अग्निपुराणम् । अथाग्निपुराणानुक्रमणिका । अध्याये विषयः पृष्ठे १ पुराणप्रश्नः १ २ मत्स्यावतारवर्णनम् ३ ३ कूर्मावतारवर्णनम् ५ ४ वराहनृसिंहवामनपरशुरामावतारवर्णनम् ८ ५ रामावतारवर्णनम् १० १२ हरिवंशकथनम् २८ १३ भारताख्यानम् ३३ १६ बुद्धकल्क्यवतारवर्णनम् ३९ १७ नवसर्गप्रदर्शनं ४० २१ आगमोक्तविष्ण्वादिदेवतासामान्यपूजा ५२ २२ स्नानविधिः ५५ २३ वासुदेवादिपूजाविधिः ५६ २४ कुण्डनिर्माणाद्यग्निकार्यकथनम् ५९ २५ वासुदेवादिमन्त्रनिरूपणम् ६५ २६ मुद्रालक्षणकथनम् ७० २७ सर्वदीक्षाकथनम् ७१ २८ आचार्याभिषेकः ७९ २९ सर्वतोभद्रमण्डलादिलक्षणम् ७९ ३० मण्डलविधिः ८४ ३१ कुशापामर्जनकथनम् ८७ ३२ दीक्षितसंस्कारः ९२ ३३ विष्णुपवित्रारोहणादिविधानम् ९३ ३७ सर्वदेवपवित्रारोहणविधिः १०७ ३८ देवालयनिर्माणफलम् १०९ ३९ भूमिपरिग्रहः ११४ ४० अर्घ्यदानविधिः ११६ ४१ शिलाविन्यासः ११९ ४२ प्रासादलक्षणकथनम् १२२ ४३ प्रासाददेवतास्थापनादिकथनम् १२५ ४४ वासुदेवादिप्रतिमालक्षणकथनम् १२८ ४५ पिण्डिकालक्षणम् १३२ ४६ शालग्रामादिमूर्तिलक्षणम् १३४ ४७ शालग्रामादिपूजा १३५ ४८ विष्णुचतुर्विंशतिमूर्तिस्तोत्रं १३७ ४९ मत्स्यादिप्रतिमालक्षणम् १३८ ५० देवीप्रतिमालक्षणम् १४५ ५१ सूर्यादिप्रतिमालक्षणम् १४५ ५२ योगिनीप्रतिमालक्षणम् १४७ ५३ लिङ्गलक्षणम् १५० ५४ व्यक्ताव्यक्तलिङ्गलक्षणम् १५२ ५५ लिङ्गपिण्डिकालक्षणम् १५७ ५६ दिक्पालयागकथनम् १५८ ५७ कलशाधिवासः १६१ ५८ देवस्नपनविधिः १६४ ५९ देवाधिवासनविधिः १६७ ६० वासुदेवप्रतिष्ठा १७३ ६१ द्वारप्रतिष्ठाध्वजारोहणादिकथनं १७७ ६२ लक्ष्मीप्रतिष्ठा १८२ ६३ सुदर्शनचक्रादिप्रतिष्ठा १८७ ६४ कूपादिप्रतिष्ठा १८३ ६५ सभागृहस्थापनम् १९१ ६६ साधारणप्रतिष्ठा १९४ ६७ जीर्णमूर्त्युद्धारः १९७ ६८ देवयात्रोत्सवः १९८ ६९ यज्ञावभृथस्नानं २०० ७० वृक्षारामादिप्रतिष्ठा २०२ ७१ विनायकपूजा २०३ ७२ विशेषस्नानादिकथनम् २०४ ७३ सूर्यार्चनं २०९ ७४ शिवपूजा २११ ७५ अग्निस्थापनादिकथनम् २२० ७६ चण्डपूजा २२७ ७७ कपिलादिपूजनम् २२८ ७८ पवित्राधिवासनविधिः २३१ ७९ पवित्रारोहणम् २३८ ८० दमनकारोहणविधिः २४२ ८१ समयदीक्षा २४४ ८२ संस्कारदीक्षा २५३ ८३ निर्वाणदीक्षाधिवासनं २५९ ८४ निर्वाणदीक्षा २६२ ८९ एकतत्त्वदीक्षा २८४ ९० निर्वाणदीक्षाङ्गीभूताभिषेककथनं २८५ ९१ नानामन्त्रकथनम् २८६ ९२ पातालशिलान्यासः २८८ ९३ वास्तुपूजा २९५ ९४ प्रासादशिलान्यासः ३०० ९५ शिवलिङ्गप्रतिष्ठासामग्री ३०२ ९६ शिवलिङ्गाधिवासनविधिः ३१० ९७ शिवलिङ्गप्रतिष्ठाविधिः ३२७ ९८ गौरीप्रतिष्ठाविधिः ३३९ ९९ सूर्यप्रतिष्ठाविधिः ३४१ १०० द्वारप्रतिष्ठा ३४२ १०१ प्रासादकृत्यप्रतिष्ठा ३४३ १०२ ध्वजारोहणम् ३४५ १०३ जीर्णशिवलिङ्गोद्धारः ३४९ १०४ प्रासादसामान्यलक्षणम् ३५२ १०५ गृहादिवास्तुकथनम् ३५६ १०६ नगरादिवास्तुकथनम् ३९२ १०७ स्वायम्भुवसर्गकथनम् ३६५ १०८ भुवनकोषवर्णनम् ३६७ १०९ तीर्थमाहात्म्यम् ३७१ ११० गङ्गामाहत्म्यम् ३७४ १११ प्रयागमाहत्म्यम् ३७५ ११२ वाराणसीमाहात्म्यकथनम् ३७७ ११३ नर्मदादिमाहात्म्यकथनम् ३७९ ११४ गयामाहात्म्यकथनम् ३८० ११५११६ गयायात्रा १ ११० श्राद्धकल्पः १४ ११८ भारतवर्षवर्णनं २१ ११९ महाद्वीपादिवर्णनं २२ १२० भुवनकोषवर्णनं २६ १२१ ज्योतिःशास्त्रं ३० १२२ कालगणनं ३९ १२३ युद्धजयार्णवीयनानायोगाः ४२ १२४ युद्धजयार्णवीयज्योतिःशास्त्रसारः ४६ १२५ युद्धजयार्णवीयनानाचक्राणि ४८ १२६ युद्धजयार्णवीयनक्षत्रनिर्णयः ५५ १२७ युद्धजयार्णवीयनानाबलानि ५९ १२८ युद्धजयार्णवीयकोटचक्रं ६१ १२९ युद्धजयार्णवीयार्घ्यकाण्डं ६३ १३० युद्धजयार्णवीयमण्डलं ६४ १३१ युद्धजयार्णवीयचक्रादिः ६६ १३२ युद्धजयार्णवीयसेवाचक्रं ६८ १३३ युद्धजयार्णवीयनानाबलानि ७१ १३४ युद्धजयार्णवीयत्रैलोक्यविजयविद्या ७७ १३५ युद्धजयार्णवीयसङ्ग्रामविजयविद्या ७८ १३६ युद्धजयार्णवीयनक्षत्रचक्रं ८१ १३७ युद्धजयार्णवीयमहामारीविद्या ८२ १३८ युद्धजयार्णवीयषट्कर्माणि ८५ १३९ युद्धजयार्णवीयषष्टिसंवत्सराणि ८७ १४० युद्धजयार्णवीयषोडशपदका ८९ १४१ युद्धजयार्णवीयषट्विंशत्पदकज्ञानं ९१ १४२ युद्धजयार्णवीयमन्त्रौषधादयः ९३ १४३ युद्धजयार्णवीयकुब्जिकाक्रमपूजा ९५ १४४ युद्धजयार्णवीयकुब्जिकापूजा ९७ १४५ मालिनीमन्त्रादिन्यासः १०२ १४६ अष्टाष्टकदेवी १०५ १४७ त्वरितापूजादिः १०९ १४८ सङ्ग्रामविजयपूजा १११ १४९ अयुतलक्षकोटिहोमाः ११२ १५० मन्वन्तराणि ११४ १५१ वर्णेतरधर्माः ११७ १५२ गृहस्थवृत्तयः ११९ १५३ ब्रह्मचर्याश्रमः १२० १५४ विवाहः १२२ १५५ आचाराध्यायः १२४ १५६ द्रव्यशुद्धिः १२८ १५७ शावाशौचादिः १३० १५८ स्रावाद्यशौचं १३४ १५९ असंस्कृतादिशौचं १४१ १६० वानप्रस्थाश्रमः १४३ १६१ यतिधर्मः १४४ १६२ धर्मशास्त्रं १४८ १६३ श्राद्धकल्पः १५० १६४ नवग्रहहोमः १५४ १६५ नानाधर्माः १५६ १६६ वर्णधर्माः १५९ १६७ अयुतलक्षकोटिहोमाः १६३ १६५ महापातकादयः १६६ १६६१७४ प्रायश्चित्तानि १७१ १७५ व्रतपरिभाषा १९२ १७६ प्रतिपद्व्रतानि १९९ १७७ द्वितीयाव्रतानि २०० १७८ तृतीयाव्रतानि २०२ १७९ चतुर्थीव्रतानि २०६ १८० पञ्चमीव्रतानि २०७ १८१ षष्ठीव्रतानि २०७ १८२ सप्तमीव्रतानि २०८ १८३१८४ अष्टमीव्रतानि २०९ १८५ नवमीव्रतानि २१३ १८६ दशमीव्रतानि २१४ १८७ एकादशीव्रतानि २१६ १८८ द्वादशीव्रतानि २१७ १८९ श्रवणद्वादशीव्रतं २१९ १९० अखण्डद्वादशीव्रतं २२१ १९१ त्रयोदशीव्रतानि २२२ १९२ चतुर्दशीव्रतानि २२३ १९३ शिवरात्रिव्रतं २२५ १९४ अशोकपूर्णिमादिव्रतं २२६ १९५ वारव्रतानि २३० १९६ नक्षत्रव्रतानि २२८ १९७ दिवसव्रतानि २३१ १९८ मासव्रतानि २३३ १९९ नानाव्रतानि २३५ २०० दीपदानव्रतं २३६ २०१ नवव्यूहार्चनं २३८ २०२ पुष्पाध्यायः २४० २०३ नरकस्वरूपवर्णनं २४३ २०४ मासोपवासव्रतं २४६ २०५ भीष्मपञ्चकव्रतं २४८ २०६ अगस्त्यार्घ्यदानव्रतं २४९ २०७ कौमुदव्रतं २५२ २०८ व्रतदानादिसमुच्चयः २५३ २०९ दानपरिभाषा २५५ २१० महादानानि २६१ २११ नानादानानि २६५ २१२ भेरुदानानि २७० २१३ पृथ्वीदानानि २७६ २१४ मन्त्रमाहात्म्यं २७७ २१५ सन्ध्याविधिः २८२ २१६२१७ गायत्रीनिर्वाणं २८७ २१८ राजाभिषेकः २९१ २१९ अभिषेकमन्त्राः २९४ २२० शत्रुविजयसहायसम्पत्तिः अनुजीविवृत्तञ्च ३०२ २२१ दुर्गसम्पत्तिः ३०६ २२२२२६ राजधर्माः ३०९ २२७ युद्धयात्रा ३२९ २२८ स्वप्नाध्यायः ३३० २२९२३०२३१ शकुनफलं ३३३ २३२ यात्रामण्डलचिन्तादिः ३४३ २३३ षाड्गुण्यं ३४५ २३४ प्रात्यहिकराजकर्म ३४८ २३५ रणदीक्षा ३५० २३६ श्रीस्तोत्रं ३५७ २३७ रामोक्तनीतिः ३५९ २३८ राज्याङ्गानि ३६१ २३९ द्वादशराजमण्डलानि सन्धिविग्रहादयश्च ३६६ २४० सामाद्युपायाः ३७० २४१ राजनीतिः ३७६ २४२ पुरुषलक्षणं ३८४ २४३ स्त्रीलक्षणं ३८६ २४४ आयुधलक्षणं ३८७ २४५ रत्नपरीक्षा ३९० २४६ वास्तुलक्षणं ३९२ २४७ पुष्पादिपूजाफलं ३९५ २४८२४९२५०२५१ धनुर्वेदाः ३९६ २५२२५३ व्यवहाराः ४०७ २५४ दिव्यप्रमाणानि ४१६ २५५ दायविभागः ४२३ २५६ सीमाविवादादिनिर्णयः ४२५ २५७ वाक्पारुष्यादिप्रकरणं ४३० २५८ ऋग्विधानं ४३८ २५९ यजुर्विधानं ४४७ २६० सामविधानं ४५५ २६१ अथर्वविधानं ४५८ २६२ उत्पातशान्तिः ४६१ २६३ देवपूजावैश्वदेवादिबलिः ४६४ २६४ दिक्पालादिस्नानं ४६७ २६५ विनायकस्नानं ४६९ २६६ माहेश्वरस्नानलक्षकोटिहोमादयः ४७२ २६७ नारीजनाविधिः ४७४ २६८ छत्रादिमन्त्रादयः ४७८ २६९ विष्णुपञ्जरं १ २७० वेदशाखादयः ३ २७१ दानादिमाहात्म्यं ५ २७२ सूर्यवंशः ८ २७३ सोमवंशः १२ २७४ युदुवंशः १४ २७५ द्वादशसंग्रामाः १९ २७६ राजवंशः २२ २७७ पुरुवंशः २४ २७८ सिद्धौषधानि २८ २७९ सर्वरोगहराण्यौषधानि ३४ २८० रसादिलक्षणं ३९ २८१ वृक्षायुर्वेदः ४२ २८२ नानारोगहराण्यौषधानि ४४ २८३ मन्त्ररूपौषधानि ४९ २८४ मृतसञ्जीवनीकरसिद्धयोगः ५० २८५ कल्पसागरः ५८ २८६ गजचिकित्सा ६१ २८७ अश्ववाहनसारः ६४ २८८ अश्वचिकित्सा ७१ २८९ अश्वशान्तिः ७६ २९० गजशान्तिः ७७ २९१ शान्त्यायुर्वेदः ८० २९२ मन्त्रपरिभाषा ८४ २९३ नागलक्षणानि ८९ २९४ दष्टचिकित्सा ९३ २९५ पञ्चाङ्गरुद्रविधानं ९७ २९६ विषहृन्मन्त्रौषधं ९९ २९७ गोनसादिचिकित्सा १०१ २९८ बालग्रहहरबालतन्त्रं १०४ २९९ ग्रहहृन्मन्त्रादिकं १०९ ३०० मूर्यार्चनं ११२ ३०१ नानामन्त्राः ११४ ३०२ अङ्गाक्षरार्चनं ११७ ३०३ पञ्चाक्षरादिपूजामन्त्राः ११९ ३०४ पञ्चपञ्चाशद्विष्णुनामानि १२३ ३०५ नारसिंहादिमन्त्राः १२५ ३०६ त्रैलोक्यमोहनमन्त्राः १२७ ३०७ त्रैलोक्यमोहनीलक्ष्म्यादिपूजा १३१ ३०८ त्वरितापूजा १३४ ३०९ त्वरितामन्त्रादिः १३६ ३१० त्वरितामूलमन्त्रादिः १४० ३११ त्वरिताविद्या १४४ ३१२ नानामन्त्राः १४६ ३१३ त्वरिताज्ञानं १५० ३१४ स्तम्भनादिमन्त्राः १५२ ३१५ नानामन्त्राः १५४ ३१६ सकलादिमन्त्रोद्धारः १५५ ३१७ गणपूजा १५९ ३१८ वागीश्वरीपूजा १६१ ३१९ मण्डलानि १६२ ३२० अघोरास्त्रादिशान्तिकल्पः १६७ ३२१ पाशुपतशान्तिः १६९ ३२२ षडङ्गान्यधोरास्त्राणि १७१ ३२३ रुद्रशान्तिः १७४ ३२४ अंशकादिः १७७ ३२५ गौर्यादिपूजा १८० ३२६ देवालयमाहात्म्यं १८२ ३२७३२८३२९ छन्दःसारः १८४ ३३० छन्दोजातिनिरूपनं १८८ ३३१ विषमकथनं १९० ३३२ अर्धसमनिरूपणं १९१ ३३३ समवृत्तनिरूपणं १९२ ३३४ प्रस्तारनिरूपणं १९५ ३३५ शिक्षानिरूपणं १९६ ३३६ काव्यादिलक्षणं १९९ ३३७ नाटकनिरूपणं २०३ ३३८ शृङ्गारादिरसनिरूपणं २०५ ३३९ रीतिनिरूपणं २११ ३४० नृत्यादावङ्गकर्मनिरूपणं २१२ ३४१ अभिनयादिनिरूपणं २१४ ३४२ शब्दालङ्काराः २१८ ३४३ अर्थालङ्काराः २२४ ३४४ शब्दार्थालङ्काराः २२७ ३४५ काव्यगुणविवेकः २२९ ३४६ काव्यदोषविवेकः २३३ ३४७ एकाक्षराभिधानं २३६ ३४८ व्याकरणं २३९ ३४९ सन्धिसिद्धरूपं २४० ३५० पुंलिङ्गशब्दसिद्धरूपं २४१ ३५१ स्त्रीलिङ्गशब्दसिद्धरूपं २४८ ३५२ नपुंसकशब्दसिद्धरूपं २५० ३५३ कारकं २५१ ३५४ समासः २५३ ३५५ तद्धितं २५५ ३५६ उनादिसिद्धरूपं २५८ ३५७ तिङ्विभक्तिसिद्धरूपं २६० ३५८ कृत्सिद्धरूपं २६३ ३५९ स्वर्गपातालादिवर्गाः २६४ ३६० अव्ययवर्गाः २७२ ३६१ नानार्थवर्गाः २७६ ३६२ भूमिवनौषध्यादिवर्गाः २८० ३६३ नृवर्गाः २८७ ३६४ ब्रह्मवर्गाः २९० ३६५ क्षत्रबिठ्शूद्रवर्गाः २९१ ३६६ सामान्यनामलिङ्गानि २९६ ३६७ नित्यनैमित्तिकप्राकृतप्रलयाः २९९ ३६८ आत्यन्तिकलयगर्भोत्पत्त्यादयः ३०१ ३६९ शरीरावयवाः ३०६ ३७० नरकनिरूपनं ३१० ३७१ यमनियमाः ३१४ ३७२ आसनप्राणायामप्रत्याहाराः ३१८ ३७३ ध्यानं ३२० ३७४ धारणा ३२४ ३७५ समाधिः ३२६ ३७६ ब्रह्मज्ञानं ३२९ ३७७ समाधिः ३३३ ३७८ ब्रह्मज्ञानं ३३८ ३७९ अद्वैतब्रह्मज्ञानं ३३९ ३८० गीतासारः ३४५ ३८१ यमगीता ३५१ ३८२ आग्नेयपुराणमाहात्म्यं ३५५ _____________________________________________________________________________ ओं नमो भगवते वासुदेवाय । अग्निपुराणम् । अध्याय {१} अथ प्रथमोऽध्यायः ग्रन्थप्रस्तावना श्रियं(१) सरस्वतीं गौरीं गणेशं स्कन्दमीश्वरम् ।१.००१ ब्रह्माणं वह्निमिन्द्रादीन् वासुदेवं नमाम्यहम् ॥१.००१ नैमिषे हरिमीजाना ऋषयः शौनकादयः ।१.००२ तीर्थयात्राप्रसङ्गेन स्वागतं सूतमब्रुवन् ॥१.००२ ऋषय ऊचुः सूत त्वं पूजितोऽस्माभिः सारात्सारं वदस्व नः ।१.००३ येन विज्ञानमात्रेण(२) सर्वज्ञत्वं प्रजायते ॥१.००३ सूत उवाच सारात्सारो हि भगवान् विष्णुः सर्गादिकृद्विभुः ।१.००४ ब्रह्माहमस्मि तं ज्ञात्वा सर्वज्ञत्वं प्रजायते ॥१.००४ द्वे ब्रह्मणी वेदितव्ये शब्दब्रह्म परं च यत्(३) ।१.००५ द्वे विद्ये वेदितव्ये हि इति चाथर्वणी श्रुतिः ॥१.००५ अहं शुकश्च पैलाद्या गत्वा वदरिकाश्रमम् ।१.००६ व्यासं नत्वा पृष्टवन्तः सोऽस्मान् सारमथाब्रवीत् ॥१.००६ व्यास उवाच शुकाद्यैः शृणु सूत त्वं वशिष्ठो मां यथाब्रवीत्(५) ।१.००७ ब्रह्मसारं हि पृच्छन्तं मुनिभिश्च परात्परम् ॥१.००७ टिप्पणी १ लक्ष्मीमिति घ, चिह्नितपुस्तकपाठः २ विज्ञातमात्रेण इति घ, चिह्नितपुस्तकपाठः ३ अपरञ्च परञ्च यदिति ख, चिह्नितपुस्तकपाठः ४ यदब्रवीदिति ख, घ, चिह्नितपुस्तकद्वयपाठः पृष्ठ १ वसिष्ठ उवाच द्वैविध्यं ब्रह्म(१) वक्ष्यामि शृणु व्यासाखिलानुगम्(२) ।१.००८ यथाग्निर्मां पुरा प्राह मुनिभिर्दैवतैः सह ॥१.००८ पुराणं परमाग्नेयं ब्रह्मविद्याक्षरं परम् ।१.००९ ऋग्वेदाद्यपरं ब्रह्म सर्वदेवसुखावहम्(३) ॥१.००९ अग्निनोक्तं पुराणं यदाग्नेयं ब्रह्मसम्मितम्(४) ।१.०१० भुक्तिमुक्तिप्रदं दिव्यं(५) पठतां शृण्वतां नृणाम् ॥१.०१० कालाग्निरूपिणं विष्णुं ज्योतिर्ब्रह्म परात्परम् ।१.०११ मुनिभिः पृष्टवान् देवं पूजितं ज्ञानकर्मभिः ॥१.०११ वसिष्ठ उवाच संसारसागरोत्तार नावं ब्रह्मेश्वरं वद ।१.०१२ विद्यासारं यद्विदित्वा(६) सर्वज्ञो जायते नरः ॥१.०१२ अग्निरुवाच विष्णुः कालाग्निरुद्रोऽहं(७) विद्यासारं वदामि ते ।१.०१३ विद्यासारं पुराणं(८) यत्सर्वं सर्वस्य कारणं ॥१.०१३ सर्गस्य प्रतिसर्गस्य वंशमन्वन्तरस्य च ।१.०१४ वंशानुचरितादेश्च, मत्स्यकूर्मादिरूपधृक् ॥१.०१४ द्वे विद्ये भगवान् विष्णुः परा चैवापरा च ह ।१.०१५ ऋग्यजुःसामाथर्वाख्या वेदाङ्गानि च षड्द्विज(९) ॥१.०१५ टिप्पणी १ द्वे विद्ये ब्रह्म इति घ, चिह्नितपुस्तकपाठः २ अखिलात्मगमिति ख, चिह्नितपुस्तकपाठः ३ सर्ववेदमुखं परमिति ख, चिह्नितपुस्तकपाठः ४ वेदसम्मितमिति ख, घ, चिह्नितपुस्तकद्वयपाठः ५ पुण्यमिति ख, चिह्नितपुस्तकपाठः ६ यद्गदित्वा इति ग, चिह्नितपुस्तकपाठः ७ ज्ञानसन्दीपनादेव इति ग, चिह्नितपुस्तकपाठः ८ ब्रह्माग्नेयं पुराणमिति ग, घ, चिह्नितपुस्तकद्वयपाठः ९ यद्द्विज इति ख, चिह्नितपुस्तकपाठः पृष्ठ २ शिक्षा कल्पो व्याकरणं निरुक्तं ज्योतिषाङ्गतिः ।१.०१६ छन्दोऽभिधानं मीमांसा धर्मशास्त्रं पुराणकम् ॥१.०१६ न्यायवैद्यकगान्धर्वं धनुर्वेदोऽर्थशास्त्रकम् ।१.०१७ अपरेयं परा विद्या यया ब्रह्माभिगम्यते(१) ॥१.०१७ यत्तददृश्यमग्राह्यमगोत्रचरणं ध्रुवम्(२) ।१.०१८ विष्णुनोक्तं यथा मह्यं देवेभ्यो ब्रह्मणा पुरा ।१.०१८ तथा ते कथयिष्यामि हेतुं मत्स्यादिरूपिणम् ॥१.०१८ इत्यादिमहापुराणे आग्नेये प्रश्नो नाम प्रथमोध्यायः ॥ अध्याय {२} अथ द्वितीयोऽध्यायः मत्स्यावतारवर्णनं वशिष्ठ उवाच मत्स्यादिरूपिणं विष्णुं ब्रूहि सर्गादिकारणम् ।२.००१ पुराणं ब्रह्म चाग्नेयं यथा विष्णोः पुरा श्रुतम् ॥२.००१ अग्निरुवाच मत्स्यावतारं वक्ष्येऽहं वसिष्ठ शृणु वै हरेः ।२.००२ अवतारक्रिया दुष्ट नष्ट्यै सत्पालनाय हि ॥२.००२ आसीदतीतकल्पान्ते ब्राह्मो नैमित्तिको लयः ।२.००३ समुद्रोपप्लुतास्तत्र लोका भूरादिका मुने ॥२.००३ मनुर्वैवस्वतस्तेपे तपो वै भुक्तिमुक्तये ।२.००४ एकदा कृतमालायां कुर्वतो जलतर्पणं ॥२.००४ तस्याञ्जल्युदके मत्स्यः स्वल्प एकोऽभ्यपद्यत ।२.००५ क्षेप्तुकामं जले प्राह न मां क्षिप नरोत्तम(३) ॥२.००५ टिप्पणी १ ब्रह्मावगम्यते इति ख, ग, घ, चिह्नितपुस्तकत्रयपाठः २ अगोत्रचरणं परमिति ग, चिह्नितपुस्तकपाठः ३ न मां क्षिप नृपोत्तम इति ख, ग, घ, चिह्नितपुस्तकत्रयपाठः पृष्ठ ३ ग्राहादिभ्यो भयं मेऽद्य(१) तच्छ्रुत्वा कलशेऽक्षिपत् ।२.००६ स तु वृद्धः पुनर्मत्स्यः प्राह तं देहि मे वृहत् ॥२.००६ स्थानमेतद्वचः श्रुत्वा राजाथोदञ्चनेऽक्षिपत् ।२.००७ तत्र वृद्धोऽब्रवीद्भूपं पृथु देहि पदं मनो ॥२.००७ सरोवरे पुनः क्षिप्तो ववृधे तत्प्रमाणवान् ।२.००८ ऊचे देहि वृहत्स्थानं(२) प्राक्षिपच्चाम्बुधौ ततः(३) ॥२.००८ लक्षयोजनविस्तीर्णः क्षणमात्रेण सोऽभवत् ।२.००९ मत्स्यं तमद्भुतं दृष्ट्वा विस्मितः प्राब्रवीन्मनुः ॥२.००९ को भवान्ननु वै विष्णुर्(४) नारायण नमोस्तुते ।२.०१० मायया मोहयसि मां किमर्थं त्वं जनार्दन ॥२.०१० मनुनोक्तोऽब्रवीन्मत्स्यो मनुं वै पालने रतम् ।२.०११ अवतीर्णो भवायास्य जगतो दुष्टनष्टये ॥२.०११ सप्तमे दिवसे त्वब्धिः प्लावयिष्यति वै जगत् ।२.०१२ उपस्थितायां नावि त्वं वीजादीनि विधाय च ॥२.०१२ सप्तर्षिभिः परिवृतो निशां ब्राह्मीं चरिष्यसि ।२.०१३ उपस्थितस्य मे शृङ्गे निबध्नीहि महाहिना ॥२.०१३ इत्युक्त्वान्तर्दधे मत्स्यो(५) मनुः कालप्रतीक्षकः(६) ।२.०१४ स्थितः समुद्र उद्वेले नावमारुरुहे तदा ॥२.०१४ एकशृङ्गधरो मत्स्यो हैमो नियुतयोजनः ।२.०१५ टिप्पणी १ मेऽत्र इति ख, चिह्नितपुस्तकपाठः २ पुनः स्थानमिति ख, चिह्नितपुस्तकपाठः ३ अम्बुधौ मनुरिति ख, घ, चिह्नितपुस्तकद्वयपाठः ४ ननु विष्णुस्त्वमिति ख, ग, घ, चिह्नितपुस्तकत्रयपाठः ५ इत्युक्तान्तर्हितो मत्स्य इति घ, चिह्नितपुस्तकपाठः ६ इत्युक्त्वा देवमत्स्यात्मा बृहत्कारणसङ्गत इति ग, चिह्नितपुस्तकपाठः पृष्ठ ४ नावम्बबन्ध तच्छृङ्गे(१) मत्स्याख्यं च पुराणकम् ॥२.०१५ शुश्राव मत्स्यात्पापघ्नं संस्तुवन् स्तुतिभिश्च तं(२) ।२.०१६ ब्रह्मवेदप्रहर्तारं हयग्रीवञ्च दानवं ॥२.०१६ अवधीत्, वेदमत्स्याद्यान् पालयामास केशवः ।२.०१७ प्राप्ते कल्पेऽथ वाराहे कूर्मरूपोऽभवद्धरिः ॥२.०१७ इत्यादिमहापुराणे आग्नेये मत्स्यावतारो नाम द्वितीयोऽध्यायः ॥ अध्याय {३} अथ तृतीयोऽध्यायः कूर्मावतारवर्णनं अग्निरुवाच वक्ष्ये कूर्मावतारञ्च श्रुत्वा पापप्रणाशनम्(३) ।३.००१ पुरा देवासुरे युद्धे दैत्यैर्देवाः पराजिताः ॥३.००१ दुर्वाससश्च शापेन निश्रीकाश्चाभवंस्तदा ।३.००२ स्तुत्वा क्षीराब्धिगं(४) विष्णुमूचुः पालय चासुरात् ॥३.००२ ब्रह्मादिकान् हरिः प्राह सन्धिं कुर्वन्तु चासुरैः(५) ।३.००३ क्षीराब्धिमथनार्थं हि अमृतार्थं श्रियेऽसुराः ॥३.००३ अरयोऽपि हि सन्धेयाः सति कार्यार्थगौरवे ।३.००४ युष्मानमृतभाजो हि कारयामि(६) न दानवान् ॥३.००४ टिप्पणी १ नावं बध्वा तस्य शृङ्गे इति ख, घ, चिह्नितपुस्तकद्वयपाठः २ स्तुतिभिर्मनुरिति ग, चिह्नितपुस्तकपाठः ३ संश्रुतं पापनाशनमिति ख, ग, घ चिह्नितपुस्तकत्रयपाठः ४ सुरा क्षीराब्धिगमिति ग, घ, चिह्नितपुस्त्कद्वयपाठः ५ सन्धिं कुरुत चासुररिति ग, चिह्नितपुस्तकपाठः ६ भाजो हि करिष्यामि इति ख, चिह्नितपुस्तकपाठः पृष्ठ ५ मन्थानं मन्दरं कृत्वा नेत्रं कृत्वा तु (१) वासुकिम् ।३.००५ क्षीराब्धिं मत्सहायेन निर्मथध्वमतन्द्रिताः ॥३.००५ विष्णूक्तां संविदं कृत्वा दैत्यैः क्षीराब्धिमागताः ।३.००६ ततो मथितुमारब्धाः यतः पुच्छन्ततः सुराः ॥३.००६ फणिनिःश्वाससन्तप्ता(२) हरिणाप्यायिताः सुराः ।३.००७ मथ्यमानेऽर्णवे सोऽद्रिरनाधारो ह्यपोऽविशत् ॥३.००७ कूर्मरूपं समास्थाय दध्रे विष्णुश्च मन्दरम् ।३.००८ क्षीराब्धेर्मथ्यमानाच्च विषं हालाहलं ह्यभूत् ॥३.००८ हरेण धारितं कण्ठे नीलकण्ठस्ततोऽभवत्(३) ।३.००९ ततोऽभूद्वारुणी देवी पारिजातस्तु कौस्तुभः ॥३.००९ गावश्चाप्सरसो दिव्या लक्ष्मीर्देवी हरिङ्गता ।३.०१० पश्यन्तः सर्वदेवास्तां स्तुवन्तः सश्रियोऽभवन् ॥३.०१० ततो धन्वन्तरिर्विष्णुरायुर्वेदप्रवर्तकः(४) ।३.०११ बिभ्रत्कमण्डलुम्पूर्णममृतेन समुत्थितः ॥३.०११ अमृतं तत्कराद्दैत्या सुरेभ्योऽर्धं प्रदाय च ।३.०१२ गृहीत्वा जग्मुर्जन्माद्या विष्णुः स्त्रीरूपधृक्ततः ॥३.०१२ तां दृष्ट्वा रूपसम्पन्नां दैत्याः प्रोचुर्विमोहिताः ।३.०१३ भव भार्यामृतं गृह्य पाययास्मान् वरानने ॥३.०१३ तथेत्युक्त्वा हरिस्तेभ्यो गृहीत्वापाययत्सुरान् ।३.०१४ चन्द्ररूपधरो राहुः पिबंश्चार्केन्दुनार्पितः (५) ॥३.०१४ टिप्पणी १ रज्जं कृत्वा तु इति ख, चिह्नितपुस्तकपाठः २ निःश्वाससंग्लाना इति ख, घ, चिह्नितपुस्तकद्वयपाठः ३ ततो हर इति ग, घ, चिह्नितपुस्तकद्वयपाठः ४ प्रदर्शक इति ख, ग, चिह्नितपुस्तकद्वयपाठः ५ अकन्दुसूचित इति ख, चिह्नितपुस्तकपाठः पृष्ठ ६ हरिणाप्यरिणा च्छिन्नं(१) स राहुस्तच्छिरः पृथक् ।३.०१५ कृपयामरतान्नीतं वरदं हरिमब्रवीत् ॥३.०१५ राहुर्मत्तस्तु चन्द्रार्कौ प्राप्स्येते ग्रहणं ग्रहः ।३.०१६ तस्मिन् कले च यद्दानं दास्यन्ते स्यात्तदक्षयं(२) ॥३.०१६ तथेत्याहाथ तं विष्णुस्ततः सर्वैः सहामरैः ।३.०१७ स्त्रीरूपं सम्परित्यज्य हरेणोक्तः प्रदर्शय ॥३.०१७ दर्शयामास रुद्राय स्त्रीरूपं भगवान् हरिः ।३.०१८ मायया मोहितः शम्भुः गौरीं त्यक्त्वा स्त्रियं गतः ॥३.०१८ नग्न उन्मत्तरूपोऽभूत्स्त्रियः केशानधारयत्(३) ।३.०१९ अगाद्विमुच्य केशान् स्त्री अन्वधावच्च ताङ्गताम् ॥३.०१९ स्खलितं तस्य वीर्यं कौ यत्र यत्र हरस्य हि ।३.०२० तत्र तत्राभवत्क्षेत्रं लिङ्गानां कनकस्य च (४) ॥३.०२० मायेयमिति तां ज्ञात्वा स्वरूपस्थोऽभवद्धरः ।३.०२१ शिवमाह हरी रुद्र जिता माया त्वया हि मे ॥३.०२१ न जेतुमेनां शक्तो मे त्वदृतेऽन्यः पुमान् भुवि ।३.०२२ अप्राप्याथामृतं दैत्या देवैर्युद्धे निपातिताः ।३.०२२ त्रिदिवस्थाः सुराश्चासन् यः पठेत्त्रिदिवं व्रजेत् ॥३.०२२ इत्यादिमहापुराणे आग्नेये कूर्मावतारो नाम तृतीयोऽध्यायः ॥ टिप्पणी १ हरिणा चासिना च्छिन्नमिति ग, चिह्नितपुस्तकपाठः २ भवेयं ये तदा दानं दास्यन्ते स्यात्तदक्षयमिति ख, चिह्नितपुस्तकपाठः ३ मायया मोहितो रुद्रस्तरसा तां जगाम ह । मोहिनीं प्राप्य मतिमान् स्त्रियः केशामधारयदिति ग, चिह्नितपुस्तकपाठः ४ तत्र तत्र महातीर्थं क्षेत्राणामुत्तमोत्तममिति ग, चिह्नितपुस्तकपाठः पृष्ठ ७ अध्याय {४} अथ चतुर्थोऽध्यायः वराहाद्यवतारवर्णनं अग्निरुवाच अवतारं वराहस्य वक्ष्येऽहं पापनाशनम् ।४.००१ हिरण्याक्षोऽसुरेशोऽभूत्(१) देवान् जित्वा(२) दिवि स्थितः ॥४.००१ देवैर्गत्वा स्तुतो विष्णुर्यज्ञरूपो वराहकः ।४.००२ अभूत्, तं दानवं हत्वा दैत्यैः साकञ्च कण्टकम्(२) ॥४.००२ धर्मदेवादिरक्षाकृत्ततः सोऽन्तर्दधे हरिः ।४.००३ हिरण्याक्षस्य वै भ्राता हिरण्यकशिपुस्तथा(४) ॥४.००३ जितदेवयज्ञभागः सर्वदेवाधिकारकृत् ।४.००४ नारसिंहवपुः कृत्वा तं जघान सुरैः सह ॥४.००४ स्वपदस्थान् सुरांश्चक्रे नारसिंहः सुरैः स्तुतः ।४.००५ देवासुरे पुरा युद्धे बलिप्रभृतिभिः सुराः ॥४.००५ जिताः स्वर्गात्परिभ्रष्टा हरिं वै(५) शरणं गताः ।४.००६ सुराणामभयं दत्वा अदित्या कश्यपेन च ॥४.००६ स्तुतोऽसौ वामनो भूत्वा ह्यदित्यां स क्रतुं ययौ ।४.००७ बलेः श्रीयजमानस्य, राजद्वारेऽगृणात्श्रुतिं ॥४.००७ देवान् पठन्तं तं श्रुत्वा वामनं वरदोऽब्रवीत् ।४.००८ निवारितोऽपि शुक्रेण बलिर्ब्रूहि यदिच्छसि ॥४.००८ तत्तेऽहं सम्प्रदास्यामि, वामनो बलिमब्रवीत् ।४.००९ टिप्पणी १ सुरेन्द्रोभूदिति घ, चिह्नितपुस्तकपाठः २ सुरान् जित्वेति ख, चिह्नितपुस्तकपाठः ३ सार्धन्तु कण्टकमिति ख, घ, चिह्नितपुस्तकद्वयपाठः ४ हिरण्यकशिपुस्तदेति घ, चिह्नितपुस्तकपाठः ५ हरिन्ते इति ख, ग, घ, चिह्नितपुस्तकत्रयपाठः पृष्ठ ८ पदत्रयं हि गुर्वर्थं(१) देहि दास्ये तमब्रवीत् ॥४.००९ तोये तु पतिते हस्ते वामनोऽभूदवामनः ।४.