तत्र कस्यचिदेकस्य वशे विश्वं प्रवर्तते । इति साधयितुं पूर्वं पूर्वपक्षं प्रचक्ष्महे ॥ १ ॥ तत्र मीमांसकाः प्राहुः नायं सर्वार्थदर्शनशक्तिसम्पन्नः पुरुषोऽभ्युपगममर्हति, अतिपतितसकलसाधकप्रमाणसम्भावनाभूमित्वात्स्फुटविविधबाधकत्वाच्च । तथा हि अस्य प्रत्यक्षमन्यद्वा साधकं भवेत्? प्रत्यक्षमपि लौकिकं यौगिकं वा ? व्यवस्थितमितस्वार्थं न तावदिह लौकिकम् । साधनं तेन सर्वार्थतज्ज्ञानादेरसिद्धितः ॥ २ ॥ सर्वार्थदर्शनशक्तिशालिनमवगमयता हि देशकालस्वभावविप्रकर्षव्यवधानजुषः सर्व एवार्थास्दर्शनं शक्तिश्च गोचरयितव्यानि । न च विद्यमानेन्द्रियसन्निकर्षयोग्यकतिपयविषयनियतवृत्तेर्लौकिकप्रत्यक्षस्य निरवधिरयं महिमा संभावनाभूमिरिति कथमिव तदिह साधनमिति मन्येमहि । नापि योगिप्रत्यक्षमस्य साधकम्॑ यतः प्रत्यक्षत्वे तदप्येवं विद्यमानैकगोचरम् । भूतादिगोचरं नैव प्रत्यक्षं प्रतिभादिवत् ॥ ३ ॥ तत्खलु योगिविज्ञानमैन्द्रियकं न वा ? ऐन्द्रियकमपि बहिरिन्द्रियसम्भवमान्तरकरणजनितं वा ? बहिरिन्द्रियाणि तावत्समधिगतनिजविषयसन्निकर्षसहकारीणि तद्गोचरज्ञानजननानीति जगति विदितम् । अतो न रसनादिभिरजातातिवृत्तव्यवहितादिसकलविषयवेदनप्रसङ्गः । न चाविद्यमानैरजातादिभिः संभवति सन्निकर्षः॑ तस्य ह्याश्रयत्वादाश्रयाभावे तदसम्भवात् । अतोऽपेक्षितोऽर्थसन्निकर्षः । सहकारिविरहे कथमिन्द्रियाण्यतीतादिविषयसाक्षात्काराय कल्पेरन् ? । भवति च यद्यत्सहकारि यत्कार्यजननम्, तत्तदभावे न तज्जनयति ॑ यथा क्षितिसलिलसहकारि अङ्कुरकार्यजननबीजं क्षित्याद्यभावेऽङ्कुरम् । अर्थसन्निकर्षसहकारीणि बहिरिन्द्रियाणि ज्ञानजननानीति तान्यपि नातीतेऽनागते वार्थे ज्ञानं जनयन्तीति न तदुपजनितं प्रत्यक्षं यथोक्तविषयनियममतिक्रामति । नाप्यन्तरकरणसम्भवम्, आन्तरगोचर एव सुखादौ स्वान्तस्वातन्त्र्यात् । बाह्यविषयमितिषु च मनसो निरङ्कुशकरणताङ्गीकारे हि कृतं चक्षुरादिभिः । अतश्च कश्चिदन्धो बधिरो वा भवेत् । भवति चात्र विमतिपदं मनो बहिरिन्द्रियनिरपेक्षं न बाह्यप्रत्यक्षगोचरे प्रवर्तते, तत्र तत्तन्त्रवृत्तित्वात् । यद्यत्र यत्तन्त्रवृत्ति न तत्तन्निरपेक्षं तत्र प्रवर्तते, यथालोकापेक्षप्रवृत्ति चक्षुः स्वगोचरेऽन्धतमस इति । न च