र्प्रज्ञापारमिता (१ ) सिद्धं नमः सर्वज्ञाय एवं मय्<आ> श्रुतमेकसमये भग<वान् राजगृहे विहरति स्म गृध्राकूटप>र्वते म<हता भिक्षुसंघेन सार्धं पंच>मात्रैर्भिक्षुसहस्रैः सर्वै<र>र्हद्भिः क्षीणास्रवैर्निष्क्लेशैर्वशीभूतै<ः> सुविमुक्तच्<इ>त्त्<ऐ>ः सुविमुक्तप्रज्ञ्<ऐ>राजानेयैर्महानागैः कृतकृत्य्<ऐ>ः कृत्<अकरणी>यैरपहृतभारैरनुप्राप्तस्वकार्थैः परिक्षीणभवसंयोजनैः सम्यगाज्ञासुविमुक्तचित्तैः सर्वचेतोवशितापरमपारमिप्राप्तैरेकपुद्गलं स्थापयित्वा यदुतायुष्मन्तमानन्दम्* शैक्षं स्रोतापन्नं पंचमात्रैश्च भिक्षुणीशतैर्यशोधरामहाप्रजापतीप्रमुखैः संबहुलैश्चोपा<स>कैरुपासिकाभिश्च सर्वैर्दृष्टधर्मभिः महता च बोधिस<त्व>संघेन सार्<ध>मप्रमेयासंख्येयैर्बोधिसत्वैर्महासत्वैः सर्वैर्धारणीप्रत्<इ>लब्धैः समाधिप्रतिलब्धैः शुन्यताविहारिभिरानिमित्तगोचरैरक<ल्पि>तप्रणिधानैः सर्वधर्मसमताक्षान्तिप्रतिलब्धैः असंगप्रणिधान<स>मन्वागतैः अक्षयनिर्देशप्रतिसंविन्नयप्रतिविद्धैः महाभिज्ञाविक्रीडितैरत्यन्ताच्युताभिज्ञैरादेयवचनैरकुसीदैरारब्धवीर्यैः कायजीवितनिरपेक्षैरकुहकैरलपकैरपगतज्ञातिलाभचित्तैर्निरामिषधर्मदेशकैः गंभीरधर्मक्षान्तिपरमगतिंगतैः महावैशारद्यप्राप्तैः असंकुचितमानसैः सर्वमारकर्मसमतिक्रान्तैः कर्मावरणप्रतिप्रस्रब्धैः निहतकर्मक्लेशप्रत्यर्थिकैः सर्वपरप्रवाद्यनभि<भूतैः >(१ ) <सर्वश्रावकप्रत्ये>कबुद्धदु<रव>गाहैर्धर्मप्रविचयविभक्तिनिर्देशकुशलैः असंख्येयकल्पसुसमारब्धप्रणिधानैः स्मितमुखैः पूर्वालापिभिः <व्यपगत>भ्रुकुटिकैः श्लक्ष्णमधुवचनैः गाथाभिगीतपरालपनकुशलैः अनाच्छेद्यप्रतिभानैरनन्तपर्षदभिभवनैर्वैशारद्यसमन्वागतैरनन्तकल्प<क्>ओटीनिर्देशज्ञाननिःसरणकुशलैः मायामरीचिदगचन्द्रस्वप्नप्रतिश्रुत्कप्रतिभासगगनगन्धर्वनगरप्रतिबिंबनिर्माणोपमधर्माधिमु<क्तैर>पृष्ठअगतसंलीनचित्तैः सर्वसत्वचित्तगतिसूक्ष्मज्ञानचर्याधिमुक्त्यवतारकुशलैः सर्वसत्वाप्रतिहतचित्तैरधिमात्रक्षान्तिसमन्वागतैः सर्व<ध>र्मताप्रतिवेधज्ञानकुशलैर्गंभीरधर्मतादुरवगाहैः स्वचित्तवशिताप्रतिलब्धैः सर्ववशिताप्राप्तैः सर्वकर्मक्लेशदृष्ट्यावरणविमुक्तैः प्रतीत्यनिर्देशकुशलैर्गंभीरप्रतीत्यसमुत्पादाक्षयनयावतीर्णैः सर्वदृष्ट्यनुशयपर्युत्थानविगतैः सर्वसंयोजनप्रहीणै<ः> सत्यप्रतिवेधज्ञानकुशलैः सततसमितप्रतिश्रुत्कासमसर्वधर्माधिमुक्तैः अप्रमाणधर्मनयनिर्देशविशारदैर्यथात्म्यावतारणकुशलैरनन्तबुद्धक्षेत्रव्यूहप्रणिधानप्रस्थानपरिगृहीतैरसंख्येयलोकधातुगतबुद्धानुस्मृतिसमाधिसततसमितमभिमुखीभूतैः सर्वबुद्धोत्पादोपसंक्रमणकुशलैरपरिमितबुद्धाध्येषणकुशलैर्नानादृष्टिपर्युत्थानसत्वक्लेशप्रशमनकुशलै<ः> समाधिशतसहस्राभिनिर्हारनिष्क्रीडनज्ञानप्रवेशकुशलैरपर्यन्तकल्पक्षीणगुणवर्णसमन्वागतै<ः> । तद्यथा भद्रपालेन च बोधिसत्वेन महासत्वेन । रत्नाकरेण च । रत्नगर्भेण च । रत्नदत्तेन च । सुसार्थवाहेन च । नलदत्तेन च । गुहपुप्तेन च । वरुणदेवेन चेन्द्रदेवेन च । भ<द्र>पृष्ठआलेन च । उत्तरमतिना च । विशेषमतिना च । वर्धमानमतिना च । अन<न्>तमतिना (२ ) च । अमोघद<र्>शिना च । अनावरणमतिना च । सु<सं>पृष्ठरस्थितेन च । सुव्<इ>क्रान्तविक्रामिण्<आ> च <।> अनन्तवीर्येण । नित्योद्युक्तेन च । नित्यप्रयुक्तेन च । अनिक्षिप्तधुरेण च । सूर्यगर्भेण च । अनुपममतिना च । बोधिसत्वेन महासत्वेन । अवलोकितेश्वरेण च । महास्थामप्राप्तेन च । मंजुश्रिया च कुमारभूतेन । मारबलप्रमर्दिना च । वज्रमतिना च । रत्नमुद्राहस्तेन च । नित्योत्क्षिप्तहस्तेन च । महाकरुणाचिन्तिना च । महाव्यूहेन च । व्यूहराजेन च । मेरुकूटेन च । मैत्रेयेण च बोधिसत्वेन महासत्वेन एतैश्चान्यैश्चानेकैर्बोधिसत्वकोटीनियुतशतसहस्रैः अथ खलु भगवांस्तस्यां वेलायां स्वयमेव सिंहासनं प्रज्ञप्य न्यषीद<त्> पर्यंकमाभुज्य ऋजुं कायं प्रणिधाय प्रतिमुखं स्मृतिमुपस्थाप्य तत्र निषद्य समाधिराजो नाम समाधिं समापन्नोऽभूत्* यत्र समाधौ सर्वसमाधयोऽन्तर्गता <अ>नुप्रविष्टाः संग्रहं सम<व>सरणं गच्छन्ति । अथ भगवां स्मृतः संप्रजानंस्ततः समाधे<र्> व्युत्थाय दिव्येन चक्षुषेदं बुद्धक्षेत्रं व्यवलोकयति स्म । व्यवलोक्य सर्वकायात्प्रभा<ं> प्रामुञ्चत्* तस्याधस्तात्पदतलयोः सहस्राराभ्यां चक्राभ्यां षष्टिषष्टिरश्मिकोटीनियुतशतसहस्राणि निश्चर<न्>ति स्म : दशभ्यश्च पादांगु<लि>भ्यः षष्टिषष्टी रश्मिकोटीनियुतशतसहस्राणि निश्चरन्ति स्म । एवं द्वाभ्यां गुल्फाभ्यां द्वाभ्यां जंघाभ्यां द्वाभ्यां जानुभ्यां द्वाभ्यामूरुभ्याम्* कटेर्नाभिमण्डलात्* द्वाभ्यां पार्श्वाभ्याम्* हृदये श्रीवत्सात्महापुरुषलक्षणात्* सष्टिषष्टी रश्मिकोटीनियुतशतसहस्राणि निश्चरन्ति स्म । दशभ्यो हस्ताङ्गुलिभ्यः षष्टिषष्टी रश्मिकोटीनियुतशतसहस्राणि निश्चरंति स्म । एवन् द्वाभ्यां बाहुभ्याम्* द्वाभ्यामांसाभ्याम्* ग्रीवायाश्चतसृभ्यो (२ ) दंष्ट्राभ्यश्चत्वारिंशतो दन्तेभ्यः द्वाभ्यां चक्षुभ्यां द्वाभ्यां श्रोत्राभ्याम्* द्वाभ्यां घ्राणपुटेभ्याम्* मध्ये भ्रुवोर्णाया उपरिष्टादुष्णीषात्* मुखद्वाराच्च षष्टिषष्टी रश्मिकोटीनियुतशतसहस्राणि निश्चरंति स्म । सर्वाणि च तानि रश्मिकोटीनियुतशतसहस्राणि सर्वावन्तमिमं त्रिसाहस्रमहासाहस्रं लोकधातुं महतावभासेन स्फरित्वा पूर्वस्यां दिशि गंगानदीवालुकोपमान् लोकधातून्महतावभासेन स्फरन्ति स्म । एवन् दक्षिणस्यान् दिशि पश्चि<मा>यामुत्तरस्यामधस्तादुपरिष्टाद्यावत्समंताद्दशसु दिक्ष्वेकैकस्या<न्> दिशि गंगानदीवालुकोपमान् लोकधातून्महतावभासेन स्फरन्ति स्म । य्<ऐ>श्च सत्वैः सोऽवभासो दृष्टो ये च तेन रश्म्यवभासेन स्पृष्टास्ते सर्वे नियता अभवन्ननुत्तरस्यां सम्यक्संबोधौ । अथ भगवान् पुनरेव सर्वरोमकूपेभ्य<ः> प्रभां प्रामुंचत्* यया प्रभयायं त्रिसाहस्रमहासाहस्रो लोकधातुर्महतावभासेन स्फुटोऽभूत्* पूर्वस्यां च दिशि गंगानदीवालुकोपमाल्लोकधातवो महतावभासेन स्फुटा अभूवन्* एवं दक्षिणस्यान् दिशि पश्चिमायामुत्तरस्यामधस्तादुपरिष्टात्* यावत्समन्ताद्दशसु दिक्ष्वेकैकस्यान् दिशि गंगानदीवालुकोपमाल्लोकधातवो महतावभासेन स्फुटा अभूवन्* यैश्च सत्वै<ः> सोऽवभासो दृष्टो ये च तेनावभासेन स्पृष्टास्ते सर्वे नियता अभवन्ननुत्तरस्या<ं> सम्यक्संबोधौ । अथ भगवान् पुनरपि या सा तथागतस्य प्रकृतिप्रभा तया <प्र>भ्<अ>येमं (३ ) त्रिसाहस्रमहासाहस्रं <लो>कधातु<ं> महतावभासेन स्फरति स्म । पूर्वस्यान् दिशि गंगानदीवालुकोपमाल्लोकधातून्महतावभासेन स्फरति स्म । एवं दक्षिणस्यान् दिशि पश्चिमायामुत्तरस्यामधस्तादुपरिष्टात्* यावत्समन्ताद्दशसु दिक्ष्वेकैकस्यान् दिशि गंगानदीवालुकोपमाल्लोकधातुंस्तेन महतावभासेन स्फरति स्म । यैश्च सत्वैः सोऽवभासो दृष्टो ये च तेनावभासेन स्पृष्टास्ते सर्वे नियता अभवन्ननुत्तरस्यां सम्यक्संबोधौ । अथ भगवान्मुखद्वाराज्जिह्वेन्द्रियं निर्णमय्य सर्वावन्तमिमं तृसाहस्रमहासाहस्रं लोकधातुं जिह्वेन्द्रियेण स्फरित्वा स्मितं प्रादुरकार्षीत्* ततश्च जिह्वेन्द्रियादनेकानि नानावर्णानि रश्मिकोटीनयुतशतसहस्राणि निश्चरन्ति स्म । सर्वत्र च रश्म्यां नानारत्नमयानि सुवर्णनिर्भासानि सहस्रपत्राणि पद्मानि सन्तिष्ठन्ते स्म । चित्राणि दर्शनीयानि मनोरमाणि । सुवर्णानि सुगन्धीनि । मृदूनि काचलिन्दिकसुखसंस्पर्शानि । तत्र च पद्मेषु तथागतविग्रहा निषण्णा धर्मन् देशय<ं>ति स्म । यदुतेमामेव षट्पारमिताप्रतिसंयुक्तान् धर्मदेशना<ं> ते पूर्वस्यान् दि<शि> गंगानदीवालुकोपमाल्लोकधातून् गच्छन्ति स्म । तत्र गत्वा धर्मन् देशयंति स्म । यदुतेमामेव षट्पारमिताप्रतिसंयुक्तान् धर्मदेशनाम्* एवं दक्षिणस्<यान् दिशि> पश्चिमायामुत्तरस्यामधस्तादुपरिष्टाद्यावत्समन्ताद्दशसु दिक्ष्वेकैकस्यान् दिशि गंगानदीवालुकोपमाल्लोकधातून् गच्छन्ति स्म । तत्र गत्वा धर्मन् देशय<न्>त्<इ> <स्>म <।> यदुतेमामेव षट्पारमिताप्रतिसंयुक्तान् धर्मदेशनाम्* यैश्च सत्वैः स धर्मः श्रुतस्ते सर्वे नियता अभवन्ननुत्तरस्यां सम्यक्संबोधौ । अथ भगवांस्तस्मिन्नेव सिंहासने निषण्णः सिंहविक्रीडितं नाम बुद्धसमाधिं समापद्य तथारूपमृद्ध्यभिसंस्कारमभिसंस्करोति स्म । यथारूपेणर्ध्यभिसंस्कारेणाभिसंस्कृतेनायं त्रिसाहस्रमहासाहस्रो लोकधातुः (३ ) षड्विकारमकंपत प्राकंपत संप्राकंपत । अवेधत्* प्रावेधत्* संप्रावेधत्* अचलत्प्राचलत्संप्राचलत्* अक्षुभ्यत्प्राक्षुभ्य<त्> संप्राक्षुभ्यत्* अगर्जत्प्रागर्जत्संप्रागर्जत्* अरणत्प्रारणत्संप्रारणत्* अन्तेषून्नमति स्म । मध्येऽवनमति स्म । मध्य औन्नमति स्मान्तेष्ववनमति स्म । मृदुक<ः> स्निग्धः सूक्ष्मः सर्वसुखसंजननोऽभूत्* अथ तेन क्षणलवमुहूर्तेन यावन्तोऽस्मिंस्त्रिसाहस्रमहासाहस्रे लोकधातौ नरकतिर्यग्योनियमलोकाक्षणापायदुर्गतिविनिपातास्ते सर्वे समुच्छिन्ना अभूवन्* सर्वे च ते सत्वा मनुष्याणां सभागतायै उपपन्ना अभूवन्* चातुर्महाराजकायिकानां च देवानां त्रायस्त्रिंशानां यामानां तुषितानां निर्माणरतीनां परनिर्मितवशवर्तिनां देवानां सहभागतायै उपपन्ना अभूवन्* अथ ते मनुष्यास्ते च देवास्तेनैव प्रीतिप्रसादप्रामोद्येन पौर्विकीं जातिं समनुस्मरंति स्म । समनुस्मृत्य प्रीतिप्रसादप्रामोद्यप्रतिलब्धा येन भगवांस्तेनोपसंक्रान्ता उपसंक्रम्य प्रांजलीभूता भगवन्तं नमस्यन्ति स्म । एवं पूर्वस्यान् दिशि गंगानदीवालुकोपमेषु लोकधातुषु दक्षिणस्यां पश्चिमायामुत्तरस्यामधस्तादुपरिष्टाद्यावत्समन्ताद्दशसु दिक्ष्वेकैकस्यान् दिशि गंगानदीवालुकासमेषु लोकधातुषु सर्वनरकाः सर्वतिर्यग्योनयः सर्वयमलोका समुच्छिन्ना<ः> सर्वाक्षणाश्चास्तमिता अभूवन्* सर्वे च ते सत्वा मनुष्याणां सहभागतायै उपपद्यन्ते स्म । अथ ते मनुष्यास्ते च देवा<स्> तेनैव प्रीतिप्रसादप्रामोद्येन पौर्विकीं जातिं समनुस्मरंति स्म । समनुस्मृत्य प्रीतिप्रसादप्रामोद्यप्रतिलब्धा<ः> स्वकस्वकेषु बुद्धक्षेत्रेषु ये तत्र तथागता अर्हन्त<ः> स<म्य>क्<स>ंब्<उ>द्धास्तिष्ठन्ति तानुपसंक्<र्>अमन्ति स्मोपसंक्रम्य प्रांजलीभूतास्तांस्तथागतानर्हतः सम्यक्संबुद्धान्नमस्यन्ति स्म । अथ तेन क्षणेन येऽस्मिंस्(४ ) त्र्<इ>साहस्रमहासाहस्रे लोकधातौ जात्यन्धाः सत्वास्तेऽपि सर्वे चक्षुषा रूपाणि पश्यन्ति स्म । वधि<रा श्रोत्रेण शब्दांच्छ्>ऋण्वन्ति स्म । उन्मत्ता स्मृतिं प्रतिलभंति स्म । विक्षिप्तचित्ता अविक्षिप्तचित्ततां प्रतिलभन्ते स्म । नग्नाश्चीवराणि प्रतिलभन्ते स्म । दरिद्रा धनानि प्रतिलभन्ते स्म । जिघत्सिता भोजनानि प्रतिलभन्ते स्म । पिपासिताः पानीयं प्रतिलभन्ते स्म । रोगस्पृष्टा विगतरोगा अभूवन्* विकलेन्द्रियाः परिपूर्णेन्द्रिया अभूवन्* क्लान्तकाया अक्लान्तकाया अभूवन्* अविरहिताकुशलकायवाङ्मनस्कर्मन्ताजीवा विगताकुशलकायवाङ्मनस्कर्मन्ताजीवा भवन्ति स्म । सर्वसत्वाश्च सर्वसत्वेषु समचित्ता अभूवन्* यदुत मातापितृभ्रातृभगिनीसमचित्ताः मित्रज्ञातिसहायसमचित्ताः सर्वसत्वा दशकुशलकर्मप<थ>समन्वागता अभूवन्* ब्रह्मचारिणः शुचयो निरामगन्धाः सर्वाकुशलवितर्कविगताः सर्वसत्वास्तस्मिन् समये सर्वसुखसमर्पिता अभूवन्* एवंरूपेण सुखेन समन्वागतास्तद्यथा तृतीयध्यानसमापन्नस्य भिक्षोः सुखं सर्वसत्वाश्च तस्मिन् समये एवंरूपया प्रज्ञया समन्वागता अभूवन्* यदेवं जानंति स्म । साधु दानं साधु दमः साधु संयमः साधु सत्यम् । साध्वप्रमादः साधु मैत्री साधु करुणा साध्वविहिंसा प्राणिभूतेषु । अथ भगवांस्तस्मिन्नेव सिंहासने निषण्ण इमं त्रिसाहस्रमहासाहस्रं ल्<ओ>कधातुं ससुमेरुं सचक्रवाडं सदेवभवनं सेन्द्रकं सब्रह्मकं सवशवर्तिनं सशुद्धावासं सदेवदानवकायम<भि>भूय स्थितः शोभते भासते तपति विराजते आभया वर्णेन तेजसा शृया : तद्यथापि नाम बलवान् दिवाकरः परिशुद्धे गगनतले <पौ>र्णमास्यां वा चन्द्रमण्डलम्* एवमेव भगवान् पूर्वस्यान् दिशि गंगानदीवालुकोपमाल्लोकधातूनभिभूय दक्षिणस्यां पश्चिमायामुत्तरस्या<म्> (४ )< अधस्तादुपरिष्टाद्यावत्> समन्ताद्दशसु दिक्षु गंगानदीवालुकोपमाल्लोकधातूनभिभूय स्थितः शोभते भासते तपति विरोचते आभया वर्णेन तेजसा श्रिया तद्यथापि नाम सुमेरुः पर्व<त>राजः सर्वांस्तदन्यान् पर्वतानभिभूय स्थितः शोभते भासते तपति विराजते । तद्यथापि नाम चन्द्रमण्डलम्* सर्वा<णि> तारारूपाण्यभिभूय स्थितं शोभते भासति तपति विरोचते । तद्यथापि नाम सूर्यमण्डलं सर्वा<ं>स्तदन्यानवभासानभिभूय स्थितं शोभते भासते तपति विरोचते । एवमेव भगवान् दशसु दिक्षु सदेवकं सेन्द्रकं स<मा>रकं सब्रह्मकं सशुद्धावासमभिभूय स्थितः शोभते भासते तपति विरोचते आभया वर्णेन तेजसा शृया : पुनर्याद्<ऋ>शं भगवतः प्रकृत्यात्मभावोपदर्शनं तादृशमिह त्रिसाहस्रमहासाहस्रे लोकधातावुपदर्शयति स्म । अथ यावन्तोऽस्मिं त्रिसाहस्रमहासाहस्रे <लो>कधातौ शुद्धावासकायिका देवनिकायाः यावद्ब्रह्मकायिका परनिर्मितवशवर्तिनः निर्माणरतयः तुषिता यामास्त्रायस्त्रिंशाश्चातुर्महाराजकायिका देवनिकायास्ते सर्वे सिंहासननिषण्णं तथागतं पश्यन्ति स्म । ते तुष्टा उदग्रा आत्तमनसः प्रमुदिता<ः> प्रीतिसौमनस्यजाता दिव्यानि पुष्पाण्यादाय दिव्यानि माल्यानि दिव्यान् गन्धान् दिव्यानि विलेपनानि दिव्यानि चूर्णानि दिव्यान् वासान् दिव्यान्युत्पलपद्मकुमुदपुण्डरीकनडिनसौगन्धिकानि । दिव्यानि केसरतमालपत्राणि दिव्यानि चीवराणि । दिव्यान्याभरणानि । दिव्यानि च्छत्राणि दिव्यां ध्वजान्* दिव्याः पताका गृहीत्वा येन भगवांस्तेनोपसंक्रामन्ति स्म । उपसंक्रम्य तैः पुष्पादिभिर्यावच्छत्रध्वजपताकाभिर्भगवन्तमवकिर<न्>ति स्माभ्यवकिरन्ति स्माभिप्रकिरन्ति स्म । ये चेह त्रिसाहस्रमहासाहस्रे लोकधातौ मनुष्या विनेया भाजनीभूतास्ते जलजस्थलजानि पुष्पाणि गृहीत्वा येन भगवांस्तेनोप<स>ंक्रम्य तथागतमभिपूजयंति स्म । (५ ) सर्वाणि च तानि पुष्पादीनि यावच्छत्रध्वजपताका भगवत्यवकीर्णानि । समनन्तरमेव भगव<तो>ऽधिष्ठानेन त्रिसाहस्रमहासाहस्रलोकधातुप्रमाणो भगवत उपरि वैहायसे मूर्धसन्धौ महापुष्पादिकूटागारः संस्थितोऽभूत्* ततश्च कूटागाराद्दिव्यानि पुष्पपट्टदामानि प्रलंबन्ते स्म प्रलंबन्ते स्माभिप्रलंबन्ते स्म । तैश्च पुष्पपट्टदामाभिरयं त्रिसाहस्रमहासाहस्रो लोकधातुस्तेन च सुवर्णवर्णेन भगवतः प्रभावभासेनात्यर्थ<ं> शोभते भासते तपति विरोचते । यथा चायं त्रिसाहस्रमहासाहस्रो लोकधातुरेवं पूर्वस्यान् दिशि गंगानदीवालुकोपमाल्लोकधातवोऽवभासिता<ः> स्फुटाश्चाभूवन्* एवं दक्षिणस्यां पश्चिमायामुत्तरस्यामधस्तादु<परि>ष्टाद्यावत्समन्ताद्दशसु दिक्षु लोकधातवोऽवभासिता<ः> स्पुटाश्चाभूवन्* तत्र जांबूद्वीपकानां मनुष्याणां तथागतस्यासेचनकदर्शनम<त्म>भावन् दृष्ट्वैव्<अमभ>वत्* अस्माकं पुरतः तथागतो निषण्णो धर्मन् देशयतीति । यथा जांबूद्वीपकानां मनुष्याणामेवं गोदानीयानां पूर्वविदेहकानामुत्तरक्<औ>रवाणां चातु<र्महार>जकायिकानां देवानां यावदघनिष्ठानान् देवानां एवं साहस्रे लोकधातौ द्विसाहस्रे त्रिसाहस्रमहासाहस्रे लोकधातौ सर्वसत्वानामेतदभूत्* अ<स्>म्<आकं> पुरतस्तथागतो निषण्णो धर्मन् देशयतीति । अथ भगवांस्तस्मिन्नेव सिंहासने निषण्णः पुनरेव प्रभां प्रामुंचत्* यया प्रभया पुनरेवायं त्रिसाहस्रमहा<सा>हस्रो लोकधातुरवभासितोऽभूत्* येनावभासेन य इह त्रिसाहस्रमहासाहस्रे लोकधातौ सत्वास्ते सर्वे पूर्वस्यान् दिशि गंगानदीवालुकोपमेषु लोकधातुषु तथा<गता>नर्हतः सम्यक्संबुद्धान् सश्रावकसंघान् पश्यन्ति स्म । तत्र च पूर्वस्यान् दिशि ये गंगानदीवालुकोपमेषु लोकधातुषु सत्वास्तेऽपीमं त्रिसाहस्रमहासाहस्रं लोकधातुं भगवन्तं च शाक्यमुनिं तथागतं सभिक्षुसंघपरिवारमद्राक्षु<र्> यथा च पूर्वस्यान् दिश्येवं दक्षिणस्यां (५ ) पश्चिमायामुत्तरस्यामधस्तादुपरिष्टाद्यावत्समन्ताद्दशसु दिक्षु ये गंगानदीवालुकोपमेषु लोकधातुषु सत्वास्तेऽपीमं <त्रिसाह>स्रमहासाहस्रं लोकधातुं भगवन्तं च शाक्यमुनिं तथागतं सभिक्षुसंघपरिवारमद्राक्षुः ॥ अथ पूर्वस्यान् दिशि गंगानदीवालुकोपमाल्लोकध्<आतूनति>क्<र>म्य या सर्वपश्चिमा लोकधातू रत्नावती नाम तत्र रत्नाकरो नाम तथागतोऽर्हन् सम्यक्संबुद्धस्तिष्ठति धृयते यापयति स इमामेव प्रज्ञापारमितां बोधिसत्वानां महासत्वानां संप्रकाशयति । अथ तत्र लोकधातौ समन्तरश्मिर्नाम बोधिसत्वो महासत्वस्तं महान्तमवभासं तं च महान्तं पृथिवीचालं तं च तथागतात्मभावन् दृष्ट्वा येन स भगवान् रत्नाकरस्तथागतस्तेनोपसंक्रान्त-र्-उपसंक्रम्य तं भगवन्तं रत्नाकरं तथागतमेतदवोचत्* को भगवन् हेतुः कः प्रत्ययोऽस्य महतोऽवभासस्य लोके प्रादुर्भावायास्य च महतः पृथिवीचालस्य अयं चेदृशस्तथागतकाय<ः> सन्दृश्यते । एवमुक्ते भगवान् रत्नाकरस्तथागतस्तं समन्तरश्मिं बोधिसत्वं महासत्वमेतदवोचत्* एष कुलपुत्र पश्चिमायान् दिशि सहा नाम लोकधातुस्तत्र शाक्यमुनिर्नाम तथागतोऽर्हन् सम्यक्संबुद्धस्तिष्ठति धृयते यापयति । स बोधिसत्वानां महासत्वानां प्रज्ञापारमितां संप्रकाशयति । तस्यैष ईदृशोऽनुभाव अथ समन्तरश्मिर्बोधिसत्वो महासत्वस्तं भगवन्तं रत्नाकरं तथागतमेतदवोचत्* गच्छेयमहं भगवंस्तां सहाल्लोकधातुं तस्य भगवतः शाक्यमुनेस्तथागतस्यार्हतः सम्यक्संबुद्धस्य दर्शनाय वन्दनाय पर्युपासनाय । तेषां च बोधिसत्वानां महासत्वानां तेषां च <स>र्वेषां कुमारभूतानां धारणीप्रतिसंवित्प्रतिलब्धानां समाधिसमापत्तिवशिताप्रतिलब्धानां स भगवान् रत्नाकरस्तथागत । आह । गच्छ त्वं (६ ) कुलपुत्रऽस्य शाक्यमुने<स्> तथागतस्यार्हतः सम्यक्<सं>बुद्धस्य दर्शनाय यस्येदानीं कालं मन्यसे । अथ रत्नाकरस्तथागतः सुवर्णनिर्भासानां सहस्रपत्राणां पद्मानां सहस्रं समन्तरश्मये बोधिसत्वाय म<ह>सत्वाय प्रादात्* इमैः कुलपुत्र पद्मैस्तं भगवन्तं शाक्यमुनिं तथागतमर्हन्तं सम्यक्संबुद्धमभ्यवकिर संप्रजानच्चारी च कुलपुत्र तत्र बुद्धक्षेत्रे भवेस्तत्कस्य हेतोः दुरासदा हि कुलपुत्र ते बोधिसत्वा महासत्वा ये तत्र लोकधातावुपपन्ना मा तत्र क्षण्येथा । अथ समन्तरश्मि<र्> बोधिसत्वो महासत्वस्तस्य भगवतो रत्नाकरस्य तथागतस्यार्हत<ः> सम्यक्संबुद्धस्यान्तिकात्तानि सुवर्णनिर्भासानि सहस्रपत्राणि पद्मानि गृहीत्वानेकैर्बोधिसत्वकोटीनियुतशतसहस्रैः सार्धं गृहस्थैः प्रव्रजितैश्च दारकदारिकारूपैश्च ततो बुद्धक्षेत्रादन्तर्हितः यावन्त<ः> पूर्वस्यान् दिशि बुद्धा भगवन्तस्तिष्ठन्ति दृयन्ते यापयंति । तान् सर्वान् सत्कुर्वन् गुरुकुर्वन्मानयन् पूजयन्* पुष्पैर्माल्यैर्गन्धैर्विलेपनैर्यावच्छत्रध्वजपताकाभिर्महत्या बोधिसत्वर्ध्या महता बोधिसत्वानुभावेन येन स भगवांच्छाक्यमुनिस्तथागतोऽर्हन् सम्यक्संबुद्धस्तेनोपसंक्रान्त-र्-उपसंक्रम्य भगवतः शाक्यमुनेस्तथागतस्यार्हतः सम्यक्संबुद्धस्य पादौ शिरसा वन्दित्वैकान्तेऽस्थादेकान्तस्थितः समन्तरश्मिर्बोधिसत्वो महासत्वो भगवन्तमेतदवोचत्* रत्नाकरो भगवंस्तथागतोऽर्हन् सम्यक्संबुद्धो भगवतोऽल्पावाधतां परिपृच्छत्यल्पातङ्कतां लघूत्थानतां बलं च सुखस्पर्शविहारतां च । इमानि च तेन भगवता सुवर्णनिर्भासानि सहस्रपत्राणि पद्मानि प्रहितानि । भगवतः पूजाकर्मणे । अथ भगवांस्तानि पद्मानि गृहीत्वा येन ते पूर्वस्यान् दिशि गंगानदीवालुकोपमेषु लोकधातुषु तथागता अर्हन्तः सम्यक्संबुद्धास्तेनाक्षैप्सीत्* अथ तैः पद्मैस्ते सर्वे लोकधातव<ः> स्फुटाऽभूवन्* तत्र च पद्मेषु तथागतविग्रहा निषण्णा धर्मन् देशयन्ति स्म । (६ ) यदुतेमा एव षट्पारमिता आरभ्य : यैश्च <सत्वैः सा धर्म>देशना श्रुता ते नियता अभवन्ननुत्तरस्यां सम्यक्संबोधौ । तेऽपि गृहस्था<ः> प्रव्रजिताश्च दारकदारिकाश्च स्वकस्वकै<ः> कुशलमूलैस्तथागतं सत्कुर्वन्ति स्म गुरुकुर्वन्ति स्म मानयंति स्म पूजय<न्>ति स्म । ॥ एव<ं> दक्षिणस्यान् दिशि गंगानदीवालुकोपमाल्लोकधातूनतिक्रम्य या सर्वपश्चिमा लोकधातु<ः> सर्वशोकापगता नाम तत्राशोकश्रीर्नाम तथागतोऽर्हन् सम्यक्संबुद्धस्तिष्ठति धृयते यापयति तत्र विगतशोको नाम बोधिसत्वो महासत्व यावद्विस्तरेण कर्तव्यम्* ॥ एवं पश्चिमायान् दिश्युपशान्ता नाम लोकधातुः तत्र रत्नार्चिर्नाम तथागतोऽर्हन् सम्यक्संबुद्धस्तिष्ठति धृयते यापयति । तत्र चारित्रमतिर्नाम बोधिसत्वो महासत्व यावद्विस्तरेण कर्तव्यम्* ॥ उत्तरस्यान् दिशि जया नाम लोकधातुस्तत्र जयेन्द्रो नाम तथागतोऽर्हन् सम्यक्संबुद्धस्तिष्ठति धृयते यापयति तत्र जयदत्तो नाम बोधिसत्वो महासत्व यावद्विस्तरेण कर्तव्यम्* ॥ एवमुत्तरपूर्वस्यान् दिशि समाध्यलंकृता नाम लोकधातुस्तत्र समाधिहस्त्युत्तरश्रीर्नाम तहागतस्तिष्ठति धृयते यापयति तत्र विजयविक्रामी नाम बोधिसत्वो महासत्व यावद्विस्तरेण कर्तव्यम्* ॥ पूर्वदक्षिणस्यान् दिशि बोधिमण्डालंकारसुरुचिरा नाम लोकधातुस्तत्र पद्मोत्तरश्रीर्नाम तथागतस्तिष्ठति धृयते यापयति तत्र पद्महस्तो नाम बोधिसत्वो महासत्व यावद्विस्तरेण कर्तव्यम्* ॥ दक्षिणपश्चिमायान् दिशि विगतरजःसंचया नाम लोकधातुस्तत्र सूर्यमण्डलप्रभासोत्तमश्रीर्नाम तथागतस्तिष्ठति ध्रियते यापयति । तत्र सूर्यप्रतिभासो नाम बोधिसत्वो महासत्वः यावद्विस्तरेण कर्तव्यम्* ॥ पश्चिमोत्तरस्यान् दिशि वशीभूता नाम लोकधातुस्तत्रैकच्छत्रो नाम तथागतस्तिष्ठति धृयते यापयति तत्र रत्नोत्तमो नाम बोधिसत्वो महासत्वो यावद्विस्तरेण कर्तव्यम्* ॥ (७ ) अधस्ताद्दिशि पद्मा नाम ल्<ओ>कधातुस्तत्र पद्मश्रीर्नाम तथागतोऽर्हन् सम्यक्संबुद्धस्तिष्ठति ध्रियते यापयति । तत्र पद्मोत्तरो नाम बोधिसत्वो महासत्व यावद्विस्तरेण कर्तव्यम्* उपरिष्टाद्दिशि गंगानदीवालुकोपमाल्लोकधातूनतिक्रम्य या सर्वपश्चिमा लोकधातुर्नन्दा नाम तत्र नन्दश्रीर्नाम तथागतोऽर्हन् सम्यक्संबुद्धस्तिष्ठति धृयते यापयति । स इमामेव प्रज्ञापारमितां बोधिसत्वानां महासत्वानां संप्रकाशयति । अथ तत्र लोकधातौ नन्ददत्तो नाम बोधिसत्वो महासत्वस्तं महान्तमवभासं तञ्च महान्तं पृथिवीचालं तं च तथागतात्मभावन् दृष्ट्वा येन स भगवां नन्दश्रीस्तथागतस्तेनोपसंक्रान्त उपसंक्रम्य तं भगवन्तं नन्दश्रियं तथागतमेतदवोचत्* को भगवन् हेतुः कः प्रत्ययोऽस्य महतोऽवभासस्य लोके प्रादुर्भावायास्य च महतः पृथिवीचालस्य अयं चेदृशस्तथागतकायः सन्दृश्यते । एवमुक्ते स भगवान्नन्दश्रीस्तथागतस्तं नन्ददत्तं बोधिसत्वं महासत्वमेतदवोचत्* एष कुलपुत्राधस्ताद्दिशि सहा नाम लोकधातुस्तत्र शाक्यमुनिर्नाम तथागतोऽर्हन् सम्यक्संबुद्धस्तिष्ठति धृयते यापयति । स बोधिसत्वानां महासत्वानां प्रज्ञापारमितां संप्रकाशयति । तस्यैष ईदृशोऽनुभावः अथ नन्ददत्तो बोधिसत्वो महासत्वस्तं भगवन्तं नन्दश्रियं तथागतमेतदवोचत्* गच्छेयमहं भगवंस्तां सहां लोकधातुं तस्य भगवतः शाक्यमुनेस्तथागतस्यार्हतः सम्यक्संबुद्धस्य दर्शनाय वन्दनाय पर्युपासनाय । तेषां च बोधिसत्वानां महासत्वानां तेषां च सर्वेषां कुमारभूतानां धारणीप्रतिसंवित्प्रतिलब्धानां सर्वसमाधिसमापत्तिवशिताप्रतिलब्धानां स भगवान्नन्दश्रीस्तथागत आह । गच्छ त्वं कुलपुत्र तस्य शाक्यमुनेस्तथागतस्यार्हतः (७ ) सम्यक्संबुद्धस्य दर्शनाय यस्येदानीं कालं मन्यसे । अथ नन्दश्रीस्तथागतः सुवर्णनिर्भासानां सहस्रपत्राणां पद्मानां सहस्रं नन्ददत्ताय बोधिसत्वाय महासत्वाय प्रादात्* इमैः कुलपुत्र पद्मैस्त<ं> भगवन्तं शाक्यमुनिं तथागतमर्हन्तं सम्यक्संबुद्धमभ्यवकिर संप्रजानचारी च कुलपुत्र तत्र बुद्धक्षेत्रे भवेत्तत्कस्य हेतोः दुरासदा हि कुलपुत्र ते बोधिसत्वा महासत्वा ये तत्र लोकधातावुपपन्ना मा तत्र क्षण्येथा अथ नन्ददत्तो बोधिसत्वो महासत्व<स्त>स्य भगवतो नन्दश्रियस्तथागतस्यार्हतः सम्यक्संबुद्धस्यान्तिकात्तानि सुवर्णनिर्भासानि सहस्रपत्राणि पद्मानि गृहीत्वानेकैर्बोधिसत्वकोटीनियुतशतसहस्रैः सार्धं गृहस्थैः प्रव्रजितैश्च दारकदारिकरूपैश्च ततो बुद्धक्षेत्रादन्तर्हितः यावन्त उपरिष्टाद्दिशि बुद्धा भगवन्तस्तिष्ठन्ति दृयन्ते यापयन्ति तान् सर्वान् सत्कुर्वं गुरुकुर्वन्मानयन् पूजयन्* पुष्पैर्माल्यैर्गन्धैर्विलेपनैर्यावच्छत्रध्वजपताकाभिः महत्या बोधिसत्वर्ध्या महता बोधिसत्वानुभावेन । येन भगवांच्छाक्यमुनिस्तथागतोऽर्हन् सम्यक्संबुद्धस्तेनोपसंक्रान्त उपसंक्रम्य भगवतः शाक्यमुनेस्तथागतस्यार्हतः सम्यक्संबुद्धस्य पादौ शिरसा वन्दित्वैकान्तेऽस्थादेकान्तस्थितः नन्ददत्तो बोधिसत्वो महासत्वो भगवन्तमेतदवोचत्* नन्दश्रीर्भगवंस्तथागतोऽर्हन् सम्यक्संबुद्धो भगवतोऽल्पाबाधतां परिपृच्छत्यल्पातङ्कतां लघूत्थानतां बलं च सुखस्पर्शविहारतां च इमानि च तेन भगवता सुवर्णनिर्भासानि सहस्रपत्राणि पद्मानि प्रहितानि भगवतः पूजाकर्मणे । अथ भगवांस्तानि पद्मानि गृहीत्वा येन ते उपरिष्टाद्दिशि गंगानदीवालुकोपमेषु (८ ) लोकधातुषु तथागता अर्हन्तः सम्यक्स<ं>बुद्धास्तेनाक्षैप्सीत्* अथ तैः पद्मैस्ते सर्वे लोकधातव<ः> स्फुटा अभूवन्* तत्र च पद्मेषु तथागतविग्रहा निषण्णा धर्मन् देशयन्ति स्म । यदुतेमा एव षट्पारमिता आरभ्य : यैश्च सत्वै<ः> सा धर्मदेशना श्रुता ते नियता अभवन्ननुत्तरस्यां सम्यक्संबोधौ । तेऽपि बोधिसत्वा गृहस्था प्रव्रजिताश्च दारकदारिकाश्च स्वकस्वकैः कुशलमूलैस्तथागतं सत्कुर्वन्ति स्म गुरुकुर्वन्ति स्म । मानयंति स्म पूजयंति स्म । ॥ अथ तेन क्षणलवमुहूर्तेनायं त्रिसाहस्रमहासाहस्रो लोकधातू रत्नमयः संस्थितोऽभूत्* विचित्रपुष्पाभिकीर्णोऽवसक्तपट्टदामागन्धघटिकानिर्धूपितः सर्वपुष्पगन्धवृक्षप्रतिमण्डितः तद्यथापि नाम पद्मावती लोकधातुः समन्तकुसुमस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य बुद्धक्षेत्रं यत्र मंजुश्रीः कुमारभूतः प्रतिवसति सुस्थितमतिश्च देवपुत्रोऽन्ये च महौजस्का बोधिसत्वाः महासत्वा ॥ ॥ प्रज्ञापारमितायां निदानपरिवर्तः प्रथमः ॥ ॥ यदा च भगवानाज्ञासीत्सदेवकं लोकं समागतं समारकं सब्रह्मकं सश्रमणब्राह्मणीप्रजाः सदेवमानुषीस्तांश्च बोधिसत्वान्महासत्वान्* यद्भूयस्त्वेन कुमारभूता<न्> तदा भगवानायुष्मन्तं शारद्वतीपुत्रमामन्त्रयत : इह शारद्वतीपुत्र बोधिसत्वेन महासत्वेन सर्वाकारं सर्वधर्मानभिसंबोद्धुकामेन प्रज्ञापारमितायां योगः करणीयः एवमुक्ते अयुष्मांच्छारिपुत्रो भगवन्तमेतदवोचत्* कथं भगवं बोधिसत्वेन महासत्वेन सर्वाकारं सर्वधर्मानभिसंबोद्धुकामेन प्रज्ञापारमितायां योगः करणीयः एवमुक्ते भगवानायुष्मन्तं शारद्वतीपुत्रमेतदवोचत्* इह शारद्वतीपुत्र बोधिसत्वेन महासत्वेन प्रज्ञापारमितायां स्थित्वा अस्थानयोगेन दानपारमिता परिपूरयितव्या अपरित्यागयोगेन (८ ) देयदायपरिग्राहकानुपलब्धितामुपादाय । एवं शीलपारमिता परिपूरयितव्या आपत्त्यनापत्त्यनध्यापत्तितामुपादाय <।> क्षान्तिपारमिता परिपूरयितव्या अक्षोभणतामुपादाय । वीर्यपारमिता परिपूरयितव्या कायिकचै<त>सिकवीर्यास्रंसनतामुपादाय । ध्यानपारमिता परिपूरयितव्या ध्यानमदानास्वादनतामुपादाय । प्रज्ञापारमिता परिपूरयितव्या सर्वधर्मानुपलब्धितामुपादाय । प्रज्ञापारमितायां शारद्वतीपुत्र स्थित्वा बोधिसत्वेन महासत्वेन चत्वारि स्मृत्युपस्थानानि परिपूरयितव्यानि स्मृत्यनुपलब्धितामुपादाय । एवं चत्वारि सम्यक्प्रहाणानि । चत्वार ऋद्धिपादाः पंचेन्द्रियाणि पंच बलानि सप्त बोध्यङ्गान्यार्याष्टांगो मार्गः परिपूरयितव्यः शुन्यतासमाधिरानिमित्तः समाधिरप्रणिहितः समाधिः परिपूरयितव्यः चत्वारि ध्यानानि चत्वार्यप्रमाणानि । चतस्रः आरूप्यसमापत्तयः अष्टौ विमोक्षा नवानुपूर्वस<मा>पृष्ठअत्तयः पंचाभिज्ञा नव संज्ञाः व्याध्यात्मकसंज्ञा : विपटुमकसंज्ञा । विपूतिकसंज्ञा : विलोहितकसंज्ञा : विनीलकसंज्ञा : विखादितकसंज्ञा : विक्षिप्तकसंज्ञा : अस्थिकसंज्ञा : विदग्धकसंज्ञा : बुद्धानुस्मृतिर्धर्मानुस्मृतिः संघानुस्मृतिः शीलानुस्मृतिस्त्यागानुस्मृतिर्देवतानुस्मृतिरानापानानुस्मृतिरुद्वेगानुस्मृतिर्मरणानुस्मृतिः कायगतानुस्मृतिः अनित्यसंज्ञा दुःखसंज्ञा । अनात्मसंज्ञा । अशुभसंज्ञा मरणसंज्ञा सर्वत्र लोके अनभिरतिसंज्ञा । सर्वत्र लोके अविश्वाससंज्ञा । दुःखज्ञानं समुदयज्ञानं निरोधज्ञानं मार्गज्ञानं क्षयज्ञानमनुत्पादज्ञानं धर्मज्ञानमन्वयज्ञानं संवृतिज्ञानं परिचयज्ञानं यथाव<ज्>ज्ञानम्* सवितर्कः सविचारः समाधिरवितर्को विचारमात्रः समाधिः अवितर्कः (९ ) अविचारः समाधि<रना>ज्ञातमाज्ञास्यामीतीन्द्रियमाज्ञेन्द्रियमाज्ञातावीन्द्रियमभिभ्वायतनं कृत्स्नायतनं चत्वारि संग्रहवस्तूनि । चत्वारि व्यवस्थानानि । दश भूमयो दश चर्या दश क्षान्तयो विंशतिरध्याशयाः सर्व<ज्ञ>ज्ञानम् । शमथविपश्यनाज्ञाने । तिस्रो विद्या चतस्रः प्रतिसंविदः चत्वारि वैशारद्यान्यच्युताः पंचाभिज्ञाः षट्पारमिताः सप्त धनान्यष्टौ महापुरुषवितर्का नव सत्वावासा दश तथागतबलान्यष्टादशावेणिका बुद्धधर्मा महामैत्री महाकरुणा सर्वाकारवरोपेतं सर्वज्ञज्ञानमभिसंबोद्धुकामेन मार्गाकारज्ञतां सर्वज्ञतां सर्वसत्वचित्तचरितज्ञानाकारतां परिपूरयितुकामेन बोधिसत्वेन महासत्वेन प्रज्ञापारमितायां योग<ः> करणीयः सर्ववासनानुसन्धिक्लेशान् प्रहातुकामेन बोधिसत्वेन महासत्वेन प्रज्ञापारमितायां योग<ः> करणीयः एवं हि शारद्वतीपुत्र बोधिसत्वेन महासत्वेन प्रज्ञापारमितायां शिक्षितव्यम्* ॥ बोधिसत्वन्यामं शारद्वतीपुत्रावक्रान्तुकामेन बोधिसत्वेन महासत्वेन प्रज्ञापारमितायां शिक्षितव्यम्* ॥ श्रावकप्रत्येकबुद्धभूमी प्रज्ञातुकामेन ते च भूमी अतिक्रान्तुकामेनावैवर्तिकभूमौ च स्थातुकामेन बोधिसत्वेन महासत्वेन प्रज्ञापारमितायां शिक्षितव्यम्* ॥ षडभिज्ञतायां स्थातुकामेन सर्वसत्वचित्तचरितविस्पन्दितानि ज्ञातुकामेन सर्वश्रावकप्रत्येकबुद्धानां ज्ञानमभिभवितुकामेन तथा धारणीमुखसमाधिमुखं प्रतिलब्धुकामेन बोधिसत्वेन महासत्वेन प्रज्ञापारमितायां शिक्षितव्यम्* ॥ सर्वश्रावकप्रत्येकबुद्धयानिकानां कुलपुत्राणां कुलदुहित्रीणां च दानं ददतां यावत्प्रज्ञां भावयतामेकानुमोदनासहगतेन चित्तोत्पादेन सर्वं तत्कुशलमूलमभिभवितुकामेन सर्वश्रावकप्रत्येकबुद्धानां शीलसमाधिप्रज्ञाविमुक्तिविमुक्तिज्ञानदर्शनम् (९ ) एकानुमोदनासहगतेन चित्तोत्पादेनाभिभवितुकामेन ध्यानविमोक्षसमाधिसमापत्तीरेकानुमोदनासहगतेन चित्तोत्पादेनाभिभवितुकामेन बोधिसत्वेन महासत्वेन प्रज्ञापारमितायां शिक्षितव्यम्* ॥ प्रज्ञापारमितायां योगः करणीयः ॥ अल्पं दानं ददतः परिणमनायोगेन कथमप्रमेयासंख्येयाप्रमाणापरिमाणं भवेदिति बोधिसत्वेन महासत्वेन प्रज्ञापारमितायां शिक्षितव्यम्* ॥ एवमल्पं शीलं रक्षतो क्षान्तिं भावयतोऽल्पं वीर्यमारभमाणस्याल्पं ध्यानं समापद्यमानस्याल्पं प्रज्ञा<ं> भावयतः परिणमनायोगेन कथमप्रमेयमसंख्येयाप्रमाणापरिमाणं भवेदिति बोधिसत्वेन महासत्वेन प्रज्ञापारमितायां शिक्षितव्यम्* ॥ पुनरपरं शारद्वतीपुत्र बोधिसत्वेन महासत्वेन दानपारमितायां स्थातुकामेन दानपारमितां परिपूरयितुकामेन । शीलपारमितायां चरितुकामेन । शीलपारमितां परिपूरयितुकामेन । क्षान्तिपारमितायां चरितुकामेन । क्षान्तिपारमितां परिपूरयितुकामेन । वीर्यपारमितायां चरितुकामेन । वीर्यपारमितां परिपूरयि<तु>कामेन । ध्यानपारमितायां चरितुकामेन । ध्यानपारमितां परिपूरयितुकामेन प्रज्ञापारमितायां चरितव्यम्* प्रज्ञापारमितायां शिक्षितव्यम्* ॥ कथं मे सर्वत्र जातौ बुद्धविग्रहदर्शनं भवेद्बुद्धचोदना । बुद्धसमन्वाहारो बुद्धाभिराधनं बुद्धपरिग्रहो भवेदिति । प्रज्ञापारमितायां शिक्षितव्यम्* ॥ पुनरपरं शारद्वतीपुत्र बुद्धकायं परिनिष्पादयितुकामेन द्वात्रिंशतं महापुरुषलक्षणानि प्रतिलब्धुकामेन बोधिसत्वेन महासत्वेन प्रज्ञापारमितायां शिक्षितव्यम्* अशीतिमनुव्यंजनानि प्रतिलब्धुकामेन सर्वत्र जातौ जातिस्मरतां बोधिचित्ताविप्रणाशतां सर्वबोधिसत्वचर्यासंप्रम्<ओ>षता<ं> (१० ) प्रत्<इ>लब्धुकामेन । सर्वपापमित्रपापसहायान् विवर्जयितुकामेन सर्वबुद्धबोधिसत्वकल्याणमित्राण्यारागयितुकामेन सर्वमारमारकायिकदेवता<न्> निर्जेतुकामेन सर्वावरणीयानि विशोधयितुकामेन । सर्वधर्मानावरणतां प्रतिलब्धुकामेन बोधिसत्वेन महासत्वेन प्रज्ञापारमितायां शिक्षितव्यम्* ॥ बोधिसत्वकुल<ं> निष्प्<आ>दयि<तु>कामेन बुद्धकुलमारागयितुकामेन त्रिरत्नवंशानुपच्छेदाय स्थातुकामेन बोधिसत्वेन महासत्वेन प्रज्ञापारमितायां शिक्षितव्यम्* ॥ कुमारभूमिमनुप्राप्तुकामेन बुद्धबोधिसत्वैरविरहितेन भवितुकामेन बोधिसत्वभूमीरतिक्रान्तुकामेन क्षिप्रं तथागतभूमीं परिपूरयितुकामेन बोधिसत्वेन महासत्वेन प्रज्ञापारमितायां शिक्षितव्यम्* ॥ यैश्च कुशलमूलैर्यैराकारैराकांक्षेद्बुद्धान् भगवतः सत्कर्तुं गुरुकर्तुं मानयितुं पूजयितुं तानि मे कुशलमूलानि त आकाराः समृद्ध्येयुरिति बोधिसत्वेन महासत्वेन प्रज्ञापारमितायां शिक्षितव्यम्* ॥ सर्वसत्वान् संतोषयितुकामेन सर्वसत्वानाम्माशाः परिपूरयितुकामेन । अन्नेन पानेन यानैर्वस्त्रै<र्> विभूषणैः पुष्पैर्माल्यैर्गन्धै<र्> विलेपनैः शयनैरासनैरुपाश्रयै<र्> ग्लानप्रत्ययभैषज्यपरिष्कारैः सर्वोपकरणपरिभोगै<ः> सर्वसत्वान् संतर्पयिष्यामीति बोधिसत्वेन महासत्वेन प्रज्ञापारमितायां योगः करणीयः ॥ पुनरपरं शारद्वतीपुत्र ये दशसु दिक्षु गंगानदीवालुकोपमेषु लोकधातुषु सत्वासत्वास्तान् सर्वान् दशसु कुशलेषु कर्मपथेषु प्रतिष्ठापयि<तु>कामेन । चतुर्षु ध्यानेषु चतुर्ष्वप्रमाणेषु पंचस्वभिज्ञासु त्रिशरणगमने बुद्धधर्मसंघप्रसादप्रतिलंभे प्रतिष्ठापयितुकामेन बोधिसत्वेन महासत्वेन प्रज्ञापारमितायां (१० ) शिक्षितव्यम्* ॥ ये वा ते गंगानदीवालुकोपमेषु लोकधातुषु सत्वास्तान् सर्वान्महायाने समादापयितुकामेन । दानपारमितायां प्रतिष्ठापयितुकामेन शीलपारमितायां क्षान्तिपारमितायां वीर्यपारमितायां ध्यानपारमितायां प्रज्ञापारमितायां प्रतिष्ठापयितुकामेन बोधिसत्वेन महासत्वेन प्रज्ञापारमितायां शिक्षितव्यम् । ॥ पुनरपरं शारद्वतीपुत्र एकमपि कुशलचित्तोत्पादमक्षयं कर्तुकामेन बोधिमण्डनिषदनाद्बोधिसत्वेन महासत्वेन प्रज्ञापारमितायां शिक्षितव्यम्*॥ पुनरपरं शारद्वतीपुत्र ये पूर्वस्यान् दिशि गंगानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तो दक्षिणस्यां पश्चिमायामुत्तरस्यामधस्तादुपरिष्टाद्यावत्समन्ताद्दशसु दिक्षु गंगानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तस्ते मे वर्णं भाषेरन्निति बोधिसत्वेन महासत्वेन प्रज्ञापारमितायां शिक्षितव्यम्* ॥ पुनरपरं शारद्वतीपुत्र यानि पूर्वस्यान् दिशि गंगानदीवालुकोपमानि बुद्धक्षेत्राणि तानि सर्वाण्येकचित्तोत्पादेनोपसंक्रान्तुकामेन बोधिसत्वेन महासत्वेन प्रज्ञापारमितायां शिक्षितव्यम्* ॥ एवं दक्षिणस्यां पश्चिमायामुत्तरस्यामधस्तादुपरिष्टाद्यावत्समन्ताद्दशसु दिक्षु गंगानदीवालुकोपमानि बुद्धक्षेत्राणि तानि सर्वाण्येकचित्तोत्पादेनोपसंक्रान्तुकामेन बोधिसत्वेन महासत्वेन प्रज्ञापारमितायां शिक्षितव्यम्* ॥ पुनरपरं शारद्वतीपुत्र एकस्वरघोषेण पूर्वस्यान् दिशि गंगानदीवालुकोपमानि बुद्धक्षेत्राणि विज्ञपयितुकामेन बोधिसत्वेन महासत्वेन प्रज्ञापारमितायां शिक्षितव्यम्* ॥ एवन् दक्षिणस्यां पश्चिमायामुत्तरस्यामधस्तादुपरिष्टाद्यावत्समन्ताद्दशसु दिक्षु गंगानदीवालिकोपमानि बुद्धक्षेत्राणि विज्ञपयितुकामेन बोधिसत्वेन महासत्वेन प्रज्ञापारमितायां शिक्ष्<इ>तव्यम्* (११ ) पुनरपरं शारद्वतीपुत्र बुद्ध्<ओ>त्पादानुपच्छेदाय स्थातुकामेन बोधिसत्वकुलमारक्षितुकामेन बुद्धवंशानुच्छेदाय स्थातुकामेन बोधिसत्वेन महासत्वेन प्रज्ञापारमितायां शिक्षितव्यम्* ॥ अध्यात्मशुन्यतायां स्थातुकामेन बहिर्धाशुन्यतायामध्यात्मबहिर्धाशुन्यतायाम् । शुन्यताशुन्यतायाम् । महाशुन्यतायाम् । परमार्थशुन्यतायां संस्कृतशुन्यतायाम् । असंस्कृतशुन्यतायाम् । अत्यन्तशुन्यतायाम् । अनवराग्रशुन्यताया<ं> । अनवकारशुन्यतायाम् । प्रकृतिशुन्यतायाम् । स्वलक्षणशुन्यतायाम् । सर्वधर्मशुन्यतायाम् । अनुपलंभशुन्यतायां * अभावशुन्यताया<ं> । स्वभावशुन्यतायाम् । अभावस्वभावशुन्यतायां स्थातुकामेन बोधिसत्वेन महासत्वेन प्रज्ञापारमितायां शिक्षितव्यम्* ॥ आलंबनाधिपतेयसमनन्तरहेतुप्रत्ययतामनुबोद्धुकामेन । तथाकारलक्षणान्यवबोद्धुकामेन बोधिसत्वेन महासत्वेन प्रज्ञापारमितायां शिक्षितव्यम्* ॥ सर्वधर्माणां तथतामवितथतामनन्यतथतामविकारतथतां यथावत्तथातमवबोद्धुकामेन बोधिसत्वेन महासत्वेन प्रज्ञापारमितायां शिक्षितव्यम्* ॥ सर्वधर्माणान् धर्मधातुमवबोद्धुकामेन सर्वधर्माणां भूतकोटिमवबोद्धुकामेन बोधिसत्वेन महासत्वेन प्रज्ञापारमितायां शिक्षितव्यम्* ॥ पुनरपरं शारद्वतीपुत्र यावन्त्यस्तृसाहस्रमहासाहस्रे लोकधातौ गंगानदीवालुकास्ताः सर्वा ज्ञातुकामेन बोधिसत्वेन महासत्वेन प्रज्ञापारमितायां शिक्षितव्यम्* ॥ यस्त्रिसाहस्रमहासाहस्रे लोकधातौ महासमुद्रेष्वप्स्कन्धो नदीषु महानदीषु कुनदीषूत्ससरस्तडाकेषु पल्वलेषु तन् सर्वं शतधाभिन्नया बालाग्रकोट्याभ्युत्क्षेप्तुकामेन न च तन्निशृतान् प्राणिनो विहेठयितुकामेन बोधिसत्वेन महासत्वेन प्रज्ञापारमितायां (११ ) शिक्षितव्यम्* ॥ पुनरपरं शारद्वतीपुत्र यावांस्त्रिसाहस्रमहासाहस्रे लोकधातावग्निस्कन्धः स सर्व एकज्वालीभूतो भवे<त्> तद्यथापि नाम कल्पोद्दाहे वर्तमाने तमेनमेकेन मुखवायुना निर्वापयितुकामेन बोधिसत्वेन महासत्वेन प्रज्ञापारमितायां शिक्षितव्यम्* ॥ पुनरपरं शारद्वतीपुत्र यास्त्रिसाहस्रमहासाहस्रे लोकधातौ बातमण्डल्यो या इमं त्रिसाहस्रमहासाहस्रं लोकधातुं विधुनुयु<र्> विकिरेयुर्विध्वंसेयुस्तद्यथापि नाम बुसमुष्टिन् ताः सर्वा एकेनाङ्गुल्या<ः> प्रान्तकेन संच्छादयितुकामेन विष्कंभयितुकामेन बोधिसत्वेन महासत्वेन प्रज्ञापारमितायां शिक्षितव्यम्* ॥ पुनरपरं शारद्वतीपुत्र यस्त्रिसाहस्रमहासाहस्रे लोकधातावाकाशधातुस्तं सर्वमेकपर्यंकेन स्फरितुकामेन बोधिसत्वेन महासत्वेन प्रज्ञापारमितायां शिक्षितव्यम्* ॥ पुनरपरं शारद्वतीपुत्र यावन्तस्त्रिसाहस्रमहासा<ह>स्रे लोकधातौ सुमेरुचक्रवाडमहाचक्रवाडाः पर्वतराजास्तान् सर्वानेकबालेन बध्वाभ्यु<त्>क्षिप्याप्रमेयानसंख्येयाल्लोकधातून् क्षिपेयमिति तेन बोधिसत्वेन महासत्वेन प्रज्ञापारमितायां शिक्षितव्यम्* ॥ पुनरपरं शारद्वतीपुत्र यावांस्त्रिसाहस्रमहासाहस्रे लोकधातौ तृणवृक्षगुल्मौषधिवनस्पतयो लोष्टदण्डशर्करापाषाणपर्वतामहापृथिवीसंचयस्तं सर्वं परमाणुरजोयोगेन ज्ञातुकामेन बोधिसत्वेन महासत्वेन प्रज्ञापारमितायां शिक्षितव्यम्* ॥ पुनरपरं शारद्वतीपुत्र यावन्तः पूर्वस्यान् दिशि गंगानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तः सबोधिसत्वाः सश्रावकसंघास्तान् सर्वानेकपिण्डपातेन प्रतिपादयितुकामेन एकपुष्पेणैकमाल्येनैकगन्धेनैकविलेप<ने>नैकचूर्णेनैकचीवरेणैकच्छत्रेणैकध्वजेनैकपताकया तान् सर्वान् तथागतानर्हतः (१२ ) सम्यक्संबुद्धान् सबोधिसत्वान् सश्रावकस<ं>घान् सत्कर्तुकामेन गुरुकर्तुकामेन मानयितुकामेन पूजयितुकामेन बोधिसत्वेन महासत्वेन प्रज्ञापारमितायां शिक्षितव्यम्* ॥ एवं दक्षिणस्यान् दिशि पश्चिमायामुत्तरस्यामधस्तादुपरिष्टाद्यावत्समन्ताद्दशसु दिक्ष्वैकैकस्यान् दिशि ये गंगानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तः सबोधिसत्वाः सश्रावकसंघास्तान् सर्वानेकपिण्डपातेन प्रतिपादयितुकामेनैकपुष्पेणैकमाल्येनैकगन्धेनैकविलेपनेनैकचूर्णेनैकचीवरेणैकच्छत्रेणैकध्वजेनैकपताकया । तन् सर्वांस्तथागतानर्हतः सम्यक्संबुद्धान् सबोधिसत्वान् सश्रावकसंघान् सत्कर्तुकामेन गुरुकर्तुकामेन मानयितुकामेन पूजयितुकामेन बोधिसत्वेन महासत्वेन प्रज्ञापारमितायां शिक्षितव्यम्* ॥ पुनरपरं शारद्वतीपुत्र ये पूर्वस्यान् दिशि गंगानदीवालुकोपमेषु लोकधातुषु सत्वास्तान् सर्वांच्छीलस्कन्धे प्रतिष्ठापयितुकामेनैवं समाधिस्कन्धे प्रज्ञास्कन्धे विमुक्तिस्कन्धे विमुक्तिज्ञानदर्शनस्कन्धे प्रतिष्ठापयितुकामेन एवं स्रोतआपत्तिफले प्रतिष्ठापयितुकामेन सकृदागामिफले अनागामिफले अर्हत्वे प्रत्येकबोधौ यावदनुपधिशेषे निर्वाणधातौ प्रतिष्ठापयितुकामेन बोधिसत्वेन महासत्वेन प्रज्ञापारमितायां शिक्षितव्यम्* ॥ एवं दक्षिणस्यान् दिशि पश्चिमायामुत्तरस्यामधस्तादुपरिष्टाद्यावत्समन्ताद्दशसु दिक्षु ये गंगानदीवालुकोपमेषु लोकधातुषु सत्वास्तान् सर्वांच्छीलस्कन्धे । प्रतिष्ठापयितुकामेनैवं समाधिस्कन्धे प्रज्ञास्कन्धे । विमुक्तिस्कन्धे विमुक्तिज्ञानदर्शनस्कन्धे प्रतिष्ठापयितुकामेन एवं स्रोतआपत्तिफले प्रतिष्ठापयितुकामेन सकृदागामिफले अर्हत्वे प्रत्येकबोधौ यावदनुपधिशेषे निर्वाणधातौ प्रतिष्ठापयितुकामेन बोधिसत्वेन महासत्वेन प्रज्ञापारमितायां शिक्षितव्यम्* ॥ (१२ ) पुनरपरं शारद्वतीपुत्र यावन्तो दशदिग्लोके सर्वलोकधातुषु सत्वास्तान् सर्वां श्रावकप्रत्येकबुद्धयानेन च परिनिर्वापयितुकामेन बोधिसत्वेन महासत्वेन प्रज्ञापारमितायां शिक्षितव्यम्* ॥ पुनरपरं शारद्वतीपुत्र बोधिसत्वेन महासत्वेन प्रज्ञापारमितायां चरता दानं ददता एवं शिक्षितव्यम्* यदेवं दानं दत्वा महाफलं भवत्येवं दानं दत्वा क्षत्रियमहासालकुलेषूपपद्यत्ऽ ऐवं ब्राह्मणमहासालकुलेषूपपद्यते । गृहपतिमहासालकुलेषूपपद्यत्ऽ एवं दानं दत्वा तदेव दानं निश्राय चातुर्महाराजकायिकेषु देवेषूपपद्यते । एवं त्रायस्त्रिंशेषु यामेषु तुषितेषु निर्माणरतिषु परनिर्मितवशवर्तिषु देवेषूपपद्यते । एवं दानं दत्वा तदेवं दानं निश्राय प्रथमं ध्यानं समापद्यते द्वितीयं त्रितीयं चतुर्थं ध्यानमुत्पाद्यते आकाशानंत्यायतनसमापत्तिं समापद्यते । विज्ञानानन्त्यायतनसमापत्तिमाकिंचन्यायतनसमापत्तिं नैवसंज्ञानासंज्ञायतनसमापत्तिं समापद्यते एवं दानं दत्वार्याष्टांगो मार्ग उत्पाद्यते । एवं स्रोतआपत्तिफलमनुप्राप्यते । सकृदागामिफलमनुप्राप्यते । अनागामिफलमनुप्राप्यतेऽर्हत्वमनुप्राप्यते । प्रत्येकबोधिरनुप्राप्यतेऽनुत्तरा सम्यक्संबोधिरनुप्राप्यते । ॥ पुनरपरं शारद्वतीपुत्र बोधिसत्वो महासत्व<ः> प्रज्ञापारमितायां चरं जानात्येवमुपायकौशल्येन दानं दत्तं दानपारमितां परिपूरयति । एवं शीलपारमितां क्षान्तिपारमितां वीर्यपारमितां ध्यानपारमितां प्रज्ञापारमितां परिपूरयति । ॥ अथायुष्मांच्छारद्वतीपुत्रो भगवन्तमेतदवोचत्* कथं भगवं बोधिसत्वेन महासत्वेन दानं ददता दानपारमिता परिपूरिता भवति । कथं या<व>त्प्रज्ञापारमिता परिपूरिता भवति । भगवानाह । अनुपलंभयोगेन शारद्वतीपुत्र (१३ ) दानस्य दायकस्य परिग्राहकस्य <त्रि>मण्डलपरिशुद्ध्या दानपारमिता परिपूरिता भवति । एवमापत्त्यनापत्त्यनध्यापत्तितामुपादाय शीलपारमिता <।> अक्षोभणतामुपादाय क्षान्तिपारमिता । कायचित्तवीर्यास्रंसनता वीर्यपारमिता । अविक्षेपासंकल्<प्>अनतामुपादाय ध्यानपारमिता । सर्वधर्मप्रजाननानुपलंभयोगेन प्रज्ञापारमिता परिपूरिता भवति । ॥ पुनरपरं शारद्वतीपुत्रातीतानागतप्रत्युत्पन्नानां बुद्धानां भगवतां सर्वबुद्धगुणान् प्रज्ञातुकामेनानुप्राप्तुकामेन बोधिसत्वेन महासत्वेन प्रज्ञापारमितायां शिक्षितव्यम्* ॥ पुनरपरं शारद्वतीपुत्र संस्कृतासंस्कृतानां धर्माणां पारंगंतुकामेन बोधिसत्वेन महासत्वेन प्रज्ञापारमितायां शिक्षितव्यम्* ॥ एवं सास्रवानास्रवाणां धर्माणां कुशलाकुशलानां लौकिकलो<को>त्तराणां रूप्यरूपिणां व्याकृताव्याकृतानां नियतानियतानां नैर्याणिकानैर्याणिकानाम् । हानभागीयानां विशेषभागीयानां पृथग्जानधर्माणामार्यधर्माणां शैक्षाशैक्षधर्माणां श्रावकप्रत्येकबुद्धधर्माणां बोधिसत्वधर्माणां बुद्धधर्माणाम् । सर्वधर्माणां पारंगंतुकामेन बोधिसत्वेन महासत्वेन प्रज्ञापारमितायां शिक्षितव्यम्* ॥ पुनरपरं शारद्वतीपुत्र बोधिसत्वेन महासत्वेनातीतानागतप्रत्युत्पन्नानां सर्वधर्माणां तथतामनुबोद्धुकामेन प्रज्ञापारमितायां शिक्षितव्यम् ॥ सर्वधर्माणामनुत्पादकोटिमनुप्राप्तुकामेन भूतकोटिं प्रतिवेद्धुकामेन प्रज्ञापारमितायां शिक्षितव्यम्* ॥ पुनरपरं शारद्वतीपुत्र बोधिसत्वेन महासत्वेन सर्वश्रावकप्रत्येकबुद्धानां पूर्वंगमेन भवितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्* ॥ पुनरपरं शारद्वतीपुत्र बोधिसत्वेन महासत्वेन बुद्धानां भगवतामु<प>स्थायकेन (१३ ) भवितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्* ॥ पुनरपरं शारद्वतीपुत्र बोधिसत्वेन महासत्वेन बुद्धानां भगवतामभ्यन्तरपरिवारेण भवितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्* ॥ पुनरपरं शारद्वतीपुत्र बोधिसत्वेन महासत्वेन महापरिवारेण भवतुकामेन बोधिसत्वपरिवारं प्रतिलब्धुकामेन प्रज्ञापारमितायां शिक्षितव्यम्* ॥ पुनरपरं शारद्वतीपुत्र बोधिसत्वेन महासत्वेन सर्वदात्रीणां दक्षिणां शोधयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्* ॥ पुनरपरं शारद्वतीपुत्र बोधिसत्वेन महासत्वेन दानेऽनवगृहीतचित्तेन भवितुकामेन दौःशील्यचित्तं पृथक्कर्तुकामेन व्यापादचित्तमुत्स्रष्टुकामेन कौसीद्यचित्तं दौष्प्रज्ञचित्तमनुत्पादयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्* ॥ पुनरपरं शारद्वतीपुत्र बोधिसत्वेन महासत्वेन सर्वसत्त्वान् दानमये पुण्यकृयावस्तुनि प्रतिष्ठापयितुकामेन शीलमये भावनामये वैयापृत्यसहगते सर्वौषधिकसहगते पुण्यकृयावस्तुनि प्रतिष्ठापयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्* ॥ पुनरपरं शारद्वतीपुत्र बोधिसत्वेन महासत्वेन सर्वाकाराणि पंच चक्षुंषि निष्पादयितुकामेन । मांसचक्षुर्दिव्यं चक्षु<ः> प्रज्ञाचक्षुर्धर्मचक्षुर्बुद्धचक्षुर्निष्पादयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्* पुनरपरं शारद्वतीपुत्र ये पूर्वस्या<न्> दिशि गंगानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तो दक्षिणस्यां (१४ ) पश्चिमायामुत्तरस्यामधस्तादुपरिष्टाद्यावत्समन्ताद्दशसु दिक्ष्वेकैकस्यान् दिशि गंगानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तस्तान् सर्वान् दिव्येन चक्षुषा द्रष्टुकामेन यं च ते बुद्धा भगवन्तो धर्मं भाषन्ते तं सर्वं दिव्येन श्रोत्रेण श्रोतुकामेन तेषां च बुद्धानां भगवता<ं> चेतसैव चित्तं प्रज्ञातुकामेन । तेषां च बुद्धानां भगवतां पूर्वयोगसह<ग>ता<ं> बोधिसत्वचर्यामनुस्मर्तुकामेन तेषां च बुद्धानां भगवतामनेकविधमृद्धिविधिविकुर्वितं संद्रष्टुकामेन बोधिसत्वेन महासत्वेन प्रज्ञापारमितायां शिक्षितव्यम्* ॥ पुनरपरं शारद्वतीपुत्र बोधिसत्वेन महासत्वेन यन् ते बुद्धा भगवन्तः समन्ताद्दशसु दिक्षु गंगानदीवालुकोपमेषु लोकधातुषु धर्मं भाषन्ते तं श्रुत्वानाच्छेद्येन स्मृतिबलाधानेन सन्धारयितुकामेन यावदनुत्तरां सम्यक्संबोधिमभिसंबुद्ध एतस्मिन्नन्तरे सर्वमविप्रणाशयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्* ॥ पुनरपरं शारद्वतीपुत्र बोधिसत्वेन महासत्वेनातीतानागतप्रत्युत्पन्नानां बुद्धानां भगवतां बुद्धक्षेत्राणि च बुद्धक्षेत्रपरिशुद्धीश्च परिनिष्पादयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्* ॥ पुनरपरं शारद्वतीपुत्र यत्किंचित्तथागतेन भाषितं सूत्रं गेयं व्याकरणं गाथोदाननिदानेत्युक्तकजातकवैपुल्यावदानोपदेशाद्भुतधर्मा यच्छ्रावकैर्न श्रुतं तत्सर्वं पर्यवाप्तुकामेन बोधिसत्वेन महासत्वेन प्रज्ञापारमितायां शिक्षितव्यम्* ॥ पुनरपरं शारद्वतीपुत्र यत्किंचित्पूर्वस्यान् दिशि गंगानदीवालुकोपमेषु लोकधातुषु सर्वबुद्धैर्भगवद्भिर्भाषितं भाष्यते भाषिष्यते एवन् दक्षिणस्यान् दिशि पश्चिमायामुत्तरस्यामधस्तादुपरिष्टाद्यावत्समन्ताद्दशसु दिक्षु यत्किंचित्सर्वबुद्धैर्भगवद्भिर्भाषितं भाष्यते भाषिष्यते तत्सर्वं श्रोतुकामेनोद्ग्रहीतुकामेन (१४ ) धारयितुकामेन पर्यवाप्तुकामेन परेषां च विस्तरेण संप्रकाशयितुकामेन तत्र च तथत्वाय प्रतिपत्तुकामेन बोधिसत्वेन महासत्वेन प्रज्ञापारमितायां शिक्षितव्यम्* ॥ पुनरपरं शारद्वतीपुत्र याः पूर्वस्यान् दिशि गंगानदीवालुकोपमेषु लोकधातुष्वन्धाकारतमिस्रा लोकान्तरिका अघा अघस्फुटाः यत्रेमौ सूर्याचन्द्रमसावेवं महर्द्<द्>हिकावेवं महेशाख्यावेवं महानुभावौ न भासेते न तपतो न विरोचेते ताः सर्वाः अवभासयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्* ॥ एवन् दक्षिणस्यां दिशि पश्चिमायामुत्तरस्यामधस्तादुपरिष्टाद्यावत्समन्ताद्दशसु दिक्षु या अन्धाकारतमिस्रास्ताः सर्वा अवभासयितुकामेन बोधिसत्वेन महासत्वेन प्रज्ञापारमितायां शिक्षितव्यम्* ॥ पुनरपरं शारद्वतीपुत्र यावन्तः पूर्वस्यान् दिशि गंगानदीवालुकोपमा लोकधातवो यत्र न बुद्धशब्दो न धर्मशब्दो न संघशब्दस्तत्र लोकधातुषु तान् सर्वसत्वा<न्> बुद्धधर्मसंघशब्दांच्छ्रावयितुकामेन सम्यग्दृष्टौ प्रतिष्ठापयितुकामेन बोधिसत्वेन महासत्वेन प्रज्ञापारमितायां शिक्षितव्यम्* ॥ एवं दक्षिणस्यान् दिशि पश्चिमायामुत्तरस्यामधस्तादुपरिष्टाद्यावत्समन्ता<द्> दशसु दिक्षु : ॥ पुनरपरं शारद्वतीपुत्र ये पूर्वस्यान् दिशि दक्षिणस्यां पश्चिमायामुत्तरस्यामधस्तादुपरिष्टाद्यावत्समन्ताद्दशसु दिक्ष्वेकैकस्यान् दिशि गङ्गानदीवालुकोपमेषु लोकधातुष्वन्धाः सत्वास्ते ममानुभावेन चक्षुषा रूपाणि द्रक्ष्यन्ति बधिराः श्रोत्रेण शब्दां श्रोष्यन्ति उन्मत्ता<ः> स्मृतिं प्रतिलभन्ते स्म । नग्नाश्चीवराणि प्रतिलप्स्यन्ते । क्षुधितपिपासिता अन्नपानं प्रतिलप्स्यन्ते । ग्लाना व्याधिभ्यः परिमुच्यन्ते । बन्धनावरोधगता यथाकामंगता भविष्यन्ति । मम रि<द्>ध्या ममानुभावेनेति । तेन बोधिसत्वेन महासत्वेन प्रज्ञापारमिताया<ं> शिक्षितव्यम्* ॥ किमिति (१५ ) ये तत्र समन्ताद्दशसु दिक्ष्वेकैकस्यान् दिशि गंगानदीवालुकोपमेषु लोकधातुष्वक्षणापायगताः सत्वा नैरयिका वा तैर्यग्योनिका वा यामलौकिका वा ते ममानुभावेन ततश्च्यवित्वा मानुष्यकमात्मभावं प्रतिलप्स्यन्ते । सर्वांश्च तान् सत्वा<ं>च्छीले प्रतिष्ठापयितुकामेन समाधौ प्रज्ञाया<ं> विमुक्तौ विमुक्तिज्ञानदर्शने प्रतिष्ठापयितुकामेन स्रोतआपत्तिफले सकृदागामिफले अनागामिफले अर्हत्वे प्रत्येकबोधौ यावदनुत्तरायां सम्यक्संबोधौ प्रतिष्ठापयितुकामेन बोधिसत्वेन महासत्वेन प्रज्ञापारमितायां शिक्षितव्यम्* ॥ पुनरपरं शारद्वतीपुत्र बोधिसत्वेन महासत्वेन तथागतेर्यापथं शिक्षितुकामेन तथागतचर्याचारित्रविशुद्धिं तथागतस्य ज्ञानपूर्वंगमकायकर्मव<क्>कर्ममनस्कर्मपरिशुद्धिं शिक्षितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्* ॥ पुनरपरं शारद्वतीपुत्र बोधिसत्वेन महासत्वेन प्रज्ञापारमितायां चरतैवं व्युपपरीक्षितव्यम्* किमित्यहं नागावलोकितमवलोकयेयं किमित्यहं महासिंहविजृंभितेन विजृम्भेयं किमित्यहममोघविक्रामितया विक्रामेयं किमित्यहं चतुरंगुलमात्रेण महापृथिवीमस्पृशन् गच्छेयम् । किमित्यहं सहस्रपत्रेषु पाद्मेषु पादतलौ निक्षिपन् गच्छेयं पादतलसन्निशृता<न्> प्राणिनो अविहेठयन्* किमित्यहं सहस्रारचक्रतलाभ्यां महापृथिवी<ं> विचित्रयन् गच्छेयम् ॥ किमित्यहं समन्ता<च्> चक्रप्रमाणमात्रं महापृथिव्या<ः> परिवर्तयेयं चंक्रमे चंक्रम्येय किमित्यहं सर्वां महापृथिवीमनुचंक्रम्यमाणः पृथिवीरजसा <ना>नुलिप्येय । किमिति मे एकं वा योजनं द्वे वा त्रीणि वा चत्वारि वा । पंच वा दश वा विंशतिर्वा तृंशद्वा चत्वारि<ं>शद्वा पंचाशद्वा योजनशतं वा । यावद्योजनसहस्रं वा । योजनशतसहस्रं वा । अप्रमेयाणि वा असंख्येयानि वा अचिन्त्यानि वा । अतुल्यानि (१५ ) वा । अनंतानि वा अपर्यन्तानि वा । अमाप्यानि वा बुद्धक्षेत्राण्यनुविचरतोऽनुचंक्रम्यमाणस्य न कायक्लमे न चित्तमिति प्रज्ञापारमितायां शिक्षितव्यम्* ॥ किमित्यहमधस्तात्क्रमतलयो<ः> सहस्राराभ्या<ं> चक्रभ्यां रश्मिकोटीनियुतशतसहस्राणि प्रमुंचन्* सर्वाक्षणापायदुःखानि प्रशमय्य सर्वसत्वान् सुखितान् कुर्यामिति बोधिसत्वेन महासत्वेन प्रज्ञापारमितायां शिक्षितव्यम्* ॥ पुनरपरं शारद्वतीपुत्र बोधिसत्वेन महासत्वेन प्रज्ञापारमितायां चरतैवं व्युपपरीक्षितव्यम्* किमित्यहं चतुर्महाराजकायिकै<र्> देवैर्यावदकनिष्ठैरनेकैर्देवकोटीनियुतशतसहस्रैः परिवृतः पुरस्कृतो बोधिमण्डमुपसंक्रमेयमिति प्रज्ञापारमितायां शिक्षितव्यम्* ॥ पुनरपरं शारद्वतीपुत्र बोधिसत्वेन महासत्वेन प्रज्ञापारमितायां चरतैवं व्युपपरीक्षितव्यम्* । किमिति मे बोधिवृक्षमूले निषीदतश्चातुर्महाराजकायिका देवा यावदघनिष्ठा देवा दुष्यसंस्तरं कुर्युरिति प्रज्ञापारमितायां शिक्षितव्यम्* ॥ पुनरपरं शारद्वतीपुत्र बोधिसत्वेन महासत्वेन प्रज्ञापारमितायां चरतैवं व्युपपरीक्षितव्यम्* किमिति मेऽनुत्तरां सम्यक्संबोधिमभिसंबुद्धस्य गच्छतो निषण्णस्य शयानस्य स पृथिवीप्रदेशो वज्रमयः संतिष्ठेत । तेन प्रज्ञापारमितायां शिक्षितव्यम्* ॥ पुनरपरं शारद्वतीपुत्र बोधिसत्वेन महासत्वेन प्रज्ञापारमितायां चरतैवमुपपरीक्षितव्यम्* किमित्यहं यत्रैव दिवसेऽभिनिष्क्रमेयं तत्रैव दिवसेऽनुत्तरां सम्यक्संबोधिमभिसंबुध्येयं तत्रैव दिवसे धर्मचक्रं प्रवर्तयेयं प्रवर्तयतश्चाप्रमेयासंख्येयानां सत्वानां विरजो विगतमलं धर्मेषु धर्मचक्ष्<उ>र्विशुध्येत्* अप्रमेयासंख्येयानांमनुपादायास्रवेभ्यश्चित्तानि विमुच्येरन्* अप्रमेयासंख्येया<ः> सत्वाऽवैवर्तिका (१६ ) भवेयुर<नु>त्तर्<आयां> सम्यक्स<ं>ब्<ओ>धौ तेन प्रज्ञापारमितायां शिक्षितव्यम्* ॥ पुनरपरं शारद्वतीपुत्र बोधिसत्व्<ए>न महासत्वेन प्रज्ञापारमितायां चरतैवं चित्तमुत्पादयितव्यम्* किमित्य्मेऽनुत्तरां सम्यक्संबोधिमभिसंबुद्धस्याप्रमेयासंख्येयः श्रावकसंघो भवेत्* एकधर्मदेशनयाप्रमेयासंख्येया एकासनिका अर्हन्तो भवेयु<र्> बोधिसत्वा महासत्वा सर्वे अवैवर्तिका भवेयुरनुत्तरायां सम्यक्संबोधौ । अप्रमेयासंख्येयापरिमाणो बोधिसत्वसंघो भवेत्* अमितं चायुष्प्रमाणं भवेत्* अमिता प्रभासंपद्भवेदिति प्रज्ञापामितायां शिक्षितव्यम्* किमिति मेऽनुत्तरां सम्यक्संबोधिमभिसंबुद्धस्य तत्र बुद्धक्षेत्रे रागद्वेषमोहशब्दोऽपि न भवेदिति प्रज्ञापारमितायां शिक्षितव्यम्* ॥ सर्वसत्वा एवंरूपया प्रज्ञया समन्वागता भवेयु<ः> साधु दानं साधु दमः साधु ब्रह्मचर्यं साध्वविहिंसा सर्वप्राणिभूतेषु । किं मे परिनिर्वृतस्य सद्धर्मान्तर्धानशब्दोऽपि न भवेत्तेन बोधिसत्वेन महासत्वेन प्रज्ञापारमितायां शिक्षितव्यम्* ॥ किमिति मे स<ह> श्रवणमात्रेण नामधेयस्य गंगानदीवालुकोपमेषु लोकधातुषु सत्वा नियता भवेयुरनुत्तरायां सम्यक्संबोधौ । तेन शारद्वतीपुत्र बोधिसत्वेन महासत्वेन प्रज्ञापारमितायां शिक्षितव्यम्* ॥ यस्मिंच्छारद्वतीपुत्र समये बोधिसत्वो महासत्वः प्रज्ञापारमितायां चरन्निमा<न्> गुणानुत्पादयति । तस्मिन् समये आत्तमनस्का भवंति चत्वारो महाराजा वयमत्र चत्वारि पात्राणि प्रतिष्ठापयिष्यामो यानि पौर्वकैर्महाराजैः पौर्वकेषु तथागतेषु प्रतिष्ठापितानि । आत्तमनस्का भवन्ति त्रायस्त्रिंशा देवा यामास्त्<उ>षिता निर्माणरतयः आत्तमनस्का भवन्ति परनिर्मितवशवर्तिनो देवा वयमस्योपस्थानपरिचर्यां (१६ ) करिष्याम एवमासुराः कायाः परिहास्यंते दिव्याः काया अभिवर्धिष्यन्ते । ॥ आत्तमनस्का भवन्ति ब्रह्मकायिका देवा आभास्वरा शुभकृत्स्ना बृहत्फला अवृहा अतपाः सुदृशाः सुदर्शना आत्तमनस्का भवन्ति अघनिष्ठा देवा वयमेनमध्येषिष्यामहे धर्मचक्रप्रवर्तनाय । यस्मिन् समये शारद्वतीपुत्र बोधिसत्वो महासत्वः प्रज्ञापारमितायां चरन् विवर्धते षड्भिः पारमिताभिरात्तमनस्कास्तस्मिन्* समये भवन्ति कुलपुत्रा<ः> कुलदुहितरश्च वयमस्य महासत्वस्य मातापितरौ भविष्यामो ॥ भ्रातृभगिनीभार्यापुत्रदुहितृमित्रामात्यज्ञातिसहायसांमोदा भविष्याम । आत्तमनस्का भवन्ति चत्वारो महाराजा यावदघ<नि>ष्ठ्<आ दे>वा बोधिसत्वस्यामैथुनसंयोगप्रस्थानतायै स पुनर्ब्रह्मचारी भवति सत्वानां बोधिनियोजनतायै न संयोजनीयैर्धर्मै<ः> संयुज्यते स एवं प्रणिदधाति । प्रथमचित्तोत्पाद<ं> मयोपादाय ब्रह्मचारिणा भवितव्यं नाब्रह्मचारिणा ॥ तत्कस्य हेतोः कामां खलु पुनः प्रतिषेवमाणस्य ब्रह्मलोकोपपत्तये-र्-अन्तरायो भवति । कः पुनर्वादोऽनुत्तरायाः सम्यक्संबोधेरिति । ॥ तस्मात्तर्हि बोधिसत्वेन महासत्वेन ब्रह्मचारिणैवाभिनिष्क्रम्यानुत्तरा सम्यक्संबोधिरभिसंबोद्धव्या नाब्रह्मचारिणा : ॥ एवमुक्ते आयुष्मांच्छारद्वतीपुत्रो भगवन्तमेतदवोचत्* किं पुनर्बोधिसत्वस्य महासत्वस्यावश्यं भार्यपुत्रदुहितृभिर्भवितव्यम्* भगवानाह । केषांचिच्छारद्वतीपुत्र बोधिसत्वानां महासत्वानामवश्यं मातापितृभिर्भवितव्यम्* न भार्यापुत्रदुहितृभिः केषांचिदवश्यं मातापितृभार्यापुत्रदुहित्रिभिर्भवितव्<य>म्* केषांचिच्छारद्वतीपुत्र बोधिसत्वानां महासत्वानां प्रथमचित्तोत्पादमुपादाय ब्रह्मचर्यंसमादानं भव<ति> (१७ )< ते नि>त्य<ं> कु<मा>रभूत्<आ> एव यावदनुत्तरा<ं> सम्यक्संबोधिमभिसंबुध्यन्ते केचित्पुनः बोधिसत्वा महासत्वा उपायकौशल्<य्>एन सत्वपरिपाकाय पंच कामगुणान् परिभुंज्यानुत्तरां सम्यक्संबोधिमभिसंबुध्यन्ते । केचित्पुन<ः> शारद्वतीपुत्र बोधिसत्वा महासत्वा गम्भीरा प्रज्ञापारमिताप्रतिलब्धा अपगतकामक्लेशास्ते सत्वपरिपाकाय कामगुणपरिभोगं चोत्पादयन्ति न च परिभुंजन्ते । ॥ तद्यथापि नाम शारद्वतीपुत्र दक्षो मायाकारो मायाकारान्तेवासी वा सुशिक्षितो मायाविद्यासम्योगज्ञाने स पंच कामगुणानभिनिर्माय तैः पंचभिः कामगुणै रममाणं क्रीडन्तं परिचारयंतमात्मानमुपदर्शयेत्* तत्किं मन्यसे शारद्वतीपुत्रापि नु तेन मायाकारेण वा मायाकारान्तेवासिना वा पंच कामामगुणाः परिभुक्ता भवेयु<र्> आह । नो हीदं भगवन् भगवानाह । एवमेव शारद्वतीपुत्र बोधिसत्वा महासत्वा महायानमायासुशिक्षिता मायोपमधर्मताविहारप्रतिलब्धाः सर्वक्लेशविगता विनेयसत्वपरिपाकाय महाकरुणावशेन कामगुणभोगं चोपदर्शयन्ति न च कामगुणान् परिभुंज्यन्ते । न च तैः सार्धं संवसन्ति न लिप्यंते अनेन पर्यायेण शारद्वतीपुत्र बोधिसत्वा महासत्वा<ः> कामानामवर्णं भाषन्ते । आदीप्ताः कामा जुगुप्सिताः कामा वधकाः कामाः प्रत्यर्थिकाः कामा<ः> प्रत्यमित्राः कामाः एवं हि शारद्वतीपुत्र बोधिसत्वा महासत्वा<ः> सत्वानां पंचभ्यः कामगुणेभ्यो विवेचनार्थं विच्छन्दनार्थं पंच कामगुणानुपदर्शयंति । न च तैर्माद्यन्ति न प्रमाद्यन्ति । न कामहेतोर्न कामनिदानं (१७ ) पापं कर्माध्यवस्यन्ति । ॥ एवमुक्ते आयुष्मांच्छारद्वतिपुत्रो भगवन्तमेतदवोचत्* कथं पुनर्भगवन् बोधिसत्वेन महासत्वेन प्रज्ञापारमितायां चरितव्यम्* भगवानाह । इह शारद्वतीपुत्र बोधिसत्वो महासत्वः प्रज्ञापारमितायां चरन् बोधिसत्व इति न समनुपश्यति । बोधिसत्वनामापि न समनुपश्यति । बोधिसत्वचर्या<म>पृष्ठै न समनुपश्यति । प्रज्ञापारमितेति न समनुपश्यति । प्रज्ञापारमितानामापि न समनुपश्यति । चरतीति न समनुपश्यति । न चरतीति न समनुपश्यति । रूपमपि न समनुपश्यति । वेदनां संज्ञां संस्कारान् विज्ञानमपि न समनुपश्यति । तत्कस्य हेतोः तथा हि स बोधिसत्वो नामस्वभावेन शुन्यः न शुन्यतया रूपं शुन्यं न वेदना संज्ञा संस्कारा न शुन्यतया विज्ञानं शुन्यम्* नान्यत्र रूपाच्छुन्यता नान्यत्र वेदनायाः संज्ञायाः संस्कारेभ्यो नान्यत्र विज्ञानाच्छुन्यता । शुन्यतैव रूपं शुन्यतैव वेदना संज्ञा संस्कारा<ः> शुन्यतैव विज्ञानं तत्कस्य हेतोः तथा हि नाममात्रमिदं यदुत बोधिः नाममात्रमिदं यदुत बोधिसत्वः नाममात्रमिदं यदुत च्छुन्यता । नाममात्रमिदं यदुत रूपं वेदना संज्ञा संस्कारा विज्ञानम् । तथा हि मायोपमं रूपं वेदना संज्ञा संस्कारा मायोपमं विज्ञानं माया च नाममात्रं न देशस्था न प्रदेशस्था : असदभूतं वितथसमं मायादर्शनं स्वभावरहितमस्वभावश्चानुत्पादः अनिरोदः न हानिर्न वृद्धिः न संक्लेशो न व्यवदानमेवं चरन् बोधिसत्वो महासत्वः उत्पादं न समनुपश्यति । निरोधं न समनुपश्यति । स्थानं न समनुपश्यति । हानिं न समनुपश्यति । (१८ ) वृद्धिं न समनुपश्यति । संक्लेशन्न समनुपश्यति । व्यवदानन्न समनुपश्यति । रूपन्न समनुपश्यति । वेदनां संज्ञां संस्कारान् विज्ञानं न समनुपश्यति । बोधिरिति बोधिसत्व इति यदुच्यते तदपि न समनुपश्यति । तत्कस्य हेतोः कृत्रिमन्नाम प्रतिप्रतिधर्मन् ते कल्पिता आगन्तुकेन नामधेयेनाभूतपरिकल्पितेन व्यवहृयन्ते ॥ व्यवहाराच्चाभिनिविश्यन्ते । तद्बोधिसत्वो महासत्वः प्रज्ञापारमितायां चरन् सर्वधर्मान्न समनुपश्यत्यसमनुपश्यन्न मन्यते । नाभिनिविशते । ॥ पुनरपरं शारद्वतीपुत्र बोधिसत्वो महासत्वः प्रज्ञापारमितायां चरन्नेवं व्युपपरीक्षते । नाममात्रमिदं यदुत बोधिसत्व इति नाममात्रमिदं यदुत बोधिरिति । नाममात्रमिदं यदुत बुद्ध इति । नाममात्रमिदं यदुत प्रज्ञापारमितेति । नाममात्रमिदं यदुत प्रज्ञापारमितायां चरतीति । नाममात्रमिदं यदुत रूपमिति । वेदना संज्ञा संस्कारा विज्ञानमिति । तद्यथापि नाम शारद्वतीपुत्र आत्मात्मेति व्यवहृयते स च परिगवेष्यमाणो नोपलभ्यते । एवं सत्वो जीवः पोष<ः> पुद्गलो मनुजो मानवः कारकः कारापको वेदको वेदयितृकः उत्थापकः समुत्थापको जानकः पश्यकः स्पर्शको विजानकः सर्व एते यथाभूतं परिगवेष्यमाणा<ः> सर्वेण सर्वन्नोपलभ्यन्ते । अनुपलंभशुन्यतामुपादाय । यावदेव ना<म>संकेतेन व्यवह्रियन्ते । ॥ एवमेव बोधिसत्वो महासत्वः प्रज्ञापारमितायां चरन् बोधिसत्वन्न समनुपश्यति । बोधिन्न समनुपश्यति । बुद्धन्न समनुपश्यति । प्रज्ञापारमितां न समनुपश्यति । प्रज्ञापारमितायां चरतीति न समनुपश्यति । रूपन्न समनुपश्यति । वेदनां संज्ञां संस्कारान् विज्ञानन्न समनुपश्यति । येन नाम्ना व्यवहृयेत । तदपि नामं न समनुपश्यत्येवं चरन् बोधिसत्वो महासत्वः प्रज्ञापारमितायां तथागतप्रज्ञां स्थापयित्वा सर्वास्तदन्या<ः> प्रज्ञा यावत्सर्वश्रावकप्रत्येकबुद्धानां प्रज्ञा अभिभवत्यनुपलम्भशुन्यताम् (१८ ) उपादाय । तत्कस्य हेतोः तथा हि स तदपि न समनुपश्यति । येनाभिनिविशेत एवं चरंच्छारद्वतीपुत्रायं जंबुद्वीपः परिपूर्णो भवेच्छारद्वतीपुत्रमौद्गल्यायनसदृशैर्भिक्षुभिः तद्यथापि नाम नडवनं वा वेणुवनं वा इक्षुवनं वा शरवणं वा शालिवनं वा तिलवनं वा तेषां या प्रज्ञा सा बोधिसत्वस्य महासत्वस्य प्रज्ञापारमितायां चरतः प्रज्ञायाः शततमीमपि कलान्नोपैति । सहस्रतमीमपि । शतसहस्रतमीमपि । कोटीशतसहस्रतमीमपि । संख्यामपि कलामपि गणनामप्युपमामप्युपनिशामपि न क्षमते । तत्कस्य हेतोः तथा हि शारद्वतीपुत्र बोधिसत्वस्य महासत्वस्य या प्रज्ञा सा सर्वसत्वानां परिनिर्वापणार्थाय प्रत्युपस्थिता ॥ पुनरपरं शारद्वतीपुत्र बोधिसत्वस्य महासत्वस्य प्रज्ञापारमितायां चरतो या एकदिवसपरिभाविता प्रज्ञा सा सर्वश्रावकप्रत्येकबुद्धानां प्रज्ञा अभिभूय तिष्ठति ॥ तिष्ठतु शारद्वतीपुत्र जम्बुद्वीपः परिपूर्णः शारद्वतीपुत्रमौद्गल्यायनसदृशैर्भिक्षुभि<ः> सचेच्छारद्वतीपुत्र त्रिसाहस्रमहासाहस्रो लोकधातुः परिपूर्णो भवेद्युष्मादृशैर्भिक्षुभिः तेषां या प्रज्ञा सा बोधिसत्वस्य महासत्वस्य प्रज्ञापारमितायां चरतः शततमीमपि कलान्नोपैति यावदुपनिशामपि न क्षमते ॥ तिष्ठतु शारद्वतीपुत्र त्रिसाहस्रमहासाहस्रो लोकधातु<ः> सचेच्छारद्वतीपुत्र पूर्वस्यान् दिशि गंगानदीवालुकोपमा लोकधातवः परिपूर्णा भवेयुः शारद्वतीपुत्रमौद्गल्यायनसदृशैर्भिक्षुभिः एवन् दक्षिणस्यां दिशि पश्चिमायामुत्तरस्यामधस्तादुपरिष्टाद्यावत्समन्ताद्दशसु दिक्ष्वेकैकस्यान् दिशि गंगानदीवालुकोपमा लोकधातवः परिपूर्णा भवेयुः तेषां या प्रज्ञा सा बोधिसत्वस्य महासत्वस्य प्रज्ञापारमितायां चरतः एकदिवसपरिभावितायाः (१९ ) प्रज्ञायाः शततमीमपि कल्<आन्> नोपैति यावदुपनिशामपि न क्षमते । शारद्वतीपुत्र आह । येयं भगवंच्छ्रावकाणां प्रज्ञा स्रोतआपन्नस्य सकृदागामि<न>ः अनागामिनः अर्हतः या च प्रत्येकबुद्धस्य बोधिसत्वस्य तथागतस्य चार्हतः सम्यक्संबुद्धस्य प्रज्ञा सर्वास्ता<ः> प्रज्ञा अभेदः शुन्यता विविक्ताः अनुत्पादप्रकृतिकाः स्वभावशुन्या न च भगवन्नभेदस्य विविक्तस्यानुत्पादस्य स्वभावशुन्यस्य विशेषो वा नानाकरणं वोप<ल>भ्यते । तत्कथं भगवन् येयं बोधिसत्वस्य महासत्वस्यैकदिवसपरिभाविता प्रज्ञा सा सर्वश्रावकप्रत्येकबुद्धानां प्रज्ञामभिभवति । ॥ भगवानाह । तत्किं मन्यसे शारद्वतीपुत्र येन कार्येण बोधिसत्वस्य महासत्वस्य प्रज्ञापारमितायां चरतः एकदिवसपरिभाविता प्रज्ञा प्रत्यु<प>स्थिता मया मार्गाकारज्ञताया<ं> चरता सर्वसत्वानामर्थं कुर्वता सर्वाकारैः सर्वधर्मानभिसंबुध्य सर्वसत्वा<ः> परिनिर्वापयितव्या अपि नु तेन कृत्येन सर्वश्रावकप्रत्येकबुद्धानां प्रत्युपस्थिता । आह । नो हीदं भगवन्* भगवानाह । तत्किं मन्यसे शारद्वतीपुत्रापि नु सर्वश्रावकप्रत्येकबुद्धानामेवं भवत्यस्माभिरनुत्तरां सम्यक्संबोधिमभिसंबुध्य सर्वसत्वा अनुपधिशेषे निर्वाणधातौ परिनिर्वापयितव्या आह । नो हीदं भगवन् भगवानाह । तदनेनापि ते शारद्वतीपुत्र पर्याय्<ए>णैवं वेदितव्यम्* येयं सर्वश्रावकप्रत्येकबुद्धानां प्रज्ञा या च बोधिसत्वस्य महासत्वस्य प्रज्ञा इमां प्रज्ञामुपनिधायैषा सर्वश्रावकप्रत्येकबुद्धानां प्रज्ञा शततमीमपि कलान्नोपैति । यावदु<प>निशामपि न क्षमते । तत्किं मन्यसे शारद्वतीपुत्रापि नु सर्वश्रावकप्रत्येकबुद्धानामेवं भवति वयं षट्सु पारमितासु चरित्वा सत्वान् परिपाच्य बुद्धक्षेत्रं परिशोध्य दश तथागतबलानि परिपूर्य चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदोऽष्टादशावेणिका<न्> बुद्धधर्मान् परिपूर्यानुत्तरां सम्यक्संबोधिम् (१९ ) अभिसंबुद्ध्यापरिमाणानप्रमेयानसंख्येयान् सत्वान् परिनिर्वापयिष्याम इति आह । नो हीदं भगवन्* भगवानाह । बोधिसत्वस्य पुनः शारद्वतीपुत्रैवं भवति । मया षट्सु पारमितासु चरित्वा सत्वान् परिपाच्य बुद्धक्षेत्रं परिशोध्य दश तथागतबलानि परिपूर्य चत्वारि वैशारद्यानि चतस्र<ः> प्रतिसंविदोऽष्टादशावेणिकान् बुद्धधर्मान् परिपूर्यानुत्तरां सम्यक्संबोधिमभिसंबुध्याप्रमेयासंख्येयापरिमाणाः सत्वाः परिनिर्वापयितव्या<ः> ॥ तद्यथापि नाम शारद्वतीपुत्र खद्योतकस्य प्राणिकजातस्य नैवं भवत्यहमाभया जम्बुद्वीपमवभासयेयं ममाभया जम्बुद्वीप<ः> स्फुटो भवेत्* एवमेव शारद्वतीपुत्र सर्वश्रावकप्रत्येकबुद्धानां नैवं भवति वयं षट्सु पारमितासु चरित्वा यावदष्टादशावेणिकां बुद्धधर्मान् परिपूर्यानुत्तरां सम्यक्संबोधिमभिसंबुद्ध्याप्रमेयासंख्येयापरिमाणान् सत्वान् परिनिर्वापयिष्यामः ॥ तद्यथापि नाम शारद्वतीपुत्र सूर्यमण्डलमुदागच्छत्सर्वजंबूद्वीपमवभासेन स्फरति । सर्वजम्बुद्वीपमवभासेन स्फुटीकरोति एवमेव शारद्वतीपुत्र बोधिसत्वो महासत्व<ः> षट्सु पारमितासु चरन् सत्वान् परिपाच्य बुद्धक्षेत्रं परिशोध्य दश तथागतबलानि परिपूर्य चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदोऽष्टादशावेणिका<न्> बुद्धधर्मान् परिपूर्यानुत्तरां सम्यक्संबोधिमभिसंबुध्याप्रमेयासंख्येयापरिमाणान्* सत्वा<न्> परिनिर्वापयति । एवमुक्ते आयुष्मांच्छारद्वतीपुत्रो भगवन्तमेतदवोचत्* कथं भगवं बोधिसत्वो महासत्वः श्रावकप्रत्येकबुद्धभूमी अतिक्रम्यावैवर्ति<कभू>मीमनुप्राप्नोति । बोधिसत्वमार्गं च परिशोधयति । ॥ एवमुक्ते भगवानायुष्मन्तं शारद्वतीपुत्रमेतदवोचत्* इह शारद्वतीपुत्र बोधिसत्वो <महासत्वः> प्रथमचित्तोत्पादमुपादाय षट्सु पारमितासु चरंच्छुन्यतानिमित्ताप्रणिहितेषु (२० ) धर्मेषु स्थित्वा श्रावकप्रत्य्<ए>क<ब्>उ<द्>ध<भ्>ऊमी अतिक्रम्य बुद्धभूमिमनुप्राप्नोति । ॥ शारद्वतीपुत्र आह । कतमस्या<ं> भगवन् भूमौ स्थित्वा बोधिसत्वो महासत्व<ः> सर्वश्रावकप्रत्येकबुद्धानां दक्षिणीयो भवति । भगवानाह । प्रथमचित्तोत्पादं शारद्वतीपुत्रोपादाय बोधिसत्वो महासत्व<ः> षट्सु पारमितासु चरन् यावद्बोधिमण्डनिषण्णः अत्रान्तराद्बोधिसत्वो महासत्वः सर्वश्रावकप्रत्येकबुद्धानामग्रो वक्तव्यः तत्कस्य हेतोः तथा हि शारद्वतीपुत्र बोधिसत्वं महासत्वमागम्य सर्वेषां कुशलानां धर्माणां लोके प्रादुर्भावो भवति । यदुत दशानां कुशलानां कर्मपथानां पंचानां शिक्षापदानामष्टांगसमन्वागतस्य पोषधस्य चतुर्णां ध्यानानां चतुर्णामप्रमाणानां चतसृणामारूप्यसमापत्तीनां पंचानामभिज्ञानां षण्णामनुस्मृतीनां चतुर्णां स्मृत्युपस्था<ना>नां चतुर्णां सम्यक्प्रहाणानां चतुर्णामृद्धिपादानां पंचानामिन्द्रियाणां पंचानां बलानां सप्तानां बोध्यंगानामार्याष्टांगस्य मार्गस्य लोके प्रादुर्भावो भवति । दशानां तथागतबलानां चतुर्णां वैशारद्यानां चतसृणां प्रतिसंविदामष्टादशानामावेणिकानां बुद्धधर्माणां लोके प्रादुर्भावो भवति । एषां कुशलानां धर्माणां लोके प्रादुर्भावो भवति । एषां कुशलानां धर्माणां लोके प्रादुर्भावात्* क्षत्रियमहासालकुलानि प्रज्ञायन्ते । ब्राह्मणमहासालकुलानि श्रेष्ठिगृह<प>तिमहासालकुलानि प्रज्ञायन्ते । चातुर्महा<रा>जकायिका देवा<स्> त्रायस्त्रिंशा यामास्तुषिता निर्माणरतयः परनिर्मितवशवर्तिनः ब्रह्मकायिका देवा यावदघनिष्ठा देवा<ः> प्रज्ञायन्ते । ॥ यावन्नैवसंज्ञानासंज्ञायतना देवाः प्रज्ञायन्ते । स्रोतआपन्ना<ः> सकृ<दा>गामिनः अनागामिनोऽर्हन्तः प्रत्येकबुद्धा बोधिसत्वास्तथागताऽर्हन्तः सम्यक्संबुद्धा लोके प्रज्ञायन्ते । ॥ आह । तत्किं पुनर्भगवन् बोधिसत्वो दक्षिणां शोधयति भगवानाह । (२० ) पर्यायेण शारद्वतीपुत्र बोधिसत्वो महासत्वो दक्षिणां शोधयति । तत्कस्य हेतोः अत्यन्तपरिशुद्धा शारद्वतीपुत्र बोधिसत्वस्य महासत्वस्य दक्षिणा । तथा हि दायकः शारद्वतीपुत्र बोधिसत्वो महासत्वः कस्य दायकः अनेकेषां कुशलानां धर्माणां यदुत दशानां कुशलानां कर्मपथानां यावदष्टादशावेणिकानां बुद्धधर्माणा<ं> । आह । कथं युज्यमानो भगवन् बोधिसत्वो महासत्वः प्रज्ञापारमितायां युक्त इति वेदितव्यः भगवानाह । इह शारद्वतीपुत्र बोधिसत्वो महासत्वो रूपशुन्यतायां युक्तो युक्त इति वक्तव्यः वेदनाशुन्यतायां संज्ञाशुन्यतायां संस्कारशुन्यतायां विज्ञानशुन्यतायां युक्तो युक्त इति वक्तव्यः ॥ पुनरपरं चक्षुःशुन्यतायां युक्तो युक्त इति वक्तव्यः एवं श्रोत्रघ्राणजिह्वाकायमनःशुन्यतायां युक्तो युक्त इति वक्तव्यः एवं रूपशब्दगन्धरसस्पर्शधर्मशुन्यतायां युक्तो युक्त इति वक्तव्यः चक्षुर्धातुशुन्यतायां रूपधातुशुन्यतायां चक्षुर्विज्ञानधातुशुन्यतायां युक्तो युक्त इति वक्तव्यः एवं श्रोत्रधातुशुन्यतायां शब्दधातुशुन्यतायां श्रोत्रविज्ञानधातुशुन्यतायां घ्राणधातुशुन्यतायां गन्धधातुशुन्यतायां घ्राणविज्ञानधातुशुन्यतायां जिह्वाधातुशुन्यतायां रसधातुशुन्यतायां जिह्वाविज्ञानधातुशुन्यतायां कायधातुशुन्यतायां स्पर्शधातुशुन्यतायां कायविज्ञानधातुशुन्यतायां मनोधातुशुन्यतायां धर्मधातुशुन्यतायां मनोविज्ञानधातुशुन्यतायां युक्तो युक्त इति वक्तव्यः दुःखशुन्यतायां समुदयशुन्यतायां निरोधशुन्यतायां मार्गशुन्यतायां युक्तो युक्त इति वक्तव्यः स्कन्धशुन्यतायां धातुशुन्यतायामायतनशुन्यतायां युक्तो युक्त इति वक्तव्यः अविद्याशुन्यतायां युक्तो युक्त इति वक्तव्यः संस्कारशुन्यतायां विज्ञानशुन्यतायां नामरूपशुन्यतायां (२१ ) षडायतनशुन्यतायां स्पर्शशुन्यताताया<ं> व्<ए>दनाशुन्यतायां तृष्णाशुन्यतायामुपादानशुन्यतायां भवशुन्यतायां जातिशुन्यतायां जरामरणशुन्यतायां युक्तो युक्त इति वक्तव्यः सर्वधर्मशुन्यतायाम् <युक्तो युक्त इति वक्तव्यः । >ये केचित्संज्ञागता<ः> संस्कृतासंस्कृता धर्मा<ः> सर्वेषां धर्माणां शुन्यतायां युक्तो युक्त इति वक्तव्यः ॥ पुनरपरं शारद्वतीपुत्र बोधिसत्वो महासत्वः प्रज्ञापारमितायां चरन् प्रकृतिशुन्यतायां युक्तो युक्त इति वक्तव्य एवं खलु शारद्वतीपुत्र बोधिसत्वो महासत्व<ः> प्रज्ञापारमितायां चरन् युक्त इति वक्तव्यः ॥ स आभिर्दशभिः शुन्यताभिः प्रज्ञापारमितायां चरन्न तावद्युक्त इति वा अयुक्त इति वा वक्तव्यः तत्कस्य हेतोः तथा हि स न रूपं युक्तमिति वा अयुक्तमिति वा समनुपश्यति । न वेदनां न संज्ञान्न संस्कारान्न विज्ञानं युक्तमिति वा अयुक्तमिति वा समनुपश्यति । न रूपमुत्पादधर्मि वा निरोधधर्मि वा समनुपश्यति । न वेदनां न संज्ञान्न संस्कारान्न विज्ञा<न>मुत्पादधर्मि वा निरोधधर्मि वा समनुपश्यति । न रूपं संक्लेशधर्मि वा व्यवदानधर्मि वा समनुपश्यति । न वेदनां न संज्ञां न संस्कारान्न विज्ञानं संक्लेशधर्मि वा व्यवदानधर्मि वा समनुपश्यति । न रूपं वेदनया सार्धं समवसरतीति समनुपश्यति । न वेदना स<ं>ज्ञया न संज्ञा संस्कारै<र्> न संस्कारा विज्ञानेन सार्धं समवसरन्तीति समनुपश्यति । न विज्ञानं संस्कारैः सार्धं समवसरतीति समनुपश्यति । तत्कस्य हेतोः तथा हि न स कश्चिद्धर्मः केनचि<द्> धर्मेण सार्धं समवसरति न विसरति । ॥ न युज्यते न वियुज्यते प्रकृतिशुन्यतामुपादाय । या शारद्वतीपुत्र रूपशुन्यता न सा रूपं या वेदनाशुन्यता न सा वेदना । या संज्ञाशुन्यता न सा संज्ञा । या संस्कारशुन्यता न ते संस्कारा । या विज्ञानशुन्यता न सा विज्ञानम् । तथा हि शारद्वतीपुत्र या रूपशुन्यता न सा रूपयति । या वेदनाशुन्यता न सा (२१ ) वेदयति । या संज्ञाशुन्यता न सा संजानाति । या संस्कारशुन्यता न साभिसंस्करोति । या विज्ञानशुन्यता न सा विजानाति । तत्कस्य हेतोः न हि शारद्वतीपुत्रान्यद्रूपमन्या शुन्यता नान्या शुन्यतान्यद्रूपम्* रूपमेव शुन्यता शुन्यतैव रूपम्* एवं नान्या वेदनान्या शुन्यता । नान्या संज्ञा नान्या शुन्यता । नान्ये संस्कारा अन्या शुन्यता । नान्य<द्> विज्ञानमन्या शुन्यता । नान्या शुन्यतान्यद्विज्ञानम् । विज्ञानमेव शुन्यता शुन्यतैव विज्ञानम् । या शारद्वतीपुत्र शुन्यता न सा उत्पद्यते न निरुध्यते । न संक्लिश्यते न व्यवदायते । न हीयते न वर्धते । नातीता नानागता न प्रत्युत्पन्ना या नोत्पद्यते न निरुध्यते । न संक्लिश्यते न व्यवदायते । न हीयते न वर्धते । नातीता नानागता न प्रत्युत्पन्ना : न तत्र रूपं न वेदना न संज्ञा न संस्कारा न विज्ञानं न चक्षुर्न श्रोत्रं न घ्राणं न जिह्वा कायो न मनः न रूपं न शब्दो न गन्धो न रस्<ओ> न स्पर्शो न धर्माः न तत्र स्कन्धा न धातवो नायतनानि न तत्र चक्षुर्धातु<र्> न रूपधातुर्न चक्षुर्विज्ञानधातु<र्> न श्रोत्रधातु<र्> न शब्दधातुर्न श्रोत्रविज्ञानधातुः न घ्राणधातुर्न गन्धधातुर्न घ्राणविज्ञानधातु<र्> न जिह्वाधातुर्न रसधातुर्न जिह्वाविज्ञानधातुः न कायधातुर्न स्प्रष्टव्यधातुर्न कायविज्ञानधातुर्न मनोधातुर्न धर्मधातुर्न मनोविज्ञान<धा>तुर्न तत्राविद्या नाविद्यानिरोधः न संस्कारा न्न संस्कारनिरोधः न विज्ञानं न विज्ञाननिरोधः न नामरूपं न नामरूपनिरोधः न षडायतनं न षडायतननिरोधः न स्पर्शो न स्पर्शनिरोधः न वेदना न वेदनानिरोधः न तृष्णा न तृष्णानिरोधः नोपादानं नोपादाननिरोधः न भवो न भवनिरोधः न जातिर्न जातिनिरोधः न जरामरणं न जरामरणनिरोधः न दुःखं न समुदयो न निरोधो न मार्गः न प्राप्तिर्नाभिसमयः न स्रोतआपन्नो न स्रोतआपत्तिफलं न सकृदागामी (२२ ) <न सकृदागामि>पृष्ठहलं नानागामी नानागाम्<इ>पृष्ठहल<ं> नार्ह<न्> नार्हत्वम्* न प्रत्येकबोधिर्न प्रत्येकबुद्धः न तत्र मार्गाकारज्ञता न बोधिसत्वः न तत्र बोधिर्न बुद्धः एवं खलु शारद्वतीपुत्र बोधिसत्वो महासत्व<ः> प्रज्ञापारमितायां चरन् युक्त इति वक्तव्यः स एवं प्रज्ञापारमितायां चरन्न दानपारमितायां युक्त इति वा अयुक्त इति वा समनुपश्यति । न शीलपारमितायां न क्षान्तिपारमितायां न वीर्यपारमितायां न ध्यानपारमितायां न प्रज्ञापारमितायां युक्त इति वा अयुक्त इति वा समनुपश्यति । न रूपं युक्तमिति वा अयुक्तमिति वा समनुपश्यति । न वेदनां न संज्ञान्न संस्कारान्न विज्ञानं युक्तमिति वा अयुक्तमिति वा समनुपश्यति । न चक्षुर्युक्तमिति वा अयुक्तमिति वा समनुपश्यति । न श्रोत्रं न घ्राणं न जिह्वां न कायं न मनो युक्तमिति वा अयुक्तमिति वा समनुपश्यति । न रूपं युक्तमिति वा अयुक्तमिति वा समनुपश्यति । न शब्दं न गन्धं न रसं न स्पर्शं न धर्मान्न चक्षुर्धातुं युक्तमिति वा अयुक्तमिति वा समनुपश्यति । न रूपधातुं न चक्षुर्विज्ञानधातुं यावन्न मनोधातुं न धर्मधातुं न मनोविज्ञानधातुं युक्त इति वा अयुक्त इति वा समनुपश्यति । न स्मृत्युपस्थानेषु युक्त इति वा अयुक्त इति वा समनुपश्यति । न सम्यक्प्रहाणेषु न रिद्धिपादेषु नेन्द्रियेषु न बलेषु न बोध्यंगेषु न मार्गे युक्त इति वा अयुक्त इति वा समनुपश्यति । यावन्न दशसु तथागतबलेषु न चतुर्षु वैशारद्येषु न चतसृषु प्रतिसंवित्सु नाष्टादशस्वावेणिकेषु बुद्धधर्मेषु युक्त इति वा अयुक्त इति वा समनुपश्यति । यावन्न सर्वज्ञतायां न सर्वाकारज्ञतायां युक्त इति वा अयुक्त इति वा समनुपश्यति । अनेनापि शारद्वतीपुत्र <पर्यायेण> बोधिसत्वो महासत्वः प्रज्ञापारमितायां युक्तो युक्त इति वक्तव्यः सर्वधर्मायोगावियोगताम् (२२ ) उपादाय । पुनरपरं शारद्वतीपुत्र बोधिसत्वो महासत्वः प्रज्ञापारमितायां चरन्न शुन्यतां शुन्यतया योजयति न वियोजयति । न शुन्यतायोगम्* नानिमित्तमानिमित्तेन योजयति न वियोजयति । नानिमित्तयोगम्* नाप्रणिहितमप्रणिहितेन योजयति न वियोजयति । नाप्रणिहितयोगम् । तत्कस्य हेतोः तथा हि शुन्यता न योगो न वियोगः एवमानिमित्तमप्र<णि>हितं न योगो न वियोगः एवं युज्यमानः शारद्वतीपुत्र बोधिसत्वो महासत्वः प्रज्ञापारमितायां युक्त इति वक्तव्यः पुनरपरं शारद्वतीपुत्र बोधिसत्वो महासत्वः प्रज्ञापारमितायां चरन् धर्माणां स्वलक्षणशुन्यतामवतरति । एवमवतरन्न रूपं योजयति न वियोजयति । न वेदना<ं> न संज्ञा<ं> न संस्कारान्न विज्ञानं योजयति न वियोजयति । न रूपं पूर्वान्तेन योजयति न वियोजयति । तथा हि पूर्वान्तमेव न समनुपश्यति । न रूपमपरान्तेन योजयति न वियोजयति । तथा ह्यपरान्तमेव न समनुपश्यति । न रूपं प्रत्युत्पन्नेन योजयति न वियोजयति । तथा हि प्रत्युत्पन्नमेव न समनुपश्यति । न वेदनान्न संज्ञान्न संस्कारान्न विज्ञानं पूर्वान्तापरान्तप्रत्युत्पन्नैर्योजयति न वियोजयति । तथा हि पूर्वान्तापरान्तप्रत्युत्पन्नान्येव न समनुपश्यति । ॥ पुनरपरं शारद्वतीपुत्र बोधिसत्वो महासत्व<ः> प्रज्ञापारमितायां चरन्न पूर्वान्तमपरान्तेन योजयति न वियोजयति । नापरान्तं पूर्वान्तेन योजयति न वियोजयति । न प्रत्युत्पन्नं पूर्वान्तेनापरान्तेन वा योजयति न वियोजयति । न पूर्वान्तमपरान्तं वा प्रत्युत्पन्नेन योजयति न वियोजयति । अध्<व>समताशुन्यतामुपादाय । ॥ एवं ह्<इ> युक्तः शारद्वतीपुत्र बोधिसत्वो महासत्वः (२३ ) प्रज्ञापारमिताया<ं> युक्त इति वक्तव्यः ॥ पुनरपरं शारद्वतीपुत्र बोधिसत्वो महासत्वः प्रज्ञापारमितायां चरन्नेवं युज्यते यथा युज्यमानो न सर्वज्ञ<ता>मतीतेन योजयति तथा ह्यतीतमेव न समनुपश्यति । असमनुपश्यन् । कथं सर्वज्ञतामतीतेन योजयिष्यति । न सर्वज्ञतामनागतेन योजयिष्यति । तथा ह्यनागतमेव न समनुपश्यत्यसमनुपश्यन् कथं सर्वज्ञतामनागतेन योजयिष्यति । न सर्वज्ञतां प्रत्युत्पन्नेन योजयति । तथा हि प्रत्युत्पन्नमेव न समनुपश्यत्यसमनुपश्यन् कथं सर्वज्ञतां प्रत्युत्पन्नेन योजयिष्यति । एवं चरंच्छारद्वतीपुत्र बोधिसत्वो महासत्व<ः> प्रज्ञापारमितायां युक्त इति वक्तव्यः ॥ पुनरपरंच्छारद्वतीपुत्र बोधिसत्वो महासत्व<ः> प्रज्ञापारमितायां चरन् <न> रूपं सर्वज्ञतया योजयति न वियोजयति तथा हि रूपमेव न समनुपश्यत्यसमनुपश्यन् कथं रूपं सर्वज्ञतया योजयिष्यति । ॥ एवं न वेदनां न संज्ञान्न संस्कारान्न विज्ञानं सर्वज्ञतया योजयति न वियोजयति । तथा हि विज्ञानमेव न समनुपश्यति । यावन्न चक्षुः सर्वज्ञतया योजयति न वियोजयति । तथा हि चक्षुरेव न समनुपश्यति । एवन्न श्रोत्रं न घ्राणं न जिह्वां न कायन्न मनः सर्वज्ञतया योजयति न वियोजयति । तथा हि मन एव न समनुपश्यति । एवं न रूपं सर्वज्ञतया योजयति न वियोजयति । तथा हि रूपमेव न समनुपश्यति । एवं न शब्दगन्धरसस्पर्शधर्मान् सर्वज्ञतया योजयति न वियोजयति । तथा हि धर्मानेव न समनुपश्यति । एवं न स्कन्धान् सर्वज्ञतया योजयति न वियोजयति । (२३ ) तथा हि स्कन्धानेव न समनुपश्यति । न धातून् सर्वज्ञतया योजयति न वियोजयति । तथा हि धातूनेव न समनुपश्यति । नायतनानि सर्वज्ञतया योजयति न वियोजयति । तथा ह्यायतनान्येव न समनुपश्यति । ॥ न चक्षुर्धातुं सर्वज्ञतया योजयति न वियोजयति । तथा हि चक्षुर्धातुमेव न समनुपश्यति । ॥ न रूपधातुं सर्वज्ञतया योजयति न वियोजयति । तथा हि रूपधातुमेव न समनुपश्यति । न चक्षुर्विज्ञानधातुं सर्वज्ञतया योजयति न वियोजयति । तथा हि चक्षुर्विज्ञानधातुमेव न समनुपश्यति । यावन्न मनोधातुं सर्वज्ञतया योजयति न वियोजयति । तथा हि मनोधातुमेव न समनुपश्यति । न धर्मधातुं सर्वज्ञतया योजयति न वियोजयति । तथा हि धर्मधातुमेव न समनुपश्यति । न मनोविज्ञानधातुं सर्वज्ञतया योजयति न वियोजयति । तथा हि मनोविज्ञानधातुमेव न समनुपश्यति । असमनुपश्यन् कथं मनोविज्ञानधातुं सर्वज्ञतया योजयिष्यति । एवं चरंच्छारद्वतिपुत्र बोधिसत्वो महासत्वः प्रज्ञापारमितायां चरन् युक्त इति वक्तव्यः ॥ पुनरपरं शारद्वतीपुत्र बोधिसत्वो महासत्व<ः> प्रज्ञापारमितायां चरन्न दानपारमितां सर्वज्ञतया योजयति न वियोजयति । तथा हि दानपारमितामेव न समनुपश्यत्यसमनुपश्यन्न योजयति न वियोजयति । एवं न शीलपारमितां न क्षान्तिपारमितां न वीर्यपारमितां न ध्यानपारमितां न प्रज्ञापारमितां सर्वज्ञतया योजयति न वियोजयति । तथा हि प्रज्ञापारमितामेव न समनुपश्यत्यसमनुपश्यन्न योजयति न वियोजयति । एवं न स्मृत्युपस्थानानि न सम्यक्प्रहाणर्धिपादेन्<द्र्>इयबलबोध्यंगमार्गान् सर्वज्ञतया योजयति न वियोजयति । एवन्न दश तथागतबलानि न चत्वारि वैशारद्यानि न चतस्रः प्रतिसंविद (२४ ) नाष्टादशावेण्<इ>कान् बुद्धधर्मान् सर्वज्ञतया योजयति न वियोजयति । तथा ह्यावेणिकबुद्धधर्मान्न समनुपश्यत्यसमनुपश्यन्न योजयति न वियोजयति । एवं युज्यमानः शारद्वतीपुत्र बोधिसत्वो महासत्व<ः> प्रज्ञापारमितायां युक्त इति वक्तव्यः ॥ पुनरपरं शारद्वतीपुत्र बोधिसत्वो महासत्वः प्रज्ञापारमितायां चरन्न बुद्धं सर्वज्ञतया योजयति न वियोजयति । न सर्वज्ञतां बुद्धेन योजयति न वियोजयति । तथा हि बुद्धमेव न समनुपश्यति सर्वज्ञतामेव न समनुपश्यत्यसमनुपश्यन्न योजयति न वियोजयति । न बोधिं सर्वज्ञतया योजयति न वियोजयति । न बोद्ध्या सर्वज्ञतां योजयति न वियोजयति । तथा हि बोधिमेव न समनुपश्यति । सर्वज्ञतामेव न समनुपश्यत्यसमनुपश्यन्न योजयति न वियोजयति । एवं हि शारद्वतीपुत्र बोधिसत्वो महासत्व<ः> प्रज्ञापारमितायां चरन् युक्त इति वक्तव्यः ॥ पुनरपरं शारद्वतीपुत्र बोधिसत्वो महासत्वः प्रज्ञापारमितायां चरन्न रूपं भाव इति योजयति न रूपं विभाव इति योजयति । न वेदनान्न संज्ञान्न संस्कारान्न विज्ञानं भाव इति न विज्ञानं विभाव इति योजयति । ॥ न रूपं नित्यमिति योजयति । न रूपमनित्यमिति योजयति एवन्न वेदनां न संज्ञान्न संस्कारान्न विज्ञानं नित्यमिति योजयति । न विज्ञानमनित्यमिति योजयति न रूपं सुखमिति योजयति न रूपं दुःखमिति योजयति । एवन्न वेदनान्न संज्ञान्न संस्कारान्न विज्ञानं सुखमिति योजयति । न विज्ञानं दुःखमिति योजयति । न रूपमात्मेति योजयति । न रूपमनात्मेति योजयति । एवं न वेदनान्न संज्ञान्न संस्कारान्न विज्ञानमात्मेति योजयति । न विज्ञानमनात्मेति योजयति । न रूपं शान्तमिति योजयति । न रूपमशान्तमिति योजयति । एवन्न वेदनान्न संज्ञान्न संस्कारान्न विज्ञानं शान्तमिति (२४ ) योजयति । न विज्ञानमशान्तमिति योजयति । न रूपं शुन्यमिति वा अशुन्यमिति युज्यते । न वेदनान्न संज्ञान्न संस्कारान्न विज्ञानं शुन्यमिति वा अशुन्यमिति वा युज्यते । न रूपं निमित्तमिति वा अनिमित्तमिति वा युज्यते । न वेदनान्न संज्ञान्न संस्कारान्न विज्ञानं निमित्तमिति वा अनिमित्तमिति वा युज्यते । न रूपं प्रणिहितमिति वा अप्रणिहितमिति वा युज्यते । न वेदनान्न संज्ञान्न संस्कारान्न विज्ञानं प्रणिहितमिति वा अप्रणिहितमिति वा युज्यते । न रूपमुत्पद्यत इति वा निरुध्यत इति वा युज्यते । एवं न वेदनान्न संज्ञान्न संस्कारान्न विज्ञानमुत्पद्यत इति वा निरुध्यय इति वा युज्यते । न रूपमतीतमिति युज्यते । न रूपमनागतमिति युज्यते । न रूपं प्रत्युत्पन्नमिति युज्यते एवन्न वेदनान्न संज्ञान्न संस्कारान्न विज्ञानमतीतमिति युज्यते न विज्ञानमनागतमिति युज्यते । न विज्ञानं प्रत्युत्पन्नमिति युज्यते । न रूपं सारमिति न दुर्बलमिति युज्यते । एवन्न वेदनान्न संज्ञान्न संस्कारान्न विज्ञानं सारमिति न दुर्बलमिति युज्यते । न रूपमस्तीति न नास्तीति युज्यते न वियुज्यते । एवन्न वेदनान्न संज्ञान्न संस्कारान्न विज्ञानमस्तीति न नास्तीति युज्यते न वियुज्यते । स प्रज्ञापारमितायां चरतीति नोपैति । न चरतीति नोपैति । चरतीति च न चरति चेति नोपैति । नैव चरति च न चरतीति नोपैति । एवं चरंच्छारद्वतीपुत्र बोधिसत्वो महासत्वः प्रज्ञापारमितायां युक्त इति वक्तव्यः ॥ पुनरपरं शारद्वतीपुत्र बोधिसत्वो महासत्वः प्रज्ञापारमितायां चरन्न प्रज्ञापारमितायाः कृते प्रज्ञापारमितायां चरति । न दानपारमिताया न शीलपारमिताया न क्षान्तिपारमिताया न वीर्यपारमिताया न ध्यानपारमितायाः कृते प्रज्ञापारमितायां चरति । नावैवर्त्यभूमेः कृते प्रज्ञापारमितायां चरति । न सत्वपरिपाकहेतोः न बुद्धक्षेत्रपरिशोधनार्थं न दशानां (२५ ) तथागतबलाना<ं> कृ<ते ।> न चतु<र्>णा<ं> व्<ऐ>शारद्याना<ं> कृते । न चतस्र्णा<ं> प्रतिसंविदानां कृते । नाष्टादशानामावेणिकानां बुद्धधर्माणां कृते प्रज्ञापारमितायां चरति । नाध्यात्मशुन्यतायाः कृते प्रज्ञापारमितायां चरति । न बहिर्धाशुन्यताया नाध्यात्मबहिर्धाशुन्तताया । न शुन्यताशुन्यताया न महाशुन्यताया न परमार्थशुन्यताया न संस्कृतशुन्यताया नासंस्कृतशुन्यताया नात्यन्तशुन्यताया । नावराग्रशुन्यताया । नावकारशुन्यताया । न प्रकृतिशुन्यताया । न स्वलक्षणशुन्यताया । न सर्वधर्मशुन्यताया । नानुत्पादशुन्यताया । नाभावस्वभावशुन्यतायाः कृते । न तथतायाः कृते । न धर्मधातोर्न भूतकोटेः कृते प्रज्ञापारमितायां चरति । तत्कस्य हेतोः न हि बोधिसत्वो महासत्वः प्रज्ञापारमिताया<ं> चरन् कस्यचिद्धर्मस्य भेदं वा नानाकरणं वा विशेषं वा समनुपश्यति । एवं चरंच्छारद्वतीपुत्र बोधिसत्वो महासत्व<ः> प्रज्ञापारमितायां युक्त इति वक्तव्यः ॥ स न दिव्यस्य चक्षुषः कृते प्रज्ञापारमितायां चरति । न दिव्यस्य श्रोत्रस्य न परचित्तज्ञानस्य न पूर्वनिवासानुस्मृते<र्> नर्धिपादानां कृते प्रज्ञापारमितायां चरति । एवं चरंच्छारद्वतीपुत्र बोधिसत्वो महासत्वः प्रज्ञापारमितायां युक्त इति वक्तव्यः ॥ पुनरपरं शारद्वतीपुत्र बोधिसत्वस्य महासत्वस्य प्रज्ञापारमितायां चरतो नैवं भवत्यहमृद्धिपादेषु स्थित्वा दिव्येन चक्षुषा पूर्वस्यान् दिशि गंगानदीवालुकोपमेषु लोकधातुषु ये बुद्धा भगवन्तस्तान् सत्करिष्यामि गुरुकरिष्यामि मानयिष्यामि पूजयिष्यामि ॥ एवं दक्षिणस्यां पश्चिमायामुत्तरस्यामधस्तादुपरिष्टाद्यावत्समन्ताद्दशसु दिक्ष्वेकैकस्यान् दिशि गंगानदीवालुकोपमेषु लोकधातुषु ये बुद्धा भगवन्तस्तान् सत्करिष्यामि गुरुकरिष्यामि मानयिष्यामि पूजयिष्यामि न चास्यैवं (२५ ) भवति यत्ते बुद्धा भगवन्तो भाषन्ते तत्सर्वं दिव्येन श्रोत्रेण श्रोष्यामि । अहं तत्र ल्<ओ>कधातुषु सत्वानां चेतसैव चित्तं ज्ञास्ये । अहमेषां पूर्वेनिवासा<न>नुस्मरिष्यामि । अहं दिव्येन चक्षुषा तां सत्वांश्च्यवमानानुपपद्यमानानुपपन्नांश्च द्रक्ष्यामि । अहमप्रमेयासंख्येयान् सत्वान् परिनिर्वापयिष्यामि ति । ॥ एवं खलु शारद्वतीपुत्र बोधिसत्वो महासत्वः प्रज्ञापारमितायां युक्त इति वक्तव्यः ॥ एवं खलु शारद्वतीपुत्र बोधिसत्वस्य महासत्वस्य प्रज्ञापारमितायां चरतो मारः पापीयानवतारं न लभते । यान्यपि कानिचिल्लौकिकलोकोत्तराणि करणीयानि तान्यपि सर्वाणि प्रदक्षिणीभवन्त्यनाभोगेनापरिकल्पितानि ॥ ये च ते पूर्वस्यान् दिशि गंगानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तो ये च दक्षिणस्यां पश्चिमायामुत्तरस्यामधस्तादुपरिष्टाद्यावत्समन्ताद्दशसु दिक्ष्वेकैकस्यान् दिशि गंगानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तस्तेऽपि बुद्धा भगवन्तस्तं बोधिसत्वं महासत्वमारक्षन्ति मा श्रावकभूमिं वा प्रत्येकबुद्धभूमिं वा पतेदिति । ये च चत्वारो महाराजा यावदघनिष्ठा देवास्तेऽपि तं बोधिसत्वं महासत्वम्मारक्षन्ति मा हैव कश्चिद्बोधिसत्वस्य महासत्वस्यान्तरायं कार्षीत्* ये च केचित्कायिका रोगास्तेऽपि तस्य दृष्टेऽपि धर्मे सर्वेण सर्वं न भवन्ति । तत्कस्य हेतोः तथा हि बोधिसत्वो महासत्व<ः> सर्वसत्वा<न्> मैत्र्या स्फरति । ॥ एवं चरंच्छारद्वतीपुत्र बोधिसत्वो महासत्वः प्रज्ञापारमितायां युक्त इति वक्तव्यः ॥ पुनरपरं शारद्वतीपुत्र बोधिसत्वस्य महासत्वस्य प्रज्ञापारमितायां चरतः अल्पकृच्<छ्र्>एण धारणी<मु>ख समाधिमुखानि प्रतिभानप्रतिसंविन्मुखान्यामुखीभवन्ति । ॥ तथागतांश्चार्हतः (२६ ) सम्यक्संबुद्धानारागयति । तैश्च बुद्धैर्भगवद्भिर्न कदाचिद्विरहितो भवति । यावदनुत्तरां सम्यक्संबोधिमभिसंबुध्यते । ॥ पुनरपरं शारद्वतीपुत्र बोधिसत्वस्य महासत्वस्य प्रज्ञापारमितायां चरतो नैवं भवति । अस्ति कश्चिद्धर्मो यो धर्मैः सार्धं संयुज्यते वा विसंयुज्यते वा । समेति वा न समेति वा । तत्कस्य हेतो<ः> । तथा हि स तद्धर्मं न समनुपश्यति । यो युज्येत वा वियुज्येत वा । समेयाद्वा न समेयाद्वा : एवं खलु शारद्वतीपुत्र बोधिसत्वो महासत्वः प्रज्ञापारमितायां चरन् युक्त इति वक्तव्यः ॥ पुनरपरं शारद्वतीपुत्र बोधिसत्वस्य महासत्वस्य प्रज्ञापारमितायां चरतो नैवं भवति * कच्चिदहं धर्मधातुमभिसंबुद्ध्येय न वाभिसंबुध्येय तत्कस्य हेतोर्न हि धर्मधातुमभिसंबुद्धो नाभिसंबुध्यते । नाभिसम्भोत्स्यते । एवं खलु शारद्वतीपुत्र बोधिसत्वो महासत्व<ः> प्रज्ञापारमितायां चरन् युक्त इति वक्तव्यः ॥ पुनरपरं शारद्वतीपुत्र बोधिसत्वो महासत्व<ः> प्रज्ञापारमितायां चरन्न कंचिद्धर्मं धर्मधातुव्यतिरिक्तं समनुपश्यति । एवं खलु शारद्वतीपुत्र बोधिसत्वो महासत्व<ः> प्रज्ञापारमितायां चरन् युक्त इति वक्तव्यः ॥ पुनरपरं शारद्वतीपुत्र बोधिसत्वो महासत्व<ः> प्रज्ञापारमितायां चरन्न धर्मधातोर्धर्माणां च नानाकरणं करोति । ॥ पुनरपरं शारद्वतीपुत्र बोधिसत्वस्य महासत्वस्य प्रज्ञापारमितायां चरतो नैवं भवति ॥ धर्मधातुं प्रतिविध्येय वा न वा प्रतिविध्येय । तथा हि स न कंचिद्धर्मं समनुपश्यति । येन धर्मेण यो धर्म<ः> प्रतिविध्येत तथा हि न स धर्मधातु<ं> शुन्यमिति योजयति । नाशुन्यमिति योजयति । एवं खलु शारद्वतीपुत्र बोधिसत्वो महासत्व<ः> प्रज्ञापारमितायां चरन् युक्त इ<ति> वक्तव्यः ॥ (२६ ) पुनरपरं शारद्वतीपुत्र बोधिसत्वो महासत्वः प्रज्ञापारमितायां चरन्न चक्षुर्धातुं शुन्यतया योजयति । न शुन्यतां चक्षुर्धातुना योजयति । न रूपधातुं शुन्यतया योजयति । न शुन्यतां रूपधातुना योजयति । न चक्षुर्विज्ञानधातुं शुन्यतया योजयति । न शुन्यतां चक्षुर्विज्ञानधातुना योजयति । एवं न श्रोत्रधातुं न शब्दधातुं न श्रोत्रविज्ञानधातुं न घ्राणधातुं न गन्धधातुं न घ्राणविज्ञानधातुं न जिह्वाधातुं न रसधातुं न जिह्वाविज्ञानधातुम् । न कायधातुं न स्प्रष्टव्यधातुम् । न कायविज्ञानधातुम् । यावन्न मनोधातुं शुन्यतया योजयति । न शुन्यतां मनोधातुना योजयति । न धर्मधातुं शुन्यतया योजयति । न शुन्यतां धर्मधातुना योजयति । न मनोविज्ञानधातुं शुन्यतया योजयति । न शुन्यतां मनोविज्ञानधातुना योजयति । एष हि शारद्वतीपुत्र परमो योगो यदुत शुन्यतायोगः शुन्यतायां शारद्वतीपुत्र चरन् बोधिसत्वो महासत्वो न श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा पतति । बुद्धक्षेत्रं च परिशोधयति । सत्वांश्च परिपाचयति । क्षिप्रं चानुत्तरां सम्यक्संबोधिमभिसंबुध्यते ये केचिच्छारद्वतीपुत्र योगाः प्रज्ञापारमितायोगस्तेषामग्र्य-म्-आख्यायते । श्रेष्ठ वरः प्रवरः प्रणीत-म्-आख्यायते तत्कस्य हेतोः अनुत्तर एष योगो यदुत प्रज्ञापारमितायोगः शुन्यतानिमित्ताप्रणिहितयोग । एवं युज्यमानः शारद्वतीपुत्र बोधिसत्वो महासत्वो व्याकृतो वक्तव्यः असन्निभूतश्चानुत्तरायाः सम्यक्संबोधेः एवं युज्यमानः (२७ ) शारद्वतीपुत्र बोधिसत्वो महासत्वोऽप्रमेयाणामसंख्येयानां सत्वानाम्मर्थं करोति न चास्यैवं भवत्यहं प्रज्ञापारमितायां युज्येऽति वा वियुज्येऽत्<इ> वा मां बुद्धा भगवन्तो व्याकरिष्य<न्>त्यहमासन्नीभूतो व्याकरणस्य ॥ अहं बुद्धक्षेत्रं परिशोधयिष्यामि । अहमनुत्तरां सम्यक्संबोधिमभिसंबुध्य धर्मचक्रं प्रवर्तयिष्ये । ॥ तत्कस्य हेतो<स्> तथा हि स धर्मधातुं न व्यतिरेकीकरोति । ॥ न च धर्मधातोः कंचिदन्यधर्मं समनुपश्यति । यः प्रज्ञापारमितायां चरेद्यो वा बुद्धैर्भगवद्भिर्व्याकृयेत । यो वानुत्तरां सम्यक्संबोधिमभिसंबुध्येत : तत्कस्य हेतोः तथा हि तस्य बोधिसत्वस्य महासत्वस्य प्रज्ञापारमितायां चरतो न सत्वसंज्ञोत्पद्यते । न जीवसंज्ञा न पुद्गलसंज्ञा न जानकपश्यककारकवेदकसंज्ञोत्पद्यते । ॥ तत्कस्य हेतोः तथा ह्यत्यन्तं सत्वो नोपलभ्यते न निरुध्यते । न हि सत्वस्योत्पादो न निरोधः यस्य च नोत्पादो न निरोधः कथं स प्रज्ञापारमितायां चरिष्यति । एवं चरंच्छारद्वतीपुत्र बोधिसत्वो महासत्वः सत्वानुत्पादतया प्रज्ञापारमितायां चरति । सत्वशुन्यतया प्रज्ञापारमितायां चरति । सत्वानुपलब्ध्या सत्वविविक्ततया सत्वप्रकृत्या । सत्वास्वभावतया प्रज्ञापारमितायां चरति । एष शारद्वतीपुत्र बोधिसत्वानां महासत्वानां परमो योगो यदुत शुन्यतायोगः अयं शारद्वतीपुत्र बोधिसत्वस्य महासत्वस्य प्रज्ञापारमितायां चरतः परमो योगः यस्तदन्यान् योगानभिभूय तिष्ठति । अत्र च शारद्वतीपुत्र योगे चरन् बोधिसत्वो महासत्वो महामैत्रीमभिनिर्हरति । महाकरुणां चाभिनिर्हरति । अत्र शारद्वतीपुत्र योगे चरन् बोधिसत्वो महासत्वो न मात्सर्यचित्तमुत्पादयति । न दौ<ः>शील्यचित्तं न व्यापादचित्<त्>अं न कौसीद्यचित्तं (२७ ) न विक्षेपचित्तं न दौष्प्रज्ञचित्तमुत्पादयति ।