०१० भूर्लोकं स भुवर्लोकं स्वर्लोकञ्च पदत्रयं ॥४.०१० चक्रे बलिञ्च सूतलं तच्छक्राय ददौ हरिः ।४.०११ शक्रो देवैर्हरिं स्तुत्वा भुवनेशः सुखी त्वभूत् ॥४.०११ वक्ष्ये परशुरामस्य चावतारं शृणु द्विज ।४.०१२ उद्धतान् क्षत्रियान्मत्वा भूभारहरणाय सः ॥४.०१२ अवतीर्णो हरिः शान्त्यै देवविप्रादिपालकः ।४.०१३ जमदग्ने रेणुकायां भार्गवः शस्त्रपारगः ॥४.०१३ दत्तात्रेयप्रसादेन कार्त्तवीर्यो नृपस्त्वभृत् ।४.०१४ सहस्रबाहुः सर्वोर्वी पतिः स मृगयां गतः ॥४.०१४ श्रान्तो(२) निमन्त्रितोऽरण्ये मुनिना जमदग्निना ।४.०१५ कामधेनुप्रभावेण भोजितः सबलो नृपः ॥४.०१५ अप्रार्थयत्कामधेनुं(३) यदा स न ददौ तदा ।४.०१६ हृतवानथ रामेण शिरश्छित्वा निपातितः ॥४.०१६ युद्धे परशुना राजा धेनुः स्वाश्रममाययौ(४) ।४.०१७ कार्त्तवीर्यस्य पुत्रैस्तु जमदग्निर्निपातितः ॥४.०१७ रामे वनं गते वैरादथ रामः समागतः ।४.०१८ पितरं निहतं दृष्ट्वा पितृनाशाभिमर्षितः ॥४.०१८ त्रिःसप्तकृत्वः पृथिवीं निःक्षत्रामकरोद्विभुः ।४.०१९ कुरुक्षेत्रे पञ्च कुण्डान् कृत्वा सन्तर्प्य वै पितॄन् ॥४.०१९ टिप्पणी १ मे गुर्वर्थमिति ख, चिह्नितपुस्तकपाठः २ भ्रान्त इति ख, चिह्नितपुस्तकपाठः ३ अप्रार्थयद्धोमधेनुमिति ख, ग, चिहिनितपुस्तकद्वयपाठः ४ सधेनुश्चाश्रमं ययौ इति ख, घ, ङ, चिह्नितपुस्तकत्रयपाठः पृष्ठ ९ काश्यपाय महीं दत्वा महेन्द्रे पर्वते स्थितः ।४.०२० कूर्मस्य च वराहस्य नृसिंहस्य च वामनं ।४.०२० अवतारं च रामस्य श्रुत्वा याति दिवं नरः ॥४.०२० इत्यादिमहापुराणे आग्नेये वराहनृसिंहाद्यवतारो नाम चतुर्थोऽध्यायः अध्याय {५} अथ पञ्चमोऽध्यायः श्रीरामावतारवर्णनम् अग्निरुवाच रामायणमहं वक्ष्ये नारदेनोदितं पुरा ।५.००१ वाल्मीकये यथा तद्वत्पठितं भुक्तिमुक्तिदम् ॥५.००१ नारद उवाच विष्णुनाभ्यब्जजो ब्रह्मा मरीचिर्ब्रह्मणः सुतः ।५.००२ मरीचेः कश्यपस्तस्मात्सूर्यो वैवस्वतो मनुः ॥५.००२ ततस्तस्मात्तथेक्ष्वाकुस्तस्य वंशे ककुत्स्थकः ।५.००३ ककुत्स्थस्य रघुस्तस्मादजो दशरथस्ततः ॥५.००३ रावणादेर्बधार्थाय चतुर्धाभूत्स्वयं हरिः ।५.००४ राज्ञो दशरथाद्रामः कौशल्यायां बभूव ह ॥५.००४ कैकेय्यां भरतः पुत्रः सुमित्रायाञ्च लक्ष्मणः ।५.००५ शत्रुघ्न ऋष्यशृङ्गेण तासु सन्दत्तपायसात् ॥५.००५ प्राशिताद्यज्ञसंसिद्धाद्रामाद्याश्च समाः पितुः ।५.००६ यज्ञविघ्नविनाशाय विश्वामित्रार्थितो नृपः ॥५.००६ रामं सम्प्रेषयामास लक्ष्मणं मुनिना सह ।५.००७ पृष्ठ १० रामो गतोऽस्त्रशस्त्राणि शिक्षितस्ताडकान्तकृत्(१) ॥५.००७ मारीचं मानवास्त्रेण मोहितं दूरतोऽनयत् ।५.००८ सुबाहुं यज्ञहन्तारं सबलञ्चावधीत्बली ॥५.००८ सिद्धाश्रमनिवासी च विश्वामित्रादिभिः सह ।५.००९ गतः क्रतुं मैथिलस्य द्रष्टुञ्चापं सहानुजः ॥५.००९ शतानन्दनिमित्तेन विश्वामित्रप्रभावितः ।५.०१० रामाय कथितो राज्ञा समुनिः पूजितः क्रतौ ॥५.०१० धनुरापूरयामास लीलया स बभञ्ज तत्(२) ।५.०११ वीर्यशुक्लाञ्च जनकः सीतां कन्यान्त्वयोनिजाम् ॥५.०११ ददौ रामाय रामोऽपि पित्रादौ हि समागते ।५.०१२ उपयेमे जानकीन्तामुर्मिलां लक्ष्मणस्तथा(३) ॥५.०१२ श्रुतकीर्तिं माण्डवीञ्च कुशध्वजसुते तथा ।५.०१३ जनकस्यानुजस्यैते शत्रुघ्नभरतावुभौ ॥५.०१३ कन्ये द्वे उपयेमाते जनकेन सुपूजितः ।५.०१४ रामोऽगात्सवशिष्ठाद्यैर्जामदग्न्यं विजित्य च ।५.०१४ अयोध्यां भरतोभ्यागात्(४) सशत्रुघ्नो युधाजितः ॥५.०१४ इत्यादिमहापुराणे आग्नेये रामायणे बालकाण्डवर्णनं नाम पञ्चमोऽध्यायः टिप्पणी १ ताडकापहृदिति ख, ग, ङ, चिह्नितपुस्तकत्रयपाठः २ बभञ्ज तद्दृढं धनुरिति ग, चिह्नितपुस्तकपाठः ३ तदा इति ख, घ, ङ, चिह्नितपुस्तकत्रयपाठः ४ भरतोथागातिति ख, ग, घ, चिह्नितपुस्तकत्रयपाठः पृष्ठ ११ अध्याय {६} अथ षष्ठोऽध्यायः श्रीरामावतारवर्णनं नारद उवाच भरतेऽथ गते रामः पित्रादीनभ्यपूजयत् ।६.००१ राजा दशरथो राममुवाच शृणु राघव ॥६.००१ गुणानुरागाद्राज्ये त्वं प्रजाभिरभिषेचितः ।६.००२ मनसाहं प्रभाते ते यौवराज्यं ददामि ह ॥६.००२ रात्रौ त्वं सीतया सार्धं संयतः सुव्रतो भव ।६.००३ राज्ञश्च मन्त्रिणश्चाष्टौ सवसिष्ठास्तथाब्रुवन् ॥६.००३ सृष्टिर्जयन्तो विजयः सिद्धार्थो राष्ट्रवर्धनः(१) ।६.००४ अशोको धर्मपालश्च सुमन्त्रः सवसिष्ठकः(२) ॥६.००४ पित्रादिवचनं श्रुत्वा तथेत्युक्त्वा स राघवः ।६.००५ स्थितो देवार्चनं कृत्वा कौशल्यायै निवेद्य तत् ॥६.००५ राजोवाच वसिष्ठादीन् रामराज्याभिषेचने ।६.००६ सम्भारान् सम्भवन्तु स्म इत्युक्त्वा कैकेयीङ्गतः ॥६.००६ अयोध्यालङ्कृतिं दृष्ट्वा ज्ञात्वा रामाभिषेचनं ।६.००७ भविष्यतीत्याचचक्षे कैकेयीं मन्थरा सखी(३) ॥६.००७ पादौ गृहीत्वा रामेण कर्षिता सापराधतः ।६.००८ तेन वैरेण सा राम वनवासञ्च काङ्क्षति ॥६.००८ कैकेयि त्वं समुत्तिष्ठ रामराज्याभिषेचनं ।६.००९ मरणं तव पुत्रस्य मम ते नात्र संशयः ॥६.००९ टिप्पणी १ राज्यवर्धन इति ख, ग, घ चिह्नितपुस्तकत्रयपाठः २ सुमन्त्रश्च वशिष्ठक इति ख, ग, घ, ङ, चिह्नितपुस्तकचतुष्टयपाठः ३ मन्थरासती इति ख, ङ, चिह्नितपुस्तकद्वयपाठः मन्थरा सतीमिति ग, चिह्नितपुस्तकपाठः पृष्ठ १२ कब्जयोक्तञ्च तच्छ्रुत्वा एकमाभरणं ददौ ।६.०१० उवाच मे यथा रामस्तथा मे भरतः सुतः ॥६.०१० उपायन्तु न पश्यामि भरतो येन राज्यभाक् ।६.०११ कैकेयीमब्रवीत्क्रुद्धा हारं त्यक्त्वाथ मन्थरा ॥६.०११ बालिशे रक्ष भरतमात्मानं माञ्च राघवात् ।६.०१२ भविता राघवो राजा राघवस्य ततः सुतः ॥६.०१२ राजवंशस्तु कैकेयि भरतात्परिहास्यते ।६.०१३ देवासुरे पुरा युद्धे शम्बरेण हताः सुराः ॥६.०१३ रात्रौ भर्ता गतस्तत्र रक्षितो विद्यया त्वया ।६.०१४ वरद्वयन्तदा प्रादाद्याचेदानीं नृपञ्च तत् ॥६.०१४ रामस्य च वनेवासं नव वर्षाणि पञ्च च ।६.०१५ यौवराज्यञ्च भरते तदिदानीं प्रदास्यति ॥६.०१५ प्रोत्साहिता कुब्जया सा अनर्थे चार्थदर्शिनी ।६.०१६ उवाच सदुपायं मे कच्चित्तं(१) कारयिष्यति ॥६.०१६ क्रोधागारं प्रविष्टाथ पतिता भुवि मूर्छिता ।६.०१७ द्विजादीनर्चयित्वाथ राजा दशरथस्तदा ॥६.०१७ ददर्श केकयीं रुष्टामुवाच कथमीदृशी ।६.०१८ रोगार्ता किं भयोद्विग्ना किमिच्छसि करोमि तत् ॥६.०१८ येन रामेण हि विना न जीवामि मुहूर्तकम् ।६.०१९ शपामि तेन कुर्यां वै वाञ्छितं तव सुन्दरि ॥६.०१९ सत्यं ब्रूहीति सोवाच नृपं मह्यं ददासि चेत् ।६.०२० वरद्वयं पूर्वदत्तं सत्यात्त्वं देहि मे नृप ॥६.०२० चतुर्दशसमा रामो वने वसतु संयतः ।६.०२१ टिप्पणी १ कथितमिति ख, ङ, चिह्नितपुस्तकद्वयपाठः पृष्ठ १३ सम्भारैरेभिरद्यैव भरतोत्राभिषेच्यताम् ॥६.०२१ विषं पीत्वा मरिष्यामि दास्यसि त्वं न चेन्नृप ।६.०२२ तच्छ्रुत्वा मूर्छितो भूमौ वज्राहत इवापतत् ॥६.०२२ मुहूर्ताच्चेतनां प्राप्य कैकेयीमिदमब्रवीत् ।६.०२३ किं कृतं तव रामेण मया वा पापनिश्चये ॥६.०२३ यन्मामेवं ब्रवीषि त्वं सर्वलोकाप्रियङ्करि ।६.०२४ केवलं त्वत्प्रियं कृत्वा भविष्यामि सुनिन्दितः ॥६.०२४ या त्वं भार्या(१) कालरात्री भरतो नेदृशः सुतः ।६.०२५ प्रशाधि विधवा राज्यं मृते मयि गते सुते ॥६.०२५ सत्यपाशनिबद्धस्तु राममाहूय चाब्रवीत् ।६.०२६ कैकेय्या वञ्चितो राम राज्यं कुरु निगृह्य माम् ॥६.०२६ त्वया वने तु वस्तव्यं कैकेयीभरतो नृपः ।६.०२७ पितरञ्चैव कैकेयीं नमस्कृत्य प्रदक्षिणं ॥६.०२७ कृत्वा नत्वा च कौशल्यां समाश्वस्य सलक्ष्मणः ।६.०२८ सीतया भार्यया सार्धं सरथः ससुमन्त्रकः ॥६.०२८ दत्वा दानानि विप्रेभ्यो दीनानाथेभ्य एव सः ।६.०२९ मातृभिश्चैव विप्राद्यैः शोकार्तैर्निर्गतः पुरात् ॥६.०२९ उषित्वा तमसातीरे रात्रौ पौरान् विहाय च ।६.०३० प्रभाते तमपश्यन्तोऽयोध्यां ते पुनरागताः ॥६.०३० रुदन् राजापि कौशल्या गृहमागात्सुदुःखितः ।६.०३१ पौरा जना स्त्रियः सर्वा रुरुदू राजयोषितः ॥६.०३१ रामो रथस्थश्चीराढ्यः शृङ्गवेरपुरं ययौ ।६.०३२ गुहेन पूजितस्तत्र इङ्गुदीमूलमाश्रितः(२) ॥६.०३२ टिप्पणी १ न त्वं भार्या इति ग, घ, छ, चिह्नितपुस्तकत्रयपाठः २ संश्रित इति ग, घ, चिह्नितपुस्तकद्वयपाठः पृष्ठ १४ लक्ष्मणः स गुहो रात्रौ चक्रतुर्जागरं हि तौ ।६.०३३ सुमन्त्रं सरथं त्यक्त्वा प्रातर्नावाथ जाह्नवीं ॥६.०३३ रामलक्ष्मणसीताश्च तीर्णा आपुः प्रयागकम् ।६.०३४ भरद्वाजं नमस्कृत्य चित्रकूटं गिरिं ययुः ॥६.०३४ वास्तुपूजान्ततः कृत्वा स्थिता मन्दाकिनीतटे ।६.०३५ सीतायै दर्शयामास चित्रकूटञ्च राघवः ॥६.०३५ नखैर्विदारयन्तन्तां काकन्तच्चक्षुराक्षिपत् ।६.०३६ ऐषिकास्त्रेण शरणं प्राप्तो देवान् विहायसः ॥६.०३६ रामे वनं गते राजा षष्ठेऽह्नि निशि चाब्रवीत् ।६.०३७ कौशल्यां स कथां पौर्वां(१) यदज्ञानद्धतः पुरा ॥६.०३७ कौमारे शरयूतीरे यज्ञदत्तकुमारकः ।६.०३८ शब्दभेदाच्च कुम्भेन शब्दं कुर्वंश्च तत्पिता ॥६.०३८ शशाप विलपन्मात्रा शोकं कृत्वा रुदन्मुहुः ।६.०३९ पुत्रं विना मरिष्यावस्त्वं च शोकान्मरिष्यसि ॥६.०३९ पुत्रं विना स्मरन् शोकात्कौशल्ये मरणं मम ।६.०४० कथामुक्त्वाथ हा राममुक्त्वा राजा दिवङ्गतः ॥६.०४० सुप्तं मत्त्वाथ कौशल्या सुप्ता शोकार्तमेव सा ।६.०४१ सुप्रभाते गायनाश्च सूतमागधवन्दिनः ॥६.०४१ प्रबोधका बोधयन्ति न च बुध्यत्यसौ मृतः(२) ।६.०४२ कौशल्या तं मृतं ज्ञात्वा हा हतास्मीति चाब्रवीत्(३) ॥६.०४२ नरा नार्योऽथ रुरुदुरानीतो भरतस्तदा ।६.०४३ वशिष्ठाद्यैः सशत्रुघ्नः शीघ्रं राजगृहात्पुरीम् ॥६.०४३ टिप्पणी १ पूर्वामिति ग, ङ, चिह्नितपुस्तकद्वयपाठः २ नृप इति ङ, चिह्नितपुस्तकपाठः ३ चापतदिति ङ, चिह्नितपुस्तकपाठः पृष्ठ १५ दृष्ट्वा सशोकां कैकेयीं निन्दयामास दुःखितः ।६.०४४ अकीर्तिः पातिता मूर्ध्नि कौशल्यां स प्रशस्य च ॥६.०४४ पितरन्तैलद्रोणिस्थं संस्कृत्य सरयूतटे ।६.०४५ वशिष्ठाद्यैर्जनैरुक्तो राज्यं कुर्विति सोऽब्रवीत् ॥६.०४५ व्रजामि राममानेतुं रामो राजा मतो बली(१) ।६.०४६ शृङ्गवेरं प्रयागञ्च भरद्वाजेन भोजितः ॥६.०४६ नमस्कृत्य भरद्वाजं रामं लक्ष्मणमागतः ।६.०४७ पिता स्वर्गं गतो राम अयोध्यायां नृपो भव ॥६.०४७ अहं वनं प्रयास्यामि त्वदादेशप्रतीक्षकः ।६.०४८ रामः श्रुत्वा जलं दत्वा गृहीत्वा पादुके व्रज ॥६.०४८ राज्यायाहन्नयास्यामि(२) सत्याच्चीरजटाधरः ।६.०४९ रामोक्तो भरतश्चायान्नन्दिग्रामे स्थितो बली ॥६.०४९ त्यक्त्वायोध्यां पादुके ते पूज्य राज्यमपालयत् ॥६.०४९ इत्यादिमहापुराणे आग्नेये रामायणेऽयोध्याकाण्डवर्णनं नाम षष्ठोऽध्यायः ॥ अध्याय {७} अथ सप्तमोऽध्यायः रामायणवर्णनं नारद उवाच रामो वशिष्ठं मातॄञ्च नत्वातिञ्च प्रणम्य सः ।७.००१ अनसूयाञ्च तत्पत्नीं शरभङ्गं सुतीक्ष्णकम् ॥७.००१ टिप्पणी १ यतो बली इति ख, ग, चिह्नितपुस्तकद्वयपाठः गतो बली इति ख, ङ, चिह्नितपुस्तकद्वयपाठः २ नाहं राज्यं प्रयास्यामि इति ख, चिह्नितपुस्तकपाठः राज्यं नाहं प्रयास्यामि इति ङ, चिह्नितपुस्तकपाठः पृष्ठ १६ अगस्त्यभ्रातरं नत्वा अगस्त्यन्तत्प्रसादतः ।७.००२ धनुःखड्गञ्च सम्प्राप्य दण्डकारण्यमागतः ॥७.००२ जनस्थाने पञ्चवट्यां स्थितो गोदावरीतटे ।७.००३ तत्र सूर्पणखायाता भक्षितुं तान् भयङ्करी ॥७.००३ रामं सुरूपं दृष्ट्वा सा कामिनी वाक्यमब्रवीत् ।७.००४ कस्त्वं कस्मात्समायातो भर्ता मे भव चार्थितः ॥७.००४ एतौ च भक्षयिष्यामि इत्युक्त्वा तं समुद्यता ।७.००५ तस्या नासाञ्च कर्णौ च रामोक्तो लक्ष्मणोऽच्छिनत् ॥७.००५ रक्तं क्षरन्ती प्रययौ खरं भ्रातरमब्रवीत् ।७.००६ मरिष्यामि विनासाहं खर जीवामि वै तदा ॥७.००६ रामस्य भार्या सीतासौ तस्यासील्लक्ष्मणोऽनुजः ।७.००७ तेषां यद्रुधिरं(१) सोष्णं पाययिष्यसि मां यदि ॥७.००७ खरस्तथेति तामुक्त्वा चतुर्दशसहस्रकैः ।७.००८ रक्षसां दूषणेनागाद्योद्धुं(२) त्रिशिरसा सह ॥७.००८ रामं रामोऽपि युयुधे शरैर्विव्याध राक्षसान् ।७.००९ हस्त्यश्वरथपादातं बलं निन्ये यमक्षयं ॥७.००९ त्रिशीर्षाणं खरं रौद्रं युध्यन्तञ्चैव दूषणम् ।७.०१० ययौ सूर्पणखा लङ्कां रावणाग्रेऽपतद्भुवि ॥७.०१० अब्रवीद्रावणं क्रुद्धा न त्वं राजा न रक्षकः ।७.०११ खरादिहन्तू रामस्य सीतां भार्यां हरस्व च ॥७.०११ रामलक्ष्मणरक्तस्य पानाज्जीवामि नान्यथा ।७.०१२ तथेत्याह च तच्छ्रुत्वा मारीचं प्राह वै व्रज ॥७.०१२ स्वर्णचित्रमृगो भूत्वा रामलक्ष्मणकर्षकः ।७.०१३ टिप्पणी १ हृद्रुधिरमिति ख, ग, ङ, चिह्नितपुस्तकत्रयपाठः २ रक्षसां सहसा प्रायाद्योद्धुमिति ग, चिह्नितपुस्तकपाठः पृष्ठ १७ सीताग्रे तां हरिष्यामि अन्यथा मरणं तव ॥७.०१३ मारीचो रावणं प्राह रामो मृत्युर्धनुर्धरः(१) ।७.०१४ रावणादपि मर्तव्यं मर्तव्यं राघवादपि ॥७.०१४ अवश्यं यदि मर्तव्यं वरं रामो न रावणः ।७.०१५ इति मत्वा मृगो भूत्वा सीताग्रे व्यचरन्मुहुः ॥७.०१५ सीतया प्रेरितो(२) रामः शरेणाथावधीच्च तं ।७.०१६ म्रियमाणो मृगः प्राह हा सीते लक्ष्मणेति च ॥७.०१६ सौमित्रिः सीतयोक्तोऽथ विरुद्धं राममागतः ।७.०१७ रावणोप्यहरत्सीतां हत्वा गृध्रं जटायुषं ॥७.०१७ जटायुषा स भिन्नाङ्गो(३) अङ्केनादाय जानकीम् ।७.०१८ गतो लङ्कामशोकाख्ये धारयामास चाब्रवीत् ॥७.०१८ भव भार्या ममाग्र्या त्वं राक्षस्यो रक्ष्यतामियम् ।७.०१९ रामो हत्वा तु मारीचं दृष्ट्वा लक्ष्मणमब्रवीत् ॥७.०१९ मायामृगोऽसौ सौमित्रे यथा त्वमिह चागतः ।७.०२० तथा सीता हृता नूनं नापश्यत्स गतोऽथ ताम् ॥७.०२० शुशोच विललापार्तो मान्त्यक्त्वा क्व गतासि वै ।७.०२१ लक्ष्मणाश्वासितो रामो मार्गयामास(४) जानकीम् ॥७.०२१ दृष्ट्वा जटायुस्तं प्राह रावणो हृतवांश्च तां ।७.०२२ मृतोऽथ संस्कृतस्तेन कबन्धञ्चावधीत्ततः ॥७.०२२ शापमुक्तोऽब्रवीद्रामं स त्वं सुग्रीवमाव्रज ॥७.०२२ इत्यादिमहापुराणे आग्नेये रामायणे आरण्यककाण्डवर्णनं नाम सप्तमोऽध्यायः टिप्पणी १ मृत्युर्न तद्वरमिति ख, ग, चिह्नितपुस्तकद्वयपाठः २ प्रेषित इति ख, चिह्नितपुस्तकपाठः ३ विरथ इति ख, ग, ङ, चिह्नितपुस्तकत्रयपाठः ४ आह्वयामास इति ङ, चिह्नितपुस्तकपाठः पृष्ठ १८ अध्याय {८} अथ अष्टमोऽध्यायः श्रीरामावतारकथनं नारद उवाच रामः पम्पासरो गत्वा शोचन् स शर्वरीं ततः(१) ।८.००१ हनूमता स सुग्रीवं(२) नीतो मित्रञ्चकार ह ॥८.००१ सप्त तालान् विनिर्भिद्य शरेणैकेन पश्यतः ।८.००२ पादेन दुन्दुभेः कायञ्चिक्षेप दशयोजनं ॥८.००२ तद्रिपुं बालिनं हत्वा भ्रातरं वैरकारिणम् ।८.००३ किष्किन्धां कपिराज्यञ्च रुमान्तारां समर्पयत् ॥८.००३ ऋष्यमूके हरीशाय किष्किन्धेशोऽब्रवीत्स च(३) ।८.००४ सीतां त्वं प्राश्यसे यद्वत्(४) तथा राम करोमि ते ॥८.००४ तच्छ्रुत्वा माल्यवत्पृष्ठे चातुर्मास्यं चकार सः ।८.००५ किष्किन्धायाञ्च सुग्रीवो यदा नायाति दर्शनं ॥८.००५ तदाब्रवीत्तं रामोक्तं लक्ष्मणो व्रज राघवम् ।८.००६ न स सङ्कुचितः पन्था येन बाली हतो गतः ॥८.००६ समये तिष्ठ सुग्रीव मा बालिपथमन्वगाः ।८.००७ सुग्रीव आह संसक्तो(५) गतं कालं न बुद्धवान् ॥८.००७ इत्युक्त्वा स गतो रामं नत्वोवाच हरीश्वरः ।८.००८ आनीता वानराः सर्वे सीतायाश्च गवेषणे ॥८.००८ टिप्पणी १ गौरवाच्छवरीनतः इति ङ, चिह्नितपुस्तकपाठः । शवरीं तत इति ख, ग, चिह्नितपुस्तकपाठः २ हनूमता वानरेन्द्रमिति ङ, चिह्नितपुस्तकपाठः ३ अब्रवीत्ततिति ग, चिह्नितपुस्तकपाठः ४ प्राप्स्यसि यथा इति ख, चिह्नितपुस्तकपाठः ५ सुग्रीवमाह सङ्क्रुद्ध इति ख, ग, चिह्नितपुस्तकद्वयपाठः । सुग्रीव ऋद्धिसंसक्त इति ङ, चिह्नितपुस्तकपाठः पृष्ठ १९ त्वन्मतात्प्रेषयिष्यामि विचिन्वन्तु च जानकीम् ।८.००९ पूर्वादौ मासमायान्तु मासादूर्ध्वं निहन्मि तान् ॥८.००९ इत्युक्ता वानराः पूर्व पश्चिमोत्तरमार्गगाः ।८.०१० जग्मू रामं ससुग्रीवमपश्यन्तस्तु जानकीम् ॥८.०१० रामाङ्गुलीयं सङ्गृह्य हनूमान् वानरैः सह ।८.०११ दक्षिणे मार्गयामास सुप्रभाया गुहान्तिके ॥८.०११ मासादूर्ध्वञ्च विन्यस्ता अपश्यन्तस्तु जानकीम् ।८.०१२ ऊचुर्वृथा मरिष्यामो जटायुर्धन्य एवसः ॥८.०१२ सीतार्थे योऽत्यजत्प्राणान् रावणेन हतो रणे ।८.०१३ तच्छ्रुत्वा प्राह सम्पातिर्विहाय कपिभक्षणं ॥८.०१३ भ्रातासौ मे जटायुर्वै मयोड्डीनोऽर्कमण्डलम् ।८.०१४ अर्कतापाद्रक्षितोऽगात्दग्धपक्षोऽहमब्भ्रगः ॥८.०१४ रामवार्ताश्रवात्पक्षौ जातौ भूयोऽथ जानकीम् ।८.०१५ पश्याम्यशोकवनिका गतां लङ्कागतां किल ॥८.०१५ शतयोजनविस्तीर्णे लवणाब्धौ त्रिकूटके ।८.०१६ ज्ञात्वा रामं ससुग्रीवं वानराः कथयन्तु वै ॥८.०१६ इत्यादिमहापुराणे आग्नेये रामायाणे किष्किन्धाकाण्डवर्णनं नाम अष्टमोऽध्यायः अध्याय {९} अथ नवमोऽध्यायः श्रीरामावतारकथनं नारद उवाच सम्पातिवचनं श्रुत्वा हनुमानङ्गदादयः ।९.००१ अब्धिं दृष्ट्वाब्रुवंस्तेऽब्धिं लङ्घयेत्को नु जीवयेत् ॥९.००१ पृष्ठ २० कपीनां जीवनार्थाय रामकार्यप्रसिद्धये ।९.००२ शतयोजनविस्तीर्णं पुप्लुवेऽब्धिं स मारुतिः ॥९.००२ दृष्ट्वोत्थितञ्च मैनाकं सिंहिकां विनिपात्य च ।९.००३ लङ्कां दृष्ट्वा राक्षसानां गृहाणि वनितागृहे ॥९.००३ दशग्रीवस्य कुम्भस्य कुम्भकर्णस्य रक्षसः ।९.००४ विभीषणस्येन्द्रजितो गृहेऽन्येषां च रक्षसो ॥९.००४ नापश्यत्पानभूम्यादौ सीतां चिन्तापरायणः ।९.००५ अशोकवनिकां गत्वा दृष्टवाञ्छिंशपातले ॥९.००५ राक्षसीरक्षितां सीतां भव भार्येति वादिनं ।९.००६ रावणं शिंशपास्थोऽथ नेति सीतान्तु वादिनीं ॥९.००६ भव भार्या रावणस्य राक्षसीर्वादिनीः कपिः ।९.००७ गते तु रावणे प्राह राजा दशरथोऽभवत् ॥९.००७ रामोऽस्य(१) लक्ष्मणः पुत्रौ वनवासङ्गतौ वरौ ।९.००८ रामपत्नी जानकी त्वं रावणेन हृता बलात् ॥९.००८ रामः सुग्रीवमित्रस्त्वां मार्गयन् प्रेषयच्च माम्(२) ।९.००९ साभिज्ञानञ्चागुलीयं रामदत्तं गृहाण वै ॥९.००९ सीताङ्गुलीयं जग्राह सापश्यन्मारूतिन्तरौ ।९.०१० भूयोऽग्रे चोपविष्टं तमुवाच यदि जीवति ॥९.०१० रामः कथं न नयति शृङ्कितामब्रवीत्कपिः ।९.०११ रामः सीते न जानीते ज्ञात्वा त्वां स नयिष्यति ॥९.०११ रावणं राक्षसं हत्वा सबलं देवि मा शुच ।९.०१२ साभिज्ञानं देहि मे त्वं मणिं सीताददत्कपौ ॥९.०१२ उवाच मां यथा रामो नयेच्छीघ्रं तथा कुरु ।९.०१३ टिप्पणी १ रामश्च इति ख, चिह्नितपुस्तकपाठः २ त्वां मार्गयेत्प्रेषयेच्च मामिति घ, चिह्नितपुस्तकपाठः पृष्ठ २१ काकाक्षिपातनकथां प्रतियाहि हि शोकह ॥९.०१३ मणिं कथां गृहीत्वाह हनूमान्नेष्यते पतिः ।९.०१४ अथवा ते त्वरा काचित्पृष्ठमारुह मे शुभे ॥९.०१४ अद्य त्वां दर्शयिष्यामि ससुग्रीवञ्च राघवम् ।९.०१५ सीताब्रवीद्धनूमन्तं नयतां मां हि राघवः ॥९.०१५ हनूमान् स दशग्रीव दर्शनोपायमाकरोत् ।९.०१६ वनं बभञ्ज तत्पालान् हत्वा दन्तनखादिभिः ॥९.०१६ हत्वातु किङ्करान् सर्वान् सप्त मन्त्रिसुतानपि ।९.०१७ पुत्रमक्षं कुमारञ्च शक्रजिच्च बबन्ध तम् ॥९.०१७ नागपाशेन पिङ्गाक्षं दर्शयामास रावणम् ।९.०१८ उवाच रावणः कस्त्वं मारुतिः प्राह रावणम् ॥९.०१८ रामदूतो राघवाय सीतां देहि मरिष्यसि ।९.०१९ रामबाणैर्हतः सार्धं लङ्कास्थै राक्षसैर्ध्रुवम् ॥९.०१९ रावणो हन्तुमुद्युक्तो विभीषणनिवारितः ।९.०२० दीपयामास लाङ्गलं दीप्तपुच्छः स मारुतिः ॥९.०२० दग्ध्वा लङ्कां राक्षसांश्च दृष्ट्वा सीतां प्रणम्य ताम् ।९.०२१ समुद्रपारमागम्य दृष्टा सीतेति चाब्रवीत् ॥९.०२१ अङ्गदादीनङ्गदाद्यैः पीत्वा मधुवने मधु ।९.०२२ जित्वा दधिमुखादींश्च दृष्ट्वा रामञ्च तेऽब्रुवन् ॥९.०२२ दृष्टा सीतेति रामोऽपि हृष्टः पप्रच्छ मारुतिम् ।९.०२३ कथं दृष्ट्वा त्वया सीता किमुवाच च माम्प्रति ॥९.०२३ सीताकथामृतेनैव सिञ्च मां कामवह्निगम् ।९.०२४ हनूमानब्रवीद्रामं लङ्घयित्वाब्धिमागतः ॥९.०२४ सीतां दृष्ट्वा पुरीं दग्ध्वा सीतामणिं गृहाण वै ।९.०२५ हत्वा त्वं रावणं सीतां प्राप्स्यसे राम मा शुच ॥९.०२५ गृहीत्वा तं मणिं रामो रुरोद विरहातुरः ।९.०२६ पृष्ठ २२ मणिं दृष्ट्वा जानकी मे दृष्टा सीता नयस्व माम् ॥९.०२६ तया विना न जीवामि सुग्रीवाद्यैः प्रबोधितः ।९.०२७ समुद्रतीरं गतवान् तत्र रामं विभीषणः ॥९.०२७ गतस्तिरस्कृतो भ्रात्रा रावणेन दुरात्मना ।९.०२८ रामाय देहि सीतां त्व मित्युक्तेनासहायवान् ॥९.०२८ रामो विभीषणं मित्रं लङ्कैश्वर्येऽभ्यषेचयत् ।९.०२९ समुद्रं प्रार्थयन्मार्गं यदा नायात्तदा शरैः ॥९.०२९ भेदयामास रामञ्च उवाचाब्धिः समागतः ।९.०३० नलेन सेतुं बध्वाब्धौ लङ्कां व्रज गभीरकः ॥९.०३० अहं त्वया कृतः पूर्वं रामोऽपि नलसेतुना ।९.०३१ कृतेन तरुशैलाद्यैर्गतः पारं महोदधेः ॥९.०३१ वानरैः स सुवेलस्थः सह लङ्कां ददर्श वै ॥९.०३१ इत्यादिमहापुराणे आग्नेये रामायणे सुन्दरकाण्डवर्णनं नाम नवमोऽध्यायः अध्याय {१०} अथ दशमोऽध्यायः श्रीरामावतारवर्णनं नाराद उवाच रामोक्तश्चाङ्गदो गत्वा रावणं प्राह जानकी ।१०.००१ दीयतां राघवायाशु अन्यथा त्वं मरिष्यसि ॥१०.००१ रावणो हन्तुमुद्युक्तः सङ्ग्रामोद्धतराक्षसः ।१०.००२ रामायाह दशग्रीवो युद्धमेकं तु मन्यते ॥१०.००२ रामो युद्धाय तच्छ्रुत्वा लङ्कां सकपिराययौ ।१०.००३ वानरो हनूमान्मैन्दो द्विविदो जाम्बवान्नलः ॥१०.००३ नीलस्तारोङ्गदो धूम्रः सुषेणः केशरी गयः ।१०.००४ पृष्ठ २३ पनसो विनतो रम्भः शरभः क्रथनो बली ॥१०.००४ गवाक्षो दधिवक्त्रश्च गवयो गन्धमादनः ।१०.००५ एते चान्ये च सुग्रीव एतैर्युक्तो ह्यसङ्ख्यकैः ॥१०.००५ रक्षसां वानराणाञ्च युद्धं सङ्कुलमाबभौ ।१०.००६ राक्षसा वानरान् जघ्नुः शरशक्तिगदादिभिः ॥१०.००६ वानरा राक्षसाञ्जघ्नुर्नखदन्तशिलादिभिः ।१०.००७ हस्त्यश्वरथपादातं राक्षसानां बलं हतं ॥१०.००७ हनूमान् गिरिशृङ्गेण धूम्राक्षमबधीद्रिपुम् ।१०.००८ अकम्पनं प्रहस्तञ्च युध्यन्तं नील आबधीत् ॥१०.००८ इन्द्रजिच्च्छरबन्धाच्च विमुक्तौ रामलक्ष्मणौ ।१०.००९ तार्क्षसन्दर्शनाद्वाणैर्जघ्नतू राक्षसं बलम् ॥१०.००९ रामः शरैर्जर्जरितं रावणञ्चाकरोद्रणे ।१०.०१० रावनः कुम्भकर्णञ्च बोधयामास दुःखितः ॥१०.०१० कुम्भकर्णः प्रबुद्धोऽथ पीत्वा घटसहस्रकम् ।१०.०११ मद्यस्य महिषादीनां भक्षयित्वाह रावणम् ॥१०.०११ सीताया हरणं पापं कृतन्त्वं हि गुरुर्यतः ।१०.०१२ अतो गच्छामि युद्धाय रामं हन्मि सवानरम् ॥१०.०१२ इत्युक्त्वा वानरान् सर्वान् कुम्भकर्णो ममर्द ह ।१०.०१३ गृहीतस्तेन सुग्रीवः कर्णनासं चकर्त सः ॥१०.०१३ कर्णनासाविहीनोऽसौ भक्षयामास वानरान् ।१०.०१४ रामोऽथ कुम्भकर्णस्य बाहू चिच्छेद शायकैः ॥१०.०१४ ततः पादौ ततश्छित्वा शिरो भूमौ व्यपातयत् ।१०.०१५ अथ कुम्भो निकुम्भश्च मकराक्षश्च राक्षसः ॥१०.०१५ महोदरो महापार्श्वो मत्त उन्मत्तराक्षसः ।