अध्याय १ अथातो धर्मजिज्ञासा ॥ १,१ ।१ ॥ लोके येष्वर्थेषु प्रसिद्धानि पदानि, तानि, सति सम्भवे, तदर्थान्येव सूत्रेष्वित्यवगन्तव्यम् । नाध्याहारादिभिरेषां परिकल्पनीयोऽर्थः, परिभाषितव्यो वा । एवं हि{*१।१*} वेदवाक्यान्येवैभिर्व्याख्यायन्ते । इतरथा वेदवाक्यानि व्याख्येयानि स्वपदार्थाश्च व्याख्येयाः । तद्यत्नगौरवं{*१।२*} प्रसज्येत । तत्र लोकेऽयमथशब्दो वृत्तादनन्तरस्य प्रक्रियार्थो दृष्टः । न चेह किञ्चिद्वृत्तमुपलभ्यते । भवितव्यं तु तेन, यस्मिन् सत्यनन्तरं धर्मजिज्ञासावकल्पते । तथा हि प्रसिद्धपदार्थकः स कल्पितो भवति । तत्तु वेदाध्ययनम् । तस्मिन् हि सति सावकल्पते । नैतदेवम् । अन्यस्यापि कर्मणोऽनन्तरं धर्मजिज्ञासा युक्ता, प्रागपि च वेदाध्ययनात् । उच्यते तादृशीं{*१।३*} तु धर्मजिज्ञासामधिकृत्याथशब्दं प्रयुक्तवानाचार्यः, या वेदाध्ययनमन्तरेण न संभवति । कथम्? वेदवाक्यानामनेकविधो विचार इह वर्तिष्यते । अपि च नैव वयमिह [२]{*१।४*} वेदाध्ययनात्पूर्वं धर्मजिज्ञासायाः प्रतिषेधं शिष्मः{*१।५*} । न ह्येतदेकं वाक्यं पुरस्ताच्च वेदाध्ययनाद्धर्मजिज्ञासां प्रतिषेधिष्यति{*१।६*}, परस्ताच्चानन्तर्यं प्रकरिष्यति । भिद्येत हि तथा वाक्यम् । अन्या हि वचनव्यक्तिरस्य पुरस्ताद्वेदाध्यायनाद्धर्मजिज्ञासां प्रतिषेधतः, अन्या च परस्तादानन्तर्यमुपदिशतः{*१।७*} । वेदानधीत्य इत्य्{*१।८*} एकस्यां विधीयतेऽनूद्यानन्तर्यम्, विपरीतमन्यस्याम् । अर्थैकत्वाच्चैकवाक्यतां वक्ष्यति{*१।९*} । किं त्व्{*१।१०*} अधीते वेदे द्वयमापतति, गुरुकुलाच्च समावर्तितव्यं वेदवाक्यानि च विचारयितव्यानि । तत्र गुरुकुलान्मा समावर्तिष्ट॑ कथं नु वेदवाक्यानि विचारयेदित्येवमर्थोऽयमुपदेशः । यद्येवम्, न तर्हि वेदाध्ययनं पूर्वं धर्मजिज्ञासायाः{*१।११*} । एवं हि समामनन्ति वेदमधीत्य स्नायादिति{*१।१२*} । इह च वेदमधीत्य स्नास्यन् धर्मं जिज्ञासमान इममाम्नायमतिक्रामेत् । न चाम्नायो नामातिक्रमितव्यः । तदुच्यते अतिक्रमिष्याम इममाम्नायम् । अनतिक्रामन्तो वेदमर्थवन्तं सन्तमनर्थकं कल्पयेम{*१।१३*} । दृष्टो हि तस्यार्थः कर्मावबोधनं नाम । न च तस्याध्ययनमात्रात्{*१।१४*} तत्रभवन्तो याज्ञिकाः फलं समामनन्ति । यदपि च समामनन्तीव, तत्रापि द्रव्यसंस्कारकर्मसु परार्थत्वात्फलश्रुतिरर्थवादः स्यादित्य्{*१।१५*} अर्थवादतां वक्ष्यति । न चाधीतवेदस्य स्नानानन्तर्यमेतद्विधीयते । न ह्यत्रानतर्यस्य वक्ता कश्चिच्छब्दोऽस्ति । पूर्वकालतायां हि{*१।१६*} क्त्वा स्मर्यते, नानन्तर्ये । दृष्टार्थता चाध्ययनस्यानन्तर्ये व्याहन्येत । लक्षणया त्वेषोऽर्थः स्यात् । न चेदं स्नानमदृष्टार्थं विधीयते । किं तु लक्षणयास्नानादिनियमस्य पर्यवसानं वेदाध्ययनसमकालमाहुः वेदमधीत्य स्नायाद्, गुरुकुलान्मा समावर्तिष्टेत्यदृष्टार्थतापरिहारायैव । [३]{*१।१७*} तस्माद्वेदाध्ययनमेव पूर्वमभिनिर्वर्त्याननतरं धर्मो जिज्ञासितव्य इत्यथशब्दस्य सामर्थ्यम् । न ब्रूमोऽन्यस्यापि कर्मणोऽनन्तरं धर्मजिज्ञासा न कर्तव्या इति, किं तु वेदमधीत्य त्वरितेन न स्नातव्यम्, अनन्तरं धर्मो जिज्ञासितव्य इत्यथशब्दस्यार्थः । अतःशब्दो वृत्तस्यापदेशको हेत्वर्थेन{*१।१८*}, यथा क्षेमसुभिक्षोऽयं देशः, अतोऽहमस्मिन् देशे प्रतिवसामीति । एवमधीतो वेदो धर्मजिज्ञासायां हेतुर्ज्ञातः, अनन्तरं धर्मो जिज्ञासितव्यः इत्यतःशब्दस्य सामर्थ्यम् । धर्माय हि वेदवाक्यानि विचारयितुमनधीतवेदो न शक्नुयात् । अतः, एतस्मात्कारणात्, अनन्तरं धर्मं जिज्ञासितुमिच्छेदित्यतःशब्दस्यार्थः । धर्माय जिज्ञासा धर्मजिज्ञासा । सा हि तस्य ज्ञातुमिच्छा । स पुनः{*१।१९*} कथं जिज्ञासितव्यः? को धर्मः, कथंलक्षणः, कान्यस्य साधनानि, कानि साधनाभासानि, किंपरश्चेति । तत्र को धर्मः, कथंलक्षण इत्येकेनैव सूत्रेण व्याख्यातं चोदनालक्षणोऽर्थो धर्म इति{*१।२०*} । कान्यस्य साधनानि, कानि साधनाभासानि, किंपरश्चेति शेषलक्षणेन{*१।२१*} व्याख्यातम्{*१।२२*} । क्व पुरुषपरत्वं क्व वा पुरुषो गुणभूत इत्येतासां प्रतिज्ञानां पिण्डस्य एतत्सूत्रमथातो धर्मजिज्ञासेति । धर्मः प्रसिद्धो वा स्यादप्रसिद्धो वा । स चेत्प्रसिद्धः, न जिज्ञास्यः{*१।२३*} । अथाप्रसिद्धः, नतराम् । तदेतद्{*१।२४*} अनर्थकं धर्मजिज्ञासाप्रकरणम् । अथवार्थवत् । धर्मं प्रति हि विप्रतिपन्ना बहुविदः । केचिदन्यं धर्ममाहुः, केचिदन्यम् । सोऽयमविचार्य प्रवर्तमानः कंचिदेवोपाददानो विहन्येतानर्थं चर्च्छेत् । तस्माद्धर्मो जिज्ञासितव्यः{*१।२५*} । स हि निःश्रेयसेन पुरुषं संयुनक्तीति प्रतिजानीमहे । तदभिधीयते ण्Oट्Eष् *{१।१ ट्B एवं हि॑ टा एवं सति॑ E१,२,३,५,६ एवं}* *{१।२ टा, ट्B तद्यत्न॑ E१ प्रयत्न॑ E२,३,६ इति प्रयत्न॑ E५ इति यत्न}* *{१।३ E२,३,५, टा, ट्B, श्V तादृशीं॑ E१,६ मादृशां}* *{१।४ E२ १,४॑ E३ २३॑ E५ १,९॑ E६ १,१}* *{१।५ E२,५॑ हिन्तेर्शिष्मः fओल्ग्त्बेइ टा नापि परस्तादानन्तर्यम्, बेइ E१,३ परस्ताच्च॑ नछ्Kउमारिल, श्V १ ।८४८५ wउर्दे दिएस्वोनेइनिगेन् हिन्शुगेfग्त्(केचिदध्याहरन्ति)}* *{१।६ E१,२,३,५,६, ट्B॑ टा, E१ (व् ।ल् ।) प्रतिषेधयिष्यति}* *{१।७ E१,५, टा, ट्B॑ E२,३,६ प्रतिषेधति । । ।उपदिशति}* *{१।८ E१,२,३,६, टा॑ E६, ं ।परि । वेदं नानधीत्य॑ ट्B वेदं नाधीत}* *{१।९ ंष्२ ।१ ।४६ अर्थैण्Oट्Eषकत्वादेकं वाक्यम्, साकाङ्क्षं चेद्विभागे स्यात्}* *{१।१० E२,३,५, टा, ट्B, टात्प्.॑ E१,६ किं च}* *{१।११ E५॑ E१,२,३,६, टा पूर्वं गम्यते, ट्B पूर्वम्}* *{१।१२ Bङ्षू । ईई ।६ ।१ (fरग्लिछ्, ओब्wइर्क्लिछ्दिएसे ष्तेल्ले गेमेइन्तिस्त्}* *{१।१३ E१,२,३,५,६॑, टा, ट्B अवकल्पयेम}* *{१।१४ E१,२,३,६, टा॑ E५, ट्B तत्र}* *{१।१५ ंष्४ ।३ ।१}* *{१।१६ E५, ट्B॑ हि fएह्ल्तिन्E१,२,३,६, टा}* *{१।१७ E२ १,८॑ E३ २८॑ E५ १,१४॑ E६ १,२}* *{१।१८ E५, टात्प्.॑ E१,२,३,६, टा, ट्B हेत्वर्थः}* *{१।१९ पुनः fएह्ल्तिन् टा, ट्B}* *{१।२० ंष्१ ।१ ।२}* *{१।२१ E१,२,३,५,६, टा, Kआश् ।, ण्य् ।रत्.॑ ट्B, टात्प् । शेषलक्षणे}* *{१।२२ ंष्३१२}* *{१।२३ टा, ट्B, Kआश्.॑ E१,२,३,५,६, ण्य् ।रत् । जिज्ञासितव्यः}* *{१।२४ E१,२,३,५,६, टा॑ ट्B उभयत्रापि}* *{१।२५ ट्B॑ E१,२,३,५,६, टा जिज्ञासितव्य इति}* ____________________________________________ चोदनालक्षणोऽर्थो धर्मः ॥ १,१ ।२ ॥ चोदनेति क्रियायाः प्रवर्तकं वचनमाहुः । आचार्य[४]{*१।२६*}चोदितः करोमीति हि दृश्यते । लक्ष्यते येन, तल्लक्षणम् । धूमो लक्षणमग्नेरिति हि वदन्ति । तया यो लक्ष्यते, सोऽर्थः पुरुषं निःश्रेयसेन संयुनक्तीति प्रतिजानीमहे । चोदना हि भूतं भवन्तं भविष्यन्तं सूक्ष्मं व्यवहितं विप्रकृष्टमित्येवंजातीयकमर्थं शक्नोत्यवगमयितुम्, नान्यत्किंचनेन्द्रियम् । नन्वतथाभूतमप्यर्थं ब्रूयाच्चोदना, यथा यत्किंचन लौकिकं वचनं नद्यास्तीरे फलानि सन्तीति । तत्तथ्यमपि भवति, वितथमपि भवतीति । उच्यते विप्रतिषिद्धमिदमभिधीयते{*१।२७*} ब्रवीति च वितथं चेति । ब्रवीतीति उच्यतेऽवबोधयति, बुध्यमानस्य निमित्तं भवतीति । यस्मिंश्च निमित्तभूते सत्यवबुध्यते, सोऽवबोधयति । यदि च चोदनायां सत्यामग्निहोत्रात्स्वर्गो भवतीत्यवगम्यते{*१।२८*}, कथमुच्यते न तथा भवतीति । अथ न तथा भवति{*१।२९*}, कथमवबुध्यते । असन्तमर्थमवबुध्यत इति विप्रतिषिद्धम् । न च स्वर्गकामो यजेतेत्य्{*१।३०*} अतो वचनात्संदिग्धमवगम्यते भवति वा स्वर्गो न वा भवतीति । न च निश्चितमवगम्यमानमिदं मिथ्या स्यात् । यो हि जनित्वा प्रध्वंसते नैतदेवमिति, स मिथ्याप्रत्ययः । न चैष कालान्तरे पुरुषान्तरेऽवस्थान्तरे देशान्तरे वा विपर्येति । तस्मादवितथः । तस्मादवितथः । यत्तु लौकिकं वचनम्, तच्चेत्प्रत्ययितात्पुरुषादिन्द्रियविषयं वा, अवितथमेव तत् । अथाप्रत्ययितात्पुरुषादनिन्द्रियविषयं वा, तत्{*१।३१*} पुरुषबुद्धिप्रभवमप्रमाणम् । अशक्यं हि तत्पुरुषेण ज्ञातुमृते वचनात् । अपरस्मात्पौरुषेयाद्वचनादवगतमिति चेत्, तदपि तेनैव तुल्यम् । नैवंजातीयकेष्वर्थेषु पुरुषवचनं प्रामाण्यमुपैति, जात्यन्धानामिव वचनं रूपविशेषेषु । नन्वविदुषाम्{*१।३२*} उपदेशो नावकल्पते । उपदिष्टवन्तश्च मन्वादयः । तस्मात्पुरुषाः{*१।३३*} सन्तो विदितवन्तश्{*१।३४*} च । यथा चक्षुषा रूपमुपलभ्यत इति दर्शनादेवावगतम् । उच्यते उपदेशो{*१।३५*} हि व्यामोहादपि भवति । असति व्यामोहे वेदादपि भवति । अपि च पौरुषेयाद्वचनादेवमयं पुरुषः वेदेति भवति प्रत्ययः, न एवमयमर्थ इति । विप्लवते खल्वपि कश्चित्पुरुषकृताद्वचनात्प्रत्ययः । न तु वेदवचनस्य मिथ्यात्वे किंचन प्रमाणमस्ति । ननु सामान्यतो दृष्टं भविष्यति{*१।३६*} । पौरुषेयं वचनं वितथमुपलभ्य वचनसामान्याद्{*१।३७*} वेदवचनं मिथ्येत्यनुमीयते{*१।३८*} । न, अन्यत्वात् । न ह्यन्यस्य वितथभावे{*१।३९*}ऽन्यस्य वैतथ्यं भवितुमर्हति{*१।४०*}, अन्यत्वादेव । न हि देवदत्तस्य श्यामत्वे यज्ञदत्तस्यापि श्यामत्वं भवितुमर्हति । अपि च पुरुषवचनसाधर्म्याद्वेदवचनं वितथम्{*१।४१*} इत्यनुमानम्{*१।४२*} । प्रत्यक्षस्तु वेदवचने{*१।४३*} प्रत्ययः । न चानुमानं प्रत्यक्षविरोधि{*१।४४*} प्रमाणं भवति{*१।४५*} । तस्माच्चोदनालक्षणोऽर्थः{*१।४६*} श्रेयस्करः । एवं तर्हि श्रेयस्करो जिज्ञासितव्यः । किं धर्मजिज्ञासया? उच्यते य एव श्रेयस्करः, स एव धर्मशब्देनोच्यते । कथमवगम्यते{*१।४७*}? यो हि यागमनुतिष्ठति, तं धार्मिक इति समाचक्षते । यश्च यस्य कर्ता, स तेन व्यपदिश्यते{*१।४८*}, यथा पाचको लावक इति । तेन यः पुरुषं निःश्रेयसेन संयुनक्ति, स एव{*१।४९*} धर्मशब्देनोच्यते । न केवलं लोके, वेदेऽपि यज्ञेन यज्ञमयजन्त देवाः। तानि धर्माणि प्रथमान्यासन्॥ इत्य्{*१।५०*} यजतिशब्दवाच्यम्{*१।५१*} एव धर्मं{*१।५२*} समानन्ति । उभयमिह चोदनया लक्ष्यते, अर्थोऽनर्थश्च । कोऽर्थः? यो निःश्रेयसाय ज्योतिष्टोमादिः । कोऽनर्थः? यः प्रत्यवायाय श्येनो वज्र इषुरित्येवमादिः । तत्रानर्थो धर्म उक्तो मा भूदित्यर्थग्रहणम्{*१।५३*} । कथं पुनरसावनर्थः? हिंसा हि सा, सा च{*१।५४*} प्रतिषिद्धा{*१।५५*} । कथं पुनरसावनर्थः कर्तव्यतयोपदिश्यते{*१।५६*}? उच्यते नैव श्येनादयः कर्तव्यतया विज्ञायन्ते । यो हि हिंसितुमिच्छेत्, तस्यायमभ्युपाय इति हि तेषामुपदेशः । श्येनेनाभिचरन् यजेतेति{*१।५७*} हि समामनन्ति, नाभिचरितव्यमिति । नन्वशक्तमिदं सूत्रमिमावर्थावभिवदितुम्, चोदना[६]{*१।५८*}लक्षणो धर्मो नेन्द्रियादिलक्षणः, अर्थश्च धर्मो नानर्थ इति । एकं हीदं वाक्यम् । तदेवं सति भिद्येत । उच्यते यत्र वाक्यादेवार्थो{*१।५९*}ऽवगम्यते, तत्रैवम् । तत्तु वैदिकेषु, न सूत्रेषु । अन्यतोऽवगतेऽर्थे सूत्रमेवमर्थम्{*१।६०*} इत्यवगम्यते, तेन चैकदेशः सूत्र्यत इति{*१।६१*} सूत्रम् । तत्र भिन्नयोरेव वाक्ययोरिमावेकदेशावित्यवगन्तव्यम् । अथवा अर्थस्य सतश्चोदनालक्षणस्य धर्मत्वमुच्यत{*१।६२*} इत्येकार्थम्{*१।६३*} एवेति । ण्Oट्Eष् *{१।२६ E२ १,१४॑ E३ ३६॑ E५ १,२०॑ E६ १,३}* *{१।२७ E५, ट्B, ट्C, Kआश् ।, ण्य् । रत्.॑ E१,२,३,६, टा, आ उच्यते}* *{१।२८ ट्B, ट्C॑ E१,२,३,५,६, टा, आ गम्यते}* *{१।२९ ट्B, ट्C॑ E१,२,३,५,६, टा, आ भवतीति}* *{१।३० E१,२,३,५,६, टा, आ॑ ट्C, टात्प् । अग्निहोत्रं जुहुयात्स्वर्गकाम॑ ट्B अग्निहोत्रात्स्वर्गो भवति}* *{१।३१ E५, टा, ट्B, ट्C, आ॑ E१,२,३,६ तावत्}* *{१।३२ व् ।ल् । न च विदुषां (णृ अद्श्V, ष् ।१५५)॑ ंित्तेइलुन्ग्वोन् ড়्रोf । ष्लजे}* *{१।३३ E५, टा, ट्B, ट्C, आ॑ E१,२,३,६ पुरुषात्}* *{१।३४ E१,२,३,५,६, टा, आ॑ ट्B, ट्C विदितवन्तः}* *{१।३५ E५, टा, ट्B, ट्C, टात्प् ।, Kआश्.॑ E१,२,३,६, ण्य ।रत् । उपदेशा । । ।भवन्ति । । ।भवन्ति}* *{१।३६ ट्B, ट्C, Kआश्.॑ E१,२,३,५,६, टा, आ, टात्प् । ओम्}* *{१।३७ ट्C, टात्प् ।, Kआश्.॑ E१,२,३,५,६, टा, ट्B, आ साम्याद्}* *{१।३८ ट्C, आ, Kआश् । वेदवचनं मिथ्येत्यनुमीयते॑ E१,२,३,५,६, टा इदमपि वितथमवगम्यते॑ टात्प् । वैदिकमपि तथा स्यात्}* *{१।३९ E१,२,३,५,६, टा, ट्B, आ॑ ट्C, Kआश् । वैतथ्ये}* *{१।४० E१,२,३,५,६, टा॑ ट्B, ट्C, टात्प् । भवति}* *{१।४१ E१,२,३,५,६, टा, ट्B, ट्C॑ आ, Kआश् ।, ण्य् ।रत् । मिथ्या॑ टात्प् । अप्रमाणम्}* *{१।४२ टा, आ, टात्प् ।, Kआश् ।, ण्य् ।रत्.॑ E५, ट्B, ट्C अनुमानादवगम्यते॑ E१,२,३,६ अनुमानं व्यपदेशादवगम्यते}* *{१।४३ टा, ट्B, ट्C, आ, टात्प् ।, Kआश् ।, ट्ष्ড়्॑ E१,२,३,५,६, ण्य् ।रत् । वेदवचनेन}* *{१।४४ E१,२,३,५,६, टा, आ॑ ट्B, ट्C विरोधे॑ टात्प् ।, ण्य् ।रत् । विरुद्धम्}* *{१।४५ E१,२,३,५,६, टा, ट्B, आ, ट्ष्ড়्॑ ट्C, टात्प् । भवितुमर्हति, ण्य् ।रत् । आत्मानं लभते}* *{१।४६ टा, ट्C, Kआश् ।, ण्य् ।रत् । ओम् ।ऽर्थः}* *{१।४७ टा, ट्B, ट्C, आ, ट्ष्ড়्॑ E१,२,३,५,६ अवगम्यताम्}* *{१।४८ E१,२,३,५,६, टा, आ॑ ट्B, ट्C समाख्यायते, ट्ष्ড়् आख्यायते}* *{१।४९ E२,३,५,६ ट्C, ट्ष्ড়्॑ E१, ट्B, टा, आ ओम् । एव}* *{१।५० टैत् ।ष् । ३ ।५ ।११ ।५}* *{१।५१ ट्B, ट्C वाच्ये}* *{१।५२ ट्B, ट्C धर्मशब्दं}* *{१।५३ ट्B, ट्C, Kआश् । इत्येवमर्थमर्थग्रहनम्}* *{१।५४ E५, टा, ट्B, ट्C, टात्प् ।, Kआश्.॑ E१,२,३,६ हिंसा च}* *{१।५५ ट्B, ट्C॑ E१,२,३,५,६, टा, आ प्रतिषिद्धेति}* *{१।५६ E१,२,३,५,६, टा, ट्B, Kआश् ।, ण्य । रत् । कर्तव्यतया॑ आ, टात्प् ।, Kआश् ।, ण्य् ।रत् । कर्तव्या}* *{१।५७ आप्श्ष्२२ ।४ ।१३ (१७)}* *{१।५८ E२ १,२२॑ E३ ९६॑ E५ १,३८॑ E६ १,४}* *{१।५९ ट्B, ट्C, Kआश्.॑ E१,२,३,५,६, टा, आ, टात्प् । ओम् । एव}* *{१।६० ट्B, ट्C, Kआश्.॑ E१,२,३,५,६, टा, आ एवमर्थमिदम्}* *{१।६१ Vग्ल् । य़्ड्, E१, ष् ।२।२३२४ सूचनात्सूत्रम्॑ सूचयति तांस्तानर्थविशेषानिति सूत्रम्।}* *{१।६२ टात्प् ।, Kआश् । ओम् । उच्यते}* *{१।६३ E१,२,३,५,६, टा, ट्B, आ, Kआश् ।, ण्य् ।रत्.॑ ट्C, टात्प् । एकार्थत्वम्}* ____________________________________________ तस्य निमित्तपरीष्टिः ॥ १,१ ।३ ॥ उक्तमस्माभिश्चोदनानिमित्तं धर्मस्य ज्ञानमिति । तत्प्रतिज्ञामात्रेणोक्तम् । इदानीं तस्य निमित्तं परीक्षिष्यामहे, किं चोदनैवोतान्यद्{*१।६४*} अपीति । तस्मान्न तावन्निश्चीयते चोदनालक्षणोऽर्थो धर्म इति । तदुच्यते ण्Oट्Eष् *{१।६४ E५, टा, ट्B, ट्C, आ॑ E१,२,३,६ इत्यन्यद्}* ____________________________________________ सत्संप्रयोगे पुरुषस्येन्द्रियाणां बुद्धिजन्म तत्प्रत्यक्षमनिमित्तम्, विद्यमानोपलंभनत्वात् ॥ १,१ ।४ ॥ इदं परीक्ष्यते प्रत्यक्षं तावदनिमित्तम् । किं कारणम्? एवंलक्षणकं हि तत् सत्संप्रयोगे पुरुषस्येन्द्रियाणां बुद्धिजन्म तत्प्रत्यक्षम् । सतीन्द्रियार्थसंबन्धे या पुरुषस्य बुद्धिर्जायते, तत्प्रत्यक्षम् । भविष्यंश्चैषोऽर्थो न ज्ञानकालेऽस्ति{*१।६५*} । सतश्चैतदुपलम्भनम्, नासतः । अतः प्रत्यक्षमनिमित्तम् । बुद्धिर्वा जन्म वा संनिकर्षो वेति नैषां कस्यचिदवधारणार्थमेतत्सूत्रम् । सतीन्द्रियार्थसंप्रयोगे, नासतीत्येतावदवधार्यते । अनेकस्मिन्नवधार्यमाणे भिद्येत वाक्यम् । प्रत्यक्षपूर्वकत्वाच्चानुमानोपमानार्थापत्तीनामप्यकारणत्वम्{*१।६६*} । अभावोऽपि नास्ति, यतः ण्Oट्Eष् *{१।६५ ट्B, ट्C॑ E१,२,३,५,६, टा, आ अस्तीति}* *{१।६६ E१,२,३,५,६, टा, आ अकारणत्वमिति}* ____________________________________________ औत्पत्तिकस्तु शब्दस्यार्थेन संबन्धस्तस्य ज्ञानमुपदेशोऽव्यतिरेकश्चार्थेऽनुपलब्धे, तत्प्रमाणं बादरायणस्य, अनपेक्षत्वात् ॥ १,१ ।५ ॥ औत्पत्तिक इति नित्यं ब्रूमः । उत्पत्तिर्हि{*१।६७*} भाव उच्यते लक्षणया । अवियुक्तः शब्दार्थयोर्भावः संबन्धेन{*१।६८*}, नोत्पन्नयोः पश्चात्संबन्धः । औत्पत्तिकः शब्दस्यार्थेन संबन्धस्तस्याग्निहोत्रादिलक्षणस्य धर्मस्य निमित्तं प्रत्यक्षादिभिरनवगतस्य{*१।६९*} । कथम्? उपदेशो हि भवति । उपदेश इति विशिष्टस्य शब्दस्योच्चारणम् । अव्यतिरेकश्च भवति तस्य{*१।७०*} ज्ञानस्य । न हि तदुत्पन्नं{*१।७१*} ज्ञानं विपर्येति । यच्च नाम ज्ञानमुत्पन्नं{*१।७२*} न विपर्येति, न तच्छक्यते वक्तुं नैतदेवमिति, यथा विज्ञायते{*१।७३*}, न तथा भवति, यथैतन्न विज्ञायते, तथैतदिति । अन्यदस्य हृदये, अन्यद्वाचि स्यात् । एवं वदतो विरुद्धमिदमवगम्यत{*१।७४*} अस्ति नास्ति चेति{*१।७५*} । तस्मात्तत्प्रमाणम्, अनपेक्षत्वात् । न ह्येवं सति प्रत्ययान्तरमपेक्षितव्यं पुरुषान्तरं वा । स्वयंप्रत्ययो{*१।७६*} हि असौ । बादरायणस्येदं{*१।७७*} मतं कीर्त्यते बादरायणं पूजयितुं नात्मीयं मतं पर्युदसितुम् । वृत्तिकारस्त्वन्यथेमं ग्रन्थं वर्णयांचकार तस्य निमित्तपरीष्टिरित्येवमादिम् न परीक्षितव्यं निमित्तम् । प्रत्यक्षादीनि हि प्रसिद्धानि प्रमाणानि तदन्तर्गतं च शास्त्रम् । अतस्तदपि न परीक्षितव्यम् । ननु{*१।७८*} व्यभिचारात्परीक्षितव्यं निमित्तम्{*१।७९*} । शुक्तिका हि रजतवत्प्रकाशते यतस्, तेन प्रत्यक्षं व्यभिचरति, तन्मूलत्वाच्चानुमानादीन्यपि । तत्रापरीक्ष्य प्रवर्तमानोऽर्थाद्विहन्येत अनर्थं चाप्नुयात्कदाचित् । नैतदेवम् । यत्प्रत्यक्षम्, [८]{*१।८०*} न तद्व्यभिचरति । यद्व्यभिचरति, न तत्प्रत्यक्षम् । किं तर्हि प्रत्यक्षम्? तत्संप्रयोगे पुरुषस्येन्द्रियाणां बुद्धिजन्म सत्प्रत्यक्षम्{*१।८१*} । यद्विषयं ज्ञानम्, तेनैव संप्रयोग इन्द्रियाणां पुरुषस्य बुद्धिजन्म सत्प्रत्यक्षम् । यदन्यविषयं ज्ञानमन्यसंप्रयोगे भवति, न तत्प्रत्यक्षम् । कथं पुनरिदमवगम्यत इदं तत्संप्रयोगे{*१।८२*}, इदमन्यसंप्रयोग{*१।८३*} इति । यन्नान्यसंप्रयोगे, तत्तत्संप्रयोगे । एतद्विपरीतमन्यसंप्रयोग इति । कथं ज्ञायते{*१।८४*}, यदा हि शुक्तिकायामपि रजतं मन्यमनो रजतसंनिकृष्टं मे चक्षुरिति मन्यते? बाधकं हि यत्र ज्ञानमुत्पद्यते नैतदेवम्, मिथ्याज्ञानमिदमिति, तदन्यसंप्रयोगे, विपरीतं तत्संप्रयोग इति । प्राग्बाधकज्ञानोत्पत्तेः कथमवगम्यते, यदा न तत्काले संयग्ज्ञानस्य मिथ्याज्ञानस्य च कश्चिद्विशेषः? यदा{*१।८५*} क्षुदादिभिर्{*१।८६*} उपहतं मनो भवति, इन्द्रियं वा तिमिरादिभिः, सौक्ष्म्यादिभिर्वा बाह्यो विषयः, ततो मिथ्याज्ञानम्, अनुपहतेषु संयग्ज्ञानम् । इन्द्रियमनोर्थसंनिकर्षो हि ज्ञानस्य{*१।८७*} हेतुः, असति तस्मिनज्ञानात्{*१।८८*} । तदन्तर्गतो दोषो मिथ्याज्ञानस्य हेतुः । दुष्टेषु हि ज्ञानं मिथ्या भवति । कथमवगम्यते? दोषापगमे संप्रतिपत्तिदर्शनात् । कथं दुष्टादुष्टावगम इति चेत्, प्रयत्नेनान्विच्छन्तो न चेद्दोषमुपलभेमहि{*१।८९*}, प्रमाणाभावाददुष्टमिति मन्येमहि । तस्माद्यस्य च दुष्टं करणं यत्र च मिथ्येति प्रत्ययः, स एवासमीचीनः प्रत्ययो नान्य इति । ननु सर्व एव निरालम्बनः स्वप्नवत्प्रत्ययः । प्रत्ययस्य हि निरालम्बनता स्वभाव उपलक्षितः{*१।९०*} स्वप्ने । जाग्रतोऽपि स्तम्भ इति वा कुड्यम्{*१।९१*} इति वा प्रत्यय एव भवति । तस्मात्सोऽपि निरालम्बनः । उच्यते स्तम्भ इति जाग्रतो बुद्धिः सुपरिनिश्चिता, कथं विपर्यसिष्यति{*१।९२*}? स्वप्नेऽप्येवमेव सुपरिनिश्चितासीत्प्राक्{*१।९३*} प्रबोधनात्{*१।९४*} । न तत्र कश्चिद्विशेष इति चेत्{*१।९५*}, न, स्वप्ने विपर्ययदर्शनादविपर्य[९]{*१।९६*}याच्चेतरस्मिन् । तत्सामान्यादितरत्रापि भविष्यतीति चेत् । यदि प्रत्ययत्वात्स्वप्नप्रत्ययस्य मिथ्याभावः, जाग्रत्प्रत्ययस्यापि भवितुम्{*१।९७*} अर्हति । अथ प्रतीतिस्तथाभावस्य हेतुः{*१।९८*}, न शक्यते प्रत्ययादयं{*१।९९*} अन्य इति वदितुम्{*१।१००*} । अन्यतस्तु{*१।१०१*} स्वप्नप्रत्ययस्य मिथ्याभावो विपर्ययादवगतः । कुत इति चेत् । सनिद्रस्य मनसो दौर्बल्यान्निद्रा मिथ्याभावस्य हेतुः स्वप्नादौ स्वप्नान्ते च । सुषुप्तस्य प्रत्ययाभाव एव{*१।१०२*} । अचेतयनेव हि सुषुप्त इत्युच्यते । तस्माज्जाग्रतः प्रत्ययो न{*१।१०३*} मिथ्येति । ननु जाग्रतोऽपि करणदोषः स्यात्? यदि स्यात्, अवगम्येत । स्वप्नदर्शनकालेऽपि नावगम्यत इति चेत् । तन्न{*१।१०४*} । प्रबुद्धो ह्यवगच्छति निद्राक्रान्तं मे मन आसीदिति । शून्यस्तु । कथम्? अर्थज्ञानयोराकारभेदं नोपलभामहे । प्रत्यक्षा च नो बुद्धिः । अतस्तद्भिन्नमर्थरूपं नाम न किंचिदस्तीति पश्यामः । स्याद्{*१।१०५*} एतदेवम्, यद्यर्थाकारा बुद्धिः स्यात् । निराकारा तु नो बुद्धिः, आकारवान् बाह्योऽर्थः । स हि{*१।१०६*} बहिर्देशसंबद्धः प्रत्यक्षमुपलभ्यते । अर्थविषया हि प्रत्यक्षबुद्धिर्न बुद्ध्यन्तरविषया । क्षणिका हि सा न बुद्ध्यन्तरकालमवस्थास्यत इति{*१।१०७*} । उत्पद्यमानैवासौ ज्ञायते ज्ञापयति चार्थान्तरं प्रदीपवदिति यद्य्{*१।१०८*} उच्येत{*१।१०९*}, तन्न । न ह्यज्ञातेऽर्थे कश्चिद्बुद्धिमुपलभते, ज्ञाते त्वनुमानादवगच्छति । तत्र यौगपद्यमनुपपन्नम् । ननु उत्पन्नायामेव बुद्धावर्थो ज्ञात{*१।११०*} इत्युच्यते नानुत्पन्नायाम् । अतः पूर्वं बुद्धिरुत्पद्यते, पश्चाज्ज्ञातोऽर्थः । ननु उत्पन्नायामेव बुद्धावर्थो ज्ञात इत्युच्यते नानुत्पन्नायाम् । अतः पूर्वं बुद्धिरुत्पद्यते, पश्चाज्ज्ञातोऽर्थः । सत्यम् । पूर्वं बुद्धिरुत्पद्यते, न [१०]{*१।१११*} तु पूर्वं ज्ञायते । भवति हि कदाचिदेतत्, यज्ज्ञातो{*१।११२*}ऽर्थः सोऽज्ञात इत्युच्यते । न च अर्थव्यपदेशमन्तरेण बुद्धेः रूपोपलम्भनम्{*१।११३*} । तस्मान्नाव्यपदेश्या{*१।११४*} बुद्धिर्, अव्यपदेश्यं च नः प्रत्यक्षम्{*१।११५*} । तस्मादप्रत्यक्षा बुद्धिः । अपि च काममेकरूपत्वे बुद्धेरेवाभावः, न त्व्{*१।११६*} अर्थस्य प्रत्यक्षस्य सतः{*१।११७*} । न चैकरूप्यम् । निराकाराम्{*१।११८*} एव हि बुद्धिमनुमिमीमहे, साकारं चार्थं प्रत्यक्षमेवावगच्छामः । तस्मादर्थालम्बनः प्रत्ययः । अपि च नियतनिमित्तस्तन्तुष्वेवोपादीयमानेषु पटप्रत्ययः । इतरथा तन्तूपादाने{*१।११९*}ऽपि कदाचिद्घटबुद्धिरविकलेन्द्रियस्य स्यात् । न चैवमस्ति । तस्मान्{*१।१२०*} न निरालम्बनः प्रत्ययः । अतो न व्यभिचरति प्रत्यक्षम् । अनुमानं ज्ञातसंबन्धस्य एकदेशदर्शनादेकदेशान्तरेऽसंनिकृष्टेऽर्थे बुद्धिः । तत्तु द्विविधं प्रत्यक्षतोदृष्टसंबन्धं सामान्यतोदृष्टसंबन्धं च । तत्र{*१।१२१*} प्रत्यक्षतोदृष्टसंबन्धं यथा धूमाकृतिदर्शनादग्न्याकृतिविज्ञानम् । सामान्यतोडृष्टसंबन्धं च यथा देवदत्तस्य गतिपूर्विकं देशान्तरप्राप्तिमुपलभ्यादित्येऽपि{*१।१२२*} गतिस्मरणम् । शास्त्रं शब्दविज्ञानादसंनिकृष्टेऽर्थे विज्ञानम् । उपमानमपि सादृश्यमसंनिकृष्टेऽर्थे बुद्धिमुत्पादयति, यथा गवयदर्शनं गोस्मरणस्य । अर्थापत्तिरपि दृष्टः श्रुतो वार्थोऽन्यथा नोपपद्यत इत्यर्थकल्पना, यथा जीवतो देवदत्तस्य{*१।१२३*} गृहाभावदर्शनेन बहिर्भावस्य अदृष्टस्य कल्पना । अभावोऽपि प्रमाणाभावो नास्तीत्यस्यार्थस्यासंनिकृष्टस्य । तस्मात्प्रसिद्धत्वान्न परीक्षितव्यं निमित्तम् । ननु प्रत्यक्षादीन्यन्यानि भवन्तु नाम प्रमाणानि, शब्दस्तु न प्रमाणम् । कुतः अनिमित्तं विद्यमानोपलम्भनत्वात्{*१।१२४*} । अनिमित्तमप्रमाणं शब्दः । यो ह्युपलम्भनविषयो [११]{*१।१२५*} नोपलभ्यते, स नास्ति, यथा शशस्य विषाणम् । उपलम्भनानि{*१।१२६*} चेन्द्रियाणि पश्वादीनाम् । न च पशुकामेष्ट्यनन्तरं पशव उपलभ्यन्ते । अतो नेष्टिः पशुफला । कर्मकाले च कर्मफलेन{*१।१२७*} भवितव्यम् । यत्कालं हि मर्दनम्, तत्कालं मर्दनसुखम् । कालान्तरे फलं दास्यतीति चेत्, न, न कालान्तरे फलमिष्टेरित्यवगच्छामः । कुतः? यदा तावदसौ विद्यमाना आसीत्, तदा फलं न दत्तवती । यदा फलमुत्पद्यते, तदासौ नास्ति । असती च कथं दास्यति? अपि च कर्मकाल एव फलं श्रूयते यागः करणमिति वाक्याद्{*१।१२८*} अवगम्यते, करणं चेदुत्पन्नम्, कार्येण भवितव्यमिति{*१।१२९*} । प्रत्यक्षं च फलकारणमन्यदुपलभामहे{*१।१३०*} । न च दृष्टे कारणे सत्यदृष्टं कल्पयितुं शक्यते{*१।१३१*}, प्रमाणाभावात् । एवं दृष्टापचारस्य वेदस्य स्वर्गाद्यपि फलं न भवतीति मन्यामहे । दृष्टविरुद्धमपि भवति किंचिद्वैदिकं{*१।१३२*} वचनम् । पात्रचयनं विधायाह स एष यज्ञायुधी यजमानोऽञ्जसा स्वर्गं लोकं यातीति{*१।१३३*} प्रत्यक्षं शरीरं{*१।१३४*} व्यपदिशति । न च तत्स्वर्गं लोकं याति । प्रत्यक्षं हि तद्दह्यते । न चैष यातीति विधिशब्दः । एवंजातीयकं च प्रमाणविरुद्धं वचनमप्रमाणमम्बुनि मज्जन्त्यलाबूनि, ग्रावानः प्लवन्त इति{*१।१३५*} यथा । तत्सामान्यादग्निहोत्रादिचोदनास्व्{*१।१३६*} अप्यनाश्वासः । तस्मान्न चोदनालक्षणोऽर्थो धर्मः । औत्पत्तिकस्तु शब्दस्यार्थेन संबन्धस्तस्य ज्ञानम्{*१।१३७*} । तुशब्दः पक्षं व्यावर्तयति । अपौरुषेयः शब्दस्यार्थेन संबन्धस्तस्याग्निहोत्रादिलक्षणस्यार्थस्य{*१।१३८*} ज्ञानं प्रत्यक्षादिभिर्{*१।१३९*} अनवगम्यमानस्य । तथा च{*१।१४०*} चोदनालक्षणः संयक्प्रत्यय{*१।१४१*} इति । पौरुषेये हि सति संबन्धे{*१।१४२*} यः प्रत्ययः, तस्य मिथ्याभाव आशङ्क्येत । परप्रत्ययो [१२]{*१।१४३*} हि तदा{*१।१४४*} स्यात् । अथ शब्दे ब्रुवति कथं मिथ्येति? न हि तदानीमन्यतः पुरुषादवगमः{*१।१४५*} । ब्रवीतीत्य्{*१।१४६*} उच्यत अवबोधयति{*१।१४७*}, बुध्यमानस्य निमित्तं भवतीति{*१।१४८*} । शब्दे चेन्{*१।१४९*} निमित्तभूते{*१।१५०*} स्वयमवबुध्यते{*१।१५१*}, कथं विप्रलब्धं ब्रूयान्नैतदेवमिति । न चास्य चोदना स्याद्वा न वेति सांशयिकं प्रत्ययमुत्पादयति । न च मिथ्यैतदिति कालान्तरे देशान्तरेऽवस्थान्तरे पुरुषान्तरे वा पुनरव्यपदेश्यः प्रत्ययो{*१।१५२*} भवति । योऽप्यन्यप्रत्ययविपर्यासं{*१।१५३*} दृष्ट्वात्रापि विपर्यसिष्यतीत्यानुमानिकः प्रत्यय उत्पद्यते, सोऽप्यनेन प्रत्यक्षेण प्रत्ययेन{*१।१५४*} विरुध्यमानो बाध्यते । तस्माच्चोदनालक्षण एव धर्मः । स्यादेतदेवम्{*१।१५५*} नैव शब्दस्यार्थेनास्ति{*१।१५६*} संबन्धः, कुतोऽस्य पौरुषेयता वेति । कथम्? स्याच्चेदर्थेन संबन्धः, क्षुरमोदकशब्दोच्चारणे मुखस्य पाटनपूरणे स्याताम्, यदि{*१।१५७*} संश्लेषलक्षणं संबन्धम्{*१।१५८*} अभिप्रेत्योच्यते । कार्यकारणनिमित्तनैमित्तिकाश्रयाश्रयिभावयौनादयस्{*१।१५९*} तु संबन्धाः शब्दस्यानुपपन्ना एवेति । उच्यते योऽत्र व्यपदेश्यः संबन्धः, तमेकं न व्यपदिशति भवान्, प्रत्यय्यस्य प्रत्यायकस्य च यः संज्ञासंज्ञिलक्षणः संबन्धस्तम्{*१।१६०*} इति । आह यदि प्रत्यायकः शब्दः, प्रथमश्रुतः किं न प्रत्याययति? उच्यते सर्वत्र नो दर्शनं प्रमाणम् । प्रत्यायकेति हि प्रत्ययं दृष्ट्वावगच्छामः, न प्रथमश्रुत इति प्रथमश्रवणे प्रत्ययमदृष्ट्वा । यावत्कृत्वः श्रुतादर्थावगमः । यथा चक्षुर्द्रष्ट्र्न बाह्येन प्रकाशेन विना प्रकाशयतीत्यद्रष्टृ न भवति । यदि [१३]{*१।१६१*} प्रथमश्रुतो न प्रत्याययति, कृतकस्तर्हि शब्दस्यार्थेन संबन्धः । कुतः? स्वभावतो ह्यसंबन्धावेतौ शब्दार्थौ । मुखे हि शब्दमुपलभामहे, भूमावर्थम् । शब्दोऽयं न त्वर्थः, अर्थोऽयं न शब्देति च व्यपदिशन्ति । रूपभेदोऽपि भवति । गौरितीमं शब्दमुच्चारयन्ति, सास्नादिमन्तमर्थमवबुध्यन्त{*१।१६२*} इति । पृथग्भूतयोश्च यः संबन्धः, स{*१।१६३*} कृतको दृष्टः, यथा रज्जुघटयोरिति । अथ गौरित्यत्र कः शब्दः? गकारौकारविसर्जनीया इति भगवानूपवर्षः । श्रोत्रग्रहणे ह्यर्थे लोके शब्दशब्दः प्रसिद्धः । ते च श्रोत्रग्रहणाः । यद्येवम्, अर्थप्रत्ययो नोपपद्यते । कथम्? एकैकाक्षरविज्ञाने ह्य्{*१।१६४*} अर्थो नोपलभ्यते । न चाक्षरव्यतिरिक्तोऽन्यः कश्चिदस्ति समुदायो नाम, यतोऽर्थप्रतिपत्तिः स्यात् । यदा हि{*१।१६५*} गकारः, न तदौकारादिविसर्जनीयौ । यदौकारविसर्जनीयौ, न तदा गकारः । अतो गकारादिव्यतिरिक्तोऽन्यो गोशब्दो{*१।१६६*}ऽस्ति, यतोऽर्थप्रतिपत्तिः स्यात् । अन्तर्हितेऽपि{*१।१६७*} शब्दे स्मरणादर्थप्रत्यय इति चेत्{*१।१६८*}, न । स्मृतेरपि क्षणिकत्वादक्षरैस्तुल्यता । पूर्ववर्णजनितसंस्कारसहितोऽन्त्य वर्णः प्रत्यायक{*१।१६९*} इत्यदोषः । नन्वेवमपि{*१।१७०*} शब्दादर्थं प्रतिपद्यामह इति लौकिकं वचनमनुपपन्नं स्यात्{*१।१७१*} । उच्यते यदि नोपपद्यते, अनुपपन्नं नाम । न हि लौकिकं वचनमनुपपन्नमित्येतावता प्रत्यक्षादिभिरनवगम्यमानो{*१।१७२*}ऽर्थः शक्योऽभ्युपगन्तुम्{*१।१७३*} । लौकिकानि वचनान्युपपन्नार्थान्यनुपपन्नार्थानि च दृश्यन्ते, यथा देवदत्त, गामभ्याजेत्येवमादीनि दश दाडिमानि षडपूपा इत्येवमादीनि च । ननु च शास्त्रकारा अप्येवमाहुः पूर्वापरीभूतं भावमाख्याते[१४]{*१।१७४*}नाचष्टे व्रजति, पचतीत्युपक्रमप्रभृत्यपवर्गपर्यन्तमिति{*१।१७५*} यथा । न शास्त्रकारवचनमप्यलमिममर्थमप्रमाणकमुपपादयितुम् । अपि च नैवैतद्{*१।१७६*} अनुपपन्नार्थम् । अक्षरेभ्यः संस्कारः, संस्कारादर्थप्रतिपत्तिरिति भवन्त्य्{*१।१७७*} अर्थप्रत्पत्तावक्षराणि निमित्तम् । गौण एष{*१।१७८*} शब्द इति चेत्, न गौणोऽक्षरेषु निमित्तभावः, तद्भावे भावात्तदभावे चाभावात् । अथापि गौणः स्यात्, न गौणः शब्दो मा भूदित्येतावता{*१।१७९*} प्रत्यक्षादिभिरनवगम्यमानोऽर्थः शक्यः परिकल्पयितुम् । न ह्यग्निर्माणवक इत्युक्तेऽग्निशब्दो गौणो मा भूदिति ज्वलन एव माणवक इत्यध्यवसीयते । न च प्रत्यक्षो गकारादिभ्योऽन्यो गोशब्द इति, भेददर्शनाभावादभेददर्शनाच्च । गकारादीनि हि प्रत्यक्षाणि । तस्माद्गौरिति गकारादिविसर्जनीयान्तं पदमक्षराण्येव । न तेभ्यो{*१।१८०*} व्यतिरिक्तमन्यत्पदं नाम इति । ननु संस्कारकल्पनायामप्यदृष्टकल्पना । उच्यते शाब्दकल्पनायां सा च शब्दकल्पना च । तस्मादक्षराण्येव पदम् । अथ गौरित्यस्य शब्दस्य कोऽर्थः? सास्नादिविशिष्टाकृतिरिति ब्रूमः । नन्वाकृतिः साध्यास्ति वा न वेति? न प्रत्यक्षा सती साध्या भवितुमर्हति । रुचकः, स्वस्तिकः, वर्धमानक इति हि प्रत्यक्षं दृश्यते । व्यमोह इति चेत्, न । नास्ति प्रत्ययविपर्यासे व्यमोह इति शक्यते वक्तुम्{*१।१८१*} । असत्यप्य्{*१।१८२*} अर्थान्तर एवंजातीयके{*१।१८३*} भवति प्रत्ययः प्रङ्क्तिः, यूथम्, वनमिति यथेति चेत्, न । असंबद्धमिदं वचनमुपन्यस्तम् । किमसति वने वनप्रत्ययो भवतीति प्रत्यक्षमेव आक्षिप्यते वृक्षा अपि न सन्तीति? यद्येवम्, प्रत्युक्तः स [१५]{*१।१८४*} महायानिकः{*१।१८५*} पक्षः । अथ किमाकृतिसद्भाववाद्युपालभ्यते सिद्धान्तान्तरं ते दुष्यति{*१।१८६*} । वनेऽपि तेऽसति{*१।१८७*} वनप्रत्ययः प्राप्नोतीति । एवमपि प्रकृतं दूषयितुमशक्नुवन्तस्ते सिद्धान्तान्तरदूषणं{*१।१८८*} निग्रहस्थानमापद्यते{*१।१८९*}, असाधकत्वात् । स हि वक्ष्यति दुष्यतु, यदि दुष्यति । किं तेन दुष्टेन अदुष्टेन वा प्रकृतं त्वया साधितं भवति मदीयो वा पक्षो दूषितो भवतीति । न च वृक्षव्यतिरिक्तं वनं यस्मान्नोपलभ्यते, ततो{*१।१९०*} वनं नास्तीत्यवगम्यते{*१।१९१*} । यदि वनेऽन्येन हेतुना सद्भावविपरीतः प्रत्यय उत्पद्यते, मिथ्यैष{*१।१९२*} वनप्रत्यय इत्यतो{*१।१९३*} वनं नास्तीत्यवगच्छामः । न च गवादिषु प्रत्ययो विपर्येति । अतो वैषम्यम् । अथ वनादिषु नैव प्रत्ययविपर्यासः{*१।१९४*}, न ते न सन्तीति । तस्मादसंबद्धः पङ्क्तिवनोपन्यासः, न ते न सन्तीति । तस्मादसंबद्धः पङ्क्तिवनोपन्यासः । अत उपपन्नं जैमिनिवचनमाकृतिः पदार्थ इति{*१।१९५*} । यथा च आकृतिः शब्दार्थस्, तथोपरिष्टान्निपुणतरमुपपादयिष्याम इति । अथ संबन्धः क इति? यत्शब्दे विज्ञातेऽर्थो विज्ञायते । स तु कृतक{*१।१९६*} इति पूर्वमुपपादितम् । तस्मान्मन्यामहे केनापि पुरुषेण शब्दानामर्थैः सह संबन्धं कृत्वा संव्यवहर्तुं{*१।१९७*} वेदाः प्रणीता इति । तदिदानीमुच्यते अपौरुषेयत्वात्संबन्धस्य सिद्धम्{*१।१९८*} इति । कथं पुनरिदमवगम्यतेऽपौरुषेय एष संबन्ध इति? पुरुषस्य संबन्धुरभावात् । कथं संबन्धा नास्ति? प्रत्यक्षस्य प्रमाणस्य अभावात्तत्पूर्वकत्वाच्चेतरेषाम् । ननु चिरवृत्तत्वात्प्रत्यक्षस्य अविषयो भवेदिदानीन्तनानाम् । न हि चिरवृत्तः सन्न स्मर्येत । न च हिमवदादिषु कूपारामादिवदस्मरणं भवितुमर्हति । पुरुषवियोगो [१६]{*१।१९९*} हि तेषु भवति देशोत्सादेन कुलोत्सादेन वा । न तु{*१।२००*} शब्दार्थव्यवहारवियोगः पुरुषानामस्ति । स्यादेतत् संबन्धमात्रव्यवहारिणो निष्प्रयोजनं कर्तृस्मरणमनाद्रियमानाः पुरुषा विस्मरेयुरिति । तन् न । यदि हि पुरुषः कृत्वा संबन्धं व्यवहारयेत्, व्यवहारकालेऽवश्यं स्मर्तव्यो भवेत्{*१।२०१*} । संप्रतिपत्तौ हि कर्तृव्यवहर्त्रोरर्थः सिध्यति, न विप्रतिपत्तौ । न हि वृद्धिशब्देन अपाणिनेर्व्यवहारत आदैचः प्रतियेरन् पाणिनिकृतिमननुमन्यमानस्य वा । तथा मकारेणाप्य्{*१।२०२*} अपिङ्गलस्य न सर्वगुरुस्त्रिकः प्रतीयेत पिङ्गलकृतिमननुमन्यमानस्य वा । तेन कर्तृव्यवहर्तारौ संप्रतिपद्येते । तेन वेदैर्{*१।२०३*} व्यवहरद्भिरवश्यं स्मरणीयः संबन्धस्य कर्ता स्याद्व्यवहारस्य च । न हि विस्मृते वृद्धिरादैजित्य्{*१।२०४*} अस्य सूत्रस्य कर्तरि वृद्धिर्यस्याचामादिस्, तद्वृद्धम्{*१।२०५*} इति{*१।२०६*} किंचित्प्रतीयेत{*१।२०७*} । तस्मादस्मरणाद्{*१।२०८*} अवगच्छामः न कृत्वा संबन्धं व्यवहारार्थं केनचिद्वेदाः प्रणीता इति । यद्यपि च विस्मरणमुपपद्येत, तथापि न प्रमाणमन्तरेण संबन्धारं प्रतिपद्येमहि, यथा विद्यमानस्याप्यनुपलम्भनं भवतीति नैतावता विना प्रमाणेन शशविषाणं प्रतिपद्येमहि{*१।२०९*} । तस्मादपौरुषेयः शब्दस्यार्थेन संबन्ध इति । नन्वर्थापत्त्या संबन्धारं प्रतिपद्येमहि । न हि अकृतसंबन्धाच्छब्दादर्थं प्रतिपद्यमानमुपलभामहे । प्रतिपद्येरंस्चेत्, प्रथमश्रवणेऽपि प्रतिपद्येरन् । तदनुपलम्भनादवश्यं भवितव्यं संबन्ध्रेति मन्यामह इति{*१।२१०*} चेत्, न । सिद्धवद्, उपदेशात्{*१।२११*} । यदि संबन्धुरभावान्नियोगतो नार्था उपलभ्येरन्{*१।२१२*}, ततोऽर्थापत्त्या [१७]{*१।२१३*} संबन्धारमवगच्छामः । अस्ति त्वन्यः प्रकारः । वृद्धानां स्वार्थेन व्यवहरमाणानाम्{*१।२१४*} उपशृण्वन्तो बालाः प्रत्यक्षमर्थं प्रतिपद्यमाना दृश्यन्ते । तेऽपि वृद्धा यदा बाला आसंस्, तदान्येभ्यो वृद्धेभ्यः, तेऽप्यन्येभ्य इति नास्त्यादिरित्येवं वा भवेत् । अथवा न कश्चिदेकोऽपि शब्दोऽर्थेन संबद्ध आसीत्, अथ केनचित्संबन्धाः प्रवर्तिता इति । अत्र वृद्धव्यवहारे सति नार्थादापद्येत संबन्धस्य कार्ता । अपि च वृद्धव्यवहारवादिनः प्रत्यक्षमुपदिशन्ति, कल्पयन्तीतरे संबन्धारम् । न च प्रत्यक्षे प्रत्यर्थिनि कल्पना साध्वी । तस्मात्संबन्धुरभावः । अव्यतिरेकश्च{*१।२१५*} । यथा अस्मिन् देशे सास्नादिमति गोशब्दः, एवं सर्वेषु दुर्गमेष्वपि । बहवः संबन्धारः कथं संगम्स्यन्ते । एकोऽपि{*१।२१६*} न शक्नुयात्{*१।२१७*} । अतो नास्ति संबन्धा{*१।२१८*} । अपर आह अव्यतिरेकश्च{*१।२१९*} । न हि संबन्धव्यतिरिक्तः कश्चित्कालोऽस्ति, यस्मिन्न कश्चिदपि शब्दः केनचिदर्थेन संबद्ध आसीत् । कथम्? संबन्धक्रियैव हि{*१।२२०*} नोपपद्यते । अवश्यमनेन संबन्धं कुर्वता केनचिच्छब्देन कर्तव्यः{*१।२२१*} । येन क्रियेत, तस्य केन कृतः? अथान्येन केनचित्कृतः, तस्य केनेति, तस्य केनेति{*१।२२२*} नैवावतिष्ठते । तस्मादवश्यमनेन संबन्धं कुर्वता अकृतसंबन्धाः केचन शब्दा वृद्धव्यवहारसिद्धा अभ्युपगन्तव्याः । अस्ति चेद्व्यवहारसिद्धिः, न नियोगतः संबन्ध्रा भवितव्यमित्यर्थापत्तिरपि नास्ति । स्यादेतत् अप्रसिद्धसंबन्धा बालाः कथं वृद्धेभ्यः प्रतिपद्यन्त इति । न हि{*१।२२३*} दृष्टेऽनुपपन्नं नाम । दृष्टा हि{*१।२२४*} बाला वृद्धेभ्यः{*१।२२५*} प्रतिपद्यमानाः, न त्वप्रतिपन्नसंबन्धाः{*१।२२६*} संबन्धस्य कर्तुः । तस्माद्वैषम्यम् । अर्थेऽनुपलब्धे{*१।२२७*} । अनुपलब्धे च देवतादाव्{*१।२२८*} अर्थेऽनर्थकं [१८]{*१।२२९*} संज्ञाकरणमशक्यं च । विशेषान् प्रतिपत्तुं हि{*१।२३०*} संज्ञाः क्रियन्ते विशेषांश्चोद्दिश्य । तद्विशेषेष्वज्ञायमानेषूभयम्{*१।२३१*} अप्यनवकॢप्तम् । तस्मादपौरुषेयः शब्दस्य अर्थेन संबन्धः । अतश्च तत्प्रमाणम्, अनपेक्षत्वात्{*१।२३२*} । न ह्येवं{*१।२३३*} सति पुरुषान्तरं प्रत्ययान्तरं वा{*१।२३४*} अपेक्षते{*१।२३५*} । तस्माच्चोदनालक्षण एव धर्मो नान्यलक्षणः । बादरायणग्रहणमुक्तम् । अथ यदुक्तमनिमित्तं शब्दः । कर्मकाले फलादर्शनात्कालान्तरे च कर्माभावात्प्रमाणं नास्तीति, तदुच्यते न स्यात्प्रमाणम्, यदि पञ्चैव प्रमाणान्यभविष्यन् । येन येन हि{*१।२३६*} प्रमीयते, तत्तत्प्रमाणम् । शब्देनापि प्रमीयते, ततः{*१।२३७*} शब्दोऽपि प्रमाणम्, यथैव प्रत्यक्षम् । न च प्रमाणेन अवगतम्, प्रमाणान्तरेण अनवगतमित्येतावतानवगतं भवति । न चैवं श्रूयते कृते कर्मणि तावत्येव{*१।२३८*} फलं भवति, किं तु कर्मणा{*१।२३९*} फलं प्राप्यत इति । यच्च कालान्तरे फलस्य अन्यत्प्रत्यक्षं कारणमस्तीति, नैष दोषः । तच्चैव हि तत्र{*१।२४०*} कारणं शब्दश्चेति । यत्तु प्रत्यक्षविरुद्धं वचनमुपन्यस्तम् स एष यज्ञायुधी यजमानोऽञ्जसा स्वर्गं लोकं यातीति प्रत्यक्षं शरीरं व्यपदिशतीति । तदुच्यते शरीरसंबन्धात्, यस्य तच्छरीरम्, सोऽपि तैर्यज्ञायुधैर्यज्ञायुधीत्युच्यते । आह कोऽसावन्यः? नैनमुपलभामहे । ननु{*१।२४१*} प्राणादिभिरेनमुपलभामहे । योऽसौ प्राणित्यपानित्युच्छ्वसिति निमिषतीत्यादि चेष्टितवान्, सोऽत्र शरीरे यज्ञायुधीति । ननु शरीरमेव प्राणित्यपानिति च? न प्राणादयः शरीरगुणाः{*१।२४२*} । शरीरगुणविधर्माणो हि ते{*१।२४३*}, अयावच्छरीरभावित्वात् । यावच्छरीरं तावदस्य गुणा रूपादयः । प्राणादयस्तु सत्यपि शरीरे न भवन्ति । अतो न शरीरगुणाः प्राणादयः{*१।२४४*} । सुखादयश्च स्वयमुप[१९]{*१।२४५*}लभ्यन्ते, न रूपादय इव शरीरगुणाः परेणापि । तस्माच्छरीरगुणवैधर्म्यादन्यः शरीराद्यज्ञायुधीति । आह कुत एषः संप्रत्ययः सुखादिभ्योऽन्यस्तद्वानस्तीति । न हि सुखादिप्रत्याख्यानेन तस्य स्वरूपमुपलभामहे । तस्माच्छशविषाणवदसौ नास्ति । अथोच्यते तेन विना कस्य सुखादय इति? न कस्यचिदपीति वक्ष्यामः{*१।२४६*} । न हि यो य उपलभ्यते, तस्य तस्य संबन्धिना भवितव्यम् । यस्य संबन्धोऽप्युपलभ्यते संबन्धी च, तस्यायं संबन्धीति गम्यते । न हि चन्द्रमसमादित्यं वोपलभ्य संबन्ध्यन्तरान्वेषणा{*१।२४७*} भवति कस्यायमिति । न कस्यचिदपीत्यवधार्यते । तस्मान्न सुखादिभ्योऽन्यस्तद्वानस्तीति । अथोपलब्धस्यावश्यं कल्पयितव्यः संबन्धी भवेत्{*१।२४८*}, तत आत्मानमप्यनेन प्रकारेणोपलभ्य कस्यायमिति संबन्ध्यन्तरमन्विष्येम १।२४९*} । तमपि कल्पयित्वान्यमपि कल्पयित्वान्यमित्यनवस्थैव १।२५०*} स्यात् । अथ कंचित्कल्पयित्वा, न संबन्ध्यन्तरमपि कल्पयिष्यसि, तावत्येव विरंस्यसि तावता च परितोक्ष्यसि १।२५१*}, ततो विज्ञान एव परितुष्य तावत्येव विरन्तुमर्हसि । अत्रोच्यते यदि विज्ञानादन्यो विज्ञाता{*१।२५२*} नास्ति, कस्तर्हि जानातीत्युच्यते? ज्ञानस्य{*१।२५३*} कर्तुरभिधानमनेन{*१।२५४*} शब्देनोपपद्यते{*१।२५५*} । तदेष शब्दोऽर्थवान् कर्तव्य इति ज्ञानाद्व्यतिरिक्तमात्मानं कल्पयिष्याम इति । आह देवा{*१।२५६*} एनं शब्दमर्थवन्तं कल्पयिष्यन्ति, यदि कल्पयितव्यं मंस्यन्ते{*१।२५७*} । बहवः खल्विह जना अस्त्यात्मा, अस्त्यात्मेत्यात्मसत्तावादिन एव शब्दस्य प्रत्यक्षवक्तारो{*१।२५८*} [२०]{*१।२५९*} भवन्ति, तथापि नात्मसत्तां कल्पयितुं घटन्ते, किमङ्ग पुनर्जानातीति परोक्षशब्ददर्शनात् । तस्मादसदेतत् । उच्यते इच्छयात्मानम्{*१।२६०*} उपलभामहे । कथम्? उपलब्धपूर्वे ह्यभिप्रेते भवतीच्छा, नानुपलब्धपूर्वे{*१।२६१*} । यथा मेरुमुत्तरेण यान्यस्मज्जातीयैरनुपलब्धपूर्वाणि स्वादूनि वृक्षफलानि, न तानि प्रत्यस्माकमिच्छा भवति । नो खल्वन्येन पुरुषेणोपलब्धेऽपि विषयेऽन्यस्यानुपलब्धुर्{*१।२६२*} इच्छा भवति । भवति चान्येद्युरुपलब्धेऽपरेद्युर्{*१।२६३*} इच्छा । अतस्{*१।२६४*} तेनोपलम्भनेन समानकर्तृका सेत्य्{*१।२६५*} अवगच्छामः । यदि विज्ञानमात्रमेवेदमुपलम्भकमभविष्यत्, प्रध्वस्ते{*१।२६६*} तस्मिन् कस्यापरेद्युरिच्छाभविष्यत् । अथ{*१।२६७*} विज्ञानादन्यो विज्ञाता नित्यः, तत एकस्मिनहनि य{*१।२६८*} उपलब्धा, अपरेद्युरपि स एवैषिष्यति । इतरथेच्छानुपपन्ना{*१।२६९*} स्यात् । अत्राह{*१।२७०*} अनुपपन्नमिति नः क्व संप्रत्ययः? यन्न प्रमाणेनावगतम् । विज्ञानात्तावदन्यन्{*१।२७१*} नोपलभामहे । यच्च{*१।२७२*} नोपलभामहे, तच्छशविषाणवदेव{*१।२७३*} नास्तीत्यवगच्छामः । न च तस्मिनसति विज्ञानसद्भावोऽनुपपन्नः, प्रत्यक्षावगतत्वादेव । क्षणिकत्वं चास्य प्रत्यक्षपूर्वकमेव । न च ज्ञातरि विज्ञानादन्यस्मिनसति ज्ञाने चानित्ये अपरेद्युरिच्छानुपपन्ना, प्रत्यक्षावगतत्वादेव । नो खल्वप्य्{*१।२७४*} एतद्दृष्टं य एवान्येद्युरुपलब्धा, स एवापरेद्युर्{*१।२७५*} एषितेति । इदं तु दृष्टं यत्क्वचिदन्येन दृष्टमन्य इच्छति, क्वचिन्न । समानायां सन्ततावन्य इच्छति, सन्तत्यन्तरे नेच्छतीति । तस्मान्न सुखादिव्यतिरिक्तोऽन्योऽस्तीति । अत्रोच्यते न ह्यस्मर्तार इच्छन्तीत्युपपद्यते । न चादृष्टपूर्वे{*१।२७६*} स्मृतिर्भवति । तस्मात्क्षणिके{*१।२७७*} विज्ञानस्कन्धमात्रे स्मृतिरनुपपन्नेति[२१]{*१।२७८*} । अत्राह स्मृतिरपीच्छावत् । पूर्वविज्ञानसदृशं विज्ञानम्, पूर्वविज्ञानविषयं वा स्मृतिरित्युच्यते । तच्च, द्रष्टरि विनष्टेऽपि, अपरेद्युरुत्पद्यमानं नानुपपन्नम्, प्रत्यक्षावगतत्वादेव । अन्यस्मिन् स्कन्धघनेऽन्येन स्कन्धघनेन यज्ज्ञानम्, तत्तत्सन्ततिजेनान्येनोपलभ्यते{*१।२७९*} नातत्सन्ततिजेन । तस्माच्छून्याः स्कन्धघना इति । अथास्मिन्नर्थे{*१।२८०*} ब्राह्मणं भवति विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय, तान्येवानुविनश्यति, न प्रेत्य संज्ञास्तीति{*१।२८१*} । अत्रोच्यते{*१।२८२*} नैतदेवम् । अन्येद्युर्दृष्टेऽपरेद्युः अहमिदमदर्शमिति भवति प्रत्ययः । प्रत्यगात्मनि चैतद्भवति, न परत्र । परो{*१।२८३*} ह्यसौ यो{*१।२८४*}ऽन्येद्युर्दृष्टवान् । तस्मात्तद्व्यतिरिक्तोऽन्योऽस्ति, यत्रायमहंशब्दः । आह परत्राप्यहंशब्दो भक्त्या दृश्यते, तद्यथाहम्{*१।२८५*} एव पुत्रः, अहमेव देवदत्तः, अहमेव गच्छामीति । अत्रोच्यते न वयम् "अहम्" इतीमं शब्दम्, प्रयुज्यमानमन्यस्मिन्नर्थे, हेतुत्वेन व्यपदिशामः, किं तर्हि शब्दाद्व्यतिरिक्तं प्रत्यभिज्ञाप्रत्ययम्{*१।२८६*} । प्रतीमो हि{*१।२८७*} वयम् इममर्थं वयमेवान्येद्युरुपलभामहे, वयमेवाद्य स्मराम इति । तस्मात् वयमिममर्थमवगच्छामो वयमेव ह्यो, वयमेवाद्येति{*१।२८८*} । ये चामी{*१।२८९*} ह्योऽद्य च, न ते विनष्टाः । अथाप्यस्मिन्नर्थे ब्राह्मणं भवति । स वा अयमात्मेति प्रकृत्यामनन्त्यशीर्यो न हि शीर्यत इति । तथाविनाशी वा अरेऽयमात्मा, अनुच्छित्तिधर्मा इति{*१।२९०*} । विनश्वरं च विज्ञानम् । तस्माद्विनश्वरादन्यः स{*१।२९१*} इत्य्[२२]{*१।२९२*} अवगच्छामः । न च शक्यमेवमवगन्तुम्, यथोपलभ्यन्तेऽर्था न तथा भवन्ति, यथा, न खलु, नोपलभ्यन्ते तथा भवन्तीति । तथा हि सति शशो नास्ति, शशस्य विषाणमस्तीत्यवगम्येत{*१।२९३*} । न चाहम्प्रत्ययो व्यामोह इति शक्यते वक्तुम्, बाधकप्रत्ययाभावात् । तस्मात्सुखादिभ्यो व्यतिरिक्तोऽस्ति । एवं चेत्, स एव यज्ञायुधीति व्यपदिश्यते । आह यदि विज्ञानादन्यदस्ति विज्ञातृ, विज्ञानमपास्य तन्निदर्श्यताम् इदं तदीदृशं चेति । न च तन्निदर्श्यते । तस्मान्न ततोऽन्यदस्तीति । अत्रोच्यते स्वसंवेद्यः स भवति । नासावन्येन शक्यते द्रष्टुम् । कथमसौ निदर्श्येतेति{*१।२९४*} । यथा च{*१।२९५*} कश्चिच्चक्षुष्मान् स्वयं रूपं पश्यति न च शक्नोत्यन्यस्मै जात्यन्धाय तन्निदर्शयितुम्, न च तन्न शक्यते निदर्शयितुमित्येतावता नास्तीत्यवगम्यते, एवमसौ पुरुषः स्वयमात्मानमुपलभते न चान्यस्मै शक्नोति दर्शयितुम्, अन्यस्य द्रष्टुस्तं पुरुषं प्रति दर्शनशक्त्यभावात् । सोऽप्यन्यः पुरुषः स्वयमात्मानमुपलभते, न परात्मानम्{*१।२९६*} । तेन सर्वे स्वेन स्वेनात्मना आत्मानमुपलभमानाः सन्त्येव, यद्यपि परपुरुषैर्नोपलभ्यन्त{*१।२९७*} इति । अथास्मिनर्थे ब्राह्मणं भवति शान्तायां वाचि किंज्योतिरेवायं पुरुषः? आत्मज्योतिः, संराडिति होवाचेति{*१।२९८*} । परेण नोपलभ्यत इत्यत्रापि ब्राह्मणं भवति अगृह्यो न हि गृह्यतेति{*१।२९९*} । परेण न गृह्यत इत्येतदभिप्रायमेतत् । कुतः? स्वयंज्योतिष्ट्ववचनात् । अत्रापि{*१।३००*} ब्राह्मणं भवति अत्रायं पुरुषः स्वयंज्योतिर्भवतीति{*१।३०१*} । केन पुनरुपायेनायम् (अयम्){*१।३०२*} अन्यस्मै कथ्यत इति? अत्राप्य्{*१।३०३*} उपाये [२३]{*१।३०४*}ब्राह्मणं भवति स एष नेति नेत्यात्मेति होवाचेति{*१।३०५*} । असावयम्{*१।३०६*} एवंरूप इति न शक्यते निदर्शयितुम् । यच्च परः पश्यति, तत्प्रतिषेधस्तस्योपदेशोपायः । शरीरं परः पश्यति । तेनात्मोपदिश्यते । शरीरं नात्मा । अस्ति शरीरादन्यः{*१।३०७*} स चात्मेति शरीरप्रतिषेधेनात्मोपदिश्यते{*१।३०८*} । तथा प्राणादयो नात्मान इति{*१।३०९*} तत्प्रतिषेधेन तेभ्योऽन्य उपदिश्यते । तथा परस्थाः सुखादयः परेण लिङ्गैरुपलभ्यन्ते । तेऽपि नात्मान इति तत्प्रतिषेधेन तेभ्यो{*१।३१०*}ऽन्य उपदिश्यते । यः स्वयं पश्यति, न ततोऽन्यः पुरुष इत्येतदपि पुरुषप्रवृत्त्यानुमीयते, यदासौ पुरुषः पूर्वेद्युः सामिकृतानामर्थानां प्रतिसमाधाने शेषानुष्ठाने च यतते, अतः{*१।३११*} प्रवृत्त्यावगम्यते नूनमसावनित्यान्नित्यमवगच्छतीति{*१।३१२*} । उपमानाच्चोपदिश्यते यादृशं भवान् स्वयमात्मानं पश्यति, अनेनोपमानेनावगच्छ अहमपि तादृषमेव पश्यामीति, यथा कश्चिदात्मीयां वेदनां परस्मा आचक्षीत दह्यमानस्येव मे भवति, यात्यमानस्येव मे भवति, रुध्यमानस्येव{*१।३१३*} मे भवतीति । अतः स्वयमवगम्यमानत्वादस्ति तद्व्यतिरिक्तः पुरुष इति । यदप्य्{*१।३१४*} उच्यते विज्ञानमपास्य तन्निदर्श्यतामिति, यद्युपायमेव निशेधसि, न शक्यमुपायमन्तरेणोपेयमुपेतुम् । अयमेवाभ्युपायो ज्ञातव्यानामर्थानां यो यथा ज्ञायते, स तथेति । तद्यथा कः शुक्लो नाम? यत्र शुक्लत्वमस्ति । किं शुक्लत्वं नाम? यत्र शुक्लशब्दप्रवृत्तिः । क्व तस्य प्रवृत्तिः? यच्छुक्लशब्द उच्चरिते प्रतीयते । तस्मान्न विज्ञानं प्रत्याख्याय कस्यचिद्रूपं निदर्शयितुं शक्यम् । न च नियोगतः प्रत्यये प्रतीते प्रत्ययार्थः प्रतीतो भवति । अप्रतीतेऽपि हि प्रत्यये सत्यर्थः प्रतीयत एव । न हि विज्ञानं प्रत्यक्षम्, विज्ञेयोऽर्थः प्रत्यक्ष इत्येतत्पूर्वमेवोक्तम् । तदवश्यकर्त[२४]{*१।३१५*}व्येऽपह्नवे कामं विज्ञानमपह्नूयेत नार्थ इत्येतदप्य्{*१।३१६*} उक्तमेव । तस्मादस्ति सुखादिभ्योऽन्यो नित्यः पुरुष इति । अथ यदुक्तं विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानुविनश्यति, न प्रेत्य संज्ञास्तीति, अत्रोच्यते अत्रैव मा भगवान्मोहान्तमापीपददिति{*१।३१७*} परिचोदनोत्तरकालेऽपह्नुत्य मोहान्ताभिप्रायम्{*१।३१८*} अस्य वचनस्य{*१।३१९*} वर्णितवान्न वा अरेऽहं{*१।३२०*} मोहं ब्रवीमि, अविनाशी वा अरेऽयमात्मानुच्छित्तिधर्मा, मात्रासंसर्गस्त्वस्य भवतीति{*१।३२१*} । तस्मान्न विज्ञानमात्रम् । तस्माद्वैषम्यम् । यदुक्तम् न चैष यातीति विधिशब्द इति, मा भूद्विधिशब्दः । स्वर्गकामो यजेतेति वचनान्तरेणावगतमनुवदिष्यते । तस्मादविरोधः । ण्Oट्Eष् *{१।६७ E१,२,३,५,६, टा, आ॑ ट्B, ट्C, ं ।पर् । उत्पत्तिरिति}* *{१।६८ E५, ट्C, ं ।परि.॑ E१,२,३,६, टा, ट्B, आ संबन्धो}* *{१।६९ E१,२,३,५,६, टा, आ॑ ट्B, ट्C अनवगम्यमानस्य}* *{१।७० टा, आ॑ ट्B ओम् । तस्य॑ E१,२,३,५,६, ट्C ओम् । भवति तस्य}* *{१।७१ ब्श्w । तदुत्पन्नम्}* *{१।७२ ट्B, ट्C, ं ।परि.॑ E१,२,३,५,६, टा, आ ओम् । उत्पन्नम्}* *{१।७३ E१,३,५, टा, ट्B, ट्C, आ॑ E२,६ यथा भवति यथा विज्ञायते}* *{१।७४ ट्B, ट्C॑ टा इव गम्यते॑ E१,२,३,५,६, आ इदं गम्यते}* *{१।७५ E३,५, टा, ट्B, ट्C, आ॑ E१,२,६ नास्ति वा}* *{१।७६ टा, ट्B, ट्C, आ वा स्वयम्॑ E५,३ वापि स्वयम् ॑ E१,२,६ वापि अयम्}* *{१।७७ ट्B, ट्C॑ E१,२,३,५,६, टा, आ बादरायणग्रहणं बादरायणस्य}* *{१।७८ ट्B, ट्C, Kआश् ।, ण्य् । रत् । ननु॑ E१,२,३,५,६, टा, आ अत्रोच्यते}* *{१।७९ E१,२,३,५,६, टा, आ ओम् । निमित्तम्}* *{१।८० E२ १,३१॑ E३ १७५॑ E५ १,८७॑ E६ १,६}* *{१।८१ Vग्ल् । ंष्१ ।१ ।४ , दोर्त्सत्संप्रयोगे । । । तत्प्रत्यक्षम् । Zउरूम्स्तेल्लुन्ग्वोन् ततुन्द्सतिन् ंष्१ ।१ ।४ दुर्छ्देन् Vऋत्तिकार, व्ग्ल् । ष्छ्मिथौसेन् (१९६५), ष् ।१५८}* *{१।८२ E१,२,३,५,६, ट्C॑ टा, आ इदं तत्संप्रयोगजम्}* *{१।८३ E१,२,३,५,६, टा, ट्C, आ इदं न}* *{१।८४ ट्B, ट्C॑ E१,२,३,५,६, टा ज्ञेयम्॑ आ ओम् । ज्ञायते}* *{१।८५ टा, ट्ष्ড়्॑ E१,२,३,५,६, आ यदा हि॑ ट्B, ट्C यदि}* *{१।८६ ट्ष्ড়् क्षुदादिभिर्॑ E१,२,३,५,६, टा, ट्B, ट्C, आ चक्षुरादिभिर्}* *{१।८७ ट्C, ट्ष्ড়्॑ E१,२,३,५,६, टा, ट्B संयग्ज्ञानस्य, आ संयग्ज्ञाने}* *{१।८८ ट्B, ट्C, ट्ष्ড়्॑ E१,२,३,५,६, टा, आ मिथ्याज्ञानम्}* *{१।८९ E३, ट्B, ट्C, आ॑ E१,२,६, टा अवगच्छेमहि॑ E५, ट्ष्ড়् अवगच्छेम}* *{१।९० E१,२,३,५,६, ट्B, टा, Kआश् ।, टात्प्.॑ टा स्वभावादुपलक्षिता}* *{१।९१ टा, ट्B॑ E१,२,३,५,६ कुड्यः॑ ट्C कुम्भ॑ आ कुण्ड}* *{१।९२ E३, ट्B, आ॑ E१,२,५,६, टा विपर्यसिष्यतीति}* *{१।९३ आ ओम् । प्राक्}* *{१।९४ E१,२,३,६॑ E५, ं ।परि । प्रबोधात्॑ टा बोधनात्॑ आ प्रत्यक्षबाधनात्॑ ट्B, ट्C बाधकज्ञानात्}* *{१।९५ टा, ट्C॑ E१,२,३,५,६, आ विशेष इति, ट्B विशेषः}* *{१।९६ E२ १,३५॑ E३ १८६॑ E५ १,६९॑ E६ १,७}* *{१।९७ ट्B, आ, ं ।परि.॑ E१,२,३,५,६ तथा भवितुम्}* *{१।९८ Vग्ल् । शालिकनाथ, ंी । ড়रि ।, E१, १३।१२ । यदि प्रतीतिरेवातथाभावं गमयति, जाग्रत्प्रतीतिरप्यर्थस्यातथाभावं गमयेत्}* *{१।९९ E१,५ (व् ।ल् ।), ट्C, ं । परि.॑ E१,२,३,६ प्रत्ययत्वादयम्}* *{१।१०० E५, ट्B, ट्C, ं । परि.॑ E१,२,३,६, टा, आ वक्तुम्}* *{१।१०१ E१,२,३,५,६, टा, ट्B, आ, ं ।परि ।, Kआश्.॑ ट्C अन्यतो हि}* *{१।१०२ ं । परि.॑ E१,२,३,५,६, टा, ट्B, ट्C, आ अभाव एव}* *{१।१०३ E१,२,३,५,६, टा, आ॑ ट्B, ट्C न जाग्रत्प्रत्ययो}* *{१।१०४ आ॑ E१,२,३,५,६ तत्र॑ टा, ट्B, ट्C ओं तन्न}* *{१।१०५ E१,२,३,५,६, टा, आ॑ ट्B, ट्C भवेद्}* *{१।१०६ ट्C, आ ओम् । हि}* *{१।१०७ ट्B, ट्C ओम् । इति}* *{१।१०८ E३,५, टा, ट्B, ट्C, आ, Kआश् ।, ण्य् । रत्.॑ E१,२,६ यद्}* *{१।१०९ E१,३,५, टा, ट्B, ट्C, Kआश् ।, ण्य् । रत्.॑ E२,६ आ उच्यते}* *{१।११० ट्C, Kआश् ।, ण्य् ।रत्.॑ E१,२,३,५,६, टा, आ, टात्प् । ज्ञातोऽर्थः॑ ट्B ज्ञातः}* *{१।१११ E२ १,४०॑ E३ २८२॑ E५ १,८६॑ E६ १,७}* *{१।११२ E१,५, ट्B, ट्C, Kआश् ।, ण्य् ।रत्.॑ E२,३,६ ज्ञातोऽप्य्}* *{१।११३ टा, आ बुद्धिरूपोपलम्भनम्}* *{१।११४ E५, टा, ट्C, आ, Kआश्.॑ E१,२,३,६ न व्यपदेश्या}* *{१।११५ E५, ट्B, ट्C, आ, Kआश्.॑ E१,६ नाप्रत्यक्षम्, E२,३, E१ (व् ।ल् ।) न प्रत्यक्षम्}* *{१।११६ E५, टा, ट्B, ट्C, Kआश् ।, ण्य् । रत्.॑ E१,२,३,६, आ न}* *{१।११७ ट्B, ट्C, Kआश् ।, ण्य् ।रत् । ओम् । सतः}* *{१।११८ E५, ट्B, ट्C॑ E१,२,३,६, टा अनाकाराम्}* *{१।११९ टा, ट्B, आ, Kआश्.॑ E१,२,३,६ तन्त्वादाने, E५ अतन्तूपादाने}* *{१।१२० ट्B, ट्C॑ E१,२,३,५,६, टा, आ अतो}* *{१।१२१ E१,२,३,५,६, टा, आ ओम् । तत्र}* *{१।१२२ E३,५, ट्B, ट्C, ं ।परि ।, Kआश्.॑ टा, ण्य् ।रत् । आदित्ये॑ E१,२,६, आ आदित्यगतिस्मरणम्}* *{१।१२३ ट्B, ट्C, आ, ं ।परि ।, Kआश् ।, E१ (व् ।ल् ।)॑ E१,२,५,६, टा, टात्प् । जीवति देवदत्ते}* *{१।१२४ ंष्१ ।१ ।४ }* *{१।१२५ E२ १,४७॑ E५ १,१२४॑ E६ १,८}* *{१।१२६ E५, ट्B, ऋज्.॑ E१,२,६, टा, आ उपलम्भकानि}* *{१।१२७ ट्B, ट्C, ं ।परि ।, टात्प् ।, Kआश्.॑ E१,२,५,६, टा, आ फलेन}* *{१।१२८ ़ुएल्ले निछ्त्नछ्गेwइएसेन्}* *{१।१२९ E२, आ ओम् । अपि च । । । बिस्भवितव्यमिति, E१ गिब्त्देनाब्स्छ्नित्तल्स्Fउáनोते, E५,६ टा, ट्C अपि च तत्काल एव फलं श्रूयते यागः करणमिति वाक्यादवगम्यते, कारणं चेदुत्पन्नं कार्येण भवितव्यमिति}* *{१।१३० E१,२,५,६, टा, आ॑ ट्B, ट्C उपलभ्यते}* *{१।१३१ E१,२,५,६, टा, आ, ं ।परि.॑ ट्B, ट्C शक्यम्}* *{१।१३२ E५, ट्C, Bऋह् ।, ऋज् ।, टात्प् ।, Kआश् ।, ण्य् । रत्.॑ E१,२,६, टा, ट्B, आ ओम् । वैदिकम्}* *{१।१३३ Zइतिएर्तिन् आप्श्ष्३१ ।२ ।२१, ़ुएल्ले उन्बेकन्न्त्}* *{१।१३४ ट्B, ट्C, Bऋह्.॑ E१,२,५,६, टा, आ, टात्प् । शरीरकम्}* *{१।१३५ ़ुएल्ले निछ्त्नछ्गेwइएसेन्}* *{१।१३६ E१,२,५,६, टा, टात्प् ।, Kआश्.॑ ट्B, ट्C, आ, ं ।परि । अग्निहोत्रचोदनास्व्}* *{१।१३७ ंष्१ ।१ ।५ }* *{१।१३८ ट्B, ट्C, ं ।परि ।, टात्प् । ओम् । अग्निहोत्रादिलक्षणस्य}* *{१।१३९ ट्B, ट्C, ं ।परि ।, टात्प् । ओम् । प्रत्यक्षादिभिर्}* *{१।१४० E१,२,५,६, टा, ट्B, आ॑ ट्C, ं ।परि ।, टात्प् । यथा}* *{१।१४१ टा, ट्B, ट्C, ं ।परि ।, टात्प्.॑ E१,२,५,६, आ संयक्संप्रत्यय}* *{१।१४२ E१,२,५,६ हबेनन् ष्तेल्ले वोन् सति संबन्धे नुर्शब्दे (बेइ Fरौwअल्ल्नेर्fएह्ल्थिएर्शु एइने आन्मेर्कुन्ग्)}* *{१।१४३ E२ १,५१॑ E५ १,१३१॑ E६ १,९}* *{१।१४४ E१,२,५,६, टा, ट्C, ं ।परि.॑ ट्B, आ तथा}* *{१।१४५ टा, ट्B, आ॑ E१,२,५,६, ट्C अवगतिमिच्छामः}* *{१।१४६ E१,२,५,६, आ, ं ।परि.॑ टा, ट्B, ट्C ब्रूत इतीत्य्}* *{१।१४७ ट्B, ट्C, आ, ं । परि.॑ E१,२,५,६, टा बोधयति}* *{१।१४८ ट्B, ट्C ओम् । इति}* *{१।१४९ ट्B, ट्C, आ, ं । परि.॑ E१,२,५,६, टा च}* *{१।१५० ट्B, ट्C, ं । परि.॑ E१,२,५,६, टा, आ निमित्ते}* *{१।१५१ ट्B, ट्C, ं । परि.॑ E१,२,५,६, टा, आ बुध्यते}* *{१।१५२ ं ।परि । प्रत्यक्षः प्रत्ययो॑ E१,२,५,६ अव्यपदेशप्रत्ययो (बेइ Fरौwअल्ल्नेर्निछ्त्वेर्मेर्क्त्)}* *{१।१५३ टा, ट्B, ट्C, ट्ष्ড়्॑ E१,२,५,६, आ अस्य प्रत्ययविपर्यासं}* *{१।१५४ ट्B, ट्C, ट्ष्ড়् ओम् । प्रत्ययेन}* *{१।१५५ टात्प् ।, ण्य् ।रत् । ओम् । एवम्}* *{१।१५६ टा, ट्C, आ, Kआश् । ओम् । अस्ति}* *{१।१५७ E५, ट्B ओम् । यदि}* *{१।१५८ E१,२,६, टा, आ॑ E५, ट्B, ट्C संश्लेषसंबन्धम्}* *{१।१५९ E५, आ, ऋज् ।, E१ (व् ।ल् ।)॑ E१,६ भावसंयोगादयस्॑ E२, टा, ट्B, ट्C भावादयस्}* *{१।१६० E५, ट्B, ट्C, टात्प् । ओम् । यः । । ।तम्॑ E१,२,५,६ ओम् । संबन्धस्तम्}* *{१।१६१ E२ १,५४॑ E५ १,१४३॑ E६ १,१०}* *{१।१६२ E१,२,५,६, टा, आ॑ ट्B, ट्C उच्चारयति । । ।अवगच्छति}* *{१।१६३ ट्B, ट्C ओम् । यः । । ।स}* *{१।१६४ E१,२,५,६, आ ओम् । ह्य्}* *{१।१६५ E१,२,५,६, आ ओम् । हि}* *{१।१६६ E१,२,५,६, ट्C॑ टा, ट्B, आ शब्दो}* *{१।१६७ E१,२,५,६, आ, ं । परि । ओम् ।ऽपि}* *{१।१६८ ट्B, ट्C, ं । परि । प्रत्यय इति चेत्॑ E१,२,५,६, टा प्रतिपत्तिश्चेत्॑ आ प्रतीतिः स्यात्चेत्}* *{१।१६९ E१,२,५,६, टा, आ, ं ।परि.॑ ट्B, ट्C, टात्प् । वाचक}* *{१।१७० E१,२,५,६ ओम् । अपि}* *{१।१७१ ट्B, ट्C, टात्प् । ओम् । स्यात्}* *{१।१७२ E१,२,५,६, टा, आ॑ ट्B, ट्C प्रत्यक्षादिभिः प्रमाणैरनुपलभ्यमानो}* *{१।१७३ टा, ट्B, ट्C, आ॑ E१,२,५,६ शक्नोत्युपगन्तुम्}* *{१।१७४ E२ १,५६॑ E५ १,१५३॑ E६ १,१०}* *{१।१७५ णिरुक्त, १ ।१}* *{१।१७६ E१,२,५,६, टा, आ॑ ट्B, ट्C, टात्प् । न चैतद्}* *{१।१७७ टा, ट्B, ट्C, टात्प्.॑ E१,२,५,६, आ संभवत्य्}* *{१।१७८ टा, ट्B, ट्C, टात्प् ।, ण्य् । रत् ।, E१ (व् ।ल् ।)॑ E१,२,५,६, आ एवार्थप्रतिपत्तौ}* *{१।१७९ E१,२,५,६, आ ओम् । एतावता}* *{१।१८० टा, ट्B, ट्C, आ॑ E१,२,५,६ अतो न तेभ्यो}* *{१।१८१ शक्यते वक्तुम्E१,२,५,६, ट्C, शार्क्.॑ ट्B अवगम्यते॑ टा गम्येत, आ सम्यक्}* *{१।१८२ टा, आ ओम् । अप्य्}* *{१।१८३ टा, ट्B, आ, शर्क् ।, ण्य् । रत्.॑ E१,२,५,६, ट्C एवंजतीयको}* *{१।१८४ E२ १,६१॑ E५ १,१७१॑ E६ १,११}* *{१।१८५ ट्B, ट्C, आ, ण्य् । रत् ।, E२,५ , E१ (व् ।ल् ।)॑ E१,६ महाजानिकः}* *{१।१८६ ट्B, ट्C, आ, Bऋह् ।, ऋज्.॑ E१,२,५,६, टा, आ दुष्यतीति}* *{१।१८७ E५, टा, ट्B, ट्C, Bऋह् ।, ऋज्.॑ E१,२,६ वनेऽपि सति}* *{१।१८८ ट्B ते सिद्धान्त॑ E१,२,५,६, टा, ट्C तत्सिद्धान्त॑ E१,२,५,६, टा, आ दूषणे}* *{१।१८९ E१,२,५,६, टा॑ आ उपपद्यते॑ ट्B, ट्C ओम्}* *{१।१९० E५, ट्B, ट्C॑ E१,२,६, टा, आ अतो}* *{१।१९१ E१,२,५,६, आ, ण्य् ।रत्.॑ ट्B, ट्C गम्यते॑ टा अवगच्छामः}* *{१।१९२ टा, ट्B, ट्C॑ E१,२,५,६, आ मिथ्यैव}* *{१।१९३ टा॑ E१,२,५,६, ट्B, ट्C, आ ततो}* *{१।१९४ ट्C, शर्क् ।, ण्य् । रत्.॑ ट्B प्रत्ययविपर्ययः॑ E१,२,५,६, टा, आ विपर्येति}* *{१।१९५ Vग्ल् । ंष्१ ।३ ।३३, E१।२ हबेन् शब्दार्थ}* *{१।१९६ E१,२,५,६, ट्B, आ॑ टा ननु स कृतक॑ ट्C स कृतक}* *{१।१९७ E१,२,५,६, टा, ट्B, ट्C, आ॑ ण्य् ।रत् । संव्यवहारार्थम्}* *{१।१९८ E१,२,५,६, ट्C, आ, शर्क्.॑ टा, ट्B सिद्धस्य सिद्धम्}* *{१।१९९ E२ १,६३॑ E५ १,१८१॑ E६ १,१२}* *{१।२०० टा, ट्B, आ॑ E१,२,५,६, ट्C न च}* *{१।२०१ ट्B, ट्C, आ॑ E१,२,५,६, टा भवति}* *{१।२०२ E१,२,५,६ ओम् । अप्य्}* *{१।२०३ टा, ट्B, ट्C, आ॑ E१,२,५,६ वेदे}* *{१।२०४ ড়ाण् । १ ।१ ।१}* *{१।२०५ E१,२,५,६, टा, आ ओम् । तद्वृद्धम्}* *{१।२०६ ড়ाण् । १ ।१ ।७३॑ E१।२, टा, आ ओम् । तद्वृद्धम्}* *{१।२०७ E१,२,५,६, टा, आ॑ ट्B, ट्C, ण्य् ।रत् । प्रतिपद्येत}* *{१।२०८ ट्B॑ E१,२,५,६, टा, ट्C, आ कारणाद्}* *{१।२०९ E५,६, ट्B, ट्C, Bऋह्.॑ E१,२, टा, आ प्रतिपद्यामहे}* *{१।२१० E१,२,५,६, टा ओम् । मन्यामह इति}* *{१।२११ Vग्ल् । ंष्१ ।१ ।५ }* *{१।२१२ E१,२,५,६, टा, आ नार्था उपलभ्येरन्॑ ट्B, ट्C अथ उपलभ्येत}* *{१।२१३ E२ १,६७॑ E५ १,१९३॑ E६ १,१२}* *{१।२१४ टा, ट्B, ट्C, आ॑ E१,२,५,६ संव्यवहरमाणानाम्}* *{१।२१५ Vग्ल् । ंष्१ ।१ ।५ }* *{१।२१६ टा, आ॑ E१,२,५,६, ट्B, ट्C ओम् । ऽपि}* *{१।२१७ E१,२,५,६, टा, आ॑ ट्B, ट्C, ं ।परि । शक्नुयादेव}* *{१।२१८ टा, ट्B, ट्C, आ॑ E१,२,५,६ संबन्धस्य कर्ता}* *{१।२१९ Vग्ल् । ंष्१ ।१ ।५ }* *{१।२२० ट्B, ट्C, ं ।परि ।, ण्य् ।रत् । ओम् । हि}* *{१।२२१ E१,२,५,६, आ॑ टा संबन्धः कर्तव्यः॑ ट्B, ट्C संबन्धः क्रियेत (क्रियते)}* *{१।२२२ टा, ट्B, ट्C, आ ओम् । तस्य केनेति}* *{१।२२३ टा, ट्B, ट्C, Bऋह् ।, ं । परि ।, ण्य् । रत्.॑ E१,२,५,६, आ नास्ति}* *{१।२२४ E२ ओम् । हि}* *{१।२२५ E१,२,५,६, ट्B, आ॑ टा वृद्धेभ्यः व्यवहारेण॑ ट्C वृद्धव्यवहारेभ्यः}* *{१।२२६ E२ (व् ।ल् ।), टा, आ॑ E१,२,५,६ न च प्रतिपन्न॑ ट्B अप्रतिपन्न॑ ट्C अप्रसिद्ध}* *{१।२२७ Vग्ल् । ंष्१ ।१ ।५ }* *{१।२२८ E५, ट्B, व्ग्ल् । Bऋह् ।, ऋज् ।, णयविवेक॑ E१,२,६, टा, ट्C, आ देवदत्तादाव्}* *{१।२२९ E२ १,६९॑ E५ १,१९७॑ E६ १,१३}* *{१।२३० ट्B, ट्C, आ ओम् । हि}* *{१।२३१ E१,२,५,६, ट्B, ट्C॑ टा, आ ज्ञायमानेषूभयम्}* *{१।२३२ Vग्ल् । ंष्१ ।१ ।५ }* *{१।२३३ टा, ट्B, ट्C॑ E१,२,५,६, आ न चैवम्}* *{१।२३४ ट्B, ट्C, आ॑ E१,२,५,६, टा च}* *{१।२३५ टा॑ E१,२,५,६, आ अपेक्ष्यते॑ ट्B, ट्C अपेक्षितव्यम्}* *{१।२३६ टा, ट्B, ट्C ओम् । हि}* *{१।२३७ E१,२,५,६, आ॑ टा अतः॑ ट्B, ट्C तेन}* *{१।२३८ टा, ट्B, ट्C, ं । परि.॑ E१,२,५,६, आ तावतैव}* *{१।२३९ टा, ट्B, ट्C, आ॑ E१,२,५,६ कर्मणः}* *{१।२४० ट्B, ट्C ओम् । तत्र}* *{१।२४१ E१,२,५,६, आ ओम् । ननु}* *{१।२४२ E१,२,५,६, टा, आ ओम् । शरीरगुणाः}* *{१।२४३ E१,२,६, टा ओम् । हि ते॑ E५ ओम् । हि ते अयावच्छरीरभावित्वात्}* *{१।२४४ E१,२,५,६ ओम् । अतो न शरीरगुणाः प्राणादयः}* *{१।२४५ E२ १,७३॑ E५ १,२०९॑ E६ १,१४}* *{१।२४६ E१,२,५,६, टा, आ॑ ं ।परि । वदामः॑ ट्B, ट्C ब्रूमः}* *{१।२४७ टा, ट्B, आ॑ E१,२,५,६ संबन्धान्वेषणा}* *{१।२४८ ट्B, ट्C, आ॑ E१,२,५,६ भवति}* *{१।२४९ E१,२,५,६, आ॑ टा, ट्B, E१ (व् ।ल् ।) अन्विच्छेम॑ ट्C अन्विच्छेः}* *{१।२५० टा, ट्B, ट्C॑ E१,२,५,६, आ अव्यवस्थैव}* *{१।२५१ E२, ट्B, आ॑ E१,६, टा, ट्C परितोष्यसि॑ E५ परितुष्यसि}* *{१।२५२ E१,२,५,६, ट्B, आ ओम् । विज्ञाता}* *{१।२५३ E१,२,५,६, आ॑ टा, ट्B, ट्C जानातीति ज्ञानस्य}* *{१।२५४ टा, ट्B, ट्C, आ ओम् । अनेन}* *{१।२५५ E१,२,५,६, टा, आ॑ ट्B उपलभ्यते॑ ट्C उच्यते}* *{१।२५६ टा, ट्B, ट्C, आ, E१ (व् ।ल् ।)॑ E१,२,५,६ वेदा}* *{१।२५७ E१,२,५,६ प्रमंस्यते}* *{१।२५८ ट्B ओम् । प्रत्यक्ष॑ ट्C ओम् । आत्मसत्तावादिन एव शब्दस्य प्रत्यक्ष}* *{१।२५९ E२ १,७६॑ E५ १,२१४॑ E६ १,१५}* *{१।२६० E१,२,५,६, टा, आ॑ ट्B, ट्C अन्यम्}* *{१।२६१ E१,२,५,६, ट्B, ट्C, आ ओम् । नानुपलब्धपूर्वे}* *{१।२६२ ट्B, ट्C, आ॑ टा अनुपलब्धे॑ E१,२,५,६ उपलब्धुर्}* *{१।२६३ ट्B॑ E१,२,५,६, टा, आऽन्येदुर्, ट्C ओम्}* *{१।२६४ E१,२,५,६, टा, आ ओम् । अतस्}* *{१।२६५ E१,२,५,६, टा, आ सा इत्य्॑ ट्B, ट्C अस्ति}* *{१।२६६ टा, ट्B, ट्C॑ E१,२,५,६, आ प्रत्यस्ते}* *{१।२६७ ट्B, ट्C॑ E२,५, टा, आ अथ तु॑ E१,६ अथ नु}* *{१।२६८ टा, ट्C, आ॑ E१,२,५,६, ट्B य एव}* *{१।२६९ ट्B, ट्C॑ E१,२,५,६, टा, आ इच्छा नोपपन्ना}* *{१।२७० ट्B, ट्C, E१,२,५,६, टा, आ अत्रोच्यते}* *{१।२७१ टा, ट्B, ट्C, आ॑ E१,२,५,६ अन्यं}* *{१।२७२ टा, ट्C, आ यच्च॑ E१,२,५,६, ट्B यन्}* *{१।२७३ ट्B, ट्C ओम् । एव}* *{१।२७४ ट्C, आ ओम् । अप्य्}* *{१।२७५ ट्B, ट्C॑ E१,२,५,६, आ अन्येद्युर्}* *{१।२७६ टा, ट्B, ट्C, आ॑ E१,२,५,६ न वा}* *{१।२७७ टा, ट्B, ट्C, आ॑ E१,२,५,६ क्षणिक}* *{१।२७८ E२ १,७८॑ E५ १,२२०॑ E६ १,१५}* *{१।२७९ ट्B॑ E१,२,५,६, टा, ट्C, आ तत्}* *{१।२८० E१,२,५,६, टा, आ अथास्मिनर्थे॑ ट्C अत्रापि॑ ट्B तथा च}* *{१।२८१ Bऊ (ं) २ ।४ ।१२॑ व्ग्ल् । Bऊ (ं) ४ ।५ ।१३ (एबेन्सो K)}* *{१।२८२ E५, ट्B, ट्C, Bऋह्.॑ E१,२,६, आ उच्यते}* *{१।२८३ E५, टा, ट्B, ट्C, आ, Bऋह्, E१ (व् ।ल् ।)॑ E१,२,६ अपरो}* *{१।२८४ E५॑ E१,२,६, आ ओम् । यो}* *{१।२८५ E५, टा, ट्B, ट्C तद्यथा॑ E१,२,६, आ यथा}* *{१।२८६ टा, ण्य् । रत्.॑ ट्C आत्मप्रत्ययम्॑ E१,२,५,६, ट्B, आ प्रत्ययम्}* *{१।२८७ ट्B, ट्C॑ E१,२,५,६, टा, आ ओम् । हि}* *{१।२८८ Bऊ (ं) ३ ।९ ।२८, (K) ३ ।९ ।२६, इदेन्तिस्छ्मित्(ं) ४ ।२ ।६, (K) ४ ।२ ।४ । उन्द्(ं) ४ ।४ ।२७, (K) ४ ।४ ।२२ उन्द्(K) ४ ।५ ।१५ (fएह्ल्तिन् ं)}* *{१।२८९ E१ (व् ।ल् ।), टा॑ ट्C ये चैव॑ E५ येऽपि चैव॑ E१,२,६ ये॑ आ यच्च}* *{१।२९० Bऊ (ं) ४ ।५ ।१५, (K) ४ ।५ ।१४}* *{१।२९१ E१,२,५,६, टा, आ॑ ट्B विज्ञानादन्य आत्मा॑ ट्C विज्ञानादन्योऽस्ति}* *{१।२९२ E२ १,८०॑ E५ १,२३२॑ E६ १,१६}* *{१।२९३ E१,२,५,६, टा, आ॑ ट्B, ट्C इत्येतत्तत्त्वम् (इत्य्) अवगम्येत}* *{१।२९४ E१,२,५,६ निदर्श्येत॑ टा, ट्B निदर्श्यत॑ टा, C निर्दिश्यत}* *{१।२९५ ट्B, ट्C, Bऋह् । ओम् । च}* *{१।२९६ E१,२,५,६, ट्C, आ॑ टा, ट्B परमात्मानम्}* *{१।