नमः सर्वबुद्धबोधिसत्त्वेभ्यः । ललितविस्तरः । ॥ ओं नमो दशदिगनन्तापर्यन्तलोकधातुप्रतिष्ठितसर्वबुद्धबोधिसत्त्वार्यश्रावकप्रत्येकबुद्धेभ्योऽतीतानागतप्रत्युत्पन्नेभ्यः ॥ ______________________________________________________________________ परिवर्त १ निदानपरिवर्तः प्रथमः । एवं मया श्रुतम् । एकस्मिन्समये भगवान् श्रावस्त्यां विहरति स्म जेतवनेऽनाथपिण्डदस्यारामे महता भिक्षुसंघेन सार्धं द्वादशभिर्भिक्षुसहस्रैः । तद्यथा - आयुष्मता च ज्ञानकौण्डिन्येन । आयुष्मता चाश्वजिता । आयुष्मता च बाष्पेण । आयुष्मता च महानाम्ना । आयुष्मता च भद्रिकेण । आयुष्मता च यशोदेवेन । आयुष्मता च विमलेन । आयुष्मता च सुबाहुना । आयुष्मता च पूर्णेन । आयुष्मता च गवांपतिना । आयुष्मता चोरुबिल्वाकाश्यपेन । आयुष्मता च नदीकाश्यपेन । आयुष्मता च गयाकाश्यपेन । आयुष्मता च शारिपुत्रेण । आयुष्मता च महामौद्गल्यायनेन । आयुष्मता च महाकाश्यपेन । आयुष्मता च महाकात्यायनेन । आयुष्मता च कफिलेन । आयुष्मता च कौण्डिन्येन । आयुष्मता च चुनन्देन । आयुष्मता च पूर्णमैत्रायणीपुत्रेण । आयुष्मता चानिरुद्धेन । आयुष्मता च नन्दिकेन । आयुष्मता च कस्फिलेन । आयुष्मता च सुभूतिना । आयुष्मता च रेवतेन । आयुष्मता च खदिरवनिकेन । आयुष्मता चामोघराजेन । आयुष्मता च महापारणिकेन । आयुष्मता च बक्कुलेन । आयुष्मता च नन्देन । आयुष्मता च राहुलेन । आयुष्मता च स्वागतेन । आयुष्मता चानन्देन । एवंप्रमुखैर्द्वादशभिर्भिक्षुसहस्रैः सार्धं द्वात्रिंशता च बोधिसत्त्वसहस्रैः सर्वैरेकजातिप्रतिबद्धैः सर्वबोधिसत्त्वपारमितानिर्जातैः सर्वबोधिसत्त्वाभिज्ञताविक्रीडितैः सर्वबोधिसत्त्वधारणीप्रतिभानप्रतिलब्धैः सर्वबोधिसत्त्वधारणीप्रतिलब्धैः सर्वबोधिसत्त्वप्रणिधानसुपरिपूर्णैः सर्वबोधिसत्त्वप्रतिसम्यग्गतिंगतैः सर्वबोधिसत्त्वसमाधिवशिताप्राप्तैः सर्वबोधिसत्त्ववशिताप्रतिलब्धैः सर्वबोधिसत्त्वक्षान्त्यवकीर्णैः सर्वबोधिसत्त्वभूमिपरिपूर्णैः । तद्यथा - मैत्रेयेण च बोधिसत्त्वेन महासत्त्वेन । धरणीश्वरराजेन च बोधिसत्त्वेन महासत्त्वेन । सिंहकेतुना (वैद्य २) च बोधिसत्त्वेन महासत्त्वेन । सिद्धार्थमतिना च बोधिसत्त्वेन महासत्त्वेन । प्रशान्तचारित्रमतिना च बोधिसत्त्वेन महासत्त्वेन । प्रतिसंवित्प्राप्तेन च बोधिसत्त्वेन महासत्त्वेन । नित्योद्युक्तेन च बोधिसत्त्वेन महासत्त्वेन । महाकरुणाचन्द्रिणा च बोधिसत्त्वेन महासत्त्वेन । एवंप्रमुखैर्द्वात्रिंशता च बोधिसत्त्वसहस्रैः ॥ तेन खलु पुनः समयेन भगवान् श्रावस्तीं महानगरीमुपनिश्रित्य विहरति स्म सत्कृतो गुरुकृतो मानितः पूजितश्च तिसृणां परिषदां राज्ञां राजकुमाराणां राजमन्त्रिणां राजमहामात्राणां राजपादमूलिकानां क्षत्रियब्राह्मणगृहपत्यमात्यपार्षद्यानां पौरजानपदानामन्यतीर्थिकश्रमणब्राह्मणचरकपरिव्राजकानाम् । लाभी च भगवान् प्रभूतानां खादनीयं भोजनीयमास्वादनीयाकल्पिकानां चीवरपिण्डपात्रशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणाम् । लाभाग्र्ययशोग्र्यप्राप्तश्च भगवान् सर्वत्र चानुपलिप्तः पद्म इव जलेन । उदारश्च भगवतः कीर्तिशब्दश्लोको लोकेऽभ्युद्गतोऽर्हन् सम्यक्संबुद्धो विद्याचरणसंपन्नः सुगतो लोकवित्परः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान् पञ्चचक्षुःसमन्वागतः । स इमं च लोकं परं च लोकं सदेवकं समारकं सब्रह्मकं सश्रमणब्राह्मणीन् प्रजान् सदेवमानुषान् स्वयं विज्ञाय साक्षात्कृत्य उपसंपद्य विहरति स्म । सद्धर्मं देशयति स्म आदौ कल्याणं मध्ये कल्याणं पर्यवसाने कल्याणं स्वर्थं सुव्यञ्जनं केवलं परिपूर्णं परिशुद्धं पर्यवदातं व्रह्मचर्यं संप्रकाशयति स्म ॥ तेन खलु पुनः समयेन भगवान् रात्र्यां मध्यमे यामे बुद्धालंकारव्यूहं नाम समाधिं समापन्नोऽभूत् । समनन्तरसमापन्नस्य च भगवत इमं बुद्धालंकारव्यूहं नाम समाधिमथ तत्क्षणमेव भगवत उपरिष्टान्मूर्ध्नः संधावुष्णीषविवरान्तरात्पूर्वबुद्धानुस्मृत्यसङ्गाज्ञानालोकालंकारं नाम रश्मिश्चचार । सा सर्वा शुद्धावासान् देवभवनान्यवभास्य महेश्वरदेवपुत्रप्रमुखानप्रमेयान् देवपुत्रान् संचोदयामास । ततश्च तथागतरश्मिजालान्निश्चार्य इमाः संचोदनागाथा निश्चरन्ति स्म ॥ ज्ञानप्रभं हततमसं प्रभाकरं शुभ्रप्रभं शुभविमलाग्रतेजसम् । प्रशान्तकायं शुभशान्तमानसं मुनिं समाश्लिष्यत शाक्यसिंहम् ॥ १.१ ॥ ज्ञानोदधिं शुद्धमहानुभावं धर्मेश्वरं सर्वविदं मुनीशम् । देवातिदेवं नरदेवपूज्यं धर्मे स्वयंभुं वशिनं श्रयध्वम् ॥ १.२ ॥ (वैद्य ३) यो दुर्दमं चित्तमवर्तयद्वशे यो मारपाशैरवमुक्तमानसः । यस्याप्यवन्ध्याविह दर्शनश्रवास्त्ययान्ततः शान्तविमोक्षपारगः ॥ १.३ ॥ आलोक्यभूतं तमतुल्यधर्मं तमोनुदं सन्नयवेदितारम् । शान्तक्रियं बुद्धममेयबुद्धिं भक्त्या समस्ता उपसंक्रमध्वम् ॥ १.४ ॥ स वैद्यराजोऽमृतभेषजप्रदः स वादिशूरः कुगणिप्रतापकः । स धर्मबन्धुः परमार्थकोविदः स नायकोऽनुत्तरमार्गदेशकः ॥ १.५ ॥ इति ॥ समनन्तरस्पृष्टाश्च खलु पुनस्ते शुद्धावासकायिका देवपुत्राः तस्या बुद्धानुस्मृत्यसङ्गाज्ञानालोकाया रश्म्या आभिश्चैवंरूपाभिर्गाथाभिः संचोदिताः समन्ततः प्रशान्ताः समाधेर्व्युत्थाय तान् बुद्धानुभावेनाप्रमेयासंख्येयागणनासमतिक्रान्तकल्पातिक्रान्तान् बुद्धान् भगवन्तोऽनुस्मरन्ति स्म । तेषां च बुद्धानां भगवतां यानि बुद्धक्षेत्रगुणव्यूहात्पर्षन्मण्डलानि याश्च धर्मदेशनास्ता आसन्, तान् सर्वाननुस्मरन्ति स्म ॥ अथ खलु तस्यां रात्रौ प्रशान्तायामीश्वरश्च नाम शुद्धावासकायिको देवपुत्रो महेश्वरो नाम नन्दश्च सुनन्दश्च चन्दनश्च महितश्च प्रशान्तश्च प्रशान्तविनीतेश्वरश्चैते चान्ये च संबहुलाः शुद्धावासकायिका देवपुत्रा अतिक्रान्तातिक्रान्तैर्वर्णैः सर्वावन्तं जेतवनं दिव्येनावभासेनावभास्य येन भगवांस्तेनोपसंक्रामन्, उपसंक्रम्य भगवतः पादौ शिरसाभिवन्द्य एकान्ते तस्थुः । एकान्ते स्थिताश्च ते शुद्धावासकायिका देवपुत्रा भगवन्तमेतदवोचन् - अस्ति भगवन् ललितविस्तरो नाम धर्मपर्यायः सूत्रान्तो महावैपुल्यनिचयो बोधिसत्त्वकुशलमूलसमुद्भावनः तुषितवरभवनविकिरणसंचिन्त्यावक्रमणविक्रीडनगर्भस्थानविशेषसंदर्शनोऽभिजातजन्मभूमिप्रभावसंदर्शनः सर्वबालचर्यागुणविशेषसमतिक्रमसर्वलौकिकशिल्पस्थानकर्मस्थानलिपिसंख्यामुद्रा - गणनासिधनुकलापयुद्धसालम्भसर्वसत्त्वप्रतिविशिष्टसंदर्शनान्तःपुरविषयोपभोगसंदर्शनः सर्वबोधिसत्त्वचरिनिष्पन्दनिष्पत्तिफलाधिगमपरिकीर्तनो बोधिसत्त्वविक्रीडितः सर्वमारमण्डलविध्वंसनः तथागतबलवैशारद्याष्टादशावेणिकसमुच्चयो (वैद्य ४)ऽप्रमाणबुद्धधर्मनिर्देशः पूर्वकैरपि तथागतैर्भाषितपूर्वः । तद्यथा - भगवता पद्मोत्तरेण च धर्मकेतुना च दीपंकरेण च गुणकेतुना च महाकरेण च ऋषिदेवेन च श्रीतेजसा च सत्यकेतुना च वज्रसंहतेन च सर्वाभिभुवा च हेमवर्णेन च अत्युच्चगामिना च प्रवाहसागरेण च पुष्पकेतुना च वररूपेण च सुलोचनेन च ऋषिगुप्तेन च जिनवक्त्रेण च उन्नतेन च पुष्पितेन च ऊर्णतेजसा च पुष्करेण च सुरश्मिना च मङ्गलेन च सुदर्शनेन च महासिंहतेजसा च स्थितबुद्धिदत्तेन च वसन्तगन्धिना च सत्यधर्मविपुलकीर्तिना च तिष्येण च पुष्येण च लोकसुन्दरेण च विस्तीर्णभेदेन च रत्नकीर्तिना च उग्रतेजसा च ब्रह्मतेजसा च सुघोषेण च सुपुष्षेण च सुमनोज्ञघोषेण च सुचेष्टरूपेण च प्रहसितनेत्रेण च गुणराशिना च मेघस्वरेण च सुन्दरवर्णेन च आयुस्तेजसा च सलीलगजगामिना च लोकाभिलाषितेन च जितशत्रुणा च संपूजितेन च विपश्यिना च शिखिना च विश्वभुवा च ककुच्छन्देन च कनकमुनिना च काश्यपेन च तथागतेनार्हता सम्यक्संबुद्धेन भाषितपूर्वः, तं भगवानप्येतर्हि संप्रकाशयेत्बहुजनहिताय बहुजनसुखाय लोकानुकम्पायै महतो जनकायस्यार्थाय सुखाय देवानां च मनुष्याणां च । अस्य च महायानोद्भावनार्थं सर्वपरप्रवादिनां च निग्रहार्थं सर्वबोधिसत्त्वानां चोद्भावनार्थं सर्वमाराणां चाभिभवनार्थं सर्वबोधिसत्त्वयानिकानां च पुद्गलानां वीर्यारम्भसंजननार्थं सद्धर्मस्य चानुपरिग्रहार्थं त्रिरत्नवंशस्यानुपरिग्रहार्थं त्रिरत्नवंशस्यानुपच्छेदनार्थं बुद्धकार्यस्य च परिसंदर्शनार्थमिति । अधिवासयति स्म भगवांस्तेषां देवपुत्राणां तूष्णीभावेन सदेवकस्य लोकस्यानुकम्पामुपादाय ॥ अथ खलु देवपुत्रा भगवतस्तूष्णीभावेनाधिवासनां विदित्वा तुष्टा उदग्रा आत्तमनसः प्रमुदिताः प्रीतिसौमनस्यजाता भगवतः पादौ शिरसाभिवन्द्य भगवन्तं त्रिः प्रदक्षिणीकृत्य दिव्यैश्चन्दनचूर्णैरगुरुचूर्णैर्मान्दारपुष्पैश्चाभ्यवकीर्य तत्रैवान्तर्दधुः ॥ अथ खलु भगवांस्तस्यामेव रात्र्यामत्ययेन च करीरो मण्डलमात्रव्यूहस्तेनोपसंक्रामत् । उपसंक्रम्य भगवान् प्रज्ञप्त एवासने न्यषीदद्बोधिसत्त्वगणपुरस्कृतः श्रावकसंघपुरस्कृतः । निषद्य भगवान् भिक्षूनामन्त्रयति स्म - इति हि भिक्षवो रात्रौ प्रशान्तायामीश्वरो नाम शुद्धावासकायिको देवपुत्रो महेश्वरश्च नाम नन्दश्च सुनन्दश्च चन्दनश्च महितश्च प्रशान्तश्च विनीतेश्वरश्चैते चान्ये च संबहुलाः शुद्धावासकायिका देवपुत्राः पुर्ववद्यावत्तत्रैवान्तर्दधुः । अथ खलु ते बोधिसत्त्वास्ते च महाश्रावका येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तमेतदवोचन् - तत्साधु भगवन्, तं ललितविस्तरं नाम धर्मपर्यायं देशयतु । तद्भविष्यति बहुजनहिताय बहुजनसुखाय लोकानुकम्पायै महतो जनकायस्यार्थाय हिताय सुखाय देवानां च मनुष्याणां च एतर्हि चागतानां च बोधिसत्त्वानां महासत्त्वानाम् । अधिवासयति स्म भगवांस्तेषां बोधिसत्त्वानां महासत्त्वानां तेषां च महाश्रावकाणां तूष्णीभावेन सदेवमानुषासुरस्य लोकस्यानुकम्पामुपादाय । तत्रेदमुच्यते - (वैद्य ५) रात्र्यामिहास्यां मम भिक्षवोऽद्य सुखोपविष्टस्य निरङ्गणस्य । प्रविष्टमानस्य शुभैर्विहारैरेकाग्रचित्तस्य समाहितस्य ॥ १.६ ॥ अथागमन् देवसुता महर्द्धयः प्रतीतवर्ण विमलश्रियोज्ज्वलाः । श्रियावभास्येह च जेतसाह्वयं वनं मुदा मेऽन्तिकमभ्युपागताः ॥ १.७ ॥ महेश्वरश्चन्दन ईश नन्दो प्रशान्तचित्तो महितः सुनन्दनः । शान्ताह्वयश्चाप्युत देवपुत्रस्तास्ताश्च बह्व्योऽथ च देवकोट्यः ॥ १.८ ॥ प्रणम्य पादौ प्रतिदक्षिणं च कृत्वैव मां तस्थुरिहाग्रतो मे । प्रगृह्य चैवाञ्जलिमङ्गुलीभिः सगौरवा मामिह ते ययाचुः ॥ १.९ ॥ इदं मुने रागनिसूदनाढ्य वैपुल्यसूत्रं हि महानिदानम् । यद्भाषितं सर्वतथागतैः प्राग्लोकस्य सर्वस्य हितार्थमेतत् ॥ १.१० ॥ तत्साध्विदानीमपि भाषतो मुनिः स बोधिसत्त्वौघपरिग्रहेच्छया । परं महायानमिदं प्रभाषयन् परप्रवादान्नमुचिं च धर्षयन् ॥ १.११ ॥ अद्येषणां देवगणस्य तूष्णीमगृह्णदेवानधिवासनं च । सर्वे च तुष्टा मुदिता उदग्राः पुष्पाणि चिक्षेपुरवाप्तहर्षम् ॥ १.१२ ॥ (वैद्य ६) तद्भिक्षवो मे शृणुतेह सर्वे वैपुल्यसूत्रं हि महानिदानम् । यद्भाषितं सर्वतथागतैः प्राग्लोकस्य सर्वस्य हितार्थमेवम् ॥ १.१३ ॥ इति ॥ इति श्रीललितविस्तरे निदानपरिवर्तो नाम प्रथमोऽध्यायः ॥ ______________________________________________________________________ परिवर्त २ (वैद्य ७) समुत्साहपरिवर्तो द्वितीयः । तत्र भिक्षवः कतमः सुललितविस्तरो नाम धर्मपर्यायः सूत्रान्तो महावैपुल्यः? इह भिक्षवो बोधिसत्त्वस्य तुषितवरभवनावस्थितस्य पूज्यपूजितस्याभिषेकप्राप्तस्य देवशतसहस्रस्तुतस्तौमितवर्णितप्रशंसितस्य लब्धाभिषेकस्य प्रणिधानसमुद्गतस्य सर्वबुद्धधर्मसमुदागतबुद्धेः सुविपुलपरिशुद्धज्ञाननयनस्य स्मृतिमतिगतिधृत्युत्तप्तविपुलबुद्धेः दानशीलक्षान्तिवीर्यध्यानप्रज्ञामहोपायकौशल्यपरमपारमिताप्राप्तस्य महामैत्रीकरुणामुदितोपेक्षाब्रह्मपथकोविदस्य महाभिज्ञासंगणावरणज्ञानसंदर्शनाभिमुखीभूतस्य स्मृत्युपस्थानसम्यक्प्रहाणऋद्धिपादेन्द्रियबलबोध्यङ्गमार्गसर्वबोधिपक्षधर्मसुपरिपूर्णकोटिप्राप्तस्य अपरिमितपुण्यसंभारलक्षणानुव्यञ्जनसमलंकृतकायस्य दीर्घानुपरिवर्तिनो यथावादितथाकार्यवितथवाक्कर्मसमुदाहारकस्य ऋज्वकुटिलावङ्काप्रतिहतमानसस्य सर्वमानमददर्पभयविषादापगतस्य सर्वसत्त्वसमचित्तस्य अपरिमितबुद्धकोटिनयुतशतसहस्रपर्युपासितस्य बहुबोधिसत्त्वकोटिनयुतशतसहस्रावलोकितावलोकितवदनस्य शक्रब्रह्ममहेश्वरलोकपालदेवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगराक्षसगणैरभिनन्दितयशसः सर्वपदप्रभेदनिर्देशासङ्गप्रतिसंविदवतारज्ञानकुशलस्य सर्वबुद्धभाषितधारणस्मृतिभाजनाविक्षेपानन्तापर्यन्तधारणीप्रतिलब्धस्य महाधर्मनौस्मृत्युपस्थानसम्यक्प्रहाणऋद्विपादेन्द्रियबलबोध्यङ्गमार्गपारमितोपाय - कौशल्यधर्मरत्नपुण्यसमुदानीतमहासार्थवाहस्य चतुरोघपारगामिनाभिप्रायस्य निहतमानप्रत्यर्थिकस्य सर्वपरप्रवादिसुनिगृहीतस्य संग्रामशीर्षसुप्रतिष्ठितस्य क्लेशरिपुगणनिसूदनस्य ज्ञानवरवज्रदृढप्रहरणस्य बोधिचित्तमूलमहाकरुणादण्डाध्याशयोद्गतस्य गम्भीरवीर्यसलिलाभिषिक्तस्य उपायकौशलकर्णिकस्य बोध्यङ्गध्यानकेशरस्य समाधिकिञ्जल्कस्य गुणगणविमलसरसिसुजातस्य विगतमदमानपरिवाहशशिविमलविस्तीर्णपत्रस्य शीलश्रुताप्रसाददशदिगप्रतिहतगन्धिनो लोके ज्ञानवृद्धस्याष्टाभिर्लोकधर्मैरनुपलिप्तस्य महापुरुषपद्मस्य पुण्यज्ञानसंभारविसृतसुरभिगन्धिनः प्रज्ञाज्ञानदिनकरकिरणैर्विकसितसुविशुद्धशतपत्रपद्मतपनस्य चतुरृद्धिपादपरमजापजपितस्य चतुरार्यसत्यसुतीक्ष्णनखदंष्ट्रस्य चतुर्ब्रह्मविहारनिश्रितदर्शनस्य चतुःसंग्रहवस्तुसुसंगृहीतशिरसः द्वादशाङ्गप्रतीत्यसमुत्पादानुबोधानुपूर्वसमुद्गतकायस्य सप्तत्रिंशद्बोधिपक्षधर्मसंप्रतिपूर्णसुविजातिनाविद्याज्ञानकेशरिणस्त्रिविमोक्षमुखावजृम्भितस्य शमथविदर्शनासुविशुद्धनयनस्य ध्यानविमोक्षसमाधिसमापत्तिगिरिदरीगुहानिवासितस्य चतुरीर्यापथविनयनौपवनसुवर्धिततरोर्दशबलवैशारद्याभ्यासीभावितबलस्य विगतभवविभवभयलोमहर्षस्यासंकुचितपराक्रमस्य तीर्थ्यशशमृगगणसंघशमथनस्य नैरात्म्यघोषोदाहारमहासिंहनादनादिनः पुरुषसिंहस्य विमुक्तिध्यानमण्डलप्रज्ञप्रभरश्मितीर्थकरखद्योतगणनिःप्रभंकरस्य (वैद्य ८) अविद्यातमोन्धकारतमःपटलवितिमिरकरणस्योत्तप्तबलवीर्यस्य देवमनुष्येषु पुण्यतेजस्तेजितस्य महापुरुषदिनकरस्य कृष्णपक्षापगतस्य शुक्लपक्षप्रतिपूर्णस्य मनापप्रियदर्शनस्य अप्रतिहतचक्षुरिन्द्रियस्य देवशतसहस्रज्योतिर्गणप्रतिमण्डितस्य ध्यानविमोक्षज्ञानमण्डलस्य बोध्यङ्गसुखरश्मिशशिकिरणस्य बुद्धविबुद्धमनुजकुमुदविबोधकस्य महापुरुषचन्द्रसमचतुष्पर्षद्द्वीपानुपरीतस्य सप्तबोध्यङ्गरत्नसमन्वागतस्य सर्वसत्त्वसमचित्तप्रयोगस्याप्रतिहतबुद्धेः दशकुशलकर्मपथव्रततपसः सुसमृद्धप्रतिपूर्णविशेषगमनाभिप्रायस्य अप्रतिहतधर्मराजावरप्रवरधर्मरत्नचक्रप्रवर्तकस्य चक्रवर्तिवंशकुलकुलोदितस्य गम्भीरदुरवगाहप्रतीत्यसमुत्पादसर्वधर्मरत्नप्रतिपूर्णस्य अतृप्तश्रुतविपुलविस्तीर्णारम्भज्ञानशीलवेलानतिक्रमणस्य महापद्मगर्भेक्षणस्य सागरवरधरविपुलबुद्धेः पृथिव्यप्तेजोवायुसमचित्तस्य मेरुकल्पदृढबलाप्रकम्पमानस्यानुनयप्रतिघापगतस्य गगनतलविमलविपुलासह्यविस्तीर्णबुद्धेः अध्याशयसुपरिशुद्धस्य सुदत्तदानस्य सुकृतपूर्वयोगस्य सुकृताधिकारस्य दत्तसत्यंकारस्य पर्येषितसर्वकुशलमूलस्य वासितवासनस्य निर्याणमिव सर्वकुशलमूलस्य सप्तसंख्येयेषु कल्पेषु समुदानीतसर्वकुशलमूलस्यन्दस्य दत्तसप्तविधदानस्य पञ्चविधपुण्यक्रियावस्त्ववसेवितवतस्त्रिविधं कायिकेन चतुर्विधं वाचा त्रिविधं मनसा सुचरितवतो दशकुलकर्मपथादानसेवितवतः चत्वारिंशदङ्गसमन्वागतसम्यक्प्रयोगमासेवितवतः चत्वारिंशदङ्गसमन्वागतसम्यक्प्रणिधानप्रणिहितवतः चत्वारिंशदङ्गसमन्वागतसम्यगध्याशयप्रतिपन्नवतः चत्वारिंशदङ्गसमन्वागतसम्यग्विमोक्षपरिपूरितवतः चत्वारिंशदङ्गसमन्वागतसम्यगधिमुक्तिमृजीकृतवतः चत्वारिंशत्सु बुद्धकोटीनियुतशतसहस्रेष्वनुप्रव्रजितवतः पञ्चपञ्चाशत्सु बुद्धकोटीनियुतशतसहस्रेषु दानानि दत्तवतः अर्धचतुर्थेषु प्रत्येकबुद्धकोटीशतेषु कृताधिकारवतः अप्रमेयासंख्येयान् सत्त्वान् स्वर्गमोक्षमार्गप्रतिपादितवतः अनुत्तरां सम्यक्संबोधिमभिसंबोद्धुकामस्यैकजातिप्रतिबद्धस्य इतश्च्युत्वा तुषितवरभवने स्थितस्य श्वेतकेतुनाम्नो देवपुत्रोत्तमस्य सर्वदेवसंघैः संपूज्यमानस्य रश्म्यायमपरमितश्च्युतो मर्त्यस्य लोकोत्पन्नो नचिरादनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यतीति ॥ तस्मिन्महाविमाने सुखोपविष्टस्य द्वात्रिंशद्भूमिसहस्रप्रतिसंस्थिते वितर्दिनिर्यूहतोरणगवाक्षकूटागारप्रासादतलसमलंकृते उच्छ्रितछत्रध्वजपटाकरत्नकिङ्किणीजालवितानवितते मान्दारवमहामान्दारवपुष्पसंस्तरणसंस्तृते अप्सरसःकोटीनियुतशतसहस्रसंगीतिसंप्रचलिते अतिमुक्तकचम्पकपाटलकोविदारमुचिलिन्दमहामुचिलिन्दाशोकन्यग्रोधतिन्दुकासनकर्णिकारकेशरसालरत्नवृक्षोपशोभिते हेमजालसंछन्ने महता पूर्णकुम्भोपशोभिते समतलव्यूहोपशोभिते ज्योतिर्मालिकासुमनोवाते देवकोटीनियुतशतसहस्राभिमुखनयनावलोकितालोके महाविपुलधर्मसंगीतिसर्वकामरतिवेगक्लेशच्छेदने व्यपगताखिलक्रोधप्रतिघमानमददर्पापनयने प्रीतिप्रसादप्रामोद्योत्तप्तविपुलस्मृतिसंजनने सुखोपविष्टस्य तस्मिन्महाधर्मसांकथ्ये प्रवृत्ते तेभ्यश्चतुरशीतिभ्यस्तूर्यसंगीतिसहस्रनिर्नादितेभ्यो बोधिसत्त्वस्य पूर्वशुभकर्मोपचयेनेमाः संचोदनागाथा निश्चरन्ति स्म - (वैद्य ९) स्मर विपुलपुण्यनिचय स्मृतिमतिगतिमनन्तप्रज्ञाप्रभाकरिन् । अतुलबलविपुलविक्रम व्याकरणं दीपंकरस्यापि ॥ २.१ ॥ स्मर विपुलनिर्मलमनस्त्रिमलमलप्रहीणशान्तमददोषम् । शुभविमलशुद्धचित्ता दामचरी यादृशा ति पुरे ॥ २.२ ॥ स्मर कुलकुलीना शमथं शीलव्रतं क्षमा दमं चैव । वीर्यबलध्यानप्रज्ञा निषेविता कल्प(कोटी)नियुतानि ॥ २.३ ॥ स्मर स्मर अनन्तकीर्ते संपूजिता ये ति बुद्धनियुतानि । सर्वान् करुणायमानः कालोऽयं मा उपेक्षस्व ॥ २.४ ॥ च्यव च्यव हि च्युतिविधिज्ञा जरमरणक्लेशसूदना विरजा । समुदीक्षन्ते बहवो देवासुरनागयक्षगन्धर्वा ॥ २.५ ॥ कल्पसहस्र रमित्वा तृप्तिर्नास्त्यम्भसीव समुद्रे । साधु भव प्रज्ञातृप्त तर्पय जनतां चिरतृषार्ताम् ॥ २.६ ॥ किं चाप्यनिन्दितयश(स्त्वं) धर्मरतिरतो न चासि कामरतः । अथ च पुनरमलनयना अनुकम्पा सदेवकं लोकम् ॥ २.७ ॥ किं चापि देवनयुताः श्रुत्वा धर्मं न ते वितृप्यन्ते । अथ च पुन रक्षणगतानपायसंस्थानपेक्षस्व ॥ २.८ ॥ किं चापि विमलचक्षो पश्यसि बुद्धान् दशादिशि लोके । धर्मं शृणोषि च ततस्तं धर्मवरं विभज लोके ॥ २.९ ॥ किं चापि तुषितभवनं तव पुण्यश्रियाभिशोभते श्रीमान् । अथ च पुन करुणमानस प्रवर्ष जम्बुध्वजे वर्षम् ॥ २.१० ॥ समतीत्य कामधातुं देवा ये रूपधातुकानेके । सर्वे त्यभिनन्दन्ते स्पृशेय सिद्धिव्रतो बोधिम् ॥ २.११ ॥ निहता ति मारकर्मा जितास्त्वयान्ये कुतीर्थिका नाथा । केन सकलगत ति बोधी कालोऽयं मा उपेक्षस्व ॥ २.१२ ॥ क्लेशाग्निना प्रदीप्ते लोके त्वं वीर मेघवद्व्याप्य । अभिवर्षामृतवर्षं शमय क्लेशान्नरमरूणाम् ॥ २.१३ ॥ (वैद्य १०) त्वं वैद्य धातुकुशल चिरातुरान् सत्यवैद्य सत्यवान् । त्रिविमोक्षागदयोगैर्निर्वाणसुखे स्थपय शीघ्रम् ॥ २.१४ ॥ अश्रुत्व सिंहनादं क्रोष्टुकनादं नदन्त्यनुत्रष्टाः । नद बुद्धसिंहनादं त्रासय परतीर्थिकशृगालान् ॥ २.१५ ॥ प्रज्ञाप्रदीपहस्तो बलवीर्यबलोदितो धरणिमण्डे । करतलवरेण धरणीं पराहनित्वा जिनहि मारम् ॥ २.१६ ॥ समुदीक्षन्ते पालाश्चतुरो ये तुभ्य दास्यते पात्रम् । शक्राश्च ब्रह्म नयुता ये जातं त्वां ग्रहीष्यन्ति ॥ २.१७ ॥ व्यवलोकयाभियशा कुलरत्नकुलोदिता कुलकुलीना । यत्र स्थित्वा सुमते दर्शेष्यसि बोधिसत्त्वचरिम् ॥ २.१८ ॥ यत्रैव भाजनेऽस्मिन्मणिरत्नं तिष्ठते भवति श्रीमान् । मणिरत्नं विमलबुद्धे प्रवर्ष जम्बुध्वजे वर्षम् ॥ २.१९ ॥ एवं बहुप्रकारा संगीतिरवानुनिश्चरा गाथा । चोदेन्ति करुणामनसमयं स कालो मा उपेक्षस्व ॥ २.२० ॥ इति ॥ इति श्रीललितविस्तरे समुत्साहपरिवर्तो नाम द्वितीयोऽध्यायः ॥ ______________________________________________________________________ परिवर्त ३ (वैद्य ११) कुलपरिशुद्धिपरिवर्तस्तृतीयः । इति हि भिक्षवो बोधिसत्त्व एवं धर्मकालसंचोदितः संस्ततो महाविमानान्निष्क्रम्य धर्मोच्चयो नाम महाप्रासादो यत्र निषद्य बोधिसत्त्वस्तुषितेभ्यो देवेभ्यो धर्मं देशयति स्म, तं बोधिसत्त्वोऽभिरोहति स्म, अभिरुह्य च सुधर्मे सिंहासने निषीदति स्म । अथ ये देवपुत्रा बोधिसत्त्वस्य सभागाः समयानसंप्रस्थितास्तेऽपि तमेव प्रासादमभिरोहन्ति स्म । ये च दशदिक्संनिपतिता बोधिसत्त्वाः सभागचरिता बोधिसत्त्वस्य देवपुत्राश्च, तेऽपि तं प्रासादमभिरुह्य यथाप्रत्यर्हेषु सिंहासनेषु स्वकस्वकेषु निषीदन्ति, स्म अपगताप्सरोगणा अपगतप्राकृतदेवपुत्राः समानाध्याशयपरिवारा अष्टषष्टिकोटिसहस्रपरिवाराः ॥ इति हि भिक्षवो द्वादशभिर्वर्षैर्बोधिसत्त्वो मातुः कुक्षिमवक्रमिष्यतीति ॥ अथ शुद्धावासकायिका देवपुत्रा जम्बुद्वीपमागत्य दिव्यं वर्णमन्तर्धाप्य ब्राह्मणवेषेण ब्राह्मणान् वेदानध्यापयन्ति स्म । यस्यैवरूपा गर्भावक्रान्तिर्भवति, स द्वात्रिंशता महापुरुषलक्षणैः समन्वागतो भवति । यैः समन्वागतस्य द्वे गती भवतो न तृतीया । सचेदगारमध्यावसति, राजा भवती चक्रवर्ती चतुरङ्गो विजितवान् धार्मिको धर्मराजः सप्तरत्नसमन्वागतः । तस्येमानि सप्त रत्नानि भवन्ति । तद्यथा - चक्ररत्नं हस्तिरत्नमश्वरत्नं स्त्रीरत्नं मणिरत्नं गृहपतिरत्नं परिणायकरत्नमेव सप्तमम् ॥ कथंरूपेण राजा चक्रवर्ती चक्ररत्नेन समन्वागतो भवति? इह राज्ञः क्षत्रियस्य मूर्धाभिषिक्तस्य तदेव पोषधेयं च पञ्चदश्यां शिरःस्नातस्योपवासोषितस्योपरिप्रासादतलगतस्य स्त्र्यागारपरिवृतस्य पूर्वस्यां दिशि दिव्यं चक्ररत्नं प्रादुर्भवति । सहस्रारं सनेमिकं सनाभिकं सुवर्णवर्णकर्मालंकृतं सप्ततालमुच्चैः समन्ताद्दृष्ट्वान्तःपुरं राज्ञः क्षत्रियस्य मूर्धाभिषिक्तस्य तद्दिव्यं चक्ररत्नमेव भवति । श्रुतं खलु मया यस्य किल राज्ञः क्षत्रियस्य मूर्धाभिषिक्तस्य तदेव पोषधेयं पञ्चदश्यां शिरःस्नातस्योपवासोषितस्योपरिप्रासादतलगतस्य स्त्र्यागारपरिवृतस्य पूर्वस्यां दिशि दिव्यं चक्ररत्नं प्रादुर्भवति, स भवति राजा चक्रवर्ती । नूनमहं राजा चक्रवर्ती यन्न्वहं दिव्यं चक्ररत्नं मीमांसयेयम् । अथ राजा क्षत्रियो मूर्धाभिषिक्त एकांसमुत्तरासङ्गं कृत्वा दक्षिणजानुमण्डलं पृथिव्यां प्रतिष्ठाप्य दक्षिणेन पाणिना तद्दिव्यं चक्ररत्नं प्रार्थयेदेवं चावेदयेत्- प्रवर्तयस्व भट्ट दिव्यं चक्ररत्नं धर्मेण माधर्मेण । अथ तद्दिव्यं चक्ररत्नं राज्ञा क्षत्रियेण मूर्धाभिषिक्तेन प्रवर्तितं सम्यगेव ऋद्धौ विहायसा पूर्वेण व्रजति । अन्वेति राजा चक्रवर्ती सार्धं चतुरङ्गेण बलकायेन । यत्र च पृथिवीप्रदेशे तद्दिव्यं चक्ररत्नं संतिष्ठते, तत्र राजा क्षत्रियो मूर्धाभिषिक्तो वासं कल्पयति सार्धं चतुरङ्गेण बलकायेन । अथ ये ते भवन्ति पूर्वस्यां दिशि राजानो मण्डलिनः, ते रूप्यपात्रीं वा (वैद्य १२) सुवर्णचूर्णपरिपूर्णामादाय स्वर्णपात्रीं वा रूप्यचूर्णपरिपूर्णामादाय राजानं चक्रवर्तिनं प्रत्युत्तिष्ठन्ति - एहि देव स्वागतं देवाय, इदं देवस्य राज्यमृद्धं च स्फीतं च क्षेमं च सुभिक्षं च रमणीयं चाकीर्णबहुजनमनुष्यं च । अध्यावसतु देव स्वकं विजितमनुप्राप्तम् । एवमुक्ते राजा क्षत्रियो मूर्धाभिषिक्तस्त्राता तान् राज्ञो मण्डलिन एतदवोचत्- कारयन्तु भवन्तः स्वकानि राज्यानि धर्मेण । हन्त भवन्तो मा प्राणिनं घातयिष्यथ, मादत्तादास्यथ, मा कामेषु मिथ्या चरिष्यथ, मा मृषा वक्ष्यथ, यावन्मा भे विजिते अधर्ममुत्पद्यते, माधर्मचारिणो रोचेथ । एवं खलु राजा क्षत्रियो मूर्धाभिषिक्तः पूर्वां दिशं विजयति । पूर्वां दिशं विजितः पूर्वं समुद्रमवगाह्य पूर्वं समुद्रमवतरति । पूर्वं समुद्रमवतीर्य सम्यगेव ऋद्ध्या विहायसा दक्षिणेन व्रजति । अन्वेति राजा चक्रवर्ती सार्धं चतुरङ्गेण बलकायेन । पूर्ववदेवं दक्षिणां दिशं विजयति । यथा दक्षिणामेवं पश्चिमामुत्तरां दिशं विजयति । उत्तरां दिशं विजित्य उत्तरसमुद्रमवगाहते । अवगाह्योत्तरात्समुद्रात्प्रत्युत्तरति । प्रत्युत्तीर्य सम्यगेव ऋद्ध्या विहायसा राजधानीमागत्योपरि अन्तःपुरद्वारेऽक्षतमेवास्थात् । एवंरूपेण राजा क्षत्रियो मूर्धाभिषिक्तश्चक्ररत्नेन समन्वागतो भवति ॥ कथंरूपेण राजा चक्रवर्ती हस्तिरत्नेन समन्वागतो भवति? इह राज्ञः क्षत्रियस्य मूर्धाभिषिक्तस्य पूर्ववद्धस्तिरत्नमुत्पद्यते । सर्वश्वेतं सप्ताङ्गसुप्रतिष्ठितं स्वर्णचूडकं स्वर्णध्वजं स्वर्णालंकारं हेमजालप्रतिच्छन्नमृद्धिमन्तं विहायसा गामिनं विकुर्वणाधर्मिणं यदुत बोधिर्नाम नागराजा । यदा च राजा क्षत्रियो मूर्धाभिषिक्तस्तद्धस्तिरत्नं मीमांसितुकामो भवति, अथ सूर्यस्याभ्युद्गमनवेलायां तद्धस्तिरत्नमभिरुह्य इमामेव महापृथिवीं समुद्रपरिखां समुद्रपर्यन्तां समन्ततोऽन्वाहिण्ड्य राजधानीमागत्य प्रशासनरतिः प्रत्यनुभवति । एवंरूपेण राजा चक्रवर्ती हस्तिरत्नेन समन्वागतो भवति ॥ कथंरूपेण राजा चक्रवर्ती अश्वरत्नेन समन्वागतो भवति? अथ राज्ञः क्षत्रियस्य मूर्धाभिषिक्तस्य पूर्ववदश्वरत्नमुत्पद्यते । सर्वनीलं कृष्णशिरसं मुञ्जकेशमादृतवदनं स्वर्णध्वजं स्वर्णालंकारं हेमजालप्रतिच्छन्नमृद्धिमन्तं विहायसा गामिनं विकुर्वणाधर्मिणं यदुत बालाहको नामाश्वराजम् । यदा च राजा क्षत्रियो मूर्धाभिषिक्तोऽश्वरत्नं मीमांसितुकामो भवति, अथ सूर्यस्याभ्युद्गमनवेलायामश्वरत्नमभिरुह्य इमामेव महापृथ्वीं समुद्रपरिखां समुद्रपर्यन्तां समन्तन्तोऽन्वाहिण्ड्य राजधानीमागत्य प्रशासनरतिः प्रत्यनुभवति । एवंरूपेण राजा चक्रवर्तीमश्वरत्नेन समन्वागतो भवति ॥ कथंरूपेण राजा चक्रवर्तीं मणिरत्नेन समन्वागतो भवति? इह राज्ञः क्षत्रियस्य मूर्धाभिषिक्तस्य पूर्ववन्मणिरत्नमुत्पद्यते शुद्धनीलवैडूर्यमष्टांशं सुपरिकर्मकृतम् । तस्य खलु पुनर्मणिरत्नस्याभया सर्वमन्तःपुरमवभास्येन स्फुटं भवति । यदा च राजा क्षत्रियो मूर्धाभिषिक्तस्तं (वैद्य १३) मणिरत्नं मीमांसितुकामो भवति, अथ रात्र्यामर्धरात्रसमयेऽन्धकारतमिस्रायां तं मणिरत्नं ध्वजाग्रे उच्छ्रापयित्वा उद्यानभूमिं निर्याति सुभूमिदर्शनाय । तस्य खलु पुनर्मणिरत्नस्याभयासर्वावन्तं चतुरङ्गबलकायमवभासेन स्फुटीभवति सामन्तेन योजनम् । ये खलु पुनस्तस्य मणिरत्नस्य सामन्तके मनुष्याः प्रतिवसन्ति, ते तेनावभासेनास्फुट समाना अन्योन्यं संजानन्ति, अन्योन्यं पश्यन्ति, अन्योन्यमाहुः - उत्तिष्ठ भद्रमुखाः कर्मान्तानि कारयतः आपणानि प्रसारयत, दिवा मन्यामहे सूर्यमभ्युद्गतम् । एवंरूपेण राजा क्षत्रियो मूर्धाभिषिक्तो मणिरत्नेन समन्वागतो भवति ॥ कथंरूपेण राजा चक्रवर्ती स्त्रीरत्नेन समन्वागतो भवति? इह राज्ञः क्षत्रियस्य मूर्धाभिषिक्तस्य पूर्ववत्स्त्रीरत्नमुत्पद्यते । सदृशी क्षत्रिया नातिदीर्घा नातिह्रस्वा नातिस्थूला नातिकृशा नातिगौरी नातिकृष्णा अभिरूपा प्रासादिका दर्शनीया । तस्याः सर्वरोमकूपेभ्यश्चन्दनगन्धं प्रवाति, मुखाच्चोत्पलगन्धं प्रवाति । काचिलिन्दिकसुखसंस्पर्शा । शीतलकाले चास्या उष्णसंस्पर्शानि गात्राणि भवन्ति, उष्णकाले च शीतसंस्पर्शानि । सा राजानं चक्रवर्तिनं मुक्त्वा नान्यस्मिन्मनसापि रागं करोति किं पुनः कायेन । एवंरूपेण राजा चक्रवर्ती स्त्रीरत्नेन समन्वागतो भवति ॥ कथंरूपेण राजा चक्रवर्ती गृहपतिरत्नेन समन्वागतो भवति? इह राज्ञः क्षत्रियस्य मूर्धाभिषिक्तस्य पूर्ववद्गृहपतिरत्नमुत्पद्यते पण्डितो व्यक्तो मेधावी दिव्यचक्षुः । स तेन दिव्यचक्षुषा सामन्तेन योजनं सस्वामिकानि निधानानि पश्यति, अस्वामिकानि निधानानि पश्यति । स यानि तानि भवन्ति अस्वामिकानि, तै राज्ञश्चक्रवर्तिनो धनेन करणीयं करोति । एवंरूपेण राजा चक्रवर्ती गृहपतिरत्नेन समन्वागतो भवति ॥ कथंरूपेण राजा चक्रवर्ती परिणायकरत्नेन समन्वागतो भवति? इह राज्ञः क्षत्रियस्य मूर्धाषिभिक्तस्य पूर्ववत्परिणायकरत्नमुत्पद्यते पण्डितो व्यक्तो मेधावी । राज्ञचक्रवर्तिनश्चिन्तितमात्रेण उद्योजयितव्यं सेनामुद्योजयति स्म । एवंरूपेण राजा चक्रवर्ती परिणायकरत्नेन समन्वागतो भवति । एभिः सप्तरत्नैः समन्वागतो भविष्यति । भवति चास्य पुत्रसहस्रं शूराणां वीराणां वराङ्गरूपिणां परसैन्यप्रमर्दकानाम् । स इमां महापृथिवीं ससागरपर्यन्तामखिलामकण्टकामदण्डेनाशस्त्रेणाभिनिर्जित्याध्यासयति । सचेदगारादनगारिकां प्रव्रजिष्यति, वान्तछन्दरागो नेता अनन्यदेवः शास्ता देवानां च मनुष्याणां चेति ॥ तथा अन्येऽपि देवपुत्रा जम्बुद्वीपमागत्य प्रत्येकबुद्धेभ्य आरोचयन्ति स्म - रिञ्चत मार्षा बुद्धक्षेत्रम् । इतो द्वादशवत्सरे बोधिसत्त्वो मातुः कुक्षिमवक्रमिष्यति ॥ तेन खलु पुनर्भिक्षवः समयेन राजगृहे महानगरे गोलाङ्गुलपरिवर्तने पर्वते मातङ्गो नाम प्रत्येकबुद्धो विहरति स्म । स तं शब्दं श्रुत्वा कर्दम इव शिलायां प्रस्थाय विहायसा सप्ततालमात्रमत्युद्गम्य च तेजोधातुं समापद्योल्केव परिनिर्वाणोऽयम् । यत्तस्य पित्तश्लेष्मस्नाय्वस्थिमांसरुधिरं (वैद्य १४) चासीत्, तत्सर्वं तेजसा पर्यवदानमगच्छत् । शुद्धशरीराण्येव भूमौ प्रापतन् । अद्यापि च तानि ऋषिपदान्येव संज्ञायन्ते ॥ तेन खलु पुनर्भिक्षवः समयेन वाराणस्यामृषिपतने मृगदावे पञ्च प्रत्येकबुद्धशतानि विहरन्ति स्म । तेऽपि तं शब्दं श्रुत्वा विहायसा सप्ततालमात्रमत्युद्गम्य तेजोधातुं समापद्योल्केव परिनिर्वान्ति स्म । यत्तेषां पित्तश्लेष्ममांसास्थिस्नायुरुधिरं चाभूत्, तत्सर्वं तेजसा पर्यवदानमगच्छत् । शुद्धशरीराण्येव भूमौ प्रापतन् । अस्मिन्नृषयः पतिता इति तस्मात्प्रभृति ऋषिपतनसंज्ञोदपादि । अभयदत्ताश्च तस्मिन्मृगाः प्रतिवसन्ति इति तदग्रेण मृगदावस्य मृगदाव इति संज्ञोदपादि ॥ इति हि भिक्षवो बोधिसत्त्वस्तुषितवरभवनस्थितश्चत्वारि महाविलोकितानि विलोकयति स्म । कतमानि चत्वारि? तद्यथा - कालविलोकितं द्वीपविलोकितं देशविलोकितं कुलविलोकितम् ॥ किं कारणं भिक्षवो बोधिसत्त्वः कालविलोकितं विलोकयति स्म? न बोधिसत्त्व आदिप्रवृत्ते लोके सत्त्वसंवर्तनीकालसमये मातुः कुक्षिमवक्रामति, अथ तर्हि यदा व्यक्तो लोकः सुस्थितो भवति, जाति प्रज्ञायते, जरा प्रज्ञायते, व्याधि प्रज्ञायते, मरणं प्रज्ञायते, तदा बोधिसत्त्वो मातुः कुक्षिमवक्रामति ॥ किं कारणं बोधिसत्त्वो द्वीपविलोकितं विलोकयति स्म? न बोधिसत्त्वा प्रत्यन्तद्वीपा उपपद्यन्ते, न पुर्वविदेहे, नापरगोदानीये, न चोत्तरकुरौ । अथ तर्हि जम्बुद्वीप एवोपपद्यन्ते ॥ किं कारणं भिक्षवो बोधिसत्त्वो देशविलोकितं विलोकयति स्म? न बोधिसत्त्वाः प्रत्यन्तजनपदेषूपपद्यन्ते, येषु मनुष्या अन्धजात्या जडा एडमूकजातीया अभव्याः सुभाषितदुर्भाषितानामर्थं ज्ञातुम् । अथ तर्हि बोधिसत्त्वा मध्यमेष्वेव जनपदेषूपपद्यन्ते ॥ किं कारणं भिक्षवो बोधिसत्त्वः कुलविलोकितं विलोकयति स्म? न बोधिसत्त्वा हीनकुलेषूपपद्यन्ते चण्डालकुलेषु वा वेणुकारकुले वा रथकारकुले वा पुष्कसकुले वा । अथ तर्हि कुलद्वये एवोपपद्यन्ते ब्राह्मणकुले क्षत्रियकुले च । तत्र यदा ब्राह्मणगुरुको लोको भवति, तदा ब्राह्मणकुले उपपद्यन्ते । यदा क्षत्रियगुरुको लोको भवति, तदा क्षत्रियकुले उपपद्यन्ते । एतर्हि भिक्षवः क्षत्रियगुरुको लोकः । तस्माद्बोधिसत्त्वाः क्षत्रियकुले उपपद्यन्ते । तमर्थं च संप्रतीत्य बोधिसत्त्वस्तुषितवरभवनस्थश्चत्वारि महाविलोकितानि विलोकयति स्म ॥ एवं चावलोक्य तूष्णीमभूत् । इति हि भिक्षवस्ते देवपुत्राः बोधिसत्त्वस्यान्योन्यं परिपृच्छन्ति स्म - कतमस्मिन् कुलरत्ने कियद्रूपायां जनन्यां बोधिसत्त्वः प्रतिष्ठतेति । तत्र केचिदाहुः - इदं वैदेहीकुलं मगधेषु जनपदेषु ऋद्धं च स्फीतं च क्षेमं सुभिक्षं च । इदं प्रतिरूपमस्य बोधिसत्त्वस्य गर्भस्थानम् । अपरे त्वाहुः - न तत्प्रतिरूपम् । तत्कस्मात्? तथा हि - तन्न (वैद्य १५) मातृशुद्धं पितृशुद्धमप्लुतं चञ्चलमनवस्थितं परित्तपुण्याभिष्यन्दितं न विपुलपुण्याभिषिक्तं सत्कुलप्रदेशोपचारं नोद्यानसरस्तडागाकीर्णं कर्वटमिव प्रत्यन्तवासम् । तेन न तत्प्रतिरूपम् ॥ अपरे त्वाहुः - इदं पुनः कौशलकुलं महावाहनं च महापरिवारं च महाधनं च । तत्प्रतिरूपमस्य बोधिसत्त्वस्य गर्भप्रतिसंस्थानायेति । अपरेऽप्याहुः - तदप्यप्रतिरूपम् । तत्कस्माद्धेतोः? तथा हि - कौशलकुलं मातङ्गच्युत्युपपन्नं न मातृपितृशुद्धम् । हीनाधिमुक्तिकं न च कुलोदितं न चापरिमितधनरत्ननिधिसमुत्थितम् । तेन न तत्प्रतिरूपम् ॥ अपरे त्वाहुः - इदं वंशराजकुलमृद्धं च स्फीतं च क्षेमं च सुभिक्षं च । इदं प्रतिरूपमस्य बोधिसत्त्वस्य गर्भस्थानमिति । अपर एवमाहुः - इदमप्यप्रतिरूपम् । किं कारणम्? तथाहि - वंशराजकुलं प्राकृतं च चण्डं च न चोज्ज्वलिततेजसं परपुरुषजन्मावृतं च न मातृपितृस्वतेजः कर्माभिनिर्वृत्तं च । उच्छेदवादी च तत्र राजा । तेन तदप्यप्रतिरूपम् ॥ अपरेऽप्याहुः - इयं वैशाली महानगरी ऋद्धा च स्फीता च क्षेमा च सुभिक्षा च रमणीया चाकीर्णबहुजनमनुष्या च वितर्दिनिर्यूहतोरणगवाक्षहर्म्यकूटागारप्रासादतलसमलंकृता च पुष्पवाटिकावनराजिसंकुसुमिता च अमरभवनपुरप्राकाश्या । सा प्रतिरूपास्य बोधिसत्त्वस्य गर्भप्रतिसंस्थानायेति । अपर आहुः - साप्यप्रतिरूपा । किं कारणम्? तथा हि - तेषां नास्ति परस्परन्यायवादिता, नास्ति धर्माचरणम्, नोच्चमध्यवृद्धज्येष्ठानुपालिता । एकैक एव मन्यते - अहं राजा, अहं राजेति । न च कस्यचिच्छिष्यत्वमभ्युपगच्छति न धर्मत्वम् । तेन साप्यप्रतिरूपा ॥ अपरे त्वेवमाहुः - इदं प्रद्योतकुलं महाबलं च महावाहनं च परचमूशिरसि विजयलब्धं च । तत्प्रतिरूपमस्य बोधिसत्त्वस्य गर्भप्रतिसंस्थानायेति । अपरे त्वेवमाहुः - तदप्यप्रतिरूपम् । किं कारणम्? तथा हि - ते चण्डाश्च चपलाश्च रौद्राश्च परुषाश्च साहसिकाश्च, न च कर्मदर्शिनः । तेन तदप्यप्रतिरूपमस्य बोधिसत्त्वस्य गर्भप्रतिसंस्थानायेति ॥ अपर एवमाहुः - इयं मथुरा नगरी ऋद्धा च स्फीता च क्षेमा च सुभिक्षा चाकीर्णबहुजनमनुष्या च । राज्ञः सुबाहोः कंसकुलस्य शूरसेनेश्वरस्य राजधानिः । सा प्रतिरूपास्य बोधिसत्त्वस्य गर्भप्रतिसंस्थानायेति । अपरे त्वाहुः - साप्यप्रतिरूपा । किं कारणम्? तथाहि - स राजा मिथ्यादृष्टिकुलवंशप्रसूतो दस्युराजा । न युज्यते चरमभविकस्य बोधिसत्त्वस्य मिथ्यादृष्टिकुले उपपत्तुम् । तेन साप्यप्रतिरूपा ॥ अपरेऽप्याहुः - अयं हस्तिनापुरे महानगरे राजा पाण्डवकुलवंशप्रसूतः शूरो वीर्यवान् वराङ्गरूपसंपन्नः परसैन्यप्रमर्दकानां तत्कुलं प्रतिरूपमस्य बोधिसत्त्वस्य गर्भप्रतिसंस्थानायेति । अपरेऽप्याहुः - तदप्यप्रतिरूपम् । किं कारणम्? तथा हि - पाण्डवकुलप्रसूतैः कुलवंशोऽतिव्याकुलीकृतो (वैद्य १६) युधिष्ठिरो धर्मस्य पुत्र इति कथयति, भीमसेनो वायोः, अर्जुन इन्द्रस्य, नकुलसहदेवावश्विनोरिति । तेन तदपि कुलमप्रतिरूपमस्य बोधिसत्त्वस्य गर्भसंस्थानायेति ॥ अपर आहुः - इयं मिथिला नगरी अतीव रमणीया मैथिलस्य राज्ञः सुमित्रस्य निवासभूमिः । स राजा प्रभूतहस्त्यश्वरथपदातिबलकायसमन्वितः प्रभूतहिरण्यसुवर्णमणिमुक्तावैडूर्यशङ्खशिलाप्रवालजातरूपरजतवित्तोपकरणः सर्वसामन्तराजाभीतबलपराक्रमो मित्रवान् धर्मवत्सलः । तत्कुलं प्रतिरूपमस्य बोधिसत्त्वस्य गर्भप्रतिसंस्थानायेति । अन्य ऊचुः - तदप्यप्रतिरूपम् । अस्त्यसौ राजा सुमित्र एवंगुणयुक्तः, किं त्वतिवृद्धो न समर्थः प्रजामुत्पादयितुमतिबहुपुत्रश्च । तस्मात्तदपि कुलमप्रतिरूपमस्य बोधिसत्त्वस्य गर्भप्रतिसंस्थानायेति ॥ एवं भिक्षवस्ते बोधिसत्त्वा देवपुत्राश्च सर्वस्मिन् जम्बुद्वीपे षोडशजानपदेषु यानि कानिचिदुच्चोच्चानि राजकुलानि, तानि सर्वाणि व्यवलोकयन्तः(तानि) सर्वाणि सदोषाण्यद्राक्षुः । तेषां चिन्तामनस्कारप्रयुक्तानां ज्ञानकेतुध्वजो नाम देवपुत्रोऽवैवर्तिको बोधाय कृतनिश्चयोऽस्मिन्महायाने । स तां महतीं बोधिसत्त्वदेवपर्षदमेतदवोचत्- एतन्मार्षा एतमेव बोधिसत्त्वमुपसंक्रम्य परिप्रक्ष्यामः - कीदृग्गुणसंपन्ने कुले चरमभविको बोधिसत्त्वः प्रत्याजायत इति । साध्विति ते सर्वे कृताञ्जलिपुटा बोधिसत्त्वमुपसंक्रम्य पर्यप्राक्षुः - कीदृग्गुणसंपन्ने सत्पुरुषकुलरत्ने चरमभविको बोधिसत्त्वः प्रत्याजायत इति ॥ ततो बोधिसत्त्वस्तं महान्तं बोधिसत्त्वगणं देवगणं च व्यवलोक्य एतदवोचत्- चतुष्षष्ट्याकारैर्मार्षाः संपन्नकुलं भवति यत्र चरमभविको बोधिसत्त्वः प्रत्याजायते । कतमैश्चतुष्षष्ट्याकारैः? तद्यथा । अभिज्ञातं च तत्कुलं भवति । अक्षुद्रानुपघाति च तत्कुलं भवति । जातिसंपन्नं च तत्कुलं भवति । गोत्रसंपन्नं च तत्कुलं भवति । पूर्वपुरुषयुगसंपन्नं च तत्कुलं भवति । अभिजातपुरुषयुगसंपन्नं च तत्कुलं भवति । अभिलक्षितपुरुषयुगसंपन्नं च तत्कुलं भवति । महेशाख्यपुरुषयुगसंपन्नं च तत्कुलं भवति । बहुस्त्रीकं च तत्कुलं भवति । बहुपुरुषं च तत्कुलं भवति । अभीतं च तत्कुलं भवति । अदीनालीनं च तत्कुलं भवति । अलुब्धं च तत्कुलं भवति । शीलवच्च तत्कुलं भवति । प्रज्ञावच्च तत्कुलं भवति । अमात्यावेक्षितं च तत्कुलं भवति भोगान् परिभुनक्ति । अवन्ध्यशिल्पनिवेशनं च तत्कुलं भवति भोगान् परिभुनक्ति । दृढमित्रं च तत्कुलं भवति । तिर्यग्योनिगतप्राणानुपरोधकरं च तत्कुलं भवति । कृतज्ञं च कृतवेदितं च तत्कुलं भवति । अच्छन्दगामिनं च तत्कुलं भवति । अदोषगामिनं च तत्कुलं भवति । अमोहगामिनं च तत्कुलं भवति । अभयगामिनं च तत्कुलं भवति । अनवद्यभीरु च तत्कुलं भवति । अमोहविहारि च तत्कुलं भवति । स्थूलभिक्षं च तत्कुलं भवति । क्रियाधिमुक्तं च तत्कुलं भवति । त्यागाधिमुक्तं च तत्कुलं भवति । दानाधिमुक्तं च तत्कुलं भवति । परुषकारमति च तत्कुलं (वैद्य १७) भवति । दृढविक्रमं च तत्कुलं भवति । बलविक्रमं च तत्कुलं भवति । श्रेष्ठविक्रमं च तत्कुलं भवति । ऋषिपूजकं च तत्कुलं भवति । देवतापूजकं च तत्कुलं भवति । चैत्यपूजकं च तत्कुलं भवति । पूर्वप्रेतपूजकं च तत्कुलं भवति । अप्रतिबद्धवैरं च तत्कुलं भवति । दशदिग्विघुष्टशब्दं च तत्कुलं भवति । महापरिवारं च तत्कुलं भवति । अभेद्यपरिवारं च तत्कुलं भवति । अनुत्तरपरिवारं च तत्कुलं भवति । कुलज्येष्ठं च तत्कुलं भवति । कुलश्रेष्ठं च तत्कुलं भवति । कुलवशिताप्राप्तं च तत्कुलं भवति । महेशाख्यं च तत्कुलं भवति । मातृज्ञं च तत्कुलं भवति । पितृज्ञं च तत्कुलं भवति । श्रामण्यं च तत्कुलं भवति । ब्राह्मण्यं च तत्कुलं भवति । प्रभूतधनधान्यकोषकोष्ठागारं च तत्कुलं भवति । प्रभूतहिरण्यसुवर्णमणिमुक्ताजातरूपरजतवित्तोपकरणं च तत्कुलं भवति । प्रभूतहस्त्यश्वोष्ट्रगवेडकं च तत्कुलं भवति । प्रभूतदासीदासकर्मकरपौरुषेयं च तत्कुलं भवति । दुष्प्रधर्षं च तत्कुलं भवति । सर्वार्थसिद्धं च तत्कुलं भवति । चक्रवर्तिकुलं च तत्कुलं भवति । पूर्वकुशलमूलसहायोपचितं च तत्कुलं भवति । बोधिसत्त्वकुलकुलोदितं च तत्कुलं भवति । अनवद्यं च तत्कुलं भवति सर्वजातिवाददोषैः सदेवके लोके समारके सब्रह्मके सश्रमणब्राह्मणिकायां प्रजायाम् । एभिर्मार्षाश्चतुष्षष्ट्याकारैः समन्वागतं च तत्कुलं भवति यस्मिंश्चरमः भविको बोधिसत्त्व उत्पद्यते ॥ द्वात्रिंशता मार्षा गुणाकारैः समन्वागता सा स्त्री भवति यस्याः स्त्रियाश्चरमभविको बोधिसत्त्वः कुक्षाववक्रामति । कतमैर्द्वात्रिंशता? यदुत अभिज्ञातायां स्त्रियां कुक्षौ चरमभविको बोधिसत्त्वोऽवक्रामति । अभिलक्षिताया अच्छिद्रोपचाराया जातिसंपन्नायाः कुलसंपन्नाया रूपसंपन्नाया नामसंपन्नाया आरोहपरिणाहसंपन्नाया अप्रसूतायाः शीलसंपन्नायाः त्यागसंपन्नायाः स्मितमुखायाः प्रदक्षिणग्राहिण्या व्यक्ताया विनीताया विशारदाया बहुश्रुतायाः पण्डिताया अशठाया अमायाविन्या अक्रोधनाया अपगतेर्ष्याया अमत्सराया अचञ्चलाया अचपलाया अमुखरायाः क्षान्तिसौरभ्यसंपन्नाया ह्र्यपत्राप्यसंपन्नाया मन्दरागद्वेषमोहाया अपगतमातृग्रामदोषायाः पतिव्रतायाः सर्वाकारगुणसंपन्नायाः स्त्रियाः कुक्षौ चरमभविको बोधिसत्त्वोऽवक्रामति । एभिर्मार्षा द्वात्रिंशताकारैः समन्वागता सा स्त्री यस्याः स्त्रियाः कुक्षौ चरमभविको बोधिसत्त्वोऽवक्रामति ॥ न खलु पुनर्मार्षाः कृष्णपक्षे बोधिसत्त्वो मातुः कुक्षाववक्रामति, अपि तु शुक्लपक्षे । एवं पञ्चदश्यां पूर्णायां पूर्णिमायां पुष्यनक्षत्रयोगे पोषधपरिगृहीताया मातुः कुक्षौ चरमभविको बोधिसत्त्वोऽवक्रामति ॥ अथ खलु ते बोधिसत्त्वास्ते च देवपुत्रा बोधिसत्त्वस्यान्तिकादिमामेवरूपां कुलपरिशुद्धिं मातृपरिशुद्धिं च श्रुत्वा चिन्तामनस्कारा अभूवन् । कतमं कुलमेवंगुणसमन्वागतं भवेद्यावद्विधमनेन सत्पुरुषेण निर्दिष्टम्? तेषां चिन्तामनस्कारप्रयुक्तानामेतदभूत्- इदं खल्वपि शाक्यकुलमृद्धं च स्फीतं च क्षेमं च सुभिक्षं च रमणीयं चाकीर्णबहुजनमनुष्यं च । राजा शुद्धोदनो मातृशुद्धः (वैद्य १८) पितृशुद्धः पत्नीशुद्धोऽपरिकृष्टसंपन्नायाः स्वाकारसुविज्ञापकः पुण्यतेजस्तेजितो महासंमतकुले प्रसूतश्चक्रवर्तिवंशकुलकुलोदितोऽपरिमितधननिधिरत्नसमन्वागतः कर्मदृक्च विगतपापदृष्टिकश्च । सर्वशाक्यविषये चैकराजा पूजितो मानितः श्रेष्ठिगृहपत्यमात्यपारिषद्यानां प्रासादिको दर्शनीयो नातिवृद्धो नातितरुणोऽभिरूपः सर्वगुणोपेतः शिल्पज्ञः कालज्ञ आत्मज्ञो धर्मज्ञस्तत्त्वज्ञो लोकज्ञो लक्षणज्ञो धर्मराजो धर्मेणानुशास्ता अवरोपितकुशलमूलानां च सत्त्वानां कपिलवस्तुमहानिलयः । येऽपि तत्रोपपन्नास्तेऽपि तत्स्वभावा एव । राज्ञश्च शुद्धोदनस्य माया नाम देवी सुप्रबुद्धस्य शाक्याधिपतेर्दुहिता नवतरुणी रूपयौवनसंपन्ना अप्रसूता अपगतपुत्रदुहितृका सुरूपा सलेख्यविचित्रेव दर्शनीया देवकन्येव सर्वालंकारभूषिता अपगतमातृग्रामदोषा सत्यवादिन्यकर्कशा अपरुषा अचपलानवद्या कोकिलस्वरा अप्रलापिनी मधुरप्रियवादिनी व्यपगताखिलक्रोधमदमानदर्पप्रतिघा अनीर्षुका कालवादिनी त्यागसंपन्ना शीलवती पतिसंतुष्टा पतिव्रता परपुरुषचिन्तामनस्कारापगता समसंहतशिरःकर्णनासा भ्रमवरसदृशकेशी सुललाटी सुभ्रूर्व्यपगतभ्रुकुटिका स्मितमुखी पूर्वाभिलापिनी श्लक्ष्णमधुरवचना प्रदक्षिणग्राहिणी ऋज्वी अकुटिला अशठा अमायाविनी ह्र्यपत्राप्यसंपन्ना अचपला अचञ्चला अमुखरा अविकीर्णवचना मन्दरागद्वेषमोहा क्षान्तिसौरभ्यसंपन्ना करचरणनयनस्वारक्षितबुद्धिः मृदुतरुणहस्तपादा काचिलिन्दिकसुखसंस्पर्शा नवनलिनेन्दीवरपत्रसुविशुद्धनयना रक्ततुङ्गनासा सुप्रतिष्ठिताङ्गी सेन्द्रायुधमिव यष्टिः सुविनीता सुविभक्ताङ्गप्रत्यङ्गा अनिन्दिताङ्गी बिम्बोष्ठी चारुदशना अनुपूर्वग्रीवा स्वलंकृता सुमना वार्षिकी सुविशुद्धदर्शना सुविनीतांसा अनुपूर्वसुजातबाहुश्चापोदरी अनुपहतपार्श्वा गम्भीरनाभिमण्डला वृत्तसुविस्तीर्णश्लक्ष्णकठिनकटिर्वज्रसंहननकल्पसदृशमात्रा गजभुजसमसमाहितसदृशोरू ऐणेयमृगसदृशजङ्घा लाक्षारससदृशपाणिपादा जगति नयनाभिरम्या अप्रतिहतचक्षुरिन्द्रिया मनापप्रियदर्शना स्त्रीरत्नरूपप्रतिविशिष्टा मायानिर्मितमिव बिम्बं मायानामसंकेता कलाविचक्षणा नन्दन इवाप्सरः - प्रकाशा शुद्धोदनस्य महाराजस्यान्तःपुरमध्यगता । सा प्रतिरूपा बोधिसत्त्वस्य जननी । या चेयं कुलपरिशुद्धिर्बोधिसत्त्वेनोदाहृता, सा शाक्यकुल एव संदृश्यते ॥ तत्रेदमुच्यते - प्रासादि धर्मोच्चयि शुद्धसत्त्वः सुधर्मसिंहासनि संनिषण्णः । सभागदेवैः परिवारितो ऋषिः संबोधिसत्त्वेभि महायशोभिः ॥ ३.१ ॥ तत्रोपविष्टान अभूषि चिन्ता कतमत्कुलं शुद्धसुसंप्रजानम् । (वैद्य १९) यद्बोधिसत्त्वे प्रतिरूपजन्मे माता पिता कुत्र च शुद्धभावाः ॥ ३.२ ॥ व्यवलोकयन्तः खलु जम्बुसाह्वयं यः क्षत्रियो राजकुलो महात्मा । सर्वान् सदोषाननुचिन्तयन्तः शाक्यं कुलं चादृशु वीतदोषम् ॥ ३.३ ॥ शुद्धोदनो राजकुले कुलीनो नरेन्द्रवंशे सुविशुद्धगात्रः । ऋद्धं च स्फीतं च निराकुलं च सगौरवं सज्जनधार्मिकं च ॥ ३.४ ॥ अन्येऽपि सत्त्वाः कपिलाह्वये पुरे सर्वे सुशुद्धाशय धर्मयुक्ताः । उद्यानआरामविहारमण्डिता कपिलाह्वये शोभति जन्मभूमिः ॥ ३.५ ॥ सर्वे महानग्न बलैरुपेता विस्तीर्णहस्ती नवरत्नवन्ति । इष्वस्त्रशिक्षासु च पारमिं गता न चापरं हिंसिषु जीवितार्थम् ॥ ३.६ ॥ शुद्धोदनस्य प्रमदा प्रधाना नारीसहस्रेषु हि साग्रप्राप्ता । मनोरमा मायकृतेव बिम्बं नामेन सा उच्यति मायादेवी ॥ ३.७ ॥ सुरूपरूया यथ देवकन्या सुविभक्तगात्रा शुभनिर्मलाङ्गी । न सोऽस्ति देवो न च मानुषो वा यो माय दृष्ट्वाथ लभेत तृप्तिम् ॥ ३.८ ॥ न रागरक्ता न च दोषदुष्टा श्लक्ष्णा मृदू सा ऋजुस्निग्धवाक्या । (वैद्य २०) अकर्कशा चापरुषा च सौम्या स्मितीमुखा सा भ्रुकुटीप्रहीणा ॥ ३.९ ॥ ह्रीमा व्यपत्रापिणी धर्मचारिणी निर्माण अस्तब्ध अचञ्चला च । अनीर्षुका चाप्यशठा अमाया त्यागानुरक्ता सहमैत्रचित्ता ॥ ३.१० ॥ कर्मेक्षिणी मिथ्यप्रयोगहीना सत्ये स्थिता कायमनःसुसंवृता । स्त्रीदोषजालं भुवि यत्प्रभूतं सर्वं ततोऽस्याः खलु नैव विद्यते ॥ ३.११ ॥ न विद्यते कन्य मनुष्यलोके गन्धर्वलोकेऽथ च देवलोके । मायाय देवीय समा कुतोऽन्तरी प्रतिरूप सा वै जननी महर्षेः ॥ ३.१२ ॥ जातीशतां पञ्चमनूनकारि सा बोधिसत्त्वस्य बभूव माता । पिता च शुद्धोदनु तत्र तत्र प्रतिरूप तस्माज्जननी गुणान्विता ॥ ३.१३ ॥ व्रतस्थ सा तिष्ठति तापसीव व्रतानुचारी सहधर्मचारिणी । राज्ञाभ्यनुज्ञात वरप्रलब्धा द्वात्रिंश मासामव काम सेवहि ॥ ३.१४ ॥ यत्र प्रदेशे स्थिहते निषीदते शय्यागता च क्रमणं च तस्याः । ओभासितो भोति सदेवभागो आभाय तस्याः शुभकर्मनिष्ठया ॥ ३.१५ ॥ न सोऽस्ति देवासुर मानुषो वा यो रागचित्तेन समर्थ प्रेक्षितुम् । (वैद्य २१) पश्यन्ति मातां दुहितां च सर्वे ईर्यापथेष्टार्यगुणोपपेता ॥ ३.१६ ॥ मायाय देव्याः शुभकर्महेतुना विवर्धते राजकुलं विशालम् । प्रदेशराज्ञामपि चाप्रचारो विवर्धते कीर्ति यशश्च पार्थिवे ॥ ३.१७ ॥ यथा च माया प्रतिरूपभाजनं यथार्यसत्त्वः परमं विराजते । पश्येत एवावधिकं गुणान्विता दया सुता सा जननी च माया ॥ ३.१८ ॥ जम्बुध्वजेऽन्या न हि सास्ति नारी यस्या समर्था धरितुं नरोत्तमः । अन्यत्र देव्यातिगुणान्विताया दशनागसाहस्रबलं हि यस्याः ॥ ३.१९ ॥ एवं हि ते देवसुता महात्मा संबोधिसत्त्वाश्च विशालप्रज्ञा । वर्णन्ति मायां जननीं गुणान्वितां प्रतिरूप सा शाक्यकुलनन्दनस्य ॥ ३.२० ॥ इति ॥ इति श्रीललितविस्तरे कुलपरिशुद्धिपरिवर्तो नाम तृतीयोऽध्यायः ॥ ______________________________________________________________________ परिवर्त ४ (वैद्य २२) धर्मालोकमुखपरिवर्तश्चतुर्थः । इति हि भिक्षवो बोधिसत्त्वो जन्मकुलं व्यवलोक्य उच्चध्वजं नाम तुषितालये महाविमानं चतुःषष्टियोजनान्यायामविस्तारेण यस्मिन् बोधिसत्त्वः संनिषद्य तुषितेभ्यो देवेभ्यो धर्मं देशयति स्म, तं महाविमानं बोधिसत्त्वोऽभिरोहति स्म । अभिरुह्य च सर्वान् तुषितकायिकान् देवपुत्रानामन्त्रयते स्म - संनिपतन्तु भवन्तः च्युत्याकारप्रयोगं नाम धर्मानुस्मृतिचर्यानुशासनीं पश्चिमं बोधिसत्त्वस्यान्तिकाद्धर्मश्रवणं श्रोष्यथेति । इदं खल्वपि वचनं श्रुत्वा सर्वे तुषितकायिका देवपुत्राः साप्सरोगणास्तस्मिन् विमाने संनिपतन्ति स्म ॥ तत्र बोधिसत्त्वेन चतुर्महाद्वीपके लोकधातुविस्तरप्रमाणो मण्डलमात्राधिष्ठितोऽभूत्, तावच्चित्रस्तावद्दर्शनीयस्तावत्स्वलंकृतस्तावत्सुरुचिरो यावत्सर्वे कामावचरा देवा रूपावचराश्च देवपुत्राः स्वेषु भवनव्यूहेषु श्मशानसंज्ञामुत्पादयामासुः ॥ तत्र बोधिसत्त्वः स्वपुण्यविपाकनिष्यन्दपरिमण्डिते सिंहासने निषीदति स्म अनेकमणिरत्नपादप्रत्युप्ते अनेकपुष्पसंस्तरसंस्कृते अनेकदिव्यगन्धवासोपवासिते अनेकसारवरगन्धनिर्धूपिते अनेकवर्णदिव्यपुष्पगन्धसंस्तरसंस्कृते अनेकमणिरत्नकृतशतसहस्रप्रभोज्ज्वालिततेजसि अनेकमणिरत्नजालसंछन्ने अनेककिंकिणीजालसमीरिताभिनादिते अनेकरत्नघण्टाशतसहस्ररणितनिर्घोषे अनेकरत्नजालशतसहस्रपरिस्फुटे अनेकरत्नगणशतसहस्रसंछादिते अनेकपट्टशतसहस्राभिप्रलम्बिते अनेकपट्टदाममाल्यशतसहस्रसमलंकृते अनेकाप्सरःशतसहस्रनृत्यगीतवादितपरिगीते अनेकगुणशतसहस्रवर्णिते अनेकलोकपालशतसहस्रानुपालिते अनेकशक्रशतसहस्रनमस्कृते अनेकब्रह्मशतसहस्रप्रणते अनेकबोधिसत्त्वकोटीनियुतशतसहस्रपरिगृहीते दशदिगनेकबुद्धकोटीनियुतशतसहस्रसमन्वाहृते अपरिमितकल्पकोटीनियुतशतसहस्रपारमितासंभारपुण्यविपाकनिष्यन्दसमुद्गते । इति हि भिक्षव एवंगुणसमन्वागते सिंहासने निषद्य बोधिसत्त्वस्तां महतीं देवपर्षदमामन्त्रयते स्म - व्यवलोकयत मार्षा बोधिसत्त्वस्य कायं शतपुण्यलक्षणसमलंकृतम् । व्यवलोकयत पूर्वदक्षिणपश्चिमोत्तरास्वध ऊर्ध्वं समन्ताद्दशदिक्षु अप्रमेयासंख्येयागणनासमतिक्रान्तान् बोधिसत्त्वान्, ये तुषितवरभवनस्थाः सर्वे चरमभवाभिमुखा देवगणपरिवृताश्च्यवनाकारं देवतासंहर्षणं धर्मालोकमुखं संप्रकाशयन्ति । अद्राक्षीत्सा सर्वा देवपर्षद्बोधिसत्त्वाधिस्थानेन तान् बोधिसत्त्वान् । दृष्ट्वा च पुनर्येन बोधिसत्त्वस्तेन साञ्जलिं प्रणम्य पञ्चमण्डलैर्नमस्यन्ति स्म । एवं चोदानमुदानयन्ति (वैद्य २३) स्म - साधु अचिन्त्यमिदं बोधिसत्त्वाधिस्थानं यत्र हि नाम वयं व्यवलोकितमात्रेणेयन्तो बोधिसत्त्वान् पश्याम इति ॥ अथ बोधिसत्त्वः पुनरपि तां महतीं देवपर्षदमामन्त्र्यैवमाह - तेन हि मार्षाः शृणुत च्युत्याकारं देवतासंहर्षणं धर्मालोकमुखं यदेते बोधिसत्त्वा एभ्यो देवपुत्रेभ्यो भाषन्ते । अष्टोत्तरमिदं मार्षा धर्मालोकमुखं शतं यदवश्यं बोधिसत्त्वेन च्यवनकालसमये देवपर्षदि संप्रकाशयितव्यम् । कतमत्तदष्टोत्तरशतम्? यदुत श्रद्धा मार्षा धर्मालोकमुखमभेद्याशयतायै संवर्तते । प्रसादो धर्मालोकमुखमाविलचित्तप्रसादनतायै संवर्तते । प्रामोद्यं धर्मालोकमुखं प्रसिद्ध्यै संवर्तते । प्रीति धर्मालोकमुखं चित्तविशुद्ध्यै संवर्तते । कायसंवरो धर्मालोकमुखं त्रिकायपरिशुद्ध्यै संवर्तते । वाक्संवरो धर्मालोकमुखं चतुर्वाग्दोषपरिवर्जनतायै संवर्तते । मनःसंवरो धर्मालोकमुखमभिध्याव्यापादमिथ्यादृष्टिप्रहाणाय संवर्तते । बुद्धानुस्मृतिधर्मालोकमुखं बुद्धदर्शनविशुद्ध्यै संवर्तते । धर्मानुस्मृति धर्मालोकमुखं धर्मदेशनाविशुद्ध्यै संवर्तते । संघानुस्मृति धर्मालोकमुखं न्यायाक्रमणतायै संवर्तते । त्यागानुस्मृति धर्मालोकमुखं सर्वोपधिप्रतिनिःसर्गायै संवर्तते । शीलानुस्मृति धर्मालोकमुखं प्रणिधानपरिपूर्त्यै संवर्तते । देवतानुस्मृति धर्मालोकमुखमुदारचित्ततायै संवर्तते । मैत्री धर्मालोकमुखं सर्वोपधिकपुण्यक्रियावस्त्वभिभावनतायै संवर्तते । करुणा धर्मालोकमुखविहिंसापरमतायै संवर्तते । मुदिता धर्मालोकमुखं सर्वारत्यपकर्षणतायै संवर्तते । उपेक्षा धर्मालोकमुखं कामजुगुप्सनतायै संवर्तते । अनित्यप्रत्यवेक्षा धर्मालोकमुखं कामरूप्यारूप्यरागसमतिक्रमाय संवर्तते । दुःखप्रत्यवेक्षा धर्मालोकमुखं प्रणिधानसमुच्छेदाय संवर्तते । अनात्मप्रत्यवेक्षा धर्मालोकमुखमात्मानभिनिवेशनतायै संवर्तते । शान्तप्रत्यवेक्षा धर्मालोकमुखमनुनयासंघुक्षणतायै संवर्तते । ह्री धर्मालोकमुखमध्यात्मोपशमाय संवर्तते । अपत्राप्यं धर्मालोकमुखं बहिर्धाप्रशमाय संवर्तते । सत्यं धर्मालोकमुखं देवमनुष्याविसंवादनतायै संवर्तते । भूतं धर्मालोकमुखमात्माविसंवादनतायै संवर्तते । धर्मचरणं धर्मालोकमुखं धर्मप्रतिशरणतायै संवर्तते । त्रिशरणगमनं धर्मालोकमुखं त्र्यपायसमतिक्रमाय संवर्तते । कृतज्ञता धर्मालोकमुखं कृतकुशलमूलाविप्रणाशाय संवर्तते । कृतवेदिता धर्मालोकमुखं पराभिमन्यतायै संवर्तते । आत्मज्ञता धर्मालोकमुखमात्मानुत्कर्षणतायै संवर्तते । सत्त्वज्ञता धर्मालोकमुखं परापत्समानतायै संवर्तते । धर्मज्ञता धर्मालोकमुखं धर्मानुधर्मप्रतिपत्त्यै संवर्तते । कालज्ञता धर्मालोकमुखममोघदर्शनतायै संवर्तते । निहतमानता धर्मालोकमुखं ज्ञानतापरिपूर्त्यै संवर्तते । अप्रतिहतचित्तता धर्मालोकमुखमात्मपरानुरक्षणतायै संवर्तते । अनुपनाहो धर्मालोकमुखमकौकृत्याय संवर्तते । अधिमुक्ति धर्मालोकमुखमविचिकित्सापरमतायै संवर्तते । अशुभप्रत्यवेक्षा धर्मालोकमुखं कामवितर्कप्रहाणाय संवर्तते । अव्यापादो धर्मालोकमुखं व्यापादवितर्कप्रहाणाय संवर्तते । (वैद्य २४) अमोहो धर्मालोकमुखं सर्वाज्ञानविधमनतायै संवर्तते । धर्मार्थिकता धर्मालोकमुखमर्थप्रतिशरणतायै संवर्तते । धर्मकामता धर्मालोकमुखं लोकप्रतिलम्भाय संवर्तते । श्रुतपर्येष्टि धर्मालोकमुखं योनिशोधर्मप्रत्यवेक्षणतायै संवर्तते । सम्यक्प्रयोगो धर्मालोकमुखं सम्यक्प्रतिपत्त्यै संवर्तते । नामरूपपरिज्ञा धर्मालोकमुखं सर्वसङ्गसमतिक्रमाय संवर्तते । हेतुदृष्टिसमुद्धातो धर्मालोकमुखं विद्याधिमुक्तिप्रतिलम्भाय संवर्तते । अनुनयप्रतिघप्रहाणं धर्मालोकमुखमनुन्नामावनामनतायै संवर्तते । स्कन्धकौशल्यं धर्मालोकमुखं दुःखपरिज्ञानतायै संवर्तते । धातुसमता धर्मालोकमुखं समुदयप्रहाणाय संवर्तते । आयतनापकर्षणं धर्मालोकमुखं मार्गभावनतायै संवर्तते । अनुत्पादक्षान्ति धर्मालोकमुखं निरोधसाक्षात्क्रियायै संवर्तते । कायगतानुस्मृति धर्मालोकमुखं कायविवेकतायै संवर्तते । वेदनागतानुस्मृति धर्मालोकमुखं सर्ववेदितप्रतिप्रश्रब्ध्यै संवर्तते । चित्तगतानुस्मृति धर्मालोकमुखं मायोपमचित्तप्रत्यवेक्षणतायै संवर्तते । धर्मगतानुस्मृति धर्मालोकमुखं वितिमिरज्ञानतायै संवर्तते । चत्वारि सम्यक्प्रहाणानि धर्मालोकमुखं सर्वाकुशलधर्मप्रहाणाय सर्वकुशलधर्मपरिपूर्त्यै संवर्तते । चत्वार ऋद्धिपादा धर्मालोकमुखं कायचित्तलघुत्वाय संवर्तते । श्रद्धेन्द्रियं धर्मालोकमुखमपरप्रणेयतायै संवर्तते । वीर्येन्द्रियं धर्मालोकमुखं सुविचिन्तितज्ञानतायै संवर्तते । स्मृतीन्द्रियं धर्मालोकमुखं सुकृतकर्मतायै संवर्तते । समाधीन्द्रियं धर्मालोकमुखं चित्तविमुक्त्यै संवर्तते । प्रज्ञेन्द्रियं धर्मालोकमुखं प्रत्यवेक्षणज्ञानतायै संवर्तते । श्रद्धाबलं धर्मालोकमुखं मारबलसमतिक्रमाय संवर्तते । वीर्यबलं धर्मालोकमुखमवैवर्तिकतायै संवर्तते । स्मृतिबलं धर्मालोकमुखमसंहार्यतायै संवर्तते । समाधिबलं धर्मालोकमुखं सर्ववितर्कप्रहाणाय संवर्तते । प्रज्ञाबलं धर्मालोकमुखमनवमूढ्यतायै संवर्तते । स्मृतिसंबोध्यङ्गं धर्मालोकमुखं यथावद्धर्मप्रजानतायै संवर्तते । धर्मप्रविचयसंबोध्यङ्गं धर्मालोकमुखं सर्वधर्मपरिपूर्त्यै संवर्तते । वीर्यसंबोध्यङ्गं धर्मालोकमुखं सुविचित्रबुद्धितायै संवर्तते । प्रीतिसंबोध्यङ्गं धर्मालोकमुखं समाध्यायिकतायै संवर्तते । प्रश्रब्धिसंबोध्यङ्गं धर्मालोकमुखं कृतकरणीयतायै संवर्तते । समाधिसंबोध्यङ्गं धर्मालोकमुखं समतानुबोधाय संवर्तते । उपेक्षासंबोध्यङ्गं धर्मालोकमुखं सर्वोपपत्तिजुगुप्सनतायै संवर्तते । सम्यग्दृष्टि धर्मालोकमुखं न्यायाक्रमणतायै संवर्तते । सम्यक्संकल्पो धर्मालोकमुखं सर्वकल्पविकल्पपरिकल्पप्रहाणाय संवर्तते । सम्यग्वाग्धर्मालोकमुखं सर्वाक्षररुतघोषवाक्यपथप्रतिश्रुत्कासमतानुबोधनतायै संवर्तते । सम्यक्कर्मान्तो धर्मालोकमुखमकर्माविपाकतायै संवर्तते । सम्यगाजीवो धर्मालोकमुखं सर्वेषणप्रतिप्रश्रब्ध्यै संवर्तते । सम्यग्व्यायामो धर्मालोकमुखं परतीरगमनाय संवर्तते । सम्यक्स्मृति धर्मालोकमुखमस्मृत्यमनसिकारतायै संवर्तते । सम्यक्समाधि धर्मालोकमुखमकोप्यचेतःसमाधिप्रतिलम्भाय संवर्तते । बोधिचित्तं धर्मालोकमुखं त्रिरत्नवंशानुपच्छेदाय संवर्तते । आशयो धर्मालोकमुखं हीनयानास्पृहणतायै संवर्तते । अध्याशयो धर्मालोकमुखमुदारबुद्धधर्माद्यालम्बनतायै (वैद्य २५) संवर्तते । प्रयोगो धर्मालोकमुखं सर्वकुशलधर्मपरिपूर्त्यै संवर्तते । दानपारमिता धर्मालोकमुखं लक्षणानुव्यञ्जनबुद्धक्षत्रपरिशुद्ध्यै मत्सरिसत्त्वपरिपाचनतायै संवर्तते । शीलपारमिता धर्मालोकमुखं सर्वाक्षणापायसमतिक्रमाय दुःशीलसत्त्वपरिपाचनतायै संवर्तते । क्षान्तिपारमिता धर्मालोकमुखं सर्वव्यापादखिलदोषमानमददर्पप्रहाणाय व्यापन्नचित्तसत्त्वपरिपाचनतायै संवर्तते । वीर्यपारमिता धर्मालोकमुखं सर्वकुशलमूलधर्मारङ्गोत्तारणाय कुशीदसत्त्वपरिपाचनतायै संवर्तते । ध्यानपारमिता धर्मालोकमुखं सर्वज्ञानाभिज्ञोत्पादाय विक्षिप्तचित्तसत्त्वपरिपाचनतायै संवर्तते । प्रज्ञापारमिता धर्मालोकमुखमविद्यामोहतमोन्धकारोपलम्भदृष्टिप्रहाणाय दुष्प्रज्ञसत्त्वपरिपाचनतायै संवर्तते । उपायकौशलं धर्मालोकमुखं यथाधिमुक्तसत्त्वेर्यापथसंदर्शनाय सर्वबुद्धधर्माविधमनतायै संवर्तते । चत्वारि संग्रहवस्तूनि धर्मालोकमुखं सत्त्वसंग्रहाय संबोधिप्राप्तस्य च धर्मसंप्रत्यवेक्षणतायै संवर्तते । सत्त्वपरिपाको धर्मालोकमुखमात्मसुखानध्यवसानायापरिखेदतायै संवर्तते । सद्धर्मपरिग्रहो धर्मालोकमुखं सर्वसत्त्वसंक्लेशप्रहाणाय संवर्तते । पुण्यसंभारो धर्मालोकमुखं सर्वसत्त्वोपजीव्यतायै संवर्तते । ज्ञानसंभारो धर्मालोकमुखं दशबलप्रतिपूर्त्यै संवर्तते । शमथसंभारो धर्मालोकमुखं तथागतसमाधिप्रतिलम्भाय संवर्तते । विदर्शनासंभारो धर्मालोकमुखं प्रज्ञाचक्षुःप्रतिलम्भाय संवर्तते । प्रतिसंविदवतारो धर्मालोकमुखं धर्मचक्षुःप्रतिलम्भाय संवर्तते । प्रतिशरणावतारो धर्मालोकमुखं बुद्धचक्षुःपरिशुद्ध्यै संवर्तते । धारणीप्रतिलम्भो धर्मालोकमुखं सर्वबुद्धभाषिताधारणतायै संवर्तते । प्रतिभानप्रतिलम्भो धर्मालोकमुखं सर्वसत्त्वसुभाषितसंतोषणायै संवर्तते । आनुलोमिकधर्मक्षान्ति धर्मालोकमुखं सर्वबुद्धधर्मानुलोमनतायै संवर्तते । अनुत्पत्तिकधर्मक्षान्ति धर्मालोकमुखं व्याकरणप्रतिलम्भाय संवर्तते । अवैवर्तिकभूमि धर्मालोकमुखं सर्वबुद्धधर्मप्रतिपूर्त्यै संवर्तते । भूमेर्भूमिसंक्रान्तिज्ञानं धर्मालोकमुखं सर्वज्ञज्ञानाभिषेकतायै संवर्तते । अभिषेकभूमि धर्मालोकमुखमवक्रमणजन्माभिनिष्क्रमणदुष्करचर्याबोधिमण्डोपसंक्रमणमार - ध्वंसनबोधिविबोधनधर्मचक्रप्रवर्तनमहापरिनिर्वाणसंदर्शनतायै संवर्तते । इदं तन्मार्षा अष्टोत्तरं धर्मालोकमुखशतं यदवश्यं बोधिसत्त्वेन च्यवनकालसमये देवपर्षदि संप्रकाशयितव्यम् ॥ अस्मिन् खलु पुनर्भिक्षवो धर्मालोकमुखपरिवर्ते बोधिसत्त्वेन निर्दिश्यमाने तस्यां देवपर्षदि चतुरशीतेर्देवपुत्रसहस्राणामनुत्तरायां सम्यक्संबोधौ चित्तान्युत्पद्यन्ते । द्वात्रिंशतेश्च देवपुत्रसहस्राणां पूर्वपरिकर्मकृतानामनुत्पत्तिकेषु धर्मेषु क्षान्तिप्रतिलम्भोऽभूत् । षट्त्रिंशतेश्च देवपुत्रनयुतानां विरजो विगतमलं धर्मेषु धर्मचक्षुर्विशुद्धम् । सर्वावच्च तुषितवरभवनं जानुमात्रं दिव्यैः पुष्पैः संछादितमभूत् ॥ इति हि भिक्षवो बोधिसत्त्वस्तस्या देवपर्षदो भूयस्या मात्रया संहर्षणार्थं तस्यां वेलायामिमां गाथामभाषत - (वैद्य २६) तुषितवरभवननिलयाद्यदा च्यवति नायकः पुरुषसिंहः । आमन्त्रयते देवान् प्रमादमखिलं विसर्जयत ॥ ४.१ ॥ या काचि रतिवियूहा दिव्या महसा विचिन्तिता श्रीमान् । सर्वशुभकर्महेतोः फलमिदं शृणुरस्य कर्मस्य ॥ ४.२ ॥ तस्माद्भवत कृतज्ञा अपूर्वशुभसंचयं क्षपित्वेह । मा गच्छत पुनरपायानसाध्वसुखवेदना यत्र ॥ ४.३ ॥ धर्मश्च यः श्रुतोऽयं ममान्तिके गौरवमुपजनित्वा । तत्र प्रतिपद्यथा प्राप्स्यथ नियतं सुखमनन्तम् ॥ ४.४ ॥ सर्वमनित्य कामा अध्रुवं न च शाश्वता अपि न कल्पाः । मायामरीचिसदृशा विद्युत्फेनोपमा चपलाः ॥ ४.५ ॥ न च कामगुणरतीभिः तृप्तिर्लवणोदकं यथा पीत्वा । ते तृप्त येष प्रज्ञा आर्या लोकोत्तरा विरजा ॥ ४.६ ॥ न तरङ्गतुल्यकल्पाः संगीति च अप्सरोभि संवासः । अन्योन्यगमयुक्ता यथैव सामायि कामं च ॥ ४.७ ॥ न च संस्कृते सहाया न मित्र ज्ञातीजनो च परिवाराः । अन्यत्र कर्म सुकृतादनुबन्धति पृष्ठतो याति ॥ ४.८ ॥ तस्मात्सहितसमग्रा अन्योन्यं मैत्रचित्त हितचित्ताः । धर्मचरणं चरेथाः सुचरितचरणा न तप्यन्ते ॥ ४.९ ॥ बुद्धमनुस्मरेथा धर्मं संघं तथाप्रमादं च । श्रुतशीलदाननिरता क्षान्त्या सौरभ्यसंपन्नाः ॥ ४.१० ॥ दुःखमनित्यमनात्मा निरीक्षथा योनिशो इमा धर्मा । हेतुप्रत्यययुक्ता वर्तन्तेऽस्वामिका जडाबुद्ध्या ॥ ४.११ ॥ या काचि ऋद्धि मह्यं पश्यत प्रतिभां च ज्ञानगुणतां च । सर्वशुभकर्महेतोः शीलेन श्रुतेन चाप्रमादेन ॥ ४.१२ ॥ अनुशिष्यध्वं मह्यं शीलेन श्रुतेन चाप्रमादेन । दानदमसंयमेना सत्त्वार्थ हितार्थ मित्रार्थः ॥ ४.१३ ॥ न च वाक्यरुतरवेणा शक्याः संपादितुं कुशलधर्मान् । प्रतिपत्तिमारभेथा यथा च वदथा तथ करोथा ॥ ४.१४ ॥ मा खलु परावकाशं स्वयं यतध्वं सदा प्रयत्नेन । न च कश्चि कृत्व ददते न चाप्यकृत्वा भवति सिद्धिः ॥ ४.१५ ॥ (वैद्य २७) समनुस्मरथा पूर्वे यद्दुःखं संसारे चिरमनुभूतम् । न च निर्वृती विरागो समनुगतो मिथ्य नियतैव ॥ ४.१६ ॥ तस्मात्क्षणं लभित्वा मित्रं प्रतिरूप देशवासं च । श्रेष्ठं च धर्मश्रवणं शमेथ रागादिकान् क्लेशान् ॥ ४.१७ ॥ मानमददर्पविगताः सदार्जवामन्दवाश्च अशठाश्च । निर्वाणगतिपरायण युज्यत मार्गाभिसमयाय ॥ ४.१८ ॥ मोहकलुषान्धकारं प्रज्ञाप्रदीपेन विधमथा सर्वम् । सानुशयदोषजालं विदारयत ज्ञानवज्रेण ॥ ४.१९ ॥ किमपि सुबहु वदेयं धर्मं युष्माकमर्थसंयुक्तम् । न च तत्रवतिष्ठेथा न तत्र धर्मस्य अपराधः ॥ ४.२० ॥ बोधिर्यथा मि प्राप्ता (स्याद्) धर्मं च प्रवर्षयेदमृतगामिम् । पुनरपि विशुद्धचित्ता उपेथ वरधर्मश्रवणाय ॥ ४.२१ ॥ इति ॥ इति श्रीललितविस्तरे धर्मालोकमुखपरिवर्तो नाम चतुर्थोऽध्यायः ॥ ______________________________________________________________________ परिवर्त ५ (वैद्य २८) प्रचलपरिवर्तः पञ्चमः । इति हि भिक्षवो बोधिसत्त्वस्तां महतीं देवपर्षदमनया धर्म्यया कथया संदर्श्य समादाप्य समुत्तेज्य संप्रहर्ष्य क्षमापयित्वा मङ्गल्यां देवपर्षदमामन्त्रयते स्म - गमिष्याम्यहं मार्षा जम्बुद्वीपम् । मया पूर्वबोधिसत्त्वचर्यां चरता सत्त्वाश्चतुर्भिः संग्रहवस्तुभिर्निमन्त्रिता दानेन प्रियवद्येनार्थक्रियया समानार्थतया च । तदयुक्तमेतन्मार्षा मम भवेदकृतज्ञता च, यदहमनुत्तरायां सम्यक्संबोधौ नाभिसंबुद्धेयम् ॥ अथ ते तुषितकायिका देवपुत्रा रुदन्तो बोधिसत्त्वस्य चरणौ परिगृह्यैवमाहुः - इदं खलु सत्पुरुष तुषितभवनं त्वया विहीनं न भ्राजिष्यते । अथ बोधिसत्त्वस्तां महती देवपर्षदमेवमाह - अयं मैत्रेयो बोधिसत्त्वो युष्माकं धर्मं देशयिष्यति । अथ बोधिसत्त्वः स्वकाच्छिरसः पट्टमौलं चावतार्य मैत्रेयस्य बोधिसत्त्वस्य शिरसि प्रतिष्ठापयामास । एवं चावोचत्- ममान्तरेण त्वं सत्पुरुष अनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यसे ॥ अथ बोधिसत्त्वो मैत्रेयं बोधिसत्त्वं तुषितभवनेऽभिनिषद्य पुनरपि तां महतीं देवपर्षदमामन्त्रयते स्म - कीदृशेनाहं मार्षा रूपेण मातुः कुक्षाववक्रामेयम्? तत्र केचिदाहुः - मार्षा मानवकरूपेण । केचिदाहुः - शक्ररूपेण । केचिदाहुः - ब्रह्मरूपेण । केचिदाहुः - महाराजिकरूपेण । केचिदाहुः - वैश्रवणरूपेण । केचिदाहुः - गन्धर्वरूपेण । केचिदाहुः - किन्नररूपेण । केचिदाहुः - महोरगरूपेण । केचिदाहुः - महेश्वररूपेण । केचिदाहुः - चन्द्ररूपेण । केचिदाहुः - सूर्यरूपेण । केचिदाहुः - गरुडरूपेण । तत्रोग्रतेजो नाम ब्रह्मकायिको देवपुत्रः पूर्वर्षिजन्मच्युतोऽवैवर्तिकोऽनुत्तरायाः सम्यक्संबोधेः, स एवमाह - यथा ब्राह्मणानां मन्त्रवेदशास्त्रपाठेष्वागच्छति, तादृशेनैव रूपेण बोधिसत्त्वो मातुः कुक्षाववक्रामितव्यः । तत्पुनः कीदृशम्? गजवरमहाप्रमाणः षड्दन्तो हेमजालसंकाशः सुरुचिरः सुरक्तशीर्षः स्फुटितगलितरूपवान् । एतच्छ्रुत्वा रूपं ब्राह्मणवेदशास्त्रतत्त्वज्ञो व्याकर्षितश्च । इतो वै भावी द्वात्रिंशल्लक्षणोपेतः ॥ इति हि भिक्षवो बोधिसत्त्वो जन्मकालमवलोक्य तुषितवरभवनस्थः एवं राज्ञः शुद्धोदनस्य गृहवरे अष्टौ पूर्वनिमित्तान्युपदर्शयति स्म । कतमान्यष्टौ? तद्यथा - व्यपगततृणखाणुकण्टकशर्करकढल्यनिर्मलं सुषिक्तं सुशोधितमनाकुलवाततमोरजोविगतदंशकमक्षिकापतङ्गसरीसृपापगतमवकीर्णकुसुमं समं पाणितलजातं तद्गृहं संस्थितमभूत् । इदं प्रथमं पूर्वनिमित्तं प्रादुरभूत् ॥ ये च हिमवत्पर्वतराजनिवासिनः पत्रगुप्तशुकसारिकाकोकिलहंसक्रोञ्चमयूरचक्रवाककुणालकलविङ्कजीवंजीवकादयो विचित्ररुचिरपक्षा मनोज्ञप्रियभाषिणः शकुनिगणाः, ते आगत्य राज्ञः (वैद्य २९) शुद्धोदनस्य गृहवरे वितर्दिनिर्यूहतोरणगवाक्षहर्म्यकूटागारप्रासादतलेषु स्थित्वा प्रमुदिताः प्रीतिसौमनस्यजाताः स्वकस्वकानि रुतान्युदाहरन्ति स्म । इति द्वितीयं पूर्वनिमित्तं प्रादुरभूत् ॥ ये च राज्ञः शुद्धोदनस्यारामरमणीयेषु वनरमणीयेषु चोद्यानरमणीयेषु नानापुष्पफलवृक्षानानर्तुकारिकाः, ते सर्वे संपुष्पिताः संकुसुमिता अभूवन् । इदं तृतीयं पूर्वनिमित्तं प्रादुरभूत् ॥ याश्च राज्ञः शुद्धोदनस्य पुष्करिण्यो जलपरिभोग्यस्थाः, ताः सर्वाः शकटचक्रप्रमाणैरनेककोटीनियुतशतसहस्रपत्रैः पद्मैः संछादिता अभूवन् । इदं चतुर्थं पूर्वनिमित्तं प्रादुरभूत् ॥ ये च राज्ञः शुद्धोदनस्य गृहवरे भाजनविषये सर्पिस्तैलमधुफाणितशर्कराद्यानां ते परिभुज्यमानाः क्षयं न गच्छन्ति स्म । परिपूर्णा एव संदृश्यन्ते स्म । इदं पञ्चमं पूर्वनिमित्तं प्रादूरभूत् ॥ ये च राज्ञः शुद्धोदनस्य गृहवरप्रधाने महत्यन्तःपुरे भेरीमृदङ्गपणवतूणववीणावेणुवल्लकीसंपताडप्रभृतयस्तूर्यभाण्डाः, ते सर्वे स्वयमघट्टिता एव मनोज्ञशब्दं मुञ्चन्ति स्म । इदं षष्ठं पूर्वनिमित्तं प्रादुरभूत् ॥ यानि च राज्ञः शुद्धोदनस्य गृहवरप्रधाने सुवर्णरूप्यमणिमुक्तावैदूर्यशङ्खशिलाप्रवालादीनां रत्नानां भाजनानि, तानि सर्वाणि निरवशेषं विवृतविमलविशुद्धपरिपूर्णान्येवं विरोचन्ते स्म । इदं सप्तमं पूर्वनिमित्तं प्रादुरभूत् ॥ विमलविशुद्धया चन्द्रसूर्यजिह्मीकरणया प्रभया कायचित्तोद्बिल्यसंजनन्या तद्गृहं समन्तादवभासितमभूत् । इदमष्टमं पूर्वनिमित्तं प्रादुरभूत् ॥ माया च देवी स्नातानुलिप्तगात्रा विविधाभरणविष्कम्भितभुजा सुश्लक्ष्णसुलीलवस्त्रवरधारिणी प्रीतिप्रामोद्यप्रसादप्रतिलब्धा सार्धं दशभिः स्त्रीसहस्रैः परिवृता पुरस्कृता राज्ञः शुद्धोदनस्य संगीतिप्रासादे सुखोपविष्टस्यान्तिकमुपसंक्रम्य दक्षिणे पार्श्वे रत्नजालप्रत्युप्ते भद्रासने निषद्य स्मितमुखी व्यपगतभृकुटिका प्रहसितवदना राजानं शुद्धोदनमाभिर्गाथाभिरभाषत्- साधो शृणुष्व मम पार्थिव भूमिपाला याचामि ते नृपतिरद्य वरं प्रयच्छ । अभिप्रायु मह्य यथ चित्तमनःप्रहर्षं तन्मे शृणुष्व भव प्रीतमना उदग्रः ॥ ५.१ ॥ गृह्णामि देव व्रतशीलवरोपवासमष्टाङ्गपोषधमहं जगि मैत्रचित्ता । प्राणेषु हिंसविरता सद शुद्धभावा प्रेमं यथात्मनि परेषु तथा करोमि ॥ ५.२ ॥ (वैद्य ३०) स्तैन्याद्विवर्जितमना मदलोभहीना कामेषु मिथ्य नृपते न समाचरिष्ये । सत्ये स्थिता अपिशुना परुषप्रहीणा संधिप्रलापमशुभं न समाचरिष्ये ॥ ५.३ ॥ व्यापाददोषखिलमोहमदप्रहीणा सर्वा अभिध्य विगता स्वधनेन तुष्टा । सम्यक्प्रयुक्त अकुहानिलया अनिर्ष्यु कर्मा यथा दश इमे कुशला चरिष्ये ॥ ५.४ ॥ मा त्वं नरेन्द्र मयि कामतृषां कुरुष्व शीलव्रतेष्वभिरताय सुसंवृताय । मा ते अपुण्य नृपते भवि दीर्घरात्रमनुमोदया हि मम शीलव्रतोपवासम् ॥ ५.५ ॥ छन्दो ममेष नृपते प्रविशाद्य शीघ्रं प्रासादहर्म्यशिखरे स्थित धार्तराष्ट्रे । सखिभिः सदा परिवृता सुख मोदयेयं पुष्पाभिकीर्णशयने मृदुके सुगन्धे ॥ ५.६ ॥ न च काञ्चुकीय पुरुषा न पि दारकाश्च न च इस्त्रि प्राकृत ममा पुरतः स्थिहेया । नो चामनाप मम रूप न शब्दगन्धान्नान्यत्र इष्टमधुरा शृणुया सुशब्दान् ॥ ५.७ ॥ ये रोधबन्धनगताः परिमुञ्च सर्वान् द्रव्याम्बराश्च पुरुषान्धनिनः कुरुष्व । वस्त्रान्नपान रथयुग्य तथाश्वयानं दद सप्तरात्रिकमिदं जगतः सुखार्थम् ॥ ५.८ ॥ नो चो विवादकलहा न च रोषवाक्या चान्योन्यमैत्रमनसो हितसौम्यचित्ता । अस्मिन् पुरे पुरुष इष्टिक दारकाश्च देवाश्च नन्दनगता सहिता रमन्ताम् ॥ ५.९ ॥ (वैद्य ३१) न च राजदण्डनभटा न तथा कुदण्डा नोत्पीडना न पि च तर्जनताडना वा । सर्वान् प्रसन्नमनसो हितमैत्रचित्त वीक्षस्व देव जनतां यथ एकपुत्रम् ॥ ५.१० ॥ श्रुत्वैव राज वचनं परममुदग्रं प्राहास्तु सर्वमिदमेव यथा तवेच्छा । अभिप्रायु तुभ्य मनसा स्वनुचिन्तितानि यद्याचसे तव वरं तदहं ददामि ॥ ५.११ ॥ आज्ञाप्यः पार्थिववरः स्वकपारिषद्यां प्रासादश्रेष्ठशिखरे प्रकरोथ ऋद्धिम् । पुष्पाभिकीर्णरुचिरं वरधूपगन्धं छत्रापताकसमलंकृततालपंक्तिम् ॥ ५.१२ ॥ विंशत्सहस्र रणशोण्ड विचित्रवर्मां नाराचशूलशरशक्तिगृहीतखङ्गाः । परिवारयाथ धृतराज्यमनोज्ञघोषं देव्याऽभयार्थ करुणास्थित रक्षमाणा ॥ ५.१३ ॥ स्त्रीभिस्तु सा परिवृता यथ देवकन्या स्नातानुलिप्तप्रवराम्बरभूषिताङ्गी । तूर्यैः सहस्रमनुगीतमनोज्ञघोषैः आरुह्य देव्युपविवेश मरुत्स्नुषेव ॥ ५.१४ ॥ दिव्यैर्महार्थसुविचित्रसुरत्नपादैः स्वास्तीर्णपुष्पविविधैः शयने मनोज्ञे । शयने स्थिता विगलिता मणिरत्नचूडा यथ मिश्रकावनगता खलु देवकन्या ॥ ५.१५ ॥ अथ खलु भिक्षवश्चत्वारो महाराजानः शक्रश्च देवानामिन्द्रः सुयामश्च देवपुत्रः संतुषितश्च सुनिर्मितश्च परनिर्मितवशवर्ती च सार्थवाहश्च मारपुत्रब्रह्मा च सहांपतिर्ब्रह्मोत्तरश्च पुरोहितः सुब्रह्मा च पुरोहितः प्रभाव्यूहाभास्वरश्च महेश्वरश्च शुद्धावासकायिका निष्ठागतश्चाकनिष्ठश्च एतानि चान्यानि चानेकानि देवशतसहस्राणि संनिपत्य अन्योन्यमेवाहुः - अयुक्तमेतन्मार्षा अस्माकं स्यादकृतज्ञता च, यद्वयमेकाकिनमद्वितीयं बोधिसत्त्वमुत्सृजेम । कोऽस्माकं मार्षा उत्सहते (वैद्य ३२) बोधिसत्त्वं सततसमितमनुबद्धुमवक्रमणगर्भस्थानजन्मयौवनभूमिदारकक्रीडान्तःपुरनाटकसंदर्शनाभिनिष्क्रमणदुष्करचर्याबोधिमण्डोपसंक्रमणमारधर्षणबोध्यभिसंबोधनधर्मचक्रप्रवर्तनं यावन्महापरिनिर्वाणाद्धितचित्ततया स्निग्धचित्ततया प्रियचित्ततया मैत्रचित्ततया सौम्यचित्ततया? तस्यां वेलायामिमां गाथामभाषत - को वोत्सहेत वररूपधरमनुबन्धयितुं सततं प्रीतमनाः । कः पुण्यतेज यशसा वचसा स्वयमात्मनेच्छति विबद्धयितुम् ॥ ५.१६ ॥ यस्येप्सितं त्रिदशदेवपुरे दिव्यैः सुखैर्हि रमितुं सततम् । परमाप्सरोभिरिह कामगुणैः अनुबद्धितां विमलचन्द्रमुखम् ॥ ५.१७ ॥ तथ मिश्रके वनवरे रुचिरे दिव्याकरे रमितु देवपुरे । पुष्पोत्करे कनकचूर्णनिमे अनुबन्धतां विमलतेजधरम् ॥ ५.१८ ॥ यस्येप्सितं रमितुः चित्ररथे तथ नन्दने सुरवधूसहितः । मान्दारवैः कुसुमपत्रचिते अनुबन्धतामिमु महापुरुषम् ॥ ५.१९ ॥ यामाधिपत्यमथ वा तुषितैरथ वापि प्रार्थयति चेश्वरताम् । पूजारहो भवितु सर्वजगे अनुबन्धतामिमु अनन्तयशम् ॥ ५.२० ॥ यो इच्छति निर्मितपुरे रुचिरे वशवर्तिदेवभवने रमितुम् । मनसैव सर्वमनुभोक्तिक्रिया अनुबन्धतामिमु गुणाग्रधरम् ॥ ५.२१ ॥ (वैद्य ३३) मारेश्वरो न च प्रदुष्टमना सर्वविधैश्वर्यपारगतः । कामेश्वरो वशितपारगतो गच्छत्वसौ हितकरेण सह ॥ ५.२२ ॥ तथ कामधातु समतिक्रमितुं मति यस्य ब्रह्मपुरमावसितुम् । चतुरप्रमाणप्रभतेजधरः सोऽद्यानुबद्धतु महापुरुषम् ॥ ५.२३ ॥ अथ वापि यस्य मनुजेषु मति वरचक्रवर्तिविषये विपुले । रत्नाकरमभयसौख्यददमनुबन्धतां विपुलपुण्यधरम् ॥ ५.२४ ॥ पृथिवीश्वरस्तथ पि श्रेष्ठिसुतो आढ्यो महाधनु महानिचयः । परिवारवान्निहतशत्रुगणो गच्छत्वसौ हितकरेण सह ॥ ५.२५ ॥ रूपं च भोगमपि चेश्वरता कीर्तिर्यशश्च बलता गुणवती । आदेयवाक्य भवि ग्राह्यरुतो ब्रह्मेश्वरं समुपयातु विदुम् ॥ ५.२६ ॥ ये दिव्य काम तथ मानुषकां यो इच्छती त्रिभवि सर्वसुखम् । ध्याने सुखं च प्रविवेकसुखं धर्मेश्वरं समनुबन्धयताम् ॥ ५.२७ ॥ रागप्रहाणु तथ दोषमपी यो इच्छते तथ किलेशजहम् । शान्त प्रशान्त उपशान्तमना सो दान्तचित्तमनुयातु लघुम् ॥ ५.२८ ॥ शैक्षा अशैक्ष तथ प्रत्येकजिना सर्वज्ञज्ञानमनुप्रापुरितुम् । (वैद्य ३४) दशभिर्बलैर्नदितु सिंह इव गुणसागरं समनुयातु विदुम् ॥ ५.२९ ॥ पिथितुमपायपथ येष मतिर्विवृतुं च षङ्गतिपथं ह्यमृतम् । अष्टाङ्गमार्गगमनेन गतिमनुबन्धतां गतिपथान्तकरम् ॥ ५.३० ॥ यो इच्छते सुगत पूजयितुं धर्मं च तेषु श्रुतिकारुणिके । प्राप्तो गुणानपि च संघगतान् गुणसागरं समनुयातु इमम् ॥ ५.३१ ॥ जातिजरामरणदुःखक्षये संसारबन्धन विमोक्षयितुम् । चरितुं विशुद्धगमनान्तसमं सो शुद्धसत्त्वमनुबन्धयताम् ॥ ५.३२ ॥ इष्टो मनाप प्रियु सर्वजगे वरलक्षणो वरगुणोपचितः । आत्मा परं च तथ मोचयितुं प्रियदर्शनं समुपयातु विदुम् ॥ ५.३३ ॥ शीलं समाधि तथ प्रज्ञमयी गम्भीरदुर्दशदुरोपगमम् । यो इच्छते विदु विमुक्ति लभे सो वैद्यराजमनुयातु लघुम् ॥ ५.३४ ॥ एते च अन्य गुण नैकविधा उपपत्ति सौख्य तथ निर्वृतिये । सर्वैर्गुणेभि प्रतिपूर्ण सिद्धये सिद्धव्रतं समनुयातु विदुम् ॥ ५.३५ ॥ इति ॥ इदं खलु वचनं श्रुत्वा चतुरशीतिसहस्राणि चातुर्महाराजिकानां देवानां शतसहस्रं त्रयत्रिंशानां शतसहस्रं यामानां शतसहस्रं तुषितानां शतसहस्रं निर्माणरतीनां शतसहस्रं परनिर्मितवशवर्तीनां देवानां षष्टिसहस्राणि मारकायिकानां पूर्वशुभकर्मनिर्यातानामष्टषष्टिसहस्राणि ब्रह्मकायिकानां बहूनि शतसहस्राणि यावदकनिष्ठानां देवानां संनिपतितान्यभूवन् । अन्ये च (वैद्य ३५) भूयः पूर्वदक्षिणपश्चिमोत्तरेभ्यो दिग्भ्यो बहूनि देवशतसहस्राणि संनिपतितान्यभूवन् । तेभ्यो ये उदारतमा देवपुत्रास्ते तां महतीं देवपर्षदं गाथाभिरभ्यभाषन्तः - हन्त शृणोथ वचनममरेश्वराहो अस्मिन् विधानमति यादृशतत्वभूता । त्यक्तार्थिकामरति ध्यानसुखं प्रणीतमनुबन्धयाम इममुत्तमशुद्धसत्त्वम् ॥ ५.३६ ॥ ओक्रान्तपाद तथ गर्भस्थितं महात्मं पूजारहमतिशयमभिपूजयामः । पुण्यैः सुरक्षितमृषिं परिरक्षिसन्तो यस्यावतार लभते न मनः प्रदुष्टम् ॥ ५.३७ ॥ संगीतितूर्यरचितैश्च सुवाद्यकैश्च वर्णागुणां कथयतो गुणसागरस्य । कुर्वाम देवमनुजान प्रहर्षणीयं यं श्रुत्व बोधिवरचित्त जने जनेर्या ॥ ५.३८ ॥ पुष्पाभिकीर्ण नृपतेश्च करोम गेहं कालागुरूत्तमसुधूपितसौम्यगन्धम् । यं घ्रात्व देवमनुजाश्च भवन्त्युदग्रा विगतज्वराश्च सुखिनश्च भवन्त्यरोगाः ॥ ५.३९ ॥ मान्दारवैश्च कुसुमैस्तथ पारिजातैश्चन्द्रैः सुचन्द्र तथ स्थालविरोचमानैः । पुष्पाभिकीर्ण कपिलाह्वय तं करोम पूजार्थ पूर्वशुभकर्मसमुद्गतस्य ॥ ५.४० ॥ यावच्च गर्भि वसते त्रिमलैरलिप्तो यावज्जरामरण चान्तकरः प्रसूतः । तावत्प्रसन्नमनसो अनुबन्धयाम एषा मतिर्मतिधरस्य करोम पूजाम् ॥ ५.४१ ॥ लाभा सुलब्ध विपुलाः सुरमानुषाणां द्रक्ष्यन्ति जानु इमु सप्तपदां क्रमन्तम् । शक्रैश्च ब्रह्मणकरैः परिगृह्यमानं गन्धोदकैः स्नपियमानि सुशुद्धसत्त्वम् ॥ ५.४२ (वैद्य ३६) ॥ यावच्च लोकि अनुवर्तनतां करोति अन्तःपुरे वसति कामकिलेशघाती । यावच्च निष्क्रमति राज्यमपास्य सर्वं तावत्प्रसन्नमनसो अनुबन्धयामः ॥ ५.४३ ॥ यावदुपैति महिमण्डि तृणां गृहीत्वा यावच्च बोधि स्पृशते विनिहत्य मारम् । अध्येष्टु ब्राह्मणयुतेभि प्रवर्ति चक्रं तावत्करोम विपुलां सुगतस्य पूजाम् ॥ ५.४४ ॥ यद बुद्धकार्यु कृतु भेष्यति त्रिसहस्रे सत्त्वान कोटिनयुता अमृते विनीता । निर्वाणमार्गमुपयास्यति शीतिभावं तावन्महाशयमृषिं न जहाम सर्वे ॥ ५.४५ ॥ इति ॥ अथ खलु भिक्षवः कामधात्वीश्वराणां देवकन्यानां बोधिसत्त्वस्य रूपकायपरिनिष्पत्तिं दृष्ट्वा एतदभवत्- कीदृशी त्वसौ कन्या भविष्यति या इमं वरप्रवरशुद्धसत्त्वं धारयिष्यति । ताः कौतूहलजाता वरप्रवरपुष्पधूपदीपगन्धमाल्यविलेपनचूर्णचीवरपरिगृहीता दिव्यमनोमयात्मभावप्रतिलब्धाः पुण्यविपाकाधिस्थानाधिस्थिताः तस्मिन् क्षणेऽमरपुरभवनादन्तर्हिताः कपिलाह्वये महापुरवरे उद्यानशतसहस्रपरिमण्डिते राज्ञः शुद्धोदनस्य गृहे धृतराष्ट्रे महाप्रासादे अमरभवनप्रकाशे विगलिताम्बरधारिण्यः शुभविमलतेजप्रतिमण्डिता दिव्याभरणस्तम्भितभुजाः शयनवरगतां मायादेवीमेकाङ्गुलिकयोपदर्शयन्त्यो गगनतलगताः परस्परं गाथाभिरभ्यभाषन्त - अमरपुरगतान अप्सराणां रूप मनोरम दृष्ट्व बोधिसत्त्वे । मतिरियमभवत्तदा हि तासां प्रमद नु कीदृश बोधिसत्त्वमाता ॥ ५.४६ ॥ ताश्च सहितपुष्पमाल्यहस्ता उपगमि वेश्म नृपस्य जातकाङ्क्षा । पुष्प तथ विलेपनां गृहीत्वा दशनखअञ्जलिभिर्नमस्यमानाः ॥ ५.४७ ॥ विगलितवसनाः सलीलरूपाः करतल दक्षिणि अङ्गुलीं प्रणम्य । शयनगत विदर्शि मायदेवीं साधु निरीक्षथ रूप मानुषीणाम् ॥ ५.४८ ॥ (वैद्य ३७) वयमिह अभिमन्ययाम अन्ये परममनोरम सुरूप अप्सराणाम् । इम नृपतिवधूं निरीक्षमाणा जिह्म विपश्यथ दिव्य आत्मभावाम् ॥ ५.४९ ॥ रतिरिव सदृशी गुणान्विता च जननिरियं प्रवराग्रपुद्गलस्य । मणिरतन यथा सुभाजनस्थ तथ इव भाजन देवि देवदेवे ॥ ५.५० ॥ करचरणतलेभि यावदूर्ध्वमङ्ग महोरम दिव्य आतिरेकाः । प्रेक्षतु नयनान्न चास्ति तृप्तिं भूय प्रहर्षति चित्त मानसं च ॥ ५.५१ ॥ शशिरिव गगने विराजतेऽस्या वदनु वरं च विराज गात्रभासा । रविरिव विमला शशीव दीप्ता तथ प्रभ निश्चरतेऽस्य आत्मभावात् ॥ ५.५२ ॥ कनकमिव सुजातजातरूपा वर्ण विरोचति देविये तथैव । भ्रमरवरनिकाश कुन्तलानी मृदुकसुगन्धश्रवास्य मूर्धजानि ॥ ५.५३ ॥ कमलदलनिभे तथास्य नेत्रे दशनविशुद्ध नभेव ज्योतिषाणि । चाप इव तनूदरी विशाला पार्श्व समुद्गत मांसि नास्ति संधिः ॥ ५.५४ ॥ गजभुजसदृशेऽस्य ऊरुजङ्घे जानु सुजात्वनुपूर्वमुद्गतास्य । करतलचरणा समा सुरक्ता व्यक्तमियं खलु देवकन्य नान्या ॥ ५.५५ ॥ एव बहुविधं निरीक्ष्य देवीं कुसुम क्षिपित्व प्रदक्षिणं च कृत्वा । (वैद्य ३८) सुपिय यशवती जिनस्य माता पुनरपि देवपुरं गता क्षणेन ॥ ५.५६ ॥ अथ चतुरि चतुर्दिशासु पालाः शक्र सुयाम तथैव निर्मिताश्च । देवगण कुम्भाण्ड राक्षसाश्च असुर महोरग किन्नराश्च वोचन् ॥ ५.५७ ॥ गच्छत पुरतो नरोत्तमस्य पुरुषवरस्य करोथ रक्षगुप्तिम् । मा कुरुत जगे मनःप्रदोषं मा च करोत विहेठ मानुषाणाम् ॥ ५.५८ ॥ यत्र गृहवरस्मि मायदेवी तत्र समग्र सपारिषद्य सर्वे । असिधनुशरशक्तिखङ्गहस्ता गगनतलस्मि स्थिता निरीक्षयाथ ॥ ५.५९ ॥ ज्ञात्व च्यवनकाल देवपुत्रा उपगमि मायसकाश हृष्टचित्ता । पुष्प तथ विलेपनां गृहीत्वा दशनखअञ्जलिभिर्नमस्यमानाः ॥ ५.६० ॥ च्यव च्यव हि नरेन्द्र शुद्धसत्त्वा अयु समयो भवतोऽद्य वादिसिंह । कृपकरुण जनित्व सर्वलोके अस्मि अध्येषम धर्मदानहेतोः ॥ ५.६१ ॥ इति ॥ अथ खलु भिक्षवो बोधिसत्त्वस्य च्यवनकालसमये पूर्वस्या दिशो बहूनि बोधिसत्त्वशतसहस्राणि सर्व एकजातिप्रतिबद्धास्तुषितवरभवनवासिनो येन बोधिसत्त्वस्तेनोपसंक्रामन् बोधिसत्त्वस्य पूजाकर्मणे । एवं दशभ्यो दिग्भ्यो एकैकस्या दिशो बहूनि बोधिसत्त्वशतसहस्राणि सर्व एकजातिप्रतिबद्धास्तुषितवरभवनवासिनो येन बोधिसत्त्वस्तेनोपसंक्रामन् बोधिसत्त्वस्य पूजाकर्मणे । चातुर्महाराजकायिकेभ्यो देवेभ्यश्चतुरशीत्यप्सरःशतसहस्राण्येवं त्रयत्रिंशतो यामेभ्यस्तुषितेभ्यो निर्माणरतिभ्यः परनिर्मितवशवर्तिभ्यो देवेभ्यश्चतुरशीत्यप्सरः - शतसहस्राणि नानातूर्यसंगीतिवादितेन येन बोधिसत्त्वस्तेनोपसंक्रामन् बोधिसत्त्वस्य पूजाकर्मणे ॥ अथ खलु बोधिसत्त्वः श्रीगर्भसिंहासने सर्वपुण्यसमुद्गते सर्वदेवनागसंदर्शने महाकूटागारे निषद्य सार्धं बोधिसत्त्वैर्देवनागयक्षकोटिनियुतशतसहस्रैः परिवृतः पुरस्कृतस्तुषितवरभवनात्(वैद्य ३९) प्रचलति स्म । प्रचलता च भिक्षवो बोधिसत्त्वेन तथारूपा कायात्प्रभा मुक्ताभूद्यया प्रभया अयं त्रिसाहस्रमहासाहस्रो लोकधातुरेवं विपुलविस्तीर्णो महतोदारेण सुप्रचलितपूर्वेण दिव्यप्रभासमतिक्रान्तेनावभासेन परिस्फुटोऽभूत् । या अपि ता लोकान्तरिका अघा अघस्फुटा अन्धकारास्तमिस्रा यत्रेमौ चन्द्रसूर्यावेवं महर्द्धिकावेवं महानुभावावेवं महेशाख्यौ आभया आभां वर्णेन वर्णं तेजसा तेजो नाभितपतो नाभिविरोचतः, तत्र ये सत्त्वा उपपन्नास्ते स्वकानपि बाहुप्रसारितान्न पश्यन्ति । तथापि तस्मिन् समये महत उदारस्यावभासस्य प्रादुर्भावोऽभूत् । ये च तत्र सत्त्वा उपपन्नास्ते तेनैवावभासेन स्फुटाः समाना अन्योन्यं सम्यक्पश्यन्ति स्म । अन्योन्यं संजानन्ते स्म । एवं चाहुः - अन्येऽपि किल भोः सत्त्वा इहोपपन्नाः किल भो इति ॥ अयं च त्रिसाहस्रमहासाहस्रो लोकधातुः षड्विकारमष्टादशमहानिमित्तमभूत् । अकम्पत्प्राकम्पत्संप्राकम्पत् । अवेधत्प्रावेधत्संप्रावेधत् । अचलत्प्राचलत्संप्राचलत् । अक्षुभ्यत्प्राक्षुभ्यत्संप्राक्षुभ्यत् । अरणत्प्रारणत्संप्रारणत् । अगर्जत्प्रागर्जत्संप्रागर्जत् । अन्तेऽवनमति स्म, मध्ये उन्नमति स्म । मध्येऽवनमति स्म, अन्ते उन्नमति स्म । पूर्वस्यां दिश्यवनमति स्म, पश्चिमायां दिश्युन्नमति स्म । पश्चिमायां दिश्यवनमति स्म, पूर्वस्यां दिश्युन्नमति स्म । दक्षिणस्यां दिश्यवनमति स्म, उत्तरस्यां दिश्युन्नमति स्म । उत्तरस्यां दिश्यवनमति स्म, दक्षिणस्यां दिश्युन्नमति स्म । तस्मिन् समये हर्षणीयास्तोषणीयाः प्रेमणीयाः प्रसादनीया अवलोकनीयाः प्रह्लादनीया निर्वर्णनीया असेचनीया अप्रतिकूला अनुत्त्रासकराः शब्दाः श्रूयन्ते स्म । न च कस्यचित्सत्त्वस्य तस्मिन् क्षणे विहेठा वा त्रासो वा भयं वा स्तम्भितत्वं वाभूत् । न च भूयः सूर्याचन्द्रमसोर्न ब्रह्मशक्रलोकपालानां तस्मिन् क्षणे प्रभा प्रज्ञायते स्म । सर्वनरकतिर्यग्योनियमलोकोपपन्नाश्च सत्त्वास्तस्मिन् क्षणे विगतदुःखा अभूवन् सर्वसुखसमर्पिताः । न च कस्यचित्सत्त्वस्य रागो बाधते स्म, द्वेषो वा मोहो वा, ईर्ष्या वा मात्सर्यं वा, मानो वा म्रक्षो वा, मदो वा क्रोधो वा, व्यापादो वा परिदाहो वा । सर्वसत्त्वास्तस्मिन् क्षणे मैत्रचित्ता हितचित्ताः परस्परं मातापितृसङ्गिनोऽभूवन् । अघट्टितानि च दिव्यमानुष्यकाणि तूर्यकोटिनियुतशतसहस्राणि मनोज्ञघोषमुत्सृजन्ति स्म । देवकोटीनयुतशतसहस्राणि पाणिभिरंसैः शिरोभिस्तं महाविमानं वहन्ति स्म । तानि चाप्सरःशतसहस्राणि स्वां स्वां संगीतिं संप्रयुज्य पुरतः पृष्ठतो वामदक्षिणेन च स्थित्वा बोधिसत्त्वं संगीतिरुतस्वरेणाभिस्तुवन्ति स्म - पूर्वकर्मशुभसंचितस्य ते दीर्घरात्रकुशलोदितस्य ते । सत्यधर्मनयशोधितस्य ते पूज अद्य विपुला प्रवर्तते ॥ ५.६२ ॥ (वैद्य ४०) पूर्वि तुभ्य बहुकल्पकोटियो दानु दत्तु प्रियपुत्रधीतरा । तस्य दानचरितस्य तत्फलं येन दिव्य कुसुमाः प्रवर्षिताः ॥ ५.६३ ॥ आत्ममांस तुलयित्व ते विभो सोऽभिदत्तु प्रियपक्षिकारणात् । तस्य दानचरितस्य तत्फलं प्रेतलोकि लभि पानभोजनम् ॥ ५.६४ ॥ पूर्वि तुभ्य बहुकल्पकोटियो शील रक्षितमखण्डनव्रतम् । तस्य शीलचरितस्य तत्फलं येन अक्षण अपाय शोधिताः ॥ ५.६५ ॥ पूर्वि तुभ्य बहुकल्पकोटियो क्षान्ति भावित निदानबोधये । तस्य क्षान्तिचरितस्य तत्फलं मैत्रचित्त भुत देवमानुषाः ॥ ५.६६ ॥ पूर्वि तुभ्य बहुकल्पकोटियो वीर्यु भावितमलीनमुत्तमम् । तस्य वीर्यचरितस्य तत्फलं येन कायु यथ मेरु शोभते ॥ ५.६७ ॥ पूर्वि तुभ्य बहुकल्पकोटियो ध्यान ध्यायित किलेशध्येषणात् । तस्य ध्यानचरितस्य तत्फलं येन क्लेश जगतो न बाधते ॥ ५.६८ ॥ पूर्वि तुभ्य बहुकल्पकोटियो प्रज्ञ भावित किलेशछेदनी । तस्य प्रज्ञचरितस्य तत्फलं येन आभ परमा विरोचते ॥ ५.६९ ॥ मैत्रवर्मित किलेशसूदना सर्वसत्त्वकरुणाय उद्गता । मोदिप्राप्त परमा उपेक्षका ब्रह्मभूत सुगता नमोऽस्तु ते ॥ ५.७० ॥ (वैद्य ४१) प्रज्ञ उल्कप्रभ तेजसोद्गता सर्वदोषतममोहशोधका । चक्षुभूत त्रिसहस्रिनायका मार्गदेशिक मुने नमोऽस्तु ते ॥ ५.७१ ॥ ऋद्धिपादवरभिज्ञकोविदा सत्यदर्शि परमार्थि शिक्षिता । तीर्ण तारयसि अन्यप्राणिनो दाशभूत सुगता नमोऽस्तु ते ॥ ५.७२ ॥ सर्वोपायवरभिज्ञकोविदा दर्शयसि च्युतिमच्युतिच्युतिम् । लोकधर्मभवनाभिवर्तसे नो च लोकि क्वचि ओपलिप्यसे ॥ ५.७३ ॥ लाभ तेष परमा अचिन्तिया येषु दर्शन श्रवं च एष्यसे । किं पुनः शृणुय यो तिधर्मतां श्रद्ध प्रीति विपुला जनेष्यसे ॥ ५.७४ ॥ जिह्म सर्व तुषितालयो भुतो जम्बुद्वीपि पुरि यो उदागतः । प्राणिकोटिनयुता अचिन्तियां बोधयिष्यसि प्रसुप्त क्लेशतो ॥ ५.७५ ॥ ऋद्ध स्फीत पुरमद्य भेष्यती देवकोटिनयुतैः समाकुलम् । अप्सरोभि तुरियैर्निनादितं राजगेहि मधुरं श्रुणिष्यति ॥ ५.७६ ॥ पुण्यतेजभरिता शुभकर्मणा नारि सा परमरूपौपेता । यस्य पुत्र अयमेव समृद्धः तिस्रलोकि अभिभाति शीरिये ॥ ५.७७ ॥ (वैद्य ४२) नो भुयो पुरवरस्मि देहिनां लोभदोषकलहा विवादका । सर्व मैत्रमनसः सगौरवा भाविनो नरवरस्य तेजसा ॥ ५.७८ ॥ राजवंश नृपतेः प्रवर्धते चक्रवर्तिकुलराजसंभवः । भेष्यते कपिलसाह्वयं पुरं रत्नकोषभरितं सुसमृद्धम् ॥ ५.७९ ॥ यक्षराक्षसकुम्भाण्डगुह्यका देवदानवगणाः सैन्द्रकाः । ये स्थिता नरवरस्य रक्षकाः तेषु मोक्ष नचिरेण भेष्यते ॥ ५.८० ॥ पुण्युपार्जितु स्तवित्व नायकं प्रेमगौरवमुपस्थपिस्व ना । सर्व बोधि परिणामयामहे क्षिप्र भोम यथ त्वं नरोत्तम ॥ ५.८१ ॥ इति ॥ इति श्रीललितविस्तरे प्रचलपरिवर्तो नाम पञ्चमोऽध्यायः ॥ ______________________________________________________________________ परिवर्त ६ (वैद्य ४३) गर्भावक्रान्तिपरिवर्तः षष्ठः । इति हि भिक्षवः शिशिरकालविनिर्गते वैशाखमासे विशाखानक्षत्रानुगते ऋतुप्रवरे वसन्तकालसमये तरुवरपत्राकीर्णे वरप्रवरपुष्पसंकुसुमिते शीतोष्णतमोरजोविगते मृदुशाद्वले सुसंस्थिते त्रिभुवनज्येष्ठो लोकमहितो व्यवलोक्य ऋतुकालसमये पञ्चदश्यां पूर्णमास्यां पोषधगृहीताया मातुः पुष्यनक्षत्रयोगेन बोधिसत्त्वस्तुषितवरभवनाच्च्युत्वा स्मृतः संप्रजानन् पाण्डुरो गजपोतो भूत्वा षड्दन्त इन्द्रगोपकशिराः सुवर्णराजीदन्तः सर्वाङ्गप्रत्यङ्गोऽहीनेन्द्रियो जनन्या दक्षिणायां कुक्षाववक्रामत् । अवक्रान्तश्च स दक्षिणावचरोऽभून्न जातु वामावचरः । मायादेवी सुखशयनप्रसुप्ता इमं स्वप्नमपश्यत्- हिमरजतनिभश्च षड्विषाणः सुचरण चारुभुजः सुरक्तशीर्षः । उदरमुपगतो गजप्रधानो ललितगतिर्दृढवज्रगात्रसंधिः ॥ ६.१ ॥ न च मम सुख जातु एवरूपं दृष्टमपि श्रुतं नापि चानुभूतम् । कायसुखचित्तसौख्यभावा यथरिव ध्यानसमाहिता अभूवम् ॥ ६.२ ॥ अथ खलु मायादेवी आभरणविगलितवसना प्रह्लादितकायचित्ता प्रीतिप्रामोद्यप्रसादप्रतिलब्धा शयनवरतलादुत्थाय नारीगणपरिवृता पुरस्कृता प्रासादवरशिखरादवतीर्य येनाशोकवनिका तेनोपजगाम । सा अशोकवनिकायां सुखोपविष्टा राज्ञः शुद्धोदनस्य दूतं प्रेषयति स्म - आगच्छतु देवो देवी ते द्रष्टुकामेति ॥ अथ स राजा शुद्धोदनस्तद्वचनं श्रुत्वा प्रहर्षितमना आकम्पितशरीरो भद्रासनादुत्थाय अमात्यनैगमपार्षद्यबन्धुजनपरिवृतो येनाशोकवनिका तेनोपसंक्रामत्, उपसंक्रान्तश्च न शक्नोति स्म अशोकवनिकां प्रवेष्टुम् । गुरुतरमिवात्मानं मन्यते स्म । अशोकवनिकाद्वारे स्थितो मुहूर्तं संचिन्त्य तस्यां वेलायामिमां गाथामभाषत - न स्मरि रणशौण्डि मूर्धसंस्थस्य मह्यमेव गुरु शरीरं मन्यमी यादृशोऽद्य । स्वकुलगृहमद्य न प्रभोमि प्रवेष्टुं किमिह मम भवेऽङ्गो कान्व पृच्छेय चाहम् ॥ ६.३ ॥ इति ॥ (वैद्य ४४) अथ खलु शुद्धावासकायिका देवपुत्रा गगनतलगता अर्धकायमभिनिर्माय राजानं गाथयाध्यभाषन्त - व्रततपगुणयुक्तस्तिस्रलोकेषु पूज्यो मैत्रकरुणलाभी पुण्यज्ञानाभिषिक्तः । तुषितपुरि च्यवित्वा बोधिसत्त्वो महात्मा नृपति तव सुतत्वं मायकुक्षौपपन्नः ॥ ६.४ ॥ दशनख तद कृत्वा स्वं शिरं कम्पयन्तो नृपतिरनुप्रविष्टश्चित्रिकारानुयुक्तः । माय तद निरीक्ष्य मानदर्पोपनीतां वदहि कुरुमि किं ते किं प्रयोगो भणाहि ॥ ६.५ ॥ देव्याह - हिमरजतनिकाशश्चन्द्रसूर्यातिरेकः सुचरण सुविभक्तः षड्विषाणो महात्मा । गजवरु दृढसंधिर्वज्रकल्पः सुरूपः उदरि मम प्रविष्टस्तस्य हेतुं श्रुणुष्व ॥ ६.६ ॥ वितिमिर त्रिसहस्रां पश्यमी भ्राजमानां देवनयुत देवा ये स्तुवन्ती सयाना । न च मम खिलदोषो नैव रोषो न मोहो ध्यानसुखसमङ्गी जानमी शान्तचित्ता ॥ ६.७ ॥ साधु नृपति शीघ्रं ब्राह्मणानानयास्मिन् वेदसुपिनपाठा ये गृहेषू विधिज्ञाः । सुपिनु मम हि येमं व्याकरी तत्त्वयुक्तं किमिद मम भवेया श्रेयु पापं कुलस्य ॥ ६.८ ॥ वचनमिमु श्रुणित्वा पार्थिवस्तत्क्षणेन ब्राह्मण कृतवेदानानयच्छास्त्रपाठान् । माय पुरत स्थित्वा ब्राह्मणानामवोचत्सुपिन मयि ह दृष्टस्तस्य हेतुं शृणोथ ॥ ६.९ ॥ (वैद्य ४५) ब्राह्मणा आहुः - ब्रूहि देवि त्वया कीदृशं स्वप्नं दृष्टम् । श्रुत्वा ज्ञास्यामः । देव्याह - हिमरजतनिकाशश्चन्द्रसूर्यातिरेकः सुचरण सुविभक्तः षड्विषाणो महात्मा । गजवरु दृढसंधिर्वज्रकल्पः सुरूपः उदरि मम प्रविष्टस्तस्य हेतुं शृणोथ ॥ ६.१० ॥ वचनमिमु श्रुणित्वा ब्राह्मणा एवमाहुः प्रीति विपुल चिन्त्या नास्ति पापं कुलस्य । पुत्र तव जनेसी लक्षणैर्भूषिताङ्गं राजकुलकुलीनं चक्रवर्ति महात्मम् ॥ ६.११ ॥ स च पुर विजहित्वा कामराज्यं च गेहं प्रव्रजित निरपेक्षः सर्वलोकानुकम्पी । बुद्धो भवति एषो दक्षिणीयस्त्रिलोके अमृतरसवरेणा तर्पयेत्सर्वलोकम् ॥ ६.१२ ॥ व्याकरित्व गिरं सौम्यां भुक्त्वा पार्थिवभोजनम् । आच्छादनानि चोद्गृह्य प्रक्रान्ता ब्राह्मणास्ततः ॥ ६.१३ ॥ इति हि भिक्षवो राजा शुद्धोदनो ब्राह्मणेभ्यो लक्षणनैमित्तिकवैपञ्चकेभ्यः स्वप्नाध्यायीपाठकेभ्यः प्रतिश्रुत्य हृष्टस्तुष्ट उदग्र आत्तमनाः प्रमुदितः प्रीतिसौमनस्यजातस्तान् ब्राह्मणान् प्रभूतेन खादनीयभोजनीयास्वादनीयेन संतर्प्य संप्रवार्याच्छादनानि च दत्वा विसर्जयति स्म । तस्यां वेलायां कपिलवस्तुनि महानगरे चतुर्षु नगरद्वारेषु सर्वनगरचत्वरशृङ्गाटकेषु च दानं दापयति स्म अन्नमन्नार्थिकेभ्यः, पानं पानार्थिकेभ्यः, वस्त्राणि वस्त्रार्थिकेभ्यः, यानानि यानार्थिकेभ्यः । एवं गन्धमाल्यविलेपनशय्योपाश्रयं प्राजीविकं प्राजीविकार्थिभ्यो यावदेव बोधिसत्त्वस्य पूजाकर्मणे ॥ अथ खलु भिक्षवो राज्ञः शुद्धोदनस्यैतदभवत्- कतमस्मिन् गृहे मायादेवी सुखमनुपक्लिष्टा विहरेदिति । अथ तत्क्षणमेव चत्वारो महाराजानो राजानं शुद्धोदनमुपसंक्रम्यैवमाहुः - अल्पोत्सुको देव भव सुखं तिष्ठ उपेक्षको । वयं हि बोधिसत्त्वस्य वेश्म वै मापयामहे ॥ ६.१४ ॥ (वैद्य ४६) अथ खलु शक्रो देवानामिन्द्रो राजानं शुद्धोदनमुपसंक्रम्यैवमाह - हीना विमाना पालानां त्रयत्रिंशानमुत्तमाः । वैजयन्तसमं वेश्म बोधिसत्त्वस्य दाम्यहम् ॥ ६.१५ ॥ अथ खलु सुयामो देवपुत्रो राजानं शुद्धोदनमुसंक्रम्यैवमाह - मदीयं भवनं दृष्ट्वा विस्मिताः शक्रकोटयः । सुयामभवनं श्रीमद्बोधिसत्त्वस्य दाम्यहम् ॥ ६.१६ ॥ अथ खलु संतुषितो देवपुत्रो राजानं शुद्धोदनमुपसंक्रम्यैवमाह - यत्रैव उषितः पूर्वं तुषितेषु महायशाः । तदेव भवनं रम्यं बोधिसत्त्वस्य दाम्यहम् ॥ ६.१७ ॥ अथ खलु सुनिर्मितो देवपुत्रो राजानं शुद्धोदनमुपसंक्रम्यैवमाह - मनोमयमहं श्रीमद्वश्म तद्रतनामयम् । बोधिसत्त्वस्य पूजार्थमुपनेष्यामि पार्थिव ॥ ६.१८ ॥ अथ खलु परनिर्मितवशवर्ती देवपुत्रो राजानं शुद्धोदनमुपसंक्रम्यैवमाह - यावन्तः कामधातुस्था विमानाः शोभनाः क्वचित् । भाभिस्ते मद्विमानस्य भवन्त्यभिहतप्रभाः ॥ ६.१९ ॥ तत्प्रयच्छाम्यहं श्रीमद्वेश्म रत्नमयं शुभम् । बोधिसत्त्वस्य पूजार्थमानयिष्यामि पार्थिव ॥ ६.२० ॥ दिव्यैः पुष्पैः समाकीर्णं दिव्यगन्धोपवासितम् । उपनामयिष्ये विपुलं यत्र देवी वसिष्यति ॥ ६.२१ ॥ इति हि भिक्षवः सर्वैः कामावचर्रैदैवेश्वरैर्बोधिसत्त्वस्य पूजार्थं कपिलाह्वये महापुरवरे स्वकस्वकानि गृहाणि मापितान्यभूवन् । राज्ञा चपि शुद्धोदनेन मनुष्यातिक्रान्तं दिव्यासंप्राप्तं गृहतरं प्रतिसंस्कारितमभूत् । तत्र बोधिसत्त्वो महासत्त्वो महाव्यूहस्य समाधेरनुभावेन सर्वेषु तेषु गृहेषु मायादेवीमुपदर्शयति स्म । अभ्यन्तरगतश्च बोधिसत्त्वो मायादेव्याः कुक्षौ दक्षिणे पार्श्वे पर्यङ्कमाभुज्य निषण्णोऽभूत् । सर्वे च ते देवेश्वरा एकैकमेवं संजानीते स्म - ममैव गृहे बोधिसत्त्वमाता प्रतिवसति नान्यत्रेति ॥ (वैद्य ४७) तत्रेदमुच्यते - महाव्यूहाय स्थितः समाधिये अचिन्तिया निर्मित निर्मिणित्वा । सर्वेष देवानभिप्राय पूरिता नृपस्य पूर्णश्च तदा मनोरथः ॥ ६.२२ ॥ अथ खलु तस्यां देवपर्षदि केषांचिद्देवपुत्राणामेतदभवत्- येऽपि तावच्चातुर्महाराजकायिका देवास्तेऽपि तावन्मनुष्याश्रयगतत्वेन निर्विद्यापक्रमन्ति । कः पुनर्वादो ये तदन्ये उदारतमा देवाः त्रायत्रिंशा वा यामा वा तुषिता वा । तत्कथं हि नाम सर्वलोकाभ्युद्गतो बोधिसत्त्वः शुचिर्निरामगन्धः सत्त्वरत्नः संतुषिताद्देवनिकायाच्च्युत्वा दुर्गन्धे मनुष्याश्रये दशमासान्मातुः कुक्षौ स्थित इति ॥ अथ खल्वायुष्मानानन्दो बुद्धानुभावेन भगवन्तमेतदवोचत्- आश्चर्यं भगवन् यावज्जुगुप्सनीयश्च मातृग्रामस्तथागतेनोक्तो यावद्रागचरितश्च । इदं तु भगवनाश्चर्यतरम् । कथं हि नाम सर्वलोकाभ्युद्गतो भगवान् पूर्वं बोधिसत्त्वभूत एव तुषिताद्देवनिकायाच्च्यवित्वा मनुष्याश्रये (दुर्गन्धे) मातुर्दक्षिणे (पार्श्वे) कुक्षावुपपन्न इति । नाहं भगवनिदमुत्सहे एवं वक्तं यथैव पूर्वे भगवता व्याकृतमिति । भगवानाह - इच्छसि त्वमानन्द रत्नव्यूहं बोधिसत्त्वपरिभोगं द्रष्टुं यो मातुः कुक्षिगतस्य बोधिसत्त्वस्य परिभोगोऽभूत् । आनन्द आह - अयमस्य भगवन् कालः, अयं सुगत समयः, यत्तथागतस्तं बोधिसत्त्वपरिभोगमुपदर्शयेद्यं दृष्ट्वा प्रीतिं वेत्स्यामः ॥ अथ खलु भगवांस्तथारूपनिमित्तमकरोत्, यद्ब्रह्मा सहापतिः सार्धमष्टषष्टिब्रह्मशतसहस्रैर्ब्रह्मलोकेऽन्तर्हितो भगवतः पुरतः प्रत्यस्थात् । स भगवतः पादौ शिरसाभिवन्द्य भगवन्तं त्रिप्रदक्षिणीकृत्यैकान्तेऽस्थात्प्राञ्जलीभूतो भगवन्तं नमस्यन् । तत्र खलु भगवान् जानन्नेव ब्रह्माणं सहापतिमामन्त्रयते स्म - गृहीतस्त्वया ब्रह्मन् स बोधिसत्त्वपरिभोगो दशमासिको यो मम पूर्वं बोधिसत्त्वभूतस्य मातुः कुक्षिगतस्याभूत् । ब्रह्मा आह - एवमेतद्भगवन्, एवमेतत्सुगत । भगवानाह - क्व स इदानीं ब्रह्मन्? उपदर्शय तम् । ब्रह्मा चाह - ब्रह्मलोके स भगवन् । भगवानाह - तेन हि त्वं ब्रह्मनुपदर्शय तं दशमासिकं बोधिसत्त्वपरिभोगम्, ज्ञास्यन्ति कियत्संस्कृतमिति ॥ अथ खलु ब्रह्मा सहापतिस्तान् ब्राह्मणानेतदवोचत्- तिष्ठतु तावद्भवन्तो यावद्वयं रत्नव्यूहं बोधिसत्त्वपरिभोगमानयिष्यामः ॥ अथ खलु ब्रह्मा सहापतिर्भगवतः पादौ शिरसाभिवन्दित्वा भगवतः पुरतोऽन्तर्हितस्तत्क्षणमेव ब्रह्मलोके प्रत्यस्थात् ॥ अथ खलु ब्रह्मा सहापतिः सुब्रह्माणं देवपुत्रमेतदवोचत्- गच्छ त्वं मार्षा इतो ब्रह्मलोकमुपादाय यावत्त्रायत्रिंशद्भवनम् - शब्दमुदीरय, घोषमनुश्रावय । रत्नव्यूहं बोधिसत्त्वपरिभोगं वयं तथागतस्यान्तिकमुपनामयिष्यामः । यो युष्माकं द्रष्टुकामः स शीघ्रमागच्छत्विति ॥ (वैद्य ४८) अथ खलु ब्रह्मा सहापतिश्चतुरशीत्या देवकोट्या नयुतशतसहस्रः सार्धं तं रत्नव्यूहं बोधिसत्त्वपरिभोगं परिगृह्य महति ब्राह्मे विमाने त्रियोजनशतिके प्रतिष्ठाप्यानेकैर्दैवकोटीनयुतशतसहस्रैः समन्ततोऽनुपरिवार्य जम्बूद्वीपमवतारयति स्म ॥ तेन खलु पुनः समयेन कामावचराणां देवानां महासंनिपातोऽभूत्भगवत्सकाशे गन्तुम् । स खलु पुन रत्नव्यूहो बोधिसत्त्वपरिभोगो दिव्यैर्वस्त्रैर्दिव्यैर्माल्यैर्दिव्यैर्गन्धैर्दिव्यैः पुष्पैर्दिव्यैर्वाद्यैर्दिव्यैश्च परिभौगैरभिसंस्कृतोऽभूत् । तावन्महेशाख्यैश्च देवैः परिवृतोऽभूद्यच्छक्रो देवानामिन्द्रः सुमेरौ(समुद्रे) स्थित्वा दूरत एव मुखे तालच्छत्रकं दत्त्वा शीर्षव्यवलोकनेनानुविलोकयति स्म उन्मेषध्यायिकया वा । न च शक्नोति स्म द्रष्टुम् । तत्कस्मात्? महेशाख्या हि देवा ब्राह्मणाः । इतरास्त्रायत्रिंशा यामास्तुषिता निर्माणरतयः परनिर्मितवशवर्तिनः । कः पुनर्वादः शक्रो देवानामिन्द्रः । मोहं ते वै यान्ति स्म ॥ अथ खलु भगवांस्तं दिव्यं वाद्यनिर्घोषमन्तर्धापयति स्म । तत्कस्मात्? यत्सहश्रवणादेव जाम्बुद्वीपका मनुष्या उन्मादमापत्स्यन्त इति ॥ अथ खलु चत्वारो महाराजानः शक्रं देवानामिन्द्रमुपसंक्रम्यैवमाहुः - कथं देवानामिन्द्र करिष्यामो न लभामहे रत्नव्यूहं बोधिसत्त्वपरिभोगं द्रष्टुम् । स तानवोचत्- किमहं मार्षाः करिष्यामि? अहमपि न लभे द्रष्टुम् । अपि तु खलु पुनर्मार्षा भगवत्समीपमुपनीतं द्रक्ष्यामः । ते तदा आहुः - तेन हि देवानामिन्द्र तथा कुरु यथास्य क्षिप्रं दर्शनं भवेत् । शक्र आह - आगमयत मार्षा मुहूर्तं यावदतिक्रान्तातिक्रान्ततमा देवपुत्रा भगवन्तं प्रतिसंमोदयन्ते स्म । तदेकान्ते स्थित्वा शीर्षोन्मिञ्जितकया भगवन्तमनुविलोकयन्ति स्म ॥ अथ खलु ब्रह्मा सहापतिः सार्धं तैश्चतुरशीत्या देवकोटीनयुतशतसहस्रैस्तं रत्नव्यूहं बोधिसत्त्वपरिभोगं गृहीत्वा येन भगवांस्तेनोपसंक्रामयति स्म । स खलु पुन रत्नव्यूहो बोधिसत्त्वपरिभोगोऽभिरूपः प्रासादिको दर्शनीयश्चतुरस्रश्चतुष्ठूणः । उपरिष्टाच्च कूटागारसमलंकृतः । एवंप्रमाणः तद्यथापि नाम षण्मासजातो दारक उच्चैस्त्वेन । तस्य खलु पुनः कूतागारस्य मध्ये पर्यङ्कः प्रज्ञप्तः तद्यथापि नाम षण्मासजातस्य दारकस्य भित्तीफलकः । स खलु पुन रत्नव्यूहो बोधिसत्त्वपरिभोग एवं वर्णसंस्थानो यस्य न कश्चित्सदेवके लोके समारके सब्रह्मके सदृशोऽस्ति आकृत्या वा वर्णेन वा । देवाः खल्वपि तं दृष्ट्वा आश्चर्यप्राप्ता अभुवन् । चक्षूंषि तेषां विभ्रमन्ति स्म । स च तथागतस्यान्तिक उपनीतोऽतीव भासते तपति विरोचते स्म । तद्यथापि नाम द्विनिर्धान्तं सुवर्णं कुशलेन कर्मकारेण सुपरिनिष्ठितमपगतकाचदोषम्, एवं (तस्मिन् समये) स कूटागारो विराजते स्म । तस्मिन् खलु पुनर्बोधिसत्त्वपरिभोगे पर्यङ्कः प्रज्ञप्तो यस्य सदेवके लोके नास्ति कश्चित्सदृशो वर्णेन वा संस्थानेन वा अन्यत्र कम्बुग्रीवाया (वैद्य ४९) बोधिसत्त्वस्य । यत्खलु महाब्रह्मणा चीवरं प्रावृतमभूत्, तत्तस्य बोधिसत्त्वपर्यङ्कस्याग्रतो न भासते स्म तद्यथापि नाम वातवृष्ट्याभिहतः कृष्णकम्बलः । स खलु पुनः कूटागार उरगसारचन्दनमयो यस्यैकसुवर्णधरणी साहस्रं लोकधातुं मूल्यं क्षमते, तथाविधेनोरगसारचन्दनेन स कूटागारः समन्तादनुपलिप्तः । तादृश एव द्वितीयः कूटागारः कृतो यस्तस्मिन् प्रथमे कूटागारेऽभ्यन्तरतः असक्तोऽबद्धस्थितः । तादृश एव तृतीयोऽपि कूटागारो यस्तस्मिन् द्वितीये कूटागारेऽभ्यन्तरेऽसक्तोऽबद्धस्थितः । स च पर्यङ्कस्तस्मिन् गन्धमये तृतीये कूटागारे व्यवस्थितः संप्रतिच्छन्नः । तस्य खलु पुनरुरगसारचन्दनस्यैवंरूपो वर्णः तद्यथापि नाम अभिजातस्य नीलैवडूर्यस्य । तस्य खलु पुनर्गन्धकूटागारस्योपरि समन्ताद्यावन्ति कानिचिद्दिव्यातिक्रान्तानि पुष्पाणि सन्ति, तानि सर्वाणि तस्मिन् कूटागारे बोधिसत्त्वस्य पूर्वकुशलमूलविपाकेनानुप्राप्तान्येव जायन्ते स्म । स खलु पुन रत्नव्यूहो बोधिसत्त्वपरिभोगो दृढसारोऽभेद्यो वज्रोपमः स्पर्शेन च काचिलिन्दिकसुखसंस्पर्शः । तस्मिन् खलु पुन रत्नव्यूहे बोधिसत्त्वपरिभोगे ये केचित्कामावचराणां देवानां भवनव्यूहास्ते सर्वे तस्मिन् संदृश्यन्ते स्म ॥ यामेव च रात्रिं बोधिसत्त्वो मातुः कुक्षिमवक्रान्तस्तामेव रात्रिमध आपस्कन्धमुपादाय अष्टषष्टियोजनशतसहस्राणि महापृथिवीं भित्त्वा यावद्ब्रह्मलोकं पद्मभ्युद्गतमभूत् । न च कश्चित्तं पद्मं पश्यति स्म अन्यत्र सारथिनरोत्तमाद्दशशतसाहस्रिकाच्च महाब्रह्मणः । यच्चेह त्रिसाहस्रमहासाहस्रलोकधातावोजो वा मण्डो व रसो वा, तत्सर्वं तस्मिन्महापद्मे मधुबिन्दुः संतिष्ठते स्म ॥ तमेनं महाब्रह्मा शुभे वैडूर्यभाजने प्रक्षिप्य बोधिसत्त्वस्योपनामयति स्म । तं बोधिसत्त्वः परिगृह्य भुङ्क्ते स्म महाब्रह्मणोऽनुकम्पामुपादाय । नास्ति स कश्चित्सत्त्वः सत्त्वनिकाये यस्य स ओजोबिन्दुः परिभुक्तः सम्यक्सुखेन परिणामेदन्यत्र चरमभविकाद्बोधिसत्त्वात्सर्वबोधिसत्त्वभूमिपरिपूर्णात् । कस्य च कर्मणो विपाकेन स ओजोबिन्दुर्बोधिसत्त्वस्योपतिष्ठते स्म? दीर्घरात्रं खल्वपि बोधिसत्त्वेन पूर्वं बोधिसत्त्वचर्यां चरता ग्लानेभ्यः सत्त्वेभ्यो भैषज्यं दत्तमाशत्पराणां सत्त्वानामाशाः परिपूरिताः, शरणागताश्च न परित्यक्ताः, नित्यं चाग्रपुष्पमग्रफलमग्ररसं तथागतेभ्यस्तथागतचैत्येभ्यस्तथागतश्रावकसंघेभ्यो मातापितृभ्यश्च दत्त्वा पश्चादात्मना परिभुक्तम् । तस्य कर्मणो विपाकेन महाब्रह्मा बोधिसत्त्वस्य तं मधुबिन्दुमुपनामयति स्म ॥ तस्मिन् खलु पुनः कूटागारे यानि कानिचित्सन्त्यतिक्रान्तातिक्रान्तानि मायागुणरतिक्रीडासमवसृतस्थानानि, तानि सर्वाणि तस्मिन् प्रादुर्भावानि संदृश्यन्ते स्म बोधिसत्त्वस्य पूर्वकर्मविपाकेन ॥ तस्मिन् खलु पुन रत्नव्यूहे बोधिसत्त्वपरिभोगे शतसहस्रव्यूहं नाम वासोयुगं प्रादुर्भूतम् । न स कश्चित्सत्त्वः सत्त्वनिकाये संविद्यते यस्य तत्प्रादुर्भवेदन्यत्र चरमभविकाद्बोधिसत्त्वात् । (वैद्य ५०) न च ते केचन उदारोदारा रूपशब्दगन्धरसस्पर्शा ये तस्मिन् कूटागारे न संदृश्यन्ते स्म । सचेत्कूटागारपरिभोग एवं सुपरिभोग एवं सुपरिनिष्पन्नः सान्तरबहिरेवं सुपरिनिष्ठित एवं मृदुकश्च । तद्यथापि नाम काचिलिन्दिकसुखसंस्पर्शो निदर्शनमात्रेण, न तु तस्योपमा संविद्यते । धर्मता खल्वेषा बोधिसत्त्वस्य पूर्वकेण च प्रणिधानेन इयं चेतना ऋद्धाववश्यं बोधिसत्त्वेन महासत्त्वेन मनुष्यलोक उपपत्तव्यमभिनिष्क्रम्य चानुत्तरां सम्यक्संबोधिमभिसंबुध्य धर्मचक्रं प्रवर्तयितव्यम् । यस्या मातुः कुक्षावुपपत्तिर्भवति, तस्या दक्षिणे कुक्षावादित एव रत्नव्यूहकूटागारोऽभिनिर्वर्तते । पश्चाद्बोधिसत्त्वस्तुषितेभ्यश्च्युत्त्वा तस्मिन् कूटागारे पर्यङ्कनिषण्णः संभवति । न हि चरमभविकस्य बोधिसत्त्वस्य कललार्बुदघनपेशीभावं कायः संतिष्ठते स्म । अथ तर्हि सर्वाङ्गप्रत्यङ्गलक्षणसंपन्नः संनिषण्ण एव प्रादुर्भवति । स्वप्नान्तरगता च बोधिसत्त्वमाता मायादेवी महानागकुञ्जरमवक्रान्तं संजानीते स्म ॥ तस्य खलु पुनस्तथा निषण्णस्य शक्रो देवानामिन्द्रश्चत्वारश्च महाराजानोऽष्टाविंशतिश्च महायक्षसेनापतयो गुह्यकाधिपतिश्च नाम यक्षकुलं यतो वज्रपाणेरुत्पत्तिस्ते बोधिसत्त्वं मातुः कुक्षिगतं विदित्वा सततं समितमनुबद्धा भवन्ति स्म । सन्ति खलु पुनश्चतस्रो बोधिसत्त्वपरिचारका देवताः - उत्खली च नाम समुत्खली च नाम ध्वजवती च नाम प्रभावती च नाम । ता अपि बोधिसत्त्वं मातुः कुक्षिगतं विदित्वा सततं समितं रक्षन्ति स्म । शक्रोऽपि देवानामिन्द्रः सार्धं पञ्चमात्रैर्देवपुत्रशतैर्बोधिसत्त्वं मातुः कुक्षिगतं ज्ञात्वा सततं समितमनुबध्नाति स्म ॥ बोधिसत्त्वस्य खलु पुनर्मातुः कुक्षिगतस्य कायस्तथाविधोऽभूत्, तद्यथापि नाम पर्वतमूर्धनि रात्रावन्धकारतमिस्रायां महानग्निस्कन्धो योजनादपि दृश्यते स्म, यावत्पञ्चभ्या योजनेभ्यो दृश्यते स्म । एवमेव बोधिसत्त्वस्य मातुः कुक्षिगतस्यात्मभावोऽभिनिर्वृत्तोऽभूत्प्रभास्वरोऽभिरूपः प्रासादिको दर्शनीयः । स तस्मिन् कूटागारे पर्यङ्कनिषण्णोऽतीव शोभते स्म । वैडूर्यप्रत्युप्तमिवाभिजातं जातरूपम् । बोधिसत्त्वस्य माता च निध्याय स्थिता पश्यति स्म कुक्षिगतं बोधिसत्त्वम् । तद्यथापि नाम महतोऽभ्रकूटाद्विद्युतो निःसृत्य महान्तमवभासं संजनयन्ति, एवमेव बोधिसत्त्वो मातुः कुक्षिगतः श्रिया तेजसा वर्णेन च तं प्रथमं रत्नकूटागारमवभासयति स्म । अवभास्य द्वितीयं गन्धकूटागारमवभासयति स्म । द्वितीयं गन्धकूटागारमवभास्य तृतीयं रत्नकूटागारमवभासयति स्म । तृतीयं रत्नकूटागारमवभास्य सर्वावन्तं मातुरात्मभावमवभासयति स्म । तमवभास्य यत्र चासने निषण्णो भवति स्म तदवभासयति स्म । तदवभास्य सर्वं गृहमवभासयति स्म । सर्वं गृहमवभास्य गृहस्योपरिष्टान्निःसृत्य पूर्वां दिशमवभासयति स्म । एवं दक्षिणां पश्चिमामुत्तरामध ऊर्ध्वं समन्ताद्दशदिशः क्रोशमात्रमेकैकस्यां दिशि मातुः कुक्षिगतो बोधिसत्त्वः श्रिया तेजसा वर्णेन चावभासयति स्म ॥ (वैद्य ५१) आगच्छन्ति स्म खलु पुनर्भिक्षवश्चत्वारो महाराजानोऽष्टाविंशच्च महायक्षसेनापतयः सार्धं पञ्चमात्रयक्षशतैः पूर्वाह्णकालसमये बोधिसत्त्वस्य दर्शनाय वन्दनाय पर्युपासनाय धर्मश्रवणाय च । तदा बोधिसत्त्वस्तानागतान् विदित्वा दक्षिणं पाणिमभ्युत्क्षिप्य एकाङ्गुलिकया आसनान्युपदर्शयति स्म । निषीदन्ति स्म ते लोकपालादयो यथाप्रज्ञप्तेष्वासनेषु । पश्यन्ति स्म बोधिसत्त्वं मातुः कुक्षिगतं जातरूपमिव विग्रहं हस्तं चालयन्तं विचालयन्तमुत्क्षिपन्तं प्रतिष्ठापयन्तम् । ते प्रीतिप्रामोद्यप्रसादप्रतिलब्धा बोधिसत्त्वं नमस्कुर्वन्ति स्म । निषण्णांश्च तान् विदित्वा बोधिसत्त्वो धर्म्यया कथया संदर्शयति स्म समादापयति स्म समुत्तेजयति स्म संप्रहर्षयति स्म । यदा च प्रक्रमितुकामा भवन्ति तदा बोधिसत्त्वस्तेषां चेतसैव विचिन्तितं विज्ञाय दक्षिणं पाणिमुत्क्षिप्य संचारयति स्म । संचार्य विचारयति स्म । मातरं च न बाधते स्म । तदा तेषां चतुर्णां महाराजानामेवं भवति स्म - विसर्जिताः स्म वयं बोधिसत्त्वेनेति । ते बोधिसत्त्वं बोधिसत्त्वमातरं च त्रिप्रदक्षिणीकृत्य प्रक्रामन्ति स्म । अयं हेतुरयं प्रत्ययो यद्बोधिसत्त्वो रात्र्यां प्रशान्तायां दक्षिणं पाणिं संचार्य विचारयति स्म । विचार्य पुनरपि स्मृतः संप्रजानंस्तं पाणिं प्रतिष्ठापयति स्म । पुनरपरं यदा बोधिसत्त्वस्य केचिद्दर्शनायागच्छन्ति स्म स्त्रियो वा पुरुषो वा दारको वा दारिका वा, तान् बोधिसत्त्वः पूर्वतरमेव प्रतिसंमोदयते स्म, पश्चाद्बोधिसत्त्वस्य माता ॥ इति हि भिक्षवो बोधिसत्त्वो मातुः कुक्षिगतः सन् सत्त्वान् प्रतिसंमोदनकुशलो भवति स्मेति । न च कश्चिद्देवो वा नागो वा यक्षो वा मनुष्यो वा अमनुष्यो वा यः शक्नोति स्म बोधिसत्त्वं पूर्वतरं प्रतिसंमोदितुम् । अथ तर्हि बोधिसत्त्व एव तावत्पूर्वतरं प्रतिसंमोदते स्म, पश्चाद्बोधिसत्त्वमाता ॥ निर्गते खलु पुनः पूर्वाह्णकालसमये मध्याह्नकालसमये प्रत्युपस्थिते अथ खलु शक्रो देवानामिन्द्रो निष्क्रान्तः । अभिनिष्क्रान्ताश्च त्रायत्रिंशद्देवपुत्रा बोधिसत्त्वस्य दर्शनाय वन्दनाय पर्युपासनाय । धर्मश्रवणाय चागच्छन्ति स्म । तांश्च बोधिसत्त्वो दूरत एवागच्छतो दृष्ट्वा दक्षिणं सुवर्णवर्णं बाहुं प्रसार्य शक्रं देवानामिन्द्रं देवांश्च त्रायत्रिंशान् प्रतिसंमोदते स्म । एकाङ्गुलिकया चासनान्युपदर्शयति स्म । न च शक्नोति स्म भिक्षवः शक्रो देवानामिन्द्रो बोधिसत्त्वस्याज्ञां प्रतिरोद्धुम् । निषीदति स्म शक्रो देवानामिन्द्रस्तदन्ये च देवपुत्रा यथाप्रज्ञप्तेष्वासनेषु । तान् बोधिसत्त्वो निषण्णान् विदित्वा धर्म्यया कथया संदर्शयति स्म समादापयति स्म समुत्तेजयति स्म संप्रहर्षयति स्म । येन च बोधिसत्त्वः पाणिं संचारयति स्म, तन्मुखा बोधिसत्त्वमाता भवति स्म । ततस्तेषामेवं भवति स्म - अस्माभिः सार्धं बोधिसत्त्वः संमोदते स्म । एकैकश्चैवं संजानीते स्म - मयैव सार्धं बोधिसत्त्वः संलपति, मामेव प्रतिसंमोदते स्म इति ॥ (वैद्य ५२) तस्मिन् खलु पुनः कूटागारे शक्रस्य देवानामिन्द्रस्य त्रायत्रिंशानां देवानां च प्रतिभासः संदृश्यते स्म । न खलु पुनरन्यत्रैवं परिशुद्धो बोधिसत्त्वपरिभोगो भवति यथा मातुः कुक्षिगतस्य बोधिसत्त्वस्य । यदा च भिक्षवः शक्रो देवानामिन्द्रस्तदन्ये च देवपुत्राः प्रक्रमितुकामा भवन्ति स्म, तदा बोधिसत्त्वस्तेषां चेतसैव चेतःपरिवितर्कमाज्ञाय दक्षिणं पाणिमुत्क्षिप्य संचारयन्ति स्म । संचार्य विचार्य पुनरपि स्मृतः संप्रजानन् प्रतिष्ठापयति स्म । मातरं च न बाधते स्म । तदा शक्रस्य देवानामिन्द्रस्यान्येषां च त्रायत्रिंशानां देवानामेवं भवति स्म - विसर्जिता वयं बोधिसत्त्वेनेति । ते बोधिसत्त्वं बोधिसत्त्वमातरं च त्रिप्रदक्षिणीकृत्य प्रक्रामन्ति स्म ॥ निर्गते च खलु पुनर्भिक्षवो मध्याह्नकालसमये सायाह्नकालसमये प्रत्युपस्थिते अथ खलु ब्रह्मा सहापतिरनेकैर्ब्रह्मकायिकैर्देवपुत्रशतसहस्रैः परिवृतः पुरस्कृतस्तं दिव्यमोजोबिन्दुमादाय येन बोधिसत्त्वस्तेनोपसंक्रामति स्म बोधिसत्त्वं द्रष्टुं वन्दितुं पर्युपासितुं धर्मं च श्रोतुम् । समन्वाहरति स्म भिक्षवः बोधिसत्त्वो ब्रह्माणं सहापतिमागच्छन्तं सपरिवारम् । पुनरेव च बोधिसत्त्वो दक्षिणं सुवर्णवर्णपाणिमुत्क्षिप्य ब्रह्माणं सहापतिं ब्रह्मकायिकांश्च देवपुत्रान् प्रतिसंमोदते स्म । एकाङ्गुलिकया चासनान्युपदर्शयति स्म । न च शक्तिरस्ति भिक्षवो ब्रह्मणः सहापतेर्बोधिसत्त्वस्याज्ञां प्रतिरोद्धुम् । निषीदति स्म भिक्षवो ब्रह्मा सहापतिस्तदन्ये च ब्रह्मकायिका देवपुत्रा यथाप्रज्ञप्तेष्वासनेषु । तान् बोधिसत्त्वो निषण्णान् विदित्वा धर्म्यया कथया संदर्शयति स्म समादापयति स्म समुत्तेजयति स्म संप्रहर्षयति स्म । येन च बोधिसत्त्वः पाणिं संचारयति स्म, तन्मुखैव मायादेवी भवति स्म । ततस्तेषामेकैकस्यैवं भवति स्म - मया सार्धं बोधिसत्त्वः संलपति, मामेव प्रतिसंमोदते स्म इति । यदा च ब्रह्मा सहापतिस्तदन्ये च ब्रह्मकायिका देवपुत्रा गन्तुकामा भवन्ति स्म, तदा बोधिसत्त्वस्तेषां चेतसैव चेतःपरिवितर्कमाज्ञाय दक्षिणं सुवर्णवर्णं बाहुमुत्क्षिप्य संचारयति स्म । संचार्य विचारयति स्म । संचार्य विचार्य अवसादताकारेण पाणिं संचारयति स्म । मातरं च न बाधते स्म । ततो ब्रह्मणः सहापतेस्तदन्येषां च ब्रह्मकायिकानां देवपुत्राणामेवं भवति स्म - विसर्जिता वयं बोधिसत्त्वेनेति । ते बोधिसत्त्वं बोधिसत्त्वमातरं च त्रिप्रदक्षिणीकृत्य पुनरेव प्रक्रामन्ति स्म । बोधिसत्त्वश्च स्मृतः संप्रजानन् पाणिं प्रतिष्ठापयति स्म ॥ आगच्छन्ति स्म खलु पुनर्भिक्षवः पूर्वदक्षिणपश्चिमोत्तराभ्यो दिग्भ्योऽधस्तादुपरिष्टात्सन्ताद्दशभ्यो दिग्भ्यो बहूनि बोधिसत्त्वशतसहस्राणि बोधिसत्त्वस्य दर्शनाय वन्दनाय पर्युपासनाय धर्मश्रवणाय च धर्मसंगीतिसंगायनाय च । तेषामागतागतानां बोधिसत्त्वः कायात्प्रभामुत्सृज्य प्रभाव्यूहानि सिंहासनान्यभिनिर्मिमीते स्म । अभिनिर्माय तान् बोधिसत्त्वांस्तेष्वासनेषु निषीदयति स्म । निषण्णांश्चैनान् विदित्वा परिपृच्छति स्म परिप्रश्नयति स्म यदुतास्यैव बोधिसत्त्वस्य महायानस्य विस्तरविभागतामुपादाय । न च तान् कश्चिदन्यः पश्यति स्म अन्यत्र सभागेभ्यो देवपुत्रेभ्यः । अयं भिक्षवो हेतुरयं प्रत्ययो येन बोधिसत्त्वः प्रशान्तायां रात्र्यां कायात्प्रभामुत्सृजति स्म ॥ (वैद्य ५३) न खलु पुनर्भिक्षवो मायादेवी बोधिसत्त्वकुक्षिगते गुरुकायतां संजानीते स्म अन्यत्र लघुतामेव मृदुतामेव सौख्यतामेव । न चोदरगतानि दुःखानि प्रत्यनुभवति स्म । न च रागपरिदाहेन वा द्वेषपरिदाहेन वा मोहपरिदाहेन वा परिदह्यते स्म । न च कामवितर्कं वा व्यापादवितर्कं वा विहिंसावितर्कं वा वितर्कयति स्म । न च शीतं न चोष्णं वा जिघत्सां वा पिपासां वा तमो वा रजो वा क्लेशं वा संजानीते स्म पश्यति वा । न चास्या अमनापा रूपशब्दगन्धरसस्पर्शा वा आभासमागच्छन्ति स्म । न च पापकान् स्वप्नान् पश्यति स्म । न चास्याः स्त्रीमाया न शाठ्यं नेर्ष्या न स्त्रीक्लेशा बाधन्ते स्म । पञ्चशिक्षापदसमादत्ता खलु पुनः शीलवती दशकुशलकर्मपथे प्रतिष्ठिता तस्मिन् समये बोधिसत्त्वमाता भवति स्म । न च बोधिसत्त्वमातुः क्वचित्पुरुषे रागचित्तमुत्पद्यते स्म, नापि कस्यचित्पुरुषस्य बोधिसत्त्वस्य मातुरन्तिके । ये च केचित्कपिलाह्वये महापुरवरे अन्येषु वा जनपदेषु देवनागयक्षगन्धर्वासुरगरुडभूताविष्टाः स्त्रीपुरुषदारकदारिका वा, ते सर्वे बोधिसत्त्वमातुः सहदर्शनादेव स्वस्थाः स्मृतिप्रतिलब्धा भवन्ति स्म । ते चामनुष्याः क्षिप्रमेव प्रक्रामन्ति स्म । ये च केचिन्नानारोगस्पृष्टाः सत्त्वा भवन्ति स्म, वातपित्तश्लेष्मसंनिपातजै रोगैः पीड्यन्ते स्म, चक्षुरोगेण वा श्रोत्ररोगेण वा घ्राणरोगेण वा जिह्वारोगेण वा ओष्ठरोगेण वा दन्तरोगेण कण्ठरोगेण वा गलगण्डरोगेण वा उरगण्डकुष्ठकिलासशोषोन्मादापस्मारज्वरगलगण्डपिटकविसर्पविचर्चिकाद्यै रोगैः संपीड्यन्ते स्म, तेषां बोधिसत्त्वमाता दक्षिणपाणिं मूर्ध्नि प्रतिष्ठापयति स्म । ते सहप्रतिष्ठापिते पाणौ विगतव्याधयो भूत्वा स्वकस्वकानि गृहाणि गच्छन्ति स्म । अन्ततो मायादेवी तृणगुल्मकमपि धरणितलादभ्युत्क्षिप्य ग्लानेभ्यः सत्त्वेभ्योऽनुप्रयच्छति स्म । ते सहप्रतिलम्भादरोगनिर्विकारा भवन्ति स्म । यदा च मायादेवी स्वं दक्षिणं पार्श्वं प्रत्यवेक्षते स्म, तदा पश्यति स्म बोधिसत्त्वं कुक्षिगतम्, तद्यथापि नाम सुपरिशुद्ध आदर्शमण्डले मुखमण्डलं दृश्यते । दृष्ट्वा च पुनस्तुष्टा उदग्रा आत्तमना प्रमुदिता प्रीतिसौमनस्यजाता भवति स्म ॥ बोधिसत्त्वस्य खलु पुनर्भिक्षवो मातुः कुक्षिगतस्याधिष्ठितं सततं समितं रात्रिंदिवं दिव्यानि तूर्याणि अभि(निर्माय) प्रनदन्ति स्म । दिव्यानि च पुष्पाणि अभिप्रवर्षन्ति स्म । कालेन देवा वर्षन्ति स्म । कालेन वायवो वान्ति स्म । कालेन ऋतवो नक्षत्राणि च परिवर्तन्ते स्म । क्षेमं च राज्यं सुभिक्षं च सुमनाकुलमनुभवति स्म । सर्वे च कपिलाह्वये महापुरवरे शाक्या अन्ये च सत्त्वाः खादन्ति स्म, पिबन्ति स्म, (रमन्ते स्म,) क्रीडन्ति स्म, प्रविचारयन्ति स्म, दानानि च ददन्ति स्म, पुण्यानि च कुर्वन्ति स्म, कौमोद्यामिव चातुर्मास्यामेकान्तरे क्रीडासुखविहारैर्विहरन्ति स्म । राजापि शुद्धोदनः संप्राप्तब्रह्मचर्योपरतराष्ट्रकार्योऽपि सुपरिशुद्धस्तपोवनगत इव धर्ममेवानुवर्तते स्म ॥ (वैद्य ५४) एवंरूपेण भिक्षव ऋद्धिप्रातिहार्येण समन्वागतो बोधिसत्त्वो मातुः कुक्षिगतोऽस्थात् । तत्र खलु भगवानायुष्मन्तमानन्दमामन्त्रयते स्म - द्रक्ष्यसि त्वमानन्द रत्नव्यूहं बोधिसत्त्वपरिभोगं यत्र बोधिसत्त्वो मातुः कुक्षिगतो व्याहार्षीत् । आह - पश्येयं भगवन् पश्येयं सुगत । दर्शयति स्म तथागत आयुष्मत आनन्दस्य शक्रस्य देवानामिन्द्रस्य चतुर्णां च लोकपालानां तदन्येषां च देवमनुष्याणाम् । दृष्ट्वा च ते तुष्टा अभूवनुदग्रा आत्तमनसः प्रमुदिताः प्रीतिसौमनस्यजाताः । स च ब्रह्मा सहापतिः पुनरेव ब्रह्मलोके समारोप्य प्रतिष्ठापयति स्म चैत्यार्थम् ॥ तत्र खलु भगवान् पुनरपि भिक्षूनामन्त्रयते स्म - इति हि भिक्षवो दशमासकुक्षिगतेन बोधिसत्त्वेन षट्त्रिंशन्नयुतानि देवमनुष्याणां त्रिषु यानेषु परिपाचितान्यभूवन् । यत्रेदमुच्यते यत्- बोधिसत्त्व अग्रसत्त्व मातुकुक्षिसंस्थितः प्रकम्पिता च षड्विकार मेदिनी सकानना । सुवर्णवर्ण आभ मुक्त सर्वापाय शोधिता प्रहर्षिताश्च देवसंघ धर्मगञ्जु भेष्यते ॥ ६.२३ ॥ सुंसंस्थितो महाविमानु नैकरत्नचित्रितो यत्र वीरु आरुहित्व तिष्ठते विनायकः । गन्धोत्तमेन चन्दनेन पूरितो विरोचते यस्यैककर्षु त्रिसहस्रमूल्यरत्नपूरितो ॥ ६.२४ ॥ महासहस्रलोकधातु हेष्वि भिन्दियित्वना उदागतो गुणाकरस्य पद्मओजबिन्दुको । सो सप्तरात्र पुण्यतेज ब्रह्मलोकि उद्गतो गृहीत्व ब्रह्म ओजबिन्दु बोधिसत्त्व नामयी ॥ ६.२५ ॥ न अस्ति सर्वसत्त्वकायि भुक्तु यो जरेय तमन्यत्र भूरि बोधिसत्त्व ब्रह्मकल्पसंनिभे । अनेककल्प पुण्यतेज ओजबिन्दु संस्थितो भुजित्व सत्त्व कायचित्त ज्ञानशुद्ध गच्छिषु ॥ ६.२६ ॥ शक्र ब्रह्म लोकपाल पूजनाय नायकं त्रीणि काल आगमित्व बोधिसत्त्वमन्तिकम् । वन्दयित्व पूजयित्व धर्म शृणुते वरं प्रदक्षिणं करित्व सर्व गच्छिषू यथागता ॥ ६.२७ ॥ (वैद्य ५५) बोधिसत्त्व धर्मकाम एन्ति लोकधातुषु प्रभावियूह आसनेषु ते निषण्ण दृश्यिषु । परस्परं च श्रुत्व धर्म यानश्रेष्ठमुत्तमं प्रयान्ति सर्वि हृष्टचित्त वर्णमाल भाषतो ॥ ६.२८ ॥ ये च इष्टिदारकासु दुःखिता तदा अभूत्भूतस्पृष्ट क्षिप्तचित्त नग्न पांशुम्रक्षिता । ते च सर्व दृष्ट्व माय भोन्ति लब्धचेतना स्मृतीमतीगतीउपेत गेहि गेहि गच्छिषु ॥ ६.२९ ॥ वाततो व पित्ततो व श्लेष्मसंनिपातकैः ये च चक्षुरोग श्रोत्ररोग कायचित्तपीडिता । नैकरूप नैकजाति व्याधिभिश्च ये हता स्थापिते स्म माय मूर्ध्नि पाणि भोन्ति निर्जरा ॥ ६.३० ॥ अथापि वा तृणस्य तूलि भूमितो गृहीत्वना ददाति माय आतुराण सर्वि भोन्ति निर्जरा । सौख्यप्राप्ति निर्विकार गेहि गेहि गच्छिषु भैषज्यभूति वैद्यराजि कुक्षिसंप्रतिष्ठिते ॥ ६.३१ ॥ यस्मि कालि मायदेवि स्वातनुं निरीक्षते अदृशाति बोधिसत्त्व कुक्षिये प्रतिष्ठितम् । यथैव चन्द्र अन्तरीक्ष तारकै परीवृतं तथैव नाथु बोधिसत्त्वलक्षणैरलंकृतम् ॥ ६.३२ ॥ नो च तस्य राग दोष नैव मोह बाधते कामछन्दु नैव तस्य ईर्षि नैव हिंसिता । तुष्टचित्त हृष्टचित्त प्रीति सौमनस्थिता क्षुधापिपास शीत उष्ण नैव तस्य बाधते ॥ ६.३३ ॥ अघट्टिताश्च नित्यकाल दिव्यतूर्य वादिषु प्रवर्षयन्ति दिव्यपुष्प गन्धश्रेष्ठ शोभना । देव पश्यि मानुषाश्च मानुषा अमानुषां नो विहेठि नो विहिंसि तत्र ते परस्यरम् ॥ ६.३४ ॥ (वैद्य ५६) रमन्ति सत्त्व क्रीडयन्ति अन्नपानुदेन्ति च आनन्दशब्द घोषयन्ति हृष्टतुष्टमानसाः ॥ क्षमा रजोअनाकुला च कालि देव वर्षते तृणाश्च पुष्प ओषधीय तस्मि कालि रोहिषु ॥ ६.३५ ॥ राजगेहि सप्तरात्र रत्नवर्ष वर्षितो यतो दरिद्रसत्त्व गृह्य दान देन्ति भुञ्जते । नास्ति सत्त्व यो दरिद्र यो च आसि दुःखितो भेरुमूर्ध्नि नन्दनेव एव सत्त्व नन्दिषु ॥ ६.३६ ॥ सो च राजु शाकियान पोषधी उपोषितो राज्यकार्यु नो करोति धर्ममेव गोचरी । तपोवनं च सो प्रविष्ट मायादेवी पृच्छते कीदृशेन्ति कायि सौख्य अग्रसत्त्व धारति ॥ ६.३७ ॥ इति श्रीललितविस्तरे गर्भावक्रान्तिपरिवर्तो नाम षष्ठमोऽध्यायः ॥ ______________________________________________________________________ परिवर्त ७ (वैद्य ५७) जन्मपरिवर्तः सप्तमः । इति हि भिक्षवो दशमासेषु निगतेषु बोधिसत्त्वस्य जन्मकालसमये प्रत्युपस्थिते राज्ञः शुद्धोदनस्य गृहोद्याने द्वात्रिंशत्पूर्वनिमित्तानि प्रादुरभूवन् । कतमानि द्वात्रिंशत्? सर्वपुष्पाणि सुङ्गीभूतानि न पुष्पन्ति स्म । पुष्करिणीषु चोत्पलपद्मकुमुदपुण्डरीकाण्यभ्युद्गतानि कुड्मलीभूतानि न पुष्पन्ति स्म । तदा च पुष्पफलवृक्षा धरणीतलादभ्युद्गम्य क्षारकजाता न फलन्ति स्म । अष्टौ च रत्नवृक्षाः प्रादुरभूवन् । विंशति च रत्ननिधानशतसहस्राण्युत्प्लत्य व्यवस्थितानि दृश्यन्ते स्म । अन्तःपुरे च रत्नाङ्कुराः प्रादुरभूवन् । सुगन्धितैलपरिवासिताश्च गन्धोदकशीतोष्णाः प्रस्रवन्ति स्म । हिमवत्पर्वतपार्श्वाच्च सिंहपोतका आगत्यागत्याभिनदन्तः कपिलाह्वयपुरवरं प्रदक्षिणीकृत्य द्वारमूलेष्ववतिष्ठन्ते स्म, न कंचित्सत्त्वं विहेठयन्ति स्म । पञ्चशतानि पाण्डराणां हस्तिशावकानामागत्य राज्ञः शुद्धोदनस्याग्रकरैश्चरणावभिलिखन्ति स्म । मेखलीबद्धकाश्च देवदारका राज्ञः शुद्धोदनस्यान्तःपुरे उत्सङ्गेनोत्सङ्गमनुपरिवर्तमानाः संदृश्यन्ते स्म । गगनतलगतार्धकाया नागकन्या नानापूजोपकरणपरिगृहीता अध्यालम्बमानाः संदृश्यन्ते स्म । दश च नागकन्यासहस्राणि मयूराङ्गहस्तकपरिगृहीता गगततलेऽवस्थिताः संदृश्यन्ते स्म । दश च पूर्णकुम्भसहस्राणि कपिलवस्तु महानगरं प्रदक्षिणीकुर्वन्ति संदृश्यन्ते स्म । दश च देवकन्यासहस्राणि गन्धोदकभृङ्गारपरिगृहीता मूर्ध्नि धारयन्त्योऽवस्थिताः संदृश्यन्ते स्म । दश च देवकन्यासहस्राणि छत्रध्वजपताकापरिगृहीता अवस्थिताः संदृश्यते स्म । बहूनि चाप्सरःशतसहस्राणि शङ्खभेरीमृदङ्गपणवैः घण्टावसक्तैः प्रतीक्षमाणान्यवस्थितानि संदृश्यन्ते स्म । सर्वे वायवश्चावस्थिता न वान्ति स्म । सर्वनदी च प्रस्रवणानि च न वहन्ति स्म । चन्द्रसूर्यविमानानि नक्षत्रज्योतिर्गणाश्च न वहन्ति स्म । पुष्यं च नक्षत्रयुक्तमभूत् । रत्नजालपरिस्फुटं च राज्ञः शुद्धोदनस्य गृहं संस्थितमभूत् । वैश्वानरश्च न ज्वलति स्म । कूटागारप्रासादतोरणद्वारकतलेषु च मणिरत्नान्यभिप्रलम्बमानानि च संदृश्यन्ते स्म । दूष्यगञ्जाश्च विविरत्नगञ्जाश्च प्रावृताः संदृश्यन्ते स्म । काकोलूकगृध्रवृकशृगालशब्दाश्चान्तर्हिता अभूवन् । सुजातजातशब्दाश्च श्रूयन्ते स्म । सर्वजनपदकर्मान्ताश्च समुच्छिन्ना अभूवन् । उत्कूलनिकूलाश्च पृथिवीप्रदेशाः समाः समवस्थिताः सर्ववीथीचत्वरशृङ्गाटकरथ्यान्तरापणमुखानि च पाणितलमृष्टानीव पुष्पाभिकीर्णानि विरोचन्ते स्म । सर्वाश्च गुर्विण्यः सम्यक्सुखेन प्रसूयन्ते स्म । सर्वशालवनदेवताश्च पत्रेष्वर्धकायानभिनिर्माय नम्यमानाः स्थिताः संदृश्यन्ते स्म । इमानि द्वात्रिंशत्पूर्वनिमित्तानि प्रादुरभूवन् ॥ (वैद्य ५८) अथ खलु मायादेवी बोधिसत्त्वस्य जन्मकालसमयं ज्ञात्वा बोधिसत्त्वस्यैव तेजोनुभावेन रात्र्यां प्रथमे यामे राजानं शुद्धोदनमुपसंक्रम्य गाथाभिरभ्यभाषत - देव शृणु हि मह्यं भाषतो यं मतं मे अचिरचिरचिरेणा जात उद्यानबुद्धिः । यदि च तव न रोषो नैव दोषो न मोहः क्षिप्रमहु व्रजेया क्रीडौद्यानभूमिम् ॥ ७.१ ॥ त्वमिह तपसि खिन्नो धर्मचित्तप्रयुक्तो अहु च चिरप्रविष्टा शुद्धसत्त्वं धरेन्ती । द्रुमवर प्रतिबुद्धाः फुल्लिता शालवृक्षाः युक्त भविय देवा गन्तुमुद्यानभूमिम् ॥ ७.२ ॥ ऋतुप्रवर वसन्तो योषितां मण्डनीयो भ्रमरवरविघुष्टाः कोकिलबर्हिगीताः । शुचिरुचिरविचित्रा भ्राम्यते पुष्परेणुः साधु ददहि आज्ञां गच्छमो मा विलम्बः ॥ ७.३ ॥ वचनमिमु श्रुणित्वा देविये पार्थिवेन्द्रः तुष्टो मुदितचित्तः पारिषद्यानवोचत् । हयगजरथं पङ्क्त्या वाहना योजयध्वं प्रवरगुणसमृद्धां लुम्बिनीं मण्डयध्वम् ॥ ७.४ ॥ नीलगिरिनिकाशां मेघवर्णानुबद्धां विंशति च सहस्रान् योजयध्वं गजानाम् । मणिकनकविचित्रां हेमजालोपगूढां घण्टरुचिरपार्श्वान् षड्विषाणां गजेन्द्रान् ॥ ७.५ ॥ हिमरजतनिकाशां मुञ्जकेशां सुकेशां विंशति च सहस्रान् योजयध्वं हयानाम् । कनकरचितपार्श्वा किङ्किणीजाललम्बा पवनजवितवेगा वाहना पार्थिवस्य ॥ ७.६ ॥ नरगण रणशौण्डान् शूर संग्रामकामानसिधनुशरशक्तिपाशखड्गाग्रहस्तान् । विंशति च सहस्रान् योजयध्वं सुशीघ्रं माय सपरिवारां रक्षथा अप्रमत्ता ॥ ७.७ ॥ (वैद्य ५९) मणिकनकनिषिक्तां लुम्बिनीं कारयध्वं विविधवसनरत्नैः सर्ववृक्षां प्रवेथा । विविधकुसुमचित्रं नन्दनं वा सुराणां वदथ च मम शीघ्रं सर्वमेतं विधाय ॥ ७.८ ॥ वचनमिमु निशम्या पारिषद्यैः क्षणेन वाहन कृत सज्जा लुम्बिनी मण्डिता सा । पारिषद्य आह - जय जय हि नरेन्द्रा आयु पालेहि दीर्घं सर्व कृतु यथोक्तं कारु देव प्रतीक्ष ॥ ७.९ ॥ सो च नरवरेन्द्रो हृष्टचित्तो भवित्वा गृहवरमनुविष्टो इष्टिकानेवमाह । यस्य अहु मनापो या च मे प्रीतिकामा सा मि कुरुत आज्ञां मण्डयित्वात्मभावम् ॥ ७.१० ॥ वरसुरभिसुगन्धां भावरङ्गां विचित्रां वसन मृदुमनोज्ञां प्रावृणोथा उदग्राः । उरसि विगलितानां मुक्तहारा भवेथा आभरणविभूषां दर्शयेथाद्य सर्वाः ॥ ७.११ ॥ तुणपणवमृदङ्गां वीणवेणूमुकुण्डां तूर्यशतसहस्रान् योजयध्वं मनोज्ञाम् । भूय कुरुत हर्षं देवकन्यान यूयं श्रुत्व मधुरघोषं देवतापि स्पृहेयुः ॥ ७.१२ ॥ एकरथवरेस्मिं तिष्ठतां मायदेवी मा च पुरुष इस्त्री अन्य तत्रारुहेया । नारि विविधवर्मा तं रथं वाहयन्तां मा च प्रतिकूलं मा मनापं श्रुणेष्या ॥ ७.१३ ॥ हयगजरथपत्तीं सैन्यश्रीमद्विचित्रां द्वारि स्थित नृपस्या श्रूयते उच्चघोषाः । क्षुभितजलनिधिर्वा श्रूयते एव शब्दो * * * * ॥ ७.१४ ॥ (वैद्य ६०) माय यद गृहातो निर्गता द्वारमूलं घण्ट शतसहस्रा ताडिता मङ्गलार्थम् ॥ ७.१५ ॥ सो च रथ विचित्रो मण्डितः पार्थिवेन अपि च मरुसहस्रैर्दिव्यसिंहासनेभिः । चतुरि रतनवृक्षा पत्रपुष्पोपपेता अभिनदितमनोज्ञां हंसक्रौञ्चान्मयूरान् ॥ ७.१६ ॥ छत्रध्वजपताकाश्चोच्छ्रिता वैजयन्त्यः किङ्किणिवरजालैश्छादितं दिव्यवस्त्रैः । मरुवधु गगनेस्मिं तं रथं प्रेक्षयन्ते दिव्यमधुरघोषं श्रावयन्त्यः स्तुवन्ति ॥ ७.१७ ॥ उपविशति यदा सा माय सिंहासनाग्रे प्रचलित त्रिसहस्रा मेदिनी षड्विकारम् । पुष्प मरु क्षिपिंसू अम्बरां भ्रामयिंसू अद्य जगति श्रेष्ठो जायते लुम्बिनीये ॥ ७.१८ ॥ चतुरि जगतिपालास्तं रथं वाहयन्ते त्रिदशपतिरपीन्द्रो मार्गशुद्धिं करोति । ब्रह्म पुरतु गच्छी दुर्जनां वारयन्तो अमरशतसहस्राः प्राञ्जलीका नमन्ते ॥ ७.१९ ॥ नृपति मुदितचित्तो वीक्षते तां वियूहां तस्य भवति एवं व्यक्त यं देवदेवो । यस्य चतुरि पाला ब्रह्म सेन्द्राश्च देवाः कुरुत विपुलपूजां व्यक्त यं शुद्धभावी ॥ ७.२० ॥ नास्ति त्रिभवि सत्त्वो यः सहेत्पूजमेतां देव अथ च नागाः शक्र ब्रह्मा च पालाः । मूर्ध तद फलेया जीवितं चास्य नश्येतयु पुन अतिदेवः सर्वपूजां सहाति ॥ ७.२१ ॥ अथ खलु भिक्षवो मायादेवी चतुरशीत्या हयरथसहस्रैः सर्वालंकारविभूषितैः परिवृता चतुरशीत्या गजरथसहस्रैः सर्वालंकारविभूषितैः चतुरशीत्या च पत्तिसहस्रैः शूरैर्वीरैर्वराङ्गरूपिभिः सुसंनद्धदृढवर्मकवचितैरनुपरिगृहीता षष्ट्या च शाक्यकन्यासहस्रैः पुरस्कृता चत्वारिंशता च सहस्रै (वैद्य ६१) राज्ञः शुद्धोदनस्य ज्ञातिकुलप्रसूतैः शाक्यैः वृद्धदहरमध्यमैः संरक्षिता, षष्ट्या च सहस्रै राज्ञः शुद्धोदनस्यान्तःपुरेण गीतवाद्यसम्यक्तूर्यताडावचरसंगीतिसंप्रवादितेन परिवृता, चतुरशीत्या च देवकन्यासहस्रैः परिवृता, चतुरशीत्या च नागकन्यासहस्रैः चतुरशीत्या च गन्धर्वकन्यासहस्रैः चतुरशीत्या च किन्नरकन्यासहस्रैः चतुरशीत्या चासुरकन्यासहस्रैः नानाव्यूहालंकारालंकृताभिः नानागीतवाद्यवर्णभाषिणीभिरनुगम्यमाना निर्याति स्म । सर्वं च लुम्बिनीवनं गन्धोदकसिक्तं दिव्यपुष्पाभिकीर्णीकृतमभूत् । सर्ववृक्षाश्च तस्मिन् वनवरे अकालपत्रपुष्पफलानि ददन्ति स्म । देवैश्च तथा तद्वनं समलंकृतमभूत्तद्यथापि नाम मिश्रकावनं देवानां समलंकृतम् ॥ अथ खलु मायादेवी लुम्बिनीवनमनुप्रविश्य तस्माद्रथवरादवतीर्य नरमरुकन्यापरिवृता वृक्षेण वृक्षं पर्यटन्ती वनाद्वनं चंक्रम्यमाणा द्रुमाद्द्रुमं निरीक्षमाणा अनुपूर्वेण येनासौ प्लक्षो महाद्रुमरत्नवरप्रवरः सुविभक्तशाखः समपत्रमञ्जरीधरो दिव्यमानुष्यनानापुष्पसंपुष्पितो वरप्रवरसुरभिगन्धिनानागन्धिनानारङ्गवस्त्राभिप्रलम्बितो विविधमणिविचित्रप्रभोज्ज्वलितः सर्वरत्नमूलदण्डशाखापत्रसमलंकृतः सुविभक्तविस्तीर्णशाखः करतलनिभे भूमिभागे सुविभक्तविस्तीर्णनीलतृणमयूरग्रीवासंनिभे काचिलिन्दिकसुखसंस्पर्शे धरणीतले संस्थितः पूर्वजिनजनेत्र्याभिनिवासितः देवसंगीत्यनुगीतः शुभविमलविशुद्धः शुद्धावासदेवशतसहस्रैः प्रशान्तचित्तैरभिनतजटामकुटावलम्बितावनतमूर्धभिरभिनन्द्यमानस्तं प्लक्षवृक्षमुपजगाम ॥ अथ स प्लक्षवृक्षो बोधिसत्त्वस्य तेजोनुभावेनावनम्य प्रणमति स्म । अथ मायादेवी गगनतलगतेव विद्युत्दृष्टिं दक्षिणं बाहुं प्रसार्य प्लक्षशाखां गृहीत्वा सलीलं गगनतलं प्रेक्षमाणा विजृम्भमाना स्थिताभूत् । अथ तस्मिन् समये षष्ट्यप्सरःशतसहस्राणि कामावचरदेवेभ्य उपसंक्रम्य मायादेव्या उपस्थाने परिचर्यां कुर्वन्ति स्म ॥ एवंरूपेण खलु पुन ऋद्धिप्रातिहार्येण समन्वागतो बोधिसत्त्वो मातुः कुक्षिगतोऽस्थात् । स परिपूर्णानां दशानां मासानामत्ययेन मातुर्दक्षिणपार्श्वान्निष्क्रमति स्म स्मृतः संप्रजानन्ननुपलिप्तो गर्भमलैर्यथा नान्यः कश्चिदुच्यतेऽन्येषां गर्भमल इति ॥ तस्मिन् खलु पुनर्भिक्षवः समये शक्रो देवानामिन्द्रो ब्रह्मा च सहापतिः पुरतः स्थितावभूताम्, यौ बोधिसत्त्वं परमगौरवजातौ दिव्यकाशिकवस्त्रान्तरितं सर्वाङ्गप्रत्यङ्गैः स्मृतौ संप्रज्ञौ प्रतिगृह्णाते स्म ॥ यस्मिंश्च कूटागारे बोधिसत्त्वो मातुः कुक्षिगतोऽस्थात्, तं ब्रह्मा सहापतिर्ब्रह्मकायिकाश्च देवपुत्रा अभ्युत्क्षिप्य ब्रह्मलोकं चैत्यार्थं पूजार्थं चोपनामयामासुः । अपरिगृहीतः खलु पुनर्बोधिसत्त्वः केनचिन्मनुष्यभूतेन, अथ तहि बोधिसत्त्वं देवताः प्रथमतरं प्रतिगृह्णन्ति स्म ॥ अथ बोधिसत्त्वो जातमात्रः पृथिव्यामवतरति स्म । समनन्तरावतीर्णस्य च बोधिसत्त्वस्य महासत्त्वस्य महापृथिवीं भित्त्वा महापद्मं प्रादुरभूत् । नन्दोपनन्दौ च नागराजानौ गगनतलेऽर्धकायौ (वैद्य ६२) स्थित्वा शीतोष्णे द्वे वारिधारेऽभिनिर्भिंत्त्वा बोधिसत्त्वं स्नापयतः स्म । शक्रब्रह्मलोकपालाः पूर्वंगमाश्चान्ये च बहवो देवपुत्राः शतसहस्रा ये बोधिसत्त्वं जातमात्रं नानागन्धोदकमुक्तकुसुमैः स्नापयन्त्यभ्यवकिरन्ति स्म । अन्तरिक्षे च द्वे चामरे रत्नच्छत्रं च प्रादुर्भूतम् । स तस्मिन्महापद्मे स्थित्वा चतुर्दिशमवलोकयति स्म । (चतुर्दिशमवलोक्य) सिंहावलोकितं महापुरुषावलोकितं व्यवलोकयति स्म ॥ तस्मिन् खलु पुनः समये बोधिसत्त्वः पूर्वकुशलमूलविपाकजेनाप्रतिहतेन दिव्यचक्षुप्रादुर्भूतेन दिव्येन चक्षुषा सर्वावन्तं त्रिसाहस्त्रं महासाहस्त्रं लोकधातुं सनगरनिगमजनपदराष्ट्रराजधानीं सदेवमानुषं पश्यति स्म । सर्वसत्त्वानां च चित्तचरितं च प्रजानाति स्म । ज्ञात्वा च व्यवलोकयति स्म - अस्ति त्वसौ कश्चित्सत्त्वो यो मया सदृशः शीलेन वा समाधिना वा प्रज्ञया वा कुशलमूलचर्यया वा । यदा च बोधिसत्त्वः त्रिसाहस्रमहासाहस्रलोकधातौ न कंचित्सत्त्वमात्मतुल्यं पश्यति स्म, अथ तस्मिन्समये बोधिसत्त्वः सिंह इव विगतभयभैरवोऽसंत्रस्तः अस्तम्भी सुचिन्तितं स्मृत्वा चिन्तयित्वा सर्वसत्त्वानां चित्तचरितानि ज्ञात्वा अपरिगृहीतो बोधिसत्त्वः पूर्वां दिशमभिमुखः सप्त पदानि प्रक्रान्तः - पूर्वंगमो भविष्यामि सर्वेषां कुशलमूलानां धर्माणाम् । तस्य प्रक्रमत उपर्यन्तरीक्षेऽपरिगृहीतं दिव्यश्वेतविपुलछत्रं चामरशुभे गच्छन्तमनुगच्छन्ति स्म - यत्र यत्र च बोधिसत्त्वः पदमुत्क्षिपति स्म, तत्र तत्र पद्मानि प्रादुर्भवन्ति स्म । दक्षिणां दिशमभिमुखः सप्त पदानि प्रक्रान्तः - दक्षिणीयो भविष्यामि देवमनुष्याणाम् । पश्चिमां दिशमभिमुखः सप्त पदानि प्रकान्तः । सप्तमे स्थित्वा सिंह इवाह्लादनात्मिकां वाचं भाषते स्म - अहं लोके ज्येष्ठोऽहं लोके श्रेष्ठः । इयं मे पश्चिमा जातिः । करिष्यामि जातिजरामरणदुःखस्यान्तम् । उत्तरां दिशमभिमुखः सप्त पदानि प्रक्रान्तः - अनुत्तरो भविष्यामि सर्वसत्त्वानाम् । अधस्ताद्दिशमभिमुखः सप्त पदानि प्रक्रान्तः - निहनिष्यामि मारं च मारसेनां च । सर्वनैरयिकाणां च निरयाग्निप्रतिघाताय सह धर्ममेघवृष्टिं वर्षिष्यामि, येन ते सुखसमर्पिता भविष्यन्ति । उपरिष्टाद्दिशमभिमुखः सप्त पदानि प्रक्रान्तः, उर्ध्वं चावलोकयति स्म - उल्लोकनीयो भविष्यामि सर्वसत्त्वानाम् । समनन्तरभाषिता चेयं बोधिसत्त्वेन वाकू । अथ तस्मिन् समये अयं त्रिसाहस्रमहासाहस्रलोकधातुः स्वरेणाभिविज्ञाप्तोऽभूत् । इयं बोधिसत्त्वस्य कर्मविपाकजा अभिज्ञाधर्मता ॥ यदा बोधिसत्त्वश्चरमभविक उपजायते, यदा चानुत्तरां सम्यक्संबोधिमभिसंबुध्यते, तदा अस्येमान्येवंरूपाणि ऋद्धिप्रातिहार्याणि भवन्ति - तस्मिन् खलु पुनर्भिक्षवः समये संहृषितरोमकूपजाताः सर्वसत्त्वा अभूवन् । महतश्च पृथिवीचालस्य लोके प्रादुर्भावोऽभूत्भैरवस्य रोमहर्षणस्य । अघट्टितानि च दिव्यमानुष्यकानि तूर्याणि संप्रवादितानि । सर्वर्तुकालिकाश्च (वैद्य ६३) वृक्षास्तस्मिन् समये त्रिसाहस्रमहासाहस्रलोकधातौ संकुसुमिताः फलिताश्च । विशुद्धाच्च गगनतलान्मेघशब्दः श्रूयते स्म । अपगतमेघाच्च गगनाच्छनैः सूक्ष्मसूक्ष्मो देवः प्रवर्षति स्म । नानावर्षदिव्यकुसुमवस्त्राभरणगन्धचूर्णव्यामिश्राः परमसुखसंस्पर्शाश्च सौम्याः सुगन्धवाताः प्रवायन्ति स्म । व्यपगततमोरजोधूमनीहाराश्च सर्वदिशः सुप्रसन्ना विराजन्ते स्म । उपरिष्टाच्चान्तरिक्षाददृश्या गम्भीरा महाब्रह्मघोषाः संश्रूयन्ते स्म । सर्वचन्द्रसूर्यशक्रब्रह्मलोकपालप्रभाश्चाभिभूता अभूवन् । परमसुखसंस्पर्शया च सर्वसत्त्वकायचित्तसुखसंजनन्या लोकोत्तरया अनेकशतसहस्रवर्णप्रभया सर्वत्रिसाहस्रमहासाहस्रलोकधातुः परिस्फुटोऽभूत् । समन्तरजातस्य खलु पुनर्बोधिसत्त्वस्यैकान्तसुखसमर्पिताः सर्वसत्त्वा बभूवुः । सर्वरागद्वेषमोहदर्पारतिविषादभयलोभेर्ष्यामात्सर्यविगताः सर्वाकुशलक्रियाप्रतिविरता व्याधितानां सत्त्वानां व्याधय उपशान्ताः । क्षुत्पिपासितानां सत्त्वानां क्षुत्पिपासा प्रस्रब्धाभूत् । मद्यमदमत्तानां च सत्त्वानां मदापगमः संवृत्तः । उन्मत्तैश्च स्मृतिः प्रतिलब्धा । चक्षुर्विकलैश्च सत्त्वैश्चक्षुः प्रतिलब्धम्, श्रोत्रविकलैश्च सत्त्वैः श्रोत्रम् । अङ्गप्रत्यङ्गविकलेन्द्रियाश्चाविकलेन्द्रियाः संवृत्ताः । दरिद्रैश्च धनानि प्रतिलब्धानि । बन्धनबद्धाश्च बन्धनेभ्यो विमुक्ताः । आवीचिमादिं कृत्वा सर्वनैरयिकाणां सत्त्वानां सर्वकारणाद्दुःखं तस्मिन्समये प्रस्रब्धम् । तियग्योनिकानामन्योन्यभक्षणादि दुःखम्, यमलोकिकानां सत्त्वानां क्षुत्पिपासादिदुःखं व्युपशान्तमभूत् ॥ यदा च बोधिसत्त्वो जातमात्रः सप्त पदानि प्रक्रान्तोऽभूत्, असंख्येयाकल्पकोटिनयुतशतसहस्रैः सुचरितचरणैर्महावीर्यमहास्थामधर्मताप्रतिलम्भेन तस्मिन् समये दशदिग्लोकधातुस्थिता बुद्धा भगवन्तस्तं पृथ्वीप्रदेशं वज्रमयधितिष्ठन्ति स्म । येन महापृथिवी तस्मिन् प्रदेशे नावतीर्यत, तावन्महाबलवेगसमन्वागतो हि भिक्षवो जातमात्रो बोधिसत्त्वः सप्त पदानि प्रक्रान्तोऽभूत् । सर्वलोकान्तरिकाश्च तस्मिन् समये महतावभासेन स्फुटा अभूवन् । महांश्च तस्मिन् समये गीतशब्दोऽभून्नृत्यशब्दः । अप्रमेयाश्च तस्मिन् समये पुष्पचूर्णगन्धमाल्यरत्नाभरणवस्त्रमेघा अभिप्रवर्षन्ति स्म । परमसुखसमर्पिताश्च सर्वसत्त्वा अभूवन् । संक्षेपादचिन्त्या सा क्रियाभूत्, यदा बोधिसत्त्वो लोके प्रादुरभूत्सर्वलोकाभ्युद्गतः ॥ अथ खल्वायुष्मानानन्दः उत्थायासनादेकांसमुत्तरासङ्गं कृत्वा दक्षिणजानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तमेतदवोचत्- सर्वसत्त्वानां भगवंस्तथागत आश्चर्यभूतोऽभूत्, बोधिसत्त्वभूतेवाद्भुतधर्मसमन्वागतश्च । कः पुनर्वादः एवं ह्यनुत्तरां सम्यक्संबोधिमभिसंबुद्धः । एषोऽहं भगवंश्चतुष्पञ्चकृत्वोऽपि दशकृत्वोऽपि यावत्पञ्चाशत्कृत्वोऽपि शतकृत्वोऽपि यावदनेकशतसहस्रशोऽप्यहं भगवन् बुद्धं भगवन्तं शरणं गच्छामि ॥ (वैद्य ६४) एवमुक्ते भगवानायुष्मन्तमानन्दमेतदवोचत्- भविष्यन्ति खलु पुनरानन्द अनागतेऽध्वनि केचिद्भिक्षवोऽभावितकाया अभावितचित्ता अभावितशीला अभावितप्रज्ञा बाला अपण्डिता आभिमानिका उद्धता उन्नता असंवृता विक्षिप्तचित्ताः काङ्क्षापरीत्ता विचिकित्साबहुला अश्रद्धाः श्रमणमलाः श्रमणप्रतिरूपकाः । ते न श्रद्दास्यन्ति इमामेवंरूपां बोधिसत्त्वस्य गर्भावक्रान्तिपरिशुद्धिम् । तेऽन्योन्यमेकान्ते संनिपात्यैवं वक्ष्यन्ति - पश्यत भो यूयमेतदपूज्यमानं बोधिसत्त्वस्य किल मातुः कुक्षिगतस्योच्चारप्रस्रावमण्डोपरिमिश्रस्य ईदृशी विभूतिरासीत् । स च किल अभिनिष्क्रामन्मातुर्दक्षिणायाः कुक्षेरनुपलिप्तो गर्भमलेनाभूदिति । कथमेतद्योज्यते? न पुनस्ते मोहपुरुषा एवं ज्ञास्यन्ति - न सुकृतकर्मणां सत्त्वानामुच्चारप्रस्रावमण्डे कायः संभवतीति । भद्रिका खल्वपि तथारूपाणां सत्त्वानां गर्भावक्रान्तिर्भवति । गर्भावस्थितश्च सत्त्वानुकम्पया हि बोधिसत्त्वो मनुष्यलोके उपपद्यते, न देवभूत एव धर्मचक्रं प्रवर्तयति । तत्कस्मात्? मा खल्वानन्द सत्त्वाः कौसीद्यमापत्स्यन्ते । देवभूतः स भगवान् तथागतोऽर्हन् सम्यक्संबुद्धः, वयं तु मनुष्यमात्राः । न वयं समर्थास्तत्स्थानं परिपूरयितुमिति कौसीद्यमापद्येरन् । न खलु पुनस्तेषां मोहपुरुषाणां धर्मस्तैन्यकानामेवं भविष्यति - अचिन्त्यो हि स सत्त्वः, नासावस्माभिः प्रामाणिकः कर्तव्य इति । अपि तु खल्वानन्द बुद्धऋद्धिप्रातिहार्यमपि ते तस्मिन् काले नावकल्पयिष्यन्ति, किमङ्ग पुनर्बोधिसत्त्वभूतस्य तथागतस्य बोधिसत्त्वप्रातिहार्याणि । पश्य आनन्द कियन्तं ते मोहपुरुषा बह्वपुण्याभिसंस्कारमभिसंस्करिष्यन्ति, ये बुद्धधर्मान् प्रतिक्षेप्स्यन्ति लाभसत्कारश्लोकाभिभूता उच्चारलग्ना लाभसत्काराभिभूता इतरजातीयाः ॥ आनन्द आह - मा मैवंरूपा भगवननागतेऽध्वनि भिक्षवो भविष्यन्ति य इमामेवं भद्रिकां सूत्रान्तां प्रतिक्षेप्स्यन्ति प्रतिपक्षं पक्षन्ति च ॥ भगवानाह - एवंरूपाश्च ते आनन्द सूत्रान्तां प्रपिक्षेप्स्यन्ति, प्रतिवक्ष्यन्ति चानेकप्रकारान् चान्यान् पापकानभिसंस्कारानभिसंस्करिष्यन्ति । अनर्थिकाश्च ते श्रामण्येन भविष्यन्ति ॥ आनन्द आह - का पुनर्भगवन् तेषां तथारूपाणामसत्पुरुषाणां गतिर्भविष्यति? कोऽभिसंपरायः? भगवानाह - या गतिर्बुद्धबोधिमन्तर्धायाप्यतीतानागतप्रत्युत्पन्नांश्च बुद्धान् भगवतोऽत्याख्याय तां ते गतिं गमिष्यन्ति ॥ अथ खल्वायुष्मानानन्दः संहर्षितरोमकूपजातो नमो बुद्धाय इत्युक्त्वा भगवन्तमेतदवोचत्मूर्छा मे भगवन् कायस्याभूदिमं तेषामसत्पुरुषाणां समुदाचारं श्रुत्वा ॥ (वैद्य ६५) भगवानाह - न तेषामानन्द समाचारो भविष्यति । विषमसमुदाचाराः खलु पुनस्ते सत्त्वा भविष्यन्ति । ते तेन विषमेन समुदाचारेणवीचौ महानरके प्रपतिष्यन्ति । तत्कस्य हेतोः? ये केचिदानन्द भिक्षवो वा भिक्षुण्यो वा उपासको वा उपासिका वा इमानेवंरूपान् सूत्रान्तान् श्रुत्वा नाधिमोक्ष्यन्ति न श्रद्धास्यन्ति न प्रतिवेत्स्यन्ति, ते च्युताः समाना अवीचौ महानरके प्रपतिष्यन्ति । मा आनन्द तथागताप्रामाणिकमकार्षुः । तत्कस्माद्धेतोः? अप्रमेयो ह्यानन्द तथागतो गम्भीरो विपुलो दुरवगाहः । येषां केषांचिदानन्द इमानेवंरूपान् सूत्रान्ताञ्छ्रुत्वोपपत्स्यते प्रीतिप्रामोद्यम्, प्रसादलाभास्तैः सत्त्वैः सुलब्धाः । अमोघं च तेषां जीवितम्, अमोघं च तेषां मानुष्यम्, सुचरितचरणाश्च ते, आदत्तं च तैः सारम्, मुक्ताश्च ते त्रिभ्योऽपायेभ्यः, भविष्यन्ति च ते पुत्रास्तथागतस्य, परिप्राप्तं च तैः सर्वकार्यम्, अमोघश्च तेषां श्रद्धाप्रतिलम्भः, सुविभक्त च तै राष्ट्रपिण्डम्, प्रसन्नाश्च तेऽग्रसत्त्वैः, संछिन्नास्तैर्मारपाशाः, निस्तीर्णश्च तैः संसाराटवीकान्तारः, समुद्धृतश्च तैः शोकशल्यः, अनुप्राप्तं च तैः प्रामोद्यवस्तु, सुगृहीतानि च तैः शरणगमनानि, दक्षिणीयाश्च ते पूजार्हाः, दुर्लभप्रादुर्भावाश्च ते लोके, दक्षिणीयाश्च ते धारयितव्याः । तत्कस्य हेतोः? तथा हि - ते सर्वलोके इममेवं सर्वलोकविप्रत्यनीकं तथागतधर्मं श्रद्दधन्ति । न ते आनन्द सत्त्वा अवरकेण कुशलमूलेन समन्वागता भवन्ति । ते चानन्द सत्त्वा ममैकजातिप्रतिबद्धानि मित्राणि भविष्यन्ति । तत्कस्माद्धेतोः? कश्चिदानन्द श्रवणादेव प्रियो भवति मनापश्च न तु दर्शनेन । कश्चिदानन्द दर्शनेनापि प्रियो भवति मनापश्च न तु खलु पुनः श्रवणेन । कश्चिदानन्द दर्शनेनापि श्रवणेनापि प्रियो भवति मनापश्च । तेषां केषांचिदानन्द अहं दर्शनेन वा श्रवणेन वा प्रियो मनापो भवेयं निष्ठां त्वं तत्र गच्छेथाः - न तानि ममैकजातिप्रतिबद्धानि मित्राणि । दृष्टास्ते तथागतेन, मोचयितव्यास्ते तथागतेन, ते समगुणप्रत्यंशाः, ते तथागतगुणप्रत्यंशाः, ते तथागतेन कर्तव्या उपासकाः, ते तथागतं शरणं गताः, उपात्तास्ते तथागतेन । ममान्तिकात्खल्वप्यानन्द पूर्वं बोधिसत्त्वचर्यामेव तावच्चरतो ये केचिद्भयार्दिताः सत्त्वा आगत्य अभयं प्रतियाचन्ते स्म, तेभ्योऽहं सत्त्वेभ्योऽभयं दत्त्वान्, किमङ्ग पुनरेतर्ह्यनुत्तरां सम्यक्संबोधिमभिसंबुद्धः । श्रद्धायामानन्द योगः करणीयः । इदं तथागतो विज्ञापयति । यदानन्द तथागतेन युष्माकं करणीयं कृतम्, तत्तथागतेन शोधितो मानशल्यः । श्रवणेनाप्यानन्द मित्रस्य ननु योजनशतान्तरमपि गच्छन्ति, गत्वा च सुखिता भवन्ति अदृष्टपूर्वं मित्रं दृष्ट्वा । कः पुनर्वादो ये मां निश्रित्य कुशलमूलान्यवरोपयन्ति । ज्ञास्यन्त्यानन्द तथागता अर्हन्तः सम्यक्संबुद्धाः - पूर्व मित्राण्येते सत्त्वास्तथागतानाम्, अस्माकमप्येते मित्राणि भवन्तीति । तत्कस्मात्खलु पुनरानन्द मित्रं मित्रस्य प्रियं च मनापं च भवति? तस्यापि (तदपि) प्रियमेव भवति, मित्रस्य यत्प्रियं मित्रम्, तदपि प्रियमेव भवति मनापं च । तस्मात्तर्ह्यानन्द आरोचयामि च प्रतिवेदयामि च । श्रद्धामात्रकमुत्पादयथ । अनुपरिन्दिष्यामो (वैद्य ६६) वयमनागतानां तथागतानामर्हतां सम्यक्संबुद्धानामन्तिके, तेऽस्माकमपि मित्राणीति विदित्वा यथाभिप्रायं परिपूरयिष्यन्ति । तद्यथापि नाम आनन्द कस्यचिदेव पुरुषस्यैकपुत्रको भवेत्सुवयाः प्रदक्षिणग्राही । स च पुरुषो बहुमित्रो भवेत् । स तस्मिन् पितरि कालगते न हि विहन्येत पितृमित्रसुपरिगृहीतः । एवभेव आनन्द ये केचिन्मम श्रद्धास्यन्ति तानहमुपाददामि । मित्राणीव मम तानि । (ते) मम शरणं गताः । बहुमित्रश्च तथागतः । तानि च तथागतस्य मित्राणि भूतवादीनि न मृषावादीनि । अनुपरिन्दाम्यहं भूतवादीनाम् । यानि तथागतस्य मित्राण्यनागतास्तथागता अर्हन्तः सम्यक्संबुद्धा । श्रद्धायामानन्द योगः करणीयः । अत्राहं युष्मान् विज्ञापयामीति ॥ इति हि जाते बोधिसत्त्वे गगनतलगतान्यप्सरःकोटिनयुतशतसहस्राणि दिव्यैः पुष्पधूपगन्धमाल्यविलेपनवस्त्राभरणैर्मायादेवीमभ्यवकिरन्ति स्म । तत्रेदमुच्यते - शुभविमलविशुद्धहेमप्रभा चन्द्रसूर्यप्रभा षष्टि दशसहस्र देवाप्सरा मञ्जुघोषस्वराः । तस्मि क्षणि उपेत्य तां लुम्बिनीं मायदेव्यब्रुवन् मा खु जनि विषादु तुष्टा भवोपस्थायिकाष्ते वयम् ॥ ७.२२ ॥ भणहि किं करणीयु किं कुर्महे केन कार्यं च ते वयं तव सुसमर्थोपस्थायिका प्रेमभावस्थिताः । अपि च भव उदग्र हर्षान्विता मा च खेदं जनेहि जरामरणविघाति वैद्योत्तममद्य देवी जनेषी लघुम् ॥ ७.२३ ॥ यथ द्रुम परिफुल्ल संपुष्पिता शालवृक्षा इमे यथ च मरुसहस्र पार्श्वे स्थिता भ्रामयन्तो भुजान् । यथ च चलि ससागरा मेदिनी षड्विकारा इयं दिवि दिवि च विघुष्ट लोकोत्तरं त्वं जनेषी सुतम् ॥ ७.२४ ॥ यथ च प्रभ विशुद्ध विभ्राजते स्वर्णवर्ण शुभा तूर्यशत मनोज्ञा चाघट्टिता घुष्ययन्तेऽम्बरे । यथ च शतसहस्र शुद्धा शुभा वीतरागाः सुरा नमिषु मुदितचित्ता अद्यो जने सर्वलोके हितम् ॥ ७.२५ ॥ शक्रमपि च ब्रह्मपालापि चान्या च या देवता तुष्टमुदितचित्ता पार्श्वे स्थिता नामयन्तो भुजाम् । सो च पुरुषसिंह शुद्धव्रतो (भित्त्व) कुक्षिनिर्धावितो कनकगिरिनिकाश शुद्धव्रतो निष्क्रमी नायकः ॥ ७.२६ ॥ (वैद्य ६७) शक्रमपि च ब्रह्म तौ पाणिभिः संप्रतीच्छा मुनिं क्षेत्र शतसहस्र संकम्पिता आभ मुक्ता शुभा । अपि च त्रिषु अपायि सत्त्वा सुखी नास्ति दुःखं पुन अमरशतसहस्र पुष्पां क्षिपी भ्रामयन्त्यम्बरान् ॥ ७.२७ ॥ वीर्यबलौपेत वज्रात्मिका मेदिनी संस्थिता (ऽभुत्तदा) पद्मु रुचिरचित्रु अभ्युद्गतो यत्र (चक्राङ्गचित्रेभिः) पद्भ्यां स्थितो (ऽपि) नायकः । सप्त पद क्रमित्व ब्रह्मस्वरो मुञ्चि घोषोत्तमं जरमरणविघाति वैद्योत्तमो भेष्यि सत्त्वोत्तमः ॥ ७.२८ ॥ गगनतल स्थिहित्व ब्रह्मोत्तमो शक्रदेवोत्तमः शुचिरुचिरप्रसन्नगन्धोदकैर्विस्नपी नायकम् । अपि च उरगराजा शीतोष्ण द्वे वारिधारे शुभे (व्यमुञ्चतान्तरीक्षे स्थिताः) अमर शतसहस्र गन्धोदकैर्विस्नपी नायकम् ॥ ७.२९ ॥ लोकपालाश्च संभ्रान्त संधारयन्ती करैः शोभनैः । त्रिसहस्रा इयं भूमिः कम्पते सचराचरा ॥ ७.३० ॥ प्रभा च रुचिरा मुक्ता अपायाश्च विशोधिताः । क्लेशदुःखाश्च ते शान्ता जाते लोकविनायके ॥ ७.३१ ॥ क्षिपन्ति मरुतः पुष्पं जातेऽस्मिन्नरनायके । क्रम सप्त पदां वीरः क्रमते बलवीर्यवान् ॥ ७.३२ ॥ पादौ निक्षिपते यत्र भूमौ पद्मवराः शुभाः । अभ्युद्गच्छंस्ततो मह्यां सर्वरत्नविभूषिताः ॥ ७.३३ ॥ यदा सप्त पदां गत्वा ब्रह्मस्वरमुदाहरि । जरामरणविघाति भिषग्वर इवोद्गतः ॥ ७.३४ ॥ व्यवलोकयित्वा च विशारदो दिशः ततो गिरां मुञ्चति अर्थयुक्ताम् । ज्येष्ठोऽहं सर्वलोकस्य श्रष्ठो (लोके विनायकः) इयं च जातिर्मम पश्चिमा (इति) ॥ ७.३५ ॥ हास्यं च मुक्तं नरनायकेन सलोकपालैर्मरुभिश्च सेन्द्रैः । प्रसन्नचित्तैर्वरगन्धवारिभिः संस्कारितो लोकहितार्थकारी ॥ ७.३६ ॥ (वैद्य ६८) अपि चोरगेन्द्रैः सहितैः समग्रैः गन्धोग्रधाराविसरैः स्नपिंसु । अन्येऽपि देवा नयुता (स्थिताः)ऽन्तरीक्षे स्नपिंसु गन्धाग्रजिने स्वयंभुम् ॥ ७.३७ ॥ श्वेतं च विपुलं छत्रं चामरांश्च शुभाम्बरान् । अन्तरीक्षे गता देवाः स्नापयन्ति नरर्षभम् ॥ ७.३८ ॥ पञ्चकुलिकशतानि प्रसूयन्ते स्म । पुरुष त्वरितु गत्व शुद्धोदनमब्रवीथर्षितो वृद्धि विपुल जातु देवा सुतो भूषितो लक्षणैः । महकुलरतनस्य (वृद्धिभूता) व्यक्तो असौ चक्रवर्तीश्वरः न च भवि प्रतिशत्रु जम्बुध्वजे एकछत्रो भवेत् ॥ ७.३९ ॥ द्वितियु पुरुषु गत्व (राज्ञि) शुद्धोदने श्लेषयित्वा क्रमे वृद्धि विपुल देव जाता नृपे शाकियानां कुले । पञ्चविंशतिसहस्र जाताः सुताः शाकियानां गृहे सर्वि बलौपेत नग्नाः समा दुष्प्रधर्षा परैः ॥ ७.४० ॥ अपरु पुरुष आह देवा श्रुणा नन्दशब्दं ममा छन्दकप्रमुखानि चेटीसुता जात अष्टौ शता । अपि च दशसहस्र जाता हयाः कण्ठकस्य सखा तुरगवरप्रधान हेमप्रभा मञ्जुकेशा वराः ॥ ७.४१ ॥ विंशति च सहस्र पर्यन्तकाः कोट्टराजास्तथा नृपति क्रमतलेभि चान्वाक्रमी साधु देवा जया । आज्ञा खलु ददाहि गच्छाम किं वा करोमो नृपा त्वमिह वशितु प्राप्तु भृत्या वयं भट्ट देवा जया ॥ ७.४२ ॥ विंशति च सहस्र नागोत्तमा हेमजालोज्ज्वला त्वरितमुपगमिंसु राज्ञो गृहं गर्जमाना नभे । कृष्णशबल वत्स गोपामुखा जात षष्टिशता इयमपि सुति देवदेवोत्तमे वृद्धि राज्ञो गृहे ॥ ७.४३ ॥ (वैद्य ६९) अपि च नृपति गच्छ प्रेक्ष स्वयं सर्वमेव प्रभो (पुण्यतेज प्रभो) नरमरुतसहस्र ये हर्षिता दृष्ट्व जाते गुणाम् । बोधिवर अशोक संप्रस्थिताः क्षिप्र भोमा जिनाः ॥ ७.४४ ॥ इति ॥ इति हि भिक्षवो जाते बोधिसत्त्वे तत्क्षणं दाननिसर्गः पुनरुत्तरि प्रवर्तते स्म । पञ्च च कुलिकाशतानि प्रसूयन्ते स्म, दश च कन्यासहस्राणि यशोवतीप्रमुखानि । अष्टौ दासीशतानि अष्टौ दासशतानि छन्दकप्रमुखानि । दश वडवासहस्राणि दश किशोरसहस्राणि कण्ठकप्रमुखानि । पञ्च करेणुसहस्राणि पञ्च पिङ्गसहस्राणि प्रसूयन्ते स्म । तानि सर्वाणि राज्ञा शुद्धोदनेन पुस्तवरोपितानि कुमारस्य क्रीडार्थं दत्तान्यभूवन् ॥ चतुर्णां च द्वीपकोटीशतसहस्राणां मध्ये पृथिवीप्रदेशे अश्वत्थयष्टिः प्रादुरभूदन्तर्द्वीपे च चन्दनवनं प्रादुर्बभूव बोधिसत्त्वस्य परिभोगार्थं बोधिसत्त्वस्यैवानुभावेन । पञ्च चोद्यानशतानि समन्तान्नगरस्य प्रादुर्बभूवुर्बोधिसत्त्वस्य परिभोगाय । पञ्च च निधानसहस्राणि धरणीतलादुत्प्लुत्य मुखं दर्शयन्ति स्म । इति हि ये केचिद्राज्ञः शुद्धोदनस्यार्थाभिप्रेता अभूवन्, ते सर्वे समृद्धाभिप्रेता अभूवन् संसिद्धाः ॥ ततो राज्ञः शुद्धोदनस्यैतदभूत्- किमहं कुमारस्य नामधेयं करिष्यामीति । ततोऽस्यैतदभूत्- अस्य हि जातमात्रेण मम सर्वार्थाः संसिद्धाः । यन्न्वहमस्य सर्वार्थसिद्ध इति नाम कुर्याम् । ततो राजा बोधिसत्त्वं महता सत्कारेण सत्कृत्य सर्वार्थसिद्धोऽयं कुमारो नाम्ना भवतु इति नामास्याकार्षीत् ॥ इति हि भिक्षवो जाते बोधिसत्त्वे मातुः कुक्षिपार्श्वमक्षतमनुपहतमभवद्यथा पूर्वं तथा पश्चात् । त्रितविष्यन्दाम्बुकूपाः प्रादुरभूवनपि च सुगन्धतैलपुष्करिण्यः । पञ्चाप्सरः - सहस्राणि दिव्यगन्धपरिवासिततैलपरिगृहीतानि बोधिसत्त्वमातरमुपसंक्रम्य सुजातजाते तामक्लान्तकायतां च परिपृच्छन्ति स्म । पञ्चाप्सरःसहस्राणि दिव्यानुलेपनपरिगृहीतानि बोधिसत्त्वमातरमुपसंक्रम्य सुजातजाते तामक्लान्तकायतां च परिपृच्छन्ति स्म । पञ्चाप्सरःसहस्राणि दिव्यगन्धोदकपरिपूर्णघटापरिगृहीतानि बोधिसत्त्वमातरमुपसंक्रम्य सुजातजाते तामक्लान्तकायतां च परिपृच्छन्ति स्म । पच्चाप्सरःसहस्राणि दिव्यानुलेपनपरिगृहीतनि बोधिसत्त्वमातरमुपसंक्रम्य सुजातजाते तामक्लान्तकायतां च परिपृच्छन्ति स्म । पञ्चाप्सरःसहस्राणि दिव्यदारकाचीवरपरिगृहीतानि बोधिसत्वमातरमुपसंक्रम्य सुजारजाते तामक्लान्तकायतां च परिपृच्छन्ति स्म । पञ्चाप्सरः - सहस्राणि दिव्यदारकाभरणपरिगृहीतानि बोधिसत्त्वमातरमुपसंक्रम्य सुजातजाते तामक्लान्तकायतां च परिपृच्छन्ति स्म । पञ्चाप्सरःसहस्राणि दिव्यतूर्यसंगीतिसंप्रभणितेन बोधिसत्त्वमातरमुपसंक्रम्य सुजातजाते तामक्लान्तकायतां च परिपृच्छन्ति स्म । यावन्तश्चेह जम्बुद्वीपे बाह्याः पञ्चभिज्ञा ऋषयस्ते सर्वे गगनतलेनागत्य राज्ञः शुद्धोदनस्य पुरतः स्थित्वा जयवृद्धिशब्दमनुश्रावयन्ति स्म ॥ इति हि भिक्षवो जातमात्रो बोधिसत्त्वः सप्तरात्रः लुम्बिनीवने दिव्यमानुष्यकैस्तूर्यतालावचरैः सत्क्रियते स्म, गुरुक्रियते स्म, मान्यते स्म, पूज्यते स्म, खाद्यभोज्यस्वादनीयानि (वैद्य ७०) विश्राण्यन्ते स्म । सर्वशाक्यगणाश्च संनिपात्यानन्दशब्दमुदीरयन्ति स्म, दानानि च ददन्ति स्म, पुण्यानि च कुर्वन्ति स्म । द्वात्रिंशच्च ब्राह्मणशतसहस्राणि दिने दिने संतर्प्यन्ते स्म । येषां च येनार्थेन तेभ्यस्तद्दीयते स्म । शक्रश्च देवानामिन्द्रो ब्रह्मा च तस्यां ब्राह्मणपर्षदि माणवकरूपमभिनिर्मायाग्रासने निषद्येमां मङ्गल्यां गाथामभ्यभाषताम् - अपायाश्च यथा शान्ता सुखी सर्वं यथा जगत् । ध्रुवं सुखावहो जातः सुखे स्थापयिता जगत् ॥ ७.४५ ॥ यथा वितिमिरा चाभा रविचन्द्रसुरप्रभाः । अभिभूता न भासन्ते ध्रुवं पुण्यप्रभोद्भवः ॥ ७.४६ ॥ पश्यन्त्यनयना यद्वच्छ्रोत्रहीनाः श्रुणन्ति च । उन्मत्तकाः स्मृतीमन्तो भविता लोकचेतियः ॥ ७.४७ ॥ न बाधन्ते यथा क्लेशा जातं मैत्रजनं जगत् । निःसंशयं ब्रह्मकोटीनां भविता पूजनारहः ॥ ७.४८ ॥ यथा संपुष्पिताः शाला मेदिनी च समा स्थिता । ध्रुवं सर्वजगत्पूज्यः सर्वज्ञोऽयं भविष्यति ॥ ७.४९ ॥ यथा निराकुलो लोको महापद्मो यथोद्भवः । निःसंशयं महातेजा लोकनाथो भविष्यति ॥ ७.५० ॥ यथा च मृदुका वाता दिव्यगन्धोपवासिताः । शमेन्ति व्याधिं सत्त्वानां वैद्यराजो भविष्यति ॥ ७.५१ ॥ वीतरागा यथा चेमे रूपधातौ मरुच्छताः । कृताञ्जलिं नमस्यन्ते दक्षिणीयो भविष्यति ॥ ७.५२ ॥ यथा च मनुजा देवान् देवाः पश्यन्ति मानुषान् । हेठयन्ति न चान्योन्यं सार्थवाहो भविष्यति ॥ ७.५३ ॥ यथा च ज्वलनः शान्तः सर्वा नद्यश्च विस्थिताः । सूक्ष्मं च कम्पते भूमिः भविता तत्त्वदर्शकः ॥ ७.५४ ॥ इति ॥ इति हि भिक्षवः सप्तरात्रजातस्य बोधिसत्त्वस्य माता मायादेवी कालमकरोत् । सा कालगता त्रायत्रिंशति देवेषूपपद्यत । स्यात्खलु पुनर्भिक्षवो युष्माकमेवं बोधिसत्त्वापराधेन मायादेवी कालगतेति? न खल्वेवं द्रष्टव्यम् । तत्कस्माद्धेतोः? एतत्परमं हि तस्या आयुष्प्रमाणमभूत् । अतीतानामपि भिक्षवो बोधिसत्त्वानां सप्तरात्रजातानां जनेत्र्यः कालमकुर्वन्त । तत्कस्माद्धेतोः? विवृद्धस्य हि बोधिसत्त्वस्य परिपूर्णेन्द्रियस्याभिनिष्क्रामतो मातुर्हृदयं स्फुटेत् ॥ (वैद्य ७१) इति हि भिक्षवः सप्तमे दिवसे यादृशेनैव व्यूहेन मायादेवी कपिलवस्तुनो महानगरादुद्यानभूमिमभिनिष्क्रान्ताभूत्, ततः कोटीशतसहस्रगुणोत्तरेण महाव्यूहेन बोधिसत्त्वः कपिलवस्तु महानगरं प्राविक्षत् । तस्य च प्रविशतः पञ्च पूर्णकुम्भसहस्राणि गन्धोदकपरिपूर्णानि पुरतो नीयन्ते स्म । एवं पञ्चकन्यासहस्राणि मयूरहस्तकम्परिगृहीतानि पुरतो गच्छन्ति स्म । पञ्च च कन्यासहस्राणि तालवृक्षकपरिगृहीतानि पुरतो गच्छन्ति स्म । पञ्च स कन्यासहस्राणि गन्धोदकभृङ्गारपरिगृहीतानि पुरतो गच्छन्ति स्म, मार्गमवसिञ्चन्ति स्म । पञ्च च कन्यासहस्राणि विचित्रपटलकपरिगृहीतानि पुरतो गच्छन्ति स्म । पञ्च च कन्यासहस्राणि नवविचित्रप्रलम्बनमालापरिगृहीतानि पुरतो गच्छन्ति स्म । पञ्च च कन्यासहस्राणि रत्नभद्रालंकारपरिगृहीतानि पुरतो गच्छन्ति स्म, मार्गं शोधयन्ति स्म । पञ्च च कन्यासहस्राणि भद्रासनपरिगृहीतानि पुरतो गच्छन्ति स्म । पञ्च च ब्राह्मणसहस्राणि घण्टापरिगृहीतानि माङ्गल्यशब्दं श्रावयन्तः पुरतो गच्छन्ति स्म । विंशति नागसहस्राणि सर्वालंकारविभूषितानि पुरतो गच्छन्ति स्म । विंशति हयसहस्राणि सुवर्णालंकारसंछन्नानि सर्वालंकारविभूषितानि पुरतो गच्छन्ति स्म । अशीति रथसहस्राणि उछ्रितछत्रध्वजपताकाकिङ्किणीजालसमलंकृतानि बोधिसत्त्वस्य पृष्ठतोऽनुच्छन्ति स्म । चत्त्वारिंशत्पदातिसहस्राणि शूराणां वीराणां वराङ्गुरूपिणां संनद्धदृढवर्मकवचानां बोधिसत्त्वं गच्छन्तमनुगच्छन्ति स्म । गगनतलगतानि चाप्रमेयासंख्येयान्यभिज्ञातानि कामावचराणां रूपावचरदेवपुत्रकोटीनयुतशतसहस्राणि नानाप्रक्रारमनेकव्यूहैर्बोधिसत्त्वस्य पूजां कुर्वन्तोऽनुगच्छन्ति स्म । यस्मिंश्च वरप्रवररथे बोधिसत्त्वः समभिरूढोऽभूत्, स कामावचरैर्देवैरनेकैर्महाव्यूहैः समलंकृतोऽभूत् । विंशति च देवकन्यासहस्राणि सर्वालंकारविभूषितानि रत्नसूत्रपरिगृहीतानि तं रथं वहन्ति स्म । द्वयोश्चाप्सरसोर्मध्ये एका मानुषी कन्या द्वयोर्मानुषीकन्ययोर्मध्ये एकाप्सरा । न चाप्सरसो मानुषीणामामगन्धं जिघ्रन्ति स्म । न च मानुषा अप्सरसां रूपं दृष्ट्वा प्रमादमापद्यन्ते स्म यदिदं बोधिसत्त्वस्य तेजोनुभावेन ॥ इति हि भिक्षवः कपिलाह्वये पुरवरे सर्वार्थसिद्धाय पञ्चमात्रैः शाक्यशतैः पञ्चगृहशतानि निर्मापितान्यभूवन् बोधिसत्त्वमुद्दिश्य । ते बोधिसत्त्वं नगरं प्रविशन्तं स्वस्वगृहद्वारमूले स्थित्वा कृताञ्जलिपुटा अभिनतकायाः सगौरवा एवमाहुः - इह भोः सर्वार्थसिद्ध प्रविश । इह भो देवातिदेव प्रविश । इह भोः शुद्धसत्त्व प्रविश । इह भोः सारथिवर प्रविश । इह भोः प्रीतिप्रामोद्यकर प्रविश । इह भो अनिन्दितयशः प्रविश । इह भोः समन्तचक्षु प्रविश । इह भो असमसम प्रविश । इह भो असदृशगुणतेजोधर लक्षणानुव्यञ्जनस्वलंकृतकाय प्रविशेति । ततश्चोपादाय कुमारस्येह सर्वार्थसिद्धः सर्वार्थसिद्ध इति संज्ञामगमत् ॥ तत्र राजा शुद्धोदनस्तेषां सर्वेषामनुवर्तनार्थं बोधिसत्त्वं सर्वगृहेषु प्रवेश्य चतुर्णां मासानामत्ययाद्बोधिसत्त्वं स्वगृहे प्रवेशयति स्म । तत्र च नानारत्नव्यूहो नाम (वैद्य ७२) महाप्रासादस्तं बोधिसत्त्वः समारूढोऽभूत् । तत्र ते बृद्धवृद्धाः शाक्याः संनिपत्यैवं मतं चारयन्ति स्म - का नु खलु समर्था बोधिसत्त्वं गोपायितुं केलयितुं ममायितुं हितचित्ततया मैत्रचित्ततया गुणचित्ततया सौम्यचित्ततया चेति । तत्र पञ्चमात्राणि शाक्यवधूशतानि । एकैका एवमाहूः - अहं कुमारमुपस्थास्य इति । तत्र महल्लकमहल्लिकाः शाक्या एवमाहुः - सर्वा एता वधूका नवा दह्नास्तरुण्यः रूपयौवनमदमत्ताः । नैताः समर्था बोधिसत्त्वं कालेन कालमुपस्थापयितुम् । अथ च पुनरियं महाप्रजापती गौतमी कुमारस्य मातृस्वसा । एषा समर्था कुमारं सम्यक्सुखेन संवर्धयितुम्, राजानं च शुद्धोदनमभिधारयितुम् । इति हि ते सर्वे समग्रा भूत्वा महाप्रजापतीं गौतमीमुत्साहयन्ति स्म । इति हि महाप्रजापती गौतमी कुमारं संवर्धयति स्म । तत्र बोधिसत्त्वस्यार्थे द्वात्रिंशद्धात्र्यः संस्थापिता अभुवनष्टावङ्गधात्र्यः, अष्टौ क्षीरधात्र्यः, अष्टौ मलधात्र्यः, अष्टौ क्रीडाधात्र्यः ॥ ततो राजा शुद्धोदनः सर्वं शाक्यगणं संनिपात्यैवं मीमांसते स्म - किं नु खल्वयं कुमारो राजा भविष्यति चक्रवर्ती, आहोस्विदभिनिष्क्रमिष्यति प्रव्रज्यायै? तेन च समयेन हिमवतः पर्वतराजस्य पार्श्वे असितो नाम महर्षिः प्रतिवसति स्म पञ्चाभिज्ञः सार्धं नरदत्तेन भागिनेयेन । स बोधिसत्त्वस्य जातमात्रस्य बहून्याश्चर्याद्भुतप्रातिहार्याण्यद्राक्षीत् । गगनतलगतांश्च देवपुत्रान् बुद्धशब्दमनुश्रावयतोऽम्बराणि च भ्रामयत इतस्ततः प्रमुदितान् भ्रमतोऽद्राक्षीत् । तस्यैतदभूत्- यन्न्वहं व्यवलोकयेयमिति । स दिव्येन चक्षुषा सर्वं जम्बुद्वीपमनुविलोकयन्नद्राक्षीत्कपिलाह्वये महापुरवरे राज्ञः शुद्धोदनस्य गृहे कुमारं जातं शतपुण्यतेजस्तेजितं सर्वलोकमहितं द्वात्रिंशन्महापुरुषलक्षणैः समलंकृतगात्रम् । दृष्ट्वा च पुनर्नरदत्तं माणवकमामन्त्रयते स्म - यत्खलु माणवक जानीया जम्बुद्वीपे महारत्नमुत्पन्नम् । कपिलवस्तुनि महानगरे राज्ञः शुद्धोदनस्य गृहे कुमारो जातः शतपुण्यतेजस्तेजितः सर्वलोकमहितो द्वात्रिंशन्महापुरुषलक्षणैः समन्वागतः । सचेत्सोऽगारमध्यावसिष्यति, राजा भविष्यति चतुरङ्गश्चक्रवर्ती विजितवान् धार्मिको धर्मराजो जानपदस्थामवीर्यप्राप्तः सप्तरत्नसमन्वागतः । तस्येमानि सप्त रत्नानि भवन्ति । तद्यथा - चक्ररत्नं हस्तिरत्नमश्वरत्नं मणिरत्नं स्त्रीरत्नं गृहपतिरत्नं परिणायकरत्नम् । एवं सप्तरत्नसंपूर्णश्च । अस्य पुत्रसहस्रं भविष्यति शूराणां वीराणां वराङ्गरूपिणां परसैन्यप्रमर्दकानाम् । स इमं महापृथिवीमण्डलं समुद्रपरिखमदण्डेनाशस्त्रेण स्वेन (धर्मेण) बलेनाभिभूयाभिनिर्जित्य राज्यं करिष्यत्यैश्वर्याधिपत्येन । सचेत्पुनरगारादनगारिकां प्रव्रजिष्यति, तथागतो भविष्यति अर्हन् सम्यक्संबुद्धो नेता अनन्यनेयः शास्ता लोके संबुद्धः । तदेतर्ह्युपसंक्रमिष्यावस्तद्द्रष्टुमिति ॥ अथ खल्वसितो महर्षिः सार्धं नरदत्तेन भागिनेयेन राजहंस इव गगनतलादभ्युद्गम्य समुत्प्लुत्य येन कपिलवस्तु महानगरं तेनोपसंक्रामत् । उपसंक्रम्य ऋद्धिं प्रतिसंहृत्य पद्भ्यामेव कपिलवस्तु महानगरं प्रविश्य येन राज्ञः शुद्धोदनस्य निवेशनं तेनोपसंक्रामत् । उपसंक्रम्य राज्ञः शुद्धोदनस्य गृहद्वारेऽस्थात् ॥ (वैद्य ७३) इति हि भिक्षवोऽसितो महर्षिः पश्यति स्म राज्ञः शुद्धोदनस्य गृहद्वारेऽनेकानि प्राणिशतसहस्राणि संनिपतितानि । अथ खल्वसितो महर्षिर्दौवारिकमुपसंक्रम्यैवमाह - गच्छ त्वं भोः पुरुष राज्ञः शुद्धोदनस्य, निवेदय द्वारे ऋषिर्व्यवस्थित इति । परमेति दौवारिकोऽसितस्य महर्षेः प्रतिश्रुत्य येन राजा शुद्धोदनस्तेनोपसंक्रामत् । उपसंक्रम्य कृताञ्जलिपुटो राजानं शुद्धोदनमेवमाह - यत्खलु देव जानीया ऋषिर्जीर्णो वृद्धो महल्लको द्वारे स्थितः । एवं च वदति - राजानमहं द्रष्टुकाम इति । अथ राजा शुद्धोदनोऽसितस्य महर्षेरासनं प्रज्ञाप्य तं पुरुषमेवमाह - प्रविशतु ऋषिरिति । अथ स पुरुषो राजकुलान्निष्क्रम्यासितं महर्षिमेवमाह - प्रविशेति ॥ अथ खल्वसितो महर्षिर्येन राजा शुद्धोदनस्तेनोपसंक्रामत् । उपसंक्रम्य पुरतः स्थित्वा राजानं शुद्धोदनमेवमाह - जय जय महाराज, चिरमायुः पालय, धर्मेण राज्यं कारयेति ॥ अथ स राजा शुद्धोदनोऽसितस्य महर्षेरर्घपाद्यमर्चनं च कृत्वा साधु सुष्ठु च परिगृह्य आसनेनोपनिमन्त्रयते स्म । सुखोपविष्टं चैनं ज्ञात्वा सगौरवः सुप्रतीत एवमाह - न स्मराम्यहं तव ऋषे दर्शनम् । तत्केनार्थेनेहाभ्यागतोऽसि, किं प्रयोजनम्? एवमुक्तेऽसितो महर्षी राजानं शुद्धोदनमेतदवोचत्- पुत्रस्ते महाराज जातस्तमहं द्रष्टुकाम इहागत इति ॥ राजा आह - स्वपिति महर्षे कुमारः । मुहूर्तमागमय यावदुत्थास्यतीति ॥ ऋषिरवोचत्- न महाराज तादृशा महापुरुषाश्चिरं स्वपन्ति । जागरशीलास्तादृशाः सत्पुरुषा भवन्ति ॥ इति हि भिक्षवो बोधसत्त्वोऽसितस्य महर्षेरनुकम्पया जागरणनिमित्तमकरोत् । अथ खलु राजा शुद्धोदनः सर्वार्थसिद्धं कुमारमुभाभ्यां पाणिभ्यां साधु च सुष्ठु चानुपरिगृह्य असितस्य महर्षेरन्तिकमुपनामयति स्म ॥ इति हि असितो महर्षिर्बोधिसत्त्वमवलोक्य द्वात्रिंशता महापुरुषलक्षणैः समन्वागतमशीत्यनुव्यञ्जनसुविचित्रगात्रं शक्रब्रह्मलोकपालातिरेकवपुषं दिनकरशतसहस्रातिरेकतेजसं सर्वाङ्गसुन्दरं दृष्ट्वा चोदानमुदानयति स्म - आश्चर्यपुद्गलो बतायं लोके प्रादुर्भूत, महाश्चर्यपुद्गलो बतायं लोके प्रादुर्भूतः इत्युत्थायासनात्कृताञ्जलिपुटो बोधिसत्त्वस्य चरणयोः प्रणिपत्य प्रदक्षिणीकृत्य च बोधिसत्त्वमङ्केन परिगृह्य निध्यायन्नवस्थितोऽभूत् । सोऽद्राक्षीद्बोधिसत्त्वस्य द्वात्रिंशन्महापुरुषलक्षणानि यैः समन्वागतस्य पुरुषपुद्गलस्य द्वे गती भवतो नान्या । सचेदगारमध्यावसति राजा भवति चतुरङ्गश्चक्रवर्ती पूर्ववद्यावदेवैश्वर्याधिपत्येन । सचेत्पुनरगारादनगारिकां प्रव्रजति तथागतो भविष्यति विघुष्टशब्दः सम्यक्संबुद्धः । स तं दृष्ट्वा प्रारोदीदश्रूणि च प्रवर्तयन् गम्भीरं च निश्वसति स्म ॥ (वैद्य ७४) अद्राक्षीद्राजा शुद्धोदनोऽसितं महर्षिं रुदन्तमश्रूणि च प्रवर्तयमानं गम्भीरं च निश्वसन्तम् । दृष्ट्वा च संहर्षितरोमकूपजातस्त्वरितत्वरितं दीनमना असितं महर्षिमेतदवोचत्- किमिदमृषे रोदसि अश्रूणि च प्रवर्तयसि गम्भीरं च निश्वससि? मा खलु कुमारस्य काचिद्विप्रतिपत्तिः ॥ एवमुक्तेऽसितो महर्षी राजानं शुद्धोदनमेवमाह - नाहं महाराज कुमारस्यार्थेन रोदिमि, नाप्यस्य काचिद्विप्रतिपत्तिः । किं त्वात्मानमहं रोदिमि । तत्कस्माद्धेतोः? अहं च महाराज जीर्णो वृद्धो महल्लकः । अयं च सर्वार्थसिद्धः कुमारोऽवश्यमनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यति । अभिसंबुध्य चानुत्तरं धर्मचक्रं प्रवर्तयिष्यति अप्रवर्तितं श्रमणेन वा ब्राह्मणेन वा देवेन वा मारेण वा अन्येन वा पुनः केनचिल्लोके सहधर्मेण । सदेवकस्य लोकस्य हिताय सुखाय धर्मं देशयिष्यति आदौ कल्याणं मध्ये कल्याणं पर्यवसाने कल्याणम् । स्वर्थं सुव्यञ्जनं केवलं परिपूर्णं परिशुद्धं पर्यवदातं ब्रह्मचर्यं सत्त्वानां संप्रकाशयिष्यति । अस्मात्तं धर्मं श्रत्वा जातिधर्माणः सत्त्वा जात्या परिमोक्षन्ते । एवं जराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासेभ्यः परिमोक्षन्ते । रागद्वेषमोहाग्निसंतप्तानां सत्त्वानां सद्धर्मजलवर्षेण प्रह्लादनं करिष्यति । नानाकुदृष्टिग्रहणप्रस्कन्धानां सत्त्वानां कुपथप्रयातानामृजुमार्गेण निर्वाणपथमुपनेष्यति । संसारपञ्जरचारकावरुद्धानां क्लेशबन्धनबद्धानां बन्धननिर्मोक्षं करिष्यति । अज्ञानतमस्तिमिरपटलपर्यवनद्धनयनानां सत्त्वानां प्रज्ञाचक्षुरुत्पादयिष्यति । क्लेशशल्यविद्धानां सत्त्वानां शल्योद्धरणं करिष्यति । तद्यथा महाराज औदुम्बरपुष्पं कदाचित्कर्हिचिल्लोके उत्पद्यते, एवमेव महाराज कदाचित्कर्हिचिद्बहुभिः कल्पकोटिनयुतैर्बुद्धा भगवन्तो लोके उत्पद्यन्ते । सो ऽयं कुमारोऽवश्यमनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यते । अभिसंबुध्य च सत्त्वकोटीनियुतशतसहस्राणि संसारसागरात्पारमुत्तारयिष्यति, अमृते च प्रतिष्ठापयिष्यति । वयं च तं बुद्धरत्नं न द्रक्ष्यामः । इत्येव तदहं महाराज रोदिमि परिदीनमना दीर्घं च निश्वसामि यदहमिमं नारोग्येऽपि राधयिष्यामि ॥ यथा ह्यस्माकं महाराज मन्त्रवेदशास्त्रेष्वागच्छति - नार्हति सर्वार्थसिद्धः कुमारोऽगारमध्यावसितुम् । तत्कस्य हेतोः? तथा हि महाराज सर्वार्थसिद्धः कुमारो द्वात्रिंशता महापुरुषलक्षणैः समान्वागतः । कतमैर्द्वात्रिंशता? तद्यथा । उष्णीषशीर्षो महाराज सर्वार्थसिद्धः कुमारः । अनेन महाराज प्रथमेन महापुरुषलक्षणेन समन्वागतः सर्वार्थसिद्धः कुमारः । भिन्नाञ्जनमयूरकलापाभिनीलवल्लितप्रदक्षिणावर्तकेशः । समविपुलललाटः । ऊर्णा महाराज सर्वार्थसिद्धस्य कुमारस्य भ्रुवो र्मध्ये जाता हिमरजतप्रकाशा । गोपक्ष्मनेत्रः । अभिनीलनेत्रः । समचत्त्वारिंशद्दन्तः । अविरलदन्तः । शुक्लदन्तः । ब्रह्मस्वरो महाराज सर्वार्थसिद्धः कुमारः । रसरसाग्रवान् । प्रभूततनुजिह्वः । सिंहहनुः । सुसंवृत्तस्कन्धः । सप्तोत्सदः । चितान्तरांसः । सूक्ष्मसुवर्णवर्णच्छविः । स्थितोऽनवनतप्रलम्बबाहु । सिंहपूर्वार्धकायः । न्यग्रोधपरिमण्डलो महाराज सर्वार्थसिद्धः कुमारः । एकैकरोमा । ऊर्ध्वाग्राभिप्रदक्षिणावर्तरोमाः । (वैद्य ७५) कोशोपगतबस्तिगुह्यः । सुविवर्तितोरुः । एणेयमृगराजजङ्घः । दीर्घाङ्गुलिः । आयतपार्ष्णिपादः । उत्सङ्गपादः । मृदुतरुणहस्तपादः । जालाङ्गुलिहस्तपादः । दीर्घाङ्गुलिरधःक्रमतलयोर्महाराज सर्वार्थसिद्धस्य कुमारस्य चक्रे जाते चि (अर्चिष्मती प्रभास्वरे सिते) सहस्रारे सनेमिके सनाभिके । सुप्रतिष्ठितसमपादो महाराज सर्वार्थसिद्धः कुमारः । अनेन महाराज द्वात्रिंशत्तमेन महापुरुषलक्षणेन समन्वागतः सर्वार्थसिद्धः कुमारः । न च महाराज चक्रवर्तिनामेवंविधानि लक्षणानि भवन्ति । बोधिसत्त्वानां च तादृशानि लक्षणानि भवन्ति ॥ संविद्यन्ते खलु पुनर्महाराज सर्वार्थसिद्धस्य कुमारस्य कायेऽशीत्यनुव्यञ्जनानि, यैः समन्वागतः सर्वार्थसिद्धः कुमारो नार्हत्यगारमध्यावसितुम् । अवश्यमभिनिष्क्रमिष्यति प्रव्रज्यायै । कतमानि च महाराज तान्यशीत्यनुव्यञ्जनानि? तद्यथा - तुङ्गनखश्च महाराज सर्वार्थसिद्धः कुमारः । ताम्रनखश्च स्निग्धनखश्च वृत्ताङ्गुलिश्च अनुपूर्वचित्राङ्गुलिश्च गूढशिरश्च गूढगुल्फश्च घनसंधिश्च अविषमसमपादश्च आयतपार्ष्णिश्च महाराज सर्वार्थसिद्धः कुमारः । स्निग्धपाणिलेखश्च तुल्यपाणिलेखश्च गम्भीरपाणिलेखश्च अजिह्मपाणिलेखश्च अनुपूर्वपाणिलेखश्च बिम्बोष्ठश्च नोच्चवचनशब्दश्च मृदुतरुणताम्रजिह्वश्च गजगर्जिताभिस्तनितमेघस्वरमधुरमञ्जुघोषश्च परिपूर्णव्यञ्जनश्च महाराज सर्वार्थसिद्धः कुमारः । प्रलम्बबाहुश्च शुचिगात्रवस्तुसंपन्नश्च मृदुगात्रश्च विशालगात्रश्च अदीनगात्रश्च अनुपूर्वोन्नतगात्रश्च सुसमाहितगात्रश्च सुविभक्तगात्रश्च पृथुविपुलसुपरिपूर्णजानुमण्डलश्च वृत्तगात्रश्च महाराज सर्वार्थसिद्धः कुमारः । सुपरिमृष्टगात्रश्च अजिह्मवृषभगात्रश्च अनुपूर्वगात्रश्च गम्भीरनाभिश्च अजिह्मनाभिश्च अनुपूर्वनाभिश्च शुच्याचारश्च ऋषभवत्समन्तप्रासादिकश्च परमसुविशुद्धवितिमिरालोकसमन्तप्रभश्च नागविलम्बितगतिश्च महाराज सर्वार्थसिद्धः कुमारः । सिंहविक्रान्तगतिश्च ऋषभविक्रान्तगतिश्च हंसविक्रान्तगतिश्च अभिप्रदक्षिणावर्तगतिश्च वृत्तकुक्षिश्च मृष्टकुक्षिश्च अजिह्मकुक्षिश्च चापोदरश्च व्यपगतछन्ददोषनीलकालकादुष्टशरीरश्च वृत्तदंष्ट्रश्च महाराज सर्वार्थसिद्धः कुमारः । तीक्ष्णदंष्ट्रश्च अनुपूर्वदंष्ट्रश्च तुङ्गनासश्च शुचिनयनश्च विमलनयनश्च प्रहसितनयनश्च आयतनयनश्च विशालनयनश्च नीलकुवलयदलसदृशनयनश्च सहितभ्रूश्च महाराज सर्वार्थसिद्धः कुमारः । चित्रभ्रूश्च असितभ्रूश्च संगतभ्रूश्च अनुपूर्वभ्रूश्च पीनगण्डश्च अविषमगण्डश्च व्यपगतगण्डदोषश्च अनुपहतक्रुष्टश्च सुविदितेन्द्रियश्च सुपरिपूर्णेन्द्रियश्च महाराज सर्वार्थसिद्धः कुमारः । संगतमुखललाटश्च परिपूर्णोत्तमाङ्गश्च असितकेशश्च सहितकेशश्च (सुसंगतकेशश्च) सुरभिकेशश्च अपरुषकेशश्च अनाकुलकेशश्च अनुपूर्वकेशश्च सुकुञ्चितकेशश्च श्रीवत्सस्वस्तिकनन्द्यावर्तवर्धमानसंस्थानकेशश्च महाराज सर्वार्थसिद्धः कुमारः । इमानि तानि महाराज सर्वार्थसिद्धस्य कुमारस्याशीत्यनुव्यञ्जनानि, (वैद्य ७६) यैः समन्वागतः सर्वार्थसिद्धः कुमारो नार्हत्यगारमध्यावसितुम् । अवश्यमभिनिष्क्रमिष्यति प्रव्रज्यायै ॥ अथ खलु राजा शुद्धोदनोऽसितस्य महर्षेः सकाशात्कुमारस्येदं व्याकरणं श्रुत्वा संतुष्ट उदग्र आत्तमनाः प्रमुदितः प्रीतिसौमनस्यजात उत्थायासनाद्बोधिसत्त्वस्य चरणयोः प्रणिपत्येमां गाथामभाषत - वन्दितस्त्वं सुरैः सेन्द्रैः ऋषिभिश्चासि पूजितः । वैद्य सर्वस्य लोकस्य वन्देऽहमपि त्वां विभो ॥ ७.५५ ॥ इति हि भिक्षवो राजा शुद्धोदनोऽसितं महर्षि सार्धं नरदत्तेन भागिनेयेनानुरूपेण भक्तेन संतर्पयति स्म । संतर्प्याभिच्छाद्य प्रदक्षिणमकरोत् । अथ खल्वसितो महर्षिस्तत एवर्द्ध्या विहायसा प्राक्रमत्, येन स्वाश्रमस्तेनोपासंक्रामत् ॥ अथ खलु द्वयं संक्रम्य तत्र खल्वसितो महर्षिर्नरदत्तं माणवकमेतदवोचत्- यदा त्वं नरदत्त शृणुया बुद्धो लोके उत्पन्न इति, तदा त्व गत्वा तस्य शासने प्रव्रजेः । तत्ते भविष्यति दीर्घरात्रमर्थाय हिताय सुखायेति ॥ तत्रेदमुच्यते - दृष्ट्वा देवगणान्नभस्तलगतान् बुद्धश्रवोद्गारिणो देवर्षीरसितोऽद्रिकन्दरगतः प्रीतिं परां प्राप्तवान् । बुद्धो नाम पदं किमेतदिह भो हर्षावहं प्राणिनां प्रह्लाद मम काय एति सुखितं शान्तं च चित्तं परम् ॥ ७.५६ ॥ किं देवो त्वसुरोऽथवापि स भवेद्गरुडोऽथवा किन्नरः बुद्धो नाम किमेतदश्रुतपदं प्रीतिकरं मोदनम् । दिव्या चक्षुष प्रेक्षते दश दिशः शैलान्महीं सागरान् भूयः पश्यति चाद्भुतं बहुविधं भूमौ गिरौ सागरे ॥ ७.५७ ॥ आभेयं प्रविराजते सुरुचिरा प्रह्लादयन्ती तनुं जाताश्चैव यथा हि शैलशिखरे स्निग्धाः प्रवालाङ्कुराः । वृक्षाश्चैव यथा सुपुष्पभरिता नानाफलैर्मण्डिताः सुव्यक्तं त्रिभवे भविष्यति लघु रत्नोद्भवः शोभनः ॥ ७.५८ ॥ भूमिर्भाति यथा च पाणिसदृशा सर्वा समा निर्मला देवाश्चैव यथा प्रहृष्टमनसः खे भ्रामयन्त्यम्बरान् । यद्वत्सागरनागराजनिलये रत्नाः प्लवन्तेऽद्भुताः सुव्यक्तं जिनरत्न जम्बुनिलये धर्माकरस्योद्भवः ॥ ७.५९ ॥ (वैद्य ७७) यद्वच्छान्त अपाय दुःखविगताः सत्त्वाश्च सौख्यान्विताः यद्वद्देवगणा नभस्तलगता गच्छन्ति हर्षान्विताः । यथ च स्निग्धरवं मनोज्ञ शृणुया दिव्यान संगीतिनां रतनस्या इव प्रादुर्भावु त्रिभवे यस्या निमित्ता इमे ॥ ७.६० ॥ असितः प्रेक्षति जम्बुसाह्वयमिदं दिव्येन वै चक्षुषा सोऽद्राक्षीत्कपिलाह्वये पुरवरे शुद्धोदनस्यालये । जातो लक्षणपुण्यतेजभरितो नारायणस्थामवान् दृष्ट्वा चात्तमना उदग्रमनसः स्थामास्य संवर्धितः ॥ ७.६१ ॥ उद्युक्तस्त्वरितोऽतिविस्मितमना चासौ स्वशिष्यान्वितः आगत्वा कपिलाह्वयं पुरवरं द्वारि स्थितो भूपतेः । अनुबद्धा बहुप्राणिकोटिनयुता दृष्ट्वा ऋषिर्जीर्णकः अवची सारथि राज्ञ वेदय लघुं द्वारे ऋषिस्तिष्ठति ॥ ७.६२ ॥ श्रुत्वा चाशु प्रविश्य राजभवनं राज्ञस्तमाख्यातवान् द्वारे देव तपस्वि तिष्ठति महान् जीर्णो ऋषिर्जर्जरः । सो चापी अभिनन्दते ऋषिवरः प्रावेष्टु राज्ञो गृहं आज्ञा दीयतु ताव पार्थिववरा देमि प्रवेशं तेसा ॥ ७.६३ ॥ स्थाप्या चासनमस्य चाह नृपतिः गच्छ प्रवेशं दद असितः सारथिवाक्य श्रुत्व मुदितः प्रीत्या सुखेनान्वितः । शीतं वारि यथाभिकाङ्क्षि तृषितो भुक्त्वादितो चाशनं तद्वत्सुख्यभिनन्दितो ऋषिवरः तं द्रष्टु सत्त्वोत्तमम् ॥ ७.६४ ॥ जय भोः पार्थिव इत्युवाच मुदितो चायुं चिरं पालय वृद्धिं कृत्व निषण्ण दान्तमनसः शान्तेन्द्रियः सूरतः । राजा वै अभिवाद्य तं सुनिभृतं प्रोवाच किं कारणं आगामस्तव पार्थिवेन्द्र निलये तद्ब्रूहि शीघ्रं मुने ॥ ७.६५ ॥ पुत्रस्ते वररूप पारमिगतो जातो महातेजवान् द्वात्रिंशद्वरलक्षणैः कवचितो नारायणस्थामवान् । तं द्रष्टुं हि ममेप्सितं नरपते सर्वार्थसिद्धं शिशुम् इत्यर्थं समुपागतोऽस्मि नृपते नास्त्यन्यकार्यं मम ॥ ७.६६ ॥ (वैद्य ७८) साधु स्वागतु याचसे किलमितः प्रीतोऽस्मि ते दर्शनात् एषोऽसौ शयितः कुमार वरदो द्रष्टुं न शक्योऽधुना । साधू ताव मूहूर्तमागम इहा यद्द्रक्ष्यसे निर्मलं चन्द्रं वा यथ पूर्णमासि विमलं तारागणैर्मण्डितम् ॥ ७.६७ ॥ यद चासौ प्रतिबुद्ध सारथिवरः परिपूर्णचन्द्रप्रभः तद राजा प्रतिगृह्य वह्निवपुषं सूर्यातिरेकप्रभम् । हन्ता पश्य ऋषे नृदेवमहितं हेमाग्रबिम्बोपमम् असितो दृष्ट्व च तस्य तौ सुचरणौ चक्राङ्कितौ शोभनौ ॥ ७.६८ ॥ प्रत्युत्थाय ततः कृताञ्जलिपुटो चरणानि सो वन्दते अङ्के गृह्य महात्मशास्त्रकुशलो निध्यायतो प्रेक्षते । सोऽपश्यद्वरलक्षणैः कवचितं नारायणस्थामवं शीर्षं कम्प्य स वेदशास्त्रकुशलो द्वे तस्य पश्यद्गती ॥ ७.६९ ॥ राजा वा भवि चक्रवर्ति बलवान् बुद्धो व लोकोत्तमः बाष्पं त्यक्त सुदीनकायमनसो गम्भीर निश्वस्य च । उद्विग्नश्च बभूव पार्थिववरः किं ब्राह्मणो रोदिती मा विघ्नं खलु पश्यतेऽयमसितः सर्वार्थसिद्धस्य मे ॥ ७.७० ॥ भूतं व्याहर किं तु रोदिषि ऋषे श्रेयोऽथ किं पापकं पापं नास्ति न चान्तरायमिह भोः सर्वार्थसिद्धस्य ते । आत्मानं बहु शोचमी नरपते जीर्णोऽस्मि यज्जर्जरः यदयं भेष्यति बुद्ध लोकमहितो धर्मं यदा वक्ष्यते ॥ ७.७१ ॥ न द्रक्षे अहु लब्धप्रीतिमनसो इत्यर्थ रोदाम्यहं यस्या कायि भवन्ति लक्षणवरा द्वात्रिंशति निर्मला । द्वे तस्या गतयो न अन्य तृतिया जानीष्व एवं नृप राजा वा भवि चक्रवर्ति बलवान् बुद्धोऽथ लोकोत्तमः ॥ ७.७२ ॥ नायं कामगुणेभिरर्थिकु पुनः बुद्धो अयं भेष्यति श्रुत्वा व्याकरणमृषेः स नृपतिः प्रीतिं सुखं लब्धवान् । प्रत्युत्थाय ततः कृताञ्जलिपुटो चरणावसौ वन्दते देवैस्त्वं स्वभिपूजितः सुबलवानृषिभिश्च संवर्णितः ॥ ७.७३ ॥ वन्दे त्वां वरसार्थवाह त्रिभवे सर्वे जगे पूजितं असितः प्राह च भागिनेय मुदितः संश्रूयतां भाषतो । (वैद्य ७९) बुद्धा बोधि यदा शृणोषि जगतो वर्तेति चक्रं ह्ययं शीघ्रं प्रव्रज शासनेऽस्य मुनये तत्प्राप्स्यसे निर्वृतिम् ॥ ७.७४ ॥ वन्दित्वा चरणौ ह्यसौ मुनिवरः कृत्वा च प्रादक्षिणं लाभा ते नृपते सुलब्ध विपुला यस्येदृशस्ते सुतः । एषो लोक सदेवकं समनुजं धर्मेण तर्पेष्यति निष्क्रामं कपिलाह्वयादृषिवरोऽरण्ये स्थितः स्वाश्रमे ॥ ७.७५ ॥ इति ॥ इति हि भिक्षवो जातमात्रस्य बोधिसत्त्वस्य महेश्वरो देवपुत्रः शुद्धावासकायिकान् देवपुत्रानामन्त्र्यैवमाह - योऽसौ मार्षा असंख्येयकल्पकोटिनियुतशतसहस्रसुकृतकर्मदानशीलक्षान्तिवीर्यध्यानप्रज्ञोपायश्रतचरणव्रततपःसुचरितचरणः महामैत्रीमहाकरुणामहामुदितासमन्वागतः उपेक्षासमुद्गतचित्तः सर्वसत्त्वहितसुखोद्यतः दृढवीर्यकवचसुसंनाहसंनद्धः पूर्वजिनकृतकुशलमूलोदितः शतपुण्यलक्षणसमलंकृतः सुकृतनिश्चयपराक्रमः परचक्रप्रमथनः सुविमलशुद्धाशयसंपन्नः सुचरितचरणो महाज्ञानकेतुध्वजः मारबलान्तकरणः त्रिसाहस्रमहासाहस्रसार्थवाहः देवमनुष्यपूजितमहायज्ञयष्टः सुसमृद्धपुण्यनिचयनिःसरणाभिप्रायो जातिजरामरणान्तकरः सुजातजातः इक्ष्वाकुराजकुलसंभूतो जगद्विबोधयिता बोधिसत्त्वो महासत्त्वो मनुष्यलोक उपपन्नः । न चिरादसावनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यते । हन्त गच्छामस्तमभिवन्दितुं मानयितुं पूजयितुमभिस्तोतुमन्येषां च मानाभिभूतानां देवपुत्राणां मानमददर्पच्छेदनार्थम् । तेऽस्मानभिवन्दमानान् दृष्ट्वा तेऽपि बोधिसत्त्वं वन्दिष्यन्ति मानयिष्यन्ति पूजयिष्यन्ति च । तत्तेषां भविष्यति दीर्घरात्रमर्थाय हिताय सुखाय यावदमृताधिगमाय । राज्ञश्च शुद्धोदनस्य जयवृद्धिरनुश्राविता भविष्यति । तत्त्वव्याकरणेन च बोधिसत्त्वं व्याकृत्य पुनरप्यागमिष्याम इति ॥ अथ खलु महेश्वरो देवपुत्रो द्वादशभिर्देवपुत्रशतसहस्रैः परिवृतः पुरस्कृतः सर्वकपिलवस्तुमहानगरमवभासेन स्फुरयित्वा येन राज्ञः शुद्धोदनस्य निवेशनं तेनोपसंक्रामत् । उपसंक्रम्य दौवारिके निवेद्य राज्ञाभ्यनुज्ञातो राजकुलं प्रविश्य बोधिसत्त्वस्य पादौ शिरसाभिवन्द्यैकांसमुत्तरासङ्गं कृत्वामनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य बोधिसत्त्वमङ्के समारोप्य राजानं शुद्धोदनमाश्वासयति स्म - तुष्टो महाराज भव परमप्रीतश्च । तत्कस्माद्धेतोः? यथा महाराज बोधिसत्त्वस्य लक्षणैरनुव्यञ्जनैश्च कायः समलंकृतः, यथा च कुमारोऽभिभवति सदेवमानुषासुरलोकं वर्णेन तेजसा च यशसा लक्ष्म्या च, निःसंशयं महाराज बोधिसत्त्वोऽनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यते ॥ इति हि भिक्षवो महेश्वरो देवपुत्रः सार्धं शुद्धावासकायिकैर्देवपुत्रैर्बोधिसत्त्वस्य महत्पूजोपस्थानं कृत्वा बोधिसत्त्वं तत्त्वव्याकरणेन व्याकृत्य पुनरपि स्वभवनं प्राक्रामत् ॥ (वैद्य ८०) तत्रेदमुच्यते - जातस्य तस्य गुणसागरसागरस्य ज्ञात्वा सुरेश्वरमरुद्ब्रुवते उदग्रः । यस्या सुदुर्लभश्रवो बहुकल्पकोट्या हन्तेथ तं व्रजम पूजयितुं मुनीन्द्रम् ॥ ७.७६ ॥ परिपूर्णद्वादशसहस्र मरुद्विशुद्धा मणिरत्नचूडसमलंकृत इर्यवन्तः । कपिलाह्वयं पुरवरं समुपेत्य शीघ्रं द्वारि स्थिता नरपतेः सुविलम्बचूडाः ॥ ७.७७ ॥ ते द्वारपालमवदन् सुमनोज्ञघोषाः प्रतिवेदयस्व नृपते भवनं प्रविश्य । दौवारिको वचन श्रुत्व गृहं प्रविष्टः प्रह्वः कृताञ्जलिपुटो नृपतिं बभाषे ॥ ७.७८ ॥ जय देव नित्यमनुपालय दीर्घमायुः द्वारे स्थिता विपुलपुण्यविशुद्धभासः । मणिरत्नचूडसुविभूषित इर्यवन्तः परिपूर्णचन्द्रवदना शशिनिर्मलाभाः ॥ ७.७९ ॥ छायां न तेष नृपते क्वचिदप्यपश्यन् शब्दं न चैव चरणोत्क्षिपणे शृणोमि । न च मेदिनीं विचरतो रजमुत्क्षिपन्ति तृप्तिं न यान्ति च जनाः समुदीक्षतां वै ॥ ७.८० ॥ कायप्रभा सुविपुला च विभाति तेषां वाचा मनोज्ञ यथ नास्ति ह मानुषाणाम् । गम्भिरश्लक्ष्णसुशिला च सुआकरा च शङ्का हि मे सुरगणा न हि ते मनुष्याः ॥ ७.८१ ॥ वरपुष्पमाल्यअनुलेपनपट्टदामा पाणी गृहीत्वन उदीक्षिषु गौरवेण । निःसंशयं नृपति द्रष्टु कुमारमेते देवाधिदेव मरुतागत पूजनार्थम् ॥ ७.८२ ॥ (वैद्य ८१) राजा निशाम्य वचनं परममुदग्रो गच्छा भणाहि प्रविशन्तु गृहं भवन्तः । न हि मानुषाण इयमीदृश ऋद्धि काचि यथ भाषसे च गुण तेष यथा च इर्या ॥ ७.८३ ॥ दौवारिकः कृतपुटो मरुतैवमाह प्रविशी भवन्त अनुज्ञातु नराधिपेन । ते हृष्टतुष्टमनसो वरमाल्यहस्ता गेहं प्रविष्ट नृपतेरमरालयं वा ॥ ७.८४ ॥ दृष्ट्वा च तां सुरवरां प्रविशन्त गेहं प्रत्युत्थितो नृपतिरञ्जलि संप्रगृह्य । संविद्ययन्त इम आसन रत्नपादा अत्रा निषीदत भवन्ननुकम्प्य बुद्ध्या ॥ ७.८५ ॥ ते मानदर्पविगता स्थित आसनेषु यस्यार्थि आगत इहा नृपते शृणुष्व । पुत्रस्तवातिपृथुपुण्यविशुद्धकायो जातः सुजातचरणं वय द्रष्टुकामाः ॥ ७.८६ ॥ अस्मो विधिज्ञ वरलक्षणलक्षणज्ञा येषां तथा भवति या गति यः प्रयोगः । तत्साधु पार्थिववर प्रजहस्व खेदं पश्याम लक्षणविचित्रविभूषिताङ्गम् ॥ ७.८७ ॥ स स्त्रीगणैः परिवृतो नृपतिः प्रहृष्टो गृह्य कुमारमसमं ज्वलनार्चिवर्णम् । उपनामयन् सुरवरां सुविलम्बचूडां द्वारात्तु निष्क्रमतु कम्पित त्रिसहस्राः ॥ ७.८८ ॥ दृष्ट्वैव ते सुरवरा क्रम नायकस्य ताम्रा नखां विमलपत्रविशुद्धतेजा । ते उत्थिता त्वरित रूपविलम्बचूडा मूर्ध्नाभिवन्दिषु क्रमां विमलप्रभस्य ॥ ७.८९ ॥ यथ लक्षणा यथ च दर्शित लक्षिता च यथ पुण्यतेजि शिरि मूर्ध विलोकितं च । (वैद्य ८२) यथ इर्य नेत्र विमलाप्रभ ऊर्णकोशा निःसंशयं स्पृशति बोधि विजित्य मारम् ॥ ७.९० ॥ ते तं स्तुवन्ति गुणभूत यथार्थदर्शी ध्यायी गुणां विगतक्लेशतमोनुदस्य । सुचिरेण सत्त्वरतनस्य हि प्रादुर्भावो जातीजरामरणक्लेशरणंजहस्य ॥ ७.९१ ॥ आदीप्त सर्वत्रिभवं त्रिभिरग्नितप्तं संकल्परागविषयारणिउच्छ्रितेन । त्वं धर्ममेघ त्रिसहस्र स्फरित्व धीरा अमृतोदकेन प्रशमेष्यसि क्लेशतापम् ॥ ७.९२ ॥ त्वं मैत्रवाक्य करुणान्वित श्लक्ष्णवाक्य ब्रह्मस्वरारचितघोष मनोज्ञवाणि । त्रिसहस्र आज्ञपरिविज्ञपनी जगस्य क्षिप्रं प्रमुञ्च भगवन्महबुद्धघोषम् ॥ ७.९३ ॥ भग्ना कुतीर्थिकगणा विपरीतदृष्टिः भवरागबन्धननिमग्न स्थिता भवाग्रे । हेतु प्रतीत्य भव शून्य श्रुणित्व धर्मा सिंहस्य क्रोष्टुकगणैव पलायिनास्ते ॥ ७.९४ ॥ भित्त्वा अविद्यपटलं महक्लेशधूमं पर्युत्थिता जनतये नियतप्रकाशे । ज्ञानार्चिप्रज्ञप्रभविद्युविलोकितेन सर्वं जगे विधमये महदन्धकारम् ॥ ७.९५ ॥ लाभा सुलब्ध विपुला मरुमानुषाणां यत्रोद्भवाऽद्भुत इहेदृशि शुद्धसत्त्वे । पिथिता अपायपथ स्फीत मरुत्पथानि भेष्यन्ति सत्त्वरतनेन विबोधकेन ॥ ७.९६ ॥ वर्षित्व दिव्यकुसुमां कपिलाह्वयेऽस्मिन् कृत्वा प्रदक्षिण स्तवित्व च गौरवेण । बुद्ध सुबुद्ध इति वाक्यमुदीरयन्तः प्रक्रान्त ते सुरगणा गगने सलीलाः ॥ ७.९७ ॥ इति ॥ इति श्रीललितविस्तरे जन्मपरिवर्तो नाम सप्तमोऽध्यायः ॥ ______________________________________________________________________ परिवर्त ८ (वैद्य ८३) देवकुलोपनयनपरिवर्तोऽष्टमः । इति हि भिक्षवो यामेव रात्रिं बोधिसत्त्वो जातस्तस्यामेव रात्र्यां विंशति कन्यासहस्राणि क्षत्रियब्राह्मणनैगमगृहपतिमहाशालकुलेषु जाताः । ताश्च सर्वा मातापितृभिर्बोधिसत्त्वाय दत्ता उपस्थानपरिचर्यायै । विंशति च कन्यासहस्राणि राज्ञा शुद्धोदनेन दत्तानि बोधिसत्त्वस्योपस्थानपरिचर्यायै । विंशति च कन्यासहस्राणि मित्रामात्यात्मज्ञातिसालोहितैर्दत्तानि बोधिसत्त्वस्योपस्थानपरिचर्यायै । विंशति च कन्यासहस्राणि अमात्यपार्षद्यैर्दत्तानि बोधिसत्त्वस्योपस्थानपरिचर्यायै ॥ तदा च भिक्षवो महल्लकमहल्लिकाः शाक्याः संनिपत्य राजानं शुद्धोदनमुपसंक्रम्यैवमाहुः - यत्खलु देव जानीयाः - देवकुलं कुमार उपनीयतामिति । राजा आह - साधु, उपनीयतां कुमारः । तेन हि मण्ड्यतां नगरम् । उपशोभ्यन्तां वीथिचत्वरशृङ्गाटकान्तरापणरथ्यामुखानि । अपनीयन्ताममङ्गल्याः काणकुब्जबधिरान्धमूकविसंस्थितविरूपरूपा अपरिपूर्णेन्द्रियाः । उपनाम्यन्तां मङ्गलानि । घुष्यन्तां पुण्यभेर्यः । ताड्यन्तां मङ्गल्यघण्टाः । समलंक्रियन्तां पुरवरद्वाराणि । वाद्यन्तां सुमनोज्ञतूर्यतालावचराणि । संनिपात्यन्तां सर्वकोट्टराजानः । एकीभवन्तु श्रेष्ठिगृहपत्यमात्यदौवारिकपारिषद्याः । युज्यन्तां कन्यारथाः । उपनाम्यन्तां पूर्णकुम्भाः । संनिपात्यन्तामधीयाना ब्राह्मणाः । अलंक्रियन्तां देवकुलानि । इति हि भिक्षवो यथोक्तपूर्वं सर्वं कृतमभूत् ॥ ततो राजा शुद्धोदनः स्वगृहं प्रविश्य महाप्रजापतीं गौतमीमामन्त्र्यैवमाह - अलंक्रियन्तां कुमारः देवकुलमुपनेष्यत इति । साध्विति प्रतिश्रुत्य महाप्रजापती गौतमी कुमारं मण्डयति स्म ॥ ततः कुमारो मण्ड्यमानः प्रहसितवदनो व्यपगतभृकुटिकः परममधुरया वाचा मातृस्वसारमेवमाह - अम्ब कुत्राहमुपनेष्यत इति । आह - देवकुलं पुत्रेति । ततः कुमारः स्मितमुपदर्शयन् प्रहसितवदनो मातृस्वसारं गाथाभिरध्यभाषत - जातस्य मह्यमिह कम्पित त्रिसहस्रं शक्रश्च ब्रह्म असुराश्च महोरगाश्च । चन्द्रश्च सूर्य तथ वैश्रवणः कुमारो मूर्ध्ना क्रमेषु निपतित्व नमस्ययन्ति ॥ ८.१ ॥ कतमोऽन्यु देव मम उत्तरि यो विशिष्टो यस्मिन्मम प्रणयसे त्वमिहाद्य अम्ब । देवातिदेव अहु उत्तमु सर्वदेवैः देवो न मेऽस्ति सदृशः कुत उत्तरं वा ॥ ८.२ ॥ लोकानुवर्तन प्रती इति अम्ब यास्ये दृष्त्वा विकुर्वित ममा जनता उदग्राः । (वैद्य ८४) अधिमात्रु गौरव करिष्यति चित्रकारः ज्ञास्यन्ति देवमनुजा स्वय देवदेवः ॥ ८.३ ॥ इति हि भिक्षवः सर्वैर्वर्णैः स्तुतिमङ्गलैः प्रत्युपस्थितैरपरिमितालंकारालंकृतेषु वीथिचत्वरशृङ्गाटकान्तरापणमुखेष्वन्तःपुरे कुमारस्य रथमलंकृत्य राजा शुद्धोदनो ब्राह्मणनैगमश्रेष्ठिगृहपत्यमात्यकोट्टराजदौवारिकपारिषद्यमित्रज्ञातिपरिवृतः पुरस्कृतो धूपनधूपितेन मुक्तपुष्पाभिकीर्णेन हयगजरथपत्तिकलिलेनोच्छ्रितछत्रध्वजपताकेन नानातूर्यसंप्रवादितेन मार्गेण कुमारं गृहीत्वा गच्छति स्म । देवताशतसहस्राणि बोधिसत्त्वस्य रथं वहन्ति स्म । अनेकानि च देवपुत्राप्सरःकोटिनियुतशतसहस्राणि गगनतलगतानि पुष्पवर्षाण्यभिप्रवर्षन्ति स्म । तूर्याणि च प्रवादयन्ति स्म । इति हि राजा शुद्धोदनो महता राजव्यूहेन महता राजर्द्ध्या महता राजानुभावेन कुमारं गृहीत्वा देवकुलं प्रविशति स्म । समनन्तरप्रतिष्ठापितश्च बोधिसत्त्वेन दक्षिणश्चरणयोः क्रमतलस्तस्मिन् देवकुले अथ ता अचेतन्यो देवप्रतिमाः तद्यथा - शिवस्कन्दनारायणकुबेरचन्द्रसूर्यवैश्रवणशक्रब्रह्मलोकपालप्रभृतयः प्रतिमाः - सर्वाः स्वेभ्यः स्वेभ्यः स्थानेभ्यो व्युत्थाय बोधिसत्त्वस्य क्रमतलयोर्निपतन्ति स्म । तत्र देवमनुष्यशतसहस्राणि हीहीकारकिलकिलाप्रमुखैः प्रक्ष्वेडितशतसहस्राणि प्रामुञ्चन् । चैलविक्षेपाणि चाकार्षुः । सर्वं च कपिलवस्तुमहानगरं षङ्विकारं प्राकम्पितम् । दिव्यानि च कुसुमानि प्रावर्षन् । तूर्यशतसहस्राणि चाघट्टितानि प्रणेदुः । येषां च देवानां ताः प्रतिमाः, ते सर्वे स्वस्वरूपमुपदर्श्येमा गाथा अभाषत - नो मेरू गिरिराज पर्वतवरो जातू नमे सर्षपे नो वा सागर नागराजनिलयो जातू नमे गोष्पदे । चन्द्रादित्य प्रभंकरा प्रभकरा खद्योतके नो नमे प्रज्ञापुण्यकुलोदितो गुणधरः कस्मान्नमे देवते ॥ ८.४ ॥ यद्वत्सर्षप गोष्पदे व सलिलं खद्योतका वा भवेत् एवं च त्रिसहस्र देवमनुजा ये केचि मानाश्रिताः । मेरूसागरचन्द्रसूर्यसदृशो लोके स्वयंभूत्तमो यं लोको ह्यभिवन्द्य लाभ लभते स्वर्गं तथा निर्वृतिम् ॥ ८.५ ॥ अस्मिन् खलु पुनर्भिक्षवो बोधिसत्त्वेन महासत्त्वेन देवकुले प्रवेशे संदर्श्यमाने द्वात्रिंशतां देवपुत्रशतसहस्राणामनुत्तरायां सम्यक्संबोधौ चित्तान्युत्पद्यन्ते । अयं भिक्षवो हेतुरयं प्रत्ययो येनोपेक्षको बोधिसत्त्वो भवति स्म देवकुलमुपनीयमान इति ॥ इति श्रीललितविस्तरे देवकुलोपनयनपरिवर्तो नाम अष्टमोऽध्यायः ॥ ______________________________________________________________________ परिवर्त ९ (वैद्य ८५) आभरणपरिवर्तो नवमः । अथ खलु भिक्षव उदयनो नाम ब्राह्मणो राज्ञः पुरोहित उदायिनः पिता, स पञ्चमात्रैर्ब्राह्मणशतैः परिवृतो हस्तोत्तरे चित्रानक्षत्रे राजानं शुद्धोदनमुपसंक्रम्यैवमाह - यत्खलु देवो जानीयादाभरणानि कुमाराय क्रियन्तामिति । तं राजा आह - बाढम् । गाढं क्रियतामिति ॥ तत्र राज्ञा शुद्धोदनेन पञ्चमात्रैश्च शक्यशतैः पञ्चमात्राण्याभरणशतानि कारितान्यभूवन् । तद्यथा - हस्ताभरणानि पादाभरणानि मूर्धाभरणानि कण्ठाभरणानि मुद्रिकाभरणानि कर्णिकायाकेयूराणि मेखलासुवर्णसूत्राणि किङ्किणीजालानि रत्नजालानि मणिप्रत्युप्तानि पादुका नानारत्नसमलंकृता हाराः कटका हर्षा मुकुटानि । कारयित्वा च पुष्यनक्षत्रयोगेनानुयुक्तेन ते शाक्या राजानं शुद्धोदनमुपसंक्रम्यैवमाहुः - हन्त देव मण्ड्यतां कुमार इति । राजा आह - अलमलंकृतश्च पूजितश्च भवद्भिः कुमारः । मयापि (कुमारस्य) सर्वाभरणानि कारितानि । तेऽवोचन् - सप्तसप्तरात्रिंदिवान्यप्यस्माकमाभरणानि कुमारः काय आबध्नातु । ततोऽस्माकममोघो व्यायामो भविष्यतीति ॥ तत्र रात्रौ विनिर्गतायामादित्य उदिते विमलव्यूहनामोद्यानं तत्र बोधिसत्त्वो निर्गतोऽभूत् । तत्र महाप्रजापत्या गौतम्या बोधिसत्त्वोऽङ्के गृहीतोऽभुत् । अशीतिश्च स्त्रीसहस्राणि प्रत्युद्गम्य बोधिसत्त्वस्य वदनं प्रेक्षन्ते स्म । दश च कन्यासहस्राणि प्रत्युद्गम्य बोधिसत्त्वस्य वदनं प्रेक्षन्ते स्म । पञ्च च ब्राह्मणसहस्राणि प्रत्युद्गम्य बोधिसत्त्वस्य वदनं प्रेक्षन्ते स्म । तत्र यानि भद्रिकेण शाक्यराजेनाभरणानि कारितान्यभूवन्, तानि बोधिसत्त्वस्य काये आबध्यन्ते स्म । तानि समनन्तराबद्धानि बोधिसत्त्वस्य कायप्रभया जिह्मीकृतान्यभूवन्, न भासन्ते स्म, न तपन्ति स्म, न विरोचन्ति स्म । तद्यथापि नाम जाम्बूनदस्य सुवर्णस्य पुरतो मसिपिण्ड उपनिक्षिप्तो न भासति न तपति न विरोचते, एवमेव तान्याभरणानि बोधिसत्त्वस्य कायप्रभयास्पृष्टानि न भासन्ते न तपन्ति न विरोचन्ते स्म । एवं या या आभरणविकृतिर्बोधिसत्त्वस्य काय आबध्यते स्म, सा सा जिह्मीभवति स्म तद्यथापि नाम मसिपिण्डः ॥ तत्र विमला नामोद्यानदेवता सा औदारिकमात्मभावमभिसंदर्श्य पुरतः स्थित्वा राजानं शुद्धोदनं तं च महान्तं शाक्यगणं गाथाभिरभिभाषते स्म - सर्वेयं त्रिसहस्र मेदिनी सनगरनिगमा पूर्णा काञ्चनसंचिता भवेत्सुरुचिर विमला । (वैद्य ८६) एका काकिणि जाम्बुकाञ्चने भवति उपहता ना भासी इतरः स काञ्चन प्रभसिरिरहितः ॥ ९.१ ॥ जाम्बूकाञ्चनसंनिभा पुनर्भवेत्सकर इय मही रोमे आभ प्रमुक्त नायके हिरिसिरिभरिते । ना भासी न तपी न शोभते न च प्रभवति आभाये सुगतस्य कायि नो भवति यथ मसिः ॥ ९.२ ॥ स्वे तेजेन अयं स्वलंकृतो गुणशतभरितो नो तस्याभरणा विरोचिषू सुविमलवपुषः । चन्द्रसूर्यप्रभाश्च ज्योतिषा तथ मणिज्वलनाः शक्रबह्मप्रभा न भासते पुरत शिरिघने ॥ ९.३ ॥ यस्या लक्षणि कायु चित्रितः पुरिमशुभफलैः किं तस्याभरणेभिरित्वरैः परकृतकरणैः । अपनेथा भरणा म हेठता अबुध बुधकरं नायं कृत्तिमभूषणार्थिक परममतिकरः ॥ ९.४ ॥ चेटस्याभरणानि देथिमे सुरुचिर विमला सहजातो य सुभूषि छन्दको नृपतिकुलशुभे । तुष्टा शाकिय विस्मिताश्च अभवन्प्रमुदितमनसो वृद्धिः शाक्यकुलनन्दस्य चोत्तमा भविष्यति विपुला ॥ ९.५ ॥ इत्युक्त्वा सा देवता बोधिसत्त्वं दिव्यैः पुष्पैरभ्यवकीर्य तत्रैवान्तरधात् ॥ ॥ इति श्रीललितविस्तरे आभरणपरिवर्तो नाम नवमोऽध्यायः ॥ ______________________________________________________________________ परिवर्त १० (वैद्य ८७) लिपिशालासंदर्शनपरिवर्तो दशमः । इति हि भिक्षवः संवृद्धः कुमारः । तदा माङ्गल्यशतसहस्रैः लिपिशालामुपनीयते स्म दशभिर्दारकसहस्रैः परिवृतः पुरस्कृतः, दशभिश्च रथसहस्रैः खादनीयभोजनीयस्वादनीयपरिपूर्णैर्हिरण्यसुवर्णपरिपूर्णैश्च । येन कपिलवस्तुनि महानगरे वीथिचत्वररथ्यान्तरापणमुखेष्वभ्यवकीर्यते स्म अभिविश्राम्यन्ते । अष्टाभिश्च तूर्यशतसहस्रैः प्रघुष्यमाणैर्महता च पुष्पवर्षेणाभिप्रवर्षता वितर्दिनिर्यूहतोरणगवाक्षहर्म्यकूटागारप्रासादतलेषु कन्याशतसहस्राणि सर्वालंकारभूषिताः स्थिता अभूवन् । बोधिसत्त्वं प्रेक्षमाणाः कुसुमानि च क्षिपन्ति स्म । अष्टौ च मरुत्कन्यासहस्राणि विगलितालंकाराभरणालंकृतानि रत्नभद्रंकरेण गृहीतानि मार्गं शोधयन्त्यो बोधिसत्त्वस्य पुरतो गच्छन्ति स्म । देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगाश्चार्धकायिका गगनतलात्पुष्पपट्टदामान्यभिप्रलम्बयन्ति स्म । सर्वे च शाक्यगणाः शुद्धोदनं राजानं पुरस्कृत्य बोधिसत्त्वस्य पुरतो गच्छन्ति स्म । अनेनैवंरूपेण व्यूहेन बोधिसत्त्वो लिपिशालामुपनीयते स्म ॥ समनन्तरप्रवेशितश्च बोधिसत्त्वो लिपिशालाम् । अथ विश्वामित्रो नाम दारकाचार्यो बोधिसत्त्वस्य श्रियं तेजश्चासहमानो धरणितले निविष्टोऽधोमुखः प्रपतति स्म । तं तथा प्रपतितं दृष्ट्वा शुभाङ्गो नाम तुषितकायिको देवपुत्रो दक्षिणेन करतलेन परिगृह्योत्थापयति स्म । उत्थाप्य च गगनतलस्थो राजानं शुद्धोदनं तं च महान्तं जनकायं गाथाभिरभ्यभाषत्- शास्त्राणि यानि प्रचलन्ति मनुष्यलोके संख्या लिपिश्च गणनापि च धातुतन्त्रम् । ये शिल्पयोग पृथु लौकिक अप्रमेयाः तेष्वेषु शिक्षितु पुरा बहुकल्पकोट्यः ॥ १०.१ ॥ किं तू जनस्य अनुवर्तनतां करोति लिपिशालमागतु सुशिक्षितु शिष्यणार्थम् । परिपाचनार्थ बहुदारक अग्रयाने अन्यांश्च सत्त्वनयुतानमृते विनेतुम् ॥ १०.२ ॥ लोकोत्तरेषु चतुसत्यपथे विधिज्ञो हेतुप्रतीत्यकुशलो यथ संभवन्ति । यथ चानिरोधक्षयु संस्थितु शीतिभावः तस्मिन्विधिज्ञ किमथो लिपिशास्त्रमात्रे ॥ १०.३ ॥ नेतस्य आचरिय उत्तरि वा त्रिलोके सर्वेषु देवमनुजेष्वयमेव जेष्ठः । (वैद्य ८८) नामापि तेष लिपिनां न हि वित्थ यूयं यत्रेषु शिक्षितु पुरा बहुकल्पकोट्यः ॥ १०.४ ॥ सो चित्तधार जगतां विविधा विचित्रा एकक्षणेन अयु जानति शुद्धसत्त्वः । अदृश्यरूपरहितस्य गतिं च वेत्ति किं वा पुनोऽथ लिपिनोऽक्षरदृश्यरूपाम् ॥ १०.५ ॥ इत्युक्त्वा स देवपुत्रो बोधिसत्त्वं दिव्यैः कुसुमैरभ्यर्च्य तत्रैवान्तर्दधे । तत्र धात्र्यश्च चेटीवर्गाश्च स्थापिता अभूवन् । परिशेषाः शाक्याः शुद्धोदनप्रमुखाः प्रक्रामन्तः ॥ अथ बोधिसत्त्व उरगसारचन्दनमयं लिपिफलकमादाय दिव्यार्षसुवर्णतिरकं समन्तान्मणिरत्नप्रत्युप्तं विश्वामित्रमाचार्यमेवमाह - कतमां मे भो उपाध्याय लिपिं शिक्षापयसि । ब्राह्मीखरोष्टीपुष्करसारिमङ्गलिपिं वङ्गलिपिं मगधलिपिं मङ्गल्यलिपिमङ्गुलीयलिपिं शकारिलिपिं ब्रह्मवलिलिपिं पारुष्यलिपिं द्राविडलिपिं किरातलिपिं दाक्षिण्यलिपिमुग्रलिपिं संख्यालिपिमनुलोमलिपिमवमूर्धलिपिं दरदलिपिं खाष्यलिपिं चीनलिपिं लूनलिपिं हूणलिपिं मध्याक्षरविस्तरलिपिं पुष्पलिपिं देवलिपिं नागलिपिं यक्षलिपिं गन्धर्वलिपिं किन्नरलिपिं महोरगलिपिमसुरलिपिं गरुडलिपिं मृगचक्रलिपिं वायसरुतलिपिं भौमदेवलिपिमन्तरीक्षदेवलिपिमुत्तरकुरुद्वीपलिपिमपरगोडानीलिपिं पूर्वविदेहलिपिमुत्क्षेपलिपिं निक्षेपलिपिं विक्षेपलिपिं प्रक्षेपलिपिं सागरलिपिं वज्रलिपिं लेखप्रतिलेखलिपिमनुद्रुतलिपिं शास्त्रावर्तां गणनावर्तलिपिमुत्क्षेपावर्तलिपिं निक्षेपावर्तलिपिं पादलिखितलिपिं द्विरुत्तरपदसंधिलिपिं यावद्दशोत्तरपदसंधिलिपिं मध्याहारिणीलिपिं सर्वरुतसंग्रहणीलिपिं विद्यानुलोमाविमिश्रितलिपिमृषितपस्तप्तां रोचमानां धरणीप्रेक्षिणीलिपिं गगनप्रेक्षिणीलिपिं सर्वौषधिनिष्यन्दां सर्वसारसंग्रहणीं सर्वभूतरुतग्रहणीम् । आसां भो उपाध्याय चतुष्षष्टीलिपीनां कतमां त्वं शिष्यापयिष्यसि? अथ विश्वामित्रो दारकाचार्यो विस्मितः प्रहसितवदनो निहतमानमददर्प इमां गाथामभाषत - आश्चर्यं शुद्धसत्त्वस्य लोके लोकानुवर्तिनो । शिक्षितः सर्वशास्त्रेषु लिपिशालामुपागतः ॥ १०.६ ॥ येषामहं नामधेयं लिपीनां न प्रजानमि । तत्रैष शिक्षितः सन्तो लिपिशालामुपागतः ॥ १०.७ ॥ वक्त्रं चास्य न पश्यामि मूर्धानं तस्य नैव च । शिष्ययिष्ये कथं ह्येनं लिपिप्रज्ञाय पारगम् ॥ १०.८ ॥ (वैद्य ८९) देवदेवो ह्यतिदेवः सर्वदेवोत्तमो विभुः । असमश्च विशिष्टश्च लोकेष्वप्रतिपुद्गलः ॥ १०.९ ॥ अस्यैव त्वनुभावेन प्रज्ञोपाये विशेषतः । शिक्षितं शिष्ययिष्यामि सर्वलोकपरायणम् ॥ १०.१० ॥ इति हि भिक्षवो दश दारकसहस्राणि बोधिसत्त्वेन सार्धं लिपिं शिष्यन्ते स्म । तत्र बोधिसत्त्वाधिस्थानेन तेषां दारकाणां मातृकां वाचयतां यदा अकारं परिकीर्तयन्ति स्म, तदा अनित्यः सर्वसंस्कारशब्दो निश्चरति स्म । आकारे परिकीर्त्यमाने आत्मपरहितशब्दो निश्चरति स्म । इकारे इन्द्रियवैकल्यशब्दः । ईकारे ईतिबहुलं जगदिति । उकारे उपद्रवबहुलं जगदिति । ऊकारे ऊनसत्त्वं जगदिति । एकारे एषणासमुत्थानदोषशब्दः । ऐकारे ऐर्यापथः श्रेयानिति । ओकारे ओघोत्तरशब्दः । औकारे औपपादुकशब्दः । अंकारे अमोघोत्पत्तिशब्दः । अःकारे अस्तंगमनशब्दो निश्चरति स्म । ककारे कर्मविपाकावतारशब्दः । खकारे खसमसर्वधर्मशब्दः । गकारे गम्भीरधर्मप्रतीत्यसमुत्पादावतारशब्दः । घकारे घनपटलाविद्यामोहान्धकारविधमनशब्दः । ङकारेऽङ्गविशुद्धिशब्दः । चकारे चतुरार्यसत्यशब्दः । छकारे छन्दरागप्रहाणशब्दः । जकारे जरामरणसमतिक्रमणशब्दः । झकारे झषध्वजबलनिग्रहणशब्दः । ञकारे ज्ञापनशब्दः । टकारे पटोपच्छेदनशब्दः । ठकारे ठपनीयप्रश्नशब्दः । डकारे डमरमारनिग्रहणशब्दः । ढकारे मीढविषया इति । णकारे रेणुक्लेशा इति । तकारे तथतासंभेदशब्दः । थकारे थामबलवेगवैशारद्यशब्दः । दकारे दानदमसंयमसौरभ्यशब्दः । धकारे धनमार्याणां सप्तविधमिति । नकारे नामरूपपरिज्ञाशब्दः । पकारे परमार्थशब्दः । फकारे फलप्राप्तिसाक्षात्क्रियाशब्दः । बकारे बन्धनमोक्षशब्दः । भकारे भवविभवशब्दः । मकारे मदमानोपशमनशब्दः । यकारे यथावद्धर्मप्रतिवेधशब्दः । रकारे रत्यरतिपरमार्थरतिशब्दः । लकारे लताछेदनशब्दः । वकारे वरयानशब्दः । शकारे शमथविपश्यनाशब्दः । षकारे षडायतननिग्रहणाभिज्ञज्ञानावाप्तिशब्दः । सकारे सर्वज्ञज्ञानाभिसंबोधनशब्दः । हकारे हतक्लेशविरागशब्दः । क्षकारे परिकीर्त्यमाने क्षणपर्यन्ताभिलाप्यसर्वधर्मशब्दो निश्चरति स्म ॥ इति हि भिक्षवस्तेषां दारकाणां मातृकां वाचयतां बोधिसत्त्वानुभावेनैव प्रमुखान्यसंख्येयानि धर्ममुखशतसहस्राणि निश्चरन्ति स्म ॥ तदानुपूर्वेण बोधिसत्त्वेन लिपिशालास्थितेन द्वात्रिंशद्दारकसहस्राणि परिपाचितान्यभूवन् । अनुत्तरायां सम्यक्संबोधौ चित्तान्युत्पादितानि द्वात्रिंशद्दारिकासहस्राणि । अयं हेतुरयं प्रत्ययो यच्छिक्षितोऽपि बोधिसत्त्वो लिपिशालामुपागच्छति स्म ॥ ॥ इति श्रीललितविस्तरे लिपिशालासंदर्शनपरिवर्तो नाम दशमोऽध्यायः ॥ ______________________________________________________________________ परिवर्त ११ (वैद्य ९०) कृषिग्रामपरिवर्त एकादशः । इति हि भिक्षवो यावद्विवृद्धः कुमारः । अथापरेण समयेन कुमारस्तदन्यैः कुमारैरमात्यपुत्रैः सार्धं कृषिग्रामवलोकयितुं गच्छति स्म । अवलोक्य च कृषिकर्मान्तमन्यत उद्यानभूमिं प्रविशति स्म । संविग्नमनास्तत्र बोधिसत्त्व एकाकी अद्वितीयोऽनुचंक्रम्यमाणोऽनुविचरन् जम्बुवृक्षमपश्यत्प्रासादिकं दर्शनीयम् । तत्र बोधिसत्त्वश्छायायां पर्यङ्केन निषीदति स्म । निषण्णश्च बोधिसत्त्वश्चित्तैकाग्रतामासादयति स्म । आसाद्य च विविक्तं कामैर्विविक्तं पापकैरकुशलैर्धर्मैः सवितर्कं सविचारं विवेकजं प्रीतिसुखं प्रथमं ध्यानमुपसंपद्य विहरति स्म । स वितर्कविचाराणां व्युपशमादध्यात्मसंप्रसादाच्चेतस एकोतिभावादवितर्कमविचारं समाधिजं प्रीतिसुखं द्वितीयं ध्यानमुपसंपद्य विहरति स्म । स प्रीतेर्विरागादुपेक्षको विहरति स्म स्मृतिमान् संप्रजानन् । सुखं च कायेन प्रतिसंवेदयति स्म । यत्तदार्या आचक्षते उपेक्षकः स्मृतिमान् सुखविहारी निष्प्रीतिकं तृतीयं ध्यानमुसंपद्य विहरति स्म । स सुखस्य च प्रहाणाद्दुःखस्य च प्रहाणात्पूर्वमेव च सौमनस्यदौर्मनस्ययोरस्तंगमाददुःखासुखमुपेक्षास्मृतिपरिशुद्धं चतुर्थं ध्यानमुपसंपद्य विहरति स्म ॥ तेन च समयेन पञ्च ऋषयो बाह्याः पञ्चाभिज्ञाः ऋद्धिमन्तो विहायसंगमा दक्षिणाया दिश उत्तरां दिशं गच्छन्ति स्म । ते तस्य वनखण्डस्योपरि गच्छन्तः प्रत्याहता इव न शक्नुवन्ति स्म गन्तुम् । ते संविग्नरोमकूपजाता इमां गाथामभाषन्त - वयमिह मणिवज्रकूटं गिरिं मेरुमभ्युद्गतं तिर्यगत्यर्थवैस्तारिकं गज इव सहकारशाखाकुलां वृक्षवृन्दां प्रदारित्व निर्धावितानेकशः । वयमिह मरूणां पुरे चाप्यसक्ता गता यक्षगन्धर्ववेश्मनि चोर्ध्वं नभे निश्रिता इम पुन वनखण्डमासाद्य सीदाम भोः कस्य लक्ष्मी निवर्तेति ऋद्धेर्बलम् ॥ ११.१ ॥ इति ॥ अथ या तत्र वनखण्डदेवता सा तानृषीन् गाथयाध्यभाषत्- नृपतिपतिकुलोदितः शाक्यराजात्मजो बालसूर्यप्रकाशप्रभः स्फुटितकमलगर्भवर्णप्रभश्चारुचन्द्राननो लोकज्येष्ठो विदुः । अयमिह वनमाश्रितो ध्यानचिन्तापरो देवगन्धर्वनागेन्द्रयक्षार्चितो भवशतगुणकोटिसंवर्धितस्तस्य लक्ष्मी निवर्तेति ऋद्धेर्बलम् ॥ ११.२ ॥ इति ॥ ततस्तेऽधस्तादवलोकयन्तोऽद्राक्षुः कुमारं श्रिया तेजसा च जाज्वल्यमानम् । तेषामेतदभूत्- को न्वयं निषण्णः? मा हैव वैश्रवणो धनाधिपतिर्भवेत् । आहोस्विन्मारः कामाधिपतिः । अथ महोरगेन्द्रः । (वैद्य ९१) अथेन्द्रो वज्रधरः । अथ रुद्रः कुम्भाण्डाधिपतिः । अथ कृष्णो महोत्साहः । उत चन्द्रो देवपुत्रः । उत सूर्यः सहस्ररश्मिः । उत राजा चक्रवर्ती भविष्यति? तस्यां च वेलायामिमां गाथामभाषन्त - रूपं वैश्रवणातिरेकवपुषं व्यक्तं कुबेरो ह्ययं आहो वज्रधरस्य चैव प्रतिमा चन्द्रोऽथ सूर्यो ह्ययम् । कामाग्राधिपतिश्च वा प्रतिकृती रूद्रस्य कृष्णस्य वा श्रीमान् लक्षणचित्रिताङ्गमनघो बुद्धोऽथ वा स्यादयम् ॥ ११.३ ॥ इति ॥ ततः सा वनदेवता तानृषीन् गाथया प्रत्यभाषत्- या श्री च वैश्रवणे च वै निवसते या वा सहस्रेक्षणे लोकानां परिपालकेषु चतुषू या चासुरेन्द्रश्रिया । ब्रह्मे या च सहापतौ निवसते कृष्णे च या च श्रिया सा श्री प्राप्य इमं हि शाक्यतनयं नोपैति कांचित्कलाम् ॥ ११.४ ॥ अथ खलु ते ऋषयस्तस्या देवताया वचनमुपश्रित्य धरणीतले प्रतिष्ठन्ते । ते पश्यन्ति स्म बोधिसत्त्वं ध्यायन्तमानिञ्ज्यमानेन कायेन तेजोराशिमिव ज्वलन्तम् । ते बोधिसत्त्वमुपनिध्याय गाथाभिरभितुष्टुवुः । तत्रैक आह - लोके क्लेशाग्निसंतप्ते प्रादुर्भूतो ह्ययं ह्रदः । अयं तं प्राप्स्यते धर्मं यज्जगध्लादयिष्यति ॥ ११.५ ॥ अपरोऽप्याह - अज्ञानतिमिरे लोके प्रादुर्भूतः प्रदीपकः । अयं तं प्राप्स्यते धर्मं यज्जगद्भासयिष्यति ॥ ११.६ ॥ अपरोऽप्याह - शोकसागरकान्तारे यानश्रेष्ठमुपस्थितम् । अयं तं प्राप्स्यते धर्मं यज्जगत्तारयिष्यति ॥ ११.७ ॥ अपरोऽप्याह - क्लेशबन्धनबद्धानां प्रादुर्भूतः प्रमोचकः । अयं तं प्राप्स्यते धर्मं यज्जगन्मोचयिष्यति ॥ ११.८ ॥ अपरोऽप्याह - जराव्याधिकिलिष्टानां प्रादुर्भूतो भिषग्वरः । अयं तं प्राप्स्यते धर्मं जातिमृत्युप्रमोचकम् ॥ ११.९ ॥ (वैद्य ९२) अथ खलु ते ऋषयो बोधिसत्त्वमाभिर्गाथाभिरभिस्तुत्वा त्रिप्रदक्षिणीकृत्य विहायसा प्रक्रान्ताः । राजापि शुद्धोदनो बोधिसत्त्वमपश्यन् बोधिसत्त्वेन विना न रमते स्म । सोऽवोचत्- कुमारः क्व गतः? नैनं पश्यामीति । तत्र महाजनकायो निर्धावितोऽभूत्कुमारं परिगवेषमाणः । ततोऽन्यतम अमात्यो बोधिसत्त्वं पश्यति स्म जम्बुच्छायायां पर्यङ्कनिषण्णं ध्यायन्तम् । सर्ववृक्षाणां च तस्मिन् समये छाया परिवृत्ताभूत् । जम्बुच्छाया च बोधिसत्त्वस्य कायं न विजहाति स्म । स तं दृष्ट्वा आश्चर्यप्राप्तस्तुष्ट उदग्र आत्तमनाः प्रमुदितः प्रीतिसौमनस्यजातः शीघ्रं शीघ्रं त्वरमाणरूपो राजानं शुद्धोदनमुपसंक्रम्य गाथाभ्यामध्यभाषत - पश्य देव कुमारोऽयं जम्बुच्छायाहि ध्यायति । यथा शक्रोऽथवा ब्रह्मा श्रिया तेजेन शोभते ॥ ११.१० ॥ यस्य वृक्षस्य छायायां निषण्णो वरलक्षणः । सैनं न जहते छाया ध्यायन्तं पुरूषोत्तमम् ॥ ११.११ ॥ अथ राजा शुद्धोदनो येन स जम्बुवृक्षस्तेनोपसंक्रामत् । सोऽद्राक्षीद्बोधिसत्त्वं श्रिया तेजसा च ज्वलन्तम् । दृष्टा चैमां गाथामभाषत्- हुताशनो वा गिरिमूर्ध्नि संस्थितः शशीव नक्षत्रगणानुचीर्णः । वेपन्ति गात्राणि मि पश्यतो इमं ध्यायन्तु तेजो नु प्रदीपकल्पम् ॥ ११.१२ ॥ स बोधिसत्त्वस्य पादावभिवन्द्येमां गाथामभाषत्- यदा चासि मुने जातो यदा ध्यायसि चार्चिमन् । एकद्विरपि ते नाथ पादौ वन्दे विनायक ॥ ११.१३ ॥ तत्र त्रिफलवाहका दारकाः शब्दं कुर्वन्ति स्म । तानमात्या एवमाहुः - मा शब्दं मा शब्दं कार्ष्टेति । तेऽवोचन् - किमेतदिति । अमात्या आहुः - व्यावृत्ते तिमिरनुदस्य मण्डलेऽपि व्योमाभं शुभवरलक्षणाग्रधारिम् । ध्यायन्तं गिरिनिचलं नरेन्द्रपुत्रं सिद्धार्थं न जहति सैव वृक्षछाया ॥ ११.१४ ॥ तत्रेदमुच्यते - ग्रीष्मे वसन्त समुदागत जेष्ठमासे संपुष्पिते कुसुमपल्लवसंप्रकीर्णे । क्रोञ्चामयूरशुकसारिकसंप्रघुष्टे भूयिष्ठ शाकियसुता अभिनिष्क्रमन्ति ॥ ११.१५ ॥ (वैद्य ९३) छन्दोऽभ्युवाच परिवारितु दारिकेभिः हन्ता कुमार वनि गच्छम लोचनार्थम् । किं ते गृहे निवसतो हि यथा द्विजस्य हन्त व्रजाम वय चोदननारिसंघम् ॥ ११.१६ ॥ मध्याह्नकालसमये सुविशुद्धसत्त्वः पञ्चाशतैः परिवृतैः सह चेटकेभिः । न च मातु नैव च पितुः प्रतिवेदयित्वा सोऽबुद्ध निष्क्रामिति गच्छि कृषाणग्रामम् ॥ ११.१७ ॥ तस्मिंश्च पार्थिववरस्य कृषाणग्रामे जम्बुद्रुमोऽभवदनेकविशालशाखः । दृष्ट्वा कुमार प्रतिबुद्ध दुखेन चोत्तो धिक्संस्कृतेति बहुदुःख कृषी करोति ॥ ११.१८ ॥ सो जम्बुछायमुपगम्य विनीतचित्तो तृणकानि गृह्य स्वय संस्तरु संस्तरित्वा । पर्यङ्कमाभुजिय उज्जु करित्व कायं चत्वारि ध्यान शुभ ध्यायि स बोधिसत्त्वः ॥ ११.१९ ॥ पञ्चा ऋषी खगपथेन हि गच्छमाना जम्बूय मूर्ध्नि न प्रभोन्ति पराक्रमेतुम् । ते विस्थिता निहतमानमदाश्च भूत्वा सर्वे समग्रसहिता समुदीक्षयन्तो ॥ ११.२० ॥ वय मेरुपर्वतवरं तथ चक्रवालान्निर्भिद्य गच्छम जवेन असज्जमानाः । ते जम्बुवृक्ष न प्रभोम अतिक्रमेतुं को न्वत्र हेतुरयमद्य भविष्यतीह ॥ ११.२१ ॥ अवतीर्य मेदिनितले च प्रतिष्ठिहित्वा पश्यन्ति शाक्यतनयं तहि जम्बुमूले । जम्बुनदार्चिसदृशं प्रभतेजरश्मिं पर्यङ्कबन्धु तद ध्यायतु बोधिसत्त्वम् ॥ ११.२२ ॥ (वैद्य ९४) ते विस्मिता दशनखा करियान मूर्ध्नि प्रणता कृताञ्जलिपुटा निपतन् क्रमेषु । साधो सुजात सुमुखं करुणा जगस्य शीघ्रं विबुद्ध अमृते विनयस्व सत्त्वान् ॥ ११.२३ ॥ परिवृत्त सूर्य न जही सुगतस्य छाया ओलम्बते द्रुमवरं यथ पद्मपत्रम् । देवा सहस्र बहवः स्थित अञ्जलीभिः वन्दन्ति तस्य चरणौ कृतनिश्चयस्य ॥ ११.२४ ॥ शुद्धोदनश्च स्वगृहे परिमार्गमाणः संपृच्छते क्व नु गतः स हि मे कुमारः । मातृस्वसा अवचि मार्गत नो लभामि संपृच्छता नरपते क्व गतः कुमारः ॥ ११.२५ ॥ शुद्धोदनस्त्वरितु पृच्छति काञ्चुकीयं दौवारिकं तथपि चान्तजनं समन्तात् । दृष्टं कुमार मम केनचि निष्क्रमन्तो शृणुते वरूपगतु देव कृषाणग्रामम् ॥ ११.२६ ॥ सो शीघ्रमेव त्वरितं सह शाकियेभिः निष्क्रान्तु प्रेक्षि कृषिग्रामगिरिं प्रविष्टम् । यथ सूर्यकोटिनियुतानि समुद्गतानि तथ प्रेक्षते हितकरं शिरिया ज्वलन्तम् ॥ ११.२७ ॥ मुकुटं च खङ्ग तथ पादुक छोरयित्वा कृत्वा दशाङ्गुलि शिरे अभिवन्दिते तम् । साधू सुभूतवचना ऋषयो महात्मा व्यक्तं कुमार अभिनिष्क्रमि बोधिहेतोः ॥ ११.२८ ॥ परिपूर्ण द्वादशशता सुप्रसन्नदेवाः पच्चाशता उपगता यथ शाकियानाम् । दृष्ट्वा च ऋद्धि सुगते गुणसागरस्य संबोधिचित्तु जनयं दृढआशयेन ॥ ११.२९ ॥ (वैद्य ९५) सो कम्पयित्व त्रिसहस्र अशेषभूमिं स्मृतु संप्रजानु प्रतिबुद्ध ततः समाधेः । ब्रह्मस्वरः पितरमालपते द्युतीमानुत्सृज्य तात कृषिग्रामभतो गवेष ॥ ११.३० ॥ यदि स्वर्णकार्यु अहु स्वर्ण प्रवर्षयिष्ये यदि वस्त्रकार्यु अहमेव प्रदास्यि वस्त्राम् । अथ धान्यकार्यु अहमेव प्रवर्षयिष्ये सम्यक्प्रयुक्त भव सर्वजगे नरेन्द्र ॥ ११.३१ ॥ अनुशासयित्व पितरं जनपारिषद्यां तस्मिन् क्षणे पुरवरं पुन सो प्रवेक्षी । अनुवर्तमान जगतः स्थिहते पुरेस्मिं नैष्म्क्रम्ययुक्तमनसः सुविशुद्धसत्त्वः ॥ ११.३२ ॥ इति ॥ ॥ इति श्रीललितविस्तरे कृषिग्रामपरिवर्तो नाम एकादशोऽध्यायः ॥ ______________________________________________________________________ परिवर्त १२ (वैद्य ९६) शिल्पसंदर्शनपरिवर्तो द्वादशः । इति हि भिक्षवः संवृद्धे कुमारे राजा शुद्धोदनोऽपरेण समयेन शाक्यगणेन सार्धं संस्थागारे निषण्णोऽभूत् । तत्र ते महल्लकमहल्लकाः शाक्या राजानं शुद्धोदनमेवमाहुः - यत्खलु देवो जानीयात् । अयं सर्वार्थसिद्धकुमारो नैमित्तिकैर्ब्राह्मणैः कृतनिश्चयैश्च देवैर्यद्भूयसैवं निर्दिष्टो यदि कुमारोऽभिनिष्क्रमिष्यति, तथागतो भविष्यत्यर्हन् सम्यक्संबुद्धः । उत नाभिनिष्क्रमिष्यति राजा भविष्यति चक्रवर्ती चतुरङ्गो विजितवान् धार्मिको धर्मराजः सप्तरत्नसमन्वागतः । तस्येमानि सप्त रत्नानि भविष्यन्ति । तद्यथा - चक्ररत्नं हस्तिरत्नमश्वरत्नं मणिरत्नं स्त्रीरत्नं गृहपतिरत्नं परिणायकरत्नम् । एवं सप्तरत्नम् । संपूर्णं चास्य पुत्रसहस्रं भविष्यति शूराणां वराङ्गरूपिणां परसैन्यप्रमर्दकानाम् । स इमं पृथिवीमण्डलमदण्डेनाशस्त्रेणाभिनिर्जित्याध्यावसिष्यति सह धर्मेणेति । तस्मान्निवेशनं कुमारस्य क्रियतामिति । तत्र स्त्रीगणपरिवृतो रतिं वेत्स्यति, नाभिनिष्क्रमिष्यति । एवमस्माकं चक्रवर्तिवंशस्य चानुपच्छेदो भविष्यति । मानिताश्च भविष्यामोऽनवद्याश्च सर्वकोटराजभिः ॥ ततो राजा शुद्धोदन एवमाह - यद्येवं तेन हि व्यवलोकयत कमता कन्या कुमारस्यानुरूपा स्यात् । तत्र पञ्चमात्राणि शाक्यशतानि । एकैक एवमाह - मम दुहिता अनुरूपा स्यात्कुमारस्य । सुरूपा मम दुहितेति । राजा प्राह - दुरासदः कुमारः । तत्प्रतिवेदयिष्यामस्तावत्कुमारस्य, कतमा ते कन्या रोचत इति । ततश्च ते सर्वे संनिपत्य कुमारस्यैनां प्रकृतिमारोचयन्ति स्म । तान् कुमार उवाच - सप्तमे दिवसे प्रतिवचनं श्रोष्यथेति ॥ ततो बोधिसत्त्वस्यैतदभवत्- विदित मम अनन्त कामदोषाः सरणसर्वैरसशोकदुःखमूलाः । भयकर विषपत्रसंनिकाशाः ज्वलननिभा असिधारतुल्यरूपाः ॥ १२.१ ॥ कामगुणि न मेऽस्ति छन्दरागो न च अहु शोभमि इस्त्रिगारमध्ये । यन्नु अहु वने वसेय तूष्णीं ध्यानसमाधिसुखेन शान्तचित्तः ॥ १२.२ ॥ इति ॥ (वैद्य ९७) स पुनरपि मीमांसोपायकौशल्यमामुखीकृत्य सत्त्वपरिपाकमवेक्षमाणो महाकरूणां संजनय्य तस्यां वेलायामिमां गाथामभाषत - संकीर्णि पङ्कि पदुमानि विवृद्धिमन्ति आकीर्ण राज नरमध्यि लभाति पूजाम् । यद बोधिसत्त्व परिवारबलं लभन्ते तद सत्त्वकोटिनयुतान्यमृते विनेन्ति ॥ १२.३ ॥ ये चापि पूर्वक अभूद्विदु बोधिसत्त्वाः सर्वेभि भार्य सुत दर्शित इस्त्रिगाराः । न च रागरक्त न च ध्यानसुखेभि भ्रष्टाः हन्तानुशिक्षयि अहं पि गुणेषु तेषाम् ॥ १२.४ ॥ न च प्राकृता मम वधू अनुकूल या स्याद्यस्या न इष्यतु गुणा सद सत्यवाक्यम् । या चिन्ति मह्यमभिराधयतेऽप्रमत्ता रूपेण जन्मकुलगोत्रतया सुशुद्धा ॥ १२.५ ॥ सो गाथलेख लिखिते गुणअर्थयुक्ता या कन्य ईदृश भवे मम तां वरेथा । न ममार्थु प्राकृतजनेन असंवृतेन यस्या गुणा कथयमी मम तां वरेथा ॥ १२.६ ॥ या रूपयौवनवरा न च रूपमत्ता माता स्वसा व यथ वर्तति मैत्रचित्ता । त्यागे रता श्रमणब्राह्मणदानशीला तां तादृशां मम वधूं वरयस्व तात ॥ १२.७ ॥ यस्या न मानु न खिलो न च दोषमस्ति न च शाठ्य ईर्ष्य न च माय न उज्जुभ्रष्टा । स्वप्नान्तरेऽपि पुरूषे न परेऽभिरक्ता तुष्टा स्वकेन पतिना शयतेऽप्रमत्ता ॥ १२.८ ॥ न च गर्विता न पि च उद्धत न प्रगल्भा निर्मान मानविगतापि च चेटिभूता । (वैद्य ९८) न च पानगृद्ध न रसेषु न शब्दगन्धे निर्लोभभिध्यविगता स्वधनेन तुष्टा ॥ १२.९ ॥ सत्ये स्थिता न पि च चञ्चल नैव भ्रान्ता न च उद्धतोन्नतस्थिता हिरिवस्त्रछन्ना । न च दृष्टिमङ्गलरता सद धर्मयुक्ता कायेन वाच मनसा सद शुद्धभावा ॥ १२.१० ॥ न च स्त्यानमिद्धबहुला न च मानमूढा मीमांसयुक्त सुकृता सद धर्मचारी । श्वश्रौ च तस्य श्वशुरे यथ शास्तृप्रेमा दासी कलत्र जनि यादृशमात्मप्रेम ॥ १२.११ ॥ शास्त्रे विधिज्ञ कुशला गणिका यथैव पश्चात्स्वपेत्प्रथममुत्थिहते च शय्यात । मैत्रानुवर्ति अकुहापि च मातृभूता एतादृशीं मि नृपते वधुकां वृणीष्व ॥ १२.१२ ॥ इति ॥ अथ खलु भिक्षवो राजा शुद्धोदन इमा गाथा वाचयित्वा पुरोहितमामन्त्रयते स्म - गच्छ त्वं महाब्राह्मण कपिलवस्तुमहानगरे । सर्वगृहाण्यनुप्रविश्य कन्या व्यवलोकय । यस्या एते गुणाः संविद्यन्ते क्षत्रियकन्याया वा ब्राह्मणकन्याया वा वैश्यकन्याया वा शूद्रकन्याया वा तां कन्यामस्माकं प्रतिवेदय । तत्कस्माद्धेतोः? न हि कुमारः कुलार्थिको न गोत्रार्थिकः । गुणार्थिक एव कुमारः ॥ तस्यां च वेलायामिमां गाथामभाषत - ब्राह्मणीं क्षत्रियां कन्यां वेश्यां शूद्रीं तथैव च । यस्या एते गुणाः सन्ति तां मे कन्यां प्रवेदय ॥ १२.१३ ॥ न कुलेन न गोत्रेण कुमारो मम विस्मितः । गुणे सत्ये च धर्मे च तत्रास्य रमते मनः ॥ १२.१४ ॥ इति ॥ अथ खलु भिक्षवः स पुरोहितस्तं गाथालेखं गृहीत्वा कपिलवस्तुनि महानगरे गृहाद्गृहं व्यवलोकयन् गत्वा हिण्डन् कन्यां पर्येषते स्म । एवंगुणयुक्तामपश्यन् (न चैव गुणयुक्तां कन्यां) । सोऽनुपूर्वेण विचरन् येन दण्डपाणेः शाक्यस्य निवेशनं तेनोपसंक्रामत् । स तं निवेशनं प्रविष्टोऽद्राक्षीत्कन्यामभिरूपां प्रासादिकां दर्शनीयां परमया शुभवर्णपुष्करतया समन्वागतां नातिदीर्घां नातिह्रस्वां नातिस्थूलां नातिकृशां नातिगौरां नातिकृष्णां प्रथमयौवनावस्थां स्त्रीरत्नमिव ख्यायमानाम् । (वैद्य ९९) अथ सा दारिका पुरोहितस्य चरणौ गृहीत्वा एवमाह - केन ते महाब्राह्मण कार्यम्? पुरोहित आह - शुद्धोदनस्य तनयः परमाभिरूपो द्वात्रिंशलक्षणधरो गुणतेजयुक्तः । तेनेति गाथ लिखिता गुणये वधूनां यस्या गुणास्ति हि इमे स हि तस्य पत्नी ॥ १२.१५ ॥ स तस्यास्तं लेखमुपनामयति स्म ॥ अथ सा दारिका तं गाथालेखं वाचयित्वा स्मितमुपदर्श्य तं पुरोहितं गाथयाध्यभाषत्- मह्येति ब्राह्मण गुणा अनुरूप सर्वे सो मे पतिर्भवतु सौम्य सुरूपरूपः । भणहि कुमारु यदि कार्य म हू विलम्ब मा हीनप्राकृतजनेन भवेय वासः ॥ १२.१६ ॥ इति ॥ अथ स खलु पुरोहितो राजानं शुद्धोदनमुपसंक्रम्यैव तमर्थमारोचयति स्म - दृष्टा मया देव कन्या या कुमारस्यानुरूपा स्यात् । आह - कस्यासौ? आह - दण्डपाणेर्देव शाक्यस्य दुहिता ॥ अथ राज्ञः शुद्धोदनस्यैतदभवत्- दुरासदः कुमारः शुभाधिमुक्तश्च । प्रायेण च मातृग्रामोऽसंविद्यमानगुणोऽपि गुणानामात्मनि प्रजानीते । यन्न्वहमशोकभाण्डकानि कारयेयम्, यानि कुमारः सर्वदारिकाभ्योऽनुप्रयच्छेत् । तत्र यस्यां दारिकायां कुमारस्य चक्षुरभिनिवेश्यति, तां कुमारस्य वरयिष्यामीति ॥ अथ खलु राजा शुद्धोदनोऽशोकभाण्डानि कारयति स्म सुवर्णमयानि रूप्यमयानि नानारत्नमयानि । कारयित्वा च कपिलवस्तुनि महानगरे घण्टाघोषणां कारयामास - सप्तमे दिवसे कुमारो दर्शनं दास्यति, अशोकभाण्डकानि च दारिकाभ्यो विश्राणयिष्यति । तत्र सर्वदारिकाभिः संस्थागारे संनिपतितव्यमिति ॥ इति हि भिक्षवः सप्तमे दिवसे बोधिसत्त्वः संस्थागारमुपसंक्रम्य भद्रासने न्यषीदत् । राजापि शुद्धोदनोऽदृश्यपुरुषान् स्थापयति स्म - यस्यां दारिकायां कुमारस्य चक्षुः संनिविशेत्, तां ममारोचयध्वमिति ॥ इति हि भिक्षवो यावन्त्यः कपिलवस्तुनि महानगरे दारिकास्ताः सर्वा येन संस्थागारो येन च बोधिसत्त्वस्तेनोपसंक्रामन् बोधिसत्त्वस्य दर्शनाय अशोकभाण्डकानि च प्रतिगृहीतुम् ॥ (वैद्य १००) इति हि भिक्षवो बोधिसत्त्वो यथागताभ्यस्ताभ्यो दारिकाभ्योऽशोकभाण्डकान्यनुप्रयच्छति स्म । ताश्च दारिका न शक्नुवन्ति स्म बोधिसत्त्वस्य श्रियं तेजश्च सोढुम् । ता अशोकभाण्डकानि गृहीत्वा शीघ्रं शीघ्रमेव प्रक्रामन्ति स्म ॥ अथ दण्डपाणेः शाक्यस्य दुहिता गोपा नाम शाक्यकन्या, सा दासीगणपरिवृता पुरस्कृता येन संस्थागारो येन च बोधिसत्त्वस्तेनोपसंक्रामत् । उपसंक्रम्यैकान्तेऽस्थात्बोधिसत्त्वमनिमेषाभ्यां नयनाभ्यां प्रेक्षमाणा । तद्यदा बोधिसत्त्वेन सर्वाण्यशोकभाण्डानि दत्तानि, तदा सा बोधिसत्त्वमुपसंक्रम्य प्रहसितवदना बोधिसत्त्वमेवमाह - कुमार किं ते मयापनीतं यस्त्वं मां विमानयसि? आह - नाहं त्वां विमानयामि, अपि तु खलु पुनस्त्वमभिपश्चादागतेति । स तस्यै चानेकशतसहस्रमूल्यमङ्गुलीयकं निर्मुच्य प्रादात् ॥ सा प्राह - इदमहं कुमार तवान्तिकादर्हामि? आह - इमानि मदीयान्याभरणानि, गृह्यताम् । सा आह - न वयं कुमारं व्यलंकरिष्यामः? अलंकरिष्यामो वयं कुमारम् । इत्युक्त्वा सा कन्या प्रक्रामत् ॥ ततस्तैर्गुह्यपुरुषै राजानं शुद्धोदनमुपसंक्रम्यैष वृत्तान्तो निवेदितोऽभूत्- देव दण्डपाणेः शाक्यस्य दुहिता गोपा नाम शाक्यकन्या, तस्यां कुमारस्य चक्षुर्निविष्टम्, मुहूर्तं च तयोः संलापोऽभूत् ॥ इत्येतत्खलु वचनं श्रुत्वा राजा शुद्धोदनो दण्डपाणेः शाक्यस्य पुरोहितं दौत्येन प्रेषयति स्म - या ते दुहिता, सा मम कुमारस्य प्रदीयतामिति ॥ दण्डपाणिराह - आर्य कुमारो गृहे सुखसंवृद्धः । अस्माकं चायं कुलधर्मः शिल्पज्ञस्य कन्या दातव्या नाशिल्पज्ञस्येति । कुमारश्च न शिल्पज्ञो नासिधनुष्कलापयुद्धसालम्भविधिज्ञः । तत्कथमशिल्पज्ञायाहं दुहितरं दास्यामि? इत्येतच्च राज्ञः प्रतिवेदितम् । ततो राज्ञ एतदभवत्- द्विरपीदमहं सहधर्मेण चोदितः । यदापि मयोक्तं कस्माच्छाक्यकुमाराः कुमारस्योपस्थानाय नागच्छन्तीति तदाप्यहमभिहितः - किं वयं मण्डकस्योपस्थानं करिष्याम इति । एतर्ह्यप्येवमिति प्रध्यायन्निषण्णोऽभूत् ॥ बोधिसत्त्वश्चैनं वृत्तान्तमश्रोषीत् । श्रुत्वा च येन राजा शुद्धोदनस्तेनोपसंक्रामत् । उपसंक्रम्यैवमाह - देव किमिदं दीनमनास्तिष्ठसि? राजा आह - अलं ते कुमार अनेन । कुमार आह - देव सर्वथा तावदवश्यभेवमाख्यातव्यम् । यावत्त्रिरपि बोधिसत्त्वो राजानं शुद्धोदनं परिपृच्छति स्म ॥ (वैद्य १०१) ततो राजा शुद्धोदनो बोधिसत्त्वाय तां प्रकृतिमारोचयति स्म । तां श्रुत्वा बोधिसत्त्व आह - देव अस्ति पुनरिह नगरे कश्चिद्यो मया सार्धं समर्थः शिल्पेन शिलपमुपदर्शयितुम्? ततो राजा शुद्धोदनः प्रहसितवदनो बोधिसत्त्वमेवमाह - शक्यसि पुनस्त्वं पुत्र शिल्पमुपदर्शयितुम्? स आह - बाढं शक्यामि देव । तेन हि संनिपात्यन्तां सर्वशिल्पज्ञाः, येषां पुरतः स्वं शिल्पमुपदर्शयिष्यामि ॥ ततो राजा शुद्धोदनः कपिलवस्तुनि महानगरवरे घण्टाघोषणां कारयति स्म - सप्तमे दिवसे कुमारः स्वं शिल्पमुपदर्शयति । तत्र सर्वशिल्पज्ञैः संनिपतितव्यम् ॥ तत्र सप्तमे दिवसे पञ्चमात्राणि शाक्यकुमारशतानि संनिपतितान्यभूवन् । दण्डपाणेश्च शाक्यस्य दुहिता गोपा नाम शाक्यकन्या जयपताका स्थापिताभूत्- यो वा अत्र असिधनुष्कलापयुद्धसालम्भेषु जेष्यति, तस्यैषा भविष्यतीति ॥ तत्र सर्वपुरतो देवदत्तः कुमारो नगरादभिनिष्क्रामति स्म । श्वेतश्च हस्ती महाप्रमाणो बोधिसत्त्वस्यार्थे नगरं प्रवेश्यते स्म । तत्र देवदत्तः कुमार ईर्ष्यया च शाक्यबलमदेन च मत्तः । स तं हस्तिनागं वामेन पाणिना शुण्डायां गृहीत्वा दक्षिणेन पाणिना चपेटया एकप्रहारेणैव हतोऽभूत् ॥ तस्यानन्तरं सुन्दरनन्दकुमारोऽभिनिष्क्रामति स्म । सोऽद्राक्षीत्तं हस्तिनागं नगरद्वारे हतम् । दृष्ट्वा च पर्यपृच्छत्- केनायं हत इति । तत्र महाजनकाय आह - देवदत्तेनेति । स आह - अशोभनमिदं देवदत्तस्य । स तं हस्तिनागं लाङ्गूले गृहीत्वा नगरद्वारादपकर्षति स्म ॥ तदनन्तरं बोधिसत्त्वो रथाभिरूढोऽभिनिष्क्रामति स्म । अद्राक्षीद्बोधिसत्त्वस्तं हस्तिनं हतम् । दृष्ट्वा च पर्यपृच्छत्- केनायं हत इति । आहुः - देवदत्तेनेति । आह - अशोभनं देवदत्तस्य । केन पुनरस्मान्नगरद्वारादपकर्षित इति । आहुः - सुन्दरनन्देनेति । आह - शोभनमिदं सुन्दरनन्दस्य । किं तु महाकायोऽयं सत्त्वः । सोऽयं क्लिन्नः सर्वनगरं दौर्गन्धेन स्फुरिष्यतीति ॥ ततः कुमारो रथस्य एवैकं पादं भूमौ प्रसार्य पादाङ्गुष्ठेन तं हस्तिनागं लाङ्गूले गृहित्वा सप्त प्राकारान् सप्त च परिखानतिक्रम्य बहिर्नगरस्य क्रोशमात्रे प्रक्षिपति स्म । यत्र व प्रदेशे स हस्ती पतितस्तस्मिन् प्रदेशे महद्बिलं संवृत्तं यत्सांप्रतं हस्तिगर्तेत्यभिधीयते ॥ तत्र देवमनुजाः शतसहस्राणि हाहाकारकिलकिलाप्रक्ष्वेडितशतसहस्राणि प्रामुञ्चन् । चैलविक्षेपांश्चाकार्षुः । गगनतलगताश्च देवपुत्रा इमे गाथेऽभाषन्त - यथ मत्तगजेन्द्रगतीनां पादाङ्गुष्ठतलेन गजेन्द्रम् । सप्त पुरापरिखा अतिक्रम्य क्षिप्तु बहिः स्वपुरातु अयं हि ॥ १२.१७ ॥ (वैद्य १०२) निःसंशयमेष सुमेधा मानबलेन समुच्छ्रितकायान् । संसारपुरातु बहिर्धा एक क्षपिष्यति प्रज्ञबलेन ॥ १२.१८ ॥ इति हि पञ्चमात्राणि शाक्यकुमारशतानि नगरान्निष्कम्य येनान्यतमः पृथिवीप्रदेशो यत्र शाक्यकुमाराः शिल्पमुपदर्शयन्ति स्म तेनोपसंक्रामन् । राजापि शुद्धोदनो महल्लकमहल्लकाश्च शाक्या महांश्च जनकायो येनासौ पृथिवीप्रदेशस्तेनोपसंक्रामन् बोधिसत्त्वस्य चान्येषां च शाक्यकुमाराणां शिल्पविशेषं द्रष्टुकामाः ॥ तत्र आदित एव ये शाक्यकुमारा लिप्यां पटुविधिज्ञास्ते बोधिसत्त्वेन सार्धं लिपिं विशेषयन्ति स्म । तत्र तैः शाक्यैर्विश्वामित्र आचार्यः साक्षी स्थापितोऽभूत्- स त्वं व्यवलोकय कतमोऽत्र कुमारो लिपिज्ञाने विशिष्यते यदि वा लेख्यतो यदि वा बहुलिपिनिर्याणतः । अथ विश्वामित्र आचार्यः प्रत्यक्षो बोधिसत्त्वस्य लिपिज्ञाने स्मितमुपदर्शयन्निमे गाथेऽभाषत - मनुष्यलोकेऽथ च देवलोके गन्धर्वलोकेऽप्यसुरेन्द्रलोके । यावन्ति केचिल्लिपि सर्वलोके तत्रैष पारंगतु शुद्धसत्त्वः ॥ १२.१९ ॥ नामापि यूयं च अहं च तेषां लिपीन जानाम न चाक्षराणाम् । यान्येष जानाति मनुष्यचन्द्रो अहमत्र प्रत्यक्षु विजेष्यतेऽयम् ॥ १२.२० ॥ शाक्या आहुः - विशिष्यतां तावत्कुमारो लिपिज्ञाने । संख्याज्ञाने कुमारो विशेषयितव्यो जिज्ञास्यश्च । तत्रार्जुनो नाम शाक्यगणको महामात्रः संख्यागणनासु पारंगतः, स साक्षी स्थापितोऽभूत्- स त्वं व्यवलोकय कतमोऽत्र कुमारो विशिष्यते संख्याज्ञानत इति । तत्र बोधिसत्त्वश्चोद्दिशति स्म, एकश्च शाक्यकुमारो निक्षिपति स्म, न च परिप्रापयति स्म । बोधिसत्त्वस्यैक द्वौ त्रयश्चत्वारः पञ्चदश विंशत्त्रिंशच्चत्वारिंशत्पञ्चाशच्छतं यावत्पञ्चापि शाक्यकुमारशतानि युगपत्काले निक्षिपन्ति स्म, न च परिप्रापयन्ति स्म । ततो बोधिसत्त्व आह - उद्दिशत यूयम्, अहं निक्षेप्स्यामीति । तत्रैकशाक्यकुमारो बोधिसत्त्वस्योद्दिशति स्म, न च परिप्रापयति स्म । द्वावपि त्रयोऽपि पञ्चापि दशापि विंशत्यपि त्रिंशदपि चत्वारिंशदपि पञ्चाशदपि यावत्पञ्चापि शाक्यकुमारशतानि युगपदुद्दिशन्ति स्म । न च परिप्रापयन्ति स्म बोधिसत्त्वस्य निक्षिपतः ॥ बोधिसत्त्व आह - अलमलमनेन विवादेन । सर्व इदानीमेकीभूत्वा ममोद्दिशत, अहं निक्षेप्स्यामीति । तत्र पञ्चमात्राणि शाक्यकुमारशतान्येकवचनोदाहारेणापूर्वचरितं समुद्दिशन्ति स्म, बोधिसत्त्वश्चासंमूढो निक्षिपति स्म । एवमपर्यन्ताः सर्वशाक्यकुमाराः, अथ पर्यन्तश्च बोधिसत्त्वः ॥ ततोऽर्जुनो गणकमहामात्र आश्चर्यप्राप्त इमे गाथेऽभाषत - ज्ञानस्य शीघ्रता साधु बुद्धे संपरिपृच्छता । पञ्चमात्रशतान्येते धिष्ठिता गणनापथे ॥ १२.२१ ॥ (वैद्य १०३) ईदृशी च इयं प्रज्ञा बुद्धिर्ज्ञानं स्मृतिर्मतिः । अद्यापि शिक्षते चायं गणितं ज्ञानसागरः ॥ १२.२२ ॥ ततः सर्वशाक्यगण आश्चर्यप्राप्तः परमविस्मयापन्नोऽभूत् । एककण्ठाश्चेमां वाचमभाषन्त - जयति जयति भोः सर्वार्थसिद्धः कुमारः । सर्वे चासनेभ्य उत्थाय कृताञ्जलिपुटा भूत्वा बोधिसत्त्वं नमस्कृत्य राजानं शुद्धोदनमेतदवोचन् - लाभास्ते महाराज परमसुलब्धाः, यस्य ते पुत्र एवं शीघ्रलघुजवचपलपरिपृच्छाप्रतिभान इति ॥ अथ स राजा शुद्धोदनो बोधिसत्त्वमेवमाह - शक्यसि पुत्र अर्जुनेन गणकमहामात्रेण सार्धं संख्याज्ञानकौशल्यगणनागतिमनुप्रवेष्टुम्? तेन हि गण्यताम् । अथार्जुनो गणकमहामात्रो बोधिसत्त्वमेवमाह - जानीषे त्वं कुमार कोटिशतोत्तरां नाम गणनागतिम्? बोधिसत्त्व आह - शक्यामि देव । आह - जानाम्यहम् । आह - कथं पुनः कोटिशतोत्तरा गणनागतिरनुप्रवेष्टव्या? बोधिसत्त्व आह - शतं कोटीनामयुतं नामोच्यते । शतमयुतानां नियुतो नामोच्यते । शतं नियुतानां कङ्करं नामोच्यते । शतं कङ्कराणां विवरं नामोच्यते । शतं विवराणामक्षोभ्यं नामोच्यते । शतमक्षोभ्याणां विवाहं नामोच्यते । शतं विवाहानामुत्सङ्गं नामोच्यते । शतमुत्सङ्गानां बहुलं नामोच्यते । शतं बहुलानां नागबलं नामोच्यते । शतं नागबलानां तिटिलम्भं नामोच्यते । शतं तिटिलम्भानां व्यवस्थानप्रज्ञप्तिर्नामोच्यते । शतं व्यवस्थानप्रज्ञप्तीनां हेतुहिलं नामोच्यते । शतं हेतुहिलानां करकुर्नामोच्यते । शतं करकूणां हेत्विन्द्रियं नामोच्यते । शतं हेत्विन्द्रियाणां समाप्तलम्भं नामोच्यते । शतं समाप्तलम्भानां गणनागतिर्नामोच्यते । शतं गणनागतीनां निरवद्यं नामोच्यते । शतं निरवद्यानां मुद्राबलं नामोच्यते । शतं मुद्राबलानां सर्वबलं नामोच्यते । शतं सर्वबलानां विसंज्ञागती नामोच्यते । शतं विसंज्ञागतीनां सर्वसंज्ञा नामोच्यते । शतं सर्वसंज्ञानां विभूतंगमा नामोच्यते । शतं विभूतंगमानां तल्लक्षणं नामोच्यते । इति हि तल्लक्षणगणनया सुमेरूपर्वतराजो लक्षनिक्षेपक्रियया परिक्षयं गच्छेत् । अतोऽप्युत्तरि ध्वजाग्रवती नाम गणना, यस्यां गणनायां गङ्गानदीवालिकासमा लक्षनिक्षेपक्रियया परिक्षयं गच्छेयुः । अतोऽप्युत्तरि ध्वजाग्रनिशामणी नाम गणना । अतोऽप्युत्तरि वाहनप्रज्ञप्तिर्नाम । अतोऽप्युत्तरि इङ्गा नाम । अतोऽप्युत्तरि कुरुटु नाम । अतोऽप्युत्तरि कुरुटावि नाम । अतोऽप्युत्तरि सर्वनिक्षेपा नाम गणना, यस्यां गणनायां दश गङ्गानदीवालिकासमा लक्षनिक्षेपक्रियया परिक्षयं गच्छेयुः । अतोऽप्युत्तरि अग्रसारा नाम गणना, यत्र कोटीशतं गङ्गानदीवालिकासमा लक्षनिक्षेपाः परिक्षयं गच्छेयुः । अतोऽप्युत्तरि परमाणुरजःप्रवेशानुगतानां गणना, यत्र तथागतं स्थापयित्वा बोधिमण्डवराग्रगतं च सर्वंधर्माभिषेकाभिमुखं बोधिसत्त्वं नान्यः कश्चित्सत्त्वः सत्त्वनिकाये संविद्यते य एतां गणनां प्रजानाति अन्यत्राहं वा यो वा स्यान्मादृशः । एवं चरमभाविको विनिष्क्रान्तगृहवासो बोधिसत्त्वः ॥ (वैद्य १०४) अर्जुनोऽवोचत्- कथं कुमार परमाणुरजःप्रवेशगणनानुप्रवेष्टव्या? बोधिसत्त्व आह - सप्त परमाणुरजांस्यणुः । सप्ताणवस्त्रुतिः । सप्तत्रुतेरेकं वातायनरजः । सप्त वातायनरजांस्येकं शशरजः । सप्त शशरजांस्येकमेडकरजः । सप्तैडकरजांस्येकं गोरजः । सप्त गोरजांस्येकं लिक्षारजः । सप्त लिक्षाः सर्षपः । सप्तसर्षपाद्यवः । सप्तयवादङ्गुलीपर्व । द्वादशाङ्गुलीपर्वाणि वितस्तिः । द्वे वितस्ती हस्तः । चत्वारो हस्ता धनुः । धनुःसहस्रं मार्गध्वजाक्रोशः । चत्वारः क्रोशा योजनम् । तत्र को युष्माकं योजनपिण्डं प्रजानाति? कियन्ति तानि परमाणुरजांसि भवन्ति? अर्जुनोऽवोचत्- अहमेव तावत्कुमार संमोहमापन्नः, किमङ्ग पुनर्ये चान्येऽल्पबुद्धयः । निर्दिशतु कुमारो योजनपिण्डं कियन्ति तानि परमाणुरजांसि भवन्तीति । बोधिसत्त्वोऽवोचत्- तत्र योजनपिण्डः परमाणुरजसां परिपूर्णमक्षोभ्यनयुतमेकं त्रिंशच्च कोटीनयुतशतसहस्राणि षष्टिश्च कोटीशतानि द्वात्रिंशतिश्च कोट्यः पञ्च च दशशतसहस्राणि द्वादश च सहस्राणि एतावान् योजनपिण्डः परमाणुरजोनिक्षेपस्य । अनेन प्रवेशेनायं जम्बुद्वीपः सप्तयोजनसहस्राणि । गोदानीयोऽष्टौ योजनसहस्राणि । पूर्वविदेहो नव योजनसहस्राणि । उत्तरकुरुद्वीपो दशयोजनसहस्राणि । अनेन प्रवेशेनेमं चातुर्द्वीपकं लोकधातूं प्रमुखं कृत्वा परिपूर्णकोटीशतं चातुर्द्वीपकानां लोकधातूनां यत्र कोटीशतं महासमुद्राणाम्, कोटीशतं चक्रवालमहाचक्रवालानाम्, कोटीशतं सुमेरूणां पर्वतरजानाम्, कोटीशतं चतुर्महाराजिकानां देवानाम्, कोटीशतं त्रयत्रिंशानाम्, कोटीशतं यामानाम्, कोटीशतं तुषितानाम्, कोटीशतं निर्माणरतीनाम्, कोटीशतं परनिर्मितवशवर्तीनाम्, कोटीशतं ब्रह्मकायिकानाम्, कोटीशतं ब्रह्मपुरोहितानाम्, कोटीशतं ब्रह्मपार्षद्यानाम्, कोटीशतं महाब्रह्माणाम्, कोटीशतं परीत्ताभानाम्, कोटीशतमप्रमाणाभानाम्, कोटीशतमाभास्वराणाम्, कोटीशतं परीत्तशुभानाम्, कोटीशतमप्रमाणशुभानाम्, कोटीशतं शुभकृत्स्नानाम्, कोटीशतमनभ्रकाणाम्, कोटीशतं पुण्यप्रसवानाम्, कोटीशतं बृहत्फलानाम्, कीटीशतमसंज्ञिसत्त्वानाम्, कोटीशतमबृहानाम्, कोटीशतमतपानाम् , कोटीशतं सुदृशानाम्, कोटीशतं सुदर्शनानाम्, कोटीशतमकनिष्ठानां देवानाम् । अयमुच्यते त्रिसाहस्रमहासाहस्रलोकधातुर्विपुलश्च विस्तीर्णश्च । स यावन्ति योजनशतानि (परमाणुरजांसि त्रिसाहस्रमहासाहस्रलोकधातौ) यावन्ति योजनसहस्राणि, यावन्ति योजनकोटयः, यावन्ति योजननयुतानि ........पेयालं.............यावद्यावन्तो योजनाग्रसारा गणनाः । कियन्त्येतानि परमाणुरजांसि इत्याह । संख्यागणना व्यतिवृत्ता ह्येषां गणनानां तदुच्यतेऽसंख्येयमिति । अतोऽसंख्येयतमानि परमाणुरजांसि यानि त्रिसाहस्रमहासाहस्रलोकधातौ भवन्ति ॥ अस्मिन् खलु पुनर्गणनापरिवर्ते बोधिसत्त्वेन निर्दिश्यमाने अर्जुनो गणकमहामात्रः सर्वश्च शाक्यगणस्तुष्ट उदग्र आत्तमनाः प्रमुदित आश्चर्याद्भुतप्राप्तोऽभूत् । ते सर्व एकैकैर्वस्त्रैः स्थिता अभूवन् । परिशिष्टैर्वस्त्राभरणैर्बोधिसत्त्वमभिछादयन्ति स्म ॥ (वैद्य १०५) अथ खल्वर्जुनो गणकमहामात्र इमे गाथेऽभाषत - कोटीशतं च अयुता नयुतास्तथैव नियुतानु कङ्करगती तथ बिम्बराश्च । अक्षोभिणी परमज्ञानु न मेऽस्त्यतोऽर्थ - मत उत्तरे गणनमप्रतिमस्य ज्ञानम् ॥ १२.२३ ॥ अपि च भोः शाक्याः - त्रिसाहस्रि रजाश्रयन्तका तृणवन ओषधियो जलस्य बिन्दून् । हुंकारेण न्यसेय एकिनैषो को पुनि विस्मयु पञ्चभिः शतेभिः ॥ १२.२४ ॥ तत्र देवमनुजाः शतसहस्राणि हाहाकारकिलिकिलाप्रक्ष्वेडितशतसहस्राणि प्रामुञ्चन् । गगनतलगताश्च देवपुत्रा इमा गाथा अभाषन्त - यावन्त सत्त्व निखिलेन त्रियध्वयुक्ताः चित्तानि चैतसिकसंज्ञि वितर्कितानि । हीनाः प्रणीत तथ संक्षिपविक्षिपा ये एकस्मि चित्तपरिवर्ति प्रजानि सर्वान् ॥ १२.२५ ॥ इति हि भिक्षवोऽभिभूताः सर्वे शाक्यकुमारा अभूवन् । बोधिसत्त्व एव विशिष्यते । तदनन्तरं लङ्घिते प्लविते जविते सर्वत्र बोधिसत्त्व एव विशिष्यते स्म । गगनतलगताश्च देवपुत्रा इमां गाथामभाषन्त - व्रततपसगुणेन संयमेन क्षमदममैत्रबलेन कल्पकोट्यः । अथ कृतुलघुकायचित्तनेता तस्य जवस्य विशेषतां शृणोथ ॥ १२.२६ ॥ इह गृहगत युष्मे पश्यथा सत्त्वसारमपि च दशसु दिक्षू गच्छतेऽयं क्षणेन । अपरिमितजिनानां पूजनामेष कुर्वन्मणिकनकविचित्रैर्लोकधातुष्वनन्ता ॥ १२.२७ ॥ न च पुन गति आगतिं च अस्या यूयं प्रजानथ तावदृद्धिप्राप्तो । कोऽत्र जविति विस्मयो जनेया असदृश एष करोथ गौरवोऽस्मिन् ॥ १२.२८ ॥ एवं कृत्वा बोधिसत्त्व एव विशिष्यते स्म ॥ तत्र शाक्या आहुः - युद्धेषु तावत्कुमारो विशेषयितव्यो जिज्ञास्यश्च । तत्र बोधिसत्त्व एकान्ते स्थितोऽभूत् । तानि च पञ्चमात्राणि शाक्यकुमारशतानि युगपद्युध्यन्ति स्म ॥ (वैद्य १०६) इति हि द्वात्रिंशच्छाक्यकुमाराः सालम्भाय स्थिताः । तदा नन्दश्चानन्दश्च बोधिसत्त्वमभिगतौ सालम्भाय । तौ समनन्तरं स्पृष्टावेव बोधिसत्त्वेन पाणिना । तौ बोधिसत्त्वस्य बलं तेजश्चासहमानौ धरणीतले प्रपतितावभूताम् । तदनन्तरं देवदत्तः कुमारो गर्वितश्च मानी च बलवानेव तब्धः शाक्यमानेन च तब्धो बोधिसत्त्वेन सार्धं विस्पर्धमानः सर्वावन्तं रङ्गमण्डलं प्रदक्षिणीकृत्य विक्रीडमानो बोधिसत्त्वमभिपतति स्म । अथ बोधिसत्त्वोऽसंभ्रान्त एवात्वरन् दक्षिणेन पाणिना सलीलं देवदत्तं कुमारं गृहीत्वा त्रिर्गगनतले परिवर्त्य माननिग्रहार्थमविहिंसाबुद्ध्या मैत्रेण चित्तेन धरणीतले निक्षिपति स्म । न चास्य कायं व्याबाधते स्म ॥ ततो बोधिसत्त्वोऽप्याह - अलमलमनेन विवादेन । सर्व एव एकीभूत्वा इदानीं सालम्भायागच्छतेति ॥ अथ ते सर्वे हर्षिता भूत्वा बोधिसत्त्वमभिनिपतिताः । ते समनन्तरस्पृष्टा बोधिसत्त्वेन बोधिसत्त्वस्य श्रियं तेजश्च कायबलं स्थामं चासहमानाः स्पृष्टमात्रा एव बोधिसत्त्वेन धरणितले प्रापतन् । तत्र मरून्मनुजशतसहस्राणि हीहीकारकिलकिलाप्रक्ष्वेडितशतसहस्राण्यकार्षुः । गगनतलगताश्च देवपुत्रा महान्तं पुष्पवर्षमभिप्रवृष्यैकस्वरेणेमां गाथामभाषन्त - यावन्त सत्त्वनयुता दशसू दिशासु ते दुष्टमल्लमहनग्नसमा भवेयुः । एकक्षणेन निपतेयु नरर्षभस्य संस्पृष्टमात्र निपतेयु क्षितीतलेस्मिम् ॥ १२.२९ ॥ मेरूः सुमेरु तथ वज्रकचक्रवालाः ये चान्य पर्वत क्वचिद्दशसू दिशासु । पाणिभ्य गृह्य मसिचूर्णनिभां प्रकुर्यात्को विस्मयो मनुजआश्रयके असारे ॥ १२.३० ॥ एषो द्रुमेन्द्रप्रवरे महदुष्टमल्लं मारं ससैन्यसबलं सहयं ध्वजाग्रे । मैत्रीबलेन विनिहत्य हि कृष्णबन्धुं यावत्स्पृशिष्यति अनुत्तरबोधि सान्तम् ॥ १२.३१ ॥ इति ॥ एवं कृत्वा बोधिसत्त्व एव विशिष्यते स्म ॥ अथ दण्डपाणिः शाक्यकुमारानेतदवोचत्- जिज्ञासितमिदं दृष्टं च । हन्तेदानीमिषुक्षेपमुपदर्शयतेति । तत्र आनन्दस्य द्वयोः क्रोशयोरयस्मयी भेरी लक्षं स्थापिताभूत् । अस्यानन्तरं देवदत्तस्य चतुर्षु क्रोशेष्वयस्मयी भेरी स्थापिताभूत् । दण्डपाणेर्योजनद्वयेऽयस्मयी भेरी स्थापिताभूत् । (वैद्य १०७) बोधिसत्त्वस्य दशसु क्रोशेष्वयस्मयी भेरी स्थापिताभूत् । तस्यानन्तरं सप्त ताला अयस्मयी वराहप्रतिमा यन्त्रयुक्ता स्थापिताभूत् । तत्रानन्देन द्वाभ्यां क्रोशाभ्यां भेर्याहताभूत्, ततोत्तरि न शक्नोति स्म । देवदत्तेन चतुःक्रोशस्था भेर्याहताभूत्, नोत्तरि शक्नोति स्म । सुन्दरनन्देन षट्क्रोशस्था भेर्याहताभूत्, नोत्तरि शक्नोति स्म । दण्डपाणिना द्वियोजनस्था भेर्याहताभूत्, निर्विद्धा च नोत्तरि शक्नोति स्म । तत्र बोधिसत्त्वस्य यद्यदेव धनुरुपानम्यते स्म, तत्तदेव विच्छिद्यते स्म । ततो बोधिसत्त्व आह - अस्तीह देव नगरे किंचिदन्यद्धनुर्यन्ममारोपणं सहेत कायबलस्थामं च? राजा आह - अस्ति पुत्र । कुमार आह - क्व तद्देव? राजा आह - तव पुत्र पितामहः सिंहहनुर्नामाभूत्, तस्य यद्धनुस्तदेव तर्हि देवकुले गन्धमाल्यैर्महीयते । न पुनस्तत्कश्चिच्छक्नोति स्म तद्धनुरारोपयितुं प्रागेव पूरयितुम् । बोधिसत्त्व आह - आनीयतां देव तद्धनुः । जिज्ञासिष्यामहे ॥ तावद्यावत्तद्धनुरुपनामितमभूत् । तत्र सर्वे शाक्यकुमाराः परमेणापि प्रयत्नेन व्यायच्छमाना न शक्नुवन्ति स्म तद्धनुरारोपयितुं प्रागेव पूरवितुम् । ततस्तद्धनुर्दण्डपाणेः शाक्यस्योपनामितमभूत् । अथ दण्डपाणिः शाक्यः सर्वं कायबलस्थाम संजनय्य तद्धनुरारोपयितुमारब्धोऽभूत् । न च शक्नोति स्म । यावद्बोधिसत्त्वस्योपनामितमभूत् । तद्बोधिसत्त्वो गृहीत्वा आसनादनुत्तिष्ठन्नेवार्धपर्यङ्कं कृत्वा वामेन पाणिना(गृहीत्वा) दक्षिणेन पाणिना एकाङ्गुल्यग्रेणारोपितवानभूत् । तस्य धनुष आरोप्यमाणस्य सर्वं कपिलवस्तु महानगरं शब्देनाभिविज्ञप्तमभूत् । सर्वनगरजनश्च विह्वलीभूतोऽन्योन्यमपृच्छत्- कस्यायमेवंविधः शब्द इति । अन्ये तदवोचन् - सिद्धार्थेन किल कुमारेण पैतामहधनुरारोपितम्, तस्यायं शब्द इति । तत्र देवमनुजशतसहस्राणि हाहाकारकिलिकिलाप्रक्ष्वेडितशतसहस्राणि प्रामुञ्चन् । गगनतलगताश्च देवपुत्रा राजानं शुद्धोदनं तं च महान्तं जनकायं गाथयाध्यभाषन्त - यथ पूरित एष धनुर्मुनिना न च उत्थितु आसनि नो च भूमी । निःसंशयु पूर्णमभिप्रायु मुनिर्लघु भेष्यति जित्व च मारचमूम् ॥ १२.३२ ॥ इति हि भिक्षवो बोधिसत्त्वस्तद्धनुः पूरयित्वेषुं गृहीत्वा तादृशेन बलस्थाम्ना तमिषुं क्षिपति स्म, येन या चानन्दस्य भेरी या च देवदत्तस्य यावत्सुन्द्दरनन्दस्य यावद्दण्डपाणेताः सर्वा अभिनिर्भिद्य तां च दशक्रोशस्थां स्वकामयस्मयीं भेरीं सप्ततालां यन्त्रयुक्तवराहप्रतिमामभिनिर्भिद्य स इषुर्धरणीतलं प्रविश्य अदर्शनाभासोऽभूत् । यत्र च प्रदेशे स इषुर्भूमितलं भित्त्वा प्रविष्टस्तस्मिन् प्रदेशे कूपः संवृत्तः, यदद्यत्वेऽपि शरकूप इत्यभिधीयते । तत्र देवमनुष्यशतसहस्राणि हीहीकारकिलिकिलाप्रक्ष्वेडितशतसहस्राणि प्रामुञ्चन् । सर्वश्च शाक्यगणो विस्मितोऽभूताश्चर्यप्राप्तः - (वैद्य १०८) आश्चर्यं भोः । न च नाम अनेन योग्या कृता, इदं चेदृशं शिल्पकौशलम् । गगनतलगताश्च देवपुत्रा राजानं शुद्धोदनं तं च महान्तं जनकायमेवमाहुः - कोऽत्र विस्मयो मनुजाः । तत्कस्मात्? एष धरणिमण्डे पुर्वबुद्धासनस्थः शमथधनु गृहीत्वा शून्यनैरात्मबाणैः । क्लेशरिपु निहत्वा दृष्टिजालं च भित्त्वा शिवविरजमशोकां प्राप्स्यते बोधिमग्र्याम् ॥ १२.३३ ॥ एवमुक्त्वा ते देवपुत्रा बोधिसत्त्वं दिव्यैः पुष्पैरभ्यवकीर्य प्राक्रामन् ॥ एवं लङ्घिते प्राग्वल्लिपिमुद्रागणनासंख्यसालम्भधनुर्वेदे जविते प्लविते तरणे इष्वस्त्रे हस्तिग्रीवायामश्वपृष्ठे रथे धनुष्कलापे स्थैर्यस्थाम्नि सुशौर्ये बाहुव्यायामे अङ्कुशग्रहे पाशग्रहे उद्याने निर्याणे अवयाने मुष्टिबन्धे पदबन्धे शिखाबन्धे छेद्ये भेद्ये दालने स्फालने अक्षुण्णवेधित्वे मर्मवेधित्वे शब्दवेधित्वे दृढप्रहारित्वे अक्षक्रीडायां काव्यकरणे ग्रन्थे चित्रे रूपे रूपकर्मणि धीते अग्निकर्मणि वीणायां वाद्ये नृत्ये गीते पठिते आख्याने हास्ये लास्ये नाट्ये विडम्बिते माल्यग्रथने संवाहिते मणिरागे वस्त्ररागे मायाकृते स्वप्नाध्याये शकुनिरुते स्त्रीलक्षणे पुरुषलक्षणे अश्वलक्षणे हस्तिलक्षणे गोलक्षणे अजलक्षणे मिश्रलक्षणे कौटुभेश्वरलक्षणे निर्घण्टे निगमे पुराणे इतिहासे वेदे व्याकरणे निरुक्ते शिक्षायां छन्दस्विन्यां यज्ञकल्पे ज्योतिषे सांख्ये योगे क्रियाकल्पे वैशिके वैशेषिके अर्थविद्यायां बार्हस्पत्ये आम्भिर्ये आसुर्ये मृगपक्षिरुते हेतुविद्यायां जलयन्त्रे मधूच्छिष्टकृते सूचिकर्मणि विदलकर्मणि पत्रछेदे गन्धयुक्तौ - इत्येवमाद्यासु सर्वकर्मकलासु लौकिकादिषु दिव्यमानुष्यकातिक्रान्तासु सर्वत्र बोधिसत्त्व एव विशिष्यते स्म ॥ अथ खलु पुनस्तेन समयेन दण्डपाणिः शाक्यः स्वां दुहितरं गोपां शाक्यकन्यां बोधिसत्त्वाय प्रादात् । सा च राज्ञा शुद्धोदनेनानुपूर्वेण बोधिसत्त्वस्य वृताभूत् ॥ तत्र खल्वपि बोधिसत्त्वश्चतुरशीतिस्त्रीसहस्राणां मध्ये प्राप्तो लोकानुभवनतया रममाणं क्रीडयन्तं परिचारयन्तमात्मानमुपदर्शयति स्म । तासां चतुरशीते स्त्रीसहस्राणां गोपा शाक्यकन्या सर्वासामग्रमहिष्यभिषिक्ताभूत् ॥ तत्र खल्वपि गोपा शाक्यकन्या न कंचिद्दृष्ट्वा वदनं छादयति स्म श्वश्रूं वा श्वशुरं वान्तर्जनं वा । ते तामुपध्यायन्ति स्म, विचारयन्ति स्म - नववधूका हि नाम प्रतिलीना तिष्ठति, इयं पुनर्विवृतैव सर्वदा इति । ततो गोपा शाक्यकन्या एतां प्रकृतिं श्रुत्वा सर्वस्यान्तर्जनस्य पुरतः स्थित्वा इमा गाथा अभाषत - विवृतः शोभते आर्य आसनस्थानचंक्रमे । मणिरत्नं ध्वजाग्रे वा भासमानं प्रभास्वरम् ॥ १२.३४ ॥ (वैद्य १०९) गच्छन् वै शोभते आर्य आगच्छन्नपि शोभते । स्थितो वाथ निषण्णो वा आर्यः सर्वत्र शोभते ॥ १२.३५ ॥ कथयं शोभते आर्यस्तूष्णीभूतोऽपि शोभते । कलविङ्को यथा पक्षी दर्शनेन स्वरेण वा ॥ १२.३६ ॥ कुशचीरनिवस्तो वा मन्दचैलः कृशंतनुः । शोभतेऽसौ स्वतेजेन गुणवान् गुणभूषितः ॥ १२.३७ ॥ सर्वेण शोभते आर्यो यस्य पापं न विद्यते । कियद्विभूषितो बालः पापचारी न शोभते ॥ १२.३८ ॥ ये किल्बिषाः स्वहृदये मधुरासु वाचं कुम्भो विषस्मि परिषिक्तु यथामृतेन । दुस्पर्श शैलशिलवत्कठिनान्तरात्मा सर्पस्य वा विरसु दर्शन तादृशानाम् ॥ १२.३९ ॥ सर्वेषु ते नमिषु सर्वमुपैति सौम्याः सर्वेषु तिर्थमिव सर्वगोपजीव्याः । दधिक्षीरपूर्णघटतुल्य सदैव आर्या शुद्धात्मदर्शनु सुमङ्गलु तादृशानाम् ॥ १२.४० ॥ यैः पापमित्र परिवर्जित दीर्घरात्रं कल्याणमित्ररतनैश्च परिगृहीताः । पापं विवर्जयि निवेशयि बुद्धधर्मे सफलं सुमङ्गलु सुदर्शनु तादृशानाम् ॥ १२.४१ ॥ ये कायसंवृत सुसंवृतकायदोषाः ये वाचसंवृत सदानवकीर्णवाचः । गुप्तेन्द्रिया सुनिभृताश्च मनःप्रसन्नाः किं तादृशान वदनं प्रतिछादयित्वा ॥ १२.४२ ॥ वस्त्रा सहस्र यदि छादयि आत्मभावं चित्तं च येषु विवृतं न हिरी न लज्जा । न च येषु ईदृश गुणा नपि सत्यवाक्यं नग्ने विनग्नतर ते विचरन्ति लोके ॥ १२.४३ ॥ (वैद्य ११०) याश्चित्तगुप्त सततेन्द्रियसंयताश्च न च अन्यसत्त्वमनसा स्वपतीन तुष्टाः । आदित्यचन्द्रसदृशा विवृतप्रकाशा किं तादृशान वदनं प्रतिछादयित्वा ॥ १२.४४ ॥ अपि च - जानन्ति आशयु मम ऋषयो महात्मा परचित्तबुद्धिकुशलास्तथ देवसंघाः । यथ मह्य शीलगुणसंवरु अप्रमादो वदनावगुण्ठनमतः प्रकरोमि किं मे ॥ १२.४५ ॥ अश्रोषीद्भिक्षवो राजा शुद्धोदनो नाम गोपायाः शाक्यकन्याया इमामेवंरूपां सर्वां गाथां प्रतिभाननिर्देशम् । श्रुत्वा च पुनस्तुष्ट उदग्र आत्तमनाः प्रमुदितः प्रीतिसौमनस्यजातोऽनेकरत्नप्रत्युप्तेन दूष्ययुगेन कोटीशतसहस्रमूल्येन च मुक्ताहारेणाभिजातलोहितमुक्ताप्रत्युप्तया च सुवर्णमालया गोपां शाक्यकन्यामभिच्छाद्यैनमुदानमुदानयति स्म - यथा च पुत्रो मम भूषितो गुणैः तथा च कन्या स्वगुणा प्रभासते । विशुद्धसत्त्वौ तदुभौ समागतौ समेति सर्पिर्यथ सर्पिमण्डे ॥ १२.४६ ॥ इति ॥ (अनुपूर्वेण यथापूर्ववद्बोधिसत्त्वप्रमुखाः स्वपुरं प्रक्रामन्त ) ॥ इति श्रीललितविस्तरे शिल्पसंदर्शनपरिवर्तो नाम द्वादशमोऽध्यायः ॥ ______________________________________________________________________ परिवर्त १३ (वैद्य १११) संचोदनापरिवर्तस्त्रयोदशः । इति हि भिक्षव आत्मरुतहर्षमुदीरयन्त आगता आसन् बोधिसत्त्वस्यान्तःपुरमध्यगतस्य अनेकैर्देवैर्नागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगशक्रब्रह्मलोकपालाः, ये बोधिसत्त्वस्य पूजाकर्मणे औत्सुक्यमापत्स्यन्ते स्म ॥ तत्र भिक्षवो अपरेण समयेन संबहुलानां देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगशक्रब्रह्मलोकपालानामेतदभवत्- अतिचिरं बतायं सत्पुरुषोऽन्तःपुरे विलम्बितः । ये चास्येमे दीर्घरात्रं परिपाचिताः सत्त्वाश्चतुर्भिः संग्रहवस्तुभिर्दानेन प्रियवाक्येनार्थक्रियया समानार्थतया, यस्य बोधिप्राप्तस्य धर्मदेशितमाज्ञास्यन्ति, तत्सहैव च तानि धर्मभाजनानि सर्वाण्यन्तर्हितानि भविष्यन्ति । बोधिसत्त्वश्च पश्चादभिनिष्क्रम्यानुत्तरां सम्यक्संबोधिमभिसंभोत्स्यते ॥ ततस्ते सगौरवाः सप्रतीक्षाः प्राञ्जलीभूता बोधिसत्त्वं नमस्यन्ति स्म । एवमभिप्रायाश्चोदीक्षमाणाः स्थिता अभूवन् - कदा च नाम तद्भविष्यति यद्वयं वरप्रवरं शुद्धसत्त्वमभिनिष्क्रामन्तं पश्येम, अभिनिष्क्रम्य च तस्मिन्महाद्रुमराजमूलेऽभिनिषद्य सबलं मारं धर्षयित्वा अनुत्तरां सम्यक्संबोधिमभिसंबुद्धं दशभिस्तथागतबलैः समन्वागतं चतुर्भिश्च तथागतवैशारद्यैः समन्वागतमष्टादशभिश्चावेणिकैर्बुद्धधर्मैः समन्वागतं त्रिपरिवर्तं द्वादशाकारमनुत्तरं धर्मचक्रं प्रवर्तयन्तं महता बुद्धविक्रीडितेन सदेवमानुषासुरलोकं यथाधिमुक्त्या सुभाषितेन संतोषयन्तमिति ॥ तत्र भिक्षवो बोधिसत्त्वो दीर्घरात्रमसंख्येयान् कल्पानुपादाय सततं समितमपरप्रणेयोऽभूत् । सर्वलौकिकलोकोत्तरेषु धर्मेषु स्वयमेवाचार्यः सर्वकुशलमूलधर्मचर्यासु दीर्घकालं च कालज्ञो वेलाज्ञः समयज्ञोऽभूदच्युतोऽभिज्ञः पञ्चाभिज्ञाभिः समन्वागतोऽभूत् । ऋद्धिपादविक्रीडतः सर्वेन्द्रियकुशलः कालाकालज्ञः कालवेषी महासागर इव प्राप्तां वेलां नातिक्रामति स्म । सोऽभिज्ञज्ञानबलेन समन्वागतः स्वयमेव सर्वं जानाति स्म । अस्यायं कालः प्रग्रहस्य, अयं कालो निग्रहस्य, अयं कालः संग्रहस्य, अयं कालोऽनुग्रहस्य, अयं काल उपेक्षायाः, अयं कालो भाषितस्य, अयं कालस्तूष्णींभावस्य, अयं कालो निष्क्रम्यस्य, अयं कालः प्रव्रज्यायाः, अयं कालः स्वाध्यायस्य, अयं कालो योनिशोमनस्कारस्य, अयं कालः प्रविवेकस्य, अयं कालः क्षत्रियपर्षदमुपसंक्रमितुं.............पेयालं...............यावदयं कालो ब्राह्मणगृहपतिपर्षदमुपसंक्रमितुम्, अयं कालो देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगशक्रब्रह्मलोकपालभिक्षुभिक्षुण्युपासकोपासिकापर्षदमुपसंक्रमितुम्, अयं कालो धर्मदेशनायाः, अयं कालः प्रतिसंलयनस्य । सर्वत्र बोधिसत्त्वो नित्यकालं कालज्ञो भवति स्म कालवेषी ॥ (वैद्य ११२) अथ च पुनर्भिक्षवो धर्मताप्रतिलम्भ एष च चरमभाविकानां बोधिसत्त्वानां यदवश्यं दशदिग्लोकधातुस्थितैर्बुद्धैर्भगवद्भिरन्तःपुरमध्यगताः संगीतितूर्यनिर्नादितैरेभिरेवंरूपैर्धर्ममुखैः संचोदितव्या भवन्ति ॥ तत्रेदमुच्यते - ये सत्त्वाग्रा दशदिग्लोके तेषु विशेषात्तत्र रतितुरियैः । गाथा गीता इम रतिमधुरा संचोदेन्ती नरवरप्रवरम् ॥ १३.१ ॥ पूर्वि तुभ्यमयु कृतु प्रणिधी दृष्ट्वा सत्त्वान् दुःखशतभरितान् । लेनं त्राणं जगनिजशरणे भेष्ये नाथु हितकरु परमः ॥ १३.२ ॥ साधो वीरा स्मर चरि पुरिमां या ते आसीज्जगहितप्रणिधिः । कालो वेला अयु तव समयो निष्क्रम्याही ऋषिवरप्रवरा ॥ १३.३ ॥ यस्यार्थे ते धनवर विविधा त्यक्ता पूर्वे शिरकरचरणा । भेष्ये बुद्धो नरमरुदमको लोकस्याग्रो गुणशतनिचितः ॥ १३.४ ॥ त्वं शीलेन व्रततपचरितः त्वं क्षान्तीये जगहितकरणः । त्वं वीर्येणा शुभगुणनिचितो ध्याने प्रज्ञे न तु समु त्रिभवे ॥ १३.५ ॥ क्रोधाविष्टा खिलमलबहुला ते मैत्रीये त्वयि स्फुट सुगता । कारुण्यं ते बहुविधमबुधे मिथ्यात्वेषू शुभगुणरहिते ॥ १३.६ ॥ पुण्यज्ञाने शुभानिचितात्मा ध्यानाभिज्ञो प्रतपसि विरजो । ओभासेसी दश इम दिशतो मेघा मुक्तः शशिरिव विमलः ॥ १३.७ ॥ एते चान्ये बहुविध रुचिरा तूर्यैर्घोषां जिनरुतरवना । ये चोदेन्ती सुरनरमहितं निष्क्रम्याही अयु तव समयु ॥ १३.८ ॥ इति ॥ बोधिसत्त्वस्य खलु पुनर्भिक्षवस्तस्मिन् गृहवरप्रधाने सर्वोपकरणसमृद्धिसमुदिते यथाभिप्रायसुखविहारानुकूले अमरपुरभवनप्रकाशे वितर्दिनिर्यूहतोरणगवाक्षहर्म्यकूटागारप्रासादवरप्रवरे सर्वरत्नविचित्रालंकारविविधभक्तिसुविभक्ते उच्छ्रितछत्रध्वजपताकानेकरत्नकिङ्किणीजालसमलंकृते अनेकपट्ठदामशतसहस्राभिप्रलम्बिते नानारत्नप्रत्युप्ते मुक्ताहाराभिप्रलम्बिते विचित्रपट्टरत्नसंक्रमोपशोभिते अवसक्तपट्टमाल्यदामकलापे गन्धघटिकानिर्धूपिते अवश्यायपटविततवितानेसर्वर्तुकपुष्पपरमसुगन्धिसुरुचिराभिप्रकीर्णपुष्करिणीपुण्डरीकनवनलिनीजाल - संस्थानपरिभोगबहुले पत्रगुप्तशुकसारिककोकिलहंसमयूरचक्रवाककुनालकलविङ्कजीवजीवकादिनानाविधद्विजगणमधुर स्वरनिकूजितेनीलवैडूर्यमये धरणीतलसंस्थानपरिभोगे सर्वरूपप्रतिभाससंदर्शने अतृप्तनयनाभिरम्ये (वैद्य ११३) परमप्रीतिप्रामोद्यसंजनने तस्मिन् गृहवरप्रधानेऽध्यावसतो बोधिसत्त्वस्योदारवरशरणभवननिवासिनोऽमलविमलनिर्मलाङ्गस्यामुक्तमाल्याभरणस्य प्रवरसुरभिगन्धानुलेपनानुलिप्तगात्रस्य शुक्लशुभविमलविशुद्धनिर्मलवस्त्रप्रावृतशरीरस्य अनेकदिव्यदूष्यसूक्ष्मसुविन्यस्तमृदुकाचिलिन्दिकसुखसंस्पर्शवराङ्गरचितशयनतलाभिरूढस्य अमरवधूभिरिव सर्वतो अनवद्याप्रतिकूलदर्शनशुभोपचारचरितस्य अभिरूपान्तःपुरमध्यगतस्य शङ्खभेरीमृदङ्गपणवतुणववीणावल्लकिसंपताडकिपलनकुलसुघोषकमधुरवेणुनिर्नादितघोषरुतनानातूर्यसंगीतिसंप्रयोगप्रतिबोधितस्य ये च नारीगणाः स्निग्धमधुरमनोज्ञस्वरवेणुनिर्नादितनिर्घोषरुतेन बोधिसत्त्वं प्रतिसंबोधयन्ति स्म, तेषां दशदिगवस्थितानां बुद्धानां भगवतामधिस्थानेन तेभ्यो वेणुतूर्यनिनादनिर्घोषरुतेभ्य इमा बोधिसत्त्वस्य संचोदना गाथा निश्चरन्ति स्म - या नार्यो मुदितमनाः प्रसन्नचित्ता वेणुभ्यो मधुरमनोरमं रणन्ते । आवेशाद्दशदिग्गतां जिनोत्तमानां गाथेमा विविधविचित्रचित्ररूपाः ॥ १३.९ ॥ पूर्वे ते अयु (कृतु) प्रणिधी अभूषि वीरा दृष्ट्वेमां जनत सदा अनाथभूताम् । शोचिष्ये जरमरणात्तथान्यदुःखाद्बुद्धित्वा पदमजरं परमशोकम् ॥ १३.१० ॥ तत्साधो पुरवर इत शीघ्रं निष्क्रम्या पुरिमऋषिभि चीर्णम् । आक्रम्या धरणितलप्रदेशं संबुद्ध्या असदृशजिनज्ञानम् ॥ १३.११ ॥ पूर्वे ते धनरतन विचित्रा त्यक्ताभूत्करचरणप्रियात्मा । एषोऽद्या तव समयु महर्षे धर्मौघं जगि विभज अनन्तम् ॥ १३.१२ ॥ शीलं ते शुभ विमलखण्डं पूर्वान्ते वर सततमभूषी । शीलेनानतिसदृशु महर्षे शोचेही जगु विविधकिलेशैः ॥ १३.१३ ॥ (वैद्य ११४) क्षान्तीये भव शतचरितस्त्वं क्षान्तास्ते जगि विविध दुरुक्ताः । क्षान्ताये क्षमदमनिरतात्म नैष्क्रम्ये मति कुरु द्विपदेन्द्रा ॥ १३.१४ ॥ वीर्यं ते दृढमचलमकम्प्यं पूर्वान्ते पृथु सुगत अभूवन् । धर्षित्वा नमुचि शठं ससैन्यं शोषिष्ये त्रय सकलअपायात् ॥ १३.१५ ॥ यस्यार्थे व्रततप चरितस्त्वं ध्यायित्वा कलिकलुषकिलेशाम् । त्वं वर्षा अमृतजलमोघं तर्पेही चिरतृषित अनाथाम् ॥ १३.१६ ॥ तां पूर्वां गिरवरमनुचिन्त्या निष्क्रम्या पुरवर इत शीघ्रम् । बुद्धित्वा पदममृतमशोकं तर्पिष्ये अमृतरसि तृषार्ताम् ॥ १३.१७ ॥ प्रज्ञाया परिचरिकुशल त्वं ज्ञानं ते पृथु विपुलमनन्तम् । मूढानां विमतिपथस्थितानां प्रज्ञाभां शुभरुचिर कुरु त्वम् ॥ १३.१८ ॥ मैत्रायां भव शतचरितस्त्वं कारूण्ये वर मुदित उपेक्षे । यामेवा वरचरि चरितस्त्वं तामेवा चरिं विभज जगस्य ॥ १३.१९ ॥ एवं दश दिश जिनतेजैर्गाथा वै गुणकुसुमविचित्राः । तूर्येभ्यो विविधमनुरवन्ते चोदेन्ती शयनगतकुमारम् ॥ १३.२० ॥ यद पुन प्रमुदित रतिकर प्रमदा सुरुचिर सुमधुर प्रभणिषु तुरियैः । (वैद्य ११५) अथ जिन दशदिशि सुरनरदमकाः गिरवरमनुरवि ततु रवि तुरियैः ॥ १३.२१ ॥ कृत त्वयि हितकर बहुगुण जनतो निजिनितु निजगुण विचरति गतिषू । स्मर स्मर पुरिमक ब्रततपचरण लघु व्रज द्रुमवरु स्पृश पदममृतम् ॥ १३.२२ ॥ सुतृषित नरमरु जिनगुणरहिता त्वयि मति प्रतिबलु अमृतरसददा । दशबलगुणधर बुधजनमहितं लघु त्वयि नरपति विभजहि अमृतम् ॥ १३.२३ ॥ त्यजि त्वयि पुरि भवि धनमणिकनका सखि प्रिय सुत महि सनगरनिगमा । शिरमपि त्यजि स्वकु करचरनयना जगति य हितकरु जिनगुणनिरता ॥ १३.२४ ॥ पुरि तुम नरवरसुतु नृपु यदभू नरु तव अभिमुख इम गिरमवची । दद मम इम महि सनगरनिगमां त्यजि तद प्रमुदितु न च मनु क्षुभितो ॥ १३.२५ ॥ पुरि तुम नरपति स्वकु द्विज यदभू गुरुजनि परिचरि न च द्रुहि परतो । स्थपयिसु द्विजवर बहुजन कुशले च्युतु ततु भवगतु मरुपुरनिलयम् ॥ १३.२६ ॥ पुरि तुम नृपसुत ऋषिवरु यदभू छिनि तव तनुरुह कलिनृपु रुषितो । कृत त्वयि कुलक्रिय न च मनु क्षुभितो पयु तव स्रवि तद करतलचरणैः ॥ १३.२७ ॥ स्यमु पुन ऋषिसुत त्वयि पुरि यदभू व्रतरतु गुरुभरु गिरिवरनिलये । हत भव नृपतिन विषकृत ईषुणा कृप तव तहि नृप न च मनु क्षुभितो ॥ १३.२८ ॥ (वैद्य ११६) पुरि तुम गुणधर मृगपति यदभू गिरिनदिबहुजलि दुयमनु पुरुषो । हित भव त्वयि नरु स्थलपथि स्थपितो उपनयि तव अरि न च मनु क्षुभितो ॥ १३.२९ ॥ पुरि तुम नरवर त्यजि सुतु यदभू मणि तव प्रपतितु जलधरि विपुले । च्यवयितु क्षपयितु त्वय महौदधिं लभि तद धनमणि दृढबल वषभी ॥ १३.३० ॥ पुरि तुम सुपुरुष ऋषिवरु यदभू द्विज तव उपगतु भव मम शरणम् । भणि ऋषि द्विजवर मम रिपुउपने त्यजि त्वय स्वकि तनु न च द्विज त्यजसे ॥ १३.३१ ॥ स्यमु ऋषि उपगतु पुरि द्रुमनिलये रुचि भणि तरुरुह कति इम गणये । सुविदित सुगणित यथ तहि किशला तथ तव अवितथ समगिर रचिता ॥ १३.३२ ॥ सुकुल सुगुणधर पुरि द्रुमि वसतो क्षयगतु न च त्यजि कृतु स्मरि पुरिमम् । मरुपति प्रमुदितु तव गुण स्मरतो श्रियकरि द्रुमवरि यथरिव पुरिमा ॥ १३.३३ ॥ इति तव असदृश व्रततपचरणा बहुगुण गुणधर गुणपथि चरतो । त्यजि महि सनगरि अयु तव समयो लघु जगु स्थपयहि जिनगुणचरणे ॥ १३.३४ ॥ यद प्रमदरतना शुभवस्त्रा भूषितगात्रा वरप्रवरु तुरिया सुमनोज्ञा संप्रभणीषु । अथ दशसू दिशतो जिनतेजैर्गाथ विचित्रा इति रविषू मधुरा रुतघोषा तूर्यस्वरेभ्यः ॥ १३.३५ ॥ (वैद्य ११७) तव प्रणिधी पुरिमे बहुकल्पां लोकप्रदीपा जरमरणग्रसिते अहु लोके त्राणु भविष्ये । स्मर पुरिमप्रणिधिं नरसिंहा या ति अभूषी अयु समयो त्वमिहा द्विपदेन्द्रा निष्क्रमणाय ॥ १३.३६ ॥ भवनयुते त्वमिहा बहुदानं दत्तमनेकं धनकनका रतना शुभवस्त्रा रत्नविचित्रा । करचरणा नयना प्रियपुत्रा राज्य समृद्धं त्वयि त्यजितं न च ते खिलदोषा याचनकेषु ॥ १३.३७ ॥ शिशुनृपति त्वमिहा शशिकेतो आसि सुदंष्ट्रो कृप करुणामनसो मणिचूडो चन्द्रप्रदीपः । इति प्रमुखा करिया दृढशूरो राजसुनेत्रो बहु नृपति नयुता रत दाने त्वं सविकुर्वन् ॥ १३.३८ ॥ तव सुगता चरितो बहुकल्पां शीलचरीये मणिरत्ना विमला सदृशाभूच्छीलविशुद्धिः । त्वयि चरता चमरी यथ बालं रक्षितु शीलं कृतु त्वमिहा जगति विपुलार्थं शीलरतेना ॥ १३.३९ ॥ गजवरु त्वमिहा रिपुलुब्धे विद्धु इषूणा कृप करुणा जनिया अतिरौद्रे छादितु शोभे । परित्यजि ते रुचिरा शुभदन्ता न च त्यजि शीलमिति प्रमुखा करिया बहु तुभ्यं शीलविकुर्वी ॥ १३.४० ॥ त्वयि सहिता जगतोऽहित अनेका दुःखसहस्रा बहुकटुकावचनं वधबन्धा क्षान्तिरतेना । परिचारित पुरिमे नर ये ते सर्वसुखेना पुन वधकास्तव तेह अभूवन् तच्च ति क्षान्तम् ॥ १३.४१ ॥ गिरिप्रवरानिलये तुम नाथा ऋक्षु यदासी हिमकिरणा सलिला भयभीतं त्वं नरु गृह्य । परिचरसि विविधा फलमूलैः सर्वसुखेना लघु वधकां स तवा उपनेत्री तं च ति क्षान्तम् ॥ १३.४२ ॥ (वैद्य ११७) दृढु संस्थितमचलमकम्प्यं वीर्यु तवासीत् व्रततपसा विविधा गुणज्ञानमेषत बोधिम् । कृतु अबलो नमुची वशवर्ती वीयबलेना अयु समयो त्वमिहा नरसिंहा निष्क्रमणाय ॥ १३.४३ ॥ हयप्रवरू त्वमिहा पुरि आसी हेमसुवर्णो लघु गगने वज्रसे कृपजातो राक्षसिद्वीपम् । व्यसनगत मनुजां तद गृह्या क्षेमि थपेसी इति प्रमुखा करिया बहु तुभ्यं वीर्यविकुर्वा ॥ १३.४४ ॥ दमशमथेः नियमाहतक्लेशा ध्यायिन अग्रा लघु चपलं विषयै रतिलोलं चित्तु दमित्वा । कृतु स्वगुणो त्वमिहा जगतोऽर्थे ध्यानरतेना अयु समयो त्वमिहा वरसत्त्वा ध्यानविकुर्वा ॥ १३.४५ ॥ त्वं पुरिमे ऋषि सुस्थितु आसी ध्यानरतीये नृपरहिता मनुजा त्वमु गृह्या राज्यभिषिञ्ची । दशकुशली जनिता थपिता ते ब्रह्मपथेषु च्युत मनुजा व्रजिषू तद सर्वे ब्रह्मनिकेतम् ॥ १३.४६ ॥ दिशिविदिशि विविधागतिज्ञाने त्वं सुविधिज्ञो परचरिता जगति रुतज्ञाने इन्द्रियज्ञाने । नयविनये विविधामतिधारे पारगतस्त्वमयु समयो त्वमिहा नृपसूनो निष्क्रमणाय ॥ १३.४७ ॥ त्वयि पुरिमा जनता इम दृष्ट्वा दृष्टिविपन्ना जरमरणा विविधा बहुदुःखे कृछ्रगता हि । भवविभवंकरणो ऋजुमार्गे स्वामनुबद्धा हततमस त्वमिहा कृतु लोके अर्थु महन्तो ॥ १३.४८ ॥ इति विविधा रुचिरा गुणयुक्ता गाथ विचित्रा ततु रविषु तुरियेभी जिनतेजा चोदयि वीरम् । दुःखभरितजनते इह दृष्ट्वा मा त्वमुपेक्षा अयु समयो त्वमिहा वरबुद्धे निष्क्रमणाय ॥ १३.४९ ॥ (वैद्य ११९) विचित्रवस्त्ररत्नहारगन्धमाल्यभूषिता प्रसन्नचित्त प्रेमजात नारियो प्रहर्षिता । प्रबोधयन्ति येऽग्रसत्त्व तूर्यसंप्रवादितैः जिनानुभावि एकरूप गाथ तूर्य निश्चरी ॥ १३.५० ॥ यस्यार्थि तुभ्य कल्प नैक त्यक्तु त्याग दुस्त्यजा सुचीर्ण शीलु क्षान्ति वीर्य ध्यान प्रज्ञ भाविता । जगद्धितार्थ सो ति कालु सांप्रतमुपस्थितो नैष्क्रम्यबुद्धि चिन्तयाशु मा विलम्ब नायक ॥ १३.५१ ॥ त्युक्तु पूर्वि रत्नकोश स्वर्णरूप्यभूषणा यष्टा ति यज्ञ नैकरूप तासु तासु जातिषु । त्यक्त भार्य पुत्र धीत कायु राज्यु जीवितं बोधिहेतुरप्रमेय त्यक्तुःदुस्त्यजा त्वया ॥ १३.५२ ॥ अभूषि त्वमदीनपुण्य राज विश्रुतश्रियो निमिंधरो निमिश्च कृष्ण(बन्धु) ब्रह्मदत्त केसरी । सहस्रयज्ञ धर्मचिन्ति अर्चिमान् दृढधनु सुचिन्तितार्थ दीनसत्त्व येःति त्यक्त दुस्त्यजा ॥ १३.५३ ॥ सुतसोम दीप्तवीर्य पुण्यरश्मि यो सोऽभू महत्यागवन्तु स्थामवन्तु यः कृतज्ञ त्वमभूः । राजर्षि चन्द्ररूपवन्तु शूर सत्यवर्धनो सुभाषितंगवेषि राजि असि सुमतिं च सूरतो ॥ १३.५४ ॥ चन्द्रप्रभो विशेषगामि रेणुभू दिशांपति प्रदानशूर काशिराजु रत्नचूड शान्तगः । एति चान्यि पार्थिवेन्द्र येभि त्यक्त दुस्त्यजा यथा ति वृष्ट त्यागवृष्टि एष धर्म वर्षही ॥ १३.५५ ॥ दृष्टा ति पूर्विं सत्त्वसार गङ्गवालुकोपमा कृता ति तेष बुद्धपूज अप्रमेयचिन्तिया । वराग्रबोधि एषमाण सत्त्वमोक्षकारणादू अयं स कालु प्राप्तु सूरु निष्क्रमा पुरोत्तमात् ॥ १३.५६ ॥ (वैद्य १२०) प्रथमेन ते अमोघदर्शि शालपुष्पपूजितो विरोचनः प्रसन्नचित्त प्रेक्षितः क्षणान्तरम् । हरीतकी च एक दत्त दुन्दुभिस्वराय ते तृणोत्थ गृह्य धारिता ति दृष्ट चन्दनं गृहम् ॥ १३.५७ ॥ पुरप्रवेशि रेणु दृष्ट क्षिप्तु चूर्णमुष्टिका धर्मेश्वराय साधुकारु दत्तु धर्म भाषतो । नमो नमः समन्तदर्शि दृष्ट वाच भाषिता महार्चिस्कन्धि स्वर्णमाल क्षिप्त हर्षितेन ते ॥ १३.५८ ॥ धर्मध्वजो दशाप्रदानि रोधु मुङ्ग मुष्टिना अशोकपुष्पि ज्ञानकेतु य्वागुपान सारथिः । रत्नशिखी च दीपदानि पद्मयोनि ओषधी सर्वाभिभूश्च मुक्तहारि पद्मदानि सागरो ॥ १३.५९ ॥ वितानदानि पद्मगर्भि सिंहु वर्षसंस्तरे शालेन्द्रराज सर्पिदानि क्षीरत्यागि पुष्पिती । यशोदत्तु कुरुण्टपुष्पि सत्यदर्शि भोजने कायु प्रणामि ज्ञानमेरु नागदत्तु चीवरे ॥ १३.६० ॥ अत्युच्चगामि चन्दनाग्रि तीक्ष्णलोहमुष्टिना महावियूह पद्मदानि रश्मिराज रत्नभिः । शाक्यमुनि च सुवर्णमुष्टि इन्द्रकेतु संस्तुतो सूर्याननो वतंसके हि स्वर्णपट्टि सूमती ॥ १३.६१ ॥ नागाभिभू मणिप्रदानि पुष्य दूष्यसंस्तरे भैषज्यराजु रत्नछत्रि सिंहकेतु आसने । गुणाग्रधारि रत्नजालि सर्ववादि काश्यपो गन्धाग्रि चूर्णि मुक्त अर्चिकेतु पुष्पचैत्यके ॥ १३.६२ ॥ अक्षोभ्यराज कूटागारि माल्य लोकपूजितो तगरशिखि च राज्यत्यागि सर्वगन्धि दुर्जयो । महाप्रदीप आत्मत्यागि भूषणे पद्मोत्तरो विचित्रपुष्पि धर्मकेतु दीपकारि उत्पलैः ॥ १३.६३ ॥ (वैद्य १२१) एति चान्यि सत्त्वसार ये ति पूर्व पूजिता नानारूप विचित्र पूज अन्यजन्यकुर्वता । स्मराहि ते अतीत बुद्ध ता च पूज शास्तुनामनाथसत्त्व शोकपूर्ण मा उपेक्षि निष्क्रमा ॥ १३.६४ ॥ दीपंकरेति दृष्टमात्रि लब्ध क्षान्ति उत्तमा अभिज्ञ पञ्च अच्युता ति लब्ध आनुलोमिका । अतोत्तरेण एकमेक बुद्ध पूजचिन्तिया प्रवर्तिता असंख्यकल्प सर्वलोकधातुषू ॥ १३.६५ ॥ क्षीणा ति कल्प अप्रमेय ते च बुद्ध निर्वृता तवापि सर्व आत्मभावि ते च नाम क्व गता । क्षयान्तधर्मि सर्वि भावु नास्ति नित्यु संस्कृते अनित्य काम राज्यभोग निष्क्रमा पुरोत्तमात् ॥ १३.६६ ॥ जरा च व्याधि मृत्यु एन्ति दारुणा महाभया हुताशनो व उग्रतेज भीम कल्पसंक्षये । क्षयान्तधर्मि सर्वि भावु नास्ति नित्यु संस्कृते सुकृच्छ्र प्राप्त सत्त्व* * निष्क्रमा गुणंधरा ॥ १३.६७ ॥ यद नारिगणस्तुणवेणुरवैः विविधैस्तुरियैः प्रतिबोधयिषु । सुखशयनगतं मनुजाधिपतिं तद तूर्यरवो अयु निश्चरते ॥ १३.६८ ॥ ज्वलितं त्रिभवं जरव्याधिदुखैः मरणाग्निप्रदीप्तमनाथमिदम् । भवनि शरणे सद मूढ जगत्भ्रमती भ्रमरो यथ कुम्भगतो ॥ १३.६९ ॥ अध्रुवं त्रिभवं शरदभ्रनिभं नटरङ्गसमा जगि रूर्मिचुती । गिरिनद्यसमं लघुशीघ्रजवं व्रजतायु जगे यथ विद्यु नभे ॥ १३.७० ॥ (वैद्य १२२) भुवि देवपुरे त्रिअपायपथे भवतृष्णअविद्यवशा जनता । परिवर्तिषु पञ्चगतिष्वबुधाः यथ कुम्भकरस्य हि चक्रभ्रमी ॥ १३.७१ ॥ प्रियरूपवरैः सह स्निग्धरुतैः शुभगन्धरसै वरस्पर्शसुखैः । परिषिक्तमिदं कलिपाश जगत्मृगलुब्धकपाशि यथैव कपि ॥ १३.७२ ॥ सभया सरणाः सद वैरकराः बहुशोक उपद्रव कामगुणाः । असिधारसमा विषपत्रनिभा जहितार्यजनैर्यथ मीढघटाः ॥ १३.७३ ॥ स्मृतिशोककरास्तमसीकरणाः भयहेतुकरा दुखमूल सदा । भवतृष्णलताय विवृद्धिकराः सभया सरणा सद कामगुणाः ॥ १३.७४ ॥ यथ अग्निखदा ज्वलिता सभया तथ काम इमे विदितार्यजनः । महपङ्कसमा असिसुन्धुसमाः मधुदिग्ध इव क्षुरधार यथा ॥ १३.७५ ॥ यथ सर्पिसरो यथ मीढघटाः तथ काम इमे विदिता विदुषाम् । तथ शूलसमा द्विजपेशिसमाः यथ श्वान करङ्क सवैरमुखाः ॥ १३.७६ ॥ उदचन्द्रसमा इमि कामगुणाः प्रतिबिम्ब इव गिरिघोष यथा । प्रतिभाससमा नटरङ्गसमाः तथ स्वप्नसमा विदितार्यजनैः ॥ १३.७७ ॥ (वैद्य १२३) क्षणिका वशिका इमि कामगुणाः तथ मायमरीचिसमा अलिकाः । उदबुद्बुदफेनसमा वितथा परिकल्पसमुछित बुद्ध बुधैः ॥ १३.७८ ॥ प्रथमे वयसे वररूपधरः प्रिय इष्ट मतो इय बालचरी । जरव्याधिदुखै हततेजवपुं विजहन्ति मृगा इव शुष्कनदीम् ॥ १३.७९ ॥ धनधान्यवरो बहुद्रव्यबली प्रिय इष्ट मतो इय बालचरी । परिहीनधनं पुन कृच्छ्रगतं विजहन्ति नरा इव शून्यटवीम् ॥ १३.८० ॥ यथ पुष्पद्रुमो सफलेव द्रुमो नरु दानरतस्तथ प्रीतिकरो । धनहीन जरार्तितु याचनको भवते तद अप्रियु गृध्रसमः ॥ १३.८१ ॥ प्रभु द्रव्यबली वररूपधरः प्रियसंगमनेन्द्रियप्रीतिकरो । जरव्याधिदुखार्दितु क्षीणधनो भवते तद अप्रियु मृत्युसमः ॥ १३.८२ ॥ जरया जरितः समतीतवयो द्रुम विद्युहतेव यथा भवति । जरजीर्ण अगारु यथा सभयो जरनिःसरणं लघु ब्रूहि मुने ॥ १३.८३ ॥ जर शोषयते नरनारिगणं यथ मालुलता घनशालवनम् । जर वीर्यपराक्रमवेगहरी जर पङ्कनिमग्न यथा पुरुषो ॥ १३.८४ ॥ जर रूपसुरूपविरूपकरी जर तेजहरी बलस्थामहरी । (वैद्य १२४) सद सौख्यहरी परिभावकरी जर मृत्युकरी जर ओजहरी ॥ १३.८५ ॥ बहुरोगशतै घनव्याधिदुखैः उपसृष्ट जगज्ज्वलतेव मृगाः । जरव्याधिगतं प्रसमीक्ष्व जगत्दुखनिःसरणं लघु देशयही ॥ १३.८६ ॥ शिशिरे हि यथा हिमधातु महान् तृणगुल्मवनौषधिओजहरो । तथ ओजहरो अहु व्याधिजरो परिहीयति इन्द्रिय रूप बलम् ॥ १३.८७ ॥ धनधान्यमहार्थक्षयान्तकरो परितापकरः सहव्याधिजरो । प्रतिघातकरः प्रियु द्वेषकरः परिदाहकरो यथ सूर्य नभे ॥ १३.८८ ॥ मरणं चवनं चुति कालक्रिया प्रियद्रव्यजनेन वियोगु सदा । अपुनागमनं च असंगमनं द्रुमपत्रफला नदिस्रोत यथा ॥ १३.८९ ॥ मरणं वशितामवशीकुरुते मरणं हरते नदि दारु यथा । असहायु नरो व्रजतेऽद्वितियो स्वककर्मफलानुगतो विवशः ॥ १३.९० ॥ मरणो ग्रसते बहुप्राणिशतं मकरेव जला हरि भूतगणम् । गरुडो उरगं मृगराजु गजं ज्वलनेव तृणोषधिभूतगणम् ॥ १३.९१ ॥ इम ईदृशकै बहुदोषशतैः जगु मोचयितुं कृत या प्रणिधि । स्मर तां पुरिमां प्रणिधानचरीमयु कालु तवा अभिनिष्क्रमितुम् ॥ १३.९२ ॥ (वैद्य १२५) यद नारिगणः प्रहर्षितो बोधयती तुरियैर्महामुनिम् । तद गाथ विचित्र निश्चरी तूर्यशब्दात्सुगतानुभावतः ॥ १३.९३ ॥ लघु तद्भञ्जति सर्वसंस्कृतमचिरस्थायि नभेव विद्यतः । अयु कालु तवा उपस्थितः समयो निष्क्रमणाय सुव्रत ॥ १३.९४ ॥ संस्कार अनित्य अध्रुवाः आमकुम्भोपम भेदनात्मकाः । परकेरक याचितोपमाः पांशुनगरोपम तावकालिकाः ॥ १३.९५ ॥ संस्कार प्रलोपधर्मिमे वर्षकालि चलितं च लेपनम् । नदिकूल इवा सवालुकं प्रत्ययाधीन स्वभावदुर्बलाः ॥ १३.९६ ॥ संस्कार प्रदीपअचिवत्क्षिप्रौत्पत्तिनिरोधधर्मिकाः । अनवस्थित मारुतोपमाः फेनपिण्डवे असार दुर्बलाः ॥ १३.९७ ॥ संस्कार निरीह शून्यकाः कदलीस्कन्धसमा निरीक्षतः । मायोपम चित्तमोहना बालौल्लापन उक्त मुष्टिवत् ॥ १३.९८ ॥ हेतूभि च प्रत्ययेभि चा सर्वसंस्कारगतं प्रवर्तते । अन्योन्य प्रतीत्य हेतुतः तदिदं बालजनो न बुध्यते ॥ १३.९९ ॥ यथ मुञ्ज प्रतीत्य बल्वजं रज्जु व्यायामबलेन वर्तिता । (वैद्य १२६) घटियन्त्र सचक्र वर्तते एष एकैकश नास्ति वर्तना ॥ १३.१०० ॥ तथ सर्वभवाङ्गवर्तिनी अन्यमन्योपचयेन निश्रिता । एकैकश तेषु वर्तिनी पूर्वपरान्तत नोपलभ्यते ॥ १३.१०१ ॥ बीजस्य सतो यथाङ्कुरो न च यो बीज स चैव अङ्कुरो । न च ततो न चैव ततेवमनुच्छेद अशाश्वत धर्मता ॥ १३.१०२ ॥ संस्कार अविद्यप्रत्ययाः ते संस्कारे न सन्ति तत्त्वतः । संस्कार अविद्य चैव हि शून्य एके प्रकृतीनिरीहकाः ॥ १३.१०३ ॥ मुद्रात्प्रतिमुद्र दृश्यते मुद्रसंक्रान्ति न चोपलभ्यते । न च तत्र न चैव शाश्वतो एव संस्कारानुच्छेदशाश्वताः ॥ १३.१०४ ॥ चक्षुश्च प्रतीत्य रूपतः चक्षुविज्ञानमिहोपजायते । न च चक्षुषि रूप निश्रित रूपसंक्रान्ति न चैव चक्षुषि ॥ १३.१०५ ॥ नैरात्म्यशुभाश्च धर्मिमे पुनरात्मेति शुभाश्च कल्पिताः । विपरीतमसद्विकल्पितं चक्षुविज्ञान ततोपजायते ॥ १३.१०६ ॥ विज्ञाननिरोधसंभवं विज्ञानोत्पादव्ययं विपश्यति । अकहिं च गतमनागतं शून्य मायोपम योगि पश्यति ॥ १३.१०७ ॥ (वैद्य १२७) अरणिं यथ चोत्तरारणिं हस्तव्यायाम त्रयेभि संगति । इति प्रत्ययतोऽग्नि जायते जातु कृतार्थु लघु निरुध्यते ॥ १३.१०८ ॥ अथ पण्डितु कश्चि मार्गते कुतयमागतु कुत्र याति वा । विदिशो दिशि सर्वि मार्गतो नागति नास्य गतिश्च लभ्यते ॥ १३.१०९ ॥ स्कन्धधात्वायतनानि धातवः तृष्ण अविद्या इति कर्मप्रत्यया । सामग्रि तु सत्त्वसूचना स च परमार्थतु नोपलभ्यते ॥ १३.११० ॥ कण्ठोष्ठ प्रतीत्य तालुकं जिह्वापरिवर्ति अक्षरा । न च कण्ठगता न तालुके अक्षरैकैक तु नोपलभ्यते ॥ १३.१११ ॥ सामग्रि प्रतीत्यतश्च सा वाचमनबुद्धिवशेन निश्चरी । मन वाच अदृश्यरूपिणी बाह्यतोऽभ्यन्तर नोपलभ्यते ॥ १३.११२ ॥ उत्पादव्ययं विपश्यतो वाच रुतघोषस्वरस्य पण्डितः । क्षणिकां वशिकां तदा दृशी सर्वा वाच प्रतिश्रुतकोपमाम् ॥ १३.११३ ॥ यथ तन्त्रि प्रतीत्य दारू च हस्तव्यायाम त्रयेभि संगति । तुणवीणसुघोषकादिभिः शब्दो निश्चरते तदुद्भवः ॥ १३.११४ ॥ अथ पण्डितु कश्चि मार्गते कुतयमागतु कुत्र याति वा । (वैद्य १२८) विदिशो दिशि सर्वि मार्गतः शब्दगमनागमनं न लभ्यते ॥ १३.११५ ॥ तथ हेतुभि प्रत्ययेभि च सर्वसंस्कारगतं प्रवर्तते । योगी पुन भूतदशनात्शून्य संस्कार निरीह पश्यति ॥ १३.११६ ॥ स्कन्धायतनानि धातवः शून्य अध्यात्मिक शून्य बाह्यकाः । सत्त्वात्मविविक्तमनालया धर्माकाशस्वभावलक्षणाः ॥ १३.११७ ॥ इय ईदृश धर्मलक्षणा बुद्ध दीपंकर दर्शने त्वया । अनुबुद्ध स्वयं यथात्मना तथ बोधेहि सदेवमानुषाम् ॥ १३.११८ ॥ विपरीतअभूतकल्पितैः रागदोषैः परिदह्यते जगत् । कृपमेघसमाम्बुशीतलां मुञ्च धाराममृतस्य नायका ॥ १३.११९ ॥ त्वयि यस्य कृतेन पण्डिता दत्तु दानं बहुकल्पकोटिषु । संप्राप्य हि बोधिमुत्तमामार्यधनसंग्रह करिष्य प्राणिनाम् ॥ १३.१२० ॥ तां पूर्वचरीमनुस्मरा नार्य धनहीन दरिद्र दुःखिताम् । मा उपेक्षहि सत्त्वसारथे आर्यधनसंग्रहि तेषु कुर्वहि ॥ १३.१२१ ॥ त्वयि शील सदा सुरक्षितं पिथनार्थाय अपायभूमिनाम् । स्वर्गामृतद्वारमुत्तमां दर्शयिष्ये बहुसत्त्वकोटिनाम् ॥ १३.१२२ ॥ (वैद्य १२९) तां पूर्वचरीमनुस्मरा बद्ध्वा द्वार निरयाय भूमिनाम् । स्वर्गामृतद्वार मुञ्चही ऋद्ध्यहि शीलवतो विचिन्तितम् ॥ १३.१२३ ॥ त्वयि क्षान्ति सदा सुरक्षिता प्रतिघक्रोधशमार्थ देहिनाम् । भावार्णव सत्त्व तारिया स्थापयिष्ये शिवि क्षेमि निर्ज्वले ॥ १३.१२४ ॥ तां पूर्वचरीमनुस्मरा वैरव्यापादविहिंसआकुलाम् । मा उपेक्ष विहिंसचारिणः क्षान्तिभूमीय स्थपे इमं जगत् ॥ १३.१२५ ॥ त्वयि वीर्य यदर्थ सेवितं धर्मनावं समुदानयित्वना । उत्तार्य जगद्भवार्णवात्थपयिष्ये शिवि क्षेमि निर्ज्वले ॥ १३.१२६ ॥ तां पूर्वचरीमनुस्मरा चतुरोघैरिव मुह्यते जगत् ॥ लघु वीर्यबलं पराक्रमा सत्त्व संतारयही अनायकाम् ॥ १३.१२७ ॥ त्वय ध्यानकिलेशध्येषणा भाविता यस्य कृतेन सूरता । भ्रान्तेन्द्रिय प्राकृतेन्द्रियां क्वपि चित्तार्यपथे स्थपेष्यहम् ॥ १३.१२८ ॥ तां पूर्वचरीमनुस्मरा क्लेशजालैरिहमाकुलं जगत् । मा उपेक्षहि क्लेशुपद्रुतां ध्यानैकाग्रि स्थपेहिमां प्रजाम् ॥ १३.१२९ ॥ (वैद्य १३०) त्वयि प्रज्ञ पुरा सुभाविता मोहविद्यान्धतमोवृते जगे । बहुधर्मशताभिलोकने दास्ये चक्षुषि तत्त्वदर्शनम् ॥ १३.१३० ॥ तां पूर्वचरीमनुस्मरा मोहविद्यान्धतमोवृते जगे । ददही वरप्रज्ञ सुप्रभा धर्मचक्षुं विमलं निरञ्जनम् ॥ १३.१३१ ॥ इयमीदृश गाथ निश्चरी तूर्यसंगीतिरवातु नारिणाम् । यं श्रुत्व मिद्धं विवर्जिया चित्तु प्रेषेति वराग्रबोधये ॥ १३.१३२ ॥ इति ॥ इति हि भिक्षवोऽन्तःपुरमध्यगतो बोधिसत्त्वोऽविरहितोऽभूद्धर्मश्रवणेन, अविरहितोऽभूद्धर्ममनसिकारेण । तकस्माद्धेतोः? तथा हि भिक्षवो बोधिसत्त्वो दीर्घरात्रं सगौरवोऽभूत् । धर्मेषु धर्मभाणकेषु चाध्याशयेन धर्मार्थिको धर्मकामो धर्मरतिरतोऽभूत् । धर्मपर्येष्ट्यतृप्तो यथाश्रुतधर्मसंप्रकाशकः, अनुत्तरो महाधर्मदानपतिः, निरामिषधर्मदेशको धर्मदानेनामत्सरः, आचार्यमुष्टिविगतो धर्मानुधर्मप्रतिपन्नो धर्मप्रतिपत्तिशूरः, धर्मलयनो धर्मत्राणो धर्मशरणो धर्मप्रतिशरणो धर्मपरायणः धर्मनिध्याप्तिः क्षान्तिनिर्यातः प्रज्ञापारमिताचरित उपायकौशल्यगतिं गतः ॥ तत्र भिक्षवो बोधिसत्त्वो महोपायकौशल्यविक्रीडितेन सर्वान्तःपुरस्य यथाधिमुक्त्या ईर्यापथमुपदर्श्य, पौर्विकाणां च बोधिसत्त्वानां लोकविषयसमतिक्रान्तानां लोकानुवर्तनक्रियाधर्मतामनुवर्त्य, दीर्घरात्रं सुविदितकामदोषः सत्त्वपरिपाकवशादकामात्कामोपभोगं संदर्श्य, अपरिमितकुशलमूलोपचयपुण्यसंभारबलविशेषणासदृशीं लोकाधिपतेयतां संदर्श्य, देवमनुष्यातिक्रान्तं सारोदारविविधविचित्ररूपशब्दगन्धरसस्पर्शपरमरतिरमणीयं कामरतिरसौख्यमुपदर्श्य, सर्वकामरतिस्वविषयेष्वपर्यन्तत्वात्स्वचित्तवशवर्तितां संदर्श्य, पूर्वप्रणिधानबलसहायकुशलमूलोपचितान् सत्त्वान् समानसंवासतया परिपाच्य, सर्वलोकसंक्लेशमलासंक्लिष्टचित्ततयान्तःपुरमध्यगतो यथाभिनिमन्त्रितस्य सत्त्वधातोः परिपाककालमवेक्षमाणो भूयस्या मात्रया बोधिसत्त्वस्तस्मिन् समये पूर्वप्रतिज्ञामनुस्मरति स्म, बुद्धधर्मांश्चामुखीकरोति स्म, प्रणिधानबलं चाभिनिर्हरति स्म । सत्त्वेषु च महाकरुणामवक्रामति स्म । सत्त्वप्रमोक्षं च चिन्तयति स्म । सर्वसंपदो विपत्तिपर्यवसाना इति प्रत्यवेक्षते स्म । अनेकोपद्रवभयबहुलं च संसारमुपपरीक्षते (वैद्य १३१) स्म । मारकलिपाशांश्च संछिनत्ति स्म । संसारप्रबन्धाच्चात्मानमुच्चारयति स्म । निर्वाणे च चित्तं संप्रेषयति स्म ॥ तत्र भिक्षवो बोधिसत्त्वः पूर्वान्तत एव सुविदितसंसारदोषः संस्कृतेनाध्याशयेनानर्थिकः सर्वोपादानपरिग्रहैरनर्थिको बुद्धधर्मनिर्वाणाभिमुखः संसारपराङ्मुखस्तथागतगोचराभिरतः मारविषयगोचरासंसृष्टः आदीप्तभवदोषदर्शी त्रैधातुकान्निःशरणाभिप्रायः संसारदोषादीनवनिःसरणकुशलः प्रव्रज्याभिलाषी निष्क्रमणाभिप्रायो विवेकनिम्नो विवेकप्रवणो विवेकप्राग्भारः आरण्यप्रारण्याभिमुखः प्रविवेकप्रशमाभिकाङ्क्षी आत्मपरहितप्रतिपन्नः अनुत्तरप्रतिपत्तिशूरो लोकस्यार्थकामो हितकामः सुखकामो योगक्षेमकामो लोकानुकम्पको हितैषी मैत्रीविहारी महाकारुणिकः संग्रहवस्तुकुशलः सततसमितमपरिखिन्नमानसः सत्त्वपरिपाकविनयकुशलः सर्वसत्त्वेष्वेकपुत्रकप्रेमानुगतमनसिकारः सर्ववस्तुनिरपेक्षपरित्यागी दानसंविभागरतः प्रयुक्तत्यागः प्रयतपाणिः त्यागशूरो यष्टयज्ञः सुसमृद्धपुण्यः सुसंगृहीतपुण्यः परिष्कारविगतमलामात्सर्यसुनिगृहीतचित्तोऽनुत्तरो महादानपतिर्दत्त्वा च विपाकाप्रतिकाङ्क्षी प्रदानशूरः इच्छामहेच्छालोभद्वेषमदमानमोहमात्सर्यप्रमुखसर्वारिक्लेशगणप्रत्यर्थिकनिग्रहायाभ्युत्थितः सर्वज्ञताचित्तोत्पादप्रबन्धाच्चलितः महात्यागचित्तसंनाहसुसंनद्धः लोकानुकम्पको हितैषीव वर्मितकवचितवीर्यः सत्त्वप्रमोक्षालम्बनमहाकरुणाबलविक्रमपराक्रमः अवैवर्तिकसर्वसत्त्वसमचित्तत्यागप्रहरणो यथाभिप्रायसत्त्वाशयसंतोषणो बोधिभाजनीभूतः कालाक्षुण्णधर्मवेधी बोधिपरिणामप्रणिधिः अनवनामितध्वजस्त्रिमण्डलपरिशोधनदानपरित्यागी ज्ञानवरवज्रदृढप्रहरणः सुनिगृहीतक्लेशप्रत्यर्थिकः शीलगुणचारित्रप्रतिपन्नः स्वारक्षितकायवाङ्भनस्कर्मान्तोऽणुमात्रावद्यभयदर्शी सुपरिशुद्धशीलः अमलविमलनिर्मलचित्तः सर्वदुरुक्तदुरागतवचनपथाक्रोशपरिभाषणकुत्सनताडनतर्जनवधबन्धनावरोधनपरिक्लेशालुडितचित्तोऽक्षुभितचित्तः क्षान्तिसौरभ्यसंपन्नः अक्षतोऽनुपहतोऽव्यापन्नचित्तः सर्वसत्त्वहितार्थायोत्तप्तवीर्यारम्भी दृढसमादानसर्वकुशलमूलधर्मसमुदानयनाप्रत्युदावर्त्यस्मृतिमान् सुसंप्रज्ञासुसमाहितोऽविक्षिप्तचित्तो ध्यानैकाग्रमनसिकारो धर्मप्रविचयकुशलो लब्धालोको विगततमोन्धकारः अनित्यदुःखात्माशुभाकारपरिभावितचेताः स्मृत्युपस्थानसम्यक्प्रहाणऋद्धिपादेन्द्रियबलबोध्यङ्गमार्गार्य सत्यसर्वबोधिपक्षधर्मसुपरिकर्मकृतमनसिकारः शमथविपश्यनासुपर्यवदातबुद्धिः प्रतीत्यसमुत्पादसत्यदर्शी सत्यानुबोधादपरप्रत्ययस्त्रिविमोक्षसुखविक्रीडितो मायामरीचिस्वप्नोदकचन्द्रप्रतिश्रुत्काप्रतिभासोपमसर्वधर्मनयावतीर्णः ॥ इति हि भिक्षवो बोधिसत्त्वस्यैवं भवति प्रतिकृतिः - एवं धर्मविहारी एवं गुणमाहात्म्यविहारी एवं सत्त्वार्थाभियुक्तविहारी अभूत् । भूयस्या मात्रया आभिर्दशदिग्बुद्धाधिष्ठानतूर्यसंगीतिविनिःसृताभिर्गाथाभिः संचोदितः स तस्यां वेलायां पूर्वेषां च बोधिसत्त्वानां चरमभवोपगतानामन्तःपुरपरिपाचितानि (वैद्य १३२) चत्वारि धर्ममुखान्यामुखीकरोति स्म । कतमानि चत्वारि? यदिदं दानं प्रियवचनमर्थक्रियां समानार्थतां च । चतुःसंग्रहवस्तुप्रयोगनिर्हारविशुद्धिं च नाम धर्ममुखमामुखीकरोति स्म । त्रिरत्नवंशसाधारणाभिप्रायो विप्रणाशसर्वज्ञताचित्तप्रणिधानबलाधानावैवर्त्यविषयं च नाम धर्ममुखमामुखीकरोति स्म । सर्वसत्त्वापरित्यागाध्याशयमहाकरुणावतारतां च नाम धर्ममुखमामुखीकरोति स्म । सर्वबोधिपक्षधर्मपदे प्रभेदार्थाभिनिश्चयज्ञानसंसारबलविशेषसमुदानयमहाव्यूहं च नाम धर्ममुखमामुखीकरोति स्म । इमानि चत्वारि धर्ममुखान्यामुखीकृत्य बोधिसत्त्वः सर्वस्यान्तःपुरस्य परिपाचनार्थं तस्यां वेलायां तथारूपमृद्ध्यभिसंस्कारमभिसंस्करोति स्म, यथारूपेण ऋद्ध्यभिसंस्कारेणाभिसंस्कृतेन तेभ्यः संगीतिरुतेभ्यो बोधिसत्त्वानुभावेनेमान्येवंरूपाणि धर्ममुखशतसहस्राणि निश्चरन्ति स्म । तद्यथा - उदारछन्देन च आशयेन अध्याशयेना करुणाय प्राणिषु । उत्पद्यते चित्तु वराग्रबोधये शब्दे च रूपस्तुरियेभि निश्चरी ॥ १३.१३३ ॥ श्रद्धा प्रसादो अधिमुक्ति गौरवं निर्मानता ओनमना गुरूणाम् । परिपृच्छना किंकुशलंगवेषणा अनुस्मृतीभावनु शब्द निश्चरी ॥ १३.१३४ ॥ दाने दभे संयमशीलशब्दः क्षान्तीय शब्दस्तथ वीर्यशब्दः । ध्यानाभिनिर्हारसमाधिशब्दः प्रज्ञा उपायस्य च शब्द निश्चरी ॥ १३.१३५ ॥ मैत्राय शब्दः करुणाय शब्दो मुदिताउपेक्षाय अभिज्ञशब्दः । चतुसंग्रहावस्तुविनिश्चयेन सत्त्वान परिपाचनशब्द निश्चरी ॥ १३.१३६ ॥ स्मृतेरुपस्थानप्रभेदशब्दः सम्यक्प्रहाणास्तथ ऋद्धिपादा । पञ्चेद्रिया पञ्चबलप्रभेदा बोध्यङ्गशब्दस्तुरियेभि निश्चरी ॥ १३.१३७ ॥ (वैद्य १३३) अष्टाङ्गिको मार्गबलप्रभेदः शमथस्य शब्दोऽथ विपश्यनायाः । अनित्यदुःखार्तिअनात्मशब्दः अशुभार्तिशब्दो तुरियेभि निश्चरी ॥ १३.१३८ ॥ विरागशब्दश्च विवेकशब्दः क्षयज्ञानशब्दो अनुत्पादशब्दः । अनिरोधशब्दश्च अनालयं च निर्वाणशब्दस्तुरियेभि निश्चरी ॥ १३.१३९ ॥ इम एवरूपास्तुरियेभि शब्दाः संबोधिशब्दश्चनुभाव निश्चरी । यं श्रुत्व सर्वा प्रमदा नु शिक्षिता वराग्रसत्त्वे प्रणिधेन्ति बोधये ॥ १३.१४० ॥ इति हि भिक्षवो अन्तःपुरमध्यगतेन बोधिसत्त्वेन तानि चतुरशीतिस्त्रीसहस्राणि परिपाचितान्यभूवननुत्तरायां सम्यक्संबोधौ बहूनि च देवताशतसहस्राणि ये तत्र संप्राप्ता अभूवन् ॥ तथा अभिनिष्क्रमणकाले तस्मिन् समये बोधिसत्त्वस्य ह्रीदेवो नाम तुषितकायिको देवपुत्रोऽनुत्तरायाः सम्यक्संबोधेः स रात्रौ प्रशान्तायां द्वात्रिंशता देवपुत्रसहस्रैः परिवृतः पुरस्कृतो येन बोधिसत्त्वस्योपस्थानप्रासादस्तेनोपसंक्रामत् । उपसंक्रम्य गगनतलगत एव बोधिसत्त्वं गाथाभिरध्यभाषत - च्युति दर्शिता अतियशा जन्म च संदर्शितं पुरुषसिंह । अन्तःपुरं विदर्शितु कृतानुवृत्तिस्त्वया लोके ॥ १३.१४१ ॥ परिपाचिता ति बहवो देव मनुज लोकि धर्ममनुप्राप्य । अयमद्य कालसमयो निष्क्रम्ये मति विचिन्तेहि ॥ १३.१४२ ॥ न हि बद्ध मोचयाती न चान्धपुरुषेन दर्शियति मार्गः । मुक्तस्तु मोचयाती सचक्षुषा दर्शयति मार्गः ॥ १३.१४३ ॥ ये सत्त्व कामदासा गृहे धने पुत्रभार्यपरिश्रद्धाः । ते तुभ्य शिष्यमाणा नैष्क्रम्यमतौ स्पृहां कुर्युः ॥ १३.१४४ ॥ ऐश्वर्य कामक्रीडा चतुद्वीपा सप्त रत्न विजहित्वा । निष्क्रान्त त्वां विदित्वा स्पृहयेत्सनरामरो लोकः ॥ १३.१४५ ॥ किं चापि ध्यानसौख्यैर्विहरसि धर्मैर्न चासि कामरतः । अथ पुन चिरप्रसुप्तां बोधय मरुमानुषशतानि ॥ १३.१४६ ॥ (वैद्य १३४) अतिपतित यौवनमिदं गिरिनदि यथ चञ्चलप्रचलवेगा । गतयौवनस्य भवतो नैष्क्रम्यमतिर्न शोभेते ॥ १३.१४७ ॥ तत्साधु तरुणरूपे प्रथमे वरयावनेऽभिनिष्क्रम्य । उत्तारय प्रतिज्ञां कुरुष्व चार्थं सुरगणानाम् ॥ १३.१४८ ॥ न च कामगुणरतीभिस्तृप्तिर्लवणोदधेर्यथाम्भोभिः । ते तृप्त येष प्रज्ञा आर्या लोकोत्तरा विरजा ॥ १३.१४९ ॥ त्वमिह प्रियो मनापो राज्ञः शुद्धोदनस्य राष्ट्रस्य । शतपत्रसदृशवदना नैष्क्रम्यमतिं विचिन्तेहि ॥ १३.१५० ॥ आदीप्त क्लेशतापैरनिःशरणैर्गाढबन्धनैर्बद्धाम् । शीघ्रं प्रमोक्षमार्गे स्थापय शान्ते असमवीरा ॥ १३.१५१ ॥ त्वं वैद्य धातुकुशलश्चिरातुरां सत्त्वरोगसंस्पृष्टाम् । भैषज्यधर्मयोगैर्निर्वाणसुखे स्थपय शीघ्रम् ॥ १३.१५२ ॥ अन्धातमा अनयना मोहाकुलदृष्टिजालबद्धाः । प्रज्ञाप्रदीपचक्षुः शोधय शीघ्रं नरमरूणाम् ॥ १३.१५३ ॥ समुदीक्षन्ते बहवो देवासुरनागयक्षगन्धर्वाः । द्रक्ष्याम बोधिप्राप्तं निरुत्तरं धर्म श्रोष्यामः ॥ १३.१५४ ॥ द्रक्ष्यति च भुजगराजो भवनमवभासितं तव शिरीये । करियति अनन्तपूजा पूरेहि व्रताशयस्तस्य ॥ १३.१५५ ॥ चत्वारि लोकपालाः ससैन्यकास्ते तव प्रदीक्षन्ते । दास्याम चतुरि पात्रां बोधिध्वजि पूर्णमनसस्य ॥ १३.१५६ ॥ ब्रह्म प्रशान्तचारी उदीक्षते मैत्रवाक्वरुणलाभी । अध्योषिष्ये नरेन्द्रं वर्तेन्ति निरुत्तरं चक्रम् ॥ १३.१५७ ॥ बोधिपरिपाचिकापि च देवत अभिवुस्त बोधिमण्डेस्मिम् । उत्पत्स्येऽयं सत्य ति द्रक्ष्याम्यभिबुध्यतो बोधिम् ॥ १३.१५८ ॥ सत्यं हि बोधिसत्त्वा अन्तःपुरिये क्रिया विदर्शेन्ति । पूर्वंगमो भव त्वं मा भेष्यसि पश्चिमस्तेषाम् ॥ १३.१५९ ॥ मञ्जुरुत मञ्जुघोषा स्मराहि दीपंकरस्य व्याकरणम् । भूतं तथा अवितथा जिनघोषरुतमुदीरेहि ॥ १३.१६० ॥ इति श्रीललितविस्तरे संचोदनापरिवर्तो नाम त्रयोदशोऽध्यायः ॥ ______________________________________________________________________ परिवर्त १४ (वैद्य १३५) स्वप्नपरिवर्तश्चतुर्दशः । इति हि भिक्षवो बोधिसत्त्वः संचोदितः सन् तेन देवपुत्रेण राज्ञः शुद्धोदनस्येमं स्वप्नमुपदर्शयति स्म - यद्राजा शुद्धोदनः सुप्तः स्वप्नान्तरगतोऽद्राक्षीत्बोधिसत्त्वं रात्रौ प्रशान्तायामभिनिष्क्रमन्तं देवगणपरिवृतम् । अभिनिष्क्रम्य प्रव्रजितं चाद्राक्षीत्काषायवस्त्रप्रावृतम् । स प्रतिबुद्धः त्वरितं त्वरितं काञ्चुकीयं परिपृच्छति स्म - कच्चित्कुमारोऽन्तःपुरेऽस्ति? सोऽवोचत्- अस्ति देवेति ॥ ततो राज्ञः शुद्धोदनस्यान्तःपुरे शोकशल्यो हृदयेऽनुप्रविष्टोऽभूत्- अभिनिष्क्रमिष्यति अवश्यं कुमारोऽयम् । यच्चेमानि पूर्वनिमित्तानि संदृश्यन्ते स्म ॥ तस्यैदभवत्- न खल्वव्ययं कुमारेण कदाचिदुद्यानभूमिमभिनिर्गन्तव्यम् । स्त्रीगणमध्येऽभिरतः इहैव रम्यते, नाभिनिष्क्रमिष्यतीति ॥ ततो राज्ञा शुद्धोदनेन कुमारस्य परिभोगार्थं त्रयो यथर्तुकाः प्रासादाः कारिता अभूवन् ग्रैष्मिको वार्षिको हैमन्तिकश्च । तत्र यो ग्रैष्मिकः स एकान्तशीतलः । यो वार्षिकः स साधारणः । यो हैमन्तिकः स स्वभावोष्णः । एकैकस्य च प्रासादस्य सोपानानि पञ्च पञ्च पुरुषशतान्युत्क्षिपन्ति स्म, निक्षिपन्ति स्म । तेषां तथोत्क्षिप्यमाणानां निक्षिप्यमाणानां च शब्दोऽर्धयोजने श्रूयते स्म - मा खलु कुमारोऽनभिज्ञात एवाभिनिष्क्रमिष्यतीति । नैमित्तिकैर्वैपञ्चिकैश्च व्याकृतमभूत्- मङ्गलद्वारेण कुमारोऽभिनिष्क्रमिष्यतीति । ततो राजा मङ्गलद्वारस्य महान्ति कपाटानि कारयति स्म । एकैकं च कपाटं पञ्च पञ्च पुरुषशतान्युद्धाटयन्ति स्म, अपघाटयन्ति स्म । तेषां चार्धयोजनं शब्दो गच्छति स्म । पञ्च चास्य कामगुणान् सदृशानुपसंहरति स्म । गीतवादितनृत्यैश्चैनं सदैव युवतय उपतस्थुः ॥ अथ भिक्षवो बोधिसत्त्वः सारथिं प्राह - शीघ्रं सारथे रथं योजय । उद्यानभूमिं गमिष्यामीति । ततः सारथी राजानं शुद्धोद्धनमुपसंक्रम्यैवमाह - देव कुमार उद्यानभूमिमभिनिर्यास्यतीति ॥ अथ राज्ञः शुद्धोदनस्यैतदभवत्- न कदाचिन्मया कुमार उद्यानभूमिमभिनिष्क्रमितः । सुभूमिदर्शनाय । यन्न्वहं कुमारमुद्यानभूमिमभिनिष्क्रामयेयम् । ततः कुमारः स्त्रीगणपरिवृतो रतिं वेत्स्यते, नाभिनिष्क्रमिष्यतीति ॥ ततो राजा शुद्धोदनः स्नेहबहुमानाभ्यां बोधिसत्त्वस्य नगरे घण्टावघोषणां कारयति स्म सप्तमे दिवसे कुमार उद्यानभूमिं निष्क्रमिष्यतीति (सुभूमिदर्शनाय) । तत्र भवद्भिः सर्वामनापानि चापनयितव्यानि - मा कुमारः प्रतिकूलं पश्येत् । सर्वमनापानि चोपसंहर्तव्यानि विषयाभिरम्याणि ॥ (वैद्य १३६) ततः सप्तमे दिवसे सर्वं नगरमलंकृतमभूतुद्यानभूमिमुपशोभितं नानारङ्गदूष्यवितानीकृतं छत्रध्वजपताकासमलंकृतम् । येन च मार्गेण बोधिसत्त्वोऽभिनिर्गच्छति स्म, स मार्गः सिक्तः संमृष्टो गन्धोदकपरिषिक्तो मुक्तकुसुमावकीर्णो नानागन्धघटिकानिर्धूपितः पूर्णकुम्भोपशोभितः कदलीवृक्षोच्छ्रितो नानाविचित्रपटवितानविततो रत्नकिङ्किणीजालहारार्धहाराभिप्रलम्बितोऽभूत् । चतुरङ्गसैन्यव्यूहितः परिवारश्चोद्युक्तोऽभूत्कुमारस्यान्तःपुरं प्रतिमण्डयितुम् । अथ शुद्धावासकायिका देवा निध्यापयन्ति स्म बोधिसत्त्वमाहरितुम्, तत्र बोधिसत्त्वस्य पूर्वेण नगरद्वारेणोद्यानभूमिमभिनिष्क्रामतो महता व्यूहेन अथ बोधिसत्त्वस्यानुभावेन शुद्धवासकायिकैर्देवपुत्रैस्तस्मिन्मार्गे पुरुषो जीर्णो वृद्धो महल्लको धमनीसंततगात्रः खण्डदन्तो वलीनिचितकायः पलितकेशः कुब्जो गोपानसीवक्रो विभग्नो दण्डपरायण आतुरो गतयौवनः खरखरावसक्तकण्ठः प्राग्भारेण कायेन दण्डमवष्टभ्य प्रवेपयमानः सर्वाङ्गप्रत्यङ्गैः पुरतो मार्गस्योपदर्शितोऽभूत् ॥ अथ बोधिसत्त्वो जानन्नेव सारथिमिदमवोचत्- किं सारथे पुरुष दुर्बल अल्पस्थामो उच्छुष्कमांसरुधिरत्वचस्नायुनद्धः । श्वेतंशिरो विरलदन्त कृशाङ्गरूपो आलम्ब्य दण्ड व्रजते असुखं स्खलन्तः ॥ १४.१ ॥ सारथिराह - एषो हि देव पुरुषो जरयाभिभूतः क्षीणेन्द्रियः सुदुखितो बलवीर्यहीनः । बन्धूजनेन परिभूत अनाथभूतः कार्यासमर्थ अपविद्धु वनेव दारु ॥ १४.२ ॥ बोधिसत्त्व आह - कुलधर्म एष अयमस्य हितं भणाहि अथवापि सर्वजगतोऽस्य इयं ह्यवस्था । शीघ्रं भणाहि वचनं यथभूतमेतत्श्रुत्वा तथार्थमिह योनिश चिन्तयिष्ये ॥ १४.३ ॥ सारथिराह - नैतस्य देव कुलधर्म न राष्ट्रधर्मः सर्वे जगस्य जर यौवनु धर्षयाति । तुभ्यं पि मातृपितृबान्धवज्ञातिसंघो जरया अमुक्त न हि अन्य गतिर्जनस्य ॥ १४.४ ॥ (वैद्य १३७) बोधिसत्त्व आह - धिक्सारथे अबुध बालजनस्य बुद्धिः यद्यौवनेन मदमत्त जरां न पश्येत् । आवर्तयाशु मि रथं पुनरहं प्रवेक्ष्ये किं मह्य क्रीडरतिभिर्जरयाश्रितस्य ॥ १४.५ ॥ अथ बोधिसत्त्वः प्रतिनिर्वत्य रथवरं पुनरपि पुरं प्राविशत् ॥ इति हि भिक्षवो बोधिसत्त्वोऽपरेण कालसमयेन दक्षिणेन नगरद्वारेणोद्यानभूमिमभिनिष्क्रमन्महता व्यूहेन सोऽद्राक्षीन्मार्गे पुरुषं व्याधिस्पृष्टं दग्धोदराभिभूतं दुर्बलकायं स्वके मूत्रपुरीषे निमग्नमत्राणमप्रतिशरणं कृच्छ्रेणोच्छ्वसन्तं प्रश्वसन्तम् । दृष्ट्वा च पुनर्बोधिसत्त्वो जानन्नेव सारथिमिदमवोचत्- किं सारथे पुरुष रुष्यविवर्णगात्रः सर्वेन्द्रियेभि विकलो गुरु प्रश्वसन्तः । सर्वाङ्गशुष्क उदराकुल कृच्छ्रप्राप्तो मूत्रे पुरीषि स्वकि तिष्ठति कुत्सनीये ॥ १४.६ ॥ सारथिराह - एषो हि देव पुरुषो परमं गिलानो व्याधीभयमुपगतो मरणान्तप्राप्तः । आरोग्यतेजरहितो बलविप्रहीनो अत्राणद्वीपशरणो ह्यपरायणश्च ॥ १४.७ ॥ बोधिसत्त्व आह - आरोग्यता च भवते यथ स्वप्नक्रीडा व्याधीभयं च इममीदृशु घोररूपम् । को नाम विज्ञपुरुषो इम दृष्ट्ववस्थां क्रीडारतिं च जनयेच्छुभसंज्ञतां वा ॥ १४.८ ॥ अथ खलु भिक्षवो बोधिसत्त्वः प्रतिनिवर्त्य रथवरं पुनरपि पुरवरं प्राविक्षत् ॥ इति हि भिक्षवो बोधिसत्त्वोऽपरेण कालसमयेन पश्चिमेन नगरद्वारेणोद्यानभूमिमभिनिष्क्रमन्महता व्यूहेन सोऽद्राक्षीत्पुरुषं मृतं कालगतं मञ्चे समारोपितं चैलवितानीकृतं ज्ञातिसंघपरिवृतं सर्वै रुदद्भिः क्रन्दद्भिः परिदेवमानैः प्रकीर्णकेशैः पांश्ववकीर्णशिरोभिरुरांसि ताडयद्भिरुत्क्रोशद्भिः पृष्ठतोऽनुगच्छद्भिः । दृष्ट्वा च पुनर्बोधिसत्त्वो जानन्नेव सारथिमिदमवोचत्- (वैद्य १३८) किं सारथे पुरुष मञ्चपरि गृहीतो उद्धूतकेशनख पांशु शिरे क्षिपन्ति । परिचारयित्व विहरन्त्युरस्ताडयन्तो नानाविलापवचनानि उदीरयन्तः ॥ १४.९ ॥ सारथिराह - एषो हि देव पुरुषो मृतु जम्बुद्वीपे नहि भूयु मातृपितृ द्रक्ष्यति पुत्रदाराम् । अपहाय भोगगृह (मातृपितृ) मित्रज्ञातिसंघं परलोकप्राप्तु न हि द्रक्ष्यति भूयु ज्ञातीम् ॥ १४.१० ॥ बोधिसत्त्व आह - धिग्यौवनेन जरया समभिद्रुतेन आरोग्य धिग्विविधव्याधिपराहतेन । धिग्जीवितेन विदुषा नचिरस्थितेन धिक्पण्डितस्य पुरुषस्य रतिप्रसङ्गैः ॥ १४.११ ॥ यदि जर न भवेया नैव व्याधिर्न मृत्युः तथपि च महदुःखं पञ्चस्कन्धं धरन्तो । किं पुन जरव्याधिर्मृत्यु नित्यानुबद्धाः साधु प्रतिनिवर्त्या चिन्तयिष्ये प्रमोक्षम् ॥ १४.१२ ॥ अथ खलु भिक्षवो बोधिसत्त्वः प्रतिनिवर्त्य तं रथवरं पुनरपि पुरं प्राविक्षत् ॥ इति हि भिक्षवो बोधिसत्त्वस्यापरेण कालसमयेनोत्तरेण नगरद्वारेणोद्यानभूमिमभिनिष्क्रामतस्तैरेव देवपुत्रैर्बोधिसत्त्वस्यानुभावेनैव तस्मिन्मार्गे भिक्षुरभिनिर्मितोऽभूत् । अद्राक्षीद्बोधिसत्त्वस्तं भिक्षुं शान्तं दान्तं संयतं ब्रह्मचारिणमविक्षिप्तचक्षुषं युगमात्रप्रेक्षिणं प्रासादिकेनैर्यापथेन संपन्नं प्रासादिकेनाभिक्रमप्रतिक्रमेण संपन्नं प्रासादिकेनावलोकितव्यवलोकितेन प्रासादिकेन समिञ्जितप्रसारितेन प्रासादिकेन संघाटीपात्रचीवरधारणेन मार्गे स्थितम् । दृष्ट्वा च पुनर्बोधिसत्त्वो जानन्नेव सारथिमिदमवोचत्- किं सारथे पुरुष शान्तप्रशान्तचित्तो नोत्क्षिप्तचक्षु व्रजते युगमात्रदर्शी । काषायवस्त्रवसनो सुप्रशान्तचारी पात्रं गृहीत्व न च उद्धतु उन्नतो वा ॥ १४.१३ ॥ (वैद्य १३९) सारथिराह - एषो हि देव पुरुषो इति भिक्षुनामा अपहाय कामरतयः सुविनीतचारी । प्रवज्यप्राप्तु शममात्मन एषमाणो संरागद्वेषविगतोऽन्वेति पिण्डचर्या ॥ १४.१४ ॥ बोधिसत्त्व आह - साधू सुभाषितमिदं मम रोचते च प्रव्रज्य नाम विदुभिः सततं प्रशस्ता । हितमात्मनश्च परसत्त्वहितं च यत्र सुखजीवितं सुमधुरममृतं फलं च ॥ १४.१५ ॥ अथ खलु भिक्षवो बोधिसत्त्वः प्रतिनिवर्त्य तं रथवरं पुनरपि पुरवरं प्राविक्षत् ॥ इति हि भिक्षवो राजा शुद्धोदनो बोधिसत्त्वस्येमामेवंरूपां संचोदनां दृष्ट्वा श्रुत्वा च भूयस्या मात्रया बोधिसत्त्वस्य परिरक्षणार्थं प्राकारान्मापयते स्म, परिखाः खानयति स्म, द्वाराणि च गाढानि कारयति स्म । आरक्षान् स्थापयति स्म । शूरांश्चोदयति स्म । वाहनानि योजयति स्म । वर्माणि ग्राहयति स्म । चतुर्षु नगरद्वारशृङ्गाटकेषु चतुरो महासेनाव्यूहान् स्थापयति स्म बोधिसत्त्वस्य परिरक्षणार्थम् । य एनं रात्रिंदिवं रक्षन्ति स्म - मा बोधिसत्त्वोऽभिनिष्क्रमिष्यतीति । अन्तःपुरे चाज्ञां ददाति स्म - मा स्म कदाचित्संगीतिं विच्छेत्स्यथ । सर्वरतिक्रीडाश्चोपसंहर्तव्याः, स्त्रीमायाश्चोपदर्शयत, निर्बन्धत कुमारं यथानुरक्तचित्तो न निर्गच्छेत्प्रव्रज्यायै ॥ तत्रेदमुच्यते - द्वारे स्थापित युद्धशौण्डपुरुषाः खड्गायुधापाणयो हस्तीअश्वरथाश्च वर्मितनरा आरूढ नागावली । परिखा खोटकतोरणाश्च महता प्राकार उच्छ्रापिता द्वारा बद्ध सुगाढबन्धनकृताः क्रोशस्वरामुञ्चनाः ॥ १४.१६ ॥ सर्वे शाक्यगणा विषण्णमनसो रक्षन्ति रात्रिंदिवं निर्घोषश्च बलस्य तस्य महतः शब्दो महा श्रूयते । नगरं व्याकुलु भीतत्रस्तमनसो मा स्माद्व्रजेत्सूरतो मा भूच्छाक्यकुलोदितस्य गमने छिद्येत वंशो ह्ययम् ॥ १४.१७ ॥ आज्ञप्तो युवतीजनश्च सततं संगीति मा छेत्स्यथा वस्थानं प्रकरोथ क्रीडरतिभिर्निर्बन्धथा मानसम् । (वैद्य १४०) ये वा इस्त्रियमाय नेकविविधा दर्शेथ चेष्टां बहुं आरक्षां प्रकरोथ विघ्न कुरुथा मा खु व्रजेत्सूरतः ॥ १४.१८ ॥ तस्या निष्क्रमिकालि सारथिवरे पूर्वे निमित्ता इमे हंसा क्रोञ्च मयूर सारिक शुका नो ते रवं मुञ्चिषु । प्रासादेषु गवाक्षतोरणवरेष्वातालमञ्चेषु च जिह्माजिह्व सुदुर्मना असुखिता ध्यायन्त्यधोमूर्धकाः ॥ १४.१९ ॥ पुडिनीपुष्करिणीषु पद्म रुचिरा म्लानानि म्लायन्ति च वृक्षाः शुष्कपलाश पुष्परहिताः पुष्पन्ति भूयो न च । वीणावल्लकिवंशतन्त्रिरचिता छिद्यन्त्यकस्मात्तदा भेरीश्चैव मृदङ्ग पाण्यभिहता भिद्यन्ति नो वाद्यिषु ॥ १४.२० ॥ सर्वं व्याकुलमासि तच्च नगरं निद्राभिभूतं भृशं नो नृत्ते न च गायिते न रमिते भूयो मनः कस्यचित् । राजापी परमं सुदीनमनसः चिन्तापरो ध्यायते हा धिक्शाक्यकुलस्य ऋद्धि विपुला मा हैव संधक्ष्यते ॥ १४.२१ ॥ एकस्मिं शयने स्थिते स्थितमभूद्गोपा तथा पार्थिवो गोपा रात्रियि अर्धरात्रसमये स्वप्नानिमां पश्यति । सर्वेयं पृथिवी प्रकम्पितमभूच्छैला सकूटावटी वृक्षा मारुतएरिता क्षिति पती उत्पाट्य मूलोद्धृताः ॥ १४.२२ ॥ चन्द्रासूर्य नभातु भूमिपतितौ सज्योतिषालंकृतौ केशानदृशि लून दक्षिणि भुजे मुकुटं च विध्वंसितम् । हस्तौ छिन्न तथैव छिन्न चरणौ नग्ना दृशी आत्मनं मुक्ताहार तथैव मेखलमणी छिन्ना दृशी आत्मनः ॥ १४.२३ ॥ शयनस्या दृशि छिन्न पाद चतुरो धरणीतलेस्मिं छयी छत्रे दण्डु सुचित्रु श्रीम रुचिरं छिन्ना दृशी पार्थिवे । सर्वे आभरणा विकीर्ण पतिता मुह्यन्ति ते वारिणा भर्तुश्चाभरणा सवस्त्रमुकुटा शय्यागता व्याकुला ॥ १४.२४ ॥ उल्कां पश्यति निष्क्रमन्त नगरात्तमसाभिभूतं पुरं छिन्नां जालिकमदृशाति सुपिने रतनामिकां शोभनाम् । (वैद्य १४१) मुक्ताहारु प्रलम्बमानु पतितः क्षुभितो महासागरं मेरुं पर्वतराजमदृशि तदा स्थानातु संकम्पितम् ॥ १४.२५ ॥ एतानीदृश शाक्यकन्य सुपिनां सुपिनान्तरे अदृशी दृष्ट्वा सा प्रतिबुद्ध रुण्णनयना स्वं स्वामिनमब्रवीत् । देवा किं मि भविष्यते खलु भणा सुपिनान्तराणीदृशा भ्रान्ता मे स्मृति नो च पश्यमि पुनः शोकार्दितं मे मनः ॥ १४.२६ ॥ श्रुत्वासौ कलविङ्कदुन्दुभिरुतो ब्रह्मस्वरः सुस्वरो गोपामालपते भव प्रमुदिता पापं न ते विद्यते । ये सत्त्वा कृतपुण्यपूर्वचरिता तेषेति स्वप्ना इमे कोऽन्यः पश्यति नैकदुःखविहितः स्वप्नान्तराणीदृशा ॥ १४.२७ ॥ यत्ते दृष्टा मेदिनी कम्पमाना कूटा शैला मेदिनीये पतन्ता । देवा नागा राक्षसा भूतसंघाः सर्वे तुभ्यं पूज्यश्रेष्ठां करोन्ति ॥ १४.२८ ॥ यत्ते दृष्टा वृक्षमूलोद्धृतानि केशां लूनां दक्षिणेनादृशासि । क्षिप्रं गोपे क्लेशजालं छिनित्वा दृष्टीजालमुद्धरी संस्कृतातः ॥ १४.२९ ॥ यत्ते दृष्टौ चन्द्रसूर्यौ पतन्तौ दृष्टा नक्षत्रा ज्योतिषा नीपतन्तः । क्षिप्रं गोपे क्लेशशत्रू निहत्वा पूज्या लोके भाविनी त्वं प्रशस्या ॥ १४.३० ॥ यत्ते दृष्टा मुक्तहारं विशीर्णं नग्नं भग्नं सर्वकायादृशासि । क्षिप्रं गोपे इस्त्रिकायं जहित्वा पुरुषस्त्वं वै भेष्यसे नोचिरेण ॥ १४.३१ ॥ यत्ते दृष्टं मञ्चकं छिन्नपादं छत्रे दण्डं रत्नचित्रं प्रभग्नम् । क्षिप्रं गोपे ओघ चत्वारि तीर्त्वा मां द्रष्टासी एकछत्रं त्रिलोके ॥ १४.३२ ॥ (वैद्य १४२) यत्ते दृष्टा भूषणा उह्यमाना चूडा वस्त्रा मह्य मञ्चेऽदृशासि । क्षिप्रं गोपे लक्षणैर्भूषिताङ्गं मां संपश्यी सर्वलोकैः स्तुवन्तम् ॥ १४.३३ ॥ यत्ते दृष्टा दीपकोटीशतानि नगरान्निष्क्रान्ता तत्पुरं चान्धकारम् । क्षिप्रं गोपे मोहविद्यान्धकारे प्रज्ञालोके कुर्वमी सर्वलोकम् ॥ १४.३४ ॥ यत्ते दृष्टं मुक्तहारं प्रभग्नं छिन्नं चैव स्वर्णसूत्रं विचित्रम् । क्षिप्रं गोपे क्लेशजालं छिनित्वा संज्ञा सूत्रमुद्धरी संस्कृतातः ॥ १४.३५ ॥ यत्ते गोपे चित्तिकारं करोषी नित्यं पूजां गौरवेणोत्तमेन । नास्ती तुभ्यं दुर्गती नैव शोकः क्षिप्रं भोही प्रीतिप्रामोद्यलब्धा ॥ १४.३६ ॥ पूर्वे मह्यं दानु दत्तं प्रणीतं शीलं चीर्णं भाविता नित्यक्षान्ति । तस्मान्मह्यं ये प्रसादं लभन्ते सर्वे भोन्ती प्रीतिप्रामोद्यलाभाः ॥ १४.३७ ॥ कल्पा कोटी संस्कृता मे अनन्ता बोधीमार्गो शोधितो मे प्रणीतः । तस्मान्मह्यं ये प्रसादं करोन्ति सर्वे छिन्ना तेषु त्रीण्यप्यपायाः ॥ १४.३८ ॥ हर्षं विन्दा मा च खेदं जनेहि तुष्टिं विन्दा संजनेही च प्रीतिम् । क्षिप्रं भेष्ये प्रीतिप्रामोद्यलाभी सेही गोपे भद्रका ते निमित्ता ॥ १४.३९ ॥ सो पुण्यतेजभरितो सिरितेजगर्भो पूर्वे निमित्तसुपिने इमि अदृशासि । (वैद्य १४३) ये भोन्ति पूर्वशुभकर्मसमुच्चयानां नैष्क्रम्यकालसमये नरपुंगवानाम् ॥ १४.४० ॥ सो अदृशासि च कराच्चरणाद्धताना महसागरेभि चतुभिर्जल लोलयन्ता । सर्वामिमां वसुमतीं शयनं विचित्रं मेरुं च पर्वतवरं शिरसोपधानम् ॥ १४.४१ ॥ आभा प्रमुक्त सुपिने तद अदृशासि लोके विलोकितु महातमसान्धकारम् । छत्रोद्गतं धरणिये स्फरते त्रिलोकमाभाय स्पृष्ट विनिपातदुखा प्रशान्ता ॥ १४.४२ ॥ कृष्णा शुभा चतुरि प्राणक पाद लेखी चतुवर्ण एत्व शकुनाद्भुत एकवर्णाः । मीढंगिरी परमहीन जुगुप्सनीया अभिभूय चंक्रमति तत्र च नोपलिप्तो ॥ १४.४३ ॥ भूयोऽदृशी सुपिनि नद्य जलप्रपूर्णा बहुसत्त्वकोटिनयुतानि च उह्यमाना । सो नाव कृत्व प्रतरित्व परां प्रतार्य स्थापेति सो स्थलवरे अभये अशोके ॥ १४.४४ ॥ भूयोऽदृशाति बहु आतुर रोगस्पृष्टामारोग्यतेजरहितां बलविप्रहीनाम् । सो वैद्य भूत्व बहु ओषध संप्रयच्छा मोचेति सत्त्वनयुतां बहुरोगस्पृष्टाम् ॥ १४.४५ ॥ सिंहासने व हि निषण्ण सुमेरुपृष्ठे शिष्यां कृताञ्जलिपुटानमरान्नमन्ताम् । संग्राममध्यि जयु अदृशि आत्मनश्च आनन्दशब्दममरां गगने ब्रुवन्तः ॥ १४.४६ ॥ एवंविधा सुपिनि अदृशि बोधिसत्त्वो मङ्गल्य शोभनव्रतस्य च पारिपूरिम् । यां श्रुत्व देवमनुजा अभवन्प्रहृष्टा न चिराद्भविष्यति अयं नरदेवदेवः ॥ १४.४७ ॥ इति ॥ इति श्रीललितविस्तरे स्वप्नपरिवर्तो नाम चतुर्दशोऽध्यायः ॥ ______________________________________________________________________ परिवर्त १५ (वैद्य १४४) अभिनिष्क्रमणपरिवर्तः पञ्चदशः । अथ खलु भिक्षवो बोधिसत्त्वस्यैतदभूत्- अयुक्तमेतन्मम स्यादकृतज्ञता च यदहमप्रतिवेद्य महाराज्ञः शुद्धोदनस्य अननुज्ञातश्च पित्रा निष्क्रमेयम् । स रात्रौ प्रशान्तायां स्वकादुपस्थानप्रासादादवतीर्य राज्ञः शुद्धोदनस्य प्रासादतले प्रतिष्ठितोऽभूत् । प्रतिष्ठितमात्रस्य च पुनर्बोधिसत्त्वस्य सर्वोऽसौ प्रासाद आभया स्फुटोऽभूत् । तत्र राजा प्रतिविबुद्धस्तां प्रभामद्राक्षीत् । दृष्ट्वा च पुनस्त्वरितं त्वरितं काञ्चुकियमामन्त्रयामास - किं भोः काञ्चुकीय सूर्योऽभ्युद्गतो येनेयं प्रभा विराजते? काञ्चुकीय आह - अद्यापि तावदेव रजन्या उपार्धं नातिक्रान्तम् । अपि च देव - सूर्यप्रभाय भवते द्रुमकुड्यछाया संतापयाति च तनुं प्रकरोति धर्मम् । हंसा मयूरशुककोकिलचक्रवाकाः प्रत्यूषकालसमये स्वरुतां रवन्ति ॥ १५.१ ॥ आभा इयं तु नरदेव सुखा मनोज्ञा प्रह्लादनी शुभकरी न करोति दाहम् । कुड्या च वृक्ष अभिभूय न चास्ति छाया निःसंशयं गुणधरो इह अद्य प्राप्तः ॥ १५.२ ॥ सो प्रेक्षते दशदिशो नृपती विषण्णो दृष्टश्च सो कमललोचन शुद्धसत्त्वः । सोऽभ्युत्थितुं शयनि इच्छति न प्रभोति पितृगौरवं जनयते वरशुद्धबुद्धिः ॥ १५.३ ॥ सो च स्थिहित्व पुरतो नृपतिमवोचत्मा भूयु विघ्न प्रकरोहि म चैव खेदम् । नैष्क्रम्यकालसमयो मम देव युक्तो हन्त क्षमस्व नृपते सजनः सराष्ट्रः ॥ १५.४ ॥ तमश्रुपूर्णनयनो नृपती बभाषे किंचित्प्रयोजनु भवेद्विनिवर्तने ते । किं याचसे मम वरं वद सर्व दास्ये अनुगृह्ण राजकुलु मां च इदं च राष्ट्रम् ॥ १५.५ ॥ (वैद्य १४५) तद बोधिसत्त्व अवची मधुरप्रलापी इच्छामि देव चतुरो वर तान्मि देहि । यदि शक्यसे ददितु मह्य वसे ति तत्र तद्द्रक्ष्यसे सद गृहे न च निष्क्रमिष्ये ॥ १५.६ ॥ इच्छामि देव जर मह्य न आक्रमेय्या शुभवर्ण यौवनस्थितो भवि नित्यकालम् । आरोग्यप्राप्तु भवि नो च भवेत व्याधिः अमितायुषश्च भवि नो च भवेत मृत्युः (संपत्तितश्च विपुला नु भवेद्विपत्तिः) ॥ १५.७ ॥ राजा श्रुणित्व वचनं परमं दुखार्तो अस्थानु याचसि कुमार न मेऽत्र शक्तिः । जरव्याधिमृत्युभयतश्च विपत्तितश्च कल्पस्थितीय ऋषयोऽपि न जातु मुक्ताः ॥ १५.८ ॥ यदिदानि देव चतुरो वर नो ददासि जरव्याधिमृत्युभयतश्च विपत्तितश्च । हन्त शृणुष्व नृपते अपरं वरैकमस्माच्च्युतस्य प्रतिसंधि न मे भवेया ॥ १५.९ ॥ श्रुत्वैव चेम वचनं नरपुंगवस्य तृष्णा तनुं च करि छिन्दति पुत्रस्नेहम् । अनुमोदमी हितकरा जगति प्रमोक्षमभिप्रायु तुभ्य परिपूर्यतु यन्मतं ते ॥ १५.१० ॥ अथ खलु भिक्षवो बोधिसत्त्वः प्रतिक्रम्य स्वके प्रासादेऽभिरुह्य शयने निषसाद । न चास्य कश्चिद्गमनं वा आगमनं वा संजानीते स्म ॥ इति हि भिक्षवो राजा शुद्धोदनस्तस्या रात्र्या अत्ययेन सर्वं शाक्यगणं संनिपात्यैनां प्रकृतिमारोचयति स्म - अभिनिष्क्रमिष्यति कुमारः । तत्किं करिष्यामः? शाक्या आहुः - रक्षां देव करिष्यामः । तत्कस्मात्? अयं च महाञ्शाक्यगणः, स चैकाकी । तत्का तस्य शक्तिरस्ति बलादभिनिष्क्रमितुम्? तत्र तैः शाक्यै राज्ञा शुद्धोदनेन च पञ्च शाक्यकुमारशतानि कृतास्त्राणि कृतयोग्यानि इष्वस्त्रशिक्षितानि महानग्नबलोपेतानि पूर्वे नगरद्वारे स्थापितान्यभूवन् बोधिसत्त्वस्य रक्षणार्थम् । एकैकश्च शाक्यकुमारः पञ्चरथशतपरिवारः, एकैकं च रथं पञ्चपत्तिशतपरिवारं स्थापितमभूत्(वैद्य १४६) बोधिसत्त्वस्य रक्षणार्थम् । एवं दक्षिणे पश्चिमे उत्तरे नगरद्वारे पञ्च पञ्च शाक्यकुमारशतानि कृतास्त्राणि कृतयोग्यानि इष्वस्त्रशिक्षितानि महानग्नबलोपेतानि । एकैकश्च शाक्यकुमारः पञ्चरथशतपरिवारः, एकैकं च रथं पञ्चपत्तिशतपरिवारं स्थापितमभूत बोधिसत्त्वस्य रक्षार्थम् । महल्लकमहल्लिकाश्च शाक्याः सर्वचत्वरशृङ्गाटकपूगरथ्यास्वारक्षार्थं स्थिता अभवन् । राजा च शुद्धोदनः पञ्चभिः शाक्यकुमारशतैः सार्धं परिवृतः पुरस्कृतः स्वके गृहद्वारे हयेषु च गजेषु च समभिरुह्य जागर्ति स्म । महाप्रजापती च गोतमी चेटीवर्गमामन्त्रयते स्म - ज्वालेथ दीप विमलां ध्वजाग्रि मणिरत्न सर्वि स्थापेथा । ओलम्बयाथ हारां प्रभां कुरुत सर्वि गेहेस्मिन् ॥ १५.११ ॥ संगीति योजयेथा जागरथ अतन्द्रिता इमां रजनीम् । प्रतिरक्षथा कुमारं यथा अविदितो न गच्छेया ॥ १५.१२ ॥ वर्मितकलापहस्ता असिधनुशरशक्तितोमरगृहीताः । प्रियतनयरक्षणार्थं करोथ सर्वे महायत्नम् ॥ १५.१३ ॥ द्वारां पिथेथ सर्वां सुयन्त्रितां निर्गडां दृढकपाटाम् । मुञ्चथ मा च अकाले मा अग्रसत्त्व इतु न व्रजेया ॥ १५.१४ ॥ मणिहारमुक्तहारां मुखपुष्पके अर्धचन्द्र सशृङ्खलाः । मेखलकर्णिकमुद्रिक सुनिबद्धां नूपुरां कुरुत ॥ १५.१५ ॥ यदि सहस निष्क्रमेया नरमरुहित मत्तवारणविचारी । तथ तथ पराक्रमथा यथा विघातं न विन्देया ॥ १५.१६ ॥ या नारि शक्तिधारी शयनं परिवारयन्तु विमलस्य । म च भवथ मिद्धविहताः पतंग इव रक्षथा नेत्रैः ॥ १५.१७ ॥ छादेथ रतनजालै इदं गृहं पार्थिवस्य रक्षार्थम् । वेणूरवांश्च रवथा इमां रजनि रक्षथा विरजाम् ॥ १५.१८ ॥ अन्योन्य बोधयेथा म वसयथा रक्षथा इमां रजनीम् । मा हु अभिनिष्क्रमेथा विजह्य राष्ट्रं च राज्यं च ॥ १५.१९ ॥ एतस्य निर्गतस्या राजकुलं सर्विमं निरभिरम्यम् । उच्छिन्नश्च भवेया पार्थिववंशश्चिरनुबद्धः ॥ १५.२० ॥ १५.इति अथ खलु भिक्षवोऽष्टाविंशतिमहायक्षसेनापतयः पाञ्चिकयज्ञसेनापतिपूर्वंगमानि च पञ्चहारितीपुत्रशतान्येकस्मिन् संनिपात्यैवं मतं विचारयन्ति स्म - अद्य मार्षा बोधिसत्त्वोऽभिनिष्क्रमिष्यति । तस्य युष्माभिः पूजाकर्मणे औत्सुक्यमापत्तव्यम् ॥ (वैद्य १४७) चत्वारश्च महाराजानो अलकवतीं राजधानीं प्रविश्य तां महतीं यक्षपर्षदमामन्त्रयते स्म - अद्य मार्षा बोधिसत्त्वोऽभिनिष्क्रमिष्यति । स युष्माभिर्ह यवरचरणपरिगृहीतो निष्क्रामयितव्यः । सा च यक्षपर्षदाह - वज्रदृढ अभेद्य नारायणो आत्मभावो गुरु वीर्यबलौपेतु सोऽकम्पितो सर्वसत्त्वोत्तमः । गिरिवर महमेरु उत्पाट्य शक्यं नभे धारितुं केनचित्न तु जिनगुणमेरु शैलैर्गुरुः पुण्यज्ञानाश्रितः शक्य नेतुं क्वचित् ॥ १५.२१ ॥ वैश्रवण आह - ये मानगर्वित नरा गुरु तेषु शास्ता ये प्रेमगौरवस्थिता लघु ते विजानि । अध्याशयेन अभियुज्यथ गौरवेण लघु तं हि वेत्स्यथ खगा इव तूलपेशिम् ॥ १५.२२ ॥ अहं च पुरतो यास्ये यूयं च वहथा हयम् । नैष्क्रम्ये बोधिसत्त्वस्य पुण्यमार्जयामो बहुम् ॥ १५.२३ ॥ अथ खलु भिक्षवः शक्रो देवानामिन्द्रो देवांस्त्रायत्रिंशानामन्त्रयते स्म - अद्य मार्षा बोधिसत्त्वोऽभिनिष्क्रमिष्यति । तत्र युष्माभिः सर्वैः पूजाकर्मणे औत्सुक्येन भवितव्यम् ॥ तत्र शान्तमतिर्नाम देवपुत्रः स एवमाह - अहं तावत्कपिलवस्तुनि महानगरे सर्वस्त्रीपुरुषदारकदारिकाणां प्रस्वापनं करिष्यामि । ललितव्यूहो नाम देवपुत्रः स एवमाह - अहमपि सर्वहयगजखरोष्ट्रगोमहिषस्त्रीपुरुषदारकदारिकाणां शब्दमन्तर्धापयिष्यामि । व्यूहमतिर्नाम देवपुत्रः स एवमाह - अहं गगनतले सप्तरथविस्तारप्रमाणं रत्नवेदिकापरिवृतं सूर्यकान्तमणिरत्नप्रभोज्ज्वलितमुछ्रितछत्रध्वजपताकं नानापुष्पाभिकीर्णं नानागन्धघटिकानिधूपितं मार्गव्यूहं करिष्यामि, येन मार्गेण बोधिसत्त्वोऽभिनिष्क्रमिष्यति । ऐरावणो नाम नागराजा स एवमाह - अहमपि च स्वस्यां शुण्डायां द्वात्रिंशद्योजनप्रमाणं कूटागारं मापयिष्यामि । यत्राप्सरसोऽभिरुह्य तूर्यसंगीतिसंप्रभणितेन महता गीतवादितेन बोधिसत्त्वस्योपस्थानपरिचर्यां कुर्वन्त्यो गमिष्यन्ति । स्वयं च शक्रो देवानामिन्द्र एवमाह - अहं द्वाराणि विवरिष्यामि । मार्गं च संदर्शयामि । धर्मचारी देवपुत्र आह - अहं विकृतमन्तःपुरमुपदर्शयिष्यामि । संचोदको देवपुत्र आह - अहं बोधिसत्त्वं शयनादुत्थापयिष्यामि । (वैद्य १४८) तत्र वरुणश्च नाम नागराजो मनस्वी च नागराजः सागरश्च नागराजोऽनवतप्तश्च नागराजो नन्दोपनन्दौ नागराजावेवमाहुः - वयमपि बोधिसत्त्वस्य पूजाकर्मणे कालानुसारिमेघमभिनिर्माय उरगसारचन्दनचूर्णवर्षमभिवर्षयिष्यामः ॥ इति हि भिक्षवो देवनागयक्षगन्धर्वैश्चायमेवंरूपो निश्चयाभिप्रायश्चिन्तितोऽभूद्व्यवसितश्च । बोधिसत्त्वस्यैवं धर्मचिन्तानुप्रविष्टस्य संगीतिप्रासादेषु सुखशयनगतस्य अन्तःपुरमध्यगतस्य पूर्वबुद्धचरित विचिन्तयतः सर्वसत्त्वहितमनुचिन्तयतश्चत्वारि पूर्वप्रणिधानपदान्यामुखीभवन्ति स्म । कतमानि चत्वारि? पूर्वं मया स्वयंभुवामाधिपतेयतामभिलषता सर्वज्ञतां प्रार्थयमानेनैवं संनाहः संनद्धोऽभूत्- सत्त्वान् दुःखितान् दृष्टा अहो बताहं संसारमहाचारकबन्धनप्रक्षिप्तस्य लोकसंनिवेशस्य संसारचारकं भित्त्वा बन्धनप्रमोक्षशब्दं चोदीरयेयं तृष्णया सनिगडगाढबन्धनबद्धांश्च सत्त्वान् प्रमोचयेयम् । इदं प्रथमं पूर्वप्रणिधानपदमामुखीभवति स्म ॥ अहो बताहं संसारमहाविद्यान्धकारगहनप्रक्षिप्तस्य लोकस्याज्ञानपटलतिमिरावृतनयनस्य प्रज्ञाचक्षुर्विरहितस्याविद्यामोहान्धकारस्य महान्तं धर्मालोकं कुर्याम् । ज्ञानप्रदीपं चोपसंहरेयम् । त्रिविमोक्षसुखज्ञानवतौषधिसंप्रयोगेण चोपायप्रज्ञाज्ञानसंप्रयुक्तेन सर्वाविद्यान्धकारतमोहतं महत्तिमिरपटलकालुष्यमपनीय प्रज्ञाचक्षुर्विशोधयेयम् । इदं द्वितीयं पूर्वप्रणिधानपदमामुखीभवति स्म ॥ अहो बताहं मानध्वजोच्छ्रितस्य लोकस्याहंकारममकाराभिनिविष्टस्यात्मनीयग्राहानुगमानसस्य संज्ञाचित्तदृष्टिविपर्यासविपर्यस्तस्यासंग्रहगृहीतस्यार्यमार्गोपदेशेनास्मिमानध्वजप्रपातनं कुर्याम् । इतीदं तृतीयं पूर्वप्रणिधानपदमामुखीभवति स्म । अहो बताहं व्युपशान्तस्य लोकस्य तन्द्राकुलजातस्य गुणावगुण्ठितभूतस्याजवंजवसमापन्नस्यास्माल्लोकात्परं लोकं परलोकादिमं लोकं संघावतः संसरतः संसारादभिनिवृत्तस्यालातचक्रसमारूढस्योपशमिकं प्रज्ञातृप्तिकरं धर्मं संप्रकाशयेयम् । इतीदं चतुर्थं पूर्वप्रणिधानपदमामुखीभवति स्म । इमानि चत्वारि पूर्वप्रणिधानपदान्यामुखीभवन्ति स्म ॥ तस्मिंश्च क्षणे धर्मचारिणा देवपुत्रेण शुद्धावासकायिकैश्च देवपुत्रैर्विकृतविगलितमन्तः - पुरमुपदर्शितमभूत् । विसंस्थितं बीभत्सरूपमुपदर्श्य च गगनतलस्थास्ते बोधिसत्त्वं गाथाभिरध्यभाषन्त - अथाब्रुवन् देवसुता महर्द्धयो विबुद्धपद्मायतलोचनं तम् । कथं तवास्मिन्नुपजायते रतिः श्मशानमध्ये समवस्थितस्य ॥ १५.२४ ॥ संचोदितः सोऽथ सुरेश्वरेभिः निरीक्षतेऽन्तःपुर तं मुहूर्तम् । (वैद्य १४९) संप्रेषते पश्यति तां बिभत्सां श्मशानमध्ये वसितोऽस्मि भूतम् ॥ १५.२५ ॥ अद्राक्षीत्खल्वपि बोधिसत्त्वः सर्वावन्तं नारीगणम् । व्यवलोकयन् पश्यति । तत्र काश्चिद्वयपकृष्टवस्त्राः काश्चिद्विधूतकेश्यः काश्चिद्विकीर्णाभरणाः काश्चिद्विभ्रष्टमुकुटाः काश्चिद्विहतैरंसैः काश्चिद्विगोपितगात्र्यः काश्चिद्विसंस्थितमुखाः काश्चिद्विपरिवर्तितनयनाः काश्चित्प्रस्रवन्ती लालाभिः काश्चिच्छ्वसन्त्यः काश्चित्प्रहसन्त्यः काश्चित्काशन्त्यः काश्चित्प्रलपन्त्यः काश्चिद्दन्तान् कटकटायन्त्यः काश्चिद्विवर्णवदनाः काश्चिद्विसंस्थितरूपाः काश्चित्प्रलम्बितबाहवः काश्चिद्विक्षिप्तचरणाः काश्चिदुद्धाटितशीर्षाः काश्चिदवगुण्ठितशीर्षाः काश्चिद्विपरिवर्तितमुखमण्डलाः काश्चित्प्रध्वस्तशरीराः काश्चिद्विभुग्नगात्र्यः काश्चिन्निकुब्जाः खुरखुरायमाणाः काश्चिन्मृदङ्गमुपगुह्य परिवर्तितशीर्षशरीराः काश्चिद्वीणावल्लक्याद्यपरिबद्धपाणयः काश्चिद्वेणुं दन्तैः कटकटायन्त्यः काश्चित्किम्पलनकुलसंपताडापकर्षितवाद्यभाण्डाः काश्चिन्निमेषोन्मेषपरिवृत्तनयनाः काश्चिद्विवृतास्याः । एवं तद्विकृतं धरणीतलगतमन्तःपुरं निरीक्षमाणो बोधिसत्त्वः श्मशानसंज्ञामुत्पादयति स्म ॥ तत्रेदमुच्यते - तां दृष्ट्व उद्विग्न स लोकनाथः करुणं विनिश्वस्य इदं जगाद । अहो बता कृच्छ्रगता व्रजेयं कथं रतिं विन्दति राक्षसीगणे ॥ १५.२६ ॥ अतिमोहतमावृत दुर्मति कामगुणैर्निगुणैर्गुणसंज्ञिनः । विहग पञ्जरमध्यगता यथा न हि लभन्ति कदाचि विनिःसृतिम् ॥ १५.२७ ॥ अथ बोधसत्त्वोऽनेन पुनरपि धर्मालोकमुखेनान्तःपुरं प्रत्यवेक्षमाणो महाकरुणापरिदेवितेन सत्त्वान् परिदेवते स्म - इह ते बाला हन्यन्ते आघातन इव वध्याः । इह ते बाला रज्यन्ते चित्रघटेष्विवामेध्यपरिपूर्णेष्वविद्वांसः । इह ते बाला मज्जन्ति गजा इव वारिमध्ये । इह ते बाला रुध्यन्ते चौरा इव चारकमध्ये । इह ते बाला अभिरता वराहा इवाशुचिमध्ये । इह ते बाला अध्यवसिताः कुक्कुरा इवास्थिकरङ्कमध्ये । इह ते बालाः प्रपतिता दीपशिखास्विव पतंगाः । इह ते बाला बध्यन्ते कपय इव लेपेन । इह ते बालाः परिदह्यन्ते जालोत्क्षिप्ता इव जलजाः । इह ते बालाः परिक्रूड्यन्ते सूनाकाष्ठेष्विवोरभ्राः । इह ते बाला अवसज्जन्ते किल्बिषकारिण इव शूलाग्रे । इह ते बालाः संसीदन्ति जीर्णगजा इव पङ्के । इह ते बाला विपद्यन्ते भिन्नयानपात्र इव महासमुद्रे । इह ते बालाः प्रपतन्ते महाप्रपात इव जात्यन्धाः । इह ते बालाः पर्यादानं गच्छन्ति पातालसंधिगतमिव वारि । इह ते बाला धूमायन्ते कल्पसंक्षय इव महापृथिवी । आभिर्बाला भ्राम्यन्ते कुम्भकारकचक्रमिवाविद्धम् । इह ते बालाः परिभ्रमन्ति शैलान्तर्गता (वैद्य १५०) इव जात्यन्धाः । इह ते बाला विपरिवर्तन्ते कुर्कुरा इव शर्दूलबद्धाः । इह ते बाला म्लायन्ते ग्रीष्मकाल इव तृणवनस्पतयः । इह ते बालाः परिहीयन्ते शशीव कृष्णपक्षे । आभिर्बाला भक्ष्यन्ते गरुडेनेव पन्नगाः । आभिर्बाला ग्रस्यन्ते महामकरेणेव पोतः । आभिर्बाला लुप्यन्ते चोरसंघेनेव सार्थः । आभिर्बाला भिद्यन्ते मारुतेनेव शालाः । आभिर्बाला हन्यन्ते दृष्टीविषैरिव जन्तवः । आस्वादसंज्ञिनो बालाः क्षण्यन्ते मधुदिग्धाभिरिव क्षुरधाराभिर्बालजातीयाः । आभिर्बाला उह्यन्ते दारुस्कन्धा इव जलौघैः । आभिर्बालाः क्रीडन्ति दारका इव स्वमूत्रपुरीषैः । आभिर्बाला आवर्त्यन्तेऽङ्कुशेनेव गजाः । आभिर्बाला बध्यन्ते धूर्तकैरिव बालजातीयाः । इह ते बालाः कुशलमूलानि क्षपयन्ति द्यताभिरता इव धनम् । आभिर्बाला भक्ष्यन्ते राक्षसीभिरिव वणिजाः । इत्येभिर्द्वात्रिंशताकारैर्बोधिसत्त्वोऽन्तःपुरं परितुलयित्वा कायेऽशुभसंज्ञां विचारयन् प्रतिकूलसंज्ञामुपसंहरन् जुगुप्ससंज्ञामुत्पादयन् स्वकायं प्रतिविभावयन् कायस्यादीनवं संपश्यन् कायात्कायाभिनिवेशमुच्चारयन् शुभसंज्ञां विभावयनशुभसंज्ञामवक्रामयनधः पादतलाभ्यां यावदूर्ध्वं मस्तकपर्यन्तं पश्यति स्म अशुचिसमुत्थितमशुचिसंभवमशुचिस्रवं नित्यम् । तस्यां च वेलायामिमां गाथामभाषत - कर्मक्षेत्ररुहं तृषासलिलजं सत्कायसंज्ञीकृतं अश्रुस्वेदकफार्द्रमूत्रविकृतं शोणीतबिन्द्वाकुलम् । बस्तीपूयवसासमस्तकरसैः पूर्णं तथा किल्बिषैः नित्यप्रस्रवितं ह्यमेध्य सकलं दुर्गन्ध नानाविधम् ॥ १५.२८ ॥ अस्थीदन्तसकेशरोमविकृतं चर्मावृतं लोमशं अन्तःप्लीहयकृद्वपोष्णरसनैरेभिश्चितं दुर्बलैः । मज्जास्नायुनिबद्धयन्त्रसदृशं मांसेन शोभीकृतं नानाव्याधिप्रकीर्णशोककलिलं क्षुत्तर्षसंपीडितम् । जन्तूनां निलयमनेकसुषिरं मृत्युं जरां चाश्रितं दृष्ट्वा को हि विचक्षणो रिपुनिभं मन्ये शरीरं स्वकम् ॥ १५.२९ ॥ एवं च बोधिसत्त्वः काये कायानुगतया स्मृत्या विहरति स्म ॥ गगनतलगताश्च देवपुत्रा धर्मचारिणं देवपुत्रमेवमाहुः - किमिदं मार्षाः? सिद्धार्थो विलम्बतेऽन्तःपुरं चावलोकयति स्म । तं चोदपर्शयति चित्तं चोद्वेजयति । भूयश्चक्षुर्निवेशयति । अथवा जवजलनिधिगम्भीरोऽयम्, न शक्यमस्य प्रमाणं ग्रहीतुम् । अथवा असङ्गस्य मा खलु विषये सज्जते मनः । मा खल्वमरैरसंचोदितो विस्मरति पूर्वप्रतिज्ञामिति ॥ (वैद्य १५१) धर्मचार्याह - किमेवं कथयत? ननु यूयमस्य प्रत्यक्षपूवेमव बोधाय चरतस्तथाविधा निःसङ्गताभूत् । नैष्क्रम्यत्यागे च किमङ्ग पुनरेतर्हि चरमभवावस्थितस्य सङ्गो भविष्यति? अथ खलु भिक्षवो बोधिसत्त्वः कृतनिश्चयः संवेजितमानसो व्यवसितबुद्धिः सलीलमविलम्बितं पर्यङ्कादवतीर्य सङ्गीतिप्रासादे पूर्वाभिमुखः स्थित्वा दक्षिणेन पाणिना रत्नजालिकामवनाम्य प्रासादकोटीगतो दशनखकृतकरपुटो भूत्वा सर्वबुद्धान् समन्वाहृत्य सर्वबुद्धेभ्यश्च नमस्कारं कृत्वा गगनतलमवलोकयति स्म । सोऽद्राक्षीद्गगनतलगतममराधिपतिं दशशतनयनं देवशतसहस्रपरिवृतं पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरछत्रध्वजपताकावतंसकरत्न - हारदामपरिगृहीतमवनतकायं बोधिसत्त्वं नमस्यमानं स्थितम् । चतुरश्च लोकपालान् यक्षराक्षसगन्धर्वभुजगगणसंपरिवृतान् संनद्धदृढवर्मितकवचितानसिधनुशरशक्तितोमरत्रिशूलहस्तान् सलीलं मणिमुकुटविलम्बितचूडान् बोधिसत्त्वं नमस्यमानान् स्थितान् पश्यति स्म । चन्द्रसूर्यावति देवपुत्रौ वामदक्षिणयोः पार्श्वयोः स्थितावपश्यत् । पुष्यश्च नक्षत्राधिपतिरुपस्थितोऽभूत् । अर्धरात्रिं च समयं संप्राप्तम् । दृष्ट्वा च बोधिसत्त्वश्छन्दकमामन्त्रयते स्म - छन्दका चपलु मा विलम्बहे अश्वराज दद मे अलंकृतम् । सर्वसिद्धि मम एति मङ्गला अर्थसिद्धि ध्रुवमद्य भेष्यते ॥ १५.३० ॥ अथ छन्दक इदं वचनं श्रुत्वा उद्विग्नमना एवमाह - क्व गमिष्यसे विकसितभ्रू कमलदल शुभलोचन नृपसिंह शरदिन्दुपूर्ण कुमुदशशाङ्कमुदिता ॥ १५.३१ ॥ नवनलिनकोमलविबुद्धपद्मवदना हाटकसुधान्तरवितरुणविमलशशितेज । धृतहुतार्चिरग्निमणिविद्युतत्प्रभोज्ज्वलिततेजो । वारणमत्तलीलगजगामि । गोवृषमृगेन्द्रहंसक्रम सुक्रमा सुचरणा ॥ १५.३२ ॥ बोधिसत्त्व आह - छन्दक यस्य अर्थिं मयि पूर्व त्यक्त करचरणनयन । तथ उत्तमाङ्ग तनय भार्य प्रियाश्च राज्यधनकनकवसन । रत्नपूर्ण गज तुरगानिलजववेग विक्रमबलाः ॥ १५.३४ ॥ (वैद्य १५२) शीलु मि रक्षि क्षान्ति परिभावि वीर्यबलध्यानप्रज्ञानिरतश्चास्मि बहुकल्पकोटिनयुता । किं तु स्पृशित्व बोधिशिवशान्तिम् जरामरणपञ्जरनिरष्टसत्त्वपरिमोचनस्य समयोऽद्युपस्थितु मम ॥ १५.३५ ॥ छन्दक आह - श्रुतं मया आर्यपुत्र यथा त्वं जातमात्र एव नैमित्तिकानां ब्राह्मणानामुपनामितो दर्शनाय । तैश्चासि राज्ञः शुद्धोदनस्याग्रतो व्याकृतः - देव वृद्धिस्ते राजकुलस्य । आह - किमिति? ते आहुः - अयं कुमारः शतपुण्यलक्षणो जातस्तवा आत्मज पुण्यतेजितः । च चक्रवर्ती चतुद्वीपईश्वरो भविष्यति सप्तधनैरुपेतः ॥ १५.३६ ॥ स चेत्पुनर्लोकमवेक्ष्य दुःखितं विजह्यमान्तःपुरि निष्क्रमिष्यति । अवाप्य बोधिमजरामरं पदं तर्पेष्यते धर्मजलैरिमां प्रजाम् ॥ १५.३७ ॥ हन्त आर्यपुत्र अस्ति तावदेव तद्व्याकरणं नेदं नास्ति । किं तु शृणु तावन्ममार्थकामस्य वचनम् । आह - किमिति । अह - देव यस्यार्थे इह केचिदनेकविधानि व्रततपांस्यारभन्तेऽजिनजटामकुटचीवरवल्कलधरा दीर्घनखकेशस्मश्रु च, अनेकविधानि कायस्यातापनपरितापनानि समुत्सहन्ते । तीव्रं च व्रततपमारभन्ते । किमिति? वयं देवमनुष्यसंपत्तिं प्रतिलभेमहीति । सा च संपत्त्वयार्यपुत्र प्रतिलब्धा । इदं च राज्यमृद्धं च स्फीतं च क्षेमं सुभिक्षं रमणीयमाकीर्णबहुजनमनुष्यम् । इमानि चोद्यानानि वरप्रवराणि नानाविधपुष्पफलमण्डितानि नानाशकुनिगणनिकूजितानि । पुष्करिण्यश्चोत्पलपद्मकुमुदपुण्डरीकोपशोभिता हंसमयूरकोकिलचक्रवाकक्रोञ्चसारसनिकूजिताः पुष्पितसहकाराशोकचम्पककुरबकतिलककेशरादिनानाद्रुमतीरोपरिबद्धा नानारत्नवृक्षवाटिकासमलंकृता अष्टापदविनिबद्धा रत्नवेदिकापरिवृता रत्नजालसंछन्ना यथर्तुकालपरिभोगा ग्रीष्मवर्षाशरद्धेमन्तसुखसंवासाः । इमे च शरदभ्रनिभाः कैलासपर्वतसदृशा महाप्रासादा वैजयन्तसमा धर्मसुधर्मक्षेमसमा शोकविगतप्रभृतयो वितर्दिनिर्यूहतोरणगवाक्षहर्म्यकूटागारप्रासादतलसमलंकृता रत्नकिङ्किणीजालसमीरिताः । इदं चार्यपुत्र अन्तःपुरं तुणवपणववीणावेणुसंपताडावचराकिम्पलनकुलसुघोषकमृदङ्गपटहनृत्यगीतवादित्रसंगीतिसंप्रयोगसुशिक्षितं हास्यलास्यक्रीडितरमितसुखिलमधुरोपचारम् । त्वं च देव युवा अनभिक्रान्तयौवनो नवो दहरस्तरुणः कोमलशरीरः शिशुः कृष्णकेशः । (वैद्य १५३) अविक्रीडितः कामैः । अभिरमस्व तावदमराधिपतिरिव दशशतनयनस्त्रिदशाधिपतिः । ततः पश्चाद्वृद्धीभूता अभिनिष्क्रमिष्यामः । तस्यां च वेलायामिमां गाथामभाषत - रमतां च रतिविधिज्ञाममराधिपतिर्यथा त्रिदशलोके । पश्चाद्वृद्धीभूता व्रततपसमारभिष्यामः ॥ १५.३९ ॥ बोधिसत्त्व आह - अलं छन्दक । अनित्याः खल्वेते कामा अध्रुवा अशाश्वता विपरिणामधर्माणः प्रद्रुताश्चपला गिरिनदीवेगतुल्याः । अवश्यायबिन्दुवदचिरस्थायिन उल्लापना रिक्तमुष्टिवदसाराः कदलीस्कन्धवद्दुर्बला आमभाजनवद्भेदनात्मकाः शरदभ्रनिभाः क्षणाद्भूत्वा न भवन्ति । अचिरस्थायिनो विद्युत इव नभसि सविषभोजनमिव परिणामदुःखा मालुतालतेवासुखदा अभिलिखिता बालबुद्धिभिरुदकबुद्बुदोपमाः क्षिप्रं विपरिणामधर्माणः । मायामरीचिसदृशाः संज्ञाविपर्याससमुत्थिताः । मायासदृशाश्चित्तविपर्यासविधापिताः । स्वप्नसदृशा दृष्टिविपर्यासपरिग्रहयोगेनातृप्तिकराः । सागर इव दुष्पूरा लवणोदक इव तृषाकराः । सर्पशिरोवद्दुःस्पर्शनीया महाप्रपातवत्परिवर्जिताः पण्डितैः । सभयाः सरणाः सादीनवः सदोषाः इति ज्ञात्वा विवर्जिताः प्राज्ञैर्विगर्हिता विद्वद्भिर्जुगुप्सिता आर्यैर्विवर्जिताः बुधैः परिगृहीता अबुधैर्निषेविता बालैः । तस्यां च वेलायामिमां गाथामभाषत - विवर्जिता सर्पशिरो यथा बुधैः विगर्हिता मीढघटो यथाशुचिः । विनाशका सर्वशुभस्य छन्दका ज्ञात्वा हि कामान्न मि जायते रति ॥ १५.४० ॥ तदा छन्दकः शल्यविद्धो यथा क्रन्दमानस्ततोऽश्रुनेत्रो दुःखी एवं वाक्यमव्रवीत्- देवा यस्यार्थि केचिदिहा तीव्र नेकविधा आरभन्ते व्रतान् अजिनजटाधर सुदीर्घकेशानखा श्मश्रुचीरास्तथा । वल्कलाधार शुष्काङ्ग नेके व्रतानाश्रिता शाकस्यामाकगर्दूलभक्षाश्च ओमूर्धकाश्चापरे गोव्रतां संश्रिताः ॥ १५.४१ ॥ किं तु वय भवेम श्रेष्ठा विशिष्टा जगे चक्रवर्तिवरा लोकपालास्तथा । शक्र वज्रंधरा याम देवाधिपा निर्मिता । ब्रह्मलोके च ध्यानासुखाकाङ्क्षिणः ॥ १५.४२ ॥ तदिद नरवरिष्ठ राज्यं तव स्फीतमृद्धं सुभिक्षं तथा आरामोद्यानप्रासादौच्छ्रेपितं वैजयन्तासमम् । (वैद्य १५४) इस्त्रिगारस्वयं वेणुवीणारवै गीतवाद्यै रती नृत्यसंगीति संयोगि संशिक्षितं भुञ्ज कामानिमान्मा व्रजा सूरता ॥ १५.४३ ॥ बोधिसत्त्व आह - छन्दक शृणु यानि दुःखाशतामर्पिता पूर्वि जन्मान्तरे बन्धना रुन्धना ताडना तर्जना कामहेतोर्मया । नो च निर्विण्णभूत्संस्कृते मानसम् ॥ १५.४४ ॥ प्रमदवशगतं च मोहाकुलं दृष्टिजालावृतमन्धभूतं पुरा । आत्मसंज्ञाग्रहाकारका वेदनावीतिवृत्ता इमे धर्म अज्ञानतः ॥ १५.४५ ॥ संभूता चपलचलऽनित्य मेघैः समा विद्युभिः सदृशाः । ओसबिन्दूपमा रिक्ततुच्छा असारा अनात्मा च शून्यस्वभावा इमे सर्वशः ॥ १५.४६ ॥ न च मम विषयेषु संरज्यते मानसं देहि मे छन्दका कण्ठकालंकृतमश्वराजोत्तमम् । पूर्ण मे मङ्गला ये पुरा चिन्तिता भेष्यि सर्वाभिभू सर्वधर्मेश्वरो धर्मराजो मुनिः ॥ १५.४६ ॥ छन्दक आह - इमां विबुद्धाम्बुजपत्रलोचनां विचित्रहारां मणिरत्नभूषिताम् । घनप्रमुक्तामिव विद्युतां नभे नोपेक्षसे शयनगतां विरोचतीम् ॥ १५.४८ ॥ इमांश्च वेणून् पणवां सुघोषकां मृदङ्गवंशांश्च संगीतवादिताम् । चकोरसोरां कलविङ्कनादितां यथालयं किन्नरिणां विहास्यसे ॥ १५.४९ ॥ सुमनोत्पलां वार्षिकचम्पकांस्तथा सुगन्धमालां गुणपुष्पसंचयाम् । कालागुरूनुत्तमगन्धधूपनां नोपेक्षसे ताननुलेपनान् वरान् ॥ १५.५० ॥ सुगन्धगन्धांश्च रसां प्रणीतां सुसाधितां व्यञ्जनभोजनांस्तथा । (वैद्य १५५) सशर्करां पानरसां सुसंस्कृतां नोपेक्षसे देव कहिं गमिष्यसि ॥ १५.५१ ॥ शीते च उष्णाननुलेपनाम्बरामुष्णे च तानुरगसारचन्दनाम् । तां काशिकावस्त्रवराम्बरां शुभां नोपेक्षसे देव कहिं गमिष्यसि ॥ १५.५२ ॥ इमे च ते (देव) कामगुणा हि पञ्च समृद्ध देवेष्विव देवतानाम् । रमस्व तावद्रतिसौख्यअन्वितः ततो वनं यास्यति शाक्यपुङ्गवः ॥ १५.५३ ॥ बोधिसत्त्व आह - अपरिमितानन्त कल्पा मया छन्दका भुक्त कामानि रूपाश्च शब्दाश्च गन्धा रसा स्पर्श नानाविधा । दिव्य ये मानुषा नो च तृप्तीरभूत् । नृपतिवरसुतेन ऐश्वर्य कारापितं चातुद्वीपे यदा राज भूच्चक्रवर्ती समन्वागतः सप्तभी रत्नभिः इस्त्रिगारस्य मध्ये गतः । त्रिदशपतिसुयामदेवाधिपत्यं च कारापितं येभ्यश्चाहं च्यवित्वा इहाभ्यागतो निर्मितो निर्मितेषु मानो आत्मिका च श्रिया उत्तमा । भुक्त पूर्वे मया । सुरपुरि वशवर्ति मारेश्वत्वं च कारापितं भुक्त कामाः समृद्धा वरा नो च तृप्तीभूत् । किं पुनो अद्य मां हीनसंसेवतस्तृप्ति गच्छेदहं स्थानमेतन्न संविद्यते ॥ १५.५४ ॥ अपि च - इमु जंग अपेक्षाम्यहं छन्दका दुःखितं शोककान्तारसंसारमध्ये स्थितम् । क्लेशव्यालाकुले उह्यमानं सदा । अशरणमपरायणं मोहविद्यान्धकारे जराव्याधिमृत्यूभयैः पीडितम् । जन्मदुःखैः समभ्याहतं व्याहतं शत्रुभिः । अहमिह समुदानिया धर्मनावं महात्यागशीलव्रतक्षान्तिवीर्याबलां दारुसंभारसंघातितां सारमध्याशयैर्वज्रकैः संगृहीतां दृढाम् । स्वयमहमभिरुह्य नावामिमात्मानोऽवतीर्य संसारओघे अहं तारयिष्ये अनन्तं जगत् । शोकसंसारकान्ताररोषोर्मिरागग्रहावर्तवैराकुले दुस्तरे । एव चित्तं मम ॥ १५.५५ ॥ (वैद्य १५६) तदात्मनोत्तीर्य इदं भवार्णवं सवैरदृष्टिग्रहक्लेशराक्षसम् । स्वयं तरित्वा च अनन्तकं जगत्स्थले स्थपेष्ये अजरामरे शिवे ॥ १५.५६ ॥ तदा छन्दको भूयस्या मात्रया प्ररुदन्नेवमाह - देव एष व्यवसायस्य निश्चयः? बोधिसत्त्व आह - शृणु छन्दक मह्य निश्चयं मोक्षसत्त्वार्थ हितार्थमुद्यतम् । अचलाचलमव्ययं दृढं मेरुराजेव यथा सुदुश्चलम् ॥ १५.५७ ॥ छन्दक आह - कीदृश आर्यपुत्रस्य निश्चयः? बोधिसत्त्व आह - वज्राशनिः परशुशक्तिशराश्च वर्षे विद्युत्प्रतानज्वलितः क्वथितं च लोहम् । आदीप्तशैलशिखरा प्रपतेयु मूर्ध्नि नैवा अहं पुन जनेय गृहाभिलाषम् ॥ १५.५८ ॥ तदा अमर नभगताः किलकिला मुञ्चिषु कुसुमवृष्टिः । जय हे परममतिधरा जगति अभयदायका नाथ ॥ १५.५९ ॥ न रज्यते पुरुषवरस्य मानसं नभो यथा तमरजधूमकेतुभिः । न लिप्यते विषयसुखेषु निर्मलो जले यथा नवनलिनं समुद्भवम् ॥ १५.५९ ॥ अथ खलु भिक्षवो बोधिसत्त्वस्य निश्चयं विदित्वा शान्तमतिश्च देवपुत्रो ललितव्यूहश्च देवपुत्रः कपिलवस्तुनि महानगरे सर्वस्त्रीपुरुषदारकदारिकानामपस्वापनमकुरुताम्, सर्वशब्दांश्चान्तर्धापयामासतुः ॥ अथ खलु भिक्षवो बोधिसत्त्वः सर्वं नगरजनं प्रसुप्तं विदित्वा अर्धरात्रिसमयं चोपस्थितं ज्ञात्वा पुष्यं च नक्षत्राधिपतिं युक्तं ज्ञात्वा सांप्रतं निष्क्रमणकाल इति ज्ञात्वा छन्दकमामन्त्रयते स्म - छन्दक मां मेदानीं खेदय । प्रयच्छ मे कण्ठकं समलंकृत्य, मा च विलम्बिष्ठाः ॥ समनन्तरोदाहृता च बोधिसत्त्वेनेयं वाक् । अथ तत्क्षणमेव चत्वारो लोकपाला बोधिसत्त्वस्य वचनमुपश्रुत्य स्वकस्वकानि च भवनानि गत्वा बोधिसत्त्वस्य पूजाकर्मणे स्वैः स्वैर्व्यूहैस्त्वरितं त्वरितं पुनरपि कपिलवस्तुमहानगरमागच्छन्ति स्म ॥ (वैद्य १५७) तत्र धृतराष्ट्रो महाराजो गन्धर्वाधिपतिः पूर्वस्या दिश आगतोऽभूत्सार्धमनेकैर्गन्धर्वकोटिनियुतशतसहस्रैर्नानातूर्यसंगीतिसंप्रवादितेन । आगत्य च कपिलवस्तुमहानगरं प्रदक्षिणीकृत्य यथागतः पूर्वां दिशमुपनिश्रित्यास्थात्बोधिसत्त्वं नमस्यमानः ॥ दक्षिणस्या दिशो विरूढको महाराजोऽभ्यागतोऽभूत्सार्धमनेकैः कुम्भाण्डकोटिनियुतशतसहस्रैर्नानामुक्ताहारपाणिप्रलम्बितैर्नानामणिरत्नपरिगृहीतैर्विविध - गन्धोदकपूर्णघटपरिगृहीतैः । आगत्य च कपिलवस्तुमहानगरं प्रदक्षिणीकृत्य यथागत एव दक्षिणां दिशमुपनिश्रित्यास्थात्बोधिसत्त्वं नमस्यमानः ॥ पश्चिमाया दिशो विरूपाक्षो महाराज आगतोऽभूत्सार्धमनेकैर्नागकोटिनियुतशतसहस्रैर्नानामुक्ताहारपाणिप्रलम्बितैर्नानामणिरत्नपरिगृहीतैर्गन्ध - चूर्णपुष्पवर्षमेघसमुत्थितैश्च मृदुभिः सुगन्धिभिर्नानावातैः प्रवायद्भिः । आगत्य च कपिलवस्तुमहानगरं प्रदक्षिणीकृत्य यथागत एव पश्चिमां दिशमुपनिश्रित्यास्थात्बोधिसत्त्वं नमस्यमानः ॥ उत्तरस्या दिशः कुबेरो महाराज आगतोऽभूत्सार्धमनेकैर्यक्षकोटिनियुतशतसहस्रैर्ज्योतीरसमणिरत्नपरिगृहीतैर्दीपिकापाणिपरिगृहीतैश्च ज्वलितोल्कापाणिपरिगृहीतैर्धनुरसिशरशक्तितोमरत्रिशूलचक्रकणयभिन्दिपालादिनानाप्रहरणपरिगृहीतैर्दृढ - संनद्धवर्भितकवचितैः । आगत्य कपिलवस्तुमहानगरं प्रदक्षिणीकृत्य यथागत एवोत्तरां दिशमुपनिश्रित्यास्थात्बोधिसत्त्वं नमस्यमानः ॥ शक्रश्च देवानामिन्द्रः सार्धं त्रायत्रिंशदेवैरागतोऽभूत्दिव्यपुष्पगन्धमाल्यविलेपनचूर्णचीवरछत्रध्वजपताकावतंसकाभरणपरिगृहीतैः । आगत्य कपिलवस्तुमहानगरं प्रदक्षिणीकृत्य यथागत एव सपरिवार उपर्यन्तरिक्षेऽस्थात्बोधिसत्त्वं नमस्कुर्वन् ॥ इति हि भिक्षवश्छन्दको बोधिसत्त्वस्य वचनमुपश्रुत्याश्रुपूर्णनयनो बोधिसत्त्वमेवमाह - आर्यपुत्र त्वं च कालज्ञो वेलज्ञश्च समयज्ञः । अयं च अकालोऽसमयो गन्तुम् । तत्किमाज्ञापयसि इति ॥ बोधिसत्त्व आह - छन्दक, अयं स कालः । छन्दक आह - कस्यार्यपुत्र कालः? बोधिसत्त्व आह - यत्तन्मया प्रार्थितु दीर्घरात्रं सत्त्वानमर्थं परिमार्गता हि । अवाप्य बोधिमजरामरं पदं मोचे जगत्तस्य क्षणो उपस्थितः ॥ १५.६० ॥ (वैद्य १५८) इयमत्र धर्मता ॥ तत्रेदमुच्यते - भौमान्तरीक्षाश्च तथैव पालाः शक्रश्च देवाधिपतिः सयक्षः । यामाश्च देवास्तुषिताश्च निर्मिताः परनिर्मितोद्युक्त तथैव देवाः ॥ १५.६१ ॥ वरुणो मनस्वी अपि नागराजा अनावतप्तश्च तथैव मागरः अभियुक्त ते चाप्यभिपूजनार्थं नैष्क्रम्यकाले नरपुंगवस्य ॥ १५.६२ ॥ ये चापि रूपावचरेषु देवाः प्रशान्तचारी सह ध्यानगोचराः । अभियुक्त ते चाप्यभिपूजनार्थं त्रैलोक्यपूज्यस्य नरोत्तमस्य ॥ १५.६३ ॥ दशादिशोऽभ्यागत शुद्धसत्त्वाः सहायकाः पूर्वचरिं चरन्तः । द्रक्ष्यामहे निष्क्रमणं जिनस्य पूजां करिष्यामि तथानुरूपाम् ॥ १५.६४ ॥ स चापि गुह्याधिपतिर्महात्मा प्रदीप्तवज्रो नभसि प्रतिस्थितः । संनद्धगात्रो बलवीर्यविक्रमः करेण गुह्य ज्वलमानु वज्रम् ॥ १५.६५ ॥ चन्द्रश्च सूर्यो उभि देवपुत्रौ प्रदक्षिणं वामकु सुप्रतिस्थितौ । दशाङ्गुली अञ्जलिभिर्गृहीत्वा नैष्क्रम्यशब्दोऽनुविचारयन्ति ॥ १५.६६ ॥ पुष्यश्च नक्षत्र सपारिषद्यो औदारिकं निर्मिणि आत्मभावम् । स्थित्वाग्रतस्तस्य नरोत्तमस्य मनोज्ञघोषाभिरुतं प्रमुञ्चत् ॥ १५.६७ ॥ सर्वेऽद्य सिद्धाः शुभ तुभ्य मङ्गलाः पुष्यश्च युक्तः समयश्च गन्तुम् । (वैद्य १५९) अहं पि यास्यामि त्वयैव सार्धम् । अनुत्तरायो भव रागसूदनः ॥ १५.६८ ॥ संचोदकश्चोदयि देवपुत्र उत्तिष्ठ शीघ्रं बलवीर्यौद्गतः । दुःखैर्हतांस्तारय सर्वसत्त्वान्नैष्क्रम्यकालः समुपस्थितस्ते ॥ १५.६९ ॥ समागता देवसहस्रकोट्यः प्रवर्षमाणा कुसुमान्मनोज्ञान् । स चापि पर्यङ्कवरे निषण्णो देवैर्वृतो भ्राजति दीप्ततेजः ॥ १५.७० ॥ नगरे इस्त्रिक दारकाश्च पुरुषा याश्चाभवन् दारिकाः सर्वे ते शयिता किलान्तमनसो ईर्यापथेभ्यश्च्युताः । हस्ति अश्वगवाश्च सारिकशुकाः क्रोञ्चा मयूरास्तथा सर्वे ते शयिता किलान्तमनसः पश्यन्ति रूपं न ते ॥ १५.७१ ॥ ये चा ते दृढवज्रतोमरधरा शाक्यैः सुताः स्थापिताः हस्तिअश्वरथेषु तोरणवरे ते चाप्यवस्वापिताः । राजा राजकुमार पार्थिवजनः सर्वे प्रसुप्ता भवन् अपि चा नारिगणा विनग्नवसना सुप्ता न ते बुद्धिषू ॥ १५.७२ ॥ सो च ब्रह्मरुतो मनोज्ञवसनः कलविङ्कघोषस्वरो रात्रौ निर्गत अर्धरात्रसमये तं छन्दकमब्रवीत् । साधू छन्दक देहि कण्ठकु मम स्वालंकृतं शोभनं मा विघ्नं कुरु मे ददाहि चपलं यदि मे प्रियं मन्यसे ॥ १५.७३ ॥ क्व त्वं यास्यसि सत्त्वसारथिवरा किमश्वकार्यं च ते कालज्ञः समयज्ञ धर्मचरणो कालो न गन्तु क्वचित् । द्वारास्ते पिथिता दृढार्गलकृता को दास्यते तां तव । शक्रेणा मनसाथ चेतनवशात्ते द्वार मुक्ता कृताः दृष्ट्वा छन्दक हर्षितो पुन दुखी अश्रूणि सोऽवर्तयी । हा धिक्को मि सहायु किं तु कुरुमी धावामि कां वा दिशं उग्रंतेजधरेण वाक्यु भणितं शक्यं न संधारितुम् ॥ १५.७४ ॥ (वैद्य १६०) सा सेना चतुरङ्गिनी बलवती किं भू करोतीह हा राजा राजकुमार पार्थिव जनो नेमं हि बुध्यन्ति ते । स्त्रीसंघः शयितस्तथा यशवती ओस्वापिता देवतैः हा धिग्गच्छति सिध्यतेऽस्य प्रणिधिर्यश्चिन्तितः पूर्वशः ॥ १५.७५ ॥ देवाः कोटिसहस्र हृष्टमनसस्तं छन्दकमब्रुवन् साधु छन्दक देहि कण्ठकवरं मा खेदयी नायकम् । भेरीशङ्खमृदङ्गतूर्यनयुता देवासुरैर्वादिता नैवेदं प्रतिबुध्यते पुरवरमोस्वापितं देवतैः ॥ १५.७६ ॥ पश्य छन्दक अन्तरीक्ष विमलं दिव्या प्रभा शोभते पश्य त्वं बहुबोधिसत्त्वनयुतां ये पूजनायागताः । शक्रं पश्य शचीपतिं बलवृतं द्वारस्थितं भ्राजते देवांश्चाप्यसुरांश्च किन्नरगणां ये पूजनार्थागताः ॥ १५.७७ ॥ श्रुत्वा छन्दक देवतान वचनं तं कण्ठकमालपी एष्वागच्छति सत्त्वसारथिवरः त्वं ताव हेषिष्यसे । सो तं वर्षिकुवर्ण काञ्चनखुरं स्वालंकृतं कृत्वना उपनेती गुणसागरस्य वहनं रोदन्तको दुर्मना ॥ १५.७८ ॥ एषा ते वरलक्षणा हितकरा अश्वः सुजातः शुभो गच्छ सिध्यतु तुभ्य एव प्रणिधिर्यश्चिन्तितः पूर्वशः । ये ते विघ्नकरा व्रजन्तु प्रशममासां व्रतं सिध्यतां भवही सर्वजगस्य सौख्यददनः स्वर्गस्य शान्त्यास्तथा ॥ १५.७९ ॥ सर्वा कम्पित षड्विकार धरणी शयनाद्यदा सोत्थितः आरूढः शशिपूर्णमण्डलनिभं तमश्वराजोत्तमम् । पाला पाणिविशुद्धपद्मविमला न्यसयिंसु अश्वोत्तमे शक्रो ब्रह्म उभौ च तस्य पुरतो दर्श्यन्ति मार्गो ह्ययम् ॥ १५.८० ॥ आभा तेन प्रमुक्त अच्छविमला ओभासिता मेदिनी सर्वे शान्त अपाय सत्त्व सुखिता क्लेशैर्न बाध्यी तदा । पुष्पा वर्षिषु तूर्यकोटि रणिषू देवासुरास्तुष्टुवुः सर्वे कृत्व प्रदक्षिणं पुरवरं गच्छन्ति हर्षान्विताः ॥ १५.८१ ॥ (वैद्य १६१) पुरवरोत्तमि देवत दीनमना उपगम्य गच्छति महापुरुषे । पुरतः स्थिता करुणदीनमना गिरया समालपति पद्ममुखम् ॥ १५.८२ ॥ तमसाकुलं भुविमु सर्वपुरं नगरं न शोभति त्वय रहितम् । न ममात्र काचि रति प्रीतिकरी त्यक्तं त्वया च यदिदं भवनम् ॥ १५.८३ ॥ न पुनः श्रुणिष्यि रुतु पक्षिगणे अन्तःपुरे मधुरवेणुरवम् । मङ्गल्यशब्द तथ गीतरवं प्रतिबोधनं तव अनन्तयशः ॥ १५.८४ ॥ दर्शे न भूयु सुरसिद्धगणां कुर्वन्तु पूज तव रात्रिदिवम् । घ्रायिष्यि गन्ध न च दिव्य पुनः त्वयि निर्गते निहतक्लेशगणे ॥ १५.८५ ॥ निर्भुक्तमाल्यमिव पर्युषितं त्यक्तं त्वयाद्य भवनं हि तथा । नटरङ्गकल्प प्रतिभायति मे त्वयि निर्गते न भुयु तेजशिरि ॥ १५.८६ ॥ ओजो बलं हरसि सर्वपुरे न च शोभते अटवितुल्यमिदम् । वितथमृषीण वचनाद्य भुतं येही वियाकृतु भुवि चक्रबलो ॥ १५.८७ ॥ अबलं बलं भुविमु शाक्यबलमुच्छिन्न वंश इह राजकुले । आशा प्रनष्ट इह शाक्यगणे त्वयि निर्गते महति पुण्यद्रुमे ॥ १५.८८ ॥ अहमेव तुभ्य गति गच्छयमी यथ त्वं प्रयासि अमला विमला । (वैद्य १६२) अपि चा कृपा करुण संजनिय व्यवलोकयस्व भवनं त्वमिदम् ॥ १५.८९ ॥ व्यवलोक्य चैव भवनं मतिमान्मधुरस्वरो गिरमुदीरितवान् । नाहं प्रवेक्षि कपिलस्य पुरमप्राप्य जातिमरणान्तकरम् ॥ १५.९० ॥ स्थानासनं शयनचंक्रमणं न करिष्यहं कपिलवस्तुमुखम् । यावन्न लब्ध वरबोधि मया अजरामरं पदवरं ह्यमृतम् ॥ १५.९१ ॥ यदसौ जगत्प्रधानो निष्क्रान्तु बोधिसत्त्वो तस्या नभे व्रजन्तो स्तवयिंसु अप्सराणाम् । एष मह दक्षिणीयो एष मह पुण्यक्षेत्रं पुण्यर्थिकान क्षेत्रममृताफलस्य दाता ॥ १५.९२ ॥ एन बहुकल्पकोटी दानदमसंयमेना समुदानितास्य बोधिः सत्त्वकरुणायमाना । एष परिशुद्धशीलो सुव्रत अखण्डचारी न च काम नैव भोगां प्रार्थेन्तु शीलरक्षी ॥ १५.९३ ॥ एष सद क्षान्तिवादी छिद्यन्ति अङ्गमङ्गे न च क्रोधु नैव रोषः सत्त्वपरित्रायणार्थम् । एष सद वीर्यवन्तो अविखिन्न कल्पकोट्यः समुदानितास्य बोधिर्यष्टा च यक्षकोटीः ॥ १५.९४ ॥ एष सद ध्यानध्यायी शान्तप्रशान्तचित्तो ध्यायित्व सर्वक्लेशां मोचेष्यि सत्त्वकोटीः । एषो असङ्ग प्राज्ञः कल्पैर्विकल्पमुक्तो कल्पैर्विमुक्तचित्तो जिनु भेष्यते स्वयंभूः ॥ १५.९५ ॥ एष सद मैत्रचित्तो करुणाय पारप्राप्तो मुदितो उपेक्षध्यायी ब्राह्मे पथि विधिज्ञः । एषोऽतिदेवदेवो देवेभि पूजनीयो शुभविमलशुद्धचित्तो गुणनियुतपारप्राप्तः ॥ १५.९६ ॥ (वैद्य १६३) शरणं भयार्दितानां दीपो अचक्षुषाणां लयनो उपद्रुतानां वैद्यश्चिरातुराणाम् । राजेव धर्मराजो इन्द्रः सहस्रनेत्रो ब्रह्मस्वयंभुभूतः कायप्रशब्धचित्तो ॥ १५.९७ ॥ धीरः प्रभूतप्रज्ञो वीरो विविक्तचित्तः शूरः किलेशघाती अजितंजयो जितारिः । सिंहो भयप्रहीणो नागः सुदान्तचित्तो ऋषभो गणप्रधानः क्षान्तः प्रहीणकोपः ॥ १५.९८ ॥ चन्द्रः प्रभासयन्तः सूर्योऽवभासकारी उल्का प्रद्योतकारी सर्वतमोविमुक्तः । पद्ममनोपलिप्तं पुष्पं सुशीलपत्रं मेरूरकम्पि शास्ता पृथिवी यथोपजीव्यो रतनाकरो अक्षोभ्यः ॥ १५.९९ ॥ एन जितु क्लेशमारो एन जितु स्कन्धमारो एन जितु मृत्युमारो निहतोऽस्य देव(पुत्र)मारो । एष मह सार्थवाहो कुपथप्रतिस्थितानामष्टाङ्गमार्गश्रेष्ठं देशेष्यते नचिरेणा ॥ १५.१०० ॥ जरमरणक्लेशघाती तमतिमिरविप्रमुक्तो भुवि दिवि च संप्रघुष्टो जिनु भेष्यते स्वयंभूः । स्तुत स्तवितु अप्रमेयो वरपुरुषरूपधारी यत्पुण्य त्वां स्तवित्वा भोम यथ वादिसिंहः ॥ १५.१०१ ॥ इति हि भिक्षवोऽभिनिष्क्रान्तो बोधिसत्त्वोऽतिक्रम्य शाक्यानतिक्रम्य क्रोड्यानतिक्रम्य मल्लान्मैनेयानामनुवैनेये निग मे षट्सु योजनेषु । तत्र बोधिसत्त्वस्य रात्रिप्रभातोऽभूत् । ततो बोधिसत्त्वो कण्ठकादवतीर्य धरणीतले स्थित्वा तं महान्तं देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगसंघं विसर्जयति स्म । विसर्ज्य चास्यैतदभूत्-इमान्याभरणानि कण्ठकं च छन्दकस्य हस्ते विसर्जयामीति ॥ अथ बोधिसत्त्वश्छन्दकमामन्त्र्यैतदवोचत्- गच्छ त्वं छन्दक, इमान्याभरणानि कण्ठकं च गृहीत्वा निवर्तयस्व । यत्र च प्रदेशे छन्दको निवृत्तस्तत्र चैत्यं स्थापितमभूत् । अद्यापि तच्चैत्यं छन्दकनिवर्तनमिति ज्ञायते ॥ (वैद्य १६४) पुनश्च बोधिसत्त्वस्यैतदभवत्- कथं च नाम चूडा च प्रव्रज्या चेति । स खड्गेन चूडां छित्त्वा अन्तरिक्षे क्षिपति स्म । सा च त्रायत्रिंशता देवैः परिगृहीताभूत्पूजार्थम् । अद्यापि च त्रायत्रिंशत्सु देवेषु चूडामहो वर्तते । तत्रापि चैत्यं स्थापितमभूत् । अद्यापि च तच्चूडाप्रतिग्रहणमिति ज्ञायते ॥ पुनरपि बोधिसत्त्वस्यैतदभूत्- कथं हि नाम प्रव्रज्या च काशिकानि वस्त्राणि । सचेद्वनवासानुरूपाणि काषायाणि वस्त्राणि लभेयम्, शोभनं स्यात् । अथ शुद्धवासकायिकानां देवानामेतदभूत्- काषायैर्बोधिसत्त्वस्य कार्यमिति । तत्रैको देवपुत्रो दिव्यं रूपमन्तर्धाप्य लुब्धकरूपेण काषायवस्त्रप्रावृतो बोधिसत्त्वस्य पुरतोऽस्थात् । अथ बोधिसत्त्वस्तमेतदवोचत्- सचेन्मे त्वं मार्षा काषायाणि वस्त्राणि दद्याः, इमानि तेऽहं काशिकानि वस्त्राणि दद्याम् । सोऽवोचत्- एतानि वस्त्राणि तव शोभन्ते । इमानि मम । बोधिसत्त्व आह - अहं त्वां याचामि । ततस्तेन लुब्धकरूपिणा देवपुत्रेण बोधिसत्त्वाय काषायाणि वस्त्राणि दत्तान्यभूवन् । काशिकानि गृह्णीते स्म । अथ स देवपुत्रो गौरवजातस्तानि वस्त्राणि उभाभ्यां पाणिभ्यां शिरसि कृत्वा तत एव देवलोकमगमत्तेषां पूजार्थम् । तच्छन्दकेन दृष्टमभूत् । तत्रापि चैत्यं स्थापितम् । अद्यापि तच्चैत्यं काषायग्रहणमित्येवं ज्ञायते ॥ यदा च बोधिसत्त्वेन चूडां छित्त्वा काषायाणि वस्त्राणि प्रावृतानि, तस्मिन् समये देवपुत्रशतसहस्रा हृष्टास्तुष्टा उदग्रा आत्तमनसः परमप्रमुदिताः प्रीतिसौमनस्यजाता हीहीकारकिलिकिलाप्रक्ष्वेडितानिर्नादनिर्घोषशब्दमकार्षुः । सिद्धार्थो भो मार्षाः कुमारः प्रव्रजितः । सोऽयमनुत्तरां सम्यक्संबोधिमभिसंबुध्य धर्मचक्रं प्रवर्तयिष्यति । असंख्येयाञ्जातिधर्माणः सत्त्वान् जात्या परिमोचयिष्यति । यावज्जराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासेभ्यः परिमोच्य संसारसागरात्पारमुत्तार्यानुत्तरे क्षेमेऽभयेऽशोके निरूपद्रवे शिवे विरजसेऽमृते धर्मधातौ प्रतिष्ठापयिष्यतीति । स च शब्दः शब्दपरंपरया यावदकनिष्ठभवनमभ्युद्गतोऽभूत् ॥ ततोऽन्तःपुरिकाभिः कुमारमपश्यन्तीभिः ग्रीष्मिकवार्षिकहैमन्तिकेषु प्रासादेष्वासनेषु च गृहेषु परिमागमाणा यदा न पश्यन्ति स्म, तदा एकीभूताभिः कुररीभिरिवोत्क्रृष्टमभूत् । तत्र काश्चित्स्त्रियः परमशोकार्ता हा तातेहि क्रन्दन्ति स्म । काश्चिद्भ्रातः काश्चिद्भर्त इति क्रन्दन्ति स्म । काश्चिद्धा नाथेति क्रन्दन्ति स्म । काश्चिद्धा स्वामिन्निति । काश्चिन्नानाप्रियवचनप्रलापैः, काश्चिन्नानाकायपरिसर्पिकया रुदन्ति स्म । काश्चिच्छीर्षोपकर्षिकया, काश्चिदन्योन्यमुखावलोकितया रुदन्ति स्म । काश्चिच्चक्षुःपरिवर्तिकया, काश्चित्स्ववदनानि वस्त्रैरुच्छाद्य रुदन्ति स्म । काश्चिदूरू पाणिभिः प्रस्फोटयन्त्यः, काश्चिद्धृदयः, पाणिभिस्ताडयन्त्यः, काश्चिद्बाहून् पाणिभिः प्रस्फोटयन्त्यः, काश्चिच्छिरांसि, काश्चिच्छिरः पांशुभिरवकिरन्त्यो रुदन्ति स्म । काश्चिद्विक्षिप्तकेश्यः, काश्चित्केशं विलुञ्चन्त्यः, काश्चिदूर्ध्वबाहवः उच्चैरुत्क्रोशन्ति स्म । काश्चिन्मृग्य इव दिग्धविद्धाः सहसा प्रधावन्त्यो (वैद्य १६५) रुदन्ति स्म । काश्चिन्मारुतकम्पिता इव कदल्यः प्रविकम्प्यमाना रुदन्ति स्म । काश्चिद्धरणीतले विनिपतिताः किंचित्प्राणाः, काश्चिज्जालोत्क्षिप्तमत्स्या इव पृथिव्यां परिवर्त्यमाना रुदन्ति स्म । काश्चिन्मूलछिन्ना इव वृक्षाः सहसा धरणीतले निपत्य रुदन्ति स्म ॥ तं च शब्दं राजा श्रुत्वा शाक्यानामन्त्रयते स्म - किमेतदुच्चैरन्तःपुरे शब्दः श्रूयते? शाक्या विज्ञाय कथयन्ति स्म - कुमारः किल महाराज अन्तःपुरे न दृश्यते । राजा आह - क्षिप्रं नगरद्वाराणि पिथयत । कुमारमभ्यन्तरे मृगयामः । ते सान्तर्बहिर्मृगयन्ते स्म । सान्तर्बहिर्मृगयमाना न पश्यन्ति स्म ॥ महाप्रजापत्यपि गौतमी परिदेवमाना महीतले परिवर्तते स्म । राजानं शुद्धोदनमेवमाह क्षिप्रं मां महाराज पुत्रेण समङ्गिनीं कुरुष्वेति ॥ ततो राजा चतुर्दिशमश्वदूतान् प्रेषयति स्म । गच्छत, यावत्कुमारं न पश्यथ, तावन्मा निवर्तयथ ॥ नैमित्तिकैर्वैपञ्चिकैश्च व्याकृतमभूत्- मङ्गलद्वारेण बोधिसत्त्वोऽभिनिष्क्रमिष्यतीति । ते मङ्गलद्वारेण गच्छन्तः पश्यन्ति स्म अन्तरापथि पुष्पवर्षं प्रपतितम् । तेषामेतदभूत्- अनेन पथा कुमारोऽभिनिर्गत इति ॥ ते स्वल्पमन्तरं गत्वा तं देवपुत्रं पश्यन्ति स्म बोधिसत्त्वस्य काशिकवस्त्राणि शिरसि कृत्वा आगच्छन्तम् । तेषामेतदभूत्- इमानि खलु कुमारस्य काशिकवस्त्राणि । मा खल्वनेनैषां वस्त्राणामर्थे कुमारो जीविताद्व्यपरोपितः स्यात् । गृह्णीतैनमिति । भूयः पश्यन्ति स्म । तस्य पृष्ठतश्च्छन्दकं कण्ठकमाभरणानि चादायागच्छन्तम् । ततस्ते परस्परमूचुः - मा तावद्भोः साहसं मा कार्ष्ट । एष छन्दकोऽभ्यागच्छति कण्ठकमादाय, यावदेनं प्रक्ष्यामः ॥ ते छन्दकं परिपृच्छन्ति स्म - हे छन्दक, मा खल्वनेनैव पुरुषेण काशिकानां वस्त्राणामर्थाय कुमारो जीविताद्व्यपरोपितः स्यात् । छन्दक आह - न ह्येतत् । अपि तु अनेन कुमाराय काषायाणि वस्त्राणि दत्तानि । कुमारेण चास्यैतानि काशिकानि वस्त्राणि दत्तानि । अथ स देवपुत्रस्तानि वस्त्राण्युभाभ्यां पाणिभ्यां शिरसि कृत्वा तत एव देवलोकमगमत्तेषां पूजार्थम् ॥ एवं च ते भूयश्छन्दकं परिपृच्छन्ति स्म - तत्किं मन्यसे छन्दक गच्छामो वयम्? शक्यः कुमारः प्रतिनिवर्तयितुम्? स आह - मा खलु । अनिवर्त्यः कुमारो दृढवीर्यपराक्रमः । एवं च तेनोक्तम् - न तावदहं पुनरपि कपिलवस्तुमहानगरं प्रवेक्ष्यामि, यावन्मे नानुत्तरां सम्यक्संबोधिमभिसंबुध्येति । यथा च कुमारेणोक्तं तथैव तद्भविष्यति । तत्कस्मात्? अनिवर्त्यः कुमारो दृढवीर्यपराक्रमः ॥ ततश्छन्दकः कण्ठकमाभरणानि चादायान्तःपुरं प्राविक्षत् । ततस्तान्याभरणानि चिरेण कालेन भद्रिकस्य शाक्यकुमारस्य महानाम्नोऽनिरुद्धस्य चाबध्यन्त स्म । तानि महानारायणसंघटनकायार्थमन्ये (वैद्य १६६) नारायणसंहनना न शक्नुवन्ति स्म धारयितुम् । यदा न कश्चित्तानि धारयितुं शक्नोति स्म, तदा महाप्रजापत्या गौतम्या चिन्तितमभूत्- यावदहमिमान्याभरणानि पश्यामि, तावन्मम हृदये शोको भविष्यति । यन्न्वहमिमान्याभरणानि पुष्करिण्यां प्रक्षिपेयमिति । ततो महाप्रजापती गौतमी तान्याभरणानि पुष्करिण्यां प्रक्षिपति स्म । अद्यापि सा आभरणपुष्करिणीत्येवं संज्ञायते ॥ तत्रेदमुच्यते - निष्क्रान्तु शूरो यद विदु बोधिसत्त्वो नगरं विबुद्धं कपिलपुरं समग्रम् । मन्यन्ति सर्वे शयनगतो कुमारो अन्योन्य हृष्टाः प्रमुदित आलभन्ते ॥ १५.१०२ ॥ गोपा विबुद्धा तथ अपि इस्त्रिगारा शयनं निरीक्षी न च दृशि बोधिसत्त्वम् । उत्क्रोशु मुक्तो नरपतिनो अगारे हा वञ्चिताः स्मः कहि गतु बोधिसत्त्वो ॥ १५.१०३ ॥ राजा श्रुणित्वा धरणितले निरस्तो उत्क्रोशु कृत्वा अहो मम एकपुत्रो । सो स्तेमितो हि जलघटसंप्रसिक्तो आश्वासयन्ती बहुशत शाकियानाम् ॥ १५.१०४ ॥ गोपा शयातो धरणितले निपत्य केशां लुनाती अवशिरि भूषणानि । अहो सुभाष्टं मम पुरि नायकेना सर्वप्रियेभिर्नचिरतु विप्रयोगः ॥ १५.१०५ ॥ रूपा सुरूपा विमलविचित्रिताङ्गा अच्छा विशुद्धा जगति प्रिया मनापा । धन्या प्रशस्ता दिवि भुवि पूजनीया क्व त्वं गतोऽसि मम शयि छोरयित्वा ॥ १५.१०६ ॥ न पास्यि पानं न च मधु न प्रमादं भूमौ शयिष्ये जटमकुटं धरिष्ये । स्नानं जहित्वा व्रततप आचरिष्ये यावन्न द्रक्ष्ये गुणधरु बोधिसत्त्वम् ॥ १५.१०७ ॥ (वैद्य १६७) उद्यान सर्वे अफल अपत्रपुष्पा हारा विशुद्धा तमरजपांशुतुल्याः । वेश्मं न शोभी अटवि पुरं प्रकाशं यत्तेन त्यक्तं नरवरपुंगवेन ॥ १५.१०८ ॥ हा गीतवाद्याः सुमधुर मञ्जुघोषाः हा इस्त्रिगारा विगलित भूषणाभिः । हा हेमजालैः परिस्फुटमन्तरिक्षं न भूयु द्रक्ष्ये गुणधरविप्रहीणा ॥ १५.१०९ ॥ मातृस्वसा चा परमसुकृच्छ्रप्राप्ता आश्वासयाति म रुदहि शाक्यकन्ये । पूर्वे च उक्तं नरवरपुंगवेन कर्तास्मि लोके जरमरणात्प्रमोक्षम् ॥ १५.११० ॥ सो चा महर्षी कुशलसहस्र चीर्णः षड्योजनानि प्रतिगतु रात्रिशेषे । छन्दस्य देती हयवरु भूषणानि छन्दा गृहीत्वा कपिलपुरं प्रयाहि ॥ १५.१११ ॥ मातापितणां मम वचनेन पृच्छे गतः कुमारो न च पुन शोचयेथा । बुद्धित्व बोधिं पुनरिहमागमिष्ये धर्मं श्रुणित्वा भविष्यथ शान्तचित्ताः ॥ १५.११२ ॥ छन्दो रुदन्तो प्रतिभणि नायकस्य न मेऽस्ति शक्तिर्बलत पराक्रमो वा । हनेयु मह्यं नरवरज्ञातिसंघाः छन्दा क्व नीतो गुणधरु बोधिसत्त्वो ॥ १५.११३ ॥ मा ताहि छन्दा प्रतिभणि बोधिसत्त्वो तुष्टा भवित्वा अपि मम ज्ञातिसंघाः । शास्तारसंज्ञा त्वयि सद भाविष्यन्ति प्रेमेण मह्यं त्वयमपि वर्तिष्यन्ते ॥ १५.११४ ॥ छन्दो गृहीत्वा हयवरु भूषणानि उद्यानप्राप्तो नरवरपुंगवस्य । (वैद्य १६८) उद्यानपालः प्रमुदितु वेगजातो आनन्दशब्दं प्रतिभणि शाकियानाम् ॥ १५.११५ ॥ अयं कुमारो हयवरु छन्दकश्च उद्यानप्राप्तो न च पुन शोचितव्यो । राजा श्रणित्वा परिवृतु शाकियेभिः उद्यानप्राप्तो प्रमुदितु वेगजातो ॥ १५.११६ ॥ गोपा विदित्वा दृढमति बोधिसत्त्वं नो चापि हर्षी न च गिर श्रद्दधाति । अस्थानमेतद्विनिगतु यत्कुमारो अप्राप्य बोधिं पुनरिह आगमेया ॥ १५.११७ ॥ दृष्ट्वा तु राजा हयवरु छन्दकं च उत्क्रोशु कृत्वा धरणितले निरस्तो । हा मह्य पुत्रा सुकुशलगीतवाद्या क्व त्वं गतोऽसि विजहिय सर्वराज्यम् ॥ १५.११८ ॥ साधू भणाहि वचन ममेह छन्दा किं वा प्रयोगः क्व च गतु बोधिसत्त्वः । केनाथ नीतो विवरित केन द्वारा पूजा च तस्या कथ कृत देवसंघैः ॥ १५.११९ ॥ छन्दो भणाती शृणु मम पार्थिवेन्द्रा रात्रौ प्रसुप्ते नगरि सबालवृद्धे । सो मञ्जुघोषो मम भणि बोधिसत्त्वो छन्दा ददाहि मम लघु अश्वराजम् ॥ १५.१२० ॥ सो बोधयामि नरगणि नारिसंघं सुप्ता प्रसुप्ता न च गिर ते श्रुणन्ति । सो रोदमानो ददि अहु अश्वराजं हन्त व्रजाही हितकर येन कामम् ॥ १५.१२१ ॥ शक्रेण द्वारा विवरित यन्त्रयुक्ताः पालाश्चतस्रो हयचरणे शिलिष्टाः । आरूढि शूरे प्रचलित त्रिसहस्राः मार्गो नभेऽस्मिन् सुविपुल येन क्रान्तो ॥ १५.१२२ ॥ (वैद्य १६९) आभा प्रमुक्ता विहततमोन्धकारा पुष्पा पतिंसू तुरियशता रणिंषू । देवाः स्तविंसू तथपि हि चाप्सराणि नभसा प्रयातो परिवृतु देवसंघैः ॥ १५.१२३ ॥ छन्दो गृहीत्वा हयवरु भूषणानि अन्तःपुरे सो उपगतु रोदमानो । दृष्ट्वा तु गोपा हयवरु छन्दकं च संमूर्छयित्वा धरणितले निरस्ता ॥ १५.१२४ ॥ उद्युक्त सर्वा सुविपुल नारिसंघाः वारिं गृहीत्वा स्नपयिषु शाक्यकन्याम् । मा हैव कालं करिष्यति शोकप्राप्ता द्वाभ्यां प्रियाभ्यां बहु भवि विप्रयोगो ॥ १५.१२५ ॥ स्थामं जनित्वा सुदुःखित शाक्यकन्या कण्ठेऽवलम्ब्या हयवरअश्वराजे । अनुस्मरित्वा पुरिमक कामक्रीडां नानाप्रलापी प्रलपति शोकप्राप्ता ॥ १५.१२६ ॥ हा मह्य प्रीतिजनना हा मम नरपुंगवा विमलचन्द्रमुखा । हा मम सुरूपरूपा हा मम वरलक्षणा विमलतेजधरा ॥ १५.१२७ ॥ हा मम अनिन्दिताङ्गा सुजात अनुपूर्वौद्गता असमा । हा मम गुणाग्रधारिं नरमरूभिः पूजिता परमकारूणिका ॥ १५.१२८ ॥ हा मम बलोपपेता नरायणस्थामवन्निहतशत्रुगणा । हा मम सुमाञ्जघोषा कलविङ्करुतस्वरा मधुरब्रह्मरुता ॥ १५.१२९ ॥ हा मम अनन्तकीर्ते शतपुण्यसमुद्गता विमलपुण्यधरा । हा मम अनन्तवर्णा गुणगणप्रतिमण्डिता ऋषिगणप्रीतिकरा ॥ १५.१३० ॥ हा मम सुजातजाता लुम्बिनिवन उत्तमे भ्रमरगीतरुते । हा मम विघुष्टशब्दा दिवि भुवि अभिपूजिता विपुलज्ञानद्रुमा ॥ १५.१३१ ॥ हा मम रसारसाग्रा बिम्बोष्ठा कमललोचना कनकनिभा । हा मम सुशुद्धदन्ता गोक्षीरतुषारसंनिभसहितदन्ता ॥ १५.१३२ ॥ हा मम सुनास सुभ्रू ऊर्णाभ्रु मुखान्तरे स्थिता विमला । हा मम सुवृत्तस्कन्धा चापोदर एणेयजङ्घवृत्तकटी ॥ १५.१३३ ॥ (वैद्य १७०) हा मम गजहस्तोरू करचरणविशुद्धशोभना ताम्रनखा । इति तस्य भूषणानि पुण्येहि कृतानि पार्थिवे प्रीतिकरा ॥ १५.१३४ ॥ ह मह्य गीतवाद्या वरपुष्पविलेपना शुभऋतुप्रवरे । हा मह्य पुष्पगन्धा अन्तःपुरि गीतवादितैर्हर्षकरा ॥ १५.१३५ ॥ हा कण्ठका सुजाता मम भर्तु सहायकस्त्वया क्व नीतो । हा छन्दका निकरुणा न बोधयसि गच्छमानके नरवरिष्ठे ॥ १५.१३६ ॥ गच्छत्ययं हितकरो एका गिर तस्मिन्नन्तरि न भसि कस्मात् । इतु अद्य पुरवरातो गच्छति नरदम्यसारथिः कारुणिकः ॥ १५.१३७ ॥ कथ वा गतो हितकरो केन च निष्क्रमितो इतु स राजकुलात् । कतमां दिशामनुगतो धन्या वनगुल्मदेवता यास्य सखी ॥ १५.१३८ ॥ अतिदुःख मह्य छन्दा निधिदर्शिय नेत्रौद्धृता चक्षुददा । सर्वैर्जनैश्च छन्दा मातापितृनित्यवर्णिता पूजनियाः ॥ १५.१३९ ॥ तानपि जहित्व निर्गतु किं पुनरिम इस्त्रिकामरतिम् । हा धिक्प्रियैर्वियोगो नटरङ्गस्वभावसंनिभा अनित्या ॥ १५.१४० ॥ संज्ञाग्रहेण बाला दृष्टिविपर्यासनिश्रिता जन्मच्युति । प्रागेव तेन भणितं नास्ति जरामरणसंस्कृते काश्चि सखा ॥ १५.१४१ ॥ परिपूर्यतोऽस्य आशा स्पृशतू वरबोधिसमुत्तमां द्रुमवरिष्ठे । बुद्धित्व बोधिविरजां पुनरपि एतू इहा पुरवरेमस्मिन् ॥ १५.१४२ ॥ छन्दकः परमदीनमानसो गोपिकाय वचनं श्रुणित्वना । साश्रुकण्ठ गिर संप्रभाषते साधु गोपि निशृणोहि मे वचः ॥ १५.१४३ ॥ रात्रिये रहसि यामि मध्यमे सर्वनारिगणि संप्रसुप्तके । सो तदा च शतपुण्यौद्गतो आलपेति मम देहि कण्ठकम् ॥ १५.१४४ ॥ तं निशाम्य वचनं तदन्तरं तुभ्य प्रेक्षमि शयानि सुप्तिकाम् । उच्चघोषु अहु तत्र मुञ्चमी उत्थि गोपि अयु याति ते प्रियो ॥ १५.१४५ ॥ (वैद्य १७१) देवता वचनु तं निरोधयि एक इस्त्रि नपि काचि बुध्यते । रोदमान समलंकरित्वना अश्वराजु ददमी नरोत्तमे ॥ १५.१४६ ॥ कण्ठको हिषति उग्रतेजस्वी क्रोशमात्रु स्वरु तस्य गच्छती । नो च कश्चि शृणुते पुरोत्तमे देवताभि ओस्वापनं कृतम् ॥ १५.१४७ ॥ स्वर्णरूप्यमणिकोटिता मही कण्ठकस्य चरणैः पराहता । सा रणी मधुरभीष्मशोभना नो च केचि शृणुवन्ति मानुषाः ॥ १५.१४८ ॥ पुष्ययुक्तु अभु तस्मि अन्तरे चन्द्रज्योतिष नभे प्रतिस्थिता । देवकोटि गगने कृताञ्जली ओनमन्ति शिरसाभिवन्दिषू ॥ १५.१४९ ॥ यक्षराक्षसगणैरुपस्थिता लोकपाल चतुरो महर्द्धिकाः । कण्ठकस्य चरणां करे न्यसी पद्मकेशरविशुद्धनिर्मलम् ॥ १५.१५० ॥ सो च पुण्यशततेजौद्गतो आरुही कुमुदवर्षिकोपमम् । षड्विकार धरणी प्रकम्पिता बुद्धक्षेत्र स्फुट आभनिर्मला ॥ १५.१५१ ॥ शक्र देवगुरुः शचीपतिः स्वाम द्वार विवरी तदन्तरे । देवकोटिनयुतैः पुरस्कृतो सो व्रजी अमरनागपूजितो ॥ १५.१५२ ॥ संज्ञमात्र इह जाति कण्ठको लोकनाथु वहती नभोऽन्तरे । (वैद्य १७२) देवदानवगणा सैन्द्रिकाः ये वहन्ति सुगतस्य गच्छतः ॥ १५.१५३ ॥ अप्सरा कुशलगीतवादिते बोधिसत्त्वगुणभाषमानिकाः । कण्ठकस्य बलु ते ददन्तिकाः मुञ्चि घोषु मधुरं मनोरमम् ॥ १५.१५४ ॥ कण्ठका वहहि लोकनायकं शीघ्र शीघ्र म जनेहि खेदताम् । नास्ति मे भयमपायदुर्गतिं लोकनाथमभिधारयित्वना ॥ १५.१५५ ॥ एकमेक अभिनन्दते सुरो वाहनं स्मि अहु लोकनायके । नो च किंचिदपि देशु विद्यते देवकोटिचरणैर्न मर्दितम् ॥ १५.१५६ ॥ पश्य कण्ठक नभोन्तरे इमं मार्गु संस्थितु विचित्रशोभनम् । रत्नवेदिकविचित्रमण्डितं दिव्यसारवरगन्धधूपितम् ॥ १५.१५७ ॥ एन कण्ठक शुभेन कर्मणा त्रायत्रिंशभवने सुनिर्मितो । अप्सरै परिवृतः पुरस्कृतो दिव्यकामरतिभी रमिष्यसे ॥ १५.१५८ ॥ साधु गोपि म खु भूयु रोदही तुष्ट भोहि परमप्रहर्षिता । द्रक्षसे नचिरतो नरोत्तमं बोधिप्राप्तममरैः पुरस्कृतम् ॥ १५.१५९ ॥ ये नराः सुकृतकर्मकारकाः ते न गोपि सद रोदितव्यकाः । सो च पुण्यशततेजौद्गतो हर्षितव्य न स रोदितव्यकः ॥ १५.१६० ॥ (वैद्य १७३) सप्तरात्र भणभानु गोपिके सा वियूह नपि शक्य क्षेपितुम् । या वियूह अभु तत्र पार्थिवे निष्क्रमन्ति नरदेवपूजिते ॥ १५.१६१ ॥ लाभ तुभ्य परमा अचिन्तिया यं त्युपस्थितु जगे हितंकरो । मह्य संज्ञि स्वकमेव वर्तते त्वं हि भेष्यसि यथा नरोत्तमः ॥ १५.१६२ ॥ इति ॥ ॥ इति श्रीललितविस्तरेऽभिनिष्क्रमणपरिवर्तो नाम पञ्चदशमोऽध्यायः ॥ ______________________________________________________________________ परिवर्त १६ (वैद्य १७४) बिम्बिसारोपसंक्रमणपरिवर्तः षोडशः । एवं खलु भिक्षवश्छन्दको बोधिसत्त्वाधिस्थानेन राज्ञः शुद्धोदनस्य गोपायाः शाक्यकन्यायाश्च सर्वस्य चान्तःपुरस्य सर्वस्य च शाक्यगणस्य शोकविनोदकथामकार्षीत् ॥ इति हि भिक्षवो बोधिसत्त्वो लुब्धकरूपाय देवपुत्राय काशिकानि वस्त्राणि दत्त्वा तस्य सकाशात्काषायानि वस्त्राणि गृहीत्वा स्वयमेव प्रवज्यां लोकानुवर्तनामुपादाय सत्त्वानुकम्पायै सत्त्वपरिपाचनार्थम् ॥ अथ बोधिसत्त्वो येनैव शाक्या ब्राह्मण्या आश्रमस्तेनोपसंक्रामत् । सा बोधिसत्त्वं वासेन भक्तेन चोपनिमन्त्रयते स्म । ततो बोधिसत्त्वः पद्माया ब्राह्मण्या आश्रमं गच्छति स्म । तयापि बोधिसत्त्वो वासेन भक्तेन चोपनिमन्त्रितोऽभूत् ॥ ततो रैवतस्य ब्रह्मर्षेराश्रममगमत् । असावपि बोधिसत्त्वं तथैवोपनिमन्त्रयते स्म । तथैव राजकोऽपि दतृमदण्डिकपुत्रो बोधिसत्त्वमुपनिमन्त्रयते स्म ॥ इति हि भिक्षवो बोधिसत्त्वोऽनुपूर्वेण वैशालीं महानगरीमनुप्राप्तोऽभुत् ॥ तेन खलु पुनः समयेनाराडः कालापो वैशालीमुपनिसृत्य प्रतिवसति स्म महता श्रावकसंघेन सार्धं त्रिभिः शिष्यशतैः । स शिष्येभ्य आकिंचन्यायतनसहव्रतायै धर्मं देशयति स्म । स बोधिसत्त्वं दूरत एवागच्छन्तं दृष्ट्वा आश्चर्यप्राप्तः शिष्यानामन्त्रयते स्म - पश्यत पश्यत भो रूपमस्येति । तेऽब्रुवन् - एवं ह्येतत्पश्यामः । एनमतिविस्मयनीयम् ॥ ततोऽहं भिक्षवो येनाराडः कालापस्तेनोपसंक्रम्याराड कालापमेतदवोचत्- चरेयमहं भो आराडे कालापे ब्रह्मचर्यम् । सोऽवोचत्- चर भो गौतम तथारूपेण धर्माख्याने यस्मिन् श्राद्धः कुलपुत्रोऽल्पकृच्छ्रेणाज्ञामाराधयति ॥ तस्य मे भिक्षव एतदभूत्- अस्ति मे छन्दोऽस्ति वीर्यमस्ति स्मृतिरस्ति समाधिरस्ति प्रज्ञा, यन्न्वहमेकोऽप्रमत्त आतापी व्यपकृष्टो विहरेयं तस्यैव धर्मस्य प्राप्तये साक्षात्क्रियायै ॥ अथ खल्वहं भिक्षवो एकोऽप्रमत्त आतापी व्यपकृष्टो विहरन्नल्पकृच्छ्रेणैवं तं धर्ममध्यवगच्छन् साक्षादकार्षम् ॥ अथ खल्वहं भिक्षवो येनाराडः कालापस्तेनोपसंक्रम्यैतदवोचत्- एतावद्भो त्वया आराड धर्मोऽधिगतः साक्षात्कृतः? सोऽवोचत्- एवमेतद्भो गौतम । तमहमवोचत्- मयापि भो एष धर्मः साक्षात्कृतोऽधिगतः । सोऽवोचत्- तेन हि भो गौतम यदहं धर्म जानामि, भवानपि तं जानाति, यं भवान् जानाति, अहमपि तं जानामि । तेन ह्यावामुभावपीमं शिष्यगणं परिहरावः ॥ इति हि भिक्षव आराडः कालापः परमया पूजया मां पूजयति स्म । अन्तेवासिषु च मां समानार्थतया स्थापयति स्म ॥ (वैद्य १७५) तस्य मे भिक्षव एतदभूत्- अयं खल्वाराडस्य धर्मो न नैर्याणिको न निर्याति, तत्कतरस्य सम्यग्दुःखक्षयाय? यन्न्वहमत उत्तरि पर्येषमाणश्चरेयम् ॥ अथ खल्वहं भिक्षवो यथाभिरामं वैशाल्यां विहृत्य मगधेषु च प्रक्रान्तोऽभूत् । सोऽहं मगधेषु चर्यां चरन् येन मागधकानां राजगृहं नगरं तदनुसृतो येन च पाण्डवः पर्वतराजस्तेनोपसंक्रान्तोऽभूवम् । तत्राहं पाण्डवे पर्वतराजपार्श्वे व्याहार्षमेकाक्यद्वितीयोऽसहायोऽनेकैर्देवकोटिनयुतशतसहस्रैः संरक्षितः ॥ ततोऽहं कल्यमेव संनिवास्य पात्रचीवरमादाय तपोदद्वारेण राजगृहं महानगरं पिण्डाय प्राविक्षत्प्रासादिकेनाभिक्रान्तेन प्रतिक्रान्तेन व्यवलोकितेन संमिञ्जितेन प्रसारितेन प्रासादिकेन संघाटीपटपात्रचीवरधारणेनाविक्षिप्तैरिन्द्रियैरबहिर्गतेन मानसेन निर्मितवत्तैलपात्रधरवद्युगमात्रं पश्यन् । तत्र मां राजगृहका मनुष्या दृष्ट्वा विस्मिता अभूवन् - किं स्विदयं ब्रह्मा भविष्यति शक्रो देवानामिन्द्र आहोस्विद्वैश्रवणो आहोस्वित्किंचिद्गिरिदैवतम् ॥ तत्रेदमुच्यते - अथ विमलधरो ह्यनन्ततेजो स्वयमिह प्रव्रजियान बोधिसत्त्वः । शान्तमनु दान्त ईर्यवन्तो विहरति पाण्डवशैलराजपार्श्वे ॥ १६.१ ॥ रजनि विगतु ज्ञात्व बोधिसत्त्वः परमसुदर्शनियं निवासयित्वा । पात्र प्रतिगृहीय नीचमानो प्रविशति राजगृहं सपिण्डपात्रम् ॥ १६.२ ॥ कनकमिव सुधातुजातरूपं कवचितु लक्षणत्रिंशता द्विभिश्च । नरगण तथ नारि प्रेक्षमाणो न च भवते क्वचि तृप्ति दर्शनेन ॥ १६.३ ॥ वीथि रचित रत्नवस्त्रधार्यै अवशिरिया जनु याति पृष्ठतोऽस्य । को नु अयु अदृष्टपूर्वसत्त्वो यस्य प्रभाय पुरं विभाति सर्वम् ॥ १६.४ ॥ उपरि स्थिहिय नारिणां सहस्रा तथरिव द्वारि तथैव वातयाने । (वैद्य १७६) रथ्य भरित गेहि शून्य कृत्वा नरवरु प्रेक्षिषु ते अनन्यकर्माः ॥ १६.५ ॥ न च भुयु क्रयविक्रयं करोन्ती न च पुन सौण्ड पिबन्ति मद्यपानम् । न च गृहि न च वीथिये रमन्ते पुरुषवरस्य निरीक्षमाण रूपम् ॥ १६.६ ॥ पुरुष त्वरितु गच्छि राजगेहमवचिषु राज स बिम्बिसार तुष्टो । देव परम तुभ्य लब्ध लाभा स्वयमिह ब्रह्म पुरे चराति पिण्डम् ॥ १६.७ ॥ केचि अवचि शक्र देवराजो अपरि भणन्ति सुयाम देवपुत्रः । तथ अपि संतुषितं व निर्मितश्च अपरि भणन्ति सुनिर्मितेषु देवः ॥ १६.८ ॥ केचि पुन भणन्ति चन्द्रसूर्यौ तथपि च राहु बलिश्च वेमचित्री । केचि पुन भणन्ति वाचमेवमयु सो पाण्डवशैलराजवासी ॥ १६.९ ॥ वचनमिमु श्रुणित्व पार्थिवोऽसौ परमौदग्रमना स्थितो गवाक्षे । प्रेक्षति वरसत्त्व बोधिसत्त्वं ज्वलतु शिरीय सुधातुकाञ्चनं वा ॥ १६.१० ॥ पिण्ड ददिय राज बिम्बिसारः पुरुषमवोचन्निरीक्ष क्व प्रयाती । दृष्ट्व गिरिवरं स गच्छमानो अवचिषु देव गतः स शैलपार्श्वम् ॥ १६.११ ॥ रजनि विगतु ज्ञात्व बिम्बिसारो महत जनैः परिवारितो नरेन्द्रः । उपगमि पाण्डवशैलराजमूले शिरिय ज्वलन्तु तमदृशाति शैलम् ॥ १६.१२ ॥ (वैद्य १७७) धरणि व्रजितु यानि ओरुहित्वा परमसुगौरव प्रेक्षि बोधिसत्त्वम् । मेरुरिव यथा ह्यकम्पमानो न्यसिय तृणानि निषण्ण सोस्तिकेन ॥ १६.१३ ॥ शिरसि चरणि वन्दयित्व राजा विविधकथां समुदाहरित्व वोचत् । ददमि तव उपार्धु सर्वराज्याद्रम इह कामगुणैरहं च पिण्डम् ॥ १६.१४ ॥ प्रभणति गिरि बोधिसत्त्व श्लक्ष्णं धरणिपते चिरमायु पालयस्व । अहमपि प्रविजह्य राज्यमिष्टं प्रव्रजितो निरपेक्षि शान्तिहेतोः ॥ १६.१५ ॥ दहरु तरुणयौवनैरुपेतः शुभतनुवर्णनिभोऽसि वेगप्राप्तः । विपुल धन प्रतीच्छ नारिसंघमिह मम राज्यि वसाहि भुङ्क्ष्व कामाम् ॥ १६.१६ ॥ परमप्रमुदितोऽस्मि दशनात्ते अवचिषु स मागधराज बोधिसत्त्वम् । भवहि मम सहायु सर्वराज्यमहु तव दास्यि प्रभूत भुङ्क्ष्व कामाम् ॥ १६.१७ ॥ मा च पुन वने वसाहि शून्ये म भुयु तृणेषु वसाहि भूमिवासम् । परमसुकुमारु तुभ्य कायो इह मम राज्यि वसाहि भुङ्क्ष्व कामाम् ॥ १६.१८ ॥ प्रभणति गिरि बोधिसत्त्व श्लक्ष्णमकुटिल प्रेमणिया हितानुकम्पी । स्वस्ति धरणिपाल तेऽस्तु नित्यं न च अहु कामगुणेभिरर्थिकोऽस्मि ॥ १६.१९ ॥ काम विषसमा अनन्तदोषा नरकप्रपातन प्रेततिर्यग्योनौ । विदुभि विगर्हित चाप्यनार्य कामा जहित मया यथा पक्वखेटपिण्डम् ॥ १६.२० ॥ (वैद्य १७८) काम द्रुमफला यथा पतन्ती यथमिव अभ्रबलाहका व्रजन्ति । अध्रुव चपलगामि मारुतं वा विकिरण सर्वशुभस्य वञ्चनीया ॥ १६.२१ ॥ काम अलभमान दह्ययन्ते तथ अपि लब्ध न तृप्ति विन्दयन्ती । यद पुन अवशस्य भक्षयन्ते तद महदुःख जनेन्ति घोर कामाः ॥ १६.२२ ॥ काम धरणिपाल ये च दिव्या तथ अपि मानुष काम ये प्रणीता । एकु नरु लभेत सर्वकामां न च सो तृप्ति लभेत भूयु एषन् ॥ १६.२३ ॥ ये तु धरणिपाल शान्तदान्ता आर्य अनाश्रव धर्मपूर्णसंज्ञा । प्रज्ञविदुष तृप्त ते सुतृप्ता न च पुन कामगुणेषु काचि तृप्तिः ॥ १६.२४ ॥ काम धरणिपाल सेवमाना पुरिम न विद्यति कोटि संस्कृतस्य । लवणजल यथा हि नारू पीत्वा भुयु तृष वर्धति काम सेवमाने ॥ १६.२५ ॥ अपि च धरणिपाल पश्य कायमध्रुवमसारकु दुःखयन्त्रमेतत् । नवभि व्रणमुखैः सदा स्रवन्तं न मम नराधिप कामछन्दरागः ॥ १६.२६ ॥ अहमपि विपुलां विजह्य कामां तथपि च इस्त्रिसहस्र दर्शनीयाम् । अनभिरतु भवेषु निर्गतोऽहं परमशिवां वरबोधि प्राप्तुकामः ॥ १६.२७ ॥ राजा आह - कतम दिशि कुतो गतोऽसि भिक्षो क्व च तव जन्म क्व ते पिता क्व माता । (वैद्य १७९) क्षत्रिय अथ ब्राह्मणोऽथ राजा परिकथ भिक्षु यदी न भारसंज्ञा ॥ १६.२८ ॥ बोधिसत्त्व आह - श्रतु ति धरणिपाल शाकियानां कपिलपुरं परमं सुऋद्धिस्फीतम् । पितु मम शुद्धोदनेति नाम्ना तनु अहु प्रव्रजितो गुणाभिलाषी ॥ १६.२९ ॥ राजा आह - साधु तव सुदृष्टदर्शनं ते यनु तव जन्म वयं पि तस्य शिष्याः । अपि च मम क्षमस्व आशयेना यमपि निमन्त्रितु कामवीतरागो ॥ १६.३० ॥ यदि त्वय अनुप्राप्तु भोति बोधिः तद मम सेति भोति धर्मस्वामिम् । अपि च मम पुरा सुलब्ध लाभा मम विजिते वससीह यत्स्वयंभो ॥ १६.३१ ॥ पुनरपि चरणानि वन्दयित्वा कृत्व प्रदक्षिणु गौरवेण राजा । स्वकजनपरिवारितो नरेन्द्रः पुनरपि राजगृहमनुप्रविष्टः ॥ १६.३२ ॥ मगधपुरि प्रवेशि लोकनाथो विहरिय शान्तमना यथाभिप्रायम् । अर्थु करिय देवमानुषाणामुपगमि तीरु निरञ्जना नरेन्द्रः ॥ १६.३३ ॥ ॥ इति श्रीललितविस्तरे बिम्बिसारोपसंक्रमणपरिवर्तो नाम षोडशमोऽध्यायः ॥ ______________________________________________________________________ परिवर्त १७ (वैद्य १८०) दुष्करचर्यापरिवर्तः सप्तदशः । तेन खलु पुनर्भिक्षवः समयेन रुद्रको नाम रामपुत्रो राजगृहं नाम महानगरमुपनिसृत्य विहरति स्म महता शिष्यगणेन सार्धं सप्तभिः शिष्यशतैः । स तेभ्यो नैवसंज्ञानासंज्ञायतनसहव्रतायै धर्मं देशयति स्म । अद्राक्षीत्खल्वपि भिक्षवो बोधिसत्त्वो रुद्रकं रामपुत्रं संघेगणिनं गणाचार्यं ज्ञातमभीप्सितं बहुजनपूजितं पण्डितसंमतम् । दृष्ट्वा चास्यैतदभूत्- अयं खल्वपि रुद्रको रामपुत्रः संघेगणी गणाचार्यः ज्ञातोऽभीप्सितो बहुजनपूजितः पण्डितसंमतः । सचेदहमस्यान्तिकमुपसंक्रम्य व्रततपमारभेयम्, नैष ममान्तिके विशिष्टसंज्ञो भवेन्नापि प्रत्यक्षज्ञानेन ज्ञातो भवेन्नापि संस्कृतानां साश्रवानां सोपादानानां ध्यानसमाधिसमापत्तीनां दोषो दत्तो भवेत् । यन्न्वहं तथारुपमुपायमुपसंदर्शयेयं येनैते च प्रत्यक्षा भवेयुः । ध्यानगोचराणां च समापत्त्यारम्बणानां लौकिकसमाधीनामनिःसरणता दर्शिता भवेत् । यन्न्वहं रुद्रकस्य रामपुत्रस्य सकाशमुपसंक्रम्य स्वसमाधिगुणविशेषोद्भावनार्थं शिष्यत्वमभ्युपगम्य संस्कृतसमाधीनामसारतामुपदर्शयेयमिति ॥ अथ खलु भिक्षवो बोधिसत्त्व इदमर्थवशमधिकृत्य येन रुद्रको रामपुत्रस्तेनोपसंक्रामत् । उपसंक्रम्य रुद्रकं रामपुत्रमेतदवोचत्- कस्ते मार्ष शास्ता, कस्य वा धर्मं देशितमाजानासि? इत्येवमुक्ते रुद्रको रामपुत्रो बोधिसत्त्वमेवमाह - न मे मार्ष कश्चिच्छास्ता । अपि तु खलु पुनः स्वयमेव मयेदं सम्यगधिगतमिति । बोधिसत्त्व आह - किं भवताधिगतम्? आह - नैवसंज्ञानासंज्ञायतनसमापत्तेर्मार्गः । बोधिसत्त्व आह - लभेमहि वयं भवतः सकाशादववादानुशासनीयस्य समाधेर्मार्गम्? आह - वाढमस्त्विति । यावद्दत्तोऽववादोऽभूत् ॥ ततो बोधिसत्त्व एकान्तं गत्वा पर्यङ्कमाभुज्योपविशति स्म । समनन्तरोपविष्टस्य च बोधिसत्त्वस्य पुण्यविशेषेण च ज्ञानविशेषेण च पूर्वसुचरितचर्याफलविशेषेण च सर्वसमाधिपरिचयविशेषेण च ध्यानप्रमुखानि सर्वाणि लौकिकानि लोकोत्तराणि समापत्तिशतान्यामुखीभवन्ति स्म साकाराणि सोद्देशानि यथापि तच्चित्तवशवर्तित्वात् । अथ च बोधिसत्त्वः स्मृतः संप्रजाननुत्थायासनाद्येन रुद्रको रामपुत्रस्तेनोपसंक्रामत् । उपसंक्रम्य रुद्रकं रामपुत्रमेवमाह अस्त्यन्योऽपि मार्ष कश्चिदुत्तरे नैवसंज्ञानासंज्ञायतनसमापत्तेर्मार्गः? सोऽब्रवीत्- नास्तीति ॥ ततो बोधिसत्त्वस्यैतदभवत्- न खलु रुद्रकस्यैवास्ति श्रद्धा वीर्यं स्मृतिः प्रज्ञा । ममाप्यस्ति श्रद्धा वीर्यं स्मृतिः समाधिः प्रज्ञा । अथ बोधिसत्त्वो रुद्रकं रामपुत्रमेवमाह - मयाप्येष मार्ष धर्मोऽधिगतो यत्र त्वं निर्यातः । सोऽवोचत्- तेन ह्यागच्छ, त्वं चाहं चेमं गणं परिहराव इति । समानार्थे च बोधिसत्त्वं (वैद्य १८१) स्थापयति स्म आचार्यस्थाने च । बोधिसत्त्व आह - नैष मार्ष मार्गो निर्वृतये न विरागाय न निरोधाय नोपशमाय नाभिज्ञायै न संबोधये न श्रामणाय न ब्राह्मणाय न निर्वाणाय संवर्तते ॥ इति हि भिक्षवो बोधिसत्त्वो रुद्रकस्य रामपुत्रस्य सशिष्यस्यावर्जनीकृत्व यावदलमिति कृत्वा प्रक्रामत्- अलं ममानेनेति ॥ तेन खलु पुनः समयेन पञ्चका भद्रवर्गीया रुद्रके रामपुत्रे ब्रह्मचर्यं चरन्ति स्म । तेषामेतदभूत्- यस्य खलु वयमर्थाय दीर्घरात्रं घटामहे उद्युज्यामहे, न च शक्नुमोऽन्तं वा पर्यन्तं चाधिगन्तुम्, तच्छ्रमणेन गौतमेनाल्पककृच्छणाधिगन्तुं साक्षात्कृतम् । तच्चास्य न रोचते । तथा चोत्तरि पर्येषते । निःसंशयमेष शास्ता लोके भविष्यति । यच्चैष साक्षात्करिष्यति, तदस्मभ्यं संविभक्ष्यतीति । एवं विमृष्य पञ्चका भद्रवर्गीया रुद्रकरामपुत्रसकाशादपक्रम्य बोधिसत्त्वमन्वबध्नन् ॥ इति हि भिक्षवो बोधिसत्त्वो यथाभिप्रेतं राजगृहे विहृत्य मगधेषु चारिकां प्रक्रामत्सार्धं पञ्चकैर्भद्रवर्गीयैः ॥ तेन खलु पुनः समयेनान्तराच्च राजगृहस्य अन्तराच्च गयाया योऽन्यतमो गण उत्सवं करोति स्म, तेन च गणेन बोधिसत्त्वोऽभिनिमन्त्रितोऽभूत्वासेन भक्तेन च सार्धं पञ्चकैर्भद्रवर्गीयैः ॥ अथ खलु भिक्षवो बोधिसत्त्वो मगधेषु चर्यां चरन् येन मागधकानां गया तामनुसृत्य तामनुप्राप्तोऽभूत् । तत्र खल्वपि भिक्षवो बोधिसत्त्वः प्रहाणार्थी विहरति स्म गयाशीर्षे पर्वते । तत्रास्य विहरतस्तिस्र उपमाः प्रतिभान्ति स्म अश्रुतपूर्वा अनभिज्ञातपूर्वाः । कतमास्तिस्रः? ये केचित्ते खल्वपि श्रमणब्राह्मणाः कामेभ्योऽनवकृष्टकाया विहरन्ति स्म । कामेभ्योऽनवकृष्टचित्ताश्च विहरन्ति स्म । यापि चैषां कामेषु नन्दिः कामेषु रागः कामेषु छन्दः कामेषु तृष्णा कामेषु पिपासा कामेषु मूर्छा कामेषु परिदाहः कामेष्वध्यवसानता, साप्यनुपशान्ता । किं चापि ते आत्मोपक्रमिकां शरीरोपतापिकां दुःखां तीव्रां खरां कटुकाममनापां वेदनां वेदयन्ते । अथ तर्हि अभव्या एव ते उत्तरिमनुष्यधर्मादलमार्यज्ञानदर्शनविशेषं साक्षात्कर्तुम् । तद्यथापि नाम पुरुषोऽग्न्यर्थी ज्योतिर्गवेषी ज्योतिं पर्येषमाणः स आर्द्रं काष्ठमादाय आर्द्रां चोत्तरारणीमुदके प्रक्षिप्य मथ्नीयात्, अभव्योऽसावग्निमुत्पादयितुं तेजः प्रादुष्कर्तुम् । एवमेव य इमे श्रमणब्राह्मणाः कामेभ्योऽनवकृष्टकाया अनवकृष्टचित्ताश्च विहरन्ति, याप्येषां कामेषु नन्दिः कामेषु रागः कामेषु छन्दः कामेषु तृष्णा कामेषु पिपासा कामेषु मूर्छा कामेषु परिदाहः कामेष्वध्यवसानं तदप्यनुपशान्तम् । किं चापि ते आत्मोपक्रमिकां शरीरोपतापिकां दुःखां तीव्रां खरां कटुकां वेदनां वेदयन्ते । अथ तर्हि अभव्या एवोत्तरिमनुष्यधर्मादलमार्यज्ञानदर्शनविशेषं साक्षात्कर्तुम् । इयं बोधिसत्त्वस्य प्रथमा उपमा प्रतिभाति स्म ॥ (वैद्य १८२) भूयश्चास्यैतदभूत्- य इमे श्रमणब्राह्मणाः कामेभ्यो व्यपकृष्टकायचित्ता विहरन्ति, यापि तेषां कामेषु नन्दीति सर्वं कर्तव्यं यावज्ज्योतिं पर्येषत इति । स आर्द्रं काष्ठमादाय स्थले स्थापयित्वा आर्द्रां चोत्तरारणिं मथ्नीयात्, अभव्योऽसावग्निमुत्पादयितुम् । एवमेव ये इमे श्रमणब्राह्मणा इति सर्वं पूर्ववत्कार्यं यावदभव्या उत्तरिमनुष्यधर्मादलमार्यज्ञानदर्शनविशेषं साक्षात्कर्तुम् । इयं द्वितीया उपमा प्रतिभाति स्म पूर्वमश्रुता चाविज्ञाता च ॥ पुनरपरं य इमे श्रमणब्राह्मणा भवन्तः कामेभ्यो व्यपकृष्टकायचित्ता विहरन्ति, यापि तेषां कामेषु नन्दिः । इति सर्वं पेयालम् । तदप्येषामुपशान्तम् । किं चापि ते आत्मोपक्रमिकां शरीरोपतापिकां दुःखां तीव्रां खरां कटुकां वेदनां वेदयन्ते । अथ खलु पुनर्भव्या एव ते उत्तरिमनुष्यधर्मादलमार्यज्ञानदर्शनविशेषं साक्षात्कर्तुम् । तद्यथापि नाम इह स्यात्पुरुषोऽग्न्यर्थी ज्योतिर्गवेषी ज्योतिः पर्येषमाणः, स शुष्कं काष्ठमादाय शुष्कां चोत्तरारणिं स्थले प्रतिष्ठाप्य मथ्नीयात्, स भव्योऽग्निमभिनिर्वर्तयितुं तेजः प्रादुष्कर्तुम् । एवमेव य इमे भवन्तः श्रमणब्राह्मणा इति सर्वं यावद्वेदनां वेदयन्त इति । अथ च पुनर्भव्या एव ते उत्तरिमनुष्यधर्मादलमार्यज्ञानदर्शनविशेषं साक्षात्कर्तुम् । इयं तृतीया उपमा प्रतिभाति स्म अश्रुतपूर्वा च अविज्ञातपूर्वा च ॥ अथ खलु भिक्षवो बोधिसत्त्वस्यैतदभूत्- अहं खल्वेतर्हि कामेभ्यो व्यपकृष्टकायो विहरामि व्यपकृष्टचित्तश्च । यापि मे कामेषु नन्दीति सर्वं यावत्तदपि मे उपशान्तम् । किं चापि अहमात्मोपक्रमिकां शरीरोपतापिकां दुःखामिति पेयालं यावद्वेदनां वेद्मि । अथ खल्वहं भव्य एवोत्तरिमनुष्यधर्मादलमार्यज्ञानदर्शनविशेषं साक्षात्कर्तुम् ॥ इति हि भिक्षवो बोधिसत्त्वो यथाभिप्रेतं गयायां विहृत्य गयाशीर्षे पर्वते जङ्गाविहारमनुचंक्रम्यमाणो येनोरुबिल्वा सेनापतिग्रामकस्तदनुसृतस्तदनुप्राप्तोऽभूत् । तत्राद्राक्षीन्नदीं नैरञ्जनामच्छोदकां सूपतीर्थां प्रासादिकैश्च द्रुमगुल्मैरलंकृतां समन्ततश्च गोचरग्रामाम् । तत्र खल्वपि बोधिसत्त्वस्य मनोऽतीव प्रसन्नमभूत्- समो बतायं भूमिप्रदेशो रमणीयः प्रतिसंलयनानुरूपः । पर्याप्तमिदं प्रहाणार्थिककुलपुत्रस्य । अहं च प्रहाणार्थी । यन्न्वहमिहैव तिष्ठेयम् ॥ इति हि भिक्षवो बोधिसत्त्वस्यैतदभूत्- पञ्चकषायकालेऽहमिह जम्बुद्वीपेऽवतीर्णो हीनाधिमुक्तिकेषु सत्त्वेष्वाकीर्णतीर्थ्यवर्गेषु नानादृष्टिप्रस्कन्नेषु कायपिण्डग्राहाभिनिविष्टेषु नानाविधैश्चातापनपरितापनैः कायशुद्धिं पर्येषन्ते, प्रज्ञापयन्ति च संमूढाः । तद्यथा - मन्त्रविचारकैर्हस्तप्रलेहकैर्नयाचनकैरनामन्त्रणकैरनेकमूलिकैरमत्स्यमांसकैरवार्षिकैः सुरातुषोदकर्वजनैरेकत्रिपञ्चसप्तकुलभिक्षाग्रहणैर्मूलफलशैवालककुशपत्रगोमयगोमूत्रपायसदधिसर्पिः फाणितामपिष्टकमभक्षणपानैः सारसिकापोतकसंदंशिकोत्सृष्टसंप्रक्षालकैः । ग्राम्यारण्याभिश्च वृत्तिभिः । गोव्रतमृगश्ववराहवानरहस्तिव्रतैश्च स्थानमौनवीरासनैश्च एकालापकैर्यावत्सप्तालापकैः । एकभक्ता एकाहोरात्रचातुर्थ्यपञ्चषट्कालान्तराश्च (वैद्य १८३) पक्षक्षपणमासक्षपणचान्द्रायणैश्च गृध्रोलूकपक्षधारणैश्च फलमुञ्जासनवल्कलदर्भबल्बजोष्ट्रकम्बलाजकम्बलकेशकम्बलचर्मनिवेशनैश्च आर्द्रपटास्तोपकजालशयनैश्च भस्मशर्करापाषाणफलककण्टकतृणमुसलशयनावाक्छिरोत्कुटुकस्थण्डिलशयनैश्च एकवासद्वित्रिचतुष्पञ्चषट्सप्तबहुवासोभिर्नग्नभावैश्च स्थानास्थानविधिभिश्च दीर्घकेशनखश्मश्रुजटामकुटधारणैश्च एककोलतिलतण्डुलाहारैश्च भस्ममसिनिर्माल्योद्धृततमोरजपांशुपङ्कपरिम्रक्षणैश्च लोममुञ्जकेशनखचीवरपञ्जरकरङ्कधारणैश्च उष्णोदकतण्डुलोदकपरिस्रावितकाम्बलिकस्थालीपानीयपानैश्च अङ्गारधातुकषायत्रिदण्डमुण्डिककुण्डिककपालखट्वाङ्गधारणैश्च शुद्धिं प्रत्यवगच्छन्ति संमूढाः । धूमपानाग्निपानादित्यनिरीक्षणपञ्चतपैकपादोर्ध्वबाहुस्थानैकचरणैश्च तपः संचिन्वन्ति । तुषाद्यङ्गारदाहनिकुम्भसाधनपक्वशिलापचनाग्निजलप्रवेशनमरुतीर्थगमनमरणैश्चेष्टां गतिं मृगयन्ते । ओंकारवषट्कारस्वधाकारस्वाहाकाराशीर्वचनस्तुतिचयनावाहनजप्यमन्त्राध्ययनधारणकरणैश्च शुद्धिं प्रत्यवगच्छन्ति । शुद्धं चात्मानं मन्यमाना इमानाश्रयन्ते । तद्यथा - ब्रह्मेन्द्ररुद्रविष्णुदेवीकुमारमातृकात्यायनीचन्द्रादित्यवैश्रवणवरुणवासवाश्विनौनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगराक्षसप्रेतभूतकुम्भाण्डपार्षदगणपतिपिशाचांश्च देवर्षिराजर्षिब्रह्मर्षीश्च नमस्यन्ति, तेषु च सारसंज्ञिनो भवन्ति । पृथिव्यप्तेजोवाय्वाकाशं चाश्रयन्ते । गिरीनदीनद्युत्ससरोह्रदतडागसागरसरःपल्वलपुष्करिणीकूपवृक्षगुल्मलतातृणस्थाणुगोष्ठश्मशान - चत्वरशृङ्गाटकान्तरापणमुखानि चाश्रयन्ते । गृहस्तम्भोपलमुसलासिधनुपरशुशरशक्तित्रिशूलांश्च नमस्यन्ति । दधिघृतसर्षपयवप्रतिसरादूर्वामणिकनकरजतादिभिश्च मङ्गलं प्रत्यवगच्छन्ति । एवंविधानि इमे तीर्थ्याः कुर्वन्ते, आश्रयन्ते च संसारभयभीताः ॥ इह च केचित्परत्र मन्यन्ते स्वर्गापवर्गावस्माकमेतेभ्यो निर्वर्त्स्येत इति मिथ्यामार्गप्रयाता अशरणे शरणसंज्ञिनोऽमङ्गल्ये मङ्गलसंज्ञिनोऽशुद्ध्या शुद्धिं मन्यतोयन्न्वहं तादृशं व्रततपोविशेषमालभेयं यथा सर्वपरप्रवादिनश्च निगृहीताः स्युः, कर्मक्रियाप्रणष्टानां च सत्त्वानां कर्मक्रियाविप्रणाशमादर्शयेयम् । ध्यानगोचराणां च रूपावचराणां च देवानां ध्यानविशेषोपदर्शनादावर्जनं कुर्यामिति ॥ इति हि भिक्षवो बोधिसत्त्व एवं चिन्तयित्वा षड्वर्षिकं महाघोरं व्रततपःसुदुष्करात्सुदुष्करां दुष्करचर्यामालभते स्म । केन कारणेनोच्यते दुष्करचर्येति? दुष्करकारिकैषा, तेनोच्यते दुष्करचर्येति । न स कश्चित्सत्त्वः सत्त्वनिकाये संविद्यते मनुष्यो वा अमनुष्यो वा, यः समर्थस्तथारूपं दुष्करं चरितुम्, अन्यत्र चरमभविकाद्बोधिसत्त्वात्, य आस्फानकध्यानं समापद्यते स्म । केन कारणेनोच्यते आस्फानकमिति? स चतुर्थध्यानमादित एव समापद्यमान आश्वासप्रश्वासानुपरोधयति संनिरोधयति । अकल्पं तद्ध्यानमविकल्पमनिञ्जनमपनीतमस्पन्दनं सर्वत्रानुगतं च सर्वत्र चानिश्रितम् । न च तद्ध्यानं जातु केनचित्समापन्नं पूर्वं शैष्येण वा अशैष्येण वा प्रत्येकबुद्धेन (वैद्य १८४) वा चर्याप्रतिपन्नेन वा बोधिसत्त्वेन । अतश्चास्फानकं नामोच्यते । आकाशमस्फरणमकरणमविकरणं तच्च सर्वं स्फरतीति ह्याकाशसमं तद्ध्यानम् । तेनोच्यते आस्फानकमिति ॥ अथ खलु भिक्षवो बोधिसत्त्वो लोकस्याश्चर्यसंदर्शनार्थं तीर्थिकानां च दर्पनिर्घातनार्थं परप्रवादिनां च निग्रहार्थं देवानां चावर्जनार्थमुच्छेदशाश्वतवादिनां च सत्त्वानां क्रर्मक्रियाप्रणष्टानां कर्मक्रियावतारणार्थं पुण्यफलोद्भावनार्थं ज्ञानफलसंदर्शनार्थं ध्यानाङ्गविभजनार्थ कायबलस्थामसंदर्शनार्थं चित्तशौर्यसंजननार्थं च असंस्कृतायां पृथिव्यां पर्यङ्कमाभुज्य निषीदति स्म । निषद्य च स्वकायं चेतसा निगृह्णीते स्म, निष्पीडयति स्म ॥ ततो मे भिक्षवो हैमन्तिकास्वष्टकरात्रिषु तथा कायं निगृह्णतो निष्पीडयतः कक्षाभ्यामपि स्वेदाः प्रश्रवन्ति स्म । ललाटादपि स्वेदाः प्रश्रवन्ति स्म । भूमौ निपतन्ति स्म अवश्यायन्त ऊष्मायन्तो बाष्पायन्तः । तद्यथापि नाम बलवान् पुरुषो दुर्बलतरं पुरुषं ग्रीवायां गृहीत्वा निष्पीडयेत्, एवमेव भिक्षव इमं कायं चेतसा निगृह्णतो निष्पीडयतः कक्षाभ्यामपि स्वेदाः प्रश्रवन्ति स्म । ललाटादपि स्वेदाः प्रश्रवन्ति स्म । भूभौ निपतन्ति स्म अवश्यायन्त ऊष्मायन्तो बाष्पायन्तः ॥ तस्य मे भिक्षव एतदभूत्- यन्न्वहमास्फानकं ध्यानं ध्यायेयम् । ततो मे भिक्षव आस्फानकं ध्यानं ध्यायतो मुखतो नासिकातश्चाश्वासप्रश्वासा उपनिरुद्धावभूताम् । कर्णछिद्राभ्यामुच्चशब्दा महाशब्दा निश्चरन्ति स्म । तद्यथापि नाम कर्मारगगया मथ्यमानायामुच्चशब्दो महाशब्दो निश्चरति, एवमेव मे भिक्षवो मुखनासिकाभ्यामाश्वासप्रश्वासावुपरुद्धावभूतां श्रोतछिद्राभ्यामुच्चशब्दो महाशब्दो निश्चरति स्म ॥ तस्य मे भिक्षव एतदभूत्- यन्न्वहं भूय आस्फानकं ध्यानं ध्यायेयमिति । ततो मे भिक्षवो मुखनासिकाश्रोत्राण्युपरुद्धानि चाभूवन् । तेषूपरुद्धेषु वायुरुर्ध्वं शिरःकपालमुपनिहन्ति स्म । तद्यथापि नाम भिक्षवः पुरुषः कुण्डया शक्त्या शिरःकपालमुपहन्याद्, एवमेव मे भिक्षवो मुखनासिकाश्रोत्रेषूपरुद्धेषु आश्वासप्रश्वासा उर्ध्वं शिरःकपालमुपनिघ्नन्ति स्म ॥ तां चावस्थां दृष्ट्वा बोधिसत्त्वस्य तत्र केचिद्देवा एवमाहु - कष्टं भोः कालगतो बतायं सिद्धार्थः कुमारः । अपरे एवमाहुः - नायं कालगतः । अपि तुध्यानविहार एषोऽर्हतामेवंविध इति । तस्यां च वेलायमिमां गाथामभाषन्त - मा खल्वयं शाक्यनरेन्द्रगर्भो ह्यपूर्णसंकल्प इहैव रण्ये । कृत्वा त्रिलोकं दुखितं ह्यनाथं कालं करिष्यत्यकृतार्थ एव ॥ १७.१ ॥ हा सत्त्वसारा सदृढप्रतिज्ञा सद्धर्मयज्ञेन निमन्त्रिताभूत् । (वैद्य १८५) वयं पुरा ते तुषितेषु नाथा क्व सा प्रतिज्ञा तव शुद्धसत्त्व ॥ १७.२ ॥ अथ ते देवपुत्रास्त्रायत्रिंशेषु देवेषु गत्वा मायादेव्या एवमर्थं श्रावयन्ति - कालगतः कुमारः । अथ मायादेवी अप्सरागणपरिवृता अर्धरात्रसमये नैरञ्जनायास्तीरे येन बोधिसत्त्वस्तेनोपसंक्रान्ता । सा पश्यति स्म बोधिसत्त्वं शुष्कगात्रम् । कालगतमिव दृष्ट्वा बाष्पगद्गदकण्ठा रोदितुमारब्धा । तस्यां च वेलायामिमां गाथामभाषत - यदा जातोऽसि मे पुत्र वने लुम्बिनिसाह्वये । सिंहवच्चागृहीतस्त्वं प्रक्रान्तः सप्त पदा स्वयम् ॥ १७.३ ॥ दिशां चालोक्य चतुरे वाचा ते प्रव्याहृता शुभा । इयं मे पश्चिमा जातिः सा ते न परिपूरिता ॥ १७.४ ॥ असितेनाभिनिर्दिष्टो बुद्धो लोके भविष्यसि । क्षुण्णं व्याकरणं तस्य न दृष्टा तेन नित्यता ॥ १७.५ ॥ चक्रवर्तिश्रियं पुत्र नपि भुक्ता मनोरमा । न च बोधिमनुप्राप्तो यातोऽसि निधनं वने ॥ १७.६ ॥ पुत्रार्थे कं प्रपद्यामि कं व क्रन्दामि दुःखिता । को मे दद्येकपुत्रस्य किंचित्प्राणस्य जीवितम् ॥ १७.७ ॥ बोधिसत्त्व आह - कैषा अति त्वां करुणं रुदासि प्रकीर्णकेशा विनिवृत्तशोभा । पुत्रं ह्यतीवा परिदेवयन्ती विचेष्टमाना धरणीतलस्था ॥ १७.८ ॥ मायादेवी आह - मया तु दशमासां वै कुक्षौ वज्र इवा धृतः । सा तेऽहं पुत्रका माता विलपामि सुदुःखिता ॥ १७.९ ॥ अथ बोधिसत्त्व आश्वासयन्नुवाच - न भेतव्यं पुत्रलालसे, श्रमं ते सफलं करिष्यसि । अमोघं बुद्धपरित्यागम् । असितनिर्देशं च व्यक्तं करिष्यामि । दीपंकरस्य व्याकरणं व्यक्तीकरिष्यामि च । अपि शतधा वसुधा विकीर्येत मेरुः प्लवे चाम्भसि रत्नशृङ्गः । चन्द्रार्कतारागण भू पतेत पृथजनो नैव अहं म्रियेयम् । (वैद्य १८६) यस्मान्न शोको त्वयि अत्र कार्यो न वै चिराद्द्रक्ष्यसि बुद्धबोधिम् ॥ १७.१० ॥ सहश्रवणादेव देवी माया संप्रहर्षितरोमकूपजाता बोधिसत्त्वं मान्दारवपुष्पैरभ्यवकिर्य त्रिप्रदक्षिणीकृत्वा दिव्यतूर्यैः संप्रवाद्यमानैर्येन स्वभवनं तेनोपजगाम ॥ तस्य मे भिक्षव एतदभूत्- सन्त्येके श्रमणब्राह्मणा ये अल्पाहारतया शुद्धिं मन्यन्ते । यन्न्वहमल्पाहारतया प्रतिपद्येयमिति । अभिजानाम्यहं भिक्षव एकमेवाद्वितीयं कोलमाहारमाहर्तुम् । स्यात्खलु पुनर्भिक्षवो युष्माकमेषा बुद्धिः - महत्तरं तत्र काले कोलमासीदिति । न खल्वेवं द्रष्टव्यम् । अथ खल्वियदेव तत्र काले कोलमभूत् । तस्य मे भिक्षव एकमेव कोलमाहारमाहरतोऽद्वितीयं कायोऽत्यर्थं कर्शितोऽभूद्दुर्बलः । तद्यथापि नाम भिक्षव आसीतकीपर्वाणि वा कालापर्वाणि वा, एवमेव मेऽङ्गप्रत्यङ्गान्यभूवन् । तद्यथापि नाम कर्कटपार्शुका, एवमेव मे पार्शुका अभूवन् । तद्यथापि नाम वाहनकारशालायां वा हस्तिशालायां वा जीर्णायामुभयतो विवृतायां गोपानस्यान्तरिकाश्च विराजन्ते व्यवभासन्ते, एवमेव मे पार्शुका अन्तःकाये उभयतो विराजन्ते स्म व्यवभासन्ते स्म । तद्यथापि नाम वर्तन्या वेणी उन्नतावनता भवति समविषमा, एवं मे पृष्ठीकण्टकोऽभूदुन्नतावनतः समविषमः । तद्यथा तिक्तकालाबुस्तरुणो लून आम्लानो भवति संम्लानः समुत्पुटकजातः एवमेव शिर आम्लानमभूत्संम्लानं समुत्पुटकजातम् । तद्यथापि नाम ग्रीष्माणां पश्चिमे मासे कूपतारका दूरगता भवन्ति, कृच्छ्रेण संप्रकाश्यन्ते, एवमेव मेऽक्षितारकौ दुरगतावभूतां कृच्छ्रेण संप्रकाश्येते स्म । तद्यथापि नामाजपदं वोष्ट्रपदं वा, एवमेव मे कक्षाकुक्षिवक्षादीन्यभूवन् । ततो यदाहं भिक्षवः पाणिना कुक्षिं स्पृशामीति पृष्ठिकण्टकमेवास्प्राक्षम् । उत्तिष्ठामीति चाभिसंस्कुर्वंस्तथैवावकुब्जः प्रयामेण प्रापतम् । ततः कृच्छ्रेणोत्थितोऽपि पांशुकृतानि गात्राणि पाणिना प्रमृजतो मे पूतिरोमाणि कायाच्छीर्यन्ते स्म । यापि मेऽभूत्पौराणी शुभवर्णतनुः साप्यन्तरधाद्यथापीदं रूक्षप्रधानं प्रहितात्मनः । सामन्ताश्च मे गोचरग्रामवासिन एवं संजानन्ते स्म - कालको बत भोः श्रमणो गौतमः । श्यामको बत भोः श्रमणो गौतमः । मद्गुरच्छविर्बत भोः श्रमणो गौतमः । याप्यस्याभूत्पौराणी शुभवर्णा निभा, साप्यन्तर्हिता ॥ तस्य मे भिक्षव एतदभूत्- यन्न्वहं भूयस्या मात्रयाल्पाहारतया प्रतिपद्येयमिति । अभिजानाम्यहं भिक्षव एकमेव तण्डुलमद्वितीयमाहारमाहर्तुम् । स्याद्भिक्षवो युष्माकमेवं महत्तरं तण्डुलं तस्मिन् कालेऽभूदिति । न खल्वेवं द्रष्टव्यम् । अथैतावानेव तस्मिन् काले तण्डुलोऽभूत् । तस्य मे भिक्षव एकं तण्डुलमाहरतः क्षिप्रं कायोऽभूदिति पूर्ववद्यावन्मद्गुरच्छविर्बत भोः श्रमणो गौतम इति । याप्यस्य साभूत्पौराणी शुभवर्णतनुः साप्यन्तर्हितेति ॥ (वैद्य १८७) तस्य मे भिक्षव एतदभूत्- यन्न्वहं भूयस्या मात्रयाल्पाहारतायै प्रतिपद्येयमिति । अभिजानाम्यहं भिक्षव एकमेव तिलमद्वितीयमाहारमाहारयितुम् । पेयालम् । यावत्साप्यस्य शुभवर्णतनुरन्तर्हितेति ॥ तस्य मे भिक्षव एतदभूत्- सन्त्येके श्रमणब्राह्मणा येऽनाहारतया शुद्धिं मन्यन्ते । यन्न्वहं सर्वेण सर्वमनाहारतायै प्रतिपद्येयमिति । ततोऽहं भिक्षवोऽनाहारस्थितोऽभूवन् । तस्य मे भिक्षवोऽनाहारस्य कायोऽतीव शुष्कोऽभूत्कृशो दुर्बलः, तद्यथापि नाम आसितकीपर्वाणि वा कालापर्वाणि वा । ततो द्विगुणत्रिगुणचतुर्गुणपञ्चगुणदशगुणं मे कृशान्यङ्गप्रत्यङ्गान्यभूवन् । तद्यथा कर्कटकपार्शुका वाहनशालायां वा गोपानसी (पार्श्वे) द्विपरिवर्तना वेणीवत्पृष्ठीकण्टकः । तिक्तालाबुवच्छिरःकपालम्, कूपतारका इवाक्षितारके । सोऽहं भिक्षवः साधुकमुत्तिष्ठामीति गात्राण्यभिसंस्कुर्वन्नवकुब्जः प्रापतम् । कृच्छ्रेणापि चोत्थितः पांशुकृतानि मे गात्राणि प्रमृजतः पूतिमूलानि रोमाण्यशीर्यन्त । यापि मे साभूच्छुभवर्णतनुनिभा, साप्यन्तरधात् । तद्यथापि तद्रूक्षप्रधानप्रहितात्मकत्वात् । सामन्ताश्च मे गोचरग्रामवासिनो जना एवं संजानन्ते स्म - कालको बत भोः श्रमणो गौतमः । श्यामको बत भोः श्रमणो गौतमः । मद्गुरच्छविर्बत भोः श्रमणो गौतमः । याप्यस्य साभूत्पौराणी शुभवर्णनिभा साप्यन्तर्हितेति ॥ राजापि तदा शुद्धोदनः प्रतिप्रतिदिवसं बोधिसत्त्वस्यान्तिके दूतं प्रेषयति स्म ॥ इति हि भिक्षवो बोधिसत्त्वो लोकस्याद्भुतक्रियासंदर्शनार्थं पूर्ववद्यावत्कर्मक्रियाप्रणष्टानां सत्त्वानां कर्मक्रियावतारणार्थं पुण्यसंचयानां चोद्भावनार्थं महाज्ञानस्य च गुणसंदर्शनार्थं ध्यानाङ्गानां च विभजनार्थमेकतिलकोलतण्डुलेन षड्वर्षाणि दुष्करचर्यामनुवर्तयन्तमुपदर्शयति स्म । अदीनमानसः षड्वर्षा बोधिसत्त्वो यथा निषण्ण एवास्थात्पर्यङ्केन । न च ईर्यापथाच्च्यवते स्म । नातपाच्छायामगमन्न छायाया आतपम् । न च वातातपवृष्टिपरित्राणमकरोन्न च दंशमशकसरीसृपानपनयति स्म । न चोच्चारप्रश्रावश्लेष्मसिंहाणकानुत्सृजति स्म । न च समिञ्जनप्रसारणमकरोत् । न च पार्श्वोदरपृष्ठस्थानेनास्थात् । येऽपि च ते महामेघा दुर्दिनवर्षाशनिशरद्ग्रीष्महैमन्तिकाः, तेऽपि बोधिसत्त्वस्य काये निपतन्ति स्म । न चान्ततो बोधिसत्त्वः पाणिनापि प्रच्छादनमकरोत् । न चेन्द्रियाणि पिथयति स्म । न चेन्द्रियार्थान् गृह्णिते स्म । ये च तत्रागमन् ग्रामकुमारका वा ग्रामकुमारिका वा गोपालका वा पशुपालका वा तृणहारिका वा काष्ठहारिका वा गोमयहारिका वा, ते बोधिसत्त्वं पांशुपिशाचमिति मन्यन्ते स्म । तेन च क्रीडन्ति स्म । पांशुभिश्चैनं म्रक्षयन्ति स्म ॥ तत्र बोधिसत्त्वस्तैः षड्भिर्वर्षैस्तावल्लूहन्यूनदुर्बलकायः संवृत्तोऽभूत्, यदस्य कर्णश्रोताभ्यां तृणतूलकं प्रक्षिप्य नासाश्रोताभ्यां निष्कास्यते स्म । नासाश्रोताभ्यां प्रक्षिप्य कर्णश्रोताभ्यां (वैद्य १८८) निष्कास्यते स्म । कर्णश्रोताभ्यां प्रक्षिप्य मुखद्वारेण निष्कास्यते स्म । मुखद्वारेण प्रक्षिप्य कर्णनासिकाश्रोताभ्यो निष्कास्यते स्म । नासायां प्रक्षिप्य कर्णनासिकामुखद्वारेण निष्कास्यते स्म ॥ ये च ते देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगा मनुष्यामनुष्या बोधिसत्त्वस्य गुणेषु प्रत्यक्षाः, ते रात्रिंदिवं समधिष्ठा बोधिसत्त्वस्य पूजां कुर्वन्ति स्म । प्रणिधानानि च कुर्वन्ति स्म ॥ तत्र बोधिसत्त्वेन तै षड्भिर्वर्षैर्दुष्करचर्यां संदर्शयता परिपूर्णानि द्वादशनयुतानि देवमनुष्याणां त्रिभिर्यानैः परिपाचितान्यभूवन् ॥ तत्रेदमुच्यते - तस्य च गुणान्वितस्य पुराद्विनिष्क्रम्य बोधिसत्त्वस्य । चिन्ता उपाययुक्ता सत्त्वार्थहिताय उत्पन्ना ॥ १७.११ ॥ पञ्चसु कषायकाले हीनेऽधर्माधिमुक्तिके लोके । जातोऽस्मि जम्बुद्विपे धर्मक्रियौद्धुरे लोके ॥ १७.१२ ॥ आकीर्ण तीर्थिकगणैः कौतूहलमङ्गलैरिमे युक्ता । कायोपक्रमकरणैर्मन्यन्ते बालिशाः शुद्धिम् ॥ १७.१३ ॥ अग्निप्रवेशमरुप्रपातपांशुभस्मादिमक्षिता नग्नाः । कायपरितापनार्थं पञ्चातपयोगमनुयुक्ताः ॥ १७.१४ ॥ मन्त्राविचारकरणा केचिद्धस्तावलेहका अबुधाः । न च कुम्भमुखकरोटान्न धारकुशलान्तराच्च गृह्णन्ति ॥ १७.१५ ॥ न च यत्र स्वानुभवती न चाहितं तेन तिष्ठवाक्यस्य । कुलभिक्ष एक गृह्या शुद्धं मन्यन्तिहात्मानम् ॥ १७.१६ ॥ वर्जेन्ति सर्पितैलं फाणितदधिदुग्धमत्स्यमांसानि । श्यामाकशाकभक्षा मृणालगर्डुलकणाभक्षाः ॥ १७.१७ ॥ मूलफलपत्रभक्षाः कुशचीवरचर्मकम्बलधराश्च । अपरे भ्रमन्ति नग्नाः सत्यमिदं मोहमन्यदिति मूढाः ॥ १७.१८ ॥ धारेन्ति ऊर्ध्वहस्ता उर्ध्वंकेशा जटाश्च धारेन्ति । मार्गानतिप्रनष्टा अमार्गसंस्थाः सुगतिगमनकामाः ॥ १७.१९ ॥ तृणमुसलभस्मशयनाः कण्टकशयनाश्च उत्कुटध्यायि । स्थित केचिदेकपादे ऊर्ध्वमुखाश्चन्द्रसूर्य पश्यन्तः ॥ १७.२० ॥ उत्सां सरसतडागां सागरसरितश्च चन्द्रसूर्यौ च । वृक्षगिरिशैलशिखरां कुम्भं धरणीं नमस्यन्ते ॥ १७.२१ ॥ (वैद्य १८९) विविधैश्च कारणैस्ते कायं परिशोधयन्ति संमूढाः । मिथ्यादृष्टिपरीताः क्षिप्रं प्रपतन्त्यपायेषु ॥ १७.२२ ॥ यन्नूनमहं व्रततप दुष्करचर्यां समारभे घोराम् । यं दुष्करं न शक्यं चरितुं देवैर्मनुष्यैर्वा ॥ १७.२३ ॥ आस्फानकं च ध्यानं ध्यायेयं वज्रकल्पदृढस्थानम् । यं ध्यानं न समर्थाः प्रत्येकजिनापि दर्शयितुम् ॥ १७.२४ ॥ सन्तीह देवमनुजाः तीर्थिक लूहव्रतेन हृष्यन्ते । तेष परिपाकहेतो दुष्करव्रततप रभेय सूतीव्रम् ॥ १७.२५ ॥ पर्यङ्कमाभुजित्वा उपविष्टोऽभूत्स्थले असंस्तीर्णे । कोलतिलतण्डुलेना आहारविधिं विदर्शयति ॥ १७.२६ ॥ आश्वासविप्रहीनः प्रश्वासवर्जितु न चेञ्जते बालवान् । षड्वर्षाणि प्रवरं ध्यायत्यास्फानकं ध्यानम् ॥ १७.२७ ॥ कल्पं नो न विकल्पं न चेञ्जनं नापिमन्येन प्रचारम् । आकाशधातुस्फरणं ध्यायत्यास्फानकं ध्यानम् ॥ १७.२८ ॥ न च आतपातु छायां छायाया नातपं गतश्चासौ । मेरुरिव निष्प्रकम्प्यो ध्यायत्यास्फानकं ध्यानम् ॥ १७.२९ ॥ न च वातवृष्टिछदनं न दंशमशकासरीसृपात्राणम् । अविकोपितया चर्या ध्यायत्यास्फानकं ध्यानम् ॥ १७.३० ॥ न च केवलमात्मार्थं ध्यायत्यास्फानकं ध्यानम् । अन्यत्र करुणचित्तो भावी लोकस्य विपुलार्थम् ॥ १७.३१ ॥ ये ग्रामदारकाश्च गोपालाः काष्ठहारतृणहाराः । पांशुपिशाचकमिति तं मन्यन्ते पांशुना च म्रक्षन्ति ॥ १७.३२ ॥ अशुचीना च किरन्ते विविधास्ते कारणाश्च कारेन्ति । न च इञ्जते भ्रमति वा ध्यायत्यास्फानकं ध्यानम् ॥ १७.३३ ॥ न च नमति नो विनमते न कायपरिरक्षणा स्पृशति । किंचिन्नोच्चारप्रस्रवं शब्देषु न संत्रसी न परप्रेक्षी ॥ १७.३४ ॥ संशुष्कमांसरुधिरं चर्मस्नाय्वस्थिकाश्च अवशिष्टा । उदराच्च पृष्ठिवंशो विदृश्यते वर्तिता यथा वेणी ॥ १७.३५ ॥ (वैद्य १९०) ये ते कृताधिकारा देवाः सुरनागयक्षगन्धर्वाः । प्रत्यक्षगुणधरस्या करोन्ति पूजां दिवारात्रौ ॥ १७.३६ ॥ प्रणिधिं च कुर्वते ते वयमपि तादृश भवामहे क्षिप्रम् । यथ एष गगनचित्तो ध्यायत्यास्फानकं ध्यानम् ॥ १७.३७ ॥ न च केवलमात्मार्थं न ध्यानस्वादनान्न सुखबुद्ध्या । अन्यत्र करुणबुद्ध्या करिष्यत्यर्थं विपुल लोके ॥ १७.३८ ॥ निहताः परप्रवादा ध्यामीकृत तीर्थिका मतिविहीनाः । कर्मक्रिया च दर्शित या प्रोक्ता काश्यपे वाचा ॥ १७.३९ ॥ क्रकुच्छन्दकस्य बोधि बोधिरिह सुदुर्लभा बहुभि कल्पैः । जनताया इत्यर्थं ध्यायत्यास्फानकं ध्यानम् ॥ १७.४० ॥ द्वादशनयुता पूर्णा विनीत मरुमानुषास्त्रिभिर्यानैः । एतदधिकृत्य सुमति ध्यायत्यास्फानकं ध्यानम् ॥ १७.४१ ॥ ॥ इति श्रीललितविस्तरे दुष्करचर्यापरिवर्तो नाम सप्तदशमोऽध्यायः ॥ ______________________________________________________________________ परिवर्त १८ (वैद्य १९१) नैरञ्जनापरिवर्तोऽष्टादशः । मारश्च भिक्षवः पापीयान् बोधिसत्त्वस्य षड्वर्षाणि दुष्करचर्यां चरतः पृष्ठतः समनुबद्धोऽभूतवतारप्रेक्षी अवतारगवेषी । न च कदाचित्किंचिदवतारमध्यगच्छत् । सोऽवतारमनधिगच्छन्निर्विण्णो विप्रतिसारी प्राक्रामत् ॥ तत्रेदमुच्यते - रमणीयान्यरण्यानि वनगुल्माश्च वीरुधाः । प्राचीनमुरुबिल्वायां यत्र नैरञ्जना नदी ॥ १८.१ ॥ प्रहाणायोद्यतं तत्र सततं दृढविक्रमम् । पराक्रमन्तं वीर्येण योगक्षेमस्य प्राप्तये ॥ १८.२ ॥ नमुचिर्मधुरां वाचं भाषमाणो उपागमत् । शाक्यपुत्रा समुत्तिष्ठ कायखेदेन किं तव ॥ १८.३ ॥ जीवतो जीवितं श्रेयो जीवन् धर्मं चरिष्यसि । जीवं हि तानि कुरुते यानि कृत्वा न शोचति ॥ १८.४ ॥ कृशो विवर्णो दीनस्त्वमन्तिके मरणं तव । सहस्रभागे मरणमेकभागे च जीवितम् ॥ १८.५ ॥ ददतः सततं दानमग्निहोत्रं च जुह्वतः । भविष्यति महत्पुण्यं किं प्रहाणे करिष्यसि ॥ १८.६ ॥ दुःखं मार्गं प्रहाणस्य दुष्करं चित्तनिग्रहम् । इमां वाचं तदा मारो बोधिसत्त्वमथाब्रवीत् ॥ १८.७ ॥ तं तथावादिनं मारं बोधिसत्त्वस्ततोऽब्रवीत् । प्रमत्तबन्धो पापीय स्वेनार्थेन त्वमागतः ॥ १८.८ ॥ अणुमात्रं हि मे पुण्यैरर्थो मार न विद्यते । अर्थो येषां तु पुण्येन तानेवं वक्तुमर्हसि ॥ १८.९ ॥ नैवाहं मरणं मन्ये मरणान्तं हि जीवितम् । अनिवर्ती भविष्यामि ब्रह्मचर्यपरायणः ॥ १८.१० ॥ स्रोतांस्यपि नदीनां हि वायुरेष विशोषयेत् । किं पुनः शोषयेत्कायं शोणितं प्रहितात्मनाम् ॥ १८.११ ॥ (वैद्य १९२) शोणिते तु विशुष्के वै ततो मांसं विशुष्यति । मांसेषु क्षीयमाणेषु भूयश्चित्तं प्रसीदति । भूयश्छन्दश्च वीर्यं च समाधिश्चावतिष्ठते ॥ १८.१२ ॥ तस्यैव मे विहरतः प्राप्तस्योत्तमचेतनाम् । चित्तं नावेक्षते कायं पश्य सत्त्वस्य शुद्धताम् ॥ १८.१३ ॥ अस्ति छन्दं तथा वीर्यं प्रज्ञापि मम विद्यते । तं न पश्याम्यहं लोके वीर्याद्यो मां विचालयेत् ॥ १८.१४ ॥ वरं मृत्युः प्राणहरो धिग्ग्राम्यं नोपजीवितम् । संग्रामे मरणं श्रेयो यच्च जीवेत्पराजितः ॥ १८.१५ ॥ नाशूरो जयते सेनां जित्वा चैनां न मन्यते । शूरस्तु जयते सेनां लघु मार जयामि ते ॥ १८.१६ ॥ कामास्ते प्रथमा सेना द्वितीया अरतिस्तथा । तृतीया क्षुत्पिपासा ते तृष्णा सेना चतुर्थिका ॥ १८.१७ ॥ पञ्चमी स्त्यानमिद्धं ते भयं षष्टी निरुच्यते । सप्तमी विचिकित्सा ते क्रोधम्रक्षौ तथाष्टमी ॥ १८.१८ ॥ लोभश्लोकौ च संस्कारौ मिथ्यालब्धं च यद्यशः । आत्मानं यश्च उत्कर्षेद्यश्च वै ध्वंसयेत्पराम् ॥ १८.१९ ॥ एषा हि नमुचेः सेना कृष्णबन्धोः प्रतापिनः । अत्रावगाढा दृश्यन्ते एते श्रमणब्राह्मणाः ॥ १८.२० ॥ या ते सेना धर्षयति लोकमेनं सदेवकम् । भेत्स्यामि प्रज्ञया तां ते आमपात्रमिवाम्बुना ॥ १८.२१ ॥ स्मृतिं सूपस्थितां कृत्वा प्रज्ञां चैव सुभाविताम् । संप्रजानं चरिष्यामि किं करिष्यसि दुर्मते ॥ १८.२२ ॥ एवमुक्ते मारः पापीयान् दुःखी दुर्मना अनात्तमना विप्रतिसारी तत्रैवान्तरधात् ॥ अथ खलु भिक्षवो बोधिसत्त्वस्यैतदभूत्- ये केचिच्छ्रमणा ब्राह्मणा वा अतीतानागतप्रत्युत्पन्नेष्वध्वस्वात्मोपक्रमिकां शरीरोपतापिकां दुःखां तीव्रां खरां कटुकाममनापां वेदनां वेदयन्ति एतावत्परमं ते दुःखमनुभवन्ति ॥ (वैद्य १९३) तस्य मे भिक्षव एतदभूत्- अनयापि खलु मया चर्यया अनयापि प्रतिपदा न कश्चिदुत्तरिमनुष्यधर्मादलमार्यज्ञानदर्शनविशेषः साक्षात्कृतः । नायं मार्गो बोधेः । नायं मार्ग आयत्यां जातिजरामरणसंभवानामस्तंगमाय । स्यात्तदन्यो मार्गो बोधेरायत्यां जातिजरामरणदुःखसमुदयानामस्तंगमायेति ॥ तस्य मे भिक्षव एतदभवत्- यदहं पितुरुद्याने जम्बुच्छायायां निषण्णो विविक्तं कामैर्विविक्तं पापकैरकुशलैर्धर्मैः सवितर्कं सविचारं विवेकजं प्रीतिसुखं प्रथमं ध्यानमुपसंपद्य व्याहार्षं यावच्चतुर्थध्यानमुपसंपद्य व्याहार्षम्, स्यात्स मार्गो बोधेर्जातिजरामरणदुःखसमुदायानामसंभवायास्तंगमायेति । तदनुसारि च मे विज्ञानमभूत् । स मार्गो बोधेरिति ॥ तस्य ममैतदभूत्- नासौ मार्गः शक्यः एवं दौर्बल्यप्राप्तेनाभिसंबोद्धुम् । सचेत्पुनरहमभिज्ञाज्ञानबलेनैव लूहं दुर्बलकाय एव बोधिमण्डमुपसंक्रमेयम्, न मे पश्चिमा जनता अनुकम्पिता स्यात् । न चैष मार्गो बोधेः । यन्न्वहमौदारिकमाहारमाहृत्य कायबलस्थामं संजनय्य पश्चाद्बोधिमण्डमुपसंक्रमेयम् ॥ तत्र भिक्षवो ये ते लूहाधिमुक्ता देवपुत्रास्ते मम चेतसश्चेतसैव परिवितर्कमाज्ञाय येनाहं तेनोपसंक्रम्य मामेवमाहुः - मा स्म त्वं सत्पुरुष औदारिकमाहारमाहरेः । वयं ते रोमकूपैरोजः प्रक्षेप्स्याम इति ॥ तस्य मे भिक्षव एतदभूत्- अहं खल्वनशन इत्यात्मानं प्रतिजाने, सामन्ताश्च मे गोचरग्रामवासिनो जना एवं संजानन्ते स्म यथानशनः श्रमणो गौतमः । इतीव मे खलु लूहाधिमुक्ता देवपुत्रा रोमकूपैरोजः प्रक्षिपन्ति । स मम परमो मृषावादः स्यात् । ततो बोधिसत्त्वो मृषावादपरिहारार्थं तान् देवपुत्रान् प्रतिक्षिप्यौदारिकमाहारमाहर्तु चित्तं नामयति स्म ॥ इति हि भिक्षवः षड्वर्षव्रततपःसमुत्तीर्णो बोधिसत्त्वोऽस्मादासनादुत्थायौदारिकमाहारमाहरिष्यामीति वाचं निश्चारयति स्म । तद्यथा फाणीकृतं मुद्गयूषं हरेणुकयूषं मथ्योदनकुल्माषमिति ॥ अथ खलु भिक्षवः पञ्चानां भद्रवर्गीयानामेतदभूत्- तयापि तावच्चर्यया तयापि तावत्प्रतिपदा श्रमणेन गौतमेन न शकितं किंचिदुत्तरिमनुष्यधर्मादलमार्यज्ञानदर्शनविशेषं साक्षात्कर्तुम्, किं पुनरेतर्हि औदारिकमाहारमाहरन् सुखल्लिकानुयोगमनुयुक्तो विहरन् । अव्यक्तो बालोऽयमिति च मन्यमाना बोधिसत्त्वस्यान्तिकात्प्रक्रामन् । ते वाराणसीं गत्वा ऋषिपतने मृगदावे व्याहार्षुः ॥ तत्र बोधिसत्त्वमादित एव दुष्करचर्यां चरन्तं दश ग्रामिकदुहितरः कुमार्य उपगच्छन् दर्शनाय वन्दनाय पर्युपासनाय च । तैरपि पञ्चकैर्भद्रवर्गीयैरुपस्थितोऽभूत् । एककोलतिलतण्डुलप्रदानेन (वैद्य १९४) च प्रतिपादितोऽभूत् । बला च नाम दारिका बलगुप्ता च सुप्रिया च विजयसेना च अतिमुक्तकमला च सुन्दरी च कुम्भकारी च उलुविल्लिका च जटिलिका च सुजाता च नाम ग्रामिकदुहिताः । आभिः कुमारिकाभिर्बोधिसत्त्वाय सर्वास्ता यूषविधाः कृत्वोपनामिता अभूवन् । ताश्चाभ्यवहृत्य बोधिसत्त्वः क्रमेण गोचरग्रामे पिण्डाय चरन् वर्णरूपबलवानभूत् । तदग्रेण बोधिसत्त्वः सुन्दरः श्रमणो महाश्रमण इत्याचक्षते ॥ तत्र च भिक्षवः सुजाता ग्रामिकदुहिता बोधिसत्त्वस्य दुष्करचर्यां चरतः आदित एव बोधिसत्त्वस्य व्रततपःसमुत्तारणार्थं शरीरस्याप्यायनहेतोश्च प्रतिदिवसमष्टशतं ब्राह्मणानां भोजयति स्म । एवं च प्रणिदधाति स्म - मम भोजनं भुक्त्वा बोधिसत्त्वोऽनुत्तरां सम्यक्संबोधिमभिसंबुध्येतेति ॥ तस्य मे भिक्षवः षड्वर्षव्यतिवृत्तस्य काषायाणि वस्त्राणि परिजीर्णान्यभूवन् । तस्य मे भिक्षव एतदभूत्- सचेदहं कौपीनप्रच्छादनं लभेयम्, शोभनं स्यात् ॥ तेन खलु पुनर्भिक्षवः समयेन सुजाताया ग्रामिकदुहितुर्दासी राधा नाम कालगताभूत् । सा शाणकैः परिवेष्ट्य श्मशानमपकृष्य परित्यक्ताभुत् । तदहमेवाद्राक्षीत्पांशुकूलम् । ततोऽहं तत्पांशुकूलं वामेन पादेनाक्रम्य दक्षिणं हस्तं प्रसार्यावनतोऽभूत्तद्रहीतुम् । अथ भौमा देवा अन्तरीक्षाणां देवानां घोषमनुश्रावयन्ति स्म - आश्चर्यं मार्षा अद्भुतमिदं मार्षाः । यत्र हि नामैवं महाराजकुलप्रसूतस्य चक्रवर्तिराज्यपरित्यागिनः पांशुकूले चित्तं नतमिति । अन्तरीक्षा देवा भौमानां देवानां शब्दं श्रत्वा चातुर्महाराजिकानां देवानां घोषमुदीरयन्ति स्म । चातुर्महाराजिका देवास्त्रायत्रिंशतः । त्रायत्रिंशा यामानाम् । यामास्तुषितानाम् । तुषिता निर्माणरतीनाम् । निर्माणरतयः परनिर्मितवशवर्तिनाम् । परनिर्मितवशवर्तिनो यावद्ब्रह्मकायिकानाम् । इति हि भिक्षवस्तत्क्षणं तल्लवं तन्मुहूर्तं यावदकनिष्ठभुवनादेकघोष एकसंनिर्नादोऽभ्युद्गतोऽभूताश्चर्यमिदं मार्षा अद्भुतमिदम् । यत्र हि नामैवं महाराजकुलप्रसूतस्य चक्रवर्तिराज्यपरित्यागिनः पांशुकूले चित्तं नतमिति ॥ अथ बोधिसत्त्वस्य पुनरप्येतदभवत्- लब्धं मया पांशुकूलम् । सचेदुदकं लभेयम्, शोभनं स्यादिति । ततस्तत्रैव देवता पाणिना महीं पराहन्ति स्म । तत्र पुष्करिणी प्रादुरभूत् । अद्यापि सा पाणिहतेति पुष्करिणी संज्ञायते ॥ पुनरपि बोधिसत्त्वस्यैतदभवत्- लब्धं मया पानीयम् । सचेच्छिलां लभेयम्, यत्रेदं पांशुकूलं प्रक्षालयेयम्, शोभनं स्यात् । अथ तत्रैव शक्रेण शिला तत्क्षणमेवोपनिक्षिप्ताभूत् । ततो बोधिसत्त्वस्तत्पांशुकूलं प्रक्षालयति स्म ॥ अथ शक्रो देवराजो बोधिसत्त्वमेवमाह - ददस्वेदं सत्पुरुष मह्यम् । अहं प्रक्षालयिष्यामीति । ततो बोधिसत्त्वः स्वयंकारितां प्रव्रज्यायाः संदर्शयितुं तत्पांशुकूलं शक्रस्यादत्वा स्वयमेव प्रक्षालयति स्म । स श्रान्तः क्लान्तकायोऽवतीर्य पुष्करिणीमुत्तरिष्यामीति । मारेण च पापीयसा (वैद्य १९५) ईर्ष्याधर्मपरीतेन पुष्करिण्या अत्युच्छ्रितानि तटानि निर्मितान्यभूवन् । तस्याश्च पुष्करिण्यास्तीरे महान् कुकुभपादपः । तत्र देवतां बोधिसत्त्वो लोकानुवृत्त्या देवतानुग्रहार्थं चाब्रवीत्- आहर देवते वृक्षशाखामिति । तया वृक्षशाखावनामिताभूत् । तां बोधिसत्त्वोऽबलम्ब्योत्तरति स्म । उत्तीर्य च तस्य ककुभपादपस्याधस्तात्तत्पांशुकूलं संघाटीकृत्य आसीव्यति स्म । अद्यापि तत्पांशुकूलं सीवनमित्येवं संज्ञायते स्म ॥ अथ विमलप्रभो नाम शुद्धावासकायिको देवपुत्रः, स दिव्यानि चीवराणि काषायरङ्गरक्तानि कल्पिकानि श्रमणसारूप्याणि बोधिसत्त्वायोपनामयति स्म । बोधिसत्त्वश्च तानि गृहीत्वा पूर्वाह्णे निवास्य संघाटीप्रावृत्य गोचरग्रामाभिमुखोऽभुत् ॥ तत्र देवताभिरुरुबिल्वासेनापतिग्रामके नन्दिकग्रामिकदुहितुः सुजाताया आरोचितमभूदर्धरात्रसमये - यदर्थं त्वं महायज्ञं यजसे तस्माद्व्रतादुत्तीर्णः सः । सुभगमौदारिकमाहारमाहरिष्यति । त्वया च पूर्वे प्रणिधानं कृतम् - मम भोजनं भुक्त्वा बोधिसत्त्वोऽनुत्तरां सम्यक्संबोधिमभिसंबुध्येत इति । यत्ते करणीयं तत्कुरुष्वेति ॥ अथ खलु भिक्षवः सुजाता नन्दिकग्रामदुहिता तेषां देवतानां तद्वचनं श्रुत्वा शीघ्रं गोसहस्रस्य क्षीरात्सप्तकृत्सारोद्धृतादग्र्यमोजोमण्डं गृह्णीते स्म । गृहीत्वा च सा तत्क्षीर(मभिनवम)भिनवैस्तण्डुलैरभिनवायां स्थाल्यामभिनवां चुल्लीमुपलिप्य तद्भोजनं साधयति स्म । तस्मिंश्च साध्यमाने इमानि पूर्वनिमित्तानि संदृश्यन्ते स्म - तस्मिन् खल्वपि क्षीरे श्रीवत्सस्वस्तिकनन्द्यावर्तपद्मवर्धमानादीनि मङ्गल्यानि संदृश्यन्ते स्म । ततस्तस्या एतदभूत्- यादृशानीमानि पूर्वनिमित्तानि संदृश्यन्ते, निःसंशयमिदं भोजनं भुक्त्वा बोधिसत्त्वोऽनुत्तरां सम्यक्संबोधिं प्राप्स्यति । सामुद्रज्ञानविधिज्ञश्च नैमित्तिकस्तं प्रदेशं प्राप्तोऽभूत् । सोऽपि तथैवामृताधिगमनमेव व्याकृतवान् । ततः सुजाता तं पायसं पक्वं स्थण्डिलमुपलिप्य पुष्पैरवकीर्य गन्धोदकेनाभ्युक्ष्य आसनं प्रज्ञाप्य सत्कृत्योत्तरां नाम चेटीमामन्त्रयते स्म - गच्छोत्तरे ब्राह्मणमानय । अहमिदं मधुपायसमवलोकयामि । साध्वार्य इति प्रतिश्रुत्य उत्तरा पूर्वां दिशमगमत् । सा तत्र बोधिसत्त्वं पश्यति स्म । तथैव दक्षिणाम् । बोधिसत्त्वमेव पश्यति स्म । एवं पश्चिमामुत्तरामेव दिशं गच्छति स्म, तत्र तत्र बोधिसत्त्वमेवाद्राक्षीत् । तेन खलु पुनः समयेन शुद्धावासकायिकैर्देवपुत्रैः सर्वेऽन्यतीर्थिका निगृहीता अभूवन् । न कश्चित्संदृश्यते स्म । ततः सा आगत्वा स्वामिनीमेवमाह - न खल्वार्ये अन्यः कश्चिद्दृश्यते श्रमणो वा ब्राह्मणो वा, अन्यत्र यतो यत एव गच्छामि, तत्र तत्र श्रमणमेव सुन्दरं पश्यामि । सुजाता आह - गच्छोत्तरे स एव ब्राह्मणः, स एव श्रमणः । तस्यैवार्थेऽयमारम्भः । तमेवानयेति । साध्वार्ये इत्युत्तरा गत्वा बोधिसत्त्वस्य चरणयोः प्रणिपत्य सुजाताया (वैद्य १९६) नाम्नोपनिमन्त्रयते स्म । ततो भिक्षवो बोधिसत्त्वः सुजाताया ग्रामिकदुहितुर्निवेशनं गत्वा प्रज्ञप्त एवासने न्यषीदत् । अथ खलु भिक्षवः सुजाता ग्रामिकदुहिता सुवर्णमयीं पात्रीं मधुपायसपूर्णां बोधिसत्त्वस्योपनामयति स्म ॥ अथ बोधिसत्त्वस्यैतदभवत्- यादृशमिदं सुजातया भोजनमुपनामितम्, निःसंशयमहमद्यैनं भोजनं भुक्त्वा अनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यते ॥ अथ बोधिसत्त्वस्तद्भोजनं प्रतिगृह्य सुजातां ग्रामिकदुहितरमेतदवोचत्- इयं भगिनि सुवर्णपात्री । किं क्रियताम्? सा आह - तवैव भवत्विति । बोधिसत्त्व आह - न ममेदृशेन भाजनेन प्रयोजनम् । सुजाता आह - यथेष्टं क्रियताम् । नाहं विना भाजनेन कस्यचिद्भोजनं प्रयच्छामि ॥ अथ बोधिसत्त्वस्तं पिण्डपात्रमादायोरुबिल्वाया निष्क्रम्य नागनदीं पूर्वाह्णकालसमये नदीं नैरञ्जनामुपसंक्रम्य तं पिण्डपात्रं चीवराणि चैकान्ते निक्षिप्य नदीं नैरञ्जनामवतरति स्म गात्राणि शीतलीकर्तुम् ॥ बोधिसत्त्वस्य खलु पुनर्भिक्षवः स्नायतोऽनेकानि देवपुत्रशतसहस्राणि दिव्यागुरुचन्दनचूर्णविलेपनैर्नदीमालोडयन्ति स्म । दिव्यानि च नानावर्णानि कुसुमानि जले क्षिपन्ति स्म यदुत बोधिसत्त्वस्य पूजाकर्मणे ॥ तेन खलु पुनः समयेन नैरञ्जना नदी दिव्यैर्गन्धैः पुष्पैश्च समाकुला वहति स्म । येन च गन्धोदकेन बोधिसत्त्वः स्नातोऽभूत्, तं देवपुत्रकोटीनियुतशतसहस्राण्यभ्युत्क्षिप्य स्वकस्वकानि भवनानि नयन्ति स्म चैत्यार्थं पूजार्थं च ॥ यानि च बोधिसत्त्वस्य केशश्मश्रूण्यभूवन्, तानि सर्वाणि सुजाता ग्रामिकदुहिता मङ्गल्यानीति कृत्वा चैत्यार्थं पूजार्थं च परिगृह्णीते स्म ॥ नद्युत्तीर्णश्च बोधिसत्त्वः पुलिनं निरीक्षते स्म उपवेष्टुकामः । अथ या नैरञ्जनायां नद्यां नागकन्या सा धरणितलादभ्युद्गभ्य मणिमयं (मनोरमं) भद्रासनं बोधिसत्त्वायोपनामयति स्म । तत्र बोधिसत्त्वो निषद्य यावदर्थं तं मधुपायसं परिभुङ्क्ते स्म सुजाताया ग्रामिकदुहितुरनुकम्पामुपादाय । परिभुज्य च तां सुवर्णपात्रीमनपेक्षो वारिणि प्राक्षिपति स्म । क्षिप्तमात्रां च तां सागरो नागराजश्चित्तिकारबहुमानजातो गृहीत्वा स्वभवनाभिमुखः प्रस्थितोऽभुत्पूजार्हेति कृत्वा । अथ दशशतनयनः पुरंदरो गरुडरूपमभिनिर्माय वज्रतुण्डो भूत्वा सागरस्य नागराजस्यान्तिकात्तां सुवर्णपात्रीं हर्तुमारब्धः । यदा न शक्नोति स्म, तदा स्वरूपेणादरेण याचित्वा त्रायत्रिंशद्भवनं नीतवान् पूजार्थं चैत्यार्थं च । नीत्वा पात्रीयात्रां नाम पर्वणि प्रवर्तितवान् । अद्यापि च त्रायत्रिंशेषु देवेषु प्रतिसंवत्सरं पात्रीमहो वर्तते । तच्च भद्रासनं तयैव नागकन्यया परिगृहीतं चैत्यार्थं पूजार्थं च ॥ (वैद्य १९७) समन्तपरिभुक्तश्च भिक्षवो बोधिसत्त्वेनौदारिक आहारः । अथ तत्क्षणमेव बोधिसत्त्वस्य पुण्यबलेन प्रज्ञाबलेन पूर्विका काये शुभवर्णपुष्करता प्रादुरभूत् । द्वात्रिंशच्च महापुरुषलक्षणानि अशीतिश्चानुव्यञ्जनानि व्यामप्रभता च । तत्रेदमुच्यते - षड्वर्ष व्रत उत्तरित्व भगवानेवं मतिं चिन्तयन् सोऽहं ध्यानअभिज्ञज्ञानबलवानेवं कृशाङ्गोऽपि सन् । गच्छेयं द्रुमराजमूलविटपं सर्वज्ञतां बुद्धितुं नो मे स्यादनुकम्पिता हि जनता एवं भवेत्पश्चिमा ॥ १८.२३ ॥ यत्त्वौदारिक भुक्त्व भोजनवरं काये बलं कृत्वना गच्छेयं द्रुमराजमूलविटपं सर्वज्ञतां बुध्यितुम् । मा हैवेत्वरपुण्य देवमनुजा लूहेन ज्ञानेक्षिणो नो शक्ता सिय बुध्यनाय अमृतं कायेन ते दुर्बलाः ॥ १८.२४ ॥ सा च ग्रामिकधीत पूर्वचरिता नाम्ना सुजाता इति यज्ञा नित्यु यजाति एवमनसा सिद्धे व्रतं नायके । सा देवान निशाम्य चोदन तदा गृह्या मधूपायसं उपगम्या नदितीरि हृष्टमनसा नैरञ्जनायाः स्थिता ॥ १८.२५ ॥ सो चाकल्पसहस्रचीर्णचरितो शान्तप्रशान्तेन्द्रियो देवैर्नागगणैरृषी परिवृतो आगत्य नैरञ्जनाम् । तीर्णस्तारकु पारसत्त्व मतिमां स्नाने मतिं चिन्तयन् ओरुह्या नदि स्नापि शुद्धविमलो लोकानुकम्पी मुनिः ॥ १८.२६ ॥ देवा कोटिसहस्र हृष्टमनसा गन्धाम्बु चूर्णानि च ओरुह्या नदि लोडयन्ति सलिलं स्नानार्थ सत्त्वोत्तमे । स्नाना स्नात्वन बोधिसत्त्व विमलस्तीरे स्थितः सूरतः हर्षुर्देवसहस्र स्नानसलिलं पूजार्थ सत्त्वोत्तमे ॥ १८.२७ ॥ काषायानि च वस्त्र निर्मल शुभा ता देवपुत्रो ददे कल्पीयानि च संनिवास्य भगवांस्तीरे हि नद्याः स्थितः । नागाकन्य उदग्र हृष्टमनसा भद्रासनं सा न्यषीत् यत्रासौ निषसाद शान्तमनसो लोकस्य चक्षुष्करः ॥ १८.२८ ॥ (वैद्य १९८) दत्त्वा भोजनु सा सुजात मतिमां स्वर्णामये भाजने वन्दित्वा चरणानि सा प्रमुदिता परिभुङ्क्ष्व मे सारथे । भुक्त्वा भोजनु यावदर्थ मतिमान् पात्रीं जले प्राक्षिपत् तां जग्राह पुरंदरः सुरगुरुः पूजां करिष्याम्यहम् ॥ १८.२९ ॥ यद भुक्तं च जिनेन भोजनवरमोदारिकं तत्क्षणे तस्या कायबलं च तेजशिरिया पूर्वं यथा संस्थितम् । धर्मा कृत्व कथा सुजात मरुणां कृत्वा च अर्थं बहुं सिंहो हंसगतिर्गजेन्द्रगमनो बोधिद्रुमं संस्थितः ॥ १८.३० ॥ ॥ इति श्रीललितविस्तरे नैरञ्जनापरिवर्तो नामाष्टादशमोऽध्यायः ॥ ______________________________________________________________________ परिवर्त १९ (वैद्य १९९) बोधिमण्डगमनपरिवर्त एकोनविंशः । इति हि भिक्षवो बोधिसत्त्वो नद्यां नैरञ्जनायां स्नात्वा च भुक्त्वा कायबलस्थाम संजनय्य येन षोडशाकारसंपन्नपृथिविप्रदेशे महाबोधिद्रुमराजमूलं तेन प्रतस्थे विजयया तया च गत्या, यासौ महापुरुषाणां गतिरनुच्चलितगतिरिन्द्रियेष्टिगतिः सुसंस्थितगतिः मेरुराजगतिरजिह्मगतिरकुटिलगतिरनुपद्रुतगतिरविलम्बितगतिरलुडितगतिरस्खलितगतिरसंघटितगतिरलीनगतिरचपलगतिः सलीलगतिः विमलगतिः शुभगतिरदोषगतिरमोहगतिररक्तगतिः सिंहगतिः हंसराजगतिर्नागराजगतिर्नारायणगतिः धरणितलासंसृष्टगतिः सहस्रारचक्रधरणीतलचित्रगतिः जालाङ्गुलिताम्रनखगतिः धरणीतलनिर्नादगतिः शैलराजसंघटनगतिः उत्कूलनिकूलसमकरचरणगतिः जालान्तराभारश्म्युत्सर्जनसत्त्वसंस्पृशनसुगतिगमनगतिः विमलपद्मक्रमनिक्षिपणगतिः पूर्वशुभसुचरितगमनगतिः पूर्वबुद्धसिंहाभिगमनगतिः वज्रदृढाभेद्याशयगतिः (सर्वोपायगतिः) सर्वापायदुर्गतिपिथितगतिः सर्वसत्त्वसुखसंजननगतिः मोक्षपथसंदर्शनगतिः मारबलाबलकरणगतिः कुगणिगणपरप्रवादिसहधर्मनिग्रहणगतिः । तमःपटलक्लेशविधमनगतिः संसारपक्षापक्षकरणगतिः शक्रब्रह्ममहेश्वरलोकपालाभिभवगतिः । त्रिसाहस्रमहासाहस्रैकशूरगतिः स्वयंभ्वनभिभूतगतिः सर्वज्ञज्ञानाभिगमनगतिः स्मृतिमतिगतिः सुगतिगमनगतिः जरामरणप्रशमनगतिः शिवविरजामलाभयनिर्वाणपुरगमनगतिः । ईदृश्या गत्या बोधिसत्त्वो बोधिमण्डं संप्रस्थितोऽभूत् ॥ इति हि भिक्षवो यावच्च नद्या नैरञ्जनाया यावच्च बोधिमण्डादेस्तस्मिन्नन्तरे वातबलाहकैर्देवपुत्रैः संमृष्टमभूत् । वर्षबलाहकैर्देवपुत्रैर्गन्धोदकेन सिक्तमभूत्पुष्पैश्चावकीर्णमभूत् । यावदेव त्रिसाहस्रमहासाहस्रलोकधातौ वृक्षास्ते सर्वे येन बोधिमण्डस्तेनाभिनताग्रा अभूवन् । येऽपि च तदहोजाता बालदारिकास्तेऽपि बोधिमण्डशीर्षकाः स्वपन्ति स्म । येऽपि चेह त्रिसाहस्रमहासाहस्रलोकधातौ सुमेरुप्रमुखाः पर्वतास्तेऽपि सर्वे येन बोधिमण्डस्तेन प्रणता अभूवन् । नदीं च नैरञ्जनामुपादाय यावद्बोधिमण्डोऽस्मिन्नन्तरे कामावचरैर्देवपुत्रैः क्रोशविस्तारैकप्रमाणो मार्गोऽभिव्यूहितोऽभूत् । तस्य च मार्गस्य वामदक्षिणयोः पार्श्वयोः सप्तरत्नमयी वेदिका अभिनिर्मिताऽभूत् । सप्ततालानुच्चैस्त्वेन उपरिष्टाद्रत्नजालसंछन्ना दिव्यछत्रध्वजपताकासमलंकृता इषुक्षेपे सप्तरत्नमयास्ताला अभिनिर्मिता अभूवन् तस्या वेदिकाया अभ्युद्गताः । सर्वस्माच्च तालाद्रत्नसूत्रा द्वितीये तालमवसक्तमभूत् । द्वयोश्च तालयोर्मध्ये पुष्करिणी मापिताभूत्गन्धोदकपरिपूर्णा सुवर्णवालिक्रासंस्तृता उत्पलपद्मकुमुदपुण्डरीकसंछन्ना रत्नवेदिकापरिवृता वैदूर्यमणिरत्नसोपानप्रत्युप्ता (वैद्य २००) आडिबलाकाहंसचक्रवाकमयूरोपकूजिता । तं च मार्गमशीत्यप्सरःसहस्राणि गन्धोदकेन सिञ्चन्ति स्म । अशीत्यप्सरःसहस्राणि मुक्तकुसुमैरभ्यवकिरन्ति स्म दिव्यैर्गन्धवद्भिः । सर्वस्य च तालवृक्षस्य पुरतो रत्नव्योमकः संस्थितोऽभूत् । सर्वस्मिंश्च रत्नव्योमके अशीत्यप्सरः सहस्राणि चन्दनागुरुचूर्णकपुटापरिगृहीतानि कारानुसारिधूपघटिकापरिगृहीतानि स्थितान्यभूवन् । सर्वस्मिंश्च रत्नव्योमके पञ्चपञ्चाप्सरःसहस्राणि दिव्यसंगीतिसंप्रवादितेन स्थितान्यभूवन् ॥ इति हि भिक्षवो बोधिसत्त्वः प्रकम्प्यमानैः क्षेत्रै रश्मिकोटीनियुतशतसहस्राणि निश्चारयंस्तूर्यशतसहस्रैः प्रवाद्यमानैः, महता पुष्पाढ्येन प्रवर्षता, अम्बरशतसहस्रैर्भ्राम्यमानैः, दुन्दुभिशतसहस्रैः पराहन्यमानैः, गर्जद्भिः प्रगर्जद्भिः हयगजवृषभैः, प्रदक्षिणीकुर्वद्भिः शुकसारिकाकोकिलकलविङ्कजीवंजीवकहंसक्रोञ्चमयुरचक्रवाकशतसहस्रैः, उपनाम्यमानैः मङ्गल्यशतसहस्रैः । अनेनैवंरूपेण मार्गव्यूहेन बोधिसत्त्वो बोधिमण्डं गच्छति स्म । यां च रात्रिं बोधिसत्त्वो बोधिमभिसंबोद्धुकामोऽभूत्, तामेव रात्रिं वशवर्ती नाम त्रिसाहस्रमहासाहस्राधिपतिर्ब्रह्मा सहापतिर्ब्रह्मपर्षदमामन्त्र्यैवमाह - यत्खलु मार्षा जानीयाः । एष स बोधिसत्त्वो महासत्त्वो महासंनाहसंनद्धो महाप्रतिज्ञानुत्सृष्टो दृढसंनाहसंनद्धोऽपरिखिन्नमानसः सर्वबोधिसत्त्वचर्यासु निर्जातः सर्वपारमितासु पारंगतः सर्वबोधिसत्त्वभूमिषु वशिताप्राप्तः सर्वबोधिसत्त्वाशयसुविशुद्धः सर्वसत्त्वेन्द्रियेष्वनुगतः सर्वतथागतगुह्यस्थानेषु सुप्रविष्टः सर्वमारकर्मपथसमतिक्रान्तः सर्वकुशलमूलेष्वपरप्रत्ययः सर्वतथागतैरधिष्ठितः सर्वसत्त्वेषु प्रमोक्षमार्गदेशयिता महासार्थवाहः । सर्वमारमण्डलविध्वंसनकरः त्रिसाहस्रमहासाहस्रैकशूरः । सर्वधर्मभैषज्यसमुदानीतः महावैद्यराजः । विमुक्तिपट्टाबद्धो महाधर्मराजः । महाप्रज्ञाप्रभोत्सर्जनकरः महाकेतुराजः अष्टलोकधर्मानुपलिप्तः महापद्मभूतः सर्वधर्मधारण्यसंप्रमुषितः महासागरभूतः अनुनयप्रतिघापगतः अचलोऽप्रकम्पी महासुमेरूभूतः । सुनिर्मलः सुपरिशुद्धः स्ववदर्पितविमलबुद्धिर्महामणिरत्नभूतः सर्वधर्मवशवर्ती सर्वकर्मण्यचित्तो महाब्रह्मभूतो बोधिसत्त्वो बोधिमण्डमुपसंक्रमति मारसैन्यप्रधर्षणार्थमनुत्तरां सम्यक्संबोधिमभिसंबोद्धुकामः । दशबलवैशारद्याष्टादशावेणिकबुद्धधर्मपरिपुरणार्थं महाधर्मचक्रप्रवर्तनार्थं महासिंहनादनादनार्थं सर्वसत्त्वान् धर्मदानेन संतर्पणार्थं सर्वसत्त्वानां धर्मचक्षुर्विशोधनार्थं सर्वपरप्रवादीनां सहधर्मेण निग्रहार्थं पूर्वप्रतिज्ञापारिपूरिसंदर्शनार्थं सर्वधर्मैश्वर्यवशिताप्राप्त्यर्थम् । तत्र युष्माभिर्मार्षा सर्वैरेव बोधिसत्त्वस्य पूजोपस्थानकर्मण्युत्सुकैर्भवितव्यम् । अथ खलु वशवर्ती महाब्रह्मा तस्यां वेलायामिमां गाथामभाषत - यस्या तेजतु पुण्यतश्च शिरिये ब्राह्मः पथो ज्ञायते मैत्री वा करुणा उपेक्ष मुदिता ध्यानान्यभिज्ञास्तथा । (वैद्य २०१) सोऽयं कल्पसहस्रचीर्णचरितो बोधिद्रुमं प्रस्थितः पूजां साधु करोथ तस्य मुनिनो आशिव्रते साधनाम् ॥ १९.१ ॥ यं गत्वा शरणं न दुर्गतिभयं प्राप्नोति नैवाक्षणं देवेष्विष्टसुखं च प्राप्य विपुलं ब्रह्मालयं गच्छति । षड्वषाणि चरित्व दुष्करचरिं यात्येष बोधिद्रुमं साधू सर्वि उदग्रहृष्टमनसः पूजास्य कुर्वामहे ॥ १९.२ ॥ राजासौ त्रिसहस्रि ईश्वरवरो धर्मेश्वरः पार्थिवः शक्राब्रह्मपुरे च चन्द्रसुरिये नास्त्यस्य कश्चित्समः । यस्या जायत क्षेत्रकोटिनयुता संकम्पिता षड्विधा सैषोऽद्य व्रजते महाद्रुमवरं मारस्य जेतुं चमून् ॥ १९.३ ॥ मूर्ध्नं यस्य न शक्यमीक्षितुमिह ब्रह्मालयेऽपि स्थितैः कायो यस्य वराग्रलक्षणधरो द्वात्रिंशतालंकृतः । वाग्यस्येह मनोज्ञवल्गुमधुरा ब्रह्मस्वरा सुस्वरा चित्तं यस्य प्रशान्त दोषरहितं गच्छाम तत्पूजने ॥ १९.४ ॥ येषां वा मति ब्रह्मशक्रभवने नित्यं सुख क्षेपितुं अथवा सर्वकिलेशबन्धनलतां छेत्तुं हि तां जालिनीम् । अश्रुत्वा परतः स्पृशेयममृतं प्रत्येकबोधिं शिवां बुद्धत्वं यदि वेप्सितं त्रिभुवने पूजेत्वसौ नायकम् ॥ १९.५ ॥ त्यक्ता येन ससागरा वसुमती रत्नान्यनन्तान्यथो प्रासादाश्च गवाक्षहर्म्यकलिका युग्यानि यानानि च । भूम्यालंकृत पुष्पदाम रुचिरा उद्यानकूपासराः हस्ता पादशिरोत्तमाङ्गनयना सो बोधिमण्डोन्मुखः ॥ १९.६ ॥ इति हि भिक्षवस्त्रिसाहस्रमहासाहस्रिको महाब्रह्मा इमं त्रिसाहस्रमहासाहस्रं लोकधातुं तत्क्षणं सममध्यतिष्ठत् । पाणितलजातमपगतशर्करकठल्लमुत्सदमणिमुक्तिवैदूर्यशङ्खशिलाप्रवालरजतजातरूप्यं नीलमृदुकुण्डलजातप्रदक्षिणनन्द्यावर्तकाचिलिन्दिकसुखसंस्पर्शैश्च तृणैरिमं त्रिसाहस्रमहासाहस्रं लोकधातुं संछादितमध्यतिष्ठत् । सर्वे च तदा महासमुद्रा धरणीतलसंस्थिता अभूवन् । न च जलचराणां सत्त्वानां काचिद्विहेठाभूत् । इमं चैव लोकधातुमलंकृतं दृष्ट्वा च दशसु दिक्षु शक्रब्रह्मलोकपालैर्बोधिसत्त्वस्य पूजाकर्मणे बुद्धक्षेत्रशतसहस्राणि समलंकृतान्यभूवन् । बोधिसत्त्वैश्च दिव्यमानुष्यकातिक्रान्तैः पूजाव्यूहैर्दशसु दिक्ष्वप्रमेयाणि बुद्धक्षेत्राणि प्रतिमण्डितान्यभूवन् (वैद्य २०२) बोधिसत्त्वस्य पूजाकर्मणे । सर्वाणि च तानि बुद्धक्षेत्राण्येकमिव बुद्धक्षेत्रं संदृश्यन्ते स्म, नानाव्यूहालंकारालंकृतानि च । न च भूयो लोकान्तरिका न च कालपर्वता न च चक्रवालमहाचक्रवालाः प्रज्ञायन्ते स्म । सर्वाणि च तानि बुद्धक्षेत्राणि बोधिसत्त्वस्याभया स्फुटानि संदृश्यन्ते स्म । षोडश च बोधिमण्डपरिपालिका देवपुत्राः । तद्यथा - उत्खली च नाम देवपुत्रः सूत्खली च नाम प्रजापतिश्च शूरबलश्च केयूरबलश्च सुप्रतिस्थितश्च महिंधरश्च अवभासकरश्च विमलश्च धर्मेश्वरश्च धर्मकेतुश्च सिद्धपात्रश्च अप्रतिहतनेत्रश्च महाव्यूहश्च शीलविशुद्धनेत्रश्च पद्मप्रभश्च । इतीमे षोडश बोधिमण्डप्रतिपालका देवपुत्राः सर्वेऽवैवर्त्यक्षान्तिप्रतिलब्धास्ते बोधिसत्त्वस्य पूजार्थं बोधिमण्डं मण्डयन्ति स्म । समन्तादशीतियोजनानि सप्तभी रत्नवेदिकाभिः परिवृतं सप्तभिस्तालपङ्क्तिभिः सप्तभी रत्नकिङ्किणीजालैः सप्तभी रत्नसूत्रैः परिवृतम्, सप्तरत्नप्रत्युप्तैश्च जाम्बूनदसुवर्णपटैः सुवर्णसूत्रैर्जाम्बूनदसुवर्णपद्मैश्चावकीर्णं सारवरगन्धनिर्धूपितं रत्नजालसंछन्नम् । ये च दशसु दिक्षु नानालोकधातुषु विविधा वृक्षाः सन्त्यभिजाता अभिपूजिता दिव्यमानुष्यकास्तेऽपि सर्वे तत्र बोधिमण्डे संदृश्यन्ते स्म । याश्च दशसु दिक्षु नानाप्रकारा जलस्थलजाः पुष्पजातयस्ता अपि सर्वास्तत्र बोधिमण्डे संदृश्यन्ते स्म । येऽपि च दशसु दिक्षु नानालोकधातुषु बोधिसत्त्वा बोधिमण्डालंकुर्वन्त्यप्रमाणपुण्यज्ञानसंभारव्यूहैस्तेऽपि तत्र बोधिमण्डे संदृश्यन्ते स्म ॥ इति हि भिक्षवो बोधिमण्डपरिपालकैर्देवपुत्रैस्तादृशा व्यूहा बोधिमण्डे अभिनिर्मिता अभूवन्, यान् दृष्ट्वा देवनागयक्षगन्धर्वासुराः स्वभवनानि श्मशानसंज्ञामुत्पादयामासुः । तांश्च व्यूहान् दृष्ट्वात्यर्थं चित्रीकारमुत्पादयामासुः । एवमुदानं चोदानयामासुः - साध्वहोऽचिन्त्यः पुण्यविपाकनिष्यन्द इति । चत्वारश्च बोधिवृक्षदेवताः । तद्यथा - वेणुश्च वल्गुश्च सुमनश्च ओजापतिश्च । एते चत्वारो बोधिवृक्षदेवता बोधिसत्त्वस्य पूजार्थं बोधिवृक्षं मापयन्ति स्म मूलसंपन्नं स्कन्धसंपन्नं शाखापत्रपुष्पफलसंपन्नमारोहपरिणाहसंपन्नं प्रासादिकं दर्शनीयं विस्तीर्णमशीतिस्तालानुच्चैस्त्वेन तदनुरूपेण परिणाहेन चित्रं दर्शनीयं मनोरमं सप्तभी रत्नवेदिकाभिः परिवृतं सप्तभी रत्नतालपङ्क्तिभिः सप्तभी रत्नकिङ्किणीजालैः सप्तभी रत्नसूत्रैः समन्तादनुपरिवृतैरनुपरिक्षिप्तं पारिजातककोविदारप्रकाशमतृप्तचक्षुर्दर्शनम् । स च पृथिवीप्रदेशस्त्रिसाहस्रमहासाहस्रलोकधातुवज्रेणाभिदृढः सारोऽभेद्यवज्रमयः संस्थितोऽभूत्यत्र बोधिसत्त्वो निषण्णोऽभूद्बोधिमभिसंबोद्धुकामः ॥ इति हि भिक्षवो बोधिसत्त्वेन बोधिमण्डमुपसंक्रमता तथारूपा कायात्प्रभा मुक्ताभूत्, यया प्रभया सर्वेऽपायाः शान्ता अभूवन् । सर्वाण्यक्षणानि पिथितान्यभूवन् । सर्वदुर्गतिवेदनाश्चोपशोषिता अनुभवन् । ये च सत्त्वा विकलेन्द्रिया अभूवन्, ते सर्वे परिपूर्णेन्द्रियतामनुप्राप्नुवन् । व्याधिताश्च व्याधिभ्यो व्यमुच्यन्त । भयार्दिताश्चाश्वासप्राप्ता अभूवन् । बन्धनबद्धाश्च बन्धनेभ्यो व्यमुच्यन्त । दरिद्राश्च सत्त्वा भोगवन्तोऽभूवन् । क्लेशसंतप्ताश्च निष्परिदाहा अभूवन् । (वैद्य २०३) बुभुक्षिताश्च सत्त्वाः पूर्णोदरा अभूवन् । पिपासिताश्च तृषापगता अभूवन् । गुर्विण्यश्च सुखेन प्रसूयन्ते स्म । जीर्णदुर्बलाश्च बलसंपन्ना अभूवन् । न च कस्यचित्सत्त्वस्य तस्मिन् समये रागो बाधते द्वेषो व मोहो वा क्रोधो वा लोभो वा खिलो वा व्यापादो वा ईर्ष्या वा मात्सर्यो वा । न कश्चित्सत्त्वस्तस्मिन् समये म्रियते स्म, न च्यवते स्म, नोपपद्यते स्म । सर्वसत्त्वाश्च तस्मिन् समये मैत्रचित्ता हितचित्ताः परस्परं मातापितृसंज्ञिनोऽभूवन् ॥ तत्रेदमुच्यते - यावच्चावीचिपर्यन्तं नरका घोरदर्शनाः । दुःखं प्रशान्तं सत्त्वानां सुखं विन्दन्ति वेदनाम् ॥ १९.७ ॥ तिर्यग्योनिषु यावन्तः सत्त्वा अन्योन्यघातकाः । मैत्रचित्ता हिते जाताः स्पृष्टा भाभिर्महामुने ॥ १९.८ ॥ प्रेतलोकेषु यावन्तः प्रेताः क्षुत्तर्षपीडिताः । प्राप्नुवन्त्यन्नपानानि बोधिसत्त्वस्य तेजसा ॥ १९.९ ॥ अक्षणाः पिथिताः सर्वे दुर्गतिश्चोपशोषिता । सुखिताः सर्वसत्त्वाश्च दिव्यसौख्यसमर्पिताः ॥ १९.१० ॥ चक्षुश्रोत्रविहीनाश्च ये चान्ये विकलेन्द्रियाः । सर्वेन्द्रियैः सुसंपूर्णा जाताः सर्वाङ्गशोभनाः ॥ १९.११ ॥ रागद्वेषादिभिः क्लेशैः सत्त्वा बाध्यन्त ये सदा । शान्तक्लेशास्तदा सर्वे जाताः सुखसमर्पिताः ॥ १९.१२ ॥ उन्मत्ताः स्मृतिमन्तश्च दरिद्रा धनिनस्तथा । व्याधिता रोगनिर्मुक्ता मुक्ता बन्धनबद्धकाः ॥ १९.१३ ॥ न खिलं न च मात्सर्यं व्यापादो न च विग्रहः । अन्योन्यं संप्रकुर्वन्ति मैत्रचित्ताः स्थितास्तदा ॥ १९.१४ ॥ मातुः पितुश्चैकपुत्रे यथा प्रेम प्रवर्तते । तथान्योन्येन सत्त्वानां पुत्रप्रेम तदाभवत् ॥ १९.१५ ॥ बोधिसत्त्वप्रभाजालैः स्फुटाः क्षेत्रा ह्यचिन्तियाः । गङ्गावालिकसंख्याताः समन्ताद्वै दिशो दशः ॥ १९.१६ ॥ न भूयश्चक्रवालाश्च दृश्यन्ते कालपर्वताः । सर्वे ते विपुलाः क्षेत्राः दृश्यन्त्येकं यथा तथा ॥ १९.१७ ॥ पाणितलप्रकाशाश्च दृश्यन्ते सर्वरत्निकाः । बोधिसत्त्वस्य पूजार्थं सर्वक्षेत्रा अलंकृताः ॥ १९.१८ ॥ (वैद्य २०४) देवाश्च षोडश तथा बोधिमण्डोपचारकाः । अलंचक्रुर्बोधिमण्डमशीतिर्योजनावृतम् ॥ १९.१९ ॥ ये च केचिन्महाव्यूहाः क्षेत्रकोटीष्वनन्तकाः । ते सर्वे तत्र दृश्यन्ते बोधिसत्त्वस्य तेजसा ॥ १९.२० ॥ देवा नागास्तथा यक्षाः किन्नराश्च महोरगाः । स्वानि स्वानि विमानानि श्मशानानीव मेनिरे ॥ १९.२१ ॥ तान् व्यूहान् संनिरीक्ष्येह विस्मिताः सुरमानुषाः । साधुः पुण्यस्य निस्यन्दः संपद्यस्येयमीदृशी ॥ १९.२२ ॥ करोति नैव चोद्योगं कायवाङ्भनसा तथा । सर्वार्थाश्चास्य सिध्यन्ति येऽभिप्रेता मनोरथाः ॥ १९.२३ ॥ अभिप्राया यथान्येषां पूरिताश्चरता पुरा । विपाकाः कर्मणस्तस्य संपद्यातेयमीदृशी ॥ १९.२४ ॥ अलंकृतो बोधिमण्डश्चतुर्भिर्बोधिदेवतैः । पारिजातो दिवि यथा तस्मादपि विशिष्यते ॥ १९.२५ ॥ गुणाः शक्या न ते वाचा सर्वे संपरिकीर्तितुम् । ये व्यूहा बोधिमण्डस्य देवतैरभिसंस्कृताः ॥ १९.२६ ॥ इति हि भिक्षवस्तया बोधिसत्त्वस्य कायप्रमुक्तया प्रभया कालिकस्य नागराजस्य भवनमवभासितमभूत्विशुद्धया विमलया कायचित्तप्रह्लादौद्विल्यजनन्या सर्वक्लेशापकर्षिण्या सर्वसत्त्वसुखप्रीतिप्रसादप्रामोद्यजनन्या । दृष्ट्वा च पुनः कालिको नागराजस्तस्यां वेलायां स्वस्य परिवारस्य पुरतः स्थित्वेमा गाथा अभाषत्- क्रकुछन्दे यथ आभ दृष्ट रुचिरा दृष्टा च कनकाह्वये यद्वत्काश्यपि धर्मराजमनघे दृष्टा प्रभा निर्मला । निःसंशयं वरलक्षणो हितकरो उत्पन्न ज्ञानप्रभो येनेदं भवनं विरोचति हि मे स्वर्णप्रभालंकृतम् ॥ १९.२७ ॥ नास्मिं चन्द्ररविप्रभा सुविपुला संदृश्यते वेश्मनि नो चाग्नेर्न मणेर्न विद्युदमला नो च प्रभा ज्योतिषाम् । नो वा शक्रप्रभा न ब्रह्मण प्रभा नो च प्रभा आसुरी एकान्तं तमसाकुलं मम गृहं प्राग्दुष्कृतैः कर्मभिः ॥ १९.२८ ॥ (वैद्य २०५) अद्येदं भवनं विराजति शुभं मध्ये रविंदीप्तिवत् चित्तं प्रीति जनेति कायु सुखितो गात्राद्भुता शीतला । तप्ता वालिक या शरीरि निपती जाता स मे शीतला सुव्यक्तं बहुकल्पकोटिचरितो बोधिद्रमं गच्छति ॥ १९.२९ ॥ शीघ्रं गृह्णत नागपुष्प रुचिरा वस्त्रां सुगन्धां शुभां मुक्ताहारपिनद्धतांश्च वलयांश्चूर्णानि धूपोत्तमा । संगीतिं प्रकृरुध्व वाद्य विविधा भेरीमृदङ्गैः शुभैः हन्ता गच्छथ पूजना हितकरं पूजार्ह सर्वे जगे ॥ १९.३० ॥ सोऽभ्युत्थाय च नागकन्यसहितश्चतुरो दिशः प्रेक्षते अद्राक्षीदथ मेरुपर्वतनिभं स्वालंकृतं तेजसा । देवैर्दानवकोटिभिः परिवृतं ब्रह्मेन्द्रयक्षैस्तथा पूजां तस्य करोन्ति हृष्टमनसो दर्शेन्ति मार्गो ह्ययम् ॥ १९.३१ ॥ संहृष्टः स हि नागराट्सुमुदितश्चाभ्यर्च्य लोकोत्तमं वन्दित्वा चरणौ च गौरवकृतस्तस्थौ मुनेरग्रतः । नागाकन्य उदग्र हृष्टमनसः कुर्वन्ति पूजां मुनेः पुष्पं गन्धविलेपना च क्षिपिषुस्तूर्याणि निर्नादयन् ॥ १९.३२ ॥ कृत्वा चाञ्जलि नागराट्सुमुदितस्तुष्टाव तथ्यैर्गुणैः साधुर्दर्शितु पूर्णचन्द्रवदने लोकोत्तमे नायके । यथ मे दृष्ट निमित्त पूर्वऋषिणां पश्यामि तानेव ते अद्य त्वं विनिहत्य मारबलवानिष्टं पदं लप्स्यसे ॥ १९.३३ ॥ यस्यार्थे दमदानसंयम पुरे सर्वा ति त्यागी अभूत् यस्यार्थे दमशीलमैत्रकरुणाक्षान्तिबलं भावितम् । यस्यार्थे दमवीर्यध्याननिरतः प्रज्ञाप्रदीपः कृतः सैषा ते परिपूर्ण सर्व प्रणिधी अद्या जिनो भेष्यसे ॥ १९.३४ ॥ यद्वद्वृक्ष सपत्रपुष्प सफला बोधिद्रुमं संनताः यद्वत्कुम्भसहस्र पूर्णसलिला कुर्वन्ति प्रादक्षिणम् । यद्वच्चाप्सरगणाश्च संप्रमुदिता स्निग्धं रुतं कुर्वते हंसा क्रोञ्चगणा यथा च गगने गच्छन्ति लीलान्वितं कुर्वन्ते सुमनाः प्रदक्षिणमृषिं भावि त्वमद्यार्हवान् ॥ १९.३५ ॥ (वैद्य २०६) यथ वा काञ्चनवर्ण आभ रुचिरा क्षत्राशता गच्छते शान्ताश्चापि यथा अपाय निखिला दुःखैर्विमुक्ता प्रजाः । यद्वद्वृष्टित चन्द्रसूर्यभवना वायुर्मृदुर्वायते अद्या भेष्यसि सार्थवाहु त्रिभवे जातीजरामोचको ॥ १९.३६ ॥ यद्वत्कामरती विहाय च सुरास्त्वत्पूजनेऽभ्यागताः ब्रह्मा ब्रह्मपुरोहिताश्च अमरा उत्सृज्य ध्यानं सुखम् । ये केचित्त्रिभवे तथैव च पुरे सर्वे इहाभ्यागताः अद्या भेष्यसि वैद्यराजु त्रिभवे जाटीजरमोचको ॥ १९.३७ ॥ मार्गश्चापि यथा विशोधितु सुरैर्येनाद्य त्वं गच्छसे एतेनागतु क्रकुच्छन्दु भगवान् कनकाह्वयः काश्यपः । यथ वा पद्म विशुद्ध निर्मल शुभा भित्त्वा महीमुद्गताः यस्मिं निक्षिपसे क्रमानतिबलां भावि त्वमद्यार्हवान् ॥ १९.३८ ॥ माराः कोटिसहस्र नेकनयुता गङ्गा यथा वालिकाः ते तुभ्यं न समर्थ बोधिविटपाच्चालेतु कम्पेतु वा । यज्ञा नैकविधाः सहस्रनयुता गङ्गा यथा वालिकाः यष्टास्ते चरता हिताय जगतस्तेनेह विभ्राजसे ॥ १९.३९ ॥ नक्षत्रा सशशी सतारकरवी भूमौ पतेदम्बरात् स्वस्थानाच्च चलेन्महागिरिवरः शुष्येदथो सागरः । चतुरो धातव कश्चि विज्ञपुरुषो दर्शेय एकैकशः नैव त्वं द्रुमराजमूलुपगतो अप्राप्य बोध्युत्थिहेत् ॥ १९.४० ॥ लाभा मह्य सुलब्ध वृद्धि विपुला दृष्टोऽसि यत्सारथे पूजा चैव कृता गुणाश्च कथिता बोधाय चोत्साहितः । सर्वा नागवधू अहं च ससुता मुच्येमितो योनितः त्वं यासी यथ मत्तवारणगते गच्छेम एवं वयम् ॥ १९.४१ ॥ इति ॥ इति हि भिक्षवः कालिकस्य नागराजस्याग्रमहिषी सुवर्णप्रभासा नाम, सा संबहुलाभिर्नागकन्याभिः परिवृता पुरस्कृता नानारत्नछत्रपरिगृहीताभिः नानादूष्यपरिगृहीताभिर्नानामुक्ताहारपरिगृहीताभिः नानामणिरत्नपरिगृहीताभिः दिव्यमानुष्यकमाल्यविलेपनगुण्ठपरिगृहीताभिः नानागन्धघटिकापरिगृहीताभिः नानातूर्यसंगीतिसंप्रवादितैर्नानारत्नपुष्पवर्षैर्बोधिसत्त्वं गच्छन्तमभ्यवकिरन्ति स्म ॥ (वैद्य २०७) आभिश्च गाथाभिस्तुष्टुवुः - अभ्रान्ता अत्रस्ता अभीरू अछम्भी अलीना अदीना प्रहृष्टा दुधर्षा । अरक्ता अदुष्टा अमूढा अलुब्धा विरक्ता विमुक्ता नमस्ते महर्षे ॥ १९.४२ ॥ भिषङ्का विशल्या विनेया विनेषी सुवैद्या जगस्या दुखेभ्यः प्रमोची । अलेना अत्राणा अहीना विदित्वा भवा लेनु त्राणो त्रिलोकेस्मि जातः ॥ १९.४३ ॥ प्रसन्ना प्रहृष्टा यथा देवसंघाः प्रवर्षी नभस्था महत्पुष्पवर्षम् । महाचैलक्षेपं करोन्ती यथेमे जिनो भेष्यसेऽद्या कुरुष्व प्रहर्षम् ॥ १९.४४ ॥ उपेहि द्रुमेन्द्रं निषीदा अछम्भी जिना मारसेनां धुन क्लेशजालम् । विबुद्ध्य प्रशान्तां वरामग्रबोधिं यथा पौर्वकैस्तैर्विबुद्धा जिनेन्द्रैः ॥ १९.४५ ॥ त्वया यस्य अर्थे बहूकल्पकोट्यः कृता दुष्कराणी जगन्मोचनार्थम् । प्रपूर्णा ति आशा अयं प्राप्तु कालो उपेहि द्रुमेन्द्रं स्पृशस्वाग्रबोधिम् ॥ १९.४६ ॥ इति ॥ अथ खलु भिक्षवो बोधिसत्त्वस्यैतदभवत्- कुत्र निषण्णैस्तैः पूर्वकैस्तथागतैरनुत्तरा सम्यक्संबोधिरभिसंबुद्धा इति । ततोऽस्यैतदभूत्- तृणसंस्तरे निषण्णैरिति ॥ अथ खल्वन्तरीक्षगतानि शुद्धावासकायिकदेवशतसहस्राणि बोधिसत्त्वस्य चेतोभिरेव चेतःपरिवितर्कमाज्ञायैवं वाचो भाषन्ते स्म - एवमेतत्सत्पुरुष, एवमेतत् । तृणसंस्तरे सत्पुरुष निषद्य तैः पूर्वकैस्तथागतैरनुत्तरा सम्यक्संबोधिरभिसंबुद्धा इति ॥ अद्राक्षीत्खल्वपि भिक्षवो बोधिसत्त्वो मार्गस्य दक्षिणे पार्श्वे स्वस्तिकं यावसिकं तृणानि लूनाति स्म नीलानि मृदुकानि सुकुमाराणि रमणीयानि कुण्डलजातानि प्रदक्षिणावर्तानि । मयूरग्रीवसंनिभानि काचिलिन्दिकसुखसंस्पर्शानि सुगन्धीनि वर्णवन्ति मनोरमाणि । दृष्ट्वा च (वैद्य २०८) पुनर्बोधिसत्त्वो मार्गादपक्रम्य येन स्वस्तिको यावसिकस्तेनोपसंक्रामत् । उपसंक्रम्य स्वस्तिकं यावसिकं मधुरया वाचा समालपति स्म । यासौ वागाज्ञापनी विज्ञापनी विस्पष्टा अनेकलोकैकवर्णसुखा वल्गुः श्रवणीया स्निग्धा स्मरणीया चोदनी तोषणी प्रेमणी अकर्कशा अगद्गदा अपरुषा अचपला श्लक्ष्णा मधुरा कर्णसुखा कायचित्तोद्बिल्यकरणी रागदोषमोहकलिकलुषविनोदनी कलविङ्करुतस्वरा कुणालजीवंजीवकाभिनदितघोषा दुन्दुभिसंगीतिरुतरवितनिर्घोषवती अनपहता सत्या अच्छा भूता ब्रह्मस्वरुतरवितनिर्घोषा समुद्रस्वरवेगनिभा शैलसंघट्टनवती देवेन्द्रासुरेन्द्राभिष्टुता गम्भीरा दुरवगाहा नमुचिबलाबलकरणी परप्रवादमथनी सिंहस्वरवेगा हयगजगर्जितघोषा नागनिर्नादनी मेघस्तनिताभिगर्जितस्वरा दशदिक्सर्वबुद्धक्षेत्रस्फरणी विनेयसत्त्वसंचोदनी अद्रुता अनुपहता अविलम्बिता सहिता युक्ता कालवादिनी समयानतिक्रमणी धर्मशतसहस्रसुग्रथिता सौम्या असक्ता अधिष्ठितप्रतिभाना एकरुता सर्वरुतरचनी सर्वाभिप्रायज्ञापनी सर्वसुखसंजननी मोक्षपथसंदर्शिका मार्गसंभारवादिनी पर्षदनतिक्रमणी सर्वपर्षत्संतोषणी सर्वबुद्धभाषितानुकूला । ईदृश्या वाचा बोधिसत्त्वः स्वस्तिकं यावसिकं गाथाभिरभ्यभाषत - तृणु देहि मि स्वस्तिक शीघ्रमद्य ममार्थु तृणैः सुमहान्तः । सबलं नमुचिं निहनित्वा बोधिमनुत्तरशान्ति स्पृशिष्ये ॥ १९.४७ ॥ यस्य कृते मयि कल्पसहस्रा दानु दमोऽपि च संयम त्यागो । शीलव्रतं च तपश्च सुचीर्णा तस्य मि निष्पदि भेष्यति अद्य ॥ १९.४८ ॥ क्षान्तिबलं तथ वीर्यबलं च ध्यानबलं तथ ज्ञानबलं च । पुण्यअभिज्ञविमोक्षबलं च तस्य मि निष्पदि भेष्यति अद्य ॥ १९.४९ ॥ प्रज्ञबलं च उपायबलं च ऋद्धिम संगतमैत्रबलं च । प्रतिसंविदपरिसत्यबलं च तेष मि निष्पदि भेष्यति अद्य ॥ १९.५० ॥ (वैद्य २०९) पुण्यबलं च तवापि अनन्तं यन्मम दास्यसि अद्य तृणानि । न ह्यपरं तव एतु निमित्तं त्वं पि अनुत्तरु भेष्यसि शास्ता ॥ १९.५१ ॥ श्रुत्वा स्वस्तिकु वाच नायके सुरुचिरमधुरां तुष्टो आत्तमनाश्च हर्षितः प्रमुदितमनसः । गृह्णीत्वा तृणमुष्टि स्पर्शनवती मृदुतरुणशुभां पुरतः स्थित्वन वाच भाषते प्रमुदितहृदयः ॥ १९.५२ ॥ यदि ताव णृकेभि लभ्यते पदवरममृतं बोधी उत्तम शान्त दुर्दृशा पुरिमजिनपथः । तिष्ठतु ताव महागुणोदधे अपरिमितयशा अहमेव प्रथमे नु बुध्यमि पदवरमृतम् ॥ १९.५३ ॥ नैषा स्वस्तिक बोधि लभ्यते तृणवरशयनैः अचरित्वा बहुकल्प दुष्करी व्रततप विविधा । प्रज्ञापुण्यौपायौद्गतो यद भवि मतिमां तद पश्चाज्जिन व्याकरोन्ति मुनयो भविष्यसि विरजः ॥ १९.५४ ॥ यदि बोधि इय शक्यु स्वस्तिका परजनि ददितुं पिण्डीकृत्य ददेय प्राणिनां म भवतु विमतिः । यद बोधी मय प्राप्त जानसी विभजमि अमृतं आगत्वा शृणु धर्मयुक्त त्वं भविष्यसि विरजः ॥ १९.५५ ॥ गृह्णीत्वा तृणमुष्टि नायकः परमसुमृदुकां सिंहाहंसगतिश्च प्रस्थितः प्रचलित धरणी । देवा नागगणाः कृताञ्जली प्रमुदितमनसः अद्या मारबलं निहत्ययं स्पृशिष्यति अमृतम् ॥ १९.५६ ॥ इति हि भिक्षवो बोधिसत्त्वस्य बोधिवृक्षमुपसंक्रामतोऽशीतिबोधिवृक्षसहस्राणि देवपुत्रैश्च बोधिसत्त्वैश्च मण्डितान्यभूवन् - इह निषद्य बोधिसत्त्वो बोधिं प्राप्स्यत्यभिसंभोत्स्यत इति । सन्ति तत्र केचिद्बोधिवृक्षाः पुष्पमया योजनशतसहस्रोद्विद्धाः । केचिद्बोधिवृक्षा (वैद्य २१०) गन्धमया द्वियोजनशतसहस्रोद्विद्धाः । केचिद्बोधिवृक्षाश्चन्दनमयास्त्रियोजनशतसहस्रोद्विद्धाः । केचिद्बोधिवृक्षा वस्त्रमयाः पञ्चयोजनशतसहस्राण्युच्चैस्त्वेन । केचिद्बोधिवृक्षा रत्नमया दशयोजनशतसहस्राण्युच्चैस्त्वेन । केचिद्बोधिवृक्षाः सर्वरत्नमया दशयोजनकोटिनयुतशतसहस्राण्युच्चैस्त्वेन । केचिद्बोधिवृक्षा रत्नमयाः कोटिनयुतशतसहस्रमुद्विद्धाः । सर्वेषु तेषु बोधिवृक्षमूलेषु यथानुरूपाणि सिंहासनानि प्रज्ञप्तान्यभूवन्नानादिव्यदूष्यसंस्तृतानि । क्वचिद्बोधिवृक्षे पद्मासनं प्रज्ञप्तमभूत्, क्वचिद्गन्धासनम्, क्वचिन्नानाविधरत्नासनम् । बोधिसत्त्वश्च ललितव्यूहं नाम समाधिं समापद्यते स्म । समनन्तरसमापन्नस्य च बोधिसत्त्वस्येमं ललितव्यूहं नाम बोधिसत्त्वसमाधिम्, अथ तत्क्षणमेव बोधिसत्त्वः सर्वेषु च तेषु बोधिवृक्षमूलेषु सिंहासने संनिषण्णः संदृश्यते स्म लक्षणानुव्यञ्जनसमलंकृतेन कायेन । एकैकश्च बोधिसत्त्वो देवपुत्रैश्चैवं संजानीते स्म - ममैव सिंहासने बोधिसत्त्वो निषण्णो नान्येषामिति । यथा च ते संजानते स्म - तथास्यैव ललितव्यूहस्य बोधिसत्त्वसमाधेरनुभावेन सर्वनिरयतिर्यग्योनियमलोकिकाः सर्वे देवमनुष्याश्च सर्वे गत्युपपन्नाः सर्वसत्त्वा बोधिसत्त्वं पश्यन्ति स्म बोधिवृक्षमूले सिंहासने निषण्णम् ॥ अथ च पुनर्हीनाधिमुक्तिकानां सत्त्वानां मतिपरितोषणार्थं बोधिसत्त्वस्तृणमुष्टिमादाय येन बोधिवृक्षस्तेनोपसंक्रामत् । उपसंक्रम्य बोधिवृक्षं सप्तकृत्वः प्रदक्षिणीकृत्य स्वयमेवाभ्यन्तराग्रं बहिर्मूलं समन्तभद्रं तृणसंस्तरणं संस्तीर्य सिंहवच्छूरवद्बलवद्दृढवीर्यवत्स्थामवन्नागवदैश्वर्यवत्स्वयंभूवज्ज्ञानिवदनुत्तरवद्विशेषवदभ्युद्रतवद्यशोवत्कीर्तिवद्दानवच्छीलवत्क्षान्तिवद्वीर्यवद्ध्यानवत्प्रज्ञावज्ज्ञानवत्पुण्यवन्निहतमारप्रत्यर्थिकवत्संभारवत्पर्यङ्कमाभुज्य तस्मिंस्तृणसंस्तरे न्यषीदत्प्राङ्मुख ऋजुकायं प्रणिधाय अभिमुखां स्मृतिमुपस्थाप्य । ईदृशं च दृढं समादानमकरोत्- इहासने शुष्यतु मे शरीरं त्वगस्थिमांसं प्रलयं च यातु । अप्राप्य बोधिं बहुकल्पदुर्लभां नैवासनात्कायमतश्चलिष्यते ॥ १९.५७ ॥ इति ॥ ॥ इति श्रीललितविस्तरे बोधिमण्डगमनपरिवर्तो नाम एकोनविंशतितमोऽध्यायः ॥ ______________________________________________________________________ परिवर्त २० (वैद्य २११) बोधिमण्डव्यूहपरिवर्तो विंशतितमः । इति हि भिक्षवो बोधिसत्त्वस्य बोधिमण्डनिषण्णस्यं पूर्वस्यां दिशि षट्कामावचरा देवाः स्थिता अभूवन् - मा बोधिसत्त्वस्य कश्चिदन्तरायं कार्षीदिति । एवं दक्षिणपश्चिमोत्तरा दिशो देवैः परिगृहीता अभूवन् ॥ इति हि भिक्षवो बोधिसत्त्वो बोधिमण्डनिषण्णस्तस्यां वेलायां बोधिसत्त्वसंचोदनीं नाम रश्मिं प्रामुञ्चत्, यया रश्म्या समन्ताद्दशसु दिक्ष्वप्रमेयासंख्येयानि धर्मधातुपरमाण्याकाशधातुपर्यवसानानि सर्वबुद्धक्षेत्राण्यवभासितान्यभूवन् ॥ अथ खलु पूर्वस्यां दिशि विमलायां लोकधातौ विमलप्रभासस्य तथागतस्य बुद्धक्षेत्राल्ललितव्यूहो नाम बोधिसत्त्वो महासत्त्वस्तया प्रभया संचोदितः सन् गणनासमतिक्रान्तैश्च बोधिसत्त्वैः परिवृतः पुरस्कृतो येन बोधिमण्डो येन च बोधिसत्त्वस्तेनोपसंक्रामत् । उपसंक्रम्य च तस्यां वेलायां बोधिसत्त्वस्य पूजाकर्मणे तथारूपमृद्ध्यभिसंस्कारमभिसमकरोद्येनद्धर्यभिसंस्कारेणाभिसंस्कृतेन दशसु दिक्ष्वाकाशधातुपर्यवसानानि सर्वबुद्धक्षेत्राण्येकं मण्डलमात्रमादर्शयति स्म शुद्धस्य नीलवैडूर्यस्य । पञ्चगत्युपपन्नानां सर्वसत्त्वानां पुरतो बोधिमण्डे निषण्णं बोधिसत्त्वमुपदर्शयति स्म । ते च सत्त्वाः परस्परमेकाङ्गुलिकाभिर्बोधिसत्त्वमुपदर्शयन्ति स्म - कोऽयमेवंरूपः सत्त्वो ललितः, कोऽयमेवंरूपः सत्त्वो विराजत इति । तेषां च सत्त्वानां पुरतो बोधिसत्त्वो बोधिसत्त्वान्निर्मिमीते स्म । तत्र ते बोधिसत्त्वविग्रहा इमा गाथा अभाषन्त - यस्या किंचन रागदोषकलुषा सा वासना उद्धृता यस्या कायप्रभाकृता दशदिशे सर्वे प्रभा निष्प्रभाः । यस्या पुण्यसमाधिज्ञाननिचयः कल्पौघसंवर्धिंतः सोऽयं शाक्यमुनिर्महामुनिवरः सर्वा दिशो भ्राजते ॥ २०.१ ॥ इति ॥ अथ खलु भिक्षवो दक्षिणस्यां दिशि रत्नव्यूहाया लोकधातो रत्नार्चिषस्तथागतस्य बुद्धक्षेत्राद्रत्नच्छत्रकूटसंदर्शनो नाम बोधिसत्त्वो महासत्त्वस्तया प्रभया संचोदितः सन् गणनासमतिक्रान्तैर्बोधिसत्त्वैः परिवृतः पुरस्कृतो येन बोधिमण्डो येन च बोधिसत्त्वस्तेनोपसंक्रामत् । उपसंक्रम्य बोधिसत्त्वस्य पूजाकर्मणे एकरत्नछत्रेण तं सर्वावन्तं मण्डलमात्रं संछादयति स्म । तत्र शक्रब्रह्मलोकपालाः परस्परमेतदवोचन् - कस्येदं फलम्, केनायमेवंरूपो रत्नछत्रव्यूहः संदृश्यत इति । अथ तस्माद्रत्नछत्रादियं गाथा निश्चरति स्म - येन च्छत्रसहस्रकोटिनयुता गन्धान रत्नान च दत्ता अप्रतिमेषु मैत्रमनसा तिष्ठन्ति के निर्वृते । (वैद्य २१२) सो एषो वरलक्षणो हितकरो नारायणस्थामवान् बोधेर्मूलमुपागतो गुणधरस्तस्यैष पूजा कृता ॥ २०.२ ॥ इति ॥ अथ खलु पश्चिमाया दिशश्चम्पकवर्णाया लोकधातोः पुष्पावलिवनराजिकुसुमिताभिज्ञस्य तथागतस्य बुद्धक्षेत्रादिन्द्रजाली नाम बोधिसत्त्वो महासत्त्वस्तया प्रभया संचोदितः सन् गणनासमतिक्रान्तैर्बोधिसत्त्वैः परिवृतः पुरस्कृतो येन बोधिमण्डो येन च बोधिसत्त्वस्तेनोपजगाम । उपेत्य च बोधिसत्त्वस्य पूजाकर्मणे सर्वावन्तं मण्डलमात्रमेकरत्नजालेन संछादयति स्म । तत्र दशसु दिक्षु देवनागयक्षगन्धर्वाः परस्परमेवमाहुः - कस्यायमेवंरूपो प्रभाव्यूह इति । अथ तस्माद्रत्नजालादियं गाथा निश्चरति स्म - रत्नाकरो रतनकेतु रतिस्त्रिलोके रत्नोत्तमो रतनकीर्ति रतः सुधर्मे । रत्नानि त्रीणि न च छेत्स्यति वीर्यप्राप्तः सो बोधि प्राप्स्यति वरामिय तस्य पूजा ॥ २०.३ ॥ इति ॥ अथ खलूत्तरस्यां दिशि सूर्यावर्ताया लोकधातोश्चन्द्रसूर्यजिह्मीकरप्रभस्य तथागतस्य बुद्धक्षेत्राद्व्यूहराजो नाम बोधिसत्त्वो महासत्त्वस्तया प्रभया संचोदितः सन् गणनासमतिक्रान्तैर्बोधिसत्त्वैः परिवृतः पुरस्कृतः येन बोधिमण्डो येन च बोधिसत्त्वस्तेनोपसंक्रामत् । उपसंक्रम्य बोधिसत्त्वस्य पूजाकर्मणे यावन्तो दशसु दिक्षु सर्वलोकधातुषु बुद्धक्षेत्रगुणव्यूहास्तान् सर्वांस्तस्मिन्मण्डलमात्रे संदर्शयति स्म । तत्र केचिद्बोधिसत्त्वा एवमाहुः - कस्येम एवंरूपा व्यूहाः? अथ तेभ्यः सर्वव्यूहेभ्य इयं गाथा निश्चरति स्म - कायो येन विशोधितः सुबहुशः पुण्येन ज्ञानेन च येना वाच विशोधिता व्रततपैः सत्येन धर्मेण च । चित्तं येन विशोधितं हिरिधृती कारुण्यमैत्र्या तथा सो एषो द्रुमराजमूलुपगतः शाक्यर्षभः पूज्यते ॥ २०.४ ॥ इति ॥ अथ खलु पूर्वदक्षिणस्या दिशो गुणाकराया लोकधातोर्गुणराजप्रभासस्य तथागतस्य बुद्धक्षेत्राद्रुणमतिर्नाम बोधिसत्त्वो महासत्त्वस्तया प्रभया संचोदितः सन् गणनासमतिक्रान्तैर्बोधिसत्त्वैः परिवृतः पुरस्कृतो येन बोधिमण्डो येन च बोधिसत्त्वस्तेनोपसंक्रामत् । उपसंक्रम्य बोधिसत्त्वस्य पूजाकर्मणे सर्वगुणव्यूहं कूटागारं तस्मिन्मण्डलमात्रेऽभिनिर्मिमीते स्म । तस्य ते परिवारा एवमाहुः - कस्यायमेवंरूपः कूटागारव्यूहः? ततश्च कूटागारादियं गाथा निश्चरति स्म - यस्य गुणैः सततं गुणगन्धिका भोन्ति सुरासुर यक्ष महोरगाः । (वैद्य २१३) सो गुणवान् गुणराजकुलोदितो बोधिविटपे उपविष्टु गुणोदधिः ॥ २०.५ ॥ इति ॥ अथ खलु दक्षिणपश्चिमाया दिशो रत्नसंभवाया लोकधातो रत्नयष्टेस्तथागतस्य बुद्धक्षेत्राद्रत्नसंभवो नाम बोधिसत्त्वो महासत्त्वस्तया प्रभया संचोदितः सन् गणनासमतिक्रान्तैर्बोधिसत्त्वैः परिवृतः पुरस्कृतो येन बोधिमण्डो येन च बोधिसत्त्वस्तेनोपसंक्रामत् । उपसंक्रम्य बोधिसत्त्वस्य पूजाकर्मणे अप्रमेयासंख्येयान् रत्नव्योमकांस्तस्मिन्मण्डलमात्रेऽभिनिर्मिमीते स्म । तेभ्यश्च रत्नव्योमकेभ्य इयं गाथा निश्चचार - त्यक्ता येन ससागरा वसुमती रत्नान्यथोऽनेकशः प्रासादाश्च गवाक्षहर्मिकवरा युग्यानि यानानि च । व्योमालंकृत पुष्पदाम रुचिरा उद्यान कूपा सभा हस्ता पाद शिरोत्तमाङ्गनयनाः सो बोधिमण्डे स्थितः ॥ २०.६ ॥ इति ॥ अथ खलु पश्चिमोत्तरस्या दिशो मेघवत्या लोकधातोर्मेघराजस्य तथागतस्य बुद्धक्षेत्रान्मेघकूटाभिगर्जितस्वरो नाम बोधिसत्त्वो महासत्त्वस्तया प्रभया संचोदितः सन् गणनासमतिक्रान्तैर्बोधिसत्त्वैः परिवृतः पुरस्कृतो येन बोधिमण्डो येन च बोधिसत्त्वस्तेनोपसंक्रामत् । उपसंक्रम्य बोधिसत्त्वस्य पूजाकर्मणे कालानुसार्यगुरुमेघमभिनिर्मायोरगसारचन्दनचूर्णवर्षं तस्मिन्मण्डलमात्रेऽभिप्रवर्षति स्म । तस्माच्च कालानुसारिमेघमण्डलमात्रादियं गाथा निश्चरति स्म - धर्मामेघ स्फुरित्व सर्वत्रिभवे विद्याधिमुक्तप्रभः सद्धर्मं च विराग वर्षिममृतं निर्वाणसंप्रापकम् । सर्वा रागकिलेशबन्धनलता सो वासना छेत्स्यति ध्यानर्द्धीबलैन्द्रियैः कुसुमितः श्रद्धाकरं दास्यते ॥ २०.७ ॥ इति ॥ अथ खलूत्तरपूर्वस्या दिशो हेमजालप्रतिछन्नाया लोकधातो रत्नच्छत्राभ्युद्गतावभासस्य तथागतस्य बुद्धक्षेत्राद्धेमजालालंकृतो नाम बोधिसत्त्वो महासत्त्वस्तयाप्रभया संचोदितः सन् गणनासमतिक्रान्तैर्बोधिसत्त्वैः परिवृतः पुरस्कृतो येन बोधिमण्डो येन च बोधिसत्त्वस्तेनोपसंक्रामत् । उपसंक्रम्य बोधिसत्त्वस्य पूजाकर्मणे सर्वेषु तेषु कूटागारेषु रत्नव्योमकेषु द्वात्रिंशल्लक्षणसमलंकृतान् बोधिसत्त्वविग्रहानभिनिर्मिमीते स्म । सर्वे च ते बोधिसत्त्वविग्रहा दिव्यमानुष्यकपुष्पदामपरिगृहीता येन बोधिसत्त्वस्तेनाभिनतकायास्तानि पुष्पदामान्यभिप्रलम्बयन्ति स्म । ते इमां गाथामभाषन्त - येन बुद्धनयुता स्तवित पूर्व गौरवेण महता जनिय श्रद्धाम् । ब्रह्मघोषवचनं मधुरवाणिं बोधिमण्डोपगतं शिरसि वन्दे ॥ २०.८ ॥ इति ॥ (वैद्य २१४) अथ खल्वधस्ताद्दिशः समन्तविलोकिताया लोकधातोः समन्तदर्शिनस्तथागतस्य बुद्धक्षेत्राद्रत्नगर्भो नाम बोधिसत्त्वो महासत्त्वस्तया प्रभया संचोदितः सन् गणनासमतिक्रान्तैर्बोधिसत्त्वैः परिवृतः पुरस्कृतो येन बोधिमण्डो येन च बोधिसत्त्वस्तेनोपसंक्रामत् । उपसंक्रम्य बोधिसत्त्वस्य पूजाकर्मणे तस्मिन् वैदूर्यमयमण्डलमात्रे जाम्बूनदसुवर्णपद्मान्यभ्युद्गतान्युपदर्शयति स्म । तेषां च पद्मानां कर्णिकास्वर्धकायिका नार्यो वर्णरूपसंपन्नाः सर्वालंकारप्रतिमण्डिता उपदर्शयति स्म । वामदक्षिणे पाणिभिर्हर्षकटककेयूरसुवर्णसूत्रमुक्ताहारादिविविधाभरणपरिगृहीताः पुष्पपट्टदामानि चाभिप्रलम्बयन्त्यो येन बोधिमण्डो येन च बोधिसत्त्वस्तेनोपर्यभिनतकायाः । ताश्चेमां गाथामभाषन्त - यो ओनमिष्ट सदा गुरूणां बुद्धश्रावकप्रत्येकजिनानाम् । निर्माणसुशील सदोज्जु प्रष्ठो तस्या ओनमथा गुणधरस्य ॥ २०.९ ॥ इति ॥ अथ खलूपरिष्टाद्दिशो वरगगनाया लोकधातोर्गणेन्द्रस्य तथागतस्य बुद्धक्षेत्राद्गगनगञ्जो नाम बोधिसत्त्वो महासत्त्वस्तया प्रभया संचोदितः सन् गणनासमतिक्रान्तैर्बोधिसत्त्वैः परिवृतः पुरस्कृतो येन बोधिमण्डो येन च बोधिसत्त्वस्तेनोपसंक्रामत् । उपसंक्रम्य बोधिसत्त्वस्य पूजाकर्मणे गगनतलस्थ एव यावन्तो दशसु दिक्षु सर्वबुद्धक्षेत्रेष्वदृष्टाश्रुतपूर्वाः सन्ति पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरवस्त्रालंकारछत्रध्वजपताकावैजयन्तिरत्न् - अमणिकनकरजतमुक्ताहारहयगजरथपत्तिवाहनपुष्पवृक्षपत्रपुष्पफलदारकदारिका देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगशक्रब्रह्मलोकपालमानुष्यामानुष्याणां सर्वा गगनतलान्महान्तं पुष्पवर्षमभिप्रवर्षन्ति स्म सर्वसत्त्वप्रीतिसुखसंजननं च । न च कस्यचित्सत्त्वस्य भयं चोत्पीडां वा करोति स्म ॥ तत्रेदमुच्यते - पेयालमेष दिशतासु जिनौरसा ये संपूजितुं हितकरमनुप्राप्त बोधिम् । तेषां वियूहक्रमविक्रमसुक्रमाणामोपम्यमात्र निशृणोथ जिनौरसानाम् ॥ २०.१० ॥ के चागता नभसि मेघ इव स्तनन्तो हारा सहस्रनयुतानि प्रलम्बयन्तः । के चागता मकुटरत्नविलम्बचूडाः पौष्पं विमान गगने उपदर्शयन्तः ॥ २०.११ ॥ (वैद्य २१५) के चागता धरणिसिंह इवा नदन्तः शून्यानिमित्तप्रणिधीरवमुञ्चमानाः । के चागता यथ वृषा अभिनन्दमानाः न च दृष्टपूर्व रुचिराणि क्षिपन्ति पुष्पाम् ॥ २०.१२ ॥ के चागता नभसि सार इवा रवन्तो वर्णासहस्र स्वकि आत्मनि दर्शयन्तः । के चागता शशिरिवा गगने सुपूर्णाः सुगतात्मजस्य गुणमालमुदीरयन्तः ॥ २०.१३ ॥ के चागता रविरिव प्रभ मुञ्चमानाः सर्वाणि मारभवनानि करोन्ति जिह्मा । के चागता विमलकेतु यथेन्द्रयष्ट्यः संभारपुण्यनिचितास्तहि बोधिमण्डे ॥ २०.१४ ॥ केचित्क्षिपन्ति गगनान्मणिरत्नजाला चन्द्रा सुचन्द्र तथ बाल विरोचमाना । मान्दारवा सुमनवार्षिकचम्पदामा संबोधिसत्त्व द्रुमराजस्थिते क्षिपन्ति ॥ २०.१५ ॥ के चागता धरणि कम्पयमान पद्भ्यां संकम्पिता वसुध प्रीतिकरी जनस्य । के चागता ग्रहिय मेरु करेतलेभिः उत्सृष्टपुष्पपुट संस्थित अन्तरीक्षे ॥ २०.१६ ॥ के चागताश्चतुरि सागर गृह्य मूर्ध्ना उत्सृष्ट सिञ्चि वसुधां वरगन्धतोयैः । के चागता रतनयष्टि गृहीत्व चित्रं संबोधिसत्त्वमुपदर्शय स्थित्व दूरे ॥ २०.१७ ॥ के चागता भविय ब्रह्म प्रशान्तरूपाः शान्ता प्रशान्तमनसः स्थित ध्यानध्यायी । रोमेभि तेष स्वरु निश्चरते मनोज्ञ मैत्रीउपेक्षकरुणामुदिताप्रमाणा ॥ २०.१८ ॥ के चागता मरुत शक्र इवा यथैव देवैः सहस्रनयुतैश्च पुराकृतास्ते । (वैद्य २१६) उपगम्य बोधिवटु गृह्य कृताञ्जलीभिः शक्राभिलग्न मणिरत्न क्षिपन्ति चित्रा ॥ २०.१९ ॥ के चागताश्चतुदिशा च यथैव पाला गन्धर्वराक्षसपरीवृत किन्नरेभिः । विद्युत्स्फुटान्त कुसुमानि प्रवर्षमाणाः गन्धर्वकिन्नररूतेन स्तुवन्ति वीरम् ॥ २०.२० ॥ के चागताः कुसुमितां प्रगृहीत्व वृक्षान् सफलां सपुष्पवरगन्ध प्रमुञ्चमानाम् । जातेषु तेषु स्थित बुद्ध शुद्धकायाः अवलम्बमान प्रतिमण्डि क्षिपन्ति पुष्पा ॥ २०.२१ ॥ के चागताः कुसुमिताः पुडिनी गृहीत्वा पद्मोत्पलैः कुसुमितैस्तथ पुण्डरीकैः । द्वात्रिंशलक्षणधराः स्थित पद्मगर्भे स्तविष्ट अलिप्तमनसं विदु बोधिसत्त्वम् ॥ २०.२२ ॥ के चागता विपुलकाय तथेव मेरु स्थित्वान्तरीक्ष स्वकमात्मनमुत्सृजन्ति । उत्सृज्यमात्र भविया नवपुष्पदामाः संछादयन्ति त्रिसहस्रि जिनस्य क्षेत्रम् ॥ २०.२३ ॥ के चागता उभयचक्षुषि कल्पदाहं संदर्शयन्त विभवं तथ संभवं च । तेषां शरीरि बहुधर्मसुखा रणन्ति तां श्रुत्व सत्त्वनयुता प्रजहन्ति तृष्णाम् ॥ २०.२४ ॥ के चागता रवितकिन्नरतुल्यघोषाः बिम्बोष्ठचारुवदनाः परिपूर्णवक्त्राः । कन्या यथैव सुअलंकृत चित्रहाराः प्रेक्षन्त यां सुरगणा न लभन्ति तृप्तिम् ॥ २०.२५ ॥ के चागता वजिरकाय इवा अभेद्याः हेष्ठा पस्कन्धचरणैः प्रतिग्राह्यमाणाः । (वैद्य २१७) के चागता रविरिवा शशिपूर्णवक्त्राः ज्योत्स्नाकराः प्रभकरा हतक्लेशदोषाः ॥ २०.२६ ॥ के चागता रतनमण्डित रत्नपाणी संछादयित्व बहुक्षेत्रसहस्रकोट्यः । वर्षन्ति रत्नवर पुष्प सुगन्धगन्धा संतोषणार्थं बहुसत्त्वहितं सुखार्थम् ॥ २०.२७ ॥ के चागता महति धारणि रत्नकोशाः रोमेभि सूत्रनयुतानि प्रभाषमाणाः । प्रतिभानवन्त मतिवन्त सुबुद्धिवन्तो मत्तप्रमत्तजनतां प्रतिबोधयन्तः ॥ २०.२८ ॥ के चागता ग्रहिय भेरि यथैव मेरु आकोट्यमानु गगने सुमनोज्ञघोषाम् । यस्या रवं दशदिशे व्रजि क्षेत्रकोट्या अद्यावबोद्धुममतमनुबुद्धि शास्ता ॥ २०.२९ ॥ इति ॥ ॥ इति श्रीललितविस्तरे बोधिमण्डव्यूहपरिवर्तो नाम विंशतितमोऽध्यायः ॥ ______________________________________________________________________ परिवर्त २१ (वैद्य २१८) मारघर्षणपरिवर्त एकविंशः । इति हि भिक्षवो बोधिसत्त्वैश्चेम एवंरूपा व्यूहा बोधिसत्त्वस्य पूजाकर्मणे बोधिमण्डेऽभिसंकृता अभूवन् । स्वयं च बोधिसत्त्वो यावन्तो दशसु दिक्ष्वतीतानागतप्रत्युत्पन्नानां बुद्धानां भगवतां सर्वबुद्धक्षेत्रेषु बोधिमण्डालंकारव्यूहास्तान् सर्वांस्तस्मिन् बोधिमण्डे संदर्शयति स्म ॥ अथ खलु भिक्षवो बोधिमण्डनिषण्णस्य बोधिसत्त्वस्यैतदभवत्- इह खलु कामधातौ मारः पापीयानधिपतिरीश्वरो वशवर्ती । नैतन्मम प्रतिरूपं भवेद्यदहं तेनाविदितोऽनुत्तरां सम्यक्संबोधिमभिसंबुध्येयम् । यन्न्वहं मारस्य पापीयसः संचोदनं कुर्याम् । तस्मिन् विजिते सर्वे कामावचरा देवादयो निगृहीता भविष्यन्ति । ततश्च मारपर्षदः पूर्वावरोपितकुशलमूला मारकायिका देवपुत्रास्ते मम सिंहविक्रीडितं दृष्ट्वा अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादयिष्यन्ति ॥ अथ खलु भिक्षवो बोधिसत्त्व एवमनुविचिन्त्य तस्यां वेलायां भ्रूविवरान्तरादूर्णाकोशात्सर्वमारमण्डलविध्वंसनकरीं नामैकां रश्मिमुदसृजत् । यया रश्म्या सर्वस्मिंस्त्रिसाहस्रमहासाहस्रलोकधातौ सर्वमारभवनान्यवभास्य जिह्मीकृतानि संप्रकम्पितानि चाभूवन् । सर्वश्चायं त्रिसाहस्रमहासाहस्रलोकधातुर्महतावभासेन स्फुटोऽभूत् । तस्याश्च प्रभाया मारः पापीयानिदमेवं रूपं शब्दमश्रौषीत्- कल्पौघचीर्णचरितो ह्यभिशुद्धसत्त्वः शुद्धोदनस्य तनयः प्रविजह्य राज्यम् । सो निर्गतो हितकरो ह्यमृताभिलाषी बोधिद्रुमं ह्युपगतोऽद्य कुरु प्रयत्नम् ॥ २१.१ ॥ सो तीर्ण आत्मन परानपि तारयेया मोचेष्यते स च परां स्वयमेव मुक्तः । आश्वासप्राप्त स परानपि चाश्वसेया निर्वापयिष्यति परां परिनिर्वृतश्च ॥ २१.२ ॥ शून्यां करिष्यति आपायत्रयोऽप्यशेषां पूर्णां करिष्यति पुरां सुरमानुषाणाम् । ध्यानानभिज्ञ परमममृतं सुखं च दास्यत्यसौ हितकरो अमृतं स्पृशित्वा ॥ २१.३ ॥ शून्यं करिष्यति पुरं तव कृष्णबन्धो अबलो बलो बलविहीनु अपक्ष्यपक्ष्यो । (वैद्य २१९) न ज्ञास्यसे क्व नु व्रजामि करोमि किं वा यद धर्मवर्षमभिवर्षि स्वयं स्वयंभूः ॥ २१.४ ॥ इति ॥ इति हि भिक्षवो मारः पापीयानाभिः संचोदनाभिर्गाथाभिः संचोदितः सन् द्वात्रिंशदाकारं स्वप्नमपश्यत् । कतमद्द्वात्रिंशदाकारम्? तद्यथा - तमसाकुलं च स्वभवनमपश्यत् । रजसाकुलं चाकीर्णशर्करकठल्यं च स्वभवनमपश्यत् । भीतत्रस्तोद्विग्नं दिशो दश प्रपलायमानं चात्मानमपश्यत् । विभ्रष्टमकुटमपविद्धकुण्डलं चात्मानमपश्यत् । शुष्कोष्ठगलतालुकं चात्मानमपश्यत् । संतप्तहृदयं चात्मानमपश्यत् । शीर्णपत्रपुष्पफलानि चोद्यानान्यपश्यत् । अपगतजलाः परिशुष्काश्च पुष्करिणीरपश्यत् । हंसक्रोञ्चमयूरकलविङ्ककुणालजीवंजीवकादींश्च पक्षिगणात्र्छीर्णपक्षानपश्यत् । भेरीशङ्खमृदङ्गपटहतुणववीणावल्लकीताडसम्पादींश्च वाद्यभाण्डांश्छिन्नविछिन्नान् भूमौ निपतितानपश्यत् । प्रियजनपरिवाराश्च मारमुत्सृज्य दीनमुखा एकान्ते गत्वा प्रध्यायन्तमपश्यत् । अग्रमहिषीं च मारिणीं शयनभ्रष्टां धरण्यामुभाभ्यां पाणिभ्यां शीर्षमभिपीडयन्तीमपश्यत् । ये च ते मारपुत्रा वीर्यवत्तमाश्च बलवत्तमाश्च तेजवत्तमाश्च प्रज्ञावत्तमाश्च तं बोधिसत्त्वं बोधिमण्डवराग्रगतं नमस्यन्त एवमपश्यत् । आत्मनीयाश्च दुहित्रीर्हा तात हा तातेति क्रन्दन्त्योऽपश्यत् । मलिनचैलगात्रं चात्मानमपश्यत् । अवकीर्णपांशुशिरस्कं च पाण्डुदुर्वर्णमोजोपहृतं चात्मानमपश्यत् । हर्म्यकूटागारगवाक्षतोरणांश्च रजसावकीर्णान् पततोऽपश्यत् । ये चास्य ते सेनापतयो यक्षराक्षसकुम्भाण्डगन्धर्वाधिपतयः, तान् सर्वान् हस्ताञ्शिरसि कृत्वा रोदन्तः क्रन्दन्तः पलायमानांश्चापश्यत् । ये च ते कामावचरेषु देवेषु देवाधिपतयः, तद्यथा - धृतराष्ट्रविरूढकविरूपाक्षवैश्रवणशक्रसुयामसंतुषितसुनिर्मितवशवर्तिप्रभृतयः, तान् सर्वाञ्शुश्रुषमाणान्मारः पापीयान् सबोधिसत्त्वाभिमुखानपश्यत् । रणमध्ये चास्यासिर्विकोशो न भवति स्म । विक्रोशन्तमशिवं चात्मानमपश्यत् । स्वेन च परिवारेणात्मानं परित्यक्तमपश्यत् । मङ्गलपूर्णकुम्भांश्च पतितान् द्वारेऽपश्यत् । नारदं च ब्राह्मणममङ्गल्यशब्दं श्रावयन्तमपश्यत् । आनन्दितं च दौवारिकमनानन्दशब्दं श्रावयन्तमपश्यत् । तमसाकुलं च गगनतलमपश्यत् । कामभवननिवासिनीं च श्रियं रुदन्तीमपश्यत् । स्वमैश्वर्यं चानैश्वर्यमपश्यत् । स्वपक्षं चापक्षमपश्यत् । मणिमुक्ताजालानि च तूष्णीभूतानि छिन्नभिन्नपतितान्यपश्यत् । सर्वं च मारभवनं प्रचलितमपश्यत् । वृक्षाञ्छिद्यमानान्निर्यूहांश्च पततोऽद्राक्षीत् । सर्वं च मारसेनाव्यूहमभिमुखं पात्यमानमपश्यत् ॥ इति हि भिक्षव एवं द्वात्रिंशदाकारं मारः पापीयान् स्वप्नमपश्यत् । स प्रतिबुद्धः सन् भीतस्त्रस्तः संविग्नः सर्वमन्तर्जनं संनिपात्य सबलपार्षद्यसेनापतिदौवारिकसंनिपतितांश्च तान् विदित्वा आभिर्गाथाभिरध्यभाषत्- (वैद्य २२०) दृष्ट्वान तां स सुपिनां नमुची दुखार्तो आमन्त्रयाति सुत येऽपि च पारिषद्या । सेनापतिं नमुचि सिंहहनुश्च नाम्ना सर्वेष तेष परिपृच्छति कृष्णबन्धुः ॥ २१.५ ॥ गाथाभि गीतरचितोऽद्य श्रुतोऽन्तरीक्षाच्छाक्येषु जातु वरलक्षणचित्रिताङ्गः । षड्वर्ष दुष्करव्रतानि चरित्व घोरा बोधिद्रुमं ह्युपगतः प्रकुरुष्व यत्नम् ॥ २१.६ ॥ सो चेद्विबुद्ध स्वयमेव हि बोधिसत्त्वो बहुसत्त्वकोटिनयुतानि विबोधयेत । शून्यं करिष्यति स मे भवनं ह्यशेषं यद लप्स्यते ह्यमृतु स्पर्शनशीतिभावम् ॥ २१.७ ॥ हन्त व्रजाम सहिता महता बलेन घातेम तं श्रमणु एकु द्रुमेन्द्रमूले । उद्योजयध्व चतुरङ्गिणि शीघ्र सेनां यदि इच्छथा मम प्रियं म चिरं करोथ ॥ २१.८ ॥ प्रत्येकबुद्धभि च अर्हभिः पूर्ण लोको निर्वायमाणु न बलं मम दुर्बलं स्यात् । सो भूयु एकु जिनु भेष्यति धर्मराजो गणनातिवृत्तु जिनवंशु न जातु छिद्येत् ॥ २१.९ ॥ अथ खलु भिक्षवः सार्थवाहो नाम मारपुत्रः, स मारं पापीयांसं गाथाभिरध्यभाषत्- किं तात्भिन्नवदनोऽसि विवर्णवक्त्रो हृदयं समुत्प्लवति वेधति तेऽङ्गमङ्गम् । किं ते श्रुतमथव दृष्टु भणाहि शीघ्रं ज्ञास्याम तत्त्वतु विचिन्त्य तथा प्रयोगम् ॥ २१.१० ॥ निर्माणु मारु अवची शृणु मह्य वत्स पापं मि दृष्टु सुपिनं परमं सुघोरम् । भाषेय सर्वमिह पर्षदि अद्य शेषं संमूर्छिता क्षितितले प्रपतेयु यूयम् ॥ २१.११ ॥ (वैद्य २२१) सार्थवाह आह - रणकालि प्राप्ति यदि नाम जयो न दोषः तत्रैव यस्तु निहतो भवते स दोषः । स्वप्नान्तरे तु यदि ईदृश ते निमित्ता श्रेयो उपेक्ष म रणे परिभावु गच्छेत् ॥ २१.१२ ॥ मारोऽब्रवीत्- व्यवसायबुद्धि पुरुषस्य रणे प्रसिद्धि अवलम्ब्य धैर्य सुकृतं यदि नो जयं स्यात् । का तस्य शक्ति मम दृष्टि सपारिषद्यं नोत्थातु मह्य चरणे शिरसा प्रपत्तुम् ॥ २१.१३ ॥ सार्थवाह आह - विस्तीर्णमस्ति हि बलं च सुदुर्बलं च अस्त्येक शूरु बलवांश्च रणंजहश्च । खद्योतकैर्यदि भवेत्त्रिसहस्र पूर्णा एको रविर्ग्रसति निष्प्रभतां करोति ॥ २१.१४ ॥ अपि च । यस्य मानश्च मोहश्च मीमांसा च न विद्यते । विलोम यदि विद्वांसो नासौ शक्यश्चिकित्सितुम् ॥ २१.१५ ॥ इति हि भिक्षवो मारः पापीयान् सार्थवाहस्य वचनमकृत्वा महतीं चतुरङ्गिनीं सेनामुद्योजयति स्म महाबलरणशौण्डां भीषणां रोमहर्षणीमदृष्टाश्रुतपूर्वां देवमनुष्यैर्बहुविधमुखविकारकोटिनयुतशतसहस्रविकारप्रकारां भुजगशतसहस्रकरचरणकुटिलपरिवेष्टितशरीरामसिधनुशरशक्तितोमरकुठारपट्टिसभुशुण्डिमुसलदण्डपाशगदाचक्रवज्रकणयधरां वरवर्मकवचवर्मितशरीरां विपरीतशिरःकरचरणनयनां ज्वलितशिरोनयनवदनां दुःसंस्थितोदरपाणिपादमुग्रतेजोवदनां परमविकृतवदनदर्शनां विकरालविकृतदंष्ट्रां घनबहुविपुलप्रलम्बजिह्वां सुण्डिककिलिञ्जसदृशजिह्वां ज्वलनसदृशकृष्णसर्पविषपूर्णरक्तनेत्राम् । केचिद्धि तत्राशीविषान् वमन्ति स्म । केचित्करतलैराशीविषान् परिगृह्य भक्षयन्ति स्म । गरुडा इव सागरादभ्युत्क्षिप्य केचिन्नरमांसरुधिरकरचरणशिरोयकृदन्त्रपुरीषादींश्च भक्षयन्ति स्म । केचिज्ज्वलितपिङ्गलकृष्णनीलरक्तकद्रुकरालविचित्ररूपाः । केचिद्विकृतकूपप्रज्वलितोत्पाटितविकृतकटाक्षाः । केचित्परिवृत्तज्वलितविकृतनयनाः ।(वैद्य २२२) केचिज्ज्वलितान् पर्वतान् परिगृह्य सलीलमपरेषु पर्वतेषु अभिरूढा आगच्छन्ति स्म । केचित्समूलान् वृक्षानुत्पाट्य बोधिसत्त्वाभिमुखा अभिधावन्ति स्म । केचिदजकणशूर्पकर्णहस्तिकर्णलम्बकर्णवराहकर्णाः । केचिद्वृककर्णाः । केचिद्दकोदरिणो दुर्बलकाया अस्थिकङ्कालसंघाटमभिनिर्माय भग्ननासाः कुम्भोदराः करोटपादा उच्छुष्कत्वग्मांसरुधिराः छिन्नकर्णनासाकरचरणनयनोत्तमाङ्गाः । केचिद्रुधिरपिपासया शिरांसि परस्परं निकृन्तन्ति स्म । केचिद्ध्रिन्नविकृतभैरवरूक्षस्वराः फुत्फुत्कारपिचुत्कारफुलुफुलुप्रक्ष्वेडितानि कुर्वन्ति स्म । केचिदाहुः - आहरत हरताभिहनत हनत बन्धत गृह्णत छिन्दत भिन्दत मथयतोत्क्षिपत नाशयतेमं श्रमणं गौतमं सार्धं द्रमेणेति ब्रुवन्ति स्म । केचिद्भेरुण्डकशृगालसूकरगर्दभगोहस्त्यश्वोष्ट्रखरमहिषशशचमरखड्गशरभनानाप्रतिभ - यरौद्रविकृतवक्त्राः । केचित्सिंहव्याघ्रऋक्षवराहवानरद्वीपिबिडालछागलोरभ्रसर्पनकुलमत्स्यमकरशिशुमारकूर्मकाक - गृघ्रोलूकगरुडादिसदृशात्मभावाः । केचिद्विरूपरूपाः । केचिदेकशीर्षा द्विशीर्षा यावच्छतसहस्रशीर्षाः । केचिदशीर्षाः । केचिदेकभुजा यावच्छतसहस्रभुजाः । केचिदभुजाः । केचिदेकपादकाः । केचिद्यावच्छतसहस्रपादाः । केचिदपादकाः । केचित्कर्णमुखनासिकाक्षिनाभिस्रोतोभिराशीविषान्निश्चारयन्ति स्म । केचिदसिधनुशरशक्तिपट्टिशपरशुचक्रतोमरकणयवज्रभुशुण्डिभिन्दिपालादीनि नानाप्रहरणानि भ्रामयन्तो नृत्यन्तो बोधिसत्त्वं संतर्जयन्ति स्म । केचिन्नराङ्गुलीश्छित्वा मालागुणान् कृत्वा धारयन्ति स्म । केचिच्छिरोभिरस्थिकरकाञ्छीर्षकटाहकांश्च मालागुणमिव कृत्वा धारयन्ति स्म । केचिदाशिविषपरिवेष्टितशरीराः । केचिच्छीर्षकटाहकान् परिगृह्य हस्त्यश्वोष्ट्रगोगर्दभमहिषारूढाः । केचिदधःशिरस ऊर्ध्वपादाः । केचित्सूचीरोमाणः । केचिद्गोगर्दभवराहनकुलछागलोरभ्रबिडालकपिवृकशृगालरोमाणः आशीविषान् वमन्तोऽयोगुडानि निर्गरन्तो धूमकेतूनुत्सृजन्तो ज्वलितताम्रलोहवर्षं प्रवर्षन्तो विद्युद्वर्षान् क्षिपन्तो वज्राशनिं प्रमुञ्चन्तस्तप्तामयोवालिकां प्रवर्षन्तः कालमेघान् संजनयन्तो वातवृष्टिमुत्पादयन्तः शरमेघवर्षानुत्सृजन्तः कालरात्रिं दर्शयन्तो रावं संजनयन्तो बोधिसत्त्वमभिधावन्ति स्म । केचित्पाशान् भ्रामयन्तो महापर्वतान् प्रपातयन्तो महासागरान् क्षोभयन्तो लङ्घयन्तो महापर्वतांश्चालयन्तो मेरुं पर्वतराजं विधावन्तः पलायमाना विक्षिपन्तोऽङ्गप्रत्यङ्गानि भ्रामयन्तः शरीराणि हसन्तो महाहास्यानि उरांसि प्रस्फोटयन्तः उरांसि ताडयन्तः केशांसि धुन्वन्तः पीतमुखानि च नीलशरीरा ज्वलितशिरस ऊर्ध्वकेशा इतस्ततो वेगेन परिधावन्तो भेरूण्डाक्षाश्च बोधिसत्त्वं विभीषयन्ति स्म । जीर्णाः स्त्रियश्च रुदन्त्यो बोधिसत्त्वमुपसंक्रम्यैवं वदन्ति स्म - अहो पुत्र, हा मम पुत्र, उत्तिष्ठोत्तिष्ठ, शीघ्रं प्रपलायस्व । राक्षसरूपाः पिशाचरूपाः काणखञ्जदुर्बलाश्च प्रेताः क्षुत्क्षामाक्षा उर्ध्वबाहवो विकृतास्याः क्रन्दन्तो भयमुपदर्शयन्तस्त्रासं संजनयन्तो बोधिसत्त्वस्य पुरतोऽभिधावन्ति स्म । तया चैवरूपया मारसेनया समुदितया समन्तादशीतिर्योजनान्यायामेन विस्तारेण स्फुटमभूत् । यथा चैकस्य मारस्यैवं कोटीशतानां त्रिसाहस्रपर्यापन्नानां माराणां पापीयसां सेनाभिस्तिर्यगूर्ध्वं च परिस्फुटमभूत् ॥ (वैद्य २२३) तत्रेदमुच्यते - यक्षकुम्भाण्डमहोरगरूपाः राक्षसप्रेतपिशाचकरूपाः । यत्तक लोकि विरूप सुरौद्राः सर्वि त निर्मित तत्र शठेभिः ॥ २१.१६ ॥ एकशिरा द्विशिरा त्रिशिराश्च यावत्सहस्रशिरा बहुवक्त्राः । एकभुजा द्विभुजा त्रिभुजाश्च यावत्सहस्रभुजा बहुभुजाः । एकपदा द्विपदा त्रिपदाश्च यावत्सहस्रपदा बहु अन्ये ॥ २१.१७ ॥ नीलमुखानि च पीतशरीरा पीतमुखानि च नीलशरीरा । अन्यमुखानि च अन्यशरीराः एकमुपागतु किंकरसैन्यम् ॥ २१.१८ ॥ वातु प्रवायति वर्षति वर्षं विद्युसहस्रशतानि पतन्ति । देव गुडायति वृक्ष लुडन्ति बोधिवटस्य न ईर्यति पत्रम् ॥ २१.१९ ॥ वर्षति देव प्रवर्षति वर्षमोघ वहन्ति जलाकुलभूमिम् । ईदृश भीषणिका बहुराशी यत्र अचेतन वृक्ष पतन्ति ॥ २१.२० ॥ दृष्ट्व च तानतिभीषणरूपां सर्वि विसंस्थित रूपविरूपाम् । श्रीगुणलक्षणतेजधरस्या चित्तु न कम्पति मेरु यथैव ॥ २१.२१ ॥ मायसमांस्तथ स्वप्नसमांश्च अभ्रनिभां समुदीक्षति धर्माम् । ईदृश धर्मनयं विमृषन्तो सुस्थितु ध्यायति संस्थितु धर्मे ॥ २१.२२ ॥ (वैद्य २२४) यस्य भवेत अहं ति ममेति भाव समुच्छ्रयि तत्त्वनिविष्टाः । सो बिभियादबुद्धेः स्थितु ग्राहे आत्मनि संभ्रमि गच्छ निरीक्ष्य ॥ २१.२३ ॥ शाक्यसुतस्तु स्वभावमभावं धर्म प्रतीत्य समुत्थित बुद्धा । गगनोपमचित्तु सुयुक्तो न भ्रमते सबलं शढ दृष्ट्वा ॥ २१.२४ ॥ इति हि भिक्षवो मारस्य पापीयसः पुत्रसहस्रम् । तत्र ये मारपुत्रा बोधिसत्त्वेऽभिप्रसन्नाः सार्थवाहपूर्वंगमाः, ते मारस्य दक्षिणे पार्श्वे स्थिता अभूवन् । ये मारपाक्षिकाः, ते वामे पार्श्वे स्थिता अभुवन्मारस्य पापीयसः । तत्र मारः पापीयांस्तान् स्वान् पुत्रानामन्त्रयते स्म - कीदृशेन बलेन वयं बोधिसत्त्वं धर्षयिष्यामः? तत्र दक्षिणे पार्श्वे सार्थवाहो नाम मारपुत्रः । स पितरं गाथया प्रत्यभाषत्- सुप्तं प्रबोधयितुमिच्छति पन्नगेन्द्रं सुप्तं प्रबोधयितुमिच्छति यो गजेन्द्रम् । सुप्तं प्रबोधयितुमिच्छति यो मृगेन्द्रं सुप्तं प्रबोधयितुमिच्छति सो नरेन्द्रम् ॥ २१.२५ ॥ वामे पार्श्वे दुर्मतिर्नाम मारपुत्रः स एवमाह - संप्रेक्षणेन हृदयान्यभिसंस्फुटन्ति लोकेषु सार महतामपि पादपानाम् । का शक्तिरस्ति मम दृष्टिहतस्य तस्य संजीवितुं जगति मृत्युहतस्य वास्तु ॥ २१.२६ ॥ दक्षिणे मधुरनिर्घोषो नामाह - वृक्षेषु सार क इहास्ति ततो ब्रवीषि दृष्ट्वा भिनन्मि मनुजेष्वथ का अवस्था । मेरुं गिरिं यदि भिनत्सि निरीक्षणेन नैवास्य तुभ्य नयनेभि हतोन्मिषेरन् ॥ २१.२७ ॥ अपि च । यः सागरं तरितुमिच्छति वै भुजाभ्यां तोयं च तस्य पिबितुं मनुजेष्वसन्तु । शक्यं भवेदिदमतस्तु वदामि दुःखं यस्तस्य वक्त्रमभितोऽप्यमलं निरीक्षेत् ॥ २१.२८ ॥ (वैद्य २२५) वामे शतबाहुर्नामाह - ममेह देहेस्मि शतं भुजानां क्षिपामि चैकेन शतं शराणाम् । भिनन्मि कायं श्रमणस्य तात सुखी भव त्वं व्रज मा विलम्ब ॥ २१.२९ ॥ दक्षिणे सुबुद्धिराह - शतं भुजानां यदि को विशेषो भुजा किमर्थं न भवन्ति रोमाः । भुजैकमेकेन तथैव शूलाः तैश्चापि कुर्यान्न हि तस्य किंचित् ॥ २१.३० ॥ किं कारणम्? मैत्रावतस्तस्य मुनेः शरीरे विषं न शस्त्रं क्रमते न चाग्निः । क्षिप्तानि शस्त्राणि व्रजन्ति पुष्पतां मैत्री हि लोकोत्तरभावि तस्य ॥ २१.३१ ॥ अपि च । दिवि भुवि च जले च ये बलाढ्याः असिपरशुघराश्च गुह्यका नरा वा । क्षमबलमिमु प्राप्य ते नरेन्द्रं प्रबलबलाल्पबला भवन्ति सर्वे ॥ २१.३२ ॥ वामे उग्रतेजा आह - अन्तर्गतोऽहं धक्ष्यामि प्रविश्यास्य तनुं शुभाम् । वृक्षं सकोटरं शुष्कं दावाग्निरिव सूक्ष्मतः ॥ २१.३३ ॥ दक्षिणे सुनेत्र आह - मेरुं दहेस्त्वं यदि वापि कृत्स्नं प्रविश्य चान्तर्गतु मेदिनीं वा । दग्धुं न शक्यः स हि वज्रबुद्धिः त्वत्संनिभैर्वालिकगङ्गतुल्यैः ॥ २१.३४ ॥ अपि च । चलेयुर्गिरयः सर्वे क्षयं गच्छेन्महोदधिः । चन्द्रसूर्यौ पतेद्भूमौ मही च विलयं व्रजेत् ॥ २१.३५ ॥ (वैद्य २२६) लोकस्यार्थे कृतारम्भः प्रतिज्ञाकृतनिश्चयः । अप्राप्यैष वरां बोधिं नोत्थास्यति महाद्रुमात् ॥ २१.३६ ॥ वामे दीर्घबाहुर्गर्वित आह - आलयं चन्द्रसूर्याणां नक्षत्राणां च सर्वशः । पाणिनाहं प्रमर्दामि तवेह भवने स्थितः ॥ २१.३७ ॥ चतुर्भ्यः सागरेभ्यश्च जलं गृह्णामि लीलया । तं गृह्य श्रमणं तात सागरस्य परं क्षिपे ॥ २१.३८ ॥ तिष्ठतां तात सेनेयं मा त्वं शोकार्दितो भव । सबोधिवृक्षमुत्पाट्य क्षेप्स्ये पाण्या दिशो दश ॥ २१.३९ ॥ दक्षिणे प्रसादप्रतिलब्ध आह - सदेवासुरगन्धर्वां ससागरनगां महीम् । त्वं मर्दितां प्रकुर्याश्च पाणिभ्यां मदगर्वितः ॥ २१.४० ॥ त्वद्विधानां सहस्राणि गङ्गावालिकया समाः । रोमं तस्य न चालेयुर्बोधिसत्त्वस्य धीमतः ॥ २१.४१ ॥ वामे भयंकर आह - भयं हि ते तात भृशं किमर्थं सेनाय मध्ये किमवस्थितस्य । सेना न तस्यास्ति कुतः सहायाः कस्माद्भयं ते भवतीह तस्मात् ॥ २१.४२ ॥ दक्षिण एकाग्रमतिराह - यूथं न लोकेऽस्ति शशीरवीनां न चक्रवर्ती न च केसरीणाम् । न बोधिसत्त्वानिह तात यूथमेकः समर्थो नमुचिं निहन्तुम् ॥ २१.४३ ॥ वामेऽवतारप्रेक्ष्याह - न शक्तिशूला न गदा न खङ्गाः न हस्तिनोऽश्वा न रथा न पत्तिः । तं शौण्डमेकं श्रमणं निषण्णं हन्स्येऽद्य मा संभ्रम तात किंचि ॥ २१.४४ ॥ (वैद्य २२७) दक्षिणे पुण्यालंकार आह - नारायणस्य यथ काय अछेद्यभेद्यो क्षान्तिबलैः कवचितो दृढवीर्यखङ्गः । त्रिविमोक्षवाहनसि प्रज्ञधनुः स तात पुण्याबलेन स हि जेष्यति मारसेनाम् ॥ २१.४५ ॥ वामेऽनिवर्त्याह - न निवर्तते तृणगतः प्रदहन् दवाग्निः क्षिप्तं शरो न च निवर्तति शिक्षितेन । वज्रं नभे निपतितं न निवर्तते च न स्थानमस्ति मम शाक्यसुतं ह्यजित्वा ॥ २१.४६ ॥ दक्षिणे धर्मकाम आह - आर्द्रं तृणं प्राप्य निवर्ततेऽग्निः गिरिकूटमासाद्य निवर्तते शरः । वज्रं महीं प्राप्य अधः प्रयाति अप्राप्य शान्तममृतं न निवर्तते अयम् ॥ २१.४७ ॥ किं कारणम्? शक्य तातन्तरीक्षे लेख्यचित्र चित्रितुं यावन्ति केचि सर्व सत्त्व एकचित्त स्थापितुम् । चन्द्रासूर्य मारुतं च शक्य पाश बन्धितुं न बोधिसत्त्व शक्य तात बोधिमण्डि चालितुम् ॥ २१.४८ ॥ वामेऽनुपशान्त आह - दृष्टीविषेण महता प्रदहामि मेरुं भस्मीकरोमि सलिलं च महोदधीनाम् । बोधिं च पश्य श्रमणं च अहं हि तात दृष्ट्या यथाद्य उभयं हि करोमि भस्मम् ॥ २१.४९ ॥ दक्षिणे सिद्धार्थ आह - विषेण पूर्णो यदि वैष सर्वो भवेत्त्रिसाहस्रवरः प्रदीप्तः । निरीक्षणादेव गुणाकरस्य सुनिर्विषत्वं विषमभ्युपेयात् ॥ २१.५० ॥ (वैद्य २२८) विषाणमुग्रं त्रिभवेह यच्च रागश्च दोषश्च तथैव मोहः । ते तस्य काये च तथैव चित्ते नभे यथा पङ्करजो न सन्ति ॥ २१.५१ ॥ * * * * तस्मान्निवर्तामह तात सर्वे ॥ २१.५२ ॥ वामे रतिलोलो नामाह - अहु तूर्यसहस्र प्रवादितैः अप्सरकोटिसहस्र अलंकृतैः । लोभयित्वन नेष्यि पुरोत्तमं कामरतिं हि करोमि वशे तव ॥ २१.५३ ॥ दक्षिणे धर्मरतिराह - धर्मरती सद तस्य रतीहा ध्यानरती अमृतार्थरतिश्च । सत्त्वप्रमोक्षण मैत्ररतिश्च रागरतिं स रतिं न करोति ॥ २१.५४ ॥ वामे वातजवो नामाह - जवेनहं चन्द्ररवी ग्रसेयं प्रवायमानं गगने च वायुम् । अद्यैव तात श्रमणं गृहीत्वा प्रासस्य मुष्टिं विकिरामि वायुम् ॥ २१.५५ ॥ दक्षिणेऽचलमतिर्नाम मारपुत्रः, स एवमाह - यथा तवैषो जववेग उग्रः तद्वद्यदि स्यात्सुरमानुषाणाम् । सर्वे समग्रापि न ते समर्थाः कर्तुं रुजामप्रतिपुद्गलस्य ॥ २१.५६ ॥ वामे ब्रह्ममतिराह - स्यात्तादृशानामपि वृन्दमुग्रं कुर्यान्न किंचित्तव मानघातम् । प्रागेव सैकः प्रकरोति किं ते वृन्देन साध्यन्ति हि सर्वकार्या ॥ २१.५७ ॥ (वैद्य २२९) दक्षिणे सिंहमतिराह - न सिंहवृन्दं भुवि दृष्टपूर्वं दृष्टीविषाणामपि नास्ति वृन्दम् । तेजस्विनां सत्यपराक्रमाणां पुरुषर्षभाणामपि नास्ति वृन्दम् ॥ २१.५८ ॥ वामे सर्वचण्डालो नामाह - न ते श्रुता तात गिरोऽभिदीप्ता यथा नदन्ते तनयास्तवेमे । वीर्येण वेगेन बलेन युक्ता व्रजाम शीघ्रं श्रमणं निहन्तुम् ॥ २१.५९ ॥ दक्षिणे सिंहनादी नामाह - बहवः शृगाला हि वनान्तरेषु नदन्ति नादान्न सतीह सिंहे । ते सिंहनादं तु निशाम्य भीमं त्रस्ता पलायन्ति दिशो दशासु ॥ २१.६० ॥ मारौरसास्तद्वदमी अपण्डिताः अश्रुत्व नादं पुरुषोत्तमस्य । नदन्ति तावत्स्वमताऽतिघृष्टा मनुष्यसिंहे नदिते न सन्ति ॥ २१.६१ ॥ वामात्पार्श्वाद्दुश्चिन्तितचिन्त्याह - यच्चिन्तयामि तदिहाशु भोति कथं न एषो इम वीक्षते च । मूढो न एषो अनभिज्ञ किं वा यदुत्थिहित्वा न पलायते लघुम् ॥ २१.६२ ॥ दक्षिणात्पार्श्वात्सुचिन्तितार्थो नामाह - मूढो न वायमपराक्रमो वा युष्मैव मूढाश्च असंयताश्च । न युष्मि जानाथ इमस्य वीर्यं प्रज्ञाबलेनास्य जिताः स्थ सर्वे ॥ २१.६३ ॥ मारात्मजानां यथ गङ्गवालिका एतेन वीर्येण यथैव यूयम् । (वैद्य २३०) रोमस्य एकं न समर्थ चालितुं प्रागेव यश्चिन्तयि घातयिष्ये ॥ २१.६४ ॥ मा यूयमत्र क्षिणुयात मानसं प्रसन्नचिता भवथा सगौरवाः । निवर्तया मा प्रकरोथ विग्रहं भविष्यतेऽसौ त्रिभवेस्मि राजा ॥ २१.६५ ॥ पेयालम् । एवं ते सर्वे मारपुत्राः परिपुर्णं पुत्रसहस्रं शुक्लपाक्षिकाश्च कृष्णपाक्षिकाश्च मारं पापीयांसं पृथक्पृथग्गाथाभिरध्यभाषन्त ॥ अथ खलु भद्रसेनो नाम मारस्य पापीयसः सेनापतिः, स मारं पापीयसं गाथाभिरध्यभाषत - ये ते तवानुयात्राः शक्रो लोकपालाश्च किन्नरगणाश्च । असुरेन्द्रा गरुडेन्द्राः कृताञ्जलिपुटाः प्रणत तस्मै ॥ २१.६६ ॥ किं पुनरनानुयात्रा ब्रह्मा आभास्वराश्च सुरपुत्राः । देवाश्च शुद्धावासकास्तेऽपि च सर्वे प्रणत तस्मै ॥ २१.६७ ॥ ये च तवेमे पुत्राः प्रज्ञामेघाविनश्च बलिनश्च । ते बोधिसत्त्वहृदयमनुप्रविष्टा नमस्यन्ति ॥ २१.६८ ॥ याप्येष मारसेना अशीति स्फुट योजनानि यक्षाद्यैः । भूयिष्ठ सर्वप्रेक्षी प्रसन्नमनसो हि निर्दोषम् ॥ २१.६९ ॥ दृष्ट्वा यथा सुभीमां रौद्रां विकृतां चमूमिमां घोराम् । न च विस्मितो न चलितो ध्रुवमस्य जयो भवत्यद्य ॥ २१.७० ॥ स्थित यत्र च सेनेयं तत्र उलूकाः शिवाश्च विरुवन्ति । वायसगर्दभरुदितं निवर्तितव्यं क्षमं शीघ्रम् ॥ २१.७१ ॥ वीक्षस्व बोधिमण्डे पटुक्रोञ्चा हंस कोकील मयूराः । अभिदक्षिणं करोन्ति ध्रुवमस्य जयो भवत्यद्य ॥ २१.७२ ॥ यत्र स्थित सेनेयं तत्र मसिः पांशवश्च वर्षन्ति । महिमण्डि कुसुमवृष्टिः कुरुष्व वचनं निवर्तस्व ॥ २१.७३ ॥ यत्र स्थित सेनेयमुत्कूलनिकूल शल्यकण्टकाकीर्णम् । महिमण्ड कनकनिर्मलु निवर्तितव्यं क्षमं प्राज्ञैः ॥ २१.७४ ॥ दृष्टा ति सुपिनि पूर्वे भेष्यसि प्रत्यक्षु यदि न गच्छासि । भस्मं चमूं च करिष्यति ऋषिभिर्देशा कृता यथा भस्मम् ॥ २१.७५ ॥ (वैद्य २३१) राजा यतो ऋषिवरो रोषितु आसीत्स ब्रह्मदत्तेन । उद्दग्धदण्डकवनं वर्षैर्बहुभिस्तृण न जाता ॥ २१.७६ ॥ ये केचि सर्वलोके ऋषयो व्रतचारिणस्तपोयुक्ताः । तेषामयं प्रधानो ह्यहिंसकः सर्वभूतानाम् ॥ २१.७७ ॥ किं ते न श्रुतपूर्वं काये दीप्ता सुलक्षणा यस्य । निष्क्रामति चागारात्स भवति बुद्धो जितक्लेशः ॥ २१.७८ ॥ इम ईदृशी विभूतिं पूजार्थं निर्मिता जिनसुतेभिः । तं नूनमग्रसत्त्वो ह्यग्राहुतिसंप्रतिग्राही ॥ २१.७९ ॥ ऊर्णा यथा सुविमला विराजते क्षेत्रकोटिनयुतेषु । जिह्मीकृताः स्म च तया निसंशयमेष मारबलहन्ता ॥ २१.८० ॥ मूर्ध्नं यथास्य देवैर्द्रष्टु न शक्यं न वै भवाग्रस्थैः । नूनं सर्वज्ञत्वं प्राप्स्यत्यन्यैरनुपदिष्टम् ॥ २१.८१ ॥ यथ मेरुचक्रवालाश्चन्द्रासूर्यश्च शक्रब्रह्माणः । वृक्षाश्च पर्वतवराः प्रणते सर्वे महीमण्डम् ॥ २१.८२ ॥ निःसंशयु पुण्यबली प्रज्ञाबलवांश्च ज्ञानबलवांश्च । क्षान्तिबलवांश्च वीर्यबलवानबलंकर्ता नमुचिपक्षाम् ॥ २१.८३ ॥ हस्ती यथामभाण्डं प्रमर्दते क्रोष्टुकान् यथा सिंहः । खद्योतं वादित्यो भेत्स्यति सुगतस्तथा सेनाम् ॥ २१.८४ ॥ एतच्छुत्वा परो मारपुत्रोऽतीव रोषात्संरक्तनयनोऽब्रवीत्- एकस्य वर्णानतिअप्रेमयां प्रभाषसे तस्य त्वमेककस्य । एको हि कर्तुं खलु किं समर्थो महाबला पश्यसि किं न भीमा ॥ २१.८५ ॥ अथ दक्षिणात्पार्श्वान्मारप्रमर्दको नाम मारपुत्र आह - सूर्यस्य लोके न सहायकृत्यं चन्द्रस्य सिंहस्य न चक्रवर्तिनः । बोधौ निषण्णस्य च निश्चितस्य न बोधिसत्त्वस्य सहायकृत्यम् ॥ २१.८६ ॥ अथ बोधिसत्त्वो मारस्य दुर्बलीकरणहेतोर्विकसितशतपत्रनिभं वदनं संचारयति स्म । यं दृष्ट्वा मारः पापीयान् प्रपलायानोऽभूत् । मम चमू बोधिसत्त्वस्य वदनं प्रतिष्ठेति (वैद्य २३२) मन्यमानः प्रपलानः पुनरेव प्रतिनिवृत्य सपरिवारो विविधानि प्रहरणानि बोधिसत्त्वस्योपर्युत्सृजति स्म सुमेरुमात्रांश्च पर्वतान् । ते च बोधिसत्त्वस्योपरि प्रक्षिप्ताः पुष्पविताने विमानानि संतिष्ठन्ते स्म । ये च दृष्टिविषा आशीविषाः श्वासविषाश्चाग्निज्वालानुत्सृजन्ति स्म, तच्चाग्निमण्डलं बोधिसत्त्वस्य प्रभामण्डलमिव संतिष्ठते स्म ॥ अथ पुनरेव बोधिसत्त्वो दक्षिणेन पाणिना शीर्षं प्रमार्ष्टि स्म । मारश्च पश्यति स्म । बोधिसत्त्वस्य हस्ते खङ्ग इति दक्षिणामुखः प्रपलायते स्म । न किंचिदिति पुनरेव प्रतिनिवर्तते स्म । निवृत्य च बोधिसत्त्वस्योपरि नानाविधानि प्रहरणान्युत्सृजति स्म असिधनुशरशक्तितोमरपरश्वधभुशुण्डिमुसलकणयगदाचक्रवज्रमुद्गरपादपशिलापाशायोगुडानतिभयानकान् । ते चोत्क्षिप्तमात्रा नानाविधानि पुष्पदामानि पुष्पवितानानि इव संतिष्ठन्ते स्म । मुक्तसुकुसुमानि च महीमवकिरन्तो माल्यदामानि चावलम्बमानानि बोधिवृक्षं विभूषयन्ति स्म । तांश्च व्यूहान् विभूतिं दृष्ट्वा बोधिसत्त्वस्य मारः पापीयानीर्ष्यामात्सर्योपहतचेता बोधिसत्त्वमब्रवीत्- उत्तिष्ठोत्तिष्ठ हे राजकुमार, राज्यं भुङ्क्ष्व, तावत्तव पुण्यम्, कुतस्ते मोक्षप्राप्तिः? अथ बोधिसत्त्वो धीरगम्भीरोदारश्लक्ष्णमधुरया वाचा मारं पापीयसमेतदवोचत्- त्वया तावत्पापीयन्नेकेन निर्गडेन यज्ञेन कामेश्वरत्वं प्राप्तम् । मया त्वनेकानि यज्ञकोटीनियुतशतसहस्राणि निर्गडानि यष्टानि । करचरणनयनोत्तमाङ्गानि च निकृत्य निकृत्यार्थिभ्यो दत्तानि । गृहधनधान्यशयनवसनं चंक्रमोद्यानानि चानेकशो याचनकेभ्यो निसृष्टानि सत्त्वानां मोक्षार्थिना । अथ खलु मारः पापीयान् बोधिसत्त्वं गाथया प्रत्यभाषत्- यज्ञो मयेष्टस्त्वमिहात्र साक्षी निरर्गडः पूर्वभवेऽनवद्यः । तवेह साक्षी न तु कश्चिदस्ति किंचित्प्रलापेन पराजितस्त्वम् ॥ २१.८७ ॥ बोधिसत्त्व आह - इयं पापीयन्मम भूतधात्री प्रमाणमिति ॥ अथ बोधिसत्त्वो मारं मारपर्षदं च मैत्रीकरुणापूर्वंगमेन चित्तेन स्फुरित्वा सिंहवदभीतोऽनुत्त्रस्तोऽस्तम्भी अदीनोऽलीनः असंक्षुभितोऽलुलितो विगतभयलोमहर्षः शङ्खध्वजमीनकलशस्वस्तिकाङ्कुशचक्राङ्कमध्येन जालावितानावनद्धेन सुरुचिरताम्रनखालंकृतेन मृदुतरुणसुकुमारेणानन्तकल्पापरिमितकुशलमूलसंभारोपचितेन दक्षिणेन पाणिना सर्वकायं परिमार्ज्य सलीलं महीं पराहनति स्म । तस्यां च वेलायामिमां गाथामभाषत्- इयं मही सर्व जगत्प्रतिष्ठा अपक्षपाता सचराचरे समा । (वैद्य २३३) इयं प्रमाणा मम नास्ति मे मृषा साक्षित्वमस्मिं मम संप्रयच्छतु ॥ २१.८८ ॥ संस्पृष्टमात्रा चेयं महापृथिवी बोधिसत्त्वेन षड्विकारमकम्पत्प्राकम्पत्संप्राकम्पत् । अरणत्प्रारणत्संप्रारणत् । तद्यथापि नाम मागधिकानां कांसपात्री काष्ठेनाभ्याहता रणत्यनुरणति, एवमेवेयं महापृथिवी बोधिसत्त्वेन पाणिताडिता रणत्यनुरणति स्म ॥ अथ खलु यस्यां त्रिसाहस्रमहासाहस्रलोकधातौ स्थावरा नाम महापृथिवीदेवता सा कोटिशतपृथिवीदेवतापरिवारा सर्वां महापृथिवीं संप्रकम्प्य नातिदूरे बोधिसत्त्वस्य पृथिवीतलं भित्त्वार्धकायाभ्युन्नाम्य सर्वालंकारप्रतिमण्डिता येन बोधिसत्त्वस्तेनावनतकाया प्राञ्जलीकृता बोधिसत्त्वमेतदवोचत्- एवमेतन्महापुरुष एवमेतत्यथा त्वयाभिहितम् । वयमत्र प्रत्यक्षाः । अपि तु भगवंस्त्वमेव सदेवकस्य लोकस्य परमसाक्षीभूतः प्रमाणभूतश्चेति । एवमुक्त्वा स्थावरा महापृथिवीदेवता मारं पापीयांसमनेकप्रकारं निर्भर्त्स्य बोधिसत्त्वं चाभ्यभिस्तुत्य विविधं च स्वकं प्रभावं संदर्श्य सपरिवारा तत्रैवान्तरधात् ॥ तं श्रुत्व मेदिनिरवं स शठः ससैन्यः उत्त्रस्त भिन्नहृदयो प्रपलान सर्वे । श्रुत्वेव सिंहनदितं हि वने शृगालाः काका व लोष्टुपतने सहसा प्रणष्टाः ॥ २१.८९ ॥ अथ खलु मारः पापीयान् दुःखितो दुर्मना अनात्तमना अपत्रपमाणरूपो मानाभिभवान्न गच्छति स्म । न निवर्तते स्म । न पलायते स्म । पश्चान्मुखं स्थित्वा उत्तरि सेनामामन्त्रयते स्म - सहिताः समग्रास्तावद्भवन्तस्तिष्ठन्तु मुहुर्तं यावद्वयं ज्ञास्यामो यदि तावच्छक्येतायमनुनयेनोत्थापयितुम् । मा खल्वेवंरूपस्य सत्त्वरत्नस्य सहसा विनाशो भूदिति ॥ अथ खलु मारः पापीयान् स्वा दुहितॄरामन्त्रयते स्म - गच्छध्वं यूयं कन्यकाः, बोधिमण्डमुपसंक्रम्य बोधिसत्त्वस्य जिज्ञासनां कुरुत - किं सरागोऽथ वीतरागः । किं मूकोऽथ प्रज्ञः । किमन्धोऽथ देशज्ञोऽर्थपरायणः । दीनो वा धीरो वेति । इदं खलु वचनं श्रुत्वा ता अप्सरसो येन बोधिमण्डो येन च बोधिसत्त्वस्तेनोपसंक्रामन् । उपसंक्रम्य बोधिसत्त्वस्य पुरतः स्थित्वा द्वात्रिंशदाकारां स्त्रीमायामुपदर्शयन्ति स्म । तद्यथा । कतमा द्वात्रिंशदाकारा? काश्चित्तत्रार्धवदनं छादयन्ति स्म । काश्चिदुन्नतान् कठिनान् पयोधरान् दर्शयन्ति स्म । काश्चिदर्धविहसितैर्दन्तावलिं दर्शयन्ति स्म । काश्चिद्बाहूनुत्क्षिप्य विजृम्भमाणान् काक्षान् दर्शयन्ति स्म । काश्चिद्बिम्बफलोपमानोष्ठान् दर्शयन्ति स्म । काश्चिदर्धनिमीलितैर्नयनैर्बोधिसत्त्वं निरीक्षन्ते स्म, दृष्ट्वा च शीघ्रं निमीलयन्ति स्म । काश्चिदर्धप्रावृतान् पयोधरान् दर्शयन्ति स्म । काश्चिच्छिथिलाम्बरां (वैद्य २३४) समेखलां श्रोणीं दर्शयन्ति स्म । काश्चित्समेखलां तनुदुकूलनिवासितां श्रोणीं दर्शयन्ति स्म । काश्चिज्झणझणाशद्बान्नूपुरैः कुर्वन्ति स्म । काश्चिदेकावलीं स्तनान्तरेषूपदर्शयन्ति स्म । काश्चिद्विनग्नानर्घोरूनुपदर्शयन्ति स्म । काश्चिच्छिरःस्वंसेषु च पत्रगुप्ताञ्शुकशारिकांश्चोपविष्टानुपदर्शयन्ति स्म । काश्चिदर्धकटाक्षैर्बोधिसत्त्वं निरीक्षन्ते स्म । काश्चित्सुनिवस्ता अपि दुर्निवस्ताः कुर्वन्ति स्म । काश्चिज्जघनरसनाः कम्पयन्ति स्म । काश्चित्संभ्रान्ता इव सविलासमितस्ततश्चंक्रम्यन्ते स्म । काश्चिन्नृत्यन्ति स्म । काश्चिद्रायन्ति स्म । काश्चिद्विलसन्ति स्म, लज्जन्ते च । काश्चित्कदल्य इव वायुविधूता उरू कम्पयन्ति स्म । काश्चिद्गम्भीराः स्तनन्ति स्म । काश्चिदंशुकप्रावृताः सघण्टारसना विहस्यन्त्यश्चंक्रम्यन्ते स्म । काश्चिद्वस्त्राण्याभरणानि च पृथिव्यां छोरयन्ति स्म । काश्चिद्गुह्यप्रकाशानि सर्वाभरणान्युपदर्शयन्ति स्म । काश्चिद्गन्धानुलिप्तान् बाहूनुपदर्शयन्ति स्म । काश्चिद्गन्धानुलेपनकुण्डलान्युपदर्शयन्ति स्म । काश्चिदवगुण्ठिकया वदनानि छादयन्ति स्म, क्षणेक्षणा चोपदर्शयन्ति स्म । काश्चित्पूर्वहसितरमितक्रीडिता अन्योन्यं स्मारयन्ति स्म । पुनरपि लज्जिता इव तिष्ठन्ति स्म । काश्चित्कुमारीरूपाण्यप्रसूतिरूपाणि मध्यस्त्रीरूपाणि चोपदर्शयन्ति स्म । काश्चित्कामोपहितेन बोधिसत्त्वं निमन्त्रयन्ते स्म । काश्चिन्मुक्तकुसुमैर्बोधिसत्त्वमवकिरन्ति स्म । पुरतश्च स्थित्वा बोधिसत्त्वस्याशयं मीमांसन्ते स्म । वदनं च निरीक्षन्ते स्म - किमयं रक्तेन्द्रियैः पश्यत्याहोस्विद्दूरीकरोति, नयने ईर्यते वा न वेति । ताः पश्यन्ति बोधिसत्त्वस्य वदनं शुद्धं विमलं चन्द्रमण्डलमिव राहुविनिर्मुक्तं सूर्यमिव प्रोदयमानं यूपमिव कनकमयं विकसितमिव सहस्रपत्रं हव्यावसिक्तमिवानलं मेरुमिवाचलं चक्रवालमिवाभ्युद्रतं गुप्तेइन्द्रियं नागमिव सुदान्तचित्तम् ॥ अथ ता मारदुहितरो भूयस्या मात्रया बोधिसत्त्वस्य संलोभनार्थमिमा गाथा अभाषन्त - सुवसन्तके ऋतुवर आगतके रमिमो प्रिय फुल्लितपादपके । तव रूप सुरूप सुशोभनके वशवर्तिसुलक्षणचित्रितके ॥ २१.९० ॥ वय जात सुजात सुसंस्थितिकाः सुखकारण देवनराण सुसंतुतिकाः । उत्थि लघुं परिभुञ्ज सुयौवनिकं दुर्लभ बोधि निवर्तय मानसकम् ॥ २१.९१ ॥ प्रेक्षसि ताव इमा मरुकन्य सुलंकृतिका तव कारण सज्जित भूषित आगतिका । (वैद्य २३५) को रूपमिमं समवेक्ष्य न रज्यति रागरतो अपि जर्जर काष्ठ व शोषितजीवितको ॥ २१.९२ ॥ केष मृदू सुरभी वरगन्धिनिका मकुटाकुण्डलपत्रविबोधितआननिका । सुललाट सुलेपनआननिका पद्मविशुद्धविशालसुलोचनिका ॥ २१.९३ ॥ परिपूरितचन्द्रनिभाननिका बिम्बसुपक्वनिभाधरिका । शङ्खकुन्दहिमशुक्लसुदन्तिनिका प्रेक्ष कान्त रतिलालसिकाम् ॥ २१.९४ ॥ कठिनपीनपयोधर उद्गतिकां त्रिवलीकृतमध्यसुसुन्दरिकाम् । जघनाङ्गणचारुसुवित्थरिकां प्रेक्षसु नाथ सुकामिनिकाम् ॥ २१.९५ ॥ गजभुजसंनिभऊरुणिकां वलयनिरन्तरबाहनिकाम् । काञ्चीवरश्रोणिसमण्डितिकां प्रेक्षहि नाथ इमा तव दासिनिकाम् ॥ २१.९६ ॥ हंसगतीसुविलम्बितगामिनिकां मञ्ञुमनोज्ञसुमन्मथभाषिणिकाम् । ईदृशरूपसुभूषिणिकां दिव्यरतीषु सुपण्डितिकाम् ॥ २१.९७ ॥ गीतकवादितनृत्यसुशिक्षितिकां रतिकारणजातिसुरूपिणिकाम् । यदि नेच्छसि कामसुलालसिकां सुष्टु सुवञ्चितकोऽसि भृशं खलु लोके ॥ २१.९८ ॥ निधि दृष्ट यथा हि पलायति को चि नरो धनसौख्यमजानकु मूढमनो । त्वमपि तथैव हि रागमजाननको यः स्वयमागतिकां न हि भुञ्जसि कामिनिकाम् ॥ २१.९९ ॥ इति ॥ (वैद्य २३६) अथ खलु भिक्षवो बोधिसत्त्वोऽनिमिषनयनः प्रहसितवदनः स्मितमुखोऽविकोपितैरिन्द्रियैरनभिसंस्कृतैर्गात्रैरजिह्मोऽरक्तोऽदुष्टोऽमूढः शैलेन्द्रवदप्रकम्प्योऽनवलीनोऽनवदीर्णोऽसंपीडितः सुसंस्थितया बुद्ध्या स्वाधीनेन ज्ञानमुखेनात्यन्तसुप्रहीणत्वात्क्लेशानां श्लक्ष्णया मधुरया वाचा ब्रह्मातिरेकेण घोपेण करविङ्करुतेन स्वरेण वल्गुना मनोज्ञेन तां मारदुहितॄन् गाथाभिः प्रत्यभाषत्- कामा भो बहुदुःखसंचया दुःखमूला ध्यानर्द्धीतपसं च भ्रंसनी अबुधानाम् । न स्त्रीकामगुणेभि तृप्तितां विदुमाहुः प्रज्ञातृप्तिकरो भविष्यहमबुधानाम् ॥ २१.१०० ॥ कामां सेवयतो विवर्धते पुन तृष्णा पीत्वा वै लवणोदकं यथा नरु कश्चि । नात्मार्थे च परार्थि भोतिहा प्रतिपन्नो आत्मार्थे च परार्थ उत्सुको भविताहम् ॥ २१.१०१ ॥ फेनाबुद्बुदतुल्यसंनिभं तव रूपं मायारङ्गमिवा विथापितं स्वमतेन । क्रीडा वै सुपिनेव अध्रुवा अपिनित्या बालानां सद चित्तमोहना अबुधानाम् ॥ २१.१०२ ॥ नेत्रा बुद्बुदतुल्यसादृशा त्वचनद्धाः कठिनं शोणितपिण्डमुद्रतं यथ गण्डम् । उदरो मूत्रपुरीषसंचयो असुचोक्षः कर्मक्लेशसमुत्थितो दुखयन्त्रः ॥ २१.१०३ ॥ संमूढा यहि बालबुद्धयो न तु विज्ञाः शुभतो कल्पयमान आश्रयं वितथेन । संसारे बहुकाल संसरी दुःखमूले अनुभोक्ता निरयेषु वेदना बहुदुःखा ॥ २१.१०४ ॥ श्रोणि प्रस्रवते विगन्धिका प्रतिकूला उरूजङ्घक्रमाश्च संस्थिता यथ यन्त्रम् । भूतं युष्मि अहं निरीक्षमी यथ माया हेतुप्रत्ययतः प्रवर्तथा वितथेन ॥ २१.१०५ ॥ (वैद्य २३७) दृष्ट्वा कामगुणांश्च निर्गुणां गुणहीनामार्यज्ञानपथस्य उत्पथां विपथांश्च । विषपत्राग्निसमां महोरगां यथ क्रुद्धां बाला अत्र हि मूर्छिता सुखसंज्ञाः ॥ २१.१०६ ॥ कामादासु भवीति यो नर प्रमदानां शीले उत्पथि ध्यायि उत्पथि मतिहीनो । ज्ञाने सो हि सुदूरि तिष्ठते रतिलोलो योऽसौ धर्मरतिं जहित्वना रमि कामैः ॥ २१.१०७ ॥ नो रागेण सही वसाम्यहं न च दोषैः नो नैर्नित्यअशुभअनात्मभिर्वसि सार्धम् । आरातीयरतीयसंवशेन च सार्धं निर्मुक्तं मम चित्तु मारुतो गगने वा ॥ २१.१०८ ॥ पूर्णं सर्वजगत्त्वमीदृशैर्यदिह स्यात्कल्पं ताभि सहा समोसृतो विहरेयम् । नो वा मह्य खिलं न रज्यना न च मोहो आकाशःसमतुल्यमानसा जिन भोन्ति ॥ २१.१०९ ॥ यद्यपीह रुधिरास्थिवर्जिताः देवअप्सर सुनिर्मलाः शुभाः । तेऽपि सर्वि सुमहद्भये स्थिताः नित्यभावरहिता अशाश्वताः ॥ २१.११० ॥ अथ खलु ता मारदुहितरः सुशिक्षिताः स्त्रीमायासु भूयस्या मात्रया रागमददर्पं संजनय्य चेष्टामुपदर्श्य गात्राणि विभूषयित्वा स्त्रीमायामुपदर्श्य बोधिसत्त्वं प्रलोभयन्ति स्म ॥ तत्रेदमुच्यते - तृष्णरती रतिश्च सहिता प्रमदवर मधुरा मारसमीरिताः सुललिता त्वरितमुपगताः । वायुसमीहिता किसलयास्तरुणतरुलता नृत्तत लोभयं नृपसुतं द्रुमविटपगतम् ॥ २१.१११ ॥ एष वसन्तकालसमयः प्रवर ऋतुवरो नारिनराण हर्षणकरो निहततमरजः । (वैद्य २३८) कोकिलहंसमोररविशा द्विजगणकलिलः काल उपस्थितोऽनुभवितुं मदनगुणरतिम् ॥ २१.११२ ॥ कल्पसहस्रशीलनिरतो व्रततपचरितो निश्चल शैलराजसदृशस्तरुणरविवपुः । मेघनिनादवल्गुवचनो मृगपतिनिनदो वचनमुवाच सोऽर्थसहितं जगति हितकरः ॥ २१.११३ ॥ कामविवाद वैर कलहा मरणभयकरा बालजनोपसेवित सदा बुधजनरहिता । प्राप्तयु कालु यत्र सुगतैरमृतमधिगतं अद्य भविष्य मारु जिनिया दशबलु अरहान् ॥ २१.११४ ॥ माय निदर्शयन्तिय वदं शृणु कमलमुखा राजु भविष्यसेश्वरवरः क्षितिपति बलवान् । तूर्यसहस्रसंप्रभणिते प्रमदवरगणे किं मुनिवेषकेन भवतो विरम रति भजा ॥ २१.११५ ॥ बोधिसत्त्व आह - भेष्यि अहं हि राजु त्रिभवे दिवि भुवि महितो ईश्वरु धर्मचक्रचरणो दशबलु बलवान् । शैक्ष्यअशैक्ष्यपुत्रनयुतैः सततसमितमभिनतो धर्मरती रमिष्यि विषयैर्न रमि रमति मनः ॥ २१.११६ ॥ ता आहुः - याव च यौवनं न गलितं प्रथमवयधरो याव च व्याधि नाक्रमति ते न च जर असिता । याव च रूपयौवनधरो वयमपि च सुखी ताव नु भुङ्क्ष्व कामरतयः प्रहसितवदनः ॥ २१.११७ ॥ बोधिसत्त्व आह - याव च दुर्लभोऽद्य लभितः क्षणवर अमृतो याव च वर्जिता क्षणदुखा असुरसुरपुरे । याव जरा च व्याधिमरणं न कुपितरूपवं तावहु भावयिष्यि सुपथमभयपुरगमम् ॥ २१.११८ ॥ (वैद्य २३९) ता आहुः - देवपुरालयेऽप्सरवृतस्त्रिदशपतिरिवा यामसुयामसंतुषितके अमरवरस्तुतो । मारपुरे च कामरतयः प्रमदवशगतः क्रीड्यनुभुङ्क्ष्व अस्मभि सहा विपुलरतिकरः ॥ २१.११९ ॥ बोधिसत्त्व आह - काम तृणोसबिन्दुचपला शरदघनसमा पन्नगकन्यरोषसदृशा भृशभयकरणा । शक्रसुयामदेवतुषिता नमुचिवशगताः कोऽत्र रमेत नर्यभिलषिते व्यसनपरिगते ॥ २१.१२० ॥ ता आहुः - पुष्पित पश्यिमां तरुवरां तरुणकिसलयां कोकिलजीवजीवकरुता मधुकरविरुता । स्निग्धसुनीलकुञ्चितमृदुं धरणितलरुहे किं नरसिंह सेवित वने रमसु युवतिभिः ॥ २१.१२१ ॥ बोधिसत्त्व आह - कालवशात्पुष्पित इमे किसलय तरवो भुक्षपिपासिता मधुकराः कुसुममभिगताः । भास्करु शोषयिष्यति यदा धरणितलरुहां पूर्वजिनोपभुक्तममृतं व्यवसितमिह मे ॥ २१.१२२ ॥ मारदुहितर आहुः - प्रेक्षहि ताव चन्द्रवदना नवनलिनिनिभा वाच मनोज्ञ श्लक्ष्ण दशना हिमरजतनिभा । ईदृश दुर्लभा सुरपुरे कुत मनुजपुरे ते त्वय लब्ध ये सुरवरैरभिलषित सदा ॥ २१.१२३ ॥ बोधिसत्त्व आह - पश्यमि कायमेध्यमशुचिं कृमिकुलभरितं जर्जरमित्वरं च भिदुरमसुखपरिगतम् । यत्सचराचरस्य जगतः परमसुखकरं तत्पदमच्युतं प्रतिलभे बुधजनमहितम् ॥ २१.१२४ ॥ (वैद्य २४०) ता चतुषष्टिक