बोधिसत्त्वादिकर्मिकमार्गावतारदेशना परमगुरवे नमः । संसारे दुर्गतिघ्नं च निर्याणाभ्युदयप्रदम् । दशदिक्सर्वरत्नं च गुरुपादं नमामि च ॥ १ ॥ इह यः स्वभावतो महाकरुणाप्रज्ञावान्महायानगोत्रीयः, यश्च पूर्वजन्मसु महायानभावुकः पुरुषः संसारसुनिर्विण्णचित्तः मरणानुस्मृतिकश्च समस्तबाह्याध्यात्मिकवस्तुस्वल्पाभिनिवेशः,ऽएकसत्कल्याणमित्रत एकाविपर्यस्तमार्गश्रवणे किं न स्यात्? अहमेकं सन्तमन्वेष्यामिऽ एवं चिन्तयन् सः कल्याणमित्रानुरुपं गुरुमन्विष्य अन्यत्र निर्दिष्टवत्त्रिशरणगमनविशिष्टः, अनन्तगतीः विषयीकृत्य, सदाशयः, अनुत्तरमहाबोधावसाधारणचित्तोत्पादः, सदध्याशयः, मायाशाठ्यरहितबोधिप्रस्थानमहाचित्तोः बोधिसत्त्वशीलस्य त्रिशिक्षां सुष्ठु गृह्णीयात् । ततः श्वश्वपचदाससंज्ञकस्य मायाशाठ्यरहितस्य तस्य बोधिसत्त्वस्य संभारमार्गीयत्वादहोरात्रं कायवाक्चित्तसमस्तकर्माणि न व्यर्थानि भवन्ति । एवं तेन चित्तेन भोजनमात्राज्ञानम्, इन्द्रियद्वारसंवरणम्, अणुमात्रेऽप्यवद्ये भयदर्शनम्, अहर्निशं योगञ्च आपादयेत् । ततः श्वासप्रश्वासमपि परार्थमभिलषितुकामः सः पञ्चमप्रहर उत्थाय, उच्चारप्रस्रावत्यागादिचर्या सुनिर्वर्त्य मध्यदेशप्रत्यन्तजनपदविशेषे स्नात्वा, समस्तगतीः अवलम्ब्य चतुरप्रमाणैर्बोधौ चित्तमुत्पाद्य, त्रिरत्नप्रतिमासमक्षं सुलिप्य सुगन्धपुष्पप्रकरं सुविकीर्य तदग्रतो भूमौ जानुनी संस्थाप्य, कृताञ्जलिः दशदिग्लोकधातसमस्तबुद्धसमस्तधर्ममहायानसंघसमक्षं च असंख्यानिर्वाच्यकायव्यूहान्निर्माय तेषाञ्चैकैकं चरणयोः सुप्रणमेत् । तानपरिमितविपुलाप्रमेयामिषपूजया पूजयेत् । ततः प्रतिकायमनिर्वचनीयमुखानि प्रतिमुखं चानिर्वचनीयजिह्वा निर्माय, स्वपरपापानशेषान् दिशेत् । स्वपरपुण्यानि चानुमोदयेत् । अचिरमभिसम्बोधिप्राप्तान् बुद्धान् भगवतो धर्मचक्रप्रवर्तनाय अध्येषयेत् । ये धर्मचक्रं प्रवर्त्य आयुः संस्कारान् परिजिहीर्षन्ते, (तान्) आसंसारमपरिनिर्वाणाय प्रार्थयेत । तेषां समस्तकुशलानामनुत्तरसम्यक्सम्बोधौ परिणामनां कुर्यात् । यथा सूत्रे आगतानि तथा प्रत्यङ्गपदानि सविस्तरं पठेत् । ततः सप्तपूजानन्तरं सर्वसत्त्वानवलम्ब्य त्रिशरणगमनपदानि त्रिः पठेत् । ततः बोधिचित्तमुत्पादयेत्, यथा विधौ प्राप्यते तथा च कुर्यात् । अन्तशश्च एवम् बुद्धं च धर्मञ्च गणोत्तमं च यावद्धि बोधिं शरणं गतोऽस्मि । दानादिकृत्यैश्च कृतैर्मयैभिः बुद्धो भवेयं जगतो हिताय ॥ २ ॥ इति त्रिः पठेत् । ततः स्वकायार्पणं, ततः महापुरुषाणां धर्मनये महारथिनां च मार्गे अवस्थानाय प्रतिजानीयात् । ततः स्वशय्यायां पर्यङ्कमाभुज्य गुरुभट्टारकश्रीबोधिभद्रकृतसमाधि(सम्भार) परिवर्त्तोक्तानिनवाङ्गानि ज्ञात्वा शमथविपश्यनायोगं भावयेत् । सोऽपि लयौद्धत्यादिसमस्तदोषान् प्रहाय भावनीयः । ततः चक्षुरुन्मील्य, निःश्वस्य, बाह्याभ्यन्तरवस्तुदर्शनेऽअहो! आश्चर्यम्, अहो! आश्चर्यम् । आकाशोपमानुत्पादतः प्रतीत्यसमुत्पादबलेन नानाभासेयमवस्थितिः अयम्ऽ अहो! आश्चर्यम्ऽ इति विचिन्त्य अष्टमायोपमरुपेण जानीयात् । ततो महाकरुणचित्तेन समस्तादृश्यसत्त्वेभ्यो धर्मदेशनार्थ यथाबोधि महायानसूत्रपाठं कुर्यात् । ततः भोजनावसरेऽषट्त्रिंशदशुचिपरिपूर्णेन असारेण नाशपर्यवसितेन कायेनानेन तद्बुद्धधर्मकायसारमन्वेषयामिऽ इति विचिन्त्य न पुष्ट्यर्थ, नापि रसासक्तया यानधिया भोक्तव्यम् । भोजनमात्रापि ज्ञातव्या । अष्टाङ्गचिकित्सातन्त्रे अन्नेन कुक्षेर्द्वावंशौ पानेनैकं प्रपूरयेत् । आश्रयं पवनादीनां चतुर्थमवशेषयेत् ॥ ३ ॥ इति । तद्भोजनं चतुर्भागेषु विभाज्यम् । प्रथमो भागस्त्रिरत्नेभ्यो गुरवे चार्पणीयः । एकं भागं स्वयमेव भुञ्जीत् । एको भागो बालेभ्योऽनाथेभ्यश्च देयः । एकश्च भागः कुक्कुरकाकादितिर्यग्भ्यो देयः । कैश्चिच्चर्यासङ्ग्रहोऽन्यथापि कथितः । अन्यो नयस्तु चर्यासङ्ग्रहप्रदीपोक्तवत् । ततः पूर्वाह्णयामेष्वपि पञ्चमप्रहरे यथोक्तवत्सर्वं कार्यम् । मध्याह्ने सन्ध्यायां रात्रेः प्रथमे मध्ये च यामे सर्वथा यथोक्ताः सर्वे विधयः पूरयितव्याः ।ऽतादृग्योगिनस्तस्य निद्राशयनकालनियमो नास्तिऽ एवं गुरवो वदन्ति । तादृग्योगिनः सम्भारमार्गीयाः, मोक्षमार्गीयकुशलमूलोत्पादकामआदिकार्मिका अहोरात्रं व्यर्थमनवस्थिताः, तादृग्भ्य आपत्तिदोषः कथं भवेत् । यदि दुर्वासनाबलादापत्तिर्भवेत्, एवं शीघ्रं प्रतिकुर्यात् । एवं तेषां षड्यामानामष्टादशधा विभागे कृते सति चतुःपञ्चाशत्क्षणा भविष्यन्ति । बोधिसत्त्वा अपि उत्तममध्यमा (ऽधमाः) नव स्युः । गुरुपदेशतः प्रतिपत्त्युपायान् जानीयात् । श्रेष्ठैः समाख्याततमं सुमार्ग बोधिप्रभाद्यैः कलितश्च शिष्यैः । गत्त्वा महायानकुलाभिजातैः प्राप्यं पदं तद्द्विपदेन्द्रकस्य ॥ ४ ॥ गुरुर्हि भट्टारकबोधिसत्त्वः बोधिप्रभैर्भिक्षुवरैः प्रणुन्नः । अनूदिता शीलजयेन भिक्षुणा चरेन्महायानपथानुयायी ॥ ५ ॥ ऽबोधिसत्त्वादिकर्मिकमार्गावतारदेशनाऽ आचार्यदीपङ्करश्रीज्ञानविरचिता समाप्ता ॥ तेनैव पण्डितेन लोकचक्षुषा च जयशीलेन अनूदिता ॥