१०.०१६ प्रघसो भासकर्णश्च विरूपाक्षश्च संयुगे ॥१०.०१६ देवान्तको नरान्तश्च त्रिशिराश्चातिकायकः ।१०.०१७ पृष्ठ २४ रामेण लक्ष्मणेनैते वानरैः सविभीषणैः ॥१०.०१७ युध्यमानास्तया ह्यन्ये राक्षसा भुवि पातिताः ।१०.०१८ इन्द्रजिन्मायया युध्यन् रामादीन् सम्बबन्ध ह ॥१०.०१८ वरदत्तैर्नागबाणैः(१) ओषध्या तौ विशल्यकौ ।१०.०१९ विशल्ययाब्रणौ कृत्वा मारुत्यानीतपर्वते ॥१०.०१९ हनूमान् धारयामास तत्रागं यत्र संस्थितः ।१०.०२० निकुम्भिलायां होमादि कुर्वन्तं तं हि लक्ष्मणः ॥१०.०२० शरैरिन्द्रजितं वीरं युद्धे तं तु व्यशातयत् ।१०.०२१ रावणः शोकसन्तप्तः सीतां हन्तुं समुद्यतः ॥१०.०२१ अविन्ध्यवारितो(२) राजा रथस्थः सबलो ययौ ।१०.०२२ इन्द्रोक्तो मातली रामं रथस्थं प्रचकार तम् ॥१०.०२२ रामरावणयोर्युद्धं रामरावणयोरिव ।१०.०२३ रावणो वानरान् हन्ति मारुत्याद्याश्च रावणम् ॥१०.०२३ रामः शस्त्रैस्तमस्त्रैश्च ववर्ध जलदो यथा ।१०.०२४ तस्य ध्वजं स चिच्छेद रथमश्वांश्च सारथिम् ॥१०.०२४ धनुर्बाहूञ्छिरांस्येव उत्तिष्ठन्ति शिरांसि हि ।१०.०२५ पैतामहेन हृदयं भित्वा रामेण रावणः ॥१०.०२५ भूतले पातितः सर्वै राक्षसै रुरुदुः स्त्रियः ।१०.०२६ आश्वास्य तञ्च संस्कृत्य रामाज्ञप्तो विभीषणः ॥१०.०२६ हनूमतानयद्रामः सीतां शुद्धां गृहीतवान् ।१०.०२७ रामो वह्नौ प्रविष्टान्तां शुद्धामिन्द्रादिभिः स्तुतः ॥१०.०२७ ब्रह्मणा दशरथेन त्वं विष्णू राक्षसमर्दनः ।१०.०२८ इन्द्रोर्चितोऽमृतवृष्ट्या जीवयामास वानरान् ॥१०.०२८ टिप्पणी १ नागपशैरिति ख, चिह्नितपुस्तकपाठः २ सुहृन्निवारित इति ख, चिह्नितपुस्तकपाठः पृष्ठ २५ रामेण पूजिता जग्मुर्युद्धं दृष्ट्वा दिवञ्च ते ।१०.०२९ रामो विभीषणायादाल्लङ्कामभ्यर्च्य वानरान् ॥१०.०२९ ससीतः पुष्पके स्थित्वा गतमार्गेण वै गतः(१) ।१०.०३० दर्शयन् वनदुर्गाणि सीतायै हृष्टमानसः ॥१०.०३० भरद्वाजं नमस्कृत्य नन्दिग्रामं समागतः ।१०.०३१ भरतेन नतश्चागादयोध्यान्तत्र संस्थितः ॥१०.०३१ वसिष्ठादीन्नमस्कृत्य कौशल्याञ्चैव केकयीम् ।१०.०३२ सुमित्रां प्राप्तराज्योऽथ द्विजादीन् सोऽभ्यपूजयत् ॥१०.०३२ वासुदेवं स्वमात्मानमश्वमेधैरथायजत् ।१०.०३३ सर्वदानानि स ददौ पालयामास सः प्रजाः ॥१०.०३३ पुत्रवद्धर्मकामादीन् दुष्टनिग्रहणे रतः ।१०.०३४ सर्वधर्मपरो लोकः सर्वशस्या च मेदिनी ।१०.०३४ नाकालमरणञ्चासीद्रामे राज्यं प्रशासति ॥१०.०३४ इत्यादिमहापुराणे आग्नेये रामायणे युद्धकाण्डवर्णनं नाम दशमोऽध्यायः अध्याय {११} अथ एकादशोऽध्यायः श्रीरामावतारवर्णनं नारद उवाच राज्यस्थं राघवं जग्मुरगस्त्याद्याः सुपूजिताः ।११.००१ धन्यस्त्वं विजयी यस्मादिन्द्रजिद्विनिपातितः ॥११.००१ ब्रह्मात्मजः पुलस्त्योभूत्विश्रवास्तस्य नैकषी ।११.००२ पुष्पोत्कटाभूत्प्रथमा तत्पुत्रोभूद्धनेश्वरः ॥११.००२ नैकष्यां रावणो जज्ञे विंशद्बाहुर्दशाननः ।११.००३ टिप्पणी १ स्वर्गमार्गेण वै गत इति ख, चिह्नितपुस्तकपाठः पृष्ठ २६ तपसा ब्रह्मदत्तेन वरेण जितदैवतः ॥११.००३ कुम्भकर्णः सनिद्रोऽभूद्धर्मिष्ठोऽभूद्विभीषणः ।११.००४ स्वसा शूर्पणखा तेषां रावणान्मेघनादकः ॥११.००४ इन्द्रं जित्वेन्द्रजिच्चाभूद्रावणादधिको बली ।११.००५ हतस्त्वया लक्ष्मणेन देवादेः क्षेममिच्छता ॥११.००५ इत्युक्त्वा ते गता विप्रा अगस्त्याद्या नमस्कृताः ।११.००६ देवप्रार्थितरामोक्तः शत्रुघ्नो लवणार्दनः ॥११.००६ अभूत्पूर्मथुरा काचित्रामोक्तो भरतोऽवधीत् ।११.००७ कोटित्रयञ्च शैलूष पुत्राणां निशितैः शरैः ॥११.००७ शैलूषं दुष्टगन्धर्वं सिन्धुतीरनिवासिनम् ।११.००८ तक्षञ्च पुष्करं पुत्रं स्थापयित्वाथ देशयोः ॥११.००८ भरतोगात्सशत्रुघ्नो राघवं पूजयन् स्थितः ।११.००९ रामो दुष्टान्निहत्याजौ शिष्टान् सम्पाल्य मानवः ॥११.००९ पुत्रौ कुशलवौ जातौ वाल्मीकेराश्रमे वरौ ।११.०१० लोकापवादात्त्यक्तायां ज्ञातौ सुचरितश्रवात् ॥११.०१० राज्येभिषिच्य ब्रह्माहमस्मीति ध्यानतत्परः ।११.०११ दशवर्षसहस्राणि दशवर्षशतानि च ॥११.०११ राज्यं कृत्वा क्रतून् कृत्वा स्वर्गं देवार्चितो ययौ ।११.०१२ सपौरः सानुजः सीता पुत्रो जनपदान्वितः ॥११.०१२ अग्निरुवाच वाल्मीकिर्नारदाच्छ्रुत्वा रामायणमकारयत् ।११.०१३ सविस्तरं यदेतच्च शृणुयात्स दिवं व्रजेत् ॥११.०१३ इत्यादिमहापुराणे आग्नेये रामायणे उत्तरकाण्डवर्णनं नाम एकादशोऽध्यायः पृष्ठ २७ अध्याय {१२} अथ द्वादशोऽध्यायः श्रीहरिवंशवर्णनं अग्निरुवाच हरिवंशम्प्रवक्ष्यामि विष्णुनाभ्यम्बुजादजः(१) ।१२.००१ ब्रह्मणोत्रिस्ततः सोमः सोमाज्जातः पुरूरवाः ॥१२.००१ तस्मादायुरभूत्तस्मान्नहुषोऽतो ययातिकः ।१२.००२ यदुञ्च तुर्वसुन्तस्माद्देवयानी व्यजायत ॥१२.००२ द्रुह्यं चानुं च पूरुं च शर्मिष्ठा वार्षपर्वणी ।१२.००३ यदोः कुले यादवाश्च वसुदेवस्तदुत्तमः ॥१२.००३ भुवो भारावतारार्थं देवक्यां वसुदेवतः ।१२.००४ हिरण्यकशिपोः पुत्राः षड्गर्भा योगनिद्रया ॥१२.००४ विष्णुप्रयुक्तया नीता देवकीजठरं पुरा ।१२.००५ अभूच्च सप्तमो गर्भो देवक्या जठराद्बलः ॥१२.००५ सङ्क्रामितोऽभूद्रोहिण्यां रौहिणेयस्ततो हरिः ।१२.००६ कृष्णाष्टम्याञ्च नभसि अर्धरात्रे चतुर्भुजः ॥१२.००६ देवक्या वसुदेवेन स्तुतो बालो द्विबाहुकः ।१२.००७ वसुदेवः कंसभयाद्यशोदाशयनेऽनयत् ॥१२.००७ यशोदाबालिकां गृह्य देवकीशयनेऽनयत् ।१२.००८ कंसो बालध्वनिं श्रुत्वा ताञ्चिक्षेप शिलातले ॥१२.००८ वारितोपि स देवक्या मृत्युर्गर्भोष्टमो मम ।१२.००९ श्रुत्वाशरीरिणीं वाचं मत्तो गर्भास्तु मारिताः ॥१२.००९ समर्पितास्तु देवक्या विवाहसमयेरिताः ।१२.०१० सा क्षिप्ता बालिका कंसमाकाशस्थाब्रवीदिदम् ॥१२.०१० किं मया क्षिप्तया कंस जातो यस्त्वां बधिष्यति ।१२.०११ टिप्पणी १ विष्णुनाभ्यब्जादज इति ख, चिह्नितपुस्तकपाठः पृष्ठ २८ सर्वस्वभूतो देवानां भूभारहरणाय सः ॥१२.०११ इत्युक्त्वा सा च शुम्भादीन् हत्वेन्द्रेण च संस्तुता ।१२.०१२ आर्या दुर्गा वेदगर्भा अम्बिका भद्रकाल्यपि ॥१२.०१२ भद्रा क्षेम्या क्षेमकरी नैकबाहुर्नमामि ताम् ।१२.०१३ त्रिसन्ध्यं यः पठेन्नाम सर्वान् कामानवाप्नुयात् ॥१२.०१३ कंसोऽपि पूतनादींश्च प्रेषयद्बालनाशने ।१२.०१४ यशोदापतिनन्दाय वसुदेवेन चार्पितौ ॥१२.०१४ रक्षणाय च कंसादेर्भीतेनैव हि गोकुले ।१२.०१५ रामकृष्णौ चेरतुस्तौ गोभिर्गोपालकैः सह ॥१२.०१५ सर्वस्य जगतः पालौ गोपालौ तौ बभूवतुः ।१२.०१६ कृष्णश्चोलूखले बद्धो दाम्ना व्यग्रयशोदया ॥१२.०१६ यमलार्जुनमध्येऽगाद्भग्नौ च यमलार्जुनौ ।१२.०१७ परिवृत्तश्च शकटः पादक्षेपात्स्तनार्थिना ॥१२.०१७ पूतना स्तनपानेन सा हता हन्तुमुद्यता ।१२.०१८ वृन्दावनगतः कृष्णः कालियं यमुनाह्रदात् ॥१२.०१८ जित्वा निःसार्य चाब्धिस्थञ्चकार बलसंस्तुतः ।१२.०१९ क्षेमं तालवनं चक्रे हत्वा धेनुकगर्दभं ॥१२.०१९ अरिष्टवृषभं हत्वा केशिनं हयरूपिणम् ।१२.०२० शक्रोत्सवं परित्यज्य कारितो गोत्रयज्ञकः ॥१२.०२० पर्वतं धारयित्वा च शक्राद्वृष्टिर्निवारिता ।१२.०२१ नमस्कृतो महेन्द्रेण गोविन्दोऽथार्जुनोर्पितः ॥१२.०२१ इन्द्रोत्सवस्तु तुष्टेन भूयः कृष्णेन कारितः ।१२.०२२ रथस्थो मथुराञ्चागात्कंसोक्ताक्रूरसंस्तुतः ॥१२.०२२ गोपीभिरनुरक्ताभिः क्रीडिताभिर्निरीक्षितः ।१२.०२३ पृष्ठ २९ रजकं चाप्रयच्छन्तं(१) हत्वा वस्त्राणि चाग्रहीत् ॥१२.०२३ सह रामेण मालाभृन्मालाकारे वरन्ददौ ।१२.०२४ दत्तानुलेपनां कुब्जामृजुं चक्रेऽहनद्गजं ॥१२.०२४ मत्तं कुवलयापीडं द्वारि रङ्गं प्रविश्य च ।१२.०२५ कंसादीनां पश्यतां च मञ्चस्थानां नियुद्धकं ॥१२.०२५ चक्रे चाणूरमल्लेन मुष्टिकेन बलोऽकरोत् ।१२.०२६ चाणूरमुष्टिकौ ताभ्यां हतौ मल्लौ तथापरे ॥१२.०२६ मथुराधिपतिं कंसं हत्वा तत्पितरं हरिः ।१२.०२७ चक्रे यादवराजानमस्तिप्राप्ती च कंसगे ॥१२.०२७ जरासन्धस्य ते पुत्र्यौ जरासन्धस्तदीरितः ।१२.०२८ चक्रे स मथुरारोधं यादवैर्युयुधे शरैः ॥१२.०२८ रामकृष्णौ च मथुरां त्यक्त्वा गोमन्तमागतौ ।१२.०२९ जरासन्धं विजित्याजौ पौण्ड्रकं वासुदेवकं ॥१२.०२९ पुरीं च द्वारकां कृत्वा न्यवसद्यादवैर्वृतः ।१२.०३० भौमं तु नरकं हत्वा तेनानीताश्च कन्यकाः ॥१२.०३० देवगन्धर्वयक्षाणां ता उवाच जनार्दनः ।१२.०३१ षोदशस्त्रीसहस्राणि रुक्मिण्याद्यास्तथाष्ट च ॥१२.०३१ सत्यभामासमायुक्तो गरुडे नरकार्दनः ।१२.०३२ मणिशैलं सरत्रञ्च इन्द्रं जित्वा हरिर्दिवि ॥१२.०३२ पारिजातं समानीय सत्यभामागृहेऽकरोत् ।१२.०३३ सान्दीपनेश्च शस्त्रास्त्रं ज्ञात्वा तद्बालकं ददौ ॥१२.०३३ जित्वा पञ्चजनं दैत्यं यमेन च सुपूजितः ।१२.०३४ टिप्पणी १ रजकञ्च प्रजल्पन्तमिति ख, चिह्नितपुस्तकपाठः पृष्ठ ३० अबधीत्कालयवनं मुचुकुन्देन पूजितः ॥१२.०३४ वसुदेवं देवकीञ्च भक्तविप्रांश्च सोर्च्यत् ।१२.०३५ रेवत्यां बलभद्राच्च यज्ञाते निशठोन्मुकौ ॥१२.०३५ कृष्णात्शाम्बो जाम्बवत्यामन्यास्वन्येऽभवन् सुताः ।१२.०३६ तं मत्स्यं शम्बरायादान्मायावत्यै च शम्बरः ॥१२.०३७ मायावती मत्स्यमध्ये दृष्ट्वा स्वं पतिमादरात् ।१२.०३८ पपोष सा तं चोवाच रतिस्तेऽहं पतिर्मम ॥१२.०३८ कामस्त्वं शम्भुनानङ्गः कृतोहं शम्बरेण च ।१२.०३९ हृता न तस्य पत्नी त्वं मायाज्ञः शम्बरं जहि ॥१२.०३९ तच्छ्रुत्वा शम्बरं हत्वा प्रद्युम्नः सह भार्यया ।१२.०४० मायावत्या ययौ कृष्णं कृष्णो हृष्टोऽथ रुक्मिणी ॥१२.०४० प्रद्युम्नादनिरुद्धोभूदुषापतिरुदारधीः ।१२.०४१ बाणो बलिसुतस्तस्य सुतोषा शोणितं पुरं ॥१२.०४१ तपसा शिवपुत्रोऽभूत्मायूरध्वजपातितः ।१२.०४२ युद्धं प्राप्स्यसि वाण त्वं वाणं तुष्टः शिवोभ्यधात् ॥१२.०४२ शिवेन क्रीडतीं गौरीं दृष्ट्वोषा सस्पृहा पतौ ।१२.०४३ तामाह गौरी भर्ता ते निशि सुप्तेति दर्शनात् ॥१२.०४३ वैशाखमासद्वादश्यां पुंसो भर्ता भविष्यति ।१२.०४४ गौर्युक्ता(१) हर्षिता चोषा गृहे सुप्ता ददर्श तं ॥१२.०४४ आत्मना सङ्गतं ज्ञात्वा तत्सख्या चित्रलेखया ।१२.०४५ लिखिताद्वै चित्रपटादनिरुद्धं समानयत् ॥१२.०४५ टिप्पणी १ तच्छ्रुत्वा इति ग, चिह्नितपुस्तकपाठः पृष्ठ ३१ कृष्णपौत्रं द्वारकातो दुहिता वाणमन्त्रिणः ।१२.०४६ कुम्भाण्डस्यानिरुद्धोगाद्रराम ह्युषया सह ॥१२.०४६ वाणध्वजस्य सम्पातै रक्षिभिः स निवेदितः ।१२.०४७ अनिरुद्धस्य वाणेन युद्धमासीत्सदारुणम् ॥१२.०४७ श्रुत्वा तु नारदात्कृष्णः प्रद्युम्नबलभद्रवान् ।१२.०४८ गरुडस्थोथ जित्वाग्नीन् ज्वरं माहेश्वरन्तथा ॥१२.०४८ हरिशङ्करयोर्युद्धं बभूवाथ शराशरि ।१२.०४९ नन्दिविनायकस्कन्दमुखास्तार्क्षादिभिर्जिताः ॥१२.०४९ जृम्भते शङ्करे नष्टे जृम्भणास्त्रेण विष्णुना ।१२.०५० छिन्नं सहस्रं बाहूनां रुद्रेणाभयमर्थितम् ॥१२.०५० विष्णुना जीवितो वाणो द्विबाहुः प्राब्रवीच्छिवम् ।१२.०५१ त्वया यदभयं दत्तं वाणस्यास्य मया च तत् ॥१२.०५१ आवयोर्नास्ति भेदो वै भेदी नरकमाप्नुयात् ।१२.०५२ शिवाद्यैः पूजितो विष्णुः सोनिरुद्ध उषादियुक् ॥१२.०५२ द्वारकान्तु गतो रेमे उग्रसेनादियादवैः ।१२.०५३ अनिरुद्धात्मजो वज्रो मार्कण्डेयात्तु सर्ववित् ॥१२.०५३ बलभद्रः प्रलम्बघ्नो यमुनाकर्षणो(१)ऽभवत् ।१२.०५४ द्विविदस्य कपेर्भेत्ता कौरवोन्मादनाशनः ॥१२.०५४ हरी रेमेनेकमूर्तो रुक्मिण्यादिभिरीश्वरः ।१२.०५५ पुत्रानुत्पादयामास त्वसंख्यातान् स यादवान् ।१२.०५५ हरिवंशं पठेत्यः स प्राप्तकामो हरिं व्रजेत् ॥१२.०५५ इत्यादिमहापुराणे आग्नेये हरिवंशवर्णनं नाम द्वादशोऽध्यायः टिप्पणी १ कर्षक इति ख, चिह्नितपुस्तकपाठः पृष्ठ ३२ अध्याय {१३} अथ त्रयोदशोऽध्यायः कुरुपाण्डवोत्पत्त्यादिकथनं अग्निरुवाच भारतं सम्प्रवक्ष्यामि कृष्णमाहात्म्यलक्षणम् ।१३.००१ भूभारमहरद्विष्णुर्निमित्तीकृत्य पाण्डवान् ॥१३.००१ विष्णुनाभ्यब्जजो ब्रह्मा ब्रह्मपुत्रोऽत्रिरत्रितः ।१३.००२ सोमः सोमाद्बुधस्तस्मादैल आसीत्पुरूरवाः ॥१३.००२ तस्मादायुस्ततो राजा नहुषोऽतो ययातिकः ।१३.००३ ततः पुरुस्तस्य वंशे भरतोऽथ नृपः कुरुः ॥१३.००३ तद्वंशे शान्तनुस्तस्माद्भीष्मो गङ्गासुतोऽनुजौ ।१३.००४ चित्राङ्गदो विचित्रश्च सत्यवयाञ्च शान्तनोः ॥१३.००४ स्वर्गं गते शान्तनौ च भीष्मो भार्याविवर्जितः ।१३.००५ अपालयत्भ्रातृराज्यं बालश्चित्राङ्गदो हतः ॥१३.००५ चित्राङ्गदेन द्वे कन्ये काशिराजस्य चाम्बिका ।१३.००६ अम्बालिका च भीष्मेण आनीते विजितारिणा ॥१३.००६ भार्ये विचित्रवीर्यस्य यक्ष्मणा स दिवङ्गतः ।१३.००७ सत्यवत्या ह्यनुमतादम्बिकायां नृपोभवत् ॥१३.००७ धृतराष्ट्रोऽम्बालिकायां पाण्डुश्च व्यासतः सुतः ।१३.००८ गान्धार्यां धृतराष्ट्राच्च दुर्योधनमुखं शतम् ॥१३.००८ शतशृङ्गाश्रमपदे भार्यायोगाद्यतो मृतिः ।१३.००९ ऋषिशापात्ततो धर्मात्कुन्त्यां पाण्डोर्युधिष्ठिरः ॥१३.००९ वाताद्भीमोऽर्जुनः शक्रान्माद्र्यामश्विकुमारतः ।१३.०१० नकुलः सहदेवश्च पाण्डुर्माद्रीयुतो मृतः ॥१३.०१० कर्णः कुन्त्यां हि कन्यायां जातो दुर्योधाश्रितः ।१३.०११ कुरुपाण्डवयोर्वैरन्दैवयोगाद्बभूव ह ॥१३.०११ पृष्ठ ३३ दुर्योधनो जतुगृहे पाण्डवानदहत्कुधीः ।१३.०१२ दग्धागाराद्विनिष्क्रान्ता मातृपृष्टास्तु पाण्डवाः ॥१३.०१२ ततस्तु एकचक्रायां ब्राह्मणस्य निवेशने ।१३.०१३ मुनिवेषाः स्थिताः सर्वे निहत्य वकराक्षसम् ॥१३.०१३ ययौः पाञ्चालविषयं द्रौपद्यास्ते स्वयम्वरे ।१३.०१४ सम्प्राप्ता बाहुवेधेन(१) द्रौपदी पञ्चपाण्डवैः(२) ॥१३.०१४ अर्धराज्यं ततः प्राप्ता ज्ञाता दुर्योधनादिभिः ।१३.०१५ गाण्डीवञ्च धनुर्दिव्यं पावकाद्रथमुत्तमम् ॥१३.०१५ सारथिञ्चार्जुनः सङ्ख्ये कृष्णमक्षय्यशायकान् ।१३.०१६ ब्रह्मास्त्रादींस्तथा द्रोणात्सर्वे शस्त्रविशारदाः ॥१३.०१६ कृष्णेन सोऽर्जुनो वह्निं खाण्डवे समतर्पयत् ।१३.०१७ इन्द्रवृष्टिं वारयंश्च शरवर्षेण पाण्डवः ॥१३.०१७ जिता दिशः पाण्डवैश्च राज्यञ्चक्रे युधिष्ठिरः ।१३.०१८ बहुस्वर्णं(३) राजसूयं न सेहे तं सुयोधनः ॥१३.०१८ भ्रात्रा दुःशासनेनोक्तः कर्णेन प्राप्तभूतिना ।१३.०१९ द्यूतकार्ये शकुनिना द्यूतेन स युधिष्ठिरम् ॥१३.०१९ अजयत्तस्य राज्यञ्च सभास्थो माययाहसत् ।१३.०२० जितो युधिष्ठिरो भ्रातृयुक्तश्चारण्यकं ययौ ॥१३.०२० वने द्वादशवर्षाणि प्रतिज्ञातानि सोऽनयत् ।१३.०२१ अष्टाशीतिसहस्राणि भोजयन् पूर्ववत्द्विजान् ॥१३.०२१ सधौम्यो द्रौपदीषष्ठस्ततः प्रायाद्विराटकम् ।१३.०२२ कङ्को द्विजो ह्यविज्ञातो(४) राजा भीमोथ सूपकृत् ॥१३.०२२ टिप्पणी १ बाहुभेदेन इति ग, चिह्नितपुस्तकपाठः २ द्रौपदीं पञ्च पाण्डवा इति ख, ग, ङ, चिह्नितपुस्तकत्रयपाठः ३ वसुपूर्णमिति ख, चिह्नितपुस्तकपाठः रत्नपूर्णमिति घ, चिह्नितपुस्तकपाठः ४ कङ्को द्विजो ह्यभूच्छ्रेष्ठ इति ख,चिह्नितपुस्तकपाठः पृष्ठ ३४ बृहन्नलार्जुनो भार्या सैरिन्ध्री यमजौ तथा ।१३.०२३ अन्यनाम्ना भीमसेनः कीचकञ्चाबधीन्निशि ॥१३.०२३ द्रौपदीं हर्तुकामं तं अर्जुनश्चाजयत्कुरून् ।१३.०२४ कुर्वतो गोग्रहादींश्च तैर्ज्ञाताः पाण्डवा अथ ॥१३.०२४ सुभद्रा कृष्णभगिनी अर्जुनात्समजीजनत् ।१३.०२५ अभिमन्युन्ददौ तस्मै विराटश्चोत्तरां सुताम् ॥१३.०२५ सप्ताक्षौहिणीश आसीद्धर्मराजो रणाय सः ।१३.०२६ कृष्णो दूतोब्रवीद्गत्वा दुर्योधनममर्षणम् ॥१३.०२६ एकादशाक्षौहिणीशं नृपं दुर्योधनं तदा ।१३.०२७ युधिष्ठिरायार्धराज्यं देहि ग्रामांश्च पञ्च वा ॥१३.०२७ युध्यस्व वा वचः श्रुत्वा कृष्णमाह सुयोधनः ।१३.०२८ भूसूच्यग्रं न दास्यामि योत्स्ये सङ्ग्रहणोद्यतः ॥१३.०२८ विश्वरूपन्दर्शयित्वा अधृष्यं विदुरार्चितः(१) ।१३.०२९ प्रागाद्युधिष्ठिरं प्राह योधयैनं सुयोधनम् ॥१३.०२९ इत्यादिमहापुराणे आग्नेये आदिपर्वादिवर्णनं नाम त्रयोदशोऽध्यायः अध्याय {१४} अथ चतुर्दशोऽध्यायः कुरुपाण्डवसङ्ग्रामवर्णनम् अग्निरुवाच यौधिष्ठिरी दौर्योधनी कुरुक्षेत्रं ययौ चमूः ।१४.००१ भीष्मद्रोणादिकान् दृष्ट्वा नायुध्यत गुरूनिति ॥१४.००१ पार्थं ह्युवाच भगवान्नशोच्या भीष्ममुख्यकाः ।१४.००२ शरीराणि विनाशीनि न शरीरी विनश्यति ॥१४.००२ टिप्पणी १ विदुरान्वित इति ख, चिह्नितपुस्तकपाठः पृष्ठ ३५ अयमात्मा परं ब्रह्म अहं ब्रह्मस्मि विद्धि तम् ।१४.००३ सिद्ध्यसिद्ध्योः समो योगी राजधर्मं प्रपालय ॥१४.००३ कृष्णोक्तोथार्जुनोऽयुध्यद्रथस्थो वाद्यशब्दवान् ।१४.००४ भीष्मः सेनापतिरभूदादौ दौर्योधने बले ॥१४.००४ पाण्डवानां शिखण्डी च तयोर्युद्धं बभूव ह ।१४.००५ धार्तराष्ट्राः पाण्डवांश्च जघ्नुर्युद्धे सभीष्मकाः ॥१४.००५ धार्तराष्ट्रान् शिखण्ड्याद्याः पाण्डवा जघ्नुराहवे ।१४.००६ देवासुरसं युद्धं कुरुपाण्दवसेनयोः ॥१४.००६ बभूव स्वस्थदेवानां पश्यतां प्रीतिवर्धनं ।१४.००७ भीष्मोस्त्रैः पाण्डवं सैन्यं दशाहोभिर्न्यपातयत् ॥१४.००७ दशमे ह्यर्जुनो वाणैर्भीष्मं वीरं ववर्ष ह ।१४.००८ शिखण्डी द्रुपदोक्तोऽस्त्रैर्ववर्ष जलदो यथा ॥१४.००८ हस्त्यश्वरथपादातमन्योन्यास्त्रनिपातितम्(१) ।१४.००९ भीष्मः स्वच्छन्दमृत्युश्च युद्धमार्गं प्रदर्श्य च ॥१४.००९ वसूक्तो वसुलोकाय शरशय्यागतः स्थितः ।१४.०१० उत्तरायणमीक्षंश्च ध्यायन् विष्णुं स्तवन् स्थितः ॥१४.०१० दुर्योधने तु शोकार्ते द्रोणः सेनापतिस्त्वभुत् ।१४.०११ पाण्दवे हर्षिते सैन्ये ढृष्टद्युम्नश्चमूपतिः ॥१४.०११ तयोर्युद्धं बभूवोग्रं यमराष्ट्रविवर्धनम् ।१४.०१२ विराटद्रुपदाद्याश्च निमग्ना द्रोणसागरे ॥१४.०१२ दौर्योधनी महासेना हस्त्यश्वरथपत्तिनी ।१४.०१३ धृष्टद्युम्नाधिपतिता द्रोणः काल इवाबभौ ॥१४.०१३ हतोश्वत्थामा चेत्युक्ते द्रोणः शस्त्राणि चात्यजत् ।१४.०१४ धृष्टद्युम्नशराक्रान्तः पतितः स महीतले ॥१४.०१४ टिप्पणी १ अन्योन्यास्त्रनिपीडितमिति ख, घ, चिह्नितपुस्तकद्वयपाठः पृष्ठ ३६ पञ्चमेहनि दुर्धर्षः सर्वक्षत्रं प्रमथ्य च ।१४.०१५ दुर्योधने तु शोकार्ते कर्णः सेनापतिस्त्वभूत् ॥१४.०१५ अर्जुनः पाण्डवानाञ्च तयोर्युद्धं बभूव ह ।१४.०१६ शस्त्राशस्त्रि महारौद्रं देवासुररणोपमम् ॥१४.०१६ कर्णार्जुनाख्ये सङ्ग्रामे कर्णोरीनबधीच्छरैः ।१४.०१७ द्वितीयाहनि कर्णस्तु अर्जुनेन निपातितः ॥१४.०१७ शल्यो दिनार्धं युयुधे ह्यबधीत्तं युधिष्ठिरः ।१४.०१८ युयुधे भीमसेनेन हतसैन्यः सुयोधनः ॥१४.०१८ बहून् हत्वा नरादींश्च भीमसेनमथाब्रवीत् ।१४.०१९ गदया प्रहरन्तं तु भीमस्तन्तु व्यपातयत् ॥१४.०१९ गदयान्यानुजांस्तस्य तस्मिन्नष्टादेशेहनि ।१४.०२० रात्रौ सुषुप्तञ्च बलं पाण्डवानां न्यपातयत् ॥१४.०२० अक्षौहिणीप्रमाणन्तु अश्वत्थामा महाबलः ।१४.०२१ द्रौपदेयान् सपाञ्चालान् धृष्टद्युम्नञ्च सोऽबधीत् ॥१४.०२१ पुत्रहीनां द्रौपदीं तां रुदन्तीमर्जुनस्ततः ।१४.०२२ शिरोमणिं तु जग्राह ऐषिकास्त्रेण तस्य च ॥१४.०२२ अश्वत्थामास्त्रनिर्दग्धं जीवयामास वै हरिः ।१४.०२३ उत्तरायास्ततो गर्भं स परीक्षिदभून्नृपः ॥१४.०२३ कृतवर्मा कृपो द्रौणिस्त्रयो मुक्तास्ततो रणात् ।१४.०२४ पाण्डवाः सात्यकिः कृष्णः सप्त मुक्ता न चापरे ॥१४.०२४ स्त्रियश्चार्ताः समाश्वास्य भीमाद्यैः स युधिष्ठिरः ।१४.०२५ संस्कृत्य प्रहतान् वीरान् दत्तोदकधनादिकः ॥१४.०२५ भीष्माच्छान्तनवाच्छ्रुत्वा धर्मान् सर्वांश्च शान्तिदाम् ।१४.०२६ राजधर्मान्मोक्षधर्मान्दानधर्मान्नृपोऽभवत् ॥१४.०२६ अश्वमेधे ददौ दानं ब्राह्मणेभ्योरिमर्दनः ।१४.०२७ पृष्ठ ३७ श्रुत्वार्जुनान्मौषलेयं(१) यादवानाञ्च सङ्क्षयम् ।१४.०२७ राज्ये परीक्षितं स्थाप्य सानुजः स्वर्गमाप्तवान् (२) ॥१४.०२७ इत्यादिमहापुराणे आग्नेये महाभारतवर्णनं नाम चतुर्दशोऽध्यायः अध्याय {१५} अथ पञ्चदशोऽध्यायः पाण्डवचरितवर्णनम् अग्निरुवाच युधिष्ठिरे तु राज्यस्थे आश्रमादाश्रमान्तरम् ।१५.००१ धृतराष्ट्रो वनमगाद्गान्धारी च पृथा द्विज ॥१५.००१ विदुरस्त्वग्निना दग्धो वनजेन दिवङ्गतः ।१५.००२ एवं विष्णुर्भुवो भारमहरद्दानवादिकम् ॥१५.००२ धर्मायाधर्मनाशाय निमित्तीकृत्य पाण्डवान् ।१५.००३ स विप्रशापव्याजेन मुषलेनाहरत्कुलम् ॥१५.००३ यादवानां भारकरं वज्रं राज्येभ्यषेचयत् ।१५.००४ देवदेशात्प्रभासे स देहं त्यक्त्वा स्वयं हरिः ॥१५.००४ इन्द्रलोके ब्रह्मलोके पूज्यते स्वर्गवासिभिः ।१५.००५ बलभद्रोनन्तमूर्तिः पातालस्वर्गमीयिवान् ॥१५.००५ अविनाशी हरिर्देवो ध्यानिभिर्ध्येय एव सः ।१५.००६ विना तं द्वारकास्थानं प्लावयामास सागरः ॥१५.००६ संस्कृत्य यादवान् पार्थो दत्तोदकधनादिकः ।१५.००७ स्त्रियोष्टावक्रशापेन भार्या विष्णोश्च याः स्थिताः ॥१५.००७ पुनस्तच्छापतो नीता गोपालैर्लगुडायुधैः ।१५.००८ अर्जुनं हि तिरस्कृत्य पार्थः शोकञ्चकार ह ॥१५.००८ व्यासेनाश्वासितो मेने बलं मे कृष्णसन्निधौ ।१५.००९ टिप्पणी १ मौषलेनेति ख, चिह्नितपुस्तकपाठः २ स्वर्गमाप्नुयादिति ख, ग, चिह्नितपुस्तकद्वयपाठः पृष्ठ ३८ हस्तिनापुरमागत्य पार्थः सर्वं न्यवेदयत् ॥१५.००९ युधिष्ठिराय स भ्रात्रे पालकाय नृणान्तदा ।१५.०१० तद्धनुस्तानि चास्त्राणि स रथस्ते च वाजिनः ॥१५.०१० विना कृष्णेन तन्नष्टं दानञ्चाश्रोत्रिये यथा ।१५.०११ तच्छ्रुत्वा धर्मराजस्तु राज्ये स्थाप्य परीक्षितम् ॥१५.०११ प्रस्थानं प्रस्थितो धीमान् द्रौपद्या भ्रातृभिः सह ।१५.०१२ संसारानित्यतां ज्ञात्वा जपन्नष्टशतं हरेः ॥१५.०१२ महापथे तु पतिता द्रौपदी सहदेवकः ।१५.०१३ नकुलः फाल्गुनो भीमो राजा शोकपरायणः ॥१५.०१३ इन्द्रानीतरथारूढः सानुजः स्वर्गमाप्तवान् ।१५.०१४ दृष्ट्वा दुर्योधनादींश्च वासुदेवं च हर्षितः ॥१५.०१४ एतत्ते भारतं प्रोक्तं यः पठेत्स दिवं व्रजेत् ॥१५.०१४ इत्यादिमहापुराणे आग्नेये महाभारतवर्णनं नाम पञ्चदशोऽध्यायः अध्याय {१६} अथ षोडशोऽध्यायः बुद्धाद्यवतारकथनम् अग्निरुवाच वक्ष्ये बुद्धावतारञ्च पठतः शृण्वतोर्थदम् ।१६.००१ पुरा देवासुरे युद्धे दैत्यैर्देवाः पराजिताः ॥१६.००१ रक्ष रक्षेति शरणं वदन्तो जग्मुरीश्वरम् ।१६.००२ मायमोहस्वरुपोसौ शुद्धोदनसुतोऽभवत् ॥१६.००२ मोहयामास दैत्यांस्तांस्त्याजिता वेदधर्मकम् ।१६.००३ ते च बौद्धा बभूवुर्हि तेभ्योन्ये वेदवर्जिताः ॥१६.००३ आर्हतः सोऽभवत्पश्चादार्हतानकरोत्परान् ।१६.००४ एवं पाषण्डिनो जाता वेदधर्मादिवर्जिताः ॥१६.००४ पृष्ठ ३९ नरकार्हं कर्म चक्रुर्ग्रहीष्यन्त्यधमादपि ।१६.००५ सर्वे कलियुगान्ते तु भविष्यन्ति च सङ्कराः ॥१६.००५ दस्यवः शीलहीनाश्च वेदो वाजसनेयकः ।१६.००६ दश पञ्च च शाखा वै प्रमाणेन भविष्यति ॥१६.००६ धर्मकञ्चुकसंवीता अधर्मरुचयस्तथा ।१६.००७ मानुषान् भक्षयिष्यन्ति म्लेच्छाः पार्थिवरूपिणः ॥१६.