२९७ टा, ट्B, ट्C, आ॑ E१,२,५,६ परपुरुषं नोपलभन्त}* *{१।२९८ Bऊ (ं) ४ ।३ ।६ (=K)}* *{१।२९९ Bऊ (ं) ३ ।९ ।२८ (K ३ ।९ ।२६) इदेन्तिस्छ्मित्(ं) ४ ।२ ।६ (K ४ ।२ ।४), (ं) ४ ।४ ।२७ (K ४ ।४ ।२२) उन्द्(K) ४ ।५ ।१५ (fएह्ल्तिन् ं)}* *{१।३०० टा, ट्C॑ E१,२,५,६, आ अथापि}* *{१।३०१ Bऊ (ं) ४ ।४ ।१० (K ४ ।३ ।९), इदेन्तिस्छ्मित्(ं) ४ ।३ ।१६ (K ४ ।३ ।१४)}* *{१।३०२ ट्B, ट्C ओम् । अयम् (सो औछ्E१।२)}* *{१।३०३ टा, ट्B, ट्C॑ E१,२,५,६, आ तत्राप्य्}* *{१।३०४ E२ १,८३॑ E५ १,२४७॑ E६ १,१७}* *{१।३०५ Bऊ (ं) ३ ।९ ।२८ (K ३ ।९ ।२६), इदेन्तिस्छ्मित्(ं) ४ ।२ ।६ (K ४ ।२ ।४), (ं) ४ ।४ ।२७ (K ४ ।४ ।२२) उन्द्K ४ ।५ ।१५ (fएह्ल्तिन् ं)}* *{१।३०६ E१,२,५,६ ओम् । अयम्}* *{१।३०७ ट्B, ट्C॑ E१,२,५,६, टा, आ अन्य इति}* *{१।३०८ E१,२,५,६, ट्C, आ ओम् । आत्मा}* *{१।३०९ E१,२,५,६, टा, आ ओम् । इति}* *{१।३१० E५, आ ओम् । तेभ्यो॑ E१,२,६ हबेन् तेभ्यो (fअल्स्छ्बेइ Fरौwअल्ल्नेर्)}* *{१।३११ E१,२,५,६, टा, आ॑ ट्B तया॑ ट्C अनया}* *{१।३१२ E१,२,५,६, टा, आ॑ ट्B पश्यति॑ ट्C अन्यं पश्यति}* *{१।३१३ E१,२,५,६॑ टा पाट्यमानस्य । । ।तद्यमानस्य॑ ट्B भिद्यमानस्य॑ ट्C नुद्यमानस्य । । ।ताड्यमानस्य । । ।भिद्यमान्स्य॑ आ दह्यमानस्य । । ।वाद्यमानस्य । । ।तुद्यमानस्य}* *{१।३१४ ट्B, ट्C, ऋज्.॑ E१।२, टा, आ यद्}* *{१।३१५ E२ १,८५॑ E५ १,२५४॑ E६ १,१७}* *{१।३१६ ट्B, ट्C॑ E१,२,५,६, टा, आ ओम् । अप्य्}* *{१।३१७ Bऊ (ं) ४ ।५ ।१४ (=K)॑ व्ग्ल् । ं २ ।४ ।१३ (=K)}* *{१।३१८ टा, ट्B, ट्C॑ E१,२,५,६, आ मोहान्त}* *{१।३१९ E१,२,५,६, आ ओम् । वचनस्य}* *{१।३२० E१,२,५,६ ओम् ।ऽहं}* *{१।३२१ Bऊ (ं) ४ ।५ ।१५ (व्ग्ल् । K ४ ।५ ।१४)}* ____________________________________________ कर्मैके तत्र दर्शनात् ॥ १,१ ।६ ॥ उक्तम् नित्यः शब्दार्थयोः संबन्ध इति । तदनुपपन्नम्, शब्दस्यानित्यत्वात् । विनष्टः शब्दः, पुनरस्य क्रियमाणस्यार्थेनाकृतकः संबन्धो नोपपद्यते । न हि प्रथमश्रुताच्छब्दात्कश्चिदर्थं प्रत्येति । कथं पुनरनित्यः शब्दः । प्रयत्नादुत्तरकालं दृश्यते यतः । अतः प्रयत्नानन्तर्यात्तेन क्रियत इति गम्यते । नन्वभिव्यञ्ज्यात्स एनम् । नेति ब्रूमः । न ह्यस्य प्रागभिव्यञ्जनात्सद्भावे किंचन प्रमाणमस्ति । संश्चाभिव्यज्यते नासन् । ____________________________________________ अस्थानात् ॥ १,१ ।७ ॥ नो{*१।३२२*} खल्वप्युच्चरितं मुहूर्तमप्युपलभामहे । अतो विनष्ट इत्यवगच्छामः । न च सन्नोपलभ्यते । अनुपलंभकारणानां व्यवधानादीनामभावेऽप्यनुपलम्भनात् । न चासौ विषयमप्राप्तः, आकाशाविषयत्वात्, कर्णच्छिद्रेऽप्यनुपलम्भनात् । ण्Oट्Eष् *{१।३२२ E१ गिब्तल्स्व् ।ल् । न चैनमुच्चरितं}* ____________________________________________ करोतिशब्दात् ॥ १,१ ।८ ॥ अपि च शब्दं कुरु, मा शब्दं कार्षीरिति व्यवहर्तारः प्रयुञ्जते, न ते नूनमवगच्छन्ति स एवायं शब्द इति । ____________________________________________ सत्त्वान्तरे च यौगपद्यात् ॥ १,१ ।९ ॥ नानादेशेषु च युगपच्छब्दमुपलभामहे, तदेकस्य नित्यस्यानुपपन्नमिति । असति विशेषे नित्यस्य नानेकत्वम् । कार्याणां तु बहूनां नानादेशेषु क्रियमाणानामुपपद्यतेऽनेकदेशसंबन्धः । तस्मादप्यनित्यः । ____________________________________________ प्रकृतिविकृत्योश्च ॥ १,१ ।१० ॥ अपि च दध्यत्रेत्यत्रेकारः प्रकृतिः, यकारो विकृतिरित्युपपदिशन्ति । यद्विक्रियते, तदनित्यम् । इकारसादृश्यं च यकारस्योपलभ्यते, तेनापि तयोः प्रकृतिविकारभावो लक्ष्यते । ____________________________________________ वृद्धिश्च कर्तृभूम्नास्य ॥ १,१ ।११ ॥ अपि च बहुभिरुच्चारयद्भिर्महान् शब्दः श्रूयते । स यद्यभिव्यज्यते, बहुभिरल्पैश्चोच्चार्यमाणस्तावानेवोपलभ्येत । अतो मन्यामहे नूनमस्यैकैकेन कश्चिदवयवः क्रियते, यत्प्रचयादयं महानुपलभ्यते । [२६]{*१।३२३*} ण्Oट्Eष् *{१।३२३ E२ १,९०॑ E५ १,२७२॑ E६ १,१९}* ____________________________________________ समं तु तत्र दर्शनम् ॥ १,१ ।१२ ॥ तुशब्दात्पक्षो विपरिवर्तते । यद्{*१।३२४*} उक्तम् प्रयत्नादुत्तरकाले दर्शनात्कृतकोऽयमिति{*१।३२५*} । यदि विस्पष्टेन हेतुना शब्दस्य नित्यत्वं वक्तुं शक्ष्यामः, ततो नित्यप्रत्ययसामर्थ्यात्प्रयत्नेनाभिव्यज्यत इति भविष्यति । यदि प्रागुच्चारणादनभिव्यक्तः प्रयत्नेनाभिव्यज्यते । तस्मादुभयोः पक्षयोः सममेतत् । ण्Oट्Eष् *{१।३२४ E१,५,६॑ E२ तद्}* *{१।३२५ श्Bहद्ंष्१ ।१ ।६}* ____________________________________________ सतः परमदर्शनं विषयानागमात् ॥ १,१ ।१३ ॥ यदपरं कारणमुक्तम् उच्चरितप्रध्वस्त इति{*१।३२६*} । अत्रापि यदि शक्ष्यामो नित्यतामस्य विस्पष्टं वक्तुम्, ततो नित्यप्रत्ययसामर्थ्यात्कदाचिदुपलम्भं कदाचिदनुपलम्भं दृष्ट्वा किंचिदुपलम्भस्य निमित्तं कल्पयिष्यामः । तच्च संयोगविभागसद्भावे सति भवतीति संयोगविभागावेवाभिव्यञ्जकाविति वक्ष्यामः । उपरतयोः संयोगविभागयोः श्रूयत इति चेत् । नैतदेवम् । न नूनमुपरमन्ति संयोगविभागाः, यत उपलभ्यते शब्द इति । न हि ते प्रत्यक्षा इति । यदि शब्दं संयोगविभागा एवाभिव्यञ्जन्ति न कुर्वन्ति, आकाशविषयत्वाच्छब्दस्याकाशस्यैकत्वाद्य एवायमत्र श्रोत्राकाशः, स एव देशान्तरेष्वपीति श्रुघ्नस्थैः{*१।३२७*} संयोगविभागैरभिव्यक्तः पाटलिपुत्रेऽप्युपलभ्येत । यस्य पुनः कुर्वन्ति, तस्य वायवीयाः संयोगविभागा वाय्वाश्रितत्वाद्वायुष्वेव करिष्यन्ति, यथा तन्तवस्तन्तुष्वेव पटम् । तस्य पाटलिपुत्रेष्वनुपलम्भो युक्तः, श्रुघ्नस्थत्वात्तेषाम् । यस्याप्यभिव्यञ्जन्ति, तस्याप्येष न दोषः, दूरे सत्याः कर्णशष्कुल्या अनुपकारकाः संयोगविभागाः, तेन दूरे यच्छ्रोत्रं तेन नोपलभ्यत इति । नैतदेवम् । अप्राप्ताश्चेत्[२८]{*१।३२८*}संयोगविभागाः श्रोत्रस्योपकुर्युः । संनिकृष्टविकृष्टदेशस्थौ युगपच्छब्दमुपलभेयाताम् । न च युगपदुपलभेते । तस्मान्नाप्राप्ता उपकुर्वन्ति । न चेदुपकुर्वन्ति{*१।३२९*}, तस्मादनिमित्तं शब्दोपलम्भने संयोगविभागाविति । नैतदेवम् । अभिघातेन हि प्रेरिता वायवस्तिमितानि{*१।३३०*} वाय्वन्तराणि प्रतिबाधमानाः सर्वतोदिक्कान् संयोगविभागानुत्पादयन्ति । यावद्वेगमभिप्रतिष्ठन्ते । ते च वायोरप्रत्यक्षत्वात्संयोगविभागा नोपलभ्यन्ते । अनुपरतेष्वेव तेषु शब्द उपलभ्यते नोपरतेषु । अतो न दोषः । अत एव चानुवातं दूरादुपलभ्यते शब्दः । ण्Oट्Eष् *{१।३२६ Cf । श्Bहद्ंष्१ ।१ ।७}* *{१।३२७ E२,५,६ हबेन् स्रुघ्न}* *{१।३२८ E२ १,९५॑ E५ १,२८०॑ E६ १,२०}* *{१।३२९ E२ ओम् । न चेदुपकुर्वन्ति}* *{१।३३० E१,६॑ E२,५ (रिछ्तिग्) वायवः स्तिमितानि}* ____________________________________________ प्रयोगस्य परम् ॥ १,१ ।१४ ॥ यदपरं कारणमुक्तम् शब्दं कुरु मा कार्षीरिति व्यवहर्तारः प्रयुञ्जते{*१।३३१*} । यद्यसंशयं नित्यः शब्दः, शब्दप्रयोगं कुर्विति भविष्यति, यथा गोमयात्{*१।३३२*} कुर्विति संहारे{*१।३३३*} । ण्Oट्Eष् *{१।३३१ श्Bहद्ंष्१ ।१ ।८}* *{१।३३२ E२,५,६ (रिछ्तिग्) गोमयान्}* *{१।३३३ E१,५॑ E२,६ संवाहे (E१ गिब्त्संवाहे अल्स्Fन् ।)}* ____________________________________________ आदित्यवद्यौगपद्यम् ॥ १,१ ।१५ ॥ यत्त्वेकदेशस्य{*१।३३४*} सतो नानादेशेषु युगपद्दर्शनमनुपपन्नमिति{*१।३३५*} । आदित्यं पश्य देवानांप्रिय । एकः सन्ननेकदेशावस्थित इव लक्ष्यते । कथं पुनरवगम्यत एक आदित्य इति । उच्यते प्राङ्मुखो देवदत्तः पूर्वाह्ने संप्रति पुरस्तादादित्यं पश्यति । तस्य दक्षिणतोऽवस्थितो न द्वौ पश्यति, आत्मनश्च संप्रति न तिरश्चीनं{*१।३३६*} देवदत्तस्यार्जवे । [२८]{*१।३३७*} तस्मादेक आदित्य इति । दूरत्वादस्य देशो नावधार्यते । अतो व्यामोहः । एवं शब्देऽपि व्यामोहादनवधारणं देशस्य । यदि श्रोत्रं संयोगविभागदेशमागत्य शब्दं गृह्णीयात्, तथापि तावदनेकदेशता कदाचिदवगम्येत । न च तत्संयोगदेशमागच्छति । प्रत्यक्षा हि कर्णशष्कुली तद्देशा गृह्यते । वायवीयाः पुनः संयोगविभागा अप्रत्यक्षस्य वायोः, कर्णशष्कुलीप्रदेशे प्रादुर्भवन्तो नोपलभ्यन्त इति नानुपपन्नम् । अत एव व्यामोहो यन्नानादेशेषु शब्द इति । आकाशदेशश्च शब्द इति । एकं च पुनराकाशम् । अतोऽपि न नानादेशेषु । अपि चैकरूप्ये सति देशभेदेन कामं देशा एव भिन्नाः, न तु शब्दः । तस्मादयमप्यदोषः । ण्Oट्Eष् *{१।३३४ E५ यथैतदेकस्य}* *{१।३३५ Cf । श्Bहद्ंष्१ ।१ ।९}* *{१।३३६ E२ संप्रति स्थितं तिरश्चीनं (E१ गिब्त्संप्रतिस्थिते तिरश्चीनमल्स्Fन् ।)}* *{१।३३७ E२ १,९८॑ E५ १,३०८॑ E६ १,२०}* ____________________________________________ वर्णान्तरमविकारः ॥ १,१ ।१६ ॥ न च दध्यत्रेत्य्{*१।३३८*} अत्र प्रकृतिविकारभावः । शब्दान्तरमिकाराद्यकारः । न हि यकारं प्रयुञ्जाना इकारमुपाददते, यथा कटं चिक्रीर्षन्तो वीरणानि । न च सादृश्यमात्रं दृष्ट्वा प्रकृतिर्विकृतिर्वोच्यते । न हि दाधिपिटकं दृष्ट्वा कुन्दपिटकं च प्रकृतिविकारभावोऽवगम्यते । तस्मादयमप्यदोषः । ण्Oट्Eष् *{१।३३८ Cf । श्Bहद्ंष्१ ।१ ।१०}* ____________________________________________ नादवृद्धिपरा ॥ १,१ ।१७ ॥{*१।३३९*} यच्चैतद्बहुभिर्भेरीमाध्मनद्भिः{*१।३४०*} शब्दम्{*१।३४१*} उच्चारयद्भिर्महाञ्शब्द उपलभ्यते, तेन प्रतिपुरुषं शब्दावयवप्रचय इति गम्यते{*१।३४२*} । नैवम् । निरवयवो हि शब्दः अवयवभेदानवगमान्निरवयवत्वाच्च महत्त्वानुपपत्तिः । अतो न वर्धते शब्दः । मृदुरेकेन [२९]{*१।३४३*} बहुभिश्चोच्चार्यमाणे तान्येवाक्षराणि कर्णशष्कुलीमण्डलस्य सर्वां नेमिं व्याप्नुवद्भिः संयोगविभागैर्नैरन्तर्येणानेकशो ग्रहणान्महानिवावयववानिवोपलभ्यन्ते । संयोगविभागा नैरन्तर्येण क्रियमाणाः शब्दमभिव्यञ्जन्तो नादशब्दवाच्याः । तेन नादस्यैषा वृद्धिः, न शब्दस्येति । ण्Oट्Eष् *{१।३३९ E५ नादवृद्धिः परा}* *{१।३४० E१,६॑ E२ आधमद्भिः, E५ अघ्नद्भिः (?)}* *{१।३४१ E५ गोशब्दम्}* *{१।३४२ Cf । श्Bहद्ंष्१ ।१ ।११}* *{१।३४३ E२ १,१०१॑ E५ १,३१८॑ E६ १,२१}* ____________________________________________ नित्यस्तु स्याद्दर्शनस्य परार्थत्वात् ॥ १,१ ।१८ ॥ नित्यः शब्दो भवितुमर्हति । कुतः? दर्शनस्य परार्थत्वात् । दर्शनमुच्चारणम्, तत्परार्थं परमर्थं प्रत्याययितुम् । उच्चरितमात्रे हि विनष्टे शब्दे न चान्योऽन्यानर्थं प्रत्याययितुं शक्नुयात् । अतो न परार्थमुच्चार्येत । अथ न विनष्टः, ततो बहुश उपलब्धत्वादर्थावगम इति युक्तम् । अर्थवत्सादृश्यादर्थावगम इति चेत् । न कश्चिदर्थवान्, सर्वेषां नवत्वात् । कस्यचित्पूर्वस्य कृत्रिमः संबन्धो{*१।३४४*} भविष्यतीति चेत् । तदुक्तं सदृश इति चावगते व्यामोहात्प्रत्ययो व्यावर्तेत मालाशब्दान्मालाप्रत्यय इव{*१।३४५*} । यथा गावीशब्दात्सास्नादिमिति प्रत्ययस्यानिवृत्तिः, तद्वद्भविष्यतीति चेत् । न हि गोशब्दं तत्रोच्चारयितुमिच्छा । नेहान्यशब्दोच्चिचारयिषा । न चैकेनोच्चारणायत्नेन{*१।३४६*} संव्यवहारश्चार्थसंबन्धश्च शक्यते{*१।३४७*} कर्तुम् । तस्माद्दर्शनस्य परार्थत्वात्, नित्यः शब्दः । ण्Oट्Eष् *{१।३४४ E२ कृत्रिमसंबन्धो}* *{१।३४५ E१,६॑ E२ (रिछ्तिग्) शालाशब्दान्मालाप्रत्यय इव, E५ शालाशब्दान्मालाप्रत्ययवत्}* *{१।३४६ E१,६॑ E२,५ चैकेनोच्चारणयत्नेन}* *{१।३४७ E२ ओम् । शक्यते}* ____________________________________________ सर्वत्र यौगपद्यात् ॥ १,१ ।१९ ॥ गोशब्द उच्चरिते सर्वगवीषु युगपत्प्रत्ययो भवति । अत आकृतिवचनोऽयम् । न चाकृत्या शब्दस्य संबन्धः शक्यते कर्तुम् । निर्दिश्य ह्याकृतिं कर्ता संबध्नीयात् । गोपिण्डे च बहूनामाकृतीनां सद्भावाच्छब्दमन्तरेण गोशब्दवाच्यां विभक्तामाकृतिं केन प्रकारेणोपदेक्ष्यति? नित्ये तु सति गोशब्दे बहुकृत्व [३०]{*१।३४८*} उच्चरितः श्रुतपूर्वश्चान्यासु गोव्यक्तिष्वन्वयव्यतिरेकाभ्यामाकृतिवचनमवगमिष्यति । तस्मादपि नित्यः । ण्Oट्Eष् *{१।३४८ E२ १,१०५॑ E५ १,३२८॑ E६ १,२२}* ____________________________________________ संख्याभावात् ॥ १,१ ।२० ॥ अष्टकृत्वो गोशब्द उच्चरित इति वदन्ति, नाष्टौ गोशब्दा इति । किमतो, यद्येवम् । अनेन वचनेनावगम्यते, प्रत्यभिजानन्तीति{*१।३४९*} । वयं तावत्प्रत्यभिजानीमो न नः करणदौर्बल्यम् । एवमन्येऽपि प्रत्यभिजानन्ति । स एवायमिति । प्रत्यभिजानाना{*१।३५०*} वयमिवान्येऽपि नान्य इति वक्तुमर्हन्ति । अथ मतमन्यत्वे सति सादृश्येन व्यामूढाः स इति वक्ष्यन्ति । तन्न । न हि ते सदृश इति प्रतियन्ति, किं तर्हि स एवायमिति । विदिते च स्फुटेऽन्यत्वे व्यामोह इति गम्यते । न चायमन्य इति प्रत्यक्षमन्यद्वा प्रमाणमस्ति । स्यादेतत् बुद्धिकर्मणी अपि ते प्रत्यभिज्ञायेते । तेऽपि नित्ये प्राप्नुतः । नैष दोषः । न हि ते प्रत्यक्षे । अथ प्रत्यक्षे नित्ये एव{*१।३५१*} । ह्यस्तनस्य शब्दस्य विनाशादन्योऽद्यतन इति चेत् । नैष विनष्टः, यत एनं पुनरुपलभामहे । न हि प्रत्यक्षदृष्टं मुहूर्तमदृष्ट्वा पुनरुपलभ्यमानं प्रत्यभिजानन्तो विनष्टं परिकल्पयन्ति । परिकल्पयन्तो द्वितीयसंदर्शने मातरि, जायायां पितरि वा नाश्वस्युः । न ह्यनुपलम्भमात्रेण नास्तीत्यवगम्य नष्ट इत्येव कल्पयन्ति । अप्रमाणतायां विदितायां नास्तीत्यवगच्छामः । न हि प्रमाणे प्रत्यक्षे सत्यप्रमाणता स्यात् । अस्तीति पुनरव्यामोहेनावगम्यमाने न क्वचिदप्यभावः । न चासिद्धेऽभावे व्यामोहः, न च सिद्धोऽभावः । तस्मादसति व्यामोहे, नाभावः{*१।३५२*} । तदे[३१]{*१।३५३*}तदानुपूर्व्या सिद्धम् । तस्मात्पुरस्तादनुच्चारितमनुपलभमाना अपि न विनष्ट इत्यवगन्तुमर्हन्ति । यथा{*१।३५४*} गृहान्निर्गताः सर्वगृहजनमपश्यन्तः पुनः प्रविश्योपलभमाना अपि न प्राक्प्रवेशाद्विनष्ट इत्यवगच्छन्ति । तद्वदेनमपि नान्य इति वक्तुमर्हन्ति । येऽपि सर्वेषां भावानां प्रतिक्षणं विनाशमभ्युपगच्छन्ति, तेऽपि न शक्नुवन्ति शब्दस्य वदितुम् । अन्ते हि क्षयदर्शनात्ते मन्यन्ते । न च शब्दस्यान्तो न च क्षयो लक्ष्यते । स इति प्रत्यक्षः प्रत्ययः सदृश इत्यानुमानिकः । न च प्रत्यक्षविरुद्धमनुमानमुदेति । स्वकार्यं वा साधयति । तस्मान्नित्यः । ण्Oट्Eष् *{१।३४९ Vग्ल् । ष्फोटसिद्धिव्याख्या, व् । २१२}* *{१।३५० E१,५॑ E२, E१ (Fन् ।), E६ प्रत्यभिजानानाः प्रत्यभिजानन्ति चेद्वयम्}* *{१।३५१ Cf । Kउमारिल, श्V, शब्दनित्यताधिकरण, व्व् । ३८९।९०३९३।९४}* *{१।३५२ E५ तस्मादव्यामोहः । सति चाव्यामोहे नाभावाः}* *{१।३५३ E२ १,१०६॑ E५ १,३४०॑ E६ १,२२}* *{१।३५४ E२ तथा}* ____________________________________________ अनपेक्षत्वात् ॥ १,१ ।२१ ॥ येषामनवगतोत्पत्तीनां द्रव्याणां भाव एव लक्ष्यते, तेषामपि केषांचिदनित्यता गम्यते, येषां विनाशकारणमुपलभ्यते । यथाभिनवं पटं दृष्ट्वा, न चैवं क्रियमाणमुपलब्धवान्, अथवानित्यत्वमवगच्छति रूपमेव दृष्ट्वा, तन्तुव्यतिषङ्गजनितोऽयं तन्तुव्यतिषङ्गविनाशात्तन्तुविनाशाद्वा विनश्यतीत्यवगच्छति । नैवं शब्दस्य किंचित्कारणमवगम्यते, यद्विनाशाद्विनङ्क्ष्यतीत्यवगम्यते । ____________________________________________ प्रख्याभावाच्च योगस्य ॥ १,१ ।२२ ॥ इदं पदेभ्यः केभ्यश्चिदुत्तरं सूत्रम् । ननु वायुकारणकः स्यादिति वायुरुद्गतः संयोगविभागैः शब्दो भवतीति । तथा च शिक्षाकारा आहुः वायुरापद्यते शब्दतामिति{*१।३५५*} । नैतदेवम् । वायवीयश्चेच्छब्दो भवेद्, वायोः संनिवेशविशेषः स्यात् । न च वायवीयानवयवाञ्शब्दे सतः प्रत्यभिजानीमो यथा पटस्य तन्तुमयान् । न चैवं भवति । स्याच्चेदेवम्, स्पर्शने[३२]{*१।३५६*}नोपलभेमहि । न च वायवीयानवयवाञ्शब्दगतान् स्पृशामः । तस्मान्न वायुकारणकः । अतो नित्यः । ण्Oट्Eष् *{१।३५५ ़ुएल्ले निछ्त्नछ्wएइस्बर् । Vग्ल् । अबेर्णारदशिक्षा १ ।५ ।८१०}* *{१।३५६ E२ १,१०९॑ E५१,३४६॑ E६ १,२३}* ____________________________________________ लिङ्गदर्शनाच्च ॥ १,१ ।२३ ॥ लिङ्गं चैव भवति, वाचा विरूपनित्ययेति{*१।३५७*} । अन्यपरं हीदं वाक्यं वाचो नित्यतामनुवदति । तस्मान्नित्यः शब्दः । ण्Oट्Eष् *{१।३५७ ़ुएल्ले निछ्त्नछ्गेwइएसेन्}* ____________________________________________ उत्पत्तौ वावचनाः{*१।३५८*} स्युरर्थस्यातन्निमित्तत्वात् ॥ १,१ ।२४ ॥ यद्यप्यौत्पत्तिको नित्यः शब्दो अर्थसंबन्धश्च{*१।३५९*}, तथापि न चोदनालक्षणो धर्मः । चोदना हि वाक्यम् । न ह्यग्निहोत्रं जुहुयात्स्वर्गकाम इत्यतो वाक्यादन्यतमात्{*१।३६०*} पदादग्निहोत्रात्स्वर्गो भवतीति गम्यते । गम्यते तु पदत्रय उच्चरिते । न चात्र चतुर्थः शब्दोऽस्त्यन्यदतः पदत्रयसमुदायात् । न चायं समुदायोऽस्ति लोके, यतोऽस्य व्यवहारादर्थोऽवगम्यते । पदान्यमूनि प्रयुक्तानि, तेषां नित्योऽर्थः । अप्रयुक्तश्च समुदायः । तस्मात्समुदायस्यार्थः कृत्रिमो व्यामोहो वा । न च पदार्था एव वाक्यार्थः । सामान्ये हि पदं प्रवर्तते, विशेषे वाक्यम् । अन्यच्च सामान्यम्, अन्यो विशेषः । न च पदार्थाद्वाक्यार्थावगतिः, असंबन्धात् । असति चेत्संबन्धे कस्मिंश्चित्पदार्थेऽवगतेऽर्थान्तरमवगम्येत, एकस्मिन्नवगते सर्वमवगतं स्यात् । न चैतदेवं भवति । तस्मादन्यो वाक्यार्थः । स्यादेतत् अप्रयुक्तादपि वाक्यादसति संबन्धे स्वभावादर्थावगम इति । यदि कल्प्येत शब्दो धर्ममात्मीयं व्युत्क्रामेत् । न चैष शब्दधर्मो यदप्रयुक्तादपि शब्दार्थः प्रतीयते । न हि [३३]{*१।३६१*} प्रथमश्रुतात्कुतश्चिच्छब्दात्केचिदर्थं प्रतियन्ति । तदभिधीयते पदधर्मोऽयं न वाक्यधर्मः । वाक्याद्धि प्रथमावगतादपि प्रतियन्तोऽर्थं दृश्यन्ते । नैतदेवम् । यदि प्रथमश्रुतादवगच्छेयुः, अपि तर्हि सर्वेऽवगच्छेयुः पदार्थविदोऽन्ये च । न त्वपदार्थविदोऽवगच्छन्ति । तस्मान्नैतदेवम् । ननु पदार्थवद्भिरप्यवगच्छद्भिरकृत एव वाक्यार्थसंबन्धो भविष्यति । पदार्थवेदनेन हि संस्कृता अवगमिश्यन्ति, यथा तमेव पदार्थं द्वितीयादिश्रवणेनेति । नेति ब्रूमः । यदि वाक्येऽन्त्यो वर्णः पूर्ववर्णजनितसंस्कारसहितः पदार्थेभ्योऽर्थान्तरं प्रत्याययति, उपकारस्तु तदानीं{*१।३६२*} पदार्थज्ञानादवकल्पते । तस्मात्कृत्रिमो वाक्यार्थप्रत्ययो व्यामोहो वा । न पदार्थद्वारेण संभवति वाक्यार्थज्ञानमिति । नन्वेवं भविष्यति सामान्यवाचिनः पदस्य गौर्{*१।३६३*} इति वाश्व इति वा, विशेषकं शुक्ल इति वा कृष्ण इति वा पदमन्तिकादुपनिपतति यदा, तदा वाक्यार्थोऽवगम्यते । तन्न । न हि{*१।३६४*} कथमिव गौरिति वाश्व इति वा सामान्यवाचिनः पदात्सर्वगवीषु सर्वाश्वेषु च बुद्धिरुपसर्पन्ती श्रुतिजनिता, वाक्यानुरोधेन कुतश्चिद्विशेषादपवर्तेत । न च शुक्ल इत्यादेर्विशेषवचनस्य कृष्णादिनिवृत्तिर्भवति शब्दार्थः । न चानर्थको मा भूदित्यर्थपरिकल्पना शक्या । अतो न पदार्थजनितो वाक्यार्थः । तस्मात्कृत्रिमः । पदसंघाताः खल्वेते संघाताश्च पुरुषकृता दृश्यन्ते, यथा नीलोत्पलवनेष्वद्य चरन्तश्चारुसंरवाः। नीलकौशेयसंवीताः प्रणश्यन्तीव{*१।३६५*} कादम्बाः॥{*१।३६६*} अतो वैदिका अपि पुरुषकृता इति॥ [३४]{*१।३६७*} ण्Oट्Eष् *{१।३५८ E१ (Fन् ।) वावचनानि}* *{१।३५९ E१,६॑ E२,५ शब्दः संबन्धश्च}* *{१।३६० E१॑ E२ (बेस्सेर्) अन्यतमात्, E५ एकस्मात्, E६ अन्यतमस्मात्}* *{१।३६१ E२ १,११३॑ E५ १,३७७॑ E६ १,२४}* *{१।३६२ E१,५,६॑ E२ तदा न}* *{१।३६३ E२ गोर्}* *{१।३६४ E२ ओम् । न हि}* *{१।३६५ E१,६॑ E२,५ (रिछ्तिग्) प्रनृत्यन्तीव}* *{१।३६६ ़ुएल्ले उन्बेकन्न्त्}* *{१।३६७ E२ १,११५॑ E५ १,३८२॑ E६ १,२४}* ____________________________________________ तद्भूतानं क्रियार्थेन समाम्नायोऽर्थस्य तन्निमित्तत्वात् ॥ १,१ ।२५ ॥ तेष्वेव पदार्थेषु भूतानां वर्तमानानां (पदानां){*१।३६८*} क्रियार्थेन{*१।३६९*} समुच्चारणम् । नानपेक्ष्य पदार्थान् पार्थगर्थ्येन वाक्यमर्थान्तरप्रसिद्धम् । कुतः । प्रमाणाभावात् । न किंचन प्रमाणमस्ति येन प्रमिमीमहे । न ह्यनपेक्षितपदार्थस्य वाक्यान्त्यवर्णस्य पूर्ववर्णजनितसंस्काररहितस्य शक्तिरस्ति पदार्थेभ्योऽर्थान्तरे वर्तितम्{*१।३७०*} इति । नन्वर्थापत्तिरस्ति, यत्पदार्थव्यतिरिक्तमर्थमवगच्छामः । न च शक्तिमन्तरेण तदवकल्प्यत इति । तन्न । अर्थस्य तन्निमित्तत्वात् । भवेदर्थापत्तिः, यद्यसत्यामपि शक्तौ नान्यन्निमित्तमवकल्प्येत । अवगम्यते तु निमित्तम् । किम्? पदार्थाः । पदानि हि स्वं स्वं पदार्थमभिधाय निवृत्तव्यापाराणि । अथेदानीं पदार्था अवगताः सन्तो वाक्यार्थं गमयन्ति । कथम् । यत्र हि शुक्ल इति वा कृष्ण इति वा गुणः प्रतीते भवति । भवति खल्वसावलं गुणवति प्रत्ययमाधातुम् । तेन गुणवति प्रत्ययमिच्छन्तः केवलं गुणवचनमुच्चारयन्ति । संपत्स्यत एषां यथासंकल्पितोऽभिप्रायः । भविष्यति विशिष्टार्थसंप्रत्ययः । विशिष्टार्थसंप्रत्ययश्च वाक्यार्थः । एवं चेदवगम्यतेऽन्यत एव वाक्यार्थः को जातुचिददृष्टा पदसमुदायस्य शक्तिरर्थादवगम्यत इति वदिष्यति । अपि चान्वयव्यतिरेकाभ्यामेतदवगम्यते, भवति हि कदाचिदियमवस्था, मानसादप्याधातात्{*१।३७१*} । यदुच्चरितेभ्यः{*१।३७२*} पदेभ्यो न पदार्था अवधार्यन्ते । तदानीं{*१।३७३*} नियोगतो वाक्यार्थं नावगच्छेयुः । यद्यस्य [३५]{*१।३७४*} अपार्थगर्थ्यम्{*१।३७५*} अभविष्यत् । नियोगतस्तु नावगच्छन्ति । अपि चान्तरेणापि पदोच्चारणं यः शौक्त्यम्{*१।३७६*} अवगच्छति, अवगच्छत्येवासौ शुक्लगुणकम् । तस्मात्पदार्थप्रत्यय एव वाक्यार्थः । नास्य पदसमुदायेन संबन्धः । यत्तु श्रौतः पदार्थो न वाक्यानुरोधेन कुतश्चिद्विशेषादपवर्तितुमर्हतीति{*१।३७७*} । सत्यम्, एवमेतत्{*१।३७८*} । यत्र केवलः पदार्थः प्रयुज्यमानः प्रयोजनाभावादनर्थकः संजायत इत्यवगतं भवति तत्र वाक्यार्थोऽपि तावद्भवत्विति विशिष्टार्थतावगम्यते, न सर्वत्र । एवं च सति, गुणान्तरप्रतिषेधो न शब्दार्थ इत्य्{*१।३७९*} एतदपि परिहृतं भवति । अपि च प्रातिपदिकादुच्चरन्ती द्वितीयादिविभक्तिः प्रातिपदिकार्थो विशेषक इत्याह । सा च विशेषश्रुतिः सामान्यश्रुतिं बाधेत । यच्चैते पदसंघाताः पुरुषकृता दृश्यन्त इति{*१।३८०*} । परिहृतं तदस्मरणादिभिः{*१।३८१*} । अपि चैवंजातीयकेऽर्थे वाक्यानि संहर्तुं न किंचन पुरुषाणं बीजमस्ति । ण्Oट्Eष् *{१।३६८ E२ ओम् । पदानां, E१ गिब्तेस्गेक्लम्मेर्त्, E५,६ उन्गेक्लम्मेर्त्}* *{१।३६९ E५ क्रियार्थेन समानायः समुच्चारणम्}* *{१।३७० E२,५,६ वर्तितुम्}* *{१।३७१ E५ मानसादपचारात्}* *{१।३७२ E५ उच्चरितेभ्योऽपि}* *{१।३७३ E५ (रिछ्तिग्) न तदानीं}* *{१।३७४ E२ १,११७॑ E५ १,३९३॑ E६ १,२५}* *{१।३७५ E५ (रिछ्तिग्) पार्थगर्थ्यम्}* *{१।३७६ E२,५,६ (रिछ्तिग्) शौक्ल्यम्}* *{१।३७७ Cf । E१, ष् ।३३।१७}* *{१।३७८ E२ सत्यमेवैवमेतत्}* *{१।३७९ Cf । E१, ष् ।३३।१८१९}* *{१।३८० Cf । E१, ष् ।३३।२३}* *{१।३८१ Cf । E१, ष् ।१५।२३}* ____________________________________________ लोके सन्नियमात्प्रयोगसंनिकर्षः स्यात् ॥ १,१ ।२६ ॥ लौकिकेषु पुनरर्थेषु प्रत्यक्षेणार्थमुपलभ्य सन्नियमः, सन्निबन्धनं शक्यं तत्र संहर्तुम्, एवंजातीयकानि वाक्यानि नीलोत्पलवनेष्वद्य इति{*१।३८२*} । तस्मादग्निहोत्रं जुहुयात्स्वर्गकाम इत्येतेभ्य एव पदेभ्यो येऽर्था अवगताः, तेभ्यो एवैतदवगम्यते, अग्निहोत्रात्स्वर्गो भवतीति । पदेभ्य एव पदार्थप्रत्ययः, पदार्थेभ्यो वाक्यार्थ इति । [३६]{*१।३८३*} ण्Oट्Eष् *{१।३८२ E१, ष् ।३३।२१२२}* *{१।३८३ E२ १,१२०॑ E५ १,४०१॑ E६ १,२६}* ____________________________________________ वेदांश्चैके संनिकर्षं पुरुषाख्याः ॥ १,१ ।२७ ॥ उक्तम् चोदनालक्षणोऽर्थो धर्म इति{*१।३८४*}, यतो न पुरुषकृतः शब्दस्यार्थेन संबन्धः । तत्र पदवाक्याश्रय आक्षेपः परिहृतः । इदानीमन्यथाक्षेप्स्यामः । पौरुषेयाश्चोदना इति वदामः, संनिकृष्टकालाः कृतका वेदा इदानीं तनाः, ते च चोदनानां समूहाः, तत्र पौरुषेयाश्चेद्वेदाः, असंशयं पौरुषेयाश्चोदनाः । कथं पुनः कृतका वेदा इति केचिन्मन्यन्ते । यतः पुरुषाख्याः पुरुषेण हि समाख्यायन्ते वेदाः काठकं कालापकम्, पैप्पलादकं मौहुलम्{*१।३८५*} इति । न हि संबन्धादृते समाख्यानम्, न च पुरुषस्य शब्देनास्ति{*१।३८६*} संबन्धः, अन्यतः{*१।३८७*} कर्ता पुरुषः कार्यः शब्द इति । ननु प्रवचनलक्षणा समाख्या स्यात् । नेति ब्रूमः । असाधारणं हि विशेषणं भवति, एक एव हि कर्ता बहवोऽपि प्रब्रूयुः । अतोऽस्मर्यमाणोऽपि चोदनायाः कर्ता स्यात् । तस्मान्न प्रमाणं चोदनालक्षणोऽर्थो धर्म इति । ण्Oट्Eष् *{१।३८४ ंष्१ ।१ ।२}* *{१।३८५ E१,६॑ E२ ओम् । मौहुलम्, E५ मौद्गलम्}* *{१।३८६ E२ पुरुषस्यान्यः शब्देनास्ति}* *{१।३८७ E१,६, E६ संबन्धोऽन्यतः॑ E२ संबन्धो यदतः । E५ संबन्धोऽन्यदतः}* ____________________________________________ अनित्यदर्शनाच्च ॥ १,१ ।२८ ॥ जननमरणवन्तश्च वेदार्थाः श्रूयन्ते । बबरः प्रावाहणिरकामयत{*१।३८८*}, कुसुरुविन्द औद्दालकिरकामयत{*१।३८९*} इत्येवमाद्यः । उद्दालकस्यापत्यं गम्यत औद्दालकिः, यद्येवम्, प्रागौद्दालकिजन्मनः, नायं ग्रन्थो भूतपूर्वः । एवमप्यनित्यता । [३७]{*१।३९०*} ण्Oट्Eष् *{१।३८८ Cf । टैत् ।ष् । ७ ।१ ।२०}* *{१।३८९ Cf । टैत् ।ष् । ७ ।२ ।२}* *{१।३९० E२ १,१२२॑ E५ १,४०४॑ E६ १,२६}* ____________________________________________ उक्तं तु शब्दपूर्वत्वम् ॥ १,१ ।२९ ॥ उक्तमस्माभिः शब्दपूर्वत्वमध्येतॄणाम्{*१।३९१*} । केवलमाक्षेपपरिहारो वक्तव्यः, सोऽभिधीयते । ण्Oट्Eष् *{१।३९१ Cf । श्Bहद्ंष्१ ।१ ।५}* ____________________________________________ आख्या प्रवचनात् ॥ १,१ ।३० ॥ यदुक्तम् कर्तृलक्षणा समाख्या काठकाद्येति । तदुच्यते नेयमर्थापत्तिः, अकर्तृभिरपि ह्येनामाचक्षीरन्, प्रकर्षेण वचनम् (अनन्यसाधारणं){*१।३९२*} कठादिभिरनुष्ठितं स्यात्, तथापि हि समाख्यातारो भवन्ति । स्मर्यते च वैशंपायनः सर्वशाखाध्यायी, कठः पुनरिमां केवलां शाखामध्यापयां बभूवेति । स बहुशाखाध्यायिनां संनिधावेकशाखाध्याय्यन्यां शाखामनधीयानः, तस्यां प्रकृष्टत्वादसाधारणमुपपद्यते विशेषणम् । ण्Oट्Eष् *{१।३९२ E२,६, इन्E२ गेक्लम्मेर्त्॑ E५ ओम्}* ____________________________________________ परं तु श्रुतिसामान्यमात्रम् ॥ १,१ ।३१ ॥ यच्च प्रावाहणिरिति । तन्न, प्रवाहणस्य पुरुषस्यासिद्धत्वान्न प्रवाहणस्यापत्यं प्रावाहानिः । प्रशब्दः प्रकर्षे सिद्धः, वहतिश्च प्रापणे । (न त्वस्य समुदायः क्वचित्सिद्धः ।){*१।३९३*} इकारस्तु यथैवापत्ये सिद्धस्तथा क्रियायामपि कर्तरि । तस्माद्यः प्रवाहयति, स प्रावाहणिः । बबर इति शब्दानुकृतिः । तेन यो नित्यार्थस्तमेवैतौ शब्दौ वदिष्यतः । अत उक्तम् परं तु श्रुतिसामान्यमात्रमिति । ण्Oट्Eष् *{१।३९३ ईन्E२ गेक्लम्मेर्त्}* ____________________________________________ कृते वा विनियोगः स्यात्कर्मणः संबन्धात् ॥ १,१ ।३२ ॥ अथ कथमवगम्यते नायमुन्मत्तबालवाक्यसदृश इति । तथा [३८]{*१।३९४*} हि पश्यामः वनस्पतयः सत्रमासत, सर्पाः सत्रमासत इति । यथा जरद्गवो गायति मत्तकानि, कथं नाम जरद्गवो गायेत । कथं वा वनस्पतयः सर्पा वा सत्रमासीरन्निति । उच्यते विनियुक्तं हि दृश्यते, परस्परेण संबन्धार्थम् । कथम् । ज्योतिष्टोम इत्यभिधाय कर्तव्य इत्युच्यते । केनेत्याकाङ्क्षिते सोमेनेति । किमर्थमिति, स्वर्गायेति । कथमिति । इत्थम्, (अनयेति कर्तव्यतया){*१।३९५*} इति । एवमवगच्छन्तः, पदार्थैरेभिः संस्कृतं पिण्डितं वाक्यार्थं कथमुन्मत्तबालवाक्यसदृशमिति वक्ष्यामः । नन्वनुपपन्नमिदं दृश्यते वनस्पतयः सत्रमासत इत्येवमादि । नानुपपन्नम् । न, अनेन अग्निहोत्रं जुहुयात्स्वर्गकाम इत्येवमादयोऽनुपपन्नाः स्युः । अपि च वनस्पतयः सत्रमासत इत्येवमादयोऽपि नानुपपन्नाः, स्तुतयो ह्येताः सत्रस्य, वनस्पतयो नामाचेतना इदं सत्रमुपासितवन्तः, किं पुनर्वृद्धांसो ब्राह्मणाः । तद्यथा लोके सन्ध्यायां मृगा अपि न चरन्ति, किं पुनर्विद्वांसो ब्राह्मणा इति । अपि चाविगीतः सुहृदुपदेशः सुप्रतिष्ठितः कथमिवाशङ्केतोन्मत्तबालवाक्यसदृश इति । तस्माच्चोदनालक्षणोऽर्थो धर्म इति सिद्धम् । [३९]{*१।३९६*} ण्Oट्Eष् *{१।३९४ E२ १,१२४॑ E५ १,४०५॑ E६ १,२७}* *{१।३९५ ईन्E२ गेक्लम्मेर्त्॑ E५ ओम्}* *{१।३९६ E२ २,१॑ E५ २,१॑ E६ १,२८}* ____________________________________________ आम्नायस्य क्रियार्थत्वादानर्थक्यमतदर्थानां तस्मादनित्यमुच्यते ॥ १,२ ।१ ॥ सोऽरोदीद्यदरोदीत्, तद्रुद्रस्य रुद्रत्वम्{*१।३९७*}॑ प्रजापतिरात्मनो वपामुदखिदत्{*१।३९८*} । देवा वै देवयजनमध्यवसाय दिशो न प्राजानन्{*१।३९९*} इत्येवमादीनि समाम्नातारः समामनन्ति वाक्यानि । तानि किं कंचिद्धर्मं प्रमिमते उत नेति भवति विचारणा । तदभिधीयते क्रिया कथमनुष्ठेयेति तां वदितुं{*१।४००*} समाम्नातारो वाक्यानि समामनन्ति । तद्यानि वाक्यानि क्रियां नावगमयन्ति क्रियासंबद्धं वा किंचित्, एवमेव भूतमर्थमन्वाचक्षते रुदितवान् रुद्रः॑ वपामुच्चिखेद प्रजापतिः॑ देवा वै दिशो न प्रजज्ञिर इत्येवंजातीयकानि, तानि कं धर्मं प्रमिमीरन् । अथोच्येत अध्याहारेण वा विपरिणामेन वा व्यवहितकल्पनया वा व्यवधारणकल्पनया वा गुणकल्पनया वा कश्चिदर्थः कल्पायिष्यत इति । स कल्प्यमानः कः कल्प्येत रुद्रः किल रुरोद, अतोऽन्येनापि रोदितव्यम् । उच्चिखेदात्मवपां{*१।४०१*} प्रजापतिः, अतोऽन्योऽप्युत्खिदेदात्मनो वपाम् । देवा वै देवयजनकाले दिशो न प्रज्ञातवन्तः, अतोऽन्योऽपि दिशो न प्रजानीयादिति, तच्चाशक्यम्, इष्टवियोगेनाभिघातेन वा यद्बाष्पनिर्मोचनम्, तद्रोदनमित्युच्यते, न च, तदिच्छातो भवति । न च कश्चि[४०]{*१।४०२*}दात्मनो वपामुत्खिद्य तामग्नौ प्रहृत्य तत उत्थितेन तूपरेण पशुणा यष्टुं शक्नुयात् । न च{*१।४०३*}, देवयजनाध्यवसानकाले केचिद्दिशो मुह्येयुः । अत एषामानर्थक्यम् । तस्मादेवंजातीयकानि वाक्यान्यनित्यानीत्युच्यन्ते, (यद्यपि च नित्यानि, तथापि न नित्यमर्थं कुर्वन्ति){*१।४०४*} इति । स एष वाक्यैकदेशस्याक्षेपः, न कृत्स्नस्य वाक्यस्य । नन्वेकदेशाद्विना साकाङ्क्षः पदसमूहो न पर्याप्तः स्वस्मै प्रयोजनाय, अत आक्षिप्त एवेति । नैवम्, भवति हि कश्चित्पदसमूहः, योऽर्थवादेभ्यो विनापि विदधाति कंचिदर्थम्, यानि पुनस्तैः सह संयुज्यार्थान्तरे वर्तन्ते, तान्येकदेशाक्षेपेणाक्षिप्यते । ण्Oट्Eष् *{१।३९७ टैत् ।ष् । १ ।५ ।१}* *{१।३९८ टैत् ।ष् । २ ।१ ।१}* *{१।३९९ टैत् ।ष् । ६ ।१ ।५}* *{१।४०० E४ हि तां वेदितुं}* *{१।४०१ E२ उच्चिखेदात्मनो वपां}* *{१।४०२ E२ २,३॑ E४ १,३॑ E५ २,८॑ E६ १,२८}* *{१।४०३ E२ न तु}* *{१।४०४ ईन्E१ गेक्लम्मेर्त्}* ____________________________________________ शास्त्रदृष्टविरोधाच्च ॥ १,२ ।२ ॥ स्तेनं मनः । अनृतवादिनी वागित्येवंजातीयकानां धर्मं प्रत्यप्रामाण्यम्, भूतानुवादात् । विपरिणामादिभिरपि कल्प्यमाने स्तेयं मृषोद्यं च कर्तव्यमित्यापतति । तच्चाशक्यं स्तेयानृतवादप्रतिषेधमबाधमानेनानुष्ठातुम् । न च विकल्पः, वैषम्यात् । एकः कल्प्यो विधिः, एकः प्रत्यक्षः । अथ दृष्टविरोधः । तस्माद्धूम एवाग्नेर्दिवा ददृशे नार्चिः । तस्मादर्चिरेवाग्नेर्नक्तं ददृशे न धूम इति{*१।४०५*} । अस्माल्लोकादुत्क्रम्याग्निरादित्यं गतः, रात्रावादित्यस्तमित्येतदुपपादयितुमिदम्, उभयमपि दृष्टविरुद्धमुच्यते । तस्मान्नैषावधारणा सिध्यतीति । अपरो दृष्टविरोधः न चैतद्विद्मो वयं [४१]{*१।४०६*} ब्राह्मणा वा स्मः, अब्राह्मणा वेत्य्{*१।४०७*}{*१।४०८*} अक्रियार्थत्वादनर्थकम् । अथायमर्थः नैवैतज्ज्ञायते किं वा ब्राह्मणा वयमुताब्राह्मणा एवेति, प्रत्यक्षविरुद्धमप्रमाणम् । अपरः शास्त्रदृष्टेन विरोधः को हि तद्वेद, यदमुष्मिंल्लोकेऽस्ति वा, न वेति{*१।४०९*} । यदि प्रश्नोऽयम्, अक्रियार्थत्वादनर्थकः । अथानवकॢप्तिः, शास्त्रदृष्टेन विरोधः । अतः प्रत्यक्षविरुद्धमप्रमाणम् । ण्Oट्Eष् *{१।४०५ टैत् ।Bर् । २ ।१ ।२ ।१०, व्ग्ल्दशु श्Bहद्ंष्१ ।२ ।१२}* *{१।४०६ E२ २,५॑ E४ १,१९॑ E५ २,१३॑ E६ १,२९}* *{१।४०७ टैत् ।Bर् । २ ।१ ।२, ङोप् ।Bर् । ५ ।२१, ंैत् ।ष् । १ ।४ ।११}* *{१।४०८ E२ ओम् । स्मः, अब्राह्मणा वा}* *{१।४०९ टैत् ।ष् । ६ ।१ ।१॑ ६ ।२ ।२, व्ग्ल् । श्Bहद्ंष्१ ।२ ।१४}* ____________________________________________ तथा फलाभावात् ॥ १,२ ।३ ॥ गर्गत्रिरात्रब्राह्मणं प्रकृत्योच्यते शोभतेऽस्य मुखं य एवं वेद इति{*१।४१०*} यदि भूतानुवादः, अनर्थकः । अथाध्ययनफलानुवादः, ततोऽसदनुवादः । कालान्तरे फलं भविष्यतीति चेत् । न ह्यत्र प्रमाणमस्ति । विधिः स्यादिति चेत् । नैष विधिपरः, द्रव्यसंस्कारकर्मस्विति{*१।४११*} चिन्तयिष्यत्येतदुपरिष्टात्, किं फलविद्धिरुतार्थवाद इति । इह तु किं भूतानुवादः, क्रियार्थो वेति{*१।४१२*} । आस्य प्रजायां वाजी जायते य एवं वेदेति चोदाहरणम् । ण्Oट्Eष् *{१।४१० टा ।Bर् । २० ।१६ ।६}* *{१।४११ ंष्४ ।३ ।१}* *{१।४१२ E२,४,६ हबेन् शुस्„त्श्लिछ्तेन न फलविधित्वान्निराकृतस्येहानर्थकोऽर्थवादविचार इति, दिएसिन्E१ औछल्स्Fन्, E५ ओम्}* ____________________________________________ अन्यानर्थक्यात् ॥ १,२ ।४ ॥ पूर्णाहुत्या सर्वान् कामानवाप्नोति{*१।४१३*} । पशुबन्धयाजी सर्वांल्लोकानभिजयति । तरति मृत्युम्, तरति ब्रह्महत्यां योऽश्वमेधेन यजते, य उ चैनमेवं वेदेति{*१।४१४*} । यदि भूतानुवादमात्रमनर्थकम् । अथ फलविधिः, इतरेषामानर्थक्यम् । न हि, अकृत्वा पूर्णाहुतिमग्निहोत्रादयः क्रियन्ते । न [४२]{*१।४१५*} चानिष्ट्वाग्नीषोमीयेण सोमेन यजन्ते । न चाधीत्याश्वमेधेन यजन्ते । तद्यथा, पथि जातेऽर्के मधूत्सृज्य, तेनैव पथा मध्वर्थिनः पर्वतं न गच्छेयुः, तादृशं हि तत् । अपि चाहुः अर्के चेन्मधु विन्देत, किमर्थं पर्वतं व्रजेत् । इष्टस्यार्थस्य संसिद्धौ को विद्वान् यत्नमाचरेत् ॥ इति{*१।४१६*} । ण्Oट्Eष् *{१।४१३ टैत् ।Bर् । ३ ।८ ।१०}* *{१।४१४ Cf । टैत् ।Bर् । ५ ।३ ।१२ ।२}* *{१।४१५ E२ २,८॑ E४ १,३२॑ E५ २,१६॑ E६ १,२९}* *{१।४१६ ़ुएल्ले उन्बेकन्न्त्}* ____________________________________________ अभागिप्रतिषेधाच्च ॥ १,२ ।५ ॥ न पृथिव्यामग्निश्चेतव्यो नान्तरिक्षे न दिवीत्य्{*१।४१७*} अप्रतिषेधभागिनमर्थं प्रतिषेधन्ति । विज्ञायत एवैतत्, अन्तरिक्षे, दिवि चाग्निर्न चीयत इति । पृथिवीचयनप्रतिषेधार्थं च यद्वाक्यम्, भवेच्चयनप्रतिषेधार्थमेव तत् । अथाप्रमाणम्, नैष विरोधो भवति । कथं तत्प्रमाणम्, यद्विध्यन्तरमाकुलयेत्, स्वयं चाकुलं स्यात् । न चेतव्यम्, हिरण्यं निधाय चेतव्यमिति । ण्Oट्Eष् *{१।४१७ टैत् ।ष् । ५ ।२ ।७ ।१}* ____________________________________________ अनित्यसंयोगात् ॥ १,२ ।६ ॥ अनित्यसंयोगश्च (वेदप्रामाण्ये सति){*१।४१८*} परं तु श्रुतिसामान्यमात्रमिति{*१।४१९*} परिहृतः । इदानीं वेदैकदेशानामाक्षिप्तानां पुनरुपोद्बलक उत्तिष्ठति, बबरः प्रावाहणिरकामयतेति{*१।४२०*} । ण्Oट्Eष् *{१।४१८ ईन्E२,५ गेक्लम्मेर्त्}* *{१।४१९ Cf । ंष्१ ।१ ।२१}* *{१।४२० Cf । टैत् ।ष् । ७ ।१ ।१० ।२}* ____________________________________________ विधिना त्वेकवाक्यत्वात्स्तुत्यर्थेन विधीनां स्युः ॥ १,२ ।७ ॥ इदं समाम्नायते वायव्यं श्वेतमालभेत भूतिकामः, वायुर्वै क्षेपिष्ठा देवता, वायुमेव स्वेन भागधेयेनोपधावति, स एवैनं भूतिं गमयतीति{*१।४२१*} । वायुर्वै क्षेपिष्ठा देवतेत्यतो यद्यपि क्रिया नावगम्यते, क्रियासंबद्धं वा किंचित् । तथापि विध्युद्देशे[४३]{*१।४२२*}नैकवाक्यत्वात्प्रमाणम् । भूतिकाम इत्येवमन्तो विध्युद्देशः, तेनैकवाक्यभूतो वायुर्वै क्षेपिष्ठा देवतेत्येवमादिः । कथमेकवाक्यभावः । पदानां साकाङ्क्षत्वाद्विधेः स्तुतेश्चैकवाक्यत्वं भवति । भूतिकाम आलभेत । (कस्मात्?){*१।४२३*} यतो वायुः क्षेपिष्ठेति । नायमभिसंबन्धो विवक्षितः, भूतिकामेनालब्धव्यमिति । कथं तर्हि आलभेत? यतस्ततो भूतिरिति भिन्नाविमावर्थौ, उभयाभिधाने वाक्यं भिद्येत । किमर्था स्तुतिरिति चेत् । कथं रोचेत, नोनुष्ठीयेतेति । ननु प्राक्स्तुतिवचनादनुष्ठानं भूतिकामान्तात्सिद्धम्, स्तुतिवचनमनर्थकम् । न हि, यदा स्तुतिपदासंनिधानं तदा पूर्वेणैव विधिः । यदा स्तुतिपदसंबन्धः, न तदा भूतिकामस्यालम्भो विधीयते । यथा पटो भवतीति पट उत्पद्यत इत्यर्थः । निराकाङ्क्षं च पदद्वयम् । यदा च तस्मिन्नेव रक्त इत्यपरं श्रूयते, तदा रागसंबन्धो भवतीत्यर्थः, भवति च रक्तं प्रत्याकाङ्क्षा । एवं यदा न स्तुतिपदानि, विधिशब्देनैव तदा प्ररोचना, यदा स्तुतिवचनम्, तदा स्तवनेन । नन्वेवं सति किं स्तुतिवचनेन, यस्मिन् सत्यविधायकम्, मा भूत्तत् । तदभावेऽपि पूर्वविधिनैव प्ररोचयिष्यत इति । सत्यम्, विनापि तेन सिध्येत्प्ररोचनम् । अस्ति तु तत्, तस्मिन् विद्यमाने योऽर्थो वाक्यस्य, सोऽवगम्यते स्तुतिप्रयोजनं{*१।४२४*} तयोः । तस्मिन्नविद्यमाने विधिना प्ररोचनमिति । ननु सत्स्वपि स्तुतिपदेषु पूर्वस्य विधिस्वरूपत्वाद्विधिरभिप्रेतः स्यात्, न विवक्ष्येत स्तुतिपदसंबन्धः । आह स्तुतिपदानि ह्यनर्थकान्यभविष्यन् साकाङ्क्षाणि । भवन्त्वनर्थकानीति चेत् । न, गम्यमानेऽर्थेऽविवक्षितार्थानि भवितुमर्हन्ति । [४४]{*१।४२५*} योऽसौ विध्युद्देशः, स शक्नोति निरपेक्षोऽर्थं विधातुम्, शक्नोति च स्तुतिपदानां वाक्यशेषीभवितुम्, प्रत्यक्षश्च वाक्यशेषभावः । अतोऽस्माद्विधेः स्तुतिमवगच्छामः । ननु निरपेक्षादपि विधिमवगमिष्याम् । भवत्वेवम्, नैवं सति कश्चिद्विरोधः । किं त्वशक्यः स्तुतिपदसंबन्धे सति विध्यर्थो विवक्षितुम् । वाक्यं हि संबन्धस्य विधायकम्, द्वौ चेत्संबन्धौ विदध्यात् भूतिकाम आलभेत॑ आलम्भेन चैष गुणो भविष्यतीति, भिद्येत तर्ह्येवं सति वाक्यम् । अथ यदुक्तम् न क्रिया गम्यते न तत्संबद्धं वा किंचिदिति{*१।४२६*} । स्तुत्यर्थेन विधीनां स्युः, स्तुतिशब्दाः स्तुवन्तः क्रियां प्ररोचयमाणा अनुष्ठातॄणामुपकरिष्यन्ति क्रियायाः । एवमिमानि सर्वाण्येव पदानि कंचिदर्थं स्तुवन्ति विदधति । अतः प्रमाणमेवंजातीयकानि, वायुर्वै क्षेपिष्ठा देवतेति{*१।४२७*} । ण्Oट्Eष् *{१।४२१ टैत् ।ष् । २ ।१ ।१}* *{१।४२२ E२ २,१४॑ E४ १,४१॑ E५ २,१७॑ E६ १,३०}* *{१।४२३ ईन्E१,५ गेक्लम्मेर्त्}* *{१।४२४ E१,५,६॑ E२,४ स्तुतिः प्रयोजनं}* *{१।४२५ E२ २,१७॑ E४ १,४१॑ E५ २,२२॑ E६ १,३१}* *{१।४२६ Cf । E१, ष् ।३९।९ । }* *{१।४२७ टैत् ।ष् । २ ।१ ।१}* ____________________________________________ तुल्यं च सांप्रदायिकम् ॥ १,२ ।८ । ॥ अथोच्येत प्राक्स्तुतिपदेभ्यः, निराकाङ्क्षाणि विधायकानि, विधिस्वरूपत्वात्, स्तुतिपदानि तु प्रमादपाठ इति । तन्न एवम्{*१।४२८*}, अर्थावगमात्, तुल्यं च सांप्रदायिकम्, संप्रदायः (प्रयोजनं){*१।४२९*} येषां धर्माणां सर्वे ते विधिपदानामर्थवादपदानां च तुल्याः । अध्यायानध्यायते{*१।४३०*}, गुरुमुखात्प्रतिपत्तिः, शिष्योपाध्यायता च सर्वस्मिन्नेवंजातीयके, अविघ्नार्थे तुल्यमाद्रियन्ते । स्मरणं च दृढम् । अतो न प्रमादपाठ इति । [४५]{*१।४३१*} ण्Oट्Eष् *{१।४२८ E२,४,५,६ सेत्शेन् डण्ड ओदेर्Kओम्म वोरेवम्}* *{१।४२९ ईन्E१,५ गेक्लम्मेर्त्}* *{१।४३० E१,२,५,६॑ E४ अध्यायानध्ययने (औछिन्E१ अल्स्Fन् ।, दोर्त्नोछध्यायानध्यायता)}* *{१।४३१ E२ २,२३॑ E४ १,९२॑ E५ २,२७॑ E६ १,३१}* ____________________________________________ अप्राप्ता चानुपपत्तिः, प्रयोगे हि विरोधः स्यात्, शब्दार्तस्त्वप्रयोगभूतः, तस्मादुपपद्येत ॥ १,२ ।९ ॥ अपि च यैषानुपपत्तिरुक्ता शास्त्रदृष्टविरोधादित्येवमाद्या{*१।४३२*}, सा सोऽरोदीदित्येवमादिषु न प्राप्नोति । कुतः? प्रयोगे हि स्तेयादीनामुच्यमाने विरोधः स्यात्, शब्दार्थस्त्वप्रयोगभूतः, तस्मादुपपद्येत स्तेनं मनः, अनृतवादिनी वागिति । ण्Oट्Eष् *{१।४३२ Cf । ंष्१ ।२ ।२ उन्द्श्Bह्दशु}* ____________________________________________ गुणवादस्तु ॥ १,२ ।१० ॥ यदुक्तम् विधेयस्य प्ररोचनार्था स्तुतिरिति{*१।४३३*} । तदिह कथमवकल्प्येत यत्रान्यद्विधेयम्, अन्यच्च स्तूयते । यथा वेतसशाखयावकाभिश्चाग्निं विकर्षतीति{*१।४३४*} वेतसावके विधीयेते, आपश्च स्तूयन्ते आपो वै शान्ता इति{*१।४३५*} । तदुच्यते गुणवादस्तु । गौण एष वादो भवति, यत्संबन्धिनि स्तोतव्ये संबन्ध्यन्तरं स्तूयते । अभिजनो ह्येष वेतसावकयोः । ततस्ते जाते । अभिजनसंस्तवेन चाभिजातः स्तुतो भवति । यथा अश्मकाभिजनो देवदत्तोऽश्माकेषु स्तूयमानेषु स्तुतम्{*१।४३६*} आत्मानं मन्यते । एवमत्रापि द्रष्टव्यम् । अथ सोऽरोदीदिति कस्य विधेः शेषः । तस्माद्बर्हिषि रजतं न देयमित्य्{*१।४३७*} अस्य । कुतः? साकाङ्क्षत्वात्पदानाम् । सोऽरोदीत्, यदरोदीत्, तद्रुद्रस्य रुद्रत्वमित्य्{*१।४३८*} अत्र स इति प्रकृतापेक्षः, तत्प्रत्ययात् । तस्य यदश्र्वशीर्यतेति तस्येति पूर्वप्रकृतापेक्ष एव । उपपत्तिश्चोपरितनस्य यो बर्हिषि रजतं दद्यात्पुरास्य संवत्सराद्गृहे रोदनं भवतीति{*१।४३९*} । अस्य हेतुत्वेनायं प्रतिनिर्दिश्यते तस्माद्बर्हिषि रजतं न देयमिति । एवं सर्वाणि साकाङ्क्षाणि । कथं विधेर्{*१।४४०*} उपकुर्वन्तीति । [४६]{*१।४४१*} गुणवादेन । रोदनप्रभवं रजतं बर्हिषि ददतो रोदनमापद्यते । तत्प्रतिषेधस्य गुणः, यदरोदनमिति । कथं पुनररुदत्यरोदीदिति भवति? कथं वानश्रुप्रभवे रजतेऽश्रुप्रभवमिति वचनम्? पुरास्य संवत्सरादसति रोदने, कथं रोदनं भवतीति? तदुच्यते गुणवादस्तु । गौणा एते शब्दाः । रुद्र इति रोदननिमित्तस्य शब्दस्य दर्शनाद्यदरोदीदित्युच्यते । वर्णसारूप्यान्निन्दन्ननश्रुप्रभवमप्यश्रुप्रभवमित्याह । निन्दन्नेव च धनत्यागे दुखदर्शनात्पुरास्य संवत्सराद्गृहे रोदनं भवतीत्याह । तथा यः प्रजाकामः पशुकामो वा स्यात्, स एतं प्राजापत्यं तूपुरमालभेत इति{*१।४४२*}, आकाङ्क्षितत्वादस्य विधेः शेषोऽयम् स आत्मनो वपामुदखिददिति{*१।४४३*} । कथं गुणवादः? इत्थं नाम नासन् पशवः, यदात्मनो वपामुदखिददिति । एतच्च कर्मणः सामर्थ्यं यदग्नौ प्रहृतमात्रायां वपायामजस्तूपुर उदगात्, इत्थं बहवः पशवो भवन्तीति । कथं पुनरनुत्खिन्नायां वपायां प्रजापतिरात्मनो वपामुदखिददित्याह । उच्यते असद्वृत्तान्तान्वाख्यानं स्तुत्यर्थेन प्रशंसाया गम्यमानत्वात् । इहान्वाख्याने वर्तमाने द्वयं निष्पद्यते{*१।४४४*} यच्च वृत्तान्तज्ञानम्, यच्च कस्मिंश्चित्प्ररोचना द्वेषो वा । तत्र वृत्तान्तान्वाख्यानं न प्रवर्तकं न निवर्तकं चेति प्रयोजनाभावादनर्थकमित्यविवक्षितम् । प्ररोचनया तु प्रवर्तते द्वेषान्निवर्तत इति तयोर्विवक्षा । वृत्तान्तान्वाख्यानेऽपि विधीयमाने आदिमता दोषो वेदस्य प्रसजेत । कथं पुनरिदं निरालम्बनमन्वाख्यायत इति । उच्यते नित्यः कश्चिदर्थः प्रजापतिः स्याद्वायुः, आकाशः, आदित्यो वा । स आत्मनो वपामुदखिददिति वृष्टिम्, वायुम्, रश्मिं वा । तामग्नौ प्रागृह्णात्, वैद्युते, आर्चीसे, लौकिके वा । ततोऽज इत्यन्नम्, बीजम्, विरुद्वा । तमालभ्य तमुपयुज्य प्रजाः पशून् प्राप्नोतीति गौणाः शब्दाः । आदित्यः प्रायणीयश्चरुरादित्य उदपनीयश्चरुरित्य्{*१।४४५*} अस्य विधेः शेषः देवा वै देवयजनमध्यवसाय दिशो न प्राजानन्निति, आकाङ्क्षितत्वात् । सर्वव्यामोहानामादित्यश्चरुर्नाशयिता, अपि दिङ्मोहस्येति स्तुतिः । कथमसति दिङ्मोहे दिङ्मोहशब्द इति । उच्यते अप्राकृतस्य बहोः कर्मसमूहस्योपस्थितत्वाद्गौणो मोहशब्दोऽवधारणावकाशदानादिभिर्ज्ञापयतीति गौणता । ण्Oट्Eष् *{१।४३३ Cf । श्Bहद्ंष्१ ।२ ।७}* *{१।४३४ टैत् ।ष् । ५ ।४ ।४}* *{१।४३५ टैत् ।ष् ।५ ।४ ।४}* *{१।४३६ E१ स्तूतम्, लिएस्मित्E२,४,५,६ स्तुतम्}* *{१।४३७ टैत् ।ष् । १ ।५ ।१ ।२}* *{१।४३८ Eबेन्द}* *{१।४३९ Eबेन्द}* *{१।४४० E१ विधर्, लिएस्मित्E२,४,५,६ विधेर्}* *{१।४४१ E२ २,२५॑ E४ ९५॑ E५ २,३०॑ E६ १,३२}* *{१।४४२ टैत् ।ष् । २ ।१ ।१ ।४।५}* *{१।४४३ टैत् ।ष् । २ ।१ ।१ ।४}* *{१।४४४ E१ निष्यद्यते, लिएस्मित्E२,४,५,६ निष्पद्यते॑ E१ (Fन् ।) आपतति}* *{१।४४५ टैत् ।ष् । ६ ।१ ।५ ।१}* ____________________________________________ रूपात्प्रायात् ॥ १,२ ।११ ॥ हिरण्यं हस्ते भवति, अथ गृह्णातीति{*१।४४६*} साकाङ्क्षत्वादस्य विधेः शेषः स्तेनं मनोऽनृतवादिनी वागिति । निन्दावचनं हिरण्यस्तुत्यर्थेन यथा किमृषिणा, देवदत्त एव भोजयितव्यः । कथं पुनरस्तेनं मनो निन्दितुमपि स्तेनशब्देनोच्यते, वाचं चाननृतवादिनीमप्यनृतवादिनीति ब्रूयत् । गुणवादस्तु रूपात् । यथा स्तेनाः प्रच्छन्नरूपाः, एवं च मन इति गौणः शब्दः । प्रायाच्चानृतवादिनी वागिति । [४८]{*१।४४७*} ण्Oट्Eष् *{१।४४६ Cf । ंैत् ।ष् । ४ ।८ ।२ ।३}* *{१।४४७ E२ २,२८॑ E४ १,११२॑ E५ २,३२॑ E६ १,३३}* ____________________________________________ दूरभूयस्त्वात् ॥ १,२ ।१२ ॥ दृष्टविरोध{*१।४४८*} उदाहरणम् तस्माद्भूम एवाग्नेर्दिवा ददृशे नार्चिः{*१।४४९*} । तस्मादर्चिरेवाग्नेर्नक्तं ददृशे, न धूम इति अग्निर्ज्योतिर्ज्योतिरग्निः स्वाहेति सायं जुहोति, सूर्यो ज्योतिर्ज्योतिः सूर्यः स्वाहेति{*१।४५०*} प्रातरिति मिश्रलिङ्गमन्त्रयोर्विधानस्याकाङ्क्षितत्वाच्छेषः । उभयोर्देवतयोः संनिधाने होम इति स्तुतेरुपपत्तिः । दूरभूयस्त्वाद्धूमस्याग्नेश्चादर्शने गौणः शब्दः । ण्Oट्Eष् *{१।४४८ E१ इष्टविरोधे, लिएस्मित्E२,४,५,६ (उन्द्E१, ष् ।४०।१७, शु ंष्१ ।२ ।२) दृष्टविरोध}* *{१।४४९ E१, ष् ।४०।१७, टैत् ।Bर् । २ ।१ ।२ ।१०}* *{१।४५० Vआज् ।ष् । ३ ।९}* ____________________________________________ अपराधात्{*१।४५१*} कर्तुश्च पुत्रदर्शनम् ॥ १,२ ।१३ ॥ दृष्टविरोध एवोदाहरणम् न चैतद्विद्म इति{*१।४५२*} । तत्प्रवरे प्रव्रियमाणे देवाः पितर इति ब्रूयादित्य्{*१।४५३*} आकाङ्क्षितत्वादस्य विधेः शेषः । अब्राह्मणोऽपि ब्राह्मणः प्रवरानुमन्त्रणेन स्यादिति स्तुतिः । दुर्ज्ञानत्वादज्ञानवचनं गौणम् । स्त्र्यपराधेन कर्तुश्च पुत्रदर्शनेन । अप्रमता रक्षत तन्तुमेनमित्यादिना दुर्ज्ञानम् । ण्Oट्Eष् *{१।४५१ E१,६॑ E२,४,५ (बेस्सेर्) स्त्र्यपराधात्॑ औछ्E१ हत्दिएसे ळेसर्तिम् Kओम्मेन्तर्}* *{१।४५२ E१, ष् ।४०।२१, उ ।अ । ंैत् ।ष् । १ ।४ ।११}* *{१।४५३ ंैत् ।ष् । १ ।४ ।११}* ____________________________________________ आकालिकेप्सा ॥ १,२ ।१४ ॥ शास्त्रदृष्टविरोधे उदाहरणम् को हि तद्वेदेति{*१।४५४*}, दिक्ष्वती काशान् करोतीति{*१।४५५*} साकाङ्क्षत्वादस्य विधेः शेषः । प्रत्यक्षफलत्वेन स्तुतिः । अनन्वकॢप्तिवचनं विप्रकृष्टकालफलत्वाद्गौणम् । ण्Oट्Eष् *{१।४५४ E१, ष् ।४१।३, टैत् ।ष् । ६ ।१ ।१ ।१}* *{१।४५५ Eबेन्द}* ____________________________________________ विद्याप्रशंसा ॥ १,२ ।१५ ॥ तथा फलाभावादित्य्{*१।४५६*} अत्रोदाहृतम् शोभतेऽस्य मुखमिति{*१।४५७*} । गर्गत्रिरात्रविधेराकाङ्क्षितत्वाच्छेषः । [४९]{*१।४५८*} वेदानुमन्त्रणस्य चास्य प्रजायां वाजी जायत इति शेषः । मुखशोभा वाजिमत्त्वं च गुणवचनत्वाद्गौणः शब्दः । शोभत इव शिष्यैरुदीक्ष्यमाणम् । कुले संतताध्ययनश्रवणान्मेधावी जायत इति स प्रतिग्रहादन्नं प्राप्नोतीति । ण्Oट्Eष् *{१।४५६ ंष्१ ।२ ।३}* *{१।४५७ E१, ष् ।४१।८, टा ।Bर् । २० ।१६ ।६}* *{१।४५८ E२ २,३०॑ E४ १,१२०॑ E५ २,३३॑ E६ १,३४}* ____________________________________________ सर्वत्वमाधिकारिकम् ॥ १,२ ।१६ ॥ अन्यानर्थक्यवाक्य उदाहरणम् पूर्णाहुत्या सर्वान् कामानवाप्नोतीति{*१।४५९*}, पूर्णाहुतिं जुहोतीत्याकाङ्क्षितत्वादस्य विधेः शेषः । य उ चैनमेवं वेदेति, तरति मृत्युमित्य्{*१।४६०*} अस्याकाङ्क्षित्वाच्छेषः । फलवचनं स्तुतिः । सर्वकामफलस्य निमित्ते सर्वकामावाप्तिवचनं गौणम् । असर्वेषु सर्ववचनमधिकृतापेक्षम् । ण्Oट्Eष् *{१।४५९ E१, ष् ।४१।१७, शु ंष्१ ।२ ।४, टैत् ।Bर् । ३ ।८ ।१०}* *{१।४६० टैत् ।ष् । ५ ।३ ।१२ ।२}* ____________________________________________ फलस्य कर्मनिष्पत्तेस्तेषां लोकवत्परिमाणतः फलविशेषः स्यात् ॥ १,२ ।१७ ॥ अन्वारुह्य वचनमिदं{*१।४६१*} यद्यपि विधिः, तथाप्यर्थवत्ता परिमाणतः सारतो वा फलविशेषात् । ण्Oट्Eष् *{१।४६१ E१, ष् ।४९।६ पूर्णाहुत्या सर्वान् कामानवाप्नोतीति}* ____________________________________________ अन्त्ययोर्यथोक्तम् ॥ १,२ ।१८ ॥ अभागिप्रतिषेधादित्यादावुदाहृतम् न पृथिव्यामग्निश्चेतव्यो नान्तरिक्षे न दिवीति{*१।४६२*}, हिरण्यं निधाय चेतव्यमित्य्{*१।४६३*} आकाङ्क्षितत्वादस्य विधेः शेषः । पृथिव्यादीनां निन्दा हिरण्यस्तुत्यर्था । असति प्रसङ्गे प्रतिषेधो नित्यानुवादः । यच्चानित्यदर्शनं बबरः प्रावाहणिरकामयत इति{*१।४६४*} । तत्परिहृतम् । अर्थवादाक्षेपेण पुनरुत्थितमिदानीमर्थवादप्रामाण्ये तेनैव परिहारेण परिहरिष्यत इति॥ [५०]{*१।४६५*} ण्Oट्Eष् *{१।४६२ टैत् ।ष् । ५ ।२ ।७ ।१, शितिएर्तिन् श्Bहद्ंष्१ ।२ ।५}* *{१।४६३ टैत् ।ष् । ५ ।२ ।७ ।३}* *{१।४६४ Cf । ंष्१ ।२ ।६, टैत् ।ष् । ७ ।१ ।१० ।२}* *{१।४६५ E२ २,३३॑ E४ १,१२९॑ E५ २,३४॑ E६ १,३५}* ____________________________________________ विधिर्वा स्यादपूर्वत्वात्, वादमात्रं ह्यनर्थकम् ॥ १,२ ।१९ ॥ इह ये विधिवन्निगदा अर्थवादास्ते अर्थवादास्ते उदाहरणम् औदुम्बरो यूपो भवत्यूर्ग्वा उदुंबर ऊर्क्पशव ऊर्जैर्वास्मा ऊर्जं पशून्नाप्नोति ऊर्जोऽवरुद्ध्या इति{*१।४६६*} । किमस्य विधिः कार्यमुतास्यापि स्तुतिरिति । किं तावत्प्राप्तम्? विधिर्वा स्यादपूर्वत्वात्, वादमात्रं ह्यनर्थकम् । विधिवन्निगदेष्वेवंजातीयकेषु फलविधिः स्यात्, फलं ह्यवगम्यते, तथा ह्यपूर्वमर्थं विधास्यति । इतरथा स्तुतिवादमात्रमनर्थकं स्यात् । स्तुतश्चास्तुतश्च तावानेव सोऽर्थः । अपि च ऊर्जोऽवरुद्ध्या इति प्रयोजनं श्रूयते । न च प्रशस्तोऽयमर्थ इति कश्चिच्छब्दोऽस्ति । लक्षणया तु स्तुतिर्गम्यते । श्रुतिश्च लक्षणाया ज्यायसीति । ण्Oट्Eष् *{१।४६६ Cf । टैत् ।ष् । २ ।१ ।१ ।६}* ____________________________________________ लोकवदिति चेत् ॥ १,२ ।२० ॥ इति चेत्पश्यसि स्तुतिरनर्थिका, न च शब्देनावगम्यत इति । लौकिकानि वाक्यानि भवन्तो विदां कुर्वन्तु । तद्यथा इयं गौः क्रेतव्या देवदत्तीया, एषा हि बहुक्षीरा, स्त्र्यपत्या, अनष्टप्रजा चेति । क्रेतव्येत्यप्युक्ते गुणाभिधानात्प्रवर्तन्तेतरां क्रेतारः । बहुक्षीरेति च गुणाभिधानमवगम्यते । तद्वद्वेदेऽपि भविष्यति । ____________________________________________ न पूर्वत्वात् ॥ १,२ ।२१ ॥ नैतदेवम् । लोके विदितपूर्वा अर्था उच्यन्ते बहुक्षीरादयः । तेषां विज्ञानमेव न प्रयोजनम् । अतः प्रशंसा गम्यते । अविदितवादे न श्रद्दधीरन् पूर्ववचनादिव । विदितत्वादेव च प्ररोचयन्ते । वैदिकेषु पुनर्यदि विधिशब्देन न प्ररोचयन्ते न तरामर्थवादेन । जाताशङ्को हि विधिशब्दे स तदानीम् । अथ विधिशब्देन प्ररोचितः, किमर्थवादशब्देन । अपि च वेदे व्यक्तमसंवादः । ऊर्जोऽवरुद्ध्यै इत्यप्रसिद्धं वचनम् । ऊर्ग्वा उदुम्बर इति हेतुत्वं चाप्रसिद्धम् । यस्मादूर्गुदुम्बरः, तस्मात्तन्मयो यूपः कर्तव्य इति । ऊर्गुदुम्बर इत्यनृतवचनादन्यदस्यानृतमिति परिकल्प्येत । ____________________________________________ उक्तं तु वाक्यशेषत्वम् ॥ १,२ ।२२ ॥ उक्तमस्माभिर्वाक्यशेषत्वम् विधिना त्वेकवाक्यत्वादिति{*१।४६७*} । ननूक्तम् फलवचनमिह गम्यते न स्तुतिरिति । यदिह फलवचनम्, तदौदुम्बरस्य यूपस्य । न च, अविहित औदुम्बरो यूपोऽस्ति । तत्र फलवचनमेवानर्थकम् । स्तुतिवचनः शब्दो नास्तीति चेत् । इह फलवचनेन फलवत्ता प्रतीयते फलवांश्च प्रशस्त इति, तत्र फलवत्तायामानर्थक्यमिति यो द्वितीयोऽर्थः प्रशंसा नाम स गम्यते । लक्षणेति चेत्, न, लक्षणायामप्यर्थवत्ता भवत्येव । लक्षणापि हि लौकिकी । ननूक्तमसंवादो वेदे, न ह्यूर्गुदुम्बर इति । गुण वादेन प्ररोचनार्थतां ब्रूमहे गौणत्वात्संवादः । किं? सादृश्यम् यथान्नं प्रीतेः साधनम्, एवमिदमपि प्रीतिसाधनशक्तियुक्तं प्रशंसितुं{*१।४६८*} प्रशंसावाचिना शब्देनोच्यते{*१।४६९*}, शक्यते हि तत्पक्वफलसंबन्धादूर्गिति वक्तुम् । [५२]{*१।४७०*} ण्Oट्Eष् *{१।४६७ Cf । ंष्१ ।२ ।७}* *{१।४६८ E१,५,६॑ E२,४ ओम् । प्रशंसितुं}* *{१।४६९ E१,५॑ E२,४,६ E१ (Fन् ।) प्रीतिसाधनशब्देनोच्यते}* *{१।४७० E२ २,४०॑ E४ १,१५१॑ E५ २,४०॑ E६ १,३६}* ____________________________________________ विधिश्चानर्थकः क्वचित्, तस्मात्स्तुतिः प्रतीयेत, तत्सामान्यादितरेषु तथात्वम् ॥ १,२ ।२३ ॥ अप्सुयोनिर्वा अश्वः, अप्सुजो वेतस इति{*१।४७१*} अप्सुयोनिरश्वः कर्तव्य इति विधेरशक्यत्वादानर्थक्यम् । तत्रावश्यं स्तुतिः कल्पयितव्या, शमयित्रीभिरद्भिरश्वस्यावकानां च संबन्धो यजमानस्य कष्टं शमयतीति । तत्सामान्यादितरेषु तथात्वम् तथेति यावत्, तावत्तथात्वमिति । किं तत्सामान्यम् । विध्यसंभवः स्तुतिसंभवश्च । ण्Oट्Eष् *{१।४७१ टैत् ।ष् । ५ ।३ ।१२}* ____________________________________________ प्रकरणे संभवन्नपकर्षो न कल्प्येत, विध्यानर्थक्यं हि तं प्रति ॥ १,२ ।२४ ॥ इतश्च पश्यामः स्तुतिरिति । कुतः? इदं समामनन्ति यो विदग्धः, स नैरृतः॑ योऽशृतः, स रौद्रः । यः शृतः, स दैवतः । तस्मादविदहता श्रपयितव्यः, स दैवतत्वायेति{*१।४७२*} । यदि स्तुतिर्दर्शपूर्णमासयोरेव शृतः स्ताविष्यते । तथा संभवन्नपकर्षो न कल्प्येत । अपकृष्यते इत्यपकर्षः । विधिपक्षे तु यत्र नैरृतः, तत्र विदग्धता नीयेत । तथा सति प्रकरणं बाधितं भवेद् । दर्शपूर्णमासकर्म प्रति नैरृताभावाद्विदग्धानमनर्थकं स्यात् । तस्मात्स्तुतिरेव । ण्Oट्Eष् *{१।४७२ टैत् ।ष् । २ ।६ ।३}* ____________________________________________ विधौ च वाक्यभेदः स्यात् ॥ १,२ ।२५ ॥ औदुम्बरो यूपो भवतीति विधावेतस्मिन्नाश्रीयमाणे ऊर्जोऽवरुद्ध्या इत्य्{*१।४७३*} एतस्मिंश्च वाक्यं भिद्येत । इत्थमौदुम्बरो यूपः प्रशस्तः, स चोर्जोऽविरुद्ध्या इति । तस्माद्विधिवन्निगदानामपि स्तुतिरेव कार्यमर्थवादानामिति । [५३]{*१।४७४*} ण्Oट्Eष् *{१।४७३ Vग्ल् । टैत् ।ष् । २ ।१ ।१ ।६}* *{१।४७४ E२ २,४२॑ E४ १,१५९॑ E५ २,४४॑ E६ १,३७}* ____________________________________________ हेतुर्वा स्यादर्थवत्त्वोपपत्तिभ्याम् ॥ १,२ ।२६ ॥ अथ ये हेतुवन्निगदाः सूर्पेण{*१।४७५*} जुहोति, तेन ह्यन्नं क्रियत इत्येवमादयः{*१।४७६*} । तेषु संदेहः किं स्तुतिस्तेषां कार्यमुत हेतुरिति । किं प्राप्तम् । हेतुः स्यादन्नकरणं होमस्य । नन्वप्रसिद्धे कार्यकारणभावे न हेतूपदेशः{*१।४७७*} । सत्यमेवं लोके, विधायिष्यते तु वचनेन वेदे । सूर्पेण{*१।४७८*} होमे कर्तव्येऽन्नकरणं हेतुरित्युपदिश्यते । किं प्रयोजनम् । अन्यदपि दर्विपीठराद्य्{*१।४७९*} अन्नकरणं यत्, तेनापि नाम कथं होमः क्रियेतेति । कुतः । तस्याप्यन्नक्रियायामर्थवत्ता, शक्यते च तेनाप्यन्नं कर्तुम् । एताद्धि क्रियत इत्युच्यते । न हि वर्तमानकालः कश्चिदस्ति यस्यायं प्रतिनिर्देशः । हेतौ च श्रुतिः शब्दः{*१।४८०*}, स्तुतौ लक्षणा । यदि च दर्विपीठरादि{*१।४८१*} न साक्षादन्नं करोतीति, नान्नकरणमित्युच्यते । व्यर्थे तस्मिन् सूर्पस्तुतिर्{*१।४८२*} अनर्थिका स्यात् । सूर्पम्{*१।४८३*} अपि हि न साक्षादन्नं करोतीति, तेन विनार्थेन सूर्पस्य{*१।४८४*} स्तुतिर्नोपपद्यते । ण्Oट्Eष् *{१।४७५ E२,४,५,६ (रिछ्तिग्) शूर्पेण}* *{१।४७६ टैत् ।Bर् । १ ।६ ।५}* *{१।४७७ E१,५,६॑ E२,४ हेत्वपदेशः}* *{१।४७८ E२,४,५,६ शूर्पेण}* *{१।४७९ E२,४ दर्विपिठरादि॑ E५ दर्वीपीठरादि॑ E६ दर्वीपिठरादि}* *{१।४८० E२,४ ओम् । शब्दः}* *{१।४८१ E२,४ दर्विपिठरादि उ ।”.॑ व्ग्ल् । Fन् । ३७७}* *{१।४८२ E२,४,५,६ शूर्पस्तुतिर्}* *{१।४८३ E२,४,५,६ शूर्पमु ।”}* *{१।४८४ E२।४ शूर्पस्य}* ____________________________________________ स्तुतिस्तु, शब्दपूर्वत्वादचोदना च तस्य ॥ १,२ ।२७ ॥ न त्वेतदस्ति, शब्दपूर्वकोऽयमर्थः। अन्नकरणं हेतुरिति, शब्दश्चान्नकरणं सूर्पहोमे हेतुरित्याह । न च दर्विपीठरहोमे, तेन शब्दपूर्वं सूर्पम्, न च दर्विपिठरादेश्{*१।४८५*} चोदना । ण्Oट्Eष् *{१।४८५ E१ हथिएरुन्द्नछ्fओल्गेन्द्कुर्शेसि wइए E२,४}* ____________________________________________ व्यर्थे स्तुतिरन्यायेति चेत् ॥ १,२ ।२८ ॥ इति पुनर्यदुक्तम्, तत्परिहर्तव्यम् । [५४]{*१।४८६*} ण्Oट्Eष् *{१।४८६ E२ २,४५॑ E४ १,१७१॑ E५ २,४८॑ E६ १,३७}* ____________________________________________ अर्थस्तु विधिशेषत्वात्, यथा लोके ॥ १,२ ।२९ ॥ अस्मत्पक्षेऽर्थोऽस्ति । वाक्यशेषो हि स विधेस्तदा भवति । संवादश्च स्तुतिवचनत्वेन, यथा वयं सूर्पेणान्नं क्रियमाणं जानीमः, तथा सूर्पेणान्नं क्रियत इत्येव गम्यते । तदा चावर्तमानं स्तौतुं{*१।४८७*} वर्तमानमित्युपदिशति । त्वत्पक्ष एष दोषः, यस्य ते हेतुविधिः । विधौ हि न परः शब्दार्थः प्रतीयते । न च वर्तमानमुपदिशन् वेदः शक्यमर्थं विदध्यात् । आस्मत्पक्षे तु एष परशब्दः परत्र वर्तते । यथा लोके बलवान् देवदत्तो यज्ञदत्तादीन् प्रसहत इति । प्रकृष्टबलेऽपि बलवच्छब्दो वर्तमानो न सिंहं शार्दूलं वापेक्ष्य प्रयुज्यते, ये देवदत्तात्तु निकृष्टबलाः, तानपेक्ष्य भवति । एवं तेन ह्यन्नं क्रियत इति प्रकृष्टान्नकरणेन संस्तवः सूर्पस्य{*१।४८८*}, निकृष्टान्यन्यान्यन्नाकरणान्यपेक्ष्य भविष्यति । ण्Oट्Eष् *{१।४८७ E२,४,५,६ स्तोतुं}* *{१।४८८ E२ शूर्पपय (?)}* ____________________________________________ यदि च हेतुरवतिष्ठेत निर्देशात्, सामान्यादिति चेदव्यवस्था विधीनां स्यात् ॥ १,२ ।३० ॥ यद्यपि च भवेदन्नकरणं हेतुर्दर्विपिठरप्रकाराणाम्, तथापि सूर्प एतावतिष्ठेत । शब्दादन्नकरणं हेतुरिति विज्ञायते । शदश्च सूर्पस्याह, न दर्वीपिठरादीनाम् । तद्धि निर्दिश्यते, यस्मात्सूर्पेणान्नं क्रियते, तस्मात्सूर्पेण जुहोतीति । यथा यस्माद्बलवदुपध्मातोऽग्निः, तेन मे गृहं दग्धमिति, नानग्निरपि बलवदुपध्मातो दहतीति गम्यते । अथ मतम् येन येनान्नं क्रियते प्रणाड्या सूर्पादन्येनापि, तेन तेनापि होमः क्रियत इति । अव्यवस्था विधीनां स्यात्, न केनचित्प्रणाड्यान्नं क्रियते । तत्र यावदुक्तं स्याज्जुहोतीति, तावदेवान्नकरणेन जुहोतीति । अस्मत्पक्षे पुनः सूर्पं स्तूयते तेन ह्यन्नं क्रियत इति वृत्तान्तान्वाख्यानं न च वृत्तान्तज्ञापनाय, किं तर्हि प्ररोचनायैव । तस्माद्धेतुवन्निगदस्यापि स्तुतिरेव कार्यमिति । ____________________________________________ तदर्थशास्त्रात् ॥ १,२ ।३१ ॥{*१।४८९*} अथेदानीं किं विवक्षितवचना मन्त्राः, उताविवक्षितवचनाः । किमर्थप्रकाशनेन यागस्योपकुर्वन्ति, उतोच्चारणमात्रेणेति । यद्युच्चारणमात्रेण, तदा न नियोगतो{*१।४९०*} बर्हिर्देवसदनं दामीत्य्{*१।४९१*} एष बर्हिर्लवने विनियुज्येत । अभिधानेन चेत्, प्रकरणेन विज्ञाताङ्गभावो{*१।४९२*} नान्यत्रोपकर्तुं शक्नोतीत्यन्तरेणापि वचनम्, बर्हिर्लवन एव विनियुज्येतेति । तदेवमवगच्छामः उच्चारणमात्रेणैवोपकुर्वन्तीति । कुतः? तदर्थशास्त्रात् । यदभिधानसमर्थो मन्त्रः, तत्रैवैनं शास्त्रं निबध्नाति । उरुप्रथा उरु प्रथस्वेति{*१।४९३*} पुरोडाशं प्रथयतीति{*१।४९४*} वचनमिदमनर्थकम्, यद्यर्थाभिधानेनोपकुर्वन्ति । अथोच्चारणमात्रेण, ततो वक्तव्यो विनियोगः, उक्तश्च । अतो नार्थाभिधानेन । यथा साक्षः पुरुषः परेण चेन्नीयते, नूनमक्षिभ्यां न पश्यतीति गम्यते । नन्वर्थवादार्थं भविष्यतीति चेत् । न हि, येन विधीयते तस्य वाक्यशेषोऽर्थवाद इत्युक्तम् । न च निरपेक्षेण विहितेऽर्थवादेन किंचिदपि प्रयोजनं क्रियते । अतो नार्थवादार्थं वचनम् । तथाभ्यादानसमर्था मन्त्रा{*१।४९५*} उदाहरणम् । लिङ्गादेवादाने प्राप्ता वचनेन विधीयन्ते, तां चतुर्भिरादत्त{*१।४९६*} इति । चतुःसंख्यार्थमिति चेत्, न, समुच्चयशब्दाभावात् । [५६]{*१।४९७*} तथा, इमामगृभ्णन् रसनामृतस्येत्य्{*१।४९८*} अश्वाभिधानीमादत्त इत्य्{*१।४९९*} उदाहरणम् । रसनादाने{*१।५००*} प्राप्तस्य{*१।५०१*} रसनादान{*१।५०२*} एव शास्त्रं विनियोजकम् । तद्विवक्षितार्थत्वे न घटेतेति । ननु गर्दभरसनां{*१।५०३*} परिसंख्यास्यति । न शक्नोति परिसंख्यातम्{*१।५०४*} । परिसंचक्षाणो हि स्वार्थं च{*१।५०५*} जुह्यात्, परार्थं च कल्पेत, प्राप्तं च बाधेत । तस्मान्न विवक्षितवचना मन्त्राः । अतो न प्रमाणं बर्हिर्देवसदनं दामीत्यस्य रूपं बर्हिर्लवने विनियोगस्य । ण्Oट्Eष् *{१।४८९ E२,४ श्„ह्लेन् ंष्१ ।२ ।३१३९ निछ्तल्सेइगेने षूत्रस्, दरौसेर्गिब्त्सिछेइने उन्तेर्स्छिएद्लिछे Z„ह्लुन्ग्}* *{१।४९० E४ नियोगता}* *{१।४९१ ंैत् ।ष् । १ ।१ ।२}* *{१।४९२ E४ निर्ज्ञाताङ्गभावो}* *{१।४९३ Vआज् ।ष् । १ ।२२, टैत् ।ष् । १ ।१ ।८ ।१}* *{१।४९४ टैत् ।Bर् । ३ ।२ ।८ ।४}* *{१।४९५ Cf । टैत् ।ष् । १ ।१ ।३ ।४}* *{१।४९६ टैत् ।ष् । ५ ।१ ।१}* *{१।४९७ E२ Bद् ।२, ष् ।४९५६ fएह्लेन्॑ E४ १,१८०॑ E५ २,५४॑ E६ १,३९}* *{१।४९८ E४,५,६ (बेस्सेर्) रशनामृतस्येत्य्}* *{१।४९९ श्ড়्Bर् । १३ ।१ ।२ ।२१ ।, टैत् ।ष् । ५ ।१ ।२ ।१}* *{१।५०० E४,५,६ रशनादाने}* *{१।५०१ Cf । टैत् ।ष् । ४ ।१ ।२ ।१, ंाध्य् ।ष् । १२ ।२}* *{१।५०२ E४,५,६ रशनादान}* *{१।५०३ E४,५,६ गर्दभरशनां}* *{१।५०४ E४,५,६ (रिछ्तिग्) परिसंख्यातुम्}* *{१।५०५ E४ ओम् । च}* ____________________________________________ वाक्यनियमात् ॥ १,२ ।३२ ॥ नियतपदक्रमा हि मन्त्रा भवन्ति । अग्निमूर्धा दिव इति{*१।५०६*}, न विपर्ययेण । यद्यर्थप्रतायनार्थाः, विपर्ययेणाप्यर्थः प्रतीयत इति नियमोऽनर्थकः स्यात् । अथोच्चारणविशेषार्थाः, विपर्ययेऽन्यदुच्चारणमिति नियम आश्रीयते । तेन यतरस्मिन्{*१।५०७*} पक्षे नियमोऽर्थवान्, स नूनं पक्ष इति । नन्वर्थवत्स्वपि नियमो दृश्यते । यथा इन्द्राग्नीति । युक्तं तत्र तत्, विपर्ययेऽर्थप्रत्ययाभावात् । ण्Oट्Eष् *{१।५०६ टैत् ।ष् । १ ।५ ।५ ।१}* *{१।५०७ E१,५,६॑ E४ तेनान्यतरस्मिन्}* ____________________________________________ बुद्धशास्त्रात् ॥ १,२ ।३३ ॥ बुद्धे खल्वपि पाठादर्थे तदभिधानसमर्थो मन्त्रो भवति । अग्नीदग्नीन् विहरेद्{*१।५०८*} इति{*१।५०९*} । स बुद्धे किं बोधयेत् । अथ नूच्चारणविशेषार्थाः{*१।५१०*}, बुद्धेऽप्युच्चारणविशेषोऽवकल्प्येतेति । ननु पुनर्वचनात्संस्कारविशेषो भविष्यति । एवमस्मत्पक्षमेवाश्रितोऽसि । वचनमुच्चारणम् । तद्धि शक्यते कर्तुं नार्थप्रत्यायनम् । तत्प्रतीतेऽशक्यम् । यथा सोपानत्के पादे द्वितीयामुपानहमशक्यत्वान्नोपादत्ते । [५७]{*१।५११*} ण्Oट्Eष् *{१।