पाण्डितवरश्रीवामनविरचितानि काव्यालङ्कारसूत्राणि स्ववृत्तिसमेतानि शारीरं नाम प्रथमाधिकरणम् । प्रथमोऽध्यायः । प्रणम्य परमं ज्योतिर्वामनेन कविप्रिया । काव्यालङ्कारसूत्राणां तेषां वृत्तिर्विधीयते ॥ काव्यं ग्राह्यमलङ्कारात् ॥ १,१.१ ॥ सौन्दर्यमलङ्कारः ॥ १,१.२ ॥ स दोषगुणालङ्कारहानादानाभ्याम् ॥ १,१.३ ॥ शास्त्रतस्ते ॥ १,१.४ ॥ काव्यं सद्दृष्टादृष्टार्थम्, प्रीतिकीर्तिहेतुत्वात् ॥ १,१.५ ॥* द्वितीयोऽध्यायः । अरोचकिनः सतृणाभ्यवहारिणश्च कवयः ॥ १,२.१ ॥ पूर्वे शिष्याः, विवेकित्वात् ॥ १,२.२ ॥* नेतरे, तद्विपर्ययात् ॥ १,२.३ ॥* न शास्त्रमद्रव्येष्वर्थवत् ॥ १,२.४ ॥ न कतकं पङ्कप्रसादनाय ॥ १,२.५ ॥ रीतिरात्मा काव्यस्य ॥ १,२.६ ॥ विशिष्टा पदरचना रीतिः ॥ १,२.७ ॥ विशेषो गुणात्मा ॥ १,२.८ ॥ सा त्रिधा वैदर्भी गौडीया पाञ्चाली चेति ॥ १,२.९ ॥ विदर्भादिषु दृष्टत्वात्तत्समाख्या ॥ १,२.१० ॥ समग्रगुणोपेता वैदर्भी ॥ १,२.११ ॥ ओजःकान्तिमती गौडीया ॥ १,२.१२ ॥ माधुर्यसौकुमार्योपपन्ना पाञ्चाली ॥ १,२.१३ ॥ तासां पूर्वा ग्राह्या, गुणसाकल्यात् ॥ १,२.१४ ॥* न पुनरितरे, स्तोकगुणत्वात् ॥ १,२.१५ ॥* तदारोहणार्थमितराभ्यास इत्येके ॥ १,२.१६ ॥ तत्तु न॑ अतत्त्वशीलस्य तत्त्वानिष्पत्तेः ॥ १,२.१७ ॥* न शणसूत्रवानाभ्यासे त्रसरसूत्रवानवैचित्र्यलाभः ॥ १,२.१८ ॥ सापि समासाभावे शुद्धवैदर्भी ॥ १,२.१९ ॥ तस्यामर्थगुणसंपदास्वाद्या ॥ १,२.२० ॥ तदुपारोहादर्थगुणलेशोऽपि ॥ १,२.२१ ॥ सापि वैदर्भी, तात्स्थ्यात् ॥ १,२.२२ ॥* तृतीयोऽध्यायः । लोको विद्या प्रकीर्ण च काव्याङ्गानि ॥ १,३.१ ॥ लोकवृत्तं लोकः ॥ १,३.२ ॥ शब्दस्मृत्यभिधानकोशच्छन्दोविचितिकलाकामशास्त्रदण्डनीतिपूर्वा विद्याः ॥ १,३.३ ॥ शब्दस्मृतेः शब्दशुद्धिः ॥ १,३.४ ॥ अभिधानकोशात्पदार्थनिश्चयः ॥ १,३.५ ॥ छन्दोविचितेर्वृत्तसंशयच्छेदः ॥ १,३.६ ॥ कलाशास्त्रेभ्यः कलातत्त्वस्य संवित् ॥ १,३.७ ॥ कामशास्त्रतः कामोपचारस्य ॥ १,३.८ ॥ दण्डनीतेर्नयापनययोः ॥ १,३.९ ॥ इतिवृत्तकुटिलत्वं च ततः ॥ १,३.१० ॥ लक्ष्यज्ञत्वमभियोगो वृद्धसेवावेक्षणं प्रतिभानमवधानं च प्रकीर्णम् ॥ १,३.११ ॥ तत्र काव्यपरिचयो लक्ष्यज्ञत्वम् ॥ १,३.१२ ॥ काव्यबन्धोद्यमोऽभियोगः ॥ १,३.१३ ॥ काव्योपदेशगुरुशुश्रूषणं वृद्धसेवा ॥ १,३.१४ ॥ पदाधानोद्धरणमवेक्षणम् ॥ १,३.१५ ॥ कवित्वबीजं प्रतिभानम् ॥ १,३.१६ ॥ चित्तैकाग्र्यमवधानम् ॥ १,३.१७ ॥ तद्देशकालाभ्याम् ॥ १,३.१८ ॥ विविक्तो देशः ॥ १,३.१९ ॥ रात्रियामस्तुरीयः कालः ॥ १,३.२० ॥ काव्यं गद्यं पद्यं च ॥ १,३.२१ ॥ गद्यं वृत्तगन्धि चूर्णमुत्कलिकाप्रायं च ॥ १,३.२२ ॥ पद्यभागवद्वृत्तगन्धि ॥ १,३.२३ ॥ अनाविद्धललितपदं चूर्णम् ॥ १,३.२४ ॥ विपरीतमुत्कलिकाप्रायम् ॥ १,३.२५ ॥ पद्यमनेकभेदम् ॥ १,३.२६ ॥ तदनिबद्धं निबद्धं च ॥ १,३.२७ ॥ क्रमसिद्धिस्तयोः स्रगुत्तंसवत् ॥ १,३.२८ ॥ नानिबद्धं चकास्त्येकतेजःपरमाणुवत् ॥ १,३.२९ ॥ संदर्भेषु दशरूपकं श्रेयः ॥ १,३.३० ॥ तद्धि चित्रं चित्रपटवद्विशेषसाकल्यात् ॥ १,३.३१ ॥ ततोऽन्यभेदकॢप्तिः ॥ १,३.३२ ॥ समाप्तं चेदं शारीरं प्रथममधिकरणम् । दोषदर्शनं नाम द्वितीयमधिकरणम् । प्रथमोऽध्यायः । गुणविपर्ययात्मानो दोषाः ॥ २,१.१ ॥ अर्थतस्तदवगमः ॥ २,१.२ ॥ सौकर्याय प्रपञ्चः ॥ २,१.३ ॥ दुष्टं पदमसाधु कष्टं ग्राम्यमप्रतीतमनर्थकं च ॥ २,१.४ ॥ शब्दस्मृतिविरुद्धमसाधु ॥ २,१.५ ॥ श्रुतिविरसं कष्टम् ॥ २,१.६ ॥ लोकमात्रप्रयुक्तं ग्राम्यम् ॥ २,१.७ ॥ शास्त्रमात्रप्रयुक्तमप्रतीतम् ॥ २,१.८ ॥ पूरणार्थमनर्थकम् ॥ २,१.९ ॥ न वाक्यालङ्कारार्थम् ॥ २,१.१० ॥ अन्यार्थनेयगूढार्थाश्लीलक्लिष्टानि च ॥ २,१.११ ॥ रूढिच्युतमन्यार्थम् ॥ २,१.१२ ॥ कल्पितार्थं नेयार्थम् ॥ २,१.१३ ॥ अप्रसिद्धार्थप्रयुक्तं गूढार्थम् ॥ २,१.१४ ॥ असम्यार्थान्तरमसम्यस्मृतिहेतुश्चाश्लीलम् ॥ २,१.१५ ॥ न गुप्तलक्षितसंवृतानि ॥ २,१.१६ ॥ अप्रसिद्धासभ्यं गुप्तम् ॥ २,१.१७ ॥ लाक्षणिकासभ्यान्वितं लक्षितम् ॥ २,१.१८ ॥ लोकसंवीतं संवृतम् ॥ २,१.१९ ॥ तन्त्रैविध्यम्, व्रीडाजुगुप्सामङ्गलातङ्कदायिभेदात् ॥ २,१.२० ॥* व्यवहितार्थप्रत्ययं क्लिष्टम् ॥ २,१.२१ ॥ अन्त्याभ्यां वाक्यं व्याख्यातम् ॥ २,१.२२ ॥ द्वितीयोऽध्यायः । भिन्नवृत्तयतिभ्रष्टविसंधीनि वाक्यानि ॥ २,२.१ ॥ स्वलक्षणच्युतवृत्तं भिन्नवृत्तम् ॥ २,२.२ ॥ विरसविरामं यतिभ्रष्टम् ॥ २,२.३ ॥ तद्धातुनामभागभेदे स्वरसंध्यकृते प्रायेण ॥ २,२.४ ॥ न वृत्तदोषात्पृथग्यतिद्प्षः, वृत्तस्य यत्यात्मकत्वात् ॥ २,२.५ ॥* न, लक्षणः पृथक्त्वात् ॥ २,२.६ ॥* विरूपपदसंधि विसंधिः ॥ २,२.७ ॥ पदसंधेर्वैरूप्यं विश्लेषोऽश्लीलत्वं कष्टत्वं च ॥ २,२.८ ॥ व्यर्थैकार्थसंदिग्धायुक्तापक्रमलोकविद्या विरुद्धानि च ॥ २,२.९ ॥ व्याहतपूर्वोत्तरार्थं व्यर्थम् ॥ २,२.१० ॥ उक्तार्थपदमेकार्थम् ॥ २,२.११ ॥ न, विशेषश्चेदेकार्थं दुष्टम् ॥ २,२.१२ ॥* धनुर्ज्याध्वनौ धनुःश्रुतिरारूढेः प्रतिपत्त्यै ॥ २,२.१३ ॥ कर्णावतंसश्रवणकुण्डलशिरःशेखरेषु कर्णादिनिर्देशः संनिधेः ॥ २,२.१४ ॥ मुक्ताहारशब्दे मुक्ताशब्दः शुद्धेः ॥ २,२.१५ ॥ पुष्पमालाशब्दे पुष्पपदमुत्कर्षस्य ॥ २,२.१६ ॥ करिकलभशब्दे करिशब्दस्ताद्रूप्यस्य ॥ २,२.१७ ॥ विशेषणस्य च ॥ २,२.१८ ॥ तदिदं प्रयुक्तेषु ॥ २,२.१९ ॥ संशयकृत्संदिग्धम् ॥ २,२.२० ॥ मायादिविकल्पितार्थम्प्रयुक्तम् ॥ २,२.२१ ॥ क्रमहीनार्थमपक्रमम् ॥ २,२.२२ ॥ देशकालस्वभावविरुद्धार्थानि लोकविरुद्धानि ॥ २,२.२३ ॥ कलाचतुर्वर्गशास्त्रविरुद्धार्थानि विद्याविरुद्धानि ॥ २,२.२४ ॥ समाओतं चेदं दोषदर्शनं द्वितीयमधिकरणम् । गुणविवेचनं नाम तृतीयमधिकरणम् । प्रथमोऽध्यायः । काव्यशोभायाः कर्तारो धर्मा गुणाः ॥ ३,१.१ ॥ तदतिशयहेतवस्त्वलङ्काराः ॥ ३,१.२ ॥ पूर्वे नित्याः ॥ ३,१.३ ॥ ओजःप्रसादश्लेषसमतासमाधिमाधुर्यसौकुमार्योदारतार्थव्यक्तिकान्तयो बन्धगुणाः ॥ ३,१.४ ॥ गाढबन्धत्वमोजः ॥ ३,१.५ ॥ शैथिल्यं प्रसादः ॥ ३,१.६ ॥ गुणः संप्लवात् ॥ ३,१.७ ॥ स त्वनुभवसिद्धः ॥ ३,१.८ ॥ साम्योत्कर्षौ च ॥ ३,१.९ ॥ मसृणत्वं श्लेषः ॥ ३,१.१० ॥ मार्गाव्हेदः समता ॥ ३,१.११ ॥ आरोहावरोहक्रमः समाधिः ॥ ३,१.१२ ॥ न पृथक्, आरोहावरोहयोरोजःप्रसादरूपत्वात् ॥ ३,१.१३ ॥* न, असंपृक्तत्वात् ॥ ३,१.१४ ॥