काशिकावृत्तिः प्रथमोऽद्यायः प्रथमः पादः [॰१] वृत्तौ भाष्ये तथा धातुनामपारायणादिषु । विप्रकीर्णस्य तन्त्रस्य क्रियते सारसङ्ग्रहः ॥१॥ इष्ट्युपसङ्ख्यानवती शुद्धगणा विवृतगूढसूत्रार्था । व्युत्पन्नरूपसिद्धिर्वृत्तिरियं काशिका नाम ॥२॥ व्याकरणस्य शरीरं परिनिष्ठितशास्त्रकार्यमेतावत् । शिष्टः परिकरबन्धः क्रियतेऽस्य ग्रन्थकारेण ॥३॥ [॰२] अथ सब्दानुशासनं केषां शब्दानाम्? लौकिकानां वैदिकानां च । कथमनुशासनम्? प्रकृत्यादिविभागकल्पनया सामान्यविशेषवता लक्षणेन । अथ किमर्थो वर्णानामुपदेशः? प्रत्याहारार्थः । प्रत्याहारो लाघवेन शास्त्रप्रवृत्त्यर्थः ॥ अ इ उ ण् । अ इ उ इत्यनेन क्रमेण वर्णानुपदिश्यान्ते णकारमितं करोति प्रत्याहारार्थम् । तस्य ग्रहणं भवत्येकेनौरन् रप्रः (*१,१.५१) इत्यकारेण । ह्रस्वमवर्ण प्रयोगे संवृतम् । दीर्घप्लुतयोस्तु विवृतत्वम् । तेषां सावर्ण्यप्रसिद्ध्यर्थमकार इह शास्त्रे विवृतः प्रतिज्ञायते । तस्य प्रयोगार्थम अ (*८,४.६८) इति शास्त्रान्ते प्रत्यापत्तिः करिष्यते ॥ ऋ लृ‌ क् । ऋ लृ‌ इत्येतौ वर्णावुप्दिश्य पूर्वांश्चान्ते ककारमितं करोति प्रत्याहारार्थम् । तस्य ग्रहणं भवति त्रिभिः । अकः सवर्णे दीर्घः (*६,१.१०१) इत्यकारेण । इको गुणवृद्धी (*१,१.३) इतीकारेण । उगितश्च (*४,१.६) इत्युकारेण । अकारादयो वर्णाः प्रचुरप्रयोगविषयास्तेषां सुज्ञानमुपदेशे प्रयोजनम् । लृ‌कारस्तु कॢपिस्थ एव प्रयुज्यते । कॢपेश्च पूर्वत्रासिद्धम् (*८,२.१) इति लत्वमसिद्धम् । तस्यासिद्धत्वादृकार एव अच्कार्याणि भविष्यन्ति इति किमर्थम् लृ‌कार उपदिश्यते? लत्वविधानाद्यानि पराण्यच्कार्याणि तानि लृ‌कारे यथा स्युरिति । कानि पुनस्तानि? प्लुतः स्वरितो द्विर्वचनम् । कॢ३प्तशिखः, प्रकॢप्तः, प्रकॢप्तवानिति । यच्चाशक्तिजमसाधु शब्दरुपं, तदनुकरणस्यापि साधुत्वमिष्यते । तत्स्थस्यापि लृ‌कारस्य अचकार्यप्रतिपत्त्यर्थम् लृ‌कारोपदेशः क्रियते । ऋतकः इति प्रयोक्तव्ये शक्तिवैकल्यात्कुमारी लृ‌तकः इति प्रयुङ्क्ते, तदन्योऽनुकरोति कुमार्यॢतकः इत्याह इति ॥ ए ओ ङ् । ए ओ इत्येतौ वर्णावुपदिश्य अन्ते ङ्कारमितं करोति प्रत्याहारार्थम् । तस्य ग्रहणं भवत्येकेन । एङि पररूपम् (*६,१.९४) इत्येकारेण ॥ [॰३] ऐ औ च् । ऐ औ इत्येतौ वर्णावुपदिश्य पूर्वांश्चान्ते चकारमितं करोति प्रत्याहारार्थम् । तस्यग्रहणं भवति चतुर्भिः । अचः परस्मिन् पूर्वविधौ (*१,१.५७) इत्यकारेण । इच एकाचोऽम्‌ प्रत्ययवच्च (*६,३.६८) इति इकारेण । एचोऽयवायावः (*६,१.७८) इति एकारेण । वृद्धिरादैच्(*१,१.१) इति ऐकारेण । प्रत्याहारेऽनुबन्धानां कथमज्ग्रहणेषु न । आचारादप्रधानत्वाल्लोपश्च बलवत्तरः ॥ वर्णेषु ये वर्णेकदेशा वर्णान्तरसमानाकृतयस्तेषु तत्कार्यं न भवति, तच्छायामुकारिणो हि ते न पुनस्त एव । पृथक्प्रयत्ननिर्वर्त्यं हि वर्णमिच्छन्त्याचार्याः । नुड्विधिलादेशविनामेषु ऋकारे प्रतिविधातव्यम् । नुडिधौ (*७,४.७१) ऋकारग्रहणम् । आनृधतुः, आनृधुः । लादेशे ऋकारग्रहणम् । कॢप्तः, कॢप्तवान् । विनामे ऋकारग्रहणम् । कर्तॄणाम् ॥ ह य व रट् । ह य व र इत्येतान् वर्णानुपदिश्य पूर्वांश्चान्ते टकारमितं करोति प्रत्याहारार्थम् । तस्य ग्रहणं भवत्येकेन । शश्छोऽति (*८,४.६३) इत्यकारेण । अयं रेफो यकारात्पर उपदिश्यते । तस्य यर्ग्रहणेन यय्ग्रहणेन च ग्रहणे सति, स्वर्नयति, प्रातर्नयति इत्यत्र यरोऽनुनासिकेऽनुनासिको वा (*८,४.५८) इति अनुनासिकः प्राप्नोति । मद्रह्रदः, भद्रह्रद इत्यत्र द्विर्वचनं प्राप्नोति अचो रहाभ्यां द्वे (*८,४.४६) इति । कुण्डं रथेन, वनं रथेन इत्यत्र अनुस्वारस्य ययि परसवर्णः(*८,४.५८) इति परसवर्णः प्राप्नोति । नेष दोषः । आकृतौ पदार्थे समुदाये सकृल्लक्ष्ये लक्षणं प्रवर्तते इत्येतस्मिन् दर्शने यरोऽनुनसिकेऽनुनासिको वा (*८,४.४५) अन्तरतमो भवति इत्येवमेतत्प्रवर्त्तते । तदनेन गकारादीनां ङकारादयो ये यथास्वं स्थानतो गुणतश्च अतरतमाः, ते सर्वे विहिताः । ये तु न स्थानतः, न अपि गुणतः, स्थानमात्रेण गुणमात्रेण वा अन्तरतमास्ते सर्वे निवर्तिताः इति स्थानमात्रान्तरतमो रेफस्य णकारो न भवति । द्विर्वचनेऽपि रेफस्य यरन्तर्भावे सति यर्कार्यं प्राप्तम्, तत्साक्षाच्छिष्टेन निमित्तभावेन बाध्यते इति न द्विरुच्यते रेफः । अनुस्वारस्य ययि परसवर्णः (*८,४.५८) इत्येतदप्यनुस्वारान्तरतमं सकृदेव परसवर्णं विदधाति । न च रेफस्य अनुस्वारान्तरतमः सवर्णोऽस्ति इति न भविष्यति कुण्डं रथेन, वनं रथेन इत्यत्र । अटां मद्ये विसर्जनीयजिह्वामूलीयोपध्मानीयानामप्युपदेशः कर्तव्यः । किं प्रयोजनम् ? उरःकेण, उरःकेण । उरःपेण, उरःपेण । अत्र अड्व्यवाये इति णत्वं यथा स्यातिति ॥ [॰४] ल ण् । ल इत्येकं वर्णमुपदिश्य पूर्वांश्चान्ते णकारमितं करोति प्रत्याहारार्थम् । तस्य ग्रहणं भवति त्रिभिः । अणुदित्सवर्णस्य च अप्रत्ययः (*१,१.६९) इत्यकारेण । इण्कोः (*८,३.५७) इति इकारेण । इको यणचि (*६,१.७७) इति यकारेण । इण्ग्रहणानि सर्वाणि परेण णकारेण । अण्ग्रहणानि तु पूर्वेण, अणुदित्सवर्णस्य चाप्रत्ययः (*१,१.६९) इत्येतदेवेकं परेण । अथ किमर्थमज्ग्रहणमेवेतन्न क्रियते? नेवं शक्यम्, अन्तःस्थानामपि हि सवर्णानां ग्रहणमिष्यते । सयं, यं, यन्ता, सवं, वं वत्सरह्, यलं, लं, लोकम्, तल्लं,लं, लोकमित्यत्र अनुस्वारस्य अनुनासिके ययि परसवर्णे कृते तस्य यर्ग्रहणेन ग्रहणाद्द्विर्वचनं यथा स्यादिति । हकारादिष्वकार उच्चारणार्थः, न अनुबन्धः । लकारे त्वनुनासिकः प्रतिज्ञायते, तेन उरण्रपरः (*१,१.५१) इत्यत्र र इति प्रत्याहारग्रहणाल्लपरत्वमपि भवति ॥ ञ म ङण न म् । ञ म ङ ण न इत्येतान् वर्णानुपदिश्य पूर्वांश्चान्ते मकारमितं करोति प्रत्याहारार्थम् । तस्य ग्रहणं भवति त्रिभिः । पुमः खय्यम्परे (*८,३.६) इत्यकारेण । हलो यमां यमि लोपः (*८,४.६४) इति यकारेण । ङमो ह्रस्वादचि ङमुण्नित्यम् (*८,३.३२) इति ङकारेण । ञमन्ताड्डः इति ञकारेणापि ग्रहणमस्य दृश्यते । केचित्तु सर्वाण्येतानि प्रत्याहारग्रहणानि ञकारेण भवन्तु इति मकारमनुबन्धं प्रत्याचक्षते । तथा च सति ङमो ह्रस्वादचि ङमुण्नित्यम्(*८,३.३२) इत्यत्रागमिनोः झभोरभावादागमाभावप्रतिपत्तौ प्रतिपत्तिगौरवं भवति ॥ झ भ ञ् । झ भ इत्येतौ वर्णावुपदिश्य पूर्वांश्चान्ते ञकारामितं करोति प्रत्याहारार्थम् । तस्य ग्रहणं भवत्येकेन । अतो दीर्घो यञि (*७,३.१०१) इति यकारेण ॥ घ ढ ध ष् । घ ढ ध इत्येतान् वर्णानुपदिश्य पूर्वांश्चान्ते षकारमितं करोति प्रत्याहारार्थम् । तस्य ग्रहणं भवति द्वाभ्याम् । एकाचो बशो भष्झषन्तस्य स्ध्वोः (*८,२.३७) इति भकारझकाराभ्याम् ॥ [॰५] ज ब ग ड द श् । ज ब ग ड द इत्येतान् वर्णानुपदिश्य पूर्वांश्चान्ते शकारमितं करोति प्रत्याहारार्थम् । तस्य ग्रहणं भवति षड्भिः । भोभगोअघोअपूर्वस्य योऽशि (*८,३.१७) इत्यकारेण हशि च (*६,१.११४) इति हकारेण । नेड्वशि कृति (*७,२.८) इति वकारेण । झलां जश्झशि (*८,४.५३) इति जकारझकारभ्याम् । एकाचो वशो भष्झषन्तस्य स्ध्वोः (*८,२.३७) इति बकारेण ॥ ख फ ध ढ थ च ट त व् । ख फ ध ढ थ च ट त इत्येतान् वर्णानुपदिश्यान्ते वकारमितं करोति प्रत्याहारार्थम् । तस्य ग्रहणं भवत्येकेन । नश्छव्यप्रशान् (*८,३.७) इति धकरेण । खफग्रहणमुत्तरार्थम् ॥ क प य् । क प इत्येतौ वर्णावुपदिश्य पूर्वांश्चान्ते यकारमितं करोति प्रत्याहारार्थम् । तस्य ग्रहणं भवति चतुर्भिः । अनुस्वारस्य ययि परसवर्णः (*८,४.५८) इति यकारेण । मय उञो वो वा (*८,३.३३) इति मकारेण । झयो होऽन्यतरस्याम् (*८,४.६२) इति झकारेण । पुमः खय्यम्परे (*८,३.६) इति खकारेण ॥ श ष स र् । श ष स इत्येनान् वर्णानुपदिश्य पूर्वांश्चान्ते रेफमितं करोति प्रत्याहारार्थम् । तस्य ग्रहणं भवति पञ्चभिः । यरोऽन्य्नासिकेऽनुनासिको वा (*८,४.४५) इति यकारेण । झरो झरि सवर्णे (*८,४.६५)इति झकारेण । खरि च (*८,४.५५) इति खकारेण । अभ्यासे चर्च (*८,४.५४) इति चकारेण । शर्पूर्वाः खयः (*७,४.६१) इति शकारेण ॥ ह ल् । ह इत्येकं वर्णमुपदिश्य पूर्वांश्चान्ते लकारमितं करोति प्रत्याहारार्थम् । तस्य ग्रहणं भवति षट्भिः । अलोऽन्त्यात्पूर्व उपधा (*१,१.६५) इति अकारेण । हलोऽनन्तराः संयोगः (*१,१.७)इति हकारेण । लोपो व्योर्वलि (*६,१.६६) इति वकारेण । रलो व्युपधद्धलादेः संश्च (*१,२.२६) इति रेफेण । झलो झलि (*८,२.२६) इति झकारेण । शल इगुपधादनिटः क्षः (*३,१.४५) इति शकारेण । अथ किमर्थमुपदिष्टोऽपि हकारः पुनरुपदिश्यते? कित्त्व विकल्पक्ष इड्विधयो यथा स्युः इति । स्निहित्वा, स्नेहित्वा इत्यत्र रलो व्युपधाद्धलादेः संश्च (*१,२.२६) इति कित्त्वं वा यथा स्यात् । लिहेः अलिक्षतिति शल इगुपधादनिटः क्षः (*३,१.४५) इति क्षो यथा स्यात् । [॰६] रुदिहि, स्वपिहि इति वलादिलक्षण इड्यथा स्यात् । अदाग्धाम् । झल्ग्रहणेषु च हकारस्य ग्रहणं यथा स्यात् । यद्येवम्, ह य व र डित्यत्र तर्हि किमर्थमुपदिश्यत्? महां हि सः; देवा हसन्ति इत्यत्र अड्ग्रहणेषु च अश्ग्रहणेषुच हकारस्य ग्रहणं यथा स्यात् । ब्राह्मणो हसति हशि च (*६,१.११४) इत्युत्वं यथा स्यात् । एकस्मान् ङञणवटा द्वाभां षस्त्रिभ्य एव कणमाः स्युः । ज्ञेयौ चयौ चतुर्भ्यो रः पञ्चभ्यः शलौ षड्भ्यः ॥ इति ॥ इति प्रत्याहारप्रकरणम् । ____________________________________________________________________ वृद्धिरादैच् ॥ १,१.१ ॥ _____ काशिकावृत्तिः१,१.१: वृद्धिशब्दः सञ्ज्ञात्वेन विधीयते, प्रत्येकमादैचां वर्णानां सामान्येन तद्भावितानाम्, अतद्भावितानां च । तपरकरणमैजर्थं तादपि परः तपरः इति, खट्वैडकादिषु त्रिमात्रचतुर्मात्रप्रसङ्ग. निवृत्तये । आश्वलायनः । ऐतिकायनः । औपगवः । औपमन्यवः । शालीयः । मालीयः । वृद्धिप्रदेशाः सिचि वृद्धिः परस्मैपदेषु (*७,२.१) इत्येवमादयः ॥ ____________________________________________________________________ अदेङ्गुणः ॥ १,१.२ ॥ _____ काशिकावृत्तिः१,१.२: गुणशब्दः सञ्ज्ञात्वेन विधीयते, प्रत्येकम्, अदेङां वर्णानां सामान्येन तद्भावितानाम्, अतद्भावितानां च । तपरकरणं त्विह सर्वार्थम् । तरिता । चेता । स्तोता । जयन्ति । अहं पचे । गुणप्रदेशाः मिदेर्गुणः (*७,३.८२) इत्येवमादयः ॥ ____________________________________________________________________ इको गुणवृद्धी ॥ १,१.३ ॥ _____ काशिकावृत्तिः१,१.३: परिभाषा इयं स्थानिनियमार्था । अनियमप्रसङ्गे नियमो विधीयते । वृद्धिगुणौ स्वसञ्ज्ञया शिष्यमाणौ इकः एव स्थाने वेदितव्यौ । वक्ष्यति सार्वधातुकार्धधातुकयोः (*७,३.८४) अङ्गस्य गुण इति । स इको एव स्थाने विदितव्यः । नयति । भवति । वृद्धिः खल्वपि अकार्षीत् । [॰७] अहार्षीत् । अचैषीत् । अनैषीत् । अलावीत् । अस्तावीत् । गुणवृद्धी स्वसञ्ज्ञया विधीयेते, तत्र इकः इति एतदुपस्थितं द्रष्टव्यम् । किं कृतं भवति ? द्वितीयया षष्ठी प्रादुर्भाव्यते । मिदिमृजिपुगन्तलघऊपर्धाच्छिदृशिक्षिप्रक्षुद्रेष्वङ्गेन इग्विशेष्यते । जुसि सार्वधातुकादिगुणेषु इकाङ्गं विशेष्यते । मेद्यते । अबिघयुः । इकः इति किम्? आत्सन्ध्यक्षरव्यञ्जनानां मा भूत् । यानम् । ग्लायति । उम्भिता । पुनर्गुणवृद्धिग्रहणं स्वसञ्ज्ञ्या विधाने नियमार्थम् । इह मा भूत् द्यौः, पन्थाः, सः, इममिति ॥ ____________________________________________________________________ न धातुलोप आर्धधातुके ॥ १,१.४ ॥ _____ काशिकावृत्तिः१,१.४: धात्वेकदेशो धातुः, तस्य लोपो यस्मिन्नार्धधातुके तदार्धधातुकं धातुलोपं, तत्र ये गुणवृद्धी प्राप्नुतः, ते न भवतः । लोलुवः । पोपुवः । मरीमृजः । लोलूयादिभ्यो यङन्तेभ्यः पचाद्यचि विहिते यङोऽचि च (*२,४.७४) इति यङो लुकि कृते तमेव अचमाश्रित्य ये गुणवृद्धी प्राप्ते तयोः प्रतिषेधः । धातुग्रहणं किम् ? लूञ्, लविता । रेडसि । पर्णं न वेः । अनुबन्धप्रत्ययलोपे मा भूत् । रिषेर्हिसार्थस्य विच्प्रत्ययलोप उदाहरणं रेटिति । आर्धधातुके इति किम् ? त्रिधा बद्धो वृषभो रोरवीति इति । सार्वधातुके मा भूत् । इकः इत्येव अभाजि, रागः । बहुव्रीहिसमाश्रयणं किम् ? क्नोपयति, प्रेद्धम् ॥ ____________________________________________________________________ क्ङिति च ॥ १,१.५ ॥ _____ काशिकावृत्तिः१,१.५: निमित्तसप्तम्येषा । क्ङिन्निमित्ते ये गुणवृद्धी प्राप्नुतः, ते न भवतः । चितः, चितवान् । स्तुतः, स्तुतवान् । भिन्नः, भिन्नवान् । मृष्टः, मृष्टवान् । ङिति खल्वपि चिनुतः, चिन्वन्ति । मृष्टः, मृजन्ति । गकारोऽपि अत्र चर्त्वभूतो निर्दिश्यते । ग्लाजिस्थश्च ग्स्तुः (*३,२.१३९) जिष्णुः । भूष्णुः । इकः इत्य्मेव कामयते, लैगवायनः । मृजेरजादौ सङ्त्रमे विभाषा वृद्धिरिष्यते । सङ्क्रमो नाम गुणवृद्धिप्रतिषेधविषयः । परिमृजन्ति, [॰८] परिमार्जन्ति । परिमृजन्तु, परिमार्जन्तु । लघूपधगुणस्य अप्यत्र प्रतिषेधः । अचिनवम्, असुनवमित्यादौ लकारस्य सत्यपि ङित्त्वे यासुटो ङिद्वचनं ज्ञापकं ङिति यत्कार्यं तल्लकारे ङिति न भवति इति ॥ ____________________________________________________________________ काशिकावृत्तिः१,१.६: दीधीवेवीटाम् ॥ १,१.६ ॥ _____ काशिकावृत्तिः१,१.६: दीधीवेव्योः इटश्च ये गुणवृद्धी प्राप्नुतः, ते न भवतः । आदीछ्यनम्, आदीद्यकः । आवेव्यनम्, आवेव्यकः । इटः खल्वपि कणिता श्वः । रणिता श्वः । वृद्धिरिटो न संभवति इति लघूपधगुणस्यात्र प्रतिषेधः ॥ ____________________________________________________________________ हलोऽनन्तराः संयोगः ॥ १,१.७ ॥ _____ काशिकावृत्तिः१,१.७: भिन्नजातीयैरज्भिरव्यवहितः श्लिष्टोच्चारिता हलः संयोगसञ्ज्ञा भवन्ति । समुदायः सञ्ज्ञी । जातौ चेदं बहुवचनम् । तेन द्वयोर्बहूनां च संयोगसञ्ज्ञा सिद्धा भवति । अग्निः इति गनौ । अश्वः इति शवौ । कर्णः इति रणौ । इन्द्रः, चन्द्रः मन्द्रः इति नदराः । उष्ट्रः, राष्ट्रम्, भ्राष्ट्रमिति षटराः । तिलान्स्त्र्यावपति इति नसतरयाः, नतसतरया वा । हलः इति किम् ? तितौच्छत्रम् संयोगान्तस्य लोपः (*८,२.२३) इति लोपः स्यात् । अनन्तराः इति किम् ? पचति पनसम् स्कोः संयोगाद्योरन्ते च (*८,२.२९) इति लोपः स्यात् । संयोगप्रदेशाः सम्योगान्तस्य लोपः (*८,२.२३) इत्येवमादयः ॥ ____________________________________________________________________ मुखनासिकावचनोऽनुनासिकः ॥ १,१.८ ॥ _____ काशिकावृत्तिः१,१.८: मुखसहिता नासिका मुखनासिका, तया य उच्चार्यते वर्णः सोऽनुनासिकसञ्ज्ञो भवति । आङोऽनुनासिकश्छन्दसि (*६,१.१२६) । अभ्र आमपः । गभीर आमुग्रपुत्रे । च न आमिन्द्रः । मुखग्रहनं किम् ? अनुस्वारस्येव हि स्यात् । नासिकाग्रहणं किम् ? कचटतपानां मा भूत् । अनुनासिकप्रदेशाः आङोऽनुनासिकश्छन्दसि (*६,१.२६) इत्येवमादयः ॥ ____________________________________________________________________ तुल्यास्यप्रयर्नं सवर्णम् ॥ १,१.९ ॥ _____ काशिकावृत्तिः१,१.९: तुल्यशब्दः सदृशपर्यायः । आस्ये भवमास्यं ताल्वादिस्थानम् । प्रयतनं प्रयत्नः स्पऋष्टतादिर्वर्णगुणः । तुल्य आस्ये प्रयत्नो यस्य वर्णस्य येन वर्णेन सह स समानजातीयं प्रति सवर्णसञ्ज्ञो भवति । [॰९] चत्वार आभ्यन्तराः प्रयत्नाः सवर्णसं ज्ञायामाश्रीयन्ते स्पृष्टता, ईषत्स्पृष्टता, संवृतता, विवृतता च इति । अ अ अ इति त्रयोऽकारा उदात्तानुदात्तस्वरिताः प्रत्येकं सानुनासिका निरनुनासिकाश्च ह्रस्वदीर्घप्लुतभेदादष्टादश धा भिद्यन्ते । तथा इवर्णः, तथा उवर्णः, तथा ऋवर्णः । लृ‌वर्णस्य दीर्घा न सन्ति, तं द्वादशभेदमाचक्शते । सन्ध्यक्षराणां ह्रस्वा न सन्ति, तान्यपि द्वादशप्रभेदानि । अन्तःस्था द्विप्रभेदाः, रेफवर्जिता यवलाः सानुनासिका निरनुनासिकाश्च । रेफोष्मणां सवर्णा न सन्ति । वर्ग्यो वर्ग्येण सवर्णः । दण्डाग्रम् । खट्वाग्रम् । आस्यग्रहणं किम् ? कचटतपानां भिन्नस्थानानां तुल्यप्रयत्नानां मा भूत् । किं च स्यात्? तर्प्ता, तर्प्तुम् इत्यत्र झरो झरि सवर्णे (*८,४.६५) इति पकारस्य तकारे लोपः स्यात् । प्रयत्नग्रहणं किम् ? इचुयशानां तुल्यस्थानानां भिन्नजातीयानां मा भूत् । किं च स्यात्? अरुश्च्योतति इत्यत्र झरो झरि सवर्णे (*८,४.६५) इति शकारस्य चकारे लोपः स्यात् । र्कारल्कारयोः सवर्णस्ञ्ज्ञा वक्तव्या । होतॢकारः । होतृकारः । उभयोः ऋवर्णस्य लृ‌वर्णस्य च आन्तरतमः सवर्णो दीर्घो नास्ति इति र्कार एव दीर्घो भवति । सवर्णप्रदेशाः अकः सवर्णे दीर्घः (*६,१.१०१) इत्येवमादयः ॥ ____________________________________________________________________ न अज्झलौ ॥ १,१.१० ॥ _____ काशिकावृत्तिः१,१.१०: अच्च हल्च, अज्झलौ । तुल्यास्यप्रयत्नावपि अज्झलौ परस्परं सवर्णसञ्ज्ञौ न भवतः । अवर्णहकारौ दण्डहस्तः, इवर्णशकारौदधि शीतम्, सवर्णदीर्घत्वं न भवति । वैपाशो मत्स्यः, आनडुहं चर्म इति यस्येति च (*६,४.१४८) इति लोपो न भवति ॥ ____________________________________________________________________ [॰१०] ईदूदेद्द्विवचनं प्रगृह्यम् ॥ १,१.११ ॥ _____ काशिकावृत्तिः१,१.११: ईतूतेतित्येवमन्तं द्विवचनं शब्दरूपं प्रग्र्ह्यसञ्ज्ञं भवति । अग्नी इति । वायु इति । माले इति । पचेते इति । ईदूदेतिति किम् ? वृक्षावत्र । प्लक्षावत्र । द्विवचनमिति किम् ? कुमार्यत्र । किशोर्यत्र । तपरकरणमसंदेहार्थम् । प्रगृह्यप्रदेशाः प्लुतप्रगृह्या अचि नित्यम् (*६,१.१२५) इत्येवमादयः । ईदादीनां प्रगृह्यत्वे मणीवादीनां प्रतिषेधो वक्तव्यः । मणीवोष्ट्रस्य लम्बेते प्रियौ वत्सतरौ मम । दम्पतीव । जम्पतीव । रोदसीव ॥ ____________________________________________________________________ अदसो मात् ॥ १,१.१२ ॥ _____ काशिकावृत्तिः१,१.१२: अदसः सम्बधी यो मकारस्तस्मात्परे ईदूदेतः प्रग्र्ह्यसञ्ज्ञा भवन्ति । अमी अत्र । अमी आसते । अमू अत्र । अमू आसाते । एकारस्य उदाहरणं न अस्ति । अदसः इति किम्? शम्यत्र । दाडिम्यत्र । मातिति किम् ? अमुकेऽत्र ॥ ____________________________________________________________________ शे ॥ १,१.१३ ॥ _____ काशिकावृत्तिः१,१.१३: शे इत्येतत्प्रगृह्यसञ्ज्ञं भवति । किमिदं शे इति ? सुपामादेशश्छन्दसि । न युष्मे वाजबन्धवः । अस्मे इन्द्राबृहस्पती । युष्मे इति । अस्मे इति । त्वे रायः । मे रायः । त्वे इति । मे इति । छान्दसमेतदेवेकमुदाहरणम् अस्मे इन्द्राबृहस्पती इति । तत्र तथा पाठात् । इतरत्तु लौकिकमनुकरणम् युश्मे इति, अस्मे इति, त्वे इति, मे इति ॥ ____________________________________________________________________ निपात एकाजनाङ् ॥ १,१.१४ ॥ _____ काशिकावृत्तिः१,१.१४: एकश्च असावच्च एकाच्, निपातो य एकाचाङ्वर्जितः स प्रगृह्यसञ्ज्ञो भवति । अ अपेहि । इ इन्द्रं पश्य । उ उत्तिश्ठ । आ एवं नु मन्यसे । आ एवं किल तत् । निपातः इति किम् ? चकारत्र । जहारात्र । एकाचिति किम् ? प्राग्नये वाचमीरय । अनाङिति किम् ? आ उदकान्तात्, ओदकान्तात् । ईषदर्थे त्रियायोगे मर्यादाभिविधौ च यः । एतमातं ङितं विद्याद्वाक्यस्मरणयोरङित् ॥ ____________________________________________________________________ [॰११] ओत् ॥ १,१.१५ ॥ _____ काशिकावृत्तिः१,१.१५: निपातः इति वर्तते । तस्योकारेण तदन्तविधिः । ओदन्तो यो निपातः स प्रगृह्यसञ्ज्ञो भवति । आहो इति । उताहो इति ॥ ____________________________________________________________________ सम्बुद्धौ शाकल्यस्येतावनार्षे ॥ १,१.१६ ॥ _____ काशिकावृत्तिः१,१.१६: ओतिति वर्तते । सम्बुद्धिनिमित्तो य ओकारः स शाकल्यस्य आचार्यसय्मतेन प्नगृह्यसञ्ज्ञो भवति, इतिशब्दे अनार्षे अवैदिके परतः । वायो इति, वायविति । भानो इति, भानविति । सम्बुद्धौ इति किम् ? गवित्ययमाह । अत्र अनुकार्यानुकरणयोः भेदस्य अविवक्षितत्वात्, असत्यर्थवत्त्वे विभक्तिर्न भवति । शाकल्यग्रहणं विभाषार्थम् । इतौ इति किम् ? वायोऽत्र । अनार्षे इति किम् ? एता गा ब्रहमबन्ध इत्यब्रवीत् ॥ ____________________________________________________________________ उञः ॥ १,१.१७ ॥ _____ काशिकावृत्तिः१,१.१७: शाकल्यस्येतौ अनार्षे इति वर्तते । उञः प्रगृह्यसञ्ज्ञा भवति इतौ शाकल्यस्य आचार्यस्य मतेन । शाकल्यस्य इति विभाषार्थम् । उ इति, विति ॥ ____________________________________________________________________ ऊं ॥ १,१.१८ ॥ _____ काशिकावृत्तिः१,१.१८: उञः इति वर्तते । उञः इतावनार्षे ऊमित्ययमादेशो भवति दीर्घोऽनुनासिकश्च, शाक्ल्यस्य मतेन प्रगृह्यसञ्ज्ञकश्च । शाकल्यस्य ग्रहणं विभाषार्थमिह अप्यनुवर्तते । तेन त्रीणि रूपाणि भवन्ति उ इति, विति, ऊमिति ॥ ____________________________________________________________________ ईदूतौ च सप्तम्यर्थे ॥ १,१.१९ ॥ _____ काशिकावृत्तिः१,१.१९: शाक्ल्यस्येतावनार्शे इति निवृत्तम् । ईदन्तमूदन्तं च शब्दरूपं सप्तम्यर्थे वर्तमानं प्रगृह्यसञ्ज्ञं भवति । अध्यस्यां मामकी तनू । मामक्यां तन्वामिति प्राप्ते, मांक्यां मामकी इति, तन्वां तनू इति । सोमो गौरी अधि श्रितः । ईदूतौ इति किम् ? प्रियः सूर्ये प्रियो अग्ना भवाति । अग्निशब्दात्परस्याः सप्तम्याः डादेशः । सप्तमीग्रहणं किम् ? धीती, मती, सुष्टुती धीत्या, मत्या, सुष्टुत्या इति प्राप्ते । अर्थग्रहणं किम् ? वाप्यश्वः । नद्यातिः । तपरकरणमसन्देहार्थं । [॰१२] ईदूतौ सप्तमीत्येव लुप्तेऽर्थग्रहणाद्भवेत् । पूर्वस्य चेत्सवर्णोऽसावाडाम्भावः प्रसज्यते ॥१॥ वचनाद्यत्र दीर्घत्वं तत्र अपि सरसी यदि । ज्ञापकं स्यात्तदन्तत्वे मा वा पूर्वपदस्य भूत् ॥२ ॥ ____________________________________________________________________ दाधा घ्वदाप् ॥ १,१.२० ॥ _____ काशिकावृत्तिः१,१.२०: दारूपाश्चत्वारो धातवः, धारूपौ च द्वौ दाब्दैपौ वर्जयित्वा घुसञ्ज्ञका भवन्ति । डुदाञ् प्रणिददाति । दाण् प्रणिदाता । दो प्रणिद्यति । देङ् प्रणिदयते । डुधाञ् प्रणिदधाति । धेट् प्रणिधयति वत्सो मातरम् । अदापिति किम् ? दाप्लवने दातं बर्हिः । दैप्शोधने अवदातं मुखम् । घुप्रदेशाः घुमास्थागापाजहातिसां हलि (*६,४.६६) इत्येवमादयः ॥ ____________________________________________________________________ आद्यन्तवदेकस्मिन् ॥ १,१.२१ ॥ _____ काशिकावृत्तिः१,१.२१: असहायसयाद्यन्तोपदिष्टानि कार्याणि न सिध्यन्ति इति अयमतिदेश आरभ्यते । सप्तम्यर्थे वतिः । आदाविव अन्ते इव एकस्मिन्नपि कार्यं भवति । यथा कर्तव्यमित्यत्र प्रत्ययाद्युदात्तत्वं भवति, एवमौपगवमित्यत्र अपि यथा स्यात् । यथा वृक्षाभ्यामित्यत्र अतोऽङ्गस्य दीर्घत्वमेवमाभ्याम्, इत्यत्र अपि यथा स्यात् । एकस्मिन्निति किम् । सभासन्नयने भवः साभासन्नयनः, आकारमाश्रित्य वृद्धसञ्ज्ञा न भवति ॥ ____________________________________________________________________ तरप्तमपौ घः ॥ १,१.२२ ॥ _____ काशिकावृत्तिः१,१.२२: तरप्तमपित्येतौ प्रत्ययौ घसञ्ज्ञौ भवतः । कुमारितरा । कुमरितमा । ब्राह्मणितरा । ब्राह्मणितमा । घप्रदेशाः घरूपकल्पचेलड्ब्रुवगोत्रमतहतेषु ङ्योऽनेकाचो ह्रस्वः (*६,३.४३) इत्येवमादयः ॥ ____________________________________________________________________ बहुगणवतुडति सङ्ख्या ॥ १,१.२३ ॥ _____ काशिकावृत्तिः१,१.२३: बहु गण वतु इत्येत सङ्ख्यासञ्ज्ञा भवन्ति । बहुकृत्वः । बहुधा । बहुकः । बहुशः । गणकृत्वः । गणधा । गणकः । गणशः । तावत्कृत्वः । तावद्धा । तावत्कः । तावच्छः । कतिकृत्वः । कतिधा । कतिकः । कतिशः । बहुगणशब्दयोर्वैपुल्ये सङ्घे च वर्तमानयोरिह ग्रहणं नास्ति, सङ्ख्यावाचिनोरेव । भूर्यादीनां निवृत्त्यर्थं सङ्ख्यासञ्ज्ञा विधीयते । [॰१३] अर्धपूर्वपदश्च पूरणप्रत्ययान्तः सङ्ख्यासञ्ज्ञो भवति इति वक्तव्यं समासकन् विध्यर्थम् । अर्धपञ्चमशूर्पः । अर्धं पञ्चमं येशामिति बहुव्रीहौ कृते अर्धपञ्चमैः शूर्पैः क्रीतः । तद्धितार्थेति समासः । तत्र दिक्सङ्ख्ये सञ्ज्ञायाम् (*२,१.५०) इत्यनुवृत्तेस्ततः सङ्ख्यापूर्वस्य द्विगुसञ्ज्ञायां शूर्पादञन्यतरस्याम् (*५,१.२६) इति अञ्ठञ्च । अध्यर्धपूर्वद्विगोर्लुगसञ्ज्ञायाम् (*५,१.२८) इति लुक् । अर्धपञ्चमकः । सङ्ख्याप्रदेशाःसङ्ख्या वंश्येन (*२,१.१९) इत्येवमादयः ॥ ____________________________________________________________________ [॰१२] ष्णान्ता षट् ॥ १,१.२४ ॥ _____ काशिकावृत्तिः१,१.२४: स्त्रीलिङ्गनिर्देशात्सङ्ख्य इति सम्बध्यते । [॰१३] षकारान्ता नकारान्ता च या सङ्ख्या सा षट्सञ्ज्ञा भवति । षकारान्ता तावत्षट्तिष्ठन्ति । षट्प्श्ये । नकारान्तःपञ्च । सप्त । नव । दस । अन्तग्रहणमौपदेशिकार्थम् । तेनेह न भवति शतानि, सहस्राणि । अष्टानामित्यत्र नुड्भवति । षट्प्रदेशाःषड्भ्यो लुक्(*७,१.२२) इत्येवमादयः ॥ ____________________________________________________________________ डति च ॥ १,१.२५ ॥ _____ काशिकावृत्तिः१,१.२५: डत्यन्ता या सङ्ख्या सा षट्सञ्ज्ञा भवति । कति तिष्ठन्ति । कति पश्य ॥ ____________________________________________________________________ क्तक्तवतू निष्ठा ॥ १,१.२६ ॥ _____ काशिकावृत्तिः१,१.२६: क्तश्च क्तवतुश्च क्तक्तवतू प्रत्ययौ निश्ठासञ्ज्ञौ भवतः । कृतः । कृतवान् । भुक्तः । भुक्तवान् । ककारः कित्कार्यार्थः । उकारः उगित्कार्यार्थः । निष्ठाप्रदेशाः श्वीदितो निष्ठायाम् (*७,२.१४) इत्येवमादयः ॥ ____________________________________________________________________ सर्वादीनि सर्वनामानि ॥ १,१.२७ ॥ _____ काशिकावृत्तिः१,१.२७: सर्वशब्दः आदिर्येषां तानीमानि सर्वादीनि सर्वनामसञ्ज्ञानि भवन्ति । सर्वः, सर्वौ, सर्वे । सर्वस्मै । सर्वस्मात् । सर्वेषाम् । सर्वस्मिन् । सर्वकः । विश्वः, विश्वौ, विस्वे । विश्वस्मै । विश्वस्मात् । विश्वेषाम् । विश्वस्मिन् । विश्वकः । [॰१४] उभ । उभय । उभशब्दस्य सर्वनामत्वे प्रयोजनम् सर्वनाम्नस्तृतीय च (*२,३.२७) इति । उभाभ्यां हेतुभ्यां वसति, उभयोः हेत्वोः वसति । उभये । उभयस्मै । उभयस्मात् । उभ्येषाम् । उभयस्मिन् । डतर, डतम । कतर, कतम । कतरस्मै, कतमस्मै । इतर । अन्य । अन्यतर । इतरस्मै । अन्यस्मै । अन्यतरसमै । त्वशब्दोऽन्यवाची स्वरभेदाद्द्विः पठितः । एकः उदात्तः । द्वितीयोऽनुदात्तः । केचित्तकारान्तमेकं पठन्ति । त्व त्वतिति द्वावपि च अनुदाताउ इति स्मरन्ति । नेमनेमस्मै । वक्ष्यमाणेन जसि विभाषा भवति । नेमे, नेमाः इति । समसमस्मै । कथं यथासङ्ख्यमनुदेशः समानाम् (*१,३.१०), समे देशे यजेत इति । समस्य सर्वशब्दपर्यायस्य सर्वनामस्ञ्ज्ञा इष्य्ते, न सर्वत्र । सिमसिमस्मै । पूर्वपरावरदक्षिणोत्तरापराधराणि व्यवस्थायामसञ्ज्ञायाम् (*१,१.३४) । स्वमञ्ज्ञातिधनाख्याम् (*१,१.३५) । अन्तरं बहिर्योगोप्संव्यानयोः (*१,१.३६) । त्यद्, तद्, यद्, एतद्, इदम्, अदस्, एक, द्वि, युष्मद्, अस्मद्, भवतु, किम् । सर्वादिः । सर्वनामप्रदेशाः सर्वनाम्नः स्मै (*७,१.१४) इत्येवमादयः ॥ ____________________________________________________________________ विभाषा दिक्षमासे बहुव्रीहौ ॥ १,१.२८ ॥ _____ काशिकावृत्तिः१,१.२८: न बहुव्रीहौ (*१,१.२९) इति प्रतिषेधं वक्ष्यति । तस्मिन्नित्ये प्रतिषेधे प्राप्ते विभाषेयमारभ्यते । दिशां समासः दिक्षमासः । दिगुपदिष्टे समासे बहुव्रीहौ विभाषा सर्वादीनि सर्वनामसञ्ज्ञानि भवन्ति । उत्तरपूर्वस्यै, उत्तरपूर्वायै । दिक्षिणपूर्वस्यै, दक्षिणपूर्वायै । दिग्ग्रहणं किम् ? न बहुव्रीहौ (*१,१.२९) इति प्रतिषेधं वक्ष्यति, तत्र न ज्ञायते क्व विभाषा, क्व प्रतिषेधः इति । दिग्ग्रहणे पुनः क्रियमाणे ज्ञायते दिगुपदिष्टसमासे विभाषा, अन्यत्र प्रतिषेधः इति । समासग्रहणं किम् ? समास एव यो बहुव्रीहिः, तत्र विभाषा यथा स्यात् । बहुव्रीहिवद्भावेन यो बहुव्रीहिः, तत्र मा भूत् । दक्षिणदक्षिणस्यै देहि । बहुव्रीहौ इति किम् ? द्वन्द्वे विभाषा मा भूत् । दक्षिणोत्तरपूर्वाणामिति द्वन्द्वे च (*१,१.३२) इत्नित्यं प्रतिषेधो भवति ॥ ____________________________________________________________________ [॰१५] न बहुव्रीहौ ॥ १,१.२९ ॥ _____ काशिकावृत्तिः१,१.२९: सर्वनामसञ्ज्ञायां तदन्तविधेरभ्युपगमाद्बहुव्रीहेरपि सर्वाद्यन्तसय्सञ्ज्ञा स्यातिति प्रतिषेध आरभ्यते । बहुव्रीहौ समासे सर्वादीनि सर्वनामसञ्ज्ञानि न भवन्ति । प्रियविश्वाय । प्रियोभ्याय । द्व्यन्याय । त्र्यन्याय । इह च, त्वत्कपितृकः, मत्कपितृकः इत्यकज्न भवति । बहुव्रीहौ इति वर्तमाने पुनर्बहुव्रीहिग्रहणं भूतपूर्वमात्रेऽपि प्रतिषेधो यथा स्यात्, वस्त्रान्तरवसनान्तराः इति ॥ ____________________________________________________________________ तृतीयासमासे ॥ १,१.३० ॥ _____ काशिकावृत्तिः१,१.३०: तृतीयासमासे सर्वादीनि सर्वनामसञ्ज्ञानि न भवन्ति । मासपूर्वाय । संवत्सरपूर्वाय । द्व्यहपूर्वाय । त्र्यहपूर्वाय । समासे इति वर्तमाने पुनः सम्मसग्रहणं तृतीयासमासार्थवाक्येऽपि प्रतिषेधो यथा स्यात् । मासेन पूर्वाय । पूर्वसदृशसमोनार्थकलहनिपुणमिश्रश्लक्ष्णैः (*२,१.३१) इति तृतीयासमासं प्रतिपदं वक्ष्यति, तस्येदं ग्रहणम् । न यस्य कस्यचित्तृतीयासमासस्य । कर्तृ करणे कृता बहुलम् (*२,१.३२) इतित्वयका कृतम्, मयका कृतम् ॥ ____________________________________________________________________ द्वन्द्वे च ॥ १,१.३१ ॥ _____ काशिकावृत्तिः१,१.३१: द्वन्द्वे च समासे सर्वादीनि सर्वनामसञ्ज्ञानि न भवन्ति । पूर्वापराणाम् । कतरकतमानाम् ॥ ____________________________________________________________________ विभाषा जसि ॥ १,१.३२ ॥ _____ काशिकावृत्तिः१,१.३२: पूर्वेण नित्ये प्रतिषेधे प्राप्ते जसि विभाषा आरब्यते । द्वन्द्वे समासे जसि विभाषा सर्वादीनि सर्वनामसञ्ज्ञानि न भवन्ति । कतरकतमे, कतरकतमाः । जसः कार्यं प्रति विभाषा, अकझि न भवति कतरकतमकाः ॥ ____________________________________________________________________ [॰१६] प्रथमचरमतयाल्पार्धकतिपयनेमाश्च ॥ १,१.३३ ॥ _____ काशिकावृत्तिः१,१.३३: विभाषा जसि (*१,१.३२) इति वर्तते । द्वन्द्वे इति निवृत्तम् । प्रथम चरम तय अल्प अर्ध कतिपय नेम इत्येते जसि विभाषा सर्वनामसञ्ज्ञा भवन्ति । प्रथमे, प्रथमाः । चरमे, चरमाः । द्वितये, द्वितयाः । अल्पे, अल्पाः । अर्धे, अर्धाः । कतिपये, कतिपयः । नेमे, नेमाः । तय इति तयप्प्रत्ययः । शिष्टानि प्रातिपदिकानि । तत्र नेम इति सर्वादिषु पठ्यते, तस्य प्राप्ते विभषा, अन्येषामप्राप्ते । उभयशब्दस्य तयप्प्रत्ययान्तस्य गने पाठान्नित्या सर्वनामसञ्ज्ञा इह अपि जस्कार्यं प्रति विभाषा । काकचोर्यथायोगं वृत्तिः ॥ ____________________________________________________________________ पूर्वपरावरदक्षिणोत्तरापराधराणि व्यवस्थायामसञ्ज्ञायाम् ॥ १,१.३४ ॥ _____ काशिकावृत्तिः१,१.३४: पूर्व पर अवर दक्षिण उत्तर अपर अधर इत्येषां गणे पाठात्पूर्वेण नित्यायां सर्वनामसञ्ज्ञायां प्राप्तायां जसि विभाषा आरभ्यते । पूर्वादीनि विभषा जसि सर्वनामसञ्ज्ञानि भवन्ति व्यवस्थायामसञ्ज्ञायाम् । स्वाभिधेयापेक्षावधिनियमो व्यवस्था । पूर्वे, पूर्वाः । परे, पराः । अवरे, अवराः । दक्ष्णे, दक्ष्णाः । उत्तरे, उत्तराः । अपरे, अपराः । अधरे, अधरः । व्यवस्थायामिति किं ? दक्षिणा इमे गाथकाः । प्रवीणाः इत्यर्थः । असञ्ज्ञायामिति किम् ? उत्तराः कुरवः । सत्यामेव व्यवस्थायामियं तेषां सञ्ज्ञा ॥ ____________________________________________________________________ स्वमज्ञातिधनाख्यायाम् ॥ १,१.३५ ॥ _____ काशिकावृत्तिः१,१.३५: अत्र अपि नित्या सर्वनामसञ्ज्ञा प्राप्ता जसि विभाष्यते । स्वमित्येतच्छब्दरूपं जसि विभाषा सर्वनामसञ्ज्ञं भवति , न चेज्ज्ञातिधनयोः सञ्ज्ञारूपेण वर्तते । स्वे पुत्राः, स्वाः पुत्राः । स्वे गावः, स्वा गावः । आत्मीयाः इत्यर्थः । ज्ञातिप्रतिषेधः इति किम् ? धूमायन्त इव अश्लिष्टाः प्रज्वलन्ति इव संहताः । उल्मुकानि इव मेऽमी स्वा ज्ञातयो भरतर्षभ ॥ अधनाख्यायामिति किम् ? प्रभूताः स्वा न दीयन्ते, प्रभूतः स्वा न भुज्यन्ते । प्रभूतानि धनानि इत्यर्थः ॥ ____________________________________________________________________ अन्तरं बहिर्योगोपसंव्यानयोः ॥ १,१.३६ ॥ _____ काशिकावृत्तिः१,१.३६: अत्र अपि पूर्वेण नित्या सर्वनामसञ्ज्ञा प्राप्ता सा जसि विभाष्यते । अन्तरमित्येतच्छब्दरूपं विभाषा जसि सर्वनामसञ्ज्ञं भवति बहिर्योगे उपसंव्याने च गम्यमाने । अन्तरे गृहाः, अन्तराः गृहाः । नगरबाह्याश्चाण्डालादिगृहा उच्यन्ते । [॰१७] उपस्ंव्यानेअन्तरे शाटकाः, अन्तराः शाटकाः । उपसंव्यानं परिधानीयमुच्यते, न प्रावरणीयम् । बहिर्योगोपसंव्यानयोः इति किम् ? अनयोः ग्रामयोरन्तरे तापसः प्रतिवसति । तस्मिन्नन्तरे शीतान्युदकानि । मध्यप्रदेशवचनोऽन्तरशब्दः । गणसूत्रस्य चेदं प्रत्युदाहरणम् । अपुरि इति वक्तव्यम् । अन्तरायां पुरि वसति । विभाषाप्रकरणे तीयस्य वा ङित्सु सर्वनामसञ्ज्ञा इत्युपसंख्यानम् । द्वितीयस्मै, द्वितीयाय । तृतीयस्मै, तृतीयाय ॥ ____________________________________________________________________ स्वरादिनिपातमव्ययम् ॥ १,१.३७ ॥ _____ काशिकावृत्तिः१,१.३७: स्वरादीनि शब्दरूपाणि निपाताश्च अव्ययसञ्ज्ञानि भवन्ति । स्वर्, अन्तर्, प्रातर्, एते अन्तोदात्ताः पठ्यन्ते । पुनराद्युदात्तः । सनुतर्, उच्चैस्, नीचैस्, शनैस्, ऋधक्, आरात्, ऋते, युगपत्, पृथक्, एतेऽपि सनुतर्प्रभृतयोऽन्तोदात्ताः पठ्यन्ते । ह्यस्, श्वस्, दिवा, रात्रौ, सायम्, चिरम्, मनाक्, ईषत्, जोषम्, तूष्णीम्, बहिस्, आविस्, अवस्, अधस्, समया, निकषा, स्वयम्, मृषा, नक्तम्, नञ्, हेतौ, अद्धा, इद्धा, सामि, एतेऽपि ह्यस्प्रभृतयोऽन्तोदात्ताः पठ्यन्ते । वत्वदन्तमव्ययसञ्ज्ञं भवति । ब्राह्मणवत् । क्षत्रियवत् । सन्, सनात्, सनत्, तिरस्, एते आद्युदात्ताः पठ्यन्ते । अन्तरायमन्तोदात्तः । अन्तरेण, ज्योक्, कम्, शम्, सना, सहसा, विना, नाना, स्वस्ति, स्वधा, अलम्, वषट्, अन्यत्, अस्ति, उपांशु, क्षमा, विहायसा, दोषा, मुधा, मिथ्या । क्त्वातोसुङ्कसुनः, कृन्मकारान्तः, सन्ध्यक्षरान्तः, अव्ययीभावश्च । पुरा, मिथो, मिथस्, प्रबाहुकम्, आर्यहलम्, अभीक्ष्णम्, साकम्, सार्धम्, समम, नमस्, हिरुक्, तसिलादिः तद्धित एधाच्पर्यन्तः, शस्तसी, कृत्वसुच्, सुच्, आस्थालौ, च्व्यर्थाश्च, अम्, आम्, प्रतान्, प्रषान्, स्वरादिः । निपाता वक्ष्यन्तेप्राग्रीश्वरान्निपाताः (*१,४.५६) इति । च, वा, ह, अह, एव, एवमित्यादयः । अव्ययप्रदेशाः अव्ययादाप्सुपः (*२,४.८२) इत्येवमादयः । अव्ययमित्यन्वर्थसञ्ज्ञा । [॰१८] सदृशं त्रिषु लिङ्गेषु सर्वासु च विभक्तिषु । वचनेषु च सर्वेषु यन्न व्येति तदव्ययम् ॥ ____________________________________________________________________ तद्धितश्च असर्वविभक्तिः ॥ १,१.३८ ॥ _____ काशिकावृत्तिः१,१.३८: तद्धितान्तः शब्दोऽसर्वविभक्तिः अव्ययसञ्ज्ञो भवति । यस्मात्न सर्वविभक्तेरुत्पत्तिः सोऽसर्वविभक्तिः । ततः, यतः, तत्र, यत्र, तदा, यदा, सर्वदा, सदा । तद्धितः इति किम् ? एकः, द्वौ, बहवः । असर्वविभक्तिः इति किम् ? औपगवः, औपगवौ, औपगवाः ॥ ____________________________________________________________________ कृन्मेजन्तः ॥ १,१.३९ ॥ _____ काशिकावृत्तिः१,१.३९: कृद्यो मकारान्तः, एजन्तश्च तदन्तं शब्दरूपमव्ययसञ्ज्ञं भवति । स्वादुङ्कारं भुङ्क्ते । सम्पन्नङ्कारं भुङ्क्ते । लवणङ्कारं भुङ्क्ते । एजन्तःवक्षे रायः । ता वामेषे रथानाम् । ऋत्वे दक्षाय जीवसे । ज्योक्च सूर्यं दृशे । वक्षे इति वचेः तुमर्थे सेसेनसे (*३,४.९) इति सेप्रत्यये कुत्वे षत्वे च कृते रूपम् । एषे इति इणः सेप्रत्यये गुणे षत्वे च कृते रूपम् । जीवसे इति जीवेः असे प्रत्यये रूपम् । दृशे इति दृशेः केन्प्रत्ययो निपात्यते दृशे विख्ये च (*३,४.११) इति । अन्तग्रहणमौपदेशिकप्रतिपत्त्यर्थम् । इह मा भूत् आधये, चिकीर्षवे, कुम्भकारेभ्यः इति ॥ ____________________________________________________________________ क्त्वातोसुन्कसुनः ॥ १,१.४० ॥ _____ काशिकावृत्तिः१,१.४०: क्त्वा, तोसुन्, कसुन्, इत्येवमन्तं शब्दरूपमव्ययसञ्ज्ञं भवति । कृत्वा । हृत्वा । तोसुन् व्युष्टायां पुरा सूर्यस्योदेतो राधेयः । पुरा वत्सानामपाकर्त्तोः । भावलक्षणे स्थेण्कृञ्वदि (*३,४.१६) इति इणः, कृञश्च तोसुन् प्रत्ययः । कसुन् सृपितृदोः कसुन् (*३,४.१७) । पुरा क्रूरस्य विसृपो विरप्शिन् । पुरा जत्रुभ्य आतृदः ॥ ____________________________________________________________________ अव्ययीभावश्च ॥ १,१.४१ ॥ _____ काशिकावृत्तिः१,१.४१: अव्ययीभावसमासोऽव्ययसञ्ज्ञो भवति । किं प्रयोजनम् ? लुङ्मुखस्वरोपचाराः । लुक् उपाग्नि, प्रत्यग्नि शलभाः पतन्ति । मुखस्वरः उपाग्निमुखः, प्रत्यग्निमुखः । मुखं स्वाङ्गम् (*६,२.१६७) इत्युत्तरपदान्तोदात्तत्वं प्राप्तम्, नाव्ययदिक्शब्द (*६,२.१६८) इति प्रतिषिध्यते । तस्मिन् प्रतिषिद्धे पूर्वपदप्रकृतिस्वर एव भवति । [॰१९] उपचारः उपपयःकारः, उपपयःकामः । विसर्जनीयस्थानिकस्य सकारस्य उपचारः इति सञ्ज्ञा । तत्र अव्ययीभावस्य अव्ययत्वे अतः कृकमिकंसकुम्भपात्रकुशाकर्णीष्वनव्ययस्य (*८,३.४६) इति पर्युदासः सिद्धो भवति । सर्वमिदं काण्डं स्वरादावपि पठ्यते । पुनर्वचनमनित्यत्वज्ञापनार्थम् । तेन अयं कार्यनियमः सिद्धो भवति । इह च पुरा सूर्यस्योदेतोराधेयः, पुरा क्रूरस्य विसृपो विरप्शिनिति न लोउकाव्ययनिष्ठाखलर्थतृनाम् (*२,३.६९) इति षष्ठीप्रतिषेधो न भवति ॥ ____________________________________________________________________ शि सर्वनामस्थानम् ॥ १,१.४२ ॥ _____ काशिकावृत्तिः१,१.४२: शि इत्येतत्सर्वनामस्थानसञ्ज्ञं भवति । किमिदं शि इति ? जश्शसोः षिः (*७,१.२०) इति शिः आदेशः । कुण्डानि तिष्ठन्ति । कुण्डानि पश्य । दधीनि । मधूनि । त्रपूणि । जतूनि । सर्वनामस्थानप्रदेशाः सर्वनामस्थाने च असम्बुद्धौ (*६,४.८) इत्येवमादयः ॥ ____________________________________________________________________ सुडनपुंसकस्य ॥ १,१.४३ ॥ _____ काशिकावृत्तिः१,१.४३: सुटिति पञ्च वचनानि सर्वनामस्थानसञ्ज्ञानि भवन्ति नपुंसकादन्यत्र । नपुंसके न विधिः, न प्रतिषेधः । तेन जसः शेः सर्वनामस्थानसञ्ज्ञा पूर्वेण भवत्येव । राजा, राजानौ, राजानः । राजानम्, राजानौ । सुटिति किम् ? राज्ञः पश्य । अनपुंसकस्य इति किम् ? सामनी, वेमनी ॥ ____________________________________________________________________ न वेति विभाषा ॥ १,१.४४ ॥ _____ काशिकावृत्तिः१,१.४४: न इति प्रतिषेधः, वा इति विकल्पः । तयोः प्रतिषेधविकल्पयोः विभाषा इति सञ्ज्ञा भवति । इतिकरणोऽर्थनिर्देशार्थः । विभाषाप्रदेशेषु प्रतिषेधविकल्पावुपतिष्ठेते । तत्र प्रतिषेधेन समीकृते विषये पश्चाद्विकल्पः प्रवर्तते । उभयत्रविभाषाः प्रयोजयन्ति । विभाषा श्वेः (*६,१.३०) शुशाव, शिश्वाय । शुशुवतुः, शिश्वियतुः । विभाषाप्रदेशाः विभाषा श्वेः (*६,१.३०) इत्येवमादयः ॥ ____________________________________________________________________ इग्यणः सम्प्रसारणम् ॥ १,१.४५ ॥ _____ काशिकावृत्तिः१,१.४५: इक्यो यणः स्थाने भूतो भावी वा तस्य संप्रसारणमित्येषा सञ्ज्ञा भवति । यजि ष्टम् । वप् उप्तम् । ग्रह गृहीतम् । केचिदुभयथा सूत्रमिदं व्याचक्षते वाक्यार्थः सञ्ज्ञी, वर्णश्च इति । इग्यणः यो वाक्यार्थः स्थान्यादेशसम्बन्धलक्षणः स सम्प्रसारणसञ्ज्ञो भवति, यण्स्थानिक इग्वर्णः स सम्प्रसारणसञ्ज्ञो भवति इति । तत्र विधौ वाक्यार्थ उपतिष्ठते ष्यङः सम्प्रसारणं पुत्रपत्योस्तत्पुरुषे (*६,१.१३) वसोः सम्प्रसारणम् (*६,४.१३१) इति । [॰२०] अनुवादे वर्णः सम्प्रसारणाच्च (*६,१.१०८) इति । सङ्ख्यातानुदेशादिह न भवति अधितरामिति । द्युभ्यामित्यत्र दिव उत्(*६,१.१३१) इति तपरकरणाद्दीर्घो न भवति । सम्प्रसारणप्रदेशाः वसोः सम्प्रसारणम् (*६,४.१३१) इत्येवमादयः ॥ आद्यन्तौ टकितौ (*१,१.४६) आदिः टित्भवति, अन्तः कित्भवति षस्ठीनिर्दिष्टस्य । लविता । मुण्डो भीषयते । टित्प्रदेशाः आर्धधातुकस्य+इड्वलादेः (*७,२.३५) इत्येवमादयः । कित्प्रदेशाः भियो हेतुभये शुक्(*७,३.४०) इत्येवमादयः ॥ मिदचोऽन्त्यात्परः (*१,१.४७) । अचः इति निर्धारने षष्ठी । जातौ च+इदमेकवचनम् । अचां संनिविष्टानामन्त्यादचः परो मित्भवति । स्थानेयोग प्रत्यय परत्वस्य अयमपवादः । विरुणद्धि । मुञ्चति । पयांसि । मित्प्रदेशाः रुद्ःादिभ्यः श्नम् (*३,१.७८) इत्येवमादयः । मस्जेरन्त्यात्पूर्वं नुममिच्छन्त्यनुषङ्गसंयोगादिलोपार्थम् । मग्नः । मग्नवान् । मङ्क्ता । मङ्क्तुम् ॥ एच इग्घ्रस्वादेशे (*१,१.४८) । एचो ह्रस्वादेशे कर्तव्ये इकेव ह्रस्वो भवति, न अन्यः । रयतिरि । नवतिनु । गोउप गु । एचः इति किम् ? अतिखट्वः । अतिमालः । ह्रस्वादेशे इति किम् ? दे३वदत्त । देवद३त्त ॥ षष्ठी स्थानेयोगा (*१,१.४९) । परिभाशा इयं योगनियमार्था । इह शास्त्रे या षष्ठी अनियतयोगा श्रूयते, सा स्थानेयोगेव भवति, नान्ययोगा । स्थानेयोगस्य निमित्तभूते सति सा प्रतिपत्तव्या । स्थानशब्दश्च प्रसङ्गवाची । यथादर्भाणां स्थाने शरैः प्रस्तरितव्यमिति दर्भाणां प्रसङ्गे इति गम्यते । एवमिह अपि अस्तेः स्थाने प्रसङ्गे भूर्भवति । भविता । भवितुम् । भवितव्यम् । ब्रुवः प्रसङ्गे वचिर्भवति । वक्ता । वक्तुम् । वक्तव्यम् । प्रसङ्गे सम्बन्धस्य निमित्तभूते ब्रुव इति षस्ठी । [॰२१] बहवो हि षष्ठ्यर्थाः स्वस्वाम्यनन्तरसमीपसमूहविकारावयवाद्याः । तत्र यावन्तः शब्दे सम्भवन्ति तेषु सर्वेषु प्रप्तेषु नियमः क्रियते षष्ठी स्थानेयोगा इति । स्थाने योगोऽस्याः इति व्यधिकरणो बहुव्रीहिः । अत एव निपातनाच्च सप्तम्या अलुक् ॥ स्थानेऽन्तरतमः (*१,१.५०) । स्थाने प्राप्यमाणानामन्तरतमादेशो भवति सदृशतमः । कुतश्च शब्दस्य अन्तर्यम् ? स्थानार्थगुणप्रमाणतः । स्थानतः अकः सवर्णे दीर्घः (*६,१.१०१) । दण्डाग्रम् । यूपाग्रम् । द्वयोरकारयोः कण्ठ्य एव दीर्घ आकारो भवति । अर्थतः वतण्डी च असौ युवतिश्च वातण्ड्ययुवतिः । पुंवद्भावेन अन्तरतमः पुंशब्दोऽतिदिश्यते । गुणतःपाकः । त्यागः । रागः । चजोः कु घिण्यतोः (*७,३.५२) इति चकारस्य अल्पप्राणस्य अघोषस्य तादृश एव ककारो भवति । जकारस्य घोषवतोऽल्पप्राणस्य तादृश एव गकारः । प्रमाणतः अनुष्मै । अमूभ्याम् । अदसोऽसेर्दादु दो मः (*८,२.८०) इति ह्रस्वस्य ह्रस्वः, दीर्घस्य दीर्घः । स्थाने इति वर्तमाने पुनः स्थाने ग्रहणं किम् ? यत्र अनेकमान्तर्यं सम्भवति तत्र स्थानत एव आन्तर्यं बलीयो यथा स्यात् । चेता, स्तोता । [॰२१] प्रमाणतोऽकारो गुणः प्राप्तः, तत्र स्थानत आन्तर्यादेकारौकारौ भवतः । तम्ब्ग्रहणं किम् ? वाग्घसति । त्रिष्टुब्भसति । झयो होऽन्यतरस्याम् (*८,४.६२) इति हकारस्य पूर्वसवर्णे क्रियमाणे सोष्मणः सोष्माणः इति द्वितीयाः प्रसक्ताः, नादवतो नादवन्तः इति तृतीयाः, तमब्ग्रहणाद् ये सोष्माणो नादवन्तश्च ते भवन्ति चतुर्थाः ॥ उरण्रपरः (*१,१.५१) । उः स्थाने अण्प्रसज्यमान एव रपरो वेदितव्यः । कर्ता । हर्ता । किरति । गिरति । द्वैमातुरः । त्रैमातुरः । उः इति किम् ? खेयम् । गेयम् । अन्ग्रहणं किम् ? सुधातुरकङ्च (*४,१.९७) सौधातकिः ॥ अलोऽन्त्यस्य (*१,१.५२) । षष्ठीनिर्दिष्टस्य य उच्यते आदेशः, सोऽन्त्यस्य अलः स्थाने वेदितव्यः । इद्गोण्याः (*१,२.५०) पञ्चगोणिः । दशगोणिः ॥ [॰२२] ङिच्च (*१,१.५३) । ङित्च य आदेशः सोऽनेकालपि अलोऽन्त्यस्य स्थाने भवति । आनङृतो द्वन्वे (*६,३.२५) होतापोतारौ । मातापितरौ । तातङि ङित्करणस्य गुणवृद्धिप्रतिषेधार्थत्वात्सर्वादेशः तातङ्भवति । जीवताद्भवान् । जीवतात्त्वम् ॥ आदेः परस्य (*१,१.५४) । परस्य कार्यं शिष्यमाणमादेरलः प्रत्येतव्यम् । क्व च परस्य कार्यं शिष्यते ? यत्र पञ्चमीनिर्देशः । तद्यथेदासः (*७,२.८३) आसीनो यजते । द्व्यन्तरुपसर्गेभोऽप ईत्(*६,३.९७) द्वीपम् । अन्तरीपम् । प्रतीपम् । समीपम् ॥ अनेकाल्शित्सर्वस्य (*१,१.५५) । अनेकाल्य आदेशः शित्च, स सर्वस्य षष्ठीनिर्दिष्टस्य स्थाने भवति । अस्तेर्भूः (*२,४.५२)भविता । भवितुम् । भवितव्यम् । शित्खल्वपि जश्शसोः शिः (*७,१.२०) कुण्डानि तिष्ठन्ति । कुण्डानि पस्य ॥ स्थानिवदादेशोऽनल्विधौ (*१,१.५६) । स्थान्यादेशयोः पृथक्त्वात्स्थान्याश्रयं कार्यमादेशे न प्राप्नोति इत्ययमतिदेश आरभ्यते । स्थानिना तुल्यं वर्तते इति स्थानिवत् । स्थानिवदादेशो भवति स्थान्याश्रयेषु कार्येष्वनलाश्रयेषु, स्थान्यलाश्रयाणि कार्याणि वर्जयित्वा । न अल्विधिरनल्विधिः इत्यर्थः । किमुदाहरणम् ? धात्वङ्गकृत्तद्धिताव्ययसुप्तिङ्पदादेशाः । धात्वादेशो धातुवद्भवति । अस्तेर्भूः (*२,४.५२) । ब्रुवो वचिः (*२,४.५३) । आर्धधातुकविशये प्रागेवादेशेषु कृतेषु धातोः (*३,१.९१) इति तव्यादयो भवन्ति । भविता । भवितुम् । भवितव्यम् । वक्ता । वक्तुम् । वक्तव्यम् । अङ्गादेशोऽङ्गवद्भवति केन । काभ्याम् । कैः । किमः कः (*७,२.१०३) इति कादेशे कृतेऽङ्गाश्रया इनदीर्घत्वाइस्भावाः भवन्ति । कृदादेशः कृद्वद्भवति प्रकृत्य । प्रहृत्य । क्त्वो ल्यबादेशे कृते ह्रस्वस्य पिति कृति तुक्(*६,१.७१) इति तुग्भवति । [॰२३] तद्धितादेशः तद्धितवद्भवति दाधिकम् । अद्यतनम् । कृत्तद्धितसमासाश्च (*१,२.४६) इति प्रातिपदिकसञ्ज्ञा भवति । अव्ययादेशोऽव्ययवद्भवति प्रस्तुत्य । प्रहृत्य । उपहृत्य । उपस्तुत्य । अव्ययादाप्सुपः (*२,४.८२) इति सुब्लुग्भवति । सुबादेशः सुब्वद्भवति वृक्षाय । प्लक्षाय । सुपि च (*७,३.१०२) इति दीर्घत्वं भवति । तिङादेशः तिङ्वद्भवतिअकुरुताम् । अकुरुतम् । सुप्तिङनतं पदम् (*१,४.१४) इति पदसञ्ज्ञा भवति । पदादेशः पदवद्भवति ग्रामो वः स्वं । जनपदो नः स्वम् । पदस्य (*८,१.१६) इति रुत्वं भवति । वत्करनं किम् ? स्थानी आदेशस्य सञ्ज्ञा मा विज्ञायि इति । स्वाश्रयमपि यथा स्यात् । आङो यमहनः (*१,३.२८) आहत, आवधिष्ट इति आत्मनेपदमुभयत्र अपि भवति । आदेशग्रहणं किम् ? आनुमानिकस्य अप्यादेशस्य स्थानिवद्भावो यथा स्यात् । पचतु एरुः (*३,४.८६) । अनल्विधौ इति किम् ? द्युपथितदादेशा न स्थानिवद्भवन्ति । द्यौः, पन्थाः, सः इति । हल्ङ्याब्भो दीर्घात्सुतिस्यपृक्तं हल्(*६,१.६८) इति सुलोपो न भवति ॥ अचः परस्मिन् पूर्वविधौ (*१,१.५७) । पूर्वणानल्विधौ स्थानिवद्भाव उक्तः । अल्विध्यर्थमिदमारभ्यते । आदेशः स्थानिवतिति वर्तते । अचः इति स्थानिनिर्देशः । परस्मिनिति निमित्तसप्तमी । पूर्वविधौ इति विषयसप्तमी । अजादेशः परनिमित्तकः पूर्वविदौ कर्तव्ये स्थानिवद्भवति । पटयति । अवधीत् । बहुखट्वकः । पटुमाचष्टे इति णिचिटिलोपे कृते तस्य स्थानिवद्भावातत उपधायाः (*७,२.११६) इति वृद्धिर्न भवति । अवधीत् अतो लोपस्य स्थानिवद्भावदतो हलादेर्लघोः (*७,२.७) इति हलन्तलक्षणा वृद्धिर्न भवति । बहुखट्वकः इति आपोऽन्यतरस्याम् (*७,४.१५) इति ह्रस्वस्य स्थानिवद्भावाध्रस्वान्तेऽन्त्यात्पूर्वम् (*६,२.१७४) इति स्वरो न भवति । अचः इति किम् ? प्रश्नः । आक्राष्टाम् । आगत्य । प्रश्नः इति प्रच्छेः नङ्प्रत्यये च्च्ःवोः शूडनुनासिके च (*६,४.१९) इति छकारस्य शकारः परनिमित्तकस्तुकि कर्तव्ये न स्थानिवद्भवति । आक्राष्टामिति झलो झलि (*८,२.२६) इति सिचो लोपः परनिमित्तकः कृषेः षकारस्य षढोः कः सि (*८,२.४१) इति ककारे कर्तव्ये न स्थानिवद्भवति । आगत्य इति वा ल्यपि (*६,४.३८) इत्यनुनासिकलोपः परनिमित्तकः तुकि कर्तव्ये न स्थानिवद्भवति । परस्मिनिति किम् ? युवजानिः वधूटीजानिः । वैयाघ्रपद्यः । आदीध्ये । युवजानिः इति जायायाः निङ्(*५,४.१३४) न परनिमित्तकः, तेन यलोपे न स्थानिवद्भवति । वैयाघ्रपद्यः इति न परनिमित्तकः पादस्य अन्तलोपः पद्भावं न प्रतिबध्नाति । आदीध्ये इति दीधीङ उत्तमपुरुषेकवचने टेरेत्वस्यापरनिमित्तकत्वाद्यीवर्णयोर्दीधीवेव्योः (*७,४.५३) इति लोपो न भवति । [॰२४] पूर्वविधौ इति किम् ? हे गौः । बाभ्रवीयाः । नैधेयः । हे गौः इति वृद्धिरजादेशः सम्बुद्धिलोपे कर्तव्ये न स्थानिवद्भवति । बाभ्रवीयाः इति बाब्रव्यस्य अमी च्छात्राः इति वृद्धाच्छः (*४,२.११४) इति छः । हलस्तद्धितस्य (*६,४.१५०) इति यकारलोपे कर्तव्ये अवादेशो न स्थानिवद्भवति । नैधेयः आतो लोप इटि च (*६,४.६४) इत्याकारलोपः, इतश्च अनिञः (*४,१.१२२) इति द्व्यज्लक्षणे प्रत्ययविधौ न स्थानिवद्भवति ॥ न पदान्तद्विर्वचनवरेयलोपस्वरसवर्ण. अनुस्वारदीर्घजश्चर्विधिषु (*१,१.५८) । पूर्वेण अतिप्रसक्तः स्थानिवद्भाव एतेषु विधिषु प्रतिषिध्यते । पदान्तविधिं प्रत्यजादेशो न स्थानिवद्भवति । कौ स्तः । यौ स्तः । तानि सन्ति । यनि सन्ति । श्नसोरल्लोपः क्ङिति सार्वधातुके इति परनिमित्तकः, स पूर्वविधावावादेशे यणादेशे च कर्तव्ये स्थानिवत्स्यात्, अस्माद्वचनान्न भवति । द्विर्वचनविधिः द्विर्वचनविधिं प्रति न स्थानिवद्भवति । दद्ध्यत्र । मद्ध्वत्र । यणादेशः परनिमित्तकः, तस्य स्थानिवद्भावातनचि च (*८,४.४७) इति धकारस्य द्विर्वचनं न स्यादस्माद्वचनाद्भवति । वरेविधिः वरे योऽजादेशः स पूर्वविधिं प्रति न स्थानिवद्भवति । अप्सु यायावरः प्रवपेत पिण्डान् । यातेः यङन्तात्यश्च यङः (*३,२.१७६) इति वरचि कृते अतो लोपः (*६,४.४८) परनिमित्तकः, तस्य स्थानिवत्त्वादतो लोप इटि च (*६,४.६४) इत्याकारलोपः स्याद्, अस्माद्वचनान्न भवति । यलोपविधिः यलोपविधिं प्रत्यजादेशो न स्थानिवद्भवति । कण्डूतिः । कण्डूयतेः क्तिनि कृते, अतो लोपः परनिमित्तकः, लोपो व्योर्वलि (*६,१.६६) इति यलोपे स्थानिवत्स्यादस्माद्वचनान्न भवति । स्वरविधिः स्वरविधिं प्रति अजादेशो न स्थानिवद्भवति । चिकीर्षकः । जिहीर्षकः ण्वुलि कृते अतो लोपः परनिमित्तकः, लिति (*६,१.१९३) प्रत्ययात्पूर्वमुदात्तम्, इति स्वरे कर्तव्ये न स्थानिवद्भवति इति । सवर्णविधिः सवर्णविधिं प्रति अजादेशो न स्थानिवद्भवति । शिण्ढि । पिण्ढि । शिषेः पिषेश्च लोण्मध्यमपुरुषेकवचने रुद्ःादिभ्यः श्नम् (*३,१.७८) । हित्वधित्वष्टुत्वजश्त्वेषु कृतेषु, श्नसोरल्लोपः क्ङिति सार्वधातुके परनिमित्तकः, अनुस्वारस्य ययि परसवर्णे कर्तव्ये न स्थानिवद्भवति । [॰२५] अनुस्वारविधिः अनुस्वारविधिं प्रति अजादेशो न स्थानिवद्भवति । शिंषन्ति । पिंषन्ति । नश्च अपदान्तस्य झलि (*८,३.२४) इति अनुस्वारे कर्तव्ये श्नसोरल्लोपः न स्थानिवद्भवति । दीर्घविधिः दीर्घविधिं प्रति अजादेशो न स्थानिवद्भवति । प्रतिदीव्ना । प्रतिदीव्ने । प्रतिदिवनित्येतस्य भस्य (*६,४.१२९) इत्यधिकृत्य तृतीयेकवचने चतुर्थ्येकवचने च अल्लोपोऽनः (*६,४.१३४) इत्यकारलोपः परनिमित्तकः, तस्य स्थानिवद्भावाधलि च (*८,२.७७) इति दीर्घत्वं न स्यात्, न ह्ययं वकारो हल्परः इति, अस्माद्वचनाद्भवति । जश्विधिः जश्विधिं प्रत्यजादेशो न स्थानिवद्भवति । सग्धिश्च मे सपीतिश्च मे । बब्धां ते हरी धानाः । अदेः क्तिनि बहुलं छन्दसि (*२,४.३९) इति घस्लादेशः । घसिभसोर्हलि च (*६,४.१००) इत्युपधलोपः । झलो जह्लि (*८,२.२६) इति सकारलोपः । झषस्तथोर्धोऽधः (*८,२.४०) इति धत्वम् । उपधालोपस्य स्थानिवत्तवात्झलां जस्झसि (*८,४.५३) इति घकारस्य जश्त्वं न स्यात्, अस्माद्वचनाद्भवति । समना ग्धिः । समानस्य सभावः । सग्धिः । बब्धामिति भसेर्लोड्द्विवचने शपः स्लुः, द्विर्वचनम्, अभ्यासकार्यम्, घसिभसोर्हलि च (*६,४.१००) इति उपधालोपः, झलो झलि (*८,२.२६) इत्सकारलोपः, झषस्तथोर्धोऽधः (*८,२.४०) इति धत्वम् । उपधलोपस्य स्थानिवत्त्वात्झलां जश्झशि (*८,४.५३) इति जश्त्वं न स्यात्, अस्माद्वचनाद्भवति । चर्विधिः चर्विधिं प्रति अजादेशो न स्थानिवद्भवति । जक्षतुः । जक्षुः । अक्षन् पितरोऽमीमदन्त पितरः । लिड्द्विवचनबहुवचनयोरदेर्घस्लादेशः । गमहनजनखनघसां लोपः क्ङित्यनङि (*६,४.९८) इति उपधालोपः, द्विर्वचनम्, अभ्यासकार्यम् । तत्र उपधालोपस्य स्थानिवत्त्वात्खरि च (*८,४.५५) इति घकारस्य चर्त्वं न स्याद्, अस्माद्वचनाद्भवति । शासिवसिघसीनां च (*८,३.६०) इति शत्वम् । अक्षनिति अदेः लुङ्बहुवचने घस्लादेशः, च्लेरागतस्य मन्त्रे घसह्वर (*२,४.८०) इति लुक् । गमहनजनखनघसां लोपः क्ङित्यनङि (*६,४.९८) इत्युपधालोपः, तस्य स्थानिवत्त्वात्खरि च (*८,४.५५) इति चर्त्वं न स्यात्, अस्माद्वचनाद्भवति । स्वरदीर्घयलोपेशु लोपाजादेशो न स्थानिवद्भवति । अन्यत्र स्थानिवदेव । तेन बहुखट्वकह्, किर्योः, गिर्योः, वाय्वोः इति स्थानिवत्त्वात्स्वरदीर्घयलोपा न भवन्ति ॥ [॰२६] द्विर्वचनेऽचि (*१,१.५९) । द्विर्वचननिमित्तेऽचि अजादेशः स्थानिवद्भवति , द्विर्वचन एव कर्तव्ये । रूपातिदेशश्च अयं नियतकालः । तेन कृते द्विर्वचने पुनरादेश रूपमेव अवतिष्ठते । आल्लोपोपधालोपणिलोपयणयवायावादेशाः प्रयोजनम् । आल्लोपःपपतुः । पपुः । आतो लोप इटि च (*६,४.६४) इति आकारलोपे कृते तस्य स्थानिवद्भावातेकाचो द्वे प्रथमस्य (*६,१.१) इति द्विर्वचनं भवति । उपधालोपःजघ्नतुः । जघ्नुः । गमहनजनखनघसां लोपः क्ङित्यनङि (*६,४.९८) इत्यौपधालोपे कृते अनच्कत्वाद्द्विर्वचनं न स्यात्, अस्माद्वचनाद्भवति । णिलोपः आटिटत् । अटतेः णिचि लुङि चङि णिलोपे कृते तस्य स्थानिवत्त्वादजादेर्द्वितीयस्य (*६,१.२) इति टिशब्दस्य द्विर्वचनं भवति । यण् चक्रतुः । चक्रुः । करोतेः अतुसि उसि च यणादेशे कृते अनच्कत्वाद्द्विर्वचनं न स्यात्, स्थानिवत्त्वाद्भवति । अयवायावादेशाः निनय, निनाय । लुलव, लुलाव । नयतेः लुनातेश्च उत्तमे णलि गुणे कृते वृद्धौ च अयवायावादेशाः, तेषां स्थानिवत्त्वान्ने नै लो लौ इति द्विर्वचनं भवति । द्विर्वचने कऋतव्य इति किम् ? जग्ले, मम्ले । श्रवणमाकारस्य न भवति । द्विर्वचननिमित्ते इति किम् ? दुद्यूषति । ऊठि यणादेशो न स्थानिवद्भवति । अचि इति किम् ? जेघ्रीयते, देध्मीयते । ई घ्राध्मोः (*७,४.३१) यङि च (*७,४.३०) इति ईकारादेशः, तस्य स्थानिवद्भावादाकारस्य द्विर्वचनं स्यात्, अज्ग्रहणान्न भवति ॥ अदर्शनं लोपः (*१,१.६०) । अदर्शनम्, अश्रवणम्, अनुच्चारनम्, अनुपलब्धिः, अभावो, वर्णविनाशः इत्यनर्थान्तरम् । एतैः शब्दैर्योऽर्थोऽभिधीयते, तस्य लोपः इति इयं सञ्ज्ञा भवति । अर्थस्येयं सञ्ज्ञा, न शब्दस्य । प्रसक्तस्य अदर्शनं लोपसञ्ज्ञं भवति । गोधाया ढ्रक्(*४,१.१२९)गौधेरः । पचेरन् । जीवे रदानुक्जीरदानुः । स्त्रिवेर्मनिनास्रेमाणम् । यकारवकारयोरदर्शनमिह उदाहरणम् । अपरस्य अनुबन्धादेः प्रसक्तस्य । लोपप्रदेशाःलोपो व्योर्वलि (*६,१.६६) इत्येवमादयः ॥ [॰२७] प्रत्ययस्य लुक्श्लुलुपः (*१,१.६१) । अदर्शनमिति वर्तते । प्रत्यय. अदर्शनस्य लुक्, श्लु, लुपित्येताः सञ्ज्ञा भवन्ति । अनेकसञ्ज्ञाविधनाच्च तद्भावितग्रहणमिह विज्ञायते । लुक्सञ्ज्ञाभावितं प्रत्ययादर्शनं लुक्सञ्ज्ञं भवति, श्लुसञ्ज्ञाभावितं श्लुसञ्ज्ञं भवति, लुप्सञ्ज्ञा भावितं लुप्सञ्ज्ञं भवति । तेन सञ्ज्ञानां सङ्करो न भवति । विधिप्रदेशेषु च भाविनी सञ्ज्ञा विज्ञायते । अत्ति । जुहोति । वरणाः । प्रत्ययग्रहणं किम् ? अगस्तयः । कुण्डिनाः । लुक्श्लुलुप्प्रदेशाः लुक्तद्धितलुकि (*१,२.४९), जुहोत्यादिभ्यः श्लुः (*२,४.७५), जनपदे लुप्(*४,२.७१) इत्येवमादयः ॥ प्रत्ययलोपे प्रत्ययलक्षणम् (*१,१.६२) । प्रत्ययनिमित्तं कार्यमसत्यपि प्रत्यये कथं नु नाम स्यातित्सूत्रमिदमारभ्यते । प्रत्ययलोपे कृते प्रत्ययलक्षणं प्रत्ययहेतुकं कर्यं भवति । अग्निचित्, सोमसुत्, अधोक्, इत्यत्र सुप्तिङोः लुप्तयोः सुप्तिङन्तं पदम् (*१,४.१४) इति पदसञ्ज्ञा भवति । अधोकिति दुहेः लङि तिपि शब्लुकि तिलोपे घत्वभष्भावजश्त्वचर्त्वेषु कृतेषु रूपम् । प्रत्यय इति वर्तमाने पुनः प्रत्ययग्रहणं किम् ? कृत्स्नप्रत्ययलोपे यथा स्यात् । इह मा भूत् आघ्नीय । सङ्ग्मीय । हनिगम्योर्लिङात्मनेपदे लिङः सलोपोऽनन्त्यस्य (*७,२.७९) इति सीयुट्सकारलोपः प्रत्ययेकदेशलोपः, तत्र प्रत्ययलक्षणेन झलि इत्यनुनासिकलोपो न भवति (*६,४.३७) । प्रत्ययलक्षणमिति किम् ? रायः कुलं रैकुलम् । गवे हितं गोहितम् । आयवादेशौ न भवतः वर्णाश्रयत्वात् ॥ न लुमताऽङ्गस्य (*१,१.६३) । पूर्वेण अतिप्रसक्तं प्रत्ययलक्षणमिति विशेषे प्रतिषेधः उच्यते । लुमता शब्देन लुप्ते प्रत्यये यदङ्गं, तस्य प्रत्ययलक्षणं कार्यं न भवति । गर्गाः । मृष्टः । जुहुतः । यञ्शपोर्लुमता लुप्तयोरङ्गस्य वृद्धिगुणौ न भवतः । लुमता इति किम् ? कार्यते । हार्यते । अङ्गस्य इति किम् ? पञ्च । सप्त पयः । साम ॥ अचोऽन्त्यादि टि (*१,१.६४) । अचः इति निर्धारणे षष्ठी । जातावेकवचनम् । अचां सन्निविष्टामां, योऽन्त्योऽच्तदादि शब्दरूपं टिसञ्ज्ञं भवति । अग्निचितिच्छब्दः । सोमसुतुच्छब्दः । आताम्, आथामाम्शब्दः । पचेते, पचेथे । टिप्रदेशाःटित आत्मनेपदानं टेरे (*३,४.७९) इत्येवमादयः ॥ [॰२८] अलोऽन्त्यात्पूर्व उपधा (*१,१.६५) । धात्वादौ वर्णसमुदायेऽन्त्यादलः पूर्वो यो वर्णः सोऽलेव उपधासञ्ज्ञओ भवति । पच्, पठकरः । भिद्, छिदिकारः । बुध्, युधुकारः । वृत्, वृधृकारः । अलः इति किम् ? शिष्टः, शिष्टवान् । समुदायात्पूर्वस्य मा भूत् । उपधाप्रदेशाःत उपधायाः (*७,२.११५) इत्येवमादयः ॥ तस्मिन्निति निर्दिष्टे पूर्वस्य (*१,१.६६) । तस्मिनिति सप्तम्यर्थनिर्देशे पूर्वस्येव कार्यं भवति, नोत्तरस्य । इको यणचि (*६,१.७७)दध्युदकम् । मध्विदम् । पचत्योदनम् । निर्दिष्टग्रहणमानन्तर्यार्थम् । अग्निचिदत्र इति व्यवहितस्य मा भूत् ॥ तस्मादित्युत्तरस्य (*१,१.६७) । निर्दिष्टग्रहनमनुवर्तते । तस्मातिति पञ्चम्यर्थनिर्देश उत्तरस्येव कार्यं भवति, न पूर्वस्य । तिङ्ङतिङः (*८,१.२८) ओदनं पचति । इह न भवति पचत्योदनमिति ॥ स्वं रूपं शब्दस्य अशब्दसञ्ज्ञा (*१,१.६८) । शास्त्रे स्वमेव रूपं शब्दस्य ग्राह्यं बोध्यं प्रत्याय्यं भवति, न बाह्योऽर्थः, शब्दसञ्ज्ञां वर्जयित्वा । शब्देन अर्थावगतेरर्थे कार्यस्य असम्भवात्तद्वाचिनां शब्दानां सम्प्रत्ययो मा भूतिति सूत्रमिदमारभ्यते । अग्नेर्ढक्(*४,२.३३) आग्नेयमष्टाकपालं निर्वपेत् । अग्निशब्दोऽग्निशब्दस्येव ग्राहको भवति, न ज्वलनः, पावकः, धूमकेतुः इति । न अतः प्रत्ययो भवति । उदश्वितोऽन्यतरस्याम् (*४,२.१९)औदश्वित्कम् । औदश्वितम् । तक्रम्, अरिष्टं, कालशेयं, दण्डाहतं, मथितम्, इति न अतः प्रत्ययो भवति । अशब्दसञ्ज्ञा इति किम् ? दाधा घ्वदाप्(*१,१.२०) तरप्तमपौ घः (*१,१.२३), घुग्रहणेषु घग्रहनेषु च सञ्ज्ञिनां ग्रहनम्, न सञ्ज्ञायाः । सित्तद्विशेषाणां वृक्षाद्यर्थम् । सिन्निर्देशः कर्तव्यः । ततो वक्तव्यं तद्विशेषाणां ग्रहणं भवति इति । किं प्रयोजनम् ? वृक्षाद्यर्थम् । विभाषा वृक्षमृगतृणधान्यव्यञ्जनपशु. शकुन्यश्ववडवपूर्वापराधरोत्तराणाम् (*२,४.१२) इति प्लक्षन्यग्रोधम्, प्लक्षन्यग्रोधाः । [॰२९] पित्पर्यायवचनस्य च स्वाद्यर्थम् । पिन्निर्देशः कर्तव्यः । ततो वक्तव्यं पर्यायवचनस्य ग्रहणं भवति, चकारात्स्वस्य रूपस्य तद्विशेषाणां च इति । किं प्रयोजनम् ? स्वाद्यर्थम् । स्वे पुशः (*३,४.४०) । स्वपोषं पुष्टः । रैपोशम् । धनपोशम् । अश्वपोषम् । गोपोशम् । जित्पर्यायवचनस्येव राजाद्यर्थम् । जिन्निर्देशः कर्तव्यः । ततो वक्तव्यं पर्यायवचनस्येव ग्रहनं भवति इति, न स्वरूपस्य, न अपि तद्विशेषाणाम् । किं प्रयोजनम् ? राजाद्यर्थम् । सभा राजा+अमनुष्यपूर्वा (*२,४.२३) इनसभम् । ईश्वरसभम् । तस्येव न भवतिराजसभा । तद्विशेषाणां च न भवति पुष्यमित्रसभा । चन्द्रगुप्तसभा । झैत्तद्विशेषाणां च मत्स्याद्यर्थम् । झिन्निर्देशः कर्तव्यः । ततो वक्तव्यं तस्य च ग्रहणं भवति तद्विशषाणां च इति । किं प्रयोजनम् ? मत्स्याद्यर्थम् । पक्षिमत्स्यमृगान् हन्ति (*४,४.३५) इति ठक्पाक्षिकः । मात्सियकः । तद्विशेषाणाम् शाकुनिकः । पर्यायाणां न भवतिअजिह्मान् हन्ति, अनिमिषान् हन्ति इति । अथेकस्येश्यते, मीनान्, हन्ति इति मैनिकः ॥ अणुदित्सवर्णस्य चाप्रत्ययः (*१,१.६९) । परेण णकारेण प्रत्याहारग्रहणम् । अण्गृह्यमाण उदिच्च सवर्णानां ग्राहको भवति, स्वस्य च रूपस्य, प्रत्ययं वर्जयित्वा । आद्गुणः (*६,१.८७), अस्य च्वौ (*७,४.३२), यस्येति च (*६,४.१४८) । स्वरानुनासिक्यकालभिन्नस्य ग्रहनं भवति । उदित्खल्वपि । चुटू (*१,३.७), लशक्वतद्धिते (*१,३.८) । चवर्गटवर्गयोः कवर्गस्य च ग्रहनं भवति । अप्रत्ययः इति किम् ? सनाशंसभिक्ष उः (*३,२.१६८), अ साम्प्रतिके (*४,३.९), दीर्घो न भवति ॥ तपरस्तत्कालस्य (*१,१.७०) । तः परो यस्मात्सोऽयं तपरः, तादपि परः तपरः । तप्रो वर्णस्तत्कालस्य, आत्मना तुल्यकालस्य गुणान्तरयुक्तस्य सवर्णस्य ग्राहको भवति, स्वस्य च रूपस्य । विद्ःयर्थमिदम् । अणिति न अनुवर्तते । अणामन्येषां च तपराणामिदमेव ग्रहणकशास्त्रम् । [॰३०] अतो भिस ऐस्(*७,१.९) इत्येवमादिषु पूर्वग्रहणकशास्त्रं न प्रवर्तत एव । अतपरा अणस्तस्य अवकाशः । किमुदाहरणम् ? अतो भिस ऐस्(*७,१.९) वृक्षैः । प्लक्षैः । विड्वनोरनुनासिकस्य आत्(*६,४.४१) अब्जाह्, गोजाः । तत्कालस्य इति किम् ? खट्वाभिः । मालाभिः ॥ आदिरन्त्येन सहेता (*१,१.७१) । आदिरन्त्येन इत्सञ्ज्ञकेन सह गृह्यमाणस्तन्मद्यपतितानां वर्णानां ग्राहको भवति, स्वस्य च रूपस्य । अण् । अक् । अच् । हल् । सुप् । तिङ् । अन्त्येन इति किम् ? सुटिति तृतीयेकवचनेन टा इत्यनेन ग्रहणं मा भूत् ॥ येन विधिस्तदन्तस्य (*१,१.७२) । येन विशेषणेन विधिर्विधीयते स तदन्तस्य आत्मान् तस्य समुदायसय्ग्राहको भवति , स्वस्य च रूपस्य । एरच्(*३,३.५६), इवर्णान्तादच्प्रत्ययो भवतिचयः । जयः । अयः । ओरावश्यके (*३,१.१२५), उवर्णान्ताद्ण्यद्भवति अवश्यलाव्यम् । अवश्यपाव्यम् । समासप्रत्ययविधौ तदन्तविधेः प्रतिषेधो वक्तव्यः । द्वितीयान्तं श्रितादिभिः सह समस्यते (*२,१.२४) कष्टश्रितः । इह मा भूत् कष्टं परमश्रित इति । प्रत्ययविधौ नडादिभ्यः फक्(*४,१.९९), नडस्य अपत्यं नाडायनः । इह मा भूत् सूत्रनडस्य अपत्यं सौत्रनाडिः । किमविशेषेण ? न इत्याह । उगिद्वर्णग्रहणवर्जमिति वाच्यम् । उगितश्च (*४,१.६) इति ङीप्प्रत्ययः तदन्तादपि भवति भवती, अतिभवती । वर्णग्रहनमत इञ्(*४,१.९५), दाक्षिः । प्लाक्षिः । यस्मिन् विधिस्तदादावल्ग्रहणे । अल्ग्रहणेषु यस्मिन् विधिस्तदादौ इति वक्तव्यम् । अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (*६,४.७७) इति श्रियः । भ्रुवः ॥ [॰३१] वृद्धिर्यस्य अचामादिस्तद्वृद्धम् (*१,१.७३) । यस्य इति समुदाय उच्यते । अचां मद्ये यस्य वृद्धिसञ्ज्ञक आदिभूतः, तच्छब्दरूपं वृद्धसज्ञ्जं भवति । अचामिति जातौ बहुवचनम् । शालीयः । मालीयः । औपगवीयः । कापटवीयः । आदिः इति किम् ? सभासन्नयते भवः साभासन्नयनः । वा नामधेयस्य वृद्धसञ्ज्ञा वक्तव्या । देवदत्तीयाः । दैवदत्ताः । गोत्रान्तादसमस्तवत्प्रत्य्त्यो भवतीति वक्तव्यम् । घृतप्रधनो रौढिः घृतरौढिः । तस्य छात्रा घृतरौढीयाः । ओदनप्रधानः पाणिनिः ओदनपाणिनिः । तस्य छात्रा ओदनपाणिनीयाः । वृद्धाम्भीयाः । वृद्धकाश्यपीयाः । जिह्वाकात्यहरितकायवर्जम् । जैह्वाकाताः । हारितकाताः ॥ त्यदादीनि च (*१,१.७४) । यस्य अचामादिग्रहणमुत्तरार्थमनुवर्तते । इह तु न सम्बध्यते । त्यदादीनि शब्दरूपाणि वृद्धसञ्ज्ञानि भवन्ति । त्यदीयम् । तदीयम् । एतदीयम् । इदमीयम् । अदसीयम् । त्वदीयम् । त्वादायनिः । मदीयम् । मादायनिः । भवतीयम् । किमीयम् ॥ एङ्प्राचां देशे (*१,१.७५) । यस्य अचामादिग्रहणमनुवर्तते । एङ्यस्य अचामादिः तत्प्राचां देशाभिधाने वृद्धसंज्ञं भवति । एणीपचनीयः । भोजकटीयः । गोनर्दीयः । एङिति किम् ? आहिच्छत्रः । कान्यकुब्जः । प्राचामिति किम् ? देवदत्तो नाम बाहीकेषु ग्रामह्, तत्र भवः दैवदत्तः । देशे इति किम् ? गोमत्यां भवा मत्स्याः गौमताः ॥ प्रागुदञ्चौ विभजते हंसः क्षीरोदके यथा । विदुषां शब्दसिद्ध्यर्थं सा नः पातु शरावती ॥ इति श्रीजयादित्यविरचितायां काशिकायां वृत्तौ प्रथमाध्यायसय्प्रथमः पादः ॥ ____________________________________________________________________ [॰३२] गाङ्कुटादिभ्योऽञ्णिन्ङित् ॥ १,२.१ ॥ _____ काशिकावृत्तिः१,२.१: अतिदेशोऽयम् । गाङिति इङादेशो र्ह्यते, न गाङ्गतौ इति, ङकारस्य अनन्यार्थत्वात् । कुटादयोऽपि कुट कौटिल्ये इत्येत दारभ्य यावत्कुङ्शब्दे इति । एग्यो गाङ्कुटादिभ्यः परे अञ्णितः प्रत्यया ङितो भवन्ति ङिद्वद्भवन्ति इत्यर्थः । गाङः अध्यगीष्ट । अध्यगीषाताम् । अध्यगीषत । कुटादिभ्यःकुटिता । कुटितुम् । कुटितव्यम् । उत्पुटिता उत्पुटितुम् । उत्पुटितव्यम् । अञ्णितिति किम् ? उत्कोटयति । उच्चुकोट । उत्कोटकः । उत्कोटो वतते । व्यचेः कुटादित्वमनसीति वक्तव्यम् । विचिता । विचितुम् । विचितव्यम् । अनसि इति किम् ? उरुव्यचाः ॥ ____________________________________________________________________ विज इट् ॥ १,२.२ ॥ _____ काशिकावृत्तिः१,२.२: ओविजी भयचलनयोः, अस्मात्परः इडादिः प्रत्ययो ङिद्वद्भवति । उद्विजिता । उद्विजितुम् । उद्विजितव्यम् । इटिति किम् ? उद्वेजनम् । उद्वेजनीयम् ॥ ____________________________________________________________________ विभाषोर्णोः ॥ १,२.३ ॥ _____ काशिकावृत्तिः१,२.३: इटिति वर्तते । ऊर्णुञाच्छादने, अस्मात्परः इडादिः प्रत्ययो विभाषा ङिद्वद्भवति । प्रोर्णुविता । प्रोर्णविता । इटित्येव प्रोर्णवनम् । प्रोर्णवतीयम् ॥ ____________________________________________________________________ सार्वधातुकमपित् ॥ १,२.४ ॥ _____ काशिकावृत्तिः१,२.४: सार्वधातुकं यदपित्तन् ङिद्वद्भवति । कुरुतः । कुर्वन्ति । चिनुतः । चिन्वन्ति । सार्वधतुकमिति किम् ? कर्ता । कर्तुम् । कर्तव्यम् । अपितिति किम् ? करोति । करोषि । करोमि । ____________________________________________________________________ असंयोगाल्लिट्कित् ॥ १,२.५ ॥ _____ काशिकावृत्तिः१,२.५: अपितिति वर्तते । असंयोगान्ताद्धातोः परो लिट्प्रत्ययः अपित्किद्भवति । बिधिदतुः । बिभिदुः । चिच्छिदतुः । चिच्छिदुः । ईजतुः । ईजुः । असंयोगातिति किम् ? संस्रसे । दध्वंसे । अपितित्येव । बिभेद ॥ ____________________________________________________________________ [॰३३] इन्धिभवतिभ्यां च ॥ १,२.६ ॥ _____ काशिकावृत्तिः१,२.६: इन्धि भवति इत्येताभ्यां परो लिट्प्रत्ययः किड्भवति । समीधे दस्यु हन्तमम् । पुत्र ईधे अथर्वणः । भवतेः खल्वपि बभूव । बभूविथ । इन्धेः संयोगर्थं ग्रहणम् । भवतेः पिदर्थम् । अत्रेष्टिः श्रन्थिग्रन्थिदम्भिस्वञ्जीनामिति वक्तव्यम् । श्रेथतुः, श्रेथुः । ग्रेथतुः, ग्रेथुः । देभतुः, देभुः । परिषस्वजे, परिषस्वजाते ॥ ____________________________________________________________________ मृडमृदगुधकुषक्लिशवदवसः क्त्वा ॥ १,२.७ ॥ _____ काशिकावृत्तिः१,२.७: मृड मृद गुध कुष क्लिश वद वस इत्येतेभ्यः परः क्त्वाप्रत्ययः किद्भवति । न क्त्वा सेट्(*१,२.१८) इति प्रतिषेधं वक्ष्यति तस्यायं पुरस्तादपकर्षः । गुधकुषक्लिशीनां तु रलो व्युपधाद्धलादेः संश्च (*१,२.२६) इति विकल्पे प्राप्ते नित्यार्थं वचनम् । मृडित्वा । मृदित्वा । गुधित्वा । कुषित्वा । क्लिशित्वा । उदित्वा । उषित्वा ॥ ____________________________________________________________________ रुदविदमुषग्रहिस्वपिप्रच्छः संश्च ॥ १,२.८ ॥ _____ काशिकावृत्तिः१,२.८: रुद विद मुष ग्रहि स्वपि प्रच्छ इत्येतेभ्यः संश्च क्त्वा च कितौ भवतः । रुदविदमुषीणां रलो व्युपधाद्धलादेः संश्च (*१,२.२३) इति विकल्पे प्राप्ते नित्यार्थं ग्रहणम् । ग्रहेर्विध्यर्थमेव । स्वपिप्रच्छ्योः सन्नर्थं ग्रहणम् । किदेव हि इत्वा । रुदित्वा, रुरुदिषति । विदित्वा, विविदिशति । मुषित्वा, मुमुषिषति । गृहीत्व, जिघृक्षति । सुप्त्वा, सुषुप्सति । पृष्ट्वा, पिपृच्छिषति । ग्रहादीनां कित्त्वात्सम्प्रसारणं भवति । किरश्च पञ्चभ्यः (*७,२.७५) इति प्रच्छेरिडागमः ॥ ____________________________________________________________________ इको झल् ॥ १,२.९ ॥ _____ काशिकावृत्तिः१,२.९: सनित्यनुवर्तते । क्त्वा इति निवृतम् । इगन्ताद्धातोः परो झलादिः सन् किद्भवति । चिचीषति । तुष्टूषति । चिकीर्षति । इकः इति किम् ? पिपासति । तिष्ठासति । झलिति किम् ? शिशयिषते । किमर्थमिदमुच्यते ? गुणो मा भूतिति । अज्झनगमां सनि (*६,४.१६) इति दीर्घत्वं गुणस्य बाधकं भविष्यति ? यथेव तर्हि दीर्घत्वं गुणं बाधते तथा णिलोपमपि बधेत । तस्माद्दीर्घत्वस्य अवकाशदानाय कित्त्वमिदमारभ्यते । चिचीषति इत्यादिषु सावकाशं दीर्घत्वं पर्त्वाद्णिलोपेन बाध्यते । ज्ञीप्सति । [॰३४] इकः कित्त्वं गुणो मा भूत्दीर्घारम्भात्कृते भतेत् । अनर्थकं तु ह्रस्वार्थं दीर्घाणां तु प्रसज्यते ॥१॥ सामर्थ्याद्धि पुनर्भाव्यमॄदित्त्वं दीर्घसंश्रयम् । दीर्घाणां नाकृते कीर्घे णिलोपस्तु प्रयोजनम् ॥२॥ ____________________________________________________________________ हलन्ताच्च ॥ १,२.१० ॥ _____ काशिकावृत्तिः१,२.१०: हलन्तादिको झल्कितिति वर्तते । सनिति निवृत्तम् । इगन्तदिक्समीपाद्धलः परौ झलादी । ____________________________________________________________________ लिङ्सिचौ आत्मनेपदेषु ॥ १,२.११ ॥ _____ काशिकावृत्तिः१,२.११: परतः कितौ भवतः । भित्सीष्ट, भुत्सीष्ट । सिचि खल्वपिअभित्त, अबुद्ध । इकः इत्येव । यक्षीष्ट, अयष्ट । सम्प्रसारणं हि स्यात् । आत्मनेपदेषु इति किम् ? अस्राक्षित् । अद्राक्षीत् । सृजिदृशोर्झल्यमकिति (*६,१.५८) इत्यमागमो न स्यात् । हलन्तातित्येव । चेषीष्ट, अचेष्ट । गुणो न स्यात् । [॰३३] झलित्येव वर्तिषीष्ट, अवर्तिष्ट । गुणो न स्यात् । [॰३४] लिङ्सिचौ इति किम् ? द्वेष्टा द्वेक्ष्यति ॥ ____________________________________________________________________ उश्च ॥ १,२.१२ ॥ _____ काशिकावृत्तिः१,२.१२: ऋवर्णान्ताद्धातोः परौ लिङ्सिचौ आत्मनेपदेशु झलादी कितौ भवतः । कृषीष्ट । हृषीष्ट । सिचः खल्वपि अकृत । अहृत । झलित्येव । वरिषीष्ट । अवरिष्ट । व्तो वा (*७,२.३८) अवरीष्ट ॥ ____________________________________________________________________ वा गमः ॥ १,२.१३ ॥ _____ काशिकावृत्तिः१,२.१३: लिङ्सिचावात्मनेपदेषु इति वर्तते । गमेर्धातोः परु लिङ्सिचौ आत्मनेपदेषु झलादी वा कितौ भवतः । संगंसीष्ट, संगसीष्ट । सिचः खल्वपि समगंस्त्, समगत । कित्त्वपक्षे अनुनासिकलोपो भवति अनुदात्तोपदेशवनतितनोत्यादीनाम्(*६,४.३७) इति ॥ ____________________________________________________________________ [॰३५] हनः सिच् ॥ १,२.१४ ॥ _____ काशिकावृत्तिः१,२.१४: हन्तेर्धातोः परः सिच्किद्भवति । आहत, आहसाताम्, आहसत । सिचः कित्त्वादनुनासिकलोपः । सिज्ग्रहणं लिङ्निवृत्त्यर्थम् । उत्तरत्रानुवृत्तिर्मा भूत् । अत्मनेपदग्रहणमुत्तरार्थमनुवर्तते । इह तु परस्मैपदे हन्तेर्वधभावस्य नित्यत्वात्कित्त्वस्य प्रयोजनं न अस्ति ॥ ____________________________________________________________________ यमो गन्धने ॥ १,२.१५ ॥ _____ काशिकावृत्तिः१,२.१५: सिच आत्मनेपदेषु इति वर्तते । यमेर्धातोर्गन्धने वर्तमानात्परः सिच्प्रत्ययः किद्भवति आत्मनेपदेषु परतः । गन्धनं सूचनं, परेण प्रच्छाद्यमानस्यावद्यस्याविष्करणम् । अनेकार्थत्वाद्धातूनां यमिस्तत्र वर्तते । उदयत, उदायसाताम्, उदायसत । सूचितवानित्यर्थः । सिचः कित्त्वादनुनासिकलोपः । आङो यमहनः (*१,३.२८) इत्यात्मनेपदम् । गन्धन इति किम् ? उदायंस्त पादम् । उदायंस्त कूपादुदकम् । उध्दृतवानित्यर्थः । सकर्मकत्वेऽपि समुद्दाङ्भ्यो य्मोऽग्रन्थे (*१,३.७५) इत्यात्मनेपदम् ॥ ____________________________________________________________________ विभाषोपयमने ॥ १,२.१६ ॥ _____ काशिकावृत्तिः१,२.१६: यमः सिजात्मनेपदेषु इति वर्तते । यमेर्धातोः उपयमने वर्तमानात्परः सिच्प्रत्ययओ विभाषा किद्भवति आत्मनेपदेषु परतः । उपायत कन्याम्, उपायंस्त कन्याम् । उपायत भार्याम्, उपायंस्त भार्याम् । उपयमनं स्वीकरणं, विवाहः, दारकर्म, पाणिग्रहणमित्यर्थः । उपाद्यमः स्वकरणे (*१,३.५६) इत्यात्मनेपदम् ॥ ____________________________________________________________________ स्थाघ्वोरिच्च ॥ १,२.१७ ॥ _____ काशिकावृत्तिः१,२.१७: सिजात्मनेपदेषु इति वर्तते । तिष्ठतेर्धातोः घुसञ्ज्ञकानां च इकारश्च अन्तादेशः सिच्च किद्भवति आत्मनेपदेषु परतः । उपास्थित, उपास्थिषाताम्, उपास्थिषत । घुसञ्ज्ञकानम् अदित । अधित । इच्च कस्य तकारेत्त्वं दीर्घो मा भूदृतेऽपि सः । अनन्तरे प्लुतो मा भूत्प्लुतश्च विषये स्मृतः ॥ ____________________________________________________________________ न क्त्वा सेट् ॥ १,२.१८ ॥ _____ काशिकावृत्तिः१,२.१८: क्त्वा प्रत्ययः सेण्न किद्भवति । देवित्वा । वर्तित्वा । सेटिति किम् ? इऋत्वाऽ गुत्वाऽ क्त्वाग्रहणं किम् ? निगृहीतिः । उपस्निहितिः । निकुचितिः । [॰३६] न सेडिति कृतेऽकित्त्वे निष्ठायामवधारणात् । ज्ञापकान्न प्रोक्षायां सनि झल्ग्रहणं विदुः ॥ इत्त्वं कित्वंनिहोगेन रेण तुल्यं सुधीवनि । वस्वर्थं किदतीदेशान्नि गृहीतिः प्रयोजनम् ॥ ____________________________________________________________________ निष्ठा शीङ्स्विदिमिदिक्ष्विदिधृषः ॥ १,२.१९ ॥ _____ काशिकावृत्तिः१,२.१९: न सेटिति वर्तते । शीङ्स्विदि मिदि क्ष्विदि धृषित्येतेभ्यः प्रो निष्ठाप्रत्ययः सेण्न किद्भवति । शयितह्, शयित्वान् । प्रस्वेदितः, प्रस्वेदितवान् । प्रमेदितः, प्रमेदितवान् । प्रक्ष्वेदितह्, प्रक्ष्वेदितवान् । प्रधर्षितः प्रधर्षितवान् । सेटित्येव स्विन्नः, स्विन्नवान् । स्विदादीनमादितश्च (*७,२.१६) इति निष्ठायामिट्प्रतिषिध्यते । विभाषा भावादिकर्मणोः (*७,२.१७) इति पक्षेऽभ्यनुज्ञायते स विषयः कित्त्वप्रतिषेधस्य ॥ ____________________________________________________________________ मृषस्तितिक्षायाम् ॥ १,२.२० ॥ _____ काशिकावृत्तिः१,२.२०: मृषेर्धातोः तितिक्षायामर्थे निष्ठा सेण्न किद्भवति । तितिक्षा क्षमा । मर्षितः, मृषितवान् ॥ तितिक्षायामिति किम् ? अपमृषितं वाक्यमाह ॥ ____________________________________________________________________ उदुपधाद्भावादिकर्मणोरन्यतरस्याम् ॥ १,२.२१ ॥ _____ काशिकावृत्तिः१,२.२१: निष्ठा सेण्न कितिति वर्तते । उदुपधाद्धातोः परो भावे आदिकर्मणि च वर्तमानो निष्ठाप्रत्ययः सेडन्यतरस्यां न किद्भवति । द्युतितत्मनेन, द्योतितमनेन । प्रद्युतितः, प्रद्योतितः मुदितमनेन, मोदितमनेन । प्रमुदितः, प्रमोदितः । उदुपधातिति किम् ? लिखितमनेन । भावादिकर्मणोः इति किम्? रुचितं कार्षापणं ददाति । सेटित्येव । प्रभुक्त ओदनः । व्यवस्थितविभाषा चेयम् । तेन शब्विकरणानामेव भवति । गुध परिवेष्टने, गुधितमित्यत्र न भवति ॥ ____________________________________________________________________ पूङः क्त्वा च ॥ १,२.२२ ॥ _____ काशिकावृत्तिः१,२.२२: अन्यतरस्यामिति न स्वर्यते । उतरसूत्रे पुनर्वा वचनात् । न सेटिति वर्तते । पूडश्च इट्विहितः किल्शः क्त्वानिष्ठयोः (*७,२.५०), पूङश्च (*७,२.५१) इति । पूडः परो निष्ठाप्रत्ययः इत्वा च सेण्न किद्भवति । पवितः, पवितवान् । क्त्वाप्रत्ययसय न क्त्वा सेट्(*१,२.१८) इति सेद्ध एव प्रतिषेधः । तस्य ग्रहणमुत्तरार्थम् । तथा चोक्तं नित्यमकित्त्वमिडाद्योः क्त्वानिष्ठयोः क्त्वाग्रहणमुत्तरार्थमिति ॥ ____________________________________________________________________ [॰३७] नोपधात्थफान्ताद्वा ॥ १,२.२३ ॥ _____ काशिकावृत्तिः१,२.२३: निष्ठा इति निवृत्तम् । निकारोपधाद्धातोः थकारान्तात्फकरान्ताच्च परः क्त्वा प्रत्ययः सेड्व न किद्भवति । ग्रथित्वा, ग्रन्थित्व । श्रथित्वा, श्रन्थित्वा । गुफित्वा, गुम्फित्वा । नोपधातिति किम् ? रेफित्वा । गोफित्वा । थफान्तातिति किम् ? स्रंसित्व । ध्वंसित्वा ॥ ____________________________________________________________________ वञ्चिलुञ्च्यृतश्च ॥ १,२.२४ ॥ _____ काशिकावृत्तिः१,२.२४: वञ्चि लुञ्चि ऋतित्येतेभ्यः परः क्त्वा प्रत्ययः सेड्वा न किद्भ्वति । वचित्वा, वञ्चित्व । लुचित्वा, । उञ्चित्वा । ऋतित्व, अर्तित्वा । ऋतेरीयङ्(*३,१.२९) आर्धधातुके विकल्पितः (*३,१.३१) । स यत्र पक्षे न अस्ति तत्रेदमुदाहरणम् । सेटित्येव । वक्त्वा ॥ ____________________________________________________________________ तृषिमृषिकृशेः काश्यपस्य ॥ १,२.२५ ॥ _____ काशिकावृत्तिः१,२.२५: न क्त्वा सेट्(*१,२.१८) इति प्रतिषेधे प्रापे कित्त्वं विकल्प्यते । तृषि मृषि कृशि इत्येतेभ्यः परः क्र्वा प्रत्ययः सेट्काश्यपस्य आचार्यस्य मते वा न किड्भवति । तृषित्वा, त्र्षित्वा । मृषित्व, म्र्षित्व । कृशित्व, कर्शित्वा । कश्यपग्रहणं पूजार्थम् । वा इत्येव हि वर्तते ॥ ____________________________________________________________________ रलो व्युपधद्धलादेः संश्च ॥ १,२.२६ ॥ _____ काशिकावृत्तिः१,२.२६: वा इति वर्तते सेटिति च । उश्च इश्च वी । वी उपधेयस्य स व्यौपधः । उकारोपधादिकारोपधच्च धातो रलन्ताद्धलादेः परः संश्च क्त्वा च सेटौ व कितौ भवतः । द्युतित्वा, द्योतित्वा । दिद्युतिषते, दिद्योतिषते । लिखित्वा, लेखित्वा । लिलिखिषति, लिलेखिषति । रलः इति किम् ? देवित्वा, दिदेविषति । व्युपधातिति किम् ? वर्तित्वा, विवर्तिषते । हलादेः इति किम् ? एषित्व, एषिषिष्ति । सेटित्येव । भुक्त्वा, बुभुक्षते ॥ ____________________________________________________________________ ऊकालोऽज्झ्रस्वदीर्घप्लुतः ॥ १,२.२७ ॥ _____ काशिकावृत्तिः१,२.२७: ऊ इति त्रयाणामयं मात्रिकद्विमात्रिकत्रिमात्रिकाणां प्रश्लिष्टनिर्देशः । ह्रस्वदीर्घप्लुतः इति द्वन्द्वेकवद्भावे पुंल्लिङ्गनिर्देशः । उ ऊ ऊ३ इत्येवं कालो अज्यथाक्रमं ह्रस्वदीर्घप्लुतः इत्येवं सञ्ज्ञो भवति । उकालो ह्रस्वः दधि । मधु । ऊकालो दीर्घः कुमारी । गौरी । ऊ३कालः प्लुतः देवदत्त३ अत्र न्वसि । कालग्रहणं परिमाणार्थम् । दीर्घप्लुतयोः ह्रस्वसञ्ज्ञा मा भूत् । आलूय, प्रलूय, ह्रस्वस्य पिति कृति तुक्(*६,१.७१) इति तुङ्न भवति । [॰३८] अज्ग्रहणं संयोगाच्समुदायनिवृत्त्यर्थम् । प्रतक्ष्य, प्ररक्ष्य, ह्रस्वाश्रयस्तुङ्मा भूत् । तितौच्छात्रम्, दीर्घात्(*६,१.७५), पदान्ताद्वा (*६,१.७६) इति विभाषा तुङ्मा भूत् । ह्रस्वदीर्घप्लुतप्रदेशाः ह्रस्वो नपुंसके प्रातिपदिकस्य (*१,२.४७) । अकृत्सर्वधातुकयोर्दीर्घः (*७,४.२५) । वाक्यस्य टेः प्लुत उदात्तः (*८,२.८२) ॥ ____________________________________________________________________ अचश्च ॥ १,२.२८ ॥ _____ काशिकावृत्तिः१,२.२८: परिभाषा इयं स्थानिनियमार्था ह्रस्वदीर्घप्लुतः स्वसञ्ज्ञया शिष्यमाणा अच एव स्थाने वेदितव्याः । वक्ष्यति ह्रस्वो नपुंसके प्रातिपदिकस्य (*१,२.४७), रैअतिरि । नौअतिनु । गोउपगु । अचः इति किम् ? सुवाग्ब्रह्मणकुलम् । अकृत्सार्वधातुकयोर्दीर्घः (*७,४.२५) चीयते । श्रूयते । अचः इति किम् ? भिद्यते । धिद्य्ते । वाक्यस्य टेः प्लुत उदात्तः (*७,२.८२) देवदत्त३ । यज्ञदत्त३ । अचः इति किम् ? अग्निचि३त् । सोमसु३त् । तकारस्य मा भूत् । स्वसञ्ज्ञया वधाने नियमः । अचिति वर्तते । इह मा भूत् । द्यौः पन्थाः । सः द्यौभ्याम् । द्युभिः । अत्र नियमो न अस्ति ॥ ____________________________________________________________________ उच्चैरुदात्तः ॥ १,२.२९ ॥ _____ काशिकावृत्तिः१,२.२९: अचिति वर्तते । उदात्तादिशब्दाः स्वरे वर्णधर्मे लोकवेदयोः प्रसिद्धा एव । ते इह तद्गुणेऽचि परिभाष्यन्ते । उच्चैरुपलभ्यमानो योऽच्स उदात्तसञ्ज्ञो भवति । उच्चैः इति च श्रुतिप्रकर्षो न गृह्यते, उच्चैर्भाषते, उचैः पठति इति । किं तर्हि ? स्थानकृतमुच्चत्वं सञ्ज्ञिनो विशेषणम् । ताल्वादिषु हि भागवत्सु स्थानेषु वर्णा निष्पद्यन्ते । तत्र यः समाने स्थाने ऊर्ध्वभगनिष्पन्नोऽच्स उदात्तसञ्ज्ञो भवति । यस्मिन्नुचार्यमाणे गात्राणामायामो निग्रहो भवति, रूक्षता अस्निग्धता स्वरस्य, संवृतता क्ण्ठविवरस्य । ये । ते । के । उदात्तप्रदेशाःाद्युदात्तश्च (*३,१.३) इत्येवमादयः ॥ ____________________________________________________________________ नीचैरनुदात्तः ॥ १,२.३० ॥ _____ काशिकावृत्तिः१,२.३०: अचिति वर्तते । नीचैरुपलभ्यमानो योऽच्सोऽनुदात्तसञ्ज्ञो भवति । समाने स्थाने नीचभागे निष्पन्नोऽचनुदात्तः । यस्मिन्नुच्चार्यमाणे गात्राणामन्ववसर्गो मार्दवं भवति, स्वरस्य मृदुता स्निग्धता, कण्ठविवरस्य उरुता महत्ता । त्व सम सिम इत्यनुच्चानि । नमस्ते रुद्र नीलकण्ठ सहस्राक्ष । अनुदात्तप्रदेशाः अनुदात्तौ सुप्पितौ (*३,१.४) इत्येवमाद्यः ॥ ____________________________________________________________________ [॰३९] समाहारः स्वरितः ॥ १,२.३१ ॥ _____ काशिकावृत्तिः१,२.३१: अचिति वर्तते । उदात्तनुदात्तस्वरसमाहारो योऽच्स स्वरितसञ्ज्ञो भवति । सामर्थ्याच्च अत्र लोकवेदयोः प्रसिद्धौ गुणावेव वर्णधर्मावुदात्तानुदात्तौ गृह्येते, नाऽचौ । तौ समाह्रियेते यस्मिन्नचि तस्य स्वरितः इत्येषा संज्ञा विधीयते । शिक्यम् । कन्या । सामन्यः । क्व । स्वरितप्रदेशाः तित्स्वरितम् (*६,१.१७५) इत्येवमादयः ॥ ____________________________________________________________________ तस्यादित उदात्तमर्धह्रस्वम् ॥ १,२.३२ ॥ _____ काशिकावृत्तिः१,२.३२: उदात्तानुदात्तस्वरसमाहारः स्वरितः इत्युक्तम् । तत्र न ज्ञायते कस्मिन्नंशे उदात्तः कस्मिन्ननुदात्तः, कियान् वा उदात्तः कियान् वा अनुदात्तः इति । तदुभयमनेनाख्यायते । तस्य स्वरितस्य आदावर्धह्रस्वमुदात्तम्, परिशिष्टमनुदात्तम् । अर्धह्रस्वमिति च अर्धमात्रोपलक्ष्यते । ह्रस्वग्रहणमतन्त्रम् । सर्वेषामेव ह्रस्वदीर्घप्लुतानां स्वरितानामेष स्वरविभागः । शिक्यमित्यत्र अर्धमात्रा आदित उदात्त, अपरार्धमात्रा अनुदात्ता, एकश्रौतिर्वा । कन्या इत्यत्र अर्धमात्रा आदित उदत्ता अध्यर्धमात्रा अनुदात्ता । माणवक३ माणवक (*८,२.१०३) इत्यत्र अर्धमात्रा आदित उदात्ता अर्धतृतीयमात्रा अनुदात्ता ॥ ____________________________________________________________________ एकश्रुति दूरात्सम्बुद्धौ ॥ १,२.३३ ॥ _____ काशिकावृत्तिः१,२.३३: त्रैस्वर्ये पदानां प्राप्ते दूरात्सम्बुद्धावैकश्रुत्यं विधीयते । एका श्रुतिर्यस्य तदिदमेकश्रुति । एकश्रुति वाक्यं भवति । दूरात्सम्बोधयति येन वाक्येन तत्सम्बोधनं सम्बुद्धिः । न एकवचनं सम्बुद्धिः । स्वराणामुदात्तादीनामविभागो भेदति रोधानमेकश्रुतिः । आगच्छ भो माणवक देवदत्त३ । दूरातिति किम् ? आगच्छ भो माणवक देवदत्त ॥ ____________________________________________________________________ यज्ञकर्मण्यजपन्यूङ्खसामसु ॥ १,२.३४ ॥ _____ काशिकावृत्तिः१,२.३४: त्रैस्वर्येण वेदे मन्त्राः पठ्यन्ते । तेषां यज्ञक्रियायामपि तथेव प्रयोगे प्राप्ते एकश्रुतिर्विधीयते जपन्यूङ्खसामानि वर्जयित्वा । यज्ञकर्मणि मन्त्राणामैकश्रुत्यं भवति । अग्निर्मूर्धा दिवः ककुत्पतिः पृथिव्या अयम् । अपां रेतंसि जिन्वतो३म् । यज्ञकर्मणि इति किम् ? सम्पाठे मा भूत् । अजपेष्विति किम् ? ममाग्ने वर्चो विहवेष्वस्तु । जपोऽनुकरणमन्त्र उपांशुप्रयोगः । अन्यूङ्खेति किम् ? न्यूङ्खा ओकाराः षोडश । तेषु केचिदुदात्ताः केचिदनुदात्ताः । [॰४०] असामसु इति किम् ? विश्वं समत्रिणं दह । सामानि वाक्यविशेषस्थगीतय उच्यन्ते । तत्रेकश्रुतिर्न भवति ॥ ____________________________________________________________________ उच्चैस्तरां वा वषट्कारः ॥ १,२.३५ ॥ _____ काशिकावृत्तिः१,२.३५: यज्ञकर्मणि इति वर्तते । यज्ञकर्मणि वषट्कारः उच्चैस्तरां वा भवति एकश्रुतिर्वा । वषट्शब्देन अत्र वौषट्शब्दो लक्षयते । वौषटित्यस्येवेदं स्वरविधानम् । यद्येवं वौषड्ग्रहणमेव कस्मान्न कृतम् ? वैचित्र्यार्थम् । विचित्र हि सूत्रस्य कृतिः पाणिनेः । सोमस्य अग्ने वीही३षट् । सोमस्य अग्ने वीही३ वौ३षट् ॥ ____________________________________________________________________ विभाषा छन्दसि ॥ १,२.३६ ॥ _____ काशिकावृत्तिः१,२.३६: छन्दसि विषये विभाषा एकश्रुतिर्भवति । पक्षान्तरे त्रैस्वर्यमेव भवति । वा इति प्रकृते विभाषाग्रहनं यज्ञकर्मणि इत्यस्य निवृत्त्यर्थम् । तेन अयं स्वाध्यायकालेऽपि पाक्षिक ऐकश्रुत्यविधिर्भवति । इषे त्वोर्जे त्वा । इषे त्वोर्जे त्वा । अग्न आयाहि वीतये । अग्न आयाहि वीत्ये । अग्निमीले पुरोहितम् । अग्निमीले पुरोहितम् । शं नो देवीरभैष्टये । शं नो देवीरभैष्टये ॥ ____________________________________________________________________ न सुब्रह्मण्यायां स्वरितस्य तु उदात्तः ॥ १,२.३७ ॥ _____ काशिकावृत्तिः१,२.३७: सुब्रह्मण्या नाम निगदस्तत्र यज्ञकर्मणि इति विभाषा छन्दसि (*१,२.३६) इति च एकश्रुतिः प्राप्ता प्रतिषिद्यते । सुब्रह्मण्यायामेकश्रुतिर्न भवति । यस्तु लक्षणप्राप्तः स्वरितस्तस्योदात्त आदेशो भवति । सुब्रह्मन्योम् । इन्द्रागच्छ, हरिव आगच्छ, मेधातिथेर्मेष वृषणश्वस्य मेने । गौरावस्कन्दिन्नहल्यायै जार कौशिकब्राह्मण गौतमब्रुवाण श्वः सुत्यामागच्छ मघवन् । अत्र सुब्रह्मण्योमित्योकारस्तित्स्वरेण स्वरितस्तस्योदात्तो विधीयते । इन्द्र आगच्छ इत्यामन्त्रितमाद्युदत्तम् । द्वितीयो वर्णोऽनुदात्तः । उदात्तादनुदातस्य स्वरितः इति स्वरितः प्रसक्तस्तस्य अनेनोदात्तः त्रियते । तदेवमिन्द्र आगच्छ इति चत्वार उदात्ताः । पश्चिम एकोऽनुदात्तः । हरिव आगच्छ इत्यनयैव प्रक्रियया चत्वार उदात्ताः द्वावनुदात्तौ । मेधातिथेः इति षष्ट्यन्तं परमामन्त्रितमनुप्रविशति सुबामन्त्रिते पराङ्गवत्स्वरे (*२,१.२) इति । ततः सकलस्या मन्त्रिताद्युदात्तत्वे इऋते द्वितीयमक्षरमनुदात्तं, तस्य उदात्तादनुदात्तस्य स्वरितः (*८,४.६६) इति स्वरितत्वे प्राप्ते इदमुदात्तत्वं विधीयते । तेन द्वावप्युदात्तौ भवतः । [॰४१] शेषमनुदात्तम् । वृषणश्वस्य मेने इति समानं पूर्वेण । गौरावस्कन्दिनिति तथेव द्वे आद्ये अक्षरे उदात्ते, शेषमनुदात्तम् । अहल्यायै जार इति सुबन्तस्य अमन्त्रितानुप्रवेशात्तद्वदेव स्वरः । द्वावुदात्तौ शेषमनुदात्तम् । कौशिकब्रह्मण इति समस्तमामन्त्रितमाद्युदात्तं तत्र पूर्ववद्द्वावुदात्तौ शेषमनुदात्तम् । एवं गौतमब्रुवाण इति द्वावुदात्तौ शेषमनुदात्ताम् । श्वः सुत्यामागच्छ मघवनिति श्वःशब्द उदात्तः सुत्यामित्यन्तोदात्तः । सञ्ज्ञायां समजनिषदनिपतमनविदषुञ्शीङ्भृञिणः (*३,३.९९) इति क्यपो विधाने उदात्तः इति वर्तते । अगच्छ इति द्वोदात्तौ । अन्त्योऽनुदत्तः । मघवनिति पदात्परमामन्त्रितं निहन्यते ॥ ____________________________________________________________________ देवब्रह्मणोरनुदात्तः ॥ १,२.३८ ॥ _____ काशिकावृत्तिः१,२.३८: सुब्रह्मण्यायामेव देवा ब्रह्माणः इति पठ्यते, तत्र पूर्वेण स्वरितस्य+उदात्ते प्राअप्तेऽनेनानुदात्तो विधीयते । देवब्रह्मणोः स्वरितस्य अनुदात्त आदेशो भवति । देवा ब्रह्माण आगच्छत । द्वयोरपि पदयोरामन्त्रिताद्युदात्तत्वे शेषनिघाते च+उदात्तादनुदात्तस्य स्वरितः कृतस्तस्यानुदात्तो भवति ॥ ____________________________________________________________________ स्वरितात्संहितायामनुदात्तानाम् ॥ १,२.३९ ॥ _____ काशिकावृत्तिः१,२.३९: एकश्रुतिः इति वर्तते । संहितायं विशये स्वरितात्परेषामनुदात्तानामेकश्रुतिर्भवति । इमं मे गङ्गे यमुने सरस्वति शुतुद्रि । माणवक जटिलकाध्यापक क्व गमिष्यसि । इममित्यन्तोदात्तं, मे इति अनुदात्तं विधिकाल एव निघातविधानात् । तत्पुनः उदात्तादनुदातस्य स्वरितः (*८,४.६६) इति स्वरितं सम्पद्यते । तस्मात्स्वरितात्परेषामनुदात्तानां गङ्गेप्रभृतीनामेकश्रुतिर्भवति । सर्व एते आमन्त्रितनिघातेन अनुदात्ताः । माणवक जटिलक इति प्रथममामन्त्रितमाद्युदात्तं, तस्य द्वितीयमक्षरं स्वरितं, ततः परेषामनुदात्तानामेकश्रुतिर्भवति । संहिताग्रहणं किम् ? अवग्रहे मा भूत् । इमं मे गङ्गे यमुने सर्स्वति ॥ ____________________________________________________________________ उदात्तस्वरितपरस्य सन्नतरः ॥ १,२.४० ॥ _____ काशिकावृत्तिः१,२.४०: अनुदात्तग्रहणमनुवर्तते । उदात्तः परो यस्मात्स उदात्तपरः स्वरितः परो यस्मात्स स्वरितपरः । उदात्तपरस्य स्वरितपरस्य च अनुदात्तस्य सन्नतर आदेशो भवति । अनुदात्ततरः इत्यर्थः । देवा मरुतः पृश्निमातरोऽपः । मातरः इत्यनुदात्तः । अपः इत्यन्तोदात्तः ऊडिदंपदाद्यप्पुम्रैद्युभ्यः (*६,१.१७१) इति । तत्र अनुदात्तयोरेकादेश ओकारोऽनुदात्तः तस्योदात्ते परभूते सन्नतर आदेशो भवति । इमं मे गङ्गे यमुने सरस्वति शुतुद्रि । इकारोऽनुदात्तः । शुतुद्रि इत्येतदामन्त्रितं पादादौ तस्मान्न निहन्यते, अनुदात्तं सर्वमपादादौ (*८,१.१८) इति । [॰४२] तस्य प्रथममक्षरमुदात्तं तस्मिन् परभूते पूर्वस्य सरस्वति इति इकारस्य सन्नतर आदेशो भवति । माणवक जटिलकाद्यापक क्व गमिष्यसि । क्व इति स्वरितस्तस्मिन् परभूते क इति अनुदत्तस्तस्य सन्नतर आदेशो भवति ॥ ____________________________________________________________________ अपृक्त एकाल्प्रत्ययः ॥ १,२.४१ ॥ _____ काशिकावृत्तिः१,२.४१: अपृक्तः इति इयं सञ्ज्ञा भवति एकाल्यः प्रत्ययस्तस्य । असहायवाची एकशब्दः । स्प्शोऽनुदके क्विन् (*३,२.५८) धृतस्पृक् । भजो ण्विः (*३,२.६२) अर्धभक् । पादभाक् । एकालिति किम् ? दर्विः । जागृविः । प्रत्यय इति किम् ? सुराः । अपृक्तप्रदेशाः वेरपृक्तस्य (*६,१.६७) इत्येवमाद्यः ॥ ____________________________________________________________________ तत्पुरुषः समानाधिकरणः कर्मधारयः ॥ १,२.४२ ॥ _____ काशिकावृत्तिः१,२.४२: तत्पुरुषः इति समासविशेषस्य सञ्ज्ञां वक्ष्यति । स तत्पुरुषः समानाधिकरणपदः कर्मधारयसञ्ज्ञो भवति । अधिकरणशब्दोऽभिधेयवाचि । समानाधिकरणः समानाभिधेयः । परमराज्यम् । उत्तमराज्यम् । अकर्मधारये राज्यम् (*६,२.१३०) इत्युत्तरपदाद्युदात्तं न भवति । पाचकवृन्दारिका । तत्पुरुषः इति किम् ? पाचिकाभार्यः । समानाधिकरणः इति किम् ? ब्राह्मणराज्यम् । कर्मधारयप्रदेशाः कर्मधारयेऽनिष्ठा (*६,२.४६) इत्येवमादयः ॥ ____________________________________________________________________ प्रथमानिर्दिष्टं समास उपसर्जनम् ॥ १,२.४३ ॥ _____ काशिकावृत्तिः१,२.४३: प्रथमया विभाक्त्या यन्निर्दिश्यते समासशास्त्रे तदुपसर्जनसञ्ज्ञं भवति । समासे इति समासविधायि शास्त्रं गृह्यते । वक्ष्यति द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः (*२,१.२४) इति । द्विदीयासमासे द्वितीया इत्येतत्प्रथमानिर्दिष्टं, तृतीयासमासे तृतीया इति, चतुर्थीसमासे चतुर्थी इति, पञ्चमीसमासे पञ्चमी इति, षष्ठीसमासे षष्ठी इति, सप्तमीसमासे सप्तमी इति । कष्टश्रितः । शङ्कुलाखण्डः । यूपदारु । वृकभयम् । राजपुरुषः । अक्षशौण्डः । उपसर्जनप्रदेशाः उपसर्जनं पूर्वम् (*२,२.३०) इत्येवमादयः ॥ ____________________________________________________________________ एकविभाक्ति च अपूर्वनिपाते ॥ १,२.४४ ॥ _____ काशिकावृत्तिः१,२.४४: एक विभाक्तिर्यस्य तदिदमेकविभाक्ति । समासे विधीयमाने यन्नियतविभक्तिकं, द्वितीये सम्बन्धिनि बहुभिर्विभक्तिभिर्युज्यमानेऽप्येकयैव विभक्त्या युज्यते तदुपसर्जनसञ्ज्ञं भवति अपूर्वनिपाते, पूर्वनिपतं पूर्वनिपाताख्यमुपसर्जनकार्यं वर्जयित्वा । [॰४३] निरादयः क्रान्ताअद्यर्थे पञ्चम्या । पूर्वपदे नानाविभक्तिकेऽप्युत्तरपदं पञ्च्म्यन्तमेव भवति । निष्क्रान्तः कौशाम्ब्या निष्कौशाम्बिः । निष्त्रान्तं कौशाम्ब्या निष्कौशाम्बिम् । निष्क्रान्तेन कौशाम्ब्या निष्कौशाम्बिना । निष्क्रान्ताय कौशाम्ब्या निष्कौशाम्बये । निष्क्रान्तात्कौशाम्ब्या निष्कौशाम्बेः । निष्क्रान्तस्य कौशाम्ब्या निष्कौशाम्बेः । निष्क्रान्ते कौशाम्ब्या निष्कौशाम्बौ । एवं निर्वाराणसिः । एकविभक्ति इति किम् ? राजकुमारी । अपूर्वनिपाते इति किम् ? न हि भवति कौशाम्बीनिः इति ॥ ____________________________________________________________________ अर्थवदधातुरप्रत्ययः प्रातिपदिकम् ॥ १,२.४५ ॥ _____ काशिकावृत्तिः१,२.४५: अभिधेयवचनोऽर्थशब्दः । अर्थवच्छब्दरूपं प्रातिपदिकसञ्ज्ञं भवति धातुप्रत्ययौ वर्जयित्वा । डित्थः । कपित्थः । कुण्डम् । पीठम् । अर्थवतिति किम् ? वनम्, धनमिति न अन्तस्य अवधेर्मा भूत् । नलोपो हि स्यात् । अधातुः इति किम् ? हन्तेर्लङ् । अहन् । अलोपः स्यत् । अप्रत्ययः इति किम् ? काण्डे । कुड्ये । ह्रस्वो नपुंसके प्रातिपदिकस्य (*१,२.४७) इति ह्रस्वः स्यात् । अनर्थकस्य अपि निपातस्य प्रातिपदिकसञ्ज्ञा इष्यते । अध्यागच्छति । प्रलम्बते । प्रातिपदिकप्रदेशाः ह्रस्वो नपुंसके प्रातिपदिकस्य (*१,२.४७) इत्येवमाद्यः ॥ ____________________________________________________________________ कृत्तद्धितसमासाश्च ॥ १,२.४६ ॥ _____ काशिकावृत्तिः१,२.४६: कृतस्तद्धिताः समासाश्च प्रातिपदिकसञ्ज्ञा भवन्ति । अप्रत्ययः इति पूर्वत्र पर्युदासत्कृदन्तस्य तद्धितान्तस्य च अनेन प्रातिपदिकसञ्ज्ञा विधीयते । अर्थवत्समुदयानां समासग्रहणं नियमार्थम् । कृत् कारकः । हारकः । कर्ता । हर्त । तद्धितः औपगवः । कापटवः । समासः राजपुरुषः । ब्राह्मणकम्बलः । समासग्रहणस्य नियमार्थत्वाद्वाक्यस्य अर्थवतः सञ्ज्ञा न भवति ॥ ____________________________________________________________________ ह्रस्वो नपुंसके प्रातिपदिकस्य ॥ १,२.४७ ॥ _____ काशिकावृत्तिः१,२.४७: नपुंसकलिङ्गेऽर्थे यत्प्रातिपदिकं वर्तते तस्य ह्रस्वो भवति आदेशः अलोऽन्यस्य अचः । अतिरि कुलम् । अतिनु कुलम् । नपुंसके इति किम् ? ग्रामणीः । सेनानीः । प्रातिपदिकस्य इति किम् ? काण्डे तिष्ठतः । कुड्ये तिष्ठतः । प्रातिपदिकग्रहणसामर्थ्यतेकादेशः पूर्वस्य अन्तवन्न भवति ॥ ____________________________________________________________________ गोस्त्रियोरुपसर्जनस्य ॥ १,२.४८ ॥ _____ काशिकावृत्तिः१,२.४८: प्रातिपदिकस्य इति वर्तते । गो इति स्वरूपग्रहणं स्त्री इति प्रत्ययग्रहणं स्वरितत्वात् । उपसर्जनग्रहणं तयोर्विशेषणम् । गोरुपसर्जनस्य स्त्रीप्रत्ययान्तस्य+उपसर्जनस्य इति । ताभ्यां प्रातिपदिकस्य तदन्तविधिः । उपसर्जनगोशब्दान्तस्य उपसर्जनस्त्रीप्रत्ययान्तस्य च प्रातिपदिकस्य ह्रस्वो भवति । [॰४४] चित्रगुः । शबलगुः । स्त्रियाः निष्कौशाम्बिः । निर्वाराणसिः । अतिखट्वः । अतिमालः । उपसर्जनस्य इति किम् ? राजकुमारी । स्वरितत्वं किम् ? अतितन्त्रीः । अतिलक्ष्मीः । अतिश्रीः ॥ ईयसो बहुव्रीहेः प्रतिषेधो वक्तवयः । बहुश्रेयसी । विद्यमानश्रेयसेई ॥ ____________________________________________________________________ लुक्तद्धितलुकि ॥ १,२.४९ ॥ _____ काशिकावृत्तिः१,२.४९: स्त्रीग्रहणमनुवर्तते उपसर्जनस्य+इति च । पूर्वेण ह्रस्वत्वे प्राप्ते लुग्विधीयते । तद्धितलुकि सति स्त्रीप्रत्ययस्य उपस्र्जनस्य लुग्भवति । पञ्चेन्द्राण्यो देवता अस्य पञ्चेन्द्रः । दशेन्द्रः । पञ्चभिः शष्कुलीभिः क्रीतः पञ्चशष्कुलः । आमलक्याः फलमामलकम् । बदरम् । कुवलम् । तद्धितग्रहणं किम् ? गार्ग्याः कुलं गार्गीकुलम् । लुकि इति किम् ? गार्गीत्वम् । उपसर्जनस्य इत्येव । अवन्ती । कुन्ती । कुरूः ॥ ____________________________________________________________________ इद्गोण्याः ॥ १,२.५० ॥ _____ काशिकावृत्तिः१,२.५०: पूर्वेण लुकि प्राप्ते इकारो विधीयते । गोण्यास्तद्धितलुकि सति इकारादेशो भवति । पञ्चभिर्गोणीभिः क्रीतः पटः पञ्चगोणिः । दशगोणिः । इतिति योगविभागः । पण्चभिः सूचीभिः क्रीतः पञ्चसूचिः । दशसूचिः । स च एवं विषय एव ॥ ____________________________________________________________________ लुपि युक्तवद्व्यक्तिवचने ॥ १,२.५१ ॥ _____ काशिकावृत्तिः१,२.५१: लुपि इति लुप्सन्ञ्ज्ञया लुप्तस्य प्रत्ययस्य अर्थ उच्यते । तत्र लुपि युक्तवद्व्यक्तिवचने भवतः । युक्तवतिति निष्ठाप्रत्ययेन क्तवतुना प्रकृत्यर्थ उच्यते । स हि प्रत्ययार्थमात्मना युनक्ति । तस्य युक्तवतो व्यक्तिवचने लुबर्थे विधीयेते । अथ वा युक्तः प्रकृत्यर्थः प्रत्ययार्थेन सम्बद्धः, तस्मिन्निव व्यक्तिवचने लुबर्थे भवतः । सप्तम्यर्थे वतिः । व्यक्तिवचने इति च लिङ्गसङ्ख्ययोः पूर्वाचर्यनिर्देशः, तदीयमेव+इदं सूत्रम् । तथा च अस्य प्रत्याख्यानं भविष्यते, तदशिष्यं सञ्ज्ञाप्रमाणत्वात्(*१,२.५३) इति । व्यक्तिः स्त्रीपुम्नपुंसकानि । वचनम् एकत्वद्वित्वबहुत्वानि । पञ्चलाः क्षत्रियाः पुंलिङ्गा बहुवचनविशयाः । तेषां निवासो जनपदः । यथा तेषु क्षत्रियेषु व्यक्तिवचने तद्वज्जनपदे भवतः । पञ्चालाः । कुरवः । मगधाः । मत्स्याः । अङ्गाः । वङ्गाः । सुग्माः । पुण्ड्राः । लुपि इति किम् ? लुकि मा भूत् । [॰४५] लवणः सूपः । लवणा यवागूः । लवणं शाकम् । व्यक्तिवचने इति किम् ? शिरीषाणामदूरभवो ग्रामः शिरीषाः, तस्य वनं शिरीषवनम् । विभाषऔषधिवनस्पतिभ्यः (*८,४.६) इति णत्वं न भवति । हरितक्यादिषु व्यक्तिः । हरीतक्याः फलानि हरीतक्यः फलानि । खलतिकादिषु वचनम् । खलतिकस्य पर्वतस्य अदूरभवानि वनानि खलतिकं वनानि ॥ ____________________________________________________________________ विशेषणानां च अजातेः ॥ १,२.५२ ॥ _____ काशिकावृत्तिः१,२.५२: लुपि इति वर्तते । लुबर्थस्य यानि विशेषणानि तेषामपि च युक्तवद्व्यक्तिवचने भवतः जातिं वर्जयित्वा । पञ्चालाः रमणीयाः, बह्वन्नाः, बहुक्षीरघृताः, बहुमाल्यफलाः । गोदौ रमणीयौ, बह्वन्नौ, बहुक्षीरघृतौ, बहुमाल्यफलौ । अजातेः इति किम् ? पञ्चालाः जनपदः । गोदौ ग्रामः । जात्यर्थस्य चायं युक्तवद्भावप्रतिषेधः । तेन जातिद्वारेण यानि विशेषणानि तेषामपि युक्तवद्भावो न भवति । पञ्चालाः जनपदो रमणीयो, बह्वन्नः । गोदौ ग्रामो रमणीयो, बह्वन्नः इति । मनुष्यलुपि प्रतिषेधो वक्तव्यः । चञ्चा अभिरूपः । वर्ध्रिका दर्शनीयम् ॥ ____________________________________________________________________ तदशिष्यं सञ्ज्ञाप्रमाणत्वात् ॥ १,२.५३ ॥ _____ काशिकावृत्तिः१,२.५३: ततिति प्रकृतं युक्तवद्भावलक्षणं निर्दिश्यते । तदशिष्यं न वक्तव्यम् । कस्मात्? सञ्ज्ञाप्रमाणत्वात् । सञ्ज्ञाशब्दा हि नानालिङ्गसङ्ख्याः प्रमाणम् । पञ्चालाः, वरणा इति च, न+एते योगशब्दाः । किं तर्हि ? जनपदादीनां सञ्ज्ञा एताः । तत्र लिङ्गं वचनं च स्वभावसंसिद्धमेव न यत्नप्रतिपाद्यम्, यथा आपः, दाराः, गृहाः, सिकताः, वर्षाः इति ॥ ____________________________________________________________________ लुब्योगाप्रख्यानात् ॥ १,२.५४ ॥ _____ काशिकावृत्तिः१,२.५४: लुबप्यशिष्यः । योऽयं जनपदे लुप्(*४,२.८१), वरणादिभ्यश्च (*४,२.८२) इति लुबुच्यते, [॰४६] अयं न वक्तव्यः । किं कारणम् ? योगाप्रख्यानात् । न हि पञ्चाल वरणाः इति योगः सम्बधः प्रख्यायते । नैतदुपलभामहे वृक्षयोगान्नगरे वरणाः इति । किं तर्हि ? सञ्ज्ञा एताः । तस्मादत्र तस्य निवासः (*४,२ ६९), अदूरभवश्च (*४,२.७०) इति तद्धितो न+एव+उत्पद्यते, किं लुपो विधानेन ॥ ____________________________________________________________________ योगप्रमाणे च तदभावेऽदर्शनं स्यात् ॥ १,२.५५ ॥ _____ काशिकावृत्तिः१,२.५५: पञ्चालादयः सञ्ज्ञाशब्दाः, न योगनिमित्ताः इत्युक्तम् । तच्चावश्यमेव अभ्युपगन्तव्यम् । योगप्रमाणे हि तदभावेऽदर्शनं स्यात् । यदि पञ्चालादिशब्दो योगस्य प्रमाणं योगस्य वाचकः स्यात्ततस्तदभावेऽदर्शनमप्रयोगः स्यात् । दृश्यते च सम्प्रति वनैव क्षत्रियसम्बन्धेन जनपदेषु पञ्चालादिशब्दाः, ततोऽवसीयते नायं योगनिमित्तकः । किं तर्हि ? रूढिरूपेणैव तत्र प्रवृत्तः इति ॥ ____________________________________________________________________ प्रधानप्रत्ययार्थवचनमर्थस्य अन्यप्रमाणात्वात् ॥ १,२.५६ ॥ _____ काशिकावृत्तिः१,२.५६: अशिष्यमिति वर्तते । प्रधानं समासे किंचित्पदं, प्रत्ययस्तव्यदादिः । ताभ्यामर्थवचनमर्थाभिधानमनेन प्रकारेण भवति इति पूर्वाचार्यैः परिभाषितम् । प्रधानोपसर्जने च प्रधानार्थं सह ब्रूतः, प्रक्र्तिप्रत्ययौ सहार्थं ब्रूतः इति । तत्पाणिनिराचर्यः प्रत्याचष्टे, अशिष्यमेततर्थस्य अन्यप्रमाणत्वातिति । अन्यः इति शास्त्रापेक्षया लोको व्यपदिश्यते । शब्दैरर्थाभिधानं स्वाभाविकं न पारिभषाकमशक्यत्वात् । लोकत एव अर्थावगतेः । यैरपि व्याकरणं न श्रुतं तेऽपि राजपुरुषमानय इत्युक्ते राजविशिष्टं पुरुषमानयन्ति न राजनं न अपि पुरुषमात्रम् । औपगवमानय इत्युक्ते उपगुविशिष्टमपत्यमानयन्ति, न+उपगुं न अप्यपत्यमात्रं, न+उभौ । यश्च लोकतोऽर्थः सिद्धः किं तत्र यत्नेन ॥ ____________________________________________________________________ कालोपसर्जने च तुल्यम् ॥ १,२.५७ ॥ _____ काशिकावृत्तिः१,२.५७: अशिष्यमिति वर्तते । कालोपसर्जने च अशिष्ये । कस्मात्? अर्थस्य अन्यप्रमाणत्वात् । तुल्यशब्दो हेत्वनुकर्षणार्थः । अशिष्यविशेषणं चेतत् । कालोपसर्जने च तुल्यमशिष्ये भवतः । इह अन्ये वैयाकरणाः कालोपसर्जनयोः परिभाषां कुर्वन्ति । आन्याय्यादुत्थानादान्याय्याच्च संवेशनात्, एषोऽद्यतनः कालः । अपरे पुनराहुः । अहरुभयतोऽर्धरात्रम् , एषोऽद्यतनः कालः इति । तथा+उपसर्जनपरिभाषां कुर्वन्ति अप्रधानमुपसर्जनमिति । तत्पाणिनिराचार्यः प्रत्याचष्टे लोकतोऽर्थवगतेः । यैरपि व्याकरणं न श्रुतं तेऽप्याहुरिदमस्माभिरद्य कर्तव्यमिदं श्वः कर्तव्यमिदं हयः कृतमिति । नेवं व्युत्पाद्यन्ते । तथोपसर्जनम्, वयमत्र गृहे ग्रामे वा उपसर्जनमप्रधानमिति गम्यते । य्श्च लोकतोऽर्थः सिद्धः किं तत्र यत्नेन । यद्येवं पूर्वसूत्र एव कालोपसर्जनग्रहणं कस्मान्न क्रियते ? किमर्थो योगविभागः ? प्रदर्शनार्थः । अन्यदप्येवं जातीयकमशिष्यमिति । तथा च पूर्वाचार्याः परिभषन्ते मत्वर्थे बहुव्रीहिः, पूर्वपदार्थप्रधानोऽव्ययीभावः, उत्तरपदार्थप्रधानस्तत्पुरुषह्, उभयपदार्थप्रधानो द्वन्द्वः इत्येवमादि, तदशिष्यमिति ॥ ____________________________________________________________________ [॰४७] जात्याख्यायमेकस्मिन् बहुवचनमन्यतरस्याम् ॥ १,२.५८ ॥ _____ काशिकावृत्तिः१,२.५८: अशिष्यमिति निवृतम् । जातिर्नाम अयमेकोऽर्थः । तदभिधाने एकवचनमेव प्राप्तमत इदमुद्यते । जातेराख्या जात्याख्या । जात्याख्यायामेकस्मिन्नर्थे वहुवचनमन्यतरस्यां भवति । जात्यर्थो बहुवद्भवति इति यावत् । तेन तद्विशेषणानामजातिशब्दानामपि सम्पन्नादीनां बहुवचनमुपपद्यते । सम्पन्नो यवः, सम्पन्ना यवाः । सम्पन्नो व्रीहिः, सम्पन्ना व्रीहयः । पूर्ववया ब्राह्मणः प्रत्युत्थेयः, पूर्ववयसो ब्राह्मणाः प्रत्युत्थेयाः । जातिग्रहणं किम् ? देवदत्तः । यज्ञदत्तः । आख्यायामिति किम् ? काश्यपप्रतिकृतिः काश्यपः । भवत्ययं जातिशब्दो न त्वनेन जातिराख्यायते । किं तर्हि ? प्रतिकृतिः । एकस्मिनिति किम् ? व्रीहियवौ । सङ्ख्याप्रयोगे प्रतिषेधो वक्तव्यः । एको ब्रीहिः सम्पन्नः सुभिक्षं करोति ॥ ____________________________________________________________________ अस्मदो द्वयोश्च ॥ १,२.५९ ॥ _____ काशिकावृत्तिः१,२.५९: अस्मदो योऽर्थस्तस्य+एकत्वे द्वित्वे च बहुवचनमन्यतरस्यां भवति । अहं ब्रवीमि , वयं व्रूमः । आवां ब्रूवः, वयं व्रूमः । सविशेषणस्य प्रतिषेधो वक्तव्यः । अहं देवदत्तो ब्रवीमि । अहं गार्ग्यो व्रवीमि । अहं पटुर्ब्रवीमि । युष्मदि गुरावेकेषाम् । त्वं मे गुरुः, यूयं मे गुरवः ॥ ____________________________________________________________________ फल्गुनीप्रोष्ठपदानां च नक्षत्रे ॥ १,२.६० ॥ _____ काशिकावृत्तिः१,२.६०: चकारो द्वयोः इत्यनुकर्षणार्थः । फल्गुन्योर्द्वयोः प्रोष्ठपदयोश्च द्वयोर्नक्षत्रयोर्बहुवचनमन्यतरस्यां भवति । कदा पूर्वे फल्गुन्यौ, कदा पूर्वाः फल्गुन्यः । कदा पूर्वे प्रोष्ठपदे, कदा पूर्वाः प्रोष्ठपदाः । नक्षत्रे इति किम् ? पल्गुन्यौ मणविके ॥ ____________________________________________________________________ छन्दसि पुनर्वस्वोरेकवचनम् ॥ १,२.६१ ॥ _____ काशिकावृत्तिः१,२.६१: अन्यतरस्यामित्यनुवर्तते । द्वयोर्द्विवचने प्राप्ते पुनर्वस्वोश्छन्दसि विषये एकवचनमन्यतरस्यां भवति । पुनर्वसुर्नक्षत्रमदितिर्देवता । पुनर्वसू नक्षत्रमदितिर्देवता । नक्षत्रे इत्येव । पुनर्वसू माणवकौ । छन्दसि इति किम् ? पुनर्वसू इति ॥ ____________________________________________________________________ [॰४८] विशाखयोश्च ॥ १,२.६२ ॥ _____ काशिकावृत्तिः१,२.६२: छन्दसि इति वर्तते । द्विवचने प्राप्ते छन्दसि विषये विशाखयोरेकवचनमन्यतरस्यां भवति । विशाखं नक्षत्रमिन्द्राग्नीं देवता । विशाखे नक्षत्रमिन्द्राग्नी देवता ॥ ____________________________________________________________________ तिष्यपुनर्वस्वोर्नक्षत्रद्वन्द्वे बहुवचनस्य द्विवचनं नित्यम् ॥ १,२.६३ ॥ _____ काशिकावृत्तिः१,२.६३: छन्दसि इति निवृत्तम् । निष्यः एकः, पुनर्वसू द्वौ, तेषं द्वन्द्वो बह्वर्थः । तत्र बहुवचने प्राप्ते द्विवचनं विधीयते । निष्यपुनर्वस्वोः नक्षत्रविषये द्वन्द्वे बहुवचनप्रसङ्गो नित्यं द्विवचनं भवति । उदितौ तिष्यपुनर्वसू दृश्येते । तिष्यपुनर्वस्वोः इति किम् ? विशाखानुराधाः । नक्षत्रे इति किम् ? तिष्यश्च माणवकः, पुनर्वसू माणवकौ, तिष्यपुनर्वसवो माणवकाः । ननु च प्रकृतमेव नक्षत्रग्रहणं किमर्थं पुनरुच्यते । पर्यायाणामपि यथा स्यात् । तिष्यपुनर्वसू । पुष्यपुनर्वसू । सिद्ध्यपुनर्वसू । द्वन्द्वे इति किम् ? यस्तिष्यस्तौ पुनर्वसू येषां ते इमे तिष्यपुनर्वसवः । उन्मुग्धाः तिष्यादय एव विपर्ययेण दृश्यमाना बहुव्रीहिणोच्यन्ते । तेन नक्षत्रसमास एव अयम् । बहुवचनस्य इति किम् ? एकवचनस्य मा भूत् । निष्यपुनर्वसु इदमिति । सर्वो द्वन्द्वो विभाषा एकवद्भवति इत्यस्य+एतद एव ज्ञापकम् । नित्यग्रहणं विकल्पनिवृत्त्यर्थम् ॥ ____________________________________________________________________ ससूपाणामेकशेष एकविभक्तौ ॥ १,२.६४ ॥ _____ काशिकावृत्तिः१,२.६४: समानं रूपमेषामिति सरूपाः । सरूपाणां शब्दानमेकविभक्तौ परत एकशेषो भवति । एकः शिष्यते तरे निवर्तन्ते । वृक्षश्च वृक्षश्च वृक्षौ । वृक्षश्च वृक्षश्च व्र्क्षश्च वृक्षाः । प्रत्यर्थं शब्दनिवेशान्न+एकेन अनेकस्य अभिधानम् । तत्र अनेकार्थाभिधानेऽनेकशब्दत्वं प्राप्तं तस्मादेकशेषः । सरुपाणामिति किम् ? प्लक्षन्यग्रोधाः । रूपग्रहणं किम् ? भिन्नेऽप्यर्थे यथा स्यात् । अक्षाः । पादाः । माषाः । एकग्रहणं किम् ? द्विबह्वोः शेषो मा भूत् । शेषग्रहनं किम् ? आदेशो मा भूत् । एकविभक्तौ इति किम् ? पयः पयो जरयति । ब्राह्मणाभ्यां च कृतं ब्राह्मणाभ्यां च देहि ॥ ____________________________________________________________________ वृद्धो यूना तल्लक्षणश्चेदेव विशेषः ॥ १,२.६५ ॥ _____ काशिकावृत्तिः१,२.६५: शेषः इति वर्तते । यूना इति सहयोगे तृतीया । वृद्धो यूना सहवचने शिष्यते युवा निवर्तते । वृद्धशब्दः पूर्वाचार्यसञ्ज्ञा गोत्रस्य अपत्यमन्तर्हितं वृद्धमिति । वृद्धयूनोः सहवचने वृद्धः शिष्यते तल्लक्षणश्चेदेव विशेषः । तदिति वृद्धयूनोर्निर्देशः । लक्षणशब्दो निमित्तपर्यायः । चेच्छब्दो यद्यर्थे । एवकारोऽवधारणे । विशेषो वैरूप्यम् । वृद्धयुवनिमित्तकमेव यदि वैरूपयं भवति ततो वृद्धिः शिष्यते, युवा निवर्तते । समानायामाकृतौ वृद्धयुवप्रत्ययौ भिद्येते । गार्ग्यश्च गार्ग्याय्णश्च गार्ग्यौ । [॰४९] वत्स्यश्च वात्स्यायनश्च वात्स्यौ । वृद्धः इति किम् ? गर्गश्च गार्ग्यायणश्च गर्गगार्गायणौ । यू ना इति किम् ? गार्ग्यश्च गर्गश्च गार्ग्यगर्गौ । तल्लक्षणः इति किम् ? गार्ग्यवात्स्ययनौ । एवकारः किमर्थः । भागवित्तिश्च भागवित्तिकश्च भागवित्तिभागवित्तिकौ । कुत्सा सौवीरत्वं च भागवित्तिकस्य अपरो विशेषो विद्यते ॥ ____________________________________________________________________ स्त्री पुंवच्च ॥ १,२.६६ ॥ _____ काशिकावृत्तिः१,२.६६: शेषः इति वर्तते, वृद्धो यूना इति च सर्वं स्त्री वृद्धा यूना सहवचने शिष्यते, तल्लक्षणश्चेदेव विशेषो भवति । पुंसः इव अस्याः कार्यं भवति । स्त्र्यर्थः पुमर्थवद्भवति । गर्गी च गर्ग्यायणश्च गार्ग्यौ । वात्सी च वात्स्यायनश्च वात्स्यौ । दाक्षी च दाक्षायाणश्च दाक्षी ॥ ____________________________________________________________________ पुमान् स्त्रिया ॥ १,२.६७ ॥ _____ काशिकावृत्तिः१,२.६७: तल्लक्षणश्चेदेव विशेषः इति वर्तते । वृद्धो यून इति निवृत्तम् । स्त्रिया सहवचने पुमान् शिष्यते स्त्री निवर्तते । स्त्रीपुंसलक्षणश्चेदेव विशेषो भवति । ब्राह्मणश्च मयूरी च कुक्कुटमयूर्यौ । एवकरः किमर्थः । इन्द्रश्च इन्द्राणी च इन्द्रेन्द्राण्यौ । पुंयोगादाख्यायाम् (*४,१.४८) इत्यपरो विशेषः । पुमानिति किम् ? प्राक्च प्राचि च प्राक्प्राच्यौ । प्राकित्यवययमलिङ्गम् ॥ ____________________________________________________________________ भ्रातृपुत्रौ स्वसृदुहितृभ्याम् ॥ १,२.६८ ॥ _____ काशिकावृत्तिः१,२.६८: यथा सङ्ख्यं भ्रातृपुत्रशब्दौ शिष्येते सहवचने स्वसृदुहितृभ्यम् । स्वस्रा सहवचने भ्रातृशब्दः शिष्यते । भ्राता च स्वसा च भ्रातरौ । दुहित्रा सहवचने पुत्रशब्दः शिष्यते । पुत्रश्च दुहित च पुत्रौ ॥ ____________________________________________________________________ नपुंसकमनपुंसकेनैकवच्चास्यान्यतरस्याम् ॥ १,२.६९ ॥ _____ काशिकावृत्तिः१,२.६९: तल्लक्षणश्चेदेव विशेषः इति वर्तते । नपुंसकानपुंसकमात्रकृते विशेषेऽनपुंसकेन सहवचने नपुंसकं शिष्यते, एकवच्च अस्य कार्यं भवति अन्यतरस्याम् । शुक्लश्च कम्बलः, शुक्ला च बृहतिका, शुक्लं च वस्त्रं, तदिदं शुक्लम् । तानि इमानि शुक्लानि । अनपुंसकेन इति किम् ? शुक्लं च शुक्लं च शुक्लं च सुक्लानि । एकवच्च इति न भवति ॥ ____________________________________________________________________ पिता मात्रा ॥ १,२.७० ॥ _____ काशिकावृत्तिः१,२.७०: अन्यतरस्यामिति वर्तते, न एकवतिति । मात्रा सहवचने पितृशब्दः शिष्यतेऽन्यतरस्याम् । माता च पिता च पितरौ, मतापितरौ इति वा ॥ ____________________________________________________________________ [॰५०] श्वशुरः श्वस्रवा ॥ १,२.७१ ॥ _____ काशिकावृत्तिः१,२.७१: अन्यतरस्यामिति वर्तते । श्वस्र्वा सहवचने श्वशुरशब्दः शिष्यते अन्यतरस्याम् । श्वशुरश्च श्वश्रूश्च श्वशुरौ, श्वस्रूश्वशुरौ इति वा ॥ ____________________________________________________________________ त्यदादीनि सर्वैर्नित्यम् ॥ १,२.७२ ॥ _____ काशिकावृत्तिः१,२.७२: तय्दादीनि शब्दरूपाणि सर्वैः सहवचने नित्यं शिष्यन्ते त्यदादिभिरन्यैश्च । सर्वग्रहणं सकल्यार्थम् । नित्यग्रहनं विकल्पनिवृत्त्यर्थम् । स च देवदत्तश्च तौ । यश्च देवदत्तश्च यौ । त्यदादीनां मिथो यद्यत्परं तत्तच्छिस्यते । स च यश्च यौ । यश्च कश्च कौ ॥ ____________________________________________________________________ ग्राम्यपशुसङ्घेष्वतरुणेशु स्त्री ॥ १,२.७३ ॥ _____ काशिकावृत्तिः१,२.७३: ग्राम्याणां पशूनां सङ्घाः ग्राम्यपशुसङ्घाः । एतेषु सहविवक्षायां स्त्री शिष्यते । पुमान् स्त्रिया (*१,२.६७) इति पुंसः शेषे प्राप्ते स्त्रीशेषो विधीयते । अतरुणग्रहणं सामर्थ्यात्पशुविशेषनम् । गाव इमाः । अजा इमाः । ग्राम्यग्रहनं किम् ? रुरव इमे । पुषता इमे । पुशुषु इति किम् ? ब्राह्मणाः । क्षत्रियाः । सङ्घेषु इति किम् ? एतौ गवौ चरतः । अतरुणेसु इति किम् ? वर्सा इमे । वर्करा इमे । अनेकशफेष्विति वक्तव्यम् । इह मा भूत् । अश्वा इमे ॥ इति स्रीजयादित्यविरचितायं काशिकायां वृत्तौ प्रथमाध्यायस्य द्वितीयः पादः ॥ ____________________________________________________________________ [॰५१] भूवादयो धातवः ॥ १,३.१ ॥ _____ काशिकावृत्तिः१,३.१: भू इत्येवमादयः शब्दाः क्रियावचना धातुसञ्ज्ञा भवन्ति । भू भवति । एध एधते । स्पर्ध स्पर्धते । धातुशब्दः पूर्वाचार्यसञ्ज्ञा । ते च क्रियावचनानां सञ्ज्ञां कृतवन्तः । तदिह अपि पूर्वाचर्यसञ्ज्ञाश्रयणात्क्रियावाचिनामेव भूवादीनां धातुसञ्ज्ञा विधीयते । भूवादीनां वकारोऽयं मङ्गलार्थः प्रयुज्यते । भूवो वार्थं वदन्ति इति भ्वर्था वा वादयः स्मऋताः ॥ धातुप्रदेशाः धातोः (*३,१.९१) इत्येवमादयः ॥ ____________________________________________________________________ उपदेशेऽजनुनासिक इत् ॥ १,३.२ ॥ _____ काशिकावृत्तिः१,३.२: उपदिश्यतेऽनेन इत्युपदेशः शास्त्रवाक्यानि, सूत्रपाठः, खिलपाठश्च । तत्र योऽचनुनासिकः स इत्सञ्ज्ञो भवति । एध । स्पर्ध । प्रतिज्ञानुनासिक्याः पाणिनीयाः । उपदेशे इति किम् ? अभ्र आमपः । अचिति किम् ? अतो मनिन्क्वनिब्वनिपश्च (*३,२.७४) । अनुनासिकः इति किम् ? सर्वस्य अचो मा भूत् । इत्प्रदेशाः आदितश्च (*७,२.१६) इत्येवमादयः ॥ ____________________________________________________________________ हलन्त्यम् ॥ १,३.३ ॥ _____ काशिकावृत्तिः१,३.३: उपदेशे इति वर्त्ते । अन्ते भवमन्त्यम् । धात्वादेः समुदायस्य यदन्त्यं हल्, तदित्सञ्ज्ञं भवति । ऐउण् णकारः । ऋलृ‌्क् ककारः । एओङ् ङकरः । ऐऔच् चकारः । उपदेशे इत्येव । अग्निचित् । सोमसुत् । हस्य ल्हलिति द्वितीयमत्र हल्ग्रहणं तन्त्रेण+उपात्तं द्रष्टव्यम् । तेन प्रत्याहारपाठे हलित्यत्र लकारस्य इत्सञ्ज्ञा क्रियते । तथा च सति हलन्त्यमित्यत्र प्रत्याहारे न+इतरेतराश्रयदोषो भवति ॥ ____________________________________________________________________ न विभक्तौ तुस्माः ॥ १,३.४ ॥ _____ काशिकावृत्तिः१,३.४: पूर्वेण प्राप्तायमित्सञ्ज्ञायां विभाक्तौ वर्तमानानां तवर्गसकारमकरणां प्रतिषेध उच्यते । तवर्गः, टाङसिङसामिनात्स्याः (*७,१.१२) वृक्षात्, प्लक्षात् । सकारः, जस् ब्राह्मणाः । [॰५२] तस् पचतः । थस् पचथः । मकारः उपचत्ताम्, अपचतम् । बिभक्तौ इति किम् ? अचो यत्(*३,१.९७), ऊर्णाया युस्(*५,२.१२३), रुधादिभ्यः श्नम् (*३,१.७८) । किमोऽत्(*५,३.१२), इटोऽत्(*३,४.१०६) इत्यत्र प्रतिषेधो न भ्वति , अनित्यत्वादस्य प्रतिषेधस्य । इदमस्थमुः (*५,३.२४) इत्युकारानुबन्धनिर्देशादनित्यत्वमुपलक्ष्यते ॥ ____________________________________________________________________ आदिर्ञिटुडवः ॥ १,३.५ ॥ _____ काशिकावृत्तिः१,३.५: इतिति वर्तते । आदिशब्दः प्रतेकमभिसम्बध्यते । ञिटुडु इत्येतेषां समुदयानामादितो वर्तमानानामित्य्सञ्ज्ञा भवति । ञि, ञिमिदा मिन्नः । ञिधृषा धृष्टः । ञिक्ष्विदा क्ष्विण्णः । ञीन्धी इद्धः । टु, टुवेपृ वेपथुः । टुओश्वि श्वयथौः । डु, डुपचष् पक्त्रिमम् । डुवप् उप्त्रिमम् । डुकृञ्कृत्रिमम् । आदिः इति किम् ? प्टूयति । क्ण्डूयति । उपदेषे इत्येव ञिकारीयति ॥ ____________________________________________________________________ षः प्रत्ययसय ॥ १,३.६ ॥ _____ काशिकावृत्तिः१,३.६: षकारः प्रत्ययसय आदिः इत्सञ्ज्ञः भवति । शिल्पिनि ष्वुन् (*३,१.१४५) नर्तकी, रजकी । प्रत्ययस्य इति किम् ? षोडः, षण्डः, षडिकः । आदिः इत्येव अविमह्योष्टिषच् अविषः, महिषः ॥ ____________________________________________________________________ दुटू ॥ १,३.७ ॥ _____ काशिकावृत्तिः१,३.७: चवर्गटवर्गौ प्रत्ययस्यादी इत्सञ्जौ भवतः । गोत्रे कुञ्जादिभ्यश्च्फः (*४,१.९८) कौञ्जायनः । छस्य ईयादेशं वक्ष्यति । जस् ब्राह्मणाः झस्य अन्तादेशं वक्ष्यति । शण्डिकादिभ्यो ञ्यः (*४,३.९२) शाण्डिक्यः । तवर्गः, चरेष्टः (*३,२.१६) कुरुचरी, मद्रचरी । ठस्य इकादेशं वक्ष्यति । सप्तम्यां जनेर्डः (*३,२.९७) उपसरजः, मन्दुरजः । ढस्य एयादेशं वक्ष्यति । अन्नाण्णं (*४,४.८५) आन्नः । पृथग्योगकरणमस्य विधेरनित्यत्वज्ञापनार्थम् । [॰५३] तेन वित्तश्चुञ्चुप्चणपौ (*५,२.२६) केशचुञ्चुः, केशचणः । अवात्कुटारच्च (*५,२.३०), नते नासिकायाः सञ्ज्ञायां टिटञ्नाट्ज्भ्रटचः (*५,२.३१) अवटीतः । आदिः इत्येव । कर्मणि घटोऽठच्(*५,२.३५) कर्मठः ॥ ____________________________________________________________________ लशक्वतद्धिते ॥ १,३.८ ॥ _____ काशिकावृत्तिः१,३.८: तद्धितवर्जितस्य प्रत्ययस्यादितो वर्तमाना लकारशकारकवर्गा इत्सञ्ज्ञा भवन्ति । लकरः, ल्युट्च (*३,३.११५) चयनम्, जयनम् । शकारः, कर्तरि शप्(*३,१.६८) भवति, पचति । कवर्गः, क्तक्तवतू निष्ठा (*१,१.२६) भुक्तः, भुक्तवत् । प्रियवशो वदः खच्(*३,२.३८) प्रियंवदः, वशंवदः । ग्लाजिस्थश्च ग्स्नुः (*३,२.१३९) ग्लास्नुः, जिष्णुः, भूष्णुः । भञ्जभासमिदो घुरच्(*३,२.१६१) भुअङ्गुरम् । टाङसिङसामिनात्स्याः (*७,१.१२) वृक्षात्, वृक्शस्य । अतद्धिते इति किम् ? चूढालः । लोमशः । कर्णिका ॥ ____________________________________________________________________ तस्य लोपः ॥ १,३.९ ॥ _____ काशिकावृत्तिः१,३.९: तस्य इत्सञ्ज्ञकस्य लोपो भवति । तथा च+एव+उदाहृतम् । तस्य ग्रहणं सर्वलोपार्थम्, अलोऽन्त्यसय्(*१,१.५२) मा भूतादिर्ञिटुडवः (*१,३.५) इति ॥ ____________________________________________________________________ यथासङ्ख्यमनुदेशः समानाम् ॥ १,३.१० ॥ _____ काशिकावृत्तिः१,३.१०: सङ्ख्याशब्देन क्रमो लक्ष्यते । यथासङ्ख्यं यथाक्रममनुदेशो भवति । अनुदिश्यते इति अनुदेशः । पश्चादुच्चार्यते इत्यर्थः । समानां समसङ्ख्यानं समपरिपहितानामुद्देशिनामनुदेशिनां च यथाक्रममौद्देशिभिरनुदेशिनः सम्बध्यन्ते । तूदीशलातुरवर्मतीकूचवाराड्ढक्छण्ढञ्यक्ः (*४,३.९४) । प्रथमात्प्रथमः, द्वितीयाद्द्वितीयः इत्यादि । तौदेयः । शालातुरीयः । वार्मतेयः । कौचवार्यः । समानामिति किम् ? लक्षणेत्थम्भूताख्यानभाग. वीप्सासु प्रतिपर्यनवः (*१,४.९०) । लक्षणादयश्चत्वारोऽर्थाः, प्रत्यादयस्त्रयः, सर्वेषं सर्वत्र कर्मप्रवचनीयसञ्ज्ञा भवति । इह कस्मान्न भवति वेशोयशादेर्भगाद्यल्(*४,४.१३१) ख च (*४,४.१३२) इति ? स्वरितेन लिङ्गेन यथासङ्ख्यम् । यत्र एष्यते, तत्र स्वरितत्वं न प्रतिज्ञायते । स्वरितेन अधिकारः (*१,३.११) इति स्वरितग्र्हणं पूर्वेण अपि सम्बध्यते ॥ ____________________________________________________________________ स्वरितेन अधिकारः ॥ १,३.११ ॥ _____ काशिकावृत्तिः१,३.११: स्वरितेन इति इत्थं भूतलक्षणे तृतीया । स्वरितो नाम स्वरविशेषो वर्णधर्मः । तेन चिह्णेन अधिकारो विदितव्यः । अधिकारो विनियोगः । स्वरितगुणयुक्तं शब्दरूपमधिकृतत्वादुत्तरत्र+उपतिष्ठते । प्रतिज्ञास्वरिताः पाणिनीयाः । प्रत्ययः (*३,१.१) । धातोः (*३,१.९१) । ञ्याप्प्रातिपदिकात्(*४,१.१) । अङ्गस्य (*६,४.१) । भस्य (*६,४.१२९) । पदस्य (*८,१.१६) ॥ ____________________________________________________________________ [॰५४] अनुदात्तङित आत्मनेपदम् ॥ १,३.१२ ॥ _____ काशिकावृत्तिः१,३.१२: अविशेषेण धातोरात्मनेपदं पर्स्मैपदं च विधास्यते, तत्र अयं नियमः क्रियते । अनुदात्तेतो ये धतवो ङितश्च, तेभ्य एव आत्मनेपदं भवति न अन्येभ्यः । अनुदत्तेद्भ्यः, आस आसते । वस वस्ते । ङिद्भ्यः खल्वपि, षूङ् सूते । शीङ् शेते ॥ ____________________________________________________________________ भावकर्मणोः ॥ १,३.१३ ॥ _____ काशिकावृत्तिः१,३.१३: लः कर्मणि च भावे च अकर्मकेभ्यः (*३,४.६९) इति भावकर्मणोर्विहितस्य लस्य तिबादयः सामान्येन वक्ष्यन्ते । तत्रेदमुच्यते, भावे कर्मणि च आत्मनेपदं भवति । भावे ग्लाय्ते भवता, सुप्यते भवता, आस्यते भवता । कर्मणि क्रियते कटः, ह्रियते भारः । कर्मकर्तरि, लूयते केदारः स्वयमेव इति, परस्मैपदं न भवति । तस्य विधाने द्वितीयं कर्तृग्रहणमनुवर्तते । तेन कर्तिव यः कर्ता तत्र प्रस्मैपदं भवति ॥ ____________________________________________________________________ कर्तरि कर्मव्यतिहारे ॥ १,३.१४ ॥ _____ काशिकावृत्तिः१,३.१४: कर्मशब्दः क्रियवाची । व्यतिहारो विनिमयः । यत्रान्यसम्बन्धिनीं क्रियामन्यः करोति, इतरसम्बन्धिनीं चेतरः, स कर्मव्यतिहारः । तद्धिशिष्टक्रियावचनाद्धातोरात्मनेपदं भवति । व्यतिलुनते । व्यतिपुनते । कर्मव्यतिहारे इति किम् ? लुनन्ति । कर्तृग्रहणमुत्तरार्थं शेषात्कर्तरि परस्मैपदम् (*१,३.७८) इति ॥ ____________________________________________________________________ न गतिहिंसार्थेभ्यः ॥ १,३.१५ ॥ _____ काशिकावृत्तिः१,३.१५: पूर्वेण आत्मनेपदं प्राप्तं प्रतिषिद्यते । गत्यर्थेभ्यो हिंसार्थेभ्यश्च धातुघ्यः कर्मव्यतिहरे आत्मनेपदं न भवति । व्यतिगच्छन्ति । व्यतिसर्पन्ति । हिंसार्थेभ्यः व्यतिहिंसन्ति । व्यतिघ्नन्ति । प्रतिषेधे हसादीनामुपसङ्ख्यनम् । व्यतिहसन्ति । व्यतिजल्पन्ति । व्यतिपठन्ति । हरतेरप्रतिषेधः । संप्रहरन्ते राजानः ॥ ____________________________________________________________________ इतरेतरान्योन्योपपदाच्च ॥ १,३.१६ ॥ _____ काशिकावृत्तिः१,३.१६: इतरेतरः, अन्योन्यः इत्येवमुपपदाद्धातोः कर्मव्यतिहारे आत्मनेपदं न भवति । इतरेतरस्य व्यतिलुनन्ति । अन्योन्यस्य व्यतिलुनन्ति । [॰५५] परस्परोपपदाच्च+इति वक्तव्यम् । पर्स्परस्य व्यतिलुनन्ति ॥ ____________________________________________________________________ नेर्विशः ॥ १,३.१७ ॥ _____ काशिकावृत्तिः१,३.१७: शषात्कर्तरि पर्स्मैपदम् (*१,३.७८) इति प्रस्मैपदे प्राप्ते निपूर्वाद्विश आत्मनेपदं विधीयते । नेः परस्माद्विश आत्मनेपदं भवति । निविशते । निविशन्ते । नेः इति किम् ? प्रविशति । यदागमास्तद्ग्रहणेन गृह्यन्ते तेन अटा न अस्ति व्यवधानम् । न्यविशत । नेरुपसर्गस्य ग्रहणम्, अर्थवद्ग्रहने न अनर्थकस्य ग्रहणमिति । तस्मादिह न भवति, मधुनि विशान्ति भ्रमराः ॥ ____________________________________________________________________ परिव्यवेभ्यः क्रियः ॥ १,३.१८ ॥ _____ काशिकावृत्तिः१,३.१८: डुक्रिञ्द्रव्यविनिमये । ञित्वात्कर्त्रभिप्राये क्रियाफले सिद्धमात्मनेपदम् । अकर्त्रभिप्रायार्थोऽयमारम्भः । परिव्यवेभ्य उत्तरस्मात्क्रीणातेरात्मनेपदं भवति । परिक्रीणीते । विक्रीणीते । अवक्रीणीते । पर्यादय उपसर्गा गृह्यन्ते तेन+इह न भवति, वहुवि क्रीणाति वनम् ॥ ____________________________________________________________________ विपराभ्यां जेः ॥ १,३.१९ ॥ _____ काशिकावृत्तिः१,३.१९: शेषात्कर्तरि परस्मैपदम् (*१,३.७८) इत्यस्य अपवादः । विपरा पूर्वाज्जयतेर्धातोरात्मनेपदं भवति । विजयते । पराजयते । विपराशब्दावुपसर्गौ गृह्येते साहचर्यत् । तेन+इह न भवति, बहुवि जयति वनम्, परा जयति सेना इति ॥ ____________________________________________________________________ अङो दोऽनास्यविहरणे ॥ १,३.२० ॥ _____ काशिकावृत्तिः१,३.२०: अकर्त्रभिप्रायर्थोऽयमारम्भः । आङ्पूर्वाद्ददातेरनास्यविहरणे वर्तमानादात्मनेपदं भवति । विध्यामादत्ते । अनास्यविहरणे इति किम् ? आस्यं व्याददाति । आस्यविहरणसमानक्रियादपि प्रतिषेधो वक्तव्यः । विपादिकां व्याददाति । कुलं व्याददाति । स्वाङ्गकर्मकाच्च+इति वक्तव्यम् । इह मा भूत्, व्याददते पिपीलिकाः पतङ्गस्य मुखम् ॥ ____________________________________________________________________ [॰५६] क्रीडोऽनुसंपरिभ्यश्च ॥ १,३.२१ ॥ _____ काशिकावृत्तिः१,३.२१: क्रीडृ विहारे, एतस्मादनु सं परि इत्येवं पूर्वादाङ्पूर्वाच्चात्मनेपदं भवति । अनुक्रीडते । सङ्क्रीडते । परिक्रीडते । आङः खल्वपि, आक्रीडते । समा साहचर्यादन्वादिरुपसर्गो गृह्यते, तेन+इह कर्मप्रवचनीयप्रयोगे न भवति, माणवकमनु क्रीडति । समोऽकूजने इति वक्तव्यम् । सङ्क्रीडन्ति शकटानि । आगमेः क्षमायामात्मनेपदं वक्तव्यम् । क्षमा उपेक्षा, कालहरणमिति यावत् । आगमयस्व तावन्माणवकम् । शिक्षेर्जिज्ञासायाम् । विद्यासु शिक्षते । आशिषि नाथः । सर्पिषो नाथते । मधुनो नाथते । आशिषि इति किम् ? माणवकमनुनाथति । हरतेर्गतताच्छील्ये । पैतृकमश्वा अनुहरन्ते । मातृकं गावोऽनुहरन्ते । गतताच्छील्ये इति किम् ? मातुरनुहरति । किरतेर्हर्षजीविकाकुलायकरणेष्विति वक्तव्यम् । अपस्किरते वृषभो हृष्टः । जीविकायाम् अपस्किरते कुक्कुटो भक्षार्थी । कुलायकरणे अपस्किरते श्वा आश्रयार्थी । हर्षादिषु इति किम् ? अपकिरति कुसुमम् । आङि नुप्रच्छ्योरुपसङ्ख्यानम् । आनुते सृगालः । आपृच्छते गुरुम् । शप उपलम्भन इति वक्तव्यम् । वाचा शरीरस्पर्शनमुपलम्भनम् । देवदत्ताय शपते । यज्ञदत्ताय शपते । उपलम्भने इति किम् ? शपति ॥ ____________________________________________________________________ [॰५७] समवप्रविभ्यः स्थः ॥ १,३.२२ ॥ _____ काशिकावृत्तिः१,३.२२: समव प्र वि इत्येवं पूर्वात्तिष्ठतेरात्मनेपदं भवति । संतिष्ठते । अवतिष्ठते । वितिष्ठते । आङः स्थः प्रतिज्ञाने इति वक्तव्यम् । अस्तिं सकारमातिष्ठते । आगमौ गुणवृद्धी आतिष्ठते ॥ ____________________________________________________________________ प्रकाशनस्थेयाख्यहोश्च ॥ १,३.२३ ॥ _____ काशिकावृत्तिः१,३.२३: स्वाभिप्रायकथनं प्रकाशनम् । स्थेयस्य आख्या स्थेयाख्या । तिष्ठत्यस्मिन्निति स्थेयः । विवादपदनिर्णेता लोके स्थेयः इति प्रसिधः । तस्य प्रतिपत्त्यर्थमाख्याग्रहणम् । प्रकाशने स्थेयाख्यायां च तिष्ठतेरात्मनेपदं भवति । प्रकाशने तावत् तिष्ठते कन्या धात्रेभ्यः । तिष्ठते वृषली ग्रामपुत्रेभ्यः । प्रकाशयत्यात्मानमित्यर्थः । स्थेयाख्यायाम् त्वयि तिष्ठते । मयि तिष्ठते । संशय्य कर्णादिषु तिष्ठते यः ॥ ____________________________________________________________________ उदोऽनूर्ध्वकर्मणि ॥ १,३.२४ ॥ _____ काशिकावृत्तिः१,३.२४: उत्पूर्वात्तिष्ठतेरनूर्ध्वकर्मणि वर्तमानादात्मनेपदं भवति । कर्मशब्दः क्रियावाची । अनूर्ध्वताविशिष्टक्रियावचनात्तिष्ठतेरात्मनेपदं भवति । गेहे उतिष्ठते । कुटुम्बे उत्तिष्ठते । तदर्थं यतते इत्यर्थः । उद ईहायामिति वक्तव्यम् । इह मा भूत्, अस्माद्ग्रामात्शतमुत्तिष्ठति । शतमुत्पद्यते इत्यर्थः । ईहग्रहणमनूर्ध्वकर्मण एव विशेषनं, न अपवादः । अनूर्ध्वकर्मणि इति किम् ? आसनादुत्तिष्ठति ॥ ____________________________________________________________________ उपान्मन्त्रकरणे ॥ १,३.२५ ॥ _____ काशिकावृत्तिः१,३.२५: उपपूर्वात्तिष्थतेर्मन्त्रकरणेऽर्थे वर्तमानादात्मनेपदं भवति । ऐन्द्र्या गार्हपत्यमुपतिष्ठते । आग्नेय्या आनीघ्रमुपतिष्ठते । मन्त्रकरणे इति किम् ? भर्तारमुपतिष्ठति यौवनेन । उपाद्देवपूजासङ्गतकरणमित्रकरणपथिष्विति वाच्यम् । देवपूजायाम् आदित्यमुपतिष्ठते । सङ्गतकरणे रथिकानुपतिष्ठते । मित्रकरणे महामात्रानुपतिष्ठते । मित्रकरणसङ्गतकरणयोः को विशेषः ? सङ्गतकरणमुपश्लेषः । तद्यथा, गङ्गा यमुनामुपतिष्थते । मित्रकरणं तु विनाप्युपश्लेषेण मैत्रीसं बन्धः । पथि अयं पन्थाः स्त्रुघ्नमुपतिष्ठते । [॰५८] वा लिप्सायामिति वक्तव्यम् । भिक्षुको ब्राह्मणकुलमुपतिष्थते, उपतिष्ठति इति वा ॥ ____________________________________________________________________ अकर्मकाच्च ॥ १,३.२६ ॥ _____ काशिकावृत्तिः१,३.२६: उपातिति वर्तते । उपपूर्वात्तिष्ठतेरकर्मकातकर्मकक्रियावचनादात्मनेपदं भवति । यावद्भुक्तमुपतिष्ठते । यावदोदनुमुपतिष्ठते । भुक्तमिति भावे क्तप्रत्ययः । भोजने भोजने सन्निधीयते इत्यर्थः । अकर्मकातिति किम् ? राजानमुपतिष्ठति ॥ ____________________________________________________________________ उद्विभ्यां तपः ॥ १,३.२७ ॥ _____ काशिकावृत्तिः१,३.२७: अकर्मकातिति वर्तते । उत्वि इत्येवं पूर्वात्तपतेरकर्मकत्रियावचनादात्मनेपदं भवति । उत्तपते । वितपते । दीप्यते इत्यर्थः । अकर्मकातित्येव । उत्तपति सुवर्णं सुवर्णकारः । वितपति पृथ्वीं सविता । स्वाङ्गकर्मकाच्च+इति वक्तव्यम् । उत्तपते पाणिम्, उत्तपते पृष्ठम् । वितपते पाणिम्, वितपते पृष्ठम् । स्वाङ्गं च+इह न पारिभाषिकं गृह्यते अद्रवं मूर्तिमत्स्वाङ्गमिति । किं तर्हि ? स्वमङ्गं स्वाङ्गम् । तेन+इह न भवति, देवदत्तो यज्ञदत्तस्य पृष्ठमुत्तपति इति । उद्विभ्यामिति किम् ? निष्टपति ॥ ____________________________________________________________________ आङो यमहनः ॥ १,३.२८ ॥ _____ काशिकावृत्तिः१,३.२८: अकर्मकातिति वर्तते । यम उपरमे, हन हिंसागत्योः इति परस्मैपदिनौ । ताभ्यामकर्मकक्रियावचनाभ्यामाङ्पूर्वाभ्यामात्मनेपदं भवति । आयच्छते, आयच्छेते आयच्छन्ते । हनः खल्वपि आहते, आघ्नाते, आघ्नते । अकर्मकातित्येव । आयच्छति कूपाद्रज्जुम् । आहन्ति वृषलं पादेन । स्वाङ्गकर्मकाच्च+इति वक्तव्यम् । आयच्छते पाणिम् । आहते शिरः । स्वाङ्गं च+इह न पारिभाषिकं गृह्यते । किं तर्हि ? स्वमङ्गं स्वाङ्गम् । तेन+इह न भवति , आहन्ति शिरः परकीयमिति ॥ ____________________________________________________________________ समो गम्यृच्छिप्रच्छिस्वरत्यर्तिश्रुविदिघ्यः ॥ १,३.२९ ॥ _____ काशिकावृत्तिः१,३.२९: अकर्मकातिति वर्तते । शेषात्कर्तरि परस्मैपदम् (*१,३.