००७ कल्की विष्णुयशःपुत्रो याज्ञवल्क्यपुरोहितः ।१६.००८ उत्सादयिष्यति म्लेच्छान् गृहीतास्त्रः कृतायुधः ॥१६.००८ स्थापयिष्यति मर्यादां चातुर्वर्ण्ये यथोचिताम् ।१६.००९ आश्रमेषु च सर्वेषु प्रजाः सद्धर्मवर्त्मनि ॥१६.००९ कल्किरूपं परित्यज्य हरिः स्वर्गं गमिष्यति ।१६.०१० ततः कृतयुगान्नाम पुरावत्सम्भविष्यति ॥१६.०१० वर्नाश्रमाश्च धर्मेषु स्वेषु स्थास्यन्ति सत्तम ।१६.०११ एवं सर्वेषु कल्पेषु सर्वमन्वन्तरेषु च ॥१६.०११ अवतारा असङ्ख्याता अतीतानागतादयः ।१६.०१२ विष्णोर्दशावताराख्यान् यः पठेत्शृणुयान्नरः ॥१६.०१२ सोवाप्तकामो विमलः सकुलः स्वर्गमाप्नुयात् ।१६.०१३ धर्माधर्मव्यवस्थानमेवं वै कुरुते हरिः ।१६.०१३ अवतीर्णञ्च स गतः सर्गादेः कारणं हरिः ॥१६.०१३ इत्यादिमहापुराणे आग्नेये बुद्धकल्क्यवतारवर्णनं नाम षोडशोऽध्यायः अध्याय {१७} अथ सप्तदशोऽध्यायः सृष्टिविषयकवर्ननम् अग्निरुवाच्च जगत्सर्गादिकान् क्रीडान् विष्णोर्वक्ष्येधुना शृणु ।१७.००१ स्वर्गादिकृत्स सर्गादिः सृष्ट्यादिः सगुणोगुणः ॥१७.००१ पृष्ठ ४० ब्रह्माव्यक्तं सदाग्रेऽभूत्न खं रात्रिदिनादिकं ।१७.००२ प्रकृतिं पुरुषं विष्णुः(१) प्रविश्याक्षोभयत्ततः ॥१७.००२ स्वर्गकाले महत्तत्त्वमहङ्कारस्ततोऽभवत् ।१७.००३ . वैकारिकस्तैजसश्च भूतादिश्चैव तामसः ॥१७.००३ अहङ्काराच्छब्दमात्रमाकाशमभवत्ततः ।१७.००४ स्पर्शमात्रोऽनिलस्तस्माद्रूपमात्रोऽनलस्ततः ॥१७.००४ रसमात्रा आप इतो गन्धमात्रा मही स्मृता(२) ।१७.००५ अहङ्कारात्तामसात्तु तैजसानीन्द्रियाणि च ॥१७.००५ वैकारिका दश देवा मन एकादशेन्द्रियम् ।१७.००६ ततः स्वयंभूर्भगवान्(३) सिसृक्षुर्विविधाः प्रजाः ॥१७.००६ अप एव ससर्जादौ तासु वीर्यमवासृजत्(४) ।१७.००७ आपो नारा इति प्रोक्ता आपो वै नरसूनवः ॥१७.००७ अयनन्तस्य ताः पूर्वन्तेन नारायणः स्मृतः ।१७.००८ हिरण्यवर्णमभवत्(५) तदण्डमुदकेशयम् ॥१७.००८ तस्मिन् जज्ञे स्वयं ब्रह्मा स्वयम्भूरिति नः श्रुतम् ।१७.००९ हिरण्यगर्भो(६) भगवानुषित्वा परिवत्सरम् ॥१७.००९ तदण्डमकरोत्द्वैधन्दिवं भुवमथापि च ।१७.०१० तयोः शकलयोर्मध्ये आकाशमसृजत्प्रभुः ॥१७.०१० अप्सु पारिप्लवां पृथिवीं दिशश्च दशधा दधे ।१७.०११ तत्र कालं मनो वाचं कामं क्रोधमथो रतिम् ॥१७.०११ टिप्पणी १ विष्णुमिति ख, चिह्नितपुस्तकपाठः २ गन्धमात्रा धरित्र्यभूदिति ख, ग, घ, चिह्नितपुस्तकत्रयपाठः ३ ततः स्वयम्भूर्भगवानित्यारभ्य स्रष्टुमिच्छन् प्रजापतिरित्यन्तपाठस्तु महाभारतीयहरिवंशपर्वण उद्धृत इति अध्यवसीयते उभयत्र क्रमेण पाठसाम्यात् ४ तासु बीजमथासृजदिति ख, चिह्नितपुस्तकपाठः ५ हिरण्यगर्भमभवदिति ख, चिह्नितपुस्तकपाठः ६ हिरण्यवर्ण इति ग, चिह्नित्गपुस्तकपाठः पृष्ठ ४१ ससर्ज सृष्टिन्तद्रूपां स्रष्टुमिच्छन् प्रजापतिः ।१७.०१२ विद्युतोशनिमेघांश्च रोहितेन्द्रधनूंषि च ॥१७.०१२ वयांसि च ससर्जादौ पर्जन्यञ्चाथ वक्त्रतः ।१७.०१३ ऋचो यजूंषि सामानि निर्ममे यज्ञसिद्धये ॥१७.०१३ साध्यास्तैरयजन्देवान् भूतमुच्चावचं भुजात्(१) ।१७.०१४ सनत्कुमारं रुद्रञ्च ससर्ज क्रोधसम्भवम् ॥१७.०१४ मरीचिमत्र्यङ्गिरसं पुलस्त्यं पुलहं क्रतुम् ।१७.०१५ . वसिष्ठं मानसाः सप्त ब्रह्माण इति निश्चिताः(२) ॥१७.०१५ सप्तैते जनयन्ति स्म प्रजा रुद्राश्च सत्तम ।१७.०१६ द्विधा कृत्वात्मनो देहमर्धेन पुरुषोऽभवत् ॥१७.०१६ अर्धेन नारी तस्यां स ब्रह्मा वै चासृजत्प्रजाः ॥१७.०१६ इत्यादिमहापुराणे आग्नेये जगत्सर्गवर्णनं नाम सप्तदशोऽध्यायः अध्याय {१८} अथ अष्टादशोऽध्यायः स्वायम्भुववंशवर्णनम् अग्निरुवाच प्रियव्रतोत्तानपादौ मनोः स्वायम्भुवात्सुतौ ।१८.००१ अजीजनत्स तां कन्यां शतरूपां तपोन्विताम्(३) ॥१८.००१ टिप्पणी १ भूतमुच्चावचं ह्यजादिति ख, घ, चिह्नितपुस्तकद्वयपाठः सान्ध्यांस्तैरयजन् देवान् भूतमुच्चावचं प्रजा इति ङ, चिह्नितपुस्तकपाठः २ निश्चितमिति ख,चिह्नितपुस्तकपाठः ३ अजीजनत्सुतां कन्यां सद्रूपाञ्च तपोन्वितामिति ग, चिह्नितपुस्तकपाठः । अजीजनत्सुतां कन्यां शतरूपां तपोन्वितामिति ङ,चिह्नितपुस्तकपाठः पृष्ठ ४२ काम्यां(१) कर्दमभार्यातः सम्राट्कुक्षिर्विराट्प्रभुः ।१८.००२ सुरुच्यामुत्तमो जज्ञे पुत्र उत्तानपादतः ॥१८.००२ सुनीत्यान्तु ध्रुवः पुत्रस्तपस्तेपे स कीर्तये ।१८.००३ ध्रुवो वर्षसहस्राणि त्रीणि दिव्यानि हे मुने ॥१८.००३ तस्मै प्रीतो हरिः प्रादान्मुन्यग्रे स्थानकं स्थिरम्(२) ।१८.००४ श्लोकं पपाठ ह्युशना वृद्धिं दृष्ट्वा स तस्य च ॥१८.००४ अहोऽस्य तपसो वीर्यमहो श्रुतमहोद्भुतम् ।१८.००५ यमद्य(३) पुरतः कृत्वा ध्रुवं सप्तर्षयः स्थिताः ॥१८.००५ तस्मात्शिष्टिञ्च(४) भव्यञ्च ध्रुवाच्छम्भुर्व्यजायत ।१८.००६ शिष्टेराधत्त(५) सुछाया पञ्च पुत्रानकल्मषान् ॥१८.००६ रिपुं रिपुञ्जयं रिप्रं वृकलं वृकतेजसम् ।१८.००७ रिपोराधत्त बृहती चाक्षुषं सर्वतेजसम् ॥१८.००७ अजीजनत्पुष्करिण्यां वीरिण्यां चाक्षुषो मनुम् ।१८.००८ मनोरजायन्त दश नड्वलायां सुतोत्तमाः ॥१८.००८ ऊरुः(६) पुरुः शतद्युम्नस्तपस्वी सत्यवाक्कविः ।१८.००९ अग्निष्टुरतिरात्रश्च सुद्युम्नश्चाभिमन्युकः ॥१८.००९ ऊरोरजनयत्पुत्रान् षडग्नेयी महाप्रभान् ।१८.०१० अङ्गं सुमनसं स्वातिं क्रतुमङ्गिरसङ्गयम् ॥१८.०१० अङ्गात्सुनीथापत्यं वै वेणमेकं व्यजायत ।१८.०११ टिप्पणी १ काम्या इति ग, ङ, चिह्नितपुस्तकद्वयपाठः २ स्थानमुत्तममिति ङ, चिह्नितपुस्तकपाठः ३ यदत्र इति ङ, चिह्नितपुस्तकपाठः ४ तस्मात्श्लिष्टिञ्च इति ग, घ, चिह्नितपुस्तकद्वयपाठः ५ श्लिष्टेआराधत्त इति ख, घ, चिह्नितपुस्तकद्वयपाठः ६ उरूरिति ख,ग, ङ, चिह्नितपुस्तकत्रयपाठः पृष्ठ ४३ अरक्षकः पापरतः स हतो मुनिभिः कुशैः ॥१८.०११ प्रजार्थमृषयोथास्य ममन्थुर्दक्षिणं करं ।१८.०१२ वेणस्य मथितो पाणौ सम्बभूव पृथुर्नृपः ॥१८.०१२ तं दृष्ट्वा मुनयः प्राहुरेष वै मुदिताः प्रजाः ।१८.०१३ करिष्यति महातेजा यशश्च प्राप्स्यते महत् ॥१८.०१३ स धन्वी कवची जातस्तेजसा निर्दहन्निव ।१८.०१४ पृथुर्वैण्यः प्रजाः सर्वा ररक्ष क्षेत्रपूर्वजः ॥१८.०१४ राजसूयाभिषिक्तानामाद्यः(१) स पृथिवीपतिः ।१८.०१५ तस्माच्चैव समुत्पन्नौ निपुणौ सूतमागधौ ॥१८.०१५ तत्स्तोत्रञ्चक्रतुर्वीरौ राजाभूज्जनरञ्जनात् ।१८.०१६ दुग्धा गौस्तेन शस्यार्थं प्रजानां जीवनाय च ॥१८.०१६ सह देवैर्मुनिगणैर्गन्धर्वैः साप्सरोगणैः ।१८.०१७ पितृभिर्दानवैः सर्पैर्वीरुद्भिः पर्वतैर्जनैः ॥१८.०१७ तेषु तेषु च पात्रेषु दुह्यमाना वसुन्धरा ।१८.०१८ प्रादाद्यथेप्सितं क्षीरन्तेन प्राणानधारयत् ॥१८.०१८ पृथोः पुत्रौ तु धर्मज्ञौ जज्ञातेऽन्तर्द्विपालिनौ ।१८.०१९ शिखण्डी हविर्धानमन्तर्धानात्व्यजायत ॥१८.०१९ हविर्धानात्षडाग्नेयी धीषणाजनयत्सुतान् ।१८.०२० प्राचीनवर्हिषं शुक्रं(२) गयं कृष्णं व्रजाजिनौ ॥१८.०२० प्राचीनाग्राः कुशास्तस्य पृथिव्यां यजतो यतः ।१८.०२१ प्राचीनवर्हिर्भगवान्महानासीत्प्रजापतिः ॥१८.०२१ सवर्णाधत्त(३) सामुद्री दश प्राचीनवर्हिषः ।१८.०२२ टिप्पणी १ राजसूयाभिव्यक्तानामाद्य इति ख,चिह्नितपुस्तकपाठः २ शुभ्रमिति ग,चिह्नितपुस्तकपाठः ३ सुवर्णाधत्त इति ग, चिह्नितपुस्तकपाठः पृष्ठ ४४ सर्वे प्रचेतसो नाम धनुर्वेदस्य पारगाः ॥१८.०२२ अपृथग्धर्मचरणास्ते तप्यन्त महत्तपः ।१८.०२३ दशवर्षसहस्राणि समुद्रसलिलेशयाः ॥१८.०२३ प्रजापतित्वं सम्प्राप्य तुष्टा विष्णोश्च निर्गताः ।१८.०२४ भूः खं व्याप्तं हि तरुभिस्तांस्तरूनदहंश्च ते ॥१८.०२४ मुखजाग्निमरुद्भ्यां च दृष्ट्वा चाथ द्रुमक्षयम् ।१८.०२५ उपगम्याब्रवीदेतान् राजा सोमः प्रजापतीन् ॥१८.०२५ कोपं यच्छत दास्यन्ति कन्यां वो मारिषां वराम् ।१८.०२६ तपस्विनो मुनेः कण्डोः(२) प्रम्लोचायां ममैव च ॥१८.०२६ भविष्यं जानता सृष्टा भार्या वोऽस्तु कुलङ्करी ।१८.०२७ अस्यामुत्पत्स्यते दक्षः प्रजाः संवर्धयिष्यति ॥१८.०२७ प्रचेतसस्तां जगृहुर्दक्षोस्याञ्च ततोऽभवत् ।१८.०२८ अचरांश्च चरांश्चैव द्विपदोथ चतुष्पदः ॥१८.०२८ स सृष्ट्वा मनसा(२) दक्षः पश्चादसृजत स्त्रियः ।१८.०२९ ददौ स दश धर्माय कश्यपाय त्रयोदश ॥१८.०२९ सप्ताविंशति सोमाय चतस्त्रोऽरिष्टनेमिने ।१८.०३० द्वे चैव बहुपुत्राय द्वे चैवाङ्गिरसे अदात्(३) ॥१८.०३० तासु देवाश्च नागाद्या मैथुनान्मनसा पुरा ।१८.०३१ धर्मसर्गम्प्रवक्ष्यामि दशपत्नीषु धर्मतः ॥१८.०३१ विश्वेदेवास्तु विश्वायाः साध्यान् साध्या व्यजायत ।१८.०३२ मरुत्त्वया मरुत्त्वन्तो वसोस्तु वसवोऽभवन् ॥१८.०३२ भानोस्तु भानवः पुत्रा मुहूर्तास्तु मुहूर्तजाः ।१८.०३३ टिप्पणी १ कण्ठोरिति ग, चिह्नितपुस्तकपाठः कर्णोरिति ङ,चिह्नितपुस्तकपाठः २ स दृष्ट्वा मनसा इति ख, ग, चिह्नितपुस्तकपाठः ३ द्वे चैव भाण्डवे तत इति ग, चिह्नितपुस्तकपाठः पृष्ठ ४५ सम्बाया(१) धर्मतो घोषो नागवीथी(२) च यामिजा ॥१८.०३३ पृथिवीविषयं सर्वमरुन्धत्यां व्यजायत ।१८.०३४ सङ्कल्पायास्तु सङ्कल्पा इन्दोर्नक्षत्रतः सुताः ॥१८.०३४ आपो ध्रुवञ्च सोमञ्च धरश्चैवानिलोनलः(३) ।१८.०३५ प्रत्यूषश्च प्रभावश्च वसवोष्टौ च नामतः ॥१८.०३५ आपस्य पुत्रो वैतण्ड्यः श्रमः शान्तो मुनिस्तथा ।१८.०३६ ध्रुवस्य कालो लोकान्तो वर्चाः सोमस्य वै सुतः ॥१८.०३६ धरस्य पुत्रो द्रविणो(४) हुतहव्यवहस्तथा ।१८.०३७ मनोहरायाः शिशिरः प्राणोथ रमणस्तथा(५) ॥१८.०३७ पुरोजवोनिलस्यासीदविज्ञातोऽनलस्य च ।१८.०३८ अग्निपुत्रः कुमारश्च शरस्तम्बे व्यजायत ॥१८.०३८ तस्य शाखो विशाखश्च नैगमेयश्च पृष्टजः ।१८.०३९ कृत्तिकातः कार्त्तिकेयो यतिः सनत्कुमारकः(६) ॥१८.०३९ प्रत्यूषाद्देवलो जज्ञे विश्वकर्मा प्रभावतः ।१८.०४० कर्ता शिल्पसहस्राणां त्रिदशानाञ्च वर्धकिः ॥१८.०४० मनुष्याश्चोप्जीवन्ति शिल्पं वै भूषणादिकं ।१८.०४१ सुरभी(७) कश्यपाद्रुद्रानेकादश विजज्ञुषी ॥१८.०४१ महादेवप्रसादेन तपसा भाविता सती ।१८.०४२ टिप्पणी १ लम्बाया इति ग,चिह्नितपुस्तकपाठः २ नगवीथी इति ख, चिह्नितपुस्तकपाठः ३ धर्मश्चैवानिलोनल इति ख, ग, चिह्नितपुस्तकपाठः ४ धरिष इति ग, चिह्नितपुस्तकपाठः ५ मरणस्तथेति ग, चिह्नितपुस्तकपाठः ६ जातः सनत्कुमारत इति ग, चिह्नितपुस्तकपाठः ७ युवती इति ग, चिह्नितपुस्तकपाठः पृष्ठ ४६ अजैकपादहिर्ब्रघ्नस्त्वष्टा रुद्राश्च सत्तम(१) ॥१८.०४२ त्वष्टुश्चैवात्मजः श्रीमान्विश्वरूपो महायशाः ।१८.०४३ हरश्च बहुरूपश्च त्र्यम्बकश्चापराजितः ॥१८.०४३ वृषाकपिश्च शम्भुश्च कपर्दी रैवतस्तथा ।१८.०४४ मृगव्याधस्य सर्पश्च कपाली दश चैककः ।१८.०४४ रुद्राणां च शतं लक्षं यैर्व्याप्तं सचराचरं ॥१८.०४४ इत्यादिमाहापुराणे आग्नेये जगत्सर्गवर्णनं नाम अष्टादशोऽध्यायः अध्याय {१९} ॒शथोनविंशतितमोऽध्यायः कश्यपवंशवर्णनम् अग्निरुवाच कश्यपस्य वेदे सर्गमदित्यादिषु हे मुने ।१९.००१ चाक्षुषे तुषिता देवास्तेऽदित्यां कश्यपात्पुनः ॥१९.००१ आसन् विष्णुश्च शक्रश्च त्वष्टा धाता तथार्यमा ।१९.००२ पूषा विवस्वान् सविता मित्रोथ वरुणो भगः ॥१९.००२ अंशुश्च द्वादशादित्या आसन् वैवस्वतेन्तरे ।१९.००३ अरिष्टनेमिपत्रीनामपत्यानीह षोडश ॥१९.००३ बहुपुत्रस्थ विदुषश्चतस्रो विद्युतः सुताः(२) ।१९.००४ प्रत्यङ्गिरजाः श्रेष्ठाः कृशाश्वस्य सुरायुधाः ॥१९.००४ उदयास्तमने सूर्ये तद्वदेते युगे युगे ।१९.००५ हिरण्यकशिपुर्दित्यां हिरण्याक्षश्च कश्यपात् ॥१९.००५ टिप्पणी १ सप्तम इति ख ङ, चिह्नितपुस्तकपाठः २ स्मृता इति ग, चिह्नितपुस्तकपाठः पृष्ठ ४७ सिंहिका चाभवत्कन्या विप्रचित्तेः परिग्रहः ।१९.००६ राहुप्रभृतयस्तस्यां सैंहिकेया इति श्रुताः ॥१९.००६ हिरण्यकशिपोः पुत्राश्चत्वारः प्रथितौजसः ।१९.००७ अनुह्रादश्च ह्रादश्च प्रह्रादश्चातिवैष्णवः ॥१९.००७ संह्रादश्च चतुर्थोभूथ्रादपुत्रो ह्रदस्तथा ।१९.००८ ह्रदस्य पुत्र आयुष्मान्(१) शिबिर्वास्कल एव च ॥१९.००८ विरोवनस्तु प्राह्रादिर्बलिर्जज्ञे विरोचनात् ।१९.००९ बलेः पुत्रशतं त्वासीद्वाणश्रेष्ठं(२) महामुने ॥१९.००९ पुराकल्पे हि बाणेन प्रसाद्योमापतिं वरः(३) ।१९.०१० पार्श्वतो विहरिष्यामीत्येवं प्राप्तश्च ईश्वरात्(४) ॥१९.०१० हिरण्याक्षसुताः पञ्च शम्बरः शकुनिस्त्विति(५) ।१९.०११ द्विमूर्धा शङ्कुरार्यश्च(६) शतमासन् दनोः सुताः ॥१९.०११ स्वर्भानोस्तु प्रभा कन्या पुलोम्नस्तु शची स्मृता ।१९.०१२ उपदानवी हयशिरा शर्मिष्ठा वार्षपर्वणी ॥१९.०१२ पुलोमा कालका चैव वैश्वानरसुते उभे ।१९.०१३ कश्यपस्य तु भार्ये द्वे तयोः पुत्राश्च कोटयः ॥१९.०१३ प्रह्रादस्य चतुष्कोट्यो निवातकवचाः कुले ।१९.०१४ ताम्रायाः षट्सुताः स्युश्च काकी श्वेनी च भास्यपि ॥१९.०१४ गृध्रिका शुचि सुग्रीवा(७) ताभ्यः काकादयोऽभवन् ।१९.०१५ टिप्पणी १ संह्रादपुत्र आयुष्मानिति ख, ग, चिह्नितपुस्तकद्वयपाठः २ वाणज्येष्ठमिति ख, ग, चिह्नितपुस्तकद्वयपाठः ३ प्रभुमिति ख, चिह्नितपुस्तकद्वयपाठः ४ इत्येवं प्राप्तमीश्वरादिति ख, चिह्नितपुस्तकपाठः ५ झर्झरः शकुनिस्त्वतीति ख, चिह्नितपुस्तकपाठः । शक्निस्त्वथेति ङ, चिह्नितपुस्तकपाठः ६ द्विमूर्धा शम्बराद्याश्च इति ख, चिह्नितपुस्तकपाठः ७ गृध्रिका च शुचिग्रीवो इति ख, चिह्नितपुस्तकपाठः गृध्रिकाशुचिसुग्रीवो इति ग, चिह्नितपुस्तकपाठः पृष्ठ ४८ अश्वाश्चोष्ट्राश्च ताम्राया अरुणो गरुडस्तथा ॥१९.०१५ विनतायाः सहस्रन्तु सर्पाश्च सुरसाभवाः ।१९.०१६ काद्रवेयाः सहस्रन्तु शेषवासुकितक्षकाः ॥१९.०१६ दंष्ट्रिणः क्रोधवशजा धरोत्थाः(१) पक्षिणो जले ।१९.०१७ सुरभ्यां गोमहिष्यादि इरोत्पन्नास्तृणादयः ॥१९.०१७ स्वसायां यक्षरक्षांसि मुनेरश्वरसोभवन् ।१९.०१८ अरिष्टायान्तु गन्धर्वाः कश्यपाद्धि स्थिरञ्चरं(२) ॥१९.०१८ एषां पुत्रादयोऽसङ्ख्या देवैर्वै दानवा जिताः(३) ।१९.०१९ दितिर्विनष्टपुत्रा वै तोषयामास कश्यपं ॥१९.०१९ पुत्रमिन्द्रप्रहर्तारमिच्छती प्राप कश्यपात् ।१९.०२० पादाप्रक्षालनात्सुप्ता तस्या गर्भं जघान ह ॥१९.०२० छिद्रमन्विष्य चेन्द्रस्तु ते देवा मरुतोऽभवन् ।१९.०२१ शक्रस्यैकोनपञ्चाशत्सहाया दीप्ततेजसः ॥१९.०२१ एतत्सर्वं हरिर्ब्रह्मा अभिषिच्य पृथुं नृपं ।१९.०२२ ददौ क्रमेण राज्यानि अन्येषामधिपो हरिः ॥१९.०२२ द्विजौषधीनां चन्द्रश्च अपान्तु वरुणो नृपः ।१९.०२३ राज्ञां वैश्रवणो राजा सूर्याणां विष्णोरीश्वरः ॥१९.०२३ वसूनां पावको राजा मरुतां वासवः प्रभुः ।१९.०२४ प्रजापतीनां दक्षोऽथ प्रह्लादो दानवाधिपः ॥१९.०२४ पितॄणां च यमो राजा भूतादीनां हरः(४) प्रभुः ।१९.०२५ हिमवांश्चैव शैलानां नदीनां सागरः प्रभुः ॥१९.०२५ टिप्पणी १ धरण्या इति ख, चिह्नितपुस्तकपाठः २ कश्यपादि परस्परमिति ख, चिह्नितपुस्तकपाठः ३ देवैर्दाइत्याः पराजिता इति ख, चिह्नितपुस्तकपाठः ४ भूतानाञ्च हर इति ग, ङ, चिह्नितपुस्तकद्वयपाठः पृष्ठ ४९ गान्धर्वाणां चित्ररथो नागानामथ वासुकिः ।१९.०२६ सर्पाणां तक्षको राजा गरुडः पक्षिणामथ ॥१९.०२६ ऐरावतो गजेन्द्राणां गोवृषोथ गवामपि ।१९.०२७ मृगणामथ शार्दूलः प्लक्षो वनस्पतीश्वरः ॥१९.०२७ उच्चैःश्रवास्तथाश्वानां सुधन्वा पूर्वपालकः ।१९.०२८ दक्षिणस्यां शङ्खपदः केतुमान् पालको जले ।१९.०२८ हिरण्यरोमकः सौम्ये प्रतिसर्गोयमीरितः ॥१९.०२८ इत्यादिमाहापुराणे आग्नेये प्रतिसर्गवर्णनं नाम ऊनविंशतितमोऽध्यायः अध्याय {२०} अथ विंशतितमोऽध्यायः सर्गविषयकवर्णनं अग्निरुवाच प्रथमो महतः सर्गो विज्ञेयो ब्रह्मणस्तु सः ।२०.००१ तन्मात्राणां द्वितीयस्तु भूतसर्गो हि स स्मृतः ॥२०.००१ वैकारिकस्तृतीयस्तु सर्ग ऐन्द्रियकः स्मृतः ।२०.००२ इत्येष प्राकृतः सर्गः सम्भूतो बुद्धिपूर्वकः ॥२०.००२ मुख्यः सर्गश्चतुर्थस्तु मुख्या वै स्थावराः स्मृताः ।२०.००३ तिर्यक्स्रोतास्तु यः प्रोक्तः स्तैर्यग्योन्यस्ततः स्मृतः ॥२०.००३ तथोर्ध्वस्रोतसां षष्ठो देवसर्गस्तु स स्मृतः ।२०.००४ ततोर्वाक्स्रोतसां सर्गः सप्तमः स तु मानुषः ॥२०.००४ अष्टमोनुग्रहः सर्गैः सात्विकस्तामसश्च यः ।२०.००५ पञ्चैते वैकृताः सर्गाः प्राकृताश्च त्रयः स्मृताः ॥२०.००५ प्राकृतो वैकृतश्चैव कौमारो नवमस्तथा ।२०.००६ पृष्ठ ५० ब्रह्मतो नव सर्गास्तु जगतो मूलहेतवः ॥२०.००६ ख्यात्याद्या दक्षकन्यास्तु भृग्वाद्या उपयेमिरे ।२०.००७ नित्यो नैमित्तकः सर्गस्त्रिधा प्रकथितो जनैः ॥२०.००७ प्राकृता दैनन्दिनी स्यादन्तरप्रलयादनु ।२०.००८ जायते यत्रानुदिनं मित्यसर्गो हि सम्मतः ॥२०.००८ देवौ धाताविधातारौ भृगोः ख्यातिरसूयत ।२०.००९ श्रियञ्च पत्नी विष्णोर्या स्तुता शक्रेण वृद्धये ॥२०.००९ धातुर्विधार्तुर्द्वौ पुत्रौ क्रमात्प्राणो मृकण्डुकः ।२०.०१० मार्कण्डेयो मृकण्डोश्च जज्ञे वेदशिरास्ततः ॥२०.०१० पौर्णमासश्च सम्भूत्यां मरीचेरभवत्सुतः ।२०.०११ स्मृत्यामङ्गिरसः पुत्राः सिनीवाली कुहूस्तथा ॥२०.०११ राकाश्चानुमतिश्चात्रेरनसूयाप्यजीजनत् ।२०.०१२ सोमं दुर्वाससं पुत्रं दत्तात्रेयञ्च योगिनम् ॥२०.०१२ प्रीत्यां पुलस्त्यभार्यायां दत्तोलिस्तत्सुतोभवत् ।२०.०१३ क्षमायां(१) पुलहाज्जाताः सहिष्णुः कर्मपादिकाः ॥२०.०१३ सन्नत्याञ्च क्रतोरासन् बालिखिल्या महौजसः ।२०.०१४ अङ्गुष्ठपर्वमात्रास्ते ये हि षष्टिसहस्विणः ॥२०.०१४ उर्जायाञ्च वशिष्ठाच्च राजा गात्रोर्ध्वबाहुकः(२) ।२०.०१५ सवनश्चालघुः शुक्रः(३) सुतपाः सप्त चर्षयः ॥२०.०१५ पावकः पवमानोभूच्छुचिः स्वाहाग्निजोभवत् ।२०.०१६ टिप्पणी १ कुमार्यामिति ख, चिह्नितपुस्तकपाठः २ रजोगोत्रोर्ध्वाहुक इति ख, चिह्नितपुस्तकपाठः राजा शात्रोर्ध्वबालक इति ग, चिह्नितपुस्तकपाठः, रजोगोत्रोर्ध्ववाहक इति ङ, चिह्नितपुस्तकपाठः ३ सबलश्चानघः शुक्र इति घ, चिह्नितपुस्तकपाठः पृष्ठ ५१ अग्निस्वात्ता वर्हिषदोऽनग्नयः साग्नयो ह्यजात्(१) ॥२०.०१६ पितृभ्यश्च स्वधायाञ्च मेना वैधारिणी सुते(२) ।२०.०१७ हिंसाभार्या त्वधर्मस्य तयोर्जज्ञे तथानृतम् ॥२०.०१७ कन्या च निकृतिस्ताभ्यां भयन्नरकेमेव च ।२०.०१८ माया च वेदना चैव मिथुनन्त्विदमेतयोः ॥२०.०१८ तयोर्जज्ञेथ वै मायां मृत्युं भूतापहारिणम् ।२०.०१९ वेदना च सुतं चापि दुःखं जज्ञेथ रौरवात् ॥२०.०१९ मृत्योर्व्याधिजराशोकतृष्णाक्रोधाश्च जज्ञिरे ।२०.०२० ब्रह्मणश्च रुदन् जातो रोदनाद्रुद्रनामकः ॥२०.०२० भवं शर्वमथेशानं तथा पशुपतिं द्विज ।२०.०२१ भीममुग्रं महादेवमुवाच स पितामहः ॥२०.०२१ दक्षकोपाच्च तद्भार्या देहन्तत्याज सा सती ।२०.०२२ हिमवद्दुहिता भूत्वा पत्नी शम्भोरभूत्पुनः ॥२०.०२२ ऋषिभ्यो नारदाद्युक्ताः पूजाः स्नानादिपूर्विकाः ।२०.०२३ स्वायम्भुवाद्यास्ताः कृत्वा विष्ण्वादेर्भुक्तिमुक्तिदाः ॥२०.०२३ इत्यादिमहापुराणे आग्नेये जगत्सर्गवर्णनं नाम विंशतितमोऽध्यायः अध्याय {२१} अथ एकविंशोऽध्यायः सामान्यपूजाकथनं नारद उवाच सामान्यपूजां विष्ण्वादेर्वक्ष्ये मन्त्रांश्च सर्वदान् ।२१.००१ समस्तपरिवाराय अच्युताय नमो यजेत् ॥२१.००१ टिप्पणी १ साग्नयो ह्यगादिति ख, चिह्नितपुस्तकपाठः, अग्निपाला वर्हिषदो ह्याज्यपाः साग्नयो ह्यजादिति घ, चिह्नितपुस्तकपाठः २ वैसारणी सुते इति ख, चिह्नितपुस्तकपाठः पृष्ठ ५२ धात्रे विधात्रे गङ्गायै यमुनायै निधी तथा ।२१.००२ द्वारश्रियं वस्तुनवं शक्तिं कूर्ममनन्तकम् ॥२१.००२ पृथिवीं धर्मकं ज्ञानं वैराग्यैश्वर्यमेव च ।२१.००३ अधर्मादीन् कन्दनालपद्मकेशरकर्णिकाः ॥२१.००३ ऋग्वेदाद्यं कृताद्यञ्च सत्वाद्यर्कादिमण्डलम् ।२१.००४ विमलोत्कर्षिणी ज्ञाना क्रिया योगा च ता यजेत् ॥२१.००४ प्रह्वीं सत्यां तथेशानानुग्रहासनमूर्तिकाम्(१) ।२१.००५ दुर्गां गिरङ्गणं(२) क्षेत्रं वासुदेवादिकं यजेत् ॥२१.००५ हृदयञ्च शिरः शूलं वर्मनेत्रमथास्त्रकम् ।२१.००६ शङ्खं चक्रं गदां पद्मं श्रीवत्सं कौस्तुभं यजेत् ॥२१.००६ वनमालां श्रियं पुष्टिं गरुडं गुरुमर्चयेत् ।२१.००७ इन्द्रमग्निं यमं रक्षो जलं वायुं धनेश्वरम् ॥२१.००७ ईशानन्तमजं चास्त्रं वाहनं कुमुदादिकम् ।२१.००८ विष्वक्सेनं मण्डलादौ सिद्धिः पूजादिना भवेत् ॥२१.००८ शिवपूजाथ सामान्या पूर्वं नन्दिनमर्चयेत् ।२१.००९ महाकालं यजेद्गङ्गां(३) यमुनाञ्च गणादिकम् ॥२१.००९ गिरं श्रियं(४) गुरुं वास्तुं शक्यादीन् धर्मकादिकम् (५) ।२१.०१० वामा ज्येष्ठा तथा रौद्री काली कलविकारिणी ॥२१.०१० बलविकरिणी चापि बलप्रमथिनी क्रमात् ।२१.०११ टिप्पणी १ प्रह्वी सन्ध्या तथेशानानुग्रहासनमूर्तिका इति ग, चिह्नितपुस्तकपाठः २ दुर्गां गिरिं गणमिति ख, चिह्नितपुस्तकपाठः दुर्गां शिवं गणमिति घ, चिह्नितपुस्तकपाठः ३ यजेत्दुर्गां इति ख, घ, चिह्नितपुस्तकपाठः ४ गिरिं श्रियमिति ख, चिह्नितपुस्तकपाठः शिवं श्रियतमिति घ, चिह्नितपुस्तकपाठः ५ गौरीं श्रियं गुरुं चास्त्रं शक्त्यादिं धर्मकादिकमिति ङ, चिह्नितपुस्तकपाठः पृष्ठ ५३ सर्वभूतदमनी च मदनोन्मादिनी शिवासनं ॥२१.०११ हां हुं हां शिवमूर्तये साङ्गवक्त्रं शिवं यजेत् ।२१.०१२ हौं शिवाय हामित्यादि हामीशानादिवक्त्रकं ॥२१.०१२ ह्रीं गौरीं गं गणः शक्रमुखाश्चण्डीहृतादिकाः ।२१.०१३ क्रमात्सूर्यार्चने मन्त्रा दण्डी पूज्यश्च पिङ्गलः ॥२१.०१३ उच्चैःश्रवाश्चारुणश्च प्रभूतं विमलं यजेत् ।२१.०१४ साराध्योपरमसुखं(१) स्कन्दाद्यं मध्यतो यजेत् ॥२१.०१४ दीप्ता सूक्ष्मा जया भद्रा विभूतिर्विमला तथा ।२१.०१५ अमोघा विद्युता चैव पूज्याथ सर्वतोमुखी ॥२१.०१५ अर्कासनं हि हं खं ख सोल्कायेति च मूर्तिकाम् ।२१.०१६ ह्रां ह्रीं स सूर्याय नम आं नमो हृदाय च ॥२१.०१६ अर्काय शिरसे तद्वदग्नीशासुरवायुगान्(२) ।२१.०१७ भूर्भुवः स्वरे ज्वालिनि शिखा हुं कवचं स्मृतं ॥२१.०१७ भां नेत्रं वस्तथार्कास्त्रं राज्ञी शक्तिश्च निष्कुभा(३) ।२१.०१८ सोमोऽङ्गारकोथ बुधो जीवः शुक्रः शनिः क्रमात् ॥२१.०१८ राहुः केतुस्तेजश्चण्डः सङ्क्षेपादथ पूजनं ।२१.०१९ आसनं मूर्तये मूलं हृदाद्यं परिचारकः ॥२१.०१९ विष्ण्वासनं विष्णुर्मूर्तेरों श्रीं श्रीं श्रीधरो हरिः ।२१.०२० ह्रीं सर्वमूर्तिमन्त्रोयमिति त्रैलोक्यमोहनः ॥२१.०२० ह्रीं हृषीकेशः क्लीं विष्णुः स्वरैर्दीर्घैर्हृदादिकं ।२१.०२१ समस्तैः पञ्चमी पूजा सङ्ग्रामादौ जयादिदा ॥२१.०२१ टिप्पणी १ सावाराध्योपरं दुःखमिति ख, चिह्नितपुस्तकपाठः २ अग्निसाश्रयवायुगानिति ख, चिह्नितपुस्तकपाठः । अर्काय शिरसे तद्वदग्निजायायुतञ्च तदिति ङ,चिह्नितपुस्तकपाठः ३ शक्तिश्च निर्गता इति ख, चिह्नितपुस्तकपाठः पृष्ठ ५४ चक्रं गदां क्रमाच्छङ्खं मुषलं खड्गशार्ङ्गकम् ।२१.०२२ पाशाङ्कुशौ च श्रीवत्सं कौस्तुभं वनमालया ॥