५०८ E४,५,६ विहर}* *{१।५०९ टैत् ।ष् । ३ ।२ ।९}* *{१।५१० E१,५,६॑ E४ तूच्चारणविशेषार्थाः}* *{१।५११ E४ १,१८०॑ E५ २,५५॑ E६ १,४०}* ____________________________________________ अविद्यमानवचनात् ॥ १,२ ।३४ ॥ यज्ञे साधनभूतः प्रकाशयितव्यः । न च तादृशोऽर्थो{*१।५१२*}ऽस्ति, यादृशमभिदधति{*१।५१३*} । यथा चत्वारि शृङ्गा{*१।५१४*} इति । न हि चतुःशृङ्गं त्रिपादं द्विशिरस्कं सप्तहस्तं किंचिद्यज्ञसाधनमस्ति । तदत्राभिधानार्थः किमभिदध्यात् । उच्चारणार्थे त्ववकल्प्यते । तथा मा मा हिंसीरित्यसत्यामपि हिंसायां किमभिदध्यात् । ण्Oट्Eष् *{१।५१२ E४ ओम् ।ऽर्थो}* *{१।५१३ E१ (Fन् ।) अभिवहन्ति केचिन्मन्त्राः, E५ अभिदधाति}* *{१।५१४ टैत् ।आ । १० ।१० ।१७, ऋV ४ ।५८ ।३ }* ____________________________________________ अचेतनेऽर्थबन्धनात् ॥ १,२ ।३५ ॥ अचेतनेऽर्थे खल्वर्थं निबध्नन्ति ओषधे त्रायस्वैनम्{*१।५१५*} इति{*१।५१६*} । अभिधानेनोपकुर्वन्त एवंजातीयका ओषधिं पशुत्राणाय प्रतिपादयेयुः । न चासावचेतना शक्या प्रतिपादयितुम् । उच्चारणार्थे तु नैष दोषो भवति । तस्मादुच्चारणार्थाः । शृणोत ग्रावाण इति{*१।५१७*} चोदाहरणम् । ण्Oट्Eष् *{१।५१५ E४ त्रायस्वनैम् (?)}* *{१।५१६ टैत् ।ष् । १ ।२ ।१ ।१}* *{१।५१७ टैत् ।ष् । १ ।३ ।१३ ।१}* ____________________________________________ अर्थविप्रतिषेधात् ॥ १,२ ।३६ ॥ अर्थविप्रतिषेधोऽपि भवति । अदितिर्द्यौरदितिरन्तरिक्षमिति{*१।५१८*} सैव द्यौस्तदेवान्तरिक्षमिति को जातुचिदवधारयेत् । अनवधारयंश्च किमभिधानेनोपकुर्यात् । उच्चारणमात्रे तु नैष विरोधो भवति । तस्मादुच्चारणार्था मन्त्राः । एको रुद्रो न द्वितीयोऽवतस्थे{*१।५१९*} । असंख्याताः सहस्राणि, ये रुद्रा अधिभूम्यामिति{*१।५२०*} चोदाहरणम् [५८]{*१।५२१*} ण्Oट्Eष् *{१।५१८ ऋV १ ।८९ ।१० }* *{१।५१९ टैत् ।ष् । १ ।८ ।६ ।१}* *{१।५२० टैत् ।आ । १ ।१२ ।१, Vआज् ।ष् । १६ ।५४, टैत् ।ष् । ४ ।५ ।११ ।१}* *{१।५२१ E४ १,१८१॑ E५ २,५६॑ E६ १,४०}* ____________________________________________ स्वाध्यायवदवचनात् ॥ १,२ ।३७ ॥ स्वाध्यायकाले पूर्णिकावहन्ति करोति । माणवकोऽवहन्ति मन्त्रमधीते । नासौ तेन मन्त्रेण तदभिधानमभ्यस्यत्यक्षरानुपूर्व्या अवधारण एव यतते । येन च नाम प्रयोजनम्, तदभ्यसितव्यम् । अत उच्चारणाभ्यासादुच्चारणेन प्रयोजनमित्यवगच्छामः । ____________________________________________ अविज्ञेयात् ॥ १,२ ।३८ ॥ अपि च केषाञ्चिन्मन्त्राणामशक्य एवार्थो वेदितुम् । यथा अम्यक्सा त इन्द्र ऋष्टिरस्म इति{*१।५२२*} । सृण्येव जर्भरी तुर्फरीत्विति{*१।५२३*} । इन्द्रः सोमस्य काणुकेति{*१।५२४*} च । एते किं प्रत्याययेयुः । उच्चारणार्थे तु न दोषः । तस्मादुच्चारणार्था मन्त्रा इति । ण्Oट्Eष् *{१।५२२ ऋV १ ।१६९ ।३ }* *{१।५२३ ऋV १० ।१०६ ।६ }* *{१।५२४ ऋV ८ ।७७ ।४ }* ____________________________________________ अनित्यसंयोगान्मन्त्रानर्थक्यम् ॥ १,२ ।३९ ॥ अनित्यसंयोगः खल्वपि भवेन्मन्त्रेष्वभिधानार्थेषु । यथा किं ते कृण्वन्ति कीकटेषु गाव इति{*१।५२५*} । कीकटा नाम जनपदा । नैचाशाखं नाम नगरम् । प्रमङ्गदो{*१।५२६*} राजेति । यद्यभिधानार्थाः, प्राक्प्रमङ्गदान्{*१।५२७*} नायं मन्त्रोऽनुभूतपूर्व{*१।५२८*} इति गम्यते । तदेतैस्तदर्थशास्त्रादिभिः{*१।५२९*} कारणैर्मन्त्राणामविवक्षितवचनता । ण्Oट्Eष् *{१।५२५ ऋV ३ ।५३ ।१४ किं ते कृण्वन्ति कीकटेषु गावो नाशिरं दुह्रे न तपन्ति घर्मम्। आ नो भर प्रमगन्धस्य वेदो नैचाशाखं मघवन् रन्धया नः॥}* *{१।५२६ E१,६॑ E४,५ (रिछ्तिग्) प्रमगन्दो}* *{१।५२७ E१,६॑ E४,५ प्रमगन्दान्}* *{१।५२८ E४ऽभूतपूर्व (?)}* *{१।५२९ ंष्१ ।२ ।३१}* ____________________________________________ अविशिष्टस्तु वाक्यार्थः ॥ १,२ ।४० ॥{*१।५३०*} अविशिष्टस्तु लोके प्रयुज्यमानानां वेदे च पदानामर्थः । स यथैव लोके विवक्षितः, तथैव वेदेऽपि भवितुमर्हति । नैवम्, लोके तैरर्थैरवबुद्धैः संव्यवहारः । इह देवताभिरप्रत्यक्षाभि[५९]{*१।५३१*}र्यज्ञाङ्गैश्चाचेतनैः संलापे न कश्चिद्यज्ञस्योपकारः । यद्यदृष्टं परिकल्प्येत, उच्चारणादेव तद्भवितुमर्हति । यद्धि कर्तव्यम्, तत्प्रयोजनवत्, उच्चारणं च न कथंचित्न कर्तव्यम्, यद्यपूर्वाय, यद्यर्थाय । यद्यर्थो न प्रत्यायते, न किञ्चिदनर्थकम् । यदि न प्रयुज्यते, समाम्नानानर्थक्यम् । तस्मादुच्चारणादपूर्वम् । तथा च तदर्थशास्त्रादुक्तम्{*१।५३२*} । तदुच्यते अर्थप्रत्यायनार्थमेव यज्ञे मन्त्रोच्चारणम् । यदुक्तम् न देवताभिर्यज्ञाङ्गैश्च संलपे प्रयोजनमस्तीति, यज्ञे यज्ञाङ्गप्रकाशनमेव प्रयोजनम् । कथम्? न ह्यप्रकाशिते यज्ञे यज्ञाङ्गे च यागः शक्योऽभिनिर्वर्तयितुम् । तस्मात्तन्निर्वृत्त्यर्थमर्थप्रकाशनं महानुपकारः कर्मणः, तच्च करोतीत्यवगम्यते । तस्मादसत्यस्य प्रयोजनम् । तच्च दृष्टं न शक्यमपवदितुम् नार्थाभिधानं प्रयोजनमिति । नन्वर्थाभिधानेनोपकुर्वत्सु तां चतुर्भिरादत्त इत्येवमाद्यनर्थकं भवतु{*१।५३३*}, न जातुचिदपजानीमहे दृष्टमर्थाभिधानस्योपकारकत्वम् । अथ किं तच्छास्त्रमनर्थकमेव । न हि ण्Oट्Eष् *{१।५३० E२,४ हबेनब्ंष्१ ।२ ।३१ निछ्त्wइए E१,५,६ wएइतेर्गेश्„ह्ल्त्, सो दá सिए बेइ ंष्१ ।२ ।४० मित्१ ।२ ।३२ fओर्त्fअह्रेन्}* *{१।५३१ E२ २,५७॑ E४ १,२०४॑ E५ २,५७॑ E६ १,४१}* *{१।५३२ E१,५,६॑ E२,४ युक्तम्}* *{१।५३३ E४ कामं भवतु}* ____________________________________________ गुणार्थेन पुनःश्रुतिः ॥ १,२ ।४१ ॥ यदुक्तम्{*१।५३४*} तां चतुर्भिरादत्त इति समुच्चयशब्दाभावान्न समुच्चयार्थमिति । चतुःसंख्याविशिष्टमादानं कर्तव्यमिति वाक्यादवगम्यते । तदेकेन मन्त्रेण गृह्णन्न यथाश्रुतं{*१।५३५*} गृह्णीयादिति । ण्Oट्Eष् *{१।५३४ E१, ष् ।५५।२६}* *{१।५३५ E२ ओम् । गृह्णन्न यथाश्रुतं}* ____________________________________________ परिसंख्या ॥ १,२ ।४२ ॥ परिसंचक्षाणे च{*१।५३६*} इमामगृभ्णन्नित्यश्वाभिधानीमादत्त इति त्रयो दोषाः प्रादुःष्युरिति । नैवं संबन्ध इत्यादत्त इति । कथं तर्हि, इत्यश्वाभिधानीमिति । [६०]{*१।५३७*} लिङ्गाद्रशनामात्रे शब्दात्तु विशेषेऽश्वाभिधान्यामिति । सति च वाक्ये लिङ्गं विनियोजकम् । तच्चास्य प्रकरणाम्नानानुमितं वाक्यं नास्ति । कतरतत् । एतेन मन्त्रेणादानं कुर्यादिति, यस्मिन् सति रशनामात्रे लिङ्गात्प्राप्नोति । अश्वाभिधान्यां तु प्रत्यक्षमेव वचनम् । अस्मिन् सति तदानुमानिकं नास्ति । तेन गर्दभरशनायां न प्राप्तिरेवेति । ण्Oट्Eष् *{१।५३६ E१, ष् ।५६।४६, टैत् ।ष् । ५ ।१ ।२ ।१}* *{१।५३७ E२ २,५९॑ E४ १,२१०॑ E५ २,५९॑ E६ १,४१}* ____________________________________________ अर्थवादो वा ॥ १,२ ।४३ ॥ उरु प्रथा उरु प्रथस्वेति पुरोडाशं प्रथयतीत्य्{*१।५३८*} अर्थवादार्थेन पुनःश्रुतिः, यज्ञपतिमेव तत्प्रथयतीति । ननु नायं मन्त्रस्य वाक्यशेषः, न च प्राप्तस्य स्तुत्या प्रयोजनम् । सत्यम्{*१।५३९*}, नायं मन्त्रस्य विधिः, न संस्तवः । प्रथनमेव तत्र स्तूयते । मन्त्रः पुना रूपादेव प्राप्त इहानूद्यते प्रथनं स्तोतुम् इत्थं प्रथनं प्रशस्तम्, यत्क्रियमाणमेवंरूपेण मन्त्रेण क्रियते । कस्तदा भवति गुणः । यज्ञपतिमेव तत्प्रजया पशुभिः प्रथयति । किमेतदेवास्य फलं भवति । नेति ब्रूमः । स्तुतिः कथं भविष्यतीत्येवमुच्यते । कथमसति प्रथने प्रथयतीति शब्दः । मन्त्राभिधानात् मन्त्रेण पुरोडाशमध्वर्युः प्रथस्वेति ब्रूते । यश्चैवं प्रथस्वेति ब्रूते, स प्रथयति, यथा यः कुर्विति ब्रूते, स कारयति । ण्Oट्Eष् *{१।५३८ टैत् ।ष् । ३ ।२ ।८ ।४, शितिएर्त्श्Bहद्ंष्१ ।२ ।३१}* *{१।५३९ E२ ओम् । सत्यम्}* ____________________________________________ अविरुद्धं परम् ॥ १,२ ।४४ ॥ यदुक्तम्{*१।५४०*} पदनियमस्यार्थवत्त्वाद्{*१।५४१*} अविवक्षितार्था मन्त्रा इति । काममनर्थको नियमः, न दृष्टमप्रमाणम् । नियतोच्चारणमदृष्टायेति चेत्, अविरुद्धा अदृष्टकल्पनास्मत्पक्षेऽपि । एवं प्रत्यायमानमभ्युदयकारि भवतीति । [६१]{*१।५४२*} ण्Oट्Eष् *{१।५४० श्Bहद्ंष्१ ।२ ।३२}* *{१।५४१ E२ पदनियमस्यार्थयववाद्(?)}* *{१।५४२ E२ २,६३॑ E४ १,२२३॑ E५ २,६०॑ E६ १,४२}* ____________________________________________ संप्रैषे कर्मगर्हानुपालम्भः संस्कारत्वात् ॥ १,२ ।४५ ॥ अथ यदुक्तम्{*१।५४३*} प्रोक्षणीरासादयेति बुद्धबोधनमशक्यम्, अत उच्चारणाददृष्टमिति । तन्न । कर्तव्यमित्यपि विज्ञातेऽनुष्ठानकाले स्मृत्या प्रयोजनम् । उपायान्तरेणापि सा प्राप्नोति, अतोऽनेनोपायेन कर्तव्येति नियमार्थमाम्नानम्, संस्कारत्वात् । ण्Oट्Eष् *{१।५४३ श्Bहद्ंष्१ ।२ ।३३, ंाध्य् ।ष् ।१ ।२८॑ टैत् ।ष् । ३ ।२ ।९}* ____________________________________________ अभिधानेऽर्थवादः ॥ १,२ ।४६ ॥ चत्वारि शृङ्गा इत्य्{*१।५४४*} असदभिधाने गौणः शब्दः । गौणी कल्पना प्रमाणवत्त्वात् । उच्चारणाददृष्टमप्रमाणम् । चतस्रो होत्राः शृङ्गाणीवास्य । त्रयोऽस्य पादा इति सवनाभिप्रायम् । द्वे शीर्ष इति पत्नीयजमानौ । सप्त हस्तास इति छन्दांस्यभिप्रेत्य । त्रिधा बद्ध इति त्रिभिर्वेदैर्बद्धः । वृषभः कामान् वर्षतीति । रोरवीति शब्दकर्मा । महो देवो मर्त्यानाविवेशेति, मनुष्याधिकाराभिप्रायम् । तद्यथा चक्रवाकस्तनी हंसदन्तावली काशवस्त्रा शैवालकेशी नदीति नद्याः स्तुतिः । यज्ञसमृद्धये साधनानां चेतनसादृश्यमुपपादयितुकाम आमन्त्रणशब्देन लक्षयति{*१।५४५*} ओषधे त्रायस्वैनमिति{*१।५४६*} । शृणोत ग्रावाण इति{*१।५४७*}, अतः परं प्रातरनुवाकानुवचनं भविष्यति, यत्राचेतनाः सन्तो ग्रावाणोऽपि शृणुयुः, किं पुनर्विद्वांसोऽपि ब्राह्मणा इति । इत्थं चाचेतना अपि ग्रावाण आमन्त्र्यन्ते । ण्Oट्Eष् *{१।५४४ Zइतिएर्त्श्Bहद्ंष्१ ।२ ।३४, ऋV ४ ।५८ ।३ }* *{१।५४५ श्Bहद्ंष्१ ।२ ।३५}* *{१।५४६ टैत् ।ष् । १ ।२ ।१ ।१}* *{१।५४७ टैत् ।ष् । १ ।३ ।१३ ।१}* ____________________________________________ गुणादविप्रतिषेधः स्यात् ॥ १,२ ।४७ ॥ अदितिर्द्यौरिति{*१।५४८*} गौण एष शब्दः, अतो न [६२]{*१।५४९*}विप्रतिषेधः। यथा त्वमेव माता, त्वमेव{*१।५५०*} पितेति । तथैकरुद्रदैवत्य एको रुद्रः, शतरुद्रदैवत्ये शतं रुद्रा इत्यविरोधः । ण्Oट्Eष् *{१।५४८ श्Bहद्ंष्१ ।२ ।३६, ऋV १ ।८९ ।१० }* *{१।५४९ E२ २,६५॑ E४ १,२२८॑ E५ २,६१॑ E६ १,४३}* *{१।५५० E२,४,६ ओम् । त्वमेव}* ____________________________________________ विद्यावचनमसंयोगात् ॥ १,२ ।४८ ॥ यत्तु{*१।५५१*} अकर्मकालेऽवहन्ति मन्त्रेण माणवको न पूर्णिकावहन्तिं प्रकाशयितुमिच्चतीति । अयज्ञसंयोगात्, न यज्ञोपकारायैतत्प्रकाशयितुमिच्छति । ननु प्रकाशनानभ्यासोऽक्षराभ्यासश्च परिचोदितः । उच्यते सौकर्यात्प्रकाशनानभ्यासो दुर्ग्रहत्वाच्चाक्षराभ्यासः । ण्Oट्Eष् *{१।५५१ श्Bहद्ंष्१ ।२ ।३७}* ____________________________________________ सतः परमविज्ञानम् ॥ १,२ ।४९ ॥{*१।५५२*} विद्यमानोऽप्यर्थः प्रमादालस्यादिभिर्नोपलभ्यते । निगमनिरुक्तव्याकरणवशेन धातुतोऽर्थः कल्पयितव्यः । यथा सृण्येव जर्भरी तुर्फरीत्वित्येवमादीन्य्{*१।५५३*} अश्विनोरभिधानानि द्विवचनान्तानि लक्ष्यन्ते । अनेनाश्विनोः काममप्रा इत्य्{*१।५५४*} आश्विनं सूक्तमवगम्यते । देवताभिधानानि च घटन्ते जर्भरीत्येवमादीनि । अवयवप्रसिद्ध्या च लौकिकेनार्थेन विशेष्यन्ते । एवं सर्वत्र । ण्Oट्Eष् *{१।५५२ Zउ ंष्१ ।२ ।३८}* *{१।५५३ ऋV १० ।१०६ ।६}* *{१।५५४ ऋV १० ।१०६ ।११ }* ____________________________________________ उक्तश्चानित्यसंयोगः ॥ १,२ ।५० ॥{*१।५५५*} परं तु श्रुतिसामान्यमात्रमित्य्{*१।५५६*} अत्रेति{*१।५५७*} । [६३]{*१।५५८*} ण्Oट्Eष् *{१।५५५ Zउ ंष्१ ।२ ।३९}* *{१।५५६ ंष्१ ।१ ।३१}* *{१।५५७ E२ निम्म्त्देन् Kओम्मेन्तरिर्र्त्म्लिछेर्wएइसे अल्सेइगेनेस्षूत्र}* *{१।५५८ E२ २,६८॑ E४ १,२३८॑ E५ २,६२॑ E६ १,४३}* ____________________________________________ लिङ्गोपदेशश्च तदर्थवत् ॥ १,२ ।५१ ॥ आग्नेयाग्नीध्रमुपतिष्ठत इति{*१।५५९*} विधानाद्विवक्षितार्थानामेव मन्त्राणां भवति लिङ्गेणोपदेशः । यदि तेऽग्निप्रयोजनाः, ततस्त आग्नेया नाग्निशब्दसंनिधानात् । ण्Oट्Eष् *{१।५५९ टैत् ।ष् । ३ ।१ ।६}* ____________________________________________ ऊहः ॥ १,२ ।५२ ॥ ऊहदर्शनं च विवक्षितार्थानामेव भवति । किमूहदर्शनम् । न पिता वर्धते, न मातेति{*१।५६०*} । अन्ये वर्धन्त इति गम्यते । प्रत्यक्षं कौमारयौवनस्थाविरैर्वर्धन्ते मात्रादयः । शब्दो न वर्धत इति ब्रूते । का पुनः शब्दस्य वृद्धिः । यद्द्विवचनबहुवचनसंयोगः । ण्Oट्Eष् *{१।५६० Vग्ल् । टैत् ।Bर् । ३ ।६ ।६ ।१}* ____________________________________________ विधिशब्दाश्च ॥ १,२ ।५३ ॥ विधिशब्दाश्च विवक्षितार्थानेव मन्त्राननुवदन्ति शतं हिमाः शतं वर्षाणि जीव्यासमित्येतदेवाहेति{*१।५६१*} । [६४]{*१।५६२*} ण्Oट्Eष् *{१।५६१ श्ড়्Bर् । २ ।३ ।४ ।२१}* *{१।५६२ E२ २,६९॑ E४ १,२४३॑ E५ २,६४॑ E६ १,४४}* ____________________________________________ धर्मस्य शब्दमूलत्वादशब्दमनपेक्षं स्यात् ॥ १,३ ।१ ॥ एवं तावत्कृत्स्नस्य वेदस्य प्रामाण्यमुक्तम् । अथेदानीं यत्र न वैदिकं शब्दमुपलभेमहि, अथ च स्मरन्ति एवमयमर्थोऽनुष्ठातव्यः, एतस्मै च प्रयोजनायेति । किमसौ तथैव स्यान्न वेति । यथा अष्टकाः कर्तव्याः॑ गुरुरनुगन्तव्यः॑ तडागं खनितव्यम्॑ प्रभा प्रवर्तयितव्या॑ शिखाकर्म कर्तव्यमित्येवमादयः । तदुच्यते धर्मस्य शब्दमूलत्वादशब्दमनपेक्षं स्यादिति । शब्दलक्षणो धर्म इत्युक्तम्{*१।५६३*} चोदनालक्षणोऽर्थो धर्मः इति । अतो निर्मूलत्वान्नापेक्षितव्यमिति । ननु ये विदुरित्थमसौ पदार्थः कर्तव्य इति, कथमिव ते वदिष्यन्त्यकर्तव्य एवायमिति । स्मरणानुपपत्त्या, न{*१।५६४*} ह्यननुभूतोऽश्रुतो वार्थः स्मर्यते । न चास्यावैदिकस्यालौकिकस्य च स्मरणमुपपद्यते, पूर्वविज्ञानकारणाभावादिति । या हि बन्ध्या स्मरेत इदं मे दौहित्रकृतमिति, न मे दुहितास्तीति मत्वा, न जातुचिदसौ प्रतीयात् सम्यगेतज्ज्ञानमिति । एवमपि यथैव पारम्पर्येणाविच्छेदादयं वेद इति प्रमाणमेषां स्मृतिः, एवमियमपि प्रमाणं भविष्यतीति । नैतदेवम् । प्रत्यक्षेणोपलब्धत्वाद्ग्रन्थस्य, नानुपपन्नं पूर्वविज्ञानम् । अष्टकादिषु त्वदृष्टार्थेषु पूर्वविज्ञानकारणाभावाद्व्यामोहस्मृतिरेव गम्यते । तद्यथा कश्चिज्जात्यन्धो वदेत् स्मराम्यहमस्य रूपविशेषस्येति । कुतस्ते पूर्वविज्ञानमिति च पर्यनुयुक्तो जात्यन्धमेवापरं विनिर्दिशेत । तस्य [६५]{*१।५६५*} कुतः? जात्यन्धान्तरात् । एवं जात्यन्धपरम्परायामपि सत्यां नैव जातुचित्संप्रतीयुर्विद्वांसः सम्यग्दर्शनमेतदिति । अतो नादर्तव्यमेवंजातीयकमनपेक्षं स्यादिति । ण्Oट्Eष् *{१।५६३ Vग्ल् । ंष्१ ।१ ।२}* *{१।५६४ E२,४ ओम् । न}* *{१।५६५ E२ २,७३॑ E४ १,२४३॑ E५ २,७०॑ E६ १,४५}* ____________________________________________ अपि वा कर्तृसामान्यात्प्रमाणमनुमानं स्यात् ॥ १,३ ।२ ॥ अपि वेति पक्षो व्यावर्त्यते । प्रमाणं स्मृतिः, विज्ञानं हि तत् । किमित्यन्यथा भविष्यति । पूर्वविज्ञानमस्य नास्ति, कारणाभावादिति चेत् । अस्या एव स्मृतेर्द्रढिम्नः कारणमनुमास्यामहे । तत्तु नानुभवनम्, अनुपपत्त्या । न हि मनुष्या इहैव जन्मन्येवंजातीयकमर्थमनुभवितुं शक्नुवन्ति । जन्मान्तरानुभूतं च न स्मर्यते । ग्रन्थस्त्वनुमीयेत, कर्तृसामान्यात्स्मृतिवैदिकपदार्थयोः । तेनोपपन्नो वेदसंयोगस्त्रैवर्णिकानाम् । ननु नोपलभन्त एवंजातीयकं ग्रन्थम् । अनुपलभमाना अप्यनुमिमीरन्, विस्मरणमप्युपपद्यत इति । तदुपपन्नत्वात्पूर्वविज्ञानस्य तरिवर्णिकानां स्मरताम्, विस्मरणस्य चोपपन्नत्वाद्ग्रन्थानुमानमुपपद्यत इति प्रमाणं स्मृतिः । अष्टकालिङ्गाश्च मन्त्रा वेदे दृश्यन्ते याञ्जनाः प्रतिनन्दन्तीत्येवमादयः{*१।५६६*} । तथा प्रत्युपस्थितनियमानामाचाराणां दृष्टार्थत्वादेव प्रामाण्यम् गुरोरनुगमात्प्रीतो गुरुरध्यापयिष्यति ग्रन्थग्रन्थिभेदिनश्च न्यायान् परितुष्टो वक्ष्यतीति । तथा च दर्शयति तस्माच्छ्रेयांसं पूर्वं यन्तं पापीयान् पश्चादन्वेतीति{*१।५६७*} । प्रपास्तडागानि च परोपकाराय, न धर्मायेत्येवावगम्यते । तथा च दर्शनम् धन्वन्निव प्रपा [६६]{*१।५६८*} असीति{*१।५६९*} । तथा स्थलयोदकं परिगृह्णन्तीति च । गोत्रचिह्नं शिखाकर्म, दर्शनं च यत्र बाणाः संपतन्ति कुमारा विशिखा इवेति{*१।५७०*} । तेन ये दृष्टार्थाः, ते तत एव प्रमाणम् । ये त्वदृष्टार्थाः, तेषु वैदिकशब्दानुमानमिति । ण्Oट्Eष् *{१।५६६ ড়ार ।ङ्ष्३ ।२ ।२, आप् ।ंড়् २ ।२० ।२७}* *{१।५६७ E२ अन्वेति}* *{१।५६८ E२ २,७८॑ E४ १,२५९॑ E५ २,७८॑ E६ १,४५}* *{१।५६९ ऋV १० ।४ ।१ }* *{१।५७० ऋV ६ ।७५ ।१७ }* ____________________________________________ विरोधे त्वनपेक्षं स्यात्, असति ह्यनुमानम् ॥ १,३ ।३ ॥ अथ यत्र श्रुतिविरोधः, तत्र कथम् । यथौदुम्बर्याः सर्ववेष्टनम्, औदुम्बरीं स्पृष्ट्वोद्गायेदिति श्रुत्या विरुद्धम् । अष्टाचत्वारिंशद्वऋषाणि वेदब्रह्मचरणम्, जातपुत्रः कृष्णकेशोऽग्नीनादधीतेत्यनेन विरुद्धम् । क्रीतराजको भोज्यान्न इति, तस्मादग्नीषोमीये संस्थिते यजमानस्य गृहेऽशितव्यमित्यनेन विरुद्धम् । तत्प्रमाणम्, कर्तृसामान्यादित्येवं प्राप्ते ब्रूमः अशक्यत्वाद्व्यमोह इत्यवगम्यते । कथमशक्यता । स्पर्शविधानान्न सर्वा शक्या वेष्टयितुमुद्गायता स्प्रष्टुं च । तामुद्गायता स्प्रष्टव्यामवगच्छन्तः केनेमं संप्रत्ययं बाधेमहि सर्ववेष्टनस्मरणेनेति ब्रूमः । ननु निर्मूलत्वाद्व्यामोहस्तत्स्मरणमिति वैदिकं वचनं मूलं भविष्यतीति । भवेद्वैदिकं वचनं मूलम्, यदि स्पर्शनं व्यामोहः । अव्यामोहे त्वशक्यत्वादनुपपन्नम् । यथानुभवनमनुपपन्नमिति न कल्प्यते, तथा वैदिकमपि वचनम् । कथं तर्हि सर्ववेष्टनस्मरणम् । व्यामोहः । कथं व्यामोहकल्पना । श्रौतविज्ञानविरोधात् । अथ किमर्थं नेमौ विधी विकल्प्ये[६७]{*१।५७१*}ते व्रीहियववद्बृहद्रथन्तरवद्वा । नासति व्यामोहविज्ञाने विकल्पो भवति । यदि सर्ववेष्टनविज्ञानं प्रमाणम्, स्पर्शनं व्यामोहः । यदि स्पर्शनं प्रमाणम्, स्मृतिर्व्यामोहः । विकल्पं तु वदन् स्पर्शनस्य पक्षे तावत्प्रामाण्यमनुमन्यते । तस्य च मूलं श्रुतिः । सा चेत्प्रमाणमनुमता, न पाक्षिकी । पाक्षिकं च सर्ववेष्टनस्मरणम्, पक्षे तावन्न शक्नोति श्रुतिं परिकल्पयितुम्, स्पर्शविज्ञानेन बाधितत्वात् । ततश्चाव्यामोहे च तस्मिन्नशक्या श्रुतिः कल्पयितुम् । न चासावव्यामोहः पक्षे, पक्षे व्यामोहो भविष्यतीति । यदेव हि तस्यैकस्मिन् पक्षे मूलम्, तदेवेतरस्मिन्नपि । एकस्मिंश्चेत्पक्षे न व्यामोहः, श्रुतिप्रामाण्यतुल्यत्वादितरत्राप्यव्यामोहः । न चासावेकस्मिन् पक्षे श्रुतिः, निबद्धाक्षरा हि सा न प्रमादपाठ इति शक्या गदितुम् । तेन नैतत्पक्षे विज्ञानं व्यामोहात्पक्षान्तरं संक्रान्तमित्यवगम्यते । तत्र दुःश्रुतस्वप्नादिविज्ञानमूलत्वं त सर्ववेष्टनस्येति विरोधात्कल्प्यते । न हि तस्य सति विरोधे प्रामाण्यमभ्युपगन्तव्यमिति किंचिदस्ति प्रमाणम् । तस्माद्यथैवैकस्मिन् पक्षे न शक्या श्रुतिः कल्पयितुम्, एवमपरस्मिन् पक्षे, तुल्यकारणत्वात् । अपि चेतरेतराश्रयेऽन्यतः परिच्छेदात् । केयमितरेतराश्रयता । प्रमाणायां स्मृतौ स्पर्शनं व्यामोहः, स्पर्शने प्रमाणे स्मृतिर्व्यामोहः, तदेतदितरेत्राश्रयं भवति । तत्र स्पर्शनस्य कॢप्तं मूलं कल्प्यं स्मृतेः, सोऽसावन्यतः परिच्छेदः । कल्प्यमूलत्वात्स्मृतिप्रामाण्यमनवकॢप्तं । तदप्रामाण्यात्स्पर्शनं न व्यामोहः । तदव्यामोहात्स्मार्तश्रुतिकल्पनानुपपन्ना प्रमाणाभावात् । नन्वेवं सति व्रीहिसाधनत्वविज्ञानस्याप्यव्यामोहाद्यवश्रुतिर्नोपपद्येत । सत्यं नोपपद्यते, यद्यप्रत्यक्षा स्यात् । प्रत्यक्षा त्वेषा । न हि प्रत्यक्षमनुपपन्नं नामास्ति । द्वयोस्तु श्रुत्योर्भावात् । द्वे ह्येते वाक्ये । तत्रैकेन केवलयवसाधनता गम्यते, [६८]{*१।५७२*} एकेन केवलव्रीहिसाधनता । न च वाक्येनावगतोऽर्थोऽपह्नूयते । तस्माद्व्रीहियवयोरुपपन्नो विकल्पो बृहद्रथन्तरयोश्च । तस्मादुक्तं श्रुतिविरुद्धा स्मृतिरप्रमाणमिति । अतश्च सर्ववेष्टनादि नादरणीयम् । ण्Oट्Eष् *{१।५७१ E२ २,९८॑ E४ १,२८१॑ E५ २,८५॑ E६ १,४६}* *{१।५७२ E२ २,१०२॑ E४ १,२८१॑ E५ २,८९॑ E६ १,४७}* ____________________________________________ हेतुदर्शनाच्च ॥ १,३ ।४ ॥ लोभाद्वास आदित्समाना औदुम्बरीं कृत्स्नां वेष्टितवन्तः केचित् । तत्स्मृतेर्बीजम् । बुभुक्षमाणाः केचित्क्रीतराजकस्य भोजनमाचरितवन्तः । अपुंस्त्वं प्रच्छादयन्तश्चाष्टाचत्वारिंशद्वर्षाणि वेदब्रह्मचर्यं चरितवन्तः । तत एषा स्मृतिरित्यवगम्यते । अधिकरणान्तरं वा । वैसर्जनहोमीयं वासोऽध्वर्युर्गृह्णातीति, यूपहस्तिनो दानमाचरन्तीति । तत्कर्तृसामान्यात्प्रमाणमिति प्राप्ते{*१।५७३*} । अप्रमाणं स्मृतिः । अत्रान्यन्मूलम् । लोभादाचरितवन्तः केचित्, तत एषा स्मृतिः । उपपन्नतरं चैतद्वैदिकवचनकल्पनात् । ण्Oट्Eष् *{१।५७३ ंष्१ ।३ ।२}* ____________________________________________ शिष्टाकोपेऽविरुद्धमिति चेत् ॥ १,३ ।५ ॥ आचान्तेन कर्तव्यम्॑ यज्ञोपवीतिना कर्तव्यम्॑ दक्षिणाचारेण कर्तव्यमित्येवंलक्षणान्युदाहरणानि । किमेतानि श्रुतिविरुद्धानि न कर्तव्यानि उताविरुद्धानि कार्याणीति । [६९]{*१।५७४*} इति{*१।५७५*} चेत्पश्यसि, तैरप्यनुष्ठीयमानैर्वैदीकं किंचिन्न कुप्यति, तस्मादविरुद्धानीति । ण्Oट्Eष् *{१।५७४ E२ २,११५॑ E४ १,३४६॑ E५ २,९३॑ E६ १,४७}* *{१।५७५ E२,४,६ ओम् । इति}* ____________________________________________ न शास्त्रपरिमाणत्वात् ॥ १,३ ।६ ॥ नैतदेवम् । शास्त्रपरिच्छिन्नं हि क्रमं बाधेरन् । कथम् । वेदं कृत्वा वेदिं कुर्वीतेतीमां श्रुतिमुपरुन्ध्यादन्तरा वेदं वेदिं चानुष्ट्ःीयमानमाचमनादि । दक्षिणेन चैकहस्तेनानुष्ठीयमानेषु पदार्थेषु कदाचित्प्रधानं स्वकालमतिक्रामेत । उभाभ्यां हस्ताभ्यामनुतिष्ठन् प्रधानकालं संभावयिष्यति । ____________________________________________ अपि वा कारणाग्रहणे प्रयुक्तानि प्रतीयेरन् ॥ १,३ ।७ ॥ अपि वेति पक्षव्यावृत्तिः । अगृह्यमाणकारणा एवंजातीयकाः प्रमाणम् । ननु क्रमकालौ विरुन्धन्ति{*१।५७६*} । विरुध्नन्तु{*१।५७७*} । नैष दोषः । आचमनं पदार्थः पदार्थानां च गुणः क्रमः । न च गुणानुरोधेन पदार्थो न कर्तव्यो भवति । अपि च प्राप्तानां पदार्थानामुत्तरकालं क्रम आपतति । यदा पदार्थः प्राप्नोति, तदा क्रम एव नास्ति, केन सह विरोधो भविष्यतीति । तथा यदि दक्षिणेन नाचर्यते, कालो मा विरोधीदिति, तत्र कालानुरोधेन पदार्थो नान्यथात्वमभ्युपगच्छेत् । प्रयोगाङ्गं हि कालः पदार्थानामुपकारकः । अतो न कालानुरोधेन व्यथयितव्यः पदार्थः । अपि च शौचं दक्षिणाचारता यज्ञोपवीतित्वं चैवंजातीयका अर्था व्यवधातारो न भवन्ति । सर्वपदार्थानां [७०]{*१।५७८*} शेषभूतत्वात् । तस्मादाचमनादीनां प्रामाण्यम् । ण्Oट्Eष् *{१।५७६ E२,४,५,६ विरुन्धन्ति}* *{१।५७७ E२,४,५,६ विरुन्ध्नन्तु}* *{१।५७८ E२ २,१२०॑ E४ १,३५६॑ E५ २,९६॑ E६ १,४८}* ____________________________________________ तेष्वदर्शनाद्विरोधस्य समा विप्रतिपत्तिः स्यात् ॥ १,३ ।८ ॥ यवमयश्चरुः॑ वाराही उपानहौ{*१।५७९*}॑ वैतसे कटे प्राजापत्यान् संचिनोतीति यववराहवेतसशब्दान् समामनन्ति । तत्र केचिद्दीर्घशूकेषु यवशब्दं प्रयुञ्जन्ते, केचित्प्रियङ्गुषु । वराहशब्दं केचित्शूकरे{*१।५८०*}, केचित्कृष्णशकुनौ । वेतसशब्दं केचिद्वञ्जुलके, केचिज्जम्ब्वाम् । तत्रोभयथा पदार्थावगमाद्विकल्पः । ण्Oट्Eष् *{१।५७९ टैत् ।Bर् । १ ।७ ।९ ।४, ंैत् ।ष् ।४ ।४६, च्f । श्ড়्Bर् । ५ ।४ ।३ ।१९}* *{१।५८० E२,४,५ सूकरे}* ____________________________________________ शास्त्रस्था वा तन्निमित्तत्वात् ॥ १,३ ।९ ॥ वाशब्दः पक्षं व्यावर्तयति । यवशब्दो यदि दीर्घशूकेषु सादृश्यात्प्रियङ्गुषु भविष्यति । यदि प्रियङ्गुषु, सादृश्याद्यवेषु । किं सादृश्यम् । पूर्वसश्ये{*१।५८१*} क्षीणे भवन्ति दीर्घशूकाः प्रियङ्गवश्चैतत्तयोः सादृश्यम् । कः पुनरत्र निश्चयः । य शास्त्रस्थानां स शब्दार्थः । के शास्त्रस्थाः । शिष्टाः । तेषामविच्छिन्ना स्मृतिः शब्देषु वेदेषु च । तेन शिष्टा निमित्तं श्रुतिस्मृत्यवधारणे । ते ह्येवं समामनन्ति यवमयेषु करम्भपात्रेषु विहितेषु वाक्यशेषम् यत्रान्या ओषधयो म्लायन्ते, अथैते मोदमाना इवोत्तिष्ठन्तीति{*१।५८२*} दीर्घशूकान् यवान् दर्शयति वेदः । वेदे दर्शनादविच्छिन्नपारम्पर्यो दीर्घशूकेषु यवशब्द इति गम्यते । तस्मात्प्रियङ्गुषु गौणः । तस्माद्दीर्घशूकानां पुरोडाशः कर्तव्यः । तस्माद्वराहं गावोऽनुधावन्तीति{*१।५८३*} शूकरे{*१।५८४*} वराहशब्दं दर्शयति । अप्सुजो वेतस इति{*१।५८५*} वञ्जुले वेतसशब्दम् । [७१]{*१।५८६*} शूकरं{*१।५८७*} हि गावोऽनुधावन्ति । वञ्जुलोऽप्सु जायते । जम्बूवृक्ष स्थले गिरिनदीषु वा । ण्Oट्Eष् *{१।५८१ E२,५,६ पूर्वसस्ये, E४ पूर्वसस्येषे}* *{१।५८२ ़ुएल्ले उन्बेकन्न्त्}* *{१।५८३ श्ড়्Bर् । ४ ।४ ।३ ।१९}* *{१।५८४ E२,४,५ सूकरे}* *{१।५८५ ़ुएल्ले उन्बेकन्न्त्}* *{१।५८६ E२ २,१४२॑ E४ १,४१६॑ E५ २,१०३॑ E६ १,४९}* *{१।५८७ E२,४,५ सूकरं}* ____________________________________________ चोदितं तु प्रतीयेताविरोधात्प्रमाणेन ॥ १,३ ।१० ॥ अथ याञ्छब्दानार्या न कस्मिंश्चिदर्थे आचरन्ति, म्लेच्छास्तु कस्मिंश्चित्प्रयुञ्जते, यथा पिकनेमसततामरसादिशब्दाः{*१।५८८*} । तेषु संदेहः किं निगमनिरुक्तव्याकरणवशेन धातुतोऽर्थः कल्पयितव्य उत यत्र म्लेच्छा आचरन्ति, स शब्दार्थ इति । शिष्टाचारस्य प्रामाण्यमुक्तं नाशिष्टस्मृतेः । तस्मान्निगमादिवशेनार्थकल्पना । निगमादीनां चैवमर्थवत्ता भविष्यति । अनभियोगश्च शब्दार्थेष्वशिष्टानामभियोगश्चेतरेषाम् । तस्माद्धातुतोऽर्थः कल्पयितव्य इत्येवं प्राप्ते ब्रूमः चोदितमशिष्टैरपि शिष्टानवगतं प्रतीयेत, यत्प्रमाणेनाविरुद्धम्, तदवगम्यमानम्, न न्याय्यं त्यक्तुम् । यत्तु शिष्टाचारः प्रमाणमिति, तत्प्रत्यक्षानवगतेऽर्थे । यत्त्वभियुक्ताः शब्दार्थेषु शिष्टा इति । तत्रोच्यते अभियुक्ततराः पक्षिणां पोषणे बन्धने च म्लेच्छाः । यत्तु निगमनिरुक्तव्याकरणानामर्थवत्तेति, तत्रैषामर्थवत्ता भविष्यति, न यत्र म्लेच्छैरप्यवगतः शब्दार्थः । अपि च निगमादिभिरर्थे कल्पयमानेऽव्यवस्थितः शब्दार्थो भवेत्, तत्रानिश्चयः स्यात् । तस्मात्पिक इति कोकिलो ग्राह्यः, नेमोऽर्धम्, तामरसं पद्मम्, सत इति दारुमयं पात्रं परिमण्डलं शतछिद्रम् । [७२]{*१।५८९*} ण्Oट्Eष् *{१।५८८ ़ुएल्ले निछ्त्नछ्गेwइएसेन्}* *{१।५८९ E२ २,१५४॑ E४ १,४५२॑ E५ २,१०७॑ E६ १,४९}* ____________________________________________ प्रयोगशास्त्रमिति चेत् ॥ १,३ ।११ ॥ इह कल्पसूत्राण्युदाहरणम् माशकम्, हास्तिकम्, कौण्डिन्यकमित्येवंलक्षणकानि किं प्रमाणमप्रमाणं वेति संदिग्धानि । किं प्राप्तम् । प्रयोगस्य शास्त्रं प्रमाणमेवंजातीयकमिति ब्रूमः । सत्यवाचामेतानि वचनानि । कथमवगम्यते । वैदिकैरेषां संवादो भवति । य एव हि वेदे ग्रहाः, त एवेह, या एव वेदे इष्टकाः{*१।५९०*}, ता एवेह । तस्मात्सत्यवाच आचार्याः । आचार्यवचः प्रमाणमिति च श्रुतिः । प्रत्यक्षतः प्रामाण्यमनवगतमिति यद्युच्येत, प्रमाणान्तरेण वचनेनावगतमिति न दोषः । वेदवाक्यैश्चैषां तुल्य आदरः । तस्मात्प्रमाणम् । ण्Oट्Eष् *{१।५९० E१ (Fन् ।) इष्टयः}* ____________________________________________ नासन्नियमात् ॥ १,३ ।१२ ॥ नैतदेवम्, असन्नियमात् । नैतत्सम्यङ्निबन्धनम्, स्वराभावात् । ____________________________________________ अवाक्यशेषा{*१।५९१*}च्च ॥ १,३ ।१३ ॥ ऋत्विजो वृणीते॑ वृता यजन्ति{*१।५९२*}॑ देवयजनमध्यवस्यन्तीति{*१।५९३*} । नात्र विधिर्गम्यते वर्तमानकालप्रत्ययनिर्देशात् । न चात्र वाक्यशेषः स्तावकोऽस्ति । तस्माद्{*१।५९४*} अप्रमाणम् । यश्चादर उक्तः, स नान्तरीयकत्वाद्वेदवाक्यमिश्रसमाम्नानात् । यत्तु श्रुतिरिति नैतत्, अर्थवादत्वात्{*१।५९५*} । कथमर्थवादः । विध्यन्तरं ह्यस्ति आग्नेयोऽष्टाकपाल इति । अत्राचार्यो वेदोऽभिप्रेतः, आचिनोत्यस्य बुद्धिमिति । यद्वाचार्यवचनं [७३]{*१।५९६*} प्रमाणं तदपेक्षम् । कतरतत् । यत्प्रमाणगम्यम् । यच्चोक्तम् सत्यवाचामेतानि वचनानीति, तन्न ण्Oट्Eष् *{१।५९१ E४ (Fन् ।) शेषत्वाच्च}* *{१।५९२ शान्श्ष् । ५ ।१ ।१}* *{१।५९३ शान्श्ष् । १५ ।१४ ।१}* *{१।५९४ E४ (Fन् ।) स्तावकस्तस्माद्}* *{१।५९५ E४ (Fन् ।) श्रुतिरिति नार्थवादत्वात्}* *{१।५९६ E२ २,१६९॑ E४ १,४७३॑ E५ २,११०॑ E६ १,५०}* ____________________________________________ सर्वत्र च प्रयोगात्संनिधानशास्त्राच्च ॥ १,३ ।१४ ॥ आचार्यवचनं हि भवति पूर्वपक्षे सर्वासु तिथिष्वमावास्येति{*१।५९७*} । संनिहितं च शास्त्रम् पौर्णमास्यां पौर्णमास्या यजेत, अमावास्यायाममावस्यया यजेदिति{*१।५९८*} । तेन श्रुतिविरुद्धवचनान्न सत्यवाचः, तस्मादप्रमाणम् । ण्Oट्Eष् *{१।५९७ ़ुएल्ले निछ्त्नछ्गेwइएसेन्}* *{१।५९८ Vग्ल् । Bऔध्श्ष्२८ ।१२, ङो ।ङ्ष्१ ।९ ।१३}* ____________________________________________ अनुमानव्यवस्थानात्तत्संयुक्तं प्रमाणं स्यात् ॥ १,३ ।१५ ॥ अनुमानात्स्मृतेराचाराणां च प्रामाण्यमिष्यते । येनैव हेतुना ते प्रमाणम्, तेनैव व्यवस्थिताः{*१।५९९*} प्रामाण्यमर्हन्ति । तस्माधोलाकादयः{*१।६००*} प्राच्यैरेव कर्तव्याः॑ आह्नीनैबुकादयो दाक्षिणात्यैर्{*१।६०१*} एव॑ उद्वृषभयज्ञादय उदीच्यैरेव । यथा शिखाकल्पो व्यवतिष्ठते केचित्त्रिशिखाः, केचित्पञ्चशिखा इति । ण्Oट्Eष् *{१।५९९ E४ (Fन् ।) हेतुव्यवस्थिता एव}* *{१।६०० E१,५,६॑ E२,४ होलाकादिः, E४ (Fन् ।) तस्माधोलाकादयः॑ तद्धोलाकादयः}* *{१।६०१ E४ (Fन् ।) आह्नीनैबुका दाक्षिणात्यैर्}* ____________________________________________ अपि वा सर्वधर्मः स्यात्, तन्न्यायत्वाद्विधानस्य ॥ १,३ ।१६ ॥ अपि वेति पक्षव्यावृत्तिः । एवंजातीयकः सर्वधर्मः स्यात् । कुतः । तन्न्यायत्वाद्विधानस्य । विधीयतेऽनेनेति विधानं शब्दः । सोऽनुमीयते स्मृत्याः । न च तस्याकृतिवचनता न्याय्या । न च व्यक्तिवचनता, न सर्वेषामनुष्ठातॄणां यदेकं [७४]{*१।६०२*} सामान्यं, तस्य वाचकः कश्चित्शब्दोऽस्ति, योऽनुमीयेत । तस्मात्सर्वधर्मता विधेर्न्याय्या । कुतः । पदार्थाः कर्तव्या इति प्रमाणमस्ति, व्यवस्थायां तु न किञ्चित्प्रमाणमस्ति । अथ यदुक्तम्, यथा शिखाकल्पो व्यवतिष्ठत इति ण्Oट्Eष् *{१।६०२ E२ ळच्के॑ E४ १,४८६॑ E५ २,११३॑ E६ १,५०}* ____________________________________________ दर्शनाद्विनियोगः स्यात् ॥ १,३ ।१७ ॥ गोत्रव्यवस्थया शिखाकल्पव्यवस्थायां दर्शनं स्पष्टम् । ____________________________________________ लिङ्गाभावाच्च नित्यस्य ॥ १,३ ।१८ ॥ इदं पदेभ्यः केभ्यश्चिदुत्तरं सूत्रम् । कानि तानि पदानि । अथ किमर्थं न लिङ्गाद्व्यवस्था । यथा शुक्लो होता इति । नास्ति तन्नित्यमेषां लिङ्गम्, यद्यथादर्शनमनुवर्तते । येऽपि श्यामा बृहन्तो लोहिताक्षाः, तेऽपि न सर्व आर्ह्नीनैबुकादीन् कुर्वते । अनेवंलिङ्गा अपि चानुतिष्ठन्ति । तस्मान्न व्यवस्था । शुक्लो होतेति प्रत्यक्षा श्रुतिः । ____________________________________________ आख्या हि देशसंयोगात् ॥ १,३ ।१९ ॥ अथ कस्मान्न समाख्यया नियमः । ये दाक्षिणात्या इति समाख्याताः, त आह्नीनैबुकादीन् करिष्यन्ति । य उदीच्या इति समाख्याताः, त उद्वृषभयज्ञादीन् । ये प्राच्या इति, ते होलाकादीन् । यथा राजा राजसूयेनेति । नैतदेवम् । देशसंयोगादाख्या भवति । दाक्षिणदेशान्निर्गतः प्राक्षु वोदक्षु वावस्थित आह्नीनैबुकादीन् करोत्येव । उदीच्याश्च देशान्तर उद्वृषभयज्ञादीन्{*१।६०३*}, प्राच्याश्च होलाकादीन् । अन्यदेशश्च देशान्तरगतो न नियोगतः परपदार्थान्{*१।६०४*} करोति । तस्मान्न व्यवस्था{*१।६०५*} । राजा राजसूयेनेति तु नियता जातिः । [७५]{*१।६०६*} ण्Oट्Eष् *{१।६०३ E४ (Fन् ।) उदीच्याश्चोद्वृषभयज्ञादीन्}* *{१।६०४ E४ (Fन् ।) नियोगतः पदार्थान्}* *{१।६०५ E४ (Fन् ।) तस्मादव्यवस्था}* *{१।६०६ E२ २,१८०॑ E४ १, ४९७॑ E५ २,११६॑ E६ १,५१}* ____________________________________________ न स्याद्देशान्तरेष्विति चेत् ॥ १,३ ।२० ॥ इति चेत्पश्यसि यदि देशसंयोगादाख्या भवेत्, देशान्तरस्थस्य न भवेत् । भवति च देशानतरस्थस्य माथुर इत्यसंबद्धस्यापि मथुरया । तस्मान्न देशसंयोगादाख्या । ____________________________________________ स्याद्योगाख्या हि माथुरवत् ॥ १,३ ।२१ ॥ देशसंयोगनिमित्तायामप्याख्यायां देशान्निर्गतस्य तदाख्या न विरुद्धा । यत एषा योगाख्या योगमात्रापेक्षा, न भूतवर्तमानभविष्यत्संबन्धापेक्षा । यतो दृश्यते मथुरामभिप्रस्थितो माथुर इति, मथुरायां वसन्मथुराया निर्गतश्च । यस्य त्वतोऽन्यतमः संबन्धो नास्ति, न स माथुरः । तस्मान्न समाख्यया व्यवस्था । ____________________________________________ कर्मधर्मो वा प्रवणवत् ॥ १,३ ।२२ ॥ अथ कस्मान्न कर्माङ्गं देशः । यः कृष्णमृतिकाप्रायः, स आह्नीनैबुकादीनाम् । यथा प्राचीनप्रवणे वैश्वदेवेन यजेतेति{*१।६०७*} । ण्Oट्Eष् *{१।६०७ ंान् ।श्ष् । १ ।७ ।१ ।५}* ____________________________________________ तुल्यं तु कर्तृधर्मेण ॥ १,३ ।२३ ॥ यथा कर्तर्यव्यवस्थितं लिङ्गं श्यामादि{*१।६०८*} न पदार्थैः संवादमुपैति, तद्वद्देशलिङ्गमव्यवस्थितम्{*१।६०९*} । कृष्णमृतिकाप्रायेऽप्यन्ये न कुर्वन्ति, तथान्यलिङ्गेऽपि कुर्वन्ति । तस्मान्न देशतो व्यवस्था । प्राचीनप्रवणं तु श्रुत्या नियतं वैश्वदेवस्य । [७६]{*१।६१०*} ण्Oट्Eष् *{१।६०८ E४ (Fन् ।) व्यवस्थितश्यामादि}* *{१।६०९ E४ देशलिङ्गव्यवस्थितम्}* *{१।६१० E२ २,१८२॑ E४ १,५०५॑ E५ २,११७॑ E६ १,५२}* ____________________________________________ प्रयोगोत्पत्त्यशास्त्रत्वाच्छब्देषु न व्यवस्था स्यात् ॥ १,३ ।२४ ॥ गौर्गावी गोणी गोपोतलिका इत्येवमादयः{*१।६११*} शब्दा उदाहरणम् । गोशब्दो यथा सास्नादिमिति प्रमाणम्, किं तथा गाव्यादयोऽप्युत नेति संदेहः । किमत्रैकः शब्दोऽविच्छिन्नपारम्पर्योऽर्थाभिधायी, इतरेऽपभ्रंशाः, उत सर्वेऽनादयः । सर्व इति ब्रूमः । कुतः । प्रत्ययात् । प्रतीयते हि गाव्यादिभ्यः सास्नादिमानर्थः । तस्मादितो वर्षशतेऽप्यस्यार्थस्य संबन्ध आसीदेव, ततः परेण, ततश्च परतरेणेत्यनादिता । कर्ता चास्य संबन्धस्य नास्तीति व्यवस्थितमेव । तस्मात्सर्वे साधवः, सर्वैर्भाषितव्यम् । सर्वे हि साधयन्त्यर्थम् । यथा हस्तः, करः, पाणिरिति । अर्थाय ह्येत उच्चार्यन्ते, नादृष्टाय । न ह्येषामुच्चारणे शास्त्रमस्ति । तस्मान्न व्यवतिष्ठेत कश्चिदेक एव साधुरितरेऽसाधव इति । ण्Oट्Eष् *{१।६११ Vग्ल् । ंहाभाष्य, Eइन्ल्त्ग् ।, E१ (४ हेद् ।, १९८५), Bद् ।१, ष् ।५।२१२२}* ____________________________________________ शब्दे प्रयत्ननिष्पत्तेरपराधस्य भागित्वम् ॥ १,३ ।२५ ॥ महता प्रयत्नेन शब्दमुच्चरन्ति वायुर्नाभेरुत्थितः, उरसि विस्तीर्णः, कण्ठे विवर्तितः, मूर्धानमाहत्य परावृत्तः, वक्त्रे विचरन् विविधान् शब्दानभिव्यनक्ति । तत्रापराध्येताप्युच्चारयिता, यथा शुष्के पतिष्यामीति कर्दमे पतति, सकृदुपस्प्रक्ष्यामीति द्विरुपस्पृशति । ततोऽपराधात्प्रवृत्ता गाव्यादयो भवेयुः, न नियोगतोऽविच्छिन्नपारम्पर्या एवेति । [७७]{*१।६१२*} ण्Oट्Eष् *{१।६१२ E२ २,२१३॑ E४ १,५८०॑ E५ २,१२१॑ E६ १,५२}* ____________________________________________ अन्यायश्चानेकशब्दत्वम् ॥ १,३ ।२६ ॥ न चैष न्यायः यत्सदृशाः शब्दा एकमर्थमभिनिविशमानाः, सर्वेऽविछिन्नपारम्पर्या एवेति । प्रत्ययमात्रदर्शनादभ्युपगम्यते, सादृश्यात्साधुशब्देऽप्यवगते प्रत्ययोऽवकल्प्यते । तस्मादमीषामेकोऽनादिरन्येऽपभ्रंशाः । हस्तः, करः, पाणिरित्येवमादिषु त्वभियुक्तोपदेशादनादिरमीषामर्थेन संबन्ध इति । ____________________________________________ तत्र तत्त्वमभियोगविशेषात्स्यात् ॥ १,३ ।२७ ॥ कथं पुनस्तत्र{*१।६१३*} तत्त्वं शक्यं विज्ञातुम् । शक्यमित्याह । अर्थिनो ह्यभियुक्ता भवन्ति । दृश्यते चाभियुक्तानां गुणयतामविस्मरणमुपपन्नम् । प्रत्यक्षं चैतद्गुण्यमानं न भ्रश्यत इति । तस्माद्यमभियुक्ता उपदिशन्ति, एष एव साधुरित्यवगन्तव्यः{*१।६१४*} । ण्Oट्Eष् *{१।६१३ E४ (Fन् ।) पुनरत्र}* *{१।६१४ E४ (Fन् ।) साधुरवगन्तव्यः}* ____________________________________________ तदशक्तिश्चानुरूपत्वात् ॥ १,३ ।२८ ॥ अथ यदुक्तम् अर्थोऽवगम्यते गाव्यादिभ्यः, अत एषामप्यनादिअर्थेन संबन्ध इति । तदशक्तिरेषां गम्यते । गोशब्दमुच्चारयितुकामेन केनचिदशक्त्या गावीत्युच्चारितम् । अपरेण ज्ञातं सास्नादिमानस्य विवक्षितः, तदर्थं गौरित्युच्चारयितुकामो गावीत्युच्चारयति । [७८]{*१।६१५*} ततः शिक्षित्वापरेऽपि सास्नादिमिति विवक्षिते गावीत्युच्चारयन्ति । तेन गाव्यादिभ्यः सास्नादिमानवगम्यते । अनुरूपो हि गाव्यादिगोशब्दस्य । ण्Oट्Eष् *{१।६१५ E२ २,२२८॑ E४ १,५८५॑ E५ २,१२४॑ E६ १,५३}* ____________________________________________ एकदेशत्वाच्च विभक्तिव्यत्यये स्यात् ॥ १,३ ।२९ ॥ अत एव हि विभक्तिव्यत्ययेऽपि प्रत्ययो भवति । अश्मकैरागच्छामीत्यश्मकशब्दैकदेश उपलब्धे, अश्मकेभ्य इत्येव शब्दः स्मर्यते । ततोऽश्मकेभ्य इत्येषोऽर्थ उपलभ्यत इति । एवं गाव्यादिदर्शनाद्गोशब्दस्मरणम्, ततः सास्नादिमानवगम्यते । ____________________________________________ प्रयोगचोदनाभावादर्थैकत्वमविभागात् ॥ १,३ ।३० ॥ अथ गौरित्येवमादयः शब्दाः किमाकृतेः प्रमाणमुत व्यक्तेरिति संदेहः । उच्यते । इदं तावत्परीक्ष्यताम् किं य एव लौकिकाः शब्दाः, त एव वैदिका उतान्य इति । यदा त एव, तदापि किं त एवैषामर्थाः, ये लोके, उतान्य इति संशयः । तत्रान्ये लौकिकाः शब्दाः, अन्ये वैदिका अन्ये चैषामर्था इति ब्रूमः । कुतः । व्यपदेशभेदाद्रूपभेदाच्च । इमे लौकिकाः, इमे वैदिका इति व्यपदेशभेदः । अग्निर्वृत्राणि जङ्घनदित्य्{*१।६१६*} अन्यदिदं रूपं लौकिकादग्निशब्दात् । शब्दान्यत्वाच्च न त एवार्थाः । अपि च समामनन्ति उत्ताना वै देवगवा वहन्तीति{*१।६१७*} । ये देवानां गावः, त उत्ताना वहन्तीत्युक्ते गम्यत एव य उत्ताना वहन्ति, ते गोशब्देनोच्यन्त [७९]{*१।६१८*}इति । तस्मादन्यो वैदिकगोशब्दस्यार्थः । तथा देवेभ्यो वनस्पते हवींषि हिरण्यपर्ण प्रदिवस्ते अर्थमिति{*१।६१९*}, हिरण्यपर्णो वै देवो{*१।६२०*} वनस्पतिर्वेदे । एतद्वै दैव्यं मधु, यद्घृतमिति{*१।६२१*} वेद घृते मधुशब्दः । तस्मादमीषामन्येऽर्था इति प्राप्ते ब्रूमः य एव लौकिकाः शब्दाः, त एव वैदिकाः, त एवैषामर्था इति । कुतः । प्रयोगचोदनाभावात् । एवं प्रयोगचोदना संभवति, यदि त एव शब्दाः, त एवार्थाः । इतरथा शब्दान्यत्वेऽर्थो न प्रतीयेत । तस्मादेकशब्दत्वमिति । उच्यते प्रयोजनमिदम्, हेतुर्व्यपदिश्यतामिति । ततो हेतुरुच्यते अविभागादिति । न तेषामेषां च विभागमुपलभामहे । अत एवैकशब्दत्वम् । तांश्च तांश्चार्थानवगच्छामः । अतो नान्यत्वं च वदामः । यच्चोक्तम् य उत्ताना वदन्ति, ते देवगावाः॑ यद्घृतम्, तन्मधु॑ यो हिरण्यपर्णः, स वनस्पतिरिति । नास्ति वचनं यदुत्तानानां वहतां गोत्वं ब्रूयात् । ये गावः, त उत्ताना वहन्तीत्येवं तत् । यदि चानेन वचनेन गोत्वं विधीयते, उत्ताना वहन्तीत्यनुवादः स्यात् । न चोत्ताना वहन्तः प्रसिद्धाः केचित् । ते नियोगतो विधातव्याः, तेषु विधीयमानेषु न शक्यं गोत्वं विधातुम् । भिद्यते हि तथा वाक्यम् । यदि चान्ये वैदिकाः, तत उत्तानादीनामर्थो न गम्येत । तत्र नतरां शक्येताविज्ञातलक्षणं गोत्वं विज्ञातुम् । न चोत्तानवहनवचनमप्यनर्थकम्, स्तुत्यर्थेनार्थवद्भविष्यतीति । एवं घृतस्य मधुत्वम्, हिरण्यपर्णता च वनस्पतेः । तस्मात्त एव शब्दा अर्थाश्च । यदि लौकिकास्त एवार्थाः, तदा संदेहः किमाकृतिः शब्दार्थोऽथ व्यक्तिरिति । का पुनराकृतिः, का व्यक्तिरिति । द्रव्यगुणकर्मणां सामान्यमात्रमाकृतिः, असाधारणविशेषा [८०]{*१।६२२*} व्यक्तिः । कुतः संशयः? गौरित्युक्ते सामान्यप्रत्ययाद्, व्यक्तौ च क्रियासंबन्धात् । तदुच्यते व्यक्तिः शब्दार्थ इति । कुतः? प्रयोगचोदनाभावात् । आलम्भनप्रोक्षणविशसनादीनां प्रयोगचोदना आकृत्यर्थे न संभवेयुः । यत्रोच्चारणानर्थक्यम्, तत्र व्यक्त्यर्थः । अतोऽन्यत्राकृतिवचन इति चेत् । उक्तम्{*१।६२३*} अन्यायश्चानेकार्थत्वमिति । कथं सामान्यावगतिरिति चेत् । व्यक्तिपदार्थस्याकृतिश्चिह्नभूता भविष्यति, य एवमाकृतिकः, स गौरिति । यथा यस्य दण्डोऽस्ति, स दण्डीति, न च दण्डवचनो दण्डिशब्दः । एवमिहापि । ण्Oट्Eष् *{१।६१६ ऋV ६ ।१६ ।३४ }* *{१।६१७ आप्श्ष् । ११ ।७ ।६}* *{१।६१८ E२ २,२३१॑ E४ १,६१८॑ E५ २,१४८॑ E६ १,५४}* *{१।६१९ टैत् ।Bर् । ३ ।६ ।११ ।२}* *{१।६२० E४ हिरण्यपर्णो वै देवो॑ E२ हिरण्यपर्णो वै देववनस्पतिर्॑ E४ (Fन् ।) हिरण्यपर्णो देववनस्पतिः॑ E५,६ हिरण्यपर्णो देवो}* *{१।६२१ ़ुएल्ले निछ्त्नछ्गेwइएसेन्}* *{१।६२२ E२ २,२३७॑ E४ १,६१९॑ E५ २,१५३॑ E६ १,५४}* *{१।६२३ ंष्१ ।३ ।२६}* ____________________________________________ द्रव्यशब्दात् ॥ १,३ ।३१ ॥ द्रव्याश्रयस्य शब्दो द्रव्यशब्दः, न तत्र द्रव्याश्रयवचनः शब्दो भवेत्, यद्याकृतिः शब्दार्थो भवेत् । षड्देया द्वादश देया{*१।६२४*} चतुर्विंशतिर्देया इति । न ह्याकृतिः षडादिभिः संख्याभिर्युज्यते । तस्मान्नाकृतिवचनः । ण्Oट्Eष् *{१।६२४ E२,४,६ (रिछ्तिग्) देयाश्॑ E५ देयाः}* ____________________________________________ अन्यदर्शनाच्च ॥ १,३ ।३२ ॥ यदि पशुरुपाकृतः पलायेत, अन्यं तद्वर्णं तद्वयसमालभेत इति{*१।६२५*} । यद्याकृतिवचनः शब्दो भवेत्, अन्यस्यालम्भो नोपपद्यते । अन्यस्वापि पशुद्रव्यस्य सैवाकृतिः । तस्माद्व्यक्तिवचन इति । ण्Oट्Eष् *{१।६२५ Kआत् ।श्ष् । २५ ।९ ।१}* ____________________________________________ आकृतिस्तु क्रियार्थत्वात् ॥ १,३ ।३३ ॥ तुशब्दः पक्षं व्यावर्तयति । आकृति शब्दार्थः । कुतः? क्रियार्थत्वात् । श्येनचितं चिन्वीत इति{*१।६२६*} वचनमाकृतौ संभवति, यद्याकृत्यर्थः श्येनशब्दः । व्यक्तिवचने तु न चयनेन श्येनव्यक्ति[८१]{*१।६२७*}रुत्पादयितुं शक्यत इत्यशक्यार्थवचनादनर्थकः । तस्मादाकृतिवचनः । ननु श्येनव्यक्तिभिश्चयनमनुष्ठास्यते । न साधकतमः श्येनशब्दार्थः, ईप्सिततमो ह्यसौ श्येनशब्देन निर्दिश्यते । अतश्चयनेन श्येनो निवर्तयितव्यः, स आकृतिवचनत्वेऽवकल्प्यते । ननूभयत्र क्रियाया असंभव एव व्यपदिश्यते । नाकृतिः शब्दार्थः । कुतः । क्रिया न संभवेदाकृतौ शब्दार्थे, व्रीहीन् प्रोक्षतीति{*१।६२८*} । तथा न व्यक्तिः शब्दार्थः, क्रियैव न संभवेद्व्यक्तेः शब्दार्थत्वे{*१।६२९*}, श्येनचितं चिन्वीत इति । यदप्युच्यते व्रीहीन् प्रोक्षतीति व्यक्तिलक्षणार्थाकृतिरिति, शक्यमन्यत्रापि श्येनचितं चिन्वीत इति वदितुमाकृतिलक्षणार्था व्यक्तिरिति । किं पुनरत्र ज्यायः । आकृतिः शब्दार्थ इति । यदि व्यक्तिः शब्दार्थो भवेत्, व्यक्त्यन्तरे न प्रयुज्येत । अथ व्यक्त्यन्तरे प्रयुज्यते, न तर्हि व्यक्तिः शब्दार्थः, सर्वसामान्यविशेषविनिर्मुक्ता हि व्यक्तिरित्य् । उच्यते नैष दोषः । व्यक्त्यन्तरे सर्वसामान्यविशेषविनिर्मुक्त एव प्रवर्तिष्यते । यदि व्यक्त्यन्तरे सर्वसामान्यविशेषवियुक्ते प्रवर्तिष्यते, सामान्यमेव तर्हि तत् । नेत्युच्यते यो ह्यर्थः सामान्यस्य विशेषाणां चाश्रयः, सा व्यक्तिः । व्यक्तिवचनश्च शब्दो न सामान्ये, न विशेषे वर्तते । तेषां त्वाश्रयमेवाभिदधाति, तेन व्यक्त्यन्तरे वृत्तिरदोषः । न हि तत्सामान्यम् । यदि व्यक्त्यन्तरेष्वपि भवति, सर्वसामान्यविशेषवियुक्तायामश्वव्यक्तौ गोशब्दः किमिति न वर्तते । आह येष्वेव प्रयोगो दृष्टः, तेषु वर्तिष्यते, न सर्वत्र । न चाश्वव्यक्तौ गोशब्दस्य प्रयोगो दृष्टः । तस्मात्तत्र न वर्तिष्यते । यदि यत्र [८२]{*१।६३०*} प्रयोगो दृष्टः, तत्र वृत्तिः, अद्यजातायां गवि प्रथमप्रयोगो न प्राप्नोति तत्रादृष्टत्वात् । सामान्यप्रत्ययश्च न प्राप्नोति, इयमपि गौरिति, इयमपि गौरिति॑ इयं वा गौरिति, इयं वा गौरिति स्यात् । भवति तु सामान्यप्रत्ययोऽदृष्टपूर्वायामपि गोव्यक्तौ । तस्मान्न प्रयोगापेक्षो गोशब्दो व्यक्तिवचन इति शक्यत आश्रयितुम् । एवं तर्हि शक्तेः स्वभाव एषः, यत्कस्यांचित्व्यक्तौ वर्तते, कस्यांचिन्न । यथा अग्निरुष्णः, उदकं शीतम्, एवमेतद्भविष्यतीति । नैवं सिध्यति । न ह्येतद्गम्यते कस्यांचिद्व्यक्तौ वर्तते, कस्यांचिन्नेति । सत्यमेतत्, गोत्वं लक्षणं भविष्यतीति । यत्र गोत्वं तस्यां व्यक्ताविति । एवं तर्हि विशिष्टा व्यक्तिः प्रतीयेत । यदि च विशिष्टा, पूर्वतरं विशेषणमवगम्येत । न ह्यप्रतीते विशेषणे विशिष्टं केचन प्रत्येतुमर्हन्तीति । अस्तु, विशेषणत्वेनाकृतिं वक्ष्यति, विशेष्यत्वेन व्यक्तिम् । न ह्याकृतिपदार्थकस्य व्यक्तिर्न पदार्थः, व्यक्तिपदार्थकस्य वा नाकृतिः । उभयमुभयस्य पदार्थः । कस्यचित्किंचित्प्राधान्येन विवक्षितं भवति, तेनात्राकृतिर्गुणभावेन, व्यक्तिः प्रधानभावेन विवक्ष्यत इति । नैतदेवम् । उभयोरुच्यमानयोर्गुणप्रधानभावः स्यात् । यदि चात्राकृतिः प्रतीयते शब्देन, तदा व्यक्तिरपि पदार्थ इति न शक्यते वदितुम् । कुतः । आकृतिर्हि व्यक्त्या नित्यसंबद्धा, संबन्धिन्यां च तस्यामवगतायां संबन्ध्यन्तरमवगम्यते । तदेतदात्मप्रत्यक्षम्, यच्छब्द उच्चरिते व्यक्तिः प्रतीयत इति । किं शब्दादुताकृतेरिति विभागो न प्रत्यक्षः । सोऽन्वयव्यतिरेकाभ्यामवगम्यते । अन्तरेणापि शब्दम्, य आकृतिमवबुध्येत, अवबुध्येतेवासौ{*१।६३१*} व्यक्तिम् । यस्तूच्चरितेऽपि शब्दे मानसादपचारात्कदाचिदाकृतिं नोपलभेत, न जातुचिदसाविमां व्यक्तिमवगच्छेत । ननु व्यक्तिविशिष्टायामाकृतौ वर्तते । [८३] व्यक्तिविशिष्टायां चेद्वर्तेत, व्यक्त्यन्तरविशिष्टा न प्रतीयेत । तस्माच्छब्द आकृतिप्रत्ययस्य निमित्तम् । आकृतिप्रत्ययो व्यक्तिप्रत्ययस्येति । ननु गुणभूता प्रतीयत इत्युक्तम् । न गुणभावोऽस्मत्पक्षस्य बाधकः । सर्वथा तावत्प्रतीयते । अर्थाद्गुणभावः प्रधानभावो वा । स्वार्थं चेदुच्चार्यते, प्रधानभूता । अथ न स्वार्थम्, परार्थमेव, ततो गुणभूता । न तत्र शब्दव्यापारोऽस्ति । ननु च दण्डीति, न तावद्दण्डिशब्देन दण्डोऽभिधीयते, अथ च दण्डविशिष्टोऽवगम्यते । एवमिहापि न तावदाकृतिरभिधीयते, अथ चाकृतिविशिष्टा व्यक्तिर्गम्येतेति । नैतत्साधु उच्यते । सत्यं दण्डिशब्देन दण्डो नाभिधीयते । न त्वप्रतीते दण्डे दण्डिप्रत्ययोऽस्ति । अस्ति तु दण्डिशब्दैकदेशभूतो दण्डशब्दः, येन दण्डः प्रत्यायितः । तस्मात्साध्वेतद्, यत् प्रतीते विशेषणे विशिष्टः प्रतीयत इति । ननु{*१।६३२*} गोशब्दावयवः कश्चिदाकृतेः प्रत्यायकः, अन्यो व्यक्तेः, यत उच्यते तत आकृतिरवगता, न गोशब्द आकृतिवचन इति । न च यथा दण्डिशब्दो न दण्डे प्रयुक्तः, एवं गोशब्दो नाकृतौ । तदर्थमेव निदर्शितं केवलाकृत्यभिधानः श्येनशब्द इति । तदेवमन्वयव्यतिरेकाभ्यामसति श्येनव्यक्तिसंबन्धे श्येनशब्दोच्चारणादाकृतिवचन इति गम्यते । न तु व्रीह्याकृतिसंबन्धमन्तरेण व्रीहिव्यक्तौ शब्दस्य प्रयोगो दृष्टः । तस्मादाकृतिवचनः शब्द इत्येतज्ज्यायः । ण्Oट्Eष् *{१।६२६ टैत् ।ष् । ५ ।४ ।११}* *{१।६२७ E२ २,२४६॑ E४ १,६६४॑ E५ २,१६०॑ E६ १,५५}* *{१।६२८ टैत् ।ष् । ३ ।२ ।५ ।४}* *{१।६२९ E४ (Fन् ।) व्यक्तौ शब्दार्थे}* *{१।६३० E२ २,२४७॑ E४ २,६६५॑ E५ २,१६३॑ E६ १,५६}* *{१।६३१ E२।४ (रिछ्तिग्) अवबुध्येतैवासौ}* *{१।६३२ E१,६॑ E२,४,५ (बेस्सेर्) न तु}* ____________________________________________ न क्रिया स्यादिति चेदर्थान्तरे विधानं न द्रव्यमिति चेत् ॥ १,३ ।३४ ॥ अथ यदुक्तम् न क्रिया संभवेद्व्रीहिन् प्रोक्षतीति । [८४]{*१।६३३*} न द्रव्यशब्दः स्यात्, षड्देया इति अन्यदर्शनवचनं च न स्यात्, अन्यं{*१।६३४*} तद्रूपमिति । तत्परिहर्तव्यम् । ण्Oट्Eष् *{१।६३३ E२ २,२६६॑ E४ १,७१५॑ E५ २,१७४॑ E६ १,५७}* *{१।६३४ E४ (Fन् ।) अथान्यं}* ____________________________________________ तदर्थत्वात्प्रयोगस्याविभागः ॥ १,३ ।३५ ॥ आकृत्यर्थत्वाच्छब्दस्य, यस्या व्यक्तेराकृत्या संबन्धः, तत्र प्रयोगः, प्रोक्षणं हि द्रव्यस्य कर्तव्यतया श्रूयते । कतमस्य । यद्यजति साधनम् । अपूर्वप्रयुक्तत्वात्तस्य नाकृतेः, अशक्यत्वात् । तत्र व्रीहिशब्द आकृतिवचनः प्रयुज्यते प्रोक्षणाश्रयविशेषणाय । स ह्याकृतिं प्रत्याययिष्यति, आकृतिः प्रतीता सती प्रोक्षणाश्रयं विशेक्ष्यतीति । तेनाकृतिवचनं न विरुध्यत इति । एवं षड्देया गावो दक्षिणा इति दक्षिणाद्रव्ये संख्यायाः प्रयोक्तव्ये गाव इत्याकृतिवचनो विशेषकः । तथा अन्यमिति विनष्टस्य प्रतिनिधेरन्यत्वसंबन्धः । तत्र पशुशब्द आकृतिवचन आकृत्या विशेक्ष्यतीति । तस्माद्गौरश्व इत्येवमादयः शब्दा आकृतेरभिधायका इति सिद्धम् । [८५]{*१।६३५*} ण्Oट्Eष् *{१।६३५ E२ २,२६८॑ E४ २,१॑ E५ २,१८०॑ E६ १,५८}* ____________________________________________ उक्तं समाम्नायैदमर्थ्यं तस्मात्सर्वं तदर्थं स्यात् ॥ १,४ ।१ ॥ उद्भिदा यजेत{*१।६३६*}॑ बलभिदा यजेत{*१।६३७*}॑ अभिजिता यजेत{*१।६३८*}॑ विश्वजिता यजेतेति{*१।६३९*} समामनन्ति{*१।६४०*} । तत्र संदेहः किमुद्भिदादयो गुणविधयः, आहोस्वित्कर्मनामधेयानीति । कुतः संशयः? उभयथापि प्रतिभातो वाक्यात् उद्भिदेत्येष शब्दो यजेतेत्यनेन संबध्यते । स किं वैयधिकरण्येन संबन्धमुपैति{*१।६४१*} उद्भिदा द्रव्येण यागमभिनिर्वर्तयेदिति, उत सामानाधिकरण्येन उद्भिदा यागेन यजेतेति । द्वेधाप्येतस्मिन् प्रतिभाति वाक्ये, संभवति संशयः । किं तावत्प्राप्तम्? उक्तमस्माभिः समाम्नायस्यैदमर्थ्यम् । कश्चिदस्य भागो विधिः, योऽविदितमर्थं वेदयति, यथा सोमेन यजेतेति । कश्चिदर्थवादः, यः प्ररोचयन् विधिं स्तौति, यथा वायुर्वै क्षेपिष्ठा देवता इति{*१।६४२*} । कश्चिन्मन्त्रः, यो विहितमर्थं प्रयोगकाले प्रकाशयति, यथा बर्हिर्देवसदनं दामीत्येवमादिः{*१।६४३*} । तस्मादुद्भिदादयोऽमीषां प्रयोजनानामन्यतमाय प्रयोजनाय भवेयुः । तत्र तावन्नार्थवादः, वाक्यशेषो हि स भवति विधातव्यस्य । न च मन्त्रः, एवंजातीयकस्य प्रकाशयितव्यस्याभावात् । पारिशेष्याद्गुणविधिः उद्भिद्गुणता यागस्य विधीयते । कुतः । प्रसिद्धेरनुग्रहात्, गुणविधेरर्थवत्त्वात्प्रवृत्तिविशेषकरत्वाच्च । न चैषां यागार्थता लोकेऽवगम्यते । न च वेदेन परिभाष्यते । अतो गुणविधयः । यदि गुणविधिः, न तर्हि कर्म विधीयते । अविहिते च कर्मणि तत्र गुणविधान[८६]{*१।६४४*}मनर्थकम् । नेति ब्रूमः । प्रकृतौ ज्योतिष्टोमे गुणविधानमर्थवद्भविष्यति । यदि नामधेयं स्याद्, यावदेव यजेतेति, तावदेव उद्भिदा यजेतेति, न प्रवृत्तौ कश्चिद्गुणविशेषः स्यात् । गुणविधौ च गुणसंयोगादभ्यधिकमर्थं विदधत उद्भिदादयः शब्दा अर्थवन्तो भविष्यन्ति । तस्माद्गुणविधय इत्येवं प्राप्तम् । एवं प्राप्ते ब्रूमः ण्Oट्Eष् *{१।६३६ टा ।Bर् । १९ ।७ ।२}* *{१।६३७ टा ।Bर् । १९ ।७ ।१}* *{१।६३८ टा ।Bर् । १९ ।८ ।४}* *{१।६३९ टा ।Bर् । १९ ।८ ।४}* *{१।६४० E४ (Fन् ।) समाम्नातं}* *{१।६४१ E४ (Fन् ।) संबद्धुमर्हति}* *{१।६४२ टैत् ।ष् । २ ।१ ।१ ।१}* *{१।६४३ ंैत् ।ष् । १ ।१ ।२ ।१}* *{१।६४४ E२ २,२७१॑ E४ २,२॑ E५ २,१८८॑ E६ १,५९}* ____________________________________________ अपि वा नामधेयं स्याद्यदुत्पत्तावपूर्वमविधायकत्वात् ॥ १,४ ।२ ॥ अपि वेति पक्षो विपरिवर्तते । नामधेयं स्यादिति प्रतिजानीमहे एवमविहितमर्थं विधास्यति ज्योतिष्टोमाद्यागान्तरम् । श्रुतिश्चैवं यागमभिधास्यति । इतरथा श्रुतिरुद्भिदादीन् वक्ष्यन्ती उद्भिदादिमतो लक्षयेत् । उद्भिद्वता यागेन कुर्यादिति । यागेन कुर्यादिति यजेतेत्यस्यार्थः । करणं हि यागः, उद्भिदाद्यपि तृतीयानिर्देशात्करणम्, तत्रोद्भिदा यागेनेति कर्मनामधेयत्वेन सामानाधिकरण्यसामञ्जस्यम् । द्रव्यवचनत्वे मत्वर्थलक्षणया सामानाधिकरण्यं स्यात् । श्रुतिलक्षणाविशये च श्रुतिर्ज्यायसी । तस्मात्कर्मनामधेयम् । ननु प्रसिद्धं द्रव्यवचनत्वमपह्नूयेत, अप्रसिद्धं कर्मवचनत्वं प्रतिज्ञायेत । उच्यते तृतीयानिर्देशात्कर्मवचनता । कुतः? करणवाचिनो हि प्रातिपादिकात्तृतीया भवति, करणं च यागः । तेन यागवचनमिममनुमास्यामहे । नैतद्युक्तम् । यदि तृतीयानिर्देशे सत्युद्भिदादिभ्यः शब्देभ्यो यागे बुद्धिरुत्पद्येत स्यादेतदेवम् । न हि नो बुद्धिरुत्पद्यते, तस्मादयुक्तम् । तृतीयावचनमन्यथा नोपपद्यत इति चेत् । कामं नोपपादि{*१।६४५*}, न जातुचिदनवगम्यमाने [८७]{*१।६४६*}ऽपि यागवचनो भविष्यति, तस्माद्गुणविधयः । लक्षणेति चेत् । वरं लक्षणा कल्पिता, न यागाभिधानम् । लौकिकी हि लक्षणा, हठोऽप्रसिद्धकल्पनेति । अपि च यदि नामधेयं विधीयते, न यागः । अथ यागः, न नामधेयम् । उभयविधाने वाक्यभेद इति । उच्यते न नामधेयं विधायिष्यते । अनुवादा ह्युद्भिदादयः । कुतः प्राप्तिरिति चेत् । ततोऽभिधीयते उच्छब्दसामर्थ्याद्भिच्छब्दसामर्थ्याच्चोद्भिच्छब्दः क्रियावचनः उद्भेदनं प्रकाशनं पशूनामनेन क्रियत इत्युद्भिद्यागः । एवमाभिमुख्येन जयादभिजित्, विश्वजयाद्विश्वजित् । एवं सर्वत्र । अतः कर्मनामधेयम् । यत्त्वप्रवृत्तिविशेषकरोऽनर्थक इति, नामधेयमपि गुणफलोपबन्धेनार्थवत् । तस्मात्कर्मनामधेयान्येवंजातीयकानीति सिद्धम् । ण्Oट्Eष् *{१।६४५ E२,४,५,६ मोपपादि}* *{१।६४६ E२ २,२७४॑ E४ २,२१॑ E५ २,१९२॑ E६ १,५९}* ____________________________________________ यस्मिन् गुणोपदेशः प्रधानतोऽभिसंबन्धः ॥ १,४ ।३ ॥ चित्रया यजेत पशुकामः{*१।६४७*}॑ त्रिवृद्बहिष्पवमानम्{*१।६४८*}॑ पञ्चदशान्याज्यानि{*१।६४९*}॑ सप्तदशपृष्ठानीत्य्{*१।६५०*}{*१।६५१*} उदाहरणम् । किं चित्राशब्दः, पवमानशब्दः, आज्यशब्दः पृष्ठशब्दश्च गुणविधय उत कर्मनामधेयानीति संशयः । प्रसिद्धेः, अर्थवत्त्वात्प्रवृत्तिविशेषकरत्वाच्च गुणविधयः । न चैते कर्माणि प्रसिद्धाः । न चामी यौगिकाः । जातिशब्दा ह्येते, चित्रेति च गुणशब्दः । चित्रया यजेति च यागानुवादः, विज्ञातत्वान्न यागविधिः । गुणे फलकल्पनायां यजतेर्न विवक्षा । तथाज्यानि भवन्ति, पृष्ठानि भवन्तीति च । गुणविधिकल्पनायामपि न लक्षणा । तस्माद्गुणविधय इत्येवं प्राप्तम् । [८८]{*१।६५२*} एवं प्राप्ते ब्रूमः यस्मिन् गुणविधिर्नामधेयमिति संदिग्धे गुणोऽपर उपदिश्यते, प्रधानेन कर्मणा तस्य संबन्धः, कर्मनामधेयमित्यर्थः । गुणविधौ हि सति वाक्यं भिद्येत । पुंपशौ{*१।६५३*} प्राप्ते स्त्रीपशुः, पशवः फलम्, चित्रो गुण इति न शक्यमेकेन वाक्येन विधातुम् । चित्रो गुणो विधीयमानः स्त्रियां विधीयेत, नासावग्नीषोमीये पशुकामे च विधीयेत, सोऽपि नाग्नीषोमीये । तथा पञ्चदशान्याज्यानि भवन्तीत्याज्येषु पञ्चदशता । न चाविहितानि स्तोत्रेष्वाज्यानि भवन्ति, न चान्यद्विधायकं वाक्यम्, तच्चैतदाज्यानि विदध्याद्विहितेषु च पञ्चदशताम् । गम्यते च पञ्चदशताया आज्यानां च संबन्धः । स्तोत्रसंबन्धश्चाज्यानामविज्ञातः पञ्चदशतासंबन्धश्च । द्वावेतावर्थावेकवाक्यस्याशक्यौ विधातुम् । अथ नु{*१।६५४*} कर्मनामधेयम्, नैष विरोधो भवति । केवलं संख्यासंबन्धस्तदानीं विधीयते । अपि च, आज्यानि स्तोत्राणीत्यनेन शब्देन लक्षणयैव गुणो विधीयेत । अतः कर्मणां नामधेयानि वाक्यान्तरैराज्यैः स्तुवते, पृष्ठैः स्तुवते इत्येवमादिभिर्विहितानाम् । यत्त्वप्रसिद्धं कर्मणां नामधेयमिति{*१।६५५*} । अवयवप्रसिद्ध्या{*१।६५६*}, आजिगमनादाज्यानि । कथमाजिगमनमिति । अर्थवादवचनात् । यदाजिमीयुस्तदाज्यानामाज्यत्वमिति । स्पर्शवचनात्पृष्ठानि । पवमानार्थमन्त्रकत्वाद्बहिःसंबन्धाच्च बहिष्पवमानम् । दधि मधु पयो घृतं धानास्तण्डुला उदकमिति{*१।६५७*} नानाविधद्रव्यत्वाच्{*१।६५८*} चित्रा । तस्मादेवंजातीयकानि कर्मनामधेयानीति । अथ कस्मान्न पञ्चदशसंख्याविशिष्टान्याज्यानि स्तोत्रकर्मसु विधीयन्ते । विशिष्टानां वाचकस्य शब्दस्याभावात् । ननु पदद्वयमिदं वाचकं भविष्यति, पञ्चदशान्याज्यानि [८९]{*१।६५९*} इति विशिष्टानाम्, तदेतेषु स्तोत्रेषु विधास्यति । नैतत्पदद्वयमपि विधायकम् । एकमत्र विधायकम्, एकमुद्देशकम् । उभयस्मिन् विधायके परस्परेण संबन्धो न स्यात् । अविधायके स्तोत्रसंबन्धो न विधीयते । न चात्रैकं पदं विशेषणं प्रत्युद्देशकम्, स्तोत्रं प्रति विधायकं भवितुमर्हति । वचनव्यक्तिभेदादतोऽयमसमाधिः । ण्Oट्Eष् *{१।६४७ टैत् ।ष् । २ ।४ ।६ ।१}* *{१।६४८ टा ।Bर् । १९ ।११ ।२}* *{१।६४९ टा ।Bर् । १९ ।११ ।२}* *{१।६५० टा ।Bर् । १९ ।१ ।२}* *{१।६५१ E२,४ (रिछ्तिग्) सप्तदशानि पृष्ठानीति, E५,६ सप्तदश पृष्ठानि}* *{१।६५२ E२ २,२८०॑ E४ २,३७॑ E५ २,१९९॑ E६ १,६०}* *{१।६५३ E४ (Fन् ।) पुंस्पशौ}* *{१।६५४ E४ (Fन् ।) तु}* *{१।६५५ E४ (व् ।ल् ।) नामेति}* *{१।६५६ E४ (व् ।ल् ।) प्रसिद्ध्याप्रसिद्धं}* *{१।६५७ E२,४,५,६ (बेस्सेर्) उदकं तत्संसृष्टं प्राजापत्यमिति, दिएसे ळेसर्थत्E१ औछल्स्Fन्}* *{१।६५८ E४ (व् ।ल् ।) द्रव्यवत्त्वाच्}* *{१।६५९ E२ २,२८४॑ E४ २,३८॑ E५ २,२०९॑ E६ १,६१}* ____________________________________________ तत्प्रख्यं चान्यशास्त्रम् ॥ १,४ ।४ ॥ अग्निहोत्रं जुहोति स्वर्गकाम इति{*१।६६०*}॑ आघारमाघारयतीति{*१।६६१*} च समामनन्ति । तत्र संशयः किमग्निहोत्रशब्द आधारशब्दश्च गुणविधी, उत कर्मनामधेय इति । गुणविधी इति ब्रूमः । कुतः? गम्यते हि अग्नये होत्रमस्मिन्निति । तथा क्षरणसमर्थं द्रव्यं घृतादि, आघारमाघारयतीति । प्रसिद्धिरेवमनुग्रहीष्यते । गुणविधिश्च दर्विहोमे, आघारश्चोपांशुयाजे । तत्रैतयोरर्थवत्ता प्रवृत्तिविशेषकरत्वं च । न च गुणविधिपक्षे लक्षणा भवति यथोद्भिदा यजेत इति । अग्निहोत्रे समासेनावगतं गुणविधानम् । आघारेऽपि आघारं निर्वर्तयतीति श्रुत्यैव गुणो विधीयते । तस्माद्गुणविधीत्येवं प्राप्ते । ब्रूमह् तत्प्रख्यं चान्यशास्त्रम् । यौ गुणावेताभ्यां विधीयेत इत्याशङ्क्यते, तावन्यत एवावगतौ । यदग्नये च प्रजापतये च सायं जुहोतीति{*१।६६२*} देवताविधानम् । चतुर्गृहीतं वा एतदभूत्तस्याधारमाधार्या इत्य्{*१।६६३*} आधारे च द्रव्यविधिः । अविदितवेदनं च विधिरित्युच्यते । विदितं चात्रान्यतो गुणविधानम् । तस्मान्न गुणविधी । कर्मनामधेये तु संभवतः । यस्मिन्नग्नये होत्रं [९०]{*१।६६४*} होमो भवति, तदग्निहोत्रम् । दीर्घधारा क्षरणक्रिया प्रसिद्ध एवाघारः । तस्मात्कर्मनामधेये । प्रसिद्ध्यादयश्चोक्तोत्तराः । प्रजापतिनिवृत्त्यर्थमग्निविधानं भविष्यतीति चेन् । नैतदेवम् । अग्निं ह्येष विधातुं शक्नोति, न पर्जापतिं प्रतिषेद्धुं । प्रतिषिध्यमानस्य च प्रजापतेर्विधानमनर्थकं स्यात्, प्रजापतिर्देवतेति गम्यते । गम्यमानं च न शक्यं मिथ्येति कल्पयितुम् । अतोऽयमसमाधिः । उच्यते आघारमाघारयतीति द्रव्यपरा चोदना । यैस्तु द्रव्यं चिकीर्ष्यत इति{*१।६६५*}, द्रव्यं ह्यनया क्रियया क्षार्यते । क्षारितं च यागं साधयति । तत्कस्य प्रधानस्य कर्मणो नामधेयमिति । उच्यते एतदेवाघारणं प्रधानकर्म । नन्वस्य द्रव्यदेवतण्नास्ति । अस्तीति ब्रूमः । तस्याघारमाघार्येत्याज्यं द्रव्यम्॑ मान्त्रवर्णिकी देवता इन्द्र ऊर्ध्वोद्धर इत्याघारमाघारयतीति{*१।६६६*} मन्त्रो ह्यभिदधत्कर्म, तत्साधनं वा कर्मणि समवैति । एष च मन्त्र इन्द्रमभिधातुं शक्नोति । स यदीन्द्रस्तत्साधनं भवेत्, एवमनेन मन्त्रेणाघारः शक्यते कर्तुम् । तस्मादिन्द्रो देवता, द्रव्यदेवतासंयुक्तमाघारणम् । तस्माद्यजतिः, तस्य यजतेर्नामधेयमिति । ण्Oट्Eष् *{१।६६० टैत् ।ष् । १ ।५ ।९}* *{१।६६१ टैत् ।ष् । ६ ।३ ।७ ।३ ।, टैत् । Bर् । ३ ।३ ।७}* *{१।६६२ Vग्ल् । ंैत् ।ष् । १ ।८ ।७}* *{१।६६३ ़ुएल्ले निछ्त्नछ्गेwइएसेन्}* *{१।६६४ E२ २,२८६॑ E४ २,६६॑ E५ २,२१४॑ E६ १,६१}* *{१।६६५ ंष्२ ।१ ।८}* *{१।६६६ श्ড়्Bर् । १ ।५ ।१ ।४, टैत् ।Bर् । ३ ।३ ।७ ।७, ंन्त्र ंाध्य् ।ष् । २ ।८, टैत् ।ष् । १ ।१ ।१२}* ____________________________________________ तद्व्यपदेशं च ॥ १,४ ।५ ॥ अथैष श्येनेनाभिचरन् यजेत{*१।६६७*}॑ अथैष संदंशेनाभिचरन् यजेत{*१।६६८*}॑ अथैष गवाभिचरन् यजेतेति{*१।६६९*} समाम्नायन्ते । तत्र गुणविधिः कर्मनामधेयमिति संदेहः । प्रसिद्ध्यादिभिः पूर्वपक्षः, उद्भिदादीनामिव । ते तूद्भिदादयः क्रियानिमित्ताः शक्नुवन्ति यागं वदितुम् । इमे पुनर्जातिनिमित्ता न शक्नुवन्ति, [९१]{*१।६७०*} तेन गुणविधय इत्येवं प्राप्तम् । एवं प्राप्ते ब्रूमः तद्व्यपदेशं च । तेन श्येनादीना प्रसिद्धेन यस्य व्यपदेशः, तच्च कर्मनामधेयम् । श्रुतिर्हि नामधेयत्वे, लक्षणा गुणविधौ । यत्तु जातिशब्दाः, इमे न यागमभिवदन्तीति । सादृश्यव्यपदेशादभिवदिष्यन्ति । एवं हि व्यपदेशो भवति यथा वै श्येनो निपत्यादत्ते, एवमयं द्विषन्तं भ्रातृव्यं निपत्यादत्ते, यमभिचरन्ति श्येनेनेति{*१।६७१*} । निपत्यादत्त इत्यनेन सादृश्येन श्येनशब्दो यागे, यथा सिंहो देवदत्त इति । तस्मात्कर्मनामधेयम् । संदंशे, संदंशेन यथा दुरादानमादत्त इति । गवि यथा गावो गोपायन्तीति । तस्मात्संदंशशब्दोऽपि कर्मनामधेयं गोशब्दोऽपि । ण्Oट्Eष् *{१।६६७ Cf । षड् ।Bर् । ३ ।८ ।१}* *{१।६६८ ़ुएल्ले निछ्त्नछ्गेwइएसेन्}* *{१।६६९ ़ुएल्ले निछ्त्नछ्गेwइएसेन्}* *{१।६७० E२ २,२८९॑ E४ २,८३॑ E५ २,२१९॑ E६ १,६२}* *{१।६७१ षड् ।Bर् । ३ ।८ ।३}* ____________________________________________ नामधेये गुणश्रुतेः स्याद्विधानमिति चेत् ॥ १,४ ।६ ॥ वाजपेयेन स्वाराज्यकामो यजेतेति{*१।६७२*} श्रूयते । तत्र किं गुणविधिः, कर्मनामधेयमिति संदेहः । एवं चेत्संदेहः, दृश्यते गुणविधिः । न संदेहः, श्रूयते हि गुणः । सोऽवगम्यमानो न शक्यो नास्तीति वदितुम् । तस्माद्गुणविधिः । ण्Oट्Eष् *{१।६७२ टैत् ।Bर् । १ ।३ ।६ ।९}* ____________________________________________ तुल्यत्वात्क्रिययोर्न ॥ १,४ ।७ ॥ नैतदेवम्, तुल्ये हीमे क्रिये स्याताम् । या च वाज्य्पेयक्रिया, या च दर्शपुर्णमासक्रिया, उभयत्र दार्शपौर्णमासिको विध्यन्तः स्यात् । तथा च दीक्षाणामुपसदां च दर्शनं नावकल्प्येत, सप्तदशदीक्षो वाजपेय इति, सप्तदशोपसत्को वाजपेय इति । अथ वा तुल्यत्वात्क्रिययोर्नेति । यदि न गुणविधिः, ततस्तुल्यैषा वाजपेयक्रिया ज्योतिष्टोमक्रियया । तत्र{*१।