७८) इति प्राप्ते सम्पूर्वेभ्यो गमि ऋच्छि प्रच्छि स्वरति अर्ति श्रु विदि इत्येतेभ्योऽकर्मकेभ्यो धातुभ्य आत्मनेपदं भवति । सङ्गच्छते । अमृद्धते । संपृच्छते । संस्वरति । सङ्कल्पा अस्य समरन्त । [॰५९] अर्तेर्लुङि च्लेः सर्तिशास्त्यर्तिभ्यश्च (*३,१.५६) । इत्यङादेशः । तत्र प्रस्मैपदेशु इत्येतन्नाश्रीयते । बहुलं छन्दस्यमाङ्योगेऽपि (*६,४.७५) इत्याट्प्रतिषध्यते । ऋदृशोऽङि गुणः (*७,४.१६) इति गुणः समरनत । संशृणुते । संवित्ते । ऋच्छेरनादेशस्य ग्रहणम्, समृच्छिष्यते । अर्त्यादेशस्य त्वर्ति इत्येव सिद्धमात्मनेपदम् । अर्तिरुभयत्र पठ्यते, ऋ गतिप्रापणयोः इति भ्वादौ, ऋ सृ गतौ इति जुहोत्यादौ । विशेषाभावाद्द्वयोरपि ग्रहणम् । विदेर्ज्ञानार्थस्य ग्रहनम्, परस्मैपदिभिर्गमादिभिः साहचर्यात्, न लाभार्थस्य स्वरितेत्त्वादुभ्यतोभाषस्य । दृशेश्च+इति वक्तव्यम् । संपश्यते । अकर्मकातित्येव । ग्रामं संपस्यति ॥ ____________________________________________________________________ निसमुपविभ्यो ह्वः ॥ १,३.३० ॥ _____ काशिकावृत्तिः१,३.३०: अकर्मकातिति निवृत्तम् । अतः परं सामान्येन आत्मनेपदविधानं प्रतिपत्तव्यम् । नि समुप वि इत्येवं पूर्वाथ्वयतेर्धातोरात्नमेपदं भवति । निह्वयते । संह्वयते उपह्वयते । विह्वयते । अकर्त्रभिप्रायार्थोऽयमारम्भः । अन्यत्र हि ञित्त्वात्सिद्धमेवात्मनेपदम् । उपसर्गादस्यत्यूह्योर्वा वचनम् । निरस्यति, निरस्यते । समूहति, समूहते ॥ ____________________________________________________________________ स्पर्धायामाङः ॥ १,३.३१ ॥ _____ काशिकावृत्तिः१,३.३१: अकर्त्रभिप्रायार्थोऽयमारम्भः । स्पर्धायां विषये आङ्पूर्वाध्वयतेरात्मनेपदं भवति । स्पर्धा सङ्घर्षः, पराभिभवेछा, स विषयो धात्वर्थस्य । धातुस्तु शब्दत्रिय एव । मल्लो मल्लमाह्वयते । छात्रश्छात्रमाह्वयते । स्पर्धमानस्तस्याह्वानं करोति इत्यर्थः । स्पर्धायामिति किम् ? गामाह्वयति गोपालः ॥ ____________________________________________________________________ गन्धनावक्षेपणसेवनसाहसिक्यप्रतिथत्नप्रकथनोपयोगेषु कृञः ॥ १,३.३२ ॥ _____ काशिकावृत्तिः१,३.३२: कर्त्रभिप्राये क्रियाफले सिद्धमेवात्मनेपदम् । अकर्त्रभिप्रयार्थोऽयमारम्भः । गन्धनादिष्वर्थेषु वर्तमानत्करोतेरात्मनेपदं भवति । गन्धनं पकारप्रयुक्तं हिंसात्मकं सूचनम् । तथा हि, बस्त गन्ध अर्दने, अर्द हिंसायामिति चुरादौ पथ्यते । अवक्षेपणं भर्त्सनम् । सेवनमनुवृत्तिः । साहसिक्यं साहसिकं कर्म । प्रतियत्नः सतो गुणान्तराधानम् । प्रकथनं प्रकर्षेण कथनम् । उपयोगो धर्मादि प्रयोजनो विनियोगः । गन्धने तावत् उत्कुरुते । उदाकुरुते । सूचयति इत्यर्थः । अवक्षेपणे श्येनो वर्तिकामुदाकुरुते । भर्त्सयति इत्यर्थः सेवते गणकानुपकुरुते । महामात्रानुपकुरुते । सेवते इत्यर्थः । साहासिक्ये परदारान् प्रकुरुते । [॰६०] तेषु सहसा प्रवर्तते इत्यर्थः । प्रतियत्ने एधो दकस्य+उपस्कुरुते । काण्डं गुडस्य+उपस्कुरुते । तस्य सतो गुणन्तराधानं करोति इत्यर्थः । षष्ठीसुटौ करोतेः प्रतियत्न एव विधीयेते । प्रकथने गाथाः प्रकुरुते । जनापवादान् प्रकुरुते । प्रकर्षेण कथयति इत्यर्थः । उपयोगे शतं प्रकुरुते । सहस्रं प्रकुरुते । धर्मार्थं शतं विनियुङ्क्ते इत्यर्थः । एतेषु इति किम् ? कटं करोति ॥ ____________________________________________________________________ अधेः प्रसहने ॥ १,३.३३ ॥ _____ काशिकावृत्तिः१,३.३३: अकर्त्रभिप्रायार्थोऽयमारम्भः । अधिपूर्वात्करोतेः प्रसहने वर्तमानातात्मनेपदं भवति । प्रसहनमभिभवः अपराजयो वा । तमधिचक्रे । तमभिवभूव, न तेन प्राजितः इत्यर्थः । प्रसहने इति किम् ? अर्थमधिकरोति । पृथग्योगकरणमुपसर्गविशेषणार्थम् ॥ ____________________________________________________________________ वेः शब्दकर्मणः ॥ १,३.३४ ॥ _____ काशिकावृत्तिः१,३.३४: कृञः इत्यनुवर्तते । विपूर्वत्करोतेरकर्त्रभिप्राये क्रियाफले शब्दकर्मण आत्मनेपदं भवति । कर्मशब्द इह कारकाभिधायी, न क्रियावचनः । क्रोष्टा विकुरुते स्वरान् । ध्वाङ्क्षो विकुरुते स्वरान् । शब्दकर्मणः इति किम् ? विकरोति पयः ॥ ____________________________________________________________________ अकर्मकाच्च ॥ १,३.३५ ॥ _____ काशिकावृत्तिः१,३.३५: वेः कृञ इत्यनुवर्तते । विपूर्वात्करोतेरकर्मकादकर्मकक्रियावचनादात्मनेपदं भवति । विकुर्वते सैन्धवाः । साधु दान्ताः शोभनं वल्गन्ति इत्यर्थः । ओदनस्य पूर्णाश्छात्रा विकुर्वते । निष्फलं चेष्टन्ते इत्यर्थः ॥ ____________________________________________________________________ सम्माननोत्सञ्जनाचार्यकरणज्ञानभृतिविगणनव्ययेषु नियः ॥ १,३.३६ ॥ _____ काशिकावृत्तिः१,३.३६: णीञ्प्रापणे । अस्मात्कर्त्रभिप्राये क्रियाफले सिद्धमेवात्मनेपदम् । अकर्त्रभिप्रयार्थोऽयमारम्भः । णीञ्प्राप्णे इत्येतस्मात्धातोरात्मनेपदं भवति सम्माननादिषु विशेषणेषु सत्सु । सम्माननं पूजनम् नयते चार्वी लोकायते । चार्वी बुद्धिः, तत्सम्बन्धादचार्येऽपि चार्वी । स लोकायते शास्त्रे पदार्थान्नयते, उपपत्तिभिः स्थिरीकृत्य शिष्येभ्यः प्रापयति । ते युक्तिभिः स्थाप्यमानाः सम्मानिताः पूजिता भवन्ति । उत्सञ्जनमुत्क्षेपणम् माणवकमुदानयते । उत्क्षिपति इत्यर्थः । आचार्यकरणमाचार्यक्रिया माणवकमीदृशेन विधिना आत्मसमीपं प्राप्यति यथा स उपनेता स्वयमाचार्यः सम्पद्यते । माणवकमुपनयते । आत्मानमाचार्यीकुर्वन्माणवकमात्मसमीपं प्रापयति इत्यर्थः । ज्ञानं प्रमेयनिश्चयः नयते चर्वी लोकयते । तत्र प्रमेयं निश्चिनोति इत्यर्थः । भृतिर्वेतनम् कर्मकरानुपनयते । भृतिदानेन समीपं करोति इत्यर्थः । विगणनमृणादेर्निर्यातनम् मद्राः करं विनयन्ते । निर्यातयन्ति इत्यर्थः । व्ययो धर्मादिषु विनियोगः । शतं विनयते । सहस्रं विनयते । धर्माद्यर्थं शतं विनियुङ्क्ते इत्यर्थः । एतेषु इति किम् ? अजां नयति ग्रामम् ॥ ____________________________________________________________________ [॰६१] कर्तृस्थे च शरीरे कर्मणि ॥ १,३.३७ ॥ _____ काशिकावृत्तिः१,३.३७: नयतेः कर्ता देवदत्तादिर्लकारवाच्यः । कर्तृस्थे कर्मण्यशरीरे सति नयतेरात्मनेपदं भवति । शरीरं प्राणिकायः, तदेकदेशोऽपि शरीरम् । क्रोधं विनयते । मन्युं विनयते । कर्तृस्थे इति किम् ? देवदत्तो यज्ञदत्तस्य क्रोधं विनयतेइ । अशरीरे इति किम् ? गडुं विनयति । घाटां विनयति । कर्मणि इति किम् ? बुद्ध्या विनयति । प्रज्ञया विनयति ॥ ____________________________________________________________________ वृत्तिसर्गतायनेषु क्रमः ॥ १,३.३८ ॥ _____ काशिकावृत्तिः१,३.३८: शेषत्कर्तरि परस्मैपदे प्राप्ते वृत्त्यादिश्वर्थेशु कर्मेर्धतोरात्मनेपदं भवति । वृत्तिरप्रतिबन्धः । सर्ग उत्साहः । तायनं स्फीतता । वृत्तौ तावतृक्ष्वस्य क्रमते बुद्धिः । न प्रतिहन्यते इत्यर्थः । यजुःष्वस्य क्रमते बुद्धिः । सर्गे व्याकरणाध्ययनाय क्रमते । उत्सहते इत्यर्थः । तायते अस्मिन् शास्त्रापि क्रमन्ते । स्फीतीभवन्ति इत्यर्थः । एतेषु इति किम् ? अपक्रामति ॥ ____________________________________________________________________ उपपराभ्याम् ॥ १,३.३९ ॥ _____ काशिकावृत्तिः१,३.३९: वृत्तिसर्गतायनेषु इति वर्तते । उपपरापूर्वात्क्रमतेर्वृत्त्यादिश्वर्थेषु वर्तमानादात्मनेपदं भवति । किमर्थं तर्हि इदमुच्यते ? उपसर्गनियमार्थम् । सोपसर्गादुपपरापूर्वादेव, न अन्यपूर्वातिति । उपक्रमते । पराक्रमते । उपपराभ्यामिति किम् ? सङ्क्रामति । वृत्त्यादिष्वित्येव । उपक्रामति । पराक्रामति ॥ ____________________________________________________________________ आङ उद्गमने ॥ १,३.४० ॥ _____ काशिकावृत्तिः१,३.४०: आङ्पूर्वात्क्रमतेरुद्गमने वर्तमानादात्मनेपदं भवति । आक्रमते आदित्यः । आक्रमते चन्द्रमाः । आक्रमन्ते ज्योतींषि । उद्गनमे इति किम् ? आक्रामति माणवकः कुतुपम् । ज्योतिरुद्गमने इति वक्तव्यम् । इह मा भूत्, आक्रमति धूमो हर्म्यतलात् ॥ ____________________________________________________________________ वेः पादविहरणे ॥ १,३.४१ ॥ _____ काशिकावृत्तिः१,३.४१: विपूर्वात्क्रमतेः पदविहरणेऽर्थे वर्तमानादात्मनेपदं भवति । विहरणं विक्षेपः । सुष्ठु विक्रमते । साधु विक्रमते । अश्वादीनां गतिविशेषो विक्रमणमुच्यते । यद्यपि क्रमिः पादविहरण एव पठ्यते, क्रमु पादविक्षेपे इति, तथाप्यनेकार्थत्वाद्धातूनामेवमुक्तम् । पादविहरणे इति किम् ? विक्रामत्यजिनसन्धिः ॥ ____________________________________________________________________ [॰६२] प्रोपाभ्यां समर्थाभ्याम् ॥ १,३.४२ ॥ _____ काशिकावृत्तिः१,३.४२: प्र उपित्येताभ्यां परस्मात्क्रमतेरात्मनेपदं भवति, तौ चेत्प्रोपौ समर्थौ तुल्यार्थौ भवतः । क्व चानयोस्तुल्यार्थता ? आदिकर्मणि । प्रक्रमते भोक्तुम् । उपक्रमते भोक्तुम् । समर्थाभ्यामिति किम् ? पूर्वेध्युः प्रक्रामति । गच्छति इत्यर्थः । अपरेध्युरुपक्रामति । आगच्छति इत्यर्थः । अथ उपपराभ्याम् (*१,३.३९) इत्यनेन आत्मनेपदमत्र कर्मान्न भाति ? वृत्त्यादिग्रहणं तत्र अनुवर्तते । ततोऽन्यत्र+इदं प्रत्युदाहरणम् ॥ ____________________________________________________________________ अनुपसर्गाद्वा ॥ १,३.४३ ॥ _____ काशिकावृत्तिः१,३.४३: क्रमः इति वर्तते । अप्राप्तविभाषेयम् । उपसर्गवियुक्तात्क्रमतेरात्मनेपदं वा भवति । क्रमते । क्रामति । अनुपसर्गातिति किम् ? सङ्क्रामति ॥ ____________________________________________________________________ अपह्नवे ज्ञः ॥ १,३.४४ ॥ _____ काशिकावृत्तिः१,३.४४: शेषात्कर्तरि प्रस्मैपदे प्राप्ते जानतेरपह्नवि वर्तमनादात्मनेपदं भवति । अपह्नवोऽपह्नुतिरपलापः । सोपसर्गश्च अयमपह्नवे वर्तते, न केवलः । शतमपजनीते । सहस्रमपजानीते । अपलपति इत्यर्थः । अपह्नवे इति किम् ? न त्वं किञ्चदपि जानासि ॥ ____________________________________________________________________ अकर्मकाच्च ॥ १,३.४५ ॥ _____ काशिकावृत्तिः१,३.४५: अकर्त्रभिप्रायार्थमिदम् । कर्त्रभिप्राये हि अनुपसर्गाज्ज्ञः (*१,३.७६) इति वक्ष्यति । जानातेरकर्मकादकर्मकक्रियावचनादात्मनेपदं भवति । सर्पिशो जानीते । मधुनो जानीते । कथं च अयमकर्मकः ? न अत्र सर्पिरादि ज्ञेयत्वेन विवक्षितम् । किं तर्हि ? ज्ञानपूर्विकायां प्रवृत्तौ करणत्वेन । तथा च ज्ञोऽविदर्थस्य करणे (*२,३.५१) इति षष्ठी विधीयते सर्पिषो जानीते, मधुनो जानीते । सर्पिशा उपायेन प्रवर्तते इत्यर्थः । अकर्मकातिति किम् ? स्वरेण पुत्रं जानाति ॥ ____________________________________________________________________ संप्रतिभ्यामनाध्याने ॥ १,३.४६ ॥ _____ काशिकावृत्तिः१,३.४६: ज्ञः इति वर्तते । सकर्मकार्थमिदम् । सं प्रति इत्येवं पूर्वाज्जानातेरनाध्याने वर्तमानादात्मनेपदं भवति । आध्यानमुत्कण्ठास्मरणम् । शतं संजानीते । सहस्रं संजानीते । शतं पतिजानीते । सहस्रं प्रतिजानीते । अनाध्याने इति किम् ? मातुः सञ्जानाति । पितुः सञ्जानाति । उत्कण्ठते इत्यर्थः ॥ ____________________________________________________________________ भासनोपसम्भाषाज्ञानयत्नविमत्युपमन्त्रणेषु वदः ॥ १,३.४७ ॥ _____ काशिकावृत्तिः१,३.४७: शेषात्कर्तरि परस्मैपदे प्राप्ते भासनादिशु विशेषणेषु सत्सु वदतेरात्मनेपदं भवति । भासनं दीप्तिः वदते चार्वी लोकायते । भासमानो दीप्यमानस्तत्र पदार्थान् व्यक्तीकरोति इत्यर्थः । उपसम्भाषा उपसान्त्वनम् कर्मकरानुपवदते । [॰६३] उपसान्त्वयति इत्यर्थः । ज्ञानं सम्यगवबोधः वदते चार्वी लोकायते । जानाति वदितुमित्यर्थः । यत्न उत्साहः क्षेत्रे वदते । गेहे वदते । तद्विषयमुत्साहमाविष्करोति इत्यर्थः । विमतिर्नानामतिः क्षेत्रे विवदन्ते । गेहे विवदन्ते । विमतिपतिता विचित्रं भाषन्ते इत्यर्थः । उपमन्त्रणं रहस्युपच्छन्दनम् कुलभार्यामुपवदते । परदारानुपवदते । उपच्छन्दय्ति इत्यर्थः । एतेषु इति किम् ? यत्किञ्चिद्वदति ॥ ____________________________________________________________________ व्यक्तवाचां समुच्चारणे ॥ १,३.४८ ॥ _____ काशिकावृत्तिः१,३.४८: वदः इति वर्तते । व्यक्तवाचां समुच्चारणं सहोच्चारणम् । तत्र वर्तमानाद्वदतेरात्मनेपदं भवति । ननु वद व्यक्तायां वाचि इत्येव पठ्यते, तत्र किं व्यक्तवाचामिति विशेषणेन ? प्रसिद्ध्युपसंग्रहार्थमेतत् । व्यक्तवाचः इति हि मनुष्याः प्रसिद्धाः । तेषां समुच्चारणे यथा स्यात् । संप्रवदन्ते ब्राह्मणाः । संप्रवदन्ते क्षत्रियाः । व्यक्तवाचामिति किम् ? संप्रवदन्ति कुक्कुटाः । समुच्चारणे इति किम् ? ब्राह्मणो वदति । क्षत्रियो वदति ॥ ____________________________________________________________________ अनोरकर्मकात् ॥ १,३.४९ ॥ _____ काशिकावृत्तिः१,३.४९: वदः इति, व्यक्तवाचामिति च वर्तते । अनुपूर्वाद्वदतेरकर्मकाद्व्यक्तवाग्विषयादात्मनेपदं भवति । अनुवदते कठः कलापस्य । अनुवदते मौद्गः पैप्पलादस्य । अनुः सादृश्ये । यथा कलापोऽधीयानो वदति तथा कठः इत्यर्थः । अकर्मकातिति किम् ? पूर्वमेव यजुरुदितमनुवदति । व्यक्तवाचमित्येव । अनुवदति वीणा ॥ ____________________________________________________________________ विभाषा विप्रलापे ॥ १,३.५० ॥ _____ काशिकावृत्तिः१,३.५०: वदः इति वर्तते, व्यक्तवाचां समुच्चारणे इति च । विप्रलापात्मके व्यक्तवाचां समुच्चारने वर्तमानाद्वदतेरात्मनेपदं भवति विभाषा । प्राप्तविभाषेयम् । विप्रवदन्ते संवत्सराः, विप्रवदन्ति सांवत्सराः । विप्रवदन्ते मौहूर्ताः, विप्रवदन्ति मौहूर्ताः । युगपत्परस्परप्रतिषेधेन विरुद्धं वदन्ति इत्यर्थः । विप्रलापे इति किम् ? संप्रवदन्ते ब्राह्मणाः । व्यक्तवाचामित्येव । विप्रवदन्ति शकुनयः । समुच्चारणे इत्येव । क्रमेण मौहूर्ता मौहूर्तेन सह विप्रवदन्ति ॥ ____________________________________________________________________ [॰६४] अवाद्ग्रः ॥ १,३.५१ ॥ _____ काशिकावृत्तिः१,३.५१: गॄ निगरणे इति तुदादौ पठ्यते, तस्य+इदं ग्रहणम् । न तु गॄ शब्दे इति क्र्यादिपठितस्य । तस्य ह्यवपूर्वस्य प्रयोग एव न अस्ति । शेषात्कर्तरि पर्स्मैपदे प्राप्ते अवपूर्वाद्गिरतेरात्मनेपदं भवति । अवगिरते, अवगिरेते, अवगिरन्ते । अवातिति किम् ? गिरति ॥ ____________________________________________________________________ समः प्रतिज्ञाने ॥ १,३.५२ ॥ _____ काशिकावृत्तिः१,३.५२: ग्रः इति वर्तते । संपूर्वात्गिरतेः प्रतिज्ञाने वर्तमानादात्मनेपदं भवति । प्रतिज्ञानमभ्युपगमः । शतं संगिरते । निर्यं शब्दं संगिरते । प्रतिज्ञाने इति किम् ? सङ्गिरति ग्रासम् ॥ ____________________________________________________________________ उदश्चरः सकर्मकात् ॥ १,३.५३ ॥ _____ काशिकावृत्तिः१,३.५३: शेषात्कर्तरि परस्मैपदे प्राप्ते उत्पूर्वाच्चरतेः सकर्मकक्रियाअवचनादात्मनेपदं भवति । गेहमुच्चरते । कुटुम्बमुच्चरते । गुरुवचनमुच्चरते । उत्क्रम्य गच्छति इत्यर्थः । सकर्मकातिति किम् ? वाष्पमुच्चरति ॥ ____________________________________________________________________ संस्तृतीयायुक्तात् ॥ १,३.५४ ॥ _____ काशिकावृत्तिः१,३.५४: सम्पूर्वाच्चरतेस्तृतीयायुक्तादात्मनेपदं भवति । तृतीया इति तृतीयाविभक्तिर्गृह्यते, तया चरतेरर्थद्वारको योगः । अश्वेन सञ्चरते । तृतीयायुक्तातिति किम् ? उभौ लोकौ सञ्चरसि इमं च अमुं च देवल । [॰६४] यद्यप्यत्र तदर्थयोगः सम्भवति, तृतीया तु न श्रूयते, इति प्रत्युदाहरणं भवति ॥ ____________________________________________________________________ दाणश्च सा चेच्चतुर्थ्यर्थे ॥ १,३.५५ ॥ _____ काशिकावृत्तिः१,३.५५: चाण्दाने परस्मैपदी । ततः सम्पूर्वात्तृतीयायुक्तातात्मनेपदं भवति, सा चेत्तृतीया चतुर्थ्यर्थे भवति । कथं पुनस्तृतीया चतुर्थ्यर्थे स्यात्? वक्तव्यमेव+एतत् अशिष्टव्यवहारे तृतीया चतुर्थ्यर्थे भवति इति वक्तव्यम् । दास्य संप्रयच्छते । वृषल्या संप्रयच्छते । कामुकः सन् दास्यै ददाति इत्यर्थः । चतुर्थ्यर्थे इति किम् ? पाणिना सम्प्रयच्छति । समः प्रशब्देन व्यवधाने कथमात्मनेपदं भवति ? समः इति विशेषणे षष्ठी, न पञ्चमी ॥ ____________________________________________________________________ [॰६५] उपाद्यमः स्वकरने ॥ १,३.५६ ॥ _____ काशिकावृत्तिः१,३.५६: शेषात्कर्तरि परस्मैपदे प्राप्ते उपपूर्वात्यमः स्वकरणे वर्तमानादात्मनेपदं भवति । पाणिग्रहणविशिष्टमिह स्वकरनं गृह्यते, न स्वकरणमात्रम् । भार्यामुपयच्छते । स्वकरणे इति किम् ? देवदत्तो यज्ञदत्तस्य भार्यामुपयच्छति ॥ ____________________________________________________________________ ज्ञाश्रुस्मृदृशां सनः ॥ १,३.५७ ॥ _____ काशिकावृत्तिः१,३.५७: ज्ञा श्रु समृ दृशित्येतेषां सन्नन्तानामात्मनेप्दं भवति । तत्र जानातेः अपह्नवे ज्ञः (*१,३.४४) इति त्रिभिः सूत्रैरात्मनेपदं विहितम्, श्रुदृशोरपि समो गम्यृच्छि (*१,३.२९) इत्यत्र विहितम् । तस्मिन् विषये पूर्ववत्सनः (*१,३.६२) इत्येव सिद्धमात्मनेपदम् । ततोऽन्यत्र अनेन विधीयते । स्मरते पुनरप्राप्त एव विधानम् । धर्मं जिज्ञासते । गुरुं शुश्रूषते । नष्टं सुस्मूर्षते । नृपं दिदृक्षते । सनः इति किम् ? जानाति, शृणोति, स्मरति, पष्यति ॥ ____________________________________________________________________ न अनोर्ज्ञः ॥ १,३.५८ ॥ _____ काशिकावृत्तिः१,३.५८: पूर्वेण योगेन प्राप्तमात्मनेपदं प्रतिषिध्यते । अनुपूर्वाज्जानातेः सन्नन्तादात्मनेपदं न भवति । तथा च सति सकर्मकस्य+एव अयं प्रतिषेधः सम्पद्यते । पुत्रमनुजिज्ञासति । अनोः इति किम् ? धर्मं जिज्ञासते ॥ ____________________________________________________________________ प्रत्याङ्भ्यां श्रुवः ॥ १,३.५९ ॥ _____ काशिकावृत्तिः१,३.५९: प्रति आङित्येवं पूर्वाच्छृणोतेः सन्नन्तादात्मनेपदं न भवति । प्रतिशुश्रूषति । आशुश्रूषति । उपसर्गग्रहणं चेदं, तस्मादिह प्रतिषेधो न भवति , देवदत्तं प्रति शुश्रूषते ॥ ____________________________________________________________________ शदेः शितः ॥ १,३.६० ॥ _____ काशिकावृत्तिः१,३.६०: शद्लृ शातने परस्मैपदी, तस्मादात्मनेपदं विधीयते । शदिर्यः शित्, शिद्भावी, शितो वा सम्बन्धी तस्मादात्मनेपदं भवति । शीयते, शीयेते, शीयन्ते । शितः इति किम् ? अशत्स्यत् । शत्स्यति । शिशत्सति ॥ ____________________________________________________________________ [॰६६] म्रियतेर्लुङ्लिङोश्च ॥ १,३.६१ ॥ _____ काशिकावृत्तिः१,३.६१: म्र्ङ्प्राणत्यागे । ङित्त्वादात्मनेपदमत्र सिद्धमेव । नियमार्थमिदं वचनम् । म्रियतेर्लुङ्लिङोः शितश्चात्मनेपदं भवति, अन्यत्र न भवति । अमृत । मृषीष्ट । शितः खल्वपि म्रियते, म्रियेते, म्रियन्ते । नियमः किमर्थः ? मरिश्यति । अमरिस्यत् ॥ ____________________________________________________________________ पूर्ववत्सनः ॥ १,३.६२ ॥ _____ काशिकावृत्तिः१,३.६२: सनः पूर्वो यो धातुः आत्मनेपदी, तद्वत्सन्नन्तादात्मनेपदं भवति । येन निमित्तेन पूर्वस्मादात्मनेपदं विधीयते तेन+एव सन्नन्तादपि भवति । अनुदात्तङित आत्मनेपदम् (*१,३.१२) आस्ते, शेते । सन्नन्तादपि तदेव निमित्तम् आसिसिषते, शिशयिषते । नेर्विशः (*१,३.१७) निविशते, निविविक्षते । आङ उद्गम्ने (*१,३.४०) आक्रमते, आचिक्रंसते । इह न भवति, शिशत्सति, मुमूर्षति । न हि शदिम्रियतिमात्रमात्मनेपदनिमित्तम् । किं तर्हि ? शिदाद्यपि, तच्च+इह न अस्ति । यस्य च पूर्वत्र+एव निमित्तभावः प्रतिशिध्यते, तत्सन्नन्तेश्वप्यनिमित्तम् अनुचिकीर्षति । पराचिकीर्षति । इह जुगुप्सते, मीमांसते इति ? अनुदात्तङित इत्येव सिद्धमात्मनेप्दम् । अवयवे कृतं लिङ्गं समुदायस्य विशेषकं भवति इति ॥ ____________________________________________________________________ आम्प्रत्ययवत्कृञोऽनुप्रयोगस्य ॥ १,३.६३ ॥ _____ काशिकावृत्तिः१,३.६३: अकर्त्रभिप्रायार्थोऽयमारम्भः । आम्प्रत्ययो यस्मात्सोऽयमाम्प्रत्ययः । आम्प्रत्ययस्य+इव धातोः कृञोऽनुप्रयोगस्य आत्मनेपदं भवति । ईक्षाञ्चक्रे । ईहाञ्चक्रे । यदि विध्यर्थमेतत्, तर्हि उदुब्जाञ्चकार, उदुम्भाञ्चकार इति कर्त्रभिप्राये क्रियाफले अत्मनेपदं प्राप्नोति । न+एष दोषः । उभयमनेन क्रियते, विधिः नियमश्च । कथम् ? पूर्ववतिति वर्तते । स द्वितीयो यत्नो नियमार्थो भविष्यति । कृञः इति किम् ? ईक्षामास । ईक्षाम्बभूव । कथं पुनरस्य अनुप्रयोगः यावता कृञ्च अनुप्रयुज्यते लिति (*३,१.४०) इत्युच्यते ? कृञिति प्रत्याहारग्रहणं तत्र विज्ञायते । क्व संनिविष्टानां प्रत्याहारः ? अभूततद्भावे कृभ्वस्तियोगे सम्पद्यकर्तरि च्विः (*५,४.५०) इति कृशब्दादारभ्य यावत्कृञो द्वितीयतृतीयशम्बबीजात्कृषौ (*५,४.५८) इति ञकरम् ॥ ____________________________________________________________________ प्रोपाभ्यां युजेरयज्ञपात्रेषु ॥ १,३.६४ ॥ _____ काशिकावृत्तिः१,३.६४: युजिर्योगे स्वरितेत् । तस्य कर्त्रभिप्राये क्रियाफले सिद्धमेव आत्मनेपदम् । अकर्त्रभिप्रायार्थोऽयमारम्भः । प्र उप इत्येवं पूर्वात्युजेरयज्ञपात्रप्रयोगविषयादात्मनेपदं भवति । प्रयुङ्क्ते । उपयुङ्क्ते । अयज्ञपात्रेषु इति किम् ? द्वन्द्वं न्यञ्च पात्राणि प्रयुनक्ति {देवसंयुक्तानि} । [॰६७] स्वराध्यन्तोपसृष्टादिति वक्तव्यम् । उद्युङ्क्ते । नियुङ्क्ते । स्वराद्यन्तोपसृष्तातिति किम् ? संयुनक्ति ॥ ____________________________________________________________________ समः क्ष्णुवः ॥ १,३.६५ ॥ _____ काशिकावृत्तिः१,३.६५: क्ष्णु तेजने परस्मैपदी । ततः सम्पूर्वातात्मनेपदं भवति । समो गम्यृच्छि (*१,३.२९) इत्यत्र+एव कस्मान्न पठितः ? अकर्मकातिति तत्र वर्तते । संक्ष्णुते षस्त्रम् । संक्ष्णुवाते, संक्ष्णुवते ॥ ____________________________________________________________________ भुजोऽनवने ॥ १,३.६६ ॥ _____ काशिकावृत्तिः१,३.६६: भुज पालनाभ्यवहारयोः इति रुधादौ पठ्यते । तस्मादनवनेऽपालने वर्तमानादात्मनेपदं भवति । भुङ्क्ते, भुञ्जाते, भुञ्जते । अनवने इति किम् ? भुनक्त्येनमग्निराहितः । अनवन इति प्रतिषेधेन रौधादिकस्यैव ग्रहनं विज्ञायते, न तौदादिकस्य भुजो कौटिल्ये इत्यस्य । तेन+इह न भवति, विभुजति पाणिम् ॥ ____________________________________________________________________ णे रणौ यत्कर्म णौ चेत्स कर्ताऽनाध्याने ॥ १,३.६७ ॥ _____ काशिकावृत्तिः१,३.६७: णिच्श्च (*१,३.७४) इति कर्त्रभिप्राये क्रियाफले सिद्धमेव आत्मनेपदम् । अकर्त्रभिप्रायार्थोऽयमारम्भः । ण्यन्ता दात्मनेप्दं भवति । कथम् ? अणौ यत्कर्म णौ चेत्तदेव कर्म, स एव कर्ता भवति, अनाध्याने आध्यानं वर्जयित्वा । आरोहन्ति हस्तिनं हस्तिपकाः, अरोहयते हस्ती स्वयमेव । उपसिञ्चन्ति हस्तिनं हस्तिपकाः, उपसेचयते हस्ती स्वयमेव । पश्यन्ति भृत्या राजानम्, दर्शयते राजा स्वयमेव । णेः इति किम् ? आरोहन्ति हस्तिनं हस्तिपकाः, आरोहयमाणो हस्ती साध्वारोहति । अणौ इति किम् ? गनयति गनं गोपालकः, गनयति गणः स्वयमेव । कर्मग्रहणं किम् ? लुनाति दात्रेन, लाव्यति दात्रं स्वयमेव । णौ चेद्ग्रहनं समानक्रियार्थम् आरोहन्ति हस्तिनं हस्तिपकाः, आरोहयमाणो हस्ती भीतान् सेचयति मऊत्रेण । यत्सग्रहणमनन्यकर्मार्थम् । आरोहन्ति हस्तिनं हस्तिपकाः, आरोहयमाणो हस्ती स्थलमारोहयति मनुष्यान् । कर्ता इति किम् ? आरोहन्ति हस्तिनं हस्तिपकाः, तानरोहयति महामात्रः । अनाध्याने इति किम् ? स्मरति वङ्गुल्मस्य कोकिलः, समरयत्येनं वङ्गुल्मः स्वयमेव । ननु चात्र कर्मकर्तरि मूलोदाहरणानि । तत्र कर्मवद्भावेन+एव सिद्धमात्मनेपदम् । किमर्थमिदमुच्यते ? कर्मस्थभावकानां कर्मस्थक्रियाणां च कर्मवदतिदेशो विज्ञायते । कर्तृस्थार्थोऽयमारम्भः । तथा च रुहिः कर्तृस्थक्रियः, दृशिः कर्तृस्थभावकः उदाहृतः ॥ ____________________________________________________________________ [॰६८] भीस्म्योर्हेतुभये ॥ १,३.६८ ॥ _____ काशिकावृत्तिः१,३.६८: णेः इति वर्तते । अकर्त्रभिप्रायार्थोऽयमारम्भः । विभेतेः स्मयतेश्च ण्यन्तादात्मनेपदं भवति हेतुभये । हेतुः प्रयोजकः कर्ता लकारवाच्यः, ततश्चेद्भयं भवति । भयग्रहणमुपलक्षणार्थम्, विस्मयोऽपि तत एव ? जटिलो भीषयते । मुण्डो भीषयते । जटिलो विस्मापयते । मुण्डो विस्मापयते । हेतुभये इति किम् ? कुञ्चिकयैनं भाययति । रूपेण विस्माययति । अत्र कुञ्चिका भयस्य करणम्, न हेतुः ॥ ____________________________________________________________________ गृधिवञ्च्योः प्रलम्भने ॥ १,३.६९ ॥ _____ काशिकावृत्तिः१,३.६९: णेः इति वर्तते । अकर्त्रभिप्रायार्थोऽयमारम्भः । गृधु अभिकाङ्क्षायाम्, वञ्चु गतौ इत्येतयोर्ण्यनतयोः प्रलम्भने वर्तमानायोरात्मनेपदं भवति । प्रलम्भनं विसंवादनं, मिथ्याफलाख्यानम् । माणवकं गर्धयते । माणवकं वञ्चयते । प्रल्म्भने इति किम् ? श्वानं गर्धयति । गर्धनमस्योत्पादयति इत्यर्थः अहिं वञ्चयति । परिहरति इत्यर्थः ॥ ____________________________________________________________________ लियः संमाननशालीनीकरणयोश्च ॥ १,३.७० ॥ _____ काशिकावृत्तिः१,३.७०: णेः इति वर्तते । अकर्त्रभिप्रायार्थोऽयमारम्भः । लीङ्श्लेषणे इति दिवादौ पठ्यते ली श्लेषणे इति च क्र्यादौ । विशेषाभावाद्द्वयोरपि ग्रहणम् । लियो ण्यन्तात्संमानने शालीनीकरणे च वर्तमानादात्मनेपदं भवति । चशब्दात्प्रलम्भने च । सम्माननं पूजनम् जटाभिरालापयते । पूजां समधिगच्छति इत्यर्थः । शालीनीकरणं न्यग्भावनम् श्येनो वर्तिकामुल्लापय्ते । न्यक्करोति इत्यर्थः । प्रलम्भने कस्त्वामुल्लापयते । विसंवादयति इत्यर्थः । विभाषा लीयतेः (*६,१.५१) इति वा आत्वं विधीयते । तदस्मिन् विषये नित्यमन्यत्र विकल्पः । व्यवस्थितविभाषा हि सा । सम्माननादिषु इति किम् ? बालकमुल्लापयति ॥ ____________________________________________________________________ मिथ्योपपदात्कृञोऽभ्यासे ॥ १,३.७१ ॥ _____ काशिकावृत्तिः१,३.७१: णेः इति वर्तते । अकर्त्रभिप्रायार्थोऽयमरम्भः । ण्यन्तात्करोतेर्मिथ्योपपदादात्मनेपदं भवति अभ्यासे । अभ्यासः पुनः पुनः करणम्, आवृत्तिः । पदं मिथ्या कारयते । सापचारं स्वरादिदुष्टमसकृदुच्चारयति इत्यर्थः । मिथ्योपपदतिति किम् ? पदं सुष्ठु कारयति । कृञः इति किम् ? पदं मिथ्या वाचयति । अभ्यासे इति किम् ? पदं मिथ्या कारयति । सकृदुच्चारयति ॥ ____________________________________________________________________ [॰६९] स्वरितञितः कर्त्रभिप्राये क्रियाफले ॥ १,३.७२ ॥ _____ काशिकावृत्तिः१,३.७२: णेः इति निवृत्तम् । शेषात्कर्तरि परस्मैपदे प्रप्ते स्वरितेतो ये धातवो ञितश्च तेभ्यः आत्मनेपदं भवति, कर्तारं चेत्क्रियाफलमभिप्रैति । क्रियायाः फलं क्रियाफलं प्रधानभूतम्, यदर्थमसौ क्रिया आरभ्यते तच्चेत्कर्तुर्लकारवाच्यस्य भवति । यजते । पचते । ञितः खल्वपि सुनुते । कुरुते । स्वर्गादि प्रधानफलमिह कर्तारमभिप्रैति । कर्त्रभिप्राये इति किम् ? यजन्ति याजकाः । पचन्ति पाचकाः । कुर्वन्ति कर्मकराः । यद्यपि दक्षिणा भृतिश्च कर्तुः फल्मिहास्ति तथा अपि न तदर्थः क्रियारम्भः ॥ ____________________________________________________________________ अपाद्वदः ॥ १,३.७३ ॥ _____ काशिकावृत्तिः१,३.७३: कर्त्रभिप्राये इति वर्तते । अपपूर्वद्वदतेः कर्त्रभिप्राये क्रियाफले आत्मनेपदं भवति । धनकामो न्यायमपवदते । न्यायापवादेन धनमर्जयिष्यामि इति मन्यते । कर्त्रभिप्रये क्रियफले इत्येव, अपवदति ॥ ____________________________________________________________________ णिचश्च ॥ १,३.७४ ॥ _____ काशिकावृत्तिः१,३.७४: कर्त्रभिप्राये क्रियाफले इति वर्तते । णिजन्तादात्मनेपदं भवति कर्त्रभिप्राये क्रियाफले । कटं कारयते । ओदनं पाचयते । कर्त्रभिप्राये इत्येव, कटं कारयति परस्य ॥ ____________________________________________________________________ समुदाङ्भ्यो यमोऽग्रन्थे ॥ १,३.७५ ॥ _____ काशिकावृत्तिः१,३.७५: कर्त्रभिप्राये इति वर्तते । समुदाङित्येवं पूर्वाद्यमेः कर्त्रभिप्राये क्रियाफले आत्मनेपदं भवति, ग्रन्थविशयश्चेत्प्रयोगो न भवति । व्रीहीन् संयच्छते । भारमुद्यच्छते । वस्त्रमायच्छते । आङ्पूर्वादकर्मकाताङो यमहनः (*१,३.२८) इति सिद्धमेवात्मनेपदम् । सकर्मकार्थमिदं पुनर्ग्रहणम् । अग्रन्थे इति किम् ? उध्यच्छति चिकित्सां वैद्यः । कर्त्रभिप्राये इत्येव, संयच्छति । उद्यच्छति । आयच्छति ॥ ____________________________________________________________________ अनुपसर्गाज्ज्ञः ॥ १,३.७६ ॥ _____ काशिकावृत्तिः१,३.७६: कर्त्रभिप्राय इति वर्तते । अनुपसर्गाज्जानातेः कर्त्रभिप्राये क्रियाफले आत्मनेपदं भवति । गां जानीते । अश्वं जाणीते । अनुपसर्गातिति किम् ? स्वर्गं लोकं न प्रजानाति मूढः । कर्त्रभिप्राये इत्येव, देवदत्तस्य गं जानाति ॥ ____________________________________________________________________ [॰७०] विभाषोपपदेन प्रतीयमाने ॥ १,३.७७ ॥ _____ काशिकावृत्तिः१,३.७७: स्वरितञितः (*१,३.७२) इति पञ्चभिः सुत्रैरात्मनेपदं कर्त्रभिप्राये क्रियाफले द्योतिते विहितम् । तदुपपदेन द्योतिते न प्राप्नोति इति वचनमारभ्यते । समीपे श्रूयमाणं शब्दान्तरमुपपदम् । तेन प्रतीयमाने कर्त्रभिप्राये क्रियाफले विभाशा आत्मनेपदं भवति । स्वं जज्ञं यजते, सवं यज्ञं यजति । सवं कठं कुरुते, स्वं कथं करोति । स्वं पुत्रमपवदते, स्वं पुत्रमपवदति । एवं पञ्चसूत्र्यामुदाहार्यम् ॥ ____________________________________________________________________ शेषात्कर्तरि परस्मैपदम् ॥ १,३.७८ ॥ _____ काशिकावृत्तिः१,३.७८: पूर्वेण प्रकरणेन आत्मनेपदनियमः कृतः, न प्रस्मैपदनियमः । तत्सर्वतः प्राप्नोति, तदर्थमिदमुच्यते । येभ्यो धातुभ्यो येन विशेषणेन आत्मनेपदमुक्तं ततो यदन्यत्स शेषः । शेषात्कर्तरि परस्मैपदं भवति । शेषादेव न अन्यस्मात् । अनुदात्तङित आत्मनेपदमुक्तम् अस्ते । शेते । ततोऽन्यत्र परस्मैपदं भवति याति । वाति । नेर्विशः आत्मनेपदमुक्तम् निविशते । ततोऽन्यत्र परस्मैपदम् आविशति । प्रविशति । कर्तरि इति किम् ? पच्यते । गम्यते । कर्मकर्तरि कस्मात्परस्मैपदं न भवति, पच्यते ओदनः स्वयमेव ? कर्तरि कर्मव्यतिहारे (*१,३.१४) इति द्वितीयं कर्तृग्रहणमनुवर्तते, तेन कर्तैव यः कर्ता तत्र प्रस्मैपदं भवति, कर्मकर्तरि न भवति ॥ ____________________________________________________________________ अनुपराभ्यां कृञः ॥ १,३.७९ ॥ _____ काशिकावृत्तिः१,३.७९: कर्त्रभिप्राये क्रियाफले गन्धनादिषु च करोतेरात्मनेपदं विहितम् । तदपवादः परस्मैपदं विधीयते । अनु परा इत्येवं पूर्वात्करोतेः परस्मैपदं भवति । अनुकरोति । पराकरोति ॥ ____________________________________________________________________ अभिप्रत्यतिभ्यः क्षिपः ॥ १,३.८० ॥ _____ काशिकावृत्तिः१,३.८०: क्षिप प्रेरणे स्वरितेत् । ततः कर्त्रभिप्रायक्रियाफलविवक्षायामात्मनेपदे प्राप्ते परस्मैपदं विधीयते । अभि प्रति अति इत्येवं पूर्वात्क्षिपः परस्मैपदं भवति । अभिक्षिपति । प्रतिक्षिपति । अतिक्षिपति । अभिप्रत्यतिभ्यः इति किम् ? आक्षिपते । द्वितीयमपि कर्तृग्रहणमनुवर्तते, तेन+इह न भवति, अभिक्षिप्यते स्वयमेव ॥ ____________________________________________________________________ [॰७१] प्राद्वहः ॥ १,३.८१ ॥ _____ काशिकावृत्तिः१,३.८१: वह प्राप्ने स्वरितेत् । तत्र कर्त्रभिप्रायक्रियाफलविवक्षायामात्मनेपदे प्राप्ते परस्मैपदं विधीयते । प्रपूर्वाद्वहतेः प्रस्मैपदं भवति । प्रवहति, प्रवहतः, प्रवहन्ति । प्रातिति किम् ? आवहते ॥ ____________________________________________________________________ परेर्मृषः ॥ १,३.८२ ॥ _____ काशिकावृत्तिः१,३.८२: मृष तितिक्षायां स्वरितेत् । ततः तथा+एव आत्मनेपदे प्राप्ते परस्मैपदं विधीयते । परिपूर्वाद्मृष्यतेः परस्मैपदं भवति । परिमृष्यति, परिमृष्यतः, परिमृष्यन्ति । परेः इति किम् ? आमृष्यते । वहतिमपि केचिदत्र अनुवर्तयन्ति परिवहति ॥ ____________________________________________________________________ व्याङ्परिभ्यो रमः ॥ १,३.८३ ॥ _____ काशिकावृत्तिः१,३.८३: रमु क्रीडायम् । अनुदात्तेत्त्वदात्मनेपदे प्राप्ते प्रस्मैपदं विधीयते । विआङ्परि इत्येवं पूर्वात्रमतेः परस्मैपदं भवति । विरमति । आरमति । परिरमति । एतेभ्यः इति किम् ? अभिरमते ॥ ____________________________________________________________________ उपाच्च ॥ १,३.८४ ॥ _____ काशिकावृत्तिः१,३.८४: रमः इत्येव । उपपुर्वात्रमतेः प्रस्मैपदं भवति । देवदत्तमुपरमति । जज्ञदत्तमुपरमति । उपरमयति इति यावत् । अन्तर्भावितन्यर्थोऽत्र रमिः । पृथग्योगकरणमुत्तरार्थम् । अकर्मकाद्विभाषां वक्ष्यति, सा उपपूर्वादेव यथा स्यात् ॥ ____________________________________________________________________ विभाशाऽकर्मकात् ॥ १,३.८५ ॥ _____ काशिकावृत्तिः१,३.८५: रमः उपातिति च वर्तते । पूर्वेण नित्ये परस्मैपदे प्राप्ते विकल्प आरभ्यते । उपपूर्वद्रमतेरकर्मकाद्विभाषा परस्मैपदं भवति । यावद्भुक्तमौपरमति, यावद्भुक्तमुपरमते । निवर्तते इत्यर्थः ॥ ____________________________________________________________________ बुधयुधनशजनेङ्प्रुद्रुस्रुभ्यो णेः ॥ १,३.८६ ॥ _____ काशिकावृत्तिः१,३.८६: णिचश्च (*१,३.७४) इति कर्त्रभिप्रायत्रियाफलविवक्षायामात्मनेपदे प्राप्ते परस्मैपदं विधीयते । बुध युध नश जन इङ्प्रु द्रु स्रु इत्येतेभ्यो ण्यन्तेम्यः परस्मैपदं भवति । बोध्यति । योध्यति । नाशयति । जनयति । अध्यापयति । प्रावयति । द्रावयति । स्रवयति । [॰७२] येऽत्राकर्मकास्तेषामणावकर्मकाच्चित्तवत्कर्तृकात्(*१,३.८८) इत्येवं सिद्धे वचनमिदमचित्तवत्कर्तृकार्थम् । बोध्यति पद्मम् । योध्यन्ति काष्ठानि । नाशयति दुःखम् । जनयति सुखम् । येऽत्र चलनार्थ अपि तेषां निगरणचलनार्थेभ्यश्च (*१,३.८७) इति सिद्धे यदा न चलनार्थास्तदर्थं वचनम् । प्रवते । प्राप्नोति इति गम्यते । अयो द्रवति । विलीयते इत्यर्थः कुण्डिका स्रवति । स्यन्दते इत्यर्थः । तद्विषयाण्युदाहरणानि { प्रावयति । द्रावयति । स्रावयति} ॥ ____________________________________________________________________ निगरणचलनार्थेभ्यश्च ॥ १,३.८७ ॥ _____ काशिकावृत्तिः१,३.८७: णेः इति वर्तते । कर्त्रभिप्रायक्रियाफलविवक्शायामात्मनेपदापवाद्ः परस्मैपदं विधियते । निगरणमभ्यवहारः । चलनं कम्पनम् । निगरणार्थेभ्यश्चलनार्थेभ्यश्च धातुभ्यो ण्यन्तेभ्यः परस्मैपदं भवति । निगारयति । आशयति । भोजयति । चलनार्थेभ्यः चलयति । चोपयति । कम्पयति । अयमपि योगः सकर्मकार्थः, अचित्तवत्कर्तृकार्थश्च । अदेः प्रतिषेधो वक्तव्यः । अत्ति देवदत्तः, आदयते देवदत्तेन ॥ ____________________________________________________________________ अणावकर्मकाच्चित्तवत्कर्तृकात् ॥ १,३.८८ ॥ _____ काशिकावृत्तिः१,३.८८: णेः इति वर्तते । कर्त्रभिप्रायक्रियाफलविवक्षायामात्मनेपदापवादः परस्मैपदं विधीयते । अण्यन्तो यो धतुरकर्मकश्चित्तवत्कर्तृकश्च तस्माद्ण्यन्तात्परस्मैपदं भवति । आस्ते देवदत्तः, आसयति देवदत्तम् । शेते देवदत्तः, शाययति देवदत्तम् । अणौ इति किम् ? चेतयमानं प्रयोजयति चेतयते, इति केचित्प्रत्युदाहरन्ति तद्युक्तम् । हेतुमण्णिचो विधिः । प्रतिषेधोऽपि प्रत्यासत्तेस्तस्य+एव न्याय्यः । तस्मादिह चेतयति इति परस्मैपदेन+एव भवितव्यम् । इदं तु प्रत्युदहरणम् आरोहयमाणं प्रयुड्क्ते आरोहयते । अकर्मकातिति किम् ? कठं कुर्वाणं प्रयुङ्क्ते कारयते । चितवत्कर्तृकातिति किम् ? शुष्यन्ति व्रीहयः, शोषयते व्रीहीनातपः ॥ ____________________________________________________________________ न पादम्याङ्यमाङ्यसपरिमुहरुचिनृतिवदवसः ॥ १,३.८९ ॥ _____ काशिकावृत्तिः१,३.८९: पूर्वेण योगद्वयेन कर्त्रभिप्रयक्रियाफलविवक्षायामात्मनेपदापवादः परस्मैपदं विहितम् । तस्य प्रतिषेधोऽयमुच्यते । यत्कर्त्रभिप्रायविषयमात्मनेपदं तदवस्थितमेव, न प्रतिषिध्यते । पा दमि अङ्यम आङ्यस परिमुह रुचि नृति वद वस इत्येतेभ्यो ण्यन्तेभ्यः परस्मैपदं न भवति । [॰७३] णिचश्च (*१,३.७४) इत्यात्मनेपदं भवति । तत्र पिवतिर्निगरणार्थः । दमिप्रभृतयश्चित्तवत्कर्तृकाः । नृतिश्चलनार्थोऽपि । एषां परस्मैपदं न भवति । पा पाययते । दमि दमयते । आङ्यम् आयामयते । यमोऽपरिवेषणे इति मित्सञ्ज्ञा प्रतिषिध्यते । अङ्यस आयासयते । परिमुह परिमोहयते । रुचि रोचयते । नृति नर्तयते । वद वादयते । वस वासयते । पादिषु धेट उपसङ्ख्यानम् । धापयेते शिशुमेकं समीची ॥ ____________________________________________________________________ वा क्यषः ॥ १,३.९० ॥ _____ काशिकावृत्तिः१,३.९०: लोहितादिडाज्भ्यः क्यष्(*३,१.१३) इति वक्ष्यति । तदन्ताद्धातोर्वा परस्मैपदं भवति । लोहितायति, लोहितायते । पटपटायति, पटपटायते । अथ अत्र प्रस्मैपदेन मुक्ते कथमात्मनेपदं लभ्यते, यावता अनुदात्तङित आत्मनेपदम् (*१,३.१२) इत्येवमादिना प्रकर्णेन तन्नियतम् ? एवं तर्हि आत्मनेपदमेव अत्र विकल्पितं विधीयते, तच्च अनन्तरं परस्मैपदप्रतिषेधेन सनिधापितमिह सम्बध्यते । तेन मुक्ते, शेषात्कर्तरि परस्मैपदं भवति ॥ ____________________________________________________________________ ध्य्द्भ्यो लुङि ॥ १,३.९१ ॥ _____ काशिकावृत्तिः१,३.९१: वा इत्येव । द्युत दीप्तौ । तत्साहचर्याद्लुठादयोऽपि कृपू पर्यन्तास्तथा+एव व्यपदिश्यन्ते । बहुवचननिर्देशादाद्यर्थो भवति । अनुदात्तेत्त्वान्नित्यमेव आत्मनेपदे प्राप्ते द्युतादिभ्यो लुङि वा परस्मैपदं भवति । व्यद्युतत्, व्यद्योतिष्ट । अलुठत्, अलोठिष्ट । लुङि इति किम् ? द्योतते ॥ ____________________________________________________________________ वृद्भ्यः स्यसनोः ॥ १,३.९२ ॥ _____ काशिकावृत्तिः१,३.९२: द्युतादिष्वेव वृतादयः पठ्यन्ते । वृतु वर्तते, वृधु वृद्धौ शृधु शब्दकुत्सायाम्, स्यन्दू प्रस्रवणे, कृपू सामर्थ्ये, एतेभ्यो धतुभ्यः स्ये सनि च परतो वा परस्मैपदं भवति । वृत् वर्त्स्यति । अवर्त्स्यत् । विवृत्सति । वर्तिष्यते । अवर्तिष्यत । विवर्तिषते । वृद्ः वर्त्स्यति । अवर्त्स्यत् । विवृत्सति । वर्धिष्यते । अवर्धिष्यत । विवर्धिषते । स्यसमोः इति किम् ? वर्तते ॥ ____________________________________________________________________ [॰७४] लुटि च क्लुपः ॥ १,३.९३ ॥ _____ काशिकावृत्तिः१,३.९३: वृतादित्वादेव स्यसनोर्विकल्पः सिद्धो लुटि विधीयते । चकारस्तर्हि स्यसनोरनुकर्षणार्थो न वक्तव्यः, एवं तर्हि इयं प्राप्तिः पूर्वां प्राप्तिं बाधेत, तस्माच्चकरः स्यसनोरनुकर्षणार्थः क्रियते । लुटि च स्यसनोश्च क्लृपेः परस्मैपदं वा भवति । कल्प्ता, कल्प्तारौ, कल्प्तारः । कल्प्स्यति । अकल्प्स्यत् । चिकॢप्सति । कल्पिता । कल्पिश्यते । अकल्पिश्यत । चिकल्पिशते ॥ इति श्रीजयादित्यविरचितायां काशिकायां वृत्तौ प्रथमाध्यायस्य तृतीयः पादः ॥ ____________________________________________________________________ [॰७५] आ कडारादेका सञ्ज्ञा ॥ १,४.१ ॥ _____ काशिकावृत्तिः१,४.१: काडराः कर्मधारये (*२,२.३८) इति वक्ष्यति । आ एतस्मात्सूत्रावधेर्यदित ऊर्ध्वमनुक्रमिष्यामः, तत्र एका सञ्ज्ञा भवति इति वेदितव्यम् । का पुनरसौ ? या परा अनवकाशा च । अन्यत्र सञ्जासमावेशान्नियमार्थं वचनमेकैव सञ्ज्ञा भवति इति । वक्ष्यति ह्रस्वं लघु (*१,४.१०), भिदि, छिदि भेत्ता, छेत्ता । संयोगे गुरु (*१,४.११), शिक्षि, भिक्षि शिक्षा, भिक्षा । संयोगपरस्य ह्रस्वस्य लघुसञ्ज्ञा प्राप्नोति, गुरुसञ्ज्ञा च । एका सञ्ज्ञा इति वचनाद्गुरुसञ्ज्ञा एव भवति । अततक्षत्, अररक्षत्, सन्वल्लघुनि चङ्परेऽनग्लोपे (*७,४.९३) इत्येष विधिर्न भवति ॥ ____________________________________________________________________ विप्रतिषेधे परं कार्यम् ॥ १,४.२ ॥ _____ काशिकावृत्तिः१,४.२: तुल्यबलविरोधो विप्रतिषेधः । यत्र द्वौ प्रसङ्गावन्यार्थवेकस्मिन् युगपत्प्राप्नुतः, स तुल्यबलविरोधो विप्रतिषेधः । तस्मिन् विप्रतिषेधे परं कार्यं भवति । उत्सर्गापवादनित्यानित्यान्तरङ्गवहिरङ्गेषु तुल्यबलता न अस्ति इति न अयमस्य योगस्य विषयः । बलवतैव तत्र भवितव्यम् । अप्रवृत्तौ, पर्यायेण वा प्रवृत्तौ प्राप्तायां वचनमारभ्यते । अतो दीर्घो यञि (*७,३.१०१), सुपि च (*७,३.१०२) इत्यस्य अवकाशः वृक्षाभ्याम्, प्लक्षाभ्याम् । वहुवचने झल्येत्(*७,३.१०३) इत्यस्य अवकाशः वृक्षेषु, प्लक्षेषु । इह+उभयं प्राप्नोति वृक्षेभ्यः, प्लक्षेभ्यः इति । परं भवति विप्रतिषेधेन ॥ ____________________________________________________________________ यू स्त्र्याख्यौ नदी ॥ १,४.३ ॥ _____ काशिकावृत्तिः१,४.३: ई च ऊ च यू । अविभक्तिको निर्देशः । स्त्रियमाचक्षते स्त्र्याख्यौ । [॰७६] मूलविभुजादिदर्शनात्कप्रत्ययः । ईकारान्तमूकरान्तं च स्त्र्याख्यं शब्दरूपं नदीसञ्ज्ञं भवति । [॰७५] ईकरान्तम् कुमारी । गौरी । लक्ष्मीः । शार्ङ्गरवी । ऊकारान्तम् ब्रह्मवन्धूः । यवागूः । यू इति किम् ? मात्रे । दुहित्रे । स्त्र्याख्यौ इति किम् ? ग्रामणीः । सेनानीः । खलपूः । आख्याग्रहणं किम् ? शब्दार्थे स्त्रीत्व एव यथा स्यात्, पदान्तराख्ये मा भूत्, ग्रामन्ये स्त्रियै । खलप्वे स्त्रियै । नदीप्रदेशाः आण्नद्याः (*७,३.११२) इत्येवमादयः ॥ ____________________________________________________________________ [॰७६] नेयङुवङ्स्थानावस्त्री ॥ १,४.४ ॥ _____ काशिकावृत्तिः१,४.४: पूर्वणातिप्रसक्ता नदीसञ्ज्ञा प्रतिषिध्यते । स्थितिः स्थानम् । इयङुवङोः इति इयङुवङ्स्थानौ, तौ यू नदीसञ्ज्ञौ न भवतः, स्त्रीशब्दं वर्जयित्वा । हे श्रीः । हे भ्रूः । अस्त्री इति किम् ? हे स्त्रि ॥ ____________________________________________________________________ व+आमि ॥ १,४.५ ॥ _____ काशिकावृत्तिः१,४.५: पूर्वेण नित्ये प्रतिषेधे प्राप्ते आमि विकल्पः क्रिय्ते । इयङुवङ्स्थानौ यू आमि परतो वा नदीसञ्ज्ञौ न भवतः । श्रियाम्, श्रीणाम् । भ्रुवाम्, भ्रूणाम् । अस्त्री इत्येव, स्त्रिणाम् ॥ ____________________________________________________________________ ङिति ह्रस्वश्च ॥ १,४.६ ॥ _____ काशिकावृत्तिः१,४.६: दीर्घस्य नदीसञ्ज्ञा विहिता, ह्रस्वस्य न प्राप्नोति, इयङुवङ्स्थानयोश्च प्रतिषिद्धा । तस्मान् ङिति व विधीयते । ङिति परतो ह्रस्वश्च य्वोः सम्बन्धी यः स्त्र्याख्यः, स्त्र्याख्यौ इयङुवङ्स्थानौ च यू वा नदी सञ्ज्ञौ भवतः । कृत्यै, कृतये । धेन्वै, धेनवे । श्रियै, श्रिये । भ्रुवै, भ्रुवे । अस्त्री इत्येव, स्त्रियै । स्त्र्याख्यौ इत्येव, अग्नये । वाय्वे । भनवे ॥ ____________________________________________________________________ शेषो घ्यसखि ॥ १,४.७ ॥ _____ काशिकावृत्तिः१,४.७: ह्रस्वः इति वर्तते । शेषोऽत्र घिसञ्ज्ञो भवति, सखिशब्दं वर्जयित्वा । कश्च शेषः ? ह्रस्वमिवर्णोवर्णान्तं यन्न स्त्र्याख्यम्, स्त्र्याख्यं च यन्न नदीसञ्ज्ञकं, स शेषः । अग्नये । वायवे । कृतये । धेनवे । असखि इति किम् ? सख्या । सख्ये । सख्युः । सख्यौ । घिप्रदेशाः द्वन्द्वे घि (*२,२.३२) इत्येवमादयः ॥ ____________________________________________________________________ पतिः समास एव ॥ १,४.८ ॥ _____ काशिकावृत्तिः१,४.८: पतिशब्दस्य घिसञ्ज्ञायां सिद्धायामयं नियमः क्रियते, पतिशब्दः समासे एव घिसञ्ज्ञओ भवति । प्रजापतिना । प्रजापतये । समासे इति किम् ? पत्या । पत्ये । एवकार इश्टतोऽवधारणार्थः । दृढमुष्टिना । दृढमुष्टये ॥ ____________________________________________________________________ [॰७७] षष्ठीयुक्तश्छन्दसि वा ॥ १,४.९ ॥ _____ काशिकावृत्तिः१,४.९: पतिः इति वर्तते । पूर्वेण नियमेन असमासे न प्राप्नोति इति वचनमारभ्यते । षष्ठ्यन्तेन युक्तः पतिशब्दः छन्दसि वषये वा घिसञ्ज्ञो भवति । कुलुञ्चानां पतये नमः, कुलुञ्चानां पत्ये नमः । षस्ठीग्रहणं किम् ? मया पत्या जरदष्टिर्यथासः । छन्दसि इति किम् ? ग्रामस्य पत्ये ॥ ____________________________________________________________________ ह्रस्वं लघु ॥ १,४.१० ॥ _____ काशिकावृत्तिः१,४.१०: मात्रिकस्य ह्रस्वसञ्ज्ञा कृता तस्य अनेन लघुसञ्ज्ञा विधीयते । ह्रस्वमक्षरं लघुसञ्ज्ञं भवति । भेता । छेत्त । अचीकरत् । अजीहरत् । लघुप्रदेशाः पुगन्तलघूपधस्य च इत्येवमादयः ॥ ____________________________________________________________________ संयोगे गुरु ॥ १,४.११ ॥ _____ काशिकावृत्तिः१,४.११: ह्रस्वमिति वर्तते । पूर्वेण लघुसञ्ज्ञायां प्राप्तायां गुरुसञ्ज्ञा विधीयते । संयोगे प्रतो ह्रस्वमक्षरं गुरुसञ्ज्ञं भवति । कुण्डा । हुण्डा । शिक्षा भिक्षा । गुरुप्रदेशाः गुरोश्च हलः (*३,३.१०३) इत्येवमादयः ॥ ____________________________________________________________________ दीर्घं च ॥ १,४.१२ ॥ _____ काशिकावृत्तिः१,४.१२: संयोगे इति न अनुवर्तते । सामान्येन सञ्ज्ञाविधान । दीर्घं च अक्षरं गुरुसञ्ज्ञं भवति । ईहाञ्चक्रे । ईक्षाञ्चक्रे ॥ ____________________________________________________________________ यस्मात्प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम् ॥ १,४.१३ ॥ _____ काशिकावृत्तिः१,४.१३: यस्मात्प्रत्ययो विधीयते धातोर्वा प्रातिपदिकाद्वा तदादि शब्दरूपं प्रत्यये परतोऽङ्गसञ्ज्ञं भवति । कर्ता । हर्ता । करिष्यति हरिष्यति । अकरिष्यत् । औपगवः । कापटवः । यस्मातिति सञ्ज्ञिनिर्देशार्थम्, तदादि इति सम्बन्धात् । प्रत्ययग्रहणं किम् ? न्यविशत । व्यक्रीणीत । नेर्बिशः (*१,३.१७) इत्युपसर्गाद्विधिरस्ति, तदादेरङ्गसञ्ज्ञा स्यात् । विधिग्रहणं किम् ? प्रत्ययपरत्वमात्रे मा भूत् । स्त्री इयती । तदादिवचनं स्यादिनुमर्थम् । [॰७८] करिष्यावः । करिष्यामः । कुण्डानि । पुनः प्रत्ययग्रहणं किमर्थम् ? लुप्तप्रत्यये मा भूत् । श्र्यर्थम् । भ्र्वर्थम् । अङ्गप्रदेशाः अङ्गस्य (*६,४.१) इत्येवमादयः ॥ ____________________________________________________________________ सुप्तिङन्तं पदम् ॥ १,४.१४ ॥ _____ काशिकावृत्तिः१,४.१४: सुप्तिङिति प्रत्याहारगरहणम् । सुबन्तं तिङन्तं च शब्दरूपं पदसञ्ज्ञं भवति । ब्राह्मणाः पथनित् । पदसञ्ज्ञायामन्तग्रहणमन्यत्र सञ्ज्ञाविधौ प्रत्ययग्रहणे तदन्तविधेः प्रतिषेधार्थम् । गौरी ब्राह्मणितरा । पदप्रदेशाः पदस्य (*८,१.१३), पदात्(*८,१.१७) इत्येवमादयः ॥ ____________________________________________________________________ नः क्ये ॥ १,४.१५ ॥ _____ काशिकावृत्तिः१,४.१५: क्ये इति क्यच् क्यङ् क्यशां सामान्यग्रहनम् । नान्तं शब्दरूपं क्ये परतः पदसञ्ज्ञं भवति । क्यच् राजीयति । क्यङ् राजायते । क्यश् चर्मायति, चर्मायते । सिद्धे सत्यारम्भो नियमार्थः । नान्तमेव क्ये परतः पदसम्ञ्ज्ञं भवति, न अन्यत् । वाच्यति । स्रुच्यति ॥ ____________________________________________________________________ सिति च ॥ १,४.१६ ॥ _____ काशिकावृत्तिः१,४.१६: यचि भम् (*१,४.१८) इति वक्ष्यति । तस्यायं पुरस्तादपवादः । सिति प्रत्यये परतः पूर्वं पदसञ्ज्ञं भवति । भवतष्ठक्छसौ (*४,२.११५) भवदीयः । ऊर्णाया युस्(*५,२.१२३) ऊर्णायुः । ऋतोरण्(*५,१.१०५), छन्दसि घस्(*५,१.१०६) ऋत्वियः ॥ ____________________________________________________________________ स्वादिष्वसर्वनमस्थाने ॥ १,४.१७ ॥ _____ काशिकावृत्तिः१,४.१७: ____________________________________________________________________ यचि भम् ॥ १,४.१८ ॥ _____ काशिकावृत्तिः१,४.१८: सवादिश्वसर्वनामस्थाने इति वर्तते । पूर्वेण पदसञ्ज्ञायां प्राप्तायां तदपवादो भसञ्ज्ञा विधीयते । यकारादावजादौ च स्वादौ सर्वनामस्थानवर्जिते प्रत्यये परतः पूर्वं भस्ञ्ज्ञं भवति । यकारादौ गार्ग्यः । वात्सयः । अजादौ दाक्षिः । प्लाक्षिः । [॰७९] नभोऽङ्गिरोमनुषां वत्युपसङ्ख्यानम् । नभ इव नभस्वत् । अङ्गिरा इव अङ्गिरस्वत् । मनुरिव मनुष्वत् । वृषण्वस्वश्वयोः । वृषनित्येतत्वस्वश्वयोः प्रतो भसञ्ज्ञं भवति छन्दसि विशये । वृषण्वसुः । वृषणश्वस्य मैनासीत् । भप्रदेशाः भस्य (*६,४.१२९) इत्येवमादयः ॥ ____________________________________________________________________ तसौ मत्वर्थे ॥ १,४.१९ ॥ _____ काशिकावृत्तिः१,४.१९: भमिति वर्तते । तकारान्तं सकारान्तं शब्दरूपं मत्वर्थे प्रत्यये परतो भसञ्ज्ञं भवति । उदश्वित्वान् घोषः । विद्युत्वान् बलाहकः । सकारान्तम् पयस्वी । यशस्वी । तसौ इति किम् ? तक्षवान् ग्रामः ॥ ____________________________________________________________________ अयस्मयादीनि छन्दसि ॥ १,४.२० ॥ _____ काशिकावृत्तिः१,४.२०: अयस्मयादीनि शब्दरूपाणि छन्दसि विशये साधूनि भवन्ति । भपदसञ्ज्ञाधिकारे विधनात्तेन सुखेन सधुत्वमयस्मयादीनां विधीयते । अयस्मयं वर्म । अयस्मयानि पात्राणि । क्वचिदुभयमपि भवति । स सुष्टुभा स ऋक्वता गणेन । पदत्वात्कुत्वं, भत्वाज्जश्त्वं न भवति । छन्दसि इति किम् ? अयोमयं वर्म । आकृतिगणोऽयम् ॥ ____________________________________________________________________ बहुषु बहुवचनम् ॥ १,४.२१ ॥ _____ काशिकावृत्तिः१,४.२१: ङ्याप्प्रातिपदिकात्स्वादयः, लस्य तिबादयः इति सामान्येन बहुवचनं विहितं, तस्य अनेन बहुत्वसङ्ख्या वाच्यत्वेन विधीयते । बहुषु बहुवचनं भवति । बहुत्वमस्य वाच्यं भवति इति यावत् । कर्मादयोऽप्यपरे विभक्तीनामर्था वाच्याः । तदीये बहुत्वे बहुवचनम् । कर्मादिषु बहुषु बहुवचनमित्यर्थः । व्राह्मणाः पठन्ति । यत्र च सङ्ख्या सम्भवति तत्र अयमुपदेशः । अव्ययेभ्यस्तु निःसङ्ख्येभ्यः सामान्यविहिताः स्वादयो विद्यन्त एव ॥ ____________________________________________________________________ द्व्येकयोर्द्विबचनैकवचने ॥ १,४.२२ ॥ _____ काशिकावृत्तिः१,४.२२: द्वित्वैकयोरर्थयोः द्विवचनैकवचने भवतः । एतदपि सामान्यविहितयोर्द्विवचनैकवचनयोरर्थाभिधानम् । द्वित्वे द्विवच्नं भवति । एकत्वे एकवचनं भवति । ब्राह्मणौ पठतः । ब्राह्मणः पठति ॥ ____________________________________________________________________ [॰८०] कारके ॥ १,४.२३ ॥ _____ काशिकावृत्तिः१,४.२३: कारके इति वशेषणमपादानादिसञ्ज्ञाविषयमधिक्रियते । कारके इत्यधिकारो वेदितव्यः । यदित ऊर्ध्वमनुक्रमिष्यामः कारके इत्येवं तद्वेदितव्यम् । कारकशब्दश्च निमित्तपर्यायः । करकं हेतुः इत्यनर्थान्तरम् । कस्य हेतुः ? क्रियायाः । वक्ष्यति, घ्रुवमपायेऽपादानम् (*१,४.२४) ग्रामादागच्छति । पर्वतादवरोहति । कारके इति किम् ? वृक्षस्य पर्णं पतति । कुड्यस्य पिण्डः पतति । अकथितं च (*१,३.५१), अकथितं च कारकं कर्मसञ्ज्ञं भवति माणवकं पन्थानं पृच्छति । करके इति किम् ? माणवकस्य पितरं पन्थानं पृच्छति । कारकसंशब्दनेषु च अनेन एव विशेषणेन व्यवहारो विज्ञायते ॥ ____________________________________________________________________ ध्रुवमपायेऽपादानम् ॥ १,४.२४ ॥ _____ काशिकावृत्तिः१,४.२४: ध्रुवं यदपाययुक्तमपाये साध्ये यदवधिभूतं तत्कारकमपादानसञ्ज्ञं भवति । ग्रामादागछ्हति । पर्वतादवरोहति । सार्थाद्धीनः । रथात्पतितः । जुगुप्साविरामप्रमादार्थनामुपसङ्ख्यानम् । अधर्माज्जुगुप्सते । अधर्माद्विरमति । धर्मात्प्रमाद्यति । अपादानप्रदेशाः अपादाने पञ्चमी (*२,३.२८) इत्येवमादयः ॥ ____________________________________________________________________ भीत्रार्थानां भयहेतुः ॥ १,४.२५ ॥ _____ काशिकावृत्तिः१,४.२५: बिभेत्यर्थानां त्रायत्यर्थानां च धातूनां प्रयोगे भयहेतुर्यः स्तत्कारकमपादानसञ्ज्ञं भवति । चौरेभ्यो बिभेति । चौरेभ्य उद्विजते । त्रायत्यर्थानाम् चौरेभ्यस्त्रायते । चौरेभ्यो रक्षति । भयहेतुः इति किम् ? अरण्ये बिभेति । अरण्ये त्रायते ॥ ____________________________________________________________________ पराजेरसोढः ॥ १,४.२६ ॥ _____ काशिकावृत्तिः१,४.२६: परापूर्वस्य जयतेः प्रयोगेऽसोढो, योऽर्थः सोढुं न शक्यते, तत्कारकमपादानसञ्ज्ञं भवति । अध्ययनात्पराजयते । असोढः इति किम् ? शत्रून् पराजयते ॥ ____________________________________________________________________ वारणार्थानामीप्सितः ॥ १,४.२७ ॥ _____ काशिकावृत्तिः१,४.२७: वारणार्थानां धातूनां प्रयोगे य ईप्सितोऽर्थः तत्कारकमपादानसञ्ज्ञं भवति । प्रवृत्तिविघातो वारनम् । यवेभ्यो गा वारयति । यवेभ्यो गा निवर्तयति । ईप्सितः इति किम् ? यवेभ्यो गा वारयति क्षेत्रे ॥ ____________________________________________________________________ [॰८१] अन्तर्धौ येन अदर्शनमिच्छति ॥ १,४.२८ ॥ _____ काशिकावृत्तिः१,४.२८: व्यव्धानमन्तर्धिः । अन्तर्धिनिमित्तं येन अदर्शनमात्मन इच्छति तत्कारकमपादानसञ्ज्ञं भवति । उपाध्यायादन्तर्धत्ते । उपाध्यायान्निलीयते । मा मामुपाध्यायो द्राक्षीतिति निलीयते । अन्तर्धौ इति किम् ? चौरान्न दिदृक्षते । इच्छतिग्रहणं किम् ? अदर्शनेच्छायां सत्यां सत्यपि दर्शने यथा स्यात् ॥ ____________________________________________________________________ आख्यातोपयोगे ॥ १,४.२९ ॥ _____ काशिकावृत्तिः१,४.२९: आख्याता प्रतिपादयिता । उपयोगः नियमपूर्वकं विध्याग्रहणम् । उपयोगे साध्ये य आख्याता तत्कारकमपादानसञ्ज्ञं भवति । उपाध्यायादधीते । उपाध्यायादागमयति । उपयोगे इति किम् ? नटस्य शृणोति ॥ ____________________________________________________________________ जनिकर्तुः प्रकृतिः ॥ १,४.३० ॥ _____ काशिकावृत्तिः१,४.३०: जनेः कर्ता जनिकर्ता । जन्यर्थस्य जन्मनः कर्ता जायमानः, तस्य या प्रकृतिः कारणम्, हेतुः, तत्कारकमपादानञ्ज्ञं भवति । शृङ्गाच्छरो जायते । गोमयाद्वृश्चिको जायते ॥ ____________________________________________________________________ भुवः प्रभवः ॥ १,४.३१ ॥ _____ काशिकावृत्तिः१,४.३१: कर्तुः इति वर्तते । भवनं भूः । प्रभवत्यस्मातिति प्रभाः । भूकर्तुः प्रभवो यः, तत्कारकमपादानसंज्ञं भवति । हिमवतो गङ्गा प्रभवति । काश्मीरेभ्यो वितस्ता प्रभवति । प्रथमत उपलभ्यते इत्यर्थः ॥ ____________________________________________________________________ कर्मणा यमभिप्रैति स सम्प्रदानम् ॥ १,४.३२ ॥ _____ काशिकावृत्तिः१,४.३२: कर्मणा करणभूतेन कर्ता यमभिप्रैति तत्कारकं सम्प्रदानसञ्ज्ञं भवति । अन्वर्थसञ्ज्ञाविज्ञानाद्ददातिकर्मणा इति विज्ञायते । उपाध्यायाय गां ददाति । माणवकाय भिक्षां ददाति । क्रियाग्रहणमपि कर्तव्यम् । क्रिययाऽपि यमभिप्रैति स सम्प्रदानम् । श्राद्धाय निगर्हते । युद्धाय सन्नह्यते । पत्ये शेते । सम्प्रदानप्रदेशाः चतुर्थी सम्प्रदाने (*२,३.१३) इत्येवमादयः । कर्मणः करणसञ्ज्ञा वक्तव्या सम्प्रदानस्य च कर्मसञ्ज्ञा । पशुना रुद्रं यजते । पशुं रुद्राय ददाति इत्यर्थः ॥ ____________________________________________________________________ [॰८२] रुच्यर्थानां प्रीयमाणः ॥ १,४.३३ ॥ _____ काशिकावृत्तिः१,४.३३: रुचिना समानार्थाः रुच्यर्थाः अन्यकर्तृकोऽभिलाषो रुदिः । रुच्यर्थानां धातूनां प्रयोगे प्रीयमाणो योऽर्थः, तत्कारकं सम्प्रदानासञ्ज्ञं भवति । देवदत्ताय रोचते मोदकः । यज्ञदत्ताय स्वदतेऽपूपः । देवदत्तस्थस्याभिलाषस्य मोदकः कर्ता । प्रीयमाणः इति किम् ? देवदत्ताय रोचते मोदकः पथि ॥ ____________________________________________________________________ श्लाघह्नुङ्स्थाशपां ज्ञीप्स्यमानः ॥ १,४.३४ ॥ _____ काशिकावृत्तिः१,४.३४: श्लाघ ह्नुङ्स्था शप इत्येतेषां ज्ञीप्स्यमानो योऽर्थह्, तत्कारकं सम्प्रदानसञ्ज्ञं भवति । ज्ञीप्स्यमानः ज्ञपयितुमिष्यमणः, बोध्यितुमभिप्रेतः । देवदत्ताय श्लाघते । देवदत्तं श्लाघमानस्तां श्लाघां तमेव ज्ञपयितुमिच्छति इत्यर्थः । एवम् देवदत्ताय ह्नुते । यज्ञदत्ताय ह्नुते । देवदत्ताय तिष्ठते । यज्ञदत्ताय तिष्ठते । देवदत्ताय शपते । यज्ञदत्ताय शपते । ज्ञीप्स्यमानः इति किम् ? देअदत्ताय श्लाघते पथि ॥ ____________________________________________________________________ धारेरुत्तमर्णः ॥ १,४.३५ ॥ _____ काशिकावृत्तिः१,४.३५: धारयतेः प्रयोगे उत्तमर्णो योऽर्थः, तत्कारकं सम्प्रदानसञ्ज्ञं भवति । उत्तममृणं यस्य स उत्तमर्णः । कस्य चोत्तममृणम् ? यदीयं धनम् । धनस्वामी प्रयोक्ता उत्तमर्णः, स सम्प्रदानसञ्ज्ञो भवति । देवदत्ताय शतं धारयति । यज्ञदत्ताय शतं धारयति । उत्तार्णः इति किम् ? देवदत्ताय शतं धरयति ग्रामे ॥ ____________________________________________________________________ स्पृहेरीप्सितः ॥ १,४.३६ ॥ _____ काशिकावृत्तिः१,४.३६: स्पृह ईप्सायां चुरादावदन्तः पठ्यते । तस्य ईप्सितो योऽर्थः, तत्कारकं सम्प्रदानसञ्ज्ञं भवति । ईप्सितः इत्यभिप्रेतः उच्यते । पुष्पेभ्यः स्पृहयति । फलेभ्यः स्पृहयति । ईप्सितः इति किम् ? पुश्पेभ्यो वने स्पृहयति ॥ ____________________________________________________________________ क्रुधद्रुहेर्ष्यासूयार्थानां यं प्रति कोपः ॥ १,४.३७ ॥ _____ काशिकावृत्तिः१,४.३७: अमर्षः क्रोधः । अपकारो द्रोहः । अक्षमा ईर्ष्या । गुणेषु दोषाविष्करनमसूया । क्रुधाद्यर्थानां प्रयोगे यं प्रति कोपः, तत्कारकं सम्प्रदानसञ्ज्ञं भवति । क्रोधस्तावत्कोप एव । द्रोहादयोऽपि कोपप्रभवा एव गृह्यन्ते । तस्मात्सामान्येन विशेसणं यं प्रति कोपः इति । देवदत्ताय क्रुध्यति । देवदत्ताय द्रुह्यति । देवदत्ताय ईर्ष्यति । देवदत्ताय असूयति । यं प्रति कोपः इति किम् ? भार्यामीर्ष्यति, मा एनामन्यो द्राक्षीतिति ॥ ____________________________________________________________________ [॰८३] क्रुधद्रुहोरुपसृष्ठयोः कर्म ॥ १,४.३८ ॥ _____ काशिकावृत्तिः१,४.३८: पूर्वेण सम्प्रदानसञ्ञायां प्राप्तायां कर्मसञ्ज्ञा विधीयते । [॰८२] क्रुधद्रुहोरुपसृष्टयोरुपसर्गसम्बद्धयोः यं प्रति कोपः, तत्कारकं कर्मसञ्ज्ञं भवति । देवदत्तमभिक्रुध्यति । देवदत्तमभिद्रुह्यति । उपसऋष्टयोः इति किम् ? देवदत्ताय क्रुध्यति । यज्ञदत्ताय द्रुह्यति ॥ ____________________________________________________________________ [॰८३] राद्ःीक्ष्योर्यस्य विप्रश्नः ॥ १,४.३९ ॥ _____ काशिकावृत्तिः१,४.३९: राधेरीक्षेश्च कारकं सम्प्रदानसञ्ज्ञं भवति । कीदृशम् ? यस्य विप्रशः । विविधः प्रश्नः विप्रश्नः । स कस्य भवति ? यस्य शुभाशुभं पृच्छ्यते । देवदत्ताय राध्यति । देवदत्ताय ईक्षते । नैमित्तिकः पृष्टः सन् देवदत्तस्य दैवं पर्यालोचयति इत्यर्थः ॥ ____________________________________________________________________ प्रत्याङ्भ्यां श्रुवः पूर्वस्य कर्ता ॥ १,४.४० ॥ _____ काशिकावृत्तिः१,४.४०: प्रति आङित्येवं पूर्वस्य शृणोतेः कारकं सम्प्रदानसञ्ज्ञं भवति । कीदृशम् ? पूर्वस्य कर्ता । प्रतिपूर्व आङ्पूर्वश्च शृणोति रभ्युपगमे प्रतिज्ञाने वर्तते । स च अभ्युपगमः परेन प्रयुक्तस्य सतो भवति । तत्र प्रयोक्ता पूर्वस्याः क्रियाया कर्ता सम्प्रदानसञ्ज्ञो भवति । देवचत्ताय गां प्रतिशृणोति । देवदत्ताय गामाशृणोति । प्रतिजानीते इत्यर्थः ॥ ____________________________________________________________________ अनुप्रतिगृणश्च ॥ १,४.४१ ॥ _____ काशिकावृत्तिः१,४.४१: पूर्वस्य कर्ता इति वर्तते । अनुपूर्वस्य प्रतिपूर्वस्य च गृणातेः कारकं पूर्वस्याः क्रियायः कर्तृभूतं संप्रदानसञ्ज्ञं भवति । होत्रेऽनुगृणाति । होता प्रथमं शंसति, तमन्यः प्रोत्साहयति । अनुगरः, प्रतिगरः इति हि संसितुः प्रोत्साहने वर्तते । होत्रेऽनुगृणाति, होतारं शंसन्तं प्रोत्साहयति इत्यर्थः ॥ ____________________________________________________________________ साधकतमं करणम् ॥ १,४.४२ ॥ _____ काशिकावृत्तिः१,४.४२: क्रियासिद्धौ यत्प्रकृष्टोपकारकं विवक्षितं तत्साधकतमं कारकं करणसञ्ज्ञं भवति । दात्रेण लुनाति । परशुना छिनत्ति । तमब्ग्रहनं किम् ? गङ्गायां घोषः । कूपे गर्गकुलम् । करणप्रदेशाः कर्तृकरणयोस्तृतीया (*२,३.१८) इत्येवमादयः ॥ ____________________________________________________________________ [॰८४] दिवः कर्म च ॥ १,४.४३ ॥ _____ काशिकावृत्तिः१,४.४३: पूर्वेण करणसञ्ज्ञायां करनसञ्ज्ञायां प्राप्तायां कर्मसञ्ज्ञा विधीयते । दिवः साधकतमं यत्कारकं तत्कर्मसञ्ज्ञं भवति, चकारात्करणसञ्ज्ञं च । अक्षान् दीव्यति, अक्षैर्दीव्यति ॥ ____________________________________________________________________ परिक्रयणे सम्प्रदानमन्यतरस्याम् ॥ १,४.४४ ॥ _____ काशिकावृत्तिः१,४.४४: साधकतममिति वर्तते । पूर्वेन करणसञ्ज्ञायां प्राप्ताया सम्प्रदानसज्ञा पक्षे विधीयते । परिक्रयणे साधकतमं कारकमन्यतरस्यां सम्प्रदानसञ्ज्ञं भवति । परिक्रयणं नियतकालं वेतनादिना स्वीकरणम्, नत्यन्तिकः क्रय एव । शतेन परिक्रीतोऽनुब्रूहि, शताय परिक्रीतोऽनुब्रूहि । सहस्रेण परिक्रीतोऽनुब्रूहि, सहस्राय परिक्रीतोऽनुब्रूहि ॥ ____________________________________________________________________ आधारोऽधिकरणम् ॥ १,४.४५ ॥ _____ काशिकावृत्तिः१,४.४५: आघ्रियन्तेऽस्मिन् क्रियाः इत्याधारः । कर्तृकर्मणोः क्रियाश्रयभूतयोः धारणक्रियां प्रति य आधारह्, तत्कारकमधिकरणसञ्ज्ञं भवति । कटे आस्ते । कटे शेते । स्थाल्यां पचति । अधिकरनप्रदेशाः सप्तम्यधिकरणे च (*२,३.३६) इत्येवमादयः ॥ ____________________________________________________________________ अधिशीङ्स्थासां कर्म ॥ १,४.४६ ॥ _____ काशिकावृत्तिः१,४.४६: पूर्वेण अधिकरणसञ्ज्ञायां प्राप्तायां कर्मसञ्ज्ञा विधीयते । अधिपूर्वाणां शीङ्स्था आसित्येतेषामाधारो यः, तत्कारकं कर्मसञ्ज्ञं भवति । ग्राममधिशेते । ग्राममधितिष्ठति । पर्वतमध्यास्ते ॥ ____________________________________________________________________ अभिनिविशश्च ॥ १,४.४७ ॥ _____ काशिकावृत्तिः१,४.४७: अभिनिपूर्वस्य विशतेराधारो यः, तत्कारकं कर्मसञ्ज्ञं भवति । ग्राममभिनिविशते । कथं कल्याणेऽभिनिवेशः, पापेऽभिनिवेशः, या या सञ्ज्ञा यस्मिन् यस्मिन् सञ्ज्ञिन्यभिनिविशते इति ? अन्यतरस्यामिति वर्तते, परिक्रयणे सम्प्रदानमन्यतरस्याम् (*१,४.४४) इत्यतः । सा च व्यवस्थितविभाषा विज्ञायते ॥ ____________________________________________________________________ [॰८५] उपान्वध्याङ्वसः ॥ १,४.४८ ॥ _____ काशिकावृत्तिः१,४.४८: उप अनु अधि आ इत्येवं पूर्वस्य वसतेराधारो यः, तत्कारकं कर्मसञ्ज्ञं भवति । ग्राममुपवसति सेना । पर्वतमुपवसति । ग्राममनुवसति । ग्राममधिवसति । ग्राममावसति । वसेरश्यर्थस्य प्रतिषेधो वक्तव्यः । ग्रामे उपवसति । भोजननिवृत्तिं करोति इत्यर्थः ॥ ____________________________________________________________________ कर्त्रुरीप्सिततमं कर्म ॥ १,४.४९ ॥ _____ काशिकावृत्तिः१,४.४९: कर्तुः क्रियया यदाप्तुमिष्टतमं तत्कारकं कर्मसञ्ज्ञं भवति । कटं करोति । ग्रामं गच्छति । कर्तुः इति किम् ? माषेष्वश्वं बध्नाति । कर्मण ईप्सिता माषाः, न कर्तुः । तमब्ग्रहणं किम् ? पयसा ओदनं भुङ्क्ते । कर्म इत्यनुवर्तमाने पुनः कर्मग्रहणमाधारनिवृत्त्यर्थम् । इतरथा आधारस्य+एव हि स्यात्गेहं प्रविशति इति । ओदनं पचति, सक्तून् पिबति इत्यादिषु न स्यात् । पुनः कर्मग्रहणात्सर्वत्र सिद्ध भवति । कर्मप्रदेशाः कर्मणि द्वितीया (*२,३.२) इत्येवमादयः ॥ ____________________________________________________________________ तथायुक्तं च अनीप्सितम् ॥ १,४.५० ॥ _____ काशिकावृत्तिः१,४.५०: येन प्रकारेण कर्तुरीप्सिततमं क्रियया युज्यते, तेन+एव चेत्प्रकारेन यदनीप्सितं युक्तं भवति, तस्य कर्मसञ्ज्ञा विधीयते । ईप्सितादन्यत्सर्वमनीप्सितम्, द्वेष्यम, इतरच्च । विषं भक्षयति । चौरान् पश्यति । ग्रामं गच्छन् वृक्षमूलान्युपसर्पति ॥ ____________________________________________________________________ अकथितं च ॥ १,४.५१ ॥ _____ काशिकावृत्तिः१,४.५१: अकथितं च यत्कारकं तत्कर्मसञ्ज्ञं भवति । केन अकथितम् ? अपादानादिविशेषकथाभिः । परिगणनं कर्तव्यम् दुहियाचिरुधिप्रच्छिभिक्षिचिञामुपयोगनिमित्तमपूर्वविधौ । ब्रुविशासिगुणेन च यत्सचते तदकीर्तितमाचरितं कविना ॥ उपयुज्यते इत्युपयोगः पयःप्रभृति । तस्य निमित्तं गवादि । तस्य+उपयुज्यमानपयःप्रभृतिनिमित्तस्य गवादेः कर्मसञ्ज्ञा विधीयते । पाणिना कांस्यपात्र्यां गां दोग्धि पयः । पाण्यादिकमप्युपयोगनिमित्तं, तस्य ८६ कस्मान्न भवति ? न+एतदस्ति । [॰८६] विहिता हि तत्र करणादिसञ्ज्ञा । तदर्थमाह अपूर्वविधौ इति । ब्रुविशासिगुणेन च यत्सचते । ब्रुविशास्योर्गुणः साधनम्, प्रधानं, प्रधानं कर्म, धर्मादिकम्, तेन यत्सम्बध्यते, तदकीर्तितमाचरितं कविना, तदकथितमौक्तं सूत्रकारेण । दुहि गां दोग्धि पयः । याचि पौरवं गां याचते । रुधि गामवरुणद्धि व्रजम् । प्रच्छि माणावकं पन्थानं पृच्छति । भिक्षि पौरवं गां भिक्षते । चिञ् वृक्षमविचिनोति फलानि । ब्रुवि माणवकं धर्मं ब्रूते । शासि माणवकं धर्ममनुशास्ति ॥ ____________________________________________________________________ गुतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्ता स णौ ॥ १,४.५२ ॥ _____ काशिकावृत्तिः१,४.५२: अर्थशब्दः प्रत्येकमभिसम्बध्यते । गत्यर्थानां बुद्ध्यर्थानां प्रत्यवसानार्थानं च धातूनां, तथ शब्दकर्मकाणामकर्मकनां च अण्यन्तानां यः कर्ता, स ण्यन्तानां कर्मसञ्ज्ञो भवति । गच्छति माणवको ग्रामम्, गमयति माणवकं ग्रामम् । याति माणवको ग्रामम्, यापयति माणवकं ग्रामम् । गत्यर्थेषु नीवह्योः प्रतिषेधो वक्तव्यः । नयति भारं देवदत्तः, नाययति भारं देवदत्तेन । वहति भारं देवदत्तः, वाह्यति भारं देवदत्तेन । वहेरनियन्तृकर्तृकस्य+इति वक्तव्यम् । इह प्रैत्षेधो मा भूत्, वहन्ति यवान् बलीवर्दाः, वाहयति यवान् बलीवर्दानिति । बुद्धिः बुध्यते माणवको धर्मम्, बोधयति माणवकं दह्र्मम् । वेत्ति माणवको धर्मम्, वेदयति माणवकं धर्मम् । प्रत्यवसानमभ्यवहारः । भुङ्क्ते माणवक ओदनम्, भोजयति माणवकमोदनम् । अश्नाति मानवक ओदनम्, आशयति माणवकमोदनम् । आदिखाद्योः प्रतिशेधो वक्तव्यः । अत्ति माणवक ओदनम्, आदयते माणवकेन ओदनम् । खादति माणवकः, खादयति माणवकेन । भक्षेरहिंसार्थस्य प्रतिषेधो वक्तव्यः । भक्षयति पिण्डीं देवदत्तः, भक्षयति पिण्डीं देवदत्तेन इति । अहिंसार्थस्य इति किम् ? भक्षयन्ति बलीवर्दाः सस्यम्, भक्षयन्ति बलीवर्दान् सस्यम् । शब्दकर्मणाम् अधीते मानवको वेदम्, अध्यापयति माणवकं वेदम् । पठति माणवको वेदम् । पाठयति माणवकं वेदम् । अकर्मकाणाम् आस्ते देवदत्तः, आसयति देवदत्तम् । शेते देवदत्तः, शाययति देवदत्तम् । एतेषामिति किम् ? पचत्योदनं देवदत्तः, पाचयत्योदनं देवदत्तेन इति । अण्यन्तानामिति किम् ? गमयति देवदत्तो यज्ञदत्तम्, तमपरः प्रयुङ्क्ते, गमयति देवदत्तेन यज्ञदत्तं विष्णुमित्रः ॥ ____________________________________________________________________ [॰८७] हृक्रोरन्यतरस्याम् ॥ १,४.५३ ॥ _____ काशिकावृत्तिः१,४.५३: अनि कर्त स णौ इति वर्तते । हरतेः करोतेश्च अण्यन्तयोर्यः कर्ता स ण्यन्तयोरन्यतरस्यां कर्मसञ्ज्ञो भवति । हरति भारं मानवकः, हरयति भारं मानवकं, मानवकेन इति वा । करोति कटं देवदत्तः, कारयति कटं देवदत्तं, देवदत्तेन इति वा । अभिवादिदृशोरात्मनेपद उपसङ्ख्यानम् । अभिवदति गुरुं देवदत्तः, अभिवादयते गुरुं देवदत्तं, देवदत्तेन इति वा । पश्यन्ति भृत्या राजानम्, दर्शयते भृत्यान् राजानम्, भृत्यैः इति वा । आत्मनेपदे इति किम् ? दर्शयति चैत्रं मैत्रमपरः । प्राप्तविकल्पत्वाद्द्वितीयैव । अभिवादयति गुरुं माणवकेन पिता । अप्राप्तविकल्पत्वात्तृतीया+एव ॥ ____________________________________________________________________ स्वतन्त्रः कर्ता ॥ १,४.५४ ॥ _____ काशिकावृत्तिः१,४.५४: स्वतन्त्रः इति प्रधानभूत उच्यते । अगुणीभूतो, यः क्रियासिद्धौ स्वतन्त्र्येण विवक्ष्यते, तत्कारक्ं कर्तृसञ्ज्ञं भव्ति । देवदत्तः पचति । स्थाली पचति । कर्तृप्रदेशाः कर्तृकरणयोस्तृतीया (*२,३.१८) इत्येवमादयः ॥ ____________________________________________________________________ तत्प्रयोजको हेतुश्च ॥ १,४.५५ ॥ _____ काशिकावृत्तिः१,४.५५: ततिति अनन्तरः कर्ता परामृश्यते । तस्य प्रयोजकस्तत्प्रयोजकः । निपातनात्समासः । स्वतन्त्रस्य प्रयोजको योऽर्थः, तत्कारकं हेतुसञ्ज्ञं भवति । चकारात्कर्तृसञ्ज्ञं च । सञ्ज्ञासमावेशार्थश्चकारः । कुर्वाणं प्रयुङ्क्ते, कारयति । हारयति । हेतुत्वद्णिचो निमित्तं कर्तृत्वाच्च कर्तृप्रत्ययेन+उच्यते । हेतुप्रदेशाः हेतुमति च (*३,१.२६) इत्येवमदयः ॥ ____________________________________________________________________ प्राग्रीश्वरान्निपाताः ॥ १,४.५६ ॥ _____ काशिकावृत्तिः१,४.५६: अधिरीश्वरे (*१,४.९७) इति वक्ष्यति । प्रागेतस्मादवधेर्यानित ऊर्ध्वमनुक्रमिष्यामः, निपातसञ्ज्ञास्ते वेदितव्याः । वक्ष्यति चादयोऽसत्त्वे (*१,४.५७), च, वा, ह, अह । प्राग्वचनं सञ्ज्ञासमावेशार्थम् । गत्युपसर्गकर्मप्रवचनीय. सञ्ज्ञाभिः सह निपातसञ्ज्ञा समाविशति । रेफोच्चारणमिश्वरे तोसुन्कसुनौ (*३,४.१३) इत्ययमवधिर्मा विज्ञायि इति । रीश्वराद्वीश्वरान्मा भूत्कृन्मेजन्तः परोऽपि सः । समासेष्वव्ययीभावो लौकिकं च अतिवर्तते ॥ ____________________________________________________________________ [॰८८] चादयोऽसत्त्वे ॥ १,४.५७ ॥ _____ काशिकावृत्तिः१,४.५७: चादयो निपातसञ्ज्ञा भवन्ति, न चेत्सत्त्वे वर्तन्ते । प्रसज्यप्रतिषेधोऽयम् । सत्त्वमिति द्रव्यमुच्यते । च । वा । ह । अह । एव । एवम् । नूनम् । शश्वत् । युगपत् । सूपत् । कूपत् । कुवित् । नेत् । चेत् । चण् । कच्चित् । यत्र । नह । हन्त । माकिम् । नकिम् । माङ् । माङो ङकारो विशेषणार्थः, माङि लुङ्(*३,३.१७५) इति । इह न भवति, मा भवतु, म भविष्यति । नञ् । यावत् । तावत् । त्वा । त्वै । द्वै । रै । श्रौषट् । वौषट् । स्वाहा । वषट् । स्वधा । ओम् । किल । तथा । अथ । सु । स्म । अस्मि । अ । इ । उ । ऋ । लृ‌ । ए । ऐ । ओ । औ । अम् । तक् । उञ् । उकञ् । वेलायाम् । मात्रायाम् । यथा । यत् । यम् । तत् । किम् । पुरा । अद्धा । धिक् । हाहा । हे । है । प्याट् । पाट् । थाट् । अहो । उताहो । हो । तुम् । तथाहि । खलु । आम् । आहो । अथो । ननु । मन्ये । मिथ्या । असि । ब्रूहि । तु । नु । इति । इव । वत् । चन । बत । इह । शम् । कम् । अनुकम् । नहिकम् । हिकम् । सुकम् । सत्यम् । ऋतम् । श्रद्धा । इद्धा । मुधा । नो चेत् । न चेत् । नहि । जातु । कथम् । कुतः । कुत्र । अव । अनु । हाहौ । हैहा । ईहा । आहोस्वित् । छम्बट् । खम् । दिष्ट्या । पशु । वट् । सह । आनुषक् । अङ्ग । फट् । ताजक् । अये । अरे । चटु । बाट् । कुम् । खुम् । घुम् । हुम् । आईम् । शीम् । सीम् । वै । उपसर्गविभक्तिस्वरप्रतिरूपकाश्च निपाताः । उपसर्गप्रतिरूपकाः अवदत्तं विदत्तं च प्रदतं च अदिकर्मणि । सुदत्तमनुदत्तं च निदत्तमिति चेष्यते ॥ अच उपसर्गात्तः (*७,४.४७) इति तत्वं न भवति । दुर्नीतम् । दुर्नयः । दुर्निर्णयः ॥ उपसर्गात्(*८,४.१४) इति णत्वं न भवति । असत्त्वे इति किम् ? पशुर्वै पुरुषः । पशुः पुरोडशः निपातप्रदेशाः स्वरादिनिपतमव्ययम् (*१,१.३७) इत्येवमादयः ॥ ____________________________________________________________________ प्रादयः ॥ १,४.५८ ॥ _____ काशिकावृत्तिः१,४.५८: प्रादयोऽसत्त्वे निपतसञ्ज्ञा भवन्ति । प्र । परा । अप । सम् । अनु । अव । निस् । निर् । रुस् । दुर् । वि । आङ् । नि । अधि । अपि । अति । सु । उतभि । प्रति । परि । उप् । पृतग्योगकरनमुत्तरसञ्ज्ञाविशेषणार्थम् । उपसर्गाः क्रियायोगे (*१,४.५९) इति चादीनामुपसर्गसञ्ज्ञा मा भूत् । असत्त्वे इत्येव, परा जयति सेना ॥ ____________________________________________________________________ [॰८९] उपसर्गाः क्रियायोगे ॥ १,४.५९ ॥ _____ काशिकावृत्तिः१,४.५९: प्रादयः क्रियायोगे उपसर्गसञ्ज्ञा भवन्ति । प्रणयति । परिणयति । प्रणायकः । परिणायकः । क्रियायोगे इति किम् ? प्रगतो नायकोऽस्माद्देशात्, प्रनायको देशः । मरुच्छाब्दस्य च+उपसङ्ख्यानं कर्तव्यम् । मरुद्भिर्दत्तो मरुतः । सञ्ज्ञाविधानसामर्थ्यादनजन्तत्वेऽपि अच उपसर्गात्तः (*७,४.४७) इति तत्त्वं भवति । श्रच्छब्दस्य+उपसङ्ख्यानम् । आतश्चोपसर्गे (*३,३.१०६) इति अङ्भवति श्रद्धा । उपसर्ग. प्रदेशाः उपसर्गे घोः किः (*३,३.९३) इत्येवमादयः ॥ ____________________________________________________________________ गतिश्च ॥ १,४.६० ॥ _____ काशिकावृत्तिः१,४.६०: गतिसञ्ज्ञकाश्च प्रादयो भवन्ति क्रियायोगे । प्रकृत्य । प्रकृतम् । यत्प्रकरोति । योगविभाग उत्तरार्थः । उत्तरत्र गतिसञ्ज्ञा+एव यथा स्यात् । उपसर्गसञ्ज्ञा मा भूत् । ऊरीस्यातित्यत्र उपसर्गप्रादुर्भ्यामस्तिर्यच्परः (*८,३.८७) इति षत्वं प्रसज्येत । चकरः सञ्ज्ञासमावेशार्थः । प्रणीतम् । अभिषिक्तम् । गतिरनन्तरः (*६,२.४९) इति स्वरः, उपसर्गात्(*८,४.१४) (*८,३.६५) इति णत्वषत्वे च भवतः । कारिकाशब्दस्य+उपसङ्ख्यानम् । कारिकाकृत्य । कारिकाकृतम् । यत्कारिका करोति । पुनश्चनसौ छन्दसि गतिसञ्ज्ञौ भवत इति वक्तव्यम् । पुनरुत्स्यूतं वासो देयम् । गतिर्गतौ (*८,१.७०) इति निघातो भवति । चनो हितः । गतिरनन्तरः (*६,२.४९) इति स्वरः । गतिप्रदेशाः कुगतिप्रादय (*२,२.१८) इत्येवमादयः ॥ ____________________________________________________________________ ऊर्यादिच्विडाचश्च ॥ १,४.६१ ॥ _____ काशिकावृत्तिः१,४.६१: ऊर्यादयः शब्दाः च्व्यन्ता डजन्ताश्च क्रियायोगे गतिसञ्ज्ञा भवन्ति । च्विडाचोः कृभ्वस्तियोगे विधनम् । तत्साहचर्यादूर्यादीनामपि तैरेव योगे गतिसञ्ज्ञा विधीयते । ऊर्युररीशब्दावङ्गीकरने विस्तारे च । ऊरीकृत्य । ऊरीकृतम् । यदुरीकरोति । उररीकृत्य । [॰९०] उररीकृतम् । यदुररीकरोति । पापी । ताली । आत्ताली । वेताली । धूसी । शकला । संशक्ला । ध्वंसकला । भ्रंशकला । एते शकलादयो हिंसायम् । शकलाकृत्य । संशकलाकृत्य । ध्वंसकलाकृत्य । भ्रंशकलाकृत्य । गुलुगुध पीडार्थे गुलुगुधाकृत्य । सुजूःसहार्थे सजूःकृत्य । फलू, फली, विक्ली, आक्ली इति विकारे फलू कृत्य । फली कृत्य । विक्ली कृत्य । आलोओष्टी । करली । केवाली । शेवाली । वर्षाली । मस्मसा । मसमसा । एते हिंसायाम् । वषट् । वौषट् । श्रौषट् । स्वाहा । स्वधा । वन्धा । प्रादुस् । श्रुत् । आविस् । च्व्यन्ताः खल्वपि शुक्लीकृत्य । शुक्लीकृतम् । यच्छुक्लीकरोति । डाच् पटपटाक्रृत्य । पटपटाकृतम् । यत्पटपटकरोति ॥ ____________________________________________________________________ अनुकरणं च अनितिपरम् ॥ १,४.६२ ॥ _____ काशिकावृत्तिः१,४.६२: इतिः परे यस्मातिति बहुव्रीहिः । अनुकरनमनितिपरं क्रियायोगे गतिसञ्ज्ञं भवति । खाट्कृत्य । खाट्कृतम् । यत्खाट्करोति । अनितिपरमिति किम् ? खाडिति कृत्वा निरष्ठीवत् ॥ ____________________________________________________________________ आदरानादरयोः सदसती ॥ १,४.६३ ॥ _____ काशिकावृत्तिः१,४.६३: प्रीतिसंभ्रम आदरः । परिभवौदासीन्यमनादरः । आदरानादरयोः यथाक्रमं सदसच्छब्दौ गतिसञ्ज्ञौ भवतः । सत्कृत्य । सत्कृतम् । यत्सत्करोति । असत्कृत्य । असत्कृतम् । यदसत्करोति । आदरानादरयोः इति किम् ? सत्कृत्वा काण्डं गतः । असत्कृत्वा काण्डं गतः ॥ ____________________________________________________________________ भूषनेऽलम् ॥ १,४.६४ ॥ _____ काशिकावृत्तिः१,४.६४: अलमिति प्रतिषेधे, सामर्थ्ये, पर्याप्तौ, भूषणे च इति विशेषनमुपादीयते । भूवणे योऽलंशब्दः स गतिसञ्ज्ञो भवति । अलङ्कृत्य । अलङ्कृतम् । यदलङ्करोति । भूषणे इति किम् ? अलं भुक्त्वा ओदनं गतः ॥ ____________________________________________________________________ अन्तरपरिग्रहे ॥ १,४.६५ ॥ _____ काशिकावृत्तिः१,४.६५: अन्तःशब्दोऽपरिग्रहेऽर्थे गतिसञ्ज्ञो भवति । परिग्रहः स्वीकरणम् । तदभावे गतिसञ्ज्ञा विधीयते । अन्तर्हत्य । अन्तर्हतम् । यदन्तर्हन्ति । अपरिग्रहे इति किम् ? अन्तर्हत्वा भूषिकां श्येनो गतः । परिगृह्य गतः इत्यर्थः । अन्तःशब्दस्य अङ्किविधिणत्वेषु उपसर्गसञ्ज्ञा वक्तव्या । अन्तर्धा । अन्तर्धिः । अन्तर्णयति ॥ ____________________________________________________________________ [॰९१] कणेमनसी श्रद्धाप्रतीघाते ॥ १,४.६६ ॥ _____ काशिकावृत्तिः१,४.६६: कणेशब्दो मनस्शब्दश्च श्रद्धाप्रतीघाते गतिसञ्ज्ञौ भवतः । कणेहत्य पयः पिबति । मनोहत्य पयः पिबति । तावत्पिबति यावदस्य अभिलाशो निवृत्तः । श्रद्धा प्रतिहता इत्यर्थः । श्रद्धाप्रतीघाते इति किम् ? कणे हत्वा गतः । मनो हत्वा गतः ॥ ____________________________________________________________________ पुरोऽव्ययम् ॥ १,४.६७ ॥ _____ काशिकावृत्तिः१,४.६७: असिप्रत्ययान्तः पुरःशब्दोऽव्ययम् । स गतिसञ्ज्ञो भवति । समासस्वरोपचाराः प्रयोजनम् । पुरस्कृत्य । पुरस्कृतम् । यत्पुरस्करोति । अव्ययमिति किम् ? पूः, पुरौ । पुरः कृत्वा काण्डं गतः ॥ ____________________________________________________________________ अस्तं च ॥ १,४.६८ ॥ _____ काशिकावृत्तिः१,४.६८: अस्तंशब्दो मकारान्तोऽव्ययमनुपलब्धौ वर्तते । स गतिसञ्ज्ञओ भवति । अस्तंगत्य सविता पुनरुदेति । अस्तंगतानि धनानि । यदस्तं गच्छति । अव्ययमित्येव, अस्तं काण्डम् । क्षिपतमित्यर्थः ॥ ____________________________________________________________________ अच्छ गत्यर्थवदेषु ॥ १,४.६९ ॥ _____ काशिकावृत्तिः१,४.६९: अच्छशब्दः अव्ययमभिशब्दस्य अर्थे वर्तते । स गत्यर्थेषु धातुषु वदतौ च गतिसञ्ज्ञो भवति । अच्छगत्य । अच्छगतम् । यदच्छगच्छति । वदतौ अच्छोद्य । अच्छोदितम् । यदच्छवचति । अव्ययमित्येव, उदकमच्छं गच्छति ॥ ____________________________________________________________________ अदोऽनुपदेशे ॥ १,४.७० ॥ _____ काशिकावृत्तिः१,४.७०: अदःशब्दस्त्यदादिषु पठ्यते, सोऽनुपदेशे गतिसञ्ज्ञो भवति । उपदेशः परार्थः प्रयोगः । स्वयमेव तु यदा बुद्ध्या परामृशति तदा न अस्त्युपदेशः इति सोऽस्य विशयः । अदःकृत्य । अदःकृतम् । यददःकरोति । अनुपदेशे इति किम् ? अदः कृत्वा काण्डं गतः इति परस्य कथयति ॥ ____________________________________________________________________ तरोऽन्तर्धौ ॥ १,४.७१ ॥ _____ काशिकावृत्तिः१,४.७१: अन्तर्धिः व्यवधानम् । तत्र तिरःशब्दो गतिसञ्ज्ञो भवति । तिरोभूय । तिरोभूतम् । यत्तिरोभवति । अन्तर्धौ इति किम् ? तिरो भूत्वा स्थितः । पार्श्वतो भूत्वा इत्यर्थः ॥ ____________________________________________________________________ [॰९२] विभाषा कृञि ॥ १,४.७२ ॥ _____ काशिकावृत्तिः१,४.७२: अन्तर्धौ इति वर्तते । प्राप्तविभाषेयम् । तिरःशब्दः करोतौ परतो विभाषा गतिसञ्ज्ञो भवति । तरः कृत्य, तिरस्कृत्य । तिरस्कृतम् । यत्तिरस्करोति । तिरः कृत्वा, तिरस्कृत्वा । अन्तर्धौ इत्येव, तिरःकृत्वा काष्ठं तिष्ठति ॥ ____________________________________________________________________ उपाजेऽन्वाजे ॥ १,४.७३ ॥ _____ काशिकावृत्तिः१,४.७३: विभाषा कृञि इति वर्तते । उपाजेऽन्वाजेशब्दौ विभक्तिप्रतिरूपकौ निपातौ दुर्बलस्य सामर्थ्याधाने वर्तेते । तौ कृञि विभाषा गतिसञ्ज्ञौ भवतः । उपाजेकृत्य, उपाजे कृत्वा । अन्वाजेकृत्य, अन्वाजे कृत्वा ॥ ____________________________________________________________________ साक्षात्प्रभृतीनि च ॥ १,४.७४ ॥ _____ काशिकावृत्तिः१,४.७४: विभाषा कृञि इति वर्तते । साक्षात्प्रभृतीनि शब्दरूपाणि कृञि विभाषा गतिसञ्ज्ञानि भवन्ति । साक्षात्प्रभृतिषु च्व्यर्थवचनम् । साक्षात्कृत्य, साक्षात्कृत्वा । मिथ्याकृत्य, मिथ्या कृत्वा । साक्षात् । मिथ्या । चिन्ता । भद्रा । लोचन । विभाषा । सम्पत्का । आस्था । अमा । श्रद्धा । प्राजर्या । प्राजरुहा । वीजर्या । वीजरुहा । संसर्या । अर्थे । लवणम् । उष्णम् । शीतम् । उदकम् । आर्द्रम् । गतिसञ्ज्ञासंनियोगेन लवणादीनां मकारन्तत्वं निपात्यते । अग्नौ । वशे । विकम्पते । विहसने । प्रहसने । प्रतपने । प्रादुस् । नमस् । आविस्॥ ____________________________________________________________________ अनत्याधान उरसिमनसी ॥ १,४.७५ ॥ _____ काशिकावृत्तिः१,४.७५: विभाषा कृञि इति वर्तते । अत्याधानमुपश्लेषणम्, तदभावेऽनत्याधाने उरसिमनसी शब्दौ विभाषा कृञि गतिसञ्ज्ञौ भवतः । उरसिकृत्य, उरसि कृत्वा । मनसिकृत्य, मनसि कृत्वा । अनत्यावाने इति किम् ? उरसि कृत्वा पाणिं शेते ॥ ____________________________________________________________________ मध्ये पदे निवचने च ॥ १,४.७६ ॥ _____ काशिकावृत्तिः१,४.७६: विभाषा कृञि इति वर्तते । चकारातनत्याधाने इति च । मद्ये पदे निवचने इत्येते शब्दा अनत्याधाने विभाषा कृञि गतिसज्ञा भवन्ति । मद्येकृत्य, मध्ये कृत्वा । पदेकृत्य, पदे कृत्वा । निवचनं वचनाभावः । निवचनेकृत्य, निवचने कृत्वा । वाचं नियम्य इत्यर्थः अनत्याधाने इत्येव, हस्तितः पदे कृत्वा शिरः शेते ॥ ____________________________________________________________________ [॰९३] नित्यं हस्ते पानावुपयमने ॥ १,४.७७ ॥ _____ काशिकावृत्तिः१,४.७७: कृञि इति वर्तते । हस्ते पाणौ इत्येतौ शब्दौ कृञि नित्यं गतिसञ्ज्ञौ भवतः उपयमने । उपयमनं दारकर्म । हस्तेकृत्य । पाणौकृत्य । दारकर्म कृत्वा इत्यर्थः । उपयमने इति किम् ? हस्ते कृत्वा कार्षापनं गतः ॥ ____________________________________________________________________ प्राध्वं वन्धने ॥ १,४.७८ ॥ _____ काशिकावृत्तिः१,४.७८: कृञि इति वर्तते । प्राध्वमिति मकारान्तमव्ययमानुकूल्ये वर्तते । तदानुकूल्यं वन्धनहेतुकं यदा भवति तदा प्राध्वंशब्दः कृञि नित्यं गतिसञ्ज्ञो भवति । प्राध्वंक्र्त्य । बन्ध्ने इति किम् ? प्राध्वं कृत्वा शकटं गतः ॥ ____________________________________________________________________ जीविकोपनिषदावौपम्ये ॥ १,४.७९ ॥ _____ काशिकावृत्तिः१,४.७९: कृञि इति वर्तते । जीविका उपनिषदित्येतौ शब्दौ औपम्ये विषहे कृञि गतिसञ्ज्ञौ भवतः । जीविकाकृत्य । उपनिषत्कृत्य । औपम्ये इति किम् ? जीविकां कृत्वा गतः ॥ ____________________________________________________________________ ते प्राग्धातोः ॥ १,४.८० ॥ _____ काशिकावृत्तिः१,४.८०: ते गत्युपसर्गसञ्ज्ञका धातोः प्राक्प्रयोक्तव्याः । तथा चैवोदाहृताः । तेग्रहणमुपसर्गार्थम् । गतयो ह्यनन्तराः ॥ ____________________________________________________________________ छन्दसि परेऽपि ॥ १,४.८१ ॥ _____ काशिकावृत्तिः१,४.८१: प्राक्प्रयोगे प्रप्ते छन्दसि परेऽपि अभ्यनुज्ञायन्ते । छन्दसि विषये गत्युपसर्गसञ्ज्ञकाः प्रेऽपि पूर्वेऽपि प्रयोक्तव्याः । न च प्रेषां प्रयुज्यमानानां सञ्ज्ञाकार्यं किञ्चिदस्ति । केवलं प्रप्रयोगेऽपि क्रियायोगे एषामस्ति इति ज्ञाप्यते । याति नि हस्तिना, नियाति हस्तिना । हन्ति नि मुष्टिना, निहन्ति मुष्टिना ॥ ____________________________________________________________________ व्यवहिताश्च ॥ १,४.८२ ॥ _____ काशिकावृत्तिः१,४.८२: व्यवहिताश्च गत्युपसर्गसञ्ज्ञकाः छन्दसि दृश्यन्ते आ मन्द्रैरिन्द्र हरिभिर्याहि मयूररोमभिः । आ याहि ॥ ____________________________________________________________________ कर्मप्रवचनीयाः ॥ १,४.८३ ॥ _____ काशिकावृत्तिः१,४.८३: कर्मप्रवचनीयाः इत्यधिकारो विदितव्यः । यानित ऊर्ध्वमनुक्रमिष्यामः कर्मप्रवचनीय. सञ्ज्ञास्ते वेदितव्याः अधिरीश्वरे (*१,३.९७) इति यावद्वक्ष्यति । कर्मप्रवचनीयप्रदेशाः कर्मप्रवचनीययुक्ते द्वितीया (*२,३.८) इत्येवमादयः ॥ ____________________________________________________________________ [॰९४] अनुर्लक्षणे ॥ १,४.८४ ॥ _____ काशिकावृत्तिः१,४.८४: अनुशब्दो लक्षणे ध्योत्ये कर्मप्रवचनीयसञ्ज्ञो भवति । शाकल्यस्य संहितामनु प्रावर्षत् । अनडुद्यज्ञमन्वसिञ्चत् । अगस्त्यमन्वसिञ्चत्प्रजाः । किमर्थमिदमुच्यते, यावता लक्षनेत्थं भूताख्यान (*१,४.९०) इति सिद्धैवानोः कर्मप्रवचनीयसञ्ज्ञा ? हेत्वर्थं तु वचनम् । हेतुतृतीयां वाधित्वा द्वितीयआ+एव यथा स्यात् ॥ ____________________________________________________________________ तृतीयार्थे ॥ १,४.८५ ॥ _____ काशिकावृत्तिः१,४.८५: अनुशब्दस्तृतीयार्थे द्योत्ये कर्मप्रवचनीयसञ्ज्ञो भवति । नदीमन्ववसिता सेना । पर्वतमन्ववसिता सेना । पर्वतेन सम्बद्धा इत्यर्थः ॥ ____________________________________________________________________ हीने ॥ १,४.८६ ॥ _____ काशिकावृत्तिः१,४.८६: हीनः इति न्यूनः उच्यते, स च+उत्कृष्टापेक्षः । तेन+इयं हीनोत्कृष्टसम्बन्धे सञ्ज्ञा विज्ञायते । हीने द्योत्ये अयमनुः कर्मप्रवचनीयसञ्ज्ञो भवति । अनु शाकटायनं वैयाकरणाः । अन्वर्जुनं योद्धारः ॥ ____________________________________________________________________ उपोऽधिके च ॥ १,४.८७ ॥ _____ काशिकावृत्तिः१,४.८७: उपशब्दः अधिके हीने च द्योत्ये कर्मप्रवचनीयसञ्ज्ञो भवति । उप खार्यं द्रोणः । उप निष्के कार्षापणम् । हीने उप शाकटायनं वैयाकरणाः ॥ ____________________________________________________________________ अपपरी वर्जने ॥ १,४.८८ ॥ _____ काशिकावृत्तिः१,४.८८: अपपरी शब्दौ वर्जने द्योत्ये कर्मप्रवचनीयसञ्ज्ञौ भवतः । प्रकृतेन सम्बन्धिना कस्यचिदनभिसम्बन्धः वर्जनम् । अप त्रिगर्तेभ्यो वृष्टो देवः । परि परि त्रिगर्तेभ्यो वृष्टो देवः । वर्जने इति किम् ? ओदनं परिषिञ्चति ॥ ____________________________________________________________________ [॰९५] आङ्मर्यादावचने ॥ १,४.८९ ॥ _____ काशिकावृत्तिः१,४.८९: आङित्येषा शब्दो मर्यादावचने कर्मप्रवचनीयसञ्ज्ञो भवति । अवधिर्मर्यादा । वचनग्रहणादभिविधिरपि गृह्यते । आ पाटलिपुत्राद्वृष्टो देवः । आ कुमारं यशः पाणिनेः । आ सांकाश्यात् । आ मथुरायाः । मर्यादावचने इति किम् ? ईषदर्थे क्रियायोगे च मा भूत् ॥ ____________________________________________________________________ लक्षनेत्थंभूताख्यानभागवीप्सासु प्रतिपर्यनवः ॥ १,४.९० ॥ _____ काशिकावृत्तिः१,४.९०: लक्षणे, इत्थंभूताख्याने, भागे, वीप्सायां च विशायभूतायां प्रति परि अनु इत्येते कर्मप्रवचनीयसञ्ज्ञा भवन्ति । लक्षणे तावत् वृक्षं प्रति विद्योतते विद्युत् । वृक्षं परि । वृक्षमनु । इत्थंभूताख्याने साधुर्देवदत्तो मातरं प्रति । मातरं परि । मातरमनु । भागे यदत्र मां प्रति स्यात् । मां परि स्यात् । मामनु स्यात् । वीप्सायाम् वृक्षं वृक्षं प्रति सिञ्चति । परि सिञ्चति । अनु सिञ्चति । लक्षणादिषु इति किम् ? ओदनं परिषिञ्चति । अथ परिशब्दयोगे पञ्चमी कस्मान्न भवति पञ्चम्यपाङ्परिभिः (*२,३.१०) इति ? वर्जनविषाये सा विधीयते, अपशब्दसाहचर्यात् ॥ ____________________________________________________________________ अभिरभागे ॥ १,४.९१ ॥ _____ काशिकावृत्तिः१,४.९१: लक्षनादिषु एव भागवर्जितेषु अभिः कर्मप्रवचनीयसञ्ञो भवति । वृक्षमभि विद्योतते विद्युत् । साधुर्देवदत्तो मातरमभि । वृक्षं वृक्षमभि सिञ्चति । अभागे इति किम् ? भागः स्वीक्रियमाणोऽम्‌शः । यदत्र मम अभिष्यत्तद्दीयताम् । यदत्र मम भवति तद्दीयतामित्यर्थः ॥ ____________________________________________________________________ प्रतिः प्रतिनिधिप्रतिदानयोः ॥ १,४.९२ ॥ _____ काशिकावृत्तिः१,४.९२: मुख्यसदृशः प्रतिनिधिः । दत्तस्य प्रतिनिर्यातनं प्रतिदानम् । प्रतिनिधिविषये प्रतिदानविषये च प्रतिः कर्मप्रवचनीयसञ्ज्ञो भवति । अभिमन्युरर्जुनतः प्रति । माषानस्मै तिलेभ्यः प्रति यच्छति ॥ ____________________________________________________________________ अधिपरी अनर्थकौ ॥ १,४.९३ ॥ _____ काशिकावृत्तिः१,४.९३: अधिपरी शब्दौ अनर्थकौ अनर्थान्तरवाचिनौ कर्मप्रवचनीयसञ्ज्ञौ भवतः । कुतोऽध्यागच्छति । कुतः पर्यागच्छति । गत्युपसर्गसञ्ज्ञावाधनार्था कर्मप्रवचनीयसञ्ज्ञा विधीयते ॥ ____________________________________________________________________ [॰९६] सुः पूजायाम् ॥ १,४.९४ ॥ _____ काशिकावृत्तिः१,४.९४: सुशब्दः पूजायामर्थे कर्मप्रवचनीयसञ्ज्ञो भवति । सु सिक्तं भवता । सु स्तुतं भवता । धात्वर्थः स्तूयते । उपसर्गसञ्ज्ञाश्रयं षत्वं न भवति । पूजायामिति किम् ? सुषिक्तं किं तवात्र ॥ ____________________________________________________________________ अतिरतिक्रमणे च ॥ १,४.९५ ॥ _____ काशिकावृत्तिः१,४.९५: अतिशब्दः अतिक्रमणे, चकारात्पूजयं च कर्मप्रवचनीयसञ्ज्ञो भवति । निष्पन्नेऽपि वस्तुनि क्रियाप्रवृत्तिः अतिक्रमणम् । अति सिक्तमेव भवता । अति स्तुतमेव भवता । पूजायम् अति सिक्तं भवता । अति स्तुतमेव भवता । शोभनं कृतमित्यर्थः ॥ ____________________________________________________________________ अपिः पदार्थसम्भावनान्ववसर्गगर्हासमुच्चयेषु ॥ १,४.९६ ॥ _____ काशिकावृत्तिः१,४.९६: पदार्थे, सम्भावने, अन्ववसर्गे, गर्हायाम्, समुच्चये च वर्तमानः अपिः कर्मप्रवचनीयसञ्ज्ञो भवति । पदान्तरस्य अप्रयुज्यमानस्य अर्थः पदार्थः सर्पिषोऽपि स्यात् । मधुनोऽपि स्यात् । मात्रा, बिन्दुः, स्तोकमित्यस्य अर्थे ऽपि शब्दो वर्तते । सम्भावनमधिकार्थवचनेन शक्तेरप्रतिघाताविष्करनम् अपि सिञ्चेन्मूलकसहस्रम् । अपि स्तुयाद्राजानम् । अन्ववसर्गः कामचाराभ्यनुज्ञानम् अपि सिञ्च । अपि स्तुहि । गर्हा निन्दा धिग्जाल्मं देवदत्तम्, अपि सिञ्चेत्पलाण्डुम् । अपि स्तुयाद्वृषलम् । समुच्चये अपि सिञ्च । अपि स्तुहि । सिञ्च च स्तुहि च । उपसर्गसञ्ज्ञाबाधनात्षत्वं न भवति ॥ ____________________________________________________________________ अधिरीश्वरे ॥ १,४.९७ ॥ _____ काशिकावृत्तिः१,४.९७: ईश्वरः स्वामी, स च स्वमपेक्षते । तदयं स्वस्वामिसम्बन्धे अधिः कर्मप्रवचनीयसञ्ज्ञो भवति । तत्र कदाचित्स्वामिनः कर्मप्रवचनीयविभक्तिः सप्तमी भवति, कदाचित्स्वात् । अधि ब्रह्मदत्ते पञ्चालाः । अधि पञ्चालेषु ब्रह्मदत्तः ॥ ____________________________________________________________________ विभाषा कृञि ॥ १,४.९८ ॥ _____ काशिकावृत्तिः१,४.९८: अधिः करोतौ विभाषा कर्मप्रवचनीयसञ्ज्ञो भवति । यदत्र मामधि करिष्यति । कर्मप्रवचनीयसञ्ज्ञापक्षे गतिसञ्ज्ञाबाधनात्तिङि च+उदात्तवति (*८,१.७१) इति निघातो न भवति ॥ ____________________________________________________________________ [॰९७] लः परस्मैपदम् ॥ १,४.९९ ॥ _____ काशिकावृत्तिः१,४.९९: लः इति षष्ठी आदेशापेक्षा । लादेशाः परस्मैपदसञ्ज्ञा भवन्ति । तप्, तस्, झ । सिप्, थस्, थ । मिप्, वस्, मस् । शतृक्वसू च परस्मैपदप्रदेशाः सिचि वृद्धिः प्रस्मैपदेषु (*७,२.१) इत्येवमादयः ॥ ____________________________________________________________________ तङानावात्मनेपदम् ॥ १,४.१०० ॥ _____ काशिकावृत्तिः१,४.१००: तङिति प्रत्याहारो नवानां वचनानाम् । आनः इति शानच्कानचोर्ग्रहनम् । पूर्वेण परस्मैपदसञ्ज्ञायां प्राप्तायां तङानयोरात्मनेपदसञ्ज्ञा विधीयते । त, आताम्, झ । थास्, आथाम्, ध्वम् । इट्, वहि, महिङ् । आनह्ः खल्वपि शानच्कानचौ । लः इत्येव, कतीह निघ्नानाः । आत्मनेपदप्रदेशाः अनुदत्तङित आत्मनेपदम् (*१,३.१२) इत्येवमादयः ॥ ____________________________________________________________________ तिङस्त्रीणि त्रीणि प्रथममध्यमोत्तमाः ॥ १,४.१०१ ॥ _____ काशिकावृत्तिः१,४.१०१: तिङोऽष्टादश प्रत्ययाः । नव परस्मैपदसञ्ज्ञकाः, नवात्मनेपदसञ्ज्ञकाः । तत्र परस्मैप्रदेषु त्रयस्त्रिकाः यथाक्रमं प्रथममध्यमोत्तमसञ्ज्ञा भवन्ति । तिप्, तस्, झि इति प्रथमः । सिप्, थस्, थ इति मद्यमः । मिप्, वस्, मसिति उत्तमः । आत्मनेपदेषु त, आताम्, झ इति प्रथमः । थास्, आथाम्, ध्वमिति मध्यामः । इट्, वहि, महिङिति उत्तमः । प्रथममध्यमोत्तमप्रदेशाः शेषे प्रथमः (*१,४.१०८) इत्येवमादयः ॥ ____________________________________________________________________ तान्येकवचनाद्विवचनबहुवचनान्येकशः ॥ १,४.१०२ ॥ _____ काशिकावृत्तिः१,४.१०२: ____________________________________________________________________ सुपः ॥ १,४.१०३ ॥ _____ काशिकावृत्तिः१,४.१०३: तिङां त्रिकेषु एकवचनादिसञ्ज्ञा विहिताः । सम्प्रति सुपां त्रिकेषु विधीयन्ते । सुपश्च त्रीणि त्रीणि पदानि एकश एकवचनद्विवचनबहुवचनसञ्ज्ञानि भवन्ति । सु इति एकवचनम् । औ इति द्विवचनम् । जसिति बहुवचनम् । एवं सर्वत्र ॥ ____________________________________________________________________ विभक्तिश्च ॥ १,४.१०४ ॥ _____ काशिकावृत्तिः१,४.१०४: त्रीणि त्रीणि इत्यनुवर्तते । त्रीणि त्रीणि विभक्तिसञ्ज्ञाश्च भवन्ति सुपस्तिङश्च । विभक्तिप्रदेशाः अष्टन आ विभक्तौ (*७,२.८४) इत्येवमादयः ॥ ____________________________________________________________________ [॰९८] युष्मद्युपपदे समानाधिकरणे स्थानिन्यपि मध्यमः ॥ १,४.१०५ ॥ _____ काशिकावृत्तिः१,४.१०५: लस्य (*३,४.७७) इत्यधिकृत्य सामान्येन तिबादयो विहिताः । तेषामयं पुरुषनियमः क्रियते । युष्मद्युपपदे सति व्यवहिते चाव्यवहिते सति समानाधिकरणे समानाभिधेये तुल्यकारके स्थानिनि प्रयुज्यमानेऽप्यप्रयुज्यमानेऽपि मध्यमपुरुषो भवति । त्वं पचसि । युवां पचथः । यूयं पचथ । अप्रयुज्यमानेऽपि पचसि । पचथः । पचथ ॥ ____________________________________________________________________ प्रहासे च मन्योपपदे मन्यतेरुत्तम एकवच्च ॥ १,४.१०६ ॥ _____ काशिकावृत्तिः१,४.१०६: प्रहासः परिहासः क्रीडा । प्रहासे गम्यमाने मन्योपपदे धातोर्मध्यमपुरुषो भवति, मन्यतेश्चोत्तमः, स च एकवद्भवति । एहि मन्ये ओदनं भोक्ष्यसे इति, न हि भोक्ष्यसे, भुक्तः सोऽतिथिभिः । एहि मन्ये रथेन यास्यसि, न हि यास्यसि, यात्स्तेन ते पिता । मध्यमोत्तमयोः प्राप्तयोः उत्तममध्यमौ विधीयेते । प्रहासे इति किम् ? एहि मन्यसे ओदनं भोक्ष्ये इति । सुष्ठु मन्यसे । साधु मन्यसे ॥ ____________________________________________________________________ अस्मद्युत्तमः ॥ १,४.१०७ ॥ _____ काशिकावृत्तिः१,४.१०७: उत्तमपुरुषो नियम्यते । अस्मद्युपपदे समानाभिधेये प्रयुज्यमानेऽप्यप्रयुज्यमानेऽपि उत्तमपुरुषो भवति । अहं पचामि । आवां पचावः । वयं पचामः । अप्रयुज्यमानेऽपि पचामि । पचावः । पचामः ॥ ____________________________________________________________________ शेषे प्रथमः ॥ १,४.१०८ ॥ _____ काशिकावृत्तिः१,४.१०८: शेषः इति मध्यमोत्तमविषयादन्य उच्यते । यत्र युष्मदस्मदी समनाधिकरणे उपपदे न स्तः, तत्र शेषे प्रथमपुरुषो भवति । पचति । पचतः । पचन्ति ॥ ____________________________________________________________________ परः संनिकर्षः संहिता ॥ १,४.१०९ ॥ _____ काशिकावृत्तिः१,४.१०९: परशब्दोऽतिशये वर्तते । संनिकर्षः प्रत्यासत्तिः । परो यः सन्निकर्षः, वर्णानामर्धमात्राकालव्यवधानं, स संहितासञ्ज्ञो भवति । दध्यत्र । मध्वत्र । संहिताप्रदेशाः सिंहितायाम् (*६,१.७२) इत्येवमादयः ॥ ____________________________________________________________________ विरामोऽवसानम् ॥ १,४.११० ॥ _____ काशिकावृत्तिः१,४.११०: विरतिः विरामः । विरम्यतेऽनेन इति वा विरामः । सोऽवसानसञ्ज्ञो भवति । दधिं । मधुं । वृक्षः । प्लक्षः । अवसानप्रदेशाः खरवसानयोर्विसर्जनीयः (*८,३.१५) इत्येवमादयः ॥ इति श्रीजयादित्यविरचितायां काशिकायां वृत्तौ प्रथमाध्यायस्य चतुर्थः पादः ॥ द्वित्तियोऽध्ययः प्रथमः पादः ____________________________________________________________________ [॰९९] समर्थः पदविधिः ॥ २,१.१ ॥ _____ काशिकावृत्तिः२,१.१: परिभाषेयम् । यः कश्चिदिह शास्त्रे पदविधिः श्रूयते स समर्थो विदितव्यः । विधीयते इति विधिः । पदानां विधिः पदविधिः । स पुनः समासादिः । समर्थः शक्तः । विग्रहवाक्यार्थभिधाने यः शक्तः स समर्थो विधितव्यः । अथ वा समर्थपदाश्रयत्वात्समर्थः । समर्थनां पदानां सम्बद्धार्थानां संसृष्टार्थानां विधिर्वेदितव्यः । वक्ष्यति, द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः (*२,१.२४) कष्टं श्रितः कष्टश्रितः । समर्थग्रहणं किम् ? पश्य देवदत्त कष्टं, श्रितो विष्णुमित्रो गुरुकुलम् । तृतीया तत्कृतार्थेन गुणवचनेन (*२,१.३०) शङ्कुलया खण्डः शङ्कुलाखण्डः । समर्थग्रहणं किम् ? किं त्वं करिष्यसि शङ्कुलया, खण्डो देवदत्त उपलेन । चतुर्थी तदर्थार्थवलिहितसुखरक्षितैः (*२,१.३६) यूपाय दारु यूपदारु । समर्थग्रहणं किम् ? गच्छ त्वं यूपाय, दारु देवदत्तस्य ग्रेहे । पञ्चमी भयेन (*२,१.३७) वृकेभ्यो भयं वृकभयम् । समर्थग्रहणं किम् ? गच्छ त्वं मा वृकेभ्यो, भयं देवदत्तस्य यज्ञदत्तात् । षष्ठी (*२,२.८) राज्ञः पुरुषः राजपुरुषः । समर्थग्रहणं किम् ? भार्या राज्ञः, पुरुषो देवदत्तस्य । सप्तमी शौण्डैः (*२,१.४०) अक्षेषु शौण्डः अक्षशौण्डः । समर्थग्रहणं किम् ? शक्तस्त्वमक्षेषु, शौण्डः पिबति पानागारे । पदग्रहणं किम् ? वर्णविधौ समर्थपरिभाशा मा भूत् । तिष्ठतु दध्यशान त्वं शाकेन । तिष्ठतु कुमारी च्छत्रं हरदेवदत्तात् । यणादेशो, नित्यश्च तुग्भवति ॥ ____________________________________________________________________ सुबामन्त्रिते पराङ्गवत्स्वरे ॥ २,१.२ ॥ _____ काशिकावृत्तिः२,१.२: सुबन्तमामन्त्रिते परतः परस्य अङ्गवद्भवति, स्वरे स्वरलक्षणे कर्तव्ये । तादात्म्यातिदेशोऽयम् । सुबन्तमामन्त्रितमनुप्र्विशाति । वक्ष्यति आमन्त्रितस्य च (*६,१.१९८) । आमन्त्रितस्यादिरुदात्तो भवति । ससुप्कस्य अपि यथा स्यात् । कुण्डेनाटन् । परशुना वृश्चन् । मद्राणां राजन् । कश्मीराणां राजन् । सुपिति किम् ? पीड्ये पीद्यमान । आमन्त्रिते इति किम् ? गेहे गार्ग्यः । परग्रहणं किम् ? पूर्वस्य मा भूत् । देवदत्त, कुण्डेनाटन् । अङ्गग्रहणं किम् ? यथा मृत्पिण्डीभूतः स्वरं लभेत । उभयोराद्यौत्तत्वं मा भूत् । वत्करणं किम् ? स्वाश्रयमपि यथा स्यात् । [॰१००] आं कुण्डेनाटन् । आम एकान्तरमामन्त्रितमनन्तिके (*८,१.५५) इत्येकान्तरता भवति । स्वरे इति किम् ? कूपे सिञ्चन् । चर्म नमन् । षत्वणत्वे प्रति पराङ्ग्वद्न भवति । सुबन्तस्य पराङ्गवद्भावे समानाधिकरणस्य+उपसङ्ख्यानमनन्तरत्वत् । तीक्ष्णया सुच्या सीव्यन् । तीक्ष्णेन प्रशुना वृश्चन् । अव्ययानां प्रतिषेधो वक्तव्यः । उच्चैरधीयानः । नीचैरधीयानः ॥ ____________________________________________________________________ प्राक्कडारात्समासः ॥ २,१.३ ॥ _____ काशिकावृत्तिः२,१.३: कडारसंशब्दनात्प्राग्यानित उर्ध्वमनुक्रमिष्यामः, ते समाससञ्ज्ञा वेदितव्याः । वक्ष्यति यथाऽसादृश्ये (*२,१.७) । यथा वृद्धं ब्राह्मणानामन्त्रयस्व । प्राग्वचनं सञ्ज्ञासमावेशार्थम् । समासप्रदेशाः तृतीयासमासे (*१,१.३०) इत्येवमादयः ॥ ____________________________________________________________________ सह सुपा ॥ २,१.४ ॥ _____ काशिकावृत्तिः२,१.४: सुपिति वर्तते । सुपिति सह इति सुपा इति च त्रयमपि अधिकृतं वेदितव्यम् । यदित ऊर्ध्वमनुक्रमिष्यामः, तत्र+इदमुपस्थितं द्रष्टव्यम् । वक्ष्यति द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः (*२,१.२४) इति । द्वितीयान्तं श्रितादिभिः सह समस्यते, कष्टं श्रितः कष्टश्रितः । सहग्रहणं योगविभागार्थम्, तिङापि सह यथा स्यात् । अनुव्यचलत् । अनुप्रावर्षत् ॥ ____________________________________________________________________ अव्ययीभवः ॥ २,१.५ ॥ _____ काशिकावृत्तिः२,१.५: अव्ययीभावः इत्यधिकारो वेदितव्यः । यानित ऊर्ध्वमनुक्रमिष्यामः, अव्ययीभावसञ्ज्ञा अस्ते वेदितव्याः । वक्ष्यति यथाऽसादृश्ये (*२,१.७) । यथावृद्धं ब्राह्मणानामन्त्रयस्व । अन्वर्थसञ्ज्ञा चेयं महती पूर्वपदार्थप्राधान्यमव्ययीभावस्य दर्शयति । अव्ययीभावप्रदेशाः अव्ययीभावश्च (*२,४.१८) इत्येवमादयः ॥ ____________________________________________________________________ [॰१०१] अव्ययं विभक्तिसमीपसमृद्धिव्यृद्ध्यर्थाभावात्ययासम्प्रतिशब्दप्रादुर्भावपश्चाद्यथानुपूर्व्ययौगपद्यसादृश्यसम्पत्तिसाकल्यान्तव्चनेषु ॥ २,१.६ ॥ _____ काशिकावृत्तिः२,१.६: सुप्सुपा इति च वर्तते । विभक्त्यादिश्वर्थेषु यदव्ययं वर्तते तत्समर्थेन सुबन्तेन सह समस्यते, अव्ययीभावश्च समासो भवति । वचनग्रहणं प्रत्येकं सम्बध्यते । विभक्तिवचने तावत् स्त्रीष्वधिकृत्य कथा प्रवर्तते अधिस्त्रि । अधिकुमारि । सप्तम्यर्थे यदव्ययं तद्बिभक्तिवचनम् । समीपवचने कुम्भस्य समीपमुपकुम्भम् । उपमणिकम् । समृद्धिरृद्धेराधिक्यम् समृद्धिर्मद्राणां सुमद्रम् । सुमगधं वर्तते । व्यृद्धिरृद्धेरभावः गवदिकानामृद्धेरभावः दुर्गवदिकम् । दुर्यबनं वर्तते । अर्थाभावः वस्तुनोऽभावः अभावो मक्षिकाणां निर्मक्षिकम् । निर्मशकं वर्तते । अत्ययः अभूतत्वम्, अतिक्रमः अतीतानि हिमानि अतिहिमम् । निर्हिमम् । निःशीतं वर्तते । असम्प्रति उपभोगस्य वर्तमानकालप्रतिषेधः अतितसृकम् । तैसृकमाच्छादनम्, तस्य अयमुपभोगकालो न भवति इत्यर्थः । शब्दप्रादुर्भावः प्रकाशता शब्दस्य इति पाणिनि । तत्पाणिनि । पाणिनिशब्दो लोके प्रकाशते इत्यर्थः । पश्चात् अनुरथं पादातम् । रथानां पश्चातित्यर्थः । यथा । यथार्थे यदव्ययं वर्तते तत्समस्यते । योग्यता विप्सा पदार्थानतिवृत्तिः सादृश्यं च इति यथार्थाः । योग्यतायाम् अनुरूपम् । रूपयोग्यं भवति इत्यर्थः । वीप्सायाम् अर्थमर्थं प्रति प्रत्यर्थम् । [॰१०२] पदार्थनतिवृत्तौ यथाशक्ति । आनुपूर्व्यमनुक्रमः अनुज्येष्ठं प्रविशन्तु भवन्तिअः । ज्येष्ठानुपूर्व्या भवन्तः प्रविशन्तु इत्यर्थः । यौगपद्यमेककालता सचक्रं धेहि । युगपच्चक्रं धेहि इत्यर्थः । सादृश्यं तुल्यता । किमर्थमिदमुच्यते, यथार्थ इत्येव सिद्धम् ? गुणभूतेऽपि सादृश्ये यथा स्यात्, सदृशः किख्या राकिखि । सम्पत्तिः अनुरूप आत्मभावः समृद्धेरन्यः सब्रह्म बाभ्रवाणाम् । सक्षत्रं शालङ्कायनानाम् । साक्ल्यमशेषता सतृणमभ्यावहरति । सबुसम् । न किंचिदभ्यावहार्यं परित्यजति इत्ययमर्थोऽधिकार्थवचनेन प्रतिपाद्यते । अन्तवचने अन्तः इति परिग्रहापेक्षया समाप्तिरुच्यते । साग्नि अधीते । सेष्टि सपशुबन्धम् । सपशुबन्धान्तमधीते इत्यर्थः । इयं समाप्तिरसकलेऽप्यध्ययने भवति इति साकल्यात्पृथगुच्यते ॥ ____________________________________________________________________ यथाऽसादृश्ये ॥ २,१.७ ॥ _____ काशिकावृत्तिः२,१.७: यथा इत्येतदव्ययमसादृश्ये वर्तमानं सुपा सह समस्यते, अव्ययीभावश्च समासो भवति । यथावृद्धं ब्राह्मणानामन्त्रयस्व । ये ये वृद्धाः यथावृद्धम् । यथाध्यापकम् । असादृश्ये इति किम् ? यथा देवदत्तः तथा यज्ञदत्तः । यथार्थे यदव्ययमिति पूर्वेण+एव सिद्धे समासे वचनमिदं सादृश्यप्रतिषेधार्थम् ॥ ____________________________________________________________________ यावदवधारणे ॥ २,१.८ ॥ _____ काशिकावृत्तिः२,१.८: यावतित्येतदव्ययमवधारणे वर्तमानं सुपा सह समस्यते, अव्ययीभावश्च समासो भवति । अवधारणमियत्तापरिद्धेदः । यावदमत्रं ब्राह्मणानामन्त्रयस्व । यावन्त्यमत्राणि सम्भवन्ति पञ्च षट्वा तावत आमन्त्रयस्व । अवधारणे इति किम् ? यावदृत्तं तावद्भुक्तम् । न अवधारयामि कियन्मया भुक्तमिति ॥ ____________________________________________________________________ सुप्प्रैत्ना मात्रार्थे ॥ २,१.९ ॥ _____ काशिकावृत्तिः२,१.९: मात्रा बिन्दुः, स्तोकम्, अल्पमिति पर्यायाः । मात्रार्थे वर्तमानेन प्रतिना सह सुबन्तं समस्यते, अव्ययीभावश्च समासो भवति । अस्त्यत्र किञ्चित्शाकं शाकप्रति । सूपप्रति । मात्रार्थे इति किम् ? वृक्षं प्रति विधोतते विद्युत् । सुपिति वर्तमाने पुनः सुब्ग्रहणमव्ययनिवृत्त्यर्थम् ॥ ____________________________________________________________________ [॰१०३] अक्षशलाकासङ्ख्याः परिणा ॥ २,१.१० ॥ _____ काशिकावृत्तिः२,१.१०: अक्षशब्दः, शलाकाशब्दः, सङ्ख्याशब्दश्च परिणा सह समस्यन्ते, अव्ययीभावश्च समासो भवति । कितवव्यवहारे समासोऽयमिष्यते । पञ्चिका नाम द्यूतं पञ्चभिरक्षैः शलाकाभिर्वा भवति । तत्र यदा सर्वे उत्तानाः पतन्ति अवाञ्चो वा, तदा पात्यिता ज्यति, तस्य+एव अस्य विपातोऽन्यथा पाते सति जायते । अक्षेण+इदं न तथा वृत्तं यथा पूर्वं जये अक्षपरि । शलाकापरि । एकपरि । द्विपरि । त्रिपरि । परमेण चतुष्परि । पञ्चसुत्वेकरूपासु जय एव भविष्यति । अक्षादयस्तृतीयान्ताः पूर्वोक्तस्य यथा न तत् । कितवव्यवहारे च एकत्वेऽक्षशलाकयोः ॥ ____________________________________________________________________ विभाषा ॥ २,१.११ ॥ _____ काशिकावृत्तिः२,१.११: विभाषा इत्ययमधिकारो वेदितव्यः । यदित ऊर्ध्वमनुक्रमिष्यामः, तद्विभाषा भवति । ____________________________________________________________________ वक्ष्यति अपपरिबहिरञ्चवः पञ्चम्या ॥ २,१.१२ ॥ _____ काशिकावृत्तिः२,१.१२: अपत्रिगर्तं वृष्तो देवः, अप त्रिगर्तेभ्यः ॥ अपपरिबहिरञ्चवः पञ्चम्या (*२,१.१२) । अप परि बहिसञ्चु इत्येते सुबन्ताः पञ्चम्यन्तेन सह विभाषा समस्यन्ते, अव्ययीभावश्च समासो भवति । अपत्रिगर्तं वृष्टो देवः, अप त्रिगर्तेभ्यः । परित्रिगर्तम्, परि त्रिगर्तेभ्यः । बहिर्ग्रामम्, वहिर्ग्रामात् । प्राग्ग्रामम्, प्राग्ग्रामात् । बहिः शब्दयोगे पञ्चमीभावस्य+एतदेव ज्ञापकम् ॥ ____________________________________________________________________ आङ्मर्यादाभिविध्योः ॥ २,१.१३ ॥ _____ काशिकावृत्तिः२,१.१३: आङित्येतन्मर्यादायामभिविधौ च वर्तमानं पज्चम्यन्तेन सह विभाषा संस्यते, अव्ययीभावश्च समासो भवति । आपाटलिपुत्रं वृष्टो देवः, आ पाटलिपुत्रात् । अभिविधौ आकुमारं यशः पाणिनेः, आ कुमारेभ्यः ॥ ____________________________________________________________________ लक्षणेन अभिप्रती आभिमुख्ये ॥ २,१.१४ ॥ _____ काशिकावृत्तिः२,१.१४: लक्षणं चिह्नं, तद्वाचिना सुबन्तेन सह अभिप्रती शब्दावाभिमुख्ये वर्तमानौ विभाषा समस्येते, अव्ययीभावश्च समासो भवति । अभ्यग्नि शलभाः पतन्ति, अग्निमभि । प्रत्यग्नि, अग्निं प्रति । अग्निं लक्ष्यीकृत्य अभिमुखं पतन्ति इत्यर्थः । लक्षणेन इति किम् ? स्रुग्घ्नं प्रतिगतः । प्रतिनिवृत्त्य स्रुग्घ्नमेव अभिमुखं गतः । अभिप्रती इति किम् ? येन अग्निस्तेन गतः । आभिमुख्ये इति किम् ? अभ्यङ्का गावः । प्रत्यङ्क्का गावः । नवाङ्का इत्यर्थः ॥ ____________________________________________________________________ [॰१०४] अनुर्यत्समया ॥ २,१.१५ ॥ _____ काशिकावृत्तिः२,१.१५: समया समीपम् । अनुर्यस्य समीपवाची तेन लक्षणभूतेन सह विभाषा समस्यते, अव्ययीभावश्च समासो भवति । अनुवनमशनिर्गतः । अनुः इति किम् ? वनं समया । यत्समया इति किम् ? वृक्षमनु विद्योतते विद्युत् । अव्ययं विभक्तिसमीप (*२,१.६) इत्येव सिद्धे पुनर्वचनं विभाषार्थम् ॥ ____________________________________________________________________ यस्य च आयामः ॥ २,१.१६ ॥ _____ काशिकावृत्तिः२,१.१६: लक्षनेन इति वर्तते । आयामो दैर्घ्यम् । अनुर्यस्यायामवाची तेन लक्षणभूतेन सह विभाषा समस्यते, अव्ययीभावश्च समासो भवति । अनुगङ्गं वाराणसी । अनुयमौनं मथुरा । यमुनायामेन मथुरायामो लक्ष्यते । आयामः इति किम् ? वृक्षमनु विध्योतते विद्युत् ॥ ____________________________________________________________________ तिष्ठद्गुप्रभृतीनि च ॥ २,१.१७ ॥ _____ काशिकावृत्तिः२,१.१७: तिष्ठद्ग्वादयः समुदाया एव निपात्यन्ते । तिष्ठद्गुप्रभृतीनि शब्दरूपाणि अव्ययीभावसञ्ज्ञानि भवन्ति । तिष्ठद्गु कालविशेषः । तिष्ठन्ति गावो यस्मिन् काले दोहनाय स तिष्ठद्गु कालः । खलेयवादीनि प्रथमानतानि विभक्त्यनतरेन्ण न+एव सम्बध्यन्तेऽन्यपदार्थे च काले वर्तन्ते । चकारोऽवधारणार्थः । अपरः समासो न भवति, परमतिष्ठद्गु इति । तिष्ठद्गु । वहद्गु । आयतीगवम् । खलेबुसम् । खलेयवम् । लूनयवम् । लूयमानयवम् । पूतयवम् । पूयमानयवम् । संहृतयवम् । संह्रियमाणायवम् । संहृतबुसम् । संह्रियमाणाबुसम् । एते कालशब्दाः । समभूमि । समपदाति । सुषमम् । विषमम् । निष्षमम् । दुष्षमम् । अपरसमम् । आयतीसमम् ः प्राह्णम् । प्ररथम् । प्रमऋगम् । प्रदक्षिणम् । अपरदक्षिणम् । संप्रति । असंप्रति । पापसमम् । पुण्यसमम् । इच्कर्मव्यतिहारे (*५,४.१२७) दण्डादण्डि । मुसलामुसलि ॥ ____________________________________________________________________ पारे मध्ये षष्ठ्या वा ॥ २,१.१८ ॥ _____ काशिकावृत्तिः२,१.१८: षष्थीसमासे प्राप्ते तदपवादोऽव्ययीभव आरभ्यते । वावचनात्षष्ठीसमासोऽपि पक्षेऽभ्यनुज्ञायते । पारंध्यशब्दौ षष्ठ्यन्तेन सह विभाषा समस्येते, अव्ययीभावश्च समासो भवति । तत्सन्नियोगेन च अनयोरेकारान्तत्वं निपात्यते । पारं गङ्गायाः पारेगङ्हम् । मध्यं गङ्गायाः मध्येगङ्गम् । षष्ठीसमासपक्षे गङ्गापारम् । गङ्गामध्यम् । महाविभाषया वाक्यविकल्पः क्रियते ॥ ____________________________________________________________________ [॰१०५] सङ्ख्या वंश्येन ॥ २,१.१९ ॥ _____ काशिकावृत्तिः२,१.१९: विद्यया जन्मना वा प्राणिनामेकलक्षणसन्तानो वंशः इत्यभिधीयते । तत्र भवो वंश्यः । तद्वाचिना सुबन्तेन सह सङ्ख्या समस्यते, अव्ययीभावश्च समासो भवति । द्वौ मुनी व्याकरणस्य वंश्यौ द्विमुनि व्याकरनस्य । त्रिमुनि व्याकरणस्य । यदा तु विद्यय तद्वतामभेदविवक्षा तदा सामानाधिकरण्यं भवति । द्विमुनि व्यकरणम् । त्रिमुनि व्याकरणमिति । जन्मना एकविंशतिभारद्वाजम् ॥ ____________________________________________________________________ नदीभिश्च ॥ २,१.२० ॥ _____ काशिकावृत्तिः२,१.२०: सङ्ख्या इत्यनुवर्तते । नदीवचनैः शब्दैः सह सङ्ख्या समस्यते, अव्ययीभावश्च समासो भवति । समाहारे च अयमिष्यते । सप्तगङ्गम् । द्वियमुनम् । पञ्चनदम् । सप्तगोदावरम् ॥ ____________________________________________________________________ अन्यपदर्थे च सञ्ज्ञायाम् ॥ २,१.२१ ॥ _____ काशिकावृत्तिः२,१.२१: सङ्ख्या इति निवृत्तम् । नदीग्रहनमनुवर्तते । नदीभिः सह सुबन्तमन्यपदार्थे वर्तमानं सञ्ज्ञायां विष्ये समस्यते, अव्ययीभावश्च समासो भवति । विभाषाऽधिकारेऽपि नित्यसमास एव अयम् । न हि वाक्येन सञ्ज्ञा गम्यते । उन्मत्तगङ्गं नाम देशः । लोहितगङ्गम् । शनैर्गङ्गम् । कृष्णगङ्गम् । अन्यपदार्थे इति किम् ? कृष्णवेण्णा । सञ्ज्ञायामिति किम् ? शीघ्रगङ्गो देशः ॥ ____________________________________________________________________ तत्पुरुषः ॥ २,१.२२ ॥ _____ काशिकावृत्तिः२,१.२२: तत्पुरुषः इति सञ्ज्ञाऽधिक्रियते प्राग्बहुव्रीहेः । यानित ऊर्ध्वमनुक्रमिष्यामः, तत्पुरुषसञ्ज्ञास्ते वेदितव्याः । वक्ष्यति, द्वितीय श्रितातीतपतित (*२,१.२४) । इति । कष्टश्रितः । पूर्वाचार्यसञ्ज्ञा चेयं महती, तदङ्गीकरणौपाधेरपि तदीयस्य परिग्रहार्थम्, उत्तरपदार्थप्रधानस्तत्पुरुषः इति । तत्पुरुषप्रदेशाः तत्पुरुषे कृति बहुलम् (*३,३.१४) । इत्येवमादयः ॥ ____________________________________________________________________ द्विगुश्च ॥ २,१.२३ ॥ _____ काशिकावृत्तिः२,१.२३: द्विगुश्च समासः तत्पुरुशसज्ज्ञो भवति । द्विगोस्तत्पुरुशत्वे समासान्ताः प्रयोजनम् । पञ्चराजम् । दशराजम् । द्व्यहः । त्र्यहः । पङ्चगवम् । दशगवम् ॥ ____________________________________________________________________ [॰१०६] द्विदीया श्रितातीतपतितगतात्यस्तप्राप्तापनैः ॥ २,१.२४ ॥ _____ काशिकावृत्तिः२,१.२४: सुप्स्पा इति वर्तते । तस्य विशेषणमेतद्द्वितीया । द्वितीयान्तं सुबन्तं श्रितादिभिः सह समस्यते, तत्पुरुषश्च समासो भवति । कष्टं श्रितः कष्टश्रितः । नरकश्रितः । अतीत कान्तारमतीतः कान्तारातितः । पतित नरकं पतितः नरकपतितः । गत ग्रामं गतः ग्रामगतः । अत्यस्त तरङ्गनत्यस्तः तरङ्गात्यस्तः । तुहिनात्यस्तः । प्राप्त सुखं प्राप्तः सुखप्राप्तः । आपन्न सुखमापन्नः सुखापन्नः । दुःखापन्नः । श्रित्तादिषु गमिगाम्यादिनामुपसङ्ख्यनम् । ग्रामं गमी ग्रामगमी । ग्रामं गामी ग्रामागामी । ओद्नं बुभुक्षुः ओदनबुभुक्षुः ॥ ____________________________________________________________________ स्वयं क्तेन ॥ २,१.२५ ॥ _____ काशिकावृत्तिः२,१.२५: स्वयमेतदव्ययमात्मना इत्यस्यार्थे वर्तते, तस्य द्वितीयया सम्बन्धोऽनुपपन्नः इति द्वितीयाग्रहणमुत्तरार्थमनुवर्तते । स्वयमित्येतत्सुबन्तं क्तान्तेन सह समस्यते, तत्पुरुषश्च समासो भाति । स्वयंधौतौ पादौ । स्वयंविलीनमाज्यम् । ऐकपद्यमैकस्वर्यं च समासत्वाद्भवति ॥ ____________________________________________________________________ खट्वा क्षेपे ॥ २,१.२६ ॥ _____ काशिकावृत्तिः२,१.२६: खट्वाशब्दो द्वितीयान्तः क्तान्तेन सह क्षेपे गम्यमाने समस्यते, तत्पुरुषश्च समासो भवति । क्षेपो निन्दा, स च समासार्थ एव, तेन विभाषाऽधिकारेऽपि नित्यसमास एव अयम् । न हि वक्येन क्षेपो गम्यते । खट्वारोहणं च+इह विमार्गप्रस्थानस्य+उपलक्षनम् । सर्व एव अविनीतः खट्वारूढः इत्युच्यते । खट्वारुढो जाल्मः । खट्वाप्लुतः । अपथप्रस्थितः इत्यर्थः । क्षेपे इति किम् ? खट्वामारूढः ॥ ____________________________________________________________________ सामि ॥ २,१.२७ ॥ _____ काशिकावृत्तिः२,१.२७: सामि इत्येतदव्ययमर्धशब्दपर्यायः, तस्य असत्त्ववाचित्वाद्द्वितीयया न अस्ति सम्बन्धः । तत्सुबन्तं क्तन्तेन सह समस्यते, तत्पुरुषश्च समासो भवति । सामिकृतम् । सामिपीतम् । समिभुक्तम् । ऐकपद्यमैकस्वर्यं च समासत्वद्भवति ॥ ____________________________________________________________________ [॰१०७] कालाः ॥ २,१.२८ ॥ _____ काशिकावृत्तिः२,१.२८: द्वितीया क्तेन इति वर्तते । कालवाचिनः शब्दाः द्वितीयान्ताः क्तान्तेन सह समस्यन्ते विभाष, तत्पुरुषश्च समासो भवति । अन्त्यन्तसम्योगार्थं वचनम् । कालाः इति न स्वरूपविधिः । षण्मुहूर्ताश्चराचराः, ते कदाचितहर्गच्छन्ति कदाचित्रात्रिम् । अहरतिसृता मुहूर्ताः अहःसङ्क्रान्ताः । रात्र्यतिसृता मुहूर्ताः रात्रिसङ्क्रान्ताः । मासप्रमितश्चन्द्रमाः । मासं प्रमातुमारब्धः प्रतिपच्चन्द्रमाः इत्यर्थः ॥ ____________________________________________________________________ अत्यन्तसंयोगे च ॥ २,१.२९ ॥ _____ काशिकावृत्तिः२,१.२९: कालाः इति वर्तते । क्तेन इति निवृत्तम् । अत्यन्तसंयोगः कृत्स्नसंयोगः, कालस्य स्वेन सम्बन्धिना व्याप्तिः । कालवाचिनः शब्दा द्वितीयान्ता अत्यन्तसंयोगे गम्यमाने सुपा सह समस्यन्ते विभाषा, तत्पुरुषश्च समासो भवति । मुहूर्तं सुखं मुहूर्तसुखम् । सर्वरात्रकल्पाणी । सर्वरात्रशोभना ॥ ____________________________________________________________________ तृतीया तत्कृतार्थेन गुणवचनेन ॥ २,१.३० ॥ _____ काशिकावृत्तिः२,१.३०: सुप्सुपा इति वर्तते । तस्य विशेषणमेतत् । तृतीयान्तं गुणवचनेन अर्थशब्देन च सह संस्यते, तत्पुरुषश्च समासो भवति । कीदृशेन गुणवचनेन ? तत्कृतेन तदर्थकृतेन, तृतीयान्तार्थकृतेन इति यावत् । शङ्कुलया खण्डः सङ्कुलाखण्डः । किरिणा काणः किरिकाणः । अर्थशब्देन धान्येन अर्थः धान्यार्थः । तत्कृतेन इति इम् ? अक्ष्णा काणः । गुणवचनेन इति किम् ? गोभिर्वपावान् ॥ ____________________________________________________________________ पूर्वसदृशसमोनार्थकलहनिपुणमिश्रश्लक्ष्णैः ॥ २,१.३१ ॥ _____ काशिकावृत्तिः२,१.३१: पूर्व सदृश सम ऊनार्थ कलह निपुण मिश्र श्लक्ष्ण इत्येतैः सह तृतीयान्तं समस्यते, तत्पुरुषश्च समसो भवति । अस्मादेव वचनात्पूर्वादिभिर्योगे तृतीया भवति, हेतौ वा द्रष्टव्या । पूर्व मासेन पूर्वः मासपूर्वः । संवत्सरपूर्वः । सदृश मातृसदृशः । पितृसदृशः । सम मातृसमः । ऊनार्थ माशोनम् । कार्षापणोनम् । माषविकलम् । कार्षापनविकलम् । कलह असिकलहः । वाक्कलहः । निपुण वाङ्निपुणः । आचारनिपुणः । मिश्र गुडमिश्रः । तिलमिश्रः । श्लक्ष्ण आचारश्लक्ष्णः । पूर्वादिष्ववरस्योपसङ्ख्यानम् । मासेनावरः मासावरः । संवत्सरावरः ॥ ____________________________________________________________________ [॰१०८] कर्तृकर्णे दृता बहुलम् ॥ २,१.३२ ॥ _____ काशिकावृत्तिः२,१.३२: तृतीया इति वर्तते । कर्तरि करणे च या तृतीया तदन्तं कृदन्तेन सह बहुलं समस्यते, तत्पुरुषश्च समासो भवति । सर्वोपाधिव्यभिचारार्थं बहुलग्रहनम् । कर्तरि अहिना हतः अहिहतः । करणे नखैर्निर्भिन्नः नखनिर्भिन्नः । परशुना छिन्नः । कर्तृकरणे इति किम् ? भिक्षाभिरुषितः । बहुलग्रहनं किम् ? दात्रेण लूनवान्, परशुना छिन्नवान्, इह समासो न भवति । पादहारकः, गले चोपकः इति च भवति ॥ ____________________________________________________________________ कृत्यैरधिकार्थवचने ॥ २,१.३३ ॥ _____ काशिकावृत्तिः२,१.३३: स्तुतिनिन्दाप्रयुक्तमध्यारोपितार्थवचनमधिकार्थवचनम् । कर्तृकरणयो या तृतीया तदन्तं सुबन्तं कृतैः सह समस्यतेऽधिकार्थवचने गम्यमाने विभाषा, तत्पुरुषश्च समासो भवति । कर्ता काकपेया नदी । श्वलेह्यः कूपः । करणम् बाष्पच्छेद्यानि तृणानि । क्ण्टकसञ्चेय ओदनः । पूर्वस्यअ+एव अयं प्रपञ्चः । कृत्यग्रहणे यण्ण्यतोर्ग्रहनं कर्तव्यम् । इह मा भूत्, काकैः पातव्या इति ॥ ____________________________________________________________________ अन्नेन व्यञ्जनम् ॥ २,१.३४ ॥ _____ काशिकावृत्तिः२,१.३४: तृतीया इति वर्तते । व्यञ्ज्ञवाचि तृतीयान्तमनवाचिना सुबन्तेन सहा समस्यते, विभाशा तत्पुरुषश्च समासो भवति । संस्कार्यमन्नं, संस्कारकं व्यञ्जनम् । दध्ना उपसिक्त ओदनः दध्योदनः । क्षीरौदनः । वृत्तौ क्रियाया अन्तर्भावादन्नव्यञ्जनयोः सामर्थ्यम् ॥ ____________________________________________________________________ भक्ष्येण मिश्रीकरनम् ॥ २,१.३५ ॥ _____ काशिकावृत्तिः२,१.३५: मिश्रीकरनवाचि तृतीयान्तं भक्ष्यवाचिना सुबन्तेन सह समस्यते, तत्पुरुषश्च समासो भवति । खरविशदमभ्यवहार्यं भक्ष्यं, तस्य संस्कारकं मिश्रीकरणम् । हुडेन मिश्राः धानाः गुडधानाः । गुडपृथुकाः । वृत्तौ क्रियाया अन्तर्भावात्पूर्वोत्तरपदयोः सामर्थ्यम् ॥ ____________________________________________________________________ [॰१०९] चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः ॥ २,१.३६ ॥ _____ काशिकावृत्तिः२,१.३६: सुप्सुपा इति वर्तते । तस्य विशेषणमेतत् । ततिति सर्वनाम्ना चतुर्थ्यन्तस्य अर्थः परामृश्यते । तस्मै इदं तदर्थम् । तदर्थ अर्थ बलि हित सुख रक्षित इत्येतैः सह चतुर्थ्यन्तं समस्यते, तत्पुरुषश्च समासो भवति । तदर्थेन प्रकृतिविकारभावे समासोऽयमिष्यते । यूपाय दारु यूपदारु । कुण्ड्लाय हिरण्यं कुण्डलहिरण्यम् । इह न भवति, रन्धनाय स्थली, अवहननाय उलूखलमिति । तादर्थ्ये चतुर्थी च अस्मादेव ज्ञापकाद्भवति । अर्थेन नित्यसमासवचनं सर्वलिङ्गता च वक्तव्या । ब्राह्मणार्थं पयः । ब्राह्मणार्था यवागूः । बलि कुबेराय बलिः कुबेरबलिः । महाराजबलिः । हित गोहितम् । अश्वहितम् । सुख गोसुखम् । अश्वसुखम् । रक्षित गोरक्षितम् । अश्वरक्षितम् ॥ ____________________________________________________________________ पञ्चमी भयेन ॥ २,१.३७ ॥ _____ काशिकावृत्तिः२,१.३७: सुप्सुपा इति वर्तते । तस्य विशेषणमेतत् । पञ्चम्यन्तं सुबनतं भयशब्देन । सुबन्तेन सह समस्यते विभाषा, तत्पुरुषश्च समासो भवति । वृकेब्यो भयं वृकभयम् । चौरभयम् । दस्युभयम् । भयभीतभीतिभीभिरिति वक्तव्यम् । वृकेभ्यो भीतः वृकभीतः । वृकभीतिः । वृकभीः । पूर्वस्य+एव अयं बहुलग्रहणस्य प्रप्ञ्चः । तथा च ग्रामनिर्गतः, अधर्मजुगुप्सुः इत्येवमादि सिद्धं भवति ॥ ____________________________________________________________________ अपेतापोढमुक्तपतितापत्रस्तैरल्पशः ॥ २,१.३८ ॥ _____ काशिकावृत्तिः२,१.३८: अपेत अपोढ मुक्त पतित अपत्रस्त इत्येतैः सह पज्चम्यन्तं समस्यते, तत्पुरुषश्च समासो भवति । अपेत सुखापेतः । अपोढ कल्पनापोढः । मुक्त चक्रमुक्तः । पतित स्वर्गपतितः । अपत्रस्त तरङ्गापत्रस्तः । अल्पशः इति समासस्य अल्पविषयतामाचष्टे । अल्पा पञ्चमी संस्यते, न सर्वा । प्रासादात्पतितः, भोजनादपत्रस्तः इत्येवमदौ न भवति । कर्तृकरने कृता बहुलम् (*२,१.३२) इत्यस्य+एव अयं प्रपञ्चः ॥ ____________________________________________________________________ [॰११०] स्तोकान्तिकदूरार्थकृच्छ्राणि क्तेन ॥ २,१.३९ ॥ _____ काशिकावृत्तिः२,१.३९: स्तोक अन्तिक दूर इत्येवमर्थाः शब्दाः कृच्छ्रशब्दश्च पञ्चम्यन्ताः क्तान्तेन सह समस्यन्ते, तत्पुरुषश्च समासो भवति । स्तोकान्मुक्तः । अन्तिकादागतः । अभ्याशादागतः । दूरादागतः । विप्रकृष्टादागतः । कृच्छ्रान्मुक्तः । कृच्छ्राल्लब्धः । पञ्चम्याः स्तोकादिभ्यः (*६,३.२) इत्यलुक् । शतसहत्रौ परेणेति वक्तव्यम् । शतात्परे परश्शताः । सहस्रात्परे परस्सहस्राः । राजदन्तादित्वात्परनिपातः । निपातनात्सुडागमः ॥ ____________________________________________________________________ सप्तमी शौण्डैः ॥ २,१.४० ॥ _____ काशिकावृत्तिः२,१.४०: सप्तम्यन्तं शौण्डादिभिः सह समस्यते, तत्पुरुषाश्च समासो भवति । अक्षेषु शौण्डः अक्षशौण्डः । अक्षधूर्तः । अक्षकितवः । शौण्ड । धूर्त । कितव । व्याड । प्रवीण । संवीत । अन्तर् । अन्तःशब्दस्त्वराधिकरनप्रधान एव पठ्यते । अधि । पटु । पण्डित । चपल । निपुण । वृत्तौ प्रसक्तिक्रियाया अन्तर्भावदक्षादिषु अधिकरणे सप्तमी ॥ ____________________________________________________________________ सिद्धशुष्कपक्वबन्धैश्च ॥ २,१.४१ ॥ _____ काशिकावृत्तिः२,१.४१: सप्तमी इति वर्तते । सिद्ध शुष्क पक्व बन्ध इत्येतैः सह सप्तम्यन्तं समस्यते, तत्पुरुषश्च समासो भवति । साङ्काश्यसिद्धः । काम्पिल्यसिद्धः । शुष्क आतपशुष्कः । छायाशुष्कः । पक्व स्थालीपक्वः । कुम्भीपक्वः । बन्ध चक्रबन्धः । बहुलग्रहणस्य+एव अयमुदाहरणप्रपञ्चः ॥ ____________________________________________________________________ ध्वाङ्क्षेन क्षेपे ॥ २,१.४२ ॥ _____ काशिकावृत्तिः२,१.४२: ध्वाग्क्षेण इत्यर्थग्रहनम् । धवाग्क्षवाचिना सुबन्तेन सह सप्तम्यन्तं सुबन्तं सुबन्तं समस्यते, तत्पुरुषश्च समासो भवति क्षेपे गम्यमाने । तीर्थे ध्वाङ्क्ष इव तीर्थध्वाड्क्षः । अनवस्थितः इत्यर्थः । तीर्थकाकः । तीर्थवायसः । क्षेपे इति किम् ? तीर्थे ध्वाङ्क्षस्तिष्थति ॥ ____________________________________________________________________ [॰१११] क्र्त्यैरृणे ॥ २,१.४३ ॥ _____ काशिकावृत्तिः२,१.४३: सुप्तमी इति वर्तते । कृत्यप्रत्ययान्तैः सह सप्तम्यन्तं समस्यते, तत्पुरुषश्च समासो भवति ऋणे गम्यमाने । यत्प्रत्ययेन+एव+इष्यते । मासे देयमृणं मासदेयम् । संवत्सरदेयम् । व्यहदेयम् । ऋणग्रहणं नियोगोपलक्षणार्थं, तेन+इह अपि समासो भवति, पूर्वाह्णे गेयं साम पूर्वाह्णगेयम् । प्रातरध्येयोऽनुवाकः । ऋणे इति किम् ? मासे देया भिक्षा ॥ ____________________________________________________________________ सञ्ज्ञायाम् ॥ २,१.४४ ॥ _____ काशिकावृत्तिः२,१.४४: सञ्ज्ञायां विषये सप्तयन्तं सुपा सह समस्यते, तत्पुरुषश्च समासो भवति । सञ्ज्ञा समुदायोपाधिः । तेन नित्यसमास एव अयम्, न हि वाक्येन सञ्ज्ञा गम्यते । अरण्येतिलकाः । अरण्येमाषाः । वनेकिंशुकाः । वने बिल्वकाः । कूपेपिशाचकाः । हलदन्तात्सप्तम्याः सञ्ज्ञायाम् (*६,३.९) इत्यलुक् ॥ ____________________________________________________________________ क्तेन अहोरात्रावयवाः ॥ २,१.४५ ॥ _____ काशिकावृत्तिः२,१.४५: अहरवयवाः रात्र्यवयवाश्च सप्तम्यन्ताः क्तान्तेन सह समस्यन्ते, तत्पुरुषश्च समासो भवति । पूर्वाह्णकृतम् । अपराह्णकृतम् । पूर्वरात्रकृतम् । अपररात्रकृतम् । अवयवग्रहनं किम् ? एतत्तु ते दिवा वृत्तं रात्रौ वृत्तं च द्रक्ष्यसि । अहनि भुक्तम् । रात्रौ वृत्तम् । बहुलग्रहणात् । रात्रिवृत्तम्, सन्ध्यगर्जितमित्यादयः ॥ ____________________________________________________________________ तत्र ॥ २,१.४६ ॥ _____ काशिकावृत्तिः२,१.४६: तत्र इत्येतत्सप्तम्यन्तं क्तान्तेन सह समस्यते, तत्पुरुषश्च समासो भवति । तत्रभुक्तम् । तत्रकृतम् । तत्रपीतम् । ऐकपद्यमैकस्वर्यं च समासत्वात्भवति ॥ ____________________________________________________________________ क्षेपे ॥ २,१.४७ ॥ _____ काशिकावृत्तिः२,१.४७: क्षेपो निन्दा । क्षेपे गम्यमाने सप्तम्यन्तं क्तान्तेन सह समस्यते, तत्पुरुषश्च समासो भवति । अवतप्ते नकुलस्थितं त एतत् । चापलमेतत्, अनवस्थितत्वं तवैततित्यर्थः । उदकेविशीर्णम् । प्रवाहेमूत्रितम् । भस्मनिहुतम् । निष्फलं यत्क्रियते तदेवमुछ्यते । तत्पुरुषे कृति बहुलम् (*६,३.१४) इत्यलुक् ॥ ____________________________________________________________________ [॰११२] पात्रेसमितादयश्च ॥ २,१.४८ ॥ _____ काशिकावृत्तिः२,१.४८: समुदाया एव निपात्यन्ते । पात्रेसमितादयः शब्दस्तत्पुरुषसञ्ज्ञा भवन्ति क्षेपे गम्यमाने । ये च अत्र क्तान्तेन सह समासाः, तेषां पूर्वेन+एव सिद्धे पुनः पाठो युक्तारोह्यादिपरिग्रहार्थः, पूर्वपदाद्युदात्तत्वं यथा सयातिति । युक्तरोह्यादिषु हि पात्रेसमितादयश्च इति पठ्यते । पात्रेसमिताः । पात्रेबहुलाः । अवधारणेन क्षेपो गम्यते, पात्रे एव समिता न पुनः क्वचित्कार्ये इति । उदुम्बरमशकादषु उपमया क्षेपः । मातरिपुरुषः इति प्रतिषिद्धसेवनेन । पिण्डीषूरादिषु निरीहतया । अव्यक्तत्त्वाच्चाकृतिगणोऽयम् । पात्रेसमिताः । पात्रेबहुलाः । उदुम्बरमशकाः । उदरकृमिः । कूपकच्छपः । कूपचूर्णकः । अवटकच्छपः । कूपमण्डूकः । कुम्भमण्डूकः । उदपानमःडूकः । नगरकाकः । नगरवायसः । मातरिषुरुषः । पिण्डीषूरः । पितरिषूरः । गेहेशूरः । गेहेनर्दी । गेहेक्ष्वेडी । गेहेविजिती । गेहेव्याडः । गेहेमेही । गेहेदाही । हेहेदृप्तः । गेहेधृष्टः । गर्भेतृप्तः । आखनिकबकः । गोष्ठेशूरः । गोष्ठे विजिती । गोष्ठेक्ष्वेडी । गोष्ठेपटुः । गोष्ठेपण्डितः । गोष्ठेप्रगल्भः । कर्णेटिट्टिभः । कर्णेटिरिटिरा । कर्णेचुरचुरा । चकारोऽवधारणार्थः, तेन समासान्तरं न भवति, परमपात्रेसमिताः इति ॥ ____________________________________________________________________ पूर्वकालैकसर्वजरत्पुराणानवकेवलाः समानाधिकरणेन ॥ २,१.४९ ॥ _____ काशिकावृत्तिः२,१.४९: सुप्सुपा इति वर्तते । तस्य विशेषणमेतत् । पूर्वकाल एक सर्व जरत्पुराण नव केवल इत्येते सुबन्ताः समानाधिकरणेन सुपा सह समस्यन्ते, तत्पुरुषश्च समासो भवति । भिन्नप्रवृत्तिनिमित्तस्य शब्दस्य+एकस्मिन्नर्थे वृत्तिः साअमानाधिकरण्यम् । पूर्वकालः इत्यर्थनिर्देशः, परिशिष्टानां स्वरूपग्रहणम् । पूर्वकालोऽपरकालेन समस्यते । स्नातानुलिप्तः । कृष्टसमीकृतम् । दग्धप्ररूढम् । एकशाटी । एकभिक्षा । सर्वदेवाः । सर्वमनुष्याः । जरद्धस्ती । जरद्गृष्टिः । जरद्वृत्तिः । पुराणान्नम् । पुराणावसथम् । नवान्नम् । नवावसथम् । केवलान्नम् । समानाधिकरणेन इति किम् ? एकस्याः शाटी ॥ ____________________________________________________________________ [॰११३] दिक्सङ्ख्ये सञ्ज्ञायाम् ॥ २,१.५० ॥ _____ काशिकावृत्तिः२,१.५०: समानाधिकरणेन इत्यापादसमाप्तेरनुवर्तते । दिग्वाचिनः शब्दाः सङ्ख्या च समानाधिकरणेन सुबन्तेन सह समस्यन्ते, तत्पुरुषश्च समासो भवति सञ्ज्ञयां वषये । पूर्वेषुकामशमी । अपरेषुकामशमी । पञ्चाम्राः । सप्तर्षयः । सञ्ज्ञायामिति किम् ? उत्तरा वृक्षाः । पञ्च ब्राह्माणाः ॥ ____________________________________________________________________ तद्धितर्थोत्तरपदसमाहारे च ॥ २,१.५१ ॥ _____ काशिकावृत्तिः२,१.५१: दिक्सङ्ख्ये इत्यनुवर्तते । तद्धितार्थे विषये उत्तरपदे च परतः समाहारे च अभिधेये दिक्सङ्ख्ये समानाधिकरणेन सुपा सह समस्येते, तत्पुरुषश्च समासो भवति । तद्धितार्थे तावत् पूर्वस्यां शालायां भवः, दिक्पूर्वपदादसञ्ज्ञायां ञः (*४,२.१०७), पौर्वशालः । आपरशालः । उत्तरपदे पूर्वशालाप्रियः । अपरशालाप्रियः । समाहारे दिक्शब्दो न सम्भवति । सङ्ख्या तद्धितार्थे पाञ्चनापितिः । पञ्चकपालः । उत्तरपदे पञ्चगवधनः । दशगवधनः । समाहारे पञ्चपूली । दशपूली । पञ्चकुमारि । दशकुमारि । स नपुंसकम् (*२,४.१७) इति नपुंसकत्वम् । ह्रस्वो नपुंसके प्रातिपदिकस्य (*१,२.