सिद्धाउषधमन्त्रतपःसमाधिमहिमसमासादितातिशयानीन्द्रियाणि कदाचिदपजहति समधिगतविषयनियममिति सम्भवति॑ सांसिद्धिकसामार्थाविर्भावैकफलत्वात्तेषाम्, सामर्थ्यस्य च प्रतिनियमात् । न खलु सुप्रयुक्तभेषजशतविहितसंस्कारमपि श्रोत्रं रूपरसविभावावगमाय कल्पते । भवति च विवादाध्यासितबाह्याभ्यन्तरकरणपाटवातिशयोऽनुल्लङ्घितसीमा, ऐन्द्रियकप्रकर्षत्वात्, दृश्यमानतत्प्रकर्षवदित्यैन्द्रियकं ज्ञानं नातीतादि गोचरयति । भावनाप्रकर्षपर्यन्तजन्मनस्तु सत्यपि विशदनिर्भासत्वे प्राच्यानुभवगोचरादनधिकमधिकं वाध्यवस्यतः स्मृतिविभ्रमस्रोतसोरन्यतरावर्तपरिवर्तिनः कुतः प्रामाण्यकूलप्रतिलभः ? कुतस्तरां च प्रत्यक्षतयोत्तम्भनम् ? । प्रत्यक्षस्य वा सतः कथमिव विदितविषयनियमव्यतिक्रमः ? अतिक्रामतो वा कुतः प्रत्यक्षत्वमिति न विश्वानुभवाइश्वर्यशालिनि प्रत्यक्षं प्रमाणम् । नापि प्रमाणान्तरम् । तत्खल्वनुमानमागमो वा ? अनुमानमपि विशेषतो दृष्टं सामान्यतो दृष्टं वा ? तत्र सकलपदवीदवीयसि भवति न तावत्स्वलक्षणसाक्षात्कारपूर्वकाविनाभावावधारणाधीनोदयत्वादिदमनुमानमुदेतुमलम् । न ह्यनवगतचरहुतभुजस्तदविनाभावितया धूममनुसन्धातुमीशते । न च सर्वार्थनिर्माणसाक्षात्कारपटीयसि लिङ्गं सामान्यतो दृष्टमपि किञ्चन लभते । नन्वेकचेतनाधीनं विवादाध्यासितं जगत् । अचेतनेनानारब्धत्वादरोगस्वशरीरवत् ॥ ४ ॥ तथा सर्वार्थनिर्माणसाक्षात्करणकौशलम् । कार्यत्वादेव जगतस्तत्कर्तुरनुमीयताम् ॥ ५ ॥ सर्वं हि कार्यमुपादानोपकरणसम्प्रदानप्रयोजनसंवेदिचेतनरचितमवगतं घटमणिकगृहादि । कार्यं च विमतिपदमवनिगिरिमहार्णवादीति तदपि तथाविधबुद्धिमद्धेतुकमध्यवसीयते । न च कार्यत्वमसिद्धमिति वाच्यम्, अवयवसन्निवेशादिभिर्हेतुभिस्तत्सिद्धेः । इह चान्यावयविभ्यः प्रभृति आद्व्यणुकमखिलमवयवि क्रमनिहीयमाननानावयवव्यतिषङ्गविशेषजनितमवगतमित्यन्तत उपादानं चतुर्विधाः परमाणवः प्रपञ्चस्य । तेषामादिपरिस्पन्दस्य तदनुगुणादृष्टविशिष्टतत्तत्क्षेत्रज्ञसंयोगासमवायिकारणक इति उपकरणमपि समस्तक्षेत्रज्ञवर्तिनि धर्माधर्मलक्षणान्यदृष्टानि । प्रयोजनं पुनस्तदभिनिर्वर्तितविचित्रार्थक्रियाकारश्चेतनोपकारपकारभेदोऽपयन्तः । तदुपभुजस्त एव क्षेत्रज्ञाः सम्प्रदानम् । न चामी स्वसमवायिनावपि धर्माधर्मावलमवलोकयितुमिति