६७३*} दीक्षाणा[९२]{*१।६७४*}मुपसदां च दर्शनमुपपन्नम् । तस्मात्कर्मनामधेयमिति । लिङ्गं त्वेतत्, प्राप्तिः पुनरुत्तरसूत्रेण । ण्Oट्Eष् *{१।६७३ E४ तदा च॑ E४ (व् ।ल् ।) तत्था}* *{१।६७४ E२ २,२९२॑ E४ २,९५॑ E५ २,२२४॑ E६ १,६३}* ____________________________________________ एकशब्द्ये परार्थवत् ॥ १,४ ।८ ॥ यदि गुणविधिः स्यात्, स्वार्थवत्परार्थवच्चाभिधानं विप्रतिषिध्येत{*१।६७५*} यजेतेत्यस्य शब्दस्य । यदि स्वाराज्यकामो यजेतेति स्वाराज्यकामस्य यागं विधातुं स्वार्थमुच्यते, न तर्हि वाजपेयेन गुणेन संबद्धुं परार्थमनूद्येत यागेन वाजपेयगुणकेनेति । भिद्येत हि तथा वाक्यम् । ननु द्वे एवैते वाक्ये प्रत्यक्षमुपलभामहे स्वाराज्यकामो{*१।६७६*} यजेतेत्य्{*१।६७७*} एतदेकं प्रत्यक्षं पदद्वयम् । यजेत वाजपेयेनेत्येतदपि प्रत्यक्षमेव । नैतदेवम् । एवं सति चत्वारि पदान्युपलभेमहि, त्रीणि चैतान्युपलभ्यन्ते । उच्यते यजेतेत्येतदुभाभ्यां संभन्त्स्यते । कथं सकृदुच्चारितं संबन्धमुभाभ्यामेष्यतीति । रूपाभेदात् । ईदृशमेवास्य रूपं स्वाराज्यकामेन संबध्यमानस्या, ईदृशमेव वाजपेयेन । अतस्तन्त्रेणोभाभ्यां संभन्त्स्यत इति । नैतदस्तीदृशेनैव रूपेणेति । यद्यज्ञातः, ततो{*१।६७८*} विधिः । यदि ज्ञातः, ततोऽनुवादः । न च ज्ञातोऽज्ञातश्च युगपत्संभवतीति । आह यदिदमुक्तम्, गुणविधिपक्षेऽनुवादो यजेतेति । यद्ययमनुवादः, केनेदानीं गुणो विधीयते । वाजपेयशब्देनेति मा वोचः । न ह्याख्यातमन्तरेण कृत्यं वा, नामशब्दार्थस्य व्यापारो{*१।६७९*} विधीयते । यश्चात्राख्यातशब्दो यजेतेति, सोऽनुवाद इत्युक्तम् । केनेदानीं तस्य व्यापारो विधीयते । अतः स्वाराज्यकामं गुणं च प्रति यजेतेति विधिः । तस्मादुभाभ्यां संबध्यत इति । यद्युभयत्र विधिः, वाजपेयो न स्वाराज्यकामस्य यागेन संबध्येत । द्वे ह्येते तदा वाक्ये, न स्वाराज्यकामस्य यागेन सह गुणविधेरेकवाक्यता ।[९३]{*१।६८०*} प्रकरणात्संबन्धः स्वाराज्यकामस्य यागेनेति चेत्, न, वाक्येन यागमात्रे विधानात् । अस्तु यागमात्रेण संबन्ध इति चेत्, न, स्वाराज्यकामस्य यागेन सहैकवाक्यताया गम्यमानत्वात् । तदेवं प्रकरणस्य वाक्यस्य च बाधो{*१।६८१*} युज्यते, यदि कर्मनामधेयम् । गुणविधिपक्षे हि सर्व इमे वाक्यभेदादयो दोषाः प्रादुर्भवेयुः । तस्मात्कर्मनामधेयं वाजपेयशब्द इति सिद्धम् । ण्Oट्Eष् *{१।६७५ E१,५॑ E२,४,६ विप्रतिषिध्यते}* *{१।६७६ E२ स्वराज्यकामो (सोन्स्त्wइए E१,४,५,६)}* *{१।६७७ Eबेन्द}* *{१।६७८ E२ यतो}* *{१।६७९ E१,६॑ E२,४,५ नामशब्दार्थव्यापारो}* *{१।६८० E२ २,२९३॑ E४ २,९७॑ E५ २,२२८॑ E६ १,६४}* *{१।६८१ E१,६॑ E२,४ (बेस्सेर्) प्रकरणस्य चाबाधो॑ E५ प्रकरणस्य वाक्यस्य चाबाधो}* ____________________________________________ तद्गुणास्तु विधीयेरन्नविभागाद्विधानार्थे न चेदन्येन शिष्टाः ॥ १,४ ।९ ॥ यदाग्नेयोऽष्टाकपालोऽमावास्यायां पौर्णमास्यां चाच्युतो भवतीत्येवमादयः{*१।६८२*} श्रूयन्ते । तत्र संदेहः किमाग्नेयोऽग्नीषोमीय इत्येवमादयो गुणविधयः, कर्मनामधेयानीति । किं तावत्प्राप्तम् । गुणविधौ सत्यनेको गुणो विधीयेत अग्निपुरोडाशाष्टाकपाला इति । तस्मान्न गुणविधय इति । एवं प्राप्ते ब्रूमः तच्च कर्मं गुणाश्चास्य विधीयेरन् । अविभक्ता हि ते कर्मणो विधानार्थे तद्धितान्ते शब्दे । तत्र ह्यष्टाकपालस्याग्नेयता विधीयते । स एष एवमाग्नेयो भवति, यद्यग्नये संकल्प्य दीयते, तेनायमनेन प्रकारेण यागो विहितो भवति । स एवं विधीयमानो न शक्योऽग्निमष्टाकपालं चाविधाय विधातुम्, संबन्धो हि विधीयमानो न शक्यते संबन्धिनावविधाय विहित इति वक्तुम् । तस्माद्गुणविधयः । अष्टसु कपालेषु संस्क्रियमाणो व्रीहिमयो यवमयो वा पुरोडाश एव भवति । सोऽनुवादः । सिद्धश्चात्राष्टाकपाल उच्यते कपालेषु श्रययतीति{*१।६८३*} वच[९४]{*१।६८४*}नाद्नान्येन श्रपितं गृह्णन्ति । तेनास्मिन् पक्षे न वाक्यभेदो भवति । न चेदन्येन शिष्टाः । यत्र पुनरन्येन वचनेन शिष्टा गुणा भवन्ति, भवति तत्र नामधेयम् । यथा अग्निहोत्रं जुहोतीति । ण्Oट्Eष् *{१।६८२ टैत् ।ष् । २ ।६ ।३ ।३}* *{१।६८३ टैत् ।ष् । २ ।३ ।६ ।२}* *{१।६८४ E२ २,२९६॑ E४ २,१०८॑ E५ २,२३२॑ E६ १,६४}* ____________________________________________ बर्हिराज्योरसंस्कारे शब्दलाभादतच्छब्दः ॥ १,४ ।१० ॥ बर्हिराज्ययोः पुरोडाशे च संदेहः किमेते संस्कारशब्दा उत जातिशब्दा{*१।६८५*} इति । संस्कारशब्दा इति ब्रूमः । संस्कृतेषु तृणेषु बर्हिःशब्दमुपचरन्ति सर्वत्र, नासंस्कृतेषु । संस्कृते च घृते आज्यशब्दम् । तथा संस्कृते पिष्टे पुरोडाशशब्दम् । नन्वसंस्कृतेऽपि कस्मिंश्चिद्देश उपचर्यते । यथा बर्हिरादाय गावो गता इति भवन्ति वक्तारः । तथा आज्यं क्रयमिति । पुरोडाशेन मे माता प्रहेलकं ददातीति । सादृश्यात्तेषु प्रयोगः । यथोपशये यूपशब्दः । कुत एतत्? यत एकदेशे हि शब्दप्रयोगः, तस्मात्संस्कारशब्दा इत्येवं प्राप्तम् । एवं प्राप्ते ब्रूमः बर्हिरादिष्वसंस्कृतेष्वपि शब्दलाभान्न संस्कारशब्दाः । ननूक्तं सादृश्यादेकदेशे भविष्यन्ति । तन्न, प्रसिद्धे हि संस्कारशब्दत्वे, सादृश्यादिति शक्यते वक्तुम् । तच्चाप्रसिद्धम् । कथम्? बर्हिरादिशब्दैरुद्दिश्य संस्कारा विधीयन्ते । तेन सत्सु शब्देषु संस्कारैर्भवितव्यम्, सति च संस्कारे शब्दलाभ इतीतरेतराश्रयं भवति । न चाविहिताः संस्कारा भवन्ति, यानालोच्य लोकः प्रयुञ्जीत । तस्मान्न लोकाः संस्कृतेषु बर्हिरादीन् प्रयुञ्जते । तत एकदेशेऽपि जाति[९५]{*१।६८६*}निमित्ता दृष्टाः, सर्वत्र जातिनिमित्ता भवितुमर्हन्ति । न चालौकिकानां सतां वेदादेव पूर्वोत्तरपदसंबन्धमनपेक्ष्य शक्यतेऽर्थोऽध्यवसातुम् । पूर्वोत्तरपदे अनर्थके मा भूतामित्येवं स परिकल्प्येत । अशक्यस्त्वनवगम्यमानः परिकल्पयितुम्, अर्थवती च ते पदे पूर्वोत्तरे लौकिकेनासंस्कृतप्रयोगेण भविष्यतः । तस्माज्जातिशब्दा एवंजातीयकाः । प्रयोजनम् बर्हिषा यूपावटमवस्तृणातीति संस्कृतैरेव स्तरितव्यम्, यदि पूर्वः पक्षः, विपरीतं सिद्धान्ते । ण्Oट्Eष् *{१।६८५ E४ (Fन् ।) जातिनिमित्ता}* *{१।६८६ E२ २,२९८॑ E४ २,१२३॑ E५ २,२३८॑ E६ १,६५}* ____________________________________________ प्रोक्षणीष्वर्थसंयोगात् ॥ १,४ ।११ ॥ प्रोक्षणीरासादय इति{*१।६८७*} श्रूयते । तत्र प्रोक्षणीशब्दं प्रति संदेहः किं संस्कारनिमित्त उत जातिनिमित्त उत यौगिक इति । तत्र संस्कारेषु सत्सु दर्शनात्संस्कारशब्दतायामवगम्यमानायामसंस्कृते शब्दलाभाज्जातिशब्दः । असंस्कृतास्वेवाप्सु प्रोक्षणीभिरुद्वेजिताः स्म इति कस्मिंश्चिद्देशे भवन्ति वक्तारः । तेन जातिशब्द इति प्राप्ते । यौगिक इत्युच्यते । कुतः? अर्थसंयोगात् । प्रोक्षण्य इत्युपसर्गधातुप्रत्ययसमुदायस्य जातिनिमित्तता प्रयोगादनुमीयते । सेचनसंयोगात्तूपसर्गधातुकरणप्रत्ययसहितोऽप्सु प्रवतत इति प्रसिद्धिरनुगृहीता भविष्यति । यदान्यदपि सेचनं प्रोक्षणशब्देनोच्यते तदा तत्संयोगादेवाप्सु भविष्यतीति न समुदायार्थः कल्पयितुं शक्यते । तस्माद्यौगिकः । प्रयोजनं घृतं प्रोक्षणं भवतीति, यदि संस्कारशब्दाः प्रोक्षणीरासादयेति प्रैषः । यदि जातिशब्दः, घृतमासादयेति । यदि यौगिकः प्रोक्षणमिति । [९६]{*१।६८८*} ण्Oट्Eष् *{१।६८७ टैत् ।Bर् । ३ ।२ ।९ ।१४}* *{१।६८८ E२ २,३०१॑ E४ २,१३६॑ E५ २,२४१॑ E६ १,६६}* ____________________________________________ तथा निर्मन्थ्ये ॥ १,४ ।१२ ॥ निर्मन्थ्येनेष्टकाः पचन्तीति । संस्कृते दर्शनात्संस्कारशब्दो निर्मन्थ्य इति । असंस्कारेऽपि दृश्यते । निर्मन्थ्यमानयादैनं पक्ष्याम इति । निर्मन्थनयोगात्पूर्ववद्यौगिक इति संस्थितम् । प्रयोजनं संस्कारनिमित्ते संस्कृतेनेष्टकाः पक्तव्याः । जातिशब्दे यथोपपन्नेन । यौगिकेऽचिरनिर्मथिते यथा नावनीतेन भुङ्क्त इत्यचिरनिर्दग्धेनेति गम्यते । ____________________________________________ वैश्वदेवे विकल्प इति चेत् ॥ १,४ ।१३ ॥ चातुर्मास्येषु प्रथमे पर्वणि वैश्वदेवे संदेहः वैश्वदेवेन यजेत इति{*१।६८९*} । किं वैश्वदेवशब्दो गुणविधिरुत कर्मनामधेयमिति । यदि संदेहो न संदेहः । वैश्वदेवे विकल्पः । गुणविधिर्वैश्वदेवशब्दः । गम्यते हि गुणविधानम् । विश्वेदेवा विधीयन्त आग्नेयादिषु यागेषु । तत्राग्न्यादीनां विश्वैर्देवैर्विकल्पः । एवं प्रसिद्धिरर्थवती भविष्यति । ण्Oट्Eष् *{१।६८९ ंैत् ।ष् । १ ।१० ।८, टैत् ।Bर् । १ ।४ ।१० ।१, श्ড়्Bर् । ५ ।२ ।४ ।१}* ____________________________________________ न वा प्रकरणात्प्रत्यक्षविधानाच्च न हि प्रकरणं द्रव्यस्य ॥ १,४ ।१४ ॥ नैतदेवम् । प्रत्यक्षश्रुतिविहिता अग्न्यादयस्तेषां यागानाम्, विश्वेदेवा वाक्येन प्रकरणात्तेनैव नान्येनेति गम्यते । न चायं विषमशिष्ठो विकल्पो भवितुमर्हति । न हि प्रकरणं श्रुतस्य द्रव्यस्य बाधने समर्थम् । तस्मात्कर्मनामधेयम् । [९७]{*१।६९०*} ण्Oट्Eष् *{१।६९० E२ २,३०५॑ E४ २,१५१॑ E५ २,२४५॑ E६ १,६७}* ____________________________________________ मिथश्चानर्थसंबन्धः ॥ १,४ ।१५ ॥ अथोच्यते वैश्वदेव इत्यनेन शब्देन प्रत्यक्षमग्न्यादिगुणविशिष्टो यागगुणो लक्ष्यते । वैश्वदेवी हि तत्रामिक्षा समवैति । यदि वैश्वदेवशब्देन यागगुणो लक्ष्यते न तर्हि विश्वेदेवा विधीयन्ते कथं सकृदुच्चरितो वैश्वदेवशब्दो यागगुणं लक्षयिष्यति विश्वांश्च देवान् विधास्यतीति नायं वैश्वदेवशब्दस्य विश्वैर्देवैर्मिथः संबन्धो घटते । तस्मात्कर्मनामधेयमेव गुणविधिरिति । ____________________________________________ परार्थत्वाद्गुणानाम् ॥ १,४ ।१६ ॥ परार्थाश्च गुणाः । ते न शक्नुवन्ति प्रधानमावर्तयितुम् । तेन सकृद्याग कर्तव्यो न गुणानुरोधेनावर्तितुमर्हति । संप्रतिपन्नदेवतत्वाच्च न विरोधः । तत्रैकस्यां प्रधानाहुतौ त्रिंशदाहुतयो हूयन्त इति त्रिंशत्संख्यासंपत्तिराहवनीयाहुतीनां नावकल्पते । तस्मात्कर्मनामधेयमिति सिद्धम् । ____________________________________________ पूर्ववन्तोऽविधानार्थास्तत्सामर्थ्यं समाम्नाये ॥ १,४ ।१७ ॥ वैश्वानरं द्वादशकपालं निर्वपेत्पुत्रे जात इति{*१।६९१*} श्रूयते । तत्र यदष्टाकपालो भवति गायत्र्यैवैनं ब्रह्मवर्चसेन पुनातीत्येवमादयः कपालविकल्पाः श्रूयन्ते तेषु संदेहः किमष्टत्वादयो गुणविधय उतार्थवादा इति । तत्र गुणविधय इत्येवं ब्रूमः कथम्? ये हि पूर्ववन्तो (विदितपूर्वम्{*१।६९२*} अर्थ[९८]{*१।६९३*}मभिवदन्ति){*१।६९४*} तेऽविधानार्थाः तदेतदस्य वाक्यस्य समाम्नाये सामर्थ्यं यदविहितपूर्वकाभिधानम् । किं तत्, विधानसामर्थ्यम् । एवमविहितमर्थं विधास्यति । इतरथार्थवादाः सन्तोऽनर्थकाः स्युः । न च द्वदशकपालस्य शेषभावमुपगन्तुमर्हति । प्रत्यक्षा ह्यष्टानां कपालानां स्तुतिः परोक्षा द्वादशानाम् । प्रत्यक्षाभावे च परोक्षा स्यात् । तस्माद्गुणविधयः । ण्Oट्Eष् *{१।६९१ टैत् ।ष् । २ ।२ ।५ ।३ ।, Vआज् ।ष् । २९ ।६०}* *{१।६९२ E४ (Fन् ।) विहितपूर्वम्}* *{१।६९३ E२ २,३०७॑ E४ २,१५७॑ E५ २,२४९॑ E६ १,६७}* *{१।६९४ ईन्E१ गेक्लम्मेर्त्}* ____________________________________________ गुणस्य तु विधानार्थे तद्गुणाः प्रयोगे स्युरनर्थका न हि तं प्रत्यर्थवतास्ति ॥ १,४ ।१८ ॥ नैतदस्ति गुणविधय इति । गुणस्य विधानार्था एते सन्तः पुरोडाशस्य कपालेषु संख्या विदध्युः । न शक्नुवन्ति यागप्रयोगस्य विधातुम् । द्वादशकपालता हि यागस्य वाक्येन, अष्टाकपालादयः प्रकरेण । तेन ते यागे न भविष्यन्ति । अपि चाष्टत्वादयः पुरोडाशेनैकवाक्यभूताः प्रकरणं बाधित्वा, न यागस्य भविष्यन्ति । यागासंबन्धे चानर्थकाः पुरोडाशसंबन्धे फलाभावात् । अर्थवादत्वेन तु वैश्वानरयागस्य स्तुतिरुपपद्यते । तस्मादर्थवादा इति । ____________________________________________ तच्छेषो नोपपद्यते ॥ १,४ ।१९ ॥ इति यदुक्तं तत्परिहर्तव्यमित्याभाषान्तं सूत्रम् । ____________________________________________ अविभागाद्विधानार्थे स्तुत्यर्थेनोपपद्येरन् ॥ १,४ ।२० ॥ यदा त्वष्टाकपालादिप्ररोचनार्था अनर्थका इत्यवगतं तदा लक्षणया द्वादशकपालस्य स्तुतिर्वैश्वानरयागप्ररोचनार्था भविष्यति । सन्ति हि द्वादशसंख्यायामष्टत्वादयः संख्याविशेषा [९९]{*१।६९५*} अविभक्ताः । अतो द्वादशकपालस्य स्तुत्यर्थत्वेनावयवस्तुतिरुपपद्यते । यथा शोभनमस्य चक्रस्य नेमितुम्बारम्, शोभनमस्याः सेनाया हस्त्यश्वरथपादातमिति । तस्मादुपपन्ना स्तुतिरिति । ण्Oट्Eष् *{१।६९५ E२ २,३१०॑ E४ २,१७१॑ E५ २,२५२॑ E६ १,६८}* ____________________________________________ कारणं स्यादिति चेत् ॥ १,४ ।२१ ॥ इति चेद्भवान् पश्यत्यर्थवादा इति, कारणमष्टत्वादीनां ब्रह्मवर्चसादि कस्मान्न भवति । ब्रह्मवर्चसकामस्याष्टाकपालः । एवमुत्तरेषु यथाकामम् । किमेवं भविष्यति । पुरोडाशस्य गुणविधानेऽप्यानर्थक्यं न भविष्यति न च लक्षणया द्वादशकपालस्य स्तुतिः कल्पिता भविष्यति । तस्मात्कामेभ्यो विधयो बविष्यन्ति । ____________________________________________ आनर्थक्यादकारणं कर्तुर्हि कारणानि गुणार्थो हि विधीयते ॥ १,४ ।२२ ॥ यदि कामाय विधयः, भिन्नानि वाक्यानि भवेयुः । एकं चेदं वाक्यम्, वैश्वानरं द्वादशकपालं निर्वपेत्पुत्रे जात इत्येदमपक्रान्तं यद्द्वादशकपालो भवति जगत्यैवास्मिन् पशून् दधाति यस्मिञ्जात एतामिष्टिं निर्वपति पूत एव स तेजस्व्यन्नाद इन्द्रियावी पशुमान् भवतीत्य्{*१।६९६*} एवमन्तम् । तस्य मध्येऽष्टत्वादयः श्रूयमाणा यदि न संबध्येरंस्ततो वाक्यान्तराणि भवेयुः । [१००]{*१।६९७*} कर्तुर्हि कारणानि पूतत्वादीनि भवेयुः । स एष गुणार्थोऽत्र विधीयते वैश्वानरयागे पूत एव इत्येवमादिः । तेन चैतेऽष्टत्वादयः साक्षाद्धेतुत्वेन संबध्यन्ते यस्माद्गायत्र्यैवैनं ब्रह्मवर्चसेन पुनाति तेन पूत एव सः, यस्मात्त्रिवृतैवास्मिंस्तेजो दधाति तेन तेजस्वी । यस्माद्विराजैवास्मिन्नन्नाद्यं दधाति तेनान्नादः । यस्मात्त्रिष्टुभैवास्मिन्निन्द्रियं दधाति तेनेन्द्रियावी । यस्माज्जगत्यैवास्मिन् पशून दधाति तेन पशुमानिति । ततः कामाय विधयोऽसंभवन्तो यद्यर्थवादा अपि न भवेयुरानर्थक्यमेवैषां स्यात् । तस्मादकारणं ब्रह्मवर्चस्त्वाद्योऽष्टत्वादीनाम् । तस्मादष्टत्वादयोऽर्थवादा इति । ण्Oट्Eष् *{१।६९६ टैत् ।ष् । २ ।२ ।५ ।३}* *{१।६९७ E२ २,३१२॑ E४ २,१७८॑ E५ २,२५३॑ E६ १,६८}* ____________________________________________ तत्सिद्धिः ॥ १,४ ।२३ ॥ यजमानः प्रस्तरः{*१।६९८*}॑ यजमान एककपाल इत्यादि{*१।६९९*} समाम्नायते । तत्र संदेहः । किं यजमानः प्रस्तर इत्येष गुणविधिः, किमर्थवाद इति । तथा यजमान एककपाल इति । किं तावत्प्राप्तम् । गुणविधिरिति । किमेवं भविष्यति एवमपूर्वमर्थं विधास्यति । इतरथार्थवादोऽनर्थकः स्यात् । अर्थवत्त्वं च न्याय्यम् । तस्माद्विधिः । नैतदेवम्, यदि विधिः स्यात्, ततः प्रस्तरकार्ये{*१।७००*} यजमानो नियम्येत । यजमानकार्ये वा प्रस्तरः । प्रस्तरे जुहूमासादयति, सर्वा वा स्रुव{*१।७०१*} इति यजमाने जुहूरासाद्येत । सर्वा वा स्रुव{*१।७०२*} इति । तथासति{*१।७०३*} न याजमानं शक्यते कर्तुम्, दीक्षणतो ब्रह्मयजमानावासाते कर्मण क्रियमाणस्य इति{*१।७०४*} । न च प्रस्तरो याजमानं शक्नोति कर्तुम् । तथा यदि यजमान एककपालकार्ये विनियुज्येत सर्वहुतः क्रियेत । तत्र सर्वतन्त्रपरिलोपः [१०१]{*१।७०५*} स्यात् । न चैककपालो याजमानं शक्नोति कर्तुम् । तस्मान्न विधिः । विध्यन्तरं चास्ति प्रस्तरमुत्तरं बर्हिषः सादयति, एककपालं सर्वहतं करोति, इति । तस्मादपि न विधिः । किं हि अर्थवादः । यजमानो ज्ञायत एव प्रस्तर एककपाल इति च । कथं पुनरनयोः सामानाधिकरण्यं ज्ञायते । न हि प्रस्तर एककपालो वा यजमानः । न च यजमान एकस्मिन् कपाले संस्कृतः पुरोडाशः प्रथमो वा कशं ष्टिर्लूनः । कथं परशब्दः परत्र वर्तते, किमर्थं वा ज्ञायमानस्व संकीर्तनमिति । उच्यते ज्ञायमानः संकीर्त्यते स्तोतुम् । प्रस्तर उत्तरो बर्हिषः सादयितव्यो यजमानत्वात् । तथा यजमान एककपालः सर्वहुतः कर्तव्यः स्वर्ग आहवनीयस्तत्र प्रतिष्ठापितो भवतीति । कथं परत्र वर्तते परशब्द इति । गुणवादस्तु । गुणादेष वादः । कथमगुणवचनो गुणं ब्रूयात् । स्वार्थाभिधाननेति ब्रूमः । सर्व एवैते गौणाः शब्दा न स्वार्थं हित्वा गुणेषु वर्तन्ते । प्रसिद्धहानिर्हि तथा स्यादप्रसिद्धकल्पना च । न च सर्वे गुणसमुदायवचनाः । गुणहीनेऽपि दर्शनात् । अप्रसह्यकार्यपि हि कदाचिद्रोगेणोपहतः सिंह्याः पुत्रः सिंह एव । समुदायवाची च नावयवे प्रवर्तितुमर्हति । सर्वसिंहव्याक्तिषु यत्सामान्यं तद्वचनः शब्द इति स्थितो न्यायः प्रत्युद्ध्रियेत । न चासति सिंहो परिकल्पनया प्रवर्तेत । कल्पनाया अशक्यत्वात् । कथं नु स्वार्थाभिधानेन प्रत्ययव्यवस्थेति चेत् । अर्थसंबन्धात् । सिंह इति निर्ज्ञायते प्रसह्यकारिता तत्र प्रायेणेति प्रसह्यकारीति गम्यते, अर्थं प्रत्ययसामर्थ्यात् । यो हि मन्यते प्रसह्यकारिणं प्रत्याययेयमिति स यदि सिंहशब्दमुच्चारयति सिध्यत्यस्याभिप्रेतम् । सिंहार्थः प्रतीतः प्रसह्य[१०२]{*१।७०६*}कारीति संबन्धादितरमर्थं प्रत्याययति । एवं स्वार्थाभिधानेन तद्गुणसंबन्धः प्रतीयते । इह तु यजमानः प्रस्तरः यजमान एककपाल इति कीदृशो गुण संबन्धः प्रतीयते । तत्सिद्धिकर इति । सर्वो ह्यात्मनह्कार्यसिद्धिं करोति । अन्योऽपि यस्तस्य कार्यसिद्धिं करोति स तस्मिन्नुच्चरिते हृदयमागच्छति । यथा राजा पत्तिगणक इति । पत्तिगणको राज्ञः कार्यं साधयति । स राजशब्द उच्चरिते प्रतीयते । एवमिहापि यजमानकार्यं प्रस्तरैककपालौ साधयतः, तौ यजमाने प्रतीते प्रतीयेते । तस्मात्तौ यजमानशब्देन प्रत्यायेते । कथं? स्तुतौ स्यातां बर्हिष उपरिसादने सर्वहोमे चेति । तस्मादेवंजातीयका अर्थवादा न विधय इति । ण्Oट्Eष् *{१।६९८ टैत् ।ष् । २ ।६ ।५}* *{१।६९९ टैत् ।Bर् । १ ।६ ।३ ।४}* *{१।७०० E१,५॑ E२,४,६ स्यात्प्रस्तरकार्ये, E४ (Fन् ।) स्यात्, ततः प्रस्तरकार्ये}* *{१।७०१ E१,६॑ E२,४,५ स्रुच}* *{१।७०२ E१,६॑ E२,४,५ सुर्च}* *{१।७०३ E१,५॑ E२,४,६ (रिछ्तिग्) तथा सति}* *{१।७०४ ़ुएल्ले निछ्त्नछ्गेwइएसेन्}* *{१।७०५ E२ २,३१४॑ E४ २,१८०॑ E५ २,२५८॑ E६ १,६९}* *{१।७०६ E२ २,३२१॑ E४ २,१८१॑ E५ २,२६१॑ E६ १,७०}* ____________________________________________ जातिः ॥ १,४ ।२४ ॥ आग्नेयो वै ब्राह्मणः{*१।७०७*}॑ ऐन्द्रो राजन्यः{*१।७०८*}॑ वैश्यो वैश्वदेव इत्येवमादयः{*१।७०९*} श्रूयन्ते । तत्र गुणविधयः आर्थवादा इति संदेहः । गुणविधय इति ब्रूमः । एवमपूर्वमर्थं विधास्यन्ति, इतरथार्थवादाः सन्तोऽनर्थकाः स्युः । न विधिर्विध्यन्तरस्य भावात् । तस्मात्संवादः । तस्य संकीर्तनं विधिस्तुत्यर्थम् । अनाग्नेयादिष्वाग्नेयादिशब्दाः केन प्रकारेण । गुणवादेन । को गुणवादः । अग्निसंबन्धः । कथम्? एकजातीयकत्वात् । किमेकजातीयकत्वम् । प्रजापतिरकामयत, प्रजाः सृजेयमिति । स मुखतस्त्रिवृतं निरभिमीत, तमग्निर्देवतान्वसृज्यत, गायत्री छन्दः, रथन्तरं साम, ब्राह्मणो मनुष्याणामजः पशूनाम् । तस्मात्ते मुख्याः, मुखतो ह्यसृज्यन्त । उरसो [१०३]{*१।७१०*} बाहुभ्यां पञ्चदशं निर्मिमीत, तमिन्द्रो देवतानसृज्यत, त्रिष्टुप्छन्दः, बृहत्साम, राजन्यो मनुष्याणाम्, अविः पशूनाम् । तस्मात्ते वीर्यवन्तः, वीर्याद्धि असृज्यन्त । ऊरुभ्यां मध्यतः सप्तदशं निरमिमीत, तं विश्वेदेवा देवता अन्वसृज्यन्त, जगती छन्दः, वैरूपं साम, वैश्यो मनुष्याणाम्, गावः पशूनाम्{*१।७११*} । एवमुक्ते सत्येकस्मिन्नेवंजातीयके विज्ञातेऽन्योऽपि तज्जातीयको हृदयमागच्छति । तस्मादर्थवादशब्दाः{*१।७१२*} । ण्Oट्Eष् *{१।७०७ टैत् ।Bर् । २ ।७ ।३ ।१}* *{१।७०८ टैत् ।ष् । २ ।४ ।१३ ।}* *{१।७०९ टैत् ।Bर् । २ ।७ ।२ ।२}* *{१।७१० E२ २,३२२॑ E४ २,१९०॑ E५ २,२६४॑ E६ १,७१}* *{१।७११ टैत् ।ष् । ७ ।१ ।१ ।४५, व्ग्ल् । स्छोन् ऋV १० ।९०}* *{१।७१२ E१,६॑ E२,४,५ तस्मादर्थवादाः}* ____________________________________________ सारूप्यम् ॥ १,४ ।२५ ॥ यजमानो यूपः॑ आदित्ये यूप इत्यादि{*१।७१३*} श्रूयते । तत्र गुणविधिः, अर्थवादः, इति संदेहः । अर्थवत्त्वाद्गुणविधि । अशक्यत्वाद्यूपकार्यसाधने यजमानस्य, यजमानकार्यसाधने वा यूपस्य विध्यन्तरभावाच्च न विधिः । विधिस्तुत्यर्थं संवादः । गुणवादात्सामानाधिकरण्यम् । को गुणः? सारूप्यम् । किं सारूप्यम्? ऊर्ध्वता तेजस्विता च । तस्मादेवंजातीयका अर्थवादाः । ण्Oट्Eष् *{१।७१३ टैत् ।Bर् । २ ।१ ।५ ।२}* ____________________________________________ प्रशंसा ॥ १,४ ।२६ ॥ अपशवो वा अन्ये गोऽश्वेभ्यः, पशवो गोऽश्वाः{*१।७१४*} । अयज्ञो वा एष योऽसामा{*१।७१५*} । असत्रं वा एतद्यदछन्दोममिति{*१।७१६*} श्रूयते । तत्र विध्यर्थ वादसंदेहे, अर्थवत्त्वाद्विधय इति प्राप्ते । अभिधीयते यदि विधयो भवेयुः, गोऽश्वा एव पशवः स्युः, सामवानेव यज्ञः, छन्दोमवदेव सत्रम् । अन्येषां पशूनाम्, यज्ञानाम्, [१०४]{*१।७१७*} सत्राणां चोत्पत्तिरनर्थिका स्यात् । विध्यन्तरं च नावकल्पेत । अतः स्तुत्यर्थं संवादः । गोऽश्वान् प्रशंसितुमन्येषां पशूनां निन्दा । सामवतः प्रशंसितुमसाम्नां निन्दा । छन्दोमवन्ति प्रशंसितुमच्छन्दोमकानि निद्यन्ते । यथा यदघृतम्, अभोजनं तत् । यन्मलिनम्, अवासस्तदिति । ण्Oट्Eष् *{१।७१४ टैत् ।ष् । ५ ।२ ।९ ।४}* *{१।७१५ टैत् ।ष् । १ ।५ ।७ ।१}* *{१।७१६ टैत् ।ष् । ७ ।३ ।८ ।१}* *{१।७१७ E२ २,३२४॑ E४ २,१९२॑ E५ २,२६५॑ E६ १,७१}* ____________________________________________ भूमा ॥ १,४ ।२७ ॥ सृष्टीरुपदधातीति{*१।७१८*} श्रूयते । तत्र गुणविधिरर्थवाद इति संदेहे अपूर्वत्वाद्विधिरिति प्राप्ते । उच्यते यदि विधिः, सृष्टिमन्त्रका उपदधातीष्टका इत्यर्थः । तत्र नेष्टकानां विशेषः कश्चिदाश्रीयते, एवंरूपाः सृष्टिमन्त्रका नैवंरूपा इति । तत्र सर्वासां सृष्टिलिङ्गा मन्त्राः प्राप्नुयुः । अन्येषामसंयुक्तानां मन्त्राणामानर्थक्यं स्यात् । तस्मादनुवादो मन्त्रसमाम्नानात्प्राप्तानामुपधाने मन्त्राणाम् । सृष्टीनां संकीर्तनं{*१।७१९*} सर्जनार्थवादार्थम् । अपि च विधित्वे लक्षणा, एकया स्तुवत इत्य्{*१।७२०*} अत्र या असृष्टयस्ता लक्षयेत् । नन्वनुवादेऽपि लक्षणा{*१।७२१*} । नानुवादपक्षे लक्षणायां दोषः । कथं त्वसृष्टिषु सृष्टिषु च सृष्टिशब्द इति । भूम्ना । बहवस्तत्र सृष्टिलिङ्गा मन्त्राः, अल्पशो विलिङ्गा इति । [१०५]{*१।७२२*} ण्Oट्Eष् *{१।७१८ टैत् ।ष् । ५ ।३ ।४}* *{१।७१९ E१,५,६॑ E२,४ सृष्टीनां सृष्टिषु संकीर्तनं}* *{१।७२० टैत् ।ष् । ४ ।३ ।१०}* *{१।७२१ E४ ओम् । एकया स्तुवत इत्यत्र या असृष्टयस्ता लक्षयेत् । नन्वनुवादेऽपि लक्षणा}* *{१।७२२ E२ २,३२६॑ E४ २,१९६॑ E५ २,२६६॑ E६ १,७२}* ____________________________________________ लिङ्गसमवायः ॥ १,४ ।२८ ॥{*१।७२३*} प्राणभृत उपदधाति{*१।७२४*}॑ आज्यानीरुपदधातीति{*१।७२५*} विधित्वे प्राणभृन्मन्त्रकासूपधीयमानासु विलिङ्गानां मन्त्राणामानर्थक्यम्। तस्मादनुवादः। लिङ्गसमवायात्परशब्दः परत्र वर्तते । यथा छत्रिणो गच्छन्तीत्य्, एकेन छत्रिणा सर्वे लक्ष्यन्ते । न चायं प्राणभृच्छशब्दः सृष्टिशब्दश्च जहत्स्वार्थं मन्त्रगणं लक्षयेत् । यद्गणे च सृष्टिप्राणभृच्छब्दौ समवेतौ, तावपि परिगृह्येते । यथा छत्रिशब्देन स्वार्थलक्षणार्थेन सोऽपि छत्री गृह्यत इति । ण्Oट्Eष् *{१।७२३ E२ हथिएर्ंष्१ ।४ ।२३, द सिए अब्ंष्१ ।४ ।२२ आनर्थक्यादकारणं कर्तुर्हि कारणानि गुणार्थो हि विधीयत् । निछ्त्मेह्र्wएइतेर्श्„ह्ल्त्}* *{१।७२४ टैत् ।ष् । ५ ।२ ।१०। ५ ।३ ।१२}* *{१।७२५ टैत् ।ष् । ५ ।७ ।२ ।५}* ____________________________________________ संदिग्धेषु वाक्यशेषात् ॥ १,४ ।२९ ॥ अक्ताः शर्करा उपदधाति{*१।७२६*}॑ तेजो वै घृतमिति{*१।७२७*} श्रूयते । तत्र संदेहः । किं घृततैलवसानामन्यतमेन द्रव्येणाञ्जनीयाः शर्करा उत घृतेनैवेति । कथं संदेहः । अञ्जनसामान्येन वाक्यस्योपक्रमो घृतेन विशेषेण निगमनम् । यथोपक्रमं निगमयितव्यमेकस्मिन् वाक्ये । तत्र यद्वा सामान्यमादौ विशेषोपलक्षणार्थं विवक्ष्यते । यद्वा निगमने विशेषः सामान्यलक्षणार्थः । तदारम्भनिगमनयोः किं समञ्जसमिति संशयः । एवं संदिग्धेषूपक्रमे सामान्यवचने विरोधाभावान्न विशेषः परिकल्प्यः । निगमने तूपजातः सामान्यप्रत्यय इति विरोधाल्लक्षणार्थं घृतवचनम् । यथा सृष्टिष्वसृष्टिषु च सृष्टिशब्दः, एवं घृतमघृतं च घृतमित्युच्यते । [१०६]{*१।७२८*} संदिग्धेष्वेवं प्राप्ते ब्रूमः सामान्यवचनेन विशेषापेक्षिणोपक्रमो वाक्यस्य विशेषे निगमनवशेन । कुतः? न हि सामान्यं विहितम् । येन विरोधो निगमनस्य । कथमविहितम् । संदिग्धेषु विधानशब्दाभावात् । न हि विधानशब्दोऽस्ति । अक्ताः शर्करा उपदधातीति वर्तमानकालनिर्देशात् । नापि सामान्यस्य साक्षात्स्तुतिः, प्रत्यक्षं तु घृतस्य स्तवनम् । श्रुत्या घृतस्य स्तुतिः, लक्षणया सामान्यस्य । श्रुतिश्च लक्षणाया ज्यायसी । तस्माद्घृतविधानम् । एवं वासः परिधत्ते, एतद्वै सर्वदेवत्यं वासो यत्क्षौममिति तथा इमां स्पृष्ट्वोद्नायेत्, इमां ह्यौदुम्बरीं विश्वाभूतान्युपजीवनीति । ण्Oट्Eष् *{१।७२६ टैत् ।Bर् । ३ ।१२ ।५ ।१२}* *{१।७२७ Eबेन्द}* *{१।७२८ E२ २,३२८॑ E४ २,२३८॑ E५ २,२६८॑ E६ १,७२}* ____________________________________________ अर्थाद्वा कल्पनैकदेशत्वात् ॥ १,४ ।३० ॥ स्रुवेणावद्यति॑ स्वधितिनावद्यति॑ हस्तेनावद्यतीति{*१।७२९*} श्रूयते तत्र संदेहः । किं स्रुवेणावदातव्यं सर्वस्य द्रवस्य संहतस्य मांसस्य च तथा स्वधितिना, हस्तेन च, उत सर्वेषामर्थतो व्यवस्था द्रवाणां स्रुवेण, मांसानां स्वधितिना, सहतानां हस्तेनेति । अविशेषाभिधानादव्यवस्थेति । एवं प्राप्ते ब्रूमः अर्थाद्वा कल्पना, सामर्थ्यात्कल्पनेति । स्रुवेणावद्येद्यथा शक्नुयात् । तथा यस्य शक्नुया । तस्य चेति, आख्यातशब्दानामर्थं ब्रुवतां शक्तिः सहकारिणी, [१०७]{*१।७३०*} एव चेद्यथाशक्ति व्यवस्था भवितुमर्हति । तथा अञ्जलिना सक्तून् प्रदाव्ये जुहोतीति{*१।७३१*} । द्विहस्तसंयोगोऽञ्जलिः, स व्याकोशोऽर्थात्कर्तव्यः । तथा हि शक्यते होमो निर्वर्तयितुम् । तद्यथा कटे भुङ्क्ते कांस्यपात्र्यां भुङ्क्त इत्य्{*१।७३२*} अर्थात्कल्प्यते कटे समासीनः कांस्यपात्र्यामोदनं निधाय भुङ्क्त इति । [१०८]{*१।७३३*} ण्Oट्Eष् *{१।७२९ Zइतते निछ्त्नछ्गेwइएसेन्}* *{१।७३० E२ २,३३१॑ E४ २,२४६॑ E५ २,२७१॑ E६ १,७३}* *{१।७३१ Vग्ल् । टैत् ।ष् । ३ ।३ ।८ ।४, ङोप् ।Bर् । २ ।४ ।८}* *{१।७३२ ़ुएल्ले निछ्त्नछ्गेwइएसेन्}* *{१।७३३ E२ २,३३३॑ E४ २,२५१॑ E५ २,२७२॑ E६ १,७३}* ____________________________________________ ============================================================================ आध्याय २ भावार्थाः कर्मशब्दास्तेभ्यः क्रिया प्रतीयेतैष ह्यर्थो विधीयते ॥ २,१ ।१ ॥ प्रथमेऽध्याये प्रमाणलक्षणं वृत्तम्, तत्र विध्यर्थवादमन्त्रस्मृतयस्तत्त्वतो निर्णीताः, गुणविधिर्नामधेयं च परीक्षितम्, सन्दिग्धानामर्थानां वाक्यशेषादर्थाध्यवसानमुक्तम् । तन्न प्रस्मर्तव्यम् । अनन्तरं प्रधानाप्रधानानि{*२।१*} परीक्षिष्यन्ते, भिन्नान्यभिन्नानि चेति, एष एवार्थो वर्णनीयो नान्यः, एष एव चाध्यायसंबन्धः । तदिह षड्विधः कर्मभेदो वक्ष्यते शब्दान्तरम्, अभ्यासः, संख्या, गुणः, प्रक्रिया, नामधेयमिति वक्ष्यमानमनुसंकीर्त्यते । प्रदर्शितमुच्यमानं सुखं ग्राहयिष्यत इति श्रोतुश्च बुद्धिः समाधीयते, तदेतन्नानाकर्मलक्षणमित्यध्यायमाचक्षते, एतत्तात्पर्येण, अतोऽन्यदुपोद्घातप्रसक्तानुप्रसक्तं{*२।२*} चेति । तत्र प्रथमं तावदिदं चिन्त्यते प्रथमेऽध्याय इदमुक्तम् चोदनालक्षणोऽर्थो धर्म इति {*२।३*}, चोदना च क्रियाया अभिधायकं वाक्यम्, वाक्ये च पदानामर्थाः, तत्र किं पदेन पदेन धर्म उच्यते{*२।४*}, उत सर्वैरेक एवेति । किं तावत्प्राप्तम्? प्रति पदं धर्म इति । एवं प्राप्त उच्यते यदैकस्मादपूर्वम्, तदान्यत्तदर्थं [१०९]{*२।५*} भविष्यति, एवमल्पीयस्यदृष्टानुमानप्रसण्गकल्पना भविष्यति । तस्मादेकमपूर्वम् । यदैकम्, तदा सन्देहः किम्, भावशब्देभ्यः, उत द्रव्यगुणशब्देभ्य इति? । कः पुनर्भावः? के ते पुनर्भावशब्दा इति? यजति ददाति जुहोतीत्येवमादयः । ननु यागदानहोमशब्दा एते, न भावशब्दाः । नैतदेवम् । यागादिशब्दाश्चैते भावशब्दाश्च, यज्याद्यर्थश्चातोऽवगम्यते, भावयेदिति च । तथा यतेत, यथा किंचिद्भवतीति । तेनैते भावशब्दाः, द्रव्यगुणशब्देभ्यो द्रव्यगुणप्रत्ययो न भावनायाः । अतस्ते न भावशब्दा इति । किं तावत्प्राप्तम्? अविशेषेणेति । तत उच्यते भावार्थाः कर्मशब्दाः, तेभ्यः क्रिया प्रतीयेत, यजेतेत्येवमादिभ्यः । कुतः? भावार्थत्वादेव । य आहुः किमपि भावयेदिति, ते स्वर्गकामपदसंबन्धात्स्वर्गं भावयेदिति ब्रूयुः । तस्मात्तेभ्यः क्रिया प्रतीयेत, फलस्य क्रिया करणं निष्पत्तिरिति । ते च यागदानहोमसंबद्धाः स्वर्गस्योत्पत्तिं वदन्ति । कुतः? एष ह्यर्थो विधीयते, यथा यागादिना स्वर्गकामः केन भावयेत्स्वर्गम्? यागादिनेति । यस्य च शब्दस्यार्थेन फलं साध्यते, तेनापूर्वं कृत्वा, नान्यथेति, ततोऽपूर्वं गम्यते, अतो यः तस्य वाचकः शब्दः, ततोऽपूर्वं प्रतीयत इति । तेन भावशब्दा अपूर्वस्य चोदका इति ब्रूमः । न तु कश्चिच्छब्दः साक्षादपूर्वस्य वाचकोऽस्ति । भावार्थैः किमपि भावयितव्यम्, स्वर्गकामस्य च केनापि भाव्यतेति, तयोर्नष्टाश्वदग्धरथवत्संप्रयोगः, यजेतेत्येवमादयः साकाङ्क्षाः, यजेत किं केन कथमिति । स्वर्गकाम इत्यनेन प्रयोजनेन निराकाङ्क्षाः । नैवं द्रव्यगुणशब्दाः । तस्माद्भावार्थाः कर्मशब्दा अपूर्वं चोदयन्तीति । अथ कस्मादुभयं [११०]{*२।६*} सूत्रितम्{*२।७*} भावार्थाः कर्मशब्दा इति । उच्यते भवन्ति केचित्कर्मशब्दा न भावार्थाः, यथा श्येनैकत्रिकादयः{*२।८*} । केचिद्भावार्था न कर्मशब्दाः, यथा भवनं भावो भूतिरिति । किं पुनरिहोदाहरणम्? श्येनेनाभिचरन् यजेत{*२।९*}, चित्रया यजेत पशुकाम इति{*२।१०*} । किं श्येनेनाभिचरन्नुत यजेताभिचरन्निति? तथा चित्रया पशुकामः, उत पशुकामो यजेतेति स्थिते एतस्मिन्नधिकरणे गुणविधिः, नामधेयम् इति विचारो भविष्यति । तथा दर्शपूर्णमासाभ्यां स्वर्गकामो यजेतेति, दर्शः कालः, पूर्णमास इति च, किं ताभ्यां स्वर्गकामः, उत स्वर्गकामो यजेतेति, दर्शपूर्णमासाभ्यामिति च श्येनेनेति च चित्रयेति च नैते भाववचनाः । न च एषामर्थिना कश्चित्संबन्धोऽस्ति, विविभक्तिकत्वात् । तस्मान्न द्रव्यगुणशब्दा अपूर्वस्य विधायका इति । ण्Oट्Eष् *{२।१ E१,४,५,६॑ E२ हत्प्रधानाप्रधानादि}* *{२।२ E१,५,६॑ E२,४ उपोद्धातप्रसक्तानुप्रसक्त}* *{२।३ Vग्ल् । ंष्१ ।१ ।२}* *{२।४ E१,५॑ E२,४,६ ओम् । उच्यते}* *{२।५ E२ २,३३७॑ E४ २,२५१॑ E५ २,२८३॑ E६ १,७४}* *{२।६ E२ २,३५३॑ E४ २,२५२॑ E५ २,३०४॑ E६ १,७५}* *{२।७ E४ सूचितं}* *{२।८ ञ्हा, š, Bद् ।१, ष् ।१७० कोन्ज् । श्येनचित्रादयः}* *{२।९ षड् ।Bर् । ३ ।८ ।१}* *{२।१० टैत् ।ष् । २ ।४ ।६ ।१}* ____________________________________________ सर्वेषां भावोऽर्थ इति चेत् ॥ २,१ ।२ ॥ एवं चेद्भावन् पश्यति, अभावशब्दत्वान्न द्रव्यगुणशब्दा अपूर्वस्य विधायका इति, सर्वेषां भावोऽर्थः, स्वर्गकामो दर्शपूर्णमासाभ्यामित्येतयोः संबन्धं यजेतेति वक्ष्यति, श्येनेनाभिचरन्नित्येतयोश्च, तथा चित्रया पशुकाम इति । तस्मादेतेऽपि साकाङ्क्षत्वाद्भाववचनाः । सर्वेषु भाववचनेषु नास्ति विनिगमनायां हेतुः, कर्मशब्दा एवापूर्वस्य विधायकाः, न द्रव्यगुणशब्दा इति । ____________________________________________ येषामुत्पत्तौ स्वे प्रयोगे रूपोपलब्धिस्तानि नामानि, तस्मात्तेभ्यः पराकाङ्क्षा भूतत्वात्स्वे प्रयोगे ॥ २,१ ।३ ॥ येषां शब्दानामुच्चारणोत्पत्तौ स्वेऽर्थे प्रयुज्यमानानां रूप[१११]{*२।११*}मुपलभ्यते, यत्सकृदुत्पन्नं कालान्तरन् तिष्ठति, न क्रियेवोत्पन्नमात्रं विनश्यतीत्यर्थः, तानि नामानि, ते द्रव्यगुणशब्दाः, ईदृशो द्रव्यगुणशब्दानामर्थः । ते द्रव्यगुणशब्दा इति वक्तव्ये तानि नामानीति सूत्रितम्, अतो नामानीति एषां पर्यायशब्दः । कथं गम्यते? यत एषां विभक्तयो नामिक्य उच्यन्ते । कतमास्ताः? वृक्षः{*२।१२*} वृक्षौ वृक्षाः, शुक्लः शुक्लौ शुक्ला इत्येवमादयः । तस्मात्सम्यक्सूत्रितम् । यत एषां न क्षणिकोऽर्थः, ततः तेभ्यः पराकाङ्क्षा प्रधानाकाङ्क्षा न विद्यत इति नैषामुत्पत्तिः कर्तव्या, भूतत्वात्स्वे प्रयोगे स्वप्रयोगकाले विद्यमानत्वादित्यर्थः । ण्Oट्Eष् *{२।११ E२ २,३५५॑ E४ २,३२८॑ E५ २,३१४॑ E६ १,७५}* *{२।१२ E२ ओम् । वृक्षः}* ____________________________________________ येषां तूत्पत्तावर्थे स्वे प्रयोगो न विद्यते, तान्याख्यातानि । तस्मात्तेभ्यः प्रतीयेताश्रितत्वात्प्रयोगस्य ॥ २,१ ।४ ॥ येषां तु शब्दानामुच्चारणोत्पत्तौ स्वेऽर्थे प्रयोगो न विद्यते । प्रयोगकाले येषामर्थो नोपलभ्यत इत्यर्थः, तन्याख्यातानीति भावशब्दान् पर्यायशब्देनोपदिशति । कथं पर्यायशब्दता भावशब्दानाम् । यत एषां विभक्तय आख्यातिक्य इत्युच्यन्ते । कतमास्ताः? पचति पचतः पचन्तीत्येवमाद्यः । तस्मात्तेभ्योऽपूर्वं प्रतीयेत । भव्यार्थास्ते भूतार्थैः समुच्चरिताः । भूतस्य भव्यार्थतायां दृष्टार्थता, भव्यार्थस्य प्रयोजनयत उत्पत्तिरर्थवती, सा च भूतेन क्रियत इति दृष्टोऽर्थः । भव्यस्य पुनर्भूतार्थतायां न किञ्चिद्दृश्यते, कल्प्यते चादृष्टम् । तस्मान्न यागो द्रव्यार्थः । किं च आश्रितत्वात्प्रयोगस्यैतेषां प्रयोगः पुरुषेणाश्रितो भवति, पुरुषसंबद्धा भावनोच्यते, पुरुषं हि वदति, भावयेदिति, तेन स्वर्गकामो यजेतेति पुरुषोऽपि प्रतीयते[११२]{*२।१३*}, यागोऽपि संबन्धोऽपि । स्वर्गकामो द्रव्येणेति द्रव्ये{*२।१४*} प्रतीयते पुरुषश्च, न तु संबन्धः । ननु एतदुक्तं भवति, अर्थिनश्च द्रव्यस्य च संबन्धं यजेतेति वक्ष्यति, द्रव्येण भावयेदिति । अतो द्रव्येणार्थस्य भावना गम्येत, आकाङ्क्षा चेति । सत्यं गम्यते, द्रव्येण भावयेदिति तु वाक्येन, यागेन भावयेदिति तु श्रुत्या । यदा तु, यागेन भावायेदिति यागसंबन्धो विधीयते, न तदा द्रव्येण भावयेदिति द्रव्यसंबन्धः । न च द्रव्यसंबन्धे विधीयमाने यजेतेत्यनेन संबन्धः । अनूद्यमाने तु संभवति, न च, यौगपाद्येन विध्यनुवादौ संभवतः । तस्माच्छ्रुतिवाक्ययोर्विरोधः, विरोधे च श्रुतिबलीयसी, तेनार्थिना न द्रव्यसंबन्धः । तत्र द्रव्यमसति स्वर्गकामसंबन्धे स्वर्गार्थं भविष्यतीत्यनुपपन्नम्, एष विनिगमनायां हेतुः, येन भावशब्दा एवापूर्वस्य चोदकाः, न द्रव्यगुणशब्दा इति, यदा यागेन कुर्यादिति, तदा{*२।१५*} यागवचनमेव भवति । दर्शपूर्णमासाभ्यामिति लक्षणया, दर्शे च पूर्णमासे च यागो विहित इति । कथं पुनरिदमवगम्यते, अस्ति तदपूर्वमिति । उच्यते ण्Oट्Eष् *{२।१३ E२ २,३५७॑ E४ २,३३२॑ E५ २,३१६॑ E६ १,७६}* *{२।१४ E२,४,५,६ द्रव्यं}* *{२।१५ E६ ओम् । तदा}* ____________________________________________ चोदना पुनरारम्भः ॥ २,१ ।५ ॥ चोदनेत्यपूर्वं ब्रूमः, अपूर्वं पुनरस्ति, यत आरम्भः शिष्यते स्वर्गकामो यजेतेति, इतरथा हि विधानमनर्थकं स्यात्, भङ्गित्वाद्यागस्य, यद्यन्यदनुत्पाद्य यागो विनश्येत्[११३]{*२।१६*}, फलमसति निमित्ते न स्यात् । तस्मादुत्पादयतीति । यदि पुनः फलवचनसामर्थ्यात्तदेव न विनिश्यतीति कल्प्यते । नैवं शक्यम् । न हि कर्मणोऽन्यद्रूपमुपलभामहे, यदाश्रयं देशान्तरं प्रापयति, तत्{*२।१७*} कर्मेत्युच्यते, न तदात्मनि समवेतम्, सर्वगतत्वादात्मनः, सर्वत्र कार्योपलम्भः सर्वत्र भावे लिङ्गम्, न तु{*२।१८*} तदेव देशान्तरादागमनस्य, न ह्यसत्यागमने किंचिद्विरुद्धं दृश्यते । यत्र समवेतमासीत्, तद्विनष्टं द्रव्यम्, तस्य विनाशात्तदपि विनष्टमित्यवगम्यते । आश्रयोऽप्यविनष्ट इति चेत् । न, भस्मोपलम्भनात् । सत्यपि बस्मन्यस्तीति चेत् । न विद्यमानोपलम्भनेऽप्यदर्शनात् । फलक्रिया लिङ्गमिति चेत् । एवं सत्यदर्शने समाधिर्वक्तव्यः । सौक्ष्मादीनामन्यतमद्भविष्यतीति यदि चिन्त्यते, कल्पितमेवं सति किंचिद्भवतीति । तत्रापूर्वं वा कल्प्येत तद्वेति । अविशेषकल्पनायामस्ति हेतुः, न विशिष्टकल्पनायाम् । अनाश्रितं कर्म भविष्यतीति चेत् । तदपि तादृशमेव । स्वभावान्तरकल्पनेन देशान्तरं न प्रापयिष्यतीति । तादृशमेव । तस्माद्भङ्गी यजिः, तस्य भङ्गित्वादपूर्वमस्तीति । किं चिन्तायाः प्रयोजनम्? यदि द्रव्यगुणशब्दा अप्यपूर्वं चोदयन्ति, द्रव्यगुणापचारे न प्रतिनिधिरुपादातव्यः, यथा तर्हि पूर्वः पक्षः । यथा तर्हि सिद्धान्तः, द्रव्यं गुणं वा प्रतिनिधाय प्रयोगोऽनुष्ठातव्य इति ण्Oट्Eष् *{२।१६ E२ २,३५९॑ E४ २,३३७॑ E५ २,३२०॑ E६ १,७७}* *{२।१७ E२,४ यत्}* *{२।१८ E१,६॑ E२,४,५ ननु}* ____________________________________________ तानि द्वैधं गुणप्रधानभूतानि ॥ २,१ ।६ ॥ अवगतमेतत्, भावशब्दाः कर्मणो वाचका इति, बहुप्रकाराश्च भावशब्दाः, यजति, जुहोति, ददातीति, एव[११४]{*२।१९*}ंप्रकाराः, दोग्धि, पिनष्टि, विलापयतीत्येवमादयश्च । तेषु सन्देहः किं सर्वे प्रधानकर्मणो विधायकाः, उत केचित्संस्कारकर्मण इति । भावार्थत्वाविशेषात्सर्वे प्रधानकर्मणो वाचका इति प्राप्तम् । ततो ब्रूमः तानि द्वैधं भवितुमर्हन्तीति द्विप्रकाराणि, कानिचित्प्रधानकर्मणो वाचकानि, कानिचित्संस्कारकर्मणः । एवमपि सर्वाण्यर्थवन्ति, अर्थवत्त्वे सति सर्वेभ्यः न शक्यमपूर्वं कल्पयितुम् । अतो न सर्वाणि प्रधानकर्मणो वाचकानि । ण्Oट्Eष् *{२।१९ E२ २,३७९॑ E४ २,३८४॑ E५ २,३२४॑ E६ १,७७}* ____________________________________________ यैर्द्रव्यं न चिकीर्ष्यते, तानि प्रधानभूतानि, द्रव्यस्य गुणभूतत्वात् ॥ २,१ ।७ ॥ एवं सत्यल्पीयस्यडृष्टकल्पना न्याय्या, न तु{*२।२०*} विनिगमनायां हेतुर्{*२।२१*} अवगच्छामः, कुतो{*२।२२*}ऽपूर्वम्, कुतो नेति । तदुच्यते यैर्भावकर्मभिर्न द्रव्यं संस्कर्तुमिष्यते, उत्पादयितुं वा, तानि प्रधानभूतानि प्रधानकर्मणो वाचकानि, द्रव्यस्य गुणभूतत्वात् । द्रव्यं हि गुणभूतम्, कर्मनिर्वृत्तेरीप्सिततमत्वात् । ण्Oट्Eष् *{२।२० E१,६॑ E२,४,५ ननु}* *{२।२१ E१,६॑ E२,४,५ हेतुम्}* *{२।२२ E२ कृतो}* ____________________________________________ यैस्तु द्रव्यं चिकीर्ष्यते गुणस्तत्र प्रतीयेत, तस्य द्रव्यप्रधानत्वात् ॥ २,१ ।८ ॥ यैस्तु द्रव्यं चिकीर्ष्यते, गुणस्तत्र प्रतीयेत कर्म । कुतः? तस्य द्रव्यप्रधानत्वात् । प्रत्यक्षं यजेतेत्येवमादिभिर्द्रव्यं न चिकीर्ष्यते, तस्मात्[११५]{*२।२३*} तानि प्रधानकर्मणो वाचकानि, द्रव्यस्य गुणभूतत्वात् । पिनष्टि इत्येवमादिभिर्द्रव्यं संस्क्रियते, तस्मात्तानि गुणकर्मवचनानि । एष एव विनिगमनायां हेतुः । प्रयोजनं तु पूर्वस्मिन् पक्षे प्रैयङ्गवेऽपि चरौ व्रीहय उत्पाद्या अवधातार्थत्वेन । सिद्धान्ते नोत्पाद्याः । ण्Oट्Eष् *{२।२३ E२ २,३८१॑ E४ २,३८९॑ E५ २,३२९॑ E६ १,७८}* ____________________________________________ धर्ममात्रे तु कर्म स्यादनिर्वृत्तेः प्रयाजवत् ॥ २,१ ।९ ॥ स्रुचः{*२।२४*} संमार्ष्टि, अग्निं संमार्ष्टि, परिधिं संमार्ष्टि, पुरोङाशं पर्यग्नि करोतीति{*२।२५*} श्रूयते । तत्र सन्देहः किं पर्यग्निकरणम्, संार्जनं च प्रधानकर्म, उत गुणकर्मेति । किं तावत्प्राप्तम् । तत{*२।२६*} उच्यते कर्ममात्रमेवंजातीयकमपर्याप्तं यत्प्रयोजनस्य दृष्टस्य, तद्धर्ममात्रमिति ब्रूमः, तत्र प्रधानकर्मत्वं स्यात् । कस्मात्? अनिर्वृत्तेरुपकारस्य, न ह्येवंजातीयकं द्रव्यस्योपकारकम्, द्रव्यं त्वेवंजातीयकमभिनिर्वर्तयद्{*२।२७*} गुणभूतम् । तस्य गुणभूतत्वादिदं प्रधानभूतम् । ण्Oट्Eष् *{२।२४ E५ सुचः}* *{२।२५ टैत् ।ष् । ३ ।३ ।१}* *{२।२६ E२,४,६ तद्}* *{२।२७ E२ अभिनिर्वर्तयेद्}* ____________________________________________ तुल्यश्रुतित्वाद्वेतरैः सधर्मः स्यात् ॥ २,१ ।१० ॥ वाशब्दः पक्षं व्यावर्तयति । इतरैर्गुणकर्मभिः सधर्मः स्यादेवंजातीयकः, यथा व्रीहीनवहन्ति, तथा । कुतः? तुल्यश्रुतित्वात्, तुल्या हि द्वितीया श्रुतिरेषां द्रव्येषु, यथा व्रीहीनवहन्तीति{*२।२८*}, एवमग्निं संमार्ष्टि, पुरोङाशं पर्यग्नि करोतीति । किं गुणकर्मणि द्रव्ये द्वितीया दृष्टेति यतो द्वितीयादर्शनादिहापि सामान्यतो दृष्टेन गुणकर्मता । नेति ब्रूमः द्वितीया विभक्तिः कर्तुरीप्सिततमे स्मर्यते, सा चेह द्वितीया विभक्तिः, तत एव तदीप्सिततममिति गम्यते, तच्चेदीप्सिततमम्, कर्म गुणभूतम् । यद्यपि प्रत्यक्षादिभिर्गुणभावो न गम्यते, [११६]{*२।२९*} प्रमाणान्तरेण शब्देन गम्यते, तस्माद्गुणभूतमेवंजातीयकमिति । ण्Oट्Eष् *{२।२८ टैत् ।Bर् । ३ ।२ ।५ ।६}* *{२।२९ E२ २,३८४॑ E४ २,३९८॑ E५ २,३३२॑ E६ १,७९}* ____________________________________________ द्रव्योपदेश इति चेत् ॥ २,१ ।११ ॥ इति चेत्पश्यसि द्वितीयादर्शनात्प्रधानभूतमत्र द्रव्यमिति । नैतदेवम्, गुणभूतेऽपि द्वितीया भवति, तथा हि दृश्यते सक्तूञ्जुहोति{*२।३०*}, मारुतं जुहोति, एककपालं जुहोतीति । ण्Oट्Eष् *{२।३० टैत् ।ष् । ३ ।३ ।८ ।४}* ____________________________________________ न, तदर्थत्वाल्लोकवत्तस्य च शेषभूतत्वात् ॥ २,१ ।१२ ॥ न गुणभूतेऽपि द्वितीया, एवं ह्यभियुक्ता उपदिशन्ति कर्मणि द्वितीया{*२।३१*}, कर्तुरीप्सिततमं कर्मेति{*२।३२*}, न च लोके गुणभूते क्वचिद्द्वितीयां पश्यामः । यदपि च तण्डुलानोदनं पचेति, ओदनार्थं तण्डुलान् संस्कुर्वितीप्सिता एव तण्डुलाः । बल्वजान् शिखण्डकान् कुर्विति, बल्व्जा एव तेनाकारेण संबद्धा ईप्सिता इति तत्राभिप्रायः । लौकिकश्च प्रयोगः शब्दार्थपरिच्छेदे हेतुर्न वैदिकः । यत्तु लौकिके{*२।३३*} जुहोतीति प्रयोगे द्वितीया, शक्यते तत्र वक्तुमीप्सिततम एव स प्रयोग इति, तण्डुलानद्य जुहुधि, तण्डुलानद्य होमेन संबन्धयेति लोके भवति हि बहुप्रकारा विवक्षा । अन्यायश्चानेकार्थत्वम्, तेन प्रधानभावेन सिद्धा सती द्वितीया गुणभावेन कल्प्येत । वेदे तु कथं द्वितीयानिर्दिष्टे गुणभाव इति । द्वितीयानिर्देशात्प्रधान्यमेवावगच्छामः, एवमवगते प्रधान्ये बलीयसा हेतुना नास्ति प्राधान्यमित्यवगम्यते । कुतः? न होमस्य केचित्प्रकारेण सक्त्वर्थतावकल्प्यते कुतः? सक्तूनां [११७]{*२।३४*} निष्प्रयोजनत्वात्, न सक्तूनामन्यत्प्रयोजनं दृश्यते श्रूयते{*२।३५*} वा, यदि वा होमस्तदर्थो होमोऽपि निष्प्रयोजनः, अथारादुपकारको होमः, ततः प्रयोजनवान्, ज्योतिष्टोमप्रकरणे पाठाद्गम्यते प्रयोजनवत्ता, नाप्रयोजन इति शक्यते वक्तुम्, प्रयोगवचनेन हि स आकाङ्क्ष्यते । ननु सक्तूनामपि प्रकरणपाठात्प्रयोजनवत्त्वं भविष्यति । को वा ब्रूते नेति, प्रयोजनवत्तैव, प्रयोजनवत्त्वन् तु होममभिनिर्वर्तयताम्, नान्येन प्रकारेण । ननु तेऽपि प्रयोगवचनेनाकाङ्क्ष्यन्ते । तदुच्यते न द्रव्यं तेनाकाङ्क्ष्यते, इतिकर्तव्यतां हि स आकाङ्क्षति, होमश्चेतिकर्तव्यता, न द्रव्यम् । ननु होमे कृते सक्तुभ्योऽदृष्टं निष्पत्स्यते । नास्त्यत्र प्रमाणम् । ननु द्वितीया विभक्तिः प्रमाणम् । न हि द्वितीया विभक्तिर्होमस्य सक्त्वर्थतां ज्ञापयति । न सक्तवः प्रयोजनवन्त इति भवेद्धोमः सक्त्वर्थः, होमसंबद्धाः सक्तवः स्युरिति, भवन्ति होमे कृते सक्तवो होमसंबद्धाः । न होमस्य सक्त्वर्थता निष्प्रयोजनेषु सक्तुषु घटते, सक्त्वर्थतावचनं तु न पुरुषस्योपकारकं न क्रतोः, तदनर्थकमेव स्यात् । यतो न{*२।३६*} तद्वचनाच्छक्यमन्यतरत्{*२।३७*} कल्पयितुम् । स एष द्वितीयान्तः सक्तूनां होमस्य च संबन्धं करोति, संबन्धे च सति द्रव्याणां कर्मसंयोगे गुणत्वेनाभिसंबन्ध इति भूतत्वात्, गुणभावे च तृतीया, तेनोच्यते तृतीयायाः स्थाने द्वितीयेति, तेन तदर्थत्वाद्धोमार्थत्वात्सक्तूनां न प्रधान्यं द्वितीयासंयोगेऽपि । एवं सत्यर्थवद्वचनम्, न चार्थवत्त्वे सत्यानार्थक्यमित्युच्यते । तस्य च पुरोडाशादेर्यागादिषु शेषभावः, तेन प्रयोजनवन्तः, तत्र संस्कारो नानर्थकः । न स दृष्टोपकारायेति चेत् । अदृष्टार्थो भविष्यति, अदृष्टोऽपि संस्कारोऽस्तीत्यवगम्यते लोके, यथा ग्रामान्तरादागतानां पुरुषानां पर्यग्निकरेणादृष्ट उपकारः क्रियत इत्युच्यते । लोके च नानुपपत्तिः । [११८]{*२।३८*} प्रयोजनं च वरुणप्रघासेषु श्रूयते, शमीमयः स्रुचो भवन्ति हिरण्मयो{*२।३९*} वेति, प्रकृतौ नानावृक्षस्रुक्संमार्गसाध्यमपूर्वमिति, नानावृक्षस्रुच उत्पादयितव्याः संमार्गार्थत्वेन यथा पूर्वपक्षः । यथा तर्हि सिद्धान्तः, शमीमय एव हि हिरण्मयो वा संमार्ष्टव्याः । तथा यत्र बाणवन्तः परिधयस्तत्रापि पालाशा उत्पादयितव्याः पूर्वपक्षे । सिद्धान्ते बाणवन्त एव संमार्ष्टव्याः । अवभृथे च पूर्वपक्ष उत्पादयितव्योऽग्निः संमार्गाय, सिद्धान्ते चापः संमार्जनीयाः । तथा{*२।४०*} षट्त्रिंशत्संवत्सरेतरसमयाः पुरोडाशाः सवनीया{*२।४१*} इति श्रूयते । तत्रापि पिष्टमयः पुरोडाश उत्पादयितवयः पर्यग्निकरणार्थत्वेन पूर्वपक्षे, सिद्धान्ते मांसमया एव पर्यग्निकर्तव्या इति । ण्Oट्Eष् *{२।३१ ড়ाण् । २ ।३ ।२}* *{२।३२ ড়ाण् । १ ।४ ।४९}* *{२।३३ E१,६॑ E२,४ या लौकिके, E५ या तु}* *{२।३४ E२ २,३८७॑ E४ २,४०२॑ E५ ३,३३५॑ E६ १,७९}* *{२।३५ E२ ओम् । श्रूयते}* *{२।३६ E२,४ न च}* *{२।३७ E२,४ अन्यत्}* *{२।३८ E२ २,३८९॑ E४ २,४०२॑ E५ २,३३८॑ E६ १,८०}* *{२।३९ E२ हिरण्मया}* *{२।४० E२,४ यथा}* *{२।४१ E२ सवनीयां}* ____________________________________________ स्तुतशस्त्रयोस्तु संस्कारो याज्यावद्देवताभिधानत्वात् ॥ २,१ ।१३ ॥ प्रौगं शंसति, निष्केवल्यं शंसति, आज्यैः स्तुवते, पृष्टैः स्तुवते इति गुणवचनं स्तवनं शंसनं च, यथा इन्द्रस्य तु वीर्याणि प्रवोचमिति{*२।४२*}, यदेतद्गुणवचनं श्रूयते, किमेतद्गुणभूतं देवतां प्रति, उत प्रधानमिति । तत्रोच्यते स्तुतशस्त्रे संस्कारकर्मणीति । कुतः? देवताभिधानत्वात्, गुणवचने निर्वर्त्यमाने गुणिनी देवता संकीर्त्यते, नान्यथा तद्गुणवचनं भवति, तत्र प्रत्यक्षं देवताभिधानं गम्यते, देवताप्रकाशनेन च प्रत्यक्ष [११९]{*२।४३*} उपकारो यागसिद्धिः । तस्मात्संस्कारकर्मणी याज्यावत्, यथा याज्यामनाह, पुरोऽनुवाक्यामन्वाहेति स्तुतिवचनं देवताप्रकाशनेनार्थवत्, तद्वदेतदपीति । ण्Oट्Eष् *{२।४२ ऋV १ ।३६ ।१}* *{२।४३ E२ २,३९४॑ E४ २,४२३॑ E५ २,३४१॑ E६ १,८१}* ____________________________________________ अर्थेन त्वपकृष्येत देवतानामचोदनार्थस्य गुणभूतत्वात् ॥ २,१ ।१४ ॥ यदि संस्कारकर्मणी एव{*२।४४*} स्तोत्रशस्त्रे, अर्थेनापकृष्येत देवतानां नश्चोदनार्थस्य गुणभूतत्वात्, देवतार्थस्य गुणभूतो मन्त्र इति तत्प्रधानभावे यत्र प्रधानं तत्र नीयेत, तत्र क्रमसन्निधी उपरुध्येयाताम् । तस्मादेष दुष्टः पक्षः इति पर्युदसितव्यः । कतमः पुनरसौ मन्त्रः । अभि त्वा शूरेत्य्{*२।४५*} ऐन्द्रः प्रगाथो माहेन्द्रस्य ग्रहयजेः सन्निधावाम्नातो यत्रेन्द्रस्तत्रापकृष्येत । ण्Oट्Eष् *{२।४४ E२ एवं}* *{२।४५ ंा ।ष् । २७ ।३५}* ____________________________________________ वशावद्वा गुणार्थं स्यात् ॥ २,१ ।१५ ॥ न पर्युदसिष्याम इमं पक्षम्, संस्कारकर्मणी एव स्तोत्रशस्त्रे, देवताभिधानत्वादेव, यदुक्तम्{*२।४६*} प्रगाथस्योत्कर्ष इति, तन्न, इन्द्रशब्देन महेन्द्रोऽभिधायिष्यते, स एवेन्द्रो महत्त्वेन गुणेन महेन्द्र इत्युच्यते, प्रत्यक्षं हीन्द्रशब्दं देवतावचनमुपलभामहे, महत्त्ववचनं च महच्छब्दम्, यथा राजा महाराजः, ब्राह्मणो महाब्राह्मण इति, वशावत्, यथा सा वा एषा सर्वदेवत्या यदजा वशा, वायव्यामालभेतेत्य्{*२।४७*} अजावशाशब्देन चोदिते कर्मणि छागशब्देन निगमा भवन्ति, तद्वत्सगुणे चोदिते निर्गुणेनाभिधानं भविष्यति । तेन न{*२।४८*} भविष्यत्युत्कर्ष इति । ण्Oट्Eष् *{२।४६ E२,४,५,६ यत्तूक्तम्}* *{२।४७ टैत् ।ष् । ३ ।४ ।३ ।२}* *{२।४८ E२ ओम् । तेन, E४ ते न}* ____________________________________________ न, श्रूतिसमवायित्वात् ॥ २,१ ।१६ ॥ नैतदेवम्, इन्द्रोऽस्य ग्रहस्य देवतेति तद्धितसंयोगेन विज्ञायेत{*२।४९*}, [१२०]{*२।५०*} न चास्य महत्त्वमपेक्षमाणस्य तद्धितसंयोग उपपद्यते, तद्धितसंयोगापेक्षस्य वा महत्त्वसंबन्धात्समासकल्पना । न च तद्धितार्थे वृत्तस्य महत्त्वसंबन्धः, न च समासार्थे वृत्तस्य तद्धितसंबन्धः । न चास्मिन्नेव प्रयोगे समासार्थे वृत्तिरिष्यते, एतस्मिन्नेव तद्धितार्थे । न चायमिन्द्रशब्दोऽविहितवत्स्वार्थं तद्धितार्थेन संबध्येत, विहितवच्च परार्थं महत्त्वेन संबद्धमनूद्येत । विस्पष्टश्चायमन्योऽर्थो महेन्द्रो भवति, महानिन्द्रो भवतीति महेन्द्रः, अन्यश्चेन्द्रो हविषो देवता भवतीति सकृदुच्चारणे च नोभयं शक्येत । तस्मान्नेन्द्रो देवता महत्त्वविशिष्टः, महेन्द्रशब्दात्तु तद्धित उत्पन्नः, तस्मात्तद्प्रातिपदिकमर्थवदिति गम्यते, न त्ववयवसंबन्धेन । तस्माद्देवतान्तरमिन्द्रान्महेन्द्रः, तेनैन्द्रस्य प्रगाथस्योत्कर्षः प्राप्नोति, अतः पर्युदस्तितव्यः एष पक्षः । यदप्युच्यते इन्द्रस्य वृत्रवधोत्तरकालं महेन्द्रत्वं दर्शयति, महान् वायमभूद्यो वृत्रमवधीदिति{*२।५१*}, तथा वेदस्यादिमत्तादोषः प्रसज्येत, अतोऽन्य इन्द्रो महेन्द्रात् । ण्Oट्Eष् *{२।४९ E१,६॑ E२,४,५ विज्ञायते}* *{२।५० E२ २,३९६॑ E४ २,४३१॑ E५ २,३४५॑ E६ १,८२}* *{२।५१ आइ ।Bर् । ३ ।२१}* ____________________________________________ व्यपदेशभेदाच्च ॥ २,१ ।१७ ॥ व्यपदेशभेदश्च भवति, बहु दुग्धीन्द्राय देवेभ्यो हविरिति{*२।५२*}, बहु दुग्धि महेन्द्राय देवेभ्यो हविरिति{*२।५३*}, अतोऽपि देवतान्तरम्, एकदेवतात्वे मन्त्रविकल्पः स्यात् । ण्Oट्Eष् *{२।५२ टै ।Bर् । ३ ।२ ।३८}* *{२।५३ ंा ।ष्ह् ।ष् । १ ।१ ।३ ।२९}* ____________________________________________ गुणश्चानर्थकः स्यात् ॥ २,१ ।१८ ॥ यदा विधिशब्दादवगतमेतद्भवति इन्द्रो देवतेति, तदास्य गुणान्वाख्याने किं प्रयोजनम्, महत्त्वं नामेन्द्रस्य गुणो भवतीति देवताभिधानम् । कथं तस्यै देवतायै दीयत इति । [१२१]{*२।५४*} गुणेऽपि हि विहिते सति तस्या एव देवतायै दीयते, अविहितेऽपि । तस्माद्गुणविधानमनर्थकम् । अथोच्यते योऽस्मिन् ग्रहे इन्द्रः स महानिति । नैवं ग्रहसंबन्धस्याप्रसिद्धत्वाद्विशेषणं नात्र कल्प्यते, गुणसंबन्धस्य चाप्रसिद्धत्वाद्गुणेन विशेषणमनवकॢप्तम् । तस्मादपि देवतान्तरम् । ण्Oट्Eष् *{२।५४ E२ २,४०६॑ E४ २,४५०॑ E५ २,३४८॑ E६ १,८२}* ____________________________________________ तथा याज्यापुरोरुचोः ॥ २,१ ।१९ ॥ एवं सति याज्यापुरोनुवाक्ययोर्भेदेन दर्शनमुपपद्यते, एन्द्र{*२।५५*} सानसिं रयिमित्य्{*२।५६*} ऐन्द्रयाज्यापुरोनुवाक्याद्वयम्, महानिन्द्रो य ओजसा इति{*२।५७*} भेदेन माहेन्द्रं दर्शयति, तदेकत्वे विकल्प्येत । तत्र, पक्षे बाधः स्यात् । ण्Oट्Eष् *{२।५५ E१,५॑ E२ इन्द्र, E४,६ ऐन्द्र}* *{२।५६ टैत् ।ष् । ३ ।४ ।११ ।३}* *{२।५७ ऋV ५ ।८ ।९}* ____________________________________________ वशायामर्थसमवायात् ॥ २,१ ।२० ॥ यदुक्तम् अजावशाशब्देन चोदिते कर्मणि छागशब्देन निगमा भवन्तीति, तद्युक्तम्, वशायामर्थसमवायित्वं वयं प्रत्यक्षमवगच्छामः, छागस्य वपाया मेदसोऽनुब्रूहीति{*२।५८*} यैव वशा सैव छागेति । तस्मात्प्रगाथस्योत्कर्षः संस्कारपक्षे, अतः प्रधानकर्मणी इति । ण्Oट्Eष् *{२।५८ Vग्ल् । टैत् ।Bर् । ३ ।६ ।८}* ____________________________________________ यत्रेति वार्थवत्त्वात्स्यात् ॥ २,१ ।२१ ॥ वाशब्दः पक्षं व्यावर्तयति, संस्कारकर्मणी एव स्तोत्रशस्त्रे, यच्चैतत्, प्रघाथस्योत्कर्ष इति, उत्कृष्यतां यत्रेन्द्रस्तत्र प्रघाथः, लिङ्गेन हि क्रमसन्निधी बाधितव्यावेव । ____________________________________________ न त्वाम्नातेषु ॥ २,१ ।२२ ॥ अपरेषां मन्त्राणामुत्कृष्टानामन्यत्रार्थवत्ता नास्ति, तेषामानर्थक्यं स्यात्, यथा यां याः शंसन्ति{*२।५९*}, शिपिविष्टवतीं{*२।६०*} पित[१२२]{*२।६१*}देवत्याम्{*२।६२*} आग्निमारुते{*२।६३*}, कुषुम्भकसूक्तम्, अक्षसूक्तम्, मूषिकासूक्तमित्येवमादीनाम् । ण्Oट्Eष् *{२।५९ E२,४ शंसति}* *{२।६० मित्E६॑ E२,४,५ शिपिविष्टवतीः}* *{२।६१ E२ २,४०८॑ E४ २,४५६॑ E५ २,३५२॑ E६ १,८३}* *{२।६२ E२,४,५ शंसति पितृदेवत्याः, E६ पितृदेवत्याः}* *{२।६३ मित्E६॑ E२,४,५, शंसति, आग्निमारुते}* ____________________________________________ दृश्यते ॥ २,१ ।२३ ॥ तदुच्यते सर्वेषामर्थवत्तास्ति, मण्डूकसूक्तस्याग्नौ, अक्षसूक्तस्य राजसूये, मूषिकासूक्तस्यैकादशिन्याम्, सर्वेषां वाचस्तोमे, सर्वा ऋचः सर्वाणि यजूंषि सर्वाणि सामानि वाचस्तोमे, पारिप्लवमश्वमेधे{*२।६४*} शंसतीति, तथा यस्याश्विने शस्यमाने सूर्यो नोदियादपि सर्वा दाशतयीरनुब्रूयादिति, तस्मादस्त्यर्थवत्तोत्कृष्टानाम् । अतः संस्कारकर्मणी स्तोत्रशस्त्रे इति । ण्Oट्Eष् *{२।६४ ंित्E६॑ E२,४ ओम् । अश्वमेधे, E५ हतेस्गेक्लम्मेर्त्}* ____________________________________________ अपि वा श्रुतिसंयोगात्प्रकारणे स्तौतिशंसती क्रियोत्पत्तिं विदध्याताम् ॥ २,१ ।२४ ॥ अपि वा प्रधानकर्मणी स्तोत्रशस्त्रे स्याताम् । कुतः? श्रुतिसंयोगात्, सप्तमी श्रुतिसंयोगो हि भवति, कवतीषु स्तुवते, शिपिविष्टवतीषु स्तुवते इति{*२।६५*}, यदि स्तुतिः, ततः कवत्यक्षरेष्वाहिता । यदि प्रकाशनम्, ततो देवतायाम्, तत्र करणं कवत्यस्{*२।६६*} तृतीययाश्रोष्यम्{*२।६७*}, न सप्तम्या । अपि च श्रुतिसंयोगो भवति, प्रौगं शंसति, निष्केवल्यं शंसतीति । अतः स्तुतिरभिनिर्वर्तयितव्या तेन मन्त्रेण, गुणवचनः शब्दः स्तुतिनिर्वर्तनार्थोऽदृष्टम्{*२।६८*} अर्थं करिष्यति । तस्मात्प्रधानकर्मणी । [१२३]{*२।६९*} अपि च, श्रुतिसंयोगो भवति षष्ठीविभक्तिसंयोगः, यथेन्द्रस्य तु वीर्याणि प्रवोचमिति{*२।७०*} । तेन देवताशब्दः स्तुतिसंबन्धार्थ इत्युच्यते, देवताभिधानार्थे प्रातिपदिकार्थत्वात्प्रथमा स्यात् । अथ यत्प्रथमान्तम्, तद्देवतार्थं भवितुमर्हति, यथा इन्द्रो यातो वसितस्य{*२।७१*} राजेति{*२।७२*} । नेत्युच्यते, तदपि वाक्यसंयोगात्स्तुत्यर्थमेव । ननु वाक्याल्लिङ्गं बलीयः । सत्यम्, एतदपि लिङ्गम्, यत्स्तुतिवाक्यस्य साकाङ्क्षस्य निराकाङ्क्षीकरणसामर्थ्यम् । तथाप्युभयथा लिङ्गेऽनुगृह्यमाणे कुतो निर्णयः? वाक्यशेषादेव न देवताभिधानार्थ इति । देवताभिधानार्थ इत्येतस्मिन् पक्षे स्तुत्यर्थं साकाङ्क्षवचनमनर्थकमेव स्यात् । तस्माददृष्टार्थत्वात्स्तुतिवचनस्य प्रधानकर्मणी स्तोत्रशस्त्रे । अपि च स्तौतिशंसतीति साक्षाद्गुणवचनौ लक्षणयाभिधानार्थौ स्याताम्, तस्मात्क्रियोत्पत्तिमपूर्वोत्पत्तिं विदध्यातामिति । ण्Oट्Eष् *{२।६५ Vग्ल् । टैत् ।ष् । ७ ।५ ।५ ।२}* *{२।६६ Vग्ल् । षाम् ।ष् । १ ।१६९}* *{२।६७ ंित्E६॑ E२,४,५, तृतीययाश्रोष्यन्त}* *{२।६८ ंित्E६॑ E२,४,५ दृष्टम्}* *{२।६९ E२ २,४१०॑ E४ २,४६०॑ E५ २,३५५॑ E६ १,८४}* *{२।७० टैत् ।ष् । २ ।५ ।४ ।१}* *{२।७१ ंित्E६॑ E२,४,५ऽवसितस्य}* *{२।७२ ऋV १ ।३२ ।१५}* ____________________________________________ शब्दपृथक्त्वाच्च ॥ २,१ ।२५ ॥ शब्देन पृथक्त्वमेव गम्यते, द्वादशस्तोत्रशस्त्रोऽग्निष्टोमः, इतरथा हि द्वादशत्वं न स्यात् । स्तोत्राणां शस्त्राणां च एकमेव शंसनं स्तवनं च, अथ भेद आश्रीयते, ततो न द्वादशत्वेऽवतिष्ठते । ____________________________________________ अनर्थकं च तद्वचनम् ॥ २,१ ।२६ ॥ अग्निष्टुति{*२।७३*} श्रूयते आग्नेया ग्रहा भवन्तीति, तत्र पुनरुच्यते आग्नेयीषु शंसन्तीति, तन्न विधातव्यमेव यदि संस्कारकर्म{*२।७४*} । तस्मादपि प्रधानकर्मणी इति । [१२४]{*२।७५*} ण्Oट्Eष् *{२।७३ E२ अग्निस्तुतिः}* *{२।७४ E१,६॑ E२,४,५ संस्कारकर्मणी}* *{२।७५ E२ २,४१३॑ E४ २,४७१॑ E५ २,३५८॑ E६ १,८४}* ____________________________________________ अन्यश्चार्थः प्रतीयते ॥ २,१ ।२७ ॥ संबद्धे वै स्तोत्रशस्त्रे वेति, यद्यन्यत्स्तोत्रमन्यच्छस्त्रम्, ततस्तयोः संबन्धः । यदि वापूर्ववचने ततोऽन्यत्स्तोत्रमन्यच्छस्त्रम्, इतरथा यदेव स्तोत्रं तदेव शस्त्रं स्यात् । ____________________________________________ अभिधानं च कर्मवत् ॥ २,१ ।२८ ॥ प्रधानकर्मण इव चाभिधानं भवति द्वितीयासंयोगेन, प्रौगं शंसतीति{*२।७६*} निष्केवल्यं शंसतीति । ण्Oट्Eष् *{२।७६ E१,६॑ E२,४,५ ओम् । इति}* ____________________________________________ फलनिर्वृत्तिश्च ॥ २,१ ।२९ ॥ फलनिर्वृत्तिदर्शनं च भवति, स्तुतस्य स्तुतमसीत्येवमादि{*२।७७*}, इन्द्रवन्तो मनेमहि भक्षीमहि{*२।७८*} प्रजामिषं सा मे सत्याशीर्यज्ञस्य भूयादिति{*२।७९*} स्तोत्रफलमनूद्यते, न देवतायाः । तस्मात्प्रधानकर्मणी स्तोत्रशस्त्रे । अन्यत्र सूत्रबद्धं प्रयोजनम्, दशमेऽध्याये{*२।८०*} ग्रहाणां देवतान्यत्वे स्तुतशस्त्रयोः प्रधानकर्मत्वादधिकारः स्यात् । ण्Oट्Eष् *{२।७७ टैत् ।ष् । ३ ।२ ।७ ।१}* *{२।७८ E१,६॑ E२ वनामह धुक्षीमहि, E४,५ वनामहे धुक्षीमहि}* *{२।७९ टैत् ।ष् । १ ।६ ।४ ।२}* *{२।८० ंष्१० ।४ ।४९}* ____________________________________________ विधिमन्त्रयोरैकार्थ्यमैकशब्द्यात् ॥ २,१ ।३० ॥ इदं समाम्नायते न ता नशन्ति, न दभाति, तस्करो नासामा मित्रो{*२।८१*} व्यथिरा दधर्षति । देवांश्च याभिर्यजते, ददाति च ज्योगित्ताभिः स च ते गोपतिः सहेति{*२।८२*} । यजते ददातीत्युदाहरणम्, किं यद्वद्ब्राह्मणे भावशब्दो विधायकस्तद्वन्मन्त्रेऽपि, उत मन्त्रेऽभिधायक{*२।८३*} इति । किं तावत्प्राप्तम्, विधौ मत्रे चाम्नायमानस्य भावशब्दस्य एक एवार्थः स्यात्, ऐक[१२५]{*२।८४*}शब्द्यात्, स एवायमेकः शब्दो ब्राह्मणगतो विधास्यति, मन्त्रगतो न शक्नोति विधातुमित्यनुपपन्नम्, तस्माद्विधायकः । ण्Oट्Eष् *{२।८१ E१,६॑ E२,४,५ अमित्रो}* *{२।८२ टैत् ।Bर् । २ ।४ ।६ ।११}* *{२।८३ E१,६॑ E२,४,५ऽविधायक}* *{२।८४ E२ २,४१५॑ E४ २,४७६॑ E५ २,३६१॑ E६ १,८५}* ____________________________________________ अपि वा प्रयोगसामर्थ्यान्मन्त्रोऽभिधानवाची स्यात् ॥ २,१ ।३१ ॥ अपि वेति पक्षो व्यावर्त्यते, एवंजातीयको मन्त्रोऽभिधानवचनः स्यात्, प्रयोगसामर्थ्यात्, प्रयोगे क्रियमाणेऽस्य सामर्थ्यं विद्यते, गोदानं गोयागं च प्रत्याययितुम्, न विधातुम् । कुतः? विहितत्वाद्गोदानस्य दक्षिणाविधाने, गोयागस्य त्वनुबन्ध्यायाम् । कर्मान्तरं भविष्यतीति चेत् । न, असकृदप्युच्यमाने तत्प्रत्ययादेव । स्तुत्यर्थकल्पनायामप्यानर्थक्यम्, परिसमाप्तेन सार्थवादकेन वाक्येन विहितत्वाद्यागस्य । तस्मान्न मन्त्रगतो भावशब्द एवंजातीयको विधायक इति । ____________________________________________ तच्चोदकेषु मन्त्राख्या ॥ २,१ ।३२ ॥ मन्त्रगतो भावशब्दो विधायको नेति परीक्षितम् । कोऽयं मन्त्रो नामेति उच्यते । अज्ञाते मन्त्रे तद्गतो भावशब्दः कथं विचारित इति, इदमर्थोऽधिकरणं पूर्वं द्रष्टव्यम् । कथं लक्षणो मन्त्र इति, तच्चोदकेषु मन्त्राख्या, अभिधानस्य चोदकेष्वेवंजातीयकेष्वभियुक्ता उपदिशन्ति, मन्त्रानधीमहे, मन्त्रानध्यापयामः, मन्त्रा वर्तन्त इति । प्रायिकमिदं लक्षणम्, अनभिधायका अपि केचिन्मन्त्रा इत्युच्यन्त{*२।८५*}, यथा वसन्ताय कपिञ्जलानालभत इति{*२।८६*}, न शक्यं पृष्ठाकोटेण{*२।८७*} तत्र तत्रोपदेष्टुमिति लक्षणमुक्तम् ऋषयोऽपि पदार्थानां नान्तं यान्ति [१२६]{*२।८८*} पृथक्कशः{*२।८९*} । लक्षणेन तु सिद्धानामन्तं यान्ति विपश्चितः । उदाहरणम् मेधोऽसीत्येवमादयोऽस्यन्ताः, इषे त्वेत्य्{*२।९०*}एवमादयस्त्वान्ताः, आयुर्दा असीत्य्{*२।९१*} आशीः, अग्निर्मूर्द्धेति{*२।९२*} स्तुतिः, सङ्खा{*२।९३*} एको ममेति{*२।९४*}, प्रलपितमक्षी ते इन्द्रपिङ्गले दुलेर्{*२।९५*} इवेति, परिवेदनम्{*२।९६*} अम्बे अम्बिक इति{*२।९७*}, प्रैष अग्नीदग्नीनिति{*२।९८*}, अन्वेषणं कोऽसि कतमोऽसीति{*२।९९*}, पृष्ठं{*२।१००*} पृष्ठामि{*२।१०१*} त्वेति{*२।१०२*}, आख्यानमियं वेदिरिति{*२।१०३*}, अनुषङ्गोऽच्छिद्रेण पवित्रेणेति{*२।१०४*}, प्रयोगः त्रैस्वर्यं चातुस्वर्यं{*२।१०५*} च, सामर्थ्यमभिधानम्, तच्चैतद्वृत्तिकारणेनोदाहरणोपदेशेनाख्यातम्{*२।१०६*} । एतदपि प्रायिकमेव, असिमध्या अपि च मन्त्रा भवन्ति, ईड्यश्चासि वन्द्यश्च वाजिनिति{*२।१०७*}, त्वामध्याश्च तत्त्वायामीति । आशीर्ब्राह्मणमपि, सोऽकामयत प्रजाः सृजेयेति, स्तुतिरपि वायुर्वै क्षेपिष्ठा देवतेति{*२।१०८*}, प्रलापो न चैतद्विद्मो यदि ब्राह्मणा वा स्मोऽब्राह्मणाः स्मो वेति{*२।१०९*}, परिदेवनं ये मामधुक्षन्त ते मां प्रत्यमुञ्चन्त इति, प्रैष अमुतः सोममाहरेति, अन्वेषणमिह वा स इह वेति, प्रश्नः वेद कर्णवतीं सूर्मिमिति, प्रतिवचनं विद्मो वेति, अनुषङ्गः हृदयस्याग्रेऽवद्यत्यथ जिह्वाया अथ वक्षसीति{*२।११०*}, प्रयोगः त्रैस्वर्यं चातुस्वर्यं{*२।१११*} चेति, सामर्थ्यं स्रुवेणावद्यति द्रवेष्विति । लक्षणकर्मणि प्रयोजनं प्रसिद्धत्वान्न वक्तव्यम्, लघीयसी प्रतिपत्तिर्लक्षणेन । आक्षेपेष्वपवादेषु प्राप्त्यां लक्षणकर्मणि । प्रयोजनं न वक्तव्यं यश्च कृत्वा प्रवर्तते । आक्षेपेषु पूर्वाधिकरणस्य प्रयोजनम्, अपवादेषूत्सर्गस्य, प्राप्त्यामुत्तरविवक्षा, कृत्वाचिन्तायां पूर्वाधिकरणस्य प्रयोजनम् । अस्ति वेदे मन्त्रशब्दो यस्यायमर्थः परीक्षितः, अहे बुध्निय मन्त्रं मे गोपाय यमृषयस्त्रयीविदा विदुः, ऋचः सामानि यजूंषीति{*२।११२*} [१२७]{*२।११३*} ण्Oट्Eष् *{२।८५ E२,४,५,६ उच्यन्ते}* *{२।८६ Vआज् ।ष् । २४ ।२०}* *{२।८७ E२,४ पृष्टाकोटेण}* *{२।८८ E२ २,४१९॑ E४ २,४८६॑ E५ २,३६८॑ E६ १,८६}* *{२।८९ ंित्E६॑ E२,४,५ पृथक्त्वशः}* *{२।९० Vआज् ।ष् । १ ।१}* *{२।९१ टैत् ।ष् । १ ।६ ।६}* *{२।९२ टैत् ।ष् । ४ ।४ ।४ ।१}* *{२।९३ E२,४,५,६ संख्या}* *{२।९४ श्ড়्Bर् । १ ।५ ।५ ।१२}* *{२।९५ E१,५,६,॑ E२ डुलर्, E४ डुलेर्}* *{२।९६ E२,४ परिदेवनम्}* *{२।९७ Vआज् ।ष् । २३ ।१८}* *{२।९८ टैत् ।ष् । ६ ।३ ।२}* *{२।९९ Vआज् ।ष् । ७ ।२९}* *{२।१०० E२,४,५ पृष्टं}* *{२।१०१ E६ एबेन्सो, E२,४,५ पृच्छामि}* *{२।१०२ Vआज् ।ष् । २३ ।६१}* *{२।१०३ Vआज् ।ष् । २३ ।६२}* *{२।१०४ टैत् ।ष् । १ ।१ ।५ ।१}* *{२।१०५ E२,४ चतुःस्वर्यं}* *{२।१०६ E१,६॑ E२,४,५ वृत्तिकारणेनोदाहरणापदेशेनाख्यातम्}* *{२।१०७ Vआज् ।ष् । २९ ।३}* *{२।१०८ टैत् ।ष् । २ ।१ ।१ ।१}* *{२।१०९ ंैत् ।ष् । १ ।४ ।११}* *{२।११० E२,४,५,६ वक्षस इति}* *{२।१११ E२,४,५ चतुःस्वर्यं}* *{२।