुञ् ॥ ४।३।४९ ॥ अवरसममिति विशेषणसमासः । न चावरशब्दो दिग्वाची, येन ठ्दिक्सङ्ख्ये संज्ञायाम्ऽ इति नियमात्समासो न स्यात् । आवरसमकमिति । आगामिनां संवत्सराणामाद्यवत्सरे देयमित्यर्थः । अपर आह---अतीते वत्सरे देयं यदद्यापि न दतं तदावरसमकमिति ॥ संवत्सराग्रहायणीभ्यां ठञ्च ॥ ४।३।५० ॥ वेति वक्तव्ये इति । वुञि विकल्पिते पक्षे यथा प्राप्तष्ठञेव भविष्यतीति मन्यते । ठञ्ग्रहणमित्यादि । असति ठञ्ग्रहणे सन्धिवेलादिषु ठ्संवत्सरात्फलपर्वणोःऽ इति पाठात्फले ऋणत्वेन विवक्षिते वुञा मुक्तेऽणेत स्यात्, ठञ्ग्रहणातु ठञेव भवति ॥ व्याहरति मृगः ॥ ४।३।५१ ॥ व्याहरति उ शब्दायते ॥ तदस्य सोढम् ॥ ४।३।५२ ॥ अस्येति । नेयं सोढापेक्षया कर्त्रि षष्ठी, ठ्न लोकाव्ययऽ इति प्रतिषेधात्, किं तर्हि ? कर्तुरेव सम्बन्धित्वमात्रविवक्षया शेषलक्षणा षष्ठी । निशासहचरितमध्ययनमिति । कालस्य स्वरूपेणासोढत्वातत्सहचरितवृतेरत्र सूत्रे ग्रहणमिति दर्शयति ॥ तत्र भवः ॥ ४।३।५३ ॥ कालादिति निवृतमिति । ठ्तत्र जातःऽ इति प्रकृतं तत्रग्रहणं कालाधिकारेण सम्बद्धमिति तदनुवृतौ तस्याप्यनुवृत्तिः स्यादिति पुनरिह तत्रग्रहणं कृतम् ठ्सप्तम्यर्थमात्रं यथा गृह्यएत कालसम्बन्धविशिष्टः सप्तम्यर्थो मा ग्राहिऽ इत्यवमर्थमिति भावः । ननु च प्रकृतं तत्रग्रहणं पूर्वसूत्रे तदिति प्रथमया समर्थविभक्त्या व्यवहितम् ? नेत्याह, शक्यं हि तदन्यत्रापि पठितुम् ॥ दिगादिभ्यो यत् ॥ ४।३।५४ ॥ सेनामुख्यमिति । यदन्तस्य सेनाशब्देन षष्ठीसमासः, न तु सेनामुख्यशब्दात्प्रत्ययः; तदन्तविध्यभावात् ॥ शरीरावयवाच्च ॥ ४।३।५५ ॥ शरीरं प्राणिकाय इति । ठ्व्याकरणस्य शरीरम्ऽ इत्यादिकस्तु प्रयोगो गौणः । अणोऽपवाद इति । वृद्धातु छ्ंअ परत्वाद्वाधते, पादे भवं पद्यम्, ठ्पद्यत्यतदर्थेऽ इति पद्भावः । नासिकायां भवं नस्यम्, ठ्नस नासिकाया यतस्क्षुद्रेषुऽ इति नस्भावः । कथम् ठ्वेगो जङ्घोरस्यःऽ इति ? कथं च न स्यात्, न शरीरावयवसमुदायः शरीरावयवग्रहणेन गृह्यते । न च तदन्तविधिरस्ति ? निरङ्कशाः कवयः ॥ दृतिकुक्षिकलशिवस्त्यस्त्यहेर्ढञ् ॥ ४।३।५६ ॥ दृतिश्चर्मविकारः, शरीरावयवश्च । कुक्षिशब्दो धूमादिः, वस्तिर्नाभेरधः शरीरावयवः । आहेयम् विषादि । अस्तिशब्दः प्रातिपदिकमिति । विभक्तिप्रतिरूपं निपातसंज्ञकम्, तच्च तिङ्न्तेन समानार्थम्---अस्तिक्षीरा गौरिति, धनवचनं च अस्तिमानिति ॥ ग्रीवाभ्योऽण्च ॥ ४।३।५७ ॥ धमनीवचन इति । धमनीसङ्घातवचन इत्यर्थः । स च यदोद्भूतावयवभेदे सङ्घाते वर्तते तदा बहुवचनम्, यदा तु तिरोहितावयवभेदे सङ्घाते वर्तते तदैकवचनान्तः प्रयोगः ॥ गम्भीराञ्ञ्यः ॥ ४।३।५८ ॥ बदिर्देअवपञ्चजनेभ्यश्चेति वक्तव्यमिति । ठ्प्राग्दीव्यतःऽ इत्यत्रोक्तम्---ठ्देवस्य यञञौ, बहिषष्टिलोपश्चऽ इति । तच्चावश्यं वक्तव्यम्---अर्थान्तरेष्वपि यथा स्यादिति । तस्यैव प्रपञ्चार्थम्, इह तु बहिर्देअवयोर्ग्रहणम् ॥ अव्ययीभावाच्च ॥ ४।३।५९ ॥ किं तहिं परिमुखादेरिति । कथं पुनः सामान्योक्तावयं विशेषो लभ्यत इत्याह---परिमुखादीनां चेति । चशब्दो हेतौ । दिगादेरनन्तरं परिमुखादिगणः पठ।ल्ते, तस्य नान्यत्प्रयोजनं सम्भवति अव्ययीभावग्रहणस्य, परिमुखादिविशेषणतयाऽन्वयसम्भवात्, तस्मात्परिमुखादेरेव भविष्यति, न सर्वस्मादव्ययीभावात् । यद्येवम्, परिमुखादेरित्येव वक्तव्यमत आह---तेषामेवेति । ठ्परिमुखादेःऽ इत्युच्यमाने बहुव्रीहितत्पुरुषेभ्योऽपि ञ्यप्रत्ययः स्यात्, अव्ययीभावग्रहणातु तेभ्योऽणेव भवति । उतरार्थं चावश्यमव्ययीभावग्रहणं कर्तव्यम्, तत्र ये परिपूर्वास्तत्र यदि वर्जनं गम्यते ततः ठपपरिबहिरञ्चवः । पञ्चम्याऽ इत्यव्ययीभावः । अथ सर्वतो भावः, ततोऽस्मादेव निपातनादव्ययीभावः । उपपूर्वेषु सामीप्येऽनुपूर्वेषु ठनुर्यत्समयाऽ ठ्यस्य चायामःऽ ठ्पश्चादर्थे यदव्ययम्ऽ इति च यथाभिधानं समासः ॥ अन्तः पूर्वदाट्ठञ् ॥ ४।३।६० ॥ आध्यात्मिकमिति । ठनश्चऽ इति टच् समासान्तः । आधिविदैकम्, आधिभौतिकमिति । अनुशतिकादित्वादुभयपदवृद्धिः । अध्यात्मादिराकृतिगण इति । एवं च समानशब्दादित्यादिरस्यैव प्रपञ्चः । ऊर्ध्वशब्देन समानार्थ ऊर्ध्वंशब्द इति । स चैतद्वृत्तिविषय एव । अपर आह---ठ्ठञ्सन्नियोगेन दम शब्द उतरे ऊर्ध्वशब्दस्यैव मान्तत्वं निपात्यतेऽ इति । ऊर्ध्वदेहाच्चेति । नात्र मान्तत्वम् । ऐहलौकिकमिति । पूर्ववदुभयपदवृद्धिः । मुखतीयम्, पार्श्वतीयमिति । मुख-पार्श्व-शब्दाभ्यां सप्तम्यान्ताभ्यामाद्यादित्वातसिः, तत ईयः, अव्ययत्वाट्टिलोपः । अयं गहादिपाठस्यैव प्रपञ्चः । एतेन परं व्याख्यातम् । मण्मीयाविति । गहादिषु ठ्मध्यमध्यमं चाण् चरणेऽ इति यत्पठितं तत्र ठ्पृथिवीमध्यवाची मध्यशब्दो गृह्यतेऽ इत्युक्तम्, भवार्थे तु ततोऽन्यत्रापि मध्यमीयमिति यता स्यादिति मीयप्रत्ययवचनम् । जातादिषु पृथिवीमध्यवाचिन एव मध्यमीय इति भवति, न मध्यान्तरवाचिनः । तथा गहादिपाठेन पृथिवीमध्यं निवासा एषामित्यस्मिन्नेवार्थे माध्यमा इति सिध्यति, मध्यान्तरवाचिनो भवार्थेऽपि यथा स्यादिति मण् प्रत्यय उक्तः । मध्यो मध्यंदिनण् चास्मादिति । मध्यशब्दो मध्यभावमापद्यते दिनण्चास्मात् प्रत्ययो भवतीत्यर्थः । स्थाम्न इति । स्थामन्शब्दान्तादित्यर्थः । अश्वत्थामेति । अश्वस्येव स्थाम बलमस्येति बहुव्रीहिः, पृषोदरादित्वात्सकारस्य तकारः, ततो भवार्थे ठ्स्थाम्नोऽकारःऽ इत्यकारः तस्मानेन लुक् । वृकाजिन इति । अणो लुक् । समानस्य तदादेश्चेति । आनन्तर्यत्वलक्षणा षष्ठी । अध्यात्मादिष्विति । विषयसप्तमी उर्ध्वन्दामाच्च देहाच्चेति । ऊर्ध्वंशब्दाद्दमशब्दान्ताच्चेत्यर्थः । ऊर्ध्वपूर्वादेव च देहान्तादिष्यते । उक्तं हि प्राक् ठुर्ध्वदेहाच्च, और्ध्वदेहिकम्ऽ इति । स्थाम्नो लुगजिनातथेति । पाठे उभयत्रापि तदन्तविधिः ॥ अशब्दे यत्खावन्यतरस्याम् ॥ ४।३।६४ ॥ वासुदेववर्गीय इति । ठ्वृद्धाच्छःऽ इत्यस्य परत्वाद्यत्खौ बाधकाविति वृद्धादप्यनेन च्छ एषितव्यः ॥ तस्य व्याख्यान इति च व्याख्यातव्यनाम्नः ॥ ४।३।६६ ॥ तस्येति षष्ठीसमर्थादिति । ननु चाधिकारार्थोऽयमिति वक्ष्यति, भव्याख्यानयोर्युगपदधिकारोऽपवादविधानार्थः, कृतनिर्देशौ हि ताविति, तत्किमित्यत्र यथाविहितविधानार्थत्वं व्याख्यायते ? उच्यते---तात्पर्यतोऽपवादविधानायाधिकारस्यानुषङ्गिकेऽणादिविधानार्थत्वे को दोष इति मन्यते, अगतिकगतिर्हि विशेषविवक्षायां सामान्याश्रयः प्रत्ययः । अत एव ठ्कृतलब्धक्रीतकुशलाःऽ इत्यादीन्यनपवादान्यर्थादेशनानि भवन्ति । तत्र भवेचेति । अयमनुवादः; एतस्मिन्नेव विशेषे ठ्तत्र भवःऽ इति विहितत्वात् । ननु च व्याख्यानस्य प्रत्ययार्थस्य समीपे श्रूयमाणश्चशब्दस्तत्समानजातीयस्यैव प्रत्ययार्थस्य समुच्चयं करोति, न समर्थविभक्तेः; यथा ठ्केदाराद्यञ्चऽ इति प्रत्ययसमीपवर्तिना प्रत्यय एव समुच्चीयते, न प्रकृतिः; ठ्ठञ्कवचिनश्चऽ इति प्रकृतेरेव न प्रत्ययः; ततश्चेह तस्येत्युपादानाद्भवार्थेऽपि षष्ठीसमर्थादेव प्रत्ययो युक्तः, तत्राह---वाक्यार्थसमीपे इति । इहेतिकरणः क्रियते---प्रकृतं वाक्यार्थं प्रत्यवमर्शामीति । प्रत्यवमर्शस्य च प्रयोजनम्---नतुल्यजातीयस्यैव समुच्चयो यथा स्यादित्येतदेवेति भावः । एतमेव च न्यायं निरूपयितुं पूर्वम् ठ्तत्र भवे चऽ इत्यनुवादः कृतः । व्याख्यातव्यनाग्न इति किमिति । व्याक्यानशब्दस्य सम्बन्धिशब्दत्वाद्यप्रतिव्याख्यानं तदेव तस्येत्यनेन निर्दिष्टमिति गम्यत इति मत्वा प्रश्नः । पाटलिपुत्रं सुकोशलया व्याख्यायत इति नेयं कर्तरि तृतीया, किं तर्हि ? करणे सुकोशलया करणभूतया पुरुषैर्व्याख्यायत इत्यर्थः । कथमित्याह---एवंसन्निवेशमिति । तादृशो हि पाटलिपुत्रे प्राकारादिसन्निवेशो यादृशः सुकोशलायाम्, तेन तया तद्व्याख्यायते । यद्येवम्, तस्य व्याख्यातव्यस्य पाटलिपुत्रशब्दो नामापि भवति, तत्कथं प्रत्युदाहरणम् ? अत आह---न त्विति । यदिह व्याख्यातव्यमभिप्रेतम्, न तस्य नाम भवतीत्यर्थः । किं पुनरिहाभिप्रेतम् ? यद्व्याख्यातव्यतया लोके प्रसिद्धं ग्रन्थात्मकम्, एतदर्थमेव हि व्याख्यातव्यनामग्रहणं कृतम्, व्याख्यातव्यमात्रस्य व्याख्यानशब्दस्य सम्बन्धिशब्दत्वेनैवाक्षेपसिद्धेः । ननु च भवार्थमेतत्स्यात्, न हि तत्राक्षेपतो व्याख्यातव्यस्य लाभः ? एवं तर्हि नामग्रहणं प्रसिद्ध्युपसंग्रहार्थं भविष्यति । भवव्याख्यानयोरिति । नात्रायमर्थः---योऽयं भवव्याख्यानयोर्युगपदधिकारः सोऽपवादविधानार्थ इति; पूर्वमधिकारत्वस्याव्याख्यातत्वात् । तस्माद्भवव्याख्यानयोर्युगपदधिकारोऽयं न त्वणादीनामर्थनिर्देश इत्यर्थः । किमर्थोऽधिकारस्तत्राह---अपवादविधानार्थ इति । अणादीनां चायमर्थनिर्देशः कस्मान्न भवति ? तत्राह---कृतनिर्देशौ हि ताविति । एकः ठ्तत्र भवःऽ इति, अपरः ठ्तस्येदम्ऽ---इत्येवं कृतनिर्देशौ हि तावर्थौ । तस्मातदर्थमेतन्न भवति । पूर्वं त्वधिकारार्थतयावश्यकर्तव्यस्यानुषङ्गिकमर्थनिर्देशार्थमिदमिति व्याख्यातम् ॥ बह्वचोऽन्तोदाताट्ठञ् ॥ ४।३।६७ ॥ अमोऽपवाद इति । वृद्धाच्छ्ंअ तु परत्वाद्वाधते । सामस्तं नाम शास्त्रं तस्य व्याख्यानं सामस्तिकम् । षत्वादिविधायकं शास्त्रं षत्वादिशब्देनोच्यते । नतः उ अनुदातः, अनतः उ उदातः । अन्तोदाताः प्रकृतय इति । उदाहृतयोर्द्वित्वेऽप्येवञ्जातीयापरप्रकृत्यपेक्षं बहुवचनम्, ताश्च कुत्वरुत्वादयः । गतिस्वरेणेति । ठ्गतिरनन्तरःऽ इत्यनेन । उदात इति वर्णग्रहणम्, तेन सिद्धस्तदन्तविधिः, यथा ठ्वरादनुदताद्ऽ इत्यत्र । तस्मादन्तग्रहणं विस्पष्टार्थम् ॥ क्रतुयज्ञेभ्यश्च ॥ ४।३।६८ ॥ अग्निष्टोमाद्यर्थेषु मन्त्रब्रह्मणकल्पेषु वर्तमाना अग्निष्टोमादिशब्दा इहोदाहरणम् । अनन्तोदातार्थ आरम्भ इति । तत्र राजसूय---वाजपेयशब्दौ कृदुतरपदप्रकृतिस्वरेण मध्योदातौ, राजा सूयते, राज्ञा वेह सूयते, वयप्; तत एव निपातनात्समासः, षष्ठीसमासो वा । पीयतेऽस्मिन्निति पेयः ठ्कृत्यल्युटो बहुलम्ऽ इत्यधिकरणे यत्; वाजो यवागूभेदः, तस्य पेयः पायो वाजपेय इति । स्तुतिःउस्तोमः, अग्नेस्तोमोऽस्मिन्निति बहुव्रीहिः, ठ्परादिश्च परान्तश्चऽ इत्यन्तोदातः । नवैर्व्रीहिभिर्यजनं नवयज्ञःउ आग्रयणम्, ठ्कर्तृकरणे कृता बहुलम्ऽ इति समासः, ठ्कृदुतरपदप्रकृतिभावेन नङ् एव स्वरोऽवतिष्ठतेऽ इत्यन्तोदातः । अल्प पर्यायः पाकशब्दः, पाकश्चासौ यज्ञश्च पाकयज्ञः, समासस्वरेणान्तोदातः । सत्यन्यार्थ एतस्यारम्भे, अन्तोदातादपि यज्ञाभिधायिनः परत्वादनेनैव ठञ्प्रत्ययो युक्त इत्यन्तोदातानामुपन्यासः । क्रतुभ्य इत्येव सिद्ध इति । क्रतुयज्ञयोः पर्यायत्वादिति भावः । असोमयागेभ्योऽपीति । अन्यथा क्रतुशब्दस्य सोमयागे रूढत्वादन्यत्र न स्यात्, यज्ञग्रहणातु तेभ्योऽपि भवति । एवं केवलयज्ञग्रहणेऽपि स एव दोषो यः केवलकतुग्रहणे, तस्माद् गौणमुख्यपरिग्रहार्थमुभयोरुपादानम् ॥ अध्यायेष्वेवर्षेः ॥ ४।३।६९ ॥ अषिशब्दाः प्रवरनामधेयानीति । होत्राध्वर्युणा च प्रव्रियन्त इति प्रवराः उ भृग्वादयः, तद्यथा भार्गवच्यावनाप्रवानौर्वजामदग्नेति होता, जमदग्निवदुर्ववदप्रवानवच्च्यवनवद्भृगुवदित्यध्वर्युः । एतेन यद्यपि मन्त्रदर्शिष्वृपिशब्दः प्रसिद्धः, तथापि प्रवराद्यायपठितानामे ग्रहणमिति दर्शयति । वसिष्ठस्य व्याख्यान इति । वसिष्ठेन दृष्टो मन्त्र उपचाराद् वसिष्ठ इत्युक्तः । वासिष्ठी ऋगिति भवार्थेऽण्, एवकारः सर्ववाक्यानां सावधारणत्वज्ञापनार्थः ॥ पौरोडाशपुरोडाशात्ष्ठन् ॥ ४।३।७० ॥ पुरोडाशाः पिष्टपिण्डा इति । ठ्दाश्रृ दानेऽ कर्मणि घञ्, पुरो दाश्यन्ते दीयन्त इति पुरोडाशाः, पृषोदरादित्वात्समासः, दकारस्य च डकारः, एतेनैतदाह---आकृतिवचनः पुरोडाशशब्दः, न यूपाहवनीयादिवददृष्टनिमित इति । तेषां संस्कारको मन्त्र इति । ठ्मखस्य शिरोऽसिऽ इत्येवमादिः । पुरोडाशसहचरितो मन्त्रः पुरोडाश इति । मन्त्र एव हि व्याख्यातव्यो न पुरोडाशः ॥ च्छन्दसो यदणौ ॥ ४।३।७१ ॥ अत्र भवव्याख्यानौ द्वावर्थौ, यदणौ प्रत्ययावपि द्वावेव, तथापि यथासंख्यं न भवति; ठ्तस्य व्याख्यानेऽ इति यदणौ भवतः, ठ्तत्र भवःऽ इति चेत्येवं समुच्चयात् । द्व्यच इति ठकि प्राप्त इति । उतरसूत्रे द्व्यज्ग्रहणेन ठकि प्राप्त इत्यर्थः ॥ द्व्यजदब्राह्मणर्कप्रथमाध्वरपुरश्चरणनामाख्याताट् ठक् ॥ ४।३।७२ ॥ अणादेरपवाद इति । आदिशब्देन ठञः । तत्र ऋक्च्छब्धे द्व्यक्षु चाणोऽपवादः, पुरश्चरणशब्दोऽपि ल्युडन्तः कृदुतरपदप्रकृतिस्वरेण मध्योदातः । असिप्रत्ययो हि सप्तम्यन्तादुत्पद्यत इति पुरः शब्दः कारकम्, ठ्पुरोऽव्ययम्ऽ इति वा गतिः । तेन तस्मादप्यण एवापवादः । ब्राह्मणादिष्वन्तोदातेषु ठञोऽपवादः, ऋकारान्तेष्वप्यणोऽपवादः । ये तु तत्र बह्वचोऽन्तोदातास्तेषु परत्वादयं ठञं बाधते । नामाख्यातग्रहणं सङ्घातविगृहीतार्थमिति । आख्यातार्थं विगृहीतग्रहणम्, नामशब्दातु द्व्यच्त्वादेव सिद्धम् ॥ अणृगयनादिभ्यः ॥ ४।३।७३ ॥ ठञादेरिति । आदिशब्देन ठकः च्छस्य च ग्रहणम् । तत्र विद्यान्यायशिक्षाशब्देभ्यो द्व्यज्लक्षणस्य ठकोऽपवादः, व्याकरणशब्दाद् वृद्धाच्छस्य, शेषा बह्वचोऽन्तोदाताः, तेष्वञः । अथाण्ग्रहणं किमर्थम्, न ऋगयनादिभ्यो यथाविहितमेवोच्येत, वचनप्रामाण्याद्यो विहितो न च प्राप्नोति अन्येन बाधितत्वात्, स एवाण् भविष्यति ? अत आह--अण्ग्रहणमिति । असत्यण्ग्रहणे यद् वृद्धमन्तोदातं बह्वच, यथा---बास्तुविद्येति, तस्माद् वृद्धाच्छे ठञा बाधिते पुनर्वचनाच्छ एव स्याद्, अण्ग्रहणात्वणेव भवति । ऋगयनमिति । ठ्पूर्वपदात्संज्ञायामगःऽ इति णत्वं न भवति, ठगःऽ इति प्रतिषेधात् । अयनशब्दश्च भावसाधनोऽभेदोपचाराद् ग्रन्थे वर्तते, ठनो भाव कर्मवचनेऽ इत्यन्तोदातः । पदव्याख्यानशब्दः ठ्मन्क्तिन्व्याख्यानऽ इत्यन्तोदातः । च्छन्दोमानशब्द ऋगयनशब्देन व्याख्यातः । च्छन्दो भावेति कृत्स्वरेणान्तोदातः । छन्दोविचितिशब्दो मन्क्तिन्नित्यन्तोदातः । पुनरुक्तशब्दस्थाथादिस्वरेण । निरुक्तशब्दः ठ्संज्ञायामनाचितादीनाम्ऽ इति । निगमशब्दो गोचरादिसूत्रे घान्तो निपातितोऽन्तोदातः । वास्तुविद्या, क्षत्रविद्या, अङ्गविद्येति समासस्वरेण । उत्पातोत्पादशब्दौ थाथादिस्वरेण । अशेः सरन्, वसेः सम्पूर्वाच्चिदिति संवत्सरशब्दोऽन्तोदातः । मुहूर्तनिमितशब्दौ प्रातिपदिकस्वरेण । उपनिपूर्वात्सदेः क्विप्, उपनिषच्छब्दः कृत्स्वरेणान्तोदातः ॥ तत आगतः ॥ ४।३।७४ ॥ तत इति मुख्यं यदपादानं विवक्षितं तदिह गृह्यत इति । मुख्यत्वादेव । अपादानसंज्ञा तु नान्तरीयकस्यापि भवति, कारकप्रकरणे हि गौणमुख्यविबागो नाश्रीयते ॥ ठगायस्थानेभ्यः ॥ ४।३।७५ ॥ आय इति स्वामिग्राह्यए भाग इति । एत्येनं स्वामी, स्वामिनां वाऽयमेतीति कृत्वा ॥ शुण्डिकादिभ्योऽण् ॥ ४।३।७६ ॥ आयस्थानठकोऽपवाद इति । उपलक्षणमेतत् । कृकणशब्दात् ठ्कृकणपर्णाद्भारद्वाजेऽ इति च्छस्याप्यपवादः । तीर्थशब्दाद् धूमादिलक्षस्य वुञोऽप्यपवादः । उदपानशब्दादुत्साद्यञोऽप्यपवादः । अथाण्ग्रहणं किमर्थं न शिण्डिकादिभ्यो यथाविहितमेवोच्येत, वचनसामर्ध्याद्धि, यो विहितो न च प्राप्नोति अन्येन बाधितत्वात्, स एवाण् भविष्यति ? अत आह---अण्ग्रहणमिति । उदपानशब्द इह पठ।ल्ते, स चोत्सादिः तत्रासत्यण्ग्रहणे आयस्थानठकंबाधित्वा ठुत्सादिभ्योऽञ्ऽ इत्यञेव स्यात् । अण्ग्रहणात्वेणेव भवति ॥ विद्यायोनिसम्बन्धेभ्यो वुञ् ॥ ४।३।७७ ॥ विद्यायोनिकृत इति । बहुव्रीहौ गतार्थत्वात्कृतशब्दस्याप्रयोगः ॥ ऋतष्ठञ् ॥ ४।३।७८ ॥ एषूदाहरणेषु ठिसुसुक्तान्तात्कःऽ । एवं च प्रक्रियालाघवाय कञेवायं विधेयः, तथा तु न कृतमित्येव ॥ पितुर्यच्च ॥ ४।३।७९ ॥ पित्र्यमिति । ठ्रीण्ःóतःऽ, ठ्यस्येति चऽ । गोत्रादङ्कवत् ॥ ४।३।८० ॥ ऋङ्गग्रहणेन तस्येदमित्यर्थसामान्यं लक्ष्यत इति । कथं मुख्ये सम्भवति लक्षणाश्रीयते ? व्याख्यानमत्र शरणम् । अपर आह---अङ्के यद् दृष्ट्ंअ तदतिदिश्यते, न त्वङ्क आहत्य विहितम् । ठ्गोत्रचरणाद् वुञ्ऽ इत्ययमपि वुञ् तस्येदमिति सामान्ये विहितोऽप्यञादिव्यतिरिक्ते विषयेऽङ्केऽपि दृष्ट इति तस्याप्यतिदेश इति । औपगवकमिति । वुञ उदाहरणम् । अणस्तु---वैदम्, गार्ग्यम्, दाक्षमिति । वतिः सर्वसादृश्यार्थः, ठ्कालेभ्यो भववत्ऽ, ठ्चरणेभ्यो धर्मवत्ऽ इति यथा ॥ हेतुमनुष्येभ्योऽन्यतरस्यां रूप्यः ॥ ४।३।८१ ॥ समादागतमिति । समाद्धेतोरागतमित्यर्तः । तत्र ठ्हेतौऽ इति तृतीया प्राप्नोति, ज्ञापकत्सिद्धम्, यदयं पञ्चम्यन्ताद्धेतोः प्रत्ययमाह तज्ज्ञापयति---भवति हेतौ पञ्चमिति । नैतदस्ति ज्ञापकम्, यत्र ठ्विभाषा गुणेऽ इति पञ्चमी, तदर्थमेतत्स्यात्---जाड।लदागत इति ? तस्मात् ठ्विभाषा गुणेऽ इत्यत्र विभाषेति योगविभागादगुणवचनादपि पञ्चमी भवति ॥ मयट् च ॥ ४।३।८२ ॥ योगविभागो यथासंख्यनिरासार्थ इति । विकल्पार्थेनान्यतरस्यां ग्रहणेन रूप्यमयटोः पक्षेऽभावः प्रतिपाद्यते, तदभावे स्वशास्त्रेणैव प्राप्तः प्रत्ययो भवति । तेन रूप्यमयटोरेवानेन विधानादसति योगविभागे स्यादेव यथासङ्ख्यमिति भावः ॥ प्रभवति ॥ ४।३।८३ ॥ प्राकाशते इति । उत्पत्तिवचनस्तु प्रभवतिर्न गृह्यते; ठ्तत्र जातःऽ इत्यनेन गतत्वात्॥ विदूराञ्ञ्यः ॥ ४।३।८४ ॥ अयुक्तोऽयं निर्देश इत्याह---ननु चेति । वालवायो विदूरं चेति । वालवायशब्दः प्रत्ययमुत्पादयति, विदूरं चादेशमापाद्यते, सूत्रे त्वादेश एव निर्दिष्टः, तेनानुरूपः स्थानी वालवायशब्द आक्षिप्यते, यथा---शिवादिषु विश्रवणरवणेत्यादेशाभ्यां पठिताभ्यां विश्रवः शब्दः । प्रकृत्यन्तरमेव वेति । विदूरशब्दो नगरस्येव पर्वतस्यापि वाचकः, स एवात्र प्रकृतिरित्यर्थः । न वै तत्रेति चेदिति । चेच्छब्दोऽक्षमायाम्, पर्वतवाची विदूरशब्दो न प्रसिद्ध इति चेद् ब्रूयात्स जित्वरीवदुपचारेत् उ व्यवहरेत्, यथा---वणिज एव मङ्गलार्थ वाराणसीं जित्वरीति व्यवहरन्ति, एवं वैयाकरणा एव वालवायं विदूरमुपचरन्ति । नियतपुरुषापेभापि प्रसिद्धिर्भवतीत्यर्थः । तद्गच्छति पथिदूतयोः ॥ ४।३।८५ ॥ प्राप्तिफले परिस्पन्दे गमिर्वर्तते, न च पथः परिस्पन्दोऽस्ति तस्मात्पुरुषवर्ति गमनं पथ्युपचर्यत इत्याह---तत्स्थेष्विति । अथवेति । प्राप्तावपि गमिर्वर्वते, यथा देवभूयङ्गत इति ॥ अभिनिष्क्रामति द्वारम् ॥ ४।३।८६ ॥ द्वारमभिनिष्कमणक्रियायामिति । अनेनैतदाह---तत्स्थेष्वभिनिष्क्रामत्सु करणभूते द्वारे तदारोपाद् द्वारमेवाभिनिष्क्रामतीत्युच्यत इति । अभिनिष्क्रमणं द्वारमिति नोक्तम् ; तदिति द्वितीयाधिकारात्, तदा हि कृद्योगलक्षणा षष्ठी प्राप्नोति ॥ अधिकृत्य कृते ग्रन्थे ॥ ४।३।८७ ॥ आख्यायिकाभ्य इति । तादर्थ्ये चतुर्थी, आख्यायिकाउगद्यग्रन्थप्रभेदः, तदभिधानाय यः प्रत्यय उत्पन्नस्तस्य बरुलं लुब् भवतीत्यर्थः । न चेदं वक्तव्यम्, अभेदोपचारेण ताच्छब्द्यलाभाद् अभिधानलक्षणत्वाच्च क्वचितद्धित उत्पद्यते, क्वचिन्न ॥ शिशुक्रन्दयमसभद्वन्द्वेन्द्रजननादिभ्यश्च्छः ॥ ४।३।८८ ॥ इन्द्रजननादिराकृतिगण इति । तेन ठ्विरुद्धभोजनीयमध्यायं व्याख्यास्यामःऽ इति सिद्धं भवति ॥ सोऽस्य निवासः ॥ ४।३।८९ ॥ इह यस्य स्रुघ्नो निवासः स्रुघ्नेऽसौ भवति, ततः ठ्तत्र भवःऽ इत्येव सिद्धम्, शब्दार्थभेदातु पृथगुपादानम् ॥ अभिजनश्च ॥ ४।३।९० ॥ अभिजनाः पूर्वबान्धवा इति । अभिजायते तेभ्य इति कृत्वा, पूर्वबान्धवाःउपित्रादयः । बन्धुशब्दः प्रज्ञादिः । तत्सन्बन्धादेशोऽपीति । यथा यष्टिसम्बन्धाद्यष्टिशब्दः पुरुषे वर्तते, तथाभिजनशब्दो देशे । कः पुनरसौ देशः ? इत्याह यस्मिन्निति । तदिहेत्यादि । तदिति वाक्योपन्यासे । कथं पुनर्मुख्येऽभिजने सम्भवति गौणात्प्रत्ययो भवति ? इत्याह---निवासप्रत्यासतेरिति । प्रत्यासन्नेनानन्तरसन्निहितेन निवासशब्देनाभिजनस्य विशेषणादित्यर्थः । इह हि निवासे योऽभिजन इति विशेषिते, तस्माद् देशवाचिन एव प्रत्ययः । निवासाभिजनयोः को विशेष इति । अभिजनस्यापि निवासभूतस्य ग्रहणान्नास्त्येव विशेष इत्यर्थः । तत्रेति । यत्र स्वयं निवसति स तस्य निवासः । यत्र तु पूर्वैः पित्रादिभिरुषितं सोऽभिजन इत्यर्थः । आयुधजीविभ्यश्च्छ पर्वते ॥ ४।३।९१ ॥ आयुधजीविभ्य इति तादर्थ्ये चतुर्थीत्यादि । यदि तु ठायुधजीविभ्यःऽ इति पञ्चमीस्यात्, पर्वतादिति ल्यब्लोपे पञ्चमी व्याख्येया स्यात्, ततश्चायमर्थः स्यात् आयुधजीविभ्यः पर्वतमुद्दिश्य पर्वतेऽभिधेये छाए भवतीति, तत्र सोऽभिजन इत्यधिकारो बाध्यते ॥ शण्डिकादिभ्यो ञ्यः ॥ ४।३।९२ ॥ अणाअदेरपवाद इति । आदिशब्देन छादेः । तत्र यदि शण्डिकादयः पर्वतशब्दाः, ततः पूर्वेण च्छः प्राप्तः; अथ जनपदशब्दाः, ततो ठवृद्धादपि बहुवचनविषयात्ऽ इति वुञ्, शण्डिकाशब्दात्कोपधादण् प्राप्तः ॥ सिन्धुतक्षशिलादिभ्योऽणञौ ॥ ४।३।९३ ॥ सिन्धुवर्णुप्रभृतय इति । प्रभृतिशब्देन मधुमत, कम्बोज, साल्व, कश्मीर, गन्धार---इत्येते गृह्यन्ते । किष्किन्धादिभ्यश्चतुर्भ्यः ठवृद्धादपिऽ इति वुञि प्राप्ते वचनम् । तक्षशिलादिष्वपि वृद्धेभ्यश्च्छः प्राप्तः, शेषेभ्यः ठ्प्राग्दीव्यतोऽण्ऽ ॥ अचिताददेशकालाट्ठक् ॥ ४।३।९६ ॥ अचितवाचिन इति । स्वरूपग्रहणं तु न भवति, देशकालप्रतिषेधात् । तत्साहचर्यादेशकालयोरपि स्वरूपग्रहणं न भवति ॥ वासुदेवार्जुनाभ्यां वुन् ॥ ४।३।९८ ॥ छाणोरपवाद इति । ठ्वासुदेवशब्दः संज्ञाऽ इति वक्ष्यति, तेन तत्रोतरस्य वुञोऽप्राप्तिः । अर्जुनशब्दोऽपि यो वृक्षविशेषवचनो वणविशेषवचनो वा, न तत्र वुञः प्राप्तिः; क्षत्रियवचनादपि बहुलवचनाद् वुञोऽप्राप्तिरेवेति भावः । ननु चेत्यादि । वसुदेवस्यापत्यम्, ठृष्यन्धकवृष्णिकुरुभ्यश्चऽ इत्यण् । न चात्रेति । न तावद् वृद्धौ विशेषः; प्रागेव वृद्धत्वात् । योऽपि ठ्वृद्धिनिमितस्यऽ इति पुंबद्भावप्रतिषेधः, सोऽस्यापि ठ्न कोपधायाःऽ इत्यसत्येव । संज्ञेषा देवताविशेषस्येति । वसत्यस्मिन्सर्वमिति व्युत्पत्या परमात्मन एषा संज्ञा । न क्षत्रियाख्येति । उपलक्षणमेततत्, नापि गोत्राशख्येत्यपि द्रष्टव्यम् । प्रासङ्गिकं प्रयोजनान्तरं वासुदेवग्रहणस्य दर्शयति---अजाद्यदन्तम्, अल्पाच्तरमिति चेति । इतिकरणः प्रत्येकमभिसम्बद्ध्यते । यद्यप्येतज्ज्ञाप्यते, तथापि ठ्श्वयुवमघोनामतद्धितेऽ इति निर्देशात्क्वचिदन्यथापि भवति ॥ गोत्रक्षत्रियाख्येभ्यो बहुलं वुञ् ॥ ४।३।९९ ॥ गोत्रक्षत्रियाख्येभ्य इति । आङ्पूर्वात्ख्यातेर्मूलविभुजादित्वात्कः । आख्याग्रहणमिति । आङ्पूर्वस्य ख्यातेग्रहणमित्यर्थः । यथाकथञ्चिदिति । क्षत्रियशब्दसामानाधिकरण्याद्येषां क्षत्रिये वृत्तिः, यथा---शूरः क्षत्रिय इति, तेभ्यो मू भूदित्यर्थः ॥ जनपदिनां जनपदवत्सर्वं जनपदेन समानशब्दानां बहुवचने ॥ ४।३।१०० ॥ जनपदिनाम् जनपदिवाचिनां शब्दानाम् जनपदवत् जनपदवाचिनां शब्दानामिव, जनपदेन जनपदवाचिना शब्देन, समानशब्दानाम् समनश्रुतीनाम्, बहुवचने बह्वर्थाभिधाने । वृतेरप्येष एवार्थः । प्रत्ययः प्रकृतिश्चेति । अनेन सर्वशब्दस्यार्थो दर्शितः । जनपदिनो जनपदस्वामिन इति । स्वस्वामिभावसम्बन्धे मत्वर्थीयं दर्शयति । अङ्गा जनपदा इत्यादिना दृष्टान्ते प्रवृत्तिप्रकारमाह । तद्वदित्यादिना तूदाहरणम् । सर्वत्र बहुष्वर्थेषु ठ्द्व्यञ्मगधऽ इत्यादिना विहितस्याणः ठ्तद्राजस्य बहुषुऽ इति लुकि कृते समानशब्दादवृद्धादपि बहुवचनेति वुञि विवक्षिते ठ्गोत्रेऽलुगचिऽ इति वचनादाङ्गशब्दाद् वुञ् । पञ्चाला ब्राह्मणा इति । अभेदोपवाराद् ब्राह्मणेषु पञ्चालशब्दस्य वृत्तिः, तत्रातिधेशाभावादणेव भवति । सर्वग्रहणमित्यादि । असति सर्वग्रहणे प्राधान्यात्प्रत्ययस्यैवातिदेशः स्यात्, न प्रकृतेः । वतिनिर्देशस्तु यैर्जनपदैर्ये जनपदिनस्तेषां तज्जनपदप्रत्यय एव यथा स्यात्, जनपदान्तरप्रत्ययो मा भूदित्येवमर्थं स्यात् । न त्वेनन प्रकृत्यतिदेशो लभ्यते, तस्मातदर्थं सर्वग्रहणं क्रियते । स च द्व्येकयोः प्रयोजयतीति पाठः । स च प्रकृत्यतिदेशः सर्वग्रहणं द्व्येकयोः प्रयोजयति, न बहुषु; तत्र रूपस्या भिन्नत्वात् । यदाह---ठ्बहुवचने समानशब्दानाम्ऽ इति । द्व्येकयोस्तु जनपदवाचिनो रूपं वृद्धम्, जनपदवाचिनस्त्ववृद्धमिति तत्रैव सर्वग्रहणस्य प्रयोजनमित्यर्थः । अतिदेशः प्रयोजयति, अतिदेशं प्रयोजयतीति वा पाठे न समीचीनमर्थं पश्यामः । वृद्धिनिमितेष्वित्यादि । तत्र ह्यतिदिष्टेऽपि प्रकृतिरूपे पुनर्वृद्ध्या भाव्यमिति नास्ति वेशेषः । मद्रवृज्योः कति विशेष इति । तत्र वृद्ध्यसम्भवात् । प्रकृतिनिर्ह्रासे कृत इति । निर्ह्रासःउअपचयः, अल्पत्वमित्यर्थः । मद्रकः, वृजिक इति । असति तु प्रकृत्यतिदेशे माद्रकको वार्ज्यक इति स्यात् । बहुवचनग्रहणमित्यादि । समानशब्दताया यो विषयस्तस्य लक्षणं प्रदर्शनं तदर्थम् । अन्यथा हीति । यदि बहुवचनग्रहणं न क्रियते । यत्रैवेति । बहुवचने, तत्रैव हि तद्राजस्य लुकि कृते समानशब्दता भवति । एकवचनद्विवचनयोर्न स्यादिति । लुगभावेन समानशब्दताया अभावात् । ननु सर्वग्रहणं प्रकृत्यतिदेशार्थम्, स च द्व्येकयोः प्रयोजयतीत्युक्तम्, तत्कथं द्व्येकयोर्न स्यात् ? तस्मात् सर्वग्रहणाध्यत्र क्वचित्समानशब्दानां सर्वत्रातिदेशः सिद्धः । अस्यैवार्थस्य विश्पष्टप्रतिपत्यर्थम् ठ्बहुवचनेऽ इत्युपलक्षणमुपातम् ॥ तेन प्रोक्तम् ॥ ४।३।१०१ ॥ प्रकर्षेणोक्तमिति । अध्यापनेनार्थव्याख्यानेन वा प्रकर्षेणाप्रकाशितमित्यर्थः । प्रकर्षेणेति वचनाद् ग्रामे ग्रामे यद्यपि काठकादिकं देवदतादिभिः प्रोच्यते, तथापि तेभ्यः प्रत्ययो न भवति । न तु कृतमिति । प्रपूर्वो वचिः करणेऽपि वर्तते इति भावः । मधुरायां भवो माधुरः, ततो वृद्धाच्छे प्राप्ते ठ्कलापिनोऽण्ऽ इत्यण्ग्रहणादधिकविधानार्थादण्प्रत्ययः । पाणिनीयमिति । स्वयमन्येन वा कृतं यत्पाणिनिना प्रोक्तं तदुच्यते ॥ तितिरिवरतन्तुखण्डिकोखाच्छण् ॥ ४।३।१०२ ॥ च्छन्दसि चायमिष्यत इति । च्छन्दस्यभिधेय इत्यर्थः । तितिरिणा प्रोक्तः श्लोक इत्यत्र न भवतीति । न केवलं च्छणेव, अपि त्वणपि न भवत्यनभिधानादित्याहुः । कथं पुनरिष्यमाणोऽपि च्छन्दसि लभ्यः ? इत्याह---शौनकादिभ्य इति । कास्यपकौशिकाभ्यामृषिभ्यां णिनिः ॥ ४।३।१०३ ॥ णकार उतरत्र वृद्ध्यर्थ इति । इह तु पूर्वमेव वृद्धे सिद्धत्वात् । योऽपि ठ्वृद्धिनिमितस्यऽ इति पुंवद्भावप्रतिषेधः, सोऽपि न प्रयोजनम्, णिन्यन्तस्याध्येतृवेदितृविषयत्वेन स्त्रियामवृतेः । वृतावपि ठ्जातेश्चऽ इति सिद्धत्वात्, चरणत्वेन जातित्वात् । तस्यापि चेति । कथं च्छन्दोब्राह्मणानामुच्यमाना तद्विषयता कल्पस्य भवति ? तत्राह---शौनकादिभ्य इति । ननु च तत्रानुवृतौ सत्यामप्यस्य योगस्य न कल्पः च्छन्दो भवति, नापि ब्राह्मणम् ? अत आह---च्छन्दोऽधिकारविहितानां चेति । ठ्च्छन्दोब्राह्मणानिऽ इत्यत्र च्छन्दोग्रहणं स्वर्यते, तत्र स्वरितेनाधिकारावगतिर्भवतीति च्छन्दः प्रकरणमध्यपातिनोऽस्यापि णिनेस्तद्विषयता भवतीत्यर्थः । यतु ठ्च्छन्दोब्राह्मणानिऽ इत्यत्र चकारस्यानुक्तसमुच्चयार्थत्वमाश्रित्य कल्पादेस्तद्विषयत्वप्रतिपादनम्, तत्प्रकारान्तरं द्रष्टव्यम् । इदानीन्तनेन गोत्रकाश्यपेनेति । न ह्यसावृषिः; अमन्त्रदर्शित्वात् ॥ कलापिवैशम्पायनान्तेवासिभ्यश्च ॥ ४।३।१०४ ॥ कलाप्यन्तेवासिनामित्यादि । सूत्रे त्वभेदोपचाराश्रयो निर्देशः । कलाप्यन्तेवासिनश्चत्वार इत्यादि । ननु च शिष्यशिष्येष्वपि शिष्यव्यवहारो लोके दृश्यते, तत्कथमियन्त एवेति नियमः ? तत्राहप्रत्यक्षकारिण इति । क्रियासामान्यवचनः करोतिः प्रकरणाअदिहाध्ययने वर्तते । कलापिखाण्डायनग्रहणादिति । एतदेव विवृणोति---तथा हीति । वैशम्पायनस्यान्तेवासी कलापी, यदि चान्तेवास्यन्तेवासिनोऽपि गृह्यएरन्, कलापिग्रहणमनर्थकम्, ठ्वैशम्पायनान्तेवासिभ्यःऽ इत्येव सिद्धम् ; कलाप्यन्तेवासिनामपि वैशम्पायनान्तेवासित्वात् । तथा वैशम्पायनान्तेवासी कठः, कठान्तेवासी खाण्डायनः, तत्र व्यवहितानामपि ग्रहणे वैशम्पायनान्तेवासित्वादनेनैव सिद्धे शौनकादिषु खाण्डायनशब्दस्य पाठो निष्फलः स्यात् । उदाहरणेषु च्छन्दोब्राह्मणानीति तद्विषयता, अध्येतृप्रत्ययस्य ठ्प्रोक्ताल्लुक्ऽ इति लुक् । उलपेन चतुर्थेनेति । सहयोगे तृतीया । कलापिन इदं कालापकम्, ठ्गोत्रचरणाद् वुञ्ऽ । तत्र ठ्धर्माम्नाययोःऽ इति पठ।ल्ते, तस्मादिहोपमानाच्छिष्यसमूहे प्रयोगः । आलम्बिश्चरकः प्राचामिति । आलम्बिर्नाम प्राचां देश उत्पन्नश्चरकस्य शिष्यः । एवं फलिङ्गकमलावुभौ प्राचामेव त्रय एते प्राच्या उक्ताः । कठकला पिनोरिति । ठ्कठचरकाल्लुक्ऽ इति कठाल्लुगुक्तः । कलापिशब्दादपि ठ्कलापिनोऽण्ऽ त्यणुक्तः ॥ पुराणप्रोक्तेषु ब्राह्मणकल्पेषु ॥ ४।३।१०५ ॥ भाल्लविन इत्यादि । भल्लु, शाट।लयन, ऐतरेय, पिङ्ग, अरुण, पराजि इत्येतेभ्यो णिनिः । यज्ञवल्काश्मरथशब्दौ कण्वादी, ताभ्यां यञन्ताभ्यामपि ठापत्यस्यऽ इति यलोपः । ननु च याज्ञवल्कादीन्यपि पुराणप्रोक्तान्येव, शाट।लयनकादिभिर्ब्राह्मणान्तरैस्तुल्यकालत्वात् ? इत्यत आह---याज्ञवल्क्यादयो हीति । आख्यानानिउभारतादीनि । तया व्यवहरतीति । अर्थस्तु तथा वा भवत्वन्यथा वेति भावः । तद्विषयता कस्मान्न भवतीति । याज्ञवल्कादिविषयः प्रश्नः, ठ्च्छन्दोब्राह्मणानि चऽ इत्यत्र पुराणप्रोक्तत्वविशेषस्यानाश्रयणात्प्राप्नोतीति भावः । प्रातपदमिति । एतल्लक्षणप्रतिपदोक्तपरिभाषया लभ्यते । एतदर्थमेव च तत्र ब्राह्मणग्रहम्; च्छन्दस्त्वादेव सिद्धेः । कल्पेषु तर्हि कस्मान्न भवति यथा---काश्यपिनः, कौशिकिन इत्यत्र ? इत्यत आह---न वायमिति । युक्तं तत्र च्छन्दोऽधिकारे तस्य योगस्यानुवृतेः, अयं तु न तथेति कल्पेष्वपि तद्विषयता न भवतीत्यर्थः । न चात्यन्तबाधैवेति । ठ्सिद्धशुष्कपक्वबन्धैश्चऽ इति निपातनादेव सिद्धे, ठ्शुषः कःऽ ठ्पचो वःऽ इति लिङ्गम्---ठ्बाधकान्यपि निपातनानि भवन्तिऽ इति । यथा तु सर्वादिसूत्रे ठ्भाष्यम्, तथा ठन्यपराण्यपि निपातनानि बाधकान्येवऽ इति स्थितम् ॥ कलापिनोऽण् ॥ ४।३।१०८ ॥ यथाविहितमेवोच्येतेति । तत्र वचनसामर्थ्याद्यो विहितो न च प्राप्नोति स एवाण् भविष्यतीति भावः । एवमादीनीति । आदिशब्देन मौदाः, पैप्पलादाः, शाकला इत्येतेषां ग्रहणम्। अत्र मुद-पिप्पलादःशाकल्य---इत्येतेभ्यः ठ्पुराणप्रोक्तेषुऽ इति णिनेरपवादोऽण्भवति ॥ पाराशर्यशिलालिभ्यां भिक्षुनटसूत्रयोः ॥ ४।३।११० ॥ तदर्थं च्छन्दोग्रहणमनुवर्त्यमिति । ननु तदनुवृतावपि कथं भिक्षुनटसूत्रयोश्च्छन्दस्त्वम् ? तत्राह---गुणकल्पनय चेति । उपचारस्य निमितभूतो धर्मो गुणो गुरुशुश्रूपणादिः, तन्निमिता कल्पना गुणकल्पना । पाराशरिण इति । पूर्ववद्यलोपः । शैलालिन इति । शिलामलते इति शिलाली, ठलं भूपणपर्याप्तिवारणेषुऽ इत्येतस्मात् ठ्सुप्यजातोऽ इति णिनिः, ततोऽस्मिन् णिनौ टिलोपः । पाराशरमिति । कण्वाद्यण् । शैलालमिति । औत्सर्गिकेऽणि ठ्नान्तस्य टिलोपे सब्रह्मचारिऽ इत्यादिना टिलोपः ॥ तेनैकदिक् ॥ ४।३।११२ ॥ सौदामनीति । ठन्ऽ इति प्रकृतिभावः । सुदामादयःउपर्वतविशेषाः ॥ तसिश्च ॥ ४।३।११३ ॥ स्वरादिपाठादव्ययत्वमिति । तस्मिन्नेवार्थे विधैइयमानस्याप्यस्य लिङ्गसंख्यानुपादानमपि स्वाभाविकं वेदितव्यम् ॥ उपज्ञाते ॥ ४।३।११५ ॥ विनोपदेशेन ज्ञातमुपज्ञातमिति । उपपूर्वो जानातिस्तत्र प्रसिद्ध इति भावः । अकालकमिति । आन्याय्यादुत्थानादित्यादिकालपरिभाषारहितमित्यर्थः । गुरुलाघवं नामार्थशास्त्रम्, यत्रोपायानां गौरवं लाघवं चिन्त्यते । ठ्दूषूऽ इत्ययं सङ्केतशब्दो यत्र क्रियते, यथा पाणिनीये ठ्वृत्ऽ इति, तद् दुष्करणं व्याकरणम्; कामशास्त्रमित्यन्ये ॥ कृते ग्रन्थे ॥ ४।३।११६ ॥ ठ्तितिरिवरतन्तुऽ इत्यादीनि सूत्राण्यत्र प्रकरणे न पठितानि । तितिर्यादयो हि च्छन्दसां प्रवक्तारो न कर्तारः; नित्यानि हि च्छन्दांसि न केनचित्क्रियन्ते ॥ संज्ञायाम् ॥ ४।३।११७ ॥ अग्रन्थार्थमिदम् ॥ क्षुद्राभ्रमरवटरपादपादञ् ॥ ४।३।११९ ॥ अणोऽपवाद इति । बाहुल्यादेवमुक्तम्, पादपशब्दाद्धि च्छः प्राप्नोति । अन्ये तु पादपशब्दस्य स्थाने पदपशब्दं पठन्ति ॥ तस्येदम् ॥ ४।३।१२० ॥ ठ्तस्या पत्यम्ऽ इत्यत्रोक्तमेवार्थं स्मारयति---प्रकृतिप्रत्ययार्थयोरित्यादि । प्रकृतौ षष्ठ।ल्र्थमात्रं विवक्षितम्, प्रत्ययार्थेऽपि तत्सम्बन्धिमात्रं यद्योगात्षष्ठी, तस्मिन्निभिधेये प्रत्ययः । मात्रशब्दव्यवच्छेद्यं दर्सयति---यदपरमिति । इदं शब्दः प्रत्यक्षवचंनः, तच्छब्दः परोक्षवचनः । आदिशब्देन सामान्याभिधायित्वं गृह्यते । तत्सर्वमविवक्षितमिति । अत्र कारणम् ठ्तस्यापत्यम्ऽ इत्यत्रैवोक्तम् । वहेस्तुरिति । तृन्तृचोः सामान्येन ग्रहणम् । सावहित्रमिति । ढत्वादीनामसिद्धत्वात्पूर्वमिहेटि कृते निमिताभावातेषामभावः । अग्नीध इति । अग्निमिन्ध इति क्विप्, अग्नीत् ठृत्विग्विशेषः । ठ्त्वमग्निदृतीयतेऽ इत्यत्र तुछान्दसंह्रस्वत्वम् । शरणमुगृहम्, स्थानम्, यत्राग्नीध्रीयं धिष्ण्यं तदाग्नीध्रम्, तात्स्थ्यातु मञ्चाः क्रोशन्तीतिवदृत्विजि प्रयोगः कल्पसूत्रकाराणाम्---ठ्प्रत्याश्रावयेदाग्रीधः आग्नीध्रं पोतारं ब्रह्मणःऽ इति । च्छप्रत्ययं च ततः शरणे कुर्वन्ति, ठाग्नीध्रीयसकाशमुतरेणाग्नीध्रीयं धिष्ण्यं परीत्यऽ इति शरणवचनाच्छः । समिधामाधान इति । यया समिध्यतेऽग्निः सा समित्, सम्पदादित्वात्करणे क्विप् । सा समिदाधीयते यया सा सामिधेनी ऋक्, षित्वान्ङीष्, ठ्हलस्तद्धितस्यऽ इति यलोपः ॥ रथाद्यत् ॥ ४।३।१२१ ॥ रथाङ्ग एवेष्यत इति । यस्तु रथस्य वोढा रथ्य इति वोढरि प्रयोगः, सः ठ्तद्वहति रथयुगप्रासङ्गम्ऽ इति द्रष्टव्यः । स्यादेतत्---अयमेव तद्वोढर्यपीष्यताम्, ठ्तद्वहतिऽ इत्यत्र रथग्रहणं मा कारीति ? नैवं शक्यम्, इह द्वौ रथौ वहति द्विरथ्य इति ठ्द्विगोर्लुगनपत्येऽ इति प्राग्दीव्यतीयो लुक् प्राप्नोति । यतु द्वयो रथयोरङ्गं तत्र द्विरथमित्येव भवति ॥ पत्रपूर्वादञ् ॥ ४।३।१२२ ॥ पतन्त्यनेनेति पत्रमिति । ठ्दाम्नीशसऽ इत्यादिना ष्ट्रन् । अश्वयुक्तो रथोऽश्वरथः, षष्ठीसमासे वृत्तिस्वभावाद्यौक्तार्थावगतिः । तस्याङ्गमाश्वरथम् ॥ पत्राध्वर्युपरिषदश्च ॥ ४।३।१२३ ॥ पत्त्रेत्यर्थग्रहणमितरयोः स्वरूपग्रहणम् । व्याख्यानं चात्र शरणम् ॥ द्वन्द्वाद् वुन् वैरमैथुनिकयोः ॥ ४।३।१२५ ॥ वैरम् उ विरोधः, वीराणामिदमिति कृत्वा, मिथुनकर्म मैथुनिका, मनोज्ञादित्वाद् वुञ् । मिथुनम् उ दम्पती, कर्म उ क्रियानिष्पादनम् । बाभ्रवशालङ्कायनिकेति । वुञन्तं स्वभावतः स्त्रियां वर्तते ॥ गोत्रचरणाद् वुञ् ॥ ४।३।१२६ ॥ वुनि प्रकृते वुञो विधानमवृद्धेषु वृद्ध्यर्थम् । वृद्धेषु वुनि वुञि च विशेषो नास्ति---तदेव रूपं स एव स्वरः, पुंवद्भावप्रतिषेधोऽपि ठ्न कोपधायाःऽ इत्यभयोरस्ति ॥ सङ्घाङ्कलक्षणेष्वञ्यञिञामण् ॥ ४।३।१२७ ॥ पूर्वस्य युञोऽपवाद इति । गोत्रग्रहणानुवृतेरजादीनां गोत्रप्रत्ययानामत्र ग्रहणमिति भावः । घोषग्रहणमत्र कर्तव्यमिति । घोषः उ आभीरस्थानम्, तत्रपि प्रत्ययो यथा स्यादित्येवमर्थम् । घोषग्रहणस्यानुषङ्गिकं प्रयोजनान्तरमाह---तेन वैषम्यादिति । अथाङ्कलक्षणयोः को विशेष इति ॥ निघण्टुअषु पर्यायतया पाठान्नास्त्येव विशेष इत्यर्थः । पृथुगुपादानसामर्थ्याद्विशेषोऽत्राश्रीयताम् ? इत्याह---लक्षणं लक्ष्यस्यैवेति । स्वमात्मीयं सम्बन्धीत्यर्थः । बेदी विद्या अस्येति । बिदानामसाधारणी या विद्या सा यस्यास्ति स बैदीविद्यः ॥ शाकलाद्वा ॥ ४।३।१२८ ॥ वुञोऽपवाद इति । शाकलशब्दस्य चरणशब्दत्वात्, तद्दर्शयति---शाकलेन प्रोक्तमिति ॥ च्छन्दोगौक्थिकयाज्ञिकबह्वृचनटाञ्ञ्यः ॥ ४।३।१२९ ॥ वुञणोरपवाद इति । चरणशब्देभ्यो वुञोऽपवादः, नटादौत्सर्गिकस्याणः ॥ न दण्डमाणवान्तेवासिषु ॥ ४।३।१३० ॥ दण्डप्राधाना माणवा इति । अर्थकथनमेतत् समासस्तु कर्मधारयः । सदा दण्डधारणाद्दण्डशब्दो माणवेषु वर्तते ॥ रैवतिकादिभ्यश्च्छः ॥ ४।३।१३१ ॥ पूर्वेणेति । ठ्गोत्रचरणाद् वुञ्ऽ इत्यनेन रैवतिकीय इति । रेवत्या अपत्यम् ठ्रेवत्यादिभ्यष्ठक्ऽ रैवतिकः, ततश्च्छः । अन्ये इञन्ताः, तत्रानन्तरसूत्रात्प्रतिषेधोऽनुवर्तिष्यते, रैवतिकादिभ्यो वुञः प्रतिषेधे विज्ञायमाने यत्रापवादो नास्ति---रैवतीकीय इति, तत्र ठ्वृद्धाच्छःऽ इत्येव सिद्धः; क्षेमवृद्धिशब्ददपि गहादित्वाच्छः; अन्येषु ठिञश्चऽ इत्यण् स्यात्, तस्माच्छग्रहणम् ॥ कौपिञ्जलहास्तिपदादण् ॥ ४।३।१३२ ॥ गोत्रवुञोऽपवाद इति । कुत इत्याह---गोत्राधिकारादिति । कौपिञ्जल इति । कुपिञ्जलस्यापत्यम्, अस्मादेव निपातनादण्, तदन्तात्पुनरण् । हास्तिपद इति । हस्तिन इव पादावस्य हस्तिपादः, पादस्य लोपो न भवति; ठहस्त्यादिभ्यऽ इति वचनात् । हस्तिपादस्यापत्यम् ठ्तस्यापत्यम्ऽ इति अस्मादेव निपातनादण्, पद्भावश्च, हास्तिपदस्येदम्, पुनरण् । अथाण्ग्रहणं किमर्थम् ? असत्यण्ग्रहणेऽनन्तरश्च्छः प्राप्नोति । सिद्धोऽत्र च्छः ठ्वृद्धाच्छःऽ इति ? न सिद्ध्यति; ठ्गोत्रचरणाद् वुञ्ऽ इति वुञ्प्राप्नोति । एवं तर्हि यद्येताभ्यां च्छ इष्टः स्यात्, रैवतिकादिष्वेमेवौ पठेत्, एवं हि विभक्त्यनुच्चारणाल्लाघवं भवति । तस्मात्पृथगारम्भादेव छाए न भविष्यति । अन्यस्तु यो विहितो न च प्राप्नोति स एव भविष्यति, स चाणेव । एवं तर्ह्यसत्यण्ग्रहणे यत्र वुञ् प्राप्तः प्रतिषिध्यते, न दण्डमाणवान्तेवासिषु, तत्र वुञो विधानार्थमेतत्स्यातस्मादण्ग्रहणं कर्तव्यम् । णित्करणं ङीबर्थम्, पुंवद्भावप्रतिषेधार्थं च---कौपिञ्जली क्रिया अस्य कौपिञ्जलीक्रिय इति ॥ आथर्वणिकस्येकलोपश्च ॥ ४।३।१३३ ॥ चरणवुञोऽपवाद इति । अथर्वणा प्रोक्तो वेदोऽभेदोपचारादथर्वा, तमधीते वसन्तादित्वाठठक्,---आथर्वणिकः, दाण्डिनायनादिसूत्रे निपातनाट्टिलोपाभावः । अथ वा---अथर्वणा प्रोक्तो वेदः ठ्तेन प्रोक्तम्ऽ इत्यण् ततः ठ्च्छन्दोब्राह्मणानिऽ इति तद्विषयतायामाथर्वणशब्दस्यापि वसन्तादिषु पाठादध्येतरि ठक्, तस्य विधानसामर्थ्यात् ठ्प्रोक्ताल्लुक्ऽ इति लुग्न भवति---आथर्वणिकः । पुर्वसूत्रमिदञ्च वार्तिके दर्शनात्सूत्रेषु प्रक्षिप्तम् ॥ तस्य विकारः ॥ ४।३।१३४ ॥ प्रकृतेरिति । उपादानकारणस्य । अवस्थान्तरमिति अन्यथात्वम् । अपवादेनानाक्रान्तस्य विषयस्य दुर्लभत्वात्प्रश्नः । किमिहोदाहरणमिति । अप्राणीति । प्राणिभ्योऽञं वक्ष्यति । आद्यौदातमिति । अनुदातादेरप्यञं वक्ष्यति । अवृद्धमिति । वृद्धान्मयट्ंअ वक्ष्यति । यस्य च नान्यदिति । यथा ठ्गोपयसोर्यत्ऽ इति । नित्स्वरेणेति । अश्मभस्मशब्दौ मनिन्प्रत्ययान्तौ । ठ्मृदस्तिकन्ऽ, मृतिका । तस्य प्रकरणे इति । ठ्तस्येदम्ऽ इत्यस्मिन् । पुनर्वचन शैषिकनिवृत्यर्थमिति । प्रकृतं हि तस्यग्रहणं शैषिकैर्घादिभिः सम्बद्धम्, अतस्तदनुवृतौ तेऽप्यनुवर्तेरन्, इदं त्वपूर्वं तस्य ग्रहणं क्रियामाणं घादिसम्बद्धस्य तस्यग्रहणस्य निवर्तकं घादीनपि निवर्तयति । ननु च विधेयतया प्रधानभूता घादयः, न ते गुणभूते तस्यग्रहणे निवर्तमानेऽपि निवर्तितुमर्हन्ति, न हि गुणानुवर्ति प्रधानम्, किं तर्हि ? प्रधानानुवर्ती गुणः ? सत्यम् ; तस्य ग्रहणसामर्थ्यात्प्रधानभूतानामपि घादीनां निवृत्तिः, अणाअदयस्तु ननिवर्तन्ते, ठ्प्राग्दीव्यतःऽ ठ्प्राग्भवानात्ऽ इति च विशिष्टावधिपरिच्छेदेनाधिकृतत्वात् । विकारावयवयोरिति । परस्तातु प्राग्वहतेः ठ्प्राग्घितात्ऽ इति चाधिकारान्तरेणावष्टब्धत्वादेव घादीनां निवृत्तिः सिद्धेति भावः । स्यादेतत्--मा भूवन्ननेन घादयः, तस्य ग्रहणेन निवर्तितत्वात् ; ठ्तस्येदम्ऽ इत्यनेन तु प्राप्नुवन्ति, तस्येदंविशेषत्वाद्विकारावययवयोरिति ? तन्न; ठ्तस्येदम्ऽ इत्येव विकारावयवयोरणादिषु सिद्धेषु पनस्तेषां विधानं शैषिकाणां बाधनार्थमेव । किं तर्ह्युच्यते---तस्येति पुनर्वचनं शैषिकनिवृत्यर्थमिति, यावता सूत्रप्रकृतिरेव शैषिकनिवृत्यर्था ? सत्यम् ; तस्य ग्रहणे त्वसति सूत्रप्रवृत्तिः शैषिकानपि विषयीकुर्यादिति तस्यग्रहणस्यैवायं भारः यदुत वै शैषिका निवर्तन्ते । हालः सैर इति । हलशब्दः ठ्नव्विषयस्यानिसन्तस्यऽ इत्याद्यौदातः । सीरशब्दः कन्प्रत्ययान्तत्वान्नित्स्वरेणाद्यौदातः, नात्र वक्ष्यमाणस्यापवादस्य कस्यचित्प्रसङ्ग इत्यण्भवति । इदं च योगविभागेनाणादिविधानस्य प्रयोजनं दर्शितम् । यदि हि ठ्तस्य विकारःऽ ठ्बिल्वादिभ्योऽण्ऽ इत्येवापवादविधानार्थमुच्येत, ततो हलस्य विकार इत्यत्र ठ्तस्येदम्ऽ इत्यनेन प्रत्ययो विधातव्यः, ततश्चाणं बाधित्वा ठ्हलसीराट्ठक्ऽ इति ठक् प्राप्नोति, तथान्यस्मिस्तस्येदंविशेषे; योगविभागेन त्वणादीनां विधानादणेव भवति, तस्यग्रहणे तु घादीनां निवृत्तिः प्रयोजनम् । वृजीनां विकारो वार्ज इति, वृजिशब्दस्य फिट्सूत्रेषु विकल्पेनान्तोदातत्वविधानात्पक्षे आद्यौदातत्वादण् । यदि त्वत्र ठ्तस्येदम्ऽ इत्यण्प्रत्ययः स्यात्; यदि वानेन घादयो विधीयेरन् ततो मद्रवृज्योः कन्निति कन्स्यात् । तथा त्रिगर्तानां विकारः त्रैगर्त इति, त्रिगर्तशब्दो बहुव्रीहिपूर्वपदप्रकृतिस्वरेणाद्यौदातः, अत्र प्रथमः ठ्प्राग्दीव्यतोऽण्ऽ प्राप्तः, जनपदलक्षणो वुञ् द्वितीयः, गर्तोतरपदलक्षणश्च्छस्तृतीयः, तदवधिग्रहणेन विहितो वुञ् चतुर्थः; अनेन त्वणेव भवति । यथा रंकूणां विकारो राङ्कव इति---अत्र ठ्प्राग्दीव्यतोण्ऽ प्रथमः, तदपवादयोः ठवृद्धादपिऽ इति ठोर्देअशेठञ्ऽ इति वुञ्ठञोस्तुल्यकक्षयोरन्यतरो द्वितीयः, ठ्कोपधादण्ऽ इति वा कच्छादिपाठाद्वाऽण्तृतीयः, ठ्मनुष्यतत्स्थयोर्वुञ्ऽ चतुर्थः; अनेन त्वण् प्राप्त ओरञा बाधितः ठ्कोपधाच्चऽ इति प्रतिप्रसूयते । यदि तर्हि विकारावयवयोर्घादयो न भवन्ति पाटलिपुत्रस्यावयवाः पाटलिपुत्रकाः प्रासादा दति, ठ्तस्येदम्ऽ इत्यत्रार्थे ठ्रोपधेतोः प्राचाम्ऽ इति वुञ्न प्राप्नोति ? नैष दोषः; प्राण्योषधिवृक्षेभ्यो हि घादीनामवयवे निवृत्तिः, तत्र कः प्रसङ्गो यदप्राण्योषधिवृक्षेभ्योऽवयवे निवृत्तिः स्यात् ! ॥ अवयवे च प्राण्योषधिवृक्षेभ्यः ॥ ४।३।१३५ ॥ मौर्वमिति । मूर्वाशब्दः ठ्तृणधान्यानां च द्व्यषाम्ऽ इत्याद्यौदातः । खदिरमिति । खादेः खदिरशब्दः किरच्प्रत्ययान्तो निपातितः, तेनानुदातादिलक्षणो वुञ् प्राप्नोति । यदि त्वणिष्यते, बिल्वादिषु पठितव्यः । कृतनिर्देशौ हि ताविति । ठ्तस्येदम्ऽ इत्यनेन । यद्यपि शैषिकनिवृत्यर्थत्वं पूर्वयोगस्य प्रयोजनमुक्तम्, तथापि तदनपेक्ष्य भास्मनम्, मार्तिकमित्यादौ तावदणादयः सिद्धा इत्यभिसन्धायेदमुक्तम् ॥ बिल्वादिभ्योऽण् ॥ ४।३।१३६ ॥ अञ्मयटोरपवाद इति । तत्र काण्ड-पाटलीशब्दाभ्यां वृद्धलक्षणस्य मयटोऽपवादः, शेषेभ्यस्त्वनुदातादिलक्षणस्याञः, बिल्वशब्दस्य ठ्विल्वतिष्योर्वान्तः स्वरितःऽ इत्यन्तः स्वरितः, उदातो वा । व्रीहिमुद्गशब्दौ घृतादित्वादन्तोदातौ । मसूर-गोधूम-गवीधुकशब्दाः ठ्लघावन्ते द्वयाश्चऽ इति मध्योदाताः । इषेः क्सः, इक्षुः, प्रत्ययस्वरेणान्तोदातः । वेणुशब्दः ठ्विभाषा वेण्विन्धानयोःऽ इति पक्षेऽन्तोदातः । कर्पासीशब्दो जातिलक्षणङीषन्तः । कर्कन्धूशब्दः ठलाबूकर्क्कन्धूदिधिषूः ऽ इति निपातनान्मध्योदातः, ठ्कुटीशमीशुण्डाभ्यो रःऽ इति कुटीरशब्दः प्रत्ययस्वरेणान्तोदातः । मयड्बाधनार्थमिति । ठ्मयड्वैतयोःऽ इत्यादिना प्राप्तस्य मयटो बाधनार्थम्, शेषेभ्यस्त्ववृद्धेभ्यः शब्देभ्यः पक्षे मयड् भवत्येव । अण्ग्रहणं बाधकबाधनार्थण् । बिल्वादिभ्यो यथाविहितमित्युच्यमानेऽपि हि पाटलीशब्दान्ङीषन्तादनुदातादिलक्षणस्याञो मयटा बाधे प्राप्ते पुनर्वचनादञेव स्यात् ; अण्ग्रहणात्वणेव भवति । कोपधाच्च ॥ ४।३।१३७ ॥ अञोऽपवाद इति । ठोरञ्ऽ ठनुदातादेश्चऽ इति प्राप्तस्य, तितिडीकादयः ठ्लघावन्तेऽ इत्यादिना मध्योदाताः ॥ त्रपुजतुनोः षुक् ॥ ४।३।१३८ ॥ अप्राण्यादित्वादिति । प्राण्योषधिवृक्षेष्वन्यतमत्वस्याभावादित्यर्थः ॥ ओरञ ॥ ४।३।१३९ ॥ देवदारु-भद्रदारुशब्दौ ठ्पीतद्रवर्थानाम्ऽ इत्यादिनाद्यौदातौ । पीतद्रुः उ सरलो नवस्पतिः, पीतद्रुरर्थो येषां तेषामादिरुदातो भवतीत्यर्थः ॥ अनुदातादेश्च ॥ ४।३।१४० ॥ दाधित्थं कापित्थमिति । दधनि तिष्ठतीति ठ्सुपि स्थःऽ, उपपदसमासः, पृषोदरादित्वात्सकारस्य तकारः, कृदुतरपदप्रकृतिस्वरेणान्तोदातत्वम् । पलाशादिभ्यो वा ॥ ४।३।१४१ ॥ उभयत्रविभाषेयमिति । कथमित्याह---पलाशखदिरेत्यादि । पलाशशब्दो घृतादित्वादन्तोदातः । खदिरशब्दः ठजिरशिशरऽ इत्यादौ किरच्प्रत्ययान्तो निपातितः । शिंशपाशब्दो ठ्द्वितीयं प्रागीषात्ऽ इति वर्तमाने ठ्पान्तादीनां गुर्वादीनाम्ऽ इति मध्योदातः । ठ्स्पदि किञ्चिच्चलनेऽ, ठनुदातेतश्च हलादेःऽ इति युच्, किरतेरीरन्, करीरम्, ठ्कृहृभ्यामीषन्ऽ, शृपृभ्यां किच्चऽ, शिरीषम्, शेषे नित्स्वरेणाद्यौदातावेतौ । विकङ्कतमूलासयवासशब्दाः ठ्ग्रामादीनां चऽ इत्याद्यौदाताः ॥ शम्याष्ट्लञ् ॥ ४।३।१४२ ॥ अञोऽपवाद इति । शमीशब्दो गौरादिङीषन्तः । शामीली स्रुगिति । चातुर्मास्ये वरुणप्रघासेषु शमीमय्यः स्रुचो भवन्तीति श्रुतम् ॥ मयड्वैतयोर्भाषायामभक्ष्याच्छादनयोः ॥ ४।३।१४३ ॥ मौद्गः सूपः, कार्पासमाच्छादनमिति । उभयत्र बिल्वाद्यण्, विकारावयवयोरभक्ष्याच्छादनयोश्च यथासंख्यं न भवति; विकारावयवयोरसमासनिर्देशेन प्रत्येकमभिसम्बन्धात् । तद्विषयेऽपि यथा स्यादिति । यद्येतयोरिति नोच्येत, उतरैर्विशेषप्रत्ययैरञादिभिः सम्प्रधारणायां परत्वात एव स्युः, पूर्वेषां विशेषप्रत्ययानां मयडभावपक्षे सावकाशत्वान्मयट्पक्षे परत्वान्मयडेव लभ्यत इति प्राणिरजतादिभ्योऽञादय एत्युक्तम् । ठेतयोःऽ इति वचनं पुनर्विधानार्थं सम्पद्यत इति परेषामपि विषये मयड् भवति ॥ नित्यं वृद्धशरादिभ्यः ॥ ४।३।१४४ ॥ नित्यं मयट्प्रत्ययो भवतीति । प्राग्दीव्यतीयानामपवादः । अणं तु कोपधलक्षणमञेव परत्वाद्वाधते । शाकमयम्, आम्रमयमिति । आम्रशब्दः ठमितम्योर्दीर्घश्चऽ इति रन्प्रत्ययान्तः । तदनेन क्रियत इति । नित्यंशब्दोऽतिरिच्यमानः पूर्वाचार्यपठितस्य वाक्यस्य स्मारक इति । एवं च मृच्छब्दस्य शरादिषु पाठोऽस्यैव प्रापञ्चार्थो द्रष्टव्यः ॥ गोश्च पुरीषे ॥ ४।३।१४५ ॥ गव्यं पय इति । कथं पुनरत्र प्रसङ्गः, यावता विकारावयवयोरिति वर्तते, पयश्च न विकारो नाषयवः ? तत्राह---पुरीषं नं विकार इत्यादि । अक्रियमाणे पुरीषग्रहणे इष्टसिध्यर्थमेव ठ्तस्येदम्ऽ इत्यधैकारे ठ्गोर्मयट्ऽ इति सूत्रं कर्तव्यम्, ततश्चात्रापि प्रसङ्ग इत्यर्थः ॥ पिष्टाच्च ॥ ४।३।१४६ ॥ पिष्टमंय भस्मेति ॥ पैष्टी सुरेति तु सामान्यविवक्षायाम् ठ्तस्येदम्ऽ इत्यण्, ठ्प्रदीयतां दाशरथाय मैथिलीऽ इतिवत् ॥ असंज्ञायां तिलयवाभ्याम् ॥ ४।३।१४९ ॥ यावक इति । यवशब्दाद्विकारेऽण्, तदन्ताद् ठ्यावादिभ्यःऽ इति स्वार्थे कन् ॥ नोत्वद्वर्धबिल्वात् ॥ ४।३।१५१ ॥ मौञ्जमिति । मुञ्जशब्दात् ठ्तृणधान्यानां च द्व्यषाम्ऽ इत्याद्यौदातत्वादौत्सर्गिकोऽण् । गार्मुतमिति । गर्मुच्छब्दः ठ्मृग्रेरुतिःऽ, ठ्ग्रोर्मुट् चऽ इत्युतिप्रत्ययान्तत्वादन्तोदात इति ठनुदातादेश्चऽ इत्यञ् । कथं तर्हि ठ्तस्मा एतं गार्मुतं चरुं निर्वपेत्ऽ इत्यन्तोदातत्वम् ? सर्वविधीनां च्छन्दसि विकल्पितत्वादण् भविष्यति । वाध्रीति । वर्ध्रशब्दः ठ्लघावन्तेऽ इत्याद्यौदातः, तमादण्, ठ्टिड्ढाणञ्ऽ इति ङीप् । मतुब्निर्देशे इत्यादि । असति तस्मिन्वर्णग्रहणं सर्वत्र तदन्तविधि प्रयोजयतीति तदन्तविधिः स्यात् । वैणवीति । बिल्वाद्यण् ॥ तालादिभ्योऽण् ॥ ४।३।१५२ ॥ मयडादीनामपवाद इति । आदिशब्देनाञो ग्रहणम्, बहुवचनं तु तयोरेव प्रकृतिभेदेन बहुत्वात् । तत्र तालश्यामाकाभ्यां वृद्धत्वान्मयट् प्राप्तः बर्हिणस्य विकारो बार्हिणम्---ठ्प्राणिरजतादिभ्योऽञ्ऽ, तस्माद् ठ्ञितश्च तत्प्रत्ययात्ऽ इत्यञ् प्राप्तः, शेषेभ्योऽनुदातादिलक्षणस्य । लिशिदृशिभ्यामिन्द्रशब्द उपपदे मूलविभुजादित्वात्कः, ठन्येषामपि दृश्यतेऽ इति दीर्घत्वम् । ठ्चप् सान्त्वनेऽ, पचाद्यच् । पीयूक्षाशब्दः ठ्लघावन्तेऽ इति मध्योदातः, तत्र हि ठ्फिषऽ इत्यधैकारात्प्रागेव टापः स्वरप्रवृत्तिः, इन्द्रायुधशब्द समासस्वरेणान्तोदातः । तालाद्धनुषीति । अन्यत्र तालमयमित्येव भवति । अण्ग्रहणं बाधकबाधनार्थम्, अन्यथा यथाविहितमित्युच्यमाने बार्हणशब्दाद्वृद्धलक्षणो मयट् स्यात्, वचनं तु ठ्ञितश्च तत्प्रत्ययात्ऽ इत्यञो बाधनार्थं स्यात् ॥ जातरूपेभ्यः परिमाणे ॥ ४।३।१५३ ॥ मयडादीनामपवाद इति । आदिशब्देनाञो ग्रहणम्, बहुवचनं तु पूर्ववत् । तत्र वृद्धेभ्यो हाटकादिभ्यो मयटोऽपवादः, तपनीयादिभ्योनुदातादिभ्योऽञः ॥ प्राणिरजतादिभ्योऽञ् ॥ ४।३।१५४ ॥ अणादीनामिति । आदिशब्देन मयड् गृह्यते, बहुवचनं तु पूर्ववत् । तत्राद्यौदातेभ्यः प्राणिशब्देभ्योऽणोऽपवादः, वृद्धेभ्यो मयटः, रजतादिष्वपि यदाद्यौदातं तस्मादणोऽपवादः अनुदातादेश्तु मयटः । कापोतम्, मायूरम्, तैतिरमिति । तितिरिशब्दस्तरतेः ठ् सन्वच्चाभ्यासस्यऽ इति किप्रत्ययान्तोऽन्तोदातः, शेषौ ठ्लघावन्तेऽ इति मध्योदातौ । परिशिष्टमिहादाहरणमिति चोक्तम्, तस्माच्छुक-बक-गृधादय इहोदाहार्याः । शुकबकशब्दौ ठ्प्राणिनां कुपूर्वाणाम्ऽ इत्याद्यौदातौ । गृध्रशब्दो रन्प्रत्ययान्त आद्यौदातः । कथं तर्हि कापोतमित्याद्यौदाहृतम्, सत्युदातार्थे प्राणिग्रहणेऽनुदातादेरपि प्राणिनः परत्वादनेनैवाञ्भवितुमर्हतीति मन्यते, आह च ठनुदातादेरञः प्राण्यञ्विप्रतिषेधेनऽ इति ? कः पुनरत्र विशेषस्तेन वा सत्यनेन वा ? सापवादकः स विधिर्मयटा परेण बाध्यते, अयं पुनर्निरपवादः, अनेनैव हि परत्वान्मयड् बाध्यते । किं सिद्धं भवति ? श्वाविधो विकारः शौवाविध इति सिद्धं भवति । कथं सिद्धं भवति ? श्वानं विध्यतीति क्विप्, ठ्नहिवृत्तिऽ इति दीर्घः, ग्रहिज्यादिसम्प्रसारणम्, कृदुतरपदप्रकृतिस्वरेणान्तोदातत्वादनुदातादिः । तत्रानउदातलक्षणस्याञो बाधकं मयट्ंअ परत्वादयमञ् बाधते, द्वारादित्वाद्वृद्धिप्रतिषेधः, ऐजागमश्च ॥ ञितश्च तत्प्रत्ययात् ॥ ४।३।१५५ ॥ तयोर्वाचकत्वेन यः सम्बन्धी प्रत्यः स तत्प्रत्ययः षष्ठीसमासः । विकारावयवयोरेवेति । यदि तु ञित्प्रत्ययान्तः प्राण्योषधिवृक्षवाची सम्भवति ततोऽवयवेऽपि भवति; द्वयोः प्रकृतत्वात् । लक्ष्यमनपेक्ष्यैवमुक्तम् । ननु च पूर्वे पञ्चालाः, पटो दग्ध इत्यवयवे समुदायशब्दो दृष्टः, विकारे च प्रकृतिशब्दः---शालीन्भुङ्क्ते मुद्गैरिति शालिविकारान्मुद्गविकारैरित्यर्थः; ततश्च देवदार्वाद्यवयवविकारवृतेर्देअवदार्वादिशब्दातद्विकारावयवयोस्तेन तेनाञादयो भविष्यन्ति, नार्थोऽनेनेत्याशङ्क्याह---मयटोऽपवाद इति । सत्यमस्ति यथाकथञ्चिदिष्टसिद्धः, तथापि वृद्धलक्षणो मयण्मा भूदित्येवमर्थमेवाञ्विधेयः । अन्यथा येनैव हेतुनैतद्वाक्यं भवति---दैवदारवस्य विकारः, शामलस्य विकारः, तेनैव मयडपि स्यात्, विकार्यातेनैव हेतुना मयडपि प्राप्नोति ? अनभिदानान्न भविष्यति, तदेव तर्ह्यनभिधानं विधानेन प्रतिपाद्यते । यद्येवम्, ठ्तस्य विकारःऽ, ठुष्ट्राद् वुञ्ऽ, औष्ट्रकं चर्म, तस्य विकार औष्ट्रिकोपानदिति, ठ्टिड्ढाणञ्ऽ इति ङीप्प्राप्नोति, न चेष्यते, एवं हि सौनागाः पठन्ति---ठ्वुञश्चाञ ईतः प्रसङ्गःऽ इति । तस्मादवयवे समुदायशब्दो विकारे च प्रकृतिशब्द इति तेन तेन लक्षणेनाञादयो भविष्यन्ति । अनभिधानातु विकारावयवप्रत्ययान्तान्न मयड् भविष्यतीत्येतदेव साम्प्रतम् । बैल्वमयमिति । ठ्ञितो यत्नेन मयट्ंअ सूत्रकारो निवर्तयन् अन्यतो वष्टि मयटम्ऽ इति वृत्तिकृतो मतम् । भाष्यवातिककारौ पुनराहतुः---ठ्तच्चानभिदानमाश्रयितव्यम्, अभिधाने ह्यन्यतोऽपि मयटः प्रसङ्गः---बैल्वस्य विकारःऽ इति ॥ क्रीतवत्परिमाणात् ॥ ४।३।१५६ ॥ ठ्चरणेभ्यो धर्मवत्ऽ इत्यनेन तुल्यमेतत् । सङ्ख्या च परिमाणग्रहणेन गृह्यत इति । चकारादुन्मानं च, परिमीयतेऽनेनेति परिमाणमितियौगिकः परिमाणशब्द इत्यर्थः । तदाह---न रूढिपरिमाणमेवेति । नैष्किक इति । ठसमासे निष्कादिभ्यःऽ इति ठक् । शत्यः, शतिक इति । ठ्शताच्च ठन्यतावशतेऽ । साहस्रमिति । ठ्शतमानविशतिकसहस्रवसनादण्ऽ । वतिः सर्वसादृश्यार्थ इति । किमेवं सति सिद्धं भवति ? तदाह---अध्यर्द्धपूर्वेत्यादि । आदिशब्देन प्रकृतिप्रत्यययोः प्राग्वतेः सङ्ख्यापूर्वपदानां तदन्तग्रहणमलुकऽ इति तदन्तविधेश्च परिग्रहः । एतदुक्तं भवति---याभ्यः प्रकृतिभ्यो येन विशेषणेन ये प्रत्यया विहितास्ताभ्यः प्रकृतिभ्यस्तेनैव विशेषणेन त एव प्रत्यया विकारे भवन्ति । द्विसाहस्रमिति । पक्षे लुक्, ठ्सङ्ख्यायाः संवत्सरसङ्ख्यस्य चऽ इत्युतरपदवृद्धिः । द्विनैष्किकमिति । प्राग्वतीयस्य ठञः ठ्द्वित्रिपूर्वान्निष्कात्ऽ इति पक्ष लुक्, ठ्परिमाणान्तस्यऽ इत्युतरपदवृद्धिः ॥ उमोर्णयोर्वा ॥ ४।३।१५८ ॥ उमाशब्दस्तृणधान्यानां वेत्याद्यौदातः, ऊर्णाशब्दः प्रातिपदिकस्वरेणान्तोदातः, ताभ्यां वुञभावे यथाक्रममणञौ ॥ एण्या ढञ् ॥ ४।३।१५९ ॥ स्त्रीलिङ्गनिर्देशस्य प्रयोजनमाह--पुंसस्त्वञव भवतीति ॥ गोपयसोर्यत् ॥ ४।३।१६० ॥ मयड्विषये त्विति । ठ्मयड्वैतयोःऽ इति विहितस्य मयटो विषये ॥ द्रोश्च ॥ ४।३।१६१ ॥ अञोऽपवाद इति । ठोरञ्ऽ इत्यस्य, सूत्रप्राप्त्यभिप्रायं चैतत् । एकाचो नित्यं मयटमिच्छन्तीति मयट् त्वस्मात्प्राप्नोति । द्रव्यमिति । गुणैः संद्रूयते प्राप्यत इति गुणसंद्रावः ॥ माने वयः ॥ ४।३।१६२ ॥ मीयते येन तन्मानं प्रस्थादि ॥ फले लुक् ॥ ४।३।१६३ ॥ तद्विशेष इति ॥ विकारावयवविशेषे । उदाहरणेषु आमलकीशब्दाद् वृद्धान्मयटो लुक्, इतरयोर्गौरादित्वान्ङीष्, ताभ्यामनुदातादिलक्षणस्याञः, सर्वत्र ठ्लुक्तद्धितलुकिऽ इति स्त्रीप्रत्ययस्य लुक् । ननु च न फलं वृक्षस्य विकारः, स हि द्विविधो भवति---यो वा प्रकृतिमुपमृद्नाति खादिरं भस्मेति, यो वा प्रकृतेर्व्यपदेशान्तरं करोति खादिरः स्रुव इति; फलं तु नैवंविधमिति वृक्षे स्थितमपि काकादिवन्न तस्य विकारः, नाप्यवयवः, अनारम्भकत्वात् ; उत्पन्ने हि वृक्षे पश्चात्फलमुपजायते तत्कथं विकारावयवयोरुत्पन्नस्य प्रत्ययस्य लुग्विधीयते ? इत्याह---फलितस्येति । फलशब्दस्तारकादिः, ठ्प्रकृतेरवस्थान्तरं विकारःऽ इत्युक्तम्, अफलितावस्थायाश्च फलिताऽवस्थान्तरं भवत्येव । तत्र वृक्षत्वं तूभयत्रानुवर्तते, सर्वत्र चोतरावस्था विकारः, सर्वश्चावयवः स्वोत्पतेः प्राग्नोपस्थितो नास्यारम्भकः, यथा श्रृङ्गदन्तादिरथ च गवादेरवयवो भवति, तदेतत्फलेऽपि समानम् । पल्लवशब्दोऽर्द्धर्चादिः । फले लुग्विधानमनर्थकम्; प्रकृत्यन्तरत्वात् । आमलकादिशब्दः फले वर्तते, न यौगिकः---आमलक्याः फलमिति, यथा नामलकयोगाद्वृक्षे आमलकशब्दः, आमलकफलस्येयमामलकीति, यथाङ्गादिशब्दः क्षत्रिये जनपदे च । प्रत्ययनिवृत्यर्थं तु यथैतद्वाक्यं भवति---आमलक्या विकारः कुवल्या विकार इति, तथा प्रत्ययोऽपि स्यात् ॥ प्लक्षादिभ्योऽण् ॥ ४।३।१६४ ॥ अञोऽपवाद इति । शिग्रु-काक्षतुशब्दाभ्यामुवर्णान्तलक्षणस्य, शेषेभ्यस्त्वनुदातल७णस्य । तत्र प्लक्षशब्दः ठ्फिषःऽ इत्यन्तोदातः, फिषिति प्रातिपदिकस्य नाम । न्यग्रोधशब्दः ठ्लघावन्तेऽ इति मध्योदातः । अश्वत्थशब्दो घृतादित्वादन्तोदातः । इड्गुदीबृहतीशब्दौ गौरादिङीषन्तौ । विधानसामर्थ्यादिति । यद्यस्य लुक् स्याद्विधानमनर्थकं स्यात् । न ह्यणोऽञो वा लुकि कृते कश्चिद्विशेषः । नैयग्रोधमिति । न्यग्रोधस्य च ठ्केवलस्यऽ इत्यैजागमः ॥ जम्ब्वा वा ॥ ४।३।१६५ ॥ अञस्तु भवत्येव । न ह्यञो विधानसामर्थ्यम् ; फलादन्यत्र श्रवणात् । जम्बूनीति । फलस्याभिधेयत्वान्नपुंसकह्रस्वे ठ्जश्शसोः शिःऽ, नुम्, ठ्सर्वनामस्थाने चऽ इति दीर्घः ॥ लुप्च ॥ ४।३।१६६ ॥ युक्तवद्भावे विशेष इति । लुपि हि सति ठ्लुपि युक्तवद्व्यक्तिवचनेऽ इति प्रकृत्यर्थगते लिङ्गवचने भवतः, लुकि त्वभिधेयवल्लिङ्गवचने स्याताम् । फलापाकशुषामिति । फलपाकेन शुष्यन्तीटि फलपाकशुषः । व्रीहयो मुद्गा इति । बिल्वाद्यणो लुक्, यवमाषतिलशब्दाः ठ्तृणधान्यानां च द्व्यषाम्ऽ इत्याद्यौदाताः, तेभ्य औत्सर्गिकस्याणो लुक् । मल्लिकाशब्दो मादीनामिति मध्योदातः । अस्यार्थः---अत्र ठ्द्वितीयः प्रागीषात्ऽ इति त्र्यषामिति वर्तते, मकारादीनां त्र्यषां द्वितीयमक्षरमुदातं भवति । नवमालिकाशब्दः ठ्लघावन्तेऽ इति मध्योदातो जातिशब्दः । विदारीबृहतीशब्दौ गौरादिङीषन्तौ । अंशुशब्दः प्रातिपदिकरवरेणान्तोदातः, ततो मतुप् ठ्ह्रस्वनुड्भ्यां मतुप्ऽ इति मतुबाद्यौदातः, ङीबनुदातः । तदेवमंशुमतीशब्दे मतुबकार उदातः । पाटलानीति । बिल्वादित्वादण्, साल्वशब्दः प्रातिपदिकस्वरेणान्तोदातः । क्वचिदन्यदपि भवतीति । लुपोऽन्यदपि कचित्कार्यं भवति, तत्पुनर्लुग्लुपोरभावश्च । कदम्बमित्यादावनुदातादिलक्षणस्याञो लुक् । कदम्बादयः शब्दाः ठ्लगावन्तेऽ इति मध्योदाताः । बैल्वानीति । अत्रोभयाभावः, बिल्वाद्यण् ॥ हरीतक्यादिभ्यश्च ॥ ४।३।१६७ ॥ हरीतक्यादिषु द्राक्षाप्रभृतिभ्यो मयटो लुप्, उदातादिभ्योऽणः, अनुदातादिभ्योऽञः ॥ कंसीयपरशव्ययोर्यञञौ लुक् च ॥ ४।३।१६८ ॥ प्राक् क्रीताच्छेन कंसीय इति । ठ्प्राक् क्रीताच्छःऽ इत्यधिकारे ठ्तस्मै हितम्ऽ इतिच्छप्रत्ययेन कंसीयशब्दो व्युत्पाद्यत इत्यर्थः । एतेनोगवादिभ्यो यता परशव्यशब्द इति व्याख्यातम् । तत्सन्नियोगेन च कंसीयपरशव्ययोर्लुग्भवतीति । प्रत्ययादर्शनस्य लुक्संज्ञाविधानातदवयवयोः प्रत्यययोर्लुग्भवतीत्यर्थः । अथ ठ्वृतृहनिकषिकमिभ्यः सःऽ इति सः, कंसशब्दे सप्रत्ययः । यश्च पराश्रृणोतीति परशुः, ठाङ्परयोः खनिश्रृभ्यांणिच्चऽ इति कुप्रत्ययस्तयोर्लुक्कस्मान्न भवति ? तत्राह---प्रातिपदिकाधिकारादिति । प्रातिपदिकाधिकारे हि तत; परयोश्च्छयतोर्लुग्भवति, न धातुप्रत्ययस्य, आह---ठ्ङ्याप्प्रातिपदिकग्रहणमङ्गपदसंज्ञार्थं यच्छयोश्च लुगर्थम्ऽ इति, ननु च ठतः कृकमिऽ इत्यत्र कंसग्रहणं लिङ्गम्---नावयमुणादिषु व्युत्पत्तिकार्यं भवतीति, तेनोकारसकारयोर्लुग्न भविष्यति ? सत्यम् ; वृद्धावृद्धावर्णस्वरद्व्यज्लक्षणप्रत्ययविधौ तत्सम्प्रत्ययार्थमवश्यकर्तव्यस्य ङ्याप्प्रातिपदिकग्रहणस्यानुषङ्गिकं प्रयोजनं दर्शितम् । अत एव च ठ्ङ्याप्प्रातिपदिकात्ऽ इत्यत्र नेदं वृत्तिकृता दर्शितम् ॥ इति श्रीहरदतमिश्रविरचितायां पदमञ्चर्यां चतुर्थस्याध्यायस्य तृतीयश्चरणः -----------------------॥॥॥॥॥॥॥॥॥॥----------------------अथ चतुर्थाध्याये चतुर्थः पादः---४ पदमञ्जरी प्राग्वहतेष्ठक् ॥ ४।४।१ ॥ तदाहेति । ठ्वाक्यादेतत्प्रत्ययविधानम्ऽ इति वक्ष्यति, न च वाक्याद् द्वितीया सम्भवति; अप्रातिपदिकत्वात् । तेन तदिति कर्ममात्रं निदिश्यते, न तु द्वितीयासमर्थविभक्तिः । माशब्द इत्याहेति । शब्दो माकारीत्याहेत्यर्थः । संसर्गरूपस्य वाक्यार्थस्येतिकरणेन प्रत्यवमर्शे सति वचनक्रियां प्रति कर्मत्वं सम्भवति, नान्यथेति मत्वैष विग्रहः । वाक्यादेतत्प्रत्ययविधानमिति । एतच्चाहौ प्रभूतादिभ्यः पुनर्वचनाल्लभ्यते, अन्यथा प्रभूतादयो माशब्दादय एव भवन्तु, किं पृथग्वचनेन ! आहाविति । आहेति पदे प्रकृतिभागस्यागन्तुकेनेकारेणेदमोऽनुकरणम् । तत्र शब्दे कार्यस्यासम्भवादर्थप्रत्ययविधिः क्रियाविशेषणादिति । तदन्ताभिधायिन इत्यर्थः । पृच्छताविति । तिङ्न्तानुकरणमेतत् । एवं गच्छताविति । तिङ्न्तार्थे तु प्रत्ययः । सुस्नातं पृच्छतीति । सुस्नातं भवता, सुस्नातो भवानित्येवं वा पृच्छतीत्यर्थः । सौखरात्रिक इति । सुखरात्रिं पृच्छति । एवं यः पृच्छति, सा एवमुच्यते । एतेन सौखशायनिको व्याख्यातः । अनुशतिकादित्वादुभयपदवृद्धिः । गौरुतल्पिक इति । तल्पशब्देन भार्या लक्ष्यते ॥ तेन दीव्यति खनति जयति जितम् ॥ ४।४।२ ॥ सर्वत्र करणे तृतीयेति । दीव्यत्यादावभिहितत्वात्कर्तरि तृतीया नोपपद्यत इति तत्साहचर्याज्जितमित्यनेनापि योगे करण एव तृतीयेति सर्वशब्दार्थः । तेन देवदतेन न जितमित्यत्र न भवति । हेतुतृतीया तु नाशङ्किता; अनभिधानात् । न हि हेतुतृतीयान्तावुत्पद्यमानेन ठका विग्रहवाक्यार्थस्याभिधानमस्ति । प्रत्ययार्थ इति । निर्द्धारण एषा सप्तमी, सामान्यापेक्षमेकवचनम् । इह दीव्यतीत्यादौ तिपो बहवोऽर्थाः---एकत्वसङ्ख्या, वर्तमानकाले, युष्मदस्मद्व्यतिरेक इति, तेषु मध्य इत्यर्थः । तदेव दर्शितम् । सङ्ख्याकालयोरविवक्षेति । नान्तरीयकत्वात् । अवश्यं हि यया कयाचित्सङ्ख्य्या येन केनचित्कालेन निर्देश इति तयोरुपादानम्, न तु तयोर्विवक्षा । तत आक्षिकौ आक्षिका इति द्विबह्वोरपि भवति, अक्षैरदीव्यदित्यादौ कालान्तरे चाक्षिक इति भवति, न्यायस्य तुल्यत्वात् पुरुषस्याप्यविवक्षा, तेनाक्षिकस्त्वम्, आक्षैकोऽहमित्यत्रापि भवति । यथैव तर्हि सङ्ख्याकालपुरुषाणामविवक्षा तथा कर्तुरपि प्राप्नोति, एकप्रत्ययवाच्यत्वात् ? नैष दोषः; कर्तुरविवक्षायामाख्यातोपादानमकिञ्चित्करं स्यात् । विपर्ययस्तु न भवति---कर्तुरविवक्षा कालादीनां विवक्षेति; कर्तुः प्रधानत्वात् । सङ्ख्यादिविशिष्टो हि कर्ताऽऽख्यातानां प्रधानभूतोऽर्थः, तेन स तावद्विवक्ष्यते, इतरेषां नान्तरीयकत्वादविवक्षा । किञ्च, साधनस्याप्यविवक्षायां जितमित्यस्योपादानमनर्थं स्यात् । इहाख्यातेषु क्रिया प्रधानभूता, गुणभूतः कर्ता, अत एव किं करोति देवदत इति क्रियाप्रश्ने पचतीत्याख्यातेनोतरं दीयते, न तु कृदन्तेन पाचक इतिः तस्य सत्वप्रधानत्वात् । किञ्च, यदि कृदन्तेष्विवाख्यातेष्वपि कर्ता प्रधानभूतः स्याद्, यथा पाचकस्यापत्यमित्यपत्यादिभिर्योगो भवति, तथाऽऽख्यातवाच्यस्यापि स्यात् पचत्ययमिति, क्रियावेशः स्याद्, यथा---पाचकस्तिष्ठतीति । तस्मात्क्रियाप्रधानमाख्यातम् । ततश्च तद्रथे विधीयमानः प्रत्ययोऽपि क्रियाप्रधानः स्यादिति तदन्तस्यापत्यादिभिर्योगः क्रियावेशश्च न स्यात्---आक्षिकस्यापत्यमाक्षिकं पश्येति । तत्राह---क्रियाप्रधानत्वेऽपि चाख्यातस्येति । आख्यायतेऽनेन क्रिया प्रधानभूतेत्याख्यातस्तिङ्न्तः, ठ्कृत्यल्युटो बहुलम्ऽ इति करणे क्तः, स्वनिकायप्रसिद्धिरेषा । स्वभावादिति । यथा ठ्तेनैकदिक्ऽ, ठ्तसिश्चऽ इत्येतस्मिन्नर्थे विधीयमानयोरण्तयोस्सत्वभूतार्थाभिधायित्वम्, विपर्ययश्च---सौदामनी विद्यौत्सुदामतो विद्यौदिति, तथात्रापि । न हि स्वभावः पर्यनुयोगमर्हति ॥ संस्कृतम् ॥ ४।४।३ ॥ योगविभाग उतरार्थ इति । उतरोऽपवादः संस्कृत एव यथा स्यात् ॥ कुलत्थकोपधादण् ॥ ४।४।४ ॥ कुले तिष्ठति कुलत्थः, अस्मादेव निपातनात्सकारस्य तकारः । केचित्पुनः सकारमेवाधीयते ॥ नौद्व्यचष्ठन् ॥ ४।४।७ ॥ इह ठगधिकारे सूत्रे क्वचित्प्रत्ययस्यानुबन्धो ङीषर्थः । सहि कि सांहितिकः, किं वानुबन्धः ? इति तत्र सन्देहे विपयपरिगणनं करिष्यन्श्लोकवार्तिककारः सर्वानेव षितः परिगणयति---आकर्षादिति---यदि तु यत्र सन्देहस्तानेवोपादायैतावन्तष्ठगधिकारे षित इत्युच्येत, तदा आकर्षादिषु प्रत्ययस्याषित्वमनार्षमाशङ्क्येत । कुसीदसूत्रादिति । कुसीदादिकं सूत्रं यस्य तत्कुसीदसूत्रं कुसीदशब्दश्च, दशैकादशशब्दश्च । ननु सप्तैते भवन्ति, कुसीदादिसूत्रेण द्वयोः षितोर्विधानात् ? इत्यत आह---विधिवाक्यापेक्षं च षट्त्वमिति । सप्तानां प्रत्ययानां विधिवाक्यापेक्षमौपचारिकं पट्त्वमाश्रित्य ठ्षितः षडेतेऽ इत्युक्तम् ॥ आकर्षात् ष्ठल् ॥ ४।४।९ ॥ आकर्षेति । ठ्पुंसि संज्ञायां घः प्रायेणऽ इति अधिकरणे घः ॥ पर्पादिभ्यः ष्ठन् ॥ ४।४।१० ॥ पर्पादिषु ठ्पादः पत्ऽ इति पठ।ल्ते, पादाभ्यां चरति पदिकः, ठ्पद्यत्यतदर्थेऽ इत्यत्र वक्ष्यति--ठ्पद्भाव इके चरतावुपसङ्ख्यानम्ऽ इति, सोऽस्यैव प्रपञ्चार्थः ॥ श्वगणाट्ठञ् च ॥ ४।४।११ ॥ श्वागणिक इति । ननु च श्वशब्दो द्वारादिषु पठ।ल्ते, तदादिविधिश्च तत्रेष्यते, तत्कथं श्वागणिक इति ? तत्राह---श्वादेरिञीत्यत्रेति ॥ वेतनादिभ्यो जीवति ॥ ४।४।१२ ॥ धनुर्दण्डग्रहणं सङ्घातविगृहीतार्थमिति । तन्त्रावृत्येकशेषाणामन्यतमाश्रयणात् ॥ वस्नक्रयविक्रयाट्ठन् ॥ ४।४।१३ ॥ वसेर्वस्नमुमूल्यम् । क्रियविक्रयग्रहणं सङ्घातविगृहीतार्थमिति । उक्तोऽत्र हेतुः । क्रयविक्रयेणेति समाहारद्वन्द्वः ॥ आयुधाच्छ च ॥ ४।४।१४ ॥ आयुध्यतेऽनेनेति आयुधम्, ठ्घञर्थे कविधानम्ऽ इति कप्रत्ययः ॥ हरत्युत्सङ्गादिभ्यः ॥ ४।४।१५ ॥ हरति उ नयति, उपादते वा ॥ भस्त्रादिभ्यः ष्ठन् ॥ ४।४।१६ ॥ भस्त्रम् उ चर्मविकारः, येन लोहादि ध्मायते, येन वा धान्यादिकं नीयते, ठ्हूयामाश्रुभसिभ्यस्त्रन्ऽ इति करणए त्रन् । शीर्षभारः, शीर्षेभार इति पठ।ल्ते, निपातनाच्छीर्षभावः सप्तमीसमासश्च, ठ्तत्पुरुषे कृति बहुलम्ऽ इति सप्तम्या अलुक् ॥ विभाषा विवधवीवधात् ॥ ४।४।१७ ॥ पर्याहारे चेति । परित आह्रियतेऽनेन तण्डुलादिकोऽर्थ इति पर्याहारः उ उभयतो बद्धशिक्याआऽसवाह्यः काष्ठविशेष उच्यते । वीवधशब्दो वार्तिके दर्शनात्सूत्रे प्रक्षिप्तः ॥ अण्कुटिलिकायाः ॥ ४।४।१८ ॥ कुटिलव्याधानामुपरमणम् उ कुटिलिका, संज्ञायां कन् ॥ त्रेर्मम्नित्यम् ॥ ४।४।२० ॥ ड्वितः क्त्रिरित्ययं त्रिशब्दो गृह्यत इति । सङ्ख्यावचनस्त्वनभिधानान्न गृह्यते । उप्त्रिममिति । वच्यादिसूत्रेण संप्रसारणम् । नित्यगंरहणं स्वातन्त्र्यनिवृत्यर्थमिति । प्रत्ययरहितस्य त्र्यन्तस्य प्रयोगः स्वातन्त्र्यम्, स्वातन्त्र्यनिवृतौ सत्यां यो गुणस्तं दर्शयति---त्र्यन्तं नित्यं मप्प्रत्ययान्तमेव भवतीति । एवकारव्यवच्छेद्यं दर्शयति---विषयान्तरे न प्रयोक्तव्यमिति । ननु विभाषया वाक्ये प्रसक्ते नित्यग्रहणं क्रियमाणं निर्वृताधैकारे तद्विषयमेव वाक्यं निवर्तयितुमर्हति---पक्त्रिणा निर्वृतमिति, यथा---ठन उपधालोपिनोन्यतरस्याम्ऽ ठ्नित्यं संज्ञाच्छन्दसोःऽ इति, ततश्च विषयान्तरगतत्र्यन्तस्य स्वातन्त्र्यं स्यादेव कृत्रिमर्हत्सुविहितमिति ? एवं मन्यते---योगविभागोऽत्र कर्तव्यः, ठ्त्रेर्मब्भवति निर्वृतेऽ इत्येको योगः, ततः ठ्नित्यम्ऽ । अत्र त्रेर्मबित्येवापेक्ष्यते न निर्वृत इति; योगविभागसामर्थ्यात् । तेन सर्वविषयस्वातन्त्र्यस्य नित्यग्रहणेन निवृत्तिः क्रियत इति । नन्वेवमपि ठ्नित्यम्ऽ इत्यत्र निर्वृतमित्यस्यानपेक्षणात्स्वातन्त्र्यान्तरे । नित्यमुपाधिः प्राप्नोति ? सत्यम् ; अनभिधानातु तथानाश्रीयते । भावप्रत्ययान्तादिमब् वक्तव्य इति । ठ्तेन निर्वृतम्ऽ इत्येतस्मिन्नर्थे । पाकेन निर्वृतं पाकिममिति । एवं च त्र्यन्तादपि भावाभिधायिन इमपि कृते यस्येति लोपे च कृत्रिममित्यादि सिद्धं भवति, स्वरेऽपि नास्ति विशेषः, उदातनिवृत्तिस्वरेणैवोदातत्वम् । सूत्रारम्भस्तु नित्यग्रहणेन स्वातन्त्र्यं निवर्तयिष्यामीत्येवमर्थे वेदितव्यः ॥ अपमित्ययाचिताभ्यां कक्कनौ ॥ ४।४।२१ ॥ अपमित्येति । ठुदीचां माङे व्यतिहारेऽ इति क्त्वाप्रत्ययेऽपशब्देन समासे क्त्वो ल्यप्, ठ्मयतेरिदन्यतरस्याम्ऽ इतीत्वम्, ठ्क्त्वातोसुन्कसुनःऽ इत्यव्ययसंज्ञा । तेन नात्र तृतीयासमर्थात्प्रत्ययः ॥ संसृष्टे ॥ ४।४।२२ ॥ ननु यद्येन संसृष्ट्ंअ ततेन संस्कृतं भवति; ततश्च संस्कृतमित्येव संसृष्टेऽपि प्रत्ययः सिद्धः ? न सिध्यति; सत उत्कर्षाधानम् उ संस्कारः, एकीभावस्तु उ संसर्गः, न च यत्रासौ तत्रावश्यमुत्कर्षोऽस्ति, अशुचिद्रव्यसंसर्गे हि प्रत्युतापकर्ष एव भवति । तस्मात्संसृष्ट इति वक्तव्यम् । यद्यस्य निबन्धनमस्त्येतदेवास्तु, मा भूत्संस्कृतमित्येतत् ? तदवश्यं कर्तव्यम्, इहापि यथा स्यात्---विद्यया संस्कृतो वैद्यक इति, न ह्यत्र संसर्गोऽस्ति; मूर्तिधर्मत्वात् । किञ्च ठ्कुलत्थकोपधादण्ऽ संस्कृत एव यथा स्यात्ससृष्टे मा भूदित्येमवर्थं संस्कृतमित्येतद्भवतीति वक्तव्यम् ॥ चूर्णादिनिः ॥ ४।४।२३ ॥ चूर्णए ये संसृष्टास्तेषां चूर्णमस्तीति मत्वर्थीयेनैवेनिना सिद्धम् ? सत्यम् ; तद्रूपविवक्षायां सिद्धम् । संसर्गविवक्षायां तु ठक् प्राप्नोति । अनभिधानं तु दुर्ज्ञानम् ॥ लवणाल्लुक् ॥ ४।४।२४ ॥ लवणद्रव्यवाचीत्यादि । लवणशब्दोऽयमस्त्येव गुणवचनः--षण्णां रसानामन्यतमस्य वाचकः, अस्ति च द्रव्यवचनो यः सैन्धवादिषु वर्तते; तत्र यो गुणवचनः स न लुकं प्रयोजयति, मधुरादिशब्दवदभेदोपचारादेव द्रव्ये वृत्तिसिद्धेः । द्रव्यशब्दस्तु सोऽयमित्यभिसम्बन्धाद् द्रव्ये वर्तमानः । यद्यपि प्रष्ठी प्रचरी यष्टीः प्रवेशयेत्यादौ द्रव्यशब्दस्यपि क्वचिदभेदोपचारो दृष्टः, तथापि भेदविवक्षायां तत्स्थोऽपि दृश्यते---प्रष्टस्येयं प्राष्ठी यष्टिमतः पुरुषानिति । तस्माद् द्रव्यवाच्येव लवणशब्दो लुकं प्रयोजयति, स च प्रयोजयत्येव ॥ व्यञ्जनैरुपसिक्ते ॥ ४।४।२६ ॥ ओदनादिषु रसो येन व्यज्यते तद्व्यञ्जनम् । बहुवचननिर्देशः स्वरूपविधिनिरासार्थः । उपसिक्तः उ सेचनेन मृदूकृतः । इह यद्येनोपसिक्तं ततेन संसृष्ट्ंअ भवति, तत्र संसृष्ट इत्येव सिद्धे नियमार्थं वचनम्---व्यञ्जनेभ्य उपसिक्त एव संसृष्टे यथा स्यात्संसृष्टमात्रे मा भूत्, दध्ना संसृष्टा स्थालीति ॥ तत्प्रत्यनुपूर्वमीपलोमकूलम् ॥ ४।४।२८ ॥ क्रियाविशेषणमित्यादि । आख्यातं हि धात्वर्थस्य कर्तव्यतामाचष्टे---वर्तते उ वर्तनं करोति, सुप्यते उ स्वापः क्रियते, शोभनमोदनं पच्यते उ ओदनकर्मकः पाकः शोभनः क्रियते इति । पचिधात्वर्थः कर्तव्य एव सम्बध्यमानः कर्म सम्पद्यते, तस्य यत्समानाधिकरणं विशेषणं तदपि कर्मैव भवति । प्रातीपिकः, आन्वीपिक इति । प्रतिगता आपोऽस्मिन्निति बहुव्रीहिः, ठृक्पूरब्धूःऽ इत्यिकारः समासान्तः, ठ्द्व्यन्तरुपसर्गेभ्योऽप ईत्ऽ इतीत्वम् । व्युत्पत्तिमात्रं चैतत्, प्रतिकूलानुकूलपर्यायौ त्वेतौ । ठूदनोर्देअशेऽ इत्यूत्वमत्र न भवति; अदेशत्वात्, देशत्वे क्रियाविशेषत्वासम्भवात् । सूत्रे ईप्शब्दस्य निर्देशात् । प्रातिलोमिकः, आनुलोमिक इति । पूर्ववद्वहुव्रीहिः, ठच् प्रत्यन्ववपूर्वात्ऽ इत्यच् समासान्तः । अत्रापि व्युत्पत्तिमात्रम्, अर्थस्तु पूर्वोक्त एव । प्रातिकूलिक इति । पूर्ववद्वहुव्रीहिः । अत्रापि कूलार्थो नास्ति । प्रतिसरणं चैतयोरर्थः ॥ परिमुखं च ॥ ४।४।२९ ॥ पारिमुखिक इति । परिरिह वर्तते, तस्य च ठपपरी वर्जनेऽ इति कर्मप्रवचनीयसंज्ञा, ठ्पञ्चम्यपाङ्परिभिःऽ इति पञ्चमी, ठपपरिबहिरञ्चवःऽ इत्यव्ययीभावः, अनेन ठक् । स्वामिनो मुकं वर्जयित्वा यः सेवको वर्तते स पारिमुखिकः । सर्वतो भावे वा परिशब्दः, परितो मुखम्, प्रादिसमासः, यतो यतः स्वमिनो मुखं ततस्ततो वर्तते इत्यर्थः । एवं पारिपार्श्विकः ॥ प्रयच्छति गर्ह्यम् ॥ ४।४।३० ॥ द्विगुणार्थं द्विगुणमिति । द्वैगुणिक उतमर्ण उच्यते, न चासौ द्विगुणं प्रयच्छति, किं तर्ह्येकगुणं दत्वा द्विगुणं गृह्णाति, अत एव तद्गर्ह्यं भवतीति । तस्माद् द्विगुणार्थे द्विगुणशब्दो वर्तयितव्यः । वार्धुषिक इति । वृद्ध्यर्थे धने वृद्धिशब्दः । प्रकृत्यन्तरमेवेति । एतच्च वार्धुषिक इत्येतद्वृत्तिविषयमेव । नियतविषया अपि हि शब्दा भवन्ति, वृद्धिशब्दादनभिधानान्नैव भविष्यति, तेन वार्धिक इत्यनिष्टप्रसङ्गो नोद्भावनीयः । अत कथम् ठ्वार्धुदासमकम्पत ववान्यस्य च वार्द्धुषेःऽ इति ? स्वच्छन्दवाच ऋषयः ॥ कुसीददशैकादशात् ष्ठन्ष्ठचौ ॥ ४।४।३१ ॥ तदर्थं द्रव्यं कुसीदमिति । अत्रापि कुसीदिक इत्युतमर्णस्याभिधानमिष्यते, न चोतमर्णः कुसीदं प्रयच्छति, किं तहि ? अधमर्णः, न च तस्य वृद्धिप्रदानं गर्ह्यम्, तस्मातादर्थ्याताच्छद्ब्यमिति भावः । एकादशार्थं दश दशैकादशशब्देनोच्यन्त इति तत्रैकादशशब्दस्यापि तदर्थेषु दशस्वेव वृतेः सामानाधिकरण्ये सति विशेषणसमासः, ठ्संख्याया अल्पीयस्याःऽ इति दशशब्दस्य पूर्वनिपातः । दशैकादशादिति निर्देशादकारः समासान्तः । एवं वाक्यमप्यकारान्तेनैव भवति---दशैकादशान्प्रयच्छतीति ॥ रक्षति ॥ ४।४।३३ ॥ सामाजिक इति । समाजः उ समूहः, समजत्यस्मिन्निति कृत्वा, एवं सन्निवेशः ॥ शब्ददर्दुरं करोति ॥ ४।४।३४ ॥ शब्दं करोतीति । करोतिरिह ज्ञाने वर्तते, प्रकृत्यादिविभागेन जानातीत्यर्थः । एतच्चाभिधानस्वाभाव्याल्लभ्यते, इह न भवति---शब्दं करोति खर इति । पात्रविशेषवाची दर्दुरशब्दः । अनुकरणशब्द इत्यन्ये ॥ पक्षिमत्स्यमृगान्हन्ति ॥ ४।४।३५ ॥ स्वरूपस्य तद्विशेषणां पर्यायाणां च ग्रहणमिष्यत इति । अत्र हेतुः ठ्स्वं रूपम्ऽ इत्यत्रैवोक्तः । मात्स्यिक इति । ठ्सूर्यतिष्यऽ इति लोपो न भवति; मत्स्यस्य ङ्यामिति परिगणनात् । हारिणिकः, सौकरिक इति । अत्र मृगपर्यायस्योदाहरणं किमित न प्रदर्शितम्, यथा पूर्वयोः द्वावपि ह्यएतस्माद्विशेषौ, आरण्याश्चतुष्पादो मृगाः उच्यन्ते, हरिणपर्यायोऽपि मृगशब्दोऽस्ति, तदपेक्षया हारिणिक इति पर्यायोदाहरणम् ॥ परिपन्थं च तिष्ठति ॥ ४।४।३६ ॥ तदिति द्वितीयासमर्थादिति । परिपन्थशब्दः परिमुखशब्दवदव्ययीभावः, तत्पुरुषो वा । तत्राप्यव्ययीभावपक्षे क्रियाविशेषणातिष्ठतेरकर्मकत्वेऽपि परिपन्थस्य कर्मत्वम्; तत्पुरुषे तु परितः पन्थाः परिपन्थ इति ठ्कालभावाध्वगन्तव्याःऽ इति वचनात्कर्म, तदित्यधिकारसामर्थ्यादित्यन्ये । पारिपन्थिकश्चोर इति । यः पन्थानं वर्जयित्वा तिष्ठति यो वा पन्थानं व्याप्य तिष्ठति स एवमुच्यते । लौकिकवाक्यप्रदर्शनार्थमिति । परिपन्थं तिष्ठतीत्येतल्लौकिकवाक्यं तस्य प्रदर्शनार्थं द्वितीयोच्चारणम् । अथैवमर्थे द्वितीयोच्चारणे किं सिद्धं भवति ? इत्याह---परिपथपर्याय इत्यादि । किमेतस्य ज्ञापने प्रयोजनम् ? इत्याह---स विषयान्तरेऽपीति । असति तु ज्ञापने प्रत्ययसन्नियोगेन परिपन्थशब्दस्य निपातनं विज्ञायते, ततश्च ततोऽन्यत्र प्रयोगो न स्यात् ॥ माथोतरपदपदव्यनुपदं धावति ॥ ४।४।३७ ॥ माथशब्दः पथिपर्याय इति । मथ्यते प्रशाद्यते गन्तृभिरिति कृत्वा । दण्डाकारो मथो दण्डमाथः ॥ आक्रन्दाट्ठञ्च ॥ ४।४।३८ ॥ आक्रन्दो देश इति । दुः खितानां रोदनस्यायनमार्तायनमुच्यते, आर्तैरीयते प्राप्यत इति कृत्वा । आर्तायनमार्तानां त्राता आक्रन्द इत्युच्यते, आक्रन्द्यते आर्तैराहूयत इति कृत्वा ॥ पदोतरपदं गृह्णाति ॥ ४।४।३९ ॥ पदग्रहणे स्वरूपं गृह्यते, न सुप्तिङ्न्तमुतरपदस्य पदत्वाव्यभिचाराद्, अत एवाह---पदशब्द उतरपदं यस्येति ॥ प्रतिकण्ठार्थललामं च ॥ ४।४।४० ॥ कण्ठ्ंअ कण्ठ्ंअ प्रति प्रतिकण्ठम्, ठ्यथार्थे यदव्ययम्ऽ इति वीप्सायामव्ययीभावः । आभिमुख्ये वा, ठ्लक्षणेनाभिप्रती आभिमुख्येऽ इति । यस्तु प्रतिगतः कण्ठ्ंअ प्रतिकण्ठ इति प्रादिसमासः, तस्य ग्रहणं न भवतिऽ अनभिधानात् ॥ धर्म चरति ॥ ४।४।४१ ॥ अधर्माच्चेति वक्तव्यमिति । ग्रहणवता प्रातिपदिकेन तदन्तविधिप्रतिषेधाद्वचनम् । आधर्मिक इति । नञत्र विरोधिवचनः, पापाचार इत्यर्थः ॥ प्रतिपथमेति ठÄश्च ॥ ४।४।४२ ॥ प्रतिपथमिति । पूर्ववद्वीप्सायामव्ययीभावः, ठृक्पूरब्धूःऽ इत्यकारः समासान्तः ॥ समवायान् समवैति ॥ ४।४।४३ ॥ समवायः समूह उच्यत इति । समवयन्ति तस्मिन्निति कृत्वा । न सम्प्रधारणेति । समयपूर्वस्येणः सम्प्रधारणायामपि प्रयोगोऽस्तीतिमन्यते । समागत्य तदेकदेशीभवतीत्यर्थ इति । तत्र गुणभूतसमागमापेक्षया समवायमिति द्वितीयानिर्देशः । लोके तु प्रायेण सप्तमी प्रयुज्यते---द्रव्ये गुणाः समवयन्तीति ॥ परिषदो ण्यः ॥ ४।४।४४ ॥ परितः सीदन्त्यस्यामिति परिषत्, सम्पदादित्वादधिकरणे क्विप्, ठ्सदिरप्रतेःऽ इति षत्वम् ॥ संज्ञायां ललाटकुक्कुट्यौ पश्यति ॥ ४।४।४६ ॥ संज्ञानं संज्ञा उ प्रतीतिः, प्रसिद्धिरित्यर्थः । अभिधेयनियमार्थमिति । अभिधेये सेवकविशेषे भिक्षुविशेषे च नियमः, तत्रैव वृत्तिर्यथा स्यादित्येवमर्थमित्यर्थः । न रूढ।ल्र्थमिति । लालाटिक-कौक्कुटिकशब्दयोर्डित्थादिवदरूढत्वात् तन्नियोगेन वर्तते, यावद्योगे च वर्तते । योगेऽपि ललाटकुक्कुटीदर्शनमात्रेण ठञ् न भवतीत्येतावत्संज्ञाग्रहणेन प्रसिद्ध्युपसंग्रहार्थे न क्रियते । यादृशस्तु योगोऽत्र विवक्षितस्तं दर्शयति---सर्वावयवेभ्य इत्यादि । अनुपश्लेषस्य विवरणं कार्येष्वनुपस्थायित्वमिति, दूरे स्थितो ललाटमेव पश्यति, न पुनः कार्येषूपतिष्ठत इत्यर्थः । कुक्कुटीपातो लक्ष्यते इति । यावति देशे कुक्कुटी पतति यावन्तं देशं समतीत्य निपतीतुं समर्था स देशो लक्ष्यत इत्यर्थः । अनेनापि प्रकारेण देशस्याल्पत्वं लक्ष्यते, कुक्कुटी पततु मा वाऽपतदित्याह---देशस्याल्पतयेति । एतदेव स्पष्टयति---यो हि भिक्षुरिति । भिक्षुः उ संन्यासी ॥ तस्य धर्म्यम् ॥ ४।४।४७ ॥ धर्मः उ अनुवृत आचारः, ततोऽनपेतं धर्म्यम्, ठ्धर्मपथ्यर्थन्यायादनपेतेऽ इति वचनात्। दौवारिकमिति । ठ्द्वारादीनां चऽ इति वृद्धिप्रतिषेधः, ऐजागमश्च ॥ ऋतोऽञ् ॥ ४।४।४९ ॥ होतुर्धर्म्यं हौत्रमिति । होतृशब्दस्य महिष्यादिषु पाठादपपाठोऽयम्, पोतुर्धम्यमिति तु पाठः । अपर आह---यजमानसाहचर्यादृत्विग्वचनस्य होतृशब्दस्य महिष्यादिषु पाठः, अयं तु क्रियाशब्द उदाहृत इति । नराच्चेति वक्तव्यमिति । नृशब्दात्सूत्रेणैवाञि नारमिति सिद्धे नरशब्दाट्ठको निवृत्यर्थं वचनम्, अनभिधानं तु दुर्ज्ञानम् ॥ अवक्रयः ॥ ४।४।५० ॥ अवक्रीयतेऽनेनेत्यवक्रय इति । क्रयो नाम उ स्वद्रव्यत्यागेन परद्रव्यस्वीकरणम्, तस्यावमत्वमवशब्दो द्योतयति । वाणिज्यार्थं तैलधान्यादिकं देशान्तरं नयताऽस्मिन् शुल्कस्थाने प्रतिभारमेतावद् देयमिति तद्देशादिपतिना यत्कल्पितं सोऽवक्रयः, पिण्डक इति चोच्यते । तत्र स्वद्रव्यमेव दत्वा स्वद्रव्यमेव स्वीक्रियते इत्ययमवक्रयो भवति, न तु मुख्यः । नन्वित्यादि । अवक्रयस्याप्यनादिप्रवृतत्वादिति भावः । लोकपीडयेति । अर्थलोभेन धर्मातिक्रमेण धर्मापेतत्वं दर्शयति ॥ तदस्य पण्यम् ॥ ४।४।५१ ॥ पण्यमिति विशेषणामत्यादि । इह यो विशेषणमुपाधिर्वोपादीयते द्येत्ये तस्मिस्तेन भवितव्यम्, तद्यथा---ठ्सास्य देवताऽ, इन्द्रो देवता अस्य ऐन्द्रः स्थालीपाक इति देवतात्वं वृतावन्तर्भवति, तद्वदत्रापि पण्यत्वमन्तर्भवतीति नात्रापूर्वं किञ्चित् ॥ किशरादिभ्यष्ठन् ॥ ४।४।५३ ॥ किशरादयो गन्धविशेषवचनास्तद्वति वर्तन्ते, गन्धान्पिनष्टीति यथा ॥ शलालुनोऽन्यतरस्याम् ॥ ४।४।५४ ॥ शलालुक इति । ठिसुसुक्तान्तात्कःऽ ॥ शिल्पम् ॥ ४।४।५५ ॥ कौशलमिति । क्रियाभ्यासपूर्वको ज्ञानविशेषः । मृदङ्गवादनं शिल्पमस्येति । मृदङ्गो वाद्यते येन तन्मृदङ्गवादनं शिल्पम् भावसाधनस्य गौणं सामानाधिकरण्यम् । मृदङ्गवादनविषयं शिल्पमस्येत्यर्थः । मार्दङ्गिक इति । ननु मृदङ्गवादनं शल्पिमस्येति विग्रहः कृतः, ततश्च मार्दङ्गवादनिक इति भवितव्यम् ? तत्राह---मृदङ्गेत्यादि । मृदङ्गवादनशब्दातु प्रत्ययो न भवत्यनभिधानात्, किं तूपचरितवृतेरपि मृदङ्गशब्दादेव भवति । अत एवानभिधानात् मृदङ्गनिष्पादनं श्लिपमस्य मार्दङ्गिकः कुम्भकार इत्यत्र न भवति ॥ मड्डकझर्झरादणन्यतरस्याम् ॥ ४।४।५६ ॥ अयमेव निर्देशो ज्ञापयति---ठ्तद्वादनवृत्तिभ्यो मृदङ्गादिभ्यः प्रत्ययःऽ इति । न हि मुख्यमड्डुकझर्झरयोः शिल्पेन समानाधिकरण्यमुपपद्यते ॥ प्रहरणम् ॥ ४।४।५७ ॥ प्रहरणमायुधम्, प्रह्रियतेऽनेनेति कृत्वा । धानुष्क इति । पूर्ववत् कादेशः, ठिणः षःऽ इति विसर्जनीयस्य षत्वम् ॥ परश्वधाट्ठञ्च ॥ ४।४।५८ ॥ परश्वधः उ परशु ॥ शक्तियष्ट।लेरीकक् ॥ ४।४।५९ ॥ शक्यतेऽनया प्रहर्तुमिति शक्तिः, यष्टिशब्दोऽव्युत्पन्नं प्रातिपदिकम् । किमर्थमीकगुच्यते न कगेवोच्यते, का रूपसिद्धिः ? शक्तियष्टिशब्दाभ्यां बह्वादिङीषन्ताभ्यां लिङ्गविशिष्टपरिभाषया ककि कृते शाक्तीको याष्टीक इति सिद्धम् ; न सिध्यति ? ठ्केऽणःऽ इति ह्रस्वत्वं प्राप्नोति । विभाषा ङीबुक्तः, तदभावपक्षे दीर्घस्य शङ्कैव नास्ति ? एवं तर्हि इकगेवोच्येत, इकारेऽपि हि सवर्णदीर्घत्वे सिध्यति, यस्येति लोप इकारोच्चारणसामर्थ्यान्न भविष्यति । पदस्यावग्रहनिवृत्तिरिकारस्य प्रयोजनम् । एवं तर्हि सूत्रारम्भो निष्फलः स्यात्, पूर्वसूत्रविहितेन ठकैवावग्रहनिवृतेः सिद्धत्वात् ? नानर्थकम् ; वाक्यनिवृत्यर्थत्वात् । एवमपि प्रत्ययान्तरमनर्थकं शक्तियष्ट।लेरित्येतावद्वक्तव्यम्, ठक् प्रकृतः, तस्य पुनर्विधानं वाक्यनिवृत्यर्थं भविष्यति, किमीकको विधानेन, तद्विधानातुयस्येति लोपो न भविष्यति । यथैव तर्हि यस्येति लोपो न भवति एवं सवर्णदीर्घत्वमपि न स्यात्; यं विधिं प्रत्युपदेशोऽनर्थकः स विधिर्बाध्यते, यस्य तु विधेर्निमितमेव नासौ बाध्यते, यस्येतिलोपं च प्रति इकारोच्चारणमनर्थकं सवर्णदीर्घस्य पुनर्निमितमेव ॥ अस्तिनास्तिदिष्ट्ंअ मतिः ॥ ४।४।६० ॥ यद्यस्ति मतिर्यस्य स आस्तिकः, चोरेऽपि प्राप्नोति, तस्यापि मतिसद्भावात् ? तत्राह---न चेति । तद्विपरीत इति । परलोको नास्तीति मतिर्यस्य तन्नास्तिकःउ लौकायतिकः, न त्वचेतनः पदार्थः, मत्यभावमात्रे प्रत्ययस्यानिष्टत्वात् । दिष्टम् उ दैवम्, तद्विषया मतिर्यस्य स दैष्टिकः, वृतावपि प्रमाणानुपातिनी मतिर्यस्येति दैववित्, प्रमीयते तेभ्यो दैवमिति । प्रमाणशब्देनेतिहासपुराणादिविवक्षितम् । अस्तिनास्तिशब्दौ निपाताविति । तेन प्रातिपदिकाधिकारो न बाध्यते इति भावः । वचनसामर्थ्याच्चेत्यभ्युपगम्यवादः ॥ शीलम् ॥ ४।४।६१ ॥ शीलं स्वभाव इति । शील्यते पुनः पुनः क्रियतेऽनेनेति कृत्वा । अपूपभ७णं शीलमस्येति । शीलविषये शीलत्वमारेप्य सामानाधिकरण्येन व्यपदेशः । भक्षणक्रियेत्यादि । शीलं तावदुपातत्वादन्तर्भवति, क्रियाविषयत्वाच्च शीलस्य क्रियाद्यन्तर्भवति, स्वभावाच्च भक्षणक्रिया, न निष्पादिका ॥ च्छत्रादिभ्यो णः ॥ ४।४।६२ ॥ च्छत्रशीलता शिष्यस्य दर्शयितुमाह---छादनादावरणाच्छत्रमिति । छादयतेः ष्ट्रनि ठ्हस्मन्त्रन्क्विषु चऽ इति ह्रस्वः । च्छत्रशील इति । च्छत्रसहचरिता छादनक्रिया शीलमस्येत्यर्थ । यदि त्वपूपभक्षणं शीलमस्यापूपिक इतिवत् च्छत्रावरणं शीलमस्य छात्रिक इति व्युत्पाद्यते, तदा दासेऽपि प्राप्नोति; अभिधानस्वाभाव्यातु तथा नाश्रीयते । उपसर्गपूर्वो गृह्यते इति । ततश्च तस्य ठातश्चोपसर्गेऽ इत्यादिना व्युत्पत्तिः; केवलस्य स्थाशब्दस्याभावात् । केवलस्य तु पाठः सर्वोपसर्गग्रहार्थः । चुरेति पठ।ल्ते, तत्र चोरयतेः ठ्ण्यासश्रन्थो युच्ऽ इति युचि प्राप्तेऽस्मादेव निपातनादकारः, गुणाभावश्च । न च युचोऽन्यत्र बाधः, चोरणेत्यपि भवति ॥ कर्माध्ययने वृतम् ॥ ४।४।६३ ॥ कर्म उ क्रिया, तच्च स्खलितमपचाररूपं विवक्षितम्, न तच्छीलं कर्म, तेनेह न भवति---अध्ययने जपो वृतोऽस्येति । एतच्चभिधानस्वाभाव्याल्लभ्यते । तदेतद्वक्ष्यति---यस्याध्ययने नियुक्तस्येत्यादि । एकमन्यदिति । सम्यक्पाठापेक्षया ॥ बह्वच्पूर्वपदाट्ठच् ॥ ४।४।६४ ॥ स्वरभेदेऽप्यन्यत्वं भवति, न वर्णभेद एवेत्याह---उदाते कर्तव्ये इति । उदातग्रहणं सम्यक्स्वरस्योपलक्षणम् । अनुदातग्रहणं चासम्यक्स्वरस्य ॥ हितं भक्षाः ॥ ४।४।६५ ॥ हितम्, भक्षाः---इति पदयोः पर्यवसानेन सम्बन्धः । अत्र ठ्हितम्ऽ इति सामान्योपक्रमत्वादेकवचनं नपुंसकत्वं च । ठ्भक्षाःऽ इत्यपूपादिविशेषेषूपसंग्रहात्पुंल्लिङ्गं बहुवचनं च । अत एवाह---यतत्प्रथमासमर्थं हितं चेतद्भवति तच्च भक्षा इति । एवं तर्हीति । एवं च चतुर्थ्यर्थे प्रत्ययो न षष्ठ।ल्र्थे । कथं तर्हि पूर्वमुक्तमस्येति षष्ठ।ल्र्थ इति ? एवं तर्ह्यधिकारमात्रापेक्षया तदुक्तम् । अपर आह---ठ्हितं भक्षास्तदस्मैऽ इति सूत्रच्छेदः, ततः ठ्दीयते नियुक्तम्ऽ इति तस्या एवेति । हितार्थः क्रिया चेति । हितार्थस्तावदु पातत्वादन्तर्भवति । भक्षणक्रियाप्यपूपादिशब्दानां लक्षणया तत्र वृतेरन्तर्भवति ॥ तदस्मै दीयते नियुक्तम् ॥ ४।४।६६ ॥ अव्यभिचारोनियोग इति । अस्मिन्पक्षे नियुक्तमिति क्रियाविशेषणत्वात्कर्मणि द्वितीया । अग्रभोजनमस्मै नियुक्तं दीयत इति । यद्यग्रभोजनं दीयते तदास्मै एवेत्येष नियोगार्थः । तेन कदाचिल्लोपेऽपि न नियुक्तताया हानिः । केचित्विति । अत्र पक्षे नियुक्तमित्यन्तसंयोगे द्वितीया ॥ श्राणामांसौदनाट्टिठन् ॥ ४।४।६७ ॥ ठ्श्रा पाकेऽ क्तः, क्षीरहविषोरेव निपातनाच्छभावाभावे ठ्संयोगादेरातो धातोःऽ इति निष्टातकारस्य नकारः । श्राणा उ यवागूः । मांसमिश्र ओदनो मांसौदनः । ठञेव कस्मान्नोक्त इति । लाघावात्स एव युक्तो वक्तुमिति भावः । न ह्यत्रेति । द्वे अप्येते प्रकृती पूर्वमेव वृद्धे, योऽपि ठ्वृद्धिनिमितस्यऽ इति पुंवद्भावप्रतिषेधः, स टिठन्यपि ठ्न कोपधायाःऽ इति भवति । मासौदनग्रहणमित्यादि । ठञ्येव वक्तव्ये टिठनो वचनमेवात्र प्रमाणमिति तेषां भावः ॥ भक्तादणन्यतरस्याम् ॥ ४।४।६८ ॥ भजेर्भक्तम् उ अन्नम् ॥ तत्र नियुक्तः ॥ ४।४।६९ ॥ नियुक्तमिति प्रकृते पुननियुक्तग्रहणमर्थभेदार्थमेव, तमेवार्थभेदं दर्शयति--नियुक्तोऽधिकृत इत्यादि । किञ्च--प्रकृतं नियुक्तग्रहणं प्रकृत्यर्थविशेषणस्य दीयत इत्यस्योपाधिः, न तस्येह प्रत्ययार्थत्वं शक्यं विज्ञातुम् ॥ अध्यायिन्यदेशकालात् ॥ ४।४।७१ ॥ अधीते इत्यध्यायी, आवश्यके णिनिः, ग्रह्यादिलक्षणो वा । अध्यनस्य यौ देशकालौ शास्त्रेण प्रतिषिद्धौ तावदेशकालशब्देनोच्येते इति । अप्रतिषिद्धाभ्यां देशकालशब्दाभ्यामन्यत्वात्पर्युदासवृत्या, अभक्ष्यास्पर्शनीयवत् । तद्यथा---शूद्रादिप्राणिभिर्भक्ष्यमाणमपि लशुनमभक्ष्यमित्युच्यते, स्पृश्योऽपि चण्डालोऽस्पृश्य इत्युच्यते, अप्रतिषिद्धाभ्यां भक्ष्यस्पृश्याभ्यामन्यत्वात्; तद्वदिहापि श्मशानचतुर्दश्यौ स्वरूपेण देशकालावेव सन्तावप्रतिषिद्धाभ्यां देशकालाभ्यामन्यत्वाददेशकालशब्देनोच्येते । ठध्यनस्यऽ इत्येतदध्यायिना प्रत्ययार्थेन सन्निधापितत्वाल्लभ्यते ॥ कठिनान्तप्रस्तारसंस्थानेषु व्यवहरति ॥ ४।४।७२ ॥ व्यवहरति सम्भवति पणिना समानार्थः, आह हि---ठ्व्यवहृपणोः समर्थयोःऽ इति; अस्ति विवादे---व्यवहारे पराजित इति, अस्ति विक्षेपे---शलाकां व्यहरतीति, अस्ति क्रियातत्वे; तदिह चरमस्य ग्रहणं तद्धितस्वभावादित्याह---व्यवहारः क्रियातत्वमिति । यत्र देशे या क्रिया यथानुष्ठेया तत्र तस्यास्तथानुष्ठानमित्यर्थः । वंशाःउवेणवः कठिना यस्मिन्वंशकठिनो देशः । वर्ध्री उ चर्मविकारः कठिना अस्मिन्वर्ध्रकठिनः, आहिताग्न्यादित्वाद्विशेषणस्य परनिपातः । चक्रयुक्तेन शकटेन चरतीति चक्रचरः, स देशाननुक्रमेण चरन् तत्रानुष्ठेयाविपरीतं चरन्नेवमुच्यते । संस्थानप्रस्तारौ सन्निवेशौ ॥ निकटे वसति । ४।४।७३ ॥ अरण्यं निवासे यस्य स आरण्यकः, ठरण्यान्मनुष्येऽ इति वुञ् । भिक्षुः - संन्यासी । ग्रामात्क्रोशे इति । ठ्यतश्च निर्द्धारणम्ऽ इति पञ्चमी । अयं च विविषोऽभिधानस्वभावाल्लभ्यते ॥ आवसथात् ष्ठल् ॥ ४।४।७४ ॥ आवसत्येतमिति आवसथः, ठुपसर्गे वसेःऽ इतियथप्रत्ययः । ठकः पूर्णो विधिरिति । प्राग्वहतीयस्य ठको विधानं पूर्णामित्यर्थः, अवधिरिति पाठे पूर्णः प्राप्त इत्यर्थः ॥ तद्वहति रथयुगप्रासङ्गम् ॥ ४।४।७६ ॥ ननु य एवार्थो रथं वहतीति स एव रथस्य वोढेअति, तत्र तस्येदं रथाद्यदित्येव सिद्धं नार्थो रथग्रहणेन ? ननु तत्रोक्तं रथाङ्गएवेष्यत इति, वोढर्यपि प्रयोगदर्शनादिष्यताम् ? इदं तर्हि प्रयोजनम्---द्वौ रतौ वहति द्विरथ्यः, ठ्द्विगोर्लुगनपत्येऽ इति प्राग्दीव्यतीयो लुग्मा भूत्, ठ्रथसीताहलेभ्यो यद्विधौऽ इति तदन्तविधिः । ठ्युग्यं च पत्त्रेऽ इत्येव सिद्धम् । इह युगग्रहणमयुग्यमित्यत्र ठ्ययतोश्चतदर्थेऽ इति स्वरार्थम्, निपातनस्य तु क्यबन्तत्रादेष स्वरो न स्यात् । रथाङ्गवचनोऽयं युगशब्दः, इह न भवति---युगं वहति राजा कलिं द्वापरं वेति । प्रासङ्गशब्दो वत्सानां दमनकाले स्कन्घे यत्काष्ठमासज्यते तद्वाची गृह्यते, प्रसज्यते इति प्रासङ्गः, इह न भवति---प्रसङ्गादागतः प्रासङ्गस्तं वहतीति । एतच्चाभिधानस्वभावाल्लभ्यते ॥ धुरो यड्ढकौ ॥ ४।४।७७ ॥ धूर्धूर्वतेः, ठ्भ्राजभासऽ इति क्विप्, ठ्राल्लोपःऽ । धुरं वहतीति धुर्य इति । ठ्न भकुर्छुअराम्ऽ इति प्रतिषेधात् ठ्हलि चऽ इति इति दीर्घाभावः । ढञत्र विधीयते, न तु ढकञ् । धौरेयो भविता पितुरिति च दृश्यते, धौरेयक इति स्वार्थिके कनि भवति । इह ठ्धुरो ढक् चऽ इति वक्तव्यम्, चकारात्प्राग्घतीयो यद्भविष्यति ॥ खः सर्वघुरात् ॥ ४।४।७८ ॥ स्त्रीलिङ्गनिर्देशो न्याय्य इति । सर्वा चासौ धूश्चेति ठ्पूर्वकालऽ इत्यादिना समासः, ऋक्पूरब्धूःऽ इत्यकारः समासान्तः, तत्र धूः शब्दस्य स्त्रीलिङ्गत्वात् ठ्परवल्लिङ्गं द्वन्द्वतत्पुरुषयोःऽ इति वचनात् स्त्रीलिङ्गनिर्देशस्य न्याय्यत्वम्, यथा---ठ्बन्धुनि बहुव्रीहौऽ इत्यत्र । दक्षिणधुरीणः । दक्षिणां धुरं वहति, उतरां धुरं वहतीति तद्धितार्थे समासः, ततोऽकारः समासान्तः ॥ एकधुराल्लुक् च ॥ ४।४।७९ ॥ एकधुरादिति निर्देशः सर्वधुरादित्यनेन व्याख्यातः । चकारेण खोऽनुकृष्यते, तेन स तावद्विधेयः, प्रत्ययादर्शनस्य च लुक् संज्ञा । न चान्योऽत्र प्रत्ययः, तेन खस्यैव लुग्विज्ञायते, तस्य यदि लुक् स्याच्चकारेणानुकृष्य विधानमनर्थकं स्यात् । एकधुराल्लुगिति वक्तव्यम्, लुक् स्वभावादनन्तरस्व खस्य प्राकरणिकस्य यतो वा विधिरनुमास्यते, तदाह---तस्य च तुग्भवतीति एकधुरीण इति । एकां धुरं वहतीति तद्धितार्थे समासः, तत्रोक्तोऽकारः समासान्तः, ततः खः ॥ शकटादण् ॥ ४।४।८० ॥ शकटादण्विधानमनर्थकम् । कथं शाक्ट इति ? ठ्तस्येदम्ऽ इत्यण् भविष्यति, यो हि शकट्ंअ वहति शकटस्यासौ वोढा भवति ? तत्राहुः---आरम्भसामर्थ्यादत्रापि तदन्तविधिः, तेन द्वे शकटे वहति, द्वैशकट इति प्राग्दीव्यतीयो लुग्न भवति ॥ हलसीराट्ठक् ॥ ४।४।८१ ॥ इह यो हलं वहति सरआआ च तस्यासौ वोढा भवति, तत्र तस्येदं हलसीराट्ठगित्येव हालिकः सौरिक इति सिद्धम्, नार्थोऽनेन ? अत्राहुः---आरम्भसामर्थ्यादत्रापि तदन्तविधिः, द्वैहालिकः, द्वैसीरिकः, त्रैसीरिक इति लुङ् न भवतीति ॥ संज्ञायां जन्याः ॥ ४।४।८२ ॥ जामातुर्वयस्येति । सा हि प्रणयकलहादौ जनीं जामातुः समीपं प्रापयति । जनी वधूरुच्यत इति । जायतेऽस्यां गर्भ इति कृत्वा । ठ्जनिवध्योश्चऽ इति वृद्धिप्रतिषेधे ठ्कृदिकारादक्तिनःऽ इति ङीष् ॥ विध्यत्यधनुषा ॥ ४।४।८३ ॥ पादौ विध्यन्ति पद्या इति । तदन्तीत्यर्थः । ठ्पद्यत्यतदर्थे इति पद्भावः । ऊरव्या इति । ठोर्गुणःऽ, ठ्वान्तो यि प्रत्ययेऽ । नन्वसमर्थत्वादिति । सापक्षमसमर्थं भवतीत्यसामर्थ्यम्, प्रत्ययार्थो ह्यत्र बाह्यम्, करणं धनुरपेक्षते । ननु व्यधनमत्र सापेक्षम्, करणक्रिययोः सम्बन्धात्, व्यधनं च प्रधानम्, क्रियाप्रधानत्वादाख्यातस्य, भवति च प्रधानस्यं सापेक्षस्यापि वृत्तिः, यथा---राजपुरुषः शोभन इति ? भवतु क्रियाप्रधानमाख्यातम्, तद्धितस्तु स्वभावात्साधनप्रधानः । क्रिया तु गुणभूतेत्युक्तम् सा च धनुरपेक्षत इत्यसामर्थ्यम् । अनभिधानच्चेति । अत्रैकोपपत्यन्तरमनभिधानमेव दर्शयति । न हीति । ठ्धनुषा पद्यःऽ इत्युक्ते इत्थम्भूतलक्षणा सहयोगलक्षणा वा तृतीया गम्यते, न तु पादौ धनुषा विध्यतीत्ययं विवक्षितोऽर्थः । अवश्यं चैतदेवं विज्ञेयम्---असमर्थत्वादनभिधाअनाच्चात्र प्रत्ययो न भवतीति । यो हि मन्यते---ठधनुषेति प्रतिषेधात्प्रत्ययो न भवतिऽ इति, तस्य शर्कराभिः पादौ विद्ध्यति कण्टकैरूरू विद्ध्यतीत्यत्र प्रत्ययः स्यादेव ? एवं तर्हि विशेषोपलक्षणपरोऽत्र धनुषेति निर्देशः, न तु धनुषः करणत्वप्रतिषेधपर इत्यर्थः । धनुष्प्रतिषेधेनेति । ठ्नित्यं समासेऽनुतरपदस्थस्यऽ इति षत्वमुपलक्षणत्वमेव प्रतिपादयति । यस्यामिति । तेनेह न भवति---चौरं विद्ध्यतीति । सम्भाव्यते हि प्रच्यवच्छेदनादिकायां चोरस्य व्यधनक्रियायां धनुषः करणत्वम् ॥ धनगणं लब्धा ॥ ४।४।८४ ॥ लब्धेति तृनन्तमेतत्, तृजन्ते तु ठ्कर्तृकर्मणोः कृतिऽ इति षष्ठ।ल भवितव्यम् । तृनन्ते तु ठ्न लोकाव्ययनिष्ठाऽ इति प्रतिषेधाद् द्वितीयैव भवति ॥ वशङ्गंतः ॥ ४।४।८६ ॥ ठ्वश कान्तौऽ, वशनं वशः, ठ्वशिरण्योरुपसङ्ख्यानम्ऽ इत्यच् । कामःउइच्छा, तां प्राप्त इति । परेच्छानुगामीत्यर्थः ॥ पदमस्मिन् दृश्यम् ॥ ४।४।८७ ॥ निर्देशादेव प्रथमा समर्थविभक्तिरिति । द्वितीया तु न भवति; दृश्यमिति क्यपा कर्मणोऽभिहितत्वात् । शक्यार्थे कृत्यप्रत्यय इति । तेन योग्यत्वे सति पदस्पर्शनाभावेऽपि पद्यः कर्दम इति प्रयोग उपपद्यत इति भावः । मुद्राउ सन्निवेशः, प्रतिरूपा मुद्रा प्रतिमुद्रा । नातिद्रवो नातिशुष्क इति । पांसवोऽति नात्यल्पा नातिबहुलाः पद्याः ॥ मूलमस्यावर्हि ॥ ४।४।८८ ॥ प्रथमासमर्थादिति । द्वितीयाया निमिताभावान्निर्देशादेव प्रथमैव भवतीति भावः । ठ्वृहू उद्यमनेऽ, वादिरयं न बादिः । दृश्यते हि ठुद्वृह रक्षः सहमूलमिन्द्र ह्यस्मुष्मिक् प्रवृहाणऽ, ठ्तद्ववर्हात्मनोदेवाऽ इति च आवर्हणमावर्हःऊत्पाटनम्, आवर्होऽस्यास्तीत्यावर्हि, सुष्ठुअ पक्वा न शक्यन्ते संग्रहीतुम् । मध्यतो लूयमाने कोशस्था अपि यस्यामवस्थायां पतेयुस्तामवस्थां प्राप्ता इत्यर्थः ॥ संज्ञायां धेनुष्या ॥ ४।४।८९ ॥ यश्च प्रत्ययो निपात्यत इति । कुत्र ? अनिर्दिष्टार्थत्वात्स्वार्थे, तदाह---या धेनुरुतमर्णायेति । कथं पुनर्यति प्रकृते यप्रत्ययो निपात्यते ? तत्राहान्तोदातोऽपि ह्ययमिष्यत इति । यति हि ठ्तित्स्वरितम्ऽ इति स्वरितः स्याद्, अन्तोदातश्चेष्यते, न केवलं संज्ञायाम्, अपि त्वन्तोदातोऽपीत्यपिशब्दस्यार्थः ॥ गृहपतिना संयुक्ते ञ्यः ॥ ४।४।९० ॥ अन्यस्यापीत्यादि । गृहपतिर्हि यजमानः, स यथा गार्हपत्ये कार्याणि करोति तथा दक्षिणाग्नावाहवनीये च, भूयो वाऽऽहवनीये; तस्मादन्यस्यापि गृहपतिना योगोऽस्ति । यद्येवम्, तत्राप्यतिप्रसङ्गः ? इत्यत आह---तत्रेति । अपर आह---गृहपतिरग्निविशेषः, तेन संयोगो गार्हपत्यस्यैवाग्निहोत्रेऽपि गार्हपत्ये अग्नये गृहपतये प्रजापतये, पत्नीसंयाजेषु च तत्रैवेज्यते इति , तत्रापि गृहपतिरग्निर्गृह्यते न यजमान इत्यत्र संज्ञाधिकार एव शरणम् ॥ नौवयोधर्मविषमूलमूलसीतातुलाभ्यस्तार्यतुल्यप्राप्यवध्यानाम्यसमसमितसम्मितेषु ॥ ४।४।९१ ॥ तत्र नावादीनां प्रथममूलान्तानां पञ्चानां द्वितीयमूलादीनां च त्रयाणां पूर्वं पृथक्पृथक् द्वन्द्वं कृत्वा ततो द्वयोरपरो द्वन्द्वः कृतः, न त्वष्टानां युगपत्सहविवक्षा; कि सिद्धं भवति ? न मूलयोः सारूप्यादेकशेषो भवति । का पुनरत्र समर्थविभक्तिः ? इत्यत आह---प्रत्ययार्थद्वारेणेति । द्वारम् उ मुखम्, उपायः । इह तार्यादयः प्रत्ययार्थाः, तत्सम्बन्धे करणे कर्तरि हेतौ तुल्यार्थयोगे च यथासम्भवं तृतीयैव भवति । नाव्यमिति । अत्र तावतरणक्रियायां करणत्वम् । वयसा तुल्य इति । तत्र हेतुमाह---यो येन वयस्तुल्यः स तं प्रति वयस्यः । शत्रौ न भवतीति । किं तु मित्र एव भवति । ननु चेति । धर्मेण प्राप्यं सुखादि, फलमपि धर्मादनपेतमेव; कार्यस्य कारणाविनाभावादिति प्रश्नः । धर्मं यदनुवर्तत इति । अनादिः शिष्टसमाचारस्तज्जन्यो वाऽऽत्मगुणो धर्मः, यदनुष्ठानमनुवर्तते तद्धर्मादनपेदतम्, फलं तु धर्मादपैत्येवेति कुतः ? इत्याह---कार्यविरोधित्वादिति । धर्मस्य कार्यं सुखानुभवः, कार्यं विरोधि नाशकं यस्य स कार्यविरोधी, तस्य भावः कार्यविरोधित्वं तस्मादित्यर्थः । उत्पन्ने हि फले धर्मो नश्यति, अन्यथा सकृद्धर्मे कृत स्वर्गमनुभवतः प्रभवो न स्यात् । वधमर्हतीत्यर्थ इति । वध्यशब्दस्य ठ्दण्डादिभ्यो यःऽ इत्यत्रार्थे व्युत्पादितत्वात्। अनाम्यमभिभवनीयमिति । अनेकार्थत्वाद्धातूनामापूर्वो नमिरभिभवे वर्तते । पटादीनामुत्पत्तिकारणमिति । पटादीनामुत्पत्यर्थं वणिग्भिर्विनियुक्तं यद्वस्तु तन्मूलशब्दवाच्यमित्यर्थः । तेनेति । मूलेन । तदिति । मूल्यम् । शेषीक्रियत इति । शेषीकरणमेवात्राभिभव इत्यर्थः । गुणभावमापद्यते कथमित्याह---मूलं हि सगुणं मूल्यं करोतीति । मूल्यमिह कर्तृ, मूलं कर्म, पटादिषु विक्रीयमाणेषु यन्मूलातिरिक्तं वस्तु लाभो नाम तन्मूल्यम्, गुणो भागः, स पुनरिह मूल्यमेव, तेन सह वर्तते सगुणः, हिशब्दो हेतौ । एतदुक्तं भवति---यस्मान्मूल्यमात्मनैव भागभूतेन सभागं मूलं करोति तस्मान्मूले मूल्यभिभूयते शेषीक्रियते, मूल्ये सति तेन गुणेन सगुणं मूलं भवतिः इयमेव चावनतिः, अयमेवाभिभवः, इदमेव शेषीकरणम् । लोके तु यावता द्रव्येण पटादिको विक्रीयते तत्र समुदाये मूल्यशब्दः प्रसिद्धः, नं मूलतिरिक्ते भागे, स च मूल्यसम्भवादौतत्रापि क्रयद्रव्ये मूल्यशब्दप्रयोगः सिद्धो भवति । सीता उ हलाग्रम्, सम्पूर्वादिणः क्तः, समितम् उ सङ्गतम्, निम्नोन्नतादिरहितं कृतमित्यर्थः, समीकृतमिति यावत् । द्विसीत्यमिति । द्वाभ्यां सीताभ्यां समीकृतमिति तद्धितार्थे समासः, ततः प्रत्ययः । तुलया सम्मितं तुल्यमिति । अत्र तुल्यार्थयोगे तृतीया । यद्यपि तद्योगे षष्ठ।ल्ति भवति, तथापि नावादिभिस्साहचर्यातुलाशब्दादपि तृतीयासमर्थादेव प्रत्ययः । अत एव पूर्वमुक्तम्---ठ्तृतीयासमर्थविभक्तिर्लभ्यतेऽ इति । षष्ठ।ल्न्तादपि न कश्चिद्दोषः, न्यायस्तु कथितः । कथं पुनस्तुल्यस्य तुलया सदृशत्वमत आह---यथेति । एवं तदपीति । तदपि तुल्यं प्रतियोगिनं सादृश्येन परिच्छिनति, एतद् व्युत्पाद्यत्वेन प्रदर्शितम् । सदृशपर्यायस्तुल्यशब्दः, नावयवार्थः कश्चित्, अत एव ठ्तुल्यास्यप्रयत्नं सवर्णम्ऽ इत्यत्रोक्तम्---ठ्तुल्यशब्दः सदृशपर्यायःऽ इति ॥ धर्मपथ्यर्थन्यायादनपेते ॥ ४।४।९२ ॥ निर्देशादेवेति । सत्यर्थसम्भवेऽर्थान्तरस्य वा सम्भवे सति निर्देशादिति द्रष्टव्यम्, ठ्धुरो यड्ढकोऽ इत्यत्रातिप्रसङ्गो नोद्भावनीयः । संज्ञाधिकारादभिधेयस्य नियत इति । शास्त्रीयात् पथो यदनपेतं तत् पथ्यम्, न तु तस्मादनपेतश्चोरः ॥ च्छन्दसो निर्मिते ॥ ४।४।९३ ॥ प्रत्ययार्थसामर्ध्यं लभ्यते इति । निर्माणे च्छन्दसः करणत्वात् । इष्टपर्यायश्चन्दः शब्दो गृह्यते इति न वेदवचनः, नापि त्रिष्टुअबादिवचनः । एतच्च संज्ञाधिकाराल्लभ्यते । यद्यपि स्वच्छन्दतो हि वचसांप्रवृत्तिः, ठ्च्छन्दानुवृत्तिदुत्साध्याऽ इत्यादावकरान्तश्च्छन्दशब्द इच्छापर्यायः, तथापि तस्यैव धातोरसुन्नन्तस्येच्छावाचित्वमविरुद्धं चेति मन्यते ॥ उरसोऽण् च ॥ ४।४।९४ ॥ औरसः पुत्र इति । आत्मनोत्पादित इत्यर्थः । संज्ञाधिकारादभिधेयनियम इति । उरसा निर्मितं सुखमित्यादौ न भवति ॥ हृदयस्य प्रियः ॥ ४।४।९५ ॥ हृदयम् उ अन्तः करणम्, प्रियम् उ प्रीतिकरम् । हृद्यमिति । ठ्हृदयस्य हृल्लेखयदण्लासेषुऽ इति हृदादेशः ॥ बन्धने चर्षौ ॥ ४।४।९६ ॥ षष्ठीसमर्थादिति । बन्धनयोगे कृद्योगलक्षणा कर्मणि षष्ठी । ऋषिर्वेदो गृह्यते इति । ठ्तदुक्तमृषिणाऽ इत्यादौ दर्शनात् । यत्स्वाध्यानसम्पन्ने वसिष्ठादवृषिशब्दः, तस्य ग्रहणं न भवति; संज्ञाधिकारात् ॥ मतजनहलात्कर्णजल्पकर्षेषु ॥ ४।४।९७ ॥ प्रत्ययार्थसामर्थ्यलब्धेति । करणादयः प्रत्ययार्थाः, तद्वचनाः करणादयः शब्दाः कृदन्ताः, तद्योगे यथायथम् ठ्कर्तृकर्मणोः कृतिऽ इति षष्ठी भवति । संज्ञाधिकाराद्धलसम्बन्धाच्च कर्पशब्दोऽपि क्रियावचनो गृह्यते, न परिमाणशब्दः । मतस्य करणमिति कर्मणि षष्ठी । जनस्य जल्प इति कर्तरि । जल्पशब्दो भावसाधनः, अत एवात्र भावः साधनं वेति नोक्तम् । हलस्य कर्षं इति कर्मणि षष्ठी, करणस्य वा कर्तृत्वविवक्षायां कर्तरि । द्विहल्य इति । ठ्रथसीताहलेभ्यो यद्विधौऽ इति तदन्तविधिः ॥ तत्र साधुः ॥ ४।४।९८ ॥ सामन्य इति । ठ्ये चाभावकर्मणोःऽ इति प्रकृतिभावः । प्रवीणः उ निपुणः, योग्यः उ समर्थः । तत्र हि परत्वादिति । ठ्तस्मै हितम्ऽ इत्यनेन चतुर्थीसमर्थात्प्रत्ययो विधीयते, अनेन तु सप्तमीसमर्थातेन नात्र ठ्विप्रतिषेधे परम्ऽ इत्येतत्परत्वापरत्वं विवक्षितम्, कि तर्हि ? इष्टवाची परशब्दः, उपकारलक्षणे साधौ प्राक्क्रीतीयानामेवेष्टत्वात् ठ्तस्मै हितम्ऽ इत्यनेन विधिना भवितव्यमित्यर्थः । एतच्च संज्ञाधिकाराल्लभ्यते ॥ प्रतिजनादिभ्यः खञ् ॥ ४।४।९९ ॥ जनं जनं प्रति प्रतिजनमिति ठ्यथार्थे--यदव्ययम्ऽ इति वीप्सायामव्ययीभावः । प्रतिजने साधुरिति । ठ्तृतीयासमप्तम्योर्वहुलम्ऽ । परस्यकुलम्, अमुष्यकुलमिति । षष्ठीसमासेऽस्मादेव निपातनात षष्ठ।ल अलुक् । पूर्वसूत्र उक्तम्---ठ्साधुः प्रवीणो योग्यो वा गृह्यते, नोपकारकःऽ, तत्र प्राक्क्रीतीयानामेवेष्टत्वादिति, इह तु न तथेत्याह---यत्रेति । प्राक्क्रीतीया बाध्यन्ते इति । अप्राप्तिरत्र बाधः; न हि चतुर्थ्यन्ताद्विधीयमानानां सप्तम्यन्तेभ्यः प्राप्तिरस्ति । तत्र प्राक्क्रीतीया न भवन्तीति वक्तव्ये बाध्यत इत्युक्तम्---ठ्चतुर्थ्यन्तेभ्योऽप्यनभिधानात्प्राक्क्रीतीया न भवन्तिऽ इति दर्शयितुम् ॥ भक्ताण्णः ॥ ४।४।१०० ॥ भक्तास्तण्डुला इति । भक्तयोग्याः, त्रिफलीकृतत्वात् ॥ परिषदो ण्यः ॥ ४।४।१०१ ॥ णप्रत्ययोऽप्यत्रेष्यते इति । ठ्पारिषदा कृतिरेषा तत्रभवताम्ऽ, ठ्सर्ववेदपारिषदं हीदं शास्त्रम्ऽ इति च भाष्यकारप्रयोगात् ॥ पथ्यतिथिवसतिस्वपतेर्ढञ् ॥ ४।४।१०४ ॥ पतन्त्यनेनेति पन्थाः, ठ्गमेरिनिःऽ ठ्पतेस्थ चऽ; अतति सततं गच्छतीत्यतिथिः, न विद्यते तिथिर्यस्य सोऽप्यतिथिः, एकमपि दिनमत्रास्थित इत्यर्थः । वसनं वसतिः, ठ्वसेश्चऽ इत्यतिप्रत्ययः, तत्र योग्या वासतेयी रात्रिः । स्वपतिराद्यः, स्वपतेर्योग्यं स्वापतेयं धनम् ॥ समानतीर्थे वासी ॥ ४।४।१०७ ॥ वसतीति वासी, निपातनाण्णिनिः, ग्रह्यादेराकृतिगणत्वाद्वा साधुरिति । निवृतमिति । तेन किं सिद्धं भवति ? इत्याह---वासीति प्रत्ययार्थ इति । साधुरित्यस्यानुवृतौ तु तस्यैव विशेषणं वासिग्रहणं स्यात् । तीर्थशब्देनेह गुरुरुच्यत इति । प्रयागादितीर्थसाधर्म्यात् । तरन्त्यनेनेति तीर्थम्, तरतेः क्थन् । मुख्यस्य तीर्थस्य ग्रहणं न भवति; संज्ञाधिकारात् ॥ समानोदरे शयित ओ चोदातः ॥ ४।४।१०८ ॥ ओकारश्चोदात इति । तित्स्वरितस्यापवादः । शयितः स्थित इति । शेतेः स्थितावपि वृतेः, आमाशयः, जलाशय इति यथा । समानोदर्य इति । उद्दीर्यत इत्युदरम्, उदि दृणातेरलचौ पूर्वपदान्तलोपश्चेत्यलचोरन्यतरः । समानं च तदुदरं च समानोदरम्, ठ्पूर्वापरप्रथम्ऽ इत्यादिना समासःष ततः प्रत्ययः ॥ सोदराद्यत् ॥ ४।४।१०९ ॥ यकारादौ प्रत्यये विवक्षित इति । ठ्विभाषोदरेऽ इत्यत्र ठ्तीर्थे यःऽ इत्यतो य इत्यनुवर्तते, तत्र य इत्येषा विषयसप्तमीति दर्शयति । ओ चोदात इति तु नानुवर्तत इति । यविधानसामर्थ्यात् ॥ भवेच्छन्दसि ॥ ४।४।११० ॥ अणादीनां घादीनां चापवाद इति । ठ्तत्र भवःऽ इति प्राप्तानाम् । सति दर्शनेतेऽपि भवन्तीति । तद्यथा---मुञ्जवान्नाम पर्वतस्तत्र भवो मौञ्जवतस्तस्येति भक्षः । मेध्यायेति । अत्र ठ्यतोऽनावःऽ इत्याद्यौदातत्वं प्राप्नोति, अन्तस्वरितं चाधीयत इति ॥ पाथोनदीभ्यां ड।ल्ण् ॥ ४।४।१११ ॥ पाथोऽन्तरिक्षमिति । पाति भूताद्यवकाशदानेनेति कृत्वा । यद्यपि ठ्पातेर्बलेर्जुट्ऽ, ठुदके थुट्ऽ, ठन्न चेऽ इति अन्नोदकयोः पाथः--शब्दोऽसुनि व्युत्पाद्यते, तथापि बाहुलकादन्तरिक्षेऽपि भवति ॥ वेशन्तहिमवद्भ्यामण् ॥ ४।४।११२ ॥ वेशन्तः उ पल्वलम्, ठ्विशेर्झ चऽ, तत्र भव आपः वैशान्त्यः ॥ स्रोतसो विभाषा ड।ल्ड्ड।लै ॥ ४।४।११३ ॥ ठ्स्रुहीभ्यां तुट् चऽ इत्यसुन् । स्रेतःउनदीप्रवाहः ॥ सगर्भसयूथसनुताद्यन् ॥ ४।४।११४ ॥ ठर्तिगृभ्यां भन्ऽ, गिरति गीर्यते वा गर्भः । युता भवन्त्यस्मिन्यूथम्, ठ्तिथपृष्ठगूथयूथप्रोथाःऽ इति क्थन्प्रत्ययान्तो निपातितः । नुतिर्नुतम्, ठ्नपुंसके भावे क्तःऽ। सगर्भादयस्त्रयोऽपि कर्मधारयाः ॥ तुग्राद् घन् ॥ ४।४।११५ ॥ ठ्तुरुस्तुशम्यमः सार्वधातुकेऽ इत्यत औणादिको रन् गुडागमः ॥ अग्राद्यत् ॥ ४।४।११६ ॥ ठृज्रेन्द्राग्रऽ इत्यग्रशब्दो निपातितः । सामान्येनेति । ठ्भवे च्छन्दसिऽ इति । ताभ्यां बाधा मा भूदिति पुनर्विधीयत इति । एवमपि यद्ग्रहणमनर्थकम्, अग्रादित्येवास्तु, प्राकरणिको यद्भविष्यति; अथ वा ठग्राद् घच्छौ चऽ इति चकाराद्भविष्यति, ठग्रपश्चाडिडमच्ऽ इत्यस्य समुच्चयो न शक्यः, विदेशस्थत्वात् ? एवमप्यनन्तरस्य घनः समुच्चयो विज्ञायेत । योगविभागे पुनरनन्तरो घनेव स्यात्, योगविभागसामर्थ्यान्न भविष्यति । अथ कथम् ठ्ताश्च एव चाध्यजननःऽ, ठेतच्छिवे विजानीहि ब्राह्मणाध्यस्य लक्षणम्ऽ इति भाषायां प्रयोगः ? छन्दोवदृषयः कुर्वन्ति ॥ घच्छौ च ॥ ४।४।११७ ॥ चकारस्तुग्राद्धनित्यस्यानुकर्षणार्थ इति । पूर्वमेव विहितस्य यतोऽनुकर्षणे प्रयोजनाभावात् ॥ समुद्राभ्राद घः ॥ ४।४।११८ ॥ समुनतीति समुद्रः, उन्देः ठ्स्फायितञ्चिऽ इति रक्प्रत्ययः । अपो बिभर्तीत्यभ्रम्, मूलविभुजादित्वात्कः । तस्य लक्षणस्येति । तस्य पूर्वनिपातस्य यल्लक्षणं तस्येत्यर्थः । व्यभिचारित्वादिति । व्यभिचारस्य चायमेव निर्देशो लिङ्गम् ॥ बर्हिषि दतम् ॥ ४।४।११९ ॥ ठ्बृहेर्नलोपश्चऽ इतीसिप्रत्ययः, बर्हिः ॥ दूतस्य भागकर्मणी ॥ ४।४।१२० ॥ दूताद्भागे ठ्तस्येदम्ऽ इत्यणि प्राप्ते वचनम्, कर्मणि तु दूतवणिग्भ्यां चेत्यौपसंख्यानिके ये ॥ रक्षोयातूनां हननी ॥ ४।४।१२१ ॥ रक्षेरसुनि रक्षः ठ्कमिमनिजनिऽ इत्यादिना । यातेस्तौ यातुः । यातुशब्दो रक्षः पर्यायः । ठ्विरूपाणामपि समानार्थानाम्ऽ इत्येकशेषस्तु न भवति; बह्वर्थाभिधायिस्वरूपपरत्वेन सूत्रे भिन्नार्थयोर्निर्देशात् । निर्देशादेव समर्थविभक्तिरिति । सा पुनः ठ्कर्तृकर्मणोः कृतिऽ इति कर्मणि षष्ठी । वहुवचनं स्तुतिवैशिष्ट।ल्ज्ञापनार्थमिति । तद्धि बहुवचनात्प्रत्ययविध्यर्थम्, अन्यथा द्वित्वाद् द्विवचनमेव न्याय्यं स्यात् । कथं पुनर्बहुवचनेन स्तुतिवैशिष्ट।ल्ं ज्ञाप्यते ? तत्राह---बहूनामिति । बहुवचनान्तात्प्रत्यये बहूनां रक्षसां हनने सामर्थ्यमुद्भाव्यते मन्त्रे । तथा च स्तुतिविशिष्टा सम्पूर्णा भवति । योगश्चायं शैषिकयोरण्च्छयोरपवादः ॥ रेवतीजगतीहविष्याभ्यः प्रशस्ये ॥ ४।४।१२२ ॥ रयिरस्यास्तीति रेवती, ठ्रयेर्मतौ बहुलम्ऽ इति बहुलवचनात्सम्प्रसारणमम् । उगित्वान्ङीप्, नक्षत्रे तु गौरादित्वान्ङीष् । जगच्छब्दाच्छतृवद्भावान्ङीप् । षष्ठीसमर्थेभ्य इति । ठ्शंसु स्तुतौऽ इत्यस्मात् ठ्कृत्यल्युटो बहुलम्ऽ इति भावे क्यप्, तद्योगे कर्मणि षष्ठी भवति, हविषे हिता हविष्या, ठुगवादिभ्यो यत्ऽ ॥ असुरस्य स्वम् ॥ ४।४।१२३ ॥ न सुरोऽसुरः उ सुरप्रतिपक्षः । अथ वा ठसेरुरन्ऽ, अस्यत्यस्यते वेत्यसुरः ॥ मायायामण् ॥ ४।४।१२४ ॥ मीयतेऽनयेति माया उ असदर्थप्रकाशनशक्तिः । माङ् औणादिको यः । नेति वक्तव्येऽण्ग्रहणं लाघवे विशेषाभावात् ॥ तद्वानासामुपधानो मन्त्र इतीष्टकासु लुक् च मतोः ॥ ४।४।१२५ ॥ मतुनिर्ह्रासः उ मतोरपचयः । तद्वानित्यवयवेन समुदायो निदिश्यत इति । स विवक्षितो वर्च शब्दादिरवयवोऽस्मिन्मन्त्रलक्षणे समुदायेऽस्तीत्येवमेकदेशार्थाभिधायिनः सर्वनाम्नः समुदाये मतुबयं विहित इत्यर्थः । वर्चः शब्दो यस्मिन्मन्त्रेऽस्तीति । स पुनः कुम्भेष्टकोपधानमन्त्रः---ठ्भूतं च स्थ भव्यं च स्थ देवस्य वः सवितुः प्रसवःऽ इत्यादिकः । वर्चस्या उपदधातीति । यथा वर्चस्या भवन्ति तथोपधातीत्यर्थः । तेजस्वान्मन्त्रः---ठ्वसु च स्थ वाम च स्थ देवस्य वः सवितुःऽ इत्यादिकः । वयस्वन्तो मन्त्राः---ठ्त्र्यविर्वयस्त्रष्टुअब्ऽ इत्यादिकाः, ऋतुमन्तो मन्त्राः---ठ्मधुश्च माधवश्चऽ इत्यादिकाः । मन्त्रसमुदायादेव मा भूदिति । ननु तद्वानित्यस्मिन्नसति ठ्समर्थानां प्रथमाद्वाऽ इति वचनादासामिति प्रथमं निर्दिष्टत्वात् षष्ठ।ल्न्तादिष्टकावाचिन उपधाने मन्त्रे प्रत्ययविधिः प्रसञ्जनीयः ? सत्यम् ; आसामिति प्रथमं न करिष्यत इति मत्वा प्रश्नप्रतिवचने, ततश्च तद्वानित्यस्याभावे ठ्त्र्यविर्वयस्त्रिष्टुअप्लन्दःऽ इत्यमुपधानमन्त्र आसामिष्टकानामिति वाक्यं स्यात्, ततश्चेतिना परामृष्टान्मन्त्रसमुदायादेव प्रत्ययः प्राप्नोति । वर्चस्वानुपस्यानमन्त्र इत्यादि । उपस्थानं मन्त्रेणाभिमन्त्रणं विवक्षितम्, ठ्शिवेन मा चक्षुषाऽ इत्यादिकः कुम्भेष्टकाभिमन्त्रणे विनियुक्तः । अङ्गुलिमानित्यादि । यद्यपि सर्वासामिष्टकानामङ्गुलिमान्हस्त उपधानः, तथापि यास्तूष्णीमुपधेया इष्टकास्तासु मन्त्रव्यावृत्यर्थतया विशेषणमर्थवत्---एषां कपालानामित्यत्र मा भूदिति । स्त्रीलिङ्गनिर्देशादत्राप्रसङ्ग इति चेति ? एवमपि शर्करासु प्रसङ्गः । अनेकपदसम्भवेऽपीति । असति त्वितिकरणे मन्त्रे बहूनां सम्भवाद्येन केनचेत्पदेन तद्वान्मन्त्रो गृह्यं त तथा पदैकदेशेन वर्णसमुदायेन, इतिकरणात्वय मतिप्रसङ्गो न भवति । मतुब्ग्रहणमुतरार्थम् अश्विमानित्यत्र मतुप एव लुग्यथा स्यात्, हनेमाभूदिति । इह तु मत्वन्तात्प्रत्ययविधानातस्यैव तुग्भविष्यति । वर्चः शब्दादावसुप्रभृतेरप्रसङ्गः, उणादीनामत्र्युत्पन्नत्वात् इह ठ्प्राणभृत उपदधातिऽ इत्यादावभेदोपचारात्प्रत्ययाभावः ॥ अश्विमानण् ॥ ४।४।१२६ ॥ सोऽश्विमानिति । यद्यपि बहवोऽश्विमन्तो मन्त्राः ठ्ध्रुवक्षितिःऽ इत्यादिकाः, तथापि सामान्यापेक्षमेकवचनम् ॥ वयस्यासु मूर्ध्नो मतुप् ॥ ४।४।१२७ ॥ वयस्यास्विति । च्छन्दसि या वयस्या इष्टका उच्यन्ते तास्वित्यर्थः । ताश्च बह्व्यः, तास्वन्तश्चतस्रो मूर्धन्वत्यः, ठ्विष्टम्भोवयःऽ इत्यादिवयस्वद्भिर्मन्त्रैरुपधेयाः, तत्र च यद्यपि मूर्द्धा वयः प्रजापतिश्च्छन्द इत्यन्तिम एकस्मिन्नेव मन्त्रे मूर्द्धशब्दोऽस्ति, तथापि साहचर्याद् ठ्विष्टम्भो वयःऽ इत्याद्याश्चत्वारो मूर्धन्वन्त उच्यन्ते, यथा---च्छत्रिणो यान्तीति, तेन मूर्द्धन्वतीरुपदधातीति बहुवचनम् । मूर्द्धन्वानपि भवतीति । ननु ठनो नुट्ऽ इति च्छन्दसि नुड् विधीयते ? सत्यम् ; यथा सूत्रकारेण छान्दसमेव पदं प्रयुक्तम्---ठ्वयसस्यासुऽ इति, तथेदमपि वृत्तिकारेण, मूर्धन्वानपि भवति च्छन्दसीत्यर्थः । ठ्वयस्याश्च ताः मूर्धन्वत्याश्चऽ इति ठुभयथापि च्छन्दस्यभिधीयतेऽ इत्युक्तं भवति । यत्र मूर्द्धन्शब्द एव केवल इति । यथा---ठग्ने यशस्विन्यशसे समर्पयऽ इत्यादिके मन्त्रे । ततो मा भूदिति । तदभिधायिनो मूर्द्धन्शब्दादित्यर्थः । मूर्द्धन्वत इति वक्तव्यमिति । ठ्तद्वान्ऽ इति चऽ लुक् च मतोःऽ इति चानुवर्तते, ततश्च मूर्द्धन्वत इति युक्तं वक्तुमिति भावः । इह तु गायत्रीः पुरस्तादुपदधाति, ठ्तेजो वै गायत्री तेज एव मुखतो धते मूर्द्धन्वती भवतिऽ इति मुख्यो गायत्रीषु मूर्धंन्वतीशब्दः प्रथमं मतुबन्तः प्रयुक्तः, किं कारणम् ? तदुपधानमन्त्रेषु ठग्निर्मूर्धा भुवःऽ इत्यादिषु वयः शब्दस्याभावात् ॥ मत्वर्थे मासतन्वोः ॥ ४।४।१२८ ॥ मत्वर्थग्रहणाल्लब्धर्मर्थं दर्शयति---प्रथमासमर्थादित्यादि । मासतन्वोरिति ठ्कृषिचमितनिधनिसज्जिखर्ज्जिभ्य ऊःऽ इत्यूकारान्तस्तनूशब्दः सूत्रे निर्दिष्टः, न तु ठ्भृमृशीङ् तृचरित्सरितनिमिमस्जिभ्य उःऽ इत्युका रान्तः; ठ्द्वन्द्वे घिऽ इति पूर्वनिपातप्रसङ्गात् । अनन्तरार्थे चेति । न केवलं मत्वर्थमात्र इति चशब्दस्यार्थः । लुगकारेकाररेफाश्चेत्यादि ।ठ् रादिफःऽ इत्यत्र वर्णादिति न सम्बध्यते, तेन समुदायनिर्देशेऽपि इफः कृतः । अन्ये तु रशब्दा इति पठन्ति, प्रत्यय इत्यधिकारोऽकारादिभिः सम्बध्यते, न तु लुका । तपनं तपः, सहनं सहः, भावोऽसुन्, ठ्तदस्मिन्नस्तिऽ इति सूत्रेण विहितस्य यतो लुक् । कथं पुनरत्र नपुंसकत्वम्, यावता तद्धितलुकि सत्यभिधेयवल्लिङ्गेन भवितव्यम् ? अत आह---नपुंसकलिङ्गं छान्दसत्वादिति । इट् उ अन्नम्, इष्यमाणत्वात् । ऊर्क् उ बलम्, ठूर्ज बलप्राणनयोःऽ, ताभ्यामकारः प्रत्ययः---इषः, ऊर्जः । शोचनं शुक्, पूर्ववत्क्विप्, आतपातिरेकेण शरीरादेः शोषः, तद्वान्मासः शुचिः । एवं शुक्रः । अत्र छान्दसत्वादेवायस्मयादित्वद्भत्वाज्जश्त्वाभावः, तदेव च्छन्दोऽधिकारे लुगादीनां विधानाद्भाषायां शुचिशुकादीनामन्याय्यः प्रयोगः स्यात्, व्युत्पत्यन्तरेण वा, अव्युत्पन्ना वा नभस्यादयः शब्दा मासेषु वर्तन्ते । इषोर्जशब्दावर्शाअद्यच्प्रत्ययान्तौ, मत्वर्थीये रप्रत्यये पृषोदरादित्वाज्जश्त्वाभावे शुक्र इति भवति, शोचतेरन्तर्भावितण्यर्थादौणादिके किप्रत्ययये कृते शुचिरिति भवति, शोचयति संतापयति प्राणिन इति कृत्वा । अभेदोपचारान्नभः प्रभृतीनां मासेषु वृत्तिः, नभस्यप्रभृतयस्तु ठ्तत्र साधुःऽ इति यदन्ताः, ठ्मतौ च्छः सूक्तसाम्नोःऽ इत्यत्र यथान्तरेणाप्यर्थग्रहणं मत्वर्थे प्रत्ययो लभ्यते, तथेहापि लप्स्यते; नार्थोऽर्थग्रहणेन ॥ मधोर्ञ च ॥ ४।४।१२९ ॥ अत्रापि भाषायां मधुयोगान्मासो मधुः, तस्य प्रज्ञादिषु पाठादाद्यौदातत्वम् ॥ ओजसोऽहनि यत्खौ ॥ ४।४।१३० ॥ यद्ग्रहणमनर्थकम्, ठ्खश्चऽ इत्येव वक्तव्यम्, चकारात्प्राकरणिको यद्भविष्यति ? नैवं शक्यम्; ठ्खश्चऽ इत्युच्यमानोऽनन्तरसूत्रविहितस्य ञस्य समुच्चयो विज्ञायेत, तस्माद्यद्ग्रहणम् ॥ ख च ॥ ४।४।१३२ ॥ योगविभाग इत्यादि । केचित्पुनरेकमेव योगमधीयते । तथा च---ठ्यथासंख्यामनुदेशः समानाम्ऽ प्रत्ययविध्यर्थो बहुवचननिर्देशः, बहुवचनान्तात् प्रत्ययोत्पतौ यथासंख्यमिष्यत इति । उतरार्थश्चेति । उतरत्र खस्यैवानुवृत्तिर्यथा स्यात्, यतो मा भूदिति ॥ पूर्वैः कृतमिनियौ च ॥ ४।४।१३३ ॥ बहुवचनान्तेनेत्यादि । बहुवचनान्तात्प्रत्ययविध्यर्थो बहुवचननिर्देशः । बहुवचनान्तात्प्रत्ययोत्पतौ यथा प्रशंसा गम्यते---पूर्वैर्बहुभिः क्रियत इति प्रतीतेः, तेन पूर्वशब्दश्च वृद्धेषु पुरुषेषु प्रवर्तत इत्यर्थः ॥ सहस्रेण संमितौ घः ॥ ४।४।१३५ ॥ निर्देशादेव समर्थविभक्तिरिति । सा पुनस्तुल्यार्थयोगे तृतीया । सम्मित एव लक्षयितव्य इति । किं कारण् ? इत्याह---तत्रेति । च्छन्दसि हि तत्र सम्मिते प्रयोगो दृश्यते ॥ सोममर्हति यः ॥ ४।४।१३७ ॥ ठ्च्छन्दसिऽ इत्यधिकाराद्भाषायां सोम्यशब्दस्य साधुत्वं चिन्त्यम्---ठायुष्मान्भव सोम्येति वाच्यो विप्रोऽभिवादनेऽ इति । केचित्सौम्येति वृद्धिं पठन्ति । सौम्यशब्दो दर्शनीयवचनः सुखादिवत् ॥ मये च ॥ ४।४।१३८ ॥ मय इति मयडर्थो लक्ष्यते इति । शब्दे कार्यस्यासम्भवात् । तत्र यथायोगं समर्थविभाक्तरिति । आगते पञ्चमी, विकारावयवयोः षष्ठी, प्रकृतवचने प्रथमा ॥ वसोः समूहे च ॥ ४।४।१४० ॥ ओश्रावयेत्यादिकस्याक्षराणि गण्यन्ते, सप्तदशात्मकश्च्छन्दस्योऽक्षरसमूहः । प्रजापतिः प्रजापतिना दृष्टः । हस्तौ पृणस्वेति पृणातिः पूरणकर्मा ॥ नक्षत्राद् घः ॥ ४।४।१४१ ॥ समूह इति नानुवर्तत इति । तेनानिर्दिष्टार्थत्वात्स्वार्थे प्रत्यय उत्पद्यत इति भावः ॥ शिवशमरिष्टस्य करे ॥ ४।४।१४३ ॥ करोतीति कर इति । पचाद्यच् । सामर्थ्यलभ्या षष्ठी समर्थविभक्तिरिति । सा पुनः कृद्योगलक्षणो कर्मणि । भाषायां शिवतातिप्रभृतीनां साधुत्वं चिन्त्यम् । इति श्रीहरदतमिश्रविरचितायां पदमञ्जर्यां चतुर्थस्याध्यायस्य चतुर्थः पादः । समाप्तोऽयं चतुर्थोऽध्यायः । --------------------॥॥॥॥॥॥॥॥॥।-------------------। तस्मै क्षीगुरवे नमः । काशिकावृत्तिः पदमञ्जरी प्राक् क्रीताच्छः आवत्सीय इति। ॥ ५।१।१ ॥ अतिदोहनाद्वत्सान्प्रति हितो न भवति गोधुगित्येवं प्रकृत्या नञा च युगपत्प्रत्ययार्थस्य सम्बन्धः, प्रधानभूतश्च प्रत्ययार्थः। भवति च प्रधानस्य सापेक्षस्यापि वृत्तिः, प्रधानत्वादेवानेकोपकार्यत्वस्याविरोधात्, ठ्सामान्याप्रयोगःऽ इति लिङ्गाच्च। किञ्च--विशेषतोऽत्र ज्ञापकमस्ति यदयं नत्रो गुणप्रतिषेधे ठ्सम्पाद्यर्हहितालमर्थास्तद्धिताःऽ इत्याह, तज्ज्ञापयति--ठ्भवत्येवञ्जातीयकेऽपि विषये तद्धितःऽ इति, अन्यथा सम्पाद्यर्हहितालमर्था ये तद्धितास्तदन्तान्युतरपदानि नत्रो गुणप्रतिषेधे प्रवृत्तिनिमितप्रतिषेधे वर्तमानात्पराणि न सम्भवेयुः। तत्र पूर्वं प्रत्ययः, प्रश्चान्नञ्समासः। अत एव यत्नसाध्यत्वादवत्सीय इत्यादेरुपन्यासः। यस्तु वत्सादन्यस्मै हितः, यो वा वत्सीयादन्यः, न तत्र किञ्चिदयत्नसाध्यम् । अथ किमर्थमियानवधिरुपादीयते, यावता न ह्यस्य ठ्प्राग्वतेष्ठञ्ऽ इत्यारभ्य ये योगाः ठ्तेन क्रीतम्ऽ इत्येतस्मात्प्राक् पठिताः, तेषु व्यापारोऽस्ति, न हि तत्र कश्चिदर्थो निर्द्दिश्यते, ततश्च ठ्प्राक्ठञःऽ इति वक्तव्यम्, ठ्प्राग्वतेष्टञ्ऽ इत्ययमेव च प्रत्यासन्नष्ठञग्रहीष्यते, न विप्रकृष्टः ठ्लोकसर्वलोकाट्ठञ्ऽ इत्यादिः? इत्यत आहार्थोऽवधित्वेन गृहीत इति। गृहीतो ग्रहीतुमिष्टः। अयमभिप्रायः-- अवश्यमत्रार्थोऽवधित्वेन ग्राह्यः, अन्यथा ठ्प्राक् ठञःऽ इत्युच्यमानेऽवधिना सजातीयस्यावधिमतोऽभावादर्थाः, प्रकृतयो वाऽवधिमत्वेन गृह्यएरन्-प्राक् ठञो येऽर्थाः, या वा प्रकृतय इति। तत्र प्रकृतिपक्षेऽधिकारस्य नदीस्रोतोरूपेण प्रतिप्रकृत्युपश्थानाद् ठुगवादिभ्यो यच्छश्चऽ इति यच्छयोः सन्निधानादविशेषादुत्सर्गापवादभावो न स्यात्, तव्यतव्यानीयरामिव विकल्प एव स्यात्। अर्थे त्ववधित्वेन गृहीते प्राक् क्रीताद्येऽर्थास्तेष्वस्योपस्थानं भवति। अवधिसजातीयो ह्यवधिमान् भवति, यथा--ठ्मासात्परःऽ इति कालः प्रतीयते, ठ्ग्रामात्पूर्वःऽ इति देशः, ठलोऽन्त्यात्पूर्वःऽ इत्यलेव, ततोऽतिप्रसङ्गो न भवति। कथम्? समानार्थे प्रकृतिविसेषा दुत्पद्यमानो यदादिः प्रकृत्यन्तरे सावकाशं छ्ंअ बाधते। यथा--तक्रंकौण्डिन्ये दधि, अतोऽर्थोऽवधित्वेन गृहीत इति। ननु च ठ्प्राक ठञःऽ इत्युच्यमाने भवतु नामैघं प्राक्ठञो याः प्रकृतय इति, तथापि यदादिविषषये छाए न भविष्यति, ज्ञापकात्, यदयम् ठ्विभाषा हविरपूपादिभ्यःऽ इति विभाषां शास्ति, तज्ज्ञापयति-नान्यविषये छाए भवतीति, एवं च कृत्वा च्छ इत्येवाधिकारोऽस्तु, नार्थोऽवधिनिर्देअसेन, ज्ञापकाच्च प्रतिसूत्रमुपस्थानेऽप्यन्यविषये न भविष्यति, प्राग्वतेष्ठञित्यादिके तु प्रकारणे नास्याधिकारः, अधिकारन्तरेणावष्टब्धत्वात् ? सत्यम्; प्रतिपतिगौरवपरिहारार्थस्त्ववधिनिर्देशः, स चावधिरर्थ एव निर्देश्यः, न प्रत्ययः, अन्यथा ठ्लशुनं च भक्षितं व्याधिश्च न निवृतःऽ इत्येतदापद्येत ॥ उगवादिभ्यो यत् ॥ उवर्णान्तात्प्रातिपदिकाद् गवादिभ्यश्चेति ॥ ५।१।२ ॥ उवर्णादेर्गशब्दादेर्वशब्दादेश्च यद्भवतीत्यर्थो न भवति, गवादिगणपाठतः। सनंगुरित्यादि। चर्मविकारलक्षणस्याञोऽवकाशः-वार्ध्र चर्म, वारत्रं चर्मेति, उवर्णान्तलक्षणस्य यतोऽवकाशः--शङ्कव्यम्, पिचव्यमिति; सनङ्गोरुभयप्रसंङ्गे परत्वादञ्प्राप्नोति। चरुर्नाम इविरिति। स्थालीवचनस्य चरुशब्दस्य तकदधिकरणे हविष्युपचारद्वृत्तिः। ठ्विभाषा हविरपूपादिभ्यःऽ इत्यत्र हविर्विशेषवाचिनां ग्रहणम्, न स्वरूपस्य; तस्य गवादिषु पाठात्। विपर्ययस्तु न भवति--इह विशेषग्रहणं तत्र स्वरूपग्रहणमिति; गवादिष्वसञ्जातविरोधित्वेन स्वरूपग्रहणे बाधकाभावात्। अतः ठ्विभाषा इविरपूपादिभ्यःऽ इत्यत्रैव विशेशग्रहणमिति स्थिते तस्यावकाशः--आमिक्ष्यम्, आमिक्षीयम्; पुरोडाश्याः, पुरोडाशीया इति। अन्नविकारेभ्यश्चेति पठ।ल्त इति। तस्यावकाशः--सुराः, सुर्याः, सुरीयाः, ओदन्याः, ओदनीया इति, उवर्णाअन्तसक्षणस्य यतः स एव; चरुसक्तुभ्यामुभ्य प्रसङ्गे परत्वाद्विभाषा प्राप्नोति, तत्र सर्वत्र पूर्वविप्रतिषेधेन यत्प्रत्यय एवेष्यत इति। अयमेव नित्यो यत्प्रत्यय इत्यर्थः। नभं चादेशमापद्यत इति। भसंज्ञकं च न भवतदीत्ययं त्वर्थो न भवति, व्याख्यानात्। तदर्थमेव हि गणसूत्रं व्याख्यातम्, प्रायेण हि वृत्तिकारो गणसूत्राणि न व्याचष्टे। नभ्योऽक्ष इति। च्छिद्रवद्रथाङ्गविशेषः-- नाभिः, तच्छिद्रानुप्रविष्टकाष्ठविशेषः--अक्षः, स तदनुगुणत्वातस्मै हित इत्युच्यते। अञ्जनं तैलकृताभ्यङ्गः, तदपि स्नेहनत्वान्नाभये हितम्। यतु भाष्य उक्तम्--ठ्नाभेर्नभभावे प्रत्ययानुपपतिः प्रकृत्यभावात्ऽ इति, तन्नभ्यं चक्रमिति प्रयोगाभिप्रायम्। न हि चक्रस्य नाभिविकृतिः, अपि त्ववयवः। नापि तादर्थ्यमस्ति; अवयविनोऽवयवार्थत्वाभावात्। तेन ठ्तदर्थ विकृतेः प्रकृतौऽ इत्यत्रार्थे नभ्यं चक्रमिति नैव सिद्धयति। हितार्थस्त्वाशङ्क्य एवेति न सर्वथा प्रत्ययानुपपतिस्तत्र विवक्षितेति भावः। शरीरावयवाद्यदिति यति कृते इति। परत्वादिति भाव। नाभ्यं तैलमिति भवितव्यमिति। अथात्रापि नभभावः कस्मान्न भवति ? इत्याह--गवादियतेति। शुन इत्यादि। श्वनित्यस्य सम्प्रसारणं यत्प्रत्ययश्च भवति, पक्षे दीर्घश्च तत्सञियोगेनेति। यदा दीर्घत्वं तदा शुने हितं शुन्यं शून्यमिति वा, ठ्नस्तद्धितेऽ इति तत्र वर्तते, सम्प्रसारणे च कृते नेदमन्नन्तम्, कामं दीर्घपक्षे तद्विधानसामर्थ्याट्टिलोपो न स्यात्, पक्षान्तरे तु प्राप्नोति, सम्प्रसारणं बाधकबाधनार्थम्, अन्यथा प्रकृतिबावप्रसङ्गात् ? एवं तर्हि चकारद्वयमत्र पठ।ल्ते, तत्रेकः सम्प्रसारणसमुच्चये द्रष्टव्यः, तत्रान्यस्य समुच्चेतव्यस्याभावात्सम्प्रसारणमेव पुनर्विधीयते। तत्र पुनर्विधानं तु तद्रूपस्यैवावस्थानार्थं भविष्यति। ऊधसोऽनङ् चेति। ठ्नश्चऽ इति नोक्तम्; लाघवे विशेषाभावात्। ऊधःशब्दस्यानङदेशो भवति यत्सन्नियोगेन--ऊधन्यः, ठ्ये चाभावकर्मणोःऽ इति प्रकृतिभावः ॥ कम्लाच्च संज्ञायाम् ॥ ५।१।३ ॥ अयं योगः शक्योऽवक्तुम्। कथं कम्बल्य इति ? निपातनादेवैतत्सिद्धम् ठपरिमाणविस्ताचितकम्बल्येभ्यो न तद्धितलुकिऽ इति। इदं तर्हिप्रयोजनम्--संज्ञायामिति वक्ष्यामिति ? एतदपि नास्ति प्रयोजनम्; परिमाणपर्युदासेन पर्युदासे प्राप्ते तत्र कम्बल्यग्रहणम्--परिमाणस्य च संज्ञा कम्बल्यशब्दः। एवं तर्हि स्वरार्थं वचनम्, निपातनेन हि परिमाणे कम्बल्यशब्दः साधुरित्येतावदवगम्यते, न तु यदन्तोऽयमिति, ततश्चान्तस्वरितत्वं न स्यात्। अथ निपातन एवान्तस्वरितत्वं पठ।लेत ? तत्र व्याख्यानं शरणम्, व्याख्यानाच्च लघु सूत्रम् ॥ विभाषा हविरपूपादिभ्यः ॥ ५।१।४ ॥ हविर्विशेषवाचिभ्य इति। स्वरूपस्य ग्रहणं न भवति; तस्य गवादिषु पाठात्। विपरर्ययस्तु न भवति-तत्र विशेषाणं ग्रहणमिह स्वरूपस्येति; असञ्जातविरोधित्वेन तत्रैव स्वरूपग्रहणस्य न्याय्यत्वात्। अन्नविकारेभ्यश्चेति। अन्नविकाराःउअन्नप्रकाराः, अदनीयविशेषा इत्यर्थः, तेभ्यश्च विभाषा यद् भवति-ओदन्याः, ओदनीयाः। यद्येवम्, अपूपादीनां किण्वपर्यन्तानां पाठोऽनर्थकः, अन्नविकारत्वादेव सिद्धेः, सुराप्रकृतिद्रव्यं किण्वम् ? नानर्थकः, प्रापञ्चार्थत्वात्। अपर आह-यदा सादृश्यादिनापूपादिभ्योऽर्थान्तरे उपचर्यन्ते, तदर्थ एषां पाठ इति ॥ तस्मै हितम् ॥ ५।१।५ ॥ तस्मै इति। ठ्हितयोगे चतुर्थी वक्तव्याऽ इति चतुर्थी। अपर आह-अयमेव निर्देशो ज्ञापको हितयोगे चतुर्थी भवतीत्यस्येति, तच्चिन्त्यम्; ठ्चतुर्थी चाशिष्यायुष्यमद्रभद्रकुशलसुखार्थहितैःऽ इति अशिषि विषयविशेषे हितयोगे चतुर्थ्याः सम्भवात् ॥ शरीरावयवाद्यत् ॥ ५।१।६ ॥ शरीरं प्राणिकाय इति। एतेनैतद्दर्शयति-शीर्यत इति शरीरमिति श्रृणातेरीरन्प्रत्ययमुत्पाद्य यद्यपि शरीरशब्दो व्युत्पाद्यते, तथापि योगरूढत्वात्प्राणिकाय एव वर्तते, न घटादाविति ॥ खलयवमाषतिलवृषब्रह्मणश्च ॥ व्रह्मण्यमिति। ॥ ५।१।७ ॥ पूववट्टिलोपाभावः। वृषशब्दोऽयमकारान्तो गृह्यते, न तु नकारान्तः; अन्यथाऽसन्देहार्थं नकारलोपमकृत्वैव निर्दिशेत, यथा-आत्मन्विश्वजनेति। अस्ति च नकारान्तस्तत्र वक्तव्यम्, ततोऽपि यद्भवतीति, अन्यथा तत्र छे टिलोपे च वलृषीयमिति प्राप्नोति, तस्य च वृषशब्दे आदेशो वक्तव्यः, अन्यथा वृषण्य इति स्यात्; ब्रह्मशब्दो नकारान्तो गृहीतः, ब्राह्मणशब्दश्चाकारान्तोऽस्ति, तत्र वक्तव्यम्-ब्राह्मणशब्दादपि यद्धवतीति, अन्यथा ततश्च्छः स्यात्, तस्य च ब्रह्मन्-शब्द आदेशो वक्तव्यः; अन्यथा ब्राह्मयण्यमिति प्राप्नोति ? इत्यस्मिन्पूर्वपक्षे इदमाह---वृष्णो हितमित्यादि। च्छप्रत्ययोऽपि न भवतीति। यत्प्रत्ययस्तु तावत्सूत्रेऽनुपादानादेव न भवति, न केवलं स एव, अपि तु च्छप्रत्ययोऽपीत्यपिशब्दस्यार्थः। कुत इत्याह--अनभिधानादिति। तदनेनाप्यव्यविकन्यायो दर्शितः। त्रैशब्द्यं हि नः साध्यम्--वृषाय हितम्, वृष्णे हितम्; तथा व्रह्मणे हितम्, व्रह्मण्यम्, ब्राह्मणाय हितमिति; तत्र द्वयोः शब्दयोः समानार्थयोरेकत्र विग्रह एव, अपरत्र विग्रहश्च वृत्तिश्च भविष्यति, तद्यथा--अविकस्य मांसम्, आविकम्, अवेर्मांसमिति। रथाय हितारथ्येति। हितार्थ एव यथा स्यादर्थान्तरे मा भूदित्येवमर्थं गवादिषु पाठो नाङ्गीकृतः। केचितदन्तविधिमिच्छन्ति---रथसीताहलेभ्यो यद्विधाविति। अपरे तुहलसीताभ्यां साहचर्याच्चातुरर्थिक एव तदन्तविधिर्भवति, न त्वस्मिन्निति ॥ अजाविभ्यां थ्यन् ॥ ५।१।८ ॥ अजशब्दोऽयमिह पुंल्लिङ्ग उपातः, अत एव ठ्द्वन्द्वे घिऽ इत्यविशब्दस्य पूर्वनिपातं बाधित्वा ठजाद्यदन्तम्ऽ इत्यजशब्दस्य पूर्वनिपातः कृतः, ठ्प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम्ऽ इति स्त्रीलिङ्गादपि थ्यन्भवत्येव--अजायै हितमजथ्यम्, ठ्तसिलादिषु थ्यन्तालौऽ इति परिगणनात्पुंवद्भावः ॥ आत्मन्विश्वजनभोगोतरपदात्खः ॥ ५।१।९ ॥ इहोतरपदग्रहणं व्याप्तिन्यायेन सर्वैर्वा सम्बध्येत, प्रत्यासतिन्यायेन भोगशब्देनैव वा ? तत्राद्यं पक्षं निराकरोति---आत्मन्निति नलोपो न कृत इति। विवक्षितां प्रकृति कार्त्स्न्येन निर्द्दिशेयमिति नलोपो न कृतः, प्रत्येकं सम्बन्धे चोतरपदग्रहणस्य नैतावती प्रकृतिः स्याद्, अतो नलोपाकरणेन प्रत्येकं सम्बन्धे निवारिते भोगशब्देनैव सम्बध्यते इत्यर्थः। कर्मधारयादिष्यत इति। व्याश्यानमत्र शरणम्। षष्ठीसमासादिति। विश्वस्य जनो विश्वजनःउसर्वसाधारणो वेस्यादिः। बहुव्रीहेश्वेति। विश्वो जनोऽस्येति, स एव वेश्यादिरन्यपदार्थः। पञ्चजनादिति। रथकारपञ्चमाश्चत्वारो वर्णाःउ पञ्चजनाः। ठ्दिक्संख्ये संज्ञायाम्ऽ इति समासः। पञ्चजनीयमन्यदिति। षष्ठीसमासाद् बहुव्रीहेश्च च्छ एव भवतीत्यर्थः। यदा च प्रकरणादिवशाद्विशिष्टसंख्येयवृत्तित्वावसायः संख्या शब्दानां तदा सापेक्षत्वाभावादविरुद्धः समासः, जनादिनैव साक्षात्सम्बन्धाद्; अन्यथा तु संख्येयस्यैव जनापेक्षया व्यतिरेकः, तद्द्वारेण तु संख्यागुणस्येति साक्षात्सम्बन्धाभावाद् दुर्लभः षष्ठीसमासः। सर्वजनादिति। ठ्पूर्वकालैकसर्वऽ इति कर्मधारयः। महाजनान्नित्यमिति। नित्यग्रहणं सर्वजनादुक्तो खो मा भूदिति। तत्पुरुषादेविति। अत्र ठ्कर्मधारयादेवऽ इति नोक्तम्, त्वनिर्देशेनैव षष्ठीसमासव्यावृत्तिसिद्धेः। इह पितृभोगीणादिशब्दैः पित्रादिहितस्यार्थस्याभिधानमिष्यते, पित्रादिभोगहितस्य तु प्राप्नोति। भोगशब्दश्चायमस्त्येव द्रव्यपदार्थकः, तद्यथा-भोगवानयं देश उच्यते, यस्मिन् गावः सस्यानि च वर्द्दन्ते, भुज्यत इति भोगः; अस्ति च क्रियापदार्थः, तद्यथा-भोगवानयं ब्राह्मण उच्यते यः सम्यक् स्नानादिकाः क्रिया अनुभवति; अस्ति च शरीरवाची, अहिरिव भोगैः पर्येति बाहुमिति दर्शनात्, अत्र समुदाये प्रवृतस्य भोगशब्दस्यैकदेशेषु फणेषु प्रयोगः, न चाहेरेव शरीरं भोगः, अपि तु सर्वं शरीरम्; अनन्तत्वात्प्रयोगविषयस्यावधारणस्य कर्तुमशक्यत्वात्। निघष्टुअषु तु प्रयोगबाहुल्यादहिशरीरे प्रयोगः। सर्वेष्वपि चार्थेषु विवक्षिताभिधानं न प्राप्नोति। तस्मान्नायं बोगोतरपदात्खो विधेयः, पित्रादिभ्य एव तु भोगीनच्प्रत्ययो विधेयः--पित्रे हितः पितृभोगीण इति। यद्येवम्, वावचनं कर्तव्यम्, मात्रीयं पित्रीयमिति यथा स्याद्; अन्यथा भोगीनचा बाधितत्वाच्छाए न स्यात्। इह च ग्रामणिभोगीनः सेनानिभोगीन इति ठिको ह्रस्वोऽङ्यो गालवस्यऽ इत्युतरपदनिबन्धनं ह्रस्वत्वं न स्यात्, इह चाब्बोगीन इति ठपो भिऽ इति भकारादौ ग्रत्यये विधीयमानं तत्वं प्राप्नोति, बोगोतरपदातु खविधाने नैते दोषाः। अर्थविरोधस्तु भवति, तं परिहरति--भोगशब्दः शरीरवाचीति। तत्र शरीरशरीरिणोरभेदाद्य एवार्थो मात्रे हित इति, स एव मातृभोगाय हित इत्यपि विग्रहे भवतीति भावः। एवं भोगोतरपदात्खविदानेऽप्यर्थविरोधं परिहृत्य तत्रैव गुणमाह--केवलेभ्यो मात्रादिभ्यश्च्छ एव भवतीति। एवकारो भवतीत्यस्यान्तरं द्रष्टव्यः। भोगीनच्प्रत्ययविधाने तु छाए न स्यादेव--इत्येवशब्दस्यार्थः। राजाचार्याभ्यामिति। राजाचार्याभ्यां हितार्थे यदि प्रत्ययो भवति नित्यम्, भोगोतरपदाभ्यामेव स च ख एवेत्यर्थः। न केवलाभ्यामिति। अत्र ठ्प्रत्यय इष्यतेऽ इत्येतावदपेक्ष्यते, न तु ठ्खप्रत्यय इष्यतेऽ इति; प्राप्त्यभावात्। अत एव केचित् ठ्खः प्रत्यय इष्यतेऽ इति व्यस्तं पठन्ति। आचार्यादणत्वं चेति। भोगोतरपदादिति गम्यते, इदानीमेव ह्युक्तम्--राजाचार्याभ्यां नित्यं भोगोतरपदाभ्यामेवेति ॥ सर्वपुरुषाभ्यां णढञौ ॥ सर्वादिति। ॥ ५।१।१० ॥ अनुकरणत्वात्सर्वनामकार्याभावः, सर्वनामानिऽ इत्यन्वर्थसंज्ञाविज्ञानात् ठ्प्रकृतिवदनुकरणम्ऽ इत्यपि सर्वनामत्वं न भवति; अनाश्रितार्थस्य शब्दरूपस्यानुकरणात्। पुरुषाद्वधेति। प्रत्ययार्थसामर्थ्येन षष्ठीसमर्थविभक्तिर्लभ्यते, कृते तु तेनत्युपातैव तृतीया। भाष्यकारप्रयोगाच्च द्वन्द्वमध्येऽपि तेनेत्यस्य निवेशः, तत्र वधे-ठ्तस्येदम्ऽ इत्यणोऽपवादः, विकारे--ठ्प्राणिरजतादिभ्योऽञ्ऽ इत्यञः, समूहेऽपि ठ्तस्य समूहःऽ इत्यण एव, तेन कृतेऽपि ग्रन्थात्मके--ठ्कृते ग्रन्थेऽ इत्यण एव। पौरुषेयः प्रासाद इत्यत्र न कस्यचिदपवादः ॥ माणवचरकाभ्यां खञ् ॥ ५।१।११ ॥ मनोरपत्यं कुत्सितं माणवः, ठपत्ये कुत्सिते मूढःऽ इति णत्वम्, चरतीति चरः, ठ्पचाद्यच्ऽ ठ्चरिचलिपतिवदीनाम्ऽ इति द्विर्वचनं विकल्पितत्वादिह न भवति, ततः संज्ञायां कन्-चरकः। खञो ञित्करणं वृद्धयर्थं स्वरार्थं च। चरके वृद्ध्यर्थम्, माणवे ठ्वृद्धिनिमितस्य चऽ इति पुंवद्भावप्रतिषेधार्थम्-माणवीभार्यः ॥ तदर्थ विकृतेः प्रकृतौ । प्रकृतिरुपादानकारणमिति। ॥ ५।१।१२ ॥ उपादीयतेऽस्मात्कार्यमित्यपादान्म्, उपादानं च तत्कारणं च उपादानकारणम्। कार्यस्य हि त्रीणि कारणानि-उपादानकारणम्, असमावायिकारणम्, निमितकारणमिति, तत्र कार्येणापृथग्देशं यद्बुद्धिः कार्येष्वनुवर्तते, तद्यथा-मृदयं कुम्भः, तन्तघः पट, हिरण्यं कुण्कडलमिति तदुपादानकारणम्। उपादानकारणप्रत्यासन्नमसमवायिकारणम्, यथा-तन्तुसंयोगः पटस्य। तटस्थं तु कारणं निमितकरणम्-तन्तु-वायदि, तदेतेषु त्रिषु यदुपादानं सा प्रकृतिः, तस्यवोपादानकारणस्योतरमवस्थान्तरं विकृतिरिति। अनेन कार्योपादानयोरभेदमाह। यथा हि-शिक्यं रज्जुरिति न तत्वान्तरम्, अथ न च रज्जुमात्रे शिक्यप्रतितिः, एवमत्रापि मृदेव घटः, तन्वव एव पटः, सुवर्णमेव कुण्डलम्, अथ च न मृदादिमात्रे घटादिप्रतीतिः। यद्यपि वृक्षादिषु न बीजादिप्रतीतिर्भवति, या तु बीजस्यानन्तरावस्था तत्र तत्प्रतीतिर्भव्त्येव। एवं तदनन्तरादिष्वप्यवस्थासु पूर्वपूर्वा प्रतीतिर्द्रष्टव्य। वृक्षस्य तु बीजं पर परयोपादानकारणमिति सर्वमवदातम्। विकृतिवाचिन इति। ननु ठ्समर्थानां प्रथमात्ऽ इति वचनातदर्खस्य चेह प्रथमनिर्देशात्परकृतेश्च तदर्थत्वातद्वाचिन एव प्रत्ययःप्राप्नोतीत्यत आह-तदिति सर्वनाम्ना विकृतिः प्रत्यवभृश्यत इति। तेन विकृतिरेव सर्वतः प्रथमनिर्दिष्टेति भावः। विकृत्यर्थायां प्रकृतौ प्रत्यय इति ॥ ऐतेन तदर्थमिति सप्तम्याः स्थाने प्रथमा, स्त्रीलिङ्गस्य च स्थाने नपुंसकलिङ्गमिति दर्शयति। तदर्थग्रहणेनेत्यादि। इह प्रकृतिविकारवाक्ये क्वचिद्योग्यतामात्रं विवक्ष्यते-मूत्राय कल्पते यवागूरिति; क्वचित्प्रकृत्यन्तरव्यावृत्तिः, यथा--यवानां धानाः, धानानां सक्तव इति; क्वचित्प्रकृतेरनन्यार्थता, यथा--अङ्गरेभ्य एतानि काष्ठानीति, तत्रेह चरमोऽर्थो विवक्षित इति प्रतिपादनाय तदर्थग्रहणं कृतमित्यर्थः। किं सिद्धं भवति ? तदाह--न प्रकृतिविकारेति। प्रत्ययार्थस्य चेत्यादि। विकृत्यर्थायां हि प्रकृतौ प्रत्यय उच्यते, तच्य तस्यास्तादर्थ्यं चतुर्थ्यैव शक्यते बोधयितुमित्येतत्सामर्थ्यम्। केचित्विति । तेषां वचनादेव लभ्या चतुर्थी। यवानां धाना इति। येषां सामर्थ्यलभ्या चतुर्थी तेषामिदं प्रत्युदाहरणाम्। ये तु ठ्तस्मैऽ इत्यनुवर्तयन्ति, तेषां मूत्राय कल्पते यवागूरिति द्रष्टव्यम्। या काचिदिति। अनुपदानकारणभूतापीत्यर्थः। तत्रैतत्स्याद्--न कूप उदकस्य काचिदपि प्रकृतिस्तत्राह--भवतदि चेति। कुत इत्याह--तत्रेति। यथैव हि प्रयाजादीनां धर्माणामुत्पत्याधारत्वाद्दर्शपूर्णमासौ प्रकृतिः सौर्यादीनाम, एवमुदकधर्माणां क्षारत्वादीनामुत्पत्याधारत्वात्कूप उदकस्य प्रकृतिरित्यर्थः। यद्येवम्, उदकमपि तस्य विकृतिरेव सौर्यादिवत् ? इत्यत आह--न त्विति। कुत इत्यत आहात्यन्तभेदादिति। तस्यैवोतरमवस्तान्तरं विकृतिरित्यत्र-कार्यकारणयोर्नात्यन्तभेदः, मृदयं कुम्भ इति प्रतीतेः। नाप्येकान्ततस्यत्वमः मृन्मात्रे कुम्भप्रतीतेर भावत्। तस्मात्कथञ्चिद् भेदः, कथञ्चिच्चाभेदः। एतेन जातितद्वतोर्गुणगुणिनोश्च भेदाभेदौ व्याख्यातौ। न तु कोशी तस्य प्रकृतिरिति। अतत्कारणत्वादनुत्पत्याधारत्वाच्च, चर्मपिनद्धं दार्वादिनिर्मितमस्यादीनां प्रक्षेपस्थानं कोशी। ननु च प्रकृतिर्विकृतिरिति च सम्बन्धिशब्दावेतौ, सम्बन्धिशब्दाश्च नियतमेव सम्बन्धिनमुपस्थापयन्ति, तद्यथा--मातरि वर्तितव्यमित्युक्ते न चोच्यते स्वश्यामिति, अथ च या यस्या माता तस्यामिति गम्यते, एवं चात्रान्यतरोपदानेऽप्यन्यतरस्य प्रतीतिः सिद्धयति ? अत आह--द्वयोरपीति। एवं मन्यते--विपूर्वोऽयं करोतिररत्येवापकारे-दैवं मे दौस्थ्ये विकरोतीति, अस्ति चेष्टानानात्वे-विकुर्वते छात्रा इति, अस्त्यनौचित्येविकृतिरेषा स्त्रीणां यत्स्वातन्त्र्यं नामेति, अस्ति कार्ये--तन्तूनां विकारः पट इति; तथा प्रपूर्वोऽपि करोतिरनेकार्थः, आस्ति कारणे-तन्तवः प्रकृतिः पटस्येति, सांक्यास्तु सत्वरजस्तमसां गुणानां साम्यावस्थां प्रकृतिमाहुः, अस्ति दोषापगमेप्रकृतिस्थं मन इति, अस्ति स्वभावे-प्रकृत्याभिरूप इति, अस्ति धर्माणामुत्पत्याधारे--यथोक्तं पुरस्तात्, तदेवमनेकार्थत्वान्नानयोरैकान्तिकं सम्बन्धिशब्दत्वमित्यन्यतरोपादानेन विवक्षितः प्रकृतिविकारभावो लभ्यत इति। ठ्तस्य विकारःऽ इत्यत्र तु अभिधातस्वभावादेव कार्यस्य ग्रहणम्, नापकारादेः ॥ च्छदिरुपधिबलेर्ढञ् ॥ ५।१।१३ ॥ छाद्यतेऽनेनेति च्छदिः, ठर्चिशुचिहुसृपिच्चदिभ्य इसिःऽ ठिस्मन्त्रन्क्विषु चऽ इति ह्रस्वत्वम्। छादिषेयाणि तृणानीति। यधा तु चर्मविकारश्च्छदिस्तदा परत्वात् ठ्चर्मणोऽञ्ऽ इत्यञप्राप्नोति, तत्र पूर्वविप्रतिषेधेन ढञेवेष्यते-छादिषेयं चर्मेति, आह च ठ्यञ्ञ्यावञः पूर्वविप्रतिषेधेन ढञ्चऽ इति। वृत्तिकारेण तु प्रतिपदविधेर्बलीयस्त्वान्नैतदुपन्यस्तमित्याहुः। नेति व्यम्; ढञोऽपि छादिषेयाणि तृणानीत्यत्र चरितार्थत्वात्। बालेयास्तण्कडुला इति। कथं पुनरत्र प्रकृतिविकृतिभावः, यदा बल्यवस्थायामपि त एव तण्कडुलाः ? नावश्यं यत्प्रकृत्युपमर्दनेनैव भवति स एव विकारः, तदेव गुणान्तरयुक्तमपि विकारः। अस्ति च बल्यवस्तायां हरिद्रायोगेन तण्डुलानां गुंणान्तरयोगः, अन्ततः प्रक्षालनेन श्वैत्यमार्द्रता मार्दवं सान्निवेशविशेषो वा भवति। उपधिशब्दात्स्वार्थे प्रत्यय इति। इष्टिरेषा। किं पुनः कारणमधिकारप्राप्तो नेष्यते ? इत्या--उपधीयत् इत्युपधिरित्यादि। यदेव हि तद्रथाङ्गमुपधीयमानत्वादुपधिशब्देन कर्मणि किप्रत्ययान्तेनोच्यते, यद्यपि तस्य प्रकृतिरस्ति, तथापि तत्र न ढञन्तं वर्तते, किं तर्हि? तत्रैव हि रथाङ्गे। स्वभावश्चात्र हेतुः, न च तदेव तस्य प्रकृतिर्भवति, अतः स्वार्थे प्रत्यय एषितव्यः। अथायमुपधानमुपधिरिति ? क्रियावचन उपधिशब्दस्तादर्थ्यमपि सम्भवति, उपधानक्रियार्थत्वाद् द्रव्यस्येत्युच्यते। एवमपि क्रियाविकारो न भवति, क्रियापि विकारो बवति; बहुविकारोऽयं मनुष्यो हसति नृत्यति गायतीति दर्शनात् ? सत्यम्; ठ्तदर्थ विकृतेः प्रकृतौऽ इत्यत्र तु विशिष्ट एव प्रकृतिविकारभावो गृह्यते--यत्र प्रकृतेरुच्छेदः, यत्र वा रूपान्तरापतिः। अत एव तत्र विवक्षितः प्रकृतिविकारभाव इत्युक्तम् ॥ ऋषबोपानहोर्ञ्यः ॥ आर्षभ्यो वत्स इति। ॥ ५।१।१४ ॥ महाप्राणः संहननवान् सुजातावयवो यो वत्स ऋषभावस्थाप्राप्तये पोष्यते। चर्मण्यपीति। ञ्यस्यावकाशः--औपानह्यए मुञ्जः, अत्रोऽवकाशः--वाह्यं चर्म, उपानच्छब्दाच्चर्मणि प्रकृतित्वेन विवक्षिते सति परत्वादञ्प्राप्नोति पूर्वविप्रतिषेधेन ञ्य एव भवति। ये तु सावकाशत्वे स्त्यपि प्रतिपदविधानं बलीयस्त्वे कारणमाहुः, तेषामयं पूर्वविप्रतिषेदोऽसङ्तः स्यात् ॥ चर्मणोऽञ् ॥ ५।१।१५ ॥ चर्मण इति षष्ठीति। पञ्चम्यां तु चर्मन्शब्दात्यर्मार्थायां प्रकृतौ प्रत्ययः स्यात्--चर्मणे द्वीपीत्यादौ, न चैवमभिधानमस्ति ॥ तदस्य तदस्मिन् स्यादिति ॥ ५।१।१६ ॥ सम्भावने लिङिति। ठ्सभ्यावनेऽलमिति चऽ इत्यादिना। इष्टकानां बहुत्वेनेत्यादिना सूत्रार्थमुदाहरणेषु दर्शयति। प्रकृतिविकारभाव इत्यादिना ठ्तदर्थ विकृतेःऽ इत्यादिना सिद्धं दर्शयन्सूत्रारम्बं समर्थयते। योग्यतामात्रामिति। तथा चान्यार्थास्वपीष्टकासु वक्तारो भवन्ति--प्राकारीया इष्टका इति। द्विस्तद्ग्रहणमित्यादि। ननु विपरीतमिदम्, प्रत्येकं सम्बन्धे ह्यत्र द्विस्तद्ग्रहणमनर्थकम्, अतोऽत्र द्विस्तद्ग्रहणादन्यत्र समुदायेन सम्बन्धो युक्त इति ? सत्यम्; अयमपि तु प्रकारः सम्भवतीति न्यायप्राप्तं प्रत्येकं सम्बन्धमस्मिन्सूत्रे स्थित्वा उदाहरणरूपेण दर्शयतीति तदिदमुक्तम्। न्यायप्रदर्शनार्थमिति। प्रदर्शनं दिगुदाहरणमित्यर्थ। यदि पुनरयं न्यायोऽत्र न प्रदर्श्येत, तदा ठ्तदस्यास्त्यस्मिन्नति मतुप्ऽ इत्यत्र समुदायेन समर्थविभ्क्तिसम्बन्धो विज्ञायेत, ततश्च शाकावान्वृक्ष इत्यादौ यत्र द्वाभप्यां प्रत्ययार्थाभ्यां समर्थविभक्तेः सम्बन्धः सम्भवति, तत्रैव स्यात्; यत्र त्वन्यतरेण सम्बन्धः---गोमान्देवदतो वृक्ष्वान्पर्वत इति, तत्र न स्यात्। अथेहेति। यदा ब्राह्मणार्थं निर्मितं प्रासादं गुणवन्तं च देवदतं पश्यन्सम्भावयति तदा तस्य प्रसङ्गः ॥ प्राग्वतेष्ठञ् ॥ ५।१।१८ ॥ वक्ष्यति पारायणतुरायणेति। अत्र तु प्रदेशेऽस्य करणमुतरसूत्रे येषां पर्यु दासस्तेभ्यष्ठञ्यथा स्यादिति--गौपुच्छिकः, साम्प्रतिकः। ठञित्येवाधिकारे सिद्धे ठ्प्राग्वतेःऽ इति वचनं मध्ये योऽधिकारवानपवादः ठ्सर्वभूमिपृथिवीभ्यामणञौऽ, ठ्शीर्षच्छेदाद्यच्चऽ इत्येवमादिस्तेन विच्छेदेऽपि ठ्पारायणतुरायणऽ इत्येवमादौ ठञेव यथा स्यादित्येवमर्थम्। यद्यप्यत्र प्रत्ययोऽवधित्वेन गृहीतः, तथाप्यर्थेष्वेवोपतिष्ठते, न तु प्रकृतिषु; तेनापवादविषये न भवति। तता च ठ्शूर्पादञन्यतरस्याम्ऽ इत्यन्यतरस्यांग्रहणमर्थवद्भवति ॥ आर्हादगोपुच्छसंख्यापरिमाणाट्ठक् ॥ ५।१।१९ ॥ तदर्हतीति वक्ष्यतीति। तदेकदेशोऽर्हशब्दो निर्दिश्यत इति भावः, तदाह--आ एतस्मादर्हसंशब्दनादिति। तदर्हमित्ययंत्ववधिर्न भवति, यदि स्यादार्हादित्यनर्थकम्; प्राग्वतेरित्येव सिद्धत्वात्। ननु च वत्यर्थेऽपि ठको विधिर्यथा स्यादित्येवमर्थमार्हादिति वचनं स्याद् ? एवमप्याङ् एव निर्देशः कर्तव्यो वतेरित्येवाभिविधावाकारः। एवमपि ठुपसर्गाच्छन्दसि धात्वर्थेऽ इत्यत्रापि वत्यर्थे ठक्प्राप्नोति। तस्माद्व्याख्यानमेवात्र शरणम्। गोपुच्छादीन्वर्जयित्वेति। अगोपुच्छशब्दात्सङ्खयावाचिनः परिमाणशब्दाच्चेत्ययं त्वर्थो न भवति। यदि स्यान्निष्कादिष द्रोणशब्दस्य परिमाणवाचिनः षष्ठिशब्दस्य सङ्ख्यावाचिनः पाठोऽनर्थकः स्याद् ? अनेनैव सिद्धत्वान्नानर्थकः। नियमार्थ पुनर्वचनं स्यात्-असमासएव यथा स्यादिति ? नैतदस्ति; विधिनियमसम्भवे विदेरेव ज्यायस्त्वात्। अभिविधो वायमाकार इति। यदि तु मर्यादायां स्यातस्य ग्रहणमनर्थकं स्यात्, प्राग्ग्रहणानुवृत्यैव सिद्धत्वात्, तेन किं सिद्धं भवति ? तदाह--अर्हत्यर्थेऽपि ठग्भवत्येवेति। सङ्ख्यापरिमाणयोः को विशेष इति। परिमीयते परिच्छिद्यते येन तत्परिमाणम्, सङ्ख्यापि च परिचिच्छिद्यते इति प्रशनः। भेदगणनं सङ्खयेति। भिद्यत इति भेदः, मिथो भिन्नाः पदार्थाः ते गण्यन्ते येन तद् भेदगणनम्। एकत्वादिसङ्खषासामान्योपक्रमत्वाद् भेदगणनी संख्येति न भवति, भेदगणनमित्यनेन पृथक्तवनिवेशितत्वमाह। यथोक्तं पृथक्तवनिवेशितत्वात्सङ्यया कर्मभेदः स्यादिति। एकत्वसङ्खयापि बहुषु बुद्ध्या सन्निवेशितेषु भेदमेकमस्हायमाह। गुरुत्वमानमुन्मानमिति। तुलादावारोप्य येन द्रव्यान्तरपरिच्छिन्नगुरुत्वेन पलादिशब्दवाच्येन पाषाणादिना सुवर्णादेर्गुरुत्वमुन्मीयते, तदुन्मानमित्यर्थः। आयामामानं प्रमाणमिति। आयामःउदैर्घ्यम्, स येन मीयते तदायाममानम्। एतच्च क्वचित्रियगभिमुखस्य वस्तुनो भवति, यथा--वस्त्रादेर्हस्तादि, क्वचिदूर्ध्वाधरदिगवस्थितस्य भवति--हास्तिनमुदकम्, ऊरुद्वयसमुदकमिति। आरोहपरिणाहमानं परिमाणमिति। आरोहःऊच्छ्रायः, परिणाहःउ विस्तारः; ताभ्यामारोहपरिणाहाभ्यां स्वगताभ्यां येन काष्ठादिनिर्मितेन व्रीह्यादि परिमीयते तत्परिमाणम्। परिः सर्वतोभावे, संख्यापरिमाणयोर्विशेषे पृष्ठे उन्मानादविशेवप्रदर्शनं प्रसङ्गेन तद्विशेषस्याप्यज्ञानस्यापनयनार्थम्। ऊर्ध्वमानमिति। ऊर्ध्वारोपणाद् गुरुत्वमानमुन्मानमिति पूर्वोक्त एवार्थः। किलशब्दः प्रसिद्धौ। परिमाणं तु सर्वत इति। ऊर्ध्वमानमित्युपसमस्तमपि मानमित्येतदत्रापेक्ष्यते। एतदर्थमे केचिद् ऊर्ध्वं मानमिति व्यस्तं पठन्ति। आयामस्तेति। मानमित्यपेक्ष्यते, कर्मणि षष्ठी। प्रसिद्धस्तु पाठः आयामस्त्विति। तत्रायामपरिच्छेद्यर्थ उपचारादायामशब्देनोक्तः। सह्ख्या बाह्य तु सर्वत इति। पूर्वोक्तादुन्मानादेः सर्वतो बाह्या, तत्रानन्तर्भावात्। तस्याश्च संख्यायतेऽनयेति निर्वचनं भेदगणनलक्षणत्वं व्याख्यातव्यमित्यनुसन्धातव्यम् ॥ असमासे निष्कादिभ्यः ॥ ५।१।२० ॥ ठञोऽपवाद इति। येन नाप्राप्तिन्यायेन निष्कादिभ्यो हि द्रोणपर्यन्तेभ्यः परिमाणशब्दात्षष्ठिशब्दाट्ठकः पर्युदासे ठञेव प्राप्नोति, अतस्तस्यैवायमपवादः। तदन्ताप्रतिषेधस्येति। तदन्तविधावप्रतिषेधस्येत्यर्थः। यदि तर्हि तदन्तात्प्रत्ययो विज्ञायते, एवं तर्हि ठ्व्यपदेशिवद्भावोऽप्रातिपदिकेनऽ इति केवलेभ्यो नोपपद्यते ? नैष दोषः; अस्मासग्रहणेन हि ग्रहणवत्परिभाषाया निवृत्तिराख्याता, तन्निवृतौ ठ्येन विधिस्तदन्तस्यऽ इति तदन्तता, अत्र स्वस्य च रूपस्य प्रकृतत्वात्केवलादपि भवति। यस्तु मन्यते---पूर्वत्रोपादानसामर्थ्यात्केवलादपि स्यादिति, तस्य हि लाघवार्थं केवलानां पाठः स्यादिति यत् किञ्चिदेतत्। इत उतरं चेति। कथं पुनरिष्यमाणोऽपि तदन्तविधिर्लभ्यते, यावता ठ्ग्रहणत्रता प्रातिपदिकेन तदन्तविधिर्न भवतिऽ इति प्रतिष्ध्यते ? अस्याः परिभाषाया अनित्यत्वं च तस्या गर्गादिषु ठ्वाजासेऽ इति समासप्रतिषेधाद् गम्यते। नित्यत्वे हि सति वाजशब्दादुत्प्द्यमानस्य प्रत्ययस्य समासे प्राप्तिरेव नास्तीति समासे प्रतिषेधं न कुर्यात्। द्विशूर्पमिति। द्वाभ्यां शूर्पाभ्यां क्रीतमिति तद्धितार्थे द्विगुं कृत्वा न तावगदेषा लुगन्ता प्रकृतिरिति ठ्संख्यापूर्वपदादपि ठ्शूर्पादञ्न्यतरस्याम्ऽ इत्यञेव क्रियते, तस्य ठध्यर्धपूर्वद्विगोर्लुगसंज्ञायाम्ऽ इति लुक्। द्विशोर्पिकमिति। ठ्परिमाणान्तस्यासंज्ञाशाणयोःऽ इत्युतरपदवृद्धिः। यदुक्तम्--ठित उतरं संख्यापूर्वपदानं तदन्तविधिरिष्यतेऽ इति, यच्चोक्तम्--ठ्लुगन्तायास्तु प्रकृतेर्नेष्यतेऽ इति, तदुभयमाप्तागमेन स्थिरीकर्तुमाह--तथा चोक्तमित्यादिना ॥ शताच्च ठन्यतावशते ॥ ५।१।२१ ॥ कनोऽपवाद इति। उतरसूत्रेण प्राप्तस्य। शतकमिति। ठ्तदस्य परिमाणम्ऽ इति वर्तमामने ठ्संक्यायाः संज्ञासंघसूत्राध्ययनेषुऽ इति संघे प्रत्ययार्थे विवक्षिते उतरसूक्षत्रेण कनेव भवति। प्रत्ययार्थोऽत्र सङ्घ इति। शतमध्यायानां परिमाणं यस्य निदानाख्यस्य ग्रन्थस्य स इह प्रत्ययार्थः, स च शतसंख्यावच्छिन्नाघ्यायसमुदायात्मक इति संघः प्रत्ययार्थो भवति। शतमेव वस्तुत इति। शतातस्यानन्यत्वात् ततश्च प्रकृत्यर्थान्न भिद्यते,यदेवाध्यायानां शतं प्रकृत्याभिधीयते प्रत्ययान्तेनापि तदेवेति नेह प्रकृत्यर्थात्प्रत्ययार्थस्य भेदः। एतेन यत्राव्यतिरिक्तः प्कय्ययार्थात्प्रकृत्यर्थस्तत्र प्रतिषेधो भवति, न व्यतिरिक्त इत्येतदाख्यातम्। ननु च ठ्संघे चानौतराधर्येऽ, ठ्सङ्ख्यायाः संज्ञासंघसूत्राध्ययनेषुऽ इत्यत्र च प्राणिसमूहे संघशब्दो गृङ्यते, तत्कथमत्र ग्रन्थविषयो गृह्यते ? उपचारेणेत्यदोषः। यदि वा संज्ञासंघसूत्रे शब्दसाहचर्याद्विशिष्टः संघो गृह्यते, ठ्संघे चानौतराधर्येऽ इत्यत्रापि ठ्च्छन्दोनाम्निऽ इत्यतश्च्छन्दोग्रहणानुवृतेः प्राणी गृह्यते। इह तु यत्नान्तराभावाद्ग्रन्थस्यापि ग्रहणमित्यदोषः। ननु च शतेऽभिधेये न भवितव्यम्, इहच शत्यं शाटकशतम्, शतिकं शाटकशतमित्युक्ते शतं प्रतीयत एव तत्किमिति प्रतिषेधो न भवति ? इत्यत आह--वाक्येनेत्यादि। शत्यशतिकशब्धौ सामान्यशब्दौ, सामान्यशब्दास्च प्रकरणादिकमन्तरेण न विशेषे वर्तन्ते। न यावच्छाटकशतमित्येतत्पदान्तरं प्रयुज्यते तावत्प्रत्ययार्थस्य शतत्वं नावसीयते। तस्मात्पदान्तरसन्निधौ गम्यमानत्वाद्वाक्यार्थोऽसौ भवति। न श्रुत्येति। गम्यते इति सम्बन्धः। यत्र प्रत्ययान्तेन पदान्तरनिरपेक्षेण प्रत्ययार्थस्य शतत्वमाख्यायते, तत्र श्रुत्या प्रत्ययान्तश्रवणमात्रेणैव गम्यते, यथा प्रत्युदाहरणे शतं परिमाणमस्य शतकमित्युक्ते गम्यते-एकत्प्रत्ययार्थोऽपि शतमेवेति। इह तु वाक्याच्छतत्वं प्रतीयते। न च पदसंस्कारकाले वाक्यार्थस्याङ्गभावोऽस्ति, तदा तस्यानुपथानात्। प्रकृत्यर्थादव्यतिरिक्ते प्रत्ययार्थे प्रतिषेधो भवति, न ह्यतिरिक्ते वाक्यगम्य इत्येतदाप्तवचनेन द्रढयितुमाह--तथा चोक्तमित्यादि। शतप्रतिषेधे कर्तव्ये प्रकृत्यर्थादन्यस्य च प्रत्ययार्थस्य शतत्वे सत्यप्रतिषेधः। एतदुक्तं भवति--यत्रान्यत् प्रकृत्यर्थं शतम्, अन्यत्प्रत्ययार्थशतम्, तत्र विधिरेव भवति न प्रतिषेधः। केन पुनः समासे प्राप्नोति यतस्तत्प्रतिषेधार्थमसमासानुकर्षणार्थश्चकारः क्रियते ? इत्याह--प्राग्वतेरित्यादि ॥ संख्याया अतिशदन्तायाः कन् ॥ ५।१।२२ ॥ पञ्चकः पट इति। लौकिक्याः संख्याया उदाहरणम्। बहुक इति। पारिभाषिक्याः। चात्वारिशंत्क इति। ठिसुसुक्तान्तात्कःऽ। अर्थवतस्तिशब्दस्य ग्रहणादिति। अर्थवद्रग्रहणपरिभषया। डतेरिति। इत्यवयवस्य तिशब्दस्येत्यर्थः। पर्युदासो न भवतीति। न ह्यसावर्थवलान्। कतिक इति। का संख्या परिमाणं येषामिति ठ्किमः संख्यापरिमाणे इति चऽ इति इतिः। सप्ततिशब्दे तु सप्तदशदर्थाभिधायिनः सप्तशब्दात्परिमाणोपाधिकादस्येति षष्ठयर्थे तिप्रत्ययो बवतीति तिशब्दोऽर्थवान्। एवं नवतिशब्दे। अशीतिशब्दे तु यद्यप्यशीशब्दस्याष्टस्वन्यत्र न दृष्टः प्रयोगः। शास्त्रो त्वेषा व्यवस्था--अष्टानामशीभावस्तिश्च प्रत्यय इति। विशतिशब्दे तु द्वयोर्दशतोर्विन्बावः शतीश्च प्रत्यय इति तिशब्दोऽनर्थक एव, ततश्च ततः कन् भवत्येव-विंशतिकः। एवं च कृत्वा ठ्विशतिकात्खः शतमानविशतिकःऽ इति निर्द्देश उपपद्ते; किन्तु ठ्विशतित्रिंशद्भयां ड्वुनसंज्ञायाम्ऽ इत्यसंज्ञायां डुवुन्विधानात्संज्ञायामेव कन् भवति। ठतिशदन्तायाःऽ इत्यत्रान्तग्रहणमेकसप्तत्या क्रीतमित्यत्रापि पर्युदासार्थम्, अन्यथा प्रत्ययग्रहणपरिभाषया न स्यात् ॥ वतोरिड् वा ॥ ५।१।२३ ॥ तस्य त्वनेनेति। ठ्चरेष्टःऽ इत्यादिवत्प्रत्ययान्तरं त्विण्न भवति; टित्करणसामर्थ्यात्। अस्त्यन्यट्टित्करणस्य प्रयोजनं टित इति ङीब्यथा स्यात् ? अत इत्यधिकारे ङीप्, न चैषोऽकारान्तः, टित्करणसामर्थ्यादनदन्तादपि ङीप् स्यात्, यथा--डित्यभस्याप्यनुबन्धकरणसामर्थ्यात् सरज इत्यत्र टिलोपः। एघं तर्हि स्वरितत्वप्रतिज्ञानेन कनोऽनुकर्षणसामर्थ्यादागमो भविष्यति ? अस्त्यन्यदनुवृतेः प्रयोजनम्--इटा बाधो मा भूत् कनोपि विधिर्यथा स्यादिति ? वावचनादेवल कन् भविष्यति ? इदं तर्हि प्रयोजनं स्यात्-इट्कनौ वा भवतः, पक्षे सामन्यविहितष्ठञिति ? तस्माद्व्याख्यानमेव शरणम्। ननु नेह कन्ग्रहणमस्ति, यदपि प्रकृतम्, तदपि प्रथमानिर्दिष्टम, षष्ठीनिर्दिष्टेन चेहार्थः, वतोरिति पञ्चमी कनिति प्रथमायाः षष्ठी प्रकल्पयिष्यति--ठ्तस्मादित्युतरस्यऽ इति। तावत्क इति। तत्परिमाणमस्य ठ्यतदेतेफभ्यः परिमाणे वतुप्ऽ, ठा सर्वनाम्नःऽ॥ विंशतित्रिशद्भ्यां ड्वुनसंज्ञायम् ॥ ५।१।२४ ॥ विंशक इति। ठ्ति विंशतेर्डितिऽ इति तिशब्दस्य लोपः, ठतो गुणेऽ इति पररूपत्वम्। यस्येति लोपस्तु न भवति, ठसिद्धवदत्राभात्ऽ इति तिलोपस्यासिद्धत्वात्। ननु सुबन्तातद्धितोत्पतिः, ततश्चान्तर्वर्तिनीं विभक्तिमाश्रित्य पदसंज्ञा भवति, तत्कथं पररूपत्म्; या तु ड्वुनमपेक्ष्य भसंज्ञा, सा येन नाप्रप्तिन्यायेन ठ्स्वादिषुऽ इति या पदसंज्ञा तामेव वाधते, न ठ्सुप्तिङ्न्तं पदम्ऽ इत्येतामपि ? एतामपि बाधते। कथम् ? परत्वात्। अत एव ठ्सामन्यःऽ इत्यादौ नलोपाद्यभावः। कथं पुनरत्रेति। त्रिंशत्कमधिकृत्य प्रश्नप्रतिचने। विंशतिशब्दातु कनः सिद्धिः प्रागेव प्रतिपादिता। यदा तु द्वयोर्दशतोर्वलिशभावस्तिश्च प्रत्यय इति पक्षः, तदा विंशतिकमप्यधिकृत्य भवतः ॥ कंसाट्टिठन् ॥ ५।१।२५ ॥ कंसशब्दोऽयं कांस्यपात्रवाची परिमाणशब्दो गृह्यते, पूर्वोतरैः परिमाणशब्दैः साहचर्यात्, न लोहविशेषवचनः, नाप्युग्रसेनसुतवचन इति दर्शयति। ठञोऽपवागद इति। इकार उच्चारणार्थ इति। एवं च प्रक्रियालाघवाय टिकनेव वक्तव्यः ? तथा तु न कृतमित्येव। अधिकं इति। अर्धशब्दः कार्षापणस्यार्धे निरूढ इति भागवदपेक्षयार्धेऽसामर्थ्यं नाशङ्कनीयम्। अपर आह--प्रकरणादिवशेन भागवद्विशेषे निश्चिते सति नासामर्थ्यमिति ॥ शूर्पादञन्यतरस्याम् ॥ ५।१।२६ ॥ ठञोऽपवाद इति। शूर्पशब्दस्य परिमाणवाचित्वात्। यद्यपि परिपवनविशेषः शूर्पम्, तथापि विशिश्टसंस्थानं धान्यादेः परिमाणमपि। शूर्पपरिमितो वा व्रीद्यदिः शूर्पशब्देनोच्यते॥ शतमानविशतिकसहस्रवसनादण् ॥ ५।१।२७ ॥ ठकठञोरपवाद इति। शतमानं। परिमाणम्, सहस्रं संख्या; ताभ्यां ठञोऽपवादः। विंशत्या क्रीतं विंशतिकं संज्ञाशब्दोऽयम्, असंज्ञायाम् ठ्विंशतित्रिंशद्भयां ड्वुनसंज्ञायाम्ऽ इति ड्वुना भवितव्यम्, सा यदि परिमाणस्य संज्ञा ? तदा ततोऽपि ठञोऽपवादः। अथ त्वर्थान्तरस्य, ततष्ठकः। वसनशब्दातु ठक एव ॥ अध्यर्धपूर्वद्विगोर्लुगसञ्झायाम् ॥ ५।१।२८ ॥ अध्यारूढमर्द्धमस्मिन्नत्यध्यर्धम्, प्रादिभ्यो धातुजस्येति बहुव्रीहिः। अध्यर्धपूर्वद्विगोरिति समाहारद्वन्द्वः, सौत्रः पुंल्लिङ्गनिर्द्देशः। तस्मादध्यर्धपूर्वात्प्रातिपदिकाद् द्विगोश्च परस्येति। तेन ठध्यर्धपूर्वद्विगोःऽ इति पञ्चम्याश्रितेति लक्ष्यते। यद्येवम्, द्विगोर्लुकि तन्निमितग्रहणम्, द्विगोर्निमितं यस्तद्धितस्तस्य लुग् भवतीति वक्तव्यम्, द्वाभ्यां शूर्पाभ्यां क्रीतं द्विशूर्पम्, द्विशूर्पेण क्रीतं द्विशौर्पिकमित्यत्र द्वितीयस्य मा भूत्। तथार्थविशेषासंप्रत्यये तन्निमितादपि यत्र तद्धितार्थद्विगुना सहार्थो न भिद्यते, तत्रातन्निमितादपि। स तद्धितो यस्य निमितं न भवति तस्मादपि द्विगोः परस्य लुग्भवतीति वक्तव्यम्-द्वयोः शूर्पयोः समाहारो द्विशूर्पी, द्वशूर्प्या क्रीतमित्यपि विग्रहे द्विशूर्पमित्येव यथा स्यात्। तस्माद् द्विगोरिति नैषा पञ्चमी, का तर्हि ? षष्टी--द्विगोर्यस्तद्धितः। कश्च द्विगोस्तद्धितः ? यस्तस्य निमितं यस्मिन् द्विगुर्मवति। द्विशूर्प्या क्रीतमित्यत्र त्वनभिधानात्प्रत्ययो न भविष्यति। त्र्यैशब्द्यं हि नः साध्यम्द्वाभ्यां शूर्पाभ्यां क्रीतम्, द्विशूर्पम्, द्विशूर्प्या क्रीतमिति; तत्र द्वयोः शब्दयोः समानार्थयोरेकेन विग्रह एव द्विशूर्प्या क्रीतमिति, न तु वृत्तिः, अनभिधानात्। अपरेण विग्रहश्च वृत्तिश्च-द्वाभ्यां शूर्पाभ्यां क्रीतं द्विशूर्पमिति, अव्यविकन्यायेन। व्याख्यातोऽव्यविकन्यायः। इदं तावदर्थतत्वम्, ठ्द्विगोर्लुगनपत्येऽ इत्यत्र च वृत्तिकारेणाप्येवमेव व्याख्यातम्, इह तु तदनुसारेण गम्यमानत्वान्नैवं विविच्य व्याख्यातम्, यस्य तद्धितस्य लुगिष्यते सोऽपि द्विगोः पर इत्येतावता द्विगोः परस्येत्युक्तम्। पाञ्चलोहितिकम्, पाञ्चकलापिकमिति। पञ्च लोहिन्यः परिमाणमस्य, पञ्च कलापाः परिमाणमस्येति विगृह्य तद्धितार्थे समासः, ठ्तदस्य परिमाणम्ऽ इति ठञ्, ठ्भस्याऽढेअ तद्धितेऽ इति पुंवद्भावाल्लोहिनीशब्दस्येकारनकारयोर्निवृत्तिः, परिमाणविशेषस्य नामधेये एते। प्रत्ययान्तस्य विशेषणमसंज्ञाग्रहणामिति। न तु सन्निहितस्यापि द्विगोः; असंज्ञायामिति सप्तदमीनिर्द्देशात्। वातिंककारस्तु मन्यते--ठ्द्विगुविशेषणमसंज्ञाग्रहणं पञ्चलोहित-पञ्चकलापशब्दावपि द्विगू कृततद्धितलुकावेव संज्ञे, ततो नार्थोऽसंज्ञायामिति प्रतिषेधेनऽ इति, तदाह--ठ्संज्ञाप्रतिषेधानर्थक्यं च तन्निमितत्वाल्लोपस्यऽ इति। तस्याः संज्ञायाः लोप एव निमितमित्यर्थः। अध्यर्द्धशब्दः संख्यैवेति। संख्यावाच्येवेत्यर्थः। अध्यर्द्धस्याप्येकादिवत् परिच्छेदहेतुत्वात्। अत एवाध्यर्द्धेन क्रीतमध्यर्द्धकमति संख्यालक्षणः कन् भवति, अध्यर्द्धकंसमित्यादौ तद्धितार्थे द्विगुश्च। क्वचिदिति। कन्समासोतरपदवृद्धिभ्योऽन्यत्र। संख्यायाः क्रियाभ्यावृत्तिगणने इति। यदा सकृत्फलां तां क्रियामभिनिर्वर्त्य तामेव कुर्वन्नर्धे निवर्तते, तदा कृत्वसुचोऽभावदध्यर्ध करोतीत्येव भवति ॥ विभाषा कार्षापणसहस्राभ्याम् ॥ ५।१।२९ ॥ अध्यर्धसहस्रमिति। ठ्शतमानविशतिकऽ इति विहितस्याणो लक्, अलुक्पक्षे ठ्संख्यायाः संवत्सरसंख्यस्य चऽ इत्युतरपदवृद्धिः, इदानीमेव ह्युक्तम्--ठध्यर्धशब्दः संख्यैवऽ इति। अध्यर्धसुवर्णमिति। ठञो लुग्, न तु ठकः, आर्हादित्यत्र क्रियानिमितकस्य परिमाणस्य ग्रहणाद्। येषां तु रूढिपरिमाणस्य तत्र ग्रहणम्, तन्मते ठको लुक्। अध्यर्द्धसौवर्णिकमिति। परिमाणान्तस्येत्युतरपदवृद्धिः, तत्र ह्युन्मानस्यापि ग्रहणम्; शाणप्रतिषेधात्। अध्यर्द्धे कार्षापणस्य, द्विगौ सहस्रस्येत्येवमत्र यथासंख्यं नेष्यते॥ द्वित्रिपूर्वान्निष्कात् ॥ ५।१।३० ॥ अध्यर्द्धपूर्वग्रहणमुतरार्थमनुवर्तते, इह तु न सम्बध्यते। द्विगुग्रहणं तु सम्बध्यते, द्वयोर्निष्कं त्रयाणां निष्कमिति षष्ठीसमासे मा भूत्। अत्र च व्याख्यानमेव शरणम्; अन्यथा ठद्यर्धपूर्वाद् द्वित्रिपूर्वाच्च निष्कात्ऽ इति समुच्ययो विज्ञायेत। द्विनैष्किकमिति। ठ्ग्राग्वतेष्ठञ्ऽ, ठ्परिमाणान्तस्यऽ इत्युतरपदवृद्धिः। द्वित्रिभ्यां निष्कादित्येव सिद्धे पूर्वग्रहणं चिन्त्यप्रयोजनम् ॥ विस्ताच्च ॥ ५।१।३१ ॥ चकारेणानुकृष्यत इति। तेन चानुकृष्टमुतरत्र नानुवर्तते इत्युतरत्रानुवृत्यभाव इति भावः। बिस्तशब्दः परिमाणवाची ॥ विंशतिकात्खः ॥ ५।१।३२ ॥ ठ्शतमानविशतिकऽ इत्यणि प्राप्ते तस्य च लुकि खोऽत्र विधीयते। खार्या ईकन् ॥ ५।१।३३ ॥ खारि परिमाणमिति ठञि प्राप्ते तस्य च लुकि ईकन्विधीयते। केवलायाश्चेति। ठध्यर्द्धपूर्वद्विगोःऽ इत्यधिकारात्केवलाया न प्राप्नोतीति वचनम्। अथाध्यर्धपूर्वेति न सम्बध्येत, ततः केवलायामीकनश्चरितार्थत्वादध्यर्धपूर्वद्विगोर्लुक् प्राप्नोति, दीर्घोच्चारणं किमर्थं नेकनेवोच्येत, सवर्णदीर्घत्वे सति सिद्धम् ? यस्येतिलोपः प्राप्नोति, इकारोच्चारणसामर्थ्यान्न भविष्यति, अन्यथा कनमेव विदध्यात्, ठ्केऽमःऽ इति ह्रस्वत्वे कृते सति सिद्धम्। अवग्रहः प्राप्नोति ? न लक्षणेन पदकारा अनुवर्त्त्याः, पदकारैर्नाम लक्षणमनुवर्त्यम् ॥ पणपादमाषशताद्यत् ॥ ५।१।३४ ॥ पद्बावोऽत्र न भवतीति। ठ्पद्यत्यतदर्थेऽ इत्यनेन। किं कारणमित्याह--प्राण्यङ्गस्येति। ठ्पादस्य पदाज्यातिगोपहतेषुऽ इत्यत्र तावत् प्राण्यङ्गस्य पादस्य ग्रहणं तस्यैवाज्यादिभिर्गतिवचनैः सबन्धसद्भावात् पद्यतीत्यादावपि तस्यैवानुवृत्तिः। इह तु परिमाणमिति। गृह्यते इति शेषः। पणमाभ्यां साहचर्यादिति भावः ॥ शाणाद्वा ॥ ५।१।३५ ॥ ठञोऽपवाद इति। यद्यप्युन्मानवचनः शाणशब्दः, तथाप्यार्हादित्यत्र क्रियापरिमाणस्य ग्रहणादस्यपि पर्युदासाट्ठञ एव प्रसङ्ग इति भावः। शताच्चेति वक्तव्यमिति। पूर्वेण नित्ये यति प्राप्ते वचनम्। यदभावपक्षे सङ्खयालक्षणस्य कनो लुक् ॥ द्वित्रिपूर्वादण् च ॥ ५।१।३६ ॥ वार्तितके दर्शनात्सूत्रेष्वेतत्प्रक्षिप्तम्। त्रैरूप्यं भवतीति। अण्येकम्, यति द्वितीयम्, ठञो लुकि तृतीयम् ॥ तेन क्रीतम् ॥ ५।१।३७ ॥ तेषामिति। अस्य समर्थविभक्तय इत्यनेनैव सम्बन्धः, न प्रत्ययार्थ इत्यनेन। न हि तेषां प्रत्ययानां प्रत्ययार्था निर्दिशयन्ते इत्यन्वयो घटते। ओदनपाकं पचतीतिवद्वा कथञ्चिदन्वयः। तेनेति मूल्यादिति। मूल्यभूतार्थाभिधायिनः करणे या तृतीया सा चेह समर्थविभत्मिरित्यर्थः। मूलेनानाम्यं मूल्यमुलाभ इत्युक्तम्। अन्यत्रेति। अमूल्यादकरणे वा या कृतीया तत्रेत्यर्थः। अनभिधानादेवेति। एवकारः पौनर्वचनिकः। किञ्च- प्रस्थादयः शब्दा नियतपरिमाणानामर्थानां वाचका न मात्रयापि न्यूनाधिकभावे प्रवर्तन्ते, न हि यथा जलमिति प्रस्थेऽपि भवति, कुडवेऽपि भवति, यथा वाग्निरिति भ्राष्ट्राग्नावपि भवति, दावाग्नावपि भवति; यथा वा एको व्रीहिः सम्पन्न इत्यादौ जात्यात्मना सर्वासां व्यक्तीनामैक्यं प्रतीयते, तथा प्रस्थादिषु भवति। तस्मातेषु विभक्तयभावे यावतस्ये वाचकास्तावदेव गम्यते। वाक्ये तु प्रस्थाभ्याम्, प्रस्थैरिति द्विवचनबहुवचनबलातावतोऽनेकस्यावगतिर्भवति। द्वकम्, त्रिकमिति। अत्र हि प्रकृतेरेव वाच्ये द्वित्वबहुत्वे विभक्तिस्तु करणत्वमात्रमाचष्टे, सा च प्रकृतिर्वृतावपि विद्यते। न ह्यएकेन मुद्रेनेति। एकया मुद्गव्यक्त्येत्यर्थः। जात्याख्यायां त्वेकवचनान्तादपि भवत्येव। ननु यद् निष्केण क्रीतं तस्य निष्को वस्नो भवति, ततश्च ठ्सोऽस्यांशवस्रभृतयःऽ इत्येव सिद्धः प्रत्ययः, नार्थ एतेन ? एवं तर्हि यस्य शतं मूल्यं न भवत्यथ च तेन क्रीतं कार्यवशातदर्थमिदम् ॥ तस्य निमित संयोगोत्पातौ ॥ ५।१।३८ ॥ शुभाशुभसूचक इति। तत्प्रयोजक इतिवत्वष्ठीसमासः। महाभूतानामिति। पृथिव्यादीनाम्। दक्षिणाक्षिस्पन्दनमिति। पाञ्चभौतिकशरीरे द्रव्यमेव च क्रियारूपेण परिणमते इति दक्षिणाक्षिस्पन्दनं महाभूतपरिणामः, तस्य च शुभस्य प्रति निमितत्वम्; ज्ञापकहेतुत्वाद्, न तु कारकहेतुत्वात्। वातिकमिति। शमनकोपने एवात्र प्रत्ययार्थौ, न तु निमितं ताभ्यां विशेष्यते। प्रकरणादिना च तयोरन्यतरावसायः। सन्निपातःउवातादीनां युगपदुद्भवः ॥ गोद्व्यचोऽसंख्यापरिमाणाश्वादेर्यत् ॥ ५।१।३९ ॥ ठञादीनामिति। आदिशब्देन ठको ग्रहणम्। अतद्गुणसंविज्ञानो बहुव्रीहिः, बहुवचनं तु ठक एवैकस्य विषयवहुत्वमाश्रित्य कृतम्, ठकोऽपवाद इत्यर्थः। किं पुनःकारणमेवं व्याख्यायते ? संख्यापरिमाणाश्वादिवर्जिताद्गोद्व्यचष्ठक एव प्राप्तत्वात्। ब्रह्मवर्चसादिति। ब्रह्मणो वर्चो व्रह्यवर्चसं वृतस्वाध्यायसंपत्, ठ्ब्रह्महस्तिभ्यां वर्चसःऽ इत्यच् समासान्तः ॥ पुत्राच्छ च ॥ ५।१।४० ॥ कथं पुत्रीयः क्रतुरिति, न हि क्रतुः संयोग उत्पातो वा भवति ? संयुज्यतेऽनेनेति व्युत्पत्या क्रतुरपि संयोग एव। येन यागादिकरणेन पुरुषः फलेन संयुज्यते स यागादिरपि संयोगः, न केवलं सम्बन्ध एवेत्यर्थः। एतेन ठ्पुरोडाशसं लोक्यम्ऽ इत्यादिव्याख्यातम् ॥ सर्वभूमिपृथिवीभ्यामणञौ ॥ ५।१।४१ ॥ संयोगोत्पातौ प्रति यथासंख्यं न भवति, तयोः प्रत्ययार्थविसेषणत्वेन प्रकृतिभ्यां प्रत्ययाभ्यां चासम्बन्धात् ॥ तत्र विदित इति च ॥ ५।१।४३ ॥ योगविभागो यथासङ्ख्यनिरासार्थः, उतरार्थश्च ॥ तस्य वापः ॥ ५।१।४५ ॥ तस्येति वापापेक्षया कर्मणि षष्ठी, न तु कर्तरि, तेन देवदतस्य वापः क्षेत्रमित्यादौ न भवति ॥ तदस्मिन् वृद्ध्यायलाभशुल्कोपदा दीयते॥ दीयत इत्येकवचान्तं वृद्ध्यादिभिः प्रत्येकमभिसम्बद्ध्यत इति। तेन वृद्धयादीनां बहुत्वेऽपि बहुवचनं न भवतीति भावः। प्रत्येकं सम्बन्धस्तु द्वन्द्वपर्तिनां पदानां बुद्ध्या निष्कर्षाल्लभ्यते एतच्च दीयत इत्यस्य विसेषणस्य वृद्ध्युपक्रमत्व उक्तम्, यदा तु यतत्प्रथमासमर्थ दीयते चेतद्भवतीत्येवमुपक्रम्यते, पश्चातु किं पुनस्तद्दीयत इत्यपेक्षायां वृद्ध्यादयः संतद्यन्ते तदा न किञ्चिद्यत्नसाध्यम्। उतमर्णधनातिरिक्तमिति। उतमर्णेन यद्दतम् धनं तस्मादधिकमित्यर्थः, संज्ञा वृद्धिस्तु न गृह्यते; आयादिभिः साहचर्यात्। उपादानमूलातिरिक्तमिति। पटादीनामुपादानं तन्त्वादि, तस्य मूलमुत्पत्तिकारणं द्रव्यम्, तस्मादधिकं पटादि विक्रयेण यल्लभ्यते स लाभः, निर्वेशो भृतिः, रक्षानिमितको निर्वेशो रक्षानिर्वेशः, सम्बन्धषष्ठ।ल समासः। शुल्कग्रहणं प्रपञ्चार्थम्, तस्याप्यायविशेषत्वात्, तथा च ठ्ठगायस्थानेभ्यःऽ इति शुल्कस्थानादपि भवति शौल्कशालिक इति। यत्र ग्रामादौ वृद्ध्यादि दीयते तत्र प्रत्ययो विधीयमानः संप्रदाने न प्राप्नोतीत्यत आह--चतुर्थ्यर्थ उपसंख्यानमिति। सिद्धं त्विति। विवक्षातः कारकाणि भवन्तीति संप्रदानस्यैवाधिकरणत्वेन विवक्षितत्वात्सिद्धमिष्टमित्यर्थः। क्व यथेत्याह--सममिति ॥ पूरणार्द्धाट्ठन् ॥ ५।१।४७ ॥ पूरणवाचिन इति। पूर्यते येनार्थः स पूरणः, तद्वाचिन इत्यर्थः। एतेन ठ्पूरणऽ इत्यर्थस्येदं ग्रहणम्, न तु प्रत्ययस्येति दर्शयति। यदि तु पूरणग्रहणं स्वर्येत ततः स्वरितेनाधिकारगतिर्भवतीति ठ्तस्य पूरणे डट्ऽ इति पूरणाधिकारविहिता डटादयः प्रत्यया गृह्यएरन्, यथा-गोस्त्रियोरित्यत्र स्त्र्यधिकारविहिताष्टाबादयः, ततश्च ठ्पूरणाद्भागे तीयादन्ऽ इत्यनन्तान्न स्यात्, अर्थग्रहणे ततोऽपि भवति, तहन्तमपि हि पूरण एवार्थे वर्तते, स्वार्थिकत्वादनः। तस्मादर्थग्रहणमेव न्याय्यम्। ठक्टिठनोरपवाद इति। पूरणादार्ङीयस्य ठकोऽपवादः। अर्द्धादपिअर्द्धाच्यति वक्तव्यमिति टिठनः। स्त्रियां च विशेषः, टिठिनि हि सति ङीप् स्यात्, ठनि तु टाप् भवति। अर्द्धशब्दो रूपकार्द्धस्य रूढिरिति। रूपकमुकार्षापणम्, तदीयस्य भागस्यार्द्धशब्दो वाचकत्वेन प्रसिद्ध इत्यर्थः। तेनार्द्धिक इति भागवत्सापेक्षत्वेनासामर्थ्यं नोद्भावनीयमिति भावः ॥ भागाद्यच्च ॥ ५।१।४९ ॥ भागश्ब्दोऽपीति। न केवलमर्द्धशब्द एवेत्यपिशब्दार्थः ॥ तद्धरति वहत्यावहति भाराद्वंसादिभ्यः ॥ ५।१।५० ॥ प्रकृतिविशेषणमिति । प्रकृतिः प्रातिपदिकम्, तस्य विशेषणम्, विशे,णप्रकारमेव दर्शयति--वंशादिभ्य इत्यादि। वंशादिभ्य इति किमिति। भारान्तादिति कस्मान्नोक्तमिति भावः। अत एव तदन्तं प्रत्युदाहरति--व्रीहिभारं वहतीति। भारभूतेभ्यो वंशादिभ्य इति। ननु वंशादयः शब्दास्ते कथं भारभूता इत्यत आह--बारशब्दोऽर्थद्वारेण वंशादीनां विशेषणमिति। बारभूतार्थाभिधायित्वाद्भारभूतेब्यो वंशदिभ्य इत्युक्तमित्यर्थः। सूत्रे तु प्रत्येकं सम्बन्धादेकवचनम् ॥ वस्नद्रव्याभ्यां ठन्कनौ॥ ५।१।५१ ॥ वस्नशब्देन मूल्यमुच्यते ॥ संभवत्यवहरति पचति ॥ ५।१।५२ ॥ प्रमाणानतिरेक इति। आधारग्रमाणादाधेयप्रमाणस्यानाधिक्यमित्यर्थः। तदुपर्स्जने च धारणे संभवतेर्वृत्तिरिति सकर्मकत्वम्। उपसंहरणमवहार इति। आधारप्रमाणादाधेयप्रमाणस्य न्यूनतेत्यर्थः, तदुपसर्जने च धारणेऽवहरतेर्वृतेः सकर्मकत्वम्, सूत्रे स्पष्ट उपसर्गः। नास्त्यत्र नियोग इति। नियोगःउअवश्यम्भावः। तत्पचतीति द्रोणादण् चेति। पचतिग्रहणं सम्भवत्यवहरतीति निवृत्यर्थम्, द्रोणपरिमिते च व्रीह्यादौ द्रोणशब्दस्तस्य पाकसम्भवात् ॥ आढकाचितपात्रात्खोऽन्यतरस्याम् ॥ ५।१।५३ ॥ ठञोऽपवाद इति। न ठकः, आढकादीनां परिमाणत्वात्। पात्रं भाजनमप्यस्ति, तस्य तु सम्भवत्यादिभिः सम्बन्धानुपपतेः, आढकाचितसाहचर्यच्च परिमाणस्यैव ग्रहणम् ॥ द्विगोष्ष्ठ्Äअश्च ॥ ५।१।५४ ॥ द्व्याचितेति। ठञो लुक्, ठपरिमाणबिस्ताचितऽ इति ङीपः प्रतिषेधः ॥ कुलिजाल्लुक्खौ च । ५।१।५५ ॥ अन्यतरस्यांग्रहणानुवृत्या लुगपि विकल्प्यत इति। तच्च लुक्खग्रहणाद्विज्ञायते, अन्यथा कुलिजाच्चेत्येव वक्तव्यम्, द्विगोश्चेत्येव खोऽन्यतरस्यामिति च तत्र ठन्खाभ्यां मुक्ते पक्षे ठञ्, तस्य ठध्यर्द्धपूर्वऽ इति लुक्। एवं रूपत्रये सिद्धे लुक्खग्रहणं कुर्वतः सूत्रकारस्य ठ्लुकोऽपि विकल्प इष्ट इति लक्ष्यतेऽ इति मन्यते। वाक्तेककारस्तु ठञो नित्यं लुकं मन्यमानः पूर्वसूत्रवत् त्रैरूप्यमेवेच्छन् लुक्खग्रहणं प्रत्याचष्टे, ठ्कुलिजाच्चऽ इति सिद्धे लुक्कग्रहणानर्थक्यम्, पूर्वस्मिन् त्रिकभावादिति ॥ सोऽस्यांशवस्रभृतयः ॥ ५।१।५६ ॥ इह च शतं यस्य वक्नो भवति स तेन क्रीतो भवति, तत्र तेन क्रीतमित्येव सिद्धम् नार्थो वस्नग्रहणेन ? नैतदस्ति; योग्यतामात्रेऽप्यस्येदं मूल्यमिति व्यवहारत् ॥ तदस्य परिमाणम् ॥ ५।१।५७ ॥ इह परिच्छदहेतुमात्रं परिमाणम्, न सर्वतो मानमेव; उतरसूत्रे संख्यायाः परिमाणेन विशेषणात्। खारशतिक इति। खारशब्दोऽकारान्तो वार्तिककारवचनात्साधुः, तेन हि ठ्तदस्य परिमाणम्ऽ इत्यत्र योगविभागः कर्तव्य इति दर्शयितुमुक्तम्-ठन्येभ्योऽपि दृश्यते खारशताद्यर्थम्ऽ इति। वार्षशतिक इति। यज्ञादौ परिमाणिनि प्रत्ययः। षष्टि जीवितपरिमाणस्येति। संवत् सरेषु षष्ठिशब्दः,संवत्सरसंख्याया हि जीवितं प्रायेण परिच्छद्यते, जीवितपरिच्छेदद्वारेण तद्वतोऽपि षष्टिः संवत्सराः परिमाणमिति। तदस्मिन्परिमाणिनि प्रत्ययः। ननु यस्य षष्टिर्जीवितपरिमाणं षष्टिमसौ भृतो भवति तत्र तमधीष्टो भृतो भूतो भावीत्येव सिद्धम्। एवं च द्विषाष्टिक इत्यादौ नैवाध्यर्द्धपूर्वति लुक्प्रसङ्गः, तस्यानार्हीयत्वात्, ततश्च समर्थविभक्तेः प्रत्ययार्थस्य च पुनरुपादानेन विधानमपि न कर्तव्यम्, न च जीवितपरिमाणादन्यत्र पुनर्विधानेन लुगबाव इत्यते ? एवं मन्ये-तमधीष्ट इत्यत्र कालादिति वर्तते, न च षष्टयादयः कालशब्दाः। अथ काले संख्येये वर्तमानत्वातेऽपि कालशब्दाः ? रमणीयादिष्वतिप्रसङ्गः, रमणीयं कालं भूत इति। तस्माद्यः कालं न व्यभिचरति स एव कालशब्द इति। द्विषाष्टिक इति। ठ्संख्यायाः संवत्सरसंख्यस्य चऽ इत्युतरपदवृद्धिः ॥ संख्याः संज्ञासङ्घसूत्राध्ययनेषु ॥ ५।१।५८ ॥ परिमाणोपाधिकादिति। नात्र रूढिपरिमाणं गृह्यते, किं तर्हि ? क्रियाशब्दः--परिमीयते येन तत्परिमाणम्। संख्यापि च परिमीयत इति नासम्भवि विषेषणम्, नन्वेवमप्यव्यभिचारादविशेषणम्, न ह्यपरिच्छेदिका संख्यास्ति, सत्यम्; इह तु प्रत्ययार्थस्य संघादेर्यदा परिच्छेदिका संख्या तदा प्रत्ययो यथा स्यात्--पञ्च गावः परिमाणमस्य पञ्चको गोसङ्ग इति; इह मा भूत्--पञ्च गावः संभूता अस्य ब्रह्मणसङ्घस्येति, न ह्यत्र सङ्घस्येयतागम्यते, तस्मात्प्रत्ययार्थस्य यदा परिच्छेदिका संख्या तदा यथा स्यादिति विसेषणमर्थवद्भवति। तत्रेत्यादि। इहादशभ्यः संख्याः संख्येये वर्तन्त, ?????? सख्यानमात्रे। तत्र य एव शकुनयः पञ्चत्वसंख्यायुक्ताः पञ्चन्शब्दवाच्यास्त एव पञ्चकशब्दस्यापि, ततश्च परिमाणपरिमाणिभावाभावात्स्वार्थ एव प्रत्ययो वक्तव्यः। यदा तु वृत्तिविषये सम्भवत्येव परिमाणी प्रत्ययार्थः--पञ्चत्वसंख्या परिमाणमेषां पञ्चकाः शंकुनय इति। पञ्चकमध्ययनमिति। पूर्वं तु पञ्चकोऽधीते इति सम्पाठापेक्षया पुंल्लिङ्गनिर्द्देशः, ठधीतेऽ इति च कृत इत्यर्थः। यथा-ओदनपाकं पचत्योदनपाकं करोतीत्यर्थः। स्तेमे डविधिरिति। सोमयागेषु च्छन्दोगैः क्रियमाणा पृष्टादिस्तुतिः स्तेमः। पञ्चदश मन्त्राः परिमाणमस्येति। साम्रा स्तुवीत, एकं साम तृचे कियते इति स्तुतिविधिः। तत्र त्रिकस्य पञ्चकृत्व आवृत्या पञ्चदश मन्त्रा भवन्ति, सप्तदशसोमे अन्त्यायाः सप्तकृत्व आवृत्तिः एकविशे तृचस्य। डित्करणमेकविशे तिलोपार्थम्, त्रयस्त्रिंशादौ टिलोपार्थं च। पञ्चदशः, सप्तदश इत्यत्र तु ठ्नस्तद्धितेऽ इत्यनेनैव टिलोपः सिद्धः। शन्शतोर्डिनिरिति। ठ्स्तोमेऽ इति न सम्बध्यते। अत्रापि डित्करणं शदन्तस्य टिलोपार्थम्। पञ्चदशिन इति। पञ्चदशाहानि परिमाणमेषामिति डिनिः। एतेन त्रिंशिनो व्याख्याताः। विंशिनोऽङ्गिरस इति। ठाङ्गिरसायास्य गौतमऽ इत्यादिप्रवरभेदेन भिन्नानि विंशतिरवान्तरगोत्राणि परिमाणमेषामित्यर्थः। योगश्चायं पूर्वस्यैव प्रपञ्चः ॥ पंक्तिविंशतित्रिंशच्चत्वारिशत्पञ्चाशत्षष्टिसप्तत्यशीतिनवतिशतम् ॥ ५।१।५९ ॥ पंक्त्यादयः शबाद निपात्यन्त इति। प्रकृतिनिर्देशस्त्वयं न भवति; पंक्त्यादिभ्यः प्रकृतेऽर्थेऽधिकृतः प्रत्ययो भवतीति पञ्चम्या अनुपदानात्, पूर्वेणैव च सिद्धत्वात्, उतरेण निपातनेन साहचयच्चि। प्रत्ययनिर्द्देशोऽपि न भवति--ङ्याप्प्रातिपदिकात्प्रकृतेऽर्थे पंक्तयादयः प्रत्यया भवन्तीति, लोके शास्त्रे च ठ्शतच्च ठन्यतावशतेऽ इत्यादौ केवलानां प्रयोगदर्शनाद्। यत्र समुदायः श्रूयते, अवयवा अनुमीयन्ते तन्निपातनम्, विपरीतो विधिः। पञ्चानामिति। अर्थगतस्य बहुत्वस्य शब्दे समारोपाद् बहुवचनम्, पञ्चशब्दस्योत्यर्थः। टिलोपस्तिच्च प्रत्यय इति। निपात्यय इत्यर्थः। अवयवनिपातननान्तरीयकत्वात्समुदायनिपातनस्य। यद्वा--ठ्निपातनात्सिद्धम्ऽ इत्यस्य पुंल्लिङ्गविपरिणामेनान्वयः, कुत्वं तु चकारञकारयोर्न निपात्यम्, ठ्चोः कुःऽ इत्येव सिद्धम्। पञ्च पदानीति। पदशब्दः पादपर्यायः। पंक्तिशच्छन्द इति। तत्पुनः पदपंक्तिः, यस्य पञ्चाक्षराः पञ्च पादा भवन्ति। द्वयोर्दशतोरिति। दशद्वयरूपसंख्येयमाचक्षाणस्य द्विशब्दस्येत्ययमत्रार्थो विवक्षितः। एवं त्रयाणाम् दशतामित्यादावपि द्रष्टव्यम्। शतिच्च प्रत्य इति। चित्करणमन्तोदातार्थम्। अपदत्वं चेति। तेन जश्तवचर्त्वे न भवतः। अत्र ठ्तदस्य परिमाणमिति वर्ततेऽ इत्युक्तम्, द्वौ दशतौ परिमाणमस्येत्यादिश्च विग्रहो दर्शितः। यदा तु ननुवर्तते तदा द्विशदादेर्दशब्दर्थाभिधायिनः स्वार्थे प्रत्ययो निपात्यः-- द्वौ दशतौ विंशतिः, त्रयोदशतस्त्रिंशद् इति; ततश्च स्वर्थिकानां प्रकृतितो लिङ्गवचनानुवृतेद्विशब्दादेरिव द्विवचनबहुवचनप्रसङ्गः। विंशत्यादि भिश्च दशतामभिधानमिति गवादिभिर्वैक्यधिकरण्यमेव स्याद्--गवां विंशतिरिति, न तु विंशतिर्गाव इति सामानाधिकरण्यम्, नापि द्विगुः---विंशतिगवमिति, तस्मादनुवर्तयम्। अथास्येत्यनेन कः प्रतिनिर्दिश्यते ? परिमाणी। कः पुनरसौ ? भिन्नानि द्रव्याणि--द्वौ दशतौ परिमाणमेषां विशतिरिति। यद्येवम्, विंशत्यादिभिर्द्रव्याणामभिधानमिति बहुवचनप्रसङ्गाद्विशतिर्गाव इति न स्यात्, गवां विंशतिर्गोविंशतिरिति च न स्याद्, व्यतिरेकाभावात् ? अथास्मिन् पक्षे किञ्चिचदिष्टमपि सिद्धम्, आहोस्विद्दोषान्तमेवास्ति ? इत्याह--इह विशतिगवं त्रिंशत्पूलीति समानाधिकरणलक्षणो द्विगुः सिद्धः; तस्मान्न भिन्नानि द्रव्याणि परिमाणीनि, एतच्च सर्वेष्वेव विग्रहवाक्येष्वस्येत्येकवचनेन दर्शितम्। कस्तहिं परिमाणी ? सङ्घः---द्वौ दशतौ परिमाणमस्य गोसङ्गस्य ठ्विंशतित्रिशद्भयां ड्तुन्ऽ विशकः सङ्ग इति न स्यात्; सङ्गान्तरस्य परिमाणिनोऽसम्भवात्। अतोमयं परिमाणिभिन्ना द्रव्याणि तत्संघश्च, तत्र सङ्घपरिमाणिनि व्यधिकरणप्रयोगाः, द्रव्येषु तु परिमाणिषु समानाधिकरणप्रयोगाः, तत्रैव विंसतिर्गावः परिमाणमस्य विंशको गोसङ्ग इति भविष्यतीत्युच्येत् ? एवमपि विंशतिर्गाव इत्यत्र बहुवचनप्रसङ्गः, तथा सङ्घस्य परिमाणत्वे विंशतिर्गोसङ्ग इति प्राप्नोति, न चेष्यते, विंशक इत्येव हि तत्रेष्यते। एवं तर्हि द्वावत्र सङ्गौ स्तः--द्वव्याणामेकः, द्रव्यवर्गयोर्दशतोश्चापरः; तत्र निपातनसामर्थ्याद्दशत्संघे परिमाणिनि प्रत्ययः, सङ्श्च समुदायमात्रं न प्राणिनामेव किं हि निपातनादलभ्यम्, तत्र दशत्सङ्घस्य विंशतिशब्देनाभिधानाद् गोसंघे विवक्षिते विशतिः परिमाणमस्य विशको गोसङ्घ इति च भविष्यति, विशतिर्गोसङ्घ इति च न भविष्यति, गवां विंशतिर्गोविंशतिरिति च भविष्यति। ननु दशत्सङ्घस्य दशतौ गुणिनौ न गावः, तेन दशतोर्विशतिरिति प्रापनोति, गवां विशतिरिति तुन सिद्धयति ? उच्यते; द्रवल्याणां द्रव्यसङ्गस्य दशतां दशत्सङ्स्य च न पारमाथिको भेदोऽस्ति, केवलं बपुद्धया परिकल्प्यते, ततश्च गवां दशतोश्च तात्विकभेदाभावद्दशत्सङ्घमपि प्रतिगवामपि गुणित्वमुपपद्यते। व्यभिचारभावातु दशद्भ्यां विशतितर्न विशेष्यते गवादिभिरेव तु विशेष्यते, यथा--पटस्य शौक्ल्यमिति भवति, न शुक्लस्य शौक्लामिति व्यमिचाराभावात्, तद्वदत्रापि। ऐवं तावद्व्याधिकरणप्रयोगा उपपादिताः, विंशतिर्गाव इत्यादिकास्तु समानाधिक्रणप्रयोगा उपपादनीयाः, धर्मवचना एते विशत्यादयो गुणवचना इति शुक्लादिवद्भविष्यति। यथा हि-पटस्य शुक्लो गुण इति गुणमात्रे दृष्टः शुक्लशब्दो गुणगुणिनोरव्यतिरेकविवक्षायां मतुब्लोपाद्वा समानाधिकरणो बवति शुक्लः पट इति। एवं विशत्यादयोऽपि। यद्येवम्, यथान्ये गुणवचना द्रव्यस्य लिङ्गसंख्ये अनुवर्तन्ते, यथा---शुक्लं वस्त्रम्, शुक्ला शाटी, शुक्लः कम्बलः, शुक्लौ, शुक्ल इति, एवं विंशत्यादयोप्यनुवतेरन् ? इह पुनर्विशतिर्गावः विंशतिर्बलीवर्द्दाः विशतिर्गोकुलानीति नित्यमेकवचनं स्त्रीलिङ्गं च भवति, शतशब्दातु नपुंसकत्वम्, विंशती विशतयः शते शतानीति तु प्रचयभेदविवक्षायामेकशेषः ? अत्रोच्यते--यस्य धमेस्य धमिणा सहाभेदः प्रतिपाद्यते, स चेतेषु प्रत्येकपरिसमाप्तः तदा तस्यापि धर्मिवद्भिन्नत्वाद् द्विवचनबहुवचने भवतः, यथा शुक्लौ, शुक्ला इति। शौक्ल्यं हि कम्बलेषु प्रत्येकपरिसमाप्तम्, कोऽर्थः ? एकैकस्मिन्नपि कम्बले शुक्लशब्दार्थः पुष्कलः, न मात्रयापि न्यून इत्यर्थः। विशतिर्गाव इत्यत्र तु विंशतिसंख्या न प्रत्येकपरिसमाप्ता, किं तर्हि ? बहुष्विति। तद्रूपभेदाभावादेकवचनमेव भवति, यथा--गावो धनम्, इन्द्राग्नी देवता, वेदाः प्रमाणमिति। धिनोर्तेर्धनं प्रीतिहेतुः, समुदितानां च गवां प्रीतिहेतुत्वं विवक्षितम्, नैकैकस्या इति धनमेकं गोभिर्विशेष्यते, तत्र धनाकारे बेदाभावाद् बहुवचनाभावः। इन्द्राग्नी देवतेति दिवरैश्वर्यकर्मणोर्देअवतासङ्घस्य च देवतात्वमेकं इविः प्रतीति द्विवननाभावः। देवते इति तूच्यमाने प्रत्यकमैश्वर्य प्रतीयेत, ततश्च व्रीहियवयोरिव विकल्पः स्यात्। वेदाः प्रमाणमिति चतुर्णा समुदितानां वेदानामेकं प्रमाणत्वं विवक्षितमिति तस्मिन्नाकारे भेदाभावाद् बहुवचनाभावः, प्रत्येकं तु प्रामाण्ये वेदाः प्रमाणानीति भवत्येव। यद्येवम्, त्रयश्चत्वारः पञ्च षट् सप्तेत्यत्राप्येकवचनप्रसङ्गः, न हि त्रित्वादिकमपि प्रत्येकपरिसमाप्तम् ? उच्यते; त्र्यादयो नित्यं संख्येयवचनाः, न तु कदाचिदपि संख्यानमात्रवचना इत्येकेन ध्रमेण व्यासज्यवृत्तिना सहानेकस्य धमिंणो भेदप्रतिपादनाभावाद्धर्मिबेदाश्रयं बहुवचनमेव भवति। यद्यपि त्रित्वमित्यादौ संख्यानमात्रमपि निष्टष्ट्ंअ प्रतीयते, त्र्यादिभिस्तु न प्रतीयते। देवताशब्दस्तु यद्यपि निष्कृष्टदेवतात्वमाचष्टे, तथाप्यन्निर्देअवतेत्येकेनापि स भिन्नदेवतात्वमाचष्टे, नानेकेनैव सर्वदा। त्र्यादयस्तु न क्वचिदप्येवमिति विशेषः। लिङ्गमपि लोकाश्रयत्वाद्यथादर्शितं व्यवतिष्ठते, न तद्धितान्तत्वेनाभिधेयवदिति सर्वमनाकुलम्। एवं भाष्यकारमतेन व्याख्याय संप्रति वार्तिककारमतं दर्शयति--ठ्विशत्यादय इति। गुणशब्दा इति। रूढिरूपा इति भावः। यथाकथञाचिद्व्युत्पाद्या इति। स्वरवर्णानुपूर्वीज्ञानार्थम्, न त्ववयवार्थप्रदर्शनाय, तदाह--नात्रावयवार्थेऽभिनिवेष्टव्यमिति। अवयवार्थविषयोऽभिनिवेशो न कर्तव्य इत्यर्थः। स तु प्रतीतिपथं नारोहतीति परित्यज्यते। या चैषामित्यादि। दर्शिता च गुणमात्रे गुणिनि च वृत्तिः, एतदपि सर्त्रं स्वाभाविकमेवेति दर्शितामुपपति स्थिरां मन्यते। सहस्रादयोऽप्येवञ्जातीयका इति। गुणमात्रे गुणिनि च वर्तन्ते, स्वलिङ्गसंख्यानुविधायिनश्चेत्यर्थः। तद्वदेव द्रष्टव्या इति। स्वरवर्णापूर्वीज्ञानार्थं विंशत्यादिवद्व्युत्पाद्या इत्यर्थः। तद्यथा-शतश्य दशतां सहभावः स्रच्च प्रत्ययः॥ क्व पुनरेते व्युत्पाद्याः ? पृषोदरादिषु। उदाहरणामात्रम् प्रदर्शनमात्रमेतद्विशत्यादीनामुपादानम्। इतिशब्दः समाप्तौ। अत्र वार्तिकम्--ठनारम्भो वा प्रातिपदिकविज्ञानाद्यथा सहस्रादिषुऽ इति ॥ पञ्चद्दशतौ वर्गे वा ॥ ५।१।६० ॥ सङ्घग्रहणे प्रकृते वर्गग्रहणं सूत्राध्ययनयोरनुवृत्तिर्मा भूदिति, अप्राण्यर्थं च; सङ्घशब्दस्य प्राणिविषयत्वात् ॥ त्रिंशच्चत्वारिंशतोर्ब्राह्मणे संज्ञायां डण् ॥ ५।१।६२ ॥ न विषयसप्तमीति। ब्राह्मणविषयश्चेत्प्रयोगो भवतीति नैवमत्रार्थः, नैवमत्रार्थः, तथा हि सति मन्त्रे भाषायां च प्रयोगो न स्यात्, ब्राह्मणादन्यस्य च संज्ञायां शङ्क्येत, एवं च ठ्ब्राह्मणसंज्ञायाम्ऽ इति षष्ठीसमासेन निर्देअष्टव्यम्, तथा तु न कृतमितेयेव सूत्रे च ये ओकारादन्तरं रेफमधीयते तेषां पञ्चम्यर्ये षष्ठीद्विवचनम्। ये तु न, तेषां समाहारद्वन्द्वे पञ्चम्येकवचनम् ॥ तदर्हति ॥ ५।१।६३ ॥ अर्हति लब्धु योग्यो भवतीत्यर्थः ॥ छेदादिभ्यो नित्यम् ॥ ५।१।६३ ॥ नित्यगद्रहणं प्रत्ययार्थविशेषणामिति। अथ यथा ठ्नित्यं क्रीडाजीविकयोऽ इत्यत्र महाविभाषया प्राप्तस्य वाक्यस्य निवृत्यर्थं नित्यग्रहणम्, तथेहापि कस्मान्न भवति ? इष्टत्वात्, दृष्टत्वाच्च। इत्यते च दृश्यते च छेदमर्हतीति। न च वाक्यनिवृत्यर्थमेव नित्यग्रहणं कर्तव्यम्, ठ्छेदादिभ्यःऽ इत्येवास्तु, पूर्वेण सिद्धे पुनरारम्भो वाक्यनिवृत्यर्थो भविष्यति। यथा तर्हि ठ्त्रेर्मप्नित्यम्ऽ इत्यत्र स्वातन्त्र्यनिवृत्यर्थं नित्यग्रहणम्, तथेह कस्मान्न भवति ? इष्टत्वात्, दृष्टत्वाच्च। इष्यते च स्वातत्र्यम्, दृश्यते च छेदादिषु पठितस्य सम्प्रशनशब्दस्य स्वतन्त्रस्य प्रयोगः, विधिनिमन्त्रणादिसुत्रे यथा। तर्ह्येकगोपूर्वादित्यत्र प्रत्ययान्तर्य मतुपो निवृत्यर्थं नित्यग्रहणम्, तदेह कस्मान्न भवति? अप्राप्तत्वात्। न ह्यत्र कस्यचित्प्रत्ययान्तरस्य प्राप्तिः। यथा तर्हि ठ्नित्यं कौटिल्ये गतौऽ इत्यत्रार्थान्तरनिवृत्यर्थं नित्यग्रहणम्--गतिवचनाद्धातोः कौटिल्य एव, न क्रियासमभिहार इति, तथेह कस्मान्न भवति ? इष्टत्वाद्, इष्यते ह्यर्थान्तरेऽपि यथायोगं छेदादिभ्य अर्हीयः प्रत्ययः। तस्माद्यथोक्तमेव प्रयोजनं नित्यग्रहणस्य। छेदं नित्यमर्हतीति। ननु न कश्चित् पदार्थो नित्यं छेदमर्हति, योऽपि वेतसादिश्च्छिन्नश्च्छिन्नः प्ररोहति सोऽपि न सदैवच्छेदनार्हः; प्ररूढस्तु भवति। यस्तार्ह दस्युवंसादिर्नित्यं छेदनार्हः स प्रत्ययार्थः। अपर आह--आभीक्ष्णये नित्यशब्दः, यथा--नित्यप्रहसितादाविति। विराग विरङ्गं चेति। विरागशब्दाः प्रत्ययमुत्पादयति, तत्सन्नियोगेन विरङ्गमादेशमापद्यते--विरागं नित्यमर्हति वैरङ्गिकः ॥ शीर्षच्छेदाद्यच्च ॥ ५।१।६५ ॥ प्रत्ययसन्नियोगेनेति। तथा च शिरःशब्देन विग्रहो दर्शितः। कथं तर्हि पूर्वमुक्तम्-शीर्षच्छेदशब्दाद् द्वितीयासमर्थादिति ? न प्रयोगार्हे वाक्ये द्वितीयासमर्थता, किं तर्हि ? यदुपमर्द्दनेन वृत्तिर्भवति तत्र प्रकियावक्ये प्रत्ययौ द्वौ--यच्च, ठक्च, एवं च प्रत्ययामभ्यां सन्नियोग इति द्विवचनान्तेन समासः ॥ दण्डादिभ्यो यः ॥ ५।१।६६ ॥ उपायविशेषःउदण्डः, हस्तालम्बश्च। इह ठ्दण्डादिभ्यःऽ इत्येतावत्सूत्रम्, अनन्तरश्च यत्प्रत्ययो विधीयतेऽ। तथा च वध्यशब्दवल्युत्पादनाय क्यब्विधावुक्तम्--ठ्हनो वध च तद्वितो वाऽ इति, यदि चात्र यद्विधीयते तत एव तदुपपद्यते तद्धितो वेति। कथम् ? क्यप्याद्यौदातत्वम्, यत्यपि तद्धिते ठ्यतोऽनावःऽ इत्याद्यौदातत्वमेव। यदि त्वत्र यो विधीयेत ततः स्वरे विशेषादनुपपन्नमेतत्स्यात्। उतरसूत्रे चास्य यस्यैवानुवृत्तिः स्यात्, न यतः। अथापि स्वरितत्वाद्यत एवानुवृत्तिरुच्यते ? एवमपि वृत्तिकारस्यैतद्वक्तुमापद्येत--ठ्यदनुवर्तते नानन्तरो यःऽ इति। ये त्विभ-वध-मेधशब्दाना यदन्तानामाद्यौदातानां च्छन्दसि प्रयोगाः--ठिभ्यान्न राजा वनान्यति, तस्मादपि वध्यं प्रपन्नं न प्रतिप्रयच्छन्ति, अपां मेध्यं यज्ञियम्ऽ इत्याद्याः, ते दण्कडादिभ्यो यविधानेऽप्युपपद्यन्ते। कथम् ? दण्कडादिभ्यो यःऽ दण्डादिभ्यश्च्छन्दस्युभयप्रसङ्गे परत्वाद्यद्भविप्यति। तस्मादेते प्रयोगाः ठ्दण्डादिभ्यो यद्विधीयतेऽ इत्यत्रार्थे प्रमाणत्वेन नोपन्यसनीयाः ॥ पात्राद्धÄश्च ॥ ५।१।६८ ॥ ठक्ठञोरपवाद इति। तत्र ठकोऽपवादत्वमुपपादयति--पात्रं परिमाणमप्यस्तीति। भाजनविशेषस्तु प्रसिद्ध एव, तत्र ठकोऽपवादः, परिमाणवचने तु ठञ इत्यर्थः। पात्रिय इति। पात्रपरिमितं तण्डुलादिकं यः स्थाल्यादिरर्हति, सम्भवनधारणक्षमत्वात्, स एवमुच्यते। येन वा भुक्ते भोजनभाजनं संस्कारेण न शुद्ध्यति ॥ कडङ्करदक्षिणाच्छ च ॥ ५।१।६९ ॥ ठ्कड मदेऽ, कडतीति कडः, कडं करोतीत्यत एव निपातनात्खच्, कडङ्करं माषमुद्गादिकाष्ठमुच्यते। दक्षेरुत्साहकर्मणः करणे ठ्दुदक्षिभ्यामिनन्ऽ इतीनन्प्रत्ययः---दक्षिणा। चकाराद्यच्येति। घÄस्त्वनन्तरोऽपि न समुच्चीयते, य एव; स्वरितत्वात्। कडङ्करीय इति। यो बलीवर्हो दुर्जरमपि कडङ्करं जरयितुं प्रभावति स तदर्हतदीत्यच्यते। अल्पाच्चस्स्येत्यादि। यद्धा--यथासंख्येऽभिप्रेते यस्माद्यदिष्टः, तं दण्डादिषु पठ्ंअत् ॥ स्थालीबिलात् ॥ ५।१।७० ॥ च्छयतावनार्तेते इति। पूर्वसूत्रेऽपि न यच्चकारेणानुकृष्टः, तथा सति घन एव प्रसङ्गात्। किं तर्हि ? स्वरितत्वात्। अतो न सत्यानुवृत्तिर्दुलेभेति भावः। पाकयोग्या इत्यर्थ इति। त्रिफलीकृता इति यावत् ॥ यझर्त्विग्भ्यां घखञौ ॥ ५।१।७१ ॥ यज्ञमर्हतीति। स पुनर्यस्य विदुषोऽर्थिनः शास्त्रेणामर्युदस्तस्य द्रव्यवतो यझेऽधिकारः, स वेदितव्यः। देशस्यानैवंविधत्वाद्वचनम्। यज्ञत्विग्भ्यां तत्कर्मार्हतीत्युपसंखयानमिति। यज्ञकर्मार्हतीति। यज्ञकर्मानुष्ठनयोग्य इत्यर्थः। ऋत्विक्कर्मार्हतीति। ऋत्विग्भवितुमर्हतीत्यर्थः ॥ पारायणतुरायणचान्द्रायणं वर्तयति ॥ ५।१।७२ । पारायणमुआदित आरभ्यान्तादविच्छेदेन वेदाध्ययनम्, तुरायणमुसंवत्सरसाध्यो इविर्यज्ञविशेषः, चान्द्रायणमुतपोविशेषः, वर्तनमुनिष्पादनम्। तत्र पारायणं गुरुणा शिष्येण च निर्वर्त्यते; अन्यतरासन्निधावध्ययनक्रियाया अनिष्पादनात्; शिष्य एव त्विष्यते। तथा तुरायणमुभौ वर्तयतः--ऋत्विग्यमानश्च; ऋत्विक् चरुपुरोडाशादि निर्वर्तयति, यजमानो देवतोद्देशेन द्रव्यं त्वजति; यजमान एव त्विष्यते। उभयत्र कस्मान्त भवति ? अनबिधानात् ॥ संशयमापन्नः ॥ ५।१।७३ ॥ सांशयिकः स्थाणुरिति। स्थाणुर्वा पुरुषो वेत्येवंरूपस्य संशयस्य विषय इत्यर्थः। अननैतद्दर्शयति-यद्यपि द्वे अपि कर्तृकर्मणी संशयमापन्ने, तथापि यद्विषयकः संशयस्तत्रैव प्रत्ययो भवति, न कर्तरि परुषे; अनभिधानाधिति ॥ योजनं गच्छति ॥ ५।१।७४ ॥ क्रोशशतयोजनशतयोरिति। गुणेन नेति प्रतिषेधः संख्याया न भवति; अत एव निर्देशात्, ठ्शतस्हस्रान्ताच्च निष्कात्ऽ इति वचनाच्च। ततोऽभिगमनमिति। अत्र पञ्चम्यन्तात्प्रत्यः ॥ पन्थो ण नित्यम् ॥ ५।१।७६ ॥ नित्यग्रहणं प्रत्ययार्थविशेषणमिति। वाक्यनिवृत्यर्थं तु न भवति; पन्थादेशो हि प्रत्ययसन्नियोगेन विधीयमानो नैव वाक्ये सम्भवति; पथिन्श्ब्देन तु वाक्येऽनभिप्रेते पूर्वसूत्र एव नित्यग्रहणं कुर्यात्। यत्र पथिन्शब्दः श्रूयते, प्रत्ययान्तरनिवृत्यर्थमपि न भवति; पथः कनो विधानसामर्थ्यात्, प्रत्ययान्तरस्य प्राप्त्यभावात्। पन्थानं नित्यं गच्छतीति। नन्वयमर्थो न सम्भवति, विश्रमस्यावश्यम्भवित्वात्; सम्भवतु वा कथञ्चिदादित्यादौ, तथापि न तत्रैवेष्यते, उदाहृतं हि--पान्थो भिक्षां याचते इति ? तस्मादाभीक्षण्मुनित्यम्, परित्यागाभावो वा ॥ उतरपथेनाहृतं च ॥ ५।१।७७ ॥ चकारः प्रत्ययार्थसमुच्चय इति। प्रत्ययार्थमात्रसमुच्चये, न यु समर्थविभक्तियुक्तस्य वाक्यार्थस्येत्यर्थः। ठ्तस्य व्याख्यान इति चऽ इतिवद् वाक्यार्थपरामशिन इतिशब्दस्याभावदिति भावः। तेन किं सिद्धं भवति ? इत्याह--अत्रापीति। द्वितीयपक्षे चाक्रान्तेऽनाक्रान्ते च प्रकृत्यर्थे प्रत्ययः स्यात्, आक्रान्त एव तु भवति। वारिजङ्गलेत्यादि। वार्यादीनि पूर्वपदानि यस्मिन्प्रातिपदिके तत्मात्पथिन्शब्दान्तादित्यर्थः। अजपथशंकुपथाभ्यां चेति। पूर्वस्मिन्नेववाक्येऽजशंकुशब्दौ पठितव्यौ, तथा तु न कृतमित्येव। मधुमरिचयोरण् स्थलादिति। स्थलशब्दोतरो यः पथिन्-शब्दः, तदन्तान्मधुमरिचयोरभिधेययोरण् भवति। स्थलपथेनाहृतमिति। गच्छत्यर्थे तु प्रत्ययो न दर्शितः; मुख्यगमनासम्भवात्। स्थालपथं मधुकमिति। मधुमरिचयोरन्यतरनिर्णयायानुप्रयोगो न विरुद्धः ॥ कालात् ॥ ५।१।७८ ॥ स्वरूपग्रहणमिह न भवति, ठ्तमधीष्टो भृतो भूतो भीषीऽ इत्यत्यन्तसंयोगे द्वितीयानिर्द्देसात् ठ्मासाद्वयसिऽ इत्यादौ मासादीनां कालग्रहणेन विशेषणाच्च ॥ तेन निर्वृतम् ॥ ५।१।७९ ॥ तेनेति करणे तृतीया। निवृतमुनिष्पादितम्। अन्तर्भावितण्यर्थे वृत्तिः ॥ तमधीष्टो मृतो भूतो भावी ॥ ५।१।८० ॥ भावीति तादृश एवानागत इति। स्वसतया व्याप्यमानकाल इत्यर्थः। ननु चेति। यद्यपि क्वचित्कदाचिन्मासमप्यध्येणं भरणं च क्रियते, तथापि यावन्तं कालं क्रियते, न तावतः प्रत्यय इष्यते, अपि तु फलभूतक्रियाव्याप्यकालादिष्यते। स चाध्येषणभरणाभ्यामव्याप्त इति द्वितीयानुपपतिरिति भावः। अध्येषणभरणे क्रियार्थे इति। अध्यापनादिक्रियार्थं हि तयोः करणम्। फलभूतया क्रिययेति अध्यापनादिकया। ताभ्यामेव व्याप्त इत्युच्यत इति। यथा चौरैराहृतेनाग्निना दग्धे ग्रामे वक्तारो भवन्ति--चौरैर्दग्दो ग्राम इति ॥ मासाद्वयसि यत्खञौ ॥ ५।१।८१ ॥ वयस्यभिधेय इति। प्रत्ययार्थस्य तस्य विशेषणं वयः, तत्र विशिष्टाभिधाने विशेषणभूतं वयोऽप्यभिधेयमिति भावः। सामर्थ्यादिति। न हि मासमधीष्टो भृतो वेत्यक्ते काचित्कालकृता शरीरावस्था गम्यते, भाविन्यपि नाञ्जसा गम्यते। जातः कुमारो मासं भावीत्यत्रापि पूर्णे मासे याऽवस्था सैव वयः, ततश्च तत्रापि भूत एव मासो वयःप्रतीतेर्हेतुरित्येतत्सामर्थ्यम्। खञो त्रित्करणं स्वरार्थम्, पुंवद्भावप्रतिषेधार्थं च--मासीनाभार्यः ॥ द्विगोर्यप् ॥ ५।१।८२ ॥ प्राग्वतेः संख्यापूर्वपदानां तदन्तविधेरभ्युपगमात्पूर्वेण यत्खञोः प्राप्तयोर्यब्विधीयते। यपः पित्वादनुदातत्वम्, तेन कालान्ते द्विगाविति पूर्वपदप्रकृतिस्वर एवावतिष्ठते ॥ षणमासाण्ण्यच्च ॥ ५।१।८३ ॥ औत्सर्गिकोऽपि ठञिष्यते इति। स कथमिष्यमाणोऽपि लभ्यैत्याह--स इति। यदि चकारष्ठञः समुच्चयार्थः। कथं तर्हि यब्भवति ? इत्याह--स्वरितत्वाच्चेति। एतच्च व्याख्यानादेव लभ्यते ॥ अवयसि ठÄश्व ॥ ५।१।८४ ॥ चकारोऽनन्तरस्य ण्यतःसमुच्चयार्थ इति। न तु पूर्ववत् ठञः समुच्चयार्थः। तथा च वार्तिकम्-- ठवयसि ठ्ंअश्चेत्यनन्तरस्यानुकर्षःऽ इति॥ समायाः खः ॥ ५।१।८५ ॥ सर्वत्रेति। पूर्वत्र, अत्र, परत्र च। तेन परिजय्य-लभ्य-कार्य-सुकरमिति यावत् ॥ रात्र्यहस्संवत्सराच्च ॥ ५।१।८७ ॥ द्वैयह्निक इति। ठङ्नष्टखोरेवऽ इति कनियमादसति टिलोपे ठल्लोपोऽनःऽ इत्यकारलोपः। नन्वत्र ठ्राजाहःसखिभ्यष्टच्ऽ इति परत्वाट्टचा भवितव्यम्, न च महाविभाषया टटो विकल्पः, बृहतीजात्यन्ताः समासान्ताश्चेति नित्येषु परिगणनात् ? एवं तर्हि समासान्तविधरेनित्यत्वादत्र न भविष्यति ॥ चितवति नित्यम् ॥ ५।१।८९ ॥ यदि चितवति नित्यं लुग्भवति, कथं ठ्वर्षस्याभविष्यतिऽ इत्यत्र वक्ष्यति-द्वे वर्षे अधीष्टो भृतो वा कर्म करिष्यति द्विवार्षिको मनुष्य इति, न हि नित्ये लुकि अधीष्टभृतयोरुत्पन्नस्य चितवति श्रवणमुपपद्यते ? एवं तर्हि भूत एवोत्पन्नस्य प्रत्ययस्य लुगिष्यते, न सर्वत्र। एतच्च नित्यग्रहणाल्लभ्यते। आरम्भसामर्थ्यादेव हि नित्यो लुक् सिद्धः, तत्र नित्यग्रहणं विशिष्टेऽर्थे नित्यं लुग् यथा स्यात्। स पुनर्विशिष्टोऽर्थो भूत एव; व्याख्यानात्। तेनाधीष्टादौ पूर्वेण विभाषयैव लुग्भविष्यति ॥ षष्टिकाः षष्टिरात्रेण पच्यन्ते ॥ ५।१।९० ॥ लघुत्वात्प्रथमातिक्रमे कारणाभावाच्च एकवचनेनैव निर्देशाद्विवक्षितं तदिति मन्यमानं प्रत्याह--बहुवचनमतन्त्रमिति। तथा च वार्तिके--ठ्षष्टिके संज्ञाग्रहणं कर्तव्यम्ऽ इत्येकवचनं प्रयुक्तम्। प्रयोगबाहुल्यातु सूत्रे बहुवचनप्रयोगः, षष्टिरात्रेण पच्चन्त इत्यत्रार्थे निपात्यमानस्य षष्टिकशब्दस्य धान्यविशेष एव प्रयोगो यथा स्यात्, णुद्गादिषु मा भूदित्येवमर्थं संज्ञाग्रहणं कर्तव्यमिति वार्तिककारोणोक्तम्। तदेतन्निपातनादेव सिद्धमित्यभिप्रायेणाह--संज्ञैषेत्यादि ॥ वत्सरान्ताच्छश्च्छन्दसि ॥ ५।१।९१ ॥ इद्वत्सर-इदावत्सरशब्दौ पञ्चवर्षे युगे द्वयोर्घर्षयोः संज्ञे। एवं संवत्सर-परिवत्सरशब्दावपि ॥ तेन परिजय्यलभ्यकार्य्यसुकरम् ॥ ५।१।९३ ॥ परिजय्य इत्यस्य विवरणम्--शक्यते परिजेतुमिति। ठ्क्षय्यजस्यौ शक्यार्थेऽ इत्ययादेशः ॥ तदस्य ब्रह्मचर्यम् ॥ ५।१।९४ ॥ मासोऽस्य ब्रह्मचर्यस्येति। यद्यप्यत्रात्यन्तसंयोगो गम्यते, तथापि द्वितीया न भवति; मासस्य प्रधानत्वात्, षष्ठीविषये च द्वितीया विधानात्। उभयथा हि सूत्रप्रणयनादिति। उभयोरप्यर्थयोः सूत्रकारेणैव सूत्रस्य व्याख्यातत्वादित्«अथः। महानाम्न्यादिभ्य इति। ब्रह्मचर्यस्य प्रत्ययार्थत्वात्सामर्थ्यात् षष्ठीसमर्थेभ्यः प्रत्ययः। महानाम्न्यो नाम ऋच इति। महन्नाम यासां ता महानाम्न्यः, विदामघवन्नित्याद्याः, ठ्नित्यं संज्ञाच्छन्दसोःऽ इति ङीप्। महानाम्नीश्चरतीति। चरणमनुष्टान्म्, तच्च क्रियाविषयमिति तत्सहचरितं व्रतं तच्छब्देनोच्यते। तत्र च स लिङ्गसंख्यापरित्यागेनैव महानाम्नीशब्दो व्रते वर्तत इति महानाम्नीश्वरतीति विग्रहः। माहानामिक इति। ठ्भस्याढेअ तद्धिते पुवद्भावऽ इति ङीपि निवृते टिलोपः। अवान्तरदीक्षादिभ्यो डिनिरिति। डित्करणसष्टाचत्वारिंशतष्टिलोपार्थम्। अन्यत्र स्योति लोपेन सिद्धम्। अश्टाचत्वारिंशक इति। वृत्तिविषये वर्षेषु, संख्योयेषु अष्टटत्वारिंशच्छब्दो वर्तते--प्रतिवेदं द्वादशवर्षाणि व्रतचरणाच्चतुर्षुं वेदेष्वष्टाचत्वारिंशतं वर्षाणि व्रतं चरति। चातुर्मस्यानामिति। अभिदेयबहुत्वाद्वहुवचनम्। किमिदं चातुर्मास्यानामिति ? तत्राह--चतुर्मासाण्णयो यज्ञे तत्र भव इति। चातुर्मास्यानीति। संवत्सरसाध्यो इविर्यज्ञविशेषस्तस्य चत्वार्यवान्तरपर्वाणि तदपेक्षं बहुवचनम्। चातुर्मासीति। ठ्तत्र भवःऽ इत्येवाण्सिद्धः, तस्य ठ्द्विगोर्लुगनपत्येऽ इति लुकि प्राप्ते पुनरण् विधीयते। ठ्कालाट्ठञ्ऽ इत्यस्य त्वप्राप्तिः समुदायस्याकालवाचित्वातदन्तविध्यभावाच्च। अपर आह--यथाकथञाचित्कालवृत्तिब्योऽपि ठञ इष्टत्वाट्ठञ्येव प्राप्ते तस्य लुकीदमण्विधानमिति ॥ तस्य च दक्षिणायज्ञाख्येभ्यः ॥ ५।१।९५ ॥ यज्ञमाचक्षते यज्ञाख्याः सोपसार्गादपि मूलविभुजादित्वादस्यमादेव निपातनाद्वा कः । आख्याग्रहणमिति। आङ्पूर्वस्य ठ्ख्याऽ इत्यस्य धातोर्ग्रहणमित्यर्थः। आख्याग्रहणामिति। ह्रस्वान्तपाठस्तु युक्तः। अकालवाचिनोऽपि यथा स्यादिति। स्वरूपग्रहणं तु बहुवचननिर्देशादिपि शक्यं निराकतुमिति भावः। नन्वेकाहादयः क्रतुशब्दः कालवाची न समुदायः, कथं ते एव गृह्यएरन् ? अत आह--प्राग्वतेरिति। ननु याऽग्निष्टोमस्य दक्षिणा साग्निष्टोमे भवति, तत्र ठ्बह्रचोऽन्तोदाताट्ठञ्ऽ, ठ्क्रतुयज्ञेभ्यश्चऽ इति ठञ् सिद्धयति ? न सिद्धयति; ठ्वायख्यातव्यनाम्नःऽ इति तत्र वर्तते, नामग्रहणाच्च व्याख्यातव्यतया लोके प्रसिद्धस्य ग्रन्थस्य ग्रहणम्। किञ्च--द्वयोर्वाजपेययोर्भवा द्वैवाजपेयिकी--अत्र न प्राप्नोति; इह तु ठ्प्राग्वतेः संख्यापूर्वपदानाम्ऽ इति तदन्तविधिश्चास्ति, लुक्च न प्राप्नोति; अप्रग्दीव्यतीयत्वात्, अनार्हीयत्वाच्च। तत्र च दीयते कार्यं भववत् ॥ ५।१।९६ ॥ हैमनमिति। यद्यपि भववत्प्रत्यया भवन्तीत्युक्तम्, तथापि ठ्सर्वत्राण्च तलोपश्चऽ इत्यण्प्रत्ययोऽतिदिष्टे तत्सान्नयोगशिष्टस्तलोपोऽपि भवति। वतिः सर्वसादृश्यार्थ इति। ठ्कालेभ्यो भववत्ऽ इत्यत्रैतद् व्याख्यातम्। अग्निष्टोमे दीयते आग्निष्टोमिकं भक्तमिति। यद्येवम्, अग्निष्टोमस्य या दक्षिणा साग्निष्टोमे दीयते तत्र ठ्यज्ञाख्येभ्यो दीयते इत्यनेनैव सिद्धम्, तथा यन्मासे कार्यं तन्मासे भघं भवति, ततश्च कार्यग्रहणमनर्थकम्, तत्र भवेन कृतत्वात् ? अत्राहुः--ठ्ठ्द्विगोर्लुगनपत्येऽ इति लुक् प्राप्नोति। अथानेनापि प्रत्यये सति लुक्कस्मान्न भवति, यावता ठ्वतिः सर्वसादृश्यार्थेऽ इत्युक्तम् ? सत्यम्; प्रत्ययमात्रस्यातिदेशो न लुक्ऽऽ, इति। तदपरे न सहन्ते--वतिः सर्वसादृश्यार्थः, तत्र तथा भवे तदन्तविधिर्न भवति, एवमत्रापि न भवितव्यम्। एवं च कृत्वा ठ्तत्र च दीयतेऽ इत्यत्रापि तदन्तविधिर्न भवति। विभक्ते तु योगे भवत्येव, तत्र भववदित्यस्याभावात्-द्वयोर्वाजपेययोर्दीयते द्वैवाजपेयिकी। सूक्ष्मदृशामेष सन्थाः ॥ व्युष्टदिभ्योऽण् ॥ ५।१।९७ ॥ प्युष्टशब्दः कालवाची दिवसमुखे वर्तते, तत्साहचर्यान्नित्यशब्दस्यापि कालवाचिनो ग्रहणम्, नाकासादिवृतेः। तत्र चात्यन्तसंयोगे द्वितीया भवतीति सप्तम्यधिकरेऽपि द्वितीयान्तात्प्रत्ययः। नित्यं दीयते कार्यं वा नैत्यम्। ठणप्रकरणेऽग्रिपदादिभ्य उपसंख्यानम्ऽ इत्येतत्प्रत्याचष्टे--न वक्तव्यमिति। न कर्तव्यमित्यर्थः। कथमित्याह--अत्रेव पठितव्यास्त इति। आदिशब्दः प्रकारवाच्याश्रयणीय इत्युक्तं भवति; अन्यथा तत्रैव पठयेरन्, उपसंख्यानं वा क्रियेत, को विशेषः ? अण्ग्रहणमनर्थकं भववदित्यनुवतिष्यते, तेनाणेव भविष्यति। न चैवं व्युष्टनित्यशब्दाभ्याम् ठ्कालाट्ठञ्ऽ इत्यस्य प्रसङ्गः, पूर्वेणैव ठञः सिद्धत्वात् ? सत्यम्; ठादिशब्दः प्रकारवाचीऽ इत्युक्तम्, तत्र यदी वृद्धेष्वप्येतत्कदाचिप्रवर्तते, तदा च्छः स्यात्। पठितेषु तु नास्ति दोषः ॥ तेन यथाकथाचहस्ताभ्यां णयतौ ॥ ५।१।९८ ॥ तृतीयासमर्थाभ्यामिति। तृतीयार्थयुक्ताभ्यामित्यर्थः। तथा च यथाकथाचशब्दं प्रति वक्ष्यति--तृतीयार्थमात्रं च सम्भवतीति हस्तशब्दे तु तृतीयान्तत्वमेव सम्भवतीति प्रत्येकमर्थसम्बन्ध इति। ननु यथासंख्यं प्राप्नोति ? तत्राह--यथासंख्यमत्र नेष्यते इति। प्रत्ययौ तु प्रति यथासंख्यं भवत्येव, अत्र च व्याख्यानमेव शरणम्। तृतीयार्थमात्रं च सम्भवतीति। अर्थस्तावत्सम्भवति--यथाकथाच दतमित्युक्ते, अनदरेण दतमिति प्रतीतेस्तावन्मात्रमेव सम्भवति। मात्रशब्दस्य व्यवच्छेद्यं दर्शयति--न त्विति। यथाकथाचशब्दस्य वाक्यत्वात्। प्रत्ययस्तु वचनसामर्थ्याद्वाक्यादपि भवति ॥ सम्पादिनि ॥ ५।१।९९ ॥ सम्पादिनीत्यत्र सम्पदेरर्थमाह--गुणोत्कर्षः सम्पतिरिति। कर्णवेष्टकमुकर्णाभरणम्। वस्त्रयुगेणेति। ठ्कुमचि चऽ इति णत्वम् ॥ कर्मवेषाद्यत् ॥ ५।१।१०० ॥ कर्मृउव्यायामः, वेषःउकृत्रिम आकारः ॥ तस्मै प्रभवति सन्तापादिभ्यः ॥ ५।१।१०१ ॥ अलमर्थे चतुर्थीति। अलमर्थे ठ्प्रभवतिऽ इत्यस्मिन्नुपपदे शेषविषये चतुर्थात्यर्थः। सक्तुमांसौदनाद्विगृहीतादपिति। अपिशब्दात्सङ्घातादपि--साक्तुमांसितः; औदनिकः, आक्तुमांसौदनिकः ॥ कर्मण उकञ् ॥ ५।१।१०३ ॥ कार्मुकं धनुरिति। अन्यत्र तु न भवति; अनभिधानात् ॥ समयस्तदस्य प्राप्तम् ॥ ५।१।१०४ ॥ समर्थविभक्तिनिर्देश उतरार्थ इति। इह तु समय इति निर्देशादेव प्रथमासमर्थविभक्तिर्लभ्यते, उतरार्थत्वादेव च समयशब्दस्य पुंल्लिङ्गत्वेऽपि तदिति नपुंसकनिर्द्देशः, तदपेक्षया च प्राप्तशब्दस्यापि नपुंसकत्वम्, इह तु वाक्यभेदेन सम्बन्धः, यदाह--ठ्यतप्रथमासमर्थं प्राप्तं चेततद्भवतीति ॥ ऋतोरण् ॥ ५।१।१०५ ॥ तपवस्ता प्राप्तोऽस्तेति। उपवत्साऊपवासस्य कर्ता स प्राप्तोऽस्य औपवस्त्रमूपवासः, प्राशित्रमुब्रह्मभागः ॥ च्छन्दसि घस् ॥ ५।१।१०६ ॥ ऋत्विय इति। ठ्सिति चऽ इति पदत्वेन भत्वे निरस्ते ठोर्गुणःऽ न भवति ॥ कालाद्यत् ॥ ५।१।१०७ ॥ काल्यस्ताप इति। प्रातःकाले काल्यशब्दस्य व्युत्पत्यन्तरं मृग्यम् ॥ प्रकृष्टे ठञ् ॥ ५।१।१०८ ॥ प्रकर्षेणेति। प्रकृष्टशब्दे प्रकृत्यर्थस्य निष्कृप्य कथनमेतत्, एवं प्रकृष्टे उप्रकर्षे। वर्तमानादिति। प्रकर्षविशिष्टेऽर्थे वर्तमानादित्यर्थः। न त्वत्र ठ्नपुंसके भावे क्तःऽ दर्शितः, कर्मणि क्तान्तोऽयं प्रकृष्यते, स प्रकृष्ट इति; अन्यथा प्रकृष्टो दीर्घः कालोऽस्येनि विग्रहो न घटेत। ठञ्ग्रहणं विस्पष्टार्थमिति। अन्यथानन्तरस्य यतोऽनुवृत्तिराशङ्क्येत ॥ प्रयोजनम् ॥ ५।१।१०९ ॥ प्रयुज्यतेऽनेनेति प्रयोजनम्, करणे ल्युट्। किं पुनस्तत्फलम् ? यथाहुः--यमर्थमधिकृत्य प्रवर्तते तत्प्रयोजनमिति। इन्द्रमहःउइन्द्रोत्सवः ॥ विशाखाषाढादण्मन्थदण्योः ॥ ५।१।११० ॥ विशाखा प्रयोजनमस्येति। विशाखाषाढशब्दौ रूढिरूपेण मन्थदण्डयोर्वर्तेते, तयोर्यथाकञ्चिद्व्युत्पत्तिः क्रियते। मन्थःउविलोडनदण्डः। आषाढःउव्रतीनां दण्डः। श्रद्धा प्रयोजनमस्येति। अत्र करणं प्रयोजनम् ॥ अनुप्रवचनादिभ्यश्च्छः ॥ ५।१।१११ ॥ विशिपूरीत्यादि। विश प्रवेशनेऽ, ठ्पूरी अप्यायनेऽ, ठ्पल्लृ गतौऽ ठ्रुह बीजजन्मनिऽ--एताः प्रकृतयो यस्यानस्य ठ्युवोरनाकौऽ इति विहितस्य तस्माद्विद्यमानपूर्वपदाच्छ उपसंख्येयः, केवलस्यानस्य सपूर्वपदत्वासम्भवत्सामर्थ्यातदन्तग्रहणम्। गृहप्रवेशनीयमिति। एवं चानुप्रवचनादिषु संवेशनानुप्रर्वशानान्वारोहणशब्दानां प्रपञ्चार्थः पाठः। स्वर्ग्यमिति। ठञि प्राप्ते यद्विधिः। पुण्याहवाचनादिभ्य इति। साहचर्यादभिधाने सिद्धे भेदविवक्षायां प्रत्ययश्रवणं मा भूदिति लुग्वचनम् ॥ ऐकागारिकट् चौरे ॥ ५।१।११३ ॥ एकागारं प्रयोजनमस्येति। एकशब्दोऽसहायवचनः, असहायं हि गृहं मुमूषिषतश्चोरस्य प्रयोजनम्। ससहाये तु गृहे मोषितुं न शक्तते। एकागारं प्रयोजनमस्य भिक्षोरिति। ठेकागारं चरेद् भैक्ष्यं तत्पुराणमुनेर्व्रतम्ऽ इति शास्त्रादेकामेव यो भिक्षां गृह्णाति न द्वितीयां स एवमुच्यते। नन्वेवमप्येकागाराच्चोरे ठञेव नियमार्थं वक्तव्यः, किं निपातनेन, टकारेण वा प्रयोजनम् ? अत आह--टकारः कार्यावधारणार्थ इति। अवधारणमेव दर्शयति--ङीबेव भवति, न ञित्स्वर इति। वृद्धैस्तु निपातनाद्भवत्येव। नन्वेवं ञित्स्वरनिवृत्तिरेव निपातनस्य। मा भूद्वा नियमः; भिक्षौ कस्मान्न भवति ? अनभिधानात्। यथा तु भाष्यं तथा ञित्स्वर एवेष्यते। तत्र हि सूत्रमिदं प्रत्याख्यात्म्-ठेकागारान्निपातनानर्थक्यं ठञ्प्रकरणात्ऽ इति, प्रयोजनमित्यत्र ठञप्रकृतः, तेनैवैकागारिकशब्दः सिद्ध इत्यर्थः। इक्ट्प्रत्ययमिति। इदमपि प्रत्याख्यानेन विरुद्धम् ॥ आकालिककडाद्यन्तवचने ॥ ५।१।११४ ॥ आकालिककडिति निपात्ये इति। समुदायविषयमुक्तवा तत्रैव विभज्य निपातनं दर्शयति--समानकालशब्दस्येत्यादि। सर्वेषामेव वाक्यानां निपात्यत इति वक्ष्यमाणेनैव सम्बन्धः। आद्यन्तयोश्चैतद्विशेषणमिति। एतत्समानकालत्वमाद्यन्तयोर्विशेषणं निपात्यते ठाद्यन्तवचनेऽ इति सूत्रे श्रुतत्वादित्यर्थः। इकट् च प्रत्यय इति। क्वार्थे? अस्येत्यधिकारात्षष्ठ।ल्र्थे। तदाह--समानकालावाद्यन्तावस्येति। समानकालौ एककालावित्यर्थः। आदिःउजन्म, अन्तःउविनाशः, न चोत्पादविनाशयोरेककालत्वसम्भव इत्यव्यवहितकालत्वेमेककालत्वम्। निरन्तरे हि काले भेदाग्रहणात्स एव काल इति भवति प्रतिपतिः। तदाह--उत्पन्नानन्तरं विनाशीत्यर्थ इति । आकालाट्ठÄश्चेति। वाक्तिककारो मन्यते। न समानकालशब्दस्याकालशब्द आदेशो निपात्यः, नापीकट् प्रत्ययः, किं तर्हि ? आकालाट्ठ्ंअश्चेति सूत्रं कर्तव्यम्। चकारः प्रकृतस्यैव ठञः समुच्यायार्थः। किमिदमाकालादिति ? आवृतः कालोऽस्येत्याकालः। न च कालस्यावृत्तिः सम्भवतीत्ययमर्थो भवति-उत्पत्तिकालेन समानो निरन्तरो यस्य विनाशकाल इति। एवं ह्युत्पत्तिकाल एव विनाशोऽस्यावृत इति भवति प्रत्ययः। ततः स्वार्थे ठन्विधेय आद्यन्तवचने विषय इति। तत्र ठञ्पक्षे ङीबाद्यौदातत्वं च भवति, प्रत्ययान्तरनिपातने तु नाद्यौदातत्वं सिद्धयति, तदाह--ठाकालनिपातनानर्थक्यं ठञ्प्रकरणा दिति। वृत्तिकारस्तु ठकारोच्चारणात्प्रत्ययान्तरस्यैव निपातनं मन्यमानो ञित्स्वरं नेच्छति, तन्मते निपातनापेक्षयां समुच्चयार्थश्चशब्दः, निपातनं च कर्तव्यम्। आकालशब्दाच्च ठनपि विधेय इति। आकालशब्दस्य चोक्त एवार्थः स्वार्थिकश्च ठन्। आद्यन्तविषया चावृतकालता। अपर आह--आवृतः काल इति तत्पुरुषोऽयम्, ततोऽस्येत्यधिकारात् षष्ठ।ल्र्थे प्रत्यय इति। सर्वथा तिपातनस्य ठनश्चैक एवार्थः--समानकालावाद्यन्तावस्येति। अन्ये वर्णयन्ति--येषां वर्षादीनां यस्मिन्नेव काले मध्यह्नादावुत्पत्तिः, तस्मिन्नेव द्वितीयदिवससम्भन्धिनि विनाशश्च तान्याकालिकानि, तस्मात्कालादनुवर्तन्त इति कृत्वा। तेषां ह्यद्यन्तयोरेक एव कालो भवति मध्याङ्नादिरिति ॥ तेन तुल्यं क्रिया चेद्वतिः ॥ ५।१।११५ ॥ यततुल्यं क्रिया चेत्सा भवतीति। एतेन समानविभक्तिकत्वात्प्राधान्याच्च र्प्त्ययार्थस्य विशेषणं क्रियाग्रहणमिति दर्शयति। निर्देशानुरोधे तु प्रथमनिर्दिष्टस्य प्रकृत्यर्थस्य विशेषणे भिन्नविभक्तिकत्वाद्वाक्यशेषेऽध्याहार्यः स्यात्--यतत् तृतीयासमर्थं क्रिया चेत्सा भवतीति। तुल्यमित्ये तच्च प्रथमान्तम्, न क्रियाविशेषणत्वेन यदाह--तुल्यमित्येतस्मिन्नर्थे इति। तस्य विशेषणं क्रियाग्रहणम्। सामान्योपक्रमत्वातु ठ्हितं भक्षाःऽ इतिवतुल्यमिति नपुंसकनिर्द्देशः। ब्राह्णणेन तुल्यं वर्तत इति। ननु ब्राह्मणशब्देन जातिर्द्रव्यं वोच्येत, न ताभ्यां क्रियायास्तुल्यत्वम्; अत्यन्तभेदात्। यत्र तु किञ्चित्सामान्यम्, कश्चिच्च विशेषः, स एव विषयस्तुल्यतायाः। स्यादेतत्--ब्राह्मणसहचरितायामध्ययनीदिकायां क्रियायां ब्राह्मणशब्दस्य वृत्तिः- ब्राह्णणेन तुल्यं वर्तते, कोऽर्थः ? यथा व्राह्णणो वर्तते तथा वर्तत इत्यर्थः। वर्तनम् उअध्ययनादिक्रियानुष्टानम्, तेन युक्तमेव तुल्यत्वमिति। एवमपि मुख्ये सन्भवति गौणस्य ग्रहणं युक्तम्। कः पुनर्मुख्यः ? क्रियावाची। पचत्यादीनां तावत्क्रियावाचिनामप्रातिपदिकत्वादसत्वभूतार्थाभिधायित्वाच्च तृतीयासमर्थत्वं न सम्भवति। अव्ययकृतानां तु--कृत्वा, हृत्वा, कर्तुम्, हर्तुमित्येवमादीनां यद्यपि क्रियावाचित्वम्, यथा पञाचकृत्वः कृत्वेति कृत्वोऽर्थोत्पतिर्भिवति; तथाप्यसत्वभूतार्थाभिधायित्वाततीयान्तत्वाभावः घञादयश्च दात्वर्थस्य सिद्धतायां भवन्तः सत्वभूतार्थाभिधायिनो न क्रियावचनाः। अत एव हि तत्र कृत्वोऽर्थप्रत्ययाभावः। न हि भवति पञ्चकृत्वः पाक इति, भवति तु पञ्चपाका इति। यथा पञ्चघटा इति भवति, न तु भवति पञ्चकृत्वो घट इति। भोक्तुअं पाक इत्यादौ धातुवाच्यक्रियोपेक्षस्तुमुन्प्रत्ययः। घृतपाकेन तुल्यस्तैलपाक इत्यादिरपि विषयो न भवति। ननु पञ्चकृत्वः शयितव्यमिति कृत्वसुचो देवनाच्छयितव्यादयः क्रियावचनाः, ततः किम् ? राजशयितव्येन तुल्यं देवदतशयितव्यमित्यादिरवकाशः स्यत्, तता स्खथातव्येन तुल्यं गमनं मन्दत्वात्, तथा नर्तितव्येन तुल्यं गमनं वहुविकारत्वादिति, तता भोकग्तुं पाक इत्यादौ यथा प्रकृतिवाच्यक्रियापेक्षस्तुमुन् भवति, तथा धृतपाकेन तुल्यस्तैलपाक इत्यदौ वतिरपि स्यादिति सोऽप्यवकाशः; तदेवं प्रत्ययार्थविशेषणेऽपि क्रियाग्रहणे सामर्थ्यात्प्रकृत्यर्थोऽपि क्रियैव भवति, न ह्यक्रियया क्रिया तुल्या भवतीति क्रियावाचिभ्य एव वतिना भवितव्यं प्रकृत्यर्थविशेषणे सुतरामिति कथं क्लेशेन क्रियायां वर्तितेभ्यस्तेभ्यो ब्राह्मणादिभ्यः प्रत्ययः ? उच्यते; येनोपमीयते, यश्योपमीयते, यश्च तयोः साधारणो धर्मः-- एत्रयमप्यपेक्ष्योपमानोपमेयभावः प्रवर्तते। तत्र यदा क्रियोपमानत्वेन विवक्ष्यते, तदा सावश्यापेक्ष्यसाधारणधर्माधारत्वात्क्रियारूपातां हित्वा सत्वरूपतां प्रपद्यते, ततश्च सामर्थ्याद् भूतपूर्वगत्याश्रयणम्--यस्यार्थस्य क्रियारूपतापूर्वमभूत् सम्प्रति क्रियारूअपातिक्रमेण सत्वभावापन्नोऽपि तृतीयान्तवाच्यः परिगृह्यते। तदेवं सम्प्रति मुख्यक्रयावाच्यिसम्भवाद् भूतपूर्वक्रियारूपार्थवाचिनः शयितव्यादयोऽपि गौणा एव। गौणं च क्रियावाचित्वं ब्राह णादीनामपि सम्भवतीति तेभ्योऽपि भवति प्रत्ययः। तेषां तु न कस्याञ्चिदपि दशायां मुख्यक्रियावाचित्वमित्येतावाÄस्तु विशेषः। यदि तर्हि क्रिययोस्तुल्यत्वले प्रत्ययः ब्राह्मणाध्ययनेन तुल्यमध्ययनं करोति ब्राह्मणवदधीत इत्यन्यः साधारणो धर्मोऽपेक्षणीयः स्यात्। तस्माद् द्रव्ययोरेव तुल्यत्वे प्रत्ययः, क्रिया तु साधारणो धर्म इति युक्तम्। न युक्तम्; एवं हि यथा ब्राह्मणेन तुल्यः क्षत्रियोऽध्ययनेनेति, द्रव्यस्य लिङ्गसंख्यायोगित्वात्। स्वरादिषु पाठाद्भविष्यति ? इहपि तर्हि प्राप्नोति-उपसर्गोच्छन्दसि धात्वर्थे य उद्वतो निवतो यासि। किञ्च पाठाद्भवतु संज्ञा, लिङ्गसंख्याकारकशक्तियोगस्तु केन वार्यते--स्वः पश्येत्यादिवत् ! लौकिके च प्रयोगे क्रिययोरेव सादृश्यं प्रतीयते, न तद्वतोर्देअरव्ययोः। यत्पुनरुक्तम्--साधारणो धर्मोऽपेक्षणीयः स्यादिति ? नैष दोषः; चन्द्र इव मुखमस्या इत्यादौ यथा शब्दानुपाता अपि कान्त्यादयः प्रतीयन्ते, तथात्रापि सौष्ठवादयः प्रत्येष्यन्ते। तस्मात्सुष्ठूअक्तम्--यततुल्यं क्रिया चेत्सा भवतीति। गुणतुल्य इति। गुणैस्तुल्य इति ? ठ्पूर्वसदृशऽ इति तृतीयासमासः। पुत्रेण तुल्यः स्यूल इति। पुत्रस्य यादृशं स्थौल्यं पितुरपि तादृशमित्यर्थः ॥ तत्र तस्येव ॥ ५।१।११६ ॥ किमर्थमिदमुच्यते न पूर्वेणैव सिद्धम्, न सिद्धयति, तृतीयासमर्थातत्र प्रत्ययः, इह तु सप्तमीषष्ठीसमर्थात् ? एवं तर्हि तुल्यार्थैरिति या तृतीया तयेवशब्दयोगे सर्वे विभक्तयर्था व्याप्ताः, तद्यथा--ब्राह्णण इवाधीते, ब्राह्मणेन तुल्यमधीते; ब्राह्मणमिव पश्यति, ब्राह्णेन तुल्यं पश्यति; ब्राह्मणएनेवाधीतम्, ब्राह्मणेन तुल्यमधीतम्; ब्राह्मणायेव ददाति, ब्राह्मणेन तुल्यं ददाति; ब्राह्मणादिवाधीते, ब्राह्मणेन तुल्यमधीते; ब्राह्मणस्येव क्षत्रियस्य स्वम्, ब्राह्मणेन तुल्यं क्षत्रियस्य स्वम्; ब्राह्ण इव क्षत्रिये वर्तते, ब्राह्मणेन तुल्यं क्षत्रिये वर्तत इति--ततश्च तृतीयान्तदेव पूर्वसूत्रेण प्रत्ययो भविष्यति। तथा च ठ्पूर्ववत्सनःऽ इति पञ्चम्यन्ताद्वतिर्दृश्यते। एवमपि न सिद्धयति, किं कारणम् ? पूर्वत्र क्रियातुल्यत्वे प्रत्ययः, तच्चावश्यं क्रियाग्रहणं कर्तव्यम्, गवा तुल्यो गवय इत्यादौ मा भूदित्येवरमर्थः; ततश्च द्रव्यगुणयोस्तुल्यत्वे वतिर्न स्यादिति षष्ठीसप्तमयन्तादिवार्थेऽनेन विधीयते ॥ तदर्हम् ॥ ५।१।११७ ॥ तदिति द्वितीयासमर्थादिति। अर्हशब्दः पचाद्यजन्तस्तद्योगे कर्मणि षष्ठ।ल भवितव्यम्, निपातनातु द्वितीया। अपर आह--विग्रहवाक्याभिप्रायमेतत्; यदा राजानमर्हतीत्येवं तिह्न्तेन विग्रह्यते तदा द्वितीया समर्थमिति। सूत्रे त्वर्हमिति कर्मोपपदादच्प्रत्ययः कृत इति। इह क्रियाग्रहणमनुवर्तते--यतदर्ह क्रिया चेत्सा भवतीति, राजानमर्हति वृतं राजवद्वर्तते, इह न भवति--राजानमर्हति च्छत्रम्, व्राह्मणमर्हति दधीति। यद्येवम्, राज्ञा तुल्यं वर्तते इति विग्रहाश्रयणेन पूर्वेणैव वतिः सिद्धः ? इह तर्हि राजवद्वर्तते राजेति भेदाभावेन तन्निबन्धनस्य सादृश्यस्याभावादप्राप्तो वतिरनेन विधीयते। अत्रापि राजत्वेन ये प्रसिद्दा भरतादयस्त उपमानानीदानीन्तनानामिति सिद्धो वतिः। यदा तर्हि राजशब्दः सामान्यवचनः प्रसिद्धविशेषविषयो वा--राजवदयं वर्तते भरत इति, तदा सादृश्याभावादप्राप्तिः। विनीतवदुपस्यितं चिच्छेद कृतहस्तवदिति विनीतानामिदं योग्यमुपस्थानम् कृतहस्तानामिदं योग्यं छेदन मिति गम्यते, न तु सादृश्यम्। उक्तं च-- ठ्युक्तमौपयिकं राज्ञ इत्यर्थस्य निदर्शनम्। उपमानविवक्षायां तदर्हमिति पठ।ल्ते ऽ ॥ इति । यदा त्वेकमेव वस्तु अवस्थाभेदपरिकल्पितभेदमुपमानोपमेयत्वेन विवक्ष्यते, तदा नार्थोऽनेन। तथा चेवशब्दस्य प्रयोगो दृश्यते--राजेवायं राजा युध्यते, वैय्याकरण इव वैत्याकरणो ब्रूते, रामरावणयोर्युद्धं रामरावणयोरिवेति। उक्तम्---- ठ्तदर्हमिति नारब्धं सूत्रं व्याकर्णान्तरे। सम्भवत्युपमात्रापि भेदस्य परिकल्पनात्ऽ ॥ इति । उपसर्गाच्छन्दसि धात्वर्थे ॥ ५।१।११८ ॥ ससाधने धात्वर्थे इति। क्रियामात्रं धात्वर्थः, स्तत्कथं ससाधन इति लभ्यते ? उच्यते; इहार्थग्रहणं न कर्तव्यम्, धातावित्येव सिद्धम्, कथं पुनर्धातौ नामोपसर्गो वर्तेत, शब्दे शब्दासम्भवात् ? अर्थे वृत्तिर्विज्ञास्यते। तथा--धातुसम्बन्धेऽ इत्यत्र तत् क्रियते बहुव्रीहिर्यथा विज्ञायेत--धातुर्धात्वर्थः क्रिया, अर्थः प्रयोजनं यस्य साधनस्य तस्मिन्वर्तमानादिति। ठ्ससाधने धात्वर्थेऽ अत्यस्याप्ययमेवार्थः---धात्वर्थविशिष्टे साधन इति, न पुनः साधनविशिष्टे धात्वर्थ इति। उपसर्गाश्च पुनरेवमात्मकाः यदुत श्रुतायां क्रियायां तामेव विशिंषन्ति, यथा--आगच्छतीति। यत्र तु न श्रूयते तत्र क्रियाविशिष्ट्ंअ साधनमाहुः---निष्कौशाम्बिरिति, तत्र यत्र क्रिया न श्रूयते तत्र यथा स्यादित्येवमर्थं धात्वर्थ इत्युक्तम्। उद्गतानि निगतानीति। वनानां विशेष्यत्वान्नपुंसकत्वम्। उद्वतो निवत इति तु छान्दसं पुंस्त्वमिति मन्यते। यच्चास्माभिरुक्तम्-- ठ्क्रिया गुणभूता साधनं प्रधानभूतं तत्रोपसर्गस्य वृत्तिःऽ इति तदप्यतेन दर्शैत्म्। साधनशब्देन शक्तिमद् द्रव्यमुच्यते,न शक्तिमात्रमिति लिङ्गसङ्ख्यायोगादन्वर्थाव्ययसंज्ञा न भवति ॥ तस्य भावस्त्वतलौ ॥ ठ्तस्येदम्ऽ इत्यस्यापवादोऽयम्। भावशब्दोऽयम् ठ्भवतेश्चेति वक्तव्यम्ऽ इति णप्रत्ययान्तोऽस्त्येवाभिप्राये, यथा--अथं भावःऽ इति; अस्ति च पदार्थमात्रवचनः,--ठ्विचित्रा हि भावशक्तयःऽ इति; अस्ति च श्रृङ्गारादिषु--स्तायीभावः सञ्चारीभाव इति; घञन्तस्तु भवत्यर्थे कर्तृवर्जिते च कारके वर्तते। भवतिश्चानेकार्थः, तद्यथा--ठ्तत्र भवःऽ इति सतार्थः; ठ्धान्यानां भवनेऽ इत्युत्पत्यर्थः; ठित्थम्भूतेऽ इति प्राप्त्यर्थः; ठ्भूष्णुर्भूतिकामःऽ इति समृद्ध्यर्थः; ठ्यस्य च भावेन भावलक्षणम्ऽ इत्यादौ धात्वर्थमात्रवचनः; वृत्तिकारोपदर्शितश्चापरः, ततश्च ठ्तस्य भावःऽ इत्यभिप्रायादिष्वत्पिरसङ्गः? इत्यत आहभवतोऽस्मादित्यादि। यस्माद् गोत्वादेर्हेतोर्गवादौ गौरित्येवमादिकमभिधानं प्रवर्तते, गौर्गौरित्येवमादिश्चाभिन्नाकारः प्रत्ययो भवति, सोऽर्थो गवादेः शब्दस्य प्रवृत्तिनिमितमिह भावशब्देनोच्यते। तत्र भवतोऽस्मादित्यर्थप्रदर्शनमेतत्, न तु हेतौ केनचिद् घञ्वविहः। तस्मात् ठ्श्रिणीभुवोऽनुपसर्गेऽ इति करणे घञ् द्रष्टव्यः। अभिप्रायादीनां चानभिधानान्न ग्रहणम्। उक्तं च---ठ्यस्य गुणस्य भावाद् द्रव्ये शब्दनिवेशस्तदभिधाने त्वतलौऽ इति। गुएणशब्देन यावान्कश्चित्पराश्रयो भेदको जात्यादिरर्थः स सर्व इह गृह्यते। ठ्यस्य भावात्ऽ इत्येतावत्युच्यमाने पुत्रस्य भावात्पितृशब्दस्य निवेश इति पितत्वमिति पुत्रे प्रत्ययः स्यात्, पुत्रत्वमिति च पितरीति गुणग्रहणम्; भावाद् विद्यमानत्वात्। द्वव्यमिति विशेष्यभूतः सत्वभावापन्नोऽर्त उच्यते, तस्मिन् शब्दनिवेशःउशब्दस्य प्रवृत्तिः, सत्वतलोरभिधेय इत्यर्थः। तत्र ये रूपादयः शब्दा गुणमात्रवृतयस्तेभ्यो गुणसमवायिनि सामान्यविशेषे भावप्रत्ययो रूपत्वमिति। ये तु शुक्लादयो गुणगुणिवृतयो गुणगुणिनोरबेदोपचारात्, मतुब्लोपाद्वा, तेभ्यो गुणवृत्तिभ्यो गुणसमवायिनि सानान्ये भावप्रत्ययः; गुणिवृत्तिब्यस्तु गुणे। अणुमहद्दीर्घदयो नित्यं परिमाणिनि वर्तन्ते, तेभ्यः परिमाणो गुणे भावप्रत्ययः, षत्वं णत्वमिति भिन्नवर्णव्यक्तिसमवेते सामान्यविशेषे प्रत्ययः। गवादयो यदा जातिमात्रवाचिनस्तदा तेभ्यः शब्दस्वरूपे प्रत्ययः, तथा हयर्थे जातौ शब्दस्वरूपमध्यस्यते--यो गोशब्दः स शब्दार्थ इति। शब्दस्वरूपमेव तत्र प्रवृत्तिनिमितम्, नान्यत्। द्रव्यवाचिभ्यस्तु गवादिभ्यो जातौ प्रत्ययः, समासकृतद्धितास्तु यद्यपि केवलं सम्बन्धं नाभिदधति, तथापि सम्बन्धिनि वर्तमानाः सम्बन्धं प्रवृत्तिनिमितमपेक्षन्त इति तेभ्यः सम्बन्धे भावप्रत्ययः। तथा च राजपुरुषत्वमिति स्वस्वामिभावः सम्बन्धः प्रतीयते, पाचकत्वमिति क्रियाकारकसम्बन्धः, औपगवत्वमित्यादावपत्यापत्सिसम्बन्धः। केचिदौपगवत्वमित्यपत्यप्रत्ययस्य जातिमभिधेयामिच्छन्ति; तन्मते, अर्थान्तरवृत्तिस्तद्धैत उदाहार्यः--ठ्समासकृतिद्धितेषु सम्बन्धाभिधानमन्यत्र रूढ।ल्भिन्नरूपाव्यभिचरितसम्बन्धेभ्यःऽ इति, रूढिशब्दा गौरखरसप्तपर्णलोहितशाल्यादयो जातिविशेषावच्छिन्नद्रव्यवाचिन इति तेभ्यो जातावेव भावप्रत्ययः। एवं कुम्भकारत्वम्, हस्तित्वमिति अभिन्नरूपाः। शुक्लादयो मतुव्लुकि विज्ञायमाने यद्यपि तद्धितान्ताः, तथापि तेभ्यो भावप्रत्ययो गुण एव भवति; न तु सम्बन्धे गुणगुणिनोर्जातितद्वतोरिव सोऽयमित्यभिसम्बन्धेन लोकनिरूढेअन भेदसम्बन्धस्य न्यग्भावात्। ठ्गुणवचनेभ्यो लुक्ऽ इति लुग्विधानद्वारेणाबेदेनैव गुणिनामभिधानम्, न तु बेदाश्रया मत्वर्थीयोत्पतिरित्याख्यायते। अव्यभिचारि सम्भन्धात् सतो भावः सतेति जातावेव भावप्रत्ययः। न हि सद्वस्तु सतासम्बन्धं व्यभिचरतीति सतासम्बन्धानपेक्षणाद् न सम्बन्धे प्रत्ययः। राजपुरुषयोस्तु सम्बन्धस्य कादचित्कत्वातदपेक्षो राजपुरुषशब्दः स्वार्थमभिधते इति ततः सम्भन्दे प्रत्ययो युक्तः। तस्मात्सत्सु पदार्थेषु नित्यसमवायिनि शब्दप्रवृत्तिहेतुः सतैव भावप्रत्ययवाच्या, न तु सत्सत्त्योः सम्बन्धः समवायाख्यः। धवखदिरत्वमिति जातिद्वन्द्वाज्जातिसमुदायः कुत्वमित्यादौ संज्ञास्वरूपे संज्ञिष्वध्यस्ते प्रत्ययः। अन्ये तु ठ्संज्ञासंज्ञिसम्बन्धःऽ इत्याहुः। उक्तं च---- जातिगुणाज्जातिगुणे समासकृतद्विताच्च सम्बन्धे। डित्थादेः स्वे रूपे धवखदिराज्जातिसङ्घाते ॥ इति । इह तु नानात्वम्, सहत्वम्, यौगपद्यमित्यादौ वृत्तिविषये नानाशब्दोऽसहभूतेऽर्थे वर्तते, सहशब्दश्च सहभूते, युगपच्छशब्दोऽपि युगपद्भूते, ततोऽसहभावादौ भावप्रत्ययः। एवमन्यत्रापि यथासम्भवं द्रष्टव्यम्। इह न ब्राह्मणस्य भाव इति कयुगपद्भावेन नञर्थेन च सम्बन्धे विवक्षिते पूर्वं नञ्समासः, पश्चात्वतलौ, तेनाब्राह्मणत्वमब्राह्मणतेति सतिशिष्टत्वात्वप्रत्यये नञ्समासः, पश्चात्वतलौ तेनाब्राह्मणत्वं भवति, नाव्ययपूर्वपदप्रकृतिस्वरेणाद्यौदातत्वम्। ननु परतावत्वतलौ प्राप्नुतः, न वा सापेक्षत्वाद्ब्राणार्थो यत्र नञर्थमपेक्षते। नञ्समांसोऽपि तर्हि न प्राप्नोति, ब्राह्मणस्य भावपेक्षत्वात् ? नैवम्; प्रधानमत्र ब्राह्मणपदम्, उतरपदार्थप्रधानो हि नञ्समासः। भवति च प्रधानस्य सापेक्षस्यापि समासः, यथा--राजपुरुषोऽभिरूप इति। ठ्वा च्छन्दसिऽ च्छन्दसि विषये क्वचित्पूर्वं त्वतलौ पश्चान्नञ्समासः--अयोनित्वाय, अशिथिलत्वाय। अत्र नञ्स्वर एव भवति, क्विचिद्विपर्ययः। त्वतल्व्यतिरिक्ते भावप्रत्ययो पूर्वं स एवेष्यते, पश्चान्नञ्समासः, तेनाप्रथिमेत्यादौ सति सिष्टत्वान्नञ्स्वर एव भवति। अशौक्ल्यमित्यादौ च नञः प्रकृतावनन्तर्भावाच्छुक्लशब्दादौ वृद्धिः पूर्व नञ्समासे ठ्न नञ्पूर्वात्ऽ इति प्रतिषेधात् ष्यञेच न स्यात्, सत्यपि वा ष्यञि नञो वद्धैः स्यात् ? ज्ञापकात्सिद्धम्, यदयं युवादिषु पुरुषासे, हृदयामे इति नञ्समासे विषयभूते भावप्रत्ययप्रतिषेधं शास्ति, तज्ज्ञापयति--त्वतलापवादप्रत्ययो नञर्थापेक्षादपि परत्वान्नञ्समासं बाधित्वा भवतीति ॥ आ च त्वात् ॥ ५।१।१२० ॥ प्रथिमेति। ठ्तुरिष्ठेमेयस्सुऽ ठ्टेःऽ इति टिलोपः, ठ्रऋतो हलादेर्लघोःऽ इति ऋकारस्य रादेशः। पार्थवमिति। ठिगन्ताच्च लघुपूर्वात्ऽ इत्यण्। अपवादैरित्यादि। इमनिजादआआस्त्वतलोरपवादान्वक्ष्यति, तैः सह समावेशो यथा स्यादित्येवमर्थमिदम्। ननु स्वरितत्वादेव त्वतलावनुवर्तिष्येते तेनापवादविषये भविष्यतः ? तन्न; इत उतरवाक्यानां प्रत्ययनिर्द्देशेन निराकांक्षत्वात्वतलोरपि पूर्वसूत्रे विधानादाकांक्षाया अभावान्नैतच्छक्यं विज्ञातुम्-अनुवर्तेते त्वतलाविति। कर्मणि च विधानाराथमिति। येभ्य एव कर्मणि ष्यञादिविधिस्तेभ्य एव त्वतलावपि कर्मणि भवतः, न तु ङ्याप्प्रातिपदिकमात्रात्। चकारो नञस्नञ्ब्यामपि समावेशार्थ इति। अन्यथा ठ्स्त्रीपुंसाभ्याम्ऽ इत्यस्य विधित्वपक्षे प्राग्भवनाद्येऽर्थास्तानपेक्ष्य तत्रैव प्रदेशे नञ्स्नञोर्विधानादत्र प्रकरणे सन्निधानाभावान्नेमनिजादिवत्समावेशसिद्धिः। परिभाषात्वेऽपि यथोद्देशपक्षे ठ्स्त्रीपुंसाभ्याम्ऽ इत्यत्रैव प्रकरणे नञ्स्नञोः सन्निधिः। न पुनरिमनिजादिमध्ये कार्यकालपक्षेऽपि प्राग्भवनाद्येऽर्थाः, तत्र नञ्स्नञ्भ्यामुपस्थातव्यम्। तत्र यदि तावद्भावे इत्यर्थविज्ञानमात्र एव नञ्स्नञोरुपस्थानम्--ठ्तस्य भावस्त्वतलौऽ ठ्स्त्रीपुंसाभ्यां भावे नञ्स्नञौऽ इति, तदस्मिन्प्रदेशे सन्निधानेऽपि ठा च त्वात्ऽ इत्यस्मात्पूर्वै भवतः। अथ तूत्सर्गापादविधानोपयोगविज्ञानानन्तरं नञ्स्नव्योरुपस्थानम्, तदा ब्रह्मणस्त्व इत्यस्मात्परौ नञस्नञौ भवतः। सर्वथा ठा च त्वात्ऽ इत्यस्मिन्प्रदेशे नाभ्यन्तरौ। ठ्गुणपचनब्राह्मणादिभ्यः कमणि चऽ इत्यत्र कर्मणि नञ्स्नञोरुपस्थानं नाशङ्नीयम्; प्रकृतिविसेषसम्बद्धस्य कर्मार्थस्योपादानात् प्रकृत्यन्तरेण तस्यासम्बन्धात्। अधिकारपक्षे तु प्रतिसूत्रमुपस्थानान्नञ्स्नञोरिमनिजादिष्वन्तर्भावाद् ठा च त्वात्ऽ इत्येव नञ्स्नञ्भ्यामपि समावेशः सिध्यति। अथ तत्राप्यर्थस्यैवावधित्वादर्थेष्वेवोपस्थानम्, ततोऽधिकारपक्षेऽपि नाभ्यन्तरत्वमिति सर्वथा चकारेणैव नञ्स्नञ्भ्यां समावेशो वाच्यः ॥ न नञ्पूर्वातत्पुरुषादचतुरसङ्गतलवणवटचबुधकतरसलसेभ्यः ॥ ५।१।१२१ ॥ ठनन्तरस्य विधिर्वा भवति प्रतिषेधो वाऽ इति त्वतलोरयं प्रतिषेध इति भ्रान्ति वारयति। इत उतरे ये प्रत्यया इति। एतच्च ठा च त्वात्ऽ इति सम्बन्धाल्लभ्यते। चतुरादीनीति। चतुराद्यन्ताÄस्तत्पुरुषान्नञ्पूर्वानित्यर्थः। ननु ठ्पृथ्वादिभ्य इमनिज्वाऽ इत्यादिभिः परिणणिताभ्यः प्रकृतिभ्य उतरो बावप्रत्ययो विधीयते। न च तत्र काचिन्नञ्पूर्वा प्रकृतिर्गृह्यते। तदन्तविधिश्च ग्रहणवता प्रातिपदिकेन प्रतिषिध्धः। यत्र तर्हि स्वरूपग्रहणं नास्ति पत्यन्ताद्यग्भवति, हायनान्तादण् भवति, ठिगन्ताच्च लघुपूर्वात्ऽ, ठ्योपदाद्गुरुपोतमाद्वुञ्ऽ इति, तत्र नञ्पूर्वातत्पुरुषादस्त्येव प्रसङ्गस्तद्दर्शयति--वक्ष्यति पत्यन्त पुरोहितादिभ्यो यगिति। अपतित्वमपतितेति। ततु ठा च त्वात्ऽ इत्यधिकार इत्युक्तम्, ततश्च पत्यन्तेत्यनेनैव त्वतलोरप्यधिकृतयोविधानम्। ततः किम् ? यक इव त्वतलोरप्यं प्रतिषेधः प्राप्नोति। अस्त्वेवमधिकृतयो स्त्वतलोः प्रतिषेधः, ठ्तस्य भावःऽ इत्यनेन पुनस्त्वतलौ भविष्यतः; बाधकाभावात्। यदि पत्यन्तादिप्वेवास्योपयोगः, पत्यन्तेत्यस्यैव पुरस्तादिदं पठितव्यम्, तदेवोतरत्राप्यनुवर्तिष्यते। एवं तर्ह्त्र प्रदेशे प्रतिषेधाधिकअरस्योपादानादिमनिजादीनामपि प्रतिषेदो विज्ञायते। ननु चोक्तम्--ठ्तदन्तविध्यभावादप्रसङ्गःऽ इति ? एवं तर्ह्येतज्ज्ञापयति-अस्त्युतरत्र तदन्तविधिरित। किमेतस्य ज्ञापने प्रयोजनम् ? नञ्पूर्वाद्बहुव्रीहेरन्यपूर्वाच्च तत्पुरुषात्पृथ्वाद्यन्तादिमनिजादिः सिद्धो भवति--न विद्यन्ते पृथ्वो यस्य अपृथुः, परमपृथुः, तस्य भाव इति। नात्रोमनिजादिरिष्यते, अत एव वृत्तिकारेणापि नास्य पटवः सन्तीत्यपटुअरित्यादि व्यावर्त्य दर्शितम्, तस्मादिहास्य करणे प्रयोजनं चिन्त्यम्। आचतुर्यमित्यादौ ब्राह्मणादित्वात्ष्यञ् ॥ पृथ्वादिभ्य इमनिज्वा ॥ ५।१।१२२ ॥ वावचनमणीदिसमावेशार्थमिति। इह ये इगन्ता लघुपूर्वाः पृथुमृदुप्रभृतयस्तेष्वणः समावेशः। चण्डखण्कडादिषु गुणवचनेषु ष्यञः, बालवत्सादिषु वयोवचनलक्षणस्याञः। त्वतलोस्तु मसावेशः ठा च त्वात्ऽ इत्येव सिद्धः ? इत्याह--त्वतलौ तु सर्वत्र भवत एवेति ॥ वर्णदृढादिभ्तयः ष्यञ् च ॥ ५।१।१२३ ॥ वर्णविशेषवाचिभ्य इति। स्वरूपग्रहणं तु न भवति। यदि स्याद्, दृढादिष्वेव वर्णशब्दं पठेत्। वर्णशब्दश्च रूपस्य वाचको न ब्राह्मणादीनाम्; दृढादिभिर्गुणवचनैः साहचर्यात्। अत एव साहचर्याद्वर्णग्रहणात्पर्यायाणां ग्रहणं न भवति। कथम् ? दृढाययो हि गुणोपसर्जने द्रव्ये वर्तन्ते, अतस्तत्साहचर्याद्वर्णशब्दा अपि तादृशा एव गृह्यन्ते। एवञ्च वर्णदृढादीनां गुणवचनत्वादेव सिद्धे पुनर्वचनमनिजर्थम् । औचिती, याथाकामिति। ब्राह्मणाअदेराकृतिगणत्वात्ष्यञ्, ङीष्, ठ्हलस्तद्धितस्यऽ इति यलोपः। वेर्यातलाभमतिमनःशारदानामिति। विसब्दादुतरे ये यातादयस्तदन्तानां समासानामनन्तरः ष्यञ् भवतीत्यर्थः। वियातत्वम्, वियातता, वियातिमा, वैयात्यम्। विलाभत्वम्, विलाभवता, विलाभिमा, वैलाभ्यम्। विमतित्वम्, विमतिता, विमतिमा, वैमष्यम्; इगन्तत्वादणपि भवति, वैमतम्,। विमनस्त्वम्, विमनस्ता, विमनिमा, वैमनस्यम्। विशारदत्वम्, विशारदता, विशारदिमा, वैशारद्यम्, समो मतिमनसोरिति। सम उतरे ये मतिमनसी तयोः समासयोरनन्तरः ष्यञ्--संमतित्वम्, संमतिता, संमतिमा, साम्मत्यम्; पूर्ववदण्सांमतम्। संमनस्त्वम्, संमनस्ता, संमनिमा, सांमनस्यम् ॥ गुणवचनब्राह्मणादिभ्यः कर्मणि च ॥ ५।१।१२४ ॥ कर्मशब्दः क्रियावचन इति। न साधनकर्मवचनः; क्रियाया हि साधनं सम्भवति। सत्वशब्दाश्च गुणवचनब्राह्मणादयः, अतस्तेषां नास्ति साधनकर्मणा सम्बन्धः। क्रिया त्वात्मलाभय तैर्यज्यते। कथं तर्हि कवेः कर्म काव्यम्, न हि तत्र क्रियाभिधीयते, किं कर्हि, तत्कृतो ग्रन्थः ? अत्राहुः--क्रियाकर्मण्येव प्रत्ययविधानम्, औपचारिकस्तु तत्कृते प्रयोग इति। अपर आह--सूत्रे यः कर्मशब्दो यश्च वृतौ क्रियाशब्दः, तदुभयमपि कर्मसाधनं कर्म, क्रियाकार्यमित्यर्थः, तेन कृतिव्याप्ये साधनकर्मण्येव प्रत्यय इति। भाह्मणादिरकृतिगण इति अवृत्कृतत्वात्। एतदेवोपपादयति--आदिशब्दः प्रकारवचन इति। किमर्थं तर्हि गुणवचनग्ररहणम्, ब्राह्मणादीनां चानुक्रमणम् ? केषाञ्चित्प्रपञ्चार्थम्; केषाञ्चित्स्वार्थे प्रत्ययविधानार्थम्, केषाञ्चिद् वाधकबाधनार्थम्। तत्र ब्राह्णमशब्दात्प्राणभृज्जातिलक्षणेऽञि प्राप्ते, ठ्माणववाडवाभ्यां गोत्रलक्षणेऽ वुञि। ठर्हतो नुम् चऽ इति नुमर्थःक पाठः; ठर्हः प्राशंसायाम्ऽ इति शतृप्रत्ययः--आर्हन्त्यम्। चोरधूर्तयोर्मनोज्ञादित्वाद्वुञिप्राप्ते सोऽपि भवत्येव। आराध्यादीनां चतुर्णां जनपदवाचित्वादञि कृते, तस्य च ठ्कम्बोजादिभ्यो लुग्ववचनम्ऽ इति लुकि गोत्रवुञि प्राप्ते पाठः। एकभावादीनामन्यभावपर्यन्तानां स्वार्थे विधानार्थम्। तथा च वार्तिके प्रयोगः--ठान्यभाव्यं तु कालशब्दव्यवायात्ऽ इति। अक्षेत्रज्ञानीश्वरशब्दयोः ठ्न नञ्पूर्वात्ऽ इति निषेधे प्राप्ते, कुशलादीनां युवादित्वादमि प्राप्ते, बालिशशब्दाद्वयोलक्षणोऽञि प्राप्ते, राजशब्दस्य पुरोहितादित्वाद्यकि प्राप्ते, गणपत्यधिपत्योः पत्यन्तलक्षणे यकि। शेषाणामलसादीनां पाठः प्रपञ्चार्थः। सर्ववलेदादिभ्यः स्वार्थे इति। सर्वे वेदाः सर्ववेदाः, पूर्वकालोति समासः, सर्ववेदानधीत् इत्यण्, ठ्सर्वसादेर्द्धिगोश्च लःऽ इति लुक्, सर्ववेद एव सार्ववेद्यः। चतुर्वेदस्योभयपदवृद्धिश्चेति। चतुरो वेदानधीते इति तद्धितार्थे द्विगुः, अणो लुक्, चतुर्वेद एव चातुर्वैद्यः। क्वचितु चातुर्वैद्यस्येति पाठः, तत्र सिद्धय इति शेषः, चतस्रो विद्या अधीत इत्यादि षूर्ववद् विद्यालक्षणकल्पसूत्रान्तादिति ठक्, पूर्ववल्लुक्, चतुर्विध्य एव चातुर्वैद्यः ॥ स्तेनाद्यन्नलोपश्च ॥ ५।१।१२५ ॥ ठ्स्तेन चौर्येऽ, पचाद्यतु, स्तेनः। नशब्दस्येति। एतेन सङ्घातस्येदं ग्रहणमिति दर्शयति। वर्णग्रहणे तु नकारलोपे कृतेऽकारस्य यस्येति लोपः। तस्य पूर्वविधौ स्थानिवद्भावादयादेशः प्राप्नोति। ननु सह्घातग्रहणेऽपि ठल्लोऽन्त्यस्यऽ इत्यन्त्यस्य प्राप्नोति ? सिद्धोऽन्त्यलोपः ठ्यस्येति चऽ इति; तत्रारम्भसामर्थ्यात्सर्वस्य भविष्यति, ठ्नानर्थकेऽलोन्त्यविधिरनभ्यासविकारेषुऽ इति च परिभाषां पठन्ति। स्तेनादिति योगविभागं कुर्वन्तीति। भाग्येऽनुक्तमपि स्तैन्यशब्दस्य प्रयोगबाहुल्यादिदमुक्तम् ॥ कपिज्ञात्योर्ढक् ॥ ५।१।१२६ ॥ इह कपिज्ञाती द्वौ, भावकर्मणी चार्थौ द्वावेवेति संख्यातानुदेशः प्राप्नोति, एवम् ठ्पत्यन्तपुरोहितादिभ्यो यक्ऽ, ठ्हायनान्तयुवादिभ्योऽण्ऽ इत्यत्रेत्याशङ्कयाह--यथासंख्यं प्रकरणे नेष्यत इति। तदर्थस्य स्वरितत्वस्याप्रतिज्ञानादिति भावः ॥ पत्यन्तपुरोहितादिभ्यो यक् ॥ ५।१।१२७ ॥ राजास यिति। राजशब्दोऽसेऽसमासे यकमुत्पादयति--राज्ञो भावः कर्म वा राज्यम्। ठसेऽ इति किम्? आधिराज्यम्, ब्राह्मणादित्वलात्यञ्। यद्यपि तत्र राजशब्दः पठ।ल्ते, तथाप्ययमेवास इति प्रतिषेधो ज्ञापयति--ठस्त्यत्र राजशब्दे तदन्तविधिःऽ इति। एवं च ब्राह्मणादिपाठस्य समासे चरितार्थत्वादसमासे विशेषविहितो यगेव भवति। अपर आह--ठ्ब्राह्मणादेराकृतिगणत्वादेव तदन्तात् ष्यञि सिद्धे राजशब्दस्य तत्र पाठो यका सह समावेशार्थःऽ इति, तथा चावेष्ट।ल्धिकरणे शाबरबाष्ये उक्तम्--ठ्तस्य कर्मणि ष्यञ्ऽ इति ॥ प्राणमृज्जातिवयोवचनोद्गात्रादिभ्योऽञ् ॥ प्राणभृतःउप्राणिनः, प्राणिग्रहणमेव न कृतं वैचित्र्यार्थम्। प्राणभृद्ग्रहणातृणत्वं तृणतेत्यादौ न भवति, जातिग्रहणाद्देवदतत्वमित्यादौ न भवति। यत्विहेगन्तं लघुपूर्वं तस्मात्परत्वादण् भवति--तैतिरम्। उद्गात्रादिषु य ऋत्विग्वचनास्तेभ्यः ठ्होत्राब्यश्च्छःऽ इति छे प्राप्देऽञ् चविधीयते। सुष्ठुअदुष्ठुअभ्यां गुणवचनलक्ष्णे ष्यञि, वधूशब्दादिगन्तलक्षणेऽणि, शेषेभ्यस्त्वतलोः प्राप्तयोः। सुभगं मन्त्रे इति। सुभगमित्येतच्छब्दरूपं मन्त्रविषये प्रयोगेऽञमुत्पादयति--ठ्महते सौभगायऽ, सर्वविधीनां च्छन्दसि विकल्पितत्वात् ठ्हृद्भगसिन्ध्वन्तऽ इत्युतरपदवृद्धिर्न भवति। अत एव मन्त्रे क्वचिदञ् न भवति--सौभाग्यमस्यै दत्वाय ॥ हायनान्तयुवादिभ्योऽण् ॥ हायनान्तात्वतलोः प्राप्तयोरण्विधानम्। यौवनमिति। ठन्ऽ इति प्रकृतिभावः, मनोज्ञादित्वद्वुञपि भवति। स्थविरशब्दस्य वयोलक्षणेऽञि प्राप्ते पाठः, होतृशब्दस्याप्युद्गात्रादित्वादञ्येव। पुरुषास इति। पुरुषशब्दोऽसमासेऽणमुत्पादयति, पौरुषम्, प्राणभृज्जातिवाचित्वादञ् प्राप्तः, मनुष्यजातिवचनो ह्रसौ न पुंस्शब्दपर्यायः पुंल्लिङ्गवचनः; स्त्रियामपि दशनात्--तस्यामस्यां च पुरुषीश्च धेनुके दद्यरिति। अस इति किम्? राजपुरुषत्वम्। कमण्डलुशब्दस्येगन्तत्वादेवाणि सिद्धे त्वतल्निवृत्यर्थः पाठः। हृदयास इति। दृदयशब्दोऽसमासेऽणमुत्पादयति-हृदयस्य भावो हार्दम्, ठ्हृदयस्य हृल्लोखयदण्लासेषुऽ इति हृद्भावः। असे इति किम् ? अहृदयत्वम्। ग्रहणवता प्रातिपदिकेन तदन्तविधिप्रतिषेधादेव सिद्धे समासप्रतिषेधश्चिन्त्यप्रयोजनः। कुशलादीनां क्षेत्रज्ञान्तानां ब्राह्मणादित्वात्ष्यञपि भवति। श्रोत्रियस्य घलोपश्चेति। यदा ठ्श्रोत्रियÄश्च्छन्दोधीतेऽ इत्यत्र च्छन्दसः श्रोतृभावो घश्च प्रत्यय इति पक्षः, तदा घलोपः; यदा तु ठ्वाक्यर्थे पदवचनम्ऽ इति पक्षः, तदा घशब्देन य इति रुपं लक्ष्यते। क्वचितु यलोपश्चेति पाठः; तत्र यलोपे सङ्गातग्रहणम्, वर्णग्रहणे त्वकारस्य यस्येतिलोपे सति इकारस्य यणादेशप्रसङ्गः, सङ्घातलोपे त्विकारस्य यस्येति लोपः---सर्वथा श्रोत्रियस्य भावः श्रौत्रमिति ॥ इगन्ताच्च लघुपूर्वात् ॥ ५।१।१३१ ॥ लघुपूर्वग्रहणेन प्रातिपदिकसमुदायो विसेष्यते इति। यद्येवम्, पूर्वशब्दोऽवयववचनः, व्यवस्थावचनो वा, तत्राद्ये पक्षे यस्य सर्वपूर्वो वर्णो लघुस्तस्मादेवेष्वणुप्रभृतेः स्यात्, द्वितीये तु पाण्डुप्रभृतिभ्योऽपि स्यात्। यदा लघुः पूर्वो भवतीत्याशखङ्क्यावयववचन एव पूर्वशब्दः, सोऽप्यवध्यपेक्ष एव प्रवर्तते, तत्र कस्यचिदनिर्द्देशे सर्वपूर्वः प्रतीयते, इह तु सन्निधानादिक एवेति ? दर्शयति---लघुः पूर्वो यस्येत्यादि। तेनेति लघुपूर्वेणेगन्तेन। अस्मिन्व्याख्याने, अन्तग्रहणमतिरिच्यत इति लघुपूर्वेणेका प्रातिपदिकस्य विशेषणातदन्तविधेः सिद्धत्वात्। कथं काव्यमिति। कावमिति भवितव्यमिति प्रश्नः ॥ योपधाद् गुरूपोतमाद् वुञ् ॥ त्रिप्रमृतीनामित्यादि। एतच्च ठणिञोरनार्षयोःऽ इत्यत्र व्याख्यातम्। सहायाद्वेवेति वक्तव्यमिति। सूत्रेण नित्ये प्राप्ते विकल्पः ॥ द्वन्द्वमनोज्ञादिभ्यश्च ॥ ५।१।१३२ ॥ यः पत्यन्तो द्वन्द्वस्तस्माद्यक् प्राप्तः, यस्तु हायनान्तस्तस्मादण्प्राप्तः, अन्यस्मात्वलौ, मनोज्ञादिष्वपि गुणवचनात् ष्यञ् प्राप्तः, चोरधूर्ताभ्यामपि ब्राह्मणादित्वात्ष्यञेव, युवशब्दाद्यौवादित्वादण्, शेषेभ्यस्त्वतलौ। अमुष्यपुत्रेति। निपातनात्षष्ठ।ल अलुक् ॥ गोत्रचरणाच्छलाधात्याकारतदवेतेषु ॥ ५।१।१३३ ॥ गोत्रवाचिन इति। अपत्याधिकारादन्यत्र लौकिकं गोत्रं गृह्यते, अपत्यवाचिन इत्यर्थः। अपत्यप्रत्ययान्तादिति यावत्। अपर आह--ग्रवराध्याये पठितानां गोत्राणामिह ग्रहणमिति। चरणवाचिनश्चेति। चरणशब्दः शाखाध्यायिषु पुरुषेषु रूढः, अनयोश्च गोत्रं च चरणैः सहेति जातित्वात् ठ्प्राणभृज्जातिऽ इत्यञ्प्राप्तः। प्रत्येक भावकर्मणोरर्थयोरिति। ठ्यथासंख्यं तु सर्वत्रैवात्र प्रकरणे नेष्यतेऽ इति पूर्वमेवोक्तम्। स्लाघादिषु विषयभूतेष्विति। प्रत्ययार्थत्वं श्लाघादीनां न भवति, भावकर्मणोः प्रत्ययार्थयोरधिकृतत्वात् नापि प्रत्ययार्थविशेषणम्--ये ते भावकर्मणी श्लाघादयश्चेते भवत इति; अस्म्भवता। शब्दस्य प्रवृत्तिनिमितं हि भावः, न च गोत्रचरणशब्दानां श्लाघादयः प्रवृत्तिनिमितम्, नापि गोत्रचरणशब्दानां श्लाघादिकर्मत्वेन प्रसिद्धिः। तस्मात् श्लाघादिषु भावकर्मणोः साध्यतया विषयभूतेष्वित्येवार्थः। तदवेतस्तत्प्राप्त इति। इणः प्राप्त्यर्थत्वात्। तज्ज्ञो वेति। अवपूर्वस्येणो ज्ञाने प्रसिद्धत्वात्। तच्छब्देन चेह गोत्रचरणयोर्भाकवर्मणी प्रतिनिर्द्दिश्यते। गार्गिकयेति। ठापत्यस्य चऽ इति यलोपः ॥ होत्राब्यश्च्छः ॥ होत्राशब्द ऋत्विजां वाचक इति। जुहोतेश्त्रन्, स्वभावतश्चायमृत्विक्ष्वपि स्त्रीलिङ्गः। अच्छावाकीयम् ब्राह्मणाच्छ्ंअसीयमिति। वेदे स्त्रीलिङ्गतापि दृश्यते ठ्सोऽस्याच्छावाकीयां कुर्यात्ऽ इति ॥ ब्रह्मणस्त्वः ॥ ५।१।१३६ ॥ ब्रह्मणस्त्वः ॥ नेति वक्तव्ये इति। च्छप्रत्यये प्रतिषिद्धे ठ्तस्य भावस्त्वतलौऽ इत्येव प्रत्ययः सिद्धः, विभक्तेरनुच्चारणाल्लाघवं भवतीति भावः। यस्तु जातिशब्द इति ठ्होत्राभ्यःऽ इत्यनुवृतेः फलं दर्शयति ॥ इति कश्रीहरतमिश्रविरचितायां पदमञ्जर्यां प्रञ्चमस्याध्यायस्य प्रथमः पादः । काशिकावृती अथ पञ्चमाध्याये द्वितीयः पादः धान्यानां भवने क्षेत्रे खञ् ॥ ५।२।१ ॥ धिनोतेः ठ्कृत्यल्युटो बहुलम्ऽ इति कर्तरि ण्यत्, अस्मादेव निपातनादन्त्यस्य लोपः, इकारस्य चात्वम्। धिनोतीति धान्यम्। ठ्धान्यमसि धिनुहि देवान्ऽ इति हि दृश्यते। धान्यानामिति भवनापेक्षया कर्तरि षष्ठी। भवनमित्यधिकरणे ल्युट्। क्षियष्ट्रन्, क्षेत्रम्। भवति जायतेऽस्मिन्निति भवनमिति। एतेनोत्पतिवचनोऽत्र भवतिर्गृह्यते, न सतावचन इति दर्शयति। एतच्च क्षेत्रग्रहणाल्लभ्यते। क्षेत्रशब्दो हि तृणानां धान्यानां चोत्पत्याधारमाचष्टे। न हि धान्यानां सतां प्रति भूमिः क्षेत्रव्यपदेशमासादयति। मुद्रानां भवनं कुसूलमिति। असति क्षेत्रग्रहणे सतावचनस्यापि भवतेर्ग्रहणं स्यादिसि भावः। किञ्च--भवनशब्दो गृदे रुढ इति मुद्गानां गृहमित्यत्रैव प्रसङ्ग इत्यपि शक्यते वक्तुम्। यदि तर्हिह क्षेत्रग्रहणमवश्यं कर्तव्यम्, तदेवास्तु, किं भवनग्रहणेन ? धान्यानामिति शेषलक्षणषष्ठी, क्षेत्रं प्रत्ययार्थः। न चैवं क्षेत्रशब्दस्यापि शरीरभार्याद्यनेकार्थत्वादतिप्रसङ्ग; धान्यसम्बन्धादुत्पत्तिभूमिरेव प्रत्यष्यते। तदेतद्भवनग्रहणं चिन्त्यप्रयोजनम् ॥ व्रीहिशाल्योर्ढक् ॥ ५।२।२ ॥ अत्रापि निर्द्देशादेव पष्ठी समर्थविभक्तिः, वृत्तिकारेण तु पूर्वानुसारेण गम्यमानत्वान्नोक्तम् ॥ यवयवकषष्टिकाद्यत् ॥ ५।२।३ ॥ अत्र प्रत्ययार्थसामर्थ्यलभ्या षष्ठी समर्थविभक्तिः ॥ विभाषा तलमाषोमाभङ्गाणुभ्यः ॥ ५।२।४ ॥ खञि प्राप्तो वचनं पक्षे सोऽपि भवतीति। युक्तं यदणुतिलमाषेभ्यः पक्षे कञपि भवतीति, तेषां धान्यत्वात्; उमाभङ्गयोस्त्वधान्यत्वादयुक्तम्, धान्यान्येव हि चमकानुवाकेषु पठ।ल्न्ते ठ्व्रीहयस्य मेऽ इत्यादीनि, तान्येव धान्यानि, न चोमाभङ्गावत्र पठ।लेते ? अत आह--उमाभङ्गयोरपि धान्यत्वमाश्रितमेवेति। न चमकानुवाको धान्यपरिगणनार्थः, तत्राधान्यानामप्यश्मादीनां पाठाद्, धान्यानामिपि केपाञ्चित् कोद्रवादीनामपाठात्। तस्मादन्यत एव थधान्यनिर्णयः, तत्र ठ्शणसप्तदशानि धान्यानिऽ इति स्मृतिः, तत्र चोमाभङ्गे अपि पठिते। तस्माद्यौक्तमेव यताभ्यामपि पक्षे खञ् भवतीति ॥ सर्वचर्मणः कृतः शखञौ ॥ ५।२।५ ॥ तृतीयासमर्थादिति। कृत इति प्रत्यर्थार्थे चर्मणः करणत्वात्सामर्थ्यलभ्या तृतीया समर्थविभक्तिः। सर्वशब्दस्य चर्मशब्देन समासं कृत्वायं निर्द्देशः। सर्वचर्मण इति समासश्च सामर्थ्ये सति भवति, ततश्चर्मशब्देनास्य सम्बन्ध इति कश्चिद्भाम्येतं प्तय्याह--सर्वशब्दश्चात्रेति। कथं तर्हि समासः? इत्याह--तत्रायमिति। अस्मादेव निपातनादिति भावः। किं पुनः कारणं सर्वशब्दः कृतेन सम्बध्यते न चर्मणा ? इत्याह--सर्वश्चर्मणेत्यादि। सर्वश्चर्मणा कृत इति योऽयं वाक्यार्थः, अस्मिंस्तद्धितवृत्तिरिष्यते, यदि चर्मणा सम्बध्येत, ततो यदि सर्वचर्मेति षष्ठीसमासः, ततः सर्वस्म्बन्धैना चर्मणा कृत इत्यर्थः स्यात्। अथ कर्मधारयः, ततः सर्वेण चर्मणा कृत इति, न तु कृतस्य सर्वत्वमुभयथापि लभ्यते। तस्मात्कृतेनैव सम्बन्धो न्याय्य इति भावः ॥ यथामुखसम्मुखस्य दर्शनः खः ॥ ५।२।६ ॥ दृश्यतेऽस्मिन्दर्शन इति। अधिकरणे। ल्युट्, कः पुनरसौ ? इत्याह--आदर्शादिरिति। आदिशब्देन जलादिकं गृह्यते। प्रतिबिम्बाश्रय इति। यो हि मुखादिप्रतिविम्बस्याश्रयस्तत्र मुखादिकं दृश्यते। मुखस्य सदृशं यथामुखं प्रतिविम्बम्, सादृश्यप्रतिषेधात्कथमत्र समासः? तत्राह--निपातनादिति। भट्टिकाव्ये तु पदार्थानतिवृतौ यथाशबप्द आश्रितः, तथा च मायामृगं प्रकृत्य भवति श्लोकः--ठ्यथामुखीनः सीतायाः पुप्लुवे वहुलो भवन्ऽ इति, यथामुखं दर्शन इत्यव्ययीभावस्यापि यथामुखशब्दस्योन्मतगङ्गादिवत् सत्वचनत्वात्कर्मशक्तियोगे सति दर्शनशब्दयोगे कृद्योगलक्षणा कर्मणि षष्ठी, तस्याः ठ्नाव्ययीभावात्ऽ इत्यम्भावः। अत एव पूर्वमुक्तम्--ठ्यथामुखशब्दात्संमुखशब्दाच्च षष्ठीसमर्थात्ऽ इति। समं मुखं संमुखमिति समशब्दः सर्वशब्दपर्यायः। निपातनादन्त्यलोपः, संमुखस्येति कर्मणि षष्ठी। प्रत्ययसन्नियोगेनान्त्यलोपनिपातनान्नेदं प्रयोगार्हम्, किं तर्हि ? प्रक्रियावाक्यम्। संशब्दस्तु न समशब्दस्यार्थे दृश्यते। सम्मुखीन इति। यत्रादर्शादौ सर्वं मुखं दृश्यते तदेवमुच्यते। कथं तहि ठ्संयुगे संमुखीनं तमुद्यन्तं प्रसहेत कःऽ इति ? अभिमुखावस्तानात्साधर्म्याद्भविष्यति ॥ तत्सर्वादेः पथ्यङ्गकर्मपत्रपात्रं व्याप्नोति ॥ ५।२।७ ॥ परिशिष्ट्ंअ प्रकृतिविशेषणमिति। तत्र केवलानां पथ्यादीनां सर्वादित्वासम्भवात्प्रातिपदिकैरपि तैस्तदन्तविधिः, पञ्चम्यर्थे च प्रथमा द्वितीया वेत्याह---पत्यङ्गकर्मपत्रपात्रान्तादिति। सर्वपथीन इति। ठ्पूर्वकालऽ इत्यादिना समासः, ठृक्पूरब्धूःऽ इत्यकारः समासान्तः, तस्य पथ्यन्तसमासग्रहणेन ग्रहणात्पथ्यन्तमेव प्रातिपदिकमिति खप्रत्ययः ॥ आप्रपदं प्राप्नोति ॥ ५।२।८ ॥ प्रापदमिति पादस्याग्रमुच्यत इति। प्रारम्भः पदस्येति कृत्वा। तयोरव्ययीभाव इति। ???????????????????? इत्यनेन। द्वितीयासमर्थादिति। क्रियाविशेषणे ठ्कर्मणि द्वितीयाऽ। आप्रपदं यथा तथा सर्वशरीरं प्राप्नोतीत्यर्थः। शरीरेणासम्बद्धस्यापि पटस्य प्रमाणमाख्यायत इति। योग्यत्वात्, योग्यो ह्यसावाप्रपदं शरीरं प्राप्तुम्। व्याप्नोतीति प्रकृते प्राप्तनोतीति वचनमर्थभेदात्--सम्बन्धमात्रमुप्राप्तिः, सम्बन्धः साकल्योपाधिकःउव्याप्तिः। ठाप्रपदम्ऽ इत्यत्र त्वभिविधौ व्याप्त्रिगम्यते, न गर्यादायाम् ॥ अनुपदसर्वान्नायानयं बद्धाभक्ष्यतिनेयेषु ॥ ५।२।९ ॥ अनुरायाम इति। ठ्यस्य चायामःऽ इति वा, ठ्यथार्थे यदव्ययम्ऽ इति वा ऽव्ययीभाव इत्यर्थः। पदप्रमाणेत्यर्थ इति। आयामे तावदयमेवार्थः, सादृश्येऽपि तुल्यपरिमाणतया सादृश्यमित्यमेवार्थो भवति। सर्वान्नीनो भिक्षुरिति। प्रकारकार्त्स्न्ये सर्वशब्दः, यान्यन्नानि लभ्यन्ते उष्णानि शीतानि सरसानि विरसानि तानि सर्वाणि भक्षयतीत्यर्थः। अयनमय इति गमनमात्रमयशब्देनोच्यते, तत्प्रतिषेधस्त्वनयशब्देनेत्याशङ्कामपनयति--अयः प्रदक्षिणमिति। प्रदक्षिणं गमनमित्यर्थः। एवम् अनयः प्रसव्यम्। वामपर्यायगमनम्। एतच्च रूढिवशाल्लभ्यते। रूढो ह्ययमयानयशब्दः शारणां प्रदक्षिणप्रसव्यगमने--श्रृणन्त्येभिर्द्ऊतकाराः परस्परमिति शाराः, द्यौउतसाधनविसेषाः, श्वान् इति येषां प्रसिद्धैः, ठ्कृत्यल्युटो बहुलम्ऽ इति करणे घञ्। तत्राभिमुखयोः क्रीडतोः कितवयोर्यदैवैकं प्रति प्रदक्षिणं गमनं तदेवेतरं प्रति प्रसव्यमित्ययश्चासावनयश्च अयानय इति कर्मधारयः । अथ वा--एकमेव प्रत्ययानयत्वम्, कथम्? वीथीभेदेन। चतस्रो वीथयः, तत्रात्मीयाः शाराः परपार्श्वे स्थिताः प्रथमायां वीथ्यामात्मनः प्रदक्षिणं दच्छन्ति, द्वितीयस्यां प्रकञ्म्, एवमुतरयोः; तत्र समाहारद्वन्द्वे लोकाश्रयत्वेन पुंल्लिङ्गता। अपर आह--एकदेशद्वारेण गमनसमुदायस्यानयव्यपदेशः, कृताकृतदिवत्सामानाधिकरणसमास एवायमिति। प्रदक्षिणप्रसव्यगमनमात्रेऽपि नेष्यते, किन्तु विशेष इत्याह---प्रदक्षिणप्रसव्यगामिनामित्यदि। यस्मिन् गतिविशेषे सति गामिनामित्यादि। बहुवचनमयानयनिमितप्रदर्शनार्थम्। यदि शाराः प्रदक्षिणं प्रसव्यं च गच्छन्त्येवमयानयौ भवतः, नान्यथा। तत्रामीयाः शाराः प्रदक्षिणं गच्छन्ति, परकीयाः प्रसव्यम्। तेषामेवङ्गामिनां यानि स्तानानि तेषां यस्मिन् प्रदक्षिणप्रसव्यगमनात्मके गतिविशेषे सति परैर्विवक्षभूतैः शारैरसमावेशःउअनध्यसनमनाक्रमणं सोऽयानय इत्युच्यते, न तु प्रदक्षिणप्रसव्यगमनमात्रे स एवायम्। एवंरूपोऽथानयो यदा ससहायैः शारेः पदान्यदिष्ठीयन्ते यदा वेदितव्यः । ससहायानामेव हि शाराणां पदानि परैर्न शक्यन्तेऽध्यासितुम्। असहायानां तु भक्तयत् एव। फलकशिरसि स्थित इति। यत्र फलकेऽङ्केऽक्षैर्दीव्यन्ति तस्य शिरोभूतं यत्र स्थानं कितवानां प्रसिद्धं तत्र सिथितः शारः ठयानयीनःऽ इत्यच्यते; तत्रैवायानयीनशब्दस्य रूढत्वात्। अपरे तु-नेयो नेतव्यः, न नीतस्ततः। तत्र ठ्शिरसि स्तितःऽ इत्यर्थानुपपातेः ठ्फलकशिरसि स्थाप्यतेऽ इत्यर्थ इति ग्रन्थेन भवितव्यमित्याहुः। नीतो वा नेयः; तदुपलक्षणत्वात्। भाविन्यावस्थायोक्तः। अयानयसम्बद्धित्वेऽपि सर्वेषां विशेष्यादेव प्रत्ययोत्पतिरुक्तैव। सत्यपि द्वलितीयाधिकारे पुर्द्दितीयोच्चारणं दृष्टाद् द्वितीयान्ताद् यथा स्यादि त्येवमर्थम्। तेन विशिष्टार्थनेयवचनादयानयशब्दाद् द्विदीयान्ताद् प्रत्ययो भवति, न नेयवचनमात्रात्। स एव विशिष्टो यो नयऋः प्रदक्षिणप्रसव्यगामीत्यादिना ग्रन्थेन दर्शैतः। अर्थायानय इति कोऽयं शब्दः, यदि ह्ययं समाहारे द्वन्द्वः, तस्य नपुंसकत्वादयानयमिति भवितव्यम् ? अथेतरेतरयोगे, द्व्यर्थत्वादयानयाविति भवितव्यम् ? नायं द्वन्द्वः, किं तर्हि ? मयूरव्यंसकादित्वात् तत्पुरुषः--अयसहितोऽनयोऽयानय इति। अथ बद्दाभक्षयतिनेयेष्विति कथं तिङ्न्तस्य द्वन्द्वः ? कः पुनराहायं द्वन्द्व इति? यदि न द्वन्द्वः, कथं नेयेष्विति बहुवचनम् ? सौत्रत्वान्निर्देशस्य। सुब्ब्यत्ययेन वा च्छन्दस्येकवचनस्य स्थाने बहुवचनमुपपन्नम्। ननु च्छन्दसि सुब्वयत्यय उक्तः, नेद च्छन्दः ? नयश्च भवति तेनासावयानयं नेयः। ठ्बद्धाभक्षयतिनेयेषुऽ इति निपातनातिडन्तस्य द्वन्द्वः असमासपक्षे तु बद्धेत्यत्र प्रथमैकवचनम्, नेयेष्विति सप्तमीबहुवचनमित्यसमञ्जसमापद्येत ॥ परोवरपरम्परपुत्रपौत्रमनुभवति ॥ ५।२।१० ॥ परस्योत्ववचनमिति। परस्य शब्दरूपस्यादेरुत्वं निपात्यत इत्यर्थः, तत्र ठाद्गुणःऽ। अथ वा--परशब्दस्य ओत्वं निपात्यतेऽन्त्यस्यालः, ततः ठेङः पदान्तादतिऽ इति पूर्वरूपैकादेशः, परस्यौत्वमिति प्राप्नोति ठ्शकन्ध्वादिषु पररूपं अव्कव्यम्ऽ इति पररूपेण निर्द्देशः। परपरतराणां चेति। चकारः पूर्वनिपातनापेक्ष्या समुच्ययार्थः। अर्तगतस्य बहुत्वस्य शब्दे समारोपाद् बहुवचनम्। तच्छब्दान्तरमेव द्रष्टव्यमिति। अव्युत्पन्नमेव प्रबपन्धस्य वाचकम्। अत एवस्त्रीलिङ्गमेकवचनं च। पारम्पर्यमित्यपि तस्मादेव स्वार्थे ष्यञि भवति कथं परोवर्यवदिति ? असाधुरेवायम्; खप्रत्ययसन्नियोगेन परोवरेति निपातनात् ॥ अवारपारात्यन्तानुकामं गामी ॥ ५।२।११ ॥ गामीति। ठ्गमेरिनिःऽ, ठाङ् इणिच्चऽ इति बहुलवचनात्केवलादपि णिनिर्भविष्यति। गम्यादय इति। यद्यप्याङ्पूर्वा गमिर्गम्यादिषु पठ।ल्ते, तथापि बहुलवचनादेव णिनिरिव भविष्यत्कालत्मपि भविष्यतीति भावः। अकेर्नोर्भविष्यदाधमर्ण्ययोरिति षष्ठीप्रितिषेध इति। ठ्गत्यर्थकर्मणिऽ इत्यत्र यदुक्तम्--ठ्द्वितीयाग्रहणमपवादविषये विदानार्थं तेन कृत्प्रत्ययप्रयोगे षष्ठी न भवति--ग्रामं गन्ताऽ इति, तन्नाश्रितमम्; प्रतिषेधे षष्ठीप्रसङ्गस्यैवाभावात्। अवारपारीण इति। द्वन्द्वात्प्रत्ययः। अवारपारे तीरे आहिताग्नयादिषु पक्षेपादुभयं भवति--अवारपारे, पारावारे इति । अत्न्तमिति । क्रियाविशेषणम्, एवमनुकाममिति। कामःउइच्छा, तस्य सदृशमनुकाममुकामानुरूपम्, ठ्यथार्थे यदव्ययम्ऽ इति समासः ॥ समांसमां विजायते ॥ ५।२।१२ ॥ समांसमाभिति वीप्सेति। प्रष्टव्येति शेषः। अत्र निर्देशे वीप्सा द्रष्टव्या, तेन द्विचनमित्यर्थः। अथ वा--वीप्सावाची समुदायो वीप्सा, वीप्प्तावाचीत्यर्थः। सुबन्दमुदायः प्रकृतिरिति। प्रातिपदिकाधिकारेऽपि वचनसामर्थात्। गर्भ धारयतीत्यर्थ इति। दृश्यते च विजनिर्र्भधारणे, ठ्स विजायमानो गर्भणाताम्यत्ऽ इति। पूर्वपदे सुपोऽलुग्वक्तव्य इति। अन्यथा तद्धिते उत्पन्ने यथोतरपदे लुग्भवति ठ्सुपो दातुप्रातिपदिकयोःऽ इति, तथा पूर्वपदेऽपि स्यात्। केचित्विवत्यादि। नन्वत्यन्तसंयोगे द्वितीयया भवितव्यम् ? तत्राह--गर्भविमोचने त्विति। तत्र वमोचनेन यकारमात्रलोपो न सर्वस्या विभक्तेरिति मात्रशब्दस्यार्थः। परिशिष्टस्येति। आम्शब्दस्यालुग्वक्तव्यः। ननु याटः सुब्भक्तत्वात्सुब्लुकैव लोपः सिद्धः तत्र यलोपवचनं नियमार्थं भविष्यति--यकारस्यैव लोपो न तु सर्वस्य प्रत्ययस्येति, तत्किमुच्यते ठलुग्वक्तव्यःऽ इति ? एवं मन्यते--यथैव निपातनात्पूर्वपदपरिशिष्टिस्य लोपो न भवति एवमुतरपदेऽपि न स्यादिति। अनुत्पताविति। वाक्ये पूर्वोतरपदयोरपि पक्षे यलोपो वक्तव्यः, तेन द्वैरूप्यं सिद्धं भवति ॥ अद्यश्वीनावष्टब्धे ॥ ५।२।१३ ॥ अवष्टब्ध, विजन--इत्येतयोर्यथाक्रमं विवरणम्--आसन्ने प्रसव इति। कथं पुनरवष्टब्धशब्दस्यासन्नमर्थः ? इत्याह--आविदूर्ये हीति। यद्यप्यालम्बनेऽपि षत्वं विधीयते; तथापि विजनस्यालम्बनत्वासम्भवादाविदूर्यमेवार्थः। किं पुनरत्र निपात्यते ? अद्य वा विश्वो वेति वार्थे समासः खप्रत्ययः, टिलोपस्त्वव्ययत्वादेव सिद्धः। अद्यश्वीना वडवेति। विजायत इत्यस्यानुकूलतया स्त्रीलिङ्गमुदाहृतम्, न पुनः सूत्रे स्त्रीलिङ्गनिर्द्देशः। अद्यश्वीनो गोसमूहः, अद्यश्वीनं गोमण्डलमित्यत्रापीष्ठत्वात्। ????????? ह्रस्वान्तस्याविभिक्तिको निर्देशः। केचित्विति। तेषां यथाभिधानं क्रियाध्याहारः। अवष्टब्धमात्रे इति। भवत्याद्यर्थेऽपीत्यर्थः। अद्यस्वीनं मरणमिति। अद्य वा श्वो वा भविष्यतीत्यत्रार्थे प्रत्ययः ॥ आगवीनः ॥ ५।२।१४ ॥ गोराङ्पूर्वादिति। गोशब्दान्तादाङ्पूर्वात्प्रातिपदिकादित्यर्थः। आ तस्य गोः प्रतिदानादिति। प्रतिदानमुप्रत्यर्पणम्। एतेन वृत्तिविषये गोशब्दो गोप्रतिदाने वर्तत इति दर्शयति। करिणीति। कृञ आवश्यके णिनिः। आगवीन इति। ठाङ् मर्यादाभिविध्योःऽ इत्यव्ययीभावे उपसर्जनह्रस्वत्वे च कृते खप्रत्ययः, ठोर्गुणःऽ ॥ अनुग्वलङ्गामी ॥ ५।२।१५ ॥ अलङ्गगामीति। ठ्सुप्यजातौऽ इति णिनिः। गोः पश्चादनुस्विति। पश्चादर्थेऽव्ययीभावः, उपसर्जनह्रस्वः। पर्याप्तमिति। क्रियाविशेषणमेव। अनुग्विति। ततश्च द्वितीयान्तात्प्रत्ययः। कृद्योगलक्षणा तु षष्ठी क्रियाविशेषणान्न भवति, तद्यथा--शोबनं पाचक इति ॥ अध्वनो यत्खौ ॥ ५।२।१६ ॥ द्वितीयासमर्थादिति। यदा तिङ्न्तेन विग्रहः--अध्वानं गच्छतीति, तदा द्वितीयासमर्थत्वम्। यदापि सूत्रोपातेन गामीत्यनेन विप्रहः, तदापि द्वितीयैव कृद्योगलक्षणा षष्ठी न भवति; ठकेनोःऽ इति प्रतिषेधात्। इह ठध्वनो यच्चऽ इति सिद्धम्, चकारात्खश्च? एवमुच्यमाने उतरसूत्रे चकारेणानन्तरो यदेवानुकृष्यते, न चानुकृष्टः खः। अतो यत्खयोर्द्वयोरप्यनुवृत्यर्थं यत्खावित्युक्तम् ॥ अभ्यामित्राच्छ च ॥ ५।२।१७ ॥ अब्यचामित्रामिति। ठ्लक्षणेनाभिप्रती आभिमुख्येऽ इत्यव्ययीभावः, क्रियाविशेषणत्वात्कर्मणि द्वितीया ॥ गोष्ठात्सञ् भूतपूर्वे ॥ ५।२।१८ ॥ गावस्तिष्ठन्त्यस्मिन्निति गोष्ठ इति। च्छञर्थे कविधानम्, ठ्स्थास्नायाव्यधिर्हान युध्यर्थम्ऽ इत्यधिकरणे कः, ठम्बाम्बगोभूमिऽ इति षत्वम्। पूर्व भूतो भूतपूर्वः, ठ्सुप्स,उपाऽ इति समासः। गोष्ठशब्दस्यार्थद्वारकंच विशेषणत्वम्, न स्वरुपेण, न हि भूतपूर्वाद् गोष्ठशब्दात्प्रत्ययो विधातुं शक्यते। गोष्ठो वर्तत इति। सम्प्रति गवामवस्तानं दर्शयति ॥ अस्वयैकाहगमः ॥ ५।२।१९ ॥ एकाहेन गम्यत इत्येकाहगमः, ठ्ग्रहवृदृनिश्चिगमश्चऽ इत्यपं बाधित्वा ठ्परिमाणाख्यायां सर्वेभ्यःऽ इति, अस्ति कचात्र परिमाणाख्या, एकाहेन गम्यत इति परिच्छेदावगमाद्, अस्मादेव निपातनादप्द्रष्टव्यः, ठ्ककर्तृकरणे कृता बहुलम्ऽ इति समासः। अश्वस्येति। कर्तरि षष्ठी। अश्वीनानि शतं पतित्वेति। यावन्ति योजनान्येकाहेनाश्वेन गम्यते, तावतां शतं गत्वेत्यर्थः ॥ शालीनकौपीने अधृष्टाकार्ययोः ॥ ५।२।२० ॥ यथाकथञ्चिदिति। नात्रावयवार्थेऽभिनिवेष्टव्यमित्यर्थः। अभिनिवेशे तु यःक शालायामधृष्टो भार्याजितत्वादन्यत्र धृष्टः, यच्च कूपे अकार्यं मूत्रणादि, कथं तस्याभिधानं प्रागोति, कथं तर्हि विवक्षितार्थः ? इत्याह--शालाप्रवेशमर्हतीति। यदकार्यं तत्प्रच्छादनीयत्वात्कूपावतरणमर्हतीत्यर्थः। उतरपदालोपश्चेति। वृत्तिविषये शालाकूपशब्दौ तत्कर्मिकायां क्रियायां वर्तेतते इति गम्यमानत्वादप्रयोग एव लोपः। कौपीनं पापमिति। पापसाधनत्वातु पुरुषलिङ्गे कौपीनशब्दः, साधार्म्याद्वा; साधर्म्यं गोप्यत्वात्। तत्साहचर्याच्च तदाच्छादने वासःखण्डे। अपर आह---कार्यशब्दे करोतिः क्रियासामान्यवचनः, तेन लज्जाहेतुत्वेनाद्रष्टव्यत्वात्पुरुषलिङ्गं कौपीनम्, अस्पृश्यत्वाच्च तदाच्छादनमिति ॥ व्रातेन जीवति ॥ ५।२।२१ ॥ व्रातशबह्दो लोके सह्घमात्रवचनः, इह तु न तथेति दर्शयितुं भाष्यग्रन्थं पठति। नानजीतीया इति। अनेन चैकजातीयक्षत्रियादिसह्घनिराकरणम्। अनियतवृतय इति। नियतवृत्यायुधजीविसङ्गनिषेधः। उत्सेधजीविन इत्येतद्व्याचष्टे। उत्सेधः शरीरमिति। उच्छ्रायत्वात्। तदायास्येति। आयासेर्ण्यन्ताल्ल्यप्, तेन सकर्मकत्वम्। अण्यन्तपाठे त्वन्तर्भावितण्यर्थत्वात्सकर्मकत्वं द्रष्टयम्। शरीरायासेन बारवहनादिना जीवन्ति, न तु बुद्धिभावेनेत्यर्थः। व्राता इति। सङ्घवचनोऽयमिह सङ्घिषु प्रयुक्तः। एवंभूतानां यः सङ्घस्तद्व्रातमित्यर्थः। एवमपि तथाभूतेन सङ्घेन ये जीवन्ति तत्र प्राप्नोति,न चेष्यते ? तत्राह--तेषां कर्म व्रातमिति। इदमर्थे छे प्राप्तेऽस्मादेव निपातनादण्। यस्त्वन्य इत्यादि। अनभिधानमत्र हेतुः ॥ साप्तपदीनं सख्यम् ॥ ५।२।२२ ॥ साप्तपदीनमिति निपात्यत इति। किं पुनरत्र निपात्यते ? समर्थविभक्तिस्तृतीया। अवाप्यत इति प्रत्ययार्थः, सप्तभिः पदैरवाप्यत इति तद्वितार्थे द्विगुः समासः, सप्तपदशब्दात्खञ्। कथमिति। सख्युर्भावः कर्म वा सख्यम्, तत्र व्युत्पादितस्य न सखिशब्देन प्रश्नः, उपचारेणेत्युतरम्, गुणप्रधान इति। गुणो भावः, कर्म च भावः, प्रवृत्तिनिमितत्वाद्गुणः। यस्य हि गुणस्य भावादिति कर्माणि हि सख्यशब्दवाच्यत्वाद्गुण इत्युक्तम् ॥ हैयङ्गवीनं सञ्झयाम् ॥ ५।२।२३ ॥ ह्यएगोदोहस्य विकार इति। दुह्यत इति दोहःउक्षीरम्, गोर्दोहो गोदोह इति षष्ठीसमासः, ह्यः शब्दस्य तेन ठ्सुप्सुपाऽ इति समासः, ततो विकारेऽनुदातलक्षणस्याञोऽपवादः, खञ्। घृतस्यैषा संज्ञेति। घृतस्यापि न सर्वस्य, किं तर्हि ? तस्यैवाविकृतगन्धरूपस्य। ह्यःशब्देन कालप्रत्यासतिप्रतिपादनाद् नवनीतं हैयङ्गवीनमुत्यते, घृतशब्दोऽपि तत्रैव प्रयुक्तः ॥ तस्य पाकमूले पील्वादिकर्णादिभ्यः कुणब्जाहचौ ॥ ५।२।२४ ॥ पाकःउपरिणामः, मूलःऊपक्रमः। ठ्तस्येदम्ऽ इत्यणादिषु प्राप्तेष्वयमारम्भः, जकारस्य प्रयोजनाभावादित्संज्ञाभावः ॥ पक्षातिः ॥ ५।२।२५ ॥ एकयोगशिष्टानामपि शब्दानां शब्दादिकारपक्षे यस्यैव शब्दस्य स्वरितत्वं प्रतिज्ञायते, तस्यैवानुवृत्तिर्भवति। तथा च ठ्दामहायनान्ताच्चऽ इत्यत्र सङ्घया हणमनुवर्तते, नाव्ययग्रहणम्। अर्थाधिकारपक्षे तु युगपदन्योऽन्यार्थाभिधायिनां द्वन्द्वविधानाद् द्वन्द्वार्थविच्छेदान्न स्यादेकदेशानुवृत्तिः। पक्षस्य मूलं पक्षतिःउप्रतिपदि, पक्षिणश्च पक्षमूले प्रयुज्यते ॥ तेन वितरचुञ्चुप्चणपौ ॥ ५।२।२६ ॥ वितः प्रतीत इति। ठ्वितो बोगप्रत्यययोःऽ इति निपातनात्, चुञाचुप्चणपोश्चकारस्य यथेत्संज्ञा न भवति, तथा ठ्चुटूअऽ इत्यत्रैव वृत्तिकारेणोक्तम् ॥ विनञ्भ्यां नानाञौ नसह ॥ ५।२।२७ ॥ नसहेति प्रकृत्यर्थविसेषणमिति। यदि प्रत्ययार्थः स्याततो द्वौ प्रतिषेधौ प्रकृतमेवार्थ गमयत इति सहार्थ एव गम्येत, न नसह, अपि तु सहैवेति। तस्मात्प्रकृत्यर्थ एव भवति। एतच्च व्याख्यानाल्लभ्यते। यद्येवम्,सहेत्येव प्रत्ययार्थोऽस्तु, विनञोः प्रतिषेधार्थत्वात्, विगर्दभारथक इत्यादौ विशब्दस्यापि प्रतिषेधे वृत्तिर्दृष्टैव ? सत्यम्; क्रियावाचिनो विशब्दात्सहार्थे प्रत्ययो विज्ञायेत--विगतौ सह विकृतौ सहेति, नाञो ञकारो वृद्ध्यार्थः, स्वरार्थश्च ॥ वेः शालच्छङ्कटच्चौ ॥ ५।२।२८ ॥ क्व पुनरेते शालजादयो भवन्ति ? इत्याह--ससाधनक्रियावचनादिति। क्रियाविशिष्टसाधनवचनादित्यर्थः। एतच्च ठुपसर्गाच्छन्दसि धात्वर्थेऽ इत्यत्र प्रत्यपादि। उपसर्गादिति। अन्यत्रोपसर्गसंज्ञादर्शनाद्विषयान्तरेऽपि प्रादीनामभिधानम्। स्वार्थ इति। अनिर्द्दिष्टार्थत्वात्। विगते इति। विगमनक्रियाकर्तरि वेर्वृत्ति दर्शयति। तद्योगादिति। विशालावयवयोगात्, व्युत्पत्तिपक्षे नान्या गतिरिति भावः। वस्तुगतिमाह--परमार्थतस्त्विति। विशालत्वमुविस्तीर्णत्वं नाम गुणः, तस्माद्गुणवचना एते। वक्ष्मयाणप्रत्ययापेक्षया बहुवचनम्; ततश्च यद्गुणयोगाच्छङ्गे वृत्तिस्तद्गणयोगादेव गव्यपि वृत्तिः सिद्धेति भावः। तथा च-विशालो देश इत्यपि दृश्यते ॥ संप्रोदश्च कटच् ॥ ५।२।२९ ॥ कटच्प्रत्ययो भवतीति। पूर्ववत्ससाधनक्रियावचनेभ्यस्वार्थे। सङ्कटःउप्रज्ञातः, प्रकाश इत्यर्थः। उत्कटःऊद्भूतः। विकटःउविकृतः। अलाबूतिलेत्यादि। भङ्गाभ्य इति पाठः, भह्गाशब्दष्टावन्तः। यथालाबूप्रभृतिभ्यो रजस्यभिधेये कटच्प्रत्ययो भवति, रजसो विकारत्वाद्विकारप्रत्ययानामपवादः। तत्रालाबूशब्दादोरञः, ठ्मयड् वैतयोःऽ इति मयटश्चापवादः। तिलोमाशब्दाभ्यां घृतादित्वादन्तोदाताब्याम् ठनुदातादेश्चऽ इत्यञो मयटश्च। ठुमोर्णयोर्वाऽ इति वुञ्श्च, ठसंज्ञायां तिलयवाभ्याम्ऽ इति मयटश्च। भङ्गायाः ठ्तृणधान्यानां च द्वयषाम्ऽ इत्याद्यौदातत्वादणो मयदस्च। गोष्ठादय इति। प्रयोगसमवायिप्रत्ययरूपं निर्दिष्टम्। चकारस्तु स्वरार्थेऽनुबन्द्वव्यः। तथा हि--समासाश्रयेण भाष्ये एतत्प्रत्याख्यातम्, समासे चान्तोदातत्वं भवति। सर्वत्रादिशब्दः प्रकारे। गवां स्थानमिति। ठ्तस्येदम्ऽ इत्यत्रार्थे ठ्सर्वत्र गोरजादिप्रत्ययप्रसङ्गे यत्ऽ इति यति प्राप्ते गोष्ठच्प्रत्ययः; अप्रसृतावयवः समूहःउसङ्घातः, प्रसृतावयवस्तूविस्तारः, उभावपि सामूहितानामपवादौ। द्वित्व इति। प्रकृत्यर्थस्य द्वित्वे द्योत्य इत्यर्थः। उष्टगोयुगमिति। द्वयं युगमित्यादिवद् द्वयवयवसङ्घाभिधायित्वादेकवचनम्। एवं हस्ति???गवमित्यादावपि द्रष्टव्यम्। स्नेह इति। स्निहयन्त्यनेनेति स्नेहःउद्रवरूप इङ्गुदादीनां विकारः। तत्र इङ्गुदशब्दः ठ्लघावन्तेऽ इत्याद्यौदातः, ततः ठ्तस्य विकारःऽ इत्यण्प्रत्ययः प्राप्तः; तिलशब्दाद् ठनुदातादेश्चऽ इत्यञ् प्राप्त, सोऽपि त्विष्यते-तिलानां विकारस्तैलमिति, ततर्हीदं बहु वक्तवम् ? नेत्याह; उपमानात्सिद्धम्। कथम् ? गावस्तिष्ठन्त्यस्मिन्नति गोष्ठम्, तत्साधर्म्यादुष्ट्रादिस्थानमपि गोष्ठमित्युच्यते। तत्र विसेषप्रतिपत्यर्थमुष्टादिभिर्विशेष्टते--उष्ट्रगोष्ठम्, महिषगोष्ठम्; मुख्यार्थप्रतिपतये गोभिरपि गोगोष्ठमिति। यथा गोपतिशब्दे स्वामिमात्रपरतया प्रयुक्ते गोभिरपि विशेषणम्--ठ्गवामसि गोपतिरेक इन्द्रःऽ ठ्विज्ञा हित्वा गोपतिं शूर गोनाम्ऽ इति, तथा नानाद्रव्याणां रज्जुवीरणादीनां सङ्घातः कटः, तत्साधर्म्यादन्योऽपि सङ्गातःक कटशब्देनोच्यते, स चाविप्रभृतिभिर्विशेषयिष्यते, एवं पटवद्विस्तीर्णोऽविसह्गोऽविपट इति। तथा युगशब्देन द्वयमुच्यते--गवोर्युगं गोयुगम्, द्वयात्मत्वसामान्यादन्यदपि युगलं गोयुगमित्युच्यते, तत उष्ट्रादिभिर्विशेष्यते, मुख्यगोयुगप्रतिपतये गवापि। तथा षड् गावः समाहृताः पड्गवम्, ठ्गोरतद्धितलुकिऽ इति टच्, पात्रादित्वान्नपुंसकत्वम्। तत्साधर्म्यादित्यादि पूर्ववत्। तथा तिलविकारो मुख्यं तैलं तत्सादृश्याद् द्रवरुपं विकारमात्रं तैलम्, तत इङ्गुदादिभिस्तिलैश्च विशेषणम्। एवं च कृत्वा तिलानां विकारस्तैलमित्यपि भवति, वाक्यप्रारम्भे चु तैलचा बाधितत्वादन स्यात्। उपर आह--ठ्यथा प्रकृष्टो वीणायां प्रवीण इति व्युत्पत्तिमात्रं क्रियते, कौशलमेव त्वस्य निमितम्, तथा च वीणायां प्रविण इत्यपि भवति; तथा तिलानां विकारस्तैलमिति व्युत्पत्तिमात्रम्, द्रवरूपो विकारस्त्वस्यार्थः। तथा चेङ्गुदादिभिर्विसेषणसिद्धिःऽततु न रोचयामहे; न हि तैलमित्युक्ते द्रवरूपं विकारमात्रं प्रतियन्ति। शाकटच्शाकिनौ तु वक्तव्यावेव ॥ अवात् कुटारच्च ॥ ५।२।३० ॥ अवकुटारम्, अवकटमिति। अवाचीनम्, अप्रसिद्धमित्यर्थः ॥ नते नासिकायाः संज्ञायां टीटञ्नाटज्भ्रटचः ॥ ५।२।३१ ॥ नमनं नतमिति। ठ्नपुंसके भावे क्तःऽ नीचैस्त्वमित्यर्थः। नासिकायाः सम्बन्धैनीति। सम्बन्धश्च नमने कर्तृत्वेन, सूत्रे तु ठ्नपुंसके भाव उपसंख्यानाम्ऽ इति कर्तरि षष्ठी। यद्वा--शेषविज्ञानात्सिद्धमिति शेषलक्षणैव। अवटीटादिषु नासिकासाधने नमने वर्तमानादुपसर्गात्स्वार्थे प्रत्ययः। कथं तर्हि नासिका पुरुषश्च तथोच्यते ? इत्याह---तद्योगादिति। टीटञष्टकारस्येत्संज्ञभावः ठ्चुटूअऽ इत्यत्रैव व्यख्यातः ॥ इनच्पिटच्चिक चि च ॥ ५।२।३३ ॥ ककारः प्रत्यय इति। अकारो विवक्षितः; चकारः, एवकार इत्यादिवत् कारशब्दः, कप्रत्यय त्यिर्थः। तथा चोक्तमिति। सूत्रे निशब्दस्य द्वावादेशौ द्वौ च प्रत्ययौ विहितावित्यादेशप्रत्ययात्रविधानार्थमेतद् वार्तिककारोणोक्तम्। अस्य चक्षुषी इत्येतस्मिन्नर्थ इति। यद्यपि चक्षुषी प्रकृत्यर्थविशेषणम्, अस्येति षष्ठ।ल्र्थे प्रत्ययः, तथापि क्लिन्नत्वस्य चक्षुर्गतत्वं प्रत्ययस्यैव द्योत्यभिति मत्वैवमुक्तम्। अस्येत्यनेनेति। वाक्यैकदेशं प्रत्याचष्टे, कस्मात्? नार्थः, इत्याह। चक्षुषोरेवभिधान इति। चक्षुषोर्वर्तमानात्क्लिन्नशब्दात्स्वार्थे प्रत्यय इत्यर्थः। कथं तर्हिपुरुषस्याभिधानम् ? इत्याह--तद्योगादित्यादि। अर्शाअदिषु ठ्स्वाङ्गाद्धीनात्ऽ इति पठ।ल्ते, तेन मत्वर्थेऽकारः ॥ उपाधिब्यां त्यकन्नासन्नारूढयोः ॥ ५।२।३४ ॥ नियतविषयमिति। पर्वतविषयम्। आस तेन वृक्षस्यासन्नम्, प्लक्षस्यारूढमित्यत्र न भवतीतति भावः। अथोपत्यका, अधित्यकेत्यत्र ठ्प्रत्ययस्थात् कात् पूर्वस्यऽ इत्यनेनेत्वं करमान्न भवति ? इत्यत आह---प्रत्ययस्थात् कादिति। यद्यत्रेत्वं स्यात् संज्ञारूपं न सिध्येत्; नोपत्यिकाधित्यिकेत्येवंरूपा संज्ञा। तस्मात् संज्ञाधिकारादित्वं न भवति ॥ कर्मणि घटोऽठच् ॥ ५।२।३५ ॥ ठ्कर्मणिऽ इत्यनेन कर्मणीति स्वलरूपग्रहणं दर्शयति। अथ पारिभाषिकस्य कर्मणो ग्रहणं करमान्न भवति ? असम्भवात्। असम्भवतु घटतेरकर्मकत्वात्। अठच्प्रत्येयेऽकारोच्चारणं ठस्येकादेशनिवृत्यर्थम् ॥ तदस्य सञ्जातं तारकादिभ्य इतच् ॥ ५।२।३६ ॥ तारकादिषु बुभुक्षा-पिपासाशब्दौ पठ।