अध्याय १, अधिकरण १ (भाट्टदीपिका) श्रीः । श्रीमत्खण्डदेवविरचिता भाट्टदीपिका । ॥ । श्रीखण्डदेवान्तेवासिकविमण्डनशंभुभट्टविरचितप्रभावलीव्याख्यासंवलिता । तत्र प्रथमाध्यायस्य द्वितीयः पादः । (१ अधिकरणम् ।) विश्वेश्वरं नमस्कृत्य खण्डदेवः सतां मुदे । तनुते तत्प्रसादेन संक्षिप्तांभाट्टदीपिकाम् ॥ १ । (प्रभावली) प्रभावली । (मङ्गलाचरणम्) अज्ञानतिमिरध्वंसि सत्यज्ञानप्रकाशकम् । सर्वाभीष्टप्रदं नौमि श्रीरूपं सुन्दरं महः ॥ १ ॥ यो वेदशास्त्रार्णवपारदृश्र्वा यज्ञादिकर्माचरणेऽतिदक्षः । सदाशिवाराधनशुद्धचित्तस्तं पितरं नमामि ॥ २ ॥ श्रीखण्डदेवं प्रणिपत्य सद्गुरुं मीमांसकस्वान्तसरोजभास्करम् । अत्यन्तसंक्षिप्तपदार्थतत्कृतौ प्रभावलीटिप्पणमातनोम्यहम् ॥ ३ ॥ यद्यप्यत्र गुरोः कृतावपि मयाप्युद्भाव्यते काचना संभूतिस्तदपि प्रचारचतुरो नैषा पुरोभागिता । किन्तु क्ष्मातिलकाः कुशाग्रधिषणाः सिद्धान्तबद्धादरा मद्वाक्यं परिहृत्य तत्कृतिमलङ्कुर्वन्त्वियं मे मतिः ॥ ४ ॥ (टिप्पणारम्भ्ज्ञप्रतिज्ञा) अत्रच१ यद्यपि बलाबलाधिकरणसमाप्तिपर्यन्तं स्वकृतेन कौस्तुभग्रन्थेन व्याख्यातार्था भाट्टदीपिका भवतीत्यतस्तदन्तं विहाय टिप्पणं कर्तव्यमिति आज्ञा पूज्यपादानामासीदिति तदन्तग्रन्थटिप्पणं कर्तुं न युक्तम्- तथापि तत्संगृहीतार्थानां मूलाक्षरारूढत्वज्ञापनाय लोकोपकाराय च कौस्तुभदर्शितमार्गेणैव आदितः टिप्पणमारभ्यते । (उपोद्धातविचारप्रतिज्ञा) तत्र व्याख्यास्यमानार्थवादाधिकरणे यदुपोद्धातत्वेनावशपेक्षितं तत्किञ्चिदादौ निरूप्यते । तत्र तावत्पूर्वचरणे अथातो धर्मजिज्ञासा । १,१.१ । इति शास्त्रारम्भसूत्रेण प्रमाणस्वरूपसाधनफलैः साभासैर्विचरयिष्यमाणः सकलो धर्माधर्मप्रमेयरूपः शास्त्रार्थः प्रतिज्ञातो महर्षिणा जैमिनिना । (विवारे वैधत्वोपपादनम्) शास्त्रारम्भमूलं च "स्वाध्यायोऽध्येतव्यः" (तै.आ.१६) इत्यध्ययनविधिः - तत्राध्ययनरूपकरणविधानाद्विचारमन्तरेण अर्थज्ञानानुत्पत्तेः विचाररूपेतिकर्तव्यतानुष्ठानाक्षेपेण तत्कर्तव्यताबोधनात्तस्याश्र्च तत्प्रतिपादकशास्त्राभावेऽ संभवात्शास्त्रारम्भतदध्ययनकर्तव्यताबोधनरूपफलस्याप्यर्थतो विधानात् । तदुक्तम् "धर्मे प्रमीयमाणे हि वेदेन करणात्मना । इतिकर्तव्यताभागो मीमांसा पूरयिष्यते" इति ॥ (१) टिप्पणी अत्रावतरणग्रन्थे "अथातो धर्मजिज्ञासे" त्यादिसूत्रार्थनिरूपणपूर्वकं स्वतन्त्रमेव प्रथमपादार्थं संगृह्णन्तः आदितः टिप्पणमारभ्यत इति प्रतिज्ञायापि अर्थवादपादमारभ्यैव टिप्पणमारचयन्तश्च शंभुभट्टाः प्रथमपादव्याख्येयं भाट्टदीपिकाग्रन्थं खण्डदेवाचार्यकृतमविद्यमानमभिप्रयन्ति । तदत्र मैसूरनगरमुद्रापितभाट्टदीपिकापुस्तके प्रथमपादभाट्टदीपिकापि प्रकाशिता यद्दरीदृश्यते, यच्च तदनुसारीदानीन्तनानां मान्यमान्यानां महामहोपाध्यायानां श्रीमतां रामसुब्रह्मण्यशास्त्रिणां भाट्टकल्पतरुनामकमेकं प्रथमपादभाट्टदीपिकाव्याख्यानमप्युपलभ्यते, तत्र स्वतन्त्रं केनचनान्येन कल्पिता भाट्टदीपिकैव सा न खण्डदेवाचार्यकृता सेति बहवो मन्यन्ते । कल्कत्तानगरमुद्रापितभाट्टदीपिकापुस्तके द्वितीयपादत एवारम्भोऽपि तेषां मतमुपोद्बलयति । मन्त्राधिकरणं नियमपरिसंख्यादिविधिलक्षणादिग्रन्थोःयः कल्कत्तानगरमुद्रापितभाट्टदीपिकापुस्तके उपलभ्यते, स माकिमेकपुटपरिमितः प्राचीनतालपत्रमयेष्वपि अस्माभिरुपलब्धेषु मन्त्राधिकरण एवोपलभ्यमानः प्रथमपादे समुद्धृत्य केनापि प्रकाशित इति ते वर्णयन्ति । तत्र किं प्रथमपादात्समुद्धृत्य मन्त्राधिकरणे घटनं, उत मन्त्राधिकरणात्प्रथमे पादे इति शङ्का तु मन्त्राधिकरण एव पूर्वतनानां खण्डदेवाचार्यप्रियान्तेवासिनां शंभुभट्टानां तेषां विवरणं दृश्यते इति नात्रावसरं लभते । अन्यानि च यानि द्वितीयपादत आरभ्यैव खण्डदेवाचार्यैः भाट्टदीपिका विरचिता, प्रथमपादस्य तु ततस्ततः खण्डदेवाचार्यवाक्यग्रहणेन स्वतन्त्रमेव कस्यकस्यापि वाक्यस्य रचनया च केनाप्यधुनातनेन पूर्वतनेन वा कल्पितान्यैवेयं मैसूरनगरमुद्रापिता प्रथमपादभाट्टदीपिकेत्यत्र निमित्तानि तेषामभिमतानि, तानि अस्यैव पुस्तकस्य प्रकाशयिष्यमाणस्य भूमिकायां सूचयिष्याम इति विस्तरभयादुपरम्यते । (प्रभावली) (अध्ययनानन्तर्यविवक्षाया गुरुकुलनिवृत्तिमात्रबाधफलकत्वम्) ततश्र्च साङ्गवेदाध्यनेन विचारशास्त्राध्ययनपूर्वकानुष्ठानोपयोगिधर्माधर्मपरिच्छेदरूपपदार्थज्ञानफलं साध्येदित्यर्थकाध्ययनविधेः कॢप्तदृष्टार्थत्वनिर्वाहाय अध्ध्नाव्यवधानरूपानर्न्तयमपि विचारस्य सिद्ध्यति । एतत्पर्यन्तमपि तात्पर्यकल्पनायाः "अधीत्य स्नायादि" ति स्मृतिबाधः फलम्, इतरथा अध्ययनानन्तरं समावर्तनमात्रानुष्ठानेऽध्ययनविधिबोधिताध्ययनस्यादृष्टार्थत्वापत्तेः । यद्यपि वा स्नाननियतनिवृत्तिरूपस्नानोपलक्षितसकब्रह्मचारिधर्मनिवृत्तेरध्ययनानन्तर्ये स्मृत्या प्रतिपाद्यते - तथापि गुरुकुलनिवृत्त्यंश एव तद्बाधः, तस्यैव विचारविरोधित्वात् । तदुक्तं वार्तिके "स्नानोपलक्षिता छात्रनिवृत्तिर्गुरुवेश्मनः । विरोधित्वेन बाध्येत नतु मध्वादिभक्षणम् ॥ तस्माद्गुरुकुल्.ए तिष्ठेन्मधुमांसाद्यवर्जयन् । जिज्ञासेताविरुद्धत्वाद्धर्ममित्यवगम्यते" इति ॥ (अध्ययनानन्तरं समावर्तनोपपादनं तत्र प्रयोगकाराणां विचारानन्तरमेव समावर्तनमिति सिद्धान्तखण्डनं च) तथाच साङ्गवेदाध्ययनानन्तरमपि गुरुकुलं वसतैवेतरब्रह्मचारिधर्मनिवृत्तिरूपसमावर्तने कृतेऽपि धर्माधर्मरूपविचारशास्त्राध्ययनं कार्यम्, नतु गुरुकुलवासस्यापि निवृत्त्याध्ययनानन्तरं सर्वत्याग इत्यर्थेऽविरुद्धे सति यत्प्रयोगकारकृता "अधीत्य स्नायादि" ति स्मृतिरध्ययनविधेः दृष्टार्थावबोधफलकत्वे संभवति स्वर्गकल्पनानुपपत्तेः समावर्तने अध्ययननानन्तर्यक्रमस्य विधातुमशक्यत्वादध्ययने स्नान्नपूर्वकालमात्रेणोपपन्ना - इतरथा "वेदमनूच्याचार्योऽन्तेवासिनमनुशास्ति" इत्यादिनाऽतथा तेषु वर्तेथाःऽ इत्यन्तेन ग्रन्थेन तैत्तिरीये वेदाध्ययनान्ते वेदार्थेतिकर्तव्यतोपदेशानुपपत्तेः । अतोऽध्ययनानन्तरं धर्मजिज्ञासैवोचिता न स्नानम् इत्युक्तम्, तदपास्तम् - समावर्तनानन्तरमेव क्रियमाणस्य शास्त्रविचारस्य अद्यावधि शिष्टसंप्रदायसिद्धस्यापलापप्रसङ्गात्, उपनयनाध्ययनब्रह्मचर्यादिनियमविधिबलादेवाध्ययनस्य स्नानपूर्वकालत्वसिद्धौ सर्वब्रह्मचारिधर्माणां मध्ये अध्ययनरूपकर्मानन्तर्यस्य समावर्तने कथमप्यप्राप्तस्य विधानाभावेनऽअधीत्य स्नायादितिऽ स्मृतिवैयर्थ्यप्रसङ्गाच्च, अध्ययनविधिदृष्टार्थत्वानुरोधेन कल्प्यमानस्याध्ययनधर्मविचारयोः परस्परानन्तर्यस्य वेदाध्ययनसमाप्तिदिन एव समावर्तनानन्तरं शास्त्रारम्भेऽपि दृष्टार्थत्वाहनिरुपपन्नत्वेनाध्ययनस्नानयोः क्रमबाधे प्रमाणाभावाच्च, तवापि वेदाध्ययनसमाप्त्यनन्तरं विशिष्टगुर्वाद्यलाभे व्यवधानसंभवादावश्यकगणपत्यादिपूजनेनाव्यवधाने बाधस्यावश्यकत्वेनाव्यवहितत्वा अंशत्यागेनानन्तर्यमात्रबोधस्यैव विरुद्धव्यापारान्तरनिवृत्तितात्पर्यकतया वर्णनीयत्वेनाविरुद्धसमावर्तनानुष्ठाने तद्बाधाभावात्, प्रत्युत भिक्षाचर्यादेर्विचारविरोधित्वेन तन्निवृत्तेस्तदुपकारकत्वाच्च । अतएव बाधकसत्वेऽव्यवहितत्वांशत्यागेनाध्ययनहेतुत्वासंभवमभिप्रेत्याथशब्दबलादेव स्नानविधिबाधः प्रकाशकारैः श्रुतिपदाद्यधिकरणे साधितः । तस्मात्येन विनाध्ययनविधेर्विचारेतिकर्तव्यताकार्थज्ञानरूपदृष्टफलहानिस्तावन्मात्रमेव स्नानविध्युक्तं बाधनीयम् । तच्च गुरुकुलवासनिवृत्तिरूपं विचारविरोधीति तदेवाध्ययनानन्तर्ये विदधता विधिना बाध्यते, नतु तदतिरिक्तं विधिना विहितं पदार्थतयाऽचमनादिवत्प्रबलं स्नानमात्रमपीत्येव कल्पनं निरस्तदोषं साधु । तमिममध्ययनविधिना श्रुत्यर्थाभ्यां सिद्धमर्थे मूलीकृत्यैव महर्षिणाऽअथातो धर्मजिज्ञासाऽ इति सूत्रेणारब्धं शास्त्रम् ॥ (जिज्ञासासूत्रार्थवर्णनम्) सूत्रार्थस्तु अथ साङ्गवेदाध्ययनानन्तरम् । यतस्तन्मात्रेण विचारमन्तरा तत्फलमनुष्ठानोपयोगिपरिच्छेदरूपं धर्माधर्मरूपार्थज्ञानं न जायते, अतः अध्ययनस्यार्थज्ञानरूपदृष्टप्रयोजनकत्वाद्धेतोः तादृशधर्माधर्मज्ञानेच्छज्ञ कर्तव्या, इच्छाविषयस्तादृशज्ञानं कर्तव्यमिति यावत् । विचारं चान्तरेण तत्कर्तव्यतानुपपत्तेः प्रमाणस्वरूपसाधनफलैः तद्विचारः कर्तव्य इत्यर्थ इति ॥ (धर्माय जिज्ञासेति तादर्थ्यविवक्षाप्रयोजननिरूपणेन धर्मजिज्ञासेत्यत्र षष्ठीसमासप्रतिष्ठापनम्) अत्रच धर्मजिज्ञासेति पदे धर्माय जिज्ञासेति तादर्थ्याख्यसंबन्धविशेषपरतया षष्ठी व्याख्याता भाष्यकारादिभिः । तत्र विषयित्वार्थकषष्ठीपरतां विहाय तादर्थ्यपरत्वव्याख्याने प्रयोजनं विचारस्य धर्मानुष्ठानोपयोगित्वज्ञापनमेव । तथाच धर्मानुष्ठानायायं विचारः कर्तव्य इति चार्थिकम्, नतु तादर्थ्यचतुर्थीसमासप्रदर्शनपरम् - वार्तिककारमते कदाचिदश्र्वघासादिपदे इव तत्संभवेऽपि महाभाष्यकारेण तन्मतप्रत्याख्याने अश्र्वघासादिशब्देऽपि षष्ठीसमासाश्रयणातृ तद्वदेवेहापि तदौचित्यात् । अतएव भट्टपादैः धर्माय जिज्ञासेति भाष्यकारवचनं षष्ठीसमासलब्धार्थिकार्थप्रदर्शनपरम्, नतु विग्रहप्रदर्शनपरम् - तस्य ज्ञातुमिच्छेदिति निगमवाक्ये षष्ठीसमासविभावनातिति व्याख्यातम् । अतः षष्ठीसमास एव युक्त इति ध्येयम् ॥ (जिज्ञासापदार्थ.ः) जिज्ञासापदे च विचारलक्षणा । अथवा विचारकर्तव्यताया अर्थादेव सिद्धेः श्रुतिपदाद्यधिकरणे वार्तिकोक्तरीत्या नैव लक्षणा, किन्तु यथाश्रुतपरमेवेति ध्येयम् ॥ (अथशब्दप्रयोजनम्) इदं च सूत्रमध्ययनविध्यर्थसिद्धाध्ययनानन्तर्ये विचारे अथशब्देन बोध्यत्तस्य श्रौतक्रमसिद्यर्थम् - यत्र हि पाठादेव हृदयाद्यवदानानामानन्तर्यक्रमसिद्धिः, तत्राथशब्दस्यानुवाद्यत्वेऽपि प्रमाणान्तरावधृतयोः पदार्थयोर्विधिना विधानाभावेऽथशब्दस्यानन्तर्यरूपक्रमविधायतवेन प्रकृतेऽपि स्वाध्यायविधिनाध्ययनस्य विचारस्य च कर्मानुष्ठानोपयोगित्वेन प्राप्तत्वात्सूत्रस्थाथशब्देन क्रममात्रविधिपरत्वप्रतीतेः । सूचितं चेदं पञ्चमे वार्तिकतन्त्ररत्रयोः ॥ (केषाञ्चिन्मतेन वेदार्थो धर्मपदार्थ इति विवेचनेन स्मृत्यादिविचारस्यापि प्रतिज्ञाविषयत्वोपपादनम्) अत्र च वेदार्थज्ञानार्थमेव वेदाध्ययनानन्तरं विचारकर्तव्यतोक्तेः वेदार्थत्वेनैव वेदार्थो जिज्ञास्यः, नतु धर्मत्वेन, सूत्रस्थं धर्मपदं वेदार्थमात्रपरमिति केचिदाहुः ॥ नच अस्मिन्मते वेदाध्ययनस्य वेदार्थविचारहेतुत्वेऽपि न स्मृत्याद्यर्थविचारहेतुत्वं यथा, तथा स्वाध्यायपदोपात्तैकशाखध्ययनस्यापि न शाखान्तरार्थविचारहेतुत्वं संभवतीति कथमध्ययनस्य कृत्स्नवेदार्थविचारहेतुत्वम् ? इति वाच्यम् - अध्ययनविधेर्विचाराक्षेपकत्ववदेकशाखाप्रयोगविध्यर्थनिर्णयस्य शाखान्तरीयाङ्गत्वबोधकवाक्यविचारधीनत्वेन तद्विचाराक्षेपपर्यन्तफलकतवाङ्गीकारेण तद्धेतुत्वोपत्तेः । अत एव श्रौतानामिव स्मार्ताचारप्राप्ताङ्गानामप्याचरणं कुर्वतां प्रयोगविधीनामर्थज्ञाननिर्णयाय अध्ययनविधिना स्मृत्यादिविचारोऽप्यनुष्ठाप्यत इति तस्यापि प्रतिज्ञाविषयत्वं युक्तमेव । अतो युक्तैव वेदार्थत्वेन तस्य विचारविषयता इति ॥ (स्वसिद्धान्तेन धर्मपदार्थविवेचनादिकम्) वस्तुतस्तु वेदार्थविचारस्य प्रवृत्तिनिवृत्त्युपयोगाभावे निष्प्रयोजनत्वाल्लोके च प्रेक्षावतां सुखप्राप्तिदुःखनिवृत्त्यर्थिनां तज्जनकधर्माधर्माणां च क्षणानाचरणादर्शनात्तत्वेन तद्विचार एव कर्तव्यतवेनोपदिश्यते इति युक्तम् - अतएव स्मार्ताचारप्राप्तधर्मविचारोऽपि अग्रे करिष्यमाणो नासङ्गतो भवति । नच अथशब्देन वेदाध्ययनानन्तर्योक्तेः स एव मुख्यः, अन्यस्तु प्रसङ्गत इति युक्तम् - अथशब्दस्य पूर्ववृत्तापेक्षणेऽपि स्मृत्यध्ययनापेक्षयाप्युपपत्तेः वेदाध्ययनानन्तर्यवाचित्वे मानाभावात् । अतएव सूत्रे धर्मजिज्ञासेत्येव प्रतिज्ञातम् । यद्यपि च न कृत्स्नवेदाध्ययनस्य धर्माधर्मविचारहेतुत्वम्, उपनिषदध्ययनस्य तद्धेतुत्वाभावात्- तथापि चिकीर्षितविचारैकदेशे हेतुत्वेनाप्यानन्तर्ये उपपद्यते एवेति न बाधकम् ॥ (धर्मपदस्याधर्माद्युपलक्षणत्वम्) सेत्रेच यद्यपि धर्मजिज्ञासेत्येवोक्तम् - तथापि धर्मपतिपादकवेदाध्ययनस्य धर्मविचारप्रयोजनं विना निष्फलतवापत्त्या धर्मविचारहेतुत्वात्कृत्स्नवेदान्तर्गतनिषेधाध्ययनरूपकारणोपलक्षणत्वे धर्मपदमधर्मादीनामप्युपलक्षणं द्रष्टव्यम् । इतरथा धर्ममात्रस्यैव विचारविषयत्वे विधिसन्निहितार्थवादादीनां विध्येकवाक्यतया धर्मविचारोपयोगित्वसंभवेन तदध्ययनस्य दृष्टार्थत्वस्येव निषेधाभ्यनुज्ञाद्यभावे तदध्ययनस्यादृष्टार्थत्वस्येवापत्तेः । उपलक्षकधर्मशब्दस्येव साधारण्येन प्रयोगे प्रयोजनं तु बहुविषयसंक्षेपतया आवश्यकत्वं धर्मविचारस्येति ज्ञापनमेव । अभ्यनुज्ञाविधिविषयः क्वचिद्धर्माधर्मव्यतिरेकप्रदर्शनार्थे विचारर्येमाणोऽपि नासङ्गत इत्येव युक्तम् । अतएव जिज्ञासा सूत्रे प्रतिज्ञा, तत्र प्रमाणमात्रनिरूपणस्य प्रथमाध्यायार्थत्वं, द्वादशाध्यायानां च जिज्ञासासूत्रपरिकरत्वं चाभिप्रेत्यऽसोऽरोदीऽ दितयादिनिषेधार्थवादानां प्रथमाध्यायेऽधर्मप्रामाण्यविचारः, षष्ठाध्यायादौ चऽन कलञ्जं भक्षयेत्ऽ इत्यादिवाक्यार्थाधर्मविचारोऽपि कृतो नासंगतः । एतदभिप्रायेणैव तत्र द्वादशलक्षण्यां धर्माधर्मौ जैमिनिना विचारितौ इत्युक्तम् पूज्यपादैर्भाट्टरहस्ये ॥ (अधर्मजिज्ञासेत्यकारप्रश्र्लेषखण्डनमण्डने) यत्तु अधर्मविचारस्याथसूत्रप्रतिज्ञाविषयत्वोपपत्तये अधर्मजिज्ञासेत्यकारप्रश्र्लेषः शास्त्रदीपीकायामेतत्सूत्रव्याख्याने कृतः, स वाक्यावृत्तिदोषापत्तेरयुक्तः - वाक्यावृत्तिरूपवाक्यदोषापेक्षया पदगतलक्षणाङ्गीकारस्यऽजातपुत्रः कृष्णकेशऽ इत्याद्याधानवाक्ये सर्वैरप्युक्तत्वाच्च ॥ अस्तु वा सूत्रे वाक्यावृत्तेरलङ्काररूपत्वेनादुष्टत्वादकारप्रश्र्लेषेणाधर्मस्यापि तद्विषयत्वम् । (धर्मप्रतिस्पर्धितयाधर्मस्य विचार्यत्वमितिभाट्टालङ्कारमतखण्डनम्) यदपि भाट्टालङ्कारकृता अधर्मस्य क्वचिद्धर्मप्रतिस्पर्धितया निरूपणीयत्वेऽपि शास्त्रविषयत्वं धर्मस्यैव इत्युक्तम्, तद्विधिसन्निहितपठितानांऽवायुर्वै क्षेपिष्ठेऽ त्यर्थवादानां यथा धर्मप्रमाण्यविचारः, तथैव निषेधसन्निधिपठितानां सोऽरोदीदित्यादीनामधर्मप्रमाण्यविचारस्यापि भाष्यकारादिभि- प्रदर्शितत्वात्प्रतिस्पर्धित्वस्य दुर्वचत्वाच्चायुक्तम् । नह्यभेदे भेदाभावरूपतया भेदप्रतिस्पर्धितत्वस्येवाधर्मे धर्माभावरूपतया तद्युज्यते - तथात्वे भोजनादौ धर्मत्वाभावेन अधर्मत्वापत्तेः, तस्माद्धर्माधर्मौ तुल्यतयैव प्रथमसूत्रे प्रतिज्ञातौ स्वरूपप्रमाणफलैः साभासैरुत्तरत्र शास्त्रे विचार्येते इत्येव सम्यक् ॥ (धर्मो यागादिरिति निरूपणम्) धर्माधर्मपदस्य काणादमते यद्यप्यपूर्वाभिधायित्वम् -ऽधर्मः क्षरति कीर्तनात्ऽ इत्यादावपि तथैव व्यवहारदर्शनात्, तथाच यद्यपि अपूर्वस्य प्रत्यध्यायं विचाराभावेन न शास्त्रप्रतिज्ञाविषयत्वं तद्विचारस्य युज्यते- तथापि यागादिकर्म कुर्वति तत्रापूर्वज्ञानशून्यैरपि धार्मिकपदप्रयोगात्ऽ धर्मे चरऽ इति श्रुतौ भगवतादिषु चऽधर्मस्त्वनुष्ठितः पुंसां विष्वक्सेनकथासु यः । नोत्पादयेद्यदि रतिं श्रम एव हि केवलम्ऽ इत्यादौऽइज्याचारदयाहिंसादानस्वाध्यायकर्मणाम् । अयं तु परमो धर्मो यद्योगेनात्मदर्शनम्ऽ इति स्मृतौऽएषां मध्येऽयं परमो ब्राह्मणऽ इत्यत्र षष्ठ्यन्तपदनिर्दिष्टानां ब्राह्मणत्ववदिज्यादीनां धर्मत्वप्रतीतेरदृष्टे चविहितनिषिद्धर्माधर्मरूपपदार्थजन्यत्वसंबन्धेन लक्षणयापि प्रयोगोपपत्तेर्नादृष्टवाचि धर्माधर्मपदम्, अपितु तज्जनकविहितानिषिद्धक्रियागुणद्रव्यादिष्वेव शक्तमिति क्रियादिरूपमेव विचारप्रतिज्ञाविषयः प्राधान्येन । युक्तमेव तत् । स्वरूपभेदप्रमाणे च प्रथमाध्यायद्वयेन तृतीयादिभिश्र्च तत्साधनादीनि निरूप्यन्ते इति सर्वमपि शास्त्रं जिज्ञासापरिकर एव ॥ धर्माधर्मस्वरूपं च प्रमाणनिवेशमन्तरा लक्षणकरणेनाशक्यमिति एकनाल्येवान्ययोगायोगव्यावृत्तिभ्यां प्रमाणस्वरूपे ज्ञातुं द्वितीयसूत्रम् चोदनालक्षणोऽर्थो धर्मः । १,१.२ । इति ॥ (चोदनापदस्य वेदपरत्वेन मन्त्रादिकल्प्यविधिविधेयस्यापि धर्मत्वलाभः) अर्थ्यते फलजनकत्वेन प्रार्थ्यतेः यः स चोदनाप्रमाणको धर्मः, चोदनाप्रमाणकेष्टसाधनताक इति यावत् । तत्र ये जिज्ञासासूत्रे धर्मप्रमाणमात्रस्य प्रतिज्ञानात्ऽवेदोऽखिलो धर्ममूलम्ऽ इत्यादिस्मृत्या च वेदस्यैव तत्प्रमाणत्वावगतेश्र्चोदनासूत्रेऽपि चोदनापदस्य प्रवर्तकत्वपर्याप्त्याधिकरणमन्त्रार्थवादनामधेयोपेतविधिवाक्यवाचित्वेन सर्ववेदविषयत्वातर्थवादादीनामपि चाग्रे धर्माधर्मप्रमाणत्वेन निरूपणात्वेदाध्ययनस्यानन्तर्यप्रतियोगितयान्वयात्वेदपरत्वमेव । अतएव चोदनानिर्दिष्टो यः प्रमाणपरिग्रहः सप्रकारः स आद्येन लक्षणेन प्रपञ्चित इति बृहट्टीकायाम् । ऽसिद्धप्रमाणभावस्य धर्मे वेदस्य सर्वशः । विध्यर्थवादमन्त्राणामुपयोगोऽधुनोच्यतेऽ इति वार्तिकेऽपि तथैव दृश्यते । तेन चोदनैव प्रमाणमिति नियमेऽपि अर्थवादप्रमाणनिरूपणमग्रे नासंगतमिति मन्यन्ते, तेषां मतरीत्या धर्माधर्मलक्षणे वेदस्यैव प्रमाणत्वेन निवेशः सुस्थिर एव । अतो मन्त्रार्थवादादिकल्प्यविधिविधेये वेदप्रमाणकत्वाद्धर्मत्वलाभः ॥ (चोदनायाः साध्यसाधनेतिकर्तव्यताबोधकपदसमुदायपरत्वमिति पार्थसारथिमिश्रमतनिरूपणम्) येषां तु मते जिज्ञासासूत्रे धर्माधर्मविषयप्रमाणमात्रे प्रतिज्ञातेऽपिऽचोदनासूत्रे चोदना चोपदेशश्र्च विधिश्र्चैकार्थवाचिनःऽ इति प्रमाणत्वमिह प्रसिद्धमुक्तेवह धर्मे प्रति चोदनाया इत्याद्यनेकभाष्यवार्तिकस्वारस्यातवयवव्युत्पत्तिवशाच्च विध्युद्देशापरपर्यायसाध्यादिविशिष्टक्रियाप्रतिपादकपदसमूहात्मकवाक्यपरत्वमेव, सैव प्रमाणमित्येव च नियमः, प्रवर्तकत्वपर्याप्त्यधिकरणमन्त्रार्थवादनामधेयोपेतविधिवाक्यवाचित्वे कथञ्चिदर्थवादनिरूपणस्याद्यलक्षणसंगतत्वेऽपि तद्बहिर्भूतस्मृत्यादिविचारस्यासङ्गतत्वापत्तेः । नच तवापि चोदनातिरिक्तस्यापि प्रमाणस्य निरूपणेन चोदनैवेति नियमव्याकोपः - नियमानां तुल्यकक्ष्यव्युदासफलत्वप्रसिद्धेरर्थवादस्मृत्यादीनां च तच्छेषत्वेन तन्मूलत्वेन च प्रमाणस्य चोदनातुल्यकत्वाभावात् । अतएव इति कर्तव्यतास्थानीयस्यार्थवादस्मृत्यादेः चोदनप्रामाण्यप्रतिज्ञयैव प्रामाण्यस्य प्रतिज्ञातत्वात्समस्तस्याद्यलक्षणस्य चोदनासूत्रपरिकरत्वमाचार्यैरुक्तम्ऽचोदनासूत्रनिर्दिष्टो यऽ इत्यादिना । तच्च प्रशस्तत्वादेमन्त्रोपकृतेनानेन कम्रणा स्वर्गादि साधयेदित्येवंरूपायां धर्मप्रमायां चोदनया जन्यमानायां पदार्थस्मारकतया नामधेयानां करणविशेषनिर्धारकतया सहकारिभूतानां स्मृत्यादीनां चोपस्थापकतया चोदनाप्रामाण्यप्रतिज्ञाविषयत्वं परिग्रहशब्दोपादानात्प्रतीयतें नह्येतावता चोदनाप्रामाण्यप्रतिपादनमेव - अनुपपत्तेः । संभावितमात्रस्य तु तथात्वे सर्वस्मिनध्याये तस्यैव करणात्प्रभृत्तिनिवृत्तिसद्भावात्स उपपद्यते । तस्मात्जिज्ञासासूत्रे यावद्धर्माधर्मप्रमाणजातमुपक्षिप्तं, तत्र त्र्यंशभावनाविषयप्रवर्तनाप्रतिपादकपदसमुदायमात्रवचनं चोदनाशब्दमङ्गीकृत्य तस्यैव प्रधानभूतस्य धर्माधर्मप्रामाण्यं चोदनासूत्रे प्रतिज्ञातं, तदेव प्रथमपादे कात्स्नर्येन निरूपितम् । चोदनातिरिक्तानामर्थवादीनां वेदभागादीनां स्मृत्यादीनां चाप्रधानभूतानामपौरुषेयवेदतुल्यत्वात्परिग्रहदाढ्यार्च्च संभावितत्वात्जिज्ञासितं प्रथमसूत्रप्रतिज्ञातं प्रामाण्यं निरूप्यते प्रसंगेनेति पार्थसारथिमिश्राभिप्रेतमेव युक्तम् इति ॥ (उक्तमतखण्डनेन पूर्वोक्तमतव्यवस्थापनम्) तेषां मते विध्युद्देशापरपर्यायरूपेव चोदना तल्लक्षणघटिका । अतएव विधितात्पर्यविषयीभूतेष्टसाधनाताकत्वमित्याद्येव तल्लक्षणं साधनिकैः क्रियते । तथापि लौकिकचोदनाविषयीभूतेष्टसाधनताकेऽतिव्याप्तिवारणाय अवश्योपादीयमाने वैदिकपदे लाघवाद्विधिपदं विहाय वेदपदमेव केवलं दातुमुचितम् । यद्यपि वा लौकिकलिङादिप्रयोगेऽज्ञातज्ञापकतवाभावात्न विधित्वमिति विधिपदेनैव तद्वारणम् - तथापि मन्त्रार्थवादमूलकेष्टसाधनताबोधविषये अर्थवादानामेव प्रमाणत्वात्तत्साधारण्यलाभाय वेदपदमेव प्रवेशनीयमित्यभिप्रेत्य वेदघटितमेव लक्षणं पूज्यपादैर्भाट्टरहस्ये उक्तम् वेदबोधितश्रेयः साधनताकत्वं धर्मत्वम् वेदबोधितानिष्टसाधनताकत्वमधर्मत्वम् इति ॥ (दलप्रयोजननिरूपणपूर्वकं भाट्टरहस्योक्तधर्मलक्षणस्य लक्ष्येषु समन्वयः) अस्ति चेदं ज्योतिष्टोमकलञ्जलभक्षणादौ - तयोरिष्टानिष्टसाधनत्वस्य वेदबोधितत्वात् । वेदबोधितत्वं ब्रह्मस्वर्गनरकादावपि इत्युत्तरदलम् - तेषामिष्टनिष्टरूपतवेन तत्साधनत्वाभावात् । अन्नविषभक्षणादौ तृप्तिमरणरूपेषानिष्टसाधनतवसतवात्तद्वारणायाद्यम्- तत्साधनत्वस्य लोकत एवावगतत्वात् । वेदबोधितत्वं च वेदजन्याज्ञातज्ञानरूपबाधिप्रतीतिविषयत्वं, तेनाऽग्निर्हिमस्य भेषजम्ऽऽतरति शोकमात्मवित्ऽ इत्यादिवाक्यजन्यशोकशब्दवाच्याविद्यानिवृत्तिसाधने आत्मज्ञाने हिमनिवृत्तिजनके चाग्नौ नातिव्याप्तिः - तत्साधनत्वस्य प्रमाणान्तरज्ञातत्वात् । एतादृशाज्ञातज्ञापनत्वलाभार्थमेव वेदबोधितत्वं वेदातिरिक्तप्रमाणेन स्वातन्त्रेणाबोध्यत्वे सति वेदबोध्यत्वमित्यादिना तत्रैव विवृतं पुज्यपादेः । अतएव अज्ञातत्वमपि स्वानुपजीविमानान्तरकृतं द्रष्टव्यम् । तेन प्रत्यक्षदृष्टश्रुतिमूलकस्मृत्यादिबोध्येष्टसाधनताके नाव्याप्तिः, आपातप्रतिपन्नेष्टानिष्टसाधनत्वस्यापि वेदबोधितत्वात्तत्रातिव्याप्तिवारणायाबाधितेति । वेदपदं च न पारायणविधाविव मन्त्रब्राह्मणग्रन्थपरम् - असंभवापत्तेः, नापि तदन्तर्गतवाक्याभिप्रायम् - लिङ्गादिकल्याश्रुतवाकयप्रतिपाद्ये तदनापत्तेः , अपित्वपौरुषेयवाक्यपरम् । नच ब्राह्मणोऽपि जगत्कारणत्वेन श्रेयः साधनत्वात्तस्य चऽयतोवेऽ त्यादिवेदैकगम्यतवेन तत्रापूर्वलक्षणस्यातिव्याप्तिरिति वाच्यम् - लक्षणे तच्छ्रेयस्तवावच्छिन्नकार्यतानिरूपितकारणताशालित्वस्य विवक्षितत्वात् । श्रेयः पदं चात्र स्वयंप्रथितफलपरम्, अतो न क्रूतूपकारफलमादाय प्रयाजाद्यङ्गेषु होमादिनिवृत्तिफलमादाय द्रव्यदेवतादौ चातिव्याप्तिः । ऽनानृतं वदेत्ऽ इति क्रतुप्रकरणगतनिषेधेन नरकरूपानिष्टजनकत्वाबोधेऽपि क्रतुवैगुण्यजनकत्वबोधमात्रेणापि अनृतवदनादावधर्मत्वमुपपद्यत इति न तत्राव्याप्तिः । अङ्गेषु धर्मत्वाभावव्यवहारश्र्च भाष्ये को धर्मः ? कानि साधनानि ? इति स्वरूपजिज्ञासतः पृथक्साधनजिज्ञासया स्पष्टं प्रतीयते । वाजपेयानुष्ठानं जानतां तदनुष्ठातरि धार्मिकोऽयमिति व्यवहारस्तु प्रधानभूतवाजपेयधर्मत्वस्य साधने उपचारात्, वाजपेयानुष्ठानमजानतां तदेकदेशानुष्ठातरि तद्यवहारस्तु विहितक्रियात्वसादृश्याल्लाक्षणिकएव- अवयविनि प्रयुज्यमानस्य शब्दस्यावयवेऽपि लोके बहुशः प्रयोगदर्शनात् । विवाहार्थानृतवदनविधिना च निषेधातिक्रमनिमित्तिदोषाजनकत्वमात्रमेव बोध्यते, नत्विष्टजनकत्वमिति धर्मलक्षणाभावान्न तत्रातिप्रसङ्गः । ऽनातिरात्रे षोडशिनं गृह्णातिऽ इति निषेधेन च ग्रहणविध्यविरोधायानिष्टसाधनतवानाक्षेपादेतद भावेऽपीतराङ्गैः ऋतूपकारसिद्धेरेवाक्षेपान्न षोडशिग्रहणस्य निषेध्यत्वेऽप्यधर्मत्वम् ॥ (आत्मज्ञानधर्मत्वसमर्थनम्) यद्वा ऽइत्याचारदयाहिंसादानस्वाध्यायकर्मणात् । अयं तु परमो धर्मो यद्योगेनात्मदर्शनम्ऽ इत्येवमादावात्मज्ञानेऽपि धर्मशब्दप्रयोगात्श्रवणमननिदिध्यासनादिसहकृतात्मदर्शनस्यानाद्यनिर्वचनीयभावरूपाज्ञाननिवृत्तिजनकत्वस्य केनापि प्रमाणेनाज्ञातत्वात्योगजन्यात्मज्ञानस्यैव विशिष्टवेषेण परमधर्मत्वोक्तेः ज्ञानेऽपि धर्मत्वमेवेति युक्तम् ॥ नच ऽतरति शोकमात्मवित्ऽ इत्याद्युपनिषद्वाक्यानामर्थवादरूपत्वेऽपि तत्कल्प्यादात्मज्ञानं साधयेदित्याद्यात्मज्ञानविधेरुत्पत्तिप्रतीतेः कथमबाधितत्वम्? इति वाच्यम् - तथाविधवावाक्यानामर्थवादरूपतवेऽपि तत्कल्प्यादात्मज्ञानं साधयेदित्याद्यात्मज्ञानविधेरुत्पत्तिप्रतीतेरबाधितत्वात् । तद्विधिविषयस्यात्मज्ञानस्य फलजिज्ञासायांऽतरति शोकमात्मविऽ दित्यार्थवादिकशोकापरपर्यायानाद्यविद्यानिवृत्तिरूपफलप्रतीतेरप्यबाधितत्वात्लक्षणसंभवेन धर्मत्वोपपत्तेः । अस्ति च श्रवणादिविधिप्रायपाठेऽआत्मा वा अरे द्रष्टव्यःऽ इति स्पष्टो विधिरिति न तत्कल्पनाक्लेशोऽपि । नच ज्ञाने प्रमाणवस्तुपरतन्त्रत्वेन विध्यनुपपत्तिः - ज्ञानस्य स्वतोऽविधेयत्वेऽपि कालाकाशादीनामाश्रयाविष्टत्वेनेव तदलुकूलमनः प्रणिधानादिव्यापाराविष्टत्वेन विधेयतवोपपत्तेः । इतरथा श्रवणादीनामप्यन्ततो ज्ञानरूपत्वेन तत्रापि श्रोतव्य इत्यादिविध्यनुपपत्तेः । एतेन ज्ञाने विध्यनुपपत्तेः द्रष्टव्य इति तव्यप्रत्ययस्यार्हार्थत्वमङ्गीकृत्य विहितनिषिद्धत्वाभावेनात्मज्ञानस्य धर्माधर्मबहिर्भूतत्वमेव । अतएव कर्मोपासनाकाण्डद्वयात्ज्ञानकाण्डं भिन्नम् । ऽअयं तु परमो धर्मऽ इत्यत्र दर्शनशब्दः करणल्युडन्तः । तथाच सविकल्पसमाध्यन्तेन योगेनात्मज्ञानसाधनभूतो निर्विकल्पसमाधिरेवात्मदर्शनपदेनोच्रूते इति तस्यैव धर्मत्वम्, नात्मज्ञानस्य । भावल्युडन्तत्वाऽग्रहे तु सर्वकर्मफलानां ज्ञानफले अन्तर्भावात्ज्ञानस्य परमर्धत्वोक्तिः प्रशंसारूपैवेति कस्यचिदुक्तं अपास्तम् - अनाद्यविद्यावासितान्तः करणानां संसारनिमग्नानां कथमप्यात्मज्ञानवार्तामप्यकुर्वतां नराणामात्मज्ञानविधायकपरतयोपदेशपरत्वे संभवति निरर्थकप्रायार्हार्थकत्वकल्पनाया अन्याय्यतवात्, उपासनानां धर्मत्वेऽपि विचार्यतावच्छेदककिञ्चिद्रूपभेदमादाय कर्मकाण्डाद्भेदस्येव ज्ञानस्य धर्मत्वेऽपि कर्मोपासनाकाण्डद्वयाद्भेदस्योपपत्तेश्र्च, स्वरसतः प्रतीयमानात्मज्ञज्ञनरूपफलपरत्वमपहाय दर्शनपदस्य करणल्युडन्तत्वकल्पनया साधनपरत्वकल्पने निमित्ताभावाच्च, निर्विकल्पसमाध्यन्तयोगस्य योगशब्दार्थत्वात्तदेकदेशे प्रमाणभावाच्च । नहि हास्यादिव्यङ्ग्यार्थज्ञापनाभावेऽएषामयं परमो ब्राह्मणःऽ इतिवाक्यमब्राह्मणे शूद्रादौ प्रयुज्यते । प्रकृतेषीणां व्यङ्ग्यार्थज्ञापने तात्पर्याभावात्, प्रत्युत परमो ब्राह्मणः इत्यनेन इतरस्य ब्राह्मणत्वोक्तय षष्ठ्यन्तनिर्दिष्टानां ब्राह्मणत्वप्रतीतिवतस्मिन्वाक्येऽपि ज्ञानस्य धर्मत्वोक्त्या इज्यादीनां धर्मत्वप्रतीतेरेव हेतोर्यागादिक्रियाणां धर्मत्वस्य भाट्टालङ्कारैः प्रसाधनाच्च । अतो युक्तमेवात्मज्ञानस्य धर्मत्वम् ॥ (नित्यनैमित्तिकानामपि पापक्षयसाधनत्वेन धर्मत्वसमन्वयः । तत्र न्यायसुधाकृन्मतोपपादनं च) नच नितयनैमित्तिककर्मविधिषु फलाश्रवणात्कथमेतेषां पूर्वोक्तलक्षणविषयत्वेन धर्मत्वम् ? इति वाच्यम्- तत्रापि सर्वाशक्त्यधिकरणे मिश्राद्युपपादितरीत्याऽपूर्वो सन्ध्यां जपंस्तिष्ठनैशमेनो व्यपोहतिऽ इत्यादिस्मृतिभ्यो,ऽयद्रात्र्या पापमकार्षम्ऽ इत्यादिमन्त्रेश्र्चपापक्षयरूपफलकल्पनावश्यंभावेन पूर्वोक्तलक्षणसत्वेन धर्मत्वोपपत्तेः । यद्यपि न्यायसुधाकृतो नैतन्मतम्, यथोक्तं यावज्जीवाधिकरणे तेन ऽसंध्योपासनमात्राद्धि सर्वपापक्षये सति । अग्निहोत्राद्यनुष्ठाने कः प्रवर्तेत बुद्धिमान् ? । एकस्य तु क्षये कस्येत्यवगन्तुं न शक्यतेऽ इति - तथापि तेन स्वकाले क्रियमाणानां नित्यादीनामकरणजन्यदोषाभावफलकतवस्य तत्कालेऽन्यकरणस्य वा पापजनकत्वेन तत्क्षयस्य फलत्वेनाभ्युपगमातुक्तस्मृतिमन्त्रेभ्यश्र्चातिक्रान्तेऽपि काले विहिताकरणोत्पन्नदोषनाशाय कर्तव्यतवाभ्युपगमात्संभवत्येव तन्मतेऽपि तेषामुक्तविधं धर्मत्वम् ॥ (दध्यादिद्रव्याणां धर्मत्वमिव रजतादीनामधर्मत्वमिति व्यवस्थापनम्) एवञ्च यथैवऽदध्नेन्द्रियकामस्यऽऽयदि वर्षुकः पर्जन्यः स्यान्नीचैः सदो मिनुयात्ऽऽषष्ठे अन्नाद्यकामस्येऽ त्यादिविधिबोधिततत्तच्छ्रेयः साधनताकेषु द्रव्यगुणकालादिषु पूर्वोक्तलक्षणसत्त्वाद्धर्मत्वम्, तथैवऽबर्हिषि रजतं न देयंऽ इत्यादिनिषेधबोधितानिष्टसाधनताकरजतादिद्रव्येषु अधर्मत्वमपि युक्तमेव ॥ नचात्र निषेधवाक्येन दक्षिणादानासाधनत्वमात्रमेव बुध्यते, नत्वनिष्टसाधनत्वमपि, तथात्वेऽभ्युपेत्यानिष्टं रजतदातुः ऋतुवैगुण्यानापत्तेरिति कस्रूचिद्भान्तस्योक्तं युक्तम् - प्रत्यक्षतो दक्षिणादानसाधनत्वेनावगते रजते प्रस्तरे यजमानाभेदस्येव विधिशतैरपि तदसाधनताबोधस्य कर्तुमशक्यत्वात् । नह्यत्र पुरुषार्थनिषेधवत्नरकसाधनत्वं निषेधवैयर्थ्यपरिहारायाक्षिप्यते - बर्हिः पदोपादानवैयर्थ्यापत्तेः, किन्तु ऋतुप्रकरणेऽनानृतं वदेत्ऽ इति निषेधवतृतुवैगुण्यजनकत्वमेव, तद्यदि दक्षिणादानक्रियामात्रे बोध्यते, तदा सुवर्णादिदानस्यापि वैगुण्यजनकतवापत्तिः । तथाच यथाश्रद्धं दक्षिणां ददातीति विधिप्राप्ते यज्ञसंबन्धिदाने दक्षिणात्वेन प्राप्तरजतकरणत्वमेव ऋतुवैगुण्यजनकमित्येवमाक्षिप्यते होमे दधिकरणत्वस्येन्द्रियफलजनकत्ववत् । एतावतैव च दध्यादौ धर्मत्वव्रूवहारे सर्वसंप्रतिपन्ने सति केन वा विशेषेण रजतादिद्रव्ये नाधर्मत्वं वदतीति विशेषमालोचयन्तु सुधियः । तस्मादेतदभिप्रायेणैवऽनहि फलार्थगुणानुष्ठातॄणां यज्ञे रजताद्यनुठातॄणां च धार्मिकोऽधार्मिक इति व्यवहारभावऽ इत्युक्तं भाट्टरहस्ये पूज्यपादैः । अतएव निषेधावगतानिष्टसाधनताकस्य रजतस्यऽसोऽरोदीत्ऽ इत्यर्थवादेनाप्राशस्त्यं बोध्यते । एतादृशज्ञापकाभवे च विशिष्टक्रियाया एव निषेधादनिष्टजनकत्वं यथा कल्जभक्षणादावित्युक्तम् ॥ (अधर्मलक्षणस्याविद्याद्वैतवासनादावतिव्याप्तिनिरसनम्) यद्यपि अधर्मलक्षणंऽअसूर्या नाम ते लोका अन्धेन तमसा वृताः । तांस्ते प्रेत्याभिगच्छन्ति ये केचात्महनो जनाःऽ इत्याद्युपनिषद्वाक्यबोधितानिष्टसाधनताके अविद्याद्वैतवासनादावतिव्याप्तम् - तथापि तस्यात्मज्ञज्ञनप्रशंसापरस्य लक्षणया आत्मज्ञानप्राशस्त्यपरत्वेन आपातप्रतीतशक्यार्थज्ञानस्य लक्षणोत्तरबाधादबाधितप्रतीतिविषयानिष्टसाधनताकत्वा भावान्नातिव्याप्तिः । यदि त्वेतादृशनिन्दया द्वैतवासनां त्यजेत्तद्दोषपरिहारार्थमिति विधिः कल्प्येत, यतदा तत्र त्यागस्य विहितत्वाद्धर्मत्वमेवेति नानुपपत्तिः । अतो युक्तमेव वेदबोधितश्रेयस्साधनताकत्वं धर्मत्वं, तद्बोधितानिष्टसाधनताकत्वमधर्मत्वमित्येवं लक्षणद्वयम् ॥ (धर्मलक्षणे वेदबोधितत्वपरिष्कारः) अत्रेदमवधेयम् यदि वेदबोधितत्वं वेदजन्याबाधितप्रतीतिविषयत्वं, तद्यदि शाब्दबोधरूपप्रतीतिमादाय, तदा विधेयस्य स्वर्गादिपदसमभिव्याहाराद्यागस्वर्गसाध्यसाधनभावस्य शाब्दबोधविषत्वेऽपि निषेधस्थले भवन्मते अनिष्टादिवाचकापदसमभिव्याहाराभावे अनिष्टसाधनत्वस्य आक्षेपादेव बोधस्वीकारात्निषेध्यगतानिष्टसाधनत्वस्य कथं वेदजन्यशाब्दबोधरूपप्रतीतिविषयत्वम् ? यदि वेदप्रयोज्यप्रतीतिविषयत्वम्, तदा कथं तद्ब्रह्मस्वर्गनरकादावपीत्युक्तं येनोत्तरदलं कृतमिति भाट्टरहस्ये पूज्यपादोक्तं घटते । अतो धर्मलक्षणावैरूप्यादधर्मलक्षणमपि वेदप्रयोज्यानुमितिविषयानिष्टसाधनताकत्वमित्येव कर्तु युक्तम् । आत्मज्ञानेऽपि यदिऽआत्मा वा अरे द्रष्टव्यः श्रोतव्यःऽ इति विधिः, तदा तद्विधिप्रयोज्यानुमितिविषयाज्ञाननिवृत्तिरूपेष्टसाधनात्वाविधातान्नाव्याप्तिः । यदा तु न तस्य विधित्वमिति, तदा आत्मज्ञानस्य मास्तु धर्मत्वम् । ऽअयं तु परमो धर्मऽ इत्यत्र क्रियारूपायागस्येव धर्मत्वं विवक्षितम्, नत्वात्मज्ञानस्येत्यपि शक्यं वक्तुमिति न दोषः ॥ (श्येनधर्मत्वपक्षः) उभयविधलक्षणस्यापि च श्येने सत्त्वाद्धर्मत्वमेव । अधर्मत्वं तु श्येनफलस्य हिंसात्मकाभिचारस्यैवेति चतुर्थे व्यक्तीकरिष्यते ॥ (अनिषेध्यत्वेन श्येनधर्मत्वस्य बलवदनिष्टानुबन्धित्वेन तदधर्मत्वस्य चोपपादनम्) यत्तु भाट्टालङ्कारकृता बलवदनिष्टाननुबन्धित्वमपि धर्मत्वलक्षणे प्रवेश्य श्येनस्य विहितत्वात्कथं न हिंस्यादितिनिषेधविषयत्वाभावे बलवदनिष्टानुबन्धित्वमित्याशङ्क्य वैरिमरणं मया कर्तव्यमिति संकल्पस्य रागतः प्राप्तस्य विध्यंसुस्पृष्टस्य निषेध्यत्वात्, अथवा श्येनफलस्य वैरिमरणानुकूलव्यापारस्य दृष्टोपायेनेव श्येनादिनानुष्ठातृजनस्य निषेधातिक्रमसत्त्वात्तदुपपत्तेरित्युक्त्वा नचास्याधर्मपदवाच्यतापत्तिः - अनिष्टानुबन्धित्वेऽपि स्वरूपेण निषेध्यत्वाभवात्, निषेध्यस्यैवाधर्मत्वात्, यदितु स्वयमनिषेध्येऽपि परम्परयानिष्टानुबन्धिन्यधर्मपदं प्रयुज्यते लोके, तदा भवतु श्येनादेरधर्मत्वम् इत्युक्तम् ॥ (अभिचारनिषेध्यतवोपपादनं श्येनाधर्मत्वपक्षखण्डनं च) तत्र वैरिमरणं मया कर्तव्यमिति संकल्पस्य विध्यसंस्पृष्टत्वमुक्तम्, संकल्पस्य श्येनाचरणपूर्वभावित्वेन कर्मणो विहितत्वे तत्पूर्वभाविनः तस्यापि कर्मविधायकशस्त्रेण शास्त्रान्तरेण वा विधेरावश्यकत्वात्, विधेयत्वाभावेऽपिवा कर्माविनाभूतत्वेनावर्जनीयत्वाच्च, इतरथा अग्नीषोमीयादिपशुहिंसायामपि पशुमारणं मया कर्तव्यमितिय संकल्पस्य निषेध्यत्वेन बलवदनिष्टानुबन्धित्वापत्तेः । संकल्पस्य निषेधविषयत्वेन श्येने विहिते बलवदनिष्टानुबन्धित्वस्य संभवद्वृत्तिकत्वाच्च । दृष्टोपाये निषेधविषयत्वेऽपि विहिते श्येने निषेधातिक्रमस्य वक्तुमशक्यतवाच्च । स्वरूपेण निषेध्यत्वाभावेनाधर्मत्वाभावे स्वरूपेण विहितत्वेन धर्मत्वाङ्गीकारे बाधकाभावाद्बलवदनिष्टाननुबन्धित्वप्रवेशे प्रयोजनाभावाच्च । नच परंपरयानिष्टानुबन्धित्वादधर्मत्वमेवास्तु इति वाच्यम् - कास्यकर्मणां कामनापरित्यागेन विविदिषाद्यर्थमुपयोगस्येव श्येनस्याप्यभिचारूपफलांशपरित्यागेन विविदिषाद्यर्थोपयोगस्य धर्मत्वफलस्य सत्त्वात्, श्येनादौ सर्वथा बलवदनिष्टाननुबन्धित्वाभावे किमपि प्रवृत्तिकारणाभावात्तद्विषयप्रवृत्तेरनुपपत्तेश्र्च ॥ अत.ः श्येनस्य धर्मस्य सत एव परंपरयानिषानुबन्धित्वेनाधर्मत्वं वाच्यम् । तस्मात्परंपरयनिष्टानुबन्धित्वेनाधर्मत्वस्यायुक्तत्वाद्धर्मलक्षणे चबलवदनिषाननुबधित्वप्रवेशे प्रयोजनाभावाच्च श्येनादौ धर्मत्वमेव । अधर्मत्वं तु श्येनफलस्य हिंसात्मकाभिचारस्यैवेत्येव युक्तम् । समर्थितं चैतदेव चोदनासूत्रे शास्त्रदीपिकायाम् ॥ (वचनान्तरानुसारेण श्येनाधर्मत्वस्यापि उपपादनम्) कथं तर्हिऽ व्रात्यानां याजनं कृत्वा परेषामन्त्यकर्म च । अभिचारमहीनं च त्रिभिः कृच्छ्रैर्विशुद्यतिऽ इति प्रायश्र्चित्ताम्नानं शिष्टानां विगर्हणं चोपपद्यते ?ऽपरस्योत्सादनार्थे यत्तामसं तदुदाहृतंऽ इत्यादिवचनालोचनेन तामसतवनिन्दोन्नीतनिषेधबलेन साक्षादेव नरकसाधनत्वावगमेनाधर्मत्वस्यापि सत्त्वात्तदुपपत्तेः ॥ (श्येननिन्दाया नहिनिन्दान्यायविषयत्वाभावः) नच उदितानुदितहोमविषयप्रत्यक्षविधिविरोधापत्तेरिव सन्निधिपठितानामपि निन्दोन्नीतनिषेधकल्पनमेव न संभवति इति वाच्यम् - तत्र नहिनिन्दान्यायेन विधेयस्तुत्यर्थतया विरोधपरिहारसंभवेऽपि प्रकृते त्रिविधकर्मोपदेशप्रस्तावात्परस्परस्तुत्यभावेन निन्दावैयर्थ्यापत्तोर्निषेधकल्पनस्यावश्यकत्वात् । तथा यज्ञादीनामपि सत्त्वादिगुणभेदेन त्रिविधत्वप्रतिपादनमिह राजसतामसताबुद्या कथं तु नाम परित्यजेत्? सात्त्विकानेवानुतिष्ठेतित्येवमर्थमाहेति भाष्यकारैःऽपरिहारस्त्वपि सर्वस्येऽ ति श्र्लोकावतरणिकायां निषेधविधिकल्पनस्य अनुमोदितत्वाच्च, आनर्थक्यप्रतिहतानां विपरीतं बलाबलमिति न्यायेन स्मार्तस्यापि प्राबल्याच्च, निन्दोन्नीततिषेधकल्पने तामस्यापि कर्मणो विहितत्वात्सर्वदा शिष्टानामनुष्ठेयत्वापत्तेश्र्च । इतरथा तामसयज्ञादीनामपि निषेधविषयत्वानापत्तेः, विहितस्येव कम्रणः त्रिविधत्वोकेः, तामसत्वकथनस्य श्येनादिविषयत्वस्यैवाकामेन वक्तव्यतवाच्छयेनादौ तदप्रवृत्तेर्वक्तुमशक्यत्वाच्च ॥ नच इदं भगवद्वचस्त्रीविधतया त्रैविध्यकथनपरमेव पूर्वप्रस्तवात्दृश्यते,ऽविधिहीनमसृष्ठान्नं मन्त्रहीनमदक्षिणम् । श्रद्धाविरहितं यज्ञं तामसं परिचक्षतेऽ इत्यादिना पाकयज्ञादीनां तामसत्वे कारणान्तराभिधानात्कथं तद्वचनस्य श्येनादियागविषयत्वं युक्तम् ? इति वाच्यम् - कथञ्चित्सात्त्विकादित्रिविधविहितक्रमोपदेशमात्रे भगवत्तात्पर्येऽपि परस्परासंकीर्णलक्षणकरणे तात्पर्याभावेन तमोमात्रस्य नियन्तुमशक्यत्वात्, अन्यथा विधिहीनामन्त्रकजपतपोदानहोमानामतामसत्वापत्तेः, यज्ञगततामसत्वकारणं विनानुष्ठिताभिचारार्थयज्ञस्य तामसत्वानापत्तेश्र्च । तपसस्तामसत्वकारणस्य परपीडाजनकत्वस्य तपसीव तथाविधयज्ञदानादावपि सत्त्वे भगवतापि तामसत्वाभावस्य दुरुपपाद्यत्वाच्च,ऽयः स्वर्ग्ये लोकविद्विष्टं धर्ममप्याचरेन्नतुऽ इत्यादिस्पष्टनिषेधैरपि स्वर्गातिरिक्तादृष्टमात्रफलकलोकविद्विषधर्मसाधनस्य यागदानहोमतपआदिरूपस्य नरकसाधनत्वावगमात् । एतेनाभिचारजनकश्येनादाविव यत्रापि साक्षाऽद्वैरिमरणकामो यजेतेऽ त्येवमभिचाररूपयागस्यैव विधिस्तत्र विहितत्वेन हिंसानिषेधाप्रवृत्तेः परंपरयापि चानिष्टानुत्पादकस्य धर्मस्यापि यागस्याधर्मत्वमुपपादनीयम् ॥ नच परस्योतसादनार्थमिति वाकये करणल्युडन्तोत्सादनशब्देन परोत्सादनानुकूलप्व्यापारोक्तेः तदर्थकर्मणः श्येनादेरेव तामसत्वं प्रतीयते, नतु साक्षादभिचाररूपस्य यागस्येति कथं तामसत्वेन निन्दाविषयत्वम् ? इति वाच्यम्, अभिचारजनकश्येनादेस्तामसत्वकथने अर्थारेव साक्षादभिचाररूपस्य कर्मणस्तामसत्वस्य कैमुतिकन्यायसिद्धत्वात् । अतएव तुल्ययोगक्षेमतया निन्दितयोरुभयोरभिचारतज्जनककर्मणोरभिचारमहीनञ्चेत्यत्राभिचारपदेन संग्रहः क्रियते ॥ नच्.आत्राभिचारपदं लौकिकाभिचारपरम् - विहितयज्ञदानाहीनान्त्यकर्मसमभिव्याहारेण विहिताभिचारपरत्वस्यैवावगतेः । अस्तु वा उभयविधाभिचारपरं, तावतापि नक्षतिः । अत उपाधिरूपयोर्धर्मत्वाधर्मत्वयोः महाभारतीययुद्धे इवैकश्येनादावङ्गीकारे बाधकाभावात्विधिसार्थक्याय नरकन्यूनत्वस्य च कल्पनाद्युक्तमेव पूर्वोक्तधर्माधर्मलक्षणानुसारि धर्मत्वमधर्मत्वं च श्येनादाविति दिक् ॥ (वेदाप्रामाण्यनिरासः) एतादृशपूर्वोक्तलक्षणाभ्यां धर्माधर्मस्वरूपे सिद्धे तत्प्रमाणं तावत्ऽवेदोऽखिलो धर्ममूलम्ऽ इति वचनाद्वेद एवेति पूर्वोक्तलक्षणयोर्न वेदबोधितत्वासंभवः । वेदस्य च स्वतोऽपौरुषेयत्वेन निर्देषत्वादबाधितार्थप्रतीजिजनकत्वमपि नासंभवति । बाधितार्थप्रतीतिजनकत्वमप्रामाण्यम् । तच्च द्वेधा । साक्षात्कारणदोषज्ञानाद्वा । वेदजन्यज्ञाने साखादन्यथात्वं ज्ञाने तावन्नस्त्येव । तद्धि अबोधकत्वादधिगतबोधकत्वात्बोध्यस्य तथाभूत्वावाद्वा । तत्र न तावदबोधकत्वं वेदे वक्तुं शक्यम् - आकाङ्क्षादियुक्तेभ्यो गृहीतसंगतिकेभ्यो वैदिकपदेभ्यो वाक्यार्थबोधस्यानुभवसिद्धत्वात् । नाप्यधिगतार्थबोधकत्वम् - यागादिस्वर्गसाध्यसाधनभावे प्रत्यक्षादिविषयत्वाभावस्य प्रत्यक्षसूत्र एव निराकरणात् । बोधस्य तथाभूतत्वाभावो हि द्वेघा स्यातर्थ क्रियाकारकत्वादिगुणजन्यज्ञानविषयत्वादिसाधकाभावाद्बाधकमानाद्वा, तत्र न तावदाद्यः, विषयाथार्थ्येनोत्पन्नस्य ज्ञानस्यार्थक्रियाकारित्वादिगुणापेक्षयां प्रयोजनाभावात्, अतथाभूतस्यापि स्वप्नार्थस्यार्थक्रियाजनकत्वदर्शनेन तथाभूतस्यातथाभूतत्वप्रयोजकत्वे व्यभिचाराच्च । बाधकं मानमपि मिथ्या तदिति ज्ञानं, दुष्टकरणज्ञापितत्वं वा । नच वेदार्थमिथ्यात्वप्रत्ययः संभवति, स्वर्गफलविधिषु क्षणिककर्मणः आकमुष्मिकफलकत्वानुपपत्तेपूर्वावान्तरव्यापाराङ्गीकारेण निरस्तत्वात्, चित्रादिषु चानन्तरफलानुपलम्भस्य तदर्थसत्यत्वेऽपि चातुर्थिकन्यायेन ऐहिकामुष्मिकत्वेन बाधकाभावात्, कारीरीफलस्य तु ऐहिकस्वभावस्यापि वैगुण्यादनन्तरमनुपलम्भसंभवे तत्रापि बाधकाभावात् ॥ (वेदापौरुषेयत्वस्य तत्पौरुषेयत्वानुमाने प्रमाणान्तरमूलत्वादिना सोपाधित्वानिरूपणपूर्वकं व्यवस्थापनम्) दुष्टकरणज्ञापितत्वमपि न संभवति - यतः शब्दे स्वतः कस्यापि दोषस्यासंभवात्पुरुषदोष एव भ्रमादिस्तद्धेतुर्वाच्यः, सच पदतदर्थसंबन्धस्य पुरुषकृतत्वे तदाश्रितस्य भ्रमादेः तद्बोधाधीनपदार्थज्ञानहेतुकवाक्यार्थप्रमाणेऽपि संक्रान्तितः स्यात्, वेदस्यैव वा पौरुषेयतवे । तत्र पदपदार्थसंबन्धस्य तावत्प्रतिपाद्यप्रतिपादकभावरूपस्याभिधानक्रियागभ्रस्यापि पदार्थसंबन्धः सर्वोऽन्यस्मात्प्रतिपद्यते, मह्यवहारवदिति न्यायेन स्वरूपतो ज्ञापितत्वात्प्रवाहानादित्वान्न पौरुषेयत्वम् । तथा वेदस्यापि वेदार्थस्यालौकिकत्वेन तद्विषयस्य वाक्यस्य समूलस्य कर्तृज्ञानस्यासंभवान्न पौरुषेयत्वम् । यदि वेदस्यापि पौरुषेयत्वं तदा योगमहिम्ना सर्वज्ञानां स्वभावतः सर्वज्ञस्येश्र्वरस्य च ज्ञानप्रामाण्याविशेषेण तदुभयवचसो विशेषस्य वक्तुमशक्यतवेन मन्वादिस्मृतितुल्यतवमेव स्यात् ॥ ननु वेदः पौरुषेयः, वाक्यतवात्,कालिदासादिवाक्यवत्, इत्यनुमानात्काठकादिसमाख्यादर्शनात्ऽत्रयो वेदा अजायन्तेऽ ति श्रुतेश्र्च वेदस्य कथं न पौरुषेयत्वम् ? युक्तञ्चैतत्- अन्यथा मन्त्रार्थवादसिद्धप्रलयस्य सत्वेन तदानीमध्येतॄणां वेदस्यापि नाशात्मन्त्रार्थवादाधिगमासंभवेनेतरपदार्थवत्ज्ञानासंभावापत्तेः, अत इतरसृष्टिवद्वेदस्यापि पुरुषकर्तृकत्वमेव । अतएव वक्त्रा यत्प्रतीतिमुद्दिश्य यद्वाक्यमुच्चरितं, तस्य तत्परत्वमिति लोकसिद्धतात्पर्यस्यापि पौरुषेवाक्ये संभवेन उपक्रमोपसंहारादेर्वेदवाक्यगततात्पर्यनिर्णायककल्पनमपि नापद्यते, सतुरां च शब्दज्ञानप्रमाण्यस्याप्तवाक्याधीनत्वेन शब्दोत्थज्ञानस्याप्रामाण्यानापत्तिश्र्च । समाख्यानस्य च सिद्धान्त्यभिमतप्रवचननिमित्तत्वेनोपादने तस्य कुपुरुषसाधारण्येन असाधारणव्यपदेशानुपपत्तिस्तदवस्थैपव । अतः पौरुषेय एव वेदः, तथात्वेऽपिऽतद्विदां च स्मृतिशीलेऽ इत्युक्तत्वाद्वेदवित्प्रणीतवैषम्यमात्रेणैव स्मृतितुल्यत्वानापत्तिः इति चेत्, न- पौरुषेयत्वे पौरुषेयवाक्यप्रामाण्य तत्कर्तृप्रत्ययाधीनसिद्धिकत्वादवश्यस्मर्तव्यरूपकर्तुर्नियमेनास्मरणात्तदभावप्रतीतेः । नच छन्दोगप्रसिद्धस्य योनिग्रन्थस्य कर्तृस्मरेण पौरुषेयत्वापत्तिः - तस्य पौरुषेयतवे साम्न उत्तरमूहग्रन्थस्रू पाठेनैव प्राप्त्याऽयद्योन्यांऽ तदुत्तरयोर्गायतीऽ तिवचनवेयर्थ्यापत्त्यैवापौरुषेयतवसिद्धेः । वाक्यत्वहेतुकानुमानमपि प्रमाणान्तरमूलत्वेन सोपाधिकमित्यप्रयोजकम् - पौरुषेयवाक्ये तथैव सत्त्वात्, वेदार्थस्य प्रत्यक्षाग्राह्यत्वात् । ऽत्रयो वेदा अजायन्तेऽ त्यादि तुऽउच्चैर्चा क्रियते उपांशु यजुषा उच्चैः साम्नेऽ ति विधिशेषत्वेनार्थवादरूपत्वन्न स्वार्थे प्रमाम् । यदि चैते विधयः कर्त्रपेक्षाः स्युःख्ततः स्वर्गकामविध्यपेक्षितस्वर्गस्वरूपबोधकार्थवादवदिदमपि स्वार्थे प्रमाणं भवेत्विध्यपेक्षितकर्तृप्रतिपादकत्वेन, नत्वेतदस्ति । एतेन मन्त्रार्थवादेभ्यः सृष्टिप्रलयसिद्धिर्निरस्ता- तेषामपि विध्यन्तरशेषत्वेन स्वार्थे प्रामाण्याभावात्, काठकादिसमाख्याया अपि कठादिषु विशेषवृत्तिप्रवचनातिशयेन केनाप्युपपत्तेः, कठैः परम्परयाधीयमानत्वेन वा तत्संभवाच्च । नच मानवादिसमाख्यानामपि प्रवचननिमित्तत्वापत्त्या स्मृत्यादेरपि तथात्वापत्तिः, आद्यन्तनामावलिस्मरणरूपदृढकर्तृस्मरणेन तासां कर्तृपरत्वात् । अतएवऽवासिष्ठस्रू आर्ष विश्र्वामित्रस्यार्ऽऽषेऽ इति प्रतिवाक्यं कर्तृस्मरणमपि ऋषिदर्शनादिस्मरणात्सृष्ट्यादौ तत्र वौयदर्शनमात्रेणैवोपपन्नमिति न वसिष्ठादिकर्तृकत्ववादिना एतादृशयोगेनेव काठकादिसमाख्यानापमुपपादनीयतवाच्च, कर्त्रजन्यतवेऽपि यत्प्रतीत्यर्थ यद्वाक्यं तत्परं तदिति तादर्थ्यरूपतात्पषस्य वेदेऽप्युपपन्नत्वेन तदनुपपत्त्यापादनस्यायुक्ततवाच्च, प्रामाण्यघटितयावत्पदार्थानामर्थावबोधकत्वानधिगतार्थबोधकत्वादिरूपाणां वेदेऽपि संभवेनाऽप्तवाक्यजन्यत्वाभावेऽपि तदुपपत्तेश्च । अस्तुवा अर्थवादादिप्रमाणकं सृष्टिप्रलयादिकं वेदादिनाशश्र्च - तथापि संसारस्यानादित्वेनैककल्पसमुत्थितं वेदं कल्पान्तरेरिश्र्वरः सर्वज्ञत्वादुपदिशतीत्येव कल्पनालघवेनोपपत्तौ प्रतिकल्पं रचनाकल्पनागौरवस्यान्नयाय्यतवेन नेश्र्वरकर्तृकत्वकल्पनं युक्तम् । संसारस्य सादित्वे हि अभिनवानुपूर्वीविरचनमवश्यं युक्तम् । संसारस्य सादित्वे हि अभिनवानुपूर्वीविरचनमवश्यमभ्युपेयं स्यात् । नच तत्संभवति - सृष्टेः पूर्व वेदाभावात्वेदैकसमधिगम्यधर्माधर्माभावे तदनुष्ठानाभावात्कल्पान्तरोत्पन्नप्राणिनां सुखदुःखोत्पत्त्यनुपपत्तेः, वाक्यरचनस्य जन्यज्ञानपूर्वकत्वदर्शनेन रिश्र्वरे जन्यज्ञानकल्पनाप्रसंगापत्तेश्र्च, नित्यज्ञानस्य वेदप्रामाण्याधीनसिद्धित्वेनेतरेतराश्रयात्,ऽसति वेदप्रामाण्ये तद्बोधितनित्यज्ञानवत्त्वेन रिश्र्वरस्य तत्कर्तृत्वं, तत्कर्तृत्वेन च वेदप्रामाण्यमिति । एतेन क्षित्यादिकं सकर्तृकं, कार्यत्वात्, इत्यनुमानेन नित्यज्ञानवदीश्र्वरसिद्धौ तदीयज्ञानमूलकत्वेन वेदस्य प्रामाण्यमिति परास्तम् - तावताप्यनित्यज्ञानवत एव क्षित्यादिकर्तृसिद्धौ तदीयज्ञानस्यापि मूलप्रमाणं विना प्रामाण्यासिद्धेः । अतएवऽ यस्य निःश्र्वसितं वदाऽ इति श्रुतिरपि निःश्र्वासवदप्रयत्नसिद्धत्वं वदति- वेदस्य चास्मर्यमाणकर्तृकत्वेनाजन्यत्वस्येव प्रतीतेः । आनुपूर्वीविशेषविशिष्टवर्णात्मकस्य वेदस्य वर्णस्वरूपेण नित्यत्वेऽपि आनुपूर्वीविशेषस्योच्चारणसामग्री जन्यत्वेनानित्यत्वम् । सगकाले च तज्जातीयानुपूर्वी काचिदस्तीति कार्यरूपेणानादित्वेनैव नित्यत्वं, न गगनादिवत्स्वरूपेणानादित्वेनेत्यर्थे सिद्धे कथमप्यप्रामाण्यकारणाभावे स्वत एव निर्देषादबाधितप्रतीत्युत्पत्तिसंभवाद्युक्तमेव पूर्वोक्तं धर्माधर्मलक्षणद्वयम् ॥ (भाट्टदीपिका). आम्नायस्य ॥ "वायुर्वै क्षेपिष्ठा देवता वायुमेव स्वेन भागधेयेनोपधावति स एवैनं भूतिं गमयती" त्याद्यर्थवादानां (प्रभावली) (प्रथमपादेन त्रिपाद्याः द्वेधा प्रसंगेनाक्षेपेण च संगतिनिरूपणम्) जिज्ञासासूत्रे च धर्माधर्मस्वरूपं यथा प्रतिज्ञाविषयः, तथा यावत्तत्प्रमाणजातमपि प्रतिज्ञातम् । तदेवाग्रे निरूप्यते । तत्र विधिनिषेधार्थवादमन्त्रनामधेयात्मको वेदो मन्वादिस्मृतिशिष्टाचाराश्र्च धर्माधर्मयोः प्रमाणानि । तत्र पूर्वपादे समस्तस्यैव वेदस्य पौरुषेयत्वाशङ्कया तदवयवभूतानां चोदनानामपि पौरुषेयत्वद्वारा प्राप्तमप्रामाण्यं पूर्वोक्तयुक्तिभिःप्रसाधितापौरुषेयत्वेन निराकृत्य त्र्यंशभावनाविषयप्रवर्तनानिवर्तनाप्रतिपादकपदसमुदायरूपविधि निषेधापरपर्यायचोदनाया धर्माधर्मप्रमोत्पत्तेः प्राधान्येनैव चोदनासूत्रे तयोर्धर्माधर्मप्रामाण्यं साधितमिति तदवयवत्वेनोपस्थितानां चोदनातिरिक्तार्थवादादिवेदभागादीनां स्मृत्यादीनां चाप्रधानभूतानामपौरुषेयतवादितुल्यत्वात्परिग्रहदार्ढ्याच्च संभावितत्वाज्जिज्ञासितं प्रथमसूत्रप्रतिज्ञातं चोदनाप्रसक्तं धर्माधर्मप्रमाण्यमस्ति न वेति प्रसङ्गेन निरूपितम् ॥ अथवा चोदनार्थमप्युक्तेनापौरुषेयत्वेन समस्तस्यापि सिद्धप्रायं प्रामाण्यं चोदनांशे धर्माधर्मविषयप्रवृत्तिजनकेष्टानिष्टसाधनत्वानुमापकप्रवर्तनानिवर्तनारूपानधिगतार्थबोधकत्वा न्निर्वाहेऽपि तदतिरिक्तेषु स्पष्टं तदनुपलम्भात्कथमुक्तप्रामाण्यं युज्यते ? इत्याक्षेपनिरासेन स्थिरीकर्तु त्रिपादीमारब्धवान्महर्षिः आम्नायस्य क्रियार्थत्वादानर्थक्यमतदर्थानां तस्मादनित्यमुच्यते । १,२.१ । इत्यादिना ॥ (तत्र शास्त्रदीपिकादृतविचारप्रकारखण्डनपूर्वकं वायुर्वै इत्यादि भाट्टदीपिकावतरणम्ऽ त्र पूर्वोक्तप्रसंगाक्षेपसंगतिद्वयेनापि विध्यतिरिक्तानां सर्वेषामेवैकदा सामान्यतोऽप्रामाण्यं धर्माधर्मविषयं प्रतिपाद्यते । अतदर्थानामक्रियार्थानामर्थिवादादीनामानर्थक्यं पुरुषार्थपर्यवसाय्यभिधेयार्थराहित्यं धर्माधर्मप्रमितिरूपप्रयोजनशून्यत्वम् । कुतः ? आम्नायस्य क्रियार्थित्वातंशत्रयान्वितभावनारूपक्रियाभिधायित्वेन तेनैव रूपेण धर्माधर्मप्रमाणत्वात् । अतः नित्ययोः विधिप्रतिषेधयोरुक्तं धर्माधर्मप्रामाण्यं तत्कारि न भवति - नित्यक्रियावचनपदसमूहातिरिक्तमर्थवादादीत्यर्थकाद्यसूत्रे तथैव प्रतीतेः । अतः सामान्यतः सर्वेषामप्रामाण्यं पूर्वपक्षीकृत्य अध्ययनविधिना दृष्टार्थतवानुरोधेन सकलस्य वेदस्य पुरुषार्थपर्यवसाय्यर्थपरत्वबोधनात्तेषामप्यध्ययनविधिविषयत्वातेकस्यैवाध्ययनविधेः विध्यंशे दृष्टार्थत्वमर्थवादाद्यंशे अदृष्टार्थत्वमिति कल्पने वैरूप्यापत्तेः किञ्चित्पुरुषार्थपर्यवसाय्यर्थपरत्वेनास्त्येव तद्विषये तेषामपि प्रामाण्यमिति सामान्यतः सिद्धान्तयितव्यम् ॥ नच अध्ययनविधिदृष्टार्थत्वव्युत्पादनं जिज्ञासासूत्रे कृतमिति नात्र साधयितव्यमिति वाच्यम्ऽदृष्टो हि तस्यार्थः कर्माबोधनं नामेऽ ति न्यायेन विधिनिषेधभागमात्रस्यैव तत्सिद्धेः, तावन्मात्रेणापिच अथशब्दोक्तस्य धर्मजिज्ञासायामध्ययनानन्तर्यस्योपपत्तेंऽअतोऽत्रैव विधिनिषेधातिरिक्तानां सर्वेषामपि सामान्यतः तादृशार्थपरत्वं साधनीयम् । नहि स्तुतिनिन्दाद्वारेण अर्थवादानां क्रियार्थत्वं नामधेयमन्त्राणां तत्र द्वारविशेषव्युत्पादनेन तदर्थत्वं विना युज्यते । अतस्तत्प्रसाध्य अध्ययनस्य दृष्टार्थत्वेऽपि अर्थवादेभ्यः पुरुषार्थपर्यवसाय्यर्थप्रतीत्यभावे अध्ययनविधिबोधितं दृष्टार्थत्वमपि न संभवतीति पुनः साम्नायस्येति सूत्रावृत्त्या अर्थवादमात्रविषयमप्रामाण्यं पूर्वपक्षीकृत्य स्तुतिनिन्दारूपविशेषद्वारा तत्साध्यते । एवं स्मृतिपरिच्छेदरूपद्वारेण मन्त्रनामधेययोरपीति सामान्यतः सर्वेषां विध्यतिरिक्तानां प्रामाण्याप्रामाण्यचिन्ता पूर्वं कर्तव्र्..ति (?) मिश्राभिमतं शास्त्रदीपिकायां प्रतिभाति ॥ तथा सूत्रेणैवावृत्त्या भिन्नभिन्नोपपत्तिकविचारद्वयप्रतिपादने लोकवेदाधिकरणवदत्राप्यधिकरणद्वयव्यवहारापत्तेर्भाष्यवार्तिकयोः विशेषविचारपूर्वपक्षशेषत्वेन सामान्यविचारपूर्वपक्षस्य तत्सिद्धान्तशेषत्वेन तत्सिद्धान्तस्य च संकीर्णतयैव वर्णनदर्शनावश्यकेन विशेषविचारेणैव सामान्यविचारस्यार्थादेव सिद्धेः, सूत्रस्य विशेषविचारेऽप्यर्थसंगतेस्त्वयैवोप पादित्वात्निष्प्रयोजनं सामान्यविचारमुपेक्ष्य मन्त्राद्यपेक्षया पदैकवाक्यतया इतिकर्तव्यतारूपेण च चोदनाप्रत्यासत्तिमभिप्रेत्य विधिना त्वेकवाक्यत्वात्स्तुत्यर्थेन विधीनां स्युः । १,२.७ । इति सूत्रकृता अर्थवादविषयसिद्धान्तस्यैव अभिधानात्भाष्यकारेणाप्यर्थवादमात्रोदाहरणेन धर्माधर्मप्रामाण्यविचारस्यैव कृतत्वात्तमेव विशेषविचारःऽविषयो विशयश्चैव पूर्वपक्षस्तथोत्तरः । प्रयोजनं च पञ्चाङ्गं शास्त्रेऽधिकरणं विदुः ॥ ऽइत्यभियुक्तप्रसिद्धविषयसन्देहपूर्वपक्षसिद्धान्त प्रयोजनरूपं पञ्चावयवमधिकरणमारचयन् प्रतिजानीते वायुर्वै क्षेपिष्ठेत्यादिना ॥ वायुः क्षेपिष्ठा शीघ्रगामिनी देवतेति लोके प्रसिद्धम्, अतः क्षिप्रगामिनीं वायुदेवतां वायूचितेन श्र्वेतपशुरूपेण भागेन यजमानस्तोषयति, सच तुष्टो वायुरेनं भागप्रदं यजमानमैश्र्वर्यं प्रापयत्येवेत्यवकारस्य अवहितान्वयेन अर्थवादार्थः ॥ (वायुर्वै क्षेपिष्ठेतिग्रहणस्य सोऽरोदीदित्युपलक्षणत्वम्) इत्याद्यर्थवादानामिति । आदिशब्देन न केवलं विधिसन्निहता एतादृशा एवार्थवादा ग्राह्याः, अपितुऽसोऽरोदीद्यदरोदीत्तद्रुद्रस्य रुद्रत्वं यदश्र्वशीयत तद्रजतमभवत्पुरास्य संवत्सरात्गृहे रुदन्तिऽ इत्यादयःऽतस्माद्वर्हिषि रजतं न देयम्ऽ इत्यादिनिषेधसमभिव्याहृता अप्यर्थवादा ग्राह्याः - तद्विषयकाधर्मप्रामाण्याप्यग्रे विचारसत्त्वात् । अत्र स इति तच्छब्देनऽतदग्निर्न्यकामयतऽ इति पूर्वोपक्रान्तोऽग्निः परामृश्यते । इतरत्स्पष्टार्थम् । विधिप्रतिषेधवदेवेत्युक्तया जिज्ञासासूत्रे अर्थवादादिधर्मप्रमाणमात्रमुपक्षिप्तम् इतिसूचितम् ॥ (भाट्टदीपिका) विधिप्रतिषेधवदेव कर्तृस्मरणाभावादपौरुषेयत्वे पूर्वाधिकरणेन सिद्धे संप्रति तद्वदेव धर्माधर्मयोः प्रामाण्यमस्ति न वेति विचार्यते ॥ तत्र विधिप्रतिषेधवाक्याभ्यां शक्त्या साध्यसाधनेतिकर्तव्यताविशिष्टभावनाविषयकविधि प्रतिषेधयोः प्रतिपादनातर्थाच्च विधिप्रतिषेधविषययागादेरिष्टानिष्टसाधनत्वाक्षेपाद्युक्तं तयोरिष्टसाधनरूपधर्मा धर्मप्रमाजनकत्वम्, अर्थवादानां तु शक्त्या सदसद्रूपसिद्धार्थबोधकत्वान्न धर्माधर्मयोः प्रामाण्यसंभवः । नच शक्त्या तदसंभवेऽपि लक्षणाध्याहारादिना तत्प्रतिपादनम्- यथा श्रुतार्थप्रतिपादनेनैवोपपत्तौ अन्वयानुपपत्त्यभावेन तदसंभवात् । नच तात्पर्यानुपपत्त्या तत्कल्पनम्- तात्पर्यग्राहकाभावेन तस्या अप्यसंभवात् । नहि शब्दः प्रमाणमात्रं वा प्रयोजनवद्विषयमेवेत्येवं नियमे प्रमाणमस्ति, येन स एव तात्पर्यग्राहकः शङ्क्येत- निष्प्रयोजनानामपि बहुशो दर्शनेन व्यभिचारात् । नच स्वाध्यायोऽध्येतव्य इति स्वाध्यायविधिरेवार्थज्ञानोद्देशेनाध्ययनं विदधन्निष्प्रयोजनार्थज्ञानस्य भाव्यत्वानुपपत्तेरर्थस्य प्रयोजनवत्त्वमा क्षिपतीति वाच्यम्- अर्थज्ञानजनकत्वेनाध्ययनस्य लोकसिद्धत्वेनाविधेयत्वात् । (प्रभावली) (कर्तृस्मरणाभावेन विधितुल्यन्यायतयार्ऽथवादानां प्रामाण्यनिरूपणम्) सिद्धे इति । तथाच चोदनार्थमप्युक्तेन कर्तृस्मरणाभावादिहेतुकापौरुषेयत्वेन अर्थवादादीनामपि सामान्यतस्तुल्य न्यायतया प्रामाण्यं पूर्वमेव सिद्धमित्यर्थः ॥ एतेन सामान्यतः प्रामाण्यानुक्तौ स्तुत्यादिरूपद्वारविशेषाकाङ्क्षा नुदयात्तदावश्यकत्वम् अपास्तम् - अनेन पूर्वमुपपादितं प्रसंगाक्षेपरूपसंगतिद्वयम् दर्शितम् । धर्माधर्मयोरिति विषयसप्तमी । विधिप्रतिषेधयोरिति । विधिप्रतिषेधौ प्रवर्तनानिवर्तनापरपर्यायौ । अर्थादिति । अनन्यलभ्यस्य शब्दार्थत्वातनुमानेनैव इष्टसाधनत्वादेर्बोधसंभवे न नैयायिकमत इव तत्र शक्तिः कल्पनीया । तदनुमानप्रकारस्तु भाट्टरहस्ये पूज्यपादैः प्रदर्शितः ॥ (सदसद्रूपेत्यस्य विवरणम्) सदसद्रूपेति । अनेन च वायुक्षेपिष्ठत्वादीनां मानान्तरप्राप्तत्वेन अनधिगतार्थगन्तृत्वरूपप्रामाण्यस्यऽग्रावाणः प्लवन्तेऽ इत्यादौ याथार्थ्यलक्षणस्यापि असंभवे सुतरां सिद्धार्थप्रतिपादकतया भाव्यधर्माधर्मप्रामाण्यं न संभवति इति सूचितम् ॥ (लक्षणाविपरिणामादिस्वरूपस्य सोदाहरणं निरूपणम्) लक्षणाध्याहारादिनेति । विपरिणामगुणकल्पनाद्यादिशब्देन संगृहीतम् । तदुक्तम् ऽअध्याहाराश्रुताक्षेपो व्यत्यासो व्यवधिः पदैः । मतो विपरिणामोऽसौ प्रकृतिप्रत्ययान्यथा । वाक्यान्थथात्वकरणं व्यवधारणकल्पनाऽ इति ॥ यथा छिनत्तीत्यध्याहारः । व्यत्यासो व्यवहितकल्पना, यथाऽ या तेअग्ने रजाशयेत्यत्र व्यवहितस्य तनूर्वर्षिष्ठेत्यनेनान्वयकल्पना । विपरिणामो यथा प्रतितिष्ठन्तीत्यत्र प्रतिष्ठाकामा रात्रीरुपेयरित्यादिः । व्यवधारणकल्पना यथा यावतोऽश्र्वान् प्रतिगृह्नीयादित्यत्र प्रतिग्राहयेदिति । गुणकल्पना यथा यजमानः प्रस्तर इत्यत्र । लक्षणोदाहरणानि सिद्धान्तिनाङ्गीक्रियमाणाःप्राशस्त्याप्राशस्त्यलक्षणाः । (वाक्यलक्षणासमर्थनम्) सा किमेकस्मिन् पदे, किं वा प्रत्येकं सर्वेषु, उत मिलितेषु, नाद्यः, विनिगमकाभावात्, इतरदानामानर्थक्यप्रसङ्गाञ्च । नापरः - एकैकपदस्य प्राशस्त्याप्राशस्त्यसंबन्धाभावात्, अप्रतीतेश्र्च । नान्त्यः- मिलितानामेकार्थाभावात्शक्यसंबन्धस्यैव लक्षणात्वात्ततश्र्च वाक्ये साङ्गीकर्तव्या - तत्रापि कारणाभावात्वाकयस्येकशक्यार्थाभावाञ्च सा न संभवति, इत्याह यथाश्रुतार्थेति । तात्पर्याग्राहकाभावेनेति । धर्माधर्मतात्पर्यकत्वस्य प्रमाणान्तरेणासिद्धेरिति भावः । तस्याअपीति । तात्पर्यानुपपत्तेरित्यर्थः । प्रयोजनवद्विषयमिति । प्रवृत्तिनिवृत्तिरूप्रयोजनोपयोग्यर्थविषयमित्यर्थः । निष्प्रयोजनानामाख्यायिकारूपाणाम् । भाव्यत्वानुपपत्तेरिति । विधिना पुरुषार्थभूतस्यैव भाव्यतयापेक्षणाततादृशस्य भाव्यत्वानुपपत्तिरित्यर्थः । (गुणकर्मत्वप्रधानकर्मत्वकृतवैरूप्यवारणार्थे अध्ययनस्यार्थज्ञानार्थत्वपक्षोपपादनम्) अर्थस्य प्रयोजनवत्त्वमिति । ततश्र्च चोदनांशे तावदध्ययनभावनाया दृष्टमर्थज्ञानमेव प्रयोजनम् । तथैव सर्वांशेऽपि तस्या दृष्टेनैव प्रयोजनेन भाव्यमन्यथा यदंशे दृष्टार्थत्वं तमंशं प्रत्यध्ययनस्य गुणकर्मत्वात्यदंशे चादृष्टार्थत्वं तमंशं प्रति तस्य प्रधानकर्मत्वात्वैरूप्यापत्तेः । अतस्तदनुरोधेन सर्वांशेऽपि दृष्टार्थत्वं बोधितं प्रवृत्तिनिवृत्त्युपयोगिप्राशस्त्याप्राशस्त्यलक्षणां विना न निर्वहतीति सिद्धान्त्याशङ्कार्थः । स्वाध्यायाध्ययनविधेः अध्ययनविध्यर्थत्वे सति तत्फलं दृष्टमदृष्टं वा गवेषणीयं स्यात्, तदेवानुपपन्नमिति पूर्वपक्ष्याह अविधेयत्वादिति ॥ (अर्थज्ञानोद्देशेन क्रत्वपूर्वोद्देशेन वाध्ययननियमविधिशङ्कापरिहारौ) नच अर्थज्ञाने उपायान्तरस्यपि पक्षे प्राप्तत्वादध्ययननियमांशे विधेरर्थवत्तास्तु इति वाच्यम् - अध्ययने स्पष्टं तदुपयोगस्याभावात् । ऽअध्ययनकार्ये हि दृष्टमर्थज्ञानं तेनानुष्ठीयमानकर्मजन्यपूर्वं वा यत्तत्रोभयत्रापि उपयोगो नास्तीत्याह तन्नियमस्य चेति । क्रतुजन्यापूर्वोपस्थितिर्हि प्रकरणादथवा पर्णतादिवदव्यभिचरितक्रतुसंबन्धाद्वा भवेत् । तत्राध्ययनविधेरनारभ्याधीतत्वेन प्रकरणाभावः स्पष्ट एव । अर्थज्ञानस्य क्रतुं विनाप्यध्यापनादिद्वारा द्रव्यार्जने उपयोगसंभवेन अव्यभिचरितक्रतुसंबन्धोऽपि नसंभवतिमतो नियमस्य न विधेयत्वम् - नियमस्य निषिद्धकर्मण्युपयोगाभावाञ्च ॥ (भाट्टदीपिका) तन्नियमस्य चार्थज्ञानेऽनुपयोगातव्यभिचरितक्रतुसंबन्धाभावेन क्रतुं यावदुपयोगकल्पनानुपपत्तेश्च न विधेयत्वम् । अतः स्वाध्यायविधिना स्वर्गाद्यर्थमेवाध्ययनं विधीयते । लोकतः पूर्वप्रवृत्त्यङ्गीकारेण यथाश्रुतार्थज्ञानार्थं वा । अध्ययनमेव वा भावनायां भाव्यमस्तु । नचैवमिष्टभाव्यकत्वाभावात्प्रवृत्त्यनुपपत्तिः- अनधीयाना व्रात्या भवन्तीति वचनेनाकरणे प्रत्यवायबोधनेनापि प्रवृत्तिसिद्धेः । अतस्तस्य वेदत्वावच्छेदेन प्रयोजनवद्विषयत्वानाक्षेपकत्वान्नार्थवादेषु तद्बलेन लक्षणादिसिद्धिसिद्धिरित्यप्रमाणमर्थवादा धर्माधर्मयोरिति प्राप्ते अभिधीयते न स्वाध्यायविधिः स्वर्गाद्यर्थमध्ययनं विधत्ते- दृष्टे संभवत्यदृष्टफलकल्पनाया अन्याय्यत्वात् । नापि यथाश्रुतार्थज्ञानार्थम्- तथात्वे व्रात्यताबोधकवाक्येनाध्ययनस्यावश्यकत्वाद्गृहीतपदतदर्थसङ्गतिकस्य "स्थाणुरयं भारहारः किलाभूदधीत्य वेदं न विजानाति योर्ऽथ" मित्यादि वचनाच्च ज्ञानस्याप्यावश्यकत्वेन यथाश्रुतार्थज्ञानस्यानुषङ्गिकतयापि (प्रभावली) स्वार्गाद्यर्थमिति । विश्र्वजिन्नयायेन स्वर्गकल्पनापेक्षया रात्रिसत्रवदर्थवादाभावेऽअनधीयाना व्रात्या भवन्तीऽति स्मृतिमूलश्रुतिकल्पनालाघवानुरोधेन व्रात्यतापरिहारार्थमेव तद्विधानमस्त्विति द्योतनायादिशब्दः । नचाध्ययनविधेः पूर्वोपपादितवैरूप्यापत्तिः - हुंफडाद्यंशे तदध्ययनस्यादृष्टार्थतायास्त्वयापि स्वीकरणीयत्वेन तदवेरूप्यायैतदर्थत्वकल्पनस्यैवोचितत्वात्, स्वशक्त्यैव विधीनां प्रयोजनवदर्थप्रमापकत्वेन धर्मप्रामाण्यजनकत्वेऽपि तदध्ययनस्यादृष्टार्थत्वेऽपि बाधकाभावात् ॥ (लोकतः पूर्वे शास्त्रप्रवृत्तेः पारायणादौ शूद्राधिकारव्यावृत्तिप्रयोजननिरूपणम्) अध्ययनविधेर्दृष्टार्थत्वेऽप्याग्रहं प्रत्याहं प्रत्याह लोकत इति । लोकतः पूर्वप्रवृत्तेः प्रयोजनं तु पारायणे शूद्रानधिकारसिद्धिः । अन्यथा अध्ययनं विनापि पारायणसंभवेन तद्विधिना तदाक्षेपणे शूद्रस्याप्यधिकारापत्तेः, सतित्वस्मिन् विधाने एतद्विधिसिद्धाध्ययनवत एवाधिकारिणो लाभे तदाक्षेपाभावान्न तस्याधिकारः । एवं चैकशाखापारायणमप्युपपन्नम् इति ॥ अध्ययनमेव वेति । यथाश्रुतार्थज्ञानापेक्षया समानपदोपात्तत्वप्रत्यासत्त्या तस्य भावनायां सन्निहितत्वात्तस्यैव भाव्यत्वं युक्तमित्यर्थः ॥ लक्षणादिसिद्धिरिति ॥ आदिपदेन च यथा लक्षणाया असिद्धिः, तथा लक्षणीयार्थस्य प्राशस्त्याप्राशस्त्यादेरपि दुर्निरूपत्वादसिद्धिः सूच्यते ॥ (प्राशस्त्याप्राशस्त्ययोर्गुणदोषवत्वरूपत्वखण्डनम्) स हि न गुणदोषवत्वमात्रम् - अतिप्रसङ्गात्, न तदतिशयौ - अतिशयस्यापेक्षिकत्वेनानवस्थितत्वात्, अर्थवादमात्रप्रतिपाद्ययोर्गुणदोषयोरनिरूपणाञ्च, विशिष्टेष्टानिष्टफलकत्वस्य विशिष्टेतिकर्तव्यताकत्वस्य नित्यनिर्देषवेधविधिनिषेधविषयत्वस्य वा विधिनिषेधाभ्यामेवप्रतिपन्नत्वेनार्थवादानपेक्षत्वात् । नचेष्टानिष्टगते फलवत्त्वे गुणदोषौ - तयोरपि विधिनिषेधाभ्यामेवावगमात्, इष्टानिष्टसाधनत्वेनेव तद्गतफलवत्त्वेनापि विनाबुद्धिपूर्वकारिणां प्रवृत्तिनिवृत्त्योरभावात्, श्येनाद्यर्थवादेषु तदनुपपत्तेश्र्च । तत्र श्येनादेरनर्थत्वेने तज्जन्यस्येष्टस्यानिष्टाद्बलवत्वाभावात् । नच तत्तदर्थवादप्रतिपाद्यस्य क्षेपिष्ठत्वादेरेव गुणदोषतया प्राशस्त्याप्राशस्त्यरूपत्वम् - अननुगमाल्लाक्षणिकत्वानुपपत्तेश्र्च । तस्मात्तस्य दुर्वचत्वादपि तद्बोधकत्वेनापि नार्थवादानां धर्माधर्मप्रमापकत्वमिति ॥ (अध्ययनविधेरक्षरावाप्तिफलकत्वपक्षोपपादनम्) ेतेन व्रात्यताबोधकवचनेनैवाध्ययनविधिलाभेन ॥ स्यादेतत् यद्यध्ययनविधेरादावर्थज्ञानं फलं स्यात्, तदातस्य वैयर्थ्यापत्त्या तत्प्रयोजनवत्त्वाक्षेपपर्यन्तमपि व्यापारः कल्प्येत् । नच तत्कल्पने किञ्चिदपि मानमस्ति - प्राप्यकर्मार्थप्रत्ययेन फलतयोपनीतायाः स्तोभभागाध्ययने फलत्वेन कॢप्ताया अर्थज्ञानप्राग्भाविन्या अर्थज्ञानार्थत्वपक्षेऽपि तन्निर्वाहकतया प्रथममपेक्षितायाः स्वाधीनोच्चारणरूपाक्षरावाप्तेर्दृष्टाया एव फलत्वसंभवेनाध्ययनविधिवैयर्थ्याभावात्, विचारसाध्यार्थज्ञाननिरूपिताध्ययनगतकारणत्वस्य अक्षरावाप्तिं विनानिर्वहणीयत्वात् । अस्तुवा अर्थज्ञानं फलम् । तदाप्यर्थज्ञानार्थत्वस्य अन्यतः प्राप्तत्वेन विधेर्वैयर्थ्यपरिहारार्थमध्ययनगृहीतवेदार्थज्ञानवतामेवानुष्ठानमभ्युदयकारीत्येवमादि रूपस्यैव नियमफलस्याङ्गीकारे अध्ययनसंध्यावन्दनाद्यनुष्ठानात्फलानुपपत्तिः - तद्विधीनामध्ययनात्प्रागुपायान्तरेण ज्ञानेऽध्ययननियमविध्यतिक्रमदोषापत्तेः, तदज्ञाने अध्ययनादिष्वप्रवृत्त्या तदकरणप्रयुक्तप्रत्यवायप्रसङ्गात् ॥ (अर्थज्ञानफलकाध्ययनविधेः शूद्राधिकारब्यावृत्तिप्रयोजनशङ्का तत्समाधानाति) नच अध्ययननियमस्याध्ययनगृहीतवेदार्थज्ञानवतामेवानुष्ठानमभ्युदयकारीत्येवं न फलं कल्प्यते, अपितु शूद्रानधिकारसिद्धिः, कर्मविधयो ह्यनुष्ठेयार्थज्ञानवदधिकारिसापेक्षा स्वाध्यायाध्ययनविधेरर्थज्ञानफलकत्वे तद्विधिप्रापितानुष्ठेयार्थज्ञानेषु त्रैवर्णिकेष्वेवाधिकारेषु लब्धानुष्ठानां न शूद्राणां ज्ञानमाक्षिपन्ति । तस्यार्थज्ञानफलकत्वाभावे तु कर्मविधय एव तदनुष्ठानमाक्षिप्य तानप्यधिकारित्वेन गृह्णीयुः, अतः शूद्रानधिकारफलत्वसिद्धिरेवार्थज्ञानार्थत्वे फलमिति युक्तमिति वाच्यम् - अध्ययननियमसद्भावेऽपि शूद्राधिकारापत्तेरनिवार्यत्वात्, त्रैवर्णिकानामपिऽस्वाध्यायोऽध्येतव्यऽ इति पितृपितामहादिपरंपरागतस्वशाखामात्र एवाध्ययनस्य विहितत्वेन शाखान्तरागताङ्गमन्त्रोपसंहारेण कर्मानुष्ठानार्थे क्रतुविधिभिः शाखान्तरराम्नातमात्रगोचरमित्याक्षेपलाघवात्कर्मविधयस्त्रैवर्णिकानेवाधिकुर्युर्न शूद्रमिति वाच्यम् - एवं तर्हि यस्य कर्मणो यस्यां शाखायां भूयसामङ्गानां च विधानंऽभूयस्त्वेनोभूयश्रुतीऽ तिन्यायेन प्रधानस्यापि तत्र विधानं, शाखान्तरे तु स्वल्पाङ्गविधानं, तत्र कर्मणि तच्छाखाध्यायिन एवाधिकारापत्तेः । अतस्त्रेवर्णिकाना मर्थज्ञानाक्षेपावश्यंभावात्शूद्रानधिकारे तस्य वेदतदर्थग्रहणायानुष्ठाननिषेध एव हेतुर्वाच्य इति नासावर्थज्ञानफलकस्याध्ययननियमविधेः फलमित्यक्षरावाप्तेरेव तत्फलत्वं युक्तमाश्रयितुम् ॥ (भाट्टदीपिका) सिद्धेः स्वाध्यायविधिवैयर्थ्यप्रसङ्गात् । एतेन अध्ययनभाव्यकत्वपक्षोऽपि निरस्तः । अतो वैयर्थ्यपरिहारार्थं प्रयोजनवदर्थज्ञानोद्देशेन (प्रभावली) (विशिष्टार्थावबोधोद्देश्यकोञ्चारणस्यार्थपरत्वप्रयोजकत्वतन्निरासौ) नच शब्दानामर्थपरत्वस्य विशिष्टार्थप्रतीत्युद्देश्यकोच्चारणाधीनत्वं लोके सर्वत्र कॢप्तमिति वेदेऽप्यर्थपरत्वार्थे अर्थावबोधोद्देश्यकोच्चारणाक्षेपेण लोक इव रागप्रयुक्तस्य तस्यासंभवातध्ययनविध्यतिरिक्तस्य विध्यन्तरस्यादर्शनातर्थज्ञानमूलकस्वाध्यायविषयगुरूञ्चारणानूञ्चारणात्मकाध्ययनविधिबोधितमेवोञ्चारणं समर्पणीय मित्यवश्यमर्थज्ञानमेव फलं कल्पनीयमिति मदभिहितमेव युक्तमिति वाच्यम् - विशिष्टार्थावबोधोद्देश्यकोञ्चारणस्यार्थपरत्वप्रयोजकत्वे मौनिना लिखित्वा दत्ते परेणाप्येकेनैव लिखितं दृष्ट्वा मनसानुसंहिते श्र्लोकादौ उञ्चारणाभावेनार्थपरत्वानापत्तेः । (विशिष्टार्थप्रतीत्युद्देश्यकव्यापारत्वस्यार्थपरत्वप्रयोजकत्वनिरासौ) अथापि विशिष्टार्थप्रतीत्युद्देश्यकव्यापारत्वमेव अर्थतात्पर्यनिर्णये प्रयोजकम्, मौनिश्र्लोके च लिखित्वा दानरूप एव व्यापारस्तत्प्रयोजकः, वेदे चापौरुषेये कर्तृव्यापाराभावातृ तदनुकूलव्यापारोऽध्ययनरूपादुञ्चारणादन्यो न संभवतीति तस्यार्थवत्वनिर्वाहार्थमध्ययनविधेरर्थज्ञानफलकत्वमवश्यमास्थेयमित्युच्येत, यदि शब्दबोधत्वावच्छिन्नं प्रति तात्पर्यज्ञानस्य कारणत्वं स्यात्, तथात्वे निस्तात्पर्यकाच्छुकादिवाक्यात्तदनापत्तिः । अतो नैकार्थबोधकपदजन्यशाब्दबोधत्वावच्छिन्न एव तस्य कारणत्वम् । शाब्दबोधत्वावच्छिन्नं प्रत्यपि वा कारणत्वे शुकादिवाक्यस्थले शब्दगतमेव तात्पर्ये कल्पनीयम्, तथैव वेदेऽपीति नाध्ययनविधिसिद्धव्यापारापेक्षा - शब्दस्वभावेनैव तात्पर्यनुमायार्थपरत्वोपपत्तेः ॥ (विचारस्यार्थपरत्वप्रयोजकत्वनिरूपणपूर्वकाध्ययनाक्षरावाप्तिफलकत्वोपसंहरणम्) अस्तुवार्थप्रतीत्युद्देश्यकव्यापारत्वमर्थनिर्णये प्रयोजकम्, तथापि अध्ययनादन्यः कृत्स्नस्वाध्यायार्थप्रतीत्युद्देशेनाध्ययनानन्तरं कर्तव्यो विचार एव तत्प्रयोजकोऽस्तु । नहि विचारं विना कस्यापि क्रतूपासनोपयुक्तो वेदार्थनिर्णय संभवति । अतस्तस्यैव वेदानामार्थपरत्वे प्रयोजकत्वोपपत्तौ नाध्ययनस्य तत्प्रयोजकत्वनिर्वाहार्थं तव्यप्रत्ययस्वारस्यादिप्राप्तामक्षरावाप्तिमतिलङ्घ्यार्थज्ञानस्यापि तत्फलत्वं कल्पनीयमित्याशङ्कानिवृत्तिफलकं सिद्धान्त्यभिमतं वाक्यार्थे वर्णयति अतो वैयर्थ्यपरिहारार्थमिति । (अध्ययनस्यार्थपरत्वप्रयोजकत्वम्) अयं भावः सत्यं शुकादिवाक्यार्थप्रतीत्यर्थं शब्दगतमेव तात्पर्यमङ्गीकर्तव्यम् - तथापि उपक्रमोपसंहारमध्यपरामर्शैरित्थमेव शब्दस्य तात्पर्यमित्ययं निर्णयस्तु वेदे अध्ययनादिनैवेति तद्विधिरेव तत्र निर्णायकः । स्वेच्छया हि वेदवाक्यानि पठताङ्गवाक्येष्वपि फलपदमुञ्चार्येत, योऽध्वर्युः स होता ये त्विजस्ते यजमानाश्र्चेत्याद्यप्यर्थप्रतीतिः स्यात् । नच अध्ययनानन्तरं क्रियमाणो विचार एव तन्निर्णायकः, अध्ययनस्यार्थज्ञानार्थत्वाभावे विचारकर्तव्यताक्षेपस्यैवाभावात्विचारस्यैवाप्राप्तेः ॥ (विचारस्य लिङ्गकल्प्यश्रुतिसिद्धत्वशङ्कासमाधाने) नच अध्ययनसंस्कृतस्वाध्यायस्योपयोगापेक्षायां स्वाध्यायस्यार्थज्ञानजनकत्वरूपलिङ्गकल्प्यश्रुत्यार्ऽथज्ञाने विनियोगकल्पनात्तस्य च विचारमन्तरेणानुपपत्तेः विचारप्राप्तिरिति वाच्यम् - अध्ययनसंस्कृतस्य स्वाध्यायस्यार्थज्ञानार्थत्वविनियोगकल्पनायाः पूर्वमेव पारायणादिविनियोगविधिना नैराकाङ्य्क्षेण लिङ्गकल्प्यश्रुतेरप्रसरात् । लिङ्गस्य च यथाश्रुतार्थज्ञानजनकत्व एव दर्शनात्तत्कल्प्यश्रुत्या अपि तदर्थस्यैवापत्तौ तत्र विचारसापेक्षत्वाभावाञ्च, हुंफडाद्यंशे स्वाध्यायस्यार्थज्ञानजनकत्वाभावेन तज्जनकत्वसामर्थ्यस्य व्यभिचारग्रस्तत्वाञ्च ॥ (अध्ययनस्याक्षरावाप्तिफलकत्वनिरासपूर्वकार्थज्ञानार्थत्वव्यवस्थापनम्) किञ्च अक्षरावाप्तेः स्वत अपुरुषार्थायाः फलत्वानुपपत्त्या अर्थज्ञानसाधनत्ववेषेण तदुपपादने अर्थज्ञानस्यापि स्वतः पुरुषार्थत्वानुपपत्तेस्तुल्यत्वात्कर्मानुष्ठानौपयिकार्थज्ञानसाधनत्ववेषेणैव तस्य फलत्वं स्वीकार्यम् । नहि स्वाध्यायाक्षराणामर्थज्ञानद्वारा कर्मानुष्ठानोपयोगित्वेन पुरुषार्थपर्यवसायित्वं लिङ्गमात्रेण शक्यं विज्ञातुम् - हुंफडार्थवादाद्यक्षरेभ्योर्ऽथज्ञानानुत्पत्तेः, केभ्यश्र्चित्तदक्षरेभ्योर्ऽथज्ञानोत्पत्तावपि व्यभिचारात् । तत्र च तस्य सामान्यसंबन्धकारिप्रमाणसापेक्षत्वात् । अतश्र्चान्ततो गत्वा कर्मानुष्ठानौपयिकार्थज्ञाने स्वाध्यायाक्षरग्रहणस्यावश्यकल्पनीये उपयोगे लाघवात्तस्यैव फलत्वं कल्प्यतां, नत्वनन्तरदृष्टत्वमात्रेणाक्षरावाप्तेः - साक्षात्प्रणालीसाधारणपुरुषार्थमात्रस्यैव विहितफलत्वयोग्यतया ज्ञातस्यैवान्वयबोधोपयोगित्वात्, अर्थज्ञानस्य तु तेन विना कथमपि कर्मानुष्ठानासंभवाल्लिङ्गेनैवौपनिषदस्य देहादिभिन्नात्मज्ञानस्य सांपरायफलकर्माङ्गत्वज्ञानस्येव कर्माङ्गत्वज्ञानोपपत्तेः ज्ञातस्य तस्यैव फलत्वमुचितम् - इतरथा वितुषीभावरूपद्वारस्यैव फलत्वापत्तौ अवघातादीनामप्यपूर्वार्थत्वानापत्तैः ॥ (अर्थज्ञानरूपभाव्योपस्थितिप्रकारः) नच अर्थज्ञानमनुपस्थितं कथमध्ययनभावनायां भाव्यत्वेनान्वेति ? इति वाच्यम् - विधिना स्वविषयस्य समीहितसाधनताऽक्षेपात्लोके च शब्दोञ्चारणगोचरप्रवृत्तौ व्यवहारौपयिकार्थज्ञानस्यैवोद्देश्यत्वेन कॢप्तत्वादध्ययनस्य शब्दोञ्चारणरूपत्वस्वभावादेव तदुपस्थितिसंभवात्,ऽस्थाणुरयं भारहारः किलाभूदधीत्य वेदं न विजानाति योर्ऽथम्ऽ इत्यनेन अक्षरावाप्तिमात्रार्थाध्ययनवतः स्थाणुत्वसंकीर्तनेन अपुरुषार्थपर्यवसायित्वस्य स्पष्टं प्रतीतेश्र्च । (प्रथमापेक्षितस्यापि अपुरुषार्थस्य द्वारतायैवोपयोगनिरूपणम्) किञ्च अध्ययनस्य फलाकाङ्क्षायां विधिवशात्पुरुषार्थपर्यन्तालोचनावश्यंभावे साक्षात्तस्य तदनन्तरप्रत्यासन्नस्य च यागादेः प्रमाणाभावेन साधनताकाङ्क्षत्वेन च भाव्यत्वातिक्रमेऽपि तदेकान्तरप्रत्यासन्नस्य कर्मज्ञानस्यैवातिक्रमहेत्वभावाद्भाव्यत्वं युक्तं, नतु तेनातिव्यवहितस्याक्षरग्रहणस्य - तथासति तेन तदुत्तरैश्र्च पदावधारणादिभि- स्वतन्त्रैः पुरुषार्थस्यातिव्यवधानप्रसङ्गात्, ज्ञानभाव्यकत्वेतु तेषां द्वारमात्रत्वेनाव्यवधायकत्वात् । एतेन प्रथमोक्षितत्वादक्षरावाप्तेः फलत्वं निरस्तम्- द्वारभूतार्थगतप्राथम्यापेक्षायाः पुरुषार्थवसायिफलत्वसाधकत्वाभावात् । अन्यथासाधितस्य करणत्वानुपपत्तेर्भाव्यत्वस्यावश्यं प्रथमापेक्षितत्वेन योग्यत्वात्समानपदोपात्तप्रत्यासत्त्या यागस्यैव स्वर्गद्वारभूतस्यार्थभावनाभाव्यत्वापत्तेः । अतः प्रथमस्याप्यपुरुषार्थस्य विध्यवगतसमीहितसाधनतवानुरोधेन न भाव्यत्वं यागादेरिवाक्षरावाप्तेरपीति समानमेव । अतो यावत्संभवं पुरुषार्थपर्यवसाय्यर्थज्ञानमेव दृष्टं फलत्वेन कल्प्यते, नत्वक्षरावाप्तिः ॥ (अर्थज्ञानार्थाध्ययनस्य स्वविधिप्रयुक्तत्वं, न तु क्रतुविधिप्रयुक्तत्वं, शाखान्तरगतस्वप्रमोपजीव्यज्ञानाक्षेपकत्वञ्च) एवञ्च क्रतुविधीनामर्थज्ञानाक्षेपकत्वमपि नापद्यते इति शूद्रस्याप्यनधिकारः तेषु सिध्यति । अन्यथा अर्थज्ञज्ञनं विना कर्मानुष्ठानाशक्तेः तज्ज्ञानार्थमुपायान्तराक्षेपापत्तेः । नच शाखान्तरगताङ्गवाक्यार्थज्ञानार्थे क्रतुविधीनामाक्षेपकत्वं कल्पनीयमेवेति वाच्यम् - तत्रापि स्वपरंपरागतशाखाध्ययनेऽपि अध्ययनविधिः स्वस्य दृष्टार्थत्वनिर्वाहाय स्वशाखागतवाक्यार्थप्रमायाः शाखान्तरगतवाक्यार्थज्ञानाधीनत्वेन तावन्मात्राध्ययनमप्याक्षिपतीति तत्प्रयुक्ताध्ययनसिद्धार्थज्ञानलाभे ऋतुविधीनां तदाक्षेपकत्वकल्पने मानाभावात् । अतएव यत्रापिऽभूयस्त्वेनोभयश्रुतीऽ तिन्यायेन बह्वङ्गम्नानबलेन यस्यां शाखायां प्रधानविधिः स्वाधीतशाखायां स्वल्पानामेवाङ्गानां विधानम्, तत्राङ्गप्रमारूपतद्विधायकवाक्यार्थज्ञानस्य प्रधानविधिवाक्यार्थ ज्ञानाधीनत्वेन अध्ययनविधिनैव स्वदृष्टार्थतानिर्वाहाय तत्प्रधानविधिवाक्याध्ययनपूर्वकमर्थज्ञानमाक्षिप्यत इति न क्वापि ऋतुविधीनामर्थज्ञानाक्षेपकत्वम् ॥ (अध्ययनस्य स्वर्गाक्षरावाप्त्यर्थत्वे दोषस्यार्थज्ञानार्थत्वेन तन्नियमवर्णनप्रयोजनस्य शूद्रानधिकारस्य च वर्णनपूर्वकमर्थज्ञानार्थत्वपक्षोत्संहारः) तस्मादध्ययनस्य स्वर्गाद्यर्थत्वे सर्वौषधावघातवत्सकृदुञ्चारणेनापि शास्त्रार्थसिद्यापत्तेःस्वाध्यायगतकर्मत्वनिर्देशेन प्रतीतसंस्कारकर्मत्वबाधापत्तिः, तन्निर्वाहार्थमक्षरावाप्तेः फलत्वाङ्गीकारे क्रतुविधिष्वर्थज्ञानविचाराक्षेपगौरवापत्तेः स्वाध्यायस्वरूपेआनर्थक्याञ्चानारभ्याधीतत्वेन क्रत्वपूर्वस्येव पारायणजन्यादृष्टस्यापि स्वाध्यायपदेन लक्षयितुमशक्तेरर्थज्ञानस्येवाक्षरावाप्तेः कर्माद्यविनाभावाभावेनाव्यभिचरितक्रतुसंबन्धस्याप्यभावात्क्रत्वनुपस्थितेर्न तत्फलत्वम्, अपितु अर्थज्ञानादेरेव । तञ्च पुस्तकपाठाभिज्ञोपद्रष्ट्वचनाद्युपायान्तरेण यावत्क्रतुभिराक्षेपणीयम्, ततः पूर्वमेवाध्ययनविधिप्रवृत्तेर्नियमस्य तन्निवृत्तिः फलं कल्प्यते । तत्प्रयोजनं च त्रैवर्णिकाधिकारनियमः । विनार्ऽथज्ञानं क्रत्वनुष्ठानासंभवात्क्रतुविधीनामर्थज्ञानापेक्षां जानतः साङ्गाध्ययननियमविशिष्टार्थज्ञानस्य प्रयोजनापेक्षां च पश्यतः पुरुषस्य च लिङ्गकल्प्यश्रुत्याऽयदेव विद्यया करोतीऽति श्रुत्या वा तादृगर्थज्ञानं क्रत्वङ्गमिति बोधे जनिते तादृग्ज्ञानवत एव क्रतुष्वधिकार इति बोधावश्यंभावात् ॥ (भाट्टालङ्कारसंमतस्याध्ययननियमस्य क्रतौ प्रायश्र्चित्तापूर्वे च यथायथमुपयोगनिरूपणम्) अस्तुवाऽधानस्यानङ्गत्वेऽपि तज्जन्यापूर्वविशिष्टाग्नीनां क्रत्वङ्गत्ववदध्ययनस्यानङ्गत्वेऽपि तन्नियमादृष्टविशिष्टार्थज्ञानस्य पूर्वोक्तलिङ्गकल्प्यश्रुत्या कर्माङ्गत्वेन ज्ञापनादाहवनीयवन्नियमादृष्टस्यापि परंपरया क्रत्वपूर्वोपयोग इति भाट्टालङ्कारकारोक्तरीत्या नियमस्य क्रतावेवोपयोगः, एवञ्च क्रत्वर्थनिषेधेषु अध्ययननियमस्यार्थवत्त्वात्पुरुषार्थनिषेधेष्वपि अध्ययनावाप्तनिषेधेनैव स्वानुष्ठितकर्मणो दोषजनकत्वं ज्ञात्वा तन्निवृत्त्यर्थकृतप्रायश्र्चित्तात्तन्निवृत्तिः भवतीत्येवंप्रकारेण प्रायश्र्चित्तापूर्वे उपयोगः कल्प्यत इति न बाधकम् ॥ (भाट्टदीपिका) स्वाध्यायाध्ययनं विधीयते प्रयोजनवदर्थज्ञानादिसाधनीभूतस्वाध्यायोद्देशेन वाध्ययनमात्रम्- त (प्रभावली) (नित्यविधीनामर्थज्ञानानाक्षेपकत्वनिराकरणम्) नच अध्ययनस्य नित्यमनुष्ठाने प्रमाणाभावेन नित्यविधीनामर्थज्ञानाक्षेपकत्वापत्तिरिति वाच्यम्- नित्यानामपि क्रतुविधीनां लाघवेन परप्रयुक्ताग्निविद्योपजीवित्वे प्रमिते स्वविधिसिद्धाग्निविद्यावतोऽधिकारसत्त्वात्तदकरणे प्रत्यवायानुत्पत्तावपि तद्रहितस्यानधिकारादेव तदुत्पत्तौ प्रमाणाभावेन अग्निविद्यापेक्षपकत्वानुपपत्तेः । यथाचैवंसति क्रतुविधीनां नित्यत्वाताधानादिविधीनामपि फलतो नित्यत्वमिति पार्थसारथ्युक्तिः, सा षष्ठे ब्राह्मणस्येत्यादिकाधिकरणे पूज्यपादैरेव निरसिष्यते । एतेन नित्याद्यनुष्ठानस्य अध्ययनविधिसिद्धार्थज्ञानमन्तरेणासंभवात् अपास्ता । आधानस्य तु अनाहिताग्निताप्रयुक्तप्रायश्र्चित्ताम्नादेव नित्यवमूह्यम् । एवञ्च नित्येषु अध्ययनाधानसिद्धाग्निविद्यावत एवाधिकारात्न नित्यक्रतुविधीनां तदाक्षेपकत्वापत्तिः ॥ (संध्यादिविधीनामाचार्योपदेशाद्याक्षेपकत्वनिरूपणम्) अतएव येषां तावत्गायत्र्युपदेशानन्तरमेवाध्ययनविधिप्रवृत्तेः पूर्वं प्रवृत्ताः संध्यावन्दनादिविधयः, तेषामर्थज्ञानस्याध्ययनविधिप्रयुक्तत्वसंभवात्नियमाविषयाणामस्त्येवार्थज्ञान साधनीभूताचार्योपदेशाद्याक्षेपकत्वम् । यथा निषादस्थपतीष्ट्यादिविधीनामिति ॥ (अर्थज्ञानार्थत्वपक्षेऽध्येतव्य इति तव्यप्रत्ययोपपत्तिः मिश्रभवदेवादिमतेन) नच अर्थज्ञानस्य भाव्यत्वे कथं स्वाध्यायगतकर्मत्वबोधकतव्यप्रत्ययोपपत्तिः ? इति वाच्यम् - आर्थिकसंस्कार्यत्वमादाय तदुपपत्तेः । तथाहि ऽस्वाध्यायोऽध्येतव्यऽ इत्यत्रऽप्रैषातिसर्गप्राप्तकालेषु कृत्याश्र्चेऽति स्मृत्या प्रैषार्थे तव्यप्रत्ययविधानात्प्रैषस्य च प्राप्तविषयकत्वप्रवर्तनात्मकत्वसमुदायरूपत्वात्ब्राह्मणे च प्राप्तविषयकत्वप्रवर्ततनात्मकत्वसमुदायरूपत्वात्ब्राह्मणे च प्राप्तविषयकत्वप्रवर्तनात्मकत्वसमुदायरूपत्वात्ब्राह्मणे च प्राप्तविषयत्वासंभवात्समुदायासंभवेऽपि तदेकदेशलक्षणया तव्यप्रत्ययेन प्रवर्तनोच्यते । यथोक्तम्ऽप्रवर्तनस्मृतिः प्राप्ते प्रैष इत्यभिधीयते । अप्राप्तप्रैषणे सर्वं विधित्वं प्रतिपद्यतेऽ इति । तस्याश्र्च प्रवृत्त्यनुकूलव्यापाररूपत्वात्प्रवृत्तिरूपार्थीभावनापि तेनैव्राक्षिप्यते । तस्याश्र्च षष्ठाद्यन्यायेन प्रयोजनवदर्थज्ञानमेव यावत्संभवं भाव्यत्वेन स्वीक्रियते । ततः करणापेक्षयां भावार्थधिकरणन्यायेन सन्निकर्षादध्ययनं करणम् । तत्र अध्ययनस्याशब्दरूपार्थज्ञानसाधनत्वानुपपत्तेः शक्त्यनुसारेण स्वाध्यायावाप्तिद्वारेण तद्भवति । स्वाध्यायस्य च अर्थज्ञानसाधनत्वं विना अध्ययनस्य तत्साधनत्वे तदवाप्तेर्द्वारत्वानुपपत्तेः तस्यापि तत्साधनत्वमर्थात्प्रतिपादितं भवति । साम्नां स्तुतिसाधनत्वे वामपि साधनत्ववत् । ततश्र्च शाब्दबोधे सक्तुन्यायेन विनियोगभङ्गं प्रकल्प्य स्वाध्यायस्य गुणत्वेऽपि तदवाप्तेर्द्वारत्वातर्थात्प्राप्यकर्मत्वाश्रयत्वमप्यस्तीति न तव्यप्रत्ययोक्तकर्मत्वस्य सर्वथानुपपत्तिः । उपपद्यते च स्वाध्यायस्योपादेयत्वेन तद्गतैकत्वविवक्षेत्यर्थज्ञानार्थमेवाध्ययनमर्थकर्मैवेति न्यायरत्नमालोपपादितरीत्या मिश्रभवदेवादिमताभिप्रायेण प्रयोजनवदर्थज्ञानाद्युद्देशेन स्वाध्यायाध्ययनं विधीयते इत्येकः पक्ष उक्तो मूलकृता । तदुक्तम् फलवद्यवहाराङ्गभूतार्थप्रत्ययाङ्गता । निष्फलत्वेन शब्दस्य योग्यत्वादवधार्यतेऽ इति ॥ (हुंफडादिसाधारणसर्वाध्ययनस्य दृष्टार्थत्वम्) आदिपदेन च साम्नां गक्षराभिव्यञ्जकत्वेन तदध्ययनस्यार्थज्ञानार्थत्वेऽपि यत्र हुंफडादिस्तोभभागांशे सर्वथा तदसंभवः, तत्रापि नियतकालपूरणं दृष्टं प्रयोजनमपि संगृह्यते, तेन नाध्ययनविधेर्वैरूप्यम् । नच वाक्यभेदः - न केवनार्थविज्ञानसिद्धिरस्य प्रयोजनम् । ऽदृष्टं यच्छक्यते कर्तुं तत्सर्वं फलमिष्यतेऽ इति न्यायरत्नमालायां मिश्राद्युपपादितरीत्या दृष्टत्वमुपलक्षणीकृत्य यदेव किञ्चिद्विध्यन्तरोपयोगि स्वाध्यायाध्ययनेन भावयितुं शक्यं, तत्सर्वं भावयेदित्येकयैव वचोभङ्ग्या सर्वार्थत्वलाभेन वाक्यभेदाप्रसरात् । अतएव पाठक्रमोऽध्ययनविध्यवगत एवेति वक्ष्यते पञ्चमे । अतएव राजन्यविशां ब्राह्मणादिकर्तृककर्मप्रतिपादके वेदभागेऽप्यध्ययनजन्यार्थज्ञानात्स्वातिरिक्तकर्तृकत्वे बुद्धे तद्बोधितकर्मण्यप्रवृत्तिरेव दृष्टं प्रयोजनमिति न तत्रापि वैरूप्यापत्तिः । यत्तु शास्त्रदीपिकाटिप्पणे भाट्टभास्करे चैतादृशे विषये जपपारायणाद्युपयोग्यक्षरग्रहणमेव दृष्टं प्रयोजनमिति कैश्र्चिदुक्तम् - तत्क्वचिदवश्यकल्पनीयेऽक्षरग्रहणस्य फलत्वे सर्वत्राप्यैकरूप्येण तस्यैव फलत्वापत्त्यार्ऽथज्ञानफलकत्वानुपपत्तेरुपेक्षणीयम् ॥ (अध्ययनस्य संस्कारकर्मत्वमिति जरन्मीमांसकमतस्यार्थज्ञानार्थत्वपक्षाविरोधेन समर्थनम्) वस्तुतस्तु तव्यप्रत्ययेन कर्मतया अभिहितस्य स्वाध्यायस्य गुणत्वेनान्वये प्रतीतप्राधान्यबाधापत्तेः स्वाध्यायस्य चान्यरूपेण कर्मत्वासंभवेऽपि प्राप्यकर्मत्वेन तदन्वयोपपत्तेः स्वाध्यायस्वरूपे आनर्थक्ये प्राप्ते अध्ययनस्य शब्दोच्चारणरूपत्वातुच्चारणस्य अर्थज्ञानजनकत्वकॢप्तेर्विधेयसामर्थ्यानुरोधेन स्वाध्यायस्योद्देश्यस्यापि अर्थज्ञानजनकत्वयोग्यत्वादर्थज्ञानस्योपस्थितेः पुरुषार्थपर्यवसाय्यर्थज्ञाना दिसाधनस्वाध्यायलक्षणां स्वाध्यायपदे स्वीकृत्य तदुद्देशेनैवाध्ययनविधानमुचितम् । ततश्र्च संस्कारकर्मत्वमेवेति जरन्मीमांसकमतमेव युक्तमिति द्योतयितुं द्वितीयपक्षमाह प्रयोजनवदिति ॥ (अध्ययनेन स्वाध्यायं भावयेदित्यापाततोऽध्ययनविध्यर्थनिरासः) यत्तु भाट्टलङ्कारादिभिरध्ययनेन स्वाध्यायं भावयेदित्यापाततो बोधयन्नध्ययनविधिः स्वाध्यायप्रयोजनाकाङ्क्षायामधीतेन स्वाध्यायेन प्रयोजनवदर्थज्ञानं भावयेदिति विपरिणामेन बोधयति - स्वाध्यायस्य उपयोगयोग्यतया सक्तुवैलक्षण्यात् इत्युक्तं, तन्न - तथात्वे अक्षरावाप्तेरपि फलत्वे पूर्वोपपादितरीत्यार्ऽथज्ञानजनकत्वरूपस्वाध्यायगतसामर्थ्यकल्प्यश्रुत्यैवार्थज्ञानसाधनत्वोपपत्तौ प्रस्तुतविधेर्विपरिणामकल्पनेऽपि गौरवापत्तेः परमतोक्ताक्षरावाप्तेरेव फलत्वापत्तेः । अथ तत्रापि नियोगाकाङ्क्षया यावल्लिङ्गकल्प्या श्रुतिःकल्प्या, तावत्पारायणादिप्रत्यक्षविनियोगविधिनैव नैराकाङ्य्क्षमित्युच्यते, तदा प्रकृतेऽपि दीयतां दृष्टिः । तत्रापि तेन नैराकाङ्य्क्षे विनियोजकविपरीतवाक्यतदर्थकल्पनाप्रसरात् ॥ (स्वाध्यायोद्देश्यत्वेऽपि अर्थज्ञानोद्देश्यत्वपर्यवसानम्) अतः पारायणादिविधितुल्यतापत्त्या प्राधान्यनिर्वाहार्थे ब्रीह्यादिपदेऽपूर्वसाधनत्वलक्षणात्स्वाध्यायपदे तादृशलक्षणयैव तदुद्देशेनेव प्रत्यक्षविधिना अध्ययनं विधीयते । अतश्र्च यथावघातादेरपूर्वसाधनीभूतब्रीहिवितुषीभावरूपसंस्कारकस्यापूर्वार्थत्व एव विधेस्तात्पर्यं, तथाध्ययनस्यापि अर्थज्ञानादिसाधनस्वाध्यायाक्षरग्रहणरूपसंस्कारसाधनस्य अर्थज्ञानाद्यर्थत्व एव विधेस्तात्पर्यमित्यर्थज्ञाने फलत्वपर्याप्तिः , नतु द्वारभूताक्षरग्रहणे इत्यावेदितमेव प्राक्॥ (स्वाध्यायोद्देश्यत्वपक्षेऽप्येकशाखाध्ययननियमोपपत्तिः) नचास्मिन् पक्षे स्वाध्यायस्य संस्कार्यत्वेनोद्देश्यत्वात्तद्विशेषणैकत्वादेरपि विवक्षापत्तेः शाखान्तराधिकरणव्युत्पादितैकशाखाध्ययनविरोधप्रसङ्गः - एकत्वाविवक्षायामपि स्वाध्यायपदे स्वशब्देन स्वकीयवाचिना पित्रादिपरंपरया आगतायाः शाखायाः कर्मव्युत्पत्त्या वाच्यत्वावधारणादनेकशाखाध्ययने स्वशब्दवैयर्थ्यापत्तेरेकशाखाध्ययननियमस्य नक्षत्रवादावल्युक्तत्वात्प्रयोजनवदर्थज्ञानादिसाधनस्वाध्यायोद्देशेन प्रत्यक्षस्वाध्यायाध्ययनविधिना अध्ययने वाक्यार्थमर्यादया विहिते स्वाध्यायस्य यथाश्रुतार्थज्ञानजनकत्वसामर्थ्येऽपिविधेरर्थवत्तार्थं पुरुषार्थपर्यन्तस्याप्यर्थज्ञाने आक्षेपादार्थेनाध्ययनगृहीतेन स्वाध्यायेन पुरुषार्थ एव पर्यवसाय्यर्थज्ञानं संपादयेदिति विधिकल्पने स्वाध्यायस्योपादेयत्वस्यापि प्रतीतेश्र्च । उपादेयतवप्रतीतिश्र्च आर्थिकविधिकल्पनया । नह्येतावता एकदा स्वाध्यायसंस्कारार्थत्वं विधाय पुनः विपरिणामेन तस्यैवावृत्त्याधीतेन स्वाध्यायेनार्थज्ञानं भावयेदिति वाक्यार्थान्तरकल्पना केषाञ्चिदुक्ता युक्ताः - आवृत्तिलक्षणवाक्यभेदापत्तेः । विपरिणामकल्पने प्रमाणाभावाच्चेत्यर्थज्ञानाय पूज्यपादैः प्रयोजनवदर्थज्ञानादिसाधनीभूतस्वाध्यायोद्देशेन वेति समस्तपदप्रयोगेणोद्देश्यसमर्पणं प्रदर्शितम् ॥ (ब्रीहिपदवदुद्देश्यसमर्पकस्यापि स्वाध्यायपदस्य स्वार्थाविवक्षाविवक्षाभ्यां वैषम्यम्) नच ब्रीह्यादिपदेष्विव लक्षणया प्रयोजनवदर्थज्ञानादिसाधनस्वाध्यायस्योद्देश्यत्वे ब्रीह्यादिवत्स्वाध्यायस्याप्यविवक्षाप्रसक्तिरिति वाच्यम् - तदविवक्षायां पुरुषार्थपर्यवसाय्यर्थज्ञानस्यैवोपस्थापकमानान्तराभावेनोद्देश्यत्वानुपपत्तेः,ऽवेदाङ्गानि समस्तानि कृष्णपक्षेषु संपठेत्ऽ इत्यादिविधिवैयर्थ्यापत्तेश्र्च, प्रतिनियतोद्देयान्येन स्वाध्यायत्वविक्षायां बाधकाभावात् । तस्मादङ्गानां वेदार्थज्ञानसाधनत्वेनाङ्गतया तदध्ययनस्येव तत्समभिव्याहृतबेदाध्ययनस्यापि अर्थज्ञानसाधनत्वमेवाश्रयितुं युक्तमिति दिक्॥ (अध्ययनस्याध्यापनविधिप्रयुक्तत्वमतनिरूपणम्) अतो वैयर्थ्यपरिहारार्थमित्यनेन मूलकृता मतान्तरमपि निरस्तं वेदितव्यम् । तथाहि ऽअष्टवर्षं ब्राह्मणमुपनयीतऽ इत्यात्मनेपदं तावत्ऽसंमाननोत्सर्ंञ्जनाचार्यकरणज्ञानभृतिविगणनव्ययेषु नियःऽ इति सूत्रादाचार्यकरणविहितमित्याचार्यहेतुत्वमुपनयने प्रतीयमानं केनद्वारेणेत्यपेक्षायामुपनेयप्रत्यासत्तिरूपदृष्टद्वारा अध्यापनापेक्षितेन तत्कर्तृकेणाध्ययनेनाध्ययनं निवर्तयितुं शक्यते इत्यध्ययनद्वारेणेत्येवमाचार्यकर्तृकमध्यापनं तत्र द्वारमिति कल्प्यते । तच्चाध्यापनंऽउपनीय तु यः शिष्यं वेदमध्यापयेद्विजः । सकल्पं सरहस्यं च तमाचार्यं प्रचक्षतेऽ इत्यादिस्मृत्या आचार्यकामः शिष्यमुपनीय वेदमध्यापयेदिति श्रुत्युन्नयनेनाचार्यत्वसिद्धिरूपफलार्थमिति प्रधानमुपनयनरूपाङ्गप्रयोजकं सदुपनेयव्यापारस्याध्ययनस्यापि प्रयोजकम् । अतश्र्च एतेनैवाध्ययने प्रयुक्ते श्रुताधिकारिस्वाध्यायाध्यनविधेर्न स्वातन्त्रेणार्थज्ञानजनकत्वेनाध्ययनप्रयोजकत्वं कल्पनीयम् - गौरवात् । अतएवऽउपनीय तुऽइति स्मृतौ क्त्..अवप्रत्ययेन (?) समानकर्तृकत्वाभिधानात्तस्य च प्रयोगैक्यं विनानुपपत्तेरुपनयनाध्यापनयोः अङ्गाङ्गिभावेनैव तन्निर्वाहो युज्यते । यद्यप्याचार्यत्वमाधाननिष्पाद्वाहवनीयत्वादिवदलौकिकातिशयरूपं न स्वतः पुरुषार्थः - तथापिऽआचार्याय दक्षिणा देयेऽ त्यादिस्मरणात्दक्षिणादानादिहेतुत्वेन भवत्येव पुरुषार्थ इति प्रधानम् । ऽतमध्यापयीतेऽति तच्छब्दपरामृष्टोपनीतस्याध्यापनसंबन्धनात्ऽतप्ते पयसि दध्यानयति सा वैश्र्वदेव्यामिक्षाऽ इत्यत्र सेति तच्छब्देन दध्यानयनसंस्कृतस्य पयसो वैश्र्वदेवयागाङ्गत्वस्यापि तच्छब्दश्रुतेरुपनयनस्य पूर्वोक्तरीत्याध्यापनाङ्गत्वस्यापि प्रतीतेश्र्च ॥ ननु ऽउपनयीतेऽति श्रुतेःऽदर्शपूर्णमासाभ्यामिष्ट्वा सोमेन यजेतेऽतिवत्कालसंबन्धेनाप्युपपन्नत्वेनाङ्गाङ्गिभावसंबन्धे प्रमाणाभावः , तच्छब्दबलेनापि समभिव्याहृतक्रियामात्राङ्गत्वप्रतीतावपि णिजन्तधातुना अध्ययननाध्यापनरूपप्रयोज्यप्रयोजकव्यापारद्वयोपस्थितौ उपनयनस्याध्यापनाङ्गत्व एव प्रमाणाभावेनाध्ययनाङ्गत्वस्याप्यापत्तिः । आत्मनेपदेन आचार्यकरणे विहितेनाङ्गाङ्गिभावबोधनस्याशक्यत्वाच्च ॥ नच उपनयने अध्यापनफलाचार्यसंबन्धबोधनं तस्याध्यापनाङ्गत्वं कल्पयेतिति वाच्यम् - आधानद्वारा अग्निहोत्रपूर्णमासादिसर्वकर्मोपकारकस्वविधिसिद्ध अनाङ्गपूर्णाहुतौऽपूर्णाहुल्या सर्वान् कामानाप्नोतिऽ इति तदुपकार्यसर्वकर्मफलव्यपदेशदर्शनेनेहापि अध्ययनद्वारेणोपनयनोपकार्यस्वाध्यायस्य फलमुपकारके व्यपदिश्यत इत्यस्याप्युपपत्तेःिति चेत्न - दर्शपूर्णमासयोः सोमयागस्य च स्वातन्त्रेण पृथक्फलसाधनतया वाक्यान्तरावगतत्वेन पृथक्प्रयोगसत्त्वेन पौर्वापर्यमात्रबोधकक्त्..अवप्रययस्य (?) प्रयोगैक्यं विनापि कर्तृकारकाधिष्ठानैक्यावलम्बनतया कथञ्चिदुपपन्नत्वेऽपि प्रकृते बाजपेयेनेष्ट्वा बृहस्पतिसवेन यजेतेत्यत्रेव प्रयोगैक्यनिर्वाहायाङ्गाङ्गिभावसंबन्धबोधन एव तत्तात्पर्यकल्पनौचित्यात्, तच्छ्रुतेरपि क्रियाद्वयस्य समभिव्याहारेऽपि प्रधानक्रियाया अभ्यर्हितत्वेन तत्रैवान्वयस्योचितत्वेन अध्यापनाङ्गत्वबोधने प्रामाण्याच्च । अङ्गप्रमाणभावेन साक्षात्संबन्धिनोऽध्यापनस्य फलमुपनयने निर्दिश्यते इति वक्तुं शक्ये परंपरासंबन्धकल्पनं तदुपपादनस्य निरर्थकत्वाच्च । अतोऽध्यापनविधिप्रयुक्तमेवाध्ययनं नार्थज्ञानसाधनत्वेन स्वाध्यायाध्ययनविधिप्रयुक्तम् इत्याहुः ॥ (अध्ययनस्याध्यापनविधिप्रयुक्तत्वनिरासः तत्रोपनयनस्यैवाध्यापनविधिप्रयुक्तत्वाभावे सुतरामध्ययनस्य तत्प्रयुक्तत्वाभाव इति निरूपणम्) तन्न - तथात्वेऽअध्यापनविध्यन्यथानुपपत्त्यैव प्रयोज्यव्यापाररूपाध्ययनस्य प्राप्तत्वेन स्वतन्त्रस्वाध्यायाध्ययनविधेरानर्थक्यापित्तेः ॥ किञ्चऽवसन्ते ब्राह्मणमुपनयीतऽ इत्यादिविधिभिर्ब्राह्मणाद्यर्थत्वेन प्रतीयमानमुपनयनं तदीयकार्याध्ययनाङ्गत्वेनैव निर्वाह्यम्, नत्वन्यदीयकार्याध्यापनाङ्गत्वेन - उपनयनजन्याचार्यप्रीतिरूपदृष्टसंस्कारस्य विनियोगाकाङ्क्षायामध्ययनस्योपनेयगतत्वेनान्तरङ्गत्वात्, उपनेयस्य सर्वकर्माधिकारार्थमुपनयनजन्यादृष्टरूपसंस्कारस्यावश्यकल्पनीयोपनेयकार्यार्थत्ववत्तज्ज न्यत्वाविशेषेणोपनयनजन्याचार्य प्रत्यासत्तिरूपस्यदृष्टस्याप्युपनेय कार्यार्थत्वस्यैवोचितत्वात् । अपिच उपनयनस्य बीजगर्भसमुद्भवैनोनिबर्हणद्वारा माणवकसंस्कारार्थत्वं स्पष्टमेवऽगार्भैमैर्जातकर्मचौलमौञ्जीनिबन्धनैः । बैजिकं गार्भिकं चैनो द्विजानामपमृज्यते । एवमेनः प्रयात्याशुः बीजत्वग्गर्भसंभवऽ मित्यादिस्मृतिषु प्रतीयते । अतएव कर्मानधिकृतयोरपि मूकोन्मत्तयोरेनोनिबर्हणार्थत्वेनोपनयनावश्यंभावमभिप्रेत्यैव मूकोन्मत्तौ संस्कार्याविति केचित्प्रचक्षते । ऽकर्मस्वनधिकराच्च पातित्यं चैतयोःऽ इति मनुना उपनयनाभावपक्षः केषाञ्चित्पक्षत्वेनोपन्यस्तः । अतः स्वतन्त्रफलार्थस्योपनयनस्याध्यापनाङ्गत्वे प्रमाणाभा वादुपनयनस्यैबाध्यापनविधिप्रयुक्तत्वाभावे सुतरां तद्द्वारप्रविष्टस्याध्ययनस्य न तद्विधिप्रयुक्तत्वम् ॥ (उपनयनाश्रितवयोविशेषादीनामिवोपनयनस्याप्युपनेयार्थत्वम्) अतएवऽसप्तमे ब्रह्मवर्चसकामंऽऽअष्टमे आयुष्कामऽमित्यादिगुणविधिभिरुपनयनाश्रितवयोविशेषलक्षणगुणानामुपनेयार्थत्वादुपनयनस्यापि तदाश्रयस्य तदर्थत्वेन युक्तम् - प्रधानगुणफलयोरेकाश्रयत्वस्योत्सर्गसिद्धत्वस्य तथा कामोर्ऽथसंयोगादित्यधिकरणे दर्शितत्वात् । अतएवऽयदि कामयेत वर्षुकः पर्जन्यः स्यादिऽति वाक्ये सदोमानकर्तुरध्वर्योः कामनां विहाय यजमानस्यैव कामना विवक्षिता संगच्छते । नहि गीतिक्रियारूपसामसंस्कार्यत्वेन तत्प्रधानभूतामेवर्चं द्वारीकृत्य साम्नो गुणिनिष्ठगुणाभिधानरूपस्तुतिसाधनत्वेन स्तोत्राङ्गत्वस्यापिऽसाम्ना स्तुवीतेऽति वचनेन बोधनवदिहाध्ययनाङ्गस्यापि उपनयनस्याध्यापननिवर्तनद्वाराध्ययनाङ्गत्वस्य बोधने किञ्चिद्वचनमस्ति, येनोभयाङ्गत्वं स्यात्॥ (उपनीय तु इत्यादीनामाशौचादिनिमित्तस्वमरणवदाचार्यस्वरूपपरत्वम्)ऽउपनीयतु यः शिष्यम्ऽ इति स्मृतेः,ऽन विद्यया केवलया तपसा वापि पात्रता । यत्र वृत्तमिमे चोभे तद्धि पात्रं प्रचक्षतेऽ इति स्मृतेश्र्च । त्रिभिः पात्रत्वकथनमात्रार्थत्ववत्नाध्यापनमात्रेणाचार्यो भवति, किन्तु उपनययेनापि इत्येतावन्मात्रकथने तात्पर्यात् । तत्फलं च यथा दानादौ तादृशपात्रस्यैव संप्रदानत्वम्, एवं तादृशाचार्यस्येव स्वमरणनिमित्ताद्याशौचादेः शिष्येणाचार्ये नातिचरितव्यमित्यादिशास्त्रसिद्धतदनतिक्रमादेश्र्च प्रयोजकत्वमेव । अन्ये ऽनिषेकादिककर्माणिः यः करोति यथाविधि । संभावयति चान्तेन स विप्रो गुरुरुच्यते । स गुरुर्यः क्रियाः कृत्वा वेदमस्मै प्रयच्छतिऽ ॥ इत्यादिस्मृतिबलात्निषेकादिचौलान्तकर्मणामध्यापनाङ्गत्वापत्तेः । यथाचैवंसत्यकर्तृगामिफलविवक्षया विशेषसूत्रेण विहितादात्मनेपदादेव माणवकादिसंस्कारद्वारा अध्ययनाङ्गत्वं तथोपपादितं नक्षत्रवादावल्याम् ॥ (नित्यस्योपनयनस्य काम्याध्यापनाप्रयुक्तत्वम्) एवं सप्ताष्टवर्षत्वादेरुद्देश्यविशेषणस्य विवक्षा उपपादयिष्यते पूज्यपादैराधानाधिकरणे । अतस्तमध्यापयीतेति तच्छब्दपरामृष्टस्योपनयनस्य प्रयोज्यभूताध्ययनव्यापार एवान्वयातात्मनेपदस्य चाध्ययनस्याध्यापनोपकारकत्वमात्रेणाप्युपपादयितुं शक्यत्वात्ऽअत ऊर्ध्वं त्रयोऽप्येते यथाकालमसंस्कृताः । सावित्रीपतिता व्रात्या भवन्त्यर्थविगर्हिताः । योऽनधीत्य द्विजो वेदानन्यत्र कुरुते श्रमम् । स जीवन्नेव शूद्रत्वमाशु गच्छति सान्वयःऽ । इत्यादिस्मृतिभिरुपनयनाध्ययनयोः नित्ययोः काम्याध्यापनविधिप्रयुक्तत्वायोगादर्थज्ञानार्था१ ह्ययनविधि प्रयुक्तमेवाध्ययन् । तत्रैव यावत्वेदसमाप्त्याचार्याधीनत्वस्यऽतपोविशेषैर्विविधैर्व्रतैश्र्च श्रुतिचोदितैः । वेदः कृत्स्नोऽधिगन्तव्यः सरहस्यो द्विजन्मनाऽ इति स्मृत्युक्तधर्माणां गुरुशुश्रूषादीनामन्येषां च निर्विघ्नपरिसमाप्तिद्वारा इति कर्तव्यतात्वेनान्वयः । यत्तु एतादृशाङ्गविषेषणां केवलार्थज्ञानरूपदृष्टार्थोपयोगासंभवात्यूपत्वादिवदलौकिकसंस्कारगर्भं स्वाध्यायत्वमङ्गीकृत्य तत्रैवोपयोग इति कैश्र्चिदुक्तं, तच्छिष्टाकोपाधिकरणे कौस्तुभे पूज्यपादैर्दूषितं तत्रैव द्रष्टव्यम् । नहि यावद्वेदसमाप्त्याचार्याधीनेन स्मृत्युक्तंशुश्रूषादिनियमैः तदुपासनपरेण स्वतः सर्ववर्णादिभ्रंशराहित्येन क्लेशसाध्यमध्ययनमन्यपुरुषानत्याचार्यकरणरूपफलार्थं कथमप्यनुष्ठातुं शक्यते । तस्माद्द्रव्यार्जनोपायत्वेन प्रतिग्रहादिवदध्यापनमपि प्राप्तम् ॥ (भाट्टदीपिका) नार्थाध्य१यनविधिप्रयुक्तमेवाध्ययनम् । तत्रैव यावत्वेदसमाप्त्याचार्याधीनत्वस्य "तपोविशेषैर्विविधैर्व्रतैश्च श्रुतिचोदितैः । वेदः कृत्स्नोऽधिगन्तव्यः सरहस्यो द्विजन्मना" इति स्मृत्युक्तधर्माणां गुरुशुश्रूषादीनामन्येषां च निर्विघ्नपरिसमाप्तिद्वारा इति कर्तव्यतात्वेनान्वयः । यत्तु एतादृशाङ्गविशेषाणां केवलार्थज्ञानरूपदृष्टार्थोपयोगासंभवात्यूपत्वादिवदलौकिकसंस्कारगर्भं स्वाध्यायत्वमङ्गीकृत्य तत्रैवोपयोग इति कैश्चिदुक्तं, तच्छिष्टाकोपाधिकरणे कौस्तुभे पूज्यपादैर्दूषितं तत्रैव द्रष्टव्यप्रत्ययेन (१) टिप्पणी अत्राध्वरमीमांसाकुतूहलवृत्तिकाराः स्वाध्यायविधिरक्षरग्रहणार्थ एव, अर्थावबोधस्तु गृहीतपदतदर्थसङ्गतिकस्य स्वत एव भवति, नतु तत्राध्ययनविधेर्व्यापारः- अन्यथा धर्मावबोधार्थत्वे कृत्स्नाध्ययनाभावप्रसङ्गात् । नहि राजसूयाद्यनधिकारिणां ब्राह्मणादीनां तदध्ययनार्थज्ञानादिकं प्रयोजनवत् । अतएवोक्तं वेदभाष्ये "बोधान्तत्वेऽध्ययनाकार्त्स्न्यम्" इति । पित्राद्युपदेशजन्यार्थज्ञानेन यथा संध्योपासनादावधिकारः, एवं क्रतुष्वपीति सिद्धे तस्मिन्न कामना संभवति । किञ्चाग्निहोत्रादिवाक्यानामनन्तत्वान्न विशिष्य तदर्थोद्देशसंभवः, सामान्याकारेणोद्देशे तु सामान्यतः ज्ञानमवाध्ययनफलमिति न विचारसिद्धिसंभवः । वेदवाक्यानां स्वार्थे तात्पर्यावगमस्तूपक्रमादिलिङ्गैर्भविष्यतीति न किञ्चिदनुपपन्नम् । एवञ्चार्थज्ञानार्थाध्ययनविधौ न स्वाध्यायविधेस्तात्पर्यम् । अतएव "ब्राह्मणेन निष्कारणो वेदोऽध्येयो ज्ञेयश्चे" ति ज्ञानविधिरप्युपपद्यते - अन्यथा तदानर्थक्यात् । नहि सर्वेणापि गृहीतपदतदर्थसङ्गतिकेन भाव्यमिति नियमः- अव्युत्पन्नानामपि बहुशो दर्शनेन व्यभिचारात् । अस्तुवा नियमः, एवमप्यतिगहनस्य वेदार्थस्य विचारमन्तरा न सिद्धिरिति विचारविधिरर्थवानेव । कृत्स्नवेदार्थज्ञानस्याध्ययनविधिप्रयुक्तत्वाभावादेव कल्पसूत्रादिप्रणयनमर्थवत् । ब्रह्ममीमांसायां तृतीयचतुर्थाद्यधिकरणे "शेषत्वात्पुरुषार्थवादो यथान्येष्विति जैमिनिः" इति सूत्रेणात्मज्ञानं कर्मशेषभूतकर्तुद्वारा पर्णतादिवत्कर्माङ्गम् । "तरति शोकमात्मवित्" इति फलश्रुतिस्तु अपापश्लोकश्रवणवदर्थवादः इति जैमिनिमतं पूर्वपक्षतयोद्भाव्य "तद्वतो विधानादी"ति सूत्रान्तरेण "आचार्यकुलाद्वेदमधीत्ये"ति श्रुत्या सकलवेदार्थज्ञानवतः कर्मविधानादपि लिङ्गात्कर्माङ्गमात्मविद्येति स्वयं युक्त्यन्तरमुद्भाव्य "अधिकोपदेशान्न बादरायणस्यैवं तद्दर्शनादि"ति सिद्धान्तमुपक्षिप्य "अध्ययनमात्रस्य श्रावणादध्ययनमात्रवतः कर्माधिकारो नत्वर्थज्ञानवत इत्युक्तत्वात्नार्थज्ञानप्रयुक्तमध्ययनमिति स्पष्टमेवावगम्यते । "अध्ययनमात्रवतःकर्माधिकार इत्यध्यवस्यामः" इति भगवत्पादभाष्यादिकमप्यत्र प्रमाणम् । वाचस्पतिमिश्रादिभिरप्ययमर्थः सम्यगुपपादित इति तत एव द्रष्टव्यम् । एवञ्चार्थवादविषये स्वाध्यायविधितः फलवदर्थपर्यवसानालाभात्तेषां विध्युद्देशाकाङ्क्षानुत्थानात्न परस्पराकाङ्क्षाया विध्यर्थवादयोरेकवाक्यत्वाम्, किन्तु रक्तः पटो भवतीत्यत्र केवलरक्तपदाकाङ्क्षयेव विध्युद्देशमात्राकाङ्क्षयार्ऽथवादानां तदेकवाक्यतेति भाष्यानुयायी सुगमः पन्था इति निरूपयन्ति ॥ परमार्थतस्तु अधीतेन स्वाध्यायेनैवार्थज्ञानं संपादयेतिति नियमविधिरेवात्र विवक्षितः- नापूर्वविधिः, येन तत्राध्ययनविधिव्यापारवैफल्यमाशङ्क्येत । अध्ययनसंपादितराजसूयाद्यर्थज्ञानस्यापि ब्राह्मणानां याजनादावुपयोगो विद्यते । अन्येषां तु ब्राह्मणादिमात्राधिकारिककर्मावबोधादिकमदृष्टार्थं भविष्यतीति न कृत्स्नाध्ययनाभावप्रसङ्गः । वेदभाष्योदाहृतं तु वचनं पूर्वपक्षिणो न सिद्धान्तविघातायालं भवति । साधितंहि तत्रैवार्थज्ञानार्थत्वमध्ययनस्येति तद्दर्शिनां विशदमेव । पित्राद्युपदेशजन्यार्थज्ञानेनतु न क्रत्वधिकारसिद्धिः- नियमविध्याश्रयणात् । तत्तद्वाक्याध्ययनसमनन्तरसजातापातज्ञानेन विशिष्य तत्तदर्थज्ञानोद्देशोऽपि संभवत्येव । एवञ्च प्रयोजनवदर्थज्ञानार्थमेवाध्ययनमत्र विधीयते । नह्यन्यथा वेदवाक्यानां सर्वेषां धर्मप्रामाण्यं निर्वहति । ब्राह्मणेन निष्कारण इत्यत्र तु न ज्ञानविधिः- ज्ञानस्य वस्तुतन्त्रस्याविधेयत्वात्, भवदुपपादितरीत्या पित्राद्युपदेशत एव संध्योपासनादाविवार्थज्ञानस्य क्रतुष्वपि प्राप्त्या षडङ्गाध्ययनस्यापि विहितत्वेन सर्वेषामपि गृहीतपदतदर्थसङ्गतिकत्वावश्यकत्वेन "स्थाणुरयं भारहारः किलाभूदि" ति निश्चयात्मकज्ञानस्यापि प्राप्तत्वेनच विचारविधेरप्ययोगात् । नियमविधिनातूपपत्तिः स्वाध्यायवाक्येऽपि संभवतीति तत्रैव विचारव्यापारोऽपि । केवलाध्ययनस्यानधीयाना व्रात्या भवन्तीत्यनेनैव प्राप्तत्वात् । ज्ञेयश्चेति अध्ययनविध्यपेक्षितेतिकर्तव्यतासमर्पणार्थमेव नतु अध्ययनस्यार्थज्ञानप्रयुक्तत्वं वारयति । अथवानुवाद एवायमिति पश्यामः । "तेन किमित्यपेक्षिते यच्छक्यतेइत्युपबन्धातक्षरग्रहणमित्यापतति । तस्याप्यपुरुषार्थत्वात्तेन किमिति पदावधारणमित्युपतिष्ठते । तेनापि पदार्थज्ञानं तेन वाक्यार्थज्ञानन्तेनानुष्ठानमनुष्ठानन स्वर्गादिफलप्राप्तिरित्येतावति निराकाङ्क्षीभवति" इत्यादिभिर्वाक्यैर्वार्तिककारा हि कण्ठत एवार्थत्वज्ञानार्थमध्ययनस्य नत्वक्षरावाप्त्यर्थत्वमिति प्रतिपादयन्ति । अर्थज्ञानार्थत्वपक्षेऽपि कल्पसूत्रादिसार्थक्यं कल्पसूत्राधिकरणादौ व्यक्तम् । शेषत्वात्पुरुषार्थवाद इति अर्थज्ञानार्थत्वपक्षमेव जैमिनिसंमतमनुवदन् बादरायणोऽपि अत्र हस्तावलम्बयति । अध्ययनमात्रवत इत्यत्रोपनिषदंशमात्रेर्ऽथज्ञानानपेक्षा बोध्यते, नतु अर्थावबोध इति स्पष्टमेव तस्मिन्नेव सूत्रे भाष्यभामत्यादिष्वर्थज्ञानार्थत्वपक्ष एव सम्यगुपपादित इत्यहोस्वासिनैव स्वाङ्गुलिच्छेदः । एवञ्चार्थज्ञानार्थत्वपक्ष एव सकलप्रामाणिकमीमांसकसंमतो नाक्षरग्रहणार्थत्वपक्षः । अन्यथार्ऽथज्ञानानन्तरं स्नानेऽधीत्य स्नाद्यादिति क्रमविरोधापत्तेः । नह्यन्यथार्ऽथवादानां प्राशस्त्यलक्षकत्वमुपपद्यते । रक्तपटन्यायस्तु भाष्ये निरर्थवादस्थल इव विधेरेव प्राशस्त्यलक्षकत्वशङ्कानिरासार्थ इत्यादि वार्तिकादौ स्पष्टमिति अर्थज्ञानार्थत्वमेवाध्ययनस्य स्वाध्यायविधिना बोध्यते इति न्यायसुधाभाट्टदीपिकादिकृतां हृदयम् इति ॥ एतेन. अध्ययनविधेरक्षरगर्हणपर्यन्तत्वमेवेतिसेश्वरमीमांसादिसिद्धान्तोऽपि पराहतः- वार्तिकादिविरोधात् । विचारानित्यत्वाद्यापत्तेश्चेति मन्तव्यम्. (भाट्टदीपिका) स्वाध्याय१ य कर्मत्वाभिधानात् । अतश्च जिज्ञानाधिगरणीनान्तरीकार्ये स्वाध्यायार्थस्य प्रयोजनवत्त्वसिद्धौ तात्पर्यग्रा२ हकवशेन लक्षणा अर्थवादेषु लक्षणीयश्चार्थः सन्निहितविधिनिषेधापेक्षितत्वात्स्तुतिनिन्दारूपः । तथाहि लिङाद्यर्थो लोके पुरुषाशयः । वेदे तदभावाल्लिङादिशब्दनिष्ठ एव कश्चिद्धर्मः । वाच्यतावच्छेदकं (प्रभावली) (अध्ययनस्य स्वविधिप्रयुक्तत्वोपसंहारः) अध्यापनस्येव विध्यभावे तत्प्रयोजकस्वाध्यायाध्ययनासंभवातुपनीतस्य प्रयोजनवदर्थज्ञानार्थं स्वाध्यायाध्ययनविधिना अध्ययनं प्रयुज्यत इति सिद्धे अर्थवादेषु शक्यार्थमादाय तदसंभवे यावत्संभवं प्रयोजनवत्त्वलाभार्थं लक्षणाध्याहारादि कृत्वा धर्माधर्मप्रयोजकत्वं निर्वाह्यमिति ॥ (एकवाक्यत्वानुपपत्तेर्लक्षणाबीजत्वनिरासः) तात्पर्यग्राहकवशेनेति । एतेन शक्यार्थान्वयेन विध्येकवाक्यत्वासंभवे तदनुरोधेन प्राशस्त्यादिलक्षणा, तया एकवाक्यत्वमित्यन्योन्याश्रयापत्तिः परिहृता - तात्पर्यग्राहकवशेन तदङ्गीकारे एकवाक्यत्वानुपपत्तेरत्र बीजत्वाभावादित्यर्थः ॥ (लिङर्थभावनाया लोके पुरुषाशयत्वसमर्थनम्) सन्निहिताविधिनिषेधापेक्षितमर्थं लक्षयितुं विधिनिषेधार्थकथनव्याजेन लक्षणीयार्थापेक्षां दर्शयति तथाहीत्यादिना । लिङ्लोट्तव्यास्तावदज्ञातभावनाज्ञापकाः तदनुष्ठापकाश्र्च । भावना च भाव्यतेऽनयेति व्युत्पत्त्या अन्यभवानुकूलो धात्वर्थातिरिक्तो व्यापारः - यजेतेत्यादिश्रवणोत्तरं यागानुकूलं व्यापारं कुर्यादित्यादिरूपेण भावनाविषयज्ञातज्ञापनस्य प्रवर्तनापरपर्यायानुष्ठान्सय च प्रतीतेः । अतएव भावनाविधायकत्वेन मुख्यं विधित्वं लिङादीनां, तद्युतानां स्वर्गकामो यजेतेत्यादिवाक्यानामज्ञातभावनांशत्रयज्ञापकत्वाद्विशिष्टभावनानुष्ठाप कत्वाद्विधित्वव्यवहारः, तत्रावापोद्वापाभ्यामाचार्यप्रेरितोऽहं गामानयामि मत्प्रवृत्त्यनुकूलव्यापारवानयमित्यादिव्यवहारात्प्रवृत्त्यकूलव्यापारे शक्तिर्लिङादीनाम् । सच व्यापारो गुर्विच्छयाहं प्रवृत्तो न तु स्वेच्छयेति व्यवहारल्लोके इच्छैवेतयभिप्रायेणाह लाके पुरुषाशय इति ॥ (लोकवेदसाधारण्येनेष्टसाधनत्वमभिधा वा भावनेति मण्डनपार्थसारथिमतनिरूपणम्) अपौरुषेये वेदेऽपि मत्प्रवृत्त्यनुकूलव्यापारवानयं विधिरिति व्यवहारात्तेषां च विध्यादीनामचेतनत्वेन तादृशेच्छाया असंभवात्यागादिगतेष्टसाधनत्वस्य प्रवृत्त्यनुकूलत्वेन ज्ञातत्वात्तस्यैव प्रवर्तनात्वेन रूपेण बोध इति मण्डनमिश्राः । पार्थसारथिस्तु षष्ठाद्यधिकरणे वेदे शब्दकर्तृकस्य अर्थप्रतिपादनरूपस्य व्यापारस्य प्रवर्तनत्वमित्याह ॥ (विधिज्ञानमेव भावनेति केषाञ्चिन्मतम्) अस्मिन्मते कोऽसौ व्यापारः । इत्यपेक्षायां केचिदाहुः प्रवर्तनादिः प्रवृत्तिहेतुर्व्यापारः विधिशब्दस्य चाख्यातत्वेन दशलकारसाधारणेनोपाधिना पुरुषप्रवृत्तिरूपार्थभावनां प्रति वाचकत्वम् । तज्ज्ञानहेतुत्वमिति यावत् । सा च ज्ञातैवानुष्ठानशक्येति तद्धीहेतोरपि शब्दस्य तद्धेतुत्वं परम्परया भवत्येव । तत्र च विधिशब्दस्य पुरुषप्रवृत्तिरूपभावनाज्ञानहेतुर्व्यापारः तद्वाचकशक्तिमत्तया विधिशब्दज्ञानं स एव च तस्य प्रवृत्तिहेतुर्व्यापार इति प्रवर्तनाभिधानीयकं लभते । ज्ञानद्वारेणैव शब्दस्य प्रवृत्तिजनकत्वात्ज्ञानजनकव्यापारातिरिक्तव्यापारकल्पने मानाभावात् । ज्ञानजनकश्र्च व्यापारः तस्य स्वज्ञानं शक्तिज्ञानं शक्तिविशिष्टस्वज्ञज्ञनं च । तत्राद्ययोरन्यतरस्य शब्दभावनात्वं, तृतीयस्य तु तत्र करणत्वमिति विवेकः । एवं स्थिते नियमेन विधिना स्वज्ञानं जन्यते प्रवर्तनात्वेन अभिधीयतेऽपीति विधिज्ञानमेव शाब्दभावना इति ॥ (भावनाया इष्टफलतवाभिधानमर्थभावनाभिधानानुकूलाशक्तिः, अलौकिकधम्रएव च शाब्दभावनेति भाट्टभास्करादिमतनिरूपणम्) भाट्टभास्करे तु ऽअंशत्रयविशिष्टभावनाप्रतिपादनं चास्य व्यापारः । तत्र यदि भाव्यांशे पुरुषार्थ उपनीयते ततस्तत्प्रतिपादनं प्रवृत्तिहेतुर्भवति नान्यि.अ (?) - तेन शब्दकर्तृकस्यार्थप्रतिपादनरूपस्य व्यापारस्य प्रवर्तनारूपतवं संपादयितुं तद्विषयीभूतयाया भावनायाः पुरुषार्थभाव्यतवं निश्र्चीयतेऽ इति तत्रत्यशास्त्रीदीपिकाग्रन्थातिष्टफलकत्वाभिधानं यत्भावनायाः सर्वत्र वेदे शब्दभावना लोकेच या प्रतीयत इतिप्रवृत्तिरूपार्थभावनाया इष्टफलत्वाभिधानं विधिशब्दगतं सैव शब्दभावना प्रवर्तनात्वेन वेदे लिङाद्यर्थ इत्युक्तम् ॥ अंशत्रयविशिष्टभावनाप्रतिपादनं चास्य व्यापार इत्युक्तेरर्थभावनाभिधानानुकूला शक्तिरेव प्रवर्तनात्वेन वेदे तदर्थ इति तु पूज्यपादाः प्रकाशकाराश्र्च । तदुक्तमाचार्यैःऽअभिधाभावनामाहुरन्यामेव लिङादयः । अर्थात्सा भावनात्वन्या सर्वार्था तेषु गम्यतेऽ इति ॥ सर्वमतेऽति परस्परं विनिगमनाविरहस्य स्फुटत्वाल्लोकेऽपि तथात्वापत्तेः कॢष्तेषु विनिगमनाविरहेण कल्प्यमन्यत्सिध्यतीति न्यायेन अतिरिक्तो विधिशब्दनिष्ठोऽलौकिको धर्म एव प्रवर्तनात्वेन वेदे तदर्थ इति न्यायसुधाकृन्मतमेव युक्तमित्यभिप्रेत्याह कश्र्चिदिति । अनेन अलौकिकत्वमुक्तम् । एवकारेण च मतान्तरनिरासः ॥ (१) टिप्पणी कर्मत्वेनच स्वाध्यायस्य संस्कार्यत्वावगमात्संस्कृतस्यच तस्यार्थज्ञानविनियोगस्यार्थसिद्धत्वाद्युक्तं स्वाध्यायपदेनार्थज्ञानसाधनस्वाध्यायलक्षणम् । पूर्वस्मिंश्च पक्षे सक्तुवद्विपरिणामेन मत्वर्थलक्षणयाच स्वाध्यायविशिष्टाध्ययनेनार्थज्ञानं भावयेदिति वाक्यार्थोऽवगन्तव्यः । तव्यप्रत्ययस्त्वौपचारिकं कर्मत्वमवगमयति । अधीतेन स्वाध्यायेनार्थज्ञानं भावयेदिति तु पर्यवसितार्थः । साम्नास्तुवीतेत्यत्र ऋक्संस्कारकतया वचनान्तरेणाविनियोगेऽपि यथा तत्संस्कारता स्वाभाविकी न हीयते, तथात्रापीत्यादिन्यायरत्नमालायां स्पष्टं. (२) शाब्दबोधत्वावच्छिन्नं प्रति तात्पर्यज्ञानस्य कारणत्वात्स्वाध्यायविधिरेव सकलस्य वेदस्य प्रयोजनवदर्थतात्पर्यग्राहक इति भवदेवः । तात्पर्यज्ञानस्य शुकादिवाक्ये व्यभिचाराच्छाब्दबोधत्वावच्छिन्नं प्रत्यकारणत्वेन लोकतः पूर्वं शास्त्रप्रवृत्त्या प्रयोजनवदर्थावगम इति कौस्तुभकाराः. (भाट्टदीपिका) चोभयसाधारणं व्यापारत्वं, नतु प्रवृत्तिनिवृत्तिप्रयोजकत्वमपि- तस्यान्यलभ्यत्वात् । तत्र नञोऽभावे आख्यातार्थप्रवृत्तिप्रयोजकत्वं, (प्रभावली) (अलौकिके शब्दधर्मे शक्तिग्रहोपपादनग्रन्थः) ननु य एव लौकिकश्शब्दास्त एव वैदिकाः य एव तेषामर्थस्स एवामीषामर्थ इति न्यायात्लोके विधिशब्दस्य यत्र शक्तिर्गृहीता, वेदेऽपि तदर्थकेनैव भवितव्यम् । लोके च प्रेषणादिपुरुषधर्मवाचित्वं कॢप्तमिति वेदे तदभावेन शक्तिग्रहाभावे कथमलौकिकधर्मोपस्थितिरित्याशङ्कानिराकरणायाह उभयसाधारणमिति । प्रवर्तना हि प्रवृत्त्यनुकूलो व्यापारः । तत्र लोके आवापादेद्वापाभ्यां व्यापारत्वेनैव सखण्डेनाखण्डेन वा शक्तिग्रहात्यद्धर्मावच्छिन्ने यस्य शब्दस्य शक्तिग्रहो जातः, तद्धर्मप्रकारके बोधे तेन शब्देन जनिते सति तद्धर्माश्रयव्यक्तीनां विशेष्यत्वानुपपत्तौ अप्रसिद्धव्यक्तिमाक्षिप्यैव बोधः पर्यवस्यतीति । अपूर्वात्मककार्यविध्यर्थवादिमते लोके प्रसिद्धस्य न्यारूस्य पार्थसारथिमतेचोक्तशब्दभावनायामप्यवश्यसंचारणीयस्य अलौकिकप्रेरणावादिमते योजनेन तदुपपत्तेरित्यर्थः ॥ आख्यातार्थप्रवृत्तीति. । एतञ्च दशलकारवृत्त्याख्यातत्वरूपं लत्वं शक्ततावच्छेकीकृत्य प्रवृत्तेरन्यलभ्यत्वोपपादनं परमताभिप्रायेणेति आख्यातार्थेत्यनेन सूचितम् ॥ (आख्यातत्वशक्ततावच्छेदकत्वखण्डनेन तिबादितत्वव्यवस्थापनम्) समुतेतु तदंशे शक्ततावच्छेदकभेदेन नान्यलभ्यत्वं प्रतिपाद्यते, किन्तु दशलकारसाधारणाख्यातसामान्यार्थकतिबादिपृथक्शक्तिमात्रेण । अतएव आख्यातत्वं तिबाद्यादेशेष्वेव वर्तते - तच्छ्रवण एवाख्यातमिति प्रतीतेः । भावनाप्रवर्तनादीनां तत्तदादेशेभ्य एव तिबादिभ्य उपस्थितेस्तत्तदादेशत्वमेव शक्ततावच्छेदकम्, नतु दशलकारवृत्तिलत्वरूपमाख्यातत्वम् - आदेशैः लकारोपस्थितिमन्तरापि तत्तदर्थोपस्थितेरनुभवसिद्धत्वात्, यथाकथञ्चिदुपस्थापितलकारादपि तद्वोधापत्तेश्र्च । नाप्यादेशोपस्थापितं तत्- शतृशानजादेशोपस्थितादपि तस्मात्तद्बोधापत्तेः ॥ नच अनेकशक्ततावच्छेदकस्वीकारे गौरवम् - प्रतीयमानार्थानुरोधेन गौरवस्यापि प्रामाणिकत्वात्, अन्यथा घटपटादिगतद्रव्यत्वस्यैव लघुभूतस्य घटपटरूपार्थशक्ततावच्छेदकत्वापत्तेः, वारिणीतीकारादेशस्य रामावित्यादौ स्वातन्त्रेणार्थबोधकतया कॢप्तौकारस्मारकतया बोधकतववदिह लकारस्य स्वातन्त्रेणार्थबोधकत्वस्याकॢप्तेश्र्च । अतः श्रूयमाणतदादेशत्वमेव शक्ततावच्छेदकम् । अतएव पचतीति समभिव्याहारे ति इत्येतन्मात्रस्यैव भावनावर्तमानकालैकत्वादिरूपनानार्थकत्वम्, पचेदिति समभिव्याहरो तित्येतन्मात्रस्यैव प्रवर्तनाभावनैकत्वादिरूपनानार्थकत्वम्, एवमन्यत्रापि । इष्टसाधनत्वकृतिसाध्यत्वबलवदनिष्टाननुबन्धित्वरूपविध्यर्थत्रियवादिमते पदार्थत्रयबोधवत्पुष्पवन्तपदे पृथक्शक्तिकल्पनेन पदार्थद्वयबोधवदिहाप्यनेकार्थस्य बोधः, नत्वेतावता प्रवर्तनाशक्ततावच्छेदकं लिङ्त्वादिकम् - पूर्वन्यायेन तदुपस्थितिं विनापि बोधस्यानुभवसिद्धत्वात्॥ (आख्यातत्वशक्ततावच्छेदकत्वे भाट्टालङ्कारमतनिरूपणम्) यत्तु भाट्टलङ्कारकृता भावनाया धातुवाच्यत्वे अनेकवर्णसमुदायात्मकेषु धातुषु धातुत्वजातेरसंभवात्तत्तद्धातुत्वस्य शक्ततावच्छेदकत्वस्वीकारे गौरवापत्तेः यागदानादिशब्देभ्योऽपि तत्प्रतीत्यापत्तेः आख्यातान्तधातुवाच्यत्वस्वीकारे च लाघवादाख्यातवाचित्वेवाङ्गीकर्तुमुचितम् - आख्यातत्वं न तान् सदा बोधयन्ति, नाप्यकारादिपदोपस्थापिताः, श्रौतलिप्यन्यपदजन्योपस्थितेरेव तेषु शब्देषु तत्तदर्थबोधान्वयफलोपधानावच्छेदकत्वात्, तथाऽलः कर्मणीऽत्यादेर्वेदाङ्गान्तः पातित्वेन वैदिकपरिगृहीतपाणिनीयवचनत्वाच्च लत्वेन शक्तिग्रहे जातेऽपि तिबाद्यादेशजन्योपस्थितेरेव फलोपधानावच्छेदकत्वात्न स्वरूपेणोच्चारितात्शतृशानज्भ्यां स्वारिताद्वा लकारात्भावनाप्रतीत्यभावो दोषाय ॥ नच स्वयमशक्ताः शक्तशब्दान्तरस्वरणेन अर्थबोधनार्थं प्रयुक्ताः अशक्तिजत्वेन कैश्र्चिद्यवहृतास्तिबादयः कथं नाशक्तिजगाव्यादितुल्याः स्युरिति शङ्क्यम्, स्वसमभिव्याहारे स्वोपस्थित्यनपेक्षगवादिस्मरणेनार्थबोधकत्वेन गाव्यादीनामशक्तिजत्वरूपापभ्रंशत्वेप्यत्र तदसंभवात् । नहि गाव्यादिशब्दोपस्थितिमनपेक्ष्य गवादीनामिव तिबाद्युपस्थितिमनपेक्ष्य लकारस्यार्थबोधकत्वमस्ति । येन तद्वदेवाशक्तिजत्वं तिबादिषु वक्तुं शक्येत । यद्यप्यौकारस्यास्ति स्वातन्त्रेण बोधकत्वम् - तथापि तत्र स्वसमभिव्याहारे आदेशस्मारितस्यैव तस्य बोधकत्वात् । अतएव पूर्वोक्तापभ्रष्टत्वाभावे स्वसमभिव्याहारे स्वोपस्थित्यनपेक्षार्थंबोधकशब्दस्मरणं विनैवः यःशब्दो यमर्थं बोधयति स तत्र साधुरिति साधुत्वलक्षणसत्वात्गवादीनामिव तिबादीनां साधुत्वं निराबाधमिति लत्वमेव साधारणं भावनाशक्ततावच्छेदकम् । प्रवर्तनायास्तु असाधारणं लिङ्त्वं इत्युक्तम् ॥ (भाट्टदीपिका) तत्सर्वे तु तदर्थप्रवृत्त्यभावप्रयोजकत्वं संसर्ग इति विशेषः । प्रयोजकत्वं चात्र प्रवृत्तितदभावकारणीभूते (प्रभावली) (आख्यातत्वशक्ततावच्छेदकत्वपरभाट्टालङ्कारसिद्धान्तखण्डनम्) तन्न- अनेकवर्णसमूहात्मकधातुत्वजातौ प्रमाणाभावेन धातुत्वेन रूपेण भावनाया धात्ववाच्यत्ववत्लत्वस्याप्यनेकस्य जातिरूपत्वे मानाभावात्तद्वाच्यत्वस्याप्यनुपपत्तेः, आख्यातान्तधातुवाच्यत्वपक्षेऽपि लाघवादाख्यातवाच्यत्वापादनवत्तिबादिवाच्यत्वमेव युक्तमित्यापादनस्य भवन्मतेऽप्यापत्तेश्र्च । ऽलः कर्मणीऽ त्यादिसूत्रे दशानामपि लकाराणां लत्वेन संग्रहात्लत्वं नामाखण्डोपाधिरूपमस्तीति चेत्,ऽभूवादयो धातवऽ इत्यत्र भूवादीनामपि धातुत्वेन संग्रहात्तस्याप्यखण्डोपाधिरूपस्य धातुत्वस्य शक्ततावच्छेदकत्वस्वीकारे बाधकाभावेन तद्वाच्यत्वेऽपि बाधकाभावः । तिबाद्यादेशानामादेशिलकारोपस्थितिं प्रति कारणत्वकल्पनायाः भावनोपस्थितिं प्रति च तिबाद्यादेशगतानन्तशक्तिभ्रमाणां कारणत्वकल्पनायाश्र्च गौरवग्रस्तत्वेन तदपेक्षया भावनाद्युपस्थितिमात्रं प्रत्येव तेषां कारणत्वकल्पने लाघवाच्च, कर्तृकर्मादिरूपशक्यार्थनिरूपितत्वेन व्याकरणात्प्रतीयमानस्य लत्वे शक्ततावच्छेदकत्वस्यान्ततो गत्वा तवापि हेयत्वाच्च, लत्वरूपाख्यातत्वस्य भावनाशक्ततावच्छेदकत्वेऽलःकर्मणीऽत्युनशासनस्य प्रमाणत्वेनोपन्यसनस्य सकलपूर्वोत्तरग्रन्थविरुद्धत्वेनोपहासास्पदत्वाच्च, भवदुपपादितपूर्वोत्तापभ्रष्टत्वसाधुत्वलक्षणयोर्द्विरेफादिपदेषु अव्याप्त्यतिव्याप्तिदूषणग्रस्तत्वाच्च । अतो न लत्वं शक्ततावच्देदकम्, अपितु तत्तदादेशत्वमेव - तैरेवपचतिऽपाकं करोतीऽति विवरणे धात्वर्थव्यतिरिक्तत्वेन प्रतीयमानाया भावनायाः प्रतीतेः । साच यत्नार्थकेन व्यापारसामान्यार्थकेन वा करोतिना वित्रियमाणत्वाच्च यत्नरूपा व्यापारसामान्यरूपा वेति मतभेदो भाट्टरहस्यादौ द्रष्टव्यः ॥ (भावनाद्यंशे लडादीनां पृथक्शक्तिकल्पनानिरूपणमन्यलभ्यत्वोक्तेस् संसर्गाभिप्रायत्ववर्णनं च) नच प्रवर्तनाभावयोर्भिन्नशक्ततावच्छेदकाभावे कथमन्यलभ्यत्वोक्तिः पूज्यपादानाम् ? इति वाच्यम् - भावनाद्यंशे लडाद्यादेशानां पृथक्शक्तेरावश्यकत्वात्, तथैव पृथक्शक्त्या लिङादेशैरपि बोधसंभवात्, विशिष्टशक्तिकल्पने गौरवात्, प्रयोजकत्वादिसंसर्गाभिप्रायेणैवान्यलभ्यत्वस्योपपादनीयत्वात् । अन्यथा तिबाद्यादेशोपस्थापितस्येव लिङादेर्लिङ्त्वांशे प्रवर्तनावाचित्वं, तेषामेवादेशविशेषाणां साक्षात्भावनावाचित्वमित्येव वैषम्येणान्यलभ्यत्वोपपादने प्रवर्तनावदैकरूप्येणैव सर्वत्रैवादोपस्थापितलत्वं शक्ततावच्छेदकीकृत्य भावनावाच्यत्वोपपत्तेर्गुरुभूतत्वेन लत्वस्य शक्ततावच्छेदकत्वदूषणेन आदेशविशेषाणामेव भाट्टरहस्यादौ अत्र च भावार्थाधिकरणे स्थापितस्य शक्ततावच्छेदकत्वस्य निर्युक्तिकत्वापत्तेः । अतो लडादिसाधारणशक्तयन्तरेणैव तल्लाभे न प्रवृत्तिप्रयोजकव्यापारत्वं गुरुभूतं शक्यतावच्छेदकमङ्गीकृत्य विशिष्टार्थे शक्तिकल्पनं युक्तमित्येवंविधया संसर्गांश एव अन्यलभ्यत्वोपपादनं युक्तम् ॥ (आख्यातार्थप्रवृत्तिप्रयोजकत्वं संसर्ग इति भाट्टदीपिकावाक्यस्य भावनामुख्यविशेष्यत्वेनाविरोधोपादनम्) संसर्ग इति । इदञ्च संसर्गोपपादनं लिङर्थस्येच्छादेः कालादेश्र्चैककार्यकारणभावानुरोधेन प्रवृत्तावेव स्वविषयज्ञानजन्यानुमितिजन्यत्वतादृशज्ञानजन्यानुमिति प्रयोज्याभावप्रतियोगित्वसंसर्गेण प्रकारतयान्वयस्य मूलकृता तत्र तत्रोपपादितत्वात्समानसंवित्संवेद्यत्वेन यत्प्रवर्तनादिरूपार्थे प्रवृत्तिनिवृत्तिप्रयोजकत्वमर्थात्संसर्गविधयागतं तदादाय ज्ञेयम्, नत्वेतावता प्रवृत्तिं प्रति प्रवर्तनाया विशेष्यत्वे तात्पर्यं पूज्यपादानाम् ॥ (भावनामुख्यविशेष्यत्वव्यवस्थापनम्) "भावप्रधानमाख्यात" मिति स्मृत्या अनेकेष्वाख्यार्थेषु मध्ये कस्य प्रधान्यमित्यपेक्षायां परिसंख्यार्थे प्रवृत्तया भावनाविशेष्यत्वस्यैव लडादिसाधारणस्यैककार्यकारणभावलाघवसहकारेण प्रतीतेस्तद्विशेष्यत्वस्यैव युक्ततमत्वात्, करणफलनिरूपितप्रवृत्तिविशेष्यत्वे उपस्थित एव प्रवर्तनानिरूपितत्वमात्रकल्पने लाघवाच्च । यथाहुः ऽप्रत्ययार्थं सह ब्रूतः प्रकृतिप्रत्ययौ यदा । प्राधान्यात्भावना तेन प्रत्ययार्थोऽवगम्यते । तथा क्रमवतोर्नित्यं प्रकृतिप्रत्ययांशयोः । प्रत्ययश्रुतिवेलायां भावनात्मावगम्यतेऽ इति ॥ (प्रवर्तनामुख्यविशेष्यत्वमतोपपादनम्) यत्तु अत्र भाट्टालङ्कारकृता प्रकृतेर्लिङाद्यर्थे प्रकारत्वेनान्वयार्थं लिङ्त्वावच्छिन्नशक्तिविषयतवमेव प्रवर्तनावदावश्यकम् - अन्यथा आख्यातत्वावच्छिन्नशक्तिविषयत्वे लडादिष्विव तस्याः प्राधान्यापत्तिरिति मतमुपपाद्य एकप्रत्यये द्विर्भावनाभिधानेऽतिगौरवात्सर्वाख्यातेषु धात्वर्थनिरूपितभावनाप्राधान्यकथनेन स्मृत्युपपत्तेःनिरपेक्षशक्यताशालिन्योर्विधिभावनायोर्युगपदेकशब्दो पस्थापितयोस्संख्याकारकन्यायेनैकविशेष्यत्वेऽवश्यवाच्ये मूलोपन्यस्तप्रतीतिमनुसृत्याख्यातार्थस्य लिङर्थं प्रति प्रकारत्वौचित्याच्च । नहि पुष्पवन्तादिपदं प्रति सूर्याचन्द्रमसोरिव मिलितयोर्विधिभावनयोः शक्यतेति वक्तुं शक्यम् - लडादिषु भावनाया अप्रतीतिप्रसक्तेः । नाप्यनेकार्थाक्षादिपदमिवोभयप्रत्ययं प्रत्ययः क्रमेण जनयति । नाप्येकशेषवल्लुप्तानेकशब्दसहितः, येन तत्तद्दृष्टान्तेन अन्विताभिधानं तयोः प्रसज्येतेति दूषितम् ॥ (भाट्टदीपिका) ष्टानिष्टसाधनताज्ञानजनकज्ञानविषयत्वम् । अभावकारणता च योगक्षेमसाधरणी । तत्त्वं च प्रवृत्तिसामग्रीविघटकत्वमित्यन्यत्र विस्तरः । (प्रभावली) (प्रवर्तनामुख्यविशेष्यत्वखण्डनम्) तदयुक्तम्, एकप्रत्यनेन शक्ततावच्छेदकभेदेन द्विरभिधानस्येव शक्ततावच्छेदकैक्येऽपि द्विरभिधापने बाधकाभावात्, प्रत्युतैकैकादेशेभ्यः समकालप्रतीयमानानेकार्थानां तत्तत्स्थानिगतलत्वैकवचनत्वाद्यनेकोपस्थितिसापेक्षत्व कल्पने तत्तत्कार्यकारणभावकल्पनागौरवस्य भवन्मत एवापत्तेः । लट्त्वस्यापि जातिरूपतवासंभवेनान्ततो गत्वा लडादिदशकान्यतमत्वस्यैव वक्तव्यत्वाद्वर्तमानकालदिबोधार्थं तिबाद्यादेशैर्लट्त्वेन रूपेण लडुपस्थितेरावश्यकत्वेन तत एव भावनोपस्थितेरपि अनुभवसिद्धाया अवर्जनीयत्वात्, तदतिरिक्तलत्वस्य शक्ततावच्छेदकत्वकल्पन एव अतिगौरवापाताच्च, केवलं प्रयुक्तेभ्यो दिवाकरनिशाकरादिशब्देभ्यः परस्परनिरपेक्षतया तत्तदर्थप्रतीत्या पृथगर्थवाचित्वेऽपि पुष्पवच्छब्दान्मिलितयोस्तयोरर्थयोः प्रतीत्या मिलितार्थवाचित्वस्य तच्छब्द इव लडादिषु केवलं भावनाप्रतीतावपि लिङादिषूभयार्थस्यैव प्रतीत्या लिङादिष्वपि तादृशार्थवाचित्वस्य कल्पने बाधकाभावाच्च, एकशक्ततावच्छेदकावच्छिन्नेनैव लिङा बलवदनिष्टानुबन्धित्वेष्टसाधनत्वकृतिसाध्यत्वादि रूपार्थानां प्रत्येकमभिधानस्य तार्किकादिभिः स्वीकाराच्च, धात्वर्थनिरूपितप्राधान्यमादाय भावप्रधानमितिस्मृत्युपपादने तादृशार्थस्य सुबर्थवत्ऽप्रकृतिप्रत्ययौ प्रत्ययार्थं सह ब्रूतः तयोस्तु प्रत्ययः प्राधान्येनऽति स्मृत्यैव सिद्धत्वेन विशेषत आख्यातपुरस्कारेण भावनाप्राधान्यकथने स्मृत्यनतरस्य वैयर्थ्यापत्तेश्र्च, मत्प्रवृत्त्यनुकूलव्यापारवानयमितिवदाचार्यनिष्ठव्यापारजन्यप्रवृत्तिमानहमिति प्रतीतेरपि प्रवर्तनासाधकतया मूलप्रतीत्यविशेषात्तदनुरोधेन प्रवर्तनासाधकतया मूलप्रतीत्यविशेषात्तदनुरोधेन प्रवृत्तिविशेषणकप्रवर्तनाबोधमात्रेण प्रवर्तनाविशेष्यत्वकल्पनायां मानाभावाच्च । अतः स्वसमभिव्याहारसाधारण्येन कॢप्तकार्यकारणभावानुरोधेनान्यत्र कॢप्तं भावनाविशेष्यत्वमेव युक्तमिति प्रवर्तनैव विशेषणं तस्याम् । ततश्र्च प्रवर्तनायाः स्वविषयकज्ञानजन्यानुमितिजन्यत्वतादृशानुमितिप्रयोज्याभाव प्रतियोगित्वसंबन्धाभ्यां नञस्सत्वेऽसत्वेवा क्रमेण प्रवृत्तावेवान्वयः । स्वपदञ्च लिङर्थपरम् । तद्धटकानुमितिप्रकारस्तु भाट्टरहस्यादौ द्रष्टव्यो विस्तरभयान्नोच्यते । प्रयोजकत्वं चात्रेत्यादिना मूलेर्ऽथसिद्धं प्रवर्तनाप्रयोजकत्वमादायान्यलभ्यत्वोपपादनं कृतम्, नतु तात्पर्यविषयीभूतशब्दबोधोपयोगित्वेन तत्कथनमिति दिक् ॥ योगक्षेमेति. । अलब्धकाभो योगः । लब्धस्य परिपालनं क्षेमः । तथाच अनिष्टसाधनत्वानुमित्या लब्धप्रवृत्तिसामग्रीविघटनं प्रापय्य तेन सिद्धप्रवृत्त्यभावरक्षणं क्रियत इत्येवमभावकारणत्वमित्यर्थः । यदातु भाट्टसोमेश्र्वरमतेन मयैतत्कर्तव्यमिति संकल्पात्मिका भावनातो भिन्नैव प्रवृत्तिः, तद्वारेणैव भावनाया विधिभाव्यत्वमिति स्वीक्रियतेश्तदा तस्या आख्यातान्तरेष्वप्रतीतिः, एवमेवोक्तं भावनाविवेके महामुद्गलभट्टैः । यदि लिङैव तत्र पृथक्शक्तिकल्पनेऽपि आख्यातार्थभावनायां स्वर्गादिभाव्यस्येव प्रवर्तनाभाव्यात्मनोऽस्तु विशेषणत्वं प्रवर्तनां प्रतीति, अस्तु तदान्यलभ्यत्वम् । (निषद्धस्थले निवर्तनाप्रतीतिप्रकाराणां निरूपणम्) ननु प्रवृत्तेराख्यातवाच्यत्वेनान्यलभ्यत्वेपि निवृत्तेरन्यत्राप्रतीतेः तदंशे लिङादेः शक्तिकल्पनमावश्यकमिति कथमन्यलभ्यत्वमित्याशङ्कानिराकरणायाह तत्त्वञ्चेति । अयमर्थः ऽन कलञ्जं भक्षयेत्ऽ इत्यादौ तावत्श्रुतो लिङादिः न प्रवर्तनावत्निवर्तनामभिधत्ते, किन्तु नञो द्योतकत्वात्नञ्समभिव्याहृत एव । तथाच नञः तात्पर्यग्राहकस्य सत्व एव निवर्तनायां शक्तिः । अथवा व्यापारत्वेन प्रवर्तनानिवर्तनोभयसाधारण्येन व्यापारमात्रे लिङ्शक्तिः । नञ्प्रवृत्त्यभावप्रयोजकत्वरूपतत्संसर्गविशेषतात्पर्यग्राहकः । अथवा प्रवर्तनात्वेन प्रवर्तनायामेव शक्तिः । नञ्समभिव्याहारे निवर्तनायां लक्षणा द्रष्टव्या । तथाच कलञ्जभक्षणप्रवृत्तिमाख्यातार्थभावनारूपां रागतः प्राप्तामुद्दिश्य लिङा तन्निवृत्तिरूपव्यापारफलकव्यापाररूपनिवर्तना विधीयते । शुद्धप्रवृत्तेश्र्चोद्देश्यत्वासंभवाथविरार्तिन्यायेन धात्वर्थकारकादीनामुद्देश्यानतर्गत्या कृतिविशेषणत्वस्य व्युत्पत्तिसिद्धत्वाद्वा विवक्षायामपि कर्तृकर्मादिकारकनिष्ठलिङ्गसंख्यादिविशेषणानामविवक्षोद्देश्यविशेषण त्वादुपपन्ना ॥ (नञोनिवर्तनाबोधकत्वमततदेकदेशिनोः खण्डनम्) यत्तु कैश्र्चिन्नञोऽभाववाचकस्यापि लिङादिसमभिव्याहारे सति निवर्तनावाचित्वम्, नतु लिङः - प्रवर्तनावाचित्वेन कॢप्तस्य तत्रापि शक्तिकल्पने गौरवात् । तथाच रागाद्यर्थप्राप्तां कलञ्जभक्षणप्रवर्तनां लिङादिनोद्दिश्य नञा निवर्तना विधीयत इति वाक्यार्थवर्णनं कृतम्, तत्न - रागादिनिष्ठप्रवर्तनावाचित्वस्य लोके वेदे वाकॢप्तत्वेनानुवादायोगात्स्वनिष्ठप्रवर्तनायाश्र्चाप्राप्तत्वेन लिङादिना अननुवादातृ विधानेच वाक्यभेदविकल्पाद्यात्तेः । एतेन भक्षणगतेष्टसाधनताया अनिष्टानुबन्धित्वेन गृहीतायाः प्रवर्तनात्वभ्रमे सति लिङा तामनूद्य तस्या निषेधो बोध्यते, यदन्नभोजनादाविवकलञ्जभक्षणेऽपि इष्टहेतुत्वं प्रवर्तकत्वेन ज्ञातं तन्न, कलञ्जभक्षणप्राप्येष्टस्यानिष्टानुबन्धित्वादिति वाक्यार्थवण । नं भाट्टालङ्कारकृतोक्तम् अपास्तम् - मीमांसकमते भक्षणगतेष्टसा धनत्वरूपप्रवर्तनायाः लिङादिभ्यः शक्तिग्रहाभावे कथमप्यप्रतीतेरतिरिक्तशक्तिकल्पने गौरवापत्तेः । अतः पूर्वोक्त एव वाक्यार्थो युक्तः । तेन च निषेधेन निवर्तनाबोधे सति प्रवर्तनाविषयत्वेन अनिष्टजनकत्वस्यापि भाट्टरहस्योपपादितरीत्यानुमित्या भाने च सति बलवदनिष्टानुबन्धित्वज्ञानरूपप्रवृत्तिप्रतिबन्धकज्ञानसंपादनद्वारा तादृशप्रतिबन्धकाभावरूपप्रवृत्तिसामग्रीविघटनेन यत्रापि इष्टसाधनत्वभावानुमितिः तत्र पूर्वगृहीतेष्टसाधनताज्ञाने प्रामाण्यनिश्र्चायकतया प्रवृत्तिसामग्रीविघटनेन च यः प्रवृत्त्यभावः, तत्प्रतियोगित्वं प्रवृत्तौ बुद्यते । तथाच निवर्तनायाः प्रवृत्तावन्वये स्वविषयकज्ञानजन्यानुमितिप्रयोज्याभावप्रतियोगित्वसंसर्गस्य संसर्गविधया भाने यः प्रवृत्त्यभावः तद्धटकस्य एव निवृत्तिपदार्थो, येनान्यलभ्यत्वं न स्यादिति ॥ (भाट्टदीपिका) स च लिङाद्यर्थो विधिवाक्ये प्रवर्तनाप्रेरणाविध्यपरपर्यायः, निषेधवाक्ये च निवर्तनानिवारणानिषेधप्रतिषेधापर पर्यायः । इयं च द्विविधापि शाब्दी भावना । तस्याश्च भाव्यं यथायोगं प्रवृत्तिनिवृत्ती । शाब्दभावनाज्ञानं करणम् । करणत्वं चात्र भावनाभाव्यनिष्पादकत्वम् । इति (प्रभावली) (प्रेषणाध्येषणानुज्ञास्वरूपविवेचनम्) लिङाद्यर्थप्रवर्तना हि उत्कृष्टस्य निकृष्टं प्रति, सा आज्ञा प्रेषणा इति वोच्यते । निकृष्टस्योत्कृष्टं प्रति सा अध्येषणा, समस्य समं प्रति उत्कर्षापकर्षौदासीन्येन सा अनुज्ञा अनुमितिरितिच व्यवह्रियते । एतादृशविशेषस्य प्रकृतानुपयोगात्तंविशेषमपहाय उपयुक्तं भेदव्यवहारं दर्शयति सचेति । शाब्दीभावनेति ॥ (शाब्दीभावनांशत्रयापेक्षानिरूपणम्) वेदगतविधिनिषेधवाक्येषु अलौकिकधर्मरूपायास्तस्याः लिङादिशब्दनिष्ठत्वात्यद्यपि यजेतेत्यादिविधिषु निषेधेषु च उभयविधाया अपि शब्दभावनायाः तद्विषयकप्रवर्तनान्तराभावेन न कर्तव्यताप्रतीतिः, येनार्थभावनाया इव करणेतिकर्तव्यतयोः भाव्यस्य चापेक्षयान्वयः तेषामुच्येत- तथापि अधीतो वेदः पुरुषस्य यादृशमुपकारं कर्तुं शक्नुयात्तमुपकारं कुर्यादित्यध्ययनविधितोऽवगमेन तद्वेदभागशक्त्यालोचनायां विधिनिषेधांशे तावदीदृश्यवगतिर्भवति पुङ्कर्तृकाध्ययनविषयीकृतो यजेतेत्यादिलिङ्प्रत्ययःय स्वयमेवाख्यातांशे संबन्धस्मरणेन विज्ञानेन वा करणेनेष्टसाधनविशिष्टार्थभावनारूपवाक्यार्थज्ञानं कृत्वा पुंप्रवृत्तिं कुर्युरिति । यदपि वार्तिके एतदधिकरणे अध्ययनसंस्कृतलिङो विधिज्ञानेने इष्टसाधनतयार्ऽथं ज्ञापयेयुरित्यर्थप्रदर्शनं कृतम्, सा प्रवृत्तिपर्यन्तज्ञापनारूपायाः प्रवर्तनायाः भाव्ये साधने प्राशस्त्येचापेक्षाया अभावात्तस्यामेव तदुपयोगात्तत्पर्यन्तोक्तिः । तत्र केन कथं किमुद्दिश्य प्रवर्तना निवर्तनाच कर्तव्येत्येवमंशत्रवैशिष्ट्येन बोधितशब्दभावनाकर्तव्यतापेक्षांशत्रयसमर्पणाथ्रमुच्यमानांशत्रयमध्ये प्रकृते इतिकर्तव्यतात्वेन अपेक्षितं प्राशस्त्यं निरूपयितुं भाव्यकरणे अनुवदति तस्याश्र्चेति । समानाभिधानश्रुत्यवगतभावनाया एव भाव्यत्वं युक्तमिति भावः ॥ (शाब्दभावनाकरणत्वंनार्थवत्तया ज्ञातशब्दस्य किन्तु प्रवर्तनाज्ञानस्येति निरूपणम्) अत्र पुरुषप्रवृत्तिवाचकशक्तिमत्तया ज्ञातस्य विधिशब्दस्य करणत्वम्, सर्वलिङ्जन्यज्ञानानामादिभूतमुपजीव्यं यदयं लिङ्प्रवर्तनाभिधायीति संबन्धज्ञानं तदेव करणमिति मतभेदनिरासाय शब्दतदर्थसंबन्धानां प्रवृत्तिं प्रति कारणत्वाभावात्विप्रकृष्टशब्दाद्यपेक्षया प्रत्यासननार्थज्ञानस्यैव करणत्वं युक्तमित्यर्थः । तादृशज्ञानस्य प्रवर्तनां प्रति स्वतः करणत्वासंभवेऽपि यागादेरर्थभावनायां स्वभाव्यस्वर्गादिस्वरूपनिष्पादकत्वेन पारिभाषितकरणत्वस्येवेहापि तथैव ग्राह्यत्वमित्याह करणत्वञ्चेति । भावना शाब्दीभावना, तस्या भाव्यं पुरुषप्रवृत्तिः तन्निष्पादकत्वमित्यर्थः ॥ (प्राशस्त्यज्ञानादेर्वृत्त्यानुपस्थितस्यापि शाब्दबोधविषयत्वमतम्) अत्र च करणेतिकर्तव्यतयोः विधिनिषेधज्ञानप्राशस्त्याप्राशस्त्ययोरपि शाब्दबोधे अन्वय इत्येवं केचिद्वर्णयन्ति ॥ विधिशब्दस्तावत्श्रवणेनोपस्थापितः । तस्य पुरुषप्रवृत्तिवाचकशक्तिरपि स्मरणेनोपस्थापिता । तदुभयनिष्ठज्ञातता च मनसेति तन्निष्ठवाचकशक्तिमत्तया ज्ञातो विधिशब्द उपस्थापित एव । अनेन च यच्छक्नुयात्तद्भावयेदिति स्वाध्यायविधितात्पर्यात्शब्दातिरिक्तेनोपस्थापितमपि शाब्दबोधे भासत एव । यथा ज्योतिष्ठोमादिनामधेयम् । यथा वा लिङ्गविनियोज्यो मन्त्रः । तदुक्तमाचार्यैरुद्..भिदधिकरणे (?) अनुपस्थितविशेषणा विशिष्टे बुद्धिर्न भवति, नत्वनभिहितविशेषणेति । एवमर्थवादानामुपस्थितिः श्रोत्रेण प्राशस्त्यस्य तु तैरेव लक्षणया तदुभयनिष्ठज्ञाततायास्तु मनसेत्यर्थवादैः प्रशस्तत्वेन ज्ञात्वेतीतिकर्तव्यतान्वयोऽपि उपपन्न एवेति ॥ (करणस्यानन्वयः इतिकर्तव्यतायास्त्वन्वय इति स्वसिद्धान्तः) वस्तुतस्तु वृत्त्योपस्थापितार्थस्येव परपदार्थान्वयबलादेव सर्वत्रोहादिषु पदकल्पनायाः स्वीकारादशाब्दस्यान्वयानुपपत्तेः करणस्य करणत्वेन व्यवहारमात्रम्, नत्वन्यत्र यप्रकारतया तस्यान्वयः । एवं प्राशस्त्याप्राशस्त्ययोरेवार्थवादादिलक्षितयोर्वृत्युपस्थापितत्वादन्यत्र ज्ञानद्वारान्वयः, तथाच प्राशस्त्याप्राशस्त्ये एव स्वरूपेणेतिकर्तव्यतेत्यभिप्रायेणाह स्तुतिनिन्देति । ननु विधित एव समीहितसाधनताज्ञानात्प्रवृत्तिसिद्धेर्निषेधत एव अनिष्टसाधनताज्ञानान्निवृत्तिसिद्धेः प्राशस्त्याप्राशस्त्योः क्वोपयोगः ? तथाच आभ्यामेवैतदुभयसिद्धेस्तदुभयवैयर्थ्यमित्यह आह स्तुतिनिन्दाज्ञानस्यहीति ॥ (भाट्टदीपिका) कर्तव्यता च यथायोगं स्तुतिनिन्दे । स्तुतिनिन्दाज्ञानस्य हि प्रवृत्तिनिवृत्तिप्रयोजकसहकारित्वं रुच्यरुच्युत्पादनद्वारा लोकसिद्धम् । स्तुतिनिन्दापदवाच्ये प्राशस्त्याप्राशस्त्यापरपर्याये बलवदनिष्टाननुबन्धित्वानुबन्धित्वयोग्य१ वरूपे । ते च यथायोगं (प्रभावली) (स्तुतिनिन्दयोर्ज्ञानद्वारा प्रवृत्त्युपयोगनिरूपणम्) "इयं गौः क्रेतव्ये"त्यतः समीहिसाधनतावगत्या प्ररोचितेऽपि गोक्रये व्ययायासदर्शनात्प्रवृत्तिप्रतिषेधकामस्य पुंसस्ततो भवति स्थगितता । बहुक्षीरादिगुणकथनेन तु सा निवर्तते इत्यनुभूयमानस्थगिततानिवृत्तिजननद्वारा तज्ज्ञानस्योपयोगः । तदुक्तम् ऽनहि तत्करणं लोके वेदे वा किञ्चिदीदृशम् । इतिकर्तव्यतासाध्ये यस्य नानुग्रहार्थिताऽ इति ॥ एवञ्च विधिनिषेधाभ्यां प्रवृत्तिनिवृत्त्योर्जनने सहकारीदमुभयमिति न तयोर्वैयर्थ्यमिति भावः । यत्ज्ञानं रुच्यरुच्युत्पादनद्वारा प्रवृत्तिनिवृत्त्युपयोगि, तज्ज्ञानविषयं दुर्निरूपमित्युक्तम् । तत्परिहारार्थं परैर्निरुक्तं प्राशस्त्यमप्राशस्त्यं च न संभवतीति द्योतयन् स्वयं तत्स्वरूपनिर्वचनव्याजेनाह बलवदनिष्टेत्यादिना । विधिनिषेधाभ्यां हि इष्टानिष्टसाधनत्वाक्षेपात्प्रवर्त्यनिवर्त्ययोः प्रवृत्तिनिवृत्तिहेतुभूतेष्टानिषोत्पत्तावपि तात्कालिकेष्टानिष्टसाधनत्वस्यापि प्रत्यक्षेणावगमात्द्वेषोत्साहसंभवेन प्रवृत्तिवृत्त्यभावप्रसंगात्तदपनायकापेक्षायां लोके तदपनयशक्तित्वेन बहुक्षीरा सदपत्या जीवद्वत्सा, अत इयं गौः क्रय्येति समभिव्याहारेऽवगतस्य स्तुतिनिन्दाज्ञानस्यानुग्राहकत्वंपरिकल्प्रूते, स्तुतिनिन्दयोश्र्च रुचिद्वेषोत्पादकत्वं प्रत्यक्षसिद्धम् । तयोश्र्च प्रतिपादकापेक्षायां फलादिप्रतिपादकत्वेन च निवृत्तापेक्षाणां फलपदघटितपदादीनां तत्कल्पने गौरवापत्तेः तदपेक्षया यप्रयोजनापेक्षिणामर्थवादानामेव तल्लक्षकत्वं कल्प्यते । स्तुतिनिन्दे एवच प्राशस्त्याप्राशस्त्यापरपर्याये ॥ (गुणदोषयोः प्राशस्त्याप्राशस्त्यरूपत्वनिरूपणम्) तच्च गुणवत्त्वं दोषवत्त्वं च । यथाच ज्ञानजननस्वभावे शब्दे ज्ञानगतयाथार्थ्यात्मकातिशयप्रयोजकाप्तोच्चरितत्वादिधर्मः परैर्गुण इत्युच्यते, एवं फलगतक्षिप्रत्वाद्यतिशये प्रयोजकं विधेयगामि क्षिप्रदेवताकत्वादि गुणपदेन विवक्षितम् । तेनैव रूपेण तं तं गुणं विधेयगामिनमर्थवादो बोधयति । शक्यते च वक्तुमुदुम्बरतवपर्णतादिविशिष्टं काष्ठं पापश्र्लोकाश्रवणादिविशिष्टं क्रतुफलं जनयतीत्येवं केचिदाहुः ॥ (पूर्वमतखण्डनम्). तदयुक्तम् - तथात्वे तादृशगुणानां शक्त्यैव प्रतिपादनात्लाक्षणिकत्वानुपपत्तेः,ऽएतानि वै दश यज्ञायुधानिऽ "एकं वृणीते" इत्याद्यर्थवादेषु तादृशगुणासंभवाच्च ॥ (प्रकारान्तरेण गुणदोषयोः प्राशस्त्याप्राशस्त्रूपत्वव्यवस्थापनम्) केचित्तु गुणत्वं प्रवृत्तिप्रतिबन्धकद्वेषालस्यभङ्गहेतुज्ञानविषयत्वं, दोषत्वमपि निवृत्तिप्रतिबनधकरागभङ्गहेतुज्ञानविषयत्वम्, एतच्चानुगमकमात्रम् । ज्ञाने विषयता तत्तद्भङ्गहेतुताप्रयोजकत्वन्तु प्रत्यर्थवादं तेन तेनैव रूपेण । अतएव तेषामनुष्ठातृगतताप्यपेक्ष्यते- तादर्थ्येन ज्ञातानामतथात्वाभावात् । तथा यस्य यदा यज्ज्ञानार्थं प्रवृत्तिः निवृत्तिर्वा, तं प्रति पदा तस्य गुणत्वं दोषत्वं च व्यवस्थितं द्रष्टव्यम् । तेन श्येनादिषु विधिनिषेधयोरुभयोरपि शेषभूतानामर्थवादानां च प्रामाण्यम् । तस्मात्तत्तदर्थवादप्रतिपाद्यानां गुणदोषाणामेव प्राशस्त्याप्राशस्त्सयरूपत्वम् । यथार्थगुणदोषज्ञानस्यैव च यथार्थप्रवृत्तिनिवृत्तिहेतुत्वादर्थवादैः श्रुत्या प्रतिपादितानां चापापश्र्लोकश्रवणसंवत्सरपर्यन्तरोदनादीनां प्रमाणाभावेनावास्तवत्वात्वास्तवगुणदोषप्रतिपादनार्थं लक्षणोपासनम् । नच एवं प्रकृतार्थवादे भूतिगमकत्वस्य यजमानगोचरत्वात्वास्तवत्वाच्च श्रौततज्ज्ञानादेव प्रवृत्तिसिद्धेः क्षिप्रत्वांशानुपयोगात्व्यर्थं तदुपासनमिति वाच्यम् - वायुपेक्षिष्ठत्वोक्त्या क्षिप्रत्वविशिष्टे तत्र तात्पर्यात । अन्यथा श्रौते अर्थेऽनुपयोगात्तदानर्थक्यापत्तेःतत्प्रतीत्यर्थं लक्षणापेक्षणम् । इयांस्तु विशेषः अत्र तस्येव अतिशयमात्रं लक्ष्यम्, अन्यत्र तु वास्तवं गुणान्तरमेव इत्याहुः ॥ (यथार्थगुणदोषज्ञानस्य प्राशस्त्याप्राशस्त्यज्ञज्ञनरूपत्वाभवसमर्थनम्) अत्रेदमवधेयम् यथार्थगुणदोषज्ञानस्यैव यथार्थप्रवृत्तिनिवृत्तिहेतुत्वे वायुर्वैक्षेपिष्ठेत्याद्यर्थवादलक्ष्यफलगतक्षि प्रत्वरूपातिशयज्ञानस्यापि यथार्थत्वाभावात्कथं प्रवृत्त्युपयोगित्वम् ? नहि जुह्वां पर्णतानुष्ठाने पापश्र्लोकाश्रवणादेः तत्कालमनुत्पद्यमानत्वेन तद्विषयकशक्यार्थज्ञानस्य अयथार्थत्ववदिहापि कर्मकरणाव्यवधानेन क्षिप्रं भूतिफलानुत्पत्तौ अर्थवादलक्ष्यस्यापि तदतिशयज्ञानस्य संभवद्यथार्थत्वं नास्तीति वक्तुं शक्यते- जन्मान्तरे तादृशफलोत्पत्तेरुभयत्र तुल्यत्वात् । किञ्च भ्रमात्मकबलवदनिष्टाननुबन्धित्वादिज्ञानादपि यथार्थप्रवृत्तेरानुभविकत्वस्य सर्वसंप्रतिपन्नत्वेन यथार्थज्ञानस्यैव यथार्थप्रवृत्तिं प्रति कारणत्वं तु दुरुपपादमेव । तथात्वेऽपि वा यतः कारणस्य प्रायेण स्वधर्मानुरूपधर्माधायकत्वं दृष्टमिति कर्मसाधनीभूतस्य वायोः क्षिप्रकारित्वात्तत्साध्यस्य कर्मणोऽपि क्षिप्रकारित्वमतोऽयं प्रशस्तो यागः कार्यः इत्यादिप्रतीत्यनुरोधेन क्षिप्रत्वरूपकालगतातिशयापेक्षया अन्यस्यैव प्राशस्त्यस्य प्रवृत्तिहेतुत्वमपापश्र्लोकश्रवणातिरिक्तस्य प्राशस्त्यस्यैव प्रतीयते । किञ्च यज्ज्ञानात्प्रवृत्तिप्रतिबन्धकाऽलस्यनिवृत्तिः, तज्ज्ञानविषयगुणानामनन्तानां प्रतिपुरुषमालस्यभेदेन भिन्नतयैकरूप्याभावे नियमतः तदर्थलक्षणासंभवेनार्थवादानां पदैकवाक्यतानुपपत्तिः स्फुटैव ॥ (१) टिप्पणी स्वतःकर्मानुष्ठाने तन्निवृत्तौ चोत्पन्नरुचिके पुरुषे रुच्युत्पादकत्वस्य फलोपहितस्याभावाद्योग्यत्वदलम्. (प्रभावली) (क्रियाजन्यदुःखसुखाधिकेष्टानिष्टसाधनत्वस्य प्राशस्त्याप्राशस्त्यरूपत्वम्) अत उक्तविधं प्राशस्त्यमप्राशस्त्यं च न संभवतीत्यभिप्रायेणैव केचिदेवमाहुः । क्रियाजन्यदुःखापेक्षयाधिकेष्टसाधनत्वं प्राशस्त्यम् । तज्जन्यमर्थोऽन्यतस्सिद्धः- विधिनिषेधाभ्यामिष्टानिष्टसाधनत्वमात्रस्यैवाक्षेपात् । अतएव यत्र नार्थवादः पठितः, तत्र विधिना तदाक्षिप्यत एव । यद्यप्येतादृशप्राशस्त्याप्राशस्त्यज्ञानस्य नान्वयव्यतिरेकविधया प्रवृत्तिनिवृत्तिकारणत्वसंभवः- तथापि तज्ज्ञानस्य रुच्रूरुच्युत्पादनद्वारा प्रवृत्तिनिवृत्त्योरुपयोगमात्रत्वमस्त्येव इति ॥ (पूर्वोक्तमतखण्डनम्) तदपि न -ऽहुतायां वपायां दीक्षितस्यान्नमश्रीयात्ऽऽनातिरात्रे षोडशिनं गृह्नातिऽ इत्यभ्यनुज्ञाविधिनिषेधार्थवादेषु विधिनिषेधावगतसुखदुःखापेक्षया तृप्तिदुःखयोराधिक्यस्य वक्तुमशक्यत्वेनैकरूप्येण तस्य निर्वक्तुमशक्यत्वात् । नहि तात्कालिकदुःखापेक्षया अभिचारफलाधिक्यं बोधनीयम्,तदाऽनहिंस्यादिऽति निषेधेनानिष्टजनकत्वस्य तत्र बोधने प्रवृत्तिप्रतिबन्धकसामग्रीसत्वेन प्रवृत्तेरसंभवात्तज्ज्ञानस्य कथं तदुपयोगित्वम् ? नवा श्येनप्रयोज्यनरकादिदुःखापेक्षया तदाधिक्यबोधनम् - तदपेक्षयापिऽनहिंस्यादिऽति निषेधेन नरकादावाधिक्यस्य बोधितत्वात् । अतो नोक्तविधमपि तद्वयम्, किन्तु बलवदनिष्टाननुबन्धित्वं प्राशस्त्यं तज्जनकत्वमप्राशस्त्यमित्येव दीक्षितमधुसूदनस्वामिसंमतं तल्लक्षणं युक्तम् ॥ (इष्टानिष्टयोर्बलवत्त्वयोत्कटरागद्वेषविषयत्वरूपत्वनिर्वचनेन पूर्वोक्तसर्वदोषनिराकरणम्) अत्रानिष्टे बलवत्त्वमुत्कटद्वेषविषयत्त्वम्, नत्वाधिक्यम्- स्वर्गन्यूने तात्कालिकदुःखे प्राचीनकर्मवशेनोत्कटद्वेषोदयात् । अतएव नैव तदा यागादौ प्रवर्तते- नरकन्यूनेपि च तात्कालिके सुखे प्राचीनकर्मवशेनोत्कटरागोदयात् । अतएव ह्यभिचारादौ प्रवर्तत एव । अत एव यागादौ कदाचिदेव प्राचीनशुभकर्मवशात्बलवदनिष्टाननुबन्धित्वम्, निषेधेषु तज्जनकत्वमिति बलवदनिष्टाननुबन्धित्वयोग्यत्वं प्राशस्त्यम्, तज्जनकत्वयोग्यत्वमप्राशस्त्यं चैकरूपं सर्वत्र । तज्ज्ञानस्यच येन पुरुषेण सर्वदा यागादौ बलवदनिष्टाननुबन्धित्वं बुद्धं तं प्रतितद्वृत्तिज्ञानाप्रामाण्यसंपादकतया प्रवृत्तावुपयोगः - अप्रामाण्यज्ञानानास्कन्दितबलवदन्श्टि..अननुबन्धित्वज्ञानस्य (?) प्रवृत्तिप्रतिबन्धकत्वात् । यत्र उभयत्रापि स्वत एव विधिनिषेधावगतिमात्रेणोभयविधज्ञानाभावः, तत्र प्रतिबन्धकस्यैवाभावात्तज्ज्ञानस्यानुपयोगेऽपि पुरुषविशेषं प्रत्येव तदुपयोगमात्रेणार्थवादप्रामाण्यमुपपद्यत एव । अतएव प्रतिबन्धकसत्वे तदभावसंपादकतया प्रवृत्तिनिवृत्तिं प्रत्युपयोगमात्रम्, नत्वन्वयव्यतिरेकविधया नियमेन तयोस्तत्करणत्वमित्यभिप्रेत्यैव नियमेन बलवदनिष्टाननुबन्धित्वस्य यागादावभावात्न नियमतस्तत्र लिङ्गादीनां शक्तिरिति तार्किकमतं दूषितं भाट्टरहस्ये पूज्यपादैः । संभवति चैतादृशं प्राशस्त्यमभ्यनुज्ञाविध्यर्थवादे - वपाहोमोत्तरदीक्षितान्नभोजनस्य निषेधप्रयुक्तानिष्टाननुबन्धित्वबोधनात्, विधिना द्वेषाभावजनकत्वेन तदाक्षेपेद्धपि द्वेषाभावजनकत्वयोग्यताबोधस्यार्थवादाधीनत्वात् । एवं षोडशिग्रहणनिषेधार्थवादेऽपि अप्राशस्त्यम् - ग्रहणजन्ये तात्कालिके स्वल्पेपि दुःखे सामानाधिकरण्येन उत्कटद्वेषविषयत्वाख्यस्य बलवत्वस्य बोधनात् । एवं श्येनेऽपि धर्मत्वोपपादनरीत्या बलवदनिष्टाननुबान्धित्वयोग्यत्वस्य सत्त्वात्तदर्थवादेनापि तद्बोधनं सुलभमेव - इतरथा कदापि प्रवृत्त्यनुपपत्तेः । अतएव तामसधर्मत्वस्य स्थापनात्बलवदनिष्टाननुबन्धित्वयोग्यत्वरूपाप्राशस्त्यस्यापि संभवान्निषेधार्थवादेन बोधितमप्राशस्त्यमपि नैव विरुध्यते ॥ .॥ (विधेरेव प्राशस्त्याक्षेपकत्वमतम्) एतेन यत्कैश्र्चित्पूर्वोक्तं प्राशस्त्यमप्राशस्त्यं च खण्डितम् श्येनाद्यनर्थविधिशेषभूतानामर्थवादानामसङ्गतिप्रसङ्गात्, विधिभिरेव विशिष्टाक्षेपसंभवाच्च, तादृशस्यैव बुद्धिपूर्वकारिप्रवृत्तिविषयत्वात्निषेधेष्वपि अनिष्टजनकत्वमात्रस्य कष्टङ्कर्मेतिं न्यायादेव सिद्धेः बलवदनिष्टजनकत्वाक्षेपस्येव निषेधैः करणातर्थ्वादिसापेक्षत्वानुपपत्तेरित्यादिना तदपास्तम् ॥ (विधेः प्राशस्त्याक्षेपकत्वखण्डनम्) विधिभिः बलवदनिष्टाननुबन्धित्वविशिष्टेष्टसाधनत्वाक्षेपस्येव अप्राशस्त्यस्यापि तैरेवाक्षेपसंभवेन भवन्मतेऽप्यर्थवादानपेक्षस्यैव निषेधैः करणादर्थवादानपेक्षत्वस्य दुष्परिहरतवाचच, निषेधेषु लोकसि..अनिष्टजनकत्वबोधने (?) वैयर्थ्येन तत्परिहारार्थं नरकजनकत्वमात्राक्षेपेऽपि तद्गतबलवत्वाक्षेपपर्यन्तव्यापारकल्पने प्रमाणाभावाच्च, सर्वत्रापि सन्निहितविधिनिषेधार्थवादैरेव तल्लाभावात्तत्तद्विधिनिषेधानां तावत्पर्यन्तकल्पने गौरवाच्च, अर्थवादोन्नेयविधिनिषेधाभ्यां प्रागेव प्राशस्त्याप्राशस्त्यबोधस्य तदर्थवादैरवश्याभ्युपगन्तव्यत्वेन नियमेन विधिनिषेधैः तदाक्षेपस्य कर्तुमशक्यत्वाच्च । अतएव यत्र सन्निधौ अर्थवादाम्नानं, तत्र तेषां प्रयोजनाकाङ्क्षालब्धप्राशस्त्याप्राशस्त्यज्ञानसंभवेन विधिनिषेधाम्यां न तत्परत्वमपि कल्पनीयम् - गौरवात् ॥ (भाट्टदीपिका) विधिनिषेधापेक्षितत्वात्तत्समभिव्याहृतार्थवादैर्लक्षणया प्रतिपाद्येते । तत्र "वायुर्वै क्षेपिष्ठे" त्यादौ स्वशक्यक्षेपिष्टत्वादिगुणैरेव लक्षणा । यजमानः प्रस्तरः इत्यादौ तु गौणीगम्यस्वकार्यकर्तृ (प्रभावली) (निरर्थवादविधेः तदाक्षेपकत्वाङ्गीकारः) यत्र तुऽवसन्ताय कपिञ्जलानालभेतऽ इत्यादयोर्ऽथवादशून्याः विधयः, तत्र अगत्या तेषां तत्परत्वमपि । यथाच तत्रापि वचनातिदेशनामातिदेशाभ्यामिव अतिदेशेनेव प्राशस्त्यस्य प्राप्तेर्न विधिव्यापारकल्पनम्, किन्तु यत्रोपदेशातिदेशयोः अभावो यथा दर्विहोमादिषु तत्रैव विधिव्यापारकल्पनम्, तथोपपादितं कौस्तुभे पूज्यपादैः विस्तरभयान्नोच्यते । तत्सिद्धं बलवदनिष्टाननुबन्धित्वयोग्यत्वं प्राशस्त्यं तज्जनकत्वयोगयत्वमप्राशस्त्यमिति ॥ (विध्यर्थवादयोः परस्पराकाङ्क्षानिरूपणम्) विधिनिषेधापेक्षितत्वादिति । एतच्चोपलक्षणम् अर्थवादापेक्षाया अपि । यथैव विधिनिषेधयोः पूर्वोपपादितरीत्या प्रवृत्तिनिवृत्तिरूपफलजनने तत्प्रतिबन्धविगमद्वारा अर्थवादकृतं साहाय्यमपेक्षितम्, एवमर्थवादानामपि शक्त्या गौण्या वा वृत्या भूतमर्थं वदतामपि स्वाध्यायविध्यापादितदृष्टप्रयोजनवत्त्वलाभार्थं विधिसाहाय्यमपेक्षितम् । ततश्र्च यद्विधिनापेक्षितं प्राशस्त्यज्ञानं तदर्थवादैः यच्चार्थवादैः तद्विधिनेति अर्थवादैः लक्षणया तज्ज्ञानं सुलभमेव । लक्षणाघटकश्र्च संबन्धः स्वार्थप्रतीतिजन्यप्रतीतिविषयत्वरूपो ज्ञानघटित एव । तत्तत्समभिव्याहृतेत्यनेन पूर्वोपपादितोभयाकाङ्क्षया प्रशस्तत्वात्कर्तव्यमित्येवंरूपा विध्यर्थवादयोरेकवाक्यता सूचिता । तथाच सिद्धान्तसूत्रम् ऽविधिना त्वेकवाक्यत्वात्स्तुत्यर्थेन विधीनांस्युःऽ इति । विधिना स्तुत्याकाङ्क्षेण प्रयोजनसाकाङ्क्षाणामर्थवादानामेकवाक्यत्वात्विधीनां विधेयानां स्तुत्यर्थेन स्तुतिरूप्रयोजनेन स्तुतिरूपेण लाक्षणिकेन आनर्थक्याभावादर्थवादा धर्मे प्रमाणानि स्युरिति तदर्थः ॥ विधिनेत्यादिपदत्रयं निषेधादीनामप्युपलक्षणम् ॥ (वाक्यलक्षणासमर्थनम्) अत एव इयं वाक्ये लक्षणा, नैकस्मिन् पदे - इतरपदानां वेयर्थ्यापत्तेः, तेषां तात्पर्यग्राहकत्वे च विनिगमनाविरहात्, कारणानुरूपत्वात्कार्यस्रू क्षिप्रदेवतासाध्यं कर्म क्षिप्रमेव फलं दास्यतीत्येवंविधया सर्वेषामेव पदानां स्तुत्युपपादकत्वप्रतीतेश्र्च । अतः पदसमूहात्मकवाक्य एव लक्षणा । यद्यपि तद्भूताधिकरणवार्तिकोक्तरीत्या वाक्यस्य न वाक्यार्थे अतिरिक्ता शक्तिरस्ति, येन तच्छक्यार्थसंबन्धेन इह वाक्ये लक्षणा युज्येत - तथापि स्वार्थसंबन्धमात्रेणैवेह लक्षणास्वरूपाङ्गीकारेण वाक्ये लक्षणोपपादनं नायुक्तम् - अनुभवस्यैव प्रमाणत्वादितिध्येयम् ॥ (शक्तयासत्यार्थोपस्थापकानामपि येनकेनचिदालंबनेन सत्यार्थोपस्थापकतावश्यकता) अर्थवादाश्र्च केचन सत्यार्थस्यैव शक्त्योपस्थापकाः, केचनासत्यार्थस्य तयोपस्थापकाः । यत्र एष शक्यार्थः सत्यः, तत्र स्वार्थस्य यथार्थस्यैव संबन्धाल्लक्षणा । यत्रासत्यार्थः, तत्रासत्यार्थज्ञानादपि सत्यस्तुतिनिन्दाबुद्धेः उदयात्तात्पर्यविष्ज्ञयीभूतस्तुतिनिन्दारूपसत्यार्थप्रतिपादकत्वेन प्रामाण्यमुपपद्यत एवेति नार्थसत्यत्वापेक्षणम्, किन्तु प्रमाणं विना अर्थस्य सत्यत्वासंभवात्सर्वधियां याथार्थ्यस्यौत्सर्गिकत्वात्स्तुतिनिन्दासिध्यर्थमर्थवादस्यार्थसत्यत्वानपेक्षणेऽपि अभिधानसिध्यर्थमेव कथञ्चिद्येन केनापि आलम्बनने अर्थसत्यत्वमुपपाद्य तदर्थसंबन्धाल्लक्षणेति विवेकं दर्शयितुमुदाहरणभेदं दर्शयति तत्रेत्यादिना ॥ कारणस्य हि प्रायेण कार्ये स्वधर्मानुरूपधर्माधायकत्वं दृष्टमिति कार्यसाधनीभूतवायोः क्षिप्रकारित्वज्ञानात्तत्साध्यकर्मणि यत्क्षिप्रफलकारित्वरूपसत्यवाक्यार्थज्ञानं जायते तद्विषयीभूतवाक्यार्थेनैव प्राशस्त्यलक्षणा वायुर्वैक्षेपिष्ठेत्यादौ ॥ (सोऽरोदी दिति वाक्ये आलम्बनार्थनिरूपणेन निन्दारूपार्थपर्यवसानम्) एषां सोऽरोदीदित्यर्थवादेषु स इति तच्छब्देनऽतदग्निनर्यकामयतेऽति पूर्वोपक्रान्तोऽग्निः परामृश्यते । तद्रजतमित्यत्र तच्छब्देनाश्रु । अत्रऽपुरास्य संवत्सरादिति रजतदाननिन्दा । तदुपपत्तिश्र्च (सोरोदीदित्यनेन । तत्रापि कारणानुरूपत्वात्कार्यस्य रोदनप्रभवरजतदानाद्रोदनं भवतीति निन्दारूपमप्राशस्त्यं रोदनप्रभवाश्रुजन्यं, तज्जन्यरोदनकारित्वादिदोषरूपस्वार्थैर्लक्ष्यतें रुद्रे रोदनं तत्प्रभवत्वं च रजते प्रमाणाभावादनुपपन्नं केनचिदालम्बनेनोपपादनीयम् । तत्प्रकारश्र्चान्यत्र द्रष्टव्यः ॥ (यजमानः प्रस्तर इत्यत्र तन्निरूपणम्) एवंऽयजमानः प्रस्तरऽ इत्यादावयोग्यतानिश्र्चयसत्त्वे न प्राथमिकवाक्यार्थपर्यवसानम्- यजमानाभेदस्य प्रस्तरे बाधितत्वात्तत्र यजमानपदं यजमानकार्यकारित्वसमानजातीयकार्यकारित्वरूपगुणयोगेन प्रस्तरे गौणमङ्गीकृत्यऽयजमानः प्रस्तरऽ इति वाक्यजन्यबोधोत्तरं स्वकार्यकर्तृत्वरूपवाक्यार्थसंबन्धात्तेन वाक्येन पश्र्चात्लक्षणेति वक्ष्यते तत्सिध्यादिसूत्रे ॥ (आपो वै शान्ताः, यदभिधारयेत्गवीधुकयवाग्वावेत्याद्यर्थवादानां तन्निरूपणम्) एवं विधेयस्य यथा क्वचित्साक्षात्स्तुतिः तथा क्वचिद्विषेयापरसंबन्धिस्तुत्या विधेयपरसंबन्धिस्तुतिर्लक्ष्यते । यथा वेतसशाखयावकाभिश्र्चाग्निं विकर्षतीति विधिसन्निहितैःऽआपो वै शान्ताः शान्ताभिरेवास्य शुच शमयतिऽ इत्यर्थवादैः । तत्रापां स्तुत्याब्जन्यानां वेतसावकानां स्तुतिर्लक्षितलक्षणया । क्वचिदसंबद्धस्यापि अविधेयस्य स्तुतिः तन्निन्दासहकृता विधेयस्य प्रशस्ततरत्वं लक्षयति, यथा गवीधुकस्तुतिः पयसः । एवमभिधार्या त्र्यम्बका नाभिधार्या इति मीमांसन्ते यदभिघारयेत्तत्रुद्रायास्ये पशून्निदध्यात्यन्नाभिघारयेन्न तद्रुद्रायास्ये पशून्निदध्यादथो खल्वाहुः अभिघार्या एवेति विधेयाभिघारनिन्दा तत्प्रतियोग्यनभिघारणस्तुतिनिन्दासहकृता अभिघारणविध्येकवाक्यतया त्र्यम्बकपुरोडाशदेवताभूतरुद्रास्यनिन्दानापादकाभिघारणस्तुतिं लक्षयति ॥ क्वचिदन्यविधेयप्राशस्त्यं लक्षयति यथोदितनिन्दा ॥ (भाट्टदीपिका) त्वादिगुणैरिति वक्ष्यते । अतः सिद्धं भावनान्वितस्तुतिनिन्दाविषयकप्रमाजनकत्वेनार्थवादानां धर्माधर्मयोः प्रा (प्रभावली) (केषाञ्चनार्थवादानां स्तुतिफलोभयार्थत्वनिरूपणम्) प्रतिष्ठारूपवत्वादिकं च प्रथमतस्तद्भावभावित्वमात्रेण प्रतीतं साध्यत्वाप्रतीतौ वास्तवगुणत्वाभावात्ऽअसत्यं नामैतत्किमप्यन्यदवाप्स्यामीऽति वार्त्तिकोक्तन्यायेन प्राशस्त्यं लक्षयित्वा किञ्चिच्छ्रुतविध्येकवाक्यतया किञ्चिद्विध्युन्नायकतयाप्युपयुक्तमपिपुनराकाङ्क्षया फलार्थमपि भवति । अष्टाकपालादिस्तुतिः पूतत्वादिगुणकथनस्योपपादनेन सालम्बनत्वकरणाय । एवमर्थवादेष्वन्येष्वपि विधिनिषेधसमभिव्याहृतेषु विचित्रगतित्वं मूले आदिशब्देन संगृहीतं द्रष्टव्यम् ॥ (यन्न दुःखेनेत्यस्याः स्तावकत्वनिरूपणम्) एवञ्च यत्र सुखनरकादिरूपे फले निसर्गत एव रुच्यरुची, तत्र प्रयोजनाभावात्तत्प्रतिपादकानांऽयन्न दुःखेन संभिन्नं नच ग्रस्तमनन्तरम् । अभिलाषोपनीतं च तत्सुखं स्वःपदास्पदम्ऽ । इत्यादीनां न प्राशस्त्याप्राशस्त्यलक्षकत्वम्, किन्तु विधिनिषेधापेक्षितस्वर्गनरकादिस्वरूपपरत्वमेव ॥ (उपनिषदामपि यथायथं कर्मण्युपयोगनिरूपणम्) एवं दूरस्थानामपि विनाशिदेहव्यतिरिक्तनित्यकर्तृभोक्तृरूपात्मप्रतिपादकानामुपनिषदां परलोकफलककर्मविध्यपेक्षितोक्तरूपात्मपरत्वमेव - उक्तविधज्ञानस्यानारभ्याधीतस्यापि मिश्रमते सामर्थ्यात्सामान्यसंबन्धबोधकप्रमाणाभावेऽपि विनियोजकत्वात्न्यायसुधाकारमतेऽयदेवविद्यया करोति तदेव वीर्यवत्तरं भवतीऽतिवाक्याद्वा क्रत्वङ्गत्वम् । असंसारिसगुणनिर्गुणात्मप्रतिपादकानामुपनिषदामुभयविधोपासनाविध्यपेक्षितत्वेन स्वार्थपरत्वमेवेति ज्ञेयम् ॥ ननु एवमर्थवादानां प्राशस्त्याप्राशस्त्यज्ञापकत्वेऽपि कथं धर्माधर्मप्रतिपादकत्वम्? इत्यत आह अतः सिद्धमिति ॥ तथाच या विशिष्टभावनारूपधर्मप्रमा विधिभिः क्रियते, तस्यामेव प्राशस्त्यरूपविशेषपणप्रतिपादनद्वारा द्रव्यदेवतादिपदवदर्थवादानामपि तत्प्रमां प्रति कारणत्वं युक्तम् । एवं निषेधार्थवादानामपीत्यर्थः ॥ (अर्थवादानां विधिना साकं पदैकवाक्यतानिरूपणम्) अत्रचाक्ताधिकरणवार्तिकोक्तरीत्या विध्यर्थवादानां स्वस्वार्थबोधे सामर्थ्याभावात्पदैकवाक्यतैव । अर्थापेक्षतया हि स्वार्थपर्यवसितस्य वाक्यार्थान्तरेण सहैकवाक्यतायामेव अङ्गप्रधानविध्योरिव वाक्यैकवाक्यतानियमात् । तदुक्तम् अक्ताधिकरणवार्त्तिके ॥ ऽस्वार्थे परिसमाप्तानामङ्गाङ्गित्वाद्यपेक्षया । वाक्यानामेकवाक्यत्वं पुनः संहत्य जायतेऽ । इति ॥ एतेन अधिकरणमालादिष्वथ्रवादविध्योर्वाक्यैकवाक्यतोक्तिः अपास्ता ॥ (शाब्दभावनाया इतिकर्तव्यताकाङ्क्षाभावः) यद्यपि प्राशस्त्यस्य शाब्दभावनेतिकर्तव्यतात्वादर्थभावनेतिकर्तव्यतावत्कथमित्याकाङ्क्षोत्तरमित्थमितीतिकर्तव्यतान्वयः संभवति, नह्येवं शब्दभावनायाः प्रतिविधि कर्तव्यताबोधः- तद्विषयकप्रवर्तनान्तराप्रतीतेः, किन्तु अर्थभावनायामेव सः- अध्ययनविधावेवत्वर्थात्तस्याः कर्तव्यत्वबोधः, प्रतिविधित्वानुष्ठानावस्था ॥ (केषाञ्चिन्मतेन प्राशस्त्यस्य शाब्दभावनायामन्वयः) तत्रच प्राशस्त्यस्याज्ञातस्य प्रवृत्ति प्रति कारकत्वासंभवात्कारणापेक्षयैव प्रशस्तत्वादित्येवान्वयो युक्तः । परन्तु तेनापि रूपेण स्वविषयज्ञानजन्यप्रवृत्तिनिवृत्तिजनकज्ञानविषयत्वसंबन्धेन शब्दभावनायामेवान्वयः केषाञ्चिन्मते ॥ (स्वमतेन प्राशस्त्यादीनामपि परंपरासंबन्धेनार्थभावनायामन्वयः) स्वमते तु अन्यसुबन्तार्थवदेककार्यकारणभावलाघवानुरोधेन स्वविषयज्ञानजन्येष्टविषयकोत्कटरागजन्यत्वसंबन्धेन प्राशस्त्यस्य स्वविषयकज्ञानजन्यानिष्टविषयकोत्कटद्वेषजन्यत्वसंबन्धेनाप्राशस्त्यस्य चार्थभावनायामेवान्वय इति मतभेदज्ञापनाय संमुगधाकारेण भावनान्वितस्तुतिनिन्देत्युक्तम् । तेनच स्वरूपसंबन्धेन तयोर्धात्वर्थे एवान्वय इति केषाञ्चिन्मतं तु अतीव निरस्तं वेदितव्यम् - अन्वयमूलभूतायाः सहकार्यपेक्षायाः कारणे कार्ये वान्वयेनैव शमनात्॥ (अर्थवादानां प्राशस्त्यप्रतिपादकतया धर्मोपयोगोपसंहारः) तस्मात्स्वाध्यायविधिनार्ऽथवादस्यापि पुरुषार्थपर्यवसानबोधनात्परंपरयापि दृष्टफललाभे स्वर्गादिकल्पनानुपपत्तेर्भूतार्थमात्रस्याप्रयोजनत्वात्प्राशस्त्याप्राशस्त्यपरत्वं लक्षणयाऽश्रित्य तयोर्यथायोगं विधिनिषेधवाक्योपात्तभावनायामन्वयेन विशिष्टभावनारूपधर्माधर्मप्रयोजनकत्वं सिद्धम् ॥ (भाट्टदीपिका) माण्यमिति । प्रयोजनं पूर्वपक्षे अर्थवादानुपस्थितप्राशस्त्यज्ञानादपि प्रवृत्तौ फलसिद्धिः, सिद्धान्ते तु मन्त्रवदर्थवादानामेव प्ररोचकत्वनिय१ आत्तदुपस्थितप्राशस्त्यज्ञानादेव प्रवृत्तौ सेति द्रष्टव्यम् ॥ १ ॥ इति प्रथममर्थवादाधिकरणम् ॥ (२ अधिकरणम् ।) विधिर्वा ॥ "औदुम्बरो यूपो भवत्यूर्ग वा उदुम्बर ऊर्क पशव ऊर्जैवास्मा ऊर्जं पशूनाप्नोत्यूर्जोऽवरुध्यै" इत्याद्यर्थवादेषु न स्तुतिलक्षणा- शक्त्यैव पशुरूपफलसंबन्धविधायकत्वेन प्रामाण्योपपत्तेः । पशूनिति द्वितीयया ऊर्जोऽवरुध्या इति चतुर्थ्या वा पशूनां साध्यत्वेऽवगते साधनापेक्षत्वादौदुम्बरत्वं (प्रभावली) (अर्थवादप्रामाण्यविचारस्य साधारणासाधरणप्रयोजनद्वयनिरूपणम्) अर्थवादप्रामाण्यव्युत्पादनप्रयोजनं च सन्दिग्धार्थनिर्णयफलादिसिद्धिरूपमसाधारणं तत्तदर्थवादेषु तत्तदधिक२ अणेषु ज्ञास्यत एवेति तद्विहाय साधारणं प्रयोजनमाह प्रयोजनमिति (आक्षेपिक्यादिसंगतिस्वरूपनिरूपणम्) अथ संगतिः शास्त्राध्यायपदाधिकरणैस्तावत्चतुर्धा । तत्रापि अधिकरणसंगती राशीकरणेन षोढा सप्तधा वा ॥ पूर्वमाक्षिप्यते यत्र तत्र साऽक्षेपिकी मता । पूर्वन्यायात्ययो यत्र प्रत्युदाहरणा तु सा ॥ प्रसंगात्चिन्त्यते यत्र तत्र प्रासङ्गिकी मता । बुद्धिस्था चिन्त्यते यत्र बुद्धिस्थानात्मिका तु सा । कृत्वा यत्राधिकां शङ्कां पूर्वमेवातिदिश्यते । तत्रातिदेशिकी प्रोक्ता संगतिर्न्यायवेदिभिः । चिन्तां प्रकृतिसिध्यर्थामुपोद्घातं प्रचक्षते । इति । यदा षोढा तदा प्रसंगसंगतावेवोपोद्घातस्यान्तर्भावो ज्ञेयः । तदेवंविधं संगत्यादिकं प्रत्यधिकरणं सुधीभिः शक्यमेवोहितुमिति विस्तरभिया पूज्यपादैर्न दर्शितमिति मयापि न विशिष्य प्रदर्श्यते ॥ इति प्रथममर्थवादाधिकरणम् ॥ (पूर्वाधिकरणेन संगतिनिरूपणम्) पूर्वाधिकरणे सर्वेष्वर्थवादेषु स्तुत्यर्थत्वेनानर्थक्याभावे साधिते संप्रति केषुचिदर्थवादेषु अन्यविधयापि तदभावोपपत्तेर्नव्यर्थप्रायस्तुतिपरत्वमाश्रयणीयमित्याक्षिप्य समाधीयत इत्येवमाक्षेपिकीं संगतिं पूर्वपक्षोपसंहारे सूचयिष्यते । तदर्थं "सोमापौष्णं त्रैतमालभेत पशुकाम" इति वैकृतयागप्रकरणगतमर्थवादविशेषोदाहरणं दर्शयति औदुम्बर इति ॥ (विषयवाक्यार्थनिरूपणम्) औदुम्बरो यूपो भवतीति विधिरयम् । ऊर्ग्वा उदुम्बर इत्ययमंशोर्ऽथवादः । वाशब्दो वैशब्दार्थः । उदुम्बरशब्देनान्नमुच्यते । उदुम्बरो हि पक्वफलद्वारान्नमयः, पशवो ह्यन्नमया इति लोके प्रसिद्धम् । अत औदुम्बररूपं यूपं यो भावयति यजमानाय पशून् धारयति सोऽध्वर्युः इत्यर्थवादार्थः । इत्यादीति ॥ आदिपदेन "न स पापं श्लोकं शृणोति" इत्यादीनां पर्णमयीत्वादिविध्यर्थवादानां संग्रहः । अत्रच प्रकृतोदाहरणे सिद्धान्ते ऊर्जोऽवरुध्यै इत्यन्तोर्ऽथवादः, यागफलमेव फलम् ॥ पूर्वपक्षेतु ऊर्जं पशूनाप्नोत्यूर्जोऽवरुध्यै" इत्यस्य फलबोधकत्वेन न स्तावकत्वम् । "यस्तूर्ग्वा उदुम्बरः" इति वेदभागः, स साध्यसाधनभावौचित्यप्रदर्शनद्वारा प्रशंसार्थो भवत्येवेति विवेकः ॥ शक्त्यैवेति ॥.॥ ततश्च तात्पर्यग्राहकमानान्तरसापेक्षत्वेन लक्षणाया दौर्बल्यान्न प्राशस्त्यलक्षणाङ्गीकार्येत्यर्थः । विधायकत्वेनेति ॥ यद्यपि फलांशे रागत एव प्रवृत्तेर्नाप्रवृत्तप्रवर्तनरूपविधिः संभवति- तथाप्यज्ञातज्ञापकत्वांशेन विधायकत्वोक्तिः । ननु कामपदाद्यभावे कथं पशूनां फलत्वप्रतीतिः येन तद्बोधकत्वेन प्रामाण्यमुच्यत इत्यत आह पशूनिति ॥ पशूनिति द्वितीयया साध्यत्वांशमात्रावगमेऽपि योग्यतयेप्सितत्वस्याप्यवगमात्भाव्यत्वसिद्धिरित्यर्थः । साध्यत्वेऽवगते इति ॥ (१) टिप्पणी प्रयोजनवदर्थावगमस्य यदेव विद्यया करोतीति वाक्येन क्रतुसंबन्धः सिद्ध इति अर्थज्ञानप्रयुक्तमप्यध्ययनं क्रतावेव पर्यवस्यतीति नियमविधित्वोपपत्तिरित्युपायान्तरव्यावृत्तिफलको नियमविधिरिति कौस्तुभे । न्यायरत्नमालायान्तु पुरुषार्थेष्वपि द्रव्यार्जनादिषु नियमविध्युपलम्भात्न क्रत्वर्थेष्वेव नियमविधिरिति नियम इति नियमविधेरर्थवत्त्वमुपपादितम् । (२) रात्रिसत्रे प्रतिष्ठा स्यातज्ञाने घृतसंस्थितिः । तथा श्येनादिवाक्यानां नामता भेदकारणम् ॥ १ ॥ वारुणेष्ट्यां तथा दानं वमनं वैदिकं तथा । सोमयागपरत्वं च ज्योतिष्टोमपदस्य यत् ॥ २ ॥ निवेशनं च धाय्यानां मध्यमानऋगुत्तरम् । स्थानापत्तिरिरादीनां रुद्रे रोदनवाच्यपि ॥ ३ ॥ उत्तराणां त्रिधाधिक्यमृत्विक्च ब्राह्मणो भवेत् । सोमविद्याप्रजादीनां नित्यत्वं षष्ठसंस्थितम् ॥ ४ ॥ द्वयोः प्रणयनं मध्यपर्वणोः सप्तमोदितम् । अर्थवादगतैर्लिङ्गैः प्रकृतित्वं तथाष्टमे ॥ ५ ॥ इति कौस्तुभे । (भाट्टदीपिका) साधनम्- सन्निधानात्, ऊर्जेति तृतीयाश्रवणाच्च, भवतीत्याख्यातेन च लक्षणया शक्त्यैव वा भावनाभिधानाद्भूधातोश्च यूपोत्पादकच्छेदनाद्यनुवादकत्वादप्राप्तार्थत्वेन च लेट्त्वनिश्चयातुभयविशिष्टभावनाविधायकत्वोप पत्तिरित्याक्षेपे प्राप्ते यूपकर्तृकभावनाक्षिप्तायां भावनायां यूपस्यैव भाव्यत्वौचित्यात्सन्निधानाच्च यूपोद्देशेनैवौदुम्बरत्वविधिः, नतु फलोद्देशेन- कामशब्दाद्यभावेन फलत्वस्य तथानुपस्थितेः । किञ्च भवन्मते गुणफलसंबन्धोऽयम् । नचासौ संभवति- आश्रयालाभात्, "सोमापौष्णं त्रैतमालभेत पशुकाम" इति प्रकृतस्य यागस्याश्रयत्वे हि यूपग्रहणानुपपत्तिः । यूपस्य तु अप्रकृतत्वादेवाश्रयत्वानुपपत्तिः । अतिदेशेन तस्योपस्थितिस्तु जुह्वादिपात्रान्तरसाधारणीति तेषामप्याश्रयत्वे तथैव यूपग्रहणानर्थक्यम् । वाक्येनाश्रयदाने च वाक्यभेदः । त (प्रभावली) (औदुम्बर इति विकारप्रत्ययस्यान्यथासिद्धत्वाद्द्वितीयाचतुर्थीश्रुतिभ्यां पशुफलत्वनिरूपणम्) एतेन औदुम्बर इति विकारार्थतद्धितेन यूपतात्पर्यग्राहकबलात्यूपरूपविशेषोक्तेः यूपपदोपात्तप्रत्यासत्याच यूपार्थैव स्यातिति निरस्तम्- तदपेक्षया बलीयस्या द्वितीयाचतुर्थीश्रुत्या पश्वर्थताया बोधने सति नान्तरीयकतया प्राप्तयूपरूपाश्रयजनकत्वेन तद्धितोपपत्तेः समानपदश्रुतेरन्यथासिद्धत्वादित्यर्थः ॥ (यजेत स्वर्गकाम इत्यादाविव सन्निधानातुदुम्बरसाधनतानिरूपणम्) सन्निधानादिति ॥ यथैव "यजेत स्वर्गकामः" "सर्वेभ्यो ज्योतिष्टोम" इत्यादौ तृतीयाद्यभावेऽपि स्वर्गादिगतसाध्यत्वप्रतीत्या सन्निधानमात्रेण यागस्यापेक्षितसाधनतावगतिः, तद्वदिहापीत्यर्थः । यद्यपीह ऊर्जेति तृतीययापि साधनतावगतिः सुलभा- तथापि पर्णतादौ तदभावात्सन्निधानमात्रस्यैव तद्धेतुत्वेनोक्तिः ॥ (सन्निधानावगतेष्टसाधनतयैव प्रवृत्तिसिद्धेर्विधिवैयर्थ्यपूर्वपक्षादिरूपप्राचीनैतदधिकरणशरीरम्) अत्र प्राचीनैः सन्निधानादेवौदुम्बरत्वस्य साधनतावगतौ तेनैवेष्टसाधनताज्ञानमात्रेण प्रवृत्तिसिद्धेः नार्थो विधिनेत्येतत्पर्यन्तमपि पूर्वपक्षं कृत्वा विध्यभावे औदुम्बरसाधनताक्षिप्ताया भावनायाः सैव भाव्या स्यात्, न फलम्- विप्रकृष्टत्वात्, विधौ च सति पुरुषप्रवर्तनात्मकत्वात्, अपुरुषार्थे च पुंसः प्रवर्तनायोगाद्यागतस्येवौदुम्बरताया भाव्यतां परित्यज्य फलस्यैव पुरुषार्थभूतस्य भाव्यत्वमुपपद्यते । अतोऽवश्यमपेक्षितं विधित्वमर्थवादतो विधेयस्यैव स्तुत्यर्थत्वनियमात्तदनुपपत्त्या लेट्त्वकल्पनयोन्नेयम् । नच फलपरत्वे अर्थवादता संभवति । नहि स्तुतित्वेन विधिशक्तिमुपजनय्य पुनस्तेनैव फलकल्पना संभवति- वाक्यावृत्तिरूपवाक्यभेदापत्तेः । अतोर्ऽथवादत्वमेवेति सिद्धान्तितम् ॥ (प्राचीनमतखण्डनेन विधित्वाङ्गीकारेण पूर्वपक्षनिरासः) तदयुक्तम्- विध्येकवाक्यतां विनार्ऽथवादत्वानिश्चयेन तस्य विधिनिश्चयकत्वायोगाद्वसन्ताय कपिञ्जलानित्यर्थवादाभावेऽप्यप्राप्तार्थतया लेट्त्वनिश्चयस्येवेहापि तदुपपत्तेरर्थवादत एव निश्चयग्रहेऽपि "ऊर्ग्वा उदुम्बर ऊर्जैवास्मा ऊर्जं" इत्यन्तस्यपूर्वपक्षेऽपि स्तावकताङ्गीकारात्तेनापि तदुपपत्तेः विध्युत्खातपर्यन्तपक्षस्य तन्निराकरणसिद्धान्तस्य च करणे प्रयोजनाभावादित्यभिप्रेत्य विधित्वमङ्गीकृत्यैव पूर्वपक्षे वाक्यार्थमाह भवतीत्याख्यातेनेति ॥ (मतभेदेन भवतीत्याख्यातेन लक्षणया शक्त्यैव वा भावनाभिधानम्) साध्यसाधनसंबन्धस्य क्रियागर्भत्वाद्दण्डेन घटो भवतीतिवच्च क्रियामात्रसंबन्धे पुरुषप्रवर्तनाविषयत्वेन विधिवैयर्थ्यापत्तेरवश्यं पुरुषनिष्ठो यः कश्चन प्रवर्तनासाध्यो व्यापारो वाच्यः । तस्यच प्रयोज्यव्यापारार्थकधातुषु यद्यप्याक्षेपेण बोधः संभवति- तथापितस्य विध्यन्वयाय शाब्दत्वे वक्तव्ये येषां मते करोतिविव्रियमाणं तिप्त्वादिकं शक्ततावच्छेदकं तेषां मते इह शक्त्याख्यातादप्रतीतेः लक्षणया भानम् । येषां तु मते केवलं तिप्त्वादिकमेव तत्, तेषां मतेतु शक्त्यैव तदभिधानमिति विवेकः ॥ तथाच उदुम्बरत्वेन भावयेत्, किम् इत्यपेक्षायामार्थवादिकं पशुरूपफलमन्वेति । अतः पशुकर्मकोदुम्बरकरणको व्यापारः प्रवर्तनासाध्यतयावगम्यते इति भावः ॥ उक्तस्यापि प्रयोजकव्यापारस्य प्रवर्तनासाध्यत्वानवगतौ इष्टभाव्यकत्वानिश्चयान्नेष्टसाधनताज्ञानमित्यर्थः ॥ (कामपदाद्यभावेन रात्रिसत्रन्यायाप्रवृत्त्या च पशूनाप्नोतीत्यस्य फलसमर्पकत्वनिरासः) तथानुपस्थितेरिति ॥ द्वितीयाया जन्यत्वमात्राभिधायकत्वेनेप्सितत्वसमानाधिकरणभाव्यत्वस्य कामशब्देनेवानुपस्थितेः । यद्यपिवा कथञ्चिदुपपद्येत- तथापि पशूनाप्नोतीति वर्तमाननिर्देशात्वर्तमानफलस्यानुपलब्ध्या बाधात्भविष्यत्काललक्षणापत्तिरित्यर्थः । अत एव अपूर्वसाधनतयेप्सितार्थतयेव नैराकाङ्क्ष्यात्न रात्रिसत्रन्यायोऽपि इति पर्णमय्यधिकरणे वक्ष्यते ॥ (एतदधिकरणेन पर्णमय्यधिकरणपौनरुक्त्यपरिहारः) एवं चात्र फलमात्रपरतानिराकरणेन स्तुतिपरत्वे स्थिरीकृते तत्र रात्रिसत्रवदर्थवादस्यैव सतः फलपरत्वमवश्यं निराकरिष्यते इत्यपौनरुक्त्य१ अपि । चतुर्थ्याः फलपरत्वेऽपि स्ववाक्योपात्तयूपार्थतयैव नैराकाङ्क्ष्यात्न तदुपात्तफलपरत्वम् । बलवतोऽप्याकाङ्क्षाभावेऽन्वयप्रयोजकत्वासंभवातित्याशयः ॥ दूषणान्तरमाह किञ्चेति ॥ स्पष्टार्थमेतत् ॥ उदुम्बरत्वस्येति ॥ यत्प्रधानफलं पशुरूपं तदुपकारकतयोर्ग्वा उदुम्बर इत्यादिनोचितमुदुम्बरत्वं प्रशस्तमिति स्तुतिसंपादकतयार्थवादत्वमित्यर्थः ॥ इति द्वितीयं विधिवन्निगदाधिकरणम् ॥ (भाट्टदीपिका) स्माद्"ऊर्ग वा उदुम्बर" इत्यादिरर्थवाद एवौदुम्बरत्वस्येति सिद्धम् । प्रयोजनं यागफलात्फलान्तरकामनायामौदुम्बरो यूप इतरथा खादिरः पूर्वपक्षे, सिद्धान्ते तु औदुम्बर एवेति ॥ २ ॥ इति द्वितीयं विधिवन्निगदाधिकरणम् ॥ (३ अधिकरणम् ।) हेतुर्वा ॥ चातुर्मास्येषु "शूर्पेण जुहोती" ति शूर्पकरणकं होमं विधाय श्रुतेन "तेन ह्यन्नं क्रियते" इत्यर्थवादेन न स्तुतिलक्षणा, अपितु होमसाधनत्वे साध्ये अन्नकरणहेतुत्वं विधीयते । नह्यत्र पूर्वत्र भाव्यत्व इव किञ्चित्कल्पनीयमस्ति । हिशब्दश्रुत्यैव हेतुत्वाभिधानात् । हेतुश्च व्याप्तिमन्तरेणानुपपन्नो यद्यदन्नकरणं तेन तेन होतव्यमिति व्याप्तिवचनं (प्रभावली) हेतुर्वा ॥ चातुर्मास्ये इति । तदन्तर्गतवरुणप्रघासे इत्यर्थः ॥ होमं विधायेति ॥ तैत्तिरीये "करम्भपात्राणि जुहोतीत्यनेनेति भावः । करम्भपात्राणि जुहोती" ति वचने भाष्यालिखितेऽपि कौस्तुभे लिखितत्वात्प्रामाण्याश्वासः । तदत्र शूर्पकरणकमित्यर्थसिद्धम् । तेन फलतः शूर्पकरणत्वं विधायेत्यर्थः । एतच्चाप्राप्तार्थत्वेन विधित्वनिश्चयार्थमुक्तम् । एतेन "तेनह्यन्न" मित्यस्यार्थवादत्वाभावे विधित्वस्यानिश्चयात्निर्विषयो हेतुः इति निरस्तम् । अत एव तेनेति स्तावकत्वेनाभिमतस्यैव इहोदाहरणत्वम् । इदन्तु पूर्वपक्षे साध्यप्रदर्शनार्थं सिद्धान्ते स्तुत्यप्रदर्शनार्थम् इत्यपि ध्येयम् ॥ विधीयते इति ॥ (हिशब्दावगतहेतुत्वान्यथानुपपत्त्या व्याप्तिकल्पनानिरूपणम्) अज्ञातं ज्ञाप्यते नह्यत्रानूयाजा इत्यत्रेवेत्यर्थः ॥ ननु लोके पूर्वं व्याप्त्यवगमेनैव हेतुत्वावगमस्य दृष्टत्वातिह तदभावे कथं तदवगम इत्यत आह हेतुश्चेति ॥ यथैव धूमो वह्निज्ञानजनकः इत्याप्तोपदेशादेव व्याप्त्यनुमानमेवमिहापि वेदावगतहेतुत्वान्यथानुपपत्त्या "अर्थाद्वा कल्पनैकदेशत्वा" दिति न्यायेन श्रुतशब्दैकदेशभूतं शूर्पस्य होमसाधनत्वमन्नकरणत्वाथेतोरतो यदन्नकरणं शूर्पमन्यद्वा तेनापि होतव्यमिति श्रुतानुमिताभ्यामेकदेशावयवाभ्यां निष्पन्नं विधिवाक्यं कल्प्यत इत्यर्थः ॥ व० व्याप्तिवचनमिति ॥ व्याप्तिपूर्वकवचनमित्यर्थः ॥ ननु हेत्वनपेक्षविधित एव शूर्पहोमसंबन्धविधानोपपत्तेरर्थवादत्वे इव वैयर्थ्यं हेतुत्वबोधनेऽपीत्यत आह ततश्चेति ॥ पिठरं मृद्भाण्डम् । ततश्च यद्यदन्नकरणं तेन तेन होतव्यमिति कल्पितविधिनासर्वेषां होमसाधनतालाभस्तत्प्रयोजनमित्यर्थः ॥ (आपेक्षिकस्य दर्वीपिठरादिसाधारणस्य साधकतमत्वस्य निरूपणम्) नच पाकस्यैव साधकतमत्वेनान्नकरणत्वं न दर्व्यादीनामिति युक्तम्- कृष्टलाङ्गलाद्यपेक्षया साधकतमत्वोपपत्तेः, इतरथा शूर्पेऽपि तदभावेन तत्स्तुत्यालम्बनत्वेनोच्यमानस्यापि तस्यानुपपत्तेः इति ॥ ननु. सर्वेषां होमसाधनत्वे शूर्पस्यैवेह विधानं व्यर्थं तत्परिहाराय च तस्यैव मुख्यतयाश्रयताकल्पने प्रत्यक्षश्रुतेनैव नैराकाङ्क्ष्येण आनुमानिकतत्साधनत्वकल्पनानवसर इत्यत आह शूर्पपदमिति ॥ अर्थवादप्रतीतान्नकरणमात्रवृत्तिहोम साधनत्वानुरोधेन शूर्पपदं लाक्षणिकम् । जुहोतीतिपदं तु साध्यनिर्देशप्रदर्शनद्वारा होतव्यमिति विधिकल्पकत्वान्न व्यर्थम् । अथवा यद्यदन्नकरणं तेन तेन जुहोतीत्येवं विधयैकवाक्यतापन्नं सत्विधायकमेवेत्यर्थः ॥ अवयुत्यानुवादो वेति ॥ अनेकप्राप्तावेकं पृथक्कृत्य "एकं वृणीते" इत्यादिवदनुवाद इत्यर्थः । एतद्दोषद्वयापत्तेः प्रकारान्तरेण पूर्वपक्षमाह यद्वेति ॥ (१) टिप्पणी पर्णमय्यधिकरणन्यायेनास्याधिकरणस्य पौनरुक्त्याशङ्का हि वार्तिककारैरेवं बहुभिः प्रकारैः निरसिता (१) यथा अनेन गतार्थत्वात्तदेव पुनरुक्तमिति शङ्का स्यान्नतु पुनरिदं पुनरुक्तमिति, (२) इहार्थवादताबोधनम्, तत्र फलविधित्वनिराकरणमात्रम्, (३) इहाविशेषेणद्रव्यगुणक्रियादिविधिसरूपविषयत्वं तत्र फलविधिसरूपाणामिति, (४) सर्वविधिसरूपाणां केवलं विधित्वनिराकरणेनार्थवादत्वमत्र, तत्र तु अर्थवादस्यैव सतः फलविशेषसंबन्धोऽपीत्यधिकाशङ्केति, (५) फलविधावेव यत्र भेदेन स्तुतिफलपदानि सन्ति तदत्र विषयः, यत्र पुनस्तावन्मात्रेणैव फलं स्तुतिर्वा वक्तव्या तेषां चतुर्थे विषयत्वम्, (६) विज्ञातपारार्थ्यानां तत्रात्रातादृशानां विषयत्वमिति वा । (७) साधनांशयोग्यविचारमनादृत्याभ्युपेत्य वा केवलसाध्यांशविचारस्तत्रात्र पुनः साध्यांशविचारमनादृत्याभ्युपेत्य वा केवलसाधनांशविचारः इति वा इति. कौस्तुभकारास्तु शिष्यबुद्धिवैशद्यार्थमधिकरणान्तरारम्भ इति वदन्ति. सेश्वरमीमांसाकृतस्तु "ऊर्ग्वा उदुम्बर" इत्यादीनां प्रतीयमानार्थविधायकत्वनिरासेन स्तावकत्वमत्रोपपाद्यते, तत्रतु अर्थवादस्येव सतः फलसमर्पकत्वमात्रं निषिध्यते इति न पौनरुक्त्यशङ्कापीति वर्णयन्ति । तदेतदर्थवादाधिकरणेनैव गतार्थत्वात्तदीयमधिकरणशरीरं न युक्तमिति तु बहवो मन्यन्ते । सर्वथा च न पुनरुक्तमिदमधिकरणमिति मन्तव्यम्. (भाट्टदीपिका) कथयति । ततश्च शूर्पादन्यस्यापि दर्वीपिठरादेर्हेमसाधनत्वप्रतीतेर्विधौ शूर्पपदमुपलक्षणमवयुत्यानुवादो वा । यद्वा तच्छब्देन शूर्पस्यैव परामर्शात्तद्गतमेवान्नकरणत्वं हेतुः । तेन१ विशिष्यैव व्याप्तिकल्पनादन्नकरणासमर्थशूर्पव्यावृत्ता वपि न विधिस्थं शूर्पपदमन्यथा नेयमिति पूर्वः पक्षः । सिद्धान्तस्तु क्रियत इति लडन्तनिर्देशाद्वर्तमानान्नकरणत्वस्य हेतुत्वं वाच्यम् । नच होमकाले अन्नकरणत्वं संभवति । अतो लटा भूतभविष्यत्कालान्तरलक्षणा विधौ तावद्यवश्यकी । यद्यपि चेयं प्राशस्त्यलक्षणोपयोगिगुणघटकतया ममाप्यावश्यकी- तथापि अनुवादस्थत्वात्प्राशस्त्यपोषकत्वाच्च सा न दोषः, वर्तमाननिर्देशं विना तदप्रतीतेः । किञ्चापेक्षितप्राशस्त्यपरत्वे संभवति नानपेक्षितहेतुपरत्वाङ्गीकारो युक्तः । अतः सिद्धं सर्वेषामर्थवादानां स्तावकत्वेन प्रामाण्यम् ॥ ३ ॥ इति तृतीयं हेतुवन्निगदाधिकरणम् । (प्रभावली) (अन्नकरणसमर्थशूर्पमात्रगतकरणत्वविवक्षयापि न्यायसुधामतखण्डनेन पूर्वपक्षनिरूपणम्) यत्तु अत्र हिशब्दोपात्तहेतुत्वविधौ तृतीयोपात्तकरणत्वस्योद्देश्यत्वात्तस्य च प्रतिपादकोपात्तेन शूर्पेण विशेष्टुमशक्यत्वान्नतद्गतान्नकरणत्वस्य हेतुत्वमिति न्यायसुधायां विशिष्टोद्देशे वाक्यभेदापादनसूचनं, तत्तच्छब्दार्थस्य शूर्पस्य प्रकृत्यर्थत्वेन तृतीयोपात्ते करणत्वेऽन्वयव्युत्पत्तेर्विशिष्टान्वयप्रयुक्तवाक्यभेदाप्रसक्तेरयुक्तमिति यद्यदन्नकरणं शूर्पं तेन तेन होतव्यमिति विशिष्यैव व्याप्तिकल्पनात्युक्तोऽयं पूर्वपक्षः इति ॥ (तेनहीत्यत्र स्तुतिप्रतीतौ स्वारस्यनिरूपणम्) तदप्रतीतेरिति ॥ . ॥ अर्थवादत्वपक्षेऽवर्तमानाप्यन्नक्रियावर्तमानेव लक्षणया रुच्यर्थमुच्यते । नहि भूते भाविनि वा तादृशी प्रीतिर्यादृशी वर्तमाने, नवा वर्तमाने शक्तिस्तादृशी यादृशी फलोपहिते अतो वर्तमानसक्तिकं स्तोतुं कृतं करिष्यमाणं वा स्तोतुमस्मत्पक्षे क्रियत इति निर्देशोपपत्तिः । हेतुविधिपक्षेतु प्रमाणान्तरसिद्धार्थानुवादकत्वाभावाद्यथा श्रुतादेतदन्यथाकल्पनं दोष एवेत्यर्थः ॥ (नह्यत्रानूयाजेत्यत्रतु हिशब्दस्य हेतुपरत्वम्) अत एव यत्र नैतादृशलक्षणादिदोषापत्तिस्तत्र "नह्यत्रानूयाजानी" त्यत्र भवत्येव हेतुपरत्वम् । प्रकृतौ हि प्रयाजानुयाजयोर्द्वे चतुर्गृहीते । उपभृतितु "अष्टावुपभृति गृह्णाती" त्यष्टत्वसंख्याम्नानात्प्राप्तमपि प्रयाजानुयाजसाधनार्थमष्टगृहीतद्वयमेकमेव वाष्टगृहीतं न कार्यम् । अपितु एकं प्रयाजार्थे चतुर्गृहीतमपरमनूयाजार्थे इत्येवं चतुष्कद्वयलक्षणया चतुर्गृहीतद्वयमेव ॥ कुतः? आतिथ्यायां चतुर्गृहीतान्याज्यानि भवन्ति । नह्यत्रानूयाजानीत्याम्नानात् । अत्रच चतुर्गृहीतानीति बहुवचनश्रवणात्त्रीणि चतुर्गृहीतानि विधातुमनुयाजाभावस्य हेतुत्वमुच्यते । तेनानुयाजसामान्याभावहेतुकचतुर्थचतुर्गृहीतनिर्वृत्तिफलकत्रित्वविधिस्तदोपपद्यते । यद्यष्टपदे चतुष्कद्वयविधानं प्रकृतौ भवेत्, अन्यथा चतुर्गृहीतद्वयस्यैवाप्राप्तेस्तदनुपपत्तेः । अत एतत्प्रयोजनसिध्यर्थं हेतुत्वबोधनेऽपि नात्र कथञ्चिदपि लक्षणादिप्रसक्तिः इति ॥ नानपेक्षितेति ॥ (तृतीयया निरपेक्षकारणत्वावगमादिविरोधेन पूर्वपक्षोपमर्दनेन सिद्धान्तोपसंहारः) अर्थवादत्वे विधिनाकाङ्क्षितः संबन्धो भवति, हेतुविधेक्तु खत एव निरपेक्षतया विधेः विधायकत्वोपपत्तेः नाकाङ्क्षा, प्रत्युत दर्व्यादीनां साधनत्वे विकल्पापत्तेः समुच्चयपक्षे तृतीयावगतनिरपेक्षकारणताबाधापत्तेः तत्खारस्यभङ्ग एवेति भावः । यथाच तृतीयादिभिःविरपेक्षकारणत्वाद्यभिधानं तथा कौस्तुभादौ द्रष्टव्यम् । प्रयोजनं स्पष्टत्वान्नोक्तम् ॥ इति तृतीयं हेतुमन्निगदाधिकरणम् ॥ (१) टिप्पणी तेनेति तच्छव्दस्य शूर्पपरत्वेऽपि तत्करणत्वस्य विशिष्टस्योद्देश्यत्वासंभवाद्धहैकत्वाधिकरणन्यायेन केवलहोमसंबन्ध एवोद्देश्य इति न दोषः. (२) समर्थः पदविधिरित्यस्य सुबादिविधावपि प्रवृच्यावश्यकया शूर्पस्येवेतरेषामपि करणत्वे सापेक्षत्वलक्षणासामर्थ्येन सुबनुपपत्तिरिति शूर्पमात्रकरणत्वम्. (भाट्टदीपिका) (४ अधिकरणम् ।) तदर्थशास्त्रात् ॥ मन्त्राणां धर्माधर्मयोः प्रामाण्यमस्ति न वेति चिन्तायां न तावद्विधित्वेन प्रामाण्यम्- तस्य द्वितीये निराकरिष्यमाणत्वात् । नापि स्तावकत्वेनार्थवादवत्- तेषां हि सन्निहितेन विधिना पदैकवाक्यत्वाद्युक्तं स्वसमर्पितप्राशस्त्यान्वितभावनाविषयकशाब्दप्रमाजनकत्वम् । मन्त्राणां तु दूरस्थत्वेन पदैकवाक्यत्वानुपपत्तेर्न तद्विधया प्रामाण्यसंभवः । नापि प्राशस्त्यं स्वातन्त्र्येण वाक्यार्थः- १ अदार्थविधयोपस्थितत्वात् । नापि अर्थस्मारकत्वेन प्रामाण्यम्, अनधिगतार्थबोधकत्वाभावेन तदसंभवात्, साममन्त्राणामर्थाभावेन याथार्थ्यस्याप्यनुपपत्तेश्च । न च प्रामाण्याभावेऽपि स्मारकत्वादिना प्रयोजनवच्वमात्राङ्गीकारः- ध्यानाद्युपायान्तरेणापि स्मृतिसिद्धेर्नियतमन्त्राम्नानवैयर्त्यात्, प्रयोगासमवेतार्थस्मारकेषु समृतिवैयर्थ्याच्च । अतोऽधिकाराख्यप्रकरणादिनापगततत्तत्क्रत्वङ्गभावानां मन्त्राणामुच्चारणमात्रमद्दष्टार्थं विधीयते । स्वाध्यायविधिश्वोच्चारणोपयोगिप्रयागप्राशुभावफलकतयैवाध्ययनं विधत्ते इति न कश्विद्दोषः इति प्राप्ते (प्रभावली) (मन्त्राणामिति मूलावतरणम्) वेदावयवभूतानां चोदनानामाद्यपादेन धर्मप्रामाण्यं प्रसाध्य तदवयवत्वेनोपस्थितानां मन्त्रार्थवादानामर्थवादानां मन्त्रापेक्षयान्तरङ्गत्वेनेह पादाद्याधिकरणे तत्र प्रामाण्यमाक्षेपसमाधानाभ्यामुक्तवा तथैवोपस्थितानां मन्त्राणां तत्र प्रामाण्यं चिन्यते इत्यभिप्रेत्याहमन्त्राणामिति ॥ (नामधेयपादात्पूर्वमर्थवादपादप्रवृच्युपपत्तिनिरूपणम्) यद्यप्यर्थवादतोऽप्यन्तरङ्गता विधौ नामधेयस्य, किमु वक्तव्यं मन्त्रेभ्य इति ततः पूर्वं तत्प्रामाण्यचिन्ता युक्ता कर्तुम्- तथापि श्येनाग्निहोत्रादिपदेषु नामत्वस्य अर्थवादोपात्तोपमानाधीनत्वात्मन्त्रगततत्प्रख्यन्यायाधीनत्वाच्च तत्प्रामाण्योपजीवित्वावगतेः ततः पूर्वमेतत्प्रामाण्यसाधनं युक्तमेवेति भावः । वेदावयवभूतानां प्रकारद्वयेन तत्प्रामाण्यं साधितम्, तस्य चेहासंभवातन्यत्रोपलब्धप्रकारान्तरासंभवातप्रामाण्यं पूर्वपक्षयितुमुक्तप्रकारद्वयासंभवमुपपादयति न ता वदिति ॥ द्वितीय इति ॥ यच्छब्दामन्त्रणोत्तमपुरुषघटितेषु तेषु यच्छब्दादिभिः विधिशक्तिप्रतिबन्धान्न विधायकत्वमित्येवं द्वितीये भावार्थपादे विधिमन्त्रयोरैकार्थ्यमेकशब्दादित्यधिकरणे निराकरिष्यमाणत्वादित्यर्थः ॥ स्तावकत्वेन प्रामाण्यं द्वेधा, पदैकवाक्यतया वाक्यैकवाक्यतया वा ॥ तत्राद्यं दूषयतितेषामिति ॥ अनेनच अर्थवादप्रामाण्यसाधकहेत्वसंभवेत पूर्वपक्षकरणात्प्रत्युदाहरणात्मिका संगतिःसूचिता ॥ प्रकरणान्तरत्वादनन्तरसंगत्यभावेऽपि न देषः ॥ द्वितीयं दूषयतिनापीति ॥ (पदार्थविधयोपस्थित्या वाक्यैकवाक्यऽताभावनिरूपणम्) पदार्थविधयेति ॥ अनेकपदार्थान्वितैकविशेष्यताशाली हि वाक्यार्थो भवति । तस्मिंश्च स्वार्थे समाप्तानां वाक्यानामितरवाक्येनान्वये वाक्यैकवाक्यता भवति । यथा अङ्गप्रधानवाक्यानाम्, प्रकृते तु प्राशस्त्यस्य लक्षणया बोधेऽपि इतरान्वितत्वेनाबोधात्तस्मिंश्चार्थे समाप्तत्वाभावात्न सा संभवतीत्यर्थः । सिद्धान्तयुक्तिमनूद्य निराकरोति नापीति ॥ मन्त्राम्नानवैयर्य्यादिति ॥ वाचकमन्त्रशब्दस्मरणस्यार्थस्मरणाधीनत्वाच्चेत्यथ्रः । प्रयोगासमवेतेति ॥ प्रोत्साहनानुमन्त्रणादिमन्त्राणां कर्मसमवेतार्थाभिधायित्वेऽपि प्रयोगेऽनुष्ठेयार्थकत्वान्न तत्र स्मरणस्योपयोग इति न तत्प्रयोजकत्वमपि युक्तमिति भावः ॥ (उच्चारणद्वारा मन्त्राणां क्रतावुपयोगनिरूपणम्) अतः स्मारकत्वेनोपयोगासंभवातध्ययनसंस्कृतानामेषामुपयोगापेक्षायां प्रकरणपठितानामनारभ्याधीतानां च यथासंभवं श्रुतिवाक्याधिकाराख्यप्रकरणक्रमसमाख्यादिभिः प्रधानाङ्गत्वेनावगतानां प्रधानविधिना मन्त्रस्वरूपमेवाङ्गीक्रियते, नतु ब्राह्मणवाक्यवदर्थोऽपि (...?) अनुपयोगात् । यद्यपि मन्त्रस्य स्वरूपेण न प्रधानोपकारित्वं संभवति- तथापि प्रमाणावगतमन्त्रस्वरूपाङ्गत्वनिर्वाहायोच्चारणक्रियाद्वारेण कारकत्वेन च सोऽङ्गीक्रियते । नह्यर्थप्रत्यायनस्य पुरुषकृत्यसाध्यस्य व्यापारत्वं संभवति । अत उच्चारणमेव व्यापारः । तस्य च दृष्टप्रयोजनासंभवे परमदृष्टार्थत्वं मन्त्रनियमस्य सिद्धान्ते इवेत्यभिप्रेत्यपूर्वपक्षे फलितमाह अत इति ॥ स्वाध्यायाध्ययनविध्यवगतदृष्टार्थताभङ्गं परिहरति स्वाध्यायेति ॥ (क्रत्वनपेक्षितस्य मन्त्रानिष्ठस्योच्चारणस्य व्यापारत्वासंभवेनार्थप्रत्यायनस्यैव तत्त्वेनच सिद्धान्तोपक्रमः) यद्यपि उच्चारणं प्रति विषयतासंबन्धेन मन्त्राणां कारणत्वात्तज्जन्यत्वेन तस्य व्यापारत्वं संभवति- तथापि तस्य क्रत्वनपेक्षितत्वेन अदृष्टार्थत्वकल्पनापेक्षया दृष्टमेव पदार्थाभिधानस्य कर्मानौपायिकतया सामर्थ्यात्वाक्यार्थाभिधानं व्यापारत्वेन कल्पयितुमुचितम्- उच्चारणस्य पुंव्यापारत्वेन मन्त्रनिष्ठत्वाभावादित्यभिप्रेत्य सिद्धान्तमाह दृष्टे इति ॥ अनुष्ठेयार्थप्रतिपादकानां मन्त्राणां तावतनुष्ठानहेतुभूतस्मृतिजनकत्वादर्थाभिधानद्वारा प्रधानोपकारित्वमित्याह प्रयोगसमवेतेति ॥ संभवतामिति ॥ (१) टिप्पणी अनन्विततया स्वरूपमात्रेण पदशक्त्यधीनज्ञानविषयत्वात्. (भाट्टदीपिका) अभिधीयते- दृष्टे सम्भवत्यदृष्टकल्पनानुपपत्तेः प्रयोगसमवेतार्थस्मृतिरेव संभवतां मन्त्राणां प्रयोजनम्, असंभवतान्तु कामं भवत्वदृष्टं प्रयोजनम् । शक्यते तु तत्रापि मन्त्रा अर्थप्रकाशनार्थाः, प्रकाशनं परमदृष्टार्थमिति वक्तुम् । साम्नान्तु अक्षराभिव्यक्तिरेव दृष्टं प्रयोजनमर्थाभावेऽप्यव्याहतम् । अनृक्साम्नान्तु अदृष्टार्थत्वमेवेत्यन्यत्र विस्तरः, न त्वेतावता सर्वत्रैवादृष्टार्थत्वम् । न च मन्त्राणां नियमेन पाठवैयर्थ्यम्- तद्बलेन मन्त्रैरेव स्मर्तव्यमिति नियमकल्पनात् । तस्य चादृष्टफलकत्वेऽपि न दोषः । न च एवं सामर्थ्यादेव तत्र तत्र मन्त्राणां विनियोगसिद्धौ पुनस्तेषां क्वचिद्विनियोगकरणं व्यर्थमिति वाच्यम्- (प्रभावली) (इतिकरणविनियुक्तानुमन्त्रणफलमन्त्राणां दृष्टविधया प्रयोगसमवायनिरूपणम्) करणमन्त्राणामित्यर्थः । यत्रापि मन्त्रात्स्वरसतो नानुष्ठेयार्थावगतिः, इतिकरणादिना च मन्त्रो विनियुज्यते "इषेत्वेति शाखां छिनत्ती" त्यादौ तत्रापि अर्थाभिधानं विना दृष्टविधयान्यद्वारा कारणत्वासंभवातध्याहारादिनाप्यर्थाभिधानस्यैव व्यापारत्वम् । क्रियमाणानुवादिषु "युवासु वासा" इत्यादिष्वर्थाभिधानं न कर्मविध्यपेक्षितम्- कर्मणः उपक्रान्तत्वेनैव स्मृतत्वेन तद्वैयर्थ्यात्- तथापि यूपपरिव्याणादिक्रियाया अनेकक्षणव्यासक्ततया कदाचिन्मध्येऽपि बुद्धिविच्छेदेसति स्मृतिदार्ढ्यार्थं तदपेक्षोपपत्तेर्दृष्टविधयैवोपयोग नासुलभः । यत्राप्यभ्रयादानादौ मन्त्राणां समुच्चयः, तत्राप्येकेनैव स्मृतिसिद्धेरितरवैयर्थ्यं द्वादशे जपमन्त्रादिरीत्या परिहरिष्यते । येऽप्यननुष्ठेयकर्मसमवेतार्थाभिधायकाः अगन्म सुवरित्यादयः प्रोत्सानमन्त्राः, तेषामपि श्रद्धाजननार्थमननुष्ठेयस्यापि कर्मसमवेतफलादेः स्मृतेः श्रद्धातिशयो जायते इति तदर्थत्वेन दृष्टार्थत्वं ज्ञेयम् । अनुमन्त्रणमन्त्राणामकृतत्वशङ्कापरिहाराय स्मृतिदाढर्यार्थं तदपेक्षोपपत्तेः युक्तमेव तदर्थत्वम् । यत्तु अनुमन्त्रणमन्त्राणामदृष्टार्थत्वेन समुच्चयाभिधानं तन्त्ररत्ने पञ्चमे तदयुक्तमिति तत्रैव वक्ष्यते । कौस्तुभे चात्र द्रष्टव्यम् ॥ (असंभवद्दृष्टार्थानामदृष्टार्थत्वाङ्गीकारः) धुङ्श्व पूङ्श्वेति जपमन्त्रेषु दृष्टप्रयोजनासंभवाददृष्टार्थत्वमित्याह असंभवतामिति ॥ ""मन्त्रो हीनः खरतो वर्णतो वा मिथ्या प्रयुक्तो न तमर्थमाह"इत्यादिलिङ्गदर्शनात्खरयुक्तजपादिमन्त्राणामपि करणमन्त्रवदर्थाभिधायकत्वावगतेः निरुक्तव्याकरणादिना तेषामर्थबोधकत्वोपपत्तेः प्रकाशनस्य कर्मानुष्ठानानौपयिकत्वाद्दृष्टस्मृतिरूपप्रयोजनार्थत्वासंभवे काममदृष्टार्थत्वमपीति पक्षान्तरमाह शक्यते त्विति ॥ एवं स्थिते यद्द्वादशे जपादिमन्त्राणामजृष्टार्थत्वमुक्तं, तन्मन्त्रसाध्यार्थाभिधानस्यादृष्टार्थत्वाभिप्रायादिति भावः ॥ (साम्नां दृष्टार्थत्वनिरूपणम्) साममन्त्राणां गीत्यात्मकत्वेनार्थाबावात्तदभिधानद्वारा उपयोगासंभवेऽपि ॠगक्षराभिव्यक्त्यर्थत्वं नवमे यन्निरूपयिष्यते तदेव दृष्टं प्रयोजनमित्याहसाम्नान्त्विति ॥ (अनुक्साम्नामदृष्टार्थत्वनिरूपणम्) यानि तु स्तोभाक्षराधिरूढानि तेषामृगक्षराभिव्यक्त्यर्थत्वाभावाददृष्टार्थत्वमेव ॥ अत एव रथन्तरादिसाम्नामाश्रयिकर्मत्वमित्यपि द्रष्टव्यम् ॥ यानि त्वनृक्सामानि प्रजापतिहृदयादीनि, तेषां स्तोभाक्षराधिरूढत्वात्स्तोभानां चार्थशून्यत्वस्य नवमे वक्ष्यमाणत्वात्नार्थाभिधानरूपस्तोत्रकरणत्वमित्यगत्या सामविनियोगानुरोधेनोच्चारणमात्रद्वारादृष्टार्थत्वमेवेत्याहनुक्साम्नान्त्विति ॥ (प्रयोगप्रत्यायनार्थत्वेनानृक्साम्नामुपयोगनिराकरणम्) यत्तु भाट्टालङ्कारकृता अनृक्साम्नां यत्र कर्मणि तानि विनियुक्तानि तदपूर्वेणापेक्षितस्य स्वविशिष्टत्वेन प्रयोगविधिप्रयोगप्रत्यायनस्य तैरपि संपादनादर्थप्रत्यायनार्थत्वमुक्तम्, तदेव रूपमादायान्यत्रापि तस्यैव प्रयोजनत्वापत्तेरुपेक्षितं पूज्यपादैः ॥ (मन्त्राणां प्रयोगसमवेतस्मारकत्वपक्षे तां चतुर्भिः इमामगृभ्णनुरुप्रथस्वेत्यादिवियोगवैयर्थ्यनिरूपणम्) न दोष इति ॥ नचावश्यकादृष्टकल्पना प्राथम्यावश्यकत्वादिनोच्चारणादेव युक्तेति वाच्यम्- दृष्टेन निराकाङ्क्षस्य अदृष्टकल्पनानिमित्तभूताकाङ्क्षाभावे प्राथम्यादिमात्रस्याप्रयोजकत्वादिति भावः । क्वचिद्विनियोगकरणमिति ॥ यथा ""तां चतुर्भिरादत्ते"""इत्यश्वाभिधानीमादत्ते"""उरुप्रथस्वेति पुरोडाशं प्रथयति"इत्यादयो विनियोगविधयः तेषांवैयर्थ्यमित्यर्थः । आद्ये तावत्चयनसाधनीभूतेष्टकासिध्यर्थमावश्यकतया प्राप्तस्य भृद्रहणस्य खननद्वाररूपाभ्र्यादाने ""देवस्य त्वा सवितुर्" इत्याद्याम्नातानां चतुर्णं मन्त्राणमर्थप्रकाशकत्वरूपलिङ्गकल्प्यश्रुत्यैव मन्त्रविनियोगप्राप्तौ तद्विधिवैयर्थ्यम् । द्वितीये तस्या मृदोऽश्वगर्दभोपर्यानयनार्तं तयोर्बन्धनार्थरशानादाने अर्थप्राप्ते "इमामगृभ्णऽ न्निति मन्त्रस्य लिङ्गकल्प्यश्रुत्या गर्दभरशनादान इवाश्वरशनादानेऽपि प्राप्तेस्तद्विधिवैयर्थ्यम् । तृतीये पुरोडाशे अष्टसु कपालेषु संस्कृतत्वार्थप्राप्ते प्रथने मन्त्रस्य लिङ्गकल्प्यश्रुत्यैव प्राप्तेस्तद्विधिवैयर्थ्यम् । मन्त्राणामदृष्टार्थत्वे तु यत्र कुत्राप्युच्चारणे प्राप्ते तत्र लिङ्गेनाविनियुक्तानां विनियोजकतयोच्चारणनियमार्थत्वेन सार्थक्यमित्याशङ्काग्रन्थार्थः ॥ (भाट्टदीपिका) करणं व्यर्थमितिवाच्यम्- गुणपरिसङ्ख्याद्यर्थत्वेन सार्थक्यात् । तथाहिअर्थप्राप्ते अभ्र्यादाने विकल्पेन चतुर्णां मन्त्राणां लिङ्गेन प्राप्स्यमानानां प्रापकप्रमाणात्पूर्वमेव प्रवृत्तेन तां चतुर्भिरादत्ते इति वचनेन मन्त्रसङ्ख्योभयविशिष्टादानभावनायां विहितायामेतद्वचनप्रवृत्तिफलजिज्ञासायां समुच्चयफलकचतुःसङ्ख्यारूपगुणप्राप्तिरिति निश्वीयते । तथा लिङ्गादेवाग्निचयनाङ्गभूताश्वरशनाऽदाने प्राप्स्यमानस्य मन्त्रस्य ततः पूर्वप्रवृत्तेन इमामगृभ्णन्रशनामृतस्येत्यश्वाभिधानीमादत्ते इत्यनेन वचनेन मन्त्रविशिष्टादाने अश्वरशनाङ्गत्वेन विहिते पूर्ववत्फलजीज्ञासायां गर्दभरशनानिवृत्तिरूपशेषिपरिसङ्ख्या फलम् । न च फलतः परिसङ्ख्यायां स्वार्थहानिः स्वार्थहानिः परार्थकल्पना प्राप्तबाध इति त्रैदोष्यम्- अश्वाभिधानीसंबन्धरूपस्वार्थस्यैव विधेयत्वात्, अन्यनिवृत्तिरूपपरार्थस्यार्थसिद्धत्वेनाकल्पनीयत्वात्, प्रापकप्रमाणस्याप्रवृत्ततया प्राप्तबाधाभावाच्च । अतएव यत्र प्रापकप्रमाणप्रवृच्युत्तरमेव परिसङ्ख्याशास्रस्य प्रवृत्तिः, यथा पञ्च पञ्चनखा भक्ष्या इत्यादौ रागप्राप्तपञ्चनखभक्षणे पञ्चातिरिक्तपरिसङ्ख्याकरणे, तत्रैव तत् । यत्रापि च श्रौती (प्रभावली) (चतुःसङ्ख्याविशिष्टमन्त्रविशिष्टादानविधित्वावश्यकतानिरूपणम्) अत्रैतदाशङ्कापरिहारार्थानि ""गुणार्था वा पुनः श्रुतिः"""परिसङ्खया"""अर्थवादो वे"ति त्रीणि सूत्राणि । तदर्थमनुसन्धाय परिहरति गुणेति ॥ अत्र चार्थप्राप्ताभ्र्यादानोद्देशेन लिङ्गप्राप्तमन्त्रपरिच्छेदद्वारा चतुःसङ्ख्याविधाने आदानभावनाया मन्त्राणां च विधानाभावातरुणैकहायनीवदेक क्रियावशीकारासंभवेनैककर्म्यानुपपत्तेर्मन्त्राणामपि विधाने उभयविधानप्रयुक्तवाक्यभेदापत्तेः तदर्थं लिङ्गकल्प्यश्रुतेः पूर्ंव चतुःपदोपात्तचतुःसङ्ख्याविशिष्टमन्त्रविधानेऽपि विशिष्टोद्देशे वाक्यभेदस्य सर्वथापरिहारात्मन्त्रविधानस्येवाक्षेपतः पूर्ंवप्रवृच्याऽदानस्यापि विधानोपपत्तिः विशिष्टविधिगौरवाश्रयणेनापि धात्वर्थविदानस्य युक्तत्वादित्यश्वाभिधानीमित्यत्रत्यवार्तिककारमत इवेहापि विशिष्टभावनाविधानमेव युक्तत्वादित्यस्वाभिधानीमित्यत्रत्यवार्तिककारमत इवेहापि विशिष्टभावनाविधानमेव युक्तमित्यभिप्रेत्याहतथाहीति ॥ निश्वीयत इति ॥ यद्यप्येतच्चतुःसङ्ख्यामन्त्रोभयविधानमात्रस्यैव फलं, नादानविधेः- तथाप्ययमर्थःचतुःपदं ह्यत्रारुणादि पदवद्गुणमात्रपरम्, विशेष्यन्तु प्रकरमप्राप्तमपि भावनान्वयार्थं मन्त्रैरित्यध्याहृतपदेनैव समर्प्यते । तयोश्व परस्परान्वयाभावेन परिच्छेद्यपरिच्छेदकभावानुपपत्तेः तदर्थमुभयोरपि भावनान्वयेन विशिष्टभावनाविधानमावश्यकम् । पार्ष्ठिक एव च तयोः परिच्छेद्यपरिच्छेदकभावबोधः । अतः समुच्चयफलकमन्त्रपरिच्छेदकचतुःसङ्ख्यारूपगुणप्रापणमादानविधेः फलं नायुक्तमिति । एवञ्च ""गुणार्थावे"ति सूत्रे गुणार्थत्वं गुणविशिष्टभावनाविधाने फलतो गुणार्थत्वेन व्याख्येयमिति भावः ॥ (अश्वाभिधान्यादानाङ्गत्वेन मन्त्रविधानमिति भाष्यस मन्त्रविशिष्टादानमश्वरशनाङ्गत्वेन विधीयते इति भाट्टदीपिकायाश्वाविरोधसमर्थनम्) मन्त्रविशिष्टादाने इति ॥ भा० ५ यद्यपि भाष्यकारेणाश्वाभिधान्यादानाङ्गत्वेन मन्त्रविधानमेवोक्तम्- तथापि पूर्ववद्वार्तिककारमताभिप्रायेण विशिष्टादानमुक्तं ज्ञेयम् । अश्वरशानाङ्गत्वेनेत्यनेन वार्तिककारमते विशिष्टादानविधिपक्षे अश्वाभिधानीपदस्यापि विशिष्टविध्यन्तर्गतत्वोपपादनेनानुद्देश्यपरत्वात्न तत्पदेऽपूर्वीयत्वलक्षणावश्यकीति विधिरसायनगतोदाहरणाक्षेपद्वितीयश्लोकोपपादितस्योद्देश्यंशे विध्यनन्तर्गतत्वस्य अनुक्तिसहत्वान्निरासो द्वितीयाश्रुत्या लिङ्गबाधश्व सूचितः । यद्यपिचेति कारणस्थले वाक्यरूपतया लिङ्गाक्ययोर्विरोध इति केषां चिन्मतम्- तथाप्यस्य ब्राह्यणवाक्यत्वेन लिङ्गापेक्षया यद्यप्यन्यदेवत्य इत्यस्येव प्राबल्यात्लिङ्गबाध्यत्वोपपत्तिः । एतेन वाक्यीयविनियोगपक्षे वाक्यस्यैव लिङ्गेन बाधापत्तिदूषणं न्यायप्राकाशोक्तं अपास्तम् ॥ तत्रैवतदिति । . । (पञ्च पञ्चनखा भक्ष्या इत्यस्यार्थपरिसङ्ख्यात्वसमर्थनम्) अत्र ब्रह्नक्षत्रेण राघव । शल्यकः श्वाविधो गोधा शशः कूर्मश्व पञ्चम इत्युत्तरं पादत्रयं रामायणे वालिवाक्यगतं ज्ञेयम् । अत्रच न भक्षणं विधेयम्- रागतः प्राप्तत्वात् । नापि रागप्राप्तेः पूर्वप्रवृच्या विधेयत्वम्- फलकल्पनापत्तेरभक्ष्यप्रक्रमविरोधापत्तेश्व । नापि पञ्चपञ्चनखभक्षणस्य समुच्चयेन- प्राप्तेः पाक्षिकत्वाभावात्, कदाचित्पाक्षिकप्राप्तावपि अभक्ष्यप्रक्रमविरोधापत्तेश्व, अतः परिसङ्ख्यैवेयम् । तथाव पञ्चातिरिक्तपञ्चनखभक्षणनिवृत्तेरेव लक्षणया विधानमिति स्वार्तहान्यादिदोषत्रयमित्यर्थः । अत्र दोषद्वयं शब्दनिष्ठम्, अन्तिमस्त्वर्थनिष्ठ इति विवेकः ॥ (नञ्घटितवाक्यस्थल एव श्रौतपरिसङ्ख्यात्वनिरूपणम्) पूर्वोक्तपरिसङ्ख्याया लक्षणिकत्वेन तस्याः श्रौतीत्वमाह यत्रापि श्रौतीति ॥ तत्र नञैव निवृत्तिबोधनस्य शक्त्यैव संभवात्स्वार्थहानिपरार्थकल्पनयोरभावान्न दोषद्वयम्, प्राप्तबाधत्वं त्वस्त्येवेत्याह न तदिति ॥ एकसच्वेऽपि द्वयोरभावेन त्रैदोष्याभावोपपत्तेर्न तदिति नासंगतम् । यत्तु श्रौतपरिसङ्ख्योदाहरणम् ""अत्र ह्येवावपन्ती"ति पार्थसारथ्यादिभिर्दर्शितं, ततेवकारस्य अन्ययोगव्यावृच्यर्थत्वे न तौ पशौ करोतीत्यत्रेव विकल्पापत्तेरयुक्तम्, किन्त्वत्र फलतःपरिसङ्ख्यात्वमेवेति दशमेवक्ष्यते ॥ (भाट्टदीपिका) परिसङ्ख्या यथा नानृतं वदेदित्यादौ, तत्रापि न तत् । अतएव शब्दतः फलतो वा यस्य शास्रस्यान्यनिवृर्त्तिर्विषयः स परिसङ्ख्याविधिः । अत्र चैतद्विध्यभावे प्रायश औत्सर्गिकी तत्र चान्यत्र च प्राप्तिर्न तु सापि लक्षणघटिकेति ध्येयम् । अतएवैकस्मिन् कार्येऽनृतस्य सत्येन सह पाक्षिकप्राप्तावपि नानृतं वदेदिति परिसङ्ख्यैवेयम्, न तु निमविधिः । अत (प्रभावली) (एवकारघटितस्थले परिसङ्ख्यात्वनिरूपणपरवार्तिकस्य श्रौतनियमपरत्वोपपादनम्) यत्त्वस्मिन् सूत्रे "सर्वत्र हि परिसङ्ख्याशब्दादेवकाराद्वा श्रुत्या परिसङ्ख्या नियमो वोच्यते" इत्यादिना वार्तिक एवकारस्थले श्रौतपरिसङ्ख्यात्वमभिहितम्, तद्रागप्राप्तार्थसमभिव्याहृतैवकारपरतया नेयम् । यदप्येतद्वार्तिकस्वारस्यादेवकारस्थले श्रौतोनियम इति न्यायसुधायामुक्तम्, तत्सत्यमेवेत्येतादृशे विषये पाक्षिकप्राप्तिसत्त्वादयोगव्यावृत्त्यर्थकत्वाभिप्रायेण । यत्र तु नियता शास्त्रतः प्राप्तिः, तत्र तु फलतः परिसङ्ख्यैवेति कौस्तुभे व्यक्तम् ॥ (प्रथमतः परिसङ्ख्यालक्षणकथने निमित्तनिरूपणम्) यद्यपि "विधिरत्यन्तमप्राप्ते" इत्यादिना वार्तिकेऽपूर्वविधिक्रमेण तल्लक्षणान्यभिहितानि- तथापि उभयविधपरिसङ्ख्यानिरूपणेन प्रथमत उपस्थितत्वातथवा नियमपरिसङ्ख्यातिरिक्तफलकविधित्वरूपस्यापूर्व विधिलक्षणस्य स्वयमभिधास्यमानत्वात्प्रतियोगिप्रसिद्ध्यर्थमवश्यं कर्तव्यतौचित्याद्वा तदुक्तक्रममुपेक्ष्यादौ परिसङ्ख्यालक्षणमाह अतएवेति ॥ (तत्रचान्यत्रचेत्यस्य तच्चान्यच्च यत्रेत्येतदर्थोपलक्षणत्वलक्षणाघटकत्वयोरुपपादनम्) अत्रऽऽतत्र चान्यत्र च प्राप्तौ परिसङ्ख्येति गीयते"इति वार्तिकं शेषिपरिसङ्ख्याभिप्रायेण लक्ष्ये निवेशितमपि शेषान्तरपरिसङ्ख्यासंग्रहाय तच्चान्यच्च प्राप्तं यत्रेत्यर्थस्यापि उपलक्षणम् । तेनाज्यभागौ यजतीति परिसङ्ख्यायां शेषद्वयप्राप्तौ नाव्याप्तिः । तथाप्येतन्न लक्ष्णघटत्वेन विवक्षितम्-ऽऽनानृतं वदेत्"इति श्रौतपरिसङ्ख्यायामव्याप्तेः, किन्त्वौत्सर्गिकत्वेन खरूपकथनमात्रार्थत्वमित्याहत्रेति ॥ (पाक्षिकप्राप्तावपि नञ्घटितवाक्येषु परिसङ्ख्याविधित्वनिरूपणेन दीक्षितो न ददातीतयादीनामपि लक्ष्यत्वनिरूपणम्) प्राप्तावपीति ॥ अपिना कदाचिदत्र समुच्चयेन प्राप्तौ सत्यां परिसङ्ख्यात्वोपपत्तावपि पाक्षिकप्राप्तावपि अत्र निषेधप्रवृत्तेः परिसङ्ख्याविधित्वमन्यथा न सिध्यति । अनेनैव न्यायेनऽऽपञ्च पञ्चनखा भक्ष्या"इत्यत्र कदाचित्पाक्षिकप्राप्तावपि परिसङ्ख्याविधित्वं निर्दुष्टं भवतीति च सूचितम् ॥ अनेन चोदाहरणेन निषेधरूपेषुऽऽदीक्षितो न जुहोतिऽऽन तौ पशौ करोती"त्यादिषु निवृत्तिफलकत्वात्पाक्षिकनियमप्राप्त्यभावेऽपि परिसङ्ख्याविधित्वे सूचिते यत्तेषामपूर्वनियमविधित्वे आपाद्य परिसङ्ख्यालक्षणातिव्याप्त्यापादनं विधिरसायनकाराणां तदपास्तमिति द्रष्टव्यम् ॥ नच परिसङ्ख्यात्वेन व्यवहाराभावः- पर्युदासप्रतिषेधत्वेन व्यवहारसिद्धौ तच्वेन व्यवहाराभावेऽपि क्षत्यभावस्य न्यायसुधायामेव दर्शितत्वात् ॥ (अभावस्य निवृत्तिप्रतियोगिनिरूपणेनावघातविधेरपि फलतः परिसङ्ख्यात्वे न दोष इति निरूपणम्) अत्रच निवृत्तिप्रतियोगी न केवलं भावरूप एव विवक्षितः, किन्त्वभावरूपोऽपि । अतएवऽऽपत्नीसंयाजान्ता प्रायणीया संतिष्ठतेऽऽऽऽनानूयाजान् यजती"त्यत्र प्रायणीयातिथ्ययोः पत्नीसंयाजप्रयोगविधिना सर्वेषामुत्तराङ्गानां निवृत्तिसिद्धौ पुनर्न्न पत्नीर्नानूयाजानिति निषेधद्वयं व्यर्थं सदितराङ्गाभावपरिसङ्ख्यार्थमिति दशमे पूर्वपक्षे उपपादितं सङ्गच्छते । एवञ्च अवघाताभावनिवृत्तिफलके नियमोदाहरणेऽवघाताभावप्रतियोगिनिवृत्तिफलकत्वेन परिसङ्ख्यालक्षणसच्वेऽपि साङ्कर्ये बाधका भावान्न क्षतिरित्यवधेयम् । अतएव यद्धर्मावच्छिन्नप्रतियोगिकाभावनिवृत्तित्वेन यत्र शास्रतात्पर्यविषयता तत्र नियमः, यत्र तु तत्प्रतियोगिकनिवृत्तित्वेन सा, तत्र परिसङ्ख्येत्येताववतैव तयोर्भेदः ॥ (निवृत्तिविधिः परिसङ्ख्येति विवक्षायां विधिरसायनोक्तदूषणपरिहारः) अत्रच शब्दतः फलत इत्यस्यायमर्थः । यत्र वैयर्थ्यप्रतिसन्धानं विनैव निवृत्तिः प्रतीयते, सा शब्दतः, यत्र तत्प्रतिसंधानेन सा तात्पर्यविषयीभूता तत्र फलत इति । एवञ्चनिवृत्तिफलो विधिः परिसङ्ख्येति लक्षणविवक्षायामग्निहोत्रविधावतिव्याप्तिरकरणनिवृत्तिफलत्वादिति विधिरसायनोक्त्यतिव्याप्त्यापादनं परास्तम्- अकरणनिवृत्तेः शब्दतः फलतो वा तात्पर्यविषयत्वाभावात्, अग्निहोत्रानुष्ठानविधायकत्वेन वैयर्थ्याभावात् । अतएवेतादृशार्थविवक्षया पदद्वयमेतल्लक्षणघटकमेवेतिध्येयम् । तथाचयद्विध्यभावे यस्य प्राप्रौ संभावितायां तस्य शब्दतः फलतो वा निवृत्तिः शब्दतात्पर्यविषयभूतेत्युपादानान्नियमविधौ विदलनादिनिवृत्तेः फलत्वेऽपि नातिव्याप्तिः ॥ (परिसङ्ख्यालक्षणघटकैतद्विध्यभावः तन्मात्रप्रतियोगिकः तदितराप्रवृत्तिसहिततद्विधिप्रतियोगिकश्व विवक्षणीय इति निरूपणम्) अत्रच एतद्विध्यभाव एतन्मात्रप्रतियोगिको विध्यन्तराप्रवृत्तिसहितैतद्विधिप्रतियोगिकोवा वक्ष्यमाणनियमविधिघटकपाक्षिकायोगवदवसेयः । इतरथा गृहमेधीयगतेऽऽआज्यभागौ यजती"ति विधौ परिसङ्ख्यात्वलक्ष्ये आज्यभागविधिमात्राभावेऽऽअग्नये स्विष्टकृते समवद्यतिऽऽऽऽइडामुपह्वयस्वे"त्यादिप्राकृताङ्गपुनर्विधानेनेतराङ्गपरिसङ्ख्यालाभेनाज्यभागसाधारण्येनेतरङ्गप्राप्त्यभावे तन्निवृत्तिफलकत्वासङ्गेनाव्याप्त्यापत्तेस्तत्र विध्यन्तराप्रवृत्तिसहिताज्यभागविध्यभावमादायैव आज्यभागयोस्तदितराङ्गानां च प्राप्त्या लक्षणं नेयम् । एवमन्यत्राप्यूह्यम् ॥ (अपबर्हिषः प्रयाजानित्यत्र परिसङ्ख्यालक्षणातिव्याप्तिनिरूपणपरविधिरसायनखण्डनम्) विध्यन्तरं चात्र प्रकृतविधेर्विवक्षितफला या विधेयता तत्प्रतिबन्धकरूपं विवक्षितं, नान्यत् । अस्तिच यवविधिस्तादृशोऽग्नये स्विष्टकृते इत्ययं चेति नानुपपत्तिः । एतेन अष्टमश्लोकविवरणे आज्यभागपुनर्विधानेन गृहमेधीयवदपूर्वेऽवभृतेऽऽअपबर्हिषः प्रयाजान् यजति अपबर्हिषावनूयाजौ यजती"ति वर्हिर्व्यतिरिक्तप्रयाजानूयाजप्राप्त्यर्थेऽपूर्वविधौ विध्यन्तराप्रवृत्तिसहितैतद्विध्यभावे बर्हिःसंज्ञकप्रयाजानूयाजयोस्तद्यतिरिक्तप्रयाजानूयाजानां च नियतप्राप्तिसच्वेन तन्निवृत्तिफलकत्वात्परिसंख्यालक्षणस्यातिव्याप्तिर्विधिरसायने आपा दितापरास्ता- आज्यभागविधेरनूयाजप्रयाजादिविधेयताप्रतिबन्धकत्वाभावेन विध्यन्तरपदेनाग्रहणात् । अतस्तादृशस्य विध्यनतरस्याभावात्नायं तस्य विषयः । एतद्विधिमात्राभावे तु आज्यभागविधिना परिसंख्यातत्वात्बर्हिःसंज्ञकप्रयाजानूयाजयोः तद्व्यतिरिक्तप्रयाजानां च नैव नियता प्राप्तिरिति नैव लक्षणानुप्रवेशः । अनेनैव न्यायेनऽऽबृहत्पृष्ठं भवती"ति वै कृतनियमविधौ एतद्विधेः प्राकृतबृहद्रथन्तरविकल्पविधेश्वाप्रवृत्तौ प्रकृतितोऽऽबृहत्पृष्ठं भवति रथन्तरं पृष्ठं भवती"ति वा क्यद्वयबलात्बृहद्रथन्तरयोः समुच्चित्य प्राप्तिसच्वात्परिसङ्ख्यालक्षणस्यातिव्याप्तिरपि तदापादिता निरसनीया- अनयैव रीत्यैतत्सदृशोदाहरणेषु तदापादितातिव्याप्त्यादिदूषणानि निरसनीयानि । इतोऽप्यधिकं कौस्तुभे द्रष्टव्यम् ॥ (अश्वाभिधानीशब्देनापूर्वसाधनत्वलक्षणायामपि अश्वाभिधानीत्वविवक्षावश्यकतानिरपणेन धर्मसांकर्यापादनपरविधिरसायनखण्डनम्) ननु अस्त्वेवमुभयसाधारण्येन परिसङ्ख्यालक्षणं, तथापिऽऽअश्वाभिधानीमादत्तेऽऽ इत्यत्राश्वाभिधान्युद्देशेन मन्त्रविशिष्टादानविधौ अश्वाभिधानीस्वरूपे आनर्थक्यपरिहारार्थमपूर्वसाधनत्वलक्षणाया आवश्यकत्वात्तद्रूपस्यचैकापूर्वसाधनत्वेन गर्दभाभिधान्यामपि सच्वेन व्रीहिधर्माणां यवेष्विव धर्मसांकर्यस्यानिराकरणात्कथं गर्दभाभिधान्यां मन्त्रनिवृत्तिः फलं लभ्यते? इत्युदाहरणाक्षेपे विधिरसायनोक्तदूषणान्न मुक्तिः इतिचेत्, धर्मसांकर्यस्य लिङ्गकल्प्यश्रुत्यैव प्राप्तत्वेनापूर्वसाधनत्वमात्रभणायां विधिवैयर्थ्यापरिहारेण तद्वैयर्थ्यानुपपच्या गुरुभूतस्याप्यश्वाभिधानीत्वस्य उद्देश्यतावच्छेदककोटिप्रविष्टत्वाङ्गीकारेण तदनापत्तेः ॥ अतएवऽऽप्रतूर्तं वा जिन्नाद्रवेत्यश्वमभिदधातिऽऽऽऽयुञ्जाथां रासभं युवमिति गर्दभं प्रतिष्ठापयति"इति तत्तद्वर्गविधौ प्रतिनियतनिर्देशोऽप्युपपद्यते ॥ (अश्वाभिधानीमित्यत्राश्वसंबन्धाविवक्षापरविधिरसायनखण्डनम्) यदपि अश्वाभिधान्युद्देशेन मन्त्रस्य तद्विशिष्टादानस्य वा विधाने विशिष्टोद्देशे वाक्यभेदापच्याश्वविशेषणस्याविवक्षया गर्दभाभिधान्यां मन्त्रप्राप्तिरनिवार्येति विधिरसायने उक्तम्, तन्न- समासे परस्परान्वयव्युत्पच्या विशिष्टस्य व्युत्पन्नत्वेन विशिष्टोद्देश्यतास्वीकारेऽपि तदप्रसक्तेः । नह्यऽऽध्वर्युयजमानौ वाचं यच्छत"इत्यत्र नानेकोद्देश्यता, नवा प्रयाजशेषस्य संस्कार्यत्वेऽपि प्रयाजसंबन्धाविवक्षेति स्पष्टम् । विधिवैयर्थ्यापरिहारार्थमेव न ब्राह्नणं हन्यादित्यत्रेव विशिष्टानुवादस्याप्यगत्याह्गीकाराच्च, अपूर्वसाधनत्वलक्षणायामपूर्वविशेषणस्येव विशिष्टलक्षणया तस्यापि विवक्षोपपत्तेश्व । नचत्रऽऽउरु प्रथस्वेति पुरोडाशं प्रथयती"त्येत्रवार्थप्राप्तस्य प्रथनस्याध्वर्युकर्तृकत्वनियमप्राप्तिफलकतयाऽदानविधानेन वैयर्थ्यं सुपरिहरमिति तदुक्तं युक्तमिति वाच्यम्- त्वदुक्तरीत्या तावतापि विशिष्टानुवादानुप पत्तेः । नहि विधिवैयर्थ्यापच्या त्वया विशिष्टानुवादः शक्यते परिहर्तुम् । अस्वरशनाग्रहण इव गर्दभरशनाग्रहणेऽपि अध्वर्युकर्तृनियमाय विध्युपपत्तेः, मन्त्रादनयोः समानकर्तृकत्वलाभाय मन्त्रांशे विधिसंभवेऽनुवादत्वकल्पनस्यायुक्तत्वाच्च । नहि स्वकर्तृकमन्त्रपाठेनैव स्वकर्तृककर्मस्मृतिरिति नियमे प्रमाणमस्ति- होतृकर्तृकमन्त्रपाठेनापि यजमानाध्वर्युकर्तृकयागप्रक्षेपस्मृतेर्जायमानत्वात् । अतएव मन्त्रकल्पसूत्रादितौल्येनोपद्रष्ट्रादिवचनस्य अनुष्ठेयार्थस्मरणोपायत्वेन पक्षप्राप्तिः सर्वत्रोक्ता । एवञ्च मन्त्रविधाने सति समानतत्परिसङ्ख्यारूपं फलं नैव वारयितुं शक्यम् । वस्तुतस्तुमन्त्रस्याऽध्वर्यवकाण्ड एव समाम्नानात्ऽऽप्रतूर्तं वाजिन्नाद्रवेत्यश्वमभिदधाति"इति प्रत्यक्षविधानात्तत्रैव बन्धनविधानाच्च बन्धनस्याध्वर्युकर्तृकत्वनियमसिद्धौ तदर्थादानेऽपि अध्वर्युकर्तृकत्वनियमसिद्धेः सर्वथा परिसङ्ख्याफलकत्वाभावे विधिवैयर्थ्यमेवेत्यावेदितमेव कौस्तुभे पूज्यपादैः ॥ यदित्वनेन न्यायेनाभ्र्यादानस्यापि द्वाभ्यां शनतीत्यत्र खनननियमविधेरावश्यकत्वेन तत्राद्वर्युकर्तृकत्वसिद्धावादानेऽपि तत्कर्तृकत्वप्राप्तेः न प्रत्यक्षविधाने फलमित्युच्यते, तदोभयत्रापि विशिष्योद्देशे वाक्यभेदपरिहारार्थमेवादानपर्यन्तविध्याश्रवणमित्यवधेयम् । यथाचात्र याजुर्वैदिकप्रायश्वित्तप्राप्तिरप्यादानभ्रेषे फलं तथा कौस्तुभे द्रष्टव्यम् । प्रथनमन्त्रेतु वक्ष्यते इत्यलं विस्तरेण । प्रस्तुतमनुसरामः ॥ (उपसंहारविधिषु केषाञ्चिन्मतेन परिसङ्ख्यात्वसमर्पणम्) ननु एवमिदं परिसङ्ख्यालक्षणमनारभ्याधीतस्य अन्यस्य वा येन सहोपसंहारः तत्रान्यनिवृत्तेः फलतः शास्रतात्पर्यविषयत्वादतिव्याप्तमितिचेत्, अत्र केचिदिष्टापच्यैव परिजहुः ॥ अतएवअष्टमश्लोकावतरणिकायां मित्रविन्दादिप्रकरणगतानां वाक्यानां परिसङ्ख्यात्वमङ्गीकृतं दीक्षितैरिति ॥ (प्रकाशकारमतेनोपसंहारविधीनामपरिसङ्ख्यात्वोपपादनम्) तदेतत्प्रकाशकारा न क्षमन्ते । इत्थं हि विधिरसायनखण्डने तैरुपपादितम् । यद्युपसंहारस्य परिसङ्ख्यात्वं, तदाऽऽआग्नेयं चतुर्धा करोती"त्यस्यापि परिसङ्ख्यात्वापत्तेरुपसंहारो दत्तजलान्जलिरेवाऽपद्येत । अतएव गृहमेधीयाधिकरणे भाष्यकारादिसर्वसंमता अष्टौ पक्षा उपपद्यनते । अन्यथा पञ्चमस्य परिसंख्यात्वात्सप्तमस्यापि प७ योपसंहाररूपस्य परिसङ्ख्यात्वान्तर्गतेः पक्षगताष्टत्वानुपपत्तिः ॥ किञ्चऽऽभावादतिरात्रस्य गृह्यते"इत्यधिकरणे ननूपसंहारः परिसङ्ख्या वा षोडश्युत्तरवाक्यमिति भाष्यं द्वयोरभेदेऽनुपपन्नं स्यात् । अत उपसंहारपरिसङ्ख्ययोर्भेद एव । कथमनयोर्भेद इति चेत्, शृणु-ऽऽसामान्यविधिरस्पष्टः संह्रियेत विशेषतः । स्पष्टस्यतु विधेर्नान्यैरूपसंहार इष्यते"इति वार्तिके पूर्वार्धार्थविषय एवोपसंहार इति वदतार्थादुत्तरार्धार्थविषयैव परिसङ्ख्या नकदाचित्पूर्वार्धविषयेति सूचनात्स्पष्ट एव भेदः । तद्यथा अवयविनोऽवयवेषु व्यासज्यवृत्तेः सामान्यरूपत्वाभावादवयविविधिः स्पष्टोऽवयवविशेषविधिभिर्न्नोपसंह्रियते इति । यागहोमयोरैक्यं भाष्यकारासंमतमभ्युपेत्यापिऽऽचतुरवत्तं जुहोती"त्यनेन आग्नेयविधेर्नोपसंहारः इत्युत्तरार्धविषयः । एवं हृदयस्याग्रेऽवद्यतीत्येकादशावदानगणचोदकसामन्यविधिर्नोपसंह्रियते इति प्राप्तपरिसङ्ख्याया असौ विषयः । एवं तावत्प्राप्तपरिसङ्ख्यायां तावन्नान्तर्भावः, नाप्यप्राप्तपरिसङ्ख्यायाम्- सामान्यविधेः प्रत्यक्षत्वात् । एवंऽऽयज्जुह्वां गृह्णाति प्रयाजेभ्यस्तत्यदुपभृति (गृह्णाति) प्रयाजानूयाजेभ्यस्तदिति सामान्यशास्त्रयोःऽऽअतिहाये डो बर्हि"रित्यौपभृताज्यसमानयनकालविधितोर्ऽथलभ्योपसंहार एव नतु परिसङ्ख्या । अतएव ऽऽसमानयनं तुमुख्यं स्याल्लिङ्गदर्शना"दिति चातुर्थिकाधैकरणे शास्त्रदीपिकायांऽप्रयाजानूयाजेभ्यऽ इत्यविशेषश्रवणंऽऽअतिहाये डो बर्हि"रिति कालविधिबलादुपरितनप्रयाजद्वयविषयमुपसंह्रियते इति ग्रन्थेन उपसंहारत्वमेवोक्तम् । एवं पत्नीसंयाजान्ता प्रायणीया सन्तिष्ठते इत्यादावप्यतिदेशसामान्यविधेरस्पष्टत्वात्समुपसृष्टतिष्ठतिवाच्यार्थोपरमाख्यसंस्थाविध्यर्थलभ्योपसंहार एव ॥ एतेनैतादृशेषु उदाहरणेषु परिसङ्ख्यात्वोपपादनं दीक्षितानामयुक्तमेव । अस्तुवैवम् । विधेः सर्वत्रार्थान्तरविध्यर्थलभ्यान्यव्यावृत्तिः, नतु सा प्राप्तपरिसङ्ख्येति व्यवह्रियते- श्रुतविधीनामेव अपूर्वनियमपरिसङ्ख्याव्यपदेशात् । नहि परम्परया वर्जनबुद्धिफलको परिसह्ख्याविधिः- नियमविधेरपि तथात्वापत्तेः । ततश्वावघातादिविधौ परम्परयोपायान्तरपरिशह्ख्याफलत्वे साक्षान्नियममात्रं फलमिति नियमविधित्वेनैव व्यपदेशः । एवं षान्तडान्तसङ्ख्याविध्यादिष्वपि साक्षादप्राप्तपारिभाषिकसङ्ख्यादिप्रापकत्वमेवेत्यपूव्रविधित्वेनैव व्यपदेशो युक्तः । नच एतद्विध्यन्यथानुपपच्या विध्यन्तरं कल्प्यते, यस्य प्राप्तपरिसङ्ख्यात्वव्यपदेशः स्यात्, किन्तु औपभृदाज्यविनियोजकविधिगतोद्देश्यसमर्पकप्रयाजपदेन विशेषलक्षणैव लभ्यते । अतोऽपि न तेषु युक्तं परिसङ्ख्यात्वम् इति ॥ (प्रतीयमाने फलत्रये यत्परत्वेन वाक्यसार्थक्यं तद्विधित्वव्यपदेशोपपादनादिना सामान्यविधिरित्यस्योपसंहारपरिसङ्ख्ययोर्वैलक्षण्यमात्रप्रदर्शकत्वोपपादनेनच प्रकाशकारमताद्वैलक्षण्यनिरूपणम्) अत्रेदमवधेयम्नेन स्पष्टरूपविषयभेदप्रदर्शनेन परिसङ्ख्यालक्षणे स्पष्टविधितत्प्राप्त्यपेक्षत्वं विवक्षितमिति गम्यते । उपसंहारेच तदभावान्नातिव्याप्तिरिति भवतो मतम् । तत्र भवन्मते अतिदेशविधेः स्पष्टत्वमस्पष्टत्वं वेति वक्तव्यम् । आद्येपत्नीसंयाजान्ता प्रायणीयेत्यादावप्युपसंहारानापत्तिः, गृहमेधीयगतसप्तमपक्षोपसंहारानापत्तिश्व । द्वितीये पञ्चमपक्षोपपादितप्राप्तपरिसङ्खयायामव्याप्तिः ॥ किञ्च. विधिगतं स्पष्टत्वमस्पष्टत्वमपि दुर्वचम्, कुतोवाऽग्नेयविधिः स्पष्टः अस्पष्टश्वऽऽपुरोडाशं चतुर्धा करोतीत्ययमिति न प्रतीमः । यदप्यस्तुवैवंविधेत्यादिनान्यनिवृत्तेरर्थलभ्यत्वेऽपि श्रुतविधेरप्राप्यप्रापकत्वेनापूर्वविधित्वेनैव व्यपदेशान्न परिसङ्ख्याविधित्वमिति, तदप्यसत्- तथात्वे अर्थप्राप्तेः पूर्वप्रवृच्या प्रवृत्तेऽश्वाभिधान्यादान्विधावप्यप्राप्तप्रापकतयापूर्वविधित्वस्यैवापत्तौऽऽपरिसङ्ख्यावे"ति सूत्रोक्तपरिसङ्ख्यात्वव्यपदेशानापत्तेः । अतोऽत्रैवं परिहर्तव्यम् । यत्र द्वित्रिफलकत्वेन प्रतीयमानेषु येन स्ववैयर्थ्यं परिह्रियते, तेषु तत्फलकविधित्वेन व्यपदेशः । तादृग्व्यपदेशमादायेमानि लक्षणानि । तत्फलं सन्निकृष्टं विप्रकृष्टं वास्तु । अतएव फलत लक्षमसमन्वयं दर्शयति अत्रेति ॥ परिसङ्ख्याविधित्वं नाश्रयणीयमिति नियमस्यैवेत्येवकारेण कूचितम् । नियमफलकत्वाच्चेति ॥ एतेनलघुभूते विधेयगतफलत्वे संभवति व्रीहिपदेऽपूर्वसाधनत्वलक्षणायां व्रीहित्वस्यापि गूरभूतस्य प्रवेशेन यवपरिसङ्ख्यापरत्वेन सार्थक्यं तथाध्वर्युकर्तृकत्वनियमप्राप्त्या वा सार्थक्यं विधिरसायनोक्तं परास्तम्- अवरक्षो दिवः वध्यासमग्नये वो जुष्टं प्रोक्षामि इति मन्त्रयोरुत्तमपुरुषेण प्रतीयमानमन्त्रोच्चारयितृकर्तृकत्वप्रतीत्यैव तयोस्तन्नियमस्य प्राप्तत्वाच्च । अतएवनैवंविधमध्वर्युकर्तृकत्वप्राप्तौ मन्त्रलिङ्गम् । यथा प्रथने । तत्र मन्त्रस्य आध्वर्यवत्वेऽपि प्रथने तन्नियमप्रापकतया विधिरिष्ट एवेति भावः ॥ (पाक्षिकत्वाननुगमेन नियमविध्यननुगमाक्षेपः) ननु पाक्षिकत्वभेदेन तदयोगस्यापि भेदाल्लक्षणाननुगमः- कार्योपायद्वयपाक्षिकत्वपरत्वे एकैकनियमेऽव्याप्तेः, कार्यस्यैवोपायस्यैववा पराक्षिकत्वपरत्वेऽन्यतरनियमाव्याप्तेः, कार्योपायद्वयमनुगमय्य विध्युपात्तस्य पाक्षिकत्वपरत्वे विध्यनुपात्तनियमाव्याप् तेः, उपात्तमनुपात्तञ्चानुगमय्य नियम्यस्य पाक्षिकत्वोक्तौ नियम्यप्रतिद्वन्द्विनामेव पाक्षिकत्ववति नियमविधावव्याप्तेः, नियम्यस्यान्यस्यवा यस्य कस्यचित्पाक्षिकत्वपरत्वोक्तौ पाक्षिकत्वमात्ररहितेषु नियमविधिष्वव्याप्तेः । एवन्त हेतुः कुत्रापि कार्यमिति श्लोके विधिरसायनदर्शिततदुदाहरणाव्याप्तिभ्यः कथं मुक्तिरित्यत आहेवंविधभेदसत्वेऽपीति ॥ एतन्निष्कर्षश्व कोस्तुभे द्रष्टव्यः ॥ (भाट्टदीपिका) भावे व्रीहीणामाक्षेपेण पक्षप्राप्तत्वात् । एवंविधभेदसच्वेऽपि चायोगव्यावृत्तिमात्रस्यैव लक्षणे प्रवेशान्न कोऽपि दोषः । (प्रभावली) (दृष्टार्थत्वं नियमविधिलक्षणमिति विधिरसायनखण्डनम्) एवमाचार्यकृते नियमविधिलक्षणे स्वयं विधिरसायनकृतानानाविधाव्याप्त्यतिव्याप्तीः प्रदर्श्य तल्लक्षणायुक्ततां मत्वा दृष्टार्थत्वं नियमविधिलक्षणं सिद्धान्तितम् । तद्यद्यपि दृष्टफलबोधकेषु कारीर्यादिविधिषु अतिव्याप्तम् - तथाप्यदृष्टाद्वारकत्वे सतीति विशेषणान्नातिव्याप्तमित्युपपादितम्, तदनूद्य दूषयति यत्त्विति । स्पष्टोर्ऽथः । इत्यादावित्यादिपदेन वैकृते "बृहत्पृष्ठं भवती"ति नियमविधावप्यव्याप्तिःसूचिता ॥ किञ्च विधिविषयस्य दृष्टार्थत्वविवक्षायां मन्त्रपरिसङ्ख्याविधावतिव्याप्तिः । विधितात्पर्यविषयीभूतफलस्य तद्विवक्षायामसंभवो नियमस्यादृष्टार्थत्वादित्यपि दूषणमूह्यम् ॥ (अयोगव्यावृत्तिफलत्वलक्षणस्य प्रतीकविधौ समन्वयीकरणम्) यद्यपीदं "यदि सोमं न विन्दे" दिति प्रतीकनियमविधावव्याप्तम् - सुसदृशन्यायेन अत्यन्तविसदृशानां प्रतीकानां सर्वदैवायोगसत्वेन पाक्षिकायोगाप्रसक्तेः - तथापि सोमाभावे कर्मचोदनयानियतयत्किञ्चिद्द्रव्याक्षेपे प्राप्ते यावन्न्यायेन सुसदृशं नियन्तुमुपक्रम्यते ततः पूर्वमेव प्रतीकविधेः प्रवृत्त्यङ्गीकारेण तस्यां दशायां प्रतीकसाधारण्येन पक्षप्राप्तेरुपपत्तेर्न्न दोषः ॥ (पत्नीसंयाजान्तान्यहानि संतिष्ठन्त इत्यत्रापि शङ्कानिराकरणपूर्वकसमन्वयीकरणम्) ननु सर्वत्र कथञ्चित्लक्षणान्वयेऽपि "पत्नीसंयाजान्तान्यहानि सन्तिष्ठन्ते" इति नियमविधौ पत्नीसंयाजान्तत्वस्य पाक्षिकायोगाभावः - अह्नां द्वादशानां सहत्वसिध्यर्थं हारियोजनपर्यन्तस्यैव सुत्यागतद्वादशत्वानुरोधादावर्तनीयस्य तत्रैव अवस्थानप्राप्तिः, अथवा सुत्याकालीनानामैष्टिकपशुकर्मणां साङ्गानां तत्र तत्राहनि भेदेनानुष्ठानस्य एकादशे वक्ष्यमाणत्वात्कार्त्स्न्येनैष्टिकपाशुकप्रयोगसमाप्त्यनन्तरमेव तत्प्राप्तेः तदुत्तरभाविपत्नीसंयाजादीनां कथमपि पक्षे प्राप्त्यभावः, अतः पत्नीसंयाजान्तोऽग्नीषोमीयः सन्तिष्ठते इतिवदपूर्वविधित्वस्यैव आपत्तिः इति चेत्, परिहृतमेतद्विधिरसायनखण्डने प्रकाशकारैः ॥ न हि सुत्याकालीनत्वेन सर्वेषामावृत्तिः तदधिकरणविषयः, किन्तु सुत्यान्तर्गतानामेवेति तेन हारियोजनान्तस्यैव पार्थक्यनियमे तदुत्तरेषां सौमिकानामैष्टिकानां च आवृत्त्यनियमे किमुत्तरस्य सर्वस्यैव सहत्वसिध्यर्थं तन्त्रत्वमुतावृत्त्यानुष्ठाने प्रसक्ते किं तन्त्रत्वं दशानां पञ्चदशानां विंशतीनां वेत्याद्यनियमप्रसक्तौ पत्नीसंयाजान्तता नियम्यत इति ॥ (हिरण्यगर्भः समवर्ततेति वाक्यस्य विधिरसायनोक्तनियमविधित्वखण्डनेनापूर्वविधित्वव्यवस्थापनम्) अतएव तत्र "हिरण्यगर्भः समवर्तताग्र इत्याघारमाघारयती"त्यादौ हिरण्यगर्भप्रकाशकस्य मन्त्रस्य कथमप्यैन्द्राद्याघारे इन्द्रलिङ्गरहितत्वात्प्राप्त्यसंभवः तत्र सत्यपि कॢप्तनियमादृष्टजनकत्वेनोत्तराघारे मन्त्रविधावपूर्वविधित्वमेवेति कौस्तुभे द्रष्टव्यम् । एवञ्च तत्र नियमविधित्वव्यवहारः परं कॢप्तनियमादृष्टजनकत्वमात्रेण गौण एव । अनयैव रीत्या "उत्करे वाजिनमासादयति" "परिधौ पशुं नियुञ्जीत" इत्यादिविधिषु उत्करपरिध्यंशे पक्षप्राप्त्यभावेनापूर्वविधित्वमेवेष्टव्यमिति विधिरसायनोक्ताव्याप्तिपरिहारो द्रष्टव्यः । यत्तु विधिरसायनीयपञ्चदशश्लोकखण्डने हिरण्यगर्भमन्त्रस्य लिङ्गादङ्गत्वेन प्राप्त्यभावेऽपि विदलनादिवत्लौकिकध्यानादिसाधारण्येन गौण्यादिना यादृच्छिकीं प्राप्तिमादायास्य नियमविधित्वमुपपादितम्, तत् विदलनादिषु वितुषीभावजनकतासामर्थ्यस्य लोकतोऽवगतिमादाय यादृच्छिकप्राप्तेः कथञ्चित्संभवेऽपि इह प्रजापतिमन्त्रस्य ऐन्द्रलिङ्गरहितस्य तदीयस्मरणार्थतयाकॢप्तसामर्थ्यस्य बाधनिश्चये सति कथमपि यादृच्छिकप्राप्तेरसंभवात्गौण्याश्रयणोत्तरमेव कल्प्यत्वादयुक्तमित्यपेक्षितं पूज्यपादैः ॥ (अप्राप्तांशपरिपूरणफलत्वरूपनियमविधिलक्षणस्य विधिरसायनखण्डने स्वीकारनिरूपणम्) यदपि विधिरसायनगताष्टादशश्लोकेऽनिर्धारिताप्राप्तांशस्य पूरणं यत्, तत्फलको विधिः नियमविधिरिति नियमविधिलक्षणमाशङ्कितम्, तदेव तदुक्तातिव्याप्तिपरिहारेण निर्देषतया विधिरसायनखण्डने अङ्गीकृतम्, तत्राप्राप्तांशपूरणफलकत्वमात्रविवक्षायां सर्वकाम्यवाक्येऽतिव्याप्तिः- तत्रापि स्वर्गवाक्येन स्वर्गप्राप्तौ तदितराप्राप्तफलान्तररूपांशपूरणफलकत्वात्, अतोय०ऽनिर्धारितपदोपादानम् । तत्र च सर्वकाम्यविधौ स्वर्गांशः प्राप्तः तदितरांशस्तु अप्राप्त इति निर्धारणसद्भावान्नानिर्धारितत्वम् । व्रीह्यादिषु अवहननाद्यप्राप्तांशस्य इदन्तया निर्धारणाभावात्नासंभव इति ॥ (भाट्टदीपिका) यत्तु दृष्टार्थत्वं नियमविधिलक्षणं कैश्चिदुक्तम्, तदुत्तरेऽहन्द्विरात्रस्य गृह्यतित्यादावव्याप्तत्त्वादुपेक्षितम् - षोडशिग्रहयागाभ्यासस्यादृष्टार्थत्वात् । अतएव नियमपरिसङ्ख्यातिरिक्तफलकविधित्वमपूर्वविधित्वमिति तल्लक्षणमपि सुस्थम् । (प्रभावली) (नियमविधौ विधिरसायनतत्खण्डनयोरुभयोरप्ययुक्तत्ववर्णनम्) तदयुक्तम् ॥ उपहव्येऽश्वः श्यावो दक्षिणेति दक्षिणां विधाय श्रुते स ब्रह्मणे देयः इति विधौ औदुम्बरश्चमसो दक्षिणेति दक्षिणां विधाय ऋतपेये श्रावितेऽस प्रियाय सगोत्राय ब्रह्मणे देयऽ इति विधौ आयुष्कामेष्टिप्रकरणश्रुते सर्वं ब्रह्मणे परिहरतीति विधौ च परिसङ्ख्यारूपेऽतिव्याप्तेः । सर्वर्त्विक्साधारणेष्वश्वचमससोमहविःशेषेषु अयं ब्रह्मणे अयमन्येषामिति निर्धारणासंभवातनिर्धारिताप्राप्तांशपूरणफलकत्वादिति । यदपि विधिरसायने एतेषामपूर्वविधित्वमुक्तं, यच्च तत्खण्डने नियमविधित्वमेवेत्युक्तम्, तदुभयमप्यसत्- आचार्योक्तयथाश्रुतलक्षणानुसारेण ब्रह्मसंबन्धस्य तदितरर्त्विक्संबन्धस्य विधेयतावच्छिन्ने प्राकृतदीक्षणीयस्थानापन्ने नित्यप्राप्तत्वेन परिसङ्ख्यात्वस्यैवापत्तौ तल्लक्षणासंभवात्, सर्वे द्रव्यविधयो नियमविधय इति प्रवादमात्रेणेदृशानां नियमविधित्वाङ्गीकारे गुणकामविधीनामपि नियमविधित्वापत्तेः । स्वकृतलक्षणप्रवेशमात्रेण तत्तद्विधित्वाभ्युपगमे सर्वकाम्यविधावपि तत्स्वीकारे बाधकाभावादनिर्धारितपदप्रवेशवैयर्थ्यापत्तेश्च । अतो नेदं लक्षणं युक्तमित्यभिप्रेत्यैवायोगव्यावृत्तिघटितं नियमविधिलक्षणमुक्तं पूज्यपादैः । "स ब्रह्मणे देय" इत्यत्र परिसङ्ख्यात्वञ्च दर्शयिष्यते ॥ (अपूर्वविधिलक्षणनिरूपणम्) एवं परिसङ्ख्यानियमविधिलक्षणं प्रदर्श्य तद्भेदघटितमपूर्वविधिलक्षणमाह अतएवेति ॥ नियमातिरिक्तत्वविशेषणात्न पूतीकवाक्येऽतिव्याप्तिः न वा परिसङ्ख्यातिरिक्तत्वविशेषणाद्गृहमेधीयगताज्यभागविधावतिव्याप्तिः । लक्षणसमन्वयोऽग्निहोत्रादिवाक्ये स्फुट एव ॥ (आज्यभागविधेरश्वरशनाब्राह्मणस्य न परिसङ्ख्यात्वमिति खण्डनमतनिरूपणम्) यत्तु अत्र खण्डनकारैः आज्यभागविधेः सिद्धान्ते न परिसङ्ख्यात्वम् - कस्मिन्नपि मीमांसाग्रन्थेऽस्य परिसङ्ख्यात्वेन व्यवहारादर्शनात्, वेदान्तग्रन्थेष्वपि तददर्शनाच्च, किन्तु अपूर्वता चोदकलोप इति व्यवहारदर्शनातपूर्वविधित्वमेव । इमामगृभ्णन्नित्यत्र तु अन्यप्राप्त्यभावेन योर्ऽथस्तद्विषयत्वसाम्यात्परिसङ्ख्यात्वभ्रमो दीक्षितानाम् । अतएव च "तत्र चान्यत्रचे"ति सप्तम्याः प्राप्त इति सप्तम्या सामानाधिकरण्यपक्षे, यथा गृहमेधीयाज्यभागविधौ वार्तिककृता पञ्चम एव पक्षे परिसङ्ख्यात्वमुक्तम्, नाष्टमपक्ष इति । भाष्यकारेणापि दशमे सप्तमपादे आज्यभागवद्वेति सूत्रे आज्यभागवद्वेति दृष्टान्तं व्याकुर्वता यथा गृहमेधीये पञ्चमे पक्षे इत्युक्तम् । न यथाष्टमे पक्षे इति । किञ्च गृहमेधीयाज्यभागश्रवणस्य सिद्धान्ते परिसङ्ख्यात्वे गृहमेधीयाधिकरणादेकान्तरितोत्तराधिकरणे "स्विष्टकृतिप्रतिषेधः स्या"दित्यत्र गृहमेधीय एव प्राकृताङ्गपुनःश्रवणं कृत्वाचिन्त्यत इति भाष्यादौ कृत्वाचिन्तात्वोक्तिरयुक्ता स्यात् । सिद्धान्त एव चिन्तोपपत्तेः । नच परिसङ्ख्यालक्षणसत्त्वे कुतो न परिसङ्ख्यात्वम् ? इति वाच्यम् - तत्रान्यत्रच प्राप्तेरभावात् । अयञ्च तत्र प्राचां ग्रन्थः आज्यभागयोर्हि प्रकृतौ श्रुतयागरूपव्यतिरेकेण प्रकरणाम्नानकल्प्यं स्वापूर्वद्वारेण यागगतव्यापाररूपमस्ति, तद्रूपलक्षणार्थं चेदमाज्यभागपुनराम्नानम् । अन्यथा आनर्थक्यादिति । अनेन चानर्थक्यबलात् प्राकृत एव करणोपकारः । तत्रानेकाङ्गजन्योऽपि इह शक्यसंबन्धाताज्यभागमात्रविशिष्टतया जहत्स्वार्थलक्षणया लक्षितमुपदिश्यते इति तेनैव गृहमेधीयः करणोपकारापेक्षो जात इत्यपूर्वतेति सिद्धान्त उपपादितः । अतः प्राकृतस्यैवोपकारस्य आज्यभागविशिष्टस्य विधानात्तत्र चान्यत्रचेति विधेयबाध्ययोः भेदगर्भं परिसङ्ख्यालक्षणं नास्तीत्यपूर्वविधित्वमेवेत्युक्तम् ॥ (आज्यभागादिविधेः परिसङ्ख्यात्वसमर्थनपूर्वकतत्खण्डनखण्डनम्) अत्रेदमवधेयम् आनर्थक्यबलात्खलु भवतां लक्षणाश्रयणं, तच्चातिदेशतः प्राप्तेः पूर्वं प्रवृत्त्या आज्यभागविधानेन फलतोऽङ्गान्तरनिवृत्तिरूपफलपरतया सार्थक्योपपत्तौ कथमिवेति न विद्मः । यापिचानर्थक्याल्लक्षणोक्तिः प्राचां सापि न विध्यानर्थक्यमूला, किन्तु आज्यभागक्रियामात्रविधानानर्थक्यमूलिकेत्येव तद्वन्थेषु प्रतीयते । तथाहि भाष्ये तावन्नैवेयं लक्षणोपपादिता, तन्त्ररत्ने तु उपमितया प्रकृत्या लक्षणाद्वारा विध्यन्तरप्राप्ताज्यभागाभ्यां गृहमेधीय एकवाक्यतां गतः । तस्मादानुमानिकेन प्रकृतिशब्देन न संबध्यते गृहमेधीयस्तेन अपूर्व इत्यपूर्वतामुपपाद्य नन्वेवं प्रत्यक्षैरुपहोमादिभिर्नैराकाङ्क्ष्यात्नक्षत्रेष्ट्यादीनामपूर्वत्वं स्यादित्याशङ्कोत्तरत्वेन भाष्यं विवरीतुं ग्रन्थः ॥ इदमाकूतं कथमिति प्रकाराख्यो यागगतव्यापारविशेषोऽपेक्षितः, तेन यः प्रकारविशेषसमर्पकः शब्दः स एव तदाकाङ्क्षापूरणेनैकवाक्यतामुपगन्तुमलं नान्यत् । नच क्रियान्तरं स्वरूपेणैव क्रियान्तर्गतव्यापारो भवति, प्रकारसंपादनन्तु तद्गतव्यापारः स्यात्, न हि क्रिययोः स्वरूपेण संभवति संबन्धः, किन्तु द्वारविशेषमाश्रित्य । नच उपहोमादिषु कॢप्तं द्वारमस्ति । येन यागगतव्यापारतामश्र्नुवीरन् । प्रकृतिवच्छब्दस्तु प्राकृतसाङ्गावान्तरकार्यसंपादनाख्यं प्रकारं प्रतिपादयनेकवाक्यतां सुखेनयाति । पश्चात्तु सन्निहिताम्नानानर्थक्यात्द्वारकल्पनया तैरपि एकवाक्यता भवति । यत्तु आज्यभागादिकं प्राकृतमङ्गं, तत्प्रकृतावेव लब्ध्वा अवान्तरोपकारं तत एव लब्धप्रधानसंबन्धं विकृतौ श्रूयमाणं लक्षणया स्वीयावान्तरकार्यसंपादनाख्यं प्राकृतप्रकारमुपस्थापयति । तल्लक्षणार्थं चेदमाज्यभागौ यजतीति वचनम् - स्वरूपपरत्वे आनर्थक्यापत्तेः । तल्लक्षणया तु शक्नोति प्रधानकथंभावपूणेन तदेकवाक्यतां गन्तुम् । तेन च पूर्णे कथंभावे नैराकाङ्क्ष्याधीनात्मलाभश्चोदको लुप्यते इत्यपूर्वत्वमिति । अनेन चोपहोमवैलक्षण्यं दर्शयता कथंभावाकाङ्क्षापूरणसमर्थशब्देन प्रधानैकवाक्यतासंभवोपपादनार्थमाज्यभागपदेन केवलं न क्रियास्वरूपविधानं, अपितु लक्षणयास्वजन्यप्रकारसंपादनाख्यव्यापारविशेषस्य प्रकृताववगतस्य विधानम् । उपहोमे तु तादृशप्रकारसंपादनत्य पूर्वमनवगतस्य नैव लक्षणा संभवतीति न लक्षणयाप्युपहोमविधिरेकवाक्यतामुपगन्तुमलमित्युक्तं संभवतीति कुत्रेतराङ्गजन्यकरणोपकारलक्षणा, पूर्वलिखितशास्त्रदीपिकाग्रन्थेऽपि आज्यभागगतमेव यत्स्वापूर्वद्वारेण यागगतव्यापाररूपमस्ति, तत्रैव लक्षणेति प्रतीयत इति मद्गतापीतीयं ग्रन्थव्याख्यानभ्रान्तिर्भवतीति न खेदयेच्चेत आज्यभागजन्यप्रकारविधाने । यत्तु विधिवैयर्थ्यं, तत्तु अपूर्वताप्रतिपादकपूर्वतनग्रन्थेन परिसङ्ख्याङ्गीकारेण प्रागेव तन्त्ररत्ने परिहृतम् ॥ किञ्च. एतादृशपरार्थलक्षणायां पञ्चमपक्ष इव स्वार्थहानिपरार्थकल्पने कथं नापद्येताम् ? अपिच इतराङ्गजन्योपकारार्थत्वे आज्यभागयोरप्राकृतकार्यार्थत्वापत्तेः तदङ्गीकारेण अपूर्वविधित्वापेक्षया स्वोपकारविशिष्टानामेव विधिमङ्गीकृत्य फलतः परिसङ्ख्यात्वमेव युक्तमाश्रयितुम् । अपिच इतराङ्गजन्योपकारार्थत्वेनाज्यभागविधानेऽपि आकाङ्क्षाधीनात्मलाभचोदकलोपः आकाङ्क्षोच्छेदादेव वाच्यः- अन्यथा समुच्चयेनेतराङ्गानामनुष्ठानापत्तेः अनिवार्यत्वात् । तादृशस्याकाङ्क्षोच्छेदस्य स्वोपकारविशिष्टाज्यभागमात्रविधिनैव सिद्धेर्निरर्थकमेव तावत्पर्यन्तलक्षणाश्रयणम् । अत एव ततोऽपि यावदुक्तमित्युत्तराधिकरणे बहुषु प्राकृतेषु श्रुतेषु एकैकस्यैव कॢप्तोपकारकत्वेन प्रधानाकाङ्क्षापूरणे सामर्थ्यात्विकल्पं मन्यत इति तन्त्ररत्नादिग्रन्थेषु कॢप्तोपकारत्वमेव आकाङ्क्षापूरणसामर्थे हेतूकृतम् । यत्तु भाष्यवार्तिकग्रन्थविरोधोद्भावनं, तत्र या स्विष्टकृदधिकरणे भाष्यकारस्य पञ्चमपक्षमाश्रित्य कृत्वाचिन्तोक्तिः तदाशयः तन्त्ररत्न एव दर्शितः । गृहमेधीये ह्याज्यभागाभ्यां सजातीययागान्तरोपस्थापनात्तन्निवृत्तिरेवेति विधेयाशेषकार्याणामनिवृत्तौ सत्यां चिन्त्यते किं स्विष्टकृद्विधानं शेषकार्याणां परिसङ्ख्यार्थं नवेति तन्त्ररत्ने उक्तम् । नह्ययं विचारोऽष्टमे पक्षे उपपद्यते । तदा हि चोदकलोपात्सर्वेषामेव निवृत्तेर्विचारायोगात् ॥ अतोऽयं विचारः शेषकार्याणामनिवृत्त्युपजीव्यः पञ्चमपक्षस्य कृत्वा चिन्तयैव घटते इति सिद्धान्त एव चिन्तोपपत्तेः इत्ययुक्तं वचः । यच्च वार्तिके पञ्चमपक्षोदाहरणप्रदर्शनं, तत्तत्र चान्यत्रचेति सप्तम्योः प्राप्ते इति सप्तम्या सामानाधिकरण्यपक्षे प्राप्तिपूर्वकान्यनिवृत्तिप्रदर्शनायोदाहरणे प्रदर्शनीये स्पष्टत्वादेव । हेतोः स्पष्टत्वं तर्कतः प्राप्त्यपेक्षया शास्त्रतः प्राप्तौ सुलभमेवेति न साधकम् । यदपि दशमसप्तमपादद्वितीयाधिकरणगताज्यभागवद्वेति दृष्टान्तविवरणपरभाष्यविरोधोद्भावनं, तदपि मन्दम् - तत्राज्यभागवद्वानिर्देशात्परिसङ्ख्या स्यादिति सूत्रे निर्देशात्परिसङ्ख्यात्वमुच्यते, निर्देशश्च एकादश वै पशोरवदानानीत्युक्तो भाष्ये विवृतश्च । तत्र प्राप्तत्वादेवैषामेव विधिर्न संभवति । आनर्थक्यान्नानुवादो निर्गुणं च पुनःश्रवणमितरेषामश्रुतानां परिसङ्ख्यापकं भवतीति । न ह्यत्र आकाङ्क्षानिवृत्तिमूला निवृत्तिरष्टमपक्षन्यायेन संभवति - एकादशानामवदानविधानेन इतरावयवानामवदानाकाङ्क्षानुपरमात् । अतः आज्यभागवदिति दृष्टान्तोपादानं भाष्यकारेण पञ्चमपक्षपरतया व्याख्यातम् । तस्मिन्नेव पक्षे एकादशव्यतिरिक्तानि नेत्यर्थलाभात्तदुत्तरसूत्रे तस्यां त्रैदोष्यमापाद्य निर्देशस्य अन्यथोपपत्तिरापादिता । अतस्तत्र अगत्या पञ्चमपक्षपरतया विवरणे कृतेऽपि नैतावता आज्यभागवाक्येऽष्टमपक्षे फलतः परिसङ्ख्यात्वं दुष्यतीत्यभिप्रेत्यैव गृहमेधीयाधिकरणे स्पष्टमेव परिसङ्ख्यात्वमष्टमे पक्षे अभिधास्यते पूज्यपादैः । दीक्षितैरप्युक्तम् । यत्तु सिद्धान्तलेशग्रन्थे दीक्षितैः परिसङ्ख्योदाहरणं "आज्यभागौ यजतीति प्रदर्श्य गृहमेधीयाधिकरणपूर्वपक्षरीत्या इदमुदाहरणम् इत्युक्तम् - तद्द्वयोः शेषिणोरेकस्य शेषस्य वैकस्मिन् शेषिणि द्वयोः शेषयोर्वा नित्यप्राप्तौ शेष्यन्तरस्य शेषान्तरस्य वा निवृत्तिफलकस्तृतीय इति पूर्वोक्तपरिसङ्ख्यालक्षणे नित्यप्राप्तिविवक्षया प्राप्तपरिसङ्ख्याप्रदर्शनार्थं, नत्वेतावता प्राप्तपरिसङ्ख्यात्वाङ्गीकारेण विरुद्धमिति नापूर्वविधिलक्षणं तत्र । यत्तु मीमांसावेदान्तग्रन्थेषु परिसङ्ख्यात्वेन व्यवहारो न दृष्ट इति, तत्रोत्तरं क्ववा कर्मसिद्धान्तवाक्ये भवदुपपादितोपसंहारव्यवहारो दृष्टः ? तथा ब्रह्मसंबन्धवाक्ये भवदुपपादितनियमविधिव्यवहारो वेति वक्तव्यम् । व्यवहारस्य येन केनचिद्रूपेण सामान्यतः करणेऽपि न्यायतः प्राप्तं तत्तद्विधित्वमापतन्नैवापह्नोतुं शक्यमिति चेदिहापि अपूर्वतादिशब्देनैव व्यवहारसिद्धावपि परिसङ्ख्यात्वं नापह्नोतुं शक्यमिति तुल्यम् । नह्यत्र अपूर्वताशब्देन अपूर्वविधित्वं विवक्षितम्, किन्तु प्रकृतिपूर्वत्वाभाव इति न किञ्चिदेतत् । प्रस्तुतमनुसरामः ॥ (अदृष्टार्थत्वमपूर्वविधित्वमिति मतखण्डनम्) यत्तु दृष्टार्थो विधिः नियमविधिरिति दीक्षितैः कृतं नियमविधिलक्षणमित्यर्थाददृष्टार्थविधिरपूर्वविधि रिति लक्षणमपूर्वविधेरभिप्रेतमिति वर्णयन्ति इति । तन्न - उत्तरेऽहन् द्विरात्रस्य गृह्यते इत्यत्रातिव्याप्तेः ॥ किञ्च अदृष्टार्थत्वं किमदृष्टरूपमुद्देश्यं फलमादाय, उतादृष्टद्वारमादाय । नाद्यः - दृष्टफलार्थे कारीर्यादिविधौ अव्याप्तेः । नान्त्यः- स्तुत्यर्थत्वप्रापके साम्ना स्तुवीतेतिविधावव्याप्तेः । तत्र ऋगक्षराभिव्यक्तिरूपद्वारस्य अदृष्टत्वाभावादतो नेदं लक्षणं युक्तम् ॥ (भाट्टदीपिका) एतेषाञ्चोपाधीनां क्वचिदुदाहरणे साङ्कर्येऽपि न दोष इति न विधिरसायनोक्तलक्षणदूषणावकाशः । विस्तरेण चैतदस्मत्कृते मीमांसाकौस्तुभे द्रष्टव्यम् । तदेवं मन्त्राणामर्थस्मारकत्वेऽपि न विनियोगवैयर्थ्यम् । (प्रभावली) (खण्डनकारीयापूर्वविधिलक्षणं तद्घटकदलप्रयोजनानि च) यत्तु खण्डनकाराणां प्रकृतविधेः यद्यदुद्देश्यतावच्छेदकमपूर्वीयत्वान्यत्तेन रूपेणोद्देश्ये यत्प्रकृतविध्यभावेऽतिदेशान्यप्रकृतविधिसमानशाखीयविधितोऽसंभवत्प्राप्तिकं विधेयं भावरूपं तद्विषयो विधिरपूर्वविधिरित्यपूर्वविधिलक्षणं, तत्रापूर्वीयत्वेन रूपेण व्रीहिष्वत्यन्ताप्राप्तमवघातं प्रापयत्यवघातविधावतिव्याप्तिवारणाया पूर्वीयत्वान्यदिति विशेषणम् । तदन्यदुद्देश्यतावच्छेदकमवघातादिविधौ व्रीहित्वं, तेन रूपेण च तादृशपुरोडाशविधितोऽवघातस्य संभवत्प्राप्तिकत्वान्नातिव्याप्तिः । तादृशोद्देश्यतावच्छेदकरूपेणेति विवक्षणात्गवामयनाद्याहर्गतयोर्वायवाग्रताविध्योः दार्शिकस्वर्गकामविधौ च नाव्याप्तिः - तत्र त्र्यनीकाविधितः प्रथमभागत्वेन रूपेण ऐन्द्रवायवाग्रतायाः प्राप्तिसत्वेऽपि स्वोद्देश्यतावच्छेदकाहस्त्वरूपेण प्राप्त्यभावात्सार्वकाम्यविधिकाम्यमानत्वेन रूपेणोद्देश्ये स्वर्गे प्राप्तिसंभवेऽपि स्वर्गत्वेन रूपेण तदभावान्नाव्याप्तिः । अतिदेशभिन्नेति विवक्षणात्वैकृतेषु प्रतिग्राह्यविधिषु द्वादशाहन्त्र्यनीकान्तर्गताग्रताविध्योश्च अतिदेशतः प्राप्तिसंभवेन नाव्याप्तिः ॥ समानशाखीयेति विशेषणात्शाखान्तरविधितः संभवत्प्राप्तिकशाखान्तरगताग्निहोत्रादिविधिषु नाव्याप्तिः । यत्र यदुपकारजनकतया यद्विधिस्थितं तन्न तदुपकारजनकतया तस्य यादृच्छिक्या अप्यनुष्ठानयोग्यतापत्त्यपरपर्यायाः प्राप्तेरभावस्य विवक्षितत्वान्न हिरण्यगर्भमन्त्रपूतीकनियमविध्योरतिव्याप्तिः । भावपदोपादानादप्राप्तनिवृत्तिप्रापके परिसंख्याविधौ नातिव्याप्तिः । एवमेव विधिरसायनापादिताव्याप्त्यतिव्याप्तिपरिहारेण सुधीभिरिदं लक्षणं सर्वत्र योजनीयं इति ॥ (खण्डनकारसंमतापूर्वविधिलक्षणनिरसनम्) तदयुक्तम् - विधितोऽसंभवत्प्राप्तिकयोः गौण्या यादृच्छिकप्राप्तिमादाय भवदुपपादितयोर्हिरण्यगर्भपूतीकनियमविध्योः तथाभूतविधितोऽसंभवत्प्राप्तिकत्वेनातिव्याप्तेः । यदितु यादृच्छिकप्राप्त्यभावोऽपि लक्षणे पृथग्विवक्षितः, तदास्वर्गकामविधावव्याप्तिः । योगसिद्धिन्यायेन स्वर्गकामविधिमनपेक्ष्यैव सार्वकाम्यविधिबलादवश्यं स्वर्गत्वेन रूपेण स्वर्गमुद्दिश्य पुरुषः प्रवर्तते । ततश्च भवदुक्तप्रकारायास्तादृशानुष्ठानयोग्यतापत्तेः प्रकृतविधिमन्तरेण पूतीकवत्संभवात् । किञ्च पृष्ठद्वयवादिमते वैकृते रथन्तरं पृष्ठं भवतीत्यादिनियमविधावतिदेशतः प्राप्तिसंभवेऽपि तदन्यसमानशाखीयविधितोऽसंभवत्प्राप्तिकत्वादतिव्याप्तिः । वस्तुतस्तु अष्टाकपालादिविधिः प्रकृतिद्रव्यवैतुष्यं विनानुपपद्यमानो लौकिकव्रीहिपरिजिहीर्षया उद्देश्यत्वावच्छेदकगौरवस्य यवेष्वाक्षेपान्तरगौरवस्यच परिजिहीर्षया पुरोडाशप्रकृतिद्रव्यत्वावच्छेदेनैव प्रापयतीति प्रसिद्धोदाहरण एव अतिव्याप्तमिदं लक्षणमित्ययुक्तमिति तैरेव भाट्टालङ्कारे दूषितमित्युपेक्षितं पूज्यपादैरिति ॥ (उदाहरणविशेषेषु यथासंभवं विधिद्वयाङ्गीकारेऽपि न दोष इति निरूपणम्) एवमुपपादितेषु त्रिविधविधिलक्षणेषु यत्र द्वाभ्यां त्रिभिर्वा विधिफलैरप्यानर्थक्यं सुपरिहरम् । तत्र केन व्यपदेश ? इत्यपेक्षायामाह एतेषां चेति ॥ क्वचिदुदाहरणे इति ॥ तानि चोदाहरणानि विधिरसायनगतनवमश्लोकावतरणिकायामुक्तानि तत्रैव द्रष्टव्यानि ॥ यथावा वार्तिकोक्ते "व्रीहीन् प्रोक्षति" "व्रीहीनवहन्ती" त्युदाहरणद्वये । तत्र चाद्ये "आग्नये वो जुष्टं प्रोक्षामी"त्येतन्मन्त्रकल्प्यविधितः पूर्वप्रवृत्तेरप्राप्तप्रोक्षणप्रापकत्वम् । तत्र तर्किततत्प्राप्त्यालोचनोत्तरन्त्वभ्युदयशिरस्कत्वं प्रायश्चित्तप्राप्तिरध्वर्युकर्तृकत्व नियमफलकत्वं च कल्प्यते । द्वितीये तर्किततन्मन्त्रकल्प्यावघातनियमप्राप्त्यालोचनयाभ्युदयकारित्वं प्रायश्चित्तप्रापकताध्वर्युकर्तृकत्वनियमपरता वेति । एवं फलत्रयसांकर्येऽप्युदाहर्तव्यम् । एतादृशफलादिसंभवेऽपि यत्र न गौरवादिदोषस्तत्र सर्वत्र शास्त्रस्य तात्पर्यमस्त्येव । अन्यथा तदर्थानुष्ठाने वैगुण्यानापत्तेः । यथाऽज्यभागविधौ परिसंख्याङ्गीकारे । यत्र तु गौरवादिदोषः प्रोक्षणादिवाक्ये व्रीहित्वादेः प्रवेशे, तत्र नैव यवपरिसंख्याफलकत्वमित्युक्तम् । अत एव क्वचिदेव नियमविधित्वसंभवे न अपूर्वविधित्वमङ्गीक्रियते यत्र गौरवापत्तिः, यथा हीषादौ व्यवस्थार्थत्वसंभवे गुणफलसंबन्धस्यादृष्टान्तरकल्पनापादकस्य । यत्र तु न तदापत्तिः, यथा पुरोडाशं प्रथयतीत्यादौ, तत्र अध्वर्युकर्तृनियमफलकत्वेऽपि याजुर्वैदिकप्रायश्चित्तफलकत्वेनापूर्वविधित्व मिष्यत एव । एवञ्च सर्वेष्वेव वाक्येषु विषयभेदेन विषयैक्येन वा क्रमेण यौगपद्येन वा नैकफलतात्पर्यकत्वेनोपधेयसंकरेऽपि अन्तरङ्गतया क्वचित्केनचित्व्यवहारस्यैच्छिकत्वेनोपाधीनां लक्षणानामसांकर्यान्न दोष इत्यर्थः । ननु एतादृशसांकर्याङ्गीकारे दैक्षादन्योऽपि दण्डः प्रैषकार्ये प्रसक्तः स्यात्पक्षे स्तोत्रसाम्नां क्रतुनिकरजुषामुत्तरास्वेव गानमिति विधिरसायनगतनवमश्लोकोत्तरार्धानिष्टापादनं च न संगच्छते इत्यत आह विस्तरेणचेति ॥ तत हि क्रीते सोमे इत्यस्य दण्डीत्यस्य चोभयोरभावे दीक्षितदण्डस्य यजमानधारण एव विनियोगात्लौकिकस्यैव दण्डस्य दण्डीत्ययं नियमविधिः । दण्डीत्यस्यैवाभावे दीक्षितदण्डस्य मैत्रावरुणाय दत्तस्य प्रयोजनापेक्षायामालम्बनतया कार्यमात्रे समुच्चित्य प्राप्तौ दण्डीत्ययं प्रैषातिरिक्तकार्यान्तरपरिसंख्याविधिः संपद्यते । अतश्च तत्सांकर्याङ्गीकारे लौकिकदण्डस्यापि ग्रहणापत्तिरिति दूषणमुक्तम् । नहि तत्तर्कितफलानेकत्वेऽपि वस्तुतः क्रीतवाक्येन मैत्रावरुणार्थत्वेन विनियुक्तस्यैव प्रयोजनापेक्षायां दण्डीत्यनेन कार्यविधाने सति अन्यस्याप्रसक्तेर्युक्तमिति कौस्तुभे द्रष्टव्यमित्यर्थः । वस्तुतस्तु विध्यन्तराप्रवृत्तिसहितस्येत्येव लक्षणे निवेशेन अनेकविध्यप्रवृत्तेरनिवेशात्विध्यन्तरत्वस्य पूर्वोक्तरीत्या विवक्षणान्नात्र यत्किञ्चिद्विध्यप्रवृत्तिमादाय तत्तल्लक्षणसमावेशोऽपीति न सांकर्यप्रसक्तिः इति ध्येयम् ॥ (१)टिप्पणी अत्रेत्याश्च विषयाः सर्वेऽपि विधिरसायनद्वितीयश्लोकव्याख्यादर्शनेन स्फुटमेव भवेयुरिति नास्माभिरत्रोपपाद्यन्ते ॥ वि.पु.१०.भा ०६ (२) एतत्पदार्थः विधिरसायनपुस्तके द्वादशे पुटे व्यक्तम्. (भाट्टदीपिका) न चैवमपि प्रामाण्यायोगः - याथार्थ्यलक्षणस्य तस्याविघातात् । सामादिसर्वमन्त्रसाधारण्येन तु पदार्थविधया । यथा हि शाब्दबोधं प्रति कारणीभूतज्ञानविषयत्वाच्छब्दः प्रमाणमिति सर्वदर्शनसम्मतं, तथा पदार्थज्ञानस्यापि कारणत्वात्पदार्थोऽपि तथेति शक्यते वक्तुम् । अतश्च मन्त्रविनियोगविधौ मन्त्राणामपि पदार्थत्वाद्युक्तं प्रामाण्यमिति । अस्तु वा प्रामाण्याभावेऽपि प्रयोजनवत्त्वमात्रम् - तावतैवाध्ययनविधेरुपपत्तेः । प्रयोजनमर्थवादवदेव स्पष्टम् ॥ ४ ॥ इति चतुर्थं मन्त्रप्रामाण्याधिकरणम् । इति भाट्टदीपिकायां खण्डदेवकृतौ प्रथमाध्यायस्य द्वितीयः पादः । (प्रभावली) (विनियोगविधिवैयर्थ्यपरिहारोपसंहारः) तदेवमुपपादितं विनियोगविधिवैयर्थ्यपरिहारमुपसंहरति तदेवमिति ॥ यत्तु प्रथनमन्त्रविनियोगवैयर्थ्यापादनं तद्यज्ञपतिमेव प्रजया पशुभिश्च प्रथयतीत्यर्थवादोपात्तयज्ञपतिप्रथनफलकत्वरूपस्तुत्या लम्बनोपपादनार्थम् । मन्त्रे हि पुरोडाशं प्रत्यध्वर्युर्ब्रूते उरु ते यज्ञपतिः प्रथतामिति । यश्चैवं ब्रूते स प्रथयत्येव । अतोऽध्वर्योराशीर्दानकर्तृत्वं यज्ञपतिप्रथनोत्पादनकर्तृत्वेनोपचर्य पुरोडाशप्रथनस्तुतिरिति यज्ञपतिप्रथनफलकत्वेन पुरोडाशप्रथनं स्तोतुं मन्त्रोपादानमिति गुणपरिसंख्याद्यर्थत्वेनेत्यादिपदेनोपात्तम् । नच प्रथनस्यार्थप्राप्तत्वेनाविधेयत्वात्विधिशेषत्वाभावेन अर्थवादत्वस्यैवानुपपत्तिरिति वाच्यम् - प्राप्तस्यापि अध्वर्युकर्तृकत्वप्राप्त्यर्थतया विधानोपपत्तेः । यथाचैवं सति न रात्रिसत्रवदर्थवादस्य पुरोडाशप्रथनफलत्वज्ञापनार्थत्वेन मन्त्रोपादानानुपपत्तिः तथा कौस्तुभे द्रष्टव्यम् ॥ (मन्त्राणां याथार्थ्यलक्षणप्रामाण्यम्) एवमपि अनधिगतार्थगन्तृत्वरूपप्रामाण्यासंभवमुक्तमनुवदति नचैवमिति ॥ विहितार्थानुवादकत्वेऽपि मन्त्राणां तात्पर्यविषयीभूते लवनादिस्वरूपे याथार्थ्यरूपमेव प्रामाण्यं स्मृतिवत् । तात्पर्यञ्च विनियोजकश्रुत्यादिना ज्ञेयम् । गार्हपत्य इवैन्द्र्याः । साम्नान्त्वर्थपरर्गक्षराभिव्यक्तिद्वारार्ऽथपरता परम्परया, नतु साक्षात्प्रामाण्यम्, गीत्यात्मकत्वेनाबोधकत्वादिति केषाञ्चिदुपपादितेन परिहरति याथार्थ्यलक्षणस्येति ॥ अनृक्सामसु परंपरया याथार्थ्यलक्षणस्याप्यसंभवात्पक्षान्तरमाह सामादीति ॥ "प्रमाणं चाथशब्दे वा तद्भानं वा निरूप्यते ॥ पदार्थास्तन्मतिर्वा स्यात्वाक्यार्थाधिगमेऽपि वे"ति चोदनासूत्रगतकारिकावार्तिकोक्तं, तथा "अत्राभिधीयते यद्यप्यस्तिमूलान्तरं मनः । पदार्थानान्तु मूलत्वं दृष्टान्तोद्भावभावतः । साक्षाद्यद्यपि कुर्वन्ति पदार्थप्रतिपादनम् । वर्णास्तथापि नैतस्मिन् पर्यवस्यन्ति निष्फले । वाक्यार्थमितये तेषां प्रवृत्तौ नान्तरीयकम् । पाके ज्वालेव काष्ठानां पदार्थप्रतिपादन"मिति वाक्याधिकरणगतवार्तिकोक्तं च पदार्थज्ञानमवान्तरव्यापारः तद्द्वारा पदार्थानामेव शब्दप्रमाकरणत्वमिति मतान्तरमवलम्ब्याह यथाहीति ॥ (पदार्थप्रामाण्यनिरूपणम्) भूतभाविपदार्थानां स्वरूपेणाविद्यमानानामपि ज्ञानविषयत्वेन सत्त्वात्ज्ञाततायामिव शाब्धबोधं प्रत्यपि कारणत्वोपपत्तेर्न दोषः । नचैवं व्रीह्यादीनामपि पदार्थविधया प्रामाण्यापत्तिः- इष्टत्वात् । नच चोदनैव प्रमाणमिति नियमव्याकोपः- तस्य प्राधान्यपरतयाप्युपपत्तेरितरप्रामाण्याबाधकत्वादित्यर्थः । अतएव "तद्भूतानां क्रियार्थेन समाम्नायोर्ऽथस्य तन्निमित्तत्वा" दिति सूत्रे अर्थस्येत्याद्यवयवव्याख्यानं कुर्वता भाष्यकारेणोक्तम् "पदानि हि स्वंस्वमर्थमभिधाय निवृत्तव्यापाराणि, अथेदानीं पदार्था अवगताः सन्तो वाक्यार्थं गमयन्ति" इति ॥ (प्रकाशकारमतरीत्या याथार्थ्यलक्षणप्रामाण्यासंभवशङ्कातन्निराकरणे) यत्तु प्रकाशकाराः कल्पसूत्रप्रामाण्यसाधनाधिकरणे इत्थं प्रामाण्यप्रकारमाहुः । याथार्थ्यलक्षणप्रामाण्यस्वीकारे ज्योतिष्टोमः स्वर्गसाधनमिति लौकिकवाक्येऽहिंसादिप्रतिपादकशाक्यादिवचनेऽपि तदापत्तेर्न तद्विधया प्रामाण्यम् । अपितु यतोऽवगतस्य कर्मणो धर्माख्यश्रेयस्साधनता, तदेव धर्मे प्रमाणम् । तदवगतिरेव धर्मप्रमेत्युच्यते । अस्तिचेदृशं धर्मप्रामाण्यं स्मृत्यादीनाम् । मन्वादेः तत्प्रणेतुर्धर्मप्रवर्तकत्वाभ्यनुज्ञानात्, मन्त्राणामपि स्मारकत्वेन नियमनात् । तज्जन्याया एव स्मृतेः श्रेयस्साधनतोपयोगित्वात् । मन्त्राभावे ध्यानाद्युपायान्तराणामुपयोगित्वेऽपि विहितत्वघटिताङ्गत्वाख्याश्रेयस्साधनता भावान्नातिव्याप्तिप्रसंगः । अतएवोक्तं वार्तिके "तस्माद्यान्येव शास्त्राणि वेदमूलानतिक्रमात् ॥ अवस्थितानि तैरेव ज्ञातो धर्मः फलप्रदः । " तथा "वेदेनैवाभ्यनुज्ञाता येषामेव प्रवक्तृता ॥ नित्यानामभिधेयानां मन्वन्तरयुगादिषु । तेषां विपरिवर्त्तेषु कुर्वतां धर्मसंहिताः । वचनानि प्रमाणानि नान्येषामिति निश्चयः । " इतीति, तत्तदधिकरणकौस्तुभ एव दूषितं द्रष्टव्यम् । अत्र मतान्तरनिरासः कौस्तुभे द्रष्टव्यः । तस्मिन् पूर्वोक्तमते अनाश्वासात्पक्षान्तरमाह अस्तुवेति ॥ नचैवं प्रामाण्याभावेऽध्यायासंगतिः- अर्थवादोपयोगप्रसंगादध्यायासङ्गतस्याप्यर्थस्य निरूपणे बाधकाभावात्सांगवेदोपयोगस्यैव वा जिज्ञासितत्वेन अध्यायार्थत्वाङ्गीकाराद्वा मन्त्राधिकरणस्योपयोगमात्रविचारविषयत्वोपपत्तेरित्यर्थः ॥ प्रयोजनमिति ॥ यथा अर्थवादावगतमेव प्राशस्त्यं धर्मप्रवृत्त्युपयोगितयाभ्युदकारि, तथेहापि मन्त्रजन्यस्मृतिरेवाभ्युदयकारिणीति प्रयोजनमित्यर्थः । तथा "अग्निहोत्रपदं नामा घारे यागकल्पनम् । मुख्यार्थे विनियोगोऽयमामिक्षा पय एवचे" त्यादिनोक्तानि प्रयोजनान्तराणि कौस्तुभे द्रष्टव्यानीति ॥ इति श्रीमत्पूर्वोत्तरमीमांसापारावारधुरीणश्रीखण्डदेवान्तेवासिकविमण्डनबालकृष्णसुतशंभुभट्टविरचितायां भाट्टदीपिकाप्रभावल्यां प्रथमाध्यायस्य द्वितीयः पादः ॥  (भाट्टदीपिका) (१ अधिकरणम् । ) धर्मस्य शब्दमूलत्वादशब्दमनपेक्षं स्यात् । १,३.