११२ टैत् ।Bर् । १ ।२ ।१ ।२६}* *{२।११३ E२ २,४२१॑ E४ २,४८६॑ E५ २,३६९॑ E६ १,८७}* ____________________________________________ शेषे ब्राह्मणशब्दः ॥ २,१ ।३३ ॥ अथ किं लक्षणं ब्राह्मणम्? मन्त्राश्च ब्राह्मणं च वेदः, तत्र मन्त्रलक्षण उक्ते परिशेषसिद्धत्वाद्ब्राह्मणलक्षणमवचनीयम्, मन्त्रलक्षणवचनेनैव सिद्धम्, यस्यैतल्लक्षणं न भवति, तद्ब्राहमणमिति परिशेषसिद्धं ब्राह्मणम् । वृत्तिकारस्तु शिष्यहितार्थं प्रपञ्चितवानितिकरणबहुलम्, इत्याहोपनिबद्धम्, आख्यायिकास्वरूपम्, हेतुः सूर्पेण{*२।११४*} जुहोति तेन ह्यन्नं क्रियत इति{*२।११५*}, निर्वचनम्, तद्दध्नो दधित्वम्{*२।११६*}, निन्दा, उपवीता वा एतस्याग्नयः, प्रशंसा, वायुर्वै क्षेपिष्ठा देवतेति{*२।११७*}, संशयः, होतव्यं गार्हपत्ये न होतव्यमिति, विधिः, यजमानसंमितौदम्बरी{*२।११८*} भवति{*२।११९*}, परकृतिः, माषानेव{*२।१२०*} मह्यं{*२।१२१*} पचतीति{*२।१२२*}, पुराकल्पः, उल्मुखैर्ह स्म पूर्वे समाजग्मुरिति, व्यवधारणकल्पना, यावतोऽश्वान् प्रतिगृह्नीयादिति । हेतुर्निर्वचनं निन्दा प्रशंसा संशयो विधिः । परक्रिया पुराकल्पो व्यवधारणकल्पना । उपमानं दशैते तु विधयो ब्राह्मणस्य तु । एतद्वै{*२।१२३*} सर्ववेदेषु नियतं विधिलक्षणम् । एतदपि प्रायिकम्, इतिकरणबहुलो मन्त्रोऽपि कश्चित्, इति वेति मे मनः{*२।१२४*}, इत्य्{*२।१२५*} आहोपनिबद्धश्च, भगं भक्षीत्य्{*२।१२६*} आह, आख्यायिकास्वरूपं चोग्रो ह भुज्यमिति{*२।१२७*}, हेतुरिदं वो{*२।१२८*} वामुशन्ति हि{*२।१२९*}{*२।१३०*}, निर्वचनं तस्मादापो नु स्थना{*२।१३१*} इति{*२।१३२*}, निन्दा मोघमन्नं विन्दत अप्रचेतेति{*२।१३३*}, प्रशंसा अग्निर्मूर्द्धेति{*२।१३४*}, संशयः अधः खिदासीद्{*२।१३५*} उपरि खिदासीद्{*२।१३६*} इति{*२।१३७*}, विधिः पृणीयादिन्न् आधमानायेति{*२।१३८*}{*२।१३९*}, परकृतिः सहस्रमयुताददत्{*२।१४०*}{*२।१४१*}, पुराकल्पः यज्ञेन यज्ञमयजन्त देवा इति{*२।१४२*} । [१२८]{*२।१४३*} ण्Oट्Eष् *{२।११४ E२,४,५,६ शूर्पेण}* *{२।११५ श्ড়्Bर् । २ ।५ ।२ ।२३}* *{२।११६ टैत् ।ष् । २ ।५ ।३ ।४}* *{२।११७ टैत् ।ष् । २ ।१ ।१}* *{२।११८ E२,४,५,६ यजमानसंमितौदुम्बरी}* *{२।११९ Vग्ल् । टैत् ।ष् । ६ ।२ ।१० ।३}* *{२।१२० E२,४,५ मे}* *{२।१२१ E२,४,५ ओम् । मह्यं}* *{२।१२२ E२,४,५ पचत इति}* *{२।१२३ E२,४ स्यात्}* *{२।१२४ E२,४ मनः इति}* *{२।१२५ ऋV १० ।११९ ।१}* *{२।१२६ ऋV ७ ।४१ ।२}* *{२।१२७ टैत् ।आ । १ ।१० ।२}* *{२।१२८ E२,४,५,६ इन्दवो}* *{२।१२९ E२,४ हीति}* *{२।१३० ऋV १ ।२ ।४}* *{२।१३१ E२,४,५ स्थ न}* *{२।१३२ टैत् ।ष् । ५ ।६ ।१ ।३}* *{२।१३३ ऋV ८ ।६ ।२३}* *{२।१३४ टैत् ।ष् । ४ ।४ ।४}* *{२।१३५ E२,४,५,६ अधः स्विदासीद्}* *{२।१३६ E२,४,५,६ उपरि स्विदासीद्}* *{२।१३७ ऋV १० ।१२९ ।५}* *{२।१३८ ंित्E६॑ E२,४,५ आधमानादिति}* *{२।१३९ ऋV १० ।११७ ।१५}* *{२।१४० E२,४ अयुतादददिति}* *{२।१४१ ऋV ८ ।२१ ।१८}* *{२।१४२ ऋV १० ।९० ।१६}* *{२।१४३ E२ २,४२२॑ E४ २,४९२॑ E५ २,३६९॑ E६ १,८७}* ____________________________________________ अनाम्नातेष्वमन्त्रत्वमाम्नातेषु हि विभागः ॥ २,१ ।३४ ॥ ऊहप्रवरनामधेयेषु संशयः, मन्त्रा उत नेति । अभिधायकत्वान्मन्त्रा इति प्राप्ते ब्रूमः अनाम्नातेषु मन्त्रत्वं न स्यादभिधायकेष्वपि, नाभिधायकत्वं मन्त्रत्वे हेतुः, किं तर्ह्यभियुक्तप्रयोगः, ये अभियुक्तैर्मन्त्रा इति नोच्यन्ते, न ते मन्त्राः, न चैवमादायो मन्त्रसमाम्नाये सन्ति, तस्मादमन्त्राः । प्रयोजनम्, मन्त्रे दुष्टे यत्प्रायश्चित्तममन्त्रेषु तन्न । ____________________________________________ तेषामृग्यत्रार्थवशेन पादव्यवस्था ॥ २,१ ।३५ ॥ ऋच इत्यस्ति वेदे, अहे बुध्निय मन्त्रं मे गोपाय यमृषयस्त्रयीविदा{*२।१४४*} विदुः ऋचो{*२।१४५*} यजूंषि सामानीति{*२।१४६*} । कथंलक्षणिका ऋचः? तेषामृग्यत्रार्थवशेन पादव्यवस्था, यत्र पादकृता व्यवस्था स मन्त्र ऋग्नामा, यथा अग्निमील इति{*२।१४७*}, एवंजातीयकेषु मन्त्रेष्वभियुक्ता उपदिशन्ति, ऋचोऽधीमहे, ऋचोऽध्यापयामः, ऋचो वर्तन्त इति । यद्यर्थवशेनेत्युच्यते, यत्र वृत्तवशेन तत्र न प्राप्नोति, अग्निः पूर्वेभिरृषिभिरिति{*२।१४८*}, यतो नार्थवशेनेति वृत्तादिवशव्यावृत्त्यर्थम्, किं तर्ह्यनुवाद एष प्रदर्शनार्थः । अवश्यं चैतदेवं विज्ञेयम्, वृत्तादिनिर्वृत्त्यर्थे सति वाक्यं भिद्येत । तस्माद्यत्र पादकृता व्यवस्था, सा ऋगिति । [१२९]{*२।१४९*} ण्Oट्Eष् *{२।१४४ E२ त्रयीविदो, E४ त्रैविदो}* *{२।१४५ E२,४ ऋचः सामानि}* *{२।१४६ टैत् ।Bर् । १ ।२ ।१ ।२६}* *{२।१४७ ऋV १ ।१ ।१}* *{२।१४८ ऋV १ ।१ ।२}* *{२।१४९ E२ २,४२७॑ E४ २,५०४॑ E५ २,३७५॑ E६ १,८८}* ____________________________________________ गीतिषु सामाख्या ॥ २,१ ।३६ ॥ अथ साम्नः किं लक्षणम्? विशिष्टा काचिद्गीतिः सामेत्युच्यते, प्रगीते हि मन्त्रवाक्ये सामशब्दमभियुक्ता उपदिशन्ति, सामान्यधीमहि, समान्यध्यापयामः, सामानि वर्तन्त इति, अभियुक्तोपदेशश्च नः प्रमाणम् । यथा अम्लं{*२।१५०*} दधि, मधुरो गुड इति गीतिविशिष्टे तावन्मन्त्रे गीतिशब्दः, गीतिसंबन्धान्मन्त्रे संप्रत्यय इत्यवगन्तव्यम् । ण्Oट्Eष् *{२।१५० E२ प्रत्यक्षा अम्लं, E४ यक्षा अम्लं}* ____________________________________________ शेषे यजुःशब्दः ॥ २,१ ।३७ ॥ अथ यजुषः किं लक्षणमिति । यजुषो लक्षणं न वक्तव्यम्, ऋग्लक्षणसामलक्षणाभ्यामेव यजुर्विज्ञास्यते वैपरीत्येन, या न गीतिर्न च पादबद्धम्, तत्प्रश्लिष्टपठितं यजुरिति । अथ निगदो नाम किं यजूंष्युत यजुषोऽन्य इति? ____________________________________________ निगदो वा चतुर्थं स्याद्धर्मविशेषात् ॥ २,१ ।३८ ॥ निगदाः न यजूंषि । कुतः? धर्मविशेषात्, उच्चैः ऋचा क्रियते, उच्चैः साम्ना, उपांशु यजुषा, उच्चैर्निगदेनेत्येष धर्मविशेषः, उच्चैर्निगदेनेत्यनूद्यते, यदि यजुषो निगदत्वं [१३०]{*२।१५१*} स्यात्, न च तस्योच्चैस्त्वं धर्मो दृश्येत । दृश्यते तु । तस्माच्चतुर्थं मन्त्रजातं निगदो नाम । ण्Oट्Eष् *{२।१५१ E२ २,४२८॑ E४ २,५१३॑ E५ २,३७९॑ E६ १,८९}* ____________________________________________ व्यपदेशाच्च ॥ २,१ ।३९ ॥ व्यपदेशोऽपि भवति, यजूंषि वर्तन्ते, न निगदाः । निगदा वर्तन्ते, न यजुंषीति । तस्मादपि मन्त्रान्तरम् । ____________________________________________ यजूंषि वा तद्रूपत्वात् ॥ २,१ ।४० ॥ यजूंष्येव वा निगदाः । कुतः? तद्रूपत्वात्, तदेवैषां रूपम्, यद्यजुषां प्रश्लिष्टपाठः, ऋक्सामलक्षणविलक्षणता च । ____________________________________________ वचनाद्धर्मविशेषः ॥ २,१ ।४१ ॥ वचनात्प्रत्यायनसामर्थ्यात्, अस्ति हि पुरुषान्तरप्रत्यायनसामर्थ्यं केषांचिद्यजुषाम् । ____________________________________________ अर्थाच्च ॥ २,१ ।४२ ॥ अस्ति च तैः पुरुषान्तरैः प्रत्यायितैः प्रयोजनम्, नोपंशूच्चार्यमाणाः पुरुषान्तरं प्रत्याययेयुः । तस्माद्धर्मविशेषोऽर्थवान् । यानि च यजंष्य्{*२।१५२*} उच्चैरुच्चार्यन्ते ते निगदाः । कुतः? निशब्द{*२।१५३*}, प्रकर्षस्य वक्ता, यथा प्रकर्षेण रक्तं नितरां रक्तमित्युच्यते । गदतिर्गदनार्थः पाठवचनः । एष एव हि प्रकर्षो यदुच्चैस्त्वावच्छिन्नत्वं । ननु वाचनिको गुणो यजुषामुपांशुत्वम् । नेति ब्रूमः गुणो नाम स भवति, यः स्वकार्यं कुर्वतामुपकारे वर्तते, न च परसंबोधनार्थानां यजुषामुपांशुत्वं साहाय्ये वर्तते, तद्धि स्वकर्मक्रियाविघातं करोति, तेन पुरुषान्तरसंबोधनार्थमुच्चैस्त्वं गुणः । इतरार्थं तु वचनं भविष्यति, इतराणि यानि [१३१]{*२।१५४*} यजूंषि न परसंबोधनार्थानि, तेषूपांशुत्वं निवेक्ष्यते । ण्Oट्Eष् *{२।१५२ E२,४,५,६ यजूंषि}* *{२।१५३ E२,४,५,६ निशब्दः}* *{२।१५४ E२ २,४३०॑ E४ २,५१७॑ E५ २,३८०॑ E६ १,८९}* ____________________________________________ गुणार्थो व्यपदेशः ॥ २,१ ।४३ ॥ अथ यदुक्तं व्यपदेश इति, स चैकत्वेऽपि गुणतो भवति, यथेतो ब्राह्मणा भोज्यन्ताम्, इतः परिव्राजका इति । एवमुच्चैस्त्वेन गुणेन तान्येव यजूंषि व्यपदिश्यन्ते, निगदा इति । ____________________________________________ सर्वेषामिति चेत् ॥ २,१ ।४४ ॥ यदि य उच्चैर्गद्यते स निगदः, ऋगपि निगदः प्राप्नोति । ____________________________________________ न, ऋग्व्यपदेशात् ॥ २,१ ।४५ ॥ न ऋचो निगदा{*२।१५५*} व्यपदिश्यन्ते, अयाज्या वै निगदा ऋचैव यजन्तीति पृथक्त्वनिमित्ता हि व्यपदेशा भवन्ति । उच्यते, व्यपदेशो लिङ्गम्, प्राप्तिरुच्यतामिति । अपादबद्धे गदतिर्वर्तते, अपादबद्धो हि गद्य इत्युच्यते । ण्Oट्Eष् *{२।१५५ E२,४ निगदा इति}* ____________________________________________ अर्थैकत्वादेकं वाक्यं साकाङ्क्षं चेद्विभागे स्यात् ॥ २,१ ।४६ ॥ अथ प्रश्लिष्टपठितेषु यजुःषु कथमवगम्येत इयदेकं यजुरिति? यावता पदसमूहेनेज्यते, तावान् पदसमूहः एकं यजुः । कियता चेज्यते? यावता क्रियाया उपकारः प्रकाश्यते, तावद्वक्तव्यत्वाद्वाक्यमित्युच्यते । तेनाभिधीयते [१३२]{*२।१५६*} अर्थैकत्वादेकं वाक्यमिति, एतस्माच्चेत्कारणादेकवाक्यता भवति । तस्मादेकार्थः पदसमूहो वाक्यम्, यदि च विभज्यमानं साकाङ्क्षं पदं भवति । किमुदाहरणम्? देवस्य त्वा सवितुः प्रसव इति{*२।१५७*} । ननु पदं पदमत्रैकार्थम् । सत्यम्, न तु तद्विभागे साकाङ्क्षं । न तर्ह्यर्थैकत्वमुपपद्यते । बहुत्वात्पदार्थानाम्, पदसमुदायस्य च पृथगर्थो नास्तीत्युक्तम् । भेदः संसर्गो वा वाक्यार्थ इति यद्युच्यते, तथाप्येकार्थता न स्यात्, बहुपदे भेदानां संसर्गाणां च बहुत्वात् । एकप्रयोजनत्वादुपपन्नम्, यथा तावद्देवस्य त्वेति निर्वापप्रकाशनम्, तस्य विशिष्टस्य वाचक एतावान् पदसमूहः, तत्वाक्यम् । नन्वत्र देवस्य त्वा सवितुः प्रसवे निर्वपामीत्येकं वाक्यम्, अश्विनोर्बाहुभ्यां निर्वपामीत्यपरम्, एवं बहूनि वाक्यानि । यदि निर्वपामीत्यनुषङ्गः, ततो बहूनि वाक्यानि, न त्वेवमनुषङ्गो भवति, यदि गुणभूतो निर्वपामीति, तदा प्रतिप्रधानं भिद्येत । न च निर्वापो देवस्य त्वेत्येवमादीनामर्थेनोच्यते, साधनप्राधान्ये ह्यदृष्टार्थता वचस्य स्यात् । निर्वापे पुनः प्रधाने दृष्टं कार्यं निर्वापप्रकाशनम्, तत्सर्वैर्विशेषणैर्विशिष्टमुच्यते । तस्मादविरोधः । यथा च पदं पदेन विशेष्यते तथोक्तं तद्भूतानामिति{*२।१५८*} । तस्मादेकं वाक्यम् । अथ किमर्थमुभयं सूत्रितम्, अर्थैकत्वादिति च विभागे साकाङ्क्षत्वाद्{*२।१५९*} इति च, उच्यते, भवति किंचिदेकार्थम्, न तु विभागे साकाङ्क्षम्, यथा भगो वां विभजतु, अर्यमा वां विभजत्वित्येकार्थाः सर्वे विभागमभिदधति । ननु भगविशिष्टाद्विभागादर्यमविशिष्टोऽन्यो विभागः । नेत्युच्यते, [१३३]{*२।१६०*} विभागसामान्येनास्य प्रयोजनम्, न विशेषेण, सामान्ये हि दृष्टोऽर्थो भवति, न विशेषे, विभागे तु न साकाङ्क्षम् । तस्माद्भिन्नमिदं वाक्यं विभागे विकल्प्यते । तथा स्योनं ते सदनं कृणोमि घृतस्य धारया सुसेवं{*२।१६१*} कल्ययामि{*२।१६२*} । तस्मिन् सीदामृते प्रतितिष्ठ व्रीहीणां मेधः सुमनस्यमान इति{*२।१६३*} विभागे साकाङ्क्षम्, द्वे तु प्रयोजने क्रियेते, सदनकरणं पुरोडाशप्रतिष्ठापनं च । तस्माद्भिन्ने वाक्ये, पूर्वं सदनकरणे विनियुज्यते, उत्तरं{*२।१६४*} पुरोडाशप्रतिष्ठापने । तस्मात्सम्यक्सूत्रितम्, न सूत्रोपालंभो भवति । ण्Oट्Eष् *{२।१५६ E२ २,४३५॑ E४ २,५२२॑ E५ ३,३८३॑ E६ १,९०}* *{२।१५७ टैत् ।ष् । १ ।१ ।४ ।२}* *{२।१५८ Vग्ल् । ंष्१ ।१ ।२५}* *{२।१५९ ंित्E५,६॑ E२,४ साकाङ्क्षम्}* *{२।१६० E२ २,४३८॑ E४ २,५२२॑ E५ २,३८७॑ E६ १,९१}* *{२।१६१ E२,४ सुशेवं, E६ सुषेवम्}* *{२।१६२ E२,४,५,६ कल्पयामि}* *{२।१६३ टैत् ।Bर् । ३ ।७ ।५ ।२३, ंान्श्ष्}* *{२।१६४ E२ उत्तरे}* ____________________________________________ समेषु वाक्यभेदः स्यात् ॥ २,१ ।४७ ॥ ईषे त्वा, ऊर्जे त्वेति{*२।१६५*}, तथा आयुर्यज्ञेन कल्पताम्, प्राणो यज्ञेन कल्पतामिति{*२।१६६*} । अत्र सन्देहः, किमेवमादिषु भिन्नं वाक्यमुतैकमिति? एकमिति ब्रूमः, ईषे त्वेत्येवमुक्ते न किंचिद्दृष्टं प्रयोजनम्, तथा ऊर्जे त्वेत्यपि च, वचनसामर्थ्याददृष्टम्, तदुभाभ्यामेकं कल्पयितुं न्याय्यम्, एवमल्यीयस्यदृष्टानुमानकल्पना भविष्यति । तस्मादेकं वाक्यम् । एवं प्राप्ते ब्रूमः समेषु वाक्यभेदः स्यात्, समेषु परस्परानाकाङ्क्षेषु वाक्यं भिद्यते, ईषे त्वेत्यनेनैकोऽर्थः क्रियते, ऊर्जे त्वेत्यनेनापरः । ननु इदानीमेवोक्तं नात्र दृष्टोऽर्थ इति । यद्यपि प्रत्यक्षादिना प्रमाणेन नोपलभ्यते, श्रुत्या तु गम्यते, ईषे त्वेति छिनति, ऊर्जे त्वेत्यनुमार्ष्टीति{*२।१६७*} । तथा आयुर्यज्ञेन कल्पताम्, प्राणो यज्ञेन कल्पतामित्यायुःकॢप्तेरन्या प्राणकॢप्तिः । ननु सामान्यमात्रमिदं तन्न विशेषणभेदाद्भेदमर्हतीति, यथा अग्नये जुष्टं निर्वपामीति [१३४]{*२।१६८*} निर्वाप एकस्तस्य विशेषाः सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पुष्णो{*२।१६९*} हस्ताभ्यामिति, न तेषां भेदान्निर्वापस्य भेद इष्यते, एवमिहापि कॢप्तिर्नामैकोऽर्थः, नासावायुरादिभिर्विशेषैर्भिन्नो भविष्यतीति । उच्यते इह कॢप्तीर्वाचयतीति बह्वः{*२।१७०*} कॢप्तयः श्रूयन्ते, ताश्च वक्तव्याः, तत्रैकामायुःकॢप्तिमायुःयज्ञेन कल्पतामित्येष मन्त्रः शक्नोति वदितुम्, प्राणो यज्ञेन कल्पतामित्ययमपि प्राणकॢप्तिमपराम्, एवं तु सर्वे कॢप्तिविशेषवचनाः, तच्च दृष्टं प्रयोजनम् । तस्मादनेकार्थत्वात्तत्रापि वाक्यभेद इति । ननु सामान्यवचनादेकत्वं यथा विभागे । नैतदेवम्, विभागे दृष्टार्थं सामान्यमिह न । अपि च कॢप्तीर्वाचयतीति विहितम्, आयुःयज्ञेन कल्पतामिति चायुःकॢप्त्यभिधानमभिनिवर्त्यते प्रत्यक्षम् । प्राणो यज्ञेन कल्पतामिति च प्राणकॢप्तेः । तस्माद्वाक्यभेदः । ण्Oट्Eष् *{२।१६५ टैत् ।ष् । १ ।१ ।३, Vआज् ।ष् । १ ।१}* *{२।१६६ टैत् ।ष् । १ ।७ ।९ ।१}* *{२।१६७ Vग्ल् । श्ড়्Bर् । १ ।१ ।६ ।६, १ ।७ ।१ ।२, ४ ।३ ।१ ।७}* *{२।१६८ E२ २,४४१॑ E४ २,५४०॑ E५ २,३९०॑ E६ १,९१}* *{२।१६९ E२,४,६ पूष्णो}* *{२।१७० E२,४,५,६ बह्व्यः}* ____________________________________________ अनुषङ्गो वाक्यसमाप्तिः सर्वेषु तुल्ययोगित्वत् ॥ २,१ ।४८ ॥ या ते अग्नेऽयाशया तनूर्वर्षिष्ठा गह्वरेष्ठा, उग्रं वचो अपावधीत्त्वेषं वचो अपावधीत्स्वाहा, या ते अग्ने रजाशया, या ते अग्ने हराशयेत्य्{*२।१७१*} अत्र सन्देहः, तनूर्वर्षिष्ठेति किं सर्वेष्वनुषक्तव्यम्, आहोस्विल्लौकिको वाक्यशेषः कर्तव्य इति । किं प्राप्तम्? या ते अग्ने रजाशयेत्येतस्य तनूर्वर्षिष्ठेति न वाक्यशेषः, न ह्ययमस्मात्परः प्रयुज्यते । एवं प्राप्ते ब्रूमः अनुषङ्गो वाक्यसमाप्तिः स्यात्तनूर्वर्षिष्ठेति, यथैव ह्ययं या ते अग्नेऽयाशयेत्येतस्यानन्तरम्, एवं या ते अग्ने रजाशया, या ते अग्ने हराशयेत्येतयोरपि । हराशयेत्येतस्य व्यवहित इति चेत् । तन्न, समुदायस्याव्यवधानात्, अव्यवहितो रजाशयेति समुदायः [१३५]{*२।१७२*} समुदायेन च वाक्यशेषस्य संबन्धाभावात्समुदायिभ्यां संबन्धः, समुदायिसंबन्धे च न गम्यते विशेषः । तस्मात्सर्वत्रानुषङ्गः । अपि च साकाङ्क्षस्य सन्निधौ परस्तात्पुरस्ताद्वा परिपूर्णसमर्थः श्रूयमाणो वाक्यशेषो भवति । कियांस्तु कालः सन्निधिरिति? उच्यते यावति शक्नोत्युभावप्यपेक्षितुम् । कश्चासौ? आनन्तर्यं संबन्धिपदव्यवायो वा, तावति हि शक्नोत्युभावप्यपेक्षितुम्, संबन्धिपदव्यवाये हि संबन्धादेव पूर्वसंस्कारो नापैति । यत्राप्यपरेण साकाङ्क्षेन व्यवायस्तत्राप्यस्ति संबन्धः, द्वयोरपि हि कार्यं वक्तव्यमिति, परः पूर्वमपेक्षते, अनपेक्षमानेऽन्यतरः प्रमादपाठः स्यात्, शक्यते चासावपेक्षितुम्, तस्माद्यथैवायमेकस्य सन्निधावेवमपरस्य, द्वयोरप्यसंबद्धैः पदैरव्यवहितत्वात्, द्वयोरप्याकाङ्क्षतोर्{*२।१७३*} एतावच्च वाक्यशेषसंबन्धे कारणम्, नानन्तर्यम्, अव्यवधाने विच्छेदेऽपि भवति संबन्धः । तस्मादनुषङ्गः । अथेह कथं भवितव्यम्? यत्र निराकाङ्क्षाणां सन्निधौ परिपूरणसमर्थः श्रूयते, यथा चित्पतिस्त्वा पुनातु, वाक्य्पतिस्त्वा पुनातु, देवस्य त्वा{*२।१७४*} सविता पुनात्वछिद्रेण पवित्रेण वसोः सूर्यस्य रश्मिभिरिति{*२।१७५*}, अत्र हि पुनात्वन्तानि परिपूर्णानि न किंचिदाकाङ्क्षन्ति । नन्वछिद्रेणेत्येतदाकाङ्क्षिष्यति{*२।१७६*} । सत्यमाकाङ्क्षति, आकाङ्क्षदप्येतदेकमाकाङ्क्षेत्, एकेनैवैतन्{*२।१७७*} निराकाङ्क्षं संपद्यत इति, एकेन हि निराकाङ्क्षीकृतो नेतरावाकाङ्क्षिष्यति, अनर्थकत्वादाकाङ्क्षति, एकेन च संबद्धो नानर्थको भवति । तस्मान्नेतरावाकाङ्क्षतीति, इतरावपि परिपूर्णत्वान्न तमाकाङ्क्षतः । नन्वेतस्य वाक्यशेषस्यैकमप्याकाङ्क्षतो न गम्यते विशेषः, केन निराकाङ्क्षीक्रियते, केन वा नेति । तेनानवगम्यमाने विशेषे सर्वैः सह संभन्त्स्यते । आह, नैतदेवम्, येनास्य प्रत्यक्षमानन्तर्यमुपलभामहे तेन सह संभन्त्स्यत इति गम्यते विशेषः, तस्मात्तेनानन्तरेण सह संभ[१३६]{*२।१७८*}न्त्स्यत इति नास्ति सर्वत्रानुषङ्ग इति । आह नैतदेवम्, पुनातुशब्देनास्य प्रत्यक्षमानन्तर्यमुपलभामहे, पुनातुशब्दस्यापि चित्पतिस्त्वेत्येवमादिभिः, एकश्चासौ पुनातुशब्दः पुनः पुनरुच्चरितः, तेनावगच्छामः, यत्र पुनातुशब्दः प्रयुक्तः, तत्र तेनैकवाक्यत्वादछिद्रेणेत्ययमपि प्रयोक्तव्यः, तथा च सति चित्पतिस्त्वेत्येवमादयो विना पुनातुशब्देन, साकाङ्क्षाः, ते च पुनातुशब्दमाकाङ्क्षन्ति, स च पुनातुशब्दोऽछिद्रेणेत्यनेन विशिष्टः, तेन पुनातुशब्देन सानुषङ्गेण नियोगतः सर्वे निराकाङ्क्षीकर्तव्याः । तस्मात्सर्वेषु तुल्यप्रयोगा इति वाक्यपरिसमाप्तिरनुषज्यते । ण्Oट्Eष् *{२।१७१ टैत् ।ष् । १ ।२ ।११ ।२}* *{२।१७२ E२ २,४४६॑ E४ २,५५१॑ E५ २,३९४॑ E६ १,९२}* *{२।१७३ E२,४ आकाङ्क्षावत्त्वात्}* *{२।१७४ E२,४ देवस्त्वा}* *{२।१७५ टैत् ।ष् । १ ।२ ।१ ।२}* *{२।१७६ E२ आङ्क्षति, E५ आकाङ्क्षति}* *{२।१७७ E२,४,६ एकेनैव तन्निराकाङ्क्षं}* *{२।१७८ E२ २,४५१॑ E४ २,५५२॑ E५ २,३९६॑ E६ १,९३}* ____________________________________________ व्यवयान्नानुषज्येत ॥ २,१ ।४९ ॥ सं ते वार्युर्{*२।१७९*} वातेन गच्छताम्, सं जयत्रैरङ्गानि{*२।१८०*}, सं यज्ञपतिराशिषा{*२।१८१*} इति । वार्युर्{*२।१८२*} वातेन गच्छतामित्येष सं यजत्रैरङ्गानीति बहुवचनान्तन व्यवहितत्वात्संयज्ञपतिराशिषेत्यत्र नानुषज्यत{*२।१८३*}, एकेन साकाङ्क्षेण व्यवेतो{*२।१८४*} गच्छतामिति शेषः, ततो बहुवचनान्तेन सं यजत्रैरङ्गानीत्येतेन संबन्धमनुपेत्य व्यवेतत्वात्परेण न संबध्यते, गम्यते हि तदा विशेषः, एकेन व्यवेत इति, गम्यमाने विशेषे न तत्र भावो वाक्यशेषस्योपपद्यते । तस्माद्बहुवचनान्तस्य परस्य च तद्व्यपेतस्य लौकिको वाक्यशेषः कर्तव्य इति । [१३७]{*२।१८५*} ण्Oट्Eष् *{२।१७९ E२,४,६ वायुर्}* *{२।१८० E२,४,६ यजत्रैरङ्गानि}* *{२।१८१ टैत् ।ष् । १ ।३ ।८ ।१}* *{२।१८२ E१,५॑ E२,४,६ वायुर्}* *{२।१८३ E२ नानुषञ्जते, E४ नानुषज्जते, E५ नानुषज्यते, E६ नानुषज्ज्यते}* *{२।१८४ E२,४,६ साकाङ्क्षेणाव्यवेतो}* *{२।१८५ E२ ३,१॑ E४ ३,१॑ E५ २,४०१॑ E६ १,९४}* ____________________________________________ शब्दान्तरे कर्मभेदः कृतानुबन्धत्वात् ॥ २,२ ।१ ॥ अस्ति ज्योतिष्टोमस्तत्र श्रूयते सोमेन यजेत, दाक्षिणानि जुहोति, हिरण्यमात्रेयाय ददातीति{*२।१८६*}॑ यजति ददाति जुहोतयस्ते किं संहत्य कार्यं कुर्वन्ति, उत वियुत्येति संशयः, साधकाः संहत्यापि साधयन्तो दृश्यन्ते, वियुत्यापि । संहत्य तावत्, त्रयो ग्रावाण एकामुखां धारयन्तो दृश्यन्ते, नागदन्तकास्तु वियुत्यापि, एकैकस्मिन् हि शक्यते शिक्यमवलम्बयितुम् । अतो यजति, ददाति, जुहोतव्यः संहत्य साधयेयुर्वियुत्य वेति जायते संशयः । किं तावत्प्राप्तम्, संहत्येति । कुतः? अदृष्टार्थानामुपकारकल्पनाल्पीयसी न्याय्येति । कथम्? अदृष्टो योऽश्रुतो वार्थः, स नास्तीत्यवगम्यत् तस्मिन्नसति दृष्टश्चेत्श्रुतो वा न विरुध्यत् । विरुध्यमाने कल्प्यः स्याज्जायते तेन सोऽर्थवान्। विशेषश्चेन्न गम्येत, ततो नैकोऽपि कल्प्यत् । गम्यते च विशेषः, बहुभ्य एकमपूर्वमिति । तस्मात्समुदायश्चिकीर्षितः, ततो ह्यदृष्टे कल्प्यमाने, अवयवानां समुदायं प्रत्यर्थवत्त्वादेकमपूर्वं समुदायात्कल्पितं भविष्यति । न च, अशब्दः समुदायः, अवयवशब्दैरेव समुदायस्योक्तत्वात् । तस्मात्समुदायश्चिकीर्षितः । अथ वा यजेतेत्येतस्य पूर्वो भागो [१३८]{*२।१८७*} यजत्यर्थं ब्रवीति, उत्तरस्तमेव{*२।१८८*} भावयेदित्यनुवदति, एवं जुहोतीति पूर्वो भागो जुहोत्यर्थम्, उत्तरस्तमेवानुवदति । तेनैकस्यां भावनायां त्रयो यजत्यादय उपाया विधीयन्ते श्रुत्या । तस्मादेतैर्यागदानहोमैर्विशिष्टापूर्वस्य भावना प्रतीयते, अत उच्यते संहत्यैकमपूर्वं साधयन्तीति । यद्वा यजतिशब्देन विहितं दानं दानहोमशब्देनानूद्यते गुणसम्बन्धार्थम्, तस्मादेकमपूर्वमिति प्राप्तम् । एवं प्राप्ते ब्रूमः प्रतिशब्दमपूर्वभेद इति, शब्दान्तरे कर्मभेदः कृतानुबन्धत्वात्, यजेतेत्यनेन केवलस्य यागस्य कर्तव्यतोच्यते, न तु जुहोतिशब्दाभिहितस्य ददातिशब्दाभिहितस्य वा, शब्दान्तरत्वात् । प्रयोगवाक्यशेषभावेन हि समुदायस्य सत्तासम्बन्धो गम्यते, श्रुत्यावयवस्य, यजेत इति सन्निहितयोरपि वाक्येन दानहोमयोः, श्रुत्या यागस्यैव सत्तासम्बन्धो गम्यते, न दानहोमयोः । श्रुतिश्च वाक्याद्बलीयसी । तस्मान्न समुदायः शब्दः, कल्प्यमानो हि प्रयोगवचनेनैकवाक्यतां नीत्वा कल्प्येत, शब्दान्तरं च यजतेर्ददातिः । तत्र यद्यपि परो भागो भावनावचनः सर्वेषु समानः, तथाप्येकैकस्य पूर्वोऽवयवोऽन्यः, अन्यश्च तेन समुदायः शब्दान्तरमन्यस्मात्समुदायात्, तत्रार्थान्तरं व्यक्तम्, दद्यादिति दानेन साधयेदिति केवलमेव दानं करणं भावनायाः प्रतीयते, न यागहोमौ सहायावपेक्षते । तथा जुहोतीति होमसाधनां भावनामाह, न दानयागावपेक्षते । तत्रैतावच्छब्देनावगतम्, दानेन केवलेन सिध्यतीति जुहोतीत्यपि होमेन केवलेन सिध्यतीति, न तु दानेन केवलेन सिध्यतीति विज्ञानं निवर्तते । ददाति तर्हि स्वेन कारकग्रामेण कृतानुबन्धो न यागं होमं वानुबन्धमपेक्षते । तस्माद्भिन्नानि वाक्यनि, प्रतिशब्दमपूर्वभेदः [१३९]{*२।१८९*} इति । न च दानस्य यजति जुहोतिर्वानुवादो यागहोमयोरविवक्षाप्रसङ्गात् । न च दानमितरयोरनुवादः, परस्वत्वार्थत्वाद्ददातेः, इतरयोश्च त्यागार्थत्वात् । प्रयोजनं पूर्वपक्षे समुदायादपूर्वम्, सिद्धान्ते तु यागस्य फलवत्त्वादितरयोर्गुणभावः । ण्Oट्Eष् *{२।१८६ श्ড়्Bर्४ ।३ ।४ ।२१}* *{२।१८७ E२ ३,३॑ E४ ३,१॑ E५ २,४०५॑ E६ १,९४}* *{२।१८८ E२,५,६ ओम् । तमेव}* *{२।१८९ E२ ३,८॑ E४ ३,२॑ E५ २,४१०॑ E६ १,९५}* ____________________________________________ एकस्यैवं पुनःश्रुतिरविशेषादनर्थकं हि स्यात् ॥ २,२ ।२ ॥ समिधो यजति, तनूनपातं यजतीत्येवमादिः{*२।१९०*} पञ्चकृत्वोऽभ्यस्तो यजतिशब्दः किमेकमपूर्वं चोदयति, किं प्रत्यभ्यासमपूर्वभेद इति । शब्दान्तरे कर्मभेद उक्तः, इह स एव शब्दः पुनः पुनरुच्चार्यते । तस्मादेकमेवात्रापूर्वम् । नन्वपूर्वान्तरमविदधदनर्थको भवति । सत्यमेवाप्रयोजनो भवति, बहुकृत्वोऽपि चोच्चार्यमाणो नान्यार्थो भवति, यत्प्रथमे उच्चारणे{*२।१९१*} गम्यते, शततमेऽपि{*२।१९२*} तदेव गम्यते । तस्मात्पञ्चकृत्वोऽभ्यस्तो यजतिशब्द एकमपूर्वं चोदयति । न चाभ्यासोऽनर्थको भविष्यति, तनूनपादादीर्देवता विधास्यति, तस्मादेकमपूर्वम् । एवं प्राप्ते ब्रूमः एकस्यैवं पुनःश्रुतिः स्यात्, कर्मभेदं कुर्यादित्यर्थः । तावत्येव विधीयमानेऽसति कस्मिंश्चिद्विशेषे पुनःश्रुतिरनर्थका भवेत् । ननूक्तं न शक्नोत्यर्थान्तरं विधातुमिति । उच्यते समिधो यजतीत्यपि प्रथमोऽनुवाद एव, दर्शपूर्णमासाभ्यां यजेतेति यागः प्राप्त एव । तत्र देवता न शक्या विधातुम्, श्रुतिप्राप्ता हि तत्र देवता, इयं वाक्यात्प्रकरणाद्वा, तयोर्विकल्पो न न्याय्यः, स एष देवतायागसंबन्धो [१४०]{*२।१९३*} विधीयमानोऽक्रियमाणे यागे न शक्यः कर्तुमित्यनर्थकः स्यात् । क्रियमाणे तु शक्यते । तस्मादभ्यसितव्यो यागः, प्रत्यभ्यासं चादृष्टभेद{*२।१९४*} इति, न च यत्समित्संबन्धेन क्रियते, तत्तनूनपात्संबन्धेन, भिन्नत्वात्तयोः, अतो न विकल्पः । प्रयोजनं{*२।१९५*} पूर्वपक्षे सकृत्प्रयोग इति, सिद्धान्ते पुनः पुनः प्रयोग इति । ण्Oट्Eष् *{२।१९० टैत् ।ष् । २ ।६ ।१ ।१२}* *{२।१९१ E२,४ (व् ।ल् ।) यत्प्रथममुच्चार्यमाणे}* *{२।१९२ E२,४ (व् ।ल् ।) शतकृत्वोऽपि}* *{२।१९३ E२ ३,१५॑ E४ ३,२०॑ E५ २,४१५॑ E६ १,९६}* *{२।१९४ E२,४ (व् ।ल् ।) वापूर्व}* *{२।१९५ E२,४ (व् ।ल् ।) पक्षोक्तं}* ____________________________________________ प्रकरणं तु पौर्णमास्यां रूपावचनात् ॥ २,२ ।३ ॥ एवं हि समामनन्ति यदाग्नेयोऽष्टाकपालोऽमावास्यायां पौर्णमास्यां चाच्युतो भवति{*२।१९६*}॑ तावब्रूतामग्नीषोमावाज्यस्यैव तावुपांशु{*२।१९७*} पौर्णमास्यां यजन्निति॑ ताभ्यामेतमग्नीषोमीयमेकादशकपालं पौर्णमासे प्रायच्छत्{*२।१९८*}॑ ऐन्द्रं दध्यमावास्यायामैन्द्रं पयोऽमावास्यायामिति{*२।१९९*} । तथाघारमाघारयति{*२।२००*}॑ आज्यभागौ यजति, स्विष्टकृते समवद्यति, पत्नीसंयाजान् यजति, समिष्टयजुर्जुहोति{*२।२०१*} । तथा य एवं विद्वान् पौर्णमासीं यजते, य एवं विद्वानमावास्यां यजत इति{*२।२०२*} । तत्र संदेहः सर्वाण्येतानि समप्रधानानि, उताग्नेयादीनि पयोन्तानि प्रधानानि, आघारादीन्यारादुपकारकाण्यङ्गानि? तथा, य एवं विद्वानित्येवं संयुक्तौ प्रकृतानां कर्मणामनुवदितारौ, अथ वा य एवं विद्वान् पौर्णमासीं यजते, य एवं विद्वानमावास्यां यजत इत्यपूर्वयोः कर्मणोर्विधातारौ, तत्रेतरे गुणविधय इति । किं{*२।२०३*} प्राप्तम् शब्दान्तरत्वादभ्यासाच्च समप्रधानानीति प्राप्ते ब्रूमः{*२।२०४*} प्रकरणं तु पौर्णमास्याम्, प्रकृतानामाग्नेयादीनामनुवदितारौ पौर्णमास्यमावास्यासंयुक्तौ । कुतः? रूपावचनात्, य एवं विद्वान् पौर्णमासीसंज्ञकं यागं यजत इति न सर्वे यागा [१४१]{*२।२०५*} उच्यन्ते, यः पौर्णमासीसंज्ञकः स विधीयते, न चैतदेवमवगच्छामः, कीदृशमेवंसंज्ञकस्य यागस्य रूपमिति, ते न{*२।२०६*} किंचित्प्रतिपद्येमहि । अतो ब्रूमः यद्यपूर्वस्य विधातारावनर्थकाविति । अथ नु प्रकृतानामनुवदितारौ, ततः सन्निहिताः पौर्णमास्यमावास्यासंयुक्ता यागा इति गम्यते रूपम्, तत्रार्थवत्ता वचनस्य । कथं पुनरेकवचनान्तो बहूनां वाचको भविष्यतीति यद्युच्यते । समुदायशब्दतयावकल्पिष्यते, रूपवन्तो हि पूर्वप्रकृता यागाः, तेषां च प्रचयशिष्टः समुदायोऽप्यस्ति तदपेक्षोऽयमरूपशब्दः, तस्मादेकवचनान्तता न दोषः, भवति हि बहूनामेकवचनान्तः शब्दः समुदायापेक्षः, यथा यूथं वनं कुलं परिषदिति । यदाग्नेयादीनां समुदायवचनावेतौ, तदा दर्शपौर्णमासशब्देनैत एवाभिधीयन्ते । तत एषां फलसंबन्धः, फलवत्सन्निधेस्त्वाघारादीन्यारादुपकारकाणीति । ण्Oट्Eष् *{२।१९६ टैत् ।ष् । २ ।६ ।३ ।३}* *{२।१९७ E१,६॑ E२,५ नावुपांशु॑ E४ नावुवांशु}* *{२।१९८ Vग्ल् । श्ড়्Bर्१ ।६ ।२ ।१४}* *{२।१९९ टैत् ।ष् । २ ।५ ।४ ।१}* *{२।२०० टैत् ।ष् । २ ।५ ।११ ।६}* *{२।२०१ श्ড়्Bर्१ ।९ ।२ ।२५}* *{२।२०२ टैत् ।ष् । १ ।६ ।९ ।१२}* *{२।२०३ E२,४ (व् ।ल् ।) किं तावत्}* *{२।२०४ E२,४ (व् ।ल् ।) उच्यते}* *{२।२०५ E२ ३,२३॑ E४ ३,३७॑ E५ २,४२१॑ E६ १,९६}* *{२।२०६ E२,४ तेन न॑ E६ तेन}* ____________________________________________ विशेषदर्शनाच्च सर्वेषां{*२।२०७*} समेषु ह्यप्रवृत्तिः स्यात् ॥ २,२ ।४ ॥ यदि च सर्वाणि समप्रधानान्यभविष्यन्, न विकृतौ प्रयाजा दृष्टन्तां दृश्यन्ते तु प्रयाजे प्रयाजे कृष्णलं जुहोतीति{*२।२०८*}, असत्याग्नेयगुणत्वे प्रयाजस्य तन्नोपपद्यते{*२।२०९*} । अतो न सर्वाणि समप्रधानानि । ण्Oट्Eष् *{२।२०७ E२,४ (व् ।ल् ।) पूर्वेषां}* *{२।२०८ टैत् ।ष् । २ ।३ ।२ ।३}* *{२।२०९ E२,४ नोपपद्येत}* ____________________________________________ गुणस्तु श्रुतिसंयोगात् ॥ २,२ ।५ ॥ नैतदस्ति, पौर्णमास्यमावास्यासंयुक्तौ समुदायशब्दाविति, किं त्वपूर्वयोः कर्मणोर्विधातारौ, तथा न लक्षणशब्दो [१४२]{*२।२१०*} भविष्यति । ननु रूपं नास्ति । वाक्यान्तरेण रूपमवगमिष्यामः । पौर्णमास्यामाग्नेयोऽष्टाकपालो भवतीति यदेतत्पौर्णमासीनां कर्म, तस्यैतद्रूपम्, अग्निर्देवता, पुरोङाशो द्रव्यमिति । अत आग्नेयादिभिर्गुणो विधीयत इति । ण्Oट्Eष् *{२।२१० E२ ३,३२॑ E४ ३,७०॑ E५ २,४२५॑ E६ १,९७}* ____________________________________________ चोदना वा गुणानां युगपच्छास्त्राच्चोदिते हि तदर्थत्वात्तस्य तस्योपदिश्येत ॥ २,२ ।६ ॥ कर्मचोदना वाग्नेयादयः स्युः । कुतः? गुणानां युगपच्छासनात्, एकेनैव वाक्येनात्रानेको गुणो विधातुमिष्यते भवता, न च, शब्दान्तरेण चोदिते कर्मण्यनेको गुणः परस्परसंबन्धे चासति शक्यते विधातुम् । कथम्? यदि तावत्पौर्णमास्यामष्टाकपालो भवतीति संबन्धो विवक्षितः, न तदायमर्थोऽष्टाकपालः सत्तयाभिसंबध्यत इति, कस्तर्ह्यष्टाकपालः पौर्णमास्याभिसंबन्ध्यत इति? तत्र तदा भवतिर्वर्तते, तदानीमाग्नेय इत्ययमस्यान्तिकादप्युपनिपतितो भवति संबन्धाभावान्नानेन संबन्धमर्हति, अष्टाकपाल आग्नेयो भवतीति । अथाग्नेयः पौर्णमास्यां भवतीति विवक्ष्यते । तदाग्नेयपुरोङाशयोरसंबन्ध एव स्यात् । अथ पौर्णमास्यामष्टाकपालस्याग्नेयता विधीयते । वक्तव्यम्{*२।२११*}, केन तस्यामष्टाकपालो विहित इति । अथ तस्यामाग्नेयस्याष्टाकपालता । तथाप्येष दोषः{*२।२१२*} । अथ पौर्णमासीत्युभाभ्यां संबध्येत । परस्परेण द्रव्यदेवतयोरसंबन्ध एव{*२।२१३*} स्यात् । अथ द्रव्यदेवते परस्परेण विशिष्टे सत्यौ पौर्णमास्या संबध्येयातामित्युच्यते । आग्नेयोऽष्टाकपालो यः, स पौर्णमास्यां भवतीति, तस्याप्रसिद्धत्वादेतदप्ययुक्तम् । अथ केनचिदग्नये सङ्कल्पितः पौर्णमास्यां विधीयते । तथापि देवताया अविधानाद्रूपाभाव एव । अथाग्निर्देवता भविष्यतीति कश्चिद्ब्रूयात् । स [१४३]{*२।२१४*} वक्तव्यः मिथश्चानर्थसंबन्ध इति, न ह्याग्नेयशब्दोऽनुवादो विधिश्च भवतीति । कल्पयिष्यामो देवतामिति चेत् । न, असति विधाने देवताया अभावात् । संबन्धिशब्दोऽयं देवतेति स एवाग्निरष्टाकपालस्य देवता, नाज्यस्य । तस्मादवश्यमाग्नेयाष्टाकपालसंबन्धो विधातव्यः, स एष यागो भवतीति, तेन पौर्णमासीयागस्यापरो यागः संबन्धी विधीयते, न द्रव्यं देवता वा । न च यागस्य यागान्तरं रूपं भवति । अतो रूपावचनात्पौर्णमास्यमावास्यासंयुक्तौ नापूर्वयोः कर्मणोर्विधातारौ । यत्तूक्तम् पौर्णमास्यमावास्याशब्दौ लक्षणया प्रकृतान् यागाननुवदितुं शक्नुतो नाञ्जस्येनेति । नैष दोषः, यदाञ्जस्येन शब्दार्थो नावकल्पते, तदा लक्षणयापि कल्प्यमानः साधुर्भवति, यथा, अग्नौ तिष्ठति, अवटे तिष्ठति, अग्निसमीपे, अवटसमीपे तिष्ठतीति भवति संव्यवहारः । लक्षणापि हि लौकिक्येवेति । ण्Oट्Eष् *{२।२११ E२,४ (व् ।ल् ।) तत्र वक्तव्यम्}* *{२।२१२ E२,४ (व् ।ल् ।) तथापि स एव दोषः}* *{२।२१३ E२,४ (व् ।ल् ।) ओम् । एव}* *{२।२१४ E२ ३,३६॑ E४ ३,७२॑ E५ २,४२९॑ E६ १,९८}* ____________________________________________ व्यपदेशश्च तद्वत् ॥ २,२ ।७ ॥ उग्राणि ह वैतानि हवींष्यमावास्यायां संभ्रियन्ते, आग्नेयं प्रथममैन्द्र उत्तर इति समुच्चयं दर्शयति, आग्नेयादीनां गुणत्वे विकल्पः स्यात् । तत्राग्नेयं प्रथमम्, ऐन्द्र उत्तरे द्व इति व्यवदेशो नावकल्पेत, विकल्पे संभारपौर्वापर्यानुपपत्तिरिति । ____________________________________________ लिङ्गदर्शनाच्च ॥ २,२ ।८ ॥ लिङ्गं च दृश्यते चतुर्दश पौर्णमास्यामाहुतयो हूयन्ते, त्रयोदशामावास्यायामिति । [१४४]{*२।२१५*} ण्Oट्Eष् *{२।२१५ E२ ३,३८॑ E४ ३,८५॑ E५ २,४३५॑ E६ १,९९}* ____________________________________________ पौऋणमासीवदुपांशुयाजः स्यात् ॥ २,२ ।९ ॥ जामि वा एतद्यज्ञस्य क्रियते यदन्वञ्चौ पुरोडाशावुपांशुयाजमन्तरा यजतीति{*२।२१६*}, विष्णुरुपांशु यष्टव्योऽजामित्वाय, प्रजापतिरुपांशु यष्टव्योऽजामित्वाय, अग्नीषोमावुपांशु यष्टव्यावजामित्वाय इति । तत्र सन्देहः उपांशुयाजमन्तरा यजतीति किं विष्ण्वादिगुणकानां प्रकृतानां यागानां समुदायस्य वाचकः, अथ वापूर्वस्य यागस्येति । तत उच्यते पौर्णमासीवदुपांशुयाजो भवितुमर्हति । कुतः नामसंबन्धात्, नामसंबद्धो हि विशिष्टो यागः श्रूयते, उपांशुयाजसंज्ञकः, न च द्रव्यदेवते रूपम्, प्रकृताश्चोपांशुगुणका यागा विद्यन्ते । तस्मात्समुदायशब्द इति । ननूपांशुगुणकं यागान्तरमुपांशुत्वेन रूपेण रूपवद्विधीयते । न एवंजातीयकः शब्द उपांशुविशिष्टं यागं शक्नोति वक्तुम्, उपांशुयाग इति हि तस्य वक्ता, चजोः कु घिण्ण्यतोर्{*२।२१७*} इति{*२।२१८*} कुत्वेन भवितव्यम्, अव्युत्पन्नः पुनरुपांशुयाजशब्दः । तस्मान्न रूपवद्यागान्तरम् । अथापि नामसंयुक्तं यजतिसामान्यमेव, तथाप्यनुपदिष्टदेवताद्रव्यरूपं न यागान्तरं प्रतिपद्येमहि । नन्वेवं सति प्रकृतानामप्यवाचकः प्राप्नोति । मा भूदुपांशुयाजशब्दः, यजतिशब्दो भविष्यति, तथा सत्युपांशुयाजशब्देऽप्यनुवादत्वादनाञ्जस्येऽपि न दोषः । [१४५]{*२।२१९*} ण्Oट्Eष् *{२।२१६ Vग्ल् । टैत् ।ष् ।२ ।६ ।६ ।४}* *{२।२१७ E५ कुघिष्णतोः}* *{२।२१८ ড়ाण् । ७ ।३ ।५२}* *{२।२१९ E२ ३,४०॑ E४ ३,९०॑ E५ २,४३९॑ E६ १,९९}* ____________________________________________ चोदना वाप्रकृतत्वात् ॥ २,२ ।१० ॥ कर्मान्तरस्य वाचकः स्यात्, उपांशुयाजं यजतीति । कुतः? प्रकृतानां यागानामभावात्, न चेत्प्रकृता विद्यन्त{*२।२२०*}, कस्य समुदायं वक्ष्यति? नन्विदानीमेवोक्तं विष्ण्वादिगुणकाः प्रकृता यागा विद्यन्त इति । न विद्यन्ते, न हि, ते विधयो विष्णुरुपांशु यष्टव्य इत्येवमादयः । अर्थवादा हि ते । कथम्? अस्मिन् वाक्ये विध्यन्तरस्य भावात्, उपांशुयाजमन्तरा यजतीति एतदेतस्मिन् वाक्ये विधीयते । यदीमेऽपि विधीयेरन्, भिद्येत{*२।२२१*} तर्हि वाक्यम् । अपि च यागस्य विष्ण्वादिनां च संबन्धोऽत्र गम्यते वाक्ये, न च यागस्य विधानम् । ननु च, उपांशुयाजमन्तरा यजतीत्यत्राप्यन्तरालसंबन्धोऽवगम्यते । वाढम्{*२।२२२*}, स तु विधीयत उपांशुत्वादिसंबन्धः । एकं हीदं वाक्यं नानेकं विधातुमर्हति । कथम्? जामि वा एतद्यज्ञस्य क्रियत इत्येवमुपक्रममेतद्वाक्यमजामित्वायेत्येवमन्तम्, तस्य मध्ये समाम्नातं विष्ण्वादिवाक्यं तेन संबन्ध्यमानं न वाक्यान्तरं भवितुमर्हति । तस्माद्विष्णुरुपांशु यष्टव्य इत्येवमादयो न विधयः, किं तर्ह्यर्थवादाः । कः पुनरर्थवादः? आग्नेयाग्नीषोमीययोर्निरन्तरं क्रियमाणयोर्जामितादोष उक्तः, तं भिषजितुम्, उपांशुयाजमन्तरा यजतीति विहितम् । कथं तेन भिषजिष्यते? तस्मिन् क्रियमाणे ज्ञायत एव, यथा विष्णुर्यष्टव्यः प्रजापतिरग्नीषोमौ चेति{*२।२२३*}, ततश्च व्यवधानादजामितावगम्यत एव, तेनाजामितार्थवादं वक्ष्यामीति विष्ण्वादिसंबन्धो ऽनूद्यते, न त्वन्तरालसंबन्धस्यान्यत्प्रयोजनमस्त्यतो विधानात् । कथं विष्ण्वादयो यष्टव्या इत्येतदवगम्यते? यष्टव्यानयष्टव्यान् वा विष्ण्वादीनुपांशुयाजाभिष्टवाय सङ्कीर्तयतीति गम्यते । [१४६]{*२।२२४*} तत्र केचित्तावदाहुः प्राप्ता एवेति । कुतः? शाखान्तरे विधानादिति । यद्यप्यप्राप्तिः, तथाप्युपांशुत्वसामान्यात्प्रजापतिर्देवता विष्णुश्चेत्यनुवादावेव, उपांशुधर्माणौ हि विष्णुप्रजापती, तस्माद्यत्किञ्चित्प्राजापत्यं यज्ञे क्रियते, तदुपांश्वेव क्रियत इत्येवमादिसङ्कीर्तनान्मन्त्रसमाम्नानाच्च विष्णुमप्राप्तमपि प्राप्तमिव वदेत् । अग्निषोमयोस्तु विधायकमुदाह्रियते एतावब्रूयाताम्{*२।२२५*} अग्नीषोमाव्वाज्यस्यैव तावुपांशु पौर्णमास्यां यजनिति, तस्माद्यागान्तरम् । ण्Oट्Eष् *{२।२२० E२,४,५,६ (रिछ्तिग्) विद्यन्ते}* *{२।२२१ E१,५॑ E२,४,६ भिद्यते}* *{२।२२२ E२,४,६ बाढम्}* *{२।२२३ E१,५,६॑ E२,४ वेति}* *{२।२२४ E२ ३,४६॑ E४ ३,९१॑ E५ २,४४५॑ E६ १,१००}* *{२।२२५ E१,६॑ E२,४,५ एव तावब्रूताम्}* ____________________________________________ गुणोपबन्धात् ॥ २,२ ।११ ॥ यदुच्यते, न ज्ञायते, कतमोऽसावुपांशुयाजसंज्ञको याग इति, यस्यायं गुण उपबद्धः, उपांशु पौर्णमास्यां यजनिति । तस्मान्न दोषः । ____________________________________________ प्राये वचनाच्च ॥ २,२ ।१२ ॥ प्रधानकर्मप्राये वचनम्, प्रधानकर्मतामुपोद्बलयति, यथा, अग्र्यप्राये लिखितं दृष्ट्वा भवेदयमग्र्य इति मतिः । तस्मान्न समुदायशब्द इति । ____________________________________________ आघाराग्निहोत्रमरूपत्वात् ॥ २,२ ।१३ ॥ आघारमाघारयतीति{*२।२२६*} श्रूयते, तथेमान्यपराणि, ऊर्ध्वमाघारयति, सन्ततमाघारयति, ऋजुमाघारयतीत्येवमादि{*२।२२७*} । इदं चाग्निहोत्रं जुहोति, तथा, दध्ना जुहोति, पयसा जुहोतीत्येवमादि । तत्र सन्देहः किमूर्ध्वम् [१४७]{*२।२२८*} आघारयति, दध्ना जुहोतीत्येवमादिभिराघारा होमाश्च विहिताः, तेषामाघारमाघारयति, अग्निहोत्रं जुहोतीत्येतौ समुदायानुवादौ, उतैतावेवापूर्वयोराघारहोमयोर्विधाताराविति । किं तावत्प्राप्तम्? नापूर्वयोर्विधी इति । कुतः? अरूपत्वात्, न हि, एतयोः पूर्वेभ्यो होमाघारेभ्यो विशिष्टं रूपमस्ति । यतः कर्मान्तरमध्यवसेयम् । अतः प्रकृतत्वात्{*२।२२९*} प्रकृतानुवादौ । ण्Oट्Eष् *{२।२२६ टैत् ।ष् । २ ।५ ।११ ।६}* *{२।२२७ टैत् ।ष् । २ ।५ ।११ ।७}* *{२।२२८ E२ ३,४९॑ E४ ३,११०॑ E५ २,४५०॑ E६ १,१०१}* *{२।२२९ E१,६॑ E२,४,५ प्रकृतानां रूपवत्त्वात्}* ____________________________________________ संज्ञोपबन्धात् ॥ २,२ ।१४ ॥ संज्ञोपबन्धश्च भवति, अग्निहोत्रं नाम होमं जुहोतीति, आघारसंज्ञकं कर्म करोतीति, संज्ञाविशिष्टावाघारहोमौ विधीयेते । न च विज्ञायते{*२।२३०*}, कोऽसावाघारो नाम कर्मविशेषः, कशाग्निहोत्रसंज्ञक इति । ननु विज्ञायते, आघारणमाघारः, हवनं होमः । यद्याघारणसामान्यं होमसामान्यं च विधीयेते, विज्ञातपूर्वौ तर्ह्याघारहोमौ, तेनानुवादौ । अथाव्युत्पन्ना उभयोरपि संज्ञा, तथापि नाघाराग्निहोत्रसामान्यमुच्येत, विशेषाश्रयत्वात्संज्ञायाः । न च, स विशेषो गम्यत इत्यपूर्वावाघारहोमविधी नावकल्प्येते । अपि च कथं क्रिया साधनशब्देनोच्येत? ईप्सिततमं हि यत्साधनम्, तत्द्वितीयान्तेनोच्यते, क्रिया तिङन्तेन । अनुवादपक्षे क्रियाणां समुदायोऽर्थान्तरम्, ततीप्सिततमं साधनं भविष्यति । ण्Oट्Eष् *{२।२३० E१,५॑ E२,४,६ विज्ञायेते}* ____________________________________________ अप्रकृतत्वाच्च ॥ २,२ ।१५ ॥ न च, प्रकृतमपि द्रव्यदेवतमाघारे विद्यते । येन रूपवान् स्यात् । तस्मादेतावपि समुदायशब्दाविति । [१५०]{*२।२३१*} ण्Oट्Eष् *{२।२३१ E२ ३,५२॑ E४ ३,१२०॑ E५ २,४५९॑ E६ १,१०१}* ____________________________________________ चोदना वा शब्दार्थस्य प्रयोगभूतत्वात्, तत्सन्निधेर्गुणार्थेन पुनःश्रुतिः ॥ २,२ ।१६ ॥ न चैतदस्ति, समुदायशब्दाविति, कर्मान्तरचोदने स्याताम् । कुतः? शब्दार्थस्य प्रयोगभूतत्वात्, आघारयति, जुहोतीति, होमाघारौ प्रयोक्तव्याविति शब्दार्थः, तेन कर्मान्तरे विधीयेत इत्यवगच्छामः । आघाराग्निहोत्रशब्दौ च हवनाघारणसामान्यवाचिनौ प्रज्ञातौ, अतो नाविज्ञातार्थौ । तेन रूपवन्तौ सन्तौ विधीयेते । यदुक्तम्, ऊर्ध्वमाघारयति, दध्ना जुहोतीत्येवमादिभिर्विहितत्वादनुवादाविति । नैतदेवम्, न ह्येते होमाघारौ विधातुं शक्नुवन्ति । ऊर्ध्वमाघारयति, दध्ना जुहोतीति च नैतदुक्तं भवति, आघारः कर्तव्यः, होमः कर्तव्य इति, किं तर्हि, ऊर्ध्वताघारसंबन्धः कर्तव्यः, दधिहोमसंबन्धः कर्तव्य इति । तस्मादराप्तत्वान्नानुवादौ । ननु संबन्धे विहित अर्थाद्धोमाघारौ भविष्यतः । नैतदेवम्, अस्मिन् हि सति विधानेन संबन्धः । तस्मान्नार्थादापद्येते होमाघारौ, अतोऽपूर्वौ विधीयेत इति ब्रूमः । नन्वाघारयति, जुहोतीति होमाघारगतो व्यापारः श्रूयते, न दध्यूर्ध्वतादिसंबन्धः । सत्यं न श्रूयते । तस्मिन्निधेर्गुणार्थेन व्यापारश्रवणमवकल्पिष्यते । ननु पदार्थान्तरगतं व्यापारं श्रुतिर्न शक्नोति वदितुम् । सत्यमेवमेतत्, स्वपदार्थगतं वक्ष्यति, तं तु स्वपदार्थं गुणशब्दो विशेक्ष्यति, स एव{*२।२३२*} विशिष्टः प्रत्येष्यत इति भवेदेतत्, विशिष्यात्स्वपदार्थं गुणशब्दः, न त्वेष{*२।२३३*} गुणगतो व्यापारः प्रतीयेत । तत्र किं भविष्यति? अव्याप्रियमाणेऽपि गुणे शब्दार्थावकॢप्तो भविष्यति । गुणवचनसन्निधिरिदानीं किमर्थः? अनर्थकस्तु । कथं पुनरनर्थको [१४९]{*२।२३४*} नाम वेदो{*२।२३५*} भवितुमर्हति? सत्यर्थे नानर्थकः, असति त्वर्थे किमन्यदुच्येत । एवं तर्हि वाक्याद्भविष्यति, श्रुत्यर्थे सति न वाक्यार्थोऽवकल्प्यते । सत्यमेवमेतत् । अविवक्षिते त्ववकल्पिष्यते । कथमविवक्षा? गुणवचनस्याप्रमादपाठात्, स्वपदार्थस्य च शब्दान्तरेण विहितत्वात् । तस्मात्सिद्धम् गुणार्थेन दध्ना जुहोतीत्येवमादीनां पुनःश्रुतिः{*२।२३६*} । जुहोतेरुच्चारणं चानुवादो गुणसंबन्धार्थः । यदि जुहोतीत्यनुवादः, केनेदानीं गुणो विधीयते? दधिशब्देनेति मा वोचत । नन्विदानीमेव वाक्याद्गुणव्यापारो{*२।२३७*} गम्यत इत्युक्तम् । सत्यमेवमेतत्, अविधीयमानस्तु कुतो गम्यत इति, प्रमाणमस्य नावगम्येत । असति प्रमाणे व्यामोहः स्यात् । एवं तर्हि विधायकौ जुहोत्याघारयतिशब्दौ । कस्य तर्ह्यनुवादः? धात्वर्थस्येति ब्रूमः । यदि विधायकौ, पूर्वमेव विहिते स्वार्थे, किमर्थं पुनरुच्चार्येते? वाक्यार्थो यस्तं विधातुमित्यदोषः । तस्मात्कर्मान्तरचोदने । यदुक्तम् नास्त्याघारे प्रकृतं द्रव्यदेवतमिति । किमेवं सति द्रव्यदेवतेन, यदा प्रसिद्धार्थाभिधानान्निर्ज्ञातमेवास्य रूपम् । अपि च, चतुर्गृहीतं वैतदभूत्तस्याघारमाघार्येत्याज्यमस्य द्रव्यम्, मान्त्रवर्णिको देवताविधिः, इन्द्र ऊर्ध्वोऽध्वरो दिवि स्पृशतु महतो यज्ञो यज्ञपत इन्द्रवान् स्वाहेत्याघारमाघारयतीति{*२।२३८*}, एवमसाविन्द्रवान् यद्यस्येन्द्रो देवता, तद्यदि देवताभिधानमेतदाघारस्य, ततोऽनेनाघारः कृतो भवति । तस्मात्कर्मान्तरे, न समुदायशब्दाविति सिद्धम् । [१५०]{*२।२३९*} ण्Oट्Eष् *{२।२३२ E१,५॑ E२,४,६ एव}* *{२।२३३ E१,६॑ E२,४,५ एवं गुणगतो}* *{२।२३४ E२ ३,५८॑ E४ ३,१२१॑ E५ २,४६३॑ E६ १,१०२}* *{२।२३५ E१,६॑ E२,४,५ वेदे}* *{२।२३६ E२,४ पुनःश्रुतिरिति}* *{२।२३७ E१,६॑ E२,४,५ गुणगतो व्यापारो}* *{२।२३८ Vग्ल् । टैत् ।ष् । १ ।१ ।१२ ।१}* *{२।२३९ E२ ३,६४॑ E४ ३,१५३॑ E५ २,४६६॑ E६ १,१०३}* ____________________________________________ द्रव्यसंयोगाच्चोदना पशुसोमयोः, प्रकरणे ह्यनर्थको द्रव्यसंयोगो न हि तस्य गुणार्थेन ॥ २,२ ।१७ ॥ ज्योतिष्टोमे श्रूयते यो दीक्षितो यदग्नीषोमीयं पशुमालभत इति{*२।२४०*}, तत्रेदमामनन्ति, हृदयस्याग्रेऽवद्यति, अथ जिह्वायाः, अथ वक्षस इति{*२।२४१*} । तथा{*२।२४२*} सोमेन यजेतेति, तत्रापि{*२।२४३*}, ऐन्द्रवायवं गृह्णाति, मैत्रावरुणं गृह्णाति, आश्विनं गृह्णातीत्येवमादि । तत्र संशयः, किमवद्यति गृह्णाति{*२।२४४*} चोदितानां कर्मणामेवालभतियजती समुदायस्यानुवदितरौ, अथापूर्वयोः कर्मणोर्विधाताराविति । किं तावत्प्राप्तम्? समुदायस्येति । कुतः? ये इमे आलभतियजतिभ्यां कर्मणी विधीयेयातामिति चिन्त्येते, पूर्वमेव त अवद्यतिगृह्णातिभ्यामवगमिते । न चावगमितोऽर्थो विधीयते । हृदयादींस्तु पशुशब्देनानुवदति, सोमशब्देन च रसम् । तस्मात्सोमेन यजेतेत्यनुवादो यजतिः यजेत स्वर्गकाम इति{*२।२४५*} फलसम्बन्धार्थः । पशुमालभेतेति चालभतिरग्नीषोमसंबन्धार्थः । अपि च, दशैतानध्वर्युः प्रातःसवने ग्रहान् गृह्णातीति समुच्चयो दृश्यते । तथाश्विनो दशमो गृह्यते, तृतीयो हूयत इति च क्रमः । यदि चापूर्वौ यागौ विधीयेते, तत्रैन्द्रवायवादिभिर्देवता विधीयेरन्, ता एकार्थाः सन्त्यो विकल्पेरन् । यथा, खादिरे बध्नाति, पालाशे बध्नाति रोहितके बध्नातीति । तत्र क्रमसमुच्चयदर्शने नोपपद्येयाताम्, अथ पुनरस्मिन् समुदायवचने, यजतौ सम्यगेतदवकॢप्तं भवति । तस्मात्समुदायानुवादौ । [१५१]{*२।२४६*} एवं प्राप्ते ब्रूमः अपूर्वयोः कर्मणोर्विधानचोदने पशुसोमयोः । कुतः? सोमशब्दः क्षीरिण्यां लतायां प्रसिद्धो न रसे, आकृतिवचनो हि सोमशब्दो न व्यक्तिवचनः । तथा, शृङ्गिणि पुच्छवति लोमशे चतुष्पदि द्रव्यविशेषे पशुशब्दमाकृतिवचनमुपचरन्ति, न च, एवमाकृतिकद्रव्याः प्रकृता यागा विद्यन्ते । येषामिमौ समुदायस्यानुवदितारौ भवेयाताम् । ननु पशुविकारो हृदयादिः पशुशब्देनाग्नीषोमसंबन्धार्थमनूद्यते । नैतदेवम्, पशुरग्नीषोमीयो भवतीत्येतावदुच्यते, नायं प्रकृतो हृदयादिः पशुरिति । तत्र यदि, लौकिकस्य पशोर्ग्रहणं ततो मुख्यः पशुशब्दः, यदि हृदयादेः, ततो जघन्यो विकारसंबन्धेन । तथा, सोमशब्दोऽपि विकारसंबन्धेनानुवादः स्यात् । तस्मादपूर्वे कर्मणी विधीयेयातां नानुवादौ । अथैन्द्रवायवादिषु प्रकृतेषु यागेषु लता विधीयेतेति । उच्यते न, सा शक्या वाक्येनैन्द्रवायवी ज्ञातुम्, श्रुत्या हि रस ऐन्द्रवायवः । तस्माद्द्रव्यसंयोगवचनः प्रकृतेषु यागेष्वपि सत्सु विधातुमनुवदितुं वा न शक्नुवन्ननर्थकः स्यात् । तस्मादपूर्वकर्मणी विधीयेयाताम्, न प्रकृतानामनुवादाविति । ण्Oट्Eष् *{२।२४० टैत् ।ष् । ६ ।१ ।११ ।६}* *{२।२४१ टैत् ।ष् । ६ ।३ ।१० ।४}* *{२।२४२ E६ यथा}* *{२।२४३ E१,६॑ E२,४,५ तथा}* *{२।२४४ E२,४ अवद्यतिगृह्णातिभ्यां}* *{२।२४५ E१,६॑ E२,४,५ स्वर्गकामो वसन्ते वसन्त इति}* *{२।२४६ E२ ३,६८॑ E४ ३,१५३॑ E५ २,४७०॑ E६ १,१०३}* ____________________________________________ अचोदकाश्च संस्काराः ॥ २,२ ।१८ ॥ एवं तावत्, प्रकृतेषु सत्स्वपि नानुवादावित्युक्तम्, अथेदानीम्, प्रकृता एव यागा न सन्तीत्युच्यते । कुतः? अचोदकाः संस्काराः, न च, ऐन्द्रवायवादिभिर्यागा विधीयन्ते, तेन ग्रहणमुपकल्पनमात्रं दृष्टार्थम्, उपकल्प्यमाने तु देवता[१५२{*२।२४७*}]सङ्कीर्तनमदृष्टाय । अतः, ऐन्द्रवायवं गृह्णातीतीन्द्रवायुभ्यां संकल्पयतीत्येतावदुक्तं भवति, तत्र यागमन्तरेण संकल्पयतीत्येतन्न युज्यत इति यागः कल्प्येत, स एवाम्नातो यागः, यस्मिन् सति संकल्पोऽवकल्प्येत । तस्मान्न, ऐन्द्रवायवं गृह्णातीत्येवमादिभिर्यागा विधीयेरन्, प्रकृतानां यागानामभावान्न समुदायशब्दो यजतिः, तथा लभतिशब्द{*२।२४८*} इति । ण्Oट्Eष् *{२।२४७ E२ ३,७२॑ E४ ३,१६७॑ E५ २,४७४॑ E६ १,१०४}* *{२।२४८ E२,४,५,६ (रिछ्तिग्) तथालभतिशब्द}* ____________________________________________ तद्भेदात्कर्मणोऽभ्यासो द्रव्यपृथक्त्वादनर्थकं हि स्याद्भेदो द्रव्यगुणीभावात् ॥ २,२ ।१९ ॥ पशौ वृत्ता कथा दशमे पुनरुद्भविष्यति, सोम इदानीं वर्तते । कथं क्रमसमुच्चयाविति । इन्द्रवाय्वाद्या देवता नैवं श्रूयन्ते, इन्द्रवायुभ्यां यागो निर्वर्तयितव्यः, मित्रावरुणाभ्यां यागो निर्वर्तयितव्य इति, यद्येवमश्रोष्यन्त, यागं प्रति देवता व्यकल्पिष्यन्त, केवलया हि देवतया तदा यागो निर्वर्त्यत इति विहितमभविष्यत् । अथ पुनरिमाः अदृष्टार्थं गृह्णाति संस्कारं प्रति देवता विधीयन्ते, तत्रेन्द्रवायुसंकल्पादन्यो मित्रावरुणसंकल्पः, तेन गृह्णातौ तत्कृताददृष्टाददृष्टान्तरमुत्पादयति, एवमपरेष्वपि ग्रहणेषु, तस्मात्समुच्चयः । ग्रहणं तु{*२।२४९*} नियतपरिमाणेषूर्ध्वपात्रेषु प्रादेशमात्रेषु नियतपरिमाणेषूदककलशेषु संस्कृतस्य दशमुष्टिपरिमितस्य कृत्स्नस्य सोमस्य नावकल्पते । यद्यपि चावकल्पेत, तथापि नित्यविहितानां देवतानां विकल्पपक्षे तावत्प्रयोगवचनो मा बाधीत्यव[१५३]{*२।२५०*}यवग्रहणमेव न्याय्यम्, कृत्स्नग्रहणे हि तदेवेन्द्रवायुभ्यां संकल्पितम्, तदेव मित्रावरूणाभ्यामिति नावकल्पेत । तस्मात्कल्पनभेदात्पृथगवस्थितः सोमो नानादेवतत्वादेव नैक्येन शक्यः कर्तुम् । न चासति देवतायागे देवताभ्यः शक्यते संकल्पयितुम् । तस्मादवश्यं यथासंकल्पिता देवता यष्टव्याः, तासु चेज्यमानासु ज्योतिष्टोमेन यजेतेति श्रुतो यागो निर्वृत्त एव भवति, न देवतान्तरमाकाङ्क्षति, कृत्स्नेन च दशमुष्टिना सोमेन यागः श्रुतः, सोऽसत्यभ्यासे नावकल्पत इत्यर्थात्स गुणो भविष्यतीत्यभ्यसितव्यो यागः, न ह्यनभ्यस्तः सर्वाभिर् देवताभिः सर्वेण च{*२।२५१*} सोमेन संपन्नो भविष्यति । तस्मिंश्चाभ्यस्यमाने क्रमसमुच्चयौ युक्तावेव भवतः, तस्मात्तयोर्दर्शनं युज्यते एवेति । ण्Oट्Eष् *{२।२४९ E१,५,६॑ E२,४ च}* *{२।२५० E२ ३,७९॑ E४ ३,१७४॑ E५ २,४७८॑ E६ १,१०५}* *{२।२५१ E२,४ ओम् । च}* ____________________________________________ संस्कारस्तु न भिद्येत, परार्थत्वाद्द्रव्यस्य गुणभूतत्वात् ॥ २,२ ।२० ॥ यदप्युच्यते यथा खादिरे बध्नाति, पालाशे बध्नातीति खादिरादयः संस्कारे विकल्पन्ते, तद्वद्देवता विकल्पयिष्यन्त इति, तच्च नैवं युक्तम्, तत्र संस्कारमभिनिर्वर्तयितुं खादिरादयः श्रूयन्ते । यदि चेन्द्रवाय्वाद्या अपि ग्रहदेवता यागमभिनिर्वर्तयितुं श्रूयेरन्, ततोऽत्रापि विकल्पः स्यात्, न त्वेता यागे श्रुताः । तस्मात्समुच्चीयेरन् । ____________________________________________ पृथक्त्वनिवेशात्सङ्ख्यया कर्मभेदः स्यात् ॥ २,२ ।२१ ॥ अस्ति वाजपेयः, वाजपेयेन स्वाराज्यकामो यजेतेति, [१५४]{*२।२५२*} तत्र प्राजापत्याः पशवः, सप्तदश प्राजापत्यान् पशूनालभते, सप्तदशो वै प्रजापतिः, प्रजापतेराप्त्यै श्यामास्तूपरा एकरूपा भवन्ति, एवमेव हि प्रजापतिः समृद्ध्यै{*२।२५३*} । तत्र सन्दिह्यते किं सप्तदशैतानि कर्माणि, अथ सप्तदशपशुगुणकमेकं कर्मेति । किं तावत्प्राप्तम्? एकं कर्मेति । कुतः? प्रजापतये सप्तदश पशवः सङ्कल्प्यन्ते । किमेकं यागमभिनिवर्तयितुमुत बहूनिति संशये एकमिति न्याय्यं, यो हि बहून् यागान् कल्पयति, कल्पयत्यसावेकम्, तत्रैकस्मिन्नेव परिकॢप्ते सप्तदशानामेव पशूनां परिकल्पनमुपपन्नं भवति, केन च द्वितीयादीन् यागानवकल्पयेम । एवं सत्य्{*२।२५४*} अल्पीयस्यदृष्टानुमानप्रसङ्गकल्पना भवति । तस्मादेको यागः सप्तदशभिः पशुभिर्निर्वर्त्यते{*२।२५५*} । एवं प्राप्ते ब्रूमः सङ्ख्यया कर्मभेदो भवेत्, पृथक्त्वे पशूनां सति सप्तदशसङ्ख्या निविशेत, तच्च पशूनां पृथक्त्वं बहुषु यागेष्ववकल्पते, नैकस्मिन् । कथम्? एकादशभिरवदानैरसौ यागो निवर्तयितव्य इत्येवं चोदकः प्रतिदिशति, तानि चैकस्मादेव पशोरवाप्यन्ते, तत्र द्वितीयादेरालम्भो नावदानसंपादनाय भवितुमर्हति, एकमालभ्यमानमन्वालभ्येरन्नदृष्टार्थायापरे, तथासत्य्{*२।२५६*} अतदर्थत्वान्न ते प्राजापत्या भवेयुः, तत्र प्राजापत्यानिति श्रवणमुपरुध्येत{*२।२५७*} । तेनैकस्मिन् पशौ पृथक्त्वे निवेशिनी सप्तदशसङ्ख्या नावकल्प्येत, बहुषु यागेषु बहुभिरेवावदानगणैः प्रयोजनम्, तेन सप्तदशभ्यो यागेभ्यः सप्तदश पशूनुपाददीरंस्तत्र सङ्ख्यासामं जस्यं भविष्यति, तस्मात्सप्तदश यागाः । नन्वेकस्मिन्नपि यागे सप्तदशभिरवदानगणैर्यक्ष्यते वचनात् । नैतदेवम्, पशुषु हिं सा सङ्ख्या श्रूयते, नावदानगणेषु । अवदानानि हवींषि यागसाधनानि, न पश्वाकृतिः, सा ह्यवदानप्रकृतिद्रव्यं विशिषन्ती प्रकृतौ प्रधानस्योपकृतवतीति [१५५]{*२।२५८*} विकृतावप्यवदानप्रकृतिद्रव्यं विशिषन्ती प्रधानस्योपकरिष्यति, तत्र च पशोः सप्तदशसङ्ख्या विकारिका, नावदानगणस्य, तस्मादेकस्मै अवदानगणायैकः पशुरालब्धव्यः प्राप्नोति, तत्र सप्तदशसङ्ख्या नोपपद्यते, एवमेवावकल्पिष्यते । यदि शृङ्गाभिप्राया वर्णाभिप्राया रूपाभिप्राया वाभिविष्यन् सप्तदशपशवः श्वेतः कृष्णो रोहित इत्येवमादयः, तेषामन्यतमो गृह्यत इति, अथवा तूपराः शृङ्गिण एकशृङ्गा इत्येवमादयः, तेषामन्यतम इति, ते हि श्यामास्तूपरा एकरूपाः श्रूयन्ते, तदेषु बहुषु यागेषूपपद्यते, नैकस्मिन् । तस्मात्सप्तदश यागा इति । प्रयोजनमेकस्मिन्नष्टे दुष्टे कृत्स्नः पशुगण आवर्तेत, एकमालभ्यमानमन्वालभेरन्, पूर्वपक्षेऽदृष्टार्थम् । सिद्धान्त एक एव पशुरावर्तते, न हि कर्मभेदे पशुः पश्वन्तरमाकाङ्क्षतीति । ण्Oट्Eष् *{२।२५२ E२ ३,८०॑ E४ ३,१८८॑ E५ २,४८२॑ E६ १,१०५}* *{२।२५३ टैत् ।ष् । १ ।३ ।४ ।३}* *{२।२५४ E१,५॑ E२,४,६ ओम् । सत्य्}* *{२।२५५ E१,६॑ E२,४,५ निर्वर्तयितव्य}* *{२।२५६ E१,५॑ E२,४,६ तथा सत्य्}* *{२।२५७ E२,४ उपरुध्यते}* *{२।२५८ E२ ३,८५॑ E४ ३,१८९॑ E५ २,४८८॑ E६ १,१०६}* ____________________________________________ संज्ञा चोत्पत्तिसंयोगात् ॥ २,२ ।२२ ॥ अथैष ज्योतिरथैष विश्वज्योतिरथैष सर्वज्योतिरिति । अत्र{*२।२५९*} संदेहः, किमेभिर्नामधेयैः प्रकृतं ज्योतिष्टोमं सङ्कीर्त्य तत्र सहस्रदक्षिणादिगुणो विधीयते, अथ वा वक्ष्यमाणविशेषाणि कर्मान्तराण्युपदिश्यन्त इति । किं प्राप्तम्, प्रकरणानुग्रहात्प्रकृतस्य गुणविधानमिति । ननु वाक्यसामर्थ्याज्ज्योतिरादीनामेते गुणा विधायिष्यन्ते । नैष दोषः, ज्योतिष्टोमस्यैवैतानि वाचकानि, ज्योतिरिति ज्योतिष्टोमस्य प्रतीकमुपादीयते, विश्वज्योतिरिति त्रिवृदादीन्यस्य ज्योतींषि वाक्यशेषसङ्कीर्तितानि, तानि सर्वाण्यस्य, तेनासौ विश्वज्योतिः सर्वज्योतिश्च ज्योतिष्टोम इति एवं प्राप्तम् । [१५६]{*२।२६०*} एवं प्राप्ते ब्रूमः संज्ञा हि तिस्रो भेदिकाः, तेषां ज्योतिराद्याः, उत्पत्तिवाक्ये ह्येताः श्रूयन्ते, तासाम्{*२।२६१*} इमाः पुनः श्रुतयः । तस्मादथैष ज्योतिरित्यपूर्वस्य कर्मणो विधायकं वाक्यम्, अनुवादे हि सत्यप्रवृत्तिविशेषकरमनर्थकं स्यात् । प्रकृतस्य च गुणविधाने विकल्पो भवेत्, तत्र पक्षे बाधः, न च ज्योतिरादयो ज्योतिष्टोमस्य वदितारः, समुदायान्तराणि ह्येतानि, न चावयवेन समानेन समुदायान्तरं तदर्थमेव भवति, यथा शालाशब्दो गृहवचनः, तत्र न शालाशब्दसामान्यान्मालाशब्दादयोऽपि गृहवचना भवन्ति । यत्तु ज्योतिष्टोमस्य ज्योतिरिति प्रतीकमुपादीयत इति । प्रकरणसामर्थ्याद्धि तत्र ज्योतिष्टोमशब्देन परोक्षेनैकवाक्यता भवेत्, सा प्रत्यक्षं ज्योतिःशब्देन सहैकवाक्यतां बाधेत, नचैतन्न्याय्यम्, वाक्यं हि प्रकरणाद्बलीयः । अथ पुनरयं द्योतनार्थत्वाद्वा ज्योतिष्टोमत्वाद्वा कर्मान्तरे वत्स्यति, यच्{*२।२६२*} च त्रिवृदादीनि ज्योतींषि तेषां साकल्यवचनो विश्वज्योतिः सर्वज्योतिरिति चेत् । नेति ब्रूमः, न हि त्रिवृदादिषु ज्योतिःशब्दः प्रसिद्धः, एवं ब्रुवन् प्रसिद्धं बाधेत । यत्तु वाक्यशेषाज्ज्योतिःशब्दस्त्रिवृदादिवचन इति, तस्मिन्नेव वाक्ये स तत्र प्रयुक्त इति गम्यते प्रमाणान्तरेण न शब्देन, यत्र तु तत्प्रमाणान्तरं नास्ति, न तत्र वर्तितुमर्हति, यथा सिंहो देवदत्त इति सिंहशब्दो देवदत्तवचनः प्रमाणान्तरेण, न तु सिंहमालभेतेति यत्र, तत्र तु तत्प्रमाणान्तरं नास्ति । तस्मान्न विश्वज्योतिः सर्वज्योतिरिति{*२।२६३*} च ज्योतिष्टोमस्य वदितारौ, न चेज्ज्योतिष्टोम उच्यते, सर्वाणि कमान्तराणि{*२।२६४*} [१५७]{*२।२६५*} ण्Oट्Eष् *{२।२५९ E१,५,६॑ E२,४ सर्वज्योतिरेतेन सहस्रदक्षिणेन यजेतेति श्रूयते । अत्र}* *{२।२६० E२ ३,९०॑ E४ ३,२०६॑ E५ २,४९४॑ E६ १,१०७}* *{२।२६१ E२,४ नासाम्}* *{२।२६२ E१,५॑ E२,४,६ यश्}* *{२।२६३ E२,४,५,६ ओम् । इति}* *{२।२६४ E२,४,६ कमान्तराणीति}* *{२।२६५ E२ ३,९२॑ E४ ३,२१६॑ E५ २,४९७॑ E६ १,१०७}* ____________________________________________ गुणश्चापूर्वसंयोगे वाक्ययोः समत्वात् ॥ २,२ ।२३ ॥ चातुर्मास्येषु वैश्वदेवे समामनन्ति, तप्ते पयसि दध्यानयति सा वैश्वदेव्यामिक्षा वाजिभ्यो वाजिनमिति{*२।२६६*} । तत्र सन्दिह्यते, किमामिक्षागुणके कर्मणि वाजिनं गुणविधिः, उत तस्माद्वाजिनगुणकं कर्मान्तरम्{*२।२६७*}? किं प्राप्तम्? गुणविधिरिति । कुतः? वाजेनान्नेनामिक्षया वाजिनो विश्वेदेवास्ताननूद्य वाजिनं विधीयते, तेनोभयं वैश्वदेवम्, आमिक्षा वाजिनं च । तस्मिन्नेव च कर्मणि वाजिनगुणविधिः । यथा अग्निहोत्रं जुहोतीत्युक्ते दध्ना जुहोति, पयसा जुहोतीति{*२।२६८*} । एवं प्राप्ते ब्रूमः गुणश्चाप्रकृतेन देवताभिधानेन संबन्ध्यमानः कर्मान्तरं विदध्यात्, समे हि तदैते वाक्ये भवतः, उभे अप्यपूर्वयोर्यागयोर्विधातृणी । कथं पुनरपूर्वदेवताभिधानम्? यदेदानीमेव उक्तम्, विश्वेषां देवानामनुवादो वाजिनम्{*२।२६९*} इति । तदुच्यते इह विश्वेषां देवानां देवतात्वं क्वचिच्छ्रुत्या, क्वचित्वाक्येन । तद्धितनिर्देशे श्रुत्या, चतुर्थीनिर्देशे वाक्येन । यत्र श्रुत्या देवतात्वम्, तत्रामिक्षया सहैकवाक्यत्वम् । यत्र चतुर्थी, तत्र वाजिनेन, तत्रैषामेकत्र श्रुत्या देवतात्वम्, वाक्येन द्रव्यविशेषसंबन्धः । एकत्रोभयमपि वाक्येन । तदिह देवतात्वं प्रति श्रुतिवाक्ययोर्विरोधः, विरोधे च श्रुतिर्बलीयसीत्यामिक्षावाक्ये देवतात्वं विश्वेषां देवानाम्, न वाजिनवाक्य इत्यध्यवसीयते, तेनावगम्यते, अप्रकृतेन देवतापदेनास्य संबन्ध इति । तस्मात्कर्मान्तरमिति । अथ यदुपवर्णितम्, यथाग्निहोत्रं जुहोतीत्युक्ते दध्ना जुहोतीत्येवमादयो गुणविधय इति । तत्रोच्यते [१५८]{*२।२७०*} ण्Oट्Eष् *{२।२६६ Vग्ल् । ंैत् ।ष् । १ ।१० ।१}* *{२।२६७ E२,४ कर्मान्तरमिति}* *{२।२६८ Vग्ल् । टैत् ।Bर् । २ ।१ ।५ ।४}* *{२।२६९ E१,६॑ E२,४,५ वाजिभ्य}* *{२।२७० E२ ३,१०२॑ E४ ३,२३४॑ E५ २,५०२॑ E६ १,१०८}* ____________________________________________ अगुणे तु कर्मशब्दे गुणस्तत्र प्रतीयेत ॥ २,२ ।२४ ॥ युक्तं यत्तत्र गुणविधानम्, न तत्राप्रकृतेन केनचिद्गुणेन संबन्धः, प्रकृतेन त्वस्ति यागेन । तस्मादनुपवर्णनमेतत् । अथ वाधिकरणान्तरम्, दध्ना जुहोतीत्येवमादीनि कर्मान्तराणि, विकल्पपरिजिहीर्षयावकल्प्यन्ते । तदेव तु कर्म जुहोतीतिशब्दादवगम्यते, न कर्मान्तरम् । तस्मात्तत्रैव गुणविधिः, वचनाद्विकल्पश्चेति सिद्धम् । ____________________________________________ फलश्रुतेस्तु कर्म स्यात्, फलस्य कर्मयोगित्वात् ॥ २,२ ।२५ ॥ अग्निहोत्रं प्रकृत्य समामनन्ति, दध्नेन्द्रियकामस्य जुहुयादित्येवमादि{*२।२७१*} । तत्र संशयः, किमग्निहोत्रहोमाद्धोमान्तरं दध्यादिहोमः, उत दध्यादेर्गुणात्फलमिति । किं प्राप्तम्? होमान्तरमिति । कुतः? फलश्रुतेः, फलमिह श्रूयते, तच्च कर्मणो न्याय्यम् । किं दृष्टं हि कर्मणः फलम्? कृष्यादितो व्रीह्यादि । नेति ब्रूमः, न ह्येतद्दृष्टेनानेन सिध्यति, यदि दर्शनं हेतुः [१५९]{*२।२७२*} फलज्ञाने, कृष्यादौ पदार्थे तद्दर्शनम्, न होमे । अथ कृषौ दृष्टमन्यत्रापि भवति । द्रव्यादपि प्रसज्यते । अथ कृषिसदृशाद्भवतीत्युच्यते, कृषिसदृशो होमः क्रियात्वात्, न द्रव्यम्, असदृशं हि तदिति । होमोऽप्यसदृशः, मन्त्रदेवतादिसाधनत्वाद्धोमस्य, लाङ्गलादिसाधनत्वाच्च कृषेः । त्यागात्मकत्वाद्धोमस्य, पाटनात्मकत्वाच्च कृषेः । अथ किंचित्सादृश्यं गृह्यते । द्रव्यस्यापि सदनित्यमित्येवमादि किंचित्सादृश्यमस्ति । अथ द्रव्यादन्यत्सदृशतरमस्तीति कृत्वा न द्रव्यं सदृशमित्युच्यते । होमादप्यन्यत्कृषेः सदृशतरमस्ति दृष्टार्थमिति कृत्वा होमोऽप्यसदृशः स्यात् । न चैतत्सिद्धम्, यत्क्वचित्दृश्यते, तदन्यस्मिन् सदृशमात्रेऽदृष्टमपि भवितुमर्हतीति, यद्धि यस्य कारणभूतं दृष्टं सिद्धे, तच्चेत्साध्येऽपि कारणभूतमित्यवगम्यते, भवति तत्तस्य साधकम्, यन्न ज्ञायते कारणभूतमिति, न तत्सदृशमपि साधकम् । तस्मात्सदृशमपि साधकमसाधकं वेति परीक्षितव्यमिति । अथ यत्कर्म तत्फलवद्दृष्टम्, होमोऽपि कर्म, तेनापि फलवता भवितव्यमिति । उपरते कर्मणि द्रव्याणां तत्संयोगानां च द्रव्यान्तरं फलं दृष्टमिति द्रव्यमपि फलवत्स्यात् । अपि च कृषेर्नादृष्टमिति तत्सादृश्याद्धोमादपि नादृष्टं भवेत्, कृषिसादृश्याद्वा व्रीहिरेव भवेत्, नेन्द्रियम् । तस्मान्नैवंजातीयकेष्वेतद्भवति दृष्टाददृष्टसिद्धिरिति । कथं तर्हि होमान्न्याय्यं फलमिति । उच्यते, शब्देनावगम्यते तत्फलम्, यतः फलमिति शब्द आह, ततो न्याय्यम्, होमाच्च फलमिति श्रुत्या शब्देन गम्यते, दध्नः फलमिति वाक्येन, श्रुतिश्च वाक्याद्बलीयसी । तस्माथोमात्फलमिति न्याय्यम्, दध्नः फलमिति चान्याय्यम् । अपि च दध्युभयमसमर्थम्, कर्तुं फलम्, साधयितुं होमं च । [१६०]{*२।२७३*} ननु कम्बलनिर्णेजनवदेतद्भविष्यति, निर्णेजनं ह्युभयं करोति, कम्बलशुद्धिं पादयोश्च निर्मलताम् । न ब्रूमः, एकस्योभयं प्रयोजनमभिनिष्पादयितुं सामर्थ्यं नास्तीति, किं तर्हि फले गुणभूतं दधि होमे चेत्येकं वाक्यं वदितुमसमर्थमिति । यदि फलं दध्ना कुर्यादिति ब्रूयात्, न दध्ना होममिति, अथ दध्ना होमं साधयेदिति ब्रूयात्, न फलमिति । उभयवचने भिद्येत वाक्यम्, अभिन्नं चेदमुपलभ्यते । तस्मान्न गुणात्फलमित्यग्निहोत्रहोमाद्दधिहोमः कर्मान्तरमिति । ण्Oट्Eष् *{२।२७१ टैत् ।Bर् । २ ।१ ।५ ।६}* *{२।२७२ E२ ३,१०६॑ E४ ३,२३४॑ E५ २,५०७॑ E६ १,१०९}* *{२।२७३ E२ ३,१०९॑ E४ ३,२३५॑ E५ २,५१२॑ E६ १,१०९}* ____________________________________________ अतुल्यत्वात्तु वाक्ययोर्गुणे तस्य प्रतीयेत ॥ २,२ ।२६ ॥ तुशब्दात्पक्षो विपरिवर्तते, न कर्मान्तरम्, किं तु गुणात्फलमिति । कथम्? अतुल्ये ह्येते वाक्ये, अग्निहोत्रं जुहुयात्स्वर्गकाम इत्यत्र कर्मसमभिव्याहृतं फलं स्वर्गकामो होमेन कुर्यादिति, दध्नेन्द्रियकामस्य जुहुयादिति गुणसमभिव्याहृतम् । न ह्यत्र होम इन्द्रियाय कर्तव्य इति प्रतीयते, किं तर्हि दध्ना होम इन्द्रियकामस्येति, होमस्य दधिसंबन्ध इन्द्रियाय, न होमस्योत्पत्तिः, य इन्द्रियकामः स्यात्, स दध्ना होमं कुर्यादिति । कतमोऽत्र शब्दः पुरुषप्रयत्नस्य वक्तेति । जुहुयादिति ब्रूमः । ननु श्रुत्या होमसंबद्धमेष पुरुषप्रयत्नं वदति, वाक्येन दधिसंबन्धम्, न च, वाक्यं श्रुतिमपबाधितुमर्हति । न च, युगपदुभयसंबन्धो न विरुध्यते, वाक्यं हि तथा भिद्येतेति । अत्रोच्यते ये भवदीयं पक्षमाश्रयेरन्, ते श्रुतिमपबाधेरन्तराम्{*२।२७४*}, अस्मदीये तु पुनः पक्षे जुहुयादिति धात्वर्थः केवलोऽपबाधितो भवति, युष्मदीये तु कृत्स्न एव दध्नेति शब्दः । तं चाप्रमाद्यन्तः समामनन्तीति गम्यते । न चैतत्प्रमत्तगीतम्, [१६१]{*२।