२१.०२२ श्रीं श्रीर्महालक्ष्मीतार्क्ष्यो गुरुरिन्द्रादयोऽर्चनम् ।२१.०२३ सरस्वत्यासनं मूर्तिरौं ह्रीं दधी सरस्वती ॥२१.०२३ हृदाद्या लक्ष्मीर्मेधा च कलातुष्टिश्च पुष्टिका ।२१.०२४ गौरी प्रभामती दुर्गा गणो गुरुश्च क्षेत्रपः ॥२१.०२४ तथा गं गणपतये च ह्रीं गौर्यै च श्रीं श्रियै ।२१.०२५ ह्रीं त्वरितायै ह्रीं सौ त्रिपुरा(१) चतुर्थ्यन्तनमोन्तकाः ॥२१.०२५ प्रणवाद्याश्च नामाद्यमक्षरं विन्दुसंयुतं ।२१.०२६ ओं युतं वा सर्वमन्त्रपूजनाज्जपतः स्मृताः ॥२१.०२६ होमात्तिलघृताद्यैश्च धर्मकामार्थमोक्षदाः ।२१.०२७ पूजामन्त्रान् पठेद्यस्तु भुक्तभोगो दिवं व्रजेत् ॥२१.०२७ इत्यादिमहापुराणे आग्नेये वासुदेवादिपूजाकथनं नाम एकविंशतितमोऽध्यायः अध्याय {२२} अथ द्वाविंशोऽध्यायः स्नानविधिकथनं नारद उवाच वक्ष्ये स्नानं क्रियाद्यर्थं नृसिंहेन तु मृत्तिकां ।२२.००१ गृहीत्वा तां द्विधा कृत्वा मनःस्नानमथैकया ॥२२.००१ निमज्याचम्य विन्यस्य सिंहेन कृतरक्षकः(२) ।२२.००२ टिप्पणी १ ह्रीं त्वरितायै, ह्रीं ऐं क्लीं सौ त्रिपुरा इति ख, चिह्नितपुस्तकपाठः २ कृतरक्षण इति घ, चिह्नितपुस्तकपाठः पृष्ठ ५५ विधिस्नानं ततः कुर्यात्प्राणायामपुरःसरं ॥२२.००२ हृदि ध्यायन् हरिज्ञानं(१) मन्त्रेणाष्टाक्षरेण हि ।२२.००३ त्रिधा पाणितले मृत्स्नां दिग्बन्धं सिंहजप्ततः ॥२२.००३ वासदेवप्रजप्तेन तीर्थं सङ्कल्प्य चालभेत् ।२२.००४ गात्रं वेदादिना मन्त्रैः सम्मार्ज्याराध्य मूर्तिना ॥२२.००४ कृत्वाघमर्षणं वस्त्रं परिधाय समाचरेत् ।२२.००५ विन्यस्य मन्त्रैर्द्विर्मार्ज्य पाणिस्थं जलमेव च ॥२२.००५ नारायणेन संयम्य वायुमाघ्राय चोत्सृजेत् ।२२.००६ जलं ध्यायन् हरिं पश्चाद्दत्वार्घ्यं द्वादशाक्षरं ॥२२.००६ जप्त्वान्याञ्छतशस्तस्य योगपीठादितः क्रमात् ।२२.००७ मन्त्रान् दिक्पालपर्यन्तानृषीन् पितृगणानपि ॥२२.००७ मनुष्यान् सर्वभूतानि स्थावरान्तान्यथावसेत् ।२२.००८ न्यस्य चाङ्गानि संहृत्य मन्त्रान्यागगृहं व्रजेत् ॥२२.००८ एवमन्यासु पूजासु मूलाद्यैः स्नानमाचरेत् ॥२२.००८ इत्यादिमहापुराणे आग्नेये स्नानविधिकथनं नाम द्वाविंशोध्यायः अध्याय {२३} अथ त्रयोविंशोध्यायः पूजाविधिकथनं नारद उवाच वक्ष्ये पूजाविधिं विप्रा यत्कृत्वा सर्वमाप्नुयात् ।२३.००१ प्रक्षालिताङ्घ्रिराचम्य वाग्यतः कृतरक्षकः ॥२३.००१ टिप्पणी १ ध्यायं हरिं देवमिति घ.चिह्नितपुस्तकपाठः पृष्ठ ५६ प्राङ्मुखः स्वस्तिकं बद्ध्वा पद्माद्यपरमेव च ।२३.००२ यं वीजं नाभिमध्यस्थं धूम्रं चण्डानिलात्मकं ॥२३.००२ विशेषयेदशेषन्तु(१) ध्यायेत्कायात्तु कल्मषं ।२३.००३ क्षौं हृत्पङ्कजमध्यस्थं वीजं तेजोनिधिं स्मरन् ॥२३.००३ अधोर्ध्वतिर्यग्गाभिस्तु ज्वालाभिः कल्मषं दहेत् ।२३.००४ शशाङ्काकृतिवद्ध्यायेदम्बरस्थं सुधाम्बुभिः ॥२३.००४ हृत्पद्मव्यापिभिर्देहं स्वकमाप्लावयेत्सुधीः(२) ।२३.००५ सुसुम्नायोनिमार्गेण सर्वनाडीविसर्पिभिः ॥२३.००५ शोधयित्वा न्यसेत्तत्त्वं करशुद्धिरथास्त्रकं ।२३.००६ व्यापकं हस्तयोरादौ दक्षिणाङ्गुष्ठतोङ्गकं ॥२३.००६ मूलं देहे द्वादशाङ्गं न्यसेन्मन्त्रैर्द्विषट्ककैः ।२३.००७ हृदयं च शिरश्चैव शिखा वर्मास्त्रलोचने ॥२३.००७ उदरं च तथा पृष्ठं बाहुरुजानुपादकं ।२३.००८ मुद्रां दत्त्वा स्मरेत्विष्णुं जप्त्वाष्टशतमर्चयेत् ॥२३.००८ वामे तु वर्धनीं न्यस्य पूजाद्रव्यं तु दक्षिणे ।२३.००९ प्रक्षाल्यास्त्रेण चार्घ्येण गन्धपुष्पान्विते न्यसेत् ॥२३.००९ चैतन्यं सर्वगं ज्योतिरष्टजप्तेन वारिणा ।२३.०१० फडन्तेन तु संसिच्य हस्ते ध्यात्वा हरिं परे(३) ॥२३.०१० धर्मं ज्ञानं च वैराग्यमैश्वर्यं वह्निदिङ्मुखाः ।२३.०११ अधर्मादीनि गात्राणि पूर्वादौ योगपीठके ॥२३.०११ कूर्मं पीठे ह्यनन्तञ्च यमं(४) सूर्यादिमण्डलं ।२३.०१२ टिप्पणी १ विशोषयेदशेषन्तु इति ङ, चिह्नितपुस्तकपाठः २ स्वकामान् दाहयेत्सुधीः इति ख, चिह्नितपुस्तकपाठः स्वकमाह्लादयेत्सुधीरिति ङ, चिह्नितपुस्तकपाठः ३ स्थलं तेन तु संसिच्य हस्ते ध्यात्वा हरिं पठेदिति ङ, चिह्नितपुस्तकपाठः ४ पद्ममिति ख, ग, ङ, चिह्नितपुस्तकत्रयपाठः पृष्ठ ५७ विमलाद्याः केशरस्थानुग्रहा कर्णिका स्थिता ॥२३.०१२ पूर्वं स्वहृदये ध्यात्वा आवाह्यार्चैश्च मण्डले ।२३.०१३ अर्घ्यं पाद्यं तथाचामं मधुपर्कं पुनश्च तत् ॥२३.०१३ स्नानं वस्त्रोपवीतञ्च भूषणं गन्धपुष्पकं ।२३.०१४ धूपदीपनैर्वेद्यानि पुण्डरीकाक्षविद्यया ॥२३.०१४ यजेदङ्गानि पूर्वादौ द्वारि पूर्वे परेण्डजं ।२३.०१५ दक्षे चक्रं गदां सौम्ये कोणे शङ्खं धनुर्न्यसेत् ॥२३.०१५ देवस्य वामतो दक्षे चेषुधी खड्गमेव च ।२३.०१६ वामे चर्म श्रियं(१) दक्षे पुष्टिं वामेग्रतो न्यसेत् ॥२३.०१६ वनमालाञ्च श्रीवत्सकौस्तुभौ दिक्पतीन्वहिः ।२३.०१७ स्वमन्त्रैः पूजयेत्सर्वान् विष्णुरर्घोवसानतः(२) ॥२३.०१७ व्यस्तेन च समस्तेन अङ्गैर्वीजेन वै यजेत् ।२३.०१८ जप्त्वा प्रदक्षिणीकृत्य स्तुत्त्वार्ध्यञ्च समर्प्य च ॥२३.०१८ हृदये विन्यसेद्ध्यात्वा अहं ब्रह्म हरिस्त्विति ।२३.०१९ आगच्छावाहने योज्यं क्षमस्वेति विसर्जने ॥२३.०१९ एवमष्टाक्षराद्यैश्च पूजां कृत्वा विमुक्तिभाक् ।२३.०२० एकमूर्त्यर्चनं प्रोक्तं नवव्यूहार्चनं शृणु ॥२३.०२० अङ्गुष्ठकद्वये न्यस्य वासुदेवं बलादिकान् ।२३.०२१ तर्जन्यादौ शरीरेथ शिरोललाटवक्त्रके ॥२३.०२१ हृन्नाभिगुह्यजान्वङ्घ्रौ मध्ये पूर्वादिकं यजेत्(३) ।२३.०२२ एकपीठं नवव्यूहं नवपीठञ्च पूर्ववत् ॥२३.०२२ टिप्पणी १ वामे वर्म श्रियमिति ख, चिह्नितपुस्तकपाठः २ अस्मल्लब्धपुस्तकेषु विष्णुरर्घोवसानत इति विष्णावर्घौ च मानतः इति च पाठो वर्तते । अयन्स्वसमीचीन इव प्रतिभाति विष्णुमर्घ्यासनादिभिरिति तु युक्तः पाठः ३ मध्यगुल्फादितः पिस्फच इति ङ, चिह्नितपुस्तकपाठः पृष्ठ ५८ नवाब्जे नवमूर्त्या च नवव्यूहञ्च पूर्ववत् ।२३.०२३ इष्टं मध्ये ततः स्थाने वासुदेवञ्च पूजयेत् ॥२३.०२३ इत्यादिमहापुराणे आग्नेये आदिमूर्त्यादिपूजाविधिर्नाम त्रयोविंशोऽध्यायः अध्याय {२४} अथ चतुर्विंशोऽध्यायः कुण्डनिर्माणादिविधिः नारद उवाच अग्निकार्यं प्रवक्ष्यामि येन स्यात्सर्वकामभाक् ।२४.००१ चतुरभ्यधिकं विंशमङ्गुलं चतुरस्रकं ॥२४.००१ सूत्रेण सूत्रयित्वा तु क्षेत्रं तावत्खनेत्समं ।२४.००२ खातस्य मेखला कार्या त्यक्त्वा चैवाङ्गुलद्वयं ॥२४.००२ सत्त्वादिसञ्ज्ञा(१) पूर्वाशा द्वादशाङ्गुलमुच्छ्रिता ।२४.००३ अष्टाङ्गुला द्व्यङुलाथ चतुरङ्गुलविस्तृता ॥२४.००३ योनिर्दशाङ्गुला रम्या षट्चतुर्द्व्यङ्गुलाग्रगा ।२४.००४ क्रमान्निम्ना तु कर्तव्या पश्चिमाशाव्यवस्थिता ॥२४.००४ अश्वत्थपत्रसदृशी किञ्चित्कुण्डे निवेशिता ।२४.००५ तुर्याङ्गुलायता नालं पञ्चदशाङ्गुलायतं ॥२४.००५ मूलन्तु त्र्यङ्गुलं(२) योन्या अग्रं तस्याः षडङ्गुलं ।२४.००६ लक्षणञ्चैकहस्तस्य द्विगुणं द्विकरादिषु ॥२४.००६ एकत्रिमेखलं कुण्डं वर्तुलादि वदाम्यहं ।२४.००७ टिप्पणी १ सद्मादिसञ्ज्ञा इति ख, चिह्नितपुस्तकपाठः २ मलन्तु द्व्यङ्गुलमिति ग,चिह्नितपुस्तकपाठः पृष्ठ ५९ कुण्डार्धे तु स्थितं सूत्रं कोणे यदतिरिच्यते ॥२४.००७ तदर्धं दिशि संस्थाप्य भ्रामितं वर्तुलं भवेत् ।२४.००८ कुण्डार्धं कोणभागार्धं दिशिश्चोत्तरतो वहिः ॥२४.००८ पूर्वपश्चिमतो यत्नाल्लाञ्छयित्वा तु मध्यतः ।२४.००९ संस्थाप्य भ्रामितं कुण्डमर्धचन्द्रं भवेत्शुभं ॥२४.००९ पद्माकारे दलानि स्युर्मेखलानान्तु वर्तुले ।२४.०१० बाहुदण्डप्रमाणन्तु होमार्थं कारयेत्स्रुचं ॥२४.०१० सप्तपञ्चाङ्गुलं वापि चतुरस्रन्तु कारयेत् ।२४.०११ त्रिभागेन भवेद्गर्तं मध्ये वृत्तं सुशोभनम् ॥२४.०११ तिर्यगूर्ध्वं समं खाताद्वहिरर्धन्तु शोधयेत् ।२४.०१२ अङ्गुलस्य चतुर्थांशं शेषार्धार्धं तथान्ततः ॥२४.०१२ खातस्य मेखलां रम्यां शेषार्धेन तु कारयेत् ।२४.०१३ कण्ठं त्रिभागविस्तारं अङ्गुष्ठकसमायतं ॥२४.०१३ सार्धमङ्गुष्ठकं वा स्यात्तदग्रे तु मुखं भवेत् ।२४.०१४ चतुरङ्गुलविस्तारं पञ्चाङ्गुलमथापि वा ॥२४.०१४ त्रिकं द्व्यङ्गुलकं तत्स्यान्मध्यन्तस्य सुशोभनम् ।२४.०१५ आयामस्तत्समस्तस्य मध्यनिम्नः सुशोभनः ॥२४.०१५ शुषिरं कण्ठदेशे स्याद्विशेद्यावत्कनीयसी ।२४.०१६ शेषकुण्डन्तु कर्तव्यं यथारुचि विचित्रितं ॥२४.०१६ स्रुवन्तु हस्तमात्रं स्याद्दण्डकेन समन्वितं (१) ।२४.०१७ वटुकं द्व्यङ्गुलं(२) वृत्तं कर्तव्यन्तु सुशोभनं ॥२४.०१७ टिप्पणी १ कुण्डकेन समन्वितमिति ख, चिह्नितपुस्तकपाठः २ कण्ठकं द्व्यङ्गुलमिति ख, चिह्नितपुस्तकपाठः चन्द्राभं द्व्यङ्गुलमिति ङ, चिह्नितपुस्तकपाठः पृष्ठ ६० गोपदन्तु यथा मग्नमल्पपङ्के तथा भवेत् ।२४.०१८ उपलिप्य लिखेद्रेखामङ्गुलां वज्रनासिकां(१) ॥२४.०१८ सौम्याग्रा प्रथमा तस्यां रेखे पूर्वमुखे तयोः ।२४.०१९ मध्ये तिस्रस्तथा कुर्याद्दक्षिणादिक्रमेण तु ॥२४.०१९ एवमुल्लिख्य चाभ्युक्ष्य प्रणवेन तु मन्त्रवित् ।२४.०२० विष्टरं कल्पयेत्तेन तस्मिन् शक्तिन्तु वैष्णवीं ॥२४.०२० अलं कृत्वा मूर्तिमतीं क्षिपेदग्निं हरिं स्मरन् ।२४.०२१ प्रादेशमात्राः समिधो दत्वा परिसमुह्य तं ॥२४.०२१ दर्भैस्त्रिधा परिस्तीर्य पूर्वादौ तत्र पात्रकं ।२४.०२२ आसादयेदिध्मवह्नी भूमौ च श्रुक्श्रुवद्वयं ॥२४.०२२ आज्यस्थाली चरुस्थाली कुशाज्यञ्च प्रणीतया ।२४.०२३ प्रोक्षयित्वा प्रोक्षणीञ्च गृहीत्वापूर्य वारिणा ॥२४.०२३ पवित्रान्तर्हिते हस्ते परिश्राव्य च तज्जलं ।२४.०२४ प्राङ्नीत्वा प्रोक्षणीपात्रण्ज्योतिरग्रे निधाय च ॥२४.०२४ तदद्भिस्त्रिश्च सम्प्रोक्ष्य इद्ध्मं विन्यस्य चाग्रतः ।२४.०२५ प्रणीतायां सुपुष्पायां विष्णुं ध्यात्वोत्तरेण च ॥२४.०२५ आज्यस्थालीमथाज्येन सम्पूर्याग्रे निधाय च ।२४.०२६ सम्प्लवोत्पवनाभ्यान्तु कुर्यादाज्यस्य संस्कृतिं ॥२४.०२६ अखण्डिताग्रौ निर्गर्भौ कुशौ प्रादेशमात्रकौ ।२४.०२७ ताभ्यामुत्तानपाणिभ्यामङ्गुष्ठानामिकेन तु ॥२४.०२७ आज्यं तयोस्तु सङ्गृह्य द्विर्नीत्वा त्रिरवाङ्क्षिपेत्(२) ।२४.०२८ स्रुक्स्रुवौ चापि सङ्गृह्य ताभ्यां प्रक्षिप्य वारिण ॥२४.०२८ टिप्पणी १ रुद्रनासिकामिति ख, चिह्नितपुस्तकपाठः वक्त्रनासिकामिति ङ, चिह्नितपुस्तकपाठः २ आद्यं तयोस्तु सम्पूज्य त्रीन् वारानूर्ध्वमुत्क्षिपेदिति ङ, चिह्नितपुस्तकपाठः पृष्ठ ६१ प्रतप्य दर्भैः सम्मृज्य पुनः प्रक्ष्याल्य चैव हि ।२४.०२९ निष्टप्य स्थापयित्वा(१) तु प्रणवेनैव साधकः ॥२४.०२९ प्रणवादिनमोन्तेन पश्चाद्धोमं समाचरेत् ।२४.०३० गर्भाधानादिकर्माणि यावदंशव्यवस्थया ॥२४.०३० नामान्तं व्रतबन्धान्तं समावर्तावसानकम् ।२४.०३१ अधिकारावसानं वा कर्यादङ्गानुसारतः ॥२४.०३१ प्रणवेनोपचारन्तु कुर्यात्सर्वत्र साधकः ।२४.०३२ अङ्गैर्होमस्तु कर्तव्यो यथावित्तानुसारतः ॥२४.०३२ गर्भादानन्तु प्रथमं ततः पुंसवनं स्मृतम् ।२४.०३३ सीमन्तोन्नयनं जातकर्म नामान्नप्राशनम् ॥२४.०३३ चूडकृतिं व्रतबन्धं वेदव्रतान्यशेषतः(२) ।२४.०३४ समावर्तनं पत्न्या च योगश्चाथाधिकारकः(३) ॥२४.०३४ हृदादिक्रमतो ध्यात्वा एकैकं कर्म पूज्य च ।२४.०३५ अष्टावष्टौ तु जुहुयात्प्रतिकर्माहुतीः पुनः ॥२४.०३५ पूर्णाहुतिं ततो दद्यात्श्रुचा मूलेन साधकः ।२४.०३६ वौषडन्तेन मन्त्रेण प्लुतं सुस्वरमुच्चरन् ॥२४.०३६ विष्णोर्वह्निन्तु संस्कृत्य श्रपयेद्वैष्णवञ्चरुम् ।२४.०३७ आराध्य स्थिण्डिले विष्णुं मन्त्रान् संस्मृत्य संश्रपेत्(४) ॥२४.०३७ आसनादिक्रमेणैव साङ्गावरणमुत्तमम् ।२४.०३८ गन्धपुष्पैः समभ्यर्च्य ध्याता देवं सुरोत्तमम् ॥२४.०३८ आधायेध्ममथाघारावाज्यावग्नीशसंस्थितौ ।२४.०३९ टिप्पणी १ नियुज्य स्थापयित्वेति ख, चिह्नितपुस्तकपाठः २ देवव्रतान्यशेषत इति ख, चिह्नितपुस्तकपाठः ३ योगश्चाथाधिकारत इति ख, चिह्नितपुस्तकपाठः ४ मन्त्रान् सन्तर्प्य संत्रपेतिति ख, घ, चिह्नितपुस्तकद्वयपाठः पृष्ठ ६२ वायव्यनैरृताशादिप्रवृत्तौ तु यथाक्रमम् ॥२४.०३९ आज्यभागौ ततो हुत्वा चक्षुषी दक्षिणोत्तरे ।२४.०४० मध्येथ जुहुयात्सर्वमन्त्रानर्चाक्रमेण तु ॥२४.०४० आज्येन तर्पयेन्मूर्तेर्दशांशेनाङ्गहोमकम् ।२४.०४१ शतं सहस्रं वाज्याद्यैः समिद्भिर्वा तिलैः सह(१) ॥२४.०४१ समाप्यार्चान्तु होमान्तां शुचीन् शिष्यानुपोषितान् ।२४.०४२ आहूयाग्रे निवेश्याथ ह्यस्त्रेण प्रोक्षयेत्पशून् ॥२४.०४२ शिष्यानात्मनि संयोज्य अविद्याकर्मबन्धनैः ।२४.०४३ लिङ्गानुवृत्तश्चैतन्यं सह लिङ्गेन पाशितम्(२) ॥२४.०४३ ध्यानमार्गेन सम्प्रोक्ष्य वायुवीजेन शोधयेत् ।२४.०४४ ततो दहनवीजेन सृष्टिं ब्रह्माण्डसञ्ज्ञिकाम् ॥२४.०४४ निर्दग्धां सकलां ध्यायेद्भस्मकूटनिभस्थिताम् ।२४.०४५ प्लावयेद्वारिणा भस्म संसारं वार्मयं स्मरेत्(३)२४.०४५ तत्र शक्तिं न्यसेत्पश्चात्पार्थिवीं बीजसञ्ज्ञिकाम् ।२४.०४६ तन्मात्राभिः समस्ताभिः संवृतं पार्थिवं शुभम् ॥२४.०४६ अण्डन्तदुद्भवन्ध्यायेत्तदाधारन्तदात्मकम् ।२४.०४७ तन्मध्ये चिन्तयेन्मूर्तिं पौरुषीं प्रणवात्मिकाम् ॥२४.०४७ लिङ्गं सङ्क्रामयेत्पश्चादात्मस्थं पूर्वसंस्कृतम् (४) ।२४.०४८ विभक्तेन्द्रियसंस्थानं क्रमाद्वृद्धं विचिन्तयेत् ॥२४.०४८ ततोण्डमब्दमेकं तु स्थित्वा द्विशकलीकृतम् ।२४.०४९ टिप्पणी १ समिद्भिर्वा तिलैस्तथा इति घ, चिह्नितपुस्तकपाठः २ सह लिङ्गेन दर्शितमिति ङ, चिह्नितपुस्तकपाठः ३ संसारञ्चाक्षयं स्मरेदिति ख, चिह्नितपुस्तकपाठः ४ स्थण्डिले पूर्वसंस्कृतमिति ख, चिह्नितपुस्तकपाठः पृष्ठ ६३ द्यावापृथिव्यौ शकले तयोर्मध्ये प्रजापतिम् ॥२४.०४९ जातं ध्यात्वा पुनः प्रोक्ष्य प्रणवेन तु संश्रितम् ।२४.०५० मन्त्रात्मकतनुं कृत्वा यथान्यासं पुरोदितम् ॥२४.०५० विष्णुर्हस्तं ततो मूर्ध्नि दत्वा ध्यात्वा तु वैष्णवम् ।२४.०५१ एवमेकं बहून् वापि जनित्वा ध्यानयोगतः ॥२४.०५१ करौ सङ्गृह्य मूलेन नेत्रे बद्ध्वा तु वाससा ।२४.०५२ नेत्रमन्त्रेण मन्त्री तान् सदनेनाहतेन तु ॥२४.०५२ कृतपूजो गुरुः सम्यक्देवदेवस्य तत्त्ववान् ।२४.०५३ शिष्यान् पुष्पाञ्जलिभृतः प्राङ्मुखानुपवेशयेत् ॥२४.०५३ अर्चयेयुश्च तेप्येवम्प्रसूता गुरुणा हरिम् ।२४.०५४ क्षिप्त्वा पुष्पाञ्जलिं तत्र पुष्पादिभिरनन्तरम् ॥२४.०५४ अमन्त्रमर्चनं कृत्वा(१) गुरोः पादार्चनन्ततः ।२४.०५५ विधाय दक्षिणां दद्यात्सर्वस्वं चार्धमेव वा ॥२४.०५५ गुरुः संशिक्षयेच्छिष्यान् तैः पूज्यो नामभिर्हरिः ।२४.०५६ विश्वक्सेनं यजेदीशं शङ्खचक्रगदाधरम् ॥२४.०५६ तज्जपन्तञ्च तर्जन्या मण्डलस्थं विसर्जयेत् ॥५७॥२४.०५७ विष्णुनिर्माल्यमखिलं विष्वक्सेनाय चार्पयेत् ।२४.०५८ प्रणीताभिस्तथात्मानमभिषिच्य च कुण्डगं ॥२४.०५८ वह्निमात्मनि संयोज्य विष्वक्सेनं विसर्जयेत् ।२४.०५९ बुभुक्षुः सर्वमाप्नोति मुमुक्षुर्लीयते हरौ ॥२४.०५९ इत्यादिमहापुराणे आग्नेये अग्निकार्यादिकथनं नाम चतुर्विंशोऽध्यायः टिप्पणी १ वासुदेवार्चनं कृत्वा इति ख, चिह्नितपुस्तकपाठः पृष्ठ ६४ अध्याय {२५} अथ पञ्चविंशोऽध्यायः वासुदेवादिमन्त्रनिरूपणं नारद उवाच वासुदेवादिमन्त्राणां पूजानां लक्षणं वदे ।२५.००१ वासुदेवः सङ्कर्षणः प्रद्युम्नश्चानिरुद्धकः ॥२५.००१ नमो भगवते चादौ अ आ अं अः स्ववीजकाः(१) ।२५.००२ ओङ्काराद्या नमोन्ताश्च नमो नारायणस्ततः ॥२५.००२ ओं तत्सत्ब्रह्मणे चैव ओं नमो विष्णवे नमः ।२५.००३ ओं क्षौं ओं नमो भगवते नरसिंहाय वै नमः ॥२५.००३ ओं भूर्नमो भगवते वराहाय नराधिपाः ।२५.००४ जवारुणहरिद्राभा नीलश्यामललोहिताः ॥२५.००४ मेघाग्निमधुपिङ्गाभा वल्लभा नव नायकाः ।२५.००५ अङ्गानि स्वरवीजानां स्वनामान्तैर्यथाक्रमम् ॥२५.००५ हृदयादीनि कल्पेत विभक्तैस्तन्त्रवेदिभिः ।२५.००६ व्यञ्जनादीनि वीजानि तेषां लक्षणमन्यथा ॥२५.००६ दीर्घस्वरैस्तु भिन्नानि नमोन्तान्तस्थितानि तु ।२५.००७ अङ्गानि ह्रस्वयुक्तानि उपाङ्गानीति वर्ण्यते ॥२५.००७ विभक्तनामवर्णान्तस्थितानि वीजमुत्तमं(२) ।२५.००८ दीर्घैर्ह्रस्वैश्च संयुक्तं साङ्गोपाङ्गंस्वरैः क्रमात्(३) ॥२५.००८ व्यञ्जनानां क्रमो ह्येष हृदयादिप्रकॢप्तये ।२५.००९ स्ववीजेन स्वनामान्तैर्विभक्तान्यङ्गनामभिः ॥२५.००९ टिप्पणी १ द्वादशाक्षरवीजका इति ख, चिह्नितपुस्तकपाठः २ स्थितवीजार्थमुत्तममिति ख, चिह्नितपुस्तकपाठः ३ दीर्घस्वरैश्च संयुक्तमङ्गोपाङ्गं स्वरैः क्रमादिति ख, चिह्नितपुस्तकपाठः ४ स्वरवीजेषु नामान्तैर्विभक्तान्यङ्गनामभिरिति ङ, चिह्नितपुस्तकपाठः पृष्ठ ६५ युक्तानि हृदयादीनि द्वादशान्तानि पञ्चतः(१) ।२५.०१० आरभ्य कल्पयित्वा तु जपेत्सिद्ध्यनुरूपतः ॥२५.०१० हृदयञ्च शिरश्चूडा कवचं नेत्रमस्त्रकं ।२५.०११ षडङ्गानि तु वीजानां मूलस्य द्वादशाङ्गकं ॥२५.०११ हृच्छिरश्च शिखा वर्म चास्त्रनेत्रान्तयोदरं ।२५.०१२ प्रष्टबाहूरुजानूंश्च जङ्घा पादौ क्रमान्न्यसेत् ॥२५.०१२ कं टं पं शं वैनतेयः खं ठं फं घं गदामनुः(२) ।२५.०१३ गं डं बं सं पुष्ठिमन्तो घं ढं भं हं श्रियै नमः ॥२५.०१३ वं शं मं क्षं(३) पाञ्चजन्यं छं तं पं(४) कौस्तुभाय च ।२५.०१४ जं खं वं सुदर्शनाय श्रीवत्साय सं वं दं चं लं(५) ॥२५.०१४ ओं धं वं वनमालायै महानन्ताय वै नमः(६) ।२५.०१५ निर्वीजपदमन्त्राणां पदैरङ्गानि कल्पयेत् ॥२५.०१५ जात्यन्तैर्नामसंयुक्तेर्हृदयादीनि पञ्चधा ।२५.०१६ प्रणवं हृदयादीनि ततः प्रोक्तानि पञ्चधा ॥२५.०१६ प्रणवं हृदयं पूर्वं परायेति शिरः शिखा ।२५.०१७ नाम्नात्मना तु(७) कवचं अस्त्रं नामान्तकं भवेत् ॥२५.०१७ टिप्पणी १ द्वादशार्णानि यत्नत इति ङ, चिह्नितपुस्तकपाठः २ महागदा इति ङ,चिह्नितपुस्तकपाठः ३ ठं णं मं क्षं इति ङ, चिह्नितपुस्तकपाठः ४ दं भं पमिति ख, चिह्नितपुस्तकपाठः ५ श्रीवत्साय च पञ्चममिति ङ, चिह्नितपुस्त्कपाठः श्रीवत्सो वं चं दं ठं लं इति ग, चिह्नितपुस्तकपाठः ६ नमोनन्ताय वै नम इति ङ, चिह्नितपुस्तकपाठः ७ नाम्नामुना तु इति ख, ङ, चिह्नितपुस्त्कद्वयपाठः पृष्ठ ६६ ओं परास्त्रादिस्वनामात्मा(१) चतुर्थ्यन्तो नमोन्तकः ।२५.०१८ एकव्यूहादिषड्विंशव्यूहात्तस्यात्मनो मनुः(२) ॥२५.०१८ कनिष्टादिकराग्रेषु प्रकृतिं देहकेर्चयेत् ।२५.०१९ पराय पुरुषात्मा स्यात्प्रकृत्यात्मा द्विरूपकः ॥२५.०१९ ओं परयाम्न्यात्मने चैव वाय्वर्कौ च द्विरूपकः ।२५.०२० अग्निं त्रिमूर्तौ(३) विन्यस्य व्यापकं करदेहयोः ॥२५.०२० वाय्वर्कौ करशाखासु सव्येतरकरद्वये ।२५.०२१ हृदि मूर्तो तनावेष त्रिव्यूहे तुर्यरूपके ॥२५.०२१ ऋग्वेदं व्यापकं हस्ते अङ्गुलीषु यजुर्न्यसेत् ।२५.०२२ तलद्वयेथर्वरूपं शिरोहृच्चरणान्तकः ॥२५.०२२ आकाशं व्यापकं न्यस्य करे देहे तु पूर्ववत् ।२५.०२३ अङ्गुलीषु च वाय्वादि शिरोहृद्गुह्यपादके ॥२५.०२३ वायुर्ज्योतिर्जलं पृथ्वी पञ्चव्यूहः समीरितः ।२५.०२४ मनः श्रोत्रन्त्वग्दृग्जिह्वा घ्राणं षड्व्यूह ईरितः ॥२५.०२४ व्यापकं मानसं न्यस्य ततोङ्गुष्टादितः क्रमात् ।२५.०२५ मूर्धास्यहृद्गुह्यपत्सु कथितः करुणात्मकः ॥२५.०२५ आदिमूर्तिस्तु सर्वत्र व्यापको जीवसञ्ज्ञितः ।२५.०२६ भूर्भुवः स्वर्महर्जनस्तपः स्त्यञ्च सप्तधा ॥२५.०२६ करे देहे न्यसेदाद्यमङ्गुष्टादिक्रमेण तु ।२५.०२७ तलसंस्थः सप्तमश्च(४) लोकेशो देहके क्रमात् ॥२५.०२७ टिप्पणी १ ओं परास्त्रादित्यनामात्मा इति घ, चिह्नितपुस्तकपाठः २ एवं व्यूहादिषड्विंशं व्यूहात्तस्यात्मनो मनुरिति ख, चिह्नितपुस्तकपाठः ३ अग्निं द्विमूर्तौ इति ख, चिह्नितपुस्त्कपाठः ४ तलस्थः सप्तमश्चैव इति ङ, चिह्नितपुस्तकपाठः पृष्ठ ६७ देहे शिरोललाटास्यहृद्गुह्याङ्ग्रिषु संस्थितः ।२५.०२८ अग्निष्ठोमस्तथोक्थस्तु षोडशी वाजपेयकः ॥२५.०२८ अतिरात्राप्तोर्यामञ्च(१) यज्ञात्मा सप्तरूपकः ।२५.०२९ धीरहं मनः शब्दश्च स्पर्शरूपरसास्ततः(२) ॥२५.०२९ गन्धो बुद्धिर्व्यापकं तु करे देहे न्यसेत्क्रमात् ।२५.०३० न्यसेदन्त्यै च(३) तलयोः के ललाटे मुखे हृदि ॥२५.०३० नाभौ गुह्ये च पादे च अष्टव्यूहः पुमान् स्मृतः(४) ।२५.०३१ वीजो बुद्धिरहङ्कारो मनः शब्दो गुणोनिलः ॥२५.०३१ रूपं रसो नवात्मायं जीव अङ्गुष्ठकद्वये ।२५.०३२ तर्जन्यादिक्रमाच्छेषं यावद्वामप्रदेशिनीं ॥२५.०३२ देहे शिरोललाटास्यहृन्नाभिगुह्यजानुषु ।२५.०३३ पादयोश्च दशात्मायं इन्द्रो व्यापी समास्थितः ॥२५.०३३ अङ्गुष्ठकद्वये वह्निस्तर्जन्यादौ परेषु च ।२५.०३४ शिरोललाटवक्त्रेषु हृन्नाभिगुह्यजानुषु ॥२५.०३४ पादयोरेकदशात्मा मनः श्रोत्रं त्वगेव च ।२५.०३५ चक्षुर्जिह्वा तथा घ्राणं वाक्पाण्यङ्घ्रिश्च पायुकः ॥२५.०३५ उपस्थं मानसो व्यापी श्रोत्रमङ्गुष्ठकद्वये ।२५.०३६ तर्जन्यादिक्रमादष्टौ अतिरिक्तं तलद्वये ॥२५.०३६ उत्तमाङ्गुलललाटास्यहृन्नाभावथ गुह्यके ।२५.०३७ उरुयुग्मे तथा जङ्घे गुल्फपादेषु च क्रमात् ॥२५.०३७ टिप्पणी १ अतिरात्राप्तयामश्च इति ख, चिह्नितपुस्त्कपाठः २ रसास्तथा इति ख, चिह्नितपुस्तकपाठः ३ न्यसेदन्ते च इति ख, चिह्नितपुस्तकपाठः । न्यसेदष्टौ च इति ङ, चिह्नितपुस्तकपाठः ४ क्रमात्स्मृत इति ङ, चिह्नितपुस्तकपाट्ःः पृष्ठ ६८ विष्णुर्मधुहरश्चैव त्रिविक्रमकवामनौ ।२५.०३८ श्रीधरोथ हृषीकेशः पद्मनाभस्तथैव च ॥२५.०३८ दामोदरः केशवश्च नारायणस्ततः परः ।२५.०३९ माधवश्चाथ गोविन्दो विष्णुं वै व्यापकं न्यसेत् ॥२५.०३९ अङ्गुष्ठादौ तले द्वौ च पादे जानुनि वै कटौ ।२५.०४० शिरःशिखरकट्याञ्च जानुपादादिषु न्यसेत् ॥२५.०४० द्वादशात्मा पञ्चविंशः षड्विंशव्यूहकस्तथा ।२५.०४१ पुरुषो धीरहङ्कारो मनश्चित्तञ्च शब्दकः ॥२५.०४१ तथा स्पर्शो रसो रूपं गन्धः श्रोत्रं त्वचस्तथा ।२५.०४२ चक्षुर्जिह्वा नासिका च वाक्पाण्यङ्घ्रिश्च पायवः ॥२५.०४२ उपस्थो भूर्जलन्तेजो वायुराकाशमेव च ।२५.०४३ पुरुषं व्यापकं न्यस्य अङ्गुष्ठादौ दश न्यसेत् ॥२५.०४३ शेषान् हस्ततले न्यस्य शिरस्यथ ललाटके ।२५.०४४ मुखहृन्नाभिगुह्योरुजान्वङ्घ्रौ करणोद्गतौ ॥२५.०४४ पादे जान्वोरुपस्थे च हृदये मूर्ध्नि च क्रमात् ।२५.०४५ परश्च पुरुषात्मादौ षड्विंशे पूर्ववत्परं ॥२५.०४५ सञ्चिन्त्य मण्डलैके तु प्रकृतिं पूजयेद्बुधः ।२५.०४६ पूर्वयाम्याप्यसौम्येषु हृदयादीनि पूजयेत् ॥२५.०४६ अस्त्रमग्न्यादिकोणेषु(१) वैनतेयादि पूर्ववत् ।२५.०४७ दिक्पालांश्च विधिस्त्वन्यः(२) त्रिव्यूहेग्निश्च मध्यतः ॥२५.०४७ पूर्वादिदिग्बलावसोराज्यादिभिरलङ्कृतः ।२५.०४८ कर्णिकायां नाभसश्च मानसः कर्णिकास्थितः ॥२५.०४८ टिप्पणी १ अस्त्रमग्न्यादिपत्रेषु इति ख, ङ, चिह्नितपुस्तकद्वयपाठः २ दिक्पालांश्च विधिस्तस्य इति ग, घ, चिह्नितपुस्तकपाठः दिक्पालादौ विधिस्तुल्य इति ङ, चिह्नितपुस्तकपाठः पृष्ठ ६९ विश्वरूपं सर्वस्थित्यै(१) यजेद्राज्यजयाय च ।