वाचस्पतिमिश्रविरचितायां न्यायवार्त्तिकतात्पर्यटीकायां प्रथमाध्यायस्य प्रथमाह्निकम् न्यायवार्त्तिकतात्पर्यटीका ___________________________________________ विश्वव्यापी विश्वशक्तिः पिनाकी विश्वेशानो विश्वकृद्विश्वमूर्त्तिः । विश्वज्ञाता विश्वसंहारकारी विश्वाराध्यो राधयत्वीहितं नः ॥ नामामि धर्मविज्ञानवैराग्यैश्वर्यशालिने । निधये वाग्विशुद्धीनामक्षपादाय तायिने ॥ ग्रन्थव्याख्याच्छलेनैव निरस्ताखिलदूषणा । न्यायवार्त्तिकतात्पर्यटीकास्माभिर्विधास्यते ॥ इच्छामि किमपि पुण्यं दुस्तरकुनिबन्धपङ्कमग्नानाम् । उद्द्योतकरगवीनामतिजरतीनां समुद्धरणात् ॥ ____________________________________________________________________ ण्य्ष्_१,१.१ प्रमाणप्रमेयसंशयप्रयोजनदृष्टान्तसिद्धान्तावयवतर्कनिर्णयवादजल्पवितण्डाहेत्वाभासच्छुलजातिनिग्रहस्थानानां तत्त्वज्ञानान्निःश्रेयसाधिगमः॥ अथ भगवताक्षपादेन निःश्रेयसहेतौ शास्त्रे प्रणीते, व्युत्पादिते च भगवता पक्षिलस्वामिना, किमपरमवशिष्यते यदर्थं वार्त्तिकारम्भ इति शङ्कां निराचिकीर्षुः सूत्राकारोक्ताशास्त्रप्रयोजनानुवादपूर्वकं वार्त्तिकारम्भप्रयोजनं दर्शयतियदक्षपाद इति ॥ यद्यपि भाष्यकृता कृतव्युत्पादनमेतत्, तथापि दिग्नागप्रभृतिभिरर्वाचीनैः कृहेतुसन्तमससमुत्थापनेनाच्छदितं शास्त्रं न तत्त्वनिर्णयाय पर्याप्तमिति उद्द्योतकरेण स्वनिबन्धोद्द्योतेन तदपनीयत इति प्रयोजनवानारम्भ इति । सूत्रोक्तप्रयोजनानुवादश्च प्रयोजनवच्छास्त्रव्युत्पादनेन स्वनिबन्धस्य प्रयोजनवत्तां प्रेक्षावत्प्रवृत्त्यङ्गं दर्शयितुम्, व्युत्पादनमात्रस्य च काकदन्तपरीक्षाग्रन्थसाधारण्येन प्रेक्षावत्प्रवृत्त्यनङ्गत्वात् । अत्र चैकविशतिप्रभेदभिन्नस्य दुःखस्यात्यन्तिकी निवृत्तिः शमः, तस्मै । कस्य? जगतः । परमकारूणिको हि भगवान्मुनिः जगदेव दुःखपङ्कमग्नामुद्दिधीर्षुः शास्त्रं प्रणीतवान् । तत्र यदि कश्चिन्न प्रवर्तेत, किमायातं शास्त्रस्य? न चानधिकृतपुरुषव्युत्पादनेनास्य तपोनिधेः कश्चिदस्ति दोषः । तथा च विश्वामित्रास्त्रिशङ्कुं याजयामास, विशष्ठश्चधमयोनिजामक्षमालामुपयेमे । तपःप्रभाव एव हि ताद्दशस्तेषां यत एवंविधाः पाप्मानो विलीयन्त इति । न चास्मदादीनां मन्दतपसामयं प्रसङ्गः । न हि गजानामुदर्यं तेजो वटकाष्ठमशितं पचतीत्यस्मदादीनामप्युदर्येण तेजसा तथा भवितव्यम् । कुतार्किकैर्दिग्नागप्रभुतिभिराहितमज्ञानं कुतार्किकाज्ञानमिति ॥ अविगीतशिष्टाचारपरम्परप्राप्तः परमशिष्टेन वार्त्तिककारेण कृतोऽपीष्टदेवतानमस्कारो न शास्त्रे निवेशितः । न खल्वन्यदपि मङ्गल्यं शास्त्रे निवेशितम्, प्रसिद्धतरतया तु मङ्गल्यान्तरवच्छिष्या अवगभिष्यन्तीति सर्वमवदातम् ॥ तत्र संक्षेपतः प्रथमसूत्रमनूद्य तस्य तात्पर्यमाहप्रमाणादिपदार्थतत्त्वज्ञानान्निः श्रेयसाधिगम इत्येतच्छास्त्रस्यादिसूत्रम् । तस्य शास्त्रस्य अभिसंबन्धवाक्यम् । आदिग्रहणेन क्रमप्राप्तस्यैव प्रथमं व्याख्यानं युक्तं न द्वितीयादेरिति दर्शितम् । अभिमतः संबन्धोऽभिसंबन्धः, शास्त्रनिःश्रेयसयोर्हेतुहेतुमद्भावः । तस्य इदं सूत्रावाक्यमाभिसंबन्धवाक्यम् । प्रमाणादिपदार्थतत्वज्ञानादित्यत्र हि ज्ञायतेऽनेनेति ज्ञानमिति व्युत्पत्या तत्वज्ञानं शास्त्रमुच्यते । पञ्चम्या च तस्य हेतुत्वम् । न हि विषघ्नमन्त्रवत्स्वरूपमात्रेण तदविवक्षितार्थं निःश्रेयसहेतुरिति पदार्थतत्वावगमकरणतया शास्त्रमपदिशति, न तु स्वरूपेण । तेन शास्त्रस्य निःश्रेयसे कर्तव्ये प्रमाणादितत्वावगमोऽवान्तरव्यापार इतयुक्तं भवति । तथा च प्रमाणादिपदार्थतत्वं प्रतिपद्यम्, प्रतिपादकं च शास्त्रमिति शास्त्रप्रमाणादिपदार्थतत्वयोर्ज्ञाप्यज्ञापकभावश्च प्रमाणादिपदार्थतत्वज्ञाननिःश्रेयसयोः कार्यकारणभावलक्षणश्च संबन्धः सूचितो भवति । तदिदमभिघेयसंबन्धप्रयोजनप्रतिपादनार्थत्वं प्रथमसूत्रस्य । पत्पदार्थतत्त्वज्ञानस्य च यथा निःश्रेयसाधिगमं प्रत्युपयोगः तथाग्रे निवेदयिष्यते । विनिश्चिताप्तभावश्च मुनेराप्तत्वेन तद्वाक्यात्प्रयोजनादि विनिश्चित्यप्रवर्त्स्यन्ति । आप्तत्वाविनिश्चये त्वर्थसंशयात् । न खलु कृष्यादावपि विरिश्चितसस्याद्यधिगमानां प्रवृत्तिः, अन्तरावग्रहादिप्रतिबन्धेन फलानुत्पादस्यापि न्यायप्राप्तत्वेन तदभिधानमनर्थकमिति साम्प्रतम्, विशेषस्मृत्यनपेक्षस्य संशयस्यानुत्पादात् । वाक्यात्तु विशेषस्मृतिरिति नानर्थक्यम् ॥ तदेवं प्रथमसूत्रतात्पर्यमुक्त्वा भाष्यस्यादिवाक्यतात्पर्यमाहप्रमाणतोऽर्थप्रतिपत्तावित्येवमादि तस्यानुसन्धानवाक्यम् । तस्य शास्त्रस्य निःश्रेयसाधिगमेन सह सूत्रेण घटितस्य । कुतश्चिन्निमित्ताद्विघटनशङ्कायामनु सूत्रघटनायाः पश्चात्सन्धसनं घटनमनुसन्धानम्, तस्य वाक्यमनुसन्धानवाक्यमिति ॥ एवं किलात्र शङ्क्यते यदशक्यानुष्ठानोपायोपदेशकं तदनर्थकम्, यथा ज्वहरतक्षकचूडारन्तालङ्कारोपदेशकं वचनम् । तादृशं चेद शास्त्रमिति । तथा हि प्रमेयादीनां तावत्पदार्थानां तत्त्वज्ञानं प्रमाणतत्त्वज्ञानाधीनम् । न हि प्रमाणं तत्त्वेनानवधारितं बोधकत्वमात्रण स्वगोचरावधारणायालं तावन्मात्रस्य तदाभाससाधारण्यात्, अपि तु बोध कत्वैकार्थ समवेतेनाव्यभिचारित्वेन । तदेव हि प्रमाण्यम् । तच्चाशक्यावधारणम् । तदनवधारणाच्च प्रमेयादयो दुरवधारणाः । तथा हि विज्ञानस्च तावत्प्रामाण्यं स्वतो वा निश्चीयते, परतो वा? न तावत्पूर्वः कल्पः । न खलु विज्ञानमानात्मसंवेदनमात्मानमपि गृह्णीयात्, प्रागव तत्प्रामाणण्यम् । नापि विज्ञानान्तरम्, तद्विज्ञानमित्यव गृह्णीयात्, न पुनरस्याव्यभिचारित्वेम् । ज्ञानत्वमात्रं च तदाभाससाधारणमिति न स्वतः प्रामाण्यावधारणम् । एतेन स्वसंवेदननयेऽपि अव्यभिचारग्रहणं प्रत्युक्तम् । नापि परतः । परं हि तद्गोचरं वा ज्ञानमभ्युपेयेत, अर्थक्रियानिर्भासं वा ज्ञानम्, तद्गोचरनान्तरीयकार्थान्तरदर्शनं वा । तच्च सर्वं स्वतोऽनवधारितप्रामाण्यमाकुलं सत्कथं पूर्वं प्रवर्तकं ज्ञानमनाकुलयेत्? स्वतो वास्य प्रामाण्ये किमपराद्धं प्रवताकज्ञानेन येन तस्मिन्नपि तन्न स्यात् । न च प्रामाण्यं ज्ञायते स्वतः इत्यावेदितम् । यदा च संवेदनप्रामाण्यमक्तेन क्रमेण दुरधिगमं तदा कैव कथेन्द्रियादीनामव्यभिचारिसंवेदनकार्यव्यङ्ग्यप्रमाणभावानाम्? तदेव दृष्टार्थाः प्रमाणभृतां व्यवहारा भवन्तु सन्देहादपि यथातथा, अदृष्टार्थास्तु बहुवित्तव्यायायाससाध्या वैदिका व्यवहारा दत्तजला।जलयः प्रसक्ताः । तस्मात्प्रमाणादिपदार्थतत्त्वज्ञापनद्वारेण न शास्त्रं निःश्रेयसेन संबध्यत इति । सेयमाशङ्का प्रामाण्यज्ञानोपायकथनेनादिवाक्येन भाष्यकृता निराकृता । तथा हि प्रमाणमर्थवदिति नित्ययोगे मतुप् । नित्यता चाव्यभिचारिता । तेनार्थाव्यभिचारीत्यर्थः । इयमेव चार्थाव्यभिचारिता प्रमाणस्य यद्देशकालनरावस्थान्तराविसंवादोऽर्थस्वरूपप्रकारयोस्तदुपदर्शितयोः । अत्र हेतुः प्रवृत्तिसामर्थ्यात्समर्थप्रवृत्तिजनकत्वात् । यदि पुनरेतदर्थवन्नाभविष्यत्, न समर्थप्रवृत्तिमकरिश्यत्, यथा प्रमाणाभास इति व्यतिरेकी हेतुः । अन्वयव्यतिरेकी वा । अनुमानस्य स्वतः प्रमाणतया अन्वयस्यापि संभवात् । प्रवृत्तिजनकत्वं तु प्रमाणस्य न साक्षात्, किं त्वर्थप्रतिपत्तिजननद्वारेणेत्याह प्रमाणतोऽर्थग्रतिपत्ताविति । सर्वस्य चास्योपपत्तिं वार्त्तिकव्याख्यानावसरे निवेदयिष्यामः ॥ स्यादेतत् । भवन्तु प्रमाणादयः पदार्थाः शक्यज्ञानाः, शास्त्रेण तु ते नाभिधीयन्त इति न निःश्रेयसेन संगतिः शास्त्रस्येत्वत आहशास्त्रस्य पुरुषश्रेयोऽभिधायकत्वात् । यद्यपि श्रेयो दुःखनिवृत्तिमात्यन्तिकीं वक्ष्यति, तथापि सोपायैव सा अत्र श्रेयःशब्देन विवक्षिता, तन्मात्रस्य शास्त्राविषयत्वात् । तदयमर्थः । शास्त्रं तावदेतत्पुरुषश्रेयः सहोपायेनाभिधत्त इत्यनुभवसिद्ध सदशक्यानुष्ठानतयापवदितव्यम् । सा चेदशक्यानुष्ठानतापनीता प्रमाणत इत्यादिना संहितं निःश्रेयसेन सह शास्त्रमिति । शास्त्रस्येत्यादि ग्रहणकवाक्यं विवृणोतिशास्त्रं पुनरित्यादिना उपभोगात्प्रक्षयेणेत्यन्तेन । प्रमाणादिवाचकपदग्रहणेन तल्लक्षणानि च तत्परीक्षाश्वोपलक्षयति । तथा च पञ्चाध्यायी शास्त्रमित्यङ्क्तमित्यविरोधः । पञ्चाध्याचीत्यनेन व्यूहः समूहिनामुचितानुपूर्वी । उपलक्षकपदस्वरूपमाह पदं पुनरित । एमस्मृतिसमारूढा वर्णा एकार्थप्रतिपादनावच्छिन्नाः समूहः । एवं स्वार्थस्मृत्यवान्तरव्यापाराणां सूत्रपदानां नानापदार्थविशिष्टैकपदार्थरूपवाक्यार्थप्रत्यायनकार्यावच्छिन्नानां समूहो वेदितव्यः । एवं च क्वचित्केनचिदर्थेनैकेन सूत्रवाक्यानामेकवाक्यत्वं समूहः प्रकरणम् । प्रकरणानामपि कयाचित्स्वार्थसंगत्या समूह आह्निकम् । एवं तत्र तत्र वेदितव्यम् । एताश्च प्रकरणाह्निकाध्यायार्थसंगतीस्तत्र तत्र लेशतो दर्शयिष्यामः ॥ तदेवं शास्त्रस्वरूपं दर्ंशयित्वा नान्तरेण तदर्थकथनं पुरुषश्रेयोऽभिधायकत्वमस्रू सिध्यितीति तदर्थं कथयति तत्पदार्था इति । ननु प्रमाणादीनां प्रतिनरमानन्त्येन दुर्ज्ञानत्वमिति तदवस्थमेवानर्थक्यं शास्त्रस्य प्रसक्तमित्यत आह षोडशात्मानः । आत्मा स्वभावः प्रमाणादीनां प्रमाणत्वादिसामान्यविशेष इति यावत् । एतदुक्तं भवति । आन्तर्गणिकभेदादानन्त्येऽपि स्वसामान्यविशेषैः संगृहीता न दुर्ज्ञाना इति यतोऽस्य पदार्थाः प्रमाणादयः, तत्तस्मात्शास्त्रं पुरुषश्रेयोऽभिधत्ते ॥ स्यादेतत् । प्रमाणादयः पदार्थाः प्रामाणिका अप्रामाणिका वा? अप्रामाणिकत्वे कल्पनामात्रनिर्मिताः कथं निःश्रेयसाय कल्पन्ते? न य षोडशात्मानः कल्पनाः कोशस्यानन्तप्रसरत्वात् । प्रामाणिकत्वे वा प्रमाणादेव तत्सिद्धेः शास्त्रस्य वैयर्थ्यमित्यत आहप्रत्यक्षेति । प्रत्यक्षानुमानाधिगतग्रहणेनाप्रामाणिकत्वं निषिद्धम् । अत एव वस्तुतत्त्वमिति । प्रमाणादयः पदार्था नोपमानविषया इति नोपमानमुपन्यस्तम् । यद्यपि प्रमेयमात्माद्यपवर्गान्तलक्षणमागमिकं तथाप्यागमस्याप्तप्रणेतृकतया तत्रापि मूलभूतमनुमानं प्रत्यक्षं वास्तीति प्रत्यक्षानुमाने एव दर्शिते । ननूक्तं प्रामाणिकत्वे शास्त्रवैयर्थ्यमित्यत आह तस्य विषय इति । व्यवहरमाणा अपि प्रमाणैर्लौकिका वैनयिकबुद्धिविरहिणो नैतान् पदार्थान् विविञ्चते । अविविक्ताश्चेते न निःश्रेयसाय कल्पन्त इति अनधिगतेत्यङ्क्तम् । आध्यात्मिकी शक्तिः शुश्रूषादिः । पुरुषत्युक्तम् । तत्र विवक्षितं पुरुषविशेषं ग्रहीतुं संभविनः पुरुषप्रकारान् दर्शयतिपुरुषः पुनरिति । हेयं दर्शयतितत्रेति । उपादेयानाह इतर इति । अपेक्षा जिज्ञासा । सा सन्दिग्धस्य तावदस्ति विषयस्य । विप्रतिपन्नस्य तु साक्षिणां पुरतो जल्पवितण्डाभ्यां विष्यमाणस्य विगलितेऽहङ्कारे सन्दिग्धस्य स्जातजिज्ञासस्य सापेक्षस्य सतः । अप्रतिपन्नस्यापि केनचित्प्रकारेण सन्देहमापाद्य सापेक्षीकृतस्य प्रतिपाद्यता । तदिदमुक्तकितरे सापेक्षाः सन्तः प्रतिपाद्या इति । असन्दिग्धोऽपि तत्त्वप्रतिपादनाय कारूणिकेन सन्दिगधः कृत्वा प्रतिपाद्यत इति । तत्किं सापेक्षमाधिकृत्य शास्त्रं प्रवृत्तम्? तथा च प्रमातणां न प्रमाणान्तरे प्रवृत्तिः स्यादित्यत आह ते यदेति । कञ्चिद्विषयं जिज्ञासवो येदन्द्रियाद्यपेक्षन्ते, तदा प्रत्यक्षेण प्रतिपाद्याः । एवमुत्तरमपि योज्यम् । अयमभिसन्धिः, न दृष्टप्रयोजनोपयोगिवस्तुविज्ञासा इहापेक्षाभिमता, किं तु निःश्रेयसोपयोगिपदार्थजिज्ञासा । सा चास्मिन्नेव शास्त्रे प्रवृत्तिहेतुः नान्यत्र । तदिदमुक्तं यदा पुनरिति । परमपुरुषार्थयसधनं तु जिज्ञासव इति शेषः । इहाभिमतं श्रेयो निर्धारयितुं श्रेयोमात्रप्रमारानाहश्रेयः पुनः सुखमहितनिवृत्तिश्च । तत्राप्यवान्तरप्रकारानाहतच्छ्रेयः सुखन्दुःखनिवृत्तिश्च भिद्यमानं द्विधा व्यवतिष्ठते । तदाह दृष्टादृष्टभेदेन । न व्यासज्य किं तु प्रत्येकमित्याह दृष्टं सुख स्त्रक्चन्दनवनितादिभोगजन्म । अदृष्टं सुखं स्वर्गादि । एवं च दुःखनिवृत्तिरपि श्रेयो दृष्टामदृष्टं चेति योजनीयं चकारलोपात् । अहितनिवृत्तेः श्रेयस आत्यन्तिकानात्यन्तिकत्वेन दृष्टादृष्टस्य भेदमाहअहितनिवृत्तिरपीति । अभिमतं श्रेयो निर्धारयतिआत्यन्तिकीति । पुनरिति निर्धारणमवद्योतयति । आत्यन्तिकत्वं निर्वृत्तेर्निवृत्तस्य पुनरनुत्पादः । स च कार्यकारणतदनुषङ्गिनिवृत्त्या लक्ष्यते । न ह्यकारणं कार्यं जायते । तदिदमुक्तमेकविंशतिप्रभदभिन्दुःखहान्येति । गौणमुख्यभेदेन चैकविंशतेः शरीरदीनां दुःखत्वप्रकारानाहएवविंशतीति । षष्ठमिन्द्रियं मनः । तस्य विषय इच्छाद्वेषप्रयत्नाः । यद्यपि विषयः शरीरमपि तथाप्यन्यथास्य दुःखहेतुभाव इत्याह शरीरमिति शरीरावच्छिन्न आत्मप्रदेशो दुःखायतनमिति शरीरं दुःखायतनमुक्तम् । इन्द्रियविषयबुद्धदीनां दुःखत्वोपचारे कारणमाहैन्द्रियाणीति । तत्रेन्द्रियाणि तावद्गन्धादिविषयबोधनात्, विषया बोध्यत्वात् । बुद्धयस्तु साक्षाद्दुःखसाधनानीति दुःखत्वेनोपचर्यन्ते । संखस्य दुःखत्वोपचारबीजमाहसुखमिति । साधनपारतन्त्यं क्षयित्वं काम इति दुःखहेतवः सकलसुखानसङ्गिनः, तस्मात्सुखमपि दुःखानुषङ्गि । उक्तप्रकारदुःखहानसाधनमाहतस्य हानिरिति । संशयादितत्त्वज्ञानपरिशोधितपरमन्यायमार्गः खलु हेयोपादेयभूतद्वादशविधप्रमेयतत्त्वपरिभावनभवा प्रसंख्यानेन निर्मृष्टनिखिलप्रवृत्तिहेतुदोषानुषङ्गोऽप्रवर्तमानो न शरीरेन्द्रियादिहेतुमपूर्वधर्माधर्मप्रचयमातनोति । अनादि भवपरम्परोपत्तं च धर्माधर्मप्रचयमनन्तमप्यनियतविपाकसमयमपि प्रसंख्यानपरिपाकप्रभावात्परितस्तत्तदुपभोगभागिनः कायान्निर्माय तत्त्त्फलोपभागात्प्रक्षिणोति । अचिन्त्यसामर्थ्यातिशयो हि समाधिः । यथाहुरत्रभवन्तः, को हि योगप्रभावादृते अगस्त्य इच समुद्रं पिबति, स इव च दण्डकारण्यं सृजति? ॰ योगभाष्ये ॰ ८.१० इति । सेयमात्यन्तिकी दुःखनिवृत्तिः श्रेयः । तदिदमुक्तम्शास्त्रस्य पुरुषश्रेयोऽभिधायकत्वादिति ॥ स्यादेतत् । केवलस्य दुःखस्यात्यन्तिकी निवृत्तिः श्रेयः पुयषप्रवृत्त्यङ्गम् । इयं तु दुःखवत्सुखस्याप्यात्यन्तिकी निवृत्तिरिति कथं श्रेयः, कथं च प्रेक्षावत्प्रवृत्त्यङ्गमित्यत आहपुरुषा रागादिमन्त इति । यद्यपि रागादिमता पुथग्जनानामेतन्न प्रवृत्त्यङ्गम्, ते हि मधुविषसंपृक्तमप्यन्नं मधुरतया आपातरमणीयं विषविङ्गत्तु मारयतु मा व मीमरदुपयु।ज्महे तावदापातसुखम्, को हि हस्तगतं पादगतं करोतीति विचिन्त्योपभु।जते । विवेकिनस्तु आयतिमालोचयन्तः स्वर्गमपि कुपितफणिफणामण्डलच्छायप्रतिम इत्यपजहति । तेन मा भूदेतद्रागादिमतां प्रवृत्त्यङ्गम्, विवेकिनां तु भविष्यति । अविवेकिनामपि चाप्रतिपन्नविप्रतिपन्नानां विवेकाधानोपयः पूर्वमावेदितः । शास्त्रप्रवृत्त्यङ्गमात्रमेव चेह विवेको वैराग्यमभिमतमिति । प्रवृत्तेर्द्वैविध्यमैकरूप्यं द्वैरूप्यं च । पुरुषभेदो रागवैराग्याभ्याम्, प्राप्तव्यस्य सर्वस्य सुखस्य दुःखसंभेदेनानिष्टपक्षनिक्षेपादनिष्टप्रतिषेधार्थैव प्रवृत्तिर्विवेकिनामेकरूपैव । अविवेकिनां तु प्रवृत्तिर्द्विरूपेत्युक्तम् ॥ तदनेन प्रपञ्चेन प्रमाणतोऽर्थप्रतिपत्तवित्यादिवाक्यस्य तात्पर्यमभिधाय तदवयवं प्रवृत्तिसामर्थ्यादिति विवरीतुं भूमिमारचयतिप्रवृत्तेरपीति । दृष्टं प्रवृत्तिसामर्थ्यं हेतुरिति रागादिमत्प्रवृत्तिसामर्थ्यमुपन्यस्तम्, न तु वीतरागानाम्।न हि तत्प्रवृत्तेर्निः श्रेयसाध्गिमलक्षणफलसंबन्धो दृष्टो निःश्रेयसस्यालौकिकत्वात् । प्रमाणस्यार्थवदनर्थकत्वादित्ययुक्तम्, प्रमाणमनर्थकमिति हि विप्रतिषिद्धमित्यत आह प्रमाणं तावदिति । न ह्यप्रमाणमप्रमाणमिति गृहीतं प्रवृत्त्यै कल्पते । किं तर्हि? प्रमाणमिति । न चाप्रमाणे प्रमाणाभिमानो विना प्रमाणादिसाधर्म्यादिति तत्साधर्म्यं पृच्छतिकिं पुनरिति । उत्तरम्सामान्यपरिच्छेदकत्वम् । तद्विवृणेतिप्रमाणेनापीति । रजतविज्ञानमपि पुरोवर्ति शुक्लभास्वरं सद्द्रव्यं परिच्छिनत्ति, शुक्तिकाज्ञानमपि । केवलमेकस्मिन्नव विषये रजतसमारोपापवादाभ्यां बुद्धचोर्वाधकभाव इति भावः । तदेवमुभयतः प्रवृत्तिः समर्थात्प्रमाणादेव, नाप्रमाणादर्थव्यभिचारिण इत्याहसोऽयं प्रमातेति । ततश्च सिद्धः समर्थायाः प्रवृत्तेरनर्थवद्वचतिरेक इत्यभिसन्धिः । तथा च समर्था प्रवृत्तिरनर्थवद्वचतिरेकसंपन्नप्रमाणस्यार्थवत्त्वे हेतुरित्याहतस्याः समर्थायाः प्रवृत्तेर्हेतोः पुनः प्रमाणस्यार्थवत्त्वमर्थाव्यभिचारित्वम् । असमर्था त्वनन्तरापि न संबध्यते योगयताविरहात् ॥ संप्रत्यादिवाक्यमाक्षेप्तुमनुवदति प्रमाणत इति । आक्षिपतिपरस्परेति । समाधत्तेनेति । आक्षेपवाक्यं विभजतेयदि प्रमाणत इति । न तावदर्थप्रतिपत्तिः प्रवृत्तिहेतुरपि तु तद्विनिश्चयः । न च तन्मात्रम्, अपि तु तदर्थजातीयस्य श्रेयोहेतुतामसकृदुपलभ्य संप्रत्युपलभ्यमानस्यार्थस्य तज्जातीयतया श्रेयोहेतुभावानुमानसहितो विनिश्चयः प्रवृत्तिहेतुः । सेयं श्रेयःसाधनतानुमानसहिता प्रमाणतोऽर्थप्रतिपत्तिर्विनिश्चतिः समर्थप्रवृत्तिनिमित्तमुक्ता । न चार्थविनश्चयः प्रामाण्यावधारणमन्तरेण, प्रामाण्यावधारणं च श्रेयोहेतुतानुमाननिमित्तव्याप्तिग्रहणं च न समर्थां प्रवृत्तिं विना, न च समर्था प्रवृत्तिस्ताभ्यां विवनेति परस्पराश्रयता । तदिदमुक्तम्, चदि पूर्वं प्रमाणतोऽर्थप्रतिपत्तिः र्विनिश्चितिरपेक्षितोपयतानुमानसहिता प्रवृत्तिसमार्थ्यमन्तरेण किमिति प्रतिपद्यते निश्चिनोति अपेक्षितोपाय एवेति च तोयमेवेति चेति? समाधानं विभजतेतच्च नैवमिति । यत्तावदुक्तम्, प्रमाणस्य दुरवधारणत्वादर्थविनिश्चयाभावान्न प्रवृत्तिसामर्थ्यमिति, तत्र ब्रूमःसत्यम्, न स्वतः प्रामाण्यं शक्यावधारणम् । परतस्तु दृष्टार्थेष्वनभ्यासदशापन्नेषु प्रवृत्तिसामथ्यदिव तद्गम्यते । अर्थप्रतीत्यधीना तु प्रवृत्तिर्नार्थावधारणाधीना, अर्थसन्देहादपि प्रेक्षावतां प्रवृत्तेः । नो खलूपायताविनश्चयेनापि प्रवर्तमाना न अनागतफले सन्दिहते । तदमी संदिहाना अपि प्रवर्तमानाः प्रवृत्तिसमार्थ्यात्प्रमाणस्य तत्त्वं विनिश्चत्य तज्जातीयस्यान्यस्याभ्यासदशपन्नस्य प्रवृत्तिसमार्थ्यात्प्रागेव तज्जातीयत्वेन लिङ्गेन प्रामाझयावधारणातर्थविनिश्चयेन प्रवर्तन्ते । एवं च दृष्टार्थमन्त्रायुर्वेदप्रामाण्यं प्रवृत्तिसामर्थ्येनावधार्य तज्जातीयस्याप्तोक्तस्यादृष्टार्थस्य वेदस्य विनापि प्रवृत्तिसामर्थ्यं प्रामाण्यावधारणमाप्तोक्तत्वेन निवेदयिष्यते । न च फलज्ञानं परीक्ष्यते प्रेक्षावद्धिः, तस्य यादृशतादृशस्यापीष्टत्वादिष्टलक्षणत्वाच्च फलस्य तत्साधनत्वं ते परीक्षन्ते । तथा हि तोयज्ञानम्, पिपासोस्तत्र प्रवृत्तिः, प्रवृत्तस्य तदाप्तिः, आप्तस्य पानम्, पानेन चोदन्योपशान्तिरित्येतावतैव प्रमाता कृती भवति, न पुनरुदन्योपशममपि परीक्षते, तस्य यादृशतादृशस्यापीष्टत्वादिति केचित् । वयं तु ब्रूमः, फलज्ञानमप्यभ्यासदशापन्नतया तज्जातीयत्वेन लिङ्गेनावधृताव्यभिचारमेव । एवं तत्पूर्वं तत्पूर्वतरं तत्पूर्वतममिति । न च संप्रतितनस्य फलज्ञानस्य प्रामाण्यावधारणायेदानीमेव पूर्वस्य फलज्ञानस्य तज्जातीयत्वेन प्रमाण्यावधारणे सत्यनवस्थेति । वाच्यम् । पूर्वतरसाधर्म्येण पूर्वमेव पूर्वस्यावधृतप्रामाण्यत्वात् । एवं पूर्वतमसाधर्म्येण पूर्वतरस्य । एवं तत्पूर्वसाधर्म्येण पूर्वतमस्येत्यनादितयैवात्र परिहारः । एतेषु च मध्ये यत्फलज्ञानं स्वप्नाद्युपभोगतुल्यतया शङ्कितव्यभिचारं तदनभ्यासदशापन्नम् । अतः प्रवृत्तिसामर्थ्यं तत्र प्रामाण्यावधारणाय विनिवशनीयमित्यर्थप्रतिपत्तिप्रवृत्तिसामर्थ्ययोरनादित्वमुक्तम् । अनुमानस्य तु प्रवृत्तिसामर्थ्यलिङ्गजन्मनोऽन्यस्य वा निरस्तसमस्तव्यभिचारशङ्कस्य स्वत एव प्रामाण्यमनुमेयाव्यभिचारिलिङ्गसमुत्थत्वात् । न हि लिङ्गाकार ज्ञानं लिङ्गं विना, न च लिङ्गं लिङ्गिनं विनेति स्वत एव गृहीताव्यभिचालिङ्गसमुत्थं निष्कम्पमुपपद्यते ज्ञानम् । प्रत्यक्षज्ञानं त्वर्थादुत्पद्यमानमपि न गृहीताव्यभिचारात्, अपि तु सत्तामात्रेणावस्थितात् । न च कारणान्तराण्यपीन्द्रियादीनि अस्यार्थेन गृहीताव्यभिचाराणि न चार्थेनाव्यभिचाराणि । शाब्दं तु ज्ञानु नार्थादुत्पद्यते, तदभावेऽपि सति शब्दे भावात् । नापि लिङ्गस्येव शब्दस्यार्थाव्यभिचारः, किं तु सङ्केतग्रहणमात्रात्पदार्थप्रत्यायनेन वाक्यार्थमधिगमयति शब्दः । तस्मात्प्रत्यक्षशाब्दविज्ञानयोर्न स्वतोऽव्यभिचारग्रह इति । प्रवृत्तिसामर्थ्यं तज्जातीयत्वं वा लिङ्गमर्थाव्यभिचारायानुसरणीयम्, ज्ञानगततज्जातीयत्वलिङ्गग्राहिणश्च ज्ञानस्य मानसप्रत्यक्षस्य तादृशस्यादृष्टव्यभिचारतया परितो निरस्तसमस्तविभ्रमाशङ्कस्य स्वतः प्रामाण्यमिति नानवस्था । ऐतेनोपमानं व्याख्यातम् । संवेदनस्य चार्थावरुभिचारिताकथनेन तत्कारणानामिन्द्रियादीनामपि प्रमाणत्वमक्तं वेदितव्यम् । न ह्यव्यभिचारिविज्ञानजनकत्वादन्यदेषां प्रामाण्यम् । न चार्थव्यभिचारिणामिन्द्रियादीनां कथमर्थाव्यभिचारिविज्ञानजनकत्वमिति सांप्रतम्, कारणस्वभानियोगपर्यनुयोगयोरशक्यत्वात् । तस्मादर्थसन्देहादनभ्यासदशापन्नात्प्रमाणताऽर्थप्रतिपत्तौ प्रवृत्तिसमार्थ्यसंभवात्प्रवृत्तिसमार्थ्यज्ञानस्य चाभ्यासदशापन्नस्य तज्जातीयत्वेन प्रामाण्यानुमानादनभ्यासदशापन्नस्य तु प्रवृत्तिसामर्थ्यान्तरज्ञानेन प्रामाण्यानुमानादनादित्वान्नार्थप्रतिप्रवृत्तिसामर्थ्ययोः परस्पराश्रयत्वमस्तीति । अर्थस्यापेक्षितोपायतानुमानप्रवृत्तिसामर्थ्ययोः परस्परापेक्षत्वमवशिष्यते । तत्राप्यनादितापरिहारः । उत्पन्नमात्रकस्य हि बालकस्य स्तनं दृष्ट्वा प्राग्भवीयस्तज्जातीयापेक्षितानुभवजनितः संस्कार आविरस्ति । ततश्च स्मरणम् । ततोऽपेक्षितोपायतानुमानम् । ततः प्रवृत्तिः । ततस्तस्याः सामर्थ्यम् । एवं पूर्वस्मिन् पूर्वस्मिन् जन्मनीत्यनादितया न बीजाङ्कुरवत्परस्परापेक्षितेति । अर्थप्रतिपत्तिरिति । अर्थप्रतिपत्तिश्वार्थस्यापेक्षितोपायताप्रतिपत्तिश्चेत्यर्थः । तस्मात्सर्वमवदातम् ॥ तदनेनोक्तेन क्रमेण प्रमाणतोऽर्थप्रतिपतावित्यस्य शास्त्रानुसन्धानवाक्यत्व तात्पर्यं च समाहितम् । इदानीमस्यैव तात्पर्यान्तरमाहप्रमाणप्रवृत्योर्वेति । तत्रेदममाशाङ्क्यते मुनिर्हि प्रत्यक्षसंशयादिव्युत्पादनद्वारेण साक्षाच्चानेन शास्त्रेणान्वीक्षिक्पा हेयोपादेयभावावस्थितद्वादशविधप्रमेयव्युत्पादकं न्यायमनुमानपरनामानं निःश्रेयससिद्धये व्युत्पादयांबभूव । न च न्यायतः प्रमाणात्प्रमेयतत्त्वनिश्चयमात्रान्निःश्रेयसाधिगमः । अपि त्वाद्यन्तवर्ज्जं दशानां प्रमेयाणां दुःखसंज्ञाभावनम्, आत्मनश्च याथात्म्यभावनमित्यादिभ्यः प्रवृत्तिभ्य आत्मतत्त्वसाक्षात्कारवैराग्यपरिपाकक्रमेणापूर्वयोर्धर्माधर्मयोरनुत्पादेनोत्पन्नयोश्वोपभोगात् । प्रक्षयेणेति । तथा च निःश्रेयसं प्रत्यन्तरङ्गत्वात्प्रमाणान्न्यायात्प्रवृत्तिरेव बलीयसी, न न्यायः । तस्मात्प्रवृत्तिरेव व्युत्पादनीया न प्रमाणं निःश्रेयसहेतुरपि प्रवृत्तेरन्तरङ्गत्वात् । तत्रेदभुपतिष्ठते प्रमाणतोऽर्थप्रतिपत्तौ सत्या प्रवृत्तेः समार्थ्यं फलेनाभिसंबन्धो, न तु प्रमाणतोऽसत्यार्थप्रतिपत्तौ । तस्मादर्थवत्प्रयोजनवत्प्रमाणमपि प्रवृत्तिवदेव । एतदुक्तं भवति, यथान्तरङ्गतया प्रवृत्तिर्बलीयसी एवं मूलकारणतया प्रमाणमपि । न ह्यप्रमाणात्प्रवृत्तिः फलेनाभिसंबध्यते । तस्मात्तुल्यमुभयमपि । तथापि प्रमाणव्युत्पादनेन प्रवृत्तिरपि व्युत्पादिता भवतीति प्रमाणस्य व्युत्पादनमकारि शास्त्रेण, न तु प्रवृत्तेः । सामान्याभिधानं च परमन्यायपरम्, तस्यैव प्रकृतत्वादिति । प्रामाण्यज्ञानोपायप्रतिपादनपरतयानुसन्धानवक्यत्वमस्य पूर्वमुक्तम् । संप्रति परपर्यनुयोगमुखेनास्यानुसन्धानवाक्यत्वु प्रतिपादयति लोकवृत्तेति । यथा हि प्रमाणप्रतिपत्त्युपायं प्रत्याचक्षाणक एवं प्रष्टाव्यो जायते, किं भवान् प्रमाणेन प्रमाणज्ञानोपायं प्रत्याचष्टे, अप्रमाणेन वेति? यदि ब्रूयात्प्रमाणेनेति, स प्रतिवक्तव्यः, प्रमाणज्ञानोपायमविद्वान् कथं भवानेवमाहेति? अप्रमाणेनेति चेदनुज्ञया वर्तितव्यम् । अथ प्रमाणेनागृहीतप्रामाण्येनेति, वा।मनसयोर्विसंवादः । तस्मादनिच्छतापि त्वया लोकवृत्तमनुसरणीयम् । अन्यथा नासि लौकिको न परीक्षक इत्युन्मत्तवदुपेक्षणीयः स्या इति । तदिदं लोकवृत्तमाक्षेप्तारं बोधयितुमनेन भाष्येणानूद्यते प्रमाणतोऽर्थप्रतिपतौ प्रवृत्तिसामर्थ्यावत्प्रमाण यतोऽतः सर्वः प्रमाता प्रमाणेनावगतार्थवत्त्वेनार्थमवधार्य प्रवर्तमानः फलमुपलभत इति लोकवृत्तम् । तत्प्रमाणत इत्यादिना वाक्येन कारणप्रदर्शनद्वारेणानूद्यते ॥ अस्यैव भाष्यस्य तात्पर्यान्तरं वक्तु भूमिमारचयतिहेयहानेति । अर्थोऽर्थशब्दः प्रमाणतोऽर्थप्रतिपत्तावित्यत्र स्थितः पदं वायकं येषां तानि तथा । एतद्वात्तिकग्रन्थस्यैतादृशंव्याख्यानम्, भाष्यगतस्य त्वन्यथा भविष्यति । उपायः शास्त्रमिति । शास्त्रशब्दस्तदर्थपरः, अर्थस्यापि शब्दवच्छास्त्रशरीरत्वात् । अत्र च हेयहानाधिगन्तव्यपदैः प्रमाणप्रमेययोरूपादानाद्गोबलीवर्दन्यायेन संशयादिषु निग्रहस्थानान्तेषु शास्त्रपदं प्रवर्तते । तेनोपायपदेन संशयादयो निग्रहस्थानान्तो एवोक्ता इति । ग्रहणकवाक्यं विवृणेतिहेयमिति । तात्पर्यमाहएतस्मिंश्चेति । चेन प्रमाणप्रमाप्रमातृप्रमेयरूपं चतुर्वर्गान्तरमपि सूचयति । तत्र हेयादिचतुर्वर्गे चार्यमाणतयार्थपदसूचिते प्रमाणादिचतुर्वर्गे च प्रमाणस्य प्राधान्यप्रदर्शनार्थमिदं भाष्यम् । यद्यपि चतुर्वर्गद्वयतत्त्वावगमो निःश्रेयसाधिगमहेतुः, तथापि प्रमाणमेव प्रधानम्, तन्मूलत्वादितरसिद्धेः । तदिदमुक्तम्, अर्थवदिति । अतिशायने मतुप् । प्रमात्राद्यपेक्षया हेयाद्येपक्षया चातिशयेन प्रयोजनवत्प्रमाणम् । कस्मात्? प्रमाणतोऽर्थप्रतिपत्तौ सत्यां प्रवृत्तस्य प्रमातुस्तदितरप्रतिलम्भात् । प्रमायाश्च तत्कार्यत्वात् । तदिदमुक्तम्प्रवृत्तिसामर्थ्यादिति । तदेतस्मात्प्राधान्याद्विवक्षाभेदेन त्रिवर्गद्वयात्प्रागुद्देशः प्रमाणस्येति । एतेन यदाहुरेके यदि प्राधान्यात्प्राथम्यं तत्प्रमेयस्यैव, अथोषायत्वात्तत्संशयादीनाम्, तेषां प्रमाणोपायत्वात्, कस्माच्च प्रमात्रादिभ्यः प्राथम्यं प्रमाणस्येति? तन्निरस्तं भवति, प्रमाणोपायानामपि संशयादीनां प्रमाणाधीनत्वादिति । नन्ववगतम्, अर्थपदतया हेयादिचतुर्वर्गो दर्शित इतिः, प्रमाणादिचतुर्वर्गस्तु कथं प्रदर्शित इति पृच्छतिकथं पुनरिति । उत्तरं प्रमाणग्रमेयाधिगतय इति ॥ तदेवं तात्पर्यं व्याख्यायावयवार्थं व्याख्यातुमुपक्रमतेतदिदं वाक्यामवयवश उपन्यस्य वर्ण्यते व्याख्यायतेऽवयवश इति । तत्रास्यावयवेषु व्याख्यातव्येषु प्राथम्यात्प्रमाणत इति विवृणोतितत्रेति । विभजतेप्रमाणत इतीयं निमित्तपञ्चमी । निमित्तपञ्चमी चेत्कस्मात्प्रमाणादिति नाभिहितमित्यत आह अस्येति । प्रमाणत इत्येवंरूपस्याभिधानं वचनव्याप्त्यर्थं विभक्तिव्याप्त्यर्थं चेति । वचनव्याप्त्यर्थमिति मृश्यामहे, न तु विभक्तिव्याप्त्यर्थमिति, पञ्चमीव्यतिरेकेण तसेरभावादित्याहकथं पुनरिति? परिहरतिलभ्यत इति । व्याप्तेः प्रयोजनं पृच्छतिकिं सिद्धं भवतीति । उत्तरंवचनव्याप्त्या संप्लवो व्यवस्था च । तदुभयं विभजतेप्रमाणेनेति । यत्र द्वयोर्बहूनां वा संपल्वः प्रमाणानां तत्रैकैकस्याप्यस्ति प्रतिपत्तिसाधनत्वं प्रमाणस्येति कथयितुं संप्लवावसरेऽपि प्रमाणेनेत्यङ्क्तम् । अत एव व्यवस्थायामेवकारः प्रमाणेनैवेति । विभक्तिव्याप्तेः प्रयोजनमाहविभक्तिवयाप्त्या हेततुकरणभावः । गम्यते इत्यनुषज्यते । तद्विभजतेप्रमाणादर्थाधिगतिर्भवतीति हेतुत्वं गम्यते । प्रमाणेनार्थाधिगतिर्भवतीति करणरूपोऽर्थो गम्यत इति संबन्धः । कस्मात्पुनः करणार्थो गम्यत इत्यत आहप्रमाणेनेति । अर्थमर्थाधिगति साधयतीति साधकतमत्वात् । अत्र च करणभावनान्तरीयकस्य हेतुभावस्य पञ्चम्य अभिधानं प्रमाणफलयोस्तादात्म्यप्रतिषेधार्थम्, भेदाधिष्ठानत्वाद्धेतुफलभावस्य, न खलु परशुरेव च्छिदेति । प्रमाणप्रातिपदिकलब्धकरणत्वानुवादश्च प्रमाकारकान्तरेभ्योऽभ्यर्हितत्वेनास्य व्युत्पाद्यत्वं च प्राथम्यं च युक्तमिति दर्शयितुं संप्लवमाक्षिपतिसंप्लवेति । समाधत्तेनेति । आक्षेपु विभजतेस्यान्मतिरिति । विशिष्टो भिन्नो विषयो येषां तानि तथा । बहुवचनमान्तर्गणिकभेदाभिप्रायम् । अर्थसामर्थ्यसमुत्थं हि प्रत्यक्षमर्थगोचरम् । स एवार्थः प्रत्यक्षगोचरो यो ज्ञानप्रतिभासमात्मनोऽन्वयव्यतिरेकावनुकारयति । न च सामान्यं निरस्तसमस्तार्थक्रियासामर्थ्यमेवं भवितुमर्हति । स्वलक्षणं तु स्यात । तदेव हि परमार्थसत्, अर्थक्रियासामर्थ्यलक्षणत्वाद्वस्तुनः । एतदेवास्य स्वमसाधारणं लक्षणं यद्देशतोऽननुगमेनादेशात्मकस्य परमाणुत्वम्, कालतोऽननुगमेन च क्षणिकत्वम् । तस्मात्स्वलक्षणविषयं प्रत्यक्षम् । न च स्वलक्षणमनुमानस्यापि गोचरः । तद्धि गृहीतप्रतिबन्धलिङ्गहेतुकम् । प्रतिबन्णश्च तादात्म्यतदुत्पत्तिलक्षणः स्वलक्षणविषयोऽशक्यग्रह इति सामान्यधर्मावाश्रयते । न च सामान्यमेकमनेकदेशकालावस्थासंसर्गि भवितुमर्हति । तदिदमनादिवासनोद्भूतविकल्पधिष्ठानं विकल्पाकारस्य वा अलीकस्य वा बाह्यत्वमनुमानगाचरोऽभ्युपेयम् । तच्च भावाभावसाधारण्याच्च बाह्यसादृश्यच्च नियतप्रतिभासत्वाच्चान्यव्यावृत्तिनिष्ठम् । यत्खलु भावाभावसाधारणम्, तदन्यव्यावृत्तिनिष्ठमेव यथा अमूर्तत्वम् । तद्विज्ञानादौ भावे शशविषाणादौ चाभावे साधारणम् । भावाभावसाधारणश्च विकल्पगोचरोऽस्ति घटो नास्ति घट इति । यदि पुनरसाधारणो भावो भवेदस्तिशब्दो न प्रयुज्येत, पुनरुक्तत्वात् । नास्तीयपि न वक्तव्यं विरोधात्, एवमभावासाधारण्येऽपि वाच्यम् । न चालीकस्य सर्वसामर्थ्यविरहिणः परमार्थसत्ता स्वलक्षणेन सादृश्यं मन्यतेऽन्यव्यावृतेः । न च गौरिति नियतौ बुद्धिव्यपदेशौ विनाश्चादिव्यावृत्तिम् । तस्मात्सामान्यमन्यव्यावृत्तिरूपमबाह्यं बाह्यभेदाग्रहाद्बाह्यत्वेनावगाह्यमानमनुमानं बाह्यो प्रवर्तयति । पारम्पर्येण च बाह्यप्रतिबन्धाद्बाह्यं प्रापयत्संवादकं सद्भ्रान्तमपि प्रमात्राशयवशात्प्रमाणम् । तदस्य न स्वलक्षणं गोचरः । प्रत्यक्षमपित न सामान्यगोचरमित्यावेदितम् । न चाभ्यामन्यत्प्रमाणमस्ति, प्रमाणस्य सतोऽत्रैवान्तर्भावात्, अनन्तर्भावे वा प्रमाणत्वानुपपत्तः । न च सामान्यविशेषाभ्यामन्यदस्ति प्रमेयान्तरं यत्रैते तत्संप्लोष्येते इत्यर्थः ॥ समाधानवाक्यं विवृणोतिएतच्च नेति । यथा चैतत्तथा तत्र तत्र निवेदयिष्यते । विशेषो व्यवच्छेदकः । स च वक्रकोटरादिरन्त्यश्च । व्यवस्थासङ्करोदाहरणान्याहैन्द्रियवदिति । संप्लवममृष्यमाण आहअधिगतत्वादिति । समाधत्तेनान्यथेति । आक्षेपं विवृणोतियदीति ॥ स्यादेतत् । नास्ति वैयर्थ्यमधिगतीनामाशुतरविनाशितया तद्गोचराधिगत्यन्तरोत्पादं प्रति प्रमाणान्तरस्यार्थवत्त्वादित्यत आहअधिगतं चार्थमधिगमयता प्रमाणेनेति । यद्यप्यधिगतय आशुतरविनाशिन्यः, तथाप्येकतरप्रमाणजनितार्थाधिगलिब्धजन्मनः संस्कारादेव स्थायिनस्तदर्थस्मृतिसन्ततिसंभावादधिगमर्थमधिगमयता प्रमाणेन पिष्टं पिष्टं स्यादिति । समाधिवाक्यं विवरीतुमनुवदतिनान्यथेति । विवृणोतिन ब्रूम इति । अयमभिसन्धि, न हि प्रमाणकारणानि प्रेक्षावन्तिः, येनैवमालोचयेयुःजनितमेव प्रमाणमन्यमेनास्मासु, वयमिहोदास्मह इति । नापि स्वकारणबललब्धजन्मानि प्रमाणानि दिर्शितोऽयमर्थोऽन्यतमेन चास्मासु प्रमाणेन, कृतमस्माभिरिति विरन्तुमर्हन्ति । प्रमातुश्चेतनत्वादयमनयोग इति चेत्न, प्रियतमस्य वस्तुनोऽनेन भूयो भूयः प्रमित्सितत्वात् । अप्रमित्सितस्यापि च दुर्जनवचनादेः प्रमेयस्यानेन प्रमीयमाणत्वात् । तस्मान्न प्रमात्रभिसन्धानात्प्रमाणस्य प्रवृत्तिरप्रवृत्तिर्वार्थे, किं तु समार्थ्योत् । अन्यथाग्निदाहादिदुःखस्याप्रत्यक्षत्वप्रसङ्गः ॥ चत्तु प्रमाणं प्रमित्साधीनप्रवृत्ति तद्यदि प्रमाता न व्यापारयेत्किमायातं प्रमाणस्य? न हि तोयमपि पिपासुना न पीयत इति तस्य पिपासोपशमनशक्तिरपीति । तस्मात्प्रत्युत्पन्नकारणसामग्रीजनिता बुद्धिः प्रमा । तज्जनकानि च प्रमाणानि समानविषयाण्यपि । स एव चानेन सामग्रीभेदः प्रदर्शितः अन्यथा प्रत्यक्षेणेत्यादिना । यद्यपि साक्षात्कारासाक्षात्कारादिरपि प्रकारभेदोऽस्ति, तथाप्यसौ प्रकृतानुपयोगान्नोक्तः । यदि च द्रव्यं त्वचा गृहीतमिति कृतं चक्षुषा, चक्षुषा वा गृहीतमिति कृतं त्वचेत्युच्येत, न रूपविज्ञानं वा स्पर्शविज्ञानं वोपजायेत । तदर्थं चक्षुर्वा त्वग्वाम्युपेतव्यम् । तथा च संप्लववैयर्थ्येऽपि व्यवस्थायां न वैयर्थ्यमित्याहविषयान्तर इति । प्रकृतमुपसंहरतितस्मादिति ॥ विभक्त्यर्थं निरूप्य प्रातिपदिकार्थनिरूपणमवतारयतिप्रमाणेति । अत्र चावधार्यतेऽनेनेत्यवधारणं विचार इति । विचारणाय भावभवितारौ पृच्छति किं पुनरिति । केचिदाहुः, अनधिगतार्थगन्तृ प्रमाणमिति । विषयसारूप्यं साकारस्य विज्ञानस्येत्यन्ते । विज्ञानस्यैवानाकारस्यात्मानामप्रकाशनसामर्थ्यमित्यपरे । उपलब्धिसाधनमिति वृद्धाः । तस्माद्विप्रपित्तेः संशयात्प्रश्र्नः । भावप्रश्र्नव्याख्यानेन भवितृश्नो वयाख्यातः । उत्तरमुपलब्धिहेतुः प्रमाणम् । न च संशयविपर्यासरूपोपलब्धिकारणयोः प्रसग्डः, अर्थवदित्यधिकारत्, तयोश्वेपदर्शितार्थव्यभिचारेणानर्थवत्त्वात् । नो खलु विकल्पयमानं वस्त्वस्ति, अर्थक्रियासु वोपयुज्यते ॥ स्यादेतत् । स्मृतिहेतोरपि प्रामाण्यप्रसङ्गः । न ह्यसौ नोपलब्धिहेतुः । न चार्थसहकारि प्रमाणमिति संस्कारस्यार्थसहकारिताविरहादप्रामाण्यमिति सांप्रतम्, नदीपूरस्य पिपीलिकाण्डसंचरणस्य चातीतानागतवर्षलिङ्गस्य, शब्दस्यातीतानागतगोचरस्यार्थसहकारिताविरहिणश्चप्रमाणत्वप्रसङ्गात् । ज्ञापकत्वेन कार्यत्वेन वा कथञ्चिदर्थसंबन्धे संस्कारस्यापि तत्समानमिति तस्यापि स्मृतिरूपोपलब्धिहेतोः प्रामाण्यं प्रसक्तम् । मैवम्, प्रमाणशब्देन तस्यापास्तत्वात् । प्रमासाधनं हि प्रमाणं न च स्मृतिः प्रमा । लोकाधीनावधारणो हि शब्दार्थसबन्धः । लोकश्च संस्कारमात्रजन्मनः स्मृतेरन्यामुपलब्धिमर्थाव्यभिचारिणीं प्रमामाचष्टे । तस्मात्तद्धेतुः प्रमाणमिति न स्मृतिहेतौ प्रसङ्गः । अनधिगतार्थगन्तृत्वं च धारावाहिकविज्ञानानामधिगतार्थगोचराणां लोकप्रसिद्धप्रमाणभावानां प्रमाण्यं विहन्तीति नाद्रियमहे । न च कालभेदेनानधिगगोचरत्वं धारावाहिकानामिति युक्तम्, परमसूक्ष्माणां कालकलाभेदानां पिशितलोचनैरस्मादृशैरनाकलनात् । न चाद्येनैव विज्ञानेनोपदर्शितत्वादर्थस्य प्रवर्तितत्वात्पुरुषस्य प्राप्तित्वाच्चोत्ततेषाम्, अप्रामाण्यममेव विज्ञानानामिति वाचयम् । न हि विज्ञानस्यार्थप्रापणं प्रवर्तनादन्यत्, न च प्रवर्तनमप्यर्थप्रदर्शनादन्यत् । तस्मादर्थप्रदर्शनमात्रव्यापारमेव ज्ञानं प्रवर्तकं प्रापकं च । प्रदर्शन च पूर्ववदुत्तरेषां विज्ञानामभिन्नमिति कथं पूर्वमेव विज्ञानं प्रमाण नोत्तराण्यपि? पुरुषापेक्षया तु प्रामाण्ये चन्द्रतारकादिविज्ञानस्य पुरुषानपेक्षितस्याप्रामाण्यप्रसङ्गः । न चातिदवीस्तया तदर्थस्य हेयतया तदपि पुरुषस्यापेक्षितम्, तस्योपेक्षणीयार्थविषयत्वात् । न चोपेक्षणीयमप्यनुपादेयत्वाद्धेयमिति निवेदयिष्यते । उपलब्धिहेतुं च प्रमाणं वदता अनधिगतार्थगन्तृत्वं चार्थसारूप्यं चात्मानात्मप्रकाशनशक्तिश्च प्रमाणमिति निरस्तानि भवन्ति । उपलब्धिमात्रस्यत्वाद्धेयमिति निवेदयिष्यते । उपलब्धिहेतुं च प्रमाणं वदता अनधिगतार्थगन्तृत्वं चार्थसारूप्यं चात्मानात्मप्रकाशनशक्तिश्च प्रमाणमिति निरस्तानि भवन्ति । उपलब्धिमात्रस्यार्थाव्यभिचारिण स्मृतेरन्यस्य प्रमाशब्देनाभिधानात् । हेतुग्रहणेन सारूप्यशक्त्योः फलादभिन्नयोरपाकरणाथेतुहेतुमद्भावस्य तादात्मयेऽनुपपत्तेरिति । उपलब्धिहेतुत्वे च प्रमाणत्वम् । भवितृव्याख्यानेन भावो व्याख्यातः । तदेवं ज्ञानमज्ञानं वा उपलब्धिहेतुः प्रमाणम् । तस्य भावस्तत्त्वमिति स्थितम् ॥ तदेतदतिव्यापकत्वेनाक्षिपतिसमानत्वादिति । समाधत्ते अयं विशेष इति । अयमर्थः, सर्वः कर्त्ता करणगोचरव्यापारो न तु साक्षात्फले व्याप्रियते । करणं च द्विधा सिद्धमासिद्धं च । तत्र सिद्धं परश्वादि दारूद्वैधीभावायोद्यम्योद्यम्य दारूणि निपातयन् दारू च्छिनत्तीत्युच्यते । न तु साक्षात्कर्तृव्यापारगोचरो दारूद्वैधीभावः, किं तु स्पर्शवद्वेगवतः करणीभूतस्य परशोः संयोगस्योद्यमननिपातनलक्षणस्तु कर्तृव्यापारः परशुगोचर एव । एवं स्वर्गकामोऽपि कर्ता न साक्षात्स्वर्गे व्याप्रियते, किं तु तत्करणं यागमसिद्धं साधयति । स्वर्गस्तु यागव्यापारादेवापूर्वाभिधानात्चेतनाश्रयाद्देशकालावस्थाभेदासादितपरिणतिविशेषात्साक्षादुत्पद्यते । तद्वदिहापि प्रमाता सिद्धमिन्द्रियादि, असिद्धं च तत्सन्निकर्षादि व्यापारयन्नुत्पादयन् वा करण एव चरितार्थः । करणं त्विन्द्रियादि तत्सन्निकर्षादि वा नान्यत्र चारितार्थमिति साक्षादुपलब्धावेव फले व्याप्रियते । प्रमेयस्य तु प्रत्यक्षादन्यत्रोपलब्धिहेतुभाव एव तावन्नास्ति, तत्रापीन्द्रियसंबन्धमात्रे उपयुज्यते प्रमेयम् । इन्द्रियमेव तु तत्तत्सन्निकर्षादि वा साक्षात्प्रमाहेतुः । ततः सिद्धमेतत्न प्रमाता साक्षात्प्रमाहेतुः कर्तृत्वात् । यो यः कर्ता स सर्वो न साक्षात्फलहेतुः, यथा व्रश्चनयजमानादिः । तथा चायम् । तस्मात्तथा । तथा प्रत्यक्षं प्रमेयं न साक्षात्प्रमाहेतुः, प्रमेयत्वात् । यद्यत्प्रमेयं वत्तत्सर्वं न प्रमाहेतुरनुमेयादिवत् । तथा चैतत् । तस्मात्तथेति । तदिदं प्रमातृप्रमेययोः प्रमाणे चरितार्थत्वमचरितार्थत्वं च प्रमाणस्य, तस्मात्तदेव फलहेतुः । प्रमातृप्रमेये तु फलोद्देशेन प्रवृत्ते इति तद्धेतू कथञ्चिदिति । चोदयति अकरणेति । नाकरणः कर्ता प्रमाणमपि व्याप्तुमर्हतीत्यर्थः । परिहरतिन, इन्द्रियार्थेति । यदा ज्ञानं प्रमाण तदा ज्ञानस्य प्रमाणस्योत्वत्तावित्यर्थः । पुनश्चोदयतियदि तर्हाति । परिहरतितस्मिन्नपीति । चोदयतियदि प्रमातृप्रमेयाभ्यां सद्भ्यां प्रमाणमिति । प्रमाणमन्तरेण प्रमाया अभावात्प्रमातृप्रमेययोः असिद्धिरित्यर्थः । पृच्छतिकथमिति । उत्तरम्प्रमाणमितीति । अर्थ स्वरूपमात्रमेव कारकं कस्मान्न भवति, तच्च क्रियासंबद्धस्य पुरस्तादप्यस्तीत्यत आहन च द्रव्यमात्रमिति । अस्तु तर्हि तदीयोऽवान्तरव्यापारः प्रधानक्रियायां साध्यायां कारकम्, तस्यापि प्रधानक्रियायां निमित्तत्वादित्यत आहन च क्रियामात्रमिति । न हि स्वरूपेण देवदत्तो व्रश्चनः, नापि तदीयो व्यापार उद्यमननिपातनादिर्लोष्ठाद्याश्ररूः । क्व तर्हि कारकशब्दः प्रवर्तत इत्यत आहकारकशब्दो हीति । प्रधानक्रियासाधने हेतौ अवान्तरक्रियाविशेषयुक्ते कारकशब्दः प्रवर्तते । द्वैधीभावे हि फले प्रधानव्यापारे कर्तुः करणगोचर उद्यमननिपातनादिः अवान्तरव्यापारः । कर्मणश्च दारूणः स्पर्शवद्वेगवत्तीक्ष्णतरकुठारसयोग एवावान्तरव्यापातः । तेन हि दारू स्वावयवपरिस्पन्दलब्धजन्मनोऽवयवविभागाद्द्वैधीभावमनुभवति । तस्मादवान्तरप्रधानव्यापारसंपन्नं कारकमिति सामान्यतः प्रसाध्य प्रकृते योजयतिप्रमातृप्रमेयशब्दौ चेति । तावन्रेण क्रियां प्रधानक्रियामित्यर्थः । परिहरतिन, पाचकादिशब्दवदिति । लोकाधीनावधारणः खल्वयं शब्दार्थसंबन्धः । लोकश्चातीतानागतवर्तमानक्रियासंबन्धमात्रविवक्षया कारकशब्दान् प्रयुङ्क्ते, पाचकमानय पक्ष्यतीति च, पाचकोऽयमपाक्षीदिति च, पाचकोऽयं पचतीति च तुल्यवत्त्रैकाल्यविषयप्रयोगदर्शनम् । तत्कस्य हेतोरपचत्यपि पाकसंबन्धं प्रत्यस्ति स्वरूप्शक्तिर्देवदत्तादाविति? द्वयी हि शक्तिः कारकाणां कार्योपजननं प्रति स्वरूपं च सहकारिग्रामसमवधानं च । तत्रासत्यपि सहकारिग्रामसमवधाने कारकशब्दानां प्रवृत्तेः, सत्यपि च स्वरूपे त्रेकाल्यव्यापिनि त्रेकाल्ययोगिकार्यासंभवेऽप्रवृत्तेः त्रैकाल्ययोगिकार्योपहितमर्यादमेव स्वरूपं कारकशब्दानां प्रवृतौ निमित्तमिति । असत्यपि प्रत्युत्पन्नप्रमाहेतुप्रमाणसंबन्धे प्रमातृप्रमेयशब्दयोः प्रवृत्तिरिति उपपन्नं प्रमातृप्रमेयाभ्यां प्रमाण जन्यत इति । तत्प्रमाणमुपलब्धिसाधनं साक्षात्, न प्रमातृप्रमेये इति सिद्धम् ॥ सत्यपि चोपलब्धिसाधनत्वे प्रमातृप्रमेययोरूपब्धिहेतुरित्यत्राप्रसङ्ग, साधाकतमासाधकतमयोः साधकतमे कार्यसंप्रत्ययात्सातिशयत्वेनोद्भूतत्त्वात्तस्येत्याहसाधकतमत्वाद्वेति । साधकतमार्थं पृच्छतिकः पुनरिति । उत्तरम्प्रमाणस्य भावाभावयोः प्रमायाः कार्यस्य तद्वत्ता भावाभाववत्ता साधकतमार्थः । लक्ष्यलक्षणयोरभेदविवक्षया सामानधिकरण्यम्, न तु प्रमातृप्रमेयान्वयव्यतिरेकानुविधानमप्यस्ति प्रमाया अन्वयव्यतिरेकयोरित्यत आहन प्रमातरीति । प्रमातृप्रमेयाभ्यां सह प्रमोत्पादस्यान्ययोगव्यवच्छेदेन संबन्धः । प्रमाणेन तु संबन्धः प्रमोत्पादस्यायोगान्ययोगव्यवच्छेदाभ्यामित्यतिशयः प्रमाणस्य । प्रमातृप्रमेये हि प्रमाणोपक्षीणवृत्तिनी न प्रमायां व्याप्रियेते । तेनान्तरायसंभवन्नावश्यं प्रमातृप्रमेयव्यापारे सति प्रमा भवति । प्रमाणस्य व्यापारे तु प्रमा भवत्येवेति कल्पान्तरमाह यद्वान् वा प्रमिमीते सोऽतिशयः । प्रमिमीत इति स्वतन्त्रं कर्तारं दशयति प्रतिपाद्यात्करणाद्व्यवच्छेत्तुम् । यद्वानेवेति च सावधारणाम् । तत्र यद्वानिति कर्त्रन्तरं व्यवच्छिनत्ति । न हि कर्ता कर्तृमान्, किं तु प्रमाणवान् । स्वतन्त्रो ह्याश्रयः परतन्त्रेणाश्रीयते । कर्त्रधीनं हि करणमित्यावेदितम् । प्रमाता प्रमेयवानपि क्वचिद्भवेत्तत्तन्त्रत्वात्प्रमेयस्य । न तु प्रमेयवानेव, अनुमानादिषु प्रमेयस्यातीतत्वादिना तद्वत्ताविहात् । न तु लिङ्गदिज्ञानवान्न कदाचिदित्यवधारणफलम् । सोऽयं विशेषः प्रमातृप्रमेयाभ्यां प्रमाणस्य । अस्यैव च विशेषस्यातिशयत्वमन्वयव्यतिरेकाभ्यामादर्शयति प्रमाणे सतीति । कल्पान्तरकाह सतार्वेति । पूर्वेण भावप्रधानोऽतिशयो यादृशस्य दर्शितः, तादृशस्यैवेह व्यतिरेकप्रधानोऽतिशय इति विशेषः । अकर्तृत्वमहेतुत्वमित्यर्थः । कल्पान्तरमाहसंयोगवच्चरमभाविता वा । सेतिकर्तव्यताकं हि व्याप्रियमाणं करणम्, न तु चक्षुरादिस्वरूपम् । करणादिशब्दप्रवृत्तिनिमित्तमात्रं तु स्वरूपं स्यादिति पूर्वमावेदितम् । तच्च सिद्धमसिद्ध वा प्रमातृप्रमेयव्यापारस्य पश्चादेव तथात्वेन संपद्यत इति चरमभावीत्युच्यते । सोऽयमस्य चरमभावितातिशयः, तथा तन्तूनां पटे जनयितव्येऽन्त्याः संयोगभेदा यदनन्तरं पट उत्पद्यत एवेति । कल्पान्तरमाह प्रपिपत्तेरानन्तर्य वा । यत एव प्रमाणं चरमभावि, अत एव तदनन्तरं प्रतिपत्तेः प्रमाया भावात् । प्रतिपत्तेरानर्न्यमेव प्रमाणस्यातिशयः । स चेति । चोऽवधारणे । इदमपि लक्ष्यलक्षणयोरभेदविवक्षयोक्तम् । कल्पान्तरमाहअसाधारणकारणता वा । चतस्त्रः खल्विमाः प्रत्यक्षादिप्रमियो भिन्नबुद्धिव्यपदेशभाजोऽनुभूयन्ते । न च प्रमाता तद्भेदहेतुः, स्य साधारण्यात् । न च प्रमेयमेकस्यापि प्रमेयस्य संप्लवे सर्वप्रतिपत्तिसाधारण्यात् । प्रमाणानि तु यथायथं चतसृष्वपि प्रमितिष्वसाधारणानीति भिन्नबुद्धिव्यपदेशनिबन्धनानि । तदिदमसाधारण्यमतिशयः । अशेषः पुरुषः प्रमातात्र विवक्षितः । कल्पान्तरमाह प्रमाकारणेति । प्रमाया असमवायिकारण खल्वात्ममनःसंयोगः । स च सर्वप्रमासोधारणः । नासौ प्रमात्रा प्रमेयेण वा शक्यो विशेष्टुम्, तयोरपि तद्वदेव साधारण्यात् । असाधारणं तु प्रमाणं यथायथमात्ममनःसंयोगमवच्छिनत्ति । एवे सुखादिप्रमेयाणामपि मन एवासाधारणं व्यवच्छेदङ्क द्रष्टव्यम् । सोऽयमस्यातिशयः । अतिशयातिशयिनोरभेदविवक्षया अतिशयशब्दवाच्यमित्युक्तम् ॥ क्रमप्राप्तमर्थग्रहणं तात्पर्यतो व्याचष्टे अर्थग्रहणमिति । कस्मात्पुनर्निषिध्यते प्रमाणविषया प्रतिपत्तिरित्यत आहयतो न प्रमाणविषयेति । इतिकर्तव्यता अनुष्ठानम्, तस्मिन् । अर्थ्यत इत्यर्थः, तोयकण्टकादिः । तस्य तथामावोऽर्थनीयत्वम् । तच्च सुखदुःखसाधनत्वम् । सुखसाधनं खलूपादेयत्वेन दुःखसाधनं च हेयत्वेनार्थ्ये । तात्पर्यान्तरमाहौपेक्षणीयेति । उपेक्षणीयविषये प्रमाणे प्रवृत्तिसामर्थ्यं नास्तीति तत्प्रतिषध्यते । न च तदप्रमाणमिति । तस्यापि दृष्टप्रमाणसाधर्म्येण लिङ्गेन प्रामाण्यानुमानादिति । चोदयतिप्रमाणागहणमिति । समर्थप्रवृत्तिजनिका हि प्रतिपत्तिर्नाप्रमाणाद्भावतीत्यर्थादेव प्रमाणादिति गम्यत इत्यर्थः । परिहरतिन प्रमाणविशेषज्ञापनार्थत्वात् । अयमभिसन्धिः, प्रवृत्तिसामर्थ्येन हि कार्येण प्रमाणस्यार्थवत्त्वमनुमातव्यम् । न चैतत्साक्षात्प्रमाणस्य कार्यम्, किं त्वर्थप्रतिपत्तेः । तदनन्तरं हि समर्था प्रतिपत्तिरूपजायते । अर्थप्रतिपत्तिस्तु प्रमाणकार्येति समर्था प्रवृत्तिः प्रमाणकार्या सती प्रमाणस्यार्थवत्त्वमनुमापयति । तस्मादर्थगम्यमपि प्रमाणमर्थप्रतिपत्तिकरणत्वेन द्योतनीयम् । अन्यथा प्रमाणमर्थवदर्थप्रतिपत्तेः मसर्थप्रवृत्तिजनकत्वादिति किं केन संगतम्? प्रमाणस्य विशेषः प्रमाणभासाद्व्यावृत्तिः, तस्य ज्ञापनम् । स एवार्थो यस्य प्रमाणग्रहणस्य तत्तथोक्तम् । तस्य भावस्तत्त्वम् । तस्मादेतदुक्तं भवतिप्रमाणकार्याया अर्थप्रपित्तेः प्रवृत्तिसामर्थ्यं न तदाभासकार्यायाः । तस्मात्प्रमाणस्यार्थवत्त्वं गम्यत इति । तदिदमुक्तम्तद्येह प्रमाणेन प्रतिपत्तिः सा प्रवृत्तिसामर्थ्यं प्रतिपादयति प्रमाणम् । अयमर्थः । प्रमाण कर्तृ, प्रवृत्तिसमार्थ्यं प्रतिपद्यमानं प्राप्नुवत्तत्प्रतिपादयति प्रापयति प्रमाणकार्यार्थप्रतिपत्तिरिति । इदमपि प्रमाणग्रहणस्य प्रयोजनमित्याह न च प्रमाणग्रहणमिति । एकदेशिव्याख्यानमुपन्यस्यतिसुखेति । न केवलं सुखदुःखहेतुत्वादर्थ्यमानत्वात्ज्ञायमानत्वाच्च । दूषयतिनेति । सर्वस्य सुखदुःखतद्धेतुत्वेन हेयपक्षनिक्षेपातुपादेयानां प्रमाणशास्त्रापवर्गाणानामभावप्रसङ्गाद्व्याघातः । अविवक्षितत्वाच्चेति । चशब्दसमुच्चितमशक्यहानत्वं हेत्वन्तरमादर्शयति न च प्रमाणादिहानमिति । सुखदःखतद्धेतवो हि हेयाः सने हानोपायमपेक्षन्ते । न च प्रमाणादेरन्यः तदुपायः संभवति । न च प्रमाणादिः स्वोच्छेदाय पर्याप्तः । न चास्मादपवर्गो नाधिगम्यते । तस्मान्न शक्यं प्रमाणादिना प्रमाणदिहानमिति । न चैतन्निःश्रेयसहेतुं शास्त्रं प्रणयतः सूत्रकारस्य तदनुवर्तिनो वा भाष्यकारस्य विविक्षितमित्याहन च प्रमाणादिहानं विवक्षितम् । तस्मादस्मद्वचाख्यानमेव शोभनमित्याहकिं त्विति । प्रवृत्तिसामर्थ्याधानयोग्यवममधिकारः । तस्मात्सुखदुःखतद्धेतुरूपार्थप्रतिपत्तिरेव हि समर्थां प्रवृत्तिमाधत्ते, न त्वर्थमात्राप्रतिपत्तिरित्यर्थः । न केवलं व्याघाताशक्यहानाविवक्षितत्वैरर्थपदेन न सर्वसंग्रहोऽशक्यत्वादपि न सर्वसंग्रह इत्याहन संविद इति । सुखदुःखतद्धेतुतया न संविदो ग्रहणं संग्रहः सर्वमध्यपतिताया अपि । कुतः? अनधिकारात्, सुखदुःखतद्धेतुयोग्यताविरहात् । नाप्यर्थ्यमानत्वेन संग्रह इत्याहअकर्मत्वाच्च । न तावत्सर्वा एव संविदः संविद्गोचरा मनोयोनयः, संवेद्या भवितुमर्हन्ति । एकनीलविषयसंवित्परम्परामात्र एव पुरुषायुषसहस्रपर्यवसानात्, विषयान्तरसंचाराभावप्रसङ्गाच्च । तस्मादनवस्थाभयादन्ते कस्याश्चित्संविदोऽसंवेद्यतया फलमात्रत्वमभ्युपेयम् । तथा च सा नार्थ्यते । न च सुखदुःखे तत्रेतुरिति न सर्वसंग्रहः संविदोऽसंग्रहादित्यर्थः । तदेवमादिवाक्य व्याख्याय भाष्यवाक्यान्तरमवतार्य तत्रैकदेर्शिव्याख्यानं दूषयितुमुपन्यस्यतिसोऽयं प्रमाणार्थ इति । दूषयतिनोभयस्यापि परिसंख्यातत्वात्, अर्थस्तु सुखमित्यादिना भाष्यग्रन्थेन । कार्यकारणाभ्यामुभयत्वम् । प्राणभृद्भेदस्यापरिसंख्येयत्वादिति च हेतुः श्वेतः प्रासादः काकस्य कार्ष्ण्यादितिवन्न प्रतिज्ञार्थेन सङ्गच्छते इत्याहप्राणभृद्भेदस्य चेति । तदेतदेकदेशिमतदूषणमस्मिन् व्याख्याने नास्तीत्याहनार्थशब्दस्येति । चन्द्रनादिविषयं प्रमाणं सुखप्रयोजनमेव, कण्टकादिविषयं च प्रमाणं दुःखोत्पादप्रयोजनमेवेत्येतदुभयं परिसंख्यातुं नियन्तुमशक्यमित्यर्थः ॥ एवं किलात्र शङ्क्यते, सुखदुःखहेतुभावो वस्तूनां स्वाभाविको भवेन्न वा? स्वाभाविकत्वे नील इव सर्वान् प्रत्यर्थः सुख इति करभवन्मनुष्याणामपि कण्टकः सुखः स्यात् । एवं निदाधेऽपि कुङ्कुमं सुखं स्यात् । चन्दनं च हेमन्ततेऽपि सुखं भवेत् । एवं तृष्णज इवापां सुहितस्यापः सुखाः प्रसज्येरन् । अस्वाभाविकत्वे त्वनादिवासनावैचित्र्यलब्धजन्मपुरुषधर्मकल्पनानुपातिनः सुखदुःखादयो न प्रमाणप्रयोजनं भवितुमर्हन्तीति । तत्रेदमुपतिष्ठतेसोऽयंप्रमाणार्थ इति । निवेदयिष्ये हि क्षणभङ्गाधिकारे तथा स्थेमभाजामपि वस्तुनामक्रमाणामपि क्रमवत्सहकारिकारणसमवधानवशादुपजनापायधर्माणः क्रमवन्तो धर्मा भवन्तीति, तदिहापि । यद्यपि न जात्या सुखदुःखहेतुभावो भावनां भवति, तथापि जातिदेशकालावस्थापुरुषभेदसहकारिसमवधानादुपपत्स्यतेसुखदुःखहेतुभावोऽव्यवस्थयेति भावः ॥ तत्सिद्धमेतत्, प्रमाणार्थोऽनियतः, अनियतप्राणभृद्भेदहेतुकत्वात् । यद्यदनियतकारणकं कार्यं तत्वसर्वमनियतमेव, यथा अनियतकालमेघोदयनिबन्धनं वर्षम् । तथा चायम् । तस्मादनियत इति । कस्मात्पुनः प्रमात्रादिचतुर्वर्गे प्रमाणस्यैवार्थवत्त्वमुच्चेत न प्रमात्रादीनामपीत्याशङ्कानिराकरणार्थं भाष्यमनुवदन्नेव व्याचष्टे अर्थवति च समर्थे सम्यगर्थेऽर्थाव्यभिचारिणीति यावत् । प्रमाणेऽर्थवन्ति भवन् सिमर्थानि सम्यगर्थानि प्रमात्रादीनि । अर्थस्य तु सम्यक्त्वमिदमेव यद्यादृशः प्रमाणेनोपदर्शिस्तस्य तथात्वं न पुनरन्यथाभाव इति । यदा त्वादिभाष्यवाक्येऽर्थशब्दः प्रयोजनवचनः, तदैवं व्याख्यानमर्थवति च प्रयोजनवति च यतः समर्थं शक्तं प्रमाण प्रतिपत्त्यादिक्रमेण पूर्वोक्तेन प्रयोजनं प्रति, अतः समर्थे प्रमाणे प्रमात्रादीन्यर्थवन्ति प्रयोजनवन्ति भवन्ति, यतस्तान्यपि प्रमाणवदेव समर्थानि शक्तानि प्रयोजनं प्रतीति, अत्र हेतः अन्यतमापाय इति । तस्यार्थं व्याचष्टेअन्यतमत्वार्थ इति । नन्वन्यतमशब्दो बहुष्वनिर्धानितविशेषमेकमाह, न तु साधकतममित्यत आहप्रमारणादिति । साधारणशब्दो हि प्रमरणाद्विशेषे वर्तते । तद्यथा शिविकावहनपक्रमे पुरुषमानयेति पुरुषशब्दो विष्टौ । तद्वदिहापि प्रमात्रादिपरिहाण्या प्रमाणस्यार्थवत्त्वाभिधाननियमप्रक्रम इति प्रमात्रादिभ्यः प्रमाणस्य विशेषो वाच्य इति तत्रैवान्यतमशब्दो वर्तते । यद्यप्यर्थप्रतिपत्त्यर्थाव्यभिचारद्वारेण प्रमाणस्याव्यभिचारो गम्यते दृष्टे विषये, तथाप्यदृष्टे विषये न तज्जनितप्रपित्तयव्यभिचारेणाव्यभिचारः शब्दस्य प्रमाणस्य शक्यो विज्ञातुम्, प्रतीयव्यभिचारस्य प्रमाणाव्यभिचारग्रहणमन्रेणाशक्यज्ञानवत् । तस्माद्दृष्टार्थस्य मन्त्रायुर्वेदस्य प्रवृत्तिसामर्थ्यावधृतार्थाव्यभिचारस्य साधर्म्यादाप्तप्रणीत्वादग्निहोत्रादिवाक्यानां प्रमाणानामव्यभिचारग्रहणपुरःसरमेव त्रिवर्गस्याव्यभिचारग्रहणम् । न पुनरत्र त्रिवर्गस्याव्यभिचारः शक्योऽन्यतः परिच्छेत्तुम् । अदृष्टार्थविषयस्य च चतुर्वर्गस्येहार्थवत्त्वेन प्रयोजनं दृष्टार्थे सन्देहादपि व्यवहार सिद्धेः । तदिदं चतुर्वर्गे प्रमाणस्य प्राधान्यमिति ॥ चतुर्वर्गविभागपरे भाष्ये प्रमाता प्रथमं दर्शितः । ततस्तस्य लक्षणमाहप्रमाता स्वतन्त्र इति । स्वातन्त्र्यं पृच्छतिकिं पुनः स्वातन्त्र्यम्, यस्याभिसंबन्धात्स्वन्त्र इति? भाष्यकृता प्रमातोपलक्षितो न लक्षितः । न खल्वीप्साजिहासयोर्वा प्रवृत्तौ वा स्वान्त्र्यं प्रमातृत्वम्, अपि तु प्रमायार्म् । इप्सादिस्वातन्त्र्येण तु तदुत्तरकालभाविना प्रमायां स्वातन्त्र्यं पर्वकालाभाव्युपलक्षिम् । तेन तच्चरिमनुवर्तमानो वार्तिककृतुपलक्षणान्तरं कर्तृत्वोत्तरकालभाव्याहकारकफलोपभोक्तृत्वम् । न हि सर्वः कर्ता समस्तकारकजन्यं स्वर्गादि वौदनादि वा भुङ्क्ते ऋत्विक्पाचकादिषु च व्यभिचारदर्शनात् । कारकस्य तु सतः कर्तृत्वोत्तरकालभाविनी फलोपभोक्तृता कर्तृवनान्तरीयकतया दुपलक्षयति, यजमानस्य राज्ञश्च प्रैषादिना तत्तद्वयापारे कर्तृत्वात् । यथाहुरत्रभवन्तः, तदभिसन्धिपूर्वकं प्रेषणमध्येषणं व युक्तं तसर्वं पच्यर्थः । इति । स्वातन्त्र्यलक्षणमाहतत्समवायो वा । कारकाभिधानेन सन्निधापितां क्रियं तदिति सर्वानाम्ना परामृशति । यस्य हि व्यापारं प्राधान्येन धातुराख्यातप्रत्ययो वाभिधत्ते स स्वतन्त्रः कर्ता । तथा हि विक्लिद्यन्तीयत्र तण्डुलादयः कर्तारः, पचन्तीत्यत्र देवदत्तादयः । तत्कस्य हेतोः? एकत्र तण्डुलादेर्व्यापार उपात्तोऽपरत्र देवदत्तादेरिति । प्राधान्येन चाशेषकारकनिवर्त्त्यत्वं प्रधानक्रियायाः, अवान्तरव्यापारभेदेऽपि प्रधानक्रियोद्देशेन समस्तकारकप्रवृत्तेरिति । पुरुष इति प्रकृतक्रियापेक्षम्, प्रमायाः पुरुषाश्रयत्वादिति । लक्षणान्तरमाहतत्प्रयोक्तृत्वमितराप्रयोज्यता वा । तस्य चेतनस्य सर्वकारकाणि प्रति प्रयोक्तृत्वम्, तैश्च कारकैरप्रयोज्यता वा । अचेतनस्य तु भाक्तव कर्तृत्वं न स्वाभाविकमिति भावः परिसमाप्तिपदार्थं व्याचष्टेतत्त्वपरिसमाप्तिरिति । तत्त्वं हि प्रमाणव्याप्यत्वं प्रमाणव्यापारविषयत्वम् । तच्च हानोपादानोपेक्षाभिः पर्यवस्यति । पर्यवसानं परिसमाप्तिः विनियोज्येति वक्तव्ये योग्यताग्रहणमीप्सितेऽपि दृष्टे वस्तुनि कुतश्चित्प्रतिबन्धात्पुरुषेणानुपात्ते मा भूत्तत्त्वापरिसमाप्तिरिति । यद्यपि हि तत्पुरुषेणानुपात्तं तथाप्युपादानयोग्यताप्रदर्शनादस्ति तत्त्वपरिसमाप्तिरिति । तत्प्रतिषेधश्च इत्यत्र तच्छब्देन हानोपादानलक्षणं विनियोगं परामृशति ॥ किं पुनस्तत्त्वमित्यादि भाष्यं व्याचिख्यासुस्तत्त्व्प्रत्ययप्रकृतेस्तदोऽर्थं पृच्छतिकिंपुनरिति । उत्तरम्सदसती तत् । प्रश्नं विभजतेतस्य भावस्तत्त्वमित्यत्रेति । उत्तरं विभजतेसदसतीतत् । अथ कस्मात्प्रकृतिपुरुषौ वा, पञ्चस्कन्धा वा, परं ब्रह्माद्वैतं वा, जीवजीवस्त्रवादयो वा सप्त, पृथिव्यापस्तेजोवयुरिति वा चत्वारि भूतानीत्यादीति न तदो वाच्यानि भवन्तीत्यत आह प्रमाणविषयत्वेनाधिकारात् । सूत्रभाष्यवाक्यतद्विवरणेषु प्रमाण प्रमाणविषयश्चाधिकृतः न च संख्यादिसिद्धान्तभेदानुपातिनोऽर्थाः प्रमाणविषयाः । यथा चैतत्तथात्रेव निवेदयिष्यते । उपसंहरतितस्मादिति ॥ प्रकृत्यर्थं व्याख्याय प्रत्यार्थं व्याचष्टेतद्भाव इति, सदसतोर्यथासंख्यं विधायकप्रकाणविषयता सतो भावः, तत्प्रतिषेधश्चासतो भावः । तदिति विधायकप्रमाणविषयतां परामृशति । तत्प्रतिषधेन च प्रतिषधकं प्रमाणमुपस्थापितम् । तेन प्रतिषेधकप्रमाणविषयत्वमेव तत्प्रतिषेध इत्यनेनोक्तं भवति । एतद्विभजतेतयोः खल्विति । शङ्कतेप्रमाणविषयत्वादिति । सर्वसामर्थ्यविरहेण त्वसत्सतो व्यावर्तते । यदि चासदपि प्रमाणविषयः, तर्हि नासमर्थम् । तथा च सदसतोरभेद इत्यर्थः । निराकरोतिन, अनैकान्तात् । न वयमसामर्थ्येनासतो भेदमाचक्ष्महे येनैवमुपालभ्येमहीति भावः । शङ्का विभजतेतत्र भवेदिति । निराकरणं विभजतेतच्च नेति । गवादि चेतनम्, अचेतनं घटादीति । यदि सदसती समर्थे कुतस्तर्हि तयोर्मेद इत्यत आहस्वतन्त्रेति । असदुपलब्धिरेव सदुपलब्धेरन्यानुपलब्धिः । ननु संयोगविभागादिषु सत्स्वपि तरतन्त्रोपलब्धिकरणत्वमतिस्त, तेषां संयुज्यमानविभज्यमानाद्यधीननिरूपणत्वादित्य आहप्रतिषेधमुखेन प्रतिपद्यते प्रतीयते । सतां केषाञ्चित्पारतन्त्र्येऽपि न निषेध्यनिषेधाधिकारणपारतन्त्र्यमित्यर्थः । संप्रति सदुपलम्भकस्य प्रमाणस्यासदूपलम्भकत्वं प्रतिपिपादयिषता भाष्यकारेण प्रदीपो दृष्टान्त उपन्यस्तः । सतु साध्यसमः, तस्यापि प्रमाणसामग्रीनिवेशदिति शङ्क्यमानोऽत्यन्तलोकप्रसिद्धतयास्य दृष्टान्तत्वं समर्थयतेप्रदीपवदिति । गोपालाङ्गना अपि हि किमत्रास्ति स्तेनोऽस्मद्धनं वा अपवरके न वेति सन्दिहाना प्रदीपमुपादाय समन्तादवलोक्यापवरकमस्तीहास्मद्धनं नास्ति स्तेन इति सममेव निश्चिन्वन्ति, न तु स्तेनाभावनिश्चयायोपायन्तरमुपाददते । तेनागापालाड्नमा च पण्डितरूपेभ्यः सिद्धः प्रदीपो दृष्टान्तः । तदिदमुक्तम्न ह्यसत्प्रतिपत्तावुपायान्तरमास्थीयते लोकेन । अनाश्रयणे हेतुमाह प्रदीपेन दृश्यमाने हि घटादिकेऽर्थे स्वतन्त्रे नानेन समानजातीयं तुल्योपलम्भयोग्यतं दृश्यान्तरमस्ति । नीलपीतौ हि परस्पराभाववन्तौ, तेन नलीनिषेधे नावश्यं पीतविधिः । भावाभावौ तु परस्पराभावात्मानौ, नो खल्वभावाभावो नाम कश्चिदन्यो भावरूपात् । नापि भावाभावोऽन्योऽभावात् । तदेवं प्रदीपोपायस्य प्रतिपत्तुः प्रतीतिक्रममुक्त्वा परीक्षकाणामुपपत्तिक्रममाहयद्यभविष्यदिति । यदि कश्चिदाशङ्केत दृश्यतामभावः । प्रदीपेन भावोऽपि भविष्यतीति, तत्रैष परीक्षकाणां तर्क उपतिष्ठतेयद्यभविषयदिति । तदेवं लौकिकपरीक्षकसंमतं दृष्टान्तमुपपाद्य दार्ष्टान्तिके योजयतिएवे प्रमाणेनापि इन्द्रियादिना सति प्रमीयमाणे इति । पूर्ववद्व्याख्येयम् । उपसंहरतितदेवमिति । सर्वं चैतदुपरिष्टादुपपादयिष्यते । ननु यदि सदसती प्रमाणविषयौ, कस्मात्सद्भेदा इवासद्भेदा अपि सूत्रकृता नोच्यन्त इत्यत आहतत्र तेषु सदसद्भेदेषु मध्ये स्वातन्त्र्येणासद्भेदा न प्रकाशन्त इति नोच्यन्ते । निषेध्यनिषेधाधिकारणाधीननिरूपणत्वादसद्भेदानां भावभेदतन्त्रं प्रमाशनमिति भावभेदकथनेनैवाभावभेदा अपि गम्यन्त इति नोक्ता इत्यर्थः । अथ वा कथिता एव येषां तत्त्वज्ञानं निःश्रेयसोपयोगि, यं तु न तथा न तेषां प्रपञ्चः अनुपयुक्तभावप्रपञ्च इव वक्तव्य इत्याहचतुर्वर्गानन्तर्भावाद्वा भावप्रपञ्चवदभावप्रपञ्च इति । निःश्रेयसानुपयोगिनि भावप्रपञ्चे यथा चतुर्वर्गानन्तर्भावः, एवमभावप्रपञ्चेऽपीति । अथ निःश्रेयसोपयोगाभावः कुतोऽवगन्तव्य इत्यत आहभावोपदेशादेवाभाव उपदिष्टो भवतीति । द्विविधं प्रमाणं भावोऽभावश्च, यथा कारणाभावेन कार्याभावज्ञानं यतो द्वितीयसूत्रसमुत्यानम् । प्रमेयेषु चापवर्ग एव मूर्धाभिषिक्तः । एवे प्रयोजनादिष्वपीति तत्र तत्रोहनीयमिति । उपसंहरतिअतश्चेति ॥ तदेवं तात्पर्यं व्याख्याय अवयवार्थं व्याख्यातुं भाष्यं पठतिसच्च खलु षोडशधाव्यूढमुपदेक्ष्यत इति । अत्र प्रथमे कल्पे चशब्दोऽवधारणे, खलु शब्दः स्पष्टार्थे । तदेव षोडशधा व्यूढमुपदेख्यते नासत्, तस्य सदधीनप्रकाशत्वादिति । द्वितीये तु कल्पे पारमार्थिके चः समुच्चे, खलुः अवधारणे, सति षोडशाधैवोपदेक्ष्यमाणेऽसदप्युपदेक्ष्यत इत्यर्थः । प्रकृत्यर्थं व्याचष्टेव्यूह इति । सूत्रस्य सप्रपञ्च तात्पर्यं व्याख्याय अवयवार्थं व्याचिख्यासुना भाष्यकारेण तासां खल्वासां सद्विधानामिति भाष्येण सूत्रमवतार्य पठितं तदस्य वार्तिककृत्तात्पर्यमाहत एते सद्भेदा इति सूत्रम् । त एते प्रमाणादयः सद्भेदा निःश्रेयसोपयोगिनो न गङ्गावालुकादयः । तस्मात्सत्सुप्रमाणादयः षोडशैवोदियेष्टा लक्षिताः परीक्षिताश्च । न गङ्गावालुकादयः सन्तोऽपि निःश्रेयसानुपयोगादिति भावः ॥ द्वन्द्वस्वरूपमाहसर्वपदेति । द्वन्द्वपरिग्रहे तात्पर्यमन्वयव्यतिरेकाभ्यामादर्शयतिसर्व एव इति । बहुव्रीहिकर्मधारययोरसंभावात्षष्ठीसमासपरिग्रहे निग्रहस्थानस्यान्त्यपदार्थस्य प्राधान्ये विवक्षितार्थहानप्रसङ्ग इत्यर्थः । निर्देशे ययावचनं विग्रहैत्यस्त भाष्यस्य तात्पर्यमाहयथावचनमिति । अन्योन्यनिरपेक्षाणां प्रत्येकं प्रमाहेतुभावः प्रमाणानामिति हि बहुवचनप्रयोजनम् । प्रमेयेषु तु यद्यपि प्रमेयता वास्तवी प्रत्येकमस्ति तथाप्यपवर्गहेतुभावेन प्रमेयता समुदाये समाप्यते, न तु प्रत्येकम् । आत्मादीनामन्यमतस्याप्यतत्त्वज्ञाने संसाराननिवृत्तेरिति यदेव हि निर्देश वचनभेदस्य प्रयोजनम्, तदेव चोद्देशेऽपि, तयोरेकवाक्यत्वादिति भावः । प्रमाणादीनामिति विभक्त्यर्थव्याख्यानपरं भाष्यं पठित्वा पृच्छतिकः पुनरिति । उत्तरम्कारकाणामिति । तद्विभजतेयत्रेति । कारकार्थः प्रधानक्रिया, यदुद्देशेन सर्वकारकप्रवृत्तिः । कारकग्रहणेन च तन्नान्तरीयकतया प्रधानक्रियाप्यानीतेति विवरणे सापि दर्शिता । यद्यपि स्वस्वामिभावादावपि संबन्धेऽन्तर्गतः क्रियाकारकसंबन्धोऽस्ति संबन्धमात्रस्य क्रियागर्भत्वात्तन्नान्तरीयकत्वाच्च कारकस्य, तथाप्यसौ न विवक्ष्यते । संबन्धमात्रमेव तु विवक्ष्यत इत्यर्थः । तत्र चोदयतितत्त्वस्येति । षष्ठी चानर्थिका अव्यतिरेके तदनुपपत्तेरित्यपि द्रष्टव्यम्, तत्रानियमवाद्येकदेशी परिहरतिन, उभयथापीति । भावस्य भवित्रधीननिरूपणत्वाद्, भावनिरूपणमेव भवितृनिरूपणमाक्षिपति । अभेदेऽपीति । इषुस्थित्या यथा तद्भावप्रतिषेध इषोभावो धर्मो गतिः, तस्य प्रतिषधः स्थितिः, तिष्ठतेग्रतिनिवृत्त्यर्थत्वात् । एवमत्रापि न प्रमाणप्रमेयादिमात्रमच्यते तत्त्वग्रहणेनापि त्वर्थान्तरं तेष्वेव यत्यत्समारोपितं रूपमन्यथात्वमिति यावत्तत्प्रतिषिध्यते । गतिमदिति भावप्रधानो निर्देशः । यथा द्वेकयोर्द्विवचनैकवचने । इति द्वित्वैकत्वयोरिति । संख्येवविक्षायां तु द्व्येकेष्विति स्यात् । तेन गति मत्त्वमर्थान्तरमिषोर्नभवतीत्यस्मिन्नर्थे इषोः स्थितिरिति प्रयुज्यत इत्यर्थः । तदेतदेकदेशिमतमर्थान्तरत्वनियमवादी दूषयतितन्नेति । प्रमाणदिभ्योऽनर्थान्तरस्य तत्त्वस्य च इषोरनर्थान्तरस्य गत्यभावस्य चासिद्धेः । यथा च भावातिरिक्तोऽभावस्तथा क्षणभङ्गाधिकारे निवेदयिष्यते । प्रमाणाद्यतिरिक्तं च तत्त्वमनन्तरमेव दर्शयिष्यतीति । तत्त्वस्यज्ञानमित्यादि भाष्यं व्यापष्टेतत्त्वं ज्ञायमानमिति । उभयं पृच्छतिकिं पुनरिति । तत्त्वप्रश्नस्योत्त्रम्तत्त्वमिति । निमित्तत्वं शक्तिः प्रमाणादीनाम् । सा च द्वयी स्व्रूपलक्षणा सहकारिसाकल्यलक्षणा च, अतीन्द्रियस्य सामर्थ्यस्य नैयानिकैरनभ्युपेतत्वात् । शक्तेश्च भावत्वेन भवितृनिरूपणाधीननिरूपणत्वाद्भवितुरपि निरूपणं भवतीत्युक्तम् ॥ अभिमतं निःश्रेयसं ग्रहीतुं निःश्रेयसद्वैविध्यमाहनिःश्रेयसं पुररिति । तक्रिज्ञदृष्टं निःश्रेयसं ग्रहीतुं दृष्टमतिप्रसङ्गापादनेन दूषयतिएवे च कृत्वेति । सूत्रकाराभिमतं निःश्रेयसमाहपरं त्विति । एतदुक्तं भवति, यद्यपि निःश्रेयसपदमभिमतमात्रवाचि प्रमाणादितत्त्वज्ञानस्य च दृष्टमपि निःश्रेयसं संभवति, तस्यैव ततः साक्षादुत्पत्तेः । तथाप्यात्मादिवाचकप्रमेयपदसमभिव्याहाराददृष्टमेव निःश्रेयसमभिप्रेत सूत्रकारस्य । तत्र च प्रमाणमादितत्त्वज्ञानस्यापि पारर्म्येण हेतुभावोऽस्त्येवेति । चोदयतिदृष्टमिति । दृष्टे दर्शनमेव प्रमाणम् । अदृष्टं तु निःश्रेयसमप्रामाणिकं दर्शनाभावादित्यर्थः । परिहरतिन, नास्ति अर्थस्य तथाभावात् । अर्थ आत्मादिः । तस्य आगमानुमानसहकारिणा कारणाभावेन कार्याभावानुमानमेवात्रार्थे प्रमाणमिति भावः । ये तु वैयात्यात्मन्येरन् पदार्थतत्त्वज्ञानमात्रमेव परनिःश्रेयसहेतुरिति, यथाहुः एको भावस्तत्त्वतो येन दृष्टाः, सर्वे भावास्तत्त्वतस्तेन दृष्टाः । इति, तान् प्रत्याह यदि पुनरिति । न हि भावानां तत्त्वमन्यदतः प्रत्यक्षविषयीकृताद्रूपादिति भावः । मोक्षमाणा इति, सनि मुचोऽकर्मकस्य गुणो वा इति गुणाभ्यासलोपौ । न केवलं वस्तुवृत्तिः, सूत्रकारस्यापि संमतमेदित्यत आहपृथगुपदेशाच्च प्रमेयस्य प्रमाणादिभ्यः । यदि च यत्किञ्चित्प्रमेयतत्त्वज्ञानान्निःश्रेयसस्य परस्य प्राप्तिः, किमर्थमात्मादसूत्रेण द्वादशैव प्रमेयाणि नाधिकानि न न्यूनानि चेत्यवधार्यते सूत्रकारेर्ण? तस्मात्तदेव साक्षादुपयोति निःश्रेयसे न पदार्थमात्रमित्याहप्रमेयावधारणार्थायां चोत्ररसूत्रप्रिक्रियायामकुशलः सूत्रकारः स्यात् । कुतः? प्रमेयस्य विहतत्वादाद्येन सूत्रेणेति । तस्माद्यद्युपपत्तिः यदि च सूत्रकारभिमतसुभयथापि प्रमेयतत्त्वपरिज्ञानं परस्य निःश्रेयसस्य हेतुः । तदनेन आत्मादेरिति भाष्यं व्याख्यातम् ॥ अथ किं तत्त्वज्ञानस्यात्मादिविषयस्यादृष्ट एव कोऽपि सामर्थ्यातिशयो यतः परनिःश्रेयसोत्पादः, मैवम् । किं तर्हि? दृष्टयैव द्वारेत्याह भाष्यकारः तच्चैतदिति निःश्रेयसहेतुभावाभिधानस्य अनु पश्चातुद्यते अनूद्यते । तत्त्वज्ञानोत्पादे हि साक्षात्तद्विषयमिथ्याज्ञानादिनिवृत्तिक्रमेणापवर्गोत्पाद इति द्वितीयसूत्रेणानद्यते । तदेतद्भाष्यं तच्चैतदित्याद्यधिगच्छतीत्यन्तमनूद्य व्याचष्टेहेयमिति । मिथ्याज्ञानमात्मादिषु प्रमेयेषु अविद्या तन्मूलं तृष्णा । उपलक्षणं चैतत्, द्वेषोऽपि द्रष्टव्यः । तन्मूलौ च धर्माधर्मौ, तदेतद्धेयम् । हानं तत्त्वज्ञानं हीयते ह्यनेनैतत्सर्वम् । तस्य प्रमाणस्य । उपायः शास्त्रम् । अधिगन्तव्यो मोक्षः । एवंमवयवान् विभज्य तात्पर्यमाहएतानीति । एतानि चत्वार्यर्थपदानि पुरुषार्थस्थानानि, न केवलं हेयाधिगन्तव्यभेदेन द्वादशविद्र प्रमेयं दर्शयतः तद्विषयतत्त्वज्ञानाय च सोपकरणन्यायाभिधानप्रमाणव्युत्पादकं शास्त्रं प्रणयतः सूत्रकारस्य संमतम्, अपि तु सर्वेषामेवाध्यात्मविदामाचार्याणामिति भाष्यतात्पर्यमित्यर्थः । तत्र संशयादीनां पृथग्वचनमनर्थकमित्यादि चोद्यभाष्यं व्याचष्टेसंशयाद्यग्रहणमिति । सत्यमिति परिहारभाष्यं व्याचष्टैन विद्येति । चोद्यं विवृणोतिसंशयादय इति । परिहारं विवृणोतिन विद्येति । प्रस्थानं व्यापारः । तेषां पृथग्वचनमित्यादि भाष्यं व्याचष्टतस्याः संशयादीति । न च वाचयमस्तु विद्यात्रयमेव, कृतमान्वीक्षिक्या विद्ययेति, तस्या एव समस्तविद्यावदातीकरणहेतुत्वात् । यथा वक्ष्यतिप्रदीपः सर्वविद्यानामिति । स चायं किंस्विदिति वस्तुविमर्शमात्रमनवधारणज्ञानं संशय इति भाष्यम् । तद्व्याचष्टेतत्र संशयादिषु, संशयस्तावदिति ज्ञानमवधारणं प्रत्यय इति पर्याया इति मन्वानश्चादयतिअनवधारणात्मक इति । न ज्ञानमात्रपर्यायोऽवधारणशब्दः । अपि तु तिद्वशेषविश्चयवचनः किंस्विदिति दोलायमानस्योभयकोटिस्पृशः प्रत्ययस्यार्थेऽनवधारणात्मकस्यापि प्रत्यात्मं मानसेन प्रत्यक्षेणावधार्यमाणत्वादिति । परिहरतिन व्याघात इति । तत्तस्मातभयमिति । तत्र नानपलब्धे इत्यादि भाष्यमवतारयितुं पृच्छति स कथं न्यायस्येति । यदि न्यायस्याङ्ग संशयो भवेत्, सोऽपि व्युत्पाद्येतेति भावः । उत्तरम्यस्मादिति । एतदाक्षिपतिउपलब्ध इति । पञ्चरूपश्चतूरूपो वा हेतुर्न्यायः । प्रतिज्ञाद्यवयवसमूहो वा न्यायः । नीयते प्राप्यते विवक्षितार्थसिद्धिरनेनेति । तस्याश्रयो विषय उपलब्ध उच्यमानो निर्णोत एव वक्तव्यः । सन्दिग्धे हि तस्मिन् हेतुः सन्दिग्धाश्रयतया असिद्धः स्यात् । यथेह नगनिकु।जे मयूरः केकायितापातादिति । तदापातसन्देहे अतो न निर्णीतश्चेन्नोपलब्धः । ततश्चोपलब्धश्चानिर्णोतश्चेति व्याहतमित्यर्थः । परिहरतिनास्ति व्याघात इति । समामन्यतः पर्वतमात्रमुपलब्धं निर्णोतम्, तद्विशेषस्तु वह्निमत्त्वादिरनिर्णीत इति । पुनश्चोदयतिएवमपीति । उपलब्धो निर्णोत इति हि सामानाधिकरण्यात्समानविषयत्वं दर्शयति । तथा च व्याघातः । सामान्यविशेषभेदेन तु व्याघातं परिहरन् सामानाधिकरण्यं न समर्थयस इति भावः । परिहरतिन, यथा तथेति व्यापदेशादिति । सामान्यविशेषयोः सामानाधिकारण्यात् । य एव सामान्यो निर्णोतः, स एव विशेषतोऽनिर्णोतोऽपि संभवतीति न व्याघात इत्यर्थः । एवमर्थ न्यायप्रवृत्त्यर्थम्, असन्दिग्धे न्यायप्रवृत्तेरनुपपत्तेः । न हि करिणि दृष्टे चीत्कारेण तमनुमीमे पेक्षावन्त इति ॥ प्रयोजनस्वरूपप्रतिपादनपूर्वकं प्रयोजनपदप्रयोजनप्रदशनार्थं भाष्यमनुभाषेअथ प्रयोजनम् । व्याख्यातुं पृच्छतिकिं पुनरिति । उत्तंरं येनेति । स्फुटतरमवैततित्यर्थः । पुनः पृच्छतिकेनेति । एकदेशिमतेनोत्तरमाहधर्मेति । तत्र काम इतीच्छामात्रं वोच्यते, कामिनीविषयो वा रागः? पूर्वस्मिन कल्पे काम इत्येवास्तु कृतं धर्मादिभः, सर्वेषामेव काम्यमानत्वात् । उत्तरस्मिन्नव्याप्तिः, सरकमृगयादीनां काम्यानामसंग्रहात् । धर्ममोक्षयोरपि नास्तिकान् प्रत्यप्रवर्तकत्वम् । तस्मादयुक्तमेदिति मन्वान आह वयं तु पश्याम इति । सुखस्याप्त्या दुःखस्य हान्या विषयेण विषयिणं प्रत्ययमुपलक्षमति । असत्योरकारणवात्, सत्योर्वा अनर्थकत्पवात्प्रवृत्तेरिति । तथापि सुखदुःखाप्तितहान्योरेव कर्तुः प्रवृत्तिप्रसङ्गो न तत्साधने, न ह्यन्यद्विजानाति इच्छति च करोति चान्यदिति घटते, अतिप्रसङ्गात् । न च फलं पुरुषप्रवृत्तिगोचरः, तत्साधनं तु तद्गोचरः । तत्साधनत्वविज्ञानात्तत्साधन एव प्रवर्तते । तन्नातिपसङ्ग इति चेत्? हन्त तर्हि तत्साधनत्वज्ञानमेव प्रवर्तयति, न फलज्ञानम्, ज्ञानेच्छाप्रवृत्तीनां कार्यकारणभूतानां सामानाधिकारण्येन संप्रतिपत्तंरित्यभिप्रायेणाहसुखदुःखसाधनभावत्सर्वेऽर्थाश्चेतनं प्रयोजयन्तीति । तुशब्दः फलाद्व्यवच्छिनत्ति । अत्रापि विषयेण विषयिणं प्रत्ययमुपलक्षयति । एतदुक्तु भवति, तोयमुपलभ्य तज्जातीयस्यापेक्षिसाधनां दृष्टचरीमनुस्मरति । अथ तज्जातीयता लिङ्गेन दृश्यमानस्यापेक्षिसाणनभावमनुमिमीते । अनुमाय च पिपासुः प्रवर्तते । तेनोपायज्ञानस्य साक्षात्पुरुषप्रवृत्तिहेतुवम्, फलस्य त्वीप्सितमस्योद्येशतयेति सर्वं सुन्दरम् । तदाश्रयश्च न्यायः प्रवर्तते इति भाष्यं व्याचष्टेतदिदं प्रयोजनं न्यायस्येति । आक्षिपतिक इति । समाधत्तेउपकारकत्वमिति । यथा राजाश्रितः पण्डित इति । उपकारकत्वमेव दर्शयतितन्मूलत्वादिति । विधिः प्रवृत्तिः । न जातु निष्प्रयोजना काकदन्तादौ परीक्षामारभन्ते प्रेक्षावन्त इत्यर्थः । आक्षिपतिका पुनरियमिति । न्यायाश्रयत्वं प्रयोजनस्य प्रतिज्ञाय परीक्षाश्रयत्वसमर्थनमसङ्गतमिति भावः । उत्तरम्न्यायः । तस्मान्नासंगतमित्यर्थः । नन्वेवमपि नीयते प्राप्यते विवक्षितार्थसिद्धिरनेनेति व्युपत्त्या प्रत्यक्षादि प्रत्येकं न्यायः । न चैतत्प्रत्येकं प्रयोजनमाश्रयते । अजिहासितानुपादित्सितानामप्यविज्ञासितानामर्थानां प्रत्यक्षादिगोचरत्वदर्शनादित्त्याक्षिपतिकः पुनरयं न्यायः? समाधत्तेप्रमाणैरिति । प्रत्यक्षादिप्रमाणमूलाः प्रतिज्ञादयः पञ्चावयवाः प्रमाणानि । तैरर्थस्य लिङ्गस्य परीक्षण परीक्षा । परीक्षितु तु लिङ्ग पन्चावयवोपपन्नमनुमेयप्रत्ययफलं भावयत्येव, न त्वतुमेयार्थपरीक्षा । तस्य सन्दिग्धत्वेऽपि स्वरूपेण परीक्षानास्पदत्वादिति । नन्ववयवैश्चेदर्थपरीक्षण न तर्हि प्रमाणैः, कार्यकारणयोरभेदाभावादित्यत आहकिमुक्तं भवतीति । न साक्षत्प्रतिज्ञादयोऽवयवा अर्थपरीक्षायामुपयुज्यन्ते । अपि तु स्वकारणतत्प्रमाणसूचनेन । तस्मात्प्रमाणानामवान्तरव्यापारः प्रतिज्ञादय इत्युपपन्नं प्रमाणैरर्थपरीक्षणम् । तदिदमुक्तम्प्रमाणव्यापारादितीति । तस्मात्नैकैकं प्रमाणमिति । समस्तप्रमाणोपकरणत्वादेव चास्य परमत्वमित्याहसोऽयमिति । पञ्चावयवोपपन्नतया च प्रत्यक्षागामाश्रितत्वम्, न तद्विरोध इति प्रदर्शनार्थं भाष्यमनुभाष्य तात्पर्यां व्याचष्टेप्रयक्षागमेति । कथं पुनरनेन भाष्येण तदुच्यत इत्यत आहयदिहानुमानेनेति । यत्पुनरनुमानमित्यादि भाष्यं व्याचष्टचत्र पुनरिति । यत्र हि विरोधस्तत्र प्रमाणमूलानामवयवानां प्रतिज्ञादीनामितरेतरप्रतिसन्धानमेकवाक्यता नास्ति । प्रमाणविरोधेन चोग्यताविरहिणां तत्पदार्थानां पारमार्थिकान्वयाभावादिति । तीर्थं दर्शनं तस्य प्रतिरूपकः । अदर्शनमिव दर्शयतीति यावत् । स खलु तादृशः पञ्चावयवप्रयोगो लाभपूजाख्यातिकामैः पण्डितव्य्जनैरूपवर्ण्यमानः प्रत्यवायाय, प्रागव त्वपवर्गायेत्यर्थः । तदेवं समुदायतो भष्यं व्याख्यायवयवविभागाय पठतियत्पुनरनुमानमिति । प्रत्यक्षविरुद्धोदाहरणमाहअनुष्णोऽगिरवयवी कृतकत्वाद्घटवदिति । अत्र चोदयतिकः पुनरिति । इदमात्राकूतम्रूपत्रयसंपन्नमेतत्कृतकत्वं न वा? न चेत्, तत एवे तर्हि तदनुमानाभासमिति कृतं प्रत्यक्षविरोधेन । अथान्वयव्यतिरेकपक्षधर्मततासंपन्नमपि बाधितविषयतयैततदप्रमाणम्? तदयुक्तम्, रूपत्रयसंपत्त्यां खल्वेतत्स्वासाध्येनाविनाभूतं भवति । न च बाधाविनाभावयोः सह संभवः । बाधायामपक्षधर्मो भवेत्, अनैकान्तिकश्च हेतः । विज्ञासितधर्मणो धर्मिणः पच्यमानत्वेन पक्षत्वम्, न पुनः प्रत्यक्षावधृतसाध्यविरुद्धधर्मस्य । तस्याजिज्ञासितत्वेनापक्षतया तद्धर्मस्यापक्षधर्मत्वान्न चैकान्तिकः । साध्यधर्मिण्येव प्रत्यक्षोपस्थापितसाध्यधर्मवति दर्शनेन व्यभिचारात् । न च सपक्षासपक्षावेवान्वयव्यतिरेकागम्याविनाभावदर्शनविषयौ न पक्ष इति साम्प्रतम् । यदि हि पक्षं विहाय बहिरेव सपक्षासपक्षयोरविनाभावो गम्येत, तदा बहिर्व्याप्तिमात्रबलेन पक्षधर्मोऽपि हेतुर्न पक्षे साध्यं साधयेत् । असिद्धा हि तत्रास्य स्वसाध्येन व्याप्तिः । तदेतत्पण्डकमुद्वाह्य मुग्धायाः पुत्रप्रार्थनमिव । तस्मादन्तर्बहिर्वा सर्वोपसंहारेणाविनाभावोऽवगन्तव्यः । एवं च सिद्धः पक्षेऽपि व्यभिचारः साधनधर्मस्येत्यनैकान्तिकत्वम् । तथा च रूपत्रयसम्पन्नो हेतुर्बाधितविषयश्चेत्यसंभवः । तस्मात्सुष्ठूक्म्कः पुनरस्यानुमानस्य रूपत्रयसन्न्नस्य विरोधः? न ह्यस्ति संभवो रूपत्रयसंपन्नं विरुद्धं चेत्यर्थः । अत्र समाधिमाहअनुमानाविषये प्रयोगः । वक्ष्यति ह्यनुमानाधिकारे यथानौपधिकः संबन्धो हेतुसाध्ययोरनुमानाङ्गम्, न तु कार्यकारणभावादिरव्यापकत्वादतिप्रसङ्गच्चेति । स चैवं प्रवर्ततेयो यः कृतकः स सर्वोऽनुष्णो यथा घटदिरिति । न च वह्नेरिव धूमसंबन्धे आर्द्रेन्धनसंयोगो गुर्वन्तवासिनोः साहचर्ये इव स्वाध्यायाध्ययनमुपाधिः कृतकत्वानुष्णत्वयोः संबन्धे उपलभ्यते । सोऽयं शङ्कितः समारोपितो वा प्रयत्नेन पुनःपुनरन्विष्यमाणोऽनुपलभ्यमानस्तत्र तत्र घटादावुपाधिर्नास्तीति प्रत्यक्षेण, यद्यभविष्यद्घटादिवदेव व्यज्ञास्यत्र, विज्ञानाभावान्नास्त्येवेति तर्कसहायेन निश्वीयते । सोऽयं रूपेणेव रसस्य, श्वस्तनेनेव सवितुरूदयेनाद्यनस्य तदुदयस्य, समुद्रवृद्धचेव चन्द्रोदयस्य समानकालस्य, कृतकत्वस्यानुष्णत्वेन स्वाभाविक औत्सार्गिकः संबन्धः सामान्येन यो यः कृकः स सर्वोऽनुष्ण इत्यवधारितः, न तु निर्विभज्य तेजोऽवयविनि । न हि सर्वोपसंहारवती व्याप्तिरेकदेशविषया भवितुमर्हति । एकदेशविषयत्वे यत्रैव न दर्शिता तेनैवानैकान्तिकत्वमाशङ्क्येत । तथा च तत्र तत्रैकदेशे प्रत्येकं व्याप्तिप्रदर्शनमशक्यम्, आनन्यात् । तस्मात्सर्वोपसंहारेणैव तदुपदर्शनम्, तदिह कृतकत्वमौत्सर्गिकसामान्यविषयव्याप्तिस्मरणसध्रीचीनं पक्षधर्मतावशात्विशेषे तेजोवयविनि साधयितुमनुष्णतोन्मुखं यन्न साधयेत्तत्किं प्रत्यक्षेणापहृतविषयत्वात्, आहोस्विदनैकान्तिकत्वात्? न तावदनैकान्कित्वम्, प्रागेवसामान्यतोऽनौपाधिकसंबन्धस्यावधारणात् । उष्णे तेजोवयविनि कृतकत्वस्य दर्शनादनैकान्तिकमपक्षधर्मो वा कृतकत्वमिति चेत्न, अनुमानेन सामान्यतोऽवधृतव्याप्तिना तस्यानौष्ण्यासाधनात् । प्रत्यक्षेण तेजोऽवयविन औष्ण्यग्रहेण तत्र कृतकत्वस्य हेतोर्वृत्तावुत्पन्नमपि व्याप्तिविज्ञानं बाध्यते । ततश्चानैकान्कित्वादप्रवृत्तिरनुमानस्येति चेत्न, अनुमानप्रवृत्तिविषये साध्यधर्मिणि हेतोर्व्यभिचारानुद्भावनात् । अन्यथा तद्गतसाध्यधर्मसन्देहे तत्रोपलभ्यमानः साधनधर्मः सन्दिग्धब्यतिरेकिवादनैकान्तिकः स्यात् । सन्दिग्धसाध्यधर्मे दृष्टान्त इव साधनधर्मः । तथा चानुमानमात्रमुच्छिद्येत, प्रत्यक्षेण साध्यधर्मविपर्यदर्शनात् । तेजोवयविनोऽनुष्णत्वेनासाधयत्वम्, तथा चानैकान्तिकत्वम् । तदिदमुक्तम्यस्मिन विषये तेजसोऽनुष्णत्वे एतत्प्रयुक्तम्, स प्रत्यक्षेणापहृत इति । एवं चानुमाने दूषिते कृतमपक्षधर्मत्वव्यभिचाराभ्यां तदुपजीविभ्यामिति भावः ॥ यत्पुनः दिग्नागेन प्रत्यक्षविरुद्धमनुमानमुदाहृतं तदुपन्यस्यति अपरे पुनरिति । अश्रावणः शब्दः कृतकत्वाद्घटादिवदिति ब्रुवाणः शब्दस्वरूपमेवापलपति । न हि श्रवणेन्द्रियादन्यदस्ति शब्दग्रहणकारणम् । न हि श्रवणेन्द्रियादन्यदस्तित शब्दग्रहणकारणम् । न चागृह्यमाणः शब्दः सद्व्यवहारगोचरः । तस्मादेवंवादिनोऽभिप्रायव्याप्तमसत्त्वं शब्दस्य । तथा च प्रत्यक्षविरोध इति भावः । दूषयितैस्त्विति । सविशेषणे हि विधिनिषेधौ विशेषणमुपसंक्रामत इत्युत्सर्गः । क्वचित्पुनर्विशिष्ट विधानमपि भवत्यनन्यगतित्वात् । तद्यथा लोहितोष्णीषा ऋत्विजः प्रचरन्ति । सति विभवे न जीर्णमलवद्वासाः स्तातकः स्यात् । इति । तद्वदिहापि अश्रावणः शब्द इति श्रुतिवाक्ययोः सामर्थ्यात्श्रावणत्वविशेषणोपसंकान्तो निषेधो न विशेष्येण शब्देन सह संबध्यते । नापि श्रावणत्वनिषधादार्थः शब्दनिषेधो वाद्यभिप्रायव्याप्तः । वचनार्थाविरोधिनोऽर्थस्यार्थगम्यत्वान्न तद्विरोधिनः श्रावणत्वनिषेधस्य चाधिकारण शब्द इति न शब्दाभावे तन्निषेधोऽवकल्पते । न चाभावस्तुच्छ इति तृतीय उपपादयिष्यते । न च श्रावणत्वं प्रत्यक्षगोचरः । तद्धि शब्दश्रोत्रयोः संबन्ध, कृत्तद्धितसमासेषु संबन्धाभिधानं त्वतल्भ्याम् । इति कात्यायनीयवचनात् । न च प्रत्यक्षाप्रत्यक्षवृत्ति । संबन्धः प्रत्यक्षः । तस्मात्श्रावणत्वमप्रत्यक्षमिति नात्र प्रत्यक्षविरोधः । तदिदमुक्तमिन्द्रियवृत्तीनामनीन्द्रियत्वादिति । वृत्तिः स्वार्थे संबन्ध इत्यर्थः ॥ आगमविरुद्धमुदाहरतिशुचीति । मन्वादिभिर्नरास्थिस्पर्शप्रतिषेधात्, स्पर्शे च प्रायश्वित्तोपदेशादशुचित्वं नरशिरःकपालादीनामिति । कापालिक आक्षिपतिकथमिति । नास्माकं वेदस्तन्मूला वा स्मृतयः प्रमाणमित्यभिप्रायः । उत्तरं शुचि नरशिरः कपालमिति ब्रुवता श्रुतिस्मृतीतिहासपुराणानपेक्षेणानुमानमात्रसहायेनात्र वस्तुनि वया शुचिरूपोऽर्थो वक्तव्यः । किमुक्तं भवति शुचीति? यदि उच्येत स्प्रष्टुः प्रत्यवायाभावः? सिद्धान्ती पृच्छतिस कस्येति वाच्यम् । यद्यात्मन इति ब्रूयात्कापालिकः, अविगीता हि व्यवहारपरम्परास्माकं कापालिकानां नरशिरःकपालकस्पर्शतदवस्थितान्नपानोपयोगलक्षणा, दाक्षिणात्यानामिवाह्नेनैवुकादिलक्षणा क्रिया श्रेयस्करी । तस्मादस्माकमप्रत्यवायकरया शुचि नरशिरःकपालमित्यर्थः । तत्र सोपहासमुत्तरमाहतदागमानुष्ठानतात्पर्यावस्थानात्कापालिकस्यैवमेतत् । श्रुतिस्मृतीतिहासपुराणलक्षणागमविहितमर्थमाचरतां तन्निसिद्धं च परिहरतां दाक्षिणात्यानामाह्नेनैवुकाद्यनुष्ठानमनादि अद्य यावदनुवर्तमानमविगीतमाम्नायमूलतामनुमापयति आत्मानः श्रेयोहेतुभावेन, न खल्वागमानपेक्षः सहस्रेणाप्यनुमानैरिममर्थमवगन्तुमर्हति । कापलिकानां त्वागमविहितमकुर्वतां कुर्वतां च तन्निषिद्धमर्थं प्रयत्नेनानादिरपि व्यवहारः शाक्यमल्लकादीनामिव न वेदानुमानमूलमिति भावः । अथ त्रयीविदां नरशिरःकपालमप्रत्यवायहेतुरिति ब्रूयात्, तदा त्रय्या वक्ष्यमाणेन न्यायेन प्रामाण्योपगमादागमविरोधः, तदीयस्पर्शस्य त्रय्यां निषेधेन प्रत्यवायहेतुवनिश्चयात् । अपि चागमानपेक्षोऽनुमानेन शौचं नरशिरःकपालंव्यवस्थापयन् प्रष्टव्यो जायते शुचि नरशिरःकपालमिति कोऽर्थः? ननु च एव वाक्यात्प्रतीयते स एवार्थः, तत्किं पृच्छचत इत्यत आहविशेषविधानं च शेषप्रतिषेधपरं लोके दृष्टम्, यथा दक्षिणेन चक्षुषा पश्यतीति उक्ते न वामेनेति गम्यते । तदिह यदि शुचि नरशिरःकपालम्, किमन्यदशुचीति वक्तव्यम् । न हि नरोच्चारादीनामशुचित्वे प्रमाणमन्यदस्त्यागमात् । आगमप्रमाण्यं च न मन्यस इति भावः । अथ त्रयीविद्वेषादनुमानपक्षापातिना त्वया सर्वमेव नरविट्कपालादि शौचपक्षे निक्षिप्यत इत्याहअथ सर्वमेव शुचि । परिहरतिदृष्टान्तो नास्ति । कृतः? सर्वस्य पक्षीकृतत्वात् । चोदयतिअथानुमानविरुद्ध्र कस्मादनुमानं न भवतीति । न खलु प्रमाणत्वेन प्रत्यक्षागमाभ्यामनुमानस्य कश्चिद्विशेषो येन तौ बाधकावनुमानस्य नानुमानमिति भावः । परिहरतिएकस्मिन्ननुमानद्वयसमावेशाभावात् । अयमभिसन्धिःयत्तावदनुमानं पूर्वप्रवृत्तं तेन बाधितविषयं तब्दलभावि पश्चत्तनमनुमान न स्वकार्याय पर्याप्तम्, यथोक्तमश्रावणः शब्दः कृतकत्वाद्घटादिवदियस्यानुमानस्यानुमानविरोध इति । लब्धस्वरूपं हि वस्तु क्वचित्किश्चिन्निषिध्ये, न तु ज्ञानाकारालीके बहिरिति तृतीये निव्रदयिष्यते । तदिह श्रावणत्वं शब्दस्य निषेधतापूर्वं श्रवणमिन्द्रियमतीन्द्रिय तद्ग्राह्रात्वं च वस्तुनी अनुमातव्ये शब्दोपलम्भलक्षणेन कार्येण । तथा चैतेनैवानुमानेनापहृतविषयमश्रावणत्वानुमानं चरममन्वयव्यतिरेकसंपन्नमपि न स्वोचितं कार्या जनयति । एवे तनुभुवनादीनां न कर्तेश्वरोऽशरीरित्वान्मुक्तसत्मवत्प्रयोजनाभावादित्याद्यापीश्वरधर्मिग्राहिमूलानमानेनापहृतविषयतया न्यायाभासं वेदितव्यम् । तस्मात्परस्परानपेक्षसमानकालप्रवृत्तिसमर्थानुमानद्वयसमावेशाभावाभिप्रायमेतदुक्तम् । न ह्यनयोरन्यतरद्बाध्यं बाधक वा संभवति, किं तु मिथः सत्प्रतिपक्षतया न प्रमां कुरुतः । कस्मात्पुनर्न समावेशोऽनुमानयोः? असमावेशे वा कुतः सत्प्रतिपक्षतेत्यत आहन ह्यन्वयव्यतिरेकसम्पन्ने इति । इहान्वयव्यतिरेकग्रहणेन समानबलयोरन्वयव्यतिरेकपक्षधर्मत्वासत्प्रतिपक्षत्वान्युपलक्षितानि । एतैः सम्पन्नयोर्यदि समावेश एकस्मिन् विषये भवेत्, तत एकतरस्य बाध्यत्वं बाधकत्वं वा गम्येतापि । न त्वेतदस्ति, असप्रपिपक्षतासम्पत्तेरभावादिति । उपसंहरति तस्मान्नानुमानविरुद्वमनुमानं तुल्यबलम्, अपि तु सत्प्रतिपक्षमित्यर्थः । प्रत्यक्षमप्यनुमेयविरुद्धसाधनादनुमानस्य प्रतिपक्ष इति सत्प्रतिपक्षतयान्वयव्यतिरेकादिसम्पन्नस्यानुमानस्य न प्रत्यक्षेण तद्विरुद्धार्थोपसंहारिणा समावेश इति न बाध्यबाधकभाव इयभिप्रायेण चोदयतिप्रत्यक्षविरोध्यपीति । परिहरति न नेति । तुल्यबलौ हि मिथः प्रतिपक्षौ भवतः न तु दुर्बलोत्तमबलौ । न हि भवति तरक्षुः प्रपिक्षो हरिणशावकस्य, किं तु समरकण्डूनिघ्नविषाणकोटिसमुल्लिखितगण्डशैलस्य विपिनमाहिषस्य । तस्मात् । पूर्वभावि प्रत्यक्षमनन्यथासिद्धं सदसत्प्रतिपक्षमनुमानं समानविषयसमावेशाद्बाधत इति युक्तमित्यर्थः ॥ चोदयतिअथोपमानविरुद्धमनुमानं कस्मान्न भवति? गोसदृशो गवय इत्यारण्यकस्य वाक्यं श्रुत्वा यदा नागरको वनं गतो गोसदृशं पिण्डमुपलभे, तदास्य वाक्यार्थानुभवाहितसंस्कारप्रबोधजनितस्मृत्यपेक्ष गोसादृश्यज्ञानमुपमानं पुरोऽवस्थितस्य पिण्डस्य गवयशब्दवाच्यत्वज्ञाने प्रमाणम् । तत्र यदि कश्चित् । प्रमाणयेत्नैष पिण्डो गवयशब्दवाच्यो गोपिण्डसादृश्याद्गोपिण्डान्तरवदिति, तदिदमनमानमुपमानेन बाधितविषयमस्त्वित्यर्थः । संप्रतिपत्तिरुत्तरम्नोपमानविरुद्धं न भवतीति अनुषज्यते । अस्ति चेत्कस्मान्नोक्तमित्यत आहपूर्वप्रमाणविरोधानुविधानान्नोक्तमिति शेषः । तद्दर्शयतिउपमानविरोध इति । स्वफलद्वारा शब्दं प्रमाणं दर्शयतिउपमानविरोध इति । स्वफलद्वारा शाब्दं प्रमाणं दर्शयतिआगमेति । स्वफलद्वारैव प्रत्यक्षं प्रमाण दर्शयतिसारूप्यज्ञानमिति । उपसंहरतिप्रत्यक्षागमयोर्विरोधात्विरोधाभिधानादुक्तं तदुपमानविरुद्धमनुमानमिति ॥ भाष्यमनुभाष्याक्षिपतितत्र वादजल्पाविति । प्रयोजनस्वरूपोपयोगाभिधानानन्तरं दृष्टान्तपदे व्याख्यातव्ये तदुल्लङ्घनेन वादजल्पयोः कोऽवसर इत्यर्थः । अवसरमाहतेनानेनेति । प्रयोजनव्याख्यानाङ्गमेवेदं न वादजल्पव्याख्याङ्गमित्यस्त्यवसर इति भावः । तत्रशब्दार्थं व्याचष्टेतस्मिन्न्यायाभासे इति । वादजल्पकथयोर्हि न द्वयोर्वादिप्रतिवादिनोः साधने समीचीने संभवतः, वस्तुनि विरुद्धधर्मद्वयसमावेशामावात् । तस्माद्द्वयोरेकस्य न्यायः, एकस्य तु न्यायाभास इति वादजल्पाभ्यां विविच्यते । न्यायाभास इति तु सन्निधानादुक्तम्, सन्निहितार्थत्वात्सर्वनाम्न इति । वितण्डा तु परीक्ष्यतं, सप्रयोजना निष्प्रयोजना वेति । तुशब्दः प्रसिद्धप्रयोजनाभ्यां वादजल्पाभ्यां व्यवच्छिनत्ति । प्रतिपक्षस्थापनाहीना हि वितण्डोच्यते । तत्र स्थापनाहीनत्वात्प्रतिपक्षहीनेति प्रतीयते । न खलु स्थापनाभावे स्थाप्यसंभवः । तथा वितण्डचते व्याहन्यतेऽनया प्रतिपक्षसाधनमिति व्युत्पत्त्या परपक्षोपघातेन पारिशेष्यात्स्वपक्षसिद्धिरस्याः प्रयोजनं प्रतीयते । तदेवं सन्दिग्धप्रयोजना सती वितण्डा परीक्ष्यते, प्रयोजनवती न वेति । तत्र यदि निष्प्रयोजना ततो न सर्वा विद्याः, सर्वाणि कर्माणि, तन्मुखेन च सर्वे प्राणिनः प्रयोजनेन व्याप्ताः, वितण्डाया एव कर्मरूपाया विद्यारूपाया वा निष्प्रयोजनात्वात् । अथ प्रयोजनवती, तत उपपन्ना प्रयोजनव्याप्तिः । किं तावत्प्राप्तम्? तत्र केचिद्ब्रुवते निष्प्रयोजना वितण्डेति । स्थापनाहीनतया तावत्स्थापयः पक्षो नास्ति । अवयवव्युत्पत्त्यापि परसाधनाविधातः प्रतीयते । न च तावन्मात्रेण स्वपक्षसिद्धिरस्ति । न हि पर्वतनितम्बवर्तिति धूमे असिद्धत्वादिना दूषिते वह्नेस्तत्राभावो निश्चीयते । तदिदमुक्तम्दूषणमात्रत्वादिति । तमिमं निष्प्रयोजनवितण्डावादिनं प्रत्याहतच्च नैवमिति । परसाधनदूषणेनास्य पारिशेष्यात्स्वपक्षः सिध्यतु, मा वा सैत्सीत्, स तु स्वपक्षसेद्धचैव प्रयोजनेन प्रतिपक्षसाधनमाहन्तीति भावः । तदनेव (स) यदि प्रयोजनमनुयुक्त इत्यादि भाष्यं व्याख्यातम् । अथ न प्रतिपद्यत इत्यादि भाष्यं व्याचष्टअथ पक्षमपीति । अथापीत्यादि भाष्यं व्याचष्टेअथ परपक्षेति । नास्तिको हि सदसदुभयानुभयरूपतया न विचारं सहन्त इति प्रमेयाणि सर्वथा दूषयति । तदयं परपक्षप्रतिषेधमात्रप्रयुक्तः प्रवर्तते । न त्वस्यास्ति पक्षो न च स्थापना । तयोरपि प्रमेयपक्षपातितया दूष्यत्वादित्यर्थः । एतदपीत्यादि भाष्यं व्याचष्ट तादृगेवैतत् । एदद्विभजतेएतस्मिन्नपि पक्षे चतुर्वर्ग चेत्प्रतीपद्यते सोऽस्य पक्षः । प्रतिपत्तिरभ्युपगमः । यद्यपि स्थाप्य एव पक्षः, तथापि तन्नान्तरीयकतया अभ्युपगममात्रेण चतुर्वर्गोऽपि पक्ष उक्तः । कश्चतुर्वर्ग इत्यत आहचतुर्वर्ग इति । एष साधनवादी ज्ञापयतिअहं वैतण्डिको जाने अनेन पञ्चावयवेन साधानावाक्येनेदं साध्यं ज्ञाप्यत इति चतुर्वर्गः । तत्प्रतीत्या खल्वस्य वैतण्डिकस्य परपक्षनिषेधः प्रयोजनं सिध्यति । तथा च न विष्प्रयोजनोऽयं वैतण्डिक इत्यर्थः । द्वितीयं कल्पं दूषयतिअथ न प्रतिपद्यत इति । चतुर्वर्गनान्तरीयकत्वात्दूषणमपि न प्रतिपद्यते इत्युन्मत्तवदुपक्षणीय इत्यर्थः । अपरमपि नास्तिकवैतण्डिकं प्रति दोषमाहप्रतिपक्षेति । असिद्धविरुद्धादिदोषो वाक्यस्य वैतण्डिकप्रयुक्तस्यार्थः । तं यदि प्रतिपद्यते सोऽस्य पक्षः । अथासिद्धविरुद्धादीनां सद्भावाभ्युपगमे प्रमेयमध्यपातिनां प्रमेयमात्रविचारासहत्वाभ्युपगमो विघटत इति स्ववाक्याभिहितमेवाद्धिविरुद्धादि न प्रतिपद्यते, पूर्ववद्दोषः । नायं लौकिको न परीक्षक इति । तस्माद्वितण्डापि प्रयोजनवतीति नाव्यापकं प्रयोजनमिति सिद्धम् । सोऽयं प्रसक्तानुप्रसक्तिवादः प्रयोजनव्याख्यानाङ्गमित्याहौक्तं प्रयोजनमिति ॥ दृष्टान्तपदव्याख्यानपरं भाष्यमनुभाषतेप्रत्यक्षविषय इति । आक्षिपतिकिमुक्तं भवतीति । न तावद्यो यः प्रत्यक्षविषयः, स सर्वो दृष्टान्तः, अदृष्टान्तस्यापि प्रत्यक्षविषयत्वात् । नापि यो दृष्टान्तः स सर्वः प्रत्यक्ष विषयः, आगमादिविषयस्यापि दृष्टान्तत्वात् । तस्मादयुक्तमेतदित्याक्षेप इति । तत्समाधानभाष्यम्यत्रेति । तद्वचाचष्टेलौकिकपरीक्षकाणां दर्शनविघातहेतुरिति । एतच्च क्वचिल्लौकिकपरीक्षकाणाम्, क्वचित्परीक्षकाणामिति मन्तव्यम् । अन्यथा यदप्रसिद्धं लौकिकानां केवलं पण्डितरूपवेदनीयं परमाण्वादि तस्यादृष्टान्तता स्यात् । अत्र च यो दृष्टान्तः स एवम्, त तु य एवे स दृष्टान्त इति द्रष्टव्यम् । एवंभूतव्याख्यानस्य प्रयोजनं दर्शयतिएवं चेति । तद्विभजतेदर्शनाविधातेति । न केवलं प्रमेयविरोधः सूत्रविरोधश्चेत्यत आहततश्चोदाहरणसूत्रं व्याहन्यते । यत्तेषु तेषु शास्त्रप्रदेशेष्वतीन्द्रियोदाहरणसूत्रं सिद्धान्ते पूर्वपक्षे वा यथा, मन्त्रायुर्वेदप्रामाण्यवत्(२.१.६८), अणुश्यामतानित्यत्ववत्(५.१.६७) इत्येवमादि, तद्व्याहन्यते । न तूदाहरणलक्षणसूत्रम् । तद्धि प्रत्यक्षविषयदृष्टान्तत्वेऽप्युपपद्यत एव । तस्माद्भाष्ये प्रत्यक्षवचनं दृष्टान्तविषयप्रमाणदाढ्रयं लक्षयति । प्रत्यक्षमूलत्वाद्वा प्रत्यक्षो दृष्टान्तः, अन्यथानवस्थाप्रसङ्गादिति । सोऽयं दृष्टान्तः प्रमेयेऽन्तर्भवन्नेवमर्थं पृथगुक्त इत्याहसोऽयमिति । न्यायस्य पञ्चावयवात्मकस्य वचनसमूहस्य दृष्टान्तो मूलम्, अतस्तस्य पृथगुपदेशः । अतश्चास्य पृथगुपदेशो यत्सति तस्मिन्निति । अनुमाननिमित्तत्वमाह पूर्व प्रत्यक्षेति । दृष्टान्तधर्मिणि दृढतरप्रमाणावधारितमित्यर्थः । शाब्दमूलतां द्रृष्टान्तस्य दर्शयतिपूर्व ज्ञातं चार्थमिति । संबन्धग्रहणविषयोऽर्थो दृष्टान्तः, संबन्धग्रहणं च शाब्दस्यापि ज्ञानस्य निमित्तं प्रथमश्राविणः शब्दादर्थज्ञानाभावात् । तस्मादस्ति शाब्देऽपि दृष्टान्तस्योपयोग इति । अपरमपि पृथगुपादानप्रयोजनमाहनास्तिकस्येति । अप्रपञ्चने हेतुमाहतदुक्तं भाष्य इति ॥ सिद्धान्पदविवरणभष्यं व्याचष्टेअभ्युपगमेति । तद्विभजते अभ्युपगम इदिमित्थम्भूतं चेति । तद्विभजतेइदमितीति । इदमिति हि धर्मिविषयं सिद्धान्तं दर्शयति, धर्मो सर्वतन्त्रसिद्धान्तविषयः । इत्थमिति प्रतितन्त्राधिकारणाभ्युपगमसिद्धान्तविषयं दर्शयति । व्यवस्थायामुपलक्षणतया प्रतितन्त्रसिद्धान्तमात्रमुदाहरतिइदं सांख्येष्वेवेति । उपलक्षणतामुदाहरणस्याजानानश्चोदयतिसर्वतन्त्रेति । परिहरतियोऽयमिति । अभ्युपगमव्यवस्थितिरनभ्युपगमाद्व्यवच्छिनत्ति । न तु पुरुषविशेषे व्यवस्थापयतीति भावः । अस्यापि प्रमेयान्तर्ग्रतस्यापि सतः पृथगुपादानप्रयोजनमाहतस्य प्रमेय इति । तत्र सर्वतन्त्रसिद्धान्तसिद्धस्तावद्विप्रतिपन्नानामपि वादिनां धर्मो, तस्य सर्वतन्त्रसिद्धान्तसिद्धस्य विशेषेषु प्रतितन्त्रसिद्धान्ताः प्रवर्तन्त । तथा हि यदि घटो नाम न सर्वतन्त्रसिद्धान्तसिद्धः किमाश्रया अवयवी वा परमाणुसमूहो वा ज्ञानाकारो वा प्रधानपरिणामो वा ब्रह्मपरिणामो वा तद्विवर्तो वेति प्रतितन्त्रसिद्धान्ताः प्रवर्तन्ते? कथं च प्रतितन्त्रसिद्धान्ताश्रयो वादजल्पवितण्डाः प्रवर्तन्ते? किमाश्रयश्च न्यायः स्यात्? तथा यद्यधिकारणसिद्धान्तो न भवेत्, कथं साध्यसामान्यव्याप्तं साधनसामान्यमिति साणनविशेषत्साध्यविशेषो गम्येत? तस्मादस्ति प्रमेयस्यापि सिद्धान्तस्य पृथगुपादनप्रयोजनम् । अभ्युपगमसिद्धान्तं चोपरिष्टाद्विचारयिष्यति वात्तिककृतिति तत्प्रयोजनमिहास्माभिनोग्क्तमिति ॥ क्रमप्राप्तानवयवानाहअथावयवाः । ननु यथा तन्तवः पटस्य समवाचिकारणं किं तथैवैते प्रतिज्ञादयो वाक्यस्य? नो खलु रागनगुणा वर्णाः समवायिकारणतां प्रतिपद्यन्त इत्याह वाक्यैकदेशा इति । अवयवा इवावयवाः, न पुनः समवायिकारणम्, यथा ह्यवयवाः समुदायिन एकस्मिन्नवयविनि कार्ये धारयितव्ये च, एवमेकस्मिन् विवक्षितार्थप्रतिपादने प्रतिज्ञादयोऽवयवा वाक्यस्य समुदायस्य समुदायिन इति । ननु वर्णानामाशुतरविनाशिनां क्रमवतामेककालत्वाभावे समुदायाभावात्कुतस्तत्समुदायो वाक्यम्, कुतश्चैकदेशतेत्याशयवानाक्षिपतिकिं पुनर्वाक्यम्? उत्तरम्पूर्वपदस्मृत्यपेक्षोऽन्त्यपदप्रत्ययः स्मृत्यनुग्रहेण प्रतिसन्धीयमानो विशेषप्रतिपत्तिहेतुर्वाक्यम् । विशिष्यत इति विशेषः पदार्थ एकः, क्रिया वा कारकं वा प्रातिपदिकार्थो वा पदार्थान्तरविशिष्टो वाक्यार्थः । यथा सोमेन यजेत गोदोहनेन पशुकामस्य यस्य पिता पितामहो वा सोमं न पिबेत्स व्रात्य इति । तस्य विशेषस्यैकस्य प्रतिपत्तिहेतुः । तदेवं समूहनिबन्धनं पदानामेककार्यत्वं सूचयति । को विशेषप्रतिपत्तिहेतुरित्यत उक्तमन्त्यपदप्रत्ययः । अन्त्यं विशेष्यं विरोषणपूर्वकत्वात् । तस्य पदम् । न च तदविदितं सत्तामात्रेण चक्षुरादिवद्विशेष्यं प्रतिपादयतीत्यत उक्तम्प्रत्यय इति । प्रतीयमानं विशेष्यवाचि पदं विशेष्यं बोधयति । प्रतीतिश्च नानुभवः, अपि तु स्मृति । न हि क्रमवद्वर्णसमुदायः पदं श्रवणेन्द्रियानुभवगोचरः संभवति, संभवन्ति तु प्रत्येकं वर्णाः । न चैते प्रत्येकं पदम् । न च पूर्ववर्णस्मृतिनिचयसाहितोऽन्त्यवर्णानुभवः श्रोत्रज इति युक्तम्, स्मृतीनां स्वकार्यसंस्कारविरोधिनीनामसहभावात् । विनश्यदविनश्यदवस्थयोस्तूपान्त्यान्त्यवर्णस्मृत्यनुभवयोः स्यात् । न चैतावतार्थप्रत्ययः पूर्ववर्णस्मृतीनां निरोभावात् । न च पूर्ववर्णानुभवनितसंस्कारसहकारिणः श्रवणादेव लब्धजन्मनः प्रत्ययस्यैकस्याध्यस्ततत्स्मृत्यनुभवरूपवैचित्र्यस्य सदसद्वर्णावगाहिनो विषयभावमापन्ना वर्णा अर्थधियमादधतीति साम्प्रतम्, संबन्धसंवेदनाहितसंस्कारोब्दोधसमयजन्मना स्वजनितेन संस्कारेण संबन्धस्मृत्युत्पत्तिसमये विनाशात्पदार्थावबोधकत्वानुपपत्तेः । तस्मात्स्मृतिरेव प्रत्ययः । अत एवाध्ययनसमये गुरुमुखाद्गृहीतो वेदराशिर्वेदाङ्गोपाङ्गज्ञानसंस्कृतेन स्मर्यमाण एव तस्यार्थं बोधयति । एवं च यदा पदार्थप्रत्यायन एव पदानुभवो न कारणम्, तदा वाक्यार्थज्ञाने नानापदार्थस्मरणाकाङ्क्षायोग्यतासन्निधानावधारणादिव्यवहिते कैव कथेति । यदि तर्हि विशेष्यपदमेव स्मर्यमाणं विशिष्टमर्थमवगमयति कृतं पदान्तरैः, तत एव वाक्यार्थप्रतिपत्तेरित्यत उक्तम्पूर्वपदस्मृत्यपेक्षः । पूर्वं विशेषणम्, तत्पूर्वकत्वाद्विशेष्यप्रतीतेः । तस्य पदव स्मर्यमाणपूर्वपदापेक्षः । यद्यपि स्मरणानि न सह संभवन्ति तथाप्येकस्मृतिसमारूढानि वा पदानि निरन्तरस्मृतिसंतानसमारूसनि वा परस्परापेक्षाणि । तथा च स्मर्यमाणं विशेष्यपदं विशेषणपदापेक्षं विशिष्टमर्थमवगमयतीति ॥ स्यादेतत् । पदमाला चेत्स्मर्यमाणा वाक्यार्थवोधनी, कृतं तर्हि पदार्थवोधनेन, कृतं च पदतदर्थसंबन्धबोधनेनेत्यत उक्तम्स्मृत्यनुग्रहेणेति । प्रत्येकं पदेभ्यो याः पदार्थस्मृतयस्तदनुग्रहेण । एतदुक्तं भवति, यद्यपि वाक्यार्थवोधनाय पदमाला प्रवृत्ता, तथापि पदार्थस्मृतिरवान्तरव्यापारभूता अपेक्षते काष्ठानीव पाकप्रवृत्तानि ज्वलनमवान्तरव्यापारम् । न च पदान्यगृहीतसङ्केताति पदार्थान् स्मारयन्तीति उपपन्ना पदार्थस्मृतिसंबन्धसंवेदनयोरपेक्षेति । यदि हि पदार्थस्मृत्यपेक्षा पदमाला वाक्यार्थवोधनरी, हन्त दशदाडिमानि षडपूपा भवन्तीत्येवमादीनामपि वाक्यार्थबोधकत्वं स्यादित्यत आहप्रतिसन्धीयमानः । प्रतिपदं सन्धानं घटनं प्रतिसन्धानम् । तच्च स्वार्थद्वारेणाकाङ्क्षायोग्यतासत्त्यधीनम् । न च दशदाडिमादिवाक्यादिषु तदस्तीति न ततो वाक्यार्थावबोध इत्यर्थः । तदेवमेकस्मृतिसमारोहेण एमार्थावच्छेदेन च पदानां समूहो वाक्यम् । तस्य भागा एकदेशा इति । यावतीत्यादि भाष्यमवतारयतिते कियन्तः? भाष्यव्याख्यानेनोत्तरम्यावभ्दिरिति । पृच्छतिकेति । न हि समाप्तेर्निष्पत्तेरन्या सिद्धिरस्तीत्यभिप्रायः । उत्तरम्पदार्थस्येति । धर्मिणः सिषाधायिषितधर्मविशिष्टत्वं वास्तवमित्यर्थः । समाप्ति पृच्छतिकेति । उत्तरम्विशेषेति । वास्तवो धर्मः सिद्धिः, तद्गोचरस्तु विनिश्चयः पुरुषधर्मो निष्पत्तिरिति विशेष इत्यर्थः । कियद्भिः किमभिधानैश्च विभागैः सिद्धिः परिसमाप्यत इत्याशङ्क्य भाष्यकृतोक्तम्तस्य पञ्चेति । तद्व्याचष्टेसमाख्येति । भाष्यमनुभाष्याक्षिपतितत्रागम इति । न ह्यगमवत्प्रतिज्ञावचनं निश्चायकम्, हेतुवचनादिवैयर्थ्यात् । निष्पादितक्रिये कर्मणि साधनस्य साधनन्यायातिपातादिति । समाधत्तेआगमाधिगतस्येति । आत्मादिप्रमेयप्रतिपादनोद्देशेन हि शास्त्रमेतत्प्रवृत्तम् । तन्नान्तरीयकतया न्यायं व्युत्पादयत्तमेव व्युत्पादयेत्, य आत्मादेः प्रमेयस्य साक्षात्निश्चायकः, तत्प्रतिपादकागमप्रमाण्यनिश्चायको वा । तस्य च न्यायविशेषस्याद्योऽवयवः प्रतिज्ञा, आगमार्थविषया साक्षात्, तद्विषयागमप्रमाण्यप्रतिपादकस्य च परम्परया । तस्मातागमः प्रतिज्ञा । आगमोपचारस्य च प्रयोजनमिदं यदर्थसंवादेनागमेनानुगृह्यते न्यायः सप्रयोजनश्च भवति, आगमार्थज्ञानस्य निःश्रेयसहेतुभावेन निरूढत्वात् । तस्माद्यद्यपि न न्यायमात्रवर्तिनी प्रतिज्ञा आगमः, तथापि प्रकृतन्यायाभिप्रायेणैतद्द्रष्टव्यम् । तथा चागमार्थसंबन्धेन प्रतिज्ञायाः कल्पितविषयत्वमपि पराकृतं वेदितव्यम् । यदाहुः एकेसर्वोऽयमनुमानानुमेयव्यवहारो बुद्ध्यारूढेनैव धर्मधर्मिभावेन, न बहिःसदसत्त्वमपेक्षते इति ॥ तथानुमानस्य न्यायानुग्रहाकत्वं हेतुवचनस्यानुमानत्वोपचारेण भाष्यकारेणोक्तम्हेतुरनुमानमिति । तत्खल्वनुमानप्रतिपादकं वचनं विषयतयानुमानेनानुग्रहीतव्यम् । न च लिङ्गदर्शनमात्रमनुमेयप्रतिपत्तिहेतुः, अपि तु संबन्धस्मृतिसहकारि । न च हेतुवचनमात्रात्सहकारितावगम्यते । तस्मान्न लिङ्गवचनमनुमानप्रतिपादकमिति कथमनुमानत्वोपचार इत्यत आहएवं लिङ्गदर्शनमात्रे दृश्यमाने लिङ्गरूपे संबन्धस्मरणरहिते हेतूपचारातनुमानत्वोपचारथेतुरनुमानमित्युक्तं भवष्यकृता । तदेव विभजतेयत्तु द्वितीयं लिङ्गदशनम् । संबन्धग्रहणसमये लिङ्गदर्शनं प्रथमम्, तदपेक्षया साध्यधर्मिणि लिङ्गदर्शनं द्वितीयम्, तत्संबन्धस्मृतिव्यक्तिहेतुभावात्स्मर्यतेऽनयेति स्मृतिः संस्कारः । तस्य व्यक्तिः कार्याभिमुखीकरणम्, तत्र हेतुभावात् । क्वचित्पाठः संबन्धस्मृतिहेतुव्यक्तिहेतुभावादिति । स तु सुगम एव । अतो हेतुरित्युच्यते । एतदुक्तं भवति, यत्तद्द्वितीयं लिङ्गदर्शनं शुद्धमप्यापाततः संबन्धस्मृतिहेतुभावात्संबन्धस्मृति सहकार्येव । तथा चानुमानम् । एवं च तत्प्रतिपादकस्य वचस उपपन्नोऽनुमानत्वोपचार इति सिद्धम् । एवं च वास्तवेन लिङ्गेन संबन्धात्तद्वचनस्य बुद्धिविकाल्पितलिङ्गविषयत्वं परास्तं वेदितव्यम् । एवमन्येष्वप्यवयवेषु वक्ष्यमाणेष्वेतदेव प्रयोजनं योजनीयमिति । उदाहरणं प्रत्यक्षमिति भाष्यम् । तद्व्याचष्टस्मृतिविषयस्येति । यत्र प्रत्यक्षविषये पूर्वं व्याप्तिर्गृहीता तस्य स्मृतिरिति स्मृतिविषयस्य प्रत्यक्षतः पुनरूपदर्शनातविप्रतिपत्त्या पुनः स्मरणात्तत्स्मारकं वचनमुदाहरणं प्रत्यक्षम्, मूलभूतप्रत्यक्षप्रमाणसमुत्थत्वादित ॥ कः पुनरूपमानार्थ इति । प्रत्यक्षमिव प्रत्यक्षमित्यत्रेवकारे तत्रोपमार्थः क इत्यर्थः । एतदेव विभजतेयस्मादिति । उपमानमुपनय इति भाष्यम् । तद्व्याचष्टेयथा तथेत्युपमानैकदेश इति । उपनयो हि तथा चैतदिति प्रवर्तमान उदाहरणस्थं यथाशब्दार्थमपेक्षत इति यथा तथेति प्रवर्तत इति । किं पुनरूपमानं यस्यायमेकदेश इत्यत आहौपमानं खलु तथा गौस्तथा गवय इत्युपदेशोपयोगे । उपयोगस्तदर्थविषयोऽनुभवः । तस्मिन् सति पश्वाद्वनं गतो नागरकः प्रत्येक्षेणादृष्टपूर्वं पिण्डं पश्यति । स्मरति चोपदेशार्थम् । पिण्डस्य च पुरोवर्तिनः स्मर्यमाणेन गवा सादृश्यं प्रत्यक्षेणैव पश्यति । तदेवंभूतं सारूप्यज्ञानं गवयशब्दवाच्योऽयं पिण्ड इति प्रतीतिहेतुरूपमानम् । तदेतस्योपमानस्योपदेशार्थस्मरणगवयपिण्डगोसारूप्याप्रत्यक्षरूपस्यैकदेशे सरूप्ये यो यथातथाभावः स उपनयेऽप्यस्तीत्येतावतोपमानत्वोपचार उपनय इत्यर्थः । सोऽयं सर्वप्रमाणविनिवेशेन परमो न्यायः स्तूयते । निगमनव्याख्यानभाष्यमनुभाष्याक्षिपतिकः पुनरिति । न खल्ववयवानां प्रमाणानां वा वाक्ये समवायः संबन्धः संभवतीति भावः । उत्तरमेकवाक्येति । अध्यारोपो बुद्धचा प्रतिसन्धानम् । सामर्थ्यं पृच्छतिकिं पुनतिति । उत्तरमितरेतरेति । सामर्थ्यं हि पदानां धर्मः । इह तु विभज्यमानानामवयवानां नन्मूलानां च प्रमाणानां साकाङ्क्षत्वमेव धर्मः समार्थ्यम् । तदत्र समस्तरूपसम्पन्नलिङ्गप्रतिपादनमेकं प्रयोजनं विभज्यमानसाकाङ्क्षत्वं चास्तीति सिद्धमेकवाक्यत्वमवयवानामिति । निगमनपदं व्युत्पादयतिनिगम्यन्त इति । सोऽयमिति भाष्यमनुभाष्य पृच्छतिकः पुनः परमशब्दस्यार्थ इति । उत्तरम्विप्रतिपपन्नपुरुषप्रतिपादकत्वं पश्चावयववाक्यस्य परमत्वमिति । एतदेव व्यतिरेकमुखेन प्रतिपादयतिएकैकश इति । यद्यपि लोके प्रत्यक्षादीनामेकैकशोऽपि विप्रतिपन्नपुरुषप्रतिपादकत्वं तत्र तत्रोपलभ्यते, तथापि यदेतद्वेदप्रामाण्यमात्मादिप्रतिपादनं च निःश्रेयसोपयोति, न तत्पञ्चावयवाक्योदतच्छास्त्रोपदिष्टोपकरणाद्विना सिध्यतीत्यनेनाभिप्रायेण द्रष्टव्यम् । अवयवानां पृथगभिधानमाक्षेप्तुं विकल्पयतिकिं पुनरवयवा इति । विकल्पप्रयोजनं पृच्छतिकिं चातः? उत्तरम्यदि प्रमाणान्तरमिति । समाधत्तेनप्रमाणान्तरमिति । प्रयोजनान्तरमाहत एत इति । यत एव वादादिप्रवृत्तिहेतवोऽत एव तत्त्वव्यवस्थायाश्चाश्रया भवन्तीति । पृच्छतिक इति । न हि कुण्डमिव वदराणि तत्त्वव्यवस्थावयवानाश्रयतीत्यर्थः । उत्तरम्विशेषप्रतिपादकत्वम् । धमविशिष्टोधर्मो विशेषः । विशिष्यत इति व्युत्पत्त्या, तत्प्रतिपादकत्वमवयवानां तत्त्वव्यवस्थाश्रयत्वमित्यर्थः ॥ क्रमप्राप्ततर्कपदव्याख्यानार्थं भाष्यमनुभाषतेतर्को न प्रमाणसंगृहीतः । प्रमाणपदेन हि चत्वारि प्रमाणानि संगृहीतातिन । न चैतेष्वन्यतमस्तर्क इत्यर्थः । अस्तु तर्हि प्रमाणपदसंगृहीतेभ्यः प्रमाणेभ्यः प्रमाणान्तरमसंगृहीतं प्रमाणपदेन प्रमेयपदेनेवासंगृहीताः संशयादयः प्रमेया इत्यत आहन प्रमाणान्तरम् । भाष्यमनुभाष्य हेतुमाहअपरिच्छेदकत्वातनिश्चायकत्वात् । तदेव व्यतिरेकमुखेन दर्शयतिप्रमाणमिति । स्यादेतत् । अपरिच्छेदकत्वमसिद्धं तर्कज्ञानस्य संशयादिवद्गुणत्वेनात्मलिङ्गत्वात् । अन्यथा त्वकिञ्चित्करवादुपादानवैयर्थ्यमित्यत आहप्रमाणविषयविभागात्त्विति । न हि वयं गुणत्वेनोत्पत्तिमत्त्वेन वा रूपेणानिश्चायकत्वं तर्कस्याचक्ष्महे, किं तु प्रमाणविषयविभागहेतुतया । न चैवमस्याकिञ्चित्करत्वमित्यर्थः । पृच्छतिकः पुनरिति । उत्तरम्युक्तायुक्तेति । इदं युक्तमिदमयुक्तमिति । इतिकारेण युक्तायुक्तविषयं तर्कज्ञानं परामृशति । तदनेन तर्कस्य स्वरूपं दर्शितम् । तस्य व्यापारमाहयत्तत्र युक्तं भवति, संभवति तदनुजानाति न त्ववधारयति तर्कः । एतदुक्तं भवति प्रमाणं तत्त्वावधारणाय प्रवृत्तं करणतया इतिकर्तव्यतामपेक्षते । तर्कश्च प्रमाणविषययुक्तायुक्तविचारात्मा प्रमाणं युक्ते तत्त्वे प्रवर्तमानमनुजानन् प्रमाणमनुगृह्णरति । तदनुगृहीतं प्रमाणं तत्त्वनिर्णयाय पर्याप्तम् । न च प्रमाणविषये चेत्तर्कः प्रवर्तते कृतमस्य प्रमाणानुज्ञया, नन्वयमेव निश्चायकः कस्मान्न भवतीति साम्प्रतम्, तस्य प्रसङ्गतया पारतन्त्र्येण स्वयमसाधनत्वात् । अस्ति हि प्रसङ्गो न प्रसङ्गो हेतुः । तथा हि प्रत्यक्षमेव तावद्भूतले प्रवर्तमानं तद्विशेषणतया घटाभावेऽपि प्रवर्तमानं यद्यत्राभविष्यद्घटो भूतलमिवाद्रक्ष्यत, तेन सह तुल्यदर्शनयोग्यत्वात् । न च दृश्यते । तस्मान्नास्तीति तर्केणानुज्ञायमानं घटाभाविशिष्टे भूतले प्रवर्तते केवलमेवेदं भूतलं नेह घट इति । एवं स्वर्गकामो यजेत इति शब्दोऽपि प्रवर्तमानः परमाप्तस्य भगवतरिश्वरस्य नियोगो नास्वर्गफलायां यागभावनायामवकल्पत इति समानपदेनोपत्तोऽपि दुःखतया धात्वर्थः साध्य इति न युक्तम् । भिन्नपदोपत्तोऽपि पुरुषविशेषणमपि स्वर्ग एव भावनाफलं युक्त इति तर्केणानुज्ञायमानः प्रवर्तते । न च यद्यभविष्यद्घट इति वा यद्यभविष्यद्धात्वर्थः साघ्य इति वा क्रियातिपत्तिरस्ति, यदाश्रयानिष्टप्रसङ्गेनायुक्तत्वमितरथा तु युक्तत्वम्, तत्तर्केण निश्वीयते । तस्मान्न प्रमाणम् । निश्वयाय तु प्रवृत्तं प्रमाणं तद्विषयविवेचनेनानुगृह्णनितिकर्तव्यात्वेनोपयुज्यते । यर्थोक्तम् मीमांसासंज्ञकस्तर्कः सर्ववेदसमुद्भावः । सोऽतो वेदो रूमाप्राप्तकाष्ठादिलवणात्मवत् ॥ पूजितविचारवचनो हि मीमांसाशब्दः । अयुक्तप्रतिषेधेन युक्ताभ्यनुज्ञानं तर्कः । प्रमाणेतिकर्तव्यतात्वेन च प्रमाणाद्वेदाद्भेद उक्तः । सोऽतो वेद इति अङ्गाडिगनोः अभेदविवक्षया । इतिकर्तव्यतात्वं चास्य साक्षद्दर्शितम् । धर्मे प्रमीयमाणे हि वेदेन करणात्मना । इतिकर्तव्यताभागं मीमांसा पूरयिष्यति ॥ इति सर्वमवदातम् । तस्योदाहरणं भाष्ये कर्मेति । कर्मकारणकमपूर्वं धर्माधर्माविति यावत्, कार्ये कारणत्वोपचारात् । एतदुपपादनाय पृच्छतिकथं पुनतिति । निकायविशिष्टाभिरपूर्वाभिः शरीरेन्द्रियबुद्धिवेदनाभिरभिसंबन्धो जन्म, तस्य कथं कर्मनिमित्ततेत्यर्थः । अत्र प्रमाणमनुमानमाहभदवत्त्वात्, विचित्रत्वादित्यर्थः । पृच्छतिकः पुनरिति । भेदमाहसुगतिरिति । प्रमाणमुक्त्वा तस्येतिकर्तव्यताभूतं तर्कमवतारयतिसोऽयं भेद इति । यद्येकं निमित्तं स्याद्वैचित्र्यं न भवेत् । न ह्यभिन्नात्कार्यवैचित्र्यमुपपद्यते, तस्याकस्मिकत्वप्रसङ्गात् । अत उक्तमनेकमिति । नन्वनेकं यागादिब्रह्महत्यादिक्रियारूपं कारणमस्तं कृतमपूर्वैरित्यत उक्तमवस्थितम् । यागादिका तु क्रिया आशुतरविनाशिनी न चिरभाविने स्वर्गाय कल्पत इत्यर्थः । अवस्थितं चेद्यागाद्याहितमपूर्वं धर्मोऽस्तीति सदैव सुखिना भवितव्यम् । एवमधर्मोऽस्तीति सदैव दुःखी स्यादिति सुखदुःखयोः कादाचित्कत्वं व्याहन्येत । न ह्यवस्थितात्कारणादनवस्थितं कार्यमित्यत उक्तमनित्यम् । न ह्यवस्थानं नित्यतां ब्रूमः, किं तु तावदनेन स्थातव्यं न यावदन्त्यसुखदुःखसंविज्ञानं जनयति, अथ नश्यतीति । ननु भिन्नानि सन्त्वपूर्वाणि, तथापि सर्वाणि सर्वात्मसमवेताति, यथावयवी स्वावयवेषु । तथा च सर्वसाधारण्यान्नोक्तवैचित्र्योत्पाद इत्यत उक्तमेकद्रव्यम् । एकद्रव्यं चेदस्तु तर्हि सर्वसाधारणे पृथिव्यादौ यत्र क्वचित् । तथापि वैवित्र्यानुपपत्तिरित्यत उक्तम्प्रत्यात्मनियतम् । अथ पृथिव्याद्येव कारण जन्मवैचित्र्ये कस्मान्न भवतीत्याशयवान् पृच्छतिकिं कारणमिति कस्मात्कारणादित्यर्थः । उत्तरम्पृथिव्यापदीनामिति । मा भूत्पृथिव्यादि, पृथिव्यादिगतं किञ्चिद्भविष्यतीत्यत आह पृथिव्यादिगतस्येति । भाष्योक्तप्रमेयत्वे तर्कस्य हेतुमाहौपलब्धिविषयत्वादिति ॥ तर्कानन्तरं निर्णय उद्दिष्टस्तर्कहेतुकत्वात् । तस्य स्वरूपमाहनिर्णयस्तत्त्वज्ञानमिति । यद्येवमिन्द्रियापातजन्मप्रत्यक्षज्ञानमपि तत्त्वज्ञानमिति निर्णयः स्यादित्यत आहप्रमाणनामिति । अनेन पञ्चावयववाक्यमुपलक्षयति । तत्र सतर्काणां प्रमाणानां समावायात् । परमार्थतस्तु तर्कपूर्वकस्तत्त्वविनिश्चयो निर्णय इति प्रत्यक्षादीनामपि तर्कसहायानां निर्णयफलत्वमिति । स्यादेतत् । धूमादिगोचरेण निर्णयेन वह्न्यादावनुमीयमाने प्रमाणभेव निर्णयो न फलमित्याशयवान् पृच्छतिकदा पुनतिति । विदिताभिप्रायस्योत्तरम्यदेति । संकलय्य तर्कनिर्णयव्युत्पादनस्य प्रयोजनमाहतावेताविति । परीक्षकोऽत्र लोको लोकशब्देनोच्यते, तदितरस्य तर्कासंभवात् । बुद्ध्वेति परीक्ष्य निर्णयं कृत्वेत्यर्थः । शेषं निगदव्याख्यातम् ॥ निर्णयानन्तरं वादव्याख्यानार्थं भाष्यम्वादः खल्विति । तदनुभाष्योपपत्तिमाहवाद इति । नाना प्रवक्तारो यस्मिन् स तथा । एकस्यापि शास्त्रकर्तुः पूर्वपक्षोत्तरपक्षसाधनदूषणप्रतिपादको वचनसमूहो वादः स्यादिति नानाप्रवक्तृक इत्युक्तम् । सिद्धान्तभेदानविधानेन हि द्वावपि स्वसिद्धान्तानुरूपं साधनं दूषणं चाहतुरित्यर्थः । प्रत्यधिकरणेत्यादि भाष्यमनुभाष्याचष्टेप्रत्यधिकरणमस्य साधनम् । अधिक्रियत इत्यधिकरणं साध्यम्, तदधिकृत्य साधनप्रवृत्तेः । प्रत्यधिकारण साधनं यस्मिन् वादे स तथोक्तः । अस्यैवार्थं निष्कर्ष्टुं पृच्छतिकिमुक्तं भवति? निष्कर्षतिउभाभ्यां वादिप्रतिवादिभ्यां स्वस्वसाध्ये साधनं वक्तव्यम् । तथा च नानाप्रवक्तृकत्वेन तुल्यत्वेऽपि वादस्य वितण्डायाः प्रत्यधिकरणसाधनत्वेन भदेः सिद्धो भवति । वितण्डायाः प्रतिपक्षस्थापनाहीनतया प्रत्यधिकारणसाधनत्वाभावात् । तथापि जल्पादभेदो वादस्य, अस्ति हि जल्पस्य प्रत्यधिकरणसाधनवत्वं च नानाप्रवक्तृकत्वं चेति । अत आहअन्यतरस्मिन्नधिकरणे निर्णय इति । वादे हि तावद्ब्रूते, न यावदन्यतरस्मिन् पक्षे निर्णयो जातः, तत्त्वबुभुत्सोर्वादिनोर्वादेऽधिकारात् । जल्पे तु पुरुषशक्तिपरीक्षालक्षणेऽप्रतिभादिनापि पराज्योपपत्तेर्नावश्यं तत्त्वनिर्णयः । तस्मादन्यतरनिर्णयावसानत्वेन जल्पाद्भेदो वादस्येति सिद्धम् । यथा चैतत्, तथोपरिष्टादुपपादयिष्यते इत्याहतच्चेति । तस्य स्वरूपं पृच्छति।सोऽयमिति । उत्तरम्वाक्येति । चोदयतिननु चेति । वाक्यसमूहश्च ज्ञानं चेति विप्रतिषिद्धमेतदित्यर्थः । परिहरतिनेति । साधनोपालम्भग्रहणस्य शब्दविषयत्वादविदोध इत्यर्थः ॥ युगपदेव जल्पवितण्डे व्याचष्टेतद्विशेषाविति । विशिष्येते भिद्यते इति विशेषौ । तस्माद्वादाद्विशेषौ भिन्नौ । भाष्यमनुभाष्य पृच्छतिकः पुनर्विशेषः? यद्योगाद्विशिष्टे वादात्जल्पवितण्डे इत्यर्थः । उत्तरमङ्गाधिक्यमङ्गहानिश्च यथासंख्यम् । तदेव दर्शयतिछलेति । तत्किमिदानी संशयादिभिरिवात्यन्तवैरूप्यं वादेन जल्पवितण्डयोः? नेत्याहएतावता विशेषेण कथामार्गभेद इति एतावानेव विशेषो न सर्वथा, कथात्वेन संशयादिव्यावृत्तेनसामान्यविशेषेण त्रयाणामप्यभेदादित्यर्थः । अपरमपि भेदहेतुमाहविषयभेदाच्चेति । तद्विभजतेशिष्यादीति । शिष्यमाणोऽत्यन्तविपर्यस्तः दुर्ज्ञानावलेपदुर्विदग्ध इति यावत् । न त्वेवंभूतः शिष्यादिर्विपर्यस्तोऽप्यनवलिप्तत्वादिति भावः ॥ क्रमप्राप्तानां हेत्वाभासानां स्वरूपमाहअन्यतमेति । पञ्चसु चतुर्षु वा लिङ्गरूपेष्वन्यतमं लिङ्गं धर्ममेकं द्वयं त्रयं वानुविदधाना अहेतवो हेतुवदाभासान्त इति हेत्वाभासा उक्ताः । निग्रहस्थानेभ्य इति भाष्यमवतारयितुमाहते च निग्रहस्थानमिति । अवतारयतिनिग्रहस्थानेति । अवतार्य दूषयितुमेकदेशिमतेन व्याचष्टेयस्मात्किलैत इति । किलशब्दोऽयमरुचौ । तदेतदेकदेशिव्याख्यानं दूषयतिन, उभयथाप्यसंबन्धात् । किं ये ये निग्रहस्थानेभ्यः पृथगुपदिश्यन्ते, ते सर्वे वादे चोद्यन्ते? अथ ये ये वादे चोद्यन्ते ते सर्वे पृथुगुपदिश्यन्ते इति? उभयथाप्यनैकान्तिकत्वात्नाविनाभावलक्षणः संबन्ध इत्यर्थः । तदेतद्विभजतेन वादे चोदनीयत्वमिति । कस्मादुभयथाप्यविनाभावाभाव इत्यत आहयदि तावदिति । तस्मात्नायमविनाभूतो हेतुर्वादे चोदनीयत्वं वा पृथगुपदेशो वा भाष्यकारेणोक्त इत्युपसंहरतितस्मादिति । वादे चोदनीयत्वादित्युपलक्षणम्, पृथगुपदेशादिति च द्रष्टव्यम् । तदेवमेकदेशिमतं दूषयित्वा स्वमतेन भाष्यं व्याचष्टेएतदेव तु न्याय्यामिति । निग्रहस्थानेभ्यो हेत्वाभासानां पृथगुपदेशे प्रयोजनं यद्भाष्याक्षरेभ्यः साक्षात्प्रतीयते । सामान्योपदेशेन विशेष उपदिष्टे विशेषोपदेशः प्रयोजनाधिक्यं सूचयति । यथा ब्राह्मणान् भोजय कठ चेति कठभोजने विशेषो गम्यते, तद्वदिहापि निग्रहस्थानोपदेशेनैव हेत्वाभासेषु लब्धेषु तेषां विशेषेणाभिधानं प्रयोजनाधिक्यं सूचयति । एतावानेव सूत्रकृतो व्यापारो यत्सूत्रणं नाम । तत्र निग्रहस्थानविशेषाणां हेत्वाभासानां स्वरूपं वादस्य च तत्त्वनिर्णयावसानत्वमालोच्य वादे चोदनीया भविष्यन्ति निग्रहस्थानत्वेन हेत्वाभासा नाप्रतिभादय इति प्रयोजनं वर्णयाञ्चकार भाष्यकारः । स्यादेतत् । भवन्तु वादे चोदनीया हेत्वाभासाः, मा च भुवन्नप्रतिभादयः । किमेवमपीत्याहविद्याप्रस्थानप्रमेदज्ञापनार्थत्वात् । वादजल्पवितण्डा विद्याः परम्परया निःश्रेयसोपयोगात् । तासां प्रस्थानं व्यापारः, तस्य भेदः, तज्ज्ञापनार्थत्वात् । अत एव जल्पवितण्डयोस्तु इत्याह । चोदयतिअथ कस्मादिति । यदि वादे हेत्वाभासाः प्रयुज्येरन् ततो निग्रहस्थानत्वेन चोद्येरन्, न तु तेषामस्ति प्रयोगोऽप्रमाणत्वात्प्रमाणतर्कसाधनोपालम्भत्वाच्च वादस्य । तस्मात्निग्रहस्थानमात्रत्वं हेत्वाभासानाम् । तथा च न पृथगुपदेशः, निग्रहस्थानोपदेशेनैव लब्धत्वादित्यर्थः । परिहरतिप्रमाणसामान्यादिति । न खलुहेत्वाभासन् तब्दुद्ध्या प्रयु।जाते वादिप्रतिवादिनौ, अपि तु हेतुबुद्ध्या । तथा चास्ति तेषां वादे प्रयोग इति वादे निग्रहस्थानत्वेन हेवाभासाश्चाद्यन्ताम्, नाप्रतिभादीनीत्यर्थवान् पृथगुपदेशः । तदेतद्विकल्प्याक्षिपतिवादे कानिचिदिति । समाधत्तेन, लक्षणपरतन्त्रत्वादर्थतथाभावस्येति ब्रूमः । लक्ष्यत इति लक्षणम्, समानासमानजातीयव्यावृत्तं रूपं वादस्य च निग्रहस्थानानां च । तदधीनो हि तेषां तथाभावो व्यवस्था । कानिचिदेव निग्रहस्थानानि वादे न तु सर्वाणीति सामान्यतोऽभिधाय तदेव लक्षणपरतन्त्रत्वमभिमते विशेषे योजयतिवादस्येति । उक्तमाक्षिपतिप्रमाणप्रतिरूपकत्वादिति । निश्चितौ हि वादं कुरूतः । निश्चयश्च प्रमाणफलमिति कुतोऽप्रमाणस्यावकाश इत्यर्थः । उत्तरम्भ्रान्तेरिति । न निश्चयः सर्वः प्रमाणमूलोऽप्रमाणमूलस्यापि तस्य दर्शनात्, अन्यथा विपर्यासादप्रवृत्तिप्रसङ्गात् । वादिनोश्चाभ्रान्तत्वे वस्तुनो विरुद्धधर्मद्वयसमालिङ्गितत्वमेकदा स्यादिति भावः । पृच्छतिकः पुनः शिष्येति । उपास्योपासकयोः परस्परं न ध्वंसनं संभवतीति भावः । उत्तरम्विवक्षितार्थाप्रतिपादकत्वमेव न खलीकार इति । हेत्वाभासानां च पृथक्करणं न वादे तन्मात्रावधारणार्थम्, अपि तु यस्मिन्ननुद्धावितेऽपि निग्रहस्थाने तत्त्वप्रतिपत्तिव्याघातो भवति, तस्य सर्वस्य संग्रहार्थम् । एवं च न्यूनाधिकापसिद्धान्ता अपि संगृजीता भवन्ति । तत्र पृच्छतिन्यूनाधिकेति । उत्तरम्प्रमाणेति । जल्पवितण्डयोस्त्विति भाष्यमनुभाष्योपपादयतिजल्पवितण्डयोस्त्विति । साहङ्कारो विजिगीषुरप्रतिभादिभिरपि निग्रहस्थानैस्तिरस्कृतो गलिताहङ्कारस्तत्त्वबुभुत्सुतां नीतः पश्चाद्वादेन व्युत्पाद्यत इत्यर्थः ॥ छलजातिनिग्रहस्थानानां पृथगुपदेशप्रयोजनपरं भाष्यमनुभाषतेछलेति । उपलक्षणार्थमिति भाष्यावयवं व्याचष्टे । परिज्ञानार्थमेव केवलम्, पिरज्ञानस्य फलमुक्तम्स्ववाक्ये परिवर्जनमप्रयोगः, परवाक्ये चोद्भावनमिति । चोदयतिछलजातिनिग्रहस्थानानीति । अत्र हि जातेः स्ववाक्ये परिवर्जनमुक्त्वा पुनः स्वयं प्रयोगो न युक्तः । कस्मात्? व्याघातात् । एतद्विभजतेस्वाक्य इति । परिहरतिन व्याघातः । कुतः? प्रश्नापाकरणार्थत्वात् । तद्विभजतेस्वयं च सुकरः प्रयोग इति अनेन भाष्येण किमुक्तं भवति? परेण प्रतिवादिना जातौ प्रयुक्तायां वादी प्राश्निकान् सभ्यान् ब्रवीति जातिरनेन प्रतिवादिना प्रयुक्तेति । ते प्राश्निका एनं पर्यनुयु।जीरन् हे वादिन् कथं केन प्रकारेण जातिः चतुविंशत्यां जातिषु कतमा जातिरिति? सोऽयं प्राश्निकानां प्रश्नः । तदपाकरणार्थं स्वयं सुकरः प्रयोग इत्यर्थः । प्रकृतमुपसंहरतितस्मादेत इति ॥ सूत्रकारेण शास्त्रस्यात्यन्तिकदुःखोपरमरूपनिःश्रेयसाधिगमः प्रयोजनमुक्तम् । भाष्यकारस्तु नास्त्येव तत्प्रेक्षावतां प्रयोजनम्, चत्रान्वीक्षिकी न निमित्तं भवतीत्याहसेयमान्वीक्षिकीति । तदेतद्भाष्यं व्याचष्टेसेयमान्वीक्षिकी न्यायविद्यति । यद्यपीतरा विद्याः प्रमाणिकमेवार्थमभिनिविशन्ते तथाप्येतद्विद्याप्रतिपाद्यमेव प्रमाणाद्युपजीव्य स्वे स्वे व्युत्पाद्ये तत्त्वे प्रवर्तन्त्र, न तु प्रमाणाद्यपि व्युत्पादयन्ति । यथा प्रत्यक्षाद्युपजीव्य प्रवर्तमानमनुमानं न प्रत्यक्षादिविषयमपि तदानीमेव गोचरयति । तदनेन विद्योपकरणग्रहणेन व्यापार आन्वीक्षिक्या दर्शितः । संप्रति विद्यानां यानि कर्माणि प्रतिपाद्यानि सामाग्रिहोत्रकृष्यादीनि तत्राप्यान्वीक्षिक्युपाय इत्याहौपायः सर्वकर्मणां विद्याव्युत्पाद्यानाम्, न तु हालिकमृगय्वादिकर्मणामपि । न हि विद्यापदेभ्यो यावन्मात्रागतिः, तावन्मात्रेण प्रेक्षवतां परितोषः । मा भूत् आदित्यो वै यूपः इत्यादिभ्य आदित्यादीना यूपादिता । तस्मात्संशयपरीक्षाप्रमाणविनिवेश द्वारेण तदर्थतत्त्वमवधार्या तत्र त्रयी विनिवेशनीया । एवं दण्डनीतिवार्तयोरनुगन्तव्यम् । तस्मादान्वीक्षिकीपरिशोधितप्रमाणप्रमाशितं सामादि इतरा विद्याः कुर्वन्ति विषयमिति शेषः । अपि च द्रव्यगुणकर्मणामभिमतानभिमतोपायताप्रज्ञापनेन यथायथ सर्वा विद्याः प्रेक्षावतः प्रवर्तयन्ति निर्वयन्ति वा । तत्र किमविशेषेण साध्यसाधनेतिकर्तव्यतासु प्रवर्तयन्तु, आहोस्वित्साधनेतिकर्तव्यतामात्रे? तत्र यदि साध्यांशोऽपि प्रवर्तनागोचरः, तदा श्येनादिसाध्याया हिंसाया विहितत्वेन नानर्थवत्वम् । अथ साध्यांशं रागतः प्राप्तमनूद्य साधनेतिकर्तव्यते एव विधरयेते, ततः श्येनादिसाध्याया हिंसाया अविहितत्वेन न हिंस्यात्सर्वा भूतानि इति प्रतिषधादनर्थत्वम् । तदिह साध्यांशेऽप्रवर्तनमान्वीक्षिकीगम्यम् । एवमनुष्ठानगताः प्रयोजकत्वाप्रयोजकत्वादय आन्वीक्षिकीगम्याः । एवं वार्तादिष्वपीति । तदेवमान्वीक्षिकीमाश्रयन्ते सर्वविद्या इत्याहआश्रयः सर्वधर्माणां सर्वासां विद्यानां पुरुषप्रवर्तना धर्माः, तेषामाश्रयः । वार्तिककारस्तु धर्मद्वारेण विद्यानामेवश्रय इति व्याचष्टेसर्वविद्योपकारकत्वादाश्रयः, सर्वासां विद्यानामियमुपकरोति । विद्यया प्रवर्तनायां कर्तव्यायामियं सहकारितयोपकरोतीत्यर्थः ॥ स्यादेतत् । व्युत्पाद्याश्चेत्प्रमाणादयः सर्वविद्योपयोगिनः, तर्ह्रात्यन्तिकी दुखः निवृत्तिरान्वीक्षिक्याः फलं निःश्रेयसपदादवगम्यते । व्युत्पाद्यस्वभावालोचनया हि तद्गम्यते, स च विद्यान्तरसाधारण इति विद्यान्तराधिगम्येन निःश्रेयसेन सङ्करप्रसङ्ग इत्यत आहतदिदं तत्त्वज्ञानं निःश्रेयसाधिगमश्च यथाविद्यं वेदितव्यम् । विद्यान्तराणि तावद्यत्तत्त्वज्ञानं कुर्वन्ति तत्स्वभावालोचनया हि तद्विद्यासाध्ये एव निःश्रेयसभदे उपयुज्यन्ते नान्यत्र । इह तु प्रमाणादि यद्यपि साधारणम्, तथाप्यसाधारणात्मादिरूपप्रमयसमभिव्याहृतं सदभिमत एव निःश्रेयसेःवतिष्ठत इति । विशुद्धेनार्जनेन होमसाधनस्य द्रव्यस्य प्राप्तिः स्वागतम् । आदिग्रहणेन क्रमपर्यन्ताङ्गग्रामसाकल्यं गृह्यते । श्वमार्जारादिभिरनुपघातः अनुपहतत्वम् । आदिग्रहणाद्विशुद्धाभिसन्धिरिति । शेषमतिरोहितम् । वादादीनां निग्रहस्थानान्तानामुपदेशः पराभिभवोपायतया मदमानादिहेतुत्वेन निःश्रेयसपरिपन्थीति मन्वानश्चोदयतिमदमानादीति । परिहरतिन, सूत्रार्थापरिज्ञानात् । नायं सूत्रार्थः, सर्वेषां तत्त्वज्ञानं साक्षान्निःश्रेयसोपयोगीति, किं त्वात्मादितत्त्वज्ञानम् । तदितरत्तु पारम्पर्येण । तत्र जल्पादीना पराहङ्कारप्रशमनमवान्तरव्यापार इति न निःश्रेयसपरिपन्थिता, किं त्वानुकूल्यमित्यर्थः । मदमानादिनिमित्तत्वं च हेतुरसिद्ध इत्याहयच्चेदमिति । उपसंहारति तस्मान्न निमित्तं वादादिपरिज्ञानं रागादीनामिति । इति । सूत्रसमाप्तौ ॥ १ ॥ ____________________________________________________________________ ण्य्ष्_१,१.२ दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तराभावादपवर्गः ॥ तदेवं प्रथमसूत्रेण शास्त्रस्याभिधेयप्रयोजनसंबन्धान् दर्शयता पदार्थाः प्रमाणादय उद्धिष्टाः । तेषां च लक्षणमुक्त्वा तत्परीक्षा वर्तयिष्यते, अपरीक्ष्य तत्त्वज्ञाननिर्णयायोगात् । न चानिर्णोतप्रयोजनसंबन्धानां प्रमाणादीनां लक्षणपरीक्षयोरवसरः । न च प्रयोजनसंबन्धनिर्णयः परीक्षां विनेति तत्परीक्षार्थं द्वितीयं सूत्रम् । तत्र प्रयोजनाभिधानस्य द्वैविध्यात्संशयः । द्विविधं हि प्रयोजनाभिधानं ग्रन्थकृतां दृष्टं समीचीनमसमीचीनं च, यथा वातिकादिप्रयोजनाभिधानमायुर्वेदादिप्रयोजनाभिधानं च । तस्मादभिधानसामान्यादुभयथादर्शनाच्च संशयः । तत्रोत्सूत्रेण प्रयोजनाभिसंबन्धप्रतिपादनपरं पूर्वपक्षभाष्यम्तत्खलु वै निःश्रेयसमित्यादि । तद्विभजतेन तत्त्वपरिज्ञानादपवर्गः । कुतः? उभयथादोषात् । तदत्यन्तविमोक्षलक्षणोऽपवर्गो निःश्रेयसम् । तच्चेत्तत्त्वज्ञानानन्तरम्, सम्प्रदायोच्छेदो वातपुत्रीयता च शास्त्रस्य स्याताम् । तस्मान्न तत्त्वज्ञानानन्तरं निःश्रेयसम् । तथा सति प्रमाणादितत्त्वज्ञानान्निःश्रेयसमिति । मिथ्या । न चान्यन्निःश्रेयसमित्यभिमानः पूर्वपक्षवादिन इति ॥ अत्रेदं सिद्धान्तसूत्रमुपतिष्ठतेदुःखजन्मेति । तस्य तात्पर्यमभिधायावतारयतिन प्रयोजनानभिसंबन्धः । कुतः? निःश्रेयसस्य परापरभेदात् । चतस्त्रो हि प्रतिपत्तयः प्रमेये आत्मादौ । प्रथमा तावदागमात्यामाचक्षते श्रवणमिति । द्वितीया तु श्रुतस्य परीक्ष्य न्यायन व्यवस्थापनम्, यामाहुर्मननमिति । सा चान्वीक्षिक्यामायतते । आन्वीक्षिकी च संशयादितत्त्वज्ञापनं प्रमाणतत्त्वज्ञापनायोपादत्ते । प्रमाणतत्त्वज्ञापनं च हेयोपादेयभेदव्यवस्थितप्रमेयतत्त्वपरिज्ञापनाय । तत्राप्याद्यन्तवर्जितदशवर्गज्ञापनमाद्यन्तयोः एवात्मापवर्गयोरूपादेययोस्तत्त्वज्ञानस्योपकरोति । न चायमान्वीक्षिकीविद्यावघृतप्रमेयतत्त्वोऽपि परितुष्यति, पूर्ववदेवात्मादिगतविपर्ययवासनानुवृत्तेः । नो खलु दिङ्मूढः सहस्रेणाप्यनुमाणैर्विपर्ययसंस्कारमपनयति । तत्त्वासाक्षात्कारस्तु विपर्ययसंस्कारा निवर्तयति । तज्जनिता च वासना विपर्ययवासनामिति लोकसिद्धम् । तस्मादात्मादिसाक्षात्कारवतीं चतुर्थौ प्रतीतिमशेषतद्गोचरवासनाविपर्यासशमनीमर्थयमानेनादरनैरन्तरर्याभ्यां ध्यानचिन्तादिशब्दवाच्या तृतीया प्रतीतिः साक्षात्कारफला दीर्घकालमुपासनीया । अथ परिनिष्पन्नध्यानोपायः साक्षात्कारवतीं प्रतिपद्य चतुर्थौ प्रतीतिं निर्मुक्तसकलक्लेशजालः अप्रवर्तमानो धर्माधर्मसाधनेषु निरूद्धानागतधर्माधर्मप्रबन्धोत्पादो भूतेन्द्रियविजयी प्रज्ञाज्योतिर्जोवन्नेव मुक्त इत्युच्यते । न चैवमवस्थो वीतरागोऽपि सहसैव देहादिभिः वियुज्यते, प्रागुपात्तस्य धर्माधमप्रचयस्याभुक्तस्य भुज्यमानस्य चाप्रक्षीणत्वात् । न च प्रायश्वित्तेनेवात्मज्ञानेनादत्तफलान्येव कर्माणि क्षीयन्त इति युक्तम्, नाभुक्तं क्षीयते कर्म । ॰ ॰ इति स्मृतेः । अत्यन्तसुखदुःखसंविज्ञानविरोधस्य कर्मणामवधारणात् । औत्सर्गिकस्य क्वचित्प्रयश्वित्तादौ विशेषवचनेनापवादात् । क्षीयन्ते चास्य कर्माणि । ॰ मुण्डक २।२।८ ॰ इति श्रुतेः । योगर्द्धिवशाद्युगपदुत्पादितानेकविधदेहोपभोगेनाप्युपपत्तेः ॥ तावदेवास्य चिरं यावन्न विमाक्ष्येऽथ सुपत्स्ये । ॰ छान्दोग्य ३।१४।२ ॰ इति चाभुक्तोपभज्यमानफलकर्मप्रक्षयावघित्वदर्शनम् । योगार्द्धिवशाच्चानियतविपाककालान्यपि दीर्घकालफलान्यपि कर्माणि पिण्डीकृत्य भूतेन्द्रियदविजयितया युगपदेव भुङ्क्ते । अचिन्त्यो हि समाधिप्रभाव इत्युक्तम् । न चाचिन्त्यत्वाद्विनैवोपभोगेन कर्माशयान् प्रक्षयिष्यतीति युक्तम्, दृष्टानुसारेण कथञ्चिदुपपत्तौ अत्यन्तादृष्टकल्पनाया अयोगात् । तस्मादुत्पन्नतत्त्वसाक्षात्कारस्य दोषाभावात्प्रवृत्त्युपरमे योऽनागतापूर्वानुत्पादस्तदपरं निःश्रेयसम् । तच्च तत्त्वसाक्षात्कारानन्तरं भवति । तादृशश्च मुनिस्तत्त्वज्ञानवान् शास्त्रस्य प्रणेतेति न वातपुत्रीयं शास्त्रमिति । परं तु रिःश्रेयसं योगर्द्धिप्रभवसम्पदा युगपदुपभोगेनोपात्तकर्माशयस्य क्षयात्सर्वदुःखोपरम इत्युपपन्नं निःश्रेयसद्वैविध्यमिति भावः ॥ तदेतद्दर्शयतियत्तावदिति । तत्त्वसाक्षात्कारः तत्त्वज्ञानम् । संहर्षः सुखम् । आयासो दुःखम् । तत्रानागताभ्यां तावत्प्रवृत्त्यभावादनुत्पादादेवमुच्यते । विद्यमानकारणे अपि सुखदुःखेऽशक्तोऽद्विषश्च भु।जनो न सुखदुःखतया मनुते । न ह्यस्ति संभवो न तत्र तृप्यति तच्च तस्य सुखम्, न च तद्द्वेष्टि तच्च तस्य दुःखमिति । स्यादेतत्भवत्वेतदपरं निःश्रेयसम् । प्रकृते तु किमायातमित्यत आहअयं शास्त्रार्थः । अर्थशब्दो निमित्ते । अपरं निःश्रेयसं शास्त्रस्य निमित्तम् । अथ अपरनिःश्रेयसोत्पादसमय एव परनिःश्रेयसोत्पादोऽपि कस्मान्न भवतीत्याहपरं तु निःश्रेयसं तत्त्वज्ञानात्क्रमेण भवति । नो खलूत्पन्नतत्त्वसाक्षात्कारः समुच्छिन्नवासनाविपर्यासज्ञानस्तत्कार्यदोषतत्कार्यप्रवृत्तीनं निवृत्त्यै प्रयतते, कारणनिवृत्त्यैवायत्नलभ्यत्वात्कार्यनिवृत्तेः । न हि कफोद्भावज्वरप्रशमनाय कफनिवृत्तौ सत्यां यत्नान्तरमातिष्ठते, तत एव तत्सिद्धेः । परं तु निःश्रेयसं न तावद्भवति, यावदुपभोगादुपात्तकर्माशयप्रचयो न क्षीयते । तस्मात्तत्त्वसाक्षात्काराधानप्रयत्नात्परस्तदुपभोगप्रयत्न आस्थेयः । तथा च न तुल्यकाल उत्पादः परापरयोर्निःश्रेयसयोः । तदिदमुक्तम्क्रमेणेति ॥ तदेवमर्थगति परिशोध्य सूत्रमवतारयतिक्रिमेति । यद्यप्यपरस्मिन्नपि निःश्रेयसे मिथ्याज्ञानदोषप्रवृत्तीनामपि समुच्छेदक्रमोऽस्ति, तथापि जन्मदुःखोच्छेदक्रमो नास्ति, पूर्वोपात्तस्य कर्माशयप्रचयस्य तादवस्थ्यात् । तस्मात्जन्मदुःखोच्छेदक्रमसमभिव्याहृतो मिथ्याज्ञानाद्युच्छेदक्रमः परस्यैव निःश्रेयसस्य शास्त्रप्रयोजनस्य । तत्प्रतिपादनमर्थः प्रयोजनं यस्य तत्तथोक्तम् । इदं चावान्तरप्रयोजनम् । प्रधानप्रयोजनमग्रे वक्ष्यति ॥ अत्र केचित्योगविभागमिच्छन्ति । कारणोच्छेदात्कार्योच्छेदोऽभिमतः । न चासौ दुःखादीनां मिथ्याज्ञानान्तानामप्रदर्शिते कार्यकारणभावे सिध्यति । तस्माद्दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामित्यको योगः । अत्र किल समासादेतेषामितरेतरयोगः अवगम्यते । स च योग्यतया कार्यकारणभावः । कार्येण कारणं युक्तम्, कारणेन च कार्यमिति । अतः सिद्धे कार्यकारणभावे उत्तरोत्तरापाये तदनन्तराभावादपवर्ग इत्यनेन योगेन कारणोच्छेदक्रमेण कार्योच्छेदक्रमप्रतिपादनेनापवर्गः प्रतिपाद्यते । अत्र चोत्तरत्वं पाठापेक्षया कारणस्य । तदनन्तरत्वं च कार्यस्याव्यवहितादिपाठापेक्षया । मिथ्याज्ञाने कारणे तत्कार्याः दोषाः । एवे शेषेष्वपि योज्यम् । तमिमं सूत्रविभागममृष्यमाणो वार्त्तिककृदाहैदं सूत्रम् । एकवचनेन भेदं व्यावर्तयति । न हि समुच्छेदक्रमप्रतिपादनेनापवर्गपरतयैकवाक्यत्वे संभवति वाक्यभेदो न्याय्यः । एवनिवृत्त्या अन्यनिवृत्त्यैव कार्यकारणभाव आक्षिप्त इति नासौ सूत्रे दर्शनीयः । न ह्यर्थाक्षिप्तं सूत्रकारा दर्शयन्ति । तदिदं सूत्रग्रहणप्रयोजनम् । तथा हि स्वल्पाक्षरमसन्दिग्धं सारवद्विश्वतोमुखम् । अस्तोभमनवद्यं च सूत्रं सूत्रविदो विदुः ॥ ॰ विष्णुधर्मोत्तरे ३.५.१ ॰ इति । अस्तोभमनधिकम्, अर्थलभ्यप्रदर्शने त्वधिकं भवेदिति । तत्सूचनात्सूत्रं स्यात् । तथा ह्यहुः, लघूनि सूचितार्थानि स्वल्पाक्षरपदानि च । सर्वतः सारभूतानि सूत्राण्याहुर्मनीषिणः ॥ ॰ ॰ इति । इतरेतरयोगेनापि कार्यकारणभावः सूचनीय एव । स वरमेकनिवृत्त्यान्यनिवृत्त्यैव सूच्यतामेकवाक्यतानुरोधायेति । परमतात्पर्यमस्याहएतत्संबन्धेनैव । शास्त्रस्य निःश्रेयसाधिगमलक्षणेन प्रयोजनेन यः संबन्धः पूर्वमाक्षिप्तः, तत्समाधानेनार्थेन अर्थवदेतत्सूत्रम् । संबन्धपदेन विषयवाचिना विषचिसमाधानं लक्षयति । तदेवं सूत्रतात्पर्यं व्याख्यायावयवव्याख्यानमवतारयतिपदार्थस्विति । यद्यपि सामभेदादौ हलशकटदौ च मिथ्याज्ञानमनेकप्रकारं संभवति, तथापि न तत्संसारहेतुरपि त्वात्मादिद्वादशविधप्रमेयविशेषविषयमिति सूत्रस्थं मिथ्याज्ञानं विशेष्टुमाहतत्रेति । तदेतेन आत्माद्यपवर्गपर्यन्त इत्यादि भाष्यमवतारितम् । तदेतदाक्षिपतिको वृत्त्यर्थ इति । न खलु यथा कुण्डे वदरं पटे वा शौक्ल्यम्, एवं प्रमेये मिथ्याज्ञानं प्रवर्तते, तस्य ज्ञातृसमवेतत्वादित्यर्थः । उत्तरम्विषयार्थः । यावदुक्तं भवति प्रमयविषयं मिथ्याज्ञानमिति, तावदुक्तं भवति प्रमेये वर्तत इति । विषयत्वं चाग्रे निवेदयिष्यते । अनेकप्रकारमित्युक्तम् । तदाहतत्रायं भेदः तत्रात्मनि तावत्प्रधाने प्रमेये नास्तीति । कथं पुनरेतन्मिथ्याज्ञानमित्यत आहआत्मा तावदिति । अत्र शङ्गतेतस्यानुपपत्तिः । कुतः? सदसतोः सारूप्याभावादिति चेत्? सर्वत्र हि रजतोदकादिविभ्रमेषु शुक्तिरजतयोर्वा मरूमरीचिसलिलयोर्वा सारूप्यमेव निमित्तं प्रतीमः न हि जातु रूपं रसादिषु हस्तिनं वा मशकादिषु आरोपयन्ति । असदृशेऽपि श्वेते पीतभ्रमः, मधुरे च तिक्तभ्रमः, पीतः शङ्खस्तिक्तो गुड इति च दृश्यत इति चेत्न, तत्रापि सारूप्यसंभवात् । तथा हि बहिनिर्गच्छदत्यच्छनयनरश्मिसंपृक्तपित्तगतं पीतिमानमाश्रयरहितम्, शङ्खं च दोषाच्छादितसितिमानमनुभवन् पीतगणस्य च तदसंबन्धमननुभवंस्तदसंबन्धाग्रहेण पीतचीरविल्वादिसामानाधिकरण्येन सारूप्यात्शङ्ख पीत इति विपर्यस्यति । एवं त्वगिन्द्रियोपनीतं गुडद्रव्यमननुभूयमानमाधुर्यमनुभवन् रसनाग्रवर्तिनश्च पित्तस्यास्वभावजाततिक्तस्य तिक्तत्वमनुभवन् तदाश्रयं च पित्तमननुभवन्नसंबन्धाग्रहसारूप्यात्तिक्तनिम्बसामानाधिकरण्येन तिक्तो गुड इति वपिर्यस्यति । अतिशीघ्रतया चैष क्रमो न लक्ष्यते । न च ब्रूमो यत्र सारूप्यं तत्र भ्रम इति, येनातिप्रसक्तिश्चोद्येत, अपि तु यत्र भ्रमस्तत्रावश्यं कथञ्चित्सारूप्यमिति । एवं द्विचन्द्रदिङ्मोहालातचक्रादिष्वपि किञ्चित्कथञ्चित्सारूप्यमूहनीयम् । न च स दसतोरत्यन्तविलक्षणयोः सारूप्यमस्ति । तत्कथमात्मनि नास्तितारोप इत्याक्षेपः ॥ समाधत्तेन, प्रमाणगम्यतोपपत्ते । आक्षेपं विभजतेन हि सदसती इति । समाधानं विभजततच्च नैवमिति । यदि सदसतोः समानत्वं नास्ति, तर्हि भेदः । तथा च कस्य कुत्रारोप इत्यत आहक्रियागुणेति । सोऽयमसद्धर्मान् क्रियागुणरहितत्वादीन् सत्यात्मनि समारोप्य असत्तया विपर्यस्यतिनास्त्यात्मेति, नत्वात्मानं सर्वतोऽभ्यर्हिततमं पश्यन् तत्रासौ स्निह्यति, स्नेहाच्च तदुपकाराय घटते । एवं तत्परिपन्थिनं द्वेष्टि । द्वेषाच्च तदपकाराय द्यटते । ततश्च कर्माशयमाचिनोति । ततो जन्म । ततश्च दुःखमिति । एवमात्मनस्तादृशस्य मा भूत्तत्त्वाज्ञानम् । अस्तु नास्तितासमारोप एव तावद्यतो न प्रवर्तते । यथाहुः, सुखी भवेयं दुःखी वा मा भूवमिति तृष्यतः । यैवाहमितिधीः सैव सहजं सत्त्वदर्शनम् ॥ ॰ प्र.वा. १.२०२.३ ॰ अत्रोच्यते । यद्यपि रागादिनिवृत्तिहेतुर्नैरात्म्यदर्शनम्, तथापि नास्ति कर्म, नास्ति कर्मफलमिति दृष्टेः परमं निदानम् । एवं प्रेत्यभावाभावज्ञानस्य च । तथा च दुःखहेतोर्हेयवर्गस्याभावान्न तद्धानायानेन घटितव्यम् । न चावङ्घटमानो हेयं हातुमर्हति । सोऽयं वृश्चिकभिया पलायमानः आशीविषमुखेनिपतितः । सेचमास्तिकत्वायात्मास्तितोपासनीया । अभ्यर्हितता चात्मनोऽत्यन्तदुःखनिवृत्तावुपपद्यते । अयमेव चास्योपकारो यदात्यन्तिकदुःखशमनम्, सूखाधाने त्वस्य तदनुषङ्गिदुःखाधानादपकारप्रसङ्गात् । न हि जातु कश्चिच्चेतनः सुखमाप्स्यामीति मधुविषसम्पृक्तमन्नमुपभुङ्क्ते । तस्मान्नैरात्म्यदृष्टिः प्रयत्नेनोच्छेत्तव्या प्रेक्षावतेति सिद्धम् ॥ अपरमपि संसारहेतु मिथ्यादर्शनमाहएवमनात्मनीति । पृच्छतिकि पुनरिति । उत्तरमहङ्कारेति । विशेषमाहैच्छादीति । पुनः पृच्छतिकथं पुनरिति । उत्तरम्शरीरेति । उपसंहरतिएवमिति । सामान्यधर्मोऽहङ्कारास्पदत्वम् । विशेषधर्म इच्छाद्याधारता । तां खल्वयं शरीरादिष्वारोप्य एत एवाहमिति शरीरादिष्वात्मभावमारोपयति ॥ एवं सिद्धं कृत्वा विपर्ययं सर्वमुक्तम् । संप्रति सन्दिहानो विपर्ययस्वरूपं पृच्छतिकः पुनरयं विपर्ययः? परीक्षकाणां विप्रतिपत्तेः संशयः । केचित्स्वाकारबाह्यत्वविषयं ज्ञानं विपर्यय इत्याचक्षते । अन्येऽसाद्विषयं ज्ञानम् । अन्ये त्वनिर्वचनीयमेव ज्ञानम् । अपरे त्वग्रहणमेवव । अन्यथाख्याति तु वृद्धाः । उत्तरमतस्मिस्तदिति प्रत्ययः ॥ इदमत्राकूतम्न तावत्स्वाकारं रजतादि बाह्यतया आलम्बन्ते विभ्रमाः । तथा हि ज्ञानाकारत्वं रजतादेरनुभवाद्व्यवस्थाप्येत्, अनुमानाद्वा? अनुभवोऽपि रजतप्रत्ययो वा स्वाद्, बाधकपत्ययो वा? न तावद्रजतप्रत्ययः । स हीदमनहङ्काराकारास्पदं रजतमादर्शयति, न चान्तरम् । अहमिति हि तदा स्यात्, प्रतिपत्तुः प्रत्ययादव्यतिरेकात् । भ्रान्तं हि ज्ञानं स्वाकारमेव बाह्यता आलम्बते । तथा चानहङ्कारास्पदमस्य विषयो ज्ञानाकारोऽपि, ज्ञानाकारता पुनरस्य बाधकज्ञानप्रवेदनीयेति चेत्? हन्त चक्षुषी निमील्य वैतालिकपक्षपातं परित्यज्यालोचयत्वायुष्मान् कि पुरोवर्तिद्रव्याकारतामात्रं प्रतिषेधति रजतस्य, आहोस्वित्ज्ञानाकारतामप्यस्यादर्शयति बाधकप्रत्ययः? तत्र ज्ञानाकारतोपदर्शनव्यापारं बाधकप्रत्ययस्य ब्रूवाणः श्लाघनीयप्रज्ञो देवानांप्रियः । पुरोवर्तित्वनिषेधादर्थात्ज्ञानाकारतासिद्धिरिति चेत्? तन्निषेधो वणिग्वीथ्यादावुपलब्धस्य रजतस्य व्यावस्थापने हेतुः । आन्तरत्वं त्वस्यानुपलब्धचरं कुतस्त्यम्? न चानुमानमत्र प्रभवतीति चतुर्थेनिवेदयिष्यते ॥ सन्तु तर्हि बाधकप्रत्ययानुरोधादसत्प्रकाशनशीला एव मिथ्याप्रत्ययाः । तथा हि बाधकं विज्ञानं नेदं रजतमिति रजतज्ञानगोचरस्यासत्त्वं गृह्णाति । न चासतो विषयभावो नोपपद्यते । न हि विषयत्वं नाम कारणत्वं येनासति न स्यात्, किं तु स्वकारणधीनः सामर्थ्यातिशयः । स तादृशो ज्ञानस्य, येन सन्तमिवासन्तमपि गोचरयति।न च विषयसामर्थ्यमत्रोपयुज्यते, ज्ञानस्य सामर्थ्यादेव तद्भावसिद्धेः । अत एवासत्प्रकाशनसामर्थ्यमेव मिथ्याज्ञानानामविद्यात्वमनिर्वचनीयं केचिदास्थिषत । अत्रेदमालोचनीयम्किमेतत्मिथ्याज्ञानमसत्सदात्मना गृह्णातीत्यसद्विषयमुपेयते? आहोस्वित्सदेव सदन्तरात्मना गह्णाति सतश्च सदन्तरात्मत्वेन असत्त्वादसद्विषयमुच्यते? न तावत्पूर्वः कल्पः, रजतात्मना चेतसदालम्बेत न सती शुक्तिकाम्, कथं पुनरसौ रजातर्थो शुक्तौ प्रवर्तते न पुना रजताभावे । कस्काच्चेदमिति पुरोवर्ति द्रव्यमङ्गुल्या निर्दिश्य तस्य रजतत्वं निषेधति नेदं रजतमिति, यदि तत्र न प्रसञ्जितं रजतत्वं पूर्वविज्ञानेन? अथ शुक्तिरेव रजतात्मना असतीति तदाकारतया तामालम्बमानं मिथ्याज्ञानमसदालम्बनमुच्यते? तत्रानुज्ञया वर्तामहे । न खल्वन्यथाख्यातिवादिनोऽपि सदन्तरं सदन्तरात्मना सदभ्युपगच्छन्ति । तथा सत्यन्यथेत्येव न स्यात् । यथाहुरन्यथाख्यातिवादिनः, तस्माद्यदन्यथा सन्तमन्यथा प्रतिपद्यते । तन्निरालम्बनं ज्ञानमभावालम्बन च तत् ॥ ॰ श्लो. वा. निरालम्बनवादे ११७८ ॰ इति । न च रजतात्मना पुरोवर्तिनो द्रव्यस्यानिर्वचनीयता, मिथ्याज्ञानसमये सत्त्वेन बाधकसमये चासत्त्वेन निर्वचनीयत्वात् । न चैवंभूतस्यासतः प्रथा नोपपद्यते, तस्य सदसद्भ्यामुपाख्येयत्वात् । यःपुनः अद्वैतवादिना प्रपज्चो वैनाशिकानां वा सामान्यादिर्नो बहिः कि त्वलीकम् । तद्विषयं च ज्ञानं मिथ्याज्ञानमित्यपि न संभवति, तस्य सर्वोपाख्यारहितस्य केनचित्सारूप्याभावात्, तत्कारणकत्वाच्च भ्रान्तेः, कारणाभावे कार्याभावस्य सुलभत्वात् । तस्मात्प्रपञ्चश्च सामान्यादि च वस्तुसती नाममीचीनविज्ञानगोचरौ । तब्दाधकं चोपरिष्टादपाकरिष्यते । तस्मान्नानिवचनीयख्यातिरपि ॥ स्यादेतत । अन्यदन्यथा प्रकाशत इति संविद्विरुद्धम्।न तावत्सद्भावमात्रेणालम्बनत्वम् । तन्मात्रस्य सर्वप्रत्ययसाधारण्येन सर्वेऽर्थाः सवर्प्रत्ययविषया इति सवर्सर्वज्ञतापत्तिः । न च कारणत्वेनालम्बनत्वम्, रूपादिविज्ञानानां रूपादिवच्चक्षुराद्यपि कारणमिति चक्षुराद्यालम्बनत्वप्रसङ्गात् । अतीतानागतविषयत्वं च विज्ञानस्य न स्यात्, अतीतानागतयोरसत्त्वेनाकारणत्वात् । तस्मात्प्रतिभासमानमालम्बनम् । तथा च रजतप्रतिभासः शुक्तिकालम्बनमिति दुर्घटम् । अपि च चक्षुरादीनां समीचीनज्ञानोपजननसामर्थ्यमिति कथमेभ्यो मिथ्याज्ञानं भवितुमर्हति? न हि श्यामाकबीजं परिकर्मसहस्रेणापि कलमाङ्कुराय कल्पते । दोषसहाया लोचनादयो मिथ्याप्रत्ययमादधत इति चेत्न दोषा हि कारणानां सामर्थ्य निघ्नन्ति, न पुनः कार्यान्तरोपजननसामर्थ्यमादधति, न खलु भृष्टं कुटजबीजं न्यग्रोधधानायै कल्पते, किं तु न करोति कुटजधानाम् । अपि च स्वगोचरे व्यभिचारे विज्ञानानां सर्वत्रानाश्वासप्रसङ्गः । तस्मात्सर्वमेव विज्ञानं समीचीनमास्थेयम् । तथा हि रजतमिदमिति द्वे ज्ञाने स्मृत्यनुभवरूपे । तत्रेदमिति पुरोवर्तिद्रव्यमात्रग्रहणम्, दोषवशात्तद्गतस्य शुक्तिकात्वसामान्यविशेषस्याग्रहणात् । तावन्मात्रं च गृहीतं सदृशतया संस्कारोद्बोधक्रमेण रजते स्मृति जनयति । सा च गृहीतग्रहणस्वभावापि दोषवशात्गृहीततांशप्रमोषेण ग्रहणमात्रमवतिष्ठते । तथा च रजतस्मृतेः पुरोवर्तिमात्रग्रहणस्य व मिथः स्वरूपतश्च विषयतश्च भेदाग्रहणात्सन्निहितरजतविषयविज्ञानसारूप्येणेदं रजतमिति भिन्ने अपि ग्रहणस्मरणे अभेदव्यवहारं सामानाधिकरण्यव्यपदेशं च प्रवर्तयतः । क्वचित्पुनर्ग्रहणे एव मिथोऽगृहीतप्रभेदे, यथा पीतः शङ्ख इति । अत्र हि विनिर्यन्नयनरश्मिवर्तिनः पित्तद्रव्यस्य कायस्येवातिस्वच्छस्य पीतत्त्वं च गृह्यते । पित्तं तु गृह्यते । शङ्खोऽपि दोषवशात्गुणरहितः स्वरूपमात्रेण गृह्यते । तदनयोर्गुणगुणिनोरसंसर्गाग्रहात्सारूप्यात्पीतचिरबिल्वफलप्रत्ययाविशेषेणाभेदव्यवहारः सामानाधिकरण्यव्यपदेशश्च, भेदाग्रहप्रसञ्जिताभेदव्यवहारबाधानाच्च नेदं रजतमिति विवेकप्रत्ययस्य बाधकत्त्वमप्युपपद्यते । तदुपपत्तौ च भ्रान्तत्वमपि लोकप्रसिद्धं सिद्ध्र भवति । तस्माद्यथार्थाः सर्वेऽपि भ्रमाः प्रत्ययत्वात्पटप्रत्ययत्वयवदिति प्राप्तम् ॥ एवं प्राप्तेऽभिधीयतेअस्ति तावद्रजतार्थिनो रजतमिति ज्ञाने सति पुरोवर्तिद्रव्यप्रवृत्तिः सामानाधिकरण्यव्यपदेशश्चेति सर्वजनीनम् । तत्किं ग्रहणस्मरणयोस्तद्गोचरयोश्च भेदाग्रहाद्भवतु, आहोस्विदभेदग्रहात्? न तावच्चेतनोऽज्ञानात्प्रवर्तते, अपि तु ज्ञानात् । पुरोवर्तिवस्तुग्रहणरजतज्ञानादगृहीतभेदं स्वरूपतो विषयतो वा रजतार्थिनं पुरोवर्तिद्रव्ये प्रवर्तयतीति चेत्? हन्त भोः किमेतावता पुरोवर्तिवस्तुगोचरं ज्ञानं रजतगोचरं भवति, आहोस्वित्तन्मात्रगोचरमेव? यदि रजतगोचरं पुरोवर्तिरजततयागृह्णात्, कथं नान्यथाख्यातिः? अथ तन्मात्रगोचरम्, को भेदाग्रहस्योपयोगः? न हि वृक्षमात्रदर्शनं निश्चयेन शिंशपार्थिनं प्रवर्तयति, न हि तत्र शिंशपाज्ञानमस्ति । अस्ति त्विह रजतविज्ञानम्, अगृहीतभेदमिदमिति ज्ञानेनेति चेत्? ननु रजतविज्ञानं पुरोवर्तिनि द्रव्ये न वर्तते, पुरोवर्तिज्ञानं च न रजत इति तत्र पुरोवर्तिद्रव्यमात्रार्थो पुरोवर्तिनि प्रवर्तेत न रजतार्थो । एवं रजतार्थो यत्र क्वचन प्रवर्तेत न नियमेन पुरोवर्तिन द्रव्ये । न हि तत्र तेन रजतत्वमवगतमीति । अथेदं रजतमिति द्वे ज्ञाने, भेदाग्रहादिदं रजतमित्येकज्ञानसदृशे, तेन तदुचितं व्यवहारं प्रवर्तयतः? यद्येवं तद्रजतम्, इयं शुक्तिरिति भेदावभासिविज्ञानव्यवहारमपि कस्मान्न प्रवर्तयतः? यथैव हि भेदाग्रहादभिन्नविज्ञानसादृश्यम्, एवमभेदाग्रहाद्भिन्नविज्ञानसादृश्यमपि । सोऽयमुभयतो भेदाभेदग्रहसारूप्यात्प्रवृत्तिनिवृत्तिभ्यां युगपदाकृष्यमाणः प्रतिपत्ता कष्टां दशामावेशितः प्रज्ञाशालिभिरतिव्याख्यया ॥ स्यादेतत् । विपर्ययज्ञानोत्पादेऽपि शुक्तिरजतयोर्भेदाग्रहेऽस्य व्यापार आस्थेयः, अन्यथा गृहीतभेदानामपि विपर्ययोत्पादप्रसङ्गात् । तथा च शक्यं तत्रापि वक्तुम्यथा भेदग्रहाद्विपर्ययज्ञानोत्पाद एवमभेदाग्रहात्कस्मान्न समीचीनज्ञानोत्पाद इति । तत्र यस्तव परिहारः सोऽस्माकं व्यवहारव्यपदेशयोर्भविष्यतीति । यथाहुरख्यातिवादिनः येषामपि विपरीतख्यातिस्तेषामप्यज्ञानवासननिबन्धनो भ्रम इति । मैवम्, ज्ञानहेतूनामज्ञातरूपकार्यसंबन्धाना चुक्षुरादीनां दर्शनात्, चेतनव्यवहाराणां त्वबुद्धिपूर्वकाणामप्रतीतेः बुद्धिपूर्वकत्वे तु विवेकाग्रह उपयुज्यते, न व्यवहारव्यपदेशयोरिति युक्तमुत्पश्यामः । यद्यविवेकग्रहोऽपि तत्परिपन्थी विद्यत इति कुतोऽन्यतरनिबन्धनो व्यवहारः? तस्मात्समारोप एव भेदाग्रह इति । तत्सिद्धमेतद्विवादाध्यासितं रजतादिवज्ञानं पुरोवर्तिवस्तुविषयम्, रजतार्थिनस्तत्र नियमेन प्रवर्तकत्वात् । यद्यदर्थिन नियमेन यत्र प्रवर्पयति तद्विज्ञानं तद्विषयम्, यथोभयसिद्धं समीचीनरजतविज्ञानम् । तथा चैतत्, तस्मात्यथा, यच्चोक्तमनवभासमामा शुक्तिरनालम्बनमिति, तत्र किं शुक्तिकात्वस्य रजतमिति ज्ञानं प्रत्यनालम्बनत्वं साध्यते, आहोस्विद्द्रव्यमात्रस्य सितभास्वरस्य पुरोवर्तिनः? तत्र पूर्वस्मिन् कल्पे सिद्धसाधनम् । उत्तरस्मिन्ननवभासनमसिद्धम्, इदमिति पुरोवर्तिनो द्रव्यस्याङ्गुल्या निर्देशात् । दृष्टं च दुष्टानामपि कारणानामौत्सर्गिककार्यप्रतिबन्धेन कार्यान्तरोत्पादकत्वम् । तद्यथा, वेत्रबीजानां दावाग्निदग्धानां कदलीप्रकाण्डजनकत्वम्, भस्मकदुष्टस्य चौदर्यस्य तेजसो बहुतरान्नपानपाचकत्वम् । नेदं रजतमिति च प्रत्यक्षबाधकप्रत्ययादपहृतविषयम्, प्रत्ययत्वेन विभ्रमाणां यथार्थत्वानुमानं नोदेतुमर्हति । यथा च प्रमाणाभासव्यभिचारेऽपि प्रमाणे आश्वासः, तथा प्रमाणतोऽर्थप्रतिपत्तौ इत्यत्रोपपादितम् । दिङ्मात्रमत्र दर्शितम् । प्रपञ्चस्तु तत्त्वसमीक्षायामस्माभिः कृत इत्युपरम्यते ॥ तदेवमात्मनि मिथ्याज्ञानं व्याख्याय शरीरादिष्वेकादशसु मिथ्याज्ञानं भाष्य एव दर्शितम् । तत्तु स्पष्टत्वातस्माभिर्न व्युत्पादितमित्याशयवानाहशेषमिति । तत्र शरीरादिषु मनःपर्यन्तेषु यथायोगं मिथ्याज्ञानं दुःखे सुखमित्यादिना अप्रतिहातव्यमित्यन्तेन भाष्येणोक्तम् । प्रवृत्त्यादिषु शृङ्गग्राहिकयोक्तं प्रवृत्तौ इत्यादिना रोचयेतित्यन्तेन भाष्येण । एवं मिथ्याज्ञानस्य स्वरूपं दर्शयित्वा मिथ्याज्ञानदोषप्रवृत्तितजन्मदुःखानां कार्यकारणभावो दोषादीनां स्वरूपं चोक्तमेतस्मातित्यादिना ताप इत्यन्तेन भाष्येण । संप्रति मिथ्याज्ञानाद्युच्छेदादपवर्ग इति वक्ष्यति । तच्चायुक्तम्, सत्यपि तदुच्छेदे संसारतादवस्थ्यात् । न ह्यान्योच्छेदेऽन्यस्योच्छेदः । तथा च नापवर्ग इति वक्ष्यमाणमर्थमुपपादयितुमक्तं भाष्यकृता, त हमे मिथ्याज्ञानादय इत्यादि । तद्वार्त्तिककारो व्याचष्टत हमे दुःखादय इति भाष्यकारोक्तक्रमाद्विपरीतक्रमाभिधानं वार्त्तिककृतः एवं सूत्रकारोक्तक्रमाद्विपरीतक्रमाभिधानं भाष्यकृतः । तद्दुःखादीनां मिथ्याज्ञानपूर्वकत्वेन मिथ्याज्ञानस्य दुःखादिपूर्वकत्वेनानादित्वं दर्शयितुम् । पृच्छतिकः पुनरिति । यद्येत एव संसारस्तर्हि सूत्रकारः प्रमेयसूत्रे कस्माद्दुःखादिभ्यः पृथक्प्रेत्यभावं संसारापरनामानमुपादत्ते? तस्मादेभ्योऽन्य एव संसार इति भावः । उत्तरम्दुःखादीनामिति । नैषां स्वरूपमपि तु कार्यकारणभाव इत्यर्थः । क्रमव्यतिक्रमतात्पर्यमाहस चानादिरिति । अत्र हेतुमाहपूर्वापरेति । दुःखजन्मप्रवृत्तिदोषाः विषयत्वेन तावन्मिथ्याज्ञानस्य कारणम् । एवमसति जन्मनि मिथ्याज्ञानस्यानुत्पत्तरविषयोऽपि जन्म मिथ्याज्ञानस्य कारणम् । एवं विना प्रवृत्तिं जन्माभावात्जन्मद्वादेण प्रवृत्तेरपि मिथ्याज्ञानकारणत्वम् । प्रवृत्तिद्वारेण च दोषाणाम्, तथा मिथ्याज्ञानाद्देषाः, दोषेभ्यः प्रवृत्तिः, प्रवृत्तेर्जन्म, जन्मनो दुःखम् । यद्यपि प्रवृत्तिरेव साक्षादुःखहेतुः, तथाप्यनायतनस्य तस्यानुत्पत्तेरन्तरा जन्म करोति । अथ सैव दुःखमिति? अनादित्वाच्च नान्योन्याश्रयं चक्रकं वा बीजाङ्कुरसन्तानयोरिवेति । संप्रतिबीजापाय इव तज्जान्याङ्कुरप्रवाहनिवृत्तिः मिथ्याज्ञानापाये तज्जन्यदोषप्रवृत्तिजन्मदुःखमिथ्याज्ञानादिप्रवाहनिवृत्तिः, कारणनिवृत्तौ कार्यनिवृत्तेरिति कथनपरं भाष्यमनुभाष्याक्षिपतियदा तु तत्त्वज्ञानादिति । अपायोऽपि तत्त्वज्ञानान्मिथ्याज्ञानस्य स्वरूपतो वा, विषयतो, वा फलतो वा स्यात्, न तावत्स्वरूपतः, तस्याशुतरविनाशिनः संस्काराद्वा ज्ञानान्तराद्वा अपायस्य तत्त्वज्ञानसाधारण्येन तस्यापि बाध्यत्वप्रसङ्गात् । नापि विषयतः, न हि शुक्तिकाज्ञानं रजतज्ञानस्य रजतविषयतामपहर्तुमुत्सहते जातं हि तद्रजतं विषयीकृत्य । यथाहुः गृहीत्वार्थं गताश्चौराः कस्तानाच्छेत्तुमर्हति । इति । नापि फलमपहरति, उपदर्शितो हि तेनार्थः, प्रवर्तितश्च तत्र पुयषः । तदिदमुक्तम्कथमपाय इति । उत्तरम्समानविषय इति । यस्मिन्नेव हि पुरोवर्तिनि द्रव्ये पूर्वेण रजतत्वमासञ्जितं तत्रैवोत्तरं तद्विरुद्धं शुक्तिकात्वं धर्ममुपनयति । तथा च पूर्वस्य विज्ञानस्य मिथ्यात्वमादर्शयत्तज्जनितां प्रवृत्तिं विघटयत्फलमस्यापहरतीति भावः । न तु समानविषयतामात्रेण विरोधः, मा भूदेकस्मिन्नात्मनि नित्यत्वविभुत्वज्ञानयोर्विरोध इत्यत आहयस्मादिति । तत्वमिथ्यात्वकथनेन मिथो विरुद्धधर्मप्रस्जनं सूचयति । नित्यत्वविभुत्वज्ञानयोस्तु समानविषययोरप्यविरुद्धधर्मोपस्थापकतया तत्त्वज्ञानत्वादित्यर्थः । कस्माद्विरोध इत्यत आहवस्तुन इति । परस्पराभावधर्मिणोरेकत्र समवाये नेदं स्वाभाविकं नानात्वं क्वचिदपीत्यद्वैतप्रसङ्ग इति भावः । उपसंहरतितस्मादिति ॥ अत्र देशयतिकथं पुनरिति । प्रथममुत्पन्नं मिथ्याज्ञानमनुपजातविरोधि, तेनापहृतविषयं पश्र्वात्तनं तत्त्वज्ञानमुदेतुमेव नोत्सहते, प्रागेव तु मिथ्याज्ञानं बाधितुमिति भावः । उत्तरम्मिथ्याज्ञानस्येति । तत्र हि प्रथममुपजातेनानुपजातविरोधिना ज्ञानेनोत्तरं बाध्यते, यत्र पूर्वापेक्षमुत्तरमुपजायते । तत्खलु पूर्वविरोधे न जायेत । अजातं सत्कथं पूर्वं बाधेत, यथा प्रत्यक्षादिविरुद्धमनुमानम्? इह तु द्वे अपि ज्ञानेदोषोपहतानुपहतेन्द्रियार्थसन्निकर्षजन्मनी परस्परानपेक्षे । तत्र पूर्वमनुपजातविरोधित्वात्कि बाधताम्, अनागतस्याप्राप्तत्वेन बाधितुमशक्यत्वात्, स्वकारणबलादासाद्यमानजन्मनश्चोत्पत्तिविरोधस्य चाशक्यात्वात्? तदेवमुत्पन्नमुत्तरमुपजातविरोधितया पूर्वबाधात्मकं सन्नानुपकृद्य पूर्वमुत्पत्तुमर्हतीति बाधते । तत्तु न पूर्वेण नाप्यन्येन केनचिदिति भावत्यर्थसहायम् । अर्थासहायं च मिथ्याज्ञानम् । तदनेन बाध्यत्वाबाध्यत्वे मिथ्याज्ञानतत्त्वज्ञानयोरूपलक्ष्येते । तदिदमन्यैरप्युक्तम् पूर्वात्परबलीयस्त्वं तत्र नाम प्रतीयताम् । अन्योन्यनिरपेक्षाणां यत्र जन्म धियां भवेत् ॥ इति । तथा चानुपजातविरोधित्वमत्र बाध्यत्वे हेतुः, उपजातविरोधित्वं च बाधकत्व इति । यदुपलक्षणार्थं ससहायत्वाभिधानं तज्जिज्ञासुः पृच्छतिकस्मात्? उत्तरम्तयात्वेनेति । अनेनाबाध्यत्वं तत्त्वज्ञानस्योक्तमिति । न केवलमबाध्यत्वम्, दृढमूलत्वमपि तत्त्वज्ञानस्येत्याहप्रमाणान्तरानुग्रहाच्च । अन्तरशब्दो विशेषवचनः । आत्मादितत्त्वज्ञानं हि फलं प्रमाणविशेषैरागमानुमानप्रत्यक्षैरनुगृह्यते । तस्माद्दृढमूलत्वात्तदपि तत्त्वज्ञानं मिथ्याज्ञानं निवर्तयतीत्यर्थः । एतदेव विभजतेआगमेति । एतदेव स्फोरयतियदा हीति । आगममयेन हि ज्ञानेन प्रमेयं गृहीत्वा शास्त्रीयेण च न्यायविज्ञानेनानुमानापरनाम्ना व्यवस्थाप्य भावयतो यदात्ममनःसन्निकर्षाद्योगजधर्मसहायादुत्पद्यते तत्त्वविषयः साक्षात्कारः प्रत्यक्षफलम्, तत्र त्रयाणामपि प्रमाणानां प्रतिसन्धानमस्तीति दृढमूलत्वात्तेन मिथ्याज्ञानं बाध्यते ॥ विषयं भावयतीति व्याचष्टसमाहित इति । समाहितत्वेन चेतसो धारणां दर्शयतिअनन्यमना इति प्रत्याहारम्, चेतसः तत्त्वविषयबुद्धिधाराविपच्यमानत्वं ध्यानस्य, तत्त्वज्ञानस्य स्फुटाभत्वारम्भावस्था । ध्यानजनितभावना संस्कारो ध्यानभावना, तस्या विवेको मिथ्यज्ञानवासनायाः । पूर्वं हि मिथ्याज्ञानवासना तत्त्वज्ञानवासनाया बलवत्यासीत्, अथाभ्यासवशात्तुल्यबलाभवत्, अथेयमेव बलीयसी तत्त्वज्ञानवासनासंभिन्ना मिथ्याज्ञानवासनया सहानुवर्तते । संप्रति तु तत्त्वज्ञानवासनया अत्यन्तबलीयस्य समूलकाषं कषितत्वात्मिथ्याज्ञानवासनाया भवति विविक्ता तत्त्वज्ञानवासना तस्यामित्यर्थः ॥ नन्वनेन क्रमेण निवर्ततां मिथ्याज्ञानम्, निवृत्तं तं तत्त्वसाक्षात्कारसमयेऽपि कस्मात्पुनः स्ववासनावशान्न जायते? न खलु मिथ्याज्ञानवासना अनादिकालप्रवृत्ता आदिमता तत्त्वज्ञानेन तत्संस्कारेण वा शक्या निवर्तयितुमित्यत आहनिवृत्ते चेति । तावदेव पुंसां बुद्धयोऽस्थिरा भ्राम्यन्ति स्वोचितं च संस्कारजातमातन्वते, न यावद्भूतमर्थं साक्षात्कुर्वन्ति । अथ साक्षात्कृत्य तत्र स्थिरपदा भवन्ति, क्षिण्वन्ति च सवासनान्मिथ्याप्रत्ययान् । भूतार्थंपक्षपातो हि बुद्धेः स्वभावः । यदाहुर्बाह्या अपि निरूपप्लवभूतार्थस्वभावस्य विपर्ययैः । न बाधो यत्नवत्त्वेऽपि बुद्धेस्तत्पक्षपाततः ॥ ॰ प्र. वा. २१२.३ ॰ इति । तस्मात्मिथ्याज्ञानस्य न पुनरूत्पाद इति ॥ उक्तमेवार्थं स्मृतिदाढ्रयाय पृच्छतिकः पुनरिति । उक्तं स्मारयितुमुत्तरम्सहेति । भवतु मिथ्याज्ञानस्य निवृत्तिः सवासनस्य, ततोऽपि किमित्यत आहमिथ्याज्ञानेति । अत्र पृच्छतिये तावदिति । उत्तरम्तेषामपीति । वैराग्यस्वरूपं पृच्छतिकि पुनरिति । रागाभावो हि वैराग्यम् । न च तस्मादेव रागादीनामभाव इति भावः । उत्तरम्भोगानभिष्वङ्गलक्षणमित्युक्तम् । विषयदोषपरिभावनापरिपाकात्खलु विषयपरित्यागेच्छा भवति । तया विरोधिगुणेन विषयतृष्णा च तत्परिपन्थिनि विद्वेषश्च तदधिकरणाश्र्वेर्ष्यादयो निवर्तन्ते । असक्तिर्विषयपरित्यागेच्छा, वशितया च स्वयमुपनतेषु विषयेषु माध्यस्थ्यदर्शनम् । दोषाभावे किं भवतीत्यत आहदोषाभाव इति । पृच्छतिका पुनरियमिति । यदि हि जन्मनः प्रवृत्तिः कारणं स्यात्, ततो जन्मनिवृत्त्यै तन्निवृत्तिरर्थ्येत । न पुनरसौ क्षणिका सतो आमुष्मिकाय जन्मने कल्पते । अतः किमर्थं निवर्त्यत इति भावः । विदिताभिप्राय उत्तरमाहधर्माधर्मो । कस्मात्पुनरूपचार इत्यत आहजन्मसाधनत्वात् । एतद्विभजतेनास्मिन्निति । उपचारे प्रयोजनं दर्शयित्वा निमित्तमाहधर्माधर्मयोस्त्विति । वर्तमानानागतयोरविशेषेण दोषापायात्निवृत्तिरूक्तेति भ्रान्त्या देशयतियौ तावदनागताविति । परिहरतिन, अनागतयोरिति । अनागताभिप्रायमेतदित्यर्थः । यद्येवम्, वर्तमानयोः कुतः प्रक्षय इत्यत आहवर्तमानयोरिति । अस्तु प्रवृत्तेरभावः,ततः किमित्यत आहप्रवृत्त्यभाव इति । उक्तं विवेकमिहापि योजयतिअत्रापीति । वर्तमाननिवृत्तिहेतु पृच्छतिअथेति । उत्तरम्संस्कारेति । श्रुतिः, तावदेवास्य चिरं यावन्न विमोक्ष्येऽथ संपत्स्ये । ॰ छान्दोग्य ६.१४.२ ॰ इति । किं जन्माभावे सिध्यतीत्यत आहजन्माभाव इति । अत्रैव वृद्धसंमतिमाहएतच्च तदाहुरिति । तदेतच्चेति योजना । प्राणनस्य कालभेदावच्छेद आयुः ॥ स्यादेतत्, महाप्रलयेऽपि मिथ्याज्ञानादिना दुःखान्तेनास्ति वियोग इति अत्रापि मुक्तिप्रसङ्ग इत्यत आहसोऽयं मिथ्याज्ञानादिनेति । सर्वत इति तृतीयार्थे तसिः सर्वेणेति । न च प्रलयावस्थायां सर्वेण वियोगः, कर्माविद्यावासनयोरनविनाशात् । मुक्तौ तु तयोरपि विनाशः । कर्मवासना च सर्वकार्याणामुत्पादिका अवस्थापिका च । तन्निवृत्तौ शरीरादिवत्तत्त्वज्ञानसंस्कारस्यापि प्रलय इत्यशेषविशेषगुणविमुक्तो मुक्त इत्युच्यत इति सद्धिम् ॥ स्तादेतत् । तत्त्वज्ञानात्मिथ्याज्ञानापाय इत्युक्तम् । किं पुनस्तत्त्वज्ञानमित्यत उक्तं भाष्यकृतातत्त्वज्ञानु त्विति । तदनुभाष्य सर्वेषां ज्ञानानां भाष्योक्तानामनुगतमेकं स्वरूपतस्त्विति । चोदयतिकस्मादिति । नो ख्ल्वयं प्रेक्षावतां समाचारो यद्दुःखभिया सुखपरित्याग इति, अपि तु सुखं दुःखाद्विविच्य उपाददते दुःखं च वर्जयन्ति । न हि मृगाः सन्तीति शालयो नोप्यन्ते, भिक्षुकाः सन्तीति स्थाल्यो नाधिश्रीयन्त इति । उत्तरम्विवेकहानस्येति । यद्यपि सुखदुःखे भिन्ने, तथाप्यनित्यत्वकृतकत्ववत्परस्परानुषक्ते इति न खलु सुखस्य केवलस्योपादानं दुःखस्य वा केवलस्य परिवर्जनं शक्यमित्यर्थः । कः पुनरयमनुषङ्गो यतो विवेकहानमशक्यमित्यत आहअनुषङ्गोऽधिनाभावः । तत्स्वरूपमाहयत्रैकं सुखं वा दुःखं वा, तत्रेतरत्दुःखं वा सुखं वा । तदनेनानित्यत्वकृतकत्वयोरिव सुखदुःखयोरविनाभावो दर्शितः । न चाविनाभावो विना संबन्धादिति तत्सिद्धये संबन्धविकल्पानाहसमाननिमित्तता वा अनुषङ्गोऽविनाभावः, वाशब्दश्च वक्ष्यमाणसंबन्धान्तरापेक्षया, न तु पूर्वापेक्षया । अत्र च शरीराद्यपेक्षया समाननिमित्तता, न तु धर्माधर्मापेक्षया, न तु पूर्वापेक्षया । अत्र च शरीराद्यपेक्षया समाननिमित्तता, न तु धर्माधर्मापेक्षया तयोरसाधारण्यादिति । मन्तव्यम् । तयोरविनाभावसिद्ध्यर्थं संबन्धान्तरमाहसमानाधारता वा । अपरं संबन्धान्तरमाहसमानाधारता वा । अपरं संबन्धान्तरमाहसमानोपलभ्यता वा । मनोगोचरत्वमुभयोः । ततश्च सिद्धोऽनविनाभावापरनामा अनुषङ्ग इति । यत्रैकं तत्रेतरदिति वा यत्र यस्मिन्निमित्ते सतीति वा यत्राधार इति वा यत्रोपलब्धिसाधने सतीति व्याख्येयम् । इतिः सूत्रसमाप्तिं सूचयति॥२ ॥ ____________________________________________________________________ ण्य्ष्_१,१.३ प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानि ॥ तदेवं प्रमाणादिपदार्थतत्त्वज्ञानस्य निःश्रेयससंबन्ध उक्तः परीक्षितश्च । तत्रैतत्स्यात् । स्वपदेभ्यः प्रमाणादयः पदार्थास्तत्त्वतो ज्ञाता यथायथं मिथ्याज्ञानादिनिवृत्तिक्रमेण अपवर्गे उपयोक्ष्यन्ते, कृतमुपरितनेन प्रबन्धेन इति । अत उक्तं भाष्यकृतात्रिवधा चास्येति । न नामधेयमात्रात्प्रमाणादीनां तत्त्वज्ञानं भवति, अपि तु लक्षणपरीक्षणाभ्यामित्यस्ति प्रबन्धस्योत्तरस्योपयोग इति भाष्यार्थः । तदेतद्भाष्यमनुभाष्य पृच्छतिप्रवृत्तेरिति । यदि पुरुषकल्पना मात्रात्त्रैविध्यम्, अथानन्त्यमेव कस्मान्न भवति? सर्वत्र तस्य सुलभत्वादिति भावः । उत्तरमर्थस्य तथाभावात् । अर्थस्य प्रयोजनस्य साक्षात्, शास्त्रकार्यस्य तत्त्वज्ञानलक्षणस्य तथैव त्रिविधयैव शास्त्रप्रवृत्त्या भावात् । तथा हि, लक्षणं नाम व्यतिरेकिहेतुवचनम् । तद्धि समानासमानजातीयेभ्यो व्यवच्छिद्य लक्ष्यं व्यवस्थापयति । न चास्य धर्मिदर्शनमन्तरेण पक्षधर्मता सिध्यतीति तदुपदर्शनाय नामधेयमात्रेण धर्मिणामुद्देशः । यद्यपि च प्रतिलक्षणमुद्दिष्टा एव धर्मिणः, तथापि शास्त्राभिसंबन्धपरादपि वाक्यात्समधिगम्यन्त इत्युद्देशोऽप्युक्तः । न चापरीक्षितो हेतुर्व्यतिरेकी चतूरूपो भवतीति परीक्षाप्यवश्यं कर्तव्या । तस्मात्तत्त्वज्ञानस्यार्थस्य तथाभावात्त्रैविध्यमिति । तदेतद्विभजतेनामी पदार्था इति । किं त्विति । अर्थः तत्त्वज्ञानं तथाभूतम्, येनार्थेन हेतुना शास्त्रस्य प्रवृत्तिस्त्रेधा भवति ॥ उद्देशस्वरूपप्रतिपादनपरं भाष्यमनुभाष्याक्षिपतिनामधेयेनेति । परिहरतिमात्रग्रहणसामर्थ्यादिति । यद्यपि प्रमाणणादिशब्दा अपि कारकशब्दा एव, तथाप्युद्देशसमये तदर्थानां सदपि कारकत्वमविवक्षितम्, अपि तु प्रातिपदिकार्थमात्रम् । घ्राणादिसूत्रे ॰ १.१.१२ ॰ तु लक्षणपरे कारकत्वं विवक्षितमन्यथा लक्षणत्वायोगादिति अदोषः । अत्र च यद्यपि सूत्रकारेण संशयप्रमाणप्रमेयेषु परीक्षा साक्षात्कृता न प्रयोजनादिषु, तथापि तत्करणादेव प्रयोजनादिपरीक्षापि सूचिता सूत्रकारेण इति त्रिविधेत्युक्तम् । अत एव भाष्यकारः सर्वत्र परीक्षामन्ववर्तयदिति ॥ स्यादेतत् । विभागपरमेतत्सूत्रमिति वक्ष्यति । न च विभागो न्यूनाधिकसंख्याव्यवच्छेदार्थमेकं किञ्चिदुपसंग्राहकमन्तरेण । न च प्रमाणत्वादन्यदत्रोपसंग्राहकम् । न चेदमलक्षितमुपसंगृह्णाति । न चैतत्सूत्रमस्य लक्षणम्, विभागपरत्वादिति शङ्कानिराकरणपरं भाष्यम्तत्रोद्दिष्टस्येति । तस्यार्थःयद्यपि विभागपरमेतत्सूत्रम्, तथापि प्रमाणपदसमभिव्याहृतं सत्सामर्थ्यात्प्रमाणत्वमपि लक्षयतीति । तथा हि, प्रमीयतेऽनेनेत्यस्य वाक्यस्यार्थे प्रमाणपदप्रयोगः । प्रमा च स्मृतेरन्यः अर्थाव्यभिचारी स्वतन्त्रः परिच्छेदः तस्माद्विभागपरादपि सूत्रात्प्रतीयमानं प्रमाणसामान्यलक्षणमपेक्षितं संगृहीतमिति प्रमाणत्वोपगृहीतानां प्रत्यक्षादीनां प्रमाणानां युक्तो विभागः । तथा च विभागपरत्वेन साक्षात्सामान्यलक्षणानभिधानाद्विभक्तस्य लक्षणमुच्यत इत्युक्तं तच्चेह । विशेषलक्षणमिन्द्रियार्थसन्निकर्षेत्यादि ॰ १.१.४ ॰ । तदेतद्भाष्यं व्याचष्टेउद्दिष्टस्येति । लक्षणालक्षणमात्रविवक्षया लक्षितस्यालक्षितस्य इत्युक्तम् । तच्च छले सामान्यतः, प्रमाणेषु प्रमेयेषु च विशेषत इति गमयितव्यम् ॥ अत्र भाष्यमथोद्दिष्टस्य विभागवचनमिति । तस्यार्थ उच्यतेऽनेनेति वचनं सूत्रं विभागस्य । अथेति त्रिविधप्रवृत्तिव्युत्पादनानन्तरं विविक्तानां प्रतिपादनं विभागवचनम् । न च विवेकः स्वरूप उपयुज्यत इत्यत आहअथोद्दिष्टविभागद्वारेणेति । नात्र विभागमात्रं विवक्षितम्, अपि तु तद्द्वारेण न्युनाधिकसंख्याव्यवच्छेदस्तत्त्वज्ञानाङ्गमित्यर्थः ॥ अव्याख्याने हेतुमाहसूत्रेति । चोदयतिउद्दिष्टस्य विभागानर्थक्यं व्याघातात् । त्रिविधा चास्य शास्त्रस्य प्रवृत्तिरित्यस्यानर्थक्यम् । अनर्थमर्थविपर्ययं कायति कीर्तयतीत्यनर्थकः । तस्य भावस्तत्त्वम् । कस्मात्? व्याघातात् । व्याघातमेव स्फोरयतित्रिविधा चास्य शास्त्र्यस्येति । परिहरतिनोद्दिष्टेति । परस्परं विभक्ता नामधेयमात्रेणोद्दिश्यन्त इत्युद्देशेन्तर्भावः । तेनायमर्थो भवति, सामान्येनोद्दिष्टस्य विभागवचनं विशेषेणोद्देश इति । विभागप्रयोजनं पृच्छतिकिं पुनरिति । उत्तरम्नियमः । तद्विभजतेयदीति । पुनश्चोदयतिलक्षणत इति । प्रमाणलक्षणकरणप्रवृत्तो यत्चत्वार्येव लक्षयति तदवगम्यते न न्यूनान्यधिकानि वा प्रमाणनीत्यर्थः । परिहरतिलक्षणस्येति । आक्षेपं विभज्तेस्यादेषेति । परिहारं विभजतेन, लक्षणस्येति । अन्यपरमपि वाक्यं तदेवार्थलभ्यं स्वीकरोति । न च प्रत्यक्षादीनां समानासमानजातीयस्य व्यवच्छेदे पञ्चम्याद्यभाव उपयुज्यते । लक्षणकरणप्रवृत्तस्य क्वचिदकरणं न तदभावे प्रमाणम्, सतोऽप्यनुपयोगेनाकरणापत्तेः । तदेतदाहअन्यासंभवस्येति । विभागोद्देशस्य पुनरनन्यपरत्वादन्याभाविनिश्चयो भवतीति । उपसंहरतितस्मादिति ॥ अक्षस्याक्षस्येति भाष्यमनुभाष्य तात्पर्यमाहअयं च सूत्रविवक्षायामिति । अक्षमक्षं प्रति वर्तत इति विगृह्याव्ययीभावे कृते सर्वेन्द्रियावरोधो भवति । ननु यदिरिदृशो विग्रहः, कस्मात्पुनर्भाष्यकारेण अक्षस्याक्षस्येति विगृह्यत इत्यत आहअन्यथा तु वस्तुनिर्देश इति । अर्थमात्रमनेन प्रतिपाद्यते, न पुनः समास इत्यर्थः । अथ कस्मात्समास एव तेन विग्रहेण न प्रतिपाद्यत इत्यत आहसमासे हि अक्षस्येति षष्ठी न श्रूयेतेति । यदि सूत्रगतस्य प्रत्यक्षपदस्याव्ययीभावः समासः, अन्यत्र पुनरस्य कः समास इति पृच्छतिकः पुनरिति । उत्तरम्प्रादिसमास इति । तथा हि, प्राप्तापन्नालंपूर्वगतिसमासेषु परवल्लिङ्गताप्रतिषेधादभिधयलिङ्गोपादानात्प्रत्यक्षोऽर्थः प्रत्यक्षाबुद्धिः प्रत्यक्षं ज्ञानमित्यभिधेयलिङ्गता सिद्धा भवति । क्वचित्पाठः समासे हि प्रत्यक्षस्येति षष्ठी न श्रूयेतेति । सूत्रविवक्षयाव्ययीभाव इत्युक्तम् । तत्र शङ्कते, कस्मात्पुनः सूत्रविवक्षयेत्युच्यते, यावता सर्वत्रैव कस्मादव्ययीभावो न भवतीति? तत्रेदमुपतिष्ठतेसमासे हि अव्ययीभावसमासे हि, सर्वत्र प्रत्यक्षस्येति षष्ठी न श्रूयेतेति । व्युत्पत्तिनिमित्तमात्रं चेदं प्रत्यक्षशब्दस्य, न तु प्रवृत्तिनिमित्तम् । तस्मात्नेन्द्रियगतैर्गुणसामान्यादिभिर्व्यभिचारः, प्रवृत्तिहेतुस्त्वर्थसाक्षात्कारिज्ञानजनकत्वम् । तन्निमित्तः खल्वयं प्रत्यक्षशब्दस्तत्र तत्र लौकिकपरीक्षकैः प्रयुज्यते । यथा मयूरशब्दो मयूरत्वसामान्यनिबन्धनः कासुचिदेव पतत्रिव्यक्तिषु वर्तमानः, मह्यां रौतीत्यन्वाख्यायते । तदिदं प्रत्यक्षमुद्धिष्टमपि सत्प्रमाणतदाभाससंकीर्णमिति तद्विवेकाय लक्षणमुपयुज्यते । यदि तूद्देशपदं तद्विवेचयेत्, कृतं तर्हि लक्षणप्रणयनेन ॥ विग्रहवाक्यगता च वृत्तिर्भाष्यकृता व्याख्याता । वृत्तिस्तु सन्निकर्षो ज्ञानं वा । वृत्तिरिति हि व्यापारः । स तु व्यापार उच्यते, यः कारकैः फले जनयितव्ये चारमभावी धर्मभेदः फलोत्पादानुकूलोऽपेक्ष्यते । यथा पटे जनयितव्ये तन्तुभिश्चरमभाविनः संयोगभेदाः, स्वर्गे वा जनयितव्ये यागेनापूर्वमात्मधर्मः, तथेहापि इन्द्रियादिना प्रमाणेन प्रमायां फले प्रवृत्तेन तदुत्पादनानुकूलः सन्निकर्षो ज्ञानं वा चरमभावी धर्मभेदोऽपेक्ष्यत इति भवति व्यापारः । स एव वृत्तिरित्याख्यायते । व्यवस्थां दर्शयतियदा सन्निकर्षो व्यापार इन्द्रियादेः प्रमाणस्य तदा ज्ञानमालोचनं वा सविकल्पकं वा साक्षात्कारवद्विज्ञानं प्रमितिः फलम्, उभयस्यापीन्द्रियव्यापारात्सन्निकर्षापरभिधानानुत्पत्तेः । न चान्तरालिकेन निर्विकल्पकेनेन्द्रियव्यापारविच्छेद इति प्रत्यक्षव्याख्यानावसरे निवेदयिष्यते । यदा ज्ञानमालोचनं वा विकल्पो वा व्यापार इन्द्रियादीनां तदा हानोपादानोपेक्षाबुद्धयः फलम् । तत्रोपादेयमिदं सलिलमिति बुद्धिरनागतोपादानविशिष्टं सलिलमालम्बमाना न साक्षात्कारवती, सलिलमात्रसाक्षात्कारस्तु स्यात् । न च तन्मात्रमस्य फलम्, अपि तूपादेयता । सा च परोक्षा, अनागतत्वात् । तस्मादुपादीयते अनेनेत्युपादानमुपादानं चासौ बुद्धिश्चेत्युपादानबुद्धिः । तत्र तोयालोचनमथ तोयविकल्तः, अथ तज्जातीयस्य दृष्टचरपिपासोपशमनहेतुभावस्य स्मृतिबीजसंस्कारोद्बोधः, अथ तस्य स्मरणम्, अथ लिङ्गपरामर्शः तज्जातीयं चेदमिति । तदिदं लिङ्गपरामर्शविज्ञानं साक्षात्कारवत् । लिङ्गे विनश्यदवस्थव्याप्तिस्मरणसहकारिदृश्यमानस्य सलिलस्य पिपासोपशमनहेतुतया अनुमानमुखेनोपादानबुद्धिरूच्यते । अनुमाय खल्वयं तथाभावं तदुपादित्सर्निहमानस्तदुपादत्ते । न च व्याप्तिस्मृतिविच्छिन्नमालोचनं वा विकल्पो वा न लिङ्गपरामर्शज्ञानहेतुरिति वाच्यम्, तदुद्बोधितसंस्कारद्वारेण व्याप्स्मिरणे च परामर्शे च तस्य तदानीमसतोऽपि कारणत्वात् । न खलु कृषिकर्म शस्याधिगतिसमये समस्ति, न च यागादिकं स्वर्गाद्युत्पादसमये, न च त्रिवृत्कषायपानं विरेकसमये । आन्तरालिककार्यपरम्परया तु तत्साधानत्वं सर्वत्र समानम् ॥ स्यादेतत् । का पुनरियं पिपासोपशमनशक्तिस्तोयस्य, या अनुमानगोचरः? न तावत्मीमांसकवदतीन्द्रिया शक्तिर्युस्माभिरभ्युपेयते, किं तु कारणानां स्वरूपं वा सहकारिसाकल्यं वा । तत्र स्वरूपं हेतूनां प्रत्यक्षमेव । सहकारिणा प्रत्यक्षाप्रत्यक्षाणां साकल्यं कार्यसमुत्पादैकव्य्जनीयम्, न तु तत्तोयरूपदर्शनमात्रात्शक्यानुमानम् । तत्किमपरमवशिष्यते यदनुमानस्य गोचर इति? अत्रोच्यते । न वयमतीन्द्रियं सामर्थ्यमातिष्ठामहे, नापि सहकारिसाकल्यानुमानमाचक्ष्महे, किं तु स्वरूपस्य कार्यसंबधिताम् । न चेयं स्वरूपमेव, इहस्थस्येव नारिकेलद्वीपादागतस्यापि वह्निदर्शनमात्राद्ग्राहकत्वावगमप्रसङ्गात् । तस्मात्कार्योपहितं स्वरूपमनुमेयम् । इदमेव चास्य कार्योपधानं यत्कार्योत्पादात्पूर्वमवश्यंभाव आनन्तर्यनियमः । न च तज्जातीयस्य दृष्टचरस्य तथाभावदर्शनेऽपि दृश्यमानस्य तोयस्य तद्दृष्टं भवति येन तत्र स्मर्येत । न खलूज्जयिन्यामुपलब्धस्य सौधस्य पाटलिपुत्रे स्मरन्त्यभ्रान्ताः । उपादानेन हानं व्याख्यातम् । न चोपेक्षानुपादानतया हानपक्षे निक्षिप्ता, अहानतयोपादानपक्षनिःश्रेपप्रसङ्गात् । उपादानप्रयत्नाप्रसवहेतुतया नोपादानमिति चेत्? किमियं हानप्रयत्नमपि प्रसूते यतो हानं स्यात्? तस्माद्या नोभयप्रयत्नप्रसवहेतुः सोपेक्षाबुद्धिस्तृतीया लोकप्रसिद्धेति सिद्धम् ॥ प्रत्यक्षपदव्युत्पत्तिं दर्शयित्वा अनुमानादिपदेष्ववि व्युत्पत्तिगति दिशतिएवमनुमानादिष्वपीति । तत्रेदमनुमानदव्युत्पत्तिभाष्यम् । मितेन लिङ्गेन लिङ्गिनोऽर्थस्य पश्चान्मानमनुमानमिति । मितिर्मानम् । तथा च लिङ्गदर्शनोद्बोधितसंस्कारजा स्मृतिर्व्यवच्छिन्ना, तस्या मितेरन्यत्वेन लोकसिद्धत्वात् । मितेनेत्यज्ञानसन्देहविपर्यासा लिङ्गविषया व्युदस्ता भवन्ति । तथापि मितेनार्थस्य ज्ञानं शाब्देऽप्यस्तीत्यत उक्तम्लिङ्गेनेति । अपक्षधर्मतो निवर्तयतिलिङ्गिन इति । तथापि धर्मिणः प्रत्यक्षगोचरत्वात्कृतमनुमानेनेत्यत उक्तमर्थस्येति । अर्थ्यते साध्यत इत्यर्थः । न च धर्मो स्वरूपेणार्थ्यते, किं तु जिज्ञासितधर्मविशिष्ट इत्यर्थः । पश्चादिति अनुशब्दस्य व्याख्या । तदेतद्भाष्यमनुभाष्याक्षिपतिमितेनेति । कस्मादयुक्तमित्यत आहफलाभावादिति । एतद्विभजतेएतस्मिन्निति । अनुमानज्ञानस्य फलावस्थायामेवार्थो मित इति मेयं नावशिष्यते, यत्रैतत्सिद्धं सत्प्रमाणं भवेदित्यर्थः । तत्र फलविशेषणपक्षमास्थाय यत इत्यध्याहृत्य सामधत्तेनैष दोष इति । अनध्याहारेणाप्यदोष इति समाधानान्तरमाहभवतु वेति । पूर्वोक्तं दोषं स्मारयत्तिननु चेति । परिहरतिन दोष इति । अथ कस्माथानादिविषयं प्रमाणमुच्यते, न स्वगोचरं प्रतीत्यत आहसर्व च प्रमाणमिति । यद्यपि वह्निज्ञानस्यानुमानस्य सतो हेयत्वादिकं विषयः, तत्रैव व्यापारात् । अन्यथा प्रमाणफलयोर्विभिन्नविषयत्वेन विप्रतिपत्त्या प्रमाणफलभावायोगात् । न हि पनसविषयेण परशुना खदिरे द्वैधीभावो भवति । तथापि फलान्तरानपेक्षमुत्पत्तावेव विज्ञाने यत्प्रकाशते स तस्य विषयः । तत्र तु न तत्प्रमाणम्, फलान्तराजनकत्वादपि तु फलमेवेत्यर्थः । विषयान्तरं प्रति तु प्रमाणमित्याहविषयान्तरमिति । चोदयतियदीति । भावसाधनश्चेत्प्रमाणशब्दः फलमस्यार्थो न तु फलं स्वविषये करणम्, तद्व्यापारस्य तज्जनकेनैव कृतत्वात् । न च स्वविषयादन्यद्विषयान्तरमस्य संभवति, अतिप्रसङ्गादिति भावः । परिहरतिउक्तं फलमिति । यद्यपि यत्र फलं सोऽस्यौत्पत्तिको विषयः, तथापि यत्रानेन प्रमाणेन सता हानादिबुद्धयो जनयितव्याः, सोऽपि व्यापारेण विषय इति भावः । फलत्व एव हेतुमाहज्ञात इति । परोक्षार्थावगाहितया हेयादिबुद्धयः प्रत्यक्षफलं न भवन्ति, भवन्ति त्वनुमानस्येति । नियमवादिनां मतमपन्यस्य दूषयतिकेचित्त्विति । अनियमं रोच्यमान आहौभयं त्विति ॥ अनुमानशब्दवत्फलेन निर्वचनीयत्वमुपमानशब्दस्येति मन्वान आक्षिपतिसामीप्येति । समाधत्तेनास्ति व्याघात इति । नेयमुपमानशब्दस्य फलेन निरूक्तिः, अपि तु प्रमाणेन निरूक्तिरिति न वयाघात इत्यर्थः ॥ शब्दविषया प्रतिपत्तिः शाब्दं प्रमाणम् । यत्खलु चैत्र, गां बधानेति वाक्यमिदमित्यनुसन्धानात्मकं स्मार्तं विज्ञानमुपजायते, तत्पदार्थस्मरणसहकारि विशिष्टार्थविषयं विज्ञानं प्रसूते, तच्छाब्द्र प्रमाणम् । प्रमाणमुक्त्वा फलमस्याहफलं तदेव । यदा ह्येतत्प्रमाणं तदा वाक्यार्थविज्ञानं फलम् । यदानुमानवद्वाक्यार्थविज्ञानं प्रमाणं तदा हानोपादानादिबुद्धयः फलमित्यर्थः ॥ अत्र प्रत्यक्षादीनां क्रमोद्देशप्रयोजनं प्रति एकदेशिमतमुपन्यस्यतिकेचित्त्विति । प्रत्यक्षपरा हि प्रमाणान्तरजन्याः प्रमितय इति प्रत्यक्षस्य प्राधान्यम् । यद्यपि किञ्चिदनुमानमनुमानादिपूर्वकमपि, तथापि प्रायेण प्रत्यक्षपूर्वकम्, उपमानं तु प्रत्यक्षपूर्वकमपि शब्दपूर्वकमेवेत्यस्यानुमानादपकर्षः । स्मरणसहकारिता चानुमानसादृश्यमुपमानस्यास्तीत्यनुमानानन्तरमुद्देशः । अल्पज्ञानाधीनं च बहुज्ञानमित्यल्पविषयप्रत्यक्षाद्युद्देशेभ्यः परो बहुविषयशब्दोद्देश इति । तदेततेकदेशिमतमेकदेश्यन्तरमतेन दूषयतितच्चायुक्तमित्यपर इति । आक्लिष्टो हि प्रथमं महाविषयमेव दुरवधारणत्वान्निरूपयति, अल्पविषयं तु क्लिष्टोऽपि शक्नोति निरूपयितुम् । अतो महाविषयत्वं प्राथम्य एव हेतुर्न चरमत्व इत्यर्थः । अनन्तरमतं दूषयतिएतच्चेति । एतावता क्रममात्रं भवेत्, न तु तद्विशेषनियम इत्यर्थः । ॥ संप्रति विमर्शपूर्वकं स्वाभिभतक्रमनियमहेतुमवधारयन्नेव पूर्वैकदेशिमतमपाकरोतितस्मादन्य इति । विमर्शनिमित्तं विप्रतिपत्तिमाहप्रत्यक्षं पूर्वं प्राधान्यातित्येकः । महाविषयत्वाच्चादौ शब्दोपदेश इत्यपरः । तत्र महाविषयत्वमनैकान्तिकं सन्नागमस्यैव पूर्वोपदेशं गमयतीत्याहौभयमिति । पृच्छतिकथमिति । उत्तरम्प्रत्यक्षैणापीति । महाविषयत्वलक्षणसाधारणधर्मदर्शननिमित्तं संदेहमाहतत्रेति । स्वाभिमतेन हेतुनां क्रमविशेषनियममवधारयतिप्रत्यक्षस्येतीति । यद्यपि प्रमितेः प्रत्यक्षपरत्वेन प्रत्यक्षस्य प्राधान्यम्, तथापि शास्त्रे व्युत्पाद्यत्वेनानुमानस्यापि तदस्तीति साधारणतया न हेतुरिति भावः ॥ स्यादेतत् । व्यवस्थितविषयं प्रत्यक्षं नानुमानविषये प्रवर्तते । न चानुमानमगृहीतसंबन्धमुदेति । न च संबन्धग्रहः संबन्धिग्रहमन्तरेण । न चानुमानविषये सामान्यरूपे संबन्धिनि प्रत्यर्क्ष प्रवर्तते । अनुमानान्तरेण तु ग्रहणेऽनवस्था । तस्मात्कारणभावान्नानुमानमस्ति । एतेन शब्दोपमाने अपि परास्ते, तयोरपि संबन्धसंवेदनाधीनजन्मत्वात् । तस्मात्नाप्रत्यक्षं प्रमाणमिति विभागवचनमनुपपन्नमिति शङ्कामपनेतुं विमर्शपूर्वकं विचारयति स्म भारूयकारःकिं पुनः प्रमाणानीति । तदेतद्भाष्यमनुभाष्याव्याख्याने कारणमाहकिं पुनरेतानीति ॥ सा चेयं प्रमितिः प्रत्यक्षपरेति भाष्यम् । तदनुभाष्य हेतुमाहसेयमिति । आकाङ्क्षाभावप्रतिपादनाय प्रतीतिस्वरूपं क्रमं चाहयथायमिति । आहित उत्पादितः प्रत्ययो निश्चयो यस्य, संसर्गोपधानं वर्हि प्रति स तथा । सन्दिग्धेन हि निश्चयाय प्रवर्तितव्यमेव । निश्चितस्तु विनिश्चयाय प्रमाणान्तरे प्रवर्तमानस्तदभ्यर्हिततरं मन्यते । धूमाङ्गत्वेनेति । अङ्गत्वं व्यापकत्वम् । व्याप्यं पुनर्व्याप्तिक्रियायां कर्मत्वेन प्रधानम् । तदनेन धूमव्यापकत्वोपधानेन धूमाद्गम्यमानो बह्निः परोक्ष इति दर्शितम् । अनुपहितप्रकाशसतु प्रत्यक्षेणाव्यवहितवह्निस्वरूपप्रकाशः । स हि साक्षात्कार इति । तावदयं प्रमाता साकाङ्क्षो यावदुपधानव्यवहितं स्वरूपमुपलभते । उपधानानपेक्षस्तु प्रत्यक्षेणाव्यवहितं साक्षाद्वर्हिन विषयीकृत्य निराकाङ्क्षो भवति । धूमाङ्गत्वेन धूमविशेषणत्वेनेति केचित् । तत्तु प्रकृतानुपयोगितया अयुक्तमिति । उपसंहरतिअतः प्रधानमिति । सोऽयं गुणप्रधानभावो भेदाश्रयो व्यवस्थायां नास्ति, व्यवस्थितानां प्रत्येकमेकत्वात् । तस्माद्व्यवस्थायां गुणप्रधानभावो न चिन्त्य इति । इतिः सूत्रसमाप्तौ॥३ ॥ ॥ इति न्यायत्रिसूत्रीतात्पर्यटीका ॥ ____________________________________________________________________ ण्य्ष्_१,१.४ इन्द्रियार्यसन्निकर्षोत्पन्नु ज्ञानमव्यपदेश्यमव्यभिचारि व्यवसायात्मकं प्रत्यक्षम् ॥ प्रत्यक्षादिप्रमाणविशेषलक्षणानामर्थाक्षिप्तसामान्यलक्षणविभागोद्देशहेतुत्वेन तदनन्तराभिधानमित्याहअथ विभक्तानामिति । तत्र तेषु मध्ये प्राथम्यात्प्रत्यक्षलक्षणमिन्द्रियार्थसन्निकर्षोत्पन्नमित्यादि सूत्रम् । अस्य तात्पर्यमाहसूत्रार्थः सूत्रप्रयोजनम् । समानासमानजातीयविशेषकत्वम् । समानजातीयमनुमानादि, असमानजातीयं प्रत्यक्षाभासप्रमेयादि । तेभ्यो विशेषकत्वं विशेषः । तदस्य सूत्रस्य प्रयोजनम् । यः खलु कुतश्चिद्व्यामोहात्समानासमानजातीयव्यावृत्तं तद्रूपं न शक्रोति ग्रहीतुम्, सोऽनेन लक्षणेन बोध्यते । एवंलक्षणकं प्रत्यक्षमिति । तस्मात्सामान्नयतः सिद्धविविक्तप्रत्यक्षमात्रानुवादेन लक्षणविधानपरमिदं सूत्रम् । इतस्त्ववगतलक्षणः तेनैव विविच्य प्रत्यक्षतत्त्वं गृह्णातीति समानासमानजातीयव्यवच्छेदः सूत्रार्थ उक्त इति । अत्र च यह इत्यध्याहृत्य यत्तदोनित्याभिसंबन्धात्तत्प्रत्यक्षमिति प्रमाणवाचि प्रत्यक्षपद्र योजनीयम् । एवं च ज्ञानप्रमाण्यपक्षेऽपि यत्तद्विशेष्यज्ञानं प्रत्यक्षफलं लिङ्गपरामर्शो वा तदपीन्द्रियार्थसन्निकर्षोत्वन्नत्वाद्युपेतत्वेन भवति प्रमाणविशेषणमिति नाव्यापकत्वं लक्षणस्येति ॥ सूत्रपदार्थं पृच्छतिअथेति । उत्तरमिन्द्रियेति । सन्निकर्षग्रहणलभ्यं प्रकारभेदं परिसंचष्टेसन्निकर्षः पुनरिति । पुनःशब्देन संयोगसमवायपदोपादानात्व्यवच्छिनत्ति । संयोगपदोपादाने हि न समवायो लभ्यते, समवायपदोपादाने वा न संयोगः । सन्निकर्षपदोपादाने त्वभिमतलाभः । अर्थग्रहणेनार्थ्यमाणतया ज्ञेयस्वरूप्योग्यता दर्शिता । न चासावण्वाकाशादीनामस्तीति सत्यपि संयोगादौ नासावर्थसन्निकर्ष इति तद्व्युदासः । उत्पन्नग्रहणेन च सन्निकर्षस्योत्पादकत्वं सूचितम् । ततः सत्यप्यर्थस्वरूपयोग्यत्वे संयुक्तसंयोगादेरनुत्पादकस्य सन्निकर्षस्य व्युदासः । अन्यथा कुड्यादिसंयुक्तेनेन्द्रियेण कुड्यादिव्यवहितस्य तत्संयुक्तस्य घटादेः तत्समवेतस्य च रूपादेरपि ग्रहणप्रसङ्गः । न चैतावता त्रिविध एव सन्निकर्षः संयोगः संयुक्तसमवायः समवायश्चेति सांप्रतम् । स्वतन्त्रव्याघातादनुभवव्याघाताच्च । ये हि द्रव्यगुणकर्माश्रयं सामान्यातिरिक्तं सादृश्सयमर्थानतरं रोचयन्ते, तेषां कथं रूपादिभेदानामन्योन्यस्य सादृश्यं प्रत्यक्षं भवेत्? न हि तदिन्द्रियेण संयुक्तम् । नापीन्द्रियसंयुक्तसमवेतम् । तस्मात्चतुर्थःसंयुक्तसमवेतसमवायोऽभ्युपगन्तव्यः । इतरथा स्वतन्त्रव्याघातः, अनुभवव्याघातश्च । अनुभूयन्ते हि रूपगन्धत्वादयः सामान्यविशेषा अनुगताः, तासु तासु व्यक्तिषु परस्परव्यावृत्तिमतीषु एते नानुभूयेरनसति सन्निकर्षान्तरे । यदि तु वैयात्यादाहुः नानुभूयन्त एवेति, तदा प्रतिवक्तव्यं कुतस्त्योऽयमनन्तासु रूपगन्धादिव्यक्तिषु रूपमिति वा गन्ध इति वा व्यपदेशभेदः? चाक्षुषत्वाद्युपाधिनिबन्धन इति चेत्न, अननुसंहितोपाधेरूपहितप्रत्ययायोगात् । न खल्वननुसंहितदण्डश्र्चैत्रं दण्डीति व्यपदिशति । न चेन्द्रियाण्यतीन्द्रियाणीन्द्रियदर्शनविषयभावमनुभवन्ति । तस्मादस्तीन्द्रियेण रूपत्वादिसामान्यानुभवो यन्निबन्धनाः कासुचिदेव केचिदेव व्यक्तिषु व्यपदेशेभेदा इति सिद्धं सन्निकर्षान्तरम् । विशेषणभावेन च संयुक्तविशेषणं समवेतविशेषण च संगृहीतम् ॥ यस्येन्द्रियेण यादृशः सन्निकर्षः तादृशं तत्र दर्शयतितत्र चक्षुरिति । शब्दस्स्य आकाशगुणत्वम् । कर्णशष्कुल्यवच्छिन्नस्य नभोभागस्य श्रोत्रत्वम् । आद्यस्यैव शब्दस्य संयोगविभागयोनिजत्वम् । सन्तानेन श्रोत्रे समुत्पादः समवाय इत्यादि द्वितीये निपुणतरमुपपादयिष्यते । अवयवावयविनौ गुणगुणिनौ क्रियाक्रियावन्तौ जातिजातिमन्तौ च मिथः संबद्धावनुभूतेते । नान्यथा तन्तुषु पट इति च, शुक्लः पट इति च, पटः स्पन्दते इति च, पटो द्रव्यमिति च बुद्धिव्यपदेशौ स्याताम् । शुक्लः पट इत्यादि सामानाधिकरण्यज्ञानं न तु संबन्धिज्ञानमिति चेत्? किं पुनरिदं सामानाधिकरण्यम्? तादात्म्यमिति चेत्न, द्वितीयबुद्धिव्यपदेशयोः पौनरुक्त्यात् । अपौनरूक्त्यं चाभिमन्यन्ते प्रतिपत्तारः, यदन्यतरदुपलभ्यान्यद्बुभुत्सन्ते । न चैकं वस्तु द्व्यात्मकमिति युक्तम् । भेदाधिष्ठानस्य तन्नान्तरीयकस्य द्वित्वस्यैकात्मनि विरोधेनासंभवात् । तस्माद्भिन्ने एव वस्तुनी संबद्धे सामानाधिकरण्येन भासेते, असंबन्धे गौरश्व इतिवत्तदनुपपत्तेः । संबन्धेऽपि कुण्डे दधीतिवद्वैयधिकरण्यप्रसङ्ग इति चेत्न, शब्दवृत्तिभेदेन संबन्धाभेदेऽपि सामानाधिकरण्यवैयधिकरण्यव्यवस्थापनात् । न हि जातु दधिशब्दः कुण्डे वर्तते कुण्डशब्दो वा दध्नि । वर्तन्ते तु सुरभिमधरशुक्लादिशब्दाः स्वाभिधेयं निमित्तीकृत्य पटादिषु, एवं पटादिशब्दा अपि जात्यादि निमित्तीकृत्य द्रव्ये प्रवर्तन्ते इति सामानाधिकरण्यम् । तेन सामानाधिकरण्येऽपि प्रवृत्तिनिमित्तानां नैकात्म्यं परस्परम् । नापि द्रव्येण, किं तु तैस्तैन्वितमेकं द्रव्यं प्रतीयते । शब्दानां तु तत्रैकस्मिन् द्रव्ये प्रवृत्तेः तद्वाच्यानामैकात्म्यभ्रमः । अयुतसिद्ध्या तु कुण्डे दधीतिवत्न स्फुटतरो विवेकप्रकाशः । तदेवमस्ति संबद्धानुभवः, न चासौ संबद्धानुभवं विनेति संबन्धोऽनुभूयते, स चायुतसिद्ध्यादिसंपत्त्या समवायः, न चास्यान्यः समवायः, अवस्थानात् । न चेन्द्रियेणास्य संयोगः अद्रव्यत्वात् । न चासंबद्धस्य ग्रहणम्, इन्द्रियाणां प्राप्यकारित्वसमर्थनात् । तस्मात्विशेषणविशेष्यभावः परिशिष्यते । नन्वयं विशेषणविशेष्यभावोऽन्यत्र संबन्धान्तरपूव्रको दृष्टः । तत्किमत्र संबन्धान्तरं कल्प्यताम्? तथा चानवस्था इत्युक्तम् । न चेन्द्रियासंवबद्धस्य ग्रहणम् । तस्माद्विना संबन्धान्तरं विशेषणविशेष्यभाव एषितव्य इति सिद्धम् ॥ एवमभावेऽपि यदिन्द्रियसंयुक्तं वा यद्वेन्द्रियसमवेतु यथा भूतले घटो नास्तीति वा नास्त्यकारेऽनुदात्तस्वर इति वा तस्य संयुक्तस्य वा विशेषणभावेन, समवेतस्य विशेषणभावेन चेन्द्रियप्रत्यासत्त्या ग्रहणम् । न च भूतलादिरूपमेव घटाभावो नार्थान्तरमिति सांप्रतम्, सत्यपि घटादौ भूतलस्य भावात् । न च कैवल्यं तस्य धर्मो घटभावविरोधी घटाभावादन्यः । न च दृश्ये घटादौ भूतलोपलम्भः कैवल्यमभावव्यवहारहेतुरिति युक्तम् । एवं हि घटसंसृष्टभूतलग्रहोऽपि कैवल्यमिति घटाभावव्यवहारं प्रवर्तयेत् । न ह्यदृश्यो घटस्तदानीं दृश्यमानः । दृश्येऽनुपलभ्यमान इति तु विशेषणे किमपराद्धमुपलभ्याभावेन येन तदपाकरणायोपलम्भाभावोऽभ्युपेयते? तस्मात्सदिवासदपि तत्त्वमभ्युपेयम् । तच्च प्रत्यक्षमक्षव्यापारे सति तत्प्रत्ययात् । न च प्रतियोगिस्मरणव्यवहित इन्द्रियार्थसन्निकर्षो नालमभावधियमुपजनयितुमिति सांप्रतमित्यग्र दर्शयिष्यामः । सविकल्पकस्स प्रत्यक्षत्वसिद्धौ यथा शब्दस्मरणपूर्वगृहीतपिण्डानुसन्धानादयो नेन्द्रियव्यापारं व्यवदधतीति, न च शब्दस्मरणादीनामनुयोगिता, भूतलविकल्पं प्रत्यङ्गत्वात्, स्वाङ्गमव्यवधायकमिति न्यायात्, घटस्य तु प्रतियोगितेति सांप्रतम् । कस्य पुनः प्रतियोगी घटः? तदभावस्येति चेद्भवतु । घटाभावानुभवस्य तु घटस्मरणं हेतुरिति न प्रतियोगि, किं त्वनुयोग्येव । ननु स्वरूपमात्रं दृष्टं वेश्माद्यर्थं स्मरन्नेव बहिर्नितश्र्चैत्रो यदा पृच्छ्यते केनचित्वयस्य, तव गृहे तदा किमासीत्मैत्र इति ? स चैत्रः प्रतियोगिस्मरणविरहात्पूर्वमप्रतिपन्नमैत्राभावोऽपि तत्प्रश्नजनितमैत्रस्मृतिः क्षणं ध्यात्व तदभावमवगम्याह, मित्र, तत्र नासीत्मैत्र इति । तदीयमसतीन्द्रियार्थसन्निकर्षेऽभावबुद्धिर्भवन्ती प्रत्यक्षाद्यतिरिक्तमभावाख्यं प्रमाण व्यवस्थापयतीति । नैतत्, संयुक्तविशेषणलक्षणेन मनःसन्निकर्षेण स्मर्तव्यस्य स्मरणाभावं मैत्रस्य गृहीत्वा तेन लिङ्गेन तदभावस्य तदानीमनुमानात् । तथा हि तद्गेहं तदा मैत्राभाववत् ज्ञानार्हस्य मैत्रस्याज्ञाने गेहस्य ज्ञायमानत्वात् । यद्यस्य ज्ञानार्हस्याज्ञाने ज्ञायते तत्तदभा ववत् । यथा घटभाववद्भूतलम् । तथा च गेहम् । तस्मात्तथा । न च यत्कदाचिदानुमानिकं तेनेनिद्रयगम्येन न भवितव्यम्, प्रमाणसंप्लवव्यवस्थापनात् । तत्सद्धिं विशेषणभावादभावस्येन्द्रियप्रमेयतेति । संयोगसमवायपदपरिहारेण सन्निकर्षपदोपादानस्य प्रयोजनमाहसोऽयं सन्निकर्षशब्द इति ॥ तदनेन प्रबन्धेन इन्द्रियस्यार्थेन सन्निकर्षाद्यदुत्पद्यते ज्ञानं तत्प्रत्यक्षमिति भाष्यं व्याख्यातम् । संप्रति न तर्हीति चोद्यभाष्यं व्याचष्टेयदीन्द्रियार्थेति । प्रत्यक्षज्ञानकारणाभिधानप्रवृत्तेस्तदेकदेशं वदन्नकुशलः सूत्रकारः स्यादित्यर्थः । कारणान्तराणि दर्शयतितद्यथेति । विषयसंयोति चक्षुरालोकश्च । तत्स्थं रूपम् । आत्मीयेन हि रूपेणालोकचक्षुषी द्रव्यं दर्शयत इति स्थितिः । महत्त्वं वा अनेकद्रव्यवत्त्वं वा, अनेकद्रव्या अवयवाः, तद्वत्त्वमवयविनो महत एव न द्व्यणुकस्य, तस्मादन्योन्यनिरपेक्षत्वं महत्त्वानेकद्रव्यवत्त्वयोरिति विकल्प एव न्याय्य इति । सत्यप्येवंलक्षणकत्वे चुक्षुरवयविनस्तैजसस्य न चाक्षुषत्वमित्यत उक्तमुपलब्धिकलः संस्कार इति । धर्माधर्मनिमित्त उभ्दवसमाख्यातः संस्कारः उपलब्धिफलः । न चासौ चक्षुषि, तस्यादृष्टवशेनानुद्भूतरूपस्पर्शत्वादित्यर्थः । परिहरतिन वक्तव्यानि इति । प्रत्यक्षलक्षणकरणप्रवृत्तो हि सूत्रकारः तदेव ब्रूयात्यदस्यासाधारणं कारणम् । न तु सदपि साधारणमस्य कारणम् । न हि तत्तस्य लक्षणमतिव्याप्तेरित्यर्थः । तदनेन नेदमित्यादि भाष्यं व्याख्यातम् । असाधारणं कारणं चेत्प्रत्यक्षलक्षणायोपादेयं हन्त, अन्यदप्यस्यासाधारणमस्ति कारणमिति तदप्युपादेयमिति चोदयतिइन्द्रियमनः संयोगस्तर्हीति । तदनेन मनसस्तर्हीत्यस्य भाष्यस्यार्थ उक्तो वेदितव्यः । परिहरतिन, अनेनैव इन्द्रियार्थसन्निकर्षेणैव । तस्यैन्द्रियमनःसन्निकर्षस्य उक्तत्वात् । तदुक्तिसाध्यं यत्तत्तेनैव कृतम् । तत्साध्यं त्विन्द्रियमनःसन्निकर्षो न शक्नोति साधयितुम् । न च सुखादिज्ञाने मानसे अस्तीन्द्रियमनःसन्निकर्षः । इन्द्रियार्थसन्निकर्षस्तु सर्वव्यापकः । वक्ष्यति हि मनस इन्द्रियत्वम् । सुखादेश्चार्थत्वं सिद्धमेवेति । संप्रति व्यापकत्वमभ्युपेत्य परीहारान्तरमाहैन्द्रियार्थेति । यद्यपीन्द्रियमनःसन्निकर्षेऽपीन्द्रियमस्ति प्रत्यक्षज्ञानस्य विशेषकमिन्द्रियेण व्यपदेशादिन्द्रियज्ञानमिति, तथापि मनसा व्यपदेशामावात्मनसस्तत्राविशेषकत्वमिन्द्रियार्थसन्निकर्षे तूभयमपि विशेषकम्, उभाभ्यां प्रत्यक्षज्ञानस्य व्यपदेशादित्ययमस्येन्द्रियमनःसन्निकर्षाद्विशेष इति ॥ चोदयतियदा त्विति । तुशब्दः पूर्वपक्षं व्यावर्तयति । यु।जानस्य हि योगिनो यदात्ममनःसयोगादात्मनि बुद्धयो भवन्ति ताः खल्वात्मना व्यपदिश्यन्ते आत्मबुद्धय इति । मनसा च व्यपदिश्यन्ते मनोबुद्धय इति । तस्मादुभाभ्यां व्यपदेशादुभयोर्विशेषकत्वमितीन्द्रियार्थसन्निकर्षवदात्ममनःसन्निकर्षो वक्तव्य इत्यर्थः । परिहरतियच्चेति । चोऽवधारणे । यदेवासाधारणं तद्व्यपदेशभाग्भवति, कारणत्वेन ज्ञानं व्यपदिश्यते इत्यर्थः । एतदुक्तं भवतियथा चुक्षुषा इन्द्रियत्वेन ज्ञानं व्यपदिश्यते चाक्षुषमिति, तथा मनसापीन्द्रियत्वेन व्यपदिश्यते ज्ञानं मानसमिति । एवं यथा रूपेणार्थेन व्यपदिश्यते ज्ञानं रूपज्ञानमिति, तथा आत्मनाप्यर्थेन व्यपदिश्यते आत्मज्ञानमिति, तत्र चासाधारणत्वमेव तयोः । यत्र त्विन्द्रियान्तरमेवासाधारणम्, लिङ्गादि वा तत्र चात्मा नार्थोऽपि तु प्रमातैव । यथा रूपादिज्ञानेऽनुमानादिज्ञाने वा न तत्र ज्ञानं मानसमिति वा आत्मज्ञानमिति वा व्यपदेशः स कस्य हेताः, तयोः साधारण्यात्? आत्ममनःसन्निकर्षस्त्विन्द्रियार्थसन्निकर्षेण संगृहीतो न त्विन्द्रियार्थसन्निकर्षस्यैष संग्राहकोऽव्यापकत्वादिति ॥ एकदेशिनः परीहारमुपन्यस्यतिइन्द्रियमनःसंयोगस्य वा अग्रहणं भेदेऽभेदात् । यदा हि नागरयोषितः कुतूहलात्प्रणिहितमनसो विकसितनिःस्पन्दनयनोत्पलाः सौधमालागवाक्षकैरवनिपतिं सबलवाहनमतिचिरपरावृत्तं गोपुरेण निविशमानमालोकयन्ति, तदा ख्ल्वासामेकेनैवेन्द्रियमनःसंयोगेन क्रमवदनेकेन्द्रियार्थसन्निकर्षसहकारिणा भिन्नानि क्रमवन्ति हास्तिकाश्वीयादिप्रत्यक्षज्ञानानि जायन्ते । तदिदमाहयस्मादिति । चोदयतियदीति । यदा हि मन्दं गच्छति गवि दूरतः संयुक्तसमवायेनेन्द्रियार्थसन्निकर्षेण शुक्लो गौरित्यज्ञासीत्, अथ प्रत्यासीदन् गच्छतीत्यपि विजानाति तेनैव संयुक्तसमवायेन सन्निकर्षेण, तेन प्रत्यक्षज्ञानस्य शुक्ल इति च गच्छतीति च भेदेऽपि इन्द्रियार्थसन्निकर्षो न भिद्यते । तस्मादिन्द्रियार्थसन्निकर्षे तुल्यत्वादिन्द्रियमनःसंयोगोऽपि तत्र वक्तव्य इत्यर्थः । परिहरतिन वक्तव्यः । कुतःुक्तोत्तरत्वादिति । तद्विभजतेउक्तेति । ननु भवतूक्तमुत्तरं भेदेऽभेदादित्यस्याक्षेपः समाधातव्यः इत्यत आहअनभ्युपगमाच्च । एकदेशिमतमेतदस्माभिर्नाभ्युपेयते । तस्मान्न समाधेयमित्यर्थः । तत्किमिदानीं भिद्यमानस्य प्रत्यक्षज्ञानस्य नायं भिद्यत इति समानत्वान्नोक्त इति भाष्यमनुपपन्नमेव? नेत्याहैन्द्रियमनःसंयोगस्य चाग्रहणं समानत्वात् । पृच्छतिकेनेति । उत्तरम्"आत्ममन इति । पुनः पृच्छतिकिं पुनः समानत्वम्, उत्तरम्व्यपदेशाभाव इत्युक्तम् । तेन भाष्यस्यायमर्थः । प्रत्यक्षज्ञानस्य रूपज्ञानस्य रूपज्ञानमिति वा चक्षुर्विज्ञानमिति वा व्यपदेशेन भिद्यमानस्य आत्ममनःसंयोग इव अयमिन्द्रियमनःसंयोगो न भिद्यते । एवं हि स भिद्यते, यदि स्वसंबन्धिवाचकेन व्यपदेशेन स्वमन्यतो व्यावर्त्यते, न विशेषणेन विशिष्टं ज्ञानमप्यन्यतो व्यावर्तयेत् । न त्वस्ति इन्द्रियमनःसन्निकर्षाधाराभ्यामिन्द्रियमनोभ्यां प्रत्येकमस्य व्यपदेशो यथेन्द्रियार्थसन्निकर्षाधाराभ्यामिन्द्रियार्थाभ्यां व्यपदेशो रूपज्ञानमिति चक्षुर्ज्ञानमिति वा । तस्माद्व्यपदेशाभाव आत्ममनःसन्निकर्षेण साम्यमिन्द्रियमनःसन्निकर्षस्य । तस्मात्समानत्वात्नोक्त इति ॥ प्राकरान्तरं समानत्वे दर्शयतिअतीन्द्रियाधारता वेति । लक्षणं हि प्रसिद्धं भवति यथा धूमो वह्नेः न चातीन्द्रियद्वयाधारसन्निकर्षस्तथा प्रसिद्धो यथेन्द्रियार्थसन्निकर्षोऽर्थस्य संबन्धिन एकस्नय प्रसिद्धत्वात्, इन्द्रियमनसोस्तु द्वयोरतीन्द्रियत्वात् । आत्मा तु यद्यपि यु।जानस्य शरीराद्यतिरिक्तः प्रत्यक्षः, तथाप्यस्मदादीनां न तथेत्यतीन्द्रिय उक्तः । तदनेनातीन्द्रियाधारत्वं स्वरूपेणोक्त्वा तदेवं विषयावृत्तित्वमनोवृत्तित्वाभ्यामतीन्द्रियाधारत्वं सामान्यमाहविषयावृत्तित्वं वेति । उपसंहरतितस्मादिति समानत्वादिति भाष्योक्तो हेतुः, चरितार्थत्वादिति स्वोक्तः ॥ आक्षिपतिइन्द्रियार्थसन्निकर्षोत्पन्नमित्ययुक्तमिति । सान्तरग्रहणादिति हेतुं विभजतेविप्रकृष्टेति । ननु नार्थो विप्रकृष्टः, चक्षुषस्तत्र प्राप्तेरित्यत आहन तु चक्षुष इति । कस्मादित्यत आहभूतविशेषस्येति । बाह्यो भूतविशेष आलोकः । तस्य प्रसाद इन्द्रियाव्यवधायकत्वं कुड्यादिभ्यो विशेषः यः खलु काचाभ्रपटलादिषु स्वच्छेषु समस्ति । स्यादेतत् । अस्ति कृष्णसारलक्षणो भूविशेषः प्रसन्नान्धस्यापि, अतस्तस्यापि रूपोपलब्धिः स्यादित्पत आहतत्तृष्णापूर्वकेति । रूपोपभोगतृष्णा हि तत्साधनं कृष्णसारमपि विषयीकरोति । एतदुक्तं भवतिभूतविशेषः कर्मापेक्षो रूपं चष्ट इति चक्षुरित्युच्यते । कर्मक्षायात्तु प्रसन्नान्धस्य न रूपं चष्ट इति न चक्षुः । अस्तु गोलकमेव चक्षुः किमेतावतापीत्याहन चेति । विच्छिन्नं हि गोलकमर्थादनुभूयत इत्यर्थः । तदेवं वस्तुनः सान्तरस्य ग्रहणमप्राप्यकारित्वे हेतुरुक्तम् ॥ केचित्तु सान्तरमिति ग्रहणविशेषणं हेन्तु ब्रुवते, तन्मतमुपन्यस्यतिअपरे त्विति । साध्यविपर्ययादस्य व्यतिरेकं दर्शयतिन हि प्राप्यकारिष्विति पक्षधर्मतामाहदृष्टं त्विति । यच्चोक्तमप्राप्यकारित्वे साधनं पृथुतरग्रहणादिति, तद्विभजतेपृथुतरेति । द्व्याश्रयो हि संयोगोऽल्पमेव संयोगिनमनुरुध्यते, न महान्तम् । न जातु रथादिसंयोगा नभो व्यश्नुवते, मा भूत्सर्वत्र रथादीनां तत्संयोगादीनां चोपलब्धिः । तेन यावन्मात्र राष्ट्रवनादेर्गोलकेन व्याप्तं तावन्मात्रस्य ग्रहणप्रसङ्गः । हेत्वन्तरमाहदिगिति । अस्यापि व्यतिरेकमुखेन गमकत्वं दर्शयतियदि प्राप्यकारीति । अपरमपि हेतुमाहसन्निकृष्टेति । यद्यपि गतिक्षणानां प्रत्येकं स्पाश्रयस्य देशान्तरविभागसंयोगोपजननं प्रति क्षिप्रतया न विशेषः । स्वाश्रयप्रत्यासत्तौ चाविशेषः तथाप्या चापादानविभागाता च प्रापनीयदेशप्राप्तेरन्तरालवर्ती यावान् गतिक्षणप्रचयः पूर्वापरीभूतो गतिरिह विवक्षितः । तस्य सान्तरत्वं मन्दत्वं विलम्बः नैरन्तर्यं तु पाटवं क्षिप्रता । तामिमां गतिमभिन्दद्नैरन्तर्येण कुर्वदपि सन्निकृष्टमाशु प्राप्नोति । न विप्रकृष्टेन तुल्यकालम्, किं तु विप्रकृष्टं चिरेणेति । यथोक्तं दिग्रागेन सान्तरग्रहणं न स्यात्प्राप्तौ ज्ञानेऽधिकस्य च । बहिर्वर्तित्वादिन्द्रियस्योपपन्नं सान्तरग्रहणमिति चेत्? अत उक्तम् अधिष्ठानाद्बहिर्नाक्षं किं त्वधिष्ठानदेश एवेन्द्रियम् । कुतः? तच्चिकित्सादियोगतः ॥ सत्यपि च बहिर्भावे न शक्तिर्विषयेक्षणे । यदि च स्यात्तदा पश्येदप्युन्मील्य निमीलनात् ॥ यदि च स्यातुन्मील्य निमीलितनयनोऽपि रूपं पश्येत्, उन्मीलनादस्ति बहिरिन्द्रियमिति ॥ तत्र वार्त्तिककारः सान्तरग्रहणादिति हेतुं विकल्प्य दूषयतियत्तावदिति । सान्तरता खल्वप्राप्तिसाहचर्यात् । अप्राप्तिं लक्षयतिहेत्वर्थस्य प्रतिज्ञार्थेनाक्षिप्रत्वातमेदेन । तदुक्तम्न प्रतिज्ञार्थाद्भिद्यत इति । हेतुप्रतिज्ञापदवाच्यत्वेन भेदमुपचर्याक्षेप्याक्षेपकभावो द्रष्टव्यः । तस्य व्यवधायकत्वादिति रूपवतोऽप्रसादस्वभावस्य कुड्यादेरित्यर्थः । यत्तु प्रसादस्वभावं तेजः तन्न गृह्यते, किं तु तस्य रूपमात्रं विस्फारिताक्षण दृश्यते । तदाश्रयं च द्रव्यं साधयिष्यते । न च गुणो द्रव्यस्यान्तरम् । मा भूद्गन्धादिभिरन्तरं द्रव्यस्य, मा न भूतां च निरन्तरे द्रव्ये, स्वगुणाभ्यामन्तरितत्वात् । न चापातजन्मालोचनं वा विकल्पो वा द्रव्यानुमानं प्रतीक्षते येन रूपज्ञानानुमितं द्रव्यमिन्द्रियर्थयोर्द्रव्ययोरन्तरं स्यात् । अपि च रूपमात्रमगृह्यमाणे द्रव्ये स्वतन्त्रं गन्धादिवद्गृह्यमाणं कथमन्तरा स्वाश्रयमनुमापयेत्, आकाशादीनामाश्रयाणमग्रहणात्? तस्माद्विषक्तावयवतेजोद्रव्याप्रत्यक्षत्वसमारोपमात्रेण दूषणं वक्ष्यमाणं त्वन्यथासिद्धत्वदूषणं पारमार्थिकं द्रष्टव्यम् । अथाभावोऽन्तरशब्दवाच्य इति, नास्माकं मूर्तद्रव्याभावादन्यताकाशमस्तीति भावः । दूषयतिस स्वतन्त्रश्र्चक्षुर्विषयो न भवति इन्द्रियं चार्थं चान्तरा अभावो ग्राह्यः, तेन सहार्थस्य ग्रहणं सान्तरग्रहणम् । न चेन्द्रियार्थयोर्मध्यते कस्यचित्संयुक्तस्य वा समवेतस्य वा ग्रहणमस्ति, यत्तन्त्रोऽयमभावो गृह्येत इति भावः ॥ स्यादेतत् । मा भूदान्तरालिकं संयुक्तं वा समवेतं वा विशेष्यं गृह्यमाणमेव तु रूपादिविशेष्यमिति । तत्तन्त्रोऽयमभावः तद्विशेषणत्वेन रिरूपयिष्यते । ततश्र्च सान्तरग्रहणमुपपत्स्यत इत्यत आहतेन सहोपलब्धाविति । प्रतीयते हि त्वगादिभिः अपीन्द्रियैः प्राप्यकारिभिरौष्ण्याभवविशेषण शिषिरतरं पाथः । न चेन्द्रियाणामत्राप्राप्यकारिता, तस्मादनैकान्तिकम् । अन्वयाभ्युपगमेनैतदुक्तम् । अन्वयाभावे तु विरुद्धमिति भावः । न च तैजसं रूपमन्तरम्, येन सान्तरग्रहणं स्यादित्याहन चान्या गतिरति । यथा चैतत्तथोपपादितमधस्तात् । ये तु सान्तर इति ग्रहणमिति हेतुमाहुः, तान् प्रति दूषणमाहयैरपीति । अन्यथासिद्धत्वे हेतुमाहशरीरेति । शरीरावच्छिन्नाः खल्वात्मानः शरीरायतनाः शरीरमेवात्मानमभिमन्याना अर्थाननुभवन्ति । तत्र य एव शरीरासंबद्ध इत्यनुभूयते तमेव सान्तर इति मन्यते । इन्द्रियसंबन्धो भवतु, मा वा भूत्, शरीरसंबन्धेन तस्य स्पर्शादौ न सान्तरत्वाभिमान इत्यर्थः । हेत्वन्तरं दूषयतियदपीति । संबन्धमात्रेणेति । मात्रग्रहणं संबन्धचतुष्टयव्याप्त्यर्थम् । तद्यथा इन्द्रियेणार्थस्य संबन्धः, इन्द्रियावयवैरर्थस्य, अर्थावयवैरिन्द्रयस्य, इन्द्रियावयवैरर्थावयवानाम् । न चैतत्निर्यता विना पृथ्वग्रतां भवतीति पृथ्वग्रता सूचिता । यथा वर्तिदेशे पिण्डितमपि तेजः प्रसर्पत्प्रासादोदरं व्याप्नोति । तत्कस्य हेतोः? पृथ्वग्रत्वादिति । स्वभावतः प्रसरदपि न स्वपरिमाणानुविधायिनं प्रत्ययमाधत्ते, किं तु विषयभेदानुविधायिनम् । विषयनिरूपणाधीननिरूपणा हि प्रत्यया नेन्द्रियनिरूपणाधीननिरूपणाः । तदिदमुक्तम्विषयभेदानुविधायी प्रत्यय इति ॥ अपरमपि हेतुं दूषयतियत्पुनरिति । देहमर्थं चान्तरावस्थितस्य पृथिव्यादेः संयुक्तसंयोगाल्पीयस्त्वं भूयस्त्वं चापेक्षमाणस्येति । खगानां चोपर्युपरि संचरतां दूरान्तिकभावो बहुलतमालोकावयवभागानां संयुक्तसंयोगाल्पत्वभूयस्त्वाभ्यामवगन्तव्यः । स च तादृगालोकावयवी प्रत्यक्षोऽन्यथा न रूपमात्रेण तदनुमानं शक्यमित्युक्तम् । न च खगानामुपर्युपरि संचरतां दूरन्तिकप्रत्ययः स्यात् । न च पतति पतत्रिणीह प्राप्तो नेहेति भवेत् । तस्मादन्यथासिद्धिरेव सहान्तरेण ग्रहणादितिवदत्रापि दूषणमिति द्रष्टव्यम् ॥ अपरमपि हेतुं दूषयतियत्पुनरिति । युगपद्ग्रहणमसिद्धम्, तदभिमानस्तु अन्यथासिद्धः । अचिन्त्यो हि तेजसो लाधवातिशयेन वेगातिशयो यदुदयगिरिशिखरमारोहत्येव मार्तण्डमण्डले भवनोदरेष्वालोक इत्यभिमानो लौकिकानाम् । तादृशं चाक्षुषमपि तेज इति क्रमेणापि गच्छद्युगपत्तत्र तत्र लक्ष्यते । न चैकस्मादेव कर्मणो युगपद्दुरान्तिकसंयोगा भवन्तीति युक्तम् । तद्धि स्वकार्ये जनयितव्ये स्वाश्रयप्रत्यासत्तिमपेक्षते । अन्यथा मधुरास्थस्य देवदत्तस्य कर्म पाटलिपुत्रेण देवदत्तं योजयेत् । वेगाख्यसंस्कारजमपि कर्मन सहसा शरमन्तरालदेशेन च लक्ष्येण च योजयति । तस्मात्मिथ्यैव यौगपद्याभिमान इति । चोदयतिकथं पुनरिति । अस्ति हि शाखाचन्द्रमसोः ग्रहणे यौगपद्याभिमानः । न चायमसति बाधके मिथ्येति वक्तुं शक्यः । सोऽयमबाधितो बोधोऽवबोधयत्यप्राप्यकारितां चक्षुष इत्यर्थः । परिहरतिइदमिति । इन्द्रियं यद्यगत्वानागतमर्थं गृह्णीयात्, किमस्य कुड्यकटाद्यावरणमपकुर्यात्येन तदावृतं न गृह्णीयात् । गतौ तु स्पर्शवता प्रसादरहितेन सैवास्य प्रतिबद्धेति न प्राप्नोति विषयम्, अप्राप्तं च न गृह्णाति । प्रायोगस्तु, चक्षुःश्रोत्रे प्राप्य स्वविषये कार्यं कुरुतः, जनकत्वे सति तदप्राप्तावजनकत्वात् । यज्जनकं सद्यदप्राप्तौ यन्न जनयति तत्तत्प्राप्तावेव तज्जनयति, यथा कुम्भजनकः कुम्भकारो मृदोऽप्राप्तावकुर्वन् कुम्भं तत्प्राप्तावेव करोति । तथा चैतत् । तस्मात्तथेति ॥ युक्त्यन्तरमाहदूरान्तिकानुविधानमिति । दूरे नोपलभ्यते, अन्तिके च उपलभ्यते । अप्राप्तेरविशेषेण दूरेऽप्युपलम्भः स्यात् । अनुपलम्भे वा अन्तिकेऽपि न स्यात् । प्राप्तौ तु दूरं गच्छत्प्रक्षीणं सत्प्राप्तमर्थं न गृह्णाति अतैजसम्, तैजसमप्यभिभूतं न गृह्णाति, यथोल्काप्रकाशं मध्यन्दिने । अनभिभूतं तु मार्तण्डमण्डलं गृह्णात्येवेति । चोदयतिविषयीभावादिति । योग्यो हि तादृश इन्द्रियक्षणः स्वकारणादुपजातः परिणतो वार्थक्षणश्र्च, ययोरप्राप्तयोरेव ग्रहणग्राह्यभावः । व्यवहितविप्रकृष्टौ च न तौ तादृशौ । तत्किमप्रतीयमानप्राप्तिकल्पनयेत्यर्थः । परिहरतितच्च नैवमिति । निषत्स्येते हि क्षणभङ्गपरिणामौ भावानाम् । तेन स्थेमभाजां भावानां स्वरूपयोग्यता वा महत्त्वादिर्विषयीभावः सहकारिसाकल्यं वा ज्ञानोपजननं प्रति परिशिष्यते । तत्र स्वरूपयोग्यतामात्रं चेदास्थीयेत, तदा यदेवाव्यवहितं सन्निहितं सदजनयद्विज्ञानं विप्रकृष्टमपि व्यवहितमपि तदेवेति तथैव तेन ज्ञानं जनयितव्यम् । अस्ति हि तस्य तदापि स्वरूपयोग्यतेति, सहकारिसाकल्यं तु प्राप्तिरेव । तस्मात्न संबन्धमन्तरेण विषयीभाव इति सूक्तम् । सन्दिग्धः पृच्छतिअथ प्राप्यकारित्व इति । अयमभिसन्धिः । कुलालादौ प्राप्यकारिणि दृष्टं यथा विप्रकृष्टो व्यवहितश्र्च न करोतीति, तस्मातप्राप्यकारिणि चाचस्कान्तादौ दृष्टं यथा विप्रकृष्टो व्यवहितश्र्च लौहं मणिराकर्षति, तस्मात्तत्र प्रमाणं वक्तव्यमिति उत्तरमिन्द्रियत्वमेव प्रमाणम् । तदेव पञ्चावयवोपपन्नमाहप्राप्यकारीति । यदि तु कश्र्चित्दृष्टान्तस्य साध्यविकलत्वमुभ्दावयेत्त्वगादीनामप्राप्यकारित्वादिति, तु प्रत्याहअथ पुनर्न किञ्चिदिति । पृच्छतिअथेति । योग्यतयैव हि कारणानि स्वकार्यं कुर्वन्ति, प्राप्तिस्तु स्वरूप्योग्यताप्रयुक्तां व्याप्तिमुपजीवति, न त्वस्याः स्वाभाविकं व्यापकत्वमिति भावः । उत्तरम्सोऽपीति । सहकारिसाकल्यं तावत्न प्राप्तेरतिरिच्यत इत्युक्तम् । केवलं स्वरूपयोग्यता वक्तव्या । स च व्यस्तानामप्यस्तीति यत्र तत्र व्यवस्थितेभ्योऽपि कार्योत्पादप्रसङ्कः । अयस्कान्तमणेरपि चक्षुष इव वृत्तिभेद एषितव्यः, अन्यथा व्यवधानविप्रकर्षयोरपि लौहाकर्षणप्रसङ्गात् । न च व्यवधानविप्रकर्षाभावसहितो लौहमाकर्षति, व्यवधानविप्रकर्षयोस्तु तदभावाभावो नाकर्षति संप्रतम् । प्राप्तेरेव तत्र तत्र कार्योत्पादं प्रति उपयोगस्य विदितस्वात् । योग्यतामात्रस्य चोपाधेरपाकृतत्वात् । यथा च द्रव्यातिरिक्तस्तद्धर्मः प्राप्तिस्तथाग्रेनिवेदयिष्यते । तस्मात्सर्वमवदातम् । उपसंहरतितस्मादिति । यदपि कृष्णसारानुग्रहोपघाताभ्यां दर्शनादर्शनादिति तत्रोच्यते, तदधिष्ठानमिन्द्रियमित्यधिष्ठानानुग्रहोपघाताभ्यां तस्यानुग्रहोपधातौ, यथा कूष्माण्डलतासेचनच्छेदनाभ्यां तत्फलस्य अनुग्रहोपघातौ । अत एव बहिर्निसृताप्यच्छिन्नमूला दृष्टिः कार्याय समर्था न छिन्नमूलेति सिद्धम् ॥ पृच्छतिअथ ज्ञानेति, प्रत्यक्षसमाख्यातलक्षणानुवादेन लक्षणे विधीयमाने ज्ञायत एवैतज्ज्ञानमेवेति लोके साक्षात्कारिज्ञानहेतोः प्रत्यक्षत्वादिति भावः । उत्तरम्सुखादिव्युदासार्थम् । तदेव हि लक्षणवायमुच्यते, यस्य लक्ष्यानपेक्षोऽतिव्याप्त्यव्याप्तिव्युदासो लक्षणपदेभ्य एव प्रतीयते । लक्ष्यानुरोधेन तु लक्षणव्यवस्थापने अन्योन्याश्रयत्वमगतिर्वेति भावः । सुखादीनां विज्ञानाभिन्नहेतुजत्वेन विज्ञानत्वादशक्यं व्यावर्तनमिति चेत्न, अभिन्नहेतुजत्वासिद्धः । न खलु यैव चन्दनस्पर्शज्ञानस्योत्पत्तौ सामग्री सैव सुखस्यापीति । अस्ति हि शीतार्तस्यापि चन्दनेन्द्रियसंयोगात्शीतस्पर्शज्ञानमिति तद्वदेवास्य सुखमपि भवेत् । अवान्तरसामग्रीभेदेऽपीन्द्रियार्थमनस्कारजत्वात्ज्ञानजातीयत्वमिति चेत्न, किञ्चित्कारणाभेदेऽपि कार्यभेदस्यानाकस्मिकत्वोपपत्तेः । तदर्थत्वाच्च कारणभेदानुसरणप्रयासस्य । न चोपादानाभेदादभेद इति युक्तम् । भिन्नानामपि ज्ञानानामेकसमनन्तरप्रत्ययोपादानत्वस्य भवभ्दिरभ्युपगतत्वात् । अपि चोपादानाभेदश्र्च कुतश्र्चित्कारणभेदात्कार्यभेदश्चेति को विरोधः? अत एवास्माकमभेदे अप्युपादानस्य पिठरस्यौष्ण्यापराख्यस्य च वहिनसंयोगस्य पूर्वरूपादिप्रध्वंसानां कारणानां भेदाद्भिन्नजातीया जायन्ते गन्धरूपरसस्पर्शा इति सिद्धान्तः । तस्मादर्थप्रवणेभ्यो ज्ञानेभ्यस्तदप्रवणतया भिन्नजातीयाः सुखादयो यथास्वमुनकूलवेदनीयत्वादिभिर्लक्षणैरन्योन्यमपि भेदवन्तस्तीव्रसंवेगतया प्रमित्सानपेक्षमानसप्रत्यक्षप्रवेदनीया इति रमणीयम् ॥ स्यादेतत् । असत्यपीन्द्रियार्थसन्निकर्षे ज्ञानमात्रादेव सुखदुःखयोः स्वप्नान्तिके दर्शनात् यत्रापीन्द्रियार्थसन्निकर्षस्तत्रापि ज्ञानमस्तीति तदेव सुखदुःखयोः कारणं क्लुप्तसामर्थ्यात् । इन्द्रियार्थसन्निकर्षस्य तु ज्ञानमात्रोपयोगादन्यथासिद्धौ भावाभावाविति । तदयुक्तम्, स्वप्नान्तिके सुखदुःखोत्पादस्यासिद्धेस्तज्ज्ञानस्यार्थज्ञानस्येव मिथ्यात्वात् । यथा हि तत्र कामिनीस्मृतिविषर्यास एव मुपलब्धचरतज्जन्मसुखस्मरणविपर्यासः । सुखदुःखबुद्ध्युत्पाद एव चात्र धर्माधर्मोपयोगो न तु सुसदुःखोत्पादे । न चासतीन्द्रियार्थसन्निकर्षे ज्ञानमन्यन्मनोरथादि वा तादृशं सुखभेदं विधत्ते यादृशो विषयोपभोगजन्मा । सतीन्द्रियार्थसन्निकर्षे ज्ञानमात्रमेव तस्य हेतुः । ज्ञानहेतुस्तु सुखभेदस्यानुत्पादादित्यप्युक्तमेव । विषयसाक्षात्कारस्तदुत्पादहेतुर्न विषयज्ञानमात्रमिति चेत्? हन्तर्, इश्वरस्याप्यस्ति तत्रभवतो योगर्द्धिसंपन्नानां च महाधियां समस्तवस्तुसाक्षात्मार इति तेषामपि सुखदुःखोत्पादप्रचयः प्रसज्येत्, असत्यां प्रतिपक्षधारणायाम् । तस्मादिन्द्रियार्थसन्निकर्षोऽपि सुखदुःखोत्पादहेतुरेषितव्यः । स च सत्यप्यर्थसाक्षात्कारे नास्ति सिद्धानामिति न तेषां सुखदुःखोत्पादः । अपि च चरमभावि कारणं गृहीत्वा पूर्वभाविनामकरणत्वापादने तन्त्वादीनामपि पटादीन् प्रत्यकारणत्वप्रसङ्गः । संयोगभेदादेव तादृशपटात्पत्तेः तन्त्वादीनां च संयोगभेद एवोपयोगात् । तत्सहितस्य तु तत्कारणत्वं सन्निकर्षस्याप्यालोचनसहितस्येति समानम् । यथाहुः पदार्थविदः स्त्रगाद्यभिप्रतविषयसान्निध्ये सतीष्टोपलब्धीन्द्रियार्थसन्निकर्षधर्माद्यपेक्षादात्ममनसोः संयोगात्यदनुग्रहाभिष्वङ्गनयनादिप्रसादजनकमत्पद्यते तत्सुखमिति । तस्मात्सुष्ठूक्तं सुखादिनिवृत्त्यर्थं ज्ञानग्रहणमिति ॥ इह द्वयी प्रत्यक्षजातिरविकल्पिका सविकल्पिका चेति । तत्रोभय्यपि इन्द्रियार्थसन्निकर्षोत्पन्नं ज्ञानमव्यभिचारीति लक्षणेन संगृहीतापि स्वशब्देनोपात्ता, तत्र विप्रतिपत्तेः । तत्राविकल्पिकायाः पदमव्यपदेश्यमिति, सविकल्पिकायाश्र्च व्यवसायात्मकमिति । तत्र व्यपदेशो विशेषणमुपलक्षणं वा नामजात्यादि, तत्कर्म व्यपदेश्यं विशेष्यमिति यावत् । तद्यथा डित्थोऽयं गौरयं शुक्लोऽयं कमण्डलुमानयं गच्छत्ययमिति सर्वं हि सविकल्पकं विशेषणविशेष्यभावेन वस्तुषु प्रवर्तते । अविद्यमानं व्यपदेश्यं यस्मिस्तदव्यपदेश्यं जात्यादिस्वरूपावगाहि, न तु जात्यादीनां मिथो विशेषणविशेष्यभावावगाहीति यावत् ॥ तत्र नामरहितमविकल्पकं नास्तीति ये विप्रतिपद्यन्ते तन्मतमपचिकीर्षुरूपन्यस्यति भाष्यकारः यावदर्थं वै नामधेयशब्दाः । सर्वेऽर्थाः सर्वथा सर्वदा सर्वत्र नामधयान्विताः । नास्ति सोऽर्थो यः कदाचित्क्वचित्कथञ्चित्नामधेयेन वियुज्यते । तदनेन नामधेयतादात्म्यमर्थानां प्रतिजानीते । अत्र हेतुमाहतैरर्थसंप्रत्यय इति । अर्था हि प्रतीयमानां नामधेयैरूपेतास्तत्सामानाधिकरण्येनावगम्यन्ते गौरित्यर्थोऽश्व इत्यर्थ इति । न चोपायतया सामानाधिकरण्यं घटते । न हि चक्षुरादिसामानाधिकरण्यं रूपाद्यनुभवति । नापि ज्ञायमान उपाय उपेयसामानाधिकरण्मनुभवति । न हि भवति धूमोऽयं वहिनरिति किं तु धूमोऽयं धूमत्वात्वहिनमानिति । अपि चाशब्दोपायेऽनुमेयादौ न शब्दसंभेदेनाधिगमो भवेत्, अस्ति तु । तस्मात्तैर्नामधेयैः सह समानाधिकरणस्यार्थस्य प्रत्ययो यत इति । तस्मात्नामधेयात्मानः अर्थाः । किं च गवादिषु षड्जादिषु च शब्दापकर्षेऽर्थप्रत्ययापकर्षात्तदुत्कर्षे त्वर्थप्रत्ययोत्कर्षात्प्रत्ययस्य च प्रत्येतव्योत्कर्षाधीनोत्कर्षत्वात्नामधेयोत्कर्षेणार्थस्योत्कर्षः अर्थस्य तादत्म्यं गमयति । तदिदं समः प्रयोजनं संप्रत्यय इति समधिकः प्रत्यय इत्यर्थः । अस्त्यर्थसंप्रत्ययो नामधेयसामानाधिकरण्येन, न त्वेतावता नामधेयात्मता सिध्यति । अस्ति हि पुरोवर्तिद्रव्यसामानाधिकरण्येन रजतप्रत्ययो न चैतावता शुक्ती रजतात्मिका भवतीत्यत आहअर्थसंप्रत्ययाच्च व्यवहारः । ततश्र्चविसंवादात्प्रमाणं सन्नामधेय तादत्म्यं साधयत्यर्थानामित्यर्थः ॥ तदेवं सामान्यतोऽर्थानां नामधेयतादात्म्यं व्युत्पाद्य प्रकृते योजनयतितत्रेदमिन्द्रियार्थसन्निकर्षादुत्पन्नं विषयज्ञानं रूपमिति वा रस इति वा एवं रूपाद्यर्थसामानाधिकरण्येन भवति । भवतु, किमेतावतापीत्यत आहरूपरसशब्दाश्र्च विषयनामधेयम् । किमेतावतापीत्यत आहतेन व्यपदिश्यते ज्ञानम् । उक्तमपि व्यपदेशं सव्याख्यानमाहरूपमिति जानीते रस इति जानीते इति । तथा चार्थानां नामधेयात्मकत्वात्तद्गोचरमालोचनमपि नामधेयगोचरमित्यर्थवत्नामधेयेन व्यपदिश्यमानं शाब्दं प्रसज्यत इति । न शब्दप्रमाणकतया शाब्दम्, अपि तु शब्दे जातं शाब्दम् । शब्दश्र्चात्र विषयत्वेन जनकोऽर्थतादात्म्यात् । तथा च नाविकल्पकं शब्दरहितमस्तीति तात्पर्यार्थः । तथा चाहुः, न सोऽस्ति प्रत्ययो लोके यः शब्दानुगमादृते । अनुविद्धमिव ज्ञानं सर्वं शब्देन गम्यते ॥ बालकमूकादीनामपि ज्ञानं शब्दानुव्याधवदेवानादिशब्दभावनावशात् । यदवोचत्, आद्यः करणविन्यासः प्राणस्योर्ध्वं समीरणम् । स्थानानामभिघातश्र्च न विना शब्दभावनाम् ॥ इति । तदस्य निराकरणं लक्षणगतेनालोचनज्ञानावरोधार्थेनाव्यपदेश्यपदेन सूचितमिति परीक्षापर्वणि वचनार्हमपि सुभाषितरुचितया तद्विलम्बमसहमानो भाष्यकारो लक्षणावसर एवाह । अत एवाहअव्यपदेश्यमितीति । तेन सूचितेऽप्यर्थे अव्यपदेश्यपदं चोजयतियदिदमनुमयुक्ते शब्दार्थसंबन्धेऽर्थज्ञानम्, न तत्नामधेयशब्देन व्यपदिश्यते ॥ अयमभिसन्धिः । सामानाधिकरण्येन शब्दात्मकत्वं रूपादीनामभिधीयानं शब्दब्रह्मात्मकत्वं वोच्येत श्रेयमाणगौरित्यादिपदभेदात्मकत्वं वा? न तावदाद्य । कल्पः । न सल्वस्मदादिसमस्तदर्शनपथातिवृत्तेन शब्दब्रह्मणा रूपादीनामस्ति सामानाधिकरण्यप्रतीतिः लौकिकानाम् । श्रूयमाणशब्दसामानाधिकरण्येन तु तादात्म्यप्रसाधने अनुपयुक्तशब्दसंबन्धस्य बालमूकादेः रूपादिज्ञानेषु नास्ति श्रूयमाणशब्दगन्धोऽपि, प्रागेव तु तत्सामानाधिकरण्यम् । न च तेषामपि प्राग्भवीयशब्दभावनानुगमेन तत्सामानाधिकरण्यमिति सांप्रतम् । न खलु रूपाद्यात्मनः शब्दस्य रूपादिवैशद्यैनावैशद्यं संभवति । युगपद्वैशद्यावैशद्यरूपविरुद्धधर्मयोगेन भेदप्रसङ्गात् । वेशद्ये तु व्युत्पन्नवदव्युत्पन्नोऽपि शब्दैः व्यवहरेत्, न तु संबन्धग्रहणपेक्षेत । न च तादात्म्यादन्यद्वाचकत्वं शब्दानां यत्र संबन्धग्रहापेक्षा भवेत् । न च तादात्म्येऽपि कल्पितभेदानां वाच्यवाचकभावः । तथा सति न सामानाधिकरण्यं स्यात् । न ह्यस्ति संभवो भेदकल्पना च सामानाधिकरण्यप्रथा चेति । तस्मादव्युत्पन्नानामस्ति शब्दरहितं रूपादिषु निर्विकल्पकं प्रत्यक्षमिति । न केवलमब्युत्पन्नानाम्, व्युत्पन्नानामप्यस्तीत्याहगृहीतेऽपि च शब्दार्थसंबन्धे इति । आर्द्धेक्त एव सामानाधिकरण्यनिरासाय संबन्धग्रहणस्वरूपमाहअस्थार्थस्य सास्नादिमद्रूपस्य अयं गकराद्योकारो नामधेयमिति । इतिकरणो ज्ञानपरामर्शप्रधानः । तथा च यो डित्थो नानादेशकालावस्थासंसृष्टः पिण्डभेदः सोऽयमिति सन्निहितदेशकाल इत्यर्थः । न त्वयं पिण्डो डित्थशब्द इति प्रत्ययः । औत्सर्गिकं हि शब्दानामर्थपरत्वं क्वचित्पुनरित्यादिभिः शब्दैस्तदपोद्यते । यत्रापि संबन्धप्रतिपादनमभेदेन अयं डित्थ इति, तत्रापि शब्दो वाच्यत्वपरो न स्वरूपपरः यथा गौर्वाहीक इति लक्ष्यमाणगुणयोगपरः । न च तन्मात्रेण वाहीकस्य गोत्वं भवति । तस्माद्भिन्नयोरेव शब्दार्थयोः संबन्धग्रहात्तन्मूलत्वाच्च शब्दव्यवहारस्य न शब्दपुरःसरमपि ज्ञानं शब्दसामानाधिकरण्यमात्मनोऽर्थस्यावगमयति । यत्तु शब्दानुपायेऽपि ज्ञाने शब्दः पूर्वं भवति तद्गृहीतसङ्केतस्य प्रथममिन्द्रियार्थसन्निकर्षादालोचनेन शब्दसंसर्गरहितेनालोचितेऽर्थमात्रेतस्यार्थभेदस्य शब्दभेदेन संबन्धात्शब्दविषयः संस्कारः प्रबोध्यते । प्रबुद्धः शब्दस्मृतिं जनयति । तेन व्युत्पन्नस्य निर्विकल्पकात्पराञ्चः प्रत्ययाः शब्दानुपाया अपि शब्दपुरःसरा जायन्ते । यथाहुः, यत्संज्ञास्मरणं तत्र न तदप्यन्यहेतुकम् । पिण्ड एव हि दृष्टः सन् संज्ञां स्मारयितुं क्षमः ॥ तस्माद्व्युत्पन्नस्यापि नामधेयस्मरणाय पूर्वमेषितव्यो विनैव नामधेयमर्थप्रत्ययः । तदिदमुक्तम्गृहीतेऽपि शब्दार्थसंबन्धे अस्यार्थस्यायं शब्दो नामधेयमिति । यदा तु सोऽर्थो गृह्यते नामधेयरहितो नामधेयस्मरणात्पूर्वमविकल्पेन तदा पूर्वस्मादव्युत्पन्नावस्थायामर्थज्ञानात्न विशिष्यते इति । यतो न विशिष्यते तस्मात्तदर्थज्ञानं तादृगेव भवति । ननु परप्रतिपादनादिलक्षणव्यवहाराय स्वरूपेण ज्ञाने व्यपदेष्टव्ये यदर्थव्यपदेशेन व्यपदिश्यते तदवगच्छामोऽर्थव्यपदेशाकारमिति । कथं चार्थाकारं भवति? यद्यर्थव्यपदेशयोर्नाभेदः, तस्मात्पुनरपि तादात्म्यं प्रसक्तमित्यत आहतस्य त्विति । अर्थाकारमेव तु ज्ञानमर्थव्यपदेशेन व्यपदिश्यते अन्यथा अशक्यत्वादित्यर्थः । प्रतीयमानं परेण । उपसंहरतितस्मादिति ॥ तदेवमर्थज्ञानकाले ॰ स ॰ न समाख्याशब्दो व्याप्रियते प्रतीयमानतया, व्यवहारकाले तु परप्रत्यायनकाले तु व्याप्रियते कारणतया । तदनेन गोपालाविपालादीनां संज्ञानिवेशनं तासु तासु व्यक्तिषु व्यवहारोत्कर्षहेतुः नार्थोत्कर्षहेतुरित्यपि सूचितं भवति । तस्मादविकल्पकप्रत्यक्षावरोधार्थेनाव्यपदेश्यपदेनास्यैवाविकल्पकस्य शब्दानुव्याधरहितता सूचिता इत्याशयवानुपसंहरतितत्मादिति ॥ तदेतद्भाष्यं वार्त्तिककारः तात्पर्यतो व्याचष्टेतच्चेन्द्रियार्थेति । विषयभेदानुविधायि ज्ञानमिति शब्दात्मतामपारोति । चाक्षुषं हि रूपज्ञानं रूप एव नियतं न शब्दे प्रवर्तते । एवं श्रौत्रमपि शब्द एव नियतं न रूपादौ प्रवर्तते । यदि पुनरिदं शब्दात्मकं रूपादि भवेत्, श्रोत्रजं ज्ञानं शब्दग्राहीति रूपादावपि प्रवर्तेत । अप्रवर्तमानं वा विधुरयति रूपादीनां शब्दात्मताम् । अपि च श्रूयमाणशब्दात्मत्वे रूपादीनाम्, तेषामपि श्रवणग्राह्यत्वमित्यन्धोऽपि रूपु गृह्णीयात् । अस्ति हि तस्य श्रोत्रं च शब्दज्ञानं च । एवं बधिरोऽपि शब्दं गृह्णीयात् । अस्ति हि तस्य लोचनं च रूपज्ञानं च । अशब्दोऽभाव इति च विवक्षितविपरीतापत्तिः शब्दाभावस्यार्थस्य शब्दत्वात्, अशब्दत्वे वा स एवास्यार्थः शब्दाद्भिन्नः प्रसज्यते । एवमभावोऽप्यर्थ इति शब्दः स्यात् । तथा च नाभावः, शब्दस्य सत्त्वात् । तथा चार्थानुविधायि विज्ञानं न भवेत् । अस्ति च । तस्मात्न शब्दात्मानोऽर्था इति । तदुत्पत्तिकाल इति प्राथम्येन शब्दानुव्याधं व्यावर्तयति ॥ एकदेशिव्याख्यानमाहअपरे त्विति । इन्द्रियार्थसन्निकर्षेण हि लिङ्गेन यदिन्द्रियगातिज्ञानं तदपि प्रत्यक्षलक्षणोपेतमिति प्रत्यक्षं प्रसज्यत इति तन्निवारणाय अव्यपदेश्यपदम् । अपदेशो हेतुवचनम् । तदेव तदाभासेभ्यो विशिष्टं व्यपदेशः । तस्य कार्यं हेतुप्रत्यायनद्वारा अनुमेयज्ञानं व्यपदेश्यम् । न व्यपदेश्यमव्यपदेश्यमलिङ्गोभ्दवमित्यनुमानं व्यावर्तितमित्यर्थः । तदेकदेशिमतं दूषयतितच्च नैवमिति । नन्विन्द्रियगतिज्ञानमपि इन्द्रियार्थसन्निकर्षाल्लिङ्गादुत्पन्नमित्यत आहन ह्यनुमेयस्येति नैतदिन्द्रयार्थसन्निकार्षादुपजायते, किं तु तज्ज्ञानात् । अत एवातीतेऽपि धूमादौ लिङ्गे तत्स्मरणमात्रादेवानुमेयज्ञान भवति । न च सन्निकर्षपदस्य मुख्यत्वे संभवति ज्ञानलक्षणा युक्तेत्ति भावः । उपसंहरतिअत इति । इमं च वार्त्तिकग्रन्थमबुध्यमाना इन्द्रियगतिज्ञाननिवृत्त्यर्थमिन्द्रियविषयेष्विति पदं सूत्रेऽध्याहरन्तीति ॥ क्रमप्राप्तस्याव्यभिचारिपदस्य तात्पर्यं ब्रूवाणो भाष्यस्यापि तात्पर्यमाहग्रीष्मे मरीचय इतीति । यद्यपि सामान्यलक्षणेनैव व्यभिचारिणो निरस्ताः प्रत्ययाः तदपेक्षं च विशेषलक्षणम्, अन्यथा अनुमानादिपदेष्वप्यभिचादिपदमुपादेयं स्यात्, तथापि सिद्धे सत्यारम्भो नियमार्थः । द्वयी हि प्रमाणानां गतिः । किञ्चित्सत्तामात्रेणप्रमासाधनं यथा प्रत्यक्षम् । न हि चक्षुरादीनां ग्रहणमुपयुज्यते, अपि तु सत्तैव । अनुमानादीन तु स्वज्ञानेन प्रमासाधनानि । न खल्वगृहीतं लिङ्गं वा शब्दो वा आगमसहितं सादृश्यं वा यथाविषयमादधाति प्रमाम् । तत्रानुमानस्य प्रमोपजननात्प्रागेव अर्थाव्यभिचारग्रहणमपेक्षते नान्यथा । ततः प्रमा सिध्यतीति । शब्दादौ तु यद्यपि प्रमोपजननं प्रति नार्थाव्यभिचारग्रहापेक्षा, तथापि शक्यमतिरोहितार्थमन्त्रमध्यपतितस्य द्रागित्येव प्रतीयमानार्थस्यापि, सृण्येव जर्भरी तुर्फरीतू ॥ इत्येवमादेर्मन्त्रस्याप्तप्रणेतृकतया सामान्यतोऽर्थाव्यभिचारित्वं ग्रहीतुम् । औत्सर्गिकं हि शब्दानामर्थपरत्वम् । अत एव निगमनिरुक्तव्याकरणसहायास्ततोऽर्थमवधारयन्ति । एवं यथा मुद्गस्तम्बस्तथा मुद्गपर्णीति आप्तवाक्यश्रवणादेव मुद्गस्तम्बसादृश्यज्ञानस्यानुपजनितफलस्यापि शक्यं तदर्थाव्यभिचारित्वं निश्र्चेतुम् । प्रत्यक्षस्य तु प्रमाणस्यात्यन्तपरोक्षस्वरूपोलम्भ एव तावत्प्रमोपजननात्प्राग्दुर्लभः, प्रागेत तु तस्यार्थाव्यभिचारित्वम् । यद्यपि च संवेदनप्रामाण्यपक्षेऽपि तत्संवेदनं मनसा सुलभम्, तथापि न तन्मात्रं प्रमाणम् । अपि तु असाधारणेन्द्रियार्थसन्निकर्षसहायमिति तत्सहायस्य तस्य परोक्षत्वमेव । तेन प्रत्यक्षस्य प्रमाणस्य फलाव्यभिचारेणैवाव्यभिचारज्ञानम्, न स्वरूपतः इत्येतत्प्रमाणान्तरेभ्यो व्यावृत्तमसाधारणं प्रत्यक्षस्य रूपमादर्शयितुमव्यभिचारिपदोपादानम् । अथ वा प्रत्यक्षाव्यभिचार एवानुमानाद्यव्यभिचारे कारणम् । न ह्यस्ति संभवोऽव्यभिचरितप्रत्यक्षगृहीतपक्षधर्मताकं तर्कसहायप्रत्यक्षगृहीताविनाभावं चानुमानं व्यभिचारतीति । यत्तु बाधितविषयं सत्प्रतिपक्षितं चानुमानम्, तदपि यद्यपि प्रथमं व्याप्तिग्रहणदोषेण न खण्डितम्, तथापि खण्डनोत्तरकालं सोऽपि प्रतीयते । तथा च व्याप्तिग्राहि प्रत्यक्षं तत्रापि व्यभिचारीति । एवमागमोऽपि साक्षात्क्वचित्पारम्पर्येण प्रत्यक्षपूर्वकस्तद्व्यभिचारेणैव व्यभिचरति । आगमव्यभिचारेणैवोपमानव्यभिचारो व्याख्यातः । तदेवं प्रत्यक्षाव्यभिचारे प्रमाणानामव्यभिचारोऽस्तीति प्रत्यक्षस्यैव विशेषणमव्यभिचारिपदं चकार, नेतरेषां प्रमाणानाम् । न ह्यस्ति संभवस्तन्मूलं प्रत्यक्षमव्यभिचारि, तानि च व्यभिचारीणीति । सोऽयं विशेषः प्रमाणान्तरेभ्यः प्रत्यक्षस्य । यथाह मीमांसावार्त्तिककारः, प्रत्यक्षाव्यभिचारेण स्वलक्षणबलेन च । प्रसिद्धाव्यभिचारित्वान्नानुमानं परीक्ष्यते ॥ इति । तस्मात्सुष्ठूकं ग्रीष्मे मरीचय इति भाष्यम्, तत्प्रतिषेधार्थमिदमुच्यतेअव्यभिचारीति ॥ पृच्छतिकिमिदमिति । उत्तरम्यदतस्मिन्निति । एतच्चोपपादितं द्वितीयसूत्रे । पुनः दूषयतितच्च नैवमिति । पृच्छतिकस्मात्? उत्तरमर्थस्येति । तदेव स्फोरयतियत्तदिति । अत्र च न निर्विकल्मकं भ्रान्तम्, किं तु सविकल्पकमित्याहतांस्तु मरीचीनिति । इन्द्रियेणालोच्य मरीचीनुच्चावचमुच्चलतो निर्विकल्पकेन गृहीत्वा पश्र्चात्तत्रोपघातदोषाद्विपर्येति, सविकल्पकोऽस्य प्रत्ययो भ्रान्तो जायते इति । तस्माद्विज्ञानस्य व्यभिचारो नार्थस्येति । यथाहुः निरुक्तकाराः, नैष स्थाणोरपराधो यदेनमन्धे न पश्यति । पुरुषापराधः स भवतीति ॥ अव्यभिचारिपदेनैव संशयज्ञानमपि व्युदस्तम् । नो खलु संशयज्ञानं विकल्प्यमानवस्तुगोचरं तद्रूपं वस्तु प्रापयति । अप्रापयच्चोपदर्शितं कथं संवादम्, असंवादकं च कथमव्यभिचारि? तस्मादव्यभिचारिपदेनैव संशयज्ञाने निरस्ते सविकल्पकप्रत्यक्षावदोधार्थमुपादीयमानं व्यवसायात्मकपदं संशयज्ञानप्रत्यक्षतापाकरणमन्वाचिनोति । तद्यथा एधानाहर्तुमरण्यं गच्छ, शाकमप्यानेष्यसीति शाकानयनमन्वाचीयते । न च तदेवास्य प्रेषितुर्वि धित्सितम्, तथेहापि । व्यवसायात्मकपदं साक्षात्सविकल्पकस्य वाचकम् । तथा हि व्यवसायो विनिश्र्चयो विकल्प इत्यनर्थान्तरम् । स एवात्मा रूपं यस्य तत्सविकल्पकं प्रत्यक्षम् । तदेतदतिस्फटत्वात्शिष्यैर्गम्यत एवेति भाष्यवार्त्तिककाराभ्यामव्याख्यातमपि अस्माभिः, त्रिलोचनगुरुन्नीतमार्गानुगमनोन्मुखैः । यथान्यायं यथावस्तु व्याख्यातमिदमीदृशम् ॥ स्यादेतत् । न व्यवसायात्मकं प्रतयक्षं भवितुमर्हति । अभिलापसंसर्गयोग्यप्रतिभासं हि तत् । न चेन्द्रियार्थाभ्यां लब्धजन्म विज्ञानमर्थावभासं शक्यमभिलापेन योजनयितुम् । न ह्यर्थे शब्दाः सन्ति, अर्थात्मनो वा, तथा सत्यव्युत्पन्नस्यापि व्युत्पन्नवद्व्यवहारः स्यादित्युक्तम् । न चाभिलापोऽर्थासंस्पर्शो संवेदनधर्मः, अर्थेषु तन्नियोजनात् । तस्मादर्थादुपजायमानं ज्ञानमर्थमेवादर्शयेत्नाभिलापम् । न हि रूपात्जायमानं प्रत्यक्षं रससहितमेतदादर्शयति । तस्मादभिलापसंसर्गानपेक्षमभिलापसंसर्गिणमादर्शयद्विकल्पविज्ञानं विकल्पवासनोत्थापितमनियतार्थग्राहि मानसमात्मीयमुत्प्रेक्षालक्षणं व्यापारं तिरस्कृत्यानुभवप्रभवतया अनुभवव्यापारं दर्शनु पुरस्कृत्य प्रवर्तमानमनुभवतया अभिमन्यन्ते प्रतिपत्तारः । तत्सिद्धमेतत्, यदर्थसामर्थ्यलब्धजन्म, न तत्शब्दकल्पनानुगतम्, यथा निर्विकल्पकम् । अर्थसामर्थ्यलब्धजन्मारश्र्च विवादाध्यासिता विकल्पा इति प्रसङ्गसाधनविरुद्धव्याप्तोपलब्धिः । शब्दकल्पनानुगतत्वस्य हि प्रतिषेध्यस्य विरुद्धं तदननुगतत्वम्, तेनार्थसामर्थ्यजत्वं व्याप्तम् । तस्योपलब्धिस्तदननुगतत्वमुत्थापयन्ती तदनुगतत्वं विरूणद्धीति । अथैषां प्रत्ययानां प्रत्यक्षमभि लापानुगतत्वमशक्यापह्नवम्, हन्त भोः, नार्थसामर्थ्यजत्वमिति प्रसङ्गविपर्ययः । तथा हि यदभिलापकल्पनानुगतं न तदर्थसामर्थ्यजं यथेश्वरप्रधानादिविकल्पविज्ञानम् । तथा चैते विवादाध्यासिता विकल्पा इति व्यापकविरुद्धोपलब्धिः । निषेध्यमर्थसामर्थ्यजत्वं तदभिलापकल्पनाननुगतत्वेन व्याप्तं तद्विरुद्धं च सदनुगतत्वमिति । न च सन्दिग्धव्यतिरेकिता, अर्थसामर्थ्येन हि तदुत्पद्यमानमर्थरूपमनुकुर्याद्न शब्दरूपम् । न ह्यर्थे शब्दाः सन्ति तदात्मानो वेत्युक्तम् । असंबद्धरूपानुकारे तु विज्ञानस्य सर्वरूपानुकारेण सर्वसर्वज्ञातापत्तिरति । सङ्केतवशात्शब्दानामर्थसंबन्धेनार्थोपलब्धौ तत्स्मरणात्तत्संसृष्टवेदनमिति चेत्? यत्र तर्हि ते कृतसङ्केताः तदेव स्मारयेदेतान् । तत्रैव च ते कृतसङ्केता यदनुगतं सामान्यम् । न च तद्दृष्टम्, किं तु स्वलक्षणं दर्शनगोचरः । तदेव हि परमार्थसद्विज्ञानस्य कारणम्, न तु सामान्यम् । सर्वसामार्थ्ययहितं हि ततलीकत्वात् । तस्माद्यद्द्ष्टं न तेन शब्दानां संबन्धः, येन च संबन्धो न तद्दृष्टम् । अपि च दृष्टस्य शब्दवाच्यत्वे दर्शनादिव वहिनरुष्ण इति वाक्यादपि प्रतीयेत । तथा च शब्दादपि तस्मिन् प्रतीते शीतापनोपनप्रसङ्गः । सामान्यविषयौलिङ्गशब्दौ वस्तुभूतसामान्यवच्च स्वलक्षणम् । तादृशं च तद्दर्शनस्य कारणमिति निर्विकल्पकेन प्रथमाक्षतन्निपातजन्मना जातिमद्वस्तुवेदनात्तत्रोपलब्धचरसंबन्धस्य शब्दस्य स्मरणम् । तथा च तच्छब्दाभिधेयजातिविशिष्टद्रव्यावगाहीन्द्रियार्थसन्निकर्षजन्मा विकल्पप्रत्ययो गौरयमित्येवमाकारो जायत इति चेत्? यथाहुः, निर्विकल्पकबोधेन द्व्यात्मकस्यापि वस्तुनः । ग्रहणम् ॰ श्लो. वा. प्रत्यक्ष. ११८ ॰ तथा ततः परं पुनर्वस्तु धर्मैर्जात्यादिभिर्यया । बुद्ध्यावसीयते सापि प्रत्यक्षत्वेन संमता ॥ ॰ श्लो. वा. प्रत्यक्ष. १२० ॰ इति । तन्न, पिण्डविवेकेन जात्यादेरविकल्पकेनाग्रहणात् । न हि जातिजातिभन्तौ वा क्रियाक्रियावन्तौ व गुणगुणिनौ वा तत्समवायो वा विवेकेन चकासति । न च विवेकेनाप्रतिभासमानः शक्या मिथो योजयितुं क्षीरोदकवदतद्वेदिना । तस्मादेकमविभागं स्वलक्षणमनादिविकल्पवासनासमारोपितजात्यादिभेदं तथा विकल्प्यत इति युक्तमुत्पश्यामः । अपि च परमार्थसद्वस्तुद्वयवेदनेऽपि कुतो विशेषणविशेष्यभावः? न ह्यङ्गुल्यावेकविज्ञानविषयौ मिथो विशेषणविशेष्यभावमापद्येते ॥ विशेषण खलूपकारकम्, उपकार्यं च विशेष्यम् । नान्यथा तयोस्तभ्दावः । न चैकविज्ञानसमारूढयोर्ज्ञाप्यज्ञापकभावो वा कार्यकारणभावो वा संभवी, समानकालयोः तयोरूभयोरपि पौर्वापर्यनियमात् । अपि च वस्तुनिवेशे जात्यादीनामुपाधीनामेकस्य वस्तुनः सत्त्वं च द्रव्यत्वं च पार्थिवत्वं च वृक्षत्वं च शिंशपात्वं चोपाधय इति दूरादेकोपाधिविशिष्टस्य ग्रहे सर्वोपाधिविशिष्टग्रहप्रसङ्गः । तथा ह्याधाराधेयभाव उपकारगर्भो भवति । पतनधर्मणो हि बदरस्योत्तरस्य कुण्डमधरं प्रतयासन्नमपतनधर्मकं बदरं विदधदाधारः । तद्वदिहापि द्रव्येण जात्यादीनामुपाधीनामुपकर्तव्यम् । न च शक्त्यन्तरैरूपकरोति । शक्त्यन्तरपकारेऽपि शक्त्यन्तरौकल्पनायामनवस्थापातात् । तस्मात्स्वभाव एव स्वकारणाधीनजन्मा द्रव्यस्य स तादृशो येन बहूनामुपाधीनामुपकरोतीति वाच्यम् । तथा च सत्त्वोपकारसमर्थें तस्मिन् द्रव्ये गृह्यमाणे द्रव्यत्वाद्युपकारसमर्थोऽपि स एवास्य स्वभाव इति तत्स्वभावावच्छिन्नाः सत्त्वविकल्पकेन परमार्थसद्द्रव्यावगाहिना सर्व एव द्रव्यत्वपार्थिवत्ववृक्षत्वशिशपात्वादयो विषयीकृता इति विकल्पान्तराणामानर्थक्यम् । यदाह, यस्यापि नानोपाधेर्धीग्राहिकार्थस्य भेदिनः । नानोपाध्युपकाराङ्गशक्यभिन्नात्मनो ग्रहे । सर्वात्मनोपकार्यस्य को भेदः स्यादनिश्र्चितः ॥ एकोपकारके ग्राह्ये नोपकारास्ततोऽपरे । दृष्टे तस्मन्नदृष्टा ये तद्ग्रहे सकलग्रहः ॥ इति । अस्माकं तु अनादिविकल्पवासनोपादाना विकल्पा यच्च गृह्णन्ति, यच्च अध्यवस्यनित तयोरूभयोरप्यन्यनिवृत्तिरूपतया अवस्तुत्वात्मतागपि न परमार्थसद्वस्तु गाहन्ते, पारम्पर्येण तु वस्तुप्रतिबन्धात्तत्र प्रवर्तयन्तः प्रापयन्तश्च न विसंवादयन्ति लोकम् । अतो वस्तुसभ्दावाविनिवेशाद्विकल्पानां न पौनरूक्त्यमस्ति । अपि चालोचिते वस्तुनीन्द्रियेण तदनन्तरोत्पन्नं शब्दस्मरणव्यवहितव्यापारमिन्द्रियमर्थश्र्च न सविकल्पिकामपि धियमुपजनयितुमर्हतः । यथाह, अर्थोपयोगेऽपि पुनः स्मार्तं शब्दानुयोजनम् । अक्षधीर्यद्यपेक्षेत सोऽर्थो व्यवहितो भवेत् ॥ न च यदेवालोचनमजीजनदिन्द्रियं तदेव स्मरणसहकारि विकल्पप्रत्ययमाधत्ते । न च स्मृतिर्व्यवधायिका, स्वाङ्गमव्यवधायकमिति न्यायात् । यतो यः प्रागजनको बुद्धेरूपयोगाविशेषतः । स पश्र्चादपि । इति नो खल्वतीतं भवति गोचरोऽक्षस्य । न चागोचरे सहस्रेणाप्युपायैरेतत्प्रवर्तितुमर्हति । न च स्मृतिरतीतविषयाननुभूतपूर्वं वर्तमानं गोचरयितुमर्हति । तद्गोचरत्वे चान्धानामपि रूपसाक्षात्कारप्रसङ्गः यथाह, तेन स्यादक्षापायेऽपि नेत्रधीः ॥ इति । तदेवं नामजातिगुणकर्मकल्पनाः प्रत्यक्षत्वेन परास्ताः । द्रव्यकल्पनापि दण्डीति, विशेषणं विशेष्यं च संबन्धं लौकिकीं स्थितिम् । गृहीत्वा सङ्कलय्यैतत्तथा प्रत्येति नान्यथा ॥ न चैतावन्तं व्यापारकलापं विचारकनिवर्तनीयमिन्द्रियज्ञानं सहते, तस्य सन्निहितविषयबलेनोत्पत्तेरविचारकत्वात् । जातिगुणक्रियावतां चैतन्न संभवत्येव रूपविवेकसंबन्धयोरप्रतिभासनेन घटनायोगात्क्षीरोदकवदतद्वेदिनेत्युक्तम् । तस्मात्न तद्विकल्पं प्रत्यक्षमिति ॥ अत्रोच्यते । यत्तावदुक्तमर्थसामर्थ्यजत्वाभिलापसंसर्गयोग्यप्रतिभासत्त्वयोः विरोध इति, तत्र ब्रूमः । स्याद्विरोधो यदि स्वलक्षणमेवार्थः, न त्वेतदस्ति । उपपादयिष्यति हि परमार्थसन्तं जात्यादिमन्तमर्थं स्थेमभाजमभिलापसंसर्गयोग्यम् । तेन तज्जनितं ज्ञानमर्थसामर्थ्यजं चाभिलापसंसर्गयोग्यप्रतिभासं चेति न विरोधः । तथा च प्रसङ्गसाधनस्य सन्दिग्धव्यतिरेकिता । न च द्रव्याद्यभिन्नं जात्यादि भिन्नं कल्पयन्तो विकल्पा नार्थसामर्थ्यजन्मान इति सांप्रतत् । द्रव्यादपि हि भेदः साधयिष्यते तेषाम् । यथा च भेदेऽपि तेषां तद्वाचकानां सामानाधिकरण्यं तथोपपादितमधस्तात् । न च भिन्नेन शब्देन डित्थोऽयमित्यभेदकल्पनादर्थस्य विकल्पानामनर्थजत्वमिति युक्तम् । उक्तमेतदव्यपदेश्यपदव्याख्यानावसरे यथा न शब्दाभेदेनार्थयोरेकेन्द्रियज्ञानसंसर्गिता किं तु प्रथममालोचितोऽर्थः सामान्यविशेषवान् सङ्केतग्रहण्समयवर्तिनीमात्मनोऽवस्थां स्मारयन् तत्कालभाविनं शब्दमपि स्मारयत्यवर्जनीयतया । न त्विन्द्रियजविकल्पोत्पादं प्रत्यस्त्युपयोगः कश्चित्शब्दस्मरणस्य । अन्यथा बालमूकादीनां नेन्द्रियजः स्याद्विकल्पः शब्दस्मरणाभावात् । सङ्केतसमयवर्त्यवस्थास्मरणं तूपयुज्यते, वस्तुनस्तदानीन्तनेदानीन्तनावस्थाभेदवत एकस्येन्द्रियजेन विकल्पेनाकलनात् । शब्दस्तु संपातायातो न निवेशयत्यात्मानमिन्द्रियजे विकल्पे । यथाह, देवदत्तादिशब्दन हृदयस्थेन यः स्मृतः । चक्षुषापि स एवायं पिण्डः संप्रति दृश्यते ॥ अनेन हि पिण्डस्य पूर्वापरावस्थावर्तिनीमेकतामिन्दियजविकल्पगोचरत्वेन दर्शयति, न तु शब्दनिवेशनमपि । तथा, संज्ञा हि स्मर्यमाणापि प्रत्यक्षत्वं न बाधते । संज्ञिनः । कुतः? सा तटावस्था न रूपाच्छादनक्षमा ॥ नार्थेन्द्रियव्यापारं व्यवधत्ते इत्यर्थः । न च प्रागवस्थास्मरणसापेक्षतया नेन्द्रियार्थसन्निकर्षः कारणं विकल्पस्येति सांप्रतम् । यतो, न किञ्चिदेकमेकस्मात्सामग्र्याः सर्वंसंभवः । ॰ प्र. वा. ३.५३ ॰ इति भवन्तोऽप्याहुः । अन्यथालोकमनस्कारसापेक्षमर्थेन्द्रियं निर्विकल्पकमपि न जनयेत् । यत्तु प्रथमं नाजीजनत्तत्स्मरणसहकारिविरहात् । न हि नाजीजनत्कुशूलस्थं बीजमङ्कुरमिति न समवहितक्षित्यादिसहकारिग्राममप्यस्याजनकं भवति । न च जनकत्वाजनकत्वलक्षणो विरुद्धधर्मसंसर्गो भेदहेतुरित्युपपादयिष्यते क्षणभङ्गभङ्गे ॥ स्यादेतत् । अतीतावस्था नेन्द्रियगोचरस्तस्य वर्तमानार्थे नियमात् । न च वर्तमानोऽर्थः स्मरणगोचरः स्मरणस्यानुभवजनितसंस्कारोद्बोधजन्मनः पूर्वानुभवगोचरं प्रति नियमात् । तस्मात्भिन्नविषयतया नेन्द्रियसहकारिता स्मरणस्य । न हि रूपविषयाः सहस्रमपि नयनप्रदीपादयः शब्दविषयस्य श्रवसः सहकारितामापद्यन्त इति । तत्किं भवतां यत्र गन्धज्ञानानन्तरं चाक्षुषं रूपज्ञानं जायते तत्र गन्धज्ञानं न समनन्तरप्रत्ययः? तत्रापि हि चक्षूरूपविषयं न गन्धविषयस्य ज्ञानस्य सहकारि भवितुमर्हति, भिन्नविषयत्वादेव । अथान्वयव्यतिरेकनिबन्धनः कार्यकारणभावो न समानविषयत्वमनुविधीयते इत्युच्येत्र, तदस्माकमपि समानम् । नन्वतीतावस्थाविशिष्टत्वमस्य नेन्द्रियसन्निकृष्टमिति कथं प्रत्यक्षम्? तत्किं यदिन्द्रियसंबद्धं तत्प्रत्यक्षम्? तथा सत्याकाशपरमाण्वादयोऽपि तत्संयुक्ता इति तेऽपि प्रत्यक्षाः प्रसज्येरन् । तस्माद्यदेवेन्द्रियजस्य ज्ञानस्य गोचरस्तत्प्रत्यक्षम् । न त्विन्द्रियसंबद्धम् । नन्वसंबद्धमिन्द्रियं कथं तत्र ज्ञानं जनयति? तच्च ज्ञानं कथं प्रत्यक्षम्? प्रत्यक्षं चेत्, कथमिन्द्रियार्थसन्निकर्षोत्पन्नमिति लक्षणं प्रत्यक्षं व्याप्नोति, अस्यैव प्रत्यक्षस्य लक्षणेनाव्यानात्? मा भूदर्थस्य पूर्वकालवर्तिता इन्द्रियगोचरः, तथापि स्मरणसहकारिणा संस्कारसहकारिणेन्द्रियार्थसन्निकर्षेणोपजनितं तदिन्द्रियार्थसन्निकर्षोत्पन्नं न भवति । तथा च नाव्यापकमस्य लक्षणम् ॥ ननु पूर्वापरावस्थापरामर्शिज्ञानं कथमेकम्, विषयभेदात्पारोक्ष्यापारोक्ष्यलक्षणविरुद्धधर्मसंसर्गाच्च? तथा हि तदिति पारोक्ष्यम्, इदमिति च साक्षात्कारः । न च विरुद्धधर्मसंसर्गेऽप्येकत्वम्, त्रैलाक्यस्यैकत्वप्रसङ्गात् । विषयभेदश्र्च पूर्वदेशकालापरदेशकालसंबन्धयोरेकस्य विरोधात् । यथा ह्येकस्मिन् पद्मरागमणौ गृह्यमाणे तदभावो व्यवच्छिद्यते, यदि पुनर्नं व्यवच्छिद्येत तदा भावो न परिच्छिद्येत, तस्य स्वाभावव्यवच्छेदरूपत्वात् । तदभावाविनाभाविनश्र्च पुष्परागादय इति तेऽपि सर्वे वयवच्छिन्न भवन्ति । यदि पुनर्न व्यवच्छिद्यरन्, स एव पुष्परागाद्यत्मेति तदविनाभावी पद्मरागाभावः पद्मरागश्र्च स्यादिति दुर्घटमापद्येत । एवं तस्यैव पूर्वदेशकालसंबन्धे गृह्यमाणे तदभावव्यवच्छेदक्रमेणापरदेशकालसंबन्धो व्यवच्छिन्नः । पूर्वदेशकालसंबन्धाभावाव्यभिचारी । तथा च न पददेशकालसंबन्धस्वभावः । तथापि यद्यसौ तद्देशकालसंबन्धादन्यस्वभावो भवेत्, तथा सति स एव भवेत्, न भवेच्चेति दुर्घटमापद्येत । तस्मात्पूर्वदेशकालसंबन्धादन्योऽपरदेशकालसंबन्ध इति सिद्धो विषयभेद इति ॥ अत्रोच्यते । यदि परोक्ष्यापारोक्ष्यधर्मभेदात्पूर्वापरावस्थापरामर्शिज्ञानं भिद्येत, हन्त भोः, तदित्यपि विकल्पो भिद्येत । सोऽपि हि परोक्षश्चापरोक्षश्र्च विकल्पश्चाविकल्पश्र्च । अर्थे परोक्षो विकल्पश्र्च स्वात्मनि त्वविकल्पोऽपरोक्षश्र्च । तस्माद्विषयभोदात्विरोध इति चेत्न त्विहापि तदेकं ज्ञानं तस्यैवैकस्य वस्तुनः पूर्वदेशकालसंबन्धे परोक्षमपरोक्षं वा परदेशकालसंबन्ध इति को विरोधः? योऽपि कालदेशसंबन्धभेदेन विषयभेद उक्तः, सोऽपि अयुक्तः । यतो युक्तं यत्पद्मरागस्वरूपग्रहे तदभावो व्यवच्छिद्यत इति, स्वाभावव्यवच्छेदात्मकत्वेन भावानां तदव्यवच्छेदे स्वरूपाग्रहणप्रसङ्गात् । कस्मात्पुनः पुष्परागादयो व्यवच्छिद्यन्ते, पद्मरागाभावाविनाभावादिति चेत्? अथैतदभावाविनाभावज्ञानं कुतस्त्यम्? तयोः कदाचिदपि तादा त्म्येनानुपलम्भादिति चेत्यत्र तर्हि तादात्म्यमुपलभ्यते न तत्र तदभावाविनाभावः, तथा च पूर्वापरदेशकालसंबद्धस्तादात्म्येनानुभूयमान इन्द्रियजेन विकल्पेन पद्मरागो न भिन्नो भवितुमर्हति । तस्मात्पर्वापरदेशकालौ तत्संन्धौ वा कामं भिद्येयातां परस्पराभावाविनाभावात्, तयोरेकदापि तादात्म्येनाप्रतिभासनात् । न तु तदालिड्रिगतस्वभावः पद्मरागमणि।, तस्य ताभ्यामन्यत्वात् । न चान्यस्य भेदोऽन्यस्य भेदमापादयति, अतिप्रसङ्गात् । न चेन्द्रियार्थसन्निकर्षाभावेऽपि पूर्वापरावस्थापरामर्शात्मनो विकल्पस्य भावादनिन्द्रियजयत्वमिति सांप्रतम्, तथा सत्यविकल्पकमपि कामातुरस्य कामिनीं भावयतः तद्विषयमिन्द्रियार्थसन्निकर्षं विनापि दृष्टमिति नीलाद्यनुभावात्मानोऽपि अविकल्पका अनिन्द्रियजाः प्रसज्येरन् । यदि तु नीलाद्यनुभवानां कामिन्यनुभवात्कथञ्चिद्विशेषं ब्रूयात, तदा अस्माकमपि अनिन्द्रियजेभ्यो विकल्पेभ्य उत्प्रेक्षाव्यापारेभ्योऽस्तीन्द्रियजानां दर्शनव्यापाराणां भेदः । न च विकल्पगतो दर्शनव्यापारोऽनुभूयमानः सति संभवे निर्विकल्पकोपाधिरिति युक्तम् । सर्वा एव हीन्द्रियजा बुद्धयो विकल्पिका अविकल्पिका वा धारावाहिन्योऽमहमिकया परस्परानपेक्षा एकमर्थमवगाहमाना उदयन्ते व्ययन्ते च । न त्वमूषामन्योन्यमनुगम्यानुगन्तृतामीक्षामहे । तस्मातिन्द्रियार्थसन्निकर्षलब्धजन्मानो विकल्पा दर्शनव्यापारा नान्य इति युक्तमुत्पश्यमः । न च शब्दप्रत्यक्षयोर्वस्तुगोचरत्वे सत्यपि प्रत्ययाभेदः कारणभेदेन पारोक्ष्यापारोक्ष्यभेदोपपत्तेः । न च वहिनसंयोगजन्मा शीतापनोदो वहिनज्ञानाद् भवितुमर्हति । न चैकोपाधिना सत्त्वेन विशिष्टे तस्मिन् गृहीते उपाध्यन्तरविशिष्टतद्ग्रहप्रसङ्गः । स्वभावो हि द्रव्यस्योपाधिभिर्विशिष्यते, न तूपाधयो व तैर्विशिष्टत्वं वा तस्य स्वभावः । न च यत्स्वभावसंबन्धि स स्वभावः । तथा सत्यसंबन्धित्वमेव । न हि तदेव तेन संबध्यते । अपि च रूपज्ञानं विषयग्रहणधर्म नानापरमाणुविषयं न परमाणुस्वभावः । तत्स्वभावत्वे वा तेषां सर्वान् प्रत्यविशेषात्सर्वैरेव ते परमाणवो विदिताः स्युः । न चासंबद्धा एव स्वज्ञानेन रूपपरमाणवो विषयास्तस्येति वाच्यम्, असंबद्धस्य विषयत्वेऽतिप्रसङ्गात् । स्वभाव एवार्थज्ञानभेदयोः संबन्धो यदर्थो विषयो ज्ञानं च विषयीति चेत्? हन्तोपाध्युपाधिमतोरपि स्वभाव एव संबन्धोऽस्तु तथापि विज्ञानार्थवन्न स्वरूपाभेदः । क्षणभङ्गपरिणामनिराकरणे तु स्वभावातिरिक्तं संबन्धमुपपादयिष्यामः । तस्मात्नैकोपाध्यन्वितग्रहणे सकलोपाध्यन्वितप्रत्ययप्रसङ्गः ॥ यच्चैकविज्ञानगोचरयोर्न विशेष्यविशेषणभाव इति, तत्र ब्रूमः । भिन्नज्ञानगोचरत्वेऽपि नासौ संभीति । न हि विशेषणज्ञानं विशेष्याविषयं विशेष्यमवच्छेत्तुमर्हति । एवं विशेष्यज्ञानमपि विशेषणाविषयं केन स्वविषयमवच्छिन्द्यात्, तयोः परस्परवार्तानभिज्ञत्वात्? ताभ्यां वासना, ततो मानसप्रत्ययो विशेषणविशेष्यभावाकर उत्पद्यते । न त्वस्ति विशेषणविशेष्यभावो वास्तव इति चेत्? अस्तु तावद्वास्तवावास्तवचिन्ता । करिष्यते हीयमुपरिष्टात् । यस्तु भवतामस्य मानसत्वे प्रयासः, स वरमिन्द्रियजत्व एव भवतु, तथा सति दर्शनव्यापारत्वमस्य साक्षात्समर्थितं भवति । इतरथा हि निर्विकल्पकोपधानं कल्प्येत ॥ नन्वविचारकमिन्द्रियज्ञानं कथं विशेषणविशेष्यादि सकलं संकलयेत्? हन्त भोः किं मानसमपि ज्ञानं संकलयितुमर्हति? संकलयति मनसस्तत्कारणस्य सर्वविषयत्वातिति चेत्? यदि पूर्वकं विज्ञानं मनः, कथं तस्य सर्वविषयता? अस्माकं तु मनः सर्वविषयमपि अचेतनतया न विचारकम् । तस्मादात्मैव सकलज्ञानतज्जनितवासनाधारः स्मर्ता च प्रतिसन्धाता च । यथाह, आत्मन्येव स्थितं ज्ञानं स हि बोद्धात्र गम्यते । स्मरणे चास्य सामर्थ्यं सन्धानादौ च विद्यते ॥ ॰ श्लो. वा. प्रत्यक्ष. १२२ ॰ स सल्विन्द्रियार्थसन्निकर्षादालोच्य जातिमन्तं संमुग्धमर्थमुद्बुद्धसंस्कारसमुपजातपूर्वपिण्डानुस्मृतिसहायः प्रागेव चक्षुषा विकल्पयति, गौरयमिति । यथाह, करणं चेन्द्रियं बुद्धेः कर्ता चात्म सचेतनः । स च स्मृतिसमर्थत्वात्सर्वार्थान् कल्पयिष्यति ॥ तेनैकविज्ञानवेद्यत्वे यद्यपि ज्ञाप्यज्ञापकभावरूप उपकार्योपकारकभावो नास्ति, तथापि, तदर्थालोचनानुगतस्मरणयोर्विशेषणविशेष्यभावावगाहि विज्ञानं प्रत्युत्पादकत्वमेवोपकारकत्वमस्ति । अर्थौ हि रूपरूपिभावेन स्थितावपि नापातजन्मना ज्ञानेन तथा गृहीतौ, अपि तु स्वरूपमात्रेण । न हि यावदस्ति तावद्ग्रहीतव्यम्, तेन तदेकदेशग्रहेऽपि नाप्रमाणता । सविकल्पकं तूक्तसामग्रीजन्म जात्यादिरूपतया द्रव्यं च रूपितया कल्पयत्पश्चाज्जायमानमपीन्द्रियार्थसन्निकर्षप्रभवतया प्रत्यक्षं भवत्येव । अक्रमस्यापि च क्रमवत्सहकारिभेदसमवधानवशात्क्रमेण कार्यकरणमुपपादयिष्यते । तत्सिद्धमेतद्विवादाध्यासिता विकल्पाः स्वगोचरे प्रत्यक्षा अव्यभिचारित्वे सति इन्द्रियार्थसन्निकर्षजत्वात् । यो य एवंभूतः स सर्पः प्रत्यक्षो यथालोचनम्, तथा चैतत् । तस्मात्तथेति ॥ तस्मात्सविकल्पकप्रत्यक्षावरोधार्थं व्यवसायात्मकपदमिति सिद्धम् । तदस्य सविकल्पकप्रत्यक्षावरोधार्थस्यान्वाचीयमानो व्यवच्छेदः । तद्व्यवच्छेद्यप्रतिपादनार्थं भाष्यमनुभाष्यान्वाचीयमानमेव व्यवसायात्मकपदस्यार्थमाहदूराच्चक्षुषेति । न चैतन्मन्तव्यमिति भाष्यं व्याचिख्यासुश्र्चोदयतिन संशयस्येति । ननु सतीन्द्रियार्थसन्निकर्षे पुरोवर्तिनि द्रव्ये धूम इति वा रेणुरिति वा ज्ञानमुत्पद्यमानं कथमनिन्द्रियजमित्यत आहन हीति । कस्मान्मानस इत्यत आहसंशीतिरिति । संपूर्वो हि शीड्भावप्रत्ययान्तो विशेषापेक्षे विमर्शे वर्तते स चैकाधिकरणौ स्मर्यमाणौ मिथो विरुद्धौ धर्मावारोपयनन्यतरन्नावधारयति । तथा चाधिकरणमात्रसमर्पणमिन्द्रियजव्यापारः । मनसा तु स्मरणसहकारिणैव पुरुषः संशेते । अत एव विस्फारिताक्षाः सौदामिनीसंपातात्सकृदालोच्य कञ्चित्समानधर्मवन्तं धर्मिणं समन्धकारे सन्दिग्धे, तस्मान्मानस एवैष संशयो न त्विन्द्रियज इत्यर्थः । तदेतत्परिहरन्न चैतदित्यादि भाष्यं व्चाचष्टेतच्च नैवम् । कस्मात्संशयस्येतिउभयं त्विति । तु शब्दो मनोमात्रनिमित्तत्वं व्यवच्छिनत्ति । तदनेन चक्षुषा हीत्यादि भाष्यं व्याख्यातम् । पश्यन् समानधर्माणं धर्मिणं नावधारयति । विशेषतः सन्दिग्धे तस्मिन्नित्यर्थः । इन्द्रियेणोपलब्धं सन्निकृष्टं सन्निकर्षपूर्वकत्वादुपर्लधेः मनसोपलभते जानीते चक्षुःसहायेनेत्यर्थः । अत्र भाष्यं यच्च तदिन्द्रयानवधारणपूर्वकं मनसानवधारणं तद्विशेषपेक्षं विमर्शमात्रं संशयः, न पर्वमिति । अनवधारणशब्दोऽयं संशयज्ञानवाचकः स्वकारणेन्द्रियार्थसन्निकर्षे प्रयुक्त उपचारेण । उपरतेन्द्रियव्यापारस्य हि संशयज्ञानदर्शनात् । सत्यपीन्द्रियव्यापारे संशयो नेन्द्रियज इति चोदकोऽभिमन्यते । तदनयोः संशयज्ञानयोर्मध्ये यत्तदिन्द्रियावधारणपूर्वकमिन्द्रियार्थसन्निकर्षपूर्वकं मनसानवधरणं संशयज्ञानमित्यर्थः । न पूर्वम् । यदुपरतेन्द्रियव्यापारस्य संशयज्ञानं दृष्टान्ततया हृदि स्थितं शङ्कितुरित्यर्थः । तदेतद्भाष्यं व्याचष्टेतत्र यदिन्द्रियार्थेति । इन्द्रियार्थसन्निकर्षश्चासावनवधारणं चेति कर्मधारयः । तत्पूर्वकं मनसानवधारणं संशयज्ञानमित्यर्थः ॥ ननु स्मरणव्यवहितव्यापारमस्य कारणं नेन्द्रियमित्यत आहतस्य हीति । उपपादितमेतदधस्तात्यथा स्मरणं नेन्द्रियव्यापारं व्यवधत्त इति । पूर्वं त्विति । दृष्टन्ततया पूर्वत्वम् । स्यादेतत्, मन एवेन्द्रियानपेक्षं बाह्ये प्रवर्तते इत्यभ्युपेयम्, अन्यथा घटमहं जानामीति ज्ञानं निर्निमित्तं स्यात् । न तावदिन्द्रियजम्, आन्तरे ज्ञाने चक्षुरादीनामप्रवृत्तेः । नाप्यनुमानादिष्वन्तर्भवति, लिङ्गाद्यभावात् । तस्मान्मानसभेवेदम् । यदि च घटादौ बाह्ये न मनः प्रवर्तेन, कथं घटमिति भवेत्? जानामीत्येव स्यात् । न चार्थनिरुपणमन्तरेण ज्ञानरूपनिरूपणम्, तस्माद्बाह्याभ्यन्तरविषयं मनः, तथा च सर्व एव संशयो मानस इत्याशङ्क्याह भाष्यकारः, सर्वत्र च प्रत्यक्षविषये इति । यद्यप्ययमीदृशोऽनुव्यवसायो मानसस्तथाप्यन्धबधिरादीनामभावात्तत्पूर्वं व्यवसायोत्पत्तौ चक्षुराद्यपेक्षणीयम्, अन्यथा अन्धबधिराद्यभावप्रसङ्गः । तथा च संशयज्ञानोत्पादे अपीन्द्रियार्थसन्निकर्षोऽपेक्षणीय इति भावः । तदिदं तस्य हीत्यादिना वार्त्तिकेन व्याख्यातम् ॥ अव्यापकत्वेन लक्षणाक्षेपपरं भाष्यमात्मादिषु इत्याति । तद्व्याचष्टेइन्द्रियार्थेति । चोदयतिकथं पुनरिति । परिहरतिइन्द्रियेति । मा भूदिन्द्रियसूत्रे पाठः । तद्धि बाह्येन्द्रियलक्षणम्, आन्तरं च मन इत्यत आहपृथक्चेति । न च सुखादौ प्रमाणान्तरमस्ति । तस्मात्पारिशेष्यात्सद्धिं प्रत्यक्षत्वमित्याहप्रत्यक्षाश्र्चेति । ननु नैते प्रमेयाः स्वसंवेदनसिद्धत्वात्, तत्किमत्र प्रमेयार्थेन प्रमाणेन इत्यत आहन च तेषामिति ननूक्तं स्वसंवेदनतया न प्रमाकर्मभाव एषामित्यत आहन चान्या गतिरिति । संवेदनत्वेन हि तेषां स्वसंवेदनता, न चैते संवेदनमिति उक्तमधस्तादिति भावः । आक्षेपनुपसंहरतितस्मादिति । भाष्ये चात्मादिषु सुखादिष्विति नित्यानित्याभिप्रायं वर्गद्वयम् । आत्मसुखदुःखत्वादयो नित्याः अनित्याश्च सुखदुःखादय इति । तदिदमुक्तं दिग्नागेन, न सुखादि प्रमेयं वा मनो वास्त्विन्द्रियान्तरम् । न च तत्संभवति, घ्राणादिसूत्रेण विभागपरेण निषेधादिति भावः । समाधिभाष्यमिन्द्रियस्य वै सतः इति । तद्व्याचिख्यासुर्गूढाभिप्रायः पृच्छतिकश्चैवमिति । आक्षेप्तुरुत्तरमिन्द्रियार्थेति । समाधाता आहनैष दोष इति । आक्षेप्तुः अनुशयबीजमुद्घाट्य दूषयतियत्तु सूत्रे इति । नेदं विभागपरं घ्राणादिसूत्रम्, अपि तु लक्षणपरम् । तत्र चेन्द्रियमपि मनो न लक्षितम्, वैधर्म्यादित्यर्थः । वैधर्म्यमाहवैधर्म्यमिति । तत्र प्रमाणयतिसर्वविषयं त्विति । वैधर्म्यान्तरं दूषयतिभौतिकेति । कार्यस्य हि विशेषौ भौतिकत्वाभौतिकत्वे, भूतकार्यं भौतिकम् । यद्भूतकार्यं न भवति तदभौतिकम् । भूतकार्यत्वप्रतिषेधश्र्च तदन्यकार्यत्वं गमयति, विशेषनिषेधस्य विशेषान्तराभ्यनुज्ञानहेतुत्वात् । इतरथा तु अकार्यमेवोच्येत, न त्वभौतिकमिति । तस्मादकार्यस्य मनसोऽभौतिकत्वं कार्यधर्मो विरुद्धमित्यर्थः । अपि च वैधर्म्यात्मनोवत्श्रोत्रमपि न वक्तव्यमित्याहश्रोत्रे चेति । शङ्कतेस्वार्थ इति । भूतानि हि घ्राणादीनि श्रोत्रान्तानि, मनस्तु न भूतमिति वैधर्म्यमित्यर्थः । निराकरोतितच्च नेति । दर्शयिष्यति हि वार्त्तिककारो यथा स्वार्थिको न कश्र्चिदपि प्रत्यय इत्यर्थः । आक्षेपहेतुमनुभाषतेयत्पुररिति । दूषयतिन नास्तीति । तददेन सति चेन्द्रियार्थसन्निकर्षे इत्यादि भाष्यं व्याख्यातम् । यच्चापरं वैधर्म्यं घ्राणादिभ्यो मनस उक्तं भाष्यकारेण तदपि सिंहावलोकनेन दूषयतिसगुणानामिति । घ्राणादीनि यथा स्वस्वगुणेन गन्धादिना बाह्यं गन्धादि बोधयन्ति , नैवं स्वगुणेन शब्देन श्रोत्रं बाह्यं शब्दं बोधयति, तन्मनोवत्श्रोत्रमपि घ्राणादिसूत्रे न पठितव्यमित्यर्थः । भाष्योक्तेषु मध्य अभिमतं वैधम्यमुपसंहरतितस्मादिति । भूतत्वाभूतत्वलक्षणं वैधर्म्यं न भौतिकत्वाभौतिकत्वग्रहणेन शक्यं वक्तुमित्यवधारणाभिप्रायः । ननु युगपज्ज्ञानानुत्पत्तेर्ज्ञानकारणं मनोः अस्तीत्यवगम्यते, न पुनरस्येन्द्रियत्वमपि, तभ्दावानवगमे च नेन्द्रियार्थसन्निकर्षजं सुखादिज्ञानं शक्यं वक्तुमित्यत आहतन्त्रान्तरेति । तन्त्र्यते व्युत्पाद्यते अनेन तत्त्वमिति तन्त्रं शास्त्रम् । तदनेन मनसश्र्चेत्यादि भाष्यं व्याख्यातम् । एतद्दूषितं दिग्नागेन अनिषेधादुपात्तं चेदन्येन्द्रियरुतं वृथा । इति । तद्दूषयितुमुपन्यस्यतिन शेषेति । तद्दूषयतिन तन्त्रयुक्तीति । सर्वस्य तन्त्रान्तरे लोके च सिद्धत्वादवक्तव्यतायां स्वमतमिति नास्ति । वचनलिङ्गं हि मताज्ञानं न चाननुमते निषेधमात्रं शक्यं वक्तुम्, अभावस्य भावनिरूपणाधीननिरूपणत्वादिति भावः । सिद्धमर्थमुपसंहरतितस्मादिति । प्रकृतमुसंहरतितदिति ॥ तदेवं लक्षणपदानि व्याख्याय विमृशतिसमस्तमिति । अभिमतमाहसमस्तमित्याह भाष्यकारः । हेतुमाहयस्मादिति । इन्द्रियार्थसन्निकर्षोत्वन्नं ज्ञानमव्यभिचारीति हि प्रतयक्षलक्षणमनवयवेन समानासमानजातीयेभ्यो व्यावृत्तं शक्यमेव लक्षयितुम् । न खल्वयमसावश्व इति ज्ञानमिन्द्रियजं शब्दजं संभवति । तद्धि द्रव्यगोचरं वा उच्येत, वाच्यत्वगोचरं वा, वाच्यत्वविशिष्टद्रव्यगोचरं वा । तत्र द्रव्यमैन्द्रियकमेव न शाब्दमित्यशक्यं हि ज्ञानं व्यवच्छेत्तुम्, अनभिमतं च । वाच्यत्वगोचरं तु ज्ञानं शाब्दमेव, अन्यथा ह्यश्रुतशब्दोऽप्यारण्यकोऽश्वमेवेन्द्रियसन्निकर्षादश्वशब्दवाच्य इति गृह्णीयात् । वाच्यत्वविशिष्टद्रव्यज्ञानमपि शाब्दमेव, वह्निविशिष्टधूमज्ञानमिवानुमानिकम्, अन्यथा तदप्यैन्द्रियकमिति न तन्निराकरणाय यत्नान्तरमास्थेयम् । अथ न वाच्यत्वं नाम मीमांसकानामिव किञ्चिदतीन्द्रियम्, अपि तु सङ्केतमात्रमेतदस्मादिदं प्रत्येतव्यमिति । तथापि शब्द एव । अथायमप्यैन्द्रियक एव, तत्र गुरुपदिष्टा गाथा पठितव्या, शब्दजत्वेन शाब्दं चेत्प्रत्यक्षं चाक्षजन्मतः । स्पष्टग्रहणरूपत्वाद्युक्तमैन्द्रियकं हि तत ॥ इति । तस्मात्नोभयजज्ञाननिवारणायाव्यपदेश्यपदम् । व्यवसायात्मकपदेन तु सविकल्पके ज्ञानेऽवरुद्धे निर्विकल्पकस्याप्रत्यक्षता मा प्रसांक्षीदिति तदवरोधार्थेनाव्यपदेश्यपदेन निर्विकल्पकेऽपि शब्दसंभेदनिराकरणमन्वाचितमिति शाब्देत्युक्तम् । एवमव्यपदेश्यपदेन निर्विकल्पकेऽवरुद्धे सविकल्पकस्येन्द्रियजस्याप्रत्यक्षत्वं मा प्रसांक्षीदिति तदवरोधार्थेन व्यवसायात्मकपदेन संशयज्ञानप्रत्यक्षत्वनिराकरणमन्वाचितमिति संशयेत्युक्तम् ॥ अन्वयं दर्शयित्वा व्यतिरेकमाहयदीति । उपसंहरतितस्मादिति । हेयास्त्रिशत्कोटीर्गणयतितत्रेति । द्विपदपरिग्रहेण दशैन्द्रियार्थसन्निकर्षोत्पन्नपदं ध्रवं कृत्वा ज्ञानाद्येकैकपदसंबन्धेन चरस्त्रः कोटयः, ज्ञानं च घवं कृत्वा अव्यपदेश्यादि एकैकपदसंबन्धेन तिस्त्रः, एवमव्यपदेश्यपदं ध्रुवं कृत्वा अव्यभिचार्याद्येकैकपदसंबन्धेन द्वे कोटी, अव्यभिचारिव्यवसायत्मकसंबन्धे दशमीति । त्रिपदपरिग्रहेणापि दशैव । इन्द्रियार्थसन्निकर्षोत्पन्नं ज्ञानमिति ध्रुवं कृत्वा अव्यपदेश्याद्येकैकपदसंबन्धे तिस्त्रः कोटयः, ज्ञानमव्यपदेश्यमिति ध्रुवं कृत्वा अव्यभिचार्यादिपदसंबन्धेन द्वे कोटी, अव्यभिचार्यव्यपदेश्यपदयोस्तु व्यवसायात्मकपदसंबन्धे कोटिरेका इन्द्रियार्थसन्निकर्षाव्यपदेश्यपदध्रौव्ये अव्यभिचार्याद्येकैकपदसंबन्धे कोटिद्वयम्, अव्यभिचारिव्यवसायात्मकपदयोस्तु ध्रुवयोरिन्द्रियार्थसन्निकर्षोत्पन्न पदेन ज्ञानपदेन च प्रत्येकं संबन्धे कोटिद्वयम्, इति त्रिपदपरिग्रहेण दश कोटयः । चतुष्पदपरिग्रहेण पञ्च । इन्द्रियार्थसन्निकर्षोत्पन्नं ज्ञानमव्यपदेश्यमिति ध्रुवं कृत्वा अव्यभिचार्याद्येकैकसंबन्धे द्वे कोटी, अव्यपदेश्यपदं त्यकत्वा परकोटिः, ज्ञानपदं त्यक्त्वा चापरा, इन्द्रियार्थसन्निकर्षोत्पन्नपदं त्यक्त्वा तु पञ्चमी । पृच्छतिकस्मात्पञ्चपदपरिग्रहेणैकत्रिशत्तमकोटिपरिग्रहेणेतराः कोटयो व्यवच्छिद्यन्ते? न ह्यत्र तद्व्यवच्छेदवाचकः कश्र्चिदस्ति शब्द इत्यर्थः । उत्तरम्विशेषेति । विशेषप्रतिविधानप्रस्तावे शेषनिषेधोपन्यासो दृष्टान्तलाभाय । एकदेशाभ्युपगम एकत्रिशत्कोटिषु एकत्रिंशत्तमी कोटिरेकदेश इत्यर्थः । शेषविधानं वेति । वाशब्द इवार्थः ॥ तदेवं प्रत्यक्षलक्षणं समर्थ्य वासुबन्धवं तावत्प्रत्यक्षलक्षणं दूषयितुमुपन्यस्यतिअपरे पुनरिति । लक्षणं व्याचष्टे ततोऽर्थादिति । यत्तदोर्नित्यसंबन्धाद्यस्यार्थस्य यद्विज्ञानं व्यपदिश्यते, यदि तत एव तभ्दवति नार्थान्तराद्व्यपदेशासंबन्धिनः तत्प्रत्यक्षम् । अत एव व्यपदेशासंबन्धिनोऽर्थान्तरात्शुक्तिरूपात्रजतेन व्यपदिश्यामानं शुक्तिज्ञानं न प्रत्यक्षम्, व्यपदेशकानुत्पत्तेः, व्यपदेशकस्य रजतस्य तत्रासंभवात् । एतस्य प्रत्यक्षाभासस्य व्यावृत्तिः सुप्रसिद्धेति तामुपेक्ष्यानुमानव्यावृत्तिमाहएतेनेति । कुतः? न हि तत एव व्यपदेशकादेव वह्नेः तद्विज्ञानमनुमानं भवति, किं तु यत्र वह्निरस्ति तत्र । ततश्च यत्र तु दृष्टमात्र एव वह्नेरूपरमादुपरतो धूमः तत्रान्यतश्र्च तभ्दवति स्मर्यमाणाद्धूमादसति व्यपदेशके वह्नौ । ततोऽर्थातित्यत्र हि अर्थविशेषणं तत इति । तत्संगतश्र्च एवकारोऽयोगव्यवच्छेदे वर्तते, यथा चैत्र धनर्धर एवेति । तेन यत्रैव तदयोगः तदप्रत्यक्षमित्यर्थः । तदेतल्लक्षणं दूषयतिअत्रार्थग्रहणमनर्थकम् । न हि ज्ञानव्यपदेश आत्मना वा इन्द्रियेण वा संभवति । शङ्कतेअवधारणार्थ इति । अयोगव्यवच्छेदेनैतदवधारणम्, विशेषण च तत इति । विशेषणसंगतश्चेवकारोऽयोगं व्यवच्छिनत्ति । असति चार्थपदे कस्येदं विशेषणमिति विशेषणसंगतो नैवकारोऽयोगं व्यवच्छिन्दादिति भावः । निराकरोतितन्नेति । तत इति सर्वनाम्नः सन्निहीतविशेष्यापेक्षत्वात् । अन्यथा अभिधानापर्यवसानाद्यस्य तद्व्यपदिष्यत इति व्यपदेशसंबन्धी विशेष्यः प्राप्यत एवेति सिध्यत्येव विशेषणत्वम् । अभ्युपेत्य त्वदवधारणमात्रेऽप्यदोष इति मन्यमानेनाब्भक्ष इन्युदाहृतम् । अन्यव्यवच्छेदे अपिहि तदेवान्यद्व्यवच्छिद्येत यद्विरोधि, न पुनरन्यमात्रम् । यथाहुः, नियमस्तद्विरोधाच्च कल्पते नाविरोधिनः । इति ॥ स्यदेतत् । तत इत्युच्यमाने यतस्ततः स्यात्, तथा चानुमानाद्यपि लिङ्गज्ञानादेस्तत उपजायते इति प्रत्यक्षं प्रसज्येतेति तन्निवृत्त्यर्थमर्थादिति वक्तव्यम् । न हि तदर्थात्जायते । अपि तु प्रत्यक्षमेव, इत्यत आहएतनेनि । यस्य तद्व्यपदिश्यते इत्यपेक्ष्य ततःशब्दसामर्थ्येनानुमानादिव्युदासोऽपि प्रत्युक्तः । यच्च ततःशब्दस्य व्यावर्त्यान्तरमुक्तम्, तदपि दूषयतियत्पुनरेतदिति । यदि यस्य व्यापदिश्यते ज्ञानं, तत्प्रत्यक्षं ततो घट इत्यपि ज्ञानं प्रत्यक्षं प्रसज्येत, तदपि हि घटस्य व्यपदिश्यते, न तु ततो घटाद्भवति । तस्य विचारासहतया परमार्थसत्त्वाभावेन संवृतिसतो विज्ञानं प्रति कारणभावाभावात् । तेन तन्निराकरणाय तत इत्युक्तम् । तदेतत्न बुध्यामहे कथमपक्षिप्तमिति । शङ्कतेयदीति । रूपादिपरमाणव एव निरन्तरोत्पादाः परमार्थसन्तो भिन्नाः स्वविज्ञानस्याविकल्पकस्य जनकाः । तेषां तु नानात्वं स्वेन रूपेण संवृण्वती निर्विकल्पकपृष्ठभाविनी घट इति विकल्पिका बुद्धिः तानेव रूपादीनेकोदकाहरणादिक्रियाकारिणो भेदिन इव दर्शयन्ती संवृतिरित्युच्यते । निराकरोतिन हि रूपादिभ्य इति । अनुशयबीजमुद्घाटयतिअथापीति । निराकरोतिमनोमोदकेति भवन्तु व्यतिरिक्ताः किमेतावतापीत्यत आहसर्वं चेति । यत्संवृतित्वेन भवतामभिमतं यच्चाविकल्पकं तत्सर्वं स्वविषयाद्भवति । तस्मात्ततोग्रहणं संवृतिनिवृत्त्यर्थमनर्थकम् । मा भूत्संवृतिनिवृत्त्यर्थम्, मिथ्याज्ञाननिवृत्त्यर्थं भविष्यतीति चोदयतिननु च मिथ्याज्ञानमतस्मादपि भवति । यथा पुरोवर्ति द्रव्यमिदमिति व्यपदिश्यते रजतमिति न, न तु शुक्तिरिति, तेन यद्यपि सामान्यरूपेण तस्य व्यपदिश्यते ज्ञानम्, ततश्र्च तभ्दवति, तथापि येन विशेषणरूपेण तस्य वयपदिश्यते न ततस्तभ्दवति इति अतस्मादपीत्युक्तम् । तस्मात्तत एव यभ्दवति तत्प्रत्यक्षम्, न चैवं मिथ्याज्ञानम् । तद्धि ततश्र्चततश्र्च भवतीत्यर्थः । परिहरतिन ह्यतस्मातारोपिताद्रूपात्तत्रासतः तत्मिथ्यज्ञानं भवति, किं तु ततो भवति । यस्य सामान्यरूपस्य व्यपदिश्यत इदमिति तत एव । समारोपितं तु तजतमस्य विषयो दृश्यमानाकारतया । तदिदमुक्तमतस्मिस्तद्भवतीति । एवं च लक्ष्यपदमात्रावशेषात्लक्षणाभाव इत्याहततोग्रहणमिति । तथा चातिव्याप्तिरित्याहतथा चेति । अभ्युपेत्यत दूषणान्तरमाहयद्यप्येतदिति । यतो भवति ज्ञानं स ग्राह्योऽर्थः कारणम्, ग्राहकं च विज्ञानं कार्यम् । तयोरयुगपभ्दावात्वर्तमानाभं ज्ञानमतीते मिथ्येति न प्रत्यक्षं स्यात् । तत्समानकालयोस्तु कार्यकारणभावाभावात् । ततोऽर्थादिति नास्तीति भावः । शङ्कतेनाशोत्पादाविति । क्षणिकत्वाद्भावानां कारणसय नाशः कार्यस्योत्पाद इत्येकः कालः, तथापि कारणस्य ग्राह्यता भिन्नकालस्यापि, स्वसदृशज्ञानजनकमेव तस्य तजानं ग्राह्यत्वम्, नान्यत्, यथाह, भिन्नकालं कथं ग्राह्यमिति चेद्ग्राह्यतां विदुः । हेतुत्वमेव युक्तिज्ञाः ज्ञानाकारार्पणक्षमम् ॥ ॰ प्र. वा. २.२.४७ ॰ इति । न चैतावता मिथ्यात्वम्, अर्थाहितस्य नीलाकारस्य वर्तमानत्वादिति भावः । निराकरोतितच्च नेति । पूर्वापरकालकलाविकललक्षणा क्षणिकता न क्वचिदपि । विद्युज्जालादेरप्याशुविनाशिनो द्वित्रादिक्षणावस्थानादित्यर्थः । पूर्वोक्तश्चानुयोगस्तदवस्थ एवेत्याहविनष्टश्र्चेति । अनहङ्कारास्पदमसातादिरूपं विज्ञानाद्भिन्नं नीलाद्यनुभूयते, न तु विज्ञानात्मकम् । तथा च यदि विच्छेदग्रहो मिथ्या, तथा सति ज्ञानमेतस्मिन्मिथ्येति कथं प्रत्यक्षम्, सम्यग्ज्ञानभेदस्य तथाभावात्? न चार्था हिताकारवेदनमर्थवेदनम्, भाक्तत्वप्रसङ्गात् । न च गौणमुख्यलक्षणा गिरां गतयो ज्ञानेषुशक्या नियोजयितुं भिन्नप्रस्थानत्वात् । तस्मात्निराकारं ज्ञानमात्मनो भिन्नं गोचरयतीति वाच्यम् । स चेत्कारणं विनष्टस्य प्रत्यक्षतेति तथा च वर्तमानाभमवर्तमानं गोचरयति मिथ्यात्वमप्रत्यक्षत्वं च स्यादिति भावः । यौगपद्येऽपि नास्त्युदाहरणम्, सर्वस्य क्षणिकत्वपक्षनिक्षेपादिति चोदयतितुल्यमिति चेत् । निराकरोतितच्चेति ॥ संप्रति दिग्नागस्य लक्षणमुपन्यस्यतिअपर इति । दूषयितुं कल्पनास्वरूपं पृच्छतिअथ केयमिति । लक्षणवादिन उत्तरम्नामेति । यदृच्छाशब्देषु हि नाम्ना विशिष्टोऽर्थ उच्यते डित्थ इति । जातिशब्देषु जात्या गौरयमिति । गुणशब्देषु गुणेन शुक्ल इति । क्रियाशब्देषु क्रियया पाचक इति । द्रव्यशब्देषु द्रव्येण दण्डी विषाणीति । सेयं कल्पना यत्र ज्ञाने नास्त्यर्थतः स्वरूपतो वा तत्कल्पनया अपोढं प्रत्यक्षम् । तदिदमाहयत्किल न नाम्ना अभिधीयते अर्थतः स्वरूपतश्र्च न जात्यादिभिर्व्यपदिश्यते । अव्यभिचाराय विषयकारणत्वमाहविषयस्वरूपानुविधायीति । प्रमाणत्वमाहपरिच्छेदकं व्यवस्थापकम् । ज्ञानतामस्य दर्शयतिआत्मसंवेद्य स्वसंवेदनादेव तस्य कल्पनारहितत्वमपि । यथाह, प्रत्यक्षं कल्पनापोढं प्रत्यक्षेनैव सिध्यति । इति । तत्प्रत्यक्षमिति । तदेल्लक्ष्यलक्षणपदतत्समुदायव्यापारनिरूपणेन दूषयतित इदमिति । अथ नेति । विकल्पयोनयो हि शब्दास्तद्गोचरमभिनिविशनते । यद्विकल्पा गृह्णान्ति, यच्चाध्यवस्यति तदुभयमप्यन्यव्यावृत्तिरूपमवस्तु, तस्मान्न अविकल्पकं ज्ञानं तद्गोचरं वा परमार्थसद्गोचरयन्ति विकल्पाः शब्दाश्चेत्ययमभिसन्धिः । अपि चास्यावाच्यत्वे भवदभ्युपगतप्रामाण्यागमविरोध इत्याह अनित्यादीति । शङ्कते अथेति । स्वमसाधरणं रूपं व्यावृत्तमिति यावत् । ततो निराकरोतिसर्वेऽर्था इति । न हि यथा सम्यग्ज्ञानमधिकृत्य प्रत्यक्षादिलक्षणं कृतं कीर्तिना तथा दिग्नागेन येनाधिकारात्ज्ञाने व्यवतिष्ठेत कल्पनापोढमिति भावः । ननु यदि स्वरूपतो नाभिधीयेतानभिधेयं तर्हि वस्तु प्रसज्येत । तथा चावास्तवः स्यात्शाब्दो व्यवहार इत्यत आहसर्वस्य चेति । सामान्यविशेषतद्वभ्देदाद्वस्तुत्रयम् । तत्र तद्वद्वस्त्वधिकृत्योक्तम्द्वावाकाराविति । सामान्येनैवाकारेणाभिधीयते सामान्यान्वितमित्यर्थः । ब्राह्मण इति । मनुष्यत्वजातिमानित्यर्थः । विशेषमाकारमभिप्रेत्य स्वरूपतो न व्यपदेश्यमित्युक्तम्, न तु सर्वथेति भावः । प्रकृते योजयतिएवमिति । आशङ्क्य पूर्वोक्तमतिप्रसङ्गं समारयतियदि चेति । अथाश्चकर्णादिवदव्युत्पन्नः कल्पनापोढशब्दः प्रत्यक्षस्वरूपस्य वाचक इति शङ्कतेअथेति । निराकरोतिएवमपीति । भवतु कल्पनापोढशब्दः अव्युत्पन्नो मा वा भूत्, अवाच्यं तु प्रत्यक्षमेषितव्यम्, अन्यथा विकल्पस्य प्रत्यक्षत्वप्रसङ्गात् । तथा च व्याघात इत्यर्थः ॥ जैमिनिप्रत्यक्षलक्षणं दूषयतिसत्संप्रयोग इति । यथाश्रुतस्यातिव्याप्तिः संशब्देनापि प्रयोगस्य समीचीनता प्रतिपाद्यते । सा च मिथ्याप्रत्ययेऽपि तुल्या, व्यत्ययेऽपि बुद्ध्या बोद्धस्योपस्थापनात् । तदिति बोध्यं परामृशति । अस्ति च मिथ्याज्ञानेऽपि बोध्येन संबन्ध इन्द्रियाणाम्, बोध्यं हि पुरोवर्ति द्रव्यम् । अथ यथा बोध्यं तादृशो नास्ति संबन्ध इन्द्रियाणाम्, रजतत्वस्य प्रकारस्यासन्निधानात् । हन्ताव्यापकत्वं लक्षणदोषः । प्रत्यभिज्ञायां तत्ताप्रकारस्य इन्द्रियेणासंबन्धात् । अपि च प्राभाकरे दर्शने अनुमानादिज्ञानमात्मनि प्रत्यक्षं न भवेत्, न हि तत्सत्संप्रयोगजम् । तस्मादेतदपि परिभावनीयं सूरिभिरिति ॥ वार्षगण्यस्यापि लक्षणमयुक्तमित्याहश्रोत्रादिवृत्तिरिति । पञ्चानां खल्विन्द्रियाणामर्थाकारेण परिणतानामालोचनमात्रं वृत्तिरिष्यते, सा च संशयादिव्यापकत्वादलक्षणमिति । तत्सिद्धमिन्द्रियार्थसन्निकर्षोत्पन्नमित्येतदेव लक्षणमिति प्रत्यक्षलक्षणं समाप्तम्॥४ ॥ ____________________________________________________________________ ण्य्ष्_१,१.५ अथ तत्पूर्वकं त्रिविधमनुमानं पूर्ववच्छेषवत्सामान्यतो दृष्टं च ॥ प्रत्यक्षलक्षणानन्तरमनुमानलक्षणपरं सूत्रं पठतिअथ तत्पूर्वकं त्रिविधमनुमानमिति । अत्रानुमानमिति सिद्ववत्प्रमाणाविशेषरूपलक्ष्यानुवाद एव नाप्रत्यक्षं प्रमाणमित्यप्रामाण्यमनुमानस्य सुदूदं प्रतिक्षिपति । दृष्टप्रामाण्याप्रामाण्यविज्ञानव्यक्तिसाधर्म्येण हि कासांचिद्व्यक्तीनां प्रामाण्यमप्रामाण्यं वा विदधीत । दृष्टसाधर्म्यं चानुमानमेवेति कथं तेनैव तस्याप्रामाण्यम्? अपि चानुमानमप्रमाणमिति वाक्यप्रयोगोऽज्ञं विप्रतिपन्नं सन्दिग्धं वा पुरुषं प्रत्यर्थंवान् । न च परपुरुषवर्तिनो देहधर्मा अपि सन्देहाज्ञानविपर्यासा गौरत्वादिवत्प्रत्यक्षमीक्षन्ते । न च तद्ववचनात्प्रत्तीयन्ते, वचनस्यापि प्रत्यक्षादन्यस्याप्रामाण्योपगमात् । पुरुषविशेषमनधिकृत्य तु वचनमनर्थङ्कं प्रयु।जानो नायं लौकिको न परीक्षक इत्युन्मत्तवदनवधेयवचनः स्यात् । परिशिष्टं तु परीक्षापर्वणि निवेदयिष्यते । तस्मादकामेनापि प्रमाणमनुमानमुपेतव्यमिति । लक्ष्यं प्रमाणभेदमनुमानमनूद्य तत्पूर्वकमिति लक्षणं विधत्ते । अथेत्यानन्तर्ये उक्तं प्रत्यक्षमनुमानस्य हेतुः । अथेदानीमनुमानं हेतुमद्व्युत्पाद्यते इत्यर्थः । लक्षणसूत्रतात्पर्यमाहअनुमानेति । तदेव स्फुटयतिअनेनेति । समानजातीयानि प्रमाणतया प्रत्यक्षादीनि, असमानजातीयानि चानुमानाभासादीनि, यथा क्षणिकत्वादिषु साध्येषु सत्त्वादीनि । स्यादेतदतिव्यापकमेतत्तत्पूर्वकत्वम् । तदिति हि प्रत्यक्षं परामृशत्यानन्तर्यात् । तथा च प्रत्यक्षपूर्वकत्वमनुमानस्येवागमस्मृतिसंशयविपर्यासानामप्यस्तीति तान्यप्यनुमानं प्रसज्येरन् । अनुमानादिपूर्वकं चानुमानं न प्रत्यक्षपूर्वकमिति नानुमानं स्यात्, अनुमानलक्षणेनाव्यातत्वात् । तस्मादव्याप्त्यतिव्याप्तिभ्यामलक्षणमेतदित्यत आहतत्पूर्वकमिति । तत्पूर्वकमित्यावृत्या विग्रहत्रयप्रदर्शनम् । तत्र प्रथमे विग्रहे तानीत्यनन्तरं सूत्रमुवल्लङ्घ्य विभागसूत्रगताः प्रत्यक्षादयः संबन्धनीयाः योग्यत्वात् । यथाहुः, यस्य येनार्थसंबन्धो दूरस्थस्यापि तस्य सः । इति तदनेन लक्षणस्याव्याप्तिः परिहृता । तदिदमाहयदा तानीति । नन्वेदं प्रत्यक्षपूर्वकमिति भाष्यविरोध इत्यत आहपारम्पर्येणेति । पारम्पर्येण हि प्रत्यक्षपूर्वकत्वमुक्तं भाष्यकृता, तस्मान्न विरोध इति । अतिव्याप्तिनिरासाय द्वितीयं विग्रहं विवृणोतियदापीति । ते इति विग्रहे अनन्तरसूत्रगतमेव प्रत्यक्षपदं संबध्यते । यथा च द्वे प्रत्यक्षे पूर्वे यस्य प्रत्यक्षस्य लिङ्गपरामर्शज्ञानस्य प्रत्यक्षफलस्य । तदिदं तत्पूर्वकं प्रत्यक्षम्, तद्धि स्वविषये प्रत्यक्षमप्यनुमेयार्थप्रत्ययं कुर्वदनुमानम् । तदिदं तदित्युच्यते । प्रत्यक्षग्रहणमुपलक्षणार्थम्, अनुमाने इत्याद्यपि द्रष्टव्यम् । स्यादेतत् । संबन्धग्रहणसमये पदतदर्थगोचरं प्रत्यक्षं प्रथमम् । अथ तदर्थविषये द्वितीये प्रत्यक्षे सति या तत्पदविषया स्मृतिरुत्पद्यते सापि प्रत्यक्षद्वयपूर्वा । एवं लिङ्गल्लिङ्ग्सिंबन्धस्मृतिरपि प्रत्यक्षद्वयपूर्वेति तदवस्थैवातिव्याप्तिरित्याशयवान् पृच्छति कतरे द्वे इति । उत्तरम्लिङ्गेति । सर्वसन्देहेष्विदमुपतिष्ठते । व्याख्यानतो विशेषप्रतिपत्तिर्न हि संन्देहादलक्षणमिति भावः । न च द्वितीयलिङ्गदर्शनं व्यप्तिस्मरणसमये विनश्यदवस्थमप्यस्ति, व्याप्तिसंस्कारोब्दोध समयजन्मना स्वजनितेन संस्कारेणास्य व्याप्तिस्मरणसमये विनाशात् । विनश्यदवस्थस्य द्वितीयलिङ्गदर्शनस्य व्याप्तिस्मरणेन सह यौगपद्येऽपि तयोः परस्परवार्तानभिज्ञतया मिथो घटनायोगः । न चात्मा ते घटयतीति युक्तम् । वृत्त्या खल्वयं घटयेत्, न स्वरूपतः । तस्मादुभाभ्यामुत्पन्नं परामर्शज्ञानमिन्द्रियार्थसन्निकर्षजं तृतीयं प्रत्यक्षमेषितव्यम् । बुभुत्सावतो द्वितीयादिति । बुभुत्साप्यनुमानज्ञानोत्पत्तौ कारणमिति दर्शयितुं बुभुत्सावत इत्युक्तम् । लिङ्गलिङ्गिसंबन्धदर्शनमाद्यं प्रत्यक्षमित्यत्र संबन्धपदेनानुमानाङ्ग संबन्धं विवक्षन् परोक्तान् संबन्धविकल्पाननुमानानङ्गभूतान् प्रतिक्षिपतिप्रत्यक्षमिति च तस्य प्रमाणमाह । तथा हि केचिदविनाभावं तादात्म्यतदुत्पत्तिनिबन्धनमनुमानाङ्गमाहुः । द्विविधो ह्यर्थः, प्रत्यक्षश्च परोक्षश्च । तत्र यो बुद्धौ साक्षादात्मीयं रूपं निवेशयति स प्रत्यक्षः । स हि स्वविषयाया बुद्धेः जनक इति तमन्तरेण बुद्धिरात्मानमनासादयन्ती तस्य सत्ता निश्चाययतीति युक्तम् । परोक्षस्तु बुद्धौ साक्षात्स्वरूपोपधानसामर्थ्यरहितोऽयुक्तप्रतिपत्तिरेव । न चान्यदर्शने अन्यकल्पना युक्ता, अतिप्रसङ्गात् । नान्तरीयकतया त्वन्योऽप्यन्यं गमयेत् । स हि प्रतिबद्धस्वभावो यथाविधः सिद्धः तथाविधसन्निधानं सूचयति । स च प्रतिबन्धो न दर्शनादर्शनमात्रादवसेयः, तथा सति स श्यामो मैतनयत्वात्परिदृश्यमानमैत्रतनयस्तोमवदित्यप्यनुमानं स्यात् । इहापि हि स्तो दर्शनादर्शने । तस्मात्तादात्म्यतदुत्पत्तिनिबन्धन एव प्रतिबन्धः । यथाह कार्यकारणभावाद्वा स्वभावाद्वा नियामकात् । अविनाभावनियमो दर्शनान्न न दर्शनात् ॥ तथा च लिङ्गविकल्पं विना न लिङ्गिविकल्पः । न लिङ्गविकल्पो लिङ्गानुभवं विना । न लिङ्गानुभवो लिङ्गं विना । न चाविनाभूतं लिङ्गं विना लिङ्गिनमिति लिङ्गिस्वलक्षणाप्रतिभास्यपि पारम्पर्येण तत्प्रतिबन्धात्तत्राविसंवादकोऽनुमानविकल्प इति । कार्यकारणभावश्चेदम् । अस्मिन् सति भवति सत्स्वपि तदन्येष्वस्मिन्नसति न भवति एवमाकारो नान्वयव्यतिरेकाभ्यामतिरिच्यते । तौ च प्रत्यक्षपृष्ठभाविना विकल्पेनावसीयेते । तथा हि सत्यग्नौ धूम इति प्रत्यक्षमेव विकल्पानुगतव्यापारमध्यवस्यति । असति चाग्नौ न धूम इत्यपि प्रत्यक्षमेव, न ह्यग्निधूमानुपलम्भावान्यौ । अतस्तद्विविक्तवस्तूपलभ्भात्नाप्यनयोर्व्यतिरेकोऽन्यस्तद्विविक्ताद्वस्तुनः । एवं तादात्म्यमपि विपर्यये बाधकप्रमाणोपपत्त्या निश्चेतव्यम्, यथा सत्त्वस्य क्षणिकतया सह तादात्म्यं विपक्षैऽक्षणिके क्रमाक्रमयोर्व्यापकयोरनुपलम्भन्निश्चीयते । तस्मात्तादात्म्यतदुत्पत्तिभ्यामेव प्रतिबन्धो नान्यत इति ॥ अत्रोच्यते । सत्यं यत्किञ्चित्क्वचिद्दृष्टम्, तस्य यत्र प्रतिबन्धः तद्विदस्तस्य तद्गमकं तत्रेत्यनुजानीमः । स एव तु प्रतिबन्धो न तावत्तदुत्पत्त्या संभवति । का पुनरियं तदुत्पत्तिर्धूमस्य? किं वह्न्यनन्तरं भावः? स तादृशोऽस्ति रासभस्यापीति तत्प्रतिबद्धोऽपि धूमः स्यात् । अथ तदनन्तरमेव भावः, न च रासभानन्तरं भवन्नपि तदनन्तरमेव भवति, तस्मिन् सत्यप्यसत्यग्नौ तदभावात् । असत्यपि तस्मिन् सति आद्रेन्धनवति वह्नौ तद्भावात् । अथ यद्यपि धूमस्य वह्निभावाभावानुविधानं तत्रोपलब्धं तथापि देशान्तरादिषु तद्भावोऽस्य कुतस्त्यः? तथा हि भूयो भूयो रासभे दृष्टे धूमो दृष्टः, तदभावे चादृष्टः । न च स तत्कार्यः । तज्जातीयस्यैव धूमस्य रासभं विना सति वह्नौ भावात् । एवं सत्यप्यग्नौ पिशाचेन जनितो धूमः क्वचित्देशादौ तज्जातीय एव रासभवद्वह्न्यभावेऽपि पिशाचादेव भविष्यतीति, अवश्यं शङ्कया भाव्यं नियामकमपश्यताम् । न च सति भावमात्रं नियामकम्, तस्य रासभादिष्वष्यविशेषात् । तदनन्तरमेवेति चावधारणस्य शङ्कापनयनमन्तरेणासंभवात् । अवधारणेन तु शङ्कापनये परस्पराश्रयप्रसङ्गः ॥ स्यादेतत् । यो यो धूमो दृष्टः स सर्वस्तावदार्द्रेन्धनसहितवह्न्यनन्तरमेव न पिशाचानन्तरम् । स च कादाचित्कतया निमित्तमपेक्षमाणो यदनन्तरमेव गम्यते तदेवाप्रतीतव्यभिचारं निमित्तीकरोति, न तु प्रतीव्यभिचारं रासभादि । नापि सर्वथा अनुपलब्धपूर्वपिशाचादि । यदि न तन्निमित्तं कस्मात्विनापि वह्नि क्वचिद्धूमो नोपलभ्यते? अथासौ सर्वथा वह्निसहितः, तथा सत्याद्रेन्धनवत्कथं वह्निरपि न कारणम्? कारणं चेत्कथं तदन्तरेण धूमभावशङ्का? अकारणस्य हि कार्यस्य नित्यं सत्त्वमसत्त्वं वा स्यात्, अनपेक्षत्वात्, न कादाचित्कत्वम् । नाप्यनेककारणकम्, अकारणकत्वप्रसङ्गादेव । वह्न्यनन्तरमेव भाव इति हि धूमस्य वह्निकार्यत्वम् । स चेतवह्नेरप्यनन्तरं नैवकारार्थः स्यादिति न वह्नेः कार्यम् । एवमन्यस्यापि न कार्यम् । न हि अन्यानन्तरमेव भवति, वह्नेरप्यनन्तरं भावात् । ततश्चाहेतुको धूमः स्यात् । तथा च कादाचित्कत्वव्याहतिः ॥ सत्यम्, तत्कार्यत्वसिद्धौ स्यादेवम् । तदेव तु तदनन्तरमेव भाव इत्येवंरूपं नास्ति । यद्यपि च विना वह्नि नोपलब्धो धूमो यद्यपि च पिशाचानन्तरं नोपलभ्यते तेषामनुपलब्धेः, तथापि पिशाचकार्य एव धूमस्यत्र तत्र वह्निः कुतश्चित्स्वहेतोरूपनिपतितो रासभ इव न तु धूमस्य जनमः । तेन तदभावेऽपि तज्जातीय एव कारणभेदजन्मा कदाचित्कादाचित्को धूमः स्यादिति अनिवृत्तिरेव शङ्कायाः । न दृष्टसंभवे नादृष्टं कल्पयितुं युक्तमिति शक्यं भवद्भिर्वक्तुम्, अनुपलब्धिलक्षणप्राप्तस्य अशक्यनिराकरणत्वात् । न चानुपलब्धन्तराण्यपि तन्निषेधे प्रभवन्ति । तस्मातनन्तरमेवेत्यवधारणाभावात्नैवंरूपं कार्यकारणभावावधारणं युक्तम् । न च यद्यदन्यसहितानन्तरं मुपलब्धं तत्तदन्यरहितात्तस्माद्भवद्भिन्नजातीयं भवति । उक्तं हि रासभसहिताद्वह्नेर्यादृशो धूमः तादृश एव तद्विरहिताद्वह्नेरिति । तस्मादेवंविधा शङ्कापिशाची स्वनिवारकं तदुत्पत्तिनिश्चयमास्कन्दन्ती न शक्या निवारयितुम् । अपि चास्तु तदुत्पत्तिनिश्चयः, तथापि कस्मात्कारणमन्तरेण न कार्यं भवति? तथा च सत्यनपेक्षतया कादाचित्कत्वविहतिरिति चेत्यथाह, नित्यं सत्त्वमसत्त्वं वा हेतोरन्यानपेक्षणात् । अपेक्षातो हि भावानां कादाचित्कत्वसंभवः ॥ इति । अस्तु तर्हि संबन्धः स्वाभाविकतया अन्यानपेक्षोऽव्यभिचारी गमकाङ्गम् । स च यो वा स वा भवतु, कृतं कार्यकारणभावावधारणायासेन । यथा चैतत्तथात्रैव प्रदर्शयिष्यामः ॥ अपि च कार्यात्कारणमनुमीयमानं ततः पूर्वमेवानुमीयेत, न तु वर्तमानकालम् । न हि हेतुसत्ता कार्यकाला कार्योत्पादाङ्गम्, अपि तु तत्पूर्वकाला । न हि नदीपूरभेदः स्वसत्तासमयवर्ति वर्षं गमयत्यपि तु तत्पूर्वकालम् । तत्कालं तु न तस्य कारणम् । अत एव साधकबाधकप्रमाणाभावेन तत्कालवर्तिन वर्षे सन्दिहाना न तदर्थिनः प्रवर्तन्ते । एवं धूमादप्यग्निः तत्पूर्वकाल एवानुमीयेत, न तु वर्तमानकालः । तथा च सति न तदर्थिनः तत्र निःशङ्कं प्रवर्तेरन् । अपि च रसादन्यद्रूपं रससमानकालमनुमिमतेऽनुमातारः । न चानयोरस्ति का कारणभावः तादात्म्यं वा । यद्युच्येत तत्पूर्वेभ्यो रूपरसगन्धस्पर्शक्षणेभ्यो रसक्षणो जायते, स स्वकारणं पूर्वरूपक्षणमनुमापयन् यादृशा तेन जनितः, तादृशमेवानुमापयति । स चानुमापकरसक्षणसमानकालरूपक्षणान्तरजनक एव स्वकारणमिति तादृशमेव गमयति । तथा च कार्यसमानकालरूपानुमानसिद्धिः । एतेन धूमानुमानं व्याख्यातम् । यथाह, एकसामग्र्यधीनस्य रूपादेरसतो गतिः । हेतुधर्मानुमानेन धूमेन्धनविकारवत् ॥ इति ॥ अत्रोच्यते । योऽयु गमकरससमानकालो रूपक्षणः, स किं तज्जनकस्य रूपक्षणस्य स्वभाव अत तत्स्वभावावच्छेदकोऽस्वभावभूतः? न तावत्स्वभावः, एकस्मिन्नभिन्ने जन्यजनकभावानुपपत्तेः, तस्य भेदाश्रयात् । तदस्वभावभूतः कथं तदनुमाननिवेशी? तदवच्छेदकत्वादित चेत्? ननु नैतावताप्यस्य तुल्यकालस्य रूपस्य कारणभाव इति कथं कार्यं हेतोर्गम्येत? विशिष्टेन कारणस्वभावेनास्वभावोऽपि असावाक्षिप्यते विशेषणतयेति चेत्? नन्वाक्षिप्यते ज्ञाप्यत इत्यनर्थान्तरम् । स किं कारणानुमितेः प्रागथानुमितिसमये पश्चाद्वा? न तावत्प्राक्न हि सत्तामात्रेण कारणं तद्गमयत्यतिप्रसङ्गात्, किं तु स्वज्ञानेन । न च कार्यमस्य गमकम्, अकारणत्वादित्युक्तम् । अत एवानुमितिसमयेऽप्यगमकम्, स्वज्ञानेन गमकत्वात् । उभयोश्च ज्ञानयोः सहभवतोः सव्येतरविषाणवत्कार्यकारणभावाभावात् । तथा च रसात्कार्यात्तत्कारणं रूपमनुमातव्यम् । तथा च कारणात्कार्यानुमानं तादात्म्यतदुत्पत्तिभ्यामन्यत इति नाभ्यामेव प्रतिबन्धसिद्धिः । लौकिकानां चेदं रसाद्रूपानुमानम्, न चैते पिशितचक्षुषः क्षणानामन्योन्यभेदमध्यवस्यन्ति । न चानध्यवस्यन्तः प्रवृत्तरूपोत्पादनसामर्थ्यं रसहेतुं रूपमनुमातुमुत्सहन्ते । न च लक्षणानुरोधेन लक्ष्यस्यान्यथाकरणं युक्तं परीक्षकारणम् । अतिपतितलोकमर्यादानां तेषां तत्त्वानुपपत्तेः । यथाहुः, सिद्धानुगममात्रं च कर्तुं युक्तं परीक्षकैः । न सर्वलोकसिद्धस्य लक्षणेन निवर्तनम् ॥ इति । अपि चाद्यतनस्य सवितुरूदयस्य ह्यस्तनेन सवितुरूदयेन, चन्द्रोदयस्य च समानकालस्य समुद्रवृद्ध्या, मध्यनक्षत्रदृष्ट्या चाष्टमास्तमयोदयस्य, न कार्यकारणभावः तादात्म्यं वा, अथ च दृष्टो गम्यगमकभावः । अपि च तादात्म्येऽपि कथं गम्यगमकभावः? न हि तदेव कर्म च कर्तृ चेति युक्तम् । तस्य भेदाश्रयत्वात् । यद्यपि च वृक्षत्वशिंशपात्वे परमार्थतो न भिन्ने तथापि भेदान्तरप्रतिक्षेपाप्रतिक्षेपाभ्यां कल्पितभेदयोर्गम्यगमकभाव इति चेत्न, वास्तवमेव वृक्षत्वशिंशपात्वयोर्भेदमुपपादयिष्यामः । अपि च काल्पनिकमपि रूपं विचार्यमाणं न यथा भिन्नमेवमभिन्नमपि न भवति, वस्तुनोऽपि तुच्छत्वप्रसङ्गात् । काल्पनिकस्यावास्तवत्वेन तत्त्वानुपपत्तेः । तस्मात्कल्पनारूढयोर्नवस्तुतादात्म्यम्, नापि परस्परम् । तथा सति सद्द्रव्यपार्थिववृक्षशिशपादिविकल्पानां च पर्यायत्वप्रसङ्गात् ॥ स्यादेतत् । कल्पनाभेदविरहिणां भेदमुल्लिखन्त्यपि परस्परमेषामभेदमप्यवगाहते सामानाधिकरण्याकारत्वात्, अभेदानुल्लेखे तदनुपपत्तेः । तथा च तादात्म्यं सिद्धमिति । तदयुक्तम् । उक्तं हि यथा सामानाधिकरण्यं न भावानामभेदसाधकम् । जात्यादिशब्दा हि जात्यादीन्निमित्तीकृत्य द्रव्ये वर्तन्ते । तच्चाधिकरणमेकमिति सामानाधिकरण्यमश्नुवते, न पुनर्जात्यादीनपि मिथो मिश्रयन्ति । शब्दसमानविषयाणां विकल्पानामपीयमेव गति । तस्माद्यत्र गम्यगमकभावो न तत्र तादात्म्यम्, यत्र तादात्म्यं न तत्र गम्यगमकभाव इति सद्धिम् । यत्तु विदितशिंशपाव्यवहारमविदितवृक्षव्यवहारमुच्चायां हि शिंशपायां वृक्षशब्दः प्रयुक्तः, तस्मादुच्चत्वमेव वृक्षशब्दप्रवृत्तिनिमित्तमिति मन्यमानं मूढं प्रति शिंशपात्वेन वृक्षव्यवहारमात्रं साध्यते । वामनायामपि शिशपायां वृक्ष इति व्यवहर्तव्यम्, शिंशपामात्रानुबन्धित्वाद्वृक्षत्वस्येति । तत्रापि चेद्व्यवहारः साध्यः स शिंशपाया भिन्न इति, न तादात्म्यम् । व्यवहारयोग्यता चेत्? सा शिंशपाया अभिन्नेति न गम्यगमकभावः । व्यावृत्तिभेदे चोक्तम् । तस्मात्तादात्म्यतदुत्पत्तिभ्यां प्रतिबन्ध इति मनोरथमात्रम् ॥ यश्च वैषेशिकैः चतुष्प्रकारः संबन्ध उच्यते, अस्येदं कार्यं कारणं संबन्ध्येकार्यसमवायि विरोधि चेति लैङ्गिकम् ॰ वै. सू. ९।२।१ ॰ ॥ इति, अत्रापि संबन्धिपदेनैव सर्वापसंग्रहात्शेषाभिघानं व्यर्थम् । न च संबन्धिपदोपात्तस्यातिप्रसक्तिः शेषपदैर्निवार्यते । तथा सति शेषपदान्येव सन्तु कृतं संबन्धिपदेन, तेभ्य एव संबन्धिभेदानामधिगतेः । न चैवं चातुर्विध्यं संबन्धस्यानुमानङ्गस्य । तच्चेष्यते । तथा च संबन्धिपदस्य संबन्धिमात्रावरोधेऽतिव्याप्तिः । अपि च भूतं वर्षमभूतस्य वाय्वभ्रसंयोगस्य कथं विरोधि? तद्धि तदनुकूलमेव एवमभूतं वर्षं भूतस्य वाय्यभ्रसंयोगस्याप्रतिकूलम् । एवं भूतो नकुलजयो न भूतस्य सर्पपराजयस्य विरोधी । नापि अभूतोऽसौ अभूतस्य विरोधी । येषां पुनर्विरोधः, तेषामन्यतमदन्यतमस्य न लिङ्गमपि तु प्रतिक्षेपकमेव ॥ एतेनैव, मात्रानिमित्तसंयोगिविरोधिसहचारिभिः । स्वस्वामिवध्यघाताद्यैः सांख्यानां सप्तधानुमा ॥ इत्यपि पराकृतं वेदितव्यम् ॥ तस्माद्यो वा स वास्तु संबन्धः केवलं यस्यासौ स्वाभाविको नियतः, स एव गमको गम्यश्चेतरः संबन्धीति युज्यते । तथा हि धूमादीनां वह्न्यादिसंबन्धः स्वाभाविकः, न तु वह्न्यदीनां धूमादिभिः । ते हि विनापि धमादिभिरूपलभ्यन्ते । यदा त्वाद्रेन्धनादिसंबन्धमनुभवन्ति, तदा धूमादिभिः सह संबध्यन्ते । तस्माद्वह्न्यादीनामाद्रेन्धानाद्युपाधिकृतः संबन्धो न स्वाभाविकः, ततो न नियतः स्वाभाविकस्तु धूमादीना वह्न्यादिसंबन्धः, तदुपाधेरनुपलभ्यमानत्वात् । क्वचिद्व्यभिचारस्यादर्शनात्मानोऽपि दर्शनानर्हतया साधकबाधकप्रमाणाभोवन सन्दिह्यमान उपाधिः संबन्धस्य स्वाभाविकत्व प्रतिबध्नातीति सांप्रतम् ॥ अवश्यं शङ्कया भाव्यं नियामकमपश्यताम् । इति दत्तावकाशा खल्वियं लौकिकप्रमाणामर्यादातिक्रमेण शङ्काशिची लब्ध्रपसरा न क्वचित्नास्तीति नायं क्वचित्प्रवर्तेत । सर्वत्रैव कस्यचित्कथञ्चिदनर्थस्य शङ्कास्पदत्वात् । अनर्थशङ्कायाश्च प्रेक्षावतां निवृत्त्यङ्गत्वात् । अन्ततः स्निग्धान्नपानोपयोगेऽपि मरणादिदर्शनात् । तस्मात्प्रामाणिकलोकयात्रामनुपालयता यथादर्शनं शङ्कनीयम् । न त्बदृष्टपूर्वमपि । न त्वदृष्टपूर्वमपि । विशेषस्मृत्यपेक्षो हि संशयो नास्मृतेर्भवति । न च स्मृतिरननुभूतचरे भवितुमर्हति । तस्मादुपाधि प्रयत्नेनान्विष्यन्तोऽनुपलभ्यमाना नास्तीत्यवगम्य स्वाभाविकत्वं संबन्धस्य निश्चिनुमः ॥ स्यादेतत् । अन्येनान्यस्य सहकारेण चेत्स्वाभाविकः संबन्धो भवेत्, सर्वं सर्वेण स्वभावतः संबध्येत । तथा च सर्वं सर्वस्माद्गम्येत । अथान्यस्य चेदन्यत्कार्यम्, कस्मात्सर्वं सर्वस्य न भवति, अन्यत्वाविशिषात् । ततश्च स एवातिप्रसङ्गः । यद्युच्येत, न भावस्वभावाः पर्यनुयोज्याः, तस्मादन्यत्वाविशेषेऽपि किञ्चिदेव कारणं कार्यञ्च किञ्चिदिति । नन्वेष स्वभावानामनुयोगो भिन्नानामकार्यकारणभूतानामपि स्वभावप्रतिबन्धे तुल्य एव । तस्माद्यत्किञ्चिदेतत् । कः पुनः प्रमाणेन स्वाभाविकः संबन्धो गृह्यते? प्रत्यक्षसंबन्धिषु प्रत्यक्षेण, यथाहलिङ्गलिङ्गिसंबन्धदर्शनमाद्यमिति । यदा तावत्प्रथमं वह्निधूमयोः सहाद्रेन्धनयोः संबन्धं पश्यति तदा द्वयोरपि किं स्वाभाविकः संबन्ध औपाधिको वा? अथ धूमस्यौपाधिको वह्नेः स्वाभाविकः, वह्नेर्वौपाधिको धूमस्य तु स्वाभाविक इति न शक्यं निर्धारयितुम् । तत्र वह्नेरनार्द्रेन्धनस्य विनाधूममयोगोलकादौ दर्शनादाद्रेन्धनोपाधिरस्य धूमेन संबन्धो, न तु स्वभाविक इति निश्चीयते । धूमविशेषस्य तु विना वह्निमनुपलभ्भादुपाधिभेदस्य चादृश्यमानस्य कल्पनायां प्रमाणाभावाद्विशेषस्मृत्यपेक्षस्य च संशयस्यानुपलब्धपूर्वे अनुत्पादात्, उत्पादे वा अतिप्रसङ्गात्प्रेक्षावतां प्रवृत्त्युच्छेदात्स्वाभाविकः संबन्धः अवधार्यते । तदिदमवधारणं न मानसम्, अनपेक्षस्य मनसो बाह्ये प्रवृत्तावन्धबधिराद्यभावप्रसङ्गात् । भूयोदर्शनसापेक्षस्य च प्रवृत्तौ प्रमाणान्तरापातात्, न हि मनो निमित्तमित्येव मानसं प्रत्यक्षं भवति । तथा सति न किञ्चिन्मानसम्, प्रत्ययमात्रस्य मनोनिमित्तत्वात् । तत्तदसाधारणकारणापेक्षयो तु तत्प्रमाणव्यपदेशे अत्रापि भूयोदर्शनमसाधारणमिति प्रमाणान्तरं जातम् । तस्मादभिजातमणिभेदतत्त्ववद्भूयोदर्शनजनितसंस्कारसहायमिन्द्रियमेव धूमादीनां वह्न्यादिभिः स्वाभाविकसंबन्धग्राहीति युक्तमुत्पश्यामः ॥ एवं मानान्तरविदितसंबन्धिषु मानान्तराण्येव यथास्वं भूयोदर्शनसहायानि स्वाभाविकसंबन्धग्रहणे प्रमाणमुन्नेतव्यानि । स्वभावतश्च प्रतिबद्धा हेतवः स्वसाध्येन यदि साध्यमन्तरेण भवेयुः, स्वभावादेव प्रच्यवेरन्निति तर्कसहाया निरस्तसाध्यव्यतिरेकवृत्तिसन्देहा यत्र दृष्टाः तत्र स्वसाध्यमुपस्थापयन्त्येव । न च श्यामादिषु मैत्रतनयादीनां स्वाभाविकप्रतिबन्धसंभवः, अन्नपानपरिणतिभेदस्योपाधेः श्यामताया मैत्रतनयसंबन्धं प्रति विद्यमानत्वेन मैत्रतनयत्वस्यागमकत्वात् । एतेन पक्वान्यस्य वृक्षस्याग्रवर्तीनि फलानि एतद्वृक्षप्रभवत्वात्पतितफलवदित्यादयोऽप्यौपाधिकसंबन्धा व्याख्याताः । तस्मात्सर्वमवदातम् ॥ नन्वन्तिमप्रत्यक्षमतीताभ्यां प्रत्यक्षाभ्यां कथमनुगृह्यते इत्यत आहस्मृत्या चेति । चो हेत्वर्थे । यद्यपि स्वरूपतो लिङ्गदर्शने अतीते, तथापि तज्जनिता स्मृतिः अनुगृह्णाति यस्मादतस्ताभ्यामनुगृह्यते । अनुग्रहश्च करणमेव । संबन्धसमृतिसहकारिणा इन्द्रियेण स्वसाध्याविनाभूतलिङ्गविज्ञानं यदुपजन्यते तत्परामर्श इत्याख्यायते । तथाभूतलिङ्गगोचर एव चतुर्थो वाक्यावयव उपनय इत्याख्यायते । अत्र पृच्छतिकः पुनरिति । अनुमानशब्दस्यार्थो न तावदनुमितिः । न खलु लिङ्गपरामर्शोऽनुमितिः, प्रत्यक्षफलत्वात् । तस्मादनुमीयते अनेनेति करणार्थो वक्तव्यः । स च लिङ्गविषयः क्रिया च लिङ्गिविषयेति विषयवैषम्यात्न क्रियाकरणभाव इति भावः । उत्तरमनुमीयत इति । तेनैवाभिप्रायेण पृच्छतिकिं पुनरिति । उत्तरमग्नीति । प्रष्टा स्वाभिप्रायमुद्घाटयतिकथं पुनरन्यविषयमिति । एकदेशिन उत्तरम्नानियमादिति । वृक्षोद्देशेन प्रवर्तितः परशुः कर्त्रा न तदवयवोद्देशेन, तस्माद्वृक्षविषयः परशुर्न तदवयवविषयः । द्वैधीभावश्चावयवेषु न वृक्षे, तस्य ततो विनाशातिति भावः । क्वचित्पुनर्यद्विषयमिति । औष्ण्यापेक्षो वह्निसंयोगः करणं तण्डुलेषु । रूपादिपरावृत्तिरूपः पाकः तेप्पेव । तण्डुलेन पिठरं लक्षयति । न केवलं समानविषयत्वानियमः कर्तुः करणं भिन्नमित्यपि नियमो नास्तीत्यनियमाभिधानप्रसङ्गेनाहक्वचित्पुनरिति । स्थितिः सावयवेषु समवायो वा प्रदेशविशेषे संयोगो वा । एवमनियमं दृष्टान्त उक्त्वा दार्ष्टान्तिके योजयतिएवमन्यविषयस्येति धूमविषयस्य प्रमाणस्याग्निविषया क्रिया प्रमितिः । यदा अग्निविषयमेव ज्ञानं प्रमाणं तत्राहक्वचित्पुनरिति । आक्षिपतिकिं पुनरिति । अत्र हेतुमाहप्रमितत्वात् । उत्तरम्प्रमीयते । तद्विभजतेहेयत्वेनेति । अनियमवादिन एकदेशिनो मतं नियमवादी दूषयतितन्नेति । हेतुमाहप्रमाणफलयोरिति । यदि अन्यविषयं करणमन्यविषया क्रिया भवेत्ततश्छेदने खदिरं प्राप्ते पनसादावपि च्छिदा स्यादित्यतिप्रसङ्गः स्यात् । यद्यपि वृक्षोद्देशेन कर्त्रा परशुः प्रयुक्तस्तथाप्ययं वृक्षमिव तदवयवानपि प्राप्त इति तद्विषयो भवति । तेन तदवयवद्वैधीभावमुखेन वृक्षविषयामपि द्वैधीभावक्रियां जनयतीति न वैयधिकरण्यं करणफलयोः । एवं यद्यपि लिङ्गविषयं प्रत्यक्षफलतया लिङ्गज्ञानम्, तदनुबद्धस्य तस्य मानसप्रत्यक्षगोचरत्वात्, लिङ्गनिरूपणमन्तरेण तदनिरूपणात् । न तु लिङ्गज्ञानं लिङ्गिनं विना न निरूप्यते । तस्मात्प्रतिपत्तयनुबन्धितया विषयो न लिङ्गज्ञानस्य लिङ्गी, किं तु लिङ्गमेव । तथपि लिङ्गिविषयप्रतिपत्तिजनकत्वात्लिङ्गज्ञानं भवति लिङ्गिविषयम् । न चातिप्रसङ्गः, स्वाभाविकसंबन्धशालित्वात्लिड्स्य लिङ्गिनि । तस्माद्द्विविधो विषयभावः प्रतिपत्त्यनुबन्धितया, प्रतिपाद्यतया च । तत्र पूर्वः फलस्य, उत्तरस्तु प्रामाण्यस्येति विवेकः । तस्मात्सुष्ठुक्तम्प्रमाणफलयोर्विषयभदानभ्युपगमादिति । स्थितौ तु भेदो दर्शयिष्यते कर्तुः करणस्य चेति । तदेवं तानि ते इति विग्रहद्वयं परस्परापेक्षमुपपाद्य तानि तदिति विग्रहद्वयं परस्परापेक्षमुपपादयतियदा पुनरिति । लिङ्गलिङ्गिसंबन्धदर्शनं च अनन्तरलिङ्गदर्शनं च तत्स्मृतिश्चेति विग्रहः । अत्रापि सर्वसन्देहेष्विदमुपतिष्ठते, व्याख्यानतो विशैषप्रतिपत्तिर्न हि सन्देहादलक्षणमिति भावः ॥ ननु यदि प्रमाणफलयोरेकविषयत्वं तर्हि परामर्शज्ञानविषयीकृत एवार्थो विषयीकर्तव्यो नान्यः । स च प्रत्यक्षप्रमाणविषय एवेति कृतमनुमानेनेत्याशयवान् पृच्छतिकिं पुनरिति । तैर्विशिष्टेन लिङ्गपरामर्शेनेत्यर्थः । उत्तरम्शेषोऽर्थः । प्रत्यक्षप्रमितात्लिङ्गादन्यो लिङ्गी तद्विषयत्वं च लिङ्गपरामर्शस्योक्तमिति । पृच्छतिअनुमानमित्यत्र किं कारकम्? अनुमीयतेऽनेनेति करणकारकमेव युक्तं, तस्यैव लिङ्गदर्शनद्वयस्मृतिपूर्वकत्वात्, न त्वनुमितिरनुमानं प्रमाणव्यापारत्वेनातन्निमित्तत्वात्करणकारकादन्यत्वादतत्पूर्वकत्वाच्चेति भावः । उत्तरम्भावः करणं वा । ननूक्तं न भावः कारकमित्यत आहयदेति । न द्रव्यादीनामेव कारकत्वम्, अपि तु व्यापारस्यापि । अन्यथा कर्मनामधेयेषूद्भिदादिशब्देषु न कारणविभक्तिः श्रूयेत, उद्भिदा यजेत दर्शमौर्णमासाभ्यां यजेतेत्यादि । संभवति हि तस्यापि सिद्धस्य फलभावनायां निमित्तत्वम् । एवं वह्निप्रमायाः सिद्धायाः संभवति हानादिबुद्धिनिमित्तभावः । एतस्मिश्च कल्पे तत्पूर्वकमित्यत्र तदा हानादिसंबन्धावधारणसमये प्रथमं वह्नित्वस्य लिङ्गस्य दर्शनम्, अथानुमानिकं द्वितीयम्, अथ संबन्धस्य स्मृतिरिति त्रयमेकीकृत्य परामर्ष्टव्यम् । तत्पूर्वको हि तथा चायमनुमीयमानो वह्निरिति लिङ्गपरामर्शः । तस्माद्दाहपाकादिकारित्वादुपादेयो वह्निरिति ज्ञानमनुमानस्य फलम् । ततश्च तत्पूर्वकत्वमपि सिद्धं भवतीति भावः । करणकारकपक्षे फलमाहयदा करणमिति । अत्र विमृशतिलिङ्गेति । तत्पूर्वकत्वानुमितिनिमित्तत्वसमानधर्मदर्शनात्संशयः । अत्र आचार्यदेशीयमतमाहएके तावदिति । सत्स्वपीतरेषु स्मृतेरभावादनुमितेरनुत्पादनेन स्मृतिरेव अनुमानम्, इतरे तु तदनुग्राहका इत्यर्थः । मतान्तरमाहअपर इति । सत्स्वपीतरेषु लिङ्गपरामर्शं विना अनुमित्यनुत्पादात्, लिङ्गपरामर्श एवानुमानमितरैरनुगृहीत इत्यर्थः । स्वमतमाहवयं त्विति । अन्वयव्यतिरेकाभ्यामशक्यो गुणप्रधानभावो विवेक्तुम्, तयोः सर्वत्र तुल्यत्वादिति भावः । तत्किमिदानीं नास्त्येव गुणप्रधानभाव इत्यत आहप्रधानेति । नान्वयव्यतिरेकावत्र प्रभवतो न तु न्यायान्तरमिति भावः । पृच्छतिकः पुनरत्रेति । उत्तरमाहआनन्तर्येति । नेहास्ति तिरोहितं किञ्चित् ॥ अतिव्याप्ति चोदयतियदीति । ननु भवतु प्रत्यक्षद्वयपूर्वकः संस्कारोऽनुमानम्, तेनापि शेषोऽर्थोऽनुमास्यत इत्यत आहस्मृतिहेतुः नानुमितिहेतुरित्यर्थः । परिहरतिनैष दोष इति । विशिष्टज्ञानं विज्ञानं विशषश्च स्मृतेरन्यत्वम्, न हीन्द्रियार्थसन्निकर्षोत्पन्नं ज्ञानं स्मृतिः । तस्याः संस्कारमात्रप्रभवतया अन्यस्मादनुत्पत्तेः । तेन च ज्ञानेन स्वकारणं विशेषितम्, प्रत्यक्षसूत्रे यत इत्यध्याहारात् । तस्मादिहापि स्वकारणविशेषकं स्मृतेरन्यद्विज्ञानमधिकृतम् । न च संस्कारः प्रत्यक्षपूर्वोऽपि तादृशज्ञानकारणमिति न तस्य प्रसङ्ग इत्यर्थः । निर्णयेऽनुपजनितफले प्रसङ्ग निवारयतिनिर्णय इति । विभागसूत्राक्षिप्तप्रमाणसामान्यलक्षणपूर्वकं विशेषप्रमाणलक्षणं तदपेक्षं प्रवर्तमानं नानुपजनितफलेऽप्रमाणे निर्णयमात्रे प्रवर्तितुमर्हति, जनितफलस्तु निर्णयः प्रमाणमेवेति भावः । स्वविषयपरिच्छेदकत्वात्फलं परिच्छेद एव परिच्छेदकः । स्वार्थिकः प्रत्ययः ॥ त्रिविधमिति सूत्रावयवमर्थगौरवादराद्वार्त्तिककार उद्भाष्यं व्याचष्टेत्रिविधमितीति । अन्वयव्यतिरेकिणं लक्षयतितत्रेति । विवक्षितोपपत्तिः पक्षधर्मता । तज्जातीयोपपत्तिः अन्वयः । विपक्षावृत्तिः व्यतिरेकः । अन्वयिमात्रात्व्यतिरेकिमात्राच्च व्यावृत्तोऽन्वयव्यतिरेकी दर्शनीय इति हेतुत्रयसाधारणे अबाधितविषयत्वात्सत्प्रतिपक्षत्वे सती अपि हेतुरूपे न दर्शिते । विवक्षितप्रत्ययमन्तरेण चान्वयव्यतिरकयोः तज्जातीयातज्जातीयवृत्तिव्यावृत्त्योरशक्यप्रतीतित्वाद्विवक्षितोपादानम् । तत्प्रसङ्गेन च तद्धर्मता हेतुत्रयसमानपि दर्शिता । तस्योदाहरणमाहयथेति । प्रत्यक्षत्वादिति हेतुरात्मनि नित्येऽस्तीत्यत उक्तम्बाह्यकरणेति । तथापि सामान्यविशेषैर्घटत्वादिभिर्व्यभिचार इत्यत उक्तम्सामान्यविशेषवत्त्व इति । तथापि परमाणुभिर्बाह्यकरणप्रत्यक्षैर्योगिनां व्यभिचार इत्यत उक्तमस्मदादीति । तथा चायं नित्येभ्य आकाशादिभ्यो घटादिषु चानित्येष्वन्वित इति भवत्यन्वयव्यतिरेकी । अन्वयिनं लक्षयतिअन्वयीति, विपक्षहीन इति । विपक्षाभावेन ततो व्यतिरेकाभावं दर्शयति । सद्भ्यामभावो निरूप्यते नैकेन सतेत्युक्तम् । तेन हेतोर्यतो विपक्षान्निवृत्तिः स एव नास्तीति कुतो निवर्तताम्, पक्षादन्यस्य सर्वस्यैव सपक्षत्वात्? न निवर्तत इति चेत्? अस्तु तर्हि हेतोस्तत्र वृत्तिः, निवृत्तिनिषेधरूपत्वाद्वृत्तेरिति चेत्? यस्याभावाधिकरणत्वमपि न संभवति निरूपाख्यस्य तस्य भावाधिकरणत्वशङ्केति सुभाषितम् । न खलु मुमुर्षोसतोयाभ्यवहारेऽप्यसमर्थस्य शष्कुलीभक्षणं शङ्कते चेतनः । तत्किमिदानीं भावाभावौ न परस्पराभावात्मानौ यदेकनिषेधेनान्यविधिः स्यात्? सत्यम्, यत्रैकतर एतयोर्निषिध्यते विधीयते वा तत्र तदितरविधर्निषेधो वावश्यं भवेत् । न त्विह परमार्थतः कस्यचित्निषेधः । न चात्र निरूपाख्यो हेतोर्व्यतिरेको निषिध्यते । ननु निरूपाख्यो निषेधाधिकरणमिति च वचः स्वचरितविरुद्धम् । न चैतत्तत्त्वतो निरूपाख्ये हेतोर्व्यतिरेकं वा हेतुं वा व्यासेधामो नाप्यन्वयं विदध्मः । नो खल्वयं सकलप्रतिपत्त्यभाजनं क्वचिदप्युपयुज्यते । उपयोगे वा निरूपाख्यो न भवेत् । कस्तर्हि न निरूपाख्ये हेतोर्व्यतिरेक इत्यस्यवचनस्यार्थः? अथ निरूपाख्ये हेतोर्व्यतिरेक इत्यस्य भवद्भाषितस्य कोऽर्थः? अहृदयवाचां खलयहृदया एव प्रतिवाचो भवन्ति भवन्ति । यक्षानुरूपो बलिरिति हि लौकिकानामाभाणकः । न चात्यन्तादृष्टपूर्वाणां कल्पनाजालगोचरत्वमिति चोपपादितमन्यथाख्याति । निरूपणवासरे । कल्पितगोचरश्च व्यतिरेकोऽपि काल्पनिक इति नानुमानाङ्गम् । स्वाभाविकरूपसंपन्नं हि प्रमाणं तत्त्वज्ञानरूफलाय कल्पते न कल्पितरूपसंपदा, तस्याः सर्वत्र सुलभत्वादिति । तत्त्वविषयत्वं चानुमानस्योपपादयिष्यते । तस्मादनुपाख्ये विपक्षे हेतोर्व्यतिरेकनिवृत्तौ वा व्यतिरेके वा हेतुप्रवृत्तौ वा सहृदयानां मूकतैवोचिता । न चैतावता हेतोरगमकत्वम् । न हि व्यतिरेकोऽस्तीत्येव गमको भवति । मा भूदसाधारणस्यापि गमकत्वम्, किं तु स्वसाध्येन सह स्वाभाविकसंबन्धशालितया । सा चान्वयव्यतिरेकाभ्यामिवान्वयमात्रेणप्युपाधिरहितेन शक्या ज्ञातुमिति कृतमत्र व्यतिरेकेण । विपक्षसंभवे तु तत्रापि हेतुवृत्तिशङ्कानिराकरणाय व्यतिरेकग्रहणमुपासनीयमिति सर्वमवदातम् ॥ उदाहरणमाहयथेति । स्वमते त्वभिधेयो विशेषः प्रमेयत्वात्सामान्यवत् । परमाण्वाकाशादयः कस्यचित्प्रत्यक्षाः प्रमेयत्वात्घटवदित्यादयो द्रष्टव्याः, विश्वस्यैव सदसत्प्रभेदभिन्नस्य यथास्वं पक्षसपक्षयोरन्तर्भावेन विपक्षाभावादिति । व्यतिरेकिणं लक्षयतिव्यतिरेकीति । तमिमं व्यतिरेकिणं हेत्ववयवलक्षणव्याख्यानावसरे वार्त्तिककृदुपपादयिष्यतीति नेहोपपादितः । तदेवं त्रिविधमित्यवच्छिद्य व्युत्पाद्य संप्रति पूर्ववदित्यादिना एकवाक्यतया व्याचष्टअथ वा त्रिविधमिति । तिसृष्वपि विधासु साध्यवचनस्य पूर्वमपपादनात्पूर्वं साध्यं तद्यस्यास्त्यधिकरणतया तत्पूर्ववत् । तथाप्यनित्याः परमाणवो गन्धवत्त्वाद्घटवदित्यपि हेतुः स्यात् । अस्ति हि साध्यं तस्यापि, पार्थिवानामप्यणूनामनित्यत्वेन सिषाधयिषितत्वादित्यत आहव्याप्त्येति । अस्ति गन्धवत्त्वस्य साध्यं न तु व्याप्त्या, पृथिवीमात्रवृत्तिततया चतुर्षु परमाणुषु तदभावात् । साध्यस्योपयुक्तत्वात्ततोऽन्यस्तज्जातीयः शेषः, साध्यसामान्येन समान इति यावत् । तदिदमाहसाध्यतज्जातीय इति ॥ पदानि विभज्यार्थमाहपूर्ववन्नामेति । सामान्यतोऽदृष्टमिति न्मन्तर्भाव्य व्याचष्टसामान्यतश्चेति । तथा च बाधितविषयं प्रकरणसमं चानुमानं स्यादित्यत आहचशब्दादिति । वार्त्तिके चशब्देनासत्प्रतिपक्षत्वमति सूचितम् । तेन सूत्रस्थेन चशब्देनाबाधितविषयत्वमसत्प्रतिपक्षत्वमपि रूपद्वयं समुच्चितमित्युक्तं भवति । नन्वेवं त्रिविधोऽपि हेतुः पञ्चलक्षणः स्यादित्यत आहएवमिति । एतदुक्तं भवति अबाधितविषयमसत्प्रतिपक्षं पूर्ववदिति च ध्रुवं कृत्वा शेषवदित्येका विधा, सामान्यतोदृष्टमिति द्वितीया, शेषवत्सामान्यतोदृष्टं चेति तृतीया । त्रिविधमनुमानम् । तत्र चतुर्लत्रण द्वयम् । एकं पञ्चलक्षणमिति । तदेवं स्वमतेन सूत्रं व्याख्याय भाष्यकृन्मतेन व्याचष्टअथ वेति । आक्षेप्तुं स्वरूपतो व्याचष्टेतत्रेति । पूर्वं कारणं कार्यात् । तद्यस्यास्ति विषयतया परामर्शज्ञानस्यानुमानस्य तत्पूर्ववदित्यर्थः । विकल्प्या आक्षिपतियदि तावदिति सर्वत्रानुमानप्रसङ्गादिति भावः । अतिप्रसड्भिया कल्पान्तरमातिष्ठतेअथ पुनरिति । दूषयतिएतदपीति । दूषणान्तरं समुच्चिनोतिकारणदर्शनाच्चेति । नासिद्धाश्रयो हेतुर्गमक इति भावः । परिहरतिनेति । द्वयमपि नाभ्युपेयत इत्यर्थः । किं तर्हि अभ्युपेयते इत्यत आहकार्यं त्विति । एनं प्रकारमन्यत्राप्यतिदिशतिएवमिति । पृच्छतिकथमिति । उत्तरम्द्वयोरिति । पूर्वशब्देन कारणभिघायिना प्रतिसंबन्धितया कार्यमप्युपक्षिप्तम् । अतो द्वयोरप्युपक्षिप्तयोः कारणस्योपयोगादनुमानभावेनेति योचना । उदाहरणमाहौदाहरणमिति । यद्यपि कारणमात्रं व्यभिचारति कार्योत्पादम्, तथापि यादृशं न व्यभिचरति तत्र निपुणेन प्रतिपत्रा भवितव्यम् । अन्यथा धूममात्रमपि वह्निसत्तां व्यभिचरतीति न धूमविशेषो गमको भवेत् । रसाद्रूपानुमाने तु वैनाशिकानामापादितं कारणात्कार्यानुमानमस्माभिः । अपि चान्त्यतन्तुसंयोगानन्तरं पटो जायते तत्रापि शक्यं कारणात्कार्यानुमानम् । यदा खल्वयमन्यत एवोद्बुद्धसंस्कारो व्याप्तिस्मृतिमानविरलेष्वितरेषु तन्तुषु अन्त्यतन्तावुत्पन्नायां क्रियायामिन्द्रियसन्निकर्षात्प्रथममेव परामृशति तथा चेयमिति, तदैव क्रियातो विभाग इत्येकः कालः । अथ यदा विभागात्पूर्वसंयोगविनाशः, तदा परामर्शात्तस्मादवश्यंभाविपटविशिष्टेयं क्रियेत्यनुमानोत्पाद इत्येकः कालः । अथान्त्यस्य तन्तोस्तन्तुसंयोगः, अथ पटोत्पादः, तत्र रूपाद्युत्पादः, अथ प्रत्यक्षदर्शनमित्यनुमानोत्पादस्य परस्ताच्चतुर्थे क्षणे प्रत्यक्षम् । यदि तु क्रियोत्पादानन्तरमालोचनमिष्यते, तथापि तृतीये क्षणे प्रत्यक्षस्य उत्पाद इति नानवसरमनुमानम् । अपि च बधिरो मुरजमुखमभिहत्य स्वपाणिनाभिघातादेव शब्दकारणात्तत्कार्यं शब्दं निःशङ्कमनुमिमीते । एवमन्यान्यपि कारणात्कार्यानुमानानि ऊहनीयनीति ॥ शेषवदुदाहरणमाहनद्या इति । चोदयतिकथं पुनरिति । परिहरतिनेति । अनुमीयतेऽनेनेति अनुमानं नदीपूरः । न तु वृष्टिरनुमीयमाना पूरविशेषात्नातीता शक्यानुमातुम्, अनुमानसमये तदत्ययस्याशक्यनिश्चयत्वात् । नापि वर्तमाना तदत्ययस्यापि तदानीं संभवात् । एवं भविष्यन्त्यपि साधकबाधकप्रमाणाभावेन सन्दिग्धैव । तस्मात्त्रेकाल्यस्याशक्यनिश्चयत्वातनुपपन्नमनुमानमित्यत आहभविष्यतीति । कारणस्य हि कार्यात्पूर्वकालता शक्या निश्चेतुं कार्येण लिङ्गेन । तेन अतीतादिसन्देहः क्षतिमावहति । यः कश्चिदिति योग्याभिप्रायम् । स च कार्यस्य पुरस्तात्ततो निश्चयव्याप्त इत्यर्थः ॥ सामान्यतोदृष्टोदाहरणं भाष्यकारीयं दुःखबोधम्, शेषवदुदाहरणान्तर्गतं च । अत्रापि कार्येण सवितुर्देशान्तरप्राप्त्या तत्कारणस्य व्रज्याया अनुमानात् । न चैतावता अनुमानस्य त्रैविध्यं भवति, उदाहरणमात्रस्यानन्त्येनानन्त्यप्रसङ्गात् । तस्माद्भाष्यकारव्याख्यानमरोचयमानो वार्त्तिककृतन्यथाव्याख्यायोदाहरणान्तरमाहसामान्यतोदृष्टं नामेति । साध्यधर्माविनाभाविना विशेषणेन साधनधर्मेण विशिष्यमाणो धर्मो गम्यते गमकत्वेन । हेतुविशिष्टो हि धर्मो गमकः, जिज्ञासितधर्मविशिष्टश्च गम्यः । यथाहुः, स एव चोभयात्माष गम्यो गमक इष्यते । असिद्धेनैकदेशेन गम्यः सिद्धेन बोधकः ॥ इति । अविनाभावित्वं स्वभावप्रतिबद्धत्वं सर्वेषामेव हेतूनां सामान्यम् । तत्र धर्मधर्मिणोरभेदविवक्षया हेतुरेव सामान्यमुक्तः । सामान्येनाविनाभाविना हेतुना अवच्छिन्नं दृष्टं धर्मिरूपमनुमानं सामान्यतो दृष्टमनुमानम् । तृतीयायास्तसिः । तदेतत्पूर्ववच्छेषवतोरपि प्रापकमपि तत्पदसन्निधानात्गोबलीवर्दन्यायेन ते परित्यज्यान्यत्र निविशते । तदिदमुक्तमकार्यकारणभृतेनेति । उदाहरणमाहयथा बलाकयेति ॥ भाष्यकारीयमुदाहरणमुपन्यस्याक्षिपतिअपरे पुनरिति । तदिति गतिमानिति । परामृशतिउपलब्धिलक्षणप्राप्तत्वादिति । कर्मणो हि महत्त्वरूपविशेषैकार्थसमवाय उपलब्धिलक्षणप्राप्तिः प्रत्यक्षोपलब्धियोग्यता । समाधत्तेनैवेदमिति । देशान्तरप्राप्तिमानादित्यः द्रव्यत्वे सति क्षयवृद्धिप्रत्ययाविषयत्वे च प्राङ्मुखोपलभ्यत्वे च तदभिमुखदेशसंबन्धादनुत्पन्नपादविहारस्य परिवृत्य तत्प्रत्ययविषयत्वात्मण्यादिवत्, तत्प्रत्ययविषयत्वादित्युच्यमाने पुरःस्थितेन स्थाणुना व्यभिचारः, सोऽपि हि प्रत्यभिज्ञाविषयो भवति तत्रैव स्थितः । तन्निवृत्त्यर्थं परिवृत्येत्युक्तम् । तथापि गुणादिभिर्व्यभिचारः । तन्निवृत्त्यर्थं द्रव्यत्वे सतीति विशेषणम् । तथापि प्रदीपादिभिराशुतरविनाशिभिर्व्यभिचारः, तन्निवृत्त्यर्थं क्षयवृद्धिप्रत्ययाविषयत्वे सतीति विशेषणम् । तथापि पृष्ठतोऽवस्थितया स्थूणया व्यभिचारः, तन्निवृत्त्यर्थं प्राङ्मुखोपलभ्यत्वे सतीति विशेषणम् । उपलभ्यता च उपलब्धिकर्मता । सा चेहातीता विवक्षिता, अन्यथा पूर्वापरजलधिवेलावगाहिना तुहिनशैलेन व्यभिचारः । यद्यप्ययमपि परिवृत्य तत्प्रत्ययवतोऽतिपतितोपलम्भकर्मभावः, तथापि तदा नरान्तरस्योपलभ्यः । मार्तण्डमण्डलं त्वस्ताचलचूडावलम्बि न प्राच्यां कस्यचिदुपलम्भगोचर इति वैषम्यम्, तथापि यदि द्रष्टैव पुरोऽवस्थितस्य पश्चिमाभिमुखसय प्रासादस्य स्वयुमुपनिपत्य पृष्टतो भवति, तदोक्तलक्षणस्य हेतोरस्ति व्यभिचारः । तन्निवृत्त्यर्थमनुत्पन्नपादविहारस्येति विशेषणम् । तदभिमुखदेशसंबन्धादिति ल्यब्लोपे पञ्चमी । स्वाभिमुखदेशमुद्दिश्यानुत्पन्नः पादविहारो यस्य स तथोक्तः । तमुद्दिश्य खल्वयं पद्भ्यां संचरमाणः प्रासादस्य पृष्टतो भवतीति भावः । देशान्तरप्राप्तौ साधनान्तरमाहदेशान्तरेति । सत्यविनाश इति च द्रष्टव्यम् । ये त्विमामनुमानपरम्पराममृष्यमाणा दिशः प्रत्यक्षतामिच्छन्ति, विप्रतिपन्नं चानुमानेन बोधयन्ति, तन्मतमुपन्यस्यतिएके त्विति । दूषयतितच्च नेति । अरूपमात्मसुखाद्यपि प्रत्यक्षमिति शङ्कमानेन बाह्यकरणेनेत्युक्तम् । पृच्छतिकथं तर्हीति । उत्तरम्दिग्देशेति । अन्यथासिद्धतया अङ्गुल्या निर्देशस्य दिक्प्रत्यक्षत्वेन न स्वाभाविकः प्रतिबन्ध इत्यर्थः ॥ स्यादेतत् । अप्रत्यक्षायां दिशि दिग्देशसंबन्धिष्वित्येतदेव कुत इत्यत आहआदित्येनेति । तद्विभजनेप्राचीत्ययमिति । तत्पुनरिदं प्रत्यक्षमा चोदयाता चास्तमयाद्देशान्तरं सञ्चरणं मार्तण्डमण्डलस्य अनाकलितद्रव्यत्वे सतीत्यादिदण्डकानुमानानामिन्द्रियव्यापारान्तरमुपजायमानत्वात् । तत्र मा भूवन्नाकाशदिगादयः प्रत्यक्षाः, तथापि परितो विनिष्पतदतिविशदमयुखजालमध्यवर्तिनो हेलिमण्डलस्य त एव मयुखभागभेदाः प्रत्यक्षदेशा इति तेषां प्रत्यक्षाणां प्रत्यक्षेण सवितृमण्डलेन संयोगविभागाः प्रत्यक्षा भविष्यन्तीति युक्तम् । इदं त्वतिस्फुटतया नाभिधाय शिष्यव्युत्पादनायाक्षुण्णं मार्गान्तरं दर्शितमिति मन्तव्यम् । तदेवं रूपेण स्पर्शानुमानम्, शिंशपात्वेन श्रुतेन वृक्षत्वानु मानमित्यादि सामान्यतोदृष्टेन संगृहीतं वेदितव्यम् ॥ स्वमतेन व्याख्यान्तरमाहअथवा त्रिविधमिति । तद्धिभजतेप्रसिद्धमिति । पक्षैकदेशे सदपि सिद्धम्, पक्षव्यापकं तु प्रकर्षेण सिद्धमित्यर्थः । यद्यपि अविनाभावः पञ्चसु चतुर्षु वा रूपेषु लिङ्गस्य समाप्यते इत्यविनाभावेनैव सर्वाणिलिङ्गरूपाणि संगृह्यन्ते, तथापीह प्रसिद्धसच्छब्दाभ्यां द्वयोः संग्रहे गोबलीवर्दन्यायेन तत्परित्यज्य विपक्षव्यतिरेकासत्प्रतिपक्षत्वाबाधितविषयत्वानि संगृह्णाति । अत्रापि यथासंभवं चतुर्णां पञ्चानां वा रूपाणां लिङ्गेषु संबन्धः । तदनेन प्रबन्धेनानुमानवादिनां स्वरूपसंख्याफलविप्रतिपत्तयो निराकृताः । तत्र तत्पूर्वकमिति स्वरूपविप्रतिपत्तिः । अनुमानमिति समाख्यानिर्वचनसामर्थ्यात्फलविप्रतिपत्तिः । त्रिविधमिति न्यूनाधिकसंख्याव्यवच्छेदेन संख्याविप्रतिपत्तिर्निराकृता ॥ संप्रत्यान्तर्गणिकभेदानन्त्येनानन्त्यादनुमानस्याशक्यलक्षणमिति यदि कश्चिदनुमन्येत, तन्निराकरणाय त्रैविध्यमनुमानस्य उच्यते इति त्रिविधपदस्यतात्पर्यान्तरमाहअथ वेति । त्रिविधत्वेन यतो नियतमतः शक्यलक्षणमित्यर्थः । अनित्यः शब्दः कृतकत्वादिति सपक्षे सदेव । अनित्य शब्दोऽस्मदादिप्रत्ननान्तरीयकत्वादिति सपक्षे सदसत् । तदेतदन्वयव्यतिरेकि द्विविधम् । एवमन्वय्यपि द्वेधा । तत्र सपक्षे सदेव, यथा परमाण्वादयः कस्यचित्प्रत्यक्षाः प्रमेयत्वाद्घटादिवदिति । तथा सपक्षे सदसद्यथा तत्रैव साध्ये सत्त्वाद्घटादिवदिति । कालभेदः त्रैकाल्यम् । प्रतिपन्नोऽप्रतिपन्नः सन्दिग्धो विपर्यस्तश्चेति पुरुषभेदः । पूर्वं सिद्धवत्पूर्ववदित्यनूद्य तस्योदाहरणमुक्तम् । संप्रति प्रश्नपूर्वकं तदर्थाभासनिराकरणेन तात्त्विकमस्यार्थमाहपूर्ववदित्युक्तमिति । भाष्यव्याघात इत्यर्थः । पूर्ववदित्यस्य व्याख्यानं शेषवदित्यत्रापि योजयति । सामान्यतोदृष्टं च ज्ञानमतिदिशतिएवं शेषवदादिष्विति । अथवा पूर्ववदिति भाष्यम् । तस्यार्थः, पूर्वेण तुल्यं वर्तते इति पूर्ववत् । क्रियातुल्यतायां च वतिरिति क्रियातुल्यता दर्शिता । यत्रेति । पूर्वमन्यतरदर्शनेन सहान्यतरदर्शनं दृष्टान्तधर्मिणि, यथापूर्वं प्रत्यक्षभूतयोरिति प्रमाणमात्रोपलक्षणम् । एवं साध्यधर्मिणि अन्यतरधर्मदर्शनेन साधनधर्मदर्शनेनान्यतरस्य साध्यधर्मस्यानुमानमनुमिति दर्शनमिति भवति क्रियातुल्यता । तदेतत्भाष्यमनुभाष्य व्याचष्टेअथ वेति ॥ अत्र दिग्नागेन धूमादग्निरूपधर्मान्तरानुमानमग्निदेशयोः संबन्धानुमानं च दूषयित्वा अग्निविशिष्टदेशानुमानं समर्थितम् । तथा चाह केचिद्धर्मान्तरं मेयं लिङ्गस्याव्यभिचारतः । संबन्धं केचिदिच्छन्ति सिद्धत्वाद्धर्मधर्मिणोः ॥ लिङ्ग धर्मे प्रसिद्धं चेत्किमन्यत्तेन मीयते । अथ धर्मिणि तस्यैव किमर्थं नानुमेयता ॥ संबन्धेऽपि द्वयं नास्ति षष्ठी श्रूयेत तद्वति । अवाच्योऽनुगृहीतत्वान्न चासौ लिङ्गसंगतः ॥ न हि संबन्धधर्मतया लिङ्गं प्रतीयते, अपि तु देशसंगतमित्यर्थः, इति । तत्र लिङ्गस्याव्यभिचारस्तु धर्मेणान्यत्र दृश्यते । तत्र प्रसिद्धं तद्युक्तं धर्मिणं गमयिष्यति ॥िति । तत्र दिग्नागदूषितान् कल्पानन्यांश्च विकल्पान् दिग्नागसमर्थितं च कल्पमुपन्यस्य दूषयतिअन्ये पुनरिति धर्मधर्मिभावानुपपत्तेरिति । धर्मेण हि धर्मिप्रतिपत्तव्यः, अन्यथा अतिप्रसक्तेरिति भावः । देशस्य च स्वरूपेणेत्यर्थः । शङ्कतेअथापीदमिति । निराकरोतितच्च नैवमिति । यः कश्चिद्वा देशोऽग्निमान् साध्यो, धूमवान् वा देशभेदः? तत्र पूर्वस्विन् कल्पे निराकरणमाहअतद्धर्मादिति । यः कश्चिदग्निमत्तया देशः साध्यते न तस्यावश्यं धूमो धर्म इत्यर्थः । न चैतत्साध्यं सिद्धत्वादित्याहन चाग्नेरिति । द्वितीयं कल्पमाशड्तेअयमिति । निराकरोतिन, तस्येति, शङ्कां विभजतेदेशेति । निराकरणं विभजतेन ह्ययमिति । न ह्ययमेवंवादी दिग्नागो धूमाधारं देशविशेषं पश्यति । न ह्यस्य मते पर्वतो नाम कश्चिदवयवी यदाधारो धूम उपलभ्येत, किं तु परमाणवः परमसूक्ष्मा अतीन्द्रियाः पर्वतः । एवं धूमोऽपि तादृश एव । यथा वक्ष्यतिसर्वागहणं मवयव्यसिद्धेः ॰ २।१।३४ ॰ इति । येषामपि देशभेदोऽवयवी दर्शनार्हः, तेषामपि वियद्वर्तिनीं धूमलेखामभ्रंलिहामुपलभ्यानुपलब्धदेशानां नानुमानसंभव इति भावः । शङ्कतेअविनाभावेनेति । तदेव विभजतेअथापीति । निराकरोतितन्नेति । विकल्पयतिअग्निधूमयोरिति । कार्यकारणभावमालम्बतेअस्त्विति । दूषयतितन्नेति । धूमेन हि वह्निरनुमीयते, न च कार्यसत्ता निमित्तकारणसत्ताया व्याप्ता । न हि यदा यत्र वा पटः, तदा तत्र वा कुविन्दः । नाप्यसमवायिकारणसत्तया, न हि यदा यदा संयोगस्तदा कर्म । तस्मात्समवायिकारणाविनाभावः कार्यस्य वक्तव्यः । तत्रेदं दूषणमतद्वृत्तित्वादिति । एकार्थसमवायमविनाभावं दूषयतिनैकेति । एकार्थसमवाय इति हि द्वेधा, एकस्यार्थस्य समवायः, एकस्मिन् वार्थे समवाय इति । तत्र प्रथमं कल्पं दूषयतिताभ्यामिति । यदि हि वह्निमाभ्यामेकोऽर्थः कश्चितारभ्येत ततोऽसौ तयोः समवेयात्, न त्वेतदस्तीत्यर्थः । द्वितीयं कल्पं दूषयतिन च ताविति । तत्किमसंबद्धावेव वह्निधूमौ, तथा च प्रतीतिविरोध इत्यत आहसंबन्धमात्रमिति । संयोग इत्यर्थः । तदेव तह्र ॥ यवधार्यतामित्यत आहतदपीति । पृच्छतिकथमिति । उत्तरम्यदि तावदिति । कुरुते प्रयोगम् । अस्ति संबन्धोऽग्निधूमयोर्धूमादिति । दूषयतितन्नाप्रतीतत्वात् । तदनेनानैकान्तिकत्वं दर्शयति । संबन्धान्तरमाशङ्कतेरूपस्पर्शवदिति । न हि बौद्धराद्धान्ते द्रव्यं नाम किञ्चिदस्ति यत्र रूपस्पर्शै समवेतौ, किं त्वेकसामग्र्यधीनतया नियतसाहचर्यौ, तथा वह्निधूमावपि इत्यर्थः । दूषयतिनोभयोरिति । उभयसहाचर्यनिराकरणेन यत्र धूमस्तत्राग्निरित्यपि पराकृतम्, तस्यापि साहचर्यविशेषत्वादित्याहयत्र धूम इति । गत्यन्तराभावादुपसंहरतिन चेति । शङ्कतेलोक इति । निराकरोति नास्तीति । यत्र तावत्पर्वतनितम्बवर्तिनी धूमलेखा सन्ततमुद्गच्छन्ती दृश्यते, तत्रासौ देश एव तद्विशिष्टोऽनुमीयते इति लोकप्रसिद्धमेवेति किमत्र वक्तव्यम् । यत्र तु भूयिष्ठताया तस्य धूमस्य दूरत्वेन देशो न दृश्यते, धूम एव त्वम्रंलिहो लिम्पन्निव अभ्रमण्डलमवलोक्यते, तत्र देशानुमानप्रयासालसतया दृश्यमानो धूमविशेष एवाग्निमत्तया साध्यते धूमत्वैकार्थसमवायिभिः तद्गतैः संतत्येर्ध्वगमनादिभिरित्याहधूमविशेषेण इति । विशिष्यते तेनेति विशेषः संतत्यूर्ध्वगमनादिः । तेन धूममात्राद्वह्निव्यभिचारिणो वह्न्यविनाभावी धूमो विशेष्यत इत्यर्थः । शेषमतिरोहितार्थम् ॥ शेषवन्नाम परिशेषः । द्रव्यत्वकर्मत्वयोः शब्दे निराकार्यत्वेन उपयुक्तत्वात्ताभ्यामन्यद्गुणत्वं शेषः । स यस्यास्त्यनुमानस्य प्रतिपाद्यतया, तच्छेषवत् । तत्र न द्रव्यं शब्दः एकद्रव्यत्वात् । द्विविधमेव हि द्रव्यम्, अद्रव्यमनेकद्रव्यं च । अद्रव्यं परमाण्वादि, अनेकद्रव्यं च घटादि । शब्दस्त्वेकद्रव्यः । तस्मात्न द्रव्यं रूपादिवत् । न कर्म, शब्दान्तरहेतुत्वादिति । तदेतद्भाष्यमाक्षिपतिकर्मेति । परिहरतिनेति । अन्यमस्यार्थं दर्शयतिसमानजातीयारम्भकत्वादिति । यत्समानजातीयारम्भकं न तत्कर्म, यथा रूपादय इति । कार्यत्वात्तावत्शब्दः समवायिकारणवान् । तत्र च पृथिव्यादिनिषेधात्नभोऽस्य समवायिकारणम् । न चैष नभोव्यापकः सर्वत्र उपलम्भप्रसङ्गात् । तस्मादव्यापकः । कर्णशष्कुल्युपसन्निहितं च नभः श्रोत्रम् । ताल्वादिसंयोगोपधानेन च नभःप्रदेशे शब्दः समवेतः । प्राप्यकारि च श्रोत्रम् । न च वक्तृवक्त्रावरुद्धं नभःप्रदेशं तत्प्राप्नोति । न चाद्रव्यं शब्दो गत्वा श्रोत्रेण संबध्यते । तस्माद्वीचीतरङ्गरीत्या स्वदेशानन्तरदेशे शब्दान्तरारम्भणपरम्परया श्रोत्रदेशोत्पन्नं शब्दं गृह्णातीति सिद्धं सजातीयारम्भकत्वादिति । इदं तु परिशेषस्य उदाहरणं नादरणीयम् । व्यतिरेकिणो हि नामान्तरमिदं परिशेष इति । एष पुनरन्वयव्यतिरेकी द्रव्यकर्मान्यत्वे सति सदाद्यभेदस्य सपक्षे रूपादौ सत्त्वाद्, विपक्षे सामान्यादावभावात् । तस्मादात्मतन्त्रतासाधनमिच्छादीनां परिशेषोदाहरणं द्रष्टवयम् । तच्चानन्तरमेव वक्ष्यतीति ॥ सामान्यतोदृष्टं नामेत्यादि भाष्यमनुभाष्याक्षिपतिसामान्यत इति । कथं तर्हि अनुमानमत्र प्रवर्तते इति । नित्यपरोक्षेण सह कस्यचित्लिङ्गसय संबन्धादर्शनादित्यर्थः । व्याहतं चेति । स खल्वत्यन्तापरिदृष्टः स्वरूपतो वा साध्येत, दृष्टधर्मिविशेषणतया वा? तत्र पूर्वस्मिन् कल्पे नानुपलब्ध इति व्याघातः । उत्तरस्मिन् सन्दिग्ध इति, विशेषस्मृत्यपेक्षो हि संशयो नात्यन्तानुपलब्धपूर्वधर्मवत्तया क्वचिद्भवितुमर्हति । न खलु सप्तमरसवत्तया केचिद्द्रव्ये संशेरत इति भावः । समाधत्तेन विशेषणभूतस्येति । न तावत्स्वरूपेणानुमीयते येन नानुपलब्ध इति व्याहन्येत, किं तु दृष्टस्य धर्मिणो विशेषणतया । न चैवं सर्वानुमानाविशेषः । साध्यधर्मिण्यस्यास्मदादिभिः कदाचिदपि प्रत्यक्षेणानुपलम्भात् । तज्जातीयेन तु दृष्टान्तधर्मिणोर्दृष्टेन प्रत्यक्षतो वा मानान्तराद्वा साधनधर्मस्य स्वाभाविकप्रतिबन्धग्रहसंभादित्यर्थः । उदाहरणमाहयथेच्छादिभिरात्मा । तदेवं विभजतेइच्छादयः खलु धर्मिणो भवन्ति मानसप्रत्यक्षदृष्टाः, तेषामात्मा विशेषणम् । कुतः? गुणभूतोऽवच्छेदकतया यतः, तस्मादात्मविशिष्टा इच्छादयः साध्या इत्युक्तं भवति । साधनधर्मं तद्वर्तिनं दर्शयतिइच्छादीनां गुणत्वमिति । ननूक्तमनुपलब्धचरेण साध्यधर्मेण न संदेहविषयत्वम्, अनुपलब्धचरश्चात्मेति कथं तद्विशिष्टा इच्छादयो न्यायविषया इति शङ्कामुरीकृत्यत प्रयोगं सूचयतिपरतन्त्रा इति । मा तत्र सैत्सीदात्मपारतन्त्र्यम्, पारतन्त्र्यमात्रं तु सिद्धमित्यर्थः । तेन सामान्यतोदृष्टस्य पारतन्त्र्यमात्रविषयता, न पारतन्त्र्यमिच्छादीनामनुमेयात्मवादीनां कदाचिदप्यस्मदादिप्रत्यक्षगोचरः । परस्य तदाश्रयस्य नित्यपरोक्षत्वादिति ॥ तदेवं सामान्यतोदृष्टमुदाहृत्य परिशेपोदाहरणं पारमार्थिकं प्रश्नपूर्वकमादर्शयतिपारतन्त्र्येति । इच्छादीनो हि बाधकैरपनीते द्रव्याष्टकगुणत्वे गुणत्वमेव व्यतिरेकी हेतुः आत्मपारतन्त्र्ये प्रमाणम् । यद्यपि चायं स्वरूपेणात्मा न प्रसिद्धः, तथापि द्रव्याष्टकव्यतिरेकादिशब्दैरदूरविप्रकर्षेण परामृष्टः शक्नोति विशेष्टुं धर्मिणि च न्यायप्रवृत्त्यङ्गः संशयमापादयितुमिति निरवद्यम् ॥ अत्र भाष्यं विभागवचनादेव त्रिविधमिति सद्धि इति, तस्यार्थः, त्रिविधमिति विभागवचनादेव त्रिविधे पूर्ववदादौ सिद्धे किमर्थं पूर्ववदाद्युपादानं सूत्रेणेति । तत्र समाधानं त्रिविधवचनं त्रिविधस्य पूर्ववदादेर्वचनमुक्तिः । महतः त्रिविधस्य महाविषयस्य अतीतानागतवर्तमानविषयस्य लघीयसा सूत्रेण तत्पूर्वकमित्येतावतैवोपदेशे परं वाक्यलाघवं मन्यमानस्यान्यस्मिन् वाक्यलाघवेऽनादरः सूत्रकारस्येति शिष्यान् व्युत्पिपादयिषोः अत्रैव निदर्शनम्तथा चायम् । अस्य समाचारःित्थंभूतेन वक्यविकल्पेन वैचित्र्येण प्रवृत्त इति योजना ॥ एवं तावत्लक्षणभेदानुमानं भिन्नं प्रत्यक्षाद्दर्शितम् । भाष्यकारस्तु विषयभेदादपि भेदमाहसद्विषयं च प्रत्यक्षं सदसद्विषयं चानुमानम् । चो विषयभेदं समुच्चिनोति । सदिति वर्तमानम् । असदित्यतीतानागते । प्रत्यक्षं हि लौकिकं वर्तमानविषयमेव । अनुमानं तु त्रैकाल्यविषयम् । यद्यपि प्रत्यक्षमप्यतीतानागतयोः संप्रति निषेध्यनिषेधयोर्निषेधे प्रवर्तमानमसद्विषयं तथापि न प्रतिषेध्ययोः प्रवर्तते इत्येतावता सद्विषयमुक्तम् । अनुमानं तु तयोरपि प्रवर्तते इत्येतावता असद्विषयमुक्तम् । तदेतदाक्षिपतिसद्विषयं चेति । न ह्यनुपलब्धसामान्ये इति सामान्यत उपलब्धो विशेषतश्चानिर्णीतो धर्मो न्यायप्रवृत्तावधिक्रियते । न त्वनुपलब्धसामान्य इत्यर्थः । न चासतः स्वतन्त्रस्य सामान्येन दर्शनमस्तीति । द्वितीयं कल्पमाशङ्कतेअथेति । एतद्दूषयितुं धर्मत्रैविध्यमाहधर्मा इति । तद्विभजतेतत्रेति । पृच्छतिकथं पुनरिति । यदि हि स्वतन्त्रः समवायः, न तर्हि कस्यचिद्विशेषणम्, तथा च न विशेषणतया गृह्येतेति भावः । उत्तरम्समवायान्तराभावात् । न विशेषणत्वं स्वातन्त्र्येण निराकुर्मः, किं तु वृत्तिमस्येत्यर्थः । कस्मात्पुनरस्य न समवायान्तरमभ्युपेयत इत्यत आहअथेति । पृच्छतिकिमिदमिति । अनवस्थाप्रसङ्गो हि नाम तर्कः । नैष प्रमाणमन्तरेण निर्णयाय पर्याप्त इत्यर्थः । उत्तरम्न संदेहः, किं त्वस्त्येव न्यायः । तमाहपञ्चेति । अयं पञ्चपदार्थवृत्तिशब्दो बहुव्रीहिणा परमाणौ वर्तते, षष्ठीसमासेन तु समवाये । न च कथञ्चित्शब्दाभेदमात्रमनुमानाङ्गम्, मा भूद्गोशब्दसाम्येन वागादीनामपि विषाणित्वमित्यपरितोषात्न्यायान्तरमाहअनाश्रितः समवाय इति । इह बुद्धिनिमित्तत्वं कारणत्वम् । संयोगेनानैकान्तो मा भूदित्यत उक्तम्व्यापकत्वे सतीति । सत्युपलब्धिकारणान्तरसमवधाने सर्वत्रोपलभ्यता व्यापकत्वम् । तच्चेह प्रत्ययकारणे आत्मानि च समवाये चाविलक्षणमिति । न्यायेतिकर्तव्यताभूतं तर्कं पृच्छतियदि पुनरिति उत्तरम्कार्यमिति । उक्तमनवस्थाप्रसङ्गमवतारयितुमनाधारत्वप्रसङ्ग उक्तः ॥ स्यादेतत् । भवतु वृत्तेः प्रागनाश्रितं कार्यं पश्चात्समवैष्यति, तुरीसंयुक्तेभ्य इव तन्तुभ्य उत्पद्य पटः पश्चात्तुर्या इत्यत आहसमवायश्चेति । अनवस्थाप्रसङ्गः पूर्वोक्त इत्यर्थः । शङ्कतेप्राप्तित्वादिति । प्रमाणवत्त्वात्प्राप्ता समवायस्य वृत्तिर्न शक्या अनवस्थाभिया परित्यक्तुमित्यर्थः । विमर्शपूर्वकं शङ्कां निराकरोतिकिमियमिति । संयोगे प्राप्तित्वस्य निवृत्त्या स्वाभाविकः संबन्धः कार्यत्वस्योपाधेः तत्प्रयोजकस्य विद्यमानत्वादित्यर्थः । अथ प्राप्तिधर्मोऽपि कस्मात्न भवतीत्यत आहयदि पुनरियमिति । नन्वियमनवस्था कस्माद्बीजाङ्गुरादिष्विवेहापि नाभ्युपेयते इत्यत आहन चैनामनवस्थामिति । अनिदंप्रथमेष्वनादित्वात्शक्या प्रतिपादयितुमनवस्था प्रमाणेन, न त्विदंप्रथमेष्वादिमत्त्वेन तस्याशक्यनिश्चयत्वात् । तदिदमुक्तम्प्रमाणाभावादिति । शास्त्रविरोधश्च समवायान्तराभ्युपगम इत्याहसमवायश्चेति । तत्त्वमेकत्वं समवायस्य भावेन सत्त्वया व्याख्यातमिति शास्त्रमाह, तदनेकत्वमुपपादयता बाध्येतेत्यर्थः । चोदयतिसंबन्धिनिवृत्ताविति । तथा च विनश्यति, विनष्टे च तस्मिन् यो दृश्यते स ततोऽन्य उत्पन्न इति सिद्धं समवायस्य नानात्वमित्यर्थः । परिहरतिन नास्तीति । ख्यातिरूपलब्धिः । कस्मात्? अकृतकत्वात् । अकृतकत्वमेव कुत इत्यत आहअकृतक इति । कार्य स्वापादानेन अकृतकसंबन्धवदाधारवत्त्वादिति व्यतिरेकी हेतुः । व्यतिरेकाव्यभिचारमाहयद्ययमिति । उत्पद्यमानः खल्वयं समवायः सहकार्येण, न कार्यस्य । न हि सहोत्पन्नौ रूपस्पर्शौ मिथः संबध्येते । एकार्थसमवायस्तु तयोः । सोऽपि समवाये नास्ति । सन्नप्यसौ न कार्यमाधारवत्करोति । तस्मात्सहोत्पादे कार्यमनाधारं स्यादिति । शङ्कतेअथेति । कार्यात्पूर्वमुत्पन्नः समवायः पश्चादुत्पद्यमानं कार्यमुपादानाधारकं करिष्यति कार्यहेतुबलादित्यर्थः । निराकरोतितथापीति । त्रिभ्यो हि कारणेभ्यः कार्यं भावरूपं जायते । कार्यकारणसमवायस्य च कार्यकारणे समवायिकारणे वक्तव्ये, कार्यात्प्राग्जातस्य च समवायस्य न कार्यं कारणम् । न च निमित्तकारणमात्रादस्य जन्मेति सांप्रतम्, भावोत्पादस्य सर्वत्र कारणत्रयपूर्वकत्वनियमात् । तस्मात्समवायस्य समवाय्यसमवायिकारणाभावत्न कार्यात्प्रागुत्पाद इति सुष्ठूक्तम्तथापि कस्येति वाच्यमिति । शङ्कतेअथेति । दूषयतिकार्येति । न च पटतुरीसंयोगवत्समवायस्य पश्चात्कार्यकारणसमवाय इति युक्तम् । संयोगजस्य संयोगस्य कारणत्रयसंभवादस्य तु समवायान्तरमन्तरेण कारणत्रयायोगात् । अन्यथानवस्थाप्रसङ्गादिति भावः । उपसंहरतितस्मादिति । ततश्च न ज्ञायते किमभिप्रेत्यत असद्विषयमित्युक्तमित्याक्षेप इति । समाधत्तेतत्र प्रतिषिध्यमानेति । अतीतानागते संप्रति प्रतिषिध्यमाने तद्विषयमनुमानमसद्विषयमुक्तम् । तन्निषेधस्तु भवतु प्रत्यक्षगोचरः, तथापि सिद्धो विषयभेद इत्यर्थः । अत्र चैष धर्मत्रैविध्यक्रमो द्वेधा तावत्, विधीयमानः प्रतिषिश्यमानश्च । विधीयमानोऽपि द्वेधा, परतन्त्रः स्वतन्त्रश्चेति । स्वतन्त्रस्य च धर्मत्वं विशेषणत्वमात्रविवक्षया द्रष्टव्यम् । ननु विधीयमानोऽप्यसन् प्रत्यक्षश्च क्वचित् । यथा व्याप्रियमाणे कुलाले जायमानो घटः । विस्फारिताक्षो हि तदा घटो भवतीति प्रत्येति । न चासौ तदा सन्, सतो भवनं प्रत्यकर्तृकत्वात्, गमनवदिति शङ्कतेभवतीति । निराकरोतिन, जायमानेति । जायमानस्यार्थस्य विधिविषयस्य सत्तयासत्तया वानभ्युपगमात् । निषेधविषयतया तु तस्यासत्त्वमभ्युपेयत एवेति । कस्तर्हि भवतिशब्दस्यार्थ इत्यत आहभवतीति । धटो जायत इति तु लौकिकः प्रयोगो घटशब्दं घटार्थेषु तदवयवेषूपचर्य तेषां च सिद्धतया कर्तृत्वादुपपादनीय इति । उपसंहरतिएवं तावदिति ॥ स्वलक्षणं समाधाय परेषामनुमानलक्षणं दूषयितुमुपन्यस्यतिअपरे त्विति । तस्यार्थमाहअस्यार्थ इति । दूषयतिअत्रेति । यथासंभवं समासं विकल्प्य दूष्यतिनान्तरीयकार्थ इति चेति । सत्त्वं विधिविषयज्ञानगम्यत्वम्, न तु सामान्यम् । सत्त्वादिभिरनित्यत्वानान्तरीयकैः तन्नान्तरीयककृतकत्वधर्मैरनित्यत्वानुमानं स्यात्, न च शक्यम्, तेषामाकाशादिषु नित्येषु व्यभिचारादित्यर्थः । तथाप्यसमर्थः समास इति । पूर्वमर्थातिरेकमात्रं दूषणमुक्तम् । संप्रति त्वर्थातिरेकेण हेतुना विशेषणसमासानुपपत्तिरित्यपौनरूक्त्यम् । विशेषणं विशेष्येण बहुलम् ॥ इत्यत्र विशेषणपदोपादादमात्रेण वा विशेष्यपदोपादानमात्रेण वा अन्यतरस्यार्थात्प्राप्तेरूभयपदोपादानस्यैतत्प्रयोजनम्यत्रोभयोः प्रत्येकं व्यभिचारः समुदाये त्वव्यभिचारः, तत्र समासो यथा स्यादिति । स चात्र नास्तीति समासानुपपत्तिरित्यर्थः । सामर्थ्यं प्रयोजनाभिसंबन्धः । चोदयतिएकपदेति । परिहरतिअत्रापीति । प्रधानं व्यक्तिर्विशेष्यत्वातङ्गं जातिर्विशेषणत्वात् । पृथिवीत्युक्ते भवति संशयः, किं पृथिवीत्वं सामान्यमस्य विवक्षितं यथा पशुना यजेत इति, किं वा तद्विशेष्यं द्रव्यम्, ग्रहं संमार्ष्टीति । अत्रेदमुपतिष्ठतेद्रव्यमिति । तद्धि पृथिवीत्वात्सामान्यविशेषात्पृथिवी व्यवच्छिनत्ति । एवं द्रव्यमित्यप्युक्ते द्रव्यत्वं वा सामान्यं व्यक्तिर्वेति विमर्शे पृथिवीत्येतदुपतिष्ठते । न द्रव्यत्वं सामान्यं किं तु पृथिवी । न च द्रव्यत्वपृथिवीत्वयोः सामानाधिकरण्यमस्ति । न हि भवति पृथिवीत्वं द्रव्यत्वमिति । तस्मात्सामानाधिकरण्यसंभवात्प्रधानैकव्यक्तिलाभः । इह त्वर्थो नान्तरीयकत्वं व्यभिचरति । नान्तरीयकत्वं तु नार्थम् । न ह्यस्ति संभवो नान्तरीयकश्च स्यात्न चार्थ इति, नान्तरीयकशब्दवाच्यस्यानभिधेयत्वासंभवात् । वस्तुवचनत्वेऽप्यर्थशब्दस्य लक्ष्यासंभवादविषयं लक्षणम्, न हि दिग्नागस्य मते किञ्चिदस्ति वस्तु यन्नान्तरीयकं सद्धेतुर्भवति । यथाह सर्वोऽयमनुमानानुमेयभावो बुद्ध्यारूढेन धर्मधर्मिभावेन न बहिः सदसत्त्वमपेक्षते इति । अव्यापकं च, न हि वस्त्वेव नान्तरीयकमसतोऽपि नान्तरीयकत्वादिति भावः ॥ दूषणान्तरमाहतद्विद इति चेति । नान्तरीयकदर्शनमित्युच्यमाने शब्दसामर्थ्यादेव लभ्यते नान्तरीयकत्वविशिष्टार्थदर्शनमिति, सति संभवे शब्दार्थपरित्यागाभावात् । अतस्त्रिरूपलिङ्गदर्शनस्य सिद्धेः किमपरमवशिष्यते यदवरोधाय तद्विद इत्युपादीयते इत्यर्थः । एतदेव व्यतिरेकमुखेन निरूपयतिन हीति । एतल्लक्षणदूषणं लक्षणान्तरे अप्यतिदिशतिएतेनेति । पृच्छतिक इति । न ह्यस्मिन् लक्षणे तद्विद इत्यस्ति, तेन तदतिरिच्यते इति भावः । उत्तरम्यथेति । तेषामुदाहरणं दूषयतिउदाहरणमिति । तदनेन दिग्नागस्य लक्षणं दूषयित्वा अन्येषां लक्षणं दूषितम् ॥ संप्रति दिग्नागस्य स्वकीयलक्षणप्रपञ्चार्थं वाक्यमनुमेयेऽथ तत्तुल्य इत्याद्युपन्यस्य दूषयतिअपरे त्विति । अनन्तरलक्षणकारमपेक्ष्यापर इत्युक्तम् । चोदयतिअनुमेय इति । न हि योऽनुमेये संश्चासंश्च स शक्यः सन्निति वक्तुम् इत्यर्थः । समाधत्तेनाप्रसङ्ग इति । यद्येवं स्यातद्यो विपक्षे द्वेधा स विपक्षावृत्तिरिति हेतुरेव स्यात्न सव्यभिचार इत्यर्थः । पुनश्चोदयतिन कर्तव्य इति । कुतः? अवधारणात्निवृत्तेः । अनुमेये सद्भाव एवेत्यवधारणेनानुमेये सद्भावस्य नियतत्वात्कुतः पक्षैकदेशवृत्तेः प्रसङ्ग इति भावः । एवन्निराकर्तुं यथासंभवं विकल्पयतिअनुमेये इति । तत्र पूर्वकल्पस्य तात्पर्यं विकल्पयतिकिं पुनरनेनेति । असंभवः अत्यन्तासंभवो निराक्रियते, यथा नीलं सरोजं भवत्येव नात्यन्तं न भवतीति गम्यते, न तु नीलमेव सरोजं नानीलमिति, नापि सरोजमेव नीलं नान्यदिति । अथ संभव इति । अन्वयपरो न व्यतिरेकपर इत्यर्थः । एतद्विकल्पद्वयं दूषयतिउभयथा चेति । दूषणान्तरं चाहन चैकदेशवृत्तिरिति । न ह्यत्यन्तायोगव्यवच्छेदेनायोगो व्यवच्छिन्नो भवति, नापि संभवमात्रविधानेनासंभवो व्यवच्छिन्नो भवति । ततश्चयोगाव्यवच्छेदादेकदेशवृत्तिरनुमानाभासो न व्यवच्छिन्न इत्यर्थः ॥ स्यादेतत् । विशेष्यसंगतोऽयमेवकारोऽनुमेय एव संभवति । यथा पार्थ एव धनुर्धर इति । न चायमन्ययोगव्यवच्छेदो विनैवकारं लभ्यते । तस्मात्न व्यर्थमवधारणमित्यत आहौत्तरपदबाधा च । न ह्यस्ति संभवोऽनुमेय एवास्ति तत्तुल्ये चेति । तस्मात्तत्तुल्य इत्यस्य बाधा । चकारो नैकदेशवृत्तिर्निराकृत इति दूषणं समुच्चिनोति ॥ अनुमेय एव सद्भाव इति पक्षं यथासंभवं दूषयित्वा अनुमेये सद्भाव एवेति द्वितीयं पक्षं दूषयितुमुपन्यस्यतिअथोत्तरमिति । तस्य प्रयोजनं दशयतितस्य वयाप्तिरित्यर्थः । सद्भाव एवेति किल विशेषणसंगतमवधारणमयोगमव्याप्ति व्यवच्छिन्दत्व्याप्ति दर्शयति । तथा च व्याप्तिरस्यार्थ इत्यर्थः । दूषयतितथाप्यनुमेयमवधारितं संभवस्य व्याप्त्या न धर्मः सद्भावः । हेतुमाहयत एवकारकरणं ततोऽन्यत्रावधारणमिति । मा वधारि सद्भावोऽवधार्यतां चानुमेयम् । किमेतावतापीत्यत आहसंभवव्याप्त्या चेति । अनुमेयं खल्ववधारितं सद्धेतुसंभवं परित्यज्य नान्यत्र वर्तते, ततश्चानुमेयं हेतुसंभवव्याप्त्यावधारितं भवति । हेतुसंभवस्त्वनवधारितः सर्वत्रैव तत्तुल्ये च विपक्षे च प्रसृतः । स च कश्चित्तत्तुल्यविपक्षौ व्याप्नोति, कश्चित्तदेकदेशवृत्तिः । तदस्य हेतुसंभवस्य विपक्षेऽपि प्रसक्तस्य प्रतिषेधाय युक्तमसति नास्तीति । तत्तुल्ये तु प्रसक्तमप्रतिषिद्धमनुमतमेवेति तत्तुल्ये सद्भाव इति व्यर्थमित्यर्थः ॥ स्यादेतत् । तुल्यहेतु सद्भावसिद्धावपि तत्तुल्ये व्याप्त्या होतोः सद्भावो भवत्वित्येतदर्थं तत्तुल्ये सद्भाव इति वचनमित्यत आहतत्तुल्ये चेति । यदि पुनर्व्याप्तिर्विवक्ष्येत कृतकत्वे साध्ये प्रयत्नानन्तरीयकत्वं न हेतुः स्यात् । न ह्ययं सपक्षव्यापक इति भावः । देशयतिअथ तत्तुल्ये इति । दूषयितुं विकल्पयतिकिं पुनरत्रेति । पूर्वस्य विरोधाद्बाधनम्, उत्तरस्य पौनरूक्त्यादिति । पूर्वपदेन सह विरोधे निदर्शनमाहन हि भवतीति । अनुमेये सद्भाव इत्यनेनानुमेये वृत्तौ हेतार्लब्धायां तत्तुल्य एव सद्भाव इति समुच्चीयमानावधारणं विपक्षमात्राद्वृत्ति व्यवच्छिनत्ति, न त्वनुमेयात्, नरं च नारायणमेव चादौ स्वतः सुतौ द्वौ जनयां बभूव । इति यथेति चेदत आहतथेहापीति । समुच्चीयमानावधारणे हि तत्तुल्येन यथान्ययोगव्यवच्छेदेनैवकारः संबध्यते तथानुमेयेनापि संबध्येत । तथा चानुमेयैकदेशवृत्तिरपि हेतुः स्यात् । न खलु नरं च नारायणमेवेति निपातो नारायणेन सहान्ययोगव्यवच्छेदेन संबध्यते, नरेण चायोगव्यवच्छेदेनेति भावः । अथावधारणस्यावैचित्र्येण संबन्धमिच्छता अनुमेये यथायोगव्यवच्छेदः, तथा तत्तुल्येऽयोगव्यवच्छेदेन संबन्ध उच्येतेति शङ्कतेअथ तत्तुल्य इति । निराकरोतितत्तुल्य इति । तदेव विस्तारयतिस इति । ते तव दर्शने इत्यर्थः । न च यस्यानुमेये सद्भाव एवेत्यनूद्य तत्तुल्य एव सत्त्वमिति विधातुं शक्यम् । न ह्यनुमानं शक्यं विशेष्टुम्, तथा सति तद्विशेषणाय प्रयत्नान्तरास्थाने सति वाक्यभेदप्रसङ्गात् । यथा, यस्योभयं हविरार्त्तिमार्च्छेदैन्द्रं पञ्चशरावमोदनं निर्वपेत् । इत्यत्र हि यद्यपि स्वरूपेणार्तेरशक्यप्रतिपत्तित्वेन हविषा विशेषणं मृग्यते, तथापि न शक्यं हविरूभयत्वेन विशेष्टुं विना प्रयत्नान्तरादिति वाक्यभेदभिया प्रतीयमानमपि उभयत्वमविवक्षितम्, एवमात्राप्यनुमेय इत्यविवक्षितम् । अथ तद्विवक्षयैव वाक्यभेदमभ्युपेत्य पश्चाद्वाक्यैकवाक्यतया अभिमतार्थसिद्धिरास्थीयते । न च विरोधाद्वाक्ययोरेकवाक्यता विरहः । तत्तुल्य एवेत्यन्ययोगव्यवच्छेदस्य विपक्षमात्रविषयत्वेनाप्युपपत्तौ विरोधासिद्धेः । तस्मातन्यापोहार्थत्वात्पदानां विरोधो वक्तव्यः । तथा हि अनुमेये सद्भाव इत्यत्रानुमेय एव नाननुमेये, सद्भाव एव नासद्भाव इति पदार्थः । तथा च तत्तुल्यविपक्षयोर्हेत्वभावो दर्शितः । एवं तत्तुल्ये सद्भाव इत्यत्रापि तत्तुल्य एव नातत्तुल्ये, सद्भाव एव नासद्भाव इति पदार्थः । तथा चानुमेयेऽसद्भाव इत्युक्तं भवति । न चानुमेयतत्तुल्यपदार्थयोः परस्परपरिहारवतोः समुच्चयसंभवः । द्वयोरपि विपक्षव्यावृत्तिमात्रपरत्वात्परस्परसमुच्चयसद्भाव इति चेत्न, वृक्षो गौरित्यनयोरपि हस्त्यादिनिवृत्तिमात्रपरत्वेनाभिन्नार्थयोः सामानाधिकरण्यप्रसङ्गात्, तस्माद्विरोधात्समुच्चीयमानावधारणं न युक्तमिति । न च समुच्चीयमानावधारणं दिग्नागो मेने, यदेवमूचे वैशेषिकलक्षणदूषणावसरे यदि रूपमेव चाक्षुषं ततो न द्रव्यं चाक्षुषं स्यात् । तथा च महदनेक्रद्रव्यसमवायाद्रूपाच्चोपलब्धिः ॰ वै. सू. ८।१।६ ॰ इति द्रव्यचाक्षुषत्वाभिधानं व्याहन्येतेति ॥ अत्र हि रूपवद्द्रव्यसहितं रूपमेव चाक्षुषं न गन्धरसादीति शक्यं समुच्चीयमानावधारणम् । तस्मात्समुच्चीयमानावधारणाभिधानं कीर्तेः स्वातन्त्र्येण । तच्चायुक्तमिति कृतं विस्तरेण ॥ असति नास्तितेति दूषयतिअसतीति । कस्मात्? यदसत्तत्तुच्छं स्वयमेव नास्ति, तन्न सदिति शक्यं व्यवहर्तुमसदिति वा । भवतु, तथापि कस्मात्तस्मान्न हेतोः व्यावृत्तिर्भवतीत्यत आहन ह्यसदिति । यथा चैतत्तथा अन्वयिहेतूपपादनावसरेऽस्माभिरूक्तम् । स्वरूपेण दूषयित्वा एतद्गतमवधारणं दूषयिष्यन्ननूद्य विकल्पयतिकिमवधार्यत इति । प्रथमं कल्पं दूषयतियदि तावदिति । तत्तुल्य एव सद्भाव इत्यनेन गम्यत इत्यर्थः । द्वितीयं कल्पं दूषयतियदि तावदिति । तत्तुल्य एव सद्भाव इत्यनेन गम्यत इत्यर्थः । द्वितीयं कल्पं दूषयतिअथ पुनरिति । गौरयं विषाणीत्वादित्ययं हेतुर्विपक्ष एव नास्ति, पक्षसपक्षव्यापकत्वात् । न तु नास्त्येव, विपक्षैकदेशे महिषादौ वृत्तेः । अतो विपक्ष एव नास्ति इत्ययमपि हेतुः स्यादिति । तदेवमवयवार्थं दूषयित्वा समुदार्यार्थं दूषयितुमुपन्यस्यतियदप्येकद्विपदपर्युदासेनेति । तत्रैकपदपर्युदासेन त्रयः पक्षाः, द्विपदपर्युदासेनापि त्रय इति पट्कम् । तत्पर्युदासेन सप्तिकापरिग्रहः । यथानुमेये सद्भाव इत्युच्यमाने यस्य तत्तुल्ये नास्तिता विपक्षे च वृत्तिः सोऽपि हेतुः स्यात्यथा नित्यः शब्दः कृतकत्वादिति । तत्तुल्ये अस्तीत्युच्यमाने विपक्षवृत्तेरपक्षधर्मस्य च हेतुत्वं स्यात्, यथा नित्यः शब्दः चाक्षुषत्वात्सामान्यवदिति । नास्तितासतीत्युच्यमाने योऽपक्षधर्मस्तत्तुल्ये च नास्ति स हेतुः स्यात्यथा नित्यः शब्दोऽसत्त्वात् । अनुमेये तत्तुल्ये चेत्युच्यमाने, अनित्यः शब्दः प्रमेयत्वादिति विपक्षवृत्तिर्हेतुः स्यात् । अनुमेयेऽस्त्यसति च नास्तीत्येतावत्युच्यमाने नित्यः शब्दो जातिमत्त्वे सति श्रावणत्वादित्ययं तत्तुल्यवृत्तिहीनोऽपि हेतुः स्यात् । तत्तुल्येऽस्ति असति च नास्तीत्येतावत्युच्यमाने अनित्याः परमाणवः कृतकत्वादित्ययमपक्षधर्मो हेतुः स्यात् । तदेतत्सर्वं मा भूदिति समुदायोपादानप्रयोजनम् । तदेतद्दूषयतिएतदपीति । सपक्षव्याप्त्यव्याप्तिभ्यां द्विरूपयुक्तस्यान्वयिनो द्वित्वम् ॥ संप्रति सांख्यीयमनुमानलाणं दूषयतिएतेनेति । संबन्धोऽविनाभावः साधनस्य साध्येन । तस्मात्प्रत्यक्षाद्दृढतरप्रमाणावधारितात् । तथापि यत्राविनाभूते लिङ्गे भवत एकस्मिन् धर्मिणि विरूद्धाव्यभिचारिणी, तयोरपि हेतुत्वं प्रसज्येतेत्यत उक्तमेकस्मादिति । शेषस्य अनुमेयस्य सिद्धिः । अनुपपन्नत्वमात्रसाम्येनोक्तं मेतेन न प्रयुक्तमिति । अनुपपत्ति पृच्छतिकथमिति । यथासंभवमनुपपत्तिमाहन हीति । यदि प्रत्यक्षशब्दो ज्ञानवचनः ज्ञानं चैकत्वेन विशिष्यते, तदैतद्दूषणम् । अथ संबन्धविशेषणमेकस्मादिति, प्रत्यक्षशब्दश्च ज्ञाये न तु ज्ञाने, तदेतदुपन्यस्य दूषयतिअथापि संबन्धादिति । शङ्कतेअथेति । संबन्धस्य प्रत्यक्षतोक्ता पूर्वम्, न त्वनुमानकाल इत्यर्थः । दूषयतितथाप्युपलब्धसंबन्धस्य पूर्वमनुमानकाले चानुपलब्धलिङ्गस्यानुमानं प्रसज्येतेति । स्यादेतत् । संबध्यते इति व्युत्पत्त्या संबन्धो लिङ्गम् । तेनाविनाभूताद्धेतोः प्रत्यक्षादेकस्मादनुमेयसिद्धिरिति । तथा च गृहीताविनाभावात्लिङ्गात्संप्रति प्रत्यक्षादित्युपपन्नमित्यत आहन चान्या गतिरस्ति । अत्रापि व्याख्याने एकस्मादिति व्यर्थम् । तथा हि अन्वयव्यतिरेकमात्रसंपत्तिरविनाभाव इत्युच्यते, सर्वरूपसंपत्तिर्वा? तत्र प्रथमे कल्पे मा भूद्विरुद्धाव्यभिचारी, बाधितविषयस्तु हेतुः स्यात् । द्वितीये तु कल्पे न सर्वरूपसंपन्नो हेतुर्विरुद्धाव्यभिचारी संभवतीत्येकस्मादिति अतिरिच्यते । तस्मात्सुष्ठूक्तम्न चान्या गतिरस्तीति । अव्यापकत्वं लक्षणदोषमाहरूपेण चेति । न तावदनयोः तादात्म्यम्, भिन्नेन्द्रियग्राह्यत्वाद्मिन्नबुद्धिबोध्यत्वाच्च । न चातदात्मनोरनयोः संबन्धः कश्चिदुपलभ्यते । न च प्रतिक्षणपरिणामवादे कुण्डवदरादीनामपि कश्चिदस्ति संबन्ध इत्यपि द्रष्टव्यम् । शङ्कतेअथेति । निराकरोतिसोऽपीति । न हि सांख्यानां बौद्धानां वा राद्धान्तेऽस्ति संबन्धः समवायो नाम् । नापि तदाश्रयो द्रव्यम् । नापि तदाश्रयो द्रव्यम् । अतः स्वदर्शनव्याघात इत्यर्थः । यद्युच्येत प्राधानिकत्वाद्रूपादीनां प्रधानमेकमाश्रयः, तथा च यत्र रूपं तत्र स्पर्श इत्यत आहयत्र रूपमिति । कुतः? न क्वचिदति । न हि प्रधानमाधारः कार्याणाम्, अपि तु प्रधानात्मकत्वमेषामिष्यते, तथा च यत्र तत्रेत्यनुपपत्तिः । न च तादात्म्यमित्यप्युक्तम् । न च भेदाभेदावेकत्र संभवतो विरोधादिति भावः । शङ्कतेपरस्परेति । यथा ह्यासन्दिकाङ्गानि भिन्नान्यनौत्तराधर्यव्यवस्थितान्यपि परस्पराश्रयतया न पतन्ति, एवं रूपस्पर्शावपि परस्पराश्रयावित्यर्थः । निराकरोतिपरस्पराधारभावेऽपि अन्यत्रासन्दिकाङ्गादौ, नासौ रूपस्पर्शयोः । कुतः? न रूपं स्पर्शो रूपे इति । परस्परसंयोगभेदप्रतिबद्धगुरुत्वानि आसन्दिकाङ्गानि अपतन्ति स्थितानि परस्पराधारत्वेनापदिश्यन्ते । रूपस्पर्शादीनां तु स्थितिर्न परस्परहेतुका, अपि तु भोगापवर्गलक्षणपुरुषार्थहेतुकेति भावः । एतेन साङ्खानां सप्तविधः संबन्धः प्रत्युक्तः । शेषं सुबोधम्॥५ ॥ ____________________________________________________________________ ण्य्ष्_१,१.६ प्रसिद्धसाधर्म्यात्साध्यसाधनमुपमानम् ॥ विभागसूत्रे अनुमानानन्तरमुपमानस्योद्देशाद्यथोद्देशं च लक्षणादनुमानलक्षणानन्तरमुपमानलक्षणमाहअथोपमानमिति भाष्यम् । सूत्रं पठतिप्रसिद्धसाधर्म्यात्साध्यसाधनमुपमानम् । अत्रापि यत इत्यध्याहार्यम् । सिद्धिः साधनम् । तदेतद्भाष्यकारेण व्याख्यातम् । प्रज्ञातेन प्रसिद्धेन । गवा साधर्म्यात्सामान्याद्गवयस्य । साधर्म्यं च सामान्यमभिदधता न सामान्यातिरिक्तं सादृश्यं नाम पदार्थान्तरमस्तीत्युक्तं भवति । साधर्म्यं चाप्रसिद्धं न साध्यसाघनायालमिति साधर्म्यप्रसिद्धिरपि द्रष्टव्या । सा च यथा गौस्तथा गवय इत्याप्तवाक्यात् । तदिदमुक्तम्यथा गौरिति । साध्यसाधनपदव्याख्यानम्प्रज्ञापनीयस्य गवयशब्दवाच्यतया प्रत्यक्षदृश्यमानगोसादृश्यस्य गवयत्वसामान्यविशेषवतः पिण्डस्य प्रज्ञापनमुपमानम् । पिण्डस्य हि गवयशब्दवाच्यतां पुरुषोऽतिदेशवाक्यस्मरणसहकारिणः प्रतयक्षाद्गवयगताद्गोसादृश्यात्प्रजानन् तेन प्रज्ञाप्यत इति प्रमाणस्य व्यापारः प्रज्ञापनमुक्तमिति । तत्र वार्त्तिककारः प्रथमं तावत्सूत्रतात्पर्यमाहसूत्रार्थः पूर्ववत् । समानासमानजातीयव्यवच्छेद इत्यर्थः । साध्यसाधनमित्युच्यमाने प्रत्यक्षादिसाधनेषु सुखदुःखसाधनेषु प्रसङ्गः । अत उक्तं प्रसिद्धसाधर्म्यादिति । यद्यपि प्रसिद्धसार्म्यमुपमानमित्युच्यमाने प्रमाणविशेषाभिधाय्युपमानपदसामानाधिकरण्यात्करणत्वलाभः, तथापि तदाभासनिराकरणाय साध्यसाधनपदोपादानम् । तेनोपमानाभासमपाकृतं भवतीति ॥ अवयवार्थं विभजतेप्रसिद्धेति । वार्त्तिककारेण बहुव्रीहिद्वयसंभवो दर्शितः, न तु तृतीयासमासो भाष्यकारीयो निरस्तः । भाष्यकारेण हि संज्ञितया गवयप्रतिपत्तिः फलं साध्यसाधनपदवाच्यमुक्ता, आक्षिप्तप्रयोज्यव्यापारत्वात् । प्रयोजकव्यापारस्य प्रज्ञापनस्य पश्चात्निष्कृष्याभिधानं कृतम्समाख्यासंबन्धप्रतिपत्तिपत्तिरूपमानार्थ इति । एतदेव साध्यसाधनपदार्थतया वार्त्तिककारो व्याचष्टेसमाख्यासंबन्धप्रतिपत्तिरूपमानार्थः फलम् । साध्यशब्देन समाख्यासंबन्ध उच्यते । तस्य साधनं सिद्धिः प्रतिपत्तिरिति । ननु प्रतिपद्यतामयं गोसादृश्ययुक्तं गवयम् । समाख्यासंबन्धप्रतिपत्तिस्तु कुतस्त्या? न हि यो यत्सदृशं यं प्रतिपद्यते, स तस्य समाख्यामप्यवगच्छति इत्याशयवान् पृच्छतिकिमुक्तं भवति । उत्तरमागमेति । आगमानुभवाहितात्संस्कारात्स्मृतिः । एतदुक्तं भवति, न केवलं सारूप्यज्ञानं समाख्यासंबन्धप्रतिपत्तिहेतुः, अपि त्वागमार्थस्मृत्यपेक्षमिति । नन्वसत्यागमानुभवे कुतः स्मृतिरित्यत आहयदा ह्यनेनेति । प्रसिद्धसाधर्म्यादित्यत्र प्रसिद्धिरूभयी श्रुतमयी प्रत्यक्षमयी च । श्रुतमयी यथा गौरेवं गवय इति । प्रत्यक्षमयी च यथा गोसादृश्यविशिष्टोऽयमीदृशः पिण्ड इति । तत्र प्रत्यक्षमयी प्रसिद्धिरागमाहितस्मृत्यपेक्षा समाख्यासंबन्धप्रतिपत्तिहेतुः । यद्यपि यथा गौरेवं गवय इत्येतस्मादपि गोसदृशस्य गवयशब्दः समाख्येति शक्यमवगन्तुम्, न खलु प्रत्यक्ष एव संज्ञाकर्म, समानजातीयव्यवच्छिन्ने हि तद्भावति । तच्च यदि मानान्तरेणापि तथावगम्यते, कस्तत्र संज्ञाकर्म निवारयेत्? गोसादृश्येन चोपलक्षितः पिण्डो य इति सर्वनाम्ना परामृष्टः शक्यो घटादिभ्योऽसमानजातियेभ्यो महिषादिभ्यश्च समानजातीयेभ्यो व्यवच्छिन्नोऽवगन्तुं गवयः, तथापि यावदयमसौ गवय इति साक्षात्प्रतीते संबन्धिनि संज्ञां न निवेशयति, तावदयं परिप्लुतमतिः प्रमाता कच्चित्खलु द्रक्ष्यामि तादृशं पिण्डं यत्र गवयसंज्ञा प्रतिपत्स्य इति प्रमोत्सुक एवोदीक्षते । न चासौ वाक्यमात्रसहायोऽप्रत्यक्षीकृतगोसदृशगवयत्वजातिमत्पिण्डोऽसौ गवयाख्य इति प्रतिपत्तुमर्हति । न च वाक्यं विना प्रत्यक्षात्रात् । तस्मादागमप्रत्यक्षाभ्यामन्यदेवेदमागमस्मृतिसहितं सादृश्यज्ञानमुपमानाख्यं प्रमाणमास्थेयम् ॥ ननु यदोदीच्येन क्रमेलकं निन्द्रतोक्तम्, धिक्करभमतिदीर्घवक्रग्रीवं प्रलम्बोष्ठं कठोरतीक्ष्णकण्टकाशिनं कुत्सितावयवसन्निवेशमपसदं पशूनामिति, तदुपश्रुत्य दाक्षिणात्य उत्तरापथं गतस्तादृशं वस्तूपलभ्य नूनमसौ करभ इति प्रत्येति, तत्कतमदेतेषु प्रमाणम्? न तावदुपमानं साधर्म्याभावात् । नापि पञ्चमं प्रमाणमुपगम्यते । यद्युच्येत निन्दापरं वाक्यं करभस्य तादृशत्वे न प्रमाणम्, न ह्यन्यपरात्शब्दादन्यस्यावगम इति । यत्र तर्हि तादृक्त्वे पर्यवस्यति वाक्यं तत्र का गतिः? अथ तत्रापि तादृक्करभ आगमावगतः प्रत्यक्षेण प्रत्यभिज्ञायते, करभशब्दवाच्यता तु तस्य तत्पूर्वं तादृक्वरभपरत्वे अप्यागमस्य प्रयोगमात्रादवगता अनुमानात् । यो हि यत्र प्रयुज्यते शब्दोऽसति वृत्त्यन्तरे स तस्य वाचकः, यथा गोशब्दो गोत्वे । प्रयुक्तश्चायं तादृशि । तस्मात्तस्य वाचक इति । तदिदं प्रागेव प्रयोगानुमितं वाचकत्वमस्य प्रत्यक्षसमये केवलं स्मर्यते इति । समानमेतत् उपमानवाक्येऽपि तत्रापि वाक्यादवगतः साधर्म्यवान् पिण्डः प्रत्यक्षेण प्रत्यभिज्ञायते । प्रयोगानुमितं च गवयपदस्य वाचकत्वं स्मर्यते इति न फलान्तरमवशिष्यते यत्रोपमानं प्रमाणमिति ॥ अत्रोच्यते । न तावदाकाशादिशब्दवदेष गवयशब्दः साक्षात्पिण्डस्य वाचकः, किन्तु गवयत्वं निमित्तीकृत्य पिण्डे वर्तते इति परमार्थः । न च यथा गौरेवं गवय इति वाक्याद्गवयत्वमवगतम्, न ह्यनवगतसंबधं गवयपदमेतदवबोधयति । ततस्तदवगमात्तु संबन्धवेदने परस्पराश्रयप्रसङ्गः । न च गोसादृश्येनोपलक्ष्यते गवयत्वम् । न खल्वनुपलब्धचरेण गवयत्वेन गोसादृश्यं संबद्धं दृष्टम् । न चादृष्टसंबन्धमुपलक्षकम् । न हि पुरुषेणादृष्टसंबन्धो दण्डः पुरुषमुपलक्षयितुमर्हति । तस्मात्संबन्धिनो गवयत्वस्य सर्वथानुपलब्धेः कुतो वाक्याद्वा अनुमानाद्वा वाच्यवाचकसंबन्धावसायः? कुतस्तरां च संबन्धस्मृति? गवयत्वसामान्यविशेषवति तु पिण्डे प्रत्यक्षे युक्तः संबन्धावगमः, संबन्धिनो गवयत्वस्य प्रत्यक्षत्वात्वाक्यार्थस्य च स्मर्याणत्वात् । तथापि किं गवयत्वजातिमान् पिण्डो वाच्यः, उत गोसादृश्यवानिति कुतो विनिगमनेति चेत्? वाक्यार्थस्मरणसहकारि गवयत्वजातिमतः पिण्डस्य गासादृश्यदर्शनमेव तर्कसहायं गवयत्वाभिधाने प्रमाणम् । तर्कश्च गोसादृश्यविशिष्टपिण्डाभिधाने कल्पनागौरवप्रसङ्गः तथा हि सादृश्यविशिष्ट पिण्डाभिधाने, नाप्रतीतं सादृश्यं पिण्डं विशिनष्टीति तत्प्रतिपत्तव्यम् । न च शब्दादन्यतस्तदवगम इति शब्दश्य तत्र वाचकत्वं कल्पनीयम् । न चाविशिष्टं सादृश्यमपि पिण्डविशेषे गवयपदमवस्थापयितुमर्हति, यस्य कस्यचिद्येन केनचित्सह सादृश्यादिति तदपि गवा विशेषणीयम् । न चान्यतो गोत्वस्यापि प्रतिपत्तिरिति तदपि गवयपदेनाभिधातव्यमिति कल्पनागौरवम् । गवयत्वजातिमत्पिण्डाभिधाने तु लाघवमिति तदनुजानाति । साधर्म्यग्रहणं च धर्ममात्रोपलक्षणमिति करभसंज्ञाप्रतीतिफलमप्युपमानमेवेति नाव्याप्तिः । नापि पञ्चमप्रमाणाभ्युपगमः । अत एव बहुन्युदाहणान्युक्त्वाप्याह स्म भगवान् भाष्यकारः, एवमन्योऽप्युपमानस्य लोके विषयो बुभुत्सितव्य इति । तस्मात्सर्वं चतुरस्रम् ॥ तदीदृशमुपमानफलमविद्वान् सादृश्यविशिष्टवस्तुज्ञानं चोपमानफलमिति भ्रान्तो भदन्तो दिग्नाग आक्षिपतिप्रत्यक्षेति । पृच्छतिकथमिति । उत्तरम्यदा ताविति । उपलक्षणं चैतत्, उभौ प्रत्यक्षेण पश्यतीति । यदा तु गवयमेकं प्रत्यक्षेण पश्यति, स्मरति च गाम्, तदापि गोसादृश्यं गवयस्थं प्रत्यक्षमेव । गगोस्थमप्रत्यक्षम्, अप्रत्यक्षत्वाद्गोरिति चेत्? हन्त भोः किमभिमतं सादृश्यमायुष्मतो यदप्रत्यक्षायां गवि न प्रत्यक्षम्? सामान्यबाहुल्यं जात्यन्तरवर्ति जात्यन्तरस्य । यथाहुः, सामान्यान्येव भूयांसि गुणावयवकर्मणाम् । भिन्नप्रधानसामान्यवृत्ति सादृश्यमुच्यते ॥ इति चेत्? तत्किमिदानीं कर्णत्वादिसामान्यं गोगवयगतकर्णादिभेदेन भिन्नमित्यपि वक्तुमध्यवसितोऽसि? तस्माद् यथा कालाक्ष्यां गवि गोत्वमीक्षितवतः स्वस्तिमत्यां प्रत्यभिज्ञायमानं तदेवेदमिति, एतदेव तदित्यवगतं भवति, तथेहापीति न फलातिरेकः । तस्मात्न सादृश्यप्रतीतिफलमुपमानं प्रत्यक्षाद्वाक्याद्वा व्यतिरिच्यते इति सूक्तम् । भदन्तभ्रान्तिमुद्घाटयतिगवेति । गवयसत्तां सादृश्यविशिष्टमित्यर्थः । अर्थतत्त्वमुक्तं स्मारयतिगवयेति । उपसंहरतितस्मादिति । प्रयोगस्तु, प्रत्यक्षादिभ्यः प्रमाणान्तरमुपमानम्, तज्जन्यप्रमाविलक्षणप्रमाजनकत्वात् । यदि तु न तेभ्यो विलक्षणमभविष्यद्न तद्विलक्षणां प्रमामकरिष्यत्, तथा तान्येव । न चैतत्तथा । तस्मात्तथाति ॥६ ॥ ____________________________________________________________________ ण्य्ष्_१,१.७ आप्तोपदेशः शब्दः ॥ अथ शब्द इति भाष्यम् । उपमानानन्तरं शब्दोद्देशातुपमानलक्षणानन्तरं शब्दस्य लक्षणमित्यर्थः । लक्षणसूत्रं पठतिआप्तोपदेशः शब्दः । अत्र शब्द इति लक्ष्यपदम् । आप्तोपदेश इति लक्षणम् । उपदिश्यतेऽनेनेति उपदेशो वाक्यज्ञानं वा तदर्थज्ञानं वा अभिघीयते । तत्र वाक्यज्ञानप्रमाण्यपक्षे तदर्थज्ञानं फलम्, पदार्थस्मृत्यादयस्त्वान्तरालिका इतिकर्तव्यताः । तदर्थज्ञानप्रामाण्यपक्षे तु हानादिबुद्धिः फलम् । यद्यपि विधिरूपदेशः प्रवर्तनमित्यनर्थान्तरम्, यद्यपि चायं नियोज्यप्रयोजने प्रवृत्तिनिवृत्ती विदधदाज्ञाध्येषणाभ्यामतिरिच्यते, ते हि नियोक्तृप्रयोजने प्रवृत्तिनिवृत्ती विधत्तः, तथापि भूतार्थपरोपनिषदादिशब्दव्यापकत्वात्परप्रयोजनवद्वचनमात्रविवक्षयोपदेशपदं व्याख्येयम् । यद्यपि सदेव सोम्येदमग्र आसीद् इत्यादि वचनं क्वचित्न प्रवर्तयति, कुतश्चिद्वा निवर्तयति पुरुषम्, तथापि पुरुषश्रेयोऽभिधत्ते इत्युपदेश इत्युच्यते । तथाप्यतिव्याप्तिः, चैत्यवन्दनादिवाक्यानामप्येवं लक्षणत्वात् । अत उक्तमाप्तेति । आप्तानामृष्यार्यम्लेच्छानामुपदेशः शब्दो न त्वनाप्तानां मायामोहनिर्मितानां बुद्धर्षभादीनां प्रमाणविरुद्धक्षणिकसर्वधर्मनैरात्म्यवादिनामिति । तदेवाहवार्त्तिककारः न शब्दमात्रमिति सूत्रार्थः ॥ सूत्रस्थाप्तलक्षणपरं भाष्यमाप्तः खलु साक्षात्कृतधर्मा । सुदृढेन प्रमाणेनावधारिताः साक्षात्कृता धर्माः पदार्था हिताहितप्राप्तिपरिहारप्रयोजना येन स तथोक्तः । तथापि तत्त्वं विद्वानकारूणिकतया वा अलसतया वा अनुपदिशन्, मत्सरितया वा विपरीतमुपदिशन्नाप्तः स्यादित्यत आहयथादृष्टस्यार्थस्य चिख्यापयिषया प्रयुक्तः । यथादृष्टस्येति मत्सरितया विपरीतोपदेशो निवारितः । चिख्यापयिषयेति अकृपास्वार्थकामत्वे निराकृते । प्रयुक्तः उत्पादितप्रयत्नः इत्यलसत्वम् । तथापि स्थानकरणपाटवाभावेन वर्णनिष्पादनासामर्थ्येनाप्तः प्रसज्येत, इत्यत आहौपदेष्टा । स्थानकरणपाटवानित्यर्थः ॥ आप्त इति प्रकृतिप्रत्ययसमुदायात्प्रकृति निष्कृष्य तदर्थमाहसाक्षात्करणमिति । अनेन यथोक्तरूपसंपदुपलक्षिता । प्रत्ययार्थमाहतयेति । आप्तलक्षणस्य वयापकत्वमाहऋषीति । दर्शनातृषिः । करतलामलकफलवत्साक्षात्कृतत्रैकाल्यवर्त्तिप्रमेयमात्रः, आराद्यातः पातकेभ्य इत्यार्यो मध्यमो लोकः, म्लेच्छः प्रसिद्धः । म्लेच्छा अपि हि परिपथमवस्थिताः पान्थानामपहृतसर्वस्वानां मार्गाख्याने हेतुदर्शनशून्या अवन्त्याप्ता इति परेषामाप्तलक्षणमव्यापकमित्युक्तं भवति ॥ तदेतद्भाष्यमाक्षेप्तुमनुभाषतेआप्तः खल्विति । आक्षिपतिस्वर्गेति । आक्षेप्ता भाष्यमाक्षिप्य सूत्रं समाधत्ते तस्मादिति । आप्तः प्राप्तो युक्त इति यावत् । अपौरुषेयो वैदिक उपदेशः स्वर्गापूर्वदेवतादिविषयः स्वतःप्रामाण्ये सिद्धे निर्देषतया युक्त उपपन्नः । लौकिकश्चार्यम्लेच्छानां प्रमाणान्तरमूलो युक्तः । मानान्तराभावे त्वनाप्तोऽयुक्तः । समाधत्तेन ब्रूम इति । पौरुषेयत्वं वेदानां द्वितीयाध्याय उपपादयिष्यते । तस्मात्पुरुषस्यैवाप्तस्योपदेश आप्तोपदेश इति साधु व्याख्यानं भाष्यकारीयमिति भावः ॥ पृच्छतिकः पुनरिति । अस्ति हि स्वर्गादीनामप्रत्यक्षत्वे न्यायः, योगिप्रत्यक्षं न स्वर्गादिविषयः प्रत्यक्षत्वातस्मदादिप्रत्यक्षवदिति भावः । उत्तरम्ब्रूमो न्यायम् । तमाहसमान्यविशेषवत्त्वात्कस्यचित्प्रत्यक्षा इति । अत्र यावति पक्षे यो हेतुः सिद्धः, तस्य तन्मात्रे पक्षीकार्यम् । योगजे च प्रत्यक्षे सिद्धे तत्साधकादेव प्रमाणात्तस्य स्वर्गादिविषयत्वमपि सिद्धमिति धर्मिग्राहकप्रमाणविरुद्धं मीमांसकानामनुमानं नोदेतुमप्युत्सहते प्रागेव तद्बाधितुम् । असिद्धे तु योगजे प्रत्यक्ष आश्रयासिद्धो हेतुराभासः । अस्माकं तु सम्यञ्चो बहवश्च न्याया इति भावः । अनित्यत्वं हेतुमाक्षिपतिअसिद्धमिति । परिहरतिनेति । नित्ये चापूर्व इति । अत्र त्रयः कल्पाः, किमेकमपूर्वं सर्वपुरुषसाधारणम्, आहो असाधारणम्? यदापि असाधारणं तदापि किं प्रतिपुरुषमेकैकमपूर्वम्, आहो प्रतिपुरुषमनेकमिति? तत्र प्रथमं कल्पं दूषयतियदि साधारणतेति । न हि कदाचिदप्ययमपूर्वं पश्यति लौकिकः पुरुषः । योगिनस्त्वनभिव्यक्तमपि पश्यन्तीति भावः । द्वितीयं कल्पं दूषयतिएतेन प्रतिपुरुषमिति । उत्कर्ष आधिक्यमवयवोपचय इति यावत् । शङ्कतेव्य्जकेति । एकमपि व्य्जकभेदातुत्कर्षनिकर्षवद्दृष्टम् । तद्यथा महति दर्पणतले महन्मुखम्, तदेव कनीनिकायामण्विति भावः । वक्ष्यमाणेनाभिप्रायेण निराकरोतिन ह्येकमिति । शङ्किता स्वाभिप्रायमुद्धाटयतिननु चेति । स्वाभिप्रायेण निराकरोतिन दृष्ट इति ब्रूम इति । शङ्किता पृच्छतिकिं पुनस्तत्यदि न दृष्टम्? तत्र यदि भेदेन न दृष्टम्, दृष्टिर्नास्ति । किं पुनस्तत्, यद्भेदेन भेददर्शनमिति भासते? समाघाता स्वाभिप्रायमाहमिथ्याप्रत्यय इति । न भेददर्शनमपजानीमहे, किं तु पारमार्थिकं भेदम् । न च कल्पितोऽपूर्वभदः पारमार्थिकाय कार्यायालमिति भावः । उत्कर्षापकर्षकर्तृत्वं वेति कर्मण इति शेषः । तृतीयं कल्पमातिष्ठतेप्रतिपुरुषमनेक इति । दूषयतिअनिवृत्त इति । अथोत्तरकालमिति । अश्वमेधक्रियया तावत्तदपूर्वं स्वकाल एवाभिव्यक्तं फलदानाभिमुखीकृतम्, अभिव्य्जकसमानकालत्वादभिव्यक्तेः, प्रदीपादिषु दर्शनात् । तथापि फलं तावत्न दत्ते, यावत्क्रिया न निवर्तते । निवृत्तायां तु फलं दत्ते इत्यर्थः । दूषयतिअसतीति । तत्खलु पूर्वं सदपि फलं नाकार्षीत्चरमभाविन्याः क्रियायाः तज्जन्याया आभिव्यक्तेरनुत्पादात् । उत्पन्नायां तु क्रियायामभिव्यक्तौ वा कस्मात्न करोति? न हि क्रियाया विनाशस्य कश्चिदुपयोगः । तस्मादकामेनापि त्वया असत्या एव क्रियाया व्य्जकत्वमनुग्राहकत्वं चाङ्गीकर्तव्यम् । तच्चैतदुभयमपि चित्रमित्यर्थः । अपि च सासती चेत्क्रियाभिव्यनक्ति, तथा सति असत्तायाः सर्वत्र सुलभत्वात्न किञ्चिदपूर्वं नाभिव्यक्तमिति । क्रियाविलोपः प्रयत्नविलोप इत्यर्थः ॥ अत्र शब्दं प्रमाणान्तरमसहमानो दिग्नागः तल्लक्षणं विकल्प्याक्षिपतिआप्तोपदेश इति । अन्यस्मादन्यस्य निश्चयो न तावदसंबन्धादतिप्रसङ्गात् । न च शब्दः अर्थात्मा, नाप्यर्थकार्यः । विनाप्यर्थं पुरुषविवक्षामात्रादेव तदुत्पादात् । तस्मात्न साक्षात्शब्दादर्थनिश्चयः, विवक्षाकार्यन्तया तु विवक्षां गमयेत् । सा चार्थाभिप्रायपूर्वा । अभिप्रायश्च कश्चिन्मनोमात्रयोनिः, अपरस्तु प्रमाणमूलः । तत्र यः प्रमाणनिश्चितमर्थं विवक्षति, यथाविवक्षं चोच्चारयति स आप्तः । तस्य वचनात्कार्यात्कारणं विवक्षा अनुमीयते । तस्याश्च कारणमर्थज्ञानम् । ततश्चार्थज्ञानस्यार्थकार्यत्वादिति प्रमाणगतिः । तत्राप्तोपदेश इत्यत्रोपदेशक्रियया उपदेष्टार उपस्थापिताः । ते च प्रायेण विसंवादका दृष्टा इत्याप्तग्रहणेन तेषामविसंवादित्वम् । ततश्च उपदेशादर्थविनिश्चयो भवत्वित्येतदर्थं यद्युच्येत इत्याहयद्याप्तानामिति । उपदेष्टणामित्यर्थः । इमं कल्पं दूषयतितदनुमानात् । अविसंवादित्वमुपदेष्टुरानुमानिकम्, तादृशस्य वचनमर्थविनिश्चये अनुमानमेव । तथा हि यद्यन्निर्देषसत्त्वीयं वचनं तत्सर्वमर्थवत्, यथा बुद्धस्य क्षणिकनैरात्म्यादिविषय उपदेशः, तथा चायं विवादाध्यासित उपदेश इति । यथोक्तं भदन्तेन आप्तवाक्याविसंवादसामान्यादनुमानता ॥ इति । द्वितीयं कल्पमातिष्ठतेअथार्थस्य तथाभावः । अत्र हि उपदिश्यत इत्युपदेश इति व्युत्पत्त्या अर्थ उच्यते । आप्तः प्राप्त उपदेशो यस्मात्स तथोक्तः । एतदुक्तं भवति यस्मात्शब्दादवगम्यार्थं प्रवर्तमानः प्राप्नोति तमेवार्थ स आप्तोपदेशः शब्दः प्रमाणम् । एवं च यथा शब्देन योऽर्थो दर्शितः, तस्याप्त्या तथाता दर्शिता भवति । तदिदमुक्तमथार्थस्य तथाभाव इति । दूषयतिसोऽपीति । तदेव स्फुटयतियदा हीति । आप्त्या हि तथात्वं विनिश्चन्वनर्थस्य नाप्रतिपन्नतया निश्चेतुमर्हति । प्रतिपत्तिश्च प्रायेण प्रत्यक्षेणेति प्रत्यक्षत इत्युक्तम् । तमिममाक्षेमपाकरोतितन्नेति । नाप्तत्वसहायः शब्दोऽर्थं बोधयतीति सूत्रार्थः । नापि शब्दार्थप्राप्त्या शब्दार्थतथात्वमिति । कस्तर्हि इत्यत आहअपि त्विति । इन्द्रियसंबद्धासंबद्धेष्विति दृरूटदृष्टेष्वित्यर्थः । यथोक्तं स द्विविधो दृष्टादृष्टभेदादिति । एतदुक्तं भवति, नाप्तत्वहेतुकमविसंवादित्वमनेन सूत्रेणागमार्थतया प्रतिपाद्यते । नाप्यर्थतथात्वमागमार्थतया प्रतिपाद्यते । नाप्यागमः प्रत्यक्षानुमानाभ्यां न भिद्यते, किं तु उपदेशः शब्द इत्युक्तम् । उपदेश इति च कारकपदम्, उपदिश्यते ज्ञाप्यते प्रयोजनवानर्थोऽनेनेति । तथापि वातिकाद्युपदेशोऽपि शब्दः स्यादित्यत उक्तमाप्तेति । तेनोपदेशपदादेवागमस्य वाक्यार्थप्रतिपत्तिः फलमुक्तम् । तदिदमुक्तम्या शब्दोल्लेखेन पदार्थस्मरणावान्तरव्यापारात्शब्दादेवार्थं प्रत्येमीत्यनेनोल्लेखेन प्रतिपत्तिः सागमस्यार्थः फलमिति । आप्तत्वं च न वाक्यार्थं प्रत्याययति अपि त्वागमस्याव्यभिचारिताम् । न च यतः प्रामाण्यमवगम्यते ततः प्रमेयमपि । तथा च सति प्रामाण्यज्ञानहेतोरनुमानादेव प्रत्यक्षादिप्रमेयावगतिरिति प्रत्यक्षादीनामप्रमाण्यप्रसङ्गः । तथासति कस्यानुमानमपि प्रामाण्यमवधारयेत् । न चाप्तवाक्यं कार्यं सद्वक्तृज्ञानानुमानद्वारेणार्थेऽप्यनुमानमेव, न त्वर्थस्य प्रत्यायकमिति सांप्रतम् । यदि हि नार्थं प्रत्याययेत्ज्ञानमात्रमनुमापयेत्, तथा च नार्थविशेषसिद्धिः । न च ज्ञानस्यार्थादन्योऽस्ति कश्चिद्विशेषः । तस्मात्वक्तृज्ञानविशेषणाय पूर्वं शब्दादेव केवलाद्वाक्यार्थज्ञानमेषितव्यम् । एवं च कृतं वक्तृज्ञानानुमानेनार्थप्रतिपत्त्यर्थेन केवलं प्रामाण्यज्ञानाय तदुपयोग इति । न चाविनाभाव एव संबन्धो येन शब्दार्थयोरसंबन्धेन गम्यगमकत्वं न स्यात् । अस्ति हि साङ्केतिकः संबन्धोऽनयोरिति वक्ष्यते । न चाविनाभावः एव प्रत्यायनाङ्गम्, चक्षुरादयो नीलादिभेदव्यभिचारिणोऽपि दृष्टाः तत्प्रतिपादका इत्युक्तम् । तस्मात्पदानि कृतसंकेतानि स्वार्थान् स्मारयन्ति, आकाङ्क्षायोग्यतासत्तिसध्रीचीनानि अदृष्टपूर्वं वाक्यार्थं बोधयन्ति, न संगतिग्रहणमपि प्रतीक्षन्त इति दूरेऽनुमानाद्भवन्ति । यथा चैतत्, तथोद्देशे लेशत उक्तम् । उपपादितं च तत्त्वबिन्दौ । तस्मात्सर्वमवदातम्॥७ ॥ ____________________________________________________________________ ण्य्ष्_१,१.८ स द्विविधो दृष्टादृष्टार्थत्वात् ॥ स द्विविधो दृष्टादृष्टार्थत्वातिति सूत्रस्य तात्पर्यमाहनियमार्थम् । तद्विभजतेअनेकधेति । दृष्टादृष्टार्थत्वादिति भाष्यमतेन व्याचष्टेप्रत्यक्षेति । आप्तप्रणीतत्वलिङ्गानुमितप्रामाण्यशब्दैकविषयस्वर्गयागादिसंबन्धादीनामनुमानविषयता । यथाह भाष्यकारः, यस्यामुत्र प्रतीयते सोऽदृष्टार्थ इति । अदृष्टार्थोऽपि प्रमाणमर्थस्यानुमानादिति । तेन दृष्टोऽर्थो यस्यागमस्य स तथा । एवमितरोऽपीति । तदेवं भाष्यमतेन व्याख्याय स्वमतेन व्याचष्टेवक्तृभेदेनति । दृष्टोऽर्थो येन सं दृष्टार्थः प्रवक्ता, एवमदृष्टोऽर्थोनुमितो येन स तथा । तत्र दृष्टार्था ऋषयोऽस्मदादयश्च । अनुमितार्था अस्मदादय एवेति । एवमपि शब्दद्वैविध्यसाधने मा भूदपक्षधर्गतेति प्रवक्तृपदेन पूरयतिदृष्टादृष्टार्थप्रवक्तृकत्वादिति । अदृष्टार्थः प्रवक्ता यस्यागमस्य स तथोक्तः । अस्यार्थमाह न विग्रहं करोति प्रत्यक्षत इति । शेषं सुबोधम् । स न मन्येत दृष्टानां वाक्यानां प्रामाण्यम् । स इति । विप्रकृष्टो नास्तिकः परामृष्यत इति भाष्ययोजनिका । परिशिष्टं तु परीक्षापर्वणि निवेदयिष्यते ॥८ ॥ ____________________________________________________________________ ण्य्ष्_१,१.९ आत्माशरीरेन्द्रियार्थबुद्धिमनःवृत्तिदोषप्रेत्यभावफलदुःखापवर्गासतु प्रमेयम् ॥ इह प्रमेयं हेयोपादेयभावेनावस्थितं मुमुक्षुणा प्रतिपित्सितम् । तच्च परीक्षितस्वप्रमाणविशेषाधीनप्रतिपत्ति । लक्षणं चास्य प्रमाणविशेषः । न चावान्तरप्रमाणसामान्यप्रत्यक्षादिलक्षणमन्तरेणात्मादिप्रमाणावतारः कर्तुं शक्यः, तस्य प्रत्यक्षादिसामान्यविशेषत्वात् । अतः प्रत्यक्षादिलक्षणानन्तरं तदवतारः । अपरीक्षितं च न तत्त्वनिर्णयाय पर्याप्तमिति परीक्षा विधायिष्यते । तत्परिकरश्च संशयादय इति युक्तं तेषां पश्चाल्लक्षणम् । तदिह प्रमेयलक्षणाय तद्विभागोद्देशसूत्रमवतारयितुं भाष्यकारः पृच्छति स्मकिं पुनरनेन प्रमाणेनेति । जात्यभिप्रायमेकवचनम्, प्रकृते प्रमेये यथायथं प्रमाणानामुपयोगात् । तदेतद्भाष्यमनूद्य वार्त्तिककार आक्षिपतिकिं पुनरिति । प्रमेयनान्तरीयकत्वं प्रमाणानां सामर्थ्यम् । समाधत्तेनेति । प्रत्यक्षादिलक्षणसामर्थ्यात्प्रमेयमात्रं सिद्वम्, सिशिष्टं तु प्रमेयमद्यापि न सिध्यतीति तदर्थं प्रश्नः । स च विशेषो यथावदिति न दर्शित इति । अयमेव च सूत्रार्थ इति । येषां तत्त्वातत्त्वज्ञानाभ्यामपवर्गसंसारौ भवतः, त एतावन्त एव । न न्यूना नाधिका इत्यर्थः । प्रथमसूत्रव्यवस्थामतिदिशतिअत्रापीति । उक्तमर्थमनाकलयन्नाक्षिपतिउभयेति । दिगादीनामिति । द्रव्येषु दिक्कालपरमाणूनामनभिधानात् । वृक्षस्तिष्ठतीति । इतिशब्द आद्यर्थे तेन वृक्षं पश्यति, वृक्षेण चन्द्रमसं पश्यतीत्यादयो वेदितव्याः । समाधत्तेन सूत्रार्थापरिज्ञानादिति, न प्रमेयपदं प्रमेयमात्रे प्रवर्तते, किं तु यत्तत्त्वतो ज्ञायमानमपवर्गसाधनं तस्मिन्, तच्चात्माद्येव नान्यदिति युक्तोऽन्ययोगव्यवच्छेद इत्यर्थः । अयोगव्यवच्छेदेऽपि न दोष इत्याहप्रमेयमेवेति । नन्वस्मिन् पक्षे न कदाचिदपि प्रमाणता स्यादित्यस्ति दोष इत्यत आहकिमुक्तं भवतीति । नास्य पुरुषमात्रं प्रति प्रमेयत्वं विधीयते, अपि तु मोक्षमाणशिष्टं प्रति विधीयते । अनूद्यत इति प्रमाणान्तरमूलकत्वेन विधानस्य दार्ढ्यं दर्शयति । उपसंहरतितस्मादिति । कौशलमात्रमात्मनः ख्यापयितुमभ्युपेत्य समाधानान्तरमाहौपेत्येति । प्रवृत्तिसंस्कारकत्वमस्ति दिक्कालयोः, प्राङ्मुखोऽन्नानि भु।जीत ॥ प्राचीनप्रवणे वैश्वदेवेन यजेत ॥ पौर्णमास्यां पौर्णमास्या यजेत ॥ अमावास्यायाममावास्यया यजेत ॥ इत्येवमादि श्रवणात् । कौशलमात्रमिदं न तु समाधानमित्याहन पुनरिदमिति । विहितविधानादिति । प्रमाणविधानसामर्थ्येन विहितमित्यर्थः । न केवलं प्रमाणविधानाक्षिप्तम्, अपि त्वाद्यसूत्रगमप्रमेयपदादपि लब्धमित्याहआद्येन चेति । एतस्मिश्चार्थे सूत्रकारस्य अनुमतिमाहएनं चार्थमिति । भाष्यम्सर्वस्य सुखदुःखसाधनस्य, द्रष्टा सर्वस्य सुखदुःखस्य भोक्ता, यतः सुखदुःखसाधनं सर्वम्, सर्वं च सुखदुःखं जानाति, अतः सर्वज्ञः । न चाप्राप्तान्येतानि जानातीत्यत आहसर्वानुभावी । अनुभवः प्राप्तिः । तदेतद्वैराग्योत्पादायोक्तम्, एवमुत्तरत्रापि बोद्धव्यम् । आत्मन्ययं विशेषो यदनेन रूपेण हेयः, कैवल्येन चोपादेयः । शरीरादीनि तु हेयान्येव । अपवर्गस्तूपादेय एवेति । अविद्यमानं पूर्वं शरीरं यस्य तदपूर्वं शरीरम् । तन्निषेधतिनास्येदमिति । प्रमेयतत्त्वमविदुष आत्मन अविद्यमानमुत्तरं शरीरं यस्य तदनुत्तरम् । तदपि निषिद्धं चेन, नेत्यनुकर्षणात् । ननु यथा पूर्वेषां शरीराणामनादिता एवमुत्तरेषामप्यनन्तता, तथा च मोक्षमाणानां प्रवृत्तयश्च तदर्थानि शास्त्राणि चानर्थकानि प्रसज्येरन्नित्यत आहौत्तरेषामिति । प्रमेयतत्त्वावगमादित्यर्थः । ननु सूखेऽप्युद्देष्टव्ये दुःखमात्रोद्देशः किं सुखं प्रत्याचष्टे? तथा चानुभवविरोध इत्यत आहनेदमिति । तदेतद्भाष्यं वार्त्तिककार आक्षेपसमाधानाभ्यां व्याचष्टेसुखं पुनरिति न चान्यत आत्मादिपदात्, उपलब्धिः, अस्मादेव आत्मादिभ्यो भेदेन प्रत्यात्ममुपलभ्यमानत्वादेव, निर्विद्यते इत्यस्य व्याख्यानम्तां चोपासीनस्य तयैव विरोधिगुणेन तृष्णा विच्छिद्यते, सुखानभिधानेन दुःखपक्षनिक्षेपं सूचयति । तथा च सुखेऽस्य वैराग्यं भवतीति तात्पर्यार्थः ॥९ ॥ ____________________________________________________________________ ण्य्ष्_१,१.१० इच्छाद्वेषप्रयत्नसुखदुःखज्ञानान्यात्मनो लिङ्गम् ॥ अपवर्गस्याप्यात्मार्थत्वेन प्रमेयेष्वात्मनः प्राधान्यात्प्रथममात्मलक्षणसूत्रमिच्छेत्यादि । तदवतारार्थं भाष्यम्तत्रात्मेति । अहमिति ज्ञानं गौराद्याकारं शरीरावभासं न शक्यं घटादिज्ञानवद्द्रागात्मनि प्रमाणयितुमित्यभिप्रायः, परदेहवर्त्यात्माभिप्रायं वा । तदत्र वार्त्तिकारः सूत्रतात्पर्यमाहसमानेति । समानजातीयं शरीरादि, असमानजातीयं प्रमाणसंशयादि । सत्येवास्मिन् प्रयोजने प्रयोजनमन्वाचिनोतिआगमस्येति । ततश्चात्पोक्तत्वानुमानसिद्धमपि प्रामाण्यं शब्दस्य अनेन तदर्थसंवादकेनानुमानेन दृढतरं भवतीत्यर्थः । प्रयोजनान्तरं चान्वाचिनोतिप्रमाणसंप्लवस्येति । द्वावपि वाशब्दौ चार्थेऽन्वाचये द्रष्टव्यौ । तदनेन वार्त्तिकेन अनुमानाच्च प्रतिपत्तव्य इति भाष्यं व्याख्यातमिच्छाया आत्मलिङ्गत्वकथनपरं भाष्यं यज्जातीयस्येति । यज्जातीयस्येति व्यप्तिस्मृतिकथनम् । तज्जातीयं पश्यन्निति पक्षधर्मोपनयः । तस्मादयं सुखहेतुरित्यनुमायादातुमिच्छति । सेयमिच्छेदृशी व्याप्तिग्रहणतत्स्मरणपक्षधर्मताग्रहणानुमानेच्छादीनामेककर्तृत्वं सूचयति, भेदे प्रतिसन्धानाभावेन तदनुपपत्तेः । तदिदमुक्तमेकस्येति । यश्चासावेकोऽनुभविता च स्मर्ता चानुमाता चैषिता च स आत्मा । न च शरीरमेव भवितुमर्हति, तस्यापि बाल्यकौमारयौवनवार्द्धकभेदेनान्यत्वात् । नेन्द्रियम्, इन्द्रियान्तरगृहीत इन्द्रियान्तरेणाप्रतिसन्धानप्रसङ्गात्यमहमस्प्राक्षं त पश्यामीति । नापि मनः, मनसः, करणत्वेनैवानुमानात् । वक्ष्यति ह्येतत्सर्वं ज्ञातुर्ज्ञानसाधनोपपत्तेः ॥ ॰ ३।१।१७ ॰ इत्यत्र सूत्रे ॥ स्यादेतत् । असत्यपि आत्मनि ज्ञातरि सत्यपि च बुद्ध्यादीनां भेदे, तत्सन्तानाभेदेन प्रतिसन्धानव्यवस्थोपपत्स्यत इत्यत आहनियतविषये इति । नियतविषय इति बुद्धिभेदस्य प्रतिसन्धानमपाकरोति । मात्रग्रहणेन च संतानं संतानिव्यतिरिक्तमपाकरोति । तदभ्युपगमे वा स एवात्मेति सिद्धं नः समीहितम् । तदेतद्भाष्यमनुभाष्य वार्त्तिककारस्तात्पर्यमस्याहयज्जातीयस्येति । तत्र विचारमारभतेतत्रेति । पूर्वपक्षमाहकथमिच्छादीति । परिहरतिस्मृत्येति । नन्वेकविषयाणां स्मृत्यादीनां नानाकर्तृकत्वे को विरोध इत्यत आहन हीति । नानाविषयत्व उदाहरणमाहन हि भवति यद्रूपमिति । नानानिमित्तत्व उदाहरणमाहनापि भवतीति, यद्यस्मात्निमित्तात्त्वगिन्द्रियात्स्पर्शमहमस्पर्क्षं तत्तस्मात्निमित्तात्चक्षुषो रूपं पश्यामीति । नानाकर्तृत्व उदाहरणमाहन हि भवति देवदत्त इति । तदेतत्किल प्रतिसन्धानं कर्तृभेदाद्देवदत्तयज्ञदत्तादेर्व्यतिरेकबलेनैककर्तृकत्वं साधयतीत्युक्तम् ॥ तदेतदनुपपन्नम्, भिन्नकर्तृकत्वाद्व्यतिरेकस्योपाधिसंभवेन स्वाभाविकप्रतिबन्धविज्ञानवैकल्यात्, अस्ति हि देवदत्तयज्ञदत्तविज्ञानानां भिन्नकर्तृकत्वमकार्यकारणभावश्च, तत्र किमकार्यकारणभावात्प्रतिसन्धानस्य व्यतिरेक उत भिन्नकर्तृकत्वादिति सन्दिग्धव्यतिरेकत्वादसाधनाङ्गं प्रतिसन्धानमित्याशयवांश्चोदयतिकार्यकारणभावादिति । तदिदमुक्तम्तदिदं प्रतिसन्धानमन्यथा भवदिति । गूढाभिप्रायः परिहरतिन नानात्वस्येति । चोदक आहअकार्येति । गूढाभिप्राय एव परिहारवाद्याहतदयुक्तमिति, अनैकान्तिकत्वं सन्दिग्धव्यतिरेकिता । चोदक आहतुल्यं भवतोऽपीति । सिद्धान्ती गूढाभिप्राय एवाहअभ्युपगमादिति । चोदक आहनासाधनादिति । असिद्धार्थता अन्यथासिद्धार्थता । हेतोः हेतुवचनस्येत्यर्थः । संप्रति समाधाता स्वाभिप्रायमाविष्करोतिन, हेत्वर्थापरिज्ञानात् । तदेव विभजतेन भवतेति । कः पुनरसौ हेतुविशेष इत्यत आहविशेषितं चैतत्प्रतिसंधानम् । तत्कथयति स्मृत्या सह पूर्वापरप्रत्यययोरेकविषयत्वेन प्रतिसंन्धानं यज्जातीयं चन्दनवनितादि सुखहेतुं प्रतीतं स्मरामि तज्जातीयमिमु प्रत्येमीति प्रतिसन्धानम् । तदनेन शालिबीजाङ्गुरस्य परम्परया शालिबीजान्तरजननलक्षणात्प्रतिसंधानात्कार्यकारणभावनियमाद्व्यवच्छिनत्ति ॥ नन्वियं पूर्वापरप्रत्ययसंहिता स्मृतिरपि कार्यकारणभावादेवोपपत्स्यते, कृतमेकेन कर्त्रेत्यत आहसा च स्मृतिर्भवत्पक्षेऽनुपपन्ना । पृच्छतिकस्मात्? उत्तरमन्येन निमित्तेन अनुभूतस्य अन्येन निमित्तेन अस्मरणात् । न हि भवति येनैव चक्षुषा घटमद्राक्षम्, तेनैव त्वगिन्द्रियेण तं स्पृशामीति । निमित्तभेदे प्रतिसंधानाभावमुक्त्वा विषयभेदेऽप्याहन ह्यन्येन स्वभावेन घटत्वादिनानुभूतस्य अन्येन वृक्षत्वादिना स्मरणम् । न हि भवति यमहं घटमद्राक्षं सोऽयं वृक्ष इति । कर्तृभेदे प्रतिसंधानाभावमाहन ह्यन्येन देवदत्तेन अनुभूतमन्यो यज्ञदत्तः स्मरति । न हि भवति योऽहं देवदत्तोऽद्राक्षं सोऽहं यज्ञदत्तः पश्यामीति । न चेदं सत्यपि भेदे कार्यकारणभावात्प्रतिसंधानं भवितुमर्हति । न हि यत्र स्फुटतरः कार्यकारणभावः तन्तुपटयोर्घटकपालयोर्वा दृश्यते तत्र प्रतिसंधानं भवति, ये तन्तवः स एव पट इति वा यो घटाक्षणः स एव कपालक्षण इति वा । वस्तुतः कार्यकारणभूतानामगृहीतभेदानां प्रतिसंधानहेतुभावः सभागेषु क्षणेषु तथा दर्शनादिति चेत्? तन्न, आमलकफलस्यैकस्यापनयने तत्रैव स्थाने आमलकान्तरावस्थापने भवति प्रतिसंधानम् । न च तयोरामलकयोरस्ति कार्यकारणभावः । पूर्वापरप्रत्यययोः स्मृत्या सहैकविषयत्वं कर्तरि कार्यकारणभावनिबन्धनं न कर्मणीति चेत्? हन्त, नैरात्म्यसाक्षात्कारसात्मीभावेऽप्यस्ति विज्ञानानां कार्यकारणभाव इति तन्निबन्धनं प्रतिसंधानं पूर्ववदेव प्रसज्येत । सैव चात्मदृष्टिर्देषाणां निदानं परमिति व्यर्थो नैरात्म्यसाक्षात्कारसात्मीभावप्रयासः । अथासदपि प्रतिसंधानं कार्यवशादाहरति तथागतो नट इव रामत्वमात्मनः, यदि तत्कार्यकारणभावनिबन्धनम्, कथमसत्, कथमाहार्यम्? अथ कार्यकारणभावोऽप्यवस्तुसन् कल्पनामात्रनिबन्धनः, स तर्हि तादृशः शालिबीजस्योत्पादं वास्तवं न नियन्तुमर्हति, न जातु कल्पितवह्निभावो माणवको दहनपाकयोरूपयुज्यते । न च प्रत्ययानां भेदाग्रहात्प्रतिसंधानमिति सांप्रतम्, प्रवृत्तिविज्ञानानां रूपादिविषयाणां भेदेन पृथग्जनैरपि प्रतियमानत्वात्, आलयविज्ञानस्य च प्रवृत्तिविज्ञानातिरिक्तस्यानुपलब्धेः । अहमिति च सत्त्वदृष्टेः क्षणिकत्वनिराकृतावसति बाधके स्थिरवस्तुविषयत्वात् । तस्मात्स्मृत्या सह पूर्वापरप्रत्यययोः एकविषयत्वलक्षणस्य प्रतिसन्धानस्यानेककर्तृकत्वाद्व्यतिरेको निरूपाधिरेककर्तृकत्वं साधयति । स चैकः कर्ता शरीरेन्द्रियबुद्धिभ्यो भिन्न आत्मेति सिद्धम् ॥ तदनेनाशयेनाक्तमस्ति च स्मृतिः उक्तरूप । तस्माद्यस्मिन् पक्षे स्मृतिः संभवति तत्र प्रतिसंधानं न्याय्यमिति । स च कर्त्रेकत्वपक्ष इति भावः । आशयमविद्वान् पुनः परः प्रत्यवतिष्ठतेभवानिति । पर एवैकग्रन्थेनाहकथमिति । कथं न संभवतीत्यर्थः । स्यादेतत्, योगिचित्तमपि सर्वज्ञस्य चेतस आलम्बनप्रत्यय इति । तस्यापि योगिचित्तेन प्रतिसन्धानं स्यादित्यत आहयत्कायेति । एतदुक्तं भवति, उपादानोपादेयभावेनावस्थितः चित्तप्रवाहः सन्तानः । न च योगिचित्तमुपादानं सर्वज्ञस्य चेतसः । आलम्बनप्रत्ययो हि तदिति । कायग्रहणं च एकसन्तानोपलक्षणपरम् । तेन जन्मान्तरेऽपि स्मृतिरूपपन्नेति । तमिममस्मदभिप्रायानभिज्ञं परमन्यथापि बोधयितुं विभवाम इति सिद्धान्ती अन्यथा स्मृत्यनुपपत्तिमाहन, अस्थिरत्वात्बुद्धीनाम् । न ह्यजातानन्वयध्यस्तयोरस्ति कश्चिद्विशेष इति पूर्वोत्पन्नोऽनुभवः काञ्चन वासनामाधाय ध्वंसते, यया कालान्तरे स्मृतिराधीयते इत्यभ्युपगन्तव्यम् । न चास्थिरा बुद्धिः शक्या वासयितुमित्यात्मा स्थिरोऽभ्युपेय इत्यर्थः । युक्त्यन्तरमाहअसंबन्धाच्चेति । न च बुद्धीनामसमानकालानामस्ति संबन्ध इत्यर्थः । पुनः परः प्रत्यवतिष्ठतेशक्तीति । नास्माकं क्षणिकवस्तुवादिनामस्ति तज्जगति यदवस्थितं वासकेन वास्यमानं दृष्टमिति भावः ननु तथाप्यसमानकालयता संबन्धरहितमशक्यं वासयितुमिति ग्रहणकवाक्यविवरणव्याजेनापाकरोतिअथापीति । पूर्वचित्तं प्रवृत्तिविज्ञानं यत्तत्षड्विधम्, पञ्च रूपादिज्ञानान्यविकल्पकानि, षष्ठं च विकल्पविज्ञानम् । तेन सह जातः समानकालः चेनाविशेषः तदालयविज्ञानमित्युच्यते । अहङ्कारास्पदं स्मृतिशक्तिः । सा च न शक्तात्तज्ज्ञानादतिरिच्यते । तेन कथञ्चिद् भेदविवक्षया शक्तिविशिष्टमित्युच्यते । सिद्धान्तवाद्याहअत्रोक्तमिति । उपपादयिष्यते हि भावानां सर्वजनप्रतीतिसिद्धा स्थरता क्षणभङ्गनिराकरणेन । तथा च स्थिरस्य संबद्धस्य च वस्त्रादेः मृगमदादिना वास्यत्वं दृष्टमिति नास्थिरेऽसंबद्धे च भवितुमर्हतीत्यर्थः ॥ स्यादेतत् । अस्थिरयोरपि ज्ञानयोः समानकालतया अस्ति संबन्ध इति कस्मातन्यतरचित्तवासितमन्यतरच्चित्तं स्मृतिं नाधत्ते इत्यत आहयश्चासाविति । वक्ष्यमाणापेक्षोऽपिशब्दः । ननु वर्तमाने चेतसि मा कार्षोदुपकारम्, अनागते तु करिष्यति इत्यत आहनापीति । पृच्छतिकथमिति । उत्तरम्वर्तमानं तावदिति । प्रकृतमुपसंहरतितस्मादिति । इतोऽप्यसत्यात्मनि विज्ञानमात्रात्कार्यकारणभावेन स्मृतिर्नोत्पद्यते इत्याहैतश्चेति । कस्मात्? भावस्य भवित्रपेक्षत्वात् । भाव उत्पत्तिमान् धर्मः । भविता धर्मो । पाको विक्लित्तिः संयोगभेदः । स च तण्डुलावयवसमवेतोऽप्यवयवावयविनोरभेदोपचारात्तण्डुलानामित्युक्तम् । गतिः परिस्पन्दो देवदत्ते कर्तरीति । सिद्धान्ती क्षणिकवादिनमुत्थाप्याक्षणिकत्वाभ्रिपायेण दूषयतिअनाधारैवेति । पूर्वपक्षी क्षणिकत्वाभिप्रायेणाहकार्येति । सिद्धान्तवाद्यक्षणिकत्वाभिप्रायेण परिहरतितच्च नेति । समानकालयोराधाराधेयभावो दृष्टः, यथा कुण्डवदरयोः । स्थिरमेव हि कुण्डं स्थिरस्यैव वदरस्य गुरुत्वेन पततो गुरुत्वं प्रतिबध्नदधःपतनं निवारयदाधारो भवति । यद्युच्येत न स्मृतिर्भावः, किं तु भवित्री उत्पत्तिरस्या भावः । न तु भवितुर्भवित्रन्तरापेक्षा युक्ता अनवस्थापातादिति आशङ्कतेअथापीदमिति । निराकरोतितच्च नेति । विरोधादिति विवृणोतियदीति । कस्माद्व्याहतमित्यत आहस्वरूपं चेति । चो हेत्वर्थ । स्वरूपमुत्पत्तेरूच्यमानं स्वतन्त्रं बाधते यतः, तस्माद्विरोध इत्यर्थः । अनभ्युपगमादिति विवृणोतिन हि भवन्त इति । विरोधादिति स्फोरयतिव्यतिरिक्तां चेति । तन्त्रं शास्त्रम् । शङ्कतेअथेति । तथा च न विरोधो नाप्यनभ्युपग इत्यर्थः । निराकरोतिकिं क्वेति । अभिधानस्वरूपमाहौत्पत्तितिरति । अपि चोत्पत्तेर्भावत्वेऽपि न स्मृतिर्न भावः, भावत्वस्य कार्यमात्रानुबन्धित्वात्स्मृतेश्च कार्यत्वात् । न चानवस्था, नित्ये व्यवस्थानात् । तथा च स्मृतेः भावस्य भविता आत्मैक नित्यः परिशिष्यते इत्याशयवानाहयदा चोत्पत्तिरिति । प्रकृतमुपसंहरतितस्मादिति । तत्सिद्धमेतत्स्मृतिः पूर्वापरप्रत्ययाभ्यामेककर्तृका, ताभ्यां सहैकविषयत्वेन प्रतिसन्धीयमानत्वात् । या पुनर्नाभ्यामेककर्तृका सा नाभ्यां तथा प्रतिसन्धीयते, यथा देवदत्तस्य स्मृतिर्न यज्ञदत्तप्रत्ययाभ्याम् । न चेयं तथा । तस्मात्तथेति ॥ तदेवं व्यतिरेकिसमर्थनं कृत्वा अन्वयव्यतिरेकिणमत्रार्थे प्रमाणयतिअथ वेति । अनेकग्रहणमनेकनिभित्तप्रतिषेधशङ्कानिवृत्त्यर्थं येन मया रूपादयोऽनूभूताः तेनैव गन्ध उपलभ्यते इति खलु मयेति स्मृत्या सह प्रतिसन्धानं तस्माद्भरतमताभ्यासेनाभिनये ये कृतसङ्केताः, तेषाम् । यच्चोक्तं परैः, नर्तकीभ्रूलताक्षेपो न ह्येकः परमार्थिकः । परमाणुसमूहत्वादेकत्वं तस्य कल्पितम् ॥ इति । तत्राहभ्रूक्षेपस्यैकत्वात् । न भ्रूः परमाणुसमूहोऽपि तु अवयविद्रव्यमेकम्, तद्गतं च रेचितकमपि क्रियैकैव । भवतु वा परमाणुसमूह एव भ्रूक्षेपः, तथापि समूहस्य समूहिभ्योऽनन्यत्वात्परमाणव एव, तेषां च प्रत्येकमेकता चानेकभरतमतनिपुणप्रतिपत्तृसाधारणता च । अस्ति च तेषामपि स्वगोचराविकल्पोत्पादनद्वारेण परंपरया मयेति प्रतिसन्धानहेतुभाव इति यत्किञ्चिदेतदेकत्वं तस्य कल्पितमिति । तदेवं प्रतिसन्धानद्वारेणेच्छादीनामात्मलिङ्गत्वमुक्त्वा संप्रति गुणतया लिङ्गता वार्त्तिककृदाहअथ वेति । गुणत्वेनेच्छादीनां पारतन्त्र्यं रूपादिवत्साधनीयम् । तच्चानित्यत्वेनैव सामान्यविशेषसमवायेभ्यो व्यावर्तकेन सिद्धम् । न ह्यनित्यो भावो द्रव्यात्स्वतन्त्रो भवति । तस्माद्गुणत्वप्रसाधकादेव हेतोः पारतन्त्र्यसिद्धेः कृतं गुणत्वेन पारतन्त्र्यसाधकेनेति हृदि निधाय वार्त्तिककारः तदपि पूर्वमुक्तमिति सिद्धेन पारतन्त्र्येण गुणत्वमपि साधयति । न चैतदनित्यस्य पारतन्त्र्यं द्रव्येण सिध्यति, द्रव्यवकर्मणोरप्यनित्ययोः पारतन्त्र्यात् । तस्मादनित्यत्वसिद्धेन द्रव्यपारतन्त्र्येण द्रव्यकर्मभ्यां व्यतिरेचयतिन द्रव्यं कर्म वा इच्छादयः, व्यापकद्रव्यसमवायात्शब्दवदित्यादि । यद्यप्यनित्यत्वेन द्रव्यसमवायमात्रं सिध्यति, तथापि द्रव्यकल्पनमात्रेणैवोपपत्तौ तदवययवकल्पनायां प्रमाणाभावेन तद्द्रव्यमनवयवं तावत्सिद्धम् । अनवयवं च द्रव्यं द्वेधा, व्यापकमणु च । न तावदणु, तत्रेच्छादीनामुपलब्धेः । क्वचिदन्यतरकर्मणा क्वचित्स्वभावतः तत्संयोगोपपत्तौ तद्गतिकल्पनायां प्रमाणाभावात्सिद्धमस्य व्यापकत्वम् । तदेतदादिग्रहणव्याख्यानम् । तदनया वक्रोक्त्या नित्यत्वं परममहत्त्वं चात्मनो दर्शितं भवति । एतच्च सामान्यतोदृष्टमनुमानं सूत्रयता सर्वं दर्शितमित्याहसामान्यत इति । यत्तत्पूर्वं हृदि स्थितमिच्छादीनां द्रव्यपारतन्त्र्ये साध्येऽनित्यत्वहेतुकानुमानं तदुद्धाटयति, कार्यत्वमपि हेतुं समुच्चिनोतिएतेनेति । नन्वस्तु द्रव्यपारतन्त्र्यं तथापि शरीरपारतन्त्र्यमस्तु, कृतमनुपलब्धचरेणात्मना इत्यत आहअयावदिति । सर्वपुरुषसाधारण्यप्रसङ्गाच्च न पृथिव्यादिगुणाः । तदुत्पत्तौ करणत्वेन कल्पनाच्च नाकर्तुर्मनसः । तस्मादष्टद्रव्यातिरिक्तं द्रव्यान्तरम्, तत्रेच्छादयः, स चात्मेति सिद्धमित्याहतत्प्रतिषेधादिति ॥१० ॥ ____________________________________________________________________ ण्य्ष्_१,१.११ चेष्टेन्द्रियार्थाश्रयः शरीरम् ॥ आत्मानं लक्षयित्वात्मनो दुःखनिदानानामिन्द्रियादीनां सर्वेषां साक्षात्पारम्पर्येण च शरीरमाश्रित्य तन्निदानत्वमिति तदेवास्य दुःखमूलकारणमित्यनन्तरं शरीरं लक्षयितुं सूत्रम्चेष्टेत्यादि । तदवताराय भाष्यम्तस्येति । तस्येत्यामानं परामृशति । भोगः सुखदुःखसंवित् । तदधिष्ठानं शरीरम् । तदनेन सर्वस्यानर्थसंभारस्य परमनिदानं शरीरम् । अतस्तदेवेन्द्रियादिभ्यः पूर्वं लक्षणीयमित्युक्तम् । अत्र चेष्टाश्रयत्वेनेन्द्रियाश्रयत्वेनार्थाश्रयत्वेन च प्रत्येकं समानजातीयेभ्य आत्मेन्द्रियादिभ्योऽसमानजातीयेभ्यः प्रमाणसंशयादिभ्यः शरीरं व्यवच्छिद्यते ॥ कथं चेष्टाश्रयः इति भाष्यम् । तस्यार्थं व्याचष्टेका पुनरिति । चेष्टा व्यापारः । स चातिव्यापकतया अव्यापकतया च न लक्षणम्, वृक्षादिषु भावात्, अभावाच्च पाषाणमध्यवर्तिमण्डूकादिशरीरे इति भावः । अत्रोत्तरभाष्यर्मिप्सितमित्यादित । तद्व्याचष्टेहिताहितेति । प्रयुक्तस्य उत्पादितप्रयत्नस्य । न च व्यापारमात्रं चेष्टा अभिमता, अपि तु विशिष्टो व्यापारः । स च न वृक्षादिष्वस्तीति नातिव्यापकता । यद्यपि च दारूयन्त्रादिषुरिदृशो व्यापारोऽस्ति, तथापि मूर्तान्तराप्रयोगे सतीति विशेषणात्न व्यभिचारः, तेषां शरीरेण मूर्तेन प्रयोगात् । शरीरस्य तु मूर्तान्तराप्रयुक्तस्यरिदृशव्यापाराश्रयत्वम्, पाषाणमध्यवर्तिनश्च मण्डूकदेहस्य तद्व्यापारायोगेऽपि तद्याग्यत्वात्, पाटिते पाषाणे तादृशस्य तद्व्यापारस्य दर्शनादिति भावः ॥ कथमिन्द्रियाश्रय इति भाष्यं व्याचष्टेकथमिति । संयोगितया त्विन्द्रियाश्रयत्वे घटादीनामपि शरीरत्वप्रसङ्गः, तेषामपीन्द्रियसंयोगित्वादिति भावः । यस्येत्यादि परिहारभाष्यं व्याचष्टेशरीरेति ॥ एतेनेति । तद्वृत्तित्वेनानुपपत्त्या अर्थानामप्यान्यादृश आश्रयार्थो व्याख्येयः । यद्यपि गन्धादयो विषया न स्वरूपेण शरीरमाश्रयन्ते तथापि यदेषां सुखाद्युपलम्भहेतुत्वं कार्यं प्रयोजनं तदर्थमाश्रयन्ते इत्यर्थः । तदनेन यस्मिन्नित्यादि भाष्यं व्याख्यातम् । चोदयतिकथं पुनरिति । परिहरतिसामान्येति । विशेषेण बुभुक्षितत्वादिनाप्रकरणापन्नं नियन्त्रियं सामर्थ्यम् । प्रकरणादीत्यत्रादिपदसंगृहीतमपरमपि सामर्थ्यशब्दार्थमाहसामर्थ्यं चेति । अपरमाप्याहप्रमाणेति । अत्र प्रथमे पक्षे चेष्टाशब्दो व्यापारविशेषे स्पन्दादिवन्मुख्यार्थः । तदेतत्लोकस्तावदित्यादिना तथा चायं चेष्टाशब्द इत्यन्तेन दर्शितम् । प्रमाणासंभवो वेति द्वितीयं पक्षं विवृणोतिसामान्यवाच्यपीति । अपिरभ्युपगमे । प्रमाणासंभवो।नुपपत्तिः । सा च न क्रियामात्र इत्यनेन दर्शिता । एवं चेष्टापदव्याख्याने न घटादिषु शरीरत्वप्रसङ्गः ॥ एवं भाष्यानुसारेण स्वमतेन च प्रत्येकं चेष्टाश्रयत्वादि शरीरस्य लक्षणमिति वर्णयित्वा समस्तमेवेदं शरीरलक्षणमिति ये वर्णयांबभूवुः, तन्मतं निराकरोतियैरपीति । यद्याद्यं पदं लक्षणं चेष्टाश्रय इति, तदा घटेन व्यभिचारः । तदर्थं द्वितीयपदोपादानमिन्द्रियाश्रय इति, इन्द्रियसंयोगीत्यर्थः । तथापि तेनैव घटादिना व्यभिचारः, प्राप्यकारित्वेनेन्द्रियाणां घटादीनामपि इन्द्रियसंयोगित्वात् । अत आहअर्थाश्रय इति । एवमपि व्यभिचारस्तदवस्थ एव, घटादीनामपि रूपाद्यर्थसमवायेनार्थाश्रयत्वात् । अथ समवायाभिप्रायेणाश्रयत्वम्, तथापि न समवाय इन्द्रियाणां शरीरे । घ्राणस्य पार्थिवत्वेन समवायो न विरुद्ध इति चेत्न, तस्य शरीरावयवसमवायित्वेन शरीरासमवायात् । यदि नासिकाग्रमेव घ्राणम्, अथ तदाधारमतीन्द्रियम्, तथापि न तत्समवेतं शरीरम्, प्रत्यक्षाप्रत्यक्षवृत्तेर्वायुवनस्पतिसंयोगवदप्रत्यक्षत्वप्रसङ्गाद्देहस्य । अपि च यदा चेष्टेन्द्रियार्थस्य समवायेन शरीरत्वम्, हन्त भो इन्द्रियसमवायिकारणेषु परमाणुषु समस्तमेतदस्तीति तेषामपि शरीरत्वप्रसङ्ग इत्याहसमस्तेति । स्यादेतत् । भवन्मतेऽपि चुक्षुरादिभिरिन्द्रियैर्व्यभिचारः, तेषामपि यथोक्तव्यापाराधारत्वादित्यत आहयथा त्विति । मूर्तान्तराप्रयोगे सतीति विशेषितम् । चक्षुरादयस्तु उन्मीलनान्मूर्तेन शरीरेण प्रयुज्यन्ते इति न प्रसङ्गः । श्रोत्रं तु चेष्टाधार एव न भवति । तदेतदुपलक्षणं शरीरं भावयन्निर्विद्यते इति सिद्धम् ॥११ ॥ ____________________________________________________________________ ण्य्ष्_१,१.१२ घ्राणरसनचक्षुस्त्वक्श्रोत्राणीन्द्रियाणि भूतेभ्यः ॥ इन्द्रियस्योपनायकत्वेनार्थादिभ्यो विशेषादिन्द्रियाणामर्थादिभ्यः पूर्वं लक्षणम् । न च विशेषलक्षणमकृते सामान्यलक्षणे शक्यमिति भाष्यकारः प्रथममिन्द्रियाणां सामान्यलक्षणं निर्वेदोपयुक्तमाहभोगसाधनानीति । अनेन यच्छरीरसंयुक्तं सत्कारकदोषव्यतिरिक्तं साक्षात्प्रतीतिसाधनं तदिन्द्रियमिति सामान्यलक्षणं सूचितम् । साक्षात्प्रतीतिसाधनमिन्द्रियमिति वक्तव्ये भोगसाधनाभिधानं निर्वेदोपयोगीति । पारम्पर्येण च भोगसाधनत्वं घ्राणादीनां साक्षान्मनस एव तत्साधनत्वात्, सुखदुःखसाक्षात्कारस्य भोगत्वात् ॥ घ्राणभ्यः ॥१२॥ अत्रेन्द्रियाणीति लक्ष्यनिर्देशः घ्राणादीनीत्यर्थः । तेषां पञ्चानां पञ्चैव लक्षणानीति कथयतिलक्षणसूत्राणीति । आपाततः सूत्रम्, विचार्यमाणानि तु सूत्राणीत्यर्थः । समानजातीयं घ्राणादे रसनादि प्रतिनियतविषयत्वात् । असमानजातीयं तु मन आदि सर्वविषयमिति । जिघ्रतीत्यादिभाष्यनिराकरणीयशङ्कामाहौद्देशेति । प्रमाणाद्युद्देशेन सामान्यादित्यर्थः । लक्षणं हि विधेयम् । लक्ष्यं चोद्देश्यम् । ज्ञातं चोद्दिश्यते, अज्ञातं च विधीयते इति । न चैकस्य युगपज्ज्ञाताज्ञातत्वे संभवतः । नापि लक्ष्यलक्षणत्वे इति भावः । परिहरतिनेदं तथा यथोद्देश इत्यर्थः । कस्मात्? करणभावात्स्वविषयग्रहणलक्षणत्वं यतो घ्राणादीनाम् । एतदुक्तं भवति, इन्द्रियाणामतीन्द्रियत्वात्सर्वदा स्वस्वविषयोपलब्धिकरणत्वेनैवानुमातव्यानि । तस्मात्स्वस्वविषयोपलब्धिसाधनत्वमेव समानासमानजातीयव्यवच्छेदकतया लक्षणम् । तदेकार्थसमवायि तु घ्राणत्वादि लक्ष्यम् । अत्र च घ्राणादिशब्दाः पङ्कजादिपदवदवयवार्थं निमित्तीकृत्य क्वचित्, क्वचित्सामान्यविशेषे वर्तन्ते, अवयवार्थसंबन्धस्य प्रतीयमानस्यासति बाधके परित्यागायोगात् । अश्वकर्णादौ वृक्षविशेषवाचके वाजिकर्णायोगेन बाधकेनावयवार्थपरित्यागात् । अवयवार्थगेऽपि च गन्धाद्युपलब्धिसाधने सन्निकर्षादौ घ्राणादिशब्दाप्रयोगातवयवार्थान्वितं घ्राणत्वाद्येव घ्राणादिशब्दप्रवृत्तिनिमित्तम् । तथा च घ्राणादिपदमेव घ्राणत्वादिपरं लक्षयनिर्देशः । तच्च इन्द्रियाणि इत्यनेन सूचितम् । तदेव त्ववयवार्थपरं लक्षणनिर्देशो घ्राणेत्यादि । न च सन्निकर्षेण गन्धोपलब्धिसाधनेन च व्यभिचारः, इन्द्रियसामान्यलक्षणयुक्तस्य गन्धोपलब्धिसाधनत्वं न सन्निकर्षस्यास्ति । तदनेन जिघ्रतीत्यादि स्वविषयग्रहणलक्षणानि इत्यन्तं भाष्यं व्याख्यातम् । निर्वचनग्रहणेन पदप्रवृत्तिनिमित्तमात्रमुच्यते । तेन त्वक्पदमपि संगृहीतं भवति । तस्यापि त्वक्स्थाने इन्द्रिये स्पर्शोपलब्धिसाधने एव उपचार इति ॥ भूतेभ्य इति सूत्रावयवतात्पर्यव्याख्यानपरं भाष्यं भूतेभ्य इतीति । नानाप्रकृतीनामित्यादि । तद्वार्त्तिककारो व्याचष्टेभूतेभ्य इति । पृच्छतिकः पुनरिति । उत्तरम्भूतगुणविशेषग्रहणसाधनत्वं घ्राणेनैव हि पृथिव्या यो गुणविशेषो गन्धः स गृह्यते, न रसनादिना । एवं रसनेनैवापां यो माधुर्यं गुणविशेषः स गृह्यते, न घ्राणादिना । एवं चक्षुषैव शुक्लभास्वरं रूपं तेजसः । एवं त्वचैवानुष्णाशीतस्पर्शोऽपाकजो वायोः । एवं श्रोत्रेणैव शब्दो नभस इति हि नियमः ॥ अत्र च प्रयोगः, गन्धोपलब्धिः करणसाध्या क्रियात्वात्छिदिक्रियावदिति । एवं सा तदन्यक्रियाकारणातिरिक्तकरणनिष्पाद्या, तदन्वयव्यतिरेकाननुविधाने सति कार्यत्वात् । या यत्क्रियाकरणान्वयतिरेकाननुविधाने सति कार्या, स सर्वा तक्रियाकरणातिरिक्तकरणनिष्पाद्या, यथा पटादिक्रिया घटदिक्रियाकरणचक्रदण्डाद्यतिरिक्तवेमादिकरणनिष्पाद्या । तथा चेयम् । तस्मात्तथेति । तच्च करणं चक्षुराद्यतिरिक्तं घ्राणम् । तद्द्रव्यम्, संयोगाधारत्वाद्घटदिवत् । तच्च पार्थिवम्, द्रव्यत्वे सति रूपादिषु मध्ये गन्धस्यैव व्य्जकत्वात्, पार्थिवान्तरवत् । एवं रसनादिष्वपि योज्यम् । तदिदमुक्तम्यज्जातीयमिन्द्रियं पार्थिवं पार्थसीयं वा भवति, तस्य पृथिव्याः पाथसो वा यो गुणविशेषो गन्धो वा मधुर एव वा रसभेदः, तेन हि पृथिवी अबादिभ्यः, आपो वा पृथिव्यादिभ्यो व्यवच्छिद्यन्ते इति । इतरेतरभूतव्यवच्छेदहेतुः स तेनैवेन्द्रियेण गृह्यते नान्येनेति । न चैवे रसना अपामिव पृथिव्या अपि रसभेदं गृह्णातीति पार्थिवी भवति । तथात्वे तया गन्धोऽप्युपलभ्येत । तेन तेनैवेन्द्रियेणेति नियमो गुणविशेषमवधारयति, न त्विन्द्रियमिमि । अत्र च कर्णशष्कुलीसंयोगोपाधिना श्रोत्रस्य नभसः कथञ्चिद्भेदं विवक्षित्वा भूतेभ्य इति प्यम्यर्थो व्याख्येयः ॥ अनेन खल्वाहङ्कारिकाणीन्द्रियाणि इति यदाहुः सांख्याः, तत्निराकृतम् । निराकरणहेतुमाहऐकात्म्य इति श्लिष्टं पदम् । सांख्यानां किल राद्धान्ते कारणात्मकं कार्यम् । तच्च कारणमिन्द्रियाणामहङ्कार एव इत्यैकात्म्यमेककारणकत्वम् । तथा चैकात्म्यमेकत्वं घ्राणादीनामित्यनियमः स्यादिति । तदेतद्विभजतेयदि पुनरिति । शङ्कतेएकेति । विभजतेअथेति । एकः पाक्य एकोऽग्निसंयोगः एकं चोष्ण्यमित्यर्थः । निराकरोतिन ब्रूम इति । यद्यप्यौष्ण्यं निमित्तं साधारणम्, तथापि गन्धाद्युत्पत्तौ पूर्वगन्धादिध्वंसानां निमित्तानां भेदादुत्पन्नं भेदादुत्पन्नं कार्यनानात्वमिति । तदिदमुक्तं ये पूर्वे रूपादयः तेषां स्वगतो विशेषः प्रध्वंस इत्यर्थः । अथ रूपत्वादिसामान्यमेव कस्मात्स्वगतो विशेषो न भवतीत्यत आहएवं च कृत्वेति । रूपत्वादिसामान्यानां तादवस्थ्ये न पक्वतरतमादिभेदः । प्रध्वंसानां तु स्तोकभूयस्त्वं निःशेषत्वे नोपद्यते इति भावः । पुनराशङ्कतेएकं कर्मेति । निराकरोतिनेति । समवायिकारणं स्वाश्रयप्रत्यासत्ति वापेक्षत इति भावः । शङ्कतेयदि तर्हीति । लक्षणहानिः तथा च लक्षणहानिरित्यर्थः । निराकरोतिनेति । चरमभाविनिमित्तान्तरं भावरूपमित्यर्थः । संयोगाभावं तूत्तरसंयोगजननायापेक्षत एव । उपसंहरतितस्मादिति ॥१२ ॥ ____________________________________________________________________ ण्य्ष्_१,१.१३ पृथिव्यापस्तेजो वायुराकाशमिति भूतानि ॥ इन्द्रियप्रकृतित्वं तु भूतलक्षणं वेदितव्यम् ॥१३ ॥ ____________________________________________________________________ ण्य्ष्_१,१.१४ गन्धरसरूपस्पर्शशब्दाः पृथिव्यादिगुणास्तदर्थाः ॥ क्रमप्राप्तमर्थलक्षणमवतारयति भाष्यकारःहमे त्विति । तुशब्देनार्थमात्राद्वयवच्छिनत्ति । येषामिन्द्रियविषयत्वेन भाव्यमानानां निःश्रेयससाधकत्वम्, मिथ्याज्ञानविषयीकृतानां तु संसारनिमित्तता, त इमे इत्यर्थः ॥ गन्धर्थाः ॥१४॥ अत्र चोद्देशक्रमस्मारिता अर्था लक्ष्यतया प्रतिपत्तव्याः, तेषां लक्षणं तदर्था इति । तदित्यनन्तरलक्षितानीन्द्रियाणि परामृशति, तेषामिन्द्रियाणामर्थाः । इन्द्रियैरर्यमाणत्वमर्थानां लक्षणम् । एतावतैव लक्षणे पर्यवसिते सुहृद्भावेन प्रविभागाभिधानं पृथिव्यादिगुणा इति । पृथिव्यप्तेजांसि च गुणाश्च धर्माः संख्याकर्मादयः । प्रविभागेऽप्येतावतावगते गनधाद्यभिधानं सुहृद्भावेनेन्द्रियविषयनियमज्ञापनार्थम् । पृथिव्यादीनामिति भाष्यं न षष्ठीसमासज्ञापनार्थम्, अपि त्वर्थाभिधानमात्रम् । यथाविनियोगमिति । यथाक्रमं पृथिव्यादिष्वनिलान्तेषु गन्धादयः स्पर्शान्ताः चतुस्त्रिद्व्येकनियमेन विनियुक्ताः । शब्दश्चाकाश एवेत्यर्थः । तदर्था इति लक्षणपदं व्याचष्टेइन्द्रियाणामिति । येन क्रमेण घ्राणादय इन्द्रियसूत्रे पठिताः येन चेह गन्धादय, तदनतिक्रमेणेत्यर्थः । अत्र वार्त्तिककारः पृथिव्यादिगुणा इत्यत्रानेकसमासप्रतिभासनात्संशयं कृत्वा द्वन्द्वसमासमवधारयतिपृथिव्यादिगुणा इति । षष्ठीसमासेनाभिन्नार्थत्वात्सप्तमीसमासस्येत्यसौ न दर्शितः । ननु कण्ठेकाल इतिवद्वैयधिकरण्येन बहुव्रीहिर्भविष्यति पृथिव्यादीनां गुणा येभ्यो गन्धादिभ्यः, ते तथा । तथा हि परमाणुगता गन्धादयोऽवयविनि गन्धाद्यारभन्ते, नभोगतश्च शब्दो नभसि समानजातीयं शब्दमित्यत आहन चान्यथेति । ज्ञापकवशात्क्वचिद्व्यधिकरणानां बहुव्रीहिः । ज्ञापककृतं च न सर्वत्र । न च गन्धादीनां पृथिव्यादिगुणहेतुत्वप्रतिपादनं क्वचित्निर्वेदादावुपयुज्यत इति भावः । अन्यसमासः कर्मधारयादिः । द्वन्द्वमवधारितमाक्षिपतिन द्वन्द्व इति । समाधत्तेन, उभयस्यापीति । पृथिव्यादिग्रहणेनेति । यद्यादिशब्देन वाय्वादयो गृह्येरन्, तदर्था इति लक्षणमव्यापकं स्यात्, तेषां बाह्येन्द्रियार्थत्वाभावादित्यर्थः । गुणग्रहणेन सर्व इति आश्रितानाश्रितत्वाभिप्रायम्, गुणशब्दस्य धर्मवचनत्वात् । विशेषस्तु रेखोपरेखादिः न त्वन्त्यः, तस्यातीन्द्रियत्वात् । एतेषां च यथायोगं मिथ्याज्ञानसम्यग्ज्ञानविषयाणां रागवैराग्यहेतुत्वमूहनीयम् । चोदयतिगन्धेति । परिहरतिन कर्तव्यं लघुसूत्रम् । गन्धादीनां पृथगभिधानं कर्तव्यमित्यर्थः । नियममाहैन्द्रियाणीति । तत्रेत्यनियतेषु मध्ये, पृथिव्यप्तेजांसि द्वीन्द्रियग्राह्याणि, शेषश्च गुणराशिः संख्यादिर्विशेषान्तो द्वीन्द्रियाग्राह्य इत्यर्थः । तथा सर्वेन्द्रियग्राह्यैत्यर्थः ॥ अत्र बौद्धमुत्थापयतिदर्शनस्पर्शनाभ्यामिति । तस्य पर्यनुयोगमाहस इति । स्वसंवेदनेन वा मानसेन वा ज्ञानेन रूपाद्धालम्बनः, प्रत्ययो रूपादिविशिष्टो यथानुभूयते, एवं रूपाद्यतिरिक्तघटादिविशिष्टोऽनुभूयत इत्यर्थः । अत्र पर आहरूपादिभ्यस्तथा सन्निविष्टेभ्य इति । तथेत्याकारं निर्दिशति । सन्निवेशो व्यवस्थानम् । रूपादिपरमाणव एव तेन तेनाकारेण उत्पन्ना एकयोदकाहरणक्रियया व्यवच्छिन्ना घट इत्युच्यन्ते । अनुर्जनादिकया तु रूपादिव्यपदेशः । यथाह घट इत्यपि च रूपादय एवैकार्थक्रियाकारिणस्तथा व्यपदिश्यन्ते इति । निराकरोतिन, आकारार्थेति । तथार्थस्य यथापदार्थेन नित्याभिसम्बन्धात्यथा घटः, तथा सन्निविष्टा रूपादय इत्यर्थो गम्यते । तेन घटाकारेण घटसादृश्येनेत्ययमर्थः । तथा च दूषणमिति । दूषणान्तरमाहरूपादिमात्रे चेति । न तावद्रूपादिक्षण एको घटः, क्षणान्तरे तत्प्रयोगाभावप्रसङ्गात् । तस्माद् रूपादिमात्रमविवक्षितभेदं तथा सत्येतद्दूषणमित्यर्थः । शङ्कतेसंस्थानभेदादिति । यथासंस्थानां रूपादयोऽर्था अनुभूयन्ते, तथा सन्निविष्टेभ्यो घटादिप्रत्यया इत्यर्थः । निराकरोतिनैतदिति । अन्यत्वे तदेवावयवीति संज्ञाभेदमात्रम् । अनन्यत्वे व्यर्थाभिधानम् । शङ्कतेघटादिप्रत्यया इति । एकानेकविचारासहत्वादसन्त एव घटादयोऽनादिविकल्पवासनाजनितविकल्पप्रत्ययप्रतिभासिनः । शब्दशब्देन विकल्पमुपलक्षयतिशब्दवासनावशादिति । निराकरोतितदयुक्तमिति । बीजं मिथ्याप्रत्ययस्य सम्यक्प्रत्ययविषयोऽर्थः । तस्य क्वचिदभ्युपगमेऽभिमतार्थहानमित्यर्थः । यस्तु भिन्नलोकमर्यादतया ब्रूते आदिमान्मिथ्याप्रत्ययः सम्यग्ज्ञानं निमित्तीकरोति, अयं पुनरनादि । पूर्वपूर्वमिथ्याप्रत्ययजन्मा मिथ्याप्रत्ययप्रवाहः, कृतमत्र सम्यग्ज्ञानेनेति, तं प्रत्याहमित्याप्रत्ययाश्चैत इति । रूपाद्यव्यतिरेके अवयविन इत्यर्थः । परस्त्वव्यतिरेके प्रमाणमाहन नास्तीति । न हि मांसतोयातिरिक्तः कंश्चिद्यूषो नाम । नापि तृणराजतरूयतिरिक्ता पङ्क्तिर्नाम ॥ दूषयतिनायं हेतुरिति । ये घटादिभावमापन्ना भवतां दर्शने इति । कामेऽष्टद्रव्यकोऽणुरशब्दः रूपधातुररूपधातुः कामधातुरिति त्रैधातुकं जगत् । तत्र कामधातुस्वरूपमुक्तम् । कामे कामधातौ । अष्टद्रव्यकोऽणुः । रूपरसगन्धस्पर्शा इति चत्वारि द्रव्याणि, पृथिव्यप्तेजोवायव इति चत्वारि । द्रव्यशब्दो वस्तुवचनः । तेनाष्टद्रव्यकोऽणुरित्यागमः । सोऽयं रूपाद्यतिरिक्तपृथिव्याद्यनभ्युपगमे बाध्येत । अथ वैयात्यादुच्यतेपृथिव्यादीनामिति । ततश्च सांवृतत्वेनाष्टसंख्यासिद्धेर्नागमविरोध इति भावः । उत्तरम्तथापीति । मा भूवन् वस्तुतः, उभयेऽपि सांवृता भविष्यन्तीत्यत आहसंहन्यमानस्येति । यो हि यत्तन्त्रः स तदभावमभ्युपगम्याशक्याभ्युपगमः, न खलु संयुज्यमानानामभावे संयोगः शक्याभ्युपगम इत्यर्थः । न च संवृतिः, सा हि पररूपं स्वरूपेण संवृणोति, संहन्यमानाभावे च न संघातः, नापि संहन्यमाना इति किमनया स्वरूपेणाव्रियेतेति भावः ॥ तदेवं तदग्रहे तद्बुद्ध्यभावादित्यस्य व्याघातदोषं दर्शयित्वा स्वसामर्थ्यालोचने न विवक्षितलिङ्गाभिधायिता, किं त्वसंबद्धार्थता हेतुवचनस्येत्याहतदग्रहे इति । एवं किलात्राभिमतम्, पृथिव्यादयो रूपादिभ्योऽभिन्ना, रूपाद्यग्रहे पृथिव्यादिबुद्ध्यभावादिति । तन्नृ तदेत्ततदग्रहे तद्बुद्ध्यभावादित्यनेन न शक्यं वक्तुम् । तदग्रह इत्यत्र तच्छब्दः प्रधानपरामर्शी , पृथिव्यादयश्च धर्मितया प्रधानमिति त एव परामर्ष्टव्याः । तथा च पृथिव्याद्यग्रहे पृथिव्यादिबुद्ध्यभावादिति स्यात् । तथा च प्रतिज्ञातस्तेषां रूपाद्यभेदो न सिध्येदित्यसंबद्धम् । अथ रूपादयः पक्षीक्रियन्ते, तथापि रूपाद्यग्रहे रूपादिबुद्ध्ययभावादिति स्यात् । तथापि न प्रतिज्ञातार्थसिद्धिरित्यसंबद्धार्थमित्यर्थः । एवं शब्दान्तरेणापि प्रतिज्ञाप्रयोगे तुल्यः प्रसङ्ग इत्याहएवं रूपादिमात्रमिति । प्रतिज्ञादोषमाहसर्वत्र चेति । नानात्वैकार्थसंबन्धनियताया बहुत्वसंख्याया अभेदैकार्थनियतैकत्वसंख्यया सामानाधिकरण्यविरोध इत्यर्थः । तदेतदनैकान्तिकमिति चोदयतिनन्विति । निराकरोतितन्न, अनभ्युपगमादिति । समानं धर्मसाधनम् । यमाः पञ्च । नियमाश्च पञ्च । ब्रह्मचारिगृहस्थवानप्रस्थयतीनामविशेषेणैव दश धर्मसाधनम् । तेषां धर्मसाधनत्वमेकं चातुराश्रम्यमिति प्रकृतिगता विभक्तिराह । आश्रमप्रकृतिगता तु विभक्तिः प्रकृत्यर्थसमवेतामेव बहुत्वसंख्यामाह, समानार्थानामपि प्रकृतीनां रूपभेदेन तत्परस्य प्रत्ययस्य सामर्थ्यभेदात् । यथाप्तोयशब्दयोस्तुल्यार्थत्वेऽपि तोयशब्दात्परा विभक्तिस्तोयानीति तोयसमवेतामेव बहुत्वसंख्यामाह । आप इति न तोयगताम्, अपि तु तत्संबद्धगताम् । तत्संबद्धाश्च तदवयवाः, तद्गतरूपादयो वा बहव इत्येकस्यामपि पाथःकणिकायां बहुवचनोपपत्तिराप इति । न च सोरस्ताडं क्रन्दतोऽपि लोकस्याविनिवृत्तेर्नैवमिति साम्प्रतम् । लोको हि दृष्टव्यवहारमात्रप्रयोजनो न विवेचयति, परीक्षकास्तु तदनुसारिणो विवेचयन्त्येव । अन्यथा हि प्रत्यक्षादिलक्षणप्रणयनवैयर्थ्यप्रसङ्गः । एतेन दाराः षण्णगरीत्यादयोऽपि व्याख्याताः । षाङ्गुण्यमिति षण्णां गुणानामेकं राजप्रययोजनसाधकत्वम् । वैशेषिकमित्यत्रापि विशेषाणां समानासमानजातीयव्यवच्छेदकत्वमेकमच्यते इति गमयितव्यम् । हेतुदेषमाहअसिद्धोऽपीति । स्फटिकस्य धवलं रूपम् । तच्च नीलीद्रव्यानुषङ्गादभिभूतं न प्रतीयते । स्फटिकश्च प्रतीयते । न च नीलस्य स्फटिकलक्षणस्योत्पत्तिरिति तृतीये निवेदयिष्यते । तस्मादसिद्धो हेतुरित्यर्थः ॥ दृष्टान्तश्च साध्यविकल इत्याहयोऽप्ययमिति । उत्पन्नपाकजानां तैले सर्तिषि वा भृष्टमांसपिण्डावयवानाम्, द्रव्यान्तरेण तोयेन संपृक्तानां पाकजोत्पत्तौ सत्याम् । न चासौ सहसेति । अत उक्तम्कालविशेषानुग्रहे सतीति । स च संयोगभेद एव तोयमांसयोः, न त्ववयवी विजातीययोरनाम्भकत्वात् । नापि यूषजातीयं तोयसंयोगि द्रव्यं क्षीरजातीयमिवेति युक्तम् । तोयविरहे काठिन्यपि क्षीरबुद्धिव्यपदेशयोस्तादवस्थ्यत् । इह तु काठिन्ये न यूषबुद्धिव्यपदेशाविति संयोगभेद एव तोयमांसयोर्यूष इति न्याय्यम् । स चानुभवसिद्धः संयोगिव्यतिरिक्तः । एवं बहुत्वसंख्या संख्येयातिरिक्तानुभवसिद्धैवेति । एवं तत्र तत्र व्याख्येयम् । अनाद्यन्तेषु अनारव्धावयविष्विति द्रष्टव्यम् । न च परकीय साधनदोषोदभावनमात्रात्स्वपक्षसिद्धिरिति सिद्धान्तिनं साधनं पृच्छतिअथ रूपादिभ्योऽर्थान्तरे द्रव्ये किं प्रमाणमिति । यतोऽयं परो रूपादिभ्योऽर्थान्तरं द्रव्यं प्रत्यक्षेण विद्वानपि स्वसिद्धान्ताभ्यासाहितव्यामोहापस्मारो न तथा व्यवहरति, अतोऽनेनानुमानेन स व्यवहार्यते । अस्ति हि सर्वेषामेव लौकिकपरीक्षकाणां ब्राह्यणस्य कमण्डलुरितिवत्चन्दनस्य रूपादय इति व्यपदेशः । तत्र च परो रूपाद्युपलम्भमभ्युपगच्छति चन्दनोपलम्भमपि । अन्यथा तद्बुद्ध्यभावादित्येतावन्मात्रे वक्तव्ये कथमाह तदग्रह इति? तेनावगच्छामो रूपादिग्रहेऽस्य चन्दनबुद्धिरभिमतेति । न चासौ मनोमात्रयोनिः स्मार्तीति न्याय्यम् । उपपादितमेतस्याः सविकल्पिकाया इन्द्रियजन्यत्वं व्यवसायात्मकपदव्याख्यानावसरे । द्रव्यबाधकप्रमाणानि च परीक्षापर्वणि निराकरिष्यन्ते । तस्मात्सिद्धमुपलभ्यत्वं चन्दनस्य । सोऽयं चन्दनो विवादगोचरेभ्यो रूपादिभ्यो भिन्नः, स्वयमुपलभ्यस्य च समस्तैरूपलभ्यैर्व्यपदिश्यमानत्वात् । प्रधानमपि सांख्यैर्व्यपदिश्यते, प्रधानस्य रूपादय इति । तन्निवृत्त्यर्थमुपलभ्यस्येति । प्रधानं तु काल्पनिकं नोपलभ्यम्, तथापि रूपादीनां मूलकारणं प्रधानमित्यस्ति सांख्यानां व्यपदेशः । अत उक्तमुपलभ्यैरिति । तथापि रूपादीनां परस्परभिन्नानामन्योन्यं व्यपदेश्यव्यपदेशकभाव उपपत्स्यत इत्युक्तम्समस्तैरिति । अतः समस्तेभ्यो व्यपदेशकेभ्यश्चन्दनं भिन्नं भवति । उपलभ्यस्योपलभ्येनेति वक्तव्ये प्रत्यक्ष्स्य प्रत्यक्षेणेति वचनं रूपावगमसमयेऽनुमेयेभ्यो रसादिभ्य एकान्ततो व्यपदेशं व्यावर्तयितुम्, न त्वस्यानुमान उपयोग इति । अस्यानैकान्तिकत्वमुद्भाव्य निराकरोतिसेनावनादिभिरिति । संख्यायामसत्त्वमाशङ्क्य निराकरोतितदसत्त्वमिति चेदिति । विधीयमानं प्रतिषिध्यमानमिति यथासंख्यं निषेधस्य विध्यधीननिरूपणतया निषेध्यमेकत्वमङ्गीकार्यम्, तच्च संख्येत्यर्थः । ननु सन्त्वमी प्रत्ययाः, ते तु द्रव्यमात्रनिबन्धना भविष्यन्ति, कृतं संख्येत्यत आहविशिष्टाश्चेति । न द्रव्यातिरिक्तनिमित्तप्रत्याख्यानेन इत्यर्थः । प्रयोगान्तरमाहतत्प्रत्ययविषयनिमित्तप्रत्ययव्यतिरेकेणेति । घटप्रत्ययस्य विषयश्च, निमित्तं च, घटप्रत्ययश्च तद्व्यतिरेकेणेति, तद्विशिष्टसंख्यादिप्रत्ययस्य निमित्तान्तराकाङ्क्षित्वात् । तत्किमर्थमतुक्तमुत्पत्ताविति । चर्मणि द्वीपिनं हन्ति इतिवद्घटादिविषयनिमित्तव्यतिरेकभाज इत्यत्रापि प्रत्ययग्रहणं कर्तव्यम् । चोदयतिमहत्पुष्पितेति । न संख्याया गुणस्य परिमाणपुष्पयोगसम्भव इत्यर्थः । परिहरतिनैष देष इति । स्थानशब्देन तिष्ठतीति व्युत्पत्त्या संख्योच्यते । सा येषामस्ति ते गजवाजिपदातिप्रभूतयः स्थानिनः प्रत्येकं महान्तः । तत्र ते क्वचिच्छतमेव, क्वचित्पुनः स्वजातीयस्थान्यङ्गान्तरसन्निधाने सत्युपचिताः सहस्रं भवन्ति । तेन बहुत्वसंख्योपचयोपकरणा तदेकार्थसमवेतमहत्त्वोपचारात्महती सेनेत्युच्यते । न चैतावता यत्र शतं गजादयः यत्र च सहस्रं तयोः सेनयोर्महत्त्वाविशेषः, उपचयापचयोपकरणत्वेन विशेषितत्वात् । एवं पुष्पितवनादयोऽपि द्रष्टव्याः । प्रत्ययभेदाद्द्रव्यादिभ्यः संख्याया भेदमुक्त्वा व्यपदेशादभेदादप्याहअत एवेति ॥ स्थणुशब्देनापीति । मूर्तानां समानदेशत्वाभावात्न पर्वसु खदिरश्च स्थाणुश्च समवेतौ । न चावस्थितसंयोगेभ्यस्तरूविनाशापेक्षेभ्यः स्थाणोरूत्पत्तिरिति युक्तम् । यस्य द्रव्यस्य यावान् संयोगप्रचयोऽसमवायिकारणं स तावानुत्पन्नमात्र एव तज्जनकः, तस्य क्षेपायोगात् । तस्मात्पर्वणां संस्थानविशेष एव स्थाणुरिति गमयितव्यम् । अथावस्थितसंयोगानां द्रव्यविनाशापेक्षाणां जनकत्वम्, ततः संयोगप्रचयपदेन स्थणुत्वसामान्यविशेषवद्द्रव्यमुपलक्षणीयम् । तच्च खादिरतरोर्भिन्नमिति । प्रतिमाया महारजतमय्या अवयविन्याः शरीरं संस्थानमेव, एवं शिलापुत्रकस्य अवयविनः संस्थानमेव शरीरम् । शङ्कतेगुणसमुदायेति । अतादात्म्येनाग्रहणं व्यतिरेकेणाग्रहणं पृथक्शब्दोऽप्यतादात्म्यमेव ब्रूते । दूषयतिअग्रहणस्येति । सतामपि वस्तूनामनुपलम्भो यथा मूलकीलोदकादीनां प्रमाणाभावेन, शशविषाणादीनां चानुपलम्भो ग्राह्याभावेन । तस्माद्व्यतिरेकाग्रहणमात्रं हेतुरनेकान्त इति । शङ्कतेग्राह्याभावादिति चेत्? ग्राह्याभावे सत्यग्रहणादिति हेतुः, न त्वग्रहणमात्रमित्यर्थः । दूषयतिप्रतिज्ञार्थेनेति । प्रतिज्ञार्थस्यासत्त्वेन । तद्विशिष्टो हेतुरसिद्ध इत्यर्थः । शङ्कतेग्रहणेति । ग्रहणं प्रमाणम् । निराकरोतिन प्रमाणाभावमात्राद्व्यतिरेकप्रतिषेधः, यस्तु योग्यप्रमाणाभावादिति विशेषयेत्तं प्रत्याहयश्च तदग्रह इति । असिद्धता हेतोर्देषः । दर्शनस्पर्शनाभ्यामेकार्थप्रतिसन्धानमेव रूपादिव्यतिरिक्तद्रव्यग्रहणम् । अतो गुणसमुदायव्यतिरेकेणाग्रहणादित्यसिद्धो हेतुरिति । एकत्र अन्यत्वे । प्रमाणानामुपपत्तेः । एकत्र अनन्यत्वे चानुपपत्तेरिति । प्रकृतमुपसंहरतितस्मादिति ॥१४ ॥ ____________________________________________________________________ ण्य्ष्_१,१.१५ बुद्धिरूपलब्धिर्ज्ञानमित्यनर्थान्तरम् ॥ आत्मादीनां बुद्धिहेतूनां लक्षणस्यानन्तरं हेतुमती बुद्धिर्लक्षणीयेत्याह वार्त्तिककारःथ बुद्धेरवसरप्राप्ताया इति । लक्षणं तावत्प्रकृतत्वादपदेष्टव्यमेव, तदपदेशद्वारेणान्यदपि किञ्चित्सूचनीयम् । अत एवोक्तम्सूत्रमिति । अन्यच्च सांख्यमतनिराकरणम् । यथोक्तं भाष्यकारेणअचेतनस्य करणस्य बुद्धेरिति । इवकारेण नेदं प्रत्याख्यानपरम्, अपि तु लक्षणपरादयमप्यर्थः प्रतीयमानोऽपेक्षितश्च नोपेक्षणीय इत्युक्तं भवति ॥ बुद्धिरम् ॥१५॥ सूत्रतात्पर्यमाहएतैरिति । पृच्छतिकथमिति । समानासमानजातीयव्यवच्छेदकं हि लक्षणमव्यभिचारितया । पर्यायशब्दाश्च संकेतमात्राधीनप्रवृत्तयः क्व नाम न सम्भवन्ति? तस्मात्नैते लक्षणमिति भावः । उत्तरम्व्यवच्छेदेति । ननु व्यभिचारसम्भवेन व्यवच्छेदकत्वमयुक्तमित्यत आहएतैश्चेति । संकेतो हि द्वेधा, सर्वजनीनो यथा गौरिति गोजातीयस्य वायकः, प्रादेशिकश्च यथा चैत्र इति पुरुषभेदस्य । तत्र सर्वजनीनः शक्नोति व्यवच्छेदबुद्धि भावयितुम्, तद्विवक्षयैवोक्तमेतैश्चेति । उपपत्तिसामर्थ्यादिति भाष्यावयवं व्याचष्टेपर्यायेति । अचेतनस्येत्यादि भाष्यम् । तद्व्याचष्टेय आहुर्बुद्धेरिति । बुद्धिः किलत्रैगुण्यविकारः । त्रैगुण्यं चाचेनमित्यचेतना केवलमिन्द्रियप्रणालिकया अर्थाकारेण परिणमते । चितिशाक्तिश्चापरिणामिनी नित्यचैतन्यस्वभावा । तस्याः सन्निधानादयस्कान्तमणिकल्पा बुद्धिस्तत्प्रतिबिम्बोद्ग्राहितया चैतन्यरूपतामापन्नेवार्थाकारपरिणतार्थं चेतयते । तेन योऽसौ नीलाकारः परिणामो बुद्धेः, स ज्ञानलक्षणा वृत्तिरित्युच्यते । आत्मप्रतिबिम्बस्य तु बुद्धिसंक्रान्तस्य यो बुद्ध्याकारनीलसम्बन्धः, स आत्मनो व्यापार इवार्थोपलब्धिरात्मनो वृत्तिरित्याख्यायते । तदिदं बुद्धितत्त्वं जडप्रकृतितया इन्दुमण्डलमिव स्वयमप्रकाशं चैतन्यमार्तण्डमण्डलच्छायापत्त्या प्रकाशते, प्रकाशयति चार्थानिति । तन्निराकरणाय पर्यायोपन्यासः । नात्मवृत्तेरूपब्धेरन्यास्ति बुद्धिः । नापि बुद्धिवृत्तिर्ज्ञानमन्यदिति । अयमभिसन्धिः । न तावद्बुद्धेरात्माच्छायापत्तिरिन्दाविव मार्तण्डमण्डलतेजःसंक्रान्तिः पारमार्थिकी, चितेरपरिणामितया संक्रमायोगात् । तस्माद्भ्रान्तिः । सा च न तावद्बुद्धेः, तस्या अचैतन्यात् । नाप्यात्मनः, तस्यावृत्तिकत्वात्, तथात्वे वा परिणामापत्तेः । तस्मात्कृपणधनमिवात्मचैतन्यं न स्वपरोपकारीति बुद्धेः स्वाभाविकं चैतन्यमास्थेयम् । तथा च उभयचैतन्ये दूषणमुक्तम् । प्रत्ययव्यवस्थया यदेककर्तृत्वानुमान तन्न स्यादित्यर्थः । अथ द्वयोश्चेतनयोरेका वृत्तिर्भेदाग्रहो वा, तेनैककर्तृकत्वाभिमान इत्यत आहबुद्धिवृत्त्यविशिष्टायामिति । बुद्धिर्ज्ञानसाधनमिति । बुध्यतेऽनेनेति व्युत्पत्त्या मन उच्यते । गन्धादिविषयतया सुखदुःखविषयतया चेयं बुद्धिर्भाव्यमाना निर्वेदाय कल्पत इति ॥१५ ॥ ____________________________________________________________________ ण्य्ष्_१,१.१६ युगपज्ज्ञानानुत्पत्तिर्मनसो लिङ्गम् ॥ भाष्यकारः क्रमप्राप्तं मनोलक्षणसूत्रमवतारयनुत्सूत्रमन्यान्यपि लक्षणानि आहस्मृतीत्यादि । सुखादिप्रत्यक्षमित्यादिशब्देन विषयतयेच्छादयः संगृहीताः । इच्छादय इत्यत्रादिशब्देन कार्यतया सुखादयः संगृहीताः ॥ युगङ्गम् ॥१६॥ अनिन्द्रियनिमित्ता अबाह्येन्द्रियनिमित्ता इत्यर्थः । स्मृतीत्यादिभाष्यस्य वार्त्तिककारः तात्पर्यमाहस्मृतीति । अनिन्द्रियेत्यादिभाष्यं व्याचष्टेयस्मादिति । इन्द्रियगतरूपादिनिवृत्त्यर्थयुक्तमिन्द्रियसंयोगीति । तथापि आकाशादीनामपि मनस्त्वं मां भूदित्यत उक्तम्सहकारीति । तथाप्यालोकस्य मा भूदित्यत उक्तम्निमित्तान्तरमिति । तथाप्यात्मनो मा भूदित्यत उक्तमव्यापीति ॥ आक्षिप्य भाष्यं समाधत्तेकथं पुनरिति । चक्षुरादिभ्योऽनुत्पत्तौ सत्यां क्रियात्वात् । अत्र च य आत्मनो विशेषगुणास्ते सर्वे इन्द्रियजन्मानो यथा गन्धादिप्रत्ययाः, तथा च विवादाध्यासिताः स्मृत्यादयः । तस्मात्तेऽपीन्द्रियजन्मानः । एवं च संस्कारादिषु न करणत्वप्रसङ्ग इति । सौत्रं हेतुमाक्षिप्य समाधत्तेअथायुगपदिति । सम्बन्धिभेदादिति । यदा तस्यैव मनःसंयुक्तस्येन्द्रियस्य क्रमेण नीलादयोऽर्थाः सम्बध्यन्ते तदा तत्क्रमात्क्रम इत्यर्थः । बुभुत्साक्रमं गृहीत्वा सिद्धान्तेऽपि मनःपरित्यागो मा भूदिति भिया उक्तम्सत्यां बुभुत्सायामयुगपद्ग्रहण इति । न हि किञ्चित्करणं सम्बद्धमपि सदिति स्यात् । यद्येवं धारावाहिकज्ञानोत्वत्तिर्न स्यात्, द्वितीयादिज्ञानेष्वपि सैव सामग्रीति सकृदेव यावत्कर्तवयकरणात्समर्थस्य क्षेपायोगात् । क्षेपयोगे वा पश्चादपि न जनयेत्, अविशेषात् । न च कर्तुरप्ययं क्रमकारिताधर्मः स ह्यनेककरणाधिष्ठानेन युगपन्नानाकार्याणि करोति । यथा युगपन्माणवको गच्छति, पठति, पन्थानं वीक्षते, वहति चाचार्यस्य कमण्डलुमिति । तस्मात्सर्वमवदातम् । तदिदमपिमनः स्मृत्यादिसाधनतया भाव्यमानं निर्वेदाय कल्पत इति सद्धिम्॥२६ ॥ ____________________________________________________________________ ण्य्ष्_१,१.१७ प्रवृत्तिर्वाग्बुद्धिशरीरारम्भः ॥ क्रमप्राप्ता त्विति भाष्यं प्रवृत्तिलक्षणभवतारयितुम् । मनसोऽपि प्रवृत्तिर्दर्शनीया । न चाप्रतिपादिते मनसि शक्या दर्शयितुमिति मनसोऽनन्तरत्वं प्रवृत्तेरित्यर्थः ॥ प्रवृम्भः ॥१७॥ आरम्भ प्रवृत्तिः । सा च द्विविधा ज्ञानहेतुः क्रियाहेतुश्च । तत्र या ज्ञानोत्पादद्वारेण पुण्यपापहेतुः सा वाक्प्रवृत्तिः । वागिति च ज्ञापकहेतूपलक्षणम् । तेन मनसा इष्टदेवताद्यनुचिन्तनं चक्षुरादिभिश्च साध्वसाधुदर्शनादि सूचितं भवति । क्रियाहेतुर्द्वयी कायनिमित्ता मनोनिमित्ता चेति । तदेतद्वार्त्तिककारो विभजतेशरीरेणेति । ननु प्रवृत्तेर्जन्महेतुत्वमुक्तं द्वितीयसूत्रे । न चेयं क्षणिका सती आमुष्मिकं जन्म साधयितुमर्हति । तस्माद्द्वितीयसूत्रव्याघात इति चोदयतिक्षणिकत्वादिति । परिहरतिनेति ॥१७ ॥ ____________________________________________________________________ ण्य्ष्_१,१.१८ प्रवर्तनालक्षणा दोषाः ॥ प्रयोज्यव्यापारपूर्वकत्वेन प्रयोजकव्यापारनिरूपणात्प्रवृत्त्यनन्तरं दोषलक्षणम् ॥ प्रवषाः ॥१८॥ रागद्वेषौ मोहप्रभवौ पुरुषं प्रवर्तमानं प्रवर्तयतः । तयोर्धर्मः प्रवर्तना । सा च मोहैकार्थसमवायः । तावद्धि अयं रागादिवशः स्पन्दते, यावदस्य मोहो वर्तते इति । प्रत्यात्मवेदनीया इत्यादि चोद्यभाष्यम् । तस्यार्थः । लक्षणं खल्वनुमानम् । न प्रत्यात्मवेदनीयेषु समानासमानजातीयव्यावृत्तेषु स्फुटतरेषु तद्युक्तमिति भावः । परिहारभाष्यम्कर्मलक्षणा इत्यादि । तस्यार्थः । स्वरूपतः स्फुटत्वेऽपि न निर्वेदविषयतया स्फुटता । तथा चेह प्रयोजनम् । प्रवर्तनावत्त्वेन चैते निर्वेदविषयाः । सा च प्रवृत्त्या कार्येण लक्ष्यत इति कर्मलक्षणा इत्युक्तम् । यतः कर्मणा प्रवृत्त्या प्रवर्तकरागादियुक्ताः पुरुषा लक्ष्यन्ते, अतो रागादीनां प्रवर्तनावत्वत्त्मपि लक्षितं भवति । बहु नोक्तं भवतीति । स्वरूपमात्रं रागादीनामुक्तं भवति, न तु प्रवर्तनावत्वमपि तेषामित्यर्थः । तदेतत्सर्वं वार्त्तिककारः प्रश्नपूर्वकं व्याचष्टेका पुनरिति । अवशोऽस्वतन्त्रः । सा पुनरियं प्रवर्तना प्रवर्तकानां दोषाणां व्यापारः कथं गम्यते? दोषा हि गम्यन्ते, न तु तेषां प्रवृत्तिहेतुत्वमित्यर्थः । उत्तरम्प्रत्यात्ममिति । स्वपरात्मनोर्यथासंख्यं प्रत्यक्षानुमानाभ्यम् । मौहैकार्थसमवायो हि रागादीनां मानस प्रत्यक्षवेदनीय इत्यर्थः ॥१८ ॥ ____________________________________________________________________ ण्य्ष्_१,१.१९ पुनरुत्पत्तिः प्रेत्यभावः ॥ उद्देशक्रमप्राप्तं प्रेत्यभावं लक्षयनिपुनःवः॥१९ ॥ सत्वनिकायः प्राणिनिकायः । नन्वात्मनो नोत्पत्तिः संभवति नित्यत्वादित्यत आह भाष्यकारःुत्पन्नस्य संबद्धस्येति । तदेतद्वार्त्तिककारो व्याचष्टेपूर्वेति । पुनर्ग्रहणमिति । पुनरित्यभ्यासमाह, तथा चानादिता सूचिता भवति । तदेतद्वार्त्तिकजातं द्वितीयसूत्रे कृतव्याख्यानम् । पूर्वाभ्यस्तसूत्रे चायमर्थ उपपादयिष्यते । आजर्जरीभाव इत्यायमभाषया अस्यार्थस्यागमिकत्वं सूचयति । क्रियामिति उपसर्पणमपसर्पणं चेत्यर्थः॥१९ ॥ ____________________________________________________________________ ण्य्ष्_१,१.२० प्रवृत्तिदोषजनितोऽर्थः फलम् ॥ यद्यपि शरीरेन्द्रियबुद्धिसुखदुःखोपभोगातिरिक्तं गौणमुख्यफलं भिन्नं नास्ति, ते च यथायोगं पूर्वं लक्षिताः, तेनापि च रूपेण ते निर्वेदोपयोगिनः, तथापि प्रवृत्तिदोषजनितत्वेनापि रूपेणामी निर्वेदोपयोगिन इति तेन रूपेण लक्ष्यन्ते ॥ प्रवृलम् ॥ अत्र च प्रवृत्तिजनित इति वक्तव्ये दोषग्रहणं न केवलं प्रवृत्ति प्रति दोषाणां हेतुभावः, अपि तु प्रवृत्तिकार्ये सूखदुःखे अपि प्रति इति दर्शनार्थम् । दोषसलिलावसिक्तायां खल्वात्मभूमौ धर्माधर्मबीजे सुखदुःखे जनयतः, नान्यथा । न चास्ति सम्भवो न तत्र तृष्यति तच्च तस्य सुखम्, न च तद्द्वेष्टि तच्च तस्य दुःखमिति । सूत्रे अर्थग्रहणं गौणमुख्यफलावरोधार्थम् । भाष्ये च निष्ठा समाप्तिः । सा च महाप्रलयेऽष्यस्तीत्यत उक्तम्पर्यवसानमिति । अवसानमात्रमस्ति, न तु परितः पुनरपि सर्गहानोपादानयोर्भावादित्यर्थः । सुबोधं वार्त्तिकम्॥२० ॥ ____________________________________________________________________ ण्य्ष्_१,१.२१ बाधनालक्षणं दुःखम् ॥ नानुक्ते शरीरादौ तेषां दुःखत्वं शक्यं लक्षयितुमिति तल्लक्षणेभ्यः परमिदन्दुःखलक्षणम् बाधखम् ॥२१॥ अत्र च बाधनेति बाधनाविषयां बुद्धिमुपलक्षयति । तेन बाधना च तदनुषङ्गिणश्च शरीरादयो गौणमुख्यभावेन लक्षिता भवन्ति । सैव हि बाधना बुद्धिर्दुःखे मुख्या, शरीरादौ गौणीति । अलमेभिरिति प्रत्ययो निर्वेदः, वशितया योगिनः स्वयमुपलभन्ते स्वयमुपनीतेष्वपि विषयेषु औदासीन्यमुपेक्षाबुद्धिर्वैराग्यम् । लक्षणशब्द इति वार्त्तिकम् । अनुषङ्गश्च सम्बन्धः । स च बाधनायां विषयविषयीभावः । शरीरादिषु उक्तः । केचिद् विरक्तंमान्या मान्यन्ते न सुखं नामास्ति स्वरूपत इति । तान्निराचिकीर्षुराहस्वरूपतस्तु दुःखमिति । विकल्पो विशेषः । अभावफलत्वप्रसङ्गादिति । यद्यप्युपात्तदुरितक्षयहेतवोऽपि धर्माः सन्ति, तथाप्यधिकाधिकोत्कर्षफलानां दर्शपौर्णमासादीनां सहस्रसंवत्सरपर्यन्तानां विधायकेभ्यो वचनेभ्यो भावफल एव धर्मो गम्यते भावस्यैबोत्कर्षशालित्वादिति ॥२१ ॥ ____________________________________________________________________ ण्य्ष्_१,१.२२ तदत्यन्तविमोक्षोऽपवर्गः ॥ क्रमप्राप्तमपवर्गलक्षणमवतारयति भाष्यकारःयत्र त्विति ॥ तदर्गः ॥२२॥ तदित्यनन्तरं गौणमुख्यभेदभिन्नं दुःखं परामृशतीत्याह भाष्यकारःतेन दुःखेनेति । मुख्यमेव दुःखमिति भ्रमो मा भूदत आहजन्मनेति । अनेन जायमाना दुःखशब्देन सर्वे शरीरादय उच्यनते इत्युक्तं भवति । अभयमिति पुनः संसारभयाभावमाह, अभयं वै ब्रह्म इत्यसकृदभयश्रुतेः । ये तु ब्रह्मैव नामरूपप्रपञ्चात्मना परिणमत इत्याहुः, तान् प्रत्याहअजरमिति । सर्वात्मना वा परिणाम, एकदेशेन वा? पूर्वस्मिन् कल्पे सर्वात्मना ब्रह्मणोऽन्यथात्वाद्विनाशप्रसङ्गः । एकदेशपरिणामे तु सावयवत्वात्घटदिवदनित्यत्वप्रसङ्गः इति सूक्तमजरमिति । वैनाशिकाः प्राहुः इति । तान् प्रत्याहअमृत्यपदमिति । एतदुपपादयिष्यत्यग्रे वार्त्तिककारः । तदेतद्भाष्यं वार्त्तिककारो व्याचष्टेतेनेति । आत्यन्तिकग्रहणं महाप्रलयावस्थानिवृत्त्यर्थम् ॥ अत्र भाष्यं नित्यं सुखमात्मन इत्यादि । अस्यार्थः विज्ञानमानन्दं ब्रह्म इति सामानाधिकरण्यश्रुतेः ब्रह्मस्वभावं सुखम्, तया च ब्रह्मणो नित्यत्वात्तदपि नित्यमित्यर्थः । आत्मन इति च षष्ठी राहोः शिर इतिवत्मन्तव्या । तदेतद्भाष्यं व्याचष्टेआत्यन्तिकीति । तेषामित्यादि भाष्यं व्याचष्टेतन्नेति । अत्रानुमानमुपन्यस्यातिप्रसङ्गेन निराकरोतिन, नेति । अथात्मनि दुःखादिकं नित्यं नेच्छति, तत्राहअनैकान्तिकता वा । नित्यस्याभिव्यक्तिरित्यादिभाष्यार्थमाहनित्यमिति । अयमभिसन्धिः । सुखं तावदात्मनो गुणो नात्मा । उपपादितो हि गुणगुणिनोर्भेदः । एवं विज्ञानमप्यात्मगुणः,न ह्युदयव्ययवतीभ्यो विज्ञानव्यक्तिभ्योऽनुदयव्ययधर्मा भवितुमर्हत्यभिन्न आत्मा । न चात्मैव विज्ञानस्वभावः तत्तद्विषयोपधानेनोदयव्ययधर्मेव भवतीति सांप्रतम् । घटमहं जानामीति मानस्यां बुद्धौ त्रयाणामपि ज्ञानज्ञेयज्ञातणां भेदेनानुव्यवसायात् । विषयतज्ज्ञानभेदेऽपि च ज्ञातुरेकस्य प्रतिसन्धीयमानत्वात् । न चैतदसति बाधके भेदज्ञानं भ्रान्तमिति युक्तम् । न चागन्तुकज्ञानातिरिक्तं स्वाभाविकमात्मनि चैतन्यमनुभूयते । न चात्मैव तत्स्वभावः, सुषुप्तत्वानुपपत्तेः । अचेतयन्नेव हि सुषुपत इत्युच्यते । न च तदा विषयशून्यं स्वनिष्ठमात्मचैतन्यमिति युक्तम् । तदवस्थाभेदस्य सुषुप्तोत्थितेन स्वप्नान्तिकस्येव स्मरणप्रसङ्गात् । सुखं च न ज्ञानजातीयमित्युपपादितं प्रत्यक्षसूत्रे । न च किञ्चिदपि सव प्रकाशमस्तीति चतुर्थे विज्ञान वादं निराकुर्वन् वक्ष्यति ॥ तदेवं व्यवस्थिते दूषण भाष्यवार्त्तिकोक्तं द्रष्टव्यं यथायमात्ममनःसंयोग इति । संसारावस्थायां तावदयमात्ममनःसंयोगो धर्मं निमित्तमपेक्षमाणः सुखज्ञानमाकार्षीत् । यदि तु मुक्त्यवस्थायां तदनपेक्ष एव सुखज्ञानं करोति, हन्त रूपादिज्ञानेषु इन्द्रियान्तराण्यपि नापेक्षेतेति भावः । शङ्कतेयोगजेति । न वयं विषयमात्रापेक्षां ब्रूमो येन रूपादिष्वपि ज्ञानमुत्पादयेत्, अपि तु संसारावस्थायां यत्सुखज्ञानायानेनापेक्षितं तदपेक्षते । धर्मश्च तदा तेनापेक्षित इति मुक्त्यवस्थायामपि धर्ममेवापेक्षते । एतावान् विशेषो यदयं योगज इति । तथा च न रूपादिविज्ञान प्रसङ्ग इति । शङ्कतेनित्योऽसाविति । निराकरोतियोगेति । ननु त्वन्मते यथा सुखसंवेदनं जिहासितम्, एवमस्मन्मतेऽपि सुखसंवेदनहानाय घटिष्यत इत्यत आहन चायं सुखमिति । अस्मन्मते हि दुःखहानायैव तदनुषक्तं सुखं जिहासितम् । नित्यं तु सुखं सर्वदुःखविनिर्मुक्तं सन्न दुःखहानाय जिहासितं संभवति इत्यर्थः । न केवलमानुकूल्यात्प्रतिबन्धकत्वं नास्ति शरीरादीनाम्, प्रत्युत मुक्त्यवस्थायामपि कल्पनीयता इत्याहनित्यं शरीरादि इति । सिद्धान्तिनो वचनमनुभाष्य देशयेतिप्रमाणाभावादित्युक्तं तच्च नेति । शास्त्रेण हि मोक्षसाधने लोकः प्रवर्तनीयः । अप्रवर्तमानश्च प्रवर्तनीयः । इष्टार्थी च प्रवर्तते तत्साधने । सुखं चेष्टम् । सुखात्मको मोक्ष इत्यर्थः । सेयं लोकप्रवृत्तिरनैकान्तिकत्वेन संशयहेतुरिति परिहरतिन, प्रवृत्तीति ॥ स्यादेतत् । मुख्यासंभवे गौणमरीयते । सुखशब्दश्च सुखे मुख्यः, भाक्तस्तु दुःखनिवृत्तौ । तस्मात्नित्यानन्द एव मोक्ष इत्यत आहयदि पुनरिति । संचक्षाणकः संख्यानप्रवृत्तो योगी । धर्माधर्मौ तावदात्मनि पारमार्थिकौ, न त्वविद्याकल्पितौ । तौ च वीतरागेणासक्तेन सता शक्यौ भोगेन क्षेतुम्, न तु शक्तने । स हि सक्तस्तेषु तेषु विषयेषु उपात्तमुपात्तं भु।जानः त्यक्तं त्यक्तं चोपाददानः संसारात्न मुच्येत । तस्मादयं रागो बन्धनमिति समाज्ञातः । तन्निबन्धना च प्रवृत्तिः परिहर्तव्या । अन्यथा तु नित्यसुखावधारणलालितेयं तृष्णापिशाची लब्धप्रसरा विषयसुखेष्वपि प्रत्यासन्नेषु पुरूषं प्रवर्तयन्ती मोक्षमस्य सूदूरं प्रतिक्षिपेदिति मनागपि प्रसरोऽस्या न दातव्यः । तस्मात्नित्यानन्दप्रतिपादकश्रुतिरात्यन्तिके दुःखवियोगे भाक्तीति युक्तमिति भावः । चोदयतियद्यपीति । रागवद्द्वेषस्यापि प्रसरो न दातव्यः । तस्य च त्वया प्रसरो दत्त इति तुलयो दोष इति । परिहरतिन, अप्रतिकूलत्वात् । यथा नित्यसुखोपादानं मोक्षमप्रतिकूलया सक्त्या सप्रतिकूलं नैवमात्यन्तिकदुःखहानं दुःखद्वेषानुषक्तम् । द्वेषः क्रोधो मन्युरित्यनर्थान्तरम् । ज्वलनात्मको हि स भवति । नैवं वैराग्यम् । अलं प्रत्ययो हि स इत्यप्रतिकूलं दुःखहानमित्यर्थः । तदनेन नित्यं सुखमात्मनो मोक्षेऽभिव्यज्यते इत्यादि तस्मिन् प्रहीणे नास्य नित्यसुखरागः प्रतिकूलो भवतीत्येवमन्तं भाष्यजातं व्याख्यातं वेदितव्यम् । यद्येवमित्यादेर्भाष्यस्यायमर्थः । एवं वैराग्येण मोक्षमाणस्य प्रवृत्तो सत्याम्, मुक्तस्य यदि नित्यं सुखं भवति कामं भवतु मा वा भूत्, उभयोरपि पक्षयोः वीतरागस्य प्रवृत्तौ न मोक्षाधिगमो विकल्प्यते, न सन्दिग्धो भवतीत्यर्थः ॥ वैनाशिकानां मोक्षमुपन्यस्यतिचित्तं विमुच्यत इति । संसारी हि मुच्यते । रागादयस्तद्धेतवः । न चात्मनि नित्ये रागादयः संसारं कर्तुमुत्सहन्ते, नित्यस्याविकार्यत्वेन तादवस्थ्यादुपनेयापनेयाभावात् । यथाहुः, वर्षातपाभ्यां किं व्योम्नश्चर्मण्यस्ति तयोः फलम् । चर्मोपमश्चेत्सोऽनित्यः खतुल्यश्चेदसत्फलः ॥ इति । चित्तं तु कार्यं रागादिवशात्संसारी, तद्वियोगाच्च मुच्यते इति युक्तमित्यर्थः । देवमनुष्यादिजातिः गतिः तत्रोत्पत्तिः । तदेतद्दूषयतिन, अयत्नत इति । क्षणिकत्वात्चित्तस्य, जन्मविनाशप्रयोजनमेव । जन्मान्तरं हि विनाश इति क्षणस्याभेद्यत्वेनोपनेयापनेयाभावात् । स्वरसभङ्गित्वाच्च वैयर्थ्यमित्यर्थः । शङ्कतेसन्ततेरिति । अनादिः खलु कार्यकारणप्रवाहरूपा बुद्धीनां सन्ततिः । सा चात्मसाक्षात्कारोन्मूलितसवासनक्लेशजालस्य निवर्तते । निवृत्तिश्चेयमेव तस्या यत्तत्सन्तानवर्तिनश्चेतसोऽनागतस्यानुत्पाद इति भावः । निराकरोतिन, तस्याशक्यत्वात् । उत्पन्नस्यानुत्पादो न शक्यः, नापि सन्ताननिवृत्तिः शक्या कर्तुम्, अन्त्यक्षणानुपपत्तेः । स हि अन्त्यः क्षणः किञ्चिदारभते न वा? आरम्भे नान्त्य इति न कार्यकारणप्रवाहनिवृत्तिः, प्रवाहश्च सन्तान इति न सन्ताननिवृत्तिः । अनारम्भे तस्यासामर्थ्येनासत्त्वम् । ततः पूर्वे सर्वेऽपि क्षणा असन्तः स्युरिति कस्योच्छेद इति भावः । शङ्कतेअनागतानुत्पाद इति । तथा सत्यनागतानुत्पादलक्षणार्थक्रियाकारित्वादन्त्यक्षणोपपत्तिरिति भावः । निराकरोतिअनागतेति । प्रागभावस्यानादित्वादित्यर्थः । पृच्छतितर्हि कस्येति । नित्यस्यानुपकार्यत्वादपनेयाभाव इति भावः । उत्तरम्य इति । यथा चाक्षणिकस्योपकार्यत्वं तथा क्षणभङ्गभङ्गे उपपादयिष्यत इति सद्धिम् ॥२२ ॥ ____________________________________________________________________ ण्य्ष्_१,१.२३ समानानेकधर्मोपपत्तेर्विप्रतिपत्तेरूपलब्ध्यनुपलब्ध्यव्यवस्थातश्च विशेषापेक्षो विमर्शः संशयः ॥ संशयलक्षणावतारणपरं भाष्यं स्थानवत एतर्हि इति । तस्यार्थः । स्थानं क्रमः । तद्वतः । एतर्हि इदानीमिति । क्कचित्पाठः स्थानवत एव तर्हीति । तर्हि तदानीमुद्देशसमये, क्रमवतः संशयस्य प्रमेयानन्तरमुद्दिष्टस्य, प्रमेयलक्षणानन्तरं स्थानं क्रमो लक्षणस्येत्यर्थः । तदेतद्वार्त्तिककारो व्याचष्टेप्रमेयेति । एतदेव स्फुटयनियति । स्थानं क्रमग्रहणेन व्याख्यातम्, मतुबर्थश्च प्राप्तिग्रहणेन ॥ समायः ॥ अत्र च विमर्शः संशय इति संशयसामान्यलक्षणम् । तत्र संशय इति लक्ष्यनिर्देशः, विमर्श इति लक्षणपदम् । एकस्मिन् धर्मिणि विरोधिनानार्थावमर्शो विमर्शः, किं स्विदिति ज्ञानम् । तदनेनासमानजातीयेभ्यः प्रमाणादिभ्यः समानजातीयेभ्यश्च विपर्ययादिभ्यः संशयो निवर्तितो भवति । समानेत्यादीनि तु त्रीणि विशेषलक्षणानि । तेषु च विमर्शः संशय इत्येतदनुवर्तनीयम् । अत्र विशिष्टोऽवमर्शो विमर्शविशिष्टः संशय इति लक्ष्यपदम् । समानधर्मोपपत्तेरनेकधर्मोपपत्तेर्विप्रतिपत्तेरिति त्रीणि प्रत्येकं शेषैः पदैरूपेतानि लक्षणानीति । तदेतदाह वार्त्तिककारःतत्र समानेति । त्रिविध एवेति ये पञ्चविधमाचक्षते ते निराकृताः । तदनवधारणज्ञानं स संशय इति संशयसामान्यलक्षणपरं भाष्यं व्याचष्टेतत्र विषयस्वरूपेति । प्रत्ययोऽनवधारणात्मकश्चेति । आक्षेपपरिहारौ प्रथमसूत्र एव व्याख्यातौ । प्रत्ययशब्दस्य निश्चयवचनत्वमभ्युपेत्य व्याख्यानं प्रतीयत इति । परमार्थतस्तु प्रत्ययशब्दो ज्ञानपर्यायः । ज्ञानत्वं च सामान्यं संशयादिष्वप्यस्तीति न विरोध इति ॥ समानधर्मोपपत्तेरिति व्याचष्टेसमानेति । विकल्प्याक्षिपतिकिं पुनरिति । कस्मादिति । मा कार्षीद्द्रव्ये संशयम्, गुण एव कस्मात्न करोतीति प्रश्नार्थः । समाधत्तेन, साधारणेति । यादृशं संख्याप्रचयपरिमाणभदयोनि परिमाणं स्थाणुपुरूषयोः, तादृशमास्यापि पुरोवर्तिनो द्रव्यस्य परिमाणम् । तस्मात्सदृशपरिमाणधर्मस्य धर्मिण उपपत्तेरित्यर्थः । महत्वदीर्घत्वसामान्यधर्मयोगस्तु सन्नपि न संशयकारणम्, असादृश्ये तद्योगेऽपि संशयाभावादिति भावः । स्यादेतत् । उपपत्तिः सत्ता । न च सदृशो धर्मः सत्तामात्रेण संशये हेतुः, अपि तूपलब्धः । न चोपलब्धिवाचकमत्रास्ति पदमित्यत आहतस्योपपत्तिरध्यवसाय इति । यद्यप्ययमुपपत्तिशब्दः सत्तावचनस्तत्परश्च, तथापि पदान्तरसमभिव्याहारादवगम्यते सत्तामात्राभिधानेऽपि तदुपलब्धिर्विवक्षितेति । विषयविषयिणोरभेदविवक्षया सामानाधिकरण्यमुपपत्तिरूपलब्धिरिति । पृच्छतिकस्मादिति । अस्मदायत्ते हि शब्दप्रयोगे किमित्यवाचकं प्रयोक्ष्यामह इत्यर्थः । उत्तरमनुक्तमपीति । विशेषापेक्षा इति वचनेन विशेषस्यापेक्षा उच्यते । अपेक्षाशब्दश्च यद्यपीच्छायां वर्तते, तथापीह जिघृक्षायां वाक्यसामर्थ्यात् । न च सा संशयस्य हेतुः, तस्याः संशये सति भावात् । तस्माद्विशेषापेक्षया विघृक्षालक्षणयेह विशेषयोः पुरोवर्तिवस्तुसादृश्यात्स्मरणे सत्यग्रहणं लक्षणीयम्, यथा गङ्गाशब्दस्तीरं संबद्धमेव लक्षयति, न तु तीरमात्रम् । अनेनैवाभिप्रायेण वक्ष्यति भाष्यकारः विशेषस्मृत्यपेक्ष इति । तस्माद्विशेषग्रहणप्रतिषेधात्सामान्य ग्रहणमभ्यनुज्ञातं भवतीत्यर्थः । परिहारान्तरमाहअथ वेति । स्यादेतत्, उपपत्तिशब्दः सत्तावचनश्चोपलब्धिवचनश्च । तथा च विनिगमनायां को हेतुरित्यत आहयः पुनरिति । नन्वभावः प्रमाणालम्बनमुक्तः, तत्कुतो न विरोध इत्यत उक्तम्स्वतन्त्रमिति । अथ वा सत्तावाचकोऽप्ययमुपपत्तिशब्दः स्वाभिधेयविषयामुपलब्धि लक्षयतीत्याहविषयशब्देनेति । न चेयमलौकिकी लक्षणेत्याहलौकिकमिति । यथा च धूमो न सत्तामात्रेण हेतुस्तथोक्तं प्रागिति ॥ एकदेशिनामुपसंख्यानमुपन्यस्यतिअव्यवच्छेदेति । ते किल मन्यन्ते व्यवच्छेदहेतुरपि धर्मः समानो भवति । यथा कृतकत्वं साध्यधर्मिणि शब्दे दृष्टान्त धर्मिणि च घटादौ समानम्, न चासौ नित्यानित्यत्वसंशयहेतुः, अपि त्वनित्यत्वस्यायोगं साध्यधर्मिणि व्यवच्छिनत्ति । अतोऽव्यवच्छेदहेतोरिति वक्तव्यमित्यर्थः । तदेतद्वक्तव्यं दूषयतिन समानेति । समानो हि धर्मः प्रतिसंबन्धिनमपेक्षतेकेनेति । संशयपदेन च स्वविषयोपस्थापकेन परस्परविरोधिनौ तावुपस्थितौ । तेन ताभ्यां समान इति गम्यते । तेन विवक्षिततज्जातीयवृत्तित्वे सत्यन्यजातीयवृत्तिरेव गम्यते । न चैव कृतकत्वम् । तस्मात्न वक्तव्यमव्यवच्छेदहेतोरिति । समानशब्दार्थः सादृश्यं तत्र नास्तीत्यर्थः । अत्रैवोपलब्धीत्यादिपदद्वयं शङ्कापूर्वकं योजयतिसोऽयं साधारण इति । उपलब्ध्यनुपलब्धी न व्यवतिष्ठेते इति । शिरःपाण्यादेरनुपलब्धिर्वक्रकोटरादेरूलब्धिः पुरूषस्य बाधकं प्रमाणम्, तद्धि पुरूष एवायं वा, इदन्तया व्यवतिष्ठते, इदन्तानिषेधेन वा । नायं पुरूष इत्यनिदन्तया व्यवतिष्ठते । तदभावोऽव्यवस्था । तदनेन साधकबाधकप्रमाणाभावो दर्शितः । विशेषाकाङ्क्षायां चेति विशेषस्मृतिर्दर्शिता ॥ विमर्शपूर्वकं समस्तमित्यवधारयतिकिमिदमिति । तत्रैकपदपरिग्रहे दोषमाहयदि समानेति । विशेषः शिरःपाण्यादिः । विशिष्यते ह्यनेन पुरूषः स्थाणोरिति अनुपलब्धसामान्यस्यापि क्वचिदुपलब्ध्यनुपलब्ध्यव्यवस्थास्तीति । यथा सप्तमे रसे, दशमे वा द्रव्ये । न हि तत्र साधकं बाधकं वास्ति प्रमाणम् । न च संशयः । विशेषापेक्ष इत्येतावतीति । तद्यथा हस्तिनं दृष्ट्वा तत्संबन्धिनो स्थूणाहस्तिपकौ स्मरति न च तत्र संन्दिग्धे ॥ द्विपदपरिग्रहे दोषमाहएवं समानेति । नौदोलारूढो हि गच्छन् विदूरे आरोहपरिणावद्वस्तुदर्शनेऽपि सत्यपि च साधकबाधकप्रमाणाभावे विशेषस्मृत्यमावात्नग इति वा नाग इति वा न सन्दिग्धे । एवमुपलब्ध्यनुपलब्ध्यव्यवस्थातो विशेषापेक्ष इति पदद्वये विधीयमानऽन्यतः स्मर्यमाणाद्विशेषात्सदृशधर्मवति धर्मिण्यनुपलभ्यमाने संशयः स्यात् । अस्ति हि तदा विशेषस्मृतिः साधकबाधकप्रमाणाभावश्च, नो खल्वनुपलभ्यमाने समानधर्मे धर्मिणि तद्गता वक्रकोटरादयो वा शिरः पाण्यादयो वा शक्यग्रहा इति । यदायं द्रष्टेति । यदा खल्वयं द्रष्टा प्रतिपरूरडकुरोद्भेदपुककिताभिर्मन्दमलयमारूतान्दोलनललितलास्यशालिनीभिः शाखाभिर्मधुमदमुदितमधुपमालाशिञ्जितवल्लकीवाद्यमनोहराभिर्मत्तपुंस्कोकिलकुलविपञ्च्यमानपञ्चमाभिरारब्ध संङ्गीतकं सहकारतरूमनुभूयाथ विदूरवर्ती कु।जरसदृशधर्मवन्तमनुभवति, तदास्यास्ति समानधर्मोलब्धिः । अस्ति च करितरुरूपविशेषस्मृतिः, न तु साधकबाधकप्रमाणाभाव इति न संशेते । कतिपयव्यक्त्याश्रयत्वं सहकारत्वादेर्विशेषस्याल्पविषयत्वम् । आरोहपरिणाहादेस्तु बहुव्यापित्वं महाविषयत्वम् । नानार्थावमर्शनं च विरूद्धार्थावमर्शनं द्रष्टव्यम् । तदनेन स्थाणुपुरूषयोरित्यादि भाष्यं व्याख्यातम् । पश्यनित्युपपत्तिविवरणम् । विशेषं बुभुत्समान इति विशेषापेक्ष इत्यस्य विवरणम् । किं स्विदिति विमर्शविवरणम् । स्यादेतत् । संशयोत्तरकाला बुभुत्सेति, कथं बुभुत्समानः संशेत इत्यत उक्तं भाष्यकृता, समानमनयोरिति । विशेषापेक्षाशब्देनेच्छावाचिना अगृह्यमाणविशेषस्मरणं लक्षितमिति भावः । सेयं साधकबाधकप्रमाणानुपपत्तौ सत्या समानधर्मोपलब्धिर्विनश्यदवस्था विशेषस्मृत्या सहाविनश्यदवस्था एकस्मिन् क्षणे सती संशयज्ञानस्य हेतुरिति सिद्धम् । त्रिपदपरिग्रहमनेकधर्मोपपत्तेर्विप्रतिपत्तेरित्यत्रापि योजयतिएतेनेति । द्वे द्वित्वेनैकीकृत्याद्यानन्तरयोरिति द्रष्टव्यम् ॥ अनेकधर्मोपपत्तेरित्यत्र भाष्यकृतो व्याख्यां ग्रहीतुमेकदेशिव्याख्यानमुपन्यस्य दूषयतिअनेकेति । शब्दो हि संयोगजः । संयोगजत्वं हि कार्ये द्रव्ये गुणे च रूपादौ शरीरादिक्रियायां चास्तीति द्रव्यगुणकर्मणां समानम् । तस्मादनेकस्य धर्मः चरितार्थः । एवं शब्दगतोऽनेकोऽपि धर्मः समानतयैव द्रव्यत्वादिसन्देहहेतुः त्रिषु, संयोगजत्वं साधारणं सत्त्वादिना निर्भक्स्य, निर्गुणत्वं गुणकर्मणाः । एवं क्षणिकत्वं द्रव्यगुणकर्मणामिति समानधर्मोपपत्त्या गतार्थंमित्यर्थः । पृच्छतिअथेति । भाष्यकृद्व्याख्ययोत्तरमसाधारण इति । पुनः पृच्छतिकथमिति । समासपदशब्देन तदेकदेशोऽनेकशब्दो लक्ष्यते समासगतेनानेकशब्देनेत्यर्थः । उत्तरम्समानेति ॥ एतदुक्तं भवति । यतोऽनेकस्मात्समानासमानजातीयादेष स्वाश्रयं व्यावर्तयति, अतोऽनेकापादानकव्यावृत्तिहेतुकत्वात्लक्षणयानेन इत्युच्यते । तदनेन समानजातीयमसमानजातीयं चानेकमिति भाष्यं तस्माद्विशेष इत्यध्याहृत्य व्याख्यातम् । अध्याहृतविशेषपदविवरणं विशेषको धर्म इति । संबन्धसामान्यविवक्षया तु षष्ठी तस्यानेकस्येति । लक्षणाबीजान्तरमाहतस्य चानेकस्येति । निवर्त्यनिवर्तकसंबन्धेनानेकशब्देन धर्मोः लक्ष्यत इत्यर्थः । तदनेन विनैवाध्याहारं समानजातीयमसमानजातीयं चानेकम् । तस्य धर्मे निवर्तकतयेति व्याख्यातम् । न त्वत्र समासभ्रान्तिः कर्तव्या । दर्शयिष्यति हि बहुव्रीहिमिहैव वार्त्तिककारः । तदेवं लक्षणाबीजद्वयोपन्यासेन असाधारणो धर्म इति ग्रहणकवाक्यं व्याख्यातम् । प्रकारान्तरेणानेकधर्मपदंव्याचष्टेएकांनेकेति । एकं चानेक च तदुभयमनेकं तस्यानेकस्य प्रत्ययहेतुर्धर्मोऽनेकधर्मः भेदाभेदप्रत्ययहेतुरित्यर्थः । विभागजत्वं विभागजानां शब्दानामन्योन्यस्याभेदप्रत्ययहेतुः, तदितरेभ्यश्च भेदप्रत्ययहेतुः । तदिदमाहयतो विभागजत्वातेष प्रत्ययो भवतीदं विभागजं शब्दजातमेकम् । इदं च ततोऽन्यदनेकं भिन्नम् । तत्र य एव एकप्रत्ययहेतुः धर्मोऽभेदः स एव अनेकप्रत्ययहेतुर्विशेषः । जात्यभिप्रायं चैकवचनम्, सदादिर्हि धर्मो दुव्यगुणकर्मणामभेदप्रत्ययहेतुः, सामान्यादिभ्यश्च शब्दं निर्भजति । तदिदमाहयतः सदादेरेष प्रत्ययो भवतीदमेकं यतश्च विभागजत्वादेप प्रत्ययो भवतीदमनेकमिति, तस्मात्सिद्धमेकं चानेकं च । अनेकमिति तत्प्रत्ययहेतुरुपचारेणानेक इति । तद्दिमुद्भाष्यं व्याख्यानम् । अत्रोदाहरणमाहयथेति । द्रव्यत्वादिकोटित्रयविषयसंशयप्रदर्शनार्थमुक्तं सामान्यविशेषसमवायेभ्य इति ॥ सदनित्यं द्रव्यवत्कार्यां कारणं सामान्यविशेषवदिति द्रव्यगुणकर्मणामविशेषः ॥ तेनानेन सदादिना निर्भक्तस्य पृथक्कृतस्येत्यर्थः ॥ स्यादेतत् । यद्येन सहचरितं दृष्टं तत्क्कचिद्दृश्यमानं तत्स्मारयत्तद्वियरुद्धेनापि च संबन्धाननिश्चाययत्संशयहेतुर्भवति, यथा समानो धर्मः । असाधारणस्तु धर्मो विभागजत्वं नर्ते शब्दात्क्कचित्पृथिव्यादौ वा उत्क्षेपणादौ वा गन्धादौ वा दृष्ट इति कथ्र स्मारयेत्, अस्मारयद्वा कथं तत्र संशयं जनयेत्? तस्मात्कोऽयं भवेदित्ययो धर्मादिति जिज्ञासामात्रमुत्पादयेत्न त्वयं वायं वेति संशयमित्यत आहन हीति । कस्मात्न दृष्टमित्यत आहसर्वत्रासंभवात् । न हि द्रव्यादेर्विभागतो जन्म संभवति, तदन्वयव्यतिरेकाननुविधानादित्यर्थः । नन्वत एवोक्तं न संशयहेतुरित्यतः आहविभागजत्वं संशर्ये करोति सर्वतो व्यावृत्तेरिति । अयमर्थः, यद्यपि विभागजत्वं न द्रव्यादौ क्वचिद्दृष्टम्, तथापि तद्व्यतिरेकः प्रत्येकं द्रव्यादौ दृष्ट इति विभागजत्वेन सदाद्यविशेषवान् शब्दो द्रव्यकर्मभ्या व्यावर्तमानः किं गुणः, गुणकर्मभ्यां व्यावर्तमानः किं द्रव्यम्, गुणद्रव्याभ्यां व्यावर्तमानः किं कर्मेति व्यतिरेकमुखेन तत्तत्स्मारयनसाधारणो धर्मो भवति संशयकारणमिति । देशयतिननु चेति ॥ अयमभिसन्धिः । वंशे पाट्यमाने वंशदलयोः क्रिया, ततस्तयोर्मिथो विभागः, ततो वंशदलावरुद्धनभोभागविभागः । सोऽयं विभागजो विभागो न वंशदलकर्मजः । अवयवक्रिया हि तदवयवावरुद्धनभोभागविभागजनिका द्रव्यारम्भकसंयोगाप्रतिद्वन्द्विविभागजनकत्वेन व्याप्ता विकसत्कमलकुङ्मलदलेषु दृष्टा । न हि तत्र तत्र मुकुलिताद्विकासि कमलमन्यत्, आकुञ्चितप्रसारिताङ्गुलिकरतलवत्तत्त्वेन प्रत्यभिज्ञायमानत्वात् । वंशदलक्रियापि चेत्तादृशी, नूनमनयापि द्रव्यारम्भकसंयोगाप्रतिद्वन्द्विविभागजनिकया भवितव्यम् । तथा च द्रव्यं कार्यमपि न नश्येत् । तस्मात्नानया वंशदलाकाशविभागो जनयितव्यः । न चान्यदस्य कारणं संभवति । तस्माद्वंशदलक्रियाजनितो दलयोर्विभागः कार्यैकार्थसमवेतः तदवरुद्धाकाशप्रदेशविभागस्यासमवायिकारणमेषितव्यः । हेतुरिति सिद्धं भवतीति । परिहरतिअनभ्युपगतविभागजविभागस्यैतद्विभागजत्वमेवं संशयकारणं भवति । अनभ्युपगमबीजं च कुतः पुनरेवदेवमवगतं पद्मपत्रावयवक्रिया विभागद्वयजनिकेति, विभागद्वयक्रमकल्पनायां प्रमाणाभावादिति चेत्? हन्त, वंशदलविभागयोरपि तुल्यम् । ननूक्तं द्रव्यारम्भकसंयोगाप्रतिद्वन्द्विविभागजनकं स्यात्कर्म, ततश्च द्रव्यनाशो न भवेदिति । अथं विपर्ययः कस्मात्न भवतीति वंशदलद्वयक्रियैव विभागद्वयजनिका, पद्मपत्रवयवक्रिया त्ववयवविभागजनिका, तदवयवाकाशविभागस्त्ववयवविभागजन्मा । यदि तु पद्मपत्रावयवक्रिया उभयजनिका भवेत्, वंशदलक्रियैव द्रव्यारम्भकसंयोगप्रतिद्वन्द्विनं विभागं जनयेदिति । न चान्यतरत्र विभागद्वययौगपद्यनिश्चयः क्रमप्रमाणाभावश्च तुल्यः । तस्मात्पद्मपत्रावयवक्रियाविभागजनकत्वसंदेहादशक्यविनिश्चयो व्याप्यव्यापकभावः । क्रियावैलक्षण्यात्तु स्वहेतुवैलक्षण्यजन्मनः कार्यस्य विभागस्य वैलक्षण्यं स्यात्, यदेको द्रव्यारम्भकसंयोगप्रतिद्वन्द्वी अप्रतिद्वन्द्वी चेतरः, तथापि चैतद्वैलक्षण्यं क्रियाया अभ्युपेतव्यं यदेका विभागमेकं जनयति । अन्या तु विभागद्वयमिति । तस्मादेतदुदाहरणबलेन न विभागजविभागसिद्धिः ॥ यस्त्वङ्गुलिकर्मानन्तरमङ्गुलितरुविभागो हस्ततरुविभागः, शरीरतरुविभगाश्च दश्यते, तत्राङ्गुलितरुविभागमङ्गुल्याश्रया क्रिया करोतु, हस्ततरुविभागं तु न शक्ता जनयितुम्, तस्याः स्वाश्रयसमवायात्, स्वाश्रयसमवेतकार्यजनने च क्रियायाः सामर्थ्यावधारणात् । तस्माथस्तादितरुविभागः क्रियतोऽसंभवन्नङ्गुल्यादितरुविभागमेव कार्यैकार्थसमवायलक्षणया प्रत्यासत्त्या निमित्तीकरोतीति विभागजविभागसिद्धिं मन्यते, तं प्रत्याहयः पुनरिति । अस्तु वा विभागजो विभागः, तथापि विभागजत्वमीदृशमसाधारणमेवेत्यत आहअस्तु वा तस्य अभ्युपगतविभागस्य अपि विभागजत्वमसाधारणं विशिष्टम् । तदेव देशयतिविभागजेति । पाट्यमाने हि वंशे शब्दोत्पत्तौ वंशदलयोर्मिथो विभागो निमित्तकारणम् । वंशदलावरुद्धाकाशविभागस्त्वस्यासमवायिकारणम्, न तु भेर्याकाशसंयोगवत्वंशदलाकाशसंयोगोऽसमवायिकारणं भवितुमर्हति । तथा हि प्रयोगः, योऽयं वंशदलविभागनिमित्तः शब्दः, स निमित्तसमानजातीयासमवायिकारणजन्यः, तदसाधारणनिमित्तजन्यशब्दत्वात् । यो यः शब्दो यदसाधारणनिमित्तजन्मा, स सर्वस्तज्जातीयासमवायिकारणजन्यः, यथा भेरीदण्डसंयोगनिमित्तः शब्दो भेर्याकाशसंयोगासमवायिकारणकः । तथा चायम् । तस्मात्तथेति । तदेवं वंशदलविभागलब्धजन्मना वंशदलाकाशविभागेनासमवायिकारणेन जनितः शब्दः । तदेवं विभागजविभागासमवायिकारणकत्वं शब्दस्य, तदपि यद्यप्यङ्गुल्याकाशविभागजहस्ताकाशविभागासमवायिकारणे कायाकाशविभागेऽस्ति, तथापि कारणमात्रविभागजविभागासमवायिकारणकत्वादिति हेतुः भाष्यकारेण विभागजत्वातित्यनेन सूचितः । न चाङ्गुल्याकाशविभागपूर्वकः कायाकाशविभाग एवम् । स हि कारणाकारणविभागपूर्वको, न तु कारणमात्रविभागपूर्वकः । तदिदमुक्तम्विभागजविभागासमवायिकारणकः शब्दो नान्यः पदार्थ इति ॥ ननु सहचरितो दृष्टः स्मारयन् विशेषसंशयहेतुर्भवति, न तु यो व्यावृत्तः तेन सहास्यासाहचर्यादिति शङकामपनेतुं भाष्यकारीयमुत्तरमाहतुल्यजातीयेष्वितिम् । यद्यपि व्यतिरेकमुखेनासाधारणः शक्तः स्मारयितुम्, तथापि भाष्योक्तमप्युक्तम् । यत्खलु सदादिरूपसंपन्नं विशेषवत्तत्समानजातीयेभ्योऽसमानजातीयभ्यश्च व्यावृत्तम्, यथा पृथिवीद्रव्यम् । अबादिभ्यश्च द्रव्यान्तरेभ्यां गुणकर्मभ्यश्च विजातीयेभ्यो गन्धवत्त्वेन व्यावृत्तं द्रव्यजातीयम् । एवं रूपत्वेन रूपं गुणः । उत्क्षेपणत्वेनोत्क्षेपणं कर्म । तथाविधः शब्दः सदादिरूपसंपन्नो विभागजत्वेन समानासमानजातीयेभ्यो विशिष्यते । तस्माद्भवति द्रव्यं गुणः कर्म वेति संशय इति । पूर्वव्याख्यानतोऽनेकशब्देनासाधारणधर्मो लक्ष्यत इत्युक्तम् । संप्रति समानशब्दपर्यालोचनयाप्यनेकपदमसाधारणे वर्तते लक्षणयैवेत्याहसमानधर्मस्य संशयकारणत्वेन उपयोगाद्वेति । समानं हि प्रतिगोगितया असमानं बुद्धौ सन्निधापयति । तत्र द्वयस्यापि समानशब्देन श्रुत्यर्थाभ्यामुपात्तस्य समानस्य धर्मस्यासमानस्य च, समानस्य संशयकारणत्वेनोपयोगादिति योजना । पृच्छतिकस्मादिति । अस्मदायत्ते शब्दप्रयोगे किमित्यवाचकं प्रयोक्ष्यामह इति भावः । उत्तरम्नैवमिति । असाधारणो हि धर्मो व्यतिरेकमुखेन संशयहेतुः । स चानेकस्माद्व्यावृत्त्या सिध्यति । सा च लाक्षणिकानेकपदाधीना नासमानपदात्लभ्यत इति प्रयोजनवल्लाक्षणिकपदोपादानम् । लक्षणैव चेयमनेकस्माद्व्यावृत्तो धर्मोऽनेकधर्म इति विग्रहेण निर्वर्ण्यते इति । अभ्युच्चयमात्रमाहलाघवं वेति । असाधारणस्य संशयकारणत्वे व्यावृत्तिः प्रयोजिकेति मन्वानश्चोदयतियद्यनेकेति । परिहरतिनैष दोष इति । व्यभिचाराव्यभिचारौ हि संशयनिर्णययोः प्रयोजकौ, नान्वयव्यतिरेकमात्रमित्यर्थः । चोदयतियदि तर्हीति । सपक्षासपक्षसाधारण्यं हि हेतोर्व्यभिचारः । स चेत्संशयस्य कारणम्, हन्त, समानधर्मोपपत्तिरेव सर्वत्र संशयकारणमिति कृतमनेकग्रहणेनेत्यर्थः । परिहरतिसत्यमिति । सपक्षासपक्षसाधारण्यं हि हेतोर्व्यभिचारः । स च संशयस्य प्रयोजकः । तथाप्येकस्यान्वयः साधारणोऽपरस्य व्यतिरेक इत्येतावतोभयोपादानमित्यर्थः ॥ एवमनेकधर्मोपपत्तेरिति स्वमते व्याख्याय परमतव्याख्यानं दूषयितुमुपन्यस्यतिन । इति । नित्यः शब्दः श्रावणत्वात्शब्दत्ववदित्येकः पञ्चरूपोपपन्नोऽव्यभिचारी हेतुः१ अनित्यः शब्दः कृतकत्वाद्घटवदिति चायमपरः पञ्चरूपोपपन्नोऽव्यभिचारी हेतुरिति । तदेतद्दूषयतितदयुक्तमिति । न ह्यव्यभिचारिणौ पञ्चरूपोपपन्नावित्यर्थः । न चायं प्रतिवादिनः प्रयोगोऽपि युक्तः इति । विरुद्धशब्दस्यार्थो विरुद्धार्थ इति, स्वरूपमनयोर्विरुद्धं परस्पराभाववदित्यर्थः । विशेषदर्शनादुपजात इति । संशयस्य हि विशेषादर्शनं जनकम्, विशेषदर्शनं च निवर्तकमिति । स चेत्त्वन्मते निवर्तकादुत्पद्यत, अव्यभिचारिहेतुजनिताद्विशेषदर्शनात्नास्य निवृत्तिः स्यादित्यर्थः । न च यदा निवर्तकत्वमस्यास्ति तदा जनकमपीत्याहन हि विशेषदर्शने सतीति ॥ स्यादेतत् । प्रत्यक्षमेव स एवायं गकार इत्येवमाकारं प्रत्यभिज्ञासमाज्ञातं शब्दस्य स्थेमानमाकलयत्, तावत्कालं स्थिरं चैनं कः पश्चान्नाशयिष्यति ॥ इति नित्यत्वं परिच्छेत्स्यतीत्यत आहनायमर्थः प्रत्यक्षस्य विषयः । तदेव हि प्रत्यक्षं संशयस्य निवर्तकं यदनन्यथासिद्धम्, यथौष्ण्यग्राहि वह्नेः । इदं तु सादृश्येनापि संभवात्स्वयं सन्दिग्धं सन्न संशयोच्छेदायालमित्यर्थः । मा भूत्प्रत्यक्षस्य विषयः, भवति त्वागमस्य । नो खलु क्षणिकः शब्दोऽर्थप्रत्यायने समर्थः, तस्यान्वयव्यतिरेककालानवस्थायिनोऽशक्यसमयत्वेनार्थप्रतिपत्तेरनुपपत्तेः । तस्माद्यद्यपि साक्षान्नित्योऽहमित्यागमो नाभिधत्ते, तथापि विदितसंगतेरर्थप्रत्ययं कुर्वन्नात्मनो नित्यतामाक्षिपन्नित्यताविषयो भवति । यथाहुः नित्यस्तु स्याद्दर्शनस्य परार्थत्वात् ॥ इत्यत आहनागमविषयः । यद्यपि वर्णव्यक्तयः क्षणिकाः, तथापि स्वस्वसामान्यविशेषगत्वाद्युपहिता गवादिव्यक्तय इव गोत्वाद्युपधानाः शक्यसंकेता इति न नित्यतामाक्षिपत्यागम इत्यर्थः । भवतु किं नो बाध्यत इति । न खलु चन्द्रमसः परभागे हरिणसदसद्भावसन्देहः शक्यः कदाचिदप्युच्छेत्तुमस्मदादीनामित्यर्थः । कथं न बाध्यत इति । सन्दिग्धनित्यानित्यभावे शब्दे कृतकत्वं दृष्टमिति नानित्यत्वेन स्वभावतः प्रतिबद्धम् । तथा च न बुद्ध्यादीनामनित्यत्वं साधयितुमर्हतीत्यर्थः । सर्वमिति । कृतकत्वप्रयत्ननान्तरीयकत्वप्रत्ययभेदभेदित्वादीत्यर्थः । सर्वं चानुमानमिति । यदि च पञ्चरूपोऽपि हेतुः, संशयकारणं सर्वमेवानुमानमिति सर्वमप्रमाणं स्यादित्यर्थः । वैनाशिकाः प्राहुः नित्यासंभवादिति । न, बाधापरिज्ञानादिति । बाधाविषयापरिज्ञानादित्यर्थः । स्वदेशे परोत्पत्तिप्रतिबन्धकत्वं सप्रतिधत्वम् । सौत्रान्तिकमते हि रूपं सप्रतिघमिष्यते मूर्तं च, नित्य एवेति वा अनित्य एवेति वा अभिलापो नोपपद्येत, स्थाणुरेवेति वा पुरुष एवेति वा अभिलापः । चोदयतिनैवं भविष्यतीति । मा भूदभिलाप इत्यर्थः । परिहरतिव्याहतमिति । स एवैकग्रन्थेनाहननु चेति ॥ तदेवं पञ्चरूपयोर्हेत्वोरेकत्र समवायाभावः उक्तः । यदि पुनरसत्प्रतिपक्षरूपरहितयोरेकत्र संभवोऽङ्गीक्रियते, तथा च संशयहेतुत्वमित्यभिप्रायेण शङ्कतेअथ कृतकत्वेति, निराकरोतितथापीति । प्रत्येकं सत्प्रतिपक्षत्वम्, मिलितयोस्त्वसाधारणत्वम्, तादृशः अन्यत्रादर्शनादित्यर्थः । तत्किमिदानीं सत्प्रतिपक्षतया कृतकत्वमसाधनमेव शब्दानित्यत्वे, तथा च बहु व्याहतं भवतीत्याशयवान् पृच्छतियदा पुनरेवंभूताविति । उत्तरम्तदा तयोरिति । ननु कृतकत्वस्य साध्यत्वात्श्रावणत्वस्य च सिद्धत्वात्प्रथमभाविना नित्यत्वानुमानेन सिद्धाङ्गकेनापहृतविषयं चरमभाविसाध्यङ्गकमनित्यत्वानुमानमेव बाध्यतामित्यत आहयत्नश्च क्रियमाण इति । सिद्धमपि श्रवणत्वमनुमानसिकताद्यनित्यधर्मसाधारणतया सव्यभिचारं सन्नित्यत्वस्य साधनं न भवितुमर्हतोति । कृतकत्वस्य तु पाञ्चरुप्यम् । नित्यत्वस्य च प्रमाणबाधनमुपपादयिष्यत इत्यर्थः ॥ विप्रतिपत्तेरित्यस्य व्याख्यानम्विप्रतिपत्तेरिति । यद्यपि विरुद्धा प्रतिपत्तिर्ज्ञानं विप्रतिपत्तिः, तथापि तस्या वादिप्रतिवादिगताया अत्यन्तपरोक्षत्वात्संशयकारणत्वानुपपत्तेः स्वकार्यं प्रवादं लक्षयतीत्यर्थः । अत्र भाष्यकारः उपलब्ध्यव्यवस्थाया अनुपलब्धव्यवस्थायाश्च पृथक्संशयकारणत्वं मत्वा समानधर्मोपपत्तेरित्यनेन गतार्थतां परिहरन्नाह स्मपुर्वः समानोऽनेकश्चेत्यादि । तदुपन्यस्य वार्त्तिककारो दूषयतितत्रेति । नो खलु समानानेकधर्मोपलब्धौ सत्याम्, सत्यां च विशेषस्मृतौ साधकबाधकप्रमाणासद्भावे संशयो भवतीत्युक्तम् । तस्मात्नोपलब्ध्यनुपलब्ध्यव्यवस्थे पृथक्संशयकारणे इति । विशेषमपि दूषयतिसमान इति । ननु यदि नासित भेदः, तत्किमिदानी सर्वेषां ज्ञातृस्थत्वाविशेषण त्रयाणामपि संशयकारणानां समानानेकविप्रतिपत्तीनामभेदः, तथा च पृथगुपादानवैयर्थ्यमित्यत आहसमानानेकधर्मयोरिति । पुनश्चोदयतिसमानधर्मः सर्व एवायमिति । अयमभिसन्धिः । असाधारणो ह्यदृष्टपूर्वः क्वचिदपि न संशयं कर्तुमुत्सहते, यत्पुनरसाधारणवत्त्वं संशयहेतुत्वेनोपवर्णितं भाष्यकृता तत्समानमेव, न त्वसाधारणम् । यथाहुः, अन्योऽसाधारणो धर्मस्तद्वत्तान्या च दृश्यते । सर्वसाधारणी सा चेदिष्टा संशयकारणम् । ततः साधारणस्यैव सिद्धा संशयहेतुता ॥ यच्च वार्त्तिककारेण सर्वतो व्यावृत्त्या असाधारणस्य संशयकारणत्वमुक्तम्, तत्रापि तदभावस्य साधारणस्य संशयहेतुत्वे किमायातमसाधारणस्य? यथाहुः, सर्वतोऽस्य निवृत्तत्वादभावात्संशयो यदि । अनन्यवृत्तिरूपस्य ततोऽसाधारणस्य किम् ॥ इति ॥ विप्रतिपत्तिरपि विरुद्धहेतुद्वयसमुत्था एकस्मिन् संशयकारणम्, विरुद्धहेतुसमवायश्चासाधारण एव । स च साधारणे निविशते इति सूक्तं सर्व एवायं समानधर्म एवाभिधीयत इति । परिहरतिन, सूत्रार्थापरिज्ञानदिति । न वयं सर्वत्र साधारणमपजानीमहे अन्वयव्यतिरेकव्यभिचारवक्तृगतत्वभेदमात्रमाद्रियमाणाः कारणभेदेन त्रिविधं संशयमाचक्ष्महे इत्यर्थः ॥ वार्त्तिककारो भाष्यकारमतमुपन्यस्य दूषयतिअपरे पुनरिति । साधकबाधकप्रमाणाभावरहितं त्रयमपि न संशयकारणमित्युक्तमित्यर्थः । अपि चैतयोः पृथक्संशयकारणत्वेऽतिप्रसङ्गात्निश्चयपूर्वं न प्रवर्तेत लोकः, तथा च लोकविरोध इति दर्शयतिउपलब्ध्यनुपलब्ध्योर्द्वैविध्याच्चेति । न चास्य क्वचिदाश्वासो निःशङ्कता, न चानभ्यासदशान्ने उपलब्ध्यनुपलब्ध्यव्यवस्थयां संशय इति वाच्यम्, अनभ्यासदशापन्ने हि दूराद्वह्निज्ञाने उपलब्ध्यव्यवस्थाया अपि न नागो वा नगो वेति संशेरते, किं तु किंशुककुसुमनिचयो वा उषर्बुधो वेति, तत्र समानधर्मोपपत्तिरेव कारणमितरसहिता । एवमयोग्यानुपलब्धिमात्रादपि न संशयो विना समानधर्मादिदर्शनमित्युक्तम् । विकल्प्य दूषणान्तरमाहयेषां चेति । सामग्रीभेदेन भेदे त्रेविध्यं संशयस्य सामग्रीनिवेशिकारणभेदेन तु पञ्चविधः, अपि त्वनेकविध एत्यर्थः ॥ समानानेकधर्मोपपत्तेरित्यत्र षष्ठतत्पुरुषं मत्वा आक्षिपतिन समानधर्मग्रहणादिति । बहुव्रीहिं मत्त्वा समाधत्तेअयं परिहार इति । अथेति । कश्चासौ विशेषश्चेति किंविशेषः अनुपलब्धपूर्वो विशेषोऽस्येत्यर्थः । उपलब्धपूर्वायां व्यक्तौ संशये तद्गता विशेषाः सुस्मूर्षिताः तज्जातीयव्यक्त्यन्तरसंशये त्वन्यगतास्ते सामान्यद्वारेणोपलब्धा एवेतिसामान्यप्रत्यक्षादिति । समान्यवानेव सामान्यः । यथा सामान्योऽयं धर्मसेतुर्नृपाणाम् इति सामान्यश्चासौ प्रत्यक्षश्चेति धर्मी तथोक्तः । अव्यवस्थितविशेषत्वं साधकबाधकप्रमाणाभाव इत्यर्थः ॥ बौद्धाभिमतं संशयलक्षणमुपन्यस्यतिअन्ये त्विति । निगूढाभिप्रायो दूषयतितैरपीति । अविदिताभिप्रायः शङ्कतेधर्मी चेदिति । दूषणवादी स्वाभिप्रायमुद्धाटयतियदि तावदिति । बौद्धानां हि राद्धान्ते न रूपादिधर्माश्रयः कश्चिदस्ति धर्मी । ततश्च सिद्धान्तव्याकोपः । यदि त्वाह भवतु राद्धान्तव्याकोपो न हि शास्त्राश्रयो वाद इति, तत्रापि दोषान्तरमाहधर्मधर्मिणोश्चेति । अथाप्यस्मद्दिशेति । समानानेकधर्मपदवद्बहुव्रीहिरित्यर्थः । सामान्यशब्दस्तु भवितरि दृष्टो यथा, सामान्यार्थसमुत्थाने विभागस्तु समः स्मृतः । इति भावः । व्यर्थं चाभिधानमिति । सामान्यविशेषतद्वदभ्युपगमेऽपि तद्वतोऽश्रवणात्साधर्म्यस्य सामान्यस्य विशेषा इति गम्येत, न च सामान्यस्य विशेषा इति विरुद्धार्थमभिधानं स्यादित्यर्थः । वैशेषिकलक्षणे हि विशेषाप्रत्यक्षादित्यनेन साधकबाधकप्रमाणाभावो दर्शितः । इह त्वसौ वक्तव्यः । तस्मात्न्यूनं बौद्धलक्षणमित्याहौपलब्धीत्यादि । यदि च साधर्म्यदर्शनादित्यनेनान्वयमात्रव्यभिचारोऽभिमतो बौद्धेन ततोऽनेकधर्मदर्शनादिति वक्तव्यमिति । तदेवं सामान्यलक्षणमेकं, त्रीणि च विशेषलक्षणानीति स्थितम् ॥ तदेतानि चत्वारि लक्षणानि पु।जीकृत्य विचारयतिसमानेति । यदि तावत्संशयसामान्यलक्षणे स्थिते त्रीणि विशेषलक्षणानि ततः संशयत्वेनोपगृहीतानां त्रयाणां परस्परव्यवच्छेदकमात्रं लक्षणं वक्तव्यम् । ततः समानानेकधर्मोपपत्तेर्विप्रतिपत्तेरित्येतावन्मात्रं वक्तव्यम् । कृतमत्र शेषेण, तन्मात्रादेव परस्परव्यवच्छेदसिद्धेः । तस्मात्परस्परव्यवच्छेदमनप्रेक्ष्य संशयकारणकथनपरमेतत्सूत्रम् । तथा चान्यान्यपि संशयकारणानि सन्तीति तान्यपि वक्तव्यानि । यदा खल्वयमात्मनः शमादौ संशेते, किमहं चन्दनवनितादिसन्निधाने रज्ये विरज्ये वेति, सोऽयमस्यात्मनः सन्निकर्षजन्मा संशयः आन्तरस्य शमादेर्विषयस्येति समाधत्तेअस्तु तावदिति । यद्यपि तावन्मात्रेण समानजातीयव्यवच्छेदसिद्धिः, तथापि विजातीयनिर्णयादिव्यवच्छेदाय सामान्यलक्षणमनुवर्तनीयम् । तथा च प्रतिपत्तिगौरवं स्यादिति तल्लाघवाय शेषापेक्षा युक्ता । आत्ममनःसन्निकर्षादयस्त्वत्यन्तसाधारणा विजातीयव्यवच्छेदायापि नालमिति नोपत्ता इति भावः । एवं संशयकारणावधारणादर्थात्संशयभेदावधारणमित्युक्तम् । संप्रति कारणविशेषणत्वेन संशयस्वरूपमेवोच्यत इत्यहस्वरूपनिर्देशो वेति । विप्रतिपन्नोऽपि पुरुषः संदिग्धवत्प्रतिपाद्य एवति मन्वानश्चोदयतिसंशयवदिति । विप्रतिपन्नो न शिष्यः, किं तु जल्पवितण्डाभ्यां शिष्यतो नीत्वा सन्दिग्ध एव प्रतिपाद्य इत्यभिप्रायेण परिहरतिसत्यमिति ॥२३ ॥ ____________________________________________________________________ ण्य्ष्_१,१.२४ यमर्थमधिकृत्य प्रवर्तते तत्प्रयोजनम् ॥ उद्देशक्रमप्राप्तस्य प्रयोजनस्य लक्षणम्यमनम्॥२॥ अत्रार्थशब्दो गौणमुख्यप्रयोजनावरोधार्थः । तत्र मुख्यं सुखदुःखापितपरिहारौ, गौणं तु तत्साधनम् । अत्र भाष्यंयमर्थमित्यादि । अत्राधिकृत्येत्यस्य व्याख्यानम्व्यवसाय निनिश्चित्येत्यर्थः । समाधनौ च सुखदुःखाप्तिपरिहारावर्थः । न च सुखदुःखप्राप्तिपरिहारौ स्वरूपेण प्रवृत्ति निवृत्तिगोचराविति तदुपायप्रवृत्त्यैव चेतनप्रवृत्तिगोचराविति दर्शयतितदाप्तिहानोपायमनुतिष्ठतीति । प्रवृत्तिहेतुत्वादिति । यद्यपि सुखदुःखाप्तिहाने तदुपायाश्च सन्ति, तथापि सामान्येन ज्ञायमानानीच्छाद्युपहारमुखेन प्रवृत्तिहेतवः । ननु सूत्रेऽधिकृत्येत्यस्ति, भाष्ये च व्यवसायेति, तत्कुतो न विरोध इत्यत आहव्यवसायोऽर्थस्याधिकार इत्यादि । तदेतद्वार्त्तिककारो व्याचष्टेयमर्थमधिकृत्येति, व्यवसायेति । पृच्छतिकस्येति सुखदःखाप्तिपरिहारयोर्व्यवसायस्तत्रैव प्रवर्तयेत् । न चानयोः प्रवृत्तियोग्यता । न चान्यनिश्चयोऽन्यत्र प्रवर्तयति, अतिप्रसङ्गादिति भावः । उत्तरम्सुखदुःखसाधनानामिति । ततश्च प्रतीतिप्रवृत्त्योः संप्रतिपत्तिरित्यर्थः । सर्वव्यापितामस्य दर्शयतिअनेन प्रयोजनेनेति । वितण्डाया अपि प्रयोजनमुक्तं प्रथमसूत्रे । चोद्यमानस्य प्रवर्त्तमानस्येत्यर्थः । शङ्कतेयदीति । लोक्यतेऽनेनेति लोकः प्रमाणम् । तदन्वितः तदुत्पन्नः । न च प्रमाणमीदृशम्, अनवस्थाप्रसङ्गादिति भावः । निरारकरोतिअतिदोषोऽयमिति । यथा च प्रमाणस्य प्रमाणोपपन्नता न चानवस्था, तथा द्वितीये निवेदयिष्यते । न च प्रसिद्धतरतया न प्रयोजनं लक्षणीयमिति युक्तम्, कथमस्य प्रयुक्तौ साधनत्वम्, क्व च प्रयोजयति, कथं च व्यापकमिति सर्वस्य परीक्षकप्रवेदनीयत्वात् । अथान्य इति । अप्रामाणिको लौकिक इति । यथा वटे वटे वैश्रवणः इति । निराकरोतितन्न बुध्यामह इति । प्रयोजनस्य प्रामाणिकत्वादित्यर्थः । यदप्युक्तं न्यायस्याङ्गं प्रयोजनं न भवति, तस्मात्न वक्तव्यमिति, तन्न युक्तम् । या खलु निष्प्रयोजनेति न ब्रूमः प्रयोजनं न्यायस्याङ्गमित्यपि, मुख्यं प्रयोजनमेव हि तन्न स्याद्यदृते पुरुषादन्यार्थमिति । प्रयोजनवांस्तु न्यायो निष्प्रयोजनां तद्गतां चिन्तामङ्गी करोति, फलवत्सन्निधावफलं तदङ्गमिति न्यायात् । तस्मादनङ्गमपि प्रयोजनं परीक्षाया मूलं स्वर्ग इव सेतिकर्तव्यताकस्य यागाद्यनुष्ठानस्येति सिद्धम् ॥२४ ॥ ____________________________________________________________________ ण्य्ष्_१,१.२५ लौकिकपरीक्षदाणां यस्मिन्नर्थे बुद्धिसाम्यं स दृष्टान्तः ॥ क्रमप्राप्तं दृष्टान्तं लक्षयतिलौकिन्तः॥२५॥ दृष्टान्त इति लक्ष्यनिर्देशः, शेषं लक्षणम् । साध्यसाधर्म्यात्तद्धर्मभावित्वेनार्यते तथा साध्यवैधर्म्यादतद्धर्मभावित्वेनार्यते यः सोऽर्थस्तस्मिन् । तथा च नातिव्याप्तिः । उदाहरणसूत्राच्चेदृशविशेषप्रतिलम्भः । लोकसामान्यं किं तदित्यत आहनैसर्गिकमिति । शास्त्रपरिशीलनलब्धजन्मा बुद्ध्यतिशयो वैनयिकः । तद्रहिता लौकिकाः प्रतिपाद्या इति तावत् । तद्विपरीताः तदुभयंसपन्नाश्च परीक्षकाः प्रतिपादका इति यावत्कथाबहुत्वाच्च बहुवयनम् । तदनेन वादिप्रतिवादिनौ दर्शितौ, तयोर्बुद्धिसाम्यं व्याचष्टेयथा यमर्थमिति । लक्षणप्रयोजनमाहदृष्टान्तविरोधेनेति । दृष्टान्तस्य विरोधो विरुद्धत्वं साध्यविकलत्वादि । प्रतिपक्षा इति प्रतिपक्षासाधनानि । समाधिः अभूतदोशारोपस्य प्रतिषेधः । लक्षितश्च दृष्टान्त उदाहरणलक्षणाय कल्पते घटते इति भाष्यम् । अत्र वार्त्तिककारो लौकिकपरीक्षकस्वरूपमविवक्षितमिति मन्वान आहबुद्धिसाम्येति । अविवक्षायाः प्रयोजनमन्वयव्यतिरेकाभ्यामाहएवं चेति । परेषा दृष्टान्तलक्षणक्षेपमुपन्यस्य दूषयतिसोऽयं दृष्टान्त इति । दृष्टान्तस्य प्रयोजनमाहदृष्टान्तः सारूप्यव्युत्पत्त्यर्थः । यथा आक्षेप्त्रोक्तं तत्तदक्षरमनूद्य दूषयतिअसिद्धसाधनार्थो वेति । न खल्वसिद्धः साध्येन साधनस्याविनाभावो दृष्टान्तेन साध्यते इत्यर्थः॥२५ ॥ ____________________________________________________________________ ण्य्ष्_१,१.२६ तन्त्राधिकरणाभ्युपगसंसस्थितिः सिद्धान्तः ॥ अत्र भाष्यकारः सिद्धान्तसामान्यलक्षणमपठित्वैव तात्पर्यं व्याचष्टेअथ सिद्धान्तः इत्यादिना । तत्र इदमित्थंभूतमिति वार्त्तिककारो व्याचष्टेइदमिति सामान्यत इति । भाष्ये च संस्थितिरित्थंभावव्यस्थेति सामान्योपक्रमस्य अभ्युपगमस्य प्रमाणतो विशेषपर्यन्ततापरिसमाप्तिः संस्थितिरित्यर्थः । अत्रैवार्थे सूत्रमित्याह वार्त्तिककारःस्यार्थस्येति ॥ तन्त्रान्तः॥२६॥ सूत्रार्थमाक्षिपतिकिं पुनरिति । लक्षणार्थ चेति । सामान्यलक्षणार्थम्, न खलु सामान्यलक्षणमन्तरेण शक्यो विभाग इत्युक्तम्॥२६ ॥ ____________________________________________________________________ ण्य्ष्_१,१.२७ सर्वतन्त्रप्रतितन्त्राधिकरणाभ्युपगमसंस्थित्यर्थान्तरभावात् ॥ समाधत्तेनानार्षमिति । लक्षणार्थत्वं सामान्यलक्षणार्थत्वम् । तन्त्र्यन्ते व्युत्पाद्यन्ते प्रमेयाण्यनेनेति तन्त्रं प्रमाणम् । तदेवाधिकरणमाश्रयो ज्ञापकत्वेन येषामर्थानां ते तथोक्ताः । अशास्त्रितः अप्रमाणिक इत्यर्थः । आभिमानिकं च प्रामाणिकत्वम्, तेन सिद्धान्तभेदिनामर्थानां सर्वेषां न प्रामाणिकत्वप्रसङ्गः । तदेवं भाष्यकारेण व्याख्याय सामान्यलक्षणं पठितम् । एवं व्याख्यानपूर्वकमेव विभागसूत्रं पठतितन्त्रार्थसंस्थितिरिति । तन्त्रग्रहनेन च सर्वतन्त्रप्रतितन्त्रयोरुपादानम् । उभयोरपि तन्त्रत्वात् । तदिदमुक्तम्तन्त्रभेदात्त्विति । अनवधारितार्थपरिग्रह इति । साक्षाच्छास्त्रे नोपात्तो यथा मनस इन्द्रियभाव इति ॥२७ ॥ ____________________________________________________________________ ण्य्ष्_१,१.२८ सर्वतन्त्राविरुद्धस्तन्त्रेऽधिकृतोऽर्थः सर्वतन्त्रसिद्धान्तः ॥ सर्वन्तः ॥२७॥ यद्यपि घ्राणादिषु भौतिकत्वाभौतिकत्वादयो विप्रतिपत्तयः, तथापि इन्द्रियत्वे नास्ति विप्रतिपत्तिरिति । तदेतद्वार्त्तिककारो व्याचष्टेसर्वेषामिति । अत्र चोदयतिन दृष्टान्तादिति । परिहरतिभिद्यत इति । न चैवं सर्वतन्त्रसिद्धान्तः, तस्य सर्वैरेव निश्चितत्वादिति, अनुमानागमयोरिति । संबन्धग्रहणाश्रयावनुमानागमौ, यत्र च संबन्धग्रहः स दृष्टान्त इत्यर्थः ॥२८ ॥ समानतन्त्रसिद्धः परतन्त्रासिद्धः प्रतितन्त्रसिद्धान्तः॥२९ ॥ ____________________________________________________________________ ण्य्ष्_१,१.२९ समानतन्त्रसिद्धः परतन्त्रासिद्धः प्रतितन्त्रसिद्धान्तः ॥ समान्तः ॥२९॥ समानशब्द एकपर्यायः । नैयायिकानां हि समानं तन्त्रं न्यायशास्त्रम्, परतन्त्रं च सांख्यादिशास्त्रम् । चेतना आत्मनः निरतिशया अपरिणामिनो न केनचिद्धर्मेणोपजनापायधर्मेण युज्यन्ते । प्राकृतेषु च देहादिषु तत्कारणेषु महदहङ्कारपञ्चतन्मात्रभूतसूक्ष्मेषु विशेषोऽतिशय इत्यर्थः । तदेतत्सूत्रं वार्त्तिककृद्व्याचष्टेसामान्येनेति । योगानामेव, सांख्यानामेवेति नियमः ॥२९ ॥ ____________________________________________________________________ ण्य्ष्_१,१.३० यत्सिद्धावन्यप्रकरणसिद्धिः सः अधिकरणसिद्धान्तः ॥ यत्न्तः॥३०॥ यस्यार्थस्य साध्यस्य वा हेतोर्वा सिद्धौ इति विषयसप्तमी, न तु निमित्तसप्तमी, द्वयोर्ज्ञायमानयोर्निमित्तनैमित्तिकभावायोगात् । तेन यस्मिन्नर्थे ज्ञायमाने तदनुषङ्गिणोऽर्थास्तदन्तर्भाविनो गम्यन्ते, सोऽर्थः साक्षादधिक्रियमाणस्तदनुषङ्गिणां चाधारः तदाश्रयत्वात्तत्सिद्धेः, स पक्षो वा भवतु हेतुर्वा अनेन रूपेण अधिकरणसिद्धान्तः । पक्षस्तावद्यथा विवादाध्यासितमुपलब्धिमत्कारणमुत्पत्तिमत्त्वाद्तस्त्रादिवदिति । अत्र हि पृथिव्यादिगतेनोत्पत्तिमत्तेन उपलब्धिमत्पूर्वकत्वं तद्गतं साध्यमानं स्वसिद्ध्यन्तर्गतानुषङ्गिसर्वज्ञत्वाद्युपेतमेव सिध्यति, नान्यथेहोपलब्धिमत्पूर्वकत्वस्य सिद्धिरिति । भाष्ये हेतुप्रतिसन्धानं सिध्यतनुषङ्ग्यर्थान्तरान्वितं सिध्यतीत्पुदाह्लतम् । तदेतत्सर्वावरोधार्थं वार्त्तिककृदाहवाक्यार्थेति । हेतुरीदृशः पक्षश्च वाक्यार्थ इत्यर्थः । पूर्वोऽर्थो यः साक्षाद्धिकृतः तस्य सिद्धावन्तर्गत इति भाष्यार्थः॥३० ॥ ____________________________________________________________________ ण्य्ष्_१,१.३१ अपरीक्षिताभ्युपगमात्तद्विशेषपरीक्षणमभ्युपगसिद्धान्तः ॥ अथाभ्युपगमसिद्धान्तसूत्रमपन्तः॥३१॥ तद्वार्त्तिककारो व्याचष्टेअपरीक्षितोऽसूत्रित इति, सूत्रितस्य प्रायेण परीक्षासंबन्धात्, मनसो हीन्द्रित्वेनासूत्रितस्यापि इन्द्रियत्वाभ्युपगमः प्रमाणाधिकरणो यतः, तस्मादयमभ्युपगमसिद्धान्तः । सूत्रं चैवं चोजनीयम्, असूत्रिताभ्युपगमाथेतोर्यतस्तद्विशेषपरीक्षणं क्रियते, तस्माद्विशेषपरीक्षणात्ज्ञायते असूत्रितमप्यभ्युपगतं सूत्रकारेण । सोऽयमस्याभ्युपगमोऽभ्युपगमसिद्धान्त इति ॥ एवं स्वमतेन सूत्रं व्याख्याय भाष्यकारव्याख्यानं दूषयतिशास्त्रानभ्युपगत इति । प्रमाणीकृतेन शास्त्रेणाननुज्ञातः प्रमाणानधीन इत्यर्थः । प्रमाणतान्त्राभ्युपगमसंस्थितिरिति हि सिद्धान्तसामान्यलक्षणम्, न च प्रमाणानधीनाभ्युपगमस्तदन्वेतीति नायमीदृशोऽभ्युपगमसिद्धान्तो भवितुमर्हतीति हृदि निधायायुक्तापि दर्शिता । अज्ञं प्रत्यसदाचारत्वात्प्रमाणिकं च पुरुषं प्रत्यशक्यत्वात्बुद्धिमतोऽवज्ञानस्यायुक्तत्वातशक्यत्वादित्यर्थः । सर्व एवायं पक्ष इति । सर्वतन्त्रप्रतितन्त्रसिद्धान्तौ तावत्साक्षादभ्युपगम्यमानौ स्वमुखेनैव पक्षतयाभिधीयेते । अधिकरणाभ्युपगमौ च साक्षातनभ्युपगम्यमानावप्यर्थादभ्युपगन्तव्याविति अर्थापत्त्या पक्षावित्यर्थः । ननु यद्युपपन्नः प्रमाणतया अभ्युपगमः सिद्धान्तः, तर्हि सिद्धान्तभेदिनामर्थानां प्रामाणिकत्वेन विरुद्धधर्मसमालिङ्गिता भावाः प्रसज्येरन्नित्यत आहतत्प्रत्ययात् । तस्य प्रमाणोपपन्नकर्मत्वस्य प्रत्ययादभिमानादित्यर्थः । पक्ष इति । पचि व्यक्तीकरणे इत्यस्माद्व्युत्पन्नम् । कर्मतया व्यज्यमानतया वा उपादानं स्वार्थस्य पक्ष इति पदम् । उपादीयतेऽनेनेति व्युत्पत्त्या । क्रियासाधन इति प्रधानक्रियासाधने । क्रियाविशेषयुक्त इति अवान्तरव्यापारयुक्ते तेन हि प्रधानक्रियायां कारकाणां वैचित्र्यं भवतीति । यश्चासौ न्यायस्याभ्युपगम इति । यावदभ्युपगतं न्याय्यस्य साधनं न्याय इति, तावभ्युपगतं भवति प्रमेयसाधनं प्रमाणमिति । न च धर्मिणि अनभ्युपगते तदाश्रयोऽभ्युपगतो भवति । तस्मादुभयथापि सर्वतन्त्रसिद्धान्तानपह्नव इत्यर्थः । अथ संग्रहः पक्षशब्देनेति, यथा दण्डिशब्देन दण्डसंबन्धोपहितसीमानः समानासमानजातीयाः सर्वे संगृह्यन्ते, तथा पक्षशब्देनापीत्यर्थः अयं तु कल्पः सर्वतन्त्रसिद्धान्ताव्यापकत्वकथनेनैवार्थादपाकृत इति न पृथक्निराकृतः । पक्षशब्दो हि व्यज्यमानत्वोपाधिनिबन्धनप्रवृत्तिः, न च व्यज्यमानत्वमस्ति निसर्गव्यक्ते सर्वतन्त्रसिद्धान्त इति भाव । वाक्यार्थप्रतिपत्ताविति । पीनो देवदत्तो दिवा न भुङ्क्ते इति वाक्यस्य दिवाभोजननिषेधोऽर्थः । तस्मात्तद्विपरीतरात्रिभोजनविधिरर्थापत्तिर्लोकसिद्धा । सा च न यथा प्रमाणान्तरुलं तथा द्वितीये निवेदयिष्यते । तदनेन प्रबन्धेन भदन्तदिग्नागोदितानि दूषणानि निराकृतानि॥३१ ॥ ____________________________________________________________________ ण्य्ष्_१,१.३२ प्रतिज्ञाहेतूदाहरणोपनयनिगमनान्यवयवाः ॥ प्रतिवाः ॥३२॥ वार्त्तिककारः सूत्रतात्पर्यमाहअवयवानामिति । नन्ववयवसामान्यलक्षणमन्तरेणाशक्यो विभागोद्देशः, तद्विशेषलक्षणं च । न चेदं सामान्यलक्षणं विभागपरत्वादित्यत आहसूत्रम्, विभागपरमप्येतदर्थादवयवसामान्य लक्षणं सूचयतीति सूत्रम् । अन्यपरादपि वाक्यात्प्रतीयमानोऽर्थोऽपेक्षित स्वीक्रियत एवेति शाब्दाः । तत्रावयवपदादेव सामान्यलक्षणमवगम्यते । अवयवत्वेनैकवाक्यता दर्शिता । सा च पदानां परस्परमसंप्रत्यायितापेक्षितसंबन्धयोग्यार्थप्रत्ययेन भवति । तस्मात्तथाविधार्थप्रत्यायनमेव प्रतिज्ञादीनामवयवसामान्यलक्षणं सिद्धमिति सूत्रमित्यनेन दर्शितं वार्त्तिककृता इति । विभागोद्देशतात्पर्यमाहविभागेति । त्र्यवयवग्रहणमुपलक्षणार्थम्, द्व्यवयवमित्यपि द्रष्टव्यम् । अत्र भाष्यं तत्राप्रतीयमान इति । सामान्येनावगतधर्मिणि विशेषणाग्निमत्त्वादिना सन्दिग्धे, अग्निमत्त्वादितत्त्वावधारणं प्रत्ययः । तस्यार्थः प्रयोजनं हानोपादानोपेक्षबुद्धयः । तस्य प्रवर्त्तिका उत्पादिका जिज्ञासा प्रत्ययसाधनानुसरणद्वारेण प्रत्यासत्तिः संशयतत्त्वज्ञानयोर्विशेषगता न तु स्वरूपगता, संशयानन्तरया जिज्ञासया संशयस्य व्यवधानात् । शक्यं प्रमेयम् । तस्मिन् प्राप्तिः शक्तता प्रमाणानां प्रमातुश्च । सा च स्वरूपसहकारिभ्यां द्वेधा । तामिमां भाष्यकारोऽनया वचोभङ्ग्या दर्शयतिप्रकातः प्रमाणानीति । प्रतिज्ञादिवदिति । वैधर्म्यदृष्टान्ताः । प्रतिपक्षेपवर्णनमिति । यदि शब्दो नित्यः स्यात्, न स्यात्कृतक इति अनित्यत्वस्य नित्यत्वं प्रतिपक्षः । तस्मिन् हेत्वभावोपवर्णनं न चायमकृतक इति । तदुपवर्णनप्रतिषेधे सति तत्त्वज्ञानाभ्यनुज्ञानार्थम् । तत्त्वं ज्ञायतेऽनेनेति तत्त्वज्ञानं प्रमाणम् । तदभ्यनुज्ञानार्थं संशयव्युदासः तर्कापरनामा । व्युदस्यते हि तेन प्रमाणाभ्यनुज्ञानद्वारेण इतिकर्तव्यताभूतेन संशंय इति । तदेतद्भाष्यजातं प्रश्नपूर्वकं वार्त्तिककृद्व्याचष्टेकथं पुनरिति । न पुनर्जिज्ञासादयः परप्रतिपादकाः शब्दादवगताः सन्तः । अथ मा भूवन् परप्रतिपादकाः, स्वप्रतिपादका एव कस्मात्न भवन्तीत्यत आहनिश्चितत्वाच्चेति । साधनादेव गम्यते प्राप्यते, प्राप्तं च ज्ञायत इत्यर्थः । शक्यप्राप्तिश्च प्राथते ज्ञायत इत्यर्थः । तत्किं सर्वथैवानङ्गं जिज्ञासादय इत्यत उक्तं भाष्यकता, प्रकरणे तु जिज्ञासादयः समर्था इति । तदनुभाष्य व्याचष्टेप्रकरणे त्विति । प्रकरणं कथाप्रवृत्तिः । तदुत्थापका जिज्ञासादयोऽवयवा अङ्गनित्यर्थः । ते च जिज्ञासादय उत्पन्नाः प्रकरणस्योत्थापकाः स्वरूपेण, न पुनः स्वज्ञानेन येन शब्दप्रतिपाद्याः सन्तः प्रकरणेऽप्यङ्गं भवेयुः, यथा प्रतिज्ञादयः स्वज्ञानेन स्वार्थान् प्रतिपादयन्तः । तस्मात्सर्वथैव विज्ञासादिवाचकपदप्रयोगोऽनर्थक इति भावः । अत एव आहपरप्रतिपादकत्वादिति । तुशब्दो जिज्ञासादिभ्यो व्यवच्छिनत्ति । त्र्यवयमपि इत्यपिना द्व्यवयवनिषेधं समुच्चिनोति । उपनयनिगमनयोः इत्यत्र प्रतिज्ञाया अपीति द्रष्टव्यम्॥३२ ॥ ____________________________________________________________________ ण्य्ष्_१,१.३३ साध्यनिर्देशः प्रतिज्ञा ॥ साध्यज्ञा ॥३३॥ परिगृह्यतेऽनेनेति परिग्रहः । स च वचनं चेति परिग्रहवचनम् । उदाहरणमनित्यः शब्दः इति । तदाक्षिप्य वार्त्तिककारः समाधत्तेसिद्धत्वादिति । अग्निमानेव नातद्वान्नास्याग्निनेदानीमयोगः । स च पर्वतेऽग्निमति साध्यमाने विशेषणविशेष्ययोः परस्परसंबन्धलक्षणो नियमोऽर्थात्सिध्यति । न तु साक्षादयोगव्यवच्छेद एव साध्यः, लिङ्गस्यान्यापोहविषयत्वानभ्युपगमात् । तस्य निर्देश निर्दिश्यतेऽनेति प्रतिज्ञावाक्यमुच्यते ॥ अत्रान्ययोगव्यवच्छेदं वाक्यार्थं मन्वानो भदन्तः प्रतिज्ञालक्षणमतिव्याप्त्यव्याप्तिभ्यामाक्षिपतिउभयेति । उभयोरवधारणयोः प्राप्तौ संशयेन किमिदमवधार्यते किं चेदमिति प्रसक्तावित्यर्थः । प्रतिज्ञावधृतेति । यत एवकरणं न ततोऽन्यत्रावधारणमिति हि शाब्दा इति भावः । व्यतिरेकित्वादिति व्यभिचारादित्यर्थः । समाधत्तेसर्वस्मिन् वाक्ये इति । संसर्गो वाक्यार्थ इत्युत्सर्गः । क्वचित्पुनरन्ययोगव्यवच्छेदोऽपीति । सामान्यश्रुतौ नियमः इति । यथेन्द्रियार्थसन्निकर्षोत्पन्नमित्युक्ते ज्ञानं सुखादि च सामन्येन प्राप्तम् । तत्र ज्ञानग्रहणं न विधायकम्, प्राप्तत्वात् । अतः सुखादिव्यवच्छेदफलं विज्ञायते । यदि त्वस्मद्दर्शनमतिक्रम्य सर्वत्रावधाणं करोति, ततोऽस्य लोकविरोध इत्याहसर्वत्र चेति । तत्क्रि लोके न क्पचिदवधारणमित्यत आहयत्र चेति । चोदयतिननु चेति । सिद्धप्रतिपक्षः साध्यशब्दस्यार्थ इत्यभिप्रायः । परिहरतिन सूत्रार्थेति । सर्वसन्देहेष्विदमुपतिष्ठते व्याख्यानतोऽर्थप्रतिपत्तिरिति भावः । चोदकः स्वाभिप्रायमुद्घाटयतिअथ पुनरिति । असाध्यनिर्देशः सिद्धानिर्देशः । तस्य निवृत्तिः साध्यशब्दादवगम्यते, न तु प्रज्ञापनीयोऽर्थ इत्यर्थः । परिहरतिअसाध्यं चेति । भवेदेतद्यदि सिद्धमात्रमसाध्यं स्यात् । अपि त्वनुपपद्यमानं साधन सिद्धिर्यस्य तदप्यसाध्यम् । तथा चासिद्धस्य चाक्षुषत्वादेर्निवृत्तिरित्यर्थः । पुनश्चोदयतिअथ पुनरिति । न कृतकत्वादि सिद्धं नाप्यनुपपद्यमानसाधनम् । नापि कृतकत्वादि पराङ्गत्वेनोपात्तं येनाप्रज्ञापनीयं स्यादित्यर्थः । परिहरतिनैष दोष इति । प्रज्ञापनीयेन धर्मैण धर्मिणो विशिष्टस्य परिग्रहवचनमिति सूत्रार्थः, न पुनर्धर्ममात्रपरिग्रहवचनमिति । अभ्युपगम्य व्यवच्छेदं शब्दार्थमेतदुक्तम्, परमार्थतस्त्वनियमः क्वचित्संसर्गः, क्वचिद्व्यवच्छेद इत्यत आहयच्चेदमिति । इतोऽपि नासिद्धयोर्हेतुदृष्टान्तयोः प्रसङ्ग इत्याहसाध्यनिर्देश इति च प्रतिज्ञायामिति । प्रमाणतन्त्र खल्वभ्युपगमः सिद्धान्तः । न च चाक्षुषत्वादिषु प्रमाणमूलता, तदभिमानोऽपि बाधकादपाकृत इति । ननु यदि सर्वतन्त्रसिद्धान्तातिरिक्तानां सिद्धान्तान्तराणां साध्यत्वं तर्हि साध्येनैव चरितार्थत्वादपार्थकं पृथगभिधानमेतेषामिति, अत उक्तमवस्थायामिति । विमत्यवस्थायाम्, सर्वतन्त्रे तु विमतिरशक्येत्युक्तम् । परिहारान्तरमाहजिज्ञासादीति । धिभागसूत्रेण प्रकरणोत्थानहेतवो वाक्यावयवतया निराकार्यत्वेन जिज्ञासादयो बुद्धिस्थीकृताः । तेन यत्र जिज्ञासादयः स साध्यः । न च चाक्षुषत्वादिषु प्रमाणबाधितेषु सन्ति त इत्यर्थः । परिहारान्तरमाहअर्हत्यर्थ इति ॥ अपरमपि परिहारमाहकर्मकरणयोर्वेति । एवं तावद्व्युत्पत्त्याद्यालोचनया साध्यशब्दस्य न हेतुदृष्टान्तयोः प्रसङ्गः इत्युक्तम् । संप्रति लोक एवातिस्फुटास्तिस्रोविधा अर्थानाम्, कृतमत्र सूक्ष्मानुसरणेनेत्याहसाध्यासिद्धसिद्धभेदादिति । अन्यतरासिद्धयोर्हेतुदृष्टान्तयोः प्रसङ्गो मा भूदिति कर्मतया ते उपादीयन्त इत्युक्तम् । उभयपक्षेति पक्षशब्दो वर्गवचनः । संप्रतिपन्नमुभयोर्वर्गयोरित्यर्थः । परिहारान्तरमाह अथ वेति । अवयवानामेतत्प्रकरणम् । तेषां च प्रधानैकार्थप्रत्यायनेनैकवाक्यतामापन्नानामवयवभावः । यत्प्रत्यायनोद्देशेन ते प्रवर्तन्ते तत्प्रधानम् । धर्मी च सिसाधयिषितधर्मविशिष्टः । तथा च न साक्षात्तत्प्रत्यायनाय ते विभवन्तीति तदर्थं साधने व्याप्रियन्ते । तेन सिषाधयिषितधर्मविशिष्टो धर्मी तेषां प्रधानं विषयश्च । प्रधानं च प्रथमं बुद्धौ विपरिवर्तते इति साध्यशब्देन स एवोच्यते, न तु हेतुदृष्टान्तावप्रधाने इत्यर्थः ॥ तदेवमदुष्टमस्मल्लक्षणमिति यदस्मल्लक्षणमनेन दोषेण भङ्क्त्वा भदन्तेन अन्यथा लक्षणं प्रणीतम्, तदेव दुष्टमित्याहन चेदयमिति । ननु यत्र साध्यपदमस्ति भवतु तत्रेष्टग्रहणमनर्थकम्, न त्वस्मिस्तदस्तीति कथमिष्टग्रहणमनर्थकतमित्यत आहकर्मग्रहणाच्चेति । मा भूत्साध्यपदम् । अस्ति तु पक्षपदम् । तदपि हि पच्यमानं व्यज्यमानं साध्यमेवाहतच्च कर्म, कर्म चेप्सितमिति प्राप्तुमिष्टमित्यर्थः । चोदयतिअथाप्यनिष्टेति, नन्वनिष्टः पक्ष इति विप्रतिषिद्धमित्यत उक्तमर्थतः किलेति । वस्तुव्यवस्थापनाय प्रवृत्तस्य तादृशं नेष्टमित्यर्थः ॥ बौद्धपक्षमुपन्यस्यन्नेव मध्ये तदभिमतं किञ्चिन्निराकरोतिअश्रावण इति । कृतव्याख्यानमेतत्प्रथमसूत्रे । अपि त्वनुमानः कारणतो विकारात् ॥ इत्येवमादेः । न हि व्यवङ्गयं व्य्जकं कारणमनुविधीयते । नो खलु महती प्रदीपे घटो महानल्पे वा अल्प इति । महति तु कारणे महान् शब्द इति । तस्मात्कारणतो विकारात्कार्यः शब्दः, यथा महद्भिः स्थूलपिण्डैरारब्धोऽवयवी महानिति । तदनेन प्रत्ययभेदभेदित्वं हेतुरुपलक्षितो भवति, आदिशब्देन च सतः शब्दस्य अभिव्यक्तौ दोषात् ॥ इत्येवमादयो ग्राह्याः । दोषश्च दर्भेध्यादिवदुपयुक्तानामृचां निरिष्टिकत्वेन पुनरनुपयोगः, कार्यत्वे पुनरन्यत्वेन न निरिष्टिकत्वामित्यर्थः । यद्यप्यागमोऽपि शब्दानित्यत्वेऽस्ति यथा सोमं राजानमसृजत ततस्त्रेयो वेदा असृज्यन्त ॥ इति । तथापि नासदासीन्नो सदासीदाम्नाय एव खल्वयमग्र आसीत् ॥ इति नित्यत्वेऽप्यागमदर्शनातनिश्चयादनुमानस्यैवात्र प्रामाण्यम् । तथा चानुमानविरोध इति । प्रसिद्धिविरोधं तु न बुध्यमाहे प्रमाणविरोधाद्भेदेन । अबोधमाहकोऽयं प्रसिद्धिविरोध इति । एकग्रन्थेनाहप्रसिद्धिः प्रत्यक्षादीनामिति । अचन्द्रः शशीति । यदि चन्द्रे शशिशब्दवाच्यत्वं निषिध्यते, तदा लोकव्यवहारावगतान्वयव्यतिरेकप्रभवानुमानविरोधः । अथ विकल्पज्ञानगोचरत्वनिषेधः, ततो भवतां स्वसंवेदनप्रत्यक्षविरोधः । अस्माकं तु मानसप्रत्यक्षविरोध इति सर्वथा न प्रमाणादन्या प्रसिद्धिरिति । तदेवं बौद्धपक्षमुपन्यस्य तदुक्तान्युदाहरणानि दूषयित्वा बौद्धपक्षमुपसंहरतिएतदर्थेति ॥ तदेतद्दूषयतिएतच्चेति । वस्तु हि यादृशं स्वकारणादुत्पन्नं तादृशमेव तत् । न तस्यान्यथाभाव इति न तत्र दोषो निविशते । तद्विषयाणि पदान्यपि प्रत्येकमदुष्टान्येव । या पुनः षौरुषेयी दृष्टमन्यत्रार्थमन्यत्र समारोप्य भ्रान्त्या वा परविप्रलम्भाय वा प्रतिज्ञादिरूपेण वाक्यक्रिया, सा स्ववचनविरोधादिशालिनी दुष्टा । तद्द्वारेण पुरुषो निगृह्यते, नार्थो न पदानीति । स्वार्थापवादः स्ववचनविरोधः कर्तृदोषो भ्रमो वा विप्रलम्भो वा क्रियायामुपचर्यते । न च क्रियायां भ्रमो वा विप्रलम्भो वा, तयोरभिप्रायभेदतया पुरुषधर्मत्वात्क्रियाया वस्तुबाधनात्पुरुषाभिप्रायावगतिरिति क्रियाद्वारेणेत्युक्तम् ॥ चोदयतिअथ प्रतिज्ञाया इति । तदेतदतिप्रसङ्गेन दूषयतिनैतद्युक्तं हेत्वादीति । न पुनर्दूषणानि न्यूनतावयवात्तरदोषाक्षेपभावोद्भावनानीति । त्रैरूप्यसंपन्नो हेतुः पूर्णः । स त्रिषु रूपेष्वन्यतमेन रूपेण रहितो न्यूनोऽसिद्धो वा विरुद्धो वा अनैकान्तिको वा भवतीति सोऽयं न्यूनतादोषो हेतोः । अवयवदोषश्च प्रतिज्ञादोषः स्ववचनविरोधादिः । हेतुदोषोऽसिद्धात्वादिः एवमुदाहरणरणदोषः साध्यविकलत्वादिः । उत्तरदोषो जातिः प्राप्त्यप्राप्तिसमादिः । तस्याक्षेप उपादानं स्वीकार इति यावत् । भावोऽप्रतिभादिः । स हि वादिनो वा प्रतिवादिनो वाभिप्रायः । तस्योद्भावनानि दूषणनीति । न हि संभवे सत्युपचार इति । प्रतिज्ञागता हि दोषा यदि तद्गतत्वेन उद्भाव्यमाना न वादिनो निग्रहमापादयेयुः, ततस्तत्र निष्प्रयोजनत्वेनासंभवात्पक्ष एवोपचर्येरन्, पारयन्ति तु प्रतिज्ञागतानि दूषणानि निग्रहितुं वादिनमिति । सोऽयं प्रतिज्ञादोषाणां प्रतिज्ञायां संभव इति । कस्मात्पुनर्मञ्चस्था इत्येवं न प्रयु।जते इत्यत उक्तम्लौकिकप्रयुक्तवाक्यान्वाख्यानम् । न, अनादिर्लोकप्रयोगो नियोज्यः पर्यनुयोज्यो वेत्यर्थः ॥ स्यादेतत् । इष्टग्रहणमनक्षरारूढमप्यभिप्रायव्याप्तं साध्यं तथा स्यादित्येवमर्थं यथा परार्थाश्चक्षुरादय इति । अत्र हि पारार्थ्यमात्रमक्षरारूढम् । न च तन्मात्रमस्य साध्यम्, अपि त्वात्मपारार्थ्यम् । तच्च नोच्चारयति मा भूदनन्वयो हेतुः संघातत्वादिति । तस्मात्तदवरोधायेष्टग्रहणमित्याहअथेष्टग्रहणेनेति । परिहरतिअयमप्यर्थः साधनादेवगम्यते । प्रतिज्ञाप्रयोगादेव गम्यते । अयमभिसन्धिः । वचनलिङ्गाः हि वक्त्रभिप्राया भवन्ति । यत्परं च वचनं स वचनार्थः । तात्पर्यं चास्य क्वचिद्वाच्ये क्वचिल्लक्ष्य इति सर्व एवासौ वचनार्थः । यस्तु नैवंविधः कथमसौ वचनार्थः? कथमसौ वाद्यभिप्रायव्याप्त इत्यवगन्तव्यम्? न च क्वचिदपि पक्षः प्रतिज्ञापदवाच्यः, तस्य वाक्यार्थत्वेन लक्ष्यत्वादेवेति । अनिष्टनिवृत्तिरिष्टेति । तत्साधनमन्विष्यमाणमपि तदानीमिष्टमेव । तत्र प्रयत्नानुपपत्तेरिच्छापूर्वकत्वात्तस्येति । अथ संशयो विचारणेति । ततश्च संशयविषय इष्यमाणो जिज्ञास्यमानश्च साध्य एव भवति, न साधनादिरित्यर्थः ॥ स्थानान्तरीयं च भदन्तस्य लक्षणम्, साध्यत्वेनेप्सितः पक्षो विरुद्धार्थानिराकृतः ॥ इति दूषयतिएवेनेति । अत्रापि हि साध्यपदादूर्ध्वं वृथाक्षरचतुष्टयमिति । तथा पक्षो यः साधयितुमिष्टः इत्यत्रापि वसुबन्धुलक्षणे विरुद्धार्थानिराकृतग्रहणं न कर्तव्यम् । एतदुक्तं भवतिन केवलमस्माक्रमेतद्विरुद्धार्थानिराकृतपदमनर्थकं प्रतिभाति, समानतीर्थानामपि तथा विभाति, यतस्तैर्नोपात्तमिति । अत एवं वक्तव्यं पक्षो यः साधयितुमिष्ट इति । यद्यप्यत्रापि प्रयोज्यप्रयोजकव्यापारयोः साधयितुमिति समानम्, तथापि तुमुना य एव साधयिता वादी स एवैषितेत्युक्तं भवति । न पुनर्वादिनो नियोक्ता साधयिता वादी चैषितेति । एषितृत्वं च वादिनो ध्रुवं कृत्वैतदुच्यते, यदा पनुरेषितृत्वमपि प्रयोजके संचार्यते, तदा स्वयङ्ग्रहणेनाप्यप्रतीकार इत्यभिप्रायः तत्त्वभाक्तयोश्चेति । सिद्धः साध्यस्य प्रयोजकः कर्ता । स हि सिध्यन्तं साध्यं वादी तस्मिन्नियं साधना समवेता । यस्तु तस्यापि प्रयोजकस्तृतीयस्थानपतितो न तस्मिन् साधना समवैतीति । यः कारयति स करोत्येवेति कथञ्चिदस्य भक्त्या कर्तृत्वम्, तच्चायुक्तं सति मुख्ये कर्तरीत्यभिप्रायः । आ।जसत्वं मुख्यत्वम् । पूवाभिप्रायस्थितमर्थमुद्घाटयतितुमुनश्चेति । अत्रोक्तं भाष्यकारीयाभ्युपगमसिद्धान्तनिराकरणावसरेऽप्रमाणकमर्थमिति । यस्तावत्शास्त्राविरुद्धोऽर्थः प्रमाणसिद्धः स शास्त्रीय एव शास्त्राभ्युपेतप्रमाणसिद्धत्वात्, तं व्युत्पादयन्न शास्त्रं बाधते । यस्तु प्रमाणीकृतवैशषिकतन्त्रः शब्दनित्यत्वं साधयति सोऽनवधेयवचनः न हेत्वभिधानं यावत्परिषत्प्रतिवादिभ्यां नीयते, अपि तु प्रतिज्ञोच्चारणानन्तरमेव निगृह्यते । यस्तु वैशेषिकतन्त्राध्ययनमात्राद्वैशेषिकत्वमात्मनो दर्शयित्वा शब्दनित्यतां प्रतिजानीते नासौ प्रमाणीकृतवैशेषिकतन्त्र इति न निगृह्यते इति । यश्चाप्रमाणकोऽभ्युपगम इति । अभ्युपगम्यत इत्यभ्युपगमः । तदभिधानं प्रतिज्ञेति वक्तव्यमिति । साध्यग्रहणात्तद्ग्रहणस्य लाघवादित्यर्थः । यस्तु तत्रभवता नैयायिकेन इति पुकृतमुपसंहरतितस्मादपेतेति ॥३३ ॥ ____________________________________________________________________ ण्य्ष्_१,१.३४ उदाहरणसाधर्म्यात्साध्यसाधनं हेतुः ॥ अवान्तरसंगति प्रदर्शयन् प्रतिज्ञावचनस्य साधनाङ्गत्वमपि दर्शयतिहेतोरवसरप्राप्तस्येति । प्रतिज्ञानन्तरं हेतुवचनस्यावसरः । तथा हि परप्रत्यायनाय वचनमुच्चारयन्ति प्रेक्षावन्तः । तदेव च परे बोधयितव्या यद्बुभुत्सन्ते । तथा सत्यनेनापेक्षिताभिधायिना परो बोधितो भवति । नो खल्वाम्रान् पृष्टः कोविदारानाचक्षाणः प्रष्टुरवधेयवचनो भवति । अनवधेयवचनश्च कथं प्रतिपादको नाम? यथा च माठर समिधमाहरेति गुरुणा प्रेषित एषोहमाहरामीत्यनुक्त्वा तदर्थं तदर्यं यदायं दात्राय गृहं प्रविशति, तदास्मै कुप्यति गुरः आः शिष्यापसद छान्दसवचर माठर मामवधीरयसीति ब्रुवाणः । एवमनित्यं शब्दं बुभुत्समानायानित्यः शब्द इत्यनुक्त्वा यदेव किश्चिदुच्यते कृतकत्वादिति वा, यत्कृतकं तदनित्यमिति वा, कृतकश्च शब्द इति वा तत्सर्वमस्यानपेक्षितमापाततोऽसंबद्धाभिधानबुद्ध्या, तथा चानवहितो न बोद्धुमर्हतीति । यत्कृतकं तत्सर्वमनित्यं यथा घटः, कृतकश्च शब्दः इति वचनमर्थसामर्थ्येनैवापेक्षितशब्दानित्यत्वनिश्चायकमित्यवधानमत्रेति चेत्न, परस्पराश्रयत्वप्रसङ्गात् । अवधाने हि सति अतोऽर्थे निश्चयः । तस्माच्चावधानमिति । न च परिषत्प्रतिवादिनौ प्रमाणीकृतवादिनौ यदेतद्वचनं संबन्धाय प्रतीक्षेते, तथा च सति न हेत्वाद्यप्यपेक्षेताम्, तद्वचनादेव तदर्थनिश्चयात् । अनित्यः शब्द इति त्वपेक्षित उक्ते कुत इत्यपेक्षायां कृतकत्वादिति हेतुरुप तिष्ठते । सोऽयं पञ्चावयवप्रयोगे च तल्लक्षणे च प्रतिज्ञानन्तरकाल एवावसरो हेतोः । तदेवं हेतोरवसरप्राप्तस्य सामान्यलक्षणापदेशद्वारेण तद्विशेषलक्षणसूत्रम् उदातुः॥३४॥ श्रुत्यर्थाभ्यामुभयलक्षणसूचनात्सूत्रम । अत्र हेतुरिति लक्ष्यनिर्देशः । स च विभागोद्देशे वाक्यावयव इति वचनरूपः । तस्य सामान्यलक्षणं साध्यसाधनमिति साध्यतेऽनेनेति व्युत्पत्त्या यद्यपि पारार्थ्यापन्नं कृतकत्वादिकमर्थमाह, तथापि तस्य वचनात्मकहेतुसामानधिकरण्यानुपपत्तेर्विषयि कृतकत्वादित्यादिकं वचनमुपलक्षयति । यदि च वचनं हेतुरित्युच्येत तत्साध्येन समभिव्याहृतं प्रतिज्ञा स्यात् । अथ वचनमित्येतावदुच्येत, तदातिव्याप्तिः स्यात् । उपचारे तु न क्वचित्प्रसङ्गः । उपनयादपि साधनं न पराङ्गतया गम्यते, किं तु प्रातिपदिकार्थप्रधानतया स्वनिष्ठमिति न तत्रापि प्रसङ्गः । हेत्वाभासाश्च न साधनमिति साधनपदेनैव निराकृताः । न्यायवाक्यावयवत्वादेव च न शब्दे प्रसङ्गः । तदेवं समानासमानजातीयव्यवच्छेदकत्वं सिद्धं सामान्यलक्षणस्य । इदं चार्थम् । श्रौतं तु विशेषलक्षणम् । हेतुरिति यद्यपि सामान्यपदम्, तथापि प्रकरणादन्वयव्यतिरेकिहेतुविशेषपरं द्रष्टव्यम् । तेन हेतुरिति लक्ष्यनिर्देशः । परिशिष्टं तु लक्षणम् ॥ तदेतद्भाष्यकृदृ व्याचष्टेउदाहरणेनेति । साधर्म्यपदव्याख्यानं सामान्यादिति । साध्यसाधनपदव्याख्यानं साध्यस्य धर्मस्येति । साध्यस्येति धर्मिमात्रे बुद्धिर्मा भूदित्यत उक्तं धर्मस्येति । धर्मसहितस्य धर्मिण इत्यर्थः । एतदेव स्फुटयतिसाध्ये प्रतिसन्धायेति । उदाहरणसाधर्म्यात्साध्यस्येत्यनेनान्वयपक्षधर्मत्वे अन्वयव्यतिरेकपक्षधर्मत्वानि च दर्शितानि । साध्यसाधनमित्यत्र च साध्यग्रहणेनाबाधितविषयत्वासत्प्रतिपक्षत्वे सूचिते, तद्विपरीतस्य साधनानर्हत्वादिति ॥ तदेतद्वार्त्तिककारो व्याचष्टेउदाहरणेनेति । यो धर्मो धूमादिसाध्ये भवति स तथाभूत एवोदाहरणेऽपीति । उदाह्नियत इत्युदाहरणं दृष्टान्तधर्मी तस्मिन्न पुनः स एव । कुतः? अन्यधर्मस्येति । यदि तर्हि नान्यस्य धर्मोऽन्यत्र वर्तते, कथं तर्हि समानता? सा हि तत्त्वान्यत्वविरोधिनीत्यत आहकिं तु तत्तुल्यः स एवेत्युच्यते, यथा तानेव शलीनुपयुङ्क्ते तानेव तित्तिरीनीति तदनेन सामान्यादिति भाष्यं व्याख्यातम् ॥ उदाहरणग्रहणप्रयोजनमाहयदि पुनरिति । साधर्म्यमात्रत्वं हि विरुद्धे चासाधारणे सव्यभिचारे चास्तीति तेषामपि वचनं हेतुः स्यात् । तेषामपि यथास्वं साधारणत्वादित्यनिष्टमित्यर्थः । ननु तथापि सव्यभिचारेऽप्युदारणसाधर्म्यमिति कथं निवर्त्यते इत्यत आहौदाहरणेति । विशिष्टविधानस्य शेषनिषेधोऽर्थसिद्ध इत्यर्थः । पक्षान्तरमाहअवधारणेन वेति । साधर्म्यादित्यतो विशेषेण सर्वसाधर्म्यप्राप्तौ उदाहरणसाधर्म्यमपि प्राप्तमेवेति विधानानर्थक्यं परिसंख्यायकं सदवधारणार्थमेव भवति । तदवद्योतनाय च एवकारः साधर्म्यमेव इत्यत्र साध्यपदं योजनीयम् । तेन साध्यैकदेशासिद्धिमपाकरिष्यति । पृच्छतिकस्य पुनरिति । उत्तरम्कस्यान्यस्येति । अत्रैव हेतुद्वययाहप्रकृतत्वात्प्रत्यासत्तेश्च । साध्यं खल्वत्र प्रकृतं प्रधानम्, तदुद्देशेन अवयवानां प्रवृत्तेः । साध्यसाधनमिति च पदेन सन्निधापितमिति तदेव द्वितीयमवधारणं स्फुटीकरोतिअत्रापि चेति । साध्ये प्रतिसन्धाय इति भाष्यार्थमाहसाध्योदाहरणाभ्यामिति । द्वाविति । सपक्षव्यापकाव्यापकावित्यर्थः । अनैकान्तिकस्य चेति । साधारणस्य असाधारणस्य चेत्यर्थः । एवं भाव्यमानेनेति । परिभाव्यमानेन । नातिप्रसक्तस्येति, परिसख्यायकं हेत्वाभासलक्षणं न विधायकमित्यर्थः ॥ एतत्किल हेतुलक्षण भदन्तो दूषयांबभूव साधनं यदि सार्ध्म्यं न वाक्यांशः, न ह्यर्थः पञ्चावयववाक्यस्यावयवः । यदि साधनसाधर्म्ययोरत्यन्ताभेदो यदि वा सामान्यविशेषभावेन कथञ्चिद्भेदः उभयथापि न पञ्चमी, साधनसामानाधिकरण्येन प्रथमाप्रसङ्गात् । अत्यन्ताभेदे चैकतरपदाप्रयोगात् । वाक्यं चेत्ततः पञ्चम्युपपद्यते । साधनं हि वाक्यरूपु साधर्म्यादर्थादुत्थितं यतः । तद्विशेष्यं स्यात् न हि वाक्यमेवार्थादुत्थितम्, अपि तु विवक्षाद्यपीति । न विशेष्यम्, कुतः? साधनत्वादसंभवः ॥ अर्थसमुत्थानामपि ज्ञानविवक्षादीनामप्रसङ्गः, असाधनत्वादिति । न तत्रापि द्विधा दोषात्साक्षाद्वा साधनं पारम्पर्येण वा? यदि पारम्पर्येण, वक्तृज्ञानं तर्हि साक्षात्साधर्म्यसमुत्थं पारम्पर्येण च श्रोतुः साध्यविज्ञानसाधनं हेतुः स्यात् । अथ साक्षात्साधनम्, तर्हि श्रोतृज्ञानं पारम्पर्येण साधर्म्यसमुत्थं साक्षात्साधनं हेतुः स्यात् । प्रकृते त्वन्यसंभवनः । यदि तु पञ्चावयववाक्यस्य प्रकृतत्वात्ज्ञानादिव्यवच्छेदः, तथाप्यन्यसंभवः, उपनयस्यापि साधर्म्यसमुत्थात्वात् । स्वलक्षणेन बाधा चेन्न विकल्पादिसंभवात् ॥ तस्मात्षष्ठ्यस्तु तत्रापि विशेषणमनर्थकम् । साधर्म्यस्य हेतुरित्येतावन्मात्रं वक्तव्यमिति ॥ तदेदत्दिग्नागदूषणमुपन्यस्यतिउदाहरणसाधर्म्याच्चेति । यद्यर्थात्मकं साधर्म्यमेव साधनमुच्यते तदैतद्दूषणमित्यर्थः । यदि पुनरर्थात्मकस्य साधर्म्यस्यार्थात्मकमेव साधनं सामान्यमुच्यते, तत्राहअथ पुनरिति । तदिदमुक्तं भदन्तेनन पञ्चमी ॥ अन्ये त्वेतदन्यथा व्याचक्षत इत्याहअन्ये त्विति । विशेषातिरिक्तं न सामान्यं नाम किञ्चिदस्ति, तस्य कल्पनामात्रत्वाद्भेदस्य च वस्त्वधिष्ठानत्वादित्यभिप्रायः । दोषान्तरमाहसाध्यसाधनेति । यदा हि साध्यसाधनं नामोदाहरणसाधर्म्यादतिरिक्तं नास्ति किं तु शब्दमात्रमवशिष्यते, तदोदाहरणसाधर्म्यनेनाभिधेयत्वेन विशेषणीयम् । तथा च साध्यनिर्देशः प्रतिज्ञा इत्यनेन विरोधः । अनेन ह्यवयवः शब्दात्मकः प्रतिज्ञा लक्ष्यते । हेत्वादिसमुदायापेक्षया चावयवो भवति । न चाभिधानाभिधेयात्मकः समुदायो दृष्ट इति । तस्मात्समुदायाभावात् नोभयेषामवयवत्वम् । तदिदमुक्तम्न वाक्यांश इति । तदेतल्लक्षणं व्याचक्षाणैरस्माभिः परिहृतमिति न परिहारान्तरं प्रयोजयतीत्याहतत्र त्विति । उक्तं यथा हेतुपदसन्निधौ साधनपदं हेतुपदे प्रवर्तते, न चोपनयप्रसङ्गः, तस्य प्रातिपदिकार्थमात्रप्रधानत्वेन हेतुभावाप्रकाशकत्वादिति ॥ अत्र चोदयतिसाधर्म्यस्येति । साधर्म्यस्य लिङ्स्य कृतकत्वादिहेतुपदवाच्यस्य व्यभिचारित्वादियोगादुदाहरणविशेषणयोगो न पुनः साध्यसाधनपदवाच्यस्य कृतकत्वादित्यादेर्हेतुवचनस्येत्यर्थः । तदुक्तं भदन्तेनतत्रापि विशेषणमनर्थकं वचने अपीत्यर्थः । तदेतद्दूषयतिवचस इति । वचनमपि दर्शनभेदेन उभयथापि भवति, यथा मीमांसकानां नित्यं वचनम्, वैशैषिकाणामनित्यमिति । केषाञ्चिदमूर्तः शब्दः, केषाञ्चित्मूर्त इति । यथाहुः वायुरापद्यते शब्दताम् इति । तथा प्रातिस्विकमपि भेदं सर्वेषामेव शब्दानामितिकरणो दर्शयतीत्याहदृष्टश्चेति । स्वचरितविरोधमाहस्वयमिति । अनूभ्युपगतेति । अनभ्युपगतोऽर्थान्तरं विपक्षो यस्य हेतोरनित्यत्वे साध्ये कृतकत्वादेः स तथोक्तः । यदभ्युपगतं भदन्तेन तस्मात्षष्ट्यस्त्विति तद्दूषयतियदपीति । विवक्षातः कारकशब्दप्रयोगादिति । कारकत्वेन संबन्धित्वं लक्षणीयम्, क्रियाकारकभावगर्भत्वात्संबन्धित्वस्य । न तु षष्ठी वा हेतुपञ्चमी वा कारकविभक्तिरिति । अत्र भाष्यकारेण शुद्धं हेतुवचनमुदाहृतमुत्पत्तिधर्मकत्वादिति तस्य चोदाहरणसाधर्म्यसमुत्थत्वज्ञापनायोदाहरणमपि दर्शितमुत्पत्तिधर्मकमनित्यं दृष्टमिति ॥ तत्र भाष्यकारेण शुद्धं हेतुवचनमुदाहृतम् । तत्प्रतिज्ञापदेन पूरयित्वा बार्त्तिककृदाहौदाहरणमिति । अत्र पृच्छतिकिं पुनरिति । सतो विनाशो वा अनित्यत्वम्, तद्योगो वा? तच्चेभयमयुक्तम्, न हि सदसतोः कश्चिदस्ति संबन्धः, असमानकालत्वात् । ततश्चानित्यः शब्द इति समानाधिकरण्यं न स्यात् । अपि च शब्दस्य भूत्वा यदभवनम्, न तदेव पिठरस्य । न ह्यभवनत्वं नामास्ति सामान्यम्, येन दृष्टान्तो न साध्यविकलः स्यात् । न च सामान्यातिरिक्तं सादृश्यं वस्त्वन्तरं दृष्टमिष्टं वा । तस्मात्मृष्टाशेयमनित्यत्वं साध्यमिति भावः । गूढधिय उत्तरम्यस्यानित्यत्वमस्ति तदनित्यम् । स्वाभिप्रायेण पृच्छतिअथेति । उत्तरवाद्यभिप्रायमुद्घाटयतिउभयान्तेति । अपरान्तेति वक्तव्ये उभयान्तग्रहणेन पूर्वान्तनिवेशनं हेतोरुत्पत्तिमत्त्वस्यात्यन्तिङ्कीं प्रत्यासत्तिमविनाभावोपयोगिनीं दर्शयितुमिति । अवच्छेदकत्वं चोपलक्षणत्वम्, न तु विशेषणत्वम् । तच्चापरान्तस्य भिन्नकालस्य संबद्धस्यापि विरोधितया बुद्धिस्थस्य संभवति । तथा च यैवापरान्तावच्छिन्नस्य सत्ता पिठरस्य सैवापरान्तावच्छिन्नस्य शब्दस्यापि । एवं सत्तासमवायोऽपि तद्विधयोः पिठरशब्दयोः समानः । विरोघिभावः पश्चाद्भावश्चाभावमात्रात्प्रध्वंसस्य विशेषः । पृच्छतिअथोत्पत्तीति । न तावदुत्पन्नस्योत्पत्तिर्धमः, तदाप्युत्पद्यत इति प्रत्पयप्रसङ्गात् । नाप्यनुत्पन्नस्य असतो धर्मित्वायोगादिति भावः । गूढधिय उत्तरमौत्पत्तिरिति । उक्ताभिप्रायवान् पुनः पृच्छतिका पुनरियमिति । उत्तरमसद्विशेषणस्य सतोऽत्यन्तमभावभावप्रतिषेधः असदिति प्रागभावमाह, विशेषणत्वं च प्रागभावस्य उपलक्षणत्वम् । तच्च भिन्नकालस्यापि बुद्धिसथतामात्रेणोक्तम् । तेनासद्विशेषणस्य सत इत्येतावतैव पूर्वान्तपरिच्छिन्नस्य सत्तासंबन्धः सत्ता वा तद्विशेषणोत्पत्तिर्दर्शिता । पश्चेदृशस्तस्य गगनवत्नात्यन्तं संभवः, नापि गगनकुसुमवदत्यन्ताभाव इति स्वरूपमुक्तमुत्पत्तिमुपर्लक्षयितुम् । उपलक्षणोपलक्ष्ययोश्चाभेदविवक्षया सामानाधिकरण्यम् । न चैवं लब्धोत्पत्तिनि वस्तुनि उत्पद्यत इति प्रत्ययप्रसङ्गः । लभ्यमानोत्पत्तिनि तदवयवेषु तदुत्पादनानुकूलव्यापारावेशलब्धपूर्वापरीभावेषु तत्प्रयोगसय लोके दर्शनात् । तस्मात्पूर्वान्तावच्छिन्नवस्तुसत्तया तत्संबन्धेन वा तस्यैव वस्तुनोऽपरान्तावच्छिन्ना सत्ता वा तत्संबन्धो वा ज्ञाप्यते इति सर्वं रमणीयम् ॥ ननु भाष्यकृदभूत्वा भवतीत्यस्य वाक्यास्यार्थमुत्पत्तिं वक्ष्यति, त्वं पुनरसद्विशेषणस्य सतोऽत्यन्तमभावभावप्रतिषेध इत्यस्य वाक्यस्यार्थमुत्पत्तिम् । अतः कुतो न विरोध इत्यत आहवाक्यार्थेति । य एवार्थो भाष्यकारेण उत्पत्तिशब्दार्थतयाभ्यनुज्ञातोऽङ्गीकृतः, स एवास्माभिरपि । नात्यन्तमभावभावप्रतिषेध उत्पत्तिः, अपि स्वसद्विशेषणस्य सतः सत्ता वा तत्संबन्धो वेत्युक्तमित्यर्थः॥३४ ॥ ____________________________________________________________________ ण्य्ष्_१,१.३५ तथा वैधर्म्यात् ॥ सूत्रान्तरमवतारयतिकिमेतावदिति । तथात् ॥३५॥ अत्र यदि वेधर्म्यादित्युच्यते ततः सकलकेसरादिमत्पदार्थपक्षीकरणेनाश्वत्वं यदा विषाणित्वेन साध्यते तस्यास्ति पक्षवैधर्म्यमिति हेतुः स्यादित्यत आहौदाहरणेन वैधर्म्यमिति । विपक्षेणेत्यर्थः । तथापि यदा शरीरमात्रं पक्षीकृत्य सात्मकत्वं साध्यते प्रामादिमत्त्वेन, तदास्ति तस्योदाहरणेन वैधर्म्यमिति सोऽपि हेतुः स्यादित्यत आहएवेति । न चैतावता सपक्षे सत्त्वप्रसङ्गः, सपक्षस्याभावात् । अवधारणस्य च व्याप्त्या पक्षसत्त्वेनोपपत्तेरिति । तथापि अन्वयव्यतिरेकिणो हेतारनैकान्तिकस्य विपेक्षैकदेशव्यापिनः संग्रहः स्यात् । यथा अनित्यः शब्दः, उत्पत्तिधर्मकत्वादनित्यो मूर्तत्वादित्यत आहवैधर्म्यमेव चोदाहरणेनेति विपक्षोदाहरणेनेत्यर्थः । भाष्यकारीयमुदाहरणं निगदेनोपन्यस्यतिअनित्यः शब्दः । इति । नित्यमनुत्पत्तिधर्मकं दृष्टमिति योजना । तदेतद्दूषयतिएतच्चेति । मा भूत्प्रयोगमात्रभेदाद्भेदः, उदाहरणभेदाद्भेदो भविष्यतीत्यत आहौदाहरणमात्रभेदाच्चेति ॥ तदेतद्भाष्यकारीयमुदाहरणं दूषयित्वा स्वकीयमुदाहरणमाहौदाहरणं त्विति । प्राणादिना च स्वकारणं प्रयत्नेच्छाद्युपलक्षयतियदुभयपक्षसंप्रतिपन्नं निरात्मकं घटादि तत्सर्वमप्राणादिमद्दृष्टमिति व्यत्यासेन योजना । प्राणादिकारणेच्छादिकारणरहितं यदित्यर्थः । तत्मात्नेदमिति । नेच्छादिसमवायिकारणरहितम् । यश्चासौ इच्छादिसमवायिकारणं पृथिव्यादिविलक्षणो द्रव्याणां नवमः, स आत्मेत्युच्यते इत्यर्थः । अन्वयिव्यतिरेकिणस्तद्विवेकस्य च तन्त्रान्तरप्रसिद्धेन नाम्ना तन्त्रान्तरप्रसिद्धतां दर्शयतिसोऽयमवीत इति । विविधेन प्रकारेण इतः प्राप्तो वीतः, पक्षव्यापकत्वे सति सपक्षव्याप्त्या अव्याप्त्या च, तस्मादन्योऽवीत इति ॥ गूढाभिसन्धिः पृच्छतिकथं पुनरिति । गूढाभिसन्धेरुत्तरमथ योऽभ्यनुज्ञात इति । यथा वीतस्यार्थपरिच्छेदकत्वं तथैवावीतस्येत्यर्थः । प्रष्टा स्वाभिप्रायमुद्घाटयतिअन्वयादिति । गृहीताविनाभावो हि हेतुः साध्येन तस्य परिच्छेदकः, स च दृष्टान्तधर्मिणि हेतुसाध्यधर्मयोर्दर्शने सत्यविनाभावो दृष्टो भवति । न च सात्मकत्वं क्वचिद्दृष्टम्, तत्कथं तेनाविनाभावदर्शनं प्राणादिमत्त्वस्य, दर्शने वा नावीतः किं तु वीत एवेत