२७५*} इत्युक्तम्, तुल्यं हि सांप्रदायिकमिति । तस्मान्न कर्मसमभिव्याहृतं फलम्, गुणसमभिव्याहृते तु न कश्चित्प्रमादपाठः, अवश्यं हि, जुहुयादिति दध्नेन्द्रियकामयोः संबन्धविधानार्थं वक्तव्यं भवति । ननूच्यमानेऽपि न केवलः करोत्यर्थोऽवगम्यते, केवले न वचःप्रयोजनम्, स च होमसंबद्धः, तस्मादसमञ्जसमिति । नेति ब्रूमः, होमसंबद्धोऽप्यसौ करोत्यर्थ एव, केवलं त्वस्य होमसंबन्धे विशेषः, न तु करोत्यर्थतां बाधते, इन्द्रियकामस्य होमसंबद्धं प्रयत्नं दधिसंबद्धं कुर्यादिति । नन्वेवं सति स एव दोषः, होमसमभिव्याहृतं फलमिति । उच्यते जुहुयादिति शब्दस्यैतत्सामर्थ्यम्, यद्धोमविशिष्टं प्रयत्नमाह, न त्वत्र होमः साधनत्वेन विधीयते, साध्यत्वेन विशिष्टस्तु प्रयत्नो वाक्येन दध्याश्रितोऽवगम्यते, अत एव च वृत्तिकारेणोक्तम् होममाश्रितो गुणः फलं साधयिष्यतीति, यथा राजपुरुषो राजानमाश्रितो राजकर्म करोतीति । तस्माद् दध्नः फलम्, य इन्द्रियकामः, स दध्ना कुर्यादिन्द्रियमिति । कथमिति । अनयाग्निहोत्रेतिकर्तव्यतयेति । कुत एतत्? फलसाधनस्य दध्न इतिकर्तव्यताकाङ्क्षत्वात्, अस्याश्चेतिकर्तव्यतायाः सन्निधानात्, चोदनालिङ्गस्य च जुहोत्यर्थस्य दर्शनात् । यस्मादेव चायं जुहोत्य्ऽर्थोऽनुवादः, तस्मादविधायकः । न च, अन्यद्धोमस्य विधायकं नास्तीति, तस्मान्न कर्मान्तरम्, तस्माद्दध्नः फलमिति । अथ वा दधिशब्दस्य विवक्षितार्थत्वाद्दधिहोमसंबन्धोऽयं वाक्येन विधीयते, तेन दध्नो होमेन संबध्यमानात्फलं भविष्यतीति । [१६२]{*२।२७६*} ण्Oट्Eष् *{२।२७४ E२,४,५,६ अपबाधेरंस्तराम्}* *{२।२७५ E२ ३,११२॑ E४ ३,२४९॑ E५ २,५१६॑ E६ १,१११}* *{२।२७६ E२ ३,११७॑ E४ ३,२६२॑ E५ २,५२४॑ E६ १,१११}* ____________________________________________ समेषु कर्मयुक्तं स्यात् ॥ २,२ ।२७ ॥ त्रिवृदग्निष्टुदग्निष्टोमस्तस्य वायव्यास्वेकविंशमग्निष्टोमसामकृत्वा ब्रह्मवर्चसकामो यजेतेति, एतस्यैव रेवतीषु वारवन्तीयमग्निष्टोमसाम कृत्वा पशुकामो ह्येतेन यजेतेति । अत्रायमर्थः सांशयिकः, किं तस्यैवाग्निष्टुतोऽग्निष्टोमस्य गुणाद्वारवन्तीयात्पशवः फलम्, एतेन यजेतेति अनुवादः, अथ किमेतेन यजेतेति कर्मान्तरमिति । किं प्राप्तम्? न कर्मान्तरं गुणात्फलमिति । कुतः? एतेन यजेतेति विदितस्यैतद्वचनम्, नाविदितस्य, अतो न विध्यन्तरम्, पशुकाम एवं यजेतेत्युच्यते, न यजेतेति, कथं कृत्वा? वारवन्तीयं कृत्वेति । अपि च, एतस्यैवेति विस्पष्टमकर्मान्तरवचनम् । तस्माद्गुणात्फलमित्येवं प्राप्तम् । एवं प्राप्ते ब्रूमः समेष्वेवंजातीयकेषु भिन्नवाक्येषु कर्मयुक्तं फलं भवेत्, एतस्यैव रेवतीषु वारवन्तीयं कृत्वेति, न ह्येतस्य रेवत्यः सन्ति, यास्वस्य वारवन्तीयं भवेत्, तत्र रेवत्यो [१६३]{*२।२७७*} भवन्ति, तासु च वारवन्तीयं विधीयेतेति वाक्यं भिद्येत । अथोच्येत, अस्य पूर्वा रेवतीरुपादाय तासु च वारवन्तीयं कृत्वा, एतेन यजेतेत्यनुवदतीति । तथाग्निष्टोमसामेति नावकल्प्येत । अथाग्निष्टोमसामकार्ये भवतीत्युच्यते । एतस्यैवेत्येतदविवक्षितं स्यात् । उभयस्मिन् विवक्ष्यमाणे भिद्येत वाक्यम्, तस्मात्कर्मान्तरम् । अथ कर्मान्तरे कथमवाक्यभेदः । रेवतीषु ऋक्षु वारवन्तीयं साम कृत्वा पशुकामो यजेतेत्यपूर्वो यागः सर्वैर्विशेषणैर्विशिष्टो विधीयते, तेनैकार्थत्वम्, विभागे च साकाङ्क्षत्वमित्येकवाक्यत्वमुपपद्यते । नन्वर्थभेदो यागश्चैवं ह्यपूर्वः कर्तव्यः, रेवतीषु वारवन्तीयमपूर्वमिति । नेति ब्रूमः, निर्वृत्तवारवन्तीयरेवतीगुणको यागो विधीयते, न वारवन्तीयनिर्वृत्तिः, अर्थाद्रेवतीषु वारवन्तीयमभिनिर्वर्त्स्यति, शक्यते च तन्निर्वर्तयितुम् । उच्यते रेवतीनां वारवन्ती यस्य च संबन्धो न विहितः स्यात्, तत्र च रेवतीष्वन्यान्यपि सामानि भवेयुः । वारवन्तीयं चान्यास्वपि ऋक्षु । नैष दोषः, कृत्वेत्यभिनिर्वृत्तः संबन्धो यागायोच्यते, तेन संबन्धो गम्यते, द्वावप्येतावर्थौ कृत्वेत्येष शब्दः शक्नोति वदितुम्, अभिनिर्वृत्तिं पूर्वकालतां च, यथा शोणमानय इति रक्तगुणसंबद्धोऽश्वः शब्देनैवानयतो{*२।२७८*} विधीयत इति, न वाक्यभेदो भवति, एवमत्रापि द्रष्टव्यम् । नन्वेवमपि बहवोऽर्थाः, रेवत्यः, वारवन्तीयम्, तत्संबन्धः, यागः, पशुकामश्चेति । नैष दोषः, बहवः श्रूयन्ते, एकोऽत्र विधीयते, यागो विशिष्टः । ननु रेवत्योऽपि विधीयन्ते, वारवन्तीयमपि, यदि न विधीयेरन्, नैव तद्विशिष्टो यागः प्रतीयेत, न ह्यविधाय विशेषणम्, शक्यते विशिष्टो विधातुम्, तस्माद्बहुषु विधीयमानेषु नैकार्थ्यम् । अत्रोच्यते अर्थ इति प्रयोजनमभिधीयते, यावन्ति पदान्येकं प्रयोजनमभि[१६४]{*२।२७९*}निर्वर्त्यन्ति, तावन्त्येकं वाक्यम्, न च, अत्र बहूनि प्रयोजनानि, न हि, अत्रानेकस्याभिप्रेतस्यानेकं पदं विधायकमस्ति, रेवतीष्विति नैतत्केवलं रेवतीनां विधायकम्, रेवतीषु वारवन्तीयमिति । अत्रापि पदद्वये वारवन्तीयशब्दो द्वितीयान्तः, नास्मात्संबन्धोऽभिप्रेतो गम्यते, प्रातिपदिकार्थस्याव्यतिरेकात्, कृत्वेत्यपि करोतिर्न संबन्धमात्रे पर्यवसितः परप्रयोजनसंबन्धमाह । एवं विशिष्टस्तु यजतिर्न परार्थः, तदेकमेषां पदार्थानां प्रयोजनम्, तस्मादेकवाक्यत्वम् । गुणे पुनः फले प्रकल्प्यमान अग्निष्टोमसाम्नः कार्ये वारवन्तीयम्, एतस्य च यदग्निष्टोमसामेति वाक्यभेदः स्यात् । अथोच्यते, रेवत्यादिसर्वविशेषेण विशिष्टो याग एतस्याग्निष्टुतो विधीयेत । तथापि पशुकामसंबन्धाद्भिद्येत वाक्यम् । अथैवमुच्येत, रेवतीषु कृतेन वारयन्तीयेन पशुकामो यजेतेति । नैवं शक्यम्, ऋगन्तरप्रगाणाद्विशेषहानाद्वैगुण्यं स्यात् । नन्विदानीमेवोक्तम्, शक्यते हि रेवतीषु वारवन्तीयं कर्तुमिति । सति वचने शक्यम्, असति वचने न वारवन्तीयग्रहणेन गृह्यन्ते । वचनं तर्हि भविष्यति, पशुकामो रेवतीषु वारवन्तीयमभिनिर्वर्तयेत्, ततो यजेतेति यजतिरनुवादः । यदि वचनं रेवतीषु वारवन्तीयसंबन्धस्य, सिद्धं कर्मान्तरम्, नाग्निष्टुतो गुणविधिः । ननु ततो यजेतेति यागानुवादाद्यागेनास्याङ्गप्रयोजनसंबन्धो भविष्यति । नैवं शक्यम्, यागं प्रत्यङ्गभावे विधीयमाने{*२।२८०*} पशुकामं प्रत्यसंबन्धः, उभयसंबन्धे वाक्यं भिद्येत । अथ यागसंबन्धोऽनुवादः, प्रकरेण चाङ्गता । नेदमुपपन्नम्, प्रकरणाद्धि वाक्यं बलवत्तरम्, तस्मात्कर्मान्तरम्, यागगुणकं वा रेवतीषु वारवन्तीयम्, तद्गुणको वा यागः, तत्र यागपशुकामयोः संबन्धस्य विधात्रीं यजतेरुपरितनीं विभक्तिमुपलभामहे लिङ्गम्, न तु रेवतीवारवन्तीयसंबन्धस्य [१६५]{*२।२८१*} विधायकं साक्षात्किंचिदुपलभ्यते । तस्मात्सर्वविशेषणविशिष्टो यागः, पशुकामस्य विधीयत इति सिद्धम् । अथ पुनर्विशिष्टे यागे विधीयमाने, तद्रेवतीषु वारवन्तीयं कथमग्निष्टोमसाम भवतीति? उच्यते वचनादग्निष्टोमसाम्नः कार्ये भविष्यतीति, किमिव हि वचनं न कुर्यात्, नास्ति वचनस्यातिभारः । अथ यदुक्तमेतस्यैवेति, अनन्तरापेक्षं वचनमिति तत्राप्यविरोधादेतद्धर्मकस्येति लक्षणाशब्दो भविष्यति । तस्मान्न गुणात्फलम्, कर्मान्तरमेवं धर्मकमिति, सिद्धं समेष्वेवंजातीयकेषु कर्मयुक्तं फलमिति । ण्Oट्Eष् *{२।२७७ E२ ३,१२३॑ E४ ३,२६३॑ E५ २,५२६॑ E६ १,१११}* *{२।२७८ E१,६॑ E२,४,५ शब्देनैवानयतौ}* *{२।२७९ E२ ३,१२७॑ E४ ३,२६३॑ E५ २,५३८॑ E६ १,११२}* *{२।२८० E२,४ ओम् । विधीयमाने}* *{२।२८१ E२ ३,१३०॑ E४ ३,२६४॑ E५ २,५४२॑ E६ १,११३}* ____________________________________________ सौभरे पुरुषश्रुतेर्निधनं कामसंयोगः ॥ २,२ ।२८ ॥ यो वृष्टिकामो योऽन्नाद्यकामो यः स्वर्गकामः, स सौभरेण स्तुवीत सर्वे वै कामाः सौभर इति{*२।२८२*} समाम्नाय ततः समामनन्ति, हीषिति वृष्टिकामाय निधनं कुर्यात्, ऊर्गित्यन्नाद्यकामाय, ऊ इति स्वर्गकामायेति{*२।२८३*} । तत्र विचार्यते, किं सौभरम्, वृष्टेर्निमित्तम्, हीषित्येतदपरं वृष्टेर्निमित्तम्, अथ सौभरमेव वृष्टेर्निमित्तम्? यदा तद्वृष्टेर्निमित्तम्, तदा हीषिति सौभरस्य निधनं कर्तव्यमिति (एवमूर्गित्यन्नाद्यकामस्य, ऊ इति स्वर्गकामस्य च तुल्यो विचारः ।){*२।२८४*} कथं निधनादपरं फलम्? कथं वा निधनव्यवस्थार्थं श्रवणमिति, यद्येवमभि[१६६]{*२।२८५*}संबन्धः क्रियते, हीषिति वृष्टिकामाय कुर्यादिति, ततो निधनादपरं फलम्, अथैवमभिसंबन्धः, हीषिति निधनं कुर्यादिति, तदा निधनव्यवस्थार्थं श्रवणम्, तदा वृष्टिकामायेति सौभरविशेषणं क्रियते, न हीषा संबन्धः । किं तावत्प्राप्तम्? सौभरे निधनेऽपरः कामो विधीयत इति । कुतः? पुरुषश्रुतेः, पुरुषप्रयत्नस्यात्र श्रवणं भवति, कुर्यादिति, तद्वृष्टिकामस्य हीषश्च संबन्धे कर्तव्ये वक्तव्यं भवति, न तु सौभरनिधनसंबन्धे, तत्र हि साङ्गं सौभरं कुर्यादिति प्रयोगवचनसामर्थ्यादेव सिद्धम् । तस्मात्कुर्यादिति पुरुषप्रयत्नवचनादवगच्छामः, यतरस्मिन् पक्षे पुरुषप्रयत्नवचनमर्थवत्ततरोऽयं पक्ष इति, तत्र अस्मिन् पक्षेऽर्थवत्, निधनादपरं फलमिति । तस्मात्सौभर एकः कामः, भेदेन निधनादपि द्वितीयः काम इति । अथ वा वृष्टिकामायेति पुरुषश्रुतिः, वृष्टिं यः कामयते, स पुरुषो वृष्टिकामशब्देनोच्यते, तदस्मिन् पक्षे श्रुतिर्विनियोक्त्री, इतरस्मिन् पक्षे पुनर्वृष्टिकामशब्देन पुरुषवचनेन सता सौभरं लक्ष्येत, तथा लक्षणाशब्दः स्यात् । श्रुतिलक्षणाविषये च श्रुतिर्न्याय्या, न लक्षणा । तस्मात्पश्यामो निधने द्वितीयः काम इति । एवं च फलभूयस्त्वं भविष्यति, तस्मान्निधनेऽपरः कामः । ण्Oट्Eष् *{२।२८२ टाण्ड्य । Bर् । ८ ।८ ।१८,२०}* *{२।२८३ टाण्ड्य । Bर् । ८ ।८ ।१९}* *{२।२८४ ईन्E१ गेक्लम्मेर्त्}* *{२।२८५ E२ ३,१३३॑ E४ ३,२९०॑ E५ २,५४४॑ E६ १,११४}* ____________________________________________ सर्वस्योक्तकामत्वात्{*२।२८६*} तस्मिन् कामश्रुतिः स्यात्, निधनार्था पुनःश्रुतिः ॥ २,२ ।२९ ॥ वासब्दः पक्षं व्यावर्तयति । न चैतदस्ति, यदुक्तम्, निधनेऽपरः काम इति, नैवं संबन्धः क्रियते, वृष्टिकामाय हीषिति कुर्यादिति । कथं तर्हि? हीषिति निधनं सौभरस्येति । कथम्? हीषो वृष्टिकामसंबन्धे क्रियमाणे, निधनं [१६७]{*२।२८७*} कुर्यादिति संबन्धो न कृतः स्यात्, तत्र हीषिति निधनमिति नावकल्प्येत, तत्रोभयसंबन्धे वाक्यभेदः, तत्र निधनशब्दः प्रमादसमाम्नात इति गम्येत{*२।२८८*}, नचैवंजातीयकः प्रमादसमाम्नात इत्युक्तम्, तस्मान्न हीषो वृष्टिकामेन संबन्धः, तेन न निधनादपरं फलम् । अथ हीषो निधनसंबन्धे कथमवाक्यभेद इति । उच्यते, वृष्टिकामाय सौभरमस्त्येव, सौभरस्य निधनं (सौभरप्राप्तिर्){*२।२८९*} अस्त्येव, तत्र हीषिति कुर्यादित्येष एवार्थो विधीयते । तस्मादवाक्यभेद इति, अतो निधनव्यवस्थेति गम्यते । एवमेव ऊर्गिति, ऊ इति च वदितव्यम्, सर्वस्य सौभरस्य ऊर्ग्वृष्टिस्वर्गकामत्वाच्छक्यते कामवचनैः सौभरं लक्षयितुम् । किमर्थं लक्ष्यत इति । निधनार्था पुनःश्रुतिर्(निधनव्यवस्थां करिष्यतीत्यर्थः){*२।२९०*} । [१६८]{*२।२९१*} ण्Oट्Eष् *{२।२८६ E१,६॑ E२,४,५ सर्वस्य वोक्तकामत्वात्}* *{२।२८७ E२ ३,१३५॑ E४ ३,२९६॑ E५ २,५४६॑ E६ १,११४}* *{२।२८८ E१,५ E२,४,६ गम्यते}* *{२।२८९ ईन्E१ गेक्लम्मेर्त्॑ E६ ओह्ने Kलम्मेर्न्॑ E२,४ निधनप्राप्तिर्॑ E५ नियतप्राप्तिः}* *{२।२९० ईन्E१ गेक्लम्मेर्त्}* *{२।२९१ E२ ३,१४१॑ E४ ३,३०९॑ E५ २,५४८॑ E६ १,११५}* ____________________________________________ गुणस्तु क्रतुसंयोगात्कर्मान्तरं प्रयोजयेत्संयोगस्याशेषभूत्वात् ॥ २,३ ।१ ॥ अस्ति ज्योतिष्टोमः, ज्योतिष्टोमेन स्वर्गकामो यजेतेति, तं प्रकृत्य श्रूयते, यदि रथन्तरसामा सोमः स्यात्, ऐन्द्रवायवाग्रान् ग्रहान् गृह्णीयात्, यदि बृहत्सामा शुक्राग्रान्, यदि गजत्सामा{*२।२९२*}, आग्रयणाग्रानिति । तत्र सन्दिह्यते किं ग्रहाग्रताविशेषो ज्योतिष्टोमस्य विधीयते, उत कर्मान्तरस्य रथन्तरसाम्नो बृहत्साम्नश्चेति । यदि रथन्तरसामग्रहणेन बृहत्सामग्रहणेन च ज्योतिष्टोमोऽभिधीयते, ततस्तस्य ग्रहाग्रताविशेषः, अथ नाभिधीयते, ततः कर्मान्तरस्येति । किं तावत्प्राप्तम्? प्रकरणात्, ज्योतिष्टोमस्य । इति प्राप्ते उच्यते गुणस्तु क्रतुसंयोगादिति, तुशब्दः पक्षं व्यावर्तयति, नैतदस्ति, ज्योतिष्टोमस्येति । कुतः? क्रतुसंयोगात् । कथं तर्हि? कर्मान्तरस्येति । ननु ज्योतिष्टोमक्रतोरेवैष एवंजातीयको वादः, रथन्तरसामा बृहत्सामेति । नेति ब्रूमः यदि न कृत्स्नक्रतुसंयोगो भवेत्, ज्योतिष्टोमस्य वादः, कृत्स्नक्रतुसंयोगस्तु एषः । कथं कृत्स्नक्रतुसंयोगो भवति? कथं वा न कृत्स्नक्रतुसंयोग इति । यदि रथन्तरसत्ता वा, बृहत्सत्ता वा निमित्तं ग्रहाग्रताविशेषस्य, ततो न कृत्स्नक्रतुसंयोगः, रथन्तरं बृहद्वा यदि सामास्ति, तत ऐन्द्रवायवाग्रता शुक्राग्रता चेति, ततो ज्योतिष्टोमस्य गुणविधिः । अथ रथन्तरसामसत्ता बृहत्सामसत्ता वा न [१६९]{*२।२९३*} निमित्तम्, ततः कृत्स्नक्रतुसंयोगः । यदि रथन्तरसामेति कोऽर्थः? अयमर्थः, यदि रथन्तरसाम अस्य विशेषणं क्रतोरिति । कुत एतत्? समासपदसामर्थ्यात्, समर्थानां हि पदानां समासो भवति, सामर्थ्यं च भवति विशेषणविशेष्यभावे, असाधारणं च भवति विशेषणम्, तत्रायमर्थः, यदि रथन्तरमेव साम, बृहदेव वा नान्यदिति । ज्योतिष्टोमस्य च बहूनि सामानि गायत्रादीनि । तस्मान्न ज्योतिष्टोमस्य वाचकावेतौ शब्दाविति । तेन यद्यपि प्रकरणाज्ज्योतिष्टोमस्य गुणविधिरिति गम्यते, तथापि तद्बाधित्वा वाक्येन रथन्तरसाम्नो बृहत्साम्नश्च भवितुमर्हति । ननु यथा ज्योतिष्टोमो न रथन्तरसामा, एवमन्योऽपि न रथन्तरसामा कश्चिदस्ति । उच्यते कर्मान्तरं रथन्तरसामकं कल्पयिष्यत्येतद्वाक्यम्, यदि रथन्तरसामा सोमः स्यादिति । ननु नास्त्यत्र विधायकः शब्दः । उच्यते अस्ति य एषः स्यादिति । आह नैष विधातुं शक्नोति, यदिशब्दसंबन्धाद्विद्यमानस्य निमित्तार्थेनैवंजातीयकः शब्दो भवति, न विधानार्थेनेति । अत्र ब्रूमः यदेतत्सयदिकं वाक्यम्, यदि रथनतरसामा सोमः स्यादिति, अत्रावान्तरवाक्यमस्ति, रथन्तरसामा सोमः स्यादिति, यदवान्तरवाक्यं तस्यान्योऽर्थः, अन्यश्च सयदिकस्य, सयदिको न शक्नोति विधातुम्, यत अवान्तरवाक्यम्, तद्विधास्यति । न च, रथन्तरसाम्नो बृहत्साम्नो वा भावो निमित्तत्वेन श्रूयमाणोऽप्यर्थवान् भवति । तस्मादविवक्षितो यदिसंबन्धः, तस्मिंश्चाविवक्षिते पदद्वयमिदं रथन्तरसामा सोमः स्यादिति शक्नोति रथन्तरसामानं क्रतुं विधातुम्, यदीत्यनर्थकम् । अथ वा यदि रोचेतेत्यध्याहारः । अथ वा यथैतद्भवति, पयसा षाष्टिकं भुञ्जीत, यदि शालिं भुञ्जीत, तत्र दध्युपसिञ्चेद्[१७०]{*२।२९४*} इति । एवंजातीयकेन वाक्येन शालिभोजनं विहितं भवति, एवमत्रापि विहितं द्रष्टव्यम्, यदि रथन्तरसामा सोमः स्यात्, ऐन्द्रवायवाग्रान् ग्रहान् गृह्णीयादिति । कथं पुनः शालिभोजनं तेन वाक्येन विहितं भवतीति । उच्यते व्यत्यासेन संबन्धः कल्प्येत, यदि दध्युपसेचनमिच्छेत्, शालिं भुञ्जीतेति । ननु न खल्विच्छतेः परां लिङ्विभक्तिमुपलभामहे, सिञ्चतेर्हि तां परां समाम्नन्तीति । सिञ्चतेः खलु सा परा समुच्चरन्ती कमेरर्थं गमयति, कामप्रवेदने हि तां मन्यामह इति, एवमिहापि यद्यैन्द्रवायवाग्रान् ग्रहान् गृह्णीयादिति ग्रहीतुमिच्छेदित्यर्थः, ततो रथनतरसामानं क्रतुं कुर्यादिति । नन्वेवं सत्यिच्छामात्रं भवेत्, न ग्रहाग्रत्विशेषविधानम् । उच्यते यथास्मिन् लौकिके वाक्ये, यदि दध्युपसेचनमिच्छेत्, शालिं भुञ्जीतेति दध्युपसेचनसंकीर्तनाद्दध्युपसिक्तं शालिं भुञ्जीतेति तेनैकवाक्यत्वाद्गम्यते, एवमत्रापि ग्रहाग्रताविशेषसङ्कीर्तनात्तेनैकवाक्यत्वाद्ग्रहाग्रताविशिष्टो रथन्तरसामा गम्यते । अथ वात्र हेतुहेतुमतोर्लिङ्, रथन्तरसामा सोम ऐन्द्रवायवाग्राणां ग्रहाणां हेतुः कर्तव्य इति । तस्मात्कृत्स्नक्रतुसंयोगाद्गुणः कर्मान्तरं प्रयोजयेत्, एवं कृत्स्नक्रतुसंयोगोऽर्थवान् भविष्यति । अपि च पूर्वेण निमित्तेन भवितव्यम्, परेण नैमित्तिकेन । कथम्? सति हि निमित्ते नैमित्तिकं भवितुमर्हति, नासति, यच्च भविष्यत्तन्न सत्, भविष्यच्च रथन्तरसाम, तत्कथं पूर्वकालस्य ग्रहाग्रताविशेषस्य निमित्तं भविष्यतीति । अपि च निःसन्दिग्धं जगत्सामा कर्मान्तरम्, तत्सामान्यादितरदपि कर्मान्तरमिति गम्यते । तस्मान्न ज्योतिष्टोमस्य गुणविधानमिति । [१७१]{*२।२९५*} ण्Oट्Eष् *{२।२९२ E२,४,५,६ (रिछ्तिग्) जगत्सामा}* *{२।२९३ E२ ३,१४३॑ E४ ३,३०९॑ E५ २,५४९॑ E६ १,११५}* *{२।२९४ E२ ३,१४५॑ E४ ३,३१०॑ E५ २,५५१॑ E६ १,११६}* *{२।२९५ E२ ३,१४७॑ E४ ३,३२१॑ E५ २,५५३॑ E६ १,११७}* ____________________________________________ एकस्य तु लिङ्गभेदात्प्रयोजनार्थमुच्येतैकत्वं गुणवाक्यत्वात् ॥ २,३ ।२ ॥ तुशब्दात्पक्षोऽन्यथा भवति, नैतदस्ति, यदुक्तम्, क्रत्वन्तरमिति । कथं तर्हि? ज्योतिष्टोमस्यैव ग्रहाग्रताविशेष इति । कुतः? प्रकरणसामर्थ्यात् । नन्वेतदुक्तम् वाक्यसामर्थ्यात्क्रत्वन्तरस्य रथन्तरसाम्नो बृहत्साम्नश्चेति । परिहृतमेतज्ज्योतिष्टोम एव रथन्तरसामा बृहत्सामा चेति । पुनर्दूषितमनेकसामत्वाज्ज्योतिष्टोमस्य, विशेषणं रथन्तरेण बृहता वा न प्रकल्पत इति । तदुच्यते प्रकल्पते विशेषणम्, बृहद्रथन्तरयोर्वैकल्पिकत्वात्, भवति स प्रयोगः, यत्र रथन्तरं नास्ति । भवति च स प्रयोगः, विद्यमानरथन्तरसामकः, तदेतत्रथन्तरं सत्तयैवासाधारणत्वाद्विशेषकम् । तस्माज्ज्योतिष्टोम एव रथनतरसामा बृहत्सामा चेति । अथ यदुक्तम् पूर्वेण निमित्तेन भवितव्यम्, उत्तरेण नैमित्तिकेनेति । नैतत्, नियोगतो भवति हि भविष्यदपि निमित्तम्, यथा वर्षिष्यतीति कृषिगृहकर्मानुष्ठानम्, अपि च तद्दृष्टम्, इदं च वाचनिकं निमित्तम्, तद्यथावचनं भवितुमर्हति । स्यादिति चेयं लिङ्त्रिष्वपि कालेषु भवति । तस्माद्भविष्यदपि निमित्तम् । यत्तु जगत्सामेति कर्मान्तरम्, तत्सामान्याद्रथन्तरसामापि कर्मान्तरमिति । जगत्साम, असंभवात्कर्मान्तरं संभवति, रथन्तरसाम्नो बृहत्साम्नश्च ज्योतिष्टोमस्याभिधानम्, तस्मान्न कर्मान्तरमिति । [१७२]{*२।२९६*} ण्Oट्Eष् *{२।२९६ E२ ३,१५१॑ E४ ३,३२९॑ E५ २,५५५, E६ १,११८}* ____________________________________________ अवेष्टाव्यज्ञसंयोगात्क्रतुप्रधानमुच्यते ॥ २,३ ।३ ॥ सति राजसूयः, राजा राजसूयेन स्वाराज्यकामो यजेतेति । तं प्रकृत्यामनन्त्यवेष्टिं नामेष्टिम्, आग्नेयोऽष्टाकपालो हिरण्यं दक्षिणेत्येवमादि । तां प्रकृत्य विधीयते, यदि ब्राह्मणो यजेत बार्हस्पत्यं मध्ये निधायाहुतिमाहुतिं हुत्वाभिघारयेत्, यदि राजन्य ऐन्द्रम्, यदि वैश्यो वैश्वदेवमिति । तत्र सन्दिह्यते, किं ब्राह्मणादीनां प्राप्तानां निमित्तार्थेन श्रवणम्, उत ब्राह्मणादीनामयं यागो विधीयत इति । कथं निमित्तार्थता भवेत्? कथं वा यागविधानमिति । यदि राजशब्दो ब्राह्मणादिष्वपि केनचित्प्रकारेण, ततो निमित्तार्थता । अथ क्षत्रिय एव, ततः प्रापकाण्येवंजातीयकानि श्रवणानि । किं तावत्प्राप्तम्? निमित्तार्थतेति, तत एवं तावदुपवर्ण्यते, यौगिको राजशब्द इति, राज्यं यस्य कर्म, स राजा । किं पुना राजकर्म? जनपदपुरपरिरक्षणे, ततश्चोद्धरणे राज्यशब्दमार्यावर्तनिवासिनः प्रयुञ्जन्ते । राज्ञः कर्म राज्यमिति चाभियुक्ता उपदिशन्ति । तेन मन्यामहे, यस्यैतत्कर्म स राजेति, यथा य उदमेघं नाम कंचित्पुरुषं नावेदिषुः, तस्य तु पुत्रमौदमेघिरित्येवं विदुः, शक्नुयुस्ते यस्तस्य पिता, स उदमेघ इति कल्पयितुम्, उदमेघपुत्रस्यैवं समभिव्याहारो भवतीति । एवं राज्ययोगाद्राजशब्द इति विज्ञायते । ननु जनपदपुरपरिरक्षणवृत्तिमनुपजीवत्यपि क्षत्रिये राजशब्दमान्ध्राः प्रयुञ्जन्ते प्रयोक्तारः । न ब्रूमः, न प्रयुञ्जत इति, किं तर्हि कर्मविशेषनिमित्तत्वाद्राजशब्दस्य, तद्योगादपि [१७३]{*२।२९७*} राजशब्दो भवतीत्येतदुपपादयामः । प्रयुञ्जते च तद्युक्ते राजशब्दमक्षत्रियेऽपि, तदस्मिन्नुपपन्ने प्रकरणवशात्, यदिशब्दसमभिव्याहाराच्च राजसूयस्यैव गुणविधानं भविष्यति, न ब्राह्मणस्य वैश्यस्य च कर्मान्तरं विधायिष्यतीति । अथ वासार्वलौकिकस्य प्रयोगस्य सार्वलौकिकेन प्रयोगेण विरुध्यमानस्याप्रामाण्यं स्यात्, अभ्युपगच्छन्ति हि ते जनपदिनः, सार्वभौमं प्रयोगम् । अपि चाविप्रगीता लौकिका अर्था विप्रगीतेभ्यः प्रत्ययिततरा भवन्ति, तथार्यावर्तनिवासिनां शब्दार्थोपायेष्वभियुक्तानामभिव्याहरतां कर्माणि चानुतिष्ठतामन्त्यजनपदवासिभ्यो म्लेच्छेभ्यः समीचीनतर आचारो भवति । तस्माद्यौगिको राजशब्दः, निमित्तार्थानि श्रवणानि, राजसूयस्य गुणविधिर्न कर्मान्तरमिति । एवं प्राप्ते ब्रूमः अवेष्टौ तु खलु क्रतुप्रधानं ब्राह्मणादिश्रवणम्, ब्राह्मणादीनामवेष्टियागं विधातुम्, न निमित्तार्थम् । कुतः? अप्राप्तत्वाद्ब्राह्मणवैश्ययोः । कथमप्राप्तिः? क्षत्रियस्य राजसूयविधानात्, राजा राजसूयेन यजेतेति । ननूक्तम् यौगिको राजशब्द इति । एतदप्ययुक्तम्, यतः जातिवचन इति । ननूभयाभिधाने यदिशब्दसंबन्धात्, प्रकरणाच्च न कर्मान्तरविधानं न्याय्यमित्युक्तम् । अत्रोच्यते नोभयाभिधानमवकल्पते । कुतः? यदि तावज्जातिशब्दो राजेति, ततः तत्कर्मत्वाज्जनपदपरिपालने राज्यशब्दो भविष्यति, तेनार्यावर्तनिवासिनां प्रयोगो न विरोत्स्यते । अथ यदि राज्यशब्दः परिपालने नित्यसंबद्धो भविष्यति, ततस्तस्य कर्तेति राजशब्दः क्षत्रियजातौ तन्निमित्तो भविष्यति, तत्रान्ध्राणां प्रयोगो न विरोत्य्स्यते । तस्मान्न प्रयोगदर्शनादुभावपि राजराज्यशब्दौ जातिपरिपालनाभ्यां नित्यसंबद्धावित्यभ्युपगन्तव्यम् । को नु खलु निर्णयः? राजजातीयस्य कर्म [१७४]{*२।२९८*} इत्यतः परिपालनं राज्यशब्देनोच्यते, एवं हि स्मरन्तोऽभियुक्ताः तस्य कर्मेति ष्यञ्प्रत्ययं विदधति, न तु तस्य कर्तेति प्रत्ययलोपं वा, प्रातिपदिकप्रत्यापत्तिं वा समामनन्ति । तस्माद्राज्ञः कर्म राज्यम्, न राज्यस्य कर्ता राजा । ननु यो यो जनपदपुरपरिरक्षणं करोति, तं तु लोको राजशब्देनाभिवदति । उच्यते योगाल्लोकः प्रयुङ्क्ते, परिपालने राज्यशब्दः प्रसिद्ध इति, स तु परिपालने राज्यशब्दो राजयोगादित्यस्माभिरुक्तम्, तस्माद्राजशब्दः प्रसिद्धेर्मूलम्, तद्योगाद्राज्यशब्दः, तदयोगाद्{*२।२९९*} अपि ब्राह्मणवैश्ययो राजशब्दः प्रयुज्यते । न त्वेवं स्मरन्ति, राज्ययोगाद्राजेति । यत्तूक्तम् अनुमानाद्राज्यस्य कर्ता यः स राजा, यथा औदमेघेः पितोदमेघ इति । उच्यते अनुमानात्प्रयोगो बलवान्, राज्यस्य कर्तारं राजेत्यनुमिमीमहे, क्षत्रिये तु प्रत्यक्षं प्रयुञ्जानानुपलभामहे । तथा योगमप्यनुमिमीमहे, राज्यस्य कर्ता राजेति । राज्ञः कर्म राज्यमिति तु स्मरन्ति । अनुमिमानाश्च स्मृतिमनुमिमते स्म, स्मरन्तस्तु प्रत्यक्षमुपलभन्ते, तेन तत्र स्मृतिर्बलीयसीति । आह यो यो राज्यं करोति, तत्र राजशब्दं प्रयुञ्जते, न यद्राज्ञः कर्म तद्राज्यमिति, तेन मन्यामहे, राज्ययोगो राजशदप्रवृत्तौ निमित्तम्, न तु राजयोगो राज्यशब्दप्रवृत्ताविति । न ब्रूमः, प्रयोगाद्वयं राजयोगं राज्यशब्दप्रवृत्तौ निमित्तमवगच्छाम इति । कथं तर्हि? स्मरणात्, प्रयोगाच्च स्मृतिर्बलीयसी, प्रयोगाद्धि स्मृतिरनुमीयेत । [१७५]{*२।३००*} अपि च राज्ययोगस्य निमित्तता व्यभिचरति, जनपदपरिपालनमकुर्वत्यपि राजेत्यान्ध्रा वदन्तीत्युक्तम् । ननु राजयोगाद्राज्यमित्येतदपि व्यभिचरति, न हि राज्ञः स्यन्दितं{*२।३०१*} निमिषितं च सर्वं राज्यमित्युच्यते । यदि वयं प्रयोगान्निमित्तभावं ब्रूयाम्, तत एवमुपालभ्येमहि । स्मृत्या तु वयं निमित्तभावं ब्रूमः, तेन यद्यद्राजजातीयस्य कर्म जात्या विशेष्यते, तद्राज्यमित्यभ्युपगच्छामः । यत्तूक्तम् आन्ध्रा अपि राज्ययोगाद्राजानमभ्युपगच्छन्तीति, परिहृतमेतत्, प्रयोगो दुर्बलः स्मृतेरिति । यदुक्तम् आर्यावर्तनिवासिनः, प्रमाणमितरेभ्य आचारेभ्य इति । तुल्यः शब्दप्रयोग आचारेष्वित्युक्तम् । तस्माज्जातिनिमित्तो राजशब्दः, एवं चेद्यज्ञसंयोगात्क्षत्रियस्य राजसूयेन, यागविधिरवेष्टिरिति । ण्Oट्Eष् *{२।२९७ E२ ३,१५४॑ E४ ३,३३०॑ E५ २,५५८॑ E६ १,११८}* *{२।२९८ E२ ३,१५७॑ E४ ३,३३०॑ E५ २,५६१॑ E६ १,११९}* *{२।२९९ E२,४,५,६ तदयोगाद्}* *{२।३०० E२ ३,१६०॑ E४ ३,३३१॑ E५ २,५६३॑ E६ १,१२०}* *{२।३०१ E२,४,५,६ स्पन्दितं}* ____________________________________________ आधाने सर्वशेषत्वात्{*२।३०२*} ॥ २,३ ।४ ॥ इदं समामनन्ति, वसन्ते ब्राह्मणो अग्नीनादधीत, ग्रीष्मे राज्यन्यः, शरदि वैश्य इति{*२।३०३*} । तत्र सन्दिह्यते किं ब्राह्मणादिश्रवणं निमित्तार्थम्, ब्राह्मणादय आदधाना वसन्तादिष्वादधीरन्निति, उत ब्राह्मणादीनामाधानं विधीयत इति । कथं निमित्तार्थता स्यात्? कथं चाधानविधानमिति । यदि ब्राह्मणो वसन्त इति पदद्वयं परस्परं संबद्धम्, ततो निमित्तार्थं श्रवणम् । अथ ब्राह्मण आदधीतेति, आधानविधानं ब्राह्मणस्य । एवं राजन्यादिष्वपि । किं तावत्प्राप्तम्? निमित्तार्थं श्रवणमिति । कुतः? निमित्तसरूपा एते शब्दाः । किं निमित्तसारूप्यम्? ब्राह्मणा[१७६]{*२।३०४*}दीनां वसन्तादिभिः समुच्चारणम्, तच्चाविदितं वेद्यत इति । ननु ब्राह्मणादीनामादधति नाप्यस्ति समुच्चारणम् । वाढम्{*२।३०५*} अस्ति समुच्चारणम्, न त्वमीषामाधानसंबन्धो न विदितः । केन प्राप्तो विदित इति । कामश्रुतिभिः । काः कामश्रुतयः? अग्निहोत्रं जुहुयात्स्वर्गकामः, दर्शपूर्णमासाभ्यां स्वर्गकामो यजेतेत्येवमादयः । कथमाभिः श्रुतिभिराधानं प्राप्तमिति । उच्यते सामर्थ्यात्, यथाग्निहोत्रमभिनिर्वर्त्यते, तथा कुर्यात् । यथा दर्शपूर्णमासावभिनिर्वर्त्येते, तथा कुर्यात् । न च, गार्हपत्याहवनीयान्वाहार्यपचनादिभ्यो विना, एतानि कर्माणि सिध्यन्ति, समामनन्ति हि, यदाहवनीये जुहोति, तेन सोऽस्याभीष्टः प्रीतो भवतीत्येवमादि{*२।३०६*} । तेन सामर्थ्यादेतदुक्तं भवति आहवनीयादि कर्तव्यमिति, तच्चाधानेन विना न सिध्यतीत्याधानमपि कर्तव्यमित्यवगम्यते । तत्केन कर्तव्यम्? यस्य कामश्रुतयः । ताश्चाविषेशेण ब्राह्मणादीनाम् । तस्मादमीषामाधानसंबन्धो विदित इति । अपि च, उभाभ्यां ब्राह्मणादीनां संबन्धे विधीयमाने वाक्यं भिद्येत । न हि, तदानीमेकोऽर्थो विधीयते । अतो निमित्तार्थाः श्रुतय इत्येवं प्राप्तम् । एवं प्राप्ते ब्रूमः आधाने सर्वशेषत्वात्{*२।३०७*} प्रापकाण्याधानस्यैतानि श्रवणानि । कुतः? सर्वकर्मणां शेषभूतमाधानमिति न श्रुतिलिङ्गादीनामन्यतमेनोच्यते, किं तर्हि, अग्नीनां सर्वशेषत्वात्, तच्छेषत्वाच्चाधानस्य । किमतः? यद्येवम्, अग्नयः कामश्रुतिभिः प्राप्नुवन्ति, नाधान्मिति । नन्वग्नीनामभ्युपाय आधानमिति । उच्यते नैतेषामर्जने आधानमेवैकोऽभ्युपायः, किं तर्हि यथान्येषां द्रव्याणामुत्पादने [१७७]{*२।३०८*} क्रयणादयश्चाभ्युपायाः, एवमग्नीनामपीति न नियोगतः उत्पादनमेव, तेन पक्षे आधानं प्राप्नोति, पक्षे न । यतरस्मिन् पक्षेऽप्राप्तिः, ततरः पक्ष उत्पत्तिं प्रयोजयिष्यति ब्राह्मणादीनामाधानस्य, ब्राह्मण आत्मार्थमादधीतेति यदैतद्वचनम्, तदात्मार्थमेवाहिता आहवनीयादयो भवन्ति, नान्यथा । एवं च सति, न कृत्रिमेण याचितेन वा कर्माण्यग्निहोत्रादीन्यनुष्ठातव्यानीति गम्यते । तेनाकृत्रिम एव केवलोऽग्निस्तेषां साधक इति निश्चीयते । कथं चात्मार्थताधानस्य गम्यत इति । कर्त्रभिप्राये हि क्रियाफल आदधीतेत्येतदात्मनेपदं संभवति । असत्यस्मिन् वचने कामश्रुतिपरिग्रहे नाधानस्यात्मार्थता भवेत् । अपि च सतीष्वेतास्वाधानश्रुतिषु न कामश्रुतयः शक्नुवन्त्यपरामाधानश्रुतिं कल्पयितुम्, यथा प्राप्तस्याधानस्य पुनःश्रुतयः एता भवेयुः, असतीष्वेतास्वाधानश्रुतिमपरिगृह्णन्तः{*२।३०९*} कामश्रुतयोऽशक्यानग्निहोत्रादीन् वदन्तीति परिगृह्णीयुराधानश्रुतिम् । सतीष्वेतासु येषामाधानमुक्तम्, तानधिकृत्योत्तरकालाः कामश्रुतयो भवन्तीति गम्यते । अत्राह अस्ति केवलस्याधानस्य विधायिका श्रुतिः, एवं सपत्नं{*२।३१०*} भ्रातृव्यमवर्ति सहते, य एवं विद्वानग्निमाधत्त इति, तया प्राप्तस्य निमित्तार्थानि ब्राह्मणादीनां श्रवणानि भविष्यन्ति । उच्यते संभारविधानार्था पुनःश्रुतिरेषा । नेति ब्रूमः, भिन्नं हीदं वाक्यं संभारविधानवाक्यात्, अन्यो ह्यर्थ आधत्त इति, अन्य अप उपसृजतीति, एकार्थविधाने ह्येकं वाक्यं भवति, भिन्नौ चेमावर्थौ, तस्मादत्र वाक्यभेद इति । उच्यते वसन्ते ब्राह्मणोऽग्नीनादधीतेत्यस्यां श्रुतौ सत्यां पुनःश्रुतिः केवलस्याधानस्याविधायिका, अपामुपसर्जनं तु [१७८]{*२।३११*} विधीयते, तदेकस्मिन्नर्थे विधीयमाने नानेकार्थं भवति । नन्वाधानस्यैतद्विधानम्, गुणार्था सा पुनःश्रुतिः । नेति ब्रूमः, सा ब्राह्मणादिसंबद्धा प्रथमा श्रुतिः, इयं केवला पुनःश्रुतिः । कुतः? सा हि शब्देन विदधाति, तत्र लिङ्गमुच्चरन्तीं पश्यामः, इयं प्रशस्तमाधानमित्याह । ततः प्रशस्ततामाधानस्यानुमन्यामहे । एवं च, वसन्ते ब्राह्मणोऽग्नीनादधीतेत्येषा विधायिका श्रुतिरिति ब्रूमहे, नैतत्प्रशंसावचनमस्मत्पक्षं बाधते, शक्यते ह्यन्येन विहितमन्येन प्रशस्तमिति वदितुम् । यदि त्वेतद्विधायकमित्युच्यते{*२।३१२*}, ततोऽस्मत्पक्षं विरुध्येत । कथम्? अज्ञातस्य ज्ञापनं विधानमेतत्, यदि प्राशंसावचनेनापूर्वं विज्ञाप्येत, तदा लिङ्गा नापूर्वं ज्ञापितं भवेत्, तत्रापूर्वज्ञापनवचनः शब्दः उपरुध्येत । न तु लिङ्गा विहिते प्रशंसावचनमुपरुध्यते, विहितेऽपि हि वाक्यान्तरेण प्रशंसावचनमवकल्पते । अपि च यल्लिङ्गा विधानम्, तत्श्रुत्या, वाक्येन तु प्रशंसा गम्यते, श्रुतिश्च वाक्याद्बलीयसी । नन्विदमपि वाक्यम्, ब्राह्मणोऽग्नीनादधीतेति । उच्यते स्वपदार्थमत्र श्रुतिर्विदधात्याधानम्, ब्राह्मणादिसंबन्धेन परपदार्थं प्रशंसति, य एवं सपत्नं{*२।३१३*} भ्रातृव्यमवर्ति सहत इति । नन्वनेकगुणविधानं त्वया वाक्येनाध्यवसितं भवति । नैष दोषः, अगुणविधिपरे हि वाक्ये भवत्यनेकगुणविधानमित्युक्तम्, तद्गुणास्तु विधीयेरन्नविभागाद्विधार्थे न चेदन्येन शिष्टा इति{*२।३१४*} । तस्माद्ब्राह्मणादिसंयुक्ता विधायिका श्रुतिः, इयमपि केवलस्याधानस्य पुनःश्रुतिः संभारविधानमुपक्रमितुमिति सिद्धम् । यदुक्तम् अनेकगुणविधाने वाक्यं भिद्येतेति, यदीमौ गुणविधानविशिष्टौ{*२।३१५*} विधीयेयाताम्, भवेद्वाक्यभेदः, द्वाभ्यां तु विशेषणाभ्यां विशिष्टमेकमाधानं विधायिष्यते, [१७९]{*२।३१६*} तेन न भविष्यति वाक्यभेदः । तस्माद्ब्राह्मणादीनामाधानस्य प्रापकाणि श्रवणानीति सिद्धम् । ण्Oट्Eष् *{२।३०२ E१,६॑ E२,४,५ऽसर्वशेषत्वात्}* *{२।३०३ टैत् ।Bर् । १ ।१ ।२ ।६७}* *{२।३०४ E२ ३,१६४॑ E४ ३,३५३॑ E५ २,५६४॑ E६ १,१२०}* *{२।३०५ E१,५॑ E२,४,६ बाढम्}* *{२।३०६ टैत् ।Bर् । १ ।१ ।१० ।५६}* *{२।३०७ E२,४,५,६ऽसर्वशेषत्वात्}* *{२।३०८ E२ ३,१६६॑ E४ ३,३५४॑ E५ २,५६९॑ E६ १,१२१}* *{२।३०९ E१,६॑ E२,४,५ अपरिगृह्णन्त्यः}* *{२।३१० E२,४ संपन्नं}* *{२।३११ E२ ३,१६८॑ E४ ३,३५५॑ E५ २,५७०॑ E६ १,१२२}* *{२।३१२ E२,४,५,६ उच्येत}* *{२।३१३ E२,४ संपन्नं}* *{२।३१४ ंष्१ ।४ ।९}* *{२।३१५ E१,६॑ E२,४,५ गुणवाधानविशिष्टौ}* *{२।३१६ E२ ३,१७०॑ E४ ३,३५५॑ E५ २,५७१॑ E६ १,१२३}* ____________________________________________ अयनेषु चोदनान्तरं संज्ञोपबन्धात् ॥ २,३ ।५ ॥ दर्शपूणमासौ प्रकृत्यामनन्ति, दाक्षायणयज्ञेन यजेत प्रजाकामः, साकंप्रस्थाप्येन{*२।३१७*} यजेत पशुकामः, संक्रमयज्ञेन यजेतान्नाद्यकाम इति{*२।३१८*} । तत्र संदेहः किं दर्शपूर्णमासयोरेव गुणात्फलम्, उत कर्मान्तरमेवंजातीयकमिति? किं प्राप्तम्? कर्मान्तरमिति । कुतः? संज्ञोपबन्धात्, यद्यपि प्रकरणाद्यजतिशब्दाच्च स एव पूर्वप्रकृतो याग इति गम्यते, तथापि नासावेवंसंज्ञक इति यागान्तरं विधेयं गम्यते । ण्Oट्Eष् *{२।३१७ E२,४,५,६, E१ (व् ।ल् ।,Fन् ।) साकंप्रस्थायीयेन}* *{२।३१८ Vग्ल् । टैत् । ष् । २ ।५ ।४ ।३}* ____________________________________________ अगुणाच्च कर्मचोदना ॥ २,३ ।६ ॥ न च, अत्र गुण उपरुध्यते कश्चित्, यद्विधानार्था चोदना भवेत्, यदि च न यागान्तरम्, आनर्थक्यमेव । अपि च, यदि गुण उपबध्येत, ततो यागगुणसंबन्धो गम्यत इति तदनुष्ठानं विधीयेतेत्यननुबध्यमाने{*२।३१९*} यागमात्रं गम्यत इति तदनुष्ठानं विहितं गम्यते । ण्Oट्Eष् *{२।३१९ E२,४,५,६ अनुपबध्यमाने}* ____________________________________________ समाप्तं च फले वाक्यम् ॥ २,३ ।७ ॥ इतश्च कर्मान्तरम् । कथम्? फले समाप्तं वाक्यम्, प्राजाकामो यजेतेति, प्रजाकामस्य याग उपयो विधीयते । विधीयते चेत्, कर्मान्तरम् । [१८०]{*२।३२०*} ण्Oट्Eष् *{२।३२० E२ ३,१७२॑ E४ ३,३६९॑ E५ २,५७२॑ E६ १,१२३}* ____________________________________________ विकारो वा प्रकरणात् ॥ २,३ ।८ ॥ दर्शपूर्णमासयोरेवाधिकार एवंजातीयकः स्याद्दाक्षायणयज्ञादिः, एवं प्रकरणमनुगृहीतं भवति । ____________________________________________ लिङ्गदर्शनाच्च ॥ २,३ ।९ ॥ लिङ्गमप्येतमर्थं दर्शयति, त्रिंशतं वर्षाणि दर्शपूर्णमासाभ्यां यजेत, यदि दाक्षायणयाजी स्यात्, अथो अपि पञ्चदशैव वर्षाणि यजेत, अत्र ह्येव सा संपद्यते, द्वे हि पौर्णमास्यौ यजेत द्वे अमावस्ये, अत्र हि एव खलु सा संपद्भवतीति । यदि दाक्षायणयज्ञो दर्शपूर्णमासावेव, एवं तर्हि त्रिंशत्संपदा प्रयोजनम्, ततस्तस्य त्रिंशत्संपदनुग्रहो युज्यते, तस्मादपि न कर्मान्तरम् । ____________________________________________ गुणात्संज्ञोपबन्धः ॥ २,३ ।१० ॥ यदुक्तं संज्ञोपबन्धात्कर्मान्तरमिति, यदि दाक्षायणशब्दो न केनचिदपि प्रकारेण दर्शपूर्णमासवचनः शक्यते कल्पयितुम्, तत उच्येत कर्मान्तरमिति । शक्नोति त्वावृत्तिगुणसंबन्धाद्विदितुम्, अयनमित्यावृत्तिरुच्यते, दक्षस्य इमे दाक्षाः, तेषामयनं दाक्षायणम् । कः पुनर्दक्षः? उत्साही । तथा साकंप्रस्थाप्ये{*२।३२१*}ऽपि, सहप्रस्थानं गुणसंबन्धः, एवं सर्वत्र । शक्यते चेद्दर्शपूर्णमासयोर्गुणसंबन्धो वदितुम्, किमिति स एव यागः प्रतीयमानोऽन्य इत्युच्यते? किमिति वा प्रकरणं बाध्यते । ण्Oट्Eष् *{२।३२१ E१,६॑ E२,४ साकंप्रस्थायीये, E५ साकंप्रस्थाय्ये}* ____________________________________________ समाप्तिरविशिष्टा ॥ २,३ ।११ ॥ यदुक्तम्, फले वाक्यं समाप्तम्, प्रजाकामादेर्यागानुष्ठानं विधीयत इति{*२।३२२*} । नैवम्, अविशिष्टा फले समाप्तिः, यानि [१८१]{*२।३२३*} अन्यानि मुक्तसंशयानि गुणे फलस्य विधायकानि वाक्यानि गुणस्य फलवचनानि पर्यवसितानि (यथा दध्नेन्द्रियकामस्य जुहुयात्, इत्येवमादीनि){*२।३२४*}{*२।३२५*}, तैरेतदविशिष्टम्, अत्रापि हि गुणात्फलमुच्यते । कथं नैतदेवं संबध्यते, प्रजाकामस्य यज्ञमनुतिष्ठेदिति? कथं तर्हि प्रजाकामस्यावृत्तियज्ञमनुतिष्ठेदिति, आवृत्तियज्ञ इति यज्ञावृत्तिसंबन्धोऽनुष्ठातव्यो निर्दिश्यते, न यज्ञः? तस्मात्प्रकृतयोर्दर्शपूर्णमासयोर्गुणात्फलमुच्यते, न यागान्तरं विधीयत इति । एवं साकंप्रस्थाप्ये{*२।३२६*} संक्रमयज्ञे च द्रष्टव्यमिति । ण्Oट्Eष् *{२।३२२ Vग्ल् । ंष्२ ।३ ।७}* *{२।३२३ E२ ३,१७५॑ E४ ३,३७४॑ E५ २,५७५॑ E६ १,१२४}* *{२।३२४ ईन्E१ गेक्लम्मेर्त्}* *{२।३२५ Vग्ल् । टैत् ।Bर् । २ ।१ ।५ ।६}* *{२।३२६ E१,६॑ E२,४ साकंप्रस्थायीये, E५ साकंप्रस्थाय्ये}* ____________________________________________ संस्कारश्चाप्रकरणेऽकर्मशब्दत्वात् ॥ २,३ ।१२ ॥ अनारभ्याधीयते किंचित्, वाक्यं श्वेतमालभेत भूतिकामः{*२।३२७*}॑ सौर्यं चरुं निर्वपेद्ब्रह्मवर्चसकामः{*२।३२८*}॑ दर्शपूर्णमासयोरप्यामनन्ति ईषामालभेत॑ चतुरो मुष्टीन्निर्वपतीति । तत्रायमर्थः सांशयिकः, किं दर्शपूर्णमासिके{*२।३२९*} आलम्भे आलम्भो गुणविधिर्दर्शपूर्णमासिके{*२।३३०*} च निर्वापे निर्वापो गुणविधिरुत न प्रकृतिमपेक्षते इतरश्चेतवरश्चेति? यदा न प्रकृतिमपेक्षते, तदापि किं यावदुक्ते, उत यजिमत्येते कर्मणीति? किं तावत्प्राप्तम्? प्रकृतयोरालम्भनिर्वापयोर्गुणविधीति । कुतः? अकर्मशब्दत्वात्, नात्र कर्मणो विधायकः [१८२]{*२।३३१*} शब्दोऽस्ति । नन्वालभेत निर्वपेदिति च । नैतौ विधातारावविदितस्यार्थस्य वक्ता विधायको भवति, न चैतयोरविदितोऽर्थः, आलम्भः कर्तव्यः, निर्वापः कर्तव्य इति । तस्मादनुवदितारौ । किमर्थमनुवदतः? आलम्भने श्वेतं विधातुम्, निर्वापे च चरुम् । तस्मान्नालम्भान्तरं निर्वापान्तरं च । प्रकृतयोरेव गुणविधीति । ण्Oट्Eष् *{२।३२७ टैत् ।ष् । २ ।१ ।१ ।१}* *{२।३२८ टैत् ।ष् । २ ।३ ।२ ।३}* *{२।३२९ E१,६॑ E२,४,५ दार्शपूर्णमासिके}* *{२।३३० E१,६॑ E२,४,५ दार्शपूर्णमासिके}* *{२।३३१ E२ ३,१७५॑ E४ ३,३७५॑ E२ २,५७७॑ E६ १,१२५}* ____________________________________________ यावदुक्तं वा, कर्मणः श्रुतिमूलत्वात् ॥ २,३ ।१३ ॥ न चैतदस्ति, प्राकृतयोर्गुणविधीति, किं तर्ह्यालम्भान्तरं विधीयत इति निर्वापान्तरं च, यद्यालम्भनिर्वापौ विधीयेते, ततो न प्राकृतौ तौ विहितौ । यदि न विधीयेते, ततः प्राकृतौ लक्ष्येते, यावालम्भनिर्वापौ कर्तव्याविति, ततः तौ लक्षयित्वा श्वेतो विधातव्यो भवति, चरुश्च, तौ च भूतिकामस्य ब्रह्मवर्चसकामस्य चेति द्वावप्यथा विधेयौ स्याताम्, तत्र वाक्यं भिद्येत । अथ वा योऽसौ विधायकः शब्दः, स लक्षयितव्योपयुक्त इति विधायकाभावादेकोऽप्यर्थो न शक्यते विधातुम् । अथ स एव लक्षयिष्यति, तेनैव च विधायिष्यते गुण इति । न, मिथो विधानलक्षणसंबन्धोऽवकल्पते । अथ धात्वर्थोऽनुवादः, प्रत्ययो विधातुमिष्यत इत्युच्यते, य आलम्भः स एतद्गुणः कर्तव्य इति । तथापि न प्राकृतो लक्ष्येत, लौकिकोऽपि ह्यालम्भोऽस्ति, प्रत्ययार्थेऽनूद्यमाने प्राकृतोऽनूद्येतेति, स हि कर्तव्यो निर्ज्ञातो न लौकिकः, अतो न प्राकृतानुवादो घट इति यावदुक्तमालम्भमात्रं निर्वापमात्रं{*२।३३२*} चापूर्वं कर्तव्यम्, कर्मणः श्रुतिमूलत्वात्, श्रुतिमूलं हि कर्मेत्युक्तम्, चोदनालक्षणोऽर्थो धर्म इति{*२।३३३*} । तस्मात्कर्मान्तरे । [१८३]{*२।३३४*} ण्Oट्Eष् *{२।३३२ E२,४ ओम् । निर्वापमात्रं}* *{२।३३३ ंष्१ ।१ ।२}* *{२।३३४ E२ ३,१७८॑ E४ ३,३८३॑ E५ २,५७९॑ E६ १,१२५}* ____________________________________________ यजतिस्तु द्रव्यफलभोक्तृसंयोगादेतेषां कर्मसंबन्धात् ॥ २,३ ।१४ ॥ यदुक्तम्, न प्राकृतयोर्गुणविधीति, एतद्गृह्णीमः । यत्तूक्तम्, आलम्भमात्रं विधीयते, निर्वापमात्रमिति, एतदपजानीमहे, यजिमती एते कर्मणीति । कुतह्? द्रव्यफलभोक्तृसंयोगाद् (द्रव्यदेवतासंयोगात्){*२।३३५*}, द्रव्यदेवतासंयोगोऽत्र विधीयते, भूतिकामस्य ब्रह्मवर्चस्कामस्य च । कथम्? न हि, इदमेवोच्यते, ततः श्वेतमालभेतेति, यदि ह्येतावदेवोच्येत, ततः श्वेतालम्भसंबन्धोऽवगम्यते, इह हि श्वेतं वायव्यमालभेतेत्युच्यते, तेन श्वेतवायव्यसंबन्धो विधीयते, यथा पटं वयेति पटवयनसंबन्धो{*२।३३६*} विधेयोऽवगम्यते, पटं दीर्घं वयेति पटस्य दीर्घता विधीयते, दीर्घशब्दप्रयोगात्, एवमिहापि सौर्यवायव्यशब्दप्रयोगाद्द्रव्यदेवताभिसंबन्धो विधेय इति गम्यते, इतरथा देवताशब्दः प्रमादसमाम्नात इति गम्यते । नन्वत्रापि श्वेतं वायव्यं कुर्यात्, तं चालभेतेत्यर्थद्वयविधानाद्भिद्येतैव वाक्यम् । नेति ब्रूमः, न ह्यालभेतेत्यस्यायमतिभारः, यद्द्रव्यदेवतासंबन्धेन पुरुषप्रयत्नं ब्रूयात्, तं चालभेतेत्यर्थविशिष्टम् । श्रुत्यैव हि पुरुषप्रयत्नो विशिष्टो गम्यते, वाक्येन च द्रव्यदेवताश्रय इति नात्र द्वाभ्यां वाक्याभ्यां प्रयोजनम्, यथा रक्तमश्वं योजयेति यदा गुणविधिपरं भवति वाक्यम्, तदा द्वाभ्यां वाक्याभ्यां प्रयोजनम्, गुणद्वयविधाने । अथ शोणमानयेत्युच्यते, तत्र गुणविधिपरेऽपि वाक्ये पर्यवसित एव गुणद्वयविधानम्, श्रुत्यैव विशिष्टगुणद्रव्यस्य प्रतीतत्वात्, न भवत्येकस्य वाक्यस्यातिभारः, एवमिहापीति । संबन्धश्च बहुभिः पदैर्विशिष्ट एक एवोच्यत इत्येकार्थत्वम्, विभज्य[१८४]{*२।३३७*}मानानि चात्र पदानि साकाङ्क्षाणीत्युपपन्नमेकवाक्यत्वम्, न च, यागमन्तरेण देवतायै द्रव्यं सङ्कल्पितव्यम्, इत्येष संबन्धोऽवकल्पते । तस्माद्यजिमती एते कर्मणीति । ण्Oट्Eष् *{२।३३५ ईन्E१ गेक्लम्मेर्त्}* *{२।३३६ E२,४ (व् ।ल् ।) पटवानसंबन्धो}* *{२।३३७ E२ ३,१७९॑ E४ ३,३८४॑ E५ २,५८२॑ E६ १,१२६}* ____________________________________________ लिङ्गादर्शनाच्च ॥ २,३ ।१५ ॥ लिङ्गं खल्वप्येतमर्थं दर्शयति, सौमारौद्रं चरुं निर्वपेदिति{*२।३३८*} प्रकृत्य, परिश्रिते याजयेदिति{*२।३३९*} परिश्रयणविधिः, एतस्य वाक्ये यजतिशब्देन सङ्कीर्तनमवकल्पते, यदि यजिमती एते कर्मणी । अथ प्रकृतौ गुणविधानं यावदुक्तं वा, यजतिशब्देनानुवादो नावकल्पेत । तस्मादवगच्छामो यजिमतीति । ण्Oट्Eष् *{२।३३८ टैत् ।ष् । २ ।२ ।१० ।१}* *{२।३३९ टैत् ।ष् । २ ।२ ।१० ।२}* ____________________________________________ विशये प्रायदर्शनात् ॥ २,३ ।१६ ॥ किमिहोदाहरणम्? न तावत्शूत्रेणैव परिगृहीतम्, यथा, अवेष्टौ यज्ञसंयोगात्क्रतुप्रधानमुच्यत इति{*२।३४०*} । नापि च साध्यं प्रतिज्ञातम्, यथा, अयनेषु चोदनान्तरमिति{*२।३४१*}{*२।३४२*} । केवलं विशये संशये प्रायदर्शनं हेतुरिति निर्दिश्यते, कस्यायं हेतुरिति न विजानीमः । प्रकृतं यजिमदेतत्कर्मेति{*२।३४३*}, तदपि न संबन्ध्यमानमिव पश्यामः, तदेतदगमकं{*२।३४४*} सूत्रमेव तावदनर्थकम् । अथ कात्र प्रतिज्ञा? कश्च सन्देह इति वक्तव्यम् । वृत्तिकारवचनात्, प्रतिज्ञां संशयं चावगच्छामः । अत्र भगवानाचार्य इदमुदाहृत्य वत्समालभेत वत्सनिकान्ता हि पशव इति{*२।३४५*}, इमं संशयमुपन्यस्यति स्म, किं यजिमदभिधान एष आलभतिः, उतालम्भमात्रवचन इति? उपपद्यते चैतदुदाहरणम्, [१८५]{*२।३४६*} संशयश्च । तत्र च पूर्वपक्षं प्रतिजानीते स्म, यजिमदभिधान इति । इदं तु प्रत्युदाहरणसूत्रं पूर्वस्याधिकरणस्य, नात्र पूर्वपक्षेणातीव प्रयोजनम्, तथापि पुरुषाणामुच्चावचबुद्धिविशेषानालोच्य भवति मन्दानां सामान्यतोदृष्टेनाप्याशङ्का, सापि निवर्तनीया, न हि, मन्दविषेण वृश्चिकेनापि दष्टो म्रियेत न जातुचित्कदापि, तत्र चिकित्सा नादरेण कर्तव्या भवेत् । अतस्तां निवर्तयितुं पूर्वपक्षमुपन्यस्यति स्म, आलभतिरस्माभिः प्राणिसंयुक्तो यजिमदभिधानो दृष्टः, अयमप्यालभतिः प्राणिसंयुक्तः एव, तेनायमपि यजिमद्वचन एवेति भवति कस्यचिदाशङ्का । अथ वा यजिमदभिधानो दृष्ट आलभतिः प्राणिसंयुक्तः, तस्यायमनुवादो वत्सविधानार्थः, तथा च फलं न कल्पयितव्यं भविष्यतीति । एवं प्राप्ते ब्रूमः अस्मिन् संशये आलम्भमात्रं संस्कारः । कुतः? प्रायदर्शनात्, यत्रान्यान्य्{*२।३४७*} अपि संस्कारकर्माणि प्रायभूतानीत्युच्यन्ते, तत्रैतदपि श्रूयते । प्रायादपि चार्थनिश्चयो भवति, यथा, अग्र्यप्राये लिखितोऽग्र्य इति गम्यते । ननु लिङ्गं प्रायदर्शनम्, कथमनेन सिद्धिरिति । उच्यते यथा प्रायदर्शनेन सिध्यति, तथा वर्णयितव्यम् । कथं च प्रायदर्शनं हेतुः? न्यायतः प्राप्तौ सत्याम् । कः पुनर्न्यायः? देवतासंबन्धाभावान्न यागवचनोऽदृष्टार्थत्वाच्च, वत्स आलभ्यमानो गां प्रस्तावयिष्यतीति । तस्मादेवं न्यायप्राप्ते प्रायदर्शनं द्योतकं भवति । तस्मादालम्भमात्रं संस्कारः । ण्Oट्Eष् *{२।३४० ंष्२ ।३ ।३}* *{२।३४१ E२,४,६ ओमिति}* *{२।३४२ ंष्२ ।३ ।५}* *{२।३४३ Vग्ल् । ंष्२ ।३ ।१४}* *{२।३४४ E२ गमकं}* *{२।३४५ Vग्ल् । टैत् ।ष् । २ ।१ ।४ ।८}* *{२।३४६ E२ ३,१८१॑ E४ ३,३८८॑ E४ २,५८३॑ E६ १,१२७}* *{२।३४७ E२,४ अत्रान्यान्य्}* ____________________________________________ अर्थवादोपपत्तेश्च ॥ २,३ ।१७ ॥ अर्थवादश्च भवति, वत्सनिकान्ता हि पशव इति{*२।३४८*}, [१८६]{*२।३४९*} यस्माद्वत्सप्रियाः पशवः, तस्माद्वत्स आलब्धव्य इति, यदि गां प्रस्तावयितुम्{*२।३५०*} आलभ्यते, तत्रैतद्वचनमवकल्पते, अथ संज्ञपयितुम्, तत्रैवंजातीयकं वचनं नोपपद्यते । तस्मादप्यालम्भमात्रं संस्कार इति सिद्धम् । ण्Oट्Eष् *{२।३४८ Vग्ल् । टैत् ।ष् । २ ।१ ।४ ।८}* *{२।३४९ E२ ३,१८३॑ E४ ३,३९३॑ E५ २,५८५॑ E६ १,१२८}* *{२।३५० E१,६॑ E२,४,५ प्रस्नावयितुम्}* ____________________________________________ संयुक्तस्त्वर्थशब्देन तदर्थः श्रुतिसंयोगात् ॥ २,३ ।१८ ॥ अस्त्यग्निः, तत्र नैवारश्चरुर्भवति, इत्युक्त्वा, यदेनं चरुमुपदधातीति समामनन्ति । तत्र सन्दिह्यते, किं चरुर्यागार्थो यागं कृत्वावशिष्ट उपधातव्यः, उतोपधानार्थ एवेति । यागार्थ इति ब्रूमः, चरोर्हि प्रसिद्धं कार्यं यागो नोपधानम् । उच्यते यद्यपि यागार्थता चरोः प्रसिद्धा, तथापि देवतावचनसंबन्धाभावाद्यजतिशब्दासंबन्धाच्च न यागार्थतेति गम्यते । तदुच्यते तस्यैव वाक्यशेषे श्रूयते, बृहस्पतेर्वा एतदन्नं यन्नीवारा इति, तेन देवतावचनेन सन्निहितेनैकवाक्यता भविष्यतीति बृहस्पतिदेवताक उपधातव्य इति । तस्माद्यागार्थश्चरुरित्येवं प्राप्तम् । एवं प्राप्ते ब्रूमः संयुक्तस्त्वर्थशब्देन कार्यशब्देनोपदधातीति तदर्थः एव स्यादुपधानार्थः । उपदधातिना चास्य प्रत्यक्षमेकवाक्यत्वम्, परोक्षं देवतावचनेनानुमेयम्, चरुमुपदधातीति हि प्रत्यक्षं वाक्यम् । बार्हस्पत्यमुपदधातीत्यानुमानिकम् । तस्मात्कृत्स्नश्चरुरुपधातव्यः, ततश्च्चेत्किंचिदिज्यायां विनियुज्येत, तदन्यत्र श्रुतमन्यत्र कृतं भवेत् । यत्तु बार्हस्पत्या नीवारा इति, अर्थवादः स इति । यत्तूक्तम् प्रसिद्धा चरोर्यागार्थतेति, प्रसिद्धिर्वाक्येन बाध्यते । तस्मादुपधानार्थ इति सिद्धम् । [१८७]{*२।३५१*} ण्Oट्Eष् *{२।३५१ E२ ३,१८६॑ E४ ३,३९८॑ E५ २,५८७॑ E६ १,१२८}* ____________________________________________ पात्नीवते तु पूर्वत्वादवच्छेदः ॥ २,३ ।१९ ॥ त्वाष्ट्रं पात्नीवतं विधायेदमुच्यते{*२।३५२*}, यत्पर्यग्निकृतं पात्नीवतमुत्सृजन्तीति । तत्र सन्देहः, किं त्वाष्ट्रस्य पर्यग्निकृतस्यैष उत्सर्गो विधीयते, उत तस्माद्यागान्तरमिति । यदि पर्यग्निकृतमुत्सृजन्तीति पदद्वयं परस्परेण संबद्धम्, ततस्त्वाष्ट्रस्योत्सर्गः, अथ पात्नीवतशब्द उत्सृजतिना संबध्येत, ततो यागान्तरम् । किं तावत्प्राप्तम्? यागान्तरमिति । कुतः? पूर्वस्त्वाष्ट्रः पात्नीवतश्च, उभयविशेषणविशिष्टः कथं पात्नीवतशब्देनानूद्येत । अपि च त्वाष्ट्रस्योत्सर्गे विधीयमाने पर्यग्निकृतमिति विशेषणं नावकल्पेत । अतो ब्रूमः पर्यग्निकृतस्य पात्नीवतता विधीयते, स एव याग इति । एवं प्राप्ते ब्रूमः न कर्मान्तरम्, पूर्वस्यैवोत्सृजतिशब्देनावच्छेदो विधीयते । किमेवं भविष्यति । यजिमत्ता तावत्कल्पयितव्या न भविष्यति, उत्सृजतिशब्दश्च श्रुत्योत्सर्गं विदधद्वाक्येन न बाधितो भविष्यति, कर्मान्तरपक्षे वाक्येन पात्नीवततायां विधीयमानायामर्थात्प्राप्त उत्सर्गो धातुनानूद्येत । अपि च पर्यग्निकृतस्य पात्नीवतता पूर्वस्य विदितैव, सा विधातुं न शक्यते । तस्मात्पूर्वस्य कर्मणोऽवच्छेदः । यत्तूक्तम्, त्वाष्ट्रस्योत्सर्गो विधीयमाने पर्यग्निकृतमिति विशेषणं तावन्नावकल्पेतेति, नैष दोषः, अतन्त्रमेवात्र पात्नीवतशब्दो नासौ विशेष्यते, अत एव त्वाष्ट्रः पात्नीवत उभयविशेषणविशिष्टः केवलेन पात्नीवतशब्देन लक्षणयानूद्येतेति न दोषः । तस्मादवच्छेद इति सिद्धम् । [१८८]{*२।३५३*} ण्Oट्Eष् *{२।३५२ Vग्ल् । Kआठ ।ष् । ३० ।१}* *{२।३५३ E२ ३,१८९॑ E४ ३,४०६॑ E५ २,५९१॑ E६ १,१२९}* ____________________________________________ अद्रव्यत्वात्केवले कर्मशेषः स्यात् ॥ २,३ ।२० ॥ न कस्यचिदपि प्रकरणे श्रूयते, एष वै हविषा हविर्यजते योऽदाभ्यं गृहीत्वा सोमाय यजत इति, तथा परा वैतस्यायुः प्राण एति योऽंशुं गृह्णातीति{*२।३५४*} । तत्र सन्देहः, किं यागान्तरमेतद्ग्रहणकम्, उत ज्योतिष्टोमयागे ग्रहविधिरिति । किं प्राप्तम्? यागान्तरमिति । कुतः? अपूर्वनामधेयसंयोगात्, न प्रकृतावेतन्नामधेयको यागोऽस्ति, न ग्रहः कश्चिद्योऽभ्यस्येत । तस्माद्यागान्तरम् । ननु द्रव्यदेवतं न श्रूयते । मा भूद्द्रव्यदेवतम्, साक्षादेव यजतिशब्दो विद्यते । तस्मात्कर्मान्तरमदाभ्यसंज्ञकम्, अंशुसंज्ञकं च यागं करोतीत्येवं प्राप्तम् । एवं प्राप्ते ब्रूमः अद्रव्यदेवताके केवले नामधेये श्रूयमाणे ब्रूमः, ज्योतिष्टोमे एव ग्रहाभ्यासविशेषविधानमिति । कुतः? एतत्तावद्ग्रहस्य नामधेयं न यागस्य, ग्रहणेन साक्षात्संबन्धात्, व्यवहितत्वाद्यागस्य । अंशुरिति च मुक्तसंशयमेव ग्रहनामधेयम्, न च ग्रहभेदे यागभेदो भवति, न च, द्रव्यदेवतं श्रूयते । यतो गृह्णातिर्यजिमद्वचनो भवेत्, यदप्युक्तम्, साक्षादत्र यजतिशब्दो विधायक इति, नैवं शक्यं कर्मान्तरं विधातुम्, विहितयागवचनो हि सः, विशेषाभावात् । तस्माद्यजतिना ज्योतिष्टोम एवोच्यते, अंश्वदाभ्यशब्दाभ्यामप्यपरौ ग्रहाभ्यासौ विधीयेत इति सिद्धम् । [१८९]{*२।३५५*} ण्Oट्Eष् *{२।३५४ टैत् ।ष् । ३ ।३ ।४ ।१}* *{२।३५५ E२ ३,१९१॑ E४ ३,४११॑ E५ २,५९४॑ E६ १,१३०}* ____________________________________________ अग्निस्तु लिङ्गदर्शनात्क्रतुशब्दः प्रतीयेत ॥ २,३ ।२१ ॥ अस्त्यग्निः, य एवं विद्वानग्निं चिनुत इति, एवं विधाय श्रूयते, अथातोऽग्निमग्निष्टोमेनैवानुयजति, तमुक्थेन, तमतिरात्रेण, तं षोडशिनेत्येवमादि{*२।३५६*} । तत्र सन्देहः, किमयमग्निशब्दो यागवचनो ज्योतिष्टोमादिभ्यः कर्मान्तरं चिनुत इत्याख्यातेन विधीयते, उत द्रव्यवचनो ज्योतिष्टोमादिषु गुणविधानमिति । किं प्राप्तम्? यागवचन इति । कुतः? लिङ्गदर्शनात्, लिङ्गं हि दृश्यते, अग्नेः स्तोत्रमग्नेः शस्त्रमिति तथा, षडुपसद्ःऽग्नेः चित्यस्य भवन्तीति, यस्य स्तोत्रं शस्त्रमुपसदश्च तस्याग्निशब्दो वाचक इति गम्यते, यागस्यैतत्सर्वम्, तस्मात्यागवचन इति । ननु लिङ्गमसाधकम्, प्राप्तिरुच्यतामिति । अत्रोच्यते अथातोऽग्निमग्निष्टोमेनैवानुयजतीति यागमभिनिवर्तयतीत्युच्यते, तमग्निमिति विशिनष्टि । तस्मादग्निसंज्ञक इति गम्यते । अनुशब्दोऽप्युपसर्गो यजतेर्विशेषक एवमुपपद्यते, यद्यग्निर्यागः । तस्मात्क्रतुशब्दः प्रतीयेत । ण्Oट्Eष् *{२।३५६ टैत् ।ष् । ५ ।५ ।२ ।१}* ____________________________________________ द्रव्यं वा स्याच्चोदनायास्तदर्थत्वात् ॥ २,३ ।२२ ॥ द्रव्यं वाग्निशब्देनोच्येत । कतमद्द्रव्यम्? यदेतज्ज्वलनः, अत्र ह्येष प्रसिद्धः । चिनुत इत्येषा हि चोदना चयनार्था न यजत्यर्थं शक्नोति वदितुम्, चयनेनैनं संस्कुरुते चितौ स्थापयतीति । अनुशब्दश्च पश्चादर्थो भविष्यति, चयने निर्वृत्ते पश्चादग्निष्टोमेन यागेन यजतीति । [१९०]{*२।३५७*} ण्Oट्Eष् *{२।३५७ E२ ३,१९३॑ E४ ३,४१७॑ E५ २,५९७॑ E६ १,१३०}* ____________________________________________ तत्संयोगात्क्रतुस्तदाख्यः स्यात्तेन धर्मविधानानि ॥ २,३ ।२३ ॥ यत्तु लिङ्गदर्शनमुक्तम्, यागवचनोऽग्निशब्द इति, तत्तेष्वेव लिङ्गसंयुक्तेषु वचनेषु, न सर्वत्र, तेषु चित्याग्निसंयोगात्, यागे लक्षणशब्दः, तेन क्रतुवचनानि तद्धर्मविधानानीत्यदोषः । ____________________________________________ प्रकरणान्तरे प्रयोजनान्यत्वम् ॥ २,३ ।२४ ॥ कुण्डपायिनामयने श्रूयते, मासमग्निहोत्रं जुहोति, मासं दर्शपूर्णमासाभ्यां यजत इत्येवमादि । तत्र सन्दिह्यते, किं नियतेऽग्निहोत्रे नियतयोश्च दर्शपूर्णमासयोर्मासो विधीयते कालः, अथ किं नियताग्निहोत्रान्नियताभ्यां च दर्शपूर्णमासाभ्यां कर्मान्तरविधानमिति । किं तावत्प्राप्तम्? नियतेषु कालविधिरिति । कुतः? कालविधिसरूप एष शब्दो मासमिति । कथं कालविधिसरूपता? यदग्निहोत्रं जुहोतीति विदितम्, मासमित्यविदितम् । एवं चाग्निहोत्रशब्दो दर्शपूर्णमासशब्दश्च नार्थान्तरवृत्तौ भविष्यतः, तस्मात्कालविधिः । ननु कुण्डपायिनामयनप्रकरणं बाध्येतैवम् । कामं बाध्यताम्, वाक्यं हि बलवत्तरम् । एवं प्राप्ते ब्रूमः प्रकरणान्तरे श्रूयमाणं वाक्यं यस्य प्रकरणे, तस्य वाचकं भवितुमर्हति । ननु प्रत्यक्षोऽग्निहोत्रस्य दर्शपूर्ण[१९१]{*२।३५८*}मासयोश्च गुणविधिः । न, इत्युच्यते । कथम्? उपसिद्धश्चरित्वेति ह्युक्त्वेदमभिधीयते, न च, उपसदोऽग्निहोत्रस्य दर्शपूर्णमासयोश्च सन्ति । तस्मादशक्यस्तत्र मासविधिः । अथोच्यते, उपसदोऽपि विधीयन्त इति । तथा गुणविधानार्थोऽस्मिन् वाक्येऽनेकगुणविधानाद्वाक्यं भिद्येत । अस्मिन् पक्षे पुनरतन्त्रमग्निहोत्रशब्दो न कर्म विशेक्ष्यति, तेन वाक्यभेदो न भविष्यति । तस्मात्कर्मान्तरमिति सिद्धम् । ण्Oट्Eष् *{२।३५८ E२ ३,१९५॑ E४ ३,४१९॑ E५ २,५९९॑ E६ १,१३१}* ____________________________________________ फलं चाकर्मसन्निधौ ॥ २,३ ।२५ ॥ अनारभ्य किंचिच्छ्रूयत आग्नेयमष्टाकपालं निर्वपेद्रुक्कामः{*२।३५९*}॑ अग्नीषोमीयमेकादशकपालं निर्वपेद्ब्रह्मवर्चसकामः{*२।३६०*}॑ ऐन्द्राग्नमेकादशकपालं निर्वपेत्प्रजाकाम इति{*२।३६१*} । अत्र सन्दिह्यते, किं प्राकृतेष्वाग्नेयादिषु फलं विधीयते, उत प्राकृतेभ्यः कर्मान्तराण्येतानि? किं प्राप्तम्? प्राकृतेषु फलविधिरिति । कुतः? विदिता आग्नेयादयः प्रत्यभिज्ञायन्ते, तस्मात्तेषामनुवादः फलसंबन्धार्थ इति । एवं प्राप्ते ब्रूमः फलं च भेदकमकर्मसन्निधौ श्रूयमाणम् । कथम्? अनुवादे सति न शक्येत फलं विधातुम्, विधायकस्याभावात्, न हि, अविधीयमानो ह्युपायो रुचो भवतीति गम्यते । अपि च रुक्कामेऽत्र विधीयमाने कामस्य [१९२]{*२।३६२*} अनित्यत्वात्, आग्नेयादीनां नित्यत्वात्संबन्धो नावकल्पेत । एवं सर्वत्र । तस्मात्कर्मान्तराणि । ण्Oट्Eष् *{२।३५९ Vग्ल् । टैत् ।ष् । २ ।२ ।३ ।३}* *{२।३६० टैत् ।ष् । २ ।३ ।३ ।३}* *{२।३६१ टैत् ।ष् । २ ।२ ।१ ।१}* *{२।३६२ E२ ३,२०१॑ E४ ३,४३०॑ E५ ६०२॑ E६ १,१३१}* ____________________________________________ सन्निधौ त्वविभागात्फलार्थेन पुनःश्रुतिः ॥ २,३ ।२६ ॥ अस्त्यवेष्टिः, आग्नेयोऽष्टाकपालः पुरोडाशो भवतीत्येवमादिः, तां प्रकृत्योच्यते, एतयान्नाद्यकामं याजयेतेति । तत्र सन्देहः किं कर्मान्तरमवेष्टेरुतावेष्टिरेवेति? किं प्राप्तम्, कर्मान्तरमिति, उक्तेन न्यायेन । एवं प्राप्ते ब्रूमः सन्निधौ फलार्थेन पुनःश्रुतिरवेष्टेरेव, न कर्मान्तरमिति । कुतः? अविभागात्, एतयेत्येष शब्दो न शक्नोत्यवेष्ट्या विभक्तं यागमन्यं वक्तुम्, सन्निहितस्य प्रतिनिर्देशक एष शब्दः । तस्मादवेष्टिरेवान्नाद्यकामस्य विधीयत इति । किं प्रयोजनम्? यद्यवेष्टिः, आग्नेयादीनि हवींषि । अथ कर्मान्तरम्, अन्यहविष्को याग इति । ____________________________________________ आग्नेयसूक्तहेतुत्वादभ्यासेन प्रतीयेत ॥ २,३ ।२७ ॥ दर्शपूर्णमासयोराग्नेयोऽष्टाकपालोऽमावास्याभ्यां पौर्णमास्यां चाच्युतो भवतीति विधाय पुनरुच्यते, आग्नेयोऽष्टाकपालोऽमावास्यायां भवतीति । तत्र सन्देहः किममावास्यायां द्विराग्नेयेन यष्टव्यम्, उत सकृदिति । किं प्राप्तम्? आग्नेयसूक्तहेतुत्वादभ्यासेन प्रतीयते, एकस्यैवं पुनःश्रुतिरविशेषादनर्थकं हि स्यादिति{*२।३६३*} । [१९३]{*२।३६४*} ण्Oट्Eष् *{२।३६३ ंष्२ ।२ ।२}* *{२।३६४ E२ ३,२०४॑ E४ ३,४४१॑ E५ २,६०५॑ E६ १,१३२}* ____________________________________________ अविभागात्तु कर्मणा{*२।३६५*} द्विरुक्तेर्न विधीयते ॥ २,३ ।२८ ॥ नैतदस्ति, पुनरभ्यसितव्य आग्नेय इति । कुतः? न, अभ्यासस्य वाचकः शब्दोऽस्तीति । नन्वाग्नेयः पुनरुच्चरितः परं कर्म विधास्यति । नेति ब्रूमः, शब्दः पुनरुच्चरितो{*२।३६६*} न पुनरर्थः कर्तव्य इति शक्नोति वदितुम्, योऽस्य प्रथममुच्चरितस्यार्थः, शतकृत्वोऽप्युच्चरितस्य स एवार्थो भविष्यति, नान्यः । ननु विहितमेव पुनर्विशिष्टं विदधदनर्थको भवति । भवतु काममनर्थकत्वम्, न त्वन्यं शक्नोति वदितुम्, भवेदुपपन्नमनर्थकत्वम्, न त्वर्थान्तरवचनता । तस्मान्न द्विरभ्यस्येतेति । ण्Oट्Eष् *{२।३६५ E१,६॑ E२,४,५ कर्मणो}* *{२।३६६ E२,४ पुनरुच्चारितो}* ____________________________________________ अन्यार्था वा पुनःश्रुतिः ॥ २,३ ।२९ ॥ अथ वा, नानर्थिका पुनःश्रुतिः, अर्थवादार्था भविष्यतीत्युच्यते । किमर्थवादेन प्रयोजनम्? यदा पूर्वेनैव वाक्येन सार्थवादकेन विहितः आग्नेयः, कमन्यमर्थं विधातुं श्रुतिः{*२।३६७*} प्रयुज्येत? श्रुतिमात्रं{*२।३६८*} यन्न कस्यचिद्विधानार्थम्, तदनर्थकम्, इत्युक्तम्, आम्नायस्य क्रियार्थत्वादानर्थक्यमतदर्थानामिति{*२।३६९*}, श्रुतश्चाश्रुतश्{*२।३७०*} च तावानेव सोऽर्थः, यथा श्रुता चाश्रुता{*२।३७१*} च देवता अङ्गभावं साधयति, एवमेतदिति । तदुच्यते अन्यार्था वा पुनःश्रुतिः, न आग्नेयं विधातुम्, ऐन्द्राग्नविधानार्था, आग्नेयोऽष्टाकपालोऽमावास्यायां भवत्येव, न केवलेनाग्निना स साधुर्भवतीतीन्द्रसहितोऽग्निः समीचीनतरः, तस्मादैन्द्राग्नः कर्तव्य इति । [१९४]{*२।३७२*} ण्Oट्Eष् *{२।३६७ E१,६॑ E२,४,५ स्तुतिः}* *{२।३६८ E१,६॑ E२,४,५ स्तुतिमात्रं}* *{२।३६९ ंष्१ ।२ ।१}* *{२।३७० E१,६॑ E२,४,५ स्तुतश्चास्तुतश्}* *{२।३७१ E१,६॑ E२,४ स्तुता वास्तुता वा, E५ स्तुता चास्तुता च}* *{२।३७२ E२ ३,२०७॑ E४ ३,४४६॑ E५ २,६०७॑ E६ १,१३३}* ____________________________________________ यावज्जीविकोऽभ्यासः कर्मधर्मः प्रकरणात् ॥ २,४ ।१ ॥ बह्वृचब्राह्मणे श्रूयते यावज्जीवमग्निहोत्रं जुहोतीति, यावज्जीवं दर्शपूर्णमासाभ्यां यजेतेति । अत्र सन्देहेः किं कर्मधर्मोऽभ्यासो यावज्जीविकता, उत कर्तृधर्मो नियमश्चोद्यते यावज्जीविकतेति । कथं कर्मधर्मोऽभ्यासः, कथं वा कर्तृधर्मो नियम इति । यदि जुहोतिरनुवादः, यावज्जीवमिति विधिः । ततः कर्मधर्मोऽभ्यासः, यदि विपरीतम्, ततः कर्तृधर्मो नियम इति । किं तावत्प्राप्तम्, कर्मधर्मोऽभ्यासः । कुतः? प्रकरणात्, यदीयं वचनव्यक्तिः, जुहोतियजतिशब्दावनुवादौ, यावज्जीवमिति च विधिः, ततः प्रकरणमनुगृह्यते, तस्मादभ्यासः । एवं कृत्वा सत्रसंस्तवो युक्तो भविष्यति, जरामर्यं वा एतत्सत्रं यदग्निहोत्रम्, दर्शपूर्णमासौ चेति दीर्घकालसामान्यात् । तस्मादभ्यासः । ____________________________________________ कर्तुर्वा श्रुतिसंयोगात् ॥ २,४ ।२ ॥ अत्र ब्रूमः यावज्जीविकोऽभ्यासो न स्यात्, कर्तुर्धर्मो नियमश्चोद्यत इति । कुतः? श्रुतिसंयोगात् । एवं श्रुतिपरिच्छिन्नोऽर्थो भविष्यति, इतरथा लक्षणा स्यात् । कथम्? यावज्जीवनम्, तावता कालेन कुर्यादिति, तदेतत्प्रदोषपरिसमाप्तमग्निहोत्रमनभ्यस्य, न शक्यते यावज्जीवनकालेन कर्तुम्, पौर्णमास्यमावास्यापरिसमाप्तौ च दर्शपूर्णमासौ । यद्युच्येत जीवनकालस्यैकदेशेऽपि कृतं तेन कालेन कृतं भवतीति । नैतदेवम्, [१९५]{*२।३७३*} अर्थप्राप्तं हि तन्न विधातव्यं शब्देन, जीवनपरिमितः कालो यः, तेन परिसमापयितव्यमित्यर्थादभ्यासः, स हि कर्तव्यतया श्रूयते, न चासाव्जुहोतियजतिभ्यामुच्यते, लक्षणया तु गम्यते । यावज्जीवं जुहुयात्, यावज्जीवमभ्यस्येदिति, श्रुतिश्च प्रकरणाद्बलीयसी । यदीयं वचनव्यक्तिरस्य वाक्यस्य, यावज्जीवमित्यनुवादो जुहोति यजतीति च विधानम्, इत्येवं यजतिजुहोतिशब्दौ स्वार्थावेव भविष्यतः, यावज्जीवशब्दोऽपि जीवनवचन एव, नाभ्यासलक्षणो भविष्यतीति जीवने निमित्ते कर्म विधीयते, जीवंश्चेद्धोतव्यमिति, जीवनं निमित्तम्, न कालः, नियतनिमित्तत्वान्नियतं कर्म तेनोच्यते, कर्तुर्धर्मो नियमश्चोद्यत इति । ण्Oट्Eष् *{२।३७३ E२ ३,२१०॑ E४ ३,४५१॑ E५ २,६०९॑ E६ १,१३४}* ____________________________________________ लिङ्गदर्शनाच्च, कर्मधर्मे हि प्रक्रमेण नियम्येत, तत्रानर्थकमन्यत्स्यात् ॥ २,४ ।३ ॥ लिङ्गं च भवत्यपि ह वा एष स्वर्गाल्लोकाच्छिद्यते यो दर्शपूर्णमासयाजी पौर्णमासीममावास्यां वातिपातयेतेति । कथं लिङ्गम्? कर्मधर्मे हि प्रक्रान्तं सत्रं यावज्जीवनकालेन परिसमाप्येत, न तत्र कालातिपातः स्यात् । तत्र चानर्थकमन्यत्स्यात्प्रायश्चित्तादि विधीयमानम् । ____________________________________________ व्यपवर्गं च दर्शयति, कालश्चेत्कर्मभेदः स्यात् ॥ २,४ ।४ ॥ व्यपवर्गस्य समापनस्य दर्शनं भवति, दर्शपूर्णमासाभ्यामिष्ट्वा सोमेन यजेतेति । यदि दर्शपूर्णमासाभ्यामिष्ट्वा सोमस्य कालोऽस्ति, व्यक्तं न यावज्जीवनकालेन तौ परिसमाप्येते । अथ जीवनं निमित्तम्, उपपद्यते कर्मभेदः, दर्शपूर्णमासौ परिसमाप्य सोमं कर्मान्तरं कुर्यादिति । [१९६]{*२।३७४*} अपि चाहिताग्निर्वा एष योऽग्निहोत्रं जुहोति न दर्शपूर्णमासौ यजेत, या आहुतिभाजो देवतास्ता अनुध्यायिनीः करोतीत्यनुध्यायिनीवचनं भवति, नियतो य आहुतिभागः, तस्मिनदीयमानेऽनुध्यायिनीवचनं भवति । यस्त्वनियत आहुतिभागस्तम्{*२।३७५*} अनुध्यायन्ति, इदं नो भविष्यतीति, नियतश्च भागो नियमपक्षे भवति, न काम्यपक्षे, कर्मधर्मे च काम्यमग्निहोत्रं च दर्शपूर्णमासौ च, तस्मान्नियमपक्षः । अपि च श्रूयते, जरामर्यं वैतत्सत्रं यदग्निहोत्रं दर्शपूर्णमासौ च, जरया ह वैताभ्यां निर्मुच्यते मृत्युना चेति जरामरणनिर्मोचनावधारणवचनं च नियमपक्ष उपपद्यते । काम्यपक्षे ह्यप्रयोगादपि मुच्येत । ण्Oट्Eष् *{२।३७४ E२ ३,२१४॑ E४ ३,४६२॑ E५ २,६११॑ E६ १,१३४}* *{२।३७५ E२,४,५ न तम्}* ____________________________________________ अनित्यत्वात्तु नैवं स्यात् ॥ २,४ ।५ ॥ तुशब्दोऽन्वाचये, इतरश्च पश्यामः, कर्तुर्धर्मो नियमश्चोद्यत इति । यदि पूर्वस्य होमस्य गुणविधिर्भवेत्स एकैकः पूर्वोऽग्निहोत्रहोमोऽनित्यः स्यात्, कामसंयोगेन श्रुतो नान्यः कश्चिन्नित्यः, तत्र लिङ्गं विरुध्येत, जरामर्यं वैतत्सत्रं यदग्निहोत्रं दर्शपूर्णमासौ, जरया वैताभ्यां निर्मुच्यते मृत्युना चेति । कथं विरुध्यते? जरामरणनिर्मोचनाधारणवचनं नियमपक्ष उपपद्यते, काम्यपक्षेऽप्रयोगादपि मुच्येत । ____________________________________________ विरोधश्चापि पूर्ववत् ॥ २,४ ।६ ॥ इतश्च पश्यामो न पूर्वाभ्यासो गुणश्चोद्यत इति । कुतह्? विरोधात्, विरोधो भवति, दर्शपूर्णमासविकाराः सौर्यादयोऽपि यावज्जीवमभ्यसितव्या भवेयुः । सोऽनारभ्यार्थः प्रतिज्ञातः स्यात् । अतोऽपि पश्यामो नियम इति सत्रसंस्तवश्च सन्ततभावमुपपत्स्यते । [१९७]{*२।३७६*} ण्Oट्Eष् *{२।३७६ E२ ३,२१६॑ E४ ३,४६७॑ E५ २,६१२॑ E६ १,१३५}* ____________________________________________ कर्तुस्तु धर्मनियमात्कालशास्त्रं निमित्तं स्यात् ॥ २,४ ।७ ॥ यदि कर्तुर्धर्मो नियमश्चोद्येत, ततो जीवनं निमित्तम्, जीवने निमित्ते कर्म विधीयते । तत्र प्रयोगे परिसमाप्तं कर्म, तथा व्यपवर्गस्य दर्शनमकॢप्तं भवति, तस्मात्कर्तृधर्मो नियमश्चोद्यत इति सिद्धं भवति । ____________________________________________ नामरूपधर्मविशेषपुनरुक्तिनिन्दाशक्तिसमाप्तिवचनप्रायश्चित्तान्यार्थदर्शनाच्छाखान्तरेषु कर्मभेदः स्यात् ॥ २,४ ।८ ॥ इह शाखान्तराण्युदाहरणम्, काठकं कालापकं पैप्पलादकमित्येवमादीनि । तत्र सन्देहः, किमेकस्यां शाखायां यत्कर्माग्निहोत्रादि श्रूयते, तच्छाखान्तरे पुनः श्रूयमाणं भिद्येत तस्मात्, उत न भिद्येत? भिद्येतेति पश्यामः । कुतः? नामभेदात्, एकं काठकं नाम, अन्यत्कालापकं नाम, एवं नामभेदाद्भेदः । ननु ग्रन्थनामैतत् । सत्यम्, कर्मणामपीति ब्रूमः, कर्मभिरप्येवमादीनां सामानाधिकरण्यमेकविभक्तित्वं चेति । रूपभेदाच्च, एकस्यां शाखायामग्नीषोमीयमेकादशकपालमामनन्ति, एकस्यां द्वादशकपालम्, एवं भिन्नं रूपम्{*२।३७७*}, कथमिव न कर्मान्तरं भविष्यति । धर्मविशेषाच्च, कारीरीवाक्यान्यधीयानास्तैत्तिरीया भूमौ भोजनमाचरन्ति, अपरे शाखिनो नाचरन्ति, तथाग्निमधी[१९८]{*२।३७८*}यानाः केचिदुपाध्यायस्योदकुम्भानाहरन्ति, अपरे न, अश्वमेधमधीयानाः केचिदश्वस्य घासमाहरन्ति, अपरे न, परेऽन्यं धर्ममाचरन्ति, अश्वघासादेरेकेषामुपकारमाकाङ्क्षत्यश्वमेधादिः, एकेषां नाकाङ्क्षति, स एवैकः कथं नाकाङ्क्षेत कथं वान्यदाकाङ्क्षितुमर्हति, अतो गम्यत अन्यदिति । पुनरुक्तिप्रसङ्गाच्च, यदि सर्वशाखाप्रत्ययमेकं कर्म, एकस्यां शाखायां विहितस्य कर्मणः शाखान्तरे वचनं पुनरुक्तमनर्थकं स्यात् । न तु भेदपक्ष एष दोषोऽस्ति, तस्मादपि कर्मभेदः । निन्दावचनाच्च प्रातः प्रातरनृतं ते वदन्ति पुरोदया{*२।