लेते, तयोः किमर्थःक पाठः, यावता सन्नन्ताभ्यां निष्ठायामिटि च कृते बुभुक्षितः, पिपासितो पिपासित इति ? सत्यं कर्मणि सिद्धम्--बुभुक्षित ओदनः, पिपासितमुदकमिति; कर्तरि तु न प्राप्नोति--बुभुक्षितो देवदतः, पिपासितो देवदत इति। अनेन तु यस्य बुभुक्षापिपासे सञ्जाते तत्र प्रत्यय उत्पद्यते। पुष्पादीनां तर्हि किमर्थः पाठः, ठ्पुष्प विकसनेऽ, ठ्मूत्र प्रस्रवमे,ऽ ठ्व्रण गात्रविचूर्णनेऽ--- एब्योऽकर्मकत्वात्कर्तरि क्ते--पुष्पितः, मूत्रित इत्यादि सिद्धम् ? सत्यम् भूते सिद्धम्; वर्तमाने तु न सिद्धयति, अतो कवर्तमानार्थस्तेषां पाठ। कथं पुनरनेन वर्तमाने भवति, याताऽत्रापि ठ्सञ्जातऽ इति भूते निष्ठा ? एवं तर्हि गणे पुष्पादीनां पाठसामर्थ्यात्सञ्जातमित्यत्र भूतकालो न विवक्ष्यते। गर्भादप्राणिनीति। गर्भशब्दादप्राणिन्यभिधेये इतञ्भवति--गर्भिताः शालयः, प्राणिनि तु गर्भिणी गौः ॥ प्रमाणे द्वयसज्दघ्नञ्मात्रचः ॥ ५।२।३७ ॥ यतत्प्रथमासमर्थं प्रमाणं चेतद्भवतीति। अनेन प्रकृत्यर्थविशेषणत्वं प्रमाणस्य दर्शयति। यदि तु प्रत्ययार्थविशेषणं स्यात्--यतदस्येति निर्द्दिष्ट प्रमाणंचेतद्भवतीति; तदा प्रमाणस्य प्रमेयापेक्षत्वात्प्रमेयं प्रकृत्यर्थः स्यात् यथा प्रकृत्यर्थविशेषणत्वे प्रमेयं प्रत्यथार्थः, ततश्चेह प्राप्नोति--उदकं प्रमेयमस्योरोरिति, एतच्चायुक्तम्; अनियतप्रमेयविषयत्वात्प्रमाणानामेकेन विशेषणस्यान्याय्यत्वात्, प्रमेयस्य तु नियतप्रमाणत्वप्रतिपादनायोरुमात्रादयः शब्दाः प्रयुज्यन्ते। प्रथमश्च द्वितीयश्चेति। उर्ध्वावस्तितेन येन मीयते तदूर्ध्वमानम्, उर्वादि। तत्र केचिदाहुः--ठायाममामनमेव प्रमाणं सूत्रे गृह्यते, तिर्यङ्मानमेव चायाममानम्, ततश्चोर्ध्वमानेऽप्रप्तौ द्वयसज्जघ्नचौ प्रमाणादपकृष्येह विधीयेतेऽ इति। अपर आह--ठूर्ध्वावस्तितेनापि येनायामः परिच्छिद्यते तदप्यायाममानत्वात् प्रमाणमिति सूत्रे गृह्यते। वचनं तूर्ध्वमान एव यथा स्यातां तिर्यङ्माने मा भूतामिति नियमार्थम्ऽ इति। अन्यस्त्वाह--ठ्परिच्चेदकमात्रं प्रमाणमिहर गृह्यतेऽ इति; तत्रापि नियमार्थमेतत्। मात्रं प्रमाणम्, ततो न्यायप्राप्तानुवादोऽयम्। प्रस्थामात्रमित्यपीति। अपि शब्दादूरुमात्रमित्यपि भवति। प्रमाणे ल इति। लुक एषा पूर्वाचार्यसंज्ञा। प्रमाणमिति ये प्रसिद्धा इति। ठ्प्रबाणशब्दा एतेऽ इति ये प्रसिद्धाः---दिष्टिवितस्त्यादय इत्यर्थः शमः, दिष्टिः, वितस्तिरिति। अत्र मात्रयो लुग्; इतरयोरसम्भवात्। शमादीनामनूर्ध्वमानत्वाद्। द्विगोर्नित्यमिति। द्विगोरप्रमाणत्वातदन्तविध्यबावाच्च पूर्वेणाप्राप्तो लुग्विधीयते। नित्यग्रहणं किमिति। नात्र विकल्पः प्रकृत इति प्रश्नः। संशये श्रीविणं वक्ष्यतीति। श्रवणं श्रावः, ठ्कृयल्युटो वहुलम्ऽ, इति घञ्, सोऽस्यास्तीति श्रावी, ठ्प्रमाणपरिमाणाभ्यां सङ्खयायाश्चापि संशयेऽ इति वक्ष्यमाणस्य मात्रचः ठ्प्रमाणे लःऽ इत्यनेन लुग्न भवति, परत्वाद्; अतोऽमौ श्रावी। अस्य द्विगावपि श्रवणे प्राप्ते लुग्विदीयत इत्यर्थः। द्वौ शमौ प्रमाणमस्य द्विशमः। कथं पुनरव संशये मात्रच उत्पत्तिः ? तदन्तविधैना। एतदेव लुग्वचनं ज्ञापकम्-अस्त्यत्र तदन्तविधिरिति। प्रकारणादिवशादस्य निश्चयसंसयविपयता प्रयोगस्यावसेया। स्तोमे डड्वक्तव्य इति। अत्रायाममानस्यासम्भवात्परिच्छेदोपाधिकायाः सङ्ख्यायाः स्तोमेऽभिधेये डट्प्रत्ययः। डित्करणमेकविंश इत्यत्र ति शब्दस्य लोपार्थम्, त्रयस्त्रिंशादौ टिलोपार्थं च। पञ्चदसादौ ठ्नस्तद्धितेऽ इत्येव सिद्धम्---पञ्चदश मन्त्राः परिमाणमस्य पञ्चदशः स्तोमः, सप्तदशी रात्रिरिति। स्तोमसाहचर्याद्रात्र्यादौ स्त्रियां वृत्तिः, टित्वान्ङीप् ठ्तदस्य परिमाणम्ऽ ठ्सङ्ख्यायाः संज्ञाऽ इत्यत्र तु स्तेमे डो विहितः, तत्र टाब् भवति यद्यस्ति प्रयोगः, अथ तु नस्ति ततोऽस्यैव स प्रपञ्चः। शन्सतोर्हिनिर्वक्तव्य इति। एवं च च्छन्दसि च भाषायां च डिर्नेर्विधानात् ठ्सङ्ख्यायाः संज्ञासङ्घऽ इत्यत्र ठ्शन्शतोर्डिनिश्च्छन्दसिऽ इति वचनं प्रपञ्चार्थमेव। विशिनोऽङ्गिरस इति। प्रवरभेदेन विंशतिर्भेदा उच्यन्ते, तत्र विंशतिशब्दात्सङ्खयानमात्रवाचिनः संख्येये प्रमेये डिनिः, ठ्ति विंशतेर्डितिऽ इति लोपः, यस्येतिलोपश्च। प्रमाणपरिमाणाभ्यामिति। रूढिशब्दावेतौ; भेदेनोपादानात्। शममात्रमिति। शमः प्रमाणमस्य स्यान्न वेत्यत्रार्थे मात्रच्। पञ्चमात्रा इति। पञ्च स्युर्न वेति संशय्यमानार्थवाचिनः षष्ठ।ल्र्थे प्रत्ययः। पञ्चत्वसङ्ख्या प्रमाणमेषां स्याद्वा न वेति पञ्चमात्राः। तावदेविति। तत्परिमाणमस्य धान्यादिस्तावत्, ततः स्वार्थे ??????। उतरसूत्रे तु ठ्भावः सिद्धश्च डावतोःऽ इत्यर्थान्तरे वक्ष्यते ॥ पुरुषहिस्तिभ्यामण् च ॥ ५।२।३८ ॥ हास्तिनमिति। ठिनण्यनपत्येऽ इति प्रकृतिभावः। द्विगोर्नित्यं लुगिति। नायम् ठ्प्रमाणे लो द्विगोर्नित्यम्ऽ इत्यस्यानुवादः; पुरुषहस्तिनोः शमादिवत्प्रमाणतच्वेनाप्रसिद्धत्वात्। अत एव पुरुषद्वयसमित्यादौ ठ्प्रमाणे लःऽ इति लुग्न भवति; अन्यथाणो विधानसामर्थ्याल्लुगभावेऽपि द्वयसजादीनां स्यादेव। तस्माद् पूर्वोऽत्र लुग्विधीयते। स च द्वयसजादीनां नाणः, ग्रहणवता प्रातिपदिकेन तदन्तविधिप्रतिषेधाद् द्विगोरणः प्राप्त्यभावात्। द्विपुरुषीति। ठ्पूरुषात्प्रमाणेऽन्यतरस्याम्ऽ इति ङीप् ॥ यतदेतेभ्यः परिमाणे वतुप् ॥ ५।२।३९ ॥ यावानिति। ठा सर्वनाम्नःऽ इत्यात्वम्। ठुगिदचाम्ऽ इति नुम्, ठत्वसन्तस्यऽ इति दीर्घः, हलङ्यादिसंयोगान्तलोपौ। प्रमाणपरिमाणयोरेकत्वं मत्वा यश्चोदयेत्--हलङ्यादिसंयोगान्तलोपौ। प्रमाणपरिमाणयोरेकत्वं मत्वा यश्चोदयेत्--परिमाणग्रहणमनर्थकम् प्रमाणाधिकारदिति ? तं प्रत्याह--प्रमाण इति वर्तमाने इत्यादि। स पुनरनयोर्भेदः ठ्परिमाणं तु सर्वतः, आयामस्तु प्रमाणं स्यात्ऽ इति पूर्वमेव व्याख्यातः। डावताविति। इहास्माभिर्वतुपं विधाय ठा सर्व नाम्नःऽ इत्यात्वं विहितम्। पूर्वाचार्यास्तु डावतुं विदधिरे, तदपेक्षोऽयं निर्देशः। विशिष्यत इति विसेषः, तस्य भावो वैशेष्यम्, अर्थवैसेष्यादर्थबेदात्परिमाणस्य प्रमाणात् पृथग्निर्देशः, उच्यते क्रियत इत्यर्थः। स्यादेतत्--ठ्यद्यपि प्रमाणपरिमाणशब्दयोरर्थो भिद्यचते, तथापि प्रमाणग्रहणमेवानुवर्त्य तदुपाधिकेभ्य एव वतुब्विदेयः। तत्रायमप्यर्थः---इदमपि सिद्धं भवति---यावानध्वा, यावती रज्जुरिति, अत्र ह्यायाममानं गम्यते। ये तु परिमाणे प्रयोगाः---यावान् धान्यराशिरित्यादयः, तेऽप्युपमानाद्भविष्यन्ति। यथा सिद्धान्ते यावानध्वा यावती रज्जुः यावत्कृत्वो भुङ्क्त इत्यादयःऽ इति, तत्राह---मात्राद्यप्रतिघातायेति। यदि यथोक्तं क्रियेत ततो डावतुर्विशेषविहितत्वात्सामान्यविहितान्मात्रजादीन्बाधेन। परिमाणग्रहणे तु सति भिन्नोपाधिकत्वाद् बाध्यबाधकभावाभावः, तेन तन्मात्रं यन्मात्रमित्यादि प्रमाणे सिद्धं भवतीति। भावः सिद्धश्चेति। तत्परिमाणमस्य धान्यस्य दैर्घ्यं तादृगस्यापीत्यर्थः। तदेवं भिन्नविषयत्वे सति वत्वन्तान्मात्रादयः सिद्धयन्ति। एकविषयत्वे तु वतुपैव विशिष्टस्य प्रमेयस्योक्तत्वातदन्तान्मात्रादयो न स्युः,। यस्या हि तावत्प्रमाणं तस्य तत्प्रमाणमिति तावच्छब्दस्यैव तत्रापि प्रयोगः स्याद्; अन्यथा हि मात्रजादिप्रत्ययमालाप्रसङ्गः। किमिदम्भ्यां वो घः ॥ ५।२।४० ॥ कियान्, इयानिति। ठिदं किमोरीश्कीऽ, यस्येतिलोपः। एतदेवेति। आदेशविधानान्यथानुपपत्या प्रत्ययोऽनुमीयते। योगविभागेन वेति। एवं प्रतिपादिते लाघवं भवति। ठादेः परस्यऽ इत्येव सिद्धे ठ्वःऽ इति कवचनमादेशप्रतिपत्यर्थम्; इत्रथा हि घः प्रत्ययान्तरं विज्ञायेत ॥ किमः सङ्ख्यापरिमाणे इति च ॥ ५।२।४१ ॥ सङ्ख्यायाः परिमाणमिति। करणस्य कर्तृत्वविवक्षया कृद्योगलक्षणा कर्तरि षष्ठी। परिमितिःउपरिमाणम्। सङ्ख्या परिच्छेद इति॥ सह्ख्या यं परिच्छेदं परोति तत्रेत्यर्थः। तस्य च वकारस्य घकार इति। ठ्वो घःऽ इत्यनुवृतेः। ननु का संख्या परिमाणमेषामित्यत्र किंशब्दः परिच्चेदिकायां सङ्खयायां वर्तते, न पुनः परिच्छेदे? तत्राह---पृच्छयमानत्वादिति। परिच्छेदकत्वविशिष्टा संख्या पृच्छयते--का संख्या परिच्छेदिकैषामिति, तत्र परिच्छेदस्यापि पृच्छयमानाकारान्तर्भावात्संक्यापरिच्छेदे वर्तमानादित्युक्तमित्यर्थः। अपर आह--ठ्ठ्संख्यायाःऽ इति कर्मणि षष्ठी, संख्यापरिच्छेदार्थप्रश्ने वर्तमानः संख्यापरिच्छेदे वर्तत इत्युच्यते। संख्यायां परिच्छेतुमिष्टायां यः प्रश्नस्तत्र वर्तमानादित्यर्थःऽ इति। कति। ठ्षहुष्विति वृतौ बहुवचनमेव भवति। उक्तं च--ठनिर्ज्ञातेर्ऽर्थे बहुवचनं प्रयोक्तव्यम्ऽ इति। कथं तर्हि कियान्, कियन्ताविति ? नात्र संख्याप्रश्ने किशब्दः, किं तर्हि ? परिमाणमात्रप्रश्ने। संख्याप्रश्ने तु तत्रापि बहुवचनमेव भवति--कियन्तो ब्राह्णा इति। यदीया च संख्या पृच्छयते तत्र प्रत्ययाः, तेन का संख्या हि तदा प्रत्ययेन भाव्यम्--कति गावोऽस्मिन्वर्ग इति। सङ्घसङ्घिनोरभेदविवक्षायां तु--कति गावोऽ??? वर्ग इति, न तु व्यवस्थितसंख्यासम्बन्धे वर्गे, वर्गसंख्याप्रश्ने तु कति वर्गा इति भवति। अथ वेत्यादि। अस्मिन्पक्षे संख्यापरिमाण इति कर्मधारयः, निपातनाच्च विशेषणस्य परनिपातः, करणसाधनश्च परिमाणशब्दः। एवमात्मिकेत्यस्य विवरणम्--परिच्छेदस्वभावेति। यत्रापरिच्छेदकत्वेन विवक्ष्यते इति। परिच्छेदकत्वेन न विवक्ष्यत इत्यर्थः। तथैव वा पाठः। क्व पुनरेवं न विवक्ष्यते ? इत्याह--क्षेपे हीति। केयमेषामिति। केयमीदृशानां दशत्वसंख्या येषांम् । अव्रतानाममन्त्राणां जातिमात्रोपजीविनाम्। सहस्रशः समेतानां परिषत्वं न विद्यते ॥ इति। एवं संख्येयद्वारेण संख्यायां क्षेपः। प्रकृतः परिमाणशब्दो रूढिशब्दत्वात् संख्याया परिसम्बन्द्धुअं नार्हतीति परिच्छैतिमात्रावचनः पुनरिहोपातः ॥ संख्याया अवयवे तयप् ॥ ५।२।४२ ॥ इहास्येत्यधिकारात्संख्याया अवयवे वर्तमानायाः स्वार्थे तावत्प्रत्ययो न भवति; अवयवस्वामिनि तु प्राप्नोति--पञ्च अवयवा अस्य देवदतस्येति। तत्राह--अवयवावयविनः सम्बन्धिन इति। अवयवशब्दस्य सम्बन्धिशब्दत्वाद्यं प्रत्यवयवत्वं तत्रैवावयविनि प्रत्यय इत्यर्थः। यथा द्वयसजादिषु प्रमाणे प्रकृत्यर्थे प्रमेयः प्रत्ययार्थः, तद्वत्। ????????? रेफस्य विसर्जनीये तस्य सत्वे ठ्ह्रस्वातादौ तद्वितेऽ इति षत्वम्, ठ्टिड्ढाणञ्ऽ इति ङीप् ॥ द्वित्रिभ्यां तयस्यायज्वा ॥ ५।२।४३ ॥ ननु तयः प्रकृतः सोऽनुवर्तिष्यते, ठ्द्वित्रिभ्याम्ऽ इति पञ्चमी, ठ्तस्मादित्युतरस्यऽ इति तस्य षष्ठ।ल्न्ततां सम्पादयिप्यति; तत्किं ठ्तयस्यऽ इत्यनेन ? तत्राह--तयब्ग्रहणमित्यादि। असत्यामपेक्षायामनुवृत्तिः षष्ठीप्रकृतिश्च दुर्जानेति बावः। अथ प्रत्ययान्तरे को दोषः ? त्रयी गतिरिति तयब्निबन्धन ईकारो न स्यात्, ठ्प्रथमचरमतयऽक इति चैष विधिर्न स्याद्--द्वये, द्वया इति। क्वचित् तत्र को दोष इत्यादि वृतावेव वृतावेव पठ।ल्ते। चकारः स्वरार्थ इति। तेन स्थानिवद्भावेनानुदातत्वं न भवति ॥ उभादुदातो नित्यम् ॥ ५।२।४४ ॥ उदातवचनसामर्थ्यादिति। अन्तोदातत्वस्य चित्स्वरेणैव सिद्धत्वात्। सर्वोदातत्वं तु न भवति, ठनुदातं पदमेकवर्जम्ऽ इति वचनात्। नापि हे उभयेत्यत्रामन्त्रितानुदातत्वम्, उभयेत्यत्र चामन्त्रिताद्यौदातत्वं बाधितुमुदातवचनम्; पुरस्तादपवादन्यायेन चित्स्वरस्यैव बाधनात्। उभशब्दो यदि लौकिकी संश्येति। उभावित्युक्ते द्वाविति प्रतीतेः। अथ न संक्येति। कृत्वसुजादिसंख्याकार्यादर्शनात्; एकः, उभौ, त्रय इत्येवं लोके गणनाऽदर्शनाच्च। तस्य नित्यमयजादेश इति। अथ प्रत्ययान्तरमेवायः कस्मान्नाश्रितः, तत्रायमप्यर्थः--उदात इति न वक्तव्यं भवति, प्रत्ययस्वरेणैव सिद्धम्; यच्च सर्वनामसंज्ञायामुक्तमुभयशब्दस्य जसि सर्वादिपाठान्नित्या संज्ञा भवति, न ठ्प्रथमचरमतयऽ इति विभाषा; व्यवस्थितविभाषाविज्ञाणत्पूर्वविप्रतिषेधाद्वेति, तदप्ययत्नसितद्धं भवति, कथम्, न ह्ययं तयप आदेशः ? सत्यम्; उभयीत्यत्र तु तयब्निबन्धन ईकारो न स्यात्। यदि तु ङीब्बिधौ मात्रजित्ययचश्चकारेण प्रत्याहारग्रहणम्, ततः प्रत्ययान्तरत्वेऽप्ययचः सिद्ध ईकारः। उदातग्रहणं नित्यग्रहणं च शक्यमकर्तुम्, ङीब्विधौ च तयपो ग्रहणम्। अथ वा--दघ्नञ्मात्रचोरपि तत्र ग्रहणं शक्यमकर्तुम्, द्वयसजित्येवायचश्चकारेण प्रत्याहारोऽस्तु; ततु तथा नाश्रितमित्येव। उभयो मणिरिति। उभौ पीतलोहिताववयवावस्येत्यवयवद्विनिबन्धनोऽवयविनो व्यपदेशः। उभये देवमनुष्या इति। वर्गद्वयापेक्षमतिरोहितभेदानां वर्गिणामिदमभिधानम् ॥ तदस्मिन्नधिकमिति दशान्ताड्डः ॥ ५।२।४५ ॥ अस्मिन्नधिकम्, यस्मादधिकमिति च निर्द्देशादधिकशब्दयोगे सप्तमीपञ्चम्यौ भवतः। अधिका खारी द्रोणेनेति कर्तरि तृतीयापि भवति। एकादश अधिका अस्मिन् शत इति। व्यपदेशिवद्बावोऽपि प्रातिपदिकेन प्रतिषिद्धः। प्रत्ययार्थेन चेत्यादि। प्रकृतिप्रत्ययार्थयोस्तुल्यजातीयत्वे प्रत्यय इत्यर्थः। न्यायसिद्धश्चायमर्थः। तथा हि--वाक्ये तावदेकादश अधिका अस्मिन् गोस्ते इति शतविशेषणत्वेनाप्युपाता गावः सन्निधानात्प्रकृत्यर्थमपि स्पृशान्ति। वृतावप्येकादशं गोशतमित्युक्ते प्रकृत्यर्थतया गावः सन्निहिता एव प्रतीयन्ते। यत्र तु विजातीयसंख्येयवाची शब्दः प्रयुज्यते, तत्र शब्दसन्निहितेन तेनान्यदर्थं सन्निहितं बाध्यते। न च वृतौ तादृशेन शब्देन प्रकृत्यर्थः शक्यो विशेषयितुम्; प्रत्ययार्थेनैकार्थीभूतत्वात्, यथा---वृद्धस्यौपगव इति ॥ शतसहस्रयोश्चेष्यत इति। इयमिष्टिरेव। इतिकरणो विवक्षार्थस्ततः, इदं सर्व लभ्यत इति। यद्यपि पूर्वार्थो न्याया देव लभ्यते, तथापि ठ्शतसहस्रयोश्चेष्यतेऽ इत्ययम्रथ इतिकरणादेव लभ्यते इति लाघवाय साधारणो हेतुरुपदिष्टः। कथमित्यादि। शते सहस्रे चाभिधेये प्रत्ययो भवन्नत्र न प्राप्नोति, अत्र हि संख्यान्तरमधिकं शतसहस्रं नाम, न शतं सहस्रं वेति भावः। अत्रापि शतसहस्रयोरेवान्यतरस्य प्रत्ययार्थत्वं न संख्यान्तरस्येत्याह--शतानामिति। सहस्राणां वा शतमिति। अत्रापि पक्षे ठ्संख्याया अल्पीयस्याःऽ इति द्वन्द्वे चाद्वन्द्वे च स्मरणाच्छतस्यैव पूर्वनिपातः। तत्र पूर्वस्मिन्विग्रहे शतानि संख्यायन्त इति तान्येव प्रकृत्यर्थः--एकादश शतान्यधिकान्यस्मिन्नेकादशं शतसहस्रमिति, उतरत्र तु सहस्राणां संख्येयत्वातान्येव प्रकृत्यर्थः--एकादशसहस्राण्यधिकान्यस्मिन्नेकादशं शतसहस्रमिति। प्रकरणादिवशाच्च शतानां वा संख्येयत्वावसायः । उक्तमेवार्थं श्लोकेन दर्शयति--अधिके समानजाताविति। प्रत्ययार्थसम्बन्धिन्या जात्या प्रकृत्यर्थस्य जातौ समानायां सत्यामधिकेऽर्थे वर्तमानात् प्रत्यय इत्यर्थः। यद्वा--ठ्समानजातौऽ इति बहुव्रीहिः। जात्यन्तलक्षमस्तु छाए न भवति; भाष्यप्रयोगात्। प्रत्ययार्थेन समानजातीयेऽर्थे वर्तमानादित्यथः। इष्टमिति। प्रत्ययाख्यं कार्यम्। एकादशं शतसहस्रमित्यत्र निर्वाहार्थमाह--यस्य संख्येति। ठ्शतानि सहस्राणि संख्यायन्तेऽ, इत्युक्तम्, ठधिके समानजातौऽ इति च, तेन यस्य संख्या यज्जातीयं संख्यायते। सामान्यपेक्षमेकवचनम्। तदाधिक्ये स कर्तव्यो मतो मम। एतच्चोदाहरण एव व्यक्तीकृतम्, नात्र किञ्चिदपूर्वमुक्तम् ॥ शदन्तविंशतेश्च ॥ अन्तग्रहणमनर्थकम्, केवलस्य शतः प्रातिपदिकस्याभावात्; प्रत्ययग्रहणपरिभाषया तदन्तविधिर्भविष्यति, पङ्क्तयादिसूत्रे त्रिंशदादीनां शत्प्रत्ययान्तत्वेन निपातितत्वातत्राह--शद्ग्रहणेऽन्तग्रहणमिति। प्रत्ययग्रहणपरिभाषया तदन्तविधौ सति तदादिनियमः स्यात्, अस्मिस्त्वन्तग्रहणे सति यावतः समुदायस्यान्ते शच्छब्दस्तावतो ग्रहणं भवति। संख्याग्रहणं चेति। ठ्संक्याया अवयवे तयप्ऽ इत्यतः संख्याग्रहणमनुवर्तनीयमित्यर्थः। तेन संख्यावाचिनः शदन्तात्प्रत्ययो भवतीत्यर्थः। एकत्रिशदादयश्च संख्यान्तरस्य वाचकाः, न तु समुदायस्य; तेन तेषामपि ग्रहणम्, गोत्रिशदादयश्च न संख्यावचना इति तेषामग्रहणम्। विंशतेश्चेति। विंशतिशब्दानन्तरमन्तशब्दः पठितव्य इत्यर्थः; अन्यथा ठ्ग्रहणवताऽ इति निषेधातदन्तान्न स्यात् ॥ संख्याया गुणस्य निमाने मयट् ॥ तदस्य सज्जातमित्यत इति। तत्र तावत् ठ्तदस्यऽ इति समुदायस्य स्वरितत्वं प्रतिज्ञातम्, अनुवृतं च बहुषु योगेषु। ठ्तदस्मिन्नधिकम्ऽ इत्यत्र तु पुनस्तच्छब्दोपादानान्त सम्बद्धयत इत्येतावत्। इह तु प्रतिबनधाभावात्स एव समुदायोऽनुवर्तत इत्यर्थः, तेन ठ्तदस्मिन्ऽ इत्यस्यैव तच्छब्दस्यानन्तर्यादनुवृत्तिर्युक्ता। ठस्मिन्ऽ इत्यनेन विच्छैन्नत्वादस्येत्यनुवृत्तिश्चायुक्तेति न चोदनीयम्। निमानं मूल्यमिति। ठ्मेङ् प्रणिदानेऽ इत्यस्मान्निपूर्वात्करणे ल्युट्, निमीयतेःक्रीयत इत्यर्थः। गुणस्येति। कर्मणि षष्ठी। सोऽपि सामर्थ्यादिति। गुणशब्दोऽपि सापेक्षं रूपमाचष्टे, तथा हि--द्विगुणम्, त्रिगुणमित्युक्ते किञ्चिदपेक्ष्येति गम्यते; तत्र निमेयस्य गुणत्वं सन्निहितं निमानमपेक्ष्येत्येतत्सामर्थ्यम्। यवानां द्वौ भागाविति। यद्यपि तुल्यमुभयत्रापि स्वत्यागः परकीयस्य ग्रहणम्, तथापि क्वचित्काचित्प्रसृततरा गतिः, तद्यथासमाने त्यागे धान्यं विक्रीणीत इत्युच्यते, न कश्चिदाह--कार्षापणी विक्रीणीत इति, तेन यवभागयोरेव निमानत्वम्, नोदश्विद्भागस्य। देशकालापेक्षो वा निमाननिमेयभावः। निमानस्य च निमेयापेक्षत्वान्निमेयं प्रत्यायार्थः, एकगुणस्यदश्वितो द्विगुणा यवा मूल्यमित्यर्थः। तद्यथा--प्रस्थस्योदश्वितो द्वौ प्रस्थौ यवाः, द्विमयमुदश्विद्यवानामिति। भागविशेषप्रतिपत्यथ प्रकृत्यर्थविशेषणस्य यवादेः प्रयोगः। द्विशब्दश्च वृत्तिविषये भागयोरेव संख्येययोर्वर्तत इति सम्बान्धिशब्दत्वेन नित्यसापेक्षत्वातद्धैतवृत्तिरविरुद्धा। कथं पुनः प्रत्ययान्तस्योदश्विच्छब्देन सामानाधिकरण्यम्, यावतोदश्विद्बागे प्रत्ययो विहितः, नोदश्विति ? तत्राह--भागेऽपि तु विधीयमान इति। अत्र चाभिधानस्वाभाव्यं हेतुः। अपर आह--यत्रोदश्वितो भागो द्विगुणैर्यवैः क्रीयते, तत्रार्थात्समुदायोऽपि द्विगुणैर्यवैः क्रीतो भवति बहुभिरेकेन वा, तदपेक्षं सामानाधिकारण्यमिति। गुणस्येति चैकत्वं विवक्षितमित्येतदर्थमेव हि ठ्गुणनिमानेऽ इति लघुरपि निर्देशो न कृतः। द्वौ भागौ यवानां त्रयं उदश्वित इति। न तावद् ठ्भूयसश्च वाचिकायाःऽ इत्युक्तमिति मत्वेदमुदाहृतम्, न त्वत्र द्विशब्दो भूयसो वाचकः। यद्वा उदाहरणदिगियं दर्शिता, त्रयो यवानां द्वावुदश्वित इति दर्शयितव्यम्, निमाननिमेयभावस्य विवर्ययो वा प्रष्टव्य। भूयसश्चेति। प्रत्ययार्थात्प्रकृत्यर्थस्य भूयसो या वाचिका संख्याततः प्रत्यय इत्यर्थः। इह न भवतीति। निमाननिमेययोः साम्यविषये न भवतीत्यर्थः; अन्यथा गुणस्येत्येकत्वविवक्षायामपि स्यादेव प्रसङ्गः। कुतस्तर्हि न भवति? अनभिधानात् । ठ्बहोर्लोपो भू च वहोःऽ इति भूयःशब्दस्य व्युत्पादितत्वात्प्रकृत्यर्थस्य बहुतरत्वे सति प्रत्ययेन भाव्यम्, ततश्च द्विशब्दान्न स्यादित्याशङ्कयाह--भूयस इति चेति। गुणशब्द इत्यादि। न ह्ययं भागमात्रवचनः, किं तर्हि ? समानतामपि तस्य भागस्य ब्रूते । निमेये चापि दृश्यते इति। कथं तल्लभ्यते ? तन्त्रावृतेकशेषाणामन्यतमाश्रयणेन। द्वे अत्र वाक्ते; तत्रैकं व्याख्यात्म्, द्वितीये निमानमिति, कृत्यल्युटो ठ्बहुलम्ऽ इति कर्मणि ल्युट्। गुणस्येति। करणस्य कर्तृत्वविवक्षायां कर्तरि षष्ठी, निमेयस्य निमानापेक्षत्वान्निमानं प्रत्ययार्थः, परिशिष्ट्ंअ सर्वं पूर्ववत्। संख्याया इति किम् ? यवभागौ निमानमुदश्विद्भागस्य द्विवचनान्ताद्यवभागशब्दात्प्रत्ययो न भवति। व्रीहियवाविति। अत्रोदश्वित एव निमानं द्वौ न तद्भागस्य, तेन द्विमयमुश्विद् व्रीहियवाविति न भवति। द्विगुणं तैलं पच्यते क्षीरेणिति। क्षीरसम्बन्विनौ द्वौ गुणावस्मिस्तैल ततेनैव सुभगं सह क्षीरेण पच्यत इत्युच्यत इति ॥ तस्य पूरणे डट् ॥ ५।२।४८ ॥ तस्येत्येकत्वमविवक्षितम्। एकश्य पूरणासम्भवात्, तेन द्व्यादिब्यो द्विवचनबहुवचनान्तेभ्यः प्रत्ययः। पूर्यतेऽनेनेति पूरणमिति। करणे ल्युट्। पूर्यते इति। ण्यन्तात्कर्मणि यक्, न प्रकृत्यन्तरात्, कर्तरि श्यत्। यदि संख्यावाचिनः शब्दात्पूरणे प्रत्ययो भवति, इहापि प्राप्नोति-पञ्चानामन्यतो लब्धपञ्चसंख्यानामुष्ट्रिकाणां पूरणो घट इति ? तत्राह--येनेति। संख्येत्यस्य विवरणम्--संख्यानमिति। इह संख्यावाचिनः प्रत्ययो विधीयते, तत्र प्रत्यासत्या यस्य संख्यावाचिनो यत्प्रवृत्तिनिमितं संख्यानं पञ्चत्वादि, तस्य पूरण इति विज्ञायते; न तु विप्रकृष्टे पञ्चादिशब्दवाच्यानन्तर्भूतम्, यथा ठतिशायने तमविष्ठनौऽ कुत्सित इत्यादाविति भावः। एकादशानां पूरण इति। तथा वैयाकरणपाश इत्यत्र प्रवृत्तिनिमितकुत्सायामपि याप्यो वैयाकरण इति विग्रहः, न तु याप्यं वैयाकरणत्वमितिः तथेहापि संख्यानपूरणे विवक्षिते संख्येयवाचिनापि विग्रहो न विरुध्यते। एकादश इति। पुनर्गणनायां क्रियमाणायां चरणबुद्धिस्थेन येनैकादशत्वसंख्या पूर्यते स इति वेदितव्यः। एवं च व्युत्क्रमेणाष्टाध्यायेषु गण्यमानेषु ठ्समर्थः पदविधिःऽ इत्यध्यायो यदा चरमं गण्यते तदा निर्माणाद्वितीयस्यापि गणनाक्रमेणाष्टमत्वव्यपदेश ए भवत्येव। ननु प्रकृत्यर्थव्यतिरिक्तेन प्रत्ययार्थेन भवितव्यम्, इह त्वेकादशस्वन्तर्भूत एकादशानीयन्तामित्युक्ते एकादशस्याप्यानयनात् ? सत्यम्, समुदायावचवयोस्तु भेदासमुदायः प्रकृत्यर्थोऽवयवः प्रत्ययार्थः, यथा-वृक्षस्यावयवो वार्क्षी शाखेति ॥ नान्तादसंख्यादेर्मट् ॥ ५।२।४९ ॥ डटो मडागमो भवतीति। कथं पुनरयमागमः शक्यो विज्ञातुम्, नात्रागमी निर्दिष्टः, यदपि प्रकृतं तदपि प्रथमान्तम्, षष्ठीनिर्दिष्टेन चेहार्थः ? अत आह--नान्तादिति। पञ्चमीग्रहणं तावदनुवर्तते, न च तस्य विधानार्थानुवृत्तिः, पूर्वमेव विहितत्वात्। न च विशेषविहितेन मटा बाधप्रसङ्गे विधानार्था डटोऽनुवृत्तिः, एवं हि प्रकृतस्य समुच्चयार्थश्चकारः क्रियेत, मट् चेति; यथान्यत्र। ततोऽनुवृत्तिसमामर्थ्यात्षठीप्रक्लृप्तावागमित्वमेव विज्ञायते। कः पुनर्मटः प्रत्ययत्वे आगमत्वे वा विशेषः, यावता तदेव रूपं स एव स्वरः? सत्यम्; डटि मटि च नास्ति विशेषः, ठ्विंशत्यादिभ्यस्तमडन्यतरस्याम्ऽ इत्ययं तु तमड।ल्दि प्रत्ययः स्यादाद्यौदातः स्याद्, आगमत्वेनागमानुदातत्वं भवति, न तु प्रत्ययस्वर इति विंशतितम इत्यस्यान्तोदातत्वं भवति। एकादश इति। नायं संख्यासमुदायः, किं तर्हि ? संख्यान्तरमेव। अत एवात्र डड्भवति; अन्यथा सोऽपि न स्यात्। न हि संख्यासमुदायः संख्याग्रहणेन गृह्यते, यथा जनपदसमुदायो जनपदग्रहणेन-काशिकोशलीयाः। अथाप्ययं संख्यासमुदायः; तथापि संख्याग्रहणेन तत्समुदायो गृह्यत इति ज्ञापनार्थमेव ठसंख्यादेःऽ इति वक्तव्यम्; तेन सर्वमेव संक्याकार्यमेकादशादीनामपि भवति ॥ षट्कतिकतिपयचतुरां थुक् ॥ ५।२।५१ ॥ तदिह सप्तम्या विपरिणम्यत इति। यदि पूर्ववत् षष्ठ।ल विपरिणाम इष्टः स्यात्, पञ्चम्या निर्द्दिशेत्; षष्ठ।ल निर्देशातु षषादीनामेवागमित्वं विज्ञायते। ततश्चानुवृतस्य डटोऽर्थात्सप्तम्या विपरिणाम इत्यर्थः। एवं च कृत्वा षष्ठाष्टमाभ्यां द्वितीयतृतीयतुर्थेति निर्द्देश उपपद्यते। कतिपयशब्दो न संख्येति। यद्यप्यसावतिप्रचयरहितं बहुत्वमाचष्टे, तथापि लोके संख्यात्वेन न प्रसिद्धिः, यथा--द्वित्राः पञ्चषा इति। साश्त्रेऽपि नैवास्य संख्यासंज्ञा विहिता, कथं तर्हि डट्प्रत्ययः ? इत्याह--तस्येति। किं पुनस्थुग्विधीयते, न पञ्चमीनिर्द्देशेन प्रकृतस्थडेव विधीयेत ? नैवं शक्यम्; इह षष्ठ इति जश्तवं प्राप्नोति, चतुर्थ इति रेफस्य विसर्जनीयस्तस्य च सत्वं प्राप्नोति; थटः परादित्वेन पूर्वस्य पदत्वात्। यदि पुनः पूर्वसूत्रे थुगेव विधीयेत ? नैवं शक्यम्; पञ्चथः, सप्तथः--नलोपो न स्यात्। इह लिङ्गविशिष्टपरिभाषाया कतिपशब्दादाबन्तादपि थुग्भवति, तत्र ठ्भस्याढेअ तद्धितेऽ इति डटि विषयभूत एव पुंवद्भावः, कतिपयानां पूरणी कतिपयथीति भवति। चतुरश्च्छयताविति। च्छयद्भयां डट् न बाध्यते; इटि परतस्थुग्विधानात्। आद्यक्षरलोपश्चेति। अच्सहितं व्यञ्जनमक्षरशब्देनोच्यते, अच्सहितस्यादेर्व्यञ्जनस्येत्यर्थः। व्यञ्जनसहिताज्वचने त्वक्षरशब्दे द्विर्वचनन्यायेन तकारस्यापि लोपः स्यात् ॥ बहुपूगगपसङ्घस्य तिथुक् ॥ ५।२।५२ ॥ अत्रापि षष्ठीनिर्द्देसाद् बह्वादीनामेवागमित्वम्। पूगसङ्घयोरित्यादिरेक एव ग्रन्थ। इह बह्वीनां पूरणीति पूर्ववड्डट् प्रत्ययः पुवद्भावश्च ॥ वतोरिथुक् ॥ ५।२।५३ ॥ अत्रापि पूर्ववद्वत्वन्तस्यैवागमित्वम्। इह तावतीनां पूरणी तावतिथीति लिङ्गविशिष्टपरिभाषया प्रत्ययः, पुंवद्भावश्च। कथं पुनरत्र लिङ्गविशिष्टपरिभाषा, यावता प्रातिपदिकस्वरूपग्रहणे सा भवतीत्युक्तम् ? यत्रापि प्रातिपदिकविशेषणं स्वरूपेणोपादीयते, तत्रापि सा भवति, यथा--ठ्तृजकाभ्यां कर्तरिऽ--अपां स्रष्ट्रीति। इहापि वतोरिति विशेषणं स्वरुपेणोपादीयते, तेन भवत्येव लिङ्गविशिष्टस्य ग्रहणम्। उक्तं च--बहुकतिपयवस्तूनां लिङ्गविशिष्टादुत्पत्तिः; प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणादिति ॥ द्वेस्तीयः ॥ ५।२।५४ ॥ तीयप्रत्ययो भवतीति। डटो द्विशब्दस्य चादेशो न भवति; द्वितीयेति निर्द्देशात्। यद्येवम्, तस्मादेव निर्द्देशान्न सिद्धमस्य साधुत्वम् ? सिद्ध्यतु साधुत्वम्, पूरणाअर्थस्तु कर्थ लभ्यते! किञ्च तदाश्रयणे प्रकृतिप्रत्ययविभागाभावात्प्रातिपदिकस्वरेणान्तोदातत्वं स्यात्, ठबाधकान्यपि निपातनानि भवन्तिऽ इति पक्षे डटः प्रसङ्गश्च ॥ त्रेः संप्रसारणं च ॥ ५।२।५५ ॥ अण इति तत्रानुवर्तत इति। ठ्ढ्रलोपे पूर्वस्य दीर्घोऽणःऽ इत्यतः। एवमपि यदि परेण णकारेण प्रत्याहारः स्यात्पुनरपि स्यादेव दीर्गः, स तु न तथा? इत्याह--पूर्वेणोति। एतच्च ठ्लण्ऽ इत्यत्रैव प्रतिपादितम्। ठ्त्रेस्तृ चऽ इति नोक्तम्, प्रत्ययो मा विज्ञायीति ॥ विंशत्यादिभ्यस्तमडन्यतरस्याम् ॥ विंशत्यादिभ्यः परस्येति। कथं पुनः ठ्द्वेस्तीयःऽ इति तीयप्रत्ययेन सत्यं डट्प्रत्ययो विच्छिन्नः; पूरणार्थस्तु न विच्छिन्नः, सोऽनुवर्तेते, तेन पूरणे यो विहितः स आगमी विज्ञायते। न च डटोऽन्यो विंशत्यादिभ्यः पूरणे विहितोऽस्ति। कः पुनः पङ्क्त्यादिसूत्रनिर्द्दिष्टानां ग्रहणे सति दोषः ? तत्राह--तद्ग्रहणे हीति। स्यादेतत्--तदन्तविधिना एकविंशतिप्रभृतिभ्योऽपि भविष्यतीति ? तत्राह--ग्रहणवतेति। ननु यदयं ठ्षष्ट।लदेश्चासंख्यादेःऽ इत्याह, तज्ज्ञापयति--भवति पूरणप्रकरणे तदन्तविधिरिति। तेनैकविंशतिप्रभृतिभ्योऽपि भविष्यति। अत्स्तवेतत्, केवलेभ्यस्तु न स्यात्, अतदन्तत्वात्। व्यपदेशिवद्भावेन भविष्यति, ठ्व्यपदेशिवद्भावोऽप्रातिपदिकेनऽ। एवं चेत्यादि। लौकिकानां विंशत्यादीनां यदीदं ग्रहणम्, तदा ठ्षष्ट।लदेश्चऽ इत्यत्रापि लौकिकानामेव षष्ट।लदीनां ग्रहणम्, ततश्चैकषष्टिप्रभृतिभ्यो नित्यस्य तमटः प्रसङ्गे ठसंख्यादेःऽ इति पर्युदासो युज्यत एव, न कथञ्चिन्न युज्यते; अनिष्टलेशस्याभावात्। सूत्रसन्निविष्टानां तु ग्रहणे तदन्तविधैज्ञापनार्थं पर्युदासो युज्यते। केवलं न तु युज्यत एव, केवलानामप्रसङ्गादिति तावद्वृतेरर्थः। यथा तु भाष्यं तथा सूत्रसंनिविष्टानां ग्रहणम्, ज्ञापनाच्च तदन्तविधिरिति स्थितम्। न च केवलानामप्रसङ्गस्तदन्तानामपि भवतीति ज्ञापनशरीरम्, न तु तदन्तानामेव भवतीति। यदि वा यत्र प्रातिपदिकस्य श्रुतिरस्ति--ठ्ग्रहणवता प्रातिपदिकेनऽ, व्यपदेशिवद्भावोऽप्रातिपदिकेनऽ इति, तदुभयमपि न प्रवर्तते इति सामान्येन ज्ञापनम्। एवं च कृत्वेदमपि सिद्धं भवतिएकान्नविंशतेः पूरणः एकान्नविंशतितम इति। भवति ह्यएतत्सूत्रसन्निविष्टविंशत्यन्तं संख्यादि संख्यावाचि च। लौकिकानां तु ग्रहणे नैतत्सिध्यति; विंशतेः प्राग्भावित्वादस्यास्संख्यायाः ॥ नित्यं शतादिमासार्धमाससंवत्सराच्च ॥ ५।२।५७ ॥ मासादय इत्यादिर्विज्ञायत इत्यन्त एको ग्रन्धः। अथ शतादिग्रहणं किमर्थम्, यावता ठ्षष्ट।लदेश्चऽ इति वक्ष्यमाणेनैवसिद्धम् ? तत्राह--षष्ट।लदेरित्यनेनैवेति। यदि तेन स्याद्, एकशतादिभ्यो न स्याद्; असंख्यादेरिति प्रतिषेधात् ॥ षष्ट।लदेश्चासंख्यादेः ॥ ५।२।५८ ॥ संक्यादेस्तु विक्लप एवभवतीति। न ह्ययं विकल्पस्यापि प्रतिषेधः। पर्युदासो ह्ययं संख्यादेः, न विधिर्न प्रतिषेधः, यदि केनचित् प्राप्नोति भवत्येव पूर्वेण च प्राप्नोति, प्रसज्यप्रतिषेधेऽप्यनन्तरा प्राप्तिः प्रतिषिध्यते, न व्यवहिता ॥ मतौ च्छः सूक्तसाम्नोः ॥ ५।२।५९ ॥ मताविति मत्वर्थ उच्यत इति। साहचर्याद् मुख्यस्य ग्रहणं न भवति। कथं हि मतुरभिधेयः स्याच्छब्दस्य शब्दः ? मत्वर्थग्रहणेनेत्यादि। समर्थविभक्तिः प्रथमा, प्रकृतेरर्थद्वारकं विशेषणम् अस्तित्वम्, प्रत्ययार्थः--अस्यास्मिन्निति च। तत्र यद्यपि प्रत्ययार्थो मतोरभिदेयम्, इतरदनभिधेयम्; तथापि साहचर्यमविशिष्टमिति सर्वमेतदाक्षिप्यतेउसन्निधाप्यते, उपस्थाप्यत इत्यर्थः। अथ वा--प्रधानवशब्तित्वाद् गुणानां प्रधाने प्रत्ययार्थे उपस्थापिते समर्थविभक्त्यादिकमपि गुणभूतमुपस्थाप्यते एव, आचमनादिवत्, यथा--व्रहाह्णा भोज्यन्तामित्युक्तेऽनुक्ता अप्याचमनादयोऽह्गभूता आक्षिप्यन्ते। इहास्यवाम इत्यस्मिन्नस्तीति षष्ठीप्रथमयोरुपलम्भादनेकपदसमुदायोऽयम्, ततश्चार्तवत्समुदायानां समासग्रहणं नियमार्थमिति प्रातिपदिकसंज्ञाया अभाबादेवंविधेभ्यः प्रत्ययो न प्राप्नोतीत्यत आह--अनुकरणशब्दाश्चेति। स्वरूपमात्रप्रधान इति। नात्र तदानीमुच्चरितमनुकरणस्वरूपं विवक्षैतम्, किं तर्हि ? अनुकार्यस्वरूपम्। मात्रशब्दो बाह्यर्थव्यवच्छेदार्थः, एतदुक्तं भवति--यथा गवादयः शब्दाः सास्नादिमदाकृतिमर्थं प्रत्यायन्तस्तेनार्थेन तद्वति मतुपमुत्पादयन्ति--गोमान्, वृक्षवानिति; तथानुकरणशब्दाः प्रथमासमर्थाः स्वेनानुकार्येण तद्वति च्छप्रत्ययमिति। तत्र ठनुकरणशब्दाःऽ इत्यनेन पदसमुदायत्वं निरस्यति। अनुकार्थो हि पदसमुदायः न त्वनुकरणम्। किं पुनरन्यदनुकार्यमनुकरणं च, ननु रूपभेदो नोपलभ्यते ? यद्यप्येवम्, तथाप्यर्थभेदाद् भेदः, अनुकार्यस्य बाह्यएऽर्थः, अनुकरणस्य तु तदेवानुकार्यम्। अत एवास्यावामीयमित्यादौ विबक्त्यर्थाप्रतिपादनात्सुप्त्वाभावात्स्यशब्दादीनां लुग्न भवति। ये चाम्नायशब्दानां नियमाः- ठ्श्मशाने नाध्येयम्ऽ, ठ्चतुर्द्दश्यां नाध्येयम्ऽ, ठ्शूद्स्य वेदमुपश्रृण्वस्त्रपुजतुभ्यां श्रोत्रपूरणम्ऽ इत्येवमादयः, तेऽप्यनुकरणेषउ न भवन्ति। अस्यवामीयमिति हि सर्वत्र सर्वदा सर्वेपां च सकाशे प्रयुज्यते। तस्मादन्येऽनुकरणशब्दाः। अनुकार्यशब्दाश्च स्वरूपमात्रप्रदान इत्यनेन त्वर्थवत्वमाह। अनेकपदादपीति। अनेकं पदं यत्र समुदाये तस्मादपीत्यर्थः। परप्रसिद्ध्या चैवमुच्यते, यम्भवाननेकपदसमुदायं मन्यते तस्मादपीत्यर्थः। न त्वत्र वस्तुतोऽनेकपदत्वमस्ति---अस्यवामीयमिति, अस्यवामस्येति वेदे यत्पदद्वयं पठितं तदैकदेशस्यास्यवामशब्दस्य च्छप्रत्ययप्रकृतिरस्यवामशब्दः। प्रतिपादक इत्यर्थवत्वम्, पदसमुदायत्वाभावाच्च प्रातिपदिकत्वे सति प्रत्ययः। किं पुनरत्र च्छप्रत्ययप्रकृततेरनुकरणत्वे प्रमाणम् ? च्छप्रत्यय एव। न ह्यसावनुकरणत्वमन्तरेण सम्बवति। तस्मादितिशब्दवच्छप्रत्ययोऽप्युनुकरणत्वे प्रमाणम् ॥ अध्यायानुवाकयोर्लुक् ॥ ५।२।६० ॥ केन पुनरिति। सूक्तसाम्नोरेव छाए विहित इति प्रश्नः। इदमेविति। न ह्यसती लुग्विधानमुपपद्यते। विकल्पेन चेति। तत्कथं मतुप्प्रकरणे एवास्मिन्सूत्रे कर्तव्ये तदत्र च्छस्य लुग्विधानम् ? तस्मात्पाक्षिको लुगनुमीयते। अत्र केचिदाहुः--अनुवाकसाहचर्याद्वैदिकोऽध्यायो गृह्यत इति। अन्ये पुनः---पौरुषेयग्रन्थविशेषस्याप्यध्यायस्य ग्रहणमिच्छन्ति।च तथा च ठ्दीर्घजीवितीयमध्यायं व्याख्यास्यामःऽ इत्यदिवैद्यकग्रन्थेषु दृश्यते ॥ तत्र कुशलः पथः ॥ ५।२।६३ ॥ पथि कुशल इति। ठायुक्तकुशलाभ्यां चासेवायाम्ऽ इति सप्तमी, कौशलस्य क्रियाविषयत्वात्पथिन्शब्देन गमनादिका तद्विषया क्रिया लक्ष्यते। योगश्चायम् ठ्कृतलब्धक्रीतकुशलाःऽ इत्यणोऽपवादः ॥ आकषादिभ्यः कन् ॥ ५।२।६४ ॥ कन् ॥ आकषत्यस्मिन्सुवर्णादिकमित्याकषः, ठ्पुंसि संज्ञायाम्ऽ इति घः। ठ्हलश्चऽ इति घञ् तु न भवति; प्रायग्रहणानुवृतेः, यथा निकष इति। ये तु आकर्षादभ्य इति सरेफं पठन्ति, तेषामाकृष्यतेऽस्मिन्निति घञि रूपम्। त्सरुक इति। ठ्त्सकर च्छद्मगतौऽ, ठ्भृमृश्रृऽ इत्यादिनौणादिक उप्रत्ययः। त्सरुःउखड्गग्रहणप्रदेशः। एतदर्खं प्रत्ययान्तरकरणमिवर्णान्तार्थं च। अकारान्तेष्वाकर्षादिषु प्रकृतेन वुनापि सिद्धम् ॥ धनहिरण्यात् कामे ॥ ५।२।६५ ॥ काम इच्छेति। कामयिता तु न गृह्यते; अनभिधानात् ॥ स्वाङ्गेभ्यः प्रसिते ॥ ५।२।६६ ॥ प्रसितः प्रसक्त इति। ठ्षिञ् बन्धेनेऽ कर्मणि क्तः, यो यत्र प्रसक्तः स तत्र प्रकर्षेण बद्ध इव भवतीत्युपमानादिदमभिधानम्। केशेषु प्रसित इति। ठ्प्रसितोत्सुकाभ्यां तृतीय चऽ इति सप्तमी। केशादिरचनायामिति। केशादिस्थायां रचनायां केशादिशब्दस्य वृत्ति दर्शयति। एतश्च क्रियाविषयत्वात् प्रसक्लेलेभ्यते। बहुवचनमित्यादि। स्वरूपविधिनिरासार्थं तु बहुवचनं न भवति, ठद्रवम्ऽ इत्यादिना स्वाङ्गस्य परिभाषितत्वेन स्वरूपग्रहणासम्भवत् ॥ उदराट्ठगाद्यने ॥ ५।२।६७ ॥ आद्यौनो विजिगीषुरिति। ठ्विवोऽविजिकगीषायाम्ऽ इति तत्र निष्ठानत्वविधानात्। उदरक इति। उदरपरिमार्जनादौ प्रसित उच्यते ॥ सस्येन परिजातः ॥ ५।२।६८ ॥ सस्यशब्दौ गुणवाचीति। न दान्यवाची; अनभिधानात्। केचितु ठ्शंसिदुहिगुहिभ्यो वाऽ इति क्यवन्तं शस्यशब्दं पठन्ति। सस्येनेति कर्तरि कृतीया। परिगतो जातः परिजातः, ठ्प्रादयो गताद्यर्थे प्रथमयाऽ इति समासः। समन्तात्सन्बद्धः परिगतः, तत्र सस्यस्य कर्तृत्वम्, तदाहृ--यो गुणैः सम्बद्धो जात इति ॥ अंशं हीरी ॥ ५।२।६९ ॥ तत्र षष्ठीप्रतिषेधादिति। ठकेनोर्भविष्यदाधमर्ण्ययोःऽ इत्यनेन। ननु तत्र भविष्यदधिकारविहितस्याकस्य ग्रहणम् ? सत्यम्; इनस्त्वविशेषण ग्रहणम्, अस्मादेव द्वितीयानिर्द्देशात् ॥ तन्त्रादचिरापहृते ॥ ५।२।७० ॥ तन्यन्ते तन्तवोऽस्मिन्नति तन्त्रमुतन्तुवायशलाका, तन्त्रातेर्वा एरचि णिलोपः। अचिरापहृत इति। अचिरः कालोऽपहृतस्येति ठ्कालाः परिमाणिनाऽ इति समासः। पञ्चमीसमर्थादिति। अपहृतयोगे ठपादाने, पञ्चमीऽ ॥ ब्राह्मणकोष्णिके संज्ञायाम् ॥ ५।२।७१ ॥ कन्प्रत्ययान्तौ निपात्येते इति। किं पुनरत्र निपात्यते, ब्राह्णणशबप्दादायुधजीव्युपाधिकात्प्रथमान्तात्सप्तम्यर्थे कन्प्रत्ययः, अन्नशब्दादल्पत्वोपाधिकात्सप्तम्यर्थ एव कन्प्रत्ययः, अन्नशब्दस्योष्णस्योष्णयादेशः ? तदाहयत्रायुधजीविन इत्यादि ॥ शीतोष्णाभ्यां कारिणि ॥ ५।२।७२ ॥ शितं करोति स शीतकः, यश्चोष्णं करोति स उष्णकः। किं चातः? तुषारे आदित्ये च प्राप्नेति, शीतोणशब्दयोहि स्पर्शविसेषो मुख्योऽर्थेः, तं च ताववश्यं कुरुत एवेति मुख्यार्थग्रहे दोषं दृष्ट्वा गौणार्थयोर्ग्रहणमिति दर्शयन्नाह--क्रियाविशेषणादिति। तत्र शीतोष्णशब्दयोरुपमानाद् वृत्तिः---शीतमिव शीतम्, मन्दकरणमित्यर्थः। शीतं हि मन्दतायुक्तम्; सति शीते कार्यकरणे पाटवाभावात्। एवमुष्णमिवोष्णमुपटुअकरम्, शीघ्रकरणमित्यरथः। एवं क्रियाविशेषणाभ्यां प्रत्ययः। द्वितीयासमर्थादिति। ठ्कृद्योगलक्षणा तु षष्ठी क्रियाविशेषणान्त भवतिऽ इति प्रागेवोक्तम्। मुख्यार्थवृत्तिभ्यां तु प्रत्ययो न भवति; अनभिधनात् ॥ अधिकम् ॥ ५।२।७३ ॥ अध्यारुढशब्दस्येति। यदि पुनरधिशब्दात्ससाधनक्रियावचनात् कन्निपात्यते, तदा कर्तृकर्मणोरन्यतरस्यैवाभिधानं प्राप्नोति। अध्यारूढशब्दस्तूभयार्थ इति तस्यैवेदमङ्गीकृतसाधनभेदं निपातनमुचितमिति भावः। अधिको द्रोणः खार्याम्, अधिकाक खारी द्रोणेनेति। यथैतत्प्रयोगद्वयमुपपद्यते तथा दर्शयतिकर्तरि कर्मणि चाध्यारूढशब्द इति। ठ्गत्यर्थाकर्मकऽ इत्यादिना रुहेः कर्तरि कर्मणि च क्तो विहितः। निपातनसामर्थ्याच्च सकृदुपातोऽप्यङ्गीकृतसाधनभेदः संगृह्यते। तत्र यदा कर्तरि तदा तत्राबिहितत्वात्प्रथमैव भवति, न तृतीया; यदा तु कर्मणि तदा कर्तुरनभिहितत्वातृतीया, कर्मणस्त्वभिहितत्वात्प्रथमा। यदा च कर्तरि तस्तदा कर्मणोऽनभिदानादध्यारूढयोगे यथा द्वितीया भवति--अध्यारूढो द्रोणः खारीमिति, ग्रामं गत इतिवत्, तथाधिकशब्देनापि योगे द्वितीयायां प्राप्तायाम् ठ्यस्मादधिकम्ऽ ठ्तदस्मिन्नधिकम्ऽ इति च निर्द्देसात् पञ्चमीसप्तम्यौ भवतः ॥ अनुकाभिकाभीकः कमिता ॥ ५।२।७४ ॥ सूत्रे समाहारद्वन्द्वे लिङ्गव्यत्ययः, अनुशब्दादभिशब्दाच्च ससाधनक्रियावचनात्स्वार्थे कन्निपात्यत इत्याह--अनुकामयतेऽनुक इति। ठभिकामयतेऽ इत्येतद् गम्यमानत्वान्नोक्तम् ॥ पार्श्वेनान्विच्छति ॥ ५।२।७५ ॥ अनुजुरुपायः पार्श्वमिति। तिर्यगवस्तानात्पार्श्वं तावदनृजु, तद्वदन्योऽप्यनृजुरुपाय एवभुच्यत इत्यर्थः। य ऋजुनोपायेनान्वेष्टव्यानर्थाननृजुनाऽन्विच्छति स पार्श्वकः। कुत्सितो मार्गौकुसृतिः, जालमुआनायः, ताभ्यां चरतीति कौसृतिकौ जालिकः ॥ अथःशूलदण्डाजिनाभ्यांक ठक्ठत्रौ ॥ ५।२।७६ ॥ तृतीयासमर्थाभ्यामिति। निर्द्देशादेव तृतीया हीयम्, न पञ्चमी; पूर्वेण साहचर्यात्। तीक्ष्ण उपायोऽयःशूलमिति। यथायःशुलं तीक्षणं तथान्योऽपि तीक्षणं उपायोऽयःशूलमित्युपचारादुच्यत इत्यर्थः। दम्भोदण्डाजिनमिति। दम्भसाधनत्वात्। दम्भवन्तो हि प्रायेण दण्कडमजिनं च धारयन्ति। तेनेति। दम्भेन तु धारयतु मा वाऽदीधरदित्यर्थः, सर्वत्र मुख्यार्थाग्रहणेऽनभिधानमेव हेतुः ॥ तावतिर्थं ग्रहणमिति लुग्वा ॥ ५।२।७७ ॥ यथा ठ्तस्यापत्यम्ऽ इत्यत्र तस्येति षष्ठ।ल्न्तानां सामान्यनिर्देशः, तथा तावतिथमिति पूरणप्रत्ययान्तानां सामान्यनिर्द्देशः। पूरणप्रत्ययस्य चेति। न तु कनः लुक्; वाग्रहणानर्थक्यप्रसङ्गात्, महाविभाषाधिकाराद्विकल्पेन कन उत्पतेः पञ्चमं ग्रहणम्, पञ्चमकं ग्रहणमिति रूपद्वयस्य सिद्धत्वात्। तथा च वार्तितकम्--ठ्तावतिथं ग्रहणमिति लुग्वचनानर्थक्यं विभाषाप्रकरणात्ऽ इति। अतो लुग्वाग्रहणं कुर्वतः सूत्रकारस्य पूरणप्रत्यस्य वा लुग्विधीयत इति पक्षो लक्ष्यते द्वितीयेन रूपेण ग्रन्थं गृह्णातीति। अत्र ग्रहणे द्वितीयस्य करणत्वं प्रदर्शयितुमिदं वाक्यम्। वस्तुतस्तु द्वितीयं ग्रहणं देवदतस्येति विग्रहीतव्यम्। द्विकं ग्रहणमिति। ग्रहीतर्यपि प्रत्ययो वक्ष्यते, तेन प्रकृत्युपाधिभूतस्य ग्रहणस्य नियमेनाप्रतीतेर्ग्रहणशब्दप्रयोगः। द्विकं रूपं देवदतस्येत्येव तु नोदाहृतम्, स्वच्छन्दतो हि वचसां प्रवृत्तिः। चतुष्क इति। सन्नियोगशिष्टपरिभाषया डटि निवृते थुकोऽपि निवृत्तिः, रेफस्य विसर्जनीयः, ठिदुदुपधस्यऽ इति षत्वम्। तावतिथेनेति। स्वार्थे प्रत्ययो विधीयमानो ग्रहीतरि न प्राप्नोतीति वचनम्। नित्यं च लुकं वक्ष्यामीति। षट्क इति। रूपशब्दस्य वाक्ये प्रयुक्तस्यापि वृतौ गम्यमानत्वादप्रयोगः, पदत्वाज्जश्त्वचर्त्वे। इह यः षष्ठेन रूपेण गृह्णाति षङ्भिरसौ रूपैर्गृह्णाति, ततःकिं सङ्खयायाः, तेन गृह्णातीत्येव वक्तव्यम्, एवं हि लुग्वेति न वक्तव्यं भवति ? नैवं शक्यम्; एवं ह्युच्यमाने इहापि प्राप्नेति--एकेन रूपेण गृह्णातीति। पूरणप्रत्ययस्त्वेकशब्दान्नास्ति, तेन ग्रन्थविषयमेव ग्रहणं विज्ञायत इति। तेनेह न भवति--द्वितीयो हस्तो ग्रहणो दण्डस्योति ॥ स एषां ग्रामणीः ॥ ५।२।७८ ॥ इह त्वत्को मत्को वा विजय इत्यादावनेन कन्। त्वं ग्रामणीरस्य त्वत्कः, अहं ग्रामणीरस्य मत्कः। प्रायेण त्विदमर्थमात्रे प्रयुज्यते ॥ शृङ्कलमस्य बन्धनं करभे ॥ ५।२।७९ ॥ ननु न शृङ्खलमात्रेण करभो बद्धयते, किं तहि ? रज्ज्वा, कीलेन च, तस्माच्छ्ःअङ्कलमस्य बन्धनमिति न युक्तं वक्तुम्, एवं तु वक्तव्यम्---ठ्शृङ्खलवदस्य सम्बनधनं करभे कुक्च मतोः इति ? तत्राह--यद्यपीति। अस्तु रज्ज्वादेरपि करणत्वम्, शृङ्खलस्यापि करणत्वमस्त्वेव; तदन्तरेण बन्धनस्यानिर्वृतेरित्यर्थः ॥ उत्क उन्मनाः ॥ ५।२।८० ॥ उच्छब्दात्ससाधनक्रियावचनादिति। साधनमुमनः, क्रियाउगमनम्, उद्रते मनसि वर्तमानादित्यर्थः। यद्वतीति। उद्गतं मनो यस्य तस्मिन्नित्यर्थः। उत्सुकःऊत्कण्ठितः ॥ कालप्रयोजनाद्रोगे ॥ ५।२।८१ ॥ अर्थलभ्येति। अर्थौसामर्ध्यम्, तेन लभ्या। तत्र काले सप्तमी समर्थविभक्तिः, भवो हि तत्र प्रत्ययार्थः। प्रयोजने तृतीया, जनितो हि तत्र प्रत्ययार्थः। फले तु प्रयोजने प्रथमा। प्रयोजनं कारणं रोगस्य फलं चेति। उभयमपि प्रयोजयतीति प्रयोजनमुच्यते। यदि तर्हि कारणमपि प्रयोजनमुच्यते, कालग्रहणमनर्थकम्, कथम् ? योऽसौ द्वितीयेऽह्नि भवो ज्वरस्तस्य द्वितीयमप्यहः कारणम्; अहरन्तरे तदनुत्पतेः? सत्यम्; सदपि कारणत्वं यदा न विवक्ष्यते ठ्तत्र भवःऽ इत्येव तु विवक्ष्यते, तदापि यथा स्यादिव्येवमर्थं कालग्रहणम्। द्वितीयेऽह्नि भव इति। सामान्यशब्दस्यापि द्वितीयशब्दस्यार्थप्रकरणादिना वृत्तिविषये कालेऽपि वृतेः कालशब्दत्वम्। किं पुनः कारणं साक्षात्कालवाचिभ्यो मासादिभ्यः प्रत्ययो न भवति द्वितीयादिभ्यश्च भवति, तत्रापि सप्तमीसमर्थेभ्यो भवार्थ एव भवति कारणवाचिनस्तृतीयासमर्थात्, फलवाचिनस्तु प्रथमासमर्थात्, न ह्यएतत्सर्व सूत्राक्षरैरुपातम् ? तत्राह--उतरसूत्रासंज्ञाग्रहणमिहानुकृष्यत इति। सिंहावलोकितन्यायेन, यथा सिंहा धावन्तः पृष्ठतोऽवलोकयन्ते। अपर आहौतरसूत्रे योगविभागः, ठ्तदस्मिन्नन्नं प्रायेऽ, ततः ठ्संज्ञायाम्ऽ, यदेतदनुक्रान्तं तत्संज्ञायां द्रष्टव्यमित्यर्थः। संज्ञाग्रहणमुभयोः शेषः, एतदेव चानुकर्षणं विवक्षितम् । तदस्मिन्नन्नं प्राये संज्ञायाम् ॥ ५।२।८२ ॥ अन्नमुअब्यवहार्यम्, अद्यते स्मेति कृत्वा। गुकडामिश्रा अपूपा गुडापूपाःउकृसरस्तिलौदनः, तिलक्षोद इत्यन्ये। त्रैबिलोऽपूपस्त्रिपुटः। वटकेभ्य इनि रिति। कनि प्राप्ते वचनम्। ननु संज्ञाग्रहणात्कन्न भविष्यति, तस्मिंश्चासति मत्वर्थीय इनिर्भविष्यति ? न सिद्धयति; ठ्सप्तम्यां च न तं स्मृतौऽ इति वचनात् ॥ कुल्माषादञ् ॥ ५।२।८३ ॥ कुल्माषाःउमुद्गाः ॥ श्रोत्रियÄश्च्छन्दोधीते ॥ ५।२।८४ ॥ वाक्यार्थ इति। वाक्यार्थग्रहणेन तदाश्रयश्च्छन्दोऽद्यायी पुरुष उपचारादुच्यते, कुतः ? मुख्यो हि वाक्यार्थः क्रियारूपः, सम्बन्धरूपो वा, स चासत्वभूतः। श्रोत्रियशब्दस्तु सत्वभूतार्थाभिधायी, तस्मिन्वाक्यार्थेऽविद्यमानप्रकृतिप्रत्ययविभागः श्रोत्रियशब्दो निपात्यत इत्यर्थः। अथ कथमस्मिनपक्षे स्वरसिद्धिः, यावता नकार इद्यस्य तत्र परतः स्वरो विधीयते, न चात्रैवं व्यपवर्गोऽस्ति ? मा भूद्वयपवर्गे, नित्करणसामर्थ्यातदभावेऽपि भविष्यति। यद्वा, नितीति कर्मधारयोऽयम्--नश्चासाविच्च नित्, तत्र परत इति। कथमित्यादि। च्छन्दसः श्रोत्रभावो घन् च प्रत्ययः, छान्दस इति न सिद्ध्यति; घनाऽणो बाधितत्वात्, श्रोत्रभावेन च च्छन्दःशब्दस्य निवर्तितत्वादिति प्रश्नः। वाग्रहणमनुवर्तत इति। अपर आह--यश्च्छन्दोऽधीते तदर्थं चानुतिष्ठति तत्र श्रोत्रियशब्दः, अध्येतृमात्रे तु छान्दशब्द इत्यर्थभेदान्नास्ति बाध्यबाधकत्वमिति। ठेकां शाखामधीत्य श्रोत्रियो भवतिऽ इति धर्मसास्त्रम् ॥ श्राद्भमनेन भुक्तमिनिठनौ ॥ ५।२।८५ ॥ श्राद्धशब्दः कमनामधेयमिति। श्रद्धया निष्पाद्यस्य पिञ्यस्य कर्मणः श्राद्धशब्दः संज्ञा, श्रद्धास्मिन्नस्तीति ठ्प्रज्ञाश्रद्धार्चावृत्तिभ्यो णःऽ इति णः। तत्साधने द्रव्य इति। मुख्यश्रद्धस्य भोजनासम्भवात्। समानकालग्रहणमितिष। भुजिना समाने काले प्रत्ययान्तस्य प्रयोगो यथा स्यात्, यद्यपि भुजिक्रिया कतिपयक्षणसाध्या, तथापि यावन्तं कालं तदाशिनस्तृप्तिशेषस्तल्लिङ्गं चानुवर्तते तावत्समानकालः, स च प्रायोवृत्याऽद्यतन एवेति तस्मिन्नेव प्र्ययान्तस्य प्रयोगः। यदा तु कस्यचिद्दुर्बलस्य द्वितीयेऽप्यह्नि भुक्तमपरिणतं तदा प्रयोगाभावः। तदिदमाह-अद्य भुक्ते श्वः श्राद्धिक इति कप्रयोगो मा भूदिति ॥ पूर्वादिनिः ॥ ५।२।८६ ॥ पूर्वं गतमनेनेत्यादि। क्रियाविसेषणाद् द्वितीयान्तात्प्रत्ययः ॥ सपूर्वच्च ॥ ५।२।८७ ॥ विद्यमानं पूर्वमस्मिन्निति सपूर्वमिति। ठ्तेन सहेति तुल्ययोगेऽ इत्युपाधिवचनस्य प्रायिकत्वाद्विद्यमानवचनस्यापि समासः। पूर्वशब्दोऽवयववचनः। न च शब्दान्तरं पूर्वशब्दस्यावयव उपपद्यते। पकारस्त्वव्यभिचारी, तेन प्रातिपदिकस्यैतद्विशेषणम्--सपूर्वं यत्प्रातिपदिकमिति। एवं च पूर्वशब्दोऽपि तस्यैव विशेषणम्, विशेषणेन च तदन्तविधिरित्याह--तस्य पूर्वशब्देन तदन्तविथधिरिति। सपूर्वादित्यादि। यद्यपि पूर्वशब्दान्तं प्रातिपदिकं सपूर्वमेव, तथापि असति सपूर्वग्रहणे तदन्तविधिर्न लभ्यत इति ठ्सपूर्वात्ऽ इत्युक्तम्। कृतकर्मणोः कृतिऽ इत्यत्रायं प्रयोग उपपादितः। योगद्वयेनेत्यादि। यदि ठ्व्यपदेशिवद्भावोऽप्रातिपदिकेनऽ इत्येषा परिभाषा न स्यात् ठ्पूर्वादिनिः सपूर्वात्ऽ इत्येकमेव योगं कुर्यात्, व्यपदेशिवद्भावात्केवलादपि भविष्यति, किं योगद्वयकरणेन! अत्र चकारः कर्तव्यो न भवति। यदि च ठ्ग्रहणवता प्रातिपदिकेनऽ इत्येषा परिभाषा न स्यात्, ठ्पूर्वादिनिःऽ इत्येतावदेव ब्रूयात्, तदन्तविधिना सपूर्वादपि भविष्यतीति किं द्वितीयेन योगेन ! तदिह योगद्वयेन परिभाषाद्वयं ज्ञाप्यते ॥ च्छन्दसि परिपन्थिपरिपरिणौ पर्यवस्थातरि ॥ ५।२।८९ ॥ अत्र पर्यवस्थातृशब्दात्स्वार्थे इनिप्रत्ययोऽवस्थातृशब्दस्य च पन्थि, परि--इत्येतावादेशौ निपात्येते। भाषायां तु परिपन्थिशब्दस्यासाधुः प्रयोगः ॥ अनुपद्यन्वेष्टा ॥ ५।२।९० ॥ पदस्य पश्चादनुपदम्, पश्चादर्थेऽव्ययीभावः, अन्वेष्टरीनिप्रत्ययो निपात्यते। अनुपदी गवाभिति। पदापेक्षया षष्ठी, गोपदस्य पश्चादन्वेषणं गवामेव, हिरण्यादावन्वेष्ये न भवति; पदाभावात्। यदि त्वन्वेष्टशब्दात्स्वार्थे इनिप्रत्ययः, एष्ट्ःअशब्दस्य च पदशब्द आदेसो निपात्येत; यदि वा--श्रोत्रियवदविद्यमानप्रकृतिप्रत्यमन्वेष्टरि निपात्येत, ततो गवामिति षष्ठी न प्राप्नोतिकृतपूर्वी कटम्, अनुको भार्यामभिको दासीमितिवत् द्वितीया प्राप्नोति; हिरण्यादौ चान्वेष्ये--अनुपदी हिरण्यमिति। तस्माद्यथोक्तमेव साधीयः ॥ साक्षाद् द्रष्टरि संज्ञायाम् ॥ ५।२।९१ ॥ साक्षाच्छब्दोऽव्ययमिति। तेन प्रकृतिवदनुकरणं भवतीति सूत्रे पञ्चम्या अलुक्, उदाहरणे च ठव्ययानां भमात्रेऽ इति टिलोप इति भावः। संज्ञाग्रहणादित्यादि। त्रिभिः साक्षाद् दृष्ट्ंअ भवति--यश्च ददाति, यस्मै च दीयते, यश्च पार्श्वे स्थितः पश्यति, तत्र सर्वत्र प्रत्ययः प्राप्नोति। संज्ञाग्रहणाद्धनिकाधमर्णयोर्न भवतीत्यर्थः ॥ क्षेत्रियच् परक्षेत्रे चिकित्स्यः ॥ ५।२।९२ ॥ ठ्क्षि निवासगत्योःऽ इत्यस्माद्यथायोगमधिकरणादौ ष्ट्रन्, क्षेत्रम्। परक्षेत्रं जन्मान्तरशरीरमिति। आत्मनो निवासस्थानत्वात्क्षेत्रम्, परं च तत्क्षेत्र चेति कर्मधारयः। तत्र चिकित्स्यःउप्रतिकार्योपनेय इत्यर्थः, न तु तत्र भिषजितव्य इति। यदाह--नामृतस्येति । अथ वेति। समुच्चय एवात्र विवक्षितः, न तु विकल्पः। वक्ष्यति--ठ्सर्वचैतत्प्रमाणम्ऽ इति। कृत्यः शक्यार्थे, पूर्वत्र तु कर्ममात्रे, उतरयोरर्हार्थे। सस्यार्थ इति। अनेन क्षेत्रस्य परकीयत्वमाह---परदाराः परक्षेत्रमिति। कर्मणि ष्ट्रन्, क्षेतव्याःउगन्तव्याः, उपगमनार्हा दाराःउक्षेत्रम्। तत्रेति। तस्मिन्विषये। निगृहीतव्य इति। दण्कडादिना ॥ इन्द्रियमिन्द्रलिङ्गमिन्द्रदृष्टमिन्द्रसृष्टमिन्द्रजुष्टमिन्द्रदतमिति वा ॥ ५।२।९३ ॥ अन्तोदात इति। ठ्क्षेत्रियच्ऽ इत्येतत्साहचर्यात्। रूढिरेवेति। किमत्र प्रमाणम्? इत्याह तथा चेति। न हि यौगिकेषु व्युत्पतेरनियमो भवति। इन्द्र आत्मेति। कार्यकारणसङ्गातं प्रतीश्वरत्वात्। विज्ञियते च तमिन्द्रं सन्तमिन्द्र इत्याचक्षते परोक्षेणेति। करणेनेति। हेतुगर्भविशेषणम्। यथा पुनरयं हेतुस्तथा दर्शयति--नाकर्तृकमिति। इतिकरणो हेतौ। न हि वाश्यादिकरणमनधिष्ठितं कर्त्रा प्रवर्तते। इन्द्रेण दृष्टमिति। दृष्टमुज्ञातम्, तथा च कार्यकारणसङ्घातं प्रस्तुत्य भवति वादः---ठ्स एतमेव पुरुषं ब्रह्मततमपश्यत्ऽ, ठिदमदर्शम्ऽ इत्यादि। कथं पुनश्चक्षुरादिकमात्मना सृष्टम् ? इत्याह--तत्कृतेनेति। शुभं कर्मौविहितम्, प्रतिषिद्धमुअशुभम्--तदुभयं मिलितं कारणानामुत्पादकम्; इष्टानिष्टानां रूपादीनां चक्षुरादिभिरुपलम्भात्। यथायथामिति। यो यस्य विषयः--चक्षुषो रूपम्, घ्राणस्य गन्ध इत्यादि, तद्ग्रहणायेत्यर्थः। अन्यथापि कर्तव्येति। तद्यथा--इन्द्रेण दुर्जयमिति। प्रत्योकमभिसम्बध्यमान इति। हेतुगर्भविशेषणम्; यस्मात्प्रत्येकमभिसम्बध्यते तस्मादित्यर्थः ॥ तदस्यास्त्यस्मिन्निति मतुप् ॥ ५।२।९४ ॥ अस्यास्मिन्निति प्रत्ययार्थाविति। ननु च यद्यस्य भवति तस्मिन्नपि तद्वति, यच्च यस्मिन् भवति तस्यापि तद्भवति; यथा--वृक्षस्य शाखा, वृक्षे शाखेति; तत्रान्यतरनिर्द्देशेनैव सिद्धम्, किमर्थमुभावर्थौ निर्द्दिश्येते ? नैतयौरवश्यम्भावी समावेशः; तथा हि--षष्ठ।