२५.०४९ सर्वव्यूहैः समायुक्तमङ्गैरपि च पञ्चभिः ॥२५.०४९ गरुडाद्यैस्तथेन्द्राद्यैः सर्वान् कामानवाप्नुयात् ।२५.०५० विश्वक्सेनं यजेन्नाम्ना वै वीजं व्योमसंस्थितं(२) ॥२५.०५० इत्यादिमहापुराणे आग्नेये मन्त्रप्रदर्शनं नाम पञ्चविंशोऽध्यायः अध्याय {२६} अथ षड्विंशोऽध्यायः मुद्रालक्षणकथनं नारद उवाच मुद्राणां लक्षणं वक्ष्ये सान्निध्यादिप्रकारकं ।२६.००१ अञ्जलिः प्रथमा मुद्रा वन्दनी हृदयानुगा ॥२६.००१ ऊर्ध्वाङ्गुष्ठो वाममुष्टिर्दक्षिणाङ्गुष्ठबन्धनं ।२६.००२ सव्यस्य तस्य चाङ्गुष्ठो यस्य चोर्ध्वे प्रकीर्तितः(३) ॥२६.००२ तिस्रः साधरणा व्यूहे अथासाधरणा इमाः ।२६.००३ कनिष्ठादिविमोकेन अष्टो मुद्रा यथाक्रमं ॥२६.००३ अष्टानां पूर्ववीजानां क्रमशस्त्ववधारयेत् ।२६.००४ अङ्गुष्ठेन कनिष्टान्तं नमयित्वाङ्गुलित्रयं ॥२६.००४ ऊर्ध्वं कृत्वा सम्मुखञ्च वीजाय नवमाय वै ।२६.००५ वामहस्तमथोत्तानं कृत्वार्धं नामयेच्छनैः ॥२६.००५ टिप्पणी १ सर्वसिद्ध्यै इति ख, ङ, चिह्नितपुस्तकद्वयपाठः २ वैराजं नागसंयुतमिति ख, चिह्नितपुस्तकपाट्ःः । यौ वीजं चाङ्गसंयुतमिति ङ, चिह्नितपुस्तकपाठः ३ यः सव्येर्धे प्रकीर्तित इति ख, चिह्नितपुस्तकपाठः पृष्ठ ७० वराहस्य स्मृता मुद्रा अङ्गनाञ्च क्रमादिमाः ।२६.००६ एकैकां मोचयेद्बद्ध्वा वाममुष्टो तथागुलीं ॥२६.००६ आकुञ्चयेत्पूर्वमुद्रां दक्षिणेप्येवमेव च ।२६.००७ ऊर्ध्वाङ्गुष्ठो वाममुष्ठिर्मुद्रासिद्धिस्ततो भवेत् ॥२६.००७ इत्यादिमहापुराणे आग्नेये मुद्राप्रदर्शनं नाम षड्विंशोऽध्यायः अध्याय {२७} अथ सप्तविंशोऽध्यायः दीक्षाविधिकथनं नारद उवाच वक्ष्ये दीक्षां सर्वदाञ्च मण्डलेब्जे हरिं यजेत् ।२७.००१ दशम्यामुपसंहृत्य यागद्रव्यं समस्तकं ॥२७.००१ विन्यस्य नारसिंहेन सम्मन्त्र्य शतवारकं ।२७.००२ सर्षपांस्तु फडन्तेन(१) रक्षोघ्नान् सर्वतः क्षिपेत् ॥२७.००२ शक्तिं सर्वात्मकां तत्र न्यसेत्प्रासादरूपिणीं ।२७.००३ सर्वौषधिं समाहृत्य विकिरानभिमन्त्रयेत् ॥२७.००३ शतवारं शुभे पात्रे वासुदेवेन साधकः ।२७.००४ संसाध्य पण्जगव्यन्तु पञ्चभिर्मूलमूर्तिभिः ॥२७.००४ नारायणान्तैः सम्प्रोक्ष्य कुशाग्रैस्तेन तां भुवं(३)।२७.००५ विकिरान्वासुदेवेन क्षिपेदुत्तानपाणिना ॥२७.००५ त्रिधा पूर्वमुखस्तिष्ठन् ध्यायेत्विष्णुं तथा हृदि ।२७.००६ वर्धन्या सहिते कुम्भे साङ्गं विष्णुं प्रपूजयेत् ॥२७.००६ टिप्पणी १ सर्षपांस्तद्वदस्त्रेण इति ङ, चिह्नितपुस्तकपाठः २ कुशाग्रेणैव तां भुवमिति ङ, चिह्नितपुस्तकपाट्ःः पृष्ठ ७१ शतवारं मन्त्रयित्वा त्वस्त्रेणैव च वर्धनीं ।२७.००७ अच्छिन्नधारया सिञ्चनीशानान्तं नयेच्च तं ॥२७.००७ कलसं पृष्ठतो नीत्वा स्थापयेद्विकिरोपरि ।२७.००८ संहृत्य विकिरान् दर्भैः कुम्भेशं कर्करीं यजेत् ॥२७.००८ सवस्त्रं पञ्चरत्नाढ्यं खण्डिले पूजयेद्धरिं ।२७.००९ अग्नावपि समभ्यर्च्य मन्त्रान् सञ्जप्य पूर्ववत् ॥२७.००९ प्रक्षाल्य पुण्डरीकेन विलिप्यान्तः सुगन्धिना ।२७.०१० उखामाज्येन(१) संपूर्य गोक्षीरेण तु साधकः ॥२७.०१० आलोक्य वासुदेवेन(२) ततः सङ्कर्षणेन च ।२७.०११ तण्डुलानाज्यसंसृष्टान् क्षिपेत्क्षीरे सुसंस्कृते ॥२७.०११ प्रद्युम्नेन स्मालोड्य दर्व्या सङ्घट्टयेच्छनैः ।२७.०१२ पक्वमुत्तारयेत्पश्चादनिरुद्धेन देशिकः ॥२७.०१२ प्रक्षाल्यालिप्य तत्कुर्यादूर्ध्वपुण्ड्रं तु भस्मना ।२७.०१३ नारायणेन पार्श्वेषु चरुमेवं सुसंस्कृतं ॥२७.०१३ भागमेकं तु देवाय कलशाय द्वितीयकं ।२७.०१४ तृतीयेन तु भागेन प्रदद्यादाहुतित्रयं ॥२७.०१४ शिष्यैः सह चतुर्थं तु गुरुरद्याद्विशुद्धये(३) ।२७.०१५ नारायणेन सम्मन्त्र्य सप्तधा क्षीरवृक्षजम् ॥२७.०१५ दन्तकाष्ठं भक्षयित्वा त्यक्त्वा ज्ञात्वास्वपातकं ।२७.०१६ ऐन्द्राग्न्युत्तरकेशानीमुखं पतितमुत्तमं ॥२७.०१६ शुभं सिंहशतं हुत्वा(४) आचम्याथ प्रविश्य च ।२७.०१७ टिप्पणी १ उत्थायाज्येनेति ख, चिह्नितपुस्तकपाठः २ आलोड्य वासुदेवेन इति ख, चिह्नितपुस्तकपाठः ३ विवृद्धये इति ङ, चिह्नितपुस्तकपाठः ४ शुभं सिद्धमिति ज्ञात्वा ङ, चिह्नितपुस्तकपाठः पृष्ठ ७२ पूजागारं न्यसेन्मन्त्री प्राच्यां विष्णुं प्रदक्षिणं ॥२७.०१७ संसारार्णवमग्नानां पशूनां पाशमुक्तये ।२७.०१८ त्वमेव शरणं देव सदा त्वं भक्तवत्सल ॥२७.०१८ देवदेवानुजानीहि प्राकृतैः पाशबन्धनैः ।२७.०१९ पाशितान्मोचयिष्यामि त्वत्प्रसादात्पशूनिमान् ॥२७.०१९ इति विज्ञाप्य देवेशं सम्प्रविश्य पशूंस्ततः ।२७.०२० धारणाभिस्तु संशोध्य पूर्वज्ज्वलनादिना ॥२७.०२० संस्कृत्य मूर्त्या संयोज्य(१) नेत्रे बद्ध्वा प्रदर्शयेत् ।२७.०२१ पुष्पपूर्णाञ्जलींस्तत्र क्षिपेत्तन्नाम योजयेत् ॥२७.०२१ अमन्त्रमर्चनं तत्र पूर्ववत्कारयेत्क्रमात् ।२७.०२२ यस्यां मूर्तौ पतेत्पुष्पं तस्य तन्नाम निर्दिशेत् ॥२७.०२२ शिखान्तसम्मितं सूत्रं पादाङ्गुष्ठादि षड्गुणं ।२७.०२३ कन्यासु कर्तितं रक्तं(२) पुनस्तत्त्रिगुणीकृतम् ॥२७.०२३ यस्यां संलीयते विश्वं यतो विश्वं प्रसूयते ।२७.०२४ प्रकृतिं प्रक्रियाभेदैः संस्थितां तत्र चिन्तयेत् ॥२७.०२४ तेन प्राकृतिकान् पाशान् ग्रथित्वा तत्त्वसङ्ख्यया(३) ।२७.०२५ कृत्वा शरावे तत्सूत्रं कुण्डपार्श्वे निधाय तु(४) ॥२७.०२५ ततस्तत्त्वानि सर्वाणि ध्यात्वा शिष्यतनौ न्यसेत् ।२७.०२६ सृष्टिक्रमात्प्रकृत्यादिपृथिव्यन्तानि देशिकः ॥२७.०२६ तत्रैकधा पण्चधा स्याद्दशद्वादशधापि वा(४) ।२७.०२७ टिप्पणी १ मूर्त्या सम्प्रोक्ष्य इति ङ, चिह्नितपुस्तकपाठः २ सूत्रमिति ङ, चिह्नितपुस्तकपाठः ३ तत्र सङ्ख्यया इति ख, ग, घ, चिह्नितपुस्तकत्रयपाठः ४ निधीयते इति घ, ङ, चिह्नितपुस्तकद्वयपाठः ५ तत्रार्चा पञ्चधा या स्यादङ्गैर्द्वादशधापि वेति ख, चिह्नितपुस्तकपाठः । तत्रात्मा पञ्चधा वा स्यात्दशद्वदशधापिवेति घ, ङ, चिह्नितपुस्तकद्वयपाठः पृष्ठ ७३ ज्ञातव्यः सर्वभेदेन ग्रथितस्तत्त्वचिन्तकैः ॥२७.०२७ अङ्गैः पञ्चभिरध्वानं निखिलं विकृतिक्रमात् ।२७.०२८ तन्मात्रात्मनि संहृत्य मायासूत्रे पशोस्तनौ(१) ॥२७.०२८ प्रकृतिर्लिङ्गशक्तिश्च कर्ता बुद्धिस्तथा मनः ।२७.०२९ पञ्चतन्मात्रबुद्ध्याख्यं कर्माख्यं भूतपञ्चकं ॥२७.०२९ ध्यायेच्च द्वादशात्मानं सूत्रे देहे तथेच्छया ।२७.०३० हुत्वा सम्पातविधिना सृष्टेः सृष्टिक्रमेण तु ॥२७.०३० एकैकं शतहोमेन दत्त्वा पूर्णाहुतिं ततः ।२७.०३१ शरावे सम्पुटीकृत्य कुम्भेशाय निवेदयेत् ॥२७.०३१ अधिवास्य यथा न्यायं भक्तं शिष्यं तु दीक्षयेत् ।२७.०३२ करणीं कर्तरीं वापि(२) रजांसि खटिकामपि ॥२७.०३२ अन्यदप्युपयोगि स्यात्सर्वं तद्वायुगोचरे ।२७.०३३ संस्थाप्य मूलमन्त्रेण परामृश्याधिवाधिवासयेत् ॥२७.०३३ नमो भूतेभ्यश्च बलिः कुशे शेते स्मरन् हरिं ।२७.०३४ मण्डपं भूषयित्वाथ वितानघटलड्डुकैः(३) ॥२७.०३४ मण्डलेथ यजेद्विष्णुं ततः सन्तर्प्य पावकं ।२७.०३५ आहूय दीक्षयेच्छिष्यान् बद्धपद्मासनस्थितान् ॥२७.०३५ सम्मोक्ष्य विष्णुं हस्तेन मूर्धानं स्पृश्य वै क्रमात् ।२७.०३६ प्रकृत्यादिविकृत्यन्तां साधिभूताधिदैवतां ॥२७.०३६ सृष्टिमाध्यात्मिकीं कृत्वा हृदि तां संहरेत्क्रमात् ।२७.०३७ तन्मात्रभूतां सकलां जीवेन समतां गतां ॥२७.०३७ ततः सम्प्रार्थ्य कम्भेशं सूत्रं संहृत्य देशिकः ।२७.०३८ टिप्पणी १ मायासूत्रे सुशोभने इति ङ, चिह्नितपुस्तकपाठः २ करालं कर्तरीञ्चापि इति ख, ग, चिह्नितपुस्तकद्वयपाठः ३ वितानभवगन्धकैरिति ख, चिह्नितपुस्तकपाठः । वितानपटकेन्द्रियैरिति ग, घ, चिह्नितपुस्तकद्वयपाठः पृष्ठ ७४ अग्नेः समीपमागत्य पार्श्वे तं सन्निवेश्य तु ॥२७.०३८ मूलमन्त्रेण सृष्टीशमाहुतीनां शतेन तं ।२७.०३९ उदासीनमथासाद्य पूर्णाहुत्या च देशिकः ॥२७.०३९ शुक्लं रजः समादाय मूलेन शतमन्त्रितं ।२७.०४० सन्ताड्य हृदयन्तेन हुंफट्कारान्तसंयुतैः ॥२७.०४० वियोगपदसंयुक्तैर्वीजैः पदादिभिः क्रमात् ।२७.०४१ पृथिव्यादीनि तत्त्वानि विश्लिष्य जुहुयात्ततः ॥२७.०४१ वह्नावखिलतत्त्वानामालये व्याहृते हरौ ।२७.०४२ नीयमानं क्रमात्सर्वं तत्राध्वानं स्मरेद्बुधः ॥२७.०४२ ताडनेन वियोज्यैवं(१) आदायापाद्य शाम्यतां ।२७.०४३ प्रकृत्याहृत्य जुहुयाद्यथोक्ते जातवेदसि ॥२७.०४३ गर्भाधानं जातकर्म भोगञ्चैव लयन्तथा ।२७.०४४ शुद्धं तत्त्वं समुद्धृत्य पूर्णाहुत्या तु देशिकः ।२७.०४५ सन्नयेद्द्विपरे तत्त्वे यावदव्याहृतं क्रमात् ॥२७.०४५ तत्परं ज्ञानयोगेन विलाप्य परमात्मनि ।२७.०४६ विमुक्तबन्धनं जीवं परस्मिन्नव्यये पदे ॥२७.०४६ निवृत्तं परमानन्दे शुद्धे बुद्धे स्मरेद्बुधः ।२७.०४७ दद्यात्पूर्णाहुतिं पश्चादेवं दीक्षा समाप्यते ॥२७.०४७ प्रयोगमन्त्रान् वक्ष्यामि यैर्दीक्षा होमसंलयः ।२७.०४८ ओं यं भूतानि विशुद्धं हुं फट् अनेन ताडनं कुर्याद्वियोजनमिह द्वयं ॥२७.०४८ ओं यं भूतान्यापातयेहं आदानं कृत्वा चानेन प्रकृत्या योजनं शृणु ।२७.०४९ टिप्पणी १ ताडनेन विमोक्ष्यैवमिति ख, चिह्नितपुस्तकपाठः पृष्ठ ७५ ओं यं भूतानि पुंश्चाहो होममन्त्रं प्रवक्ष्यामि ततः पूर्णाहुतेर्मनुं ॥२७.०४९ ओं भूतानि संहर स्वाहा । ओं अं ओं नमो भगवते वासुदेवाय वौषट् पूर्णाहुत्यनन्तरे तु तद्वै शिष्यन्तु साधयेत्(१) ।२७.०५० एवं तत्त्वानि सर्वाणि क्रमात्संशोधयेद्बुधः ॥२७.०५० नमोन्तेन स्ववीजेन ताडनादिपुरःसरम् ।२७.०५१ ओं वां वर्मेन्द्रियाणि । ओं दें बुद्धीन्द्रियाणि यं वीजेन समानन्तु ताडनादिप्रयोगकम् ॥२७.०५१ ओं सुंगन्धतन्मात्रे वियुङ्क्ष्व हुं फट् । ओं सम्पाहिं हा(२) ॥ ओं खं खं क्ष प्रकृत्या(३) । ओं सुं हुं गन्धतन्मात्रे संहर स्वाहा ततः पूर्णाहुतिश्चैवमुत्तरेषु प्रयुज्यते ।२७.०५२ ओं रां रसतन्मात्रे । ओं भें रूपतन्मात्रे । ओं रं स्पर्शतन्मात्रे । ओं एं शब्दतन्मात्रे । ओं भं नमः । ओं सों अहङ्कारः । ओं नं बुद्धे । ओं ओं प्रकृते एकमूर्तावयं प्रोक्तो दीक्षायोगः समासतः ।२७.०५२ एवमेव प्रयोगस्तु नवव्यूहादिके स्मृतः ॥२७.०५२ दग्धापरस्मिन् सन्दध्यान्निर्वाणे प्रकृतिन्नरः ।२७.०५३ अविकारे समादध्यादीश्वरे प्रकृतिन्नरः ॥२७.०५३ शोधयित्वाथ भुतानि कर्माङ्गानि(४) विशोधयेत् ।२७.०५४ बुद्ध्याख्यान्यथ तन्मात्रमनोज्ञानमहङ्कृतिं ॥२७.०५४ लिङ्गात्मानं विशोध्यान्ते प्रकृतिं शोधायेत्पुनः ।२७.०५५ टिप्पणी १ तद्वै शिष्यन्तुसन्नयेदिति ख, घ, ङ, चिह्नितपुस्तकत्रयपाठः २ ओं सुं आयाहि हामिति ख,चिह्नितपुस्तकपाठः ओं सं पाहि स्वाहा इति ग, ङ, चिह्नितपुस्तकद्वयपाठः ३ अं दुं स्त्व प्रकृत्या इति ओं खं खं स्त्व प्रकृत्या इति च ख, चिह्नितपुस्तकपाठः ४ कर्माख्यानि च शोधयेदिति घ, ङ, चिह्नितपुस्तकद्वयपाठः पृष्ठ ७६ पुरुषं प्राकृतं शुद्धमीश्वरे धाम्नि संस्थितं ॥२७.०५५ स्वगोचरीकृताशेषभोगमुक्तौ कृतास्पदं ।२७.०५६ ध्यायन् पूर्णाहुतिं दद्याद्दीक्षेयं त्वधिकारिणी ॥२७.०५६ अङ्गैराराध्य मन्त्रस्य नीत्वा तत्त्वगणं समं ।२७.०५७ क्रमादेवं विशोध्यान्ते सर्वसिद्धिसमन्वितं ॥२७.०५७ ध्यायन् पूर्णाहितिं दद्यात्दीक्षेयं साधके स्मृता ।२७.०५८ द्रव्यस्य वा न सम्पत्तिरशक्तिर्वात्मनो यदि ॥२७.०५८ इष्ट्वा देवं यथा पूर्वं सर्वोपकरणान्वितं ।२७.०५९ सद्योधिवास्य द्वादश्यां दीक्षयेद्देशिकोत्तमः ॥२७.०५९ भक्तो विनीतः शारीरैर्गुणैः सर्वैः समन्वितः ।२७.०६० शिष्यो नातिधनी यस्तु स्थण्डिलेभ्यर्च्य दीक्षयेत् ॥२७.०६० अध्वानं निखिलं दैवं(२) भौतं वाध्यात्मिकी कृतं ।२७.०६१ सृष्टिक्रमेण शिष्यस्य देहे ध्यात्वा तु देशिकः ॥२७.०६१ अष्टाष्टाहुतिभिः पूर्वं क्रमात्सन्तर्प्य सृष्टिमान् ।२७.०६२ स्वमन्त्रैर्वासुदेवादीन् जननादीन् विसर्जयेत्(२) ॥२७.०६२ होमेन शोधयेत्पश्चात्संहारक्रमयोगतः ।२७.०६३ योनिसूत्राणि बद्धानि मुक्त्वा कर्माणि देशिकः ॥२७.०६३ शिष्यदेहात्समाहृत्य क्रमात्तत्त्वानि शोधयेत् ।२७.०६४ अग्नौ प्राकृतिके विष्णौ लयं नीत्वाधिदैवके ॥२७.०६४ शुद्धं तत्त्वमशुद्धेन पूर्णाहुत्या तु साधयेत्(३) ।२७.०६५ शिष्ये प्रकृतिमापन्ने दग्ध्वा प्राकृतिकान् गुणान् ॥२७.०६५ टिप्पणी १ लिखितं दैवमिति ख, चिह्नितपुस्तकपाठः २ पूजां कृत्वा विसर्जयेदिति घ, चिह्नितपुस्तकपाठः विमलादीन् विसर्जयेदिति ङ, चिह्नितपुस्तकपाठः ३ पूर्णाहुत्या तु सन्नयेदिति ख, घ, चिह्नितपुस्तकद्वयपाठः पृष्ठ ७७ मौचयेदधिकारे वा नियुञ्ज्याद्देशिकः शिशून्(१) ।२७.०६६ अथान्यान् शक्तिदीक्षां वा कुर्यात्भावे स्थितो गुरुः ॥२७.०६६ भक्त्या सम्प्रातिपन्नानां यतीनां निर्धनस्य च ।२७.०६७ सम्पूज्य स्थण्डिले विष्णुं पार्श्वस्थं स्थाप्य पुत्रकं ॥२७.०६७ देवताभिमुखः शिष्यस्तिर्यगास्यः स्वयं स्थितः ।२७.०६८ अध्वानं निखिलं ध्यात्वा पर्वभिः स्वैर्विकल्पितं ॥२७.०६८ शिष्यदेहे तथा देवमाधिदैविकयाचनं ।२७.०६९ ध्यानयोगेन सञ्चिन्त्य पूर्ववत्ताडनादिना ॥२७.०६९ क्रमात्तत्त्वानि सर्वाणि शोधयेत्स्थण्डिले हरौ ।२७.०७० ताडनेन वियोज्याथ गृहीत्वात्मनि तत्परः(२) ॥२७.०७० देवे संयोज्य संशोध्य गृहीत्वा तत्स्वभावतः ।२७.०७१ आनीय शुद्धभावेन सन्धयित्वा क्रमेण तु ॥२७.०७१ शोधयेद्ध्यानयोगेन सर्वतो ज्ञानमुद्रया ।२७.०७२ शुद्धेषु सर्वतत्त्वेषु प्रधाने चेश्वरे स्थिते ॥२७.०७२ दग्ध्वा निर्वापयेच्छिष्यान् पदे चैशे नियोजयेत् ।२७.०७३ निनयेत्सिद्धिमार्गे वा साधकं देशिकोत्तमः ॥२७.०७३ एवमेवाधिकारस्थो गृही कर्मण्यतन्द्रितः ।२७.०७४ आत्मानं शोधयंस्तिष्ठेद्यावद्रागक्षयो भवेत् ॥२७.०७४ क्षीणरागमथात्मानं ज्ञात्वा संशुद्धिकिल्विषः ।२७.०७५ आरोप्य पुत्रे शिष्ये वा ह्यधिकारन्तु संयमी ॥२७.०७५ दग्ध्वा मायामयं पाशं प्रव्रज्य स्वात्मनि स्थितः ।२७.०७६ शरीरपातमाकाङ्क्षन्नासीताव्यक्तलिङ्गवान् ॥२७.०७६ इत्यादिमहापुराणे आग्नेये सर्वदीक्षाकथनं नाम सप्तविंशोध्यायः टिप्पणी १ पशूनिति घ, चिह्नितपुस्तकपाठः २ तत्पुनरिति ख, ग, घ, ङ, चिह्नितपुस्तकचतुष्टयपाठः पृष्ठ ७८ अध्याय {२८} अथ अष्टाविंशोध्यायः अभिषेकविधानं नारद उवाच अभिषेकं प्रवक्ष्यामि यथाचार्यस्तु पुत्रकः ।२८.००१ सिद्धिभाक्साधको येन रोगी रोगाद्विमुच्यते ॥२८.००१ राज्यं राजा सुतं स्त्रीञ्च प्राप्नुयान्मलनाशनं ।२८.००२ मूर्तिकुम्भान् सुरत्नाढ्यान्मध्यपूर्वादितो न्यसेत् ॥२८.००२ सहस्रावर्तितान् कुर्यादथवा शतवर्तितान् ।२८.००३ मण्डपे मण्डले विष्णुं प्राच्यैशान्याञ्च पीठिके ॥२८.००३ निवेश्य शकलीकृत्य पुत्रकं साधकादिकं ।२८.००४ अभिषेकं समभ्यर्च्य कुर्याद्गीतादिपूर्वकं ॥२८.००४ दद्याच्च योगपीठादींस्त्वनुग्राह्यास्त्वया नराः ।२८.००५ गुरुश्च समयान् ब्रूयाद्गुप्तः शिष्योथ सर्वभाक् ॥२८.००५ इत्यादिमहापुराणे आग्नेये आचार्याभिषेको नाम अष्टाविंशोऽध्यायः अध्याय {२९} अथ ऊनत्रिंशोऽध्यायः सर्वतोभद्रमण्डलकथनं नारद उवाच साधकः साधयेन्मन्त्रं देवतायतनादिके ।२९.००१ शुद्धभूमौ गृहे प्रार्च्य मण्डले हरिमीश्वरं ॥२९.००१ चतुरस्त्रीकृते क्षेत्रे मण्डलादीनि वै लिखेत् ।२९.००२ रसवाणाक्षिकोष्ठेषु सर्वतोभद्रमालिखेत् ॥२९.००२ षट्त्रिंशत्कोष्ठकैः पद्मं पीठं पङ्क्त्या वहिर्भवेत् ।२९.००३ द्वाभ्यान्तु वीथिका तस्माद्द्वाभ्यां द्वाराणि दिक्षु च ॥२९.००३ पृष्ठ ७९ वर्तुलं भ्रामयित्वा तु पद्मक्षेत्रं पुरोदितम् ।२९.००४ पद्मार्धे भामयित्वा तु भागं द्वादशमं वहिः ॥२९.००४ विभज्य भ्रामयेच्छेषं चतुःक्षेत्रन्तु वर्तुलं ।२९.००५ प्रथमं कर्णिकाक्षेत्रं केशराणां द्वितीयकम् ॥२९.००५ तृतीयं दलसन्धीनां दलाग्राणां चतुर्थकम् ।२९.००६ प्रसार्य कोणसूत्राणि कोणदिङ्मध्यमन्ततः ॥२९.००६ निधाय केशराग्रे तु दलसन्धींस्तु लाञ्छयेत् ।२९.००७ पातयित्वाथ सूत्राणि तत्र पत्राष्टकं लिखेत् ॥२९.००७ दलसन्ध्यन्तरालन्तु मानं मध्ये निधाय तु ।२९.००८ दलाग्रं भ्रामयेत्तेन तदग्रं तदनन्तरं ॥२९.००८ तदन्तरालं तत्पार्श्वे कृत्वा वाह्यक्रमेण च ।२९.००९ केशरे तु लिखेद्द्वौ द्वौ दलमध्ये ततः पुनः ॥२९.००९ पद्मलक्ष्मैतत्सामान्यं द्विषट्कदलमुच्यते ।२९.०१० कर्णिकार्धेन मानेन प्राक्संस्थं भ्रामयेत्क्रमात् ॥२९.०१० तत्पार्श्वे भ्रमयोगेन कुण्डल्यः षड्भवन्ति हि ।२९.०११ एवं द्वादश मत्स्याः स्युर्द्विषट्कदलकञ्च तैः ॥२९.०११ पञ्चपत्राभिसिद्ध्यर्थं मत्स्यं कृत्वैवमब्जकम् ।२९.०१२ व्योमरेखावहिः पीठन्तत्र कोष्टानि मार्जयेत् ॥२९.०१२ त्रीणि कोणेषु पादार्थं द्विद्विकान्यपराणि तु ।२९.०१३ चतुर्दिक्षु विलिप्तानि गात्रकाणि भवन्त्युत ॥२९.०१३ ततः पङ्क्तिद्वयं दिक्षु वीठ्यर्थन्तु विलोपयेत्(१) ।२९.०१४ द्वाराण्याशासु कुर्वीत चत्वारि चतसृष्वपि ॥२९.०१४ द्वाराणां पार्श्वतः शोभा अष्टौ कुर्याद्विचक्षणः ।२९.०१५ टिप्पणी १ पङ्क्तिद्वयं द्वयं दिक्षु वीथ्यर्थं विनियोजयेदिति ङ, चिह्नितपुस्तकपाठः पृष्ठ ८० तत्पार्श्व उपशोभास्तु तावत्यः परिकीर्तिताः ॥२९.०१५ समीप उपशोभानां कोणास्तु परिकीर्तिताः(१) ।२९.०१६ चतुर्दिक्षु ततो द्वे द्वे चिन्तयेन्मध्यकोष्ठकैः ॥२९.०१६ चत्वारि वाह्यतो मृज्यादेकैकं पार्श्वयोरपि ।२९.०१७ शोभार्थं पार्श्वयोस्त्रीणि त्रीणि लुम्पद्दलस्य तु ॥२९.०१७ तद्वद्विपर्यये कुर्यादुपशोभां ततः परम् ।२९.०१८ कोणस्यान्तर्वहिस्त्रीणि चिन्तयेद्द्विर्विभेदतः ॥२९.०१८ एवं षोडशकोष्ठं स्यादेवमन्यत्तु मण्डलम् ।२९.०१९ द्विषट्कभागे षट्त्रिंशत्पदं पद्मन्तु वीथिका ॥२९.०१९ एका पङ्क्तिः प्राभ्यां तु द्वारशोभादि पूर्ववत् ।२९.०२० द्वादशाङ्गुलिभिः पद्ममेकहस्ते तु मण्डले ॥२९.०२० द्विहस्ते हस्तमात्रं स्याद्वृद्ध्या द्वारेण वाचरेत् ।२९.०२१ अपीठञ्चतुरस्रं स्याद्विकरञ्चक्रपङ्कजम् ॥२९.०२१ पद्मार्धं नवभिः प्रोक्तं नाभिस्तु तिसृभिः स्मृता ।२९.०२२ अष्टाभिर्द्वारकान् कुर्यान्नेमिन्तु चतुरङ्गुलैः ॥२९.०२२ त्रिधा(२) विभज्य च क्षेत्रमन्तर्द्वाभ्यामथाङ्कयेत् ।२९.०२३ पञ्चान्तस्वरसिद्ध्यर्थं(३) तेष्वस्फाल्य लिखेदरान् ॥२९.०२३ इन्दीवरदलाकारानथवा मातुलाङ्गवत् ।२९.०२४ पद्मपत्रायतान्वापि लिखेदिच्छानुरूपतः ॥२९.०२४ भ्रामयित्वा वहिर्नेमावरसन्ध्यन्तरे स्थितः ।२९.०२५ भ्रामयेदरमूलन्तु सन्धिमध्ये व्यवस्थितः ॥२९.०२५ टिप्पणी १ परिमार्जिता इति घ, चिह्नितपुस्तकपाठः २ द्विधा इति ख, चिह्नितपुस्तकपाठः ३ पञ्चान्तरस्त्वसिद्ध्यर्थमिति ख, चिह्नितपुस्तकपाठः पञ्चोत्तरस्तु सिद्ध्यर्थमिति ङ, चिह्नितपुस्तकपाठः पृष्ठ ८१ अरमध्ये स्थितो मधमरणिं भ्रामयेत्समम् ।२९.०२६ एवं सिद्ध्यन्तराः सम्यक्मातुलाङ्गनिभाः समाः ॥२९.०२६ विभज्य सप्तधा क्षेत्रं चतुर्दशकरं समम् ।२९.०२७ द्विधा कृते शतं ह्यत्र षण्नवत्यधिकानि तु ॥२९.०२७ कोष्टकानि चतुर्भिस्तैर्मध्ये भद्रं समालिखेत् ।२९.०२८ परितो विसृजेद्वीथ्यै तथा दिक्षु समालिखेत् ॥२९.०२८ कमलानि पुनर्वीथ्यै परितः परिमृज्य तु ।२९.०२९ द्वे द्वे मध्यमकोष्ठे तु ग्रीवार्थं दिक्षु लोपयेत् ॥२९.०२९ चत्वारि वाह्यतः पश्चात्त्रीणि त्रीणि तु लोपयेत् ।२९.०३० ग्रीवापार्श्वे वहिस्त्वेका शोभा सा परिकीर्तिता ॥२९.०३० विमृज्य वाह्यकोणेषु सप्तान्तस्त्रीणि मार्जयेत् ।२९.०३१ मण्डलं नवभागं स्यान्नवव्यूहं हरिं यजेत् ॥२९.०३१ पञ्चविंशतिकव्यूहं मण्डलं विश्वरूपगं ।२९.०३२ द्वात्रिंशद्धस्तकं क्षेत्रं भक्तं द्वात्रिंशता समं ॥२९.०३२ एवं कृते चतुर्विंशत्यधिकन्तु सहस्रकं ।२९.०३३ कोष्ठकानां समुद्दिष्टं मध्ये शोडशकोष्ठकैः ॥२९.०३३ भद्रकं परिलिख्याथ पार्श्वे पङ्क्तिं विमृज्य तु ।२९.०३४ ततः षोडशभिः कोष्टैर्दिक्षु भद्राष्टकं लिखेत्(१) ॥२९.०३४ ततोपि पङ्क्तिं सम्मृज्य तद्वत्षोडशभद्रकं ।२९.०३५ लिखित्वा परितः पङ्क्तिं विमृज्याथ प्रकल्पयेत् ॥२९.०३५ द्वारद्वादशकं दिक्षु त्रीणि त्रीणि यथाक्रमं ।२९.०३६ षड्भिः परिलुप्यान्तर्मध्ये चत्वारि पार्श्वयोः ॥२९.०३६ चत्वार्यन्तर्वहिर्द्वे तु शोभार्थं परिमृज्य तु ।२९.०३७ उपद्वारसिद्ध्यर्थं त्रीण्यन्तः पञ्च वाह्यतः ॥२९.०३७ टिप्पणी १ दिक्षु तत्राष्टकं लिखेदिति ख, ग, घ, चिह्नितपुस्तकपाठः पृष्ठ ८२ परिमृज्य तथा शोभां पूर्ववत्परिकल्पयेत् ।२९.०३८ वहिः कोणेषु सप्तान्तस्त्रीणि कोष्ठानि मार्जयेत् ॥२९.०३८ पञ्चविंशतिकव्यूहे परं ब्रह्म यजेत्कजे(१) ।२९.०३९ मध्ये पूर्वादितः पद्मे वासुदेवादयः क्रमात् ॥२९.०३९ वराहं पूजयित्वा च पूर्वपद्मे ततः क्रमात् ।२९.०४० व्यूहान् सम्पूजयेत्तावत्यावत्षड्विंशमो भवेत् ॥२९.०४० यथोक्तं व्यूहमखिलमेकस्मिन् पङ्कजे क्रमात् ।२९.०४१ यष्टव्यमिति यत्नेन(२) प्रचेता मन्यतेऽध्वरं(३) ॥२९.०४१ सत्पन्तु मूर्तिभेदेन विभक्तं मन्यतेऽच्युतं ।२९.०४२ चत्वारिंशत्करं क्षेत्रं ह्युत्तरं(४) विभजेत्क्रमात् ॥२९.०४२ एकैकं सप्तधा भूयस्तथैवैकं द्विधा पुनः ।२९.०४३ चतुःषष्ट्युत्तरं सप्तशतान्येकं सहस्रकं ॥२९.०४३ कोष्ठकानां भद्रकञ्च मध्ये षोडशकोष्ठकैः ।२९.०४४ पार्श्वे वीथीं ततश्चाष्टभद्राण्यथ च वीथिका ॥२९.०४४ षोडशाब्जान्यथो वीथी चतुर्विंशतिपङ्कजं ।२९.०४५ वीथीपद्मानि द्वात्रिंशत्पङ्क्तिवीथिकजान्यथ ॥२९.०४५ चत्वारिंशत्ततो वीथी शेषपङ्क्तित्रयेण च ।२९.०४६ द्वारशोभोपशोभाः स्युर्दिक्षु मध्ये विलोप्य च ॥२९.०४६ द्विचतुःषड्द्वारसिद्ध्यै चतुर्दिक्षु विलोपयेत् ।२९.०४७ पञ्च त्रीण्येककं वाह्ये शोभोपद्वारसिद्धये ॥२९.०४७ टिप्पणी १ शुभे इति ङ, चिह्नितपुस्तकपाठः २ यष्टव्यमिति यज्ञेन इति ग, घ, चिह्नितपुस्तकद्वयपाठः यष्टव्यमिति मन्त्रेण इति ङ, चिह्नितपुस्तकपाठः ३ प्रचेता मन्यते ध्रुवमिति ख, चिह्नितपुस्तकपाठः ४ ह्युत्तममिति ङ, चिह्नितपुस्तकपाठः पृष्ठ ८३ द्वाराणां पार्श्वयोरन्तः षड्वा चत्वारि मध्यतः ।२९.०४८ द्वे द्वे लुम्पेदेवमेव षड्भवन्त्युपशोभिकाः ॥२९.०४८ एकस्यां दिशि सङ्ख्याः स्युः चतस्रः प्रिसङ्ख्यया ॥४९॥२९.०४९ एकैकस्यां दिशि त्रीणि द्वाराण्यपि भवन्त्युत ।२९.०५० पञ्च पञ्च तु कोणेषु पङ्क्तौ पङ्क्तौ क्रमात्मृजेत् ।२९.०५० कोष्टकानि भवेदेवं मर्त्येष्ट्यं मण्डलं शुभं ॥२९.०५० इत्यादिमहापुराणे आग्नेये मण्डलादिलक्षणं नाम ऊनत्रिंशोऽध्यायः अध्याय {३०} अथ त्रिंशोऽध्यायः मण्डलविधिः नारद उवाच मध्ये पद्मे यजेद्ब्रह्म साङ्गं पूर्वेब्जनाभकं ।३०.००१ आग्नेयेब्जे च प्रकृतिं याम्येब्जे पुरुषं यजेत् ॥२९.००१ पुरुषाद्दक्षिणे च वह्निं नैरृते वारुणेनिलं ।२९.