३७९*} जुह्वति येऽग्निहोत्रं दिवाकीर्त्यमादिवा कीर्तयन्तः सूर्यो ज्योतिर्न तदा ज्योतिरेषामिति केचिच्छाखिनोऽनुदितहोमं निन्दन्ति, अपरे पुनरुदितहोमं निन्दन्ति, यथातिथये प्रद्रुतायान्नमाहरेयुस्तादृक्तद्यद्युदिते जुह्वतीति{*२।३८०*}, सर्वशाख्याप्रत्यये विरुद्धम्, न तु कर्मभेदे, तस्मादपि भेद इति । अशक्तेश्च, न शक्नुयुः खल्वपि सर्वशाखाप्रत्ययमुपसंहर्तुम्, तत्रानारभ्योऽर्थो विधीयत इति प्रतिज्ञातं भवेत्, शक्यं तु कर्मभेदे, अतः कर्मभेद इति । समाप्तिवचनाच्च, असमाप्तेऽपि समाप्तेर्वचनं भवति, केचिदाहुः, अत्रास्माकमग्निः परिसमाप्यत इति, अपरेऽन्यपरिसमाप्तिं व्यपदिशन्ति, तदेककर्मत्वे नोपपद्यते, न हि तत्र च{*२।३८१*} परिसमाप्येत, अन्यत्र न । भेदे तु युक्तम्, तस्माद्भेद इति । प्रायश्चित्तविधानाच्च, केचिदनुदितहोमव्यतिक्रमे प्रायश्चित्तमामनन्ति, केचिदुदितहोमव्यतिक्रमे वृद्धे च प्रायश्चित्तम्, न च कर्मैकत्व उभयथा वृद्धिः संभवति, कर्मभेदे तु यदनुदिते होमकर्म, तदुदिते वृद्धम्, इतरदप्युदिते, तस्मादपि भेदः । अन्यार्थदर्शनाच्च, इदं श्रूयते, यदि पुरा दिदीक्षाणाः स्युः यदि वैषां गृहपतिर्गृहपतेर्वानुसत्रिण इति, त एनमेव [१९९]{*२।३८२*} बृहत्सामानं क्रतुमुपेयुरुपेतं ह्येषां रथन्तरम्, अथ यद्यदिदीक्षाणा इतीष्टवतामनिष्टपूर्वाणां च द्वादशाहे दर्शनमुपपद्यते यदि कर्मभेदः, एककर्मत्वे नावकल्प्यते । कथम्? ताण्डके{*२।३८३*} श्रूयते, एष वाव प्रथमो यज्ञो यज्ञानाम्, यज्ज्योतिष्टोमः, य एतेनानिष्ट्वाथान्येन यजेत गर्तपत्यमेव तज्जायेत प्रवामीयत इति{*२।३८४*}, तत्सर्वत्र स्यात्, तत्रादिदीक्षाणां द्वादशाहे दर्शनं नोपपद्यते, तस्मादपि कर्मभेदः । अथापरं लिङ्गदर्शनम्, यत्पक्षसमितां पिनुयात्कनीयांसं यज्ञक्रतुमुपेयात्कनीयसीं प्रज्ञां कनीयसः पशून् कनीयोऽन्नाद्यं पापीयान् स्यात्, अथ यदि वेदिसंमित्या मिनोतीति{*२।३८५*} पक्षसमाने प्रतिषिद्धे वेदिसंमानस्य दर्शनं भवति, तत्तु कर्मभेद उपपद्यते, पाक्षिकस्य वेदिसंमानस्य दर्शनमेककर्मत्वे नोपपद्यते । कथम्? एके हि समामनन्ति, रथाक्षमात्राणि यूपान्तरालानि भवन्तीति{*२।३८६*}, तत्सर्वत्र स्यात्, तत्र च नो पक्षसंमानं नो वेदिसंमानं स्यात्, वेदिसंमानदर्शनं नोपपद्यते, तस्मादपि कर्मभेदः । अपरं च लिङ्गदर्शनम्, केषांचिज्ज्योतिष्टोमे श्रूयते, द्वे संस्तुतानां विराजमतिरिच्येत इति, परेषां तिस्रः संस्तुतानां विराजमतिरिच्यन्त इत्येककर्मत्वे विरोधः, नानाकर्मत्वे कस्मिंश्चिज्ज्योतिष्टोमे द्वे, कस्मिंश्चित्तिस्रः, तस्मात्कर्मभेद इति । अपि च सारस्वते श्रूयते, ये पुरोडाशिनस्ते उपविशन्ति ये सान्नायिनस्ते वत्सान् वारयन्ति । सान्नायिन इष्टप्रथमयज्ञाः, पुरोडाशिनो विपरीताः, उभयेषां सारस्वते दर्शनमवकल्पते कर्मभेदे, एककर्मत्वे सर्वेषां ज्योतिष्टोमपूर्वत्वं स्यात्, तत्र दर्शनं नोपपद्यते । अपि च श्रूयते उपहव्यो निरुक्तः{*२।३८७*}, अग्निष्टोमो यज्ञः रथन्तर[२००]{*२।३८८*}सामा, अश्वः श्यावो दक्षिणा, परेषां श्रूयते, उपहव्योऽनिरुक्तः, उक्थो{*२।३८९*} यज्ञो बृहत्सामा, अश्वः श्वेतो रुक्मललाटो दक्षिणेति, कर्मैकत्वे रथन्तरवचनं बृहद्वचनं चानर्थकम्, शाखाद्वयप्रत्ययत्वाद्बृहत्सामा रथन्तरसामा वा स्यात्, स चायं प्रकृतित एवंलक्षणकः प्राप्तः, नानाकर्मत्वे त्वन्यो बृहत्सामान्यो रथन्तरसामेति युक्तं भवति, तस्माच्छाखान्तरे कर्मभेदो भवितुमर्हति । ण्Oट्Eष् *{२।३७७ E१,५॑ E२,४,६ भिन्नरूपम्}* *{२।३७८ E२ ३,२१९॑ E४ ३,४६९॑ E५ २,६१५॑ E६ १,१३६}* *{२।३७९ E२,४,६ पुरोदयाज्॑ E५ पुरोदयाजू जुह्वति}* *{२।३८० शाङ्खा ।Bर् । २ ।९॑ टैत् ।Bर् ।२ ।१ ।२ ।१२}* *{२।३८१ E१,६॑ E२,४,५ न हि तदेव तत्र}* *{२।३८२ E२ ३,२२०॑ E४ ३,४७०॑ E५ २,६२६॑ E६ १,१३६}* *{२।३८३ E२,४,५,६ ताण्ड्यके}* *{२।३८४ टा ।Bर् । १६ ।१ ।२}* *{२।३८५ ंैत् ।ष् । ३ ।४ ।८}* *{२।३८६ टैत् ।ष् । ६ ।६ ।४ ।१}* *{२।३८७ E१,६॑ E२,४,५ऽनिरुक्तः}* *{२।३८८ E२ ३,२२१॑ E४ ३,४७१॑ E५ २,६१७॑ E६ १,१३७}* *{२।३८९ E१,६॑ E२,४,५ उक्थ्यो}* ____________________________________________ एकं वा संयोगरूपचोदनाख्याविशेषात् ॥ २,४ ।९ ॥ न चैतदस्ति, यदुक्तम् शाखान्तरेषु कर्मभेद इति, सर्वशाखाप्रत्ययं सर्वब्राह्मणप्रत्ययं चैकं कर्म, अर्थसंयोगस्याविशेषात्, तदेव प्रयोजनमुद्दिश्य तदेव विधीयमानं प्रत्यभिजानीमः । रूपमप्यस्य तदेव द्रव्यदेवतम्, पुरुषप्रयत्नश्च तादृश एव चोद्यते, नामधेयं चाविशिष्टम्, तेन तदेव कर्म सर्वशाखादिष्विति प्रत्ययः । ____________________________________________ न नाम्ना स्यादचोदनाभिधानत्वात् ॥ २,४ ।१० ॥ यदुक्तम् नामभेद इति, परिहृतं तद्ग्रन्थनामत इति । अथ यदुक्तम् कर्मणोऽपि नामसामानाधिकरण्यदर्शनादिति । नैष दोषः, ग्रन्थसंयोगात्कर्म काठकादि, न कर्मसंयोगाद्ग्रन्थः काठकः । कथं गम्यते? यत्कर्म काठकादिसंयुक्तम्, तत्काठकादिशब्देनोच्यते । किमतोऽपि? यद्ग्रन्थसंयोगात्काठकं कालापकं कर्मोच्यते । एकत्वेऽपि काठकग्रन्थसंयोगात्काठकम्, कालापकग्रन्थसंयोगात्तु कालापकं भविष्यति । [२०१]{*२।३९०*} ण्Oट्Eष् *{२।३९० E२ ३,२२४॑ E४ ३,४९२॑ E५ २,६१८॑ E६ १,१३८}* ____________________________________________ सर्वेषां चैककर्म्यं स्यात् ॥ २,४ ।११ ॥ यदि शब्दभेदाद्भेदो भवेत्, शब्दैक्यात्तर्हि कर्मैक्यं भवेत् । तत्र काठकशब्दाभिधानादैक्यं भवेदग्निहोत्रस्य दर्शपूर्णमासयोर्ज्योतिष्टोमस्य च, तच्छब्दत्वात्, न चैतदेवम् । तस्मादप्यभेदः । ____________________________________________ कृतकं चाभिधानम् ॥ २,४ ।१२ ॥ इदानींतनं चैतदभिधानं भवेत्, अस्य न पूर्वमासीत्, यतः प्रभृति कठस्य प्रकृष्टं वचनम्, ततः प्रभृति प्रवृत्तम्, पूर्वं नासीद्भेदः, इदानीं भेद इति विरुद्धम् । ____________________________________________ एकत्वेऽपि परम् ॥ २,४ ।१३ ॥ एककर्मत्वेऽपि रूपभेदो भवति वचनात्, न च, वाचनिके रूपभेदे, असत्यामपि भेदबुद्धौ कर्मणो भेदोऽभ्यवसीयेत । ____________________________________________ विद्यायां धर्मशास्त्रम् ॥ २,४ ।१४ ॥ अथ यो धर्मविशेष उक्तः, विद्याग्रहणार्थः सः, न कर्मण उपकारकः । कथं गम्यते? श्रुत्यादीनामभावात्, विद्यासंयोगाच्च न कर्मप्रयुक्त इति । ____________________________________________ आग्नेयवत्पुनर्वचनम् ॥ २,४ ।१५ ॥ अथ यदुक्तम् यथामावास्यायाम्{*२।३९१*} आग्नेयस्य पुनरुक्तदोषान्मध्यमः पक्षो निरस्तः, एवमयमपि तस्मादेव दोषात्कर्मैकत्वपक्षो निरसितव्य इति, एतत्परिहर्तव्यम् । (इत्याभाषान्तं सूत्रम्){*२।३९२*} । [२०२]{*२।३९३*} ण्Oट्Eष् *{२।३९१ Vग्ल् । ंष्२ ।३ ।२७२९}* *{२।३९२ ईन्E१ गेक्लम्मेर्त्}* *{२।३९३ E२ ३,२२६॑ E४ ३,४९७॑ E५ २,६१९॑ E६ १,१३९}* ____________________________________________ अद्विर्वचनं वा श्रुतिसंयोगाविशेषात् ॥ २,४ ।१६ ॥ नैव खल्वेतत्द्विर्वचनम्, स एवायमर्थः पुनः श्रावितोऽग्निहोत्रादिर्बहुकृत्वो बहुभिस्तु पुरुषैः, न चैकोऽर्थो बहुभिरुच्यमानः पुनरुक्तो भवति । यदि भवेत्, एकस्मिन्नेव वेदे बहुभिरुच्यमाने भवेत्, तस्मान्न बहुकर्मसमवायोऽयम्, एकमेवेदं कर्मेति । ____________________________________________ वाक्यासमवायात् ॥ २,४ ।१६ ॥{*२।३९४*} ण्Oट्Eष् *{२।३९४ डिएसेस्षूत्र wउर्दे वोन् शबर निछ्त्कोम्मेन्तिएर्त्, एस्fइन्देत्सिछ्जेदोछ्बेइ Kउमारिल । ईन्E२,४,५ इस्तेसौfगेनोम्मेन् wओर्देन् । डिएस्बेदिन्ग्तेइने वोन्E१,६ अब्wएइछेन्दे Z„ह्लुन्ग्देर्fओल्गेन्देन् षूत्रस्}* ____________________________________________ अर्थासन्निधेश्च ॥ २,४ ।१७ ॥ अर्थासन्निधेश्च शाखाशब्द उपपन्नो भविष्यति, शाखा इव होमाः शाखाः, तद्यथा वृक्षस्य शाखाः, एवमिहापि वृक्षस्थानीयस्य वेदस्य शाखाः । किं शाखासारूप्यम्? यथा नानावस्थानम्, न चैकैकस्यां कृत्स्नं पुष्पं फलं सन्निहितम्, एवमिहापि, नैकैकस्यां कृत्सं गुणकाण्डं सन्निहितम्, इत्यर्थासन्निधेः शाखाशब्दोपपत्तिः । तस्मादप्येकं कर्मेति । ____________________________________________ न चैकं प्रति शिष्यते ॥ २,४ ।१८ ॥ न च, यत्काठकेऽग्निहोत्रम्, तत्काठकमेवैकं पुरुषं प्रति विधीयते । तैत्तिरीयस्यापि तद्विहितमेव, पुरुषविशेषवचनाभावात्, यच्चाग्निहोत्रस्य किंचिदङ्गं विधीयते, सर्वावस्थस्य तदग्निहोत्रस्य, यच्च काठकस्याग्निहोत्रं, तच्च तैत्तिरीयकस्येति, विशेषवचनाभावात्, तस्मात्सर्वशाख्याभिरेकं समाप्तं कर्मोच्यत इति । [२०३]{*२।३९५*} ण्Oट्Eष् *{२।३९५ E२ ३,२२९॑ E४ ३,५०५॑ E५ २,६२०॑ E६ १,१३९}* ____________________________________________ समाप्तिवच्च संप्रेक्षा ॥ २,४ ।१९ ॥ अत्रास्माकमग्निः परिसमाप्यत इत्युत्प्रेक्षितारो भवन्ति, अन्वारोहेषु मैत्रायणीयानामग्निः परिसमाप्यते, अस्माकं तेषु न परिसमाप्यत इति, यद्यन्यदेव मैत्रायणीयानाम्, अन्यच्च तेषाम्, कथं ते ब्रूयुरेष्वस्माकं न परिसमाप्यत इति, एकत्वमुपपन्नम्, तेषामपि हि ते सन्ति । ____________________________________________ एकत्वेऽपि पराणि निन्दाशक्तिसमाप्तिवचनानि ॥ २,४ ।२० ॥ न हि निन्दा निन्द्यं निन्दितुं प्रयुज्यते । किं तर्हि निन्दितादितरत्प्रशंसितुम्, तत्र न निन्दितस्य प्रतिषेधो गम्यते । किं तर्हि निन्दितादितरत्प्रशंसितुम्, तत्र न निन्दितस्य प्रतिषेधो गम्यते । किं त्वितरस्य विधिः, तत्रैकस्मिन्नग्निहोत्रे द्वौ कालौ विहितौ विकल्प्येते, अतो न कश्चिद्विरोधः । तथासमर्थानामेकस्मिन्नपि वेदे विहितं कृत्स्नम्{*२।३९६*} अङ्गजातमुपसंहर्तुमशक्तिः, समर्थानां तु सर्वशाखाभ्योऽप्यागमितमधिकं विधिमुपसंहर्तुं शक्तिरस्तीति तेनैककर्मत्वेऽपि न विरुद्धमिति । तथैकस्मिन्नपि कर्मणि किंचिद्वस्तु समाप्तमिति कृत्वा समाप्तिशब्दः प्रयुज्यते, यथा, आध्वर्यवे समाप्ते ज्योतिष्टोमस्य, समाप्तो ज्योतिष्टोम इति भवति । ण्Oट्Eष् *{२।३९६ E२,४ विहितं कृत्स्नम्}* ____________________________________________ प्रायश्चित्तं निमित्तेन ॥ २,४ ।२१ ॥ यदुक्तम् उदितहोमस्यापि प्रायश्चित्तान्ता{*२।३९७*} नावृद्धता{*२।३९८*} गम्यते, अनुदितहोमस्यापि, तदेकत्वे विरुध्यते, [२०४]{*२।३९९*} अविरुद्धं नानात्व इति, तत्परिहर्तव्यम् । (आभाषान्तं सूत्रम्){*२।४००*} । ण्Oट्Eष् *{२।३९७ E२ प्रायश्चिन्नानाद्॑ E४ प्रायश्चिताम्नानाद्॑ E५ प्रायश्चित्ताम्नानाद्}* *{२।३९८ E२,४,५ व्यृद्धता}* *{२।३९९ E२ ३,२३१॑ E४ ३,५०९॑ E५ २,६२१॑ E६ १,१४०}* *{२।४०० ईन्E१ गेक्लम्मेर्त्}* ____________________________________________ प्रक्रमाद्वा नियोगेन ॥ २,४ ।२२ ॥ वाशब्दः पक्षं व्यावर्तयति । नैष दोषः, उदिते होष्यामीति प्रकान्तेऽन्यथा क्रियमाणे भवति दोषः, तत्र प्रायश्चित्तस्य विषयो भविष्यतीति कर्मैकत्वेऽपि न दोषः । ____________________________________________ समाप्तिः पूर्वत्त्वाद्यथाज्ञाते प्रतीयेत ॥ २,४ ।२३ ॥ पूर्ववति समाप्तिवचनं भवति, यत्प्रारब्धं तत्परिसमाप्यते, तत्रास्माकं परिसमाप्तोऽग्निरिति योऽस्माभिर्ज्ञायते, प्रारब्धश्च परिसमाप्यत इत्यभिप्रायः{*२।४०१*} । ण्Oट्Eष् *{२।४०१ E२,४,५,६ परिसमाप्यते । प्रारब्धश्चेत्यभिप्रायः}* ____________________________________________ लिङ्गमविशिष्टं सर्वशेषत्वान्न हि तत्र कर्मचोदना तस्माद्द्वादशाहस्याहारव्यपदेशः स्यात् ॥ २,४ ।२४ ॥ यदुक्तम् यदि पुरा दिदीक्साणा इति, द्वादशाह इष्टप्रथमयज्ञानामनिष्टप्रथमयज्ञानां च दर्शनं कर्मभेद उपपद्यते, न सर्वशाखाप्रत्ययैककर्मणीति । नैष दोषः, यदि दिदीक्षाणा द्वादशाहेन, अदिदीक्षाणा द्वादशशाहेनेत्येवं तत्, न हि सामवेदे ज्योतिष्टोमस्य विधानम् । किमतोऽपि? यत्र विहितस्तत्रानूद्यते, तेन कर्मभेदेऽपि सर्वज्योतिष्टोमानामेष धर्मः प्राथम्यं नाम । अतो नानाकर्मपक्षेऽप्यवश्यं द्वादशाहस्याहारव्यपदेशः कल्पनीयस्तस्माददोषः । [२०५]{*२।४०२*} ण्Oट्Eष् *{२।४०२ E२ ३,२३२॑ E४ ३,५१४॑ E५ २,६२२॑ E६ १,१४०}* ____________________________________________ द्रव्ये चाचोदितत्वाद्विधीनामव्यवस्था स्यान्निर्देशाद्व्यवतिष्ठेत तस्मान्नित्यानुवादः स्यात् ॥ २,४ ।२५ ॥ द्रव्ये चाग्नावचोदितत्वादेकादशिन्याः संमानपरिमाणं पर्ति नैषा व्यवस्था स्यात्, नैवाग्नावेकादशिनी चोद्यते, कुतः पक्षसंमानं वेदिसंमानं वा स्यात्? द्वयमप्येतत्परार्थं कीर्त्यते, पश्वेकादशिनीविधानार्थम्, यदि पक्षसंमिता स्यादयं दोषः स्यात्, वेदिसंमाने न दोषो भवेत्, क एतत्सङ्कटमध्यवसानम्{*२।४०३*} अर्हति? एकस्मिन् यूप एकादश पशवो नियोक्तवा इति, वाचस्तोमादिषु तु यूपैकादशिन्यामस्य नित्यानुवादत्वाद्रथाक्षमात्राण्येव यूपान्तरालानि भविष्यन्ति, नित्यानुवादत्वाच्चासत्यपि पक्षसंमाने वेदिसंमाने वैकादशिनीविधानार्थं वचनमुपपद्यत एवेति न दोषः । ण्Oट्Eष् *{२।४०३ E१,६॑ E२,४,५ सङ्कटमध्यवसातुम्}* ____________________________________________ विहितप्रतिषेधात्पक्षेऽतिरेकः स्यात् ॥ २,४ ।२६ ॥ अतिरात्रे गृह्णाति षोडशिनमिति विहितः षोडशी, नातिरात्रे गृह्णाति षोडशिनमिति प्रतिषिद्धः, तेन पक्षे द्वयोः स्तोत्रीययोरतिरेकः, पक्षे तिसॄणाम्, तस्माददोषः । कथं पुनरयं द्वयोस्तिसॄणां वातिरेकः? त्रिवृद्बहिष्पवमानम्, तत्तावन्नवकम् । पञ्चदशान्याज्यानि, तानि [२०६]{*२।४०४*} तावच्चत्वारि, तेन सा षष्टिः । पञ्चदशो माध्यंदिनः पवमानः, तया पञ्चदशसंख्यया सह, पूर्वया च नवसंख्यया चतुरशीतिः । सप्तदशानि पृष्ठानि चत्वारि, सप्तदश आर्भवः पवमानः, पञ्चसप्तदशकानि तानीति पञ्चाशीतिः । पूर्वया चतुर्शीत्या सहैकोनसप्ततिशतम् । एकविंशं यज्ञायज्ञियम्, तयैकविंशत्या सह तस्य नवतिशतं स्तोत्रिया{*२।४०५*} इति ब्राह्मणवादः । अग्निष्टोममात्रमभिप्रेत्योच्यते, सा विराट्संपूर्णा विराडिति दशकाख्याः{*२।४०६*}, त्रय एकविंशका उक्थपर्यायाः, सा त्रिषष्टिः । एकविंशः षोडशी, तयैकविंशत्या सह चतुरशीतिः । पञ्चदशका रात्रिपर्यायास्त्रयः, तत्रैकैकपर्यायः चतुःस्तोत्रः, तदशीतिशतं संपूर्णा विराट् । त्रिवृद्रथन्तरं पञ्चसाम, तन्नवकम्, ततश्चतुरशीतेरेकं नवकमागच्छति, तथा तिस्रः संस्तुतानां विराजमतिरिच्यन्ते, यदा षोडशी न गृह्यते, तदैकविंशत्या विना द्वे संस्तुतानां विराजमतिरिच्येते, एवमेककर्मत्वेऽपि लिङ्गमुपपद्यते । ण्Oट्Eष् *{२।४०४ E२ ३,२३४॑ E४ ३,५१७॑ E५ २,६२३॑ E६ १,२४१}* *{२।४०५ E२,४ स्तोत्रीया}* *{२।४०६ E२,४ दशकाख्या}* ____________________________________________ सारस्वते विप्रतिषेधाद्यदेति स्यात् ॥ २,४ ।२७ ॥ यदुक्तम् पुरोडाशिनां सान्नायिनां च सारस्वते दर्शनं भवतीति, ज्योतिष्टोमपूर्वकत्वात्सर्वकर्मणाम्, विप्रतिषिद्धमेतदिति, तेन यदा सान्नायिनः पुरोडाशिन{*२।४०७*} इति कल्प्यते । ण्Oट्Eष् *{२।४०७ E१,५॑ E२,४,६ ओम् । पुरोडाशिन}* ____________________________________________ उपहव्येऽप्रतिप्रसवः ॥ २,४ ।२८ ॥ अथं यदुक्तम् उपहव्ये बृहद्रथन्तरविधानं प्रकृतिप्राप्तमेव, एककर्मत्वे प्रतिप्रसवतयाप्यसंभवाद्विधीयमानमनर्थकं स्यादिति, तत्परिहर्तव्यम् । आभाषान्तं सूत्रम् । [२०७]{*२।४०८*} ण्Oट्Eष् *{२।४०८ E२ ३,२३५॑ E४ ३,५२१॑ E५ २,६२४॑ E६ १,१४२}* ____________________________________________ गुणार्था वा पुनःश्रुतिः ॥ २,४ ।२९ ॥ यदा रथन्तरसामा, तदाश्वः श्वेतो दक्षिणा, यदा बृहत्सामा तदा रुक्मललाट इति । ____________________________________________ प्रत्ययं चापि दर्शयति ॥ २,४ ।३० ॥ यदा न सर्वशाखाप्रत्ययमेकं कर्मेति, कथमेकस्यां शाखायां समाम्नायतेऽन्यस्यां गुणो विधीयते? यथा मैत्रायणीयानां समिदादयः प्रयाजा न समाम्नायन्ते, अथ च गुणाः श्रूयन्ते, ऋतवो वै प्रयाजाः समानीय होतव्या इति{*२।४०९*} । तथा येषां शाखिनां कुटरुरसीत्य्{*२।४१०*} अश्मादानमन्त्रो नाम्नातः, तेषामपि हि दृश्यते, कुक्कुटोऽसीत्यश्मानमुपपादत्ते, कुटरुरसीति वेति । तस्मादेकं कर्मेति प्रतीमः । ण्Oट्Eष् *{२।४०९ ंैत् ।ष् । १ ।४ ।१२, व्ग्ल् । श्ড়्Bर् । १ ।५ ।३१}* *{२।४१० ंैत् ।ष् । १ ।१ ।६}* ____________________________________________ अपि वा क्रमसंयोगाद्विधिपृथक्त्वमेकस्यां व्यवतिष्ठेत ॥ २,४ ।३१ ॥ यो ह्यन्यशाखावस्थितान् विधीनुपसंहरति, स स्वशाखाविहितं क्रममुपरुणद्धीति, तेन शाखान्तरेषु कर्मभेद इति । ____________________________________________ विरोधिना{*२।४११*} त्वसंयोगादैककर्म्ये तत्संयोगाद्विधीनां सर्वकर्मप्रत्ययः स्यात् ॥ २,४ ।३२ ॥ उच्यते नैष शाखान्तरविहितानामैककर्म्ये सति विरोधिना{*२।४१२*} संयोगः । न हि क्रमो वाक्येन विरुध्यते, दुर्बलो हि क्रमः, बलवद्वाक्यम्, वाक्येन च शाखान्तरीयाणामुपसंहारः । तस्मात्सर्वशाखाप्रत्ययं सर्वब्राह्मणप्रत्ययं चैकं कर्म चोद्यत इति सिद्धं भवति । ण्Oट्Eष् *{२।४११ E१,६॑ E२,४,५ विरोधिनां}* *{२।४१२ E१,६॑ E२,४,५ विरोधिनां}* ____________________________________________ ============================================================================ आध्याय ३ [२०८]{*३।१*} ण्Oट्Eष् *{३।१ E२ ४,१॑ E४ ३,५२५॑ E६ १,१४३ । E५ एन्थ्„ल्त्जेत्श्त्नुर्नोछ्दिए श्Bह्Zइतते देर्Bऋहती उन्द्ब्लेइब्त्दहेरुन्बेर्च्क्सिछ्तिग्त्}* ____________________________________________ अथातः शेषलक्षणम् ॥ ३,१ ।१ ॥ नानाकर्मलक्षणं वृत्तम्, अनन्तरं शेषलक्षणं वर्तयिष्यामः । कः शेषः? केन हेतुना शेषः? कथं च विनियुज्यते? इति, श्रुत्यादीनि च विनियोगे कारणानीति वक्ष्यते, तेषां च बलवदबलवत्ता, एतत्तात्पर्येणान्यदप्युपोद्धातादिना । ____________________________________________ शेषः परार्थत्वात् ॥ ३,१ ।२ ॥ इह सूत्रे शेषस्य लक्षणम्, येन च हेतुना शेष इत्युच्यते, तदुभयमाख्यायते । यः परस्योपकारे वर्तते, स शेष इत्युच्यते । तद्यथा, ये परार्थाः, ते वक्तारो भवन्ति शेषभूता वयमिहेति । ननु योऽपि प्रधानभूतः, सोऽपि कदाचित्परार्थे वर्तते, यथोपाध्यायः प्रधानभूतः शिष्याणां विद्याविनयाधाने वर्तते । सत्यं वर्तते । यस्त्वत्यन्तं परार्थः, तं वयं शेष इति ब्रूमः । यथा, गर्भदासः कर्मार्थ एव स्वामिनोऽनड्वांश्च क्रीयते, वक्ष्यतीत्येव । ननु गर्भदासस्यापि सवामी संविदधानो गुणभावमायात् । नेति ब्रूमः, आत्मन एवासौ संविदधानो गुणभावं गच्छति, नान्तरीयकत्वाद्गर्भ[२०९]{*३।२*}दासस्योपकरोति, अनडुहो वा । यस्त्वत्यन्तं परार्थः, तं वयं शेष इति ब्रूमः । अथ तत्र किं वृत्तम्? यैस्तु द्रव्यं चिकीर्ष्यते गुणस्तत्र प्रतीयेत{*३।३*} इति{*३।४*} । तत्रापूर्वार्थता व्यावर्तिता, दृष्टप्रयोजनानामाख्यातानाम् । इह तु सर्वेषामेव शेषाणां लक्षणमुच्यते । ण्Oट्Eष् *{३।२ E२ ४,१५॑ E४ ३,५३२॑ E६ १,१४३}* *{३।३ E२ प्रतीयते}* *{३।४ ंष्२ ।१ ।८}* ____________________________________________ द्रव्यगुणसंस्कारेषु वादरिः{*३।५*} ॥ ३,१ ।३ ॥ वादरिर्{*३।६*} आचार्योऽत्र द्रव्यगुणसंस्कारेष्वेव शेषशब्द इति मने{*३।७*}, न यागफलपुरुषेषु । द्रव्यं क्रियार्थम्, यदि प्रयोजनवती क्रिया, व्यक्तं सा द्रव्येण निर्वर्तयितव्या{*३।८*}, तस्या निर्वृत्तिर्द्रव्यादृते न भवतीति तन्निर्वृत्तये द्रव्यमेषितव्यं भवति । तस्मात्क्रियार्थं द्रव्यम् । गुणः शक्नोति विशिष्टं द्रव्यं चोदितं लक्षयितुम्, लक्षितेन च तेन प्रयोजनम्, विशिष्टस्य क्रियासाधनत्वात् । तस्मात्सोऽपि द्रव्यद्वारेण क्रियाया उपकरोतीति{*३।९*} क्रियार्थ एव । संस्कारो नाम स भवति, यस्मिन् जाते पदार्थो भवति योग्यः कस्यचिदर्थस्य, तेनापि क्रियायां कर्तव्यायां प्रयोजनमिति सोऽपि परार्थः । तस्माद्द्रव्यगुणसंस्काराः परार्थत्वाच्छेषभूताः । न तु यागफलपुरुषाः । यागस्तावत्कर्तव्यः पुरुषस्य । न हि, तस्मिन्निर्वर्तिते किंचिदपरमस्ति कर्तव्यम् । स हि पुरुषार्थः, यदन्यद्द्रव्यादि, तत्तदर्थं तस्य शेषभूतम् । स तु न किंचिदभिनिर्वर्तयितुं क्रियते । फलमपि न तेन क्रियते, तस्मिंस्तु कृते स्वयमेव तद्भवति । तस्मिन् कृते फलमस्य भवतीत्येतावद्गम्यते । नास्ति शब्दो यागेन क्रियते [२१०]{*३।१०*} फलमिति । तस्माद्यागो न शेषभूतः कस्यचिदर्थस्य । फलमपि न पुरुषं प्रत्युपदिश्यते । यः स्वर्गं कामयते, स यागं कुर्यादित्येतावच्छब्देनोदिश्यते, नात्मनः परस्य वेति । स्वर्गं प्रतीच्छामात्रेण स्वर्गकाम इति भवति । तस्मात्पुरुषं प्रति गुणभावेन न श्रूयते स्वर्गः । तस्मात्सोऽपि न शेषभूतः । न चेत्फलयागौ गुणभावेन चोद्येते, कस्य पुरुषः प्रधानभूतो भवति । प्रत्यक्षश्चास्य द्रव्यत्वात्कर्म प्रति गुणभावः । तस्माद्द्रव्यगुणसंस्कारेष्वेव शेषभावं वादरिर्{*३।११*} मेन इति । ण्Oट्Eष् *{३।५ E२,४,६ बादरिः}* *{३।६ E२,४,६ बादरिर्}* *{३।७ E२,४,६ मेने}* *{३।८ E२ निर्वर्तितव्या}* *{३।९ E२ ओम् । इति}* *{३।१० E२ ४,१७॑ E४ ३,५३९॑ E६ १,१४४}* *{३।११ E२,४,६ बादरिर्}* ____________________________________________ कर्माण्यपि जैमिनिः, फलार्थत्वात् ॥ ३,१ ।४ ॥ जैमिनिस्तु खल्वाचार्यः कर्माण्यपि शेषभूतानि मन्यते स्म, न वादरिर्{*३।१२*} इवावधारणामनुमेने । स हि ददर्श, न यागः कर्तव्यतया चोद्यते, फलकामस्य तु तत्साधनोपायत्वेनेति । एवं श्रुतोऽर्थः परिगृहीतो भविष्यति । अर्थवांश्चोपदेशः । एनमेवार्थं षष्ठेऽध्याये सूत्रैरेव साधयिष्यति । इह तु तत्सिद्धेनैव फलार्थत्वेन शेषभावं यागस्यापादयति स्म । तस्मादनवधारणा द्रव्यगुणसंकाराः शेषभूताः, यागोऽपि शेषभूतः फलं प्रतीति । ण्Oट्Eष् *{३।१२ E२,४,६ बादरिर्}* ____________________________________________ फलं च पुरुषार्थत्वात् ॥ ३,१ ।५ ॥ फलमपि पुरुषं प्रत्युपदिश्यते । यः स्वर्गो मे भवेदित्येवं कामयते, तस्य यागः । न यः स्वर्गः, स आत्मानं लभेतेति । कुतः । आत्मनेपदप्रयोगात्, कर्त्रभिप्राय एतद्भवति । क्रियाफलमनुभवेत्कथं पुरुष इति यागः प्रयुज्यते । तस्मात्फलं पुरुषार्थं यागाच्छ्रूयते, नात्मनिर्वृत्त्यर्थम् । तस्माच्छेषभूतमिति । [२११]{*३।१३*} ण्Oट्Eष् *{३।१३ E२ ४,१९॑ E४ ३,५४२॑ E६ १,१४४}* ____________________________________________ पुरुषश्च कर्मार्थत्वात् ॥ ३,१ ।६ ॥ पुरुषोऽप्यौदुम्बरीसंमानादिषु गुणभूतः श्रूयते । तस्मादनवधारणैषा, द्रव्यगुणसंस्कारेषु शेषत्वं वादरिर्{*३।१४*} मेन इति । अथेदानीमत्र भगवान् वृत्तिकारः परिनिश्चिकाय द्रव्यगुणसंस्कारेष्वेव नियतो यजिं प्रति शेषभावः, आपेक्षिक इतरेषाम् । यागस्य द्रव्यं प्रति प्रधानभावः, फलं प्रति गुणभावः, फलस्य यागं प्रति प्राधान्यम्, पुरुषं प्रति गुणता, पुरुषस्य फलं प्रति प्रधानता, औदुम्बरीसंमानादि प्रति गुणत्वम् । तस्मात्संमतावधारणा, द्रव्यगुणसंस्कारा यागं प्रति नियोगतो गुणभूतैवेति । ण्Oट्Eष् *{३।१४ E२,४,६ बादरिर्}* ____________________________________________ तेषामर्थेन संबन्धः ॥ ३,१ ।७ ॥ स्तो दर्शपूर्णमासौ, दर्शपूर्णमासाभ्यां स्वर्गकामो यजेतेति । तत्र श्रूयन्ते धर्माः, निर्वपणम्, प्रोक्षणम्, अवहननमित्येवमादय औषधधर्माः । तथा, उत्पवनविलापनयहणासादनादय{*३।१५*} आज्यधर्माः । तथा, शाखाहरणम्, गवां प्रस्थापनम्, गवां प्रस्तावनम्{*३।१६*} इत्येवमादयोऽपि सान्ताय्यस्य{*३।१७*} । तेषु संदेहः किं सर्वे, औषधे आज्ये सान्नाय्ये च कर्तव्याः, उत ये यत्र क्रियमाणा अर्थवन्तः, ते तत्र कर्तव्या इति । ननु संयुक्ता एव{*३।१८*} श्रूयन्ते, यथा, व्रीहीनवहन्ति, तण्डुलान् पिनष्टीति । बाढं संयुक्ताः, अवघातादयस्तु पदार्था विधीयन्ते श्रुत्या, वाक्येनैषां व्रीह्यादिसंयोगः । अतोऽस्ति संशयः । [२१२]{*३।१९*} किं तावत्प्राप्तम्? तेषामर्थेन संबन्धः । अर्थेन प्रयोजनेन, ये यत्र क्रियमाणाः प्रयोजनवन्तः, ते तत्र कर्तव्याः । प्रथनादय आज्यसान्ताय्ययोर्{*३।२०*} अनुपकारका इति न तत्र करणीयाः । एवमुत्पवनादय औषधसान्नाय्ययोः, शाखाहरणादय आज्यौषधयोः । ननु श्रूयन्ते सर्वे सर्वत्र । एतदेव न जानीमः, श्रूयन्ते न श्रूयन्त इति, तद्विचारायितव्यम् । यद्यपि श्रूयरन्{*३।२१*}, तथाप्यनुपकारकत्वान्नैव कर्तव्या भवेयुः । ण्Oट्Eष् *{३।१५ E२,४,६ ग्रहणासादनादय}* *{३।१६ E२,४ प्रस्नावनम्}* *{३।१७ E२ सांनाय्यस्य, E४ सानाय्यस्य, E६ सान्नाय्यस्य}* *{३।१८ E२,४ एवैते, E६ एवम्}* *{३।१९ E२ ४,२४॑ E४ ३,५४५॑ E६ १,१४५}* *{३।२० E२,४ आज्यसांनाय्ययोर्, E६ आज्यसान्नाय्ययोर्}* *{३।२१ E२,४,६ श्रूयेरंस्}* ____________________________________________ विहितस्तु सर्वधर्मः स्यात्संयोगतोऽविशेषात्प्रकरणाविशेषाच्च ॥ ३,१ ।८ ॥ उच्यते योऽर्थात्प्राप्तः स्यात्, स यत्र प्रयोजनं तत्रैव क्रियेत । शब्देन तु सर्वेऽमी पदार्था विहिताः, तेन न, यत्र केवलं प्रयोजनं प्रत्यक्षं दृश्यते, तत्रैव कर्तव्याह् । क्व तर्हि? यत्र यत्र विहिताः, ते चामी सर्वत्र विहिताः गम्यन्ते । कुतः? संयोगतोऽविशेषात्प्रकरणाविशेषाच्च । सर्वेषां तावदाज्यौषधसान्नाय्यानामपूर्वेण साध्यसाधनसंयोगोऽविशिष्टः, यत्र क्रियमाणा अपूर्वस्य कृता भवतीति विज्ञायते । तथा प्रकरणमविशिष्टम्, यस्मिन् विहिताः सर्वेषां विहिता भवन्तीति गम्यते । अतः सर्वे सर्वत्र कर्तव्याः, यत्त्वमी न सर्वत्रोपकुर्वन्तीति, विधानसामर्थ्यात्सर्वत्रोपकारका इति गम्यते । स चायमदृष्ट उपकारो भविष्यति । ____________________________________________ अर्थलोपादकर्म स्यात् ॥ ३,१ ।९ ॥ नैतत्, सर्वे सर्वत्र करणीया इति, ये यत्र नोपकुर्वन्ति, न ते तत्र क्रियामर्हन्तीत्युक्तमेव । ननु विधानसामर्थ्यात्सर्वे सर्वत्रोप्करिष्यन्ति । नेति ब्रूमः । [२१३]{*३।२२*} ण्Oट्Eष् *{३।२२ E२ ४,२७॑ E४ ३,५५०॑ E६ १,१४६}* ____________________________________________ फलं तु सह चेष्टया शब्दार्थोऽभावाद्विप्रयोगे स्यात् ॥ ३,१ ।१० ॥ नास्ति विधानम्, येन सर्वे सर्वत्रोपकुर्वन्ति । न च प्रत्यक्षादिभिरुपकारमवगच्छामः । अर्थापत्तिरपि नियोगतस्तत्रैव भवेत्, यत्रैव शबेन चोदना भवति, नान्यथा । यदि च प्रथनादीनामाज्यसान्नाय्ययोरनुपकुर्वतामपि तत्प्रकरणे समाम्नायोऽनुपपन्नो भवेत्, ततोऽर्थाददृष्ट उपकारः कल्प्येत, ते त्ववश्यं समाम्नानीया औषधार्थम् । फलं हि सह चेष्टयावहननादिकयावगम्यते तुषविमोचनादि, प्रयोजनं च तेन, न तस्मादृते पुरोडाशः सिध्यति, सति चास्मिन्नर्थवान् प्रकरणे समाम्नायः । अर्थवति च तस्मिन्नादृष्टकल्पनायां प्रमाणमस्तीत्यतो न शक्यं कल्पयितुम् । यदि च तत्र तण्डुलादिनिष्पादनं दृष्टं नाभविष्यत्, ततो विप्रयोगे तण्डुलादीनामभावादुपकारस्य शब्दार्थमात्रं दृष्टोपकारानपेक्षं कर्तव्यमित्याज्यसान्नाय्ययोरपि क्रियमाणानामदृष्टमभविष्यत् । तस्मान्न प्रथनादयः सर्वत्र । एवमुत्पवनादयः शाखाहरणादयश्च । तस्मान्न, सर्वे सर्व्त्र कर्तव्याः, प्रथनादयो नाज्यसान्नायय्योः, औषधे एव ते, उत्पवनादय आज्यस्य, नौषधसान्नाय्ययोः, शाखाहरणादयश्च सान्नाय्यस्य, नाज्यौषधयोरिति सिद्धम् । ____________________________________________ द्रव्यं चोत्पत्तिसंयोगात्तदर्थम्{*३।२३*} एव चोद्येत ॥ ३,१ ।११ ॥ स्तो दर्शपूर्णमासौ, तत्र समामनन्ति स्फ्यश्च कपालानि च [२१४]{*३।२४*} अग्निहोत्रहवणी च शूर्पं च कृष्णाजिनं च शम्या चोलूखलं च मुसलं च दृष्टच्चोपला चैतानि वै दश यज्ञायुधानीति{*३।२५*} । तत्र संदिह्यते किं यो य इह शक्यत एभिः कर्तुम्, तस्मै तस्मै पदार्थायैतानि समाम्नातानि, उत यद्येन संयुक्तम्, तस्मा एवेति । किं तावत्प्राप्तम्? यद्येन शक्यमिति । कुतः? एवं विधयो भविष्यन्ति तथार्थन्वतः{*३।२६*}, इतरथा तेऽनुवादा निष्प्रयोजनाः, प्रकरणाविशेषश्च सर्वपदार्थान् प्रति, यज्ञायुधानीति च यज्ञसंयोगोऽविशिष्टः । तस्मात्सर्वे सर्वत्रेत्येवं प्राप्तम् । एवं प्राप्ते ब्रूमः द्रव्यं चोत्पत्तिसंयोगात्तदर्थमेव चोद्येत, यो येन पदार्थेन सहोत्पत्तिवाक्येन संयुक्तः स पदार्थः तेनैव कर्तव्यः, यथा स्फ्येनोद्धन्तीत्युद्धनार्थता स्फ्यस्य वाक्येन, तदुद्धणनं न स्फ्यादन्येन कर्तव्यम् । यदा चैवम्, तदा प्राप्त एव स्फ्यः, तस्यायमनुवादो भवितुमर्हति, एतानि वै दशयज्ञायुधानीति । एवमेकैस्यानुवादः, तेन तेन वचनेन प्राप्तस्य । यथा कपालेषु श्रपयति, अग्निहोत्रहवण्या हवींषि निर्वपति, शूर्पेण विविनक्ति, कृष्णाजिनमधस्तादुलूखलस्यावस्तृणाति, शम्यायां{*३।२७*} दृषद्य्{*३।२८*} उपदधाति, उलूखलमुसलाभ्यामवहन्ति, दृषदुपलाभ्यां पिनष्टीति । प्रकरणात्सर्वाणि सर्वत्र प्राप्नुयुः, वचनात्तु यथावचनम्, यज्ञायुधशब्दोऽपि सामान्येन प्रयोजनं विदधत्तद्वाध्येतैव{*३।२९*}, परोक्षं हि सामान्यवचनेन विशेषविधानं भवति, प्रत्यक्षं तु विशेषवचनेन विशेषविधानम् । तस्माद्यद्येनोत्पत्त्या संयुक्तम्, तत्तत्रैव विनियुज्यत इति सिद्धम् । [२१५]{*३।३०*} ण्Oट्Eष् *{३।२३ E२ अर्थम्}* *{३।२४ E२ ४,३०॑ E४ ३,५५३॑ E६ १,१४७}* *{३।२५ टैत् । ष् । १ ।६ ।८ ।३}* *{३।२६ E२ यथार्थन्वतः}* *{३।२७ E१,६॑ E१ (व् ।ल् ।), E२,४ शम्यायां}* *{३।२८ E१,६॑ E२,४ दृषदम्, E४ (व् ।ल् ।) दृषद्}* *{३।२९ E२,४,६ बाध्येतैव}* *{३।३० E२ ४,३३॑ E४ ३,५५६॑ E६ १,१४७}* ____________________________________________ अर्थैकत्वे द्रव्यगुणयोरैककर्म्यान्नियमः स्यात् ॥ ३,१ ।१२ ॥ ज्योतिष्टोमे क्रयं प्रकृत्य श्रूयते अरुणया पिङ्गाक्ष्यैकहायन्या{*३।३१*} सोमं क्रीणातीति{*३।३२*} । तत्र संदेहः किमरुणिमा कृत्स्नप्रकरणे निविशेते, उत क्रय एवैकहायन्यामिति । कथं पुनः अरुणया क्रीणातीत्येवं विस्पष्टे क्रयसंबन्धे गम्यमाने संशय इति । उच्यते इह हि गुणमरुणिमानममूर्तं सन्तं क्रियायाः करणमिति शब्द उपदिशति, यत्करणाभिधायिन्या तृतीयाविभक्त्या संयुज्य निर्दिशति अरुणयेति, न चामूर्तोऽर्थः क्रियायाः साधनं भवितुमर्हति, अतोऽसंबन्धं क्रीणातिनारुणगुणस्यावगच्छामः । न चाशङ्कनीयमर्थं प्रमाणभूतः शब्दोऽभिधास्यतीत्येवं प्रकल्पना कदाचिदुपपद्येतापि । केनचित्प्रकारेण संबन्ध इति वचनप्रामाण्यप्रकारान्वेषणे बुद्धिर्भवति, तद्यदि परम्, विचारयन्तः क्रियासंबन्धसामर्थ्यमवगमिष्यामः, एकवाक्यतया क्रय एवारुणिमानं निवेशयिष्यामः । अथ त्वप्रमाद्यद्भिरन्विष्यमाणो न कथंचन संबन्ध उपपत्स्यते, ततो वाक्यभेदमभ्युपगम्य प्रकरणधर्ममेनमध्यवसास्यामः{*३।३३*} । तस्मादवश्यं विचारणीयमेतदिति । किं तावत्प्राप्तम्? कृत्स्ने प्रकरणे निवेशः । कस्मात्? संयोगतोऽविशेषात्, प्रकरणाविशेषाच्च । ननु प्रकरणाद्वाक्यं बलीयो भवतीत्येकवाक्यत्वादरुणिमा क्रयेण संभन्त्स्यत इति । नैतदेवमवगम्यते, न हि वचनशतेनाप्यनार[२१३]{*३।३४*}भ्योऽर्थः शक्यो विधातुम्, यो हि ब्रूयात् उदकेन दग्धव्यमग्निना क्लेदयितव्यमिति, किं स वचनप्रयोजनसामञ्जस्यमश्नुवीत? न चामूर्तोऽर्थः क्रियायाः साधनमुपपद्यते । तस्मादरुणया क्रीणातीति संबन्धाभावादेकवाक्यता न भवतीति । ननु नैवायं गुणवचनः, किं तर्हि द्रव्यवचनः । कुतः? स्त्रीलिङ्गसंबन्धात् । द्रव्यविशेषा ह्येते स्त्री पुमान्नपुंसकमिति, स्त्रीयां यत्प्रातिपदिकं वर्तते, तस्मात्स्त्रीप्रत्ययो भवतीति, स्त्रीप्रत्ययं चारुणयेत्युपलभामहे । तस्माद्द्रव्यवचनः, अरुणशब्द{*३।३५*} इति । तदेतदपेशलम्, तदेव हि द्रव्यमरुणिम्ना परिछिद्यमानमरुणशब्दाभिधानीयतां{*३।३६*} लभते, तदेवान्यगुणकं नारुणशब्दः{*३।३७*} शक्नोत्यभिवदितुम्, अरुणिमानमेष शब्दो न व्यभिचरति, व्यभिचरति पुनर्द्रव्यम्, अव्यभिचारि च कारणं कारणवतामिष्टम् । अतोऽस्य गुणः स्वार्थ इति गम्यते, तदस्य प्रत्यक्षतो गुणवचनता गम्यते, स्त्रीप्रत्ययदर्शनात्तु नूनमरुणाप्रातिपदिकं द्रव्यवचनमित्यनुमानम् । प्रत्यक्षं चानुमानाद्बलीयः, तस्माद्गुणवचनः । कथं तर्हि स्त्रीप्रत्ययसंबन्धः? भवति हि गुणवचनस्यापि स्त्रीलिङ्गता, यथा चारुणा{*३।३८*} बुद्धिः, एवमरुणेति । गुणवचनश्चेत्क्रीणातिना न संबध्यते । तस्माद्वाक्यभेदं कृत्वा प्रकरणे सर्वस्मिन्नेव संनिवेश इति । अथ यदि क्रीणातिना न संबध्यते, तस्मिनेव वाक्ये एकहायनीशब्देन संभन्त्स्यते, न भविष्यति वाक्यभेद इति । तन्न, केवलं हि गुणमरुणशाब्दो{*३।३९*}ऽभिदधाति, न द्रव्यगुणौ । केवलं च द्रव्यमेकहायनीशब्दः, न गुणसहितमिति तयोः संबन्धस्य वाचिकां षष्ठीमन्तरेण कथं संबन्धो गम्यते? आह अन्तरेणापि षष्ठीम्, एकविभक्तिनिर्देशात्सामानाधिकरण्यम् [२१७]{*३।४०*} अवगमिष्यामः, यथा नीलमुत्पलमिति । तदनुपपन्नम्, रूपादरुणशब्दस्य{*३।४१*} गुणवचनता, कल्पनीयं त्वेकविभक्तिसंयोगादेकहायनीशब्दसंनिधानाच्च तदेकवाक्यतामभ्युपगम्यैकहायनीशब्दसामानाधिकरण्यम्, न च लिङ्गाद्वाक्यं बलीयः । तस्मादसदेतत् । तत्रोच्यते यदा केवलगुणवचनतायां शब्दः प्रवर्तमानो नान्येन संबन्धं लभते, तदानुपदेशकत्वादानर्थक्यं मा भूदिति द्रव्यपरतामापद्यते, तस्यामवस्थायामेकविभक्तियुक्तेनैकहायनीशब्देन संनिहितेनैकवाक्यतामापद्यमानः समानाधिकरणो भवति, तथा च कृत्वा, नीलमुत्पलमित्युपपद्यते । स चायमरुणाशब्दस्तस्यामवस्थायां वर्तते, न ह्यस्य स्वार्थमभिदधत इतो विच्छिन्नस्य प्रकरणेऽप्यर्थवत्ता । कुतः? येनैव हेतुना संबध्यते{*३।४२*} क्रीणातिना न, नामूर्तो{*३।४३*}ऽर्थः क्रियायाः साधनं भवतीति । न च क्रियासाधनैर्द्रव्यैः, न हि केवलगुणवचनः शक्नोति द्रव्यमभिधातुमिति स एव हेतुः प्रकरणसंबन्धाभावेऽपि, तत्रापि संबध्यमानः क्रियाभिर्वा संबध्येत, तत्साधनैर्वा द्रव्यैः, तच्चोभयमप्यनुपपन्नम् । अतोऽनर्थकत्वपरिजिहीर्षया संनिहितेनैकहायनीशब्देनारुणाशब्दः संबध्यते । नास्ति वाक्यभेदः । नैतदेवम्, न ह्ययमरुणाशब्द एकहायनीविशेषणं भवितुमर्हति । किं कारणम्? करणविभक्त्या तृतीयया समुच्चरितोऽयम्, तेनैतेन तृतीयाश्रुतिसामर्थ्यात्क्रियाविशेषणेन भवितव्यम्, कारकाणां हि क्रियया संबन्धो न द्रव्येणेति । स एष श्रुतिसामर्थ्यात्क्रियाविशेषणम्, एकवाक्यत्वाद्{*३।४४*} एकहायनीविशेषणम् । श्रुतिश्च वाक्याद्बलीयसी, तस्मान्नास्यैकहायनीसंबन्ध इति । ननु च गुणस्य क्रियासंबन्धाभावादविवक्षिता कारक[२१८]{*३।४५*}शक्तिर्{*३।४६*} इत्येकहायनीसंबन्धोऽयमध्यवसितः । एवमपि नोपपद्यते, यदि कारकाभिधानमविवक्षितमिति गुणशब्देनैतेन द्रव्यमभिधातुमिष्यते, तदा प्रातिपदिकार्थस्याव्यतिरेक इति प्रथमा विभक्तिः प्राप्नोति । न हि तृतीयान्तस्तमभिसंबन्धं शक्नोति वक्तुम्, न चान्यथानुपपत्तिरित्यन्योऽस्यानुपपद्यमानोऽर्थः शक्यते कल्पयितुम्, यथाग्नौ तिष्ठति माणवक इत्युक्ते ज्वलनेऽनुपपद्यमानो नाश्वे गवि वा कल्प्यते, अग्निसमीपवचन एवाध्यवसीयते । तद्वदिहाप्यप्रथमान्तः शब्दो न कथंचिदप्यव्यतिरिक्ते प्रातिपदिकार्थे भवितुमर्हतीति । तस्मात्काममनर्थकोऽवगम्यतां नास्यैकहायनीसंबन्धोऽध्यवसातव्यः । आह न ब्रूमः, न कारकमरुणाशब्देनाभिधीयत इति, व्यक्तमरुणगुणविशिष्टमेतेन कारकमभिधीयते । कदाचित्तु किंचिद्विधित्सितं भवति, कदाचिदुपसर्जनीभूतोऽर्थो विधित्सितः, प्रधानीभूतोऽनुवादः । तद्यथा, दण्डीत्युपसर्जनीभूतदण्डकपुरुषप्रधानकः शब्दोऽवगम्यते, कदाचित्तु निर्ज्ञाते पुरुषे दण्डगुणविधानार्थमुच्चार्यते दण्डी प्रैषानन्वाहेति । तथा{*३।४७*} लोहितेष्णीषा ऋत्विजः प्रचरन्तीति । एवमिहापि यद्यनुपसर्जनभूतो{*३।४८*}ऽरुणो गुणः, प्रधानभूतं कारकम् । तथाप्यनूदिते कारकेऽरुणगुणविधानार्थं वचनं युज्यते । तस्मादेकहायनीसंबन्ध उपपद्यते, नास्ति वाक्यभेद इति । नैतत्सारम्, अत्र ह्येकहायनीक्रीणात्योरनवबुद्धं संबन्धं बोधयितुमयमेकहायनीशब्द उच्चरितः, स एष कथमिवारुणाशबेन संबध्य्ते, तदेतदभिहितमपि पुनः पुनः पर्यनुयुज्ज्यते । [२१९]{*३।४९*} कथं पुनरेकहायनीशब्दस्य क्रीणातिना, अरुणगुणेन च समाने समभिव्याहारे क्रीणातिना संबन्धोऽभ्युपगमनीयः, न पुनरारुण्येनेति । शब्दप्रामाण्यात्, भवति हि क्रियासंबन्धस्य वाचिका विभक्तिरेकहायनीशब्दमनुनिविष्टा, न तु गुणसंबन्धस्य वाचिका । का पुनः क्रियासंबन्धस्य वाचिका, का वा गुणसंबन्धस्येति । कारकलक्षणा क्रियासंबन्धे विवक्षिते भवति द्वितीयादिः, अविवक्षिते पुनः कारके, संबन्धमात्रविवक्षायां षष्ठी । न चात्र षष्टीं पश्यामः, पश्यामस्तु खलु तृतीयाम् । अतः क्रीणातिना संबन्धमभ्युपगच्छाम एकहायनीशब्दस्य, नारुणाशब्देनेति । कथं तर्हि भवत्यत्र संबन्धः, नीलमुतपलमिति । उच्यते भवति, न तु श्रुतिलक्षणः, किं तु वाक्यलक्षणः, उत्पलशब्दसंनिधाने तदपेक्षी नीलशब्दस्तेनैकवाक्यतामभ्युपगच्छन्नाजहत्स्वार्थवृत्तिरुपलविशेषाभिधानपर उच्चार्यमाणः संबन्धमभ्युपैति । नन्विहापि वाक्यलक्षणस्तद्वदेवारुणिम्ना समं संबन्ध एकहायन्या युज्यते । नेति ब्रूमः, श्रुतिर्हि वाक्याद्बलीयसी, श्रुतिश्चास्याः क्रियासंबन्धमाह, न गुणसंबन्धम् । यदि पुनः श्रुतिसामर्थ्यात्, क्रियासंबन्धोऽभ्युपगम्येत, एकवाक्यतवदपि गुणसंबन्धः । नैवं शक्यम्, यो ह्यन्येन सह संबन्धुमुच्चार्यते, न तत्समीपगतोऽप्यन्यस्तेन सह संबन्द्धुमर्हति । यथा भार्या राज्ञः, पुरुषो{*३।५०*} देवदत्तस्येति भार्याविशेषणार्थमुच्चार्यमाणो राजशब्दो न पुरुषेण संबध्यते, तद्वदिह क्रयाविशेषणार्थमुच्चार्यमाण एकहायनीशब्दो नारुणाशब्देन संबन्धमर्हति । आह सत्यमेवमेतत्, असत्यामाकाङ्क्षायामानन्तर्यमकारणम्, सर्वत्र तु बोधिते पदार्थे वाक्यार्थ उपपद्यते, नान्यथा, सामान्यवृत्ति हि पदम्, विशेषवृत्ति वाक्यम्, सामान्येनाभिप्रवृत्तानां [२२०]{*३।५१*} पदार्थानां यद्विशेषेऽवस्थानम्, स वाक्यार्थः, तदेतदुक्तम् तद्भूतानां क्रियार्थेन समाम्नायोऽर्थस्य तन्निमित्तत्वादिति{*३।५२*}, तत्र प्रत्यक्षतः{*३।५३*} पदार्थः, वाक्यार्थः पुनरानुमानिकः, तदेतदवगम्यताम्, केवलस्वार्थवृत्ति पदमनुपदेशकमिति पदान्तरेण संनिहितेनैकवाक्यत्वमभ्युपैति, नान्यथेति । तदिह यद्यप्येकहायनीशब्दः क्रीणातिना संबन्ध्यमानः कृतार्थो न पदान्तरेण संबन्धमाकाङ्क्षति, अरुणाशब्दस्तु पदान्तरेण संबन्धमलभमानोऽनर्थक इत्येकहायनीशब्देनैकवाक्यतामभ्युपैति । ननूक्तम् क्रियासंबन्धार्थः, नारुणासंबन्धार्थ इति । आह अरुणाशब्दस्यानर्थक्यपरिहारायोभयसंबन्धार्थ इति वदामः, अन्यार्थमपि कृतमन्यार्थमपि शक्नोति कर्तुम्, तद्यथा शाल्यर्थं कुल्याः प्रणीयन्ते, ताभ्यश्च पानीयं पीयत उपस्पृश्यते च । एवमिहापि क्रयसंबन्धार्थमेकहायनीशब्द उच्चार्यमाणोऽरुणाशब्देन सह संभन्त्यते, न किंचिद्दुष्यति । तस्मान्न वाक्यभेद इति । नैतदस्ति, यद्यप्ययमरुणाशब्दो ऽनर्थको मा भूदित्येकहायन्या संबध्येत, तथापि सर्वस्मिन् प्रकरणे निवेष्टुमर्हति । न चैनं सोमं क्रीणातीत्येष शब्दः शक्नोति विशेष्टुम् । न ह्ययं विशेषणत्वेनोचार्यते, किं तर्हि अपूर्वोऽयं विधीयते । नन्वपूर्वोऽपि विधीयमान एकहायनीशब्दवदितरेण संभन्त्स्यते । कथम्? प्रयोजनाय ह्युच्चार्यमाणः शब्दो येनार्थः, तस्मै तावत्प्रयोजनायावकल्प्यते, संनिहित्श्च बुद्धौ भवति, तेन बुद्धौ संनिहितेन शक्यते साकाङ्क्षः शब्दः संबन्धयितुमिति । नैतदेवम्, यो ह्यसंबध्यमानोऽनर्थको भवति, स संबध्यते नान्यः । कुत एतत्? संबध्यमाने हि सामान्यं विशेषेऽवस्थाप्येत, तत्र वाक्येन श्रुतिः पीडिता स्यात् । न चायम् [२२१]{*३।५४*} असंबध्यमानः क्रीणातिनानर्थको भवति, प्रकरणगताभिः{*३।५५*} एकहायनीभिर्{*३।५६*} अभिसंभन्त्स्यते । नन्वेतदुक्तम् प्रकरणेऽप्यस्य संबन्धोऽनुपपन्न इति । नानुपपन्नः, एकस्मिन् वाक्येऽन्योऽर्थो विधीयमानो नान्येन संबध्यते, वचनव्यक्तिभेदात्, अन्या हि वचनव्यक्तिर्विधीयमानस्य, अन्या गुणेन संबध्यमानस्य । अज्ञातवज्ज्ञाप्यते विधीयमानोऽर्थः, ज्ञातवदनूद्यते गुणसंबन्धार्थम्, न च सकृदुच्चार्यमाणो ज्ञातवदज्ञातवच्च भवितुमर्हति, एकहायनीशब्दः क्रये विधीयमानोऽज्ञातवत्स्यात्, अरुणाशब्देन संबध्यमानश्च ज्ञतवत् । वाक्यभेदे पुनर्न दोषो भवति, प्रकरणे तु वाक्यान्तरैः क्रियाद्रव्यान्तराणी च प्राप्तानि । तैरिदं वाक्यान्तरविहितं संबध्यते, तत्रान्यस्मिन् विधीयते, अन्यस्मिन् वाक्येऽनूद्यत इत्युपपन्नं भवति । तस्मात्संयोगतोऽविशेषात्प्रकरणाविशेषाच्च{*३।५७*} सर्वस्मिन् प्रकरणे द्रव्येषु निवेश इति । एवं प्राप्ते ब्रूमः अर्थैकत्वे द्रव्यगुणयोरैककर्म्यान्नियमः स्यादिति, यत्रार्थैकत्वं श्रूयते द्रव्यगुणयोः, तत्र द्रव्यगुणावेकस्मिन् पदार्थे नियम्येयाताम् । कुतः? ऐककर्म्यादेककार्यत्वात्, एकं हि कार्यं द्रव्यगुणयोः श्रूयते क्रयसंबन्धः । कथमेतदवगम्यते? एकवाक्यत्वात् । कथमेकवाक्यत्वम्? अरुणया पिङ्गाक्ष्यैकहायन्येत्यपर्यवसितोऽर्थः साकाङ्क्षत्वादभिधातृप्रतिपत्रोः, सोमं क्रीणातीति तु पर्यवस्यति, तयोरेवं नैरुत्सुक्यात् । यद्येककार्यता किमिति विकल्पो न भवति? नैतद्{*३।५८*} एवम् । एकार्थास्तु विकल्पेरन्निति विकल्पधर्माणौ प्राप्नुत इत्ययुक्तोऽयं पर्यनुयोगः । कथम्? पर्यनुयोगो नाम स भवति, यः स्वपक्षं साधयति, विपक्षस्य च प्रतीपमाचरति, न च [२२२]{*३।५९*} विकल्पोऽस्मत्पक्षस्य प्रतीपमाचरति, क्रयेणारुणिमासंबन्ध{*३।६०*} इत्येष नः पक्षः । न च विकल्पो नानाकार्यत्वात् । नन्विदानीमेवोक्तम् एकं कार्यमिति, तच्चापि विरुद्धम्, एवं हि पूर्वमभिहितम्, अमूर्तत्वाद्गुणो न क्रियया संबध्यत इति, इदानीं विपरीतमभिधीयते उभावपि द्रव्यगुणावेकार्थौ क्रयमभिनिर्वर्तयत इति । उच्यते, नैतद्विरुद्धम्, न च विकल्पः, एकं कार्यम्, सामर्थ्यभेदस्तु, साक्षाद्धि द्रव्यं क्रियां प्रत्युपकरोति । गुणस्तु विशिष्टानां साधनम् । यद्येवम्, न तर्हि गुणः क्रियामभिनिर्वर्तयति, साधनस्यासौ विशेषक इति । नैतदेवम्, गुणस्य क्रियामभिनिर्वर्तयत एतदेव सामर्थ्यम्, यत्साधनं विशिष्यात् । आकाङ्क्षति च क्रिया साधनविशेषणम्, चिह्नभूतो हि गुणः साधनं लक्षयति । असति चिह्ने न लक्ष्येत, कतमत्साधनं क्रियाया इति । ततः क्रिया नाध्यवस्येम कर्तुमिति भवति क्रियासाधनं गुनः । न चैव सति विकल्पो भवति, यथाधिकरणस्य कर्त्रादीनां च, अधिकरणं हि कर्त्रादीनि धारयति, तान्यधार्यमाणानि न शक्नुवन्ति क्रियामभिनिर्वर्तयितुम्, तथा{*३।६१*} कर्ता करणादीनि समाधत्ते, तान्यसमाहितानि न शक्नुवन्ति स्वं स्वमर्थमभिनिर्वर्तयितुम् । यस्मिंस्तु साधनोपकारे कार्ये तस्मिन्नेवोपकारेऽन्यत्साधनं विधीयते, तत्र विकल्पः, यथा व्रीहिमिर्यजेत, यवैर्यजेतेति, उभयेऽपि तण्डुलनिर्वृत्यर्थाः । एवं तर्हि तदेवेदं संजातं भवति, एकहायनीविधनम्, तद्विशेषणं चारुणो गुणः, तत्र स एव दोषो वाक्यभेदः प्रसज्ज्येतेति । न ब्रूमः अरुणाशब्द एकहायनीशब्देन संबध्यत इति, किं तर्हि क्रीणातिनैव संबध्यते । एवं हि श्रूयतेऽरुणगुणेन क्रयमभिनिर्वर्तयेदिति, यथा च तेन निर्वर्त्यते, तथा यतितव्य भवति । न चाविशिंषन् साधनम्, गुणः क्रिया[२२३]{*३।६२*}मभिनिवर्तयतीत्यर्थात्साधनविशेषणतां प्रतिपद्यते, यथा स्थाल्यां पचेदिति क्रियासाधनत्वेन निर्दिष्टेऽर्थात्संभवने धारणे च स्यालीं{*३।६३*} व्यापारयति तद्वदिहापि द्रष्टव्यम् । तस्मान्नास्ति वाक्यभेदप्रसङ्ग इति । नन्वेवमपि वाक्यं भिद्येत । कथम्? प्रत्येकं वाक्यपरिसमाप्तिर्दृष्टेति, यथा देवदत्तयज्ञदत्तविष्णुमित्रा भोज्यन्तामिति प्रत्येकं भुजिः समाप्यते, यथा च यस्य पिता पितामहः सोमं न पिवेदिति । एवमिहाप्यरुणया क्रीणाति, एकहायन्या क्रीणातीति । नैतदस्मत्पक्षस्य बाधकम्, एवमपि क्रय एवारुणिमा निवेक्ष्यति, न सर्वस्मिन् प्रकरण इति । सत्यमेष दोषो न भवति, किं त्वनरुणयाप्येकहायन्या क्रयः प्राप्नोति, अरुणया चानेकहायन्या, तत्र यदुक्तं द्रव्यगुणयोर्नियम इति, सा प्रतिज्ञा हीयते । न तर्हि ब्रूमः वाक्यभेद इति । कथम्? क्रयस्य हि द्रव्यारुणिमानावुपदिश्येते, न क्रयस्तयोः । न च, प्रधानं प्रतिगुणं भिद्यते, प्रतिप्रधानं हि गुणो भिद्यत इति, अस्ति चायं दृष्टान्तः समुदाये वाक्यपरिसमाप्तिरिति, यथा गर्गाः शतं दण्ड्यन्तामिति, तथा अभिषुत्य हुत्वा भक्षायन्तीति । तस्मादुभयविशेषणविशिष्टः क्रयो विधीयते । कथं पुनस्तस्मिंश्चेतरिंश्च दृष्टान्ते सत्येकान्तेनावधार्यते, समुदाय एव वाक्यपरिसमाप्तिर्न प्रत्यवयवमिति । अत्र ब्रूमः इह द्रव्यारुणिमानावुभावपि क्रियासंबद्धावुपलभ्येते परस्परेणासंबद्धौ, क्रयोऽपि द्रव्यारुणिमाभ्यां विशिष्ट उपलभ्यते नान्ययतरेण, तत्र यदि द्रव्यपरमरुणिमपरं च भवति वचनमिदम्, ततः प्रत्यवयवमसंशयं क्रयसंबन्धः । अथ क्रयविधित्सयाभिधीयते, ततो यथैवायमेकहायनीवि[२२४]{*३।६४*}शिष्टः, एवमरुणिमविशिष्ट इति नियमत उभयसंबन्धोऽभ्युपगमनीयः । न चात्र द्रव्यारुणिमानावीप्सितौ, ईप्सितस्तु क्रयः, तेन हि ज्योतिष्टोमद्रव्यं सोमः परिप्राप्यते, द्रव्यारुणिमानौ क्रयार्थौ सन्तावीप्सितौ स्याताम्, नान्यथा । तस्मात्क्रयो विधीयते, स च नान्यतरविशिष्टः प्रतीयत इति समुदाये वाक्यपरिसमाप्तिरिह निश्चीयते । यदा चैवम्, तदा न, एकहायनीं मुक्त्वान्यद्द्रव्यं क्रयसाधनमस्ति, न चारुणादन्यः साधनस्य विशेषको गुण इति, नियमः सिद्धो भवति । अत्र वदामः यदि क्रयस्य साधने गुणोऽभिसंबन्धुमुपैति, तदा वाक्ये भिन्नेऽपि क्रयसाधनत्वादरुणिमास्मिन् द्रव्ये न निवेक्ष्यते, किमर्थमेकवाक्यता प्रयत्नेन साध्यत इति । तदेतदभिधीयते भिन्ने हि वाक्य एकाहायनीसाधनकः क्रयोऽवबुद्धो भवति, अरुणासाधनमपि क्रयान्तरम्, न तस्मिन्नेवैकहायनीसाधने क्रयेऽरुणिमा विहितो भवति, तत्र यत्क्रयान्तरमरुणगुणविशिष्टम्, तत्रार्थात्प्राप्तमन्यदपि साधनं भवति । तदपि विशिंषनरुणो गुणस्तेन संबध्येत । एकवाक्यत्वे तु तत्परिहृतं भवति । तस्मात्साध्वभिधीयते अर्थैकत्वे द्रव्यगुणयोरैककर्म्यान्नियमः स्यादिति । ण्Oट्Eष् *{३।३१ E१ (व् ।ल् ।) पिङ्गाक्ष्यैकहायिन्या}* *{३।३२ Vग्ल् । टैत् ।ष् । ६ ।१ ।६ ।७}* *{३।३३ E२,४ अध्यवस्यामः}* *{३।३४ E२ ४,४३॑ E४ ३,५५६॑ E६ १,१४८}* *{३।३५ E२,४ अरुणाशब्द}* *{३।३६ E२,४ अरुणाशब्दाभिधानीयतां}* *{३।३७ E२,४ नारुणाशब्दः}* *{३।३८ E२,४,६ करुणा}* *{३।३९ E२,४ अरुणाशाब्दो}* *{३।४० E२ ४,४९॑ E४ ३,५५७॑ E६ १,१४९}* *{३।४१ E२,४ अरुणाशब्दस्य}* *{३।४२ E२,४ ओम् । संबध्यते}* *{३।४३ E२,४ न संबध्यते, नामूर्तो}* *{३।४४ E२,४ वाक्याद्, E६ ओम् । एकवाक्यत्वाद्}* *{३।४५ E२ ४,५०॑ E४ ३,५५८॑ E६ १,१४९}* *{३।४६ E१,६॑ E१ (व् ।ल् ।), E२,४ विभक्तिर्}* *{३।४७ E२,४,६ यथा}* *{३।४८ E२,४ उपसर्जनभूतो}* *{३।४९ E२ ४,५१॑ E४ ३,५५८॑ E६ १,१५०}* *{३।५० E२ पुरुषेण}* *{३।५१ E२ ४,५३॑ E४ ३,५५९॑ E६ १,१५१}* *{३।५२ Vग्ल् । ंष्१ ।१ ।२५}* *{३।५३ E१,६, E२ (व् ।ल् ।)॑ E२,४ प्रत्यक्षतः}* *{३।५४ E२ ४,५४॑ E४ ३,५६०॑ E६ १,१५२}* *{३।५५ E२,४ प्रकरणगतैर्}* *{३।५६ E२,४ ओम्}* *{३।५७ Vग्ल् । ंष्३ ।१ ।८}* *{३।५८ E२,४ (यदभिधीयते नियम्येयातामिति) नैतद्}* *{३।५९ E२ ४,६०॑ E४ ३,५६१॑ E६ १,१५२}* *{३।६० E२,४ क्रयेणारुणिमसंबन्ध}* *{३।६१ E२,४ यथा}* *{३।६२ E२ ४,६२॑ E४ ३,५६१॑ E६ १,१५३}* *{३।६३ E२,४,६ स्थालीं}* *{३।६४ E२ ४,६३॑ E४ ३,५६२॑ E६ १,१५३}* ____________________________________________ एकत्वयुक्तमेकस्य श्रुतिसंयोगात् ॥ ३,१ ।१३ ॥ अस्ति ज्योतिष्टोमः य एवं विद्वान् सोमेन यजत इति{*३।६५*} । [२२५]{*३।६६*} तत्र श्रूयते दशापवित्रेण ग्रहं संार्ष्टीति, तथाग्निहोत्रे स्रूयते अग्नेस्तृणान्यपचिनोतीति, तथा दर्शपूर्णमासयोः श्रूयते पुरोडाशं पर्यग्निकरोतीति{*३।६७*} । तत्र संदेहः किमेकस्य ग्रहस्य, एकस्याग्नेः, एकस्य पुरोडाशस्य च संमार्जनादि कर्तव्यम्, उत सर्वेषां ग्रहाणां सर्वेषामग्नीनां सर्वेषां पुरोडाशानामिति । किं प्राप्तम्? एको ग्रहः, एकोऽग्निः, एकः पुरोडाश इह ग्रहीतव्यः । कुतः? श्रुतिसंयोगात्, एकत्वश्रुतिसंयुक्ता एते पदार्थाः, एकं हि द्रव्यमेष श्रूयते, शब्दलक्षणे च हि कर्मणि यच्छब्द आह, तदस्माकं प्रमाणम्, यथा पशुमालभेत इत्युक्त एक एव पशुः पुमांश्चालभ्यते । एवमत्राप्येको ग्रहः संमार्जनीयः, एकस्याग्नेस्तृणान्यपचेयानि, एकः पुरोडाशः पर्यग्निकर्तव्य इति । ण्Oट्Eष् *{३।६५ टैत् ।ष् । ३ ।२ ।२ ।३}* *{३।६६ E२ ४,६५॑ E४ ३,५८३॑ E६ १,१५४}* *{३।६७ श्ড়्Bर्१ ।२ ।२ ।१३}* ____________________________________________ सर्वेषां वा लक्षणत्वादविशिष्टं हि लक्षणम् ॥ ३,१ ।१४ ॥ नैतदस्ति यदुक्तं ग्रहादिष्व्{*३।६८*} एकत्वयुक्तेष्वमी पदार्थाः कर्तव्या इति, सर्वे ग्रहाः संमार्ष्टव्याः, सर्वेभ्योऽग्निभ्यस्तृणान्यपचेयानि, पुरोडाशमात्रं च पर्यग्निकर्तव्यमिति । कुतः? ग्रहजात्या द्रव्यं लक्षयित्वा संमार्गादि विधीयते, अविशिष्टं च लक्षणं सर्वद्रव्येषु, तत्र न गम्यते विशेषः, को ग्रहः संमार्ष्टव्यः, को नेति, सामान्यावगमाद्विशेषानवगमाच्च सर्वप्रत्ययः । तथाग्निपुरोडाशानामपि । नन्वेकवचनं श्रूयते, तद्विशेक्ष्यति । नैतदस्ति, एकत्वं हि श्रूयमाणं ग्रहादिष्वेकत्वं ब्रूयात्, न द्वितीयादीन् प्रतिषेधेत्, एकत्वस्यासौ वाचको न द्वितीयादेः [२२६]{*३।६९*} प्रतिषेधकः । तेनाप्रतिषिद्धे द्वितीयादौ सामान्यवचनेन प्राप्तं संमार्जनादि किमिति न क्रियेत । तत्रैतत्स्यात्, एकवचनमिह श्रूयमाणं प्राप्त एवैकस्मिन् द्रव्ये, द्वितीयादिषु च, किमन्यत्कुर्यादन्यतः परिसंख्यायाः, न चेदेकवचनं परिसंचक्षीत द्वितीयादीन्, अनर्थकमेव स्यात्, शक्नोति च द्वितीयादीन्निवर्तयितुम्, यथाश्वाभिधानीमादत्त इति गर्दभाभिधानं{*३।७०*} परिसंचष्टे, एवमत्रापि द्रष्टव्यमिति । नैतदेवम्, तत्र मन्त्रस्याभिधान्याश्च यः संबन्धः, तदभिधानपरं वचनम्, इमामगृभ्णानित्यश्वाभिधानीमिति{*३।७१*}, नानेन मन्त्रेण, आदत्त इति लिङ्गेनैवादाने प्राप्तत्वान्मन्त्रस्य परिसंख्या युक्ता । इह पुनर्यदेकवचनं द्रव्ये श्रूयते, तच्छ्रूयमाणमप्यविधीयमानत्वेन न निवर्तकं भवितुमर्हति, यथा कश्चिदोदनं निर्दिश्य ब्रूयात् य एनं भक्षयेत्कश्चिच्छ्वा मार्जारो वा, स निवारयितव्य इति, तत्र यदि भक्षणं निमित्तत्वेन विधीयते, न, श्वमार्जारसंबन्धः, ततः काकोऽप्यागच्छन्निवार्यते । श्रूयमाणेऽपि शुनि मार्जारे वा श्वमार्जारसंबन्धस्य निमित्तत्वेनाविधीयमानत्वात् । एवमिहाप्येकत्वसंबन्धस्याविधीयमानत्वाच्छ्रूयमाणेऽप्येकत्वे ग्रहमात्रं संमृज्येतेति । न चात्र द्रव्यैकत्वसंबन्धविधायकः कश्चिच्छब्दोऽस्ति । ननु संमार्ष्टीति । न ह्येतद्द्रव्यैकत्वसंबन्धस्य विधायकम् । कस्य तर्हि? द्रव्यसंमार्गसंबन्धस्य विधायकम्, एवं श्रुत्या स्वपदार्थो विहितो भवति, इतरथा वाक्येन परपदार्थो विधीयते । श्रुत्यसंभवे च वाक्यं क्रमते, न संभवन्त्यां श्रुतौ । अतोऽविधीयमानं विशेषणत्वेन, एकत्वं न द्वितीयादीन् प्रतिषेद्धुमर्हति । एवं सति न द्वितीयादौ संमार्गादि क्रियमाणम् [२२७]{*३।७२*} अचोदितं भवति, प्रतिषिद्धं वा, यथैव हि तदेकस्य श्रुतमवगम्यते, तथा द्वितीयादेरपि । अयं चापरो दोषः, न तदेकत्वं द्रव्यस्य संमार्गादौ विषये नियम्येत, न हि संमार्गादिः, यस्मिन् द्रव्य एकत्वं नियम्येत, तस्य विशेषणत्वेन भवति, विधीयते ह्यत्र संमार्गादिः, न प्राप्तो लक्षणत्वेन द्रव्यस्याम्नायते, न हि यौगपद्येन विधातुं शक्यते, लक्षणत्वेन चोच्चारयितुम् । प्रसिद्धसंबन्धो हि शक्नोति लक्षयितुम्, न चाविहित एवंजातीयकः शब्दावगम्यः प्रसिद्धसंबन्धो भवति । विधीयते च संमार्गादिः, तस्मान्न विशेषकः, न चेद्विशेषकः, न द्रव्य एकत्वं नियम्यत इति शक्यमाश्रयितुम् । अथैकत्वं संमार्ग उच्यते । तत्रापि द्वयी गतिः स्यात्, एकत्वं प्रधानम्, संमार्गो वा, तच्चोभयमप्यनुपपन्नम् । न तावदेकत्वस्य संमार्गः शाक्यते कर्तुम् । न च द्रव्ये क्रियमाण एकत्वस्योपकरोति केनचित्प्रकरणम् । न चैकत्वस्योपकृतेन किंचित्प्रयोजनमस्ति, न हि तद्गुणभूतं श्रुतम् । अथैकत्वं संमार्गं प्रति गुणभूतमिति । तदपि न । कथम्? अमूर्तत्वात्, न हि तत्संमार्गं निष्पादयति । यद्यप्यन्यदमूर्तं क्रियां निष्पादयति साधनं विशिंषत्, तथाप्येतन्न भवितुमर्हति, न ह्यत्र ग्रहः संमार्गार्थः, संमार्गोऽत्र ग्रहाय चोद्यते, स हि प्रयोजनवान्, कल्प्यप्रयोजनः संमार्गः । यदि ग्रहः संमार्गस्योपकुर्यात्, तदुपकारिण{*३।७३*} उपकरोतीति संमार्गस्योपकारकमेकत्वं भवेत् । न त्वेतदेवम् । तस्मादेकत्वसंमार्गयोरसंबन्धः । ननु प्रधानभुतमपि ग्रहादि संमार्गं निष्पादयत्येव, अतस्तत्साधनं तच्च विशिंषत्तदुपकरिष्यति, यथा इज्यार्थे दधनि पयसि च प्रणीता धर्माः पाक उपकुर्वन्ति । परिधानार्थे च [२२८]{*३।७४*} परिदौ यूपधर्मा बन्धने । तस्मादयमसमाधिरिति । अत्रोच्यते न ब्रूमः, अतदर्थे साधके न शक्नुवन्त्युपकर्तुमिति । किं तर्हि? यदा प्रधानभूतं ग्रहादि लक्षणत्वेनोच्यते, न तदैकत्वस्य ग्रहादिना संबन्धः, न संमार्गादिनेति । कथम्? यावदिह लक्षणत्वेन किंचिदुच्यते, संवादस्तत्र भवति, न तु तद्विधीयते विज्ञानाय । किमर्थं तर्ह्युच्चार्यते? अन्यत्तस्य किंचिद्विधायिष्यत इति, तदेतद्ग्रहादि लक्षयित्वा तस्य संमार्गादि विधीयते । तद्यद्येकत्वसंबन्धोऽपरो ग्रहद्रव्ये{*३।७५*} संमार्गादौ वा पदार्थे{*३।७६*} विधीयेत, द्वयोः संबन्धयोर्विधानाद्भिद्येत वाक्यम् । अथोच्येत ग्रहादि लक्षयित्वा तस्यैकत्वसंबन्धो विधीयते, न संमार्गादिसंबन्ध इति, तथा च संमार्गादीनामध्ययनं प्रमाद इत्यभ्युपगतं स्यात् । न चैतदेवम् । तस्मादुभाभ्यामेकवचनस्यासंबन्ध इति । एवमेतदेकत्वं ग्रहस्य न किंचिदुपकारं करोति, न संमार्गस्य, एवमेव सदनूद्यते । तस्मान्नैतत्किंचिदपि कर्तुं विवक्ष्यत इति सर्वेषां ग्रहादीनां संमार्गादि कर्तव्यमिति । कुतः? संयोगतोऽविशेषात्प्रकरणाविशेषाच्च{*३।७७*} । यद्यविवक्षितमेकत्वम्, कथं त्रह्येकवचनमुच्चार्यते? ननु बहुषु विवक्षितेषु बहुवचनेन भवितव्यम् । उच्यते न वयमेतद्विचारयामः, एकवचनमुच्चारयितव्यम्, नोच्चारयितव्यमिति, उच्चार्यमाणे सति किं प्रतिपत्तव्यम्? एकस्मिन्नेव संमार्गादि, उत सर्वेष्विति, तच्च सर्वेष्विति स्थापितम् । अपि च न विभक्तेर्वचनमेवैकं प्रयोजनम् । किं तर्हि? कारकसंबन्धोऽपि, अविवक्षित एकत्वे कारकसंबन्धार्थमस्योच्चारणं भविष्यति । तस्मान्नानर्थकम् । अपि च ग्रहः प्रातिपदिकार्थ एकत्वं विभक्त्यर्थः । किमतो [२२९]{*३।७८*} यद्येवम् । एतदतो भवति प्रातिपदिकार्थगतं हि विभक्तिः स्वमर्थं श्रुत्यैव वदति । अथैवं सति किं न, संमार्गेण संभन्त्स्यत इति । तेन हि संबध्यमानं वाक्येन संबध्येत, न च श्रुत्या, अन्येन संबध्यमानं वाक्येनाच्छिद्यान्येन संबन्धमर्हति । असंबध्यमानस्त्वेकत्वेन संमार्गः, यदि नैकत्वविशिष्टः क्रियते, न किंचिद्विपन्नं भवति, न चैकत्वविशिष्टः संमार्गादिः, ग्रहादिमात्रस्य च विधीयत इति किमिति द्वितीयस्य तृतीयस्य च न क्रियेतेति । ण्Oट्Eष् *{३।६८ E२,४ अस्ति यदुक्तं ग्रहादिष्व्}* *{३।६९ E२ ४,७४॑ E४ ३,६००॑ E६ १,१५५}* *{३।७० E२,४ गर्दभाभिधानीं}* *{३।७१ टैत् ।ष् । ५ ।१ ।२ ।१}* *{३।७२ E२ ४,८३॑ E४ ३,६०१॑ E६ १,१५६}* *{३।७३ E२,४ उपकारेण}* *{३।७४ E२ ४,८६॑ E४ ३,६०२॑ E६ १,१५६ (ल् ।Z ।)}* *{३।७५ E१,६, E४ (व् ।ल् ।)॑ E२,४ द्रव्ये}* *{३।७६ E२,४ ओम्}* *{३।७७ Vग्ल् । ंष्३ ।१ ।८}* *{३।७८ E२ ४,९५॑ E४ ३,६०२॑ E६ १,१५७}* ____________________________________________ चोदिते तु परार्थत्वाद्यथाश्रुति पतीयेत ॥ ३,१ ।१५ ॥ अथ यदुक्तम् यथा पशुमालभेतेत्येक एव पशुः पुंपशुश्चालभ्यते, एवमिदमपीति, अस्त्यत्र वैपरीत्यमिह ग्रहार्थः संमार्गः, तत्र पुनर्यागार्थः पशुः । किमेवं सति भवति? यो यागार्थं परिच्छिनति{*३।७९*}, स यागस्योपकरोति, अपरिच्छिन्नेन न शक्यो यागः कर्तुमिति । न तु ग्रहेण केनचिद्विशिष्टेन संमार्गः कर्तव्यः, यद्ग्रहं विशिंषत्संमार्गस्योप्कुर्यात्, पशोश्चैतदेकत्वं यागं प्रत्युपदिश्यते । ननूक्तम् प्रातिपदिकार्थगतं स्वमर्थं विभक्तिः श्रुत्यैवाभिवदतीति{*३।८०*}, याग एतद्वाक्येन विधास्यति, तत्र वाक्याच्छ्रुतिर्बलीयसीत्युक्तम् । सत्यम्, यत्र श्रौतोऽभिसंबन्धो विवक्ष्यते, अविवक्ष्यमाणे च वाक्यावगतः सनपर्युदसितव्यो{*३।८१*} भवति, तस्मादेकः पुंपशुश्चालभ्यत इति, ग्रहैकत्वं न संमार्गस्योपकरोतीति न ग्रहं शक्नोति विशेष्टुम् । तस्मादविवक्षितमिति । [२३०]{*३।८२*} ण्Oट्Eष् *{३।७९ E२,४, E१ (व् ।ल् ।) परिच्छिन्नति}* *{३।८० Vग्ल् । E१, ष् ।२२९।१२}* *{३।८१ E२,४ सन्न पर्युदसितव्यो, E६ सन्नपर्युदसितव्यो}* *{३।८२ E२ ४,९६॑ E४ ३,६४३॑ E६ १,१५८}* ____________________________________________ संस्काराद्वा गुणानामव्यवस्था स्यात् ॥ ३,१ ।१६ ॥ अस्ति ज्योतिष्टोमः, तत्र श्रूयते दशापवित्रेण ग्रहं संमार्ष्टीति । तत्रैषोऽर्थोऽधिगतः सर्वे ग्रहाः संमार्जितव्या इति । इदमिदानीं संदिह्यते किं चमसापि संमार्ष्टव्या उत नेति । किं तावत्प्राप्तम्? चमसाद्यपि सर्वं संमार्ज्यमिति । कुतः? संयोगतोऽविशेषात्प्रकरणाविशेषाच्चेति{*३।८३*}, यथैव हि ग्रहाणामपूर्वसंबन्धः, एवं चमसानामपि, यथैव च ग्रहा अस्मिन् प्रकरणे, एवं चमसापि । तस्मात्सर्वत्र संमार्गः । ननु ग्रहाः श्रूयन्ते, ते चमसानां निर्वर्तका भविष्यन्ति । उच्यते प्रदर्शनार्थं ग्रहग्रहणं भविष्यति, ग्रहादि सोमपात्रम्, यस्मिन् गृह्यमाणः सोमो व्यवसिच्येत, इत्येवमाशङ्क्यते, तत्सर्वं संमार्जितव्यम् । यथा भोजनकालो वर्तते, स्थालानि संमृज्यन्तामित्युक्ते, यानि यानि भोजन उपयोगमर्हन्ति, तानि तानि सर्वाणि संमृज्यन्ते, स्थालग्रहणं लक्षणार्थमिति गम्यते । एवमिहापि द्रष्टव्यमिति । उच्यते लोकेऽर्थलक्षणः संव्यवहारः, येन येनार्थः संमृष्टेन, उक्तोऽनुक्तो वा स स{*३।८४*} संमृज्येतैव । इह तु वेदे शब्दलक्षणः, शब्दश्च ग्रहस्य संमार्गमाह, तत्र किमर्थं श्रुतौ संभवन्त्यां ग्रहशब्दो लक्षणया कल्प्यते । उच्यते संमार्ष्टीति संमार्गे पुरुषप्रयत्नं विधातुमेष शब्दः शक्नोति श्रवणेनैव, ग्रहसंबन्धे तु वाक्येन, श्रुतिश्च वाक्याद्बलीयसी । तस्माल्लक्षणया ग्रहशब्दो वर्ण्यते, न, यथाश्रुत इति, तेन, यो यः संमार्जनसंस्कारार्हः स स संमार्जितव्यः, नेति{*३।८५*} ग्रहेष्वेव व्यवतिष्ठेतैवंजातीयको गुण इति । [२३१]{*३।८६*} ण्Oट्Eष् *{३।८३ Vग्ल् । ंष्३ ।१ ।८}* *{३।८४ E२,४,६ ओम् । स}* *{३।८५ E२,४,६ ओम् । इति}* *{३।८६ E२ ४,९८॑ E४ ३,६४६॑ E१ १,१५९}* ____________________________________________ व्यवस्था वार्थस्य श्रुतिसंयोगात्, तस्य शब्दप्रमाणत्वात् ॥ ३,१ ।१७ ॥ व्यवतिष्ठेत वा ग्रहेष्वेव संमार्गः, न चमसेष्वपि प्रसज्येतेति । कुतः? अर्थस्य श्रुतिसंयोगात्, श्रूयमाणो हि ग्रहो नोत्स्रष्टव्यः, उत्सृज्यमाने श्रुतिरेव बाध्यते ग्रहमिति, प्रमत्तगीतं तत्र भवतामित्यवगम्यते, न चैतन्न्याय्यम् । तस्माद्ग्रहशब्देन ग्रहं लक्षयित्वा तस्य संमार्गसंबन्धो विधीयते । न चाविदधत्संमार्गम्, शक्नोति तत्संबन्धं विधातुम्, अतो विदधात्येवैष शब्दः संमार्गम् । न च श्रुतिर्बाधिष्यते । कुतः? संमार्ष्टीति संमृजिगतं पुरुषप्रयत्नं श्रुत्या शक्नोति विधातुम् । न{*३।८७*} तत्र कश्चिद्विशेषः, उत्पाद्यमाने वा संमृजौ{*३।८८*}, परेण वा संबध्यमान इति । तेन न ग्रहसंबन्धेऽपि श्रुतिर्बाधिता भवति, अतो ग्रहेष्वेव संमार्गो व्यवस्थातुमर्हतीति । नन्वपूर्वसंयोगाविशेषात्प्रकरणाविशेषाच्च चमसेष्वपि प्रसज्यते, न ग्रहेष्वेवास्य विधानमित्युक्तम् । अत्रोच्यते प्रकरणवद्भिरेकवाक्यतां कृत्वा शक्नोति तत्र विधातुम्, नाकृत्वैकवाक्यताम् । सा च प्रकरणादनुमीयते, इयं पुनर्ग्रहशब्देन सह प्रत्यक्षा, तस्मान्न प्रकरणे विधानम्, ग्रहैकत्वसंबन्धे पुनरुत्सृज्य स्वार्थम्, न शक्नोति विधातुम् । तस्माद्वैषम्यमस्य{*३।८९*}, ग्रहैकत्वविधानेन{*३।९०*} । यदुक्तम् यथा स्थालानि संमृज्यन्तामिति लक्षणा, तद्वदिहापीति, परिहृतमेतल्लोके कर्मार्थं लक्षणम्{*३।९१*}, शब्दलक्षणं पुनर्वेद इति । [२३२]{*३।९२*} ण्Oट्Eष् *{३।८७ E२ न च}* *{३।८८ E२ संमृजा, E४ संमृजाम्}* *{३।८९ E२,४ वैषम्यं}* *{३।९० डेर्षत्श्fएह्ल्तिन्E६}* *{३।९१ E२,४ कर्मार्थलक्षणं}* *{३।९२ E२ ४,९८॑ E४ ३,६४९॑ E६ १,१५९}* ____________________________________________ आनर्थक्यात्तदङ्गेषु ॥ ३,१ ।१८ ॥ वाजपेये श्रूयते सप्तदशारत्निर्वाजपेयस्य यूपो भवतीति । तत्र संदेहः किं सप्तदशारत्निता वाजपेयस्योर्ध्वपात्रे निविशते, उत पशोर्यूपे निविशत इति । किं तावत्प्राप्तम्? ऊर्ध्वपात्र इति । कुतः? वाजपेयस्य यूपाभावात्, यद्वाजपेयस्यास्ति पात्रं यूपसदृशम्, तत्र भवितुमर्हति, अस्ति च षोडशिपात्रम्, तच्च खादिरत्वादूर्ध्वत्वाच्च यूपसदृशम्, तत्र निवेशे सति वाजपेयशब्द आञ्जस्येन भवति, इतरथा वाजपेयाङ्गपशुयागे{*३।९३*} लक्षणया वाजपेयशब्दो वृत्त इति गम्यते । ननु त्वत्पक्षेऽपि यूपशब्दो लक्षणयोर्ध्वपात्रे । उच्यते, सर्वथा वयं लक्षणाशब्दान्न मुच्यामहे । मत्पक्षे तु वाजपेयप्रकरणमनुगृह्यते, तस्मादूर्ध्वपात्रे निवेश इति । एवं प्राप्ते ब्रूमः आनर्थक्यात्तदङ्गेषु, वाजपेयशब्दस्तावत्सोमयागविशेषवचनः, तस्य साक्षाद्यूपेन न प्रयोजनम्, अस्ति तु तस्याङ्गं पशुयागः, तस्य तु पशुं बन्धुं यूपेन कार्यम् । साक्षाद्वाजपेययूपस्य यदि सप्तदशारत्निता विधीयते, तस्याभावादनर्थकमेव वचनं प्राप्नोति, तदनर्थकं मा भूदिति योऽस्य पशुयागे यूपः, तत्र निवेशमर्हति । ऊर्ध्वपात्रे च यूपशब्दो लक्षणया स्यात् । नन्वितरस्मिन्नपि पक्षे वाजपेयशब्दो लक्षणयेति । नेति ब्रूमः, वाजपेय एव वाजपेयशब्दो भविष्यति, शक्ष्यति च स पशुयूपं विशेष्टुम्, सोऽस्याङ्गस्योपकारकः, यश्च यस्योपकारिण उपकरोति, भवति स तस्य संबद्धो मुख्येनैव संबन्धेन । न चैकान्तरितमिति कृत्वासंबद्धो भवति, यथा देवदत्तस्य नप्तेति, पुत्रेण चासावन्तरितः, अथ च देवदत्तेन मुख्येनैव संबन्धेन संबद्धः । तस्मादेष एव [२३३]{*३।९४*} पक्ष आश्रयणीयः, न ह्येतस्मिन् पक्षे कश्चिदपि लक्षणशब्दो भवतीति । ण्Oट्Eष् *{३।९३ E२,४ वाजपेयाङ्गपशुयागे}* *{३।९४ E२ ४,१०१॑ E४ ३,६४९॑ E६ १,१६०}* ____________________________________________ कर्तृगुणे तु कर्मासमवायाद्वाक्यभेदः स्यात् ॥ ३,१ ।१९ ॥ दर्शपूर्णमासयोः प्रयाजवाक्ये श्रूयते अभिक्रामं जुहोत्यभिजित्येति{*३।