तदतिरेकी निखिलभुवननिर्माणनिपुणोऽधिकरणसिद्धान्तसमधिगतनिरतिशयसहजसकलविषयसंविदैश्वर्यशक्त्यतिशयः पुरुषधौरेयकः किमिति न सामान्यतोदृष्टलिङ्गादनुमीयते ? तदिदमविदितानुमानवृत्तस्य स्वमतिरचिततरलतर्कोल्लसितमिति परिहसन्ति मीमांसकाः । तथा हि किमिदमेकचेतनाधीनत्वं नामाभिप्रेतं तनुभुवनादेः ? । तदायत्तत्वमिति चेत्॑ किमस्य तस्मिन्नायत्तं किं नु जन्माथ वा स्थितिः । प्रवृत्तिर्वाद्ययोस्तावत्साध्यहीनं निदर्शनम् ॥ ६ ॥ न खलु शरीरमेकचेतनाधीनोत्पत्तिस्थिति । ये हि यद्देहाधीनसुखदुःखोपभोगभागिनः, भवति हि तदुचितादृष्टशालिनां सर्वेषामेव तेषां तद्देहिन इव तदुत्पत्तिस्थितिनिमित्तत्वम् । अपि च शरीरावयविनः स्वावयवसमवायलक्षणा स्थितिरवयव्यतिषङ्गविशेषादृते न चेतयितारं परमपेक्षते । या पुनस्तदपेक्षिणी प्राणनलक्षणा स्थितिः, न सा पक्षीकृते क्षित्यादौ सम्भवतीति स्थितिमपि नैकरूपां पक्षसपक्षानुयायिनीमुदीक्षामहे । एकचेतनाधीनप्रवृत्तित्वे तु प्रबलबहुजनसरभसप्रयत्नप्रचाल्यैरुपलतरुरथादिभिर्व्यभिचारः । आरब्धत्वादेव चैतत्साध्यसिद्धाबधिकमिदमुपादानविशेषवचनम् । चेतनाधीनतामात्रसाह्दने सिद्धसाध्यता । चेतनैर्भोक्तृभिर्भोग्यः कर्मभिर्जन्यते हि नः ॥ ७ ॥ युक्तं चैतत् यदुभयवादिसिद्धानामेव चेतनानां कर्तृत्वाभ्युपगमः॑ लाघवात् । न चोपादानाद्यनभिज्ञतया तत्प्रतिक्षेपः । उपादानं पृथिव्यादि यागदानादि साधनम् । साक्षात्कर्तुं क्षमन्ते यत्सर्व एव च चेतनाः ॥ ८ ॥ अद्यवदेव विश्वम्भरादयः क्रमप्राप्तागन्तुकोपचयापचयैकदेशशालिनो न युगपदेव निरवशेषविलयजननभागिन इत्यन्तिमपरमाणुसाक्षात्कारो न कर्तृभावोपयोगी । कर्मणः शक्तिरूपं यद्पूर्वादिपदास्पदम् । मा भूत्प्रत्यक्षता तस्य शक्तिमद्ध्यक्षगोचरः ॥ ९ ॥ न खलु कुलालादयः कुम्भादिकार्यमारभमाणास्तदुपादानोपकरणभूतमृद्दण्डचक्रादिकार्योत्पादनशक्तिं साक्षात्कृत्य तत्तदारभन्ते । यदि परं शक्तिमविदुषामभिलषितसाधने तदुपादानादिव्यवहारोऽनुपपन्नः, इह तु आगमादवगम्यन्ते विचित्राः कर्मशक्तयः । तेन कर्मभिरात्मानः सर्वं निर्मिमतां पृथक् ॥ १० ॥ अपि च तदेव चेतनकर्ट्र्कं जगति परिदृश्यते, यदेव शक्यक्रियं शक्यज्ञानोपादानादि च । न च तथा महीमहीश्वरमहार्णवादीति कथमिव तत्तत्कार्यत्वम् ? कथन्तरां च तदुपादानोपकरणादेः साक्षात्कारगोचरता ? यादृशं हि कार्यमुपादानाद्यभिज्ञपूर्वकमवगतं घटमणिकादि, तादृशमेव हि तथाविधबुद्धिमद्धेतुकत्वानुमानाय प्रभवति । अपि चानीश्वरेण परिमितशक्तिज्ञानेन विग्रहवतानवाप्तकामेन कृतमवगतं घटादिकार्यमिति तथाविधं बोद्धारमुपस्थापयन् हेतुरभिमतपुरुषसार्वज्ञ्यसर्वाइश्वर्यादिविपर्ययसाधनादिविरुद्धः स्यात् । न चैवं सति सर्वानुमानव्यवहारोच्छेदप्रसङ्गः शङ्कितव्यः । प्रमाणान्तरगोचरे हि लिङ्गिनि लिङ्गबलादापततो विपरीतविशेषांस्तत्प्रमाणमेव प्रतिरुणद्धि । इह पुनरतिपतितसकलमानान्तरकर्मभावे सर्वनिर्माणनिपुणे सिषाधयिषिते यावन्तोऽन्वयव्यतिरेकावधारिताविनाभावभाजो धर्मास्तानप्यविशेषेणोपस्थापयति । अपि च स्वार्थकारुण्यभावेन व्याप्ताः प्रेक्षावतः क्रियाः । ईश्वरस्योभयाभावाज्जगत्सर्गो न युज्यते ॥ ११ ॥ अवाप्तकामत्वान्न तावदात्मार्थे सृजति॑ प्रलयसमये प्रलीनसकलकरणकलेवरादिभोगोपकरणतया च चेतनानां दुःखाभावाद्दुःखिदर्शनजनितकृपाप्रयुक्तिरपि नास्तीति व्यापकभूतस्वार्थकारुण्यनिवृत्तेर्व्याप्यभूतया प्रेक्षावत्प्रवृत्त्यापि निवर्तितव्यम् । सुखैकतानं जनयेज्जगत्करुणया सृजन् । तत्कर्मानुविधायित्वे हीयेतास्य स्वतन्त्रता ॥ १२ ॥ न चोपादानादिसाक्षात्कारिणि एव कर्तृत्वमित्यपि नियमः॑ उपादानमुपकरणं चाविदुष एवात्मनो ज्ञानादिषु कर्तृत्वात् । अतः असिद्धत्वाद्विरुद्धत्वादनैकान्त्याच्च वर्णितात् । कार्यत्वहेतोर्जगतो न यथोदितकर्तृता ॥ १३ ॥ प्रयोगश्च भवति महीमहीधरादि कार्यं न भवति, प्रसिद्धकार्यविलक्षणत्वात्, गगनवत्॑ अशक्यदर्शनोपादानोपकरणत्वाद्वा, व्यतिरेकेण घटादिवत् । परमाणवो न प्रत्यक्षाः निरतिशयसूक्ष्मद्रव्यत्वात्, तथैव घटादिवत् । विमतिविषयः काले न लोकशून्यः, कालत्वादिदानीन्तनकालवत् । तनुभुवनादीश्वरकर्तृकं न भवति कार्यत्वात्तद्वदेव । ईश्वरः कर्ता न भवति प्रयोजनरहितत्वादशरीरत्वाद्वा मुक्तात्मवदिति । अत्र ब्रूमो न कार्यत्वं क्षित्यादौ शक्यनिह्नवम् । सभागत्वात्क्रियावत्त्वान्महत्त्वेन विशेषितात् ॥ १४ ॥ तादृशादेव मूर्तत्वाद्बाह्यप्रत्यक्षतान्वितात् । ससामान्यविशेषत्वादित्यादिभ्यो घटादिवत् ॥ १५ ॥ न चेदृश एव सन्निवेशः कार्यः, नेतर इत्यवयवसन्निवेशविशेषप्रतिनियतं रूपभेदमुदीक्षामहे । यत्तु शक्यक्रियं शक्यज्ञानोपादानोपकरणं च क्रियत इति, तदस्तु नाम । किन् तु ते क्रियाज्ञानशक्ती क्रियाज्ञानाभ्यामेव समधिगमनीये । ते च क्षित्यादिषु यथोक्तसाधनबलसमुपस्थापिते इति न विशेषः प्रसिद्धप्राकारगोपुरादिकार्येभ्यस्तनुभुवनादेः । न चैतावानेव क्रियागोचर इति विषयनियमः कश्चित्क्रियाया दृष्टः॑ येनेदमशक्यक्रियमध्यवस्येम । सिद्धे च कार्यत्वे तदुपादानादिसक्षात्करणतदधिष्ठानतत्प्रेरणनिपुणः पुरुषविशेषः सिध्यत्येव । अधिष्ठानं च तत्प्रवृत्त्यनुगुणसङ्कल्पवदीश्वरसन्निकर्षः, क्षेत्रज्ञेनेव स्वशरीरादौ । स च द्रव्यैः संयोगलक्षणः, तद्गुणैस्तु संयुक्तसमवायरूपः । प्रवृत्तिश्च परमाणूनां परिस्पन्दलक्षणा॑ धर्माधर्मयोस्तु फलोदयानुकूलतादृशदेशकालादिसहकारिसहितता । ताभ्यां धर्माधर्माभ्यामेव फलम्, चेतनानधिष्ठितानां सर्वेषामेतेषामचैतन्येनाकिञ्चित्करत्वात् । न हि चेतनेन वर्धकिनानधिष्ठिता वासी देशकालादिसहकारिशतसमधिगमेऽपि यूपादीन्युपादयितुमलम् । बीजाङ्कुरादयस्तु पक्षान्तर्भूता इति तैर्व्यभिचारवचनमनभिज्ञतयैव श्रोत्रियाणाम् । एतेन सुखादिभिर्व्यभिचारोऽपि प्रत्युक्तः । न चोभयवादिसिद्धतामात्रेण क्षेत्रज्ञानामेवेदृशाधिष्ठातृत्वकल्पनमुचितम्॑ तेषां सूक्ष्मव्यवहितादिदर्शनाशक्तेर्निश्चितत्वात् । दृष्टानुसारिणी हि सर्वत्र कल्पना॑ न दृष्टविरोधिनी । न चैवमीश्वरस्याशक्तिर्निश्चिता॑ प्रमाणान्तरतस्तत्सिद्धेः । यथोदितप्रमाणबलेन सिध्यन् सांसिद्धिकसर्वार्थदर्शनतत्प्रेरणशक्तिसम्पन्न एव सिध्यति॑ कार्यत्वस्य समर्थकर्तृपूर्वकत्वेन प्रतिबन्धात् । यत्तु परिमितशक्तिज्ञानानैश्वर्याद्यापादनाद्धर्मविशेषविपरीतसाधनत्वमुद्भावितम्, तदतिस्थवीयः, अप्रयोजकत्वात्तेषाम् । न हि किञ्चित्क्रियमाणं कर्तुरर्थान्तरविषयमसामर्थ्यमज्ञानं वा स्वोत्पत्तयेऽपेक्षते॑ स्वसम्पादनसमर्थकर्तृमात्राक्षेपात्केवलव्यतिरेकासिद्धेः । तावतैवोपपद्यमाने कार्योदये सम्बन्धिनोऽकिञ्चित्करस्यार्थान्तरविषयस्याभावस्य हेतुत्वकल्पनानुपपत्तेः । अपि च किं तदितरसमस्तवस्तुविषयमज्ञानादि व्यापकम्, उत कतिपयगोचरमिति विवेचनीयम् । न तावदशेषविषयम्, अनुपलब्धेः । न खलु कुम्भकारः कुम्भातिरेकि किमपि न विजानाति । अथ कतिपयविषयम् ? तदपि न, अनियतविषयतया तस्य तस्य व्यभिचारदर्शनात् । न चास्ति किञ्चिद्व्यवस्थितम्, यदविद्यादिमानेव कर्तृतामनुभवति । न च शरीरिणैव कर्त्रा भाव्यम्, शरीरग्रहणेनैवानैकान्त्यात् । न खलु शरीरविशिष्टस्सन्नेवायमात्मा शरीरमुपादत्ते, अयोगिनो युगपदनेकशरीरग्रहणायोगात् । पूर्वदेहपरित्यागेन देहान्तरप्रापककर्मप्रेरितप्राणसहाय एव देहान्तरं प्रविशतीत्युपपादितमात्मचिन्तायाम् । किञ्चिदात्मा शरीरमधितिष्ठतोऽधिष्ठानक्रियाकर्मभूतस्य देहस्याधिष्ठातृदश(देह?)अनुप्रवेशोऽनुपपन्नः, युगपदेकक्रियायामेकस्य कर्मकर्तृत्वविरोधात् । अधितिष्ठासितदेहसंयोगवत एव तत्प्रवृत्त्यनुगुणप्रयत्नयोगलक्षणमधिष्ठानं दृष्टमिति चेत्॑ अस्त्वेकतत्त्व(स्त्व)सम्बद्धस्याधिष्ठानानुपपत्तेः प्रेर्यवस्तुसम्बन्धिना प्रेरकेण भवितव्यमिति॑ न यतोऽन्यदप्यधिष्ठीयमानं मानदण्डादि स्वसम्बन्धिनैवाधिष्ठीयते । तेनाधिष्ठानक्रियापेक्षिताधिष्ठेयपदार्थसम्बन्धमात्रातिरेकेण देहसम्बन्धो नामापरो नादर्तव्यः । अस्ति चेश्वरस्यापि जगदुपादानोपकरणैस्सम्बन्ध इत्युक्तमेव । अथ स्वदेहव्यतिरिक्ते वस्तुनि प्रवृत्तिविशेषकरत्वं देहद्वारेणैव । दृष्टं हि दण्डचक्रादिषु करसंयोगादिना कुलालादेः प्रवर्तयितृत्वमित्युच्येत॑ तदपि न॑ अभिध्यानमात्रेणैव परशरीरगतगरनिरसनच्(व्?)इसारणदर्शनात् । कथमसति शरीरे परप्रेरणात्मकः सङ्कल्प इति चेत्॑ किं शरीरं सङ्कल्पयति, येन तदभावे न भवेत्? । करणमिति चेन्न॑ मनसः करणत्वात् । किमसतीश्वरस्य मनः ? बाढम् । नन्वेवं विग्रहधर्माधर्मानाश्वर्यादयः साधारणधर्माः प्रादुःष्युः । मैवम्॑ कार्यत्वाक्षिप्तसमर्थकर्तृमत्त्वाद्(त्त्वार्थ?) द्रढिम्नैवापासत्वात् । मनसो नित्येन्द्रियतया देहापगमेऽपि सम्बन्धाभ्युपगमादनैकान्तिकश्च । यावद्धि दृष्टानुगुणं व्याप्तयुपयोगि, तावदनुज्ञायते । न चास्मदादेर्मनसाप्यचिन्त्यरचनस्यापर्यन्तविस्तारस्य महाभूतभौतिकप्रपञ्चस्य प्रादेशिकशरीरकः किञ्चिज्ज्ञः पुण्यपापपरवशगतिरलं निर्माणायेत्यपरिमितज्ञानाइश्वर्यशक्तिः शरीराद्यनपेक्षः सङ्कल्पादेव सकलभुवननिर्माणक्षमः कर्ता सिद्धः । ईदृशेन कर्त्रा घटादिषु कार्यत्वस्य सम्बन्धो न दृष्ट इति चेत्॑ अतिगहनगिरितटाधिष्ठानेनातिप्रकृष्टादृष्टचरेन्धननिवहसम्बन्धिना