००२ आदित्यमैन्दवे पद्मे ऋग्यजुश्चैशपद्मके ॥२९.००२ इन्द्रादींश्च द्वितीयायां पद्मे षोडशके तथा ।२९.००३ सामाथर्वाणमाकाशं वायुं तेजस्तथा जलं ॥२९.००३ पृठिवीञ्च मनश्चैव श्रोत्रं त्वक्चक्षुरर्चयेत् ।२९.००४ रसनाञ्च तथा घ्राणं भूर्भुवश्चैव षोडशं ॥२९.००४ महर्जनस्तपः सत्यं तथाग्निष्टोममेव च ।२९.००५ अत्यग्निष्टोमकं(१) चोक्थं षोडशीं वाजपेयकं ॥२९.००५ अतिरात्रञ्च सम्पूज्य तथाप्तोर्याममर्चयेत् ।२९.००६ मनो बुद्धिमहङ्कारं शब्दं स्पर्शञ्च रूपकं ॥२९.००६ रसं गन्धञ्च पद्मेषु चतुर्विंशतिषु क्रमात् ।२९.००७ टिप्पणी १ प्रत्यग्निष्टोमकमिति ख, चिह्नितपुस्तकपाठः ज्योतिष्टोमकमिति ङ, चिह्नितपुस्तकपाठः पृष्ठ ८४ जीवं मनोधिपञ्चाहं प्रकृतिं शब्दमात्रकं ॥२९.००७ वासुदेवादिमूर्तीञ्च तथा चैव दशत्मकं ।२९.००८ मनः श्रोत्रं त्वचं प्रार्च्य चक्षुश्च रसनं तथा ॥२९.००८ घ्राणं वाक्पाणिपादञ्च द्वात्रिंशद्वारिजेष्विमान् ।२९.००९ चतुर्थावरणे पूज्याः साङ्गाः सपरिवारकाः ॥२९.००९ पायूपस्थौ च सम्पूज्य मासानां द्वादशाधिपान् ।२९.०१० पुरुषोत्तमादिषड्विंशान् वाह्यावरणके यजेत् ॥२९.०१० चक्राब्जे तेषु सम्पूज्या मासानां पतयः क्रमात् ।२९.०११ अष्टौ प्रकृतयः षड्वा पञ्चाथ चतुरोऽपरे ॥२९.०११ रजः पातं ततः कुर्याल्लिखिते मण्डले शृणु ।२९.०१२ कर्णिका पीतवर्णा स्याद्रेखाः सर्वाः सिताः समाः ॥२९.०१२ द्विहस्तेऽङ्गुष्टमात्राः स्युर्हस्ते चार्धसमाः सिताः ।२९.०१३ पद्मं शुक्लेन सन्धींस्तु कृष्णेन श्यामतोथवा ॥२९.०१३ केशरा रक्तपीताः स्युः कोणान् रक्तेन पूरयेत् ।२९.०१४ भूषयेद्योगपीठन्तु यथेष्टं सार्ववर्णिकैः ॥२९.०१४ लतावितानपत्राद्यैर्वीथिकामुपशोभयेत् ।२९.०१५ पीठद्वारे तु शुक्लेन शोभारक्तेन पीततः ॥२९.०१५ उपशोभाञ्च नीलेन कोणशङ्ख्यांश्च वै सितान् ।२९.०१६ भद्रके पूरणं प्रोक्तमेवमन्येषु पूरणं ॥२९.०१६ त्रिकोणं सितरक्तेन कृष्णेन च विभूषयेत् ।२९.०१७ द्विकोणं रक्तपीताभ्यां नाभिं कृष्णेन चक्रके ॥२९.०१७ अरकान् पीतरक्ताभिः श्यामान्नेमिन्तु रक्ततः ।२९.०१८ सितश्यामारुणाः कृष्णाः पीता रेखास्तु वाह्यतः ॥२९.०१८ शालिपिष्टादि शुक्लं स्याद्रक्तं कौसुम्भकादिकम् ।२९.०१९ हरिद्रया च हारिद्रं कृष्णं स्याद्दग्धधान्यतः ॥२९.०१९ पृष्ठ ८५ शमीपत्रादिकैः श्यामं वीजानां लक्षजाप्यतः ।२९.०२० चतुर्लक्षैस्तु मन्त्राणां विद्यानां लक्षसाधनम् ॥२९.०२० अयुतं बुद्धिविद्यानां स्तोत्राणाञ्च सहस्रकम् ।२९.०२१ पूर्वमेवाथ लक्षेण मन्त्रशुद्धिस्तथात्मनः ॥२९.०२१ तथापरेण लक्षेण मन्त्रः क्षेत्रीकृतो भवेत् ।२९.०२२ पूर्वमेवासमो होमो वीजानां सम्प्रकीर्तितः ॥२९.०२२ पूर्वसेवा दशांशेन मन्त्रादीनां प्रकीर्तिता ।२९.०२३ परश्चर्ये तु मन्त्रे तु मासिकं व्रतमाचरेत् ॥२९.०२३ भुवि न्यसेद्वामपादं न गृह्णीयात्प्रतिग्रहम् ।२९.०२४ एवं द्वित्रिगुणेनैव मध्यमोत्तमसिद्धयः ॥२९.०२४ मन्त्रध्यानं प्रवक्ष्यामि येन स्यान्मन्त्रजं फलम् ।२९.०२५ स्थूलं शब्दमयं रूपं विग्रहं वाह्यमिष्यते ॥२९.०२५ सुक्ष्मां ज्योतिर्मयं रूपं हार्दं चिन्तामयं भवेत् ।२९.०२६ चिन्तया रहितं यत्तु तत्परं प्रकीर्तितम् ॥२९.०२६ वराहसिंहशक्तीनां स्थूलरूपं प्रधानतः ।२९.०२७ चिन्तया रहितं रूपं वासुदेवस्य कीर्तितम् ॥२९.०२७ इतरेषां स्मृतं रूपं हार्दं चिन्तामयं सदा ।२९.०२८ स्थूलं वैराजमाख्यातं सूक्ष्मं वै लिङ्गितं भवेत् ॥२९.०२८ चिन्तया रहितं रूपमैश्वरं परिकीर्तितम् ।२९.०२९ हृत्पुण्डरीकनिलयञ्चैतन्यं ज्योतिरव्ययम् ॥२९.०२९ वीजं वीजात्मकं ध्यायेत्कदम्बकुसुमाकृतिं ।२९.०३० कुम्भान्तरगतो दीपो निरुद्धप्रसवो यथा ॥२९.०३० संहतः केवलस्तिष्ठेदेवं मन्त्रेश्वरो हृदि ।२९.०३१ अनेकशुषिरे कुम्भे तावन्मात्रा गभस्तयः ॥२९.०३१ प्रसरन्ति वहिस्तद्वन्नाडीभिर्वीजरश्मयः ।२९.०३२ पृष्ठ ८६ अथावभासतो दैवीमात्मीकृत्य तनुं स्थिताः ॥२९.०३२ हृदयात्प्रस्थिता नाड्यो दर्शनेन्द्रियगोचराः ।२९.०३३ अग्नीषोमात्मके तासां नाड्यौ नासाग्रसंस्थिते ॥२९.०३३ सम्यग्गुह्येन योगेन जित्वा देहसमीरणम् ।२९.०३४ जपध्यानरतो मन्त्री मन्त्रलक्षणमश्नुते(१) ॥२९.०३४ संशुद्धभूततन्मात्रः सकामो योगमभ्यसन् ।२९.०३५ अणिमादिमवाप्नोति विरक्तः प्रविलङ्घ्य च ।२९.०३५ देवात्मके भूतमात्रान्मुच्यते चेन्द्रियग्रहात् ॥२९.०३५ इत्यादिमहापुराणे आग्नेये मण्डलादिवर्णनं नाम त्रिंशोऽध्यायः अध्याय {३१} अथ एकत्रिंशोऽध्यायः मार्जनविधानं अग्निरुवाच रक्षां स्वस्य परेषाञ्च वक्ष्ये तां मार्जनाह्वयां ।३१.००१ यया विमुच्यते दुःखैः सुखञ्च प्राप्नुयान्नरः(२) ॥३१.००१ ओं नमः परमार्थाय पुरुषाय महात्मने ।३१.००२ अरूपबहुरूपाय व्यापिने परमात्मने ॥३१.००२ निष्कल्मषाय शुद्धाय ध्यानयोगरताय च ।३१.००३ नमस्कृत्य प्रवक्ष्यामि यत्तत्सिध्यतु मे वचः ॥३१.००३ वराहाय नृसिंहाय वामनाय महामुने ।३१.००४ नमस्कृत्य प्रवक्ष्यामि यत्तत्सिध्यतु मे वचः ॥३१.००४ टिप्पणी १ मन्त्रजं फलमश्नुते इति ख, चिह्नितपुस्तकपाठः २ सुखं ब्रह्माप्नुयान्नरः इति ख, चिह्नितपुस्तकपाठः पृष्ठ ८७ त्रिविक्रमाय रामाय वैकुण्ठाय नराय च ।३१.००५ नमस्कृत्य प्रवक्ष्यामि यत्तत्सिध्यतु मे वचः ॥३१.००५ वराह नरसिंहेश वामनेश त्रिविक्रम ।३१.००६ हरग्रीवेश सर्वेश हृषीकेश हराशुभम् ॥३१.००६ अपराजितचक्राद्यैश्चतुर्भिः परमायुधैः ।३१.००७ अखण्डितानुभावैस्त्वं(१) सर्वदुष्टहरो भव ॥३१.००७ हरामुकस्य दुरितं सर्वञ्च कुशलं कुरु ।३१.००८ मृत्युबन्धार्तभयदं दुरितस्य च यत्फलम् ॥३१.००८ पराभिध्यानसहितैः प्रयुक्तञ्चाभिचारकम् ।३१.००९ गदस्पर्शमहारोगप्रयोगं जरया जर ॥३१.००९ ओं नमो वासुदेवाय नमः कृष्णाय खड्गिने ।३१.०१० नमः पुष्करनेत्राय केशवायादिचक्रिणे ॥३१.०१० नमः कमलकिञ्जल्कपीतनिर्मलवाससे ।३१.०११ महाहररिपुस्कन्धसृष्टचक्राय चक्रिणे ॥३१.०११ द्ंष्ट्रोद्धृतक्षितिभृते(२) त्रयीमूर्तिमते नमः ।३१.०१२ महायज्ञवराहाय शेषभोगाङ्कशायिने ॥३१.०१२ तप्तहाटककेशाग्रज्वलत्पावकलोचन ।३१.०१३ वज्राधिकनखस्पर्शं दिव्यसिंह नमोस्तु ते ॥३१.०१३ काश्यपायातिह्रस्वाय ऋग्यजुःसामभूषित ।३१.०१४ तुभ्यं वामनरूपायाक्रमते गां(३) नमो नमः ॥३१.०१४ वराहाशेषदुष्टानि सर्वपापफलानि वै ।३१.०१५ मर्द मर्द महादंष्ट्र मर्द मर्द च तत्फलम् ॥३१.०१५ टिप्पणी १ अखण्डितात्मभावैस्त्वमिति ख, चिह्नितपुस्तकपाठः २ दंष्ट्रोद्धृतभूमिभर्त्रे इति ख, चिह्नितपुस्तकपाठः ३ सृजते गामिति ख, चिह्नितपुस्तकपाठः पृष्ठ ८८ नरसिंह करालाख्य दन्तप्रान्तानलोज्ज्वल ।३१.०१६ भञ्ज भञ्ज निनादेन दुष्टान्यस्यार्तिनाशन ॥३१.०१६ ऋग्यजुःसामगर्भाभिर्वाग्भिर्वामनरूपधृक् ।३१.०१७ प्रशमं सर्वदुःखानि नयत्त्वस्य जनार्दनः ॥३१.०१७ ऐकाहिकं द्व्याहिकञ्च तथा त्रिदिवसं ज्वरम् ।३१.०१८ चातुर्थकन्तथात्युग्रन्तथैव सततज्वरम् ॥३१.०१८ दोषोत्थं सन्निपातोत्थं तथैवागन्तुकं ज्वरम् ।३१.०१९ शमं नयाशु गोविन्द च्छिन्धि च्छिन्ध्यस्य वेदनाम्(१) ॥३१.०१९ नेत्रदुःखं शिरोदुःखं दुःखञ्चोदरसम्भवम् ।३१.०२० अन्तःश्वासमतिश्वासं(२) परितापं सवेपथुम् ॥३१.०२० गुदघ्राणाङ्घ्रिरोगांश्च कुष्ठरोगांस्तथा क्षयं(३) ।३१.०२१ कामलादींस्तथा रोगान् प्रमेहांश्चातिदारुणान् ॥३१.०२१ भगन्दरातिसारांश्च मुखरोगांश्च वल्गुलीम् ।३१.०२२ अश्मरीं मूत्रकृच्छ्रांश्च रोगानन्यांश्च दारुणान् ॥३१.०२२ ये वातप्रभवा रोगा ये च पित्तसमुद्भवाः ।३१.०२३ कफोद्भवाश्च ये केचित्ये चान्ये सान्निपातिकाः ॥३१.०२३ आगन्तुकाश्च ये रोगा लूता विस्फोटकादयः ।३१.०२४ ते सर्वे प्रशमं यान्तु वासुदेवापमार्जिताः(५) ॥३१.०२४ विलयं यान्तु ते सर्वे विष्णोरुच्चारणेन च ।३१.०२५ क्षयं गछ्हन्तु चाशेषास्ते चक्राभिहता हरेः ॥३१.०२५ टिप्पणी १ छिन्द छिन्दास्य वेदनामिति ग, चिह्नितपुस्तकपाठः २ अनिश्वासमतिश्वासमिति ग, चिह्नितपुस्तकपाठः ३ तथैव च इति ग, चिह्नितपुस्तकपाठः ४ ये रोगाः पित्तसम्भवा इति ग, चिह्नितपुस्तकपाठः ५ वासुदेवपराजिता इति ख, चिह्नितपुस्तकपाठः पृष्ठ ८९ अच्युतानन्तगोविन्दनामोच्चारणभीषिताः ।३१.०२६ नश्यन्ति सकला रोगाः सत्यं सत्यं वदाम्यहम् ॥३१.०२६ स्थावरं जङ्गमं वापि कृत्रिमं चापि यद्विषम् ।३१.०२७ दन्तोद्भवं नखभवमाकाशप्रभवं विषम् ॥३१.०२७ लूतादिप्रभवं यच्च विषमन्यत्तु दुःखदं ।३१.०२८ शमं नयतु तत्सर्वं कीर्तितोस्य जनार्दनः ॥३१.०२८ ग्रहान् प्रेतग्रहांश्चापि तथा वै डाकिनीग्रहान्(१) ।३१.०२९ वेतालांश्च पिशाचांश्च गन्धर्वान् यक्षराक्षसान्(२) ॥३१.०२९ शकुनीपूतनाद्यांश्च तथा वैनायकान् ग्रहान् ।३१.०३० मुखमण्डीं तथा क्रूरां रेवतीं वृद्धरेवतीम् ॥३१.०३० वृद्धकाख्यान् ग्रहांश्चोग्रांस्तथा मातृग्रहानपि ।३१.०३१ बालस्य विष्णोश्चरितं हन्तु बालग्रहानिमान् ॥३१.०३१ वृद्धाश्च ये ग्रहाः केचिद्ये च बालग्रहाः क्वचित् ।३१.०३२ नरसिंहस्य ते दृष्ट्या दग्धा ये चापि यौवने ॥३१.०३२ सदा(३) करालवदनो नरसिंहो महाबलः ।३१.०३३ ग्रहानशेषान्निःशेषान् करोतु जगतो हितः ॥३१.०३३ नरसिंह महासिंह ज्वालामालोज्ज्वलानन ।३१.०३४ ग्रहानशेषान् सर्वेश खाद खादाग्निलोचन ॥३१.०३४ ये रोगा ये महोत्पाता यद्विषं ये महाग्रहाः ।३१.०३५ यानि च क्रूरभृतानि ग्रहपीडाश्च दारुणाः ॥३१.०३५ शस्त्रक्षतेषु ये दोषा ज्वालागर्दभकादयः ।३१.०३६ तानि सर्वाणि सर्वात्मा परमात्मा जनार्दनः ॥३१.०३६ टिप्पणी १ तथा वेतालिकान् ग्रहानिति घ, चिह्नितपुस्तकपाठः २ गन्धर्वान् राक्ससानपि इति ख, चिह्नितपुस्तकपाठः ३ शटा इति ख, ङ, चिह्नितपुस्तकद्वयपाठः पृष्ठ ९० किञ्चिद्रूपं समास्याय वासुदेवास्य नाशय ॥३७॥३१.०३७ क्षिप्त्वा सुदर्शनञ्चक्रं ज्वालामालातिभीषणम् ।३१.०३८ सर्वदुष्टोपशमनं कुरु देववराच्युत ॥३१.०३८ सुदर्शन महाज्वाल च्छिन्धि च्छिन्धि महारव(१) ।३१.०३९ सर्वदुष्टानि रक्षांसि क्षयं यान्तु विभीषण ॥३१.०३९ प्राच्यां प्रतीच्यां च दिशि दक्षिणोत्तरतस्तथा ।३१.०४० रक्षाङ्करोतु सर्वात्मा नरसिंहः सुगर्जितः(२) ॥३१.०४० दिवि भुव्यन्तरीक्षे च पृष्ठतः पार्श्वतोग्रतः ।३१.०४१ रक्षाङ्करोतु भगवान् बहुरूपी जनार्दनः ॥३१.०४१ यथा विष्णुर्जगत्सर्वं सदेवासुरमानुषं ।३१.०४२ तेन सत्येन दुष्टानि शममस्य व्रजन्तु वै(३) ॥३१.०४२ यथा विष्णौ स्मृते सद्यः सङ्क्षयं यान्ति पातकाः ।३१.०४३ सत्येन तेन सकलं दुष्टमस्य प्रशाम्यतु ॥३१.०४३ परमात्मा यथा विष्णुर्वेदान्तेषु च गीयते ।३१.०४४ तेन सत्येन सकलं दुष्टमस्य प्रशाम्यतु ॥३१.०४४ यथा यज्ञेश्वरो विष्णुर्देवेष्वपि हि गीयते ।३१.०४५ सत्येन तेन सकलं यन्मयोक्तं तथास्तु तत् ॥३१.०४५ शान्तिरस्तु शिवञ्चास्तु दुष्टमस्य प्रशाम्यतु ।३१.०४६ वासुदेवशरीरोत्थैः कुशैर्निर्मथितं मया(४) ॥३१.०४६ अपमार्जतु गोविन्दो नरो नारायणस्तथा ।३१.०४७ तथास्तु सर्वदुःखानां प्रशमो जपनाद्धरेः ॥३१.०४७ टिप्पणी १ महाबल इति ख, चिह्नितपुस्तकपाठः २ स्वर्गर्जितैरिति ग, ङ, चिह्नितपुस्तकद्वयपाठः ३ प्रयान्तु वै इति ग, चिह्नितपुस्तकपाठः ४ कुशैर्निर्णाशितमिति ख, ग, चिह्नितपुस्तकद्वयपाठः पृष्ठ ९१ अपमार्जनकं शस्त्रं सर्वरोगादिवारणम् ।३१.०४८ अयं हरिः कुशो विष्णुर्हता रोगा मया तव ॥३१.०४८ इत्यादिमहापुराणे आग्नेये कुशापमार्जनं नाम एकत्रिंशोऽध्यायः अध्याय {३२} अथ द्वातिंशोऽध्यायः संस्कारकथनं अग्निरुवाच निर्वाणादिषु दीक्षासु चत्त्वारिंशत्तथाष्ट च ।३२.००१ संस्कारान् कारयेद्धीमान् शृणुतान्यैः सुरो भवेत् ॥३२.००१ गर्भाधानन्तु योन्यां वै ततः पुंसवनञ्चरेत् ।३२.००२ सीमन्तोन्नयनञ्चैव जातकर्म च नाम च ॥३२.००२ अन्नाशनं ततश्चूडा ब्रह्मचर्यव्रतानि च ।३२.००३ चत्वारि वैष्णवी पार्थी भौतिकी श्रोत्रिकी तथा ॥३२.००३ गोदानं सूतकत्वञ्च पाकयज्ञाश्च सप्त ते(१) ।३२.००४ अष्टका पार्वणश्राद्धं श्रावण्यग्रायणीति च ॥३२.००४ चैत्री चाश्वयुजी सप्त हविर्यज्ञांश्च तान् शृणु ।३२.००५ आधानञ्चाग्निहोत्रञ्च दर्शो वै पौर्णमासकः ॥३२.००५ चातुर्मास्यं पशुबन्धः सौत्रामणिरथापरः ।३२.००६ सोमसंस्थाः सप्त शृणु अग्निष्टोमः क्रतूत्तमः ॥३२.००६ अत्यग्निष्टोम उक्थश्च षोडशो वाजपेयकः ।३२.००७ अतिरात्राप्तोर्यामश्च सहस्रेशाः सवा इमे ॥३२.००७ हिरण्याङ्घ्रिर्हिरण्याक्षो हिरण्यमित्र इत्यतः ।३२.००८ टिप्पणी १ सप्त च इति ग, ख, चिह्नितपुस्त्कद्वयपाठः पृष्ठ ९२ हिरण्यपाणिर्हेमाक्षो हेमाङ्गो हेमसूत्रकः ॥३२.००८ हिरण्यास्यो हिरण्याङ्गो हेमजिह्वो हिरण्यवान् ।३२.००९ अश्वमेधो हि सर्वेशो गुणाश्चाष्टाथ तान् शृणु ॥३२.००९ दया च सर्वभूतेषु क्षान्तिश्चैव तथार्जवम् ।३२.०१० शौचं चैवमनायासो मङ्गलं चापरो गुणः ॥३२.०१० अकार्पण्यञ्चास्पृहा च मूलेन जुहुयाच्छतम् ।३२.०११ सौरशाक्तेयविष्ण्वीशदीक्षास्त्वेते समाः स्मृताः ॥३२.०११ संस्कारैः संस्कृतश्चैतैर्भुक्तिमुक्तिमवाप्नुयात् ।३२.०१२ सर्वरोगाद्विनिर्मुक्तो देववद्वर्तते नरः ।३२.०१२ जप्याद्धोमात्पूजनाच्च ध्यानाद्देवस्य चेष्टभाक् ॥३२.०१२ इत्यादिमहापुराणे आग्नेये अष्टचत्वारिंशत्संस्कारकथनं नाम द्वात्रिंशोऽध्यायः अध्याय {३३} अथ त्रयस्त्रिंशोऽध्यायः पवित्रारोहणविधानं अग्निरुवाच पवित्रारोहणं वक्ष्ये वर्षपूजाकलं हरेः ।३३.००१ आषाढादौ कार्तिकान्ते प्रतिपद्वनदा तिथिः(१) ॥३३.००१ श्रिया गौर्या गणेशस्य सरस्वत्या गुहस्य च ।३३.००२ मार्तण्डमातृदुर्गाणां नागर्षिहरिमन्मथैः ॥३३.००२ शिवस्य ब्रह्मणस्तद्वद्द्वितीयादितिथेः क्रमात् ।३३.००३ यस्य देवस्य यो भक्तः पवित्रा तस्य सा तिथिः ॥३३.००३ आरोहणे तुल्यविधिः पृथक्मन्त्रादिकं यदि ।३३.००४ टिप्पणी १ वर्धते तिथिरिति ख, चिह्नितपुस्तकपाठः पृष्ठ ९३ सौवर्णे राजतं ताम्रं नेत्रकार्पासिकादिकं ॥३३.००४ ब्राह्मण्या कर्तितं सूत्रं तदलाभे तु संस्कृतं ।३३.००५ त्रिगुणं त्रिगुणीकृत्य तेन कुर्यात्पवित्रकं ॥३३.००५ अष्तोत्तरशतादूर्ध्वं तदर्धं चोत्तमादिकं ।३३.००६ क्रियालोपाविघातार्थं यत्त्वयाभिहितं प्रभो ॥३३.००६ मया तत्क्रियते देव यथा यत्र पावित्रकं ।३३.००७ अविघ्नं तु भवेदत्र कुरु नाथ जयाव्यय ॥३३.००७ प्रार्थ्य तन्मण्डलायादौ गायत्र्या बन्धयेन्नरः ।३३.००८ ओं नारायणाय विद्महे वासुदेवाय धीमहि ॥३३.००८ तन्नो विष्णुः प्रचोदयात्देवदेवानुरूपतः ।३३.००९ जानूरुनाभिनामान्तं प्रतिमासु पवित्रकं ॥३३.००९ पादान्ता वनमाला स्यादष्टोत्त्रसहस्रतः(१) ।३३.०१० माला तु कल्पसाध्यं वा द्विगुणं षोडशाङ्गुलात् ॥३३.०१० कर्णिका केशरं पत्रं मन्त्राद्यं(२) मण्डलान्तकं ।३३.०११ मण्डलाङ्गुलमात्रैकचक्राब्जाद्यौ(३) पवित्रकं ॥३३.०११ स्थण्डिलेऽङ्गुलमानेन आत्मनः सप्तविंशतिः ।३३.०१२ आचार्याणां च सूत्राणि पितृमात्रादिपुस्तके ॥३३.०१२ नाभ्यन्तं द्वादशग्रन्थिं तथा गन्धपवित्रके ।३३.०१३ द्व्यङ्गुलात्कल्पनादौ द्विर्माला चाष्टोत्तरं शतं ॥३३.०१३ अथवार्कचतुर्विंशषड्त्रिंशन्मालिका द्विजः ।३३.०१४ अनामामध्यमाङ्गुष्ठैर्मन्दाद्यैः मालिकार्थिभिः (४) ॥३३.०१४ टिप्पणी १ पादान्तरेण माला स्यादष्टोत्तरसहस्रशः इति ग, चिह्नितपुस्तकपाठः २ गदाद्यमिति घ, चिह्नितपुस्तकपाठः ३ चक्राङ्गदौ पवित्रके इति घ, चिह्नितपुतकपाठः ४ मन्दादौ इति ख, ग, चिह्नितपुस्तकद्वयपाठः मन्द्राद्यैरिति घ, चिह्नितपुस्तकपाठः पृष्ठ ९४ कनिष्टादौ द्वादश वा ग्रन्थयः स्युः पवित्रके ।३३.०१५ रवेः कुम्भहुताशादेः सम्भवे विष्णुवन्मतम् ॥३३.०१५ पीठस्य पीठमानं स्यान्मेखलान्ते च कुण्डकं ।३३.०१६ यथाशक्ति सूत्रग्रन्थिपरिचारेथ वैष्णवे ॥३३.०१६ सूत्राणि वा सप्तदश सूत्रेण त्रिविभक्तके(१) ।३३.०१७ रोचनागुरुकर्पूरहरिद्राकुङ्कुमादिभिः ॥३३.०१७ रञ्जयेच्चन्दनाद्यैर्वा स्नानसन्ध्यादिकृन्नरः ।३३.०१८ एकादश्यां यागगृहे भगवन्तं हरिं जयेत् ॥३३.०१८ समस्तपरिवाराय बलिं पीठे समर्चयेत् ।३३.०१९ क्ष्यौं क्षेत्रपालाय द्वारान्ते द्वारोपरि तथा श्रियं ॥३३.०१९ धात्रे दक्षे विधात्रे च गङ्गाञ्च यमुनां तथा ।३३.०२० शङ्खपद्मनिधी पूज्य मध्ये वास्त्वपसारणं ॥३३.०२० सारङ्गायेति भूतानां भूतशुद्धिं स्थितश्चरेत् ॥३३.०२० ओं ह्रूं हः फठ्रूं(२) गन्धतन्मात्रं संहरामि नमः ॥ ओं ह्रूं हः फठ्रूं(३) रसतन्मात्रं संहरामि नमः ओं ह्रूं हः फठ्रूं(४) रूपतन्मात्रं संहरामि नमः ॥ ओं ह्रूं हः फठ्रूं(५) स्पर्शतन्मात्रं संहरामि नमः टिप्पणी १ त्रिसूत्राणि च भद्रके इति घ, चिह्नितपुस्तकपाठः २ ओं हूं हः फठूमिति ग, चिह्नितपुस्तकपाठः ओं ह्रां हः फठ्रूमिति ङ, चिह्नितपुस्तकपाठः २ ओं ह्रीं हः फठ्रूनिति ङ, चिह्नितपुस्तकपाठः ३ ओं ह्रां हः ह्रूं इति ग, चिह्नितपुस्तकपाठः ओं ह्रां हः फठ्रीमिति ङ, चिह्नितपुस्तकपाठः ४ ओं ह्रां हः फटिति ग, चिह्नितपुस्तकपाठः पृष्ठ ९५ ओं ह्रूं हः फठ्रूं(१) शब्दतन्मात्रं संहरामि नमः ॥ पञ्चोद्घातैर्गन्धतन्मात्ररूपं भूमिमण्डलं ।३३.०२१ चतुरस्रञ्च पीतञ्च कठिनं वज्रलाञ्छितम् ॥३३.०२१ इन्द्राधिदैवतं पादयुग्ममध्यगतं स्मरेत् ।३३.०२२ शुद्धञ्च रसतन्मात्रं प्रविलिप्याथ संहरेत् ॥३३.०२२ रसमात्ररूपमात्रे क्रमेणानेन पूजकः ॥३३.०२२ ओं ह्रीं हः फठ्रूं(२) रसतन्मात्रं संहरामि नमः ओं ह्रूं हः फट्(३) रूपतन्मात्रं संहरामि नमः ओं ह्रीं हः फठ्रूं स्पर्शतन्मात्रं संहरामि नमः ओं ह्रीं हः फठ्रूं(४) शब्दतन्मात्रं संहरामि नमः जानुनाभिमध्यगतं(५) श्वेतं वै पद्मलाञ्छितं ।३३.०२३ शुक्लवर्णं चार्धचन्द्रं ध्यायेद्वरुणदैवतं ॥३३.०२३ चतुर्भिश्च तदुद्घातैः शुद्धं तद्रसमात्रकं ।३३.०२४ संहरेद्रूपतन्मात्रै रूपमात्रे च संहरेत् ॥३३.०२४ ओं ह्रूं हः फठ्रूं रूपतन्मात्रं संहरामि नमः ओं ह्रूं हः फठ्रूं स्पर्शतन्मात्रं संहरामि नमः ओं ह्रूं हः फठ्रूं शब्दतन्मात्रं संहरामि नमः इति त्रिभिस्तदुद्घातैस्त्रिकोणं वह्निमण्डलम् ।३३.०२५ नाभिकण्ठमध्यगतं रक्तं स्वस्तिकलाञ्छितं ॥३३.०२५ ध्यात्वानलाधिदैवन्तच्छुद्धं स्पर्शे लयं नयत् ।३३.०२६ टिप्पणी १ ओं ह्रां हः फठमिति ग, चिह्नितपुस्तकपाठ्ः २ ओं ह्रीं फठमिति ग, चिह्नितपुस्तकपाठः ओं ह्रूं हः फठूमिति ङ, चिह्नितपुस्तकपाठः ३ ओं ह्रीं हः फठ्रूं इति ङ, चिह्नितपुस्तकपाठः ४ ओं ह्रं हः फठूमिति ङ, चिह्नितपुस्तकपाठः ५ पद्मासनमध्यगतमिति ङ, चिह्नितपुस्तकपाठः पृष्ठ ९६ ओं ह्रौं हः फठ्रूं(१) स्पर्शतन्मात्रं संहरामि नमः ओं ह्रौं हः फठ्रूं(२) शब्दतन्मात्रं संहरामि नमः ॥ कण्ठनासामध्यगतं वृत्तं वै वायुमण्डलम् ॥३३.०२६ द्विरुद्घातैर्धूम्रवर्णं ध्यायेच्छुद्धेन्दुलाञ्छितम् ।३३.०२७ स्पर्शमात्रं शब्दमात्रैः संहरेद्ध्यानयोगतः ॥३३.०२७ ओं ह्रौं हः फठ्रूं शब्दतन्मात्रं संहरामि नमः एकोद्घातेन चाकाशं शुद्धस्फटिकसन्निभम् ।३३.०२८ नासापुटशिखान्तस्थमाकाशमुपसंहरेत् ॥३३.०२८ शोषणाद्यैर्देहशुद्धिं कुर्यादेवं क्रमात्ततः ।३३.०२९ शुष्कं कलेवरं ध्यायेत्पादाद्यञ्च शिखान्तकम् ॥३३.०२९ यं वीजेन वं वीजेन ज्वालामालासमायुतम्(३) ।३३.०३० देहं रमित्यनेनैव ब्रह्मरन्ध्राद्विनिर्गतम् ॥३३.०३० विन्दुन्ध्यात्वा चामृतस्य तेन भस्मकलेवरम् ।३३.०३१ सम्प्लावयेल्लमित्यस्मात्देहं सम्पाद्य दिव्यकम् ॥३३.०३१ न्यासं कृत्वा करे देहे मानसं यागमाचरेत् ।३३.०३२ विष्णुं साङ्गं हृदि पद्मे मानसैः कुसुमादिभिः ॥३३.०३२ मूलमन्त्रेण देवेशम्प्रार्चयेद्भुक्तिमुक्तिदम् ।३३.०३३ स्वागतं देवदेवेश सन्निधौ भव केशव ॥३३.०३३ गृहाण मानसीं पूजां यथार्थं(४) परिभाविताम् ।३३.०३४ आधारशक्तिः कूर्माथ पूज्योनन्तो मही ततः ॥३३.०३४ मध्येग्न्यादौ च धर्माद्या अधर्मादीन्द्रमुख्यगम्(४) ।३३.०३५ टिप्पणी १ ओं क्षौं हः फट्क्रूमिति ङ, चिह्नितपुस्तकपाठः २ ओं क्षौं हः फट्क्रूमिति ङ, चिह्नितपुस्तकपाठः ३ ज्वालामालासमप्रभमिति ङ, चिह्नितपुस्तकपाठः ४ यथास्वमिति ख, चिह्नितपुस्तकपाठः ५ धर्मादीनिन्द्रादौ विपरीतकानिति ङ, चिह्नितपुस्तकपाठः पृष्ठ ९७ सत्त्वादि मध्ये पद्मञ्च मायाविद्याख्यतत्त्वके ॥३३.०३५ कालतत्त्वञ्च सूर्यादिमण्डलं पक्षिराजकः ।३३.०३६ मध्ये ततश्च वायव्यादीशान्ता गुरुपङ्क्तिकाः ॥३३.०३६ गणः सरस्वती पूज्या(१) नारदो नलकूवरः ।३३.०३७ गुरुर्गुरुपादुका च परो गुरुश्च पादुका ॥३३.०३७ पूर्वसिद्धाः परसिद्धाः केशरेषु च शक्तयः ।३३.०३८ लक्ष्मीः सरस्वती प्रीतिः कीर्तिः शान्तिश्च कान्तिका ॥३३.०३८ पुष्टिस्तुष्टिर्महेन्द्राद्या मध्ये वाचाहितो हरिः ।३३.०३९ धृतिः श्रीरतिकान्त्याद्या मूलेन स्थापितोऽच्युतः ॥३३.०३९ ओं अभिमुखो भवेति प्रार्थ्य सन्निहितो भव ।३३.०४० विन्यस्यार्घ्यादिकं दत्वा गन्धाद्यैर्मूलतो यजेत् ॥३३.०४० ओं भीषय भीषय हृत्शिरस्त्रासय वै पुनः ।३३.०४१ मर्दय मर्दय शिखा अग्न्यादौ शस्त्रतोस्त्रकं ॥३३.०४१ रक्ष रक्ष प्रध्वंसय प्रध्वंसय कवचाय(२) नमस्ततः ।३३.०४२ ओं ह्रूं(३) फटस्त्राय नमो मूलवीजेन चाङ्गकं ॥३३.०४२ पूर्वदक्षाप्यसौम्येषु मूर्त्यावरणमर्चयेत् ।३३.०४३ वासुदेवः सङ्कर्षणः प्रद्युम्नश्चानिरुद्धकः ॥३३.०४३ अग्न्यादौ श्रीधृतिरतिकान्तयो मूर्तयो हरेः ।३३.०४४ शङ्खचक्रगदापद्ममग्न्यादौ पूर्वकादिकं ॥३३.०४४ शार्ङ्गञ्च मुषलं खड्गं वनमालाञ्च तद्वहिः ।३३.०४५ इन्द्राद्याश्च तयानन्तो नैरृत्यां वरुणस्ततः ॥३३.०४५ ब्रह्मेन्द्रेशानयोर्मध्ये अस्त्रावरणकं वहिः ।३३.०४६ ऐरावतस्ततश्छागो महिषो वानरो झषः ॥३३.०४६ टिप्पणी १ गणश्च तासु पूज्योऽथ इति ङ, चिह्नितपुस्तकपाठः २ रक्ष रक्ष प्रध्वंसय कवचायेति ङ, चिह्नितपुस्तकपाठः ३ ओं ह्रीमिति ख, चिह्नितपुस्तकपाठः पृष्ठ ९८ मृगः शशोऽथ वृषभः कूर्मो हंसस्ततो वहिः ।३३.०४७ पृश्निगर्भः कुमुदाद्या द्वारपाला द्वयं द्वयं ॥३३.०४७ पूर्वाद्युत्तरद्वारान्तं हरिं नत्वा बलिं वहिः ।३३.०४८ विष्णुपार्षदेभ्यो नमो बलिपीठे बलिं ददेत् ॥३३.०४८ विश्वाय विश्वक्सेनात्मने ईशानके यजेत् ।३३.०४९ देवस्य दक्षिणे हस्ते रक्षासूत्रञ्च बन्धयेत् ॥३३.०४९ संवत्सरकृताचार्याः सम्पूर्णफलदायिने ।३३.०५० पवित्रारोहणायेदं कौतुकं धारय ओं नमः ॥३३.०५० उपवासादिनियमं कुर्याद्वै देवसन्निधौ ।३३.०५१ उपवासादिनियतो देवं सन्तोषयाम्यहम् ॥३३.०५१ कामक्रोधादयः सर्वे मा मे तिष्ठन्तु सर्वथा ।३३.०५२ अद्यप्रभृति देवेश यावद्वैशेषिकं दिनम् ॥३३.०५२ यजमानो ह्यशक्तश्चेत्कुर्यान्नक्तादिकं व्रती ।३३.०५३ हुत्वा विसर्जयेत्स्तुत्वा श्रीकरन्नित्यपूजनम् ॥३३.०५३ ओं ह्रीं(१) श्रीं श्रीधराय त्रैलोक्यमोहनाय नमः ॥