॥ वृत्तमालास्तुतिः ॥ वृत्तं सममर्धसमं विषमं चेत्यामनन्ति वागीशः । त्रिविधं परार्थविधये समासतो व्यासतोऽनन्तम् ॥ १ ॥ प्रतिनियताकृतिरूढं वरमुनिभिर्यत्र नाम संगीतम् । छन्दः पदं च परमं स्फुरति यथाविविधविन्यासैः ॥ २ ॥ प्रतिरूपदर्शनादपि शक्याः सकलक्रमेण गुरुलघवः । विगणयितुं धीमद्भिः किमपरमत्रानुयोगेन ॥ ३ ॥ प्रभवतु विभ्रमहतये विचिन्त्यमानं तदादराद्भवताम् । सुकृतिमुखाभिजनानां वाचां निजमेकमाभरणम् ॥ ४ ॥ ॥ प्रस्तावना ॥ धी-गी[ः]- । <श्री->णाम् ॥ ५ ॥ निजै-कभूः । विभा-ति या ॥ ६ ॥ तद्गुणा-शंसिभिः । सेव्यते चानिशम् ॥ ७ ॥ समाश्रय-स्खलन्मलैः । सुरासुरा-दिषूद्गतैः ॥ ८ ॥ नैकभवीया-भ्यासविवृद्धम् । बोधविशेषं साधु दधानैः ॥ ९ ॥ गीता <गायत्री>व च्छन्दःस्वाद्या सद्भिः । वृत्तं भावि श्रेयो यस्यां सद्वा <वैश्वम्> ॥ १० ॥ नीलोत्पलपाणेर्लीलानिलयस्य । शास्तुर्जयतीयं मूर्तिस्<तनुमध्या> ॥ ११ ॥ प्रसीद भगवन् विलोकय मनाक् । जडं जनमिमं त्वदेक<शरणम्> ॥ १२ ॥ जाज्वलीति शासनं त्वां समेत्य सौगतम् । सूर्यधाम दुःसहं <सातिरेकम्> <उष्णि> हि ॥ १३ ॥ दधत्यपि निकामं कुमारललितानि । तनुस्तव जिनानां <कुमार ललितै>व ॥ १४ ॥ जायते जनराशेर्यामनुस्मरतोऽपि । निर्धुताधरभावम् <ऊर्ध्वगामि> च रूपम् ॥ १५ ॥ यद्गुणस्तुतिविस्तरादस्तसङ्गम् <अनुष्टुभि> । धीरमेकमुदीरयन्त्य्<उत्तमं> पदम् <उद्गताः> ॥ १६ ॥ घोरमोहतामसाव-रुद्धबुद्धिलोचनस्य । रत्नयष्टिदीपिकेव या <समान्य्> अभूज्जनस्य ॥ १७ ॥ जगत्त्रयातिशायिनीं मुनीन्द्रसंपदं प्रति । स्फुरन्त्यशेषनायक <प्रमाणिका>पि सैव नः ॥ १८ ॥ तीव्रक्लेशप्लोषध्वंस-प्रौढे वंशे संबुद्धानाम् । धत्ते भूषां भातीयं तेऽम्भोदे यद्वद्<विद्युन्माला> ॥ १९ ॥ केतनदण्डं दधतोऽध्यापयितुं नीतिमिव । सद्गुरुलीला भवतो भाति जगन्<माणवकम्> ॥ २० ॥ त्रिजगतो निजगतिं प्रथयतः पृथुधियः । करतलं तव चलत्-<किसलयं तुलयति> ॥ २१ ॥ साधिगमं समकालं तत्त्वरसेषु विधत्ते । विश्वमधीश्वर चित्रं <चित्रपदा> तव वाणी ॥ २२ ॥ <बृहत्यां> विभूत्यां त एके पदन्यासमासादयन्ति । क्षणं यत्र ते लब्धलक्ष्यः <कटक्षो>ऽपि विश्रान्तिमेति ॥ २३ ॥ त्वद्दृशैव परिमलनाद्भव्यतामियमुपगता । भाति भूमिरिव जनता संतताहित<हलमुखी> ॥ २४ ॥ वरद सा हि संजन्यते परिणतिस्तयास्यां यतः । वचनबीजमुप्तं त्वया फलति शान्ति<रूपं> फलम् ॥ २५ ॥ कलयितुमिह कः शक्तस्तव खलु चरितानीश । सतमसि समये तोये <भुजगशिशुसृता>नीव ॥ २६ ॥ किन्तूदस्यति धैर्यध्वस्री त्वत्कीर्तिश्रुतिजन्मानन्दः । स्वप्रौढिप्रतिपत्तिन्यस्तां लोकस्यानन<मुद्रा>मीश ॥ २७ ॥ श्रीनिकेत लीलाचतुरं ते प्राप्तपार विद्याचरणानाम् । भाति वर्ष्म बुद्धात्मज<पङ्क्तौ> यद्वदम्बुजन्मस्व्<अरविन्दम्> ॥ २८ ॥ त्वामुद्गीतकुलोदयशैलं प्रज्ञालोकमुपायरथस्थम् । वन्दे जाड्यविखण्डनशौण्डं त्रैलोकी<नलिनी>सवितारम् ॥ २९ ॥ बुद्धसुतानामभ्युदयोर्वी भाति भृशं भूत्या तव नाथ । शैलविशेषस्येव शिखाभू <रुक्मवती> रत्नाङ्कुरकान्त्या ॥ ३० ॥ निःशेषस्तव विजयध्वानं तन्वन् भ्राम्यति भुवनोद्द्योत । सानन्दः कृतिनिवहः स्वामिन् विष्वग्घोषण<पणवो> यद्वत् ॥ ३१ ॥ वादिव्रातप्रवरशिरोऽब्ज श्रीधाम्नस्ते गुणमधुयोगात् । धीमन् धीरानपि मादयन्ती त्रैलोकी वाग्विलसति <मत्ता> ॥ ३२ ॥ विश्वचक्रवर्तिनां जिनानां वंशभूषणे त्वयि स्फुटैव । म्लायतीव सा कुमारताख्या या <मयूरसारिणी>ष्यते तु ॥ ३३ ॥ नानारत्नमरीचिमालिनी प्रोन्मीलन्निजकान्तिसंपदा । प्रत्यङ्गं तव भूषणावली नीता <शुद्धविराट्> पराभवम् ॥ ३४ ॥ पातु जगत्तव तत्त्वनया-ख्यानविधौ करवल्गितकम् । वादिपते व्यतिघट्टनतो वल्गुनिनादचलद्<वलयम्> ॥ ३५ ॥ रूपं ते गुणगणमथ कीर्तिं संवीक्ष्याखिलमिदमतिशायि । बिभ्राणं निजविषयविश्रामं मन्दं <त्रिष्टुभि> जगद्<उपजातम्> ॥ ३६ ॥ तनुरतनुदयाद्रवोपम-स्फुरदनुपमकान्तिसंततिः । जनयति भवतो न कस्य वा मुदमधिप समन्त<भद्रिका> ॥ ३७ ॥ शरदमृतकरकरश्रेणी-समहिमगतमलगौरीयम् । गुणसमुदितिरिव मुक्ताली विलसति हृदि भवतो <वृत्ता> ॥ ३८ ॥ गीयमानसुमनःसुमनस्वज्-जातिकीर्तिविजयेव तवेयम् । भाति दूरततसौरभलोभ-<स्वागता>लिपटलक्वणितेन ॥ ३९ ॥ स्फारामोदा मधुनिधिरधिकं चूर्णं चातुःसमं इव दधती । नीलाब्जश्रीर्दलसुखशयना-संपर्याप्त<भ्रमरविलसिता> ॥ ४० ॥ रूपरसायनभावनया ते वासव एव परं बहुमान्यः । येन चिराय निरस्तनिमेषं लब्धम<दोधकम्> अम्बकजातम् ॥ ४१ ॥ हक्त्यानतरत्नकिरीटचक्रैराबद्धकराञ्जलिभिः प्रहृष्टैः । धन्यैः सुचिरं चरणद्वयी ते वीतान्यविधेयम् <उपस्थिते>यम् ॥ ४२ ॥ किमिन्द्रविभवैर्ब्रह्मश्रिया वा ततोऽप्यतिशयिन्या संपदा किम् । प्रसिध्यति धियोऽधीश प्रकामं त्वदङ्घ्रिकमलस्य्<ओपस्थितं> चेत् ॥ ४३ ॥ त्वत्संसेवाविमुखं जन्मदुर्गे कर्मक्लेशौ विवशं नाशमस्मिन् । संभूयालं नयतोऽवश्यमुग्रौ <वातोर्मी> पोतमिवाम्भोधिमध्ये ॥ ४४ ॥ दूरदर्शिमनसामनागसां कापि विस्फुरति चित्तसंततिः । निर्विरामतममाभवं भवत्-पर्युपासनमनो<रथोद्धता> ॥ ४५ ॥ <छेदे हृद्या> विभ्रमाणां <चतुर्णां> तूर्णप्राप्तावार्यसत्यामृतानाम् । पुण्यावस्था त्वत्कटाक्षेक्षनेऽपि प्रौढप्रज्ञा<शालिनी> काप्युदेति ॥ ४६ ॥ कीर्तिरर्तिकर्त्तरस्तव स्तव-स्तोमसद्मनोऽतिसद्मनोहृतः । सान्द्रचन्द्रचन्द्रिकार्द्रचन्दन-<श्येन्य्> अलङ्करोत्यलं दिशो दश ॥ ४७ ॥ अभ्युद्गतानेकशिखाभिरुच्चैस्त्वत्संश्रयाद्दुस्त्यजसत्त्वदृष्टिः । प्रध्वस्रमन्वञ्चति शैलमूर्तिस्तीव्र्<एन्द्रवज्रा>हतिदारितेव ॥ ४८ ॥ विरूढधर्माधिपभावभव्य-प्रतुङ्गसिंहासनसंनिषण्णम् । उपासते कान्तिशिवाः शिवापत्य्-<उपेन्द्रवज्रा>युधवेधसस्त्वाम् ॥ ४९ ॥ अनन्तरोद्भावितलक्षणाढ्यौ पादौ भवेतामपि गोचरौ ते । यासां दृशः श्रव्ययतिप्रपञ्चौ धन्याः सुराणाम् <उपजातयस्> ताः ॥ ५० ॥ असंशयं त्वामपरेषु सत्स्वपि प्रकामसर्वात्मगुणानुहारिषु । अनन्यसाधारणया धियाधिपा उशन्ति <वंशस्थम्> अनङ्गजिष्णवः ॥ ५१ ॥ बालाकृतिं कान्तविचित्रभूषणं हेमाभमक्षोभ्यसनाथशेखरम् । वागीश्वरं वाग्मतिमूर्तिभिर्नमे मौन्<ईन्द्रवंशा>भरानोदयश्रियम् ॥ ५२ ॥ अतिविस्तरैरपि गिरां सुगिरो गुणपारमीयुरधिनाथ न ते । निजमोदमात्रजननीति नुतिः <प्रमिताक्षरा>पि सुभगैव मम ॥ ५३ ॥ दीप्यमानाखिलालङ्कृतिश्लाघिनी पुण्यभाजां मुखाम्भोजलब्धोदया । भारती भारतीश स्वभावोज्ज्वला त्वामुपैति स्वयं सद्गुण<स्रग्विणी> ॥ ५४ ॥ भङ्गं नीतास्ते पञ्चबाणस्य बाणाः शान्तो द्वेषाग्निर्मोहजाड्यं निरस्तम् । नाथ त्रैलोक्यानुग्रहव्यग्रमूर्ते संपत्संप्राप्ता <वैश्वदेवी> त्वयैव ॥ ५५ ॥ संपूर्णोऽन्तर्गुणगणरत्नैश्चित्रैरम्भोराशेर्यतिमतिधैर्याद्धत्से । संक्लेशाग्निप्रशमनसद्धर्माम्भो-धारासारैर्<जलधरमाला>लीलाम् ॥ ५६ ॥ तव पुरः परमोत्तम संमताः प्रतिभया विकलाः प्रतिवादिनह् । सुलभमूकदशा बहु मन्यन्ते <द्रुतविलम्बितम्> अप्युदितं वचः ॥ ५७ ॥ त्रितयमपि पवित्रयन्ती जगत्तुहिनकरकरावदातद्युतिः । प्रभवति भवतश्च कीर्तिश्चिरं सुरगिरिशिरसश्च <मन्दाकिनी> ॥ ५८ ॥ हरति नितान्तमियं तव कीर्तिः कृतिहृदयानि दयानिजवास । प्रसवचयेन चितेव समन्ताद्दिशि दिशि <कुन्दलता> दलतालम् ॥ ५९ ॥ दलयत्युपात्तशोभासमवायो जगतामघानि कोऽप्येष कृपाब्धिः । बहुबुद्धकोटिनिर्माणपटीयान् धृतधर्मधातु<वागीश्वरलीलः> ॥ ६० ॥ प्रविकिरतीव वियत्तरङ्गिणी-तरलतरङ्गरुचो रुचां चयान् । विलसति शश्वदसिर्दशान्तरे तव <यमुना>जलवीचिमेचकः ॥ ६१ ॥ *मनोहारिहारावलीरम्यरूपं क्व नाथेदृशं ते सुरूपाधिराज । क्व तच्चातिदुर्दान्तसत्त्वप्रशान्त्यै स्फुरद्भीमभूषा<भुजङ्गप्रयातम्>* ॥ ६२ ॥ अविरलमौक्तिकप्रकरभूषा हरति न कस्य चित्तमियमीश । सुरुचिरमल्लिकासमयसेव्य-प्रति<नवमालिनी>व तव मूर्तिः ॥ ६३ ॥ तव नाथ परं यदि कान्तिसुधा-जलधौ श्रममुज्झति झात्कृतिनि । शुभरूपनिरूपणलम्पटकं परि<तो> <ऽटकम्> अङ्ग जगन्नयनम् ॥ ६४ ॥ वरद विरतिभाञ्जि व्यक्तमङ्गान्यतिभव भविता नोऽवश्यमेव । तव वचनसुधायाः पानपात्रं श्रवणयुग<पुटो>ऽयं प्रीतिहेतुः ॥ ६५ ॥ वृणे वरमिमं त्वदेकमतुल-प्रभाव भवतान्न मादृशजनः । भवन्तमपि यह्श्रयञ्छमसुधा-<रसेषु विरतिर्> <जडोद्धतगतिः> ॥ ६६ ॥ त्वत्प्रसादसमुदीर्णशुभवशाद्<अष्टभेदि> सुखमेव कृतिजनः । लोचनोत्सवविधासु तनुभृतां <चन्द्र> <वर्त्म> समुपैति भवभिदाम् ॥ ६७ ॥ सुखदुःखातिशयादिहेतुजातैरविलुप्तस्मृतयो भवन्ति भव्याः । तव पादाश्रयलब्धबुद्धिसाराः स<कला>यामपि वादिरा<ज गत्याम्> ॥ ६८ ॥ तव चरणपरिचरणरुचीनां किमपि सुखमुदयति कृतिरूपम् । निखिलमलपटलविगमदीप्रं प्रथितगुण<महितमति जगत्याम्> ॥ ६९ ॥ कलधौतकान्तवपुरुत्तमलीलः पटुभारतीवरटया वरिवस्यः । इह मञ्जुघोष इति वः प्रथितो व्याज्जिनमानसैकनलिनी<कलहंसः> ॥ ७० ॥ <विच्छेदस्त्रिषु> यदि दुःसहेष्वमीषु क्लेशेषु स्फुटमणुशोऽपि दुष्करः स्यात् । प्राप्येत क्व नु खलु नाथ मूर्तिरीदृक्त्रैलोकीनयनमनः<प्रहर्षिणी>ह ॥ ७१ ॥ <पयोनिधौ विरतिम्> अपां <विधाय> च स्फुरन्महाकिरणकलापरत्नधौ । भवादृशां वपुषि च कान्तिसंततिः समीक्ष्यते यदि <रुचिरे>यमीदृशी ॥ ७२ ॥ मन्द्रध्वानैर्यामृतधारास्त्वयि रम्या मुञ्चत्युच्चैर्विस्फुरति प्रीणितभव्ये । नाथान्वेति व्यक्ततयात्यन्तमनोज्ञं वर्षाम्भोदं <सैव यतिर्> <मत्तमयूरम्> ॥ ७३ ॥ जयतीयमुत्पलतरोरनुत्तर-त्रिजगत्प्रमोदजनने मधाविव । त्वयि नेत्रकान्त<कुसुमोद्गता> लता मधुमत्तभृङ्गरव<मञ्जुभाषिणी> ॥ ७४ ॥ सर्वातिशायिगुणनिर्भरलब्धमोदैर्विद्वन्मधुव्रतकुलैरुपगीयमानम् । मन्यामहे जिननयाभरणं तवैव वृत्तं <वसन्ततिलकं> नवचूतमेव ॥ ७५ ॥ संमुखवलन्मुखमृगाधिपतिपृष्ठा-रूढमतिगाढदयमभ्युदयकन्दम् । सुन्दरिमबन्धुरितहेमहिमपादं वादिकुल<दैवतम्> अमन्दमभिवन्दे ॥ ७६ ॥ प्रशमितसकलप्रपञ्चनिरावृति-प्रसरदमलधीसमाधिसुधाजुषः । दमयति भवतो हताहितविक्रमा <मुनियतिर्> <अपराजिता> भुवनत्रयम् ॥ ७७ ॥ प्रतिभयवपुषामकरुणचरित-प्रशमनविधये क्व चिदपि कृपया । तव भुजपरिघावलिरतिविषमा विलसति विविध<प्रहरणकलिका> ॥ ७८ ॥ श्रेयःसंभोगं <विषयविरतिम्> अव्यग्रां मारप्रध्वंसं त्रिभुवनहितसंपत्तिम् । दुष्प्रापाहार्यं पदम् <अभिलषतां> तच्च त्वद्भक्तेरन्या वरद न दिग्<असंबाधा> ॥ ७९ ॥ भवतः कलां किमपि <संयतैरिन्द्रियैः> क्व चिदादरस्तिमितधीर्यदि ध्यायति । अचिरात्स्वयं वरयतीयमेनं जनं <वसुधा> ध्रुवं जलधिशक्वरीभूषणा ॥ ८० ॥ स्वेदपूरविलसत्पुलकोच्छ्वसितैस्त्रुटत्-कञ्चुकं दधति निर्धुतमप्यमरस्त्रियः । कान्तिकम्रमिव ते समिताव्<अतिशक्वरी>-बन्धसारमुरुकम्पम् <अनङ्गविजृम्भितम्> ॥ ८१ ॥ अनुपमरमणीया <भङ्गिरङ्गेषु> यस्या हरति रतिमुदाराशेषरूपान्तरेषु । जयति तनुरखण्डाखण्डलेष्वासलक्ष्मी-विजयपरमधामव्यामरुग्<मालिनी>यम् ॥ ८२ ॥ अविकलतालशालिकलकाकलीकल-व्यतिकरवल्लकीवलितचारुपञ्चमा । भणति मुदा प्रतीष्टजिनभार भारती स्वमहिम<कामिनी> तव सभासु <मद्रकम्> ॥ ८३ ॥ जयति नाथ जगज्जयकुञ्जरनिश्चली-करणशृङ्खलजालनिभाङ्गदभूषितः । भुजतरुस्तव दुर्गतिमार्गमहार्गलः प्रमदमन्मथनिर्मथनः <सुगतप्रियः> ॥ ८४ ॥ भवशिरसि महितगुणमहिमभुवं व्यपगतसकलमलशुचिमधिपते । तव वरविजयसमुपचितयशसः श्रियमनुहरति हि शरदि <शशिकला> ॥ ८५ ॥ पटुपरिमलमिलितमधुकरयुव-भ्रमसहशितिसुगतसमुचितसुखा । विलसति तव शिरसि <रसलयवती> <स्रग्> इयममरपतियुवतिविरचिता ॥ ८६ ॥ न <यतिपदमयसि> यदतिदयधियः प्रथयसि जगति च परहितकृतिनः । जनयति हिमचयरुचिरिति भवतो वियदुपहतनिज<मणि गुणनिकरः> ॥ ८७ ॥ अतिरतिकरकथ कथमिव समियादविरतनवनवनव तव परमैः । गुणगणपरिमितिम् <उदधिषु यतिभिः> सुयतिभिरगणित<गुण मणिनिकरः> ॥ ८८ ॥ जयति तव तनुरियमुरुतरकरुण निखिलजगदुचितपरिभुगवनिरिव । शिशुमतिकलितसकलजनबहुविध-विमतिलडितविधिभिर्<अचलध्र्तिर्>इह ॥ ८९ ॥ प्रति <जडधियमि>ह समधिकगुरुदय मृदुमतिरपि तव शुभमयसमुदय । करतलविनिहितकुवलय कलयति जिनकुल<कुवलयम्> अविषमभरमिति ॥ ९० ॥ व्योमविकीर्णकिर्तिमदपरिमलकलना-भङ्गुरतुङ्गवादिमदकलकरिनिकरं । विश्ववनोदरेऽत्र <रवयति>जितजलदं नाथ दधास्युदारम् <ऋषभगजविलसितम्> ॥ ९१ ॥ कस्त्वयि बद्धवर्मणि जगद्धितधानधिया निर्विहतप्रतिज्ञ परितापकणः क्व चन । मारवधूजनस्य कमनीयकपोलतले यन्नव<पत्त्रभङ्गरचना>लस एव करः ॥ ९२ ॥ निरुपमरम्यरूप जिनजातदृश्वनो <ऽष्टौ> मदयति तेऽधिकं विधुतशोक लोकपालान् । सदुपधिपुण्डरीकनखराजिराजितेयं विरचितपञ्चचीररुचिरा <कुमारलीला> ॥ ९३ ॥ गुणानाम् <अत्यष्टिः> कथमिह ममेवास्तु जगतामिति <च्छन्दः> स्वैरं <परिणतिमवापत्> तव <तथा> । <यथा> त्वय्येवास्मिन् परम<रसभेदप्रणयनी> <समुद्भूता> भूतिर्निखिलसुखशाखा<शिखरिणी> ॥ ९४ ॥ जयत्यमरमन्दिरोपलविशालरक्षःस्थलः स्थलीकमलकाननप्रतिमपादकन्दप्रभः । प्रभाकरशताधिकप्रकटतेजसालङ्कृतः कृतान्त<मदमर्दनस्> त्रिभवनाथ<पृथ्वी>धरः ॥ ९५ ॥ विमोहबहलान्धकारपटलावनद्धैर्मुधा रसातलगुहातिशायिभवसंकटेषु स्थितम् । त्वदङ्घ्रिकमलाश्रयोत्सवसुखं न चेदादृतं चिरस्य जिनवंशभास्कर कुमा<र मा>रैर्जितम् ॥ ९६ ॥ कल्पशतोपपादितमहाफलमिव विहितं चञ्चलमेतदायुरधिप त्वदवनतिपरैः । भूषणभव्यभावगमितं श्रितगुरुकरुणा-<दिग्यतिवंश> <पत्त्रपतितं> कमिव जलरुहः ॥ ९७ ॥ तव गुणविस्तरप्रणयपूतवचोविभवं वरद स एक एव सुमुखो मुखमावहति । मधुमयसामधाम यजुषा सजुषानुगतं श्रवणसुधाभिमानभव<नर्क्कुटकं> च विधिः ॥ ९८ ॥ त्रिभुवनसंमदप्रदजिनव्यवसायमधौ स्फुटसहकारतामहितमीहितमेति तव । प्रवचनमञ्जरीस्रुतशमामृतपानमुदा-भृत <यतिषट्पदं> कलकणत्कृति<कोकिलकम्> ॥ ९९ ॥ क्व चिदपि भवद्भीत्या भूरिप्रवादिमदद्विपोद्-दलन सुगतस्वान्तक्ष्माभृद्गभीरगुहागृह । त्रिभवनवनाधीश क्रीडा<रसार्णवसंयता> द्रवति <हरिणी>वारं मारप्रचण्डमहाचमूः ॥ १०० ॥ दुर्दान्तानां दमनविधये क्वापि कारुण्यवेगात्धत्से मूर्तिं चरणशिखया ख्यातविक्रान्त यस्याः । त्रैलोकीयं <श्रुतरसभिद्>आक्रन्दनादैकवृत्तिर्<मन्दाक्रन्ता> व्रजति विलयं नाथ न स्वास्थ्यमाशु ॥ १०१ ॥ <शोभासंपत्तिः शिरसि गुरुणैकेन सैवोपजाता> या स्यात्कल्पद्रोः शुभफलनिभं बिभ्रतो भद्रकुम्भम् । [व्या]ख्यानप्रेङ्खत्करकररुहोद्भासिनी भाति भर्तुर्दोर्वल्ली चेयं <कुसुमितलता वेल्लिते>वानिलेन ॥ १०२ ॥ वृत्तमेतदशेषबुद्धकुलाकलन्ककलानिधेराहितं हृदि चेन्महाजडहारहारितवानसि । जिह्वया प्रणयीति चेद्घनसारसारमदेन किं <कर्णपूरम्> अकारि चेत्[खलु] खण्डितं मणिकुण्डलम् ॥ १०३ ॥ उपचितपुण्यसंचय शचीकरतलसुखदैः परिचरणैरतृप्तिगमिव स्वमसममहिम[न्] । मणिमयपादपीठफलकं <स्फुटयति भवतः> कलित<तमालपत्त्रम्> अलिकान्नमति शत<धृतौ> ॥ १०४ ॥ परार्थे स्थास्नूनाम् <अतिधृतिमताम्> ईश विश्वानुकम्पा-मुखोन्मीलन्नाना<रसरसपद्> आकर्णयावेदयामि । दशां तामाधेहि क्षणमपि गुरो पावनीं पावनानां समन्तध्वान्तानि प्रहरसि यया <मेऽघविस्फूर्जिता>म् ॥ १०५ ॥ पायाद्वो वरबुद्धवंशजलधेर्वृद्धौ सुधादीधितिर्मञ्जुश्रीः परिभूतमन्मथकथः प्रज्ञाङ्गनासंगमे । भीमभ्रान्तिविभावरीपरिभवे <बिभ्रद्यतिं भास्वतो> विश्वक्लेशकुरङ्गसङ्गरविधौ <शार्दूलविक्रीडितम्> ॥ १०६ ॥ अन्तस्त्रासाङ्कुराभोत्पलिततनुरुहैस्त्रैलोक्यविजया-वस्थां ते वीक्ष्य <भग्नं> सुर<मुनिविसरैर्> उग्रग्रहनुदः । कारुण्यादुद्यतस्याप्यमलतरशरज्ज्योत्स्नापरिकरादिन्दोर्बिम्बादनर्घस्मितव<सुवदना>शेषप्रिय<कृतौ> ॥ १०७ ॥ भयभग्नैरतिदूरतो विरहिणां पत्त्रैः श्रयायायताममराणां गुरुभक्तिनिर्भरमनोव्यक्तौ सहायोपमम् । गगनामेयरयं युगान्तजलदध्वानाधिकक्ष्वेदितं परितः <खण्डितमारम्> अस्तु जगतस्त्वत्<सिंहविक्रीडितम्> ॥ १०८ ॥ व्याप्तविश्वया शरन्नभस्तलातिशुद्धया धियाधियात-दुःसहार्तिविक्लवाप्रमेयसत्त्वधात्वधीनसत्कृपाढ्य । संसृतौ च निर्वृतौ च शश्वदप्रतिष्ठवादिनां वरिष्ठ <वृत्तम्> ईदृशं तु नामतोऽपि नापरस्य सिद्धिमभ्युपेति ॥ १०९ ॥ तीव्रतापविद्रुतायसच्छटासदृक्कटाक्षसंयमक्षणा-धीनविश्वसंचयैश्चतुर्दिगीश्वरैः <प्रकृत्य्>उदञ्चितात्मभिः । स्फारविभ्रमप्रपञ्चपञ्चपञ्चबाणजिष्णुभिर्दशात्मना <सुन्दरी>जनेन चातनोषि कामपि प्रकामविस्मयां श्रियम् ॥ ११० ॥ उत्कीर्णोन्निद्रकुन्दप्रकरमिव दृशां <चारुभङ्गैस्त्रिभागैः> स्वेदस्रस्ताङ्गरागस्नपितमिव मुहुः कान्तकान्तिच्छटाभिः । व्याप्तं व्योम त्वदर्चारुचिभिरभिहताविद्य विद्याधरीभिः सौरभ्याकृष्टहृष्टक्वणदलिपटलोल्लासित<स्रग्धरा>भिः ॥ १११ ॥ <आकृति>जन्मवृत्तविभवक्रमातिशयसंपदः सुखमियादीश <दिगन्तगीतम्> अमलं यशश्च शरदिन्दुसुन्दरतरम् । गायति यस्तवाह्वयमयं सदैव भगवन् भवाध्वगजनो नूनमगम्यगौरव गिरां गुरो गुणसमुद्र <मद्रकम्> इदम् ॥ ११२ ॥ मध्वासारस्नातोद्भ्रान्तप्रबलमदमुक्खरमधुकरनिकरं प्रीतेरेकं लीलावासं विदितबलमपि मुनिहृदय<विकृतः> । वागीशान त्वय्येकान्तं <वसुविषयविरति>समुपचितबलिः संभोगश्री<मत्ताक्रीडं> वरद दिवि नियतमनुभवति ॥ ११३ ॥ मदगुरुगण्डगर्जितजितोन्नताम्बुदगजेन्द्रवृन्दमलिनं निशितसमस्तशस्त्रकिरणप्रभाम्बरपिनद्धपत्तिनिवहम् । प्रवररथाधिरूढसुभटं बलं बलनिधे त्वदेकशरणं श्रयति नरं मनो<हरयति>प्रवेशवशगोत्तम्<आश्वललितम्> ॥ ११४ ॥ प्रीतिनिवा<सं कृति>भुवि विदितोदारवरप्रदवरिवसनं त्वां यः स्मरतीश प्रतिहतविमतिः संततमन्तिमपदमुदितेषु । यौवनलीलासचिवसमुदयत्<पञ्चमकस्वरयतिरमणीया >स्यादिह <तन्वी> हिमकरवदना तद्वशगा सह नरपतिलक्ष्म्या ॥ ११५ ॥ विश्वहितैकासङ्गसहान्तः<करणकरण वसुपदम्> इव परमां योऽधिप गृह्णातीह तवाख्यां तम् <अभि कृति>वसतिरपि भुवि सरसी । सिध्यति मज्जद्दिग्गजगण्डच्युतमदपरिमलसुरभितसरित्सारसहंस<क्रौञ्चपदा>ङ्कोत्कनककमलवनरणदलिपटला ॥ ११६ ॥ ध्वान्तध्वंसिन्माराराते हतवृजिन जिनतनयभूविभूषणम् <उत्कृतौ> प्रौढोन्मीलल्लावण्यश्रीः स्थितिजनक <गिरि भवभिदाम्> उदारपराक्रम । त्वय्यारब्धो वन्ध्याराधो विधुरयति वरद सुधियां विराजतया स्फुरन् भोगासक्तोऽपीह स्वैरं विषमतमविषयतनुभृद्<भुजङ्गविजृम्भि तम्> ॥ ११७ ॥ तन्वत्सुस्फुटमविरतममितममृतरसकणमिव परितोऽङ्गेषु प्रत्यालोचनसमुदयि <नवरसरसपदम्> असदृशमतुलश्रीकम् । यत्कृच्छ्रैरपि न सुलभमपरविविधसुकृतविधिभिरभियुक्तात्मा त्वत्सेवातरुफलमिह समनुभवति तदखिलविपद्<अपवाहा>ख्यम् ॥ ११८ ॥ चपलचरणपीडितागाधिपोपेतपातालतालूच्छलद्व्यालपलस्तुतं जयति जयति चारुकारुण्यकेलिस्फुरत्पद्मनर्तेश्वराकारलीलायितम् । अनिभृतभुजदण्डषण्डप्रचण्डानिलोल्लासितः श्रान्तिशान्तिं तनोतीव ते प्रलयसमयशङ्कया यत्र लोकत्रयी<दण्डकश्चण्डवृष्टिप्रयातो>ऽम्बुदः ॥ ११९ ॥ <प्रतिपदमिह> जातशुद्धेः समाधेस्<त्रयस्याक्षरस्याभिसंवर्धनादन्त्यरूपस्पृशः> समधिगमवशाज्जयत्यार्यवर्यैः प्रभूतप्रमोदैः प्रगीतः प्रभाप्रकर्षस्तव । वरद यदनुमोदनावादसाराविणातृप्तचित्तैः सुरैर्वाद्यमाना न< यान्तिश्रमं> अपरिमपरमोपकारोत्तम्<अर्णार्णवव्यालजीमूतलीलाकरोद्दामशङ्खादयः> ॥ १२० ॥ प्रविकचकनकपङ्केजसौभाग्यभा<गङ्ग दत्तेन>भावाश्रितेभ्यस्तमःसु त्रिभुवनशमविधानाय <निर्वाणनीवृत्तमालाकृता>वात्तभक्ते भवारौ । दशबलतनयवर्गाग्रिमेण त्वया नाथ निर्माथिदुःखापहेन स्तुतेन <प्रचित> इति शुभराशिर्महान् यस्ततः स्ताज्जनौघे समृद्धिः समग्रेऽपि सैव ॥ १२१ ॥ अहमपि तव पादपद्माभिसंराधनाधीनधीसंनिरुद्धान्तरध्वान्तजातः समधिगतसमस्तवस्तूत्करव्यापिनैसर्गिकस्वप्नमायामयाद्वैततत्त्वः । अकरुणकरुणाबलावार्यवीर्योदयारब्धनानाविधव्यापृतिव्यस्तमारस्त्रिजगति परमोपकारैककृत्य<प्रवृत्तश्> चरेयं जनो यावदेकोऽप्यमुक्तः ॥ १२२ ॥ स्फारफुल्लस्थलाम्भोजनिर्भासभृट्पादपीठान्तविश्रान्तकान्तामरव्यालदैत्येन्द्रचूलोपलार्चिश्चयो दुःसहोद्दामदुःखानलग्रस्तपर्यस्तशक्तित्रिलोकीविशोकीक्रियानिर्विरामश्रमाश्चर्यचर्यानिधिः । शुद्धसंबुद्धवंशावतंसप्रकाशस्फुरत्कीर्तिकिर्णान्तरालप्रसारः कुमारो जयत्येष वागीश्वरः सर्वदुर्वारमारप्रवीरध्वजिन्युद्धवध्वंसबद्धाभिरामा समप्रौढिनिर्व्यूढगाढ<प्रतापोदयः> ॥ १२३ ॥ प्रौढवरवज्रवनिताङ्गपरिरम्भविलसत्पुलकजालकजगज्जयतनुत्रं सान्द्रसवसास्रमधुपानमदमुक्तविकटाट्टहसितत्रसदशेषसुरदैत्यम् । गाढविनिगूढदयविस्मयमयाप्रतिमरौद्रतनुमद्वयमहार्णवनिमग्नं शुद्धगुणधाम करुणाबलमुदारनवनाट्यरसवल्<ललित>वृत्तमभिवन्दे ॥ १२४ ॥ इति दुष्करप्रभेदवृत्त)मालास्तुतिविवृतौ समवृत्तानि ॥ ॥ इदमर्धमबालशशिप्रभं बालरविप्रभमादधदर्धम् । करुणावशवर्ति भवद्वपुः कस्य मनो न करोत्य्<उपचित्रम्> ॥ १२५ ॥ तत्त्वसुधारसतृप्तिविशेषात्सकलसमीहितसिद्धिवशाद्वा । त्वच्चरणानुभुवा भवितव्यं भवमथनश्रुत न <द्रुतमध्या> ॥ १२६ ॥ किमुशन्ति बुधा अधिकं विभो यदि जनीय तदीयतनुर्भवेत् । तव दृष्टिसुधारसधारया स्फुरितहाररुचा <हरिणप्लुता> ॥ १२७ ॥ इयमुरुकरुणारसा मुखश्रीः समधिगता निजधीश्रियो रसेन । स्फुरदधरदलाभिहारिहेमा-म्बुजकलिकेव विभाति <पुष्पिताग्रा> ॥ १२८ ॥ मुखमिदमपरं तवोत्पल-प्रकररुचामिव भाति संचयः । समुदितमिव कैरवश्रिया हरति मनोऽ<परवक्त्रम्> इव ॥ १२९ ॥ <इदमर्धसमं> समीक्ष्यते ते बत <वृत्तं> जयिनो जगत्त्रयस्य । क्व चिदर्थविधौ विधूतविश्वा <शिशुलीला> ललितापि यत्तवेयम् ॥ १३० ॥ पदमेकमवेक्ष्य ते क्षणं प्रसभाक्रान्त जगत्त्रयीशिखम् । कथमस्तु न विश्वभारती निजदासीव तव <प्रियंवदा> ॥ १३१ ॥ स्वरसोपनतां शमशय्यां किं नु विधूय धियोऽप्यतिदुर्गैः । अतिचित्रचरित्रशतैस्ते <वेगवती> करुणा यदि न स्यात् ॥ १३२ ॥ सर्वातिशयस्य धाम धाम्नः सर्वाङ्गीणसुलक्ष्यलक्षणश्रीः । लोकस्य गतापि हि स्मृतिं ते भद्रं <भद्रविराट्> तनुस्तनोति ॥ १३३ ॥ परितः स्फुरद्भिरभिरामैरंशुमयैः परार्थपरमार्थैः । पविपद्मखड्गमणिचक्रैः <केतुमती> विभाति तव मूर्तिः ॥ १३४ ॥ चैत्तमात्रभावभाजि भाव्यते क्व परा परार्थसंपदीदृशी दयायाम् । सेयमेतदाकृतिच्छलादतोऽव-<यवध्वनेर्मतुप्स्त्रिया> समाभिधाना ॥ १३५ ॥ उदयदरुणकिरणनिकरपरिकर-कनकमयविमलहिमकरजयनी । जयति निखिलजगदभिरतिकृतिपटुरतिभव तव तनुरियम् <अतिरुचिरा> ॥ १३६ ॥ त्रिभुवनदुरधिगमचरणपरिचरणगुरुविभवभगवदसितसुगत-प्रतिकृतिसचिवविमलमणिनिचयखचितसुपरिघटनगुणवसतिः । जिननयगदनरवलयलवसमनुकृतिरसिकनिभसुरभिसुरसुमनः-परिमलमिलदलिकुलकणितनिधिरधिगमजलद जयति तव <शिखा> ॥ १३७ ॥ समुदयदिशि समुपनतरुचिषु विविधसमुदयकरणमभिदधती प्रशमसुखरसरसिकमतिषु निरुपमशमसुखपथकथनपृथुनिरतिः । अपरिमितसुकृतफलमधिप तव जयति सकलजिननयनयनगीरृजुमतिषु नियतमृजुरमृतकुट कुटिलमतिषु निरतिशय<कुटिलपदा> ॥ १३८ ॥ <आख्यानिके>यं भवतो गुणानामिति स्तुवंस्त्वामभिमन्यते यः । नूणं स गण्डूषजलोपयोगान्मया निपीतोऽम्बुधिरित्यवेति ॥ १३९ ॥ अपि त्वशेषस्मरवैरिणामप्याख्येयताख्यातिमनाश्रितेषु । गुणेषु ते नाथ वृथाभिमानस्य-<आख्यानिका>सौ <विपरीतपूर्वा> ॥ १४० ॥ ॥ इति दुष्करप्रभेदवृत्तमालाविवृतनर्धसमवृत्तानि ॥ <अष्टाभिरक्षरैः पादो>ऽसोढस्तद्गाढमज्जनाद्<अनुवृद्धैः> । गुणसागर <सागरैर्> अपूरिताङ्गुरीगर्तो <विषमं> दशान्तरे दया <पदचतुरूर्ध्वं> नयति भावम् ॥ १४१ ॥ इति निगदितजातौ कृतविषमचरणरचनायाम् । लघुगुरुनियतिभृति भयमयति को न भवसि न यदि नियतमभिविधिवचनमनु <पीडः> ॥ १४२ ॥ सुचिरनिहितहितमतिकन्दाङ्-कुर इव तव भाति । विषमजनदमनघटितविकटमूर्तेस्त्रिपुरहरमुकुटमणिसदृशदशन<कलिके>यम् ॥ १४३ ॥ प्रसरदुरुदहनघनघोर-च्छटमिव गगनतलमनवधि दधाना । प्रसभमभिमुखं ते प्रशमयति शमनमपि नयनवलन<लवली>ला ॥ १४४ ॥ मृदुजनमनु पुनरियमेव प्रशमितसकलकटुकलुषविषराशिः । प्रतिमुहुरभिनवमतुलसुखनिधिमुपनयन्ती नियतम् <अमृतधार> ॥ १४५ ॥ पदचतुरूर्ध्वप्रभेदाः ॥ ॥ तडितोज्ज्वलं जलदराशिमनिशमुदभारबन्धुरम् । घोरघनरसितमीश तनुः कृपया कुतोऽपि जयतीयम् <उद्गता> ॥ १४६ ॥ अत एव दुष्करतराणि विलसितशतानि तन्वतः । ह्लादयत्यखिललोकमिदं पटुकीर्ति<सौरभकम्> अद्भुतं तव ॥ १४७ ॥ भृकुटीकटाक्षदशनेषु किमपि विकृतानि बिभ्रतः । दमयति तव भुवनानि वपुर्<ललितं> च किं तु <विकटं> यदीदृशम् ॥ १४८ ॥ ॥ उद्गताभेदाः ॥ ॥ प्राग्भारातिशयेऽपि तादृशेऽद्भुतभीमे भुवनाहितहतये समं समन्तात् । मरुदनतिशयरयः <प्रचुपितम्> अपि तव न समेति सलीलम् ॥ १४९ ॥ किं भूयो भगवन् भवन्तमश्रयमाप्तः स्थितभारमतुलम् <आर्षभं> दधानम् । तच्<छुद्धविराड्विशेषणम्> ह्यपरविषमशिरसि पदं विनिधत्ते ॥ १५० ॥ आराध्येति भवन्तमाश्रयैकसमृद्ध्या कुशलं यदमलमस्ति <वर्धमानम्> । ततिदमखिलमुदञ्चतु भुवनमुरुपदं त्वदभिमतमतिविविधवृत्तविशेषैः ॥ १५१ ॥ अपि च प्रचयेन भूयसा कुशलस्यास्य निकमनिर्मलस्य । विगलतु सकलस्य देहिनो भवरजनीप्रभवान्धकारराशिः ॥ १५२ ॥ ॥ सर्वविषमाणि ॥ किं च प्रौढप्रज्ञाप्रेयस्य्-अलिङ्गेन्<आनङ्गक्रीडम्> । उडुपतिरुचिरनिचयमयमिव वपुरनतिशयकरुणमिह वहदनुभवतु ॥ १५३ ॥ ॥ अर्धविषमम् ॥ विचित्रवृत्तैरिति वर्णनेन यदाचितं चन्द्रकरामलं शुभम् । ततोऽस्तु लोकः परिमुक्तशोकः स्फुरन्महासौख्यशिखासखीवरः ॥ १५४ ॥ ॥ पादविषमम् ॥ ॥ आर्यमञ्जुघोषस्य दुष्करप्रभेदा वृत्तमालास्तुतिः समाप्त ॥ ॥ कृतिरियं महापण्डितस्थविरज्ञानश्रीमित्रस्य ॥