४७) इति ह्रस्वत्वम् ॥ ____________________________________________________________________ सङ्ख्यापूर्वो द्विगुः ॥ २,१.५२ ॥ _____ काशिकावृत्तिः२,१.५२: तद्धितार्थोत्तरपदसमाहारे च (*२,१.५१) इत्यत्र यः सङ्ख्यापूर्वः समासः स द्विगुसञ्ज्ञो भवति । तद्धितार्थे तावत् पञ्चसु कपालेशु संस्कृतः पञ्चकपालः । दशकपालः । संस्कृतं भक्षाः (*४,२.१६) इति इह अण्, तस्य द्विगोर्लुगनपत्ये (*४,१.८८) इति लुक् । उत्तरपदे पञ्चनावप्रियः । नावो द्विगोः (*५,४.९९) इति समासान्तो भवति । समाहारे पञ्चपूली । द्विगोः (*४,१.२१) इति ङीब्भवति । द्विगुप्रदेशाः द्विगोः (*४,१.२१) इत्येवमादयः ॥ ____________________________________________________________________ कुत्सितानि कुत्सनैः ॥ २,१.५३ ॥ _____ काशिकावृत्तिः२,१.५३: कुत्सितवाचीनि सुबन्तानि कुत्सनवचनैः सुबन्तैः सह समस्यन्ते, तत्पुरुषश्च समासो भवति । शब्दप्रवृत्तिनिमित्तकुत्सायामयं समास इष्यते । विशेषणं विशेष्येण बहुलम् (*२,१.५७) इति परनिपाते प्राप्ते विशेष्यस्य पूर्वनिपातार्थ आरम्भः । वैयाकरणखसूचिः । निष्प्रतिभः इत्यर्थः । याज्ञिककितवः । अयाज्ययाजनतृष्णापरः । मीमांसकदुर्दुरूढः । नास्तिकः । कुत्सितानि इति किम् ? वैयाकरणश्चौरः । न ह्यत्र वैयाकरणत्वं कुत्स्यते । कुत्सनैः इति किम् ? कुत्सितो ब्राह्मणः ॥ ____________________________________________________________________ [॰११४] पापाणके कुत्सितैः ॥ २,१.५४ ॥ _____ काशिकावृत्तिः२,१.५४: पापाणकशब्दौ कुत्सनाभिधायिनौ, तयोः पूर्वेण समासे परनिपातः प्राप्तः, पूर्वनिपतार्थमिदमारभ्यते । पाप अणक इत्येते सुबन्ते कुत्सितवचनैः सह समस्येते, तत्पुरुषश्च समासो भवति । पापनापितः । पापकुलालः । अणकनापितः । अणककुलालः ॥ ____________________________________________________________________ उपमानानि सामान्यवचनैः ॥ २,१.५५ ॥ _____ काशिकावृत्तिः२,१.५५: उपमीयतेऽनेन इत्युपमानम् । उपमानवाचीनि सुबन्तानि सामान्यवचनैः सुबन्तैः सह समस्यन्ते, तत्पुरुषश्च समासो भवति । उपमानोपमेययोः साधारणे धर्मः सामान्यं, तद्विशिष्टोपमेयवचनैरयं समासः । शस्त्रीव श्यामा शस्त्रीश्यामा देवदत्ता । कुमुदश्येनी । हंसगद्गदा । न्यग्रोधपरिमण्डला । उपमानानि इति किम् ? देवदत्ता शयामा । सामान्यवचनैः इति किम् ? फाला इव तण्डुलाः । पर्वता इव बलाहकाः ॥ ____________________________________________________________________ उपमितं व्याघ्रादिभिः सामान्याप्रयोगे ॥ २,१.५६ ॥ _____ काशिकावृत्तिः२,१.५६: उपमेयमुपमितं , तद्वाचि सुबन्तं व्याघ्रादिभिः सामर्थ्यादुपमानवचनैः सह सामस्यते, तत्पुरुषश्च समासो भवति, न चेत्सामान्यवाची शब्दः प्रयुज्यते । विशेषणं विशेष्येण बहुलम् (*२,१.५७) इति परनिपाते प्राप्ते विशेष्यस्य पूर्वनिपातार्थ आरम्भः । पुरुषोऽयं व्याघ्र इव पुरुषव्याघ्रः । पुरुषसिंहः । सामान्याप्रयोगे इति इम् ? पुरुषोऽयं व्याघ्र इव शूरः । व्याघ्र । सिंह । ऋक्ष । ऋषभ । चन्दन । वृक्ष । वराह । वृष । हस्तिन् । कुञ्जर । रुरु । पृषत । पुण्डरीक । बलाहक । अकृतिगनश्च अयम्, तेन+इदमपि भवति मुखपद्मम्, मुखकमलम्, करकिसलयम्, पार्थिवचन्द्रः इत्येवमादि ॥ ____________________________________________________________________ विशेसनं विशेष्येण बहुलम् ॥ २,१.५७ ॥ _____ काशिकावृत्तिः२,१.५७: भेदकं विशेषणं, भेद्यं विशेष्यम् । विशेषणवाचि सुबन्तं विशेष्यवाचिना समानाधिकरणेन सुबन्तेन सह बहुलं समस्यते, तत्पुरुषश्च समासो भवति । नीलोत्पलम् । रक्तोत्पलम् । बहुलवचनं व्यवस्थार्थम् । क्वचिन्नित्यसमास एव, कृष्णसर्पः, लोहितशालिः । क्वचिन्न भवत्येव, रामो जामदग्न्यः, अर्जुनः कार्तवीर्यः । क्वचिद्विकल्पः, नीलमुत्पलम्, नीलोत्पलम् । विशेषणमिति किम् ? तक्षकः सर्पः । विशेष्येण इति किम् ? लोहितस्तक्षकः ॥ ____________________________________________________________________ [॰११५] पूर्वापरप्रथमचरमजघन्यसमानमध्यमध्यमवीराश्च ॥ २,१.५८ ॥ _____ काशिकावृत्तिः२,१.५८: पूर्व अपर प्रथम चरम जघन्य समान मध्य मध्यम वीर इत्येते सुबन्ताः समानाधिकरणेन सुपा सह समस्यन्ते, तत्पुरुषश्च समासो भवति । पूर्वपुरुषः । अपरपुरुषः । प्रथमपुरुषः । चरमपुरुषः । जघन्यपुरुषः । समानपुरुषः । मध्यपुरुषः । मध्यमपुरुषः । वीरपुरुषः । पूर्वस्य+एव अयं प्रपञ्चः ॥ ____________________________________________________________________ श्रेण्यादयः कृतादिभिः ॥ २,१.५९ ॥ _____ काशिकावृत्तिः२,१.५९: श्रेण्यादयः सुबन्ताः कृतादिभिः समानधिकरणैः सहः समस्यन्ते, तत्पुरुषश्च समासो भवति । श्रेण्यादिषु च्व्यर्थवचनम् । अश्रेणयः श्रेनयः कृताः श्रेणिकृताः । एककृताः । पूगकृताः । श्रेण्यादयः पठ्यन्ते । कृतादिराकृतिगनः । च्व्यन्तानां तु कुगतिप्रादयः (*२,२.१८) इत्यनेन नित्यसमासः । श्रेणीकृताः । श्रेणि । एक । पूग । कुण्ड । राशि । विशिख । निचय । निधान । इन्द्र । देव । मुण्ड । भूत । श्रवन । वदान्य । अध्यापक । अभिरूपक । ब्राह्मण । क्षत्रिय । पटु । पण्डित । कुशल । चपल । निपुण । कृपण । इति श्रेण्यादिः । कृत । मित । मत । भूत । उक्त । समाज्ञात । समाम्नात । समाख्यात । सम्भावित । अवधारित । निराकृत । अवकल्पित । उपकृत । उपाकृत । इति कृतादिः ॥ ____________________________________________________________________ क्तेन नञ्विशिष्टेन अनञ् ॥ २,१.६० ॥ _____ काशिकावृत्तिः२,१.६०: नञैव विशेषो यस्य, सर्वमन्यत्प्रकृत्यादिकं तुल्यं, तन्नञ्विशिष्टम्, तेन नञ्विशिष्टेन क्तान्तेन समानाधिकरणेन सह अनञ्क्तान्तं समस्यते, तत्पुरुषश्च समासो भवति । कृतं च तदकृतं च कृताकृतम् । भुक्ताभुक्तम् । पीतापीतम् । उदतानुदितम् । नुडिटौ तद्भक्तत्वान्नैव भेदकौ । अशितानशितेन जीवति । क्लिष्टाक्लिशितेन वर्तते । कृतापकृतादीनामुपसङ्ह्यानम् । कृतापकृतम् । भुक्तविभुक्तम् । पीतविपीतम् । गतप्रत्यागतम् । यातानुयातम् । क्रयाक्रयिका । पुटापुटिका । फलाफलिका । मानोन्मानिका । समानाधिकरणाधिकारे शाकपार्थिवादीनामुपसङ्ख्यानमुत्तरपदलोपश्च । शाकप्रधानः पार्थिवः शाकपार्थिवः । कुतपसौश्रुतः । अजातौल्वलिः ॥ ____________________________________________________________________ [॰११६] सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः ॥ २,१.६१ ॥ _____ काशिकावृत्तिः२,१.६१: सत्महत्परम उत्तम उत्कृष्ट इत्येते पूज्यमानैः सह समस्यन्ते, तत्पुरुषश्च समासो भवति । पूज्यमानैः इति वचनात्पूजावचनाः सदादयो विज्ञायन्ते । सत्पुरुषः । महापुरुषः । परमपुरुषः । उत्तमपुरुषः । उत्कृष्टपुरुषः । पूज्यमानैः इति किम् ? उत्कृष्टो गौः कदर्मात् ॥ ____________________________________________________________________ वृन्दरकनागकुञ्जरैः पूज्यमानम् ॥ २,१.६२ ॥ _____ काशिकावृत्तिः२,१.६२: वृन्दारक नाग कुञ्जर इत्येतैः सह पूज्यमानवाचि सुबन्तं समस्यते, तत्पुरुषश्च समासो भवति । पूज्यमानमिति वचनात्पूजावचना वृन्दारकादयो गृह्यन्ते । गोवृन्दारकः । अश्ववृन्दारकः । गोनागः । अश्वनागः । गोकुञ्जरः । अश्वकुञ्जरः । पूज्यमानमिति किम् ? सुषीमो नागः ॥ ____________________________________________________________________ कतरकतमौ जातिपरिप्रश्ने ॥ २,१.६३ ॥ _____ काशिकावृत्तिः२,१.६३: कतरकतमौ जातिपरिप्रश्ने वृतमानौ समर्थेन सुपा सह समस्येते, तत्पुरुषश्च समासो भवति । कतरकठः । कतरकालापः । कतमकठः । कतमकालापः । ननु कतमशब्दस्तावज्जातिपरिप्रश्न एव व्युत्पादितः, कतरशब्दोऽपि साहचर्यात्तदर्थवृत्तिरेव ग्रहीष्यते, किं जातिपरिप्रश्नग्रहणेन ? एवं तर्ह्येतज्ज्ञापयति कतमशब्दोऽन्यत्र अपि वर्तते इति । तथा च प्रत्युदाहरनम् कतरो भवतोर्देवदत्तः, कतमो भवतां देवदत्तः ॥ ____________________________________________________________________ किं क्षेपे ॥ २,१.६४ ॥ _____ काशिकावृत्तिः२,१.६४: किमित्येतत्क्षेपे गम्यमाने सुपा सह समस्यते ततुरुषश्च समासो भवति । किंराजा, यो न रक्षति । किंसखा, योऽभिद्रुह्यति । किंगौः, यो न वहति । किमः क्षेपे (*५,४.७०) इति समासान्तो न भवति । क्षेपे इति किम् ? को राजा पाटलिपुत्रे ॥ ____________________________________________________________________ पोटायुवतिस्तोककतिपयगृष्टिधेनुवशावेहद्बष्कयणीप्रवक्तृश्रोत्रियाध्यापकधूर्तैर्जातिः ॥ २,१.६५ ॥ _____ काशिकावृत्तिः२,१.६५: उभयव्यञ्जना पोटा इत्यभिधीयते । गृष्टिरेकवारप्रसूता । धेनुः प्रत्यग्रप्रसूता । वशा वन्ध्या । देहद्गर्भपातिनी । बष्कयणी तरुणवत्सा । पोटादिभिः सह जातिवाचि सुबन्तं समस्यते, तत्पुरुषश्च समासो भवति । इभपोटा । इभयुवतिः । अग्निस्तोकः । उदश्वित्कतिपयम् । गोगृष्टिः । गोधेनुः । गोवशा । गोवेहत् । गोबष्कयणी । कठप्रवक्ता । कठश्रोत्रियः । कठाध्यापकः । कठधूर्तः । जातिः इति किम् ? देवदत्त्तः प्रवक्ता । धूर्तग्रहणमकुत्सार्थम् ॥ ____________________________________________________________________ [॰११७] प्रशंसावचनैश्च ॥ २,१.६६ ॥ _____ काशिकावृत्तिः२,१.६६: जातिः इति वर्तते । जातिवाचि सुबन्तं प्रशंसावचनैः सह समस्यते, तत्पुरुषश्च समासो भवति । रूढिशब्दाः प्रशंसावचना गृह्यन्ते मतल्लिकादयः । ते च आविष्टलिङ्गत्वादन्यलिङ्गेऽपि जातिशब्दे स्वलिङ्गोपादाना एव समानाहिकरना भवन्ति । गोप्रकाण्डम् । अश्वप्रकाण्डम् । गोमत्ल्लिका । अश्वमतल्लिका । गोमचर्चिका । अश्वमचर्चिका । जातिः इति किम् ? कुमारी मतल्लिका ॥ ____________________________________________________________________ युवा खलतिपालितवलिनजरतीभिः ॥ २,१.६७ ॥ _____ काशिकावृत्तिः२,१.६७: खलत्यादिभिः । समानाधिकरणैः सह युवशब्दः समस्यते, तत्पुरुषश्च समासो भवति । जरतीभिः इति स्त्रीलिङ्गेन निर्देशः, प्रातिपादिकग्रहणे लिङ्गविशिष्टस्य अपि ग्रहनमिति ज्ञापकार्थः । युवा खलतिः युवखलतिः । युवतिः खलती युवखलती । युवा पलितः युवपलितः । युवतिः पलिता युवपलिता । युवा वलिनः युववलिनः । युवतिर्वलिना युववलिना । युवा जरन् युवजरन् । युवतिर्जरती युवजरती ॥ ____________________________________________________________________ कृत्यतुल्याख्या अजात्या ॥ २,१.६८ ॥ _____ काशिकावृत्तिः२,१.६८: कृत्यप्रत्ययान्तास्तुल्यपर्यायाश्च सुबन्ता अजातिवचनेन समस्यन्ते, तत्पुरुषश्च समासो भवति । भोज्योष्णम् । भोज्यलवणम् । पानीयशीतम् । तुल्याख्याः तुल्यश्वेतः । तुल्यमहान् । सदृशश्वेतः । सदृशमहान् । अजात्या ति किम् ? भोज्य ओदनः ॥ ____________________________________________________________________ वर्णो वर्णेन ॥ २,१.६९ ॥ _____ काशिकावृत्तिः२,१.६९: वर्णविशेषवाचि सुबन्तं वर्णविशेषवाचिना सुबन्तेन समानाधिकरणेन सह समस्य्ते, तत्पुरुषश्च समासो भवति । कृष्णसारङ्गः । लोहितसारङ्गः । कृष्णशबलः । लोहितशबलः । अवयवद्वारेन कृष्णशब्दः समुदाये वर्तमानः समानाधिकरणो भवति ॥ ____________________________________________________________________ कुमारः श्रमणादिभिः ॥ २,१.७० ॥ _____ काशिकावृत्तिः२,१.७०: कुमारशब्दः श्रमणादिभिः सह समस्यते, तत्पुरुषश्च समासो भवति । येऽत्र स्त्रीलिङ्गाः पठ्यन्ते, श्रमणा, प्रव्रजिता, कुलटा इत्येवमादयः, तैः सह स्त्रीलिङ्गः एव कुमारशब्दः समस्यते । ये तु पुंलिङ्गाः, अध्यापकः, अभिरूपकः, पण्डितः इति, तैरुभयथा, प्रातिपदिकग्रहणे लिङ्गविशिष्टस्य अपि ग्रहणमिति । कुमारी श्रमणा कुमारश्रमणा । श्रमना । प्रव्रजिता । कुलटा । गर्भिणी । तापसी । दासी । बन्धकी । अध्यापक । अभिरूपक । पण्डित । पटु । मृदु । कुशल । चपल । निपुण ॥ ____________________________________________________________________ [॰११८] चतुष्पादो गर्भिण्या ॥ २,१.७१ ॥ _____ काशिकावृत्तिः२,१.७१: चतुष्पाद्वाचिनः सुबन्ता गर्भिणीशब्देन समस्यन्ते, तत्पुरुषश्च समासो भवति । गोगर्भिणी । अजागर्भिणी । चतुष्पाज्जातिरिति वक्तव्यम् । इह मा भूत् कालाक्षी गर्भणी, स्वस्तिमती गर्भिणी । चतुष्पादः इति किम् ? ब्राह्मणी गर्भिणी ॥ ____________________________________________________________________ मयूरव्यंसकादयश्च ॥ २,१.७२ ॥ _____ काशिकावृत्तिः२,१.७२: समुदाया एव निपात्यन्ते । मयूरव्यंसकादयः शब्दाः तत्पुरुषसञ्ज्ञा भवति । चकारोऽवधारणार्थः , परममयूरव्यंसकः इति समासान्तरं न भवति । मयूरव्यंसकः । छात्रव्यंसकः । काम्बोजमुण्डः । यवनमुण्डः । छन्दसि हस्तेगृह्य । पादेगृह्य । लाङ्गलेगृह्य । पुनर्दाय । एहीडादयोऽन्यपदार्थे एहीडम् । एहियवं वर्तते । एहिवाणिजाक्रिया । अपेहिवाणिजा । प्रेहिवाणिजा । एहिस्वागता । अपोहिस्वागता । प्रेहिस्वागता । एहिद्वितीया । अपेहिद्वितीया । इहवितर्का । प्रोहकटा । अपोहकटा । प्रोहकर्दमा । अपोहकर्दमा । उद्धरचूडा । आहरचेला । आहरवसना । आहरवनिता । कृन्तविचक्षणा । उद्धरोत्सृजा । उद्धमविधमा । उत्पचिविपचा । उत्पतनिपता । उच्चावचम् । उच्चनीचम् । अचितोपचितम् । अवचितपराचितम् । निश्चप्रचम् । अकिञ्चनम् । स्नात्वाकालकः । पीत्वास्थिरकः । भुक्त्वासुहितः । प्रोष्यपापीयान् । उत्पत्यपाकला । निपत्यरोहिणी । निषण्णाश्यामा । अपेहिप्रसवा । इहपञ्चमी । इहद्वितीया । जहिकर्मणा बहुलमाभीक्ष्ण्ये कर्तारं चाभिदधाति जहिजोडः । उज्जहिजोडः । जहिस्तम्बः । उज्जहिस्तम्बः । आख्यातमाख्यातेन क्रियासातत्ये अश्नीतपिबता । पचतभृज्जता । खादतमोदता । खादतवमता । खादताचमता । आहरनिवपा । आवपनिष्किरा । उत्पचच्विपचा । भिन्धिलवना । छिन्धिविचक्षना । पचलवना । पचप्रकूटा । अविहितलक्षनस्तत्पुरुषो मयूरव्यंसकादिषु द्रष्टव्यः ॥ इति श्रीजयादित्यविरचितायां काशिकायां वृत्तौ द्वितीयाध्यायस्य प्रथमः पादः ॥ द्वित्तियोऽध्ययः द्वितीयः पादः ____________________________________________________________________ [॰११९] पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे ॥ २,२.१ ॥ _____ काशिकावृत्तिः२,२.१: एकदेशोऽस्य अस्ति इत्येकदेशी, अवयवी, तद्वाचिना सुबन्तेन सह पूर्व अपर अधर उत्तर इत्येते शब्दाः सामर्थ्यादेकदेशबचनाः समस्यन्ते, तत्पुरुषश्च समासो भवति । एकाधिकरणग्रहनमेकदेशिनो विशेषणम् । एकं चेदधिकरणमेकद्रव्यमेकदेशि भवति । षष्ठीसमासापवदोऽयं योगः । पूर्वं कायस्य पूर्वकायः । अपरकायः । अधरकायः । उत्तरकायः । एकदेशिना इति किम् ? पूर्वं न अभेः कायस्य । एकाधिकरणे इति किम् ? पूर्वं छात्राणामामन्त्रय । कथं मध्याह्नः, सायाह्नः इति ? सङ्ख्याविसायपूर्वस्य अह्नस्य अहन्नन्यतरस्यां ङौ (*६,३.११०) इति ज्ञापकात्सर्वणैकदेशशब्देन अह्नः समासो भवति ॥ ____________________________________________________________________ अर्धं नपुंसकम् ॥ २,२.२ ॥ _____ काशिकावृत्तिः२,२.२: एकदेशिना एकाधिकरणे इति वर्तते । समप्रविभागेऽर्धशब्दो नपुंसकमाविष्टलिङ्गः, तस्य+इदं ग्रहनम् । अर्धमित्येतद्नपुंसकमेकदेशिनैकाधिकरणेन समस्यते, तत्पुरुषश्च समासो भवति । षष्ठीसमासापवादोऽयं योगः । अर्धं पिप्पल्याः अर्धपिप्पली । अर्धकोशातकी । नपुंसकमिति किम् ? ग्रामार्धः । नगरार्धः । एकदेशिना इत्येव, अर्धं पसोर्देवदत्तस्य । देवदत्तेन सह समसो न भवति । एकाधिकरणे इत्येव, अर्धं पिप्पलीनाम् ॥ ____________________________________________________________________ द्वितियतृतीयचतुर्थतुर्याण्यन्य्तरस्याम् ॥ २,२.३ ॥ _____ काशिकावृत्तिः२,२.३: एकदेशिना एकाधिकरने इति वर्तते । षस्ठीसमासापवादोऽयं योगः । अन्यतरस्यां ग्रहणात्सोऽपि षष्ठीसमासो भवति । पूरणगुण (*२,२.११) इति प्रतिषेधश्च अत एव अन्यतरस्यां ग्रहणसामर्थ्यान्न प्रवर्तते । द्वितीयं भिक्षायाः चतुर्थभिक्षा, भिक्षाचतुर्थं वा । तुर्यं भिक्षायाः तुर्यभिक्षा, भिक्षातुर्यं वा । तुरीयशब्दस्य अपीष्यते । तुरीयं भिक्षायाः तुरीयभिक्षा, भिक्षातुरीयं वा । एकदेशिना इत्येव, द्वितीयं भिक्षाया भिक्षुकस्य । एकाधिकरणे इत्येव, द्वितीयां भिक्षाणाम् ॥ ____________________________________________________________________ [॰१२०] प्राप्तापन्ने च द्वितीयया ॥ २,२.४ ॥ _____ काशिकावृत्तिः२,२.४: एकदेशिनैकाधिकरणे इति निवृत्तम् । द्वितीयासमासे प्राप्ते वचनमिदम् । समासविधानात्सोऽपि भवति । प्राप्त आपन्न इत्येतौ द्वितीयान्तेन सह समस्येते, तत्पुरुषश्च समासो भवति । प्राप्तो जीविकां प्राप्तजीविकः, जीविकाप्राप्तः इति वा । आपन्नो जीविकमापन्नजीविकः, जीविकापन्नः इति वा ॥ ____________________________________________________________________ कालाः परिमाणिना ॥ २,२.५ ॥ _____ काशिकावृत्तिः२,२.५: परिमाणमस्य अस्ति इति परिमाणी, तद्बाचिना सुबन्तेन सह सामर्थ्यात्परिमाणवचनाः कालशब्दाः समस्यन्ते, तत्पुरुषश्च समासो भवति । षष्ठीसमासविषये योगारम्भः । मासो जातस्य मासजातः । संवत्सरजातः । द्व्यहजातः । त्र्यहजातः ॥ ____________________________________________________________________ नञ् ॥ २,२.६ ॥ _____ काशिकावृत्तिः२,२.६: नञ्समर्थेन सुबन्तेन सह समस्यते, तत्पुरुषश्च समासो भवति । न ब्राह्मणः अब्राह्मणः । अवृषलः ॥ ____________________________________________________________________ ईषदकृता ॥ २,२.७ ॥ _____ काशिकावृत्तिः२,२.७: ईषतित्ययं शब्दोऽकृदन्तेन सुपा सह समस्यते, तत्पुरुषश्च समासो भवति । ईषद्गुणवचनेन+इति वक्तव्यम् । ईषत्कडारः । ईषत्पिङ्गलः । ईषद्विकटः । ईषदुन्नतः । ईषत्पीतम् । ईषद्रक्तम् । गुणवचनेन इति किम् ? इह न भवति, ईषद्गार्ग्यः ॥ ____________________________________________________________________ षष्ठी ॥ २,२.८ ॥ _____ काशिकावृत्तिः२,२.८: षष्ठ्यन्तं सुबन्तं समर्थेन सुबन्तेन सह समस्यते, तत्पुरुषश्च समासो भवति । राज्ञः पुरुषः राजपुरुषः । ब्राह्मणकम्बलः । कृद्योगा च षष्ठी समस्यत इति वक्तव्यम् । इध्मप्रब्रश्चनः । पलाशशातनः । किमर्थमिदमुच्यते ? प्रतिपदविधाना च षष्ठी न समस्यते इति वक्ष्यति, तस्यायं पुरस्तादपकर्षः ॥ ____________________________________________________________________ [॰१२१] याजकादिभिश्च ॥ २,२.९ ॥ _____ काशिकावृत्तिः२,२.९: पूर्वेण समासः सिद्ध एव, तस्य कर्तरि च (*२,२.१६) इति प्रतिषेधे प्राप्ते वचनमिदमारभ्यते प्रतिप्रसवार्थम् । याजकादिभिः सह षष्ठी समस्यते, तत्पुरुषश्च समासो भवति । ब्राह्मणयाजकः । क्षत्रिययाजकः । याजक । पूजक । परिचारक । परिषेचक । स्नातक । अध्यापक । उत्सादक । उद्वर्तक । होतृ । पोतृ । भर्तृ । रथगनक । पत्तिगणक । तत्स्थैश्च गुणैः षष्ठी समस्यते इति वक्तव्यम् । चन्दनगन्धः । कपित्थरसः । गुणात्तरेण तरलोपश्चेअ+इइ वक्तव्यम् । सर्वेषां श्वेततरः सर्वश्वेतः । सर्वेषां सहत्तरः सर्वमहान् । न निर्धारणे (*२,२.१०) इति प्रतिषेधे प्राप्ते वचनमिदम् । सर्वशुक्ला गौः ॥ ____________________________________________________________________ न निर्धारणे ॥ २,२.१० ॥ _____ काशिकावृत्तिः२,२.१०: पूर्वेण समासे प्राप्ते प्रतिषेध आरभ्यते । निर्धारने या षष्ठी सा न समस्यते । जातिगुणक्रियाभिः समुदायादेकदेशस्य पृथक्करणं निर्धारनम् । क्षत्रियो मनुष्याणां शूरतमः । कृष्णा गवां सम्पन्नक्षीरतमा । धवन्नध्वगानां शीघ्रतमः । प्रतिपदविधाना च षष्ठी न समस्यते इति वक्तव्यम् । सर्पिषो ज्ञानम् । मधुनो ज्ञानम् ॥ ____________________________________________________________________ पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरनेन ॥ २,२.११ ॥ _____ काशिकावृत्तिः२,२.११: पूरण गुन सुहितार्थ सतव्यय तव्य समानाधिकरण इत्येतैः सह षष्ठी न समस्यते । अर्थशब्दः प्रत्येकमभिसम्बध्यते, तेन स्वरूपविधिर्न भवति । पूरणार्थे धात्राणां पञ्चमः । छात्राणां दशमः । गुण बलाकायाः शौक्ल्यम् । काकस्य कार्ष्न्यम् । सुहितार्थास्तृप्त्यर्थाः फलानां सुहितः । फलानां तृप्तः । सत् ब्राह्मणस्य कुर्वन् । ब्राह्मणस्य कुर्वाणः । अव्यय ब्राह्मणस्य कृत्वा । ब्राह्मणस्य हृत्वा । तव्य ब्राहमणस्य कर्तव्यम् । तव्यता सानुबन्धकेन समासो भवत्येव, ब्राह्मणकर्तव्यम् । समानाधिकरण शुकस्य माराविदस्य । राज्ञः पाटलिपुत्रकस्य । पाणिनेः सूत्रकारस्य । किं च स्यात्? पूर्वनिपातस्य अनियमः स्यात् । अनन्तरायां तु प्राप्तौ प्रतिषिद्धायां विशेषणं विशेष्येण बहुलम् (*२,१.५७) इति भवत्येव समासः । पुर्वनिपातश्च तदा दियोगतो विशेषणस्य+एव ॥ ____________________________________________________________________ [॰१२२] क्तेन च पूजायाम् ॥ २,२.१२ ॥ _____ काशिकावृत्तिः२,२.१२: मतिबुद्धिपूजार्थेभ्यश्च (*३,२.१८८) इति वक्ष्यति, तस्य+इदं ग्रहणम् । पूजाग्रहणमुपलक्षणार्थम् । क्तो यः पूजायां विहितस्तेन षष्ठी न समस्यते । राज्ञां मतः । राज्ञां बुद्धः । राज्ञां पूजितः । पूजायामिति किम् ? छात्रस्य हसितं छात्रहसितम् ॥ ____________________________________________________________________ अधिकरणवाचिना च ॥ २,२.१३ ॥ _____ काशिकावृत्तिः२,२.१३: क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः (*३,४.७६) इति वक्ष्यति, तस्य+इदं ग्रहणम् । अधिकरणवाचिना क्तेन षष्ठी न समस्यते । इदमेषां यातम् । इदमेषां भुक्तम् ॥ ____________________________________________________________________ कर्मणि च ॥ २,२.१४ ॥ _____ काशिकावृत्तिः२,२.१४: क्तेन इति निवृत्तम् । कर्मग्रहणं षष्ठीविशेषणम् । कर्मणि च या षष्ठी सा न समस्यते । उभयप्राप्तौ कर्मणि (*२,३.६६) इति षष्ठ्या इदं ग्रहनम् । आश्चर्यो गवां दोहोऽगोपालकेन । रोचते ओदनस्य भोजनं देवदत्तेन । साधु खलु पयसः पानं देवदत्तेन । विचित्रा सूत्रस्य कृतिः पाणिनिना ॥ ____________________________________________________________________ तृजकाभ्यां कर्तरि ॥ २,२.१५ ॥ _____ काशिकावृत्तिः२,२.१५: कर्तृग्रहणं षष्ठीविशेषणम् । कर्तरि या षष्ठी सा तृचा अकेन च सह न समस्यते । भवतः शायिका । भवत आसिका । भवतोऽग्रगामिका । तृच्चर्तर्येव विधीयते, तत्प्रयोगे कर्तरि षष्ठी न अस्ति । तस्मात्तृज्ग्रहनमुत्तरार्थम् । कर्तरि इति किम् ? इक्षुभक्षिकां मे धारयसि ॥ ____________________________________________________________________ कर्तरि च ॥ २,२.१६ ॥ _____ काशिकावृत्तिः२,२.१६: कर्तरि च यौ तृजकौ ताभ्यां सह षष्ठी न समस्यते । सामर्थ्यादकस्य विशेषणार्थं कर्तृग्रहणम्, इतरत्र व्यभिचाराभावात् । अपां स्रष्टा । पुरां भेत्ता । वज्रस्य भर्ता । ननु च भर्तृशब्दो ह्ययं याजकादिषु पठ्यते ? सम्बन्धिशब्दस्य पतिपर्यायस्य तत्र ग्रहनम् । अकः खल्वपि ओदनस्य भोजकः । सक्तूनां पायकः ॥ ____________________________________________________________________ [॰१२३] नित्यं क्रीडाजीविकयोः ॥ २,२.१७ ॥ _____ काशिकावृत्तिः२,२.१७: न इति निवृत्तम्, न तृजकौ । नित्यं समासो विधीयते । क्रिडायां जीविकायां च नित्यं षष्ठी समस्यते, तत्पुरुषश्च समासो भवति । तृच्क्रिडाजीविकयोर्न अस्ति इत्यक एव+उदाह्रियते । उद्दालकपुष्पभञ्जिका । वारनपुष्पप्रचायिका । जीविकायाम् दन्तलेखकः । नखलेखकः । क्रिडाजीविक्योः इति किम् ? ओदनस्य भोजकः ॥ ____________________________________________________________________ कुगतिप्रादयः ॥ २,२.१८ ॥ _____ काशिकावृत्तिः२,२.१८: नित्यमिति वर्तते । कुशब्दोऽव्ययं गृह्यते गत्यादिसाहचर्यात्, न द्रव्यवचनः । कुगतिप्रादयः समर्थेन शब्दान्तरेण सह नित्यं समस्यन्ते, तत्पुरुषश्च समासो भवति । कुः पापार्थे कुपुरुषः । गति उररीकृतम् । यदूरीकरोति । प्रादयः दुर्निन्दायाम् दुष्पुरुषः । स्वती पूजायाम् सुपुरुषः । अतिपुरुषः । आङीषादर्थे आपिङ्गलः । प्रायिकं च+एतदुपाधिवचनम् । अन्यत्र अपि हि समासो दृश्यते । कोष्णम् । कदुष्णम् । कवोष्णम् । दुष्कृतम् । अतिस्तुतम् । आबद्धमिति । प्रदयो गताद्यर्थे प्रथमया । प्रगत आचार्यः प्राचार्यः । प्रान्तेवासी । अत्यादयः क्रान्ताद्यर्थे द्वितीयया । अतिक्रान्तः खट्वामतिखट्वः । अतिमालः । अवादयः क्रुष्टाद्यर्थे तृतीयया । अवक्रुष्टः कोकिलया अवकोकिलः । पर्यादयो ग्लानाद्यर्थे चतुर्थ्या । परिग्लानोऽध्ययनाय पर्यध्ययनः । अलं कुमार्यै अलंकुमारिः । निरादयः क्रान्ताद्यर्थे पञ्चम्या । निष्क्रान्तः कौशाम्ब्याः निष्कौशाम्बिः । निर्वाराणसिः । इवेन सह समासो विभक्त्यलोपः पूर्वपदप्रकृतिस्वरत्वं च वक्तव्यम् । वाससी इव । वस्त्रे इव । प्रादिप्रसङ्गे कर्मप्रवचनीयानां प्रतिषेधो वक्तव्यः । वृक्षं प्रति विद्युत् । साधुर्देवचत्तो मातरं प्रति ॥ ____________________________________________________________________ [॰१२४] उपपदमतिङ् ॥ २,२.१९ ॥ _____ काशिकावृत्तिः२,२.१९: नित्यमिति वर्तते । उपपदमतिङन्तं समर्थेन शब्दान्तरेण सह समस्यते नित्यम्, तत्पुरुषश्च समासो भवति । कुम्भकारः । नगरकारः । अतिङिति किम् ? एधानाहारको व्रजति । ननु च सुप्सुपा इति वर्तते, तत्र कुतस्तिङन्तेन समासप्रसङ्गः ? एवं तर्हि ज्ञापयति एतयोर्योगयोः सुप्सुपेति न सम्बध्यते इति । तेन गतिकारकोपपदानां कृद्भिः सह समासवचनं प्राक्सुबुत्पत्तेः इत्येतदुपपन्नं भवति । अश्वक्रीती । अश्वक्रीती । धनक्रीती ॥ ____________________________________________________________________ अमैव अव्ययेन ॥ २,२.२० ॥ _____ काशिकावृत्तिः२,२.२०: पूर्वन समासे सिद्धे नियमार्थं वचनम् । अव्ययेनोपपदस्य यः समासः सोऽमा+एव भवति, न अन्येन । स्वादुङ्कारं भुङ्क्ते । सम्पन्नङ्कारं भुग्क्ते । लवनङ्कारं भुङ्क्ते । अमा+एव इति किम् ? कालसमयवेलासु तुमुन् (*३,३.१६७) काले भोक्तुम् । एवकारकरणमुपपदविशेषनार्थम् । अमा+एव यत्तुल्यविधानमुपपदं तस्य समासो यथा स्यात्, अमा च अन्येन च यत्तुल्यविह्धानं तस्य मा भूत् । अग्रे भुक्त्वा, अग्रे भोजम् ॥ ____________________________________________________________________ तृतीयाप्रभृतीन्यतरस्यम् ॥ २,२.२१ ॥ _____ काशिकावृत्तिः२,२.२१: अमा+एव इत्यनुवर्तते । उपदंशस्तृतीयायाम् (*३,४.४७) इत्यतः प्रभृति यान्युपपदानि तानि अमा+एव अव्ययेन सहान्यतरस्यां समस्यन्ते, तत्पुरुषश्च समासो भवति । उभयत्रविभाशेयम् । यदमा+एव तुल्यविधानमुपपदं तस्य प्राप्ते, यथा उपदंशस्तृतीयायाम् (*३,४.४७) इति । यत्पुनरमा च अन्येन च तुल्यविधानं तस्य प्राप्ते, यथा अव्ययेऽयथाभिप्रेताख्याने कृञः क्त्वाणमुलौ (*३,४..५९) इति । मूलकोपदंशं भुङ्क्ते, मूलकेन+उपदंशं भुङ्क्ते । उच्चैःकारमाचष्टे, उच्चैः कारम् । अमा+एव इत्येव, पर्यप्तिवचनेष्वलमर्थेषु (*३,४.६६), पर्याप्तो भोक्तुम् । प्रभुर्भोक्तुम् ॥ ____________________________________________________________________ क्त्वा च ॥ २,२.२२ ॥ _____ काशिकावृत्तिः२,२.२२: अमा+एव इति पूर्वयोगेऽनुवृत्तम् । तेन अन्यत्र न प्राप्नोति इति वचनमारभ्यते । क्त्वाप्रत्ययेन सह तृतीयाप्रभृतीनि उपपदान्यन्यतरस्यां समस्यन्ते, तत्पुरुषश्च समासो भवति । उच्चैः कृत्य । उच्चैः कृत्वा । अव्ययेऽयथाभिप्रेताख्याने (*३,४.५९) इति क्त्वाप्रत्ययः । समासपक्षे ल्यबेव । तृतीयाप्रभृतीनीत्येव, अलं कृत्वा । खलु कृत्वा ॥ ____________________________________________________________________ [॰१२५] शेषो बहुव्रीहिः ॥ २,२.२३ ॥ _____ काशिकावृत्तिः२,२.२३: उपयुकतादन्यः शेषः । षेशः समासो बहुव्रीहिसञ्ज्ञो भवति । कश्च शेषः समासो न+उक्तः । वक्ष्यति अनेकमन्यपदार्थे (*२,२.२४) चित्रगुः । शबलगुः । कृष्णोत्तरासङ्गः । शेषः इति किम् ? उन्मत्तगङ्गम् । लोहितगङ्गम् । बहुव्रीहिप्रदेशाः न बहुव्रीहौ (*१,१.२९) इत्येवमादयः ॥ ____________________________________________________________________ अनेकमन्यपदार्थे ॥ २,२.२४ ॥ _____ काशिकावृत्तिः२,२.२४: अनेकं सुबन्तमन्यप्दार्थे वर्तमानं सुपा सह समस्यते, बहुव्रीहिश्च समासो भवति । प्रथमार्थमेकं वर्जयित्वा सर्वेषु विभक्त्यर्थेषु बहुव्रीहिर्भवति । प्राप्तमुदकं यं ग्रामं प्राप्तोदको ग्रामः । ऊढरथोऽनड्वान् । उपगृतपशू रुद्रः । उद्घृतौदना स्थाली । चित्रगुर्देवदत्तः । वीरपुरुषको ग्रामः । प्रथमार्थे तु न भवति । वृष्टे देवे गतः । अनेकग्रहनं किम् ? बहूनामपि यथा स्यात्, सुसूक्ष्मजटकेशेन सुगजाजिनवाससा । समन्तशितिरन्ध्रेण द्वयोर्वृत्तौ न सिध्यति ॥ बहुव्रीहिः समानाधिकरणानमिति वक्तव्यम् । व्यधिकरणानां मा भूत्, पञ्चभिर्भुक्तमस्य । अव्ययानां च बहुव्रीहिर्वक्तव्यः । उच्चैर्मुखः । नीचैर्मुखः । सप्तम्युपमानपूर्वपदस्य+उत्तरपदलोप श्च वक्तव्यः । कण्ठे स्थितः कालोऽस्य कण्ठेकलः । उरसिलोमा । उष्ट्रस्य मुखमिव मुखं यस्य स उष्ट्रमुखः । खरमुखः । समुदायविकारषष्ठ्याश्च बहुव्रीहिरुत्तरपदलोपश्च+इति वक्तव्यम् । केशानां सङ्घातः केशसङ्घातः, केशसङ्घातः चूडाऽस्य केशचूडः । सुवर्णस्य विकारोऽलङ्कारोऽस्य सुबर्णालङ्कारः । [॰१२६] प्रादिभ्यो धतुजस्य+उत्तरपदस्य लोपश्च वा बहुव्रीहिर्वक्तव्यः । प्रपतितं पर्णमस्य प्रपर्णः, प्रपतितपर्णः । प्रतितं पलाशमस्य प्रपलाशः, प्रपतितपलाशः । नञोऽस्त्यर्थानां बहुव्रीहिर्वाचोत्तरपदलोपश्च वक्तव्यः । आविद्यमानः पुत्रो यस्य अपुत्रः, अविद्यमानपुत्रः । अभार्यः, अविद्यमानभार्यः । सुबधिकारेऽस्तिक्षीरादीनां बहुव्रीहिर्वक्तव्यः । अस्तिक्षीरा ब्राह्मणी । अस्त्यादयो निपाताः ॥ ____________________________________________________________________ सङ्ख्ययाऽव्ययासन्नादूराधिकसङ्ख्याः सङ्ख्येये ॥ २,२.२५ ॥ _____ काशिकावृत्तिः२,२.२५: सङ्ख्येये या सङ्ख्या वर्तते तया सह अव्ययासन्नादूराधिकसङ्ख्याः समस्यन्ते बहुव्रीहिश्च समासो भवति । अव्यय उपदशाः । उपविंशाः । आसन्नदशाः । आसन्नविंशाः । अदूरदशाः । अदूरविंशाः । अधिकदशाः । अधिकविंशाः । सङ्ख्या द्वित्राः । त्रिचतुराः । द्विदशाः । सङ्ख्यया इति किम् ? पञ्च ब्राह्मणाः । अव्ययासन्नादूराधिकसङ्ख्याः इति किम् ? ब्राह्मणाः पञ्च । सङ्ख्येये इति किम् ? अधिका विंशतिर्गवाम् ॥ ____________________________________________________________________ दिङ्नामान्यन्तराले ॥ २,२.२६ ॥ _____ काशिकावृत्तिः२,२.२६: दिशां नामानि दिग्नामानि । दिङ्नामानि सुबन्तानि अन्तराले वाच्ये समस्यन्ते, बहुव्रीहिश्च समासो भवति । दक्षिणस्याश्च पूर्वस्याश्च दिशोर्यदन्तरालं दक्षिणपूर्वा दिक् । पूर्वोत्तरा । उत्तरपश्चिमा । पश्चिमदक्षिणा । सर्वनम्नो वृत्तिमात्रे पुंवद्भावः । नामग्रहणं रूढ्यर्थम् । इह म भूत्, ऐन्द्र्याश्च कौबेर्याश्च चिशोर्यदन्तरालमिति ॥ ____________________________________________________________________ तत्र तेन+इदमिति सरूपे ॥ २,२.२७ ॥ _____ काशिकावृत्तिः२,२.२७: तत्र इति सप्तम्यन्तं गृह्यते । तेन इति तृतीयान्तम् । सरूपग्रहनं प्रत्येकमभिसम्बध्यते । तत्र इति सप्तम्यन्ते सरूपे पदे तेनेति च तृतीयान्ते इदमित्येतस्मिन्नर्थे संस्येते, बहुव्रीहिश्च समासो भवति । इतिकरनश्च+इह विवक्षार्थो लौकिकमर्थमनुसारयति । ततो ग्रहणं, प्रहरनं कर्मव्यतीहारो, युद्धं च समासार्थः इति सर्वमितिकरनाल्लभ्यते । [॰१२७] यत्तत्र इति निर्दिष्टं ग्रहणं चेत्तद्भवति, यत्तेन इति निर्दिष्टं प्रहरनं चेत्तद्भवति, यतिदमिति निर्दिष्टं युद्धं चेत्तद्भवति । केशेषु केशेषु च गृहीत्वा इदं युद्धं प्रवृत्तं केशाकेशि । कचाकचि । दण्डैश्च दण्डैश्च प्रगृत्य इदं युद्धं प्रवृत्तं दण्डादण्डि । मुसलामुसलि । इच्कर्मव्यतीहारे (*५,४.१२७) इति इच्समासान्तः, स च अव्ययम् । अन्येषामपि दृश्यते (*६,३.१३७) इति पूर्वपदस्य दीर्घत्वम् । सरूपग्रहणं किम् ? हलैश्च मुसलैश्च प्रहृत्य इदं युद्धं प्रवृत्तम् ॥ ____________________________________________________________________ तेन सह+इति तुल्ययोगे ॥ २,२.२८ ॥ _____ काशिकावृत्तिः२,२.२८: सह इत्येतच्छाब्दरूपं तुल्ययोगे वर्तमानं तेन इति तृतीयान्तेन सह समस्यते, बहुव्रीहिश्च समासो भवति । सह पुत्रेणागतः सपुत्रः । सच्छात्रः । सकर्मकरः । तुल्ययोगे इति किम् ? सहैव दशभिः पुत्रैर्भारं बहति गर्दभी । विद्यमातैरेव दशभिः पुत्रैर्भारं वहति इत्यर्थः । कथं सकर्मकः, सलोमकः, सपक्षकः इति ? न ह्यत्र तुल्ययोगो गम्यते । किं तर्हि ? विद्यमानता । प्रायिकं तुल्ययोगे इति विशेषनम् । अन्यत्र अपि समासो दृश्यते ॥ ____________________________________________________________________ चार्थे द्वन्द्वः ॥ २,२.२९ ॥ _____ काशिकावृत्तिः२,२.२९: अनेकमिति वर्तते । अनेकं सुबन्तं चार्थे वर्तमानं समस्यते, द्वन्द्वसञ्ज्ञश्च समासो भवति । समुच्चयान्वाचयेतरेतरयोगसमाहाराश्च अर्थाः । तत्र समुच्चयान्वाचययोरसामर्थ्यात्न अस्ति समासः । इतरेतरयोगे समाहारे च समासो विधीयते । प्लक्षश्च न्यग्रोधश्च प्लक्षन्यग्रोधौ । धवश्च खदिरश्च पलाशश्च धवखदिरपलाशाः । वाक्च त्वक्च वाक्त्वचम् । वाग्दृषदम् । द्वन्द्वप्रदेशाः द्वन्द्वे च (*१,१.३१) इत्येवमादयः ॥ ____________________________________________________________________ उपसर्जनं पूर्वम् ॥ २,२.३० ॥ _____ काशिकावृत्तिः२,२.३०: समासे इति वर्तते । उपसर्जनसञ्ज्ञकं समासे पूर्वं प्रयोक्तव्यम् । पूर्ववचनं परप्रयोगनिवृत्त्यर्थम् । अनियमो हि स्यात् । द्वितीया कष्टश्रितः । तृतीया शङ्कुलाखण्डः । चतुर्थी यूपदारु । पञ्चमी वृकभयम् । षष्ठी राजपुरुषः । सप्तमी अक्षशौण्डः ॥ ____________________________________________________________________ [॰१२८] राजदन्तादिषु परम् ॥ २,२.३१ ॥ _____ काशिकावृत्तिः२,२.३१: पूर्वनिपाते प्राप्ते परप्रयोगार्थं वचनम् । राजदन्तादिषु उपसर्जनं परं प्रयोक्तव्यम् । न केवलमुपसर्जनस्य, अन्यस्य अपि यथा लक्षणं विहितस्य पूर्वनिपातस्य अयमपवादः परनिपातो विधीयते । दन्तानां राजा राजदन्तः । वनस्य अग्रे अग्रेवणम् । निपातनादलुक् । राजदन्तः । अग्रेवनम् । लिप्तवासितम् । नग्नमुषितम् । सिक्तसंमृष्टम् । मृष्टलुञ्चितम् । अवक्लिन्नपक्वम् । अर्पितोप्तम् । उप्तगाढम् । पूर्वकालक्षय्परनिपातः । उलूखलमुसलम् । तण्डुलकिण्वम् । दृषदुपलम् । आरग्वायनबन्धकी । चित्ररथबह्लीकम् । आवन्त्यश्मकम् । शूद्रार्यम् । स्नातकराजानौ । विष्वक्षेनार्जुनौ । अक्षिभ्रुवम् । दारगवम् । शब्दार्थौ । धर्मार्थौ । कामार्थौ । अनियमश्च अत्र+इष्यते । अर्थशब्दौ । अर्थधर्मौ । अर्थकामौ । तत्कथम् ? वक्तव्यमिदम् । धर्मादिषु उभयमिति । वैकारमतम् । गजवाजम् । गोपालधानीपूलासम् । पूलासककरण्डम् । स्थूलपूलासम् । उशीरबीजम् । सिञ्जास्थम् । चित्रास्वाती । भार्यापती । जायापती । जम्पती । दम्पती । जायाशब्दस्य जम्भावो दम्भावश्च निपात्यते । पुत्रपती । पुत्रपशू । केशश्मश्रू । श्मश्रुकेशौ । शिरोबीजम् । सर्पिर्मधुनी । मधुसर्पिषी । आद्यन्तौ । अन्तादी । गुणवृद्धी । वृद्धिगुणौ ॥ ____________________________________________________________________ द्वन्द्वे घि ॥ २,२.३२ ॥ _____ काशिकावृत्तिः२,२.३२: पूर्वमिति वर्तते । द्वन्द्वे समासे घ्यन्तं पूर्वं प्रयोक्तव्यम् । पटुगुप्तौ । मृदुगुप्तौ । अनेकप्राप्तावेकस्य नियमः, शेषे त्वनियमः । पटुमृदुशुक्लाः । पटुशुक्लमृदवः । द्वन्द्वे इति किम् ? विस्पष्टपटुः ॥ ____________________________________________________________________ अजाद्यदन्तम् ॥ २,२.३३ ॥ _____ काशिकावृत्तिः२,२.३३: द्वन्द्वे इति वर्तते । अजाद्यदन्तं शब्दरूपं द्वन्द्वे समासे पूर्वं प्रयोक्तव्यम् । उष्ट्रखरम् । उष्त्रशशकम् । बहुष्वनियमः । अश्वरथेन्द्राः । इन्द्ररथाश्वाः । द्वन्द्वे घ्यजाद्यदन्तं विप्रतिषेधेन । इन्द्राग्नी । इन्द्रवायू । तपरकरणं किम् ? अश्वावृषौ, वृषाश्वे इति वा ॥ ____________________________________________________________________ [॰१२९] अल्पाच्तरम् ॥ २,२.३४ ॥ _____ काशिकावृत्तिः२,२.३४: द्वन्द्वे इति वर्तते । अल्पाच्तरं शब्दरूपं द्वन्द्वे समासे पूर्वं प्रयोक्तव्यम् । प्लक्षश्च न्यग्रोध्श्च प्लक्षन्यग्रोधौ । धवखदिरपलाशाः । बहुष्वनियमः शङ्खदुन्दुभिवीणाः, वीणाशङ्खदुन्दुभयः । ऋतुनक्ष्त्राणामानुपूर्व्येण समानक्षरानां पूर्वनिपातो वक्तव्यः । हेमन्तशिशिरवसन्ताः । चित्रास्वाती । कृत्तिकारोहिण्यौ । समानाक्षराणामिति किम् ? ग्रीष्मवसन्तौ । लघ्वक्षरं पूर्वं निपतति इति वक्तव्यम् । कुशकाशम् । शरशादम् । अभ्यर्हितं च पूर्वं निपतति इति वक्तव्यम् । मातापितरौ । श्रद्धमेधे । दीक्षातपसी । वर्णानामानुपूर्व्येण पूर्वनिपातः । ब्राह्मणक्षत्रियविट्शूद्राः । समानाक्षराणामित्यत्र न अस्ति । भ्रातुश्च ज्यायसः पूर्वनिपातो वक्तव्यः । युधष्ठिरार्जुनौ । सङ्ख्याया अल्पीयस्याः पूर्वनिपातो वक्तव्यः । द्वित्राः । त्रिचतुराः । नवतिशतम् ॥ ____________________________________________________________________ सप्तमीविशेषने बहुव्रीहौ ॥ २,२.३५ ॥ _____ काशिकावृत्तिः२,२.३५: सर्वोपसर्जनत्वाद्बहुव्रीहेरनियमे प्राप्ते नियमार्थं वचनम् । सप्तम्यन्तं विशेषणं च बहुव्रीहिसमासे पूर्वं प्रयोक्तव्यम् । क्ण्ठेकालः । उरसिलोमा । विशेषनम् चित्रगुः । शबलगुः । सर्वनामसङ्ख्ययोरुपसङ्ख्यानम् । सर्वश्वेतः । सर्वकृष्णः । द्विशुक्लः । द्विकृष्णः । अनयोरेव मिथः संप्रधारणायां प्रत्वात्सङ्ख्यायाः पूर्वनिपातः । द्व्यन्यः । त्र्यन्यः । [॰१३०] वा प्रियस्य पूवनिपातः । गुडप्रियः, प्रियगुडः । सप्तम्याः पूर्वनिपाते प्रप्ते गड्वादिभ्यः सप्तम्यन्तं परम् । गडुकण्ठः । गडुशिराः । कथं वहेगडुः ? प्राप्तस्य चाबाधा व्याख्येया ॥ ____________________________________________________________________ निष्ठा ॥ २,२.३६ ॥ _____ काशिकावृत्तिः२,२.३६: निष्ठन्तं च भुव्रीहिसमासे पूर्वं प्रयोक्तव्यम् । कृतकटः । भिक्षितभिक्षिः । अवमुक्तोपानत्कः । आहूतसुब्रह्मण्यः । ननु च विशेषणमेव अत्र निष्ठा ? न+एष नियमः, विशेषणविशेष्यभवस्य विवक्षा निबन्धनत्वात् । कथे कृतमनेन इति वा विग्रहीतव्यम् । निष्थायाः पूर्वनिपाते जातिकालसुखादिभ्यः प्रवचनम् । शार्ङ्गजग्धी । पलाण्डुभक्षिती । मासजातः । सम्बत्सरजातः । सुखजातः । दुःखजातः । कथं कृतकटः, भुक्तौदनः ? प्राप्तस्य चाबाधा व्याख्येया । प्रहरणार्थेभ्यश्च परे निष्ठासप्तम्यौ भवत इति वक्तव्यम् । अस्युद्यतः । दण्डपाणिः । कथमुद्यतगदः, उद्यतासिः ? प्राप्तस्य चाबाधा व्याख्येया ॥ ____________________________________________________________________ वा+आहिताग्न्यादिषु ॥ २,२.३७ ॥ _____ काशिकावृत्तिः२,२.३७: निष्ठा इति पूर्वनिपाते प्राप्ते विकल्प उच्यते । आहिताग्न्यादिषु निष्ठान्तं पूर्वं वा प्रयोक्तव्यम् । अग्न्याहितः । आहिताग्निः । जातपूत्रः, पुत्रजतः । जातदन्तः । जातशमश्रुः । तैलपीतः । घृतपीतः । ऊढभार्यः । गतार्थः । आकृतिगनश्च अयम्, तेन गडुकण्ठप्रभृतय इह+एव द्रष्टव्याः ॥ ____________________________________________________________________ कडाराः कर्मधारये ॥ २,२.३८ ॥ _____ काशिकावृत्तिः२,२.३८: गुनशब्दानां विशेषनत्वात्पूर्वनिपाते प्राप्ते विकल्प उच्यते । कडारादयः कर्मधारये समासे वा पूर्वं । प्रयोक्तव्याः । कडारजैमिनिः, जैमिनिकडारः । [॰१३१] कडार । गुडुल । काण । खञ्ज । कुण्ठ । खञ्जर । खलति । गौर । वृद्ध । भिक्षुक । पिङ्गल । तनु । वटर । कर्मधरये इति किम् ? कडारपुरुषो ग्रामः ॥ इति श्रीजयादित्यविरचितायां काशिकायां वृत्तौ द्वितीयाध्यायस्य द्वितीय पादः ॥ द्वितीयाध्यायस्य तृतीयः पादः ____________________________________________________________________ [॰१३२] अनभिहिते ॥ २,३.१ ॥ _____ काशिकावृत्तिः२,३.१: अनभिहिते इत्यधिकारोऽयं वेदितव्यः । यदित ऊर्ध्वमनुक्रमिष्यामः, अनभिहिते इत्येवं तद्वेदितव्यम् । अनभिहिते अनुक्ते, अनिर्दिष्टे कर्मादौ विभक्तिर्भवति । केन अनभिहिते ? तिङ्कृत्तद्धितसमासैः परिसङ्ख्यानम् । वक्ष्यति, कर्मणि द्वितीया (*२,३.२) कटं कर्तोति । ग्रामं गच्छति । अनभिहिते इति किम् ? तिङ् क्रियते कटः । कृत् कृतः कटः । तद्धितः शत्यः । शतिकः । समासः प्राप्तमुदकं यं ग्रामं प्राप्तोदको ग्रामः । परिसङ्ख्यानं किम् ? कटं करोति भीष्ममुदारं दर्शनीयम् । वहुषु बहुवचनमित्येवमादिना सङ्ख्या वच्यत्वेन विभक्तीनामुपदिष्टाः, तत्र विशेषणार्थमिदमारभ्यते अनभिहितकर्माद्याश्रयेष्वेकत्वादिषु द्वितीयादयो वेदितव्याः इति ॥ ____________________________________________________________________ कर्मणि द्वितीया ॥ २,३.२ ॥ _____ काशिकावृत्तिः२,३.२: द्वितीयादयः शब्दाः पूर्वाचार्यैः सुपां त्रिकेषु समर्यन्ते, तैरेव अत्र व्यवहारः । कर्मणि कारके या सङ्ख्या तत्र द्वितीया विभक्तिर्भवति । कटं करोति । ग्रामं गच्छति । उभसर्वतसोः कार्या धिगुपर्यादिषु क्रिषु । द्वितीया+आम्रेडितान्तेषु ततोऽन्यत्र अपि दृश्यते ॥ उभयतो ग्रामम् । सर्वतो ग्रामम् । धिग्देवदत्तम् । उपर्युपरि ग्रामम् । अध्यधि ग्रामम् । अधोऽधो ग्रामम् । अभितःपरितःसमयानिकषाहाप्रतियोगेषु च दृश्यते । अभितो ग्रामम् । परितो ग्रामम् । समया ग्रामम् । निकाषा ग्रामम् । हा देवदत्तम् । बुभुक्षितं न प्रति भाति किञ्चित् ॥ ____________________________________________________________________ तृतीया च होश्छन्दसि ॥ २,३.३ ॥ _____ काशिकावृत्तिः२,३.३: कर्मणि इति वर्तते । द्वितीयायां प्राप्तायां तृतीया विधीयते । चशब्दात्सा च भवति । छन्दसि विषये जुहोतेः कर्मणि कारके तृतीया विभक्तिर्भवति, द्वितीया च । यवाग्वाऽग्निहोत्रं जुहोति । यवागूमग्निहोत्रं जुहोति । छन्दसि इति किम् ? यवागूमग्निहोत्रं जुहोति ॥ ____________________________________________________________________ [॰१३३] अन्तराऽन्तरेण युक्ते ॥ २,३.४ ॥ _____ काशिकावृत्तिः२,३.४: द्वितीया स्वर्यते, न तृतीया । अन्तरान्तरेण शब्दौ निपातौ साहचर्याद्गृह्येते । आभ्यां योगे द्वितीया विभक्तिर्भवति । षष्ठ्यपवादोऽयं योगः । तत्र अन्तराशब्दो मध्यमाधेयप्रधानमाचष्टे । अन्तरेण शब्दस्तु तच्च विनार्थं च । अन्तरा त्वां च मां च कमण्डलुः । अन्तरेण त्वां च मां च कमण्डलुः । अन्तरेण पुरुषकारं न किंचिल्लभ्यते । युक्तग्रहणं किम् ? अन्तरा तक्षशिलां च पाटलिपुत्रं स्रुघ्नस्य प्राकारः ॥ ____________________________________________________________________ कालाध्वनोरत्यन्तसंयोगे ॥ २,३.५ ॥ _____ काशिकावृत्तिः२,३.५: कालशब्देभ्योऽध्वशब्देभ्यश्च द्वितीया विभक्तिर्भवति अत्यन्तसंयोगे गम्यमाने । क्रियागुणद्रव्यैः साकल्येन कालाध्वनोः सम्बन्धः अत्यन्तसंयोगः । मासमधीते । संवत्सरमधीते । मासं कल्याणी । संवत्सरं कल्याणी । मासं गुडधीनाः । संवत्सरं गुडधानाः । अध्वनः खल्वपि क्रोशमधीते । योजनमधीते । क्रोशं कुटिला नदी । योजनं कुटिला नदी । क्रोशं पर्वतः । योजनं पर्वतः । अत्यन्तसंयोगे इति किम् ? मासस्य द्विरधीते । क्रोशस्य+एकदेशे पर्वतः ॥ ____________________________________________________________________ अपवर्गे तृतीया ॥ २,३.६ ॥ _____ काशिकावृत्तिः२,३.६: कालाध्वनोरत्यन्तसंयोगे इति वर्तते । अपवर्गः फलप्राप्तौ सत्यां क्रियापरिसमाप्तिः । अपवर्गे गम्यमाने कालाध्वनोरत्यन्तसंयोगे तृतीया विभक्तिर्भवति । मसेन अनुवाकोऽधीतः । संवत्सरेण अनुवाकोऽधीतः । अध्वनः क्रोशेन अनुवाकोऽधीतः । योजनेन अनुवाकोऽधीतः । अपवर्गे इति किम् ? क्रोशमधीतोऽनुवाकः । मासमधीतः । कर्तव्यादृत्तौ फलसिद्धेरभावात्तृतीया न भवति । मासमधीतोऽनुवाकः, न च अनेन गृहीतः ॥ ____________________________________________________________________ सप्तमीपञ्चम्यौ कारकमध्ये ॥ २,३.७ ॥ _____ काशिकावृत्तिः२,३.७: कालाध्वनोः इति वर्तते । कारकयोर्मध्ये यौ कालाध्वानौ ताभ्यां सप्तमीपञ्चम्यौ विभक्ती भवतः । अद्य भुक्तवा देवदत्तो द्व्यहे भोक्ता द्व्यहाद्वा भोक्ता । त्र्यहे त्र्यहाद्वा भोक्ता । कर्तृशक्त्योर्मध्ये कलः । इह स्थोऽयमिष्वासः क्रोशे लक्ष्यं विध्यति । क्रोशाल्लक्ष्यं विधियति । कर्तृकर्मणोः कारकयोः कर्मापादानयोः कर्माधिकरणयोर्वा मध्ये क्रोशः । सङ्ख्यातानुदेशो न भवति, अस्वरितत्वात् ॥ ____________________________________________________________________ कर्मप्रवचनीययुक्ते द्वितीया ॥ २,३.८ ॥ _____ काशिकावृत्तिः२,३.८: कर्मप्रवचनीयैर्युक्ते द्वितीया विभ्क्तिर्भवति । अनुर्लक्षणे (*१,४.८४) शाकल्यसय संहितामनुप्रावर्षत् । आगस्त्यमन्वसिञ्चत्प्रजाः ॥ ____________________________________________________________________ [॰१३४] यस्मादधिकं यस्य च+ईश्वरवचनं तत्र सप्तमी ॥ २,३.९ ॥ _____ काशिकावृत्तिः२,३.९: कर्मप्रवचनीययुक्त इति वर्तते । यसमा दधिकं यस्य च+ईश्वरवचनं कर्मप्रवचनीयैर्युक्ते तत्र सप्तमी विभक्तिर्भवति । उप खार्यं द्रोणः । उप निष्के कार्षापणम् । यस्य च+ईश्वरवचनमिति स्वस्वामिनोर्द्वयोरपि पर्यायेण सप्तमी विभक्तिर्भवति । अधि ब्रह्मदत्ते पञ्चालाः, अधि पञ्चालेषु ब्रह्मदत्तः इति । द्वितीयापवादो योगः ॥ ____________________________________________________________________ पञ्चम्यपाङ्परिभिः ॥ २,३.१० ॥ _____ काशिकावृत्तिः२,३.१०: अप आङ्परि इत्येतैः कर्मप्रवचनीयैर्योगे पज्चमी विभक्तिर्भवति । अप त्रिगर्तेभ्यो वृष्टो देवः । आ पाटलिपुत्राद्वृष्टो देवः । परि त्रिगर्तेभ्यो वृष्तो देवः । अपेन साहचर्यात्परेर्वर्जनार्थस्य ग्रहणम्, तेन+इह न भवति, वृक्षं परि विद्योतते विद्युत् ॥ ____________________________________________________________________ प्रतिनिधिप्रतिदाने च यस्मात् ॥ २,३.११ ॥ _____ काशिकावृत्तिः२,३.११: मुख्यसदृशः प्रतिनिधिः । दत्तस्य प्रतिनिर्यातनं प्रतिदानम् । यस्मात्प्रतिनिधिर्यतश्च प्रतिदानं तत्र कर्मप्रवचनीययुक्ते पञ्चमी विभक्तिर्भवति । अभिमन्युरर्जुनतः प्रति । प्रद्युम्नो वासुदेवतः प्रति । माषानस्मै तिलेभ्यः प्रति यच्छति । ननु च प्रतिनिधिप्रतिदाने कर्मप्रवचनीययुक्ते, न तु यतः प्रतिनिधिप्रतिदाने ? न+एष दोषः, सम्बन्धसम्बन्धात्तस्य अपि योगोऽस्त्येव ॥ ____________________________________________________________________ गत्यर्थकर्मणि द्वितीयाचतुर्थ्यौ चेष्टायामनध्वनि ॥ २,३.१२ ॥ _____ काशिकावृत्तिः२,३.१२: गत्यर्थानां धातूनां चेष्ताक्रियाणां परिस्पन्दक्रियाणां कर्मणि कारकेऽध्ववर्जिते द्वितीयाचतुर्थ्यौ भवतः । ग्रामं गच्छति, ग्रामाय गच्छति । ग्रामं व्रजति, ग्रामाय व्रजति । गत्यर्थग्रहणं किम् ? ओदनं पचति । कर्मणि इति किम् ? अश्वेन व्रजति । देष्टायमिति किम् ? मनसा पाटलिपुत्रं गच्छति । अनध्वनि इति किम् ? अध्वानं गच्छति । अध्वनीत्यर्थग्रहनम् । पन्थानं गच्छति । मार्गं गच्छति । आस्थितप्रतिषेधश्चायं विज्ञेयः । आस्थितः सम्प्राप्तः, आक्रान्त उच्यते । यत्र तु उत्पथेन पन्थानं गच्छति, तत्र भवितव्यमेव चतुर्थ्या, पथे गच्छति इति । द्वितीयाग्रहनं किम् ? न चत्र्थ्येव विक्ल्प्येत, अपवादविषयेऽपि यथा स्यात् । ग्रामं गन्ता ग्रामाय गन्ता । कृद्योगलक्षणा षष्ठी न भवति ॥ ____________________________________________________________________ [॰१३५] चतुर्थी सम्प्रदाने ॥ २,३.१३ ॥ _____ काशिकावृत्तिः२,३.१३: सम्प्रदाने कारके चतुर्थी विभक्तिर्भवति । उपध्यायाय गां ददाति । मानवकाय भिक्षां ददाति । देवदत्ताय रोचते । पुष्पेभ्यः स्पृहयति इत्यादि । चतुर्थीविधाने तादर्थ्य उपसङ्ख्यानम् । यूपाय दारु । कुण्डलाय हिरण्यम् । रन्धनाय स्थाय स्थाली । अवहननायोलूखलम् । कॢपि सम्पद्यमाने चतुर्थी वक्तव्या । मूत्राय कल्पते यवागूः । उच्चाराय कल्पते यवागूः । कॢपि इत्यर्थनिर्देशः । मूत्राय सम्पद्यते यवागूः । मूत्राय जायते यवगूः । उत्पातेन ज्ञाप्यमाने चतुर्थी वक्तव्या । वाताय कपिला विद्युदातपायातिलोहिनी । पीता वर्षाय विज्ञेया दुर्भिक्षाय सिता भवेत् ॥ हितयोगे चतुर्थी वक्तव्या । गोभ्यो हितम् । अरोचकिने हितम् ॥ ____________________________________________________________________ क्रियार्थोपपदस्य च कर्मणि स्थानिनः ॥ २,३.१४ ॥ _____ काशिकावृत्तिः२,३.१४: क्रियार्था क्रिया उपपदं यस्य सोऽयं क्रियार्थोपपाः । तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम् (*३,३.१०) इत्येष विषयो लक्ष्यते । क्रियार्थोपपदस्य च स्थानिनोऽप्रयुज्यमानस्य धातोः कर्मणि कारके चतुर्थी विभक्तिर्भवति । द्वितीयापवादो योगः । एधेभ्यो व्रजति । पुष्पेभ्यो व्रजति क्रियार्थोपपदस्य इति किम् ? प्रविश पिण्डीम् । प्रविश तर्पनम् । भक्षिरत्र स्थानी, न तु क्रियार्थोपपदः । कर्मणि इति किम् ? एधेभ्यो व्रजति शकटेन । स्थानिनः इति किम् ? एधानाहर्तुं व्रजति ॥ ____________________________________________________________________ तुमर्थाच्च भाववचनात् ॥ २,३.१५ ॥ _____ काशिकावृत्तिः२,३.१५: तुमुना समानार्थस्तुमर्थः । तुमर्थभाववचनप्रत्ययान्तात्प्रातिपदिकाच्चतुर्थी विभक्तिर्भवति । भाववचनाश्च (*३,३.११) इति वक्ष्यति, तस्य+इदं ग्रहनम् । पाकाय व्रजति । त्यागाय व्रजति । भूतये व्रजति । संपत्तये व्रजति । तुमर्थातिति किम् ? पाकः । त्यागः । रागः । भाववचनातिति किम् ? कारको व्रजति ॥ ____________________________________________________________________ [॰१३६] नमःस्वस्तिस्वाहास्वधाऽलंवषड्योगाच्च ॥ २,३.१६ ॥ _____ काशिकावृत्तिः२,३.१६: नमः स्वस्ति स्वाहा स्वधा अलं वषटित्येतैर्योगे चतुर्थी विभक्तिर्भ्वति । नमो देवेभ्यः । स्वस्ति प्रजाभ्यः । स्वाहा अग्नये । स्वधा पितृभ्यः । अलं मल्लो मल्लाय । अलमिति पर्याप्त्यर्थग्रहणम् । प्रभुर्मल्लो मल्लाय । शक्तो मल्लो मल्लाय् । वशडग्नये । वषडिन्द्राय । चकारः पुनरस्य+एव समुचयार्थः । तेन आशीर्विवक्षायामपि षष्ठीं वाधित्वा चतुर्थ्येव भवति । स्वस्ति गोभ्यो भूयात् । स्वस्ति ब्राह्मणेभ्यः ॥ ____________________________________________________________________ मन्यकर्मण्यनादरे विभाषाऽप्राणिषु ॥ २,३.१७ ॥ _____ काशिकावृत्तिः२,३.१७: मन्यतेः कर्मणि मन्यकर्मणि । मन्यकर्मणि प्राणिवर्जिते विभाषा चतुर्थी विभक्तिर्भवति अनादरे गम्यमाने । अनादरस्तिरस्कारः । न त्वा तृणं मन्ये, न त्वा तृणाय मन्ये । न त्वा बुसं मन्ये, न त्वा बुसाय मन्ये । मन्यतिग्रहणं किम् ? न त्वा तृणं चिन्तयामि । विकरणनिर्देशः किमर्थः ? न त्वा तृणं मन्वे । अनादरे इति किम् ? अश्मानं दृषदं मन्ये मन्ये कष्ठमुलूखलम् । अन्धायास्तं सुतं मन्ये यस्य माता न पश्यति ॥ अप्रानिषु इति किम् ? न त्वा शृगालं मन्ये । यदेतदप्राणिष्विति तदनावादिष्विति वक्तव्यम् । व्यवस्थितविभाषा च ज्ञेया । न त्वा नावं मन्ये यावदुत्तीर्णं न नाव्यम् । न त्वाऽन्नं मन्ये यावन्न भुक्तं श्राद्धम् । प्राणिषु तूभयम् । न त्वा काकं मन्ये । न त्वा शृगालं मन्ये । इह चतुर्थी द्वितीया च भवतः न त्वा श्वानं मन्ये, न त्वा शुने मन्ये । युष्मदः कस्मान्न भवति चतुर्थी, एतदपि हि मन्यतेः कर्म ? व्यवस्थितविभाषाविज्ञानादेव न भवति ॥ ____________________________________________________________________ [॰१३७] कर्तृकरणयोस्तृतीया ॥ २,३.१८ ॥ _____ काशिकावृत्तिः२,३.१८: कर्तरि करणे च कारके तृतीया विभक्तिर्भवति । देवदत्तेन कृतम् । यज्ञदत्तेन भुक्तम् । करणे दात्रेण लुनाति । परशुना छिनत्ति । तृतीयाविधाने प्रकृत्यादीनामुपसङ्ख्यानम् । प्रकृत्याऽभिरूपः । प्रकृत्या दर्शनीयः । प्रायेण याज्ञिकः । प्रायेण वैयाकरणः । गार्ग्योऽस्मि गोत्रेण । समेन धावति । विषमेण धावति । द्विद्रोणेन धान्यं क्रीणाति । पञ्चकेन पशून् क्रीणाति । साहस्रेण अश्वान् क्रीणाति ॥ ____________________________________________________________________ सहयुक्तेऽप्रधाने ॥ २,३.१९ ॥ _____ काशिकावृत्तिः२,३.१९: सहार्थेन युक्ते अप्रधाने तृतीया विभक्तिर्भवति । पुत्रेण सहागतः पिता । पुत्रेण सह गोमान् । पितुरत्र क्रियादिसम्बन्धः शब्देन+उच्यते, पुत्रस्य तु प्रतीयमान इति तस्याप्राधान्यम् । सहार्थेन च योगे तृतीयाविधानात्पर्यायप्रयोगेऽपि भवति, पुत्रेण सार्धमिति । विनाऽपि सहशब्देन भवति, वृद्धो यूना (*१,२.६५) इति निदर्शनात् । अप्रधाने इति किम् ? शिष्येण सहोपाद्यायस्य गौः ॥ ____________________________________________________________________ येन अङ्गविकारः ॥ २,३.२० ॥ _____ काशिकावृत्तिः२,३.२०: अङ्गशब्दोऽत्र अङ्गसमुदाये शरीरे वर्तते, येन इति च तदवयवो हेतुत्वेन निर्दिश्यते । येन अङ्गेन विकृतेन अङ्गिनो विकारो लक्ष्यते, ततस्तृतीया विभक्तिर्भवति । अक्ष्णा काणः । पादेन खञ्जः । पाणिना कुन्ठः । अवयवधर्मेण समुदयो व्यपदिश्यते । अङ्गविकारः इति किम् ? अक्षि काणमस्य ॥ ____________________________________________________________________ इत्थम्भूतलक्षणे ॥ २,३.२१ ॥ _____ काशिकावृत्तिः२,३.२१: कञ्चित्प्रकारं प्राप्तः इत्थम्भूतः । तस्य लक्षणमित्थम्भूतलक्षणम् । ततस्तृतीया विभक्तिर्भवति । अपि भवान् कमण्डलुना छात्रमद्राक्षीत्? छात्रेणोपाध्यायम् । शिखया परिव्राजकम् । इह न भवति, कमण्ड्लुपानिश्छात्रः इति, लक्षणस्य समासेऽन्तर्भूतत्वात् । इत्थम्भूतः इति किम् ? वृक्षं प्रति विद्योतनम् ॥ ____________________________________________________________________ [॰१३८] सञ्ज्ञोऽन्यतरस्यां कर्मणि ॥ २,३.२२ ॥ _____ काशिकावृत्तिः२,३.२२: सम्पूर्वस्य जानातेः कर्मणि करके द्वितीयायां प्राप्तायामन्यतरस्यां तृतीयाविभक्तिर्भवति । पित्रा सञ्जानीते, पितरं सञ्जानीते । मात्रा सञ्जानीते, मातरं सञ्जानीते ॥ ____________________________________________________________________ हेतौ ॥ २,३.२३ ॥ _____ काशिकावृत्तिः२,३.२३: फलसाधनयोग्यः पदार्थो लोके हेतुरुच्यते । तद्वाचिनस्तृतीया विभक्तिर्भवति । धनेन कुलम् । कन्यया शोकः । विद्यया यशः ॥ ____________________________________________________________________ अकर्तर्यृणे पञ्चमी ॥ २,३.२४ ॥ _____ काशिकावृत्तिः२,३.२४: हेतौ इति वर्तते । कर्तृवर्जितं यदृणं हेतुः, ततः पञ्चमी विभक्तिर्भवति तृतीया+अपवादो योगः । शताद्बद्धः । सहस्राद्बद्धः । अकर्तरि इति किम् ? शतेन बन्धितः । शतमृणं च भवति, प्रयोजकत्वाच्च कर्तृसञ्ज्ञकम् ॥ ____________________________________________________________________ विभाषा गुणेऽस्त्रीयाम् ॥ २,३.२५ ॥ _____ काशिकावृत्तिः२,३.२५: हेतौ इति वर्तते । गुणे हेतावस्त्रीलिङ्गे विभाषा पञ्चमी विभक्तिर्भवति । जाड्याद्बद्धः, जाड्येन बद्धः । पाण्डित्यान्मुक्तः, पाण्डित्येन मुक्तः । गुणग्रहनं किम् ? धनेन कुलम् । अस्त्रियामिति किम् ? बुद्ध्या मुक्तः । प्रज्ञया मुक्तः ॥ ____________________________________________________________________ षष्ठी हेतुप्रयोगे ॥ २,३.२६ ॥ _____ काशिकावृत्तिः२,३.२६: हेतोः प्रयोगः हेतुप्रयोगः । हेतुशब्दस्य प्रयोगे हेतौ द्योत्ये षष्ठी विभक्तिर्भवति । अन्नस्य हेतोर्वसति ॥ ____________________________________________________________________ सर्वनाम्नस्तृतीया च ॥ २,३.२७ ॥ _____ काशिकावृत्तिः२,३.२७: सर्वनाम्नो हेतुशब्दप्रयोगे हेतौ द्योत्ये तृतीया विभक्तिर्भवति, षष्ठी च । पूर्वेण षष्ठ्यामेव प्राप्तायामिदमुच्यते । केन हेतुना वसति, कस्य हेतोर्वसति । येन हेतुना वसति, यस्य हेतोर्वसति । निमित्तकारणहेतुषु सर्वासां प्रायदर्शनम् । [॰१३९] किंनिमित्तं वसति, केन निमित्तेन वसति, कस्मै निमित्ताय वसति, कस्मान्निमित्ताद्वसति, कस्य निमित्तस्य वसति, कस्मिन्निमित्ते वसति । एवं कारणहेत्वोरप्युदहार्यम् । अर्थग्रहनं च+एतत् । पर्यायोपादानं तु स्वरूपविधिर्मा विज्ञायि इति । तेन+इह अपि भवति किं प्र्पयोजनं वसति, केन प्रयोजनेन वसति, कस्मै प्रयोजनाय वसति, कस्मात्प्रयोजनाद्वसति, कस्य प्रयोजनस्य वसति, कस्मिन् प्रयोजने वसति ॥ ____________________________________________________________________ अपादाने पञ्चमी ॥ २,३.२८ ॥ _____ काशिकावृत्तिः२,३.२८: अपादाने कारके पञ्चमी विभक्तिर्भवति । ग्रामादागच्छति । पर्वतादवरोहति । वृकेभ्यो बिभेति । अध्ययनात्पराजयते । पञ्चमीविधाने ल्यब्लोपे कर्मण्युपसङ्ख्यानम् । प्रासादमारुह्य प्रेक्षते, प्रासादात्प्रेक्षते । अधिकरणे च+उपसङ्ख्यानम् । आसने उपविष्य प्रेक्षते, आसनात्प्रेक्षते । शयनात्प्रेक्षते । प्रष्नाख्यानयोष्च पञ्चमी वक्तव्या । कुतो भवान् ? पाटलिपुत्रात् । यतष्चाध्वकालनिर्माणं तत्र पञ्चमी वक्तव्या । गवीधुमतः साङ्काश्यं चत्वारि योजनाअनि । कार्तिक्या आग्रहायणी मासे । तद्युक्तात्काले सप्तमी वक्तव्या । कार्तिक्या आग्रहायणी मासे । अध्वनः प्रथमा सप्तमी च वक्तव्या । गवीधुमतः साङ्काश्यं चत्वारि योजनानि, चतुर्षु योजनेषु वा ॥ ____________________________________________________________________ अन्यारादितरर्तेदिक्शब्दाञ्चूत्तरपदाजाहियुक्ते ॥ २,३.२९ ॥ _____ काशिकावृत्तिः२,३.२९: अन्य आरातितर ऋते दिक्शब्द अञ्चूत्तरपद आचाहि इत्येतैर्योगे पञ्चमी विभक्तिर्भवति । अन्य इत्यर्थग्रहनम् । तेन पर्यायप्रयोगेऽपि भवति । अन्योदेवदत्तात् । भिन्नो देवदत्तात् । अर्थान्तरं देवदत्तात् । [॰१४०] विलक्षणे देवदत्तात् । आराच्छब्दो दूरान्तिकार्थे वर्तते । तत्र दूरान्तिकार्थैः षष्थ्यन्यतरस्याम् (*२,३.३४) । इति प्राप्ते पञ्चमी विधीयते । आराद्देवदत्तात् । आराद्यज्ञदत्तात् । इतर इति निर्दिश्यमानप्रतियोगी पदार्थ उच्यते । इतरो देवदत्तात् । ऋते इति अव्ययं वर्जनार्थे । ऋते देवदत्तात् । ऋते यज्ञदत्तात् । दिक्शब्दः पूर्वो ग्रामात्पर्वतः । उत्तरो ग्रामात् । पूर्वो ग्रीष्मात्वसन्तः । उत्तरो ग्रीष्मो वसन्तात् । द्विक्शब्द इत्यत्र शब्दग्रहनं देशकालवृत्तिनाऽपि दिक्शब्देन योगे यथा स्यात्, इतरथा हि दिग्वृत्तिनैव स्यात्, इत्यमस्याः पूर्वा इति । इह तु न स्यात्, अयमस्मात्पूर्वः कालः इति । अञ्चूत्तरपद प्राग्ग्रामात् । प्रत्यग्ग्रामात् । ननु चायमपि दिक्शब्द एव । षष्ठ्यतसर्थप्रययेन (*२,३.३०) इति वक्ष्यति, तस्य अयं पुरस्तादपकर्षः । आच् दक्षिणा ग्रामात् । उत्तरा ग्रामात् । आहि दक्षिणाहि ग्रामात् । उत्तराहि ग्रामात् ॥ ____________________________________________________________________ षष्ठ्यतसर्थप्रत्ययेन ॥ २,३.३० ॥ _____ काशिकावृत्तिः२,३.३०: दक्षिणोत्तराभ्यामतसुच्(*५,३.२८) इति वक्ष्यति, तस्य+इदं ग्रहनम् । अतसर्थेन प्रत्ययेन युक्ते षष्ठी विभक्तिर्भवति । दक्षिणतो ग्रामस्य । उत्तरतो ग्रामस्य । पुरस्ताद्ग्रामस्य । उपरि ग्रामस्य । उपरिष्टाद्ग्रामस्य ॥ ____________________________________________________________________ एनपा द्वितीया ॥ २,३.३१ ॥ _____ काशिकावृत्तिः२,३.३१: एनबन्यतरस्यामदूरेऽपञ्चम्याः (*५,३.३५) इति वक्ष्यति । तेन युक्ते द्वितीया विभक्तिर्भवति । पूर्वेण षष्ठ्यां प्राप्तायामिदं वचनम् । दक्षिणेन ग्रामम् । उत्तरेण ग्रामम् । षष्ठ्यापीष्यते । दक्षिणेन ग्रामस्य । उत्तरेण ग्रामस्य । तदर्थं योगविभागः कर्तव्यः ॥ ____________________________________________________________________ पृथग्विनानानाभिस्तृतीयाऽन्यतरस्याम् ॥ २,३.३२ ॥ _____ काशिकावृत्तिः२,३.३२: पञ्चमीग्रहणमनुवर्तते । पृथक्विना नाना इत्येतैर्योगे तृतीया विभक्तिर्भवति, अन्यतरस्यां पञ्चमी च । पृथग्देवदत्तेन, पृथग्देवदत्तात् । विना देवदत्तेन, विना देवदत्तात् । नाना देवदत्तेन, नाना देवदत्तात् । पृथग्विनानानाभिः इति योगविभागो द्वितीयार्थः । विना वातं विना वर्षं विद्युत्प्रपतनं विना । विना हस्तिकृतान् दोषान् केनेमौ पातितौ द्रुमौ ॥ ____________________________________________________________________ [॰१४१] करेण च स्तोकाल्पकृच्छ्रकतिपयस्य असत्त्ववचनस्य ॥ २,३.३३ ॥ _____ काशिकावृत्तिः२,३.३३: स्तोक अल्प कृच्छ्र कतिपय इत्येतेभ्योऽसत्त्ववचनेभ्यः करणे कारकेऽन्यतरस्यां तृतीया भवति । पञ्चम्यत्र पक्षे विधीयते, तृतीया तु करणे इत्येव सिद्धा । यदा तु धर्ममात्रं करणाया विवक्ष्यते न द्रव्यम्, तदा स्तोकादीनामसत्त्ववचनता । स्तोकान्मुक्तः, स्तोकेन मुक्तः । अल्पान्मुक्तः, अल्पेन मुक्तः । कृछ्रान्मुक्तः, कृच्छ्रेण मुक्तः । कतिपयान्मुक्तः, कतिपयेन मुक्तः । असत्त्ववचनस्य इति किम् ? स्तोकेन विषेण हतः । अल्पेन मधुना मत्तः । करणे इति किम् ? क्रियाविशेषणे कर्मणि मा भूत्, स्तोकं मुञ्चति ॥ ____________________________________________________________________ दूरान्तिकार्थैः षष्ठ्यन्यतरस्याम् ॥ २,३.३४ ॥ _____ काशिकावृत्तिः२,३.३४: पञ्चमी अनुवर्तते । दूरान्तिकार्थैः शब्दैर्योगे षष्थी विभक्तिर्भवति, अन्यतरस्यां पञ्चमी च । दूरं ग्रामस्य, दूरं ग्रामात् । विप्रकृष्टं ग्रामस्य, विप्रकृष्टं ग्रामात् । अन्तिकं ग्रामस्य, अन्तिकं ग्रामात् । अभ्याशं ग्रामस्य, अभ्याशं ग्रामात् । अन्यतरस्यां ग्रहणं पञ्चम्यर्थम् । इतरथा हि तृतीया पक्षे स्यात् ॥ ____________________________________________________________________ दूरान्तिकार्थेभ्यो द्वितीया च ॥ २,३.३५ ॥ _____ काशिकावृत्तिः२,३.३५: पञ्चमी अनुवर्तते । दूरान्तिकार्थेभ्यः शब्देभ्यो द्वितीया विभक्तिर्भवति, चकारात्पञ्चमी तृतीयाऽपि समुच्छीयते । दूरं ग्रामस्य, दूराद्ग्रामस्य, दूरेण्ग्रामस्य । अन्तिकं ग्रामस्य, अन्तिकाद्ग्रामस्य, अन्तिकेन ग्रामस्य । प्रातिपदिकार्थे विधानम् । असत्त्ववचनग्रहणं च अनुवर्तते । सत्त्वशब्देभ्यो यथायथं विभक्तयो भवन्ति । दूरः पन्थाः, दूराय पथे देहि, दूरस्य पथः स्वम् ॥ ____________________________________________________________________ सप्तम्यधिकरने च ॥ २,३.३६ ॥ _____ काशिकावृत्तिः२,३.३६: सप्तमी विभक्तिर्भवत्यधिकरणे कारके, चकाराद्दूरान्तिकार्थेभ्यश्च । कटे आस्ते । शकटे आस्ते । स्थाल्यां पचति । दूरान्तिकार्थेभ्यः खल्वपि दूरे ग्रामस्य । अन्तिके ग्रामस्य । अभ्याशे ग्रामस्य । दूरन्ति कार्थेभ्यश्चतस्रो विभक्तयो भवन्ति, द्वितीयातृतीयापञ्चमीसप्तम्यः । सप्तमीविधाने क्तस्येन्विषयस्य कर्मण्युपसङ्ख्यानम् । अधीती व्याकरणे । परिगणिती याज्ञिके । आम्नाती छन्दसि । [॰१४२] साध्वसाधुप्रयोगे च सप्तमी वक्तव्या । साधुर्देवदत्तो मातरि । असाधुः पितरि । कारकार्हाणां च कारकत्वे सप्तमी वक्तव्या । ऋद्धेषु भुञ्जानेषु दरिद्रा आसते । ब्राह्मणेषु तरत्सु वृषला आसते । अकारकार्हाणां चाकरकत्वे सप्तमी वक्तव्या । दरिद्रेष्वासीनेषु ऋद्धा भुञ्जते । वृषलेष्वासीनेषु ब्राह्मणास्तरन्ति । तद्धिपर्यासे च सप्तमी वक्तव्या । ऋद्धेष्वासीनेषु दरिद्रा भुञ्जते । ब्राह्मणेष्वासीनेषु वृषलास्तरान्ति । निमित्तात्कर्मसंयोगे सप्तमी वक्तव्या । चर्मणि द्वीपिनं हन्ति दन्तयोर्हन्ति कुञ्जरम् । केशेषु चमरीं हन्ति सीम्नि पुष्कलको हतः ॥ ____________________________________________________________________ यस्य च भावेन भावलक्षणम् ॥ २,३.३७ ॥ _____ काशिकावृत्तिः२,३.३७: सप्तमी इति वर्तते । भावः क्रिया । यस्य च भावेन यस्य च क्रियया क्रियान्तरं लक्ष्यते, ततो भाववतः सप्तमी विभक्तिर्भवति । प्रसिद्धा च किया क्रियान्तरं लक्षयति । गोषु दुह्यमानासु गतः, दुग्धास्वागतः । अग्निषु हूयमानेषु गतः, हुतेष्वागतः । भावेन इति किम् ? यो जटाभिः स भुङ्क्ते । पुनर्भावग्रहणं किम् ? यो भुङ्क्ते स देवदत्तः ॥ ____________________________________________________________________ षष्ठी च अनादरे ॥ २,३.३८ ॥ _____ काशिकावृत्तिः२,३.३८: पूर्वेण सप्तम्यां प्राप्तायां षष्ठी विधीयते, चकारात्साऽपि भवति । अनादराधिके भावलक्षने भाववतः षष्ठीसप्तम्यौ विभक्ती भवतः । रुदतः प्राव्राजीत्, रुदति प्राव्राजीत्क्रोशतः प्राव्राजीत्, क्रोशति प्राव्राजीत् । क्रोशन्तमनादृत्य प्रव्रजितः इत्यर्थः ॥ ____________________________________________________________________ [॰१४३] स्वामीश्वराधिपतिदायादसाक्षिप्रतिभूप्रसुतैश्च ॥ २,३.३९ ॥ _____ काशिकावृत्तिः२,३.