अथ वक्ष्ये मन्त्रकोशं यदुक्तं भूतडामरे । क्रमाद्बीजविधानं च श्रुत्यर्थज्ञानसम्भवम् ॥ १ श्रीशिव उवाच । अ विद्युज्जिह्वा आ कालवज्री इ गर्जिनी ई धूम्रभैरवी उ कालरात्रिः ऊ विदारी ऋ महारौद्री ॠ भयंकरी लृ संहारिणी लॄ करालिनी ए ऊर्ध्वकेशी ऐ उग्रभैरवी ओ भीमाक्षी औ डाकिनी अं रुद्रराकिणी अः चण्डिका क क्रोधीशः ख वामनः ग चण्डः घ विकारी ङ उन्मत्तभैरवः च ज्वालामुखः छ रक्तदंष्ट्रः ज असिताङ्गः झ वडवामुखः ज विद्युन्मुखः ट महाज्वालः ठ कपाली ड भीषणः ढ रुरुः ण संहारी त भैरवः थ दण्डी द बलिभुक्ध उग्रसूलधृक्न सिंहनादी प कपर्दी फ करालाग्निः ब भयंकरः भ बहुरूपी म महाकालः य जीवात्मा र क्षतजोक्षितः ल बलभेदी व रक्तपटः श चण्डीशः ष ज्वलनध्वजः स धूमध्वजः ह व्योमवक्त्रः क्ष त्र्यैलोक्यग्रसनात्मकः ॥ २ विद्युज्जिह्वा कालवक्त्रा महाकालैरलंकृता ॥ ३ विशबीजं श्रुतिमुखं ध्रुवं हालाहलं प्रिये च तत् ॥ ४ चण्डीशः क्षतजारूढो धूम्रभैरव्यलंकृतः । नादबिन्दुसमायुक्तो बीजं विष्णुप्रिया मतं श्रीम् ॥ ५ क्षतजस्थो व्योमवक्त्रो धूम्रभैरव्यलंकृतः । नादबिन्दुसमायुक्तो बीजं प्राथमिकं स्मृतं ह्रीम् ॥ ६ क्रोधीशः क्षतजारूढो धूम्रभैरव्यलंकृतः । नादबिन्दुसमायुक्तः पितृभूवासिनी स्मृतः क्रीम् ॥ ७ विदारीयुक्तं व्योमास्यं रुद्रराकिण्यलंकृतम् । कूर्चं कालं क्रोधबीजं जानीहि वीरवन्दिते हूम् ॥ ८ नादबिन्दुसमायुक्तां समादायोग्रभैरवीम् । भौतिकं वाग्भवं बीजं विद्धि सारस्वतं प्रिये ऐ ॥ ९ प्रलयाग्निर्महाज्वालः ख्यातश्चास्त्रमनुः प्रिये फट् ॥ १० क्रोधीशरक्तभीमाक्ष्योऽङ्कुशोऽयं नादबिन्दुमान् क्रोम् ॥ ११ द्विठः शिरो वह्निजाया स्वाहा ज्वलनवल्लभा स्वाहा ॥ १२ क्रोधीशो बलभिद्धूम्रभैरवीनादबिन्दुभिः । त्रिमूर्तिर्मन्मथः कामः बीजं त्रैलोक्यमोहनं क्लीम् ॥ १३ व्योमास्यः कालरात्र्यार्ढ्यो वर्म बिन्दीन्दुसंयुतः । कथितं कवचं बीजं कुलाचारप्रियेऽमले हुम् ॥ १४ व्योमास्यः क्षतजारूढो डाकिनीनादबिन्दुभिः । ज्योतिर्मन्त्रः समाख्यातो महापातकनाशनः ह्रौम् ॥ १५ संयुक्तो धूम्रभैरव्या रक्तस्थो बलिभोजनः । नादबिन्दुसमायुक्तः किङ्किणीबीजमुत्तमं द्रीम् ॥ १६ बहुरूपिणमादाय क्षतजोक्षितसंस्थितम् । विदार्यालिङ्गितं तद्वद्विशेषार्थो महामनुः भ्रूम् ॥ १७ धूम्रध्वजाधः कालाग्निः सोर्ध्वकेशीन्दुबिन्दुभिः । युगान्तकारकं बीजं भैरवेण प्रकाशितं स्फेम् ॥ १८ संहारिण्याश्रितं चोर्ध्वकेशिनी तु कपर्दिनम् । नादबिन्दुसमायुक्तं बीजं वैतालिकं स्मृतं प्लेम् ॥ १९ सनादबिन्दुं क्रोधीशं गृह्य संहारिणीस्थितम् । कम्पिनीबीजमित्युक्तं द्विठेनोक्ता मनोहरी क्लीं स्वाहा ॥ २० कपर्दिनं समादाय क्षतजोक्षितसंस्थितम् । संयुक्तं धूम्रभैरव्या ध्वाङ्क्षोऽयं नादबिन्दुमान् प्रीम् ॥ २१ कपालिद्वयमादाय महाकालेन मण्डितम् । समासनमिति प्रोक्तं चण्डिकाढ्यं मनोहरं ठं ठं ठः ठः ॥ २२ प्रलयाग्निस्थितो धूमध्वजो गुह्ये सबिन्दुमान् । संयुक्तो धूम्रभैरव्या स्मृता फेत्कारिणी प्रिये स्फीम् ॥ २३ क्षतजस्थो व्योमवक्त्रो बिन्दुखण्डेन्द्वलंकृतः । खद्योतमिति विख्यातं ग्रासिनी कालरात्रियुख्रुम् ॥ २४ क्षतजस्थं व्योमवक्त्रं नादबिन्दुसमन्वितम् । विदारीभूषणं कृत्वा बीजं वैवस्वतात्मकं ह्रूम् ॥ २५ व्योमवक्त्रो धूमध्वजो वारणः प्रलयाग्निकः । ऊर्ध्वकेशी क्षतारूढा बिन्दुचन्द्रार्धसंगता ॥ २६ बीजमानन्दभैरव्या मूकानन्दकरं परं हसखफ्रेम् ॥ २७ अकारे भीषणा कीर्तिं विद्युज्जिह्वेति कीर्तिता । आकारे तामसी कालवज्री च कालभैरवी ॥ २८ इकारे गर्जिनी चण्डा विज्ञेया रुद्रभैरवी । ईकारे शूलिनी ख्याता चण्डोग्रा धूम्रभैरवी ॥ २९ उकारे कालकूटाख्या प्रचण्डा चण्डवल्लभा । विदार्यूकारके प्रोक्ता तालजङ्घा कपालिनी ॥ ३० ऋकारे स्यान्महारौद्री ज्वालिनी योगिनीत्यपि । ॠकारे कालिका प्रोक्ता पितृकाली भयंकरी ॥ ३१ संहारिणी ळकारे स्यान्मेघनादोग्रभाषिणी । रुद्रचण्डा कालरात्रिः ॡकारे च करालिनी ॥ ३२ ऊर्ध्वकेशी च चामुण्डा नादिन्येकारके स्मृता । ऐकारे कोटराक्षी च मालिन्युन्मत्तभैरवी ॥ ३३ ज्वालिन्योकारगा ज्ञेया भीमाक्षी चण्डमालिनी । औकारे डाकिनी सिंहनादिनी चण्डभैरवी ॥ ३४ अक्रूराख्या विदारी च अंकारे रुद्रराकिणी । शेषे कपालिनी याम्या चण्डिका कुण्डलद्वयम् ॥ ३५ विसर्गो नादः सकलाः षड्दशोक्ताः स्वरा मताः ॥ ३६ क्रोधीशो वारणश्चण्डः शङ्का तून्मत्तभैरवः । ज्वालामुखो रक्तदंष्ट्रोऽसिताङ्गो बलयामुखः ॥ ३७ विद्युन्मुखो महाज्वलि कपाली भीषणो गुरुः । प्रहारी रौरवो दण्डी बलितोऽत्युग्रशूलधृक् ॥ ३८ सिंहनादी कपर्दी च प्रलयाग्निर्भयंकरः । बहुरूपी महाकालः स्थिरात्मा क्षतजोक्षितः ॥ ३९ बलभेदी रक्तपटश्चण्डिशो ज्वलनध्वजः । धूमध्वजो व्योमवक्त्रस्त्रैलोक्यग्रसनात्मकः ॥ ४० नयनश्रोत्रास्यनासाहृत्सु न्यासे दश स्वराः ॥ ४१ ध्वजिनीधूम्रभैरव्यावभावे च दृशोः स्मृते । मूलार्णमुरमादिष्टं हृदयं स्वरशक्तयः ॥ ४२ आदिमध्यावसानेषु पूर्वाभावे यथोत्तरम् । कण्ठास्यः कालवक्त्रेण महाकालेन भूषितः । तदादिः पञ्चरश्मिश्च सृष्टिस्थितिलयं विषम् ॥ ४३ शूलिन्या सहितोऽग्निस्थश्चण्डीश इन्दुबिन्दुमान् । एतद्विष्णुप्रियाबीजं यन्मान्यं जगतः प्रियम् ॥ ४४ क्षतजस्थो व्योमवक्त्रश्चण्डोग्राबिन्दुभूषितः । अद्रिजा रौद्री भूतेशी बीजं प्राथमिकं प्रियम् ॥ ४५ क्रोधीशो रक्तसंस्थश्च धूम्रभैरव्यलंकृतः । बिन्द्विन्दुसंयुतो बीजं द्रावणं क्लेदनं स्मृतम् ॥ ४६ व्योमास्यो बिन्दुसंयुक्तस्तालजङ्घाविभूषितः । कूर्चकालो महाकालः क्रोधबीजं निरञ्जनम् ॥ ४७ उन्मत्तभैरवी रुद्रडाकिन्या च विभूषिता । नादेनालंकृता बीजं वाग्भवं बुद्धिवर्धनम् ॥ ४८ फडित्यस्त्रं प्रसिद्धं स्याज्फट् ॥ ४९ ज्वालाग्निर्व्यापकाङ्कुशः क्रोर् ॥ ५० शिरः स्वाहा द्विठो वह्निजाया ज्वलनवल्लभा ॥ ५१ दक्षजानुद्वयं सेन्दुः देवास्यं वह्निसुन्दरी स्वाहा ॥ ५२ इन्द्रासनगतो ब्रह्मा त्रिमूर्तीन्दुश्च मन्मथः क्लीम् ॥ ५३ गर्जिनीधूम्रभैरव्यौ दक्षवामपयोधरौ । व्योमास्यः कालवक्त्राढ्यो वर्मबिन्दीन्दुसंयुतः हुम् ॥ ५४ शून्यं क्षतजमारूढं चण्डभैरव्यलंकृतम् । नादबिन्दुयुतं मूर्ध्नि ज्योतिर्मन्त्र उदाहृतो ह्रौम् ॥ ५५ आदिदेवेन निर्दिष्टं मन्त्रकोशमनुत्तमम् । यदर्थिभ्यः पुरा गुप्तं तन्मयाद्य प्रकाशितम् ॥ ५६ यक्षडामरतन्त्रस्य मन्त्रकोशविवेचनम् । क्रोधीशेन तु यत्प्रोक्तं भैरवाय महात्मने ॥ ५७ विद्युच्चण्डाशिनी गौरी क्रोशिनी नागिनी जया । किंनरी योगिनी यक्षी भूतिनी प्रेतिनी नरी ॥ ५८ ग्रासिनी त्रासिनी चण्डी कलेत्येवं प्रकीर्तिता । कालभैरवेऽमरसर्वासु भूतलाङ्गलवरासु च ॥ ५९ सुभगा सुमुखी चण्डी पार्वती सुरतप्रिया । उर्वशी चैन्द्रिणी लीला कङ्काली मेखला शची ॥ ६० मानिनी हंसिनी चौला कलना भूमिनीति च । आदिदेवेन निर्दिष्टाः प्रथमाधिपशक्तयः ॥ ६१ विभ्रमो बाहुलो दण्डी भैरवो नटकः शुकः । वृकोदरो जटो भीष्मः क्षोभकः खेचरो नटः ॥ ६२ निशाचरा ध्वजी भीमो विचित्रः कौशिको यमः । लिङ्गी वत्साधिको भृङ्गी मणिभद्रो घटोत्कचः ॥ ६३ महानन्दी शुको दण्डी सुग्रीवः कलहो भवः । दण्डी भाषान्तकोऽजेशो गर्गो हंसः पक्षैश्चरो हली ॥ ६४ चण्डीबीजमिति ख्यातं विद्युन्नागाङ्गनांशुकैः । औरसाधिकेऽंशुकाद्या च धूमिन्यसौ किंनरः स्मृतः ॥ ६५ उर्वश्यालंकृतो हंसो हंसेन्दुमस्तकोद्धृतः हूम् ॥ ६६ विद्युच्चण्डा च हंसी च केतुर्नागिन्यलंकृता ह ॥ ६७ डिण्डिभेन सरक्तेन कामिनी बिन्दुभिः शशी श्रीम् ॥ ६८ हंसग्रीवपार्वत्या कपर्दीन्द्वाद्यलंकृता ह्रीम् ॥ ६९ विग्रहकलहकामिनीन्द्वादिप्राणहारिणी क्रीम् ॥ ७० विभ्रमो रक्तपार्वत्यै स्वाहा उल्कामुखी स्मृता ॥ ७१ ज्वालंधरीति विख्याता सबिन्द्विन्दुकला नटी ॥ ७२ हंसः सुग्रीवः चण्डाद्यैः खद्योतैः परिकीर्तिता ह्रम् ॥ ७३ श्यामालिङ्गितदेहोऽसौ खद्योतो ज्योतिरीरितः ह्रौम् ॥ ७४ यमः सुग्रीवः कामिनीन्द्रेन्द्वाद्यैः किंनरीति च ह्रुम् ॥ ७५ सुग्रीवोऽपि यमश्चण्डो नीलाद्यैर्वाण ईरितः द्राम् ॥ ७६ यमः सुग्रीवबिन्द्विन्दुजपाद्यः पिशिताशनः द्रुम् ॥ ७७ त्यागिनं मणिभद्रस्थं प्रेतिनीन्द्वाद्यलंकृतम् । युगान्तकारकं बीजं भैरवेण प्रकाशितं स्फ्रेम् ॥ ७८ भृङ्गिणं मेखलायुक्तं प्रेतिनीन्द्वाद्यलंकृतम् । बीजं वैतालिकं प्रोक्तं द्विठेनोक्ता मनोहरी प्लें स्वाहा ॥ ७९ विभ्रमो धूमिनी विद्युच्चण्डिकाद्यस्तु काकिनी । ध्वाङ्क्षबीजमिति ख्यातं सर्वतन्त्रेषु गोपितं प्रीम् ॥ ८० नटद्वयेन धूमिन्या ऊर्ध्वकेश्या ह्यलंकृतं फ्रेम् ॥ ८१ नटो धवानसंयुक्तो नटीतीक्ष्णपयोधरैः टंठम् ॥ ८२ पार्वत्यालिङ्गितं मणिभद्रस्थं योगिनीप्रिये । फेत्कारिणीति विख्याता विद्युच्चण्डविभूषिता स्फीम् ॥ ८३ सुग्रीवास्थिलयः श्रोत्रे हृद्यत्वाविकलादृशः । विकलायाः स्वभावे च स्याद्गौरीति च पार्वती ॥ ८४ मूलार्णमासमाख्यातं हृदयं स्वरशक्तयः । भवस्थित्यवसानेषु विज्ञातव्यं यथोत्तरम् ॥ ८५ आदिदेवेन निर्दिष्टं जम्बुद्वीपे कलौ युगे । मन्त्रकोशमिदं भूतयक्षडामरतन्त्रयोः ॥ ८६ मर्त्यानामुपकाराय त्रिषु लोकेषु दुर्लभम् ॥ ८७