* अनैकान्त्याच्च ॥ ३,१.१५ ॥ ओजःप्रसादयोः तीव्रावस्था, ताविति चेदभ्युपगमः ॥ ३,१.१६ ॥* विशेषापेक्षित्वात्तयोः ॥ ३,१.१७ ॥ आरोहावरोहनिमित्तं समाधिराख्यायते ॥ ३,१.१८ ॥ क्रमविधानार्थं वा ॥ ३,१.१९ ॥ पृथक्पदत्वं माधुर्यम् ॥ ३,१.२० ॥ अजरठत्वं सौकुमार्यम् ॥ ३,१.२१ ॥ विकटत्वमुदारता ॥ ३,१.२२ ॥ अर्थव्यक्तिहेतुत्वमर्थव्यक्तिः ॥ ३,१.२३ ॥ औज्ज्वल्यं कान्तिः ॥ ३,१.२४ ॥ नासन्तः, सद्वेद्यत्वात् ॥ ३,१.२५ ॥* न भ्रान्ताः, निष्कम्पत्वात् ॥ ३,१.२६ ॥* न पाठधर्माः, सर्वत्रादृष्टेः ॥ ३,१.२७ ॥* द्वितीयोऽध्यायः । त एवार्थगुणाः ॥ ३,२.१ ॥ अर्थस्य प्रौढिरोजः ॥ ३,२.२ ॥ अर्थवैमल्यं प्रसादः ॥ ३,२.३ ॥ घटना श्लेषः ॥ ३,२.४ ॥ अवैषम्यं समता ॥ ३,२.५ ॥ अर्थदृष्टिः समाधिः ॥ ३,२.६ ॥ अर्थो द्विविधः, अयोनिरन्यच्छायायोनिर्वा ॥ ३,२.७ ॥* अर्थो व्यक्तः सूक्ष्मश्च ॥ ३,२.८ ॥ सूक्ष्मो भाव्यो वासनीयश्च ॥ ३,२.९ ॥ उक्तिवैचित्र्यं माधुर्यम् ॥ ३,२.१० ॥ अपारुष्यं सौकुमार्यम् ॥ ३,२.११ ॥ अग्राम्यत्वमुदारता ॥ ३,२.१२ ॥ वस्तुस्वभावस्फुटत्वमर्थव्यक्तिः ॥ ३,२.१३ ॥ दीप्तरसत्वं कान्तिः ॥ ३,२.१४ ॥ समाओतं चेदं गुणविवेचनं तृतीयमधिकरणम् । आलङ्कारिकं नाम चतुर्थमधिकरणम् । प्रथमोऽध्यायः । पदमनैकार्थमक्षरं चावृत्तं स्थाननियमे यमकम् ॥ ४,१.१ ॥ पादाः पादस्यैकस्यानेकस्य चादिमध्यान्तभागाः स्थानानि ॥ ४,१.२ ॥ भङ्गादुत्कर्षः ॥ ४,१.३ ॥ शृङ्खला परिवर्तकश्चूर्णमिति भङ्गमार्गः ॥ ४,१.४ ॥ वर्णविच्छेदचलनं शृङ्खला ॥ ४,१.५ ॥ सङ्गविनिवृत्तौ स्वरूपापत्तिः परिवर्तकः ॥ ४,१.६ ॥ पिण्डाक्षरभेदे स्वरूपलोपश्चूर्णम् ॥ ४,१.७ ॥ शेषः सरूपोऽनुप्रासः ॥ ४,१.८ ॥ अनुल्बणो वर्णानुप्रासः श्रेयान् ॥ ४,१.९ ॥ पादानुप्रासः पादयमकवत् ॥ ४,१.१० ॥ द्वितीयोऽध्यायः । उपमानेनोपमेयस्य गुणलेशतः साम्यमुपमा ॥ ४,२.१ ॥ गुणबाहुल्यतश्च कल्पिता ॥ ४,२.२ ॥ तद्द्वैविध्यम्, पदवाक्यार्थवृत्तिभेदात् ॥ ४,२.३ ॥* सा पूणा लुप्ता च ॥ ४,२.४ ॥ गुणद्योतकोपमानोपमेयशब्दानां सामग्र्ये पूर्णा ॥ ४,२.५ ॥ लोपे लुप्ता ॥ ४,२.६ ॥ स्तुतिनिन्दातत्त्वाख्यानेषु ॥ ४,२.७ ॥ हीनत्वाधिकत्वलिङ्गवचनभेदासादृश्यासंभवास्तद्दोषाः ॥ ४,२.८ ॥ जातिप्रमाणधर्मन्यूनतोपमानस्य हीनत्वम् ॥ ४,२.९ ॥ धर्मयोरेकनिर्देशेऽन्यस्य संवित्, साहचर्यात् ॥ ४,२.१० ॥* तेनाधिकर्वं व्याख्यातम् ॥ ४,२.११ ॥ उपमानोपमेययोर्लिङ्गव्यत्यासो लिङ्गभेदः ॥ ४,२.१२ ॥ इष्टः पुंपुंसकयोः प्रायेण ॥ ४,२.१३ ॥ लौकिक्यां समासाभिहितायामुपमाप्रपञ्चे च ॥ ४,२.१४ ॥ तेन वचनभेदो व्याख्यातः ॥ ४,२.१५ ॥ अप्रतीतगुणसादृश्यमसादृश्यम् ॥ ४,२.१६ ॥ असादृश्यहता ह्युपमा, तन्निष्ठाश्च कवयः ॥ ४,२.१७ ॥* उपमानाधिक्यात्तदपोह इत्येके ॥ ४,२.१८ ॥ न, अपुष्टार्थत्वात् ॥ ४,२.१९ ॥* अनुपपत्तिरसंभवः ॥ ४,२.२० ॥ न विरुद्धोऽतिशयः ॥ ४,२.२१ ॥ तृतीयोऽध्यायः । प्रतिवस्तुप्रभृतिरुपमाप्रपञ्चः ॥ ४,३.१ ॥ उपमेयस्योक्तौ समानवस्तुन्यासः प्रतिवस्तु ॥ ४,३.२ ॥ अनुक्तौ समासोक्तिः ॥ ४,३.३ ॥ किञ्चिदुक्तावप्रस्तुतप्रशंसा ॥ ४,३.४ ॥ समेन वस्तुनान्यापलापोऽपह्नुतिः ॥ ४,३.५ ॥ उपमानेनोपमेयस्य गुणसाम्यात्तत्त्वारोपो रूपकम् ॥ ४,३.६ ॥ स धर्मेषु तन्त्रप्रयोगे श्लेषः ॥ ४,३.७ ॥ सादृश्याल्लक्षणा वक्रोक्तिः ॥ ४,३.८ ॥ अतद्रूपस्यान्यथाध्यवसानमतिशयार्थमुत्प्रेक्षा ॥ ४,३.९ ॥ संभाव्यधर्मतदुत्कर्षकल्पनातिशयोक्तिः ॥ ४,३.१० ॥ उपमानोपमेयसंशयः संदेहः ॥ ४,३.११ ॥ विरुद्धाभासत्वं विरोधः ॥ ४,३.१२ ॥ क्रियाप्रतिषेधे प्रसिद्धतत्फलव्यक्तिर्विभावना ॥ ४,३.१३ ॥ एकस्योपमेयत्वोपमानत्वेऽनन्वयः ॥ ४,३.१४ ॥ क्रमेणोपमेयोपमा ॥ ४,३.१५ ॥ समविसदृशाभ्यां परिवर्तनं परिवृत्तिः ॥ ४,३.१६ ॥ उपमेयोपमानानां क्रमसंबन्धः क्रमः ॥ ४,३.१७ ॥ उपमानोपमेयवाक्येष्वेका क्रिया दीपकम् ॥ ४,३.१८ ॥ तन्त्रिविधम् । आदिमध्यान्तवाक्यवृत्तिभेदात् ॥ ४,३.१९ ॥* क्रिययैव स्वतदर्थान्वयख्यापनं निदर्शनम् ॥ ४,३.२० ॥ उक्तिसिद्ध्यै वस्तुनोऽर्थान्तरस्यैव न्यसनमर्थान्तरन्यासः ॥ ४,३.२१ ॥ उपमेयस्य गुणातिरेकत्वं व्यतिरेकः ॥ ४,३.२२ ॥ एकगुणहानिकल्पनायां साम्यदार्ढ्यं विशेषोक्तिः ॥ ४,३.२३ ॥ संभाव्यविशिष्टकर्माकरणान्निन्दास्तोत्रार्था व्याजस्तुतिः ॥ ४,३.२४ ॥ व्याजस्य सत्यसारूप्यं व्याजोक्तिः ॥ ४,३.२५ ॥ विशिष्टेन साम्यार्थमेककालक्रियायोगस्तुल्ययोगिता ॥ ४,३.२६ ॥ उपमानाक्षेपश्चाक्षेपः ॥ ४,३.२७ ॥ वस्तुद्वयक्रिययोस्तुल्यकालयोरेकपदाभिधानं सहोक्तिः ॥ ४,३.२८ ॥ यत्सादृश्यं तत्संपत्तिः समाहितम् ॥ ४,३.२९ ॥ अलङ्कारस्यालङ्कारयोनित्वं संसृष्टिः ॥ ४,३.३० ॥ तद्भेदावुपमारूपकोत्प्रेक्षावयवौ ॥ ४,३.३१ ॥ उपमाजन्यं रूपकमुपमारूपकम् ॥ ४,३.३२ ॥ उत्प्रेक्षाहेतुरुत्प्रेक्षावयवः ॥ ४,३.३३ ॥ समाओतं चेदमालङ्कारिकं चतुर्थमधिकरणम् । प्रायोगिकं नाम पञ्चममधिकरणम् । प्रथमोऽध्यायः । नैकं पदं द्विः प्रयोज्यं प्रायेण ॥ ५,१.१ ॥ नित्या संहितैकपदवत्पादेष्वर्धान्तवर्जम् ॥ ५,१.२ ॥ न पादान्तलघोर्गुरुत्वं च सर्वत्र ॥ ५,१.३ ॥ न गाद्ये समाप्तप्रायं वृत्तम्, अन्यत्रोद्गतादिभ्यः संवादात् ॥ ५,१.४ ॥* न पादादौ खल्वादयः ॥ ५,१.५ ॥ नार्धे किञ्चित्समाप्तं वाक्यम् ॥ ५,१.६ ॥ न कर्मधारयो बहुव्रीहिप्रतिपत्तिकरः ॥ ५,१.७ ॥ तेन विपर्ययो व्याख्यातः ॥ ५,१.८ ॥ संभाव्यनिषेधनिवर्तने द्वौ प्रतिषेधौ ॥ ५,१.९ ॥ विशेषणमात्रप्रयोगो विशेष्यप्रतिपत्तौ ॥ ५,१.१० ॥ सर्वनाम्नानुसंधिर्वृत्तिच्छन्नस्य ॥ ५,१.११ ॥ संबन्धसंबन्धेऽपि षष्ठी क्वचित् ॥ ५,१.१२ ॥ अतिप्रयुक्तं देशभाषापदम् ॥ ५,१.१३ ॥ लिङ्गाध्याहारौ ॥ ५,१.१४ ॥ लक्षणाशब्दाश्च ॥ ५,१.१५ ॥ न तद्बाहुल्यमेकत्र ॥ ५,१.१६ ॥ स्तनादीनां द्वित्वाविष्टा जातिः प्रायेण ॥ ५,१.१७ ॥ द्वितीयोऽध्यायः । रुद्रावित्येकशेषोऽन्वेष्यः ॥ ५,२.१ ॥ मिलिक्लबिक्षपिप्रभृतीनां धातुत्वम्, धातुगुणस्यासमाप्तेः ॥ ५,२.२ ॥* वलेरात्मनेपदमनित्यम्, ज्ञापकात् ॥ ५,२.३ ॥* क्षीयत इति कर्मकर्तरि ॥ ५,२.४ ॥ खिद्यत इति च ॥ ५,२.५ ॥ मार्गेरात्मएपदमलक्ष्म ॥ ५,२.६ ॥ लोलमानादयश्चानशि ॥ ५,२.७ ॥ लभेर्गत्यर्थत्वाण्णिच्यणौ कर्तुः कर्मत्वाकर्मत्वे ॥ ५,२.८ ॥ तेमेशब्दौ निपातेषु ॥ ५,२.९ ॥* तिरस्कृत इति परिभूते, अन्तर्ध्युपचारात् ॥ ५,२.१० ॥* नैकशब्दः, सुप्सुपेति समासात् ॥ ५,२.११ ॥* मधुपिपासुप्रभृतीनां समासो गमिगाम्यादिषु पाठात् ॥ ५,२.१२ ॥ त्रिवलीशब्दः सिद्धः संज्ञा चेत् ॥ ५,२.१३ ॥ बिम्बाधर इति वृत्तौ मध्यमपदलोपिन्याम् ॥ ५,२.१४ ॥ आमूललोलादिषु वृत्तिर्विस्पष्टपटुवत् ॥ ५,२.१५ ॥ न धान्यषष्ठादिषु षष्ठीसमासप्रतिषेधः, पूरणेन तद्धितान्तत्वात् ॥ ५,२.१६ ॥* पत्रपीतिमादिषु गुणवचनेन ॥ ५,२.१७ ॥ अवर्ज्यो बहुव्रीहिर्व्यधिकरणो जन्माद्युत्तरपदः ॥ ५,२.१८ ॥ हस्ताग्राग्रहस्तादयो गुणगुणिनोर्भेदाभेदात् ॥ ५,२.१९ ॥ पूर्वनिपातेऽपभ्रंशो रक्ष्यः ॥ ५,२.२० ॥ निपातेनाप्यभिहिते कर्मणि न कर्मविभक्तिः, परिगणनस्य प्रायिकत्वात् ॥ ५,२.२१ ॥* शक्यमिति रूपं कर्माभिधायां लिङ्गवचनस्यापि सामान्योपक्रमात् ॥ ५,२.२२ ॥ हानिवदाधिक्यमप्यङ्गानां विकारः ॥ ५,२.२३ ॥ न कृमिकीटानामिति, एकवद्भावप्रसङ्गात् ॥ ५,२.२४ ॥* न खरोष्ट्रौ, उष्ट्रखरमिति पाठात् ॥ ५,२.२५ ॥* आसेत्यसतेः ॥ ५,२.२६ ॥ युध्येदिति युधः क्यचि ॥ ५,२.२७ ॥ विरलायमानादिषु क्यङ्निरूप्यः ॥ ५,२.२८ ॥ अहेतौ हन्तेर्णिच्, चुरादिपाठात् ॥ ५,२.२९ ॥* अनुचरीति चरेष्टित्त्वात् ॥ ५,२.३० ॥ केसरालमित्यलतेरणि ॥ ५,२.३१ ॥ पत्रलमिति लातेः के ॥ ५,२.३२ ॥ महीध्रादयो मूलविभुजादिदर्शनात् ॥ ५,२.३३ ॥ ब्रह्मादिषु हन्तेर्नियमादरिहाद्यसिद्धिः ॥ ५,२.३४ ॥ ब्रह्मविदादयः कृदन्तवृत्त्या ॥ ५,२.३५ ॥ तैर्महीधरादयो व्याख्याताः ॥ ५,२.३६ ॥ भिदुरादयः कर्मकर्तरि कर्तरि च ॥ ५,२.३७ ॥ गुणविस्तरादयश्चिन्त्याः ॥ ५,२.३८ ॥ अवतरापचायशब्दयोर्दीर्घह्रस्वत्वव्यत्यासो बालानाम् ॥ ५,२.३९ ॥ शोभेति निपातनात् ॥ ५,२.४० ॥ अविधौ गुरोः स्त्रियां बहुलं विवक्षा ॥ ५,२.४१ ॥ व्यवसितादिषु क्तः कर्तरि, चकारात् ॥ ५,२.४२ ॥* आहेति भूतेऽन्यणलन्तभ्रमाद्ब्रुवो लटि ॥ ५,२.४३ ॥ शबलादिभ्यः स्त्रियां टापोऽप्राप्तिः ॥ ५,२.४४ ॥ प्राणिनि नीलेति चिन्त्यम् ॥ ५,२.४५ ॥ मनुष्यजातेर्विवक्षाविवक्षे ॥ ५,२.४६ ॥ ऊकारान्तादप्यूङ्, प्रवृत्तेः ॥ ५,२.४७ ॥* कार्तिकीय इति ठञ्दुर्धरः ॥ ५,२.