३९: षष्ठीसप्तम्यौ वर्तते । स्वामिनीश्वर अधिपति दायाद साक्षिन् प्रतिभू प्रसूत इत्येतैर्योगे षष्ठीसप्तम्यौ विभक्ती भवतः । गवां स्वामी, गोषु स्वामी । गवामीश्वरः, गोष्वीश्वरः । गवामधिपतिः, गोष्वधिपतिः । गवां दायादः, गोषु दायादः । गवां साक्षी, गोषू साक्षी । गवां प्रतिभूः, गोषु प्रतिभूतः । गवां प्रसूतः, गोषु प्रसूतः । षष्ठ्यामेव प्राप्तयां पक्षे सप्तमीविधानार्थं वचनम् ॥ ____________________________________________________________________ आयुक्तकुशलाभ्यां च आसेवायाम् ॥ २,३.४० ॥ _____ काशिकावृत्तिः२,३.४०: षष्ठीसप्तम्यौ वर्तते । आयुकतः व्यापारितः, कुशलः निपुणः, ताभ्यां योगे आसेवायां गम्यमानायां षष्ठीसप्तम्यौ विभक्ती भवतः । आसेवा तत्पर्यम् । आयुक्तः कटकरणस्य, आयुक्तः कटकरणे कुशलः कटकरनस्य, कुश्लः कटकरणे । आसेवायामिति किम् ? आयुक्तो गौः शकटे । तत्र सप्तम्येव अधिकरणे भवति ॥ ____________________________________________________________________ यतश्च निर्धारनम् ॥ २,३.४१ ॥ _____ काशिकावृत्तिः२,३.४१: षष्ठीसप्तम्यौ वर्तते । जातिगुणक्रियाभिः समुदायादेकदेशस्य पृथक्करनं निर्धारनम् । यतो निर्धारनं ततः षष्ठी सप्तम्यौ विभक्ती भवतः । मनुष्याणां क्षत्रियः शूरतमः, मनुष्येषु क्षत्रियः शूरतमः । गवं कृष्णा सम्पन्नक्षीरतमा, गोषु कृष्णा सम्पन्नक्षीरतमा अध्वगानां धवन्तः शीघ्रतमा, अध्वगेषु धावन्तः शीघ्रतमाः ॥ ____________________________________________________________________ पञ्चमी विभक्ते ॥ २,३.४२ ॥ _____ काशिकावृत्तिः२,३.४२: यतश्च निर्धरनमिति वर्तते । षष्ठीसप्तम्यपवादो योगः । विभागः विभक्तम् । यस्मिन्निर्धारणाश्रये विभक्तमस्य अस्ति ततः पज्चमी विभक्तिर्भवति । माथुराः पाटलिपुत्रकेभ्यः सुकुमारतराः, आढ्यतराः ॥ ____________________________________________________________________ साधुनिपुणाभ्यामर्चायां सप्तम्यप्रतेः ॥ २,३.४३ ॥ _____ काशिकावृत्तिः२,३.४३: साधु निपुण इत्येताभ्यां योगेऽर्चायां गम्यमानायां सप्तमी विभक्तिर्भवति, न चेत्प्रतिः प्रयुज्यते । मातरि साधुः । पितरि साधुः । मातरि निपुणः । पितरि निपुणः । अर्चायामिति किम् ? साधुर्भृत्यो राज्ञः । तत्त्वकथने न भवति । अप्रतेः इति किम् ? साधुर्देवदत्तो मातरं प्रति । अप्रत्यादिभिरिति वक्तव्यम् । [॰१४४] साधुर्देवदत्तो मातरं परि । मातरमनु ॥ ____________________________________________________________________ प्रसितोत्सुकाभ्यां तृतीया च ॥ २,३.४४ ॥ _____ काशिकावृत्तिः२,३.४४: प्रसित उत्सुक इत्येताभ्यां योगे तृतीया विभक्तिर्भवति, चकारात्सप्तमी च । प्रसितः प्रसक्तः, यस्तत्र नित्यमेव अवबद्धः स प्रसितशब्देन+उच्यते । केशैः प्रसितः केशेषु प्रसितः । केशैरुत्सुकः, केशेषु उत्सुकः ॥ ____________________________________________________________________ नक्षत्रे च लुपि ॥ २,३.४५ ॥ _____ काशिकावृत्तिः२,३.४५: तृतीयासप्तम्यावनुवर्तते । लुबन्तात्नक्षत्रशब्दात्तृतीयासप्तम्यौ विभक्ती भ्वतः । पुष्येण पायसमश्नीयात्, पुष्ये पायसमश्नीयात् । मघाभिः पललौदनम्, मघसु पललौदनम् । नक्षत्र इति किम् ? पञ्चालेषु वसति । लुपि इति किम् ? मघासु ग्रहः । इह कस्मान्न भवति, अद्य पुस्यः, अद्य कृत्तिका ? अधिकरणे इति वर्तते । वचनं तु पक्षे तृतीयाविधानार्थम् ॥ ____________________________________________________________________ प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा ॥ २,३.४६ ॥ _____ काशिकावृत्तिः२,३.४६: प्रातिपदिकार्थः सत्ता । लिङ्गं स्त्रीलिङ्गपुंलिङ्गनपुंसकानि । परिमणं द्रोणः, खारी, आढकम् । वचनमेकत्वद्वित्वबहुत्वानि । मात्रशब्दः प्रत्येकमभिसम्बध्यते । प्रातिपदिकार्थमात्रे, लिङ्गमात्रे, प्रिमाणमात्रे, वचनमात्रे प्रथमा विभक्तिर्भवति । प्रातिपदिकार्थमात्रे उच्चैः । नीचैः । लिङ्गग्रहणं किम् ? कुमारी, वृक्षः, कुण्डमित्यत्र अपि यथा स्यत् । परिमाणग्रहणं किम् ? द्रोणः, खारी, आढकमित्यत्र अपि यथा स्यात् । वचनग्रहनं किम् ? एकत्वादिषु उक्तेष्वपि यथा स्यात् । एकः, द्वौ, बहवः । प्रातिपदिकग्रहनं किम् ? निपातस्य अनर्थकस्य प्रातिपदिकत्वमुक्तं, ततोऽपि यथा स्यात् । प्रलम्बते । अध्यागच्छति ॥ ____________________________________________________________________ सम्बोधने च ॥ २,३.४७ ॥ _____ काशिकावृत्तिः२,३.४७: आभिमुख्यकरणं, तदधिके प्रातिपदिकार्थे प्रथमा न प्राप्नोति इति वचनमारभ्यते । सम्बोधने च प्रथमा विभक्तिर्भवति । हे देवदत्त । हे देवदत्तौ । हे देवदत्ताः ॥ ____________________________________________________________________ सा+आमन्त्रितम् ॥ २,३.४८ ॥ _____ काशिकावृत्तिः२,३.४८: सम्बोधने या प्रथमा तदन्तं शब्दरूपमामन्त्रितसञ्ज्ञं भवति । तथा च+एव+उदाहृतम् । आमन्त्रितप्रदेशाः आमन्त्रितं पूर्वमविद्यमानवत्(*८,१.७२) इत्येवमादयः ॥ ____________________________________________________________________ [॰१४५] एकवचनं सम्बुद्धिः ॥ २,३.४९ ॥ _____ काशिकावृत्तिः२,३.४९: आमन्त्रितप्रथमाया यदेकवानं, तत्सम्बुद्धिसञ्ज्ञं भवति । हे पटो । हे देवदत्त । सम्बुद्धिप्रदेशाः एङ्ह्रस्वात्सम्बुद्धेः (*६,१.६९) इत्येवमादयः ॥ ____________________________________________________________________ षष्ठी शेषे ॥ २,३.५० ॥ _____ काशिकावृत्तिः२,३.५०: कर्मादिभ्योऽन्यः प्रातिपदिकार्थव्यतिरेकः स्वस्वामिसम्भन्धादिः शेषः, तत्र षष्ठी विभक्तिर्भवति । रज्ञः पुरुषः । पशोः पादः । पितुः पुत्रः ॥ ____________________________________________________________________ ज्ञोऽविदर्थस्य करणे ॥ २,३.५१ ॥ _____ काशिकावृत्तिः२,३.५१: जानातेरविदर्थस्य अज्ञानार्थस्य करणे कारके षष्ठी विभक्तिर्भवति । सर्षिषो जानीते । मधुनो जानीते । सर्पिषा करणेन प्रवर्तते इत्यर्थः । प्रवृत्तिवचनो जानतिरविद्ःर्थः । अथ व मिथ्याज्ञानवचनः । सर्पिषि रक्तः प्रतिहतो वा । चित्तभ्रान्त्या तदात्मना सर्वमेव ग्राह्यं प्रतिपद्यते । मिथ्याज्ञानमज्ञानमेव । अविदर्थस्य इति किम् ? स्वरेण पुत्रं जानाति ॥ ____________________________________________________________________ अधीगर्थदयेशां कर्मणि ॥ २,३.५२ ॥ _____ काशिकावृत्तिः२,३.५२: शेषे इति वर्तते । अधीगर्थाः स्मरनार्थाः, दय दानगतिरक्षनेषु, ईश एश्वर्ये, एतेषं कर्मणि कारके शेषत्वेन विवक्षिते षष्ठी विभक्तिर्भवति । मातुरध्येति । मातुः समरति । सर्पिषो द्यते । सर्पिष ईष्टे । मधुन ईष्टे । कर्मणि इत्येव, मातुर्गुणैः स्मरति । शेषे किम् ? मातरं स्मरति ॥ ____________________________________________________________________ कृञः प्रतियत्ने ॥ २,३.५३ ॥ _____ काशिकावृत्तिः२,३.५३: सतो गुणान्तराधानं प्रतियत्नः । करोतेः कर्मणि कारके शेषत्वेन विवक्षिते प्रतियत्ने गम्यमाने षष्ठी विभक्तिर्भवति । एधोदकस्योपस्कुरुते । शस्त्रपत्रस्योपस्कुरुते प्रतियत्ने इति किम् ? कटं करोति । कर्मणि इति किम् ? एधोदकस्योपस्कुरुते प्रज्ञया । शेषे इत्येव, एधोदकमुपस्कुरुते ॥ ____________________________________________________________________ [॰१४६] रुजार्थानां भाववचनानामज्वरेः ॥ २,३.५४ ॥ _____ काशिकावृत्तिः२,३.५४: रुजार्थानां धातूनां भाववचनानां भावकर्तृकाणां ज्वरिवर्जितानां कर्मणि कारके शेषत्वेन विवक्षिते षष्ठी विभक्तिर्भवति । चौरस्य रुजति रोगः । चौरस्यामयत्यामयः । रुजार्थानामिति किम् ? एति जीवन्तमानन्दो नरं वर्षशतादपि । जीव पुत्रक मा मैवं तपः साहसमाचर ॥ भाववचनानामिति किम् ? नदी कूलानि रुजति । अज्वरेः इति किम् ? चौरं ज्वरयति ज्वरः । अज्वरिसन्ताप्योरिति वक्तव्यं । चौरं सन्तापयति तापः । शेषे इत्येव, चौरं रुजति रोगः ॥ ____________________________________________________________________ आशिषि नाथः ॥ २,३.५५ ॥ _____ काशिकावृत्तिः२,३.५५: नाथृ नाधृ याच्ञोपतापैश्वर्याशीःषु पथ्यते, तस्याशीःक्रियस्य कर्मणि कारके शेषत्वेन विवक्षिते षष्ठी विभक्तिर्भवति । सर्पिषो नाथते । मधुनो नाथते । आशिषि इति किम् ? मानवकमुपनाथति अङ्ग पुत्रकाधीष्व ॥ ____________________________________________________________________ जासिनिप्रहणनाटक्राथपिषां हिंसायाम् ॥ २,३.५६ ॥ _____ काशिकावृत्तिः२,३.५६: जासि निप्रहण नाट क्राथ पिषित्येतेषां धातूनां हिंसाक्रियाणां कर्मणि कारके षष्ठी विभक्तिर्भवति । जसु हिंसायाम्, जसु ताडने इति च चुरादौ पठ्यते, तस्य+इदं ग्रहणं, न दैवादिकस्य जसु मोक्षणे इत्यस्य । चौरस्य+उज्जासयति । वृषलस्य+उज्जासयति । निप्रहण इति सग्घातविगृहीतविपर्यस्तस्य ग्रहणम् । चौरस्य निप्रहति । चौरस्य निहन्ति । चौरस्य प्रहन्ति । चौरस्य प्रणिहन्ति । चौरस्य+उन्नाटयति । वृषलस्य+उन्नाटयति । चौरस्य+उत्क्राथायति । वृषलस्य क्राथयति । निपातनाद्वृद्धिः । अयं हि घटादौ पठ्यते, श्रथ क्नथ क्रथ क्लथ हिंसार्थाः इति । तत्र घटादयो मितः इति मित्सञ्ज्ञायां मितां ह्रस्वः (*६,४.९२) इति ह्रस्वत्वं स्यात् । चौरस्य पितष्टि । वृषलस्य पिनष्टि । हिंसायामिति किम् ? धानाः पिनष्टि । शेषे इत्येव, चौरमुज्जासयति । एशामिति किम् ? चौरं हिनस्ति । निप्रहण इति किम् ? चौरं विहन्ति ॥ ____________________________________________________________________ [॰१४७] व्यवहृपणोः समर्थयोः ॥ २,३.५७ ॥ _____ काशिकावृत्तिः२,३.५७: व्यवहृ पण इत्येतयोः समर्थयोः समानार्थयोः कर्मणि कारके षष्ठी विभक्तिर्भवति । द्यूते क्रयविक्रयव्यवहारे च समानार्थत्वमनयोः । शतस्य व्यवहरति । सहस्रस्य व्यवहरति । शतस्य पणते । सहस्रस्य पणते । आयप्रत्ययः कस्मान्न भवति ? स्तुत्यर्थस्य पनतेरायप्रत्यय इष्यते । समर्थयोः इति किम् ? शलाकां व्यवहरति । विक्षिपति इत्यर्थः व्राहमणान् पणायते । स्तौति इत्यर्थः । शेषे इत्येव, शतं पणते ॥ ____________________________________________________________________ दिवस्तदर्थस्य ॥ २,३.५८ ॥ _____ काशिकावृत्तिः२,३.५८: व्यवहृपणिसमानार्थस्य दीव्यतेः कर्मणि षष्ठी विभक्तिर्भवति । शतस्य दीव्यति । सहस्रस्य दीव्यति । तदर्थस्य इति किम् ? ब्राह्मनं दीव्यति । योगविभाग उत्तरार्थः ॥ ____________________________________________________________________ विभाषोपसर्गे ॥ २,३.५९ ॥ _____ काशिकावृत्तिः२,३.५९: दिवस्तदर्थस्य (*२,३.५८) इति नित्यं षष्ठ्यां प्राप्तायां सोपसर्गस्य विकल्प उच्यते । उपसर्गे सति दिवस्तदर्थस्य कर्मणि कारके विभाषा षष्ठी विभक्तिर्भवति । शतस्य प्रतिदीव्यति । सहस्रस्य प्रतिदीव्यति । शतं प्रतिदीव्यति । सहस्रं प्रतिदीव्यति । उपसर्गे इति किम् ? शतस्य दीव्यति । तदर्थस्य इत्येव शलाकां प्रतिदीव्यति ॥ ____________________________________________________________________ द्वितीया ब्राह्मणे ॥ २,३.६० ॥ _____ काशिकावृत्तिः२,३.६०: ब्राह्मणविषये प्रयोगे दिवस्तदर्थस्य कर्मणि कारके द्वितीया विभक्तिर्भवति । गामस्य तदहः सभायां, दीव्येयुः । अनुपसर्गस्य षष्ठ्यां प्राप्तायामिदं वचनम् । सोपसर्गस्य तु छन्दसि व्यवस्थितविभाशायाऽपि सिध्यति ॥ ____________________________________________________________________ प्रेष्यब्रुवोर्हविषो देवतासम्प्रदाने ॥ २,३.६१ ॥ _____ काशिकावृत्तिः२,३.६१: प्रेष्य इति इष्यतेर्दैवादिकस्य लोण्मध्यमपुरुषस्य+एकवचनम्, तत्साहचर्याद्ब्रुविरपि तद्विषय एव गृह्यते । प्रेष्यब्रुवोर्हविषः कर्मणः षष्थी विभक्तिर्भवति देवतासम्प्रदाने सति । अग्नये छागस्य हविषो वपाया मेदसः प्रे३ष्य । अग्नये छागस्य हविषो वपायै मेदसोऽनुब्रूहि३ । प्रेष्यब्रुवोः इति किम् ? अग्नये छागं हविर्वपां मेदो जुहुधि । हविषः इति किम् ? अग्नये गोमयानि प्रेष्य । देवतासम्प्रदाने इति किम् ? माणवकाय पुरोडाशं प्रेष्य । हविषः प्रस्थितस्य प्रतिषेधो वक्तव्यः । इन्द्राग्निभ्यां छागं हविर्वपां मेदः प्रस्थितं प्रेष्य३ ॥ ____________________________________________________________________ [॰१४८] चतुर्थ्यर्थे बहुलं छन्दसि ॥ २,३.६२ ॥ _____ काशिकावृत्तिः२,३.६२: छन्दसि विषये चतुर्थ्यर्थे षष्थी विभक्तिर्भवति बहुलम् । पुरुषमृगश्चन्द्रमसः । पुरुषमृगश्चन्द्रमसे । गोधा कालका दार्वाघाटस्ते वनस्पतीनाम् । ते वनस्पतिभ्यः । बहुलग्रहणं किम् ? कृष्णो रात्र्यै । हिमवते हस्ती । षष्ठ्यर्थे चतुर्थी वक्तव्या । या खर्वेण पिवति तस्यै खर्वो जायते । या दतो धावते तस्यै श्यावदन् । या नखानि निकृन्तते तस्यै कुनखी । याऽङ्क्ते तस्यै काणः । याऽभ्यङ्क्ते तस्यै दुश्चर्मा । या केशान् प्रलिखते तस्यै खलतिः । अहल्यायै जारः ॥ ____________________________________________________________________ यजेश्च करणे ॥ २,३.६३ ॥ _____ काशिकावृत्तिः२,३.६३: यजेर्धातोः करणे कारके छन्दसि बहुलं षष्थी विभक्तिर्भवति । घृतस्य यजते, घृतेन यजते । सौम्यस्य यजते, सोमेन यजते ॥ ____________________________________________________________________ कृत्वोऽर्थप्रयोगे कालेऽधिकरणे ॥ २,३.६४ ॥ _____ काशिकावृत्तिः२,३.६४: छन्दसि बहुलमिति निवृत्तम् । कृत्वोऽर्थानां प्रयोगे कालेऽधिकरणे षष्ठी विभक्तिर्भवति । पञ्चकृत्वोऽह्नो भुङ्क्ते । द्विरह्नोऽधीते । कृत्वोऽर्थग्रहणं किम् ? आह्नि शेते । रात्रौ शेते । प्रयोगग्रहणं किम् ? अहनि भुक्तम् । गम्यते हि द्विस्त्रश्चतुर्वेति, न त्वप्रयुज्यमाने भवति । कालग्रहणं किम् ? द्विः कांस्यपात्र्यां भुङ्क्ते । अधिकरणे इति किम् ? द्विरह्नो भुङ्क्ते । शेषे इत्येव, द्विरहन्यधीते ॥ ____________________________________________________________________ कर्तृकर्मणोः कृति ॥ २,३.६५ ॥ _____ काशिकावृत्तिः२,३.६५: कृत्प्रयोगे कर्तरि कर्मणि च षष्ठी विभक्तिर्भवति । भवतः शायिका । भवत आसिका । कर्मणिअपां स्रष्टा । पुरां भेत्ता । वज्रस्य भर्ता । कर्तृकर्मणोः इति किम् ? शस्त्रेण भेत्ता । कृति इति किम् ? तद्धितप्रयोगे मा भूत्, कृतपूर्वी कटम् । भुक्तपूर्व्योदनम् । शेषे इति निवृत्तम्, पुनः कर्मग्रहणात् । इतरथा हि कर्तरि च कृति इत्येवं ब्रूयात् ॥ ____________________________________________________________________ [॰१४९] उभयप्राप्तौ कर्मणि ॥ २,३.६६ ॥ _____ काशिकावृत्तिः२,३.६६: पूर्वण षष्ठी प्राप्ता नियम्यते । उभयप्राप्तौ इति बहुव्रीहिः । उभयोः प्राप्तिर्यस्मिन् कृति, सोऽयमुभयप्राप्तिः । तत्र कर्मण्येव षष्थी विभक्तिर्भवति, न कर्तरि । आश्चर्यो गवां दोहोऽगोपालकेन । रोचते मे ओदनस्य भोजनं देवदत्तेन । साधु खलु पयसः पानं यज्ञदत्तेन । बहुव्रीहिविज्ञानादिह नियमो न भवति, आश्चर्यमिदमोदनस्य नाम पाको ब्राह्मणानं च प्रादुर्भावः इति । अकाकारयोः स्त्रीप्रत्यययोः प्रयोगे न+इति वक्तव्यम् । भेदिका देवदत्तस्य काष्ठानाम् । चिकिर्षा देवदत्तस्य कटस्य । शेषे विभाषा । अकाकारयोः स्त्रीप्रत्यययोर्ग्रहनात्तदपेक्षया शेषः स्त्रीप्रत्यय एव गृह्यते । शोभना हि सूत्रस्य कृतिः पाणिनेः पाणिनिना वा । केचिदविशेषेणैव विभाषामिच्छन्ति, शब्दानामनुशासनमाचार्यण आचार्यस्य इति वा ॥ ____________________________________________________________________ क्तस्य च वर्तमाने ॥ २,३.६७ ॥ _____ काशिकावृत्तिः२,३.६७: न लोउकाव्यय. निष्ठाखलर्थतृनाम् (*२,३.६९) इति प्रतिषेधे प्राप्ते पुनः षष्ठी विधीयते । क्तस्य वर्तमानकालविहितस्य प्रयोगे षष्ठी विभक्तिर्भवति । रज्ञां मतः । राज्ञां बुद्धः । राज्ञां पूजितः । क्तस्य इति किम् ? ओदनं पचमानः । वर्तमाने इति किम् ? ग्रामं गतः । नपुंसके भाव उपसङ्ख्यानम् । छात्रस्य हसितम् । मयूरस्य नृत्तम् । कोकिलस्य व्याहृतम् । शेषविज्ञानात्सिद्धम् । तथा च कर्तृविवक्षायां तृतीयाऽपि भवति, छाअत्रेण हसितमिति ॥ ____________________________________________________________________ [॰१५०] अधिकरणवाचिनश्च ॥ २,३.६८ ॥ _____ काशिकावृत्तिः२,३.६८: क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः (*३,४.७६) इति वक्ष्यति । तस्य प्रयोगे षष्ठी विभक्तिर्भवति । अयमपि प्रतिषेधापवादो योगः । इदमेषामासितम् । इदमेषां शयितम् । इदं हेः सृप्तम् । इदं वनकपेर्यातम् । इदमेषां भुक्तम् । इदमेषामशितम् । द्विकर्मकाणां प्रयोगे कर्तरि कृति द्वयोरपि षष्ठी द्वितीयावत् । नेताऽश्वस्य ग्रामस्य चैत्रः । अन्ये प्रधाने कर्मण्याहुः । तदा, नेताऽश्वस्य ग्रामं चैत्रः ॥ ____________________________________________________________________ न लोउकाव्ययनिष्ठाखलर्थतृनाम् ॥ २,३.६९ ॥ _____ काशिकावृत्तिः२,३.६९: कर्तृकर्मणोः कृति (*२,३.६५) इति प्राप्ता षष्ठी प्रतिषिध्यते । ल उ उक अव्यय निष्ठा खलर्थ तृनित्येतेषां प्रयोगे षष्ठी विभक्तिर्न भवति । ल इति शतृशानचौ, कानच्क्वसू, किकिनौ च गृह्यन्ते । ओदनं पचन् । ओदनं पचमानः । ओदनं पेचानः । ओदनं पेचिवान् । पपिः सोमं ददिर्गाः । उ कटं चिकीर्षुः । ओदनं बुभुक्षुः । कन्यामलङ्करिष्णुः । इष्णुचोऽपि प्रयोगे निषेधः । उक आगामुकं वाराणसीं रक्ष अहुः । उकप्रतिषेधे कमेर्भाषायामप्रतिषेधः । दास्याः कामुकः । अव्यय कटं कृत्वा । ओदनं भुक्त्वा । अव्ययप्रतिषेधे तोसुङ्कसुनोरप्रतिषेधः । व्युष्टायां पुरा सूर्यस्योदेतोरधेयः । पुरा क्रूरस्य विसृपो विरप्शिन् । निष्ठा ओदनं बुक्तवान् । देवदत्तेन कृतम् । खलर्थ ईषत्करः कटो भवता । ईषत्पानः सोमो भवता । तृनिति प्रयाहारग्रहणम् । लटः शतृशानचावप्रथमा. समानाधिकरणे (*३,२.१२४) इत्यारभ्य आ तृनो नकारात् । तेन शानञ्चानश्शतृतृनामपि प्रतिषेधो भवति । सोमं पवमानः । नडमाघ्नानः । अधीयन् पारायनम् । कर्ता कटान् । वदिता जनापवादान् । द्विषः शतुर्वाव्चनम् । चौरं द्विषन्, चौरस्य द्विषन् ॥ ____________________________________________________________________ [॰१५१] अकेनोर्भविष्यदाधमर्ण्ययोः ॥ २,३.७० ॥ _____ काशिकावृत्तिः२,३.७०: अकस्य भविष्यति काले विहितस्य, इनस्तु भविष्यति चाधमर्ण्ये च विहितस्य प्रयोगे षष्थी विभक्तिर्न भवति । कटं कारको व्रजति । ओदनं भोजको व्रजति । इनः खल्वपि ग्रामं गमी । ग्रामं गामी । शतं दायी । सहस्रं दायी । भविष्यदाधमर्ण्ययोः इति किम् ? यवनां लावकः । सक्तूनां पायकः । अवश्यंकारी कटस्य । इह कस्मान्न भवति, वर्षशतस्य पूरकः, पुत्रपौत्राणां दर्शकः इति ? भविष्यदधिकारे विहितस्य अकस्य+इदं ग्रहणम् ॥ ____________________________________________________________________ कृत्यानां कर्तरि वा ॥ २,३.७१ ॥ _____ काशिकावृत्तिः२,३.७१: कर्तृकर्मणोः कृति (*२,३.६५) इति नित्यं षष्थी प्राप्ता कर्तरि विकल्प्यते । कृत्यानां प्रयोगे कर्तरि वा षष्ठी विभक्तिर्भवति, न कर्मणि । भवता कटः कर्तव्यः, भवतः कटः कर्तव्यः । कर्तरि इति किम् ? गेयो माणवकः साम्नाम् । उभयप्राप्तौ कृत्ये षष्ठ्याः प्रतिषेधो वक्तव्यः । क्रष्टव्या ग्रामं शाखा देवदत्तेन । नेतव्या ग्राममजा देवदत्तेन ॥ ____________________________________________________________________ तुल्यार्थैरतुलोपमाभ्यां तृतीयाऽन्यतरस्याम् ॥ २,३.७२ ॥ _____ काशिकावृत्तिः२,३.७२: तुल्यार्थैः शब्दैर्योगे तृतीया विभक्तिर्भवत्यन्यतरस्याम्, पक्षे षष्थी च, तुलोपमाशब्दौ वर्जयित्वा । शेषे विषये तृतीयाविधानात्तया मुक्ते षष्थ्येव भवति । तुल्यो देवदत्तेन, तुल्यो देवदत्तस्य । सदृशो देएवदत्तेन, सदृशो देवदत्तस्य । अतुलोपमाभ्यामिति किम् ? तुला देवदत्तस्य न अस्ति । उपमा कृष्णस्य न विद्यते । वा इति वर्तमानेऽन्यतरस्यां ग्रहनमुत्तरसूत्रे तस्य चकारेन अनुकर्षणार्थम् । इतरथा हि तृतीयाऽनुकृष्येत ॥ ____________________________________________________________________ चतुर्थी च आशिष्यायुष्यमद्रभद्रकुशलसुखार्थहितैः ॥ २,३.७३ ॥ _____ काशिकावृत्तिः२,३.७३: आशिषि गयमानायामायुष्य मद्र भद्र कुशल सुख अर्थ हित इत्येतैर्योगे चतुर्थी विभक्तिर्भवति । चकारो विकल्पानुकर्षणार्थः । शेषे चतुर्थीविधानात्तया मुक्ते षष्ठी विभक्तिर्भवति । अत्र आयुष्यादीनां पर्यायग्रहणं कर्तव्यम् । आयुष्यं देवदत्ताय भूयात्, आयुष्यं देवदत्तस्य भूयात् । चिरं जीवितं देवदत्ताय देवदत्तस्य वा भुयात् । [॰१५२] मद्रं देवदत्ताय देवदत्तस्य वा भूयात् । भद्रं देवदत्ताय, भद्रं देवदत्तस्य । कुशलं देवदत्ताय, कुशलं देवदत्तस्य । निरामयं देवदताय, निरामयं देवदत्तस्य । सुखं देवदत्ताय, सुखं देवदत्तस्य । शं देवदत्ताय, शं देवदत्तस्य । अर्थो देवदत्ताय, अर्थो देवदत्तस्य । प्रयोजनं देवदत्ताय, प्रयोजनं देवदत्तस्य । हितं देवदताय, हितं देवदत्तस्य । पथ्यं देवदत्ताय, पथ्यं देवदत्तस्य । आशिषि इति किम् ? आयुष्यं देवदत्तस्य तपः ॥ इति श्रीजयादित्यविरचितायां काशिकायां वृत्तौ द्वितीयाध्यायस्य तृतीयः पादः ॥ द्वितीयाध्यायस्य चतुर्थः पादः । ____________________________________________________________________ [॰१५३] द्विगुरेकवचनम् ॥ २,४.१ ॥ _____ काशिकावृत्तिः२,४.१: द्विगुः समासः एकवचनं भवति । एकस्य वचनमेकवचनम् । एकस्य अर्थस्य वाचको भवति इत्यर्थः । तदनेन प्रकारेण द्विग्वर्थस्य+एकवद्भावो विधीयते, द्विग्वर्थ एकवद्भवति इति । समाहारद्विगोश्च+इदं ग्रहणम्, न अन्यस्य । पञ्चपूलाः समाहृताः पञ्चपूली । दशपूली । द्विग्वर्थस्य्)अ ए)कत्वादनुप्रयोगेऽप्येकवचनं भवति, पञ्चपूलीयं शोभना इति ॥ ____________________________________________________________________ द्वन्द्वश्च प्राणितूर्यसेनाङ्गानाम् ॥ २,४.२ ॥ _____ काशिकावृत्तिः२,४.२: एकवचनमिति वर्तते । अङ्गशब्दस्य प्रत्येकं वाक्यपरिसमाप्त्या त्रीणि वाक्यानि सम्पद्यन्ते । प्राण्यङ्गानां द्वन्द्व एकवद्भवति, तथा तूर्याङ्गानां सेनाङ्गानां च । प्राण्यङ्गानां तावत् पाणिपादम् । शिरोग्रीवम् । तूर्याङ्गानाम् मार्दङ्गिकपाणविकम् । वीणावदकपरिवादकम् । सेनाङ्गानाम् रथिकाश्वारोहम् । रथिकपादातम् । हस्त्यश्वादिषु परत्वात्पशुद्वन्द्वे विभाषया एअक्वद्भवति । इतरेतरयोगे समहारे च द्वन्द्वो विहितः । तत्र समाहारस्य+एकत्वात्सिद्धमेव+एकवचनम् । इदं तु प्रकरणं विषयविभागार्थम्, प्राण्यङ्गादीनां समाहार एव द्वन्द्वः, दधिपयादीनामितरेतरयोग एव, वृक्षमृगादीनामुभयत्र इति ॥ ____________________________________________________________________ अनुवादे चरणानाम् ॥ २,४.३ ॥ _____ काशिकावृत्तिः२,४.३: चरणशब्दः शाखानिमित्तकः पुरुषेषु वर्तते । चरणानां द्वन्द्वः एकवद्भवति अनुवादे गम्यमाने । प्रमाणान्तरावगतस्य अर्थस्य शब्देन सङ्कीर्तनमात्रमनुवादः । उदगाद्कठकालापम् । प्रत्यष्ठात्कठकौथुमम् । कठकालापादीनामुदयप्रतिष्ठे प्रमाणान्तरवगते यदा पुनः शब्देन अनूद्येते तदा+एवमुदाहरणम् । यदा तु प्रथमत एव+उपदेशस्तदा प्रत्युदाहरणम् । अनुवादे इति किम् ? उदगुः कठकालापाः । प्रत्यष्ठुः कठकौथुमाः । स्थेणोरद्यतन्यां चेति वक्तव्यम् । स्थेणोः इति किम् ? अनन्दिषुः कठकालापाः । अद्यतन्यामिति किम् ? उद्यन्ति कथकालापाः ॥ ____________________________________________________________________ अध्वर्युक्रतुरनपुंसकम् ॥ २,४.४ ॥ _____ काशिकावृत्तिः२,४.४: अध्वर्युवेदे यस्य क्रतोर्विधानं सोऽध्वर्युक्रतुः । अध्वर्युक्रतुवाचिनां शब्दानामनपुंसकलिङ्गानां द्वन्द्वः एकवद्भवति । अध्वर्युक्रतुरनपुंसकं द्वन्द्वः इति गौणो निर्देशः । अर्काश्वमेधम् । सायाह्नातिरात्रम् । अध्वर्युक्रतुः इति किम् ? इषुवज्रौ । उद्भिद्बलभिदौ । अनपुंसकमिति किम् ? राजसूयवाजपेये । इह कस्मान्न भवति, दर्शपौर्णमासौ ? क्रतुशब्दः सोमयागेषु रूढः ॥ ____________________________________________________________________ [॰१५४] अध्ययनतोऽविप्रकृष्टाख्यानाम् ॥ २,४.५ ॥ _____ काशिकावृत्तिः२,४.५: अध्ययनेन निमित्तेन येषामविप्रकृष्टा प्रत्यासन्ना आख्या, तेषां द्वन्द्वः एकवद्भवति । पदकक्रमकम् । क्रमकवार्तिकम् । सम्पाठः पदानां क्रमस्य च प्रत्यासन्नः । अध्ययनतः इति किम् ? पितापुत्रौ । अविप्रकृष्टाख्यानामिति किम् ? याज्ञैकवैयाकरणौ ॥ ____________________________________________________________________ जातिरप्राणिनाम् ॥ २,४.६ ॥ _____ काशिकावृत्तिः२,४.६: जातिवाचिनां शब्दानां द्वन्द्व एकवद्भवति प्राणिनो वर्जयित्वा । आराशस्त्रि । धानाशष्कुलि । जातिः इति किम् ? नन्दकपाञ्चजन्यौ । अप्राणिनामिति किम् ? ब्राह्मणक्षत्रियविट्शूद्राः । नञिवयुक्तन्यायेन द्रव्यजातीनामयमेकवद्भावः, न गुणक्रियाजातीनाम् । रूपरसगन्धस्पर्शाः । गमनाकुञ्चनप्रसारणानि । जाति परत्वे च जातिशब्दानामयमेकवद्भावो विधीयते, न नियतद्रव्यविवक्षायाम् इह कुण्डे बदरामलकानि तिष्ठन्ति इति ॥ ____________________________________________________________________ विशिष्टलिङ्गो नदी देशोऽग्रामाः ॥ २,४.७ ॥ _____ काशिकावृत्तिः२,४.७: विशिष्तलिङ्गानां भिन्नलिङ्गानां नदीवाचिनां शब्दानां देशवचिनां च ग्रामवर्जितानं द्वन्द्व एकवद्भवति । नद्यवयवो द्वन्द्वो नदी इत्युच्यते । देशावयवश्च देशः । नदी देशः इत्यसमासनिर्देश एव अयम् । उद्ध्यश्च इरावती च उद्ध्येरावति । गङ्गाशोणम् । देशः खल्वपि कुरवश्च कुरुक्षेत्रं च कुरुकुरुक्षेत्रम् । कुरुकुरुजाङ्गलम् । विशिष्टलिङ्गः इति किम् ? गङ्गायमुने । मद्रकेकयाः । नदी देशः इति किम् ? कुक्कुटमयूर्यौ । अग्रामाः इति किम् ? जाम्बवश्च शालूकिनी च जाम्बवशालूकिन्यौ । नदीग्रहणमदेशत्वात् । जनपदो हि देशः । तथा च पर्वतानां ग्रहणं न भवति, कैलासश्च गन्धमादनं च कैलासगन्धमादने । अग्रामा इत्यत्र नगरानां प्रतिषेधो वक्तव्यः । इह मा भूत्, मथुरा च पाटलिपुत्रं च मथुरापाटलिपुत्रम् । उभयतश्च ग्रामाणां प्रतिषेधो वक्तव्यः । सौर्यं च नगरं, केतवतं च ग्रामः सौर्यकेतवते ॥ ____________________________________________________________________ [॰१५५] क्षुद्रजन्तवः ॥ २,४.८ ॥ _____ काशिकावृत्तिः२,४.८: अपचितपरिमाणः क्षुद्रः । क्ष्रुद्र जन्तुवाचिनां द्वन्द्वः एकवद्भवति । दंशमशकम् । यूकालिक्षम् । क्षुद्रजन्तवः इति किम् ? ब्राह्मणक्षत्रियौ । क्षुद्रजन्तुरनस्थिः स्यादथ वा क्षुद्र एव यः । शतं वा प्रसुऋतौ येषां केचिदा नकुलादपि ॥ आ नकुलादपि इति इयमेव स्मृतिः प्रमाणम्, इतरासां तद्विरोधात् ॥ ____________________________________________________________________ येषां च विरोधः शाश्वतिकः ॥ २,४.९ ॥ _____ काशिकावृत्तिः२,४.९: विरोधो वैरम् । शाश्वतिको नित्यः । येषां शाश्वतिको विरोधः तद्वाचिनां शब्दानां द्वन्द्व एकवद्भवति । मार्जारमूषकं । अहिनकुलम् । शाश्वतिकः इति किम् ? गौपालिशालङ्कायनाः कलहायन्ते । चकारः पुनरस्य+एव समुच्चयार्थः । तेन पशुशकुनिद्वन्द्वे विरोधिनामनेन नित्यमेकवद्भावो भवति अश्वमहिषम् । श्वशृगालम् । काकोलूकम् ॥ ____________________________________________________________________ शूद्राणामनिरवसितानाम् ॥ २,४.१० ॥ _____ काशिकावृत्तिः२,४.१०: निरवसानं बहिष्करणम् । कुतो बहिष्करणम् ? पात्रात् । यैर्भुक्ते पात्रं संस्कारेण अपि न शुध्यति ते निरवसिताः । न निरवसिताः अनिरवसिताः । अनिरवसितशूद्रवाचिनां शब्दानां द्वन्द्व एकवद्भवति । तक्षायस्कारम् । रजकतन्तुबायम् । अनिरवसितानामिति किम् ? चण्डालमृतपाः ॥ ____________________________________________________________________ गवाश्वप्रभृतीनि च ॥ २,४.११ ॥ _____ काशिकावृत्तिः२,४.११: गवाश्वप्रभृतीनि च कृतैकवद्भावनि द्वन्द्वरूपाणि साधूनि भव्न्ति । गवाश्वम् । गवाविकम् । गवैडकम् । अजाविकम् । अजैडकम् । कुब्जवामनम् । कुब्जकैरातकम् । पुत्रपौत्रम् । श्वचण्डालम् । स्त्रीकुमारम् । दासीमाणवकम् । शाटीपिच्छकम् । उष्ट्रखरम् । उष्त्रशशम् । मूत्रशकृत् । मूत्रपुरीषम् । यकृन्मेदः । मांसशोणितम् । दर्भशरम् । दर्भपूतीकम् । अर्जुनशिरीषम् । तृणोलपम् । दासीदासम् । कुटीकुटम् । भागवतीभागवतम् । गवाश्वप्रभृतिषु यथोच्चारितं द्वन्द्ववृत्तम् । रूपान्तरे तु न अयं विधिर्भवति । गोऽश्वम्, गोऽश्वौ । पशुद्वन्द्वविभाषा+एव भवति ॥ ____________________________________________________________________ [॰१५६] विभाषा वृक्षमृगतृणधान्यव्यञ्जनपशुशकुन्यश्ववडवपूर्वापराधरोत्तराणाम् ॥ २,४.१२ ॥ _____ काशिकावृत्तिः२,४.१२: वृक्ष मृग तृण धन्य व्यञ्जन पशु शकुनि अश्ववडव पूर्वापर अधरोत्तर इत्येतेषां द्वन्द्वो विभाषा एकवद्भवति । प्लक्षन्यग्रोधम्, प्लक्षन्यग्रोधाः । रुरुपृषतम्, रुरुपृषताः । कुशकाशम्, कुशकाशाः । व्रीहियवम्, व्रीहियवाः । दधिघृतम्, दधिघृते । गोमहिषम्, गोमहिषाः । तित्तिरिकपिञ्जलम्, तित्तिरिकपिञ्जलाः । अश्ववडवम्, अश्ववडवौ । पूर्वापरम्, पूर्वाप्रे । अधरोत्तरम्, अधरोत्तरे । बहुप्रकृतिः फलसेनावनस्पतिमृगशकुनिक्षुद्रजन्तुधान्यतृणानाम् । एषां बहुप्रकृतिरेव द्वन्द्व एकवद्भवति, न द्विप्रकृतिः । बदरामलके । रथिकाश्वारोहौ । प्लक्षन्यग्रोधौ । रुरुपृषतौ । हंसचक्रवाकौ । यूकालिक्षे व्रीहियवौ । कुशकाशौ ॥ ____________________________________________________________________ विप्रतिषिद्धं च अनधिकरणवाचि ॥ २,४.१३ ॥ _____ काशिकावृत्तिः२,४.१३: परस्परविरुद्धं विप्रतिषिद्धम् । विप्रतिषिद्धार्थानां शब्दानामनधिकरणवाचिनामद्रव्यवाचिनां द्वन्द्व एकवद्भवति । विभाषानुकर्षणार्थश्चकारः । शीतोष्णम्, शीतोष्णे । सुखदुःखम्, सुखदुःखे । जीवितमरणम्, जीवितमरणे । विप्रतिषिद्धमिति किम् ? कामक्रोधौ । अनधिकरणवाचि इति किम् ? शीतोष्णे उदके ॥ ____________________________________________________________________ न दधिपयादीनि ॥ २,४.१४ ॥ _____ काशिकावृत्तिः२,४.१४: यथायथमेकवद्भावे प्राप्ते प्रतिषेध आरभ्यते । दधिपयादिनि शब्दरूपाणि न+एकवद्भवन्ति । दधिपयसी । सर्पिर्मधुनी । मधुसपिषी । ब्रह्मप्रजापती । शिववैश्रवणौ । स्कन्दविशाखौ । परिव्राट्कौशिकौ प्रवर्ग्योपसदौ । शौक्लकृष्णौ । इध्माबर्हिषी । निपातनाद्दीर्घः । दीक्षातपसी । श्रद्धातपसी । मेधातपसी । अध्ययनतपसी । उलूखलमुसले । आद्यावसाने । श्रद्धामेधे । ऋक्षामे । वाङ्मनसे ॥ ____________________________________________________________________ अधिकरनैतावत्त्वे च ॥ २,४.१५ ॥ _____ काशिकावृत्तिः२,४.१५: न इति वर्तते । अधिकरणं वर्तिपदार्थः । स हि समासस्य अर्थस्य अधारः । तस्य+एतावत्त्वे परिमाणे गम्यमाने द्वन्द्वो न+एकवद्भवति । यथायथमेकवद्भावः प्राप्तः प्रतिषिध्यते । दश दन्तोष्ठाः । दश मार्दङ्गिकपाणविकाः ॥ ____________________________________________________________________ [॰१५७] विभाषा समीपे ॥ २,४.१६ ॥ _____ काशिकावृत्तिः२,४.१६: अधिकरणैतावत्त्वस्य समीपे विभाषा द्वन्द्वः एकवद्भवति । उपदशं दन्तोष्ठम्, उपदशाः दन्तोष्ठाः । उपदशं मार्दङ्गिकपाणविकम्, उपदशा मार्दङ्गिकपाणविकाः । अव्ययस्य सङ्ख्यया+अव्ययीभावोऽपि विहितः, बहुव्रीहिरपि । तत्र+एकवद्भावपक्षेऽव्ययीभावोऽनुप्रयुज्यते, इतरत्र बहुव्रीहिः ॥ ____________________________________________________________________ स नपुंसकम् ॥ २,४.१७ ॥ _____ काशिकावृत्तिः२,४.१७: यस्य अयमेकवद्भावो विहितः स नपुंसकलिङ्गो भवति द्विगुर्द्वन्द्वश्च । पञ्चगवम् । दशगवम् । द्वन्द्वः खल्वपि पाणिपादम् । शिरोग्रीवम् । परलिङ्गतापवादो योगः । अकारान्तोत्तरपदो द्विगुः स्त्रियां भाष्यते । पञ्चपूली । दशरथी । वा+आबन्तः स्त्रियामिष्टः । पञ्चखट्वम्, पञ्चखट्वी । अनो नलोपश्च वा च द्विगुः स्त्रियाम् । पञ्चतक्षम्, पञ्चतक्षी । पात्रादिभ्यः प्रतिषेधो वक्तव्यः । पञ्चपात्रम् । चतुर्युगम् । त्रिभुवनम् ॥ ____________________________________________________________________ अव्ययीभावश्च ॥ २,४.१८ ॥ _____ काशिकावृत्तिः२,४.१८: अव्ययीभावश्च समासो नपुंसकलिङ्गो भवति । अधिस्त्रि । उपकुमारि । उन्मत्तगङ्गम् । लोहितगङ्गम् । पूर्वपदार्थप्रधानस्य अलिङ्गता+एव प्राप्ता, अन्यपदार्थप्रधानस्य अभिधेयवल्लिङ्गता, अत इदमुच्यते । अनुक्तसमुच्चयार्थश्चकारः । [॰१५८] पुण्यसुदिनाभ्यामह्नः क्लीबतेष्यते । पुण्याहम् । सुदिनाहम् । पथः सङ्ख्याव्ययादेः क्लीबतेष्यते । त्रिपथम् । चतुष्पथम् । विपथम् । सुपथम् । क्रियाविशेषणानां च क्लीबतेष्यते । मृदु पचति । शोभनं पचति । ____________________________________________________________________ तत्पुरुषोऽनञ्कर्मधारयः ॥ २,४.१९ ॥ _____ काशिकावृत्तिः२,४.१९: अधिकारोऽयमुत्तरसूत्रेषु उपतिष्ठते । नञ्समासं कर्मधारयं च वर्जयित्वाऽन्यस्तत्पुरुषो नपुंसकलिङ्गो भवति इत्येतदधिकृतं विदितव्यम्, यदित ऊर्ध्वमनुक्रमिष्यामस्तत्र । वक्ष्यति विभाषा सेनासुराच्छायाशालानिशानाम् (*२,४.२५) । ब्राह्मणसेनम्, ब्राह्मणसेना । तत्पुरुषः इति किम् ? दृढसेनो राजा अनञिति किम् ? असेना । अकर्मधार्यः इति किम् ? परमसेना ॥ ____________________________________________________________________ सञ्ज्ञायां कन्तोशीनरेषु ॥ २,४.२० ॥ _____ काशिकावृत्तिः२,४.२०: सञ्ज्ञायां विषये कन्थानतस्तत्पुरुषो नपुंसकलिङ्गो भवति, सा चेत्कन्था उशीनरेसु भवति । सौशमिकन्थम् । आह्वरकन्थम् । सञ्ज्ञायामिति किम् ? वीरणकन्था । उशीनरेषु इति किम् ? दाक्षिकन्था । परविल्लिङ्गता पवाद इदं प्रकरनम् ॥ ____________________________________________________________________ उपज्ञोपक्रमं तदाद्याचिख्यासायाम् ॥ २,४.२१ ॥ _____ काशिकावृत्तिः२,४.२१: उप्ज्ञायते इत्युपज्ञा । उपक्रम्यते इत्युपक्रमः । उपज्जा च उपक्रमश्च उपज्ञोपक्रमम् । तदन्तस्तत्पुरुषो नपुंसकलिङ्गो भवति तदाद्याचिख्यासायाम्, तयोरुपज्ञोपक्रमयोरादेराचिख्यासायां गम्यमानायाम् । आख्यातुमिच्छा आचिख्यासा । यद्युपज्ञेयस्य+उपक्रम्यस्य च अर्थस्य आदिराख्यातुमिष्यते तत एतद्भवति । पाणिन्युपज्ञमकालकं व्याकरणम् । पाणिनेरुपज्ञानेन प्रथमतः प्रणीतमकालकं व्याकरणम् । व्याड्युपज्ञं दशहुष्करणम् । आद्योपक्रमं प्रासादः । नन्दोपक्रमाणि मानानि । दर्शनीयोपक्रमं सुकुमारम् । उपज्ञोपक्रममिति किम् ? वाल्मीकिश्लोकाः । तदाद्याचिख्यासायामिति किम् ? देवदत्तोपज्ञो रथः । यज्ञदत्तोपक्रमो रथः ॥ ____________________________________________________________________ [॰१५९] छाया बाहुल्ये ॥ २,४.२२ ॥ _____ काशिकावृत्तिः२,४.२२: विभाषा सेनासुराच्छाया. शालानिशानाम् (*२,४.२५) । इति विभाषां वक्ष्यति । नित्यार्थमिदं वचनम् । छायान्तस्तत्पुरुषो नपुंसकलिङ्गो भवति बाहुल्ये गम्यमाने । पूर्वपदार्थधर्मः बाहुल्यम् । शलभादीनां हि बहुत्वं गम्यते । शलभच्छायम् । इक्षुच्छायम् । बहुल्ये इति किम् ? कुङ्यच्छाया ॥ ____________________________________________________________________ सभा राजाऽमनुस्यपूर्वा ॥ २,४.२३ ॥ _____ काशिकावृत्तिः२,४.२३: सभान्तस्तत्पुरुषो नपुंसकलिङ्गो भवति, सा चेत्सभा राजपूर्वा, अमनुस्यपूर्वा च भवति । इनसभम् । ईश्वरसभम् । इह कस्मान्न भवति, राजसभा ? पर्यायवचनस्य+एव+इष्यते । तदुक्तम् जित्पर्यायस्य+एव राजाध्यर्थमिति । अमनुष्यपूर्वा रक्षःसभम् । पिशाचसभम् । इह कस्मान्न भवति, काष्ठसभा ? अमनुष्यशब्दो रूढिरूपेण्रक्षःपिशाचादिष्वेव वर्तते । राजा+अमनुष्यपूर्वा इति किम् ? देवदत्तसभा ॥ ____________________________________________________________________ अशाला च ॥ २,४.२४ ॥ _____ काशिकावृत्तिः२,४.२४: अशाला च या सभा तदन्तस्तत्पुरुषो नपुंसकलिङ्गो भवति । सङ्घातवचनोऽत्र सभाशब्दो गृह्यते । स्त्रीसभम् । दासीसभम् । दासीसङ्घातः इत्यर्थः । अशाला इति किम् । अनाथकुटी इत्यर्थः ॥ ____________________________________________________________________ विभाषा सेनासुराच्छायाशालानिशानाम् ॥ २,४.२५ ॥ _____ काशिकावृत्तिः२,४.२५: सेना सुरा छाया शाला निशा इत्येवमन्तस्तत्पुरुषो नपुंसकलिङ्गो भवति विभाषा । ब्राह्मणसेनम्, ब्राहमणसेना । यवसुरम्, यवसुरा । कुङ्यच्छायम्, कुड्यच्छाया । गोशालम्, गोशाला । श्वनिशम् । श्वनिशा ॥ ____________________________________________________________________ परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः ॥ २,४.२६ ॥ _____ काशिकावृत्तिः२,४.२६: समाहारद्वन्द्वे नपुंसकलिङ्गस्य विहितत्वादितरेतरयोगद्वन्द्वस्य+इदं ग्रहणम् । परस्य यल्लिङ्गं तत्भवति द्वन्द्वस्य तत्पुरुषस्य च । उत्तरपदलिङ्गं द्वन्द्वतत्पुरुषयोर्विधीयते । कुक्कुटमयूर्याविमे । मयूरीकुक्कुटाविमौ । तत्पुरुषस्य अर्धं पिप्पल्याः अर्धपिप्पली । अर्धकोशातकी । अर्धनखरञ्जनी । द्विगुप्राप्तापन्नालंपूर्वगतिसमासेषु प्रतिषेधो वक्तव्यः । द्विगुः पञ्चसु कपालेसु संस्कृतः पुरोडाशः पञ्चकपालः । [॰१६०] प्राप्तो जीविकां प्राप्तजीविकः । आपन्नो जीविकामापन्नजीविकः । अलं जीविकायै अलंजीविकः । गतिसमासः निष्क्रान्तः कौशाम्ब्याः निष्कौशाम्बिः ॥ ____________________________________________________________________ पूर्ववदश्ववडवौ ॥ २,४.२७ ॥ _____ काशिकावृत्तिः२,४.२७: अश्ववडवयोर्विभाषैकवद्भावः उक्तः । तत्र+एकवद्भावादन्यत्र परविल्लिङ्गतायां प्राप्तायामिदमारभ्यते । अश्ववडवयोः पूर्ववल्लिङ्गं भवति । अश्वश्च वडवा च अश्ववडवौ । अर्थातिदेशश्च अयम्, न निपातनम् । तत्र द्विवचनमतन्त्रम् । वचनान्तरेऽपि पूर्ववल्लिङ्गता भवति, अश्ववडवान्, अश्ववडवैः इति ॥ ____________________________________________________________________ हेमन्तशिशिरावहोरात्रे च छन्दसि ॥ २,४.२८ ॥ _____ काशिकावृत्तिः२,४.२८: पूर्ववतिति वर्तते । हेमन्तशिशिरौ अहोरात्रे इत्येतयोश्छन्दसि विषये पूर्ववल्लिङ्गं भवति । हेमन्तशिशिरावृतूनां प्रीणामि । अहोरात्रे इदं व्रूमः । परवल्लिङ्गतापवादो योगः । अर्थातिदेशश्च अयं न निपातनं, तेन द्विवचनमतन्त्रम् । वचनान्तरेऽपि पूर्ववल्लिङ्गता भवति । पूर्वपक्षाश्चितयः । अपरपक्षाः पुरीषम्, अहोरात्राणीष्टकाः । छन्दसि इति किम् ? दुःखे हेमन्तशिशिरे । अहोरात्राविमौ पुण्यौ । छन्दसि लिङ्गव्यत्यय उक्तः, तस्य+एव अयं प्रपञ्चः ॥ ____________________________________________________________________ रात्राह्नाहाः पुंसि ॥ २,४.२९ ॥ _____ काशिकावृत्तिः२,४.२९: कृतसमासान्तानां निर्देशः । रात्र अह्न अह इत्येते पुंसि भाष्यन्ते । परवल्लिङ्गतया स्त्रीनपुंसकयोः प्राप्तयोरिदं वचनम् । द्विरात्रः । त्रिरात्रः । चतूरात्रः । पूर्वाह्णः । अपराह्णः । मध्याह्नः । द्व्यहः । त्र्यहः । अनुवाकादयः पुंसीति वक्तव्यम् । अनुवाकः । शंयुवाकः । सूक्तवाकः ॥ ____________________________________________________________________ अपथं नपुंसकम् ॥ २,४.३० ॥ _____ काशिकावृत्तिः२,४.३०: अपथशब्दो नपुंसकलिङ्गो भवति । अपथमिदम् । अपथानि गाहते मूढः । इह कस्मान्न भवति, अपथो देशः, अपथा नगरी ? तत्पुरुषः इति वर्तते ॥ ____________________________________________________________________ अर्धर्चाः पुंसि च ॥ २,४.३१ ॥ _____ काशिकावृत्तिः२,४.३१: अर्धर्चादयः शब्दाः पुंसि नपुंसके च भाष्यन्ते । अर्धर्चः । अर्धर्चम् । गोमयः । गोमयम् । [॰१६१] शब्दरूपाश्रया च+इयं द्विलिङ्गता क्वचिदर्थभेदेन अपि व्यवतिष्ठते, यथा पड्मशङ्खशब्दौ निधिवचनौ पुंलिङ्गौ, जलजे उभयलिङ्गौ । भूतशब्दः पिशाचे उभयलिङ्गः, क्रियाशब्दस्य अभिधेयवल्लिङ्गम् । सैन्धवशब्दो लवणे उभयलिङ्गः, यौगिकस्य अभिधेयवल्लिङ्गम् । सारशब्द उत्कर्षे पुंलिङ्गः, न्यायादनपेते नपुंसकम्, नैतत्सारमिति । धर्मः इत्यपूर्वे पुंलिङ्गः, तत्साधने नपुंसकम् । तानि धर्माणि प्रथमान्यासन् । अर्धर्च । गोमय । कषाय । कार्षापण । कुतप । कपाट । शङ्ख । चक्र । गूथ । यूथ । ध्वज । कबन्ध । पड्म । गृह । सरक । कंस । दिवस । यूष । अन्धकार । दण्ड । कमण्डलु । मन्ड । भूत । द्वीप । द्यूत । चक्र । धर्म । कर्मन् । मोदक । शतमान । यान । नख । नखर । चरण । पुच्छ । दाडिम । हिम । रजत । सक्तु । पिधान । सार । पात्र । घृत । सैन्धव । औषध । आढक । चषक । द्रोण । खलीन । पात्रीव । षष्टिक । वार । बान । प्रोथ । कपैत्थ । शुष्क । शील । शुल्ब । सीधु । कवच । रेणु । कपट । सीकर । मुसल । सुवर्ण । यूप । चमस । वर्ण । क्षीर । कर्ष । आकाश । अष्टापद । मङ्गल । निधन । निर्यास । जृम्भ । वृत्त । पुस्त । क्ष्वेडित । शृङ्ग । शृङ्खल । मधु । मूल । मूलक । शराव । शाल । वप्र । विमान । मुख । प्रग्रीव । शूल । वज्र । कर्पट । शिखर । कल्क । नाट । मस्तक । वलय । कुसुम । तृण । पङ्क । कुण्डल । किरीट । अर्बुद । अङ्कुश । तिमिर । आश्रम । भूषण । इल्वस । मुकुल । वसन्त । तडाग । पिटक । विटङ्क । माष । कोश । फलक । दिन । दैवत । पिनाक । समर । स्थाणु । अनीक । उपवास । शाक । कर्पास । चशाल । खण्ड । दर । विटप । रण । बल । मल । मृणाल । हस्त । सूत्र । ताण्डव । गाण्डीव । मण्डप । पटह । सौध । पार्श्व । शरीर । फल । छल । पूर । राष्ट्र । विश्व । अम्बर । कुट्टिम । मण्डल । ककुद । तोमर । तोरण । मञ्चक । पुङ्ख । मध्य । बाल । वल्मीक । वर्ष । वस्त्र । देह । उद्यान । उद्योग । स्नेह । स्वर । सङ्गम । निष्क । क्षेम । शूक । छत्र । पवित्र । यौवन । पानक । मूषिक । वल्कल । कुञ्ज । विहार । लोहित । विषाण । भवन । अरण्य । पुलिन । दृढ । आसन । ऐरावत । शूर्प । तीर्थ । लोमश । तमाल । लोह । दण्डक । शपथ । प्रतिसर । दारु । धनुस् । मान । तङ्क । वितङ्क । मव । सहस्र । ओदन । प्रवाल । शकट । अपराह्ण । नीड । शकल । इति अर्धर्चादिः ॥ ____________________________________________________________________ इदमोऽन्वादेशेऽशनुदात्तस्तृतीयादौ ॥ २,४.३२ ॥ _____ काशिकावृत्तिः२,४.३२: आदेशः कथनम् । अनवादेशोऽनुकथनम् । इदमोऽन्वादेशविषयस्य अशादेशो भवत्यनुदात्तः, तृतीयादौ विभक्तौ परतः । आभ्यां छात्राभ्यं रात्रिरधीता, अथो आभ्यामहरप्यधीतम् । अस्मै छात्राय कम्बलं देहि, अथोऽस्मै शाटकमपि देहि । अस्य छात्रस्य शोभनं शीलम्, अथोऽस्य प्रभूतं स्वम् । अशादेशवचनं साकच्कार्थम् । इमकाभ्यां छात्राभ्यां रात्रिरधीता, अथो आभ्यामहरप्यधीतम् । नेह पश्चादुच्चारणमात्रमन्वादेशः । किं तर्हि ? एकस्य+एव अभिधेयस्य पूर्वं शब्देन प्रतिपादितस्य द्वितीयं प्रतिपादनमन्वादेशः । तेन+इह न भवति, देवदत्तं भोजय, इमं च यज्ञदत्तमिति ॥ ____________________________________________________________________ [॰१६२] एतदस्त्रतसोस्त्रतसौ च अनुदातौ ॥ २,४.३३ ॥ _____ काशिकावृत्तिः२,४.३३: अन्वादेश अनुदात्त इति वर्तते । एतदोऽन्वादेशविषयस्य अशादेशो भवति अनुदात्तः त्रतसोः परतः । तौ च अपि त्रतसावनुदात्तौ भवतः । एतस्मिन् ग्रामे सुखं वसामः, अथो अत्र युक्ता अधीमहे । एतस्माच्छात्राच्छन्तोऽधीष्व, अथो अतो व्याकरणमप्यधीष्व । सर्वानुदात्तं पदं भवति । एतदोऽशित्यादेशे लभे पुनर्वचनमनुदात्तार्थम् ॥ ____________________________________________________________________ द्वितीयाटौस्स्वेनः ॥ २,४.३४ ॥ _____ काशिकावृत्तिः२,४.३४: अन्वादेशेऽनुदात्तः इति वर्तते । द्वितीया टा ओसित्येतेषु परत इदमेतदोरन्वादेशविषययोः एनशब्द आदेशो आदेशो भवति अनुदात्तः । इदमो मण्डूकप्लुतिन्यायेन अनुवृत्तिः । इमं छात्रं छन्दोऽध्यापय, अथो एनं व्याकरणमध्यापय । अनेन छात्रेण रात्रिरधीता, अथो एनेनाहरप्यधीतम् । अनयोश्छात्रयोः शोभनं शीलम्, अथो एनयोः प्रभूतं स्वम् । एतदः खल्वपि एतं छात्रं छन्तोऽध्यापय, अथो एनं व्याकरणमप्यध्यापय । एतेन छात्रेन रात्रिरधीता, अथो एनेनाहरप्यधीतम् । एतयोश्छात्रयोः शोभनं शीलम्, अथो एनयोः प्रभूतं स्वम् । एनदिति नपुंसकैकवचने वक्तव्यम् । प्रक्षालयैनत् । परिवर्तयैनत् । इह कस्मान्न भवति, अयं दण्डो हरानेन, एतमातं ङितं विद्यातिति ? यत्र किञ्चिद्विधाय वाक्यान्तरेण पुनरन्यदुपदिश्यते सोऽन्वादेशः । इह तु वस्तुनिर्देशमात्रं कृत्वा एकमेव विधानम् ॥ ____________________________________________________________________ आर्धधातुके ॥ २,४.३५ ॥ _____ काशिकावृत्तिः२,४.३५: आर्धधातुके इत्यधिकारोऽयम्, ण्यक्षत्रियार्षञितो यूनि लुगणिञोः (*२,४.५८) इति यावत् । यदित ऊर्ध्वमनुक्रमिष्यमस्तदार्धधातुके वेदितव्यम् । वक्ष्यति हनो वध लिङि (*२,४.४२) वध्यात् । आर्धधातुके इति किम् ? हन्यात् । विषयसप्तमी च+इयं, न परसप्तमी । तेन आर्धधातुकविवक्षायामादेशेषु कृतेषु पश्चाद्यथाप्राप्तं प्रत्यया भवन्ति । भव्यम् । प्रवेयम् । आख्येयम् ॥ ____________________________________________________________________ अदो जग्धिर्ल्यप्ति किति ॥ २,४.३६ ॥ _____ काशिकावृत्तिः२,४.३६: अदो जग्धिः आदेशो भवति ल्यपि परतः, तकारादौ च किति प्रत्यये । प्रजग्ध्य । विजग्ध्य । जग्धः । जग्धवान् । इकार उच्चारणार्थः, न अनुबन्धः । तेन नुं न भवति । एवं वच्यादीनामपि । इह कस्मान्न भवति, अन्नम् ? अन्नाण्णः (*४,४.८५) इति निपातनात् । [॰१६३] जग्धौ सिद्धेऽन्तरङ्गत्वात्ति कितीति ल्यबुच्यते । ज्ञापयत्यन्तरङ्गाणां ल्यपा भवति बाधनम् ॥ ति इति किम् ? अद्यते । किति इति किम् ? अत्तव्यम् ॥ ____________________________________________________________________ लुङ्सनोर्घसॢ ॥ २,४.३७ ॥ _____ काशिकावृत्तिः२,४.३७: लुङि सनि च परतोऽदो घसॢ आदेशो भवति । लृ‌दित्करणमङर्थम् । लुङि अघसत्, अघसताम्, अघसन् । सनि जिघत्सति, जिघत्सतः, जिघत्सन्ति । घसॢभावेऽच्युपसङ्ख्यानम् । प्रात्ति इति प्रघसः ॥ ____________________________________________________________________ घञपोश्च ॥ २,४.३८ ॥ _____ काशिकावृत्तिः२,४.३८: घञि अपि च परतः अदो घसॢ आदेशो भवति । घासः । प्रघसः । उपसर्गेऽदः (*३,३.५९) इत्यप् ॥ ____________________________________________________________________ बहुलं छन्दसि ॥ २,४.३९ ॥ _____ काशिकावृत्तिः२,४.३९: छन्दसि विषये बहुलमदो घसॢ आदेशो भवति । घस्तां नूनम् । सग्धिश्च मे । न च भवति । आत्तामद्य मद्यतो मेद उद्भृतम् । अन्यतरस्य अंग्रहणमेव कस्मान्न क्रियते तदेव+उत्तरार्थमपि भविष्यति ? कार्यान्तरार्थं बहुलग्रहणम् । घस्तामित्यत्र+उपधालोपो न भवति ॥ ____________________________________________________________________ लिट्यन्तरस्याम् ॥ २,४.४० ॥ _____ काशिकावृत्तिः२,४.४०: लिटि परतोऽदोऽन्यतरस्यां घस्लादेशो भवति । जघास, जक्षतुः, जक्षुः । आद्, आदतुः, आदुः ॥ ____________________________________________________________________ वेञो वयिः ॥ २,४.४१ ॥ _____ काशिकावृत्तिः२,४.४१: लिट्यन्यतरस्यामिति वर्तते । वेञो वयिः आदेशो भवति अन्यत्रस्यां लिटि परतः । इकार उच्चारणार्थः । उवाय, ऊयतुः, ऊयुः । पक्षे ऊवतुः, ऊवुः । लिटि वयो यः (*६,१.३८) इति यकारस्य सम्प्रसारणं प्रतिषिध्यते । वश्च अन्यतरस्यां किति (*६,१.३९) इति वकारो विधीयते ववौ, ववतुः, ववुः । वेञः (*६,१.४०) इति सम्प्रसारणं न भवति ॥ ____________________________________________________________________ [॰१६४] हनो वध लिङि ॥ २,४.४२ ॥ _____ काशिकावृत्तिः२,४.४२: हन्तेर्धातोः वध इत्ययमादेशो भवति लिङि परत आर्धधातुके । वध्यात्, वध्यास्ताम्, वध्यासुः । अकारान्तश्च अयमादेशः । तत्र अकारस्य लोपो भवति । तस्य स्थानिवद्भावादवधीतिति हलन्तलक्षना वृद्धिः न भवति ॥ ____________________________________________________________________ लुङि च ॥ २,४.४३ ॥ _____ काशिकावृत्तिः२,४.४३: लुङि च परतः हनो वध इत्ययमादेशो भवति । अवधीत्, अवधीष्टाम्, अवधिषुः । योगविभाग उत्तरार्थः । आत्मनेपदेषु लुङि विकल्पो यथा स्याल्लिङि मा भूत् ॥ ____________________________________________________________________ आत्मनेपदेष्वन्यतरस्याम् ॥ २,४.४४ ॥ _____ काशिकावृत्तिः२,४.४४: पूर्वेण नित्ये प्राप्ते विकल्प उच्यते । आत्मनेपदेषु परतो हनो लुङ्यन्यतरस्यां वध इत्ययमादेशो भवति । आवधिष्ट, आवधिषाताम्, आवधिषत । न च भवति । आहत, आहसाताम्, आहसत ॥ ____________________________________________________________________ इणो गा लुङि ॥ २,४.४५ ॥ _____ काशिकावृत्तिः२,४.४५: इणः गा इत्ययमावेशो भवति लुङि परतः । अगात्, अगाताम्, अगुः । लुङि इति वर्तमाने पुनर्लुङ्ग्रहणमात्मनेपदेष्वन्यतरस्याम् (*२,४.४४) इत्येतन्मा भूत् । इह त्वविशेषेण नित्यं च भवति । अगात् । अगायि भवता । इण्वदिक इत वक्तव्यम् । अध्यगात्, अध्यगाताम्, अध्यगुः ॥ ____________________________________________________________________ णौ गमिरबोधने ॥ २,४.४६ ॥ _____ काशिकावृत्तिः२,४.४६: णौ परतः इणोऽबोधनार्थस्य गमिरादेशो भवति । इकार उच्चारणार्थः । गमयति, गमयतः, गमयन्ति । अबोधने इति किम् ? प्रत्याययति । इण्वदिक इत्येव, अधिगमयति ॥ ____________________________________________________________________ सनि च ॥ २,४.४७ ॥ _____ काशिकावृत्तिः२,४.४७: सनि परतः इणोऽबोधनार्थस्य गमिरादेशो भवति । जिगमिषति, जिगमिषतः, जिगमिषन्ति । अबोधने इत्येव, अर्थान् प्रतीषिषति । इण्वदिक इत्येव, अधिजिगमिषति । योगविभाग उत्तरार्थः । इङश्च (*२,४.४८) इति सन्येव यथा स्यात् ॥ ____________________________________________________________________ इङश्च ॥ २,४.४८ ॥ _____ काशिकावृत्तिः२,४.४८: इङश्च सनि परतो गमिरादेशो भवति । अधिजिगांसते, अधिजिगांसेते, अधिजिगांसन्ते ॥ ____________________________________________________________________ [॰१६५] गाङ्लिटि ॥ २,४.४९ ॥ _____ काशिकावृत्तिः२,४.४९: गाङदेशो भवति इङो लिटि परतः । अधिजगे, अधिजगाते, अधिजगिरे । गाङोऽनुबन्धग्रहणं विशेषनार्थम्, गाङ्कुटादिभ्योऽञ्णिन् ङित्(*१,२.१) इत्यत्र अस्य ग्रहणं यथा स्यात् । न हि स्थानिवद्भावेन गाङिति रूपं लभ्यते ॥ ____________________________________________________________________ विभाषा लुङॢङोः ॥ २,४.५० ॥ _____ काशिकावृत्तिः२,४.५०: लुगि लृ‌ङि च परत इङो विभाषा गाङादेशो भवति । आदेशपक्षे गाङ्कुटादिभ्योऽञ्णिन् डित्(*१,२.१) इति ङित्त्वम्, घुमास्थागापाजहातिसां हलि (*६,४.६६) इति ईत्वम् । अध्यगीष्ट, अध्यगीषाताम्, अध्यगीषत । न च भवति । अध्यैष्ट, अध्यैषाताम्, अध्यैषत । लृ‌ङि खल्वपि अध्यगीष्यत, अध्यगीष्येताम्, अध्यगीष्यन्त । न च भवति । अध्यैष्यत, अध्यैष्येताम्, अध्यैष्यन्त ॥ ____________________________________________________________________ णौ च संश्चङोः ॥ २,४.५१ ॥ _____ काशिकावृत्तिः२,४.५१: इङो गाङ्विभाषा इति वर्तते । णौ इति इङपेक्षया परसप्तमी, संश्चङोः इति च ण्यपेक्षया । णौ सन्परे चङ्परे च परतः इङो विभाषा गाङादेशो भवति । अधिजिगापयिषति । न च भवति । अध्यापिपयिषति । चङि खल्वपि अध्यजीगपत् । न च भवति । अध्यापिपत् ॥ ____________________________________________________________________ अस्तेर्भूः ॥ २,४.५२ ॥ _____ काशिकावृत्तिः२,४.५२: अस्तेर्धातोर्भूः इतयमादेशो भवति आर्धधातुके । भविता । भवितुम् । भवितव्यम् । इह कस्मान्न भवति, ईहामास, ईहामासतुः, ईहामासुः ? कृञ्च अनुप्रयुज्यते लिटि (*३,१.४०) इति प्रत्याहारग्रहणेन अस्तेर्ग्रहणसामर्थ्यात् । तथा चोच्यते अनुप्रतोगे तु भुवाऽस्त्यबाधनं स्मरन्ति कर्तुर्वचनान्मनीषिणः । इति ॥ ____________________________________________________________________ ब्रुवो बचिः ॥ २,४.५३ ॥ _____ काशिकावृत्तिः२,४.५३: ब्रुवो वचिरादेशो भवति आर्धधातुकविषये । इकार उच्चारणार्थः । वक्ता । वक्तुम् । वक्तव्यम् । स्थानिवद्भावेन कर्त्रभिप्रायक्रियाफलविवक्षायामात्मनेपदं भवति । ऊचे । वक्ष्यते ॥ ____________________________________________________________________ [॰१६६] चक्षिङः ख्याञ् ॥ २,४.५४ ॥ _____ काशिकावृत्तिः२,४.५४: चक्षिङः ख्याञादेशो भवति आर्धधातुके । आख्याता । आख्यातुम् । आख्यातव्यम् । स्थानिवद्भावेन नित्यमात्मनेपदं न भवति, ञकारानुबन्धकरणसामर्थ्यात् । आख्यास्यति । आख्यास्यते । क्शादिरप्ययमादेश इष्यते । आक्शाता । आक्शातुम् । आक्शातव्यम् । वर्जने प्रतिषेधो वक्तव्यः । दुर्जनः संचक्ष्याः । वर्जनीयाः इत्यर्थः । असनयोश्च प्रतिषेधो वक्तव्यः । नृचक्षा रक्षः हिंसार्थोऽत्र भातुः । अने खल्वपि विचक्षणः पण्डितः । बहुलं सञ्ज्ञाछन्दसोरिति वक्तव्यम् । अन्नवधकगात्रविचक्षणाजिराद्यर्थम् ॥ ____________________________________________________________________ वा लिटि ॥ २,४.५५ ॥ _____ काशिकावृत्तिः२,४.५५: पूर्वेण नित्ये प्राप्ते विकल्प उच्यते । लिटि परतश्चक्षिङः ख्याञादेशः वा भवति । आचख्यौ, आचख्यतुः, आचख्युः । न च भवति । आचचक्षे, आचचक्षाते, आचचक्षिरे ॥ ____________________________________________________________________ अजेर्व्यघञपोः ॥ २,४.५६ ॥ _____ काशिकावृत्तिः२,४.५६: अजेर्धातोः वी इत्ययमादेशो भवत्यार्धधातुके परतो घञपौ वर्जयित्वा । प्रवयणीयः । प्रवायकः । अघञपोः इति किम् ? समाजः । उदाजः । अपि तु समजः । उदजः । समुदोरजः पशुषु (*३,३.६९) इत्यप् । दीर्घोच्चारणं किम् ? प्रवीताः । भञपोः प्रतिषेधे क्यप उपसङ्ख्यानं कर्तव्यम् । समज्या । वलादावार्धधातुके विकल्प इष्यते । प्रवेता, प्राजिता । प्रवेतुम्, प्राजितुम् ॥ ____________________________________________________________________ [॰१६७] वा यौ ॥ २,४.५७ ॥ _____ काशिकावृत्तिः२,४.५७: पूर्वेण नित्ये प्राप्ते विकल्प उच्यते । यु इति ल्युटो ग्रहणम् । यौ प्रभूते अजे र्वा वी इत्ययमादेशो भवति । प्रवयणो दण्डः, प्राजनो दण्डः । प्रवयणमानय, प्राजनमानय ॥ ____________________________________________________________________ ण्यक्षत्रियार्षञितो यूनि लुगणिञोः ॥ २,४.५८ ॥ _____ काशिकावृत्तिः२,४.५८: ण्यादयो गोत्रप्रत्ययाः । ण्यान्तात्क्षत्रियगोत्रादार्षाद्ञितश्च प्रयोः अण्डञोर्यूनि लुग्भवति । ण्यान्तात्तावत् कुर्वादिभ्यो ण्यः (*४,१.१५१) , तस्माद्यूनि इञ्, तस्य लुक् । कौरव्यः पिता । कौरव्यः पुत्रः । ननु च कौरव्यशब्दः तिकादिषु पठ्यते, ततः फिञा भवितव्यम्, कौरव्यायणिः इति ? क्षत्रियगोत्रस्य तत्र ग्रहणम्, कुरुनादिभ्यो ण्यः (*४,१.१७२) इत्यनेन विहितस्य, इदं तु ब्राह्मणगोत्रम्, कुर्वादिभ्यो ण्यः (*४,१.१५१) इति । क्षत्रिय ऋष्यन्धकवृष्णिकुरुभ्यश्च (*४,१.११४) इत्यण्, तस्माद्यूनि इञ्, तस्य लुक् । श्वाफल्कः पिता । श्वाफल्कः पुत्रः । आर्ष ऋष्यण्(*४,१.११४), तस्माद्यूनि इञ्, तस्य लुक् । वासिष्ठः पिता । वासिष्ठः पुत्रः । ञित् अनृष्यानन्तर्ये विदादिभ्योऽञ्(*४,१.१०४), तस्माद्यूनि इञ्, तस्य लुक् । बैदः पिता । वैदः पुत्रः । अणः खल्वपि तिकादिभ्यः फिञ्(*४,१.१५४), तस्माद्यूनि प्राग्दीव्यतोऽण्(*४,१.८३), तस्य लुक् । तैकायनिः पिता । तैकायनिः पुत्रः । एतेभ्यः इति किम् ? शिवादिभ्योऽण्(*४,१.११२), तस्माद्यूनि अत इञ्(*४,१.९५), तस्य लुग्न भवति । कौहडः पिता । कौहडि पुत्रः । यूनि इति किम् ? वामरथ्यस्य छात्राः वामरथाः । कुर्वादिभ्यो ण्यः (*४,१.१५१) इति ण्यः, तस्मात्कण्वादिभ्यो गोत्रे (*४,२.१११) इति शैषिकोऽण् । तस्य लुग्न भवति । अणिञोः इति किम् ? दाक्षेरपत्यं युवा दाक्षायणः । अब्राह्मणगोत्रमात्रमात्राद्युवप्रत्ययस्तोपसङ्ह्यानम् । बौधिः पिता । बौधिः पुत्रः । जाबालिः पिता । जाबालिः पुत्रः । औदुम्बरिः पिता । औदुम्बरिः पुत्रः । भाण्डीजङ्घिः पिता । भाण्डीजङ्घिः पुत्रः । शाल्वावयवलक्षन इञ्, तस्मात्फक्, तस्य लुक् । पैलादिदर्शनात्सिद्धम् ॥ ____________________________________________________________________ पैलादिब्यश्च ॥ २,४.५९ ॥ _____ काशिकावृत्तिः२,४.५९: पैल इत्येवमादिभ्यश्च युवप्रत्ययस्य लुग्भवति । पीलाया वा (*४,१.११८) इत्यण्, तस्मदणो द्व्यचः (*४,१.१५६) इति फिञ्, तस्य लुक् । पैलः पिता । पैलः पुत्रः । अन्ये पैलादयः इञन्ताः तेभ्यः इञः प्राचाम् (*२,४.६०) इति लुकि सिद्धेऽप्रागर्थः पाठः । पैल । शालङिक । सात्यकि । सात्यकामि । दैवि । औदमज्जि । औदव्रजि । औदमेघि । औदबुद्धि । दैवस्थानि । पैङ्गलायनि । राणायनि । रौहक्षिति । भौलिङ्गि । औद्गाहमानि । औज्जिहानि । तद्राजाच्चाणः । आकृतिगणोऽयम् ॥ ____________________________________________________________________ [॰१६८] इञः प्राचाम् ॥ २,४.६० ॥ _____ काशिकावृत्तिः२,४.६०: गोत्रे य इञ्तदन्ताद्युवप्रत्ययस्य लुग्भवति । गोत्रविशेषनं प्राग्ग्रहनम्, न विकल्पार्थम् । पान्नागारेरपत्यं युवा । यञिञोश्च (*४,१.१०१) इति फक्, तस्य लुक् । पान्नागारिः पिता । पान्न्नगारिः पुत्रः । मन्थरैषणिः पिता । मान्थरैषणिः पुत्रः । प्राचामिति किम् ? दाक्षिः पिता । दाक्षायणः पुत्रः ॥ ____________________________________________________________________ न तौल्वलिभ्यः ॥ २,४.६१ ॥ _____ काशिकावृत्तिः२,४.६१: अनन्तरेण प्राप्तो लुक्प्रतिषिध्यते । तौल्वल्यादिभ्यः परस्य युवप्रत्ययस्य न लुग्भवति । तौल्वलिः पिता । तौल्वलायनः पुत्रः । तौल्वलि । धारणि । रावणि । पारणि । दैलीपि । दैवलि । दैवमति । दैवयज्ञि । प्रावाहणि । मान्धातकि । आनुहारति । श्वाफल्कि । आनुमति । आहिंसि । आसुरि । आयुधि । नैमिषि । आसिबन्धकि । बैकि । आन्तरहाति । पौष्करसादि । वैरकि । वैलकि । वैहति । वैकर्णि । कारेणुपालि । कामालि ॥ ____________________________________________________________________ तद्राजस्य बहुषु तेन+एव अस्त्रियाम् ॥ २,४.६२ ॥ _____ काशिकावृत्तिः२,४.६२: ते तद्राजाः (*४,१.१७२), ञ्यादयस्तद्राजाः (*५,३.११९) इति वक्ष्यति, तस्य तद्राजसञ्ज्ञस्य प्रत्ययस्य बहुषु वर्तमानस्य अस्त्रीलिङ्गस्य लुग्भवति, तेन+एव चेत्तद्राजेन कृतं बहुत्वं भवति । अङ्गाः । वङ्गाः । पुण्ड्राः । सुह्माः । मगधाः । लोहध्वजाः । व्रीहिमन्तः । तद्राजस्य इति किम् ? औपगवाः । बहुषु इति किम् ? आङ्गः । तेन+एव ग्रहणं किम् ? प्रियो वाङ्गो येषां ते इमे प्रियवाङ्गाः । अस्त्रियामिति किम् ? आङ्ग्यः स्त्रियः ॥ ____________________________________________________________________ यस्कादिभ्यो गोत्रे ॥ २,४.६३ ॥ _____ काशिकावृत्तिः२,४.६३: बहुषु तेन+एव अस्त्रियामिति सर्वमनुवर्तते । यस्क इत्येवमादिभ्यः परस्य गोत्रप्रत्ययस्य बहुषु वर्तमानस्य अस्त्रीलिङ्गस्य लुग्भवति, तेन+एव चेद्गोत्रप्रत्ययेन कृतं बहुत्वं भवति । प्रत्ययविधेश्च अन्यत्र लौकिकस्य गोत्रस्य ग्रहणमित्यनन्तरापत्येऽपि लुग्भवत्येव । यस्काः । लभ्याः । बहुषु इत्येव, यास्काः । तेन+एव इत्येव, प्रिययास्काः । अस्त्रियामित्येव, यास्क्यः स्त्रियः । गोत्रे इति किम् ? यास्काश्छात्राः । [॰१६९] यस्क । लभ्य । दुह्य । अयःस्थूण । तृणकर्ण । एते पञ्च शिवादिसु पठ्यन्ते । ततः परेभ्यः षड्भ्यः इञ् । सदामत्त । कम्बलभार । बहिर्योग । कर्णाटक । पिण्डीजङ्घ । बकसक्थ । ततः परेभ्यश्चतुर्भ्यः गृष्ट्यादिभ्यश्च (*४,१.१३६) इति ढञ् । बस्ति । कुद्रि । अजबस्ति । मित्रयु । ततः परेभ्यो द्वादशभ्य इञ् । रक्षोमुख । जङ्घारथ । उत्कास । कटुकमन्थक । पुष्करसत् । विषपुट । उपरिमेखल । क्रोष्तुमान् । क्रोष्टुपाद । क्रोष्टुमाय । शीर्षमाय । पुष्करसच्छब्दाद्बाह्वादिपाठादिञ् । खरपशब्दो नडादिषु पथ्यते, ततः फक् । पदक । वर्मक । एताभ्यामत इञ्(*४,१.९५) । भलन्दनशब्दात्शिवादिभ्योऽण्(*४,१.११२) । भडिल । भण्डिल । भदित । भण्डित । एतेभ्यश्चतुर्भ्यः अश्वादिभ्यः फञ्(*४,१.११०) ॥ ____________________________________________________________________ यञञोश्च ॥ २,४.६४ ॥ _____ काशिकावृत्तिः२,४.६४: बहुषु तेन+एव अस्त्रियाम्, गोत्रे इति च अनुवर्तते । यञोऽज्श्च गोत्रप्रत्ययस्य बहुषु वर्तमानस्य अस्त्रीलिङ्गस्य लुङ्भवति । गर्गादिभ्यो जञ्(*४,१.१०५) गर्गाः । वत्साः । अञः खल्वपि, अनृष्यानन्तर्ये बिदादिभ्योऽञ्(*४,१.१०४) बिदाः । उर्वाः । बहुष्वित्येव, गार्ग्यः । बैदः । तेनैव इत्येव, प्रियगार्ग्याः । प्रियबैदाः । अस्त्रियामित्येव, गार्ग्यः स्त्रियः । बैद्यः स्त्रियः । गोत्रे इत्येव, द्वीपादनुसमुद्रं यञ्(*४,३.१०) द्वैप्याः । उत्सादिभ्योऽञ् औत्साश्छात्राः । यञादीनामेकद्वयोर्वा तत्पुरुषे षष्ठ्या उपसङ्ख्यानम् । गार्ग्यस्य कुलं गार्ग्यकुलं गर्गकुलं वा । गार्ग्ययोः कुलं गार्ग्यकुलं गर्गकुलं वा । एवं बैदस्य कुलं बैदकुलं बिदकुलं वा । बैदयोः कुलं बैदकुलं बिदकुलं वा । यञादीनामिति किम् ? आङ्गकुलम् । एकद्वयोः इति किम् ? गार्गाणां कुलं गर्गकुलम् । तत्पुरुषे इति किम् ? गार्गस्य समीपमुपगार्ग्यम् । षष्ठ्या इति किम् ? परमगार्ग्यः ॥ ____________________________________________________________________ अत्रिभृगुकुत्सवसिष्ठगोतमाङ्गिरोभ्यश्च ॥ २,४.६५ ॥ _____ काशिकावृत्तिः२,४.६५: अत्र्यादिभ्यः परस्य गोत्रप्रत्ययस्य बहुषु लुग्भवति । अत्रिशब्दातितश्च अनिञः (*४,१.१२२) इति ढक् । इतरेभ्यः ऋष्यण् । अत्रयः भृगवः । कुत्साः । वसिष्ठाः । गोतमाः । अङ्गिरसः । बहुषु इत्येव, आत्रेयः । भर्गवः । तेन+एव इत्येव, प्रियात्रेयाः । प्रियभार्गवाः । अस्त्रियामिति किम् ? आत्रेय्यः स्त्रियः ॥ ____________________________________________________________________ [॰१७०] बह्वचिञः प्राच्यभ्रतेषु ॥ २,४.६६ ॥ _____ काशिकावृत्तिः२,४.६६: बह्वचः प्रातिपदिकात्य इञ्विहितः प्राच्यगोत्रे भरतगोत्रे च वर्तते, तस्य बहुषु लुग्भवति । पन्नागाराः । मन्थरैषणाः । भरतेषु खल्वपि युधिष्ठिराः । अर्जुनाः । बह्वचः इति किम् ? बैकयः । पौष्पयः । प्राच्यभरतेषु इति किम् ? बालाकयः । हास्तिदासयः । भरताः प्राच्या एव, तेषां पुनर्ग्रहणं ज्ञापनार्थमन्यत्र प्राग्ग्रहणे भरतग्रहणं न भवति इति । तेन इञः प्राचाम् (*२,४.६०) इति भरतानां युवप्रत्ययस्य लुग्न भवति । अर्जुनिः पिता । आर्जुनायनः पुत्रः ॥ ____________________________________________________________________ न गोपवनादिभ्यः ॥ २,४.६७ ॥ _____ काशिकावृत्तिः२,४.६७: गोपवनादिभ्यः प्रस्य गोत्रप्रत्ययस्य लुग्न भवति । बदाद्यनतर्गणोऽयम् । ततोऽञो गोत्रप्रत्ययस्य यञञोश्च (*२,४.६४) इति लुक्प्राप्तः प्रतिषिध्यते । गौपवनाः । शैग्रवाः । गोपवन । शिग्रु । बिन्दु । भाजन । अश्व । अवतान । श्यामाक । श्वापर्ण । एतावन्त एव अष्टौ गोपवनादयः । परिशिष्टानां हरितादीनं प्रमादपाठः । ते हि चतुर्थे बिदादिषु पठ्यन्ते । तेभ्यश्च बहुषु लुग्भवत्येव, हरितः, किंदासाः इति ॥ ____________________________________________________________________ तिककितवादिभ्यो द्वन्द्वे ॥ २,४.६८ ॥ _____ काशिकावृत्तिः२,४.६८: तिकादिभ्यः कितवादिभ्यश्च द्वन्द्वे गोत्रप्रत्ययस्य बहुषु लुग्भवति । तैकायनयश्च कैतवायनयश्च, तिकादिभ्यः फिञ्(*४,१.१५८), तस्य लुक्, तिककितवाः । वाङ्खरयश्च भान्डीरथयश्च, अत इञ्(*४,१.९५), तस्य लुक्, वङ्खरभण्डीरथाः । औपकायनाश्च लामकायनाश्च, नडादिभ्यः फक्(*४,१.९९), तस्य लुक्, उपकलमकाः । पाफकयश्च नारकयश्च, अत इञ्(*४,१.९५), तस्य लुक्, पफकनरकाः । बाकनखयश्च श्वागुदपरिणद्धयश्च, अत इञ्(*४,१.९५), तस्य लुक्, बकनखश्वगुदपरिणद्धाः । उब्जशब्दातत इञ्(*४,१.९५), ककुभशब्दात्शिवादिभ्योऽन् (*४,१.११२) तयोर्लुक्, औब्जयश्च काकुभाश्च उब्जककुभाः । लाङ्कयश्च शान्तमुखयश्च, अत इञ्(*४,१.९५) तस्य लुक्, लङ्कशान्तमुखाः । उरसशब्दस्तिकादिषु पठ्यते, ततः फिञ्, लङ्कटशब्दादिञ्, तयोर्लुक्, औरसायनश्च लाङ्कटयश्च उरसलङ्कटाः । भ्राष्टकयश्च कापिष्ठलयश्च, अत इञ्(*४,१.९५), तस्य लुक्, भ्रष्टकक्पिष्ठलाः । कार्ष्णाजिनयश्च कार्ष्णसुन्दरयश्च, अत इञ्(*४,१.९५), तस्य लुक्, कृष्णाजिनकृष्णसुनदराः । आग्निवेश्यश्च दासेरकयश्च, अग्निवेशशब्दात्गर्गादिभ्यो यञ्(*४,१.१०५), दासेरकशब्दातत इञ्(*४,१.९५), तयोर्लुक्, अग्निवेशदासेरकाः ॥ ____________________________________________________________________ [॰१७१] उपकादिभ्योऽन्यतरस्यामद्वन्द्वे ॥ २,४.६९ ॥ _____ काशिकावृत्तिः२,४.६९: उपक इत्येवमादिभ्यः परस्य गोत्रप्रत्ययस्य बहुषु लुग्भवति अन्यतरस्यां द्वन्द्वे च अद्वन्द्वे च । अद्वन्द्वग्रहनं द्वन्द्वाधिकारनिवृत्त्यर्थम् । एतेषं च मद्ये त्रयो द्वन्द्वास्तिककितवादिषु पठ्यन्ते उपकलमकाः, भ्रष्टकक्पिष्ठलः, कृष्णाजिनकृष्णसुन्दराः इति । तेषां पूर्वेण+एव नित्यमेव लुग्भवति । अद्वन्द्वे त्वनेन विकल्पः उपकाः, औपकायनाः । लमका, लामकायनाः । भ्रष्टकाः, भ्राष्टकयः । कपिष्ठलाः, कापिष्ठलयः । कृष्णाजिनाः, कार्ष्णाजिनयः । कृष्णसुन्दराः, कार्ष्णसुन्दरयः इति । परिशिष्टानां च द्वन्द्वेऽद्वन्द्वे च विकल्पः इति । पण्डारक । अण्डारक । गडुक । सुपर्यक । सुपिष्ठ । मयूरकर्ण । खारीजङ्घ । शलावल । पतञ्जल । कण्ठेरणि । कुषीतक । काशकृत्स्न । निदाघ । कलशीकण्ठ । दामकण्ठ । कृष्णपिङ्गल । कर्णक । पर्णक । जटिलक । बधिरक । जन्तुक । अनुलोम । अर्धपिङ्गलक । प्रतिलोम । प्रतान । अनभिहित ॥ ____________________________________________________________________ आगस्त्यकौण्डिन्ययोरगस्तिकुण्डिनच् ॥ २,४.७० ॥ _____ काशिकावृत्तिः२,४.७०: आगस्त्यकौण्डिन्ययोर्गोत्रप्रत्यययोः अणो यञश्च बहुषु लुग्भवति, परिशिष्टस्य च प्रकृतिभागस्य यथासङ्ख्यमगस्ति, कुण्डिनचित्येतावादेशौ भवतः । अगस्तयः । कुण्डिनाः । चकारः स्वरार्थः । मद्योदात्तो हि कुण्डिनीशब्दस्तदादेशोऽपि तथा स्यात् । अगस्त्यशब्दादृष्यण्, कुण्डिनीशब्दाद्गर्गादित्वाद्यञ् । तयोः गोत्रेऽलुगचि (*४,१.८९) इति लुकि प्रतिषिद्धे आगस्तीयाः छत्राः इति वृद्धलक्षणश्छो भवति । कौण्डिन्ये त्वणैव भवितव्यम्, कण्वादिभ्यो गोत्रे (*४,२.१११) इति । तत्र विशेषो न अस्ति । कौण्डिनाश्छात्राः ॥ ____________________________________________________________________ सुपो धातुप्रातिपदिकयोः ॥ २,४.७१ ॥ _____ काशिकावृत्तिः२,४.७१: सुपो विभक्तेर्धातुसञ्ज्ञायाः प्रातिपदिकसञ्ज्ञायाश्च लुग्भवति । तदन्तर्गतास्तद्ग्रहणेन गृह्यन्ते । धातोस्तावत् पुत्रीयति । घटीयति । प्रातिपदिकस्य कष्टश्रितः । राजपुरुषः । धातुप्रातिपदिकयोः इति किम् ? वृक्षः । प्लक्षः ॥ ____________________________________________________________________ अदिप्रभृतिभ्यः शपः ॥ २,४.७२ ॥ _____ काशिकावृत्तिः२,४.७२: अदिप्रभृतिभ्य उत्तरस्य शपो लुग्भवति । अत्ति । हन्ति । द्वेष्टि ॥ ____________________________________________________________________ [॰१७२] बहुलं छन्दसि ॥ २,४.७३ ॥ _____ काशिकावृत्तिः२,४.७३: छन्दसि विषये शपो भौलं लुग्भवति । अदिप्रभृतिभ्य उक्तस्ततो न भवत्यपि वृत्रं हन्ति । अहिः शयते । अन्येभ्यश्च भवति त्राध्वं नो देवाः ॥ ____________________________________________________________________ यङोऽचि च ॥ २,४.७४ ॥ _____ काशिकावृत्तिः२,४.७४: यङो लुग्भवति अचि प्रत्यये परतः । चकारेन बहुलग्रहनमनुकृष्यते, न तु छन्दसि इति । तेन छन्दसि भाषायां च यङो लुग्भवति । लोलुवः । पोपुवः । सनीस्रंसः । दनीध्वंसः । बहुलग्रहणादञ्च्यपि भवति । शाकुनिको लालपीति । दुन्दुभिर्ववदीति ॥ ____________________________________________________________________ जुहोत्यादिभ्यः श्लुः ॥ २,४.७५ ॥ _____ काशिकावृत्तिः२,४.७५: शपनुवर्तते, न यङ् । जुहोत्यादिभ्यः उत्तरस्य शपः श्लुर्भवति । लुकि प्रकृते श्लुविधानां द्विर्वचनार्थम् । जुहोति । विभर्ति । नेनेक्ति ॥ ____________________________________________________________________ बहुलं छन्दसि ॥ २,४.७६ ॥ _____ काशिकावृत्तिः२,४.७६: छन्दसि विषये बहुलं शपः श्लुर्भवति । यत्रोक्तं तत्रं न भवति, अन्यत्र अपि भवति । जुहोत्यादिभ्यस्तावन्न भवति दाति प्रियाणि । धाति देवम् । अन्येभ्यश्च भवति पूर्णां विवष्टि । जनिमा विवक्ति ॥ ____________________________________________________________________ गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु ॥ २,४.७७ ॥ _____ काशिकावृत्तिः२,४.७७: लुकनुवर्तते, न श्लुः । गाति स्था घु पा भू इत्येतेभ्यः । परस्य सिचो लुग्भवति, परस्मैपदेषु परतः । अगात् । अस्थात् । अदात् । अधात् । अपात् । अभूत् । गापोर्ग्रहने इण्पिबत्योर्ग्रहणम् । गायतेः पातेः च न भवति । अगासीन्नटः । अपासीन्नृपः । परस्मैपदेषु इति किम् ? अगासातां ग्रामौ देवदत्तेन ॥ ____________________________________________________________________ [॰१७३] विभाषा घ्राधेट्शाच्छासः ॥ २,४.७८ ॥ _____ काशिकावृत्तिः२,४.७८: घ्रा घेट्शा छा सा इत्येतेभ्य उत्तरस्य सिचः प्रस्मैपदेषु विभाषा लुग्भवति । धेटः पूर्वेण प्राप्ते विभाषार्थं वचनम्, परिशिष्टानामप्राप्ते । अघ्रात्, अघ्रासीत् । अधात्, अधासीत् । अशात्, अशासीत् । अच्छात्, अच्छासीत् । असात्, असासीत् । परस्मैपदेषु इत्येव, अघ्रासातां सुमनसौ देवदत्तेन ॥ ____________________________________________________________________ तनादिभ्यस्तथासोः ॥ २,४.७९ ॥ _____ काशिकावृत्तिः२,४.७९: तनादिभ्य उत्तरस्य सिचः तथासोः परतो विभाषा लुग्भवति । अतत, अतथाः । अतनिष्ट, अतनिष्ठाः । असात, असाथाः । असनिष्ट, असनिष्ठाः । जनसनखनां सञ्ज्ञलोः (*६,४.४२) इत्यात्वम् । थासा साहचर्यादात्मनेपदस्य तशब्दस्य ग्रहनम् । प्रस्मैपदे न भवति, अतनिष्त यूयम् ॥ ____________________________________________________________________ मन्त्रे घसह्वरनशवृदहाद्वृच्कृगमिजनिभ्यो लेः ॥ २,४.८० ॥ _____ काशिकावृत्तिः२,४.८०: मन्त्रविषये घस ह्वर नश वृ दह आत्वृच कृ गमि जनि इत्येतेभ्यः उत्तरस्य लेः लुग्भवति । घस अक्षन् पितरोऽमीमदन्त पितरः । ह्वर इति ह्वृ कौटिल्ये मा ह्वार्मित्रस्य त्वा । णश धूर्तिः प्रणङ्मर्त्यस्य । वृ इति वृङ्वृञोः सामान्येन ग्रहनम् सुरुचो वेन आवः । दह मा न आ धक् । आतिति आकारान्तग्रहनम् । प्रा पूरने आप्रा द्यावापृठीवी अन्तरिक्षम् । वृच् मा नो अस्मिन्महाधने परा वृग्भारभृद्यथा । कृ अक्रन् कर्म कर्मकृतः । गमि {सद्यः पुंष्टि निरुन्धानासो} अग्मन् । जनि अज्ञत वा अस्य दन्ताः । ब्राह्मने प्रयोगोऽयम् । मन्त्रग्रहणं तु छन्दस उपलक्षणार्थम् ॥ ____________________________________________________________________ आमः ॥ २,४.८१ ॥ _____ काशिकावृत्तिः२,४.८१: आमः परस्य लेः लुग्भवति । ईहाञ्चक्रे । ऊहाञ्चक्रे । ईक्षाञ्चक्रे ॥ ____________________________________________________________________ अव्ययादाप्सुपः ॥ २,४.८२ ॥ _____ काशिकावृत्तिः२,४.८२: अव्ययादुत्तरस्य आपः सुपश्च लुग्भवति । तत्र शालायाम् । यत्र शालायाम् । सुपः खल्वपि कृत्वा । हृत्वा ॥ ____________________________________________________________________ [॰१७४] न अव्ययीभावादतोऽम्‌ त्वपञ्चम्याः ॥ २,४.८३ ॥ _____ काशिकावृत्तिः२,४.८३: पूर्वेण लुक्प्राप्तः प्रतिषिध्यते । दन्तादव्ययीभावादुत्तरस्य सुपो न लुग्भवति, अमादेशस्तु तस्य सुपो भवत्यपञ्चम्याः । एतस्मिन् प्रतिषिद्धे पञ्चम्याः श्रवनमेव भवति । उपकुम्भं तिष्ठति । उपकुम्भं पश्य । उपमणिकं तिष्ठति । उपमणिकं पश्य । अतः इति किम् ? अधिस्त्रि । अधिकुमारि । अपञ्चम्याः इति किम् ? उपकुम्भादानय ॥ ____________________________________________________________________ तृतीयासप्तम्योर्बहुलम् ॥ २,४.८४ ॥ _____ काशिकावृत्तिः२,४.८४: पूर्वेण नित्यमम्भावे प्राप्ते वचनमिदम् । तृतीयासप्तम्योः विभक्त्योर्बहुलमम्भावो भवति अव्ययीभावे । उपकुम्भेन कृतम्, उपकुम्भं कृतम् । उपकुम्भे निधेहि, उपकुम्भं निधेहि । सपम्या ऋद्धिनदीसमाससङ्ख्यावयवेभ्यो नित्यमिति वक्तव्यम् । सुमद्रं सुमगधम् । उन्मत्तगङ्गम् । लोहितगङ्गम् । एकविंशतिभारद्वाजम् । बहुलवचनात्सिद्धम् ॥ ____________________________________________________________________ लुटः प्रथमस्य डारौरसः ॥ २,४.८५ ॥ _____ काशिकावृत्तिः२,४.८५: लुडादेशस्य प्रथमपुरुषस्य प्रस्मैपदस्य आत्मनेपदस्य च यथाक्रमं डा रौ रसित्येते आदेशा भवन्ति । कर्ता, कर्तारौ, कर्तारः । आत्मनेपदस्य अध्येता, अध्येतारौ, अध्येतारः । प्रथमस्य इति किम् ? श्वः कर्तासि । श्वोऽध्येतासे ॥ इति श्रीजयादित्यविरचितायां काशिकायां वृत्तौ द्वितीयाध्यायस्य चतुर्थः पादः ॥ ______________________________________________________ तृतीयोऽद्यायः प्रथमः पादः । ____________________________________________________________________ [॰१७५] प्रत्ययः ॥ ३,१.१ ॥ _____ काशिकावृत्तिः३,१.१: अधिकारोऽयम् । प्रत्ययशब्दः सञ्ज्ञात्वेन अधिक्रियते । आ पञ्चमाद्यायपरिसमाप्तेर्यानित ऊर्ध्वमनुक्रमिष्यमः, प्रत्ययसञ्ज्ञास्ते वेदितव्याः, प्रकृत्युपपादोपाधिविकारागमान् वर्जयित्वा । वक्ष्यति तव्यत्तव्यानीयरः (*३,१.९६) । कर्तव्यम् । करणीयम् । प्रत्ययप्रदेशाः प्रत्ययलोपे प्रत्ययलक्षणम् (*१,१.६२) इत्येवमादयः ॥ ____________________________________________________________________ परश्च ॥ ३,१.२ ॥ _____ काशिकावृत्तिः३,१.२: अयमप्यधिकारो योगे योगे उपतिष्ठते, परिभाषा वा । परश्च स भवति धातोर्वा प्रातिपदिकाद्वा यः प्रत्ययसञ्ज्ञः । कर्तव्यम् । तैत्तिरीयम् । चकारः पुनरस्यैव समुच्चयार्थः । तेन+उणादिषु परत्वं न विकल्प्यते ॥ ____________________________________________________________________ आद्युदात्तश्च ॥ ३,१.३ ॥ _____ काशिकावृत्तिः३,१.३: अयमप्यधिकारः परिभाषा वा । आद्युदात्तश्च स भवति । आद्युदात्तश्च स भवति यः प्रत्ययसञ्ज्ञः । अनियतस्वरप्रत्ययप्रसङ्गेऽनेकाक्षु च प्रत्ययेषु देशस्य अनियमे सति वचनमिदमादेरुदात्तार्थम् । कर्तव्यम् । तैत्तिरीयम् ॥ ____________________________________________________________________ अनुदात्तौ सुप्पितौ ॥ ३,१.४ ॥ _____ काशिकावृत्तिः३,१.४: पूर्वस्य अयमपवादः । सुपः पितश्च प्रत्यया अनुदात्ता भवन्ति । दृषदौ । दृषदः । पितः खल्वपि पचति । पठति ॥ ____________________________________________________________________ गुप्तिज्किद्भ्यः सन् ॥ ३,१.५ ॥ _____ काशिकावृत्तिः३,१.५: गुप गोपने, तिज निशाने, कित निवासे एतेभ्यो धातुभ्यः सन् प्रत्ययो भवति । प्रत्ययसञ्ज्ञा च अधिकृतैव । जुगुप्सते । तितिक्षते । चिकित्सति । निन्दाक्षमाव्याधिप्रतीकारेषु सन्निषतेऽन्यत्र यथा प्राप्तं प्रत्यया भवन्ति । योपयति । तेजयति । सङ्केतयति । गुपादिष्वनुबन्धकरणमात्मनेपदार्थम् ॥ ____________________________________________________________________ [॰१७६] मान्बधदान्शान्भ्यो दीर्घश्च अभ्यासस्य ॥ ३,१.६ ॥ _____ काशिकावृत्तिः३,१.६: मान् पूजायाम्, बध बन्धने, दान अवखण्डने, शान अवतेजते, इत्येतेभ्यो धातुभ्यः सन् प्रत्ययो भवति, अभ्यासस्य च इकारस्य दीर्घादेशो भवति । मीमांसते । बीभत्सते । दीदांसते । शीशांसते । उत्तरसूत्रे वाग्रहणं सर्वस्य शेषो विज्ञायते, तेन क्वचिन्न भवत्यपि । मानयति । बाधयति । दानयति । निशानयति । अत्र अपि सन्नर्थविशेष इष्यते । मानेर्जिज्ञासायाम्, बधेर्वैरूप्ये, दानेरार्जवे, शानेर्निशाने ॥ ____________________________________________________________________ धातोः कर्मणः समानकर्तृकादिच्छायां वा ॥ ३,१.७ ॥ _____ काशिकावृत्तिः३,१.७: इषिकर्म यो धतुरिषिणैव समानकर्तृकः, तस्मादिच्छायामर्थे वा सन् प्रत्ययो भवति । कर्मत्वं समानकर्तृकत्वं च धातोरर्थद्वारकम् । कर्टुमिच्छति । चिकीर्षति । जिहीर्षति । धातुग्रहनं किम् ? सोपसर्गादुत्पत्तिर्मा भूत् । प्रकऋतुमैच्छत्प्राचिकीर्षत् । कर्मणः इति किम् ? करणान्मा भूत् । गमनेन+इच्छति । समानकर्तृकतिति किम् ? देवदत्तस्य भोजनमिच्छति यज्ञदत्तः । इच्छायामिति किम् ? कर्तुं जानाति । वावचनाद्वाक्यमपि भवति । धातोः इति विधानादत्र सनः आर्धधातुकसञ्ज्ञा भवति, न पूर्वत्र । आशङ्कायामुपसंख्यानम् । आशङ्के पतिष्यति कूलम्, पिपतिषति कूलम् । श्वा मुमूर्षति । इच्छासन्नन्तात्प्रतिषेधो वक्तव्यः । चिकीर्षितुमिच्छति । विशेषणं किम् ? जुगुप्सिषते । मीमांसिषते । शैषिकान्मतुबर्थीयाच्छैषिको मतुबर्थिकः । सरूपः प्रत्ययो नेष्टः सनन्तान्न सनिष्यते ॥ ____________________________________________________________________ सुप आत्मनः क्यच् ॥ ३,१.८ ॥ _____ काशिकावृत्तिः३,१.८: कर्मणः इच्छायां वा इत्यनुवर्तते । इषिकर्मणः एषितुः एव आत्मसम्बन्धिनः सुबन्तादिच्छायामर्थे वा क्यच्प्रत्ययो भवति । आत्मनः पुत्रमिच्छति पुत्रीयति । सुब्ग्रहणं किम् ? वाक्यान्मा भूत् । महान्तं पुत्रमिच्छति । आत्मनः इति किम् ? राज्ञः पुत्रमिच्छति । ककारः नः क्ये (*१,४.१५) इति सामान्यग्रहणार्थः । चकारस्तदविघातार्थः । [॰१७७] क्यचि मान्ताव्ययप्रतिषेधो वक्तव्यः । इदमिच्छति । उच्चैरिच्छति । नीचिअरिच्छति । छन्दसि परेच्छायामिति वक्तव्यम् । मा त्वा वृका अघायवो विदन् ॥ ____________________________________________________________________ काम्यच्च ॥ ३,१.९ ॥ _____ काशिकावृत्तिः३,१.९: सुबन्तात्कर्मणः आत्मेच्छायां काम्यच्प्रत्ययो भवति । आत्मनः पुत्रमिच्छति पुत्रकाम्यति । वस्त्रकाम्यति । योगविभाग उत्तरत्र क्यचोऽनुवृत्त्यर्थः । ककारस्य इत्सज्ञा प्रयोजनाभावान्न भवति, चकारादित्वाद्व काम्यचः । उपयट्काम्यति ॥ ____________________________________________________________________ उपमानादाचारे ॥ ३,१.१० ॥ _____ काशिकावृत्तिः३,१.१०: क्यचनुवर्तते, न काम्यच् । उपमनात्कर्मणः सुबन्तादाचारेऽर्थे वा क्यच्प्रत्ययो भवति । आचारक्रियायाः प्रत्ययार्थत्वात्तदपेक्षयैव उपमानस्य कर्मता । पुत्रमिव आचरति पुत्रीयति छात्रम् । प्रावारीयति कम्बलम् । अधिकरणाच्चेति वक्तव्यम् । प्रासादीयति कुट्याम् । पर्यङ्कीयति मञ्चके ॥ ____________________________________________________________________ कर्तुः क्यङ्सलोपश्च ॥ ३,१.११ ॥ _____ काशिकावृत्तिः३,१.११: आचारे इत्यनुवर्तते । उपमानात्कर्तुः सुबन्तादाचारेऽर्थे वा क्यङ्प्रत्त्ययो भवति, सकारस्य च लोपो भवति । अन्वाचयशिष्तः सलोपः, तदभावेऽपि क्यङ्भवत्येव । श्येन इवाचरति काकः श्येनायते । कुमुदं पुष्करायते । सलोपविधावपि वाग्रहणं सम्बध्यते, सा च व्यवस्थितविभाषा भवति । ओजसोऽप्सरसो नित्यं पयसस्तु विभाषया । {सकारस्येष्यते लोपः शब्दशास्त्रविचक्षनैः} ओजायमानं यो अहिं जघान । ओजायते, अप्सरायते । पयायते, पयस्यते । सलोपविधौ च कर्तुः इति स्थानषष्ठी सम्पद्यते, तत्र अलोऽन्त्यनियमे सति हंसायते, सारसायते इति सलोपो न भवति । [॰१७८] आचारेऽवगल्भक्लीबहोडेभ्यः क्विब्वा वक्तव्यः । अवगल्भते, अवगल्भायते । क्लीबते, क्लीबायते । होडते, होडायते । सर्वप्रातिपदिकेभ्य इत्येके । अश्व इव आचरति अश्वायते, अश्वति । गर्दभायते, गर्दभति ॥ ____________________________________________________________________ भृशादिभ्यो भुव्यच्वेर्लोपश्च हलः ॥ ३,१.१२ ॥ _____ काशिकावृत्तिः३,१.१२: भृश इत्येवमादिभ्यः प्रातिपदिकेभ्योऽच्व्यन्तेभ्यो भुवि भवत्यर्थे क्यङ्प्रत्ययो भवति, हलन्तानां च लोपः । अच्वेः इति प्रत्येकमभिसम्बध्यते । किमर्थं पुन रिदमुच्यते, यावता भवति योगे च्विर्विधीयते, तेनोक्तार्थत्वाच्च्व्यन्तेभ्यो न क्यङ्भविष्यति ? तत्सादृश्यप्रतिपत्त्यर्थं तर्हि च्विप्रतिषेधः क्रियते । अभूततद्भावविषयेभ्यो भृशादिभ्यः क्यङ्प्रत्ययः । अभृशो भृशो भवति भृशायते । शीघ्रायते । भृश । शीघ्र । मन्द । चपल । पण्डित । उत्सुक । उन्मनस् । अभिमनस् । सुमनस् । दुर्मनस् । रहस् । रेहस् । शश्वत् । बृहत् । वेहत् । नृषत् । शुधि । अधर । ओजस् । वर्चस् । भृशादिः । अच्वेः इति किम् ? भृशीभवति ॥ ____________________________________________________________________ लोहितादिडाज्भ्यः क्यष् ॥ ३,१.१३ ॥ _____ काशिकावृत्तिः३,१.१३: लोहितादिभ्यो डाजन्तेभ्यश्च भवत्यर्थे क्यष्प्रत्ययो भवति । लोहितायति, लोहितयते । डाजन्तेभ्यः पटपटायति, पटपटायते । लोहितडाज्भ्यः क्यष्वचनम्, भृशादिष्वितराणि । यानि लोहितादिषु पठ्यन्ते तेभ्यः क्यङेव, अपरिपठितेभ्यस्तु क्यषेव भवति । वर्मायति, वर्मायते । निद्रयति, निद्रायते । करुणायति, करुणायते । कृपायति, कृपायते । आकृतिगणोऽयम् । यथा च ककारः सामान्यग्रहणार्थोऽनुबध्यते नः क्ये (*१,४.१५) इति । न हि पठितानां मध्ये नकारान्तः शब्दोऽस्ति । कृभ्वस्तिभिरिव क्यषाऽपि योगे डाज्भवति इत्येतदेव वचनं ज्ञापकम् । अच्वेः इत्यनुवृत्तेरभूततद्भावे क्यष्विज्ञायते । लोहित । नील । हरित । पीत । मद्र । फेन । मन्द । लोहितादिः ॥ ____________________________________________________________________ कष्टाय क्रमणे ॥ ३,१.१४ ॥ _____ काशिकावृत्तिः३,१.१४: क्यङनुवर्तते, न क्यष् । कष्टशब्दाच्चतुर्थीसमर्थात्क्रमणेऽर्थेऽनार्जवे क्यङ्प्रत्ययो भवति । कष्टाय कर्मणे क्रामति कष्तायते । अत्यल्पमिदमुच्यते । स्त्रकष्टकक्षकृच्छ्रगहनेभ्यः कण्वचिकीर्षायामिति वक्तव्यम् । कन्वचिकीर्षा पापचिकीर्षा, तस्यामेतेभ्यः क्यङ्प्रत्ययो भवति । स्त्रायते । कष्तायते । कक्षायते । कृच्छ्रायते । गहनायते । कण्वचिकीर्षायामिति किम् ? अजः कष्टं क्रामति ॥ ____________________________________________________________________ [॰१७९] कर्मणो रोमन्थतपोभ्यां वर्तिचरोः ॥ ३,१.१५ ॥ _____ काशिकावृत्तिः३,१.१५: रोमन्थशब्दात्तपःशब्दाच्च कर्मणो यथाक्रमं वर्तिचरोरर्थयोः क्यङ्प्रत्ययो भवति । रोमन्थं वर्तयति रोमन्थायते गौः । हनुचलने इति वक्तव्यम् । इह मा भूत्, कीटो रोमन्थं वर्तयति । तपसः परस्मैपदं च । तपशचरति तपस्यति ॥ ____________________________________________________________________ बाष्पोष्मभ्यामुद्वमने ॥ ३,१.१६ ॥ _____ काशिकावृत्तिः३,१.१६: कर्मणः इति वर्तते । बाष्पशब्दादूष्मशब्दाच्च कर्मन उद्वमनेऽर्थे क्यङ्प्रत्ययो भवति । बाष्पमुद्वमति बाष्पायते । ऊष्मायते । फेना च्चेति वक्तव्यम् । फेनमुद्वमति फेनायते ॥ ____________________________________________________________________ शब्दवैरकलहाभ्रकण्वमेघेभ्यः करणे ॥ ३,१.१७ ॥ _____ काशिकावृत्तिः३,१.१७: शब्द वैर कलह अभ्र कन्व मेघ इत्येतेभयः करणे करोत्यर्थे क्यङ्प्रत्ययो भवति । शब्दं करोति शब्दायते । वैरायते । कलहायते । अभ्रायते । कण्वायते । मेघायते । सुदिनदुर्दिननीहरेभ्यश्चेति वक्तव्यम् । सुदिनायते । दुर्दिनायते । नीहारायते । अटाट्टाशीकाकोटापोटासोटाप्रुष्टाप्लुष्टाग्रहणं कर्तव्यम् । अटायते । अट्टायते । शीकायते । कोटायते । पोटायते । सोटायते । प्रुष्टायते । प्लुष्टायते ॥ ____________________________________________________________________ [॰१८०] सुखादिभ्यः कर्तृवेदनायाम् ॥ ३,१.१८ ॥ _____ काशिकावृत्तिः३,१.१८: कर्मग्रहणसनुवर्तते । सुख इत्येवमादिभ्यः कर्मभ्यः वेदनायामर्थेऽनुभवे क्यङ्प्रत्ययो भवति, वेदयितुश्चेत्कर्तुः सम्बन्धीनि सुखादीनि भवन्ति । सुखं वेदयते सुखायते । दुःखायते । कर्तृग्रहणं किम् ? सुखं वेदयते प्रसाधको देवदत्तस्य । सुख । दुःख । तृप्त । गहन । कृच्छ्र । अस्र । अलीक । प्रतीप । करुण । कृपण । सोढ । सुखादिः ॥ ____________________________________________________________________ नमोवरिवश्चित्रङः क्यच् ॥ ३,१.१९ ॥ _____ काशिकावृत्तिः३,१.१९: करणे इति वर्तते । नमस्वरिवस्चित्रङित्येतेभ्यो वा क्यच्प्रत्ययो भवति, करणविशेषे पूजादौ । नमसः पूजायाम् नमस्यति देवान् । वरिवसः परिचर्यायाम् वरिवस्यति गुरून् । चित्रङ आश्चर्ये चित्रीयते । ङकार आत्मनेपदार्थः ॥ ____________________________________________________________________ पुच्छभान्डचीवराण्णिङ् ॥ ३,१.२० ॥ _____ काशिकावृत्तिः३,१.२०: करणे इति वर्तते । पुच्छ भाण्ड चीवर इत्येतेभ्यो णिङ्प्रत्ययो भवति करणविशेषे । पुच्छादुदसने पर्यसने वा । उत्पुच्छयते । परिपुच्छयते । भाण्डात्समाचयने । सम्भान्डयते । चीवरादर्जने परिधाने वा । सञ्चीवरयते भिक्षुः । ङकार आत्मनेपदार्थः । णकारः सामान्यग्रहणार्थः, णेरनिटि (*६,४.५१) इति ॥ ____________________________________________________________________ [॰१८१] मुण्डमिश्रश्लक्ष्णलवणव्रतवस्त्रहलकलकृततूस्तेभ्यो णिच् ॥ ३,१.२१ ॥ _____ काशिकावृत्तिः३,१.२१: मुण्ड मिश्र श्लक्ष्ण लवण व्रत वस्त्र हल कल कृत तूस्त इत्येतेभ्यः करणे णिच्प्रत्ययो भवति । मुण्डं करोति मुण्डयति । मिश्रयति । श्लक्ष्णयति । लवणयति । व्रतात्भोजने तन्निवृत्तौ च पयो व्रतयति । वृषलान्नं व्रतयति । वस्त्रात्समाच्छादने संवस्त्रयति । हलिं गृह्णाति हलयति । कलिं गृह्णाति कलयति । हलिकल्योरदन्तत्वनिपातनं सन्वद्भावप्रतिषेधार्यम् । अजहलत् । अचकलत् । कृतं गृह्णाति कृतयति । तूस्तानि विहन्ति वितूस्तयति केशान् । विशदीकरोति इत्यर्थः ॥ ____________________________________________________________________ धातोरेकाचो हलादेः क्रियासमभिहारे यङ् ॥ ३,१.२२ ॥ _____ काशिकावृत्तिः३,१.२२: एकाज्यो धातुर्हलादिः क्रियासमभिहारे वर्तते तस्माद्यङ्प्रत्ययो भवति । पौनःपुन्यं भृशार्थो वा क्रियासमभिहारः । नः पुनः पचति पापच्यते । यायज्यते । भृशं ज्वलति जाज्वल्यते । देदीप्यते । धातोः इति किम् ? सोपसर्गादुत्पत्तिर्मा भूत्, भृशं प्राटति । एकाचः इति किम् ? भृशं जागर्ति । हलादेः इति किम् ? भृशमीक्षते । सूचिसूत्रमूत्र्यट्यर्त्यशूर्णोतीनां ग्रहनं यङ्विधानवेकाजहलाद्यर्थम् । सोसूच्यते । सोसूत्र्यते । मोमूत्र्यते । अटाट्यते । अरार्यते । अशाश्यते । प्रोर्णोनूयते । भृशं शोभते, भृशं रोचते इत्यत्र नेष्यते, अनभिधानात् ॥ ____________________________________________________________________ नित्यं कौटिल्ये गतौ ॥ ३,१.२३ ॥ _____ काशिकावृत्तिः३,१.२३: गतिवचनाद्धतोः कौटिल्ये गम्यमाने नित्यं यङ्प्रत्ययो भवति । कुटिलं क्रामति चङ्क्रम्यते । दन्द्रम्यते । नित्यग्रहणं विषयनियमार्थं, गतिवचनान्नित्यं कौटिल्य एव भवति, न तु क्रियासमभिहारे । भृशं क्रामति ॥ ____________________________________________________________________ लुपसदचरजपजभदहदशगॄभ्यो भावगर्हायाम् ॥ ३,१.२४ ॥ _____ काशिकावृत्तिः३,१.२४: लुप सद चर जप जभ दह दश गॄ इत्येतेभ्यो भावगर्हायां धात्वर्थगर्हायां यङ्प्रत्ययो भवति । गर्हितं लुम्पति लोलुप्यते । एवं सासद्यते । पञ्चऊर्यते । जञ्जप्यते । जञ्जभ्यते । दन्दह्यते । दन्दश्यते । [॰१८२] निजेगिल्यते । भावगर्हायामिति किम् ? साधु जपति । भावग्रहणं किम् ? साधनगर्हायां मा भूत्, मन्त्रं जपति वृषलः । नित्यग्रहणं विषयनियमार्थमनुवर्तते । एतेभ्यो नित्यं भावगर्हायामेव भवति, न तु क्रियासमभिहारे । भृशं लुम्पति ॥ ____________________________________________________________________ सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच् ॥ ३,१.२५ ॥ _____ काशिकावृत्तिः३,१.२५: सत्यादिभ्यश्चूर्णपर्यन्तेभ्यः, चुरादिभ्यश्च णिच्प्रत्ययो भवति । सत्यमाचष्ते सत्यापयति । अर्थवेदसत्यानामापुग्वक्तव्यः । अर्थमाचष्ते अर्थापयति । देवापयति । आपुग्वचनसामर्थ्याट्टिलोपो न भवति । पाशाद्विमोचने विपाशयति । रूपाद्दर्शने रूपयति । वीणयोपगायति उपवीणयति । तूलेनानुकुष्णाति अनुतूलयति । श्लोकैरुपस्तौति उपश्लोकयति । सेनयाभियाति अभिषेणयति । लोमान्यनुमार्ष्टि अनुलोमयति । त्वचं गृह्णाति त्वचयति । अकारान्तस्त्वचशब्दः । वर्मणा सन्नह्यति संवर्मयति । वर्णं गृह्णाति वर्णयति । चूर्णैः अवध्वंसयति अवचूर्णयति । चुरादिभ्यः स्वार्थे । चोरयति । चिन्तयति । स्वाभाविकत्वादर्थाभिधानस्य यथास्वं प्रत्ययार्था निर्दिश्यन्ते ॥ ____________________________________________________________________ हेतुमति च ॥ ३,१.२६ ॥ _____ काशिकावृत्तिः३,१.२६: हेतुः स्वतन्त्रय कर्तुः प्रयोजकः, तदीयो व्यापारः प्रेषनादिलक्षणो हेतुमान्, तस्मिन्नभिधेये धातोः णिच्प्रत्ययो भवति । कटं कारयति । ओदनं पाचयति । तत्करोति इत्युपसङ्ख्यानं सूत्रयति इत्याद्यर्थम् । सूत्रं करोति सूत्रयति । आख्यानात्कृतस्तदाचष्ट इति णिच्कृल्लुक्प्रकृतिप्रत्यापत्तिः प्रकृतिवच्च कारकम् । आख्यानात्कृदन्त्तण्णिच्वक्तव्यः तदाचष्टे इत्येतस्मिन्नर्थे, कृल्लुक्, प्रकृतिप्रत्यापत्तिः, प्रकृतिवच्च कारकं भवति । कंसवधमाचष्टे कंसं घातयति । बलिबन्धमाचष्टे बलिं बन्धयति । राजागमनमाचष्टे राजानमागमयति । [॰१८३] आङ्लोपश्च कालात्यन्तसंयोगे मर्यादायाम् । आरात्रि विवासमाचश्टे रात्रिं विवासयति । चित्रीकरणे प्रापि । उज्जयिन्याः प्रस्थितो माहिष्मत्यां सूर्योद्गमनं सम्भावयते सूर्यमुद्गमयति । नक्षत्रयोगे ज्ञि । पुष्ययोगं जानाति पुष्येण योजयति । मघभिर्योजयति ॥ ____________________________________________________________________ कण्ड्वादिभ्यो यक् ॥ ३,१.२७ ॥ _____ काशिकावृत्तिः३,१.२७: कण्डूञित्येवमादिभ्यो यक्प्रत्ययो भवति । द्विवधाः कण्ड्वादयो, धातवः प्रातिपादिकानि च । तत्र धात्वधिकाराद्धतुभ्यः एव प्रत्ययो विधीयते, न तु प्रातिपदिकेभ्यः । तथा च गुणप्रतिषेधार्थः ककारोऽनुबध्यते । धातुप्रकरणाद्धातुः कस्य चासञ्जनादपि । आह च अयमिमं दीर्घं मन्ये धतुर्विभाषितः ॥ कण्डूञ् कण्डूयति, कण्डूयते । ञित्वात्कर्त्रभिप्राये क्रियाफले (*१,३.७२) इत्यात्मनेपदम् । कण्डूञ् । मन्तु । हृणीङ् । वल्गु । अस्मनस् । महीङ् । लेट् । लोट् । इरस् । इरज् । इरञ् । द्रवस् । मेधा । कुषुभ । मगध । तन्तस् । पम्पस् । सुख । दुःख । सपर । अरर । भिषज् । भिष्णज् । इषुध । चरण । चुरण । भुरण । तुरण । गद्गद । एला । केला । खेला । लिट् । लोट् ॥ ____________________________________________________________________ गुपूधूपविच्छिपणिपनिभ्य आयः ॥ ३,१.२८ ॥ _____ काशिकावृत्तिः३,१.२८: गुपू रक्षणे, धूप सन्तापे, विच्छ गतौ, पण व्यवहारे स्तुतौ च, पन च इत्येतेभ्यो धातुभ्यः आयप्रत्ययो भवति । तोपायति । धूपयति । विच्छायति । पणायति । पनायति । स्तुत्यर्थेन पनिना साहचर्यात्तदर्थः पणिः प्रत्ययमुत्पादयति न व्यवहारार्थः । शतस्य पणते । सहस्रसय पणते । अनुबन्धश्च केवले चरितार्थः, तेन आयप्रत्ययान्तान्नात्मनेपदं भवति ॥ ____________________________________________________________________ [॰१८४] ऋतेरीयङ् ॥ ३,१.२९ ॥ _____ काशिकावृत्तिः३,१.२९: ऋतिः सौत्रो धतुः धृणायां वर्तते, ततः ईयङ्प्रत्ययो भवति । ङकार आत्मनेपदार्थः । ऋतीयते, ऋतीयेते, ऋतियन्ते । ईयङ्वचनं ज्ञापनार्थं, धातुविहितानां प्रत्ययानामायनादयो न भवन्ति इति ॥ ____________________________________________________________________ कमेर्णिङ् ॥ ३,१.३० ॥ _____ काशिकावृत्तिः३,१.३०: कमेर्धातोः णिङ्प्रत्ययो भवति । णकारो वृद्ध्यर्थः । ङकार आत्मनेपदार्थः । कामयते, कामयेते, कामयन्ते ॥ ____________________________________________________________________ आयादय आर्धधातुके वा ॥ ३,१.३१ ॥ _____ काशिकावृत्तिः३,१.३१: आर्धधातुकविषये आर्धधातुकविवक्षायामायादयः प्रत्यया वा भवन्ति । गोप्ता, गोपायिता । अर्तिता, ऋतीयिता । कमिता, कामयिता । नित्यं प्रत्ययप्रसङ्गे तदुत्पत्तिरार्धधातुकविषये विकल्प्यते, तत्र यथायथं प्रत्यया भवन्ति । गुप्तिः । गोपाया ॥ ____________________________________________________________________ सनाद्यन्ता धातवः ॥ ३,१.३२ ॥ _____ काशिकावृत्तिः३,१.३२: सनादिर्येषां ते सनादयः । सनादयोऽन्ते येषं ते सनाद्यन्ताः । सनाद्यन्ताः समुदायाः धातुसञ्ज्ञाः भवन्ति । प्रत्ययग्रहणपरिभाषा+एव पदसञ्ज्ञायामन्तवचनेन लिङ्गेन प्रतिषिद्धा सती पुनरिह अन्तवचनेन प्रतिप्रसूयते । चिकीर्षति । पुत्रीयति । पुत्रकाम्यति ॥ ____________________________________________________________________ स्यतासी लृ‌लुटोः ॥ ३,१.३३ ॥ _____ काशिकावृत्तिः३,१.३३: लृ‌रूपमुत्सृष्टानुबन्धं सामान्यमेकमेव । तस्मिन् लुटि च परतो धातोर्यथासङ्ख्यं स्यतासी प्रत्ययौ भवतः । करिष्यति । अकरिष्यत् । श्वः कर्ता । इदित्करणमनुनासिकलोपप्रतिषेधार्थम् । मन्ता । सङ्गन्ता ॥ ____________________________________________________________________ सिब्बहुलं लेति ॥ ३,१.३४ ॥ _____ काशिकावृत्तिः३,१.३४: धातोः सिप्प्रत्ययो भवति बहुलं लेति परतः । जोषिषत् । तारिषत् । मन्दिषत् । न च भवति । पताति दिद्युत् । उदधिं च्यावयाति ॥ ____________________________________________________________________ कास्प्रत्ययादाममन्त्रे लिटि ॥ ३,१.३५ ॥ _____ काशिकावृत्तिः३,१.३५: कासृ शब्दकुत्सायाम्, ततः प्रत्ययान्तेभ्यश्च धातुभ्यः आं प्रत्ययो भवति लिटि परतोऽमन्त्रविषये । कासाञ्चक्रे । प्रत्ययान्तेभ्यः लोलूयाञ्चक्रे । अमन्त्रे इति किम् ? कृष्णो नोनाव ॥ [॰१८५] कास्यनेकाचः इति वक्तव्यं चुलुम्पाद्यर्थम् । चकासाञ्चकार । दरिद्राञ्चकार । चुलुम्पाज्चकार । आमोऽमित्वमदन्तत्वादगुणत्वं विदेस्तथा । आस्कासोरां विधानाच्च पररूपं कतन्तवत् ॥ ____________________________________________________________________ इजादेश्च गुरुमतोऽनृच्छः ॥ ३,१.३६ ॥ _____ काशिकावृत्तिः३,१.३६: इजादिर्यो धातुर्गुरुमानृच्छतिवर्जितः, तस्माच्च लिटि परत आं प्रत्ययो भवति । ईह चेष्टायाम् । ऊह वितर्के । ईहाञ्चक्रे । ऊहाञ्चक्रे । इजादेः इति किम् ? ततक्ष । ररक्ष । गुरुमतः इति किम् ? इयज । उवप । अनृच्छः इति किम् ? आनर्च्छ, आनर्च्छतुः, आनर्च्छौः । ऊर्णोतेश्च प्रतिषेधो वक्तव्यः । प्रोर्णुनाव । अथ वा वाच्य ऊर्णोर्णुवद्भावो यङ्प्रसिद्धिः प्रयोजनम् । आमश्च प्रतिषेधार्थमेकाचश्चेडुपग्रहात् ॥ ____________________________________________________________________ दयायासश्च ॥ ३,१.३७ ॥ _____ काशिकावृत्तिः३,१.३७: दय दानगतिरक्षणेषु, अय गतौ, आस उपवेषने, एतेभ्यश्च लिटि परत आं प्रत्ययो भवति । दयञ्चक्रे । पलायाञ्चक्रे । आसाञ्चक्रे ॥ ____________________________________________________________________ उषविदजागृभ्योऽन्यतरस्याम् ॥ ३,१.३८ ॥ _____ काशिकावृत्तिः३,१.३८: उष दाहे, विद ज्ञाने, जगृ निद्राक्षये, एतेभ्यो लिटि परतोऽन्यतरस्यामां प्रत्ययो भवति । ओषाञ्चकार, उवोष । विदाञ्चकार, विवेद । जागराञ्चकार, जजागार । विदेरदन्तत्वप्रतिज्ञानादामि गुणो न भवति ॥ ____________________________________________________________________ भीह्रीभृहुवां श्लुवच्च ॥ ३,१.३९ ॥ _____ काशिकावृत्तिः३,१.३९: ञिभी भये, ह्री लज्जायाम्, डुभृञ्धारणपोषणयोः, हु दानादानयोः, एतेभ्यो लिटि परतः आं प्रत्ययो भवति अन्यतरस्याम्, श्लाविव च अस्मिन् कार्यं भवति । किं पुनस्तत्? द्वित्वमित्त्वं च । बिभायाञ्चकार, विभाय । जिह्रयाञ्चकार, जिह्राय । बिभराञ्चकार, बभार । जुहवाञ्चकार, जुहाव ॥ ____________________________________________________________________ कृञ्च अनुप्रयुज्यते लिटि ॥ ३,१.४० ॥ _____ काशिकावृत्तिः३,१.४०: आम्प्रत्ययस्य पश्चात्कृञनुप्रयुज्यते लिटि परतः । कृञिति प्रत्याहारेण कृभ्वस्तयो गृह्यन्ते, तत्सामर्थ्यादस्तेर्भूभावः न भवति । आचयाञ्चकार । पाचयां बभूव । पाचयामास ॥ ____________________________________________________________________ [॰१८६] विदाङ्कुर्वन्त्वित्यन्यतरस्याम् ॥ ३,१.४१ ॥ _____ काशिकावृत्तिः३,१.४१: विदाङ्कुर्वन्तु इत्येतदन्यतरस्यां निपात्यते । किं पुनरिह निपात्यते ? विदेर्लोटि आं प्रत्ययः, गुणाभावः, लोटो लुक्, कृञश्च लोट्परस्य अनुप्रयोगः । अत्र भवन्तो विदाङ्कुर्वन्तु, विदन्तु । इतिकरणः प्रदर्शनार्थः, न केवलं प्रथमपुरुषबहुवचनं, किं तर्हि सर्वाण्येव लोड्वचनान्यनुप्रयुज्यन्ते, विदाङ्करोतु, विदाङ्कुरुतात्, विदाङ्कुरुताम्, विदाङ्कुरु, विदाङ्कुरुतमित्यादि ॥ ____________________________________________________________________ अभ्युत्सादयांप्रजनयाम्चिकयांरमयामकः पावयाम्क्रियाद्विदामक्रन्निति च्छन्दसि ॥ ३,१.४२ ॥ _____ काशिकावृत्तिः३,१.४२: अभ्युत्सादयामित्येवमादयः छन्दसि विषयेऽन्यतरस्यां निपात्यन्ते । सदिजनिरमीणां ण्यन्तानां लुडि आं प्रत्ययो निपात्यते । चिनोतेरपि तत्र+एव+अअम्प्रत्ययो द्विर्वचनं कुत्वं च । अकरिति चतुर्भिरपि प्रत्येकमनुप्रयोगः सम्बध्यते । पावयां क्रियातिति पवतेः पुनातेर्वा ण्यन्तस्य लिङि आं निपात्यते, गुणाभावश्च, अक्रनिति च अस्य अनुप्रयोगः । विदामक्रनिति विदेर्लुङि आं निपात्यते, गुनभावश्च, अक्रनिति च अस्य अनुप्रयोगः । अभ्युत्सादयामकः । अभ्युदसीषदतिति भाषायाम् । प्रजनयामकः । प्राजीजनतिति भाषायाम् । चिकयामकः । अचैषीतिति भाषायाम् । रमयामकः । अरीरमतिति भाषायाम् । पावयाङ्क्रियात् । पाव्यातिति भाषायाम् । विदामक्रन् । अवेदिषुः इति भाषायाम् ॥ ____________________________________________________________________ च्लि लुडि ॥ ३,१.४३ ॥ _____ काशिकावृत्तिः३,१.४३: धातोः च्लिः प्रत्ययो भवति लुडि परतः । इकार उच्चारणार्थः, चकारः स्वरार्थः । अस्य सिजादीनादेशान् वक्ष्यति । तत्र+एव+उदाहरिस्यामः ॥ ____________________________________________________________________ च्लेः सिच् ॥ ३,१.४४ ॥ _____ काशिकावृत्तिः३,१.४४: च्लेः सिजादेशो भवति । इकार उच्चारणार्थः, चकारः स्वरार्थः । अकार्षीत् । अहार्षीत् । आगमानुदात्तत्वं हि प्रत्ययस्वरमिव चित्स्वरमपि बधेत इति स्थानिन्यादेशे च द्विश्चकारोऽनुबध्यते । स्पृशमृशकृषतृपदृपां सिज्वा वक्तव्यः । अस्प्राक्षीत्, अस्पार्क्षीत्, अस्पृक्षत् । अम्राक्षीत्, अमार्क्षीत्, अमृक्षत् । अकार्षीत्, अक्राक्षीत्, अकृक्षत् । अत्राप्सीत्, आतार्प्सीत्, अतृपत् । अद्राप्सीत्, अदार्प्सीत्, अदृपत् ॥ ____________________________________________________________________ [॰१८७] शल इगुपधादनिटः क्षः ॥ ३,१.४५ ॥ _____ काशिकावृत्तिः३,१.४५: शलन्तो यो धातुरिगुपधस्तस्मात्परस्य च्लेः अनिटः क्ष आदेशो भवति । दुह अधुक्षत् । लिह अलिक्षत् । शलः इति किम् ? अभैत्सीत् । अच्छैत्सीत् । इगुपधातिति किम् ? अधाक्षीत् । अनिटः इति किम् ? अकोषीत् । अमोषीत् ॥ ____________________________________________________________________ श्लिष आलिङ्गने ॥ ३,१.४६ ॥ _____ काशिकावृत्तिः३,१.४६: श्लिषेः धातोः आलिङ्गनक्रियावचनात्परस्य च्लेः क्षः आदेशो भवति । आलिङ्गनमुपगूहनं, परिष्वङ्गः । अत्र नियमार्थमेतत् । आश्लिक्षत्कन्यां देवदत्तः । आलिङ्गने इति किम् ? समाश्लिषज्जतु काष्ठम् ॥ ____________________________________________________________________ न दृशः ॥ ३,१.४७ ॥ _____ काशिकावृत्तिः३,१.४७: पूर्वेण क्षः प्राप्तः प्रतिषिध्यते । दृशेः धातोः परस्य च्लेः क्षादेशो न भवति । अस्मिन् प्रतिषिद्धे इरितो वा (*३,१.४५) इति अङ्सिचौ भवतः । अदर्शत्, अद्राक्षीत् ॥ ____________________________________________________________________ णिश्रिद्रुस्रुभ्यः कर्तरि चङ् ॥ ३,१.४८ ॥ _____ काशिकावृत्तिः३,१.४८: सिजपवादश्चङ्विधीयते । ण्यन्तेभ्यो धातुभ्यः, श्रि द्रु स्रु इत्येतेभ्यश्च परस्य च्लेः चङादेशो भवति कर्तवाचिनि लुङि परतः । ङकारो गुणवृद्धिप्रतिषेधार्थः, चकारः चङि (*६,१.११) इति विशेषणार्थः । अचीकरत् । अजीहरत् । अशिश्रियत् । अदुद्रुवत् । असुस्रुवत् । कर्तरि इति किम् ? अकारयिषातां कटौ देवदत्तेन । कमेरुपसङ्ख्यानम् । आयादयः आर्धधातुके वा (*३,१.३१) इति यदा णिङ्न अस्ति तदअ+एततुपसङ्ख्यानम् । अचकमत । णिङ्पक्षे सन्वद्भावः । अचीकमत । नाकमिष्टसुखं यान्ति सुयुक्तैर्वडवारथैः । अथ पत्कषिणो यान्ति येऽचीकमतभाषिणः ॥ ____________________________________________________________________ विभाषा धेट्श्व्योः ॥ ३,१.४९ ॥ _____ काशिकावृत्तिः३,१.४९: धेट्पाने, टुओश्वि गतिवृद्ध्योः, एताभ्यामुत्तरस्य च्लेर्विभाषा चङादेशो भवति । धेटस्तावत् अदधात् । सिच्पक्षे विभाषा घ्राधेट्शाच्छासः (*२,४.७८) इति लुक् । अधात् । अधासीत् । श्वयतेः खल्वपि । अशिश्वियत् । अङोऽप्यत्र विकल्प इष्यते । अश्वत् । अश्वयीत् । कर्तरि इत्येव, अधिषातां गवौ वत्सेन ॥ ____________________________________________________________________ [॰१८८] गुपेश्छन्दसि ॥ ३,१.५० ॥ _____ काशिकावृत्तिः३,१.५०: गुपेः परस्य च्लेः छन्दसि विषये विभाषा चङादेशो भवति । यत्र आयप्रत्ययो नास्ति तत्र अयं विधिः । इमान्मे मित्रावरुणौ गृहञ्जुगुपतं युवम् । अगौप्तम्, अगोपिष्टम्, अगोपायिष्टमिति वा । भाशायां तु चङन्तं वर्जयित्वा शिष्टं रूपत्रयं भवति ॥ ____________________________________________________________________ नोनयतिध्वनयत्येलयत्यर्दयतिभ्यः ॥ ३,१.५१ ॥ _____ काशिकावृत्तिः३,१.५१: ऊन परिहाणे, ध्वन शब्दे, इल प्रेरणे, अर्द गतौ याचने च, एतेभ्यो धातुभ्यः ण्यन्तेभ्यः पूर्वेण च्लेश्चङि प्राप्ते छन्दसि विषये न भवति । काममूनयीः । औनिनः इति भाषायाम् । मा त्वाग्निर्धवनयीत् । अदिध्वनतिति भषायाम् । काममिलयीत् । ऐलिलतिति भाषायाम् । मैनमर्दयीत् । आर्दिदतिति भाशायाम् ॥ ____________________________________________________________________ अस्यतिवक्तिख्यातिभ्योऽङ् ॥ ३,१.५२ ॥ _____ काशिकावृत्तिः३,१.५२: असु क्षेपने, वच परिभाषणे ब्रूञादेशो वा, ख्या प्रकथने चक्षिङादेशो वा, एभ्यः परस्य च्लेरङादेशो भवति कर्तृवाचिनि लुगि परतः । अस्यतेः पुषादिपाठादेवाङि सिद्धे पुनर्ग्रहणमात्मनेपदार्थम् । पर्यास्थत, पर्यास्थेताम्, पर्यास्थन्त । वक्ति अवोचत्, अवोचताम्, अवोचन् । ख्याति आख्यत्, आख्यताम्, आख्यन् । कर्तरि इति किम् ? पर्यासिषातां गावौ वत्सेन ॥ ____________________________________________________________________ लिपिसिचिह्वश्च ॥ ३,१.५३ ॥ _____ काशिकावृत्तिः३,१.५३: लिप उपदेहे षिच क्षरने, ह्वेञ्स्पर्धायाम्, एतेभ्यश्च परस्य च्लेः अङादेशो भवति । अलिपत् । असिचत् । आह्वत् । पृथग्योग उत्तरार्थः ॥ ____________________________________________________________________ आत्मनेपदेष्वन्यतरस्याम् ॥ ३,१.५४ ॥ _____ काशिकावृत्तिः३,१.५४: पूर्वेण प्राप्ते विभषा आरभ्यते । लिपिसिचिह्व आत्मनेपदेषु परतः च्लेः अङादेशो भवति अन्यतरस्याम् । स्वरितञितः कर्त्रभिप्राये क्रियाफले (*१,३.५२) इत्यात्मनेपदम् । अलिपत, अलिप्त । असिचत, असिक्त । अह्वत्, अह्वास्त ॥ ____________________________________________________________________ [॰१८९] पुषादिद्युताद्यॢदितः प्रस्मैपदेषु ॥ ३,१.५५ ॥ _____ काशिकावृत्तिः३,१.५५: द्युतादिभ्यश्च धातुभ्यः परस्य च्लेः परस्मैपदेषु परतः अङादेशो भवति । पुषादिर्दिवाद्यन्तर्गणो गृह्यते, न भ्वादिक्र्याद्यन्तर्गणः । पुष अपुषत् । द्युतादि अद्युतत् । अश्वितत् । लृ‌दिद्भ्यःगमॢ अगमत् । शकॢ अशकत् । परस्मैपदेसु इति किम् ? व्यद्योतिष्ट । अलोटिष्ट ॥ ____________________________________________________________________ सर्तिशास्त्यर्तिभ्यश्च ॥ ३,१.५६ ॥ _____ काशिकावृत्तिः३,१.५६: सृ गतौ, शासु अनुशिष्टौ ऋ गतौ इत्येतेभ्यः परस्य च्लेः अङादेशो भवति । असरत् । अशिषत् । आरत् । पृथग्योगकरणमात्मनेपदार्थम् । समरन्त । चकारः परस्मैपदेषु इत्यनुकर्षणार्थः तच्चोत्तरत्रोपयोगं यास्यति ॥ ____________________________________________________________________ इरितो वा ॥ ३,१.५७ ॥ _____ काशिकावृत्तिः३,१.५७: इरितो धातोः परस्य च्लेः अङादेशो वा भवति । भिदिर् अभिदत्, अभैत्सीत् । छिदिर् अच्छिदत्, अच्छैत्सीत् । परस्मैपदेषु इत्येव, अभित्त । अच्छित्त ॥ ____________________________________________________________________ जॄस्तम्भुम्रुचुम्लुचुग्रुचुग्लुचुग्लुञ्चुश्विभ्यश्च ॥ ३,१.५८ ॥ _____ काशिकावृत्तिः३,१.५८: वा इति वर्तते । जॄष्वयोहानौ, स्तम्भुः सौत्रो धातुः, म्रुचु, म्लुचु गत्यर्थे, ग्रुचु, ग्लुचु स्तेयकरणे, ग्लुञ्चु, षस्ज गतौ, टुओश्वि गतिवृद्ध्योः, एतेभ्यो धातुभ्यः परस्य च्लेर्वा अङादेशो भवति । अजरत्, अजारीत् । अस्तभत्, अस्तम्भीत् । अम्रुचत्, अम्रोचीत् । अम्लुचत्, अम्लोचीत् । अग्रुचत्, अग्रोचीत् । अग्लुचत्, अग्लोचीत् । अग्लुञ्चत्, अग्लुञ्चीत् । अश्वत्, अश्वयीत्, अशीश्वियत् । ग्लुचुग्लुज्च्वोरन्यतरोपादानेऽपि रूपत्रयं सिध्यति, अर्थभिदात्तु द्वयोरुपादानं कृतम् । केचित्तु वर्नयन्ति द्वयोरुपादानसामर्थ्याद्ग्लुञ्चेरनुनासिकलोपो न भवति, अग्लुञ्चतिति ॥ ____________________________________________________________________ कृमृदृरुहिभ्यश्छन्दसि ॥ ३,१.५९ ॥ _____ काशिकावृत्तिः३,१.५९: कृ मृ दृ इत्येतेभ्यः परस्य च्लेः छन्दसि विषये अङादेशो भवति । शकलाङ्गुष्ठकोऽकरत् । अथोऽमर । अदरदर्थान् । सानुमारुहत् । अन्तरिक्षाद्दिवमारुहम् । छन्दसि इति किम् ? अकार्षीत् । अमृत । अदारीत् । अरुक्षत् ॥ ____________________________________________________________________ [॰१९०] चिण्ते पदः ॥ ३,१.६० ॥ _____ काशिकावृत्तिः३,१.६०: पद गतौ, अस्माद्धातोः परस्य च्लेः चिणादेसो भवति तशब्दे परतः । समर्थ्यादात्मनेपदैकवचनं गृह्यते । उदपादि सस्यम् । समपादि भैक्षम् । त इति किम् ? उदपत्साताम् । उदपत्सत ॥ ____________________________________________________________________ दीपजनबुधपूरितायिप्यायिभ्योऽन्यतरस्याम् ॥ ३,१.६१ ॥ _____ काशिकावृत्तिः३,१.६१: चिण्ते इति वर्तते । दीपी दीप्तौ, जनी प्रादुर्भावे, बुध अवगमने, पूरी आप्यायने, तायृ सन्तानपालनयोः, ओप्याअयी वृद्धौ, एतेभ्यः परस्य च्लेः तशब्दे परतोऽन्यतरस्यां चिणादेशो भवति । अदीपि, अदीपिष्ट । अजनि, अजनिष्ट । अबोधि, अबुद्ध । अपूरि, अपूरिष्ट । अतायि, अतायिष्ट । अप्यायि, अप्यायिष्ट ॥ ____________________________________________________________________ अचः कर्मकर्तरि ॥ ३,१.६२ ॥ _____ काशिकावृत्तिः३,१.६२: अजन्ताद्धातोः परस्य च्लेः कर्मक्र्तरि तशब्दे परतः चिणादेषो भवति । प्राप्तविभाषेयम् । अकारि कटः स्वयमेव, अकृत कटः स्वयमेव । अलावि केदारः स्वयमेव, अलविष्ट केदारः स्वयमेव । अचः इति किम् ? अभेदि काष्ठं स्वयमेव । कर्मकर्तरि इति किम् ? अकारि कटो देवदत्तेन ॥ ____________________________________________________________________ दुहश्च ॥ ३,१.६३ ॥ _____ काशिकावृत्तिः३,१.६३: दुह प्रपूरणे, अस्मात्परस्य च्लेः चिणादेशो भवत्यन्यतरस्याम् । अदोहि गौः स्वयमेव, अगुग्ध गौः स्वयमेव । कर्मकर्तरि इत्येव, अदोहि गौर्गोपालकेन ॥ ____________________________________________________________________ न रुधः ॥ ३,१.६४ ॥ _____ काशिकावृत्तिः३,१.६४: रुधिरावरणे, अस्मात्परस्य च्लेः कर्मक्र्तरि चिणादेशो न भवति । अन्ववारुद्ध गौः स्वयमेव । कर्मकर्तरि इत्येव, अन्ववारोधि गौः गोपालकेन ॥ ____________________________________________________________________ तपोऽनुतापे च ॥ ३,१.६५ ॥ _____ काशिकावृत्तिः३,१.६५: न इति वर्तते । तप सन्तापे, अस्मात्परस्य च्लेः चिणादेशो न भवति कर्मकर्तरि अनुतापे च । अनुतापः पश्चात्तपः । तस्य ग्रहणं कर्मकर्त्रर्थं, तत्र हि भावकर्मणोरपि प्रतिषेधो भवति । अतप्त तपस्तापसः । अन्ववातप्त पापेन कर्मणा ॥ ____________________________________________________________________ [॰१९१] चिण्भावकर्मणोः ॥ ३,१.६६ ॥ _____ काशिकावृत्तिः३,१.६६: धातोः परस्य च्लेः चिणादेशो भवति भावे कर्मणि तशब्दे परतः । भावे तावत् अशायि भवता । कर्मणि खल्वपि अकारि कटो देवदत्तेन । अहारि भारो यज्ञदत्तेन । चिण्ग्रहणं विस्पष्टार्थम् ॥ ____________________________________________________________________ सार्वधातुके यक् ॥ ३,१.६७ ॥ _____ काशिकावृत्तिः३,१.६७: भावकर्मवाचिनि सार्वधातुके परतो धतोः यक्प्रत्ययो भवति । आस्यते भवता । शय्यते भवता । कर्मणि क्रियते कटः । गम्यते ग्रामः । ककारो गुणवृद्धिप्रतिषेधार्थः । यग्विधाने कर्मक्र्तर्युपसङ्ख्यानम् । विप्रतिषेधाद्धि यकः शपो वलीयस्त्वम् । क्रियते कटः स्वयमेव । पच्यते ओदनः स्वयमेव ॥ ____________________________________________________________________ कर्तरि शप् ॥ ३,१.६८ ॥ _____ काशिकावृत्तिः३,१.६८: कर्तृवाचिनि सार्वधातुके परतो धातोः शप्प्रत्ययओ भवति । पकारः स्वरार्थः । शकारः सार्वधातुकसञ्ज्ञार्थः । भवति । पचति ॥ ____________________________________________________________________ दिवादिभ्यः श्यन् ॥ ३,१.६९ ॥ _____ काशिकावृत्तिः३,१.६९: दिवित्येवमादिभ्यः धातुभ्यः श्यन् पर्त्ययो भवति । शपोऽपवादः । नकारः स्वरार्थः । शकारः सार्वधातुकार्थः । दीव्यति । सीव्यति ॥ ____________________________________________________________________ वा भ्राशभ्लाशभ्रमुक्रमुक्लमुत्रसित्रुतिलषः ॥ ३,१.७० ॥ _____ काशिकावृत्तिः३,१.७०: उभयत्र विभाषेयम् । टुभ्राशृ, दुभ्लाशृ दीप्तौ, भ्रमु अनवस्थाने, भ्रमु चलने, द्वयोरपि ग्रहणम्, क्रमु पादविक्षेपे, क्लमु ग्लानौ, त्रसी उद्वेगे, त्रुटी छेदने, लष कान्तौ, एतेभ्यो वा श्यन् प्रत्ययो भवति । भ्राश्यते, भ्राशते । भ्लाश्यते, भ्लाशते । भ्राम्यति, भ्रमति । क्राम्यति, क्रामति । क्लाम्यति, क्लामति । त्रस्यति, त्रसति । त्र्युट्यति, त्रुटति । लष्यति, लषति ॥ ____________________________________________________________________ यसोऽनुपसर्गात् ॥ ३,१.७१ ॥ _____ काशिकावृत्तिः३,१.७१: यसु प्रयत्ने दैवादिकः । तस्मान्नित्यं श्यनि प्राप्तेऽनुपसर्गाद्विकल्प उच्यते । यसोऽनुपसर्गाद्वा श्यन् प्रत्ययो भवति । यस्यति, यसति । अनुपसर्गातिति किम् ? आयस्यति । प्रयस्यति ॥ ____________________________________________________________________ [॰१९२] संयसश्च ॥ ३,१.७२ ॥ _____ काशिकावृत्तिः३,१.७२: सोपसर्गार्थ आरम्भः । सम्पूर्वाच्च यसेः वा श्यन् प्रत्ययो भवति । संयस्यति, संयसति ॥ ____________________________________________________________________ स्वादिभ्यः श्नुः ॥ ३,१.७३ ॥ _____ काशिकावृत्तिः३,१.७३: षूञभिषवे, इत्येवमादिभ्यो धातुभ्यः श्नुप्रत्ययो भवति । शपोऽपवादः । सुनोति । सिनोति ॥ ____________________________________________________________________ श्रुवः शृ च ॥ ३,१.७४ ॥ _____ काशिकावृत्तिः३,१.७४: श्रुवः श्नुप्रत्ययो भवति, तत्संनियोगेन श्रुवः शृ इत्ययमादेशो भवति । शृणोति, शृणुतः, शॄण्वन्ति ॥ ____________________________________________________________________ अक्षोऽन्यतरस्याम् ॥ ३,१.७५ ॥ _____ काशिकावृत्तिः३,१.७५: अक्षू व्याप्तौ । भौवादिकः । अस्मादन्यतरस्यां श्नुप्रत्ययो भवति । अक्ष्णोति, अक्षति ॥ ____________________________________________________________________ तनूकरणे तक्षः ॥ ३,१.७६ ॥ _____ काशिकावृत्तिः३,१.७६: तक्षू त्वक्षू तनूकरणे, अस्मात्तनूकरणे वर्तमानातनतरस्यां श्नुप्रत्ययो भवति । अनेकार्थत्वाद्धातूनां विशेषणोपादानम् । तक्ष्णोति काष्ठम्, तक्षति काष्ठम् । तनूकरणे इति किम् ? संतक्षति वाग्भिः ॥ ____________________________________________________________________ तुदादिभ्यः शः ॥ ३,१.७७ ॥ _____ काशिकावृत्तिः३,१.७७: तुद व्यथने इत्येवमादिभ्यो धातुभ्यः शप्रत्ययो भवति । शपोऽपवादः । शकारः सार्वधातुकसञ्ज्ञार्थः । तुदति । नुदति ॥ ____________________________________________________________________ रुद्ःादिभ्यः श्नम् ॥ ३,१.७८ ॥ _____ काशिकावृत्तिः३,१.७८: रुधिरावरणे इत्येवमादिभ्यो धातुभ्यः श्नं प्रत्ययो भवति । शपोऽपवादः । मकारो देशविध्यर्थः । शकारः श्नान्नलोपः (*६,४.२३) इति विशेषणार्थः । रुणद्धि । भिनत्ति ॥ ____________________________________________________________________ [॰१९३] तनादिकृञ्भ्यः उः ॥ ३,१.७९ ॥ _____ काशिकावृत्तिः३,१.७९: तनु विस्तारे इत्येवमादिभ्यो धातुभ्यः कृञश्च उप्रत्ययो भवति । शपोऽपवादः । तनोति । सनोति । क्षणोति । कृञः खल्वपि करोति । तनादिपाठादेव उप्रत्यये सिद्धे करोतेरुपादानं नियमार्थम्, अन्यत्तनादिकार्यं मा भूतिति । तनादिभ्यस्तथासोः (*२,४.७९) । इति विभाषा सिचो लुग्न भवति । अकृत । अकृथाः ॥ ____________________________________________________________________ धिन्विकृण्व्योर च ॥ ३,१.८० ॥ _____ काशिकावृत्तिः३,१.८०: हिवि, धिवि जिवि प्रीणनार्थाः, कृवि हिंसाकरणयोः, इत्येतयोः धात्वोः उप्रत्ययो भवति, अकारश्च अन्तादेशः । धिनोति । कृणोति । अतो लोपस्य स्थानिवद्भावात्गुणो न भवति ॥ ____________________________________________________________________ क्र्यादिभ्यः श्ना ॥ ३,१.८१ ॥ _____ काशिकावृत्तिः३,१.८१: डुक्रीञ्द्रव्यविनिमये इत्येवमादिभ्यः धातुभ्यः श्ना प्रत्ययो भवति । शपोऽपवादः । शकारः सार्वधातुकसञ्ज्ञार्थः । क्रीणाति । प्रीणाति ॥ ____________________________________________________________________ स्तम्भुस्तुम्भुस्कम्भुस्कुम्भुस्कुञ्भ्यः श्नुश्च ॥ ३,१.८२ ॥ _____ काशिकावृत्तिः३,१.८२: आद्याश्चत्वारो धातवः सौत्राः, स्कुञाप्रवणे, एतेभ्यः श्ना प्रत्ययो भवति, श्नुः च । स्तभ्नाति, स्तभ्नोति । स्तुभ्नाति, स्तुभ्नोति । स्कभ्नाति, स्कभ्नोति । स्कुभ्नाति, स्कुभ्नोति । स्कुनाति, स्कुनोति । उदित्त्वप्रतिज्ञानात्सौत्राणामपि धातूनां सर्वार्थत्वं विज्ञायते, न+एतद्विकरणविषयत्वमेव ॥ ____________________________________________________________________ हलः श्नः शानज्ज्ञौ ॥ ३,१.८३ ॥ _____ काशिकावृत्तिः३,१.८३: हल उत्तरस्य श्नाप्रत्ययस्य शनजादेशो भवति हौ परतः । मुषाण । पुषाण । हलः इति किम् ? क्रीणीहि । हौ इति किम् ? मुष्णाति । श्नः इति स्थानिनिर्देशः आदेशसम्प्रत्ययार्थः । इतरथा हि प्रत्ययान्तरमेव सर्वविषयं विज्ञायेत ॥ ____________________________________________________________________ [॰१९४] छन्दसि शायजपि ॥ ३,१.८४ ॥ _____ काशिकावृत्तिः३,१.८४: छन्दसि विषये श्नः शायचादेशो भवति, शानजपि । गृभाय जिह्वया मधु । शानचः खल्वपि बधान देव सवितः ॥ ____________________________________________________________________ व्यत्ययो बहुलम् ॥ ३,१.८५ ॥ _____ काशिकावृत्तिः३,१.८५: यथायथं विकरणाः शबादयो विहिताः, तेषां छन्दसि विषये बहुलं व्यत्ययो भवति । व्यतिगमनं व्यत्ययः, व्यतिहारः । विषयान्तरे विधानम्, क्वचिद्द्विविकरणता, क्वचित्त्रिविकरणता च । आण्डा शुष्णस्य भेदति । भिनत्ति इति प्राप्ते । ताश्चिन्नौ न मरन्ति । न म्रियन्ते इति प्राप्ते । द्विविकरणता इन्द्रो वस्तेन नेषतु । नयतु इति प्राप्ते । त्रिविकरणता इन्द्रेण युजा तरुषेम वृत्रम् । तीर्यस्म इति प्राप्ते । बहुलग्रहणं सर्वविधिव्यभिचारार्थम् । सुप्तिङुपग्रलिङ्गनरणां कालहलच्स्वरकर्तृयङां च । व्यत्ययमिच्छति शास्त्रकृदेषां सोऽपि च सिध्यति बहुलकेन ॥ ____________________________________________________________________ लिङ्याशिष्यङ् ॥ ३,१.८६ ॥ _____ काशिकावृत्तिः३,१.८६: आशिषि विषये यो लिङ्तस्मिन् परतः छन्दसि विषये अङ्प्रत्ययो भवति । शपोऽपवादः । छन्दस्युभयथा (*३,४.११७) इति लिङः सार्वधातुकसञ्ज्ञाप्यस्ति । स्थागागमिवचिविदिशकिरुहयः प्रयोजनम् । स्था उपस्थेषं वृषभं तुग्रियाणाम् । गा सत्यमुपगेषम् । गमि गृहं गमेम । वचि मन्त्रं वोचेमाग्नये । विदि विदेयमेनां मनसि प्रविष्टाम् । शकि व्रतं चरिष्यामि तच्छकेयम् । रुहि स्वर्गं लोकमारुहेयम् । दृशेरग्वक्तव्यः । पितरं दृशेयं मातरं च ॥ ____________________________________________________________________ [॰१९५] कर्मवत्कर्मणा तुल्यक्रियः ॥ ३,१.८७ ॥ _____ काशिकावृत्तिः३,१.८७: कर्मणि क्रिया कर्म, कर्मस्थया क्रियया तुल्यक्रियः कर्ता कर्मवद्भवति । यस्मिन् कर्मणि कर्तृभूतेऽपि तद्वत्क्रिया लक्ष्यते यथा कर्मणि, स कर्ता कर्मवद्भवति । कर्माश्रयाणि कार्याणि प्रतिपद्यते । कर्तरि शप्(*३,१.६८) इति कर्तृग्रहणमिह अनुवृत्तं प्रथमया विपरिणम्यते । यगात्मनेपदचिण्चिण्वद्भावाः प्रयोजनम् । भिद्यते काष्ठं स्वयमेव । अभेदि काष्ठं स्वयमेव । कारिष्यते कटः स्वयमेव । वत्करणं स्वाश्रयमपि यथा स्यात्, भिद्यते कुसूलेन इति । अकर्मकाणां भावे लः सिद्धो भवति । लिङ्याशिष्यङ्(*३,१.८६) इति द्विलकारको निर्देशः । तत्र लानुवृत्तेर्लान्तस्य कर्ता कर्मवद्भवति इति कुसूलाद्द्वितीया न भवति । कर्मणा इति किम् ? करणाधिकरणाभ्यां तुल्यक्रियस्य मा भूत् । साध्वसिश्छिनत्ति । साधु स्थाली पचति । धात्वधिकारात्समाने धातौ कर्मवद्भावः । इह न भवति, पचत्योदनं देवदत्तः, राध्यन्त्योदनं स्वयमेव इति । कर्मस्थभावकानां कर्मस्थक्रियाणां च कर्ता कर्मवद्भवति, न कर्तृस्थाभावकानां न वा कर्तृस्थक्रियाणाम् । कर्मस्थः पचतेर्भावः कर्मस्था च भिदेः क्रिया । मासासिभावः कर्तृस्थः कर्तृस्था च गमेः क्रिया ॥ ____________________________________________________________________ तपस्तपःकर्मकस्य+एव ॥ ३,१.८८ ॥ _____ काशिकावृत्तिः३,१.८८: तप सन्तापे, अस्य कर्ता कर्मवद्भावति, स च तपःकर्मकस्य+एव न अन्यकर्मकस्य । क्रियाभेदाद्विध्यर्थमेतत् । उपवासादीनि तपांसि तापसं तपन्ति । दुःखयन्ति इत्यर्थः । स तापसस्त्वगस्थिभूतः स्वर्गाय तपस्तप्यते । अर्जयति इत्यर्थः । पूर्वेण अप्राप्तः कर्मवद्भावो विधीयते । तप्यते तपस्तापसः । अतप्त तपस्तापसः । तपःकर्मकस्य+एव इति किम् ? उत्तपति सुवर्णं सुवर्णकारः ॥ ____________________________________________________________________ न दुहस्नुनमां यक्चिणौ ॥ ३,१.८९ ॥ _____ काशिकावृत्तिः३,१.८९: दुह सनु नमित्येतेषं कर्मकर्तरि यक्चिणौ कर्मवद्भावापदिष्टौ न भवतः । दुहेरनेन यक्प्रतिषिध्यते । चिण्तु दुहश्च (*३,१.६३) इति पूर्वमेव विभाषितः । दुग्धे गौः स्वयमेव । अदुग्ध गौः स्वयमेव । अदोहि गौः स्वयमेव । प्रस्नुते गौः स्वयमेव । प्रास्नोष्ट गौः स्वयमेव । नमते दण्डः स्वयमेव । अन्ंस्त दण्डः स्वयमेव । यक्चिणोः प्रतिषेधे णिश्रन्थिग्रन्थिब्रूञ्. आत्मनेपदाकर्मकाणामुपसङ्ख्यानम् । कारयति कटं देवदत्तः । कारयते कटः स्वयमेव । अचीकरत्कटं देवदत्तः । अचीकरत कटः स्वयमेव । उत्पुच्छयते गां गोपः । उत्पुच्छयते गौः स्वयमेव । उदपुपुच्छत गौः स्वयमेव । श्रथ्नाति ग्रन्थं देवदत्तः । श्रथ्नीते ग्रन्थः स्वयमेव । अश्रन्थिष्ट ग्रन्थः स्वयमेव । ग्रथ्नाति श्लोकं देवदत्तः । ग्रथ्नीते श्लोकः स्वयमेव । [॰१९६] अग्रन्थिष्ट श्लोकः स्वयमेव । ब्रवीति श्लोकं देवदत्तः । ब्रूते श्लोकः स्वयमेव । अवोचत्श्लोकं देवदत्तः । अवोचत श्लोकः स्वयमेव । आत्मनेपदविधानेऽकर्मकाणाम् आहन्ति माणवकं देवदत्तः । आहते माणवकः स्वयमेव । आवधिष्ट मानवकः स्वयमेव, आहत इति वा । विकुर्वते सैन्धवाः स्वयमेव । व्यकृषत सैन्धवः स्वयमेव ॥ ____________________________________________________________________ कुषिरजोः प्राचां श्यन् परस्मैपदं च ॥ ३,१.९० ॥ _____ काशिकावृत्तिः३,१.९०: कुष निष्कर्षे, रञ्ज रागे, अनयोर्धात्वोः कर्मकर्तरि प्राचामाचार्याणां मतेन श्यन् प्रत्ययो भवति, परस्मैपदं च । यगात्मनेपदयोरपवादौ । कुष्यति पादः स्वयमेव । रज्यति वस्त्रं स्वयमेव । प्राचां ग्रहणं विकल्पार्थम् । कुष्यते । रज्यते । व्यवस्थितविभाषा च+इयम् । तेन लिट्लिङोः स्यादिविषये च न भवतः । चुकुषे पादः स्वयमेव । ररञ्जे वस्त्रं स्वयमेव । कोषिषीष्ट पादः स्वयमेव । रङ्क्षीष्ट वस्त्रं स्वयमेव । कोषिष्यते पादः स्वयमेव । रङ्क्ष्यते वस्त्रं स्वयमेव । अकोषि पादः स्वयमेव । अरञ्जि वस्त्रं स्वयमेव ॥ ____________________________________________________________________ धातोः ॥ ३,१.९१ ॥ _____ काशिकावृत्तिः३,१.९१: धातोः इत्ययमधिकारो वेदितवय्ः । आतृतीयाध्यायपरिसमाप्तेः यदित ऊर्ध्वमनुक्रमिष्यामो धातोः इत्येवं तद्वेदितव्यम् । वक्ष्यति तव्यत्तव्यानीयरः (*३,१.९६) इति । कर्तव्यम् । करणीयम् । धातुग्रहनमनकर्थकं यङ्विधौ धात्वधिकारात् । कृदुपपदसज्ञार्थं तर्हि, अस्मिन् धात्वधिकारे ते यथा स्यातां, पूर्वत्र मा भूतामिति । आर्धधातुकसञ्ज्ञार्थं च द्वितीयं धातुग्रहणं कर्तव्यम् । धातोः इत्येवं विहितस्य यथा स्यात् । इह मा भूत्, लूभ्याम्, लूभिः इति ॥ ____________________________________________________________________ तत्र+उपपदं सप्तमीस्थम् ॥ ३,१.९२ ॥ _____ काशिकावृत्तिः३,१.९२: तत्र+एतस्मिन् धात्वधिकारे तृतीये यत्सप्तमीनिर्दिष्टं तदुपपदसञ्ज्ञं भवति । वक्ष्यति कर्मण्यण्(*३,२.१) । कुम्भकारः । स्थग्रहणं सूत्रेषु सप्तमीनिर्देशप्रतिपत्त्यर्थम् । इतरथा हि सप्तमी श्रूयते यत्र तत्र+एव स्यात्, स्तम्बेरमः, कर्णेजपः इति । यत्र वा सप्तमीश्रुतिरस्ति सप्तम्यां जनेर्डः (*३,२.९७) इति, उपसरजः, मन्दुरजः इति । स्थग्रहणात्तु सर्वत्र भवति । गुरुसञ्ज्ञाकरणमन्वर्थसञ्ज्ञाविज्ञाने सति समर्थपरिभाषाव्यापारार्थम् । पष्य कुम्भं, करोति कटमिति प्रत्ययो न भवति । उपपदप्रदेशाः उपपदमतिङ्(*२,२.१९) इत्येवमादयः ॥ ____________________________________________________________________ [॰१९७] कृदतिङ् ॥ ३,१.९३ ॥ _____ काशिकावृत्तिः३,१.९३: अस्मिन् धात्वधिकारे तिङ्वर्जितः प्रत्ययः कृत्सज्ञको भवति । कर्तव्यम् । करणीयम् । अतिङ इति किम् ? चीयात् । स्तूयात् । कृत्प्रदेशाः कृत्तद्धितसमासश्च (*१,२.४६) इत्येवमादयः ॥ ____________________________________________________________________ वाऽसरूपोऽस्त्रियाम् ॥ ३,१.९४ ॥ _____ काशिकावृत्तिः३,१.९४: अस्मिन् धात्वधिकारेऽस्मानरूपः प्रत्ययोऽपवादो वा बाधको भवति स्त्र्यधिकारविहितप्रत्ययं वर्जयित्वा । ण्वुल्तृचौ (*३,१.१३३) उत्सर्गौ, इगुपधज्ञाप्रीकिरः कः (*३,१.१३५) इत्यपवादः, तद्विषये ण्वुल्तृचौ (*३,१.१३३) अपि भवतः । विक्षेपकः, विक्षेप्ता, विक्षिपः । असरूप इति किम् ? कर्मण्यण्(*३,२.१) इत्युत्सर्गः, आतोऽनुपसर्गे कः (*३,२.३) इत्यपवादः, सनित्यं बाधको भवति । गोदः । कम्बलदः । न अमुबन्धकृतमसारूप्यम् । अस्त्रियामिति किम् ? स्त्रियां कितन् (*३,३.९४) इत्युत्सर्गः, अ प्रत्ययात्(*३,३.१०२) इत्यपवदः, स बाधक एव भवति । चिकीर्षा जिहीर्षा ॥ ____________________________________________________________________ कृत्याः प्रग्ण्वुलः ॥ ३,१.९५ ॥ _____ काशिकावृत्तिः३,१.९५: ण्वुल्तृचौ (*३,१.१३३) इति वक्ष्यति । प्रागेतस्माण्ण्वुल्संशब्दनाद्यानित ऊर्ध्वमनुक्रमिष्यामः, कृत्यसञ्जकस्ते वेदितव्याः । तत्र+एव+उदाहरिस्यामः । कृत्यप्रदेशः कृत्यैरधिकार्थवचने (*२,१.३३), कृत्यानां कर्तरि वा (*२,३.७१) इत्येवमादयः ॥ ____________________________________________________________________ तव्यत्तव्यानीयरः ॥ ३,१.९६ ॥ _____ काशिकावृत्तिः३,१.९६: धातोः (*३,१.९१) इति वर्तते । धातोः तव्यत्, तव्य, अनीयरित्येते प्रयया भवन्ति । तकाररेफौ स्वरार्थौ । कर्तव्यम् । कर्तव्यम् । कर्णीयम् । वसेस्तव्यत्कर्तरि णिच्च । वास्तव्यः । केलिमर उपसङ्ख्यानम् । पचेलिमाः माषाः । भिदेलिमानि काष्ठानि । कर्मकर्तरि च अयमिष्यते ॥ ____________________________________________________________________ [॰१९८] अचो यत् ॥ ३,१.९७ ॥ _____ काशिकावृत्तिः३,१.९७: अजन्ताद्धातोः यत्प्रत्ययो भवति । तकारो यतोऽनावः (*६,१.२१३) इति स्वरार्थः । गेयम् । पेयम् । चेयम् । जेयम् । अज्ग्रहणं किं यावता हलन्ताण्ण्यतं वक्ष्यति ? अजन्तभूतपूर्वादपि यथा स्यात्, दित्स्यम्, धित्स्यम् । तकिशसिचतियतिजनीनामुपसङ्ख्यानं तकि तक्यम् । शसि शस्यम् । चति चत्यम् । यति यत्यम् । जनि जन्यम् । हनो वा वध च । वध्यम्, घात्यम् ॥ ____________________________________________________________________ पोरदुपधात् ॥ ३,१.९८ ॥ _____ काशिकावृत्तिः३,१.९८: पवर्गान्ताद्धातोः अकारोपधात्यत्प्रययो भवति । ण्यतोऽपवादः । शप् शप्यम् । लभ लभ्यम् । पोः इति किम् ? पाक्यम् । वाक्यम् । अदुपधातिति किम् ? कोप्यम् । गोप्यम् । तपरकरणं तत्कालार्थम् । आप्यम् ॥ ____________________________________________________________________ शकिसहोश्च ॥ ३,१.९९ ॥ _____ काशिकावृत्तिः३,१.९९: शकॢ शक्तौ, षह मर्षणे, अनयोर्धात्वोः यत्प्रययो भवति । शक्यम् । सह्यम् ॥ ____________________________________________________________________ गदमदचरयमश्च अनुपसर्गे ॥ ३,१.१०० ॥ _____ काशिकावृत्तिः३,१.१००: गद व्यक्तायां वाचि, मदी हर्षे, चर गतिभक्षणयोः, यम उपरमे, एतेभ्यश्च अनुपसर्गेभ्यो यत्प्रत्ययो भवति । गद्यम् । मद्यम् । चर्यम् । यम्यम् । अनुपसर्गे इति किम् ? प्रगाद्यम् । प्रमाद्यम् । यमेः पूर्वेण+एव सिद्धे अनुपसर्गनियमार्थं वचनम् । चरेराङि चागुरौ । आचर्यो देशः । अगुरौ इति किम् ? आचार्य उपनेता ॥ ____________________________________________________________________ [॰१९९] अवद्यपण्यवर्या गर्ह्यपणितव्यानिरोधेषु ॥ ३,१.१०१ ॥ _____ काशिकावृत्तिः३,१.१०१: अवद्य पण्य वर्या इत्येते शब्दा निपात्यन्ते गर्ह्य पणितव्य अनिरोध इत्येतेष्वर्थेषु यथासङ्ख्यम् । अवध्यमिति निपात्यते गर्ह्यं चेत्तद्भवति । अवद्यं पापम् । अनुद्यमन्यत् । वदः सुपि क्यप्च (*३,१.१०६) । पण्यमिति निपात्यते, पणितव्यं चेत्तद्भवति । पण्यः कम्बलः । पण्या गौः । पाण्यमन्यत् । वर्या इति स्त्रियां निपात्यते, अनिरोधश्चेद्भवति । अनिरोधोऽप्रतिबन्धः । शतेन वर्या । सहस्रेण वर्या । वृत्या अन्या । स्त्रीलिङ्गनिर्देशः किमर्थः ? वार्या ऋत्विजः ॥ ____________________________________________________________________ वह्यं करणम् ॥ ३,१.१०२ ॥ _____ काशिकावृत्तिः३,१.१०२: वहेर्धातोः करणे यत्प्रत्ययो निपात्यते । वहत्यनेन इति वह्यं शकटम् । करणे इति किम् ? वाह्यमन्यत् ॥ ____________________________________________________________________ अर्यः स्वमिवैश्ययोः ॥ ३,१.१०३ ॥ _____ काशिकावृत्तिः३,१.१०३: ऋ गतौ, अस्माण्ण्यति प्राप्ते स्वामिवैश्ययोः अभिधेययोः यत्प्रत्ययो निपत्यते । अर्यः स्वामी । अर्यो वैश्यः । यतोऽनावः (*६,१.२१३) इत्याद्युदात्तत्वे प्राप्ते स्वामिन्यन्तोदात्तत्वं च वक्तव्यम् । स्वामिवैश्ययोः इति किम् ? आर्यो ब्राह्मणः ॥ ____________________________________________________________________ उपसर्या काल्या प्रजने ॥ ३,१.१०४ ॥ _____ काशिकावृत्तिः३,१.१०४: उपसर्या इति निपात्यते काल्या चेत्प्रजने भवति । उपपूर्वात्सर्तेः यत्प्रत्ययः । प्रप्तकाला काल्या । प्रजनः प्रजननं, प्रथमगर्भग्रहणम् । गर्भग्रहणे प्रप्तकाला । उपसर्या गौः । उपसर्या वडवा । काल्या प्रजने इति किम् ? उपसार्या शरदि मधुरा ॥ ____________________________________________________________________ अजर्यं सङ्गतम् ॥ ३,१.१०५ ॥ _____ काशिकावृत्तिः३,१.१०५: अजर्यमिति निपात्यते, सङ्गतं चेद्भवति । जीर्यतेः नञ्पूर्वात्सङ्गते सङ्गमने कर्तरि यत्प्रययो निपात्यते । न जीर्यति इति अजर्यम् । अजर्यमार्यसङ्गतम् । अजर्यं नोऽस्तु सङ्गतम् । सङ्गतमिति किम् ? अजरिता कम्बलः ॥ ____________________________________________________________________ [॰२००] वदः सुपि क्यप्च ॥ ३,१.१०६ ॥ _____ काशिकावृत्तिः३,१.१०६: अनुपसर्गे इति वर्तते । वदेर्धातोः सुबन्तोः उपपदे अनुपसर्गे क्यप्प्रत्ययो भवति, चकाराद्यत्च । ब्रह्मोद्यम्, ब्रह्मवद्यम् । सत्योद्यम्, सत्यवद्यम् । सुपि इति किम् ? वाद्यम् । अनुपसर्गे इत्येव, प्रवाद्यम् ॥ ____________________________________________________________________ भुवो भावे ॥ ३,१.१०७ ॥ _____ काशिकावृत्तिः३,१.१०७: सुप्यनुपसर्गे इत्यनुवर्तते । भवतेर्धातोः सुबन्ते उपपदेऽनुपसर्गे भावे क्यप्प्रत्ययो भवति । यत्तु न अनुवर्तते । ब्रह्मभूयं गतः ब्रहंत्वं गतः । देवभूयं, देवत्वं गतः । भावग्रहणमुत्तरार्थम् । सुपि इत्येव, भव्यम् । अनुपसर्गे इत्येव, प्रभव्यम् ॥ ____________________________________________________________________ हनस्त च ॥ ३,१.१०८ ॥ _____ काशिकावृत्तिः३,१.१०८: सुप्यनुपसर्गे इति वर्तते, भावे इति च । हन्तेर्धातोः सुबन्त उपपदेऽनुपसर्गे भावे क्यप्प्रत्ययो भवति, तकारश्चान्तादेशः । ब्रहमहत्या । अश्वहत्या । सुपि इत्येव, घातः । ण्यत्तु भावे न भव्त्यनभिधानात् । अनुपसर्गे इत्येव, प्रघातो वर्तते ॥ ____________________________________________________________________ एतिस्तुशास्वृदृजुषः क्यप् ॥ ३,१.१०९ ॥ _____ काशिकावृत्तिः३,१.१०९: सुप्यनुपसर्गे भावे इति निवृत्तम् । सामान्येन विधानमे तत् । एति स्तु शास्वृ दृ जुषित्येतेभ्यः क्यप्प्रत्ययो भवति । इत्यः । स्तुत्यः । शिष्यः । वृत्यः । आदृत्यः । जुष्यः । क्यपिति वर्तमाने पुनः क्यब्ग्रहणं बाधकबाधनार्थम् । ओरावश्यके (*३,१.