हुतवहविशेषेण महानसादौ धूमस्य वा किं सम्बन्धो दृष्टः ? येन धूमविशेषदर्शनाद्गिरिशिखरे तथाविधाग्निरनुमीयते । यादृशो धूमो यत्रावगतः तत्रैव तादृशस्तत्सम्पादनसमर्थो दृष्तान्तभूमावपरिदृष्टोऽपि सामान्यव्याप्तिबलेन पक्षधर्मतावशात्सिध्यतीति चेत्॑ तदिदमस्माभिरभिधीयमानं किमिति न हृदयमधिरोहति भवताम् । इहापि कार्यत्वं समर्थकर्तृपूर्वकत्वेन घटादिषु विदितसम्बन्धनियमं क्ष्तित्यादिषु दृश्यमानं स्वसम्पादनसमर्थमदृष्टपूर्वमेव बुद्धिमत्कर्तारमुपस्थापयति । यथैव हि देशकालेन्धनपरिमाणादिविशेषानादरेण धूमस्य स्वोदयानुगुणहुतवहमात्रेण सम्बन्धनियमः, तथैवानीश्वरत्वाकिञ्चिज्ज्ञत्वशरीरित्वपुण्यपापपरवशत्वमनुष्यत्वादिविशेषप्रहाणेन कार्यस्य स्वनिर्माणसमर्थबुद्धिमत्कर्तृमात्रेण सम्बन्धनियमनिश्चय इति न कश्चिद्विशेषः । अपि च विभुद्रव्यसंयोगिनः परिस्पन्दवतश्च सर्वत्र स्पर्शवत्त्वाव्यभिचारेऽपि ज्ञानसुखादिनित्यद्रव्यविशेषगुणानुमितात्मसंयोगिनो मनसः कथमिव स्पर्शरहिततत्वम् ? कथं च वायवीयद्रव्यस्य महिमगुणशालिनो नियताधिष्ठानस्पर्शनत्वनियमदर्शनेऽपि त्वगिन्द्रिये तद्विपर्ययः ? तैजसस्य वा रूपस्पर्शयोरन्यत्तरस्य वा प्राकट्यनियमेऽपि रूपोपलम्भसाधनतानुमिततैजसभावस्य चक्षुषो नियमेन तदुभयानुद्भवाभ्युपगमः ? । अथ कार्यदर्शनानुमितसद्भावानां तैजसादिभावेऽपि तत्तद्विशेषणां योग्यानुपलब्धिबाधितत्वात्तदभ्युपगमेऽनेकनियमभङ्गप्रसङ्गाच्च तथाभ्युपगमः, हन्त तर्हि प्रकृतविषयेऽपि प्रसञ्जितधर्मविशेषाणामनुपलम्भबाधाविशेषादनेकनियमदर्शनविघातप्रसङ्गाच्च तथाभ्युपगम इति सर्वं समानमन्यत्राभिनिवेशात् । दृश्यन्ते हि नीतयः । यथा विवादास्पदं परमाण्वादि प्रेक्षावत्प्रेरितं चेष्टते, अचेतनत्वात्॑ यदचेतनं तत्तथा, यथा तथाविधं कन्दुकादि । तथा विवादाध्यासिता बाह्याभ्यन्तरप्रवृत्तयः प्रकृत्युपकरणप्रत्यक्षपूर्विकाः कार्यत्वात्तद्वदेव । प्रत्यक्षं तत्प्रमेयत्वात्पदार्थत्वाद्घटादिवत् । एकेच्छानुविधायीदमचैतन्यात्स्वदेहवत् ॥ १६ ॥ एकेनाभिष्ठिताः कार्यं कुर्वते सर्वचेतनाः । देहसम्बन्धसापेक्षकार्यकृत्त्वात्त्वगादिवत् ॥ १७ ॥ एकप्रधानपुरुषं विवादाध्यासितं जगत् । चेतनाचेतनात्मत्वादेकराजकदेशवत् ॥ १८ ॥