४८ ॥ शार्वरमिति च ॥ ५,२.४९ ॥ शाश्वतमिति प्रयुक्तेः ॥ ५,२.५० ॥ राजवंश्यादयः साध्वर्थे ये भवन्ति ॥ ५,२.५१ ॥ दारवशब्दो दुष्प्रयुक्तः ॥ ५,२.५२ ॥ मुग्धिमादिष्विवमनिज्मृग्यः ॥ ५,२.५३ ॥ औपम्यादयश्चातुर्वर्ण्यवत् ॥ ५,२.५४ ॥ ष्यञः षित्करणादीकारो बहुलम् ॥ ५,२.५५ ॥ धन्वीति व्रीह्यादिषु पाठात् ॥ ५,२.५६ ॥ चतुरस्रशोभीति णिनौ ॥ ५,२.५७ ॥ कञ्चुकीया इति क्यचि ॥ ५,२.५८ ॥ बौद्धप्रतियोग्यपेक्षायामप्यातिशायनिकाः ॥ ५,२.५९ ॥ कौशिलादय इलचि वर्णलोपात् ॥ ५,२.६० ॥ मौक्तिकमिति विनयादिपाठात् ॥ ५,२.६१ ॥ प्रातिभादयः प्रज्ञादिषु ॥ ५,२.६२ ॥ न सरजसमित्यनव्ययीभावे ॥ ५,२.६३ ॥ धृतधनुषीत्यसंज्ञायाम् ॥ ५,२.६४ ॥ दुर्गन्धिपद इद्दुर्लभः ॥ ५,२.६५ ॥ सुदत्यादयः प्रतिविधेयाः ॥ ५,२.६६ ॥ क्षतदृढोर्स इति न कप्, तदन्तविधिप्रतिषेधात् ॥ ५,२.६७ ॥* अवैहीति वृद्धिरवद्या ॥ ५,२.६८ ॥ अपाङ्गनेत्रेति लुगलभ्यः ॥ ५,२.६९ ॥ नेष्ठाः श्लिष्टप्रियादयः, पुंवद्भावप्रतिषेधात् ॥ ५,२.७० ॥* दृढभक्तिरिति सर्वत्रेति ॥ ५,२.७१ ॥ जम्बुलतादयो ह्रस्वविधेः ॥ ५,२.७२ ॥ तिलकादयोऽजिरादिषु ॥ ५,२.७३ ॥ निशम्यनिशमय्यशब्दौ प्रकृतिभेदात् ॥ ५,२.७४ ॥ संयम्यनियम्यशब्दौ, अणिजन्तत्वात् ॥ ५,२.७५ ॥* प्रपीयेति पीङः ॥ ५,२.७६ ॥ दूरयतीति बहुलग्रहणात् ॥ ५,२.७७ ॥ गच्छतीप्रभृतिष्वनिषेध्यो नुम् ॥ ५,२.७८ ॥ मित्रेण गोप्त्रेति पुंवद्भावात् ॥ ५,२.७९ ॥ वेत्स्यसीति पदभङ्गात् ॥ ५,२.८० ॥ कामयानशब्दः सिद्धोऽनादिश्चेत् ॥ ५,२.८१ ॥ सौहृद्दौर्हृदशब्दावणि हृद्भावात् ॥ ५,२.८२ ॥ विरम इति निपातनात् ॥ ५,२.८३ ॥ उपर्यादिषु सामीप्ये द्विरुक्तेषु द्वितीया ॥ ५,२.८४ ॥ मन्दं मन्दमित्यप्रकारार्थत्वे ॥ ५,२.८५ ॥ न निद्राद्रुगिति, भष्भावप्राप्तेः ॥ ५,२.८६ ॥* निष्पन्द इति पत्वं चिन्त्यम् ॥ ५,२.८७ ॥ नाङ्गुलिसङ्ग इति मूर्धन्यविधेः ॥ ५,२.८८ ॥ तेनावन्तिसेनादयः प्रत्युक्ताः ॥ ५,२.८९ ॥ नेन्द्रवाहने णत्वम्॑ आहितत्वस्याविवक्षितत्वात् ॥ ५,२.९० ॥* समाप्तं चेदं प्रायोगिकं पञ्चमधिकरणम् । समाप्तोऽयं ग्रन्थः ॥