१२५) इति ण्यतं बाधित्वा क्यबेव भवति । अवश्य्स्तुत्यः । वृग्रहणे वृञो ग्रहणमिष्यते, न वृङः । वार्याः ऋत्विजः । शंसिदुहिगुहिभ्यो वेति वक्तव्यम् । शस्यम्, शंस्यम् । दुह्यम्, दोह्यम् , गुह्यम्, गोह्यम् । आङ्पूर्वादञ्जेः सञ्ज्ञायामुपसङ्ख्यानम् । आज्यं घृतम् । कथमुपेयम् ? एः एतद्रूपं, न इणः ॥ ____________________________________________________________________ [॰२०१] ऋदुपधाच्च अकॢपिचृतेः ॥ ३,१.११० ॥ _____ काशिकावृत्तिः३,१.११०: ऋकारोपधाच्च धातोः क्यप्प्रत्ययो भवति कॢपिचृती वर्जयित्वा । वृतु वृत्यम् । वृधु वृध्यमकॢपिचृतेः इति किम् ? कल्प्यम् । चर्त्यम् । तपरकरणं किम् ? कॄत संशब्दने । ण्यदेव भवति कीर्त्यम् । पाणौ सृजेर्ण्यद्वक्तव्यः । पाणिसर्ग्या रज्जुः । समवपूर्वाच्च । समवसर्ग्या ॥ ____________________________________________________________________ ई च खनः ॥ ३,१.१११ ॥ _____ काशिकावृत्तिः३,१.१११: खनेर्धातोः क्यप्प्रत्ययो भवति, ईकारश्च अन्तादेशः । खेयम् । दीर्घनिर्देशः प्रश्लेषार्थः । तत्र द्वितीय इकारो ये विभाषा (*६,४.४३) इति आत्त्वबाधनार्थः ॥ ____________________________________________________________________ भृञोऽसञ्ज्ञायाम् ॥ ३,१.११२ ॥ _____ काशिकावृत्तिः३,१.११२: भृञो धतोः असञ्ज्ञायां विषये क्यप्प्रययो भवति । भृत्याः कर्मकराः । भर्तव्याः इत्यर्थः । असञ्ज्ञायामिति किम् ? भार्यो नाम क्षत्रियः । सम्पूर्वाद्विभाषा । सम्भृत्याः, सम्भार्याः । सञ्ज्ञायां पुंसि दृष्टत्वान्न ते भार्या प्रसिध्यति । स्त्रियां भावाधिकारोऽस्ति तेन भार्य प्रसिध्यति ॥ ____________________________________________________________________ मृजेर्विभाषा ॥ ३,१.११३ ॥ _____ काशिकावृत्तिः३,१.११३: मृजेर्धातोः विभाषा क्यप्प्रत्ययो भवति । ऋदुपधत्वात्प्राप्तविभाषेयम् । परिमृज्यः, परिमार्ग्यः ॥ ____________________________________________________________________ [॰२०२] राजसूयसूर्यमृषोद्यरुच्यकुप्यकृष्टपच्याव्यथ्याः ॥ ३,१.११४ ॥ _____ काशिकावृत्तिः३,१.११४: राजसुय सुर्य मृषोद्य रुच्य कुप्य कृष्टपच्य अव्यथ्य इत्येते शब्दाः क्यपि निपात्यन्ते । राज्ञा सोतव्यः, राजा वा इह सूयते राजसूयः क्रतुः । सूसर्तिभ्यां क्यप्, सर्तेरुत्वं, सुबतेर्वा रुडागमः । सरति सुवति व सूर्यः । मृषापूर्वस्य वदतेः पक्षे यति प्राप्ते नित्यं क्यब्निपात्यते । मृषापूर्वस्य मृषोद्यम् । रोचतेऽसौ रुच्यः । कर्तरि क्यप् । गुपेरादेः क्त्वं च सज्ञायाम् । कुप्यम् । गोप्यमन्यत् । कृष्टे पच्यन्ते कृष्टप्च्याः । कर्मकर्तरि निपातनम् । न व्यथते अव्यथ्यः ॥ ____________________________________________________________________ भिद्योद्ध्यौ नदे ॥ ३,१.११५ ॥ _____ काशिकावृत्तिः३,१.११५: भिदेरुज्झेश्च क्यप्निपात्यते नदेऽभिधेये । उज्झेर्धत्त्वं च । भिनत्ति कूलं भिद्यः । उज्झति उदकमुद्ध्यः । नदे इति किम् ? भेत्ता । उज्झिता ॥ ____________________________________________________________________ पुष्यसिद्ध्यौ नक्षत्रे ॥ ३,१.११६ ॥ _____ काशिकावृत्तिः३,१.११६: पुषेः सिधेश्च अधिकरणे क्यप्निपात्यते नक्षत्रे अभिधेये । पुष्यन्ति अस्मिन्नर्थाः इति पुष्यः । सिध्यन्ति अस्मिन्निति सिद्ध्यः । नक्षत्रे इति किम् ? पोषणम् । सेधनम् ॥ ____________________________________________________________________ विपूयविनीयजित्या मुङ्जकल्कहलिषु ॥ ३,१.११७ ॥ _____ काशिकावृत्तिः३,१.११७: निपूय विनीय जित्य इत्येते शब्दा निपात्यन्ते यथासङ्ख्यं मुञ्ज कल्क हलि इत्येतेषु अर्थेषु वोध्येषु । विपूर्वात्पवतेर्नयतेश्च तथा जयतेर्यति प्राप्ते कर्मणि क्यब्निपात्यते । विपूयो मुञ्जः । विपाव्यमन्यत् । विनीयः क्ल्कः । विनेयमन्यत् । जित्यो हलिः । जेयमन्यत् ॥ ____________________________________________________________________ प्रत्यपिभ्यां ग्रहेश्छन्दसि ॥ ३,१.११८ ॥ _____ काशिकावृत्तिः३,१.११८: प्रति अपि इत्येवं पूर्वाद्ग्रहेः क्यप्प्रत्ययो भवति छन्दसि विषये । मत्तस्य न प्रतिग्रृह्यम् । तस्मान्न अपिगृह्यम् । छन्दसि इति किम् ? प्रतिग्राह्यम् । अपिग्राह्यम् ॥ ____________________________________________________________________ [॰२०३] पदास्वैरिबाह्यापक्ष्येषु च ॥ ३,१.११९ ॥ _____ काशिकावृत्तिः३,१.११९: पदे अस्वैरिणि बाह्यायां पक्ष्ये चर्थे ग्रहेर्धातोः क्यप्प्रत्ययो भवति । पदे तावत् प्रगृह्यं पदम्, यस्य प्रगृह्यसञ्ज्ञा विहिता । अवगृह्यं पदम्, यस्य अवग्रहः क्रियते । अस्वैरी परतन्त्रः । गृह्यका इमे । गृहीतका इत्यर्थः । बाह्यायम् ग्रामगृह्या सेना । नगरगृह्या सेना । ग्राम.नगराभ्यां बहिर्भूता इत्यर्थः । स्त्रीलिङ्गः निर्देशादन्यत्र न भवति । पक्षे भवः पक्ष्यः । वासुदेवगृह्याः । अर्जुनगृह्याः । तत्पक्षाश्रिताः इत्यर्थः ॥ ____________________________________________________________________ विभाषा कृवृषोः ॥ ३,१.१२० ॥ _____ काशिकावृत्तिः३,१.१२०: कृञो वृषश्च विभाषा क्यप्प्रत्ययो भवति । करोतेर्ण्यति प्राप्ते वर्षतेः ऋदुपधत्वात्नित्ये क्यपि प्राप्ते विभाषार्भ्यते । कृत्यम्, कार्यम् । वृष्यम्, वर्ष्यम् ॥ ____________________________________________________________________ युग्यं च पत्रे ॥ ३,१.१२१ ॥ _____ काशिकावृत्तिः३,१.१२१: युग्यमिति निपात्यते पत्रं चेत्तद्भवति । पतत्यनेन इत्पत्रं वाहनमुच्यते । युग्यो गौः । युग्योऽश्वः । युग्यो हस्ती । युजेः क्यप्कुत्वं च निपात्यते । पत्रे इति किम् ? योग्यमन्यत् ॥ ____________________________________________________________________ अमावस्यदन्यतरस्याम् ॥ ३,१.१२२ ॥ _____ काशिकावृत्तिः३,१.१२२: अमाशब्दः सहार्थे वर्तते । तस्मिन्नुपपदे वसेर्धातोः कालेऽधिकरणे ण्यत्प्रत्ययो भवति, तत्र अन्यतरस्यां वृद्ध्यभावो निपात्यते । सह वसतोऽस्मिन् काले सूर्याचन्द्रमसौ इति अमावास्य, अमावस्या । एकदेशविकृतस्य अनन्यत्वादमावास्याया वा (*४,३.३०) इत्यत्र अमावस्याशब्दस्य अपि ग्रहणं भवति । अमावसोरहं ण्यतोर्निपातयाम्यवृद्धिताम् । तथैकवृत्तिता तयोः स्वरश्च मे प्रसिध्यति ॥ ____________________________________________________________________ छन्दसि निष्टर्क्यदेवहूयप्रणीयोन्नीयोच्छिष्यमर्यस्तर्यध्वर्यखन्यखान्यदेवयज्यापृच्छ्यप्रतिषीव्यब्रह्मवाद्यभाव्यस्ताव्योपचाय्यपृडानि ॥ ३,१.१२३ ॥ _____ काशिकावृत्तिः३,१.१२३: निष्टर्क्यादयः शब्दाश्छन्दसि विषये निपात्यन्ते । यदिह लक्षणेन अनुपपन्नं तत्सर्वं निपातनात्सिद्धम् । निष्टर्क्यः इति कृती छेदने इत्यस्मान्निस्पूर्वात्क्यपि प्राप्ते ण्यत्, आद्यन्तविपर्ययश्च, निसश्च षत्वं निपात्यते । निष्टर्क्यं चिन्वीत पशुकामः । देवशब्दे उपपदे ह्वयतेर्जुहोतेर्वा क्यप्, दीर्घस्तुगभावश्च । देवहूयः । प्रपूर्वादुत्पूर्वाच्च नयतेः क्यप् । [॰२०४] प्रणीयः । उन्नीयः । उत्पूर्वाच्छिषेः क्यप् । उच्छिष्यः । मृङ्प्राणत्यागे, स्तृञाच्छन्दने, ध्वृ हूर्च्छने, एतेभ्यो यत्प्रत्ययः । मर्यः । स्तर्या । स्त्रियामेव निपातनम् । ध्वर्यः । खनेर्यत् । खन्या । एतस्मादेव ण्यत् । खान्यः । देवशब्दे उपपदे यजेर्यत् । देवयज्या । स्त्रीलिङ्गनिपातनम् । आङ्पूर्वात्पृच्छेः क्यप् । आपृच्छ्यः । प्रतिपूर्वत्सीव्यतेः क्यप्षत्वं च । प्रतिषीव्यः । ब्रह्मण्युपपदे वदेर्ण्यत् । ब्रहमवाद्यम् । भवतेः स्तौतेश्च ण्यत्, आवदेशश्च भवति । भाव्यम् । स्ताव्यः । उपपूर्वस्य चिनोतेः ण्यदायादेशौ । उपचाय्यपृडम् । पृडे चोत्तरपदे निपातनमेतत् । हिरण्य इति वक्तव्यम् । हिरण्यादन्यत्र उपचेयपृडमेव । निष्टर्क्ये व्यत्ययं विद्यान्निसः षत्वं निपातनात् । ण्यदायादेश इत्येतावुपचाय्ये निपाततौ ॥ ण्यदेकस्माच्चतुर्घ्यः क्यप्चतुर्भ्यश्च यतो विधिः । ण्यदेकस्माद्यशब्दश्च द्वौ क्यपौ ण्यद्विधिश्चतुः ॥ ____________________________________________________________________ ऋहलोर्ण्यत् ॥ ३,१.१२४ ॥ _____ काशिकावृत्तिः३,१.१२४: पञ्चम्यर्थे षष्ठी । ऋवर्णान्ताद्धातोर्हलन्ताच्च ण्यत्प्रत्ययो भवति । कार्यम् । हार्यम् । धार्यं वाक्यम् । पाक्यम् ॥ ____________________________________________________________________ ओरावश्यके ॥ ३,१.१२५ ॥ _____ काशिकावृत्तिः३,१.१२५: अवश्यं भावः आवश्यकम् । उवर्णान्ताद्धातोः ण्यत्प्रययो भवति आवश्यके द्योत्ये । यतोऽपवादः । लाव्यम् । पाव्यम् । अवश्यके इति किम् ? लव्यम् । आवश्यके द्योत्ये इति वेत्, स्वरसमासानुपपत्तिः, अवश्यलाव्यम्, अवश्यपाव्यमिति ? नैष दोषः । मयूरव्यं सकादित्वात्समासः । उत्तरपदप्रकृतिस्वरे च यत्नः करिष्यते ॥ ____________________________________________________________________ [॰२०५] आसुयुवपिरपिलपित्रपिचमश्च ॥ ३,१.१२६ ॥ _____ काशिकावृत्तिः३,१.१२६: आङ्पूर्वात्सुनोतेः यु वपि रपि लपि त्रपि चम इत्येतेभ्यश्च ण्यत्प्रत्ययो भवति । यतोऽपवादः आसाव्यम् । याव्यम् । वाप्यम् । राप्यम् । लाप्यम् । त्राप्यम् । आचाम्यम् । अनुक्तसमुच्चयार्थश्चकारः । दभि दाभ्यम् ॥ ____________________________________________________________________ आनाय्योऽनित्ये ॥ ३,१.१२७ ॥ _____ काशिकावृत्तिः३,१.१२७: आनाय्यः इति निपात्यते अनित्येऽभिधेये । नयतेराङ्पूर्वाण्ण्यदायादेशौ निपात्येते । आनाय्यो दक्षिणाग्निः । रूढिरेषा । तस्माद्नित्यविशेषे दक्षिणाग्नावेव अवतिष्ठते । तस्य च अनित्यत्वं नित्यमजागरणात् । यश्च गार्हपत्यादानीयते दक्षिणाग्निराहवनीयेन सह एकयोनिः, तत्र तन्निपातनं, न दक्षिणाग्निमात्रे । तस्य हि योनिर्विकल्प्यते वैश्यकुलाद्वित्तवतो भ्राष्ट्राद्वा गार्हपत्याद्वा इति । आनाय्योऽनित्य इति चेद्दक्षिणाग्नौ कृतं भवेत् । एकयोनौ तु तं विद्यादानेयो ह्यन्यथा भवेत् ॥ ____________________________________________________________________ प्रणाय्योऽसम्मतौ ॥ ३,१.१२८ ॥ _____ काशिकावृत्तिः३,१.१२८: अविद्यमाना सम्मतिरस्मिनित्यसम्मतिः । सम्मननं सममतिः, सम्मतता, पूजा । प्रणाय्यः इति निपात्यतेऽसम्मतावभिधेये । प्रणाय्यश्चोरः । असम्मतौ इति किम् ? प्रणेयोऽन्यः । यद्येवं कथमेतत्, ज्येष्ठाय पुत्राय पिता ब्रह्म ब्रूयात्प्रणाय्यान्तेवासिने, न अन्यस्मै कस्मैचन इति ? सम्मतिरभिलाषोऽप्युच्यते । तदभावेन निष्कामतया असम्मतिरन्तेवासी भवति । तस्मै निष्कामाय मोक्षार्थं यतमानायान्तेवासिने प्रणाय्याय ब्रह्म ब्रूयातिति युज्यते ॥ ____________________________________________________________________ पाय्यसान्नाय्यनिकाय्यधाय्या मानहविर्निवाससामिधेनीषु ॥ ३,१.१२९ ॥ _____ काशिकावृत्तिः३,१.१२९: पाय्यादयः शब्दा निपात्यन्ते यथासङ्ख्यं माने हविषि निवासे सामिधेन्यां च अभिधेयायाम् । पाय्य इति माङो ण्यत्प्रत्ययः, आदेः पत्वं च निपात्यते माने । पाय्यं मानं मेयमन्यत् । सम्पूर्वान्नयतेर्ण्यदायादेशावुपसर्गदीर्घत्वं च निपात्यते । सानाय्यं हविः । संनेयमन्यत् । रूढित्वाच्च हविर्विशेष एव अवतिष्ठते । निपूर्वाच्चिनोतेः ण्यदायादेशावादिकुवं च निपात्यते । निकाय्यो निवासः । निचेयमन्यत् । सामिधेनीशब्द ऋग्विशेषस्य वाचकः । तत्र च धाय्या इति न सर्वा सामिधेनी उच्यते, किं तर्हि, काचिदेव । रूधिशब्दो ह्ययम् । तथा च असामिधेन्यामपि दृश्यते, धाय्याः शंसत्यग्निर्नेता तं सोमक्रतुभिः इति ॥ ____________________________________________________________________ [॰२०६] क्रतौ कुण्डपाय्यसञ्चाय्यौ ॥ ३,१.१३० ॥ _____ काशिकावृत्तिः३,१.१३०: कुण्डपाय्य सञ्चाय्य इत्येतौ शब्दौ निपात्येते क्रतावभिधेये । कुण्डशब्दे तृतीयान्त उपपदे पिबतेर्धातोरधिकरणे यत्प्रत्ययो निपात्यते युक्च । कुण्डेन पीयतेऽस्मिन् सोमः इति कुण्डपाय्यः क्रतुः । यतोऽनावः इति स्वरः । सम्पूर्वाच्चिनोतेः ण्यदायादेशौ निपात्येते । सञ्चीयतेऽस्मिन् सोमः इति सञ्चाय्यः क्रतुः । क्रतौ इति किम् ? कुण्डपानम् । सञ्चेयः ॥ ____________________________________________________________________ अग्नौ परिचाय्योपचाय्यसमूह्याः ॥ ३,१.१३१ ॥ _____ काशिकावृत्तिः३,१.१३१: परिचाय्य उपचाय्य समूह्य इत्येते शब्दा निपात्यन्ते अग्नावभिधेये । परिपूर्वतुपपूर्वाच्च चिनोतेर्ण्य दायादेशौ निपात्येते । परिचाय्यम् । उपचाय्यः । सम्पूर्वाद्वहेः सम्प्रसारणं दीर्घत्वं च निपात्यते । समूह्यं चिन्वीत पशुकामः । अग्नौ इति किम् ? परिचेयम् । उपचेयम् । संवाह्यम् ॥ ____________________________________________________________________ चित्याग्निचित्ये च ॥ ३,१.१३२ ॥ _____ काशिकावृत्तिः३,१.१३२: चित्यशब्दोऽग्निचित्याशब्दश्च निपात्येते । नीयतेऽसौ चित्योऽग्निः । अग्निचयनमेव अग्निचित्या । भावे यकरप्रत्ययः तुक्च । तेन अनतोदात्तत्वं भवति । अग्नावित्येव । चेयमन्यत् ॥ ____________________________________________________________________ ण्वुल्तृचौ ॥ ३,१.१३३ ॥ _____ काशिकावृत्तिः३,१.१३३: धातोः इति वर्तते । सर्वधातुभ्यो ण्वुल्तृचौ प्रत्ययौ भवतः । कारकः । कर्ता । हारकः । हर्ता । चकारः सामान्यग्रहणाविधातार्थः, तुश्छन्दसि (*५,३.५९), तुरिष्ठेमेयस्सु (*६,४.१५४) इति ॥ ____________________________________________________________________ नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः ॥ ३,१.१३४ ॥ _____ काशिकावृत्तिः३,१.१३४: आदिशब्दः प्रयेकं सम्बध्यते । त्रिभ्यो गणेभ्यः त्रयः प्रत्ययाः यथासङ्ख्यं भवन्ति । नन्द्यादिभ्यो ल्युः, ग्रहादिभ्यो णिनिः, पचादिभ्योऽच् । नन्दिग्रहपचादयश्च न धातुपाठतः सन्निविष्टा गृह्यन्ते, किं तर्हि, नन्दन रमण इत्येवमादिषु प्रातिपदिकगणेषु अपोद्धृत्य प्रकृतयो निर्दिश्यन्ते । [॰२०७] नन्दिवासिपदिदूषिसाधिवर्धिशोभिरोचिभ्यो ण्यन्तेभ्यः सञ्ज्ञायाम् । नन्दनः । वासनः । मदनः । दूषणः । साधनः । वर्धनः । शोभनः । रोचनः । सहितपिदमेः सञ्ज्ञायाम् । सहनः । तपनः । दमनः । जल्पनः । रमणः । दर्पणः । सङ्क्रन्दनः । सङ्कर्षणः । जनार्दनः । यवनः । मधुसूदनः । विभीषणः । लवणः । निपातनाण्णत्वम् । चित्तविनाशनः । कुलदमनः । शत्रुदमनः । इति नन्द्यादिः । ग्रह । उत्सह । उद्दस । उद्भास । स्था । मन्त्र । सम्मर्द । ग्राही । उत्साही । उद्दासो । उद्भासी । स्थायी । मन्त्री । सम्मर्दी । रक्षश्रुवसवपशां नौ । निरक्षी । निश्रावी । निवासी । निवापी । निशायी । याचिव्याहृसंव्याहृव्रजवदवसां प्रतिषिद्धानाम् । अयाची । अव्याहारी । असंव्याहारी । अव्राजी । अवादी । अवासी । अचामचित्तकर्तृकाणाम् । प्रतिषिद्धानामित्येव । अकारी । अहारी । अविनायी । अविशायी । विशयी । विशयी देशे । विशयो, विषयी देशः । अभिभावी भूते । अभिभावी । अपराधी । उपरोधी । परिभवी । परिभावी । इति ग्रह्यादिः । पच । वप । वद । चल । शल । तप । पत । नदट् । भषट् । वस । गरट् । प्लवट् । चरट् । तरट् । चोरट् । ग्राहट् । जर । मर । क्षर । क्षम । सूदट् । देवट् । मोदट् । सेव । मेष । कोप । मेधा । नर्त । व्रण । दर्श । दंश । दम्भ । जारभरा । श्वपच । पचादिराकृतिगणः । अज्विधिः सर्वधातुभ्यः पठ्यन्ते च पचादयः । अण्बाधनार्थमेव स्यात्सिध्यन्ति श्वपचादयः ॥ ____________________________________________________________________ इगुपधज्ञाप्रीकिरः कः ॥ ३,१.१३५ ॥ _____ काशिकावृत्तिः३,१.१३५: इगुपधेभ्यः जानातेः प्रीणातेः किरतेश्च कप्रत्ययः भवति । विक्षिपः । विलिखः । बुधः । कृशः । जानाति इति ज्ञः । प्रीणाति इति प्रियः । किरति इति किरः । देवसेवमेषादयः पचादौ पठितव्याः ॥ ____________________________________________________________________ आतश्च+उपसर्गे ॥ ३,१.१३६ ॥ _____ काशिकावृत्तिः३,१.१३६: आकारान्तेभ्यो धातुभ्यः उपसर्ग उपपदे कप्रत्ययो भवति । णस्यापवादः । प्रस्थः । सुग्लः । सुम्लः ॥ ____________________________________________________________________ [॰२०८] पाघ्राध्माधेट्दृशः शः ॥ ३,१.१३७ ॥ _____ काशिकावृत्तिः३,१.१३७: पादिभ्यो धातुभ्यः उपसर्गे उपपदे शप्रत्ययो भवति । उत्पिबः । विपिबः । उज्जिघ्रः । विजिघ्रः । उद्धमः । विधमः । उद्धयः । विधयः । उत्पश्यः । विपश्यः । उपसर्गे इति केचिन्न अनुवर्तयन्ति । पश्यति इति पश्य । जिघ्रतेः सञ्ज्ञायां प्रतिषेधो वक्तव्यः । व्याघ्रः ॥ ____________________________________________________________________ अनुपसर्गाल्लिम्पविन्दधारिपारिवेद्युदेजिचेतिसातिसाहिभ्यश्च ॥ ३,१.१३८ ॥ _____ काशिकावृत्तिः३,१.१३८: अनुपसर्गेभ्यो लिम्पादिभ्यः शप्रत्ययो भवति । लिम्पति इति लिम्पः । विन्दति ति विन्दः । धारयति इति धारयः । पारयति इति पारयः । वेदयति इति वेदयः । उदेजाति इति उदेजयः । चेतयति इति चेतयः । सातिः सौत्रो धातुः । सातयः । साहयः । अनुपसर्गातिति किम् । प्रलिपः । नौ लिम्पेरिति वक्तव्यम् । निलिम्पा नाम देवाः । गवादिषु विन्देः सञ्ज्ञायाम् । गोविन्दः । अरविन्दः ॥ ____________________________________________________________________ ददातिदधात्योर्विभाषा ॥ ३,१.१३९ ॥ _____ काशिकावृत्तिः३,१.१३९: दाञो धाञश्च विभाषा शप्रत्ययो भवति । णस्य अपवादः । ददः, दायः । दधः, धायः । अनुपसर्गातित्येव, प्रदः, प्रधः ॥ ____________________________________________________________________ ज्वलितिकसन्तेभ्यो णः ॥ ३,१.१४० ॥ _____ काशिकावृत्तिः३,१.१४०: इतिशब्दः आद्यर्थः । ज्वल दीप्तौ इत्येवमादिभ्यो धातुभ्यः कस गतौ इत्येवमन्तेभ्यो विभाषा णप्रत्ययो भवति । अचोऽपवादः । ज्वालः, ज्वलः । चालः, चलः । अनुपसर्गातित्येव, प्रज्वलः । तेनोतेर्णस्य+उपसङ्ख्यानं कर्तव्यम् । अवतनोति इति अवतानः ॥ ____________________________________________________________________ [॰२०९] श्याद्व्यधास्रुसंस्र्वतीणवसावहृलिहश्लिषश्वसश्च ॥ ३,१.१४१ ॥ _____ काशिकावृत्तिः३,१.१४१: अनुपसर्गातिति, विभाषा इति च निवृत्तम् । श्यैङः, आकारान्तेभ्यश्च धातुभ्यः, व्यध आस्रौ संस्रौ अतीणवसा अवहृ लिह श्लिष श्वस इत्येतेभ्यश्च ण प्रत्ययो भवति । आकारान्तत्वादेव श्यायतेः प्रत्यत्ये सिद्धे पुनर्वचनं बाधकबाधनार्थम् । उपसर्गे कं बाधित्वाऽयमेव भवति । अवश्यायः । प्रतिश्यायः । दायः । धायः । व्याधः । आस्रावः । संस्रावः । अत्यायः । अवसायः । अवहारः । लेहः । श्लेषः । श्वासः ॥ ____________________________________________________________________ दुन्योरनुपसर्गे ॥ ३,१.१४२ ॥ _____ काशिकावृत्तिः३,१.१४२: दुनोतेर्नयतेश्च अनुपसर्गे णप्रत्ययो भव्ति । दुनोति इति दावः । नयति इति नायः । अनुपसर्गे इति किम् ? प्रदवः । प्रणयः ॥ ____________________________________________________________________ विभाशा ग्रहः ॥ ३,१.१४३ ॥ _____ काशिकावृत्तिः३,१.१४३: विभाषा ग्रहेः धातोः णप्रत्ययो भवति । अचः अपवादः । ग्राहः, ग्रहः । व्यवस्थितविभाषा च+इयम् । जलचरे नित्यं ग्राहः । ज्योतिषि नेस्यते, तत्र ग्रहः एव । भवतेश्च इति वक्तव्यम् । भवति इति भावः, भवः ॥ ____________________________________________________________________ गेहे कः ॥ ३,१.१४४ ॥ _____ काशिकावृत्तिः३,१.१४४: ग्रहेर्धातोः कप्रत्ययो भवति गेहे कर्तरि । गृहं वेश्म । तात्स्थ्यात्दाराश्च । गृह्णन्ति इति गृहाः दाराः । गृहाणि वेश्मानि ॥ ____________________________________________________________________ शिल्पिनि ष्वुन् ॥ ३,१.१४५ ॥ _____ काशिकावृत्तिः३,१.१४५: धातोः ष्वुन् प्रत्ययो भवति शिल्पिनि कर्तरि । नृतिखनिरञ्जिभ्यः परिगणनं कर्तव्यम् । नर्तकः । खनकः । रजकः । नर्तकी । खनकी । रजकी । रञ्जेरनुनासिकलोपश्च ॥ ____________________________________________________________________ [॰२१०] गस्थकन् ॥ ३,१.१४६ ॥ _____ काशिकावृत्तिः३,१.१४६: गायतेः थकन् प्रत्ययो भवति शिल्पिनि कर्तरि । गाथकः, गाथिका ॥ ____________________________________________________________________ ण्युट्च ॥ ३,१.१४७ ॥ _____ काशिकावृत्तिः३,१.१४७: चकारेण गः इत्यनुकृष्यते । गायतेः ण्युट्प्रत्ययो भवति शिल्पिनि कर्तरि । गायनः, गायनी । योगविभागः उत्तरार्थः ॥ ____________________________________________________________________ हश्च व्रीहिकालयोः ॥ ३,१.१४८ ॥ _____ काशिकावृत्तिः३,१.१४८: चकारेण गः इत्यनुकृस्यते । गायतेः ण्युट्प्रत्ययो भवति शिल्पिति कर्तरि । गायनः, गायनी । योगविभागः उत्तरार्थः ॥ ____________________________________________________________________ प्रुसृल्वः समभिहारे वुन् ॥ ३,१.१४९ ॥ _____ काशिकावृत्तिः३,१.१४९: प्रु सृ लू इत्येतेभ्यः धातुभ्यः समभिहारे वुन् प्रत्ययो भवति । प्रवकः । सरकः । लवकः । समभिहारग्रहणेन अत्र सधुकारित्वं लक्ष्यते । साधुकारिणि वुन् विधानात्सकृदपि यः सुष्ठु करोति तत्र भवति । बहुशो यो दुष्टं करोति तत्र न भवति ॥ ____________________________________________________________________ आशिषि च ॥ ३,१.१५० ॥ _____ काशिकावृत्तिः३,१.१५०: आशिषि गम्यमानायां धातुमात्रात्वुन् प्रत्ययो भवति । जीवतात्जीवकः । नन्दतात्नन्दकः । आशीः प्रार्थनाविशेषः । स च+इह क्रियाविषयः । अमुष्याः क्रियायः कर्ता भवेतित्येवमाशास्यते ॥ इति श्रीज्यादित्यविरचितायां काशिकायां वृत्तौ तृतीयाध्यायस्य प्रथमः पादः ॥ ______________________________________________________ [॰२११] तृतीयाध्यायस्य द्वितीयः पादः । ____________________________________________________________________ कर्मण्यण् ॥ ३,२.१ ॥ _____ काशिकावृत्तिः३,२.१: त्रिविधं कर्म, निर्वर्त्यं, विकार्यं, प्राप्यं च+इति । सर्वत्र कर्मणि उपपदे धातोः अण्प्रत्ययो भवति । निर्वर्त्यं तावत् कुम्भकारः । नगरकारः । विकार्यम् काण्डलावः । शरलावः । प्राप्यम् वेदाध्यायः । चर्चापारः । ग्रामं गच्छति, आदित्यं पश्यति, हिमवन्तं शृणोति इत्यत्र न भवति, अनभिधानात् । शीलिकामिभक्ष्याचरिभ्यो णः पूर्वपदप्रकृतिस्वरत्वं च वक्तव्यम् । मांसशीलः, मांसशीला । मांसकामः, मांसकामा । मांसभक्षः, मांसभक्षा । कल्याणाचारः, कल्याणाचारा । ईक्षक्षमिभ्यां च+इति वक्तव्यम् । सुखप्रतीक्षः, सुखप्रतीक्षा । बहुक्षमः, बहुक्षमा ॥ ____________________________________________________________________ ह्वावामश्च ॥ ३,२.२ ॥ _____ काशिकावृत्तिः३,२.२: ह्वेञ्स्पर्धायां शब्दे च, वेञ्तन्तुसन्ताने, माङ्माने इत्येतेभ्यश्च कर्मण्युपपदे अण्प्रत्ययो भवति । कप्रत्ययस्य अपवादः । स्वर्गह्वायः । तन्तुवायः । धान्यमायः ॥ ____________________________________________________________________ आतोऽनुपसर्गे कः ॥ ३,२.३ ॥ _____ काशिकावृत्तिः३,२.३: आकारान्तेभ्यः अनुपसर्गेभ्यः कर्मण्युपपदे कप्रत्ययो भवति । अणोऽपवादः । गोदः । कम्बलदः । पार्ष्णित्रम् । अङ्गुलित्रम् । अनुपसर्गे इति किम् ? गोसन्दायः । वडवासन्दायः ॥ ____________________________________________________________________ सुपि स्थः ॥ ३,२.४ ॥ _____ काशिकावृत्तिः३,२.४: सुबन्ते उपपदे तिष्ठतेः कप्रत्ययो भवति । समस्थः । विषमस्थः । अत्र योगविभागः कर्तव्यः सुपि इति । सुपि आकारान्तेभ्यः कप्रत्ययो भवति । द्वाभ्यां पिबति इति द्विपः । पादपः । कच्छपः । ततः स्थः इति । स्थश्च सुपि कप्रत्ययो भवति । किमर्थमिदम् ? कर्तरि पूर्वयोगः । अनेन भावेऽपि यथा स्यात् । आखूनामुत्थानमाखूत्थः । शलभोत्थः । इति उत्तरं कर्मणि इति च सुपि इति च द्वयमप्यनुअवर्तते । तत्र सकर्मकेषु धातुषु क्र्मणि इत्येतदुपतिष्ठते । अन्यत्र सुपि इति ॥ ____________________________________________________________________ [॰२१२] तुन्दशोकयोः परिमृजापनुदोः ॥ ३,२.५ ॥ _____ काशिकावृत्तिः३,२.५: तुन्दशोकयोः कर्मणोरुपपदयोः परिमृजापनुदोः धात्वोः कप्रत्ययो भवति । तुन्दपरिमृज आस्ते । शोकापनुदः पुत्रो जातः । आलस्य सुखाहरणयोः इति वक्तव्यम् । अलसस्तुन्दप्रिमृज उच्यते । तुन्दपरिमार्जः एव अन्यः । सुखस्य अहर्ता शोकापनुदः । शोकापनोदः एव अन्यः । कप्रकरणो मूलविभुजादिभ्यः उपसङ्ख्यानम् । मूलानि विभुजादिभ्यः उपसङ्ख्यानम् । मूलानि विभुजति इति मूलविभुजो रथः । नखमुचानि धनूंषि । काकनुहस्तिलाः । कौ मोदते कुमुदम् ॥ ____________________________________________________________________ प्रे दाज्ञः ॥ ३,२.६ ॥ _____ काशिकावृत्तिः३,२.६: सोपसर्गार्थ आरम्भः । ददातेः जानातेश्च धातोः प्रेणोपसृष्टात्कर्मण्युपपदे कप्रत्ययो भवति । अणोऽपवादः । सर्वप्रदः । पथिप्रज्ञः । प्रे इति किम् ? गोसन्दायः ॥ ____________________________________________________________________ समि ख्यः ॥ ३,२.७ ॥ _____ काशिकावृत्तिः३,२.७: सोपसर्गार्थः आरम्भः । संपूर्वात्ख्या इत्येतस्माद्धातोः कर्मण्युपपदे कप्रत्ययो भवति । अणोऽपवादः । गां संचष्टे गोसङ्ख्यः ॥ ____________________________________________________________________ गापोष्टक् ॥ ३,२.८ ॥ _____ काशिकावृत्तिः३,२.८: कर्मण्यनुपसर्गे इति वर्तते । गायतेः पिबतेश्च धातोः कर्मण्युपपदेऽनुपसर्गे टक्प्रत्ययो भवति । कस्य अपवादः । शक्रं गायति शक्रगः, शक्रगी । सामगः, सामगी । सुराशीध्वोः पिबतेरिति वक्तव्यम् । सुरापः, सुरापी । शीधुपः, शीधुपी । सुराशीध्वोः इति किम् ? क्षीरपा ब्राह्मणी । पिबतेः इति किम् ? सुरां पाति इति सुरापा । अनुपसर्गे इत्येव, शक्रसङ्गायः । सामसङ्गायः । बहुलं छन्दसि इति वक्तव्यम् । या बाह्मणी सुरापी भवति नैनां देवाः पतिलोकं नयन्ति । या ब्रह्मणी सुरापा भवति नैनां देवाः पतिलोकं नयन्ति ॥ ____________________________________________________________________ [॰२१३] हरतेरनुद्यमनेऽच् ॥ ३,२.९ ॥ _____ काशिकावृत्तिः३,२.९: हरतेर्धातोरनुद्यमने वर्तमानात्कर्मणि उपपदे अच्प्रत्ययो भवति । अणोऽपवादः । उद्यमनमुत्क्षेपणम् । अंशं हरति अंशहरः । रिक्थहरः । अनुद्यमने इति किम् ? भारहारः । अच्प्रकरणे शक्तिलाङ्गलाङ्कुशयष्टितोमरघटघटीधौष्षु ग्रहेरुपसङ्ख्यानम् । शक्तिग्रहः । लाङ्गलग्रहः । अङ्कुशग्रहः । यष्टिग्रहः । तोमरग्रहः । घटग्रहः । घटीग्रहः । धनुर्ग्रहः । सूत्रे च धार्यर्थे । सूत्रग्रहः । सूत्रं धारयति इत्यर्थः । सूत्रग्राहः एव अन्यः ॥ ____________________________________________________________________ वयसि च ॥ ३,२.१० ॥ _____ काशिकावृत्तिः३,२.१०: वयसि गम्यमाने हरतेः कर्मण्युपपदे अच्प्रत्ययो भवति । उद्यमनार्थोऽयमारम्भः । कालकृता शरीरावस्था यौवनादिर्वयः । यदुद्यमनं क्रियमाणं सम्भाव्यमानं वा वयो गमयति, तत्र अयं विधिः । अस्थिहरः श्वा । कवछरः क्षत्रियकुमारः ॥ ____________________________________________________________________ आङि ताच्छील्ये ॥ ३,२.११ ॥ _____ काशिकावृत्तिः३,२.११: आङ्पूर्वाधरतेः कर्मण्युपपदे अच्प्रत्ययो भवति ताच्छील्ये गम्यमाने । ताच्छील्यं तत्स्वभावता । पुष्पाहरः । फलाहरः । पुष्पाद्याहरने स्वाभाविकी फलानपेक्षा प्रवृत्तिरस्य इत्यर्थः । ताच्छीओये इति किम् ? भारमाहरति इति भाराहारः ॥ ____________________________________________________________________ अर्हः ॥ ३,२.१२ ॥ _____ काशिकावृत्तिः३,२.१२: अर्ह पूजायाम्, अस्माद्धातोः कर्मण्युपपदे अच्प्रत्ययओ भवति । अणोऽपवादः । स्त्रीलिङ्गे विशेषः । पूजार्हा । गन्धार्ह । मालार्हा ॥ ____________________________________________________________________ स्तम्बकर्णयो रमिजपोः ॥ ३,२.१३ ॥ _____ काशिकावृत्तिः३,२.१३: स्तम्ब कर्ण इत्येतयोः सुबन्तयोरुपपदयोर्यथासङ्ख्यं रमिजपोः धात्वोः अच्प्रत्ययो भवति । रमेः अकर्मकत्वात्, जपेः शब्दकर्मकत्वात्कर्म न सम्भवति इति सुपि इत्येतदिह अभिसम्बध्यते । हस्तिसूचकयोरिति वक्तव्यम् । स्तम्बे रमते इति स्तम्बेरमः हर्ती । कर्णे जपति इति कर्णेजपः सूचकः । हस्तिसूचकयोः इति किम् ? स्तम्बे रन्ता । कर्णे जपिता मशकः ॥ ____________________________________________________________________ [॰२१४] शमि धातोः सञ्ज्ञायाम् ॥ ३,२.१४ ॥ _____ काशिकावृत्तिः३,२.१४: शम्युपपदे धातुमात्रात्सञ्ज्ञायां विषये अच्प्रत्ययओ भवति । शङ्करः । शंभवः । शंवदः । धातुग्रहणं किं यावता धातोः इति वर्तत एव ? शमिसञ्ज्ञायामिति सिद्धे धातुग्रहणं कृञो हेत्वादिषु टप्रतिषेधार्थम् । शङ्करा नाम परिव्राजिका । शङ्करा नाम शकुनिका । तच्छीला च ॥ ____________________________________________________________________ अधिकरणे शेतेः ॥ ३,२.१५ ॥ _____ काशिकावृत्तिः३,२.१५: सुपि इति सम्बध्यते । शेतेर्धातोरधिकरणे सुबन्त उपपदे अच्प्रत्ययो भवति । खे शेते खशयः । गर्तशयः । पार्श्वादिषु उपसङ्ख्यानम् । पार्श्वाभ्यां शेते पार्श्वशयः । उदरशयः । पृष्ठशयः । दिग्धसहपूर्वाच्च । दिग्धेन सह शेते दिग्धसहशयः । उत्तानादिषु कर्तृषु । उत्तानः शेते उत्तानशयः । अवमूर्धा शेते अवमूर्धशयः । गिरौ डश्छन्दसि । गिरौ शेते गिरिशः ॥ ____________________________________________________________________ चरेष्टः ॥ ३,२.१६ ॥ _____ काशिकावृत्तिः३,२.१६: अधिकरणे इति वर्तते । चरेर्धातोरधिकरणे सुबन्त उपपदे टप्रत्ययो भवति । कुरुषु चरति कुरुचरः । मद्रचरः । कुरुचरी । मद्रचरी । प्रत्ययान्तरकरणं ङीबर्थम् ॥ ____________________________________________________________________ भिक्षासेनादायेषु च ॥ ३,२.१७ ॥ _____ काशिकावृत्तिः३,२.१७: अनधिकरणार्थः आरम्भः । भिक्षा सेना आदाय इत्येतेषु उपपदेषु चरेः धतोः टप्रत्ययो भवति । भिक्षाचरः । सेनाचरः । आदायचरः ॥ ____________________________________________________________________ [॰२१५] पुरोऽग्रतोऽग्रेषु सर्तेः ॥ ३,२.१८ ॥ _____ काशिकावृत्तिः३,२.१८: पुरसग्रतसग्रे इत्येतेषु उपपदेषु सर्तेः धातोः टप्रत्ययो भवति । पुरः सरति पुरःसरः । अग्रतःसरः । अग्रेसरः ॥ ____________________________________________________________________ पूर्वे कर्तरि ॥ ३,२.१९ ॥ _____ काशिकावृत्तिः३,२.१९: पूर्वशब्दे कर्तृवाचिन्युपपदे सर्तेर्धातोः टप्रत्ययः भवति । पूर्वः सरति इति पूर्वसरः । कर्तरि इति किम् ? पूर्वं देशं सरति इति पूर्वसारः ॥ ____________________________________________________________________ कृञो हेतुताच्छील्यानुलोम्येषु ॥ ३,२.२० ॥ _____ काशिकावृत्तिः३,२.२०: कर्मणि उपपदे करोतेः धातोः टप्रत्ययो भवति हेतौ ताच्छील्ये आनुलोम्ये च गम्यमाने । हेतुः ऐकान्तिकं करणम् । ताच्छील्यं तत्स्वभावता । आनुलोम्यमनुकूलता । हेतौ तावत् शोककरी कन्या । यशस्करी विद्या । कुलकरं धनम् । ताच्छील्ये श्राद्धकरः । अर्थकरः । आनुलोम्ये प्रैषकरः । वचनकरः । एतेसु इति किम् ? कुम्भकारः । नगरकारः ॥ ____________________________________________________________________ दिवाविभानिशाप्रभाभास्कारान्तानन्तादिबहुनान्दीकिंलिपिलिबिबलिभक्तिकर्तृचित्रक्षेत्रसङ्ख्याजङ्घाबाह्वहर्यत्तद्धनुररुष्षु ॥ ३,२.२१ ॥ _____ काशिकावृत्तिः३,२.२१: कर्मणि सुपि इति च द्वयमप्यनुवर्तते । तत्र यथायोगं सम्बन्धः । दिवादिषु उपपदेषु करोतेर्धातोः टप्रत्ययो भवति । अहेत्वाद्यर्थ आरम्भः । दिवाशब्दो अधिकरणवचनः सुपि इत्यस्य विशेषणम् । दिवा करोति प्राणिनशचेष्टायुक्तानिति दिवाकरः । विभां करोति इति विभाकरः । निशाकरः । प्रभाकरः । भास्करः । सकारस्य निपातनाद्विसर्जनीयजिह्वामूलीयौ न भवतः । कारकरः । अन्तकरः । अनन्तकरः । आदिकरः । बहुकरः । नान्दीकरः । किङ्करः । लिपिकरः । लिबिकरः । बलिकरः । भक्तिकरः । कर्तृकरः । चित्रकरः । क्षेत्रकरः । सङ्ख्या एककरः, द्विकरः, त्रिकरः । जङ्घाकरः । बाहुकरः । अहस्करः । यत्करः । तत्करः । धनुष्करः । अरुष्करः । किंयत्तद्बहुषु कृञोऽज्विधानम् । किङ्करा । यत्करा । तत्करा । बहुकरा । अथवा अजादिषु पाठः करिस्यते ॥ ____________________________________________________________________ [॰२१६] कर्मणि भृतौ ॥ ३,२.२२ ॥ _____ काशिकावृत्तिः३,२.२२: कर्मणि इति स्वरूपग्रहनम् । करमशब्दे उपपदे कर्मवाचिनि करोतेः टप्रत्ययो भवति भृतौ गम्यमानायाम् । भृतिः वेतनं, कर्मनिर्वेशः । कर्म करोति इति कर्मकरः भृतकः इत्यर्थः । भृतौ इति किम् ? करकारः ॥ ____________________________________________________________________ न शब्दश्लोककलहगाथावैरचाटुसूत्रमन्त्रपदेषु ॥ ३,२.२३ ॥ _____ काशिकावृत्तिः३,२.२३: शब्दादिषु उपपदेषु करोतेः टप्रत्ययो न भवति । हेत्वादिषु प्राप्तः प्रतिषिध्यते । शब्दकारः । श्लोककारः । कलहकारः । गाथाकारः । वैरकारः । चाटुकारः । चटुकारः । सूत्रकारः । मन्त्रकारः । पदकारः ॥ ____________________________________________________________________ स्तम्बशकृतोरिन् ॥ ३,२.२४ ॥ _____ काशिकावृत्तिः३,२.२४: स्तम्ब शकृतित्येतयोः कर्मणोरुपपदयोः इन्प्रत्ययो भवति । व्रीहिवत्सयोरिति वक्तव्यम् । स्तम्बकरिर्व्रीहिः । शकृत्करिर्वत्सः । व्रीहिवत्सयोः इति किम् ? स्तम्बकारः । शकृत्करः ॥ ____________________________________________________________________ हरतेर्दृतिनाथयोः पशौ ॥ ३,२.२५ ॥ _____ काशिकावृत्तिः३,२.२५: दृति नाथ इत्येतयोः कर्मणोरुपपदयोः हरतेर्धातोः पशौ कर्तरि इन् प्रत्ययो भवति । दृतिं हरति दृतिहरिः पशुः । नाथहरिः पशुः । पशौ इति किम् ? दृतिहारः । नाथहारः ॥ ____________________________________________________________________ फलेग्रहिरात्मम्भरिश्च ॥ ३,२.२६ ॥ _____ काशिकावृत्तिः३,२.२६: फलेग्रहिः आत्मम्भरिः इत्येतौ शब्दौ निपात्येते । फलशब्दस्य उपपदस्य एकारान्तत्वमिन्प्रत्ययश्च ग्रहेर्निपात्यते । फलानि गृह्णाति इति फलेग्रहिर्वृक्षः । आत्मशब्दस्य उपपदस्य मुमागम इन्प्रत्ययश्च भृञो निपात्यते । आत्मानं बिभर्ति आत्मम्भरिः । अनुक्तसमुच्चयार्थश्चकारः । कुक्षिम्भरिः । उदरम्भरिः ॥ ____________________________________________________________________ छन्दसि वनसनरक्षिमथाम् ॥ ३,२.२७ ॥ _____ काशिकावृत्तिः३,२.२७: वन षण सम्भक्तौ, रक्ष पालने, मन्थ विलोडने, एतेभ्यः कर्मण्युपपदे छन्दसि विषये इन्प्रत्ययो भवति । ब्रह्मवनिं त्वा क्षत्रवनिं सुप्रजावनिं रायस्पोषवनिं पर्यूहामि । गोसनिं वाचमुदेयम् । यौ पथिरक्षी श्वानौ । हविर्मथीनामभ्या ३ विवासताम् ॥ ____________________________________________________________________ [॰२१७] एजेः खश् ॥ ३,२.२८ ॥ _____ काशिकावृत्तिः३,२.२८: एजृ कम्पने इत्यस्मात्ण्यन्तात्कर्मण्युपपदे खश्प्रत्ययो भवति । खकारो मुमथः । शकारः सार्वधातुकसञ्ज्ञार्थः । अङ्गमेजयति अङ्गमेजयः । जनमेजयः । खश्प्रयये वात्शुनीतिलशर्धेष्वजधेट्तुदजहातीनामुपसङ्ख्यानम् । वातमजा मृगाः । शुनिन्धयः । तिलन्तुदः । शर्धञ्जहा माषाः ॥ ____________________________________________________________________ नासिकास्तनयोर्ध्माधेटोः ॥ ३,२.२९ ॥ _____ काशिकावृत्तिः३,२.२९: नासिकास्तनयोः कर्मणोरुपपदयोः ध्माधेटोर्धात्वोः खश्प्रत्ययो भवति । यथासङ्ख्यमत्र नेष्यते । स्तने धेटः । सत्नन्धयः । नासिकायां तु ध्मश्च धेटश्च । नासिकन्धमः, नासिकन्धयः । तच्च+एतन्नासिकस्तनयोरिति लक्षणव्यभिचारचिह्नादल्पाच्तरस्य अपूर्वनिपातनाल्लभ्यते । धेटः टित्वात्स्त्रियां ङीप्प्रत्ययो भवति । स्तनन्धयी ॥ ____________________________________________________________________ नाडीमुष्ट्योश्च ॥ ३,२.३० ॥ _____ काशिकावृत्तिः३,२.३०: नाडी मुष्ति इत्येतयोः कर्मणोरुपपदयोः ध्माधेटोः खश्प्रत्ययो भवति । अत्र अपि घ्यन्तस्य अपूर्वनिपातो लक्षणव्यभिचारचिह्नम् । तेन सङ्ख्यातानुदेशो न भवति । नाडिन्धमः । मुष्टिन्धमः । नाडिन्धयः । मुष्टिन्धयः । अनुक्तसमुच्चयार्थश्चकारः । घटिन्धमः । घटिन्धयः । खारिन्धमः । खारिन्धयः । वातन्धमः पर्वतः । वातन्धयः ॥ ____________________________________________________________________ उदि कूले रुजिवहोः ॥ ३,२.३१ ॥ _____ काशिकावृत्तिः३,२.३१: रुजो भङ्गे, वह प्रापणे इत्येताभ्यामुत्पूर्वाभ्यां कूले कर्मणि उपपदे खश्प्रत्ययो भवति । कूलमुद्रुजति इति कूलमुद्रुजो रथः । कूलमुद्वहः ॥ ____________________________________________________________________ वहाभ्रे लिहः ॥ ३,२.३२ ॥ _____ काशिकावृत्तिः३,२.३२: वह अभ्र इत्येतयोः करम्णोरुपपदयोः लिहेर्धातोः खश्प्रत्ययो भवति । वहं लेढि इति वह्ंलिहो गौः । अभ्रंलिहो वायुः ॥ ____________________________________________________________________ [॰२१८] परिमाणे पचः ॥ ३,२.३३ ॥ _____ काशिकावृत्तिः३,२.३३: परिमाणं प्रस्थादि, तस्मिन् कर्मण्युपपदे पचेः खश्प्रत्ययो भवति । प्रस्थं पचति प्रस्थंपचा स्थाली । द्रोणंपचः । खारिंपचः कटाहः ॥ ____________________________________________________________________ मितनखे च ॥ ३,२.३४ ॥ _____ काशिकावृत्तिः३,२.३४: मित नख इत्येतयोः कर्मणोरुपपदयोः पचेः खश्प्रत्ययो भवति । अपरिमाणार्थः आरम्भः । मितं पचति मितम्पचा ब्राह्मणी । नखंपचा यवागूः ॥ ____________________________________________________________________ विध्वरुषोस्तुदः ॥ ३,२.३५ ॥ _____ काशिकावृत्तिः३,२.३५: विधु अरुसित्येतयोः कर्मणोरुपपदयोः तुदेर्धातोः खश्प्रत्ययो भवति । विधुन्तुदः राहुः । अरुनतुदः ॥ ____________________________________________________________________ असूर्यललाटयोर्दृशितपोः ॥ ३,२.३६ ॥ _____ काशिकावृत्तिः३,२.३६: असूर्य ललाट इत्येतयोः कर्मणोरुपपदयोः दृशितपोः धात्वोः खश्प्रत्ययो भवति । असूर्यंपश्या राजदाराः । ललाटंतपः आदित्यः । असूर्य इति च असमर्थसमासोऽयं, दृशिना नञः सम्बन्धात्, सूर्यं न पश्यन्ति इति । गुप्तिपरं चैतत् । एवं नाम गुप्ता यदपरिहार्यदर्शनं सूर्यमपि न पश्यन्ति इति ॥ ____________________________________________________________________ उग्रम्पश्येरम्मदपाणिन्धमाश्च ॥ ३,२.३७ ॥ _____ काशिकावृत्तिः३,२.३७: उग्रम्पश्य इरम्मद पाणिन्धम इत्येते शब्दा निपात्यन्ते । उग्रं पश्यति इति उग्रम्पश्यः । इरया माद्यति इति इरम्मदः । पाणयो ध्मायन्ते एषु इति पाणिन्धमाः पन्थानः ॥ ____________________________________________________________________ प्रियवशे वदः खच् ॥ ३,२.३८ ॥ _____ काशिकावृत्तिः३,२.३८: प्रिय वश इत्येतयोः करम्णोः उपपदयोः वदेः धातोः खच्प्रत्ययो भवति । प्रियं वदति इति प्रियंवदः । वशंवदः । चकारः खचि ह्रस्वः (*६,४.९४) इति विशेषणार्थः । खकारो मुमर्थः । प्रत्ययान्तरकरणमुत्तरार्थम् । [॰२१९] खच्प्रकरणे गमेः सुप्युपसङ्ख्यानम् । मितङ्गमो हस्ती । मितङ्गमा हस्तिनी । विहायसो विह च । विहायसा गच्छति विहङ्गमः । खच्च डिद्वा वक्तव्यः । विहङ्गः, विहङ्गमः । डे च विहायसो विहादेशो वक्तव्यः । विहगः । ____________________________________________________________________ द्विषत्परयोस्तापेः ॥ ३,२.३९ ॥ _____ काशिकावृत्तिः३,२.३९: द्विषत्परयोः कर्मणोरुपपदयोः तापेः छातोः खच्प्रत्ययो भवति । तप दाहे चुरादिः, तपसन्तापे भ्वादिः, द्वयोरपि ग्रहणम् । द्विषन्तं तापयति द्विषन्तपः । परन्तपः । द्विषत्परयोः इति द्वितकारको निर्देशः । तेन स्त्रियां न भवति । द्विषतीं तापयति द्विषतीतापः ॥ ____________________________________________________________________ वाचि यमो व्रते ॥ ३,२.४० ॥ _____ काशिकावृत्तिः३,२.४०: वाक्शब्दे कर्मणि उपपदे यमेः धातोः खच्प्रययो भवति व्रते गम्यमाने । व्रत इति शस्त्रितो नियमः उच्यते । वाचंयमः आस्ते । व्रते इति किम् ? वाग्यामः ॥ ____________________________________________________________________ पूःसर्वयोर्दारिसहोः ॥ ३,२.४१ ॥ _____ काशिकावृत्तिः३,२.४१: पुर्सर्व इत्येतयोः करमणोः उपपदयोः यथासङ्ख्यं दारिसहोः धात्वोः खच्प्रत्ययो भवति । पुरं दारयति पुरन्दरः । सर्वंसहो राजा । भवे च दारेरिति वक्तव्यम् । भगन्दरः ॥ ____________________________________________________________________ सर्वकूलाभ्रकरीषेषु कषः ॥ ३,२.४२ ॥ _____ काशिकावृत्तिः३,२.४२: सर्वकूल अभ्र करीर इत्येतेषु कर्मसु उपपदेषु कषेः धातोः खच्प्रत्ययो भवति । सर्वं कषति सर्वंकषः खलः । कूलङ्कषा नदी । अभ्रङ्कषो गिरिः । करीषङ्कषा वात्या ॥ ____________________________________________________________________ [॰२२०] मेघर्तिभयेषु कृञः ॥ ३,२.४३ ॥ _____ काशिकावृत्तिः३,२.४३: मेघ ऋति भय इत्येतेषु कर्मसु उपपदेषु कऋञः खच्प्रत्ययो भवति । मेघङ्करः । ऋतिङ्करः । भयङ्करः । उपपदविधौ भयादिग्रहणं तदन्तविधिं प्रयोजयति । अभयङ्करः ॥ ____________________________________________________________________ क्षेमप्रियमद्रेऽण्च ॥ ३,२.४४ ॥ _____ काशिकावृत्तिः३,२.४४: क्षेम प्रिय मद्र इत्येतेषु कर्मसु उपपदेषु करोतेः अण्प्रत्ययो भवति, चकारात्खच्च । क्षेमकारः, क्षेमङ्करः । प्रियकारः, प्रियङ्करः । मद्रकारः, मद्रङ्करः । वा इति वक्तव्ये पुनरण्ग्रहनं हेत्वादिषु टप्रतिषेधार्थम् ॥ ____________________________________________________________________ आशिते भुवः करणभावयोः ॥ ३,२.४५ ॥ _____ काशिकावृत्तिः३,२.४५: अत्र सुपि इत्युपतिष्ठते । आशितशब्दे सुबन्ते उपपदे भवतेर्धातोः करणे भावे चार्थे खच्प्रत्ययो भवति । आशितो भवति अनेन आशितम्भव ओदनः । भावे आशितस्य भवनमाशितम्भवं वर्तते ॥ ____________________________________________________________________ सञ्ज्ञायां भृतॄवृजिधारिसहितपिदमः ॥ ३,२.४६ ॥ _____ काशिकावृत्तिः३,२.४६: कर्मणि इति सुपि इति च प्रकृतं सज्ञावशाद्यथासम्भवं सम्बध्यते । भृ तॄ वृ जि धारि सहि तपि दम इत्येतेभ्यो धातुभ्यः सञ्ज्ञायां विषये खच्प्रत्ययो भवति । विश्वम्भरा वसुन्धरा । रथन्तरं साम । पतिंवरा कन्या । शत्रुञ्जयो हस्ती । युगन्धरः पर्वतः । शत्रुंसहः । शत्रुंतपः । अरिंदमः । सज्ञायामिति किम् ? कुटुम्बं बिभर्ति इति कुटुम्बभारः ॥ ____________________________________________________________________ गमश्च ॥ ३,२.४७ ॥ _____ काशिकावृत्तिः३,२.४७: गमेः धातोः सुपि उपपदे सञ्ज्ञायां विषये खच्प्रत्ययो भवति । सुतङ्गमो नाम, यस्य पुत्रः सौतङ्गमिः । योगविभागः उत्तरार्थः ॥ ____________________________________________________________________ अन्तात्यन्ताध्वदूरपारसर्वानन्तेषु डः ॥ ३,२.४८ ॥ _____ काशिकावृत्तिः३,२.४८: सञ्ज्ञायामिति न अनुवर्तते । अन्त अत्यन्त अध्वन् दुर पार सर्व अनन्त इत्येतेषु कर्मसु उपपदेषु गमेः डप्रत्ययो भवति । अन्तगः अत्यन्तगः । अध्वगः । दूरगः । पारगः । सर्वगः । अनन्तगः । अनन्तगः । डकरः टिलोपार्थः, डित्यभस्य अप्यनुबन्धकरणसामर्थ्यातिति ॥ [॰२२१] डप्रकरणे सर्वत्रपन्नयोरुपसङ्ख्यानम् । सर्वत्रगः । पन्नगः । उरसो लोपश्च । उरसा गच्छति इति उरगः । सुदुरोरधिकरणे । सुखेन गच्छत्यस्मिनिति सुगः । दुर्गः । निरो देशे । निर्गो देशः । अप्र आह डप्रकरणेऽन्येष्वपि दृश्यते इति । स्त्र्यगारगः । ग्रामगः । गुरुतल्पगः ॥ ____________________________________________________________________ आशिषि हनः ॥ ३,२.४९ ॥ _____ काशिकावृत्तिः३,२.४९: ड इति वर्तते । आशिषि गम्यमानायां हन्तेर्धातोः कर्मण्युपपदे डप्रययो भवति । तिमिं वध्यात्तिमिहः । शत्रुहः । आशिषि इति किम् ? शत्रुघातः । दारावाहनोऽणन्तस्य च टः सञ्ज्ञायाम् । दारावुपपदे आङ्पूर्वाधन्तेः अण्प्रत्ययो भवति, अन्तस्य च ट कारादेशो भवति, सञ्ज्ञायां विषये । दारु आहन्ति दार्वाघाटः । चारौ वा । आङ्पूर्वाथन्तेश्चारावुपपदे अण्, अन्तस्य वा टकारादेशः । चार्वाघाटः, चार्वाद्घातः । कर्मणि समि च । कर्मण्युपपदे सम्पूर्वाथन्तेः धातोः अण्प्रत्ययो भवति, अन्तस्य च वा टकारदेशः । वर्णान् संहन्ति वर्णसङ्घाटः, वर्णसङ्घातः । पदानि संहन्ति पदसङ्घाटः, पदसङ्घातः ॥ ____________________________________________________________________ [॰२२२] अपे क्लेशतमसोः ॥ ३,२.५० ॥ _____ काशिकावृत्तिः३,२.५०: अपपूर्वाथन्तेः धातोः क्लेशतमसोः कर्मणोरुपपदयोः डप्रत्ययो भवति । क्लेशापहः पुत्रः । तमोपहः सूर्यः । अनाशीरर्थ आरम्भः ॥ ____________________________________________________________________ कुमारशीर्षयोर्णिनिः ॥ ३,२.५१ ॥ _____ काशिकावृत्तिः३,२.५१: हन इति वर्तते । कुमार शीर्ष इत्येतयोः उपपदयोः हन्तेः णिनिः प्रत्ययो भवति । कुमारघाती । शीर्षघाती । निपातनाच्छिरसः शीर्षभावः ॥ ____________________________________________________________________ लक्षणे जायापत्योष्टक् ॥ ३,२.५२ ॥ _____ काशिकावृत्तिः३,२.५२: हन्तेः जायापत्योः कर्मणोः उअपपदयोः लक्षणवति कर्तरि टक्प्रत्ययो भवति । जायाघ्नो ब्राह्मणः पतिघ्नी वृषली । अथ वा लक्षणे द्योत्ये टक्प्रत्ययः ॥ ____________________________________________________________________ अमनुष्यकर्तृके च ॥ ३,२.५३ ॥ _____ काशिकावृत्तिः३,२.५३: अमनुष्यकर्तृके वर्तमानाधन्तेः धातोः कर्मणि उपपदे टक्प्रत्ययो भवति । जायाघ्नस्तिलकालकः । पतिघ्नी पाणिरेखा । श्लेष्मघ्नं मधु । पित्तघ्नं घृतम् । अमनुष्यकर्तृके इति किम् ? आखुघातः शूद्रः । इह कर्मान्न भवति, चौरघातो हस्ती ? कृत्यल्युटो बहुलम् (*३,३.११३) इति बहुलवचनादण्भवति ॥ ____________________________________________________________________ शक्तौ हस्ति कपाटयोः ॥ ३,२.५४ ॥ _____ काशिकावृत्तिः३,२.५४: शक्तौ गम्यमानायां हस्ति कपाटयोः कर्मणोरुपपदयोः हन्तेः टक्प्रत्ययो भवति । मनुष्यकर्तृकार्थ आरम्भः । हस्तिनं हन्तुं शक्तः हस्तिघ्नः मनुष्यः । कं पाटयति प्रविशत इति कपाटघ्नश्चौरः । शक्तौ इति किम् ? विषेण हस्तिनं हन्ति हस्तिघातः ॥ ____________________________________________________________________ पाणिघताडघौ शिल्पिनि ॥ ३,२.५५ ॥ _____ काशिकावृत्तिः३,२.५५: पाणिघ ताडघ इत्येतौ शब्दौ निपात्येते शिल्पिनि कर्तरि । पाणि ताड इत्येतयोः कर्मणोः उपपदयोः हन्तेः धतोः टक्प्रत्ययो भवति, [॰२२३] तस्मिंश्च परतो हन्तेः टिलोपो घत्वं च निपात्यते । पाणिघः । ताडघः । शिल्पिनि इति किम् ? पाणिघातः । ताडघातः । राजघ उपसङ्ख्यानम् । राजानं हन्ति राजघः ॥ ____________________________________________________________________ आढ्यसुभगस्थूलपलितनग्नान्धप्रियेषु च्व्यर्थेष्वच्वौ कृञः करणे ख्युन् ॥ ३,२.५६ ॥ _____ काशिकावृत्तिः३,२.५६: आढ्यादिषु कर्मसु उपपदेषु च्व्यर्थेषु अच्व्यन्तेषु करोतेः धातोः करणे कारके ख्युन् प्रत्ययो भवति । च्वेर्विकल्पेन विधानाद्द्विविधाः च्व्यर्थाः, च्व्यन्ता अच्व्यन्ता श्च । तत्र च्व्यन्ताः पर्युदस्यन्ते । अनाढ्यमाढ्यं कुर्वन्ति अनेन आढ्यङ्करणम् । सुभगङ्करणम् । स्थूलङ्करणम् । पलितङ्करणम् । नग्नङ्करणम् । अन्धङ्करणम् । प्रियङ्करणम् । च्व्यर्थेषु इति किम् ? आढ्यं तैलेन कुर्वन्ति अभ्यञ्जयन्ति इत्यर्थः । प्रकृतेरविवक्षायामभूतप्रादुर्भावेऽपि प्रत्युदाहरणं भवति । अच्वौ इति किम् ? आढ्यीकुर्वन्त्यनेन । ननु च ख्युना मुक्ते ल्युटा भवितव्यम्, न च ल्युटः ख्युनश्च विशेषोऽस्ति, तत्र किं प्रतिषेधेन ? एवं तर्हि प्रतिषेधसामर्थ्यात्ख्युनि असति ल्युडपि न भवति, तेन ल्युटोऽप्ययमर्थतः प्रतिषेधः । उत्तरार्थश्च च्विप्रतिषेधः क्रियते ॥ ____________________________________________________________________ कर्तरि भुवः खिष्णुच्खुकञौ ॥ ३,२.५७ ॥ _____ काशिकावृत्तिः३,२.५७: आढ्यादिसु सुबन्तेषु उपपदेषु च्व्यर्थेषु अच्व्यन्तेषु भवतेर्धातोः कर्तरि कारके खिष्णुच्, खुकञित्येतौ प्रत्ययौ भवतः । अनाढ्य आढ्यो भवति आढ्यंभविष्णुः, आढ्यंभावुकः । सुभवंभविष्णु, सुभगंभावुकः । स्थूलंभविष्णुः, स्थूलंभावुकः । पलितंभविष्णुः, पलितंभावुकः । नग्नंभविष्णुः, नग्नंभावुकः । अन्धंभविष्णुः, अन्धंभावुकः । प्रियंभविष्णुः, प्रियंभावुकः । कर्तरि इति किम् ? करणे मा भूत् । च्व्यर्थेसु इत्येव, आढ्यो भविता । अच्वौ इत्येव, आढ्यीभविता । उदात्तत्वाद्भुवः सिद्धमिकारादित्वमिष्णुचः । नञ्स्तु स्वरसिद्ध्यर्थमिकारादित्वमिष्यते ॥ ____________________________________________________________________ स्पृशोऽनुदके क्विन् ॥ ३,२.५८ ॥ _____ काशिकावृत्तिः३,२.५८: स्पृशे र्धातोरनुदके सुबन्त उपपदे क्विन् प्रत्ययो भवति । ननु सकर्मकत्वात्स्पृशेः कर्मैवोपपदं प्राप्नोति ? न+एष दोषः । कर्तरि इति पूर्वसूत्रादनुवर्तते, तत्कर्तृप्रचयार्थं विज्ञायते । सुबन्तमात्रे च+उपपदे कर्तृपचयो लभ्यते घृतं स्पृशति घृतस्पृक् । मन्त्रेण स्पृशति मन्त्रस्पृक् । जलेन स्पृशति जलस्पृक् । अनुदके इति किम् ? उदकस्पर्शः । नकारः क्विन्प्रत्ययस्य कुः (*८,२.६२) इति विशेषणार्थः ॥ ____________________________________________________________________ [॰२२४] ऋत्विग्दधृक्स्रग्दिगुष्णिगञ्चुयुजिक्रुञ्चां च ॥ ३,२.५९ ॥ _____ काशिकावृत्तिः३,२.५९: ऋत्विगादयः पञ्चशब्दाः क्विन्प्रत्ययान्ताः निपात्यन्ते, अपरे त्रयो धात्वो निर्दिष्यन्ते । ऋतुशब्द उपपदे यजेर्धतोः क्विन् प्रत्ययो निपात्यते । ऋतौ यजति, ऋतुं वा यजति, ऋतुप्रयुक्तो वा यजति ऋत्विक् । रूढिरेषा यथा कथंचिदनुगन्तव्या । धृषेः क्विन् प्रत्ययः, द्विर्वचनम्, अन्तोदात्तत्वं च निपात्यते । धृष्णोति इति दधृक् । सृजेः कर्मणि क्विन्, अमागमः च निपात्यते । सृजन्ति तमिति स्रक् । दिषेः कर्मणि क्विन्निपात्यते । दिशन्ति तामिति दिक् । उत्पूर्वात्स्निहेः क्विन्, उपसर्गान्तलोपः, षत्वं च निपात्यते । उष्णिक् । अञ्चु युजि क्रुञ्च इत्येतेषां धातूनां क्विन् प्रत्ययो भवति । निपातनैः सह निर्देशातत्र अपि किंचिदलाक्षणिकं कार्यमस्ति । अञ्चतेः सुब्नतमात्र उपपदे क्विन् प्रत्ययो भवति । प्राङ् । प्रत्यङ् । उदङ् । युजेः क्रुञ्चेश्च केवलादेव । युङ्, युञ्जौ, युञ्जः । सोपपदात्तु सत्सूद्विष (*३,२.६१) इत्यादिना क्विप्भवति । अश्वयुक्, अश्वयुजौ, अश्वयुजः । क्रुङ्, क्रुञ्चौ, क्रुञ्चः । नलोपः कस्मान्न भवति ? निपातनसाहचर्यात् ॥ ____________________________________________________________________ त्यदादिषु दृशोऽनालोचने कञ्च ॥ ३,२.६० ॥ _____ काशिकावृत्तिः३,२.६०: त्यदादिषु उपपदेषु दृशेर्धातोरनालोचनेऽर्थे वर्तमानात्कञ्प्रत्ययो भवति, चकारात्क्विन् च । त्यादृशः, त्यादृक् । तादृशः, तादृक् । यादृशः, यादृक् । कञो ञकारो विशेषणार्थः, ठक्ठञ्कञिति । अनालोचने इति किम् ? तं पश्यति तद्दर्शः । तादृगादयो हि रूढिशब्दप्रकाराः, न+एव अत्र दर्शनक्रिया विद्यते । समानान्ययोश्चेति वक्तव्यम् । सदृशः, सदृक् । अन्यादृशः, अन्यादृक् । दृशेः क्षश्च वक्तव्यः । तादृक्षः । यादृक्षः । अन्यादृक्षः । कीदृक्षः ॥ ____________________________________________________________________ [॰२२५] सत्सूद्विषद्रुहदुहयुजविदभिदच्छिदजिनीराजामुअसर्गेऽपि क्विप् ॥ ३,२.६१ ॥ _____ काशिकावृत्तिः३,२.६१: सुपि इत्यनुवर्तते । कर्मग्रहणं तु स्पृशोऽनुदके क्विन् (*३,२.५८) इत्यतः प्रभृति न व्याप्रियते । सदादिभ्यः धातुभ्यः सुबन्ते उपपदे उपसर्गेऽपि अनुपसर्गेऽपि क्विप्प्रत्ययो भवति । उपसर्गग्रहणं ज्ञापनार्थम्, अन्यत्र सुब्ग्रहणे उपसर्गग्रहणं न भवति इति, वदः सुपि क्यप्च (*३,१.१०६) इति । सू इति द्विषा साहचर्यात्सूतेः आदादिकस्य ग्रहणं, न सुवतेः तौदादिकस्य । युजिर्योगे, युज समाधौ, द्वयोरपि ग्रहणम् । विद ज्ञाने, विद सत्तायाम्, विद विचारणे, त्रयाणामपि ग्रहणम् । न लाभार्थस्य विदेः, अकारस्य विवक्षतत्वात् । सद् शुचिषत् । अन्तरिक्षसत् । उपसत् । सू अण्डसूः । शतसूः । प्रसूः । द्विष मित्रद्विट् । प्रद्विट् । द्रुह मित्रध्रुक् । प्रध्रुक् । दुह गोधुक् । प्रधुक् । युज अश्वयुक् । प्रयुक् । विद वेदवित् । प्रवित् । ब्रह्मवित् । भिद काष्ठभित् । प्रभित् । छिद रज्जुच्छिद् । प्रच्छिद् । जि शत्रुजित् । प्रजित् । नी सेनानीः । प्रणीः । ग्रामणीः । अग्रणीः । कथमत्र णत्वम् ? स एषां ग्रामणीः (*५,२.७८) इति निपातनात्, नयतेः पूर्वपदात्सज्ञायामगः (*८,४.३) इति णत्वम् । राज राट् । विराट् । सम्राट् । मो राजि समः क्वौ (*८,२.३५) इति मत्वम् । अन्येभ्योऽपि दृश्यते (*३,२.१७८), क्विप्च (*३,२.७६) इति सामान्येन वक्ष्यति, तस्य+एव अयं प्रपञ्चः ॥ ____________________________________________________________________ भजो ण्विः ॥ ३,२.६२ ॥ _____ काशिकावृत्तिः३,२.६२: उपसर्गे सुपि इति वर्तते । भजेर्धातोः सुबन्त उपपदे उपसर्गेऽपि प्रभाक् ॥ ____________________________________________________________________ छन्दसि सहः ॥ ३,२.६३ ॥ _____ काशिकावृत्तिः३,२.६३: उपसर्गे सुपि इत्येव । छन्दसि विषये सहेर्धातोः सुबन्ते उपपदे ण्विप्रत्ययो भवति । तुराषाट् । सहेः साडः सः (*८,३.५६) इति षत्वम्, अन्येषामपि दृश्यते (*६,३.१३७) इति दीर्घत्वम् ॥ ____________________________________________________________________ [॰२२६] वहश्च ॥ ३,२.६४ ॥ _____ काशिकावृत्तिः३,२.६४: वहेर्धातोः छन्दसि विषये सुबन्त उपपदे ण्विप्रत्ययो भवति । प्रष्ठवाट् । दिव्यवाट् । योगविभाग उत्तरार्थः ॥ ____________________________________________________________________ कव्यपुरीषपुरीष्येषु ञ्युट् ॥ ३,२.६५ ॥ _____ काशिकावृत्तिः३,२.६५: कव्य पुरीष पुरीष्य इत्येतेषु उपपदेषु छन्दसि विषये वहेर्धातोः ण्युट्प्रत्ययो भवति । कव्यवाहनः पितॄणाम् । पुरीषवाहणः । पुरीष्यवाहनः ॥ ____________________________________________________________________ हव्येऽनन्तःपादाम् ॥ ३,२.६६ ॥ _____ काशिकावृत्तिः३,२.६६: हव्यशब्दे उपपदे छन्दसि विषये वहेर्धातोः ञ्युट्प्रत्ययो भवति, अनन्तःपादं चेद्वहिर्वर्तते । अग्निश्च हव्यवाहनः अनन्तःपादमिति किम् ? हव्यवाडग्निरजरः पिता नः ॥ ____________________________________________________________________ जनसनखनक्रमगमो विट् ॥ ३,२.६७ ॥ _____ काशिकावृत्तिः३,२.६७: छन्दसि उपसर्गे सुपि इति अनुवर्तते । जन जनने, जनी प्रदुर्भावे, द्वयोरपि ग्रहणम् । तथा षणु दाने, वन षने संभक्तौ, द्वयोरपि ग्रहणम् । जनादिभ्यः धातुभ्यः सुबन्त उपपदे छन्दसि विषये विट्प्रत्ययो भवति । टकारः सामान्यग्रहणाविघातार्थः वेरपृक्तस्य (*६,१.६७) इति, विषेषणार्थश्च विड्वनोरनुनासिकस्यात्(*६,४.४१) इति । जन अब्जाः गोजाः । सन गोषा इन्दो नृषा असि । खन बिसखाः । कूपखाः । क्रम दधिक्राः । गम अग्रेगा उन्नतॄणाम् ॥ ____________________________________________________________________ अदोऽनन्ने ॥ ३,२.६८ ॥ _____ काशिकावृत्तिः३,२.६८: छन्दसि इति निवृत्तम् । अदेर्धातोरनन्ने सुप्युपपदे विट्प्रत्ययो भवति । आममत्ति आमात् । सस्यात् । अनन्ने इति किम् ? अन्नादः ॥ ____________________________________________________________________ क्रव्ये च ॥ ३,२.६९ ॥ _____ काशिकावृत्तिः३,२.६९: क्रव्यशब्द उपपदे अदेर्धातोः विट्प्रत्ययो भवति । क्रव्यमत्ति क्रव्यात् । पूर्वेण+एव सिद्धे वचनमसरूपबाधनार्थम् । तेन अण्न भवति । कथं तर्हि क्रव्यादः ? कृत्तविकृत्तशब्दे उपपदे अण्, तस्य च पृषोदरादिपाठात्क्रव्यभावः । कृत्तविकृत्तपक्वमांसभक्षः क्रव्याद उच्यते, आममांसभक्षः क्रव्यातिति ॥ ____________________________________________________________________ [॰२२७] दुहः कब्घश्च ॥ ३,२.७० ॥ _____ काशिकावृत्तिः३,२.७०: दुहेर्धातोः सुप्युपपदे कप्प्रत्ययो भवति, घकारश्चान्तादेशः । कामदुघा धेनुः । अर्घदुघा । धर्मदुघ ॥ ____________________________________________________________________ मन्त्रे श्वेतवहोक्थशस्पुरोडाशो ण्विन् ॥ ३,२.७१ ॥ _____ काशिकावृत्तिः३,२.७१: श्वेतवह उक्थशस्पुरोडाशित्येतेभ्यो ण्विन् प्रत्ययो भवति मन्त्रे विषये । धातूपपदसमुदाया निपात्यन्ते अलाक्षणिककार्यसिद्ध्यर्थम् । प्रत्ययस्तु विधीयत एव । श्वेतशब्दे कर्तृवाचिनि उपपदे वहेर्धातोः करणि कारके ण्विन् प्रत्ययो भवति । श्वेता एनं वहन्ति श्वेतवा इन्द्रः । उक्थशब्दे कर्मणि करणे वा उपपदे शंसतेर्धातोः ण्विन् प्रत्ययो भवति, नलोपश्च निपात्यते । उक्थानि शंसति, उक्थैर्वा शंसति, उक्थशा यजमानः । दाशृ दाने इत्येतस्य पुरःपूर्वस्य डत्वम्, कर्मणि च प्रत्ययः । पुरो दाशन्त एनं प्रोडाः । श्वेतवहादीनां डस्पदस्य+इति वक्तव्यम् । श्वेतवोभ्याम् । श्वेतवोभिः । पदस्य इति किम् ? श्वेतवाहौ । श्वेतवाहः ॥ ____________________________________________________________________ अवे यजः ॥ ३,२.७२ ॥ _____ काशिकावृत्तिः३,२.७२: अवे उपपदे यजेः धातोः ण्विन् प्रत्ययो भवति मन्त्रे विषये । त्वं यज्ञे वरुणस्य अवया असि । योगविभाग उत्तरार्थः ॥ ____________________________________________________________________ विजुपे छन्दसि ॥ ३,२.७३ ॥ _____ काशिकावृत्तिः३,२.७३: उपे उपपदे यजेः छन्दसि विषये विच्प्रत्ययो भवति । उपयड्भिरूर्ध्वं वहन्ति । उपयट्त्वम् । छन्दोग्रहणं ब्राह्मणार्थम् । विचः चित्करणं सामान्यग्रहणाविघातार्थं वेरपृक्तस्य (*६,१.६७) इति । किमर्थमिदमुच्यते, यावत अन्येभ्योऽपि दृश्यन्ते (*३,२.७५) इति यजेरपि विच्सिद्ध एव ? यजेर्नियमार्थमेतत्, उपयजेः छन्दस्य+इव, न भाषायामिति ॥ ____________________________________________________________________ [॰२२८] आतो मनिन्क्वनिब्वनिपश्च ॥ ३,२.७४ ॥ _____ काशिकावृत्तिः३,२.७४: छन्द्सि इति वर्तते, सुपि उपसर्गेऽपि इति च । आकारान्तेभ्यो धातुभ्यः सुपि उपप्दे छन्द्सि विषये मनिन् क्वनिप्वनिपित्येते प्रत्यया भवन्ति । चकरात्विच्भवति । सुदामा । अश्वत्थामा । क्वनिप् सुधीवा । सुपीवा । वनिप् भूरिदावा । घृतपावा । विच्खल्वपि कीलालपाः । शुभंयः । रामस्य+उपदाः ॥ ____________________________________________________________________ अन्येभ्योऽपि दृश्यन्ते ॥ ३,२.७५ ॥ _____ काशिकावृत्तिः३,२.७५: छन्दसि इति निवृत्तम् । अन्येभ्योऽपि धातुभ्योऽनाकारान्तेभ्यो मनिन् क्यनिप्वनिपित्येते प्रत्यया दृश्यन्ते, विच्च । सुशर्मा । क्वनिप् प्रातरित्वा । प्रातरित्वानौ । वनिप् विजावाग्ने । अग्रेयावा । विच्खल्वपि रेडसि । अपिशब्दः सर्वोपाधिव्यभिचारार्थः । निरुपपदादपि भवति । धीवा । पीवा । दृशिग्रहणं प्रयोगानुसरणार्थम् ॥ ____________________________________________________________________ क्विप्च ॥ ३,२.७६ ॥ _____ काशिकावृत्तिः३,२.७६: सर्वधातुभ्यः सोपपदेभ्यो निरुपपदेभ्यश्च छन्दसि भाषायां च क्विप्प्रत्ययो भवति । उखायाः स्रंसते उखास्रत् । पर्णध्वत् । वाहात्भ्रश्यति, वाहाभ्रट् । अन्येषमपि दृश्यते (*६,३.१३७) इति दीर्घः ॥ ____________________________________________________________________ स्थः क च ॥ ३,२.७७ ॥ _____ काशिकावृत्तिः३,२.७७: सुपि उपसर्गेऽपि इति च वर्तते । स्था इत्येतस्माद्धातोः सुपि उपपदे कप्रत्ययो भवति, क्विप्च । किमर्थमिदमुच्यते, यवता सुपि स्थः (*३,२.४) इति कः सिद्ध एव, अन्येभ्योऽपि दृश्यते (*३,२.१७८) इति क्विप्? बाधकबाधनार्थं पुनर्वचनम् । शमि धातोः सञ्ज्ञायाम् (*३,२.१४) अचं बाधते शंस्थः । शंस्थाः ॥ ____________________________________________________________________ [॰२२९] सुप्यजातौ णिनिस्ताच्छील्ये ॥ ३,२.७८ ॥ _____ काशिकावृत्तिः३,२.७८: अजातिवाचिनि सुबन्त उपपदे ताच्छील्ये गम्यमाने धातोः णिनिः प्रत्ययो भवति । उष्णभोजी । शीतभोजी । अजातौ इति किम् ? ब्राह्मणानामन्त्रयिता । ताछ्हील्ये इति किम् ? उष्णं भुङ्क्ते कदाचित् । सुपि इति वर्तमाने पुनः सुब्ग्रहणमुपसर्गनिवृत्त्यर्थम् । उत्प्रतिभ्यामाङि सर्तेरुपसङ्ख्यानम् । उदासारिण्यः । प्रत्यासारिण्यः । साधुकारिणि च । सधुकारी । साधुदायी । ब्रह्मणि वदः । ब्रह्मवादिनो वदन्ति ॥ ____________________________________________________________________ कर्तर्युपमामे ॥ ३,२.७९ ॥ _____ काशिकावृत्तिः३,२.७९: कर्तृवाचिनि उपमाने उपपदे धातोः णिनिप्रत्ययो भवति । उपपदकर्ता प्रत्ययार्थस्य कर्तुरुपमानम् । उष्ट्र इव क्रोशति उष्ट्रक्रोशी । ध्वाङ्क्षरावी । अताच्छील्यार्थ आरम्भः, जात्यर्थो वा । कर्तरि इति किम् ? अपूपानिव भक्षयति माषान् । उपमने इति किम् ? उष्ट्रः क्रोशति ॥ ____________________________________________________________________ व्रते ॥ ३,२.८० ॥ _____ काशिकावृत्तिः३,२.८०: व्रत इति शास्त्रतो नियम उच्यते व्रते गम्यमाने सुबन्त उपपदे धातोः णिनिः प्रत्ययो भवति । समुदायोपधिश्च अयम् । धतूपपदप्रत्ययसौदयेन व्रतं गम्यते । स्थण्डिलशायी । अश्राद्धभोजी । कामचारप्राप्तौ नियमः । सति शयने स्थण्डिल एव शेते न अन्यत्र । सति भोजनेऽश्राद्धमेव भुङ्क्ते न श्राद्धमिति । व्रते इति किम् ? स्थाण्डिले शेते देवदत्तः । अतच्छील्यार्थ आरम्भः, जात्यर्थो वा ॥ ____________________________________________________________________ [॰२३०] बहुलमाभीक्ष्ण्ये ॥ ३,२.८१ ॥ _____ काशिकावृत्तिः३,२.८१: आभीक्ष्ण्ये गम्यमाने धातोः बहुलं णिनिः प्रत्ययो भवति । अभीक्ष्ण्यं पौनःपुन्यम् । तात्पर्यमासेवैव, ताच्छील्यादन्यत् । कषायपायिणो गन्धाराः । क्षीरपायिणः उशीनराः । सौवीरपायिणो बाह्लीकाः । बहुलग्रहणत्कुल्माषखादः इत्यत्र न भवति ॥ ____________________________________________________________________ मनः ॥ ३,२.८२ ॥ _____ काशिकावृत्तिः३,२.८२: सुपि इति वर्तते । मन्यतेः सुबन्ते उपपदे णिनिः प्रत्ययो भवति । दर्शनीयमानी । शोभनमानी । बहुलग्रहणानुवृत्तेः मन्यतेः ग्रहणं न मनुतेः । उत्तरसूत्रे हि खश्प्रत्यये विकरणकृतो विशेषः स्यात् ॥ ____________________________________________________________________ आत्ममाने खश्च ॥ ३,२.८३ ॥ _____ काशिकावृत्तिः३,२.८३: आत्मनो मननमात्ममानः । आत्ममाने वर्तमानान्मन्यतेः सुप्युपपदे खश्प्रत्ययो भवति । चकाराण्णिनिः च । यदा प्रत्ययार्थः कर्ता आत्मानमेव दर्शनीयत्वादिना धर्मेण युक्तं मन्यते, तदाऽयं विधिः । दर्शनीयमात्मानं मन्यते दर्शनीयंमन्यः, दर्शनीयमानी । पण्डितं मन्यः, पण्डितमानी । आत्ममाने इति किम् ? दर्शनीयमनी देवदत्तस्य यज्ञदत्तः ॥ ____________________________________________________________________ भूते ॥ ३,२.८४ ॥ _____ काशिकावृत्तिः३,२.८४: भूते इत्यधिकारो वर्तमने लट्(*३,२.१२३) इति यवत् । यदित ऊर्ध्वमनुक्रमिष्यामः भूते इत्येवं तद्वेदितव्यम् । धात्वधिकाराच्च धात्वर्थे भूते इति विज्ञायते । वक्ष्यति करणे यजः (*३,२.८५), अग्निष्टोमेन इष्टवानग्निष्टोमयाजी । भूते इति किम् ? अग्निष्टोमेन यजते ॥ ____________________________________________________________________ करणे यजः ॥ ३,२.८५ ॥ _____ काशिकावृत्तिः३,२.८५: णिनिः अनुवर्तते, न खश् । यजतेर्धातोः करणे उपपदे णिनिप्रत्ययो भवति भूते । अग्निष्टोमयाजी । अग्निष्तोमः फलभावनायां करणं भवति ॥ ____________________________________________________________________ [॰२३१] करमणि हनः ॥ ३,२.८६ ॥ _____ काशिकावृत्तिः३,२.८६: करणि उपपदे हन्तेर्धातोः णिनिः प्रत्ययो भवति भूते कले । पितृव्यघाती । मातुलघाती । कुग्सितग्रहणं कर्तव्यम् । इति मा भूत्, चौरं हतवान् ॥ ____________________________________________________________________ ब्रह्मभ्रूणवृत्रेषु क्विप् ॥ ३,२.८७ ॥ _____ काशिकावृत्तिः३,२.८७: कर्मणि इति वर्तते । ब्रह्मादिषु कर्मसु उपपदेषु हन्तेर्धातोः क्विप्प्रत्ययो भवति भूते । ब्रह्महा । ब्रूणहा । वृत्रहा । किमर्थमिदमुच्यते यावता सर्वधातुभ्यः क्विप्विहित एव ? ब्रह्मादिषु हन्तेः क्विब्वचनं नियमार्थम् । चतुर्विधश्च अत्र नियम इष्यते । ब्रह्मादिष्वेव हन्तेः, न अन्यस्मिन्नौपपदे, पुरुषं हतवानिति । ब्रह्मादिषु हन्तेरेव, न अन्यस्मात्स्यात्, ब्रह्म अधीतवानिति । ब्रह्मादिषु हन्तेर्भूतकाले क्विपेव न अन्यः प्रत्ययः, तथा भूतकाले एव न अन्यस्मिन्, ब्रह्माणं हन्ति हनिष्यति वा इति । तदेतद्वक्ष्यमाणबहुलग्रहणस्य पुरस्ताअदपकर्षणाल्लभ्यते ॥ ____________________________________________________________________ बहुलं छन्दसि ॥ ३,२.८८ ॥ _____ काशिकावृत्तिः३,२.८८: पूर्वेण नियमादप्राप्तः क्विप्प्रत्ययः विधीयते । छन्दसि विषये उपपदन्तरेष्वपि हन्तेर्बहुलं क्विप