ल्र्थमात्रनिर्द्देशे यत्राधिकरणं तेनैव रूपेण विवक्ष्यते, न तज्जन्यः शेषसम्बन्धः, यथा--वृक्षा अस्मिन्पर्वते सन्तीति न तत्र प्रत्ययः स्यात्। न ह्यत्र क्रियाकारकपूर्वकः शेषसम्बन्धो दृश्यते; वृक्षैः पर्वतस्यानारम्भात् नावयवावयविभावः। आनन्तर्यादिसम्बन्धस्तु सम्भवति। न तु तत्र मत्वर्थीयो भवति; अनभिधानात्। तथा केवलसप्तम्यर्थनिर्द्देशे कारकान्तरपूर्वः सम्बन्धो न गृहीतः स्यात्; ततश्च पुत्रवान्, गोमानित्यादौ न स्याद्। उत्पादनप्रतिग्रहादिक्रियाविषयकर्तृत्वजन्यो ह्यत्र सम्बन्धः, नाधारपूर्वकः; देशान्तरगतेऽपि पुत्रादौ तद्वानिति व्यपदेश्यस्य भावात्। सामीपिकस्याप्यधिकरणस्यासम्भवः। स्यादेतत्--पुत्रस्य पित्रधीनत्वाद्गवां च स्वाम्यधीनत्वाद्गुरौ वसतीतिवदधिकरणं भविष्यति, करणसंज्ञायां हि तमब्ग्रहणेन कारकप्रकरणे प्रकर्षस्यानाश्रयणाद्गौणस्याप्याधारस्याधिकरणसंज्ञा भवत्येवेति ? भवत्वेवमधिकरणसंज्ञा, मत्वर्थायस्तु मुख्य एवाधिकरणे स्यात्--वृक्षवान् पर्वतः, गोमाञ्जनपद इत्यादौ; न गौणे--पुत्रवान् गोमान्देवदत इत्यादौ, न ह्यत्र गौणग्रहणस्य लिङ्गमस्ति। तस्मादुभयोरपि निर्द्देशः कर्तव्यः। अस्तीति प्रकृति विशेषषणामिति। अर्थद्वारेणेति द्रष्टव्यम्। ननु सम्भवे व्यभिचारे च विशेषणविसेष्यभावो भवति नीलोत्पलवत्, न च सतां पदार्थो व्यभिचरति, तामन्तरेण पदस्योच्चारयितुमप्यशक्यत्वात्; तथा हियावद्बुद्वया पदार्थो न विषयीकृतस्तावत्पदस्य प्रयोगाभावः, तेन बुद्धिसतासमाविष्टमर्थं शब्दो गोचरयति, तस्यैव बहिरसत्वासत्वप्रतिपादनाय वृक्षोऽस्ति, वृक्षो नास्तीति प्रयोगः। यदि बाह्यसतासमावलिष्ट्ंअ वस्तु वाच्यं भवेत्, तदा विरोधपौनरुक्त्याभ्यां प्रयोगो न भवेदयम्। एवमेवात्यन्तासतोऽपि बहिः शशविषाणादीनर्थान्बुद्ध्या विषयीकृत्य तद्वचिशब्दप्रयोगः। तस्माद् बुद्ध्युपारूढोपचरिता सता शब्दप्रयोगस्य निमितमिति न तां पदार्थो व्यभिचरति। तदुक्तम्---ठ्न सतां पदार्थो व्यभिचरतिऽ इति। कस्यचित्पदस्यार्थः सन्नेवंविधां सतां न व्यभिचरतीत्यर्थः ? इदं तर्हि प्रयोजनम्--या सम्प्रतिसता मुख्या वर्तमानलक्षणा बाह्या तस्यां यथा स्याद्, भूतभविष्यतोर्या सतातीतानागतवस्तुपरामार्शिन्या बुद्व्योत्प्रेक्षितोपचरितरूपा तस्यां मा भूत्। तेन गावोऽस्यासन्, गावोऽलस्य भवितार इत्यत्रार्थे गोमानिति प्रयोगाभावः। यद्येवम्, विद्यमान एव देवदते तद्रवीनामतीतानागतत्वप्रतिपादनाय गोमानासीत् गोमान्भवितेति प्रयुज्यते, तत्र प्रकृत्यर्थस्य सम्प्रतिसताया अभावात्प्रत्यायाप्रसङ्कः ? नैष दोषः; नात्र साक्षाद्गवां सता कथ्यते, किं तर्हि ? गोमत एषा सता कथ्यते। यदि पुनर्गवां सता कथ्येत; यथेहास्तेः प्रयोगो न भवति--गावोऽस्य सन्ति गोमानिति प्रत्ययेनैव प्रकृत्यर्थोपाधेः प्रतीतत्वात्, तथेहापि न स्यात्--गोमानासीद्, गोमान्भवितेति। सत्यपि वा प्रयोगे यथेह बहुवचनं भवति--गोमानासीद्, गोमान्भवितेति। सत्यपि वा प्रयोगे यथेह बहुवचनं भवति--गावोऽस्यासन्, गावोऽस्य भवितार इति; एवमिहापि स्याद्गोमानासीद्, गोमान्भवितेति। तस्मान्नैषा गवां सता कथ्यते, किं तर्हि ? गोमत्सतैषा कथ्यते। तत्र यद्यपि यो गोमान्स विद्यते, गोमतारूपं तु तस्यादीतमनागतं वेति भूतभविष्यत्प्रयोगः। यथा--ईश्वरोऽयमासीद्दरिद्रोऽयं भविष्यतीति। तत्रार्थात्प्रकृत्यर्थस्याप्यतीतानागतत्वप्रतीतिर्भवति, सा वाक्यार्थवशादुपजायमाना बहिरह्गेति नान्तरङ्गं शब्दसंस्कारं निवर्तयति, यथा--ग्रामं न गच्छतीति। तदेवं सम्प्रति सतायां यथा--ग्रामं न गच्छतीति। तदेवं सम्प्रति सतायां यथा स्याद्, भूतभविष्यत्सतायां मा भूदित्येवमर्थमस्तीत्युच्यत इति स्थितम्। ननु च यत्रान्यत्क्रियापदं न श्रूयते तत्रास्तिर्भवतिपरः प्रथमपुरुषोऽप्रयुज्यमानोऽपि गम्यते, ततश्च गावोऽस्य गावोऽस्मिन्नित्युक्ते किमित्यपेक्षायां सन्तीति गंस्तते, नार्थोऽस्तिग्रहणेन ? न सार्वत्रिकमेतत्; यदा खलु गावोऽस्य नान्यस्य, गावोऽस्मिन्नान्यस्मिन्नित्येवं विवक्षा, न तदास्तित्वं प्रतीयते। तस्मादस्तीति वक्तव्यम्। अथ क्रियमाणेऽप्यस्तिग्रहणे इह कस्मान्न भवति--गावोऽस्य सन्त्यनन्तरा इति ? सापेक्षत्वेनासामर्थ्यात्। इह कस्मान्न भवति-चित्रगुः, शबलगुरिति ? बहुव्रीहिणोक्तत्वात्। वाक्ये तु चित्रा गावोऽस्य सन्नीति प्रत्येकमसामर्थ्यान्न भवति, समुदायात्वप्रातिपदिकत्वात्। इह तु पञ्च गावोऽस्य सन्ति पञ्चगुः दशगुरिति ठ्तद्धितार्थऽ इति द्विगुश्च प्राप्नोति, बहुव्रीहिश्च; तत्रचित्रगुरित्यादौ सावकाशं बहुव्रीहिं संख्यावाचिषु द्विगुर्बाधेत, ततश्च तद्धितार्थे विषयभूते विहितेन द्विगुनाऽनुक्तस्तद्धितार्थ इति यथेह तद्धितो भवति-द्वैमातुरः, पाञ्चनापितिरिति, ठ्द्विगोर्लुगनपत्येऽक इति लुगपि प्राग्दीव्यतीयस्य विधीयते, तेन मतुपो लुगलभ्यः। तस्मात् ठ्तद्वितार्थऽ इत्यत्र यदुक्तम् ठ्सर्वत्र मत्वर्थे प्रतिषेधःऽ इति तदेवात्रक शरणम्। भूमेत्यादि। अस्तिविवक्षायां ये मतुबादयो विधीयन्ते ते भूमादिषु विषयभूतेषु भवन्तीत्यर्थः। बहूनां भावो भूमा, तत्र भूम्नि; गोमान्, यवमान्। बहुत्वं चाभिधानवशाद्विशिष्टमेवाश्रयणीयम्, यदाह--ठ्यावतीभिः खल्वपि गोभिर्वाहदोहप्रसवाः कल्पन्ते तावतीषु सता कथ्यते, कस्यचिच्चतसृभिरपि कल्पन्ते कस्यचिच्छतेनापि न कल्पन्तेऽ इति। एवं च यवमानिति त्रिप्रभृतिषु बहुत्वसद्भावेऽपि न भवति। इह यवमतीभिरद्भिर्यूपं प्रोक्षतीति जातिमात्रसम्बन्धो विवक्षित इति भूमाभावेऽपि भवति। भूमादिग्रहणं त्वभिधानस्वभावप्रदर्शनार्थम्। निन्दायां ककुदावर्तिनी कन्या, प्रशंसायां रूपवान्, नित्ययोगे क्षीरिणो वृक्षाः, अतिशायने उदरिणी कन्या। संसर्गे, संसर्गःउसंयोगः; दण्डी संसक्तदण्ड उच्यते। गृहावस्थिते तु दण्डीति न भवति। क्वचिद् वृतौ ग्रन्थः अस्तिविवक्षायामस्तिमानिति। तत्र भूमादिष्वस्तिविवक्षायां च भवति मतुबादय इति समुच्चयो व्याख्येयः। अस्तिशब्दो विभक्तिप्रतिरूपको निपातः कर्तृविविशिष्टसतावाची, नैषोऽस्तेर्लट्। प्रत्ययान्तरमपि दृश्यते--अस्तित्वम्, अस्तितेति। अव्यभिचारादस्तिसामानाधिकरण्यं नास्तीत्यस्तिविवक्षायां प्रत्ययो विधीयते। एतच्च सूत्रे ठस्तिऽ इति तन्त्रेण लुप्तपञ्चमीकप्रकृतिनिर्द्देशाश्रयणाल्लभ्यते। अस्तिमानिति च वृत्तिविषये कर्तृविशेषे धनेऽस्तिशब्दो वर्तते। न हि कर्तृसामान्येन प्रत्ययार्थस्य विशेषणं सम्भवति, सर्वस्यैव हि सर्वदा यत्किञ्चिदस्ति। गुणवचनेभ्य इति। अत्र शुक्लादय एवाभिन्नरूपा गुणे तद्वति च वर्तमाना गृह्यन्ते, न तु सर्वदा गुणमात्रवचना रूपादयः। तत्र यद्यप्यभेदोपचारादेव शुक्लः पट इत्यादिसिद्धिः, तथापि पटस्य शुक्ल इति भेदविवक्षाया अपि दर्शनात्पक्षे मतुप उत्पन्नस्य श्रवणप्रसङ्गाल्लुग्वक्तव्य इति ॥ रसादिभ्यश्च ॥ ५।२।९५ ॥ न पूर्वेणैवेति। नशब्दस्य काक्वा प्रयोगात्सिद्ध एवेत्यर्थः। नन्वर्थे वा नशब्दो द्रष्टव्यः। अन्ये इति। ठत इनिठनौऽ इत्यादयः। कथमिति। अन्यनिवृत्यर्थे पुनर्वचने रूपिणीत्यादि न सिद्ध्यतीति भावः। प्रायिकमिति। प्रयोगबाहुल्याबाहुल्येनास्यान्यनिवृत्तिः प्रयोजनमित्यर्थः। ततः किम्? इत्याह-क्वचिदिति। कथं पुनः प्रायिकत्वमित्याह--इतिकरण इति। तेन यत्र मतुबन्तादेव लोकस्य विवक्षा भवति, तत्रैवानेनान्यनिवृत्तिः क्रियते, न सर्वत्रेत्ययमर्थो भवति। एतच्च गुणादिति गणादिति गणपाठमनपेक्ष्योक्तम्, तदपेक्षां मत्वाऽऽह- अथ वेति। अत्र गणे गुणादिति पठ।ल्ते, तच्च रसादीनां सर्वेषां प्रत्येकं विशेषणम्, न स्वतन्त्रम्, नापि ठेकाचःऽ इत्यनेन समानाधिकरणम्। तेन ये रसनेन्द्रियादिग्राह्यगुणा इति आदिशब्देन चक्षुरादिपरिग्रहः। तेषामेवायं पाठ इति। तेभ्य एवानेनान्यनिवृत्तिः क्रियते। रूपिणी, रूपिकः शोभायोग इति। ननु शोभापि पुणस्तथा भावः ? सत्यम्; गुणादिति विशेषणसामर्थ्यात्प्रसिद्धतराणां रसनादीन्द्रियग्राह्याणां गुणानां पाठः। भावयोग इति। भावाःउरतिहासादयो नाट।ल्धर्माः। भाष्ये तु ठुर्वशी वै रूपिण्यप्सरसां स्पर्शिको वायुःऽ इति दर्शनाद्यथाभिधानं प्रत्ययान्तरमपि भवति, तेन नियमस्यानिष्टत्वात्सूत्रमिदं प्रत्याख्यातम्। एकाच इति। अत्र गुणादिति नापेक्ष्यते--स्ववान्, खवान् ॥ प्राणिस्थादातो लजन्यतरस्याम् ॥ चूडाल इति। चूडाउशिखा, न त्वापीडाख्योऽलङ्कारः। एवं कर्णिकापि न कर्णिकापि न कर्णालङ्कारः, किं तर्हि ? तत्सदृशः प्राण्यङ्गविशेषः। प्राण्यङ्गादेव हीष्यते। शिखावान्दीप इति। प्रत्युदाहरणदिगियं दर्शिता; शिखाशब्दस्य व्रीह्यादिपाठाल्लचोऽप्रसङ्गात्। चूडावान्वृक्ष इति प्रत्युदाहार्यम्। प्राण्यङ्गादिति वक्तव्यमिति। एतच्चेतिकरणानुवृतेर्लभ्यते। चूडालोऽसीति। असीत्यस्य ठ्तिङ्ङतिङःऽ इति निघातः, चूडालशब्दात्सुः, रुत्वम्, ठतो रोरप्लुतादप्लुतेऽ इत्युकारः, स च हलां स्रंसनधर्मत्वादनुदातः, पूर्वेण ठाद्गुणःऽ, ठेकादेश उदातेनोदातःऽ, ततः ठेडः पदान्तादतिऽ इति पूर्वरूपत्वमेकादेशः, तस्य ठ्स्वरितो वानुदातेऽपदादौऽ इति स्वरितः प्राप्नोति, चित्करणसामर्थ्यान्न भवति। यद्येवम्, चूडालः--आमन्त्रिताद्यौदातत्वे शेषनिघातो न स्यात्, हे चूडालाअमन्त्रितनिधातो न स्यात्, चूडालत्वमित्यादौ च प्रत्ययस्वरे शेषनिघातः ? यदीष्यते, वक्तव्योऽत्र परिहारः; अथ नेष्यते, प्रयोजनमेवैतच्चित्स्वरस्य भवीष्यति ॥ सिध्मादिभ्यश्चः ॥ ५।२।९७ ॥ अन्यतरस्यांग्रहणेन भतुप्समुच्चीयत इति। अनेकार्थत्वान्निपातानाम्, अन्यतरस्यांग्रहणमिह समुच्चये वर्तत इत्यर्थः। तथा च वार्तिकम्--ठ्लजन्यतरस्यामिति समुच्चयःऽ इति। न तु प्रत्ययो विकल्प्यत इति। यथान्यत्रान्यतरस्यांग्रहणं विकल्पार्थं न तथात्रेत्यर्थः। किमेवं सति सिद्धं भवति ? तत्राहतस्मादिति। विकल्पार्थेऽन्यतरस्यांग्रहणे लचा मुक्ते यथाप्राप्तमे स्यात्, ततश्चाकारान्तेभ्य इनिठनौ स्याताम्, समुच्चयार्थे प्रकृतो मतुबेव समुच्चीयत इति न दोषः। कथं पुनर्ज्ञायते-समुच्चयोऽत्रार्थः, न विकल्पोऽर्थ इति ? ज्ञापकात्। यदयं पिच्छादीन्, तुन्दादीश्च पृथक् पठति। कथं कृत्वा ज्ञापकम् ? इह ठ्तुन्दादिभ्य इलच्चऽ इति चत्वारः प्रत्यया इष्यन्ते-इलच्, इनिठनौ, मतुबिति; तत्र यद्यन्यतरस्यांग्रहणं विकल्पार्थं स्यात्पिच्छादिभ्योऽपिप्रत्ययचतुष्टयं स्यात्। कथम् ? इलचो विकल्पितत्वादिनिठनौ, तयोरपि विकल्पितत्वान्मतुबिति; ततश्च तुन्दादिष्वेव पिच्छादयः पाठयाः, पिच्छादिषु वा तुन्दादयः; पृथक्पाठाद्विज्ञायते-ठन्यतस्स्यांग्रहणेन मतुप्समुच्चीयते,न यथाप्राप्तमब्यनुज्ञायतेऽ इति। एवं हि पिच्छादिभ्यः प्रत्ययद्वयम्--इलच्च, मतुप् च; तुन्दादिभ्यश्चत्वार इति पृथक् पाठोऽर्थवान्भवति। ननु च तुन्दादिभ्योऽनकारान्तेभ्योऽपीनिठनाविष्यते, पिच्छादिभ्यस्त्वकारान्तेभ्य एव; तत्र यदि तुन्दादिषु पिच्छादयः पठ।लेरन्, तदा पिच्छादिभ्योऽप्यनकारान्तेभ्य इनिठनौ स्याताम् ? अथ पिच्छादिषु तुन्दादयः पठ।लेरन्, तदा तुन्दादिभ्योऽप्याकारन्तेय्य इनिठौ न स्याताम् ? चतर्हि कानिचिदकारान्तानि पिच्छादिषु पठति, कानि चितुन्दादिषु, तद्यथोक्तस्यार्थस्य ज्ञापकं भविष्यति। तथा ठ्केशाद्वोऽन्यतरस्याम्ऽ इति न वक्तव्यम्; प्रकृतान्यतरस्यांग्रहणानुवत्या इन्ठन्मतुपां सिद्धत्वात्। तदिनिठनोःक प्राप्त्यर्थं क्रियमाणं पूर्वस्यान्यतरस्यांग्रहणस्य समुच्चयार्थत्वं ज्ञापयति। पार्ष्णिधमन्योर्दीर्धश्चेति। पार्ष्णीलः, धमनीलः। वातदन्तबलललाटानामूङ् चेति। वातादिभ्यो लज् भवति, तस्य च लच ऊडागमो भवति--वातूलः, दन्तूलः, बलूलः, ललाटूअलः। जटाघटाकलाः क्षेप इति। एतै शब्दाः क्षेपे गम्यमाने लचमुत्पादयन्ति--जटाल इत्यादि। क्षेप इति किम् ? जटावांस्तापसः। क्षुद्रजन्तूपतापयोश्चेति। चुद्रजन्तुरानकुलात्, उपतापःउरोगः। विपादिकाल इति। ठ्पादस्फोटो विपादिकाऽ। सिध्म-गडुशब्दयोरनुपतापार्थः पाठः ॥ वत्सांसाभ्यां कामबले ॥ ५।२।९८ ॥ कामवति बलवति चेति। मत्वन्तनिर्द्देशेन कामबलशब्दयोरर्शाअद्यच्प्रत्ययान्ततां दर्शयति। ननु च वत्सांसशब्दौ वयोविशेषे प्राण्यङ्गविशेषे च रूढौ, न कामबलयो; तत्कथं ताभ्यां लजन्ताभ्यां कामवान् बलवांश्चोच्यते ? इत्यत आह--वृत्तिविषय इति। कुत एतद् ज्ञायते ? इत्याह-न ह्यत्रेति। वाक्ये योऽनयोः प्रासिद्धोऽर्थः स वृतौ नास्तीत्यर्थ। यस्त्वस्ति तं दर्शयतदि--वत्सल इति स्नेहवानुप्यत इति। स्नेहःउरागः, कामः। सर्वत्रैवात्र प्रकरणे मतुप्समुच्चीयत इत्यत्रापि मतुपा भवितव्यमिति शङ्कामपनयति--न चेति। अनेनैव हेतुना वाक्यमपि न भवति। अत्र वत्सांसब्दौ द्वौ, अस्यास्मिन्निति च प्रत्ययर्थावपि द्वावेव तथापि यथासंख्यं न भवति, कथम् ? अजाद्यदन्तं लघ्वक्षरं पूर्वं निपततीत्यंसबलशब्दयोः पूर्वनिपाते प्राप्ते परनिपातलक्षणव्यभिचारचिह्नात्। एवं सर्वत्रैवात्र प्रकरणे द्रष्टव्यम् ॥ लोमादिपामादिपिच्छादिभ्यः शनेलचः ॥ ५।२।१०० ॥ अङ्ग कल्याण इति। ठङ्गऽ इत्येतत् कल्याणविशिष्टेऽर्थे वर्तमानं प्रत्ययमुत्पादयति--कल्याणान्यङ्गान्यस्य अङ्गना, स्त्रिया एवाभिधानम्। कल्याण इति किम् ? अङ्गवती। शाकीपलालीदद्रवां ह्रस्वत्वं चेति। शाक्यादीनां नप्रत्ययो भवति ह्रस्वत्वं च-शाकिनम्, पलालिनम्। महच्छाकं शाकी, नानाजातीय एकसमाहारो वा। पलालक्षोदःउपलाली, भिन्नानि वा शलिकोद्रवादिपललानि। ठ्दरिद्रातेर्यालोपश्चऽ इति दरिद्रातेरूकारः प्रत्ययो भवति, रिकाराकारयोश्च लोपः। दद्रूःउत्वग्रोगविशेषः, स यस्यास्ति स दद्रुणः। विष्वगिति। विष्वक्शब्दान्नप्रत्ययो भवति उतरपदलोपश्च, स चाकृतसन्देरकृतसन्धिकार्यस्य, अकृतयणादेशस्येत्यर्थः। विषु नाना अञ्चन्तीति विष्वञ्चि, तान्यस्य सन्तीति विषुणःउ विषुषुवदाख्यः कालः, तस्य हि नानागतीनि दिनानि सन्ति, तदाश्रयत्वाद्दिवसान्तराणां न्यूनाधिकभावस्य। तथा मृत्युः, वयुः, अनवस्थितप्रकृतिर्मनुष्यादिश्च विषुणः, तत्र वृत्तिविषये गमनक्रियान्तर्भावाद्विष्वग्गमनमस्यास्कतीत्येवं वाक्यदेरभिदानमिच्छन्ति। यदि तु कृते यणादेशे उतरपदलोपः स्याद्, वलि लोपे सति विष्ण इति प्राप्नोति। लक्ष्म्या अच्चेति। लक्ष्मीशब्दान्नप्रत्ययो भवति अकअरश्चान्तादेशः, लक्षामीरस्यास्ति लक्ष्मणः। जटाघटाकलाः क्षेप इति। जटादयः क्षेपे गम्यमाने इलचमुत्पादयन्ति--जटिलः, घटिलः, कलिलः। क्षेपादन्यत्र जटावान् ॥ प्रज्ञाश्रद्धार्चावृत्तिभ्यो णः ॥ ५।२।१०१ ॥ सूत्रे वृत्तिशब्दो वार्तिके दर्शनात्प्रक्षिप्तः---ठ्वृत्तिर्विच्छेदप्रतिविदानात्ऽ इति। प्रज्ञाग्रहणं किमर्थम्? प्राज्ञ इत्येतद्रूपं यथा स्यात्। ठ्प्रज्ञादिभ्यश्चऽ इत्यणि कुते सिद्धमेतत्, प्रज्ञ एव प्राज्ञः, यस्य हि प्रज्ञाऽस्ति स प्रजानाति ? सत्यम्; स्त्रियां त्वणि ङीब् भवति--प्राज्ञी, अस्मिस्तु णे टावेव भवति--प्राज्ञा। इह तु गुणभूतया क्रियया व्याकरणादिनां सम्बन्धे णाणोरुभयोरपि व्याकरणम्--प्राज्ञैति भवति, यथा--कृतपूर्वी कटमिति तद्धितप्रयोगे हि षष्ठी न भवतीत्युक्तम् ॥ तपस्सहस्राभ्यां विनीनी ॥ ५।२।१०२ ॥ विनीन्योरिकारः--नकारस्येत्संज्ञा मा भूदिति। केचितु विनीनावितीकाराकारौ पठन्ति, नकारान्तपाठे त्वित्संज्ञा प्राप्नोति। प्रत्ययार्थयोस्त्वित्यादि। यथा त्वनिष्यमाणमपि यथासंख्यं न भवति तथा पूर्वमेवोक्तम्। असन्तत्वादित्यादि। तपः शब्दाद् ठस्मायामेधाऽ इत्यादिना विनिप्रत्यये सिद्धे सहस्रशब्दादपि ठत इनिठनौऽ इतीनिप्रत्यये सिद्धे, यत्पुनरिदं विधानं तद्वक्ष्यमाणेनाणा बाधा मा भूदित्येवमर्थम्। अणेति। हेतौ तृतीया। कर्तरि तु कृद्योगलक्षणा षष्ठी न प्राप्नोति, उभयप्राप्तौ कर्मण्येवेति नियमात् तृतीया भविष्यति, विनीन्योर्बाधा मा भूदिति कर्मणोऽपि गम्यमानत्वात्, यथा-ठ् येनादर्शनमिच्छतिऽ इति ? नैतदस्ति, अकाकारयोः प्रयोगे नियमस्य प्रतिषेधात्, तस्माद्धेतावेव तृतीया। घञ्न्तो वा बाधशब्दः पठनीयः। सहस्रशब्दादट्ठनपि बाध्यत इति। बाधा तु ठन इनणोः प्रतिपदविधानात् ॥ अण् च ॥ ५।२।१०३ ॥ अण्प्रकरणे इत्यादि। प्रकरणम् प्रस्तावः, काण्डं वा। ज्योत्स्नातमिस्रेत्यादिसूत्रे पठितानां ग्रहणम्। ज्यौत्स्नः पक्ष इति। स पुनः पूर्वः पक्षः तत्र हि पञ्चदशस्वपि तिथिषु ज्योत्स्ना भवतीति कृत्स्नः पक्षो ज्योत्स्नया व्याप्यते। एतेन तामिस्रो व्याख्यातः, तमःसमूहस्तामिस्रम्, मत्वर्थीयो रः। तत्र ह्यवयवभूतानि तमांसि विद्यन्ते तधस्मिन्नस्ति स तामिस्रोऽपरः पक्षः। तमिस्रारात्रिर्यस्मिन्विद्यत इति वा तामिस्रः, नरकविशेषस्यैषा संज्ञा। कुण्कडलार्हः कौण्कडलः। तत्र यथाकथञ्चिन्मत्वर्थीय उपपाद्यः। यस्तु संसक्तकुण्कडलः स कुण्डली भवति। अयं च नियम इतिकरणानुवृतेर्ल भ्यते ॥ सिकतार्शर्कराभ्यां च ॥ ५।२।१०४ ॥ शार्करं मध्विति। शर्करा माधुर्यम्, न तु गुडः, मधुनि तस्याभावात्। अदेश इहोदाहरणमिति। देशे विसेषस्य वक्ष्यमाणत्वात् ॥ देशे लुबिलचौ च ॥ ५।२।१०५ ॥ मतुप् चेति। अन्यतरस्याग्रहणेन मतुपः सर्वत्र समुच्चयात्। सिकता देश इति। लुपि युक्तवद्भावः। देशे इति किमिति॥ एतेन योगविभागोऽपि पर्यनुयुक्त एव भवति, तेन ठ्सिकताशर्कराभ्यां लुबिलचौ चऽ इत्येव कस्मान्न कृतमित्यर्थः ॥ दन्त उन्नत उरच् ॥ ५।२।१०६ ॥ दन्तशब्दादुन्नतोपाधिकादिति । सूत्रे तु पञ्चम्यर्थे प्रथमा, सप्तमी वा। दन्ता उन्नता अस्य दन्तुर इति। ठ्हिमशिलाशर्करादन्तुराणिऽ इत्यादयो लक्षणाप्रयोगाः ॥ ऊषसुषिमुष्कमधो रः ॥ ५।२।१०७ ॥ समाहारद्वन्द्वे सौत्रः पुल्लिङ्ग निर्देशः। सुषिमधुभ्यां मतुपि प्रापर्ते इतराभ्यामिनिठनोश्च रो विधीयते। ऊषाःउहरिणपांसवः, सुषिःउच्छिद्रम्, मुष्कौउअण्कडौ। मधूमाधुर्याख्यो रसविशेषः, न माक्षिकं माध्वीकं वा; अनभिधानात्। एवं च मध्विदं मधुरमिति मधुन्यपि प्रयोगोपपतिः। इह च न भवति--मध्वस्मिन् घटो विद्यत इति। रप्रकरण इति। प्रकरणमुप्रस्तावः। कण्ठविवरं महदिति। गर्दभे व्युत्पत्तिं दर्शयति। तैक्षण्ये त्वव्युत्पन्नः खरशब्दः। मुखरःउवाचाल; तस्य हि सर्वस्मिन्वक्तव्ये मुखमस्ति; वक्तव्यावक्तव्यविवेकाभावात्। मुखमुवागिन्द्रियम्। हस्तिहनुः कुञ्जशब्देनोच्यत इति। वृत्तिविषये। एतच्च सम्भवन्नवयवार्थः किमिति त्यज्यत इत्यभिप्रायेणोक्तम्। जातिशब्दस्तु कुञ्जरशब्दो हस्तिशब्दवत्। नगरमिति। नगाःउवृक्षाः, पर्वताश्च। अयमपि जातिशब्द एव, तथा चनगरी, जातिलक्षणो ङीष् भवति। नगशब्दोऽयमश्मादिषु पठ।ल्ते इति वुञ्च्छणादिशूत्रेणास्य सिद्धत्वात्, तस्माद्रो न वक्तव्यः। पाण्डुरमिति। पाण्डुःउशुक्लो वर्णः, तद्वत्पाण्डुरः। पाण्कडरशब्दस्त्वव्युत्पन्न एव गुणमात्रे गुणिनि च वर्तते ॥ द्यौद्रुभ्यां मः ॥ ५।२।१०८ ॥ द्यौशब्दोऽप्युत्पन्नं प्रातिपदिकमुकारान्तम्। रूढिषु च मतुब्न विकल्प्यते इति। तदर्थस्य मतुपाभिधातुमशक्यत्वात् ॥ केशाद्वोऽन्यतरस्याम् ॥ ५।२।१०९ ॥ मतुप्समुच्चयार्थं तदित्युक्तमिति। एतच्च ठ्सिध्मादिभ्यश्चऽ इत्यत्रैव व्याख्यातम्। वप्रकरण इति। प्रकरणमुप्रस्तावः। मणिवःउनागविशेषः। हिरण्यवःउनिधिविसेषः, कुञ्जरविशेष इत्यन्ये। विम्बावः, कुरराव इति। ठन्येषामपि दृश्थतेऽ इति दीर्घः। राजीव इति। ठ्कृदिकारादक्तिनःऽ इति ङीषन्तात्प्रत्ययः। अर्णव इति। अर्णमूदकम्, ठर्तेरसुन्नुट् चऽ। च्छन्दसीवनिपौ चेति। चकाराद्वलश्च, अन्यतरस्यांग्रहणानुवृतेस्तु मतुप्, तदाह--- वश्च मतुप् चेति। रथीरिति। रथोऽस्यास्तीत्यर्थः। सुमङ्गलीरिति। सुष्ठुअमङ्गलम्, ठ्सुः पूजायाम्ऽ इति प्रादिसमासः, ततोऽनेन मत्वर्थीय ईकारः, लाघवाद्बहुव्रीहिणा भवितव्यमिति न्यायश्छान्दसत्वादाश्रितः। मघवानमिति। मघं धनं तदस्यास्तीति वनिप्। मतुपि तु मघवच्छब्दः, किमर्थं तर्हि ठ्मघवा बहुलम्ऽ इति ? तत्रैव वक्ष्यामः। उद्वा चेति। उच्छब्दादुद्गताभिधायिना वप्रत्यये टाप्। उद्वतीति। मतुपः ठ्झयःऽ इति वत्वम्, ङीप्। मेधारथाभ्यामिति। इदमपि छन्दोविषयम् ॥ गाण्ड।ल्जात् संज्ञायाम् ॥ ५।२।११० ॥ गाण्डीवं धनुरिति। अर्जुनस्य। अजगवं धनुरिति। पिनाकमेतत्। उभयथा सूत्रं प्रणीतमिति। तन्त्रन्यायाश्रयेण। प्रयोगश्चोभयथापि भवति--ठ्गाण्डीवी कनकशिलानिभं भुजाभ्याम्ऽ ठधिरोहति गाण्डिवं महेषौऽ इति च। संज्ञाग्रहणस्यैव प्रपञ्चः ॥ रजः कृष्यासुतिपरिषदो वलच् ॥ ५।२।११२ ॥ आसुतीवल इति। ठ्षुञ् अभिषवेऽ, क्तिन्, आसुतिःउअभिषवः। परिषदूल इति। परितः सीदन्तीति परिषत्, ठ्सत्सूद्विषऽ इत्यादिना क्विप्, ठ्सदिरप्रतेःऽ इति षत्वम्। पर्षच्छब्दमन्ये पठन्ति, ठ्शदिभसोऽदिःऽ बाहुलकात्पृषेरपि भवति--ठ्पर्षदेषा दशावराऽ इति हि दृश्यते; ठ्पार्षदकृतिरेषा तत्र भवताम्ऽ ठ्सर्ववेदपार्षदं हीदं शास्त्रम्ऽ इति च भाष्ये। ठ्पर्षद्वलामहाब्रह्मौरागतैः कठकाश्रमात्ऽ इति च भट्टिकाव्ये। परिषच्छब्दस्तु प्रसिद्ध एव--ठ्सहस्रशः समेतानां परिषत्वं न विद्यतेऽ इति मनुः। अत्र च सूत्रे उभयोरपि उभयथा सूत्रप्रणयनात्। भ्रातृवल इति । ठ्वलःऽ इत्यत्राण्ग्रहणानुवतेर्दीर्घाभावः। पुत्रवलः, उत्साहवल इत्यत्र त्वसंज्ञयां दीर्घाभावः। संज्ञायां तु दीर्घत्वम्, ठ्वलःऽ इत्यत्र हि ठ्वनगिर्योः संज्ञायाम्ऽ इत्यतः ठ्सज्ञायाम्ऽ इत्यनुवर्तते ॥ दन्तशिखात्संज्ञायाम् ॥ ५।२।११३ ॥ दन्तावलःउगजः, ठ्दन्ती दन्तावलो हस्तीऽ इत्यमरसिंहः। शिखावलं नगरमिति। ननु देशे ठ्शिखाया वलच्ऽ इति चातुरर्थिकेनैव सिद्धम्, तच्चावश्यं कर्तव्यम्--निर्वृताद्यर्थम् ? सत्यम्; इहापि सिखाग्रहणमदेशार्थमवश्यं कर्तव्यम्, इहापि यथा स्यात्--शिखावाला स्थूपेति। यद्येवंविधा संज्ञा भवति, तत्र देशे मत्वर्थे परत्वादनेनैव लज्युक्त इति मत्वा शिकावलं नगरमित्युदाहृतम् ॥ ज्योत्स्नातमिस्राश्रृङ्गिणोर्जस्विन्नूर्जस्वलगोमिन्मलिनमलीसाः ॥ ५।२।११४ ॥ ज्योत्स्ना चन्द्रप्रभेति। तत्रावयवभूतं ज्योतिरस्तीति मत्वर्थोपपतिः। एतेन तमः समूहे तमिस्रशब्दो व्याख्यातः। निघण्टुअषु तु तमः पर्यायस्तमिस्रशब्दः पठितः, तत्र समूहसमूहिनोरभेदोपचारः। स्त्रीत्वमतन्त्रमिति। व्याख्यानमत्र शरणम्। श्रृङ्गादिनच्प्रत्यय इति। यद्यपि सूत्रे चकारोऽनुच्यारितः, तथाप्यन्तोदातस्योच्चारणादेवं कल्प्यते। उर्जोऽसुगागम इति। उर्जस्वतीः, पयस्वतीः। ऊर्जस्वत्, पयस्वदित्यसुनन्तान्मतुप् दृश्यते, इह त्वनाश्रयणे हेतुर्मग्यः। सूत्रे ऊर्जस्विन्गोमिन्निति नान्तत्वाभिव्यक्तये नलोपो न कृतः ॥ अत इनिठनौ ॥ ५।२।११५ ॥ अकारान्तादिति। स्वरूपग्रहणं तु न भवति, अच्छब्दान्तात्कुर्वत्, पचदित्येवमादेरिति ठ्रसादिभ्यःऽ पुनर्वचनात्। तद्ध्यनेन प्राप्तयोरिनिठनोर्बाधनार्थमित्युक्तम्। तपकरणं किमिति। व्रीहायादिषु मालादीनामाकारान्तानां पाठो नियमार्थो भविष्यतीति प्रश्नः। किमाकारान्तविषयो नियमः ? उत स्त्रीप्रत्ययान्तविषयः ? आहोस्विदाबन्तविषयः ? इति सन्देहसम्भवादघश्यं कर्तव्यं तपरकरणमित्युतरेऽभिप्रायः। एकाक्षरादिति। रसादिभ्यः पुनर्वचनमन्यनिवृत्यर्थमित्युक्तम्, तत्र च ठेकाचःऽ इति पठीतम्, तेनैतत्सिद्धम्। कार्यीति। कार्यशब्दात्कृदन्तात् प्रत्ययः। तन्दुलीति। जातेः ॥ व्रीह्यादिभ्यश्च ॥ ५।२।११६ ॥ शिखादिभ्य इति। शिखादयोऽत्रैव वक्ष्यन्ते। इकन्यवखदादिष्विति। विषयसप्तम्येषा। एतेऽप्यत्रैव पक्षयन्ते। इकन्निति। ठन्नित्यर्थः। पूर्वाचार्यप्रक्रियापेक्षस्त्विकन्निति निर्द्देशः श्लोकपूरणार्थः। परिशिष्टेभ्य उभयमिति। एतच्च सर्वमितिकरणानुवृतेर्लभ्यते। एवं तर्हीति। विपर्ययस्तु न भवति--तत्र स्वरूपग्रहणम्, इहार्थग्रहणामिति; असञ्जातविरोधित्वेनानैव स्वरूपग्रहणस्य युक्तत्वात् ॥ शीर्षान्नञ इति। नञः परो यः शीर्षशब्दस्तस्मादिनिठनौ भवतः---अशीर्षी, अशीर्षिकः। न विद्यते शिरो यस्य स एवमुच्यते। ठचि शीर्षेऽ इति शिरसः शीर्षभावः, वाक्येऽपि तस्यैव भीविनो निर्द्देशः ॥ तुन्ददिभ्य इलच्च ॥ ५।२।११७ ॥ स्वाङ्गाद्विवृद्धादिति। विवृद्ध्युपाधिकात्स्वाङ्गवाचिन इलजादयो भवन्ति, विवृद्धौ कर्णावस्य कणिलः, कर्णी, कणिकः, कर्णवान् ॥ एकगोपूर्वाट्टञ् नित्यम् ॥ ५।२।११८ ॥ एकशतमस्यास्तीति। एकं च तच्छतं चेति ठ्पूर्वकालेऽ इत्यादिना कर्मधारयः। षष्ठीतत्पुरुषाद् बहुव्रीहेर्द्वन्द्वाच्च न भवति; अनभिधानात्; इतिकरणानुवृतेश्च। कथमिति। एकगोशब्दस्याप्यनकारान्तत्वात्प्रशनः। समासान्ते कृत इति। ठ्गोरतद्धितलुकिऽ इति टचि। कथमिति। इवर्णान्त एव शककटिशब्दोऽस्तीति मन्यमानस्य प्रश्नः--अनभिधानादेव एकविंशत्यादिभ्यो न भविष्यति, किम् ठतऽ इत्यस्यानुवृत्या? तत्राह--अवशं चेति। एवमाद्यर्थमिति। एवमादि यत्सूत्रं तदर्शमित्यर्थः। ततः परे तु ये योगाः ठ्वातातीसाराभ्याम्ऽ इत्येवमादयः, तेषु ठतःऽ इत्यस्योपयोगो नास्तीति। नित्यग्रहणमित्यादि। अन्यथान्यतरस्यांग्रहणेन सर्वत्रैवान्न प्रकरणे मतुप्समुच्चयादत्रापि प्रसङ्गः। एकेन वेति। यद्यवश्यं समर्थयितव्यमिति भावः। तत्र ठ्सुप्सुपाऽ इति समासः। कथमेकदण्कडीति ? ठेकदेशिनैकाधिकरणेऽ इति निर्देशो ज्ञापयति--इनिरपि क्वचिद्भवतीति ॥ शतसहस्रान्ताच्च निष्कात् ॥ ५।२।११९ ॥ निष्कादित्येतद् गुणभूताभ्यामपि शतसहस्राभ्यां सम्बध्यते, न तदन्तेनेत्याह---तौ चेदिति। सुवर्णानिष्कशतमित्यादि। यत्र निष्कशब्दः पूर्वपदं न भवतीत्यर्थः। अन्तग्रहणं किम् ? ठ्निष्काच्छतसहस्राभ्याम्ऽ इत्युच्यमाने सन्देहः स्यात्--किं पूर्वपदम् ?--इति ॥ रूपादाहतप्रशंसयोर्यप् ॥ ५।२।१२० ॥ रूप्यो दीनार इति। पुरुषाद्याकारचिह्नितौ सुवर्णपरिमाणविशेषौ व्यवहाराय कल्पितौ दीनारकार्षाणौ। निगातिकाताडनादिनेति। तीक्ष्णाग्रा आयसी शलाकाउनिगातिका, यया पुरुषाद्याककारं सुवर्णादौ सुवर्णकारा उद्भावयन्ति। ठ्कृत्यल्युटो बहुलम्ऽ इति करणे ण्वल्--निहान्यतेऽनया निघातिका, तया यताडनम्, तदादिना। आदिशब्देन मुद्राप्रतिमुद्रणादि गृह्यते। क्वचिन्निघातिकाताडनेन पुरुषाद्याकार उद्भाव्यते, क्वचिन्मुद्रया प्रतिमुद्रयते दीनारादिषु, तदाहतमित्युच्यत इति। आहननेन निषपादितत्वात्। प्रायेण केदारशब्दः पठ।ल्ते, तस्यैवंविधेऽर्थे प्रसिद्धिर्मृग्या। हिम्याः पर्वता इति। हिमवान् तत्पर्यन्तवर्तिनश्च भूम्नि यप्। गुप्याःउगुणवन्तः। इनिरपि दृश्यते--ठ्गुण्यगुण्य इति न व्यजीगणत् ऽ ॥ आस्मायामेदास्रजो विनिः ॥ ५।२।१२१ ॥ मतुप् सर्वत्र समुच्चीयत एवेति। पूर्वं नित्यग्रहणेन अन्यतरस्यांग्रहणं तत्रैव न सम्बध्यते, इह तु सम्बध्यत एवेत्येव शब्दस्यार्थः। तथा च ठ्तसौ मत्वर्थेऽ इत्यत्र पयस्वान् यशस्वानिति भाष्ये उदाहृतम्। पयस्वीति। ठ्तसौ मत्वर्थेऽ इति भत्वाज्जश्त्वाभावः ॥ बहुलं च्छन्दसि ॥ ५।२।१२२ ॥ अष्ट्रावीति। अशेष्ट्रनि अष्ट्रा, दंष्टापर्यायोऽयं मन्त्रेषु प्रयुज्यते--ठष्ट्रां पूषा शिथिरामुद्वरीवृजत्ऽ, ठ्शुनमष्ट्रा व्यचरत्कपर्दीऽ इति, तत्रास्मादेव पाठाट्टाप। द्वयोभयहृदयानिति। अन्येषां स्वत एव दीर्घत्वात्। हृदयाच्चालुरन्यतरस्यामिति। अन्यतरस्यांग्रहणेनेनिठनौ प्राप्येते, चकारस्य ठ्चुटूअऽ इतीत्संज्ञा। एवमुतरत्रापि। अन्ते तु चकारो नैवास्ति। हिमाच्चेलुरिति। एकारादिः प्रत्ययः। बलादूलजिति। सिध्मादिषु मत्वर्थे बलूलवालूलयोः प्रकारान्तरेण व्युत्पत्तिर्दर्शिता। पर्वमरुद्भ्यां तन्निति। आद्यौदातार्थो नकारः। मरुतो नाम राजा, यत्रेदं क्षूयते--ठ्मरुतः परिवेष्टारो मरुतस्यावस्न् गृहेऽ इति। उपसर्गसंज्ञायां तु मरुच्छब्दस्योपसंक्यानाद् ठच उपसर्गातःऽ इति तत्वमनजन्तत्वेऽपि भवति। ठ्मरुत एनं देयासुर्मरुतःऽ इति व्युत्पत्तिर्दर्शिता। तत्र ठ्तृतीया कर्मणिऽ इति पूर्वपदप्रकतिस्वरः प्राप्नोति। मरुच्छब्दः ठ्मृगोरुतिःऽ इति उतिप्रत्ययान्तत्वादन्तोदातः तत्र ठुपसर्गाश्चभिवर्जम्ऽ इत्याद्यौदातत्वं द्रष्टव्यम् ॥ ऊर्णाया युस् ॥ ५।२।१२३ ॥ ऊर्णायुरिति।क पदत्वाद्यस्येतिलोपो न भवति ॥ वाचो ग्मिनिः ॥ ५।२।१२४ ॥ वाग्ग्मीति। चकारस्य कुत्वजश्त्वे, द्वयोर्गकारयोः श्रवणं भवति। अथ मिनिरेव कस्मान्नोच्यते, तत्रापि हि कुत्वजश्त्वयोर्वाग्ग्मीति सिद्ध्यत्येव; ननु चैवमेको गकारः स्यात्, न च ठनचि चऽ इति द्विर्वचनम्, ठ्दीर्घादाचार्याणाम्ऽ इति कप्रतिषेधात्। अथापि द्वयोरेकस्य वा श्रवणे विशेषो नास्तीत्युच्येत ? एवमपि ठ्यरोऽनुनासिकेऽ ठ्प्रत्यये भाषायां नित्यवचनम्ऽ इति नित्यमनुनासिकः प्राप्नोति, तथा--वाङ्भयम्, त्वङ्भयमिति ॥ आलजाटचौ बहुभाषिणि ॥ ५।२।१२५ ॥ यो हि सम्यगग्भाषत इति। बपह्वपीति भावः ॥ स्वामिन्नैश्वर्ये ॥ ५।२।१२६ ॥ स्वशब्दादैश्वर्यवाचिन इति। अन्यत्रात्मात्मीयज्ञातिधानवचिनोऽपि स्वशब्दस्यैतद्वृत्तिविषये ऐश्वर्यवाचित्वं स्वभावतो भवति, तेन धनवान्निर्धनो वेशिता स्वामीत्युच्यते, न त्वयं धनवचनः। तथा च धनस्य स्वामीत्यपि भवति; अन्यथा मतुप आमिनचा बाधप्रसङ्गः। अन्यतरस्यांग्रहणेन मतुप्समुच्चयेऽपि धनस्य श्वामतिवद् धनस्य स्ववानित्यपि प्राप्नोति। तस्मादैस्वर्यवचनः स्वशब्दः, न धनादिवचन इति स्थितम्। धनयोगादैश्वर्यमित्यपि नास्ति; कवागादिविषयेऽपि दर्शनात्--वाचस्पतिः, वाचः स्वमीति; न च तत्र धनत्वप्रसिद्धिरस्ति ॥ अर्शाअदिभ्योऽच् ॥ ५।२।१२७ ॥ स्वाङ्गाद्धीनादिति। हीनमुविकलम्। हीनस्वाङ्गवाचिनोऽञ्भवति। खञ्जः पादोऽस्यास्तीति खञ्जः। काणं चक्षुरस्यास्तीति काणः। कथं कुणिर्हस्तोऽस्यास्ति कुणिरिति ? अभेदोपचारात्। खञ्जादिष्वपि तर्हि तथैव भविष्यति ? इदं तर्हि प्रयोजनम्-भेदविवक्षायां मतुब्मा भूदिति। अथ कुणिशब्दान्मतुप् कस्मान्न भवति ? अनभिधानात्। शञ्जादिभ्योऽपि तर्ह्यनभिधानादेव मतुब्न भविष्यति ? अन्तोदातार्थं तु। ये आद्यौदाता हीनस्वाङ्गवाचिनस्तेष्वन्तोदातत्वं यथा स्याद्, यदि सम्भवति। वर्णादिति। वर्णवाचिनः शुक्लशब्दादच्प्रत्ययो भवति-शुक्लोऽस्यास्तीति शुक्लः पटः। ठ्गुणवचनेभ्यो मतुपो लुग्वक्तव्यःऽ इति सिद्धम् ? अन्तोदातार्थं तु। ये आद्यौदाता वर्णवाचिनस्तेषु तद्वत्यन्तोदातत्वं यथा स्यात्। अपर आह--गुणिवचनेभ्योऽयं तद्वति प्रत्ययो विधीयते, तेन शुक्लाः प्रासादा अस्मिन्नगरे शुक्लं नगरमिति भवतीति ॥ द्वन्द्वोपतापगर्ह्यत्प्रणिस्थादिनिः ॥ ५।२।१२८ ॥ तद्विषयेभ्य इति। तच्छब्देनोपतापो गर्ह्यं च प्रत्यवमृश्यते, न द्वन्द्वः; तस्यैव तद्विषयत्वासम्भवात्। प्राणिस्थार्थवाचिभ्य इति। इदं तु सर्वेषां ग्रहणम्। चित्रललाटिकावतीति। नियतद्रव्यविवक्षायां ठ्जातिरप्राणिनाम्ऽ इत्येकवद्भावाभावाट्टापः श्रवणम्। सिद्धे प्रत्यय इति। ठत इनिठनौऽ इत्यनेन। ठनादिबाधनार्थमिति। आदिशब्देन मतुपो गुहणम् ॥ वातातिसाराभ्यां कुक् च ॥ ५।२।१२९ ॥ वातातिसारयोरुपतापत्वादिति। अतिसारसाहचर्याद्वातस्यापि व्याधेरेव ग्रहणम्, न वायोरिति भावः। सिद्धे प्रत्यय इति। इनावेवेत्यर्थः। रोगे चायमिष्यते इति क्वचित्पठ।ल्ते, तत्रोक्तो हेतुः ॥ वयसि पूरणात् ॥ ५।२।१३० ॥ मासः संवत्सरो वेति। प्रकरणादिवशात्पञ्चमादिशब्दस्य काले वृत्तिः, ततश्च ठ्वयसि द्योत्येऽ इति विशेषणं तत्रोपपन्नमिति भावः ॥ सुखादिभ्यश्च ॥ ५।२।१३१ ॥ इनिः प्रत्ययो नियम्यते इति। पूर्वसूत्रे इनिरेव भवतीति नियमस्वरूपं दर्शितम्, इहापि तथैव नियमः। नन्वेवं यत एवकारस्ततोऽन्यत्रावधारणमिति सुखादय एव नियता भवन्ति, तत्किमुच्यते--ठ्प्रत्ययो नियम्यतेऽ इति? अन्यनिवृत्तिविशिष्ट्ंअ व्यस्थापनगत्र नियम इत्यदोषः। मतुब्बाधनार्थं वचनमिति। न तु ठन्बाधनार्थम्; ठ्शिखादिभ्य इनिर्वाच्यःऽ इत्यनेनैव ठनो निवर्तितत्वादिति भावः ॥ धर्मशीलवर्णान्ताच्च ॥ ५।२।१३२ ॥ ब्राह्मणवर्णिति। ब्राह्मणानां वर्णःउजातिः, तद्वान् ब्राह्मणवर्णी ब्राह्मण एव ॥ हस्ताज्जातौ ॥ ५।२।१३३ ॥ इनिः प्रत्ययो नियम्यते इति। मत्वर्थसम्भवमात्रेणात्र प्रकरमे नियमवाचोयुक्तिः। परमार्थतस्तु विधिरयम्, कथम् ? गजशब्दवज्जातिशब्दोऽयम्, नात्र मत्वर्थगन्धोऽस्ति। तथा च विहस्तेऽपि गजे हस्तीति भवति; जातिसद्भावात्। हस्तसम्बन्धविवक्षायां च हस्तिन्यपि मतुब्भवति--हस्तवान्, हस्ती; हस्तवान्पुरुष इतिवत्। एवमुतरेष्वपि योगेषु द्रष्टव्यम्। हस्तग्रहणं चोपलक्षणार्थं मन्यते, तेन दन्ती, विषाणी, केसरीत्यादि सिद्धं भवति ॥ वर्णाद् ब्रह्मचारिणि ॥ ५।२।१३४ ॥ ब्रह्मचारीति त्रैवर्णिकोऽभिमत इति। यद्यपि गुरुकुलवासिनि प्रथमाश्रमे ब्रह्मचारिशब्दः प्रसिद्धः, तथापीह लक्ष्यानुरोधात्रैवर्णिकमात्रमभिमतः, न त्वाश्रम इत्यर्थः, तस्य कादाचित्कं व्रह्मचर्ययोगं दर्शयति। स हीति। ब्रह्म चरतीति ब्रह्मचारी, ब्रह्मौवेदः। इह तु तदध्ययनार्थो नियमविशेषोऽभिमत इत्याह--नियममिति। तत्र ब्रह्मचारीति ठ्व्रतेऽ इति णिनिः। ब्रह्मचारिशब्दस्य मुख्यार्थपरित्यागेन त्रैवर्णिकमात्रपरत्वे कारणमाह--ब्राह्मणादयस्त्रयो वर्णा इति ॥ पुष्करादिभ्यो देशे ॥ ५।२।१३५ ॥ अर्थीति। असन्निहितोऽर्थोऽस्येत्यर्थः। कालतश्चासन्निधिः, न देशतः। तत्र विरोधादस्तीति न सम्बद्ध्यते, ततश्चाप्राप्त एवेनिर्विधीयते, तक्रकौण्डिन्यन्यायेन च सतोपाधिकादिनेरभावः। अर्थवानिति। सन्निहितार्थ उच्यते। तदन्ताच्चेति। ग्रहणवता प्रातिपादिकेन तदन्तविधिप्रतिषेधादयमारम्भः। धान्यार्थीति। धान्यरुपोऽर्थोऽसन्निहितोऽस्तेत्यर्थः, कर्मधारयादिनिः। नन्वर्थयतेर्णिनिनैतत्सिद्धम्--धान्यमर्थयते धान्यार्थी ? एवमपि णिनीति पूर्वपदप्रकृतिस्वरः प्राप्नोति। एवं तर्हीदं स्यात्--अर्थनमर्थःउप्रार्थना, सा यस्यास्ति सोऽर्थी, धान्यस्यार्थो धान्यार्थःउधान्यप्रार्थना, सा यस्यास्ति सा धान्यार्थीति। एवं च कृत्वेदमपि सिद्धं भवति--अर्थिकः, प्रत्यर्थिक इति। ठर्थाच्चासन्निहितेऽ इति तूच्यमाने इनेरेव विधानाट्ठन्न स्यात्। ठेकाक्षरात्कृतो जातेःऽ इति प्रतिषेधोऽनित्यः, तेन कार्यी कार्यिक इतिवद् इनिठनौ भविष्यतः, मतुबनभिधानान्न भविष्यति। न च धनवाचिनोऽर्थशब्दात्सन्निहितादपीनिठनोः प्रसङ्गः; अनभिधानात्। एवम् ठर्थाच्चासन्निहितातदन्ताच्चऽ इति न वक्तव्यमिति स्थितम् ॥ बलादिभ्यो मतुबन्यतरस्याम् ॥ ५।२।१३६ ॥ अन्यतरस्यांग्रहणेनेत्यादि। पूर्ववत्समुच्चये तस्य वृतेः? चकार एव तु न कृतः, किं कुर्मः! यदि तु विकल्पार्थेनानेन प्रत्ययो विल्प्येत, ततो मतुपा मुक्ते यथाप्राप्तमिनिठनौ द्वावपि स्याताम्। नन्वेवं सति सूत्रारम्भोऽनर्थकः स्यात्, विनाप्यनेन प्रत्ययत्रयस्य सिद्धत्वात्, तत इनिरेव भविष्यति। कुतो नु खल्वेतद्--इनिरेव भविष्यति न पुनष्ठनेव स्यादिति ? तस्मात्समुच्चयः ॥ संज्ञायां मन्माभ्याम् ॥ ५।२।१३७ ॥ प्रथमिनि, दामिनीति। ठनिनस्मन्ग्रहणान्यर्थवता चानर्थकेन चऽ इति तदन्तविधिः, ठ्नस्तद्धितेऽ इति टिलोपः ॥ कंशंभ्यां बभयुस्तितुतयसः ॥ ५।२।१३८ ॥ कंशमिति मकारान्ताविति। ठ्कशब्दः सुखवार्वायुब्रह्ममस्तकवाचकःऽक इत्यकारान्तः कशब्दो यद्यपि प्रसिद्धः, मकारान्तोऽपि क्वचिदस्तीति प्रदर्शनार्थम् ठ्मकारान्तौऽ इत्युक्तम्। उदकसुखयोर्वाचकाविति। न यथासंख्यम्, किं तर्हि ? यथासम्भवम्। कमित्युदकसुखयोर्वाचकम्, शमिति सुखस्य। ठल्पाच्तरम्ऽ इति सुखस्य पूर्वनिपातः प्राप्तः न कृतः सूत्रकारेणैव; तत्र व्यभिचरितत्वात्। उदाहरणेष्वलनुस्वारपरसवर्णौ, तत्र यकारवकारयोः सानुनासिकौ यकारवकारौ ॥ अहंशुभयोर्युस् ॥ ५।२।१३९ ॥ अहमिति शब्दान्तरमेवेति। ननु नात्र कश्चिच्छब्दः प्रकृतो यदपेक्षं शब्दान्तरत्वं स्यात् ? सत्यम्; ठ्त्वाहौ सौऽ इत्यस्मदादेशोऽहंशब्दः प्रसिद्धिवसाध् बुद्धिस्थो निर्द्दिष्टप्रायः, तदपेक्षं शब्दान्तरत्वम्। अहङ्ककारे वर्तते इति। अनेनार्थबेदमाह--ठ्गर्वोऽभिमानोऽहङ्कारःऽ। अहंयुः, शुभंयुरिति। पूर्ववदनुस्वारपरसवर्णै। ठूर्णाया युस्ऽ इत्यत्र ये ठ्च्छन्दसिऽ इति नानुवर्तयन्ति तेषामत्रैवोर्णाग्रहणं कर्तव्यम् ॥ इति क्षीहरदतमिश्रविरचितायां पदमञ्जर्या पञ्चमस्याध्यायस्य द्वितीयः पादः -------------------- काशिकावृत्ति अथ पञ्चमाध्याये तृतीयः पादः प्राग्दिशोविभक्तिः ॥ ५।३।१ ॥ विभक्तिसंज्ञास्ते वेदितव्या इति। विभक्तिरिति शब्दः संज्ञा येषां ते तथोक्ताः। ननु विभक्तिशब्दः पूर्वमेव सुप्तिङं संज्ञात्वेन विनियुक्तः,क संज्ञा च प्रदेशेषु संज्ञिनं प्रत्याययति न स्वरूपम्, अतः सुप्तिङमेव संज्ञात्वं युक्तम्, न विभक्तिशब्दस्य ? सत्यम्; सुप्तिङ्स्तु संज्ञा भवन्तः प्रत्येकम्, समुदिता वा भवेयुः; न तावत्प्रत्येकम्, अनेकसंज्ञाकरणे प्रयोजनाभावात्; नापि समुदिताः, गौरवादनावृतेश्च। आवर्तिन्यो हि संज्ञा भवन्ति, न च समुदाय आवर्तते। अपर आह्--ठ्ठ्यथा ठ्किनौ लिट् चऽ इति लिड्वद्भावो विधीयते, तथात्रापि विभक्तिवद्भावो विधीयतेऽऽ इति। सुप्तिङं तु विधानमत्र नाशङ्कनीयम्; पूर्वमेवविहितत्वात्। त्यदादिविधय इति। त्यदादीनां यानि कार्याणि त्यदादित्वप्रयुक्तानि स्वरूपप्रयुक्तानि वा ते त्यदादिविधयः। उपलक्षणं चैतत्, दानीमो मकारस्य ठ्न विभक्तौ तुस्माःऽ इतीत्संज्ञाप्रतिषेधोऽपि प्रयोजनम्। ततः, यत इति। ठ्त्यदादीनामःऽ इत्यत्वम्। अत्र सकारस्यानन्त्यत्वादेवेत्संज्ञाभावः। कृत इति। ठ्कुति होःऽ इति कुभावः। कदेति किमः कादेशः। क्वेत्यत्र ठ्क्वातिऽ कैति क्वभावः इहेति। ठिदमो हः,ऽ ठिदम इश्ऽ। अत्र प्रत्ययस्वरेणैव सद्धिमुदातत्वम्। तस्मादित इत्येवलोदाहरणं विभक्तिस्वरस्य; अन्यथा ठ्लितिऽ इति प्रत्ययात्पूर्वमुदातं स्यात्। ननु च ठ्मध्येऽपवादाःऽ इति न्यायाद् ठनुदातौ सुप्पितौऽ इत्यस्यैव विभक्तिस्वरोऽपवादः, न लित्स्वरस्य, लित्स्वर एव तु विभक्तिस्वर परत्वाद्बाधेत? नैष दोषः; नात्राकृते लित्स्वरे विभक्तिस्वरः प्राप्नोति, किं कारणण् ? ठन्तोदातात्ऽ इति वर्तते, तत्र निमितमेव लित्स्वरो विभक्तिस्वरस्य। यद्यपि ठूडिदम्ऽ इत्यत्र ठ्सावेकाचःऽ इत्यतस्तृतीयादिग्रहणमनुवर्तते, तथाप्या पञ्चमाध्यायपरिसमाप्तेर्यावान्प्रत्ययो विभक्तिसंज्ञकः सर्वोऽसौ तृतीयादिरिति तसिलादयोऽपि तृतीयादिग्रहणेन गृह्यन्त एव। अतः परमित्यादि। एतत् ठ्समर्थानां प्रथमाद्वाऽ इत्यत्रैव व्याख्यातम्। वावचनं त्वनुवर्तत एवेति। तस्य पृथकस्वरितत्वात्। अथ ठ्सुपः, विभक्तिश्चऽ इत्यत्रैव ठ्प्राग्दिशश्चऽ इत्युच्येत? नैवं शक्यम्; एवं ह्युच्यमाने न ज्ञायते--कुत आरभ्य प्राग्दिशीया ? इति। बहवश्च दिक्शब्दाः--दिगादिभ्यो यत्ऽक इत्येवमादयः, ततश्चावधिरपि न निश्चितः स्यात्। ठ्किंसर्वनामबहुब्यःऽ इत्यादेश्च कार्यस्य विषयनियमार्थं पुनरिह ठ्प्राग्दिशःऽ इति वाच्यमेव स्यात्। यदि पुनरिहैव ठ्सुप्तिङै चऽ इत्युच्येत? एवमपि ठ्तिङ्स्त्रीणित्रीणिऽ इत्यत्र तिङ्ग्रहणम् सुप इति च तत्र वक्त्व्यं पुरुषवचनसंज्ञार्थम्, तत्र नास्ति विशेषः ॥ किंसर्वनामबहुभ्योऽद्व्यादिभ्यः ॥ अधिकारोऽयम्, परिभाषा वेति दर्शयति। प्रत्ययो वेदितव्य इति। द्वाभ्याम्, द्वयोरित्यत्र तसिल्त्रलौ न भवतः। प्रकृतिपरिसंख्यानमुप्रकृतिपरिगणनम्। वैयाकरणपाश इति। अस्तात्यादयो ग्रहणवद्भ्यो विधीयन्त इति प्रकृतिपरिसंख्यानस्य तत्रासम्भवाद्व्यवहितोऽपि पाशप् प्रत्युदाहृतः। द्व्यादिपर्युदासादिति। यदि पुनरयं द्व्यादिभ्यः प्राक् किं पठ।लेत, नैवं सक्यम्; एकशेषे हि दोषः स्यात्, त्यदादीनां यद्यत्परं तत्च्चिष्यतेत्वं च कश्च कौ, भवांश्च कश्च कौ। बहुग्रहणे संख्याग्रहणमिति। कथमिह सर्वनामसंज्ञया संज्ञिनो निर्द्दिश्यन्ते ? तैः साहचर्याद् बहुशब्दस्यापि संज्ञिनो ग्रहणम्, यस्य ठ्बहुगणवतुडतिसंक्याऽ इति संख्यासंज्ञा विहिता, न च तत्र वैपुल्यवाचिनो ग्रहणमिति अत्रापि तस्य ग्रहणाभावः ॥ इदम इश् ॥ ५।३।३ ॥ शकारः सर्वादेशार्थ इति। अन्यथा विशेषविहितत्वात्यदाद्यत्वं बाधित्वा ठलोऽन्त्यस्यऽ इति मकारस्येत्वे हलिलोपे च-एतः, एहेत्यनिष्ट्ंअ रूपं स्यात् ॥ एतेतौ रथोः ॥ ५।३।४ ॥ इशोऽपवाद इति। भावे घञ्, इशो बाधनमेताभ्यां क्रियत इत्यर्थः। योगापेक्षं त्वेकवचनम्, अयं योग इसोऽपवाद इत्यर्थः। आदेशाभ्यां वा प्रत्येकमभिसम्बन्धादेकववनम्, यथा ठ्भूशादिभ्यो भुव्यच्वेःऽ इति। इशोऽपवादाविति वा पठितव्यम्। रेफेऽकार उच्चारणार्थ इति। अकारवतो रेफस्य प्राग्दिशीयस्याभावात् ॥ एतदोऽशु ॥ ५।३।५ ॥ शकारः सर्वादेशार्थ इति। अन्यथा ठलोऽन्त्यस्यऽ इत्यन्त्यस्य स्यात्। ननु चान्त्यस्य त्यदाद्यत्वेनैव सिद्धमत्वम्, कृते तर्हि तस्मिन्नकारस्याकारः प्राप्नोति, अकारस्य अकारवचने प्रयोजनाभावत्सर्वादेशो भविष्यति ? अस्त्यन्यदकारस्याप्यकारवचने प्रयोजनम्, किम् ? योऽन्यो विधिः प्राप्नोति स मा भूदिति। कः पुनरसौ ? ठ्लितिऽ इति स्वरः। यथा--ठ्मो राजि समः क्वौऽ इति मकारस्य मकारवचनमनुस्वारबाधनार्थम्। योगविभाग इति। अशो बाधनार्थः। थमुप्रत्ययः पुनरिति। अन्यथा य एवासावविसेषविहितस्थाकारादिः ठ्प्रकारवचने थाल्ऽ इति तत्रैव स्यात्। स तर्ह्युपसंख्येयः ? नेत्याह, इदमा थकरादिं विशेषयिष्यामः-- इदमो यस्थकारादिश्तत्रेति, स च थमुरेव। ततश्चास्मादेव ज्ञापकात्थमुर्बविष्यति, तेन च थाल्बाध्यते। भाष्ये तु ठेतदोऽन्ऽ इति नकारान्त आदेश इति स्थितम्। स चानेकाल्त्वात्सर्वादेशः, ततः स्थानिवद्भावात्प्रातिपदिकत्वे सति नलोपः---अतः, अत्र॥ सर्वस्य सोऽन्यतरस्यां दि ॥ ५।३।६ ॥ ठ्दिऽ इति दकारदियं सप्तमी, तत्र ठ्यस्मिन् विधिःऽ इति तदादेर्ग्रहणं विज्ञायत इत्याह--दकारादौ प्रत्यये परत इति। सर्वदा ब्राह्मणीति। किमर्थं स्त्रीलिङ्गोपन्यासः ? यो हि मन्यते--दीति दाशब्दादियं सप्तमी न तु दकारात्, तत्र क्त्वो ल्यप्, ठ्हलःऽ ठ्श्नःऽ इत्यादिवदातो लोप इति, तं प्रति दाशब्दः प्रत्युदाहृतः। एवमपि लाक्षणिकत्वादत्र दाशब्दस्य न भविष्यति ? एवं विजन्तमेतद् द्रष्टव्यम्, एवं च कृत्वा पुंल्लिङ्गमप्युदाहरणं भवत्येव ॥ पञ्चम्यास्तसिल् ॥ ५।३।७ ॥ तसिल्प्रत्ययो भवतीति। यदि पुनः ठ्पञ्चम्याःऽ ठ्सप्तम्याःऽ इति षष्ठ।लश्रयेण पञ्चम्यादीनां तसिलादय आदेशा विज्ञायेरन्, सुब्लुक्स्वरगुणदीर्घत्वैत्वौत्वस्मायादिविधिप्रतिषेधः। सुब्लुक्--ठव्ययात्यप्ऽ, ततस्त्यः, तत्रत्यः, ठ्सुपो धातुप्रातिपदिकयोःऽ इति तसित्रलोर्लुक् प्राप्नोति। स्वरः---तदा, यदा, ठनुदातौ सुप्पितौऽ इत्यनुदातत्वं प्राप्नोति। गुणः--कुतः, ठ्घेङितिऽ इति गुणः प्राप्नोति। दीर्घत्वम्--तर्हि, ठतो दीर्गो यञिऽ, ठ्सुपि चऽ इति दीर्घत्वं प्राप्नोति। एत्वम्---तर्हि, ठतो दीर्घो यञिऽ,ठ्सुपि चऽ इति दीर्घत्वं प्राप्नोति। एत्वम्--तेषु, तत्र, ठ्बहुवचने झल्येत्ऽ प्राप्नोति। औत्वम्-कस्मिन्, कुत्र, ठौत्ऽ ठच्च घेःऽ इत्यौत्वं प्राप्नोति। स्मायादितस्मात्, तस्मिन्, तत्र, ठ्ङसिड्योः स्मात्स्मिनौऽ इति स्मात्स्मिनौ प्राप्नुतः। तस्मात् ठ्पञ्चम्याः सप्तम्या इति पञ्चमी, तसिलादयश्च प्रत्ययाःऽ इति युक्तम्। अत एव ठितराभ्यःऽ इति पञ्चमीनिर्द्देशः; इतरथा ठितरासाम्ऽ इति वक्तव्यं स्यात्। यदि तर्हि तसिलादयः प्रत्ययाः, नादेशाः, ठ्तसेश्चऽ इति तस्यतेर्धातोरपि दोषः; ठ्प्रतियोगे पञ्चम्यास्तसिःऽ, ठपादाने चाहीयरुहोःऽ इत्यत्रअप्यदेशत्वात्पञ्चम्यादेशस्य तसेस्तसिलादेशविदानात् ? प्रत्ययपक्षेऽपि न दोषः; तसेरितीकारो विवक्षितः, तेन धातोर्न भविष्यति ॥ तसेश्च ॥ ५।३।८ ॥ तस्य तसेरिति। परत्वात्कृतस्य तसिलोऽवकाशः--कुतोऽवहीयते, कुतोऽवरोहतीति, तसेस्तु ग्रमत आगच्छतीत्यादिः; कुत आगच्छतीत्यादावुभयप्रसङ्गे परत्वातसकिर्भवति, तस्यानेन तसिलादेसः। तसेस्तसिल्वचनं स्वरार्थमिति। लित्करणस्योक्तं प्रयोजनम्। विभक्त्यर्थं चेति। विभक्तिसंज्ञार्थं चेत्यर्थः। अन्यथा परत्वातसौ कृते तस्याप्राग्दिशीयत्वाद्विभक्तिसंज्ञाया अभावात्यदाद्यत्वं न स्यादिति रूपमेव न सिद्ध्येत् ॥ पर्यभिभ्यां च ॥ ५।३।९ ॥ सर्वोभयार्थे वर्तमानाभ्यामिति। अत्र चाभिधानस्वाभाव्यं हेतुः, तेनेह न भवति-परिषिञ्चति, अभियातीति; उपर्यर्थे परिः, आभिमुख्येऽभिः। इह त्वोदनं परिषिञ्चतीति सर्वतोभावेऽपि वावचनानुवृतेः पक्षे तसिलभावः। सर्वतः, उभयत इति। सप्तम्यन्ताभ्यामाद्यादित्वातसिः ॥ किमोऽत् ॥ ५।३।१२ ॥ तकारस्य ठ्न विभक्तौ तुस्माःऽ इतीत्संज्ञाप्रतिषेधो न भवति; अनित्यत्वात्। अनित्यत्वं तु ठिदमस्थमुःऽ इति थम उकारान्मकारस्येत्संज्ञापरिहाणार्थाज्ज्ञायते। दानीमस्तु मकारस्य भवत्येव प्रतिषेधः। अनित्यत्वं हि ज्ञाप्यते, न पुनस्तद्धितेष्वस्याभावः। उतरसूत्रादिति। ठ्किमोऽद्वाऽ इति सूत्रं पठितव्यम्। ठ्ह च च्छन्दसिऽ इत्यत्र चकारेण त्रतलोः समुच्चयादिष्टसिद्धिरिति तेषां भावः। भागवृत्तिकारस्तु भाषायामेतन्नेच्छति ॥ इतराभ्योऽपि दृश्यन्ते ॥ ५।३।१४ ॥ पञ्चमीसप्तम्यपेक्षमितरत्वमिति। तयोरनन्तरनिर्द्दिष्टत्वात्। प्रायिकविध्यर्थमिति। प्रायिकोऽयं विधिर्यथा स्यादित्येवमर्थमित्यर्थः। तेन किं सिद्धं भवति ? इत्याह-तेनेति। स, भवान् ततो भवानित्यादि। अयं भवानिह भवानित्यादि हस्योदाहरणम्, को बवान्, क्व भवानित्यादि अतः। दीर्गायुःप्रमृतिष्विति। ठ्नित्यं समासेऽ इति सत्वं न भवति; उतरपदस्थत्वात्। ठिसुसोः सामर्थ्ये इति विकल्पोऽपि न भवति; व्यपेक्षायास्तत्राश्रयणात्। सर्वैकान्यकिंयतदः काले दा ॥ ५।३।१५ ॥ सप्तम्या इति वर्तत इति। स्वरितत्वात्। न त्वितराभ्य इति। विपर्ययात् ॥ इदमो र्हिल् ॥ ५।३।१६ ॥ लकारः स्वरार्थ इति। यथा हीत इत्यत्र ठूडिदम्ऽ इत्यादिना स्वरो भवति, तथेह न भवति; लित्वस्याचरीतार्थत्वात्। तसिलस्तु लित्वलमिदमोऽन्यत्र चरितार्थम् ॥ अधुना ॥ ५।३।१७ ॥ इदमोऽशू भावो धुना च प्रत्यय इति। तत्र ठूडिदम्ऽ इत्यादिना विभक्तिस्वरः, स च ठादेः परस्यऽक इत्यादेर्भवति। भाष्ये त्वधुनाप्रत्यय आश्रितः, तत्रेदम इशो यस्येतिलोपः, निपातनाच्च मध्योदातत्वम् ॥ तदो दा च ॥ ५।३।१९ ॥ दावचनमिति। अपर आह--ठदाप्रत्ययोऽयं न दाप्रत्ययःऽ इति, तत्राद्यौदातत्वं पक्षे भवति ॥ तयोर्दार्हिलौ चच्छन्दसि ॥ ५।३।२० ॥ तयोरिति प्रातिपदिकनिर्द्देशः, व्यत्ययेन पञ्चम्याः स्थाने षष्ठी ॥ सद्यः परुत्परार्यैषमः परेद्यव्यद्य पूर्वेद्यौरन्येद्यौरन्यतरेद्यौरितरेद्यौरपरेद्यौरधरेद्यौरुभयेद्यौरुतरेद्यौः ॥ ५।३।२१ ॥ अहन्यभिधेय इति। सप्तम्यन्तस्याहन्शब्दस्यार्थ इत्यर्थः। तद्दर्शयति--समानेऽह्नि सद्य इति। एवं संवत्सरेऽभिधेय इत्यादिष्वपि द्रष्टव्यम् । उभयोरह्नोरुभयेद्यौरिति पाठः। प्रायेण तु उभयस्मिन्नहनीति पठ।ल्ते, तत्रोभे अहनी अवयवौ यस्य समुदायस्य तदहर्द्वयमुभयमहरित्युक्तम् ॥ प्रकारवचने थाल् ॥ ५।३।२३ ॥ सामान्यस्य भेदको विशेषः प्रकार इति। यथा ब्राह्मणसामान्यस्य माठरादयः। अनेनैतद्दर्शयति--यद्यपि सादृश्यमपि प्रकारः, यथा ठ्प्रकारे गुणवचनस्यऽ इत्यत्र वक्ष्यति--ठ्प्रकारो भेदः सादृश्यं च, तदिह सादृस्यं प्रकारो गृह्यएऽ इति; तथापि नेह सादृस्यं गृह्यते, अनभिधानादिति। तेन प्रकारेण तथेति। प्रथमान्तातु न भवति--स प्रकारस्तथेति; अनभिधानादेवेति भावः। किंसर्वनामबहुभ्यो विशे,विहिंतेन थाला सामान्यविहितस्य जातीयरो बाधप्रसङ्ग इत्याशङ्क्याऽऽह--जातीयरोऽपीति। सत्यं जातीयरोऽपीदृशमेव लक्ष्णं ठ्प्रकारवचने जीतीयर्ऽ इति, कथं तर्ह्यबाध? अत आह--स त्विति। अर्थभेदाद् भेद इत्यर्थः। एवं च कृत्वा प्रकारमात्रे थालं विधाय तदन्तात्प्रकारवति जातीयरं प्रयुञ्जते--तथाजातीयः, यथाजातीय इति ॥ किमश्च ॥ ५।३।२५ ॥ योगविभागा उतरत्र किम एवानुवृत्तिर्यथा स्यादिदमो मा भूदिति॥ दिक्शब्देभ्यः ॥ ५।३।२७ ॥ सप्तमीपञ्चमीप्रथमाभ्यो दिग्देशकालेष्वस्तातिः ॥ दिशां शब्दाः दिक्शब्दाः, षष्ठीसमासः। दिशां ये वाचकास्ते दिवशब्दा इति। दिशां ये वाचकत्वेन दृष्टाः, त इह दिक्शब्दा विवक्षिता इति, न तु दिशमभिदधाना एवेत्यर्थः। तेभ्य इति। यद्यपि पूर्वादिशब्दा दिशि वर्तमानाष्टाबन्ताः, देशकालयोस्तु प्रकृत्यन्ता इति रूपभेदः, तथापि टापः स्वार्थिकत्वाद्वाचकरूपे भेदाभावात् त एव दिक्शब्दा देशकालयोर्वर्तन्त इति वाचोयुक्तेर्नास्ति विरोधः। ये त्वर्थभेदं मन्यन्ते, तेषां सादृश्यनिबन्धनस्तेभ्य इति व्यपदेशः। कथं पुनर्द्दिक्शब्दा देशकालयोर्वर्तन्ते ? स्वभावाकत्। पूर्वादयो हि दिशामिव देशकालयोरपि स्वभावादेव वाचकाः। कथं तर्हि त्रिषु वर्तमाना दिशैकया व्यपदिश्यन्ते-दिस्शब्देभ्य इति? को दोषः; अन्वयेन ह्ययं व्यपदेशः, न तु दिशामेव ये शब्दाः-इत्यवधारणेन। अथ देशकालयोरन्यतरेण कस्मान्न व्यपदिश्यन्ते ? शिंशपाचोद्यमेतत्। किं च, दिशां निर्द्देशे लाघवं भवति। दिक्शब्दस्योपलक्षणत्वात्पुनर्दिग्ग्रहणम्, अन्यथा देशकालवृत्तिभ्य एव स्यात्, न दिग्वृत्तिभ्यः। इह सप्तम्यादीनां विभक्तीनामर्थानां दिगादीनां च साम्यात्संख्यातातुदेशः स्यादिति ? तत्राह---यथासंख्यमत्र नेष्यत इति। अस्वरितत्वात्। पुरस्ताद्, अधस्तादिति। पूर्वाधरशब्दयोः ठस्तातिऽ इति पुर, अध्--इत्येतावादेशौ। ऐन्द्र।लं दिशि वसतीति। ऐन्द्रीशब्दोऽयम् इन्द्रसंबन्धिस्त्रीलिङ्गवस्तुमात्रमाह, दिक्शब्दसन्निधौ तु दिशि वर्तते इति न दिक्शब्दः। किञ्च, दिक्शब्देभ्य इत्येतस्मिन्नसति ये देशवाचिनः पञ्चालादयः, ये च कालवाचिनो मासादयः, तेभ्योऽपि प्रसङ्गः। अस्मिंस्तु सति दिक्शब्दा एव ये देशकालयोर्वर्तन्ते तेभ्य एव भवति। दिग्देशकालेष्विति किमिति। ठ्दिक्शब्देभ्यःऽ इतिशब्दग्रहणाद्दिशि दृष्टः शब्दो दिक्शब्द इति व्युत्पत्या देशकालवृत्तिभ्योऽपि सिद्धः प्रत्ययः, ठ्दिक्शब्दाञ्चूतरपदऽ इति पञ्चमीवदिति मत्वा प्रश्नः। पूर्वस्मिन्गुराविति। पूर्वशब्दोऽत्र दिगादिसम्बन्दाद्गुरौ वर्तते, न दिगादिषु ॥ दक्षिणोतराभ्यामतसुच् ॥ ५।३।२८ ॥ किमर्थमतसुजुच्यते, न तसुजेवोच्येत्, तत्रायमप्यर्थः-- स्वरार्थश्चकारो न कर्तेव्यो भवति, प्रत्ययस्वरेणैवक सिद्धम्, का रूपसिद्धिः ? दक्षिणोतरशब्दावकारानेतौ। यदा तर्हि दिशि वर्तमानौ दाबन्तौ भवतस्यदा यस्येतिलोपेन टापो निवृत्तिर्यथा स्यादित्येवमर्थोऽकारः, सिद्धाऽत्र टापो निवृत्तिः, कथम् ? ठ्तसिलादिष्वाकृत्वसुचःऽ कैति पुंवद्भावात्। ननु च समानायामाकृतौ भाषितपुंस्कस्य तेन पुंवद्भावः, आकृत्यन्तरे चैतौ भाषितपुंस्कौ, कथम् ? दिशि वर्तमानाः पूर्वादयो निमितान्तरनिपेक्षाः, देशकालयोस्तु व्यवस्थापेक्षाः। कथं तर्हि दिशि वर्तमानानां सर्वनामसंज्ञा भवति, यावता व्यवस्थायामित्युच्यते ? अत्राहुः--यद्यपि दिशि षर्तमानानां व्यवस्था न प्रवृत्तिनिमितम्, वस्तुतस्तु व्यवस्था विद्यते इति भवत्येव संज्ञा। व्यवस्थायामिति हि विषयो निर्द्दिश्यते, न तु प्रवृत्तिनिमितम्। तथा चोतराः कुर्व इत्यत्र निरूढत्वाद्व्यवहारस्य प्रयोक्तृभिरनपेक्ष्यमाणाया अपि वस्तुतो व्यवस्थायाः सद्भावात्सर्वनामसंज्ञाप्रसङ्गेऽसंज्ञायामिति प्रतिषेधः कृत इति। तदेवमाकृतिभेदातसिलादिष्वति पुंवद्भावो न सिद्धयति। एवं तर्हि ठ्सर्वनाम्नो वृत्तिमात्रे पुंवद्भावःऽ इति पुंवद्भावो भवि,यति, यथा दक्षिणोतरपूर्वाणामित्यत्र, तस्मान्नार्थोऽकारकरणेन ? इत्यत आह--अकारो विशेषणार्थ इति। ठ्षष्ठी तसर्थप्रत्येनऽ इत्युच्यमाने ततो ग्रामादागत इति तसिलापि योगे षष्ठी स्यात् ? ठपपदविभक्तेः कारकविभक्तिर्बलीयसीऽ। इह तर्हि ततो ग्रामादन्य इत्यन्यादियोगे या पञ्चमी, तां बायत्वा षष्ठी स्यात् ? ठ्निरनुबन्धकग्रहणे न सानुबन्धकस्यऽ इत्येवं तसिलादियोगे न भविष्यति। यस्तर्हि निरनुबन्धकः ठ्प्रतियोगे पञ्चम्यास्तसिःऽ ठ्तेनैकदिक्ऽ, ठ्तसिश्चऽ, तत्र मा भूतर्जुनतः प्रत्यभिमन्युः, सुदामतो विद्यौदिति ॥ अञ्चेर्लुक् ॥ ५।३।३० ॥ अञ्चत्यन्तेभ्य इति। केवलेभ्यः, लिङ्गविशिष्टेभ्यश्च। स्रीप्रत्ययोऽपि निवर्तत इति। एवं चाकारलोपः, ठ्चौऽ इति दीर्घत्वं च नास्तीति, प्रागित्यत्र सवर्णदीर्घत्वम्, प्रत्यगित्यत्र यणादेशः ॥ पश्चात् ॥ ५।३।३२ ॥ अपरस्य पश्चभाव इति। केवलस्य लिङ्गविशिष्टस्य च । दिक्पूर्वपदस्य चेति। दिग्वचनः पूर्व पदं यस्य तथोक्तः। दक्षिणपश्चादिति। दक्षिणस्या अपरस्याश्च दिशो यदन्तरालमिति ठ्दिङ्नामान्यन्तरालेऽ इति बहुव्रीहिः, दक्षिणापरा, तस्यां वसतीत्यातिप्रत्ययः, अपरस्य च पश्चभावः। अर्धोतरपदस्य चेति। अपरस्य चेत्येव। विनापी पूर्वपदेनेति। अपरस्य, अर्धोतरपदस्येति सम्बन्धः ॥ उतराधरदक्षिणादातिः ॥ ५।३।३४ ॥ आतिप्रत्ययो भवतीति। दक्षिणोतराभ्यामतसुजपि भवति, अधरशब्दादस्तातिरपि; ठस्ताति चऽ इत्यधरशब्दस्याधादेशविधानाल्लिङ्गात्। अत्र चोतरादीनां सप्तम्यादीनां च साम्ये सत्यपि पूर्ववद्यथासंख्याभावः। अस्तादिस्तूतरादीनां न सम्भवति, दक्षिणशब्दस्य काले वृत्यसम्भवात् ॥ एनबन्यतरस्यामदूरेऽपञ्चम्याः ॥ ५।३।३५ ॥ अदूरे चेत्यादि। यद्यप्यवधिरवधिमान् वा सूत्रे न श्रूयते, तथापि दिक्शब्दानामवध्यपेक्षा प्रवृत्तिर्भवति। अवधिश्चावधिमन्तमपेक्षते इति सामर्थ्यादेव विशेषो लभ्यते। तत्र देशकालयोरवध्यपेक्षायां न विवादः, दिशि तु विवदन्ते। प्रागसेरिति। ठसिपुरधवश्चैषाम्ऽ इत्यस्मात्। दिवशब्दमात्रादिति। तेन पूर्वेण वसतीत्याद्यपी भवति। अञ्चत्यन्तातु न भवति; व्यवस्थैतविभाषाविज्ञानात्। अस्तु वा तदन्तादपि, ठञ्चेर्लुक्ऽ इत्यनुवृतेर्लुग्भविष्यति। पकारः स्वरार्थ इति। ठेनपा द्वितीयाऽ इति विशेषणार्थस्तु न भवति। अस्त्वेनेनेति, ठतसर्थप्रत्ययेनऽ इत्यनुवृतेः ठ्द्वितीयाटौःस्वेनःऽ इत्यस्यात्र ग्रहणं न भविष्यति ॥ दक्षिणादाच् ॥ ५।३।३६ ॥ चकारो विशेषणार्थ इति। अन्यथा वाक्यस्मरणयोर्य आकारोऽननुबन्धकस्तेनापि योगे पञ्चमी स्यात्। अथाप्यञ्चूतरपदेनाहिना च साहचर्यादतसर्थस्याकारस्य ग्रहणं स्यात्, तथापि पश्चाशब्द आकारान्तो निपातित हति तेनापि योगे पञ्चमी स्यात्। छान्दसः पश्चाशब्दः, दृष्टानुविधिश्च्छन्दसि भवति? असन्देहार्थं तर्हि, ठञ्चूतरपदाहियुक्तेऽ इति ह्युच्यमाने आकारप्रश्लेषो व्याख्यातव्यः स्यात्। ठञ्चूतरपदाह्यायुक्तेऽ इति सूत्रं करिष्यते, तस्माक्षैणासीत्यत्र ठ्स्वरितो वानुदातेऽपदादौऽ इति विधिर्मा भूदिति चकारस्य प्रयोजनं वाच्यम् ॥ आहि च दूरे ॥ ५।३।३७ ॥ चकारादाच्चेति। अन्यथा दूरे विवक्षिते विशेषविहित आहिरेव स्यात् ॥ उतराच्च ॥ ५।३।३८ ॥ आजाही प्रय्ययौ भवत इति। यद्यप्याहिरनन्तरः, तथापि चकारेण व्यवहितस्यापि आचः समुच्चय इति भावः ॥ पूर्वाधरावराणामसि पुरधवश्चैषाम् ॥ ५।३।३९ ॥ आनन्तर्ययोगे षष्ठी। असीत्यविभक्तिको निर्द्देशः। एषामिति वचनं विस्पष्टार्थम्। सन्निधानाद्धि पूर्वादय एव स्तानिनः शक्या विज्ञातुम् ॥ अस्ताति च ॥ ५।३।४० ॥ अस्तातीति सप्तम्यन्तम्। असिप्रत्ययेनेति। अधरशब्दादातिनापि ॥ विभाषाऽवरस्य ॥ ५।३।४१ ॥ अवित्ययमादेशो भवतीति। कथं पुनर्बहुष्वादेशेषु प्रसक्तेषु अयमेव भवतु? अस्यैवानुवृतेः। अथ वा--अवरस्य यदुक्तं तदसतातौ विभाषा भवतीति विज्ञास्यते ॥ संख्याया विधार्थे धा ॥ ५।३।४२ ॥ विधा प्रकार इति ठ्गृह्यतेऽ इति वक्ष्यमाणेन सम्बन्धः। यद्यप्योदनपिण्कडोऽपि विधाशब्देनोच्यते, तथापीह प्रकार एव गृह्यत इत्यर्थः। एतेन एका गोविधेत्यादौ न भवति। एतच्चार्थग्रहणाल्लभ्यते। इह हि विधायामिति वक्तव्ये यदर्थग्रहणं कृतं तस्यैतत्प्रयोजनम्----विधाशब्दो यत्रार्थे प्रसिद्धतरस्तस्य ग्रहणं यथा स्यात्। यथा च त्रिविधम्, बहुविधमित्यादौ प्रकारे प्रसिद्धो विधाशब्दः, न तथौदनपिण्कडे। सूत्रे च--विधाशब्दस्यार्थो विधार्थ इति षष्ठीसमासः। एवं वृतावपि। स च क्रियाविषय इति। एतच्चाभिधानस्वभावाल्लभ्यते। तदयमर्थ इत्याह--क्रियाप्रकारे इति। कथं तर्हि नवधा द्रव्यम्, बहुधा गुणाः, एकविशतिधा बाह्वृच्यम्, नवधाथर्वाणो वेद इति। अत्रापि हि सर्वत्र क्रिया प्रतीयते--उपदिश्यते इति, भवतीति वा। द्विधा गच्छतीत्यादावे कस्या एव गमनक्रियाया अवान्तरप्रकारभेदः प्रतीयते। एकधा भुङ्क्ते इत्यत्र तु प्रकारैक्यप्रतिपादनेन तन्निवृत्तिः। एकः पाक इत्यादौ तु पाकव्यक्तेरेक्त्वं विवक्षितम्, न त्ववान्तरप्रकारभेदाभावेनैकप्रकारत्वमिति धाप्रत्ययाभावः। तद्विवक्ष्यां तु भवत्येव--एकधा पाक इति। पञ्च पाका इत्यादौ च भिन्ना एव पाका विवक्षिताः, न त्वेकस्य प्रकारवत्वम्। तद्विवक्षायां तु तत्रापि भवितव्यमेव--पञ्चधा पाका इति ॥ अधिकरणविचाले च ॥ ५।३।४३ ॥ अधिकरणं द्रव्यमित्यादि। जात्यादीनामाधारत्वात्। विचालनं विचालःउअन्यथाकरणम् णिजन्ताद् ठेरच्ऽ। तच्चेह संख्यासन्निधानात्संख्यान्तरापादनेनेत्याह--तस्य विचालः संख्यान्तरापादनमिति। एकं राशि पञ्चधा कुर्विति। पञ्च राशीन्कुर्वित्यर्थः। नात्र प्रकारभेदो गम्यते, नतरां क्रियाविषय इति सूत्रारम्भः। तत्र द्रव्यस्यापि स्वभावाद्धाप्रत्ययान्तेनासत्वरुपेण प्रतिपादनमित्यव्ययत्वम्, यथा--सुदामतो विद्यौदिति तसन्तस्य ॥ एकाद्धो ध्यमुञन्यतरस्याम् ॥ ५।३।४४ ॥ ठेकाद्ऽ इति शब्दप्रधानत्वात्सर्वनामकार्याभावः एकधा राशि कुर्विति। अधिकरणविचाले उदाहरणं। ऐकध्यं भुङ्क्त इति। विधार्थे। प्रकरणादेव लब्ध इति। कस्मिन् लब्धे? धाप्रत्ययस्य स्थानित्वे। इह हि पूर्वसूत्राद्धाग्रहणमनुवर्तते, स च पूर्वमेव विहित इति विधानासम्भवात् स्थानित्वमेव विज्ञास्यते। विधार्थे विहितस्यापि यथा स्यादिति। स्थान्यादेशाभावोऽप्येतदर्थमेवाश्रितः; प्रत्ययान्तरेऽप्यस्मिन्दोषाभावात्। किं पुनः कारणं विधार्थे विहितस्य तस्य न स्याद्? अत आह--अनन्तरस्यैव हीति। ठनन्तरस्य विधिर्वा भवति प्रतिषेधो वाऽ इति भावः ॥ द्वित्र्योश्च धमुञ् ॥ ५।३।४५ ॥ भतिद्वैधानीति। एकशेषेण बहुवचनम्। क्वचित् पथि द्वैधानीति पाठः। धमुञन्तस्यालिङ्गसंख्यत्वेऽपि तदन्तात्स्वार्थे विहितस्याप्यस्य स्वभावाल्लिङ्गसंख्यायोगः, तेनाव्ययत्वं न भवति ॥ एधाच्च ॥ ५।३।४६ ॥ योगविभागो यथासंख्यनिरासार्थः ॥ याप्ये पाशप् ॥ ५।३।४७ ॥ याप्यशब्दोऽकयमस्त्यपादानसाधनः--यापिता अस्माद् गुणा इति याप्यःउकुत्सितः, अस्ति कर्मसाधनः-यापयितव्यो याप्यो देशान्तरं प्रापयितव्यः, शरीराद्वाऽपनेतव्यः, अशक्यप्रतीकारो याप्यो व्याधिः। तत्रेहाभिधानशक्तिस्वभावादाद्यस्य ग्रहणमित्याह--याप्यः कुत्सित उच्यत इति। तत्र कस्मान्न भवतीति। व्याकरणे प्रवीणस्यापि दुःशीलत्वेन कुत्सितत्वाद् भवितव्यमेवेति भावः। यस्य गुणस्येति। गुणो विशेषणम्, द्रव्यं विशेष्यम्। तस्य कुत्सायां प्रत्यय इति। एतच्चान्तरङ्गत्वाल्लभ्यते। प्रवृत्तिनिमितं हि प्रत्यासन्नम्; शब्दवाच्यत्वात्। धर्मान्तरं तु तत्र वस्तुतः सदपि न शब्देन स्पृश्यते। यत्र तु प्रवृत्तितिनिमितस्य कुत्सितं न सम्भवति--असको देवदतक इत्यादौ, तत्र सहचरितगुणक्रियाकुत्साश्रयः प्रत्ययो भवत्येव। एवं च देवदतपाश इत्याद्यपि सत्यभिधाने भवति। ठ्कुत्सितेऽ इत्यत्रैवायं न विहितः; तिङ्न्तादपि प्रसङ्गात् ॥ पूरणाद्भागे तीयादन् ॥ ५।३।४८ ॥ पूरणार्थविहितत्वातीयप्रत्यय एव पूरणशब्देनोक्त इत्याह--पूरणप्रत्ययो यस्तीय इति। स्वरार्थं वचनमिति। भागे नित्स्वरेणाद्यदातत्वं यथा स्यात्, रूपे तु नास्ति विशेषः। पूरणग्रहणमुतरार्थमिति। नेहार्थम्, कुतः? इत्यत आह--न हीति। ननु चायमस्ति--ठ्मुखपार्श्वतसोर्लोपः, भुखतीयःऽ इति ? तत्राह--मुखतीयादिरनर्थक इति। मुखतीयादौ यस्तीयशब्दः सोऽनर्थक इत्यर्थ ॥ प्रागेकादशभ्योऽच्छन्दसि ॥ ५।३।४९ ॥ प्रागीकादशभ्यः संख्याशब्देभ्य इति। एकादशशब्दात्प्राञ्चो ये संक्याशब्दास्तेभ्य इत्यर्थः, एकादशभ्यः प्राचीनेषु संख्येयेषु ये संख्याशब्दास्तेभ्य इती वा ॥ षष्ठाष्टमाभ्यां ञ च ॥ ५।३।५० ॥ यथासंख्यमत्र न भवति, अन्यतरस्मादनः पूर्वेणैव सिद्धत्वात् ॥ मानपश्वङ्गयोः कन्लुकौ च ॥ ५।३।५१ ॥ मानं व्रीहिपरिमितं सुवर्णम्। अष्टमो भाग इति। कस्य पुनरत्र लुक् ? इत्याह--ञस्य लुक्, अनो वेति। अष्ठन्शब्दाद्भागो तयोरेव विहितत्वत्। लुग्वचनं किम्, यावता महाविभाषयैव पक्षे ञानोरभावः सिद्धः ? ज्ञापनार्थं तु, एतज्ज्ञापयति--पूर्वसूत्रे ञानौ नित्याविति ॥ एकादाकिनिच्छासहाये ॥ ५।३।५२ ॥ आकिनिचः कनो वेति। तयोरेवानेन सूत्रेण विधानात्। एकधेत्यादौ तु सूत्रान्तरविहितस्य लुग् न भवति; असन्निधानात्। संख्याशब्दनिरासार्थमिति। अन्यथा प्रसिद्धत्वात्संख्याप्रकरणाच्च तस्यैव ग्रहणं स्वात्। अस्तु, को दोषः ? तत्राह---तदुपादाने हीति। द्विबह्वोरिति। द्वित्वे बहुत्वे चेत्यर्थः। न हि द्वयोर्बहुषु वा एकत्वसंख्यास्ति। असहायत्वं तु परस्परव्यतिरिक्तसहायाभावेन बहूनामपि भवति। इह अकिनिजेवायं वक्तव्यः, सवर्णदीर्घत्वेसिद्धमिष्टम्, यस्येतिलोपश्चाकारोच्चारणसामर्थ्यान्न भविष्यति ? न चावग्रहनिवृत्यर्थोऽकारः, नहि लक्षणेन पदकारा अनुवर्त्त्याः, पदकारैर्नाम लक्षणमनुवर्त्यम् ॥ भूतपूर्वे चरट् ॥ ५।३।५३ ॥ भूतपूर्वशब्द इत्यादि। केवलभूतशब्दः ठ्पौतन्येऽपि वर्ततेभूतमियं ब्राह्मणीति, सत्येऽपि वर्तते--भूतवादीति, अत्र भूतशब्दो विद्यमानवचनित्यन्ये; पूर्वशब्दश्च दिग्देशयोरपि वर्तते, तस्मादन्यतरोपादाने विवक्षितोऽर्थो न गम्यत इत्युभयोरुपादानम्। आढ।ल्चर इति। यथात्र चकारस्येत्संज्ञा न भवति, तथा ठ्चुटूअऽ इत्यत्र प्रतिपादितम्। ठ्गोष्ठात्खञ्ऽ इत्यत्रैव नोक्तम्, विशेषविहितेन खञा चरटो बाधा मा भूदिति। सन्निधौ हि बाध्यबाधकभावः, न कालभेदे ॥ षष्ठ।ल रूप्य च ॥ ५।३।५४ ॥ शेषविषये विधानातदन्तव्यवच्छेदकत्वाद्विशेषणमप्रधानम्। यत्पुनः षष्ठ।लक्षिप्तं सम्बन्धिमात्रम्, तद्व्यवच्छेद्यत्वाद्विशेष्यं प्रधानम्। प्रदानेतरसन्निधौ च प्रधाने कार्यसम्प्रत्ययो भवतीति प्रत्ययस्तावचतत्रैव विज्ञायते, ततश्च भूतपूर्वग्रहणमपि तस्यैव विशे,णमित्याह-षष्ट।ल्न्तात्प्रत्ययविधान इति। हेतुगर्भ चेदमभिधानम्-यस्मात् षष्ठ।ल्न्तात्प्रत्ययविधानं तस्मादिति। सम्प्रतीति। यद्यपि पूर्वं ङ्याप्प्रातिपदिकेनैव सम्बद्धमासीदिदानीं त्वेवमित्यर्थः। तत्र विधान इति सप्तम्यन्तस्य सम्प्रतीत्यस्य च पौरनरुक्त्यं मन्यमाना विधानशब्दमधिकरणसाधनं सूत्रपरं व्याचक्षते ॥ अतिशायते तमविष्ठनौ ॥ ५।३।५५ ॥ अतिशयनमतिशायनमिति। भावे ल्युट्। यद्यप्यनन्तरमेव वक्ष्यति--निपातनाद्दीर्घत्वमिति, तथापि ठबाधकान्यपि निपातनानि भवन्तिऽ इत्यदीर्घेणाप्यर्थनमुपपद्यते। अन्ये तु--अतिशयोऽतिशायनमिति पठन्ति, अतिशायनं प्रकर्ष इत्येवान्ये। प्रकर्ष इति। यद्यपि केवलः शेतिः स्वप्ने वर्तते, तथाप्यतिपूर्वस्य प्रकर्षे वृत्तिः ॥ उपसर्गवशाद्धातुरर्थान्तरविलासकृत्। विहाराहारसंहारप्रहारपरिहारवत् ॥ प्रकर्षश्चात्र नाधिक्यं किं तर्ह्यतिशयो मतः। सकर्मको ह्ययं शुक्लमतिशेत हतीष्यते ॥ निपातनादिति। यदिदमस्मिन्सूत्रे दीर्घोच्चारणं तदेव निपातनम्। ठ्सौत्रोनिर्द्देशःऽ इत्येष परिहारोऽत्र नोदितः; यस्मात्सूत्राद्बहिरपि प्रयोगोऽस्याब्युपेयते। एतदर्थमेव च लघुरपि प्रकर्षशब्दो नोपातः। प्रकृत्यर्थविशेषणं चैतदिति। न प्रकृत्यर्थः, अतिशायने वर्तमानादिति। तथा हि सति अतिशयप्रकर्षादिभ्य एव स्यात्। नापि प्रत्ययार्थः, तथा हि सति आढ।ल्स्यातिशयनमाढ।ल्तममिति स्यात्। आढ।ल्स्येति कर्मणि कर्तरि वा षष्ठी, उभयथाप्याढ।ल्तमो देवदत इति सामानाधिकरण्यं न स्यात्। नापि प्रत्ययार्थविशेषणम्, अन्यस्य कस्यचित् प्रत्ययार्थस्यानिर्द्देशात्। नापि प्रकृतेरेव विशेषणम्, अतिशायनीवेशिष्टान्ङ्याप्प्रातिपदिकादिति। प्रत्ययद्योत्यमतिशायनं प्रकृत्यभिहितस्य प्रधानस्यैवार्थस्य विशेषणं युक्तम्, न त्वर्थाभिधानं प्रति व्यग्रस्य गुणभूतस्य शब्दस्य। यदा त्वसावगुणभूतः, तदा भवत्येव प्रकर्षयोगः--उच्चतरः शब्दः, नीचतरः शब्द इति। ननु शुक्लादिवदेतत्स्यात्, तद्यथा--शुक्लतरः पट इति गुणभूतस्यापि शौक्ल्यस्य प्रकर्षो द्रव्यप्रकर्षहेतुः, तथा शब्देऽप्यस्तु ? विषम उपन्यासः; शौक्ल्यस्य प्रकर्षो द्रव्यप्रकर्षहेतुः, तथा शब्देऽप्यस्तु ? विषम उपन्यासः; शौक्ल्यादयो हि द्रव्यसमवेताः, युक्तं यत्स्वयं प्रकृष्टा प्रकर्षयन्ति, शब्दस्तु न तथेति कथं तत्प्रकर्षेण द्रव्यं प्रकर्ष्यताम्! प्रातिपदिकादिति। प्रकृतेरिदमुपलक्षणम्। सुबन्तातु प्रत्ययः। उक्तं हि--ठ्प्रियकुत्सनादिषुऽ ततः प्रवर्ततेऽसौ विभक्त्यन्तःऽ इति, ठ्घकालतनेषु कालनाम्नःऽ इत्यलुग्विधानमप्येवमेवोपपद्यते। स्वार्थ इति। यद्येवम्, कुमारितमेत्यव्यतिरिक्तं वय इति कृत्वा ठ्वयसि प्रथमेऽ इति ङीप् प्राप्नोति ? कुमारशब्दादुत्पन्नेन ङीपा वयोविशिष्टस्यार्थस्य स्त्रीत्वं द्योतितिमति ङीब्न भविष्यति, तरबन्तातु स्त्रीत्वमात्राभिव्यक्तये टाब् भविष्यति। कुमारितम इति ह्युच्यमाने कुटीरः, शमीर इतिवल्लिङ्गान्तरं गम्येत। यद्वा--नात्र प्रज्ञ एव प्राज्ञः याव एव यावक इत्यादिवदत्यन्तस्वाथिकत्वं विवक्षितम्, किं तर्हि? ईषच्छुक्ले शुक्लतरे च गुणयोगस्य भावात् शुक्लशब्द एव प्रवर्तितुमर्हति, औपगवादौ तु नैवमित्येतावता स्वार्थिकत्ववाचोयुक्तिः। परमार्थतस्त्वस्मिन्प्रयोगे प्रकृष्टे शुक्लशब्दस्य प्रवृत्तिनिमितम्, तमबन्तस्य तु तद्गतः प्रकर्ष इति कुतोऽत्र ङीपः प्रसङ्गः! तदिदमुक्तम्--प्रकृत्यर्थविशेषणं च स्वर्थिकानां द्योत्यं भवतीति। अत्रापि यद्यपि तस्मिन्द्रव्ये बहवो गुणाःसन्ति, तथापि यस्य गुणस्य भावाद् द्रव्ये शब्दनिवेशः प्रत्यासतेस्तत्प्रकर्षाश्रयः प्रत्ययः। तद्यथा--शुक्लादिभ्यो गुणप्रकर्षे, पाचकादिभ्यः क्रियाप्रकर्षे, वाहदोहादयो धर्माः, तत्प्रकर्षे प्रत्ययः। तद्यथा--गौरयं यः शकट्ंअ वहति, गोतरोऽयं यः शकट्ंअ वहति सीरं च, गौरियं या समांसमां विजायते, गोतरेयं या समांसमां विजायते स्त्री वत्सा च, अश्वोऽयं श्चत्वारि योजनानि गच्छति, अश्वतरोऽयं योऽष्टौ गच्छतीति। एतेन संख्यापरिमाणप्रमाणोन्मानशब्दा व्याख्याताः। न हि स्वतदो भवति, द्वितरः प्रस्थतरः वितस्तितरः सुवपर्णतरमिति, सर्वथा धर्मद्वारको द्रव्यस्य प्रकर्षो न स्वतः, यथा--शुक्लगुणयोगात्पटस्य शुक्लव्यपदेशः, तथा प्रकर्षव्यपदेशोऽपि, तत्प्रकर्षादेवेत्यर्थः। उक्तं च--- द्रव्यस्याव्यपदेश्यस्य य उपादीयते गुणः। भेदको व्यपदेशाय तत्प्रकर्षोऽभिधीयते॥ इति। ठव्यपदेश्यस्यऽ इति धर्मयोगमन्तरेण स्वरूपेण व्यपदेष्टुअमशक्यस्येत्यर्थः। तदेवमतिशायनशब्दो बावसाधनः, प्रकृत्यर्थविशेषणं च, स्वार्थिकश्च प्रत्यय इति स्थितम्। अत एव प्रकृतितो लिङ्गवचनानि भवन्ति। यदि तु कर्तृसाधनः स्यात्, तदा यदि प्रकृत्यर्थस्ततोऽतिशायनातिशायकातिशयितृप्रभृतिभ्य एव स्यात्, तत्रापि स्वार्थे न प्रवृत्तिनिमितप्रकर्षे; अथ प्रत्ययार्थः, ततः सामर्थ्यलभ्या समर्थविभक्तिः। सा च यदि तिङ्न्तेन विग्रहस्तादा द्वितीया---शुक्लमतिशेते शुक्लतर इति। अथ कृ-दन्तेनातिशायनशब्देन, तदा षष्ठी--शुक्लस्यातिशायनः शुक्लतर इति। तथा च कालीमतिशेते कालः कालितर इति प्राप्नोति, कालमतिशेते काली कालतरेति प्राप्नोति। इह च गर्गानतिशेते गार्ग्यः कर्गतर इति प्राप्नोति, तथा गार्ग्यमतिशेरते गर्गाः गार्ग्यतरा इति प्राप्नोति। अथ करणसाधनः तत्रापि प्रकृत्यर्थश्चेद्येन गुणेनातिशेते तद्वाचिनः शौक्ल्यादेरेव स्यात्, शौक्ल्येन हि शुक्लः शुक्लान्तरमतिशेते। प्रत्ययार्थे तु शुक्लादिशब्दादतिशायने गुणो प्रत्ययः प्राप्नोति, गुणिसामानाधिकरण्यं न स्यात्--शुक्लतरः पट इति। अथ व्यन्तात्कर्तरि ल्युड्--अतिशाययतीत्यतिशायन् इति, एवमप सि एव दोषो यः करणपक्षे। गुणा हि गुणिनं प्रयुञ्जते---अस्माभिः प्रकृष्टैस्त्वं सजातीयमतिशेषेवेति, ततश्च प्रकृत्यन्तात्करणे ल्युटि यो दोषः स एवात्रापि भवति। अथ शेतिरवस्तानार्थः--पक्वाशयो जलाशय इतिवत्, ततोऽयमर्थः स्यात्--गुणा गुणिनि शेरते, अवतिष्ठन्ते, तान्गुण्यतिशाययतिउआत्मन्यतिशयेनावस्तापयतीति, ततश्च स एव दोषो यः प्रकृत्यन्तात्कर्तरि ल्युटि। अतिशायनशब्दश्च प्रकृत्यन्तो न साधितः स्यात्। तस्माद् वृत्तिकारोपदर्शित एवार्थो न्याप्यः ॥ पटिष्ठ इति। ठ्तुरिष्ठेमेयस्सुऽ टेरिति टिलोपः। गरिष्ठ इति। ठ्प्रियस्थिरऽ इत्यादीना गुरुशब्दस्य गरादेशः। ठ्प्रकर्षप्रत्ययान्तादपरेण प्रकर्षप्रत्ययेन न भवितव्यम्, एकेनैव प्रकर्षस्य द्योतितत्वात्ऽ इति मन्यमानं प्रत्ययाह--यदा चेति।आतिशायिकान्तादिति। अतिशये भव आतिशायिकः, अध्यात्मादित्वाट्ठञ्, अनुशतिकादित्वादुभयपदवृद्धिः। श्रेष्ठतमार्यति। ठ्प्रशस्यस्य श्रःऽ अत्र प्रकर्षरहितप्रतियोग्यपेक्षया यः प्रकर्षस्तत्रेष्टन्विहितः, तमप्प्रत्ययस्तु प्रकर्षवत्प्रतियोग्यपेक्षया यः प्रकर्ष इष्ठन्प्रत्ययेनद्योतितस्तस्मिन्नित्यपौनरुक्त्यम्। प्रत्ययद्वयस्य विधीयमानप्रत्ययभेदाच्च द्वे एते वाक्ये, तत्रैकेनेष्ठन्, अपरेण तदन्तातमप्। तेनैतन्न चोदनीयम्--यथा सनन्तान्न सन् भवति, तद्विदानवेलायां तदन्तस्य धातोरभावात्; तथा प्रकर्षप्रत्यान्तादपरेण प्रकर्षप्रत्ययेन न भवितव्यमिति ॥ भाष्ये तु प्रकर्षप्रत्ययान्तादपरः प्रकर्षप्रत्ययो नैव भवतीति स्थित्म्। तत्कयम्? न तावतरबन्तादपरस्य प्रसङ्गः--यत्र हि त्रयाणामेकः शुक्लः, द्वितीयः किञ्चित्प्रकृष्टः, तृतीयश्चात्यन्तम्, तत्र किल प्रसङ्गः शङ्क्यते; तत्र द्वितीयस्य सदप्युत्कृष्टत्वं तृतीयसन्निधावकिञ्चित्करम्, राजसन्निधाविवामात्यस्येति। द्वितीयातावतरब्न भवति। तृतीयादपि न भवति, तस्मिन्नेव प्रयोगे त्रयाणामपेक्षितत्वेन द्विवचनोपपदत्वाभावात्। एतेनेयसुन्व्याश्यातः। नापि तमबन्तादपरस्य प्रसङ्गः। यत्र हि चतुर्णा द्वौ शुक्लौ, तृतीयः किञ्चिचदुत्कृष्टः, चतुर्थश्चात्यन्तम्, तत्र किल प्रसङ्गः शङ्क्यते; तत्र तृतीयस्य सदप्युत्कृष्टत्वं चतुर्थसन्निधौ पूर्ववदकिञ्चित्करम्, चतुर्थातु तमबेव भवति। एतेनेष्ठन्व्याख्यातः। कथं तर्हि श्रेष्ठतमाय कर्मणे इति? छान्दसत्वात्स्वार्थिकस्तमब् द्रष्टव्यः। युधिष्ठिरः श्रेष्ठतमः कुरुणाम् इति त्वन्याप्यमेव मन्यते ॥ तिङ्श्च ॥ ५।३।५६ ॥ पचतितमामिति। ठ्किमेतिङ्व्ययऽ इत्यादिनाऽऽम्प्रत्ययः। गुणवचने तस्य नियतत्वादिति। अत एव सूत्रार्थकथनवेलायामपि तमप् प्रत्ययो भवतीत्युक्तम्। न चानुवृत्तिसामर्थ्यान्नियमस्य बाधः, तमब्विधानेऽप्यनुवृतेरुपपन्नत्वात् ॥ द्विवचनविभज्यचोपपदे तरबीयसुनौ ॥ ५।३।५७ ॥ द्वयोरर्थयोर्वचनं द्विवचनमिति। करणे ल्युट्, कर्मणि षष्ठयाः समासः। येन पदेन द्वावर्थावुच्येते तद् द्विवचनमित्यर्थः। एतेनान्वर्थस्य द्विवचनस्येदं ग्रहणम्, न पारिभाषिकस्येति दर्शयति। पारिभाषिकस्य हि ग्रहणे, अस्माकं च देवदतस्य च देवदतोऽभिरूपतर इत्यत्र न स्यात्। अन्वर्थग्रहणे तु भवति, तथा हि--अस्माकमित्यनेनैकोऽर्थ उच्यते, ठस्मदो द्वयोश्चऽ इत्येकस्मिन्नेवार्थे बहुवद्भावविधानाद्; देवदतस्य चेत्यनेनापि द्वितीयोऽर्थ उच्यते इति कभवत्येतदन्व्रथम्--द्विवचनमुपपदम्। विभक्तव्यःउपृथक्कर्तव्यः, स चातिशय्यमानः। तस्य ह्युपपदत्वम्, न अतिशयितुः; ततः प्रत्ययविधानात्। अपर आह--आद्यादेरतिशयितृविशेषणात्प्रत्ययो विधीयते, नातिशयितुर्माधुरादेरिति तस्याप्युपपदत्वमविरूद्धम्। पृथक्कारोऽपि तस्याप्यविशिष्ट इति। निपातनाद्यदिति। ठृहलोर्ण्यत्ऽ इति ण्यतोऽपवादः। तेन विभाग्यमिति नैव भवति। विभाज्यशब्दस्यतु स्मृतिषु प्रयुक्तस्य साधुत्वं चिन्त्यम्। द्व्यर्थे विभज्ये चोपपद इति। सूत्रे तु द्विवचनं च विभज्यं च द्विवचनविभज्यम्, तच्च तदुपपदं चेति कर्मधारयात्सप्तमी। अन्वर्थं चोपपदम्-उपोच्चारितं पदमुपपदमिति। तच्च विग्रहवाक्य एव प्रयुज्यते। वृतोतु गतार्थत्वान्नावश्यं प्रयुज्यते। एवं चोपपदग्रहणं स्पष्टार्थम्। इह द्वे उपपदे, द्वे च प्रकृती--ठ्ङ्याप्प्रातिपदिकात्ऽ ठ्तिङ्श्चऽ इति, प्रत्ययावपि द्वावेव, ततश्च यथासंख्यप्रसङ्गः? इत्यत आह--यथासंख्यामिति। इष्टिरेवेयम्। अयमनयोरिति। अनयोरित्येतदत्र द्व्यर्थमुपपदम्। पटीयानिति। पूर्ववट्टिलोपः, अगित्वान्नुम्, ठ्सान्तमहतःऽ इति दीर्घत्वम्, हल्ङ्यादिसंयोगान्तलोपौ। माधुरा इत्यादि। किं पुनरत्र विभज्यम्? पाटलिपुत्रका हत्याह। तथा च तत्र ठ्पञ्चमी विभक्तेऽ इति पञ्चमी भवति। यद्यप्यत्रापी माधुराणामेको राशिः, पाटलिपुत्रकाणां चापर इति राश्यपेक्षं द्व्यर्थत्वमस्ति; तथापि नासौ शब्देनोपादीयते, प्रत्युतावयवभेद एव। अत एव बहुवचनम्। इह च-माधुराः पाटलिपुत्रकेभ्यः सांकश्यकेब्यश्चाभिरूपतरा इति न राश्यपेक्षमपि द्व्यर्थत्वमस्ति। तस्माद्विभज्योपपदग्रहणं कृतम्। इह दन्तोष्ठस्य दन्ताः स्निग्धतराः, पाणिपादस्य पाणी सुकुमारतरावित्यत्र तरब्न प्राप्नोति, किं कारणम् ? समाहारस्यैकत्वात्; न च गुणभूतवर्तिपदार्थाश्रयः प्रत्ययः, तेषां बहुत्वात्--द्वात्रिंशद्दन्ताः, द्वावोष्ठौ ? अत्राऽऽहुः--वृतावभेदैकत्वसंख्यामुपाददते वर्तिपदानि, ततश्च भेदपरित्यागादबेदैकत्वसंख्यायाश्चोपादानाद्--एवम्भूतदन्तोष्ठलक्षणार्थद्वयाश्रयः प्रत्यय इति। इतरेतरयोगद्वन्द्वे त्ववयवार्थबेदसद्भावाद् द्व्यर्थता नास्तीति तरब्न भवति। प्लक्षन्यग्रोधानां प्लक्षा दीर्घतमा इति विभज्योपपदाश्रयोऽपि न भवति, कथम्? प्रतियोग्यपेक्षत्वात्प्रकर्षस्य। सामर्थ्यलभ्ये विभागे विभज्योपपदग्रहणमवधारणार्थम्--विभागा एव यत्र शब्देन प्रतिपाद्यत इति। इह तु निर्धारणाश्रयनिर्द्देशो निर्धार्यमाणस्यापि साधारण इति न विभाग एव केवलः, किन्त्वविभागोऽपि। एतेन ठ्पञ्चमी विभक्तेऽ इति पञ्चमी व्याख्याता। इह ठ्परुद्भवान्पटुअरासीत्, पटुअतरश्चैषमःऽ इत्येकस्यापि धर्मिणो गुणभेदेन द्वित्वाध्यारोपात्प्रतियोग्यपेक्षः प्रकर्षः, तदाश्रयश्च प्रत्ययः। व्यपदिशति च--ठन्य एवासि संवृतःऽ ठ्कच्चित्स एवासि धनञ्जयसत्वम्ऽ इति ॥ अजादी गुणवचनादेव ॥ ५।३।५८ ॥ एवकारः किमर्थः ? नियमो यथा विज्ञायेत; अन्यथा प्रकर्थेऽजाद्योर्विधानादप्रकर्षे विधिः स्यात्। ठतिशायनेऽ इत्यनुवर्तिष्यते, तत्रैव पुनर्वचनं नियमार्थं भविष्यति,नार्थ एवकारेण? तत्राह--एवकार इष्टतोऽडवधारणार्थ इति। असति ह्यस्मिन्विपरीतोऽपि नियमः सम्भाव्यते--अजादी एव गुणवचनादिति। तत्र को दोषः ? गुणवचनाद् व्यञ्जनादी न स्याताम्; तस्याजाद्योर्नियतत्वात्। यत एवकारस्ततोऽन्यत्रावधारणमिति। अजाद्योश्चानियतत्वादगुणवचनादपि तयोः प्रसङ्गः। इदमतिबहु क्रियते--अजादी गुणवचनादेवेति, एवं तु वक्तव्यम्--अतिशायने तमप्, गुणवचनादिष्ठन्, द्विवचनविभज्योपपद इयसुन्, गुणवचनादित्येव, ततस्तरप् च, गुमवटचनादिति निवृतम्? सापम्; ठ्प्रशस्यस्य श्रःऽ इत्येवमाद्यर्थं तु ठजादीऽ इत्युक्तम्। एवं तर्हि ठ्प्रशस्यस्य श्रोऽजाद्योःऽ इत्येवास्तु, एवमपि ह्यएवकारो न वक्तव्यो भवति? त्वत्पक्षेऽपि ठ्तरप् चऽ इति चकारः क्रियते, ततुल्यं भवति ॥ तुश्च्छन्दसि ॥ ५।३।५९ ॥ पूर्वेणेत्यादि। नियमबाधेन प्रकृत्यन्तरस्याब्यनुज्ञानमात्रं क्रियते, न त्पपूर्वो विधिरित्यर्थः, तेनोपाधिसङ्करो न भवति। करिष्ठ इति। कर्तृशब्दातृन्नन्तादिष्ठन्। अत एव कर्मणि द्वितीया भवति। तृजन्तादेव वा भवतु, द्वितीया तु कृतपूर्वी कटमितिवद् द्रष्टव्या। दोहीयसीति। लिङ्गविशिष्टपरिभाषया दोग्ध्रीशब्दात्प्रत्ययः। भस्याऽढेअ तद्धिते पुंवद्भावेन ङीपो निवृत्ति। यद्वा, ठ्सिद्धश्च प्रत्ययविधौऽ इति वचनान्ङीपि निवृते दोग्धृशब्दादेव प्रत्ययः, ततः ठ्तुरिष्ठेमेयस्मुऽ इति तृचि निवृते निमिताभावाद् घत्वजश्त्वयोरपि निवृत्तिः ॥ प्रशस्यस्य श्रः ॥ ५।३। ६० ॥ अजाद्योः प्रत्यययोः परत इति। ननु चाजादी इति प्रथमान्तं प्रकृतम्। न सप्तम्यन्तम्, तत्कथमयमर्थो लभ्यते ? इत्यत आह--अजादी इति प्रकृतस्येत्यादि। प्रकृतस्य या विभक्तिः प्रथमा सा सप्तमीरूपेण विपरिणम्यते, ऊह्यत इत्यर्थः। एवं तर्हीत्यादि। अथ यावेव सम्भवतः--तरप्तमपौ, तयोरेव परतोऽयमादेशः कस्मान्न भवति? नैवं भवितुमर्हति; ठजादीऽ इत्यनुवृत्तिसामर्थ्यात्। अथात्रैवाजाद्योर्विधिः कस्मान्न विज्ञायते--प्रशस्यशब्दादजादी भवतः, श्रश्चास्यादेश इति, तत्रायमप्यर्थः--विभक्तिविपरिणामो न कर्तव्यो भवति? नैवं शक्यम्; तरप्तमपौ हि स्याताम्, विशेषविहितावजादी बाधेयाताम्, उपाधीनां च सङ्करः स्याद्-इष्ठन्विषये ईयसुन्, तद्विषये चेष्ठन्निति। तद्विषय इति। स प्रशस्यशब्दो विषयो यस्य स तद्विषयः। सप्तम्यन्तपाठे तु स एव विषयस्तत्रेत्यर्थः। नियमो न प्रवर्तत इति। नयमाप्रवृत्तिज्ञापनद्वारेणाजादिभावो ज्ञाप्यते, न तु साक्षादित्यर्थः; अन्यथा पुनरनजाद्योर्बाध उपाधिसङ्करश्च स्यात्, उक्तेन प्रकारेण स्वशास्त्रेणैवाजाद्योर्विदानान्नैतद्दोषद्वयमपि भवति। कथं पुनर्थाश्रुतसम्बन्धसम्भवेऽपि विपरिणामः शक्य आश्रयितुम् ? श्रृणु; अजाद्योर्विधिरिष्टश्चेत्पञ्चम्या निरदेक्ष्यत्। किञ्च एवं सन्नियोगार्थश्चकारोऽप्यकरिष्यत। टिलोप-यस्येतिलोपाविति। ठ्यस्येतिऽ इत्यनेन लोपो यस्येतिलोपः, ठ्कर्तृकरणे कृता बहुलम्ऽ इति समासः, तत्रानुकरणत्वादस्यवामीयमित्यादिवद्बिभक्तेरलोपः। ठाद्गुणःऽ इति त्वनङ्गत्वान्न प्रतिषिध्यते ॥ ज्य च॥ ५।३।६१ ॥ योगविभागा उतरत्र ज्यादेश एव यथा स्यात्, आदेशो मा भूदिति। अयमनयोरिति। अतिशयेन प्रशस्य इति विपरिणामेनापेक्ष्यते, न पुनरुतरेणैकग्रन्थता। एवं सर्वत्र ॥ वृद्धस्य च ॥ ५।३।६२ ॥ स्वरूपग्रहणम्, न तु ठ्वृद्धिर्यस्याचामादिःऽ इति पारिभाषिकस्येत्याह--वृद्धशब्दस्येति। अत्र च व्याख्यानमेव शरणम्। तयोश्चेत्यादि। यत्पूर्वमुक्तम्--ठेवमुतरेष्वपि योगेषु विज्ञेयम्ऽ इति, तदेवानेन स्मारितम्। वचनात्पक्षे सोऽपि भवतीति। ननु च वर्षादेशस्येमनिजवकाशः स्यात्? न; वृद्धशब्दादिमनिचोऽभावात्। यद्येवम्, वर्षादेसोऽपीहैव वक्तव्यः--वृद्धस्य वर्षिश्चेति, एवं हि द्विर्वृद्धग्रहणं न कर्तव्यं भवति? सत्यम्; तथा तु न कृतमित्येव। अपर आह---इष्ठनीयसुनोरिमवेमनिचोऽपि सद्भावः कल्प्यते, तेन वर्षिमेत्यपि भवति। तस्य मते---वर्षादेशस्येमनिचि चरितार्थत्वादिष्ठन्नीयसुनोरनेन ज्यादेश एव प्राप्नोति। तस्माद् ठ्युवाल्पयोः कनन्यतरस्याम्ऽ इत्यत्रेदमनुवर्तते, तेन ज्यादेशेन मुक्ते पक्षे वर्षादेशः ॥ अन्तिकबाढयोर्नेदसाधौ ॥ ५।३।६३ ॥ निमितयोर्यथासंख्यमिह नेष्यत इति। ठजाद्योःऽ इति प्रकृतयोरिष्ठनीयसुनोर्ग्रहणातयोश्च क्रमेणोपदेशादजहत्क्रमयोरेव प्रतीतेर्यथासंख्याप्रसङ्गं मन्यते। कस्मात्पुनरिष्यमाणमपि न भवति ? विपरीतक्रमस्यापि सम्भवात्। तथा हि--कयोरजाद्योरित्यपेक्षायामानन्तर्थादीयसुंस्तावत्प्रतीयते, द्विवचनानुरोधात्विष्ठन्नपीत्येवमपि क्रमः सम्भवति। तदनयोः क्रमयोर्नान्यतरः क्रमो निर्द्धारयितुं शक्य इत्यनाश्रयणमेव तयोर्युक्तम् ॥ युवाल्पयोः कनन्यतरस्याम् ॥ ५।३।६४ ॥ युवेति न संज्ञायूनो ग्रहणम्, किं तर्हि? स्वरूपस्य; अल्पसाहचर्यात् व्याख्यानाच्च। अन्यतरस्यांग्रहणमल्पशब्दार्थम्। युवशब्दस्य तु ठ्स्थूलदूरयुवऽ इति वचनात्सिद्धो विकल्पः। यविष्ठ इति। स्थूलदूरादिसूत्रेण यणादिपरं लुप्यते, पूर्वस्य च गुणः। कनीयानिति। प्रकरणादिवशाद्यौवाल्पयोरन्यतरावसायः। ठ्प्रकृत्यैकाच्ऽ इति प्रकृतिभावाट्टिलोपः, ठल्लोपोऽनःऽ इत्यल्लोपश्च न भवति। विन्मतोर्लुक् ॥ ५।३।६५ ॥ विन्मतोरित्युत्सृष्टानुबनधयोर्विनिमतुपोर्द्वन्द्वात्षष्ठीद्विवचनम्। अथ विन्ग्रहणं किमर्थम्, यावता येभ्यो विन् तेब्यो मतुबपि भवति, तस्यैव लुकि स्रजिष्ठ इत्यादि सिद्धम्, न च विन इष्ठचीयसुनोः श्रवणप्रसंगः, तदन्तातयोरभावात्? अस्मादेव हि लुग्वचनाद्विनन्तातयोर्भावो ज्ञाप्यते। यदा तर्हि विनन्तात् ठ्तत्करोति तदातष्टेऽ इति णिच् क्रियते, तदा विनः श्रवणं मा भूदित्येवमर्थं विनो लुग्वचनम्--स्रग्विणमाचष्टे स्रजयति ॥ प्रशंसायां रूपप् ॥ ५।३।६६ ॥ प्रकृत्यर्थविशेष्णं चैतदिति। प्रत्यार्थत्वे तु वैयाकरणस्य प्रशंसा वैयाकरणरूप इति प्राप्नोति, वैयाकरणरूपो देवदत इति सामानाधिकरण्यं न स्यात्, तस्मात्प्रकृत्यर्थविसेषमम्--प्रशंसाविशिष्टेभ्य इति। स पुनः प्रशस्तो न तु प्रशंसिता; अनभिधानात्। स्वार्थ इति। यद्येवम्, कुमारीरूपेत्यत्रानतिरिक्तं वय इति कृत्वा ङीप् प्राप्नोति? नैष दोषः; कुमारीशब्दादुत्पन्नेन ङीपा वयोविशिष्टार्थगतस्य स्त्रीत्वस्य द्योतितत्वाद्रूपबन्तस्य स्त्रीत्वमात्रमभिव्यङ्क्तुअं टाबेव क्रियते, न च ङीपैव तदभिव्यक्तमिति टापोऽप्रसङ्गः। कुमारीरूप इत्युच्यमाने हि कुटीरादिवल्लिङ्गान्तरं प्रतीयेत। यतद्वा--प्रवृत्तिनिमितभेदान्ङीपोऽप्रसङ्गः, कुमारशब्दस्य वयो निमितम्, रूपबन्तस्य तु तद्गता प्रशंसा, तदाहस्वाथिंकाश्चेत्यादि। अत्रापि प्रवृत्तिनिमितस्य प्रशंसायामयं प्रत्ययः, तेन यो व्याकरणेऽनिपुणः प्रशस्तश्च वंशशीलादिना, तत्र वैयाकरणरूप इति न भवति। क्वचितु सहचरितधर्मप्रशंसायामपि भवति--गोरूपोऽयं यः सम्यग्वहतीति। अथ कथं वृषलादिशब्देभ्यः प्रत्ययः, ते हि तदा निन्दावचनाः, तदभिधेयानां काकादिवन्निकृषख्टतच्वात् ? अत आह--प्रकृत्यर्थस्येति। वैशिष्ट।ल्मुपरिपूर्णता, तस्मिन्सति प्रशंसा भवति। तथा च वृषलादिशब्दा अपि स्वार्थस्य पूर्णत्वे सति प्रसंसाविशिष्ट एवार्थे प्रवर्तन्त इति तेब्योऽपि सिद्धः प्रत्यय इति भावः। वृषलरुप इति। यद्यप्ययं जातिवचनः, जातेश्च न्यूनत्वम् पूर्णत्वं वा न भवति; तथापि सहचरितधर्माल्पत्वं बहुत्वापेक्षं न्यूनत्वं पूर्णत्वं च द्रष्टव्यम्। यद्वा--गुमसमुदाये शब्दप्रवृतेः शब्दार्थस्यैवैतदुभ्यं भवति। यः पलाण्डुनेति। सहयोगे तृतीया। कश्चिद् वृषलः पलाण्कडुअं भक्षयति, कश्चित्सुरां पिबति, यस्तूभयं करोति तस्य परिपूर्णवृषलत्वम्। तथा चोरशब्दार्थस्यापि सुगुप्तवस्त्वपहरणेन परिपूर्णता भवति। अक्ष्णोरब्यञ्जनं हरेदिति। सम्भावने लिङ्, एवंविधमप्यस्य चौर्यसम्भवतीत्यर्तः। अक्ष्णोरप्यञ्जनं हरतु वा मा वा हार्षीत्, नन्वेवमपि यदा निन्दाप्रतिपादनाय वृषलरूप इत्यादि प्रयुज्यते तदा न सिद्ध्यति, निन्दैव हि तदा प्रकृत्यर्थस्य वैशिष्ट।लद्भवति, तस्मात्प्रशंसाग्रहणमपनीय वैशिष्ट।ल्ग्रहणमेव कर्तव्यम्, यदाह--ठ्सिद्धं तु प्रकृतयर्थस्य वैशिष्ट।ल्वचनात्ऽ इति। वृत्तिकारस्तु मन्यते---चोररूपोऽयमित्यादौ प्रशंसैव शब्दार्थः, निन्दाप्रतीतिस्तु वाक्यनिबन्धनेति। दृश्यते च प्रशंसापराणामपि निन्दापरत्वम्, यथा--राक्षस इति, पौरुषातिशयप्रशंसावचने प्रशंसा गम्यते, निर्घृणत्वप्रतिपादने तु निन्दा। पचतोरूपम्, पचन्तिरूपमिति। ???????द्विवचनबहुवचनप्रसङ्गः, स्वार्थिकाः प्रकृतितो लिङ्गवचनान्यनुवर्तन्त इति कृत्वा? तत्राह--क्रियाप्रधानमाक्यातमिति। यद्यप्याख्यातस्य क्रियासाधनपुरुषसंख्याकालोपग्रहरूपोऽनेकोऽर्थः, तथापि तेषु तस्य क्रियैव प्रदानमर्थः। कथं ज्ञायते? यत् क्रियां पृष्टस्तदन्तेनाचष्टे--देवदतः किं करोति? पचतीति। ननु च द्रव्यमपि पृष्टस्तिङ्न्तेनाचष्टे, यथा--क एषु देवदतो यः पचतीति ? युक्तमत्र य इति हि पदान्तरेण द्रव्योपलक्षणाय गुणभावं क्रिया नीयते। अत एव केवलेनाख्यातेन प्रतिवचनाभावः, न हि भवति--को देवदतः, पचतीति। तस्मात् क्रियाप्रधानमाख्यातम्, तिङ्न्तो पातार्थापेक्षं च क्रियायाःक प्राधान्यमुच्यते। व्रीहिनवहन्तीत्यादौ तु द्रव्यसंस्कारार्थत्वादवघातादेर्व्रीह्यपेक्षमप्राधान्यमस्त्येव। अपर आह--अत्राप्यवघातादेरेव शाब्दं प्रधान्यम्; साध्यत्वात्। न तु व्रीह्यादेः; साधनत्वात्। आर्थं तु तस्य प्रधान्यमिति। एका च क्रियेति। ठ्निवृतभेदा सर्वत्र क्रियाक्यातेषु गम्यतेऽ। कथं तर्हि द्विवचनबहुवचने भवतः--पचतः, पचन्तीति? नैते क्रियाबेदापेक्षे द्विवचनबहुवचने, किं कर्हि? साधनबेदापेक्षे। अत एव भवद्भिरास्यते हत्यादौ केवलक्रियावचने द्विवचनबहुवचनाभावः। न च कर्तृभेदः क्रियाभेदेन व्याप्तः; एकफलोद्देशेन प्रवृतामेकामेव पाकव्यक्ति बहुष्वपि कुर्वत्सु-भवन्तः पचन्ति, भवद्भिः पच्यत इति दर्शनात्। तस्मादाख्यातवाच्या क्रियैकेति सिद्धम्। तेन रूपप्प्रत्ययान्ताद् द्विवचनबहुवचने न भवतः। अथ यथा तिङ्न्ते साधनभेदाश्रये द्विचनबहुवचने भवतः, तथा रूपबन्तादपि कस्मान्न भवतः? उक्तोतरमेतत्--क्रियाप्रधानमाख्यातमिति। स्वार्थिकस्य हि प्रकृतितो लिङ्गवचनप्राप्तिः, तत्र च क्रिया प्रधानभूता, सा चैका, ततश्च प्रधानभूतप्रकृत्यर्थानुरोधेन भवद्वचनमेकवचनमेव भवति। पचतिरूपमित्यादावपि कर्तुः संख्याऽभिधीयते। सुपा तु क्रियाया एकत्वम्। अथ वातिङेक्तत्वाद्रूपप्प्रत्ययान्ताद् द्विवचनबहुवचने न भविष्यतः। एकवचनं तु भविष्यति; तस्यौत्सर्गिकत्वात्--ठेकवचनमुत्सर्गः करिष्यतेऽ इति। एतच्च तत्रतत्र व्याख्यातम्। यदि तर्हि क्रियाप्रधानमाख्यातम्, नपुंसकलिङ्गमपि रूपबन्तस्य न स्यात्, क्रियाया असतत्वभूतत्वेन लिङ्गाभावात्? अत आह--नपुंसकलिङ्गं त्विति। अथ तमबादेः रूपपश्च को विषयविभागः, यावताऽतिशायनमपि पूजानिन्दाविषयम्--पटुअतमः, पापीयानिति; रूपप्प्रत्ययोऽप्युभयविषयः--पटुअरूपः, चोररूप इति? उच्यते--अतिशायनं समानगुणप्रतियोग्यपेक्षम्, वैशिष्ट।ल्ं तु तन्निरपेक्षमिति स्पष्ट एव विषयभेदः ॥ ईषदसमाप्तौ कल्पब्देश्यदेशीयरः ॥ ५।३।६७ ॥ सम्पूर्णतेति। प्रवृत्तिनिमितस्य पौष्कल्यमित्यर्थः। पदार्थशबप्देन पर्यवसानभूमिर्विवक्षिता। प्रकृत्यर्थविशेषणं चैतदिति। न प्रत्ययार्थः। यदि तथा स्याद्, गुडस्येषदसमाप्तिर्द्राक्षाया गुडकल्पा द्रक्षाया इति स्यात्, गुडकल्पा द्राक्षेति द्रव्येण सामानाधिकरण्यं न स्यात्, एकवचनमेव च स्यात्, इष्यते चाभिधेयवल्लिङ्गवचने स्यातामिति। तस्मात्प्रकृत्यर्थंविशेषणम्। स्वार्थ इति। न च कुमारिकल्पेत्यत्राप्यनतिरिक्तं वय इति ङीपः प्रसङ्गः; न हि कल्पबन्तस्य वयःप्रवृत्तिनिमितम्, किं तर्हि? तद्गतेषदसमाप्तिः। ईषदसमाप्तः पटुअः पटुअकल्पः, मृदुकल्प इति। ननु च योऽर्थ एतावानेवेति परिज्ञातः, तस्य समाप्तिर्वा भवत्यसमाप्तिर्वा, न च पाटवादिगुण एतावानिति निर्ज्ञातः, यावतावदपि हि पाटवं भवत्येव, तत् कथमस्येषदसमाप्तिः; एतेन जातिशब्दा व्याख्याताः, न हि तेऽक्तपरिमाणमर्थमाचक्षते ? इदं तु युक्तमुदाहर्तुम्--कृतकल्पम्, भुक्तकल्पमिति। धात्वर्थो हि फलावच्छिन्नो व्यापारनिचयोऽक्तपरिमाणः। नन्वत्रापि भूते क्तः, फलनिष्पतौ च धात्वर्थो भूतो भवति, भूतस्य च तस्य कुत ईषदसमाप्तिः? यदा तहि क्रियैकदेशापवर्गाश्रयो भूते क्तः, तदोदाहरणम्--कृतकल्पं वस्त्रमिति। तथा च कृतादय एकदेशकरणाश्रया प्रयोगा दृश्यन्ते। यदा भविष्यत्कालाया ईषदसमाप्तायाः क्रियाया आशस्यमानत्वात् ठाशंसायां भूतवच्चऽ इति भविष्यति क्तप्रत्ययः, तदापि भवत्युदाहरणम्। एवम् ठ्ञीतः क्तःऽ, ठ्मतिबुद्धिपूजार्थेब्यश्चऽ इति वर्तमानविषयक्तान्तादपि युक्तः प्रत्ययः--पूजितकल्पम्, जातकल्पमिति। तथा तिङ्न्तमपि कालत्रविषयं भवत्युदाहरणम्--पचतिकल्पम्, पक्ष्यतिकल्पम्, अपाक्षीत्कल्पमिति। गुणवचनं त्वयुक्तम्। तदपि युक्तम्, ननु चोक्तं यावतावदपि पाटवं भवत्येव नास्येषदसमाप्तिरिति? नैतदस्ति; लोकत एव गुणस्यापीयताया निर्ज्ञातत्वात्। लोके हि पटुअरयमित्युच्यते, यो लघुनैवोपायेन साद्यार्थान्साधयति। यस्यु न तथा साधयति, किन्त्वीषदूनम्, सा पटुअकल्पः। तद्विपर्ययेण मृदु-मृदुकल्पौ व्याख्यातौ। जातिवचने कथं गुडकल्पा द्रक्षा, तैलकल्पा प्रसन्नेति? उच्यते; गुडगतमाधुर्यश्रयेण द्राक्षायां गुडत्वारोपाद् गुडजात्यभावाच्च ईषदसमाप्तं गुडत्वं द्राक्षायाः। तथा गुडकल्पो गुड इत्यपि भवति। कथं पुनः स एवेषदसमाप्तः सम्भवति? गुणहानेः---यावन्माधुर्यं गुडस्य प्रसिद्धम्, न तावत्पुराणत्वादिदोषोपहतस्य। तेनासावीषदसमाप्तो गुड इत्युच्यते ॥ विभाषा सुपो बहुच्पुरस्तातु ॥ ५।३।६८ ॥ ईषदसमाप्तिविशिष्टेऽर्थे वर्तमानादिति। ल्यब्लोप एषा पञ्चमी। एवम्भूतं सुबन्तं प्रकृतित्वेनाश्रित्येत्यर्थः। सूत्रे तु ठ्सुपःऽ इति ठ्षष्ठ।ल्तसर्थप्रत्ययेनऽ इति षष्ठी। स च पुरस्तादेवेति। एतेनानेकार्थत्वान्निपातानाम् ठ्तुशब्दोऽवधारणे वर्ततेऽ इति दर्शयति। असति तु तुशब्दे प्रत्ययात् पूर्वत्वस्यापि विधेयतया प्राधान्याद्विभाषाग्रहणेन सम्बन्धः स्यादिति भावः। भाष्यकारस्तु मन्यते--ठुदश्वितोऽन्यतरस्याम्ऽ इत्यादौ यथा परत्वं न विकल्पते, तत्कस्य हेतोः? प्रत्यय एव परत्वविशिष्टो विधीयते, तत्र विशेषणस्य गुमत्वाद्विकल्पेन न सम्बन्धः, गुणानां च परार्थत्वादिति न्यायात्; तद्वदिहापि विभाषाग्रहणेन बहुजेव सम्भन्त्स्यते, न पुरस्तादित्येतत्। तुशब्दस्य त्ववधारणार्थस्यान्यदेव प्रयोजनम्--पुरस्तादेव सर्वं भवतीति। तेन लिङ्गसंख्ये अपि प्राक्प्रत्ययोत्पतेःक प्रकृत्यवस्थायां ये दृष्टे ते एव भवतः। प्रयोगश्च प्राक् कृतेर्भवतीति। तेन बहुगुडो द्राक्षा, लघुर्बहुतृणं नर इति प्रकृतिवल्लिङ्गं भवति, नाभिधेयवत्। एवं च बहुगुडेति स्त्रीलिङ्गपाठः प्रमादजो द्रष्टव्यः; इतरथा भाष्यविरोधात्। ननु च स्वार्थिकत्वादेव प्रकृतितो लिङ्गवचने भविष्यतः, एवं तर्ह्येतज्ज्ञापयति--ईषदसमाप्तौ ये स्वार्थिकास्तेष्वभिधेयवदेव लिङ्गवचने भवत इति। तेन गुडकल्पा द्रक्षा,तैलकल्पा प्रसन्नेति सिद्धं भवति। चित्करणमन्तोदातार्थमिति। तच्चान्तोदातत्वं सप्रकृतेः समुदायस्य भवति, न बहुचः; चितः सप्रकृतेर्बह्वकजर्थमिति वचनात्। यद्येवम्, बहुपटव इति सुबन्तस्य पुरस्तादुत्पतौ जस उदातत्वं प्राप्नोति? स्यादेवम्, यदि प्रागुत्पन्नो जसवतिष्ठेत; इह तु बहुच्युत्पन्ने समुदायस्येषदसमाप्तिलक्षणेनार्थवत्वात्प्रातिपदिकत्वे सति ठ्सुपो धातुप्रातिपदिकयोःऽ इति लुकि पुनरपरो जसुत्पद्यते, तस्य च प्रकृत्यनेकदेशत्वान्नोदातत्वम्। ननु समासग्रहणस्य नियमार्थत्वात्प्रकृतिप्रत्ययसमुदायस्य प्रातिपदिकसंज्ञा न प्राप्नोति? ज्ञापकात्सिद्धम्, यदयमप्रत्ययैति प्रतिषेधं शास्ति, तज्ज्ञापयति--भवति प्रकृतिप्रत्ययसमुदायस्य प्रातिपदिकसंज्ञा, न तु समासग्रहणेन व्यावृत्तिरिति। विभाषावचनादित्यादि। अन्यथा तिङ्न्तेषु सावकाशाः कल्पबादयः सुबन्ते विशेषविहितेन बहुचा देशभेदेऽपि समानार्थेन बाध्येरन्। सुब्ग्रहणमित्यादि। अन्यथा ठ्तिङ्स्चऽ इत्यधिकारात्कल्पबादिवद्बहुजपि तिङ्न्तस्यापि पुरस्तात्स्यात्। प्रातिपदिकनिवृत्यर्थं तु सुब्ग्रहणं न भवति; विशेषाबावात्। ननु चायमस्ति विशेषः--बहुसेचौः, बहुसेचः, सुबन्तादुत्पतौ सत्याम् ठ्सात्पदाद्योःऽ इति षत्वनिषेधः सिद्ध्यति, प्रातिपदिकातूत्पतौ षत्वप्रसह्गः? नैष दोषः, सुबन्तादप्युत्पताववश्यमत्र कुत्वनिषेदार्थो यत्नः कर्तव्यः, स एव प्रातिपदिकादुत्पतौ ष्त्वनिषेदार्थः करिष्यते। स च ठ्न लुमताङ्गस्यऽ इत्यत्रैव दर्शितः, इह तरप्तमपोरवकाशः प्रकर्षस्य वचनमीषदसमाप्तेरवचनम्--पटुअतरः, पटुअतमः, कल्पबादीनामवकाश ईषदसमाप्तेर्वचनं प्रकर्षस्यावचनम्--पटुअकल्पः, मृदुकल्पः; उभयवचनादुभयप्रसङ्गे परत्वात्कल्पबादिषु कृतेषु प्रकर्षद्योतनाय पुनःप्रसङ्गविज्ञानातदन्तातरप्तमपौ भवतः---पटुअकल्पतरः, मृदुकल्पतर इति। यदि यदन्ताद्भवन्तौ यत्प्रधानस्तदन्तस्तत्प्रकर्षे प्राप्नुतः, किंप्रधानश्च तदन्तः? ईषदसमाप्तिप्रधानः, प्रकृत्यर्थप्रकर्षे चेष्यते? नैष दोषः, नेषदसमाप्तेः प्रकर्षः सम्भवति, न हीषदर्थस्यासमाप्तेर्वा प्रकर्षे ईषदसमाप्तिर्भवति ॥ प्रकारवचने जातीयर् ॥ ५।३।६९ ॥ तस्य वचन इति। वचनमुद्योतम्। सुबन्तादिति। अत्रापि तिङ्निवृत्यर्थम् ठ्सुपःऽ इत्यनुवर्तते इति दर्शयति। प्रकारवति चायमिति। तेन विषयबेदाद्विशेषविहितेनापि थाला जातीयरो बाधा न भवति, थाल्न्ताच्च जातीयर् सिद्धो बवतीति भावः। स्वभावश्चात्र हेतुः ॥ प्रागिवात्कः ॥ ५।३।७० ॥ तिङ्न्तादयं प्रत्ययो नेष्यत इति। तदर्थमत्र ठ्सुपःऽ इत्येव सम्बन्धनीयमिति भावः। अकजिष्यत इति। तदर्थं तत्र ठ्सुपःऽ इत्येव सम्बन्धनीयमिति भावः। कथं पुनरनुवर्तमानं शक्यमसम्भनधुम् ? तत्राह--तिङ्श्चेत्यनुवृतमिति। अत्र च व्याख्यानमेव शरणम्। इह ठ्प्राक्कुट।लःऽ इति वक्तव्यम्, न हि ठ्कुटीशमीशुण्डाब्यो रःऽ इत्यारब्यास्योपयोगः; प्रत्ययान्तरैरवष्टब्धत्वात्? उतरार्थं त्वियतोऽवधेर्ग्रहणम्, ठ्वा बहूनाम्ऽ इत्यत्र हि वावचनमकजर्थम्। एवमपि प्राक्कन इति वक्तव्यम् ठवक्षेपणे कन्ऽ इत्ययमवधिः। कुतो नु खल्वेतद्? अयमेव कनवधिः, न पुनर्हस्वे, ठ्संज्ञायां कन्ऽ ठ्कुत्सिते संज्ञायां कन्ऽ इत्येतयोरन्यतरोऽवधिः स्यात् ॥ अव्ययसर्वनाम्नामकच् प्राक् टेः ॥ कस्यापवाद इति। ननु च विरोधे सति बाध्यबाधकभावो भवति, काकचोश्च देशभेदान्नास्ति विरोधः, तत्कथं तस्यापवादः? नावश्यं देशकृत एव विरोधः, कि तहि? अर्थकृतोऽपि। काकचोश्च प्रयोजनमेकम्--अज्ञाताद्यर्थद्योतनं नाम, तस्मिन्नकचा कृते प्रयोजनाभावात्को न भविष्यति। सर्वके इति। अकचस्तन्मध्यपतितस्य तद्ग्रहणेन ग्रहणात् ठ्जसः शीऽ भवति, के तु सति न स्यात्। द्वयमपीहानुवर्तत इति। यद्येवम्, सर्वत्र सुबन्तस्य प्रातिपदिकस्य च प्राक् टेः प्रत्ययप्रसङ्गः? तत्राह--तत्रेति। क्वचित्प्रतिपदिकस्येति। ओकारसकारभकारादौ विभक्तौ। क्वचित्सुबन्तस्येति। उक्तादन्यत्र विभक्तौ। त्वयकीति। अकचो द्वितीयोऽकार उच्चारणार्थः। चित्करणं तु समुदायस्यान्तोदातार्थम्; ठ्चितः सप्रकृतेर्बह्वकजर्थम्ऽ इति वचनात्। इदमेव चित्करणं लिङ्गम्--सप्रकृतेश्चितोऽन्तोदातत्वम्, न चिन्मात्रस्येति। तूष्णीमः कामिति। यथासम्भवमज्ञातादिष्वर्थेषु। मकारो देशविध्यर्थः। अन्त्यादचः परः काम् भवति। अज्ञाताद्यर्थाविवक्षायां तूण्णीमित्येव भवति। शीले क इति। शीलमुस्वभावः, नियमश्च। अज्ञाताद्यपवादः। शीलं तूष्णीं स्वभावाच्चा दद्वान् तूष्णीक इत्युच्यते, न तच्छीलमात्रम् ॥ कस्य च दः ॥ ५।३।७२ ॥ न सर्वनामग्रहणमिति। तदिङ्ग्रहणं चेति द्रष्टव्यम्; हेतोस्तुल्यत्वात्। अधोक्, अवक् इत्यादावसिद्धं कुत्वम्। शक्नोतिप्रभृतेर्यङ्लुकि लटि तिपीडभावे हल्ङ्यादिलोपे अशाशगित्यादौ छान्दसो यङे लुक्, च्छन्दसि च दृष्टानुविधानम्। धिगिति। ककारान्तत्वमव्ययस्य दर्शयति ॥ अज्ञाते ॥ ५।३।७३ ॥ अज्ञात इति सामान्येनोच्यते, न च सर्वथाऽविज्ञाते शब्दप्रयोगे एवल सम्बवति, न खल्वस्व इत्यजानन्नश्वशब्दं प्रयोक्तुमर्हति, तस्माद्विशेषस्य ग्रहणमित्याह--अज्ञातविशेषो ज्ञात इति। विशेषमेव दर्शयति--स्वेन रूपेणेति। विसेषरूपेणेति अस्य विवरणम्--कस्यायमश्व इत्यादि। इहाज्ञातः प्रकृष्टः पटुअरित्यर्थद्वयविवक्षायां पश्चात्कः---पटुअतमक इति भवति। इह च कुत्सितमर्द्धपिप्पल्या इति विवक्षायाम् पूर्वं समासः, पश्चात्कः---अर्द्धपिप्पलीकेति भवति। एतेन कल्पबादयो व्याख्याताः। आह च--ठ्कविदेस्तमबादयः पूर्वविप्रतिषिद्धम् एकदेशिप्रधानश्च समासःऽ इति। इह तु च्छिन्नकतरमिति--ठनत्यन्तगतौ क्तात्ऽ इति परत्वात्कनि कृते तरब् भवति। कदाचिद् द्वन्द्वः--प्लक्षन्यग्रोधकौ, प्लक्षकन्यग्रोधकौ इति वा ॥ कुत्सिते ॥ ५।३।७४ ॥ प्रकृत्यर्थविशेषणं चैतदिति। प्रकृत्यर्थस्यैतद्विशेषणम्, न तूपलक्षणमित्यर्थः। उपलक्षणत्वे हि यः कुत्सितस्तत्र वर्तमानादिति विज्ञायमाने इदं घृतकम्, इदं तैलकमित्यत्रेदंशब्दादपि प्राप्नोति। विशेषणत्वे त्वङ्गीकृतकुत्सात्प्रत्ययः, न त्वनुपातकुत्सात्; कुत्सिसमानाधिकरणात्। प्रत्ययार्थत्वे तु ठ्प्रकृतिप्रत्ययौ प्रत्ययार्थं सह ब्रूतस्तयोः प्रत्ययार्थः प्रधानम्ऽ इति प्रकृत्यर्थस्य विशेषषणत्वं कुत्सितस्य विशेष्यत्वं प्राप्नोति, विपर्ययश्च लोके गम्यते। तस्मात्प्रकृत्यर्थविशेषणमिति सुष्ठूअक्तम्। अश्वक इति। योऽश्व एव सन् तत्साध्यां क्रियां सुष्ठुअ न करोति स एवमुच्यते। स्वार्थिकेपु हि यत्र प्रवृत्तिनिमितस्य विशेषणासम्भवः, तत्राभिधेयसहचरितधर्मान्तराश्रयः प्रत्ययो भवतीत्युक्तम्। एवं च देवदतकः, डित्थक इत्यपि भवति यस्तत्साध्यामर्थं सम्यङ् नानुतिष्टति। सम्भवे त्विहापि शब्दोपातमर्माश्रयैव कुत्सा, तद्यथा--पटुअकः पण्डितक इति स्वार्थे कुत्सा; ठ्प्राप्य गाण्कडीवधन्वानं विद्धि कौरवकान् स्त्रियःऽ इति लिङ्गकुत्सा, कौरवकानिति किमेतेऽर्जुनसंनिधौ पुमांस इत्यर्थः; क्वचित्सङ्खयाकुत्सा, यथा--इदमेकमेव शनकमिति, शनभरणे यद्दुःखं तदेकस्यैव भरण इति शतत्वरूपेण कुत्सा। सर्वथाङ्गीकृतकुत्सात्प्रत्यय। अथेह कथं प्रत्ययः---कुत्सितक इति ? कथञ्च न स्यात् ? स्वशब्देनोपातत्वात् कुत्सायाः ? अनुकम्पादावर्थान्तरे भविप्यति। अथ वा--कुत्सितस्य यत्कुत्सनं तत्र प्रत्ययः। कुत्सितत्वं यदा कुत्स्यते--नास्य सम्यक्कुत्सितत्वमिति, तदेत्यर्थः। यथा--प्रकर्पस्य प्रकर्पे प्रकृष्टतम इति तमप्प्रत्ययो भवति तद्वदत्रापि। एतेनानुकम्पितशब्दादनुकम्पायां प्रत्ययो व्याख्यातः ॥ अनुकम्पायाम् ॥ ५।३।७६ ॥ कारुण्येनेति। करुणैव कारुण्यम्। अभ्युपपतिरिति। अनुग्रहः, उपकार इति यावत्। परस्योति कर्मणि षष्ठी। तस्यां गम्यमानायामिति। अनेनग्रयोक्तृधर्मोऽनुकम्पा आवाधवद्, न तु प्रशंसादिवत्प्रकृत्यर्थविशेषणमिति दर्शयति। अन्ये तु प्रकृत्यर्थविशेषणमेव मन्यन्ते, तथा चाजिनान्तस्येत्यादिषु विग्रह दर्शयिप्यन्ति--ठनुकम्पितो व्याव्राजिनः, अनुकम्पितो बृहस्पतिदतः, अनुकम्पितः शेवलदतःऽ इति, न च प्रयोक्तृधर्मस्य विग्रहे दर्शनमस्ति। स्वपितकि, श्वसितकीति। अदादित्वाच्छपो लुक्, ठ्रुदादिभ्यः सार्वधातुकेऽ इतीट् ॥ नीतौ च तद्यौक्तात् ॥ ५।३।७७ ॥ सामदानादिरिति। आदिशब्देन भेददण्डयोर्ग्रहणम्, यद्यनुकम्पायां तौ सम्भवतः। असम्भवेऽपि नीतिस्वरूपप्रदर्शनपरं द्रष्टव्यम्। एहकीति। आङ्पूर्वादिणो लोट्, सिपो हिः पूर्वेणेत्यादि। अनुकम्पायां हि विधीयमानः प्रत्ययः प्रत्यासतेरनुकम्प्यमानादेव युक्तो विधातुम्, तस्य हि अनुकम्पासम्बन्धः प्रतयासन्नस्तद्विषयत्वादनुकम्पायाः। तेन व्यवहितान्नीत्युपायाद्धानादेर्न स्याद्; अतद्विषयत्वादनुकम्पायाः। तेन व्यवहितान्नीत्युपायाद्धातादेर्न स्याद्; अतद्विषयत्वादनुकम्पायाः। धानाशब्दः स्त्रीलिङ्गः, ततः के विहते ठ्केऽणःऽ इति ह्रस्वत्वे च स्वाथिकानां प्रकृतिवल्लिङ्गं भवतीति कप्रत्ययान्तादापि कृते ठ्प्रत्ययस्थात्ऽ इतीत्वेन भवितव्यम्। प्रायेण तु हन्त ते धानका पठ।ल्ते, तत्र लिङ्गातिवृत्तिर्द्रष्टव्या ॥ बह्वचो मनुष्यनाम्नष्ठज्वा ॥ ५।३।७८ ॥ प्रकरणमपेक्ष्यते, न त्वनन्तरमित्याह--अनुकम्पायां नीतौ च तद्यौक्तादिति वर्तत इति। मद्रबाहुक इति। नामग्रहणस्येदं प्रत्युदाहरणम्, यौगिकोऽयम्--मद्रौ बाहू यस्येति। मनुष्यग्रहणस्य तु स्तम्बेरमादिः प्रत्युदाहरणम्। अपर आह--मद्रबाहुरिति चतुष्पाज्जातिविशेषो मनुष्यग्रहणस्य प्रत्युदाहरणम्, नामग्रहणस्य त्वौपगवादिः प्रत्युदाहरणमिति॥ घनिलचौ च ॥ ५।३।७९ ॥ चकाराद्यथाप्राप्तं चेति। ननु च ठच् पूर्वण विहितः, वावचनात् कोऽपि, कात्र चकारेणाभ्यनुज्ञा ? इति चिन्त्यम्। योगविभागोऽपि चिन्त्यप्रयोजनः ॥ जातिनाम्नः कन् ॥ ५।३।८१ ॥ यो शब्दा जात्यन्तरे प्रसिद्धा मनुष्येषु नामत्वेन विनियुक्तास्त इहोदाहरणम्। जातिरेव नाम, जातिर्वा नामौजातिनाम। व्याघ्रिय इति। अनेकार्थत्वान्निपातानामनुवृतस्य वाशब्दस्य समुच्चयार्थत्वाद् घनिलचौ भवतः। ये तु विकल्पार्थमेव वाशब्दं मन्यनते, ते कं प्रत्युदाहरन्ति--व्याध्रकाः, सिंहका इति। स्वरे विशेषः। घनिलचोस्तु शरभिल इत्याद्यौदाहरणम् ॥ अजिनान्तस्योतरपदलोपश्च ॥ ५।३।८२ ॥ व्याघ्राजिनो नाम कश्चिदिति। व्याघ्रस्येवाजिनमस्येति कृत्वा। ठजिनलोपश्चऽ इत्युच्यमाने महदजिनं महाजिनम्, व्याघ्रस्येव महाजिनमस्य व्याघ्रमहाजिनः, सोऽनुकम्पित व्याघ्रक इत्यत्र महच्छब्दस्य लोपो न स्यात्; तस्मादुतरपदग्रहणम्। लोपश्चायं सर्वापहारी; उतरपदग्रहणात् ॥ ठाजादावूर्ध्वं द्वितीयादचः ॥ ५।३।८३ ॥ ठ्ठाजादौऽ इति समाहारद्वन्द्वे सौत्रः पुंल्लिङ्गनिर्द्देशः। आदिग्रहणं चिन्त्यप्रयोजनम्, ठ्यस्मिन्विधिस्तदादौऽ इत्येव सिद्धम्। अस्मिन्प्रकरण इति। प्रत्यासत्या तयोरेव बुद्धौ सन्निधानादिति भावः। ऊर्ध्वमिति प्रथमान्तस्याध्याहारेणान्वय इत्याह--ऊर्ध्वं यच्छशब्दरूपं तस्येति। द्वितीयादिति पञ्चम्या षष्ठी प्रकल्प्यते, प्रथमा तु निर्देशार्थैव। ठ्सुपां सुऽ इति वा षष्ठीस्थाने प्रथमा भवतीति। ऊर्ध्वग्रहणमनर्थकम्, ठ्तस्मादित्युतरस्यऽ इत्यूध्वस्यैव भविष्यति? तत्राह-ऊर्ध्वग्रहणं सर्वलोपार्थमिति। अन्यथा ठादेः परस्यऽ इति द्वितीयादचो यः परस्तस्यादेरेव लोपः स्याद्, ऊर्ध्वग्रहणणसामर्थ्यातु सर्वमेवोर्ध्वं लुप्यते। ठग्रहणमनर्थकम्, इकादेशे कृतेऽजादावित्येव सिद्धम्? अत आह--ठग्रहणमिति। अकृत एवैकादेशे ठावस्थायामेव लोपो यथा स्याद् इत्येवमर्थं तावट्ठग्रहणम्, किमेवं सिद्धं भवति? उको द्वितीयत्वे सति परस्यांशस्य लोपे कृते ठिसुसुक्तान्तात्कःऽ इति कादेशः सिद्धो भवति, तत्रैतत्स्याद्-इकादेशे कृतेऽजादिलक्षण एव लोपोऽस्तु, इकादेशस्य स्थानिवद्भावाट्ठग्रहणेन ग्रहणादुकः परत्वेन कादेशो भविष्यति? तत्राऽऽह--आजादिलक्षणो हीति। ठजादिषु यदि वर्णमात्रं प्रत्ययः, अकारस्तूच्चारणार्थः, ततष्ठस्य क इत्यत्रापि वर्णस्यैव ठस्य स्थानित्वम्, ततश्चाल्विधित्वात्स्थानिवद्भावो नोपपद्यते, सङ्घातस्य तु प्रत्ययत्वे तत्रापि सङ्घातस्य ग्रहणम्। तत्र यद्यप्युपपद्यते स्थानिवद्बावः, तथापि सन्निपातपरिभाषया कादेशो न स्यादेव। अजादेः प्रत्यस्य प्रकृत्या यदानन्तर्थं तत्कृतं ह्युकः प्रत्ययेनानन्तर्यं तत्कथं तस्याजादित्वं विहन्यात्! अत एव मथितं पण्यमस्य माथितिक इत्यत्र यस्येतिलोपे कृते सत्यपि तकारेण प्रत्ययस्यानन्तर्थे कादेशो न भवति। तस्माट्ठग्रहणं कर्तव्यम्। किञ्च---यदा चित्रभानुप्रभृतिभ्यष्ठज्विधीयते, तदेकादेशाबावादजादिलक्षणो लोपो न स्यादिति तदर्थमपि ठग्रहणम्। चतुर्थादच्च इति। इदं संग्रहश्लोक नास्ति, क्वाचित्कं चैतत्। अनजादौ विभाषा लोपो वक्तव्य इति। द्वितीयादच ऊर्ध्वस्येत्येव। लोपः पूवपदस्य चेति श्लोकवातिकम्, तस्योपस्कारः--ठाजादावनजादौ च वक्तव्य इति। तत्र ठाजादौ पूर्वोतरयोरन्यतरस्य नित्यं लोपः, अनजादौ विकल्पः। उवर्णाल्ल इति। लोपस्य ठ्लऽ इति पूर्वाचार्यसंज्ञा, तत्र ठादेः परस्यऽ इतीकारलोपः। तदादेरिति। सन्ध्यक्षरात्परस्य लोपे प्राप्ते तत आरभ्य लोपार्थं वचनम् एकाक्षरपूर्वपदानामिति। अक्षरशब्दोऽयमचि वर्तते, व्यञ्जनसहिते केवले वा। द्वितीयादच ऊर्ध्वस्य लोपे प्राप्ते तेन सह लोपार्थं वचनम्। वागाशारिति। वाचि आशीर्यस्य स वागाशीः। वाचिक इति। अत्र यदि द्वितीयादच ऊर्ध्वस्य लोपः स्यातदा ठकृतव्यूहाः पाणिनीयाःऽ इति परिभाषया कुत्वजश्त्वयोनिवृतौ वाचाआइक इति स्थिते आकारस्य यस्येतिलोपेन निवृतावपि तस्य स्थानिवद्भावादाकारान्तस्य भसंज्ञायां त्वन्तर्वतिनीं विभक्तिमाक्षित्य पदसंज्ञा, सा चकारान्तस्येति भिन्नावधिकत्वाद्भसंज्ञया पदसंज्ञा न बाध्यते, ततश्च कुत्वजश्त्वयोः कृतयोः-वागिक इति स्यात्। उतरपदलोपे तु तस्यानजादेशत्वात् स्थानिवत्वाभावातुल्यावधिकया भसंज्ञया पदसंज्ञायास्तद्धिताश्रयायास्तावदपवादत्वाद्बाधः। या त्वन्तर्वधिकया भसंज्ञया पदसंज्ञायास्तद्धिताश्रयाया स्तावदपवादत्वाद्बाधः। या त्वन्तर्वतिनीं विभक्तिमाश्रित्य सुबन्थं पदमिति पदसंज्ञा, तस्या अपि एकसंज्ञाधिकारात्परत्वाच्च बाध इति सिद्धमिष्टम् । कथमिति। अचाप्युतरपदलोपे कृते भसंज्ञया पदसंज्ञाया बाधितत्वाज्जश्त्वं न स्यादिति प्रश्नः। षष इति। सौत्र एवात्र लोप इष्यते, न त्वौपसख्यानिक इत्यर्थः । संग्रहश्लोकतृतीयपादे तथाशब्दानन्तरं वाशब्दः पाठयः, न त्वेवशब्दः,। स च पूर्वत्रापि यथेष्ट्ंअ सम्बन्धनीयः, इष्ट्ंअ च पूर्वमेव दर्शितम्। अत्र चोदयति---संज्ञाशब्दस्यैकदेशे लुप्ते कथं संज्ञिनोऽवगमः, न हि देव इति वा दत इति वा संज्ञा कृता, किं तर्हि, देवदत इति ? अत्राहुः--एकदेसेन समुदायेऽनुमीयते, विषाणेनेव गौः, सोऽनुमितोऽर्थस्य वाचक इति। ननु चोच्यार्यमाणा एव शब्दोऽर्थ प्रत्याययति, न प्रतीयमानः? नेत्याह; स्मृत्यनुमिति श्रुतिः कि नार्थ प्रत्याययति! प्रत्याहारेषु वा मध्यवर्तिनो वर्णाः किं सवर्णान्न प्रत्यायन्ति! किञ्च--- अशक्तिजैरपभ्रंशैः साधवः स्मारिता यथा। शब्दाः प्रत्याययन्त्यर्थं तथात्रापि भविष्यति ॥ समुदाये संज्ञात्वेन विनियुज्यमानेऽवयवानामपि संज्ञात्वममुनिप्पद्यते। किमर्थं तर्हि लोपो विधीयते? पदानामेव संज्ञैकदेशभूतानां साधुत्वं यथा स्याद्, वर्णानां