९५*} । तत्र संदेहः किमभिक्रमणं प्रयाजेष्वेव निविशत उत कृत्स्ने प्रकरण इति । किं तावत्प्राप्तम्? कर्तृगुणेऽभिक्रमणे ब्रूमः वाक्यभेदः स्यादिति, कर्मणा कर्मणोऽसमवायात् । अभिक्रमणं कर्मामूर्तम्, न तत्कर्म हवनं साधयितुं शक्नोति, तस्मान्न तेनैकवाक्यतां याति । अतः सर्वस्मिन् प्रकरणे निविशते, संयोगतोऽविशेषात्प्रकरणाविशेषाच्चेति{*३।९६*} । नन्वनेनैव हेतुनान्यस्मिन्नपि न निवेक्ष्यते । उच्यते अन्यत्र पुरुषैः संभन्त्स्यते । ननु प्रयाजेष्वपि पुरुषैः संबध्येत । नैतदेवम्, जुह्ःतीति हवन एष शब्दः पुरुषप्रयत्नं विधातुं शक्नोति, न पुरुषाभिक्रमणासंबन्धम् । नन्वन्यत्रापि पुरुषाभिक्रमणसंबन्धस्याविधानम् । नैष दोषः, अन्यत्र प्रकरणाम्नानादङ्गभावे निर्ज्ञाते प्रयोगवचनोऽस्य कर्तव्यतां वक्ष्यति । तस्मात्सर्वस्मिन् प्रकरणेऽभिक्रमणस्य निवेश इति । ण्Oट्Eष् *{३।९५ टैत् ।ष् । २ ।६ ।१ ।४}* *{३।९६ Vग्ल् । ंष्३ ।१ ।८}* ____________________________________________ साकाङ्क्षं त्वेकवाक्यं स्यादसमाप्तं हि पूर्वेण ॥ ३,१ ।२० ॥ नैतदस्ति यदुक्तमभिक्रमणं प्रकरणे निविशत इति । प्रया[२३४]{*३।९७*}जेष्वेव भवितुमर्हति । कुतः? तैः सहास्यैकवाक्यता, यतः साकाङ्क्षमेतत्पूर्वेण पदेनासमाप्तं वाक्यम्, अभिक्रामं जुहोतीत्यत्र पर्यवस्यति, प्रकरणाच्च वाक्यं बलवदिति प्रयाजेष्वेवाभिक्रमणं निविशते । नन्वभिक्रमणममूर्तत्वाद्धोमनिर्वृत्तावसमर्थमित्युक्तम् । उच्यते, साक्षादसमर्थम्, कर्त्रा संबध्यमानं शक्ष्यति निर्वर्तयितुम् । कथम्? अभिक्रमणेन समासीदत्याहवनीयं कर्ता, द्वयमभ्युपायभूतं होमस्य, दूराद्वाभिप्रसार्य हस्तम्, जुहुयात्, समासीदेदन्वाभिक्रमणेन । तस्मादभिक्रमणमुपकरोति होमस्येत्यवगम्यते । अतः प्रयाजेष्वेव निवेश इति । ण्Oट्Eष् *{३।९७ E२ ४,१०३॑ E४ ३,६५७॑ E६ १,१६१}* ____________________________________________ संदिग्धे तु व्यवायाद्वाक्यभेदः स्यात् ॥ ३,१ ।२१ ॥ दर्शपूर्णमासयोः सप्तमाष्टमयोर्ब्राह्मणानुवाकयोः सामिधेन्य उक्ताः, नवमे निविदः, दशमे काम्याः सामिधेनीकल्पाः, इदं कामस्यैतावतीरनुब्रूयात्, इदं कामस्यैतावतीरिति, एकादशे च यज्ञोपवीतमाम्नातम् उपव्ययते देवलक्ष्ममेव तत्कुरुत इति{*३।९८*} । तत्र संदेहः किं सामिधेनीरेवानुब्रुवाण उपव्ययेत, उत प्रकरणे सर्वानेव पदार्थाननुतिष्ठता उपव्यातव्यमिति । कुतः संशयः? उपवीतं सामिधेनीनां प्रकरणे समाम्नातम्, अथ निवृत्ते वा तासां प्रकरण इति न ज्ञायते । ननु दर्शपूर्णमासयोरेव प्रकरणमिदम्, परप्रकरणे सामिधेन्यः श्रूयन्ते । सत्यं परप्रकरणे श्रूयन्ते । तथापि तासामवान्तरप्रकरणमपरम्, भवति हि, सामिधेनीरनुब्रूयादिति विशेषाकाङ्क्षं वचनम्, येन तत्संनिधावभिधीयमानं तस्येति ज्ञायते । कथं पुनर्निवृत्तं तासां प्रकरणमित्याशङ्क्यते? [२३५]{*३।९९*} निवित्पदानि तासां प्रकरणं व्यवदधतीति । यद्येवम्, कथमनुवर्तते प्रकरणमित्याशङ्का? परस्तान्निविदाम्, साद्मिधेनीगुणा एव काम्या विधीयमानाः श्रूयन्ते, यदनन्तरं यज्ञोपवीतमाम्नातम्, तेनानिवृत्तं सामिधेनीनां प्रकरणमिति भवति मतिः । अतः परप्रकरणे निविदः समुपनिपतिता न व्यवदधति । यथा द्वादशोपसत्ताहीनधर्मो ज्योतिष्टोमप्रकरण इति । तेन भवति संदेहः । अस्मिन् संदेहे किं तावत्प्राप्तम्? सामिधेनीप्रकरणमनिवृत्तम्, तत्रोपवीतं समाम्नातमिति । कुतः? काम्यानां सामिधेनीकल्पानामानन्तर्यवचनात्, हृदयमनुविपरिवर्तमानासु सामिधेनीषु उपवीतमामनन्ति, कर्तुश्च वासोविन्यासमात्रं गुणो भवत्युपवीतं नाम । किं कुर्वता तत्कर्तव्यमिति भवति तत्र पदार्थाकाङ्क्षा, तत्र बुद्धौ संनिहितेनाविप्रकृष्टेन सामिधेनीवाक्येनैकवाक्यतामुपगम्य सामिधेनीषूपवीतमुपव्ययत इत्येष शब्दो विदधातीति गम्यते । एवं प्राप्ते ब्रूमः न, अस्मिन् संदेहे यस्त्वयोक्तः, स निर्णयः । अस्मिन् संदेहे वाक्यभेद इति निर्णय इति । कुतः? व्यवायात्, इह समाप्तस्य सानुबन्धस्य सामिधेनीवाक्यस्य, अस्य चोपव्ययत इति वचनस्य, निविदां विधायकेन सामिधेनीभिरसंबद्धेन ग्रन्थेन व्यवधानं भवति, यस्य च पर्यवसितेऽपि वचने तत्संबद्धमेवार्थान्तरं प्रक्रमन्ते, न तत्राननुवृत्तं प्रकरणम्, आगच्छति हि तत्संबद्धाभिधाने हृदयम् । यत्र तु पर्यवसिते वचने तदसंबद्धमेवार्थान्तरं प्रक्रमन्ते, न तत्र बुद्धौ पूर्वः पदार्थः संनिधीयते । न च, बुद्धावसंनिहितेनैकवाक्यता भवति । द्वाभ्यां हि बुद्धाभ्यां{*३।१००*} पदार्थाभ्यां वाक्यार्थः संजन्यते, नान्यतरेण, संनिधौ समाम्नानस्यैतदेव प्रयोजनम्, कथमुभाभ्यां पदार्थाभ्यां विशिष्टां बुद्धिमुत्पादयेयुरिति । [२३६]{*३।१०१*} अनन्तरावबुद्धेन सह वाक्यार्थः शक्यते कर्तुम्, असंबद्धपदोच्चारणे च नानन्तरावबुद्धो भवति । तस्माद्व्यवहितेन सह नैकवाक्यता भवतीति । अथान्येन प्रकारेण ध्यानादिना पूर्वपदार्थमवगम्य, वाक्यार्थं संजनयेत् । अवैदिकः स पुरुषबुद्धिर्पूर्वको वाक्यार्थो भवेत्, यथा, अन्यस्मादनुवाकादाख्यातपदं गृहीत्वा, अन्यस्माच्च नामपदं यो वाक्यार्थः संजन्यते, तादृशं तद्भवेत्, यत्रान्येन ध्यानादिना पूर्वपदार्थमवगम्य, वाक्यार्थं संजनयेत् । तस्मान्नासंबद्धार्थव्यवधानैकवाक्यता भवतीति निश्चीयते । तस्मान्न सामिधेनीभिरेकवाक्यतोपवीतस्येति । ननु सामिधेनीकल्पानामनन्तरबुद्धानां संनिधावुपवीतमाम्नायते, तेन सामिधेनीभिः संभन्त्स्यत इति । नेति ब्रूमः अतिवृत्तमेव हि सामिधेनीनां प्रकरणं निवित्पदैर्व्यवधानात् । वाक्येन हि सामिधेनीकल्पाः काम्याः संबन्धमुपगच्छन्ति, न प्रकरणमनुवर्तते, न च, पुनः कल्पवचनेन सामिधेन्यः प्रकृता भवन्ति । न हि, तत्र तासां वचनं कर्तव्या इति । किं तर्हि? संख्याभिः संबन्धयितव्या इति, तदपि वाक्येन, न प्रकरणेन । तत्राप्रकृतासु समिधेनीषु यस्यैकवाक्यता गुणस्य सामिधेनीभिर्नास्ति, न तस्य ताभिः संबन्धः । तस्मात्{*३।१०२*} प्रकरणे{*३।१०३*} यदनुष्ठेयं तद्यज्ञोपवीतिनेति सिद्धम् । ण्Oट्Eष् *{३।९८ टैत् ।ष् । २ ।५ ।११ ।१}* *{३।९९ E२ ४,१०६॑ E४ ३,६६१॑ E६ १,१६१ (वोर्लेत्श्ते Zएइले)}* *{३।१०० E२,४ ओम् । हि बुद्धाभ्यां}* *{३।१०१ E२ ४,१०८॑ E४ ३,६६१॑ E६ १,१६२}* *{३।१०२ E२ यस्मात्}* *{३।१०३ E२,४ कृत्स्ने प्रकरणे}* ____________________________________________ गुणानां च परार्थत्वादसंबन्धः समत्वात्स्यात् ॥ ३,१ ।२२ ॥ अग्न्याधेये वारणवैकङ्कतपात्राण्यहोमार्थानि होमार्थानि [२३७]{*३।१०४*} च श्रूयन्ते तस्माद्वारणो वै यज्ञावचरः स्यात्, न त्वेतेन जुहुयात्, वैकङ्कतो यज्ञावचरः स्याज्जुहुयादेतेनेति । न च वारणवैकङ्कतानां पात्राणामग्न्याधेयेन संबन्धः । कुतः? यज्ञावचरवचनात्, यज्ञस्यैतानि पात्राणि, वाक्येन प्रकरणं बाधित्वा भवन्ति । तत्रैष संदेहः किं पवमानेष्टिषु निविशन्ते, उत दर्शपूर्णमासादिषु सर्वयागेष्विति । किं तावत्प्राप्तम्? पवमानहविःष्विति । कुतः? उक्तमेतत्प्रधानेऽसंभवन् पदार्थस्तद्गुणे कल्प्यत इति, अग्न्याधेयप्रकरणे च समाम्नानात्पवमानहविषां तद्गुणता । तस्मात्पवमानहविःष्वित्येवं प्राप्तम् । एवं प्राप्ते ब्रूमः गुणानां समत्वात्, पवमानहविषामग्न्याधेयस्य च न परस्परेण संबन्धः । यथाधानमग्नेर्गुणः संस्कारार्थः, एवं पवमानहवींष्यप्यग्नेरेव गुणभूतानि । कस्तत्र परस्परेण संबन्ध इति । यदुक्तम् आधानस्य प्रकरणे समाम्नायन्त इति, यद्यपि समाम्नायन्ते, तथापि प्रकरणं बाधित्वा वाक्येनाग्नेर्भवन्ति । किमिह वाक्यम्? यदाहवनीये जुहोति{*३।१०५*} तेन सोऽस्याभीष्टः प्रीतो भवतीति । नन्वाहवनीयोऽत्र यागस्याधिकरणत्वेन गुणभूतः श्रूयते । सत्यम्, अधिकरणमाहवनीयः, तथापि त्वाहवनीयार्थ एव यागः, प्रयोजनवत्त्वादाहवनीयस्य निष्प्रयोजनत्वात्पवमानहविषाम् । कथमेषां निष्प्रयोजनता? फलाश्रवणात् । कल्प्यं फलमिति चेत् । सत्यं कल्प्यम्, अग्निसंस्कारस्तु तत्फलम्, न स्वर्गः, स्वर्गे कल्प्यमाने द्विरदृष्टं कल्प्येत, होमाच्च [२३८]{*३।१०६*} स्वर्गो भवति, तस्य चाहवनीयेनापरोऽदृष्टः संस्कार इति । तस्मादग्न्यर्थता पवमानहविषाम्, नैषामाधानेन संबन्धः । तस्मान्नाधाने श्रूयमाणम्, पवमानहविषां भवितुमर्हति । किं तर्हि सर्वयागेषु दर्शपूर्णमासप्रभृतिष्वाधानस्य प्रधानभूतेषु निवेश इति । ण्Oट्Eष् *{३।१०४ E२ ४,१११॑ E४ ३,६७४॑ E६ १,१६३}* *{३।१०५ E२,४ जुह्वति}* *{३।१०६ E२ ४,११३॑ E४ ३,६७५॑ E६ १,१६४}* ____________________________________________ मिथश्चानर्थसंबन्धात् ॥ ३,१ ।२३ ॥ दर्शपूर्णमासयोः श्रूयते वार्त्रघ्नी पौर्णमास्यामनूच्येते, वृधन्वत्यमावस्यायामिति{*३।१०७*} । तत्र संदेहः किमनुवाक्याद्वित्वस्य प्रधाने निवेशः, उताज्यभागयोरिति । किं तावत्प्राप्तम्? प्रधान इति । कुतः? पौर्णमासीसमभिव्याहारात्, अमावस्यासमभिव्याहाराच्च । प्रधानं पौर्णमासी चामावस्या च नाज्यभागौ । तस्मात्साक्षाद्वाक्यात्प्रधानस्येति प्राप्तम् । तत्र ब्रूमः मिथः सह द्वाभ्यामनुवाक्याभ्यां न प्रधानस्य कार्यमस्ति, यत्र तु द्व अनुवाक्ये, तत्र तयोर्वार्त्रघ्नता वृधन्वत्ता च विधीयते, प्रधाने चैकानुवाक्या, तत्र द्वित्वं वार्त्रघ्नतां वृधन्वत्तां च विदधद्वाक्यं भिद्येत । आज्यभागयोस्तु द्वे प्राप्ते आग्नेयी सौमी च, तत्र वार्त्रघ्नतां वृधन्वत्तां केवलां शक्ष्यति विधातुम् । ननु प्रधानगामित्वेऽपि द्वयोः प्रधानयोर्द्वे अनुवाक्ये, आग्नेयस्याग्नीषोमीयस्य चेति । उच्यते एका [२३९]{*३।१०८*} वार्त्रघ्न्याग्नेयी, एका सौमी, तथा वृधन्वत्यै, तत्र याग्नेयी, सा विधीयमाना संबध्येत न सौमी । अमावस्यायां तावन्नास्त्येव{*३।१०९*}, पौर्णमास्यामप्यग्नीषोमीय एव क्रियमाणे क्रियेत, तत्राप्येकदेवत्या न शक्नुयाद्देवताद्वित्वे कार्यं कर्तुम् । अथोभ अग्नीषोमीये प्राप्ते इति । न, एकस्य यागस्य द्वाभ्यामनुवाक्याभ्यां प्रयोजनम् । उपादेयत्वेन ह्यनुवाक्या चोद्यते, तत्रैकत्वं विवक्षितम्, तेन तत्रापि न द्वे । तस्मादाज्यभागयोर्निवेश इति । ण्Oट्Eष् *{३।१०७ टैत् ।ष् । २ ।५ ।२ ।५}* *{३।१०८ E२ ४,११५॑ E४ ३,६८१॑ E६ १,१६४}* *{३।१०९ E२,४ एव सोमः}* ____________________________________________ आनन्तर्यमचोदना ॥ ३,१ ।२४ ॥ ज्योतिष्टोमे श्रूयते मुष्टीकरोति, वाचं यच्छति, दीक्षितमावेदयतीति, तथा हस्ताववनेनिक्ते, उलपराजिं स्तृणातीति । तत्र संदेहः किं मुष्टीकरणं वाग्यमश्चावेदनार्थम्, उत कृत्स्नप्रकरणे निवेश इति तथा, हस्तावनेजनं किमुलपराजिं स्तरितुम्, उत प्रकरणे सर्वपदार्थान् कर्तुमिति । किं तावत्प्राप्तम्? हस्तावनेजनं हस्तसंस्कारार्थम्, वाग्यमः पुरुषसंस्कारार्थः, आमन्त्रयमाण एकाग्रो भवति, पदार्थाननुतिष्ठति, तेन केषां केषां पदार्थानामिमे{*३।११०*} संस्कारावित्याकाङ्क्षास्ति, सत्यामाकाङ्क्षायामानन्तर्येण निराकाङ्क्षीकरणम् । तस्मादानन्तर्यादावेदनार्थो वाग्यमो मुष्टीकरणं च, हस्तावनेजनं चोलपराजिं स्तरितुम् । एवं प्राप्ते ब्रूमः सर्वैः प्रकरणाधीतैः संबन्ध इति । [२४०]{*३।१११*} कुतः? वाक्यभेदात् । कथं वाक्यभेदः? अर्थद्वयस्याभिधानात् । न हि, दीक्षितमावेदयितुमित्यस्मिन्नर्थ आवेदयतीति, न च स्तरितुमित्यस्मिन्नर्थे स्तृणातीति । स्तरणमपि विधीयतेऽवनेजनं च । मुष्टीकरणं वाग्यमश्च विधीयते, आवेदनं च । न च, एषां परस्परेण कश्चित्संबन्धोऽस्ति, न च, पदार्थाकाङ्क्षायां सत्यामानन्तर्यमेकवाक्यत्वे कारणं भवति, तस्मात्प्रकरणधर्मा एवंजातीयकाः । ण्Oट्Eष् *{३।११० E१,६, E४ (व् ।ल् ।)॑ E२,४ इमौ}* *{३।१११ E२ ४,११९॑ E४ ३,६८६॑ E६ १,१६५}* ____________________________________________ वाक्यानां च समाप्तत्वात् ॥ ३,१ ।२५ ॥ स्वेन स्वेन पदसमूहेन परिपूर्णमेकं वाक्यम्, तथापरम्, तथा सर्वाणि यान्युदाहृतानि । तस्माद्विस्पष्टमर्थद्वयम्, विभागे च निराकाङ्क्षता, तेन वाक्यभेदः । अतः संयोगतोऽविशेषात्प्रकरणाविशेषाच्च{*३।११२*} कृत्स्ने पर्करणे निवेश इति । ण्Oट्Eष् *{३।११२ Vग्ल् । ंष्३ ।१ ।८}* ____________________________________________ शेषस्तु गुणसंयुक्तः साधारणः प्रतीयेत मिथस्तेषामसंबन्धात् ॥ ३,१ ।२६ ॥ दर्शपूर्णमासयोः समाम्नायते आग्नेयं चतुर्धा करोतीति । तत्र संदेहः किमाग्नेयेऽग्नीषोमीये ऐन्द्राग्ने{*३।११३*} च सर्वत्र चतुर्धाकरणम्? किं वाग्नेय एवेति । किं प्राप्तम्? शेषश्चतुर्धाकरणम्, आग्नेयमिति देवतागुणसंयुक्तः साधारणः प्रतीयते, अग्नीषोमीयेऽपि स्यात्, ऐन्द्राग्नेऽपि । कुतः? तावप्याग्नेयौ, यस्याग्निर्देवता, अन्या च भवति, असावागेयः । तद्यथा, या डित्थस्य डवित्थस्य च माता, सा डवित्थस्य [२४१]{*३।११४*} भवति, एवमिहापि । यद्याग्नेयाग्नीषोमस्य च पुरोडाशस्य मिथः संबन्धो न भवेत्, तत आग्नेय एव चतुर्धाकरणं व्यवतिष्ठेत, भवति तु संबन्धः, तस्मादव्यवस्था, यथाग्नेयस्य मस्तकं विभज्य प्राशित्रमवद्यतीति सर्वेभ्यः प्राशित्रावदानम्, एवं चतुर्धाकरणमपि । ण्Oट्Eष् *{३।११३ E२,४,६ चैन्द्राग्ने}* *{३।११४ E२ ४,११९॑ E४ ३,६९५॑ E६ १,१६५}* ____________________________________________ व्यवस्था वार्थसंयोगाल्लिङ्गस्यार्थेन संबन्धाल्लक्षणार्था गुणश्रुतिः ॥ ३,१ ।२७ ॥ वाशब्दः पक्षं व्यावर्तयति, व्यवतिष्ठेत वा चतुर्धाकरणमाग्नेय एव, न साधारणं भवितुमर्हति । कुतः? अर्थसंयोगात्, अग्निना देवतयार्थेनैकदेवत्यस्य{*३।११५*} संयोगः, न द्विदैवत्यस्याग्नीषोमीयस्यैन्द्राग्नस्य{*३।११६*} चेति । कुतः? यस्य ह्यग्नीषोमौ देवता, उभयविशेषणविशिष्टः संकल्पः क्रियते, तस्याग्निः सोममपेक्षमाणो देवता, न निरपेक्षः, यस्य चाग्निः सोममपेक्षमाणो देवता, न तस्मात्तद्धित उत्पद्यते, समर्थानां हि स उच्यते, सापेक्षं चासमर्थम् । तस्मान्न तद्धितान्तेन निरपेक्षाग्निदैवत्येन{*३।११७*} द्विदेवत्यस्याभिधानम्{*३।११८*} । अतो यत्र निरपेक्षोऽग्निर्देवता, तत्रैव चतुर्धाकरणमिति, देवतालिङ्गस्य हि सामर्त्येन संयोगो भवति तद्धितार्थस्य, नासति सामर्थ्ये । अथ यदुक्तम्, यथा{*३।११९*} प्राशित्रावदानं सर्वेभ्यः क्रियते, एवं{*३।१२०*} चतुर्धाकरणमपीति, युक्तं प्राशित्रावदानेन तत्रैव{*३।१२१*} संबन्धः क्रियते, आग्नेयस्य प्राशित्रमवद्यतीति । कथं तर्हि, आग्नेयस्य मस्तकं विभज्येति । एकं ह्येतद्वाक्यं प्राशित्रमवद्यतीति, द्वितीयमाग्नेयस्य मस्तकं विभज्येति, तत्राग्नेयस्य मस्तकादवद्यतीति गम्यते, अन्यस्य मस्तकात्, अन्यस्माद्वेत्यनियमः । यदि तु तत्र केवलाग्निदैवत्यो{*३।१२२*} नाभविष्यत्, तदानर्थक्यपरिहाराय द्विदैवत्यो{*३।१२३*}ऽप्यग्रहिष्यत{*३।१२४*} । [२४२]{*३।१२५*} यत्तु, डित्थस्य मातेति, युक्तं तत्राव्यासङ्गि मातृत्वम्, ततो जातो डित्थः, एतावता संबन्धेन, मातेत्युच्यते, नात्र किंचिदपेक्ष्यते । स च तावांस्तत्र संबन्धोऽस्तीति डित्थस्य मातेति युक्तं वचनम् । [२४३]{*३।१२६*} ण्Oट्Eष् *{३।११५ E२,४ देवतयार्थेनैकदैवत्यस्य}* *{३।११६ E२,४ द्विदेवत्यस्याग्नीषोमीयस्यैन्द्राग्नस्य}* *{३।११७ E२,४ निरपेक्षाग्निदेवत्येन}* *{३।११८ E२,४ द्विदेवत्यस्याभिधानम्}* *{३।११९ E२ यथा यथा}* *{३।१२० E२ ओम् । एवं}* *{३।१२१ E२ अदाने । न तत्रैवं, E४ अदाने । तत्रैवं}* *{३।१२२ E२,४ केवलाग्निदेवत्यो}* *{३।१२३ E२,४ द्विदेवत्यो}* *{३।१२४ E२,४ अग्रहीष्यत}* *{३।१२५ E२ ४,१२२॑ E४ ३,६९८॑ E६ १,१६६}* *{३।१२६ E२ ४,१२३॑ E४ ४,१॑ E६ १,१६७}* ____________________________________________ अर्थभिधानसामर्थ्यान्मन्त्रेषु शेषभावः स्यात्तस्मादुत्पत्तिसंबन्धोऽर्थेन नित्यसंयोगात् ॥ ३,२ ।१ ॥ इह मन्त्रा उदाहरणम् बहिर्देवसदनं दामीत्येवमादयः । किं मुख्य एवाभिधेये मन्त्राणां विनियोगः, उत गौणेऽपीति । कः पुनर्मुख्यः को वा गौण इति । उच्यते यः शब्दादेवावगम्यते, स प्रथमोऽर्थो मुख्यः, मुखमिव भवतीति मुख्य इत्युच्यते । यस्तु खलु प्रतीतादर्थात्केनचित्संबन्धेन गम्यते, स पश्चाद्भावाज्जघनमिव भवतीति जघन्यः, गुणसंबन्धाच्च गौण इति । यद्येवं सर्व एव मुख्यः, सर्वो हि शब्दाद्गम्यते, यथैव ह्यग्निर्ज्वलतीत्युक्ते ज्वलने संप्रत्ययः{*३।१२७*}, एवमेवाग्निर्माणवक इति शब्द एवोच्चारिते माणवके संप्रत्ययः । अथोच्यते, यस्मिन्निरुपपदाच्छब्दात्संप्रत्ययः स मुख्यः, यस्मिन् सोपपदात्स गौण इति । नैतद्युक्तम् । यस्य हि शब्दस्य रूपं कस्यचिदर्थस्य निमित्तम्, सोपपदस्यापि तदेव रूपम्, निरुपपदस्यापि । न च शक्यं निमित्ते सति नैमित्तिकेन न भवितुम् । किमतः? यद्येवम्, इदं न शक्यते वदितुम् उपपदादृते न सोऽर्थो भवति, उपपदे तु संजाते सोऽर्थः संजनिष्यत इति । न चासौ समुदायार्थः शक्यते विज्ञातुम् । अन्वयव्यतिरेकाभ्यां हि विभागोऽवगम्यते । अथ, वाक्यार्थोऽयमित्युच्यते । नैवं शक्यम्, न ह्यनन्वितः पदार्थो भवति [२४४]{*३।१२८*} वाक्यार्थः । तदेवं दृश्यताम् अग्निशब्द एवायं ज्वलनवचनः, अग्निशब्द एव माणवकस्याभिधातेति । तस्मान्न गौणो मुख्य इति कश्चिद्विशेषः । अथोच्यते, यः सुष्ठु प्रसिद्धः स मुख्यः, यो मनागिव स गौण इति । इदमपि नोपपद्यते, प्रसिद्धिर्नाम प्रज्ञानम्, न च प्रज्ञाने कश्चिद्विशेषोऽस्ति । अथोच्यते, यस्य बहुशः प्रयोगोऽस्ति स मुख्यः, अल्पशः प्रयुज्यमानो गौण इति । नैतदेवम्, अल्पशोऽपि प्रयुज्यमानो नासति सामर्थ्ये प्रत्याययेत् । अतः सोऽपि शब्दात्प्रतीयत इति मुख्य एव । अत्रोच्यते अस्त्यत्र विशेषः, माणवको नाग्निशब्दात्प्रतीयते । कथमवगम्यते? उक्तम् अन्यायश्चानेकार्थत्वमिति । कथं न विपर्ययः? उच्यते अनादृत्यैव माणवकप्रत्ययं ज्वलनमग्निशब्दात्प्रतियन्तो दृश्यन्ते । न त्वनादृत्य ज्वलनम्{*३।१२९*}, मानवकमग्निशब्दात्प्रतियन्ति । कुत एतत्? यो योऽग्निसदृशो विवक्ष्यते, तत्र तत्राग्निशब्दो नियत इति । अत एव विगतसादृश्यादयं तु दृश्यते । अतोऽग्निसादृश्यमस्य प्रवृत्तौ निमित्तं न च ज्वलनेऽप्रतीते तत्साद्रृश्यं प्रतीयते । तस्माज्ज्वलनस्याग्निशब्दो निमित्तम्, न माणवकस्य । तस्माज्ज्वलने मुख्यो न माणवके । एवमेव तृणप्रत्ययस्य बर्हिःशब्दो निमित्तम्, न तृणसदृशप्रत्ययस्य । तदेवं द्वैते सति मुख्यपरता शब्दस्य, उत गौणपरतापीति युक्तो विचारः । किं तावत्प्राप्तम्? मुख्ये गौणे च विनियोगः । कुतः? उभयस्य शक्यत्वादुभयमपि बर्हिःशब्देन शक्यते प्रत्याययितुम्, तृणं च तृणसदृशं च, तृणं साक्षात्, तृणसदृशं तृणप्रत्ययेन । यच्च नाम दर्शपूर्णमासयोः साधनभूतेन बर्हिःशब्देन शक्यते प्रत्याययितुम्, तत्सर्वं प्रत्याययितव्यम्, विनिगमनायां हेत्वभावात् । [२४५]{*३।१३०*} अपि चैवमाश्रीयमाणे पूषाद्यनुमन्त्रणादीनि दर्शपूर्णमासाभ्यां नोत्कृष्यन्ते{*३।१३१*}, तत्रैव गौणेनाभिधानेन प्रकृतां देवतामभिवदिष्यन्ति । एवं प्राप्ते ब्रूमः मुख्य एव विनियोक्तव्यो मन्त्रो न गौण इति । कुतः? उभयाशक्यत्वात्, प्रकरणे हि समाम्नानात्प्रधानेनैकवाक्यतामुपैति । तत्रैतदापतति यच्छक्नुयादनेन मन्त्रेण साधयितुम्, तथा साधयेदिति । स चासावर्थाभिधानसंयोगाच्छक्नोत्युपकर्तुम्, न गौणमर्थं शक्योत्यभिधातुम्, तस्मान्न गौणे विनियोगः । ननु मुख्यप्रत्ययाच्छक्यते गौणः प्रत्याययितुम् । सत्यमेतत्, मुख्यप्रत्यायनेनैवास्य प्रयोजनवत्ता निर्वृत्तेति न गौणं प्रति विनियोगे किंचित्प्रमाणमस्ति । मुख्ये विनियोगेन त्वानर्थक्यं परिह्रियते, परिहृत आनर्थक्ये न गौणाभिधानमापतति । न ह्यनभिधाय मुख्यम्, गौणमभिवदति शब्दः । अतः प्रमाणाभावान्न गौणे विनियुज्येत । अपि च गौणस्य प्रत्यायने सामर्थ्याद्बहवोऽभ्युपायाः प्राप्नुवन्ति, सामर्थ्यं च शब्दैकदेश इत्युक्तम् अर्थाद्वा कल्पनैकदेशात्वादिति{*३।१३२*}, तत्र मन्त्रे नियोगतो गौणं प्रति विनियुज्यमान उपायान्तरम्, विना प्रमाणेन बाध्येत । मन्त्राम्नानं प्रमाणमिति चेत् । न तस्योपायान्तरनिवृत्तौ सामर्थ्यमस्ति । ननु मुख्येऽपि विनियुज्यमान्स्यैष एव दोषः । नेत्युच्यते यदि मुख्येऽपि न विनियुज्येत, नैव प्रधानस्योपकुर्यात्तत्र चास्योत्पत्तिरनर्थिकैव स्यात् । तस्मादस्ति गौणे मुख्ये च विशेषः । अपि च यो गौणे मन्त्रं विनियुङ्क्ते, स वक्तव्यः किमर्थं मुख्यं प्रत्याययसि [२४६]{*३।१३३*} इति । स चेद्ब्रूयात् नान्यथा गौणप्रत्ययोऽस्तीति, प्रतिब्रूयादेनम् अन्येऽपि गौणप्रत्ययस्याभ्युपायाः सन्तीति । अथ स एवमभियुक्तः प्रतिब्रूयात्मुख्यप्रत्ययोऽपि पाक्षिकोऽभ्युपाय इति, ब्रूयादेनम् न तर्हि नियोगतो गौणे विनियोजनीयः, यदा गौणप्रत्ययाय मुखमुपादत्ते, तदैतदापतितं भवति, मुख्य एव विनियोग इति । अर्थेन च प्रतीतेन प्रयोजनम्, न प्रत्यायकेन मन्त्रेण, अतोऽन्येनाप्युपायेन गौणः प्रत्याययितव्यः, न स एव मन्त्र आदर्तव्यः । अथापि मन्त्रेण प्रत्यायकेन प्रयोजनं स्यात्, तथापि मुख्यप्रत्यायनेनैव निर्वृत्तं प्रयोजनमिति नतरां गौणे विनियुज्येत । तस्मान्मुख्यगौणयोर्मुख्ये कार्यसंप्रत्यय इति सिद्धम् । ण्Oट्Eष् *{३।१२७ E२,४,६ ज्वलनसंप्रत्ययः}* *{३।१२८ E२ ४,१२५॑ E४ ४,१॑ E६ १,१६७}* *{३।१२९ E२,४ ज्वलनप्रत्ययं}* *{३।१३० E२ ४,१२७॑ E४ ४,२॑ E६ १,१६८}* *{३।१३१ E१ (व् ।ल् ।) नोत्स्रक्ष्यन्ते}* *{३।१३२ ंष्१ ।४ ।३०}* *{३।१३३ E२ ४,१२९॑ E४ ४,३॑ E६ १,१६९}* ____________________________________________ संस्कारकत्वादचोदिते न स्यात् ॥ ३,२ ।२ ॥ अथ यदुक्तम् पूषाद्यनुमन्त्रणादीनामुत्कर्षो न भविष्यतीति, युक्तस्तेषामुत्कर्षः, संस्कारको हि मन्त्रः, सोऽसति संस्कार्येऽनर्थक इति यत्रार्थवांस्तत्र नाययिष्यते । न च कश्चिद्दोषो भविष्यति । ____________________________________________ वचनात्त्वयथार्थमैन्द्री स्यात् ॥ ३,२ ।३ ॥ अग्नौ श्रूयते निवेशनः संगमनो वसूनामित्यैन्द्र्या गार्हपत्यमुपतिष्ठत इति{*३।१३४*} । तत्र संदेहः किमिन्द्रस्योपस्थानं कर्तव्यम्, उत गार्हपत्यस्येति । कुतः पुनर्गार्हपत्यमुपतिष्ठत इत्येवं विस्पष्टे वचने संशय इति । उच्यते, [२४७]{*३।१३५*} यद्धि{*३।१३६*} वाक्येनोपस्थानं{*३।१३७*} तत्स्तुतिवचनेन संस्करणं न समीपस्थानमात्रम्, न च, ऐन्द्रेण मन्त्रेणाग्नेरभिधानं शक्यते कर्तुम् । अतो गार्हपत्यमुपतिष्ठत इति न गार्हपत्यार्थमुपस्थानमेतदिति जायेत शङ्का गार्हपत्य उपस्थानार्थो भवेदिति, तादृशश्च शब्दो नास्ति, तृतीयान्तः सप्तम्यन्तो वा । तस्माद्विचारः कथमुपपन्नं भवतीति । किं तावत्प्राप्तम्? सामर्थ्यादिन्द्रोपस्थानम्, अशक्यत्वाच्च गार्हप्त्योपस्थानस्य । कथं द्वितीया विभक्तिरिति चेत् । अविवक्सितेप्सितार्था वा संबन्धमात्रप्रधाना । यद्वोपस्थानविशेषणं संबन्धाद्गार्हपत्यशब्दः । तस्माद्गार्हपत्यविशिष्टमुपस्थानमिन्द्रार्थं कर्तव्यमिति । गार्हपत्यश्च देशेन विशिंष्यान्मुख्यमेव कार्यं मन्त्राणाम् । एवं प्राप्ते ब्रूमः वचनात्त्वयथार्थमैन्द्री स्यात् । नैतदस्तीन्द्रार्थमुपस्थानमिति, अयथार्थमैन्द्री स्यात् । कुतः? वचनसामर्थ्यात्, वचनमिदं भवति, ऐन्द्र्या गार्हपत्यमुपतिष्ठत इति, गार्हपत्ये द्वितीया विभक्तिः प्राधान्यमाह, किमिव वचनं न कुर्यात्, नास्ति वचनस्यातिभारः । तस्माद्गार्हपत्यार्थमुपस्थानम् । ण्Oट्Eष् *{३।१३४ ंैत् ।ष् । ३ ।२ ।४}* *{३।१३५ E२ ४,१३१॑ E४ ४,१४॑ E६ १,१६९}* *{३।१३६ E२,४ यदि}* *{३।१३७ E२ वाक्येनोपस्थाने}* ____________________________________________ गुणाद्वाप्यभिधानं स्यात्संबन्धस्याशास्त्रहेतुत्वात् ॥ ३,२ ।४ ॥ अत्राह नन्वेतदुक्तम् नैन्द्रेण मन्त्रेण गार्हपत्योपस्थानं भविष्यतीति । उच्यते, वचनाद्भविष्यति । आह न वचनशतेनापि शक्यमेतत्, इन्द्रशब्देनाग्निनं प्रत्याययेदिति ब्रुवन् विहन्येत, यथाग्निना सिञ्चेदिति{*३।१३८*}, उदकेन दीपयेदिति, न हि शास्त्रहेतुकः शब्दार्थयोः संबन्धो भवति । नित्यौऽसौ लोकतोऽवगम्यत इत्युक्तम् औत्प[२४८]{*३।१३९*}त्तिकस्तु शब्दस्यार्थेन संबन्ध इति{*३।१४०*} । ननु शब्दलक्षणोऽपि भवति शब्दार्थयोः संबन्धः कृत्रिमः, यथा देवदत्तो यज्ञदत्त इति । भवति कश्चित्, यत्र संबन्धस्य विधायकं वाक्यं भवति, न त्वेतद्वाक्यं शब्दार्थयोः संबन्धस्य विधायकम्, गार्हपत्यस्येन्द्रशब्दो नामेति, कथं तर्हि सिद्धसंबन्धेनेन्द्रशब्देन गार्हपत्यमुपतिष्ठत इति । न च शक्यते परशब्देन परो वदितुम् । किमत्र वचनं करिष्यति? अत्रोच्यते गुणाद्वाप्यभिधानं स्यात्संबन्धस्याशास्त्रहेतुत्वादिति, यद्यपि नेदं वाक्यं शब्दार्थसंबन्धस्य विधाने हेतुभूतम्, तथाप्यनेनेन्द्रशब्देन शक्यं कर्तुम् गार्हपत्याभिधानम् । कुतः? गुणसंयोगाद्गौणमिदमभिधानं भविष्यति, भवति हि गुणादप्यभिधानम्, यथा सिंहो देवदत्तः, अग्निर्माणवक इति । एवमिहाप्यनिन्द्रे गार्हपत्य इन्द्रशब्दो भविष्यति, अस्ति चास्येन्द्रसादृश्यम्{*३।१४१*}, यथैवेन्द्रो यज्ञसाधनम्, एवं गार्हपत्येऽपीति । अथवा इन्द्रतेरैश्वर्यकर्मण इन्द्रो भवति, भवति च गार्हपत्यस्यापि स्वस्मिन् कार्य ईश्वरत्वम् । तस्मादिन्द्रशब्देन यः प्रत्यायतेऽर्थः स प्रतीतः सादृश्याद्गार्हपत्यं प्रत्याययिष्यति, ऐश्वर्याद्वा प्रत्याययिष्यतीति न दोषः । ण्Oट्Eष् *{३।१३८ E२,४ ओम् । इति}* *{३।१३९ E२ ४,१६६॑ E४ ४,२१॑ E६ १,१७०}* *{३।१४० ंष्१ ।१ ।५}* *{३।१४१ E२,४,६ अस्ति तु चास्येन्द्रसादृश्यम्}* ____________________________________________ तथाह्वानमपीति चेत् ॥ ३,२ ।५ ॥ स्तो दर्शपूर्णमासौ, तत्रेदं समाम्नायते हविष्कृदेहि [२४९]{*३।१४२*} इति त्रिरवघ्नन्नाह्वयतीति । तत्र संदेहः किमेष मन्त्रोऽवहन्तिं प्रत्युपदिश्यते, उत हन्तिरस्य कालं लक्षयतीति । कथं हन्तिं प्रत्युपदिश्यते? कथं वा कालं लक्षयेत्? यद्येवं संबन्धः क्रियेत हविष्कृदेहीत्यवघ्नन्निति, ततो हन्तिं प्रत्युपदिश्यते, अथावघ्नन्नाह्वयतीति, ततोऽस्य कालं लक्ष्यतीति । किं तावत्प्राप्तम्? तथाह्वानमपि, यथैन्द्री गार्हपत्यं प्रत्युपदिश्यते, एवमेष मन्त्रो हन्तिं प्रत्युपदिश्यते । एवं श्रुतिरनुगृहीता भवति, इतरथा लक्षणा स्यात्, हन्तिकालस्य मन्त्रस्य च संबन्धो भवेत्, न हन्तेर्मन्त्रस्य । एवं च सत्याह्वयतीत्ययमनुवादः, आह्वानं करोति, यो ह्येहीति ब्रूते स आह्वयति, तत्र केनचिद्गुणेन मन्त्रो हन्तिं प्रत्याययिष्यति, तस्मान्नाह्वाने विनियोक्तव्यः । ण्Oट्Eष् *{३।१४२ E२ ४,१३४॑ E४ ४,२३॑ E६ १,१७१}* ____________________________________________ न कालविधिश्चोदितत्वात् ॥ ३,२ ।६ ॥ नैतदस्ति हन्तिं प्रत्युपदिश्यत इति । किं तर्हि? काललक्षणा स्यात् । कुतः? त्रिराह्वयतीति त्रित्वमत्र विधीयते, यद्यस्मिन्नेव वाक्ये मन्त्रो विधीयेत, अनेकगुणविधानाद्वाक्यं भिद्येत । तस्मान्नैवमभिसंबन्ध एवमवघ्नन्निति । कथं तर्हि, अवघ्नन्नाह्वयतीति । नन्वस्मिन्नपि पक्षे मन्त्रो विधीयते कालश्च, तत्र स एव दोषो भवेत् । नेति ब्रूमः, अवहननकाल एवार्थेन हविष्कृदाह्वातव्या, तत्रायमेव संबन्धोऽनूद्यते । केवला तु त्रिरावृत्तिर्विधीयते । यत्तु काललक्षणार्थः शब्द इति । नैष दोषः, लौकिकी हि लक्षणा । मन्त्रोऽपि च रूपादेवाह्वाने प्राप्तः, सोऽप्यनूद्यत एव, चोदितश्च वाक्यान्तरेणावघातः शक्नोति कालं लक्षयितुम् । तस्मादाह्वाने विनियोक्तव्य इति । [२५०]{*३।१४३*} ण्Oट्Eष् *{३।१४३ E२ ४,१३७॑ E४ ४,२९॑ E६ १,१७१}* ____________________________________________ गुणाभावात् ॥ ३,२ ।७ ॥ इदं पदोत्तरं सूत्रम्{*३।१४४*} । अथ कस्मान्न गुणादवहन्तिं ब्रूते? हविष्करोति ह्यवहन्तिः, तस्माद्धविष्कृत् । किमेवं भविष्यति? रूपादेवावहन्तौ मन्त्रे प्राप्ते केवलं त्रिरावृत्तिमेव वक्ष्यति न भविष्यति वाक्यभेद इति । अत्रोच्यते गुणाभावाद्गौणमभिधानमवहन्तौ न संभवतीति । न ह्यसावाहूतोऽस्मीत्यवगच्छति, तत्रादृष्टार्थमाह्वानं स्यात् । यजमानस्य पत्न्यां हविष्कृति दृष्टार्थमाह्वानम् । तस्मान्न हन्तिमन्त्र इति । ण्Oट्Eष् *{३।१४४ इदं पदोत्तरं सूत्रमिन्E१ गेक्लम्मेर्त्}* ____________________________________________ लिङ्गाच्च ॥ ३,२ ।८ ॥ लिङ्गं च भवति वाग्वै हविष्कृद्वाचमेवैतदाह्वयतीति{*३।१४५*}, न च वाचोऽवहन्तिना सादृश्यमस्ति, अस्ति तु यजमानस्य पत्न्या, सा हि स्त्री, वागिति च स्त्रीलिङ्गः शब्दः, अवहन्तिस्तु न स्त्री न पुमान्न नपुंसकमिति । नन्ववहन्तेरपि स्त्रीलिङ्गः शब्दोऽस्ति, क्रियेति । अत्र ब्रूमः न नियोगतोऽवहन्तेः स्त्रीलिङ्गः शब्दः, पुंलिङ्गोऽपि तस्यास्ति, अवघात इति । नपुंसकसिङ्गोऽपि, कर्मेति । अपि च, पत्न्याः स्वरूपेण सादृश्यम्, अवहन्तेः पररूपेण शब्देन । तस्मात्पत्न्यां हविष्कृति लिङ्गमनुरूपतरं भवति । ण्Oट्Eष् *{३।१४५ Vग्ल् । श्ড়्Bर्१ ।१ ।४ ।११}* ____________________________________________ विधिकोपश्चोपदेशे स्यात् ॥ ३,२ ।९ ॥ अवहन्तिमन्त्रे सत्यस्मिन्मन्त्रे विध्यन्तरकोपः स्यात् । अपहतं रक्ष इत्यवहन्त्यपहता यातुधाना इत्यवहन्तीति । तत्र पक्षेऽभावान्नित्यवच्छ्रूतिरुपध्येत । तस्मादवघ्नन्न् [२५१]{*३।१४६*} इति काललक्षणार्थ इति । मन्त्रोऽप्यह्वानार्थ इति{*३।१४७*} । ण्Oट्Eष् *{३।१४६ E२ ४,१३८॑ E४ ४,३२॑ E६ १,१७२}* *{३।१४७ E२,४,६ ओम् । मन्त्रोऽप्यह्वानार्थ इति}* ____________________________________________ तथोत्थानविसर्जने ॥ ३,२ ।१० ॥ ज्योतिष्टोमे श्रूयते उत्तिष्ठन्नन्वाह, अग्नीदग्नीन् विहर इति । तथा व्रतं कृणुतेति वाचं विसृजतीति{*३।१४८*} । तत्र संदेहः किमुत्थानं वाग्विसर्जनं च प्रति मन्त्रयोरुपदेशः, उत कालार्थः संयोग इति । अत्र पूर्वाधिकरण्यायोऽतिदिश्यते । यस्तत्र पूर्वः पक्षः, स इह पूर्वः पक्षः । यस्तत्र सिद्धान्तः, स इह सिद्धाण्तः । अग्नीदग्नीनित्येवमुत्तिष्ठन्नन्वाहेति, व्रतं कृणुतेत्येवं वाचं विसृजतीति पूर्वः पक्षः । लक्षणाभावात्, उत्तिष्ठन्नन्वाहेति सिद्धान्ते संबन्धः । व्रतं कृणुतेत्युच्यमाने वाचं विसृजतीति । वाक्येन पूर्वः पक्षः, लिङ्गेन सिद्धान्तः । यद्यपि च शक्यते, उत्थानक्रियाग्नीदग्नीन् विहरेति वक्तुम्, उत्थानेनाग्निरिध्यते, वह्निश्च विह्रियत इति । व्रतं कृणुतेति च वागभिधानम् । तथाप्यदृष्टार्थं वचनं भवतीति न मन्त्रयोरुत्थानविसर्जनार्थता कल्प्येत । कल्प्यमानायां च मन्त्रान्तरं विहितं बाध्येत याः पशूनामृषभो वाच इति । अपि चोत्थानवाग्विसर्गौ प्रति मन्त्रौ विधीयमानावदृष्टार्थौ स्याताम्, प्रेषणे तु दृष्ठार्थौ । तल्{*३।१४९*} लक्षणैवात्र न्याय्या । [२५२]{*३।१५०*} ण्Oट्Eष् *{३।१४८ टैत् ।ष् । ६ ।१ ।४ ।४}* *{३।१४९ E२,४ तस्माल्}* *{३।१५० E२ ४,१४०॑ E४ ४,३६॑ E६ १,१७३}* ____________________________________________ सूक्तवाके व कालविधिः परार्थत्वात् ॥ ३,२ ।११ ॥ दर्शपूर्णमासयोः श्रूयते सूक्तवाकेन प्रस्तरं प्रहरतीति{*३।१५१*} । तत्र संदेहः किं सूक्तवाकः प्रस्तरप्रकरणं प्रत्युपदिश्यते, उतेयं काललक्षणेति । तदुच्यते काललक्षणेति । कुतः? सूक्तवाकस्य देवतासंकीर्तनार्थत्वात्, प्रस्तरप्रकरणं च प्रत्यशक्तेः, प्रस्तरस्य च स्रुग्धारणार्थत्वात् । ण्Oट्Eष् *{३।१५१ Vग्ल् । टैत् ।Bर् । ३ ।४ ।१० ।१}* ____________________________________________ उपदेशो वा याज्याशब्दो हि नाकस्मात् ॥ ३,२ ।१२ ॥ उपदेशो वा प्रस्तरप्रकरणं प्रति मन्त्रस्य स्यात्, एवं श्रुतिविहितोऽर्थो भवति, सूक्तवाकेनेति करणविभक्तिसंयोगात्, इतरथा लक्षणा स्यात्, सूक्तवाकेन लक्षणेन प्रस्तरं प्रहरेदिति । एवं च कृत्वा याज्या शब्द उपपन्नो भवति, सूक्तवाक एव याज्या, प्रस्तर आहुतिरिति । ____________________________________________ स देवतार्थस्तत्संयोगात् ॥ ३,२ ।१३ ॥ यदुक्तम् देवतासंकीर्तने सूक्तवाकः समर्थः, न प्रस्तरप्रकरण इति । उच्यते न{*३।१५२*}, देवतावचनः{*३।१५३*} पर्करणेन संबध्यते, प्रकरणं हि यजिः, मान्त्रवर्णिको देवताविधिः, एवमभिसंबन्धः । अग्निरिदं हविरजुषतावीवृधत इत्य्{*३।१५४*} एवं देवतामनुक्रम्य, आशास्तेऽयं यजमान इत्य्{*३।१५५*} उक्त्वा, इदमिदमाशास्त इति च यदनेन हविषाशास्ते तदस्य स्याद्[२५३]{*३।१५६*} इति{*३।१५७*} प्रस्तरं हविर्निर्दिशति, अग्न्यादींश्च देवताविशेषान्, तेन प्रहरतिर्यजतिः । एवं सूक्तवाकेन प्रस्तरः प्रहर्तुं शक्यते, यदि प्रहरतिर्यजतिः, अग्न्यादिदेवताकश्च । तस्मात्सूक्तवाकस्य हरतिसंयोगोऽपि देवतार्थता घटत एव । यद्यग्निरिदं हविरजुषतावी वृधत इत्येवमाद्येव श्रूयेत । न, आशास्तेऽयं यजमान इत्येवमादीन्यपराणि, ततोऽग्न्यादय एवेष्टा नान्तरिता इत्येव पर्यवसितं वाक्यं भवेत् । यतस्तु खल्वाशास्तेऽयं यजमान इत्येवमादीन्यपराणि श्रूयन्ते, तेनेह पर्यवसानम्, अग्न्यादयः पुरोडाशादिभिरिष्टाः, अपरं तु यजमान आशास्ते । तदनेन प्रस्तरेण प्राप्नुयादिति । ननु सत्स्वप्येतेषु देवतासंकीर्तन एव पर्यवस्येत्, पुरोडाशादिभिरिष्टा अग्न्यादयः, तत एव यजमान आयुरादीन्यप्याशासानः प्राप्नुयादिति । उच्यते उभयथा संबन्धे सति प्रहरणे विनियोक्तव्यः, लिङं च न बाधितं भविष्यति, वाक्यं चानुग्रहीष्यत इति । अथवाग्निरिदं हविरजुषतेति प्रस्तर एव हविर्निदिश्यते । एवमिदमिति संनिहितवचनमुपपन्नं भविष्यतीति । ण्Oट्Eष् *{३।१५२ E२,४ स}* *{३।१५३ E२,४ देवतावचनः}* *{३।१५४ टैत् ।Bर् । ३ ।५ ।१० ।२॑ श्ড়्Bर्१ ।९ ।१ ।९}* *{३।१५५ टैत् । Bर् । ३ ।५ ।१० ।४॑ श्ড়्Bर्१ ।३ ।१ ।१२}* *{३।१५६ E२ ४,१४४॑ E४ ४,४४॑ E६ १,१७३}* *{३।१५७ श्ড়्Bर्१ ।९ ।१ ।१६}* ____________________________________________ प्रतिपत्तिरिति चेत्, स्विष्टकृद्वदुभयसंस्कारः स्यात् ॥ ३,२ ।१४ ॥{*३।१५८*} अथ स्रुग्धारणे विनियुक्तस्य प्रस्तरस्य प्रकरणं प्रतिप्रत्तिरित्युच्यते । तत्र प्रतिवचनं स्विष्टकृद्वदेतत्स्यादिति, यथा, इज्यार्थात्पुरोडाशात्, वचनप्रामाण्यात्स्विष्टकृदिज्यते, यागश्च स भवति, प्रतिपाद्यते च पुरोडाशः, एवं [२५४]{*३।१५९*} प्रतिपाद्येतैव हि प्रस्तरः, यागश्च निर्वर्त्यत इति न दोषः । प्रतिपाद्यमानोऽपि हि त्यज्यते । प्रत्यक्षतः प्रतिपाद्यते, वचनादिज्यां साधयतीत्येवं गम्यते । तस्मात्सूक्तवाकः प्रहरतिमन्त्र इति । ण्Oट्Eष् *{३।१५८ E२,४ स्पल्तेन् ंष्३ ।२ ।१४ इन् श्wएइ षूत्रस्, ददुर्छ्wएइछ्त्नुनौछिह्रे Z„ह्लुन्गब्प्रतिपत्तिरिति चेत् ॥ ३,२ ।१४ ॥ अथ स्रुग्धारणे विनियुक्तस्य प्रस्तरस्य प्रकरणं प्रतिप्रत्तिरित्युच्यते । स्विष्टकृद्वदुभयसंस्कारः स्यात् ॥ ३,२ ।१५ ॥ तत्र प्रतिवचनं । ।}* *{३।१५९ E२ ४,१४६॑ E४ ४,४९॑ E६ १,१७४}* ____________________________________________ कृत्स्नोपदेशादुभयत्र सर्ववचनम् ॥ ३,२ ।१५ ॥{*३।१६०*} दर्शपूर्णमासयोः सूक्तवाकेन प्रस्तरं प्रहरतीति श्रूयते । तत्र संदेहः किं पौर्णमास्यां कृत्स्नः सूक्तवाकः प्रयोक्तव्यः, कृत्स्नोऽमावास्यायाम्, उत यथासामर्थ्यं निष्कृष्य यथायथं प्रयोग इति । तदुच्यते उभयत्र सर्ववचनमिति । कुतह्? कृत्स्नो हि मन्त्रः सूक्तवाक इत्युच्यते, स पदेनापि विना, सूक्तवाको न स्यात्, तत्र सूक्तवाकेन न प्रहृतं भवेत् । तस्मादुभयत्र कृत्स्नः सूक्तवाको वदितव्यः । ण्Oट्Eष् *{३।१६० E२,४ ंष्३ ।२ ।१६}* ____________________________________________ यथार्थं वा शेषभूतसंस्कारात् ॥ ३,२ ।१६ ॥ ये पौर्णमासीदेवतातावाचिनः शब्दाः, ते पौर्णमास्यां प्रयोक्तव्याः, नामावास्यायाम् । येऽमावास्यादेवतावाचिनः, तेऽमावास्यायाम्, न पौर्णमास्यां । शेषभूतमर्थं संस्कुर्वन्तो मन्त्रा उपकुर्वन्ति, नान्यथेत्युक्तम् । तस्माद्ये यत्रोपकुर्वन्ति, ते तत्र प्रयोक्तव्या इति न कृत्स्नः पौर्णमास्याम्, न कृत्स्नश्चामावास्यायामिति । ____________________________________________ वचनादिति चेत् ॥ ३,२ ।१७ ॥ अथ यदुक्तम् वचनमिदं भविष्यति, सूक्तवाकेन प्रहरति [२५५]{*३।१६१*} इति । तत्र पदेनाप्यूनेन न सूक्तवाकेन प्रहृतं भवेत्, कृत्स्नस्य हि सूक्तवाकस्योपदेश इति । तदुच्यते ण्Oट्Eष् *{३।१६१ E२ ४,१४८॑ E४ ४,५४॑ E६ १,१७५}* ____________________________________________ प्रकरणाविभागादुभे प्रति कृत्स्नशब्दः ॥ ३,२ ।१८ ॥ उभे पौर्णमास्यमावास्ये प्रति एष कृत्स्नशब्दः, उभयोः प्रकरणात्, उभयोरसौ कृत्स्न उच्यते, अवयवेऽवयव इति । नैतदेवम्, न हि सापेक्षाणामितिकर्तव्यतया संबन्धः । न हीतिकर्तव्यतैतद्विशिष्टा श्रूयते, इतिकर्तव्यताविशिष्टास्त्वेते गम्यते । कुतः? न हीतिकर्तव्यतां प्रति कर्मणि विधीयण्ते, फलं प्रति तेषां विधिः, इतिकर्तव्यता तु कर्मणां विधीयते, तत्र संनिधानाविशेषात्, कस्य किं विधीयते, कस्य नेति न गम्यते विशेषः । साधनत्वेन च सर्वेषां निर्देशादितिकर्तव्यतायाः संनिधानाच्च, वचनाच्चास्य{*३।१६२*}, प्रकरणलिङ्गस्याविशेषात्, एकैकस्य कृत्स्नं प्रकरणं निराकाङ्क्षस्य, न सहायमपेक्षमाणस्य । तस्मादेकैकं प्रति कृत्स्नः सूक्तवाक उपदिश्यते । स विभागेऽपि प्रधानानाम्, कृत्स्न एव प्रयोक्तव्य इति यानि यत्रानर्थकानि पदानि, तान्यपि तत्र प्रयोक्तव्यान्यदृष्टाय भविष्यन्ति, सूक्तवाकेन प्रहरतीति वचनात्, नास्ति वचनस्यातिभारः, गुणेन वा केनचिदभिधानं तासां देवतानां निर्वर्तयिष्यन्तीति । अत्रोच्यते, नैतदेवम् । उक्तम् मुख्यमेव कार्यं मन्त्राणाम्, न गौणमिति{*३।१६३*}, संस्कारार्थत्वाद्वोत्कर्षो{*३।१६४*} न्याय्यः, न गौणमभिधानमिति । कस्तर्हि कृत्स्नसंयोगस्य समाधिरुच्यत इति । एष समाधिः, न ह्येतदेकं वाक्यम्, यः [२५६]{*३।१६५*} कृत्स्नः सूक्तवाकः, बहून्येतानि वाक्यानि, येषां प्रधानदेवताभिधायीनि पदानि मध्ये, साधारणानि तन्त्रपदानि पुरस्तादुच्चार्यन्ते, तथा परस्तात् । यथा अग्निरिदं हविरजुषतावी वृधत महोज्यायोकृताग्नीषोमाविदं हविरजुषेतामवी वृधेतामित्येवमादीनि{*३।१६६*} । तेषां पुरस्तात्तन्त्रम् यथा, इदं द्यावापृथिवीति, परस्तादपि यथा, अस्यामृधेदिति । तान्येतानि सर्वाणि सूक्तवचनेन सूक्तवाकशब्दं लभ्यन्ते । न च तेषां समुदायः किंचिदर्थं वदति । तस्मान्न समुदायः सूक्तवाकः, न च साक्षात्साधनम्, सूक्तवाकसामान्यस्यैकत्वात्, सूक्तवाको वर्तत इत्येकवचनं भवति । सूक्तवाकेन प्रस्तरं प्रहरतीति तु येन केनचित्सूक्तवाकेन प्रह्रियमाणे यथाश्रुतं कृतं भवति । तस्मात्समुदायः सूक्तवाकः । यत्त्वमावास्यादेवतावाचीनि पदानि, न पौर्णमास्यां प्रयुज्यन्ते, न तत्र सूक्तवाकशब्दो बाध्यते, प्रकरणं तत्र लिङ्गेन बाधितम्, तच्च न्याय्यमेव । तस्मात्पौर्णमास्याममावास्यायां च विभज्य सूक्तवाकः प्रयोक्तव्य इति । ण्Oट्Eष् *{३।१६२ E२ संनिधानावचनाच्च, अस्य, E४ संनिधानादवचनाच्च, अस्य}* *{३।१६३ Zउ ंष्३ ।२ ।१}* *{३।१६४ E२,४,६ एवोत्कर्षो}* *{३।१६५ E२ ४,१५२॑ E४ ४,५५॑ E६ १,१७५}* *{३।१६६ १ । टेइल्टैत् ।Bर् । ३ ।५ ।१० ।२}* ____________________________________________ लिङ्गक्रमसमाख्यानात्काम्ययुक्तं समाम्नानम् ॥ ३,२ ।१९ ॥ इह काम्ययाज्यानुवाक्याकाण्डमुदाहरणम् इन्द्राग्नी रोचना दिवः{*३।१६७*}, प्रवर्षणिभ्यः{*३।१६८*}, इन्द्राग्नी नवतिं पुरः{*३।१६९*}, श्लथद्वृत्रम्{*३।१७०*} इत्येवमाद्या ऋचः । अपरा अपि काम्या इष्टयः ऐन्द्राग्नमेकादशकपालं निर्वपेत्, यस्य सजाता वियायुः, ऐन्द्राग्नमेकादशकपालं निर्वपेद्भ्रातृव्यवान्, अग्नये वैश्वानराय द्वादशकपालं [२५७]{*३।१७१*} निर्वपेद्रुक्कामः, अग्नये वैश्वानराय द्वादशकपालं निर्वपेत्सपत्नमभिद्रोष्यन्नित्येवमाद्याः । तदेता याज्यानुवाक्याः प्रति संदेहः किं यावत्किंचिदैन्द्राग्नं कर्म, तत्र सर्वत्रानेनैन्द्राग्नेन याज्यानुवाक्यायुगलेन भवितव्यम्, उतैतस्यामेवैन्द्राग्न्यामिष्टौ काम्यायामिति । एवं वैश्वानरीययोर्याज्यानुवाक्ययोः, एवं सर्वत्र । किं तावत्प्राप्तम्? यावत्किंचिदैन्द्राग्नं वैश्वावरीयमग्नीषोमीयं जातवेदसं च सर्वत्रैता याज्यानुवाक्या भवेयुः । कुतः? लिङ्गात् । ननु क्रमसमाख्याने विशेषके भविष्यतः । सत्यम्, तथापि क्रमं समाख्यां च शक्नोति लिङ्गं बाधितुमिति । एवं प्राप्ते ब्रूमः लिङ्गक्रमसमाख्यानात्तास्वेव काम्यास्वेता याज्यानुवाक्या इति गम्यते, य एव हि लिङ्गक्रम एषां कर्मणाम्, स एवासां याज्यानुवाक्यानाम्, तेन तासामेव ताः शेषभूता इति । ननु लिङ्गं बलवत्तरमित्युक्तम् । सत्यमेतत्, इह तु समाख्या बलीयसी, न ह्येताः समाख्यानादृत एषां काम्यानां कर्मणां प्राप्नुवन्ति, न भिन्नदेशानां कर्मणाम् । कुतः? समाख्यामन्तरेणासामृतां याज्यानुवाक्यात्वमेव न विज्ञायते, कुतो भिन्नदेशानां कर्मणां याज्यानुवाक्या भविष्यन्तीति, या चैषां समाख्या, सा काम्यानामेव याज्यानुवाक्यात्वमाचष्टे न सर्वेषाम् । यदि समाख्या नाद्रियते, याज्यानुवाक्यात्वमेवैषां न भवति, यद्याद्रियते, तदा काम्यानामेव । एवं हि तत्समाख्यायते काम्ययाज्यानुवाक्याकाण्डमिति । अथ किमर्थमुभयमुपदिश्यते लिङ्गक्रमादिति, समाख्यानादिति च । अस्ति तत्र पाथिकृतीयं व्रातपतीयं च कर्म, सामिधेनीकार्यमप्यस्ति, याज्यानुवाक्याकार्यमपि । यदि लिङ्गक्रमादित्येतावदेवोच्यते, सामिधेनीकार्येऽपि लिङ्गेन [२५८]{*३।१७२*} तासां विनियोगः स्यात् । अथ किमर्थं लिङ्गक्रमौ व्यपदिश्येते? सर्वा याज्यानुवाक्याकार्य एव विनियुज्येरन्, सामिधेनीषु विनियोगो न स्यात् । अथ पुनः समाख्यानाल्लिङ्गक्रमाच्च निर्वृत्ते याज्यानुवाक्याकार्ये, सामिधेनीषु विनियोगः सिद्धो भवति, यथाग्निवारुण्या इष्टेः क्रमेऽतीते सौमारौद्रीणामनागते, मनोरृचस्ताः सामिधेनीषु धाय्या इत्युच्यन्ते, तथा पृथुयाजास्तं संबाध इति द्वे धाय्ये कल्प्येते । तस्मादुभयं व्यपदेष्टव्यमिति । ण्Oट्Eष् *{३।१६७ ंैत् ।ष् । ४ ।१० ।४}* *{३।१६८ ंैत् ।ष् । ४ ।१० ।४}* *{३।१६९ ंैत् ।ष् । ४ ।१० ।५}* *{३।१७० ंैत् ।ष् । ४ ।१० ।५॑ Kआठ ।ष् । ४ ।१५}* *{३।१७१ E२ ४,१५५॑ E४ ४,६५॑ E६ १,१७६}* *{३।१७२ E२ ४,१५६॑ E४ ४,६५॑ E६ १,१७७}* ____________________________________________ अधिकारे च मन्त्रविधिरतदाख्येषु शिष्टत्वात् ॥ ३,२ ।२० ॥ ज्योतिष्टोमे श्रूयते आग्नेय्या अग्नीध्रम्{*३।१७३*} उपतिष्ठते{*३।१७४*}, ऐन्द्र्या सदः, वैष्णव्या हविर्धानम्{*३।१७५*} इति । तत्र संदेहः किं प्रकृताभिरेवंलिङ्गवतीभिरुपस्थातव्यम्, उत दाशतयीभ्य एवंलिङ्गा आगमयितव्या इति । किं तावत्प्राप्तम् । प्रकरणे च मन्त्रो लिङ्गेन विधीयमानो दाशतयीभ्य एवागमयितव्यः, आग्नेयीत्येवमादिभिर्हि शक्या दाशतयोऽभिवदितुम् । यश्चायं प्रकृतः, स कार्यान्तरे विनियुक्तः, नेहाप्युपदेशमर्हति । उपदिष्टोपदेशो हि न न्याय्य एवंजातीयकस्य । कथं जातीयकस्य? यः कस्मिंश्चिद्विशेषेणोपदिष्टः, नासौ सामान्येन लिङ्गेनान्यात्रोपदेशमर्हति । कथम्? यदि तल्लिङ्गं तस्य लक्षणत्वेन, ततः स विशिष्टो लक्ष्येत [२५९]{*३।१७६*} येनानेनैवंलिङ्गेनैतत्करोतीति, ततो नोपदिष्टो भवति । अथोपदिश्यते एवंलिङ्गेन करोतीति, ततो न लक्ष्यते, तेनोपदिष्टस्यैवंजातीयकस्यैवंजातीयकः पुनरुपदेशो न न्याय्यः । तस्माद्दाशतया लिङ्गवन्तो मन्त्रा ग्रहीतव्याः । ननु प्रकरणसामर्थ्यतः प्रकृता ग्रहीतुं न्याय्याः । नेत्युच्यते, लिङ्गं हि प्रकरणाद्बलीयः । आह, विरोधे सति लिङ्गेन प्रकरणं बाध्येत, न चैतयोर्विरोधः, न वयं प्रकरणमनुजिघृक्षन्तः प्रकृतं लिङ्गवन्तमुपाददाना लिङ्गमुपबाधेमहि{*३।१७७*} । यदि तु प्रकृतं विलिङ्गमुपददेमहि{*३।१७८*}, ततो बाधेमहि लिङ्गम् । उभयं संपादयिष्यामः प्रकरणं लिङ्गं च । नैतदेवम्, लिङ्गेन प्रत्ययो भवति, दाशतयेनापि कर्तव्यमिति, दाशतयोऽपि ह्याग्नेयीशब्देन शक्यन्ते वदितुम्, स प्रत्ययो लिङ्गजनितो यन्मिथ्येति कल्प्यते, तत्प्रकरणानुरोधात् । स चेत्प्रकरणमनुरुध्यते, मिथ्येति कल्प्यते, अथ नानुरुध्यते सम्यगिति, तस्माद्विरोधः । विरोधे च प्रकरणदौर्बल्यम् । उच्यते तल्लिङ्गवत्तानेनोपस्थानेनानुग्रहीतव्या, न दाशतयी मन्त्रव्याक्तिः, सा च प्रकृते मन्त्र उपादीयमाने निरवशेषा उपात्ता भवति, दाशतयां पुनर्मन्त्रव्यक्तावुपादीयमानायां प्रकरणाद्या मन्त्रव्यक्तिः प्राप्नोति, सा बाधिता भवति, असति विरोधे । न च, इह लिङ्गप्रकरणयोर्विरोधः, प्रकरणाद्व्याक्तिः प्रतीयते, लिङ्गात्सामान्यम्, अन्या च व्यक्तिः, अन्यत्सामान्यम् । तस्मात्प्रकृतो लिङ्गवानुपादेय इति । उच्यते, सत्यमेवमेतत्प्रकृत उपादीयमाने प्रकरणं न बाधितं भवति, लिङ्गमप्यनुगृहीतम्, लिङ्गजनितस्तु प्रत्ययः कश्चिन्मिथ्येति कल्पितो भवति । ननु व्यक्तिरपदार्थः, कथं{*३।१७९*} व्यक्तावनुपादीयमानायां प्रत्ययो बाध्येत? उच्यते एतदेव न [२६०]{*३।१८०*} विजानीमो लिङ्गवत्तात्राङ्गं न वेति । किं तु तद्धितर्निर्देशोऽयम्, तत्र देवताया मन्त्रो लक्ष्यते, मन्त्रव्यक्तिर्हि साधनम्, न सामान्यं नाम किंचिदपरम्, देवतैवात्र सामान्यम्, ययासाधनं{*३।१८१*} लक्षयितव्यम् । न च गम्यते विशेषः अयमसौ मन्त्रो नायमसाविति, अनवगम्यमाने विशेषे सर्वे तल्लिङ्गा ग्रहीतव्या इति, दाशतयामपि मन्त्रव्यक्तौ भवति प्रत्ययः, स प्रकरणानुरोधेन बाध्येतेत्यन्याय्यम् । एवं सति न दाशतय एवोपादातव्या भवन्ति, प्रकृतमप्युपाददीरन् । नन्वेतदुक्तम्, कार्यान्तरे प्रकृतस्योपदेशो नासावर्थान्तर उपदेक्ष्यत इति । उच्यते, न नियोगतः स एवार्थान्तरे वर्तते, स चान्यश्च सामान्येन लिङ्गेन । नैवं सति किंचिद्दुष्यति । नन्वेतद्दुष्यति नोभयमनुगृहीतं भवति लिङ्गं प्रकरणं च । सत्यम्, नानुगृहीतं भवति, किं त्वननुग्राह्यमेव प्रकरणं लिङ्गप्रत्ययविरुद्धत्वात् । अपि च न लिङ्गं प्रकरणं चानुग्रहीतव्यमिति, तत्परिच्छिन्ने प्रवृत्तिर्भवति, यदवगम्यते एतत्फलवदिति । तत्र प्रवर्तते । किमतो यद्येवम्? एतदतो भवति, न लिङ्गमनुगृहीतं क्वचिदित्यपरस्मिंस्तत्परिच्छिन्ने न प्रवृत्तिर्भवितुमर्हति । तस्माद्दाशतयो ग्रहीतव्या इति गम्यते । ण्Oट्Eष् *{३।१७३ E२,४,६ आग्नीध्रम्}* *{३।१७४ Vग्ल् । टैत् ।ष् । ३ ।१ ।६ ।१}* *{३।१७५ टैत् ।ष् । ३ ।१ ।६ ।१}* *{३।१७६ E२ ४,१६०॑ E४ ४,७१॑ E६ १,१७७}* *{३।१७७ E२,४ अपबाधेमहि}* *{३।१७८ E२,४ उपाददीमहि॑ E६, E४ (व् ।ल् ।) उपाददेमहि}* *{३।१७९ E२,४ ओम् । कथं}* *{३।१८० E२ ४,१६२॑ E४ ४,७१॑ E६ १,१७८}* *{३।१८१ E२,४ यथा साधनं}* ____________________________________________ तदाख्यो वा प्रकरणोपपत्तिभ्याम् ॥ ३,२ ।२१ ॥ तदाख्यो ज्योतिष्टोमसमाख्यातः{*३।१८२*} एव ग्रहीतव्यः । कुतः? प्रकरणोपपत्तिभ्याम्, प्रकृतो ह्यसौ, प्रकृतप्रत्ययश्च न्याय्यः । कथम्? न ज्योतिष्टोमं प्रति मन्त्रस्य व्यापारविधानमुपपद्यते, प्राप्तत्वादेव । व्यापारविशेषविधानं तूपपद्यते, अप्राप्तत्वाद्व्यापारविशेषस्य, अनपेक्ष्य च प्रकरणं दाशतये विधीयमाने वाक्यं भिद्येत । उपस्थानं च कुर्यात् । तच्चैवं लिङ्गेनेति । [२६१]{*३।१८३*} ण्Oट्Eष् *{३।१८२ E१ गिब्त्ज्योतिष्टोमसमाख्यातः इन् Kलम्मेर्न्}* *{३।१८३ E२ ४,१६७॑ E४ ४,८७॑ E६ १,१७९}* ____________________________________________ अनर्थकश्चोपदेशः स्यादसंबन्धात्फलवता, न ह्युपस्थानं फलवत् ॥ ३,२ ।२२ ॥ ननु च प्रकरणाज्ज्योतिष्टोमस्योपकारकं स्यात् । यद्युपस्थानज्योतिष्ट्मसंबन्धो विवक्ष्येत, तदोपस्थानं ज्योतिष्टोमे उपदिश्येत, प्रकरणात्तेनैकवाक्यतामियात् । यदा तु खलूपस्थानस्य मन्त्रसंबन्धो विवक्ष्यते सर्वोपस्थानेषु,तदा मन्त्रः प्राप्नोति, प्रकरणं बाधित्वा । न प्रकरणं विशेषकं भवितुमर्हति, उभयसंबन्धे वाक्यभेदः । अस्मत्पक्षे न पुनरयं दोषः, येनाग्नेयेनैन्द्रेण वा ज्योतिष्टोमे व्यापारः क्रियते, तेन उपस्थानव्यापारविशेषः तदा ज्योतिष्टोमिको विधीयते, अन्यत्सर्वमनूद्यत इति न दोषो भवति । अथवा, अग्नीध्रहविर्{*३।१८४*} धानसदः संबन्धमात्रं विधीयते, उपतिष्ठत इत्ययमनुवादः, अनेन मन्त्रेणाग्नीध्रम्{*३।१८५*} उपतिष्ठत इति समासीदतीत्यर्थः । तस्मात्प्रकृता मन्त्रा एवंजातीयका उपादातव्या इति । ण्Oट्Eष् *{३।१८४ E२,४,६ आग्नीध्रहविर्}* *{३।१८५ E१ अग्निध्रम्}* ____________________________________________ सर्वेषां चोपदिष्टत्वात् ॥ ३,२ ।२३ ॥ यदप्युक्तमुपदिष्टा हि ते प्रकृताः कार्यन्तर इति । तदुच्यते, उक्तोत्तरमेतत् । अपि च न केनचिन्नोपदिष्टाः{*३।१८६*}, सर्वे वाचास्तोम आश्विने शस्यमाने सूर्येऽनुद्यति, तेन न प्रकृते कश्चिद्विषेशः । तस्मात्प्रकृतस्यैव ग्रहणम् । [२६२]{*३।१८७*} ण्Oट्Eष् *{३।१८६ E२ अपि च केवलमेत एवोपदिष्टाः, E४ अपि च न केवलमेत एवोपदिष्टाः}* *{३।१८७ E२ ४,१६९॑ E४ ४,९१॑ E६ १,१८०}* ____________________________________________ लिङ्गसमाख्यानाभ्यां भक्षार्थतानुवाकस्य ॥ ३,२ ।२४ ॥ भक्षमन्त्रः श्रूयते भक्षे हि मा विश दीर्घायुत्वाय शंतनुत्वाय रायस्पोषाय वर्चसे सुप्रजास्त्वाय । एहि वसो पुरोवसो प्रियो मे हृदोऽस्यश्विनोस्त्वा बाहुभ्यां सध्यासम् । नृचक्षसं त्वा देव सोम सुचक्षा अवख्येषम् । हिन्व मे गात्रा हरिवो गणान्मे मा वितीतृषः, शिवो मे सप्तर्षीनुपतिष्ठस्व मा मेऽवाङ्नाभिमतिगाः मन्द्राभिभूतिः केतुर्यज्ञानं वाग्जुषाणा सोमस्य तृप्यतु, वसुमद्गणस्य रुद्रमद्गणस्यादित्यवद्गणस्य सोमदेवते मतिविदः प्रातःसवनस्य माध्यंदिनस्य सवनस्य तृतीयसवनस्य गायत्रच्छन्दसस्त्रिष्टुप्छन्दसो जगच्छन्दसोऽग्निहुत{*३।१८८*} इन्द्रपीतस्य नराशंसपीतस्य पितृपीतस्य मधुमत उपहूतस्योपहूतो भक्षयामीत्येवमादिः{*३।१८९*} । तत्र संदेहः किं कृत्स्न एषोऽनुवाको भक्षणे विनियोजनीयः, उत कश्चिदस्यावयवोऽन्यत्रापीति । किं प्राप्तम्? लिङ्गसमाख्यानाभ्यां भक्षार्थतानुवाकस्य, सर्वोऽनुवाको भक्षणे विनियोजनीयः । कुतः? भक्षयामीत्येष शब्दो व्यक्तं भक्षणे विनियोजनीयः, भक्षणमेष शक्नोति वदितुम्, नान्यत्किंचित् । अन्यानि चास्य पदानि भक्षणविशेषणवचनान्येव, यत्र यत्र भक्षयामीति, तत्र तत्र प्रयुज्यन्ते । ननु एहि वसो इत्येवमादि सध्यासमित्येवमन्तं ग्रहणार्थम्, स्वेन पदसमूहेन परस्पराकाङ्क्षिणैकार्थम्, विभिन्नं भक्षणवाक्यात् । नृचक्षसमित्येवमाद्यवख्येषमित्येवमन्तमवेक्षणवचनम् । हिन्व मे गात्रा हरिव इत्येवमादि च [२६३]{*३।१९०*} मा मे वाङ्नाभिमतिगा इत्येवमन्तं सम्यग्जरणार्थम् । तद्बहुत्वादर्थानाम्, बहूनि वाक्यानि । कथमेतच्छक्यं वदितुं सर्वमिदमेकं वाक्यं भक्षणे विनियुज्यत इति । उच्यते सर्वाण्येतानि भक्षणविशेषविशेषणानीत्युक्तम् । आह, एवमपि भिद्येत वाक्यं विशेषणविशेष्याणां युगपद्वचनासंभवात् । उच्यते न विशेषणानि विवक्षिष्यामः, विशेषणैर्ग्रहणावेक्षणादिभिर्विशिष्ट एकोऽर्थो विवक्ष्यते । नैवं सम्यग्भवति, विशेषणवचनानामविवक्षितस्वार्थवचनता, भक्षणविशेषणपरता चेति, लक्षणया तु गम्यते । श्रुतिलक्षणाविषये च श्रुतिर्न्याय्या, न लक्षणा, तस्मान्नैकं वाक्यमिति । अत्रोच्यते यद्यप्यमी ग्रहणादयो बहवोऽर्था गम्यन्ते, न तु सर्व ईप्सिता इति, भक्षणमेवैकं प्रत्याययितव्यम् । तद्धि श्रुतम्, विशेषणान्यश्रुतानि, न तैः प्रतीतैः प्रयोजनम्, प्रयोजनं च यावतः पदसमूहस्यैकम्, तावदेकं वाक्यम् । तस्माद्विशिष्टभक्षणार्थमेतदेकं वाक्यमिति भक्षणे विनियोक्तव्यम् । समाख्यानं च भवति भक्षानुवाक इति, कृत्स्नश्चानुवाको नावयवः । ननु च समाख्या लौकिकः शब्दः कथं वैदिकमङ्गं नियंस्यतीति । यद्यपि लौकिकः, तथाप्यनादिः तस्यानुवाकेन संबन्धः । किमतो यद्येवम्? एतदतो भवति, भक्षणसमभिव्याहृतमनुवाकं ब्रूते, समभिव्याहारश्च सति संबन्धे भवति, यथा पाचको लावक इति समभिव्याहारात्संबन्धमनुमास्यामहे । आह नानुमानगम्य एवंजातीयकेष्वङ्गभावः, विधानादेवावगम्यते, नान्यथा, न च समाख्या विधात्री । अत्रोच्यते समाख्या संबन्धिनौ बुद्धौ संनिधिमुपनेष्यति, प्रयोगवचनो विधास्यतीति । तस्मात्कृत्स्नोऽनुवाको भक्षणे विनियोक्तव्य इति । [२६४]{*३।१९१*} ण्Oट्Eष् *{३।१८८ E२,४,६ऽग्निष्टुत}* *{३।१८९ टैत् ।ष् । ३ ।२ ।५ ।१३}* *{३।१९० E२ ४,१७०॑ E४ ४,९२॑ E६ १,१८०}* *{३।१९१ E२ ४,१७२॑ E४ ४,९८॑ E६ १,१८१}* ____________________________________________ तस्य रूपोपदेशाभ्यामपकर्षोऽर्थस्य चोदितत्वात् ॥ ३,२ ।२५ ॥ नैतदेवं कृत्स्नोऽनुवाको भक्षणे विनियुज्यत इति । रूपाद्ग्रहणवाक्यं ग्रहणे विनियुज्येत, एहीत्येवमादि सध्यासमित्येवमन्तम् । नृचक्षसमित्येवमादि चावख्येषमित्येवमन्तं दर्शने । कुतः? मुख्यार्थमेवं तद्वाक्यं भवति, इतरथा लक्षणार्थता स्यात्, मुख्यार्थता च न्याय्या न लक्ष्यार्थता । उच्यते विशेषणानामभिधाने, न किंचिदस्ति प्रयोजनमित्युक्तम् । अत्रोच्यते नैवैतानि विशेषणानि, पृथगेवैतानि ग्रहणादीनि स्वैः स्वैर्वाक्यैरुच्यन्त इति । कुतः? अस्ति हि तैः प्रयोजनम्, चोदितानि हि तानि, कानिचित्तु पृथग्वाक्यैः, कानिचिदर्थप्राप्तानि, तान्यवश्यं प्रकाशयितव्यानि । तानि प्रकाशयिष्यन्त्येतानि वाक्यानि । रूपं चैषां तत्प्रकाशनसामर्थ्यम्, अतो नानार्थत्वान्नैकं वाक्यमुच्यते । ननु भक्षणवाक्यशेषी भवितुमप्येषां रूपमिति । उच्यते बाढमस्ति रूपम्, न तु तद्विशेषणान्येतानि कल्प्यन्ते । कस्य हेतोरदृष्टार्थानि तथा भवन्ति? उक्तैरनुक्तैर्वा विशेषणैस्तावानेव सोऽर्थः, इतरथा ग्रहणादीनि प्रकाशयिष्यन्ति, तथा दृष्टार्थानि भविष्यन्ति । तस्माद्रूपोपदेशाभ्यामपक्र्षो भवेत्केषांचिदत्रेति । ____________________________________________ गुणाभिधानान्मन्द्रादिरेकमन्त्रः स्यात्तयोरेकार्थसंयोगात् ॥ ३,२ ।२६ ॥ भक्षानुवाके श्रूयते मन्द्राभिभूतिः केतुर्यज्ञानां वाग्जु[२६५]{*३।१९२*}षाणा सोमस्य तृप्यतु । वसुमद्गुणस्य सोमदेवते मतिविदः प्रातःसवनस्य गायत्रछन्दसोऽग्निहुत{*३।१९३*} इन्द्रपीतस्य मधुमत उपहूतस्योपहूतो भक्षयामीति{*३।१९४*} । तत्र संदेहः किं मन्द्रादिः तृप्यत्वित्येवमन्त एको मन्त्रः, वसुमद्गणादिरपरः, उत मन्द्रादिर्भक्षयाम्यन्त एक एव मन्त्र इति । किं तावत्प्राप्तम्? द्वौ मन्त्रौ, द्वौ ह्येतावर्थौ, अन्या तृप्तिरन्यद्भक्षणम्, ततोऽर्थभेदाद्वाक्यभेदः । तदुक्तम् तस्य रूपोपदेशाभ्यामपकर्षोऽर्थस्य चोदितत्वादिति । एवं प्राप्ते ब्रूमः गुणाभिधानान्मन्द्रादिरेकमन्त्रः स्यादिति, तृप्तिर्भक्षणाविशेषणत्वेनाभिधीयत इति{*३।१९५*} । भक्षयामि वाक्तर्प्स्यतीति । ननु तृप्यत्वित्येषोऽन्यः शब्दः, अन्यश्च तर्प्स्यतीति, एषा भविष्यन्ती क्रियायामुपपदभूतायां भवतीति, तत्र द्वयोः क्रिययोरस्ति संबन्धो भक्षयामि वाक्तर्प्स्यतीति । इह पुनर्भक्षयामि तृप्यत्विति नास्ति कश्चित्संबन्धः । उच्यते न ह्ययं विधौ तृप्यत्विति विज्ञायते । क्व तर्हि? प्रार्थनायां वा प्राप्तकाले वा । यदि भक्षयामि वाक्तर्प्स्यतीत्येवमभिसंबन्धः क्रियते । यदि वा भक्षयांि वाचस्तर्प्तुं प्राप्तः काल इति, तेन विशेषणविशेष्यभावादेकार्थतायामेकवाक्यत्वे मन्त्रैक्यमुपपद्यते । ननु निराकाङ्क्ष एते वाक्ये भङ्क्त्वा रूपं साकाङ्क्षे क्रियेते । अत्रोच्यते यद्यप्येते वाक्ये भिन्नार्थे निराकाङ्क्षे द्वावर्थावभिवदेयाताम्, तथापि भक्षणस्य प्रकाशनं दृष्टं प्रयोजनं न तर्पणस्य, इति कृत्वैकार्थ्यमेव भवेत् । किमङ्ग पुनर्गुणभावे गम्यमान एवात्र । तस्माद्गुणाभिधानान्मन्द्रादिरेकमन्त्रः स्यादिति । [२६६]{*३।१९६*} ण्Oट्Eष् *{३।१९२ E२ ४,१७४॑ E४ ४,१०२॑ E६ १,१८२}* *{३।१९३ E२,४,६ऽग्निष्टुत}* *{३।१९४ टैत् ।ष् । ३ ।२ ।५ ।१२}* *{३।१९५ E२,४,६ ओम् । इति}* *{३।१९६ E२ ४,१७५॑ E४ ४,१०४॑ E६ १,१८३}* ____________________________________________ लिङ्गविशेषनिर्देशात्समानविधानेष्वनैन्द्राणाममन्त्रत्वम् ॥ ३,२ ।२७ ॥ एष एव मन्त्र उदाहरणम् इह च प्रदानान्यैन्द्राण्यनैन्द्राणि च विद्यन्ते, तेषां भक्षणान्यपि सन्ति । तत्र संदेहः किमैन्द्रेष्वनैन्द्रेषु च मन्त्रः, उतैन्द्रेष्वेव मन्त्रः, अनैन्द्राणाममन्त्रकं भक्षणमिति । किं तावत्प्राप्तम्? अनैण्द्राणाममन्त्रकं भक्षणमिति । कुतः? समानविधानान्येतानि प्रदानानि, तेष्विन्द्रपीतस्येति मन्त्रोऽनिन्द्रपीतं न शक्नोति वदितुम्, न च समानप्रकरण ऊहः संभवति, असति वचनेऽन्यार्थानभिधानात् । तस्मादमन्त्रकं भक्षणमेवंजातीयकेष्विति । ____________________________________________ यथादेवतं वा तत्प्रकृतित्वं हि दर्शयति ॥ ३,२ ।२८ ॥ अथवा यथादेवतमूहेन लक्षयितव्यं कस्मात्? ध्रुवचमसा हि प्रकृतिभूताः । के पुनर्ध्रुवचमसाः? ये शुक्रामन्थिप्रचारे सवनमुखीयाः, ऐन्द्रास्ते भवन्ति, तेषां प्रकृतिभूतं प्रदानम्, विकृतिभूतान्यन्यानि । कथमवगम्यते? तत्प्रकृतित्वं हि दर्शयति । कथम्? अनुष्टुप्छन्दस इति षोडशिन्यतिरात्रे भक्षमन्त्रं नमतीति । किमत्र दर्शनम्? नमतीति विपरिणामं दर्शयति । ननु वचनमेतत्स्यात् । नेत्युच्यते, नैतन्नमतीति श्रूयते । कथं तर्हि एवं नमतीति, अनुष्टुप्छन्दस इति भक्षमन्त्रं नमतीति, स एष ऊहो विकारेषूपपद्यते, [२६७]{*३।१९७*} तस्मादेते विकाराः, अतोऽनैन्द्रेष्वपि चोदकप्राप्तो मन्त्र ऊहितव्यो भवति । उच्यते विकारा एत इति लिङ्गमपदिष्टम्, न्यायोऽभिधीयतामिति । उच्यते ऐन्द्रः सोमो गृह्यते मीयते च, तेनैन्द्रेषु सोमोऽनैन्द्रेषु सोम एव नास्तीति सर्वे सोमधर्मा ऐन्द्रेष्वेव, अधर्मका इतरे साकाङ्क्षाः । कथं पुनर्ज्ञायते ऐन्द्रः सोमो गृह्यते मीयते चेति? मन्त्रवर्णात्, इन्द्राय त्वा वसुमत इत्येवमादिर्मन्त्र ऐन्द्रं सोमं वदितुं शक्नोति नान्यम् । तस्मादैन्द्रः सोमः, तेनैन्द्रेषु सोमधर्माः, अन्यानि तु प्रदानानि साकाङ्क्षाणि, अतो धर्मान् ग्रहीष्यन्तीति न्यायः । तस्माद्यथादेवतमूहितव्यो मन्त्र इति । एवं स्थितं तावदपर्यवसितम्, तत एवं सति चिन्तान्तरं वर्तिष्यते । ण्Oट्Eष् *{३।१९७ E२ ४,१७६॑ E४ ४,१०६॑ E६ १,१८३}* ____________________________________________ पुनरभ्युन्नीतेषु सर्वेषामुपलक्षणं द्विशेषत्वात् ॥ ३,२ ।२९ ॥ सन्ति पुनरभ्युन्नीताः सोमाः शुक्रामन्थिप्रचार एव सवनमुखीयाः, तेषां होतुर्वषत्कारेऽनुवषत्कारे च चतुर्भिर्मध्यतःकारिणां चमसैर्हुत्वा होत्रकाणां चमसैः सकृत्सकृद्वषट्कार एव हुत्वा पुनः सशेषेष्वेव पात्रेषु सोमोऽभ्युन्नीतः, एवं हि तत्राध्वर्युः संप्रेष्यति, मध्यतःकारिणां चमसाध्वर्यवो वषट्कृतेऽनुवषट्कृते जहुत, होत्रकाणां चमसाध्वर्यवः सकृद्धुत्वा शुक्रस्याभ्युन्नीयोपावर्तध्वमिति । तत्र होत्रका नानादेवता यजन्ति, मैत्रावरुणो मित्रावरुणौ, मित्रं वयं हवामह इति{*३।१९८*}, [२६८]{*३।१९९*} ब्राह्मणाच्छंसी इन्द्रम्, इन्द्र त्वा वृषभं वयमिति{*३।२००*}, पोता मरुतः, मरुतो यस्य हि क्षय इति{*३।२०१*} । नेष्टा त्वष्टारं पत्नीश्च, अग्ने पत्नीरिहावहेति{*३।२०२*}, आग्नीध्रोऽग्निमुक्षान्नाय वशान्नायेति{*३।२०३*} । तत्र तैश्चमसैः पूर्वस्मिन् वषट्कार इन्द्र इष्टः, पुनरभ्युन्नीय मित्रावरुणाद्या देवता इष्टाः, शेषस्तत्रेन्द्रस्य मित्रावरुणादीनां च । तत्र संदेहः किं प्रस्थितदेवतायाश्चेन्द्रस्य मित्रावरुणादीनां चोपलक्षणम्, उतेन्द्रो नोपलक्षयितव्य इति । किं तावत्प्राप्तम्? पुनरभ्युन्नीतेषु सर्वेषामुपलक्षणम् । कस्मात्? द्विशेषत्वात्, चमसे चमसे तत्र द्वयोः शेषः, प्रकृतौ यस्यै हुतम्, तच्छेषस्तत्पीत इत्युक्तम् । इहापि तद्वदेव वदितव्यम् । तस्माच्चमसे चमसे द्वयोरुपलक्षणम् । ण्Oट्Eष् *{३।१९८ ऋV १ ।२३ ।४ }* *{३।१९९ E२ ४,१७८॑ E४ ४,११०॑ E६ १,१८४}* *{३।२०० ऋV ३ ।४० ।१ }* *{३।२०१ ऋV १ ।८६ ।१ }* *{३।२०२ ऋV १ ।२२ ।९ }* *{३।२०३ ऋV ८ ।४३ ।११ }* ____________________________________________ अपनयाद्वा पूर्वस्यानुपलक्षणम् ॥ ३,२ ।३० ॥ अपनीतं प्रस्थितदेवतायाः शेषं मन्यामहे । कुतः? मित्रावरुणादिभ्यस्तत्पात्रस्थमभ्याश्राव्यते । कथमेतत्? उच्यते मित्रावरुणादयो हीज्यन्ते, तद्यथाचार्यशेषं देवदत्तो भुञ्जानो यदि शेषं पूर्णकाय प्रयच्छति, पूर्णको देवदत्तमुपलक्षयति, देवदत्तशेषं भुञ्ज इति, नाचार्यशेषम् । तस्मान्न प्रस्थितदेवता इन्द्र उपलक्षयितव्य इति । ____________________________________________ ग्रहणाद्{*३।२०४*} वापनयः{*३।२०५*} स्यात् ॥ ३,२ ।३१ ॥ न चैतदस्ति, इन्द्रो नोपलक्षणीय इति, तस्यापि ह्यसौ शेषः प्रत्यक्षमवगम्यते । नन्वपनीत इति । उच्यते नासावपनीयते । सकृद्धुतांश्चमसानभिद्रोणकलशाद्गृह्णाति, सशेषश्चमसो लक्षणमन्यस्योन्नीयमानस्य । ततश्{*३।२०६*} चमसस्थो होतुमुन्नेतव्यः प्रेषितो वा । यत्तु यक्ष्यमाणा देवताः प्रत्याश्रा[२६९]{*३।२०७*}वित इति । उच्यते आश्राव्यते तत्र देवताभ्यो न त्विदं वा तद्वेति । तेन{*३।२०८*} यद्धोतुं गृहीतं तदाश्रावितमिति गम्यते । न च, आश्रावणवेलायां देवताभिसंबन्धः, यद्यद्देवताभिसंबद्धम्, तदाश्राव्यते, तस्मादस्तीन्द्रशेषः, लक्ष्यते{*३।२०९*} च । अतः सर्वेषामुपलक्षणमिति । कृत्वाचिन्तैषा, नात्र प्रयोजनं वक्तव्यम्, पूर्वाधिकरणस्यैवैतत्प्रयोजनमवधार्यते । ण्Oट्Eष् *{३।२०४ E२,४ अग्रहणाद्}* *{३।२०५ E२,४ वानपायः}* *{३।२०६ E२,४ न च}* *{३।२०७ E२ ४,१८०॑ E४ ४,११३॑ E६ १,१८५}* *{३।२०८ E२,४ तत}* *{३।२०९ E२,४ भक्ष्यते}* ____________________________________________ पात्नीवते तु पूर्ववत् ॥ ३,२ ।३२ ॥ अस्ति पात्नीवतो ग्रहः, यदुपांशुपात्रेणाग्रयणात्पात्नीवतं गृह्णातीति, द्विदेवत्यानां शेषा आग्रयणस्थाल्यामुपनीताः, ततः पात्नीवतो गृह्यते । अथ हुते पात्नीवते, तच्छेषे भक्ष्यमाणे भवति संदेहः किमिन्द्रवाय्वादय उपलक्षयितव्या न वेति । किं तावत्प्राप्तम्? उपलक्षयितव्याः । तेषामपि ह्यसौ शेषो यथा प्रस्थितदेवताया इति । ____________________________________________ ग्रहणाद्वापनीतं स्यात् ॥ ३,२ ।३३ ॥ अपनीयते हि स शेष इह, न यथापूर्ववत्, तत्र हि पात्रलक्षणत्वेन संकीर्त्यते न सोमो ग्राह्यत्वेन, इह तु आग्रयणाद्गृह्णातीति, स्थालीस्थः सोमो निर्दिश्यते होतुम्, यक्ष्यमाणदेवतां प्रति । ननु स्थाल्यामाग्रयणो नाग्रयणश्{*३।२१०*} च, तत्र यस्तस्मादाग्रयणाद्गृह्यते, स पात्नीवतः, यस्तु संपातान्नासौ पात्नीवत इति । उच्यते आग्रयणोऽपादानम्, तस्माद्योऽपैत्याग्रयणोऽनाग्रयणो{*३।२११*} वा, स सर्वः पात्नीवतः, आग्रयणाच्चैष सर्वोऽपेतः । [२७०]{*३।२१२*} नन्वनाग्रयणादप्यपेतः । नैष दोषः, आग्रयणात्तावदपेतः, तेनासौ पूर्वदेवताभिः पीत इति न शक्यते वक्तुम् । यो हीन्द्रार्थस्य सोमस्यावयवः शेषः स इन्द्रपीत इति प्रकृतावुच्यते । इहापि तद्वदेव पूर्वदेवतार्थस्यावयवो वदितव्यः । ननु योऽसौ पूर्वदेवतार्थः, तस्यैवायमवयवः । नेति ब्रूमः, न हि हुतस्यावयवो दृश्यते । ननु प्रकृतावपि हुतस्यावयवो न दृश्यते । उच्यते हुताहुतस्य समुदायस्य तत्रावयव उपलक्ष्यते तद्देवतस्य । नन्विहापि समुदाय एवासीत्तद्देवत्यः, तस्यैवायमवयवः । नेत्युच्यते, आसीदयं समुदायस्तद्देवत्यः, इदानीं तस्यावयवोऽन्यदेवत्यो जातः, तेन समुदायस्तद्देवत्यत्वादपेतः । आह पूर्वदेवतापीतस्यासाववयव आसीत्तेन भूतपूर्वगत्या भविष्यति । उच्यते प्रकृतौ न भूतपूर्व