१ । शिष्टत्रैवर्णिकपरिगृहीतानां मन्वादिप्रणीतस्मृतीनां धर्माधर्मयोः प्रामाण्यं न वेति सन्देहे सन्मूलकत्वनिश्चायकाभावादप्रामाण्यम् । (प्रभावली) अथ प्रथमाध्यायस्य तृतीयः पादः । (पूर्वतनपादद्वयेन स्मृतिपादस्य संगतिः नामधेयपादतः पूर्वं स्मृतिपादप्रवृत्तिबीजनिरूपणादिकञ्च) "अथातो धर्मजिज्ञासा" इति शास्त्रारम्भसूत्रेण धर्माधर्मस्वरूपजिज्ञासाप्रतिज्ञाया इव तद्विषयकप्रमाणमात्रजिज्ञासाप्रतिज्ञाया अपि कृतत्वात्प्रथमेऽध्याये प्रमाणमात्रनिरूपणार्थे प्राधान्यात्प्रथमतः तत्प्रमाणभूतचोदनायाः प्रथमपादे प्रामाण्यं निरूप्य तदवयवत्वेनोपस्थितानामर्थवादमन्त्राणामपि द्वितीये पादे प्रामाण्यं विध्येकवाक्यतया नामधेयापेक्षयान्तरङ्गत्वेन नामधेयानामर्थवादमन्त्रादिमूलकतयाच निरूप्यार्थवादमन्त्रप्रामाण्यसाधनानन्तरं स्मृत्यादिप्रामाण्यविचारस्यावसरसंगत्याऽयातत्वेन करिष्यमाणः स्मृत्यादिप्रामाण्यविचारो नाध्यायासंगतः - क्वचिदपि स्मृत्यादीनां नामधेयमूलत्वादर्शनात्, विध्युद्देशान्तर्गतया चार्थवादमन्त्रादिवत्स्वतन्त्रवेदावयवरूपवाक्यत्वस्य नामधेयेऽभावात्, चोदनाप्रामाण्यसाधनेनैव तत्प्रामाण्यस्य सिद्धत्वाच्च । अतः प्रागारम्भोऽपि नासङ्गतः । अत एव अधिकरणारम्भे "एवं तावत्कृत्स्नस्य वेदस्य प्रामाण्यमुक्त"मित्युक्तं भाष्यकारेण । चोदनैव प्रमाणमिति नियमस्य प्राधान्यपरतयाप्युपपत्तेः उपस्तरणाभिघारणयोराज्यनियमस्येव पुरोडाशे व्रीहिनियमस्येव च तुल्यजातीयस्वतन्त्रप्रमाणान्तरव्यावृत्त्यर्थत्वादर्थवादमन्त्रयोश्चेदृशोपयोगित्वेन प्रामाण्ये इव नैव व्याकोपः- चोदनामूलत्वेनैव स्मृत्यादिप्रामाण्यसाधनादित्यर्थमनुसंधाय स्मृत्यादिप्रामाण्यविचारमारभते शिष्टेति ॥ पौरुषेयत्वेनाप्रामाण्यस्यैव निश्चये सति तत्प्रामाण्यकोटिः किं संभावनयेति शङ्कानिरासाय शिष्टेत्याद्युक्तम् ॥ (विद्यास्थानान्तर्गतपुराणविभागस्तन्नामनिर्देशश्च) अत्रच स्मृतीनामिति पदं सदाचाराणां वेदातिरिक्तधर्मस्थानानां चोपलक्षणम् । तानि च "पुराणन्यायमीमांसाधर्मशास्त्राङ्गमिश्रिताः ॥ वेदाः स्थानानि विद्यानां धर्मस्य च चतुर्दशे"ति याज्ञवल्क्येनोक्तानि । तत्र सर्गप्रतिसर्गमन्वन्तरवंशानुचरितप्रतिपादकानि भगवताबादरायणेन कृतानि पुराणानि ब्राह्मं पाद्मं शैवं भागवतं नारदीयं मार्कण्डेयमाग्नेयं भविष्यं ब्रह्मकैवर्तं लैङ्गं वाराहं ब्रह्माण्डं वायुपुराणं स्कान्दं वामनं कौर्मं मात्स्यं गारुडं चेति क्रमेणाष्टादश । अष्टादशानामप्युपपुराणानां पुराणत्वेनैव संग्रहः ॥ न्यायो गौतमप्रणीत आन्वीक्षकी पञ्चाध्यायी, कणादप्रणीता दशाध्यायी च ॥ (मीमांसापदार्थविवेचनम्) मीमांसा "अथातो धर्मजिज्ञासा"इत्यादिना जैमिनिप्रणीता द्वादशाध्यायी संकर्षणकाण्डात्मिका चतुरध्यायी च कर्ममीमांसा, "अथातो ब्रह्मजिज्ञासा" इत्यादिना व्यासप्रणीता चतुरध्यायी शारीरकमीमांसा च ॥ (धर्मशास्त्रपदार्थः, स्मृतिकर्तॄणां नामानि च) धर्मशास्त्रन्तु वर्णाश्रमधर्मविशेषाणां विभागेन प्रतिपादकं तत्तत्स्मृतिप्रवर्तकप्रणीतम् । तेच मन्वत्रिविष्ण्वङ्गिरोहारीतयाज्ञवल्क्ययमापस्तम्बसंवर्तकात्यायनबृहस्पतिपराशरव्यासशङ्खलिखितदक्षगौतमशातातपवसिष्ठादयो धर्मशास्त्रप्रवर्तका इति याज्ञवल्क्योक्ताः, तथा "तेषामप्यङ्गिरोव्यासगौतमात्र्युशनोयमाः । वसिष्ठदक्षसंवर्तशातातपपराशरः । विष्ण्वापस्तम्बहारीताः शङ्खः कात्यायनो गुरुः । प्रचेता नारदो योगी बोधायनमनू तथा । सुमन्तुः काश्यपो बभ्रुः पैठिनो व्याघ्र एव च । सत्यव्रतो भरद्वाजो गार्ग्यः कार्ष्ण्याजिनिस्तथा । जाबालिर्जमदग्निश्च यौगाक्षिर्ब्रह्मसंभवः । इति धर्मप्रणेतारः षट्त्रिंशदृषयः स्मृताः । इति पैठिनोक्ताश्च ज्ञेयाः । महाभारतरामायणसांख्यपातञ्जलपाशुपतवैष्णवादीनां च धर्मशास्त्र एवान्तर्भावः । सांख्यशास्त्रं षडध्यायं भगवता कपिलेन प्रणीतम् । तथा पातञ्जलं पादचतुष्टयात्मकं पतञ्जलिना प्रणीतम् । पाशुपतं भगवता पशुपतिना पञ्चाध्यायं प्रणीतम् । शैवमन्त्रशास्त्रस्य पाशुपत एवान्तर्भावः । एवं वैष्णवं नारदादिभिः कृतम् । पाञ्चरात्रस्यात्रैव वैष्णवमन्त्रशास्त्रे अन्तर्भावः । वामागमादिकन्तु शास्त्रबाह्यमेवेतिबहवः । तदेवं पुराणादिचतुष्टयं वेदानामुपाङ्गमिति व्यवह्रियते ॥ (भाट्टदीपिका) न ह्यत्र प्रत्यक्षादिमूलम्- तेषां धर्माधर्मयोरप्रवृत्तेः, वेदस्य च प्रत्यक्षपठितस्यानुपलम्भात्, उपलम्भे वा स्मृतिप्रणयनवैयर्थ्यात्, प्रत्यक्षपठितस्येदानीमुच्छेदस्य च वैदिकैर्यथापरिगणनं शाखानां मात्रामात्रापरित्यागेन पाल्यमानतया कल्पयितुमशक्तेः । नापि अनित्यानुमेयो वेदो मूलम्- स्मृतेर्मूलसामान्यव्याप्तत्वेऽपि वेदव्याप्तत्वाभावेनानुमानानुपपत्तेः, मनोरप्यनुमेयत्वकल्पने अन्धपरम्परापत्तेश्च । अतश्च सन्मूलत्वासम्भवाद्भ्रान्त्यादिमूलत्वेनाप्रामाण्यमिति प्राप्ते (प्रभावली) (वेदाङ्गनिरूपणम्) अङ्गानिच शिक्षाकल्पव्याकरणछन्दोनिरुक्तज्योतिरादयः षट् । तत्र सर्ववेदसाधारणी "अथ शिक्षां प्रवक्ष्यामीत्यादिपञ्चखण्डात्मिका पाणिनिप्रणीता, अन्यैश्च मुनिभिः प्रतिवेदशाखं भिन्नरूपतया प्रातिशाख्यसंज्ञया प्रणीता च शिक्षा । कल्पाः शाखान्तरीयाङ्गोपसंहारेण वैदिकानुष्ठानक्रमविशेषज्ञानाय बोधायनापस्तम्बादिमुनिभिः प्रणीताः । बैजावाप्याश्वलायनग्राह्यायणादिमुनिप्रणीतानां सूत्राणामत्रैवान्तर्भावः । तदुक्तम् वार्तिके "सिद्धरूपः प्रयोगो यैः कर्मणामनुगम्यते" । इति ॥ "कल्पा लक्षणार्थानि सूत्राणीतिप्रचक्षते" इति ॥ व्याकरणमष्टाध्याय्यात्मकं महेश्वरप्रसादाद्भगवता पाणिनिना प्रणीतं माहेश्वरम् । कौमारादिव्याकरणानि न वेदाङ्गम् - लौकिकपदमात्रसाधुत्वान्वाख्यानपरत्वात् ॥ निरुक्तं भगवता यास्केन समाम्नायः समाम्नात इत्यादिना त्रयोदशाध्याय्यात्मकं प्रणीतम् । निघण्टुसंज्ञकपञ्चाध्यायात्मकस्य ग्रन्थस्य यास्कप्रणीतस्य तदितरकोशानां चैवात्रैवान्तर्भावः । ज्योतिषं च भगवता आदित्येन गर्गादिभिश्च प्रणीतम् । छन्दस्तु भगवता पिङ्गलेन अष्टाध्याय्यात्मकं प्रणीतम् ॥ (सर्वेषामपि विद्यास्थानानां स्मृत्यधिकरणविषयत्वोपपादनम्) तदेवं दशभिः सहिता ऋग्वेदयजुर्वेदसामाथर्वणाख्याश्चत्वारो वेदा इति चतुर्दश धर्मस्थानानि । एतान्येवायुर्वेदधनुर्वेदगान्धर्वार्थशास्त्रसंज्ञैरुपवेदैः सहितान्यष्टादश वा । यद्यपि वेदवदाचारात्मतुष्टीनामपि धर्मे प्रामाण्यं वक्ष्यते- तथापि तेषामशब्दरूपत्वात्शब्दरूपपुराणाद्यभिप्रायेयं संख्येति न विरोधः । तत्र वेदानां प्रामाण्यस्य पूर्वमेव साधितत्वात्तद्व्यतिरिक्तानि प्रत्यक्षमूलदृष्टार्थव्यतिरिक्तानि अदृष्टार्थतया यानि धर्मस्थानत्वेन परिगृहीतानि वेदमूलकतया साधयितव्यप्रमाणताकानि तानि सर्वाणीहोदाहरणमिति भावः ॥ (स्मृतीनां मूलापेक्षायां मूलस्यच प्रत्यक्षादेरसंभवादप्रामाण्यनिरूपणम्) स्मृतयस्तावत्दृढकर्तृस्मरणेन पौरुषेयत्वादवश्यं तत्प्रणेतृभिः अष्टकास्वर्गयोः साध्यसाधनभावं केनचित्प्रमाणेनावधार्य प्रणीताः । अत एव स्मृतिसमाख्याप्युपपद्यते । तच्च साध्यसाधनभावावधारणं प्रत्यक्षादिना न संभवतीत्याह नह्यत्रेति ॥ शब्दमूलत्वकल्पने च कृतकस्य तस्य प्रामाण्यानिश्चयान्मूलत्वानुपपत्तेः वेदशब्दस्यैव तद्वक्तव्यम्, तदप्यनुपलम्भादयुक्तमित्याह वेदस्यचेति ॥ (उत्सन्नश्रुतिमूलत्वशङ्कातन्निराकरणे) नन्वस्मदादिभिः अनुपलम्भेऽपि मन्वादिभिः प्रत्यक्षपाठेनोपलब्धः इदानीं च पुरुषप्रमादादुत्सन्नः देशान्तरे वा कैश्चित्पठ्यमानोऽपि नास्माभिरुपलभ्यते, अस्माभिरपिवा पठ्यमानोऽपि परप्रकरणादिपठितत्वात्नास्माभिः स्मृतिमूलत्वेन ज्ञायते इति यथासंभवं कल्पनोपपत्तेः कथं नित्यशब्दासद्भावनिश्चय इत्यत आह उपलम्भेऽपिवेति ॥ उत्सन्नश्रुतिमूलत्वं निरस्यति इदानीमिति ॥ मात्रामात्रात्यागिनामध्येतॄणामनेकस्मृतिमूलभूतानेकश्रुतिवाक्यत्यागानुपपत्तेः । एकविंशत्यध्वयुक्तमृग्वेदमृषयो विदुः । सहस्त्राध्वा सामवेदो यजुरेकशताधिकम् ॥ नवाध्वाथर्वणाख्येति प्राहुः पञ्चदशाध्वकम् ॥ इति सद्गुरुशिष्येण तत्तद्वेदीयशाखानां परिगणनात्तासां च सर्वासामेकस्मिन् देशेऽपाठेऽपि देशान्तरे पाठसंभवादुत्सादकल्पना न युक्ता । देशान्तरपठ्यमानश्रुतिमूलत्वकल्पनापि तासामेव मन्वादिभिरध्यापनोपपत्तौ स्मृतिप्रणयनवैयर्थ्यापत्तेरेवायुक्तेत्यर्थः । अध्वा देवगतिः शाखाइति पर्यायवाचका इति ॥ (नित्यानुमेयवेदमूलकत्वनिरासः) यदत्र गुरुणोच्यते "न केवलमस्माकमेव लिङ्गेनैवानुमेयाः श्रुतयः, किन्तु मन्वादीनामपि स्मृत्यन्तरेणानुमेयाः, एवं ततः परमपि- नतु केनापि दृष्टा इति नित्यानुमेयश्रुतिमूलत्वमिति, तदपि निरस्यति नापीति ॥ पौरुषेयस्य स्मृत्यन्तरस्य सामान्यतो यत्किञ्चिन्मूलप्रमाणव्याप्तस्यापि श्रुत्यैकान्तिकत्वाभावेनानुगमानुपपत्तेः यत्किञ्चिन्मूलकत्वाङ्गीकारे अनवस्थानादन्धपरंपरापत्तिः । लिङ्गादीनान्तु अपौरुषेयत्वेन अन्यमूलकत्वायोगात्श्रुतिकल्पकत्वाविरोध इति वैषम्यमित्यर्थः ॥ (भाट्टदीपिका) शिष्टानामद्ययावदविगीतपरम्परया ज्योतिष्टोमादिष्विवाष्टकाकलञ्जभक्षणादिष्वपि धर्मत्वेनाधर्मत्वेन च परिग्रह न्मन्वादीनां त्रैवर्णिकत्वेन वेददर्शनसंभवाच्च तन्मूलत्वमेव युक्तम्, न तु भ्रान्त्यादिमूलत्वम्- तत्कारणस्याद्ययावत्तदज्ञानस्य च कल्पने गौरवाच्च । श्रुतिश्च प्रत्यक्षपठितैव तन्मूलम् । न च स्मृतिप्रणयनवैयर्थ्यम्- शाखान्तरोपसंहारेणार्थवादोपोद्धारेण न्यायसिद्धार्थकथनेन च स्मृतिप्रणयनसार्थक्यात् । अतो मूलश्रुत्युपस्थापकतयैव धर्माधर्मप्रमाप्रयोजकत्वं स्मृतीनामिति सिद्धम् ॥ १ ॥ इति प्रथमं स्मृत्यधिकरणम् । (प्रभावली) (भ्रान्त्यादिमूलत्वेनाप्रामाण्योपसंहारः) एतेनाक्षेपकाभावात्दृष्टार्थापत्तिरपि निरसनीया- भ्रान्तिप्रतारणादिमूलत्वस्यापि संभवात्, एवमाचारानुष्ठानस्यापि ज्ञानपूर्वकत्वात्पूर्वानुष्ठातॄणां ज्ञानकरणजिज्ञासायां प्रमाणमूलत्वासंभवात्भ्रान्त्यादिमूलकत्वमेवेत्यभिप्रेत्य अप्रामाण्यपूर्वपक्षमुपसंहरति अतश्चेति ॥ (सिद्धान्तसूत्रेऽनुमानशब्देनार्थापत्तेरेव ग्रहणमिति निरूपणपूर्वकं स्मृतिप्रामाण्यप्रतिज्ञा) तन्मूलकत्वमेव युक्तमिति ॥ दृढसकलत्रैवर्णिकशिष्टपरिग्रहान्यथानुपपत्तिप्रसूतदृष्टार्थापत्त्या श्रुतिमूलत्वमेव तेषां कल्पयितुं युक्तमित्यर्थः । यत्तु अपि वा कर्तृसामान्यात्प्रमाणमनुमानं स्यात् । १,३.२ । इति सूत्रगतानुमानशब्दस्वारस्यात्वैदिकशब्दानुमानपरिग्रहेण मन्वादिस्मृतिः धर्मे प्रमाणं वेदार्थानुष्ठातृभिः अनुष्ठीयमानार्थकत्वात्वेदवदित्यनुमानेन प्रामाण्यं स्मृत्याचारौ वेदमूलौ वैदिककर्तृकत्वात्धर्मत्वस्मृतित्वाद्वा अस्मदादिगताग्निहोत्रस्मृतिवदित्यनुमानेन च श्रुतिमूलत्वं केचित्साधयन्ति । अङ्गीकुर्वन्ति । च प्रकाशकारस्तथैव, तदर्थकामानुसारिस्मृत्याचारेषु व्यभिचारादयुक्तमिति ॥ अत एव दूषितं कौस्तुभे विस्तरेणोपपादितं तत्रैव द्रष्टव्यम् ॥ अतः सूत्रभाष्यगतानुमानोक्तिरर्थापत्तिरेव । अतः सैव श्रुतिमूलत्वसाधने प्रमाणमिति भावः ॥ (अनुपलम्भनिमित्तोपपादनपूर्वकप्रत्यक्षपठितश्रुतिमूलत्वव्यवस्थापनम्) श्रुतिमूलकत्वे सिद्धे सा श्रुतिः प्रत्यक्षपाठेनैवावधारिता मन्वादिभिः । अस्माकमनुपलम्भस्तु स्वाध्यायाध्ययनवाक्ये स्वाध्यायपदमहिम्ना एकशाखाध्ययनस्यैव शाखान्तराधिकरणे साधयिष्यमाणत्वेन शाखान्तराधीतानामध्ययनाभावादेव । अध्ययनं विनैवोपायान्तरेणावधारणेऽपि तत्तद्देशीयपुरुषान्तराधीतशाखानां प्रमादालस्यादियुक्तैः पुरुषैः तत्तद्देशगमनेन श्रोतुमप्यशक्तेरुपलम्भायोग्यत्वादेव नानुपपन्नः । एकशाखाधीतानामपि च श्रुतीनां क्रतुप्रकरणगतानां तद्धर्मं बाधित्वा पुरुषधर्मस्य पुरुषधर्माधिकृतानां पुरुषधर्मत्वबाधेन क्रतुधर्मत्वस्य मन्त्रार्थवादादिकल्प्यविधीनां चेदानीन्तनैः पुरुषैर्निर्णेतुमशक्तेरुपलम्भायोग्यत्वम् । मन्वादीनान्तु सर्वज्ञत्वेन प्रत्यक्षपाठेनावधारणसंभवात्प्रत्यक्षपठितैव श्रुतिर्मूंलमित्यभिप्रेत्याह श्रुतिश्चेति ॥ दृश्यन्ते च स्पष्टमेव मन्त्रार्थवादाः प्रत्यक्षपठिता एव तत्तत्स्मृतिमूलम् । यथा "यां जना इति मन्त्रोऽष्टकास्मृतेः । यथा तर्ह्यर्थवादो मनुष्यराज आगतेत्यस्मिन्नुक्षणं वेहतं(?) वाक्षदन्त" इति अर्थवादः महोक्षं महाजं वेति स्मृतेः । एवमितरासामपि । एवं गुर्वनुगमनाद्याचाराणां "तस्माच्छ्रेयांसं पूर्वं पापीयान् पश्चादन्वेती"ति चयनप्रकरणगतार्थवादो मूलम् । एवमन्यत्राप्यूह्यमित्यर्थः ॥ (स्मृतिप्रणयनसार्थक्योपपादनम्) तेषां श्रुतिप्रत्यक्षे स्मृतिप्रणयनवैयर्थ्यमाशङ्क्य निराकरोति नचेति ॥ अर्थवादोपोद्धारेणेति ॥ अविधिस्वरूपार्थवादत्यागेन विधिमात्रोपसंहारस्येदानीन्तनैः कर्तुमशक्तेस्तेषां ज्ञानार्थं तत्प्रणयनसार्थक्यमिति भावः ॥ (स्मृतिप्रामाण्यव्यवहारस्य गौणत्ववर्णनपूर्वकोपसंहारः) ननु स्मृत्याचाराणां श्रुत्यनुमापकत्वेनोपक्षीणानां कथं धर्माधर्मप्रमाजनकत्वम्? तस्य वेदैकगम्यत्वेन तद्गम्यत्वासंभवात्, इत्यत आह अत इति ॥ एवञ्च तत्प्रामाण्यव्यवहारो लिङ्गादीनामिव भाक्तः । धर्माधर्मप्रमाणनिरूपणप्रतिज्ञाप्याद्यसूत्रे मुख्यभाक्तसाधारण्येनेति भावः ॥ यत्तु भाष्यकारेण प्रपाकरणादिस्मृतीनां परोपकाररूपदृष्टार्थत्वेन तथा गुर्वनुगमनाद्याचाराणां गुरुप्रीतिरूपदृष्टार्थत्वेन प्रामाण्यमुक्तम्, तद्वार्तिक एव निरस्तं द्रष्टव्यम् । यानि च पूर्वोक्तानि धर्मस्थानानि तेषुच यस्तावदृष्टोर्ऽथः स प्रत्यक्षादिमूल एव । तत्र यथायथं दृष्टादृष्टप्रयोजनविभाग आकरे द्रष्टव्यः । विस्तरभयान्नोच्यते इति ॥ इति प्रथमं स्मृत्यधिकरणम् ॥ (भाट्टदीपिका) (२ अधिकरणम् । ) विरोधे त्वनपेक्ष्यं स्यादसति ह्यनुमानम् । १,३.३ । श्रुतिविरुद्धानामपि औदुम्बरी सर्वा वेष्टितव्येत्यादिस्मृतीनां श्रुतिमूलकत्वाविशेषात्प्रामाण्यम् । नचौदुम्बरीं स्पृष्ट्वोद्गायेदिति प्रत्यक्षश्रुतिविरोधात्तदनुपपत्तिः- परस्परविरुद्धार्थकानामपि ग्रहणाग्रहणादिश्रुतीनां बहुशो दर्शनेन विरोधे सत्यपि तत्कल्पने बाधकाभावात्, तद्वदेव विकल्पेन विरोधस्य परिहर्त्तुं शक्यत्वाच्च । न ह्यत्र प्रत्यक्षश्रुत्या स्मृतेर्मूलाकाङ्क्षा निवर्त्तते, येन कल्पनामूलोच्छेदाद्विरुद्धप्रत्यक्षश्रुत्या लिङ्गस्येव स्मृतेर्बाधः स्यात् । न वा शैत्यौष्ण्ययोरिवात्र विषययोरत्यन्तविरोधः, येन औष्ण्यप्रत्यक्षेणेव शैत्यानुमानस्य प्रकृते प्रमेयापहारलक्षणो बाधः स्यात् । न त्वेतदस्ति- विकल्पेन द्वयोः संभवादिति प्राप्ते भाष्यकारेणैवं सिद्धान्तितम् सर्वत्रानुमानेऽनुमेयजिज्ञासायाः कारणत्वात्प्रत्यक्षश्रुत्या च स्पर्शविधानेनावेष्टितत्वरूपेणौदुम्बर्याः परिच्छिन्नत्वाज्जिज्ञासाभावेन नौदुम्बरीवेष्टनविषयकश्रुत्यनुमानसम्भवः । तथा प्रत्यक्षश्रुतिविरोधाभावेऽपि यत्र लोभादिदर्शनं, यथा वैसर्जनहोमीयं वासोऽध्वर्युः परिगृह्णातीत्यादौ तत्रापि न श्रुतिकल्पनं कॢप्तहेतोरेव मूलत्वोपपत्तेः इति । (प्रभावली) (पूर्वाधिकरणेनापवादिकसंगत्युपपादनम्) "विरोधे त्वनपेक्षं स्यातसति ह्यनुमान"मिति सिद्धान्तसूत्रगततुशब्दनिरसनीयत्वेन सूचिततत्सूत्रपूर्वपक्षेणाधिकरणविचारं दर्शयितुमुदाहरणमाह श्रुतिविरुद्धानामपीति ॥ अपिशब्देन यदि शिष्टत्रैवर्णिकपरिग्रहानुपपत्तिप्रसूतश्रुतिमूलकत्वेन मन्वादिस्मृतीनां प्रामाण्यं, तर्हि विरुद्धानामपि आसामुक्तहेतोरस्तु प्रामाण्यमित्याक्षेपनिरासातापवादिकी संगतिः सूचिका ॥ (आदिपदेन अष्टाचत्वारिंशदित्यादिस्मृतिद्वयसंग्रहनिरूपणम्) आदिपदेन यथौदुम्बरीं स्पृष्ट्वोद्गायेदिति प्रत्यक्षश्रुतिविरुद्धायाः सर्ववेष्टनस्मृतेरुदाहरणत्वं, तथा "जातपुत्रः कृष्णकेशोऽग्नीनादधीत" इति श्रुत्या विरुद्धाया "अष्टाचत्वारिंशद्वर्षपर्यन्तं वेदब्रह्मचर्यमि"ति स्मृतेः, तथा "न दीक्षितस्यान्नमश्नीयात्" इति निषेधापेक्षितावधिसमर्पिकयाग्नीषोमीये संस्थिते यजमानस्य गृहेऽशितव्यमिति श्रुत्या विरुद्धायाः "क्रीतराजको भोज्यान्न" इति स्मृतेरप्युदाहरणत्वं संगृहीतम् ॥ सदोमण्डपे उदुम्बरवृक्षस्य काष्ठमूर्ध्वतया यजमानसम्मितं निखन्य स्थाप्यते । तदौदुम्बरीशब्दस्यार्थः । विकल्पेनेति ॥ (स्पर्शनवेष्टनयोः प्रयोगभेदेन विकल्पनिरूपणम्) वह्नौ शैत्यौष्ण्ययोर्विकल्पासंभवात्परस्परात्यन्ताभावसमानाधिकरणयोस्तयोः विरोधस्य प्रत्यक्षसिद्धत्वात्प्रत्यक्षबाधितत्वेन न शैत्यानुमतं संभवतीति युक्तः प्रमेयापहारलक्षणो बाधः, इह तु स्पर्शनवेष्टनयोः परस्परात्यन्ताभावसमानाधिकरणयोः प्रयोगभेदेन विकल्पेननिवेशस्य संभवात्युक्तं प्रामाण्यमित्यर्थः । सर्वत्रेति ॥ धूमादिदर्शनानन्तरं व्याप्तिस्मरणे सत्यपि जिज्ञासाभावेऽनुमित्यनुदयात्परोक्षज्ञाने अथवानुमित्यर्थापत्त्योरेव तस्याः कारणत्वमित्यर्थः ॥ (वैसर्जनहोमीयमिति विषयान्तरगवेषणप्रयोजनम्) अत्र हेतुदर्शनाच्च । १,३.४ । इति पूर्वसूत्रानन्तरसूत्रम् । तत्र यदि प्रत्यक्षश्रुतिमूलकत्वासंभवः, तदा स्मृतेर्मूलाकाङ्क्षायां भ्रान्त्यादिमूलकत्वमेव युक्तं कल्पयितुम् । तत्र वेष्टनस्मृतेरुद्गात्रे दानेन वस्त्रलोभः, अष्टाचत्वारिंशत्ब्रह्मचर्यस्मृतेः नपुंसकत्वप्रच्छादनम्, राजक्रयावधिस्मृतेः बुभुक्षैवेति । संभवतिचेदं दृष्टं कारणमिति पौरुषेयत्वादिहेत्वन्तरप्रदर्शनपरतयैकदा भाष्यकारः पूर्वशेषतया व्याख्याय अधिकरणान्तरपरतया पक्षान्तरेण व्याचख्यौ । तत्र प्रत्यक्षश्रुतिविरोधेनैव मुख्यहेतुना पूर्वत्राप्रामाण्यसिद्धौ लोभादिहेतोः दृष्टस्यान्वाचयभूतस्य कथने प्रयोजनाभावेनापरितोषात्द्वितीयव्याख्यानं कृतम्, तदेव युक्तमिति तन्मते उपपादयति तथेति ॥ वैसर्जनहोमीयमिति ।.। (वैसर्जनहोमीयपदार्थः आदिपदेन यूपहस्तिवाक्यसंग्रहश्च) अग्नीषोमीयपशोः तन्त्रे प्रकान्ते अग्नीषोमप्रणयनार्थं यजमानं पत्नीपुत्रान् भ्रातॄंश्चाहतेन वाससा संछाद्य वाससोऽन्ते स्त्रुचमुपनिबध्य जुहोतीति शालामुखीयाग्नीध्राहवनीयेषु चतुर्गृहीतेनाज्येन चत्वारो वैसर्जनहोमा विहिताः । तद्वासो वैसर्जनहोमीयमित्यर्थः ॥ आदिपदेन यूपहस्तिनोदानमाचरन्तीति स्मृत्यन्तरग्रहणम् । यूपो हस्त्यते वेष्ट्यते येनेतिव्युत्पत्त्या यूपवेष्टनार्थं वासो यूपहस्तिपदस्यार्थः । तच्च सप्तदशभिर्वासोभिः यूपं वेष्टयतीति वेष्टनविधानात्वाजपेयमाम्नातम् ॥ (भाष्यकृत्संमतस्योक्ताधिकरणद्वयस्य वार्तिककारमतरीत्या खण्डनम्) एवं भाष्यमतेनाधिकरणद्वयं व्याख्यातम् । तद्वार्तिककारेण दूषितम् । तथाहि प्रत्यक्षश्रुतिविरोधे स्मृतीनां मूलभूतश्रुत्यभावः किं साधकाभावात्बाधकसत्त्वाद्वा । नाद्यः- महर्षिप्रणीतत्वादेः शिष्टत्रैवर्णिकपरिग्रहादेश्चेतरस्मृतिष्विवेहापि श्रुतिसाधकस्याविशेषात् । नान्त्यः- विरुद्धश्रुतिदर्शनरूपस्य बाधकस्य व्रीहियवादिषु श्रुतिषु बहुशो दर्शनेन व्यभिचारात्, विप्रकीर्णशाखान्तरगतश्रुतीनामस्मदादिभिः अनुपलम्भेऽपि मन्वादीनां महत्तरत्वेनानुपलम्भरूपबाधकस्यापि अभावाच्च । अतः परप्रत्यक्षस्याप्यात्मप्रत्यक्षसमत्वात्तद्दृष्टश्रुतीनां मूलत्वसंभवान्न भाष्यकारोक्तं सर्वथाप्रामाण्यं सिध्यति ॥ (भाट्टदीपिका) वार्त्तिककारस्तु न जिज्ञासाया अनुमित्यङ्गत्वम्- अग्न्याद्यजिज्ञासायामपि तदुदयात्, सत्यपि वा तस्याः कारणत्वे अनुमितिविषयश्रुतेर्जिज्ञासितत्वाच्च । प्रत्यक्षश्रुतिविरोधाभावे वा लोभादिमूलकत्वाङ्गीकारे अष्टकादिस्मृतेरपि तदापत्तेः । अतश्च प्रत्यक्षश्रुतिविरोधेऽपि स्मृतेः शिष्टत्रैवर्णिकपरिगर्हाविशेषेण श्रुतिमूलत्वकल्पनोपपत्तेर्युक्तमेव प्रामाण्यम्, परन्तु यावच्छ्रुतिनिश्चयं वेष्टनं नानुष्ठेयम्, अर्थवादाद्युन्नीतविधिमूलकत्वस्यापि स्मृतिषु दर्शनेन प्रकृतेऽपि तन्मूलकत्वस्य संभावितत्वात्तस्य चोन्नयनस्य प्रत्यक्षश्रुतिविरोधे आभासत्वसंभवात् । अतश्च यावच्छ्रुतिनिश्चयमननुष्ठानलक्षणमप्रामाण्यमित्यभिप्रायं सूत्रमिति प्राह । (प्रभावली) (वेष्टनस्मृतिमूलप्रत्यक्षश्रुतिनिरूपणम्) किञ्च जैमिनिः स्वकृते छान्दोग्यानुपदे ग्रन्थे "वैष्टुतं वै वासः श्रीर्वासः श्रीः सामेति स्तोत्रीयापरिगणनार्थानामौदुम्बरीणां प्रादेशमात्राणां कुशानां स एकया स तिसृभिः स एकयेत्यादिविष्टुत्युपाख्यगतप्रकाराभिव्यञ्जकतया विष्टुतिशब्दवाच्यानां स्थापनार्थं परिवेष्टयतीति शाट्यायनशाखाब्राह्मणगतप्रत्यक्षश्रुतिमूलत्वमेव औदुम्बरीप्रकरणे शाट्यायनिनां तामूर्ध्वदेशेनोभयत्र वाससी दर्शयतीति ग्रन्थेन दर्शितवानिति प्रत्यक्षैव श्रुतिः एवमष्टाचत्वारिंशद्वर्षब्रह्मचर्यस्मृतेरपि "अष्टाचत्वारिंशद्वर्षं स वै वेदब्रह्मचर्यमिति राणकोदाहृताथर्ववेदपठिता प्रत्यक्षैव श्रुतिश्च मूलमित्युदाहरणान्यप्ययुक्तानि ॥ (अष्टाचत्वारिंशदिति स्मृतिमूलप्रत्यक्षश्रुतिनिर्देशः) यथाचात्र विरोधोऽपि नास्ति तथा आकरे द्रष्टव्यम् । कौस्तुभे च । अतो न युक्तं प्रथमाधिकरणम् ॥ (वार्तिककारमतावतरणपूर्वकतन्मतोपपादनम्) द्वितीयाधिकरणमप्यविरुद्धानामपि लोभमूलत्वकल्पने दानादिस्मृतेरपि तदापत्तेरयुक्तम् । नहि "अपिवा कारणाग्रहणे प्रयुक्तानी"ति अधिकरणेन दृष्टमूलासंभवमात्रेणाचारप्रामाण्यं साधयिष्यते । येन तद्व्यतिरेकेण दृष्टमूलत्वसंभवहेतुनेहाप्रामाण्यं साध्येत, किन्तु धर्मबुध्यानुष्ठीयमानत्वेनैव । अन्वाचयहेतुमात्रन्तु दृष्टमूलासंभव उपन्यस्त इति तमिममधिकरणद्वयभङ्गमाचार्यकृतमभिप्रेत्य मतान्तरतया दर्शयति वार्तिककारस्त्विति ॥ वेष्टनञ्चानुष्ठेयमिति ॥ अत्रच वेष्टनादिस्मृतीनां प्रत्यक्षपठिततत्तच्छ्रुतिमूलत्वस्य प्रागेवोक्तत्वात्यावच्छ्रुतिनिश्चयं नानुष्ठेयमित्यनुपपत्तेः वेष्टनपदमजहत्स्वार्थलक्षणयादृष्टमूलस्मृतिविषयपरतया व्याख्येयम् । अतएवोक्तं न्यायसुधायां उदाहरणभाष्यमपि अदृष्टमूलावस्थस्मृतिविषयतया नेतव्यमिति ॥ (यावच्छ्रुतिनिश्चयमननुष्ठानलक्षणमप्रामाण्यमित्यस्य सूत्रारूढत्वोपपादनम्) ननु अदृष्टमूलस्मृतीनां विप्रलम्भमूलकत्वाभावेनात्यन्तबाध्यत्वासंभवात्यथाश्रुतमूलानिश्चयेन अत्यन्तेतरस्मृतितुल्यत्वायोगेऽपि कथञ्चित्प्रामाण्याङ्गीकारे "विरोधेत्वनपेक्ष"मित्यप्रामाण्यप्रतिपादकसूत्रविरोध इत्यत आह अतश्चेति ॥ मूलभूतश्रुतेः परप्रत्यक्षत्वेऽपि स्वप्रत्यक्षत्वाभावात्स्वप्रत्यक्षस्य तु मूलानुसन्धानसापेक्षत्वाद्यतो दुर्बला, अतस्तयोः विरोधे यदनपेक्षं श्रौतं विज्ञानं तदेव प्रमाणमादरणीयं स्यात् । असति हि श्रौतार्थेऽनुमानमनुमितश्रुतिमूलमादरणीयमिति पूर्वसूत्रगतानुषक्तप्रमाणपदस्यानुष्ठानलक्षणप्रामाण्यपरतया सूत्रार्थ इत्यर्थः ॥ (विरोधेत्विति सूत्रे पाठभेदः योजनाभेदश्च) अत्र सूत्रेऽनपेक्षमनपेक्ष्यमिति यकाररहिततत्सहिततया पाठभेदः । यदा यकारसहितस्तदा यस्य वान्यदपेक्ष्यं नास्तीत्यर्थः । तद्रहितस्तु व्याख्यात एव ॥ (अत्रादृतवार्तिकसिद्धान्तस्य वार्तिकश्लोकैः संवादः) तदुक्तमाचार्यैः "यावदेकं श्रुतौ कर्म स्मृतौ चान्यत्प्रतीयते । तावत्तयोर्विरुद्धत्वे श्रौतानुष्ठानमिष्यते । अतश्चैवं श्रुतिस्मृत्योर्विशेषो नोपदर्श्यते । नात्यन्तमेव बाध्यत्वं नचाप्यत्यन्ततुल्यता । " इति ॥ यदा तु विरुद्धस्मृतिमूलभूता श्रुतिः स्वस्य प्रत्यक्षा, तदा द्वयोरपि विकल्पेन व्यवस्थया वा आदरः कार्य इत्यर्थसिद्धोर्ऽथः ॥ (वार्तिकमते हेतुदर्शनाच्चेति सूत्रयोजनाप्रकारः) यच्च हेतुदर्शनाच्चेति सूत्रं तत्प्रत्यक्षश्रुतिविरुद्धस्मृतिप्रसंगगताचारमूलेदानीन्तनस्मृत्योर्विरोधे यथास्पर्श्यादिस्पर्शदूषितजगन्नाथनिवेदितान्नभक्षणादौ तत्र संभवन्मूलान्तराया अनादरप्रदर्शनार्थत्वेन व्याख्येयमिति दिक् ॥ (वार्तिककारीयवर्णकान्तरविवरणम्) एवं तद्व्याख्यायां [सर्वत्र च प्रयोगात्सन्निधानशास्त्राच्च । १,३.१४ ।] इत्यधिकरणेन गतार्थत्वम् । तत्रहि प्रत्यक्षसूत्रार्थोपसंहारकल्पसूत्रवचसां श्रुतिविरोधेऽनादरणीयत्वे सुतरां स्मृतिष्वनादरसिद्धेरित्यपरितोषेण यद्वर्णकान्तरं कृतमाचार्यैस्तदनुसंधत्ते यद्वेति ॥ (शाक्यादिस्मृत्यप्रामाण्यवर्णनस्याधिकरणान्तरैरगतार्थतानिरूपणम्) अपिवा कर्तृसामान्यादि"ति पूर्वाधिकरणसिद्धान्तसूत्रोपात्तकर्तृसामान्यहेतोः शिष्टत्रैवर्णिकदृढपरिग्रहरूपमुख्यहेतूपलक्षणत्वात्तेन पूर्वं प्रामाण्ये अभिहिते स यत्र नास्ति तत्राप्रामाण्यमुच्यते इत्येवमस्य प्रत्युदाहरणसंगतिमन्यत्र प्रत्यक्षसूत्रे प्रत्यक्षादिमूलत्वेनाप्रामाण्योक्तावपि कल्पसूत्राधिकरणे स्वातन्त्र्येण प्रामाण्याभावे उक्तेऽपिच वेदमूलकतया प्रामाण्यशङ्कानिरासस्यान्यत्राकृतत्वादगतार्थतां प्रमाणाभासनिरूपणेनाध्यायसंगतिञ्चाभिप्रेत्य विषयप्रदर्शनपूर्वं पूर्वपक्षमारभते शाक्यादीनामिति ॥ (भाट्टदीपिका) यद्वा शाक्यादीनामपि क्षत्रियत्वप्रसिद्धेर्वेददर्शनसंभवेन तत्प्रणीतस्मृतीनामपि वेदमूलत्वं, तन्मूलो वेदश्चेदानीं प्रलीन इति प्राप्ते शिष्टत्रैवर्णिकानां धर्मत्वेन परिग्रहस्य पूर्वाधिकरणमुख्यहेतोरभावात्प्रत्युत अप्रमाणत्वेनैव तेषां स्मरणाद्वेदाप्रामाण्यवादिभिरेव च तत्प्रामाण्यस्वीकाराद्वेदमूलत्वकल्पनानुपपत्तेरप्रामाण्य मिति सूत्रार्थः ॥ २ ॥ ६ ॥ इति द्वितीयं विरोधाधिकरणम् । (प्रभावली) (शाक्यादिस्मृत्यप्रामाण्यवर्णनस्योपयोगः) नचैषामाभासत्वकथनस्यानुपयोगः- "यदि ह्यनादरेणैषां न कथ्येताप्रमाणता ॥ अशक्यैवेति मत्वान्ये भवेयुः समदृष्टयः । शोभासौकर्यहेतूक्तिकलिकालवशेन च । यज्ञोक्तपशुहिंसादित्यागभ्रान्तिमवाप्नुयुः । अनिराकृत्य तान् सर्वान् धर्मशुद्धिर्न लभ्यते । इत्यादिवार्तिकोक्तरीत्या तत्कथनस्यावश्यकत्वात् । अतश्च यद्यपि शाक्यादिभिः स्वग्रन्थानां वेदमूलत्वेन प्रामाण्यानङ्गीकारान्नैव तन्निरासे प्रयोजनम्- तथापि वैदिकानामेव वेदमूलत्वभ्रान्तेः प्राप्ताया निराकरणद्वारा आभासत्वनिरूपणार्थत्वेनायमारम्भो युक्त इति भावः ॥ (शाक्यपदस्य पाशुपतपाञ्चरात्रादिकर्त्रृपलक्षणतानिरूपणम्) अत्रच शाक्यादिपदं यानि त्रयीविद्भिः न परिगृहीतानि किञ्चित्तन्मिश्रधर्मकञ्चुकछायानि लोकोपसंग्रहलाभख्यातिपूजाप्रयोजनपराणि त्रयीविपरीतासंबद्धदृष्टशोभादिप्रत्यक्षानुमानोपमानार्थापत्तिप्राययुक्ति मूलोपनिबद्धानि सांख्ययोगपाञ्चरात्रपाशुपतनिर्बन्ध्यपरिगृहीतधर्माधर्मनिबन्धनानि, यानि च बाह्यतराणि म्लेच्छाचारमिश्रकभोजनाचारनिबन्धनानि तत्प्रणेतॄणामुपलक्षणम् ॥ (मन्वादिस्मृतीनामिव शाक्यादिस्मृतीनामपि प्रामाण्यशङ्का) श्रुतिस्मृतिसंवादिकतिपयाहिंसासत्यदमदानदयादिनिबन्धनदर्शनेन तन्मध्यपतितचैत्यवन्दनादीनामपि युक्तं धर्मत्वमित्यभिसंधाय पूर्वपक्षे हेतुं दर्शयति क्षत्रियत्वप्रसिद्धेरिति ॥ स्मृतीनामपि इत्यपिना त्रैवर्णिकतया संभावितवेदसंयोगमन्वादिप्रणीतस्मृतीनां वेदमूलकतया प्रामाण्यं, एवमासामपीति दृष्टान्तोक्तिः सूचिता ॥ तेन तद्वदेव मूलानुमानस्यानुपलब्धिविरोधः । प्रत्यक्षश्रुतिमूलत्वपक्षेण तावत्परिहृतो ज्ञापितः । अधुना मलिनशाखामूलत्वपक्षे तु विरोधशङ्कैव नास्तीत्यभिप्रेत्य तत्पक्षं दर्शयति तन्मूलेति ॥ एवञ्च यावत्किञ्चित्कियन्तमपि कालं कैश्चिदाद्रियमाणं प्रसिद्धं गतं तत्प्रत्यक्षशाखाविसंवादेऽप्युत्सन्नशाखामूलम् । तेनास्मिन् पक्षे यस्मै यद्रोचते स तत्प्रमाणीकुर्यादिति दोषो नापद्यत इति भावः ॥ (शाक्यादिस्मृत्यप्रामाण्यव्यवस्थापनम्) तेषां स्मरणादिति ॥ "या वेदबाह्याः स्मृतयो याश्च काश्च कुदृष्टयः । सर्वास्ता निष्फलाः प्रेत्य तमोनिष्ठा हि ताः स्मृता" इत्यादिना मन्वादिभिः अप्रमाणत्वेनैवैषां ग्रन्थानां स्मरणातित्यर्थः ॥ (शाक्यादिस्मृत्यप्रामाण्यस्य सूत्रारूढत्वनिरूपणम्) सूत्रार्थ इति ॥ सूत्रयोरर्थ इत्यर्थः । वेदविद्वेषरूपे विरोधे त्रयीबाह्यमेवञ्जातीयकमनपेक्ष्यमप्रमाणम् । अथवा शाक्यस्य क्षत्रियत्वप्रसिद्धेस्तस्यच प्रवक्तृत्वप्रतिग्रहीतृत्वनिषेधात्शाक्यस्य तदनुष्ठातृत्वात्स्वधर्मविरोधे तदुक्तमनपेक्ष्यमित्याद्यसूत्रार्थः ॥ (शाक्यमनुस्मृत्योः साम्यशङ्कानिराकरणेन वैषम्यनिरूपणम्) नचैवं मनोरपि क्षत्रियत्वेन प्रवक्तृत्वानुपपत्तिः- "यद्वै किञ्चमनुरवदत्तद्भेषजम्" इतिश्रुत्या तस्य तदभ्यनुज्ञानात् । शाक्यादिभिश्च स्वप्रतिपाद्यार्थेषु बहूनामसद्धेतूनामेवोपादानान् कस्यापि सद्धेतोरदर्शनाच्चानपेक्ष्यम् । मन्वादीनान्तु हेतूपन्यासाभावात्क्वचित्सत्त्वेऽपि वा "वेद एव द्विजातीनां निःश्रेयसकरः पर"- इत्यादिना प्राधान्येन वेदमूलत्वस्यैव धर्मेऽभिधानाथेत्वधिकरणन्यायेनार्थवादमात्रत्वान्न दोषः । अत एव शाक्यादीनां हेतुकत्वात्"हैतुकान्बकवृत्तींश्च वाङ्मात्रेणापि नार्चये"दित्यादिनासंभाष्यत्वमुक्तमिति द्वितीयसूत्रार्थः । वेदमूलकत्वकल्पनानुपपत्तेरिति पदं हेतुदर्शनस्याप्युपलक्षणं द्रष्टव्यम् ॥ (पाञ्चरात्राद्यप्रामाण्यवर्णनम्) यस्तु सांख्ययोगपाञ्चरात्रादिषु शिष्टत्रैवर्णिकपरिग्रहः, स न तन्मूलः, किन्तु नृसिंहरामतापनीयोपनिषच्छ्रुत्यगस्त्यादिसंहितामूल एव । अत एव शिष्टत्रैवर्णिकापरिगृहीतवामागमप्रतिपादकानां तेषामप्रामाण्यम् । यत्तु तत्रेतरागमसंवादि तच्छाक्यानामिवाहिंसादि वामागमपरिग्रहभक्त्युद्भवाभिप्रायमेवेति तदनुष्ठानमपि न तन्मूलम् । शिष्टानामपि तु पूर्वेषां तदसदागममूलमेवेति न दोष इति सर्वथाप्रामाण्यमिति बहवः ॥ (श्रुत्यविरुद्धांशे पाञ्चरात्रादीनामपि प्रामाण्यमितिश्रुतिमूलकतत्सिद्धान्तनिरूपणम्) पूज्यपादैस्तु यत्प्रत्यक्षश्रुतिमूलं दृश्यमानशिष्टत्रैवर्णिकपरिगृहीतं तदंशे प्रामाण्यमुक्तं कौस्तुभे । अत एव "सांख्यां योगः पाञ्चरात्रं वेदाः पाशुपतं तथा । आत्मप्रमाणान्येतानि न हन्तव्यानि हेतुभिः" इति महाभारतवचनेन प्रामाण्यमुक्तं, तथापि "यो यदंशेन मार्गाणां वेदेन न विरुध्यते । सोंऽशः प्रमाणमित्युक्तं केषाञ्चिदधिकारिणामि"ति मुक्तिखण्डगतचतुर्थाध्यायवचनेनाधिकारिविशेषपरतया उपसंहृतमिति दर्शितं माधवेन । यथाचैवं सत्यविरुद्धानां शाक्यादिप्रमाणानां प्रामाण्यं तदग्रे निरसिष्यते ॥ (स्मृत्यधिकरणगतस्य प्रामाण्यवर्णनस्याधिकारिविशेषपरतया योजनम्) यत्तु स्मृत्यधिकरणे सांख्यादीनां बाह्यग्रन्थानां चोपयोगप्रतिपादनं, तत्धर्ममोक्षसाधनज्ञानोपयोगिवैराग्यादिप्रतिपादकयुक्तिकथनपरतया न धर्माद्युपदेशपरतयेति न विरोधः । एवंसति यद्यपि तापनीयादिप्रत्यक्षश्रुतिमूलस्य वामागमस्य प्रत्यक्षश्रुतिविरुद्धस्य वा प्रामाण्यं दुर्निवारम्- तथापि "पाञ्चरात्रं भागवतं तन्त्रं वैखानसाभिधम् । वेदभ्रष्टान्त्समुद्दिश्य कमलापतिरुक्तवान्" । तथा "अत्यन्तस्खलितानां हि द्विजानां वेदमार्गतः । पाञ्चरात्रादयो मार्गाः कालेनैवोपकारकाः" । तथा "शापाद्वा गौतमादीनां पापाद्वा महतो नराः । ये गता वेदबाह्यत्वं ये च संकीर्णयोनिजाः । तेऽधिक्रियन्ते तन्त्रादौस्त्रीशूद्राश्च यथायथम्" इत्यादिपुराणवचनेभ्यः अधिकारिविशेषपरतयेष्टमेव तत्प्रामाण्यं, नतु वैदिकाधिकारिविषयम् । अतएव तेषु न शिष्टत्रैवर्णिकपरिग्रह इत्यलं विस्तरेण ॥ इति द्वितीयं विरोधाधिकरणम् ॥ (भाट्टदीपिका) (३ अधिकरणम् । ) शिष्टाकोपेऽविरुद्धमिति चेत् । १,३.५ । न शास्त्रपरिमाणत्वात् ॥ स्मार्तानामाचमनादीनां श्रौतैः क्रमकालपरिमाणादिभिर्विरोधे श्रौतत्वात्क्रमादीनामेव प्राबल्यात्तद्विषयस्मृतीनामप्रामाण्यम् । न हि "क्षुते आचामेदि"ति विहितस्य स्मार्तस्याचमनस्य वेदवेदिकरणमध्येऽनुष्ठाने "वेदङ्कृत्वा वेदिं करोती"ति श्रुतिबोधितः क्रमोऽनुष्ठातुं शक्यते । (प्रभावली) (विरोधाधिकरणेन द्वेधा संगतिनिरूपणम्) एवं पूर्वाधिकरणे भाष्यकारमते श्रुतिविरुद्धानां पुरुषार्थक्रत्वर्थस्मृतीनां स्वरूपेणैवाप्रामाण्ये साधिते वार्तिककारमते च अननुष्ठानलक्षणाप्रामाण्ये साधिते संप्रति प्रत्यक्षश्रुतिविरोध एव क्वास्ति क्व नास्तीत्येवं बलाबलाधिकरणोत्तरमहीनाधिकरणप्रभृतिष्विव विचारकरणेन कोष्ठशोधनिकारूपेणास्य संगतिमथवा श्रुतिविरोधे सत्यपि स्मृतिप्रमेयस्य पदार्थत्वात्प्राबल्येन प्रामाण्यमित्यपवादकरणादापवादिकीं सङ्गतिं वा स्पष्टत्वात्तथा सूत्रदर्शितामपि सिद्धान्तोपक्रमतां प्रयोजनाभावाच्चोपेक्ष्य विषयं प्रदर्शयन् पूर्वपक्षमेवाह स्मार्तानामपि ॥ "आचान्तेन यज्ञोपवीतिना कर्तव्यं" "दक्षिणाचारेण कर्तव्यं" इत्यादिस्मृतिविहितानामित्यर्थः । अन्तिमस्मृतौ दक्षिणेन हस्तेन आचरणेन कर्तव्यमित्यर्थात्"लोहितोष्णीषा" इत्यत्रेव अप्राप्तदक्षिणहस्तविधानं ज्ञेयम् ॥ (शाखान्तराधिकरणगतार्थताशङ्कानिरासः स्मृतिपदेनेतिनिरूपणम्) शाखान्तराधिकरणसमाप्तौ "अपि वा क्रमसंयोगात्विधिपृथक्त्वमेकस्यां व्यवतिष्ठेते"ति सूत्रेण क्रमकालपरिमाणविरोधात्शाखान्तरीयपदार्थानुपसंहारमाशङ्क्य "विरोधिनां त्वसंयोगादैककर्म्ये तत्संयोगाद्विधीनां सर्वकर्मप्रत्ययः स्यात्" इति सूत्रेण पदार्थानां क्रमादिबाधकत्वं वक्ष्येते इति न तेन गतार्थता, तत्रोभयोः श्रौतत्वेन अन्यतरसमवायाभावात्युक्तं पदार्थानां बाधकत्वम्, इह तु प्रामाण्यदौर्बल्यादस्तु बाध्यत्वमिति शङ्कोत्थानसूचनेन परिहर्तुं स्मृतीनामित्युक्तम् । आचारप्रापितानामित्यस्योपलक्षणम् । तत्रत्यस्यैव प्रमेयबलस्य प्रमाणबलाबलबाधायोपन्यासात्नानेनापि तस्य गतार्थत्वमिति भावः ॥ (आचमनादिभिः क्रमस्य विरोधसमर्थनम्) विरोधे इति ॥ यद्यपि भोजनादिनिमित्तकस्याचमनस्य पुरुषार्थत्वात्सर्वप्रयोगादौ क्रियमाणस्यापि तस्य मध्ये प्रसक्तेरविरोधः- तथापि द्वयोः पदार्थयोः मध्ये क्षुतादिनिमित्ताचमनस्य क्रत्वर्थस्य प्रसक्तेर्भवत्येव सः । अतएव विततैकपदार्थकरणमध्यप्रसक्तस्य क्षुतादिनिमित्तस्य प्राप्तौ यद्यपि नाचमनविधानं, किन्तु "क्षुते निष्ठीवने चैव परिधानेऽश्रुपातने । न तु कर्मस्थ आचामेद्दक्षिणं श्रवणं स्पृशेत्" इतिस्मृतिविहितदक्षिणकर्णस्पर्शेऽस्त्येव विरोध इति तस्यापयुदाहरणत्वम् । एवं यज्ञोपवीतस्यापि "सदोपवीतिना भाव्यम्" इति स्मृतौ सदाशब्दसंयोगात्पुरुषार्थत्वेनैव विधानेऽपि "अनुपवीतश्च यत्करोति न तत्कृतम्" इत्युत्तरार्धेन कर्तव्यकर्ममात्राङ्गत्वेन विधानात्स्वरूपेण तस्य विरोधाभावेऽपि स्त्रस्तस्य पुनस्समीकरणे नष्टस्य पुनर्धारणे वास्त्येव सः । एवं शिखाबन्धनेऽपि इत्युदाहरणत्वम् । एवं दक्षिणवाक्येऽपि भोजनादौ पुरुषार्थत्वेन विहितस्य दक्षिहस्ताचरणस्य विरोधाभावेऽपि क्रत्वर्थस्य तस्यास्त्येव विरोधः । हस्तद्वयेनानुष्ठानेऽविलम्बापरपर्यायप्रयोगप्राशुभावस्यैकेन हस्तेनानुष्ठाने बाधापत्तेः । अतो युक्तं सर्वेषामुदाहरणत्वं विरोधप्रसक्त्येति भावः ॥ (भाट्टदीपिका) स्मार्तपदार्थानाञ्च बहुत्वात्पूर्वाह्णादिः कालः प्रयोगविध्यवगतञ्च परिमाणं न शक्यतेऽनुग्रहीतुम् । नच श्रौतत्वेऽपि क्रमादेः पदार्थधर्मत्वात्पदार्थभूतेभ्यः आचमनादिभ्यो दौर्बल्यम् । प्रमाणपूर्वकत्वात्प्रमेयावगमस्य प्रथमावगतप्रमाणबलाबलापेक्षया प्रमेयबलाबलस्य दौर्बल्यादिति प्राप्ते (प्रभावली) (वेदकरणवेदिकरणपदयोरर्थः) पूर्वपक्षसाधकं श्रुतिविरोधं दर्शयितुं श्रौतैः इत्युक्तम् । तमेव विरोधं दर्शयति नहीति ॥ वेदं कृत्वेति ॥ वेदो नाम सम्मार्जनसाधनदर्भमुष्टिः । तस्य करणं नाम बन्धनाग्रपरिवासनादिसंस्कारः । वेदिर्नाम गार्हपत्याहवनीययोर्मध्ये चतुरङ्गुलखाता भूमिः । तत्करणं नाम वेदेन सम्मार्जनमुद्धननादिसंस्कारश्चेति वेदवेदिकरणशब्दयोरर्थः ॥ (आचमनादीनां प्रयोगविध्यसंग्रहेण गौणक्रमविरोधसमर्थनम्) श्रुतिबोधित इति ॥ एतच्च श्रुत्यर्थपाठस्थानमुख्यप्रवृत्त्याख्यपाञ्चमिकषट्प्रमाणगम्यक्रममात्रस्योपलक्षणम्- अर्थादिक्रमस्यापि प्रयोगविधिविधेयत्वात् । प्रत्यक्षश्रुतप्रधानविधेरेव अङ्गविध्येकवाक्यतामात्रकल्पनया प्रयोगविधिव्यपदेश्यत्वात्प्रत्यक्षश्रुतिविहितत्वाविरोधः । एवञ्च स्मार्तानां क्षुतादिनिमित्तकाचमनादीनां भेदेन होमवत्वैदिकैस्सह क्रमनियमे मानाभावात्वैदिकानामेवाङ्गानां क्रमावधारणात्प्रयोगविधिना च नियतक्रमकाणामेव पदार्थानां विधानात्तद्बहिर्भूताचमनादीनां नैव प्रयोगविधिसंभव इत्यर्थः ॥ (मध्ये आचमनानुष्ठाने पूर्वाह्णप्रयोगप्राशुभावादिबाधापत्तिनिरूपणम्) पूर्वाह्णादिरिति ॥ आदिपदेनाग्निहोक्राङ्गसायंप्रातः कालयोरपि संग्रहः । यथैव "पूर्वाह्णो वै देवानामि"ति श्रुत्या पूर्वाह्णकालो विहितः, तथैव प्रयोगविधिना अङ्गप्रयोगविशिष्टभावनाविधानेन युगपदनुष्ठानाक्षेपादत्यन्तयौगपद्याशक्तेश्चाङ्ग प्रधानानामङ्गानां च परस्परं प्रत्यासत्तिलक्षणः प्रयोगप्राशुभावलक्षणश्च कालो बोध्यते । तयोरपि मध्ये स्मार्तपदार्थानुष्ठाने बाधः स्यादेवेत्यर्थः ॥ (परिमाणस्यापि प्रयोगविध्यवगमनिरूपणम्) प्रयोगविध्यवगतं चेति ॥ किं कश्चित्पदार्थो विस्मृतः? कृतं वा सर्वमिति सन्देहेन वैगुण्याशङ्कोदये "यदेव श्रद्धया करोति तदेव वीर्यवत्तरं भवती"ति वचनावगतातिशयफलजनकफलावश्यंभावनिश्चयात्मकश्रद्धावि रहात्फलानुत्पत्तेर्दैवात्सकलवैदिकपदार्थानुष्ठाने कृतेऽपि संपूर्णफलप्राप्तये कृताकृतसन्देहस्यावश्यापनेयत्वात्तस्य चानुष्ठेयपदार्थसंख्यासंपत्तिपर्यालोचनं विनैव निराकर्तुमशक्यत्वात्प्रयोगवचनेन श्रुत्यादिविनियोज्यानां प्रचयसिद्धेयत्तावदवधारणस्यार्थादाक्षेपमभिप्रेत्यावगतं चेत्युक्तम् । ततश्च प्रथमावधृतस्य परिमाणस्य प्रथमापरिकल्पितपश्चादागतस्मार्तपदार्थानुष्ठानेन भ्रंशात्पुनःतत्कृताकृतानिरूपणादनिवृत्तवैगुण्याशङ्कस्य सम्यक्कृतत्वादिनिमित्तसंस्कारपाटवाभावातपूर्वदौर्बल्येन न्यूनफललाभप्रसंग इत्यर्थः । तदुक्तं वार्तिके "तच्चातिशयवत्सर्वं सार्थवादाद्विधेर्गतम् । न्यूनत्वाक्षमयावश्यं विरुद्धां बाधते स्मृतिमि"ति ॥ (अङ्गगुणविरोधेचेतिन्यायविरोधस्य पूर्वपक्षे प्रसक्तस्य परिहरणम्) यत्तु सिद्धान्ते "अङ्गगुणविरोधेच तादर्थ्यादि"ति द्वादशिकन्यायेनाङ्गभूतानामिष्ट्यादीनां प्रधानभूतसोमकालानुरोधेन "य इष्ट्ये"ति वाक्यबोधितपर्वकालबाधवदिहापि पदार्थत्वेन प्रधानभूताचमनाद्यनुरोधेन तदङ्गक्रमादेरेव विरोधे सत्यपि युक्तो बाधैत्युच्यते, तदनूद्य दूषयति नचेति ॥ प्रथमावगतेति ॥ तेन प्रथमावगतेन प्रमाणबलाबलेनाचमनादिभ्यः क्रमादीनां बलीयस्त्वे निर्णीते निराकाङ्क्षत्वान्न पश्चादवगतं प्रमेयबलाबलमादर्तव्यमित्यर्थः ॥ (आचमनादिभिः स्मार्तैः क्रमकालादेरविरोधेन सिद्धान्तः, तस्य सूत्रारूढत्वञ्च) अत्रच "अपि वा कारणाग्रहणे प्रयुक्तानि प्रतीयेरन्" इति सिद्धान्तसूत्रं वार्तिककृता विरोधे सत्यपि प्रमेयगतबलाबलेनाचमनादीनां प्रामाण्यपरतया यथापठितावधिनैकदावतार्यपुनरप्यविरोधप्रदर्शनं सूत्रारूढं कर्तुं "तेष्वदर्शनाद्विरोधस्ये"त्यंशस्यानुषङ्गं कृत्वा विरोधप्रदर्शनपरतया अनुषक्तद्वितीयावधिनावतारितम् । तत्र विरोधे सत्यपि प्रमेयबलाबलस्य प्राबल्यहेतोस्तुष्यतु दुर्जन इति न्यायेनोपपादनीयतया मुख्यत्वाद्विरोधाभावस्यैव मुख्यहेतुतया तत्प्रदर्शनपरत्वेन सूत्रार्थं प्रथमतोऽनुसंधाय सिद्धान्तमाह पदार्थेति ॥ क्रत्वपूर्वस्यानिर्ज्ञाताङ्गपरिमाणतया श्रौताङ्गमात्रेण नैराकाङ्क्ष्याभावाद्यथा विरोधाभावे बलाबलमनादृत्य श्रुत्यादिसमाख्यापर्यन्तैस्सहानारभ्यवादेन प्रापितान्यङ्गानि समुच्चित्य गृह्यन्ते, एवं स्मृत्याचारप्राप्तान्यपि- सर्वेषांकरणोपकारसाधनानामन्वयोत्तरमनुष्ठानाय प्रयोगविधेरनुष्ठानात्मनः प्रवृत्तेः । तेन च बोधितप्रयोगवेलायामेव पदार्थानामपेक्षितं क्रमकालादि प्रयोगावच्छेदकतया अन्वीयमानं यावत्प्रमाणप्रापितपदार्थप्रयोगविरोधेनैवावच्छेदकतया कल्प्यते- कालादीनां प्रयोगविध्यन्वयित्वस्यैकादशे वक्ष्यमाणत्वेनाङ्गप्रधानसाधारण्यात् । नच स्मार्तानां वैदिकैस्सह क्रमे नियामकाभावः- भेदनहोमवन्निमित्तसन्निपातादेवोपस्थित्या स्थानादेव तन्नियमोपपत्तेः । श्रुतिक्रमेण प्रबलेनापि पदार्थबाधापत्त्या बलवत्पदार्थाश्रितस्य स्थानस्य बाधायोगात् ॥ (भाट्टदीपिका) पदार्थप्राप्त्यपेक्षत्वात्क्रमादेरुत्तरकालिकस्य यावत्प्रमाणगम्यपदार्थाविरोधेनैव कल्पनीयत्वान्न तावत्पदार्थविरोधित्वम् । परिमाणन्तु न कस्यचिच्छास्त्रस्यार्थ इति न तस्य श्रौतत्वम् । विरोधेऽपि आचमनादीनां पदार्थत्वात्प्राबल्यमेव । प्रमाणानां हि न स्वरूपतो विरोधोऽपि तु प्रमेयविरोधनिबन्धनः । तद्यदैव प्रमेयविरोध आलोच्यते तदैव तद्गतेन बलाबलेन निर्णीते शास्त्रार्थे न प्रमाणबलाबलस्य नियामकत्वमिति प्रमाणमेव तत्स्मृतिः । यद्वा यच्छाक्यादिग्रन्थेषु वेदाविरुद्धं दानादिवचनं तस्य भवतु प्रमाणतेत्याशङ्क्य, "स्वाध्यायोऽध्येतव्यः", "वेदोऽखिलोधर्ममूलं तद्विदाञ्च स्मृतिशीले" । "पुराणन्यायमीमांसाधर्मशास्त्राङ्गमिश्रिताः । वेदाः स्थानानि विद्यानां धर्मस्य च चतुर्दश" । इत्यादिवचनैर्नियतप्रमाणप्रतिपाद्यानामेव धर्मत्वप्रमितेरन्यतः प्रमितस्य फलसाधनत्वाभावात्तेषामप्रामाण्यमिति ॥ ३ ॥ इति तृतीयं शिष्टाकोपाधिकरणम् । (प्रभावली) (स्मार्तानां केषाञ्चन पदार्थानामन्तेऽनुष्ठानम्) अत्रैवमवधेयम् यत्र स्थलविशेषपुरस्कारेणैव स्मार्तपदार्थविधिः तत्र स्थलाम्नानादेव तस्य क्रमः, परन्तु श्रुतिविहितक्रमविरोधे तस्य बाधेनान्ते पदार्थानुष्ठानम् । यत्रतु स्मृतौ पदार्थमात्रस्यैव क्रत्वङ्गतया विधानं न स्थलविशेषस्य, तत्रागन्तूनामन्ते निवेशात्स्यादेवान्तेऽनुष्ठानमिति ध्येयम् । इहतु "आचान्तेन कर्तव्यमि"ति स्मृतिसहकृतस्थानादेव तेषां क्रम इति न बाधकम् । परिमाणस्य तु साक्षात्शास्त्रेण विध्यभावात्पूर्वोक्तरीत्या कथञ्चित्तदाक्षेपेऽपि क्रमकालवत्प्रयोगवेलायामेवाकाङ्क्षणात्प्रयुज्यमानपदार्थाङ्गतयैव तत्प्रवृत्त्युत्तरकालमाकस्मिकभेदनहोमप्रायश्चित्तादि समवायावधारणेनेव स्मार्ताचमनादिपदार्थावधारणेनापि कल्पनीयस्य सर्वपदार्थावच्छेदकतयैव प्रयोगवचनोपसंग्रहान्न विरोध इत्यर्थः ॥ (आचमनक्रमयोर्विरोधाङ्गीकारेणापि आचमनरूपप्रबलपदार्थाश्रितत्वाताचमनस्मृतिप्रामाण्यनिरूपणम्) अधुना तुष्यतु दुर्जन इति न्यायेन विरोधमङ्गीकृत्यापि प्रामाण्यं साधयति विरोधेऽपिचेत् ॥ तदेवोपपादयति प्रमाणानांहीति ॥ .॥ प्रमाणयोरश्वमहिषवत्स्वरूपेण विरोधाभावेन विरुद्धप्रमेयप्रमापकत्वेनैव तस्य प्रतीतेः प्रथमं प्रमाणस्वरूपालोचनेऽपि प्रमेयस्वरूपालोचनं विना तदप्रतीतेः तत्स्वरूपालोचनोत्तरं विरोधप्रतिसन्धाने तद्गतेन धर्मिधर्मरूपप्रमेयबलाबलेनासंजातविरोधिनाऽचमनादेर्बलीयस्त्वनिश्चये सति न क्रमाद्यनुग्रहः संभवति । यद्यपि वा प्रमेयविरोधानुसन्धानोत्तरक्षणे तद्गतबलाबलोपस्थितिकाले विरुद्धप्रमेयप्रतिपादकत्वेन प्रमाणयोरपि विरोधोपस्थितिः स्यात्- तथापि तत्र प्रमेयबलाबलोपस्थित्युत्तरक्षणेऽसंजातविरोधित्वान्निर्णये सति तन्निर्णयवेलायां न प्रमाणगतबलाबलोपस्थितिरिति इतरस्य निर्णयपदवीमनागतस्य श्रुतिलिङ्गादिवदेवोत्तरभाविनो दौर्बल्यम् ॥ नच श्रुतेरत्यन्तबाधः- आचमननिमित्तोपनिपाताभावे सार्थक्यात् । आचमनादेः श्रुत्यर्थत्वेनोत्तरपदार्थाङ्गत्वेनाङ्गीभूतवेदिकरणव्यवधायकत्वायोगाच्च तदनापत्तेरिति भावः । तदुक्तं वार्तिके "शौचयज्ञोपवीतादेर्न स्वतन्त्रपदार्थता । सर्वं ह्यङ्गप्रधानार्थं तेन न व्यवधायकम्" इति ॥ अत आचमनादेर्दुर्बलत्वात्श्रुत्या बाधाभावात्प्रामाण्यमुपसंहरति इति प्रमाणमेवेति ॥ (वार्तिककृता भाष्यकारीयाधिकरणान्तरपरत्वस्यखण्डनं वार्तिकमतातिरिक्तन्यायसुधाकारमतसूचनञ्च) अत्र वार्तिककृता पूर्वोक्तरीत्या विरोधस्य स्फुटत्वात्पूर्वपक्षायोगातत एव अभ्युपेत्य विरोधं प्रमाणबलपूर्वपक्षस्याप्ययोगात्यज्ञोपवीतस्य "उपव्ययते देवलक्ष्ममेव तत्कुरुते" इति दर्शपूर्णमासप्रकरणगतवाक्येन प्रकृतावतिदेशतो विकृतावपि श्रुत्यैव विधानादस्य वासोविन्यासपरत्वेऽपि "यज्ञोपवीत्येवाधीयीत" इति काठकवाक्येन ब्रह्मसूत्रस्यापि श्रुत्यैव विधानातन्याभिश्च श्रुतिभिः आचमनदक्षिणहस्तादीनामपि प्रत्यक्षत एव विधानात्स्मार्तत्वानुपपत्तेरुदाहरणत्वायोगाच्च भाष्यकारीयाधिकरणान्तररचनां प्रदूष्य अधिकरणान्तरत्वव्याख्यानस्यायोगात्विरोधाधिकरणसाधितशाक्यादिग्रन्थाप्रामाण्याक्षेपसमाधानपरतया तच्छेषत्वेनाद्यं सूत्रद्वयं तृतीयन्तु स्मृत्यधिकरणसाधिताचारप्रामाण्याक्षेपसमाधानपरतया तच्छेषतयैव व्याख्येयमित्युक्तम्, तदनुसंधाय वर्णकान्तरमाह यद्वेति ॥ यथाचात्र यज्ञोपवीतादीनां श्रौतत्वं वार्तिककारोक्तमभ्युच्चययुक्तिमात्रं तथा न्यायसुधायां कौस्तुभे च द्रष्टव्यम् । विस्तरभयात्तु नेह प्रपञ्च्यते ॥ (शाक्यादिनिबद्धदानादिप्रामाण्यम्) दानादीति ॥ विहारासनवैराग्यध्यानसत्यदमदानदयाहिंसादीनामादिपदेन संग्रहः ॥ (निषेधादिवाक्यानामपि धर्मपर्यवसानोपपादनम्) वेदोऽखिल इति ॥ यद्यपि अखिलस्य वेदस्य न धर्ममूलत्वसंभवः- श्येनादिवाक्यानां निषेधवाक्यानां च तन्मूलत्वायोगात्, तथापि धर्ममबोधयतामपि तद्वाक्यानां पारायणब्रह्मयज्ञादिनिर्वर्तनद्वारा धर्मं प्रति कारकत्वात्प्रायश्चित्तविध्यपेक्षितनिमित्तसमर्पकत्वेअन विद्वद्वाक्यवत्परंपरया धर्मप्रमोपयोगसंभवाच्च न दोषः । स्मृतिशीले इति ॥ शीलमाचारः । इत्यादिवचनैरिति ॥ आदिपदेन "आयुर्वेदो धनुर्वेदो गान्धर्वं चेति तत्त्रयम् । अर्थशास्त्रं चतुर्थं तु विद्या ह्यष्टादशैव तु । " इत्यस्य संग्रहः ॥ (शाक्यादिनिबद्धदानाद्यप्रामाण्यम्) अप्रामाण्यमिति ॥ अतश्चाहिंसाद्यर्थस्य शिष्टपरिग्रहेऽपि तस्य वेदमूलकत्वेनाप्युपपत्तेः तद्विषयशाक्यादिवचनानां शिष्टैः प्रामाण्यानभ्यनुज्ञानात्शिष्टापरिग्रहात्न ततो ज्ञातं सदनुष्ठितं श्रेयस्साधनं भवतीति न तद्विषयतद्वचसां प्रामाण्यमित्यर्थः । तदुक्तं वार्तिके तथाच प्रायश्चित्तादिदानकाले यो वाक्यमात्मीयमन्यकविकृतं वा श्लोकं सूत्रं वोच्चार्य मन्वादिसंवादिप्रायश्चित्तं "दद्यान्न तत्कश्चिदपि धर्मार्थं प्रतिपद्यते । वेदेनैवाभ्यनुज्ञाता येषामेव प्रवक्तृता । नित्यानामभिधेयानां मन्वन्तरयुगादिषु । तेषां विपरिवर्तेषु कुर्वतां धर्मसंहिताः । वचनानि प्रमाणानि नान्येषामिति निश्चयः" । इति ॥ तथा "स्मर्यन्ते च पुराणेषु धर्मविप्लुतिहेतुषु । कलौ शाक्यादयस्तेषां को वाक्यं श्रोतुमर्हति" । अतस्सन्मूलमप्यहिंसादिवचनं श्वदृतिप्रक्षिप्तक्षीरवदनुपभोग्यमविस्त्रम्भणीयं चेति ॥ इति तृतीयं शिष्टाकोपाधिकरणम् ॥ (भाट्टदीपिका) (४ अधिकरणम् । ) अपि वा कारणाग्रहणेप्रयुक्तानिप्रतीयेरन् ॥ अनिबद्धानां वसन्तोत्सवाद्याचाराणां प्रामाण्यं न वेति सन्देहे एतेषां वेदमूलत्वे अष्टकादिवन्मन्वादिभिर्निबन्धनापत्तेः सामान्यतस्तद्विदाञ्चस्मृतिशीले इत्यादिना निबन्धनेऽपि च विशेषतोऽनिबन्धनेन तेषां श्रुतिदर्शनाभावनिश्चयादप्रामाण्यमिति प्राप्ते धर्मबुद्ध्या वैदिकैरनुष्ठीयमानत्वात्स्मृतिवदेव वैदिकत्वम् । विशेषतोऽनिबन्धनं तु गौरवभिया न दोषः । व्यतिक्रमसाहसदर्शनं तु धर्मबुद्ध्याननुष्ठीयमानत्वात्न वैदिकम् । नचैतावता सर्वस्याप्यवैदिकत्वम् । अत आचाराणामपि धर्माधर्मयोः प्रामाण्यम् ॥ ४ ॥ इति चतुर्थमाचारप्रामाण्याधिकरणम् । (प्रभावली) (वर्णकान्तरावतरणम्) अथवा अत्रोत्सूत्रमथवा न शास्त्रपरिमाणत्वात् । १,३.६ । इतिपूर्वतनसिद्धान्तसूत्रस्येहपूर्वपक्षत्वमभि प्रेत्य सौत्रं पूर्वपक्षं विषयप्रदर्शनपूर्वकमाह अनिबद्धानामिति ॥ (आचारात्मतुष्ट्योरप्रामाण्यपूर्वपक्षः) निबद्धाचारविषयवचनानां स्मृतित्वेनैव प्रामाण्यात्तस्य च वक्ष्यमाणाक्षेपहेतोरसंभवातनुदाहरणत्वं सूचयितुमनिबद्धानामित्युक्तम् । वसन्तोत्सवादीत्यादिपदेन तत्तद्देशभिन्नाचारमात्रस्य तथाऽभोजनव्यतिरेकेण जलं न पास्येऽ इत्यादि श्रुतिस्मृत्यविरुद्धसंकल्पविषयायाः शिष्टात्मतुष्टेश्च संग्रहः । इत्यादिनेति ॥ आदिपदेन "श्रुतिः स्मृतिः सदाचारः स्वस्ययत्प्रियमात्मनः । सम्यक्संकल्पजः कामो धर्ममूलमिदं स्मृतम्" । "यस्मिन् देशे य आचारः" "आचारश्चैव साधूनाम्" इत्यादीनां संग्रहः । निश्चयादिति ॥ एतच्च क्रियारूपाणामाचाराणामशब्दरूपत्वात्पुरुषहितबोधकत्वानुपपत्तेरप्युपलक्षणम् । एवं स्मृत्यधिकरणसाधितप्रामाण्याक्षेपमुपसंहरति अप्रामाण्यमिति ॥ (धर्मबुद्ध्यानुष्ठाननिबन्धानाचारप्रामाण्यसिद्धान्तः) धर्मबुद्ध्येति ॥ एतद्व्यावृर्त्यं स्वयमेव स्फुटीकरिष्यते । धर्मबुद्ध्या शाक्यादिभिः अनुष्ठीयमानाचारप्रामाण्यव्यावृत्तये वैदिकैरित्युक्तम् । साक्षात्परंपरया वा वेदविहितकारित्वलक्षणशिष्टत्वगुणैरित्यर्थः । स्मृतिवदेवेति ॥ (श्रुतिस्मृतिविरुद्धाचाराप्रामाण्यनिरूपणम्) शिष्टत्रैवर्णिकपरिग्रहो नासति वेदमूलत्वेऽवकल्पते इति लोभादिकारणाभावे स्मृतिवदेव वेदमूलत्वमित्यर्थः । अत एव श्रुतिस्मृतिविरुद्धाचरणेषु सत्यपि धर्मत्वस्मरणे मातुलकन्यापरिणयादौ श्रुतिविरोधादेव विरोधाधिकरणन्यायेन श्रुतिमूलत्वाकल्पनम् । स्मृतिविरोधे तु वक्ष्यते । अतश्च श्रुतिस्मृत्यविरुद्धानां लोभादिदृष्टमूलतयासंभावितानां सदाचाराणां वेदमूलत्वम् । अत एव स्मृतौ "श्रुतिस्मृत्यविरुद्धो यस्स सदाचार उच्यते" इत्युक्तमित्यर्थः ॥ (धर्मव्यतिक्रमादिनाऽचाराप्रामाण्यशङ्का) अत्रच सकलसदाचारमूलभूताया एकस्या एव श्रुतेर्मूलत्वकल्पनमथवा भिन्नानामित्यत्र निर्णयः कौस्तुभे द्रष्टव्यः । एवञ्च अशब्दरूपाणामाचाराणामात्मतुष्टेश्च मूलभूतशब्दानुमापकत्वेन प्रामाण्यप्रयोजकत्वे स्मृत्यधिकरणेन सिद्धेऽपि केषाञ्चित्शिष्टैरिन्द्रवसिष्ठादिभिर्धर्मव्यतिक्रमादनुष्ठीयमानानामहल्यागमनरूपब्रह्महत्योपक्रमरूपसाहसादीनामपि प्रामाण्यापत्तिः । तथात्मतुष्टेरपि "कस्यचिज्जायते तुष्टिरशुभेऽपीह कर्मणि । शाक्यस्य वा कुहेतूक्तिर्वेदब्राह्मणदूषणे । पशुहिंसादिसंबद्धयज्ञे तुष्यन्ति हि द्विजाः । तेभ्य एव तु यज्ञेभ्यः शाक्याः क्रुध्यन्ति पीडिताः । शूद्रान्नभोजनेनापि तुष्यन्त्यन्ये द्विजातयः । स्वमातुलसुतां प्राप्य दाक्षिणात्यश्च तुष्यति । अन्येतु सव्यलीकेन चेतसा तन्न कुर्वते । " इत्यादिवार्तिकोक्तरीत्यानवस्थितत्वात्वेदमूलकत्वासंभवात्प्रामाण्यानापत्तिरित्याशङ्कां निराकर्तुमाह व्यतिक्रमेति ॥ (धर्मबुद्ध्यानुष्ठानाभावेन व्यतिक्रमाद्यप्रामाण्येऽपि इतरेषां सदाचाराणां प्रामाण्यमेवेति निरूपणम्) इन्द्रवसिष्ठादीनां पूर्वोक्ताचरणस्य "श्रुतिसामान्यमात्राद्वा न दोषोऽत्र भविष्यति । मनुष्यप्रतिषेधाद्वा तेजोबलवशेन च । यथावा नाविरुद्धत्वं तथा तद्गमयिष्यते" । इति वार्तिकोक्तप्रकारेण कौस्तुभाद्युपपादितेन विरोधपरिहारसंभवात्नैव विरुद्धत्वम् । धर्मबुद्ध्या अनुष्ठीयमानत्वाभावाच्च न सदाचारत्वमपि । अतस्तेषां लोभकामादिरूपदृष्टमूलत्वान्नैव प्रामाण्यम् । एवमात्मतुष्टेरपि यत्र तन्मूलत्वसंभवः, तद्विषये अप्रामाण्येऽपि श्रुतिस्मृत्यविरुद्धात्मतुष्टेः संभवत्येव तत् । अतएव आत्मतुष्टेर्धर्मजनकत्वसन्देहे निर्णायिकायाः "यदेव किञ्चनानूचानोभ्यूहत्यार्षं तद्भवती"ति वेदेनैव प्रामाण्याभ्यनुज्ञानात्धर्मत्वज्ञापकत्वस्य स्मृतावप्युक्तेः धर्मे ज्ञाते ज्ञापकतयापि प्रामाण्यमव्याहतमेवेत्यर्थः । एतेन नित्यानुमेयत्वस्य पूर्वमेव निराकरणात्प्रत्यक्षश्रुत्यनुभवस्य स्वस्मिन् प्रत्यक्षबाधितत्वात्श्रुत्यनुमापकत्वासंभवातप्रामाण्यमिति निरस्तम्- "यदेवे"तिश्रुतेरेव प्रत्यक्षपठिताया इच्छाविषयस्य धर्मत्वबोधिकायाः स्वस्यानुभवसंभवेन तन्मूलकत्वोपपत्तेः । अत्र मतान्तरनिरासः कौस्तुभे द्रष्टव्यः ॥ इति चतुर्थमाचारप्रामाण्याधिकरणम् ॥ (भाट्टदीपिका) (५ अधिकरणम् । ) तेष्वदर्शनाद्विरोधस्य समा विप्रतिपत्तिः स्यात् । १,३.८ । तेष्वदर्शनात् ॥ अत्र शब्दप्रयोगरूपस्याचारस्य यत्रार्यम्लेच्छयोः परस्परमर्थविप्रतिपत्तिः, यथा पीलुशब्दस्य वृक्षविशेषे आर्याणां हस्तिन्यन्येषां, तत्र तयोस्तुल्यबलत्वम्- व्यवहारे आर्याणामिव म्लेच्छानामप्यभियुक्तत्वाविशेषात्, अवध्यस्मरणस्योभयत्रापि समानत्वाच्चेति प्राप्ते शक्यतावच्छेदकभेदेनानेकशक्तिकल्पनाप्रसङ्गातेकत्रैव शक्तिर्नोभयत्र । नच विनिगमनाविरहः- आर्यप्रसिद्धेरेव नियामकत्वात् । आर्या हि शब्दैकसमधिगम्यधर्माधर्मयोरविप्लुतिलिप्सया शब्दार्थतत्त्वं विविच्य परिपालयन्ति, न म्लेच्छाः- दृष्टार्थव्यवहारस्य यथाकथञ्चिदपि सिद्धेः । अतस्तत्प्रसिद्ध्या वृक्षविशेष एव शक्तिः । गजप्रतीतिस्तु लक्षणया शक्तिभ्रमाद्वा । यत्र तु नियामकाभावस्तत्रागत्याक्षादिशब्देषु उभयत्रापि शक्तिः- आर्याणामेवोभयत्र प्रयोगात् । तत्रापि क्वचिद्वाक्यशेषस्य नियामकता यथा "यत्रान्या ओषधयो म्लायन्ते अथैते मोदमाना इवोत्तिष्ठन्ती"त्यनेन यवशब्दस्य दीर्घशूक एव शक्तिः । प्रियङ्गुषु तुलक्षणादिरिति ॥ ५ ॥ इति पञ्चमाधिकरणे आर्यप्रसिद्धिनियामकतापरं प्रथमवर्णकम् । (प्रभावली) (तेष्वदर्शनादितिसूत्रे भाष्यकृद्रचिताधिकरणशरीरसंग्रहः) अत्र भाष्यकारेण व्याकरणाधिकरणे साधुशब्दप्रयोगनियमस्मृतेः वेदमूलत्वाभिधानादनादिवाचकाख्यसाधु शब्दप्रयोगस्य धर्मबुद्ध्यानुष्ठीयमानत्वाविशेषात्साधुशब्दप्रयोगस्य साक्षाद्धर्मतया तदन्तर्वर्तिपदानां पदार्थप्रतिपत्तिमुखेन धर्माधर्मोपयोगितया धर्मप्रामाण्यसंभवेन धर्मप्रमाणजिज्ञासोपपत्तेः अध्यायसंगतिं, शिष्टाकोपाधिकरणे स्मृत्यधिकरणसिद्धस्मृत्याचारप्रामाण्यस्य विरोधाधिकरणेनापादितस्य प्रतिप्रसवकरणेनाचारप्रामाण्यस्यापि प्रस्तुतत्वादनन्तरसंगतिं चाभिप्रेत्य यत्र "यवमयश्चरुः" "वाराही उपानहौ" "वैतसे कटे प्राजापत्यान् संचिनोति" इत्यादौ प्रयुक्तानां यववराहवेतसशब्दानामर्थप्रयोगाचारविप्रतिपत्तिः, यथा बहुभिः यवादिशब्दाः प्रियङ्गुवायसजम्बुवृक्षेषु प्रयुज्यन्ते, कैश्चित्तु दीर्घशूकसूकरवञ्जुलेषु, तत्र प्रयोगप्रत्यययोरुभयत्राविशेषातुभयत्र वाचकत्वकल्पनेनार्थद्वयस्यापि विकल्पेन ग्रहणमिति पूर्वपक्षं प्रापय्यानेकत्र शक्तिकल्पने गौरवादेकत्र शक्तिरपरत्र गौणी । तत्रापि यवपदस्य यवमयकरम्भपात्रविधिशेषतया "यत्रान्या ओषधयो म्लायन्ते अथैते मोदमाना इवोत्तिष्ठन्ती" त्याम्नानात्दीर्घशूक एव शक्तिः- फाल्गुनेऽन्यौषधिम्लानतायामपि प्रियङ्गूणां मोदाभावात्, वर्षासु तेषां मोदसत्त्वेऽपि अन्यौषधीनां म्लानाभावात्दीर्घशूकानां फाल्गुनेऽन्यौषधिम्लानतायामेव मोदसंभवेन तदुपपत्तेः । अत्र च वाक्यशेषस्य सत्त्वेप्यन्यत्राश्ववालादौ शक्तिग्राहकत्वे यवादिशब्दस्थले तन्निश्चायकत्वमात्रमेव लाघवात्कल्प्यते । शक्तिग्रहस्तु प्रयोगादेव । अत एव फाल्गुनादौ गोधूमादेर्मोदमानत्वेऽपि अप्रयोगादेव वाच्यत्वाप्रसक्तिः । एवं "वराहं गावोऽनुधावन्ति" "दएअप्सुजो वेतसः" इत्यर्थवादाभ्यां वराहवेतसशब्दयोरपि सूकरवञ्जुलयोरेव शक्तिः । गवामद्यत्वबुद्ध्या खेचरवायसानुधावनासंभवेन जम्बूवृक्षस्य स्थलाधिकरणस्य अप्सुजन्यत्वस्यासंभवेन तदनुपपत्तेः । अतश्च वाक्यशेषानुगृहीतार्यप्रसिद्धिरेव बलीयसीति सिद्धान्तितम् ॥ (वार्तिककारसंमताधिकरणशरीररचनापूर्वकं मूलकृता वार्तिकारीयाधिकरणशरीरपरिग्रहे निमित्तनिरूपणम्) वार्तिककृता तु यववराहवेतसशब्दानां प्रियङ्गुवायसजम्बूरूपेष्वर्थेषु कस्मिन्नपि देशे शिष्टैरप्रयोगात्विप्रतिपत्त्यभावेन "सारस्वतं मेष" मित्यत्र "वाग्वै सरस्वती"ति वाक्यशेषेण सरस्वतीशब्दप्रकृतिनिर्णयस्येवेहापि "सन्दिग्धेषु वाक्यशेषादि" त्यनेनगतार्थत्वाद्वाक्यशेषाभावेनाभियुक्तप्रसिद्धेस्तुल्यबलत्वापत्तेश्च नोदाहरणत्वसंभवः । नवैतत्सदृशं वाक्यशेषनिर्णेयाभिधेयं त्रिवृदादिशब्दरूपं संभवत्युदाहरणम्- तत्र त्रैगुण्य एव लोकप्रयोगेनार्थविप्रतिपत्त्यभावात् । अतो भाष्यकारीयामधिकरणरचनामयुक्तां मत्वा पिकनेमाधिकरणे वक्ष्यमाणम्लेच्छप्रयोगाचारप्रामाण्यालोचनेन प्रासङ्गिकीं संगतिं चाभिसंधायार्यम्लेच्छविप्रतिपत्तिविषयशब्दप्रयोगरूपाचारोदाहरणेनापि आर्यप्रसिद्धेर्बलीयस्त्वं सिद्धान्तितम् । तद्वदेव भाष्यकार कृतं विचारं स्वयमप्युपेक्ष्य यथावार्तिकमेव विचारं दर्शयति तत्रेति ॥ "पैलवौदुम्बरौ दण्डौ वैश्यस्ये" तिगौतमस्मृतावित्यर्थः । अवध्यस्मरणस्येति ॥ अस्मादयं व्यवहारः प्रवृत्त इत्येवंरूपावधेरस्मरणस्येत्यर्थः ॥ (आर्यप्रसिद्धेरर्थनिर्णायकत्वं तयोर्विरोधे वाक्यशेषस्येति निरूपणम्) आर्याहीति ॥ आर्यपदं रसवीर्यविपाकवैचित्र्यज्ञानसिध्यर्थं यतमानानां वैद्यानामप्युपलक्षणम् । यथाकथञ्चिदपि सिद्धेरित्यस्याग्रे परिपालयन्तीत्यनुषङ्गः । लक्षणयेति ॥ पीलुवृक्षाधिकरणकबन्धनसंबन्धेन लक्षणया यत्र तु कथञ्चिदपि न शक्यसंबन्धलाभः, तत्र शक्तिभ्रमाद्वेत्यर्थः । नियामकेति ॥ यत्रार्याणामेवोभयत्र प्रयोगस्तत्र "अभियुक्ततरा ये ये बहुशास्त्रार्थदर्शिनः । ते ते यत्र प्रयुञ्जीरन् स सोर्थस्तत्त्वतो भवेत्" इतिवार्तिकदर्शितरीत्या निर्णयः । अतएव असति वाक्यशेषेऽपि नक्षतिः । यत्र त्वेतयोरेवोभयत्र प्रयोगस्तत्र वाक्यशेषस्य नियामकतेत्यर्थः । यवशब्दस्येति ॥ (संभवद्विप्रतिपत्तिकानामप्युक्ताधिकरणविषयत्वम्) एतच्च पूर्वोक्तरीत्या वार्तिकमते यवशब्दस्यार्थप्रयोगविप्रतिपत्त्यविषयत्वात्भाष्यकारदर्शितसंभवद्विप्रतिपत्ति विषयत्वेन कथञ्चिदुक्तमपि संभवद्विप्रतिपत्तिकोदाहरणान्तरोपलक्षणार्थत्वेन व्याख्येयमिति ध्येयम् ॥ (विप्रतिपत्त्यधिकरणप्रयोजननिरूपणम्) प्रयोजनं पूर्वपक्षे गजदन्तप्रकृतिको विकल्पेन, सिद्धान्तेवृक्षमय एव विकल्पो न । तथा पीलुशब्दस्य पूर्वपक्षे हस्तिवाचकत्वेनापशब्दत्वाभावाताहिताग्नेर्हस्त्यभिप्रायेण तच्छब्दप्रयोगे सारस्वतीष्टिः प्रायश्चित्तं न, सिद्धान्ते तु भवत्येवेति स्पष्टत्वान्नोक्तम् ॥ (वार्तिककारीयवर्णकान्तरद्वयनिरूपणम्) विषयव्यावृत्त्यर्थं वार्तिककृता कृतं वर्णकान्तरद्वयम्, तत्राद्यमाह । एवञ्चेति । परिणयादाविति ॥ आदिपदेन पैतृष्वस्त्रीयादिपरिणयस्यानुपनीतेन भार्यया च सहभोजनस्य पर्युषितभोजनादेश्च संग्रहः । (स्मृतिविरुद्धाचारस्य प्रथमवर्णकविषयत्वोपपादनम्) सोऽयमाचारः आन्ध्रदेशे विद्यमानो "मातुलस्य सुतामूढ्वा मातृगोत्रां तथैवच । समानप्रवरां चैव त्यक्त्वा चान्द्रायणं चरेत्" इति शातातपस्मृत्या तथा "पैतृष्वस्त्रीयभगिनीं स्वस्त्रीयां मातुरेव च । मातुश्च भ्रातुराप्तस्य गत्वा चान्द्रायणं चरेत्" इति मनुस्मृत्या च विरुद्धस्तत्र विचार इत्यर्थः ॥ (आचारस्मृत्योः समबलत्वाचारप्राबल्ययोश्च निरूपणम्) धर्मत्वेन शिष्टत्रैवर्णिकपरिग्रहस्य श्रुतिकल्पकत्वस्योभयत्र तुल्यत्वात्विकल्पेन प्रामाण्यमिति पूर्वपक्षमाह तत्रोभयोरिति ॥ एतच्च तुल्यबलत्वं "समा विप्रतिपत्तिः स्यादि"ति सूत्रानुरोधेनोक्तम् ॥ वस्तुतस्तु प्रत्यक्षश्रुत्या विरुद्धस्मृतेर्मूलश्रुत्यनुमितिप्रतिबन्धलक्षणबाधासंभवेऽपि यथाश्रुतमूलनिश्चयादननुष्ठानरूपफलापहारलक्षणबाधस्येवेह स्मृतिविरोधेऽनुष्ठानात्मकस्याचारस्य फलापहारलक्षणस्य बाधस्यासंभवात्स्मृतेर्वाक्यात्मकत्वेन प्रत्यक्षश्रुत्यविरुद्धार्थप्रतिपादकश्रुतिकल्पनेन यथाश्रुतार्थत्यागलक्षणबाधसंभवेऽपि इहाचाराणामवाक्यात्मकत्वेन अन्यथात्वस्यापि कल्पयितुमशक्यत्वात्तदसंभवेमिथ्यात्वलक्षणः परं बाधो वाच्यः । नचासौ संभवति- शिष्टत्रैवर्णिकपरिग्रहस्य दृष्टत्वात् । अतस्तेष्वाचारेषु स्मृत्यपेक्षया शीघ्रमेव मूलश्रुतिकल्पनया लब्धात्मकेषु बलवद्विरोधदर्शनात्बलीयस्त्वात्स्मृतेरेवाचारेण फलापहारलक्षणबाधसंभव इति न विकल्पोपीति ध्येयम् ॥ (स्मृतिविरोधे आचारस्य श्रुत्यादिकल्पकत्वायोगेनाप्रामाण्यनिरूपणम्) सिद्धान्तमाह एवमिति ॥ स्मृतीनामिति ॥ अयं भावः मन्वादीनां "साक्षात्कृतधर्माण ऋषय" इति स्मृतेः सकलतत्त्वज्ञानसंपन्नत्वात्तत्प्रणीतस्मृतेः वेदविरोधेऽपि श्रुतिमूलत्वाविरोधे सुतरामाचारविरोधे तन्मूलत्वविरोधासंभवात्न तावन्मूलश्रुतिकल्पनप्रतिबन्धसंभवः, आचारस्य तु मन्वादिगतस्य अस्मदादिभिः अनुपलंभादर्वाचीनानां च सकलधर्मतत्त्वज्ञानाभावात्प्रमादादिसंभवेन चाविश्वसनीयत्वात्तदाचारस्य श्रुतिमूलत्वकल्पने श्रुतिविरोधवत्स्मृतिविरोधेऽपि भवत्येवानुष्ठानलक्षणफलापहाररूपबाधसंभवेन प्रतिबन्धः । शिष्टाचारो हि पूर्वपूर्वाचार्यगतस्सन्नुत्तरोत्तरान् प्रति स्वकर्तव्यतां प्रमापयन् स्वानुष्ठानफलकतया प्रामाण्यं लभते । संभवति च तस्योत्तरोत्तरानुष्ठानलक्षणफलापहाराद्बाधः ॥ (आचारस्य श्रुतिकल्पने स्मृत्यपेक्षया विप्रकर्षनिरूपणम्) किञ्च आचारस्य नित्यानुमेयश्रुतिमूलकत्वनिरासात्प्रत्यक्षानुभूतश्रुतिमूलत्वं कल्पनीयम् । नच इदानीन्तनानामनुष्ठातॄणामितस्ततो विप्रकीर्णशाखान्तरगतश्रुतिदर्शनं संभवति । अतोर्ऽवाचीनाचारान् दृष्ट्वा न झटित्येव श्रुतिविषयानुभवकल्पनं बाधितत्वातिति मन्वादिभ्यः मन्वाद्युपदेशेनैवाद्ययावदर्वाचीनपर्यन्तमेतदाचारानुष्ठानकल्पनमिति श्रुत्यधिगमकल्पनं यावदनुष्ठानमिति मन्वादेरनुष्ठानदर्शनेन वा अद्यतदनुष्ठानदर्शनकल्पनं वा मन्वादिभिस्तु परमेतदाचारमूलश्रुतिर्दृष्टेति कल्प्यते- तेषां सकलवेदार्थतत्त्वदर्शनवत्त्वात्, अतो मन्वादिभिरेवैतदाचारमूलं श्रुतिमुपलक्ष्य स्मृत्वा तदानीन्तनेभ्य उपदिश्य तदानीन्तनैरेव वा मन्वाद्याचारं दृष्ट्वा अनुष्ठितमित्येवं परम्परयाद्ययावदर्वाचीनाचारपर्यन्तमाचारानुष्ठानमित्येवं पूर्वपूर्वाचारकल्पनया स्मृतिं प्रकल्प्य पश्चात्श्रुतिकल्पनमिति द्व्यन्तरितप्रामाण्याद्विप्रकर्षः । मन्वादिनिबद्धस्मृतीनां तु मन्वादिष्वेव श्रुत्युपलंभपूर्वकं तदर्थस्मृतिकल्पनेन निबन्धनोपपत्तेरर्थकल्पनद्वारा झटित्येव श्रुतिकल्पनात्सन्निकर्ष इति लिङ्गवाक्यादिवदेवार्थविप्रकर्षादप्याचारस्य दौर्बल्यम् ॥ (भाट्टदीपिका) एवं वा यत्र मातुलकन्यापरिणयादौ स्मृत्याचारयोर्विरोधस्तत्रोभयोरपि श्रुतिकल्पकत्वात्तुल्यबलत्व मिति प्राप्ते स्मृतीनां सप्रत्ययप्रणीतत्वात्स्मृतिषु कर्तव्यतावाचिविधिप्रत्ययश्रवणाच्च बलीयस्त्वम् । आचारेषु तु आचरितॄणां जनानां मन्वाद्यपेक्षयातथा प्रत्ययिततरत्वाभावादितस्ततोविप्रकीर्णपरप्रकरणादिगत श्रुत्यवगमस्याशक्यत्वात्कर्तव्यतावाचिविधिप्रत्ययस्यावश्यकल्पनीयत्वाच्च दौर्बल्यम् । अतएवेदानीन्तनाचार दर्शनेन श्रुतिद्रष्टुः स्मृतिं तदुपदेशं वा कल्पयित्वा श्रुतिकल्पनम्, स्मृतीनान्तु साक्षादेवेतिविशेषः । अतः स्मृतिविरोधे आचारस्य यावत्स्मृतिदर्शनमननुष्ठानम् ॥ ६ ॥ इति पञ्चमाधिकरणे स्मृतिविरुद्धाचारा प्रामाण्यपरं द्वितीयवर्णकम् । (परप्रकरणपठितेषु वाक्येष्विदानीन्तनानां यत्किञ्चिदाचारादिमूलत्वाध्यवसानाभावनिरूपणम्) यद्यपि कतिपयाचारमूलभूतश्रुतीनामर्वाचीनानां दर्शनं भवति, यथा "नयनं दक्षिणं दीक्षितः पूर्वमङ्क्ते सव्यं हि मनुष्या आञ्जते" इति श्रुतेर्मनुष्यकर्तृकप्राक्सव्याक्ष्यञ्जनाचारमूलभूतायाः, एवमन्या अपि श्रुतय उदाहर्तव्याः- तथापि परप्रकरणपठितत्वविध्यन्तशेषत्वादिनेदानीन्तनैस्तासामाचारमूलत्वानध्यवसानादाचार परंपरया मन्वादिनिष्ठाध्यवसायकल्पनमावश्यकमेव ॥ किञ्च आचारे कर्तव्यस्य स्वरूपमात्रं कॢप्तं, नतु कर्तव्यता- सा तु धर्मबुद्ध्यादिना अर्थसुखादिरूपहेत्वन्तरासंभवपरिशेषसहकृतया कल्प्या, स्मृतौ तु लिङादिशब्देनैव सावगम्यते इति वैषम्यात्प्रकृते श्रुतिविरोधरूपबलवद्बाधकबलादनुपलभ्यमानमपि कामादिहेत्वन्तरं स्फुटतरमेव कस्यचिन्मूलानुष्ठातुः पुंस इति परिशेषासंभवेन श्रुतिकल्पनायोगात्तत्र धर्मबुद्धिर्भ्रम एव । अन्येषामपि तदनुयायिनामधर्म एव धर्मबुद्धिरिति निष्प्रमाणकं तन्मूलश्रुतिकल्पनम् ॥ (विकल्पापत्त्यापि निषिद्धविषयकाचारादेः श्रुतिकल्पकत्वायोगः) किञ्च स्मृतिमूलश्रुत्या निषेधरूपया मातुलकन्यापरिणयादेः प्रत्यवायजनकत्वबोधनाताचारमूलश्रुत्या इष्टसाधनत्वबोधनस्य वस्तुनि विकल्पायोगेनैकस्यैव तदुभयविरोधः । षोडशिग्रहणनिषेधेन तु षोडशिग्रहणाभावेऽपीतराङ्गैः क्रतूपकारसिद्धेरेवाक्षेपात्युक्तो विकल्पः ॥ (आत्मतुष्टेः श्रुतिमूलत्वशङ्कानिराकरणपूर्वकं स्मृत्याचारमूलत्वव्यवस्थापनम्) एवमात्मतुष्टेरपि स्मृतिविरोधे दौर्बल्यादप्रामाण्यमवसेयम् । नच आत्मतुष्टेः "यदेव किञ्चनानूचानोऽभ्यूहत्यार्षं तद्भवती"ति प्रत्यक्षश्रुतेरेव मूलतयोपलभ्यमानत्वेन परंपराकल्पनाभावात्दौर्बल्यस्याचारवदनुपपत्तिरिति वाच्यम्- यदेवेत्यस्या श्रुतेः सामान्यविषयत्वेन विशेषविषयस्मृत्याचारैः शिष्टाकोपाधिकरणन्यायेनाविरुद्धविषये संकोचोपपत्तेः । अत आचारवत्शिष्टात्मतुष्टेरपि स्मृत्याचारयोर्विरोधे दौर्बल्यमिति ॥ (मातुलकन्यापरिणयादेः देशभेदेन बोधायनवचनानुसारेणाधर्मत्वव्यवस्थापनम्) सप्रत्ययेतिमूले प्रत्ययो विश्वासः तत्त्वज्ञानं चोपात्तं, ताभ्यां सहिता सप्रत्ययाः मन्वादयः तैः प्रणीतत्वादित्यर्थः ॥ यत्तु "येषां परंपराप्राप्ताः पूर्वजैरप्यनुष्ठिताः । त एव तैर्न दुष्यन्ति आचारैर्नेतरे जनाः" । "इतर इतरस्मिन्न दुष्यति देशप्रामाण्यात्" इत्यापस्तम्बादिवचनेभ्यो देशभेदेन प्रामाण्यव्यवस्थापनं तद्दुर्बलविगीताचारानुरोधेन बलवत्स्मृतिसंकोचस्यान्याय्यत्वात्बोधायनेनापस्तम्बमतमुपन्यस्य "मिथ्यैतदिति गौतमः" "शिष्टस्मृतिविरोधादि" त्युक्तेश्चापस्तम्बवचनस्य गर्हामात्रनिराकरणार्थत्वमभिप्रेत्य सिद्धान्तमुपसंहरति अत इति ॥ (मातुलकन्यापरिणयादेः प्रत्यक्षश्रुतिमूलत्वपरस्मृतिचन्द्रिकादिखण्डनसूचनम्) अत्रच "गर्भे नुनौजनिता दम्पतीदं पती कर्द्देवस्त्वष्टा सविता विश्वरूप" इत्यादिप्रत्यक्षश्रौतलिङ्गावष्टब्धत्वान्मातुलकन्यापैतृष्वस्त्रेयीपरिणयाचारस्य स्मृतितोऽपि प्राबल्यादनुदाहरणत्वं न्यायसुधाकृता बलाबलाधिकरणे उक्तम् । तदनुसारेण स्मृतिचन्द्रिकाकारादयोप्येवमेवाङ्गीकुर्वन्ति । तेषामुपपादनपूर्वकं निराकरणं कौस्तुभे द्रष्टव्यम् ॥ (त्रिवृच्चर्यश्ववालादिशब्दानामर्थविशेषे लोकवेदयोर्विप्रतिपन्नानामुक्तवर्णकविषयतानिरूपणम्) वार्तिककृता कृतं द्वितीयं वर्णकान्तरमाह एवंवेति ॥ "त्रिवृत्बहिष्पवमान" मित्यत्र पठिते त्रिवृच्छब्दे लोकतस्त्रिभिर्वृत्यत इति व्युत्पत्त्या "त्रिवृद्रज्जुस्त्रिवृद्ग्रन्थि" रित्यत्र त्रैगुण्यमर्थः प्रतीयते । वेदे तु तदुपक्रम्य "उपास्मै गायता नर" इत्यादितृचत्रयानुक्रमणात्"नवभिःस्तुवन्ती"ति श्रुत्यन्तराच्च स्तोत्रीयानवकम् । तथा चरुशब्दस्य लोके स्थालीवचनत्वं, वेदे तु "आदित्यः प्रायणीयः पयसि चरुरि"ति विधायाज्यस्यैनं चरुमभिपूर्य चतुराज्यभागान् यजति पथ्यां स्वस्तिमिष्ट्वा अग्नीषोमौ यजति अग्नीषोमाविष्ट्वा सवितारं यजत्यदितिमोदनेनेति क्रमपरवाक्ये सिद्धवदोदनानुवादादोदनपरत्वम् । तत्रापि याज्ञिकप्रसिध्यानवस्त्रावितान्तरूष्मपक्वौदनविशेषपरत्वम् । तथा अश्ववालशब्देः लोकेऽवयवयोगेनाश्वस्य केशरूपोर्ऽथः, वेदेतु "अश्ववालः प्रस्तरः" इत्यत्र वाक्यशेषे "यज्ञो ह वै देवेभ्यः अश्वोभूत्वोऽपाक्रामत्सोऽपः प्राविशत्स वालधौ गृहीतः स बालान्मुक्त्वा विवेश ह ते वालाः काशतां प्राप्ता" इति श्रवणात्काशरूपोर्थः, एवं विप्रतिपत्तिविषयमुदाहरति त्रिवृदिति ॥ आदिपदेनैक्षवी विधृतीत्यत्र लोकावगतयोगबलेनेक्ष्ववयवपर एक्षवीशब्दः, वार्तिकलेखनोन्नीतवाक्यशेषात्तु वेदे काशमूलपरः । तथा स्तोमशब्दो ब्राह्मणस्तोम इति लोके समुदायवचनः, वेदेतु स्तुतेर्मानं स्तोम इति याज्ञिकप्रसिध्यास्तोमे डविधिः पञ्चदशाद्यर्थ इति व्याकरणेन चानुगृहीतेनऽत्रिवृदेव स्तोमःऽऽपञ्चदशस्तोमऽ इति सामानाधिकरण्यनिर्देशेन स्तोत्रीयासंख्याकृतस्तुतिसंख्यापर इत्यनयोरपि विप्रतिपत्तिविषययोः संग्रहः ॥ (भाट्टदीपिका) एवं वा त्रिवृच्चर्वश्ववालादिशब्देषु यत्र लोकवाक्यशेषयोरर्थविप्रतिपत्तिस्तत्र पदपदार्थसम्बन्धे लोकात्वेदस्याधिक्ये प्रमाणाभावात्तुल्यबलत्वमिति प्राप्ते विषयैक्याभावे विधिस्तुत्योरेकवाक्यतानुपपत्तेर्विधिर्वाक्यशेषस्यैव शक्तिग्राहकत्वमनुमन्यते । अतश्च लौकिकप्रमाणावगतेर्ऽथे शक्तिकल्पनाभिया न शक्तिरपि तु लक्षणादिनैव बोधः । अतएव यत्र वाक्यशेषो नास्ति तत्रापि त्रिवृदादिपदार्थो वैदिक एव ग्रहीतव्य इति वक्ष्यते । अतश्च त्रिवृच्छब्दस्य स्तोत्रगतमृङ्गवकं शक्यं न तु तत्त्रैगुण्यम् । चरुशब्दस्यौदनो न तु स्थाली । अश्ववालशब्दस्य काशाः नाश्वकेशाः । वाक्यशेषाश्च कौस्तुभे द्रष्टव्याः ॥ ७ ॥ इति तृतीयवर्णकम् । (प्रभावली) (लौकिकवैदिकप्रसिद्ध्योरसमबलत्वेन विकल्पपूर्वपक्षः) ननु लोकप्रसिद्धेर्धर्मं प्रत्यनङ्गत्वात्वेदप्रसिद्धिरेव बलवतीत्याशङ्कां "नैतदेवं पदार्थेषु न हि वेदो विशिष्यते । अदृष्टहेतुवाक्यार्थे लोकात्स ह्यतिरिच्यत" इति वार्तिकोक्तरीत्या परिहरति तत्रेति ॥ तुल्यबलत्वमिति ॥ नच एकत्रशक्तिकल्पने परत्र तत्सादृश्येन प्रयोगोपपत्तेर्नानेकशक्तिकल्पनं युक्तमिति वाच्यम्- अर्थद्वयस्याप्यत्यन्तवैलक्षण्येन सादृश्याभावात्, विनिगमनाविरहाच्च । अतोऽनन्यथासिद्धप्रमाणद्वयबलेनोभयोरपि वाच्यत्वावगमात्तुल्यबलत्वेन विकल्पः । तथाच "त्रिवृद्बहिष्पवमानम्"इत्यत्रैका ऋक्त्रिगुणितेत्येकः तृचः कर्तव्यो लौकिकार्थग्रहणपक्षे, तृचान्तराम्नानन्तु पाक्षिकत्वेन ज्ञेयम् । एवं चरुशब्देनानदनीयस्यैव स्थालीद्रव्यस्य कृष्णलवद्विधानं, पयसस्त्वदृष्टद्वाराधिकरणत्वम्, अर्थवादस्तु पाक्षिकानुवाद इति । एवमन्यत्राप्यूह्यमिति भावः ॥ (लोकप्रसिद्धेः वैदिकप्रसिद्ध्यपेक्षया बलवत्त्वपक्षनिरूपणम्) तुल्यबलत्वं च लोकप्रसिद्धेर्बलवत्त्वपूर्वपक्षस्याप्युपलक्षणम् । तथाहि विरोधे लोकप्रसिद्धेरन्यनैरपेक्ष्येणात्मलाभात् "कार्पासमुपवीतं स्यात्विप्रस्योर्ध्वं वृतं त्रिवृत् । त्रिवृता ग्रन्थिनैकेने"ति मनुवचने रज्ज्वारंभकेषु नवतन्तुषु नवसङ्ख्यासद्भावेऽपि उपवीतारंभिकायां रज्ज्वां त्रैगुण्यविध्यर्थत्वदर्शनात्, वेदेऽपि "त्रिवृद्रशनाभवती"ति त्रैगुण्यविषययाज्ञिकप्रसिद्धेरपि सत्वाच्च त्रिवृच्छब्दे मनुवैदिकप्रसिध्यनुगृहीतत्वाच्चानुपसंजातविरोधित्वेन वैदिकप्रसिद्धेर्लोकप्रसिद्धपदान्तरसामानाधिकरण्याधीनसिद्धिकत्वेन विलम्बितत्वात्तदपेक्षया दौर्बल्यमिति तदर्थस्यैव ग्रहणम् । अर्थवादानान्तु प्ररोचनामात्रत्वेन "यजमानः प्रस्तर" इत्यादिवद्गौणत्वेनाप्युपपत्तेर्नावश्यं संज्ञासंज्ञिसंबन्धप्रतिपादनपरत्वमित्यानर्थक्याभावात्नानर्थक्यप्रतिहतत्वेनापि तदर्थस्य ग्रहणमिति नार्थद्वयग्रहणेन विकल्पोऽपि । एवञ्च साम्यपक्षे विकल्पेनार्थवादस्य पाक्षिकानुवादत्वम्, प्राबल्यपक्षे लोकप्रसिद्धार्थस्यैव विधौ ग्रहणादर्थवादस्थौदनादिपदानामोदनसंबन्धेन स्थाल्यादिलक्षकत्वं कल्प्यत इति सिद्धम् ॥ (लौकिकवैदिकप्रसिद्ध्योः समबलत्वविषमबलत्वपक्षद्वयेपि सार्थवादविधिस्थलेऽविवादात्निरर्थवादघटकपदाभिप्रायत्वम् इति) प्रकाशकारास्तु पक्षद्वयेऽपि प्रकृतोदाहरणेर्ऽथवादेनौदनविषय एव विधेस्तात्पर्यग्रहात्सिद्धान्तवत्"गौणं लाक्षणिकं वापि वाक्यभेदेन वा स्वयम् । वेदोऽयमाश्रयत्यर्थं को नु तं प्रतिकूलयेत्" इति वार्तिकोक्तरीत्या ओदनस्यैव ग्रहणापत्त्या नानुष्ठाने कश्चन विशेषः, तथापि यत्र "सौर्यं चरुमि"त्यत्र नार्थवादस्तत्रेदं प्रयोजनम् इत्याहुः । तन्न- विधावर्थवादानुरोधेन चरुशब्दे लक्षणापेक्षयार्ऽथवाद एव स्थालीलक्षणाया न्याय्यत्वात्लक्षणादिना बोध इति ॥ (त्रिवृच्छब्दार्थनिर्णयः) तत्रायं विवेकः त्रिवृदादिशब्दानां तृचत्रयानुक्रमणवशात्स्तोत्रीयानवके शक्ताववधारितायां यत्र स्तोत्रसंबन्धस्तत्र स एवार्थो ग्राह्यः । अन्यथा बहिष्पवमाने तृचत्रयविधानादेव स्तोत्रीयानवकसिद्धौ "त्रिवृद्बहिष्पवमानमिति" त्रिवृच्छब्दोपादानवैयर्थ्यापत्तेः । अतः स्तोत्रीयानवके इव त्रैगुण्येऽपि त्रिवृष्पदवाच्यत्वेनैव तत्सार्थक्यात्यत्र नास्ति "त्रिवृदग्निष्टुदग्निष्टोमः" इत्यादौ तृचत्रयानुक्रमणं, तत्र तस्यैव रूढ्या कॢप्तया योगबाधेन विधानम् । यत्र तु न सा बाधिका, यथा "त्रिवृतायूपमि"त्यादौ तत्र लोकप्रसिद्धत्रैगुण्यस्य ग्रहणेऽपि न लौकिकार्थे त्रैगुण्ये शक्यसंबन्धाभावाल्लक्षणा । अतश्च स्तोत्रीयानवकमात्रे शक्तस्येह नवकमात्रे ग्रहणेऽपि लक्षणापत्तेः कॢप्तावयवयोगेनैवार्थप्रतीत्युपपत्तौ लाक्षणिकार्थत्वे प्रमाणाभावात्शक्यार्थस्यैव ग्रहणमिति लोकसिद्धार्थेऽपि शक्तिरेवेति नानार्थत्वमेव । अत एव बहिष्पवमान एव तृचत्रयानुक्रमणद्बहिष्पवमानगतस्तोत्रीयागतनवक एव रूढिःित्यप्यपास्तम्- तथात्वे त्रिवृद्गहणवैयर्थ्यापत्तेस्तदवस्थत्वात् । न हि तदा अग्निष्टुति सर्वस्तोत्रेषु नवकं विधातुं शक्यते- "त्रिवृतायूप"मित्यत्रेव लाक्षणिकत्वापत्तेः । त्रैगुण्यरूपशक्यार्थस्यैव ग्रहणापत्तेस्तत्रातिदेशेनैव स्तोत्रीयानवकप्राप्तेश्च विधिवैयर्थ्याच्च तत्र त्रिवृत्पदवैयर्थ्यापत्तेरनिवारणात् । अतः स्तोत्रीयानवके इव त्रैगुण्येऽपि शक्तिः । एवं मानववाक्येऽपि स्तोत्रीयानवकवत्लोकप्रसिद्धत्रैगुण्यपरत्वमेव ॥ (त्रिवृच्छब्दस्य स्तोत्रीयानवकवाचित्वे आकृत्यधिकरणविरोधपरिहारौ) नच स्तोत्रीयानवकवाचित्वे आकृत्यधिकरणविरोधः- यत्र विशेषणमात्रे शक्तौ कल्पितायां तदविनाभावात्विशेष्यप्रतीतिर्युज्यते तस्याकृत्यधिकरणन्यायविषयत्वेऽपि पुत्राविनाभावाभावेन स्नुषादिशब्दानां पुत्रभार्यादिविशिष्टवाचित्वस्येवेहापि विशिष्टवाचकत्वस्य स्वीकारे तद्विरोधाभावात् ॥ (चरुशब्दार्थनिर्णयः) चरुशब्दस्यापि वाक्यशेषबलात्समानविषयत्वानुरोधेन ओदने रूढिस्वीकारात्, ऐकान्तिकसंबन्धाल्लोकप्रसिद्धस्थाल्यां लक्षणैवेति नानेकार्थत्वम् । अतएवेह शक्ताववधारितायां यत्र न वाक्यशेषः "यथा सौर्यं चरु"मित्यादौ तत्रापि लाक्षणिकार्थग्रहणे मानाभावादोदनस्यैव ग्रहणम् । यद्यपि याज्ञिकैः कपाले कटाहे वा श्रपितस्य चरुत्वानभ्युपगमात्स्थालीस्थौदन एव च प्रयोगात्स्थालीस्थौदनपरत्वे आकृत्यधिकरणन्यायेन स्थालीमात्रवाचित्वमेव युक्तम् । अतएव ऐकान्तिकसंबन्धादोदन एव लक्षणेति प्राप्नोति- तथापि अर्थवादानुरोधेन गौणार्थस्यैवग्रहणे सिद्धे श्येनोपमानेनोपमितयागपरतया निर्णीतश्येनशब्देन यागस्य गौण्यापि वृत्त्या ग्रहणे सिद्धे तत्प्राबल्यात्"समानमितरच्छयेनेने" त्यादौ तद्ग्रहणस्येव सौर्यमित्यादावपि तस्यैव युक्तं ग्रहणम् । याज्ञिकानामपि चरुशब्दस्यौदने पाकविशेषमात्रनिमित्तत्वे । अपि तस्य स्थालीमन्तरेणानुपपत्तेरर्थाक्षेपेपि स्थालीस्थौदनवाचित्वानङ्गीकारेणाकृत्यधिकरणन्याया विषयतया स्थालीवाच्यतायाः अप्रसक्तेश्च । यद्यपि चरुशब्दे याज्ञिकप्रसिद्ध्या लोकप्रसिद्धेर्बाधादेव निर्णयस्संभवतीति न वाक्यशेषमात्रनिर्णेयाभिप्रायत्वम्- तथापि क्वाचित्कयाज्ञिकप्रसिद्धेरेव लाक्षणिकत्वोपपत्त्या बहुतरतत्प्रसिद्धिबाधायोगात्वाक्यशेषस्यैव याज्ञिकप्रसिद्धिमूलत्वेनाङ्गीकार्यत्वे "तद्धेतोरेवे"ति न्यायेन निर्णायकत्वमिति ध्येयम् ॥ (अश्ववालशब्दार्थनिर्णयः) एवमेवाश्ववालशब्दयोरपि अवयवयोगेन शक्त्यैवावयवार्थाश्वकेशरूपार्थयोर्वेदे अश्ववालानामेव काशरूपेण परिणामाभिधानात्प्रकृतिविकारयोश्च सलक्षणत्वदीर्घत्वादिना सादृश्येन यद्यपि गौणः प्रयोगः संभवति- तथापि सर्वत्र वाक्यशेषाभावेऽपि श्येनशब्द इव पूर्वोक्तरीत्या ग्रहणं युक्तम् । वस्तुतस्तु अश्ववालशब्दस्य गौणत्वाभ्युपगमे गौणतायाः पदान्तरसामानाधिकरण्यसापेक्षत्वेन असामर्थ्यापत्तेः आश्ववाल इति तद्धितानुत्पत्तिप्रसंगात्नैव गौणत्वम्, अपितु वैदिकप्रसिद्ध्या बलीयस्यावयवार्थप्रसिद्धिबाधातश्वकर्णशब्द इवकाशेषु रूढ्यवगमादिह शक्यार्थस्यैव ग्रहणेऽपि अवयवयोगेनापि शक्त्यवधारणात्नानार्थत्वमेव । एतेन अर्थवाद एव काशपदं केशरूपवाललक्षणार्थमस्तु, कृतं शक्यान्तरकल्पनेन इति निरस्तम्-ऽते वालाः काशतां प्राप्ताऽ इत्यनन्वयापत्तेः ॥ (स्तोमशब्दार्थनिर्णयः) एवं स्तोमशब्दस्यापि स्तोत्रीयासङ्ख्याकृतस्तुतिसङ्ख्यावाचित्वं वैदिकसामानाधिकरण्यादिना । अथवा न्यायसुधाकारोक्तरीत्या स्तोत्रीयासमुदायमात्रवचनत्वमवगन्तव्यम् । लोकप्रसिद्धसमुदायपरत्वं तु लक्षणया शक्त्या वेति दिक् ॥ वक्ष्यते इति ॥ दशमे इति शेषः ॥ तेनैतदधिकरणप्रयोजनमात्रकथनार्थत्वान्नपौनरुक्त्यमि ति भावः । वाक्यशेषाश्चेति ग्रन्थो व्याख्यातचरः ॥ यत्तु "सन्दिग्धेषु वाक्यशेषादि"त्यनेन गतार्थत्वम्, तत्न- तस्य वाक्यशेषान्वयात्प्राक्सन्दिग्धार्थविषये निर्णायकत्वेऽपि इह तदन्वयात्प्राक्विपरीतार्थनिश्चयेन सन्दिग्धार्थत्वाभावेन अनिर्णायकतयाप्रवृत्तेरिति ॥ इति चतुर्थं शास्त्रप्रसिद्धपदार्थप्रामाण्याधिकरणम् ॥ (भाट्टदीपिका) [चोदितं तु प्रतीयेताविरोधात्प्रमाणेन । १,३.१० ।] चोदितन्तु ॥ यत्र पिकनेमसततामरसादिशब्दानां नार्याणामर्थविशेषे प्रसिद्धिः, म्लेच्छेषु तु पिकः कोकिलः, नेमः अर्द्धं, सतं बृहत्पत्रं दारुमयं शतच्छिद्रं परिमण्डलं, तामरसं कमलमित्येवं प्रसिद्धिः, तत्र तत्प्रसिद्धार्थस्यैव ग्रहणं न तु निगमनिरुक्तादिना तत्कल्पनम् । नच म्लेच्छेषु शब्दार्थयोर्विप्लुतिदर्शनेन तत्प्रसिद्धेरविस्त्रम्भणीयता- पिकादिशब्दानां वेदएव दृश्यमानत्वेनाविप्लुतत्वात् । अतश्च तेषां वाच्याकाङ्क्षायां तत्प्रसिद्धेरपि कॢप्ततया ग्राहकत्वम् । अतएव निगमादिप्रसिद्धेरपि तत्प्रसिद्धित्वेन प्राबल्येऽपि कल्प्यत्वेन दौर्बल्यम् । म्लेच्छप्रसिद्धेश्च म्लेच्छप्रसिद्धित्वेन दौर्बल्येऽपि कॢप्तत्वेन प्राबल्यम्- प्रमाणबलाबलापेक्षया प्रमेयबलाबलबलीयस्त्वस्य स्थापितत्वात् । अतएव नात्र विशेषतः पूर्वपक्षः कथितः ॥ ८ ॥ इति पिकनेमाधिकरणम् । (प्रभावली) (पिकनेमादिपदार्थनिर्णये सिद्धान्तेनोपक्रमे निमित्तनिरूपणम्) अत्र यद्यपि भाष्ये आर्यम्लेच्छप्रसिद्धेर्बलाबलचिन्ता भाति- तथापि सा म्लेच्छप्रसिद्धेः क्वचिदपि प्राक्प्रामाण्यस्यानिरूपणादयुक्तेति मत्वा प्रामाण्याप्रामाण्यचिन्तैवात्र क्रियते । बलाबलचिन्तातु शिष्टाकोपाधिकरणे व्युत्पादितप्रमाणबलाबलन्यायेनैव सिद्धा प्रसंगात्फलीभूतत्वेन दर्शितेति वार्तिकसूचितमभिप्रेत्य विरोधे म्लेच्छप्रसिद्धेः दौर्बल्येऽपि अविरोधे तस्या एव प्रमाणत्वेन ग्रहणात्निरुक्तादिद्वारकशास्त्रप्रसिद्धेस्सिद्धान्ते ग्रहणादापवादिकीं संगतिं स्पष्टत्वात्तथाशास्त्रस्थप्रसिद्धग्रहणपूर्वपक्षस्य निर्युक्तिकतया च तामप्रदर्श्यैव विषयप्रदर्शनपूर्वकं सिद्धान्तमाह यत्रेति । आदिपदेन पश्ववयवविशेषवाचिनां क्लोमादिशब्दानां धौतकौशेयवाचिनः पत्रोर्णशब्दस्य कञ्चुकवाचिनो वारबाणशब्दस्य च संग्रहः ॥ (पिकाद्यर्थनिर्णये स्वरूपतो म्लेच्छप्रसिद्धिदौर्बल्यनिराकरणपूर्वकतत्प्रामाण्यव्यवस्थापनम्) काशादिषु साधिताप्रमाणभावम्लेच्छप्रसिद्धेरग्रहणात्नार्याणामित्युक्तम् । आर्येष्वर्थविशेषप्रसिद्धेः स्वरूपतोऽसत्त्वेऽपि तन्मूलत्वेनासिद्धाया अपि निरुक्तादिना साधयितुं शक्यत्वात्तस्यां प्रयोक्तृबलीयस्त्वं स्वरूपेण बलीयस्त्वम् । म्लेच्छप्रसिद्धौ तु प्रयोक्तृदौर्बल्यं स्वरूपेण दौर्बल्यमितिसन्देहकारणमपाकुर्वन्निश्चयं दर्शयति तत्र तत्प्रसिद्धार्थस्येति ॥ तथाच म्लेच्छप्रसिद्धेरेवाभिधेयनिर्णये प्रामाण्यमित्यर्थः । पिकादिशब्दानामिति ॥ शब्दान्तरेषु विप्लुतिशङ्कानिराकरणाशक्तावपि "पिकमालभेत" "सोमापौष्णं चरुं निर्वपेन्नेमपिष्टं पशुकाम" इत्यादिवैदिकचोदनासु पिकादिशब्दानां प्रयुक्तत्वेनाविभक्तिकम्लेच्छप्रयोगेऽपि प्रातिपदिकमात्रस्याविप्लुतिनिश्चयान्नित्यवेदप्रयुक्तत्वेन च जात्यादिरूपनित्यार्थवाचित्वकल्पनावश्यंभावे सति मुख्यार्थान्तराप्रसिद्ध्या तत्सदृशे कोकिलादौ गौणत्वायोगात्स्वसमानार्थककोकिलादिशब्दासादृश्याच्च गाव्यादिशब्दवत्तन्मूलकस्य, शक्तिभ्रमस्याप्यसंभवेनार्थस्याप्यविप्लुतिनिश्चयादनादि म्लेच्छव्यवहारस्यापि वाचकत्वकल्पनाविघातः । नह्यदृष्टार्थेषु शाक्यादिभ्यो मन्वादीनामिव पदस्वरूपज्ञाने इतरेभ्योर्ऽथनिर्णयेऽन्यस्य बलीयस्त्वं किञ्चिद्विरुद्धमस्ति, प्रत्युताकाङ्क्षितपदार्थज्ञाने साधकमेवेति भावः । अभ्युपेत्यापितु विरोधं शास्त्रप्रसिद्धेः दौर्बल्यं दर्शयति अतएवेति ॥ स्थापितत्वादिति ॥ नहि तत्र स्वरूपबलाबलापेक्षया तत्संबन्ध्यन्यप्रमाणगतबलाबलमात्रं दुर्बलमुक्तम्, नत्वाश्रयबलाबलमिति युक्तम्- स्वरूपबलाबलापेक्षया तत्संबन्ध्यन्यगतबलाबलमात्रदौर्बल्यस्य प्रतिपादितत्वात् । तत्संबन्ध्यन्यच्च यथा प्रमाणं तथा आश्रयोऽपीति न दोषः । एतच्च भाष्यकारमतेनोक्तम् - वार्तिककारमते शिष्टाकोपाधिकरणभङ्गेनान्यथासूत्राणां योजनात्, प्रमेयबलाबलज्यायस्त्वस्य तत्र पूर्वमनिरूपणादिहैव आश्रयगतबलाबलापेक्षया प्रमेयबलाबलस्य विचार्यत्वात् ॥ (वार्तिकमते अस्यैवाधिकरणस्य विषयविशेषे म्लेच्छप्रसिद्धिप्राबल्यसाधकतेति निरूपणम्) अतो वार्तिकमते म्लेच्छप्रसिद्धेः प्रामाण्याप्रामाण्यविचारस्येव तद्गतबलाबलविचारस्यापि इहैव कर्तव्यत्वादुपजीव्यतयेदमधिकरणं पील्वादिवर्णकात्प्राकर्थतो द्रष्टव्यम् । एवञ्चास्मिन्मते प्रमेयबलाबलज्यायस्त्वस्थापनस्यात्र पूर्वपक्षाकथनं प्रति हेत्वाकाङ्क्षा संभवति- तथापि विरोधे म्लेच्छप्रसिद्धेरप्रामाण्ये उक्तेर्ऽथादेवाविरोधे प्रामाण्यहेतोः पूर्वपक्षसाधकस्यासंभवात्सूत्रकृतापि स्वातन्त्र्येण तदकथनादेव चात्र तदकथनमिति ज्ञेयम् ॥ इति पञ्चमं म्लेच्छप्रसिद्धिप्रामाण्याधिकरणम् ॥ (भाट्टदीपिका) प्रयोगशास्त्रमितिचेत् ॥ सर्वस्मृतीनां कल्पसूत्राणां वा षडङ्गानामेव वा शाक्यादिग्रन्थानां वा वेदत्वं वेदतुल्यत्वं वा भवतु- न श्रुत्यादिमूलकत्वे गौरवात्, नित्यब्रह्मयज्ञविधिविषयत्वानुपपत्तेश्च, षडङ्गानां तु "षडङ्गमेके" इति स्मृतेरपि वेदत्वम् । बुद्धबोधायनमशकादिभिस्तु समाख्या कठादिवत्प्रवचननिमित्तत्वेनाप्युपपन्नेति प्राप्ते दृढकर्तृस्मरणात्कठादिवत्प्रवचननिमित्तत्वानुपपत्तेर्नैषां वेदत्वं वेदतुल्यत्वं वा । प्रतिमन्वन्तरञ्चैवंविधानां ग्रन्थानां सत्त्वान्नित्यब्रह्मयज्ञविधिविषयत्वोपपत्तिः । एकग्रहणात्तु "षडङ्गमेके" इति परमतोपन्यासः । तस्मादेषां स्मृत्यधिकरणन्यायेन वेदमूलकत्वमेव । शाक्यादिग्रन्थानां तु तदसम्भवाताभासत्वमेव । (प्रभावली) (कल्पसूत्रप्रामाण्यपरभाष्यकारीयाधिकरणशरीरस्य स्मृत्यधिकरणेन पौनरुक्त्यपरिहारार्थं स्वतः प्रामाण्यपरतया वार्तिककारमतानुसारेण तद्योजनम्) अत्र भाष्यकृता सूत्रानुरोधेन कल्पसूत्राण्युदाहृत्य प्रामाण्याप्रामाण्यचिन्ता कृता । सा न युक्ता- स्मृत्यधिकरणे वेदातिरिक्तविद्यास्थानमात्रस्य वेदमूलकतया प्रामाण्यस्य साधितत्वेन तद्विरुद्धत्वात् । अतस्सिद्धान्ते सूत्रद्वयेन स्वरनियमवाक्यशेषाभिधानेन वेदवैलक्षण्यप्रतिपादनात्स्वतःप्रामाण्यनिराकरणप्रतीतेः पूर्वपक्षे स्वातन्त्र्येण प्रामाण्यमभ्युपेत्य स्मृत्यधिकरणसाधितवेदमूलकत्वहेतुकप्रामाण्याक्षेपेण पूर्वपक्षमुपवर्ण्य तस्यैवेह सिद्धान्ते निराकरणद्वारा स्मृत्यधिकरणसाधितस्य स्थिरीकरणेन भाष्यगतप्रमाणाप्रमाणशब्दयोः स्वातन्त्र्यास्वातन्त्र्यव्याख्यायामाक्षेपहेतोस्सर्वत्राविशेषेण स्मृत्यादिष्वपि तदाक्षेपसमाधानयोस्संभवात्कल्पसूत्रपदं भाष्यगतमुपलक्षणमभिप्रेत्य म्लेच्छाचाराणां केषाञ्चिदनादित्वेन शिष्टाचारतुल्यतया स्वतन्त्र्यप्रामाण्येऽभिहिते इहापि वेदत्वेन वेदतुल्यतया वा स्वतः प्रामाण्योपपत्तेर्नैषां वेदमूलत्वं तद्विरोधेन वा नाप्रामाण्यं युक्तमित्यनन्तराधिकरणव्युत्पादितप्रामाण्योपजीवनेन स्मृतिविरोधाधिकरणद्वयाक्षेपादाक्षेपिकीं संगतिं स्पष्टत्वादप्रदर्श्यैवोदाहरणानि दर्शयति सर्वस्मृतीनामिति ॥ (कल्पानां सूत्राणां च स्मृत्यधिकरणविषयत्वेन तदाक्षेपपराधिकरणविषयत्वयोगेन कल्पसूत्रयोः लक्षणादिनिरूपणम्) न केवलं स्मृत्यधिकरणे मन्वादिस्मृतिमात्रमुदाहरणं, येन तावन्मात्रविषय एवायमाक्षेपो भवेत्, अपितु वेदातिरिक्तानां सर्वेषामेवोदाहरणत्वात्कल्पसूत्रादिविषयस्यापि तस्याक्षेपं सूचयितुमाह कल्पसूत्राणां वेति ॥ कल्पाश्च सूत्राणि चेति विग्रहः । कल्पा नाम प्रयोगं कल्पयन्तीति व्युत्पत्त्या सिद्धरूपप्रयोगप्रतिपादका ग्रन्था बोधायनवाराहमाशकादिप्रणीताः, सूत्राणि तु सूचयन्तीति व्युत्पत्त्या ऋचं पादग्रहणमेतत्तीर्थमित्याचक्षते इत्यादिस्वपरिभाषास्वसंज्ञाभिर्युतानि प्रयोगविशेषोन्नायकलक्षणप्रतिपादका आश्वलायनबैजावापकात्यायनादिकृता ग्रन्था इति भेदः । तदुक्तं वार्तिके "सिद्धरूपः प्रयोगो यैः कर्मणामनुगम्यते । तत्कल्पा लक्षणार्थानि सूत्राणीति प्रचक्षते" इति ॥ अन्यत्रापि "लघूनि सूचितार्थानि स्वल्पाक्षरपदानि च । सर्वतस्सारभूतानि सूत्राण्याहुर्मनीषिणः" इति ॥ (शाक्यादिग्रन्थानां कल्पसूत्राधिकरणविषयत्वोपपादनम्) शाक्यादीति ॥ यद्यपि स्मृत्यधिकरणे शाक्यादिग्रन्थानां न प्रामाण्यं साधितं, येनाक्षेपविषयतोच्येत- तथापि विरोधाधिकरणे वार्तिककृता तेषां वेदमूलत्वासंभवेनाप्रामाण्यस्य प्रतिपादितत्वादिहाक्षेपसाधितहेतोः स्वातन्त्र्यस्याप्रामाण्याक्षेपेऽपि प्रवृत्तेः सिद्धान्तानुपयोगेऽपि विचारविषयत्वमुपपद्यते इति भावः ॥ अत्र सर्वत्र वाशब्दो न पक्षान्तरद्योतकः, किन्तु अनास्थाद्योतकः सन् सर्वेषूदाहरणत्वज्ञापक एव ॥ (वेदत्वेन वेदतुल्यत्वेन वा लाघवात्कल्पसूत्राणां प्रामाण्यपूर्वपक्षः) अत एव वार्तिके "एवमेतानि चत्वार्यपि विद्यास्थानानी"त्युक्तम् । गौरवादिति ॥ यथैव स्मृत्यधिकरणे भ्रान्त्यादिमूलत्वकल्पनातो वेदमूलत्वकल्पनाया लघुभूतत्वात्वेदमूलत्वमेवाश्रितम्, तथैव दृढतरशिष्टत्रैवर्णिकपरिग्रहेण अवश्यवक्तव्ये प्रामाण्ये वेदमूलत्वकल्पनापेक्षयापि अपौरुषेयत्वकल्पनाया लघुभूतत्वात्तदेव युक्तमाश्रयितुमित्यपौरुषेयत्वसाम्यात्मन्वादिनिबन्धनानि, वेदाः, धर्ममूलत्वात्, विधिवदित्यनुमानेन वेदत्वम् । यदातु तानि अवेदाः, वेदमुद्रारहितत्वाद्वेदत्वेनाभियुक्तप्रसिद्ध्यभावाद्वा काव्यवदिति सत्प्रतिपक्षानुमानपराहतत्वमुपन्यस्येत- तदा वेदतुल्यत्वं वेत्यर्थः ॥ (प्रत्यक्षवेदार्थसंग्राहकत्वेन प्रणयनवैयर्थ्यापत्त्या वेदत्वेन प्रामाण्यनिरूपणम्) किञ्च मन्वादिस्मृतीनां तिरोहितप्रायवेदार्थनिबन्धनत्वात्कथञ्चिदर्थवत्त्वेऽपि कल्पसूत्राणां विस्पष्टं सकलजनप्रत्यक्षवेदार्थोपनिबन्धनात्प्रणयनानर्थक्यापत्तेः शाखान्तरवदेवापौरुषेयत्वेन वेदत्वं युक्तम् । नहि सकलजनप्रत्यक्षवेदवाक्यार्थविषयमर्थं वदतामेषां पुरुषैः प्रणयनं संभवति । तथात्वे वामीषां विधायकोपस्थानमात्रेण चरितार्थत्वात्धर्मप्रमाजनकत्वानुपपत्तेर्धर्ममूलस्मरणानुपपत्तेरिति भावः ॥ (अनादिब्रह्मयज्ञविधिविषयत्वेन स्मृतीनां स्वतःप्रमाणधर्माधर्मप्रमितिजनकत्वेन शाक्यादिग्न्थानां च प्रामाण्यनिरूपणम्) नित्यब्रह्मयज्ञेति ॥ "अहरहः स्वाध्यायमधीयीते"त्युपक्रम्य "यदृचोऽधीते यद्यजूंषि यद्ब्राह्मणानीतिहासान्पुराणानि कल्पानि"ति नित्योऽनादिसिद्धो ब्रह्मयज्ञविधिः । नहि कल्पादीनामाधुनिकत्वे स उपपद्यत इत्यर्थः ॥ यद्यपि न शाक्यादिग्रन्थानां नित्यब्रह्मयज्ञविधिविषयत्वम्- तथापि शाक्यादिग्रन्थेभ्यो धर्माधर्मावगतेः स्वसंवेद्यत्वात्तस्याश्च स्वतःप्रामाण्यस्य तर्कपादे स्थापितत्वादाप्तोक्तत्वलक्षणगुणाभावेऽपि प्रामाण्याविघातः । नच मीमांसकैः प्रामाण्यानभ्युपगमेऽपि शाक्यैः परतःप्रामाण्याभ्युपगमाताप्तोक्तत्वलक्षणगुणाभावे कथं प्रामाण्योपपत्तिः? "उत्पादाद्वा तथागतानामनुत्पादाद्वा स्थितैवैषां धर्मनित्यते"ति शाक्येन प्रवाहनित्यत्वेन कूटस्थनित्यत्वेन वा धर्मनित्यत्वस्योक्तत्वात्, तत्र नित्यत्वस्य च तत्प्रतिपादकागमनित्यत्वमन्तरेणानुपपत्तेः नित्यानां चागमानामस्वतस्त्वे प्रामाण्यानिर्वाहात्स्वतस्त्वाभ्युपगमेऽपि अपसिद्धान्तानापत्तेः । एवं सत्यपि यदि स्वकर्तृकत्वमभ्युपगम्येत, तदा कर्तृदोषेण प्रामाण्यावगतिर्बाध्येतापि, नतु तदभ्युपगमो युक्तः- गौरवात् । एवञ्च यद्यपि वेदमूलकत्वे निराकृते वेदत्वं वेदतुल्यत्वं वा दूरेणापास्तम्- तथापि "शाक्यादिश्चोरः स्वागमप्रामाण्यग्रामं प्रत्यक्षादिमूलत्वेनान्यद्वारेण प्रवेष्टुमुद्यतोऽतीन्द्रियार्थदर्शनासामर्थ्यवेदमार्गबाह्यत्वलक्षणन्यायदण्डपाणिभिर्मीमांसकैः वारितो वरं न प्रविशेत्, संप्रति तु मीमांसकानुमतेनापौरुषेयत्वेन महापथेनैव प्रकटं प्रवेष्टुमिच्छती"ति वार्तिकोक्तरीत्या संभवत्येवाप्रामाण्याक्षेपेण स्वातन्त्र्येण प्रामाण्यमिति भावः ॥ (षडङ्गवेदत्वनिरूपणप्रकारः) अङ्गानान्तु वेदत्वे स्पष्टमेव हेतुमाह अङ्गानान्त्विति ॥ "मन्त्रब्राह्मणयोर्वेदनामधेयं षडङ्गमेक" एति गौतमस्मृतेः स्पष्टमेव वेदत्वमित्यर्थः । अपौरुषेयत्वे बोधायनबौद्धमाशकादिसमाख्यानुपपत्तिं काठकादिसमाख्यावदुपपत्त्या परिहरति बुद्धेति ॥ एतादृशसमाख्यामूलिकैवैषु लोकानां पौरुषेयत्वभ्रान्तिरित्यर्थः ॥ (दृढकर्तृस्मरणेन स्मृत्यादिपौरुषेयत्वव्यवस्थापनम्) दृश्याभावसाधकस्य दृश्यादर्शनस्येवेह कर्त्रभावसाधकस्यस्मर्तव्यास्मरणस्याभावेन वेदवदकर्तृकत्वानुपपत्तेः पौरुषेयत्वेऽपि प्रामाण्यस्य लाघवमात्रेण तत्साधने कालिदासादिवाक्येष्वपि तदापत्तेः तस्य प्रामाण्योपष्टम्भकत्वेन स्वतःप्रमाणत्वाभावाच्च नापौरुषेयत्वसिद्ध्या वेदत्वं वेदतुल्यत्वं वेत्यभिप्रेत्य सिद्धान्तमाह दृढेति ॥ अतश्च स्मर्तव्यास्मरणहेतुना वेदापौरुषेयत्वे न्यायतः स्वरवाक्यशेषादिमुद्रादिभिश्च सिद्धे काठकादिसमाख्यायाः तदनुरोधेन प्रवचननिमित्तत्वाङ्गीकारेऽपीह कर्त्रभावसाधकप्रमाणाभावेन प्रत्युत तत्साधकप्रमाणसत्त्वेन प्रवचननिमित्तत्वेन न तत्तत्समाख्या नेतुं युक्ता । एवं सत्यपि यदि त्रैवर्णिकानां धर्मत्वस्मरणमपौरुषेयत्वं विना नोपपद्येत, ततः कल्प्येतापि तत्, तत्तु वेदमूलत्वेनाप्युपपन्नतरमित्यभिप्रेत्योपसंहरति तस्मादिति ॥ (भाट्टदीपिका) प्रयोजनं कल्पादीनां वेदत्वे तत्तुल्यत्वे वा यत्र प्रत्यक्षश्रुतिविरोधस्तत्र विकल्पः । यत्र वा प्रत्यक्षश्रुतिविरोधाभावेऽपि न्यायोभासोपन्यासपूर्वकं वचनं, तत्रापि वचनत्वादेव तदनुष्ठानं, न्यायोपन्यासस्तु हेत्वधिकरणन्यायेनार्थवादः । सिद्धान्ते तु प्रत्यक्षश्रुतिविरोधे सन्न्यायविरोधे च यावन्मूलश्रुतिदर्शनमननुष्ठानलक्षणमप्रामाण्यम् । श्रुतिदर्शनोत्तरन्तु विकल्पः । यत्र तु न्यायोपन्यासरहितं मीमांसान्यायविरुद्धञ्च स्मृतेर्वचनं तत्र श्रुतिमूलकत्वसम्भवेन वचनविरोधे न्यायस्यैवाभासत्वात्तदर्थ एवानुष्ठेय इति । अत्र सर्वत्रोदाहरणानि मूलोक्तोदाहरणदूषणानि चास्मत्कृते कौस्तुभे द्रष्टव्यानि ॥ ९ ॥ (प्रभावली) (नित्यब्रह्मयज्ञविधिविषयत्वादिप्राप्तवेदतुल्यत्वादिनिराकरणम्) या तु नित्यब्रह्मयज्ञविधिविषयत्वानुपपत्तिः, तां परिहरति नित्येति ॥ यथैव व्रीहित्वजातिमादाय नित्यसंयोगविरोधपरिहारः, तथा सर्वग्रन्थेषु वाक्यत्ववत्कल्प्यत्वजात्यनङ्गीकारेऽपि कॢपिधात्वर्थानुसारेण वेदार्थप्रकल्पकत्वोपाधिनैवञ्जातीयकानां ग्रन्थानां सर्वकालं केषाञ्चित्संभवेन प्रवाहनित्यतया नित्यसंयोगाविरोधोपपत्तेर्न दोष इत्यर्थः । यत्तु अङ्गानां वेदत्वस्मरणं, तदेकग्रहणादेव पूर्वपक्षत्वप्रतीतेः "मन्त्रब्राह्मणयोः वेदनामधेयमि"त्यत्रैकग्रहणाभावेन सिद्धान्तत्वप्रतीतेः असन्मूलकमित्याह एकग्रहणात्त्विति ॥ (कल्पसूत्रप्रणयनसार्थक्योपपादनम्) यत्तु प्रणयनवैयर्थ्यापादनं, तन्नानाशाखागतानामेकादशकपालत्वादीनां समुच्चितानां च प्रयोजाद्यनुमन्त्रणमन्त्रादीनां शाखान्तरीयवाक्याधीनबाधोपसंहारपरिसंख्यापदार्थलक्षणापूर्वतादिज्ञानार्थत्वाद युक्तम् । उपसंहारस्य मीमांसाभिज्ञैः स्वशाखामात्राध्यायिभिःक्वचिदुदाहरणविशेषे ज्ञातुं शक्यत्वेऽपि सर्वोदाहरणेषु ज्ञातुमशक्यत्वात्तत्तदर्थस्मृतिविक्षेपकार्थवादत्यागेन संप्रत्यनुष्ठानस्य कर्तुमशक्यत्वाच्च प्रणयनसार्थक्योपपत्तेः परिहरणीयम् । प्रकृते शाखान्तरवदध्येतृभेदाभावात्तुल्याध्येतृकत्वात्त्वन्मत एव विध्यन्तरानर्थक्यमित्यभ्यासात्कर्मान्तरत्वापत्तेरतीव गौरवम् । मम तु प्रत्यक्षविधिविहितार्थानुवादकत्वेऽपि अनुष्ठानसौकर्यार्थं कल्पादिनोपस्थापनमर्थवदिति । नच एवमेकैकस्यां शाखायां पञ्चषट्संख्याककल्पसूत्राम्नानवैयर्थ्यम्, एकेनैव तदुपस्थापनसिद्धेः इति वाच्यम्- स्वाध्यायाध्ययनविधौ स्वपदोपादानात्पारंपर्यागतैकशाखाध्ययननियमस्येव "बह्वल्पं वास्वगृह्योक्तं यस्य यावत्प्रकीर्तितम् । तस्य तावति शास्त्रार्थे कृते सर्वः कृतो भवेदि"ति शाखान्तराधिकरणगतसर्वाङ्गोपसंहारानुकल्पविधावपि स्वपदोपादानेन गृह्यपदोपलक्षित कल्पसूत्रादीनामपि पारंपर्यागतैकगृह्यसूत्राध्ययननियमस्यापि प्रतीतेरनेककल्पसूत्राद्यध्ययनस्याप्रसक्त्यानेकैरुपस्थापनेन सार्थक्योपपत्तेः- नह्युत्तराधिकरणे कल्पसूत्रादीनां परिग्रहव्यवस्थापि निरसिष्यतेऽपितु तदर्थव्यवस्थैव । अतश्च यान्याश्वलायनकात्यायनसूत्रादीनि तानि तत्तच्चरणैरेव पठनीयानीत्येवंपरिग्रहव्यवस्थया नेतरवैयर्थ्यमिति भावः । यदपि धर्मप्रमाजनकत्वासंभवः इत्युक्तं, तत्र यत्रैषां मूलभूता श्रुतिर्न प्रत्यक्षा, तत्र लौकिकवाक्यवत्धर्मप्रमाजनकत्वाभावेऽपि मूलभूतश्रुत्युपस्थापकत्वेन धर्मप्रमाप्रयोजकत्वोपपत्तेर्भाक्तमेव प्रामाण्यमिति स्मृत्यधिकरण एव प्रतिपादनान्निरसनीयम् । यत्र मूलभूता श्रुतिः प्रत्यक्षा, तत्रापि तत्तात्पर्यावधारणस्य कल्पसूत्राद्यधीनत्वात्तात्पर्यविषयीभूतार्थविषयप्रमाजनकत्वात्तदुपपत्तिरिति कौस्तुभे द्रष्टव्यम् ॥ (शाक्यादिग्रन्थाप्रामाण्यव्यवस्थापनम्) एवं वेदमूलकत्वेन कल्पादीनां प्रामाण्ये साधितेऽपि शाक्यादिग्रन्थानामपि समानन्यायात्प्रामाम्ये भ्रान्तिं प्रसक्तां पूर्वहेतुनैव निरस्यति शाक्यादिग्रन्थानां त्विति । तदसंभवादिति ॥ वेदाप्रामाण्यवादिभिरेव तत्प्रामाण्याङ्गीकारेण वेदमूलकत्वस्यासंभवादित्यर्थः । (कल्पसूत्राधिकरणपूर्वपक्षप्रयोजनानि) ननु कल्पादीनां सिद्धान्ते वेदमूलकत्वेन प्रामाण्याङ्गीकारे किं विचारप्रयोजनमित्यपेक्षायामाह प्रयोजनमिति ॥ यत्र प्रत्यक्षेति ॥ यथा "औदुम्बरीं स्पृष्ट्वोद्गायेत्" इति श्रुत्यावेष्टनविषयकसूत्रस्य विरोधो भाष्यकारमते, यथावा "पुरोडाशं पर्यग्निकरोती"ति कल्पसूत्रवचनानां विरोधस्तत्रेत्यर्थः । यत्रवेति यथा "अन्यत्र तदर्थवादवचनादि"ति पञ्चमाध्यायगताश्वलायनवचने "सुषिरो वा एतर्हि पशुर्यर्हिवपामुत्खिदति यद्व्रीहिमयः पुरोडाशो भवत्यपिधानाय" इत्यर्थ वादावगतछिद्रापिधानार्थत्वस्याग्नीषोमीयपशुपुरोडाशेऽवगतेः तस्य च सवनीयेऽतिदेशप्राप्तस्याप्यकरणं "अनुसवनं सवनीयाः पुरोडाशा निरुप्यन्ते व्रीहित्वाच्छिद्रताया" इत्यर्थवादावगतछिद्रापिधानरूपफलकसवनीयैरेव तत्कार्यस्य सिद्धेर्न्यायाभासोपन्यासपूर्वकं प्रतिपादितं तद्वचनमित्यर्थः ॥ (कल्पसूत्राधिकरणसिद्धान्तप्रयोजनानि) सन्न्यायविरोधेचेति ॥ द्वादशाध्याये "छिद्रापिधानार्थत्वात्पुरोडाशो न स्यातन्येषामेवमर्थत्वा"दित्यधिकरणे पूर्वोक्तरीत्या पशुपुरोडाशस्याकरणं "पुरोडाशेन माध्यन्दिने सवने" इति लिङ्गात्विकल्पेन वा करणमिति पूर्वपक्षं प्रापय्यछिद्रापिधानप्रतिपादनस्यार्थवादमात्रत्वात्दशमे देवतासंस्कारार्थत्वस्य साधितत्वान्नित्यत्वेन कर्तव्य एवेति सिद्धान्तितम् । अत्र मीमांसा सन्न्यायः । तद्विरोध इत्यर्थः ॥ मीमांसान्यायविरुद्धञ्चेति ॥ यथा नवमे अग्निष्टुति सुब्रह्मण्यानिगदगतानां हरिवद्वादिपदानां न्यायेनानूहः साधितः, तद्विरुद्धं "अग्न आगच्छ रोहिताश्व बृहद्भानो धूमकेतो जातवेदो विचर्षण" इत्यूहितपाठबोधकं छन्दोगसूत्रकारवचनम् । यथावा "तथा यूपस्य वेदि" रितितार्तीयाधिकरणे "अर्धमन्तर्वेदि मिनोती"ति वचनेन यूपार्धोद्देशेनान्तर्वेदिदेशाङ्गत्वेन विहितेर्ऽथाद्यूपार्धस्य बहिर्वेदिदेशे प्राप्ते बहिर्वेदीत्ययमनुवाद इति पूर्वपक्षं प्रापय्यासंस्कृतदेश एवान्तर्वेदिबर्हिर्वेदिपदाभ्यां लक्षयित्वा विधीयत इति सिद्धान्तितम् । तत्र पूर्वपक्षे यूपाङ्गत्वाद्यूपवृद्धौ पश्वेकादशिन्यामङ्गवृद्धेरावश्यकत्वात्प्रतियूपं वेदिवृद्धिरित्येतन्मूलं प्रस्तुतोत्कर्षं प्रकृत्यापस्तंबैराम्नातं "यावद्यूपं वेदिमुद्धन्ती"ति कल्पसूत्रकारवचनं सिद्धान्तन्यायविरुद्धम् । यथावा द्वादशाधिकरणे दैक्षै श्रुते "जाघन्या पत्नीस्संयाजयन्ती"ति वाक्ये पश्वनुनिष्पन्नजाघन्याः प्रतिपत्त्यपेक्षत्वात्तत्प्रतिपत्त्यर्थतया पत्नीसंयाजानां विधानम् । ततश्चातिदेशप्राप्ततया पश्वैकादशिन्यां सर्वासामपि जाघनीनां संस्कार्यत्वानुरोधेन सर्वाभिः पत्नीसंयाजाः कार्या इति जाघनीसमुच्चयपूर्वपक्षं प्रापय्य आज्येन सह विकल्पेन प्राप्ताया जाघन्या नियमार्थत्वेन विधानोपपत्तौ न पत्नीसंयाजादीनामप्राकृतकार्यार्थत्वं कल्पनीयम् । ततश्च अर्थकर्मत्वे सति जाघन्या उपादेयत्वेन विवक्षितैकत्वाद्यया कयाचिदेकया तया पत्नीसंयाजा इति सिद्धान्तितम् । अतश्च मीमांसान्यायविरुद्धम् "जाघनीभिः पत्नीः संयाजयन्ती"ति बहुवचनान्तजाघनीपदघटितं कल्पसूत्रकारवचनमित्यर्थः । यत्तु शास्त्रदीपिकायामेतादृशवचनानां न्यायोपन्यासरहितानामपि मीमांसान्यायविरोधे सर्वथाप्रामाण्यमुक्तम्, तन्न्यायविरोधाभावे श्रुतिमूलकत्वाभावानिश्चयातेषु बहुत्वादिस्मरणस्य श्रुतिमूलत्वोपपत्तेरुपेक्षणीयमितिव्यक्तङ्कौस्तुभे ॥ अत्रेति ग्रन्थो व्याख्यातचरः ॥ इति षष्ठं कल्पसूत्राधिकरणम् ॥ (अवसरसंगत्या मूलभूतवेदगतविशेषविचारप्रतिज्ञा) एवं तावत्समृतीनामाचाराणामात्मतुष्टेश्च वेदमूलकत्वेन प्रामाण्ये दृढीकृते अवसरप्राप्तत्वात्केषुचित्स्मृत्याचारेषु मूलभूतवेदगतो विशेषः तत्तदध्येत्राचरित्रधिकारानधिकारविचारफलीभूतश्चिन्त्यते । एवमवसरसङ्गतिमथशब्देन सूचयन् विषयं दर्शयति अथ यत्रेति ॥ (स्मृत्यादिपदोपलक्षणतानिरूपणम्) स्मृतिष्विति पदं पुराणमानवेतिहासव्यतिरिक्तधर्मशास्त्रगृह्योपलक्षणम् । तथा गौतमीयछन्दोगपदे अप्युपलक्षणे । यथा गौतमीया स्मृतिश्छन्दोगैरेव पठ्यते तथा गोभिलीयमपि- तथा वासिष्ठं बह्वृचैरेव, शङ्खलिखितं वाजसनेयिभिरेव, आपस्तम्बबोधायनीये तैत्तिरीयैरेव, तेषामपि पाठव्यवस्थया विचारविषयत्वात् । होलाकादीति ॥ (होलाकादीत्यादिपदार्थः) आदिपदद्वयेन यथा होलाकाचारः प्राच्यैरेव, एवं वसन्तोत्सवः, तथा स्वस्वकुलागतकरञ्जार्कादिस्थावरपूजाद्याचारो आह्नीनैबुकसंज्ञो दाक्षिणात्यैरेव, तथा "ज्येष्ठायां पौर्णमास्यां बलीवर्दानभ्यर्च्य धावयन्ती" त्युद्वृषभयज्ञ उदीच्यैरेव । तथा अयमेवोत्सवो भाद्रपदामावास्यायां दाक्षिणात्यैरेव । तथा मातृगणपूजाचारः प्रतीच्यैरेव इति व्यवस्थया तेषामपि विचारविषयत्वात् । एवं क्वचिद्देशविशेषे कैश्चिदेवं किञ्चित्क्रियते तेषामप्युपलक्षणम् ॥ (गृह्याप्रतिपाद्याचारविषयत्वनिरूपणपरन्यायसुधाखण्डनसूचनम्) यत्तु न्यायसुधाकृता गृह्याप्रतिपाद्यविषयविशेषाणामेवात्र विचारविषयत्वेनोदाहरणत्वं, नतु पार्वणस्थालीपाकोपनयादीनां गृह्यविहितानामपि इत्युक्तम्- तस्योपपादनपूर्वकं दूषणं कौस्तुभ एव द्रष्टव्यम् ॥ (केषाञ्चिद्विचारस्वरूपखण्डनम्) यत्तु यथाश्रुतभाष्यानुसाराथोलाकाद्याचाराः स्मृतयश्च प्राच्यादिभिन्नान् प्रति प्रमाणं नवेति विचारस्वरूपं कैश्चित् उक्तम्- तत्प्रामाण्यस्यालोकवत्सर्वपुरुषासाधारण्यात्व्यवस्थाशङ्कानुपपत्तेरयुक्तमित्युपेक्ष्यम् । प्रमाणभूतमूलश्रुतिगतविशेषपूर्वपक्षमेव फलीभूतविचारसहितं दर्शयति तत्रेति ॥ (भाट्टदीपिका) अनुमान ॥ अथ यत्र स्मृतिषु पाठव्यवस्था यथा गौतमीया छन्दोगैरेव, तथाऽचारेषु कर्तृव्यवस्था यथा होलाकादि प्राच्याद्यभिमानिभिरेव, तत्र तदनुमेयश्रुतिरपि अनुमापकस्य नियतविषयत्वान्नियताधिकारिकैवेति नान्यैस्तदनुष्ठेयमिति प्राप्ते यद्यपि अनुमापकं नियतविषयम्- तथापि नानुमेयश्रुतौ विशेषणं प्राच्यत्वादि दातुं शक्यम् । नहि प्राच्यत्वं नाम सर्वाचरित्रनुगतं जातिव्यक्तिगुणसंस्थानादिभिर्निर्वक्तुं शक्यम्- तत्तद्देशगतानामप्यनाचरणात्, चिरविनिर्गतपुत्रपौत्राणामप्याचरणाच्च । अतो विशेषणाभावात्सर्वविषयत्वम् । गौतमीयादिस्मृतिषु तु न छन्दोगाधिकारिकत्वस्मरणं, येन श्रुतावपि तत्सम्भाव्यते । पाठमात्रन्तु तेषां स्मृतिकर्तुः तच्छाखीयत्वादप्युपपन्नम् । कर्ता हि छन्दोगः स्वशिष्यान् छन्दोगान् स्वग्रन्थमध्यापयामास तेऽप्यन्यानित्येवं पाठस्तन्मात्रेव्यवस्थित इति तत्रापि सर्वविषयत्वमेव ॥ १० ॥ (प्रभावली) (स्वाभिमतपूर्वपक्षनिरूपणम्) यथैव धूमस्य पर्वतवृत्तित्वदर्शनात्वह्नेरपि पर्वतवृत्तित्वेनैवानुमानं तथैव श्रुत्यनुमापकत्वस्य स्मृत्याचाररूपस्य लिङ्गस्य केषुचिदेव व्यवस्थितत्वादनुमीयमानायाः श्रुतेरपि व्यवस्थितविषयत्वमेव कल्पयितुं युक्तम् । यदितु अर्थापत्तिविधया तत्कल्पनं, तदा यद्यपि तद्विषयश्रुतिकल्पनमात्रेण तस्याः परिहारान्न नियतकर्तृकल्पना प्रामाणिकीत्युच्येत, तथापि सामान्यश्रुतिकल्पने तत्प्रवर्तितयोः स्मृत्याचारयोरपि सर्वविषयत्वापत्तेरनुपपत्त्यपरिहाराद्व्यवस्थितश्रुतिकल्पनमेव युक्तमित्यर्थः ॥ (कर्तृविशेषज्ञानोपायनिरूपणम्) सर्वत्र कर्तृविशेषज्ञानं सामर्थ्यान्निषेधवशादुपपदाद्वा । यथा द्विजानामेवाहिताग्नित्वात्शूद्रादेस्तदभावादग्निहोत्रादिषु कर्तृविशेषज्ञानं सामर्थ्यात् । यथावा पतितषण्ढादीनां निषेधादनिषिद्धेष्वेव पतितषण्ढरूपकर्तृविशेषज्ञानं निषेधवशात् । यथावा राजसूये राजरूपकर्तृविशेषज्ञानं राजरूपोपपदाद्भवति ॥ (प्रकृते कथमपि कर्तृविशेषज्ञानाभावसमर्थनम्) प्रकृतेच न निषेधो न वा सामर्थ्यं नियामकमस्ति- अप्रत्यक्षत्वात् । सामर्थ्यस्यच सर्वत्राविशिष्टत्वात् । यत्तु उपपदमश्रुतं कल्पनीयं, तत्तु नैव श्रुतौ दातुं शक्यते इत्यभिप्रेत्य सिद्धान्तमाह यद्यपीति । स्मृतिमूलभूतश्रुतिषु यद्यपि चरणविशेषवाचितैत्तिरीयाद्युपपदं संभवति- तथापि कल्पकस्मृतौ पदापाठान्नाश्रुतकल्पकं किञ्चिदस्ति प्रमाणम् । यस्तु पाठः स तु पाठं विनाप्यवगतमात्रस्य स्मृतिवाक्यस्य श्रुतिकल्पकत्वोपपत्तेरकिञ्चित्करः ॥ नच पाठव्यवस्थानुपपत्तिः तत्कल्पिका- तस्यान्यथाप्युपपन्नत्वेन व्यवस्थाकल्पकत्वासंभवादित्यभिप्रेत्याह गौतमीयादीति ॥ इति सप्तमं होलाकाधिकरणम् ॥ (पील्वाद्यधिकरणैः व्याकरणाधिकरणापौनरूक्त्यपरिहारः) अत्राचारप्रामाण्यप्रसंगात्साधुभूतगोशब्दप्रयोगाचारस्य सास्नादिमतः पदार्थस्य कार्यभूतवाक्यार्थप्रमा करणत्वात्प्रामाण्यस्येवासाधुगाव्यादिशब्दप्रयोगाचारस्य तादृशप्रमाकरणत्वमस्ति नवेति चिन्ता । साच यद्यपि पील्वादिवर्णके यववराहाधिकरणे भाष्यमतेनाभियुक्ताचारात्शास्त्रस्थाचारस्य बलवत्वं साधितमितीहापि स्मृत्यधिकरणसाधितस्मृतिप्रामाण्येन साधितप्रामाण्यकव्याकरणानुगृहीताचारबलीयस्त्वात्नोदेतीत्येतदर्थं प्रथमतो मूलभूतव्याकरणप्रामाण्यं साधितमपि न संभवतीत्येतदवश्यं साधनीयमेव दर्शयति स्मृत्यधिकरणेति ॥ (स्मृत्यधिकरणाक्षेपेनैतदधिकरणप्रवृत्तिनिरूपणम्) समूलत्वे तत्प्रामाण्यात्तदनुगता एव गवादयः शब्दा ज्योतिष्टोमादिकर्मणि प्रयोक्तव्याः, नतु तदननुगता गाव्यादयोऽपि । निर्मूलत्वेतु तत्प्रामाम्याभावान्नियामकाभावेन प्रत्यायकत्वाविशेषात्सर्वेषां प्रयोगस्सिद्धो भवतीत्यतः तदाक्षिप्य समाधीयत इत्यर्थः । इत्येक इति प्रयोगनियम इत्यर्थः । इत्यपर इति । साधुस्वरूपनियम इत्यर्थः ॥ (साधुशब्दप्रयोगनियमासंभवनिरूपणम्) तत्र न तावताद्यो नियमःसंभवतिः नियमाभावेप्यसाधुभ्यः प्रयोगस्वरूपस्य तत्कार्याभिधानस्य जायमानत्वेन तत्स्वरूपे कार्ये वोपयोगाभावात् । अविहितत्वेन च प्रयोगस्यादृष्टार्थत्वाभावेनावघातादिनियमस्येवापूर्वेप्युपयोग कल्पनानुपपत्तेश्च । अथ रागप्राप्तभोजनाश्रितप्राङ्भुखत्वनियमवदर्थप्राप्तप्रयोगाश्रितसाधुनियमो धर्माय विधीयते इत्युच्यते, तत्राह नचेति । न तावदत्र प्रत्यक्षादिकं मूलं संभवति- तेषां धर्माधर्मयोरप्रवृत्तेः । वेदवाक्यस्य मूलतया कल्पनायामपि प्रतिशब्दंऽगोशब्देनाभिदध्यात्न गावीशब्देनेऽत्येवं कल्पनस्य अनन्तश्रुतिपाठासंभवादसंभवः । नच पठितानामेव मूलत्वम्- नित्यानुमेयश्रुतिमूलत्वस्य निराकृतत्वात् । एकैकस्य च साधुशब्दस्य गावीगोण्याद्यनेकापशब्ददर्शनेन तद्विषयप्रतिषेधानां प्रतिपदकल्पनेऽत्यन्तमानन्त्यप्रसंगात्पाठानुपपत्तेश्च । ऽसाधुभिर्भाषेत नासाधुभिरिऽत्येवं साधुत्वासाधुत्वोपपदकल्पनेन तत्कल्पनायां तयोर्निर्वक्तुमशक्तेः न संभव इत्यभिप्रेत्याह प्रतीति । पूर्ववदित्यनेन पूर्वाधिकरणोपपादितोपपदासंभवरूपहेतूपजीवनेन पूर्वपक्षोत्थानादनन्तरसंगतिः सूचिता । निर्वचनासंभवमुपपादयति अनादीति । अवध्यस्मरणे सति वाचकत्वमित्यर्थः । नच नच साधुशब्दस्मरणात्शक्तिभ्रमाद्वा प्रयोगप्रत्यययोरुपपत्तिः- गवादिष्वपि तथात्वस्य वक्तुं शक्यत्वेन विनिगमनाविरहात् । ननु अपशब्दानां गवादिषु गौणत्वमेव न वाचकत्वम्, इत्यत आह अपशब्दानामिति ॥ एतेन लक्षणापि निरस्ता- तयोरर्थान्तरशक्तिपूर्वकत्वादिति भावः । अतो गव्यादिशब्देभ्यो जायमानस्यार्थप्रत्ययस्य नियमेन वारयितुमशक्यत्वातर्थप्रत्ययाभावे च तत्प्रयोगस्यैवाप्रसक्तेरुभयथापि "साधूनेवे"ति नियमो न संभवतीत्यभिप्रेत्य पूर्वपक्षमुपसंहरति अत इति । यथाच रक्षोहागमलध्वसन्देहानां व्याकरणप्रयोजनकत्वमुक्तं तथा पूर्वपक्षे प्रतिपादितं कौस्तुभ एव द्रष्टव्यम् ॥ (भाट्टदीपिका) प्रयोगोत्पत्यशास्त्रत्वाच्छब्देषुन व्यवस्थास्यात् ॥ स्मृत्यधिकरणन्यायेन सिद्धमपि व्याकरणप्रामाण्यमाक्षिप्यते । नियमद्वयार्थं हि तत् । "साधूनेव प्रयुञ्जीत नासाधून्" इत्येकः, "गवादय एव साधवो न गाव्यादय" इत्यपरः । न च नियमद्वयस्य मूलं सम्भवति-तए प्रतिगवादिशब्दमनेकश्रुतिवाक्यपाठासम्भवात्, साधुत्वस्य पूर्ववन्निर्वचनासम्भवेनानुगतैकश्रुतिकल्पनानुपपत्तेश्च । नहि साधुत्वं नामार्थप्रत्यायकत्वम्, अनादित्वे सति वाचकत्वं वा- गाव्यादिष्वपशब्देष्वपि सत्त्वात्, अपशब्दानां क्वचिद्वाचकत्वाभावे गवादिषु गौणत्वस्याप्यसंभवाच्च । अतो वाचकत्वाविशेषान्न व्याकरणेन नियमः संभवति इति प्राप्ते प्रयोगप्रत्यययोः साधुशब्दापभ्रंशजानां गाव्यादिशब्दानां तच्छब्दोपस्थापनद्वारोपपत्तेर्न वाचकत्वकल्पना- अनेकशक्तिकल्पनापत्तेः । इदानीन्तनानां च शक्तिभ्रमात्तौ । नच घटकलशादिपदवद्विनिगमनाविरहः- पाणिन्यादिप्रणीतव्याकरणस्यैव नियामकत्वात् । नच निर्मूलत्वम्- प्रयोगनियमे "साधूनेव प्रयुञ्जीते" त्येवंविधाया एकस्या एव श्रुतेर्मूलत्वात्, साधुत्वं चानादिवाचकत्वं, अनपभ्रष्टत्वं वा, व्याकरणाभ्यासजनितसंस्कारव्यङ्ग्या जातिर्वा, प्रमितवृत्त्यार्ऽथप्रतिपादकत्वं वेति कौस्तुभ एव क्षुण्णम् । (प्रभावली) (न म्लेच्छितवैइत्यस्य विषयसमर्पणम्) एवञ्च गाव्यादिशब्दानामपशब्दानामपशब्दत्वाभावात्"नम्लेच्छितवै" "आहिताग्निरपशब्दं प्रयुज्ये" त्यादयो निषेधाः पारसीकशब्दविषया एव "न म्लेच्छभाषां शिक्षेते" त्यादिस्मृत्येकवाक्यतया नेयाः ॥ अथवा "मन्त्रो हीनः स्वरतः" इत्येकवाक्यतयानेयाः । मन्त्रविषयस्वरवर्णभ्रेषविषयतया वा नेया इति भावः ॥ (वाचकत्वं विनाप्यपशब्दप्रयोगप्रत्यययोरुपपत्तिवर्णनपूर्वकसाधुशब्दप्रयोगनियमसमर्थनम्) सिद्धान्तमाह प्रयोगेति ॥ तच्छब्दोपस्थापनेति ॥ मूलभूतगोशब्दोपस्थापनद्वारेत्यर्थः । अनेकेति ॥ अनेकेषु शब्देषु शक्तिकल्पनविकल्पाद्यापत्तेरित्यर्थः । प्रथमतः करणापाटवादिना प्रयुक्ताद्गावीशब्दात्श्रोतुः प्रयोज्यवृद्धस्यार्थप्रत्ययः तावद्गोशब्दोपस्थापनेन यदा जातस्तदानीमेव श्रोतृपार्श्वस्थानां संज्ञासंज्ञिरूपशक्तिग्रहो भ्रमादेव जातः तथैवान्येषामपीदानीन्तनानामिति न प्रयोगप्रत्ययान्यथानुपपत्त्या वाचकत्वकल्पनमित्यर्थः । असाधुशब्दप्रयोगनिषेधस्य प्रत्यक्षत एवोपलम्भस्य वक्ष्यमाणत्वात्तत्र कल्पनाप्रयोजनाभावमर्थादेव वा तत्सिद्धमभिप्रेत्य साधुप्रयोगमूलभूतश्रुतिकल्पनामेव दर्शयति प्रयोगेति ॥ (पार्थसारथ्युक्तसाधुत्वनिर्वचनं तत्र प्रकाशकाराणां व्याख्यानं दलप्रयोजनं च) प्रथमतः पार्थसारथ्युक्तं साधुत्वनिर्वचनमाह अनादीति ॥ अत्र प्रकाशकारा इत्थं तल्लक्षणार्थमाहुः हरिकारिकायाम् "अनपभ्रष्टतानादिर्यद्वाभ्युदययोग्यता । व्याक्रियाव्यञ्जनीया वा जातिः कापीह साधुता" । इति निर्वचनं त्रेधाकृतम् । तत्रादृष्टसाधनत्वपक्षौ विहाय हरदत्तेन "अनिदंप्रथमाः शब्दाः साधवः परिकीर्तिताः । त एव शक्तिवैकल्यप्रमादालसतादिभिः । अन्यथोच्चरिताः पुंभिः अपशब्दा उदाहृताः । " इति प्रथमपक्षस्यैव विस्तरेणोक्तेः स एवादृतः पार्थसारथिना । तत्र यद्यपि अनादित्वमात्रं साधुत्वनिर्वचनमत्र प्रतीयते- तथापि अनपभ्रष्टविशेषितं तत्द्रष्टव्यम् । तदेवऽमनादिरनपभ्रष्टता साधुत्वमिऽति तद्ग्रन्थेऽन्त्ये उपसंहारात्, हरिकारिकायामपि विशेषणविशेष्यभावदर्शनाच्चेतरयोऽरनपभ्रष्टतानादिरिऽत्यत्र वाशब्दप्रयोगाच्च । तत्र यद्यनपभ्रष्टत्वमात्रमुच्येत तदा टिघुभादिसंज्ञास्वतिव्याप्तिः । अतोऽनादित्वप्रवेशः । तदुक्तं हरदत्तेन "यास्त्वेताः स्वेच्छया संज्ञाः क्रियन्ते टिघुभादयः । कथं नु तासां साधुत्वं नैव ताः साधवो मताः । अनपभ्रंशरूपत्वान्नाप्यासामपशब्दता । हस्तचेष्टा यथा लोके तथा संकेतिता इमाः । नासां प्रयोगेऽभ्युदयः प्रत्यवायो न वा भवेत् । " इति ॥ अनादित्वमात्रोक्तौ अनर्थकैकवर्णसमुदायेऽतिव्याप्तमित्यनप भ्रष्टपदोपादानम् ॥ (अनपभ्रष्टत्वपरिष्कारः) ननु अनपभ्रष्टत्वमत्र यद्यनादिर्यः शब्दः स च प्रत्यायक इति साधुत्वलक्षणार्थे क्रियमाणे यद्यपि नामकरणसंकेतिते रुद्रादिशब्दे अनादिशब्दत्वादपत्यरूपार्थप्रत्यायकत्वाल्लक्षणसमावेशसंभवः- तथापि गोणीशब्दस्यावपनवाचिनोऽनादित्वात्गोरूपार्थप्रत्यायकत्वाच्च गवि साधुत्वापत्तिः, अतस्तत्परिहारार्थं यदर्थविषयप्रत्यायकत्वमनादिः स तत्र साधुरित्युच्येत, तर्हि रुद्रादिशब्दस्य शिवाद्यर्थप्रत्यायकत्वस्यानादित्वाभावातसाधुत्वापत्तिरिति चेत्, उच्यते- नामकरणविधिनानादिरेव पुत्रत्वोपाधिना संकेतितः कर्तव्यतया विहितः इति तेन सामान्योपाधिनानाद्येव पुत्रादिप्रत्यायकत्वं रुद्रादिशब्दानामिति न दोषः । अतो यदर्थप्रत्यायकत्वमनादि स तत्रार्थे साधुरिति युक्तं लक्षणमिति ॥ (अनादिवाचकत्वमित्यत्र न विशेषणविशेष्यभावः किन्तु लक्षणद्वयमिति निरूपणम्) अत्रेदमवधेयम् यद्यर्थप्रत्यायकत्वं शक्त्योच्यते, तदा गङ्गाग्निपदयोः तीरमाणवकयोरसाधुत्वापत्तिः । नच अस्मन्मते शक्यार्थस्यैव तीराद्युपस्थापकत्वात्गङ्गादिपदानां तीरादिप्रवाहवाचकत्वेनैव तीरादौ साधुत्वमिति प्रकाशकारोक्तं युक्तम्- तत्र यदि शक्यार्थप्रत्यायकत्वमेव वाच्यम्, तावतापि अनादिपदोपादानवैयर्थ्यम्- टिघुभादिसंज्ञासु शक्तेरेवाभावेन शक्यार्थप्रत्यायकत्वमात्रेण निराकरणोपपत्तेः, सादिशक्तिस्वीकारे च साधुत्वस्याप्यापत्तेश्च । अन्यथा अर्थवत्त्वाभावेन प्रातिपदिकसंज्ञाभावाट्टेरित्यादिषष्ठ्यनापत्तेः । यत्तु टेरित्यादीनां शब्दानुकारत्वाङ्गीकारेण साधुत्वमङ्गीकृत्य शब्दपरत्वेर्ऽथपरत्वाभावात्शब्दस्यैव लोपादिकार्यान्वयापत्तिमाशङ्क्य शब्दपरस्यैव लक्षणयार्ऽथपरत्वं यदुक्तम्, तत्स्वयमेव पूर्वं साधुत्वानङ्गीकारात्पूर्वापरविरुद्धत्वात्शब्दपरत्वस्यापि अनादित्वाभावाद्वेदोक्त "हेलय" इत्यादिशब्दानामनुकरणत्वाङ्गीकारेण साधुत्वेन स्वयमङ्गीकृतानामनाद्यर्थप्रत्यायकत्वाभावाच्च लक्षणस्याव्याप्तेश्चायुक्तम् । वस्तुतस्तु वृत्तिग्रहाभावे टिघुभादीनामर्थबोधकत्वानुपपत्तेर्वृत्तावपि च लक्षणागौण्योःशक्यपूर्वकत्वेनासंभवात्संकेतत्वेन च गाव्यादिशब्दवच्छब्दोपस्थापनेन शक्तिभ्रमेण वा बोधकत्वानुपपत्तेरवश्यकल्प्यायां शक्तौ शब्दविषयशक्तिस्वीकारेण अर्थपरत्वमेव युक्तमिति तत्रानाद्यर्थप्रत्यायकत्वाभावात्दुरुपपादमेव साधुत्वमित्यनादिपदोपादानं व्यर्थमेव । अतोऽनादिरिति भिन्नं लक्षणम्, अपरं च अनपभ्रष्टतेति लक्षणम्, न तु विशेषणविशेष्यभावः । अतएव शास्त्रदीपिकायां "सर्वकालवृत्तित्वमेव चानादित्वं साधुत्वम् । तच्चाविच्छिन्नपारंपर्यादभियुक्तस्मरणेन सुलभमि"त्युक्तमिति मूलग्रन्थविरोधोऽपीत्यभिप्रेत्य हरिकारिकागतानपभ्रष्टतापदस्य ययाश्रुतार्थपरत्वमेवाङ्गीकृत्य द्वितीयं लक्षणमाह अनपभ्रष्टत्व वेति ॥ करणापाटवादिजन्यापभ्रंशरहितत्वमित्यर्थः ॥ (द्वितीयलक्षणास्वारस्येन तृतीयं तदस्वारस्येन तृतीयं च लक्षणं निर्वक्ति) इदमपि हुमाद्यनर्थकवर्णेष्वतिव्याप्तम्, अतो लक्षणान्तरमाह व्याकरणेति ॥ अत्रापि न गवादिशब्देष्वेवानुगतागाव्यादिशब्देभ्यो व्यावृत्ता साधुत्वं नाम जातिः संभवति- लोके गवादिशब्दमात्रवृत्तिसाधुशब्दप्रयोगाभावेन तदङ्गीकारे मानाभावात् । किञ्च व्याकरणानुगतशब्दमात्रवृत्तित्वेन तत्स्वीकारे वचन्तीत्यस्यापि साधुत्वापत्तिः । यत्र प्रयुज्यमानत्वे सति व्याकरणानुगतत्वं तत्र साधुत्वजातिस्वीकारे गवादिपदस्यानेकक्रमिकवर्णसमुदायात्मकत्वेन यौगपद्यासंभवात्"अनारब्धे तु गोशब्दे गोशब्दत्वं कथं भवेदि"ति न्यायेन पदत्वादिजातेरिव साधुत्वादिजातेरप्यसंभव एवेत्ययुक्तं लक्षणं मत्वा न्यायसुधाकारोक्तं लक्षणान्तरमाह प्रमितवृत्त्येति ॥ (वृत्तित्वादिनिर्वचनासंभवेन वृत्तीयलक्षणे प्रकाशकृतो दूषणपरिहारौ) यत्तु अत्र प्रकाशकारैः न शक्त्याद्यनुगतं वृत्तित्वं नाम किञ्चित्शक्यते निर्वक्तुमिति दूषणं दत्तम्, तत्शक्तिलक्षणागौणीषु वृत्तिपदस्य शास्त्रकारैः संकेतितस्यैव लघुनोपायेन लक्षणे प्रवेशान्निर्वचने प्रयोजनाभावादयुक्तम् । यदपि आधुनिकसंकेतितनामसु वृत्तित्वाभावाल्लक्षणस्याव्याप्तिरिति तेषां दूषणम्, तत्"द्वादशेऽहनि पिता नाम कुर्यादि"ति सामान्यविधिना पुत्रत्वोपाधिना सर्वेषां देवदत्तशब्दादीनां संकेतकरणेन शक्तेः प्रमितत्वादयुक्तम् ॥ उक्तञ्च हरिणा "पुन्त्रादिनामकरणे गृह्येषु नियमश्रुते । अनादिशक्तिता संज्ञास्वपि नैव विरुध्यते । " इति ॥ तेषामनादितासंज्ञास्वपीतिपाठः । तस्मात्तेषामप्यनादिताङ्गीकारादर्थप्रत्यायनरूपकार्यानुरोधेनावश्यक एव शक्तिस्वीकार इति न दोषः ॥ टिघुभादिसंज्ञास्वपि पूर्वोक्तरीत्यार्ऽथपराणां सादिशक्तिस्वीकारात्नाव्याप्तिः । अपशब्दानां तु तत्तच्छब्दोपस्थापनेन अर्थप्रत्यायनात्वृत्त्यनङ्गीकारान्नाप्यतिव्याप्तिरिति युक्तं लक्षणमित्यर्थः ॥ (वचन्तीत्यादीनां साधुत्वपरिहारोपायः) अत्र शक्तिभ्रमेणार्थप्रत्यायकेऽपशब्देऽतिप्रसंगवारणाय प्रमितपदोपादानेऽपि यत्र यः शब्दः प्रयुज्यते, तस्यैव तादृशार्थप्रत्यायकत्वमित्यपि निवेशनीयम्- इतरथा घटशब्दस्य पटे साधुतापत्तेः । ततश्च एतादृशसाधुत्वस्य व्याकरणानुगतत्वमेव शक्तिनिर्णयद्वाराभिव्यञ्जकम् । वचन्तीत्यादौ व्याकरणानुगतत्वस्य "नहि वचिरन्तिपरः प्रयुज्यते" इति कात्यायनेन निषेधकरणेनाभावान्न साधुत्वमिति साधुत्वासाधुत्वोपलक्षणेनैकस्या एव शक्तिनिर्णायकत्वान्न घटकलशादिवद्विनिगमनाविरह इति भावः ॥ (आशङ्कानिरासपूर्वकंसाधुभिरेव भाषेतेति नियमस्वरूपतद्व्यावर्त्यांशादिनिरूपणम्) ननु अत्र कीदृशो नियमो विवक्षितः, किं साधुभिर्भाषेतैवेत्येवं क्रियाविषयको वा ? उत यद्भाषितव्यं तत्साधुभिरेवेति साधनविषयो वा? । नाद्यः, मौने दोषापत्तेः । नान्त्यः- भाषणं हि नार्थप्रतिपादनमात्रम् । अक्षिनिकोचादावप्रयोगात्, किन्तु शब्दव्यापारसाध्यमर्थप्रतिपादनम्, तत्र च वाचकस्य साधुशब्दस्यैव प्राप्तेरत्यन्तावाचकासाधुप्रयोगाप्रसक्तेः कथञ्चिदसाधुप्राप्त्या तन्नियमकरणेऽक्षिनिकोचादेरपि कथञ्चित्प्राप्त्या निवृत्त्यापत्तिरिति चेत्, परिहृतमेतदाचार्यैः । स्वाभिप्रायप्रकाशनद्वारार्ऽथप्रकाशनमात्रमत्र भाषेतेत्यनेन लक्षणयोच्यते, यदि शब्दव्यापारद्वारार्ऽथज्ञापनरूपं भाषणमुच्येत, तदा साधुव्यतिरिक्तोपायाप्रसक्त्या साधुनियमोऽनर्थको भवेत्, इह तु स्वाभिप्रायप्रकाशनद्वारार्ऽथज्ञापनरूपं भाषणमुद्दिश्य साधुनियमविधौ च न मौने दोषः । तत्रोद्देश्याभावादेव विध्यप्रवृत्तेर्मौनव्यावर्तनात्यत्रापि भोजनादौ वैधं मौनं, तत्रापि एतद्विधिप्रवृत्त्याक्षिनिकोचादिव्यावर्तनाथस्तसंज्ञादिना शाकादेर्ज्ञापनवारणादि न कार्यम् । अथवा सामान्यविशेषन्यायान्मौनविधिनैव साधुभाषणविधेर्बाधात्तत्फली भूताक्षिनिकोचादिव्यावृत्तेरपि बाधान्न शिष्टाचारविरोधोऽपि । नह्येतादृशे भाषणेऽसादूनामप्रसक्तिरस्ति । अतस्तद्व्यावृत्त्या युक्तो नियम इति । प्रकारान्तरमपि वार्तिके उपपादितं तत्रैव द्रष्टव्यम् । अतो युक्तमेव साधुप्रयोगनियममूलभूतश्रुतिकल्पनम् ॥ (भाट्टदीपिका) तदभावश्चासाधुत्वम् । प्रत्यक्षैव च श्रुतिः "न म्लेच्छितवै म्लेच्छो ह वा एष यदपशब्द" इति मूलम् । अयं च निषेधः प्रकरणाज्ज्योतिष्टोमाङ्गम्- यज्ञमात्रेऽपि च निषेधो "याज्ञे कर्मणि नियमोऽन्यत्रानियम" इति महाभाष्याद्यनुसारात् । साधुप्रयोगनियमात्परं फलोदय इत्यपि- "एकः शब्दः सम्यग्ज्ञातः सुप्रयुक्तः स्वर्गे लोके कामधुग्भवती"ति वचनात् । (प्रभावली) (न म्लेच्छितवै इत्यत्र म्लेच्छशब्दस्यापशब्दपरत्वोपपादनपूर्वकं तस्याः प्रत्यक्षाया एव साधुशब्दप्रयोगनियममूलत्वोपपादनम्) वस्तुतस्तु नात्र श्रुत्यनुमानमपि- प्रत्यक्षाया एव तस्याः पाठस्योपलंभादित्याह प्रत्यक्षैववेति । वाजसनेयिशाखायां हि "तेऽसुरा हेलयो हेलय इति वदन्तः पराबभूवुः । तस्मात्ब्राह्मणेन न म्लेच्छितवै म्लेच्छो ह वा एष यदपशब्द" इति श्रुतौ पठ्यमानायां विध्यर्थे विहितेन तवैप्रत्ययेन म्लेच्छितव्यमित्यर्थावगमात्प्रत्यक्षत एवापभाषणनिषेधाच्च साधुभाषणनियमविधिः प्रतीयते । नच म्लेच्छशब्दः पारसिकीशब्दविषयः- उपक्रमोपसंहारस्थार्थवादपर्यालोचनयापशब्दमात्रविषयत्वप्रतीतेः । उपक्रमे च "हे अरय" इति प्रयोज्ये रेफस्थाने लकारप्रयोगेण "हैहे प्रयोगे हैहयोः" इत्येतत्सूत्रविहितप्लुताप्रयोगेण "प्लुतप्रगृह्या अचि नित्यम्" इति विहितप्रकृतिभावाभावाच्च "हेतलः" इत्यसुरकृतनिविदपशब्दभाषणस्य पराभवरूपानिष्टहेतुत्वावगतेरत एवापशब्दत्वेनैवोपसंहारप्रतीतेर्न म्लेच्छभाषापरत्वमिति भावः ॥ (अपशब्दभाषणनिषेधस्य क्रत्वर्थत्वोपपादनम् । ज्योतिष्टोमे प्रतिनिधितयापि अपशब्दनिषेधोपपादनं च) ननु कथं क्रत्वर्थतयापशब्दभाषणनिषेधः? अपशब्दभाषणस्य पुरुषार्थत्वेन तद्विषयकनिषेधस्य निषेध्यसमानार्थकत्वस्य युक्तत्वात्, इत्यत आह अयञ्चेति ॥ "नानृतं वदैदि"ति प्रकरणात्ज्योतिष्टोमाङ्गम् । "स्त्रयुपायमांसभक्षादि पुरुषार्थमपि श्रितः । प्रतिषेधः क्रतोरङ्गमिष्टः प्रकरणाश्रयात्" इतिवार्तिकोक्तरीत्या यदर्था क्रिया तदर्थो निषेध इति नियमस्यौत्सर्गिकत्वात्न दोष इत्यर्थः । न केवलं ज्योतिष्टोम एव तन्निषेधोऽपितु यज्ञमात्र इत्याह यज्ञमात्रेपिचेति ॥ नच एवं "वाग्योगविद्दुष्यति चापशब्दैरि"ति स्मृत्या वाचा मनसा च यज्ञो वर्तत इति लिङ्गदर्शनेन वाग्योगशब्दस्य यज्ञपरत्वावसायात्तद्विदो यज्ञमात्रस्यापशब्दभाषणे दोष इत्यर्थावगतेर्यज्ञमात्रविषयनिषेधपरस्य "याज्ञे कर्मणी"ति महाभाष्यवचनस्यापि यज्ञमात्रविषयतया प्रतीतेः ताभ्यामेवविधिनिषेधाभ्यामितरयज्ञ इव ज्योतिष्टोमेऽपि तदुभयप्राप्तेर्विशेषतो निषेधाम्नानं व्यर्थमिति वाच्यम्- निषेधातिक्रमे यजुर्वेदभ्रेषप्रायश्चित्तप्राप्त्यर्थमृत्विग्यजमान साधारण्येन निषेधप्राप्त्यर्थं वा तत्सार्थक्योपपत्तेः । अथवा साधुनियमेनार्थान्निवृत्तानामपि असाधूनां साधुप्रयोगासंभवेऽवघातासंभव इव नखदलनादेः प्रतिनिधित्वेन प्राप्तौ प्रसक्तायां तन्निषेधार्थं तन्निषेध इति कौस्तुभदर्शितरीत्या वा सार्थक्योपपत्तेश्च । अस्मिंश्च पक्षे ज्योतिष्टोमे साधुप्रयोगासंभवेऽक्षिसंकेतादेरेव प्रतिनिधित्वम्, नत्वसाधुशब्दस्येत्यपि द्रष्टव्यम् ॥ वस्तुतस्तु वाग्योगविदित्ययं न स्वतन्त्रो निषेधः, किन्तु साधुप्रयोगनियमेनार्थादसाधुभाषणनिवृत्तेः "नगिरे"तिवदनुवादमात्रम् "यस्तु प्रयुङ्क्ते कुशलो विशेषे शब्दान् यथावद्व्यवहारकाले । सोऽनन्तमाप्नोति फलं परत्र चे"ति चरणत्रयविहितस्य पुरुषार्थस्य साधुनियमस्यौचित्येन स्तुत्यर्थमिति कौस्तुभे द्रष्टव्यम् । एतच्च "आहिताग्निरपशब्दं प्रयुज्य सारस्वतीमिष्टिं निर्वपेदि"ति प्रायश्चित्तविध्यन्यथानुपपत्ति कल्पितापशब्दनिषेधस्याप्युपलक्षणम् । तत्राप्याहिताग्निपदोपादानात्तत्साध्यक्रतुमात्रप्रसक्तापशब्दप्रयोगे प्रायश्चित्तविधानात्निषेधस्य यज्ञमात्रपरत्वमवसीयते ॥ (पुरुषार्थतयापशब्दभाषणनिषेध इति प्रकाशकारमतं तत्खण्डनं च) यत्तु एतस्य यज्ञातिरिक्तव्यवहारे पुरुषार्थतयापशब्दभाषणनिषेधपरत्वं प्रकाशकारा वर्णयन्ति, तस्य दूषणं कौस्तुभे द्रष्टव्यम् । अतएव "अन्यत्रानियम" इति भाष्यकारीयं वचनमाहिताग्नीनामपि व्यवहारकाले हरिनामकीर्तनादपशब्दभाषणाचारोऽनुगृहीतो भवतीत्यलं विस्तरेण ॥ (सत्यं वदेत्, नानृतं वदेदित्यनयोः प्रयोगनियममूलत्वमितिशास्त्रदीपिकातद्व्याख्यानयोः सिद्धान्तखण्डनम्) यत्तु सम्यक्त्वासम्यक्त्ववाचिसत्यानृतपदोपादानात्"सत्यं वदेत्" "नानृतं वदेत्" इत्यनयोरेव श्रुतिस्मृतिषु श्रूयमाणयोर्विधिनिषेधयोः प्रयोगनियमांशे मूलत्वोपपत्तेरेकोपलक्षणासंभवेन मूलकल्पनानिरासे न युक्त इति वार्तिके पक्षान्तरमाह तदेव शास्त्रदीपिकायामनुसृतम्, तद्वदेदित्यस्यार्थाभिधानार्थकत्ववच्छब्दोच्चारणपरत्वादनृतपदस्याप्यर्थविषये सत्यत्वपरत्वात्शब्दविषये वापभ्रष्टत्वपरत्वात्सकृच्छ्रुतस्य अनेकार्थपरत्वायोगेनोभयनिषेधकत्वायोगात्प्रत्युत "एष ह वै सत्यं वदन् सत्ये जुहोत्यस्तमिते जुहोति उदिते प्रातः प्रातरनृतं ते वदन्ति पुरोदयाज्जुह्वति येऽग्निहोत्रमि"त्यादिश्रुतिपर्यालोचनयार्ऽथपरत्वावसायाच्छब्दपरत्वानुपपत्तेर्गाव्यादि शब्दस्य च शिष्टैरगर्हितत्वात्प्रौढिवादमात्रमिति राणके एव व्यक्तम् । यत्तु सोमनाथेन सत्यत्वं नाम वृत्त्याबाधितार्थबोधकत्वम् । तच्च गौरियमिति शब्दे अर्थस्य गोरबाधितत्वादर्थविषयं सत्यत्वम्, गोशब्दस्य शक्त्या प्रतिपादकत्वात्शब्दविषयसत्यत्वमित्युभयमपि निरुक्तरूपेण एकस्यैव सत्यशब्दस्यार्थः । गाव्यस्तीत्यत्र तु अर्थाबाधेऽपि वृत्तेरभावाच्छब्दानृतत्वं, अर्थबाधस्थलेतु प्रतिपादकत्वसद्भावेऽप्यर्थस्याबाधितत्वाभावान्नातिप्रसङ्ग इत्युभयं निरुक्तबोधकत्वाभावेनैकस्यैवानृतशब्दस्यार्थोऽतः सत्यानृतशब्दयोः नानेकार्थतापत्तिः इत्युक्तम्- तदेकरूपेणापि प्रतिपादितार्थद्वयस्य युगपद्वदनक्रियान्वयायोगात्क्रियापदे अनेकार्थकल्पनया आवृत्त्यापत्तेरनिवारणदुपेक्ष्यम् ॥ (अपशब्दभाषणनिषेधस्य क्रत्वर्थतोपसंहारः) एवञ्च "न म्लेच्छभाषां शिक्षेत" इत्यादिनिषेधैः म्लेच्छभाषायाः पुरुषार्थतया सर्वत्र निषेधेप्यपशब्दरूपान्यभाषानिषेधस्य सर्वथा क्रत्वर्थतयैवावगतेः व्यवहारकाले तदुच्चारणान्नैव प्रत्यवाय इति सिद्धम् ॥ (यजमानसंस्कारद्वारा साक्षाद्वा क्रत्वपूर्वे साधुप्रयोगनियमापूर्वस्योपयोगः) एवं तावत्ज्योतिष्टोमप्रकरणगतनिषेधस्य प्रकरणात्क्रत्वर्थत्वे प्राप्तेऽपि जञ्जभ्यमानानुवचनन्यायेन ज्योतिष्टोमापूर्वसाधनीभूतब्राह्मणपदोपात्तयजमानसंस्कारत्वावगतेः तत्र च यजमानस्यैव तार्तीयन्यायेन कर्तृत्वेन संस्कार्यत्वात्तदर्थापत्त्या कल्पितसाधुनियमविधिविहितसाधुनियमादृष्टस्य क्रत्वर्थत्वात्तज्जन्यफलाधानयोग्यतासंपादनद्वारा क्रत्वपूर्वे उपयोगात्न वैयर्थ्यम् । एवं "याज्ञे कर्मणी"ति महाभाष्यकारवचनात्यज्ञमात्रापूर्वेऽपि उपयोगान्न वैयर्थ्यम् । एतावांस्तु विशेषः महाभाष्यकारवचने क्रतुयुक्तपुरुषवाचकपदोपादानाभावात्तत्संस्कारत्वे प्रमाणाभावादनृतवदन वर्जनस्यैव शुद्धक्रतुधर्मत्वात्तत्कृतवैगुण्यपरिहारार्थमृत्विग्यजमानसाधारण्येन कर्माङ्गभूतव्रीह्यादिपदार्थव्यवहारार्थं लौकिकशब्दे प्रयोक्तव्ये व्याकरणानुगतशब्दनियमात्तज्जन्यं यदवघातादिनियमजन्यादृष्टवत्शुद्धक्रत्वर्थमपूर्वं तदङ्गभूतव्रीह्यादिनिष्ठमेव कल्प्यते इति ॥ (क्रत्वर्थत्ववत्संयोगपृथक्त्वन्यायेन पुरुषार्थत्वमपीति निरूपणम्) एतावताच क्रत्वर्थत्वेन नियमादृष्टवैयर्थ्ये परिहृते संयोगपृथक्त्वन्यायेन पुरुषार्थताङ्गीकरणमित्यपिशब्दाभ्यां सूचयन् तद्वैयर्थ्यं परिहर्तुमाह साधुप्रयोगनियमादिति ॥ "एकः शब्दः सुप्रयुक्तः" इत्यनारभ्याधीतवाक्येन फलसंबन्धस्यापि बोधनात्तादृशफलस्यापूर्वं विनानिष्पत्तेः तत्र च ज्योतिष्टोमसाध्यफलोपभोगलक्षणकार्योपयोगित्वाद्वपनादिनेव फलाधानयोग्यतारूपसंस्कारस्य साधुनियमेन निष्पत्तेरुपयोगान्न वैयर्थ्यमित्यर्थः ॥ (एकः शब्द इति वाक्यार्थस्य प्रकृतानुगुणस्य संपादनप्रकारः) अत्र च सुप्रयुक्त इत्यस्य अग्रे शास्त्रान्वय इत्यपि पठति । तेन शास्त्रशब्देन रूढ्या विद्यास्थानवाचिना व्याकरणस्यैवाभिधानात्व्याकरणशास्त्रानुगतसाधुशब्दभाषणनियमस्य स्वर्गसाधनत्वावगतेः पुरुषार्थता अवसीयते । तथाच रागप्राप्तप्रयोगाश्रितः साधुनियमो भोजनाश्रितः प्राङ्मुखत्वनियम आयुष्यफल इव स्वर्गफले विधीयते । तस्य चाज्ञातस्य शब्दस्य प्रयोगाश्रितत्वासंभवादर्थप्राप्तव्याकरणोत्थज्ञानकर्मत्वस्यानुवादकमेव सम्यग्ज्ञात इति पदम् । एवञ्चात्र प्रयोगाश्रितादेव फलोक्तेः ज्ञानमात्रादेव धर्म इति पक्षो भाष्याद्युक्तोऽपि अभ्युपेत्यवादेनैव नेयः ॥ (साधुशब्दानां प्रयोगाश्रितानामेव फलसाधनत्वं न ज्ञानमात्रादित्यस्य सोपपत्तिकमुपपादनम्) अतएव ज्ञानस्य साधुनियमार्थत्वेन परार्थत्वाज्ज्ञानफलप्रतिपादकानां वचनानां "योऽश्वमेधेन यजते य उ चैनमेवं वेदे" तिवत्पर्णमयीन्यायेनार्थवादत्वमेव । एतेन शास्त्रोत्थज्ञानपूर्वकप्रयोगस्यैव धर्महेतुत्वाभिधानं व्याकरणवार्तिककारीयं निरस्तम्- प्रयोगस्य रागप्राप्तत्वेन अविधेयत्वेन फलसंबन्धासंभवात् । नच भाषणस्याप्यर्थज्ञानार्थत्वेन परार्थत्वादपापश्लोकश्रवणवत् "स्वर्गे लोके" इत्यस्यापि अर्थवादमात्रत्वं शङ्क्यम्- अनारभ्यविहितस्य भाषणस्य क्रत्वर्थत्वे प्रमाणाभावेन दृष्टार्थव्यवहारहेतुत्वेन शुद्धपुरुषार्थत्वावगतेः फलाकाङ्क्षायां "फलमात्रेयो निर्देशादि"ति न्यायेन फलप्रतिपादकत्वोपपत्तेः इति भावः ॥ (रागप्राप्तस्य साधुप्रयोगस्याश्रयत्वेनान्वेतुं योग्यस्योपस्थापकप्रमाणनिरूपणम्) ननु एवं दृष्टार्थस्य रागप्राप्तस्य भोजनस्याधिकाराख्यप्रकरणेन दिङ्यिमाश्रयत्वसंभवेऽपि इह तदभावे उपस्थितिमात्रेणाश्रयत्वे क्रियान्तराणामप्याश्रयत्वापत्त्या सुप्रयुक्त इति नित्यवदनुवादानुपपत्तिरिति शङ्कां परिहरति रागप्राप्तस्यापीति ॥ तस्मादेषेति ॥ प्रकृतिप्रत्ययाधानरूपेण व्याकरणेन संस्कृताया वाचो भाषणरूपधात्वर्थाश्रयसंबन्धविधानात्भाषणस्याश्रयत्वं नासुलभमित्यर्थः ॥ (भाट्टदीपिका) अत्र हि प्रयोगाश्रितः साधुनियमः फलोद्देशेन विधीयते । रागप्राप्तस्यापि च साधुप्रयोगस्य "तस्मादेषा व्याकृता वागुद्यत" इति वचनादाश्रयत्वसिद्धिरिति स्पष्टं कौस्तुभे । "गवादय एव साधवो न गाव्यादय" इति साधुस्वरूपनियमस्य तु अनादिप्रयोगपरम्परैव मूलम् । अतः प्रमाणं व्याकरणम् । यत्तु न्यायमूलकं स्फोटादि तत्रोच्यते श्रुतिविरुद्धं च, तन्न्यायश्रुतिविरोधे कामं भवत्वप्रमाणम् ॥ इत्यष्टमं व्याकरणप्रामाण्याधिकरणम् ॥ (प्रभावली) (अत्र प्रासङ्गिकप्रकाशकारमतखण्डनम्) अत्र प्रकाशकारैरस्य पुरुषार्थभूतसाधुभाषणनियमोत्पत्तिविधिपरत्वमङ्गीकृत्य "एकः शब्द" इत्यस्य फलसंबन्धबोधकत्वमित्युक्तम् । तदेकः शब्द इत्यनेनैवोभयसंभवाद्वैयर्थ्यातनन्यलभ्याश्रयसंबन्धविधायकतयैव परिहरणीयत्वातयुक्तमिति सूचयितुं वचनादित्युक्तम् । नह्येकः शब्द इत्यनेन साधुभाषणनियमस्य स्वर्गफलसाधनता बोध्यते, अपितु सुप्रयुक्तः कामधुगिति सामानाधिकरण्यात्प्रयोगाश्रितसाधुशब्दनियमस्यैवेति साधुभाषणविधेरनपेक्षणादपेक्षिताश्रयसंबन्धबोधकत्वमेव युक्तम् । अत एव शास्त्रदीपिकायां तदाश्रितः साधुनियम इत्येवोक्तमिति भावः ॥ यत्तु न्यायसुधाकृतास्य क्रत्वर्थतया विधायकत्वमुक्तं, तत्कौस्तुभे निरस्तं तत्रैव द्रष्टव्यम् ॥ (गवादय एव साधव इत्यत्रानादिप्रयोगपरंपराया एव मूलत्वनिरूपणम्) अनादिप्रयोगपरंपरैवेति ॥ साधुत्वाश्रयाणां शब्दानां श्रोत्रप्रत्यक्षसिद्धत्वात्तेषां प्रमाण्यनिश्चय एव केवलं व्याकरणाधीन इति तत्रापि व्याकरणान्तरमूलकत्वादुपपन्नमेवानादिसाधुस्वरूपनियमज्ञानम्- चतुर्दशमहाविद्यास्थानान्तर्गतत्वेन कल्पादिवत्प्रवाहनित्यताया व्याकरणेऽपि स्वीकर्तुं युक्तत्वात् । अन्यथा तत्रापि नित्यब्रह्मयज्ञविधिविषयत्वानुपपत्तेः । अत एव तैत्तिरीयगते "प्रयाजानूयाजेषु विभक्तिः कुर्या" दिति ब्राह्मणे विभक्तिकरणमुपपद्यते । नचैवं स्मृत्यन्तरमूलकत्वेऽन्धपरंपरापत्तिः- अदृष्टसाधनत्वस्याष्टकादौ प्रत्यक्षाविषयत्वेन अन्धपरंपराप्राप्तावपि "ब्राह्मण्यां ब्राह्मणाज्जातो ब्राह्मण" इति स्मृत्युक्ताभिव्यञ्जकज्ञानसहकृतचक्षुर्ग्राह्यत्वेन ब्राह्मणप्रत्यक्षस्येवेहापि पूर्वपूर्वव्याकरणावगतप्रकृतिप्रत्ययाद्यभिव्यञ्जकाभ्यासजनितसंस्कारसहकृतेनार्थज्ञानान्यथानुपपत्ति सहकृतेन च श्रोत्रेणाद्ययावत्साधुशब्दप्रत्यक्षोपपत्तेस्तदप्रसक्तेः । अतो "गवादय एव साधव" इति स्वरूपनियमेऽनादिप्रयोगपरंपरैव मूलमिति भावः । अतो वेदावगतसम्यक्साधुशब्दप्रयोगात्मकधर्माङ्गत्वेन व्याकरणप्रक्रियेति कर्तव्यतयोपयुज्यते इति सिद्धं व्याकरणप्रामाण्यमुपसंहरति अत इति ॥ एतदुपपादनपूर्वकं न्यायविरुद्धत्वेन दर्शितं कौस्तुभे द्रष्टव्यम् । श्रुतिविरुद्धं चेति ॥ (कलेर्ढक्वामदेवाड्ड्यड्यौ इत्यन्वाख्यानयोरर्थवादविरुद्धयोः सर्ववेष्टनवदननुष्ठानलक्षणाप्रामाण्यनिरूपणम्) "दृष्टं सामे"त्यधिकारे "कलेर्ढक्" "वामदेवाद्ड्यड्या" विति सूत्राभ्यां कलिना वामदेवेन वर्षिणा दृष्टं सोमेत्यर्थे कालेय वामदेव्यशब्दयोः साधुत्वान्वाख्यानं क्रियमाणं श्रुतिविरुद्धम्- "यदकालयत्तत्कालेयस्य कालेयत्व" मित्यर्थवादे सुखस्वीकाररूपकालप्राप्तिनिमित्तत्वस्य कालेयशब्देऽभिधानात् । तथा "आपो वै ऋत्वियमार्च्छन्त्यासां वायुः पृष्ठे व्यवर्तत ततो वामं वसु सन्न्यभवत्तन्मित्रावरुणौ पर्यपश्यतां तावब्रूतां वामं मर्त्या इदं देवेभ्योऽजनि तस्माद्वामदेव्यं" इत्यर्थवादे वामदेव्य इति समभिव्याहृतपदद्वयोच्चारणक्रियानिमित्तत्वस्य वामदेव्यपदेऽभिधानात् । अतः तत्यावत्मूलभूतश्रुतिदर्शनमननुष्ठानलक्षणाप्रामाण्यविषयं भवतु सर्ववेष्टनस्मृतिवन्नत्वेतावता सर्वस्याप्रामाण्यमित्यर्थः । प्रयोजनं पूर्वोत्तरपक्षोत्थं प्रागेव दर्शितम् ॥ इत्यष्टमं व्याकरणप्रामाण्याधिकरणम् ॥ (भाट्टदीपिका) (९ अधिकरणम् । ) प्रयोगचोदना ॥ वाचकशब्दप्रसङ्गाद्वाच्यं किं घटत्वादिजातिः उत व्यक्तिरिति चिन्ता । तदर्थं च लोकवेदयोः शब्दानामन्यत्वमुत नेति चिन्तनीयम् । अन्यत्वे हि उपायाभावेन वैदिकशब्दशक्तिग्रहस्यासंभवान्नाद्या चिन्ताऽरम्भणीया । एकत्वे तु लोके वृद्धव्यवहारानुसारेण गृहीता शक्तिर्वेदे फलिष्यतीति युक्ता चिन्ता । तत्र वर्णाभेदेऽपि स्वरछान्दसवर्णागमलोपविकारानध्यायादिधर्मभेदात्सरो रस इत्यादिपदयोरिव लोकवेदयोः पदानामन्यत्वमिति प्राप्ते यत्रार्थभेदप्रतिपत्त्यनुकूलो धर्मभेदस्तत्रैव पदभेदः । यथा सरो रस इति क्रमात्, ब्रह्म ब्राह्मणेति न्यूनातिरिक्तत्वात्, स्थूलपृषतीत्यत्र कर्मधारयबहुव्रीह्योः स्वरातन्तोदात्तत्वाद्युदात्तत्वरूपात्, पचते दक्षिणां देहि भोजनार्थं पचते इत्यत्र व्यधिकरणपदसन्निधिरूपाद्वाक्यात्, यातः पुनरायाति यातो देवदत्तयज्ञदत्तौ इत्यत्र समानाधिकरणपदसन्निधिरूपश्रुत्या, अश्व इति अगम इत्यर्थे व्याकरणस्मृत्या- तदमिज्ञस्य पदभेदानुभवात् । यत्र तु नार्थभेदप्रतीतिस्तत्र सत्यपि धर्मभेदे दृढतरप्रत्यमिज्ञाबलेनैकत्वावधारणान्न पदान्यत्वं लोकवेदयोरिति युक्ता आद्या चिन्ता । (प्रभावली) (आकृत्यधिकरणोपोद्धातस्य लोकवेदाधिकरणस्याकृत्यधिकरणोपक्रमेणोपक्रमे निमित्तनिरूपणम्) लोकवेदयोः शब्दानामन्यत्वमुत नेति विचारार्थं लोकवेदाधिकरणस्य पूर्वव्युत्पादितव्याकरणप्रामाण्याधिकरणेनासंगतिमभिप्रेत्य सङ्गतिलोभेनाकृत्यधिकरणमेवादावारम्भणीयं, तेन च प्रसङ्गसङ्गत्युपपत्तेर्नासङ्गतता । लोकवेदाधिकरणं तु तदुपोद्धातत्वेन मध्ये संगतमित्येवं सङ्गतिं सूचयितुमाकृत्यधिकरणचिन्तां प्रथमतो दर्शयति वाचकेति ॥ प्रसङ्गादित्यपवादसंगतेरपि उपलक्षणम् । पूर्वं व्याकरणप्रामाण्यस्य साधितस्येह कात्यायनेनोक्ते व्यक्तिवाचित्वांशेऽपि प्रसक्तस्यापवादकरणेनापि तदुपपत्तेः । अत एव प्रतिपदाधिकरणादिरूपोपोद्घातस्य प्रकृतमनुपक्रम्यैव कृतस्येवेह न करणम्- असङ्गतिप्रसङ्गात् । तत्रत्वध्यायादित्वान्नानन्तरसंगत्यपेक्षेति विशेषः । अथवा तत्र "भावार्थाः कर्मशब्दा" इति भावार्थाधिकरणसूत्रं न कथञ्चिदपि प्रतिपदाधिकरणेऽपि शक्यं योजयितुमिति सूचयितुं प्रकृतमनुपक्रम्यारम्भ इति विशेषः ॥ (द्रव्यगुणक्रियावाचकानां सर्वेषामप्युदाहरणत्वनिरूपणम्) घटत्वादिजातिरिति ॥ नह्येतावता द्रव्यवाचकानामेवोदाहरणत्वमिति भ्रमितव्यम्- द्रव्यत्वावान्तरव्याप्यघटत्वादिजातिवत्गुणत्वावान्तरव्याप्यशुक्लत्वादिजातेरप्यङ्गीकारे बाधकाभावात् । कर्मत्वावान्तरजातीनां च ज्योतिष्टोमत्वादीनां शब्दान्तरादिप्रमाणगम्यत्वेनाभ्यासाधिकरणे साधयिष्यमाणत्वात्तेषामपि गुणक्रियाशब्दानामुदाहरणत्वोपपत्तेः । एवमाख्यातेऽपि प्रकृतिप्रत्यययोः धात्वर्थभावनावाचित्वे साधितेऽपि तद्गतजात्युपध्यन्यतरधर्मवाचित्वम्, अथवा तदुपलक्षितव्यक्तिवाचित्वमिति विचारसंभवादुदाहरणत्वं द्रष्टव्यम् ॥ (लोकवेदशब्दयोरन्यत्वेऽपि आकृत्यधिकरणनावश्यकताशङ्कासमाधानाभ्यां लोकवेदाधिकरणावश्यकतानिरूपणम्) आकृत्यधिकरणविचारोपोद्घातं दर्शयति तदर्थञ्चेति ॥ शब्दानामित्येतदर्थानामप्युपलक्षणम् ॥ वेदे फलिष्यतीति ॥ यदि अन्यः शब्दो भवेत्तदा लौकिकप्रयोगस्यार्थप्रत्यायनार्थत्वेन यथाकथञ्चित्तात्पर्यादेवान्यतरार्थावगतेः संभवेन नैव तद्विशेषवाच्यत्वविचारस्य प्रयोजनम् । वेदे यद्यपि प्रयोजनमीदृशं संभवति । पूर्वपक्षे "यदाहवनीये जुहोती"त्यत्र जुहोतेरितरहोमव्यक्तौ पदवदाहवनीयस्यापि संबन्धः श्रुत्यैव प्राप्येतेति सामान्यशास्त्रस्य बाधाप्रसक्तेर्विकल्पः प्राप्येत, यदात्वेतदधिकरणसिद्धान्तयुक्त्त्या जुहोतेर्हेमत्वजातिवाचित्वेनाक्षेपाद्व्यक्तिभानं, तदा सामान्यशास्त्रेण साधारण्येनाक्षेपात्व्यक्तिभानेपि यावद्दूरस्था पदहोमव्यक्तेरेव "पदे जुहोती" त्यत्र जुहोतिना साहित्याक्षेपात्सामान्यशास्त्रबाधान्न विकल्पः इति- तथापि "यूपं छिनत्ती"त्यादौ लोकप्रसिद्धच्छेदनादिपदसमभिव्याहारेण यूपपदशक्तिग्रहेप्यन्यत्र वेदे शक्तिग्रहोपायाभावात्नैतत्प्रयोजनं संभवतीत्येकत्वे शब्दानां साधिते एतच्चिन्ताफलमिति भावः ॥ (आहवनीयपदवाक्ययोः सावकाशनिरवकाशन्यायविषयत्वोपपादनेन व्यक्तिवाचित्वेऽप्युपपत्तिनिरूपणेनोक्तचिन्ताप्रयोजनान्तरनिरूपणम्) यद्यपि एतदाहवनीयबाधाबाधरूपं प्रयोजनमाकरेऽभिहितम्- तथापि अन्यत्र व्यक्तिवाचित्वपक्षेऽपि "यत् किञ्चित्प्राचीनमग्नीषोमीयात्तेनोपांशु चरन्ती"ति वाक्येन सर्वनामोपस्थापिततह्यक्तिविशेषे विहितस्याप्युपांशुत्वस्य "मन्द्रं प्रायणीयायामि"ति विहितमन्द्रस्वरेण निरवकाशतया बाधस्येवेहापि सावकाशनिरवकाशन्यायेन तद्बाधसिद्धेरयुक्तमिति कौस्तुभे द्रष्टव्यम् ॥ अतएव प्रयोजनान्तरं स्वयं वक्ष्यते ॥ (एकत्वेतु इतितुशब्दप्रयोजनम्) नन्वेकत्वेऽपि फलोपाययोर्वेदलोकविषयतया भिन्नविषयत्वादेकाङ्गवैकल्यापरिहार इत्याशङ्का लोके तत्तत्पुरुषगतोच्चारणभेदवद्वेदेऽपि उच्चारणमात्रस्य भेदेऽपि शब्दस्वरूपभेदाभावादयुक्तेति तुशब्देन सूचितम् । पूर्वपक्षमाह तत्रेति ॥ (वर्णाभेदेऽपि स्वरादिभेदात्पदभेदनिरूपणम्) ननु तर्कपादे "संख्याभावादि"ति सूत्रे बलवत्प्रत्यभिज्ञानादेव गकारादिशब्दभेदः साधितः, तेनैव तद्घटितपदाभेदोऽपि सिद्ध एवेत्याशङ्कां जरा राजेत्यादौ वर्णाभेदस्य विद्यमानत्वेऽपि तदभेदाप्रयोजकत्वेन निरसितुमभ्युपेत्यवादेन वर्णाभेदेपीत्युक्तम् । ततश्च तत्र यथा धर्मभेद एव पदभेदप्रयोजकः, तथेहापीत्यर्थः । धर्मभेदमेव दर्शयति स्वर इति ॥ वैदिकेषु नियतः स्वरः । "देवास" इत्यादौ छान्दसो वर्णागमः । "त्मनादेवे"ष्वित्यादौ आत्मनेत्याकारलोपः । "उद्ग्राभं च निग्राभं चे"त्यादौ हकारस्य भकाररूपो विकारः । छान्दोग्यबह्वृचब्राह्मणयोः स्वराभावात्गवादिशब्देषु चागमाभावात्व्यापकं धर्मभेदमाह अनध्यायादीति ॥ अनध्यायपदं स्वाध्यायस्याप्युपलक्षणम् । स्वाध्यायो नाम विहितकाले त्रैवर्णिकैः उपनीतैरध्ययनम् । अनध्ययनं च निषिद्धकाले शूद्रादिभिरनुपनीतैश्च अनध्ययनं वैदिकेषु न लौकिकेष्विति धर्मभेद इत्यर्थः । यद्यपि पाणिनिना वेद इव लोकेऽपि स्वरानुशासनं कृतम्- तथापि शिष्टैर्लोके स्वरनियमस्यानादराद्वचन्तीवाप्रयोगादेव स्वरनियमोऽनावश्यक इति ध्येयम् । आदिपदेन गुरुशुश्रूषोपासाभिवादनादेः संग्रहः । पदान्यत्वे संज्ञाधिकरणन्यायेनार्थभेदस्योत्सर्गतः प्राप्तिमभिप्रेत्यपदान्यत्वमात्रमुपसंहरति पदानामन्यत्वमिति ॥ (पदावधारणोपायानितिवार्तिकार्थानुसंधानेन सिद्धान्तोपक्रमनिरूपणम्) अत्र च सिद्धान्ते नार्थाभेदतद्भेदौ यद्यपि पदाभेदतद्भेदप्रयोजकत्वेनाभिमतौ- शाखान्तरवाक्ययोरर्थाभेदेऽपि भेदात्, अक्षादिपदेर्ऽथभेदेऽपि पदभेदाभावात्, अतोर्ऽथभेदप्रतीत्यनुकूलो यत्र धर्मभेदः तत्र पदभेद इति कथनस्य नोपयोगः- तथापि सिद्धान्ते प्रत्यभिज्ञानाप्रत्यभिज्ञानयोरेव भेदाभेदयोर्मुख्यहेतुत्वम् । तत्परिचायकतया प्रायिकत्वेन अर्थाभेदतद्भेदावुपयुज्येते, तत्प्रतिपत्तिस्तु धर्मभेदादित्यभिप्रेत्य पदभेदप्रयोजकं दर्शयितुं "पदावधारमोपायान् बहूनिच्छन्ति सूरयः । क्रमन्यूनातिरिक्तत्वस्वरवाक्यश्रुतिस्मृतीर्"इति वाक्याधिकरणगतकारिकार्थमाह यत्रेति ॥ (क्रमेण तदुदाहरणनिर्देशः) क्रमेणोदाहरणानि दर्शयति यथेति ॥ विलक्षणानुपूर्वीरूपक्रमादित्यर्थः । स्थूलपृषतीमित्यत्रेति ॥ अत्र समासभेदेनार्थद्वयसंदेहे स्वररूपधर्मभेदेनार्थभेदनिश्चयात्पदभेदः ॥ (स्थूलपृषतीत्यत्र स्वरभेदादर्थभेदस्ततः पदभेदस्य च निरूपणम्) तथाहि "स्थूलपृषतीमनड्वाहीमालभेत" इत्यत्र कर्मधारयपक्षे अत इत्यनुवर्तमाने "समासस्ये"त्यनेन सूत्रेणौत्सर्गिकान्तोदात्तत्वे विहिते "अनुदात्तं पदमेकवर्जमि"ति सूत्रेण पूर्वेषां चतुर्णामनुदात्तः स्यात्, तदानीं च पृषतीशब्देन मत्वर्थलक्षणया तत्रैव बिन्दुमत्त्वान्वयवत्स्थूलत्वस्यापि तत्रैवान्वयात्स्थूला बिन्दुमती च गौः यागसाधनमित्यर्थः सिध्यति । बहुव्रीहौ तु "बहुव्रीहौ प्रकृत्या पूर्वपद"मिति सूत्रान्तरेण विशेषसूत्रेण सामान्यविहितान्तोदात्तत्वबाधेन पूर्वपदस्य प्रकृतिस्वरविधानात्स्थूलशब्दगतलकारोत्तरयकारे उदात्तस्वरस्य प्राप्तेः स्थौल्यस्य पृषत्स्वेवान्वयात्स्थूलबिन्दुमती स्वतः स्थूला वा गौर्यागसाधनमिति अर्थस्सिध्यतीति सन्देहे लकारोत्तराकारोदात्तत्वपाठात्बहुव्रीह्यनुसारिस्वरेण अर्थभेदनिश्चयात्पदभेद इत्यर्थः ॥ (कर्मधारयपक्षे प्राकृतछागजातिबाधप्रयोजननिरूपणपरप्रकाशकारखण्डनम्) यत्तु अत्र प्रकाशकारैः कर्मधारयपक्षे प्राकृतच्छागजातिबाधः, बहुव्रीहिपक्षे स्थलबिन्दुमत्तारूपगुणमात्रविधानान्न तद्बाध इति प्रयोजनभेदोऽप्युक्तः । स स्थूलपृषतीमनड्वाहीमित्येवं अनड्वाहीपदयुक्तस्यैव वाक्यस्य महाभाष्ये न्यायसुधायां च पाठातुभयपक्षेऽप्यनड्वाहीविधानावश्यकत्वेन छागजातिबाधोपपत्तेः अयुक्त इति कौस्तुभे व्यक्तम् ॥ (वाक्यात्पदभेदोदाहरणम्) वाक्यादिति ॥ देहीतिपदसमभिव्याहारादाद्यवाक्येन चतुर्थ्यन्तनामपदत्वनिर्णयः । उत्तरत्र भोजनार्थमितिपदसमभिव्याहारात्तिङन्तपदनिर्णयस्तेन तत्र समभिव्याहाररूपधर्मभेदेन अर्थभेदात्पदभेद इत्यर्थः ॥ (श्रुतिपदार्थनिरूपणपूर्वकतदुदाहरणनिर्देशः) न्यायसुधाकारदर्शितं श्रुतिपदस्यार्थमाह समानाधिकरणेति ॥ याति इत्याख्यातपदसामानाधिकरण्यरूप धर्मभेदेन कर्तृनिष्ठप्रथमान्तत्वेन नामत्वनिर्णयेनार्थभेदात्पदभेदः । एवं द्विवचनान्तदेवदत्तयज्ञदत्तपदसामानाधिकरण्यरूप धर्मभेदेन यात इत्याख्यातप्रथमपुरुषद्विवचनान्तत्वनिर्णयेनार्थभेदात्पदभेद इत्यर्थः ॥ (स्मृत्या पदभेदोदाहरणम्) अश्व इति ॥ अश्वस्त्वं देवदत्तेत्यत्र टु ओ श्वि गतिवृद्ध्योरिति श्विधातोर्लुङि "च्लिलुङि" इति च्लि "जॄस्तम्भ्वि" त्यादिना च्लेरङादेशे "श्वयतेर" इत्यनेनेकारस्याकारादेशेऽडागमे कृते मध्यमपुरुषैकवचननिश्चयस्य व्याकरणस्मृत्यावगतेः अश्वत्वजातिमद्वाचित्वेन लोकतो निर्णीताश्वरूपार्थापेक्षया भिन्नार्थप्रतीतेरश्ववाचकपदाद्भेदः स्मृत्येत्यर्थः । यद्यपि अश्वस्त्वं देवदत्तेत्यत्र समानाधिकरणपदसमभिव्याहाररूपश्रुत्याप्यश्वजातीयवाचकाश्वपदाद्भेदः सिध्यति- तथापि तस्य गौण्या वृत्त्याप्युपपत्तेः मध्यमपुरुषैकवचनान्तत्वेन पदभेदनिश्चयः स्मृत्यधीन एवेति भावः ॥ (लोकवदयोः पदभेदोपायाभावनिरूपणम्) एवं पदभेदावगत्युपायान् प्रदर्श्य तद्व्यतिरेकं प्रकृते दर्शयति देवा देवास इत्यादौ दृढतरप्रत्यभिज्ञाबाधकानां पूर्वोक्तानामभावे प्रत्यभिज्ञाबलात्न पदान्यत्वमित्यर्थः । उपोद्घातमुपसंहरति इति युक्तेति ॥ (नियोगेन विकल्पेनेत्यादिवार्तिकाद्युक्तानन्तपक्षपरित्यागेन शास्त्रदीपिकादृतपक्षत्रयपरित्यागेन च जातिव्यक्तिपक्षद्वयमात्रेणोपक्रमे निमित्तनिरूपणम्) तत्र यद्यपि "नियोगेन विकल्पेन द्वे वा सह समुच्चिते । संबन्धः समुदायो वा विशिष्टा वैकयेतरा । गौरित्युच्चारिते सप्त वस्तूनि प्रतिभान्ति नः । जातिर्व्यक्तिश्च संबन्धः समूहो लिङ्गकारके । संख्या च सप्तमी तेषामष्टपक्षीद्वयोर्द्वयो" रित्यादिना वार्तिकेऽनेके पक्षा उक्ताः । तत्सकलमपि "इह पक्षसहस्त्राणां मिलिता सप्तविंशतिः । शतानिषट्चतुष्षष्टिश्चापरावस्तुसप्तके" इत्यादिना न्यायसुधायां कृतं, तथापि आकृतिविशिष्टव्यक्तिवाचित्वपक्षनिरासेनैव तेषां सुनिरस्यत्वादुपादानाशक्तेश्च शास्त्रदीपिकायामाकृतिर्वा व्यक्तिर्वा आकृतिविशिष्टव्यक्तिर्वेति पक्षत्रयं प्राधान्येन दर्शितम् । तत्र व्यक्तिवाचित्वपक्ष एवाकृतिविशिष्टव्यक्तिवाचित्वसंभवस्य स्वयमुपपादनीयत्वात्तृतीयपक्षस्यापि व्यर्थतां मन्वानो यथाभाष्यं पक्षद्वयमेव प्रधानमभिप्रेत्य यदर्थमुपोद्घातस्तदर्थं दर्शयन् पूर्वोपन्यस्तत्वात्संशयमप्रदर्श्यैव पूर्वपक्षमारभते तत्रेति ॥ (भाट्टदीपिका) तत्रावघातादिक्रियाणां लिङ्गकारकसङ्ख्यादीनां च जातावयोग्यत्वात्गौः शुक्ल इत्यादिसमानाधिकरणनिर्देशाच्च व्यक्तिवाचित्वमेव । नचैवं जातिबोधानापत्तिः- लक्षणया तद्बोधोपपत्तेः । व्यक्तिशक्तिग्रहस्यैववा कार्यतावच्छेदकं जातिविशिष्टशाब्दबोधत्वम् । अतो न दोषः । न च विनिगमनाविरहः- लाघवस्यैव नियामकत्वात् । तथाहि न शक्तिग्रहस्य स्वातन्त्र्येण कारणत्वं, अपि तु लाघवाच्छक्यत्वादिसम्बधेन घटपदवत्ताज्ञानस्यैव । ततश्चास्मन्मते घटत्वं धर्मितावच्छेदकीकृत्य शक्यत्वसंबन्धेन घटपदवत्ताज्ञानस्य घटो घटपदवानित्याकारकस्य विशेष्यतासम्बन्धेन विशिष्टशाब्दबोधत्वावच्छिन्नं प्रति कारणत्वम्, भवन्मते तु घटत्वत्वं धर्मितावच्छेदकीकृत्य तद्वाच्यम् । अतश्च घटत्वत्वस्य घटेतरावृत्तित्वादिरूपस्यानेकपदार्थघटितस्य प्रवेशात्तव कार्यकारणभावे गौरवं, न मम । नच शक्यानन्त्यादिदोषः- तस्य फलमुखत्वात् । अतश्च लाघवात्व्यक्तावेव शक्तिर्जातिविशिष्टव्यक्तौ वा नतु जातावेवेति प्राप्ते (प्रभावली) (जातौ लिङ्गसंख्याकारकाद्यन्वयायोग्यत्वनिरूपणम्) अयोग्यत्वादिति ॥ विधिवाक्येषु विधीयमानावघातादिक्रियाणां जातावमूर्तत्वेनायोग्यत्वम् । एवं "न ब्राह्मणी हन्तव्या" इत्यादिनिषेधेष्वपि जातेर्नित्यत्वेन हननाप्रसक्तेरयोग्यत्वम् । एवं जातेरेकत्वेनैकत्वातिरिक्तद्वित्वादिसंख्यान्वया योग्यत्वम् । जातेः स्त्रीत्वेन पुंस्त्वान्वयायोग्यत्वम् । अमूर्तत्वादेव च क्रियाजन्यफलाश्रयत्वादिरूपकर्मत्वादिकारकान्वया योग्यत्वमित्यर्थः ॥ वस्तुतस्तु "स्तनकेशवती स्त्री स्याल्लोमशः पुरुषः स्मृतः । इत्युक्तलक्षणस्य लिङ्गस्य जाताविव व्यक्तावपि असंभवस्तुल्य इतिलिङ्गान्वयायोग्यत्वमभ्युच्चयेन द्रष्टव्यम् ॥ (गौः शुक्ला इति सामानाधिकरण्यस्य व्यक्तिवाचित्वे एवोपपत्तिः) गौः शुक्ल इति ॥ शुक्लादिपदानां गुणिपरत्वाज्जातौ च गुणाश्रयत्वासंभवेन गोशब्दस्यैकार्थप्रतिपादकत्वरूप सामानाधिकरण्यानुपपत्तेः तदनुरोधेनापि व्यक्तिवाचित्वमित्यर्थः । नच गोशब्दस्य गोत्वविशिष्टवाचित्वात्शुक्लपदस्य शुक्लगुणविशिष्टपरत्वात्विशेषेणभेदे च विशिष्टभेदात्कथमेकार्थत्वमिति वाच्यम् - विशेषणभेदेऽपि "गौर्न शुक्ले" ति प्रतीत्यभावेनोभयविशिष्टव्यक्तैक्यमादायैकार्थत्वोपपत्तेः इति ॥ (व्यक्तिशक्तावपि लक्षणया जातिभानोपपत्तिः युगद्वृत्तिद्वयविरोधेन पक्षान्तरानुसरणञ्च) लक्षणयेति ॥ नच विनिगमनाविरहः- प्रत्युत लाघवेनैकस्यां जातौ शक्तिकल्पनात्व्यक्तावेव लक्षणेति विपरीतं विनिगमकमिति वाच्यम् - जातेर्व्यक्तिविशेषं विनापि अन्यत्र व्यक्तिविशेषे सत्त्वेन व्यभिचारित्वात्विशेषनिश्चायकत्वासंभवेन व्यक्तेरव्यभिचारेण जातिविशेषनिश्चायकत्वेन व्यक्तेरेव जातिलक्षणायां नियामकसत्त्वात् ॥ अस्मिन् पक्षे युगपद्वृत्तिद्वयविरोधापत्तेरपरितोषात्पक्षान्तरमाह व्यक्तिशक्तिग्रहस्यैवेति ॥ (व्यक्तिशक्तिवादिनां शाब्दबोधे कार्यकारणभावलाघवाद्युपपत्तिनिरूपणम्) स्वातन्त्र्येण कारणत्वमिति ॥ घटशक्तिग्रहत्वेन कारणतायां शक्तेर्नैयायिकमते रिश्वरेच्छारूपाया मीमांसकमते पदार्थान्तररूपाया वा कारणताघटकत्वात्तज्ज्ञानादेव विशिष्टशाब्दबोधोदयः इति वाच्यम्, नचेदमनुभवसिद्धम्- तत्त्वेन ज्ञानाभावेऽपि तथाविधबोधस्यानुभवसिद्धत्वात्, अतो न स्वातन्त्र्येण कारणत्वनित्यर्थः । ज्ञानस्यैवेति ॥ घटपदवत्तानिश्चयस्यैवेत्यर्थः । तदाच संबन्धविधया शक्तिभानेच शक्तित्वेन रूपेणाभानेऽपि न काचित्क्षतिः । व्यक्तावेव शक्तिरिति ॥ (व्यक्तिशक्तिवादे व्यक्तिविशेषशक्तिग्रहात्व्यक्त्यन्तरबोधोपपत्तिः) ननु कथं देवदत्तीयघटव्यक्तौ संकेतग्रहे सति व्यक्त्यन्तरे प्रयोगः । तथात्वेवा पटव्यक्तावपि घटशब्दप्रयोगापत्तिः, इति चेत्, घटत्वसामान्यमुपलक्षणीकृत्य या एवमाकृतिका गोत्वजातिविशिष्टा सा गौर्देवदत्तगौः इत्युक्ते देवदत्तपदानभिधेयस्यापिशुक्लवस्त्रत्वस्य देवदत्तपदशक्तिग्रहोपलक्षणत्ववदिहापि अनभिधेयस्यापि गोत्वादेरुपलक्षणत्वोपपत्तेः ॥ (तुष्यतुर्दुजनन्यायेन पक्षान्तरधावनम्) यदात्वभिधेयस्यैव धर्मितावच्छेदकत्वमिति नियमः, तदा सन्देहकोटावनुपन्यस्तमपि वार्तिकोक्तत्वात्पक्षान्तरमाह जातिविशिष्टेति ॥ (व्यक्तिशक्तिवादस्य शक्त्यानन्त्यादिदोषैः खण्डनम्) न व्यक्तिवाचित्वम्- अनन्तव्यक्तिशक्तिकल्पनापत्तेः । एकैकव्यक्तिगतजातिरूपोपलक्षणैक्येऽपि सैन्धवादिपदे लवणाश्वत्वादिना शक्तिभेदस्येवेहापि घटत्वस्य शक्यतावच्छेदकत्वाभावेन तत्तद्व्यक्तित्वस्यैव तदवच्छेदकत्वेन तद्भेदस्यानिवार्यत्वात् । अथैकव्यक्तिवाचित्वं, तदापि घटत्वस्यातिप्रसक्तत्वेन शक्यतावच्छेदकत्वानुपपत्तेः तद्व्यक्तित्वस्यैव शक्यतावच्छेदत्वेन तद्व्यक्तिविषयकस्मरणाभावे घटपदादन्यव्यक्तिबोधानापत्तिः । यदा तु पूर्वोक्तविधया तद्व्यक्तित्वं धर्मितावच्छेदकीकृत्य शक्यत्वसबन्धेन घटपठवत्तानिश्चयस्य कारणत्वं कल्प्यते, यद्यपि च शक्त्यानन्त्यम्- तथापि फलमुखत्वान्न दोषः, तदा तद्व्यक्तित्वस्य शक्यतावच्छेदकत्वेनैकव्यक्तिशक्तिग्रहेऽपि शक्तेः संबन्धविधया भानाङ्गीकारात्तत्वेन रूपेणास्मरणेऽपि क्षत्यभावः, तथा घटत्वस्यातिप्रसक्तस्यापि तद्व्यक्तिमात्रेण धर्मितावच्छेदकत्वाङ्गीकारो नानुपपन्न इत्युच्येत, तत्राह घटत्वमिति ॥ (भाट्टदीपिका) भवन्मते घटत्वं धर्मितावच्छेदकीकृत्य शक्यत्वसंबन्धेन घटपदवत्तानिश्चयस्य घटो घटपदवानित्याकारस्य कारणत्वं पदत्वं धर्मितावच्छेदकीकृत्य शक्तत्वसंबन्धेन घटवत्तानिश्चयस्य वा घटपदं घटवदित्याकारस्य कारणत्वमित्यत्र विनिगमनाविरहेणानन्तकार्यकारणभावप्रसङ्गात्गौरवम्, अस्मन्मतेतु घटपदत्वं धर्मितावच्छेदकीकृत्य शक्तत्वसम्बन्धेन घटत्ववत्तानिश्चयस्यैव घटपदं घटत्ववदित्याकारकस्य कारणत्वकल्पनाल्लाघवम् । नच ममापि विपरीतमापादयितुं शक्यम्- तथासति घटत्वस्य धर्मित्वेन स्वरूपेण तस्य धर्मित्वायोगाद्धर्मितावच्छेदकत्वेन घटत्वत्वप्रवेशे गौरवस्य त्वयैवोक्तत्वात् । अतो न घटत्वत्वावच्छिन्नं घटत्वं शक्यत्वसंबन्धेन घटपदवदित्याकारकं ज्ञानं कारणं, अपि तु घटपदं शक्तत्वसम्बन्धेन घटत्ववदित्याकारकमेव- जातेः स्वरूपेणैव प्रकारत्वोपपत्तौ घटत्वत्वस्याप्रवेशात् । नच समवायेनैव जातेः स्वरूपेण प्रकारता न संबन्धान्तरेणेत्यत्र प्रमाणमस्ति- परैरपि तथानभ्युगमाच्च । अतश्च कार्यकारणभावेऽपि लाघवात्घटत्व एव शक्तिः । शक्यानन्त्यादि च नास्मन्मते । अतः प्रथमोपस्थितत्वाज्जातावेव शक्तिः । एवमरुणादिशब्देष्वपि गुण एव गुणत्वे वा, न तु तद्विशिष्टद्रव्ये । कथं तर्हि व्यक्तिबोधः? अभेदातुक्तविधकारणस्य जातिगुणविशिष्टव्यक्तिशाब्दत्व एव कार्यतावच्छेदकत्वस्वीकाराद्वोपपत्तेः । वस्तुतस्तु जातिगुणशब्दत्वमेव लाघवेन कार्यतावच्छेदकम् । व्यक्तिस्तु तृतीयान्तस्थले पशुना यजेत अरुणया क्रीणाति इत्यादौ नैव पदाद्भासते- जातिगुणयोरेव द्रव्यपरिच्छेदद्वारा करणत्वोपपत्तेः । लिङ्गसंख्ययोरपि पाशाधिकरणन्यायेन सामानाधिकरण्येन पार्ष्ठिको जातिगुणसंबन्धः । अतः संबन्धविधयैव तत्र द्रव्यबोधः । द्वितीयान्तादिस्थले तुजातिगुणयोः कर्मत्वाद्यन्वयासंभवाद्व्यक्तेर्लक्षणया बोधः, तस्या एव कर्मत्वाद्यन्वयः । लिङ्गसङ्ख्याद्यन्वयश्च साक्षात्सम्बन्धेनैव, सामानाधिकरण्यञ्च व्यक्तिद्वारकमिति सर्वं सुस्थम् । प्रयोजनं पूर्वपक्षे रथन्तरादिशब्दानामृग्वाचित्वाद्रथन्तरमुत्तरयोर्गायति इत्यादौ उत्तरापदलक्षितोत्तराकार्ये योनिविधानं, सिद्धान्ते तु गीत्यतिदेश उत्तरास्विति वक्ष्यते ॥ १२ ॥ इति श्रीखण्डदेवविरचितायां भाट्टदीपिकायां प्रथमस्याध्यायस्य तृतीयः पादः ॥ ३ ॥ (प्रभावली) (गुणे गुणत्वेवेतिपक्षद्वयोपपत्तिः) गुणएवेति ॥ यदा जगतीतलवर्त्त्यरुणगुणोप्येक एव, तदा गुण एव यदारुणगुणानां भेदः, तदानेकवृत्तिजातेः संभवात्गुणत्वे वा शक्तिरित्यर्थः ॥ (जातिव्यक्त्योरभेदेन व्यक्तिबोधोपपत्त्यादिकम्) अभेदादिति ॥ यथैव हि पटे पटत्वमिह शुक्लत्वमिति प्रतीत्यायुतसिद्धयोर्भेदस्तथा अयं गौरयं शुक्ल इत्यादिप्रतीत्याभेदस्यापि तयोस्सिद्धिः । नचैवं व्यक्त्यभेदे जातेरनित्यतापत्तिः- जात्यात्मना नित्यत्वेऽपि व्यक्त्यात्मनानित्यत्वस्यास्माकमपीष्टत्वात् । अतश्च घटादिपदानां जातिवाचित्वेऽपि व्यक्त्यभेदाज्जातेर्जात्यैव व्यक्तिप्रतीतिसिद्धिः । नचैवमभेदे व्यक्तेरपि वाच्यतापत्तेरधिकरणवैयर्थ्यम्- व्यक्तेर्वाच्यत्वेऽपि भेदाभेदाङ्गीकारेण न व्यक्त्यात्मना तत्, अपितु जात्यात्मत्मनेत्येतत्प्रतिपादनार्थमधिकरणसार्थक्यात् । तदेतन्न्यायसुधायां मुख्यत्वेनोपपादितं पक्षमवलंब्योक्तम् ॥ (जातिशक्तिज्ञानस्यैव जात्यादिविशिष्टशाब्दत्वङ्कार्यतावच्छेदकमितिकल्पान्तरम्) ये तु अभेदाङ्गीकारेऽपि शक्तिज्ञानरूपकारणस्य जातिशाब्दबोधत्ववत्व्यक्तिशाब्दबोधत्वस्य पृथक्कार्यतावच्छेदकत्वस्वीकारे जातिव्यक्तिबोधस्य च क्रमिकत्वाननुभवात्क्रमिकत्वाङ्गीकारे च वैशिष्ट्यबोधाभावेन निर्विकल्पकरूपतापत्तेः पूर्वोक्तघटत्ववत्ताज्ञानस्य कारणस्य घटत्वविशिष्टशाब्दबोधत्वं कार्यतावच्छेदकमङ्गीकृत्यैवमेकयैव जातिशक्त्योरुभयोर्बोध इति वदन्ति, तन्मतेन पक्षान्तरमाह उक्तविधेति ॥ (द्वितीयकल्पास्वरसनिरूपणपूर्वकस्वमतावतरणम्) अस्मिंश्च मते विशेष्यभूतव्यक्तेरेव करणत्वादिद्वारा क्रियान्वयापत्त्या विशेषणीभूतयोर्जातिगुणयोस्तदनापत्तिरिति सप्तदशशरावे चरौ निर्वापे जघन्यमुष्टिलोपेन चतुस्संख्यानुग्रहो न सिध्येत्- जघन्यस्यापि प्रधानत्वेन मुष्ट्यनुग्रहस्यैव न्याय्यत्वादित्यस्वरसात्पक्षान्तरं स्वमतत्वेनाह वस्तुतस्त्विति ॥ (स्वमते व्यक्तिबोधोपपत्तिप्रकारः, एकवचान्तेषु बहुवचनाद्यन्तेषुच) सामानाधिकरण्येनेति ॥ करणत्वोपपत्तेरित्यस्यानुषङ्गेण तद्योज्यम् । तथाच लिङ्गसंख्ययोरपि समानपदोपात्तत्वप्रत्यासत्त्या सामानाधिकरण्यसंबन्धेन करणत्व एवान्वयः । पार्ष्ठिको जातिगुणसंबन्ध इत्यर्थः । ननु व्यक्तिपरिच्छेदकतया प्रतीयमानयोर्लिङ्गसंख्ययोरनुरोधेन प्रातिपदिके व्यक्तिलक्षणैवास्त्वित्याशङ्कानिराकरणाय पाशाधिकरणन्यायेनेत्युक्तम् । तस्यायमर्थः ॥ यथा गुणभूतबहुत्वान्वयानुरोधेन मुख्यभूतपाशप्रातिपदिकोत्कर्षो विकृतौ पाशमन्त्रे नाङ्गीकृतः, तथानैव लक्षणा युक्ता इति । यत्र तु पार्ष्ठिकोऽपि द्वित्वबहुत्वान्वयो जातौ बाधितः, तत्रागत्या लक्षितव्यक्त्यैव सोऽङ्गीक्रियताम् । प्रकृते तु एकवचनान्ते युक्त एव जातिगुणाभ्यां स इति भावः ॥ (द्वितीयान्तादिस्थले लक्षणया व्यक्तिबोधोपपादनम्) द्वितीयान्तादिस्थलेत्विति ॥ आदिपदेन संप्रदानत्वादिकारकान्तरसंग्रहः । नच युगपद्वृत्तिद्वयविरोधः- शक्यार्थस्य पदान्तरार्थान्वयप्रमितेः प्रागेव गङ्गापदस्य प्रवाहोपस्थित्यनन्तरं लक्षणावदिहापि तदङ्गीकारेण तस्याप्रसक्तेः । अतएव अन्वयप्रमोत्तरं तस्यैव पदस्य वृत्त्यन्तरेणार्थप्रत्यायकत्व एव सः इति ध्येयम् । नच क्रमिकबोधद्वयाङ्गीकरणे वैशिष्ट्यबोधाभावेन निर्विकल्पकरूपत्वापत्तिः- इष्टापत्तेरिति भावः । सामानाधिकरण्यं चेति ॥ लिङ्गसंख्ययोः समानाभिधानश्रुत्या सामानाधिकरण्यसंबन्धेनकर्मत्वाद्यन्वये सामानाधिकरण्यमेकवृत्तित्वेन ज्ञेयमित्यर्थः ॥ (जातिविशिष्टव्यक्तिवाच्यत्वनिरासः) एवञ्च लक्षणयैव गौः शुक्ल इत्यादि सामानाधिकरण्यानुपपत्तिः परिहरणीयेति द्रष्टव्यम् । आकृतिविशिष्टव्यक्तिवाचित्वपक्षस्त्वावश्यके जातिवाच्यत्वे व्यक्तिवाचित्वस्यापि कल्पनायां गौरवापत्त्या निरसनीयः । प्रयोजनमिति ॥ ऋग्वाचित्वपक्षे ऋचो ऋगन्तरे विधानानुपपत्त्योत्तरापदेन कार्यलक्षणया तत्स्थानापत्त्या विधानं पूर्वपक्षे । सिद्धान्ते तु गीतेः ऋगन्तरेऽपि संभवान्न लक्षणा किन्तु तस्यातिदेश इति यत्सप्तमे विचारयिष्यते तदेतदधिकरणप्रयोजनमित्यर्थः ॥ (प्रकाशकारनिरूपितपूर्वपक्षसिद्धान्तप्रयोजननिरसनपूर्वकस्वाभिमतप्रयोजननिरूपणम्) यत्तु प्रकाशकारैः "व्रीहीन् प्रोक्षति" "दध्ना जुहोती" त्यादौ पूर्वपक्षे सर्वव्रीहिहोमव्यक्तीनामभिधानात्तत्र श्रुत्या प्रोक्षणदध्यादेर्विनियोगात्प्रकरणसन्निधिबाधेन लौकिकव्रीहिष्वपि प्रोक्षणं होमान्तरे च दधि स्यात्पूर्वपक्षे, सिद्धान्ते तु शब्दार्थभूताया व्रीहित्वहोमत्वजातेः प्राकृतव्रीहिहोमयोरपि पर्याप्तिसत्त्वात्प्रकरणसन्निध्यनुग्रहेऽपि न काचिच्छ्रुतिपीडेति प्रकृतेष्वेवेति । तत्सिद्धान्तेऽपि प्रकृतव्रीहिहोमातिरिक्तव्यक्तिष्वपि तज्जातिपर्याप्तिसत्त्वेनानिवारणात्सर्वैश्च व्यवहारासंभवेनानर्थक्यपरिहारार्थं प्रकरणाद्यालोचनावश्यकत्वेन तेन प्रकृतातिरिक्तानां निवारणवत्पूर्वपक्षेऽपि तत्संभवेन विशेषाभावात्द्वितीयादिस्थले लक्षणया सर्वव्यक्तिभानस्योपपादनीयत्वेन दोषतादवस्थ्याच्चायुक्तमित्युपेक्षितं पूज्यपादैः ॥ इति नवममाकृत्यधिकरणम् ॥ इति श्रीखण्डदेवान्तेवासिकविमण्डनशंभुभट्टविरचितायां भाट्टदीपिकाप्रभावल्यां प्रथमस्याध्यायस्य तृतीयः पादः ॥  (भाट्टदीपिका) चतुर्थः पादः । (१ अधिकरणम्) उक्तं समाम्नायैदमर्थ्यं तस्मात्सर्वं तदर्थं स्यात् । १,४.१ । इह गुणविधित्वेन नामधेयत्वेन वा संमतानां सर्वेषामेव फलपदातिरिक्तसुबन्तानामुद्भित्सोमादिपदानां प्रामाण्यमप्रामाण्यं वेति संशये प्रामाण्यप्रकारासंभवादप्रामाण्यम् । तथाहि "उद्भिदा यजेत पशुकामः""सोमेन यजेते"त्यादावुद्भिदादिपदेभ्यः स्तुतिबुद्धेरनुत्पत्तेर्न तावदर्थवादत्वम् । मन्त्रत्वप्रसिद्ध्यभावाच्च न तत्- एतेषां प्रयोगकालोच्चारणे चैतत्प्रतिपाद्यार्थस्य यागाङ्गताबोधकप्रमाणभावेनैतेषां प्रयोगसमवेतार्थस्मारकत्वानुपपत्तेश्च । नच विध्यन्तर्भावः- कामशब्दाद्यभावेन साध्यानभिधायकत्वात्, एकपदगतेन यजिनैव करणप्रतिपादने एतेषां तत्प्रतिपादकत्वायोगात्, सिद्धरूपाणां सोमादीनां व्यापारमन्तरेण भावनेतिकर्तव्यतात्वानुपपत्तेश्च । नामधेयत्वे तु अभिन्नत्वादेव करणानुग्राहकत्वादिरूपेतिकर्तव्यतानुपपत्तिः । न च कथमपि भावनान्वयासंभवेऽपि यागे करणत्वेनान्वयो भवत्विति वाच्यम्- कारकाणां परस्परान्वयासम्भवात् । अतः कथमपि क्रियान्वयासंभवादनाख्यातत्वेन च विधिभावनयोरनभिधानातन्यस्य च प्रकारस्य निर्वक्तुमशक्यत्वादप्रामाण्यमिति प्राप्ते अध्ययनविध्यध्यापितस्य अप्रामाण्यासंभवात्प्रकारान्तरासम्भवेऽपि विध्यन्तर्भावस्य स्पष्टत्वेन तत्रैव गुणविधित्वेन नामधेयत्वेन वा वक्ष्यमाणरीत्या सर्वानुपपत्तिपरिहारेण प्रामाण्यमिति सिद्धम् ॥ १ ॥ १७ ॥ इति उद्भिदादिपदप्रामाण्याधिकरणम् । (प्रभावली) (सर्वस्याप्यध्यायार्थस्य प्रथमसूत्रशेषत्वनिरूपणम्) अत्र भाष्यकारेण "उद्भिदा यजेत" इत्युदाहृत्य किमुद्भिदादिशब्दाः गुणविधयः? कर्मनामधेयानि वेति सन्दिह्य "उक्तं समाम्नायैदमर्थ्यं तस्मात्सर्वं तदर्थं स्यादि" त्याद्यसूत्रेण पूर्वपक्षं कृत्वा अपि वा नामधेयं स्याद्यदुत्रत्तावपूर्वमविधायकत्वात् । १,४.२ । इत्युत्तरसूत्रेण नामधेयत्वं सिद्धान्तितम्- तदेतस्य विचारस्य धर्मप्रमोपयोगाभवेऽपि अर्थवादवदेवाध्ययनविधिवशादेव गुणविधित्वेन नामधेयत्वेन वोभयथाप्युपयोगसिद्धेर्नानर्थक्यापत्तेर्वाक्यार्थव्याख्यानरूपेण एतद्विचारकरणे वाक्यशेषसामर्थ्ययोरद्यापि प्रामाण्यस्यानुक्तत्वात्द्वितीये करिष्यमाणस्य वाक्यार्थविचारस्यापरिसमाप्यैव प्रमाणलक्षणं करणेऽसंगत्यापत्तेरयुक्तम्- अतः "अथातो धर्मजिज्ञासा" इति सूत्रेण जिज्ञासापदेन द्वादशानामपि लक्षणानामर्थाः सामान्यतः प्रतिज्ञायन्ते । अत एवैतद्विवरणे भाष्यकृता को धर्मः? कथंलक्षणकः? कान्यस्य साधनानि? इत्युपक्षिप्तम् । तत्र कथंलक्षण इत्यत्र धर्मपदानुषङ्गेण थमुञ्प्रकृत्या किंप्रमाणक इत्यर्थेन धर्मप्रमाणनिरूपणरूपप्रथमाध्यायार्थप्रतिज्ञां थमुञ्प्रत्ययोपात्तप्रकारस्य प्रामाण्यप्रतिष्ठासिध्यर्थमानुषङ्गिकतया निरूपणं क्रियते । नतु साक्षादध्यायार्थत्वम् । तत्रापि द्वितीयसूत्रे चोद्यतेऽनेनेति व्युत्पत्त्या विध्युद्देशात्मकप्रवर्तकवाक्यवाचिना चोदनापदेन विध्यात्मकवेदावयवप्रामाण्यं प्रतिज्ञाय तदेवाद्यपादेनाऽन्तमुपपादितम् । ततो द्वितीयसूत्रप्रतिज्ञातेर्ऽथेऽवसिते पुनराद्यसूत्रप्रतिज्ञातं धर्मप्रमाणान्तरभूतयोः चोदनावद्वेदावयवविशेषयोरर्थवादमन्त्रयोः प्रामाण्यं चिन्तितम् । तत एवं त्रिविभागस्य वेदस्य प्रामाण्ये तथैव त्रैविध्ये चिन्तिते नामधेयमूलकस्मृत्यभावेन त्रिविधवेदोपजीव्यस्मृतिरूपधर्मप्रमाणान्तरस्याद्यसूत्रप्रतिज्ञातं तत्प्रामाण्यं नामधेयचिन्तातः प्राक्मध्य एव तृतीयपादेन चिन्तितम् । ततः पुनराद्यसूत्रप्रतिज्ञातस्यैव धर्मप्रमाणान्तररूपस्य नामधेयस्य नामधेयतायाः पूर्वप्रतिपादितस्तुत्यादिप्रकारत्रयप्रतिद्वन्द्वित्वाभावात्विध्युद्देशान्तर्गतत्वं प्रसाध्य तस्यैव प्रामाण्यमिह प्रतिपाद्यते । तदेवं समस्तोऽप्यध्यायः प्रथमसूत्रशेष एवेत्यवश्यं प्रामाण्याप्रामाण्यचिन्तैव प्रथमेऽध्याये युक्तेति वार्तिककाराभिप्रायमनुसंधायाधिकरणविचारमारभते इहेति ॥ (नामधेयप्रामाण्यप्रकारपरतया एकस्य सूत्रस्य, कोष्ठशोधनिकया नामधेयत्वनिर्णयार्थमपरस्य सूत्रस्य प्रवृत्तिरितिनयनेन उपपत्तिः) यद्यपि अर्थवादाधिकरणोक्तरीत्या सामान्योपयोगे सिद्धे कोष्ठशोधनिकात्वेन विशेषविचारो नासंगतो भवेत्- तथापि एतत्सूत्रस्य नामधेयत्वविरोधिगुणविधित्वहेतुपरत्वाभावेन पूर्वपक्षपरत्वासंभवात्सिद्धान्तेऽनिष्टापादकत्वायोगाच्च नैकाधिकरण्योपपत्तिरित्येतत्सूत्रद्वयपूर्वपक्षद्वयकरणेन एतत्सूत्रद्वयसिद्धान्तद्वयप्रतिपादनपरतयाधि करणभेद एव युक्त इति भावः । प्रामाण्यस्वरूपविषयत्वेऽस्याश्चिन्तायाः याज्ञिकप्रसिद्धिसिद्धायाः पक्षद्वयेऽप्यविचारितसिद्धत्वमङ्गीकृत्य किंनामधेयताया धर्मप्रामाण्यप्रकारता संभवति, उत नेति प्रथमाधिकरणे विचार्यते । कथंलक्षण इत्यत्र प्रकारवाचिथमुञ्प्रत्ययप्रयोगात्प्रकारस्यापि लक्षणार्थत्वात्तस्य च त्रिपाद्यां करणान्नासंगतिरिति कल्पयतो न्यायसुधाकारस्य तु मतदूषणं कौस्तुभ एव द्रष्टव्यम् ॥ (एतदधिकरणविषयविवेचनं तत्र मतान्तरखण्डनम्) संभाव्यमानगुणविधिनामधेयत्वान्यतरप्रकारस्य फलवाचकपदेऽसंभवाद्विचाराविषयत्वं सूचयितुं फलपदातिरिक्तेत्युक्तम् । फलपदं च निमित्तसंस्कार्यवाचकानामप्युपलक्षणम् ॥ उद्भित्सोमादीत्यादिपदेन "समे पौर्णमास्या"मिति देशकालपदानां गुणविधित्वेऽप्यसंभवन्नामताशङ्कानां नोदाहरणत्वमित्युक्तम्- तदयुक्तम् । मन्त्रार्थवादविध्यतिरिक्तत्वेनैवेह पदानामुदाहरणत्वाद्गुणविधित्वनामधेयत्वान्यतरप्रकारेण विध्यन्तर्भावमङ्गीकृत्यैवेह प्रामाण्यसाधनस्य तेष्वपि संभवेनोत्तराधिकरणेषु च नामधेयत्वे साधिते तत्तद्धेतोरभावे परिशेषेण विधित्वस्याप्यर्थात्साधनेन तद्विषयत्वोपपत्तेरिति सूचितम् ॥ (उद्भित्सोमादिपदानामप्यध्ययनविध्युपात्तानामपि प्रामाण्यप्रकारनिर्णयार्थत्वेनाधिकरणप्रवृत्तिनिरूपणम्) यद्यपि अस्मिन्नधिकरणेऽध्ययनविधिबलेनार्थवादवदेव प्रयोजनवत्त्वसिद्धेरानर्थक्येन पूर्वपक्षो नोत्तिष्ठति- नवा अर्थवादमन्त्रयोरिवान्यथाक्षेपासंभवे द्वारासंभवेनाक्षेपवदिहाक्षेपः संभवति- उद्भिदादिशब्दानां गुणविधित्वेनापि प्रामाण्योपपत्तेः । तत्तद्विशेषाधिकरणेष्वेव चतुर्षु गुणविधित्वाशङ्कानिरासमुखेन नामधेयतारूपद्वारविशेषस्योपपादयिष्य माणत्वात्, अतो नेहाद्यमधिकरणमर्थवादविशेषाधिकरणवद्रचयितुं शक्यते- तथापि तद्विधिसिद्धप्रयोजनानामपि उद्भिदादिपदानां पूर्वोक्तविध्युद्देशस्तुतिप्रकाशनरूपप्रकारविशेषासंभवेनप्रयोजनवत्त्वमाक्षिप्य गुणविधित्वनामधेयत्वान्यत रूपद्वारविशेषेण विध्युद्देशान्तर्गत्या प्रामाण्यं साध्यते । अतएव विध्युद्देशान्तर्गतिसाधनमात्रेणैव सिद्धान्ते उपरतं वार्तिककृतेत्यभिप्रेत्यैव पूर्वपक्षमाह प्रकारेति ॥ (पादार्थोपाधिः प्रथमद्वितीयाधिकरणविषयविवेकश्च) अत्र पदप्रामाण्यनिरूपणस्य पादार्थत्वं पादान्तरत्वादनन्तरसंगत्यभावेऽपि न क्षतिरिति द्रष्टव्यम् ॥ एवं चेह विध्युद्देशान्तर्गत्या आक्षेपं समाधायोत्तराधिकरणेषु गुणविधित्वाशङ्कानिरासेन नामधेयत्वेन तदन्तर्गतिः साध्यत इति सर्वमनवद्यमिति भावः ॥ (उद्भित्सोमादिपदानां स्तावकतयानुपयोगः) विध्युद्देशाद्यनन्तर्गतत्वे उपपादनीये उद्भेदनकर्तृत्वगुणयोगेन संभावितस्तुतिप्रतीतेर्निरासायार्थवादत्वं तावन्निराकरोति स्तुतिबुद्धेरिति ॥ न वा विध्येकवाक्यतामात्रेणार्थवादत्वं भवति- भूतिकामादिपदानामपि तदापत्तेः, अपितु विधिशेषत्वेन- नह्ययं विधिशेषः, नवा विध्यन्तर्गतेनैकपदेन गुणगुणिसंबन्धकीर्तनात्मकस्तुतिधिय उत्पत्तिः । यद्यपि वोत्पद्येत- तथापि "वायुर्वै क्षेपिष्ठे"तिवत्प्रथमाया एवापत्तौ तृतीयोपात्तकरणत्वानुपपत्तिरिति नार्थवादत्वमित्यर्थः ॥ मन्त्र इत्येवंविधाभियुक्तप्रसिद्धिविषयत्वरूपस्य मुख्यमन्त्रलक्षणस्य विधितच्छेषत्वभिन्नत्वरूपस्य वा व्यापकलक्षणस्याभावेन मुख्यमन्त्रत्वानुपपत्तेः न मन्त्रान्तर्गतिरित्याह मन्त्रत्वप्रसिद्ध्यभावेति ॥ न्.आप्यूहप्रवरनामधेयानामिव मुख्यमन्त्रत्वाभावेऽप्यनुष्ठेयार्थस्मारकतया मुख्यमन्त्रकार्यकरत्वाद्गौणमन्त्रत्वमपि संभवतीत्याह एतेषामिति ॥ (मन्त्रत्वेन विध्युद्देशत्वेन चानुपयोगसमर्थनम्) न तावद्ब्राह्मणैकवाक्यतया अनुष्ठेयार्थस्मारकत्वसंभवः- "यजेत पशुकाम" इत्यादेः ब्राह्मणवाक्यस्य विधायकत्वेन कर्मकालाप्रयोज्यत्वात्तदेकवाक्यतापन्नस्यास्य तदनुपपत्तेः, नापि पृथक्भूतत्वेन- एतदभिधेयस्य खनित्रादेः कर्मण्यविधानादेव प्रकाशनानर्हत्वात् । नचोपांशुयागवदेव सन्निधानावगतयागाङ्गत्वनिर्वाहाय मान्त्रवर्णिकद्रव्यविधिकल्पनया स्मारकत्वोपपत्तिः- द्रव्यस्य भावनायां यागे वान्वयासंभवेन तद्विधिकल्पनानुपपत्तेः । यागजनकत्वेनाकाङ्क्षाया अर्थाक्षिप्तद्रव्येणैव निरासात्न तद्बलेन भावनाया आकाङ्क्षन्तरकल्पनयाप्यन्वयो युक्त इति भावः । विध्युद्देशरूपवेदावयवान्तर्भावं निरस्यति नचेति ॥ (पूर्वपक्षे अध्ययनविधिदृष्टार्थत्वोपपत्तिः) स्पष्टाक्षरमधिकरणपूर्वपक्षान्तम् । नचैवं पूर्वपक्षे साधिताध्ययनविधिदृष्टार्थत्वभङ्गः- तस्य पारायणेऽप्युपयोगिप्रयोगप्राशुभावरूपदृष्टार्थत्वभङ्गः- तस्य पारायणेऽप्युपयोगिप्रयोगप्राशुभावरूपदृष्टार्थतयोपपत्तेरप्रमाण मुद्भिदादिशब्दा इत्यर्थः ॥ (विध्युद्देशान्तर्भावेन सिद्धान्तः) अध्ययनगतदृष्टार्थतानिर्वाहेऽपि प्रयोजनवदर्थज्ञानार्थत्वस्य साधितस्याभङ्गाय प्रामाण्यमस्तीति सिद्धान्तमाह अध्ययनेति ॥ तत्र प्रकारासंभवेऽपीत्यस्य प्रकारान्तरासंभवेऽपीत्यर्थः ॥ इति प्रथममुद्भिदादिपदप्रामाण्याधिकरणम् ॥ (भाट्टदीपिका) (२ अधिकरणम्) अपि वा नामधेयम् ॥ अतः परं क्व गुणविधित्वं क्व वा नामधेयत्वमिति कोष्ठशोधनिकार्थमारम्भः । तदिह गुणे कर्मणि च तुल्यवद्वृत्तिकानामुद्भिदादिपदानां विधेयगुणसमर्पकत्वं नामधेयत्वं वेति चिन्तायां भिदिर्विदारणे इति स्मृत्या विदारणसमर्थखनित्रादिवचनत्वप्रसिद्धेर्नामधेयत्वे वैयर्थ्यप्रसङ्गाच्च गुणविधित्वमेव युक्तम् । तत्रच गुणविशिष्टं कर्मैव फलोद्देशेन विधीयत इत्येकः पक्षः । प्रकृतसोमयागानुवादेन गुणमात्रविधानमित्यपरः । न च विनिगमनाविरहः- इतिकर्तव्यतासन्निधिविशेषस्यैव कर्मविधिनियामकत्वात् । नचैवं फलपदानर्थक्यम्- "सर्वेभ्यो ज्योतिष्टोम" इति वचनेन तस्य सर्वफलार्थत्वावगतेर्यजिपदस्य पशुफलोपधायकयागलक्षणायां तात्पर्यग्राहकत्वात् । अत एव न विशिष्टोद्देशे वाक्यभेदः । न चोत्पत्तिशिष्टसोमप्राबल्यम्- पशुकामप्रयोगविशेषपुरस्कारेण विहितस्य खनित्रादेः सामान्यविहितसोमादिबाधकत्वात् ॥ वस्तुतस्तु प्रकृतसोमयागाश्रितः खनित्रादिगुण एव फलोद्देशेन विधीयते इति तृतीयः पक्षः । काम्यत्वादेव च नित्यसोमबाध इति प्राप्ते ब्रूमः नायं गुणविधिः- गौरवात् । तथाहि सर्वत्रैव तावच्छ्रुद्धधात्वर्थकरणकभावनाविधानादाद्यो विधिप्रकारः "यथाग्निहोत्रं जुहोती" ति । अन्योद्देशेन तद्विधिरपरः "यथाग्निहोत्रं जुहुयात्स्वर्गकाम" इति । एतस्य चोद्देश्यवाचकपदान्तरसापेक्षत्वाद्दौर्बल्यम् । धात्वर्थोद्देशेनान्यकरणकभावनाविधिस्तृतीयः "यथा दध्ना जुहोती"ति । अत्र विधेयताया धात्वर्थवृत्तित्वाभावात्पदान्तरार्थवृत्तित्वाच्च ततोऽपि दौर्बल्यम् । धातोः साधुत्वार्थत्वमङ्गीकृत्य अन्योद्देशेनान्यकरणकभावनाविधिश्चतुर्थः यथा "दध्नेन्द्रियकामस्य जुहुयादि"ति । अत्र धात्वर्थस्योद्देश्यत्वेनाप्यसंबन्धात्ततोऽपि दौर्बल्यम् । गुणविशिष्टधात्वर्थकरणकभावनाविधानात्पञ्चमः यथा "सोमेन यजेते"ति । अत्र विशेषणविधिकल्पनादेराधिक्यात्ततोऽपि दौर्बल्यम् । अन्योद्देशेन पूर्वोक्तः षष्ठः यथा "सौर्यं चरुं निर्वपेद्ब्रह्मवर्चसकाम" इति । अयन्तु सर्वदुर्बलः । तदेवमुद्भिद्गुणविशिष्टस्य यागस्य फलोद्देशेन विधाने षष्ठविधिप्रकाराश्रयणादतिगौरवम्- गुणस्य यागे न अन्वयान्मत्वर्थलक्षणा च । नहि भावनायां समानपदोपात्तधात्वर्थकरणकत्वावरुद्धायां गुणस्य करणत्वं संभवति । अतस्तस्य यागान्वयावश्यकत्वे यागस्य कारकत्वात्कारकाणां च परस्परं संबन्धानुपपत्तेः सोमेन यजेतेतिवदुद्भिद्वता यागेनेति मत्वर्थलक्षणाऽवश्यकीति प्राञ्चः ॥ वस्तुतस्तु दृष्टान्तेऽपि सोमस्य करणत्वेनैव भावनायामेवान्वयस्तत्र तत्र वक्ष्यते, युक्तश्च- एककरणावरुद्धेऽपि करणान्तरस्य भिन्ननिरूपितस्य प्रकारतया भावनान्वयोपपत्तेः । नहि यागकरणत्वं भावनानिरूपितम्, अपि तु स्वर्गनिरूपितम् । अतश्च यथैवान्यनिरूपितम्, तत्करणत्वं प्रकारतया भावनायामन्वेति, तथैव सोमकरणत्वमपि यागनिरूपितम् । उभयत्र तत्तन्निरूपकत्वस्य पार्ष्ठिकबोधलभ्यत्वाच्च न कोऽपि विरोध इति नास्मिन्नपि पक्षे यद्यपि मत्वर्थलक्षणा- तथापि विशेषणविधिकृत,गुणयागोभयविशिष्टभावनाविधिगौरवमापद्यमानं नोपह्नोतुं शक्यम् । यथाच प्राथमिकभावनासंबन्धाङ्गीकारेऽपि द्वितीयबोधवेलायां मत्वर्थकल्पना तथोक्तं कौस्तुभे कल्पनादि । एवं द्वितीयतृतीययोरपि जघन्यविधिप्रकाराङ्गीकरणं दोषाय । अगत्या च दधिसोमादावेव तदङ्गीकृतम्- तेषां तत्रात्यन्तरूढत्वेन नामधेयत्वासंभवात्, प्रकृते तु येनैव योगेन खनित्रे प्रवृत्तिस्तेनैव योगेनोद्भिद्यते उत्पाद्यते फलमिति व्युत्पत्त्या कर्मण्यपीति नामत्वसंभवेन द्वितीयविधिप्रकाराङ्गीकरणाल्लाघवम् । नच भिदो विदारण एव स्मृतेः शक्तिः, भिदिरित्येव धातुपाठात्, विदारण इत्यस्य शक्यार्थमात्रोपलक्षकत्वस्य वैयाकरणसिद्धत्वात् । अतो विदारण इवोत्पादनेऽपि प्रयोगात्तुल्यवद्वृत्तिकता । नच नामधेयानर्थक्यम्- संकल्पादौ सार्थकत्वात् । क्विचित्फलोपबन्धश्च यथा "दर्शपूर्णमासाभ्यां स्वर्गकामो यजेते"ति । क्वचिच्च गुणोपबन्धः यथा "संस्थाप्य पौर्णमासीं वैमृधमनुनिर्वपती"ति । प्रकृते च संज्ञया भेदसिद्धिरेव प्रयोजनम् । इतरथा हि प्रकृत एव कर्मणि गुणफलसंबन्धापत्तेर्न कर्मान्तरत्वम् । नच योगस्य फलोद्भेदनकारित्वस्यातिप्रसक्तत्वादपूर्वे कर्मणि रूढिकल्पने सोमादिपदानामपि तदापत्तिः- सर्वत्र योगरूढिस्थले प्राचीनप्रयोगस्यैव कारणतायाः कॢप्तत्वेन प्रकृते तदकल्पनात् । प्रयोजनं स्पष्टम् ॥ २ ॥ १८ ॥ इति द्वितीयमुद्भिन्नामताधिकरणम् । (प्रभावली) (उद्भिद्वाक्यस्यैव विचारे निमित्तनिरूपणम्) अनिर्धारितद्वारविशेषेणोक्तमपि प्रामाण्यं निर्धारणं विना न दृढं भवतीत्येतदर्थमधिकरणान्तरं सूचयति अतः परमिति ॥ तत्र तत्प्रख्यशास्त्रान्तररहितानामुदाहरणत्वेऽपि चित्रादिशब्देषु लोकप्रसिद्धिबाधेन नामधेयताया वाक्यभेदादिसहकारिसापेक्षत्वेन दुरुपपादत्वात्तान्विहाय अवयवार्थयोगस्य प्रवृत्तिनिमित्तत्वान्मत्वर्थलक्षणाप्रसंगमात्रसहकृतसामानाधिकरण्याच्च प्रथमतो विचारे सौकर्यात्तेषामुदाहरणत्वं दर्शयति तदिहेति ॥ वचनत्वप्रसिद्धेरिति ॥ ननु व्रीह्यादिपदवत्समुदायरूपेण रूढत्वाभावात्कथं खनित्रवाचितेत्याशङ्कानिरासाय "भिदिर्विदारण" इत्याद्युक्तम् ॥ (उद्भिच्छब्दस्य खनित्रवाचित्वमेव, नतु कर्मवाचित्वमिति निरूपणम्) तथाच उदुपसर्गस्योर्ध्वतायां भिदिधातोर्विदारणे कर्त्रर्थकक्विपः तत्समर्थकर्तरि शक्तेः क्विबन्तेनोर्ध्वविदारणसमर्थखनित्रप्रसिद्धिरवयवप्रसिध्या समुदायरूपेण ग्रहणाद्युक्ता । कर्मणि तु ऊर्ध्वविदारणकर्तृत्वाभावात्कथञ्चित्फलमुद्भिनत्ति प्रकाशयतीत्येवं योगेन फलोद्भेदनसमर्थत्वेन तदुपपादने प्रकाशने लक्षणापत्त्या लोकव्याकरणावगतावयवप्रसिद्धिबाधापत्तेः तत्परिहारार्थं पङ्कजादिशब्देष्विव रूढिकल्पनापत्तेः तदपेक्षया कॢप्तावयवशक्त्यैवावयवप्रतीतार्थग्रहणं युक्तमित्यर्थः ॥ (कर्मसाधारणयोगार्थेनापि नामधेयत्वाङ्गीकारनिरासः) अस्तुवा यजिसामानाधिकरण्यनिर्वाहाय कथञ्चिद्यागेऽवयवार्थमात्रसंभवः, एवमपि तेन नामधेयताङ्गीकारे दूषणमाह नामधेयत्वे इति ॥ विधिबलादेव विशेषावधारणसिद्धेः नाम्नोऽपि यागत्वजातेस्तदवच्छिन्नव्यक्तिसामान्यरूपस्य विशेषावधारणासंभवात्पुनरपि व्यक्तिविशेषावधारणार्थत्वे वैयर्थ्यम् । गुणविधिपक्षे तु यागभावनापेक्षितद्रव्यसमर्पकत्वादर्थवत्त्वं पुरुषप्रवृत्तिविशेषकरत्वं च लभ्यते इत्यर्थः ॥ (सिद्धान्तापादितमर्थलक्षणानिरासेन गुणविधित्वसमर्थनम्) यस्त्विह सिद्धान्ते सर्वकारकाणां भावनान्वयित्वेऽपि समानपदोपात्तयागरूपकरणावरुद्धायां गुणस्य करणत्वेन अन्वयायोगात्धात्वर्थस्य च कारकत्वेन तत्रापि अन्वयायोगेन प्रधानभूतप्रत्ययेन तदसंभवे गुणभूते प्रातिपदिके मत्वर्थलक्षणा पूर्वपक्षे आपद्यते, सा न युक्ता- स्वर्गनिरूपितत्वेन यागस्येव गुणस्यापि व्यापारभेदेन भावनायां करणत्वेनान्वयोपपत्तेः । अतश्च यागस्य फलनिष्पादनद्वारा भावनाकरणत्वेऽपि सोमादेः करणान्तरस्य समादेरधिकरणान्तरस्येव यागनिष्पादनद्वारा भावनासंबन्धे बाधकाभावात्तथैव प्रथमावगत भावनासंबन्धनिर्वाहाय अरुणैकहायनीवत्यागस्य पार्ष्ठिको यागसंबन्ध एव कल्प्यते । तेन न मत्वर्थलक्षणापत्तिरित्यभिप्रेत्य पूर्वपक्षे आद्यं विशिष्टविधिपक्षमुपपादयति तत्र चेति ॥ (पार्ष्ठिकबोधेऽप्यत्र मत्वर्थलक्षणानिरासः) नचैवं पार्ष्ठिकान्वयवेलायामेवाश्रुतमत्वर्थव्यवहारापत्ति ः- तस्यामवस्थायां श्रुतेन करणत्वेनैव यागं प्रति गुणस्यान्वयोपपत्तेः । नहि तदानीं यागस्य करणत्वमस्ति, येनानाकाङ्क्षितत्वादन्वयो न भवेत्, अर्थाक्षिप्तसाध्यत्वमादाय कर्मत्वात् । अतो न कथमपि मत्वर्थलक्षणाप्रसक्तिरस्मिन्नपि पक्ष इत्यर्थः ॥ (ताण्ड्यशाखायां ज्योतिष्टोमप्रकरणानुसारेण गुणविधित्वपक्षः) अतएव यद्यपि विशिष्टविधौ न मत्वर्थलक्षणा- तथापि एतेषां वाक्यानां ताण्ड्यशाखायां ज्योतिष्टोमानन्तरमेव पाठात्प्रकृतज्योतिष्टोमयागानुवादेनैव दध्ना जुहोतीतिवत्गुणविधानं भविष्यतीत्यभिप्रेत्य पक्षान्तरमाह अथवेति ॥ (गुणविधित्वपक्षेऽपि विधानेवेत्यादिवार्तिकानुसारेण मत्वर्थलक्षणापत्तिशङ्कानिरासौ) यद्यपि प्रकृतविधौ यागस्य करणत्वात्यथाप्राप्तस्यैवानुवादेनेहापि कारणत्वात्गुणान्वये मत्वर्थलक्षणापत्तिः- तथापि असाधितस्य करणत्वायोगादर्थाक्षेपेण साध्यत्वावगमात्ताद्रूप्यमादाय यागे करणत्वेन गुणस्यान्वये नानुपपत्तिः । यत्तु ऽविधाने वानुवादे वा यागः करणमिष्यते । तत्समीपे तृतीयान्तस्तद्वाचित्वं न मुञ्चति" इति वार्तिकं, तदुत्तरार्धानुरोधात् "समे दर्शपूर्णमासाभ्यां यजेते"त्यादौ यत्र तृतीयान्तनामधेयसामानाधिकरण्यं तत्रोत्पत्तिवाक्यावगतकरणत्वस्यैवानुवादो नत्वर्थाक्षिप्तसाध्यत्वमित्येतत्परम् ॥ (ज्योतिष्टोमवाक्यस्योत्पत्तिविधित्वशङ्कया प्राप्तशङ्कान्तरनिराकरणार्थं सोमवाक्यस्योत्पत्तिविधित्वसमर्थनम्) नच प्रापकविधावपि ज्योतिष्टोमाद्युपपदसत्त्वेनेह तस्यापि गुणविधित्वपूर्वपक्षोदाहरणत्वात्तत्र च फलपदानुरोधात्यागस्य करणत्वे गुणस्यान्वयानुपपत्त्या मत्वर्थलक्षणापत्तिरिति वाच्यम्- यत्रोपपदस्य गुणे निरूढत्वं कर्मणि च योगेनाप्यसंभवद्वृत्तिता, तत्र सोमेन यजेतेत्यत्राप्रसिद्धशक्त्यन्तरकल्पनापेक्षया मत्वर्थलक्षणाया लघुत्वेनाङ्गीकारात्तत्रैव कर्मोत्पत्तिविधित्वे बाधकाभावात् । अतस्तद्विहिते कर्मणीह युक्तो गुणविधिरित्यर्थः ॥ (उद्भिद्वाक्यस्योत्पत्तिविधित्वनिरासेन गुणविधित्वसमर्थनम्) इतिकर्तव्यतेति ॥ कर्मविध्यभावे गुणविध्ययोगादवश्यं कस्मिंश्चित्कर्मविधानेऽभ्युपगन्तव्ये ज्योतिष्टोमवाक्यसन्निधौ दीक्षणीयादिबह्वितिकर्तव्यताम्नानात्तस्याश्च कर्तव्यतालिङ्गत्वात्भूयस्त्वेनोभयश्रुतीत्यनेन न्यायेन तस्यैव कर्मविधित्वमित्यर्थः ॥ (भाष्यवार्तिकाद्यनुसारेण सोमस्यापि भावनाकरणत्वेनैवान्वयनिरूपणम्) तत्र तत्र वक्ष्यते इति ॥ सप्तमनवमाध्याययोर्यजेतेत्थमिति इतिकर्तव्यतया धात्वर्थान्वयनिरासेनेत्थं कुर्यादिति भावनान्वयो भाष्यकृता निरस्तः । "सोमेन यजेतेत्यत्रापि तद्भूताधिकरणोक्तेन मार्गेण धात्वर्थकारकाणामरुणैकहायन्यादिवत्परस्परेणासंबन्ध्य भावनासंबद्धानामुत्तरकालं परस्परोपकारित्वम् । तथाच सप्तमनवमाद्ययोर्वक्ष्यतीति न सोमविशिष्टधात्वर्थविधान"मित्यादिना वार्तिककारेण, आघाराग्निहोत्राधिकरणे तथा सोमतुल्यन्यायत्वातवघातमन्त्रस्य भावनान्वयिनो न प्रतिप्रहारमावृत्तिरित्येतत्प्रतिपादनार्थ एकादशाधिकरणे तन्त्ररत्नकृता, तथा सप्तमे "भावनान्वयतः पश्चादंशयोरार्थिकोन्वयः । ततः कर्मान्तरेऽङ्गानां प्राप्तिराशङ्क्यते कुत"इत्यादिना शास्त्रदीपिकायां च वक्ष्यते इत्यर्थः । एवं प्राचां मतखण्डनेन पूर्वपक्षे मत्वर्थलक्षणानापत्तिं प्रदर्श्याधुना यत्पार्ष्ठिकबोधवेलायामपि न तदापत्तिरित्युक्तम्, तन्निरसितुमाह यथाचेति ॥ (पार्ष्ठिकान्वयवेलायां सोमेन यजेतेत्यत्र मत्वर्थलक्षणावश्यकतानिरूपणम्) अयमर्थः यद्यपि सर्वकारकाणां प्रथमतो भावनयैव संबन्धः- तथापि निर्विषयकृतिसंबन्धायोगात्सोमादिगतव्यापारापेक्षायां प्राक्फलकर्मत्वयागकरणत्वगतनिरूपकापेक्षायाः समानपदश्रुत्या यागे फले चैव प्रतीतेः पार्ष्ठिके फलयागयोः संबन्धे यागस्य करणतयैवावगतस्य कर्मत्वेन प्रातीतेः खनित्रादिकारकान्तरस्य करणत्वेनैवान्वये वक्तव्ये भिन्नार्थयोः सामानाधिकरण्यानुपपत्त्या संबन्धसामान्येनान्वयार्थमश्रुतमत्वर्थकल्पनाऽवश्यकी । पश्चाच्चासाधितस्य यागस्य करणत्वानुपपत्तेः कर्मत्वबोधे सति खनित्रादिकारकान्तरस्य भावनासंबन्धवेलायां श्रुतेन कारणत्वादिनैव विशेषणविधिकालेऽन्वयो भवति । अतः पार्ष्ठिकान्वयकाले सोमवता यजेतेत्येवं मत्वार्थलक्षणानिवार्या । (मत्वर्थलक्षणाविरहपक्षे सोमस्य श्रौतविनियोगोपपत्तिः) नचैवमस्मन्मते सोमस्य वाक्यीयविनियोगापत्तिः- पूर्वमेव भावनासंबन्धवेलायां तन्निर्वाहार्थं मत्वर्थलक्षणाङ्गीकारे तदापत्तावपि प्रथमत एव विनैव लक्षणां कारकाणामन्योन्यसंबन्धमनादृत्य भावनान्वयस्य श्रौतत्वेन पश्चाच्च फलयागयोः पार्ष्ठिकान्वयवेलायां सर्वकारकाणां मत्वर्थलक्षणया धात्वर्थसंबन्धाश्रयणे तदनापत्तेः ॥ (विशिष्टविधिपक्षे मत्वर्थलक्षणोपपादनप्रकारः कौस्तुभगतः) नच भावनान्वयकाले करणत्वेनावगतसोमादिकरणत्वादीनां यागान्वये अनुपस्थितानां कथं यागसंबन्धप्रतीतिः? इति वाच्यम्- तस्य मत्वर्थसंबन्धसामन्यरूपेणोपस्थितत्वेनानुपपत्त्यभावात् । अथवा सोमकरणकेन यागेनेति समस्तवाक्यकल्पनया वोपस्थित्युपपत्तेः । एवमरुणैकवाक्येपि या अरुणा सैकहायनीत्येवं लुप्तमतुबन्तवाक्यकल्पनापि द्रष्टव्येति विशिष्टविधिपक्षे मत्वर्थलक्षणापत्तिरनिवार्येति कौस्तुभे उक्तमित्यर्थः ॥ (अज्ञातसन्दिग्धस्योद्भित्पदस्य यजिसमानाधिकरण्येनार्थनिर्णय इति नामत्वनिरूपणम्) इति व्युत्पत्त्येति ॥ उद्भिद्यते उत्पाद्यते यस्माद्यागेन फलमिति हेतोरुद्भिनत्ति फलमिति वा व्युत्पत्त्येत्यर्थः । अन्यथा कर्तरि क्विपोऽनुशासनेन कर्मव्युत्पत्तिप्रदर्शनस्यासङ्गतत्वापत्तेः । अयमर्थः "पदमज्ञातसन्दिग्धं प्रसिद्धैरपृथकश्रुति । निर्णीयते निरूढन्तु न स्वार्थादपनीयते" इति वार्तिकोक्तरीत्या उद्भिदादिपदानां खनित्रादौ समुदायशक्तेरभावातवयवयोगेनापि पाचकादिशब्दवल्लोके प्रयोगाभावादज्ञातार्थत्वम् । यस्तु "सुराणां वै बलस्तमसा प्रावृतो स्मापिधानमासीत्तस्मिन् गव्यं वस्त्वन्तरासीत्तं देवा नाशक्नुवन् भेत्तुं ते बृहस्पतिमब्रुवन्निमा उत्सृजेति स उद्भिदेव बलं व्यच्यावयत्" इत्यर्थवादे गोयुक्तविवरापरपर्यायबलच्यावनद्वारस्य विदारणस्य प्रवृत्तिनिमित्तत्वावगमः, तस्य स्वार्थपरत्वाभावेन तादृशार्थे प्रमाणाभावान्नोपयुक्तः । तथा पिकादिशब्दवत्प्रयोगाभावेऽप्यवयवार्थयोगमात्रे खनित्र इव यागेऽपि प्रवृत्त्युपपत्तेरक्षादिपदवत्सन्दिग्धत्वम् । अतः प्रसिद्धयजिपदसामानाधिकरण्यान्निर्णेयमिति ॥ उत्पादनेऽपीति । अपूर्वे वस्तुनि केनचिदुत्पादिते इदमनेनोद्भिन्नमिति प्रयोगादित्यर्थः ॥ (नाम्नः संकल्पदौ सार्थक्यनिरूपणम्) संकल्पादाविति । अनुष्ठानकाले प्रयोगविध्यपेक्षितलघ्वाख्यानौपयिकत्वेन सार्थक्यादित्यर्थः । यथेति । दर्शपूर्णमासपदस्य नामत्वाभावे यजिना प्रकृतत्वाविशेषेण षड्यागसाधारण्येन प्रयाजाद्यङ्गानामप्युपादानात्सर्वेषां फलसंबन्धापत्तिः । सति तु नामधेये षण्णामेव तत्सिद्धिरिति फलसंबन्धरूपं प्रयोजनं चतुर्थे वक्ष्यते इत्यर्थः । यथेति । वैमृधवाक्ये पौर्णमासीनामधेयाभावे प्रकरणादमावास्याङ्गत्वस्याप्यापत्तिर्वैमृधस्य, तत्सत्त्वे तु वाक्येन प्रकरणबाधान्न तदापत्तिरिति गुणोपबन्धः प्रयोजनमित्यर्थः । भेदसिद्धिरेवेति । एवकारेण गुणफलोपबन्धरूपप्रयोजनान्तरासंभवेऽपि संकल्पे उल्लेखवत्भेदसिद्धिरिति द्वितीयं प्रयोजनमव्यभिचारि लभ्यते इत्यर्थः सूचितः । तेन न संकल्पोल्लेखनरूपप्रयोजनव्यावृत्तिरिति भावः ॥ (उद्भेदनकारित्वरूपयोगार्थस्यातिप्रसङ्गशङ्का, न्यायसुधाभाष्यप्रकाशकारोक्ततत्समाधानानि) सोमादिपदानामपीति ॥ एतेन यदत्र न्यायसुधाकृतान्यैश्च पङ्कजादिपदवदुद्भिच्छब्दस्य योगरूढिं परिकल्प्य रूढ्यवच्छेदकपद्मत्ववद्विधिसामर्भ्येनावगतविजातीययागत्वमेव रूढ्यवच्छेदकमित्युक्तम्, तत्पद्मत्वस्य प्रमाणान्तरसिद्धत्वेन रूढ्यवच्छेदकत्वकल्पनेऽपि विधिसामर्थ्यादसिद्धे रूढ्यवच्छेदकत्वानुपपत्त्या रूढिकल्पनानुपपत्तेर्मत्वर्थलक्षणापत्तिभिया रूढिकल्पने सोमादिपदेष्वपि तदापत्तेरुपेक्ष्यमिति सूचितम् । यदपि अतिप्रसङ्गपरिहारार्थं यजिसामानाधिकरण्यबलात्तद्गतमेवोद्भेदनकर्तृत्वं प्रवृत्तिनिमित्तमित्याकरेण पक्षान्तरमुक्तं- तदपि यजिपदेन विजातीययागाभिधानात्तावन्मात्रवृत्त्युद्भेदनकर्तृत्वस्य प्रवृत्तिनिमित्तत्वे उद्भिच्छब्दवाच्ययागान्तरे प्रवृत्तिनिमित्तान्तरकल्पनापत्तेः तदर्थं पृथगवयवशक्त्यन्तरकल्पनापत्तेरयुक्तम् । एतेन यत्प्रकाशकारैर्योग्यतया एकवाक्यतया चैतद्यागजन्यपशुफलविशेषोद्भेदकत्वेन प्रवृत्तिनिमित्तेन यौगिकत्वान्नातिप्रसङ्गः इत्युक्तम्- तदप्ययुक्तम्- यागान्तरे भिन्नप्रवृत्तिनिमित्तकल्पनापत्तेः । कर्मसामान्ये एकरूपप्रवृत्तिनिमित्तासंभवादतोऽतिप्रसङ्गमन्यथा परिहरति सर्वत्र हीति ॥ (अर्थान्तरे प्राचीनप्रयोगाभावेनोक्तातिप्रसङ्गवारणस्य स्वाभिमतस्य निरूपणम्) अयमर्थः घटपदस्य घटविषयशक्तिनिश्चयाननुभवबलात्तत्र नियामकापेक्षायां घटपदप्रयोगरूपव्यवहारस्य सहकारिकारणत्वं लोके कॢप्तम् । प्रकृते चोद्भिच्छब्दस्य कर्मणि शक्तिनिश्चयार्थं प्राचीनप्रयोगस्य सहकारिकारणत्वात्यत्र यत्र तादृशप्रयोगः तत्रैव शक्तिनिश्चये सत्यन्यस्य ज्योतिष्टोमादेस्तदभावादेव नोपस्थितिः । एवञ्च योगेनैव निर्वाहे योगरूढिर्नाम नातिरिक्ता कल्पनीयेत्यर्थः ॥ (योगरूढ्यनङ्गीकारेऽपि पङ्कजादिशब्दस्यान्याबोधकत्वोपपत्तिः) एवं पङ्कजादिपदेष्वपि ज्ञेयम् । अथवा पङ्कजनिकर्तृत्वस्यावयवशक्त्या बोधेऽपि तादृशशाब्दबोधं प्रति तादृशपूर्वतरप्रयोगाभावज्ञानस्य अथवा पद्मविशेष्यकपूर्वतरप्रयोगत्वप्रकारकज्ञानस्य प्रतिबन्धकत्वकल्पनान्न पद्मान्यविशेष्यकबोधप्रसक्तिः । अवश्यं हि पद्मे शक्तिवादिनाप्युक्तग्रहस्य शक्तिकल्पकत्वमङ्गीकृत्य तद्ग्रहस्य निरुक्तशाब्दबोधं प्रति प्रतिबन्धकत्वं वाच्यम् । तद्वरमुक्तग्रहस्यैव प्रतिबन्धकत्वं वाच्यमिति सर्वत्रेत्यनेन सूचितम् ॥ (प्राचीनप्रयोगस्य शक्तिज्ञानं प्रति सहकारित्वकल्पना, तन्त्ररत्नकाराणां योगरूढिसाधनप्रकारस्यासाङ्गत्यनिरूपणम्) एवञ्च प्राचीनप्रयोगस्य शक्तिज्ञानं प्रति सहकारित्वेन यत्र नैव सहकारिकारणं, तत्र शक्तिग्रहाभावादेवेतरबोधाभावे स्थिते सति यत्समानाधिकरणे षष्ठे तन्त्ररत्ने "यस्त्वप्रयोगादेवाप्रयोग इति वदन्नेव पद्मादिषु रूढिं नेच्छति, स वक्तव्यः उपपद्यतां नाम पूर्वपूर्वेषामप्रयोगादेवोत्तरोत्तरेषामप्रयोगः- प्रतीतिस्त्वनन्यलभ्या शक्तिमेव कल्पयति । कथं खल्वशक्तात्पङ्कजपदात्पद्मप्रतीतिः? शब्दप्रतिपादितपङ्कजननक्रियायोगवशादिति यदि ब्रूयात्, प्रतिब्रूयादेनमनैकान्तिकत्वादिति । न खलु पद्मैकान्तिकं पङ्कजननम् । यतस्तन्निश्चाययेत् । तस्माच्छब्दशक्तिरेव कल्पयितव्येति । सचेत्ब्रूयात्"सत्यं शब्दादेव पद्मप्रतीतिः । स तु प्रयोगवशादेव तत्प्रत्यापयती"ति न वाचकशक्तिः कल्पनीयेति, प्रतिब्रूयादेनं कथमशक्तः प्रयोगमात्रादेव प्रत्यापयेदिति? प्रसङ्गो हि तथा स्यादिति सर्वे गवादिशब्दाः शक्तिमन्तरेणैव प्रयोगमात्रादेव स्वार्थं प्रत्यापयन्तीति शक्यं वदितुम् । इति रूढिप्रसाधनायोक्तम् । तच्छक्तिं विनास्माभिः प्रयोगवशादेव प्रत्यायकत्वानङ्गीकारान्नास्मन्मते प्रसज्यते इत्यपि ध्येयम् ॥ (पङ्कजशब्दे निरूढलक्षणाङ्गीकार इति पक्षान्तरनिरूपणम्) यदि तु पङ्कजशब्दात्पङ्कजनिकर्तृत्वप्रकारकपद्मविशेष्यकप्रतीतिरनुभवसिद्धेत्युच्येत, तथाप्यस्मिन् पक्षे निरूढलक्षणयैव तत्प्रतीत्युपपत्तेर्न तदनुरोधेन रूढेरवकाश इति न दोषः ॥ एवञ्च यज्युद्भित्पदयोः प्रवृत्तिनिमित्तभेदात्नीलोत्पलयोरिव भिन्नप्रवृत्तिनिमित्तत्वे सत्येकार्थवृत्तित्वलक्षणस्यार्थसामानाधिकरण्यस्याप्युपपत्तिः ॥ (उद्भित्पदशक्यतावच्छेदकत्वस्य फलोद्भेदनकारित्वेऽङ्गीकारे नामधेयानर्थक्यशङ्कासमाधाने) नच उद्भित्पदशक्यतावच्छेदकस्य फलोत्पादकत्वस्य पशुकामपदसमभिव्याहृताख्यातपदादेव पशूत्पादनहेतुना यागेन पशून् भावयेदिति बोधसिद्धेर्नामधेयानर्थक्यम्- पशुकामपदावगतस्यापि फलोद्भेदनहेतुत्वस्य नामधेयेनानुवादात्, तत्फलं चेतरव्यावृत्तिसंकल्पोल्लेखादिकं प्रागेवोक्तम् ॥ अतश्च यथा वाक्यान्तरसिद्धाग्निदेवताकत्वानुवादोऽग्निहोत्रपदेन संकल्पादिफलको न विरुध्यते, तथैव स्ववाक्यगतपशुकामपदावगतफलहेतुत्वानुवादोऽपि नानुपपन्नः ॥ (संज्ञासंज्ञिसंबन्धस्याविधेयत्वनिरूपणपूर्वकं नामत्वेनान्वये लाघववादिनिरूपणम्) अतएव नामत्वे संज्ञासंज्ञिसंबन्धस्यापि विधानात्वाक्यभेदापत्तिः निरस्ता- नाम्नोऽननुष्ठेयत्वेन सामानाधिकरण्यावयवप्रसिद्धिभ्यामेव च सिद्धेस्तत्संबन्धस्याविधेयत्वेन तदप्रसक्तेः । अतएव नामधेयार्थविशिष्टयागविधानेऽपि नामधेयार्थस्य प्रमाणान्तरावगतत्वेन तदंशे विशेषणविधेरकल्पनादेव विशिष्टविधित्वेऽपि सिद्धान्ते लाघवम् । पूर्वपक्षे तु गुणवत्तद्गतलिङ्गसङ्ख्यांशे विशेषणविधिकल्पनाद्गौरवम् । सिद्धान्ते च आख्यातोपात्तसङ्ख्याद्यनुवादकतया विधेयत्वेन लाघवमिति विशेषः । एतेन यद्यौगिकत्वपक्षोपपादनं वार्तिककारीयं पशुकामो यजेतेत्येतावतैव सिद्धत्वात्पशूद्भेदहेतुना पशून् भावयेदिति नामधेयविध्यानर्थक्यापत्तेः प्रौढवादमात्रमिति न्यायसुधाकारोक्तम् ततपास्तम् ॥ (नाम्नोऽविधेयत्वेऽपि धात्वर्थपरिच्छेदकतया विध्युद्देशान्तर्भावनिरूपणम्) अतो नामधेयार्थस्यैवेह धात्वर्थावच्छेदकतया आग्नेयादि साहित्यस्येव स्वरूपतः प्रमाणान्तरावगतानां व्रीह्यारुण्यादीनामिव वा विशिष्टविधिना विधानाद्विध्युद्देशान्तर्गतेरप्युपपत्तेर्नकापि क्षतिः । यद्यपि अज्ञातविशेषरूपज्ञापन एव परिच्छेदकत्वव्यवहारस्यान्यत्र दृष्टत्वात्तस्य चेह शब्दान्तरादिप्रमाणसहकृतविधिनैव सिद्धेर्न नाम्नः परिच्छेदकत्वेन प्रयोजनम्- तथापि ज्ञातेऽपि विशेषे कोऽसाविति जिज्ञासानिवर्तकत्वेनैव तस्य परिच्छेदकत्वव्यवहार इति द्रष्टव्यम् ॥ (नामधेयार्थस्य प्रमाणान्तरसिद्धत्वेऽपि भेदादिज्ञापकत्वेन धर्मप्रामाण्यनिरूपणम्) नच एवं नामधेयार्थस्य प्रमाणान्तरसिद्धत्वेनानूद्यमानत्वादनधिगतार्थगन्तृत्वाभावेन कथं प्रामाण्यसंभवः? इति वाच्यम्- स्वार्थानुवादकत्वेऽपि विद्वद्वाक्ययोरिवानधिगतभेदादिज्ञापकत्वेन तदुपपत्तेः । यत्रापि नामधेयाभावेऽप्यनन्यपरविधिपुनःश्रवणरूपाभ्यासादेव भेदसिद्धिर्यथा "समिधो यजति तनूनपातं यजती"त्यादौ तत्र भेदज्ञापकत्वाभावेऽपि निर्धारितरूपविशेषप्रतिपत्तेर्नामधेयाधीनत्वादज्ञाताथ्रकत्वोपपत्तिः । अतो युक्तं नामधेयत्वेन धर्मे प्रामाण्यम् ॥ (पशूद्भेदनकारित्वेनोद्भित्पदस्य कर्मणि न प्रवृत्तिः किन्तु संज्ञात्वेन रूपेण संज्ञात्वप्रतिपत्त्यर्थयोगाश्रयणमिति सोमनाथीयाशयनिरूपणम्) यत्तु वार्तिकोक्तपक्षान्तरावलम्बनेन सोमनाथेन पशूद्भेदनकारित्वस्य पशुकामपदवदाख्यातादेव सिद्धेर्नामधेयानर्थक्यमाशङ्क्य यदि पशूद्भेदनसाधनत्वेन यागमुद्भित्पदं बोधयेत्तदा वैयर्थ्यं स्यात्, अपितु संज्ञारूपत्वेनोद्भिन्नामकत्वेन यागं प्रतिपादयति । एवञ्च विधिसमभिव्याहृतधातुनैव कर्मविशेषप्रतीतिसिद्धावपि कीदृशोऽसौ कर्मविशेष इत्यपेक्षायामस्मिन् वाक्ये द्रव्यदेवतयोरश्रवणेन द्रव्यदेवताद्युपलक्षणेन यागविशेषप्रतिपादनासंभवादुद्भिन्नामको यागोऽयमिति तद्विशेषप्रतिपादनपरत्वादुद्भित्पदस्य न वैयर्थ्यम्- उद्भित्पदं तु उद्भित्पदेनानभिहितमपि प्रत्यक्षश्रुतत्वमात्रेण स्ववाच्यमन्यस्माद्व्यावर्तयत्विशेषणभावमनुभवति । शब्दोपस्थितस्यैवान्वयबोधविषयत्वमिति नियमस्तु संज्ञाशब्दव्यतिरिक्तविषयः । यद्वा संज्ञाशब्दानां स्वरूपप्रवृत्तिनिमित्तकत्वमिति शाब्दिकोक्तरीत्योद्भिच्छब्दस्यैव स्वरूपबोधकत्वं संभवतीति न काप्यनुपपत्तिः । नच एवं पशूद्भेदनकारित्वस्य वाक्यार्थप्रतीतिविषयत्वाभावात्तदर्थकयोगाश्रयणवैयर्थ्यमिति वाच्यम्- यत्रार्थे यस्य शब्दस्यावयवयोगादिसंभवस्तत्रैव संज्ञात्वं नान्यत्र । अतएव एतादृशशब्दस्यैव संज्ञात्वमिष्यते । अतएव सोमादिशब्दानां सोमेन यजेतेत्यत्र न नामत्वम् । ततश्च संज्ञात्वनिर्वाहार्थमेवोद्भिदादिशब्दानां कर्मणि योगाश्रयणमिति, तद्वैयर्थ्यानवकाशः । अथवा उद्भिच्छब्दः उद्भिच्छब्दाभिधेयत्वेन रूपेण लक्षणया कर्म प्रतिपादयति । सा च लक्षणा योगेन स्वाभिधेयत्वे सति प्रवर्तते नान्यथेति तदर्थं योगाश्रयणम् । लक्षणापि निरूढत्वात्मत्वर्थलक्षणापेक्षया ज्यायसीति न गुणविधिपक्षोक्तदोषप्रसङ्गः । अस्तुवा अवयवयोगं विनापि संज्ञात्वम्, तथापि योगेनोद्भिच्छब्दस्य प्रसक्तगुणविधित्वनिरासमात्रार्थमिव कर्मणि योगसाम्यप्रदर्शनार्थं योगाश्रयणमिति उक्तम् ॥ (योगार्थपुरस्कारेण कस्यापि दोषस्याप्रवृत्तिरित्यादिपूर्वतनमतखण्डनम्) तत्प्रथमे पक्षे पदजन्यपदार्थोपस्थितेरेव वाक्यार्थबोधे कारणत्वेन कॢप्तस्येह त्यागे प्रमाणाभावादन्यथा स्वर्गकामपदाध्याहारस्य विश्वजिद्वाक्येऽग्निमन्त्रे सूर्यपदप्रक्षेपस्योहस्याप्यपलापप्रसङ्गात्, द्वितीये पक्षे शाब्दिकोक्तेर्यत्रावयवार्थसंभवस्तत्र डित्थाश्वकर्णादिशब्दपरत्वादन्यत्राप्रवृत्तेर्यागाख्यानं विनापि डित्थादिशब्देषु संज्ञात्वदर्शनात्यत्रावयवार्थयोगसंभवः तत्रैव संज्ञात्वमिति नियमस्याप्रयोजकत्वेन प्रकृते योगाश्रयणस्य निष्फलत्वापत्तेस्तृतीये उद्भिच्छब्दाभिधेयत्वेन रूपेण लक्षणाश्रयणे मत्वर्थलक्षणाश्रयणेन गुणविधित्वस्य योगार्थसहकृतस्याप्युपपत्तेर्वेदे "सोमेन यजेते" त्यादौ सर्वस्या अपि लक्षणाया निरूढलक्षणात्वेनैवाङ्गीकारे मत्वर्थलक्षणापेक्षया उद्भिच्छब्दाभिधेयत्वलक्षणाया निरूढत्वेन ज्यायस्त्वकथनस्याप्ययुक्तत्वादयुक्तमित्युपेक्षितं पूज्यपादैः ॥ (उद्भित्संज्ञकेन यागेनेत्येवात्र शाब्दबोधः, संज्ञाबोधस्तु लक्षणेयति मतनिरूपणखण्डने) एतेन संभवत्यधिकार्थत्वे न नाम्नः परिच्छेदार्थवर्णनं युक्तम्- किन्तु उद्भित्संज्ञकेन यागेनेति प्रतीतेः संज्ञाविशिष्टयागबोध एवोद्भित्पदादङ्गीकर्तुं युक्तः । नच एवं तर्हि तेषामुद्भिच्छब्दस्वरूपाभिधेयत्वप्रसङ्ग इति वाच्यम्- जातिविशिष्टप्रतीतिजनकानां गवादिपदानां जातिवाचित्वसाधकन्यायेन संज्ञाविशिष्टप्रतीतिजनकानामप्येषां संज्ञावाचित्वाङ्गीकारस्येष्टापत्तिग्रस्तत्वात् । यदि शब्दाभिहितैर्गोत्वादिभिस्तादात्म्यादिना संबद्धविशेष्यलक्षणासंभवेन विशेष्यानभिधानेऽपि संज्ञाशब्दानां शब्दमात्राभिधाने संबन्धाभावेन संज्ञिविलक्षणानुपपत्तेः तद्बोधार्थं संज्ञिन्यपि शक्तिकल्पनायामतिगौरवमाशङ्क्येत, तदास्तु संज्ञांशे लक्षणा । नच एवं सिद्धान्तेऽपि लक्षणायास्तुल्यत्वे किमर्थं मत्वर्थलक्षणायास्त्याग इति वाच्यम्- तस्या विशिष्टविधिगौरवापादकत्वेन हेयत्वात् । अत उद्भित्संज्ञकत्वप्रकारकबोधजनकत्वेनैवोद्भिच्छब्दस्य परिच्छेदकत्वं युक्तमिति केषाञ्चिदुक्तम् अपास्तम्- अनवगते संज्ञात्वे तादृशप्रातीतिजननासंभवात्तदवगमस्य उद्भिद्वाक्यात्प्राक्मानान्तरेणासिद्धेरस्यैव वाक्यस्योद्भिदा यागेनेति नाम्नो यजिसामानाधिकरण्येनान्वयबोधनेन संज्ञात्वाक्षेपकत्वे तेनैव प्रथमजातेनान्वयबोधेन वाक्यपर्यवसाने सति उद्भित्संज्ञकेनेति लाक्षणिकबोधाङ्गीकारस्य निर्युक्तिकत्वात् । एतद्वाक्याधीन सिद्धिकस्य एतत्संज्ञकत्वस्य अस्मिन्नेव वाक्ये सिद्धवन्निर्देशानुपपत्तेश्च । किञ्च यदि शब्देन सहार्थस्य संबन्दाभावान्न संज्ञिनि लक्षणायाः संभवस्तर्हि संज्ञिनार्थेनापि सहशब्दस्य संबन्धो दुर्निरूप एवेति न तेन शब्दलक्षणासंभवः । अतो जातिन्यायवैषम्याभावात्संज्ञायामेव शक्तिः सञ्ज्ञिन्येव लक्षणाऽपद्येत । अतएव संज्ञाशब्दानां वाचकत्वमित्येवं प्रवादोऽपि संगच्छते । तथाच "सोमेन यजेते"त्यत्रापि लाक्षणिकसामानाधिकरण्योपपत्त्या किमिति विशिष्टविधिगौरवाङ्गीकरणम्? यदितु संज्ञिन्यपि विशिष्टशक्तिमङ्गीकृत्य मुख्यमेव सामानाधिकरण्यं, नैवं सोमवाक्ये संभवति- सोमादिपदानां रूढत्वादित्युच्येत, तदा विशिष्टशक्तिकल्पनागौरवापादकनामधेयत्वाङ्गीकारापेक्षया यौगिकत्वेनैव नामधेयत्वं युक्तमाश्रयितुम्, उद्भित्संज्ञकोऽयमिति व्यवहारस्य तावताप्युपपत्तेरतिप्रसङ्गपरिहारस्य पूर्वोक्तविधयैवोपपत्तेः रूढ्यङ्गीकारे प्रयोजनाभावातिति ॥ (रूढ्यैवोद्भिदा यजेतेतिसामानाधिकरण्यमिति भाट्टालङ्कारमततत्खण्डने) यत्तु भाट्टालङ्कारकृता साधुत्वनिर्वाहाय स्वीक्रियमाणस्य योगस्य वाक्यान्तरे स्वानुरूपप्रतीतिजनकत्वेऽपीह रूढ्यैव यागीयविशेषरूपं प्रतिपादयत्युद्भिच्छब्दः, एतद्विधेः प्राक् फलोद्भेदनकारित्वस्यानवगमेन फलोद्भेदनकारित्वप्रकारकबोधस्यासंभवात् । नच वैदिकं कर्म तत्फलसाधनमिति व्याप्तिबलादवगतं सामान्यतः फलोद्भेदनकारित्वं निमित्तीकृत्योद्भित्पदप्रवृत्तिरिति वाच्यम्- वेदविहितत्वात्मकवैदिकत्वस्येतः प्रागसिद्धेः । नच फलसामान्यसंबन्धोऽप्युद्भिद्वाक्यजप्रथमबोधाल्लभ्य इति युक्तम्- उद्भित्पदपशुकामपदे अनपेक्ष्य यजेतेत्यस्याप्रमाणत्वात् । अतोऽत्र न योगेनोद्भित्पदस्य यजिसामानाधिकरण्यम्- अपितु रूढ्यैव इत्युक्तम् । तदपि न- योगे स्वीक्रियमाणे कॢप्तावयवशक्त्यैव तदुपपत्तौ रूढिकल्पने मानाभावात्, इतरथा प्रोक्षणादिशब्दानामपि रूढिकल्पनापत्तेः मत्वर्थलक्षणाभियातिरिक्तरूढिकल्पने सोमादिपदानामपि रूढिकल्पनया नामधेयत्वापत्तेश्च । उक्तं च द्वितीयाद्याधिकरणे गुरुमतखण्डने शास्त्रदीपिकायाम् वरं च मत्वर्थलक्षणाप्रसिद्धार्थकल्पनात्, इतरथा "सोमेन यजेते"त्यत्रापि "सोमपदं नाम स्यादि"ति । अत एव न यत्र योगार्थस्यापि प्रतीतिरनुभवसिद्धा, यथा गोदध्यादिशब्देषु न गमनादेः किन्तु गोत्वादिजातेरेव तत्र योगस्य साधुत्वान्वाख्यानमात्रार्थत्वस्वीकारेण रूढिस्वीकारेऽपि यत्र तस्या अपि संभवस्तत्र तदर्थत्यागेनातिरिक्तरूढिकल्पनं निष्प्रमाणकमेव ॥ (भाविनं फलोद्भेदनकारित्वज्ञानमादायोद्भिच्छब्दस्य प्रवृत्तिनिरूपणपूर्वकं फलोद्भेदकारित्वप्रकारकबोधजनकत्वेनैव नाम्नः धात्वर्थपरिच्छेदकत्वोपसंहारः) नच इतः प्राक्फलोद्भेदनकारित्वबोधासंभवः- अग्निहोत्रं जुहोतीत्येतस्मात्प्राक्कर्मस्वरूपस्यैवाज्ञाने संप्रतिपन्नाङ्गभावस्य मन्त्रवर्णस्य प्राप्त्यभावेऽग्निदैवत्यत्वाज्ञानेऽग्निहोत्रपदादपि तद्बोधासंभवस्य तुल्यत्वात् । अतश्च भाविनं प्रवृत्तिनिमित्तमादाय यथाग्निहोत्रपदस्य नामत्वमेवमिहाप्युपपद्यत एव तत् । अथवा कर्मसामान्यस्यैव लोके फलजनकत्वकॢप्तेः तत्सामान्यगृहीतव्याप्त्यापि अवगतफलोद्भेदनकारित्वबोधजनकत्वेनैव नामधेयार्थस्य धात्वर्थतावच्छेदकत्वमिति प्रागुक्तमेव युक्तमिति संक्षेपः ॥ अधिकरणप्रयोजनं नामधेयप्रयोजनकथनेनैव सूचितम् ॥ इति द्वितीयमुद्भिदादियौगिकशब्दयागनामधेयताधिकरणम् ॥ (भाट्टदीपिका) (३ अधिकरणम् । ) यस्मिन्गुणोपदेशः प्रधानतोऽभिसम्बन्धः । १,४.३ । अत्र गुण एव रूढानां "चित्रया यजेत पशुकामः" "पञ्चदशान्याज्यानि" "सप्तदशानि पृष्ठानि" "त्रिवृद्बहिष्पवमानः" इत्यादौ चित्राऽज्यपृष्ठबहिष्पवमानशब्दानां गुणविधित्वं कर्मनामत्वं वेति चिन्तायां, दध्यादिवद्रूढेषु कर्मनामत्वासंभवाद्गुणविधित्वमेवैषाम् । तत्र चित्रापदे तावत्प्रातिपदिकेन चित्रत्वं स्त्रीप्रत्ययेन च स्त्रीत्वं विधीयते । विधेययोश्च परस्परसाहित्यावगतेर्विधेयसामर्थ्यानुरोधेन प्राणिद्रव्यकयागस्योद्देश्यत्वावगतेः प्रकृतानामपि "दधि मधु घृतं पयो धाना उदकं तण्डुलास्तत्संसृष्टं प्राजापत्य" मित्येतद्वाक्यविहितानां यागानामुद्देश्यत्वासंभवेऽपि सर्वप्रकृतिभूताग्नीषोमीययागोद्देशेन सर्वपशुयागोद्देशेन वा विधीयते । नचानेकगुणविधाने वाक्यभेदः- धेनुर्दक्षिणेतिवदुभयविशिष्टैककारकविधानेनावाक्यभेदात् । एवमाज्यपदेन घृतं पृष्ठपदेन शरीरावयवः । स च सङ्ख्याविशिष्टः प्रकरणा "दाज्यैः स्तुवते" "पृष्ठैः स्तुवते" इत्येतद्वाक्यविहितस्तोत्राङ्गतया यथाक्रमं विधीयते । एवं त्रिवृच्छब्दवाच्यं त्रिभिण्डिद्रव्यं पवनक्रियाविशिष्टं तथैव तद्वाक्येन विधीयते । सर्वत्र द्रव्याणां स्तोत्रसमीपदेशे अदृष्टार्थं स्थापनेनैव स्तोत्रोपकारकता, उत्पतिवाक्येषु तु आज्यादिपदं गुणवाक्यप्राप्तत्वादनुवादः, स्तोत्रमात्रं तु विधीयते इति प्राप्ते (प्रभावली) (अथ चित्रादिशब्दयागनामधेयताधिकरणम्) पूर्वाधिकरणविषयव्यावृत्तविषयमुदाहरति अत्रेति । गुणएवेति ॥ (उद्भित्तत्प्रख्यतद्व्यपदेशविषयव्यावृत्तैतदधिकरणविषयविवेकः) गुणपदे जातिक्रियायोगयोरप्युपलक्षणे । तेन घृतजातिवचनाज्यपदस्य शरीरावयववाचकपृष्ठपदस्य पवनक्रियायोगनिमित्तबहिष्पवमानादिशब्दानामपि संग्रहः । एवकारेण कर्मण्यपि संभवद्वृत्तिकानां यौगिकानामनुदाहरणत्वसूचनेन पूर्वाधिकरणाप्रवृत्तिरुक्ता । यद्यपि पवमानशब्दः पवनक्रियाकर्तरि यौगिक इति पूर्वाधिकरणविषयत्वान्नेहोदाहर्तुं युक्तः- तथापि "सर्वत्र यौगिकैः शब्दैर्द्रव्यमेवाभिधीयते" इति न्यायेन पवनक्रियाकर्तरि द्रव्य एव योगेन रूढत्वात्स्तोत्रे च पवनक्रियाकर्तृत्वासंभवातुद्भिच्छब्दवदुभयत्र तुल्यवद्वृत्तित्वाभावेन नामत्वानुपपत्तेर्न पूर्वाधिकरणविषयत्वमित्युदाहरणत्वोपपत्तिः । यद्यपि तत्प्रख्यतद्व्यपदेशन्याययोरपि जात्यादिवचनानामेवोदाहरणत्वम्- तथापि यत्र तन्न्याययोरप्रवृत्तिस्तेषामिहोदाहरणत्वे कल्प्यमाने दधिसोमादिपदानामपि तन्न्यायाविषयाणामुदाहरणतापत्तिस्तद्वारणाय यस्मिन्वाक्ये जातिगुणवाचकशब्दानामुपादाने सति प्रसक्तवाक्यभेदपरिहारो नामत्वेन विना न संभवति तेषामिहोदाहरणत्वमित्यपि ज्ञेयम् । अत एव "दध्नेन्द्रियकामस्ये" ति वाक्ये वाक्यभेदसंभावनायामपि तस्य विनैव नामतया परिहर्तुं शक्यत्वान्नोदाहरणत्वम् । तथाच तत्प्रख्यतद्व्यपदेशन्यायाविषयाणां जात्यादावेव निरूढानां नामतामात्रकृतप्रसक्तवाक्यभेदपरिहारवद्वाक्यगतानां शब्दानामिहोदाहरणत्वमिति भावः । तानेव शब्दान् वाक्यगतत्वेन दर्शयति चित्रयेति ॥ (आज्यैः स्तुवते इत्याद्युत्पत्तिवाक्यगताज्यादिपदपरित्यागेन गुणवाक्यगतस्योदाहरणत्वेन निर्देशे निमित्तनिरूपणम्) यद्यपि "आज्यैः स्तुवते" "षष्ठैः स्तुवते" इत्याद्युत्पत्तिवाक्यगतानामप्येषां शब्दानां विचारविषयत्वं संभवति । स्तोत्रादिसमानाधिकरणतृतीयान्तपदाभिधेयत्वेन नामताकोटेः तत्र संभवोऽधिकोऽप्यस्ति- तथापि तेषामनुदाहरणत्वं स्वयमेवाशङ्कानिरासव्याजेनादूर एव दर्शयिष्यतेऽतस्तान्युपेक्ष्य "यस्मिन् गुणोपदेश" इति सूत्रावयवानुरोधेन गुणवाक्यगतानामेवोदाहरणत्वं दर्शितम् ॥ (उद्भिदधिकरणेन चित्राधिकरणस्य प्रत्युदाहरणसंगतिः) क्वचिदप्यप्रसिद्धतया सन्दिग्धार्थानां पदानां सामानाधिकरण्यान्नामतानिर्णय इत्येवंरूपपूर्वाधिकरणन्यायात्ययेन पूर्वपक्षिप्रत्यवस्थानात्प्रत्युदाहरणरूपामनन्तरसंगतिं स्पष्टत्वादनुक्त्वा पूर्वपक्षमाह दध्यादिवदिति ॥ (चित्रादिपदार्थनिर्णयः) चित्राशब्दो रूपत्वव्याप्यावान्तरजातिरूपचित्रत्वगुणत्वावच्छिन्ने गुणे रूढः । आज्यशब्दो घृतजातौ । पृष्ठशब्दः शरीरावयवजातौ । पवमानशब्दः पूर्वोक्तरीत्या द्रव्ये रूढ इत्यर्थः ॥ (चित्रत्वस्त्रीत्वोभयविधिसामर्थ्येन प्राणिद्रव्यकयागोद्देश्यत्वावगति निरूपणम्) विधेयसामर्थ्यानुरोधेनेति ॥ यथैव "यस्योभावग्नी अभिनिम्रोचेतां पुनराधेयमस्य प्रायश्चित्ति" रिति वाक्ये हविरार्त्यधिकरणन्यायेन निमित्तविशेषणस्योभयत्वस्याविवक्षयान्यतराग्न्यनुगमनेऽपि प्रायश्चित्तप्राप्तावपि विधीयमानस्याधानास्याग्निद्वयोत्पादकत्वसामर्थ्यादेवोभयाग्न्यनुगमनस्यैव निमित्तत्वान्नान्यतराग्न्यनुगमने तत्प्राप्तिरिति षष्ठे सिद्धान्तयिष्यते, तेन न्यायेन विधेययोः चित्रत्वस्त्रीत्वयोरारुण्यादिवत्द्रव्यवृत्तित्वप्रतीत्या विधेयस्य चित्रत्वस्त्रीत्वावच्छिन्नकरणत्वस्याप्राणिनिमुख्यतया निवेशायोगाद्विधेयसामर्थ्यानुरोधेन प्राणिद्रव्यकस्यैवेहापि उद्देश्यत्वावगतेस्तदुद्देशेनैव चित्रत्वस्त्रीत्वविशिष्टकरणत्वविधानम् । अतएव प्रकृते दध्यादियागे चित्रत्वविधाने आनर्थक्यतदङ्गन्यायेन दध्यादिद्रव्येषु अवताराद्विचित्रवर्णैर्दध्यादिभिर्याग इति प्रकृतयागे तद्विधानमित्यपि निरस्तम्- पशुकामपदान्वयानुपपत्तेश्च ॥ (दधिमध्वादिवाक्ये एकयागत्वपक्षनिरासः) यागानामिति ॥ बहुवचनेनाष्टमाद्यपादाधिकरणवार्तिकस्वारस्येन सङ्ख्याधिकरणे यो न्यायसुधाकृतैकयागपक्ष उक्तः, स निराकृतः । तस्योपपादनपूर्वकं निराकरणं च कौस्तुभे द्रष्टव्यम् । अतो द्वादशाधिकरणवार्तिकोक्तोऽनेकयोगपक्ष एव श्रेयानिति सूचितम् । एवञ्च "प्रकरणं च बाध्येत प्राजापत्ययागस्ये" त्येतत्सिद्धान्तवार्तिकगतं "प्रकृतो यागः फलतया विधीयत" इति शास्त्रदीपिकागतं चैकवचनं यागत्वसामान्याभिप्रायेण व्याख्येयमिति भावः ॥ (अग्नीषोमीयपशौ पुंस्त्वकृष्णसारङ्गाद्यनवरोधनिरूपणपूर्वकं तत्र चित्रत्वस्त्रीत्वयोर्निवेशोपपादनं प्राचामनुरोधेन) यद्यपि प्राणिद्रव्यकयागस्योद्देश्यत्वम्, तथापि कथं न प्रकृतिविकृतिसाधारण्येन प्राणिद्रव्यकयागमात्रे विधानमित्याशङ्कानिरासाय सर्वप्रकृतिभूतेत्युक्तम् । सौत्यस्यैकादशिनीप्रकृतित्वेऽपि एकादशिनीनां च पशुगणप्रकृतित्वेऽप्यग्नीषोमीयस्य "दैक्षस्य चेतरेष्वि"त्याष्टमिकन्यायात्सर्वप्राणियागप्रकृतित्वावगमेन तत्रैव "प्रकृतौ वाद्विरुक्तत्वा" दिति तार्तीयन्यायेन निवेशो न विकृत्यन्तरेष्वित्यर्थः । नच प्राकरणिकपुंस्त्वकृष्णसारङ्गत्वादिगुणान्तरावरोधान्नानारभ्याधीतयोश्चित्रत्वस्त्रीत्वयोरग्नीषोमीये निवेशसंभव इति वाच्यम्- उत्पत्तिवाक्यगतपशुपदे स्त्रियामपि पशुशब्दप्रयोगेण पुंस्त्वस्याविवक्षितत्वात् । "छागस्य वपाया"मिति मन्त्रे श्रुतस्यापि पुंस्त्वस्यानारभ्याधीतेनापि प्रत्यक्षविधिविहितेन स्त्रीत्वेनावरोधेन विधिकल्पनानुपपत्तेः छान्दसतया परिहर्तुं शक्यत्वात् । कृष्णसारङ्गादिविधेरपि चित्रत्वाश्रयतया पक्षप्राप्तकृष्णसारङ्गादिरूपनियमार्थतयाप्युपपन्नत्वेनाविरोधेपपत्तेश्च । अतो युक्त अग्नीषोमीये तयोर्निवेशः ॥ एवं तावत्प्राचां रीत्याग्नीषोमीयपशुयागमात्रे निवेश इति पूर्वपक्षमुपपाद्याधुना स्वातन्त्र्येण पक्षान्तरमाह सर्वपशुयागेति ॥ (द्विरुक्तत्वाद्यभावनिरूपणपूर्वकं चित्रत्वस्त्रीत्वयोः सर्वपशुसंबन्धनिरूपणम्) अयं भावाः यथैवहि "आश्रावये"त्यादिसप्तदशाक्षराणां प्रजापतिसंज्ञानाऽमेष वै सप्तदशः प्रजापतिर्यज्ञमन्वायत्तऽ मितिविधिना साक्षाद्यज्ञमात्रोद्देशेन विधानेऽपि न प्रकृतावेव निवेशः-तिदेशात्पूर्वमुपदेशप्रवृत्तावतिदेशकल्पनस्यैवाभावेन द्विरुक्तत्वाभावात् । अत एव पर्णतादौ जुहूद्देशेन विधाने सति तत्प्राप्त्यर्थमतिदेशापेक्षणात्ततः पूर्वं प्रवृत्त्यभावेन प्राप्तिकालवैषम्यात्द्विरुक्तत्वोपपत्तिरिति वैषम्यम् । तथैवेहापि साक्षाद्यागमात्रोद्देशेन चित्रत्वस्त्रीत्वयोर्विधाने द्विरुक्तत्वाभावात्प्रकृतिसाधारण्येन प्राणिद्रव्यकयागमात्रोद्देशेन नायुक्तं तद्विधानम् । अत एव सर्वपशुयागेषु पशोरुपदिष्टत्वान्नात्र पशुरूपद्वारसंबन्धार्थमप्यतिदेशापेक्षा ॥ (चित्रत्वस्त्रीत्वयोर्वायव्यपश्वतिरिक्तविषयत्वस्य कौस्तुभोक्तरीतिखण्डनपूर्वकं निरूपणम्) एवं स्थिते यत्र "वायव्यंश्वेत" मित्यादौ पशोरप्यतिदेशस्तत्र द्विरुक्तत्वप्रसङ्गात्तत्साधारण्येनैतद्विधानासंभवेऽपि यत्रा "ग्नेयं सवनीयं पशुमुपाकरोती"त्यादौ द्रव्यदेवतासंबन्धव्यतिरेकेण यागस्यैवासिद्ध्या द्रव्योपदेशावश्यंभावः, तत्र प्राप्तिकालवैषम्यभावात्तादृशविकृतिसाधारण्येनैतद्विधानं नानुपपन्नमिति यत्पूज्यपादैः कौस्तुभे उक्तं, तद्वायव्यवाक्येऽपि द्रव्यदेवतासंबन्धव्यतिरेकेण यागासिद्धेस्तुल्यत्वेन तत्रापि श्वेतद्रव्यसामान्यसंबन्धेनैव यागस्य कल्पनानुरोधेन श्वेतस्यैव प्रथमतो द्रव्यत्वेनान्वयस्यावश्यवक्तव्यत्वादतिदेशप्रवृत्तेः पूर्वमेवोपदेशेन चित्रत्वस्त्रीत्वयोस्तत्परिच्छेदकत्वेनान्वयोपपत्तेः किं तच्चित्रस्त्रीरूपं श्वेतं द्रव्यमिति विशेषाकाङ्क्षयैव पश्वतिदेशकल्पनात्समानमिति कथमिव युक्तमिति चिन्त्यम् । अतो वायव्यवाक्ये श्वेतमित्युत्पत्तिशिष्टश्वेतगुणपुंस्त्वानुरोधादेव चित्रत्वस्त्रीत्वयोर्निवेशो न संभवतीत्येव समाधेयम् ॥ (विरोध्यनाक्रान्तसर्वविकृतिपशुयागेषु चित्रत्वस्त्रीत्वयोर्निवेशोपसंहारः) एवं चैतादृशविरोध्यन्तरं यस्यां विकृतौ तत्र निवेशासंभवेऽपि यस्यां न तत्तादृशसर्वपशुद्रव्यकयागमात्रोद्देशेन तद्विधानमिति द्वितीयपक्षनिष्कर्षः । नच कॢप्तोपकारातिदेशप्राप्तपाञ्चदश्यावरोधेनानारभ्याधीतसाप्तदश्यस्य सर्वविकृतिषु निवेशासंभववदिहापि कॢप्तोपकारकृष्णसारङ्गावरोधे कथं तयोर्निवेशः? इति वाच्यम्- पूर्वोक्तरीत्या विरोधाभावात्, प्रकरणानधीतस्य शरादेः कॢप्तोपकारातिदेशिकबाधकत्ववदनारभ्याधीतस्यापि आनर्थक्यप्रतिहतन्यायेनातिदेशिक बाधकत्वोपपत्तेश्च । अन्यथा य इष्ट्येतिवाक्यावगतस्य सद्यः कालत्वस्यापि प्राकृतत्र्यहकालत्वावरोधाद्विकृतिषु निवेशानापत्तेः ॥ अतो युक्तं विकृतावपि तद्विधानम् ॥ (मेषीयागे चित्रत्वस्त्रीत्वविधिशङ्का तत्र सोमनाथीयपरिहारतत्खण्डनादिकम्, सर्वपशुयागेषु तद्विधानेऽपि वाक्यभेदाभावनिरूपणम्) ननु यागानुवादेनोभयगुणविधाने विध्यावृत्तिलक्षणवाक्यभेदापत्तिः, अतो यत्र मेषीयागे स्त्रीत्वं प्राप्तं, तत्रैव चित्रत्वमात्रविधानेन तदप्रसक्तेस्तद्विकृतिमात्र एव निवेशापत्त्या नाग्नीषोमीये सर्वपशुयागे वा निवेशपूर्वपक्षो युक्तः । यत्तु अत्र स्त्रीत्वप्राप्त्या मेषीयागरूपविकृतौ तद्विधानम्, अथवा "अदित्यै त्रयो रोहितैता" इति वाक्यविहितविकृतौ चित्रत्वप्राप्त्या स्त्रीत्वस्य विधानमिति विनिगमनाविरहापादनं सोमनाथदीक्षितस्य, तदयुक्तम्- अदितियागे उत्पत्तिशिष्टपुंस्त्वावरोधे तन्निवेशासंभवस्यैव नियामकत्वात् । अतः कथमग्नीषोमीये सर्वपशुयागे वा चित्रत्वस्त्रीत्वविशिष्टकरणत्वस्यैकस्यैवैकपदोपात्तस्य विधाने विध्यावृत्तेरप्रसक्तेरवाक्यभेदः? यद्यपि कारकस्याप्युत्पत्तिवाक्यादेव प्राप्तत्वात्तद्विशिष्टविध्यसंभवे तदनुवादेनोभयविधाने वाक्यभेदतादवस्थ्यम्- तथापि तत्र द्रव्याश्रितायास्तस्याः प्राप्तत्वेऽपि चित्रत्वस्त्रीत्वनिष्ठकरणतयोरप्राप्तत्वेन विध्युपपत्तिः । द्रव्यगुणादीनां व्यापारभेदेन स्वरूपसंबन्धविशेषरूपाणां शक्तिरूपपदार्थान्तररूपाणां वा करणतानां भेदस्यावश्यकत्वात् । अत एव अनेकासामपि करणतानामेकया तृतीययोपादानेन युगपदुपस्थितेर्न वाक्यभेद इति भावः ॥ (प्रकृतौ स्त्रीत्वमात्रविधानमितिसोमानाथमतखण्डनपूर्वकं प्राचीनमतव्यवस्थापनम्) यत्तु अत्र कृष्णसारङ्गत्वादिना प्रकृतौ चित्रत्वस्य प्राप्तत्वात्स्त्रीत्वमात्रविधानेनापि वाक्यभेदपरिहारसंभवोपपादनं सोमनाथस्य, तत्चित्रत्वविध्यभावे कृष्णसारङ्गत्वादिविधेरनपेक्षितापूर्वविधित्वापत्तेस्तदपेक्षयोक्तप्रकारेण वाक्यभेदपरिहारेण चित्रत्वस्यापि विधिमङ्गीकृत्य कृष्णसारङ्गविधेरपेक्षितनियमविधित्वस्वीकारस्यैव युक्तत्वेन ततश्चित्रत्वप्राप्त्युपपादनेन वाक्यभेदपरिहारसंभवकथनस्यायुक्तत्वादुपेक्ष्यम् । अतो विशिष्टकारकविध्यङ्गीकारेण प्राचामभिमत एव तत्परिहारो युक्तः ॥ (प्राचीनमतेनापि फलसंबन्धस्यापि बोधनेन वाक्यभेदशङ्कापरिहारपूर्वकचित्रापदगुणपरत्वोपसंहारः) नच एवं फलसंबन्धस्यापि यागे विधानाद्विरुद्धत्रिकद्वयापत्तिर्वाक्यभेदो वा दुष्परिहरः इति वाच्यम्- पशुकामपदस्य साधनभूतपश्वर्जनकामनानुवादकतयाविधेयत्वेन तदप्रसक्तेः । अत्र च मेषीयागे वा प्रकृते धानायागे वा चित्रत्वविधानमिति प्रकारान्तरेण पूर्वपक्षकरणं कौस्तुभे द्रष्टव्यम् ॥ एवं चित्रापदस्य गुणविधिपरत्वमुपपाद्याज्यादिपदानां तत्परत्वमुपपादयति एवमिति ॥ (आज्यपृष्ठवाक्ययोः पूर्वपक्षानुगुणवाक्यार्थानुष्ठानयोर्निरूपणम्) अयमर्थः आज्यपृष्ठवाक्ययोः "अस्तिर्भवन्तीपरः प्रथमपुरुषोऽप्यप्रयुज्यमानोऽप्यस्ती" त्यनुशासनेनाभ्यनुज्ञातस्यासिधातोः प्रथमपुरुषबहुवचनान्तस्याध्याहारात्तस्य चाप्राप्तत्वेन विधिकल्पनया पञ्चदशसङ्ख्याविशिष्टाज्यसत्ता प्रकरणात्स्तोत्राङ्गतयाविधीयते । यद्यपि स्वव्यापारे विधिना पुरुषो नियुज्यत इति न्यायाद्विधिः पुरुषव्यापाररूपां भावनामाक्षिपति, तस्याश्च निरवच्छिन्नाया व्यापारत्वायोगादवच्छेदकार्थापेक्षायां सत्तायाः प्रयोज्यनिष्ठत्वेन पुरुषव्यापारत्वाभावादवच्छेदकत्वानुपपत्तिः- तथापि अवान्तरप्रकरणावगतस्तोत्राङ्गत्वबलेन प्रधानदेशस्थत्वावगतेः तस्य च समीपस्थापनसंपाद्यत्वेन स्थापनाख्यधात्वर्थस्यैव तदवच्छेदकत्वं कल्प्यते । अतश्चास्मिन् "अग्निमुपधाय स्तुवीते"तिवत्स्थापनसंपाद्यसत्ताद्वारेणाज्यादीनां स्तोत्रोपकारकता पृष्ठविधया न विरुध्यते- सांसिद्धिकद्रव्यत्वाच्चाज्यादीनां स्वरूपेण संख्यान्वयानुपपत्त्या तावत्सङ्ख्याकामत्रभेदस्याक्षेपात्पञ्चदशस्वमत्रेषु घृतानि स्तोत्रानुष्ठानकाले स्थापनीयानीत्यनुष्ठानम् । एवं पराङ्मुखसप्तदशप्राणिस्थापनेन पृष्ठस्तोत्रं संपाद्य स्तोतव्यमिति ॥ (पञ्चदशाज्यविधाने स्तोमे डविधिविरोधोपपादनम्) नच "स्तोमे ड विधिः पञ्चदशाद्यर्थे" इत्यनुशासनशिष्टडप्रत्ययान्तपञ्चदशादिशब्दानां स्तोत्रीयर्क सङ्ख्याकृतस्तुतिसङ्ख्यावाचित्वम्- ऋचोऽपि तत्र प्रवेशे प्रयोजनाभावेनाज्यादिगतत्वेनापि सङ्ख्याविधानोपपत्तेः । यदि तु पश्वेकत्वाधिकरणपूर्वपक्षन्यायेन सङ्ख्याविशिष्टद्रव्यविधाने सङ्ख्याया अविवक्षापत्तिराशङ्क्येत, तदा कौस्तुभोक्तरीत्या सङ्ख्याद्रव्योभयविशिष्टस्थापनभावनाया एव स्तोत्रोद्देशेन विधानमस्त्विति । एवमिति ॥ (त्रिवृद्बहिष्पवमानशब्दयोः त्रैगुण्यवाय्वादिपरत्वखण्डनपूर्वकं पवनक्रियाविशिष्टद्रव्यवाचित्वव्यवस्थापनम्) अत्र प्रकाशकारैः पवमानशब्दो यौगिको विशेष्यापेक्षः सन् प्रकरणात्सोमेनैव विशेष्येण संबध्यते, त्रिवृच्छब्दस्तु तृचत्रयानुक्रमणात्स्तोत्रीयानवकवाचित्वेन त्रिवृच्चर्वश्ववालाधिकरणे स्थापितोऽपि पवमानशब्दसामानाधिकरण्यादत्र स्तोत्रीयानवकवाचित्वत्यागेन त्रिवृद्रज्जुरित्यादौ त्रैगुण्येऽपि प्रयोगादवयवयोगेन त्रैगुण्यार्थकत्वस्याप्यवगतेरिह त्रैगुण्यपरः । त्रैगुण्यं च प्रकरणाद्दशमुष्टिपरिमाणसोमपरिमाणापेक्षयेति सदसो बहिः पवमानक्रियाविशिष्टत्रिगुणसङ्ख्यायुक्तसोमद्रव्यस्यैव पूर्ववद्विधानमित्युक्तं तन्निरसितुं त्रिभिण्डिद्रव्यमित्युक्तम् । तस्यायमर्थः रूढ्या त्रिभिण्ड्यपरपर्यायलतावचनत्वसंभवे यौगिकार्थग्रहणे प्रमाणाभावः । अत एव यत्र रूढिबाधस्तत्रैवावयवार्थग्रहणम् । त्रिवृद्रज्जुरित्यादौ रज्जुसामानाधिकरण्यस्य यद्यपि योगेनैवोपपत्तेर्न रूढिकल्पनम्- तथापीह सापेक्षार्थग्रहणापेक्षया निरपेक्षार्थग्रहणमेवोक्तम् । पवमानशब्दस्य विशेष्यापेक्षायां स्ववाक्योपात्तविशेष्यलाभे संभवति प्राकरणिकविशेष्यकल्पनमयुक्तं च । एतेन त्रिवृच्छब्दपवमानशब्दयोः त्रैगुण्यवायुपरत्वमङ्गीकृत्य व्यजनादिना सदसो बहिर्वायुः कार्य इति पूर्वपक्षेऽनुष्ठानमिति सोमनाथोपन्यस्तं मतान्तरमपि निरस्तम्- अतो न्यायसुधाकृदुक्तरीत्या त्रिभिण्डिद्रव्यमेव पवनक्रियाविशिष्टं विधीयत इत्येव युक्तमिति ॥ पूर्वपक्षेऽपि लाघवं दर्शयति स्तोत्रमात्रन्त्विति ॥ (आज्यैः स्तुवते इत्यादौ आज्यादिपदसार्थक्यादिना पूर्वपक्षोपसंहारः) आज्यपदं तु एकस्तोत्रसंबन्धित्वेनाज्यमन्त्रयोः परस्परसंबन्धावगमात्स्वसंबन्धितया लक्षितमन्त्रगतकरणस्यानुवादमात्रमिति भावः । यद्यपि संख्यायुक्तवाक्ये विशिष्टविधिकृतगौरवमधिकमस्ति- तथापि रूढ्यनुरोधेन सोमादिवाक्ये लक्षणापादकविशिष्टविधेरप्यङ्गीकारे तदनापादकविशिष्टविधेरङ्गीकरणं नायुक्तमिति भावः ॥ (अग्नीषोमीयादौ वाक्यभेदापत्त्या पुंस्त्वावरोधेन पुनः स्त्रीत्वविधानायोगाच्च चित्रत्वस्त्रीत्वविधानासंभवादिना सिद्धान्तोपपादनम्) यद्यपि तृतीयोपात्तं करणत्वमात्रं विधीयते इति शक्यते वक्तुम्- तथापि स्त्रीत्वस्य यद्व्यापारेण करणता तद्व्यापारेणैव पुंस्त्वस्य प्रकृतौ "अजोऽग्नीषोमीय" इत्यादिवचनावगतपुंस्त्वविधिबलादेव तत्करणत्वस्य प्राप्तत्वात्चित्रयेत्यत्रैकयैव तृतीयया करणत्वमनूद्य प्रत्ययांशेन स्त्रीत्वविधिः, प्रातिपदिकांशयुक्तया च तया चित्रत्वविशिष्टकरणत्वविधिरिति विधेयानामेकाभिधानप्रतिपाद्यत्वाभावात्वाक्यभेदापत्तिरनिवार्यैवेत्यभिप्रायेण पूर्वपक्षे वाक्यभेदमापाद्य सिद्धान्तमाह प्राप्तेति ॥ अस्तुवा कथञ्चित्करणभेदः- तथापि प्रकृतौ पुंस्त्वावरोधान्न स्त्रीत्वविधिसंभव इत्याह अग्नीषोमीय इतीति ॥ पूर्वपक्ष्युपपादितपुंस्त्वप्रापकप्रमाणाभावनिरासार्थं "अजोऽग्नीषोमीय" इति शाखान्तरीयवाक्योपन्यासः कृतः । एतच्च पशुकामपदानुपपत्तिप्रकृतदध्यादियागप्रकरणबाधापत्त्योरप्युपलक्षणम् । अतएव मेषीयागधानायागयोरपि तद्विधानं निरस्तम् । चित्रावाक्ये नामधेयत्वमुपसंहरति अत इति ॥ (चित्रापदे निरूढलक्षणया नामधेयपरत्वोपपादनम्) नामधेयत्वपक्षे स्वतन्त्ररूढिकल्पनापत्तिं निरस्यति विचित्रद्रव्यकत्वेनेति ॥ नास्माभिश्चित्राशब्दे रूढिरङ्गीक्रियते- किन्तु चित्रद्रव्यकत्वसंबन्धेन वैदिकप्रचुरप्रयोगात्दर्शनादिपदेष्विव निरूढलक्षणेति । अत्र च न बहुद्रव्यतयैव चित्रद्रव्यकत्वं विवक्षितम्, किन्तु द्विद्रव्यतयापि । अत एव तैत्तिरीयशाखायां "चित्रया यजेत पशुकाम इयं वै चित्रे" त्युपक्रम्य आम्नातानां पुरोडाशचरुद्रव्यकाणामाग्नेयत्वाष्ट्रादिसप्तयागानां चरुपुरोडाशद्रव्यतामात्रेणैव चित्रापदनामकत्वसिद्धिः । द्रव्यद्वयेनापि संप्रतिपन्नदेवताकत्वाभावेन पृथग्यागानामनुष्ठानेऽपि चित्रद्रव्यकत्वोपपत्तेः इति भावः ॥ स्त्रीप्रत्यय इति ॥ एकवचनात्तस्यापि राजसूयपदस्येव समुदायाभिप्रायेणोपपत्तेरप्येतदुपलक्षणम् ॥ (भाट्टदीपिका) प्राप्तकर्मानुवादेन चित्रत्वस्त्रीत्वरूपानेकगुणविधाने वाक्यभेदात्करणत्वस्यापि पशुगतस्य प्राप्तत्वेनाविधेयतयोभयविशिष्टकारकविध्ययोगात्"अजोऽग्नीषोमीय" इति वचनेन विहितप्राकरणिकपुंस्त्वावरोधेन स्त्रीत्वस्य विध्ययोगाच्च न गुणविधिः । अतः प्रकृतानामेव यागानां विचित्रद्रव्यकत्वेन लक्षणया चित्रापदं नामधेयम् । इष्ट्यभिप्रायेण च स्त्रीप्रत्ययः । एवमाज्यादिपदेष्वपि असमस्तत्वेन विशिष्टस्याव्युत्पन्नत्वात्प्राप्तस्तोत्रानुवादेन द्रव्यसङ्ख्याद्यनेकगुणविधौ वाक्यभेदः । न च उत्पत्तिवाक्य एव द्रव्यविशिष्टस्तोत्रविधिरितरत्र तु सङ्ख्यामात्रविधिरस्त्विति वाच्यम्- घृतादीनां स्तोत्रे करणत्वासंभवेन विशिष्टविध्ययोगात्, पञ्चदशानीत्यादिस्तुतिगतऋक्सङ्ख्यारूपस्तोमवाचि डप्रत्ययस्य गुणविधित्वेऽनुपपत्तेश्च । अत आज्यादिपदं वाक्यद्वयेऽपि शक्त्यैव स्तोत्रनामधेयम् । आज्यादिपदाभिधेयस्तोत्रानुवादेन च गुणवाक्ये सर्वत्र सङ्ख्यामात्रविधिः । आज्योत्पत्तिवाक्ये च तत्संज्ञकानि चत्वारि स्तोत्राणि-ऽगमकसहकृतबहुवचनेन तावत्त्वावगमात् । एवं पृष्ठोत्पत्तिवाक्येऽपि षटनुष्ठेयानि तु, नियतानि चत्वारि- आद्ययोर्द्वयोर्बृहद्रथन्तरयोरन्त्ययोश्च नौधसश्यैतयोर्वचनेन विकल्पविधानात् । यथाचात्र तत्तद्दूषणानां निरासो मतान्तरदूषणानि च, तानि कौस्तुभे द्रष्टव्यानि ॥ ३ ॥ १९ ॥ इति तृतीयं चित्रानामताधिकरणम् । (प्रभावली) (पञ्चदशान्याज्यानीत्यत्र विशिष्टस्याव्युत्पन्नत्वेन वाक्यभेदापत्त्या, आज्यैः स्तुवते इत्यत्रापि आज्यानां स्तुत्यनन्वयित्वेन विशिष्टविध्यसंभवेन चाज्यपदनामधेयत्वव्यवस्थापनम्) सर्वेषां कारकाणां भावनायामेवान्वयनियमस्य समासे एकार्थीभावलक्षणसामर्थ्यापेक्षितत्वनियमानुरोधेन त्यागेन परस्परान्वयस्वीकारेऽपि तदभावे परस्परान्वयस्याव्युत्पन्नत्वेन वैशिष्ट्यायोगाद्विशिष्टविधानानुपपत्तेर्वाक्यभेदापत्तिमाज्यादि वाक्येष्वपि दर्शयति एवमिति ॥ अवाक्यभेदमाशङ्क्य निराकरोति नचेति ॥ घृतादीनामिति ॥ अयमर्थः शब्दैकसाध्यगुणिनिष्ठगुणाभिधानरूपस्तुतिं प्रति न घृतादीनां करणत्वं संभवति । अत एव "सोमेन यजेते"ति वन्मत्वर्थलक्षणयापि नाज्यानां स्तोत्रसंबन्धः । नचाज्यानामपि सन्निधिस्थापनमात्रेण स्मारकत्वाद्रथ घोषादिवत्करण्त्वोपपत्तिः- आज्ञादानाख्योपाकरणे नेत्रकरादिव्यापारस्यापि लोके करणत्वदर्शनात्रथघोषस्य करणत्वसंभवेऽपि स्तुतावन्यत्राकॢप्तस्य करणस्य कल्पनेऽदृष्टार्थत्वापत्तेः । नचाज्यपदेन लक्षितघृतसंबन्धिमन्त्राणां तत्करणत्वोपपत्तिः- मन्त्रेषु स्थापनाख्यघृतसंबन्धस्य प्रमाणान्तरेणाप्राप्तेः । प्रकाशकत्वेन च तत्संबन्धस्य प्राप्त्या तेषां विधाने प्राकरणिकमन्त्रबाधापत्तेरिति । घृतसंबन्धिमन्त्राणां करणत्वे दूषणान्तरमप्याह पञ्चदशानीति ॥ याज्ञिकानां प्रचुरप्रयोगात्स्तोत्रीयऋग्गतसङ्ख्यावाचित्वेनैवावगतस्य स्तोमशब्दस्य स्तोत्रसाधनमात्रवृत्तिसङ्ख्यापरत्वकल्पनेप्रमाणाभाव इत्यर्थः ॥ (स्तोत्रभावनानुवादेनसङ्ख्याद्रव्यविशिष्टभावनाविधानशङ्कातत्परिहारपूर्वकाज्यवाक्यसिद्धान्तोपसंहारः) यद्यपि स्तोत्रभावनानुवादेऽपि प्रयाजादिभावनान्तरस्येवेह सङ्ख्याद्रव्यविशिष्टभावनान्तरविधानेऽपि शक्यते वाक्यभेदः परिहर्तुम्, पश्चाच्च द्रव्यसङ्ख्ययोररुणैकहायन्योरिव परस्परापेक्षया परिच्छेद्यपरिच्छेदकभावकल्पनान्न दोषः, तथापि भावनाया अवच्छेदकधात्वर्थं विना विधातुमशक्तेः सत्तायाश्च प्रयोज्यनिष्ठत्वेन प्रयोजकव्यापाररूपभावनावच्छेदकत्वासंभवात्पृथक्करणस्य सङ्ख्यासंपादकत्वेनाज्यविषयकव्यापारत्वायोगात्स्थापनस्य प्रकरणावगताङ्गभावोत्तरकल्प्यस्य व्यापारविशेषग्राहिकथंभावाकाङ्क्षालक्षणप्रकरणेन ग्रहणस्य निर्व्यापारेऽसंभवेनाङ्गत्वस्यै वानवगतेरन्योन्याश्रयग्रस्तत्वादयुक्तमवच्छेदकत्वकल्पनमिति वाक्यभेदापत्तेः सर्वथापरिहारं मत्वा सिद्धान्तमुपसंहरति अत इति ॥ (शक्यसंबन्धाभावादाज्यपदे शक्तेः अन्यत्र पवमानादिपदे तत्संभवाल्लक्षणायाश्च भाष्यवार्तिकाविरोधनिरूपणपूर्वकोपपादनम्) यतः पञ्चदशादिवाक्ये न विशिष्टविधिसंभवोऽत आज्याद्यनुवादेन व्यक्तं सङ्ख्याविधिः । स च आज्यानां प्राप्तौ संभवति । सा च प्राप्तिरुत्पत्तिवाक्ये आज्यपदस्य वाक्यभेदभिया रूढिपरित्यागेन नामधेयत्वे उपपद्यते । अतो वाक्यद्वये नामधेयमाज्यादिपदमित्यर्थः । शक्त्यैवेति ॥ आज्यादिपदेषु शक्यसंबन्धाभावेन लक्षणाया असंभवात्स्तोत्रसामानाधिकरण्यानुपपत्त्या वाक्यभेदापत्तिभिया अतिरिक्तरूढिकल्पनमपि न दोष इत्यर्थः । अत एव यत्र बहिष्पवमानशब्दे अन्येषां स्तोत्राणां सदोमण्डपमध्ये औदुम्बरीसंनिधावनुष्ठानेऽपि बहिष्पवमाने सदसो बहिर्भावस्यास्तावरूपदेशविधानेनैव प्राप्तेः पवनक्रियाश्रयसोमप्रकाशकमन्त्रकत्वसंबन्धेन निरूढलक्षणासंभवस्तत्र नैवातिरिक्तरूढिकल्पनम् । यद्यपि भाष्यवर्तिकादौ "प्रजापतिर्देवेभ्य आत्मानं यज्ञं कृत्वा प्रायच्छत्ते देवा अन्योन्यस्मा आग्रायणातिष्ठन्त तानब्रवीदाजिमस्मिन्नितेति ते आजिमायन्नि" त्युपक्रमकेन यदाजिमीयुस्तदाज्यानामाज्यत्वमित्युप संहारपरेण चार्थवादेन यज्ञमुद्दिश्य भोगार्थं स्पर्धमानेषु देवेषु सत्सु यस्मादस्मिन् यज्ञे आजिं मर्यादामित गच्छतेति प्रजापतिनोक्ते ते देवा एतानि स्तोत्राणि काष्ठां मर्यादां कृत्वा आगतास्तस्मादेतानि आज्यर्हत्वादाज्यानीत्यर्थकत्वेन अवयवार्थप्रसिद्धिः प्रदर्शिता- तथापि उद्भित्पदान्वाख्यानार्थवादवदेवास्यापि स्वार्थपरत्वाभावेन तादृशयोगसत्त्वे प्रमाणाभावात्"गमेर्डे" रितिवत्साधुत्वान्वाख्यानमात्रार्था सती रूढेस्त्यागे आकस्मिकत्वनिरासायैव सेति द्रष्टव्यम् ॥ (आज्यैरिति बहुवचनेन गमकसहकृतेन चतुर्णां ग्रहणनिरूपणम्) उत्पत्तिवाक्ये च बहुवचनश्रवणात्सङ्ख्यया कर्मभेदमङ्गीकृत्याह आज्योत्पत्तीति ॥ कपिञ्जलाधिकरणन्यायेन त्रयाणां विधानापत्तिं तदुत्तरोत्तराधिकरणन्यायेन परिहरति गमकेति ॥ यथैवोत्तरा दोहयतीत्यत्र बहुवचनस्य त्रित्वे पर्यवसाने प्राप्ते "नास्यैतां रात्रिं कुमारा अपि लभन्ते" इत्यर्थवादरूपगमकबलात्त्रित्वाधिकसङ्ख्यापरत्वं वक्ष्यते, एवमिहापि "अग्न आ याहि वीतये" "आ नो मित्रावरुणा" "आयाहि सुषुमा हि तम्" "इन्द्राग्नी आगतं सुतं" इत्युत्तरग्रन्थे बहिष्पवमानसामत्रयादूर्ध्वं गायत्रसाम्ना गीयमानानां चतुर्णां तृचानामाम्नानरूपगमकसत्त्वात्त्रित्वाधिकचतुस्सङ्ख्यापरत्वाद्बहु वचनस्य चतुष्ट्वपरत्वावगमात्तेषु चतुर्षु पञ्चदशत्वसङ्ख्याविधिरित्यर्थः । एवञ्च आज्यपदमुत्पत्तिवाक्यगतं चतुर्णां स्तोत्राणां नामधेयम् । "पञ्चदशान्याज्यानि" "पञ्चदशं होतुराज्यं सप्तदशं मैत्रावरुणस्यैकविंशं ब्राह्मणाच्छंसिनः पञ्चदशमच्छावाकस्ये"ति प्रकृतौ विकृतौ चतुर्ष्वपि प्रयोगाच्च ॥ (चतुर्णां स्तोत्राणां पञ्चदशत्वसंपादनप्रकारः) अत्र "पञ्चभ्यो हिङ्करोति स तिसृभिः स एकया स एकया पञ्चभ्यो हिङ्करोति स एकया स तिसृभिः स एकया पञ्चभ्यो हिङ्करोति स एकया स एकया स तिसृभिः" इति विष्टुतिब्राह्मणे पञ्चदशसङ्ख्यासंपादकगानप्रकाराख्यविष्टुत्याम्नानान्नेयं सङ्ख्या बहिष्पवमाने त्रिवृत्सङ्ख्येव पृथक्त्वनिवेशिन्यपित्वभ्याससंपाद्यैवेति द्रष्टव्यम् ॥ (पवमाननामधेयत्वं तत्र त्रिवृत्सङ्ख्यायाः पृथक्निवेशश्च) एवं बहिष्पवमानशब्दस्यापि पूर्वोक्तरीत्या स्तोत्रनामत्वात्तदुद्देशेन विधीयमानत्रिवृत्सङ्ख्या तु सामगानामुत्तरग्रन्थे "उपास्मै गायता नरः" "दविद्युतत्यारुचा" "पवमानस्य केतवे" इति तृचत्रयाम्नानात्पृथक्त्वनिवेशिन्येवेति बोध्यम् ॥ (पृष्ठशब्दनामधेयत्वं तत्षट्त्वं च तत्सप्तदशत्वसंपादनप्रकारश्च) एवमाज्यपदस्येव पृष्ठस्यापि गुणत्वे वाक्यभेदापत्त्योत्पत्तिवाक्ये रूढ्या नामधेयत्वात्"पृष्ठैः स्तुवते" इत्ययमुत्पत्तिविधिः- उत्पत्तिविधित्वेन वार्तिककृता लेखनात्तद्विधिविधेयानि गमकसहकृतबहुवचनबलात्षट्पृष्ठानीत्याह एवमिति ॥ अत्र "अभि त्वा शूर नोनुमः" "त्वामिद्धि हवामहे" "कया न श्चित्र आ भुवत्" "तं वो दस्म मृतीषहम्" "अभिप्रवः सुराधसं" "तरोभिर्वोर्विदद्वसुः" इति षण्णां तृचानामुत्तराग्रन्थे आम्नानात्तेषु च क्रमेण रथन्तरबृहद्वामदेव्यनौधसश्यैतकालेयानां षण्णां समाख्यानात्षट्सुतेषु पृष्ठपदाभिधेयेषु सप्तदशानीति गुणवाक्ये सप्तदशसङ्ख्याविधिः । तत्रापि "पञ्चभ्यो हिङ्करोति स तिसृभिस्स एकया स एकया पञ्चभ्यो हिङ्करोति स एकया स तिसृभिः स एकया सप्तभ्यो हिङ्करोति स एकया स तिसृभि"रिति विष्टुत्याम्नानातभ्याससंपाद्यत्वमेवेत्यर्थः ॥ (पृष्ठपदस्य स्तोत्रविशेषेषु रूढावप्यर्थवादाविरोधः) यद्यपि अत्रापि "आपो वै ऋत्वियमार्च्छन् तासां वायुः पृष्ठे व्यवर्तत ततो वामं वसु सन्यभवत्तन्मित्रावरुणौ पर्यपश्यता"मित्यादिना पृष्ठशब्दान्वाख्यानार्थोर्ऽथवादः समस्ति- तथाप्यग्रे आर्तवयुक्तानामपां पृष्ठे वायोर्विपरिवर्तनात्मकमैथुनाभिधानपूर्वकं वामदेव्योत्पत्तिं तत्पदनिर्वचनं चोक्त्वा तत्पृष्ठेषु न्यदधुरित्यनेन वामदेव्यस्य पृष्ठस्तोत्रेषु निवेशमभिधायैतस्या योनेः पृष्ठानि इत्यादिना पृष्ठस्तोत्रसाधनानां रथन्तरबृहद्वैरूपवैराजशाक्वररैवताख्यानां षण्णां साम्नामुत्पत्तिं वामदेव्यादुक्त्वापि "ता वै वामदेव्यं पुत्राः पृष्ठानी"त्युपसंहारात्रथन्तरादिसामसु पृष्ठशब्दान्वाख्यानार्थत्वेऽपि स्तोत्रनामत्वान्वाख्यानार्थत्वाभावात्न रूढिकल्पनायां विरोधः । अत एव रूढिसिद्धं चतुर्षु पृष्ठत्वं सिद्धवत्कृत्यैवार्थवादे पृष्ठेषु न्यदधुरित्यनेन पृष्ठपदानुवादः संगच्छते । एतेन पृष्ठाख्यरथन्तरादिषट्सामप्रकृतित्वात्वामदेव्यादिषु पृष्ठशब्दप्रसिद्धिरिति वार्तिकोक्तिः प्रौढिवादमात्रमेव । तत्प्रकृतित्वेन कथञ्चिद्वामदेव्ये पृष्ठशब्दप्रसिद्धिसंभवेऽप्यन्यत्र तत्प्रकृतित्वाभावे "पृष्ठेषु न्यदधुरि"ति पृष्ठपदप्रयोगस्य दुरुपपादत्वात्- अब्वायुमैथुनस्पर्शजन्यत्वस्य साक्षाद्वामदेव्य एव संभवेन तत्रैव पृष्ठत्वस्य मुख्यतयाङ्गीकर्तुमुचितत्वेन तज्जन्यतया रथन्तरादिष्वेव तत्पदप्रयोगस्य गौणतोपपत्तेश्च । अतएव अस्य द्वितीयस्थाने निवेशमात्राभिधायित्वेऽपि न वामदेव्ये पृष्ठशब्दप्रवृत्तिनिमित्तान्वाख्यानार्थतैवास्य स्पष्टं प्रतीयमाना युक्ता । तेन चाब्वायुमैथुनाख्यस्पर्शोत्पन्नजन्यत्वस्य प्रवृत्तिनिमित्तताप्रदर्शनेन स्पृश्धातोरौणादिके थक्प्रत्यये कृते "तिथपृष्ठकुथगूथयूथप्रोथा" इतिसूत्रेण सकारलोपे निपातिते व्रश्चादिसूत्रेणच शकारस्य षकारादेशे कृते ष्टुत्वात्पृष्ठशब्दस्य व्युत्पत्तिरुक्ता भवति । यद्यपिच पृष्ठशब्दस्थाने शक्तिकल्पनाभिया रथन्तरादिषु पृष्ठस्तोत्रसाधनत्वसंबन्धेन लक्षणैव- तथापि अन्वाख्यानवशात्निरूढलक्षणास्वीकारेण न वैयर्थ्यमन्वाख्यानस्य । तत्फलं च "पृष्ठैरुपतिष्ठते" इत्यत्र "उपान्मन्त्रकरणे"इति सूत्रविहितात्मनेपदावगतमन्त्रकरणत्वानुरोधेनाभिधानार्थत्वावगतिः । अभिधानं च प्रति मुख्यपृष्ठस्तोत्रकरणत्वानुपपत्त्या लक्षणया ऋचां करणत्वावगतावपि अगीतानां करणत्वव्यावृत्त्या रथन्तरादिसामविधिरेव । अतएव रथन्तरादिसाममात्रविधानेऽपि साम्नामक्षराभिव्यक्तिद्वारैव गुणाभिधानेऽपि करणत्वाद्योग्यतयैव तदाधारर्ग्द्वारकत्वस्य प्राप्तिरपि न विरुद्धा- स्तोत्रीयसाम्न एव तृचानुकरणत्वानुरोधेन "यद्योन्या" मिति वचनेनोत्तरासु तद्विधानेऽपि इह स्तोत्रीयत्वाभावात्नोत्तराणां प्राप्तिः । अतः "सप्तदशानि पृष्ठानि" "पृष्ठैः स्तुवते" "एकविंशं होतुः" "पृष्ठं त्रिणवं मैज्ञावरुणस्य" "सप्तदशं ब्राह्मणाच्छंसिनः" "पञ्चदशमच्छावाकस्ये"त्यादिप्रयोगस्याज्यवदेव प्रकृतौ दर्शनात्पृष्ठशब्दस्य माध्यन्दिनपवमानानन्तरभाविषु षट्सु स्तोत्रेषु वृथैव नामधेयत्वमिति सिद्धम् । यस्तु "बृहत्पृष्ठं भवति" "कण्व रथन्तरं पृष्ठं" इत्यादौ होतुः पृष्ठे विशिष्य पृष्ठशब्दप्रयोगो न वामदेव्यादिषु स धने द्रव्यशब्दप्रयोगवतर्जुने पार्थशब्दप्रयोगवच्च निरूढवशादेव ज्ञेय इति न बाधकम् ॥ (पृष्ठैः स्तुवते इत्यत्र नियमेन चतुर्णामेव ग्रहणोपपादनम्) ननु षट्पृष्ठानि चेत्कथं चतुर्णामेवानुष्ठानमिति? अत आह अनुष्ठेयानीति ॥ बृहद्रथन्तरयोरिति ॥ बृहद्रथन्तरसामपृष्ठयोर्"बृहद्वा रथन्तरं वा पृष्ठं भवती" तिवचनेन विकल्पविधाने सति बृहत्पक्षे श्यैतं पृष्ठं रथन्तरपृष्ठपक्षे नैधसं पृष्ठमित्यन्तिमपृष्ठद्वयस्य व्यवस्थया विकल्पविधानान्नियतान्यनुष्ठेयानि चत्वारीत्यर्थः । यथाचात्र बृहद्रथन्तरयोः भेदादपूर्वभेदे सत्यपि रथन्तरबृहद्धर्माणां नावमिकसांकर्यपूर्वपक्षोत्थानं तथोपपादयिष्यते तत्रैव पूज्यपादैः ॥ (दूषणान्तराणि तन्निरासप्रकारश्च) ननु प्रकृतौ पृष्ठबहुत्वे कण्वरथन्तरादेः सर्वपृष्ठेषु कौत्सादिवन्निवेशापत्तिः । तथा "विश्वजित्सर्वपृष्ठ" इत्यत्र प्रकृतिप्राप्तपृष्ठबहुत्वेनैव सर्वपृष्ठपदानुवादोपपत्तिः । षाडहिकानां रथन्तरादिपृष्ठानां प्राप्तेः सप्तमे वक्ष्यमाणाया असिध्यापत्तिश्चेत्यत आह यथाचात्रेति ॥ "कण्वरथन्तरं पृष्ठं भवती"त्यादिवैकृतविधौ "रथन्तरं पृष्ठं भवति बृहत्पृष्ठं भवती"ति प्रकृतरथन्तरबृहत्सामपदगतपृष्ठपदसामानाधि करण्यतुल्यनिर्देशेनोक्तवैरूपसामेत्यादिवचनविहितानां वैरूपादिसाम्नां दाशमिकन्यायेन महेन्द्रस्तोत्रविषयत्वस्येवेहापि तद्विषयत्वोपपत्तेर्न सर्वपृष्ठेषु निवेशापत्तिः । अतएव निरूढिवशात्प्रकृतौ कृतस्य पृष्ठपदप्रयोगस्येदमेव फलम् । एवञ्च कौत्सादेः तादृशतुल्यनिर्देशाभावात्न तत्रैव निवेशः । अपितु सर्वत्रैवेति नानुपपत्तः । सिर्वपृष्ठपदेनतु प्राकृतग्रहणे अनुवादापत्त्या वैयर्थ्यापत्तेर्विधेयपरतालाभाय षाडहिकानां ग्रहणमिति "षडहाद्वा तत्र चोदने"ति सूत्रव्याख्याने भाष्यकारेण सर्वपृष्ठपदस्य विधायकत्वलाभपुरस्कारेणैव दर्शितम् ॥ (पार्थसारथिमततद्दूषणानि) अतएव प्रकृतौ पृष्ठबहुत्वं नास्तीति तत्रत्यव्यवहारस्य चोदकाप्राप्तं पृष्ठबहुत्वं नास्तीत्यर्थतयोपपत्तेर्न कश्चिद्विरोध इति । एवंस्थिते एतद्दोषभिया पार्थसारथिना नेमपिकवार्तिकस्वारस्येन "बृहत्पृष्ठं भवति रथन्तरं पृष्ठं भवति" इति वाक्यद्वये मुख्यमपि बृहद्रथन्तरपदं स्वार्थसाधनलक्षणार्थमङ्गीकृत्य तद्विशिष्टस्तोत्रद्वयस्यैव माहेन्द्रसंज्ञकस्य विधानात्तत्रैव पृष्ठशब्दो मुख्यः, "पृष्ठैः स्तुवते" इत्यस्य कण्वमाहेन्द्रादीनां चतुर्णां स्तोत्राणां गौण्या वृत्त्या पृष्ठपदेन समुदायानुवादः । तत्प्रयोजनं "सप्तदशानि पृष्ठानी" त्यत्र पृष्ठपदेन सर्वेषां ग्रहणात्चतुर्षु तत्सङ्ख्यानिवेशः । उत्पत्तिवाक्ये स्तोत्रसामानाधिकरण्याभावेऽपि पृष्ठपदस्य स्तोत्रनामतासिद्धिश्च । अन्यथा उत्पत्तिवाक्ये सामसमभिव्याहृतस्यापि पृष्ठपदस्य गुणाभिधानार्थत्वसन्देहापत्तेरित्युक्तं, तदयुक्तम्- पृष्ठशब्दस्य सर्वत्र शक्त्त्या प्रयुज्यमानस्यान्यत्र गौणत्वकल्पने प्रमाणाभावात् । नच साप्तमिकवार्तिकाद्युक्तगौणत्वकल्पनेन विरोधः- तवापि "पृष्ठैः स्तुवते" इति वाक्यस्योत्पत्तिविधित्वप्रदर्शनपरतत्रत्यवार्तिकविरोधस्य तुल्यत्वात् । अतोऽन्यतरवार्तिकोक्तेः प्रौढवादमात्रत्वेऽवश्यकल्प्ये यत्रैव गौणतादिदोषप्रसङ्ग आपतति तस्यैव तत्कल्पनं युक्तम् । "बृहत्पृष्ठं भवति रथन्तरं पृष्ठं भवती"ति वाक्ययोः मुख्ये जघन्यताया मत्वर्थलक्षणाविशिष्टविधिगौरवापादिकाया अङ्गीकारे प्रयोजनाभावाच्च । अतो नेदं वाक्यं पृष्ठद्वयोत्पत्तिपरम्, अपितु माहेन्द्रस्तोत्रावान्तरप्रकरणान्माहेन्द्राख्यपृष्ठद्वयानुवादेन सामद्वयविधिपरम् । अतएव जघन्ये पृष्ठपद एव स्वार्थसाधनलक्षणयात्र सामानाधिकरण्यं ज्ञेयम् । तयोरेव माहेन्द्रसंज्ञकपृष्ठयोः बृहद्रथन्तरं वा पृष्ठं भवतीति वचनाद्विकल्प इत्येव युक्तम् ॥ (न्यायसुधाकारमतखण्डनम्). एतेन "पृष्ठैः स्तुवत" इत्येकस्यैव माहेन्द्राख्यपृष्ठस्तोत्रस्य विधायकं बृहत्पृष्ठं भवतीति वाक्यद्वयं पूर्ववदेवैकस्मिन् स्तोत्रे सामद्वयविधायकम् । तयोश्च सत्यप्येकपृष्ठार्थत्वे तत्तदृक्प्रकाश्यावान्तरकार्यभेदाद्विकल्पापत्तौ "बृहद्वा रथन्तरं वा पृष्ठं भवती"ति वचनादेव विकल्पः । एवञ्च सामविधिवाक्य एव पृष्ठशब्दस्य माहेन्द्रस्तोत्रपरत्वातुत्पत्तिवाक्यगतबहुवचनान्तः पृष्ठशब्दः लिङ्गसमवायात् "पुरोडाशानलङ्कुर्वि" त्यादौ पुरोडाशशब्द इव पृष्ठसमुदाये गौणः । बहुवचनस्य च प्रचयशिष्टसङ्ख्यानुवादत्वादविधेयत्वेन सङ्ख्यायाः समिधो यजतीतिवन्न भेदकत्वम् । अतः प्रमाणान्तरसिद्धस्तोत्रत्रयसहकृतैतद्वाक्यविहितमाहेन्द्रस्तोत्राभिप्रायं पृष्ठैरिति बहुवचनम् । "सप्तदशानि पृष्ठानी"त्यत्रापि गौणमुख्यसाधारण्येन पृष्ठमात्रे सङ्ख्याविधिरिति न्यायसुधाकृत्कल्पनमपि अपास्तम्- गौणत्वे प्रमाणाभावात् । किञ्च सामविधिवाक्ये पृष्ठपदस्य माहेन्द्रस्तोत्रमात्रवाचित्वे सति पृष्ठैरिति बहुवचनस्यैव पाशाधिकरणन्यायेनैकत्वलक्षणयाप्युपपत्तौ पृष्ठपदे तत्र तत्र गौणत्वे प्रमाणाभावात्तस्यैव सप्तदशसङ्ख्यासंबन्धापत्तिः ॥ (पृष्ठद्वये एव शक्तिरिति विधिरसायनमतखण्डनम्) अपिच सामविधिवाक्ये माहेन्द्रस्तोत्रे एव पृष्ठपदस्य शक्तिरिति निर्धारणे प्रमाणाभावः । तत्र क्रियाविशेषसामानाधिकरण्यभावेन स्तोत्रनामत्वस्यैवासिद्धौ माहेन्द्रवाचित्वस्य सुतरामनवगतेः । मम तु "पृष्ठैः स्तुवते" इति स्तोत्रसामानाधिकरण्येन सर्वस्तोत्रनामत्वेऽवान्तरप्रकरणान्माहेन्द्रविशेषप्रतीतिमात्रे न दोषः । अपिच स्तोत्रत्रयस्य प्रापकप्रमाणाभावे तत्प्रचयविशिष्टसङ्ख्यानुवादायोगात्सङ्ख्याविधेयत्वावश्यकत्वात्पृष्ठभेदो दुर्निवारः । अतोऽन्याक्षिप्तशक्तिकत्वात्"पृष्ठैः स्तुवते" इत्येवोत्पत्तिवाक्यं, तेन विधेयानि षट्स्तोत्राणि पृष्ठनामधेयानि नतु विधिरसायनोक्तरीत्या पृष्ठद्वयं, नवापि न्यायसुधोक्तदिशैकमेव पृष्ठमिति । स्वमतप्रसक्तदूषणनिरासपूर्वकमतान्तरदूषणानि कौस्तुभे द्रष्टव्यानीत्यर्थः ॥ (वाक्यभेदापत्त्या चित्रादिनामधेयत्वोपसंहारः) अतः सिद्धं गुणवाक्ये वाक्यभेदापत्त्योत्पत्त