३३.०५३ इत्यादिमहापुराणे आग्नेये पवित्रारोहणे श्रीधरनित्यपूजाकथनं नाम त्रयस्त्रिंशोध्यायः अध्याय {३४} अथ चतुस्त्रिंशोऽध्यायः होमादिविधिः अग्निरुवाच विशेदनेन मन्त्रेण यागस्थानञ्च भूषयेत् ।३४.००१ नमो ब्रह्मण्यदेवाय श्रीधरायाव्ययात्मने ॥३४.००१ टिप्पणी १ ओं क्रीमिति ख, चिह्नितपुस्तकपाठः पृष्ठ ९९ ऋग्यजुःसामरूपाय शब्ददेहाय ।३४.००२ विलिख्य मण्डलं सायं यागद्रव्यादि चाहरेत् ॥३४.००२ प्रक्षालितकराङ्घ्रिः सन् विन्यस्यार्घ्यकरो नरः ।३४.००३ अर्घ्यादिभिस्तु शिरः प्रोक्ष्य द्वारदेशादिकं यथा ॥३४.००३ आरभेद्द्वारयागञ्च तोरणेशान् प्रपूजयेत् ।३४.००४ अश्वत्थोदुम्बरवटप्रक्षाः पूर्वादिगा नगाः ॥३४.००४ ऋगिन्द्रशोभनं प्रास्यां युजुर्यमसुभद्रकम् ।३४.००५ सामापश्च सुधन्वाख्यं सोमाथर्वसुहोत्रकम् ॥३४.००५ तोरणान्तः पताकाश्च कुमुदाद्या घटद्वयम् ।३४.००६ द्वारि द्वारि स्वनाम्नार्च्याः पूर्वे पूर्णश्च पुष्करः ॥३४.००६ आनन्दनन्दनौ दक्षे वीरसेनः सुषेणकः ।३४.००७ सम्भवप्रभवौ सौम्ये द्वारपांश्चैव पूजयेत् ॥३४.००७ अस्त्रजप्तपुष्पक्षेपाद्विघ्नानुत्सार्य संविशेत् ।३४.००८ भूतशुद्धिं विधायाथ विन्यस्य कृतमुद्रवः ॥३४.००८ फट्कारान्तां शिखां जप्त्वा सर्षपान् दिक्षु निक्षिपेत् ।३४.००९ वासुदेवेन गोमूत्रं सङ्कर्षणेन गोमयम् ॥३४.००९ प्रद्युम्नेन पयस्तज्जात्दधि नारायणाद्घृतम् ।३४.०१० एकद्वित्र्यादिवाराणि घृताद्वै भागतोधिकम् ॥३४.०१० घृतपात्रे तदेकत्र पञ्चगव्यमुदाहृतम् ।३४.०११ मण्डपप्रोक्षणायैकञ्चापरम्प्राशनाय च ॥३४.०११ आनीय दशकुम्भेषु इन्द्राद्यान् लोकपान् यजेत् ।३४.०१२ पूज्याज्ञां श्रावयेत्तांश्च स्थातव्यं चाज्ञया हरेः ॥३४.०१२ यागद्रव्यादि संरक्ष्य विकिरान् विकिरेत्ततः ।३४.०१३ मूलाष्टशतसञ्जप्तान् कुशकूर्चान् हरेश्च तान् ॥३४.०१३ ऐशान्यां दिशि तत्रस्थं स्थाप्यं कुम्भञ्च वर्धनीं ।३४.०१४ पृष्ठ १०० कुम्भे साङ्गं हरिं प्रार्च्य वर्धन्यामस्त्रमर्चयेत् ॥३४.०१४ प्रदक्षिणं यागगृहं वर्धन्याच्छिन्नधारया ।३४.०१५ सिञ्चन्नयेत्ततः कुम्भं पूजयेच्च स्थिरासने ॥३४.०१५ सपञ्चरत्नवस्त्राढ्यकुम्भे गन्धादिभिर्हरिम् ।३४.०१६ वर्धन्यां हेमगर्भायां यजेदस्त्रञ्च वामतः ॥३४.०१६ तत्समीपे वास्तुलक्ष्मीं भूविनायकमर्चयेत् ।३४.०१७ स्रपनं कल्पयेद्विष्णोः सङ्क्रान्त्यादौ तथैव च ॥३४.०१७ पूर्णकुम्भान्नव स्थाप्य नवकोणेषु निर्ब्रणान् ॥३४.०१८ पूर्वादिकलसेग्न्यादौ पञ्चामृतजलादिकम् ।३४.०१९ दधि क्षीरं मधूष्णीदं पाद्यं स्याच्चतुरङ्गकम् ॥३४.०१९ पद्मश्यामाकदूर्वाश्च विष्णुपत्नी च पाद्यकम् ।३४.०२० तथाष्टाङ्गार्घ्यमाख्यातं यवगन्धफलाक्षतम् ॥३४.०२० कुशाः सिद्धार्थपुष्पानि तिला द्रव्याणि चार्हणम्(१) ।३४.०२१ लवङ्गकक्कोलयुते दद्यादाचमनीयकम् ॥३४.०२१ स्नापयेन्मूलमन्त्रेण देवं पञ्चामृतैरपि ।३४.०२२ शुद्धोदं मध्यकुम्भेन देवमूर्ध्नि विनिःक्षिपेत् ॥३४.०२२ कलशान्निःसृतं तोयं कूर्चाग्रं(२) संस्पृशेन्नरः ।३४.०२३ शुद्धोदकेन पाद्यञ्च अर्घ्यमाचमनन्ददेत् ॥३४.०२३ परिमृज्य पटेनाङ्गं सवस्त्रं मण्डलं नयेत् ।३४.०२४ तत्राभ्यर्च्याचरेद्धोमं कुण्डादौ प्राणसंयमी ॥३४.०२४ प्रक्षाल्य हस्तौ रेखाश्च तिस्रः पूर्वाग्रगामिनीः ।३४.०२५ टिप्पणी १ चार्हणा इति ख, ङ, चिह्नितपुस्तकद्वयपाठः २ दूर्वाग्रमिति ङ, चिह्नितपुस्तकपाठः पृष्ठ १०१ दक्षिणादुत्तराश्च तिस्रश्चैवओत्तराग्रगाः ॥३४.०२५ अर्घ्योदकेन सम्प्रोक्ष्य योनिमुद्राम्प्रदर्शयेत् ।३४.०२६ ध्यात्वाग्निरूपञ्चाग्निन्तु योन्यां कुण्डे क्षिपेन्नरः ॥३४.०२६ पात्राण्यासादयेत्पश्चाद्दर्भश्रुक्श्रुवकादिभिः ।३४.०२७ बाहुमात्राः परिधय इध्मव्रश्चनमेव च ॥३४.०२७ प्रणीता प्रोक्षणीपात्रमाज्यस्थाली घृतादिकम् ।३४.०२८ प्रस्थद्वयं तण्डुलानां युग्मं युग्ममधोमुखम् ॥३४.०२८ प्रणीताप्रोक्षणीपात्रे न्यसेत्प्रागग्रगं कुशम् ।३४.०२९ अद्भिः पूर्यप्रणीतान्तु ध्यात्वा देवं प्रपूज्य च ॥३४.०२९ प्रणीतां स्थापयेदग्रे द्रव्याणाञ्चैव मध्यतः ।३४.०३० प्रोक्षणीमद्भिः सम्पूर्य प्रार्च्य दक्षे तु विन्यसेत् ॥३४.०३० चरुञ्च श्रपयेदग्नौ ब्रह्माणं दक्षिणे न्यसेत् ।३४.०३१ कुशानास्तीर्य पूर्वादौ परिधीन् स्थापयेत्ततः ॥३४.०३१ वैष्णवीकरणं कुर्याद्गर्भाधानादिना नरः ।३४.०३२ गर्भाधानं पुंसवनं सीमन्तोन्नयनञ्जनिः ॥३४.०३२ नामादिसमावर्तनान्तं जुहुयादष्ट चाहुतीः ।३४.०३३ पूर्णाहुतीः प्रतिकर्म श्रुचा स्रुवसुयुक्तया ॥३४.०३३ कुण्डमध्ये ऋतुमतीं लक्ष्मीं सञ्चिन्त्य होमयेत् ।३४.०३४ कुण्डलक्ष्मीः समाख्याता प्रकृतिस्त्रिगुणात्मका ॥३४.०३४ सा योनिः सर्वभूतानां विद्यामन्त्रगणस्य च ।३४.०३५ विमुक्तेः कारणं वह्निः परमात्मा च मुक्तिदः ॥३४.०३५ प्राच्यां शिरः समाख्यातं बाहू कोणे व्यवस्थितौ ।३४.०३६ ईशानाग्नेयकोणे तु जङ्घे वायव्यनैरृते ॥३४.०३६ उदरं कुण्डमित्युक्तं योनिर्योनिर्विधीयते ।३४.०३७ गुणत्रयं मेखलाः स्युर्ध्यात्वैवं समिधो दश ॥३४.०३७ पृष्ठ १०२ पञ्चाधिकांस्तु जुहुयात्प्रणवान्मुष्टिमुद्रया(१) ।३४.०३८ पुनराघारौ जुहुयाद्वाय्वग्न्यन्तं ततः श्रपेत् ॥३४.०३८ ईशान्तं मूलमन्त्रेण आज्यभागौ तु होमयेत् ।३४.०३९ उत्तरे द्वादशान्तेन दक्षिणे तेन मध्यतः ॥३४.०३९ व्याहृत्या पद्ममध्यस्थं ध्यायेद्वह्निन्तु संस्कृतम् ।३४.०४० वैष्णवं सप्तजिह्वं च सूर्यकोटिसमप्रभम् ॥३४.०४० चन्द्रवक्त्रञ्च(२) सूर्याक्षं जुहुयाच्छतमष्ट च ।३४.०४१ तदर्धञ्चाष्ट मूलेन अङ्गानाञ्च दशांशतः ॥३४.०४१ इत्यादिमहापुराणे आग्नेये अग्निकार्यकथनं नाम चतुर्त्रिंशोऽध्यायः ॥ अध्याय {३५} अथ पञ्चत्रिंशोऽध्यायः पवित्राधिवासनादिविधिः अग्निरुवाच सम्पाताहुतिनासिच्य(२) पवित्राण्यधिवासयेत् ।३५.००१ नृसिंहमन्त्रजप्तानि गुप्तान्यस्त्रेण तानि तु ॥३५.००१ वस्त्रसंवेष्टितान्येव पात्रस्थान्यभिमन्त्रयेत् ।३५.००२ विल्वाद्यद्भिः प्रोक्षितानि मन्त्रेण चैकधा द्विधा(४) ॥३५.००२ कुम्भपार्श्वे तु संस्थाप्य रक्षां विज्ञाप्य देशिकः ।३५.००३ दन्तकाष्ठञ्चामरकं पूर्वे सङ्कर्षणेन तु ॥३५.००३ प्रद्युम्नेन भस्मतिलान् दक्षे गोमयमृत्तिकां ।३५.००४ टिप्पणी १ स्वस्तिमुद्रयेति ङ, चिह्नितपुस्तकपाठः २ पञ्चवक्त्रंश्चेति ङ, चिह्नितपुस्तकपाठः ३ सङ्घाताहुतिनासिच्येति ङ, चिह्नितपुस्तकपाठः ४ मन्त्राणां चैकधा द्विधेति ख, चिहिनितपुस्तकपाठः पृष्ठ १०३ वारुणेन चानिरुद्धेन सौम्ये नारायणेन च ॥३५.००४ दर्भोदकञ्चाथ हृदा अग्नौ कुङ्कुमरोचनं ।३५.००५ ऐशान्यां शिरसा धूपं शिखया नैरृतेप्यथ ॥३५.००५ मूलपुष्पाणि दिव्यानि कवचेनाथ वायवे ।३५.००६ चन्दनाम्ब्वक्षतदधिदूर्वाश्च पुटिकास्थिताः ॥३५.००६ गृहं त्रिसूत्रेणावेष्ट्य पुनः सिद्धार्थकान् क्षिपेत् ।३५.००७ दद्यात्पूजाक्रमेणाथ स्वैः स्वैर्गन्धपवित्रकं ॥३५.००७ मन्त्रैर्वै द्वारपादिभ्यो विष्णुकुम्भे त्वनेन च ।३५.००८ विष्णुतेजोभवं रम्यं सर्वपातकनाशनं ॥३५.००८ सर्वकामप्रदं देवं तवाङ्गे धारयाम्यहं ।३५.००९ सम्पूज्य धूपदीपाद्यैर्व्रजेद्द्वारसमीपतः ॥३५.००९ गन्धपुष्पाक्षतोपेतं पवित्रञ्चाखिलेर्पयेत्(१) ।३५.०१० पवित्रं वैष्णवं तेजो महापातकनाशनं ॥३५.०१० धर्मकामार्थसिद्ध्यर्थं स्वकेङ्गे धारयाम्यहं ।३५.०११ आसने परिवारादौ गुरौ दद्यात्पवित्रकं ॥३५.०११ गन्धादिभिः समभ्यर्च्य गन्धपुष्पाक्षतादिमत् ।३५.०१२ विष्णुतेजोभवेत्यादिमूलेन हरयेर्पयेत् ॥३५.०१२ वह्निस्थाय ततो दत्वा देवं सम्प्रार्थयेत्ततः ।३५.०१३ क्षीरोदधिमहानागशय्यावस्थितविग्रहः ॥३५.०१३ प्रातस्त्वां पूजयिष्यामि सन्निधौ भव केशव ।३५.०१४ इन्द्रादिभस्ततो दत्वा विष्णुपार्षदके बलिं ॥३५.०१४ ततो देवाग्रतः कुम्भं वासोयुगसमन्वितं ।३५.०१५ रोचनाचन्द्रकाश्मीरगन्धाद्युदकसंयुतं ॥३५.०१५ गन्धपुष्पादिनाभूष्य मूलमन्त्रेण पूजयेत् ।३५.०१६ टिप्पणी १ पवित्रं पार्श्वतो नयेदिति ङ, चिह्नितपुस्तकपाठः पृष्ठ १०४ मण्डपाद्वहिरागत्य विलिप्ते मण्डलत्रये ॥३५.०१६ पञ्चगव्यञ्चरुन्दन्तकाष्ठञ्चैव क्रमाद्भवेत् ।३५.०१७ पुराणश्रवणं स्तोत्रं पठन् जागरणं निशि ॥३५.०१७ परप्रेषकबालानां स्त्रीणां भोगभुजां तथा ।३५.०१८ सद्योधिवासनं कुर्याद्विना गन्धपवित्रकं ॥३५.०१८ इत्यादिमहापुराणे आग्नेये पवित्राधिवासनं नाम पञ्चत्रिंशोऽध्यायः ॥ अध्याय {३६} अथ षट्त्रिंशोऽध्यायः पवित्रारोपणविधानं अग्निरुवाच प्रातः स्नानं कृत्वा द्वारपालान्(१) प्रपूज्य च ।३६.००१ प्रविश्य गुप्ते देशे च समाकृष्याथ धारयेत् ॥३६.००१ पूर्वाधिवासितं द्रव्यं वस्त्राभरणगन्धकं ।३६.००२ निरस्य सर्वनिर्माल्यं देवं संस्थाप्य पूजयेत् ॥३६.००२ पञ्चामृतैः कषायैश्च शुद्धगन्धोदकैस्ततः ।३६.००३ पूर्वाधिवासितं दद्याद्वस्त्रं गन्धं च पुष्पकं ॥३६.००३ अग्नौ हुत्वा नित्यवच्च देवं सम्प्रार्थयेन्नमेत्(२) ।३६.००४ समर्प्य कर्म देवाय पूजां नैमित्तिकीं चरेत् ॥३६.००४ द्वारपालविष्णुकुम्भवर्धनीः प्रार्थयेद्धरिं ।३६.००५ अतो देवेति मन्त्रेण मूलमन्त्रेण कुम्भके ॥३६.००५ कृष्ण कृष्ण नमस्तुभ्यं गृह्णीष्वेदं पवित्रकं ।३६.००६ टिप्पणी १ लोकपालानिति ख, चिह्नितपुस्तकपाठः २ प्रार्थयेन्न्यसेदिति ग, चिह्नितपुस्तकपाठः पृष्ठ १०५ पवित्रीकरणार्थाय वर्षपूजाफलप्रदं ॥३६.००६ पवित्रकं कुरुध्वाद्य यन्मया दुष्कृतं कृतं ।३६.००७ शुद्धो भवाम्यहं देव त्वत्प्रसादात्सुरेश्वर ॥३६.००७ पवित्रञ्च हृदाद्यैस्तु आत्मानमभिषिच्य च ।३६.००८ विष्णुकुम्भञ्च सम्प्रोक्ष्य व्रजेद्देवसमीपतः ॥३६.००८ पवित्रमात्मने दद्याद्रक्षाबन्धं विसृज्य च(१) ।३६.००९ गृहाण ब्रह्मसूत्रञ्च यन्मया कल्पितं प्रभो ॥३६.००९ कर्मणां पूरणार्थाय यथा दोषो न मे भवेत् ।३६.०१० द्वारपालासनगुरुमुख्यानाञ्च पवित्रकम् ॥३६.०१० कनिष्टादि च देवाय वनमालाञ्च मूलतः ।३६.०११ हृदादिविश्वक्सेनान्ते पवित्राणि समर्पयेत् ॥३६.०११ वह्नौ हुत्वाग्निवर्तिभ्यो विष्ण्वादिभ्यः पवित्रकम् ।३६.०१२ प्रार्च्य पूर्णाहुतिं दद्यात्प्रायश्चित्ताय मूलतः ॥३६.०१२ अष्टोत्तरशतं वापि पञ्चोपनिषदैस्ततः ।३६.०१३ मणिविद्रुममालाभिर्मन्दारकुसुमादिभिः ॥३६.०१३ इयं सांवत्सरी पूजा तवास्तु गरुडध्वज ।३६.०१४ वनमाला यथा देव कौस्तुभं सततं हृदि ॥३६.०१४ तद्वत्पवित्रतन्तूंश्च पूजां च हृदये वह(२) ।३६.०१५ कामतोऽकामतो वापि यत्कृतं नियमार्चने ॥३६.०१५ विधिना विघ्नलोपेन परिपूर्णं तदस्तु मे ।३६.०१६ प्रार्थ्य नत्वा क्षमाप्याथ पवित्रं मस्तकेऽर्पयेत् ॥३६.०१६ दत्वा बलिं दक्षिणाभिर्वैष्णवन्तोषयेद्गुरुं ।३६.०१७ टिप्पणी १ रक्षाबन्धं विमुच्य चेति ख, चिह्नितपुस्तकपाठः । पवित्रं मूलतो दद्याद्रक्षार्थं तद्विसृज्य चेति ङ, चिह्नितपुस्तकपाठः २ पवित्रकं त्वञ्च पूजायां हृदये वहेति ङ, चिह्नितपुस्तकपाठः पृष्ठ १०६ विप्रान् भोजनवस्त्राद्यैर्दिवसं पक्षमेव वा ॥३६.०१७ पवित्रं स्नानकाले च अवतार्य समर्पयेत् ।३६.०१८ अनिवारितमन्नाद्यं दद्याद्भुङ्क्तेथ च स्वयं ॥३६.०१८ विसर्जनेऽह्नि सम्पूज्य पवित्राणि विसर्जयेत् ।३६.०१९ सांवत्सरीमिमां पूजां सम्पाद्य विधिवन्मम ॥३६.०१९ व्रज पवित्रकेदानीं विष्णुलोकं विसर्जितः ।३६.०२० मध्ये सोमेशयोः प्रार्च्य विष्वक्सेनं हि तस्य च ॥३६.०२० पवित्राणि समभ्यर्च्य ब्राह्मणाय समर्पयेत् ।३६.०२१ यावन्तस्तन्तवस्तस्मिन् पवित्रे परिकल्पिताः ॥३६.०२१ तावद्युगसहस्राणि विष्णुलोके महीयते ।३६.०२२ कुलानां शतमुद्धृत्य दश पूर्वान् दशापरान् ।३६.०२२ विष्णुलोकं तु संस्थाप्य स्वयं मुक्तिमवाप्नुयात् ॥३६.०२२ इत्यादिमहापुराणे आग्नेये विष्णुपवित्रारोहणं नाम षट्त्रिंशोऽध्यायः ॥ अध्याय {३७} अथ सप्तत्रिंशोऽध्यायः सर्वदेवपवित्रारोहणविधिः अग्निरुवाच सङ्क्षेपात्सर्वदेवानां पवित्रारोहणं(१) शृणु ।३७.००१ पवित्र सर्वलक्ष्म स्यात्स्वरसानलगं त्वपि ॥३७.००१ जगद्योने समागच्छ परिवारगणैः सह ।३७.००२ निमन्त्रयाम्यहं प्रातर्दद्यान्तुभ्यं पवित्रकम् ॥।३७.००२ जगत्सृजे(२) नमस्तुभ्यं गृह्णीष्वेदं पवित्रकं ।३७.००३ टिप्पणी १ पवित्रारोपणमिति ख, चिह्नितपुस्तकपाठः २ जगत्सूते इति ङ, चिह्नितपुस्तकपाठः पृष्ठ १०७ पवित्रीकरणार्थाय वर्षपूजाफलप्रदं ॥३७.००३ शिवदेव नमस्तुभ्यं गृह्णीष्वेदं पवित्रकं ।३७.००४ मणिविद्रुममालाभिर्मन्दारकुसुमादिभिः ॥३७.००४ इयं सांवत्सरी पूजा तवास्तु वेदवित्पते ।३७.००५ सांवत्सरीमिमां पूजां सम्पाद्य विधिमन्मम ॥३७.००५ व्रज पवित्रकेदानीं स्वर्गलोकं विसर्जितः ।३७.००६ सूर्यदेव नमस्तुभ्यं गृह्णीष्वेदं पवित्रकं ॥३७.००६ पवित्रीकरणार्थाय वर्षपूजाफलप्रदं ।३७.००७ शिवदेव नमस्तुभ्यं गृह्णीष्वेदं पवित्रकं ॥३७.००७ पवित्रीकरणार्थाय वर्षपूजाफलप्रदं ।३७.००८ वाणेश्वर(१) नमस्तुभ्यं गृह्णीष्वेदं पवित्रकं ॥३७.००८ पवित्रीकरणार्थाय वर्षपूजाफलप्रदं ।३७.००९ शक्तिदेव नमस्तुभ्यं गृह्णीष्वेदं पवित्रकं ॥३७.००९ पवित्रीकरणार्थाय वर्षपूजाफलप्रदं ।३७.०१० नारायणमयं सूत्रमनिरुद्धमयं वरं(२) ॥३७.०१० धनधान्यायुरारोग्यप्रदं सम्प्रददामि ते ।३७.०११ कामदेवमयं सूत्रं सङ्कर्षणमयं वरं ॥३७.०११ विद्यासन्ततिसौभाग्यप्रदं सम्प्रददामि ते ।३७.०१२ वासुदेवमयं सूत्रं धर्मकामार्थमोक्षदं ॥३७.०१२ संसारसागरोत्तारकारणं प्रददामि ते ।३७.०१३ विश्वरूपमयं सूत्रं सर्वदं पापनाशनं ॥३७.०१३ टिप्पणी १ गणेश्वर इति ग, घ, ङ, चिह्नितपुस्तकत्रयपाठः २ परमिति ङ, चिह्नितपुस्तकपाठः पृष्ठ १०८ अतीतानागतकुलसमुद्धारं ददामि ते ।३७.०१४ कनिष्ठादीनि चत्वारि मनुभिस्तु क्रमाद्ददे ॥३७.०१४ इत्यादिमहापुराणे आग्नेये सङ्क्षेपपवित्रारोहणं नाम सप्तत्रिंशोऽध्यायः ॥ अध्याय {३८} अथ अष्टत्रिंशोऽध्यायः देवालयनिर्माणफलं अग्निरुवाच वासुदेवाद्यालयस्य कृतौ वक्ष्ये फलादिकं ।३८.००१ चिकीर्षोर्देवधामादि सहस्रजनिपापनुत् ॥३८.००१ मनसा सद्मकर्तॄणां शतजन्माघनाशनं ।३८.००२ येनुमोदन्ति कृष्णस्य क्रियमाणं नरा गृहं(१) ॥३८.००२ तेपि पापैर्विनिर्मुक्ताः प्रयान्त्यच्युतलोकतां ।३८.००३ समतीतं भविष्यञ्च कुलानामयुतं नरः ॥३८.००३ विष्णुलोकं नयत्याशु कारयित्वा हरेर्गृहं ।३८.००४ वसन्ति(२) पितरो दृष्ट्वा(३) विष्णुलोके ह्यलङ्कृताः ॥३८.००४ विमुक्ता नारकैर्दुःखैः कर्तुः कृष्णस्य मन्दिरं ।३८.००५ ब्रह्महत्यादिपापौघघातकं देवतालयं ॥३८.००५ फलं यन्नाप्यते यज्ञैर्धाम कृत्वा तदाप्यते ।३८.००६ देवागारे कृते सर्वतीर्थस्नानफलं लभेत् ॥३८.००६ देवाद्यर्थे हतानाञ्च रणे यत्तत्फलादिकं ।३८.००७ शाठ्येन पांशुना वापि कृतं धाम च नाकदं ॥३८.००७ टिप्पणी १ गृहादिकं ग, घ, चिह्नितपुस्तकद्वयपाठः २ नन्दन्ति इति ख, ग, चिह्नितपुस्तकद्वयपाठः । वल्गन्ति इति ङ, चिह्नितपुस्तकपाठः ३ हृष्टा इति ख, ग, चिह्नितपुस्तकद्वयपाठः पृष्ठ १०९ एकायतनकृत्स्वर्गी त्र्यगारी ब्रह्मलोकभाक् ।३८.००८ पञ्चागारी शम्भुलोकमष्टागाराद्धरौ स्थितिः ॥३८.००८ षोडशालयकारी तु(१) भुक्तिमुक्तिमवाप्नुयात् ।३८.००९ कनिष्ठं मध्यमं श्रेष्ठं कारयित्वा हरेर्गृहं ॥३८.००९ स्वर्गं च वैष्णवं लोकं मोक्षमाप्नोति च क्रमात् ।३८.०१० श्रेष्ठमायतनं विष्णोः कृत्वा यद्धनवान् लभेत् ॥३८.०१० कनिष्ठेनैव तत्पुण्यं प्राप्नोत्यधनवान्नरः ।३८.०११ समुत्पाद्य धनं कृत्या स्वल्पेनापि(२) सुरालयं ॥३८.०११ कारयित्वा हरेः पुण्यं सम्प्राप्नोत्यधिकं वरं ।३८.०१२ लक्षणाथ सहस्रेण शतेनार्धेन वा हरेः ॥३८.०१२ कारयन् भवनं याति यत्रास्ते गरुडध्वजः ।३८.०१३ बाल्ये तु क्रीडमाणा ये पांशुभिर्भवनं हरेः ॥३८.०१३ वासुदेवस्य कुर्वन्ति तेपि तल्लोकगामिनः ।३८.०१४ तीर्थे चायतने पुण्ये सद्धक्षेत्रे तथाष्टमे ॥३८.०१४ कर्तुरायतनं विष्णोर्यथोक्तात्त्रिगुणं फलं ।३८.०१५ बन्धूकपुष्पविन्यासैः सुधापङ्केन वैष्णवं ॥३८.०१५ ये विलिम्पन्ति भवनं ते यान्ति भगवत्पुरं ।३८.०१६ पतितं पतमानन्तु तथार्धपतितं नरः ॥३८.०१६ समुद्धृत्य हरेर्धाम प्राप्नोति द्विगुणं फलं ।३८.०१७ पतितस्य तु यः कर्ता पतितस्य च रक्षिता ॥३८.०१७ विष्णोरायतनस्येह नरो विष्णुलोकभाक् ।३८.०१८ इष्टकानिचयस्तिष्ठेद्यावदायतने हरेः ॥३८.०१८ सकुलस्तस्य वै कर्ता विष्णुलोके महीयते ।३८.०१९ टिप्पणी १ षोडशागारकारी तु इति ग, चिह्नितपुस्तकपाठः २ स्वल्पेनैवेति ख, चिह्नितपुस्तकपाठः पृष्ठ ११० स एव पुण्यवान् पूज्य इह लोके परत्र च ॥३८.०१९ कृष्णस्य वासुदेवस्य यः कारयति केतनं ।३८.०२० जातः स एव सुकृती कुलन्तेनैव पावितं ॥३८.०२० विष्णुरुद्रार्कदेव्यादेर्गृहकर्ता स कीर्तिभाक् ।३८.०२१ किं तस्य वित्तनिचयैर्मूढस्य परिरक्षितः ॥३८.०२१ दुःखार्जितैर्यः कृष्णस्य न कारयति केतनं ।३८.०२२ नोपभोग्यं धनं यस्य पितृविप्रदिवौकसां ॥३८.०२२ नोपभोगाय बन्धूनां व्यर्थस्तस्य धनागमः ।३८.०२३ यथा ध्रुवो नृणां मृत्युर्वित्तनाशस्तथा ध्रुवः ॥३८.०२३ मूढस्तत्रानुबध्नाति जीवितेथ चले घने ।३८.०२४ यदा वित्तं न दानाय नोपभोगाय देहिनां ॥३८.०२४ नापि कीर्त्यै न धर्माथं तस्य स्वाम्येथ को गुणः ।३८.०२५ तस्माद्वित्तं समासाद्य दैवाद्वा पौरुषादथ ॥३८.०२५ दद्यात्सम्यग्द्विजाग्र्येभ्यः कीर्तनानि च कारयेत् ।३८.०२६ दानेभ्यश्चाधिकं यस्मात्कीर्तनेभ्यो वरं यतः ॥३८.०२६ अतस्तत्कारयेद्धीमान् विष्ण्वादेर्मन्दिरादिकं ।३८.०२७ विनिवेश्य हरेर्धाम भक्तिमद्भिर्नरोत्तमैः ॥३८.०२७ निवेशितं भवेत्कृत्स्नं त्रैलोक्यं सचराचरं ।३८.०२८ भूतं भवयं भविष्यञ्च स्थूलं सूक्ष्मं तथेतरत्(१) ॥३८.०२८ आब्राह्मस्तम्बपर्यन्तं सर्वं विष्णोः समुद्भवं ।३८.०२९ तस्य देवादिदेवस्य सर्वगस्य(२) महात्मनः ॥३८.०२९ निवेश्य भवनं विष्णोर्न भूयो भुवि जायते ।३८.०३० यथा विष्णोर्धामकृतौ फलं तद्वद्दिवौकसां ॥३८.०३० टिप्पणी १ तथैव च इति ग, चिह्नितपुस्तकपाठः २ सर्वेशस्य इति ख, चिह्नितपुस्तकपाठः पृष्ठ १११ शिवब्रह्मार्कविघ्नेशचण्डीलक्ष्म्यादिकात्मनां ।३८.०३१ देवालयकृतेः पुण्यं प्रतिमाकरणेधिकं(३) ॥३८.०३१ प्रतिमास्थापने यागे फलस्यान्तो न विद्यते ।३८.०३२ मृण्मयाद्दारुजे पुण्यं दारुजादिष्ट्काभवे ॥३८.०३२ इष्टकोत्थाच्छैलजे स्याद्धेमादेरधिकं फलं ।३८.०३३ सप्तजन्मकृतं पापं प्रारम्भादेव नश्यति ॥३८.०३३ देवालयस्य स्वर्गी स्यान्नरकं न स गच्छति ।३८.०३४ कुलानां शतमुद्धृत्य विष्णुलोकं नयेन्नरः ॥३८.०३४ यमो यमभटानाह देवमन्दिरकारिणः ।३८.०३५ यम उवाच प्रतिमापूजादिकृतो नानेया नरकं नराः ॥३८.०३५ देवालयाद्यकर्तार आनेयास्ते तु गोचरे(१) ।३८.०३६ विसारध्वं यथान्यायन्नियोगो मम पाल्यतां (२) ॥३८.०३६ नाज्ञाभङ्गं करिष्यन्ति भवतां जन्तवः क्वचित् ।३८.०३७ केवलं ते जगत्तातमनन्तं समुपाश्रिताः ॥३८.०३७ भवद्भिः परिहर्तव्यास्तेषां नात्रास्ति संस्थितिः ।३८.०३८ ये च भगवता लोके तच्चित्तास्तत्परायणाः ॥३८.०३८ पूजयन्ति सदा विष्णुं ते वस्त्याज्याः सुदूरतः ।३८.०३९ यस्तिष्ठन् प्रस्वपन् गच्छन्नुत्तिष्ठन् स्खलिते स्थिते(४) ॥३८.०३९ सङ्कीर्तयन्ति गोविन्दं ते वस्त्याज्याः सुदूरतः ।३८.०४० नित्यनैमित्तिकैर्देवं ये यजन्ति जनार्दनम् ॥३८.०४० नावलोक्या भवद्भिस्ते तद्गता यान्ति तद्गतिम् ।३८.०४१ टिप्पणी १ आनेयास्त्वविशेषत इति ग, चिह्नितपुस्तकपाठः २ नियमो मेऽनुपाल्यतामिति ख, चिह्नितपुस्तकपाठः ३ जन्तवः क्वचिदिति ख, चिह्नितपुस्तकपाठः पृष्ठ ११२ ये पुष्पधूपवासोभिर्भूषणैश्चातिवल्लभैः ॥३८.०४१ अर्चयन्ति न ते ग्राह्या नराः कृष्णालये गताः(१) ।३८.०४२ उपलेपनकर्तारः सम्मार्जनपराश्च ये ॥३८.०४२ कृष्णालये परित्यज्यास्तेषां पुत्रास्तथा कुलम् ।३८.०४३ येन चायतनं विष्णोः कारितं तत्कुलोद्भवम् ॥३८.०४३ पुंसां शतं नावलोक्यं भवद्भिर्दुष्टचेतसा ।३८.०४४ यस्तु देवालयं विष्णोर्दारुशैलमयं तथा ॥३८.०४४ कारयेन्मृण्मयं वापि सर्वपापैः प्रमुच्यते ।३८.०४५ अहन्यहनि यज्ञेन यजतो यन्महाफलम् ॥३८.०४५ प्राप्नोति तत्फलं विष्णोर्यः कारयति केतनं ।३८.०४६ कुलानां शतमागामि समतीतं तथा शतं ॥३८.०४६ कारयन् भगवद्धाम नयत्यच्युतलोकतां ।३८.०४७ सप्तलोकमयो विष्णुस्तस्य यः कुरुते गृहं ॥३८.०४७ तारयत्यक्षयांल्लोकानक्षयान् प्रतिपद्यते ।३८.०४८ इष्टकाचयविन्यासो यावन्त्यब्दानि तिष्ठति ॥३८.०४८ तावद्वर्षसहस्राणि तत्कर्तुर्दिवि संस्थितिः ।३८.०४९ प्रतिमाकृद्विष्णुलोकं स्थापको लीयते हरौ ।३८.०४९ देवसद्मप्रतिकृतिप्रतिष्ठाकृत्तु गोचरे ॥३८.०४९ अग्निरुवाच यमोक्ता नानयंस्तेथ प्रतिष्ठादिकृतं हरेः ।३८.०५० हयशीर्षः प्रतिष्ठार्थं(२) देवानां ब्रह्मणेऽब्रवीत् ॥३८.०५० इत्यादिमहापुराणे आग्नेये देवालयादिमाहात्म्यवर्णनं नाम अष्टत्रिंशोध्यायः ॥ टिप्पणी १ कृष्णाश्रये गता इति ख, घ, ङ, चिह्नितपुस्तकत्रयपाठः २ प्रतिष्ठाद्यमिति ख, ङ, चिह्नितपुस्तकद्वयपाठः पृष्ठ ११३ अध्याय {३९} ॒शथोनचत्वारिंशोऽध्यायः भूपरिग्रहविधानं हयग्रीव उवाच विष्ण्वादीनां प्रतिष्ठादि वक्ष्ये ब्रह्मन् शृणुष्व मे ।३९.००१ प्रोक्तानि पञ्चरातराणि सप्तरात्राणि वै मया ॥३९.००१ व्यस्तानि मुनिभिर्लोके पञ्चविंशतिसङ्ख्यया ।३९.००२ हयशीर्षं तन्त्रमाद्यं तन्त्रं त्रैलोक्यमोहनं ॥३९.००२ वैभवं पौष्करं तन्त्रं प्रह्रादङ्गार्ग्यगालवं ।३९.००३ नारदीयञ्च सम्प्रश्नं शाण्डिल्यं वैश्वकं(१) तथा ॥३९.००३ सत्योक्तं शौनकं तन्त्रं वासिष्ठं ज्ञानसागरं ।३९.००४ स्वायम्भुवं कपिलञ्च तार्क्षं नारायणीयकं ॥३९.००४ आत्रेयं नारसिंहाख्यमानन्दाख्यं तथारुणं ।३९.००५ बौधायनं तथार्षं तु(२) विश्वोक्तं तस्य सारतः ॥३९.००५ प्रतिष्ठां हि द्विजः कुर्यान्मध्यदेशादिसम्भवः ।३९.००६ नकच्छदेशसम्भूतः कावेरीकोङ्कणोद्गतः ॥३९.००६ कामरूपकलिङ्गोप्त्यः काञ्चीकाश्मीरकोशलः(३) ।३९.००७ आकाशवायुतेजोम्बु भूरेताः पञ्च रात्रयः ॥३९.००७ अचैतन्यास्तमोद्रिक्ताः पञ्चरात्रविवर्जितं ।३९.००८ ब्रह्माहं विष्णुरमल इति विद्यात्स देशिकः ॥३९.००८ सर्वलक्षणहीणोपि स गुरुस्तन्त्रपारगः ।३९.००९ टिप्पणी १ चैश्वरं तथेति ग, ङ, घ, चिह्नितपुस्तकत्रयपाठः २ तथाष्टाङ्गमिति ख, ङ, चिह्नितपुस्तकद्वयपाठः ३ काश्मीरके स्थित इति ग, चिह्नितपुस्तकपाठः पृष्ठ ११४ नगराभिमुखाः स्थाप्या देवा न च पराङ्मुखाः ॥३९.००९ कुरुक्षेत्रे गयादौ च नदीनान्तु(१) समीपतः ।३९.०१० ब्रह्मा मध्ये तु नगरे पूर्वे शक्रस्य शोभनं ॥३९.०१० अग्नावग्नेश्च मातॄणां भूतानाञ्च यमस्य च ।३९.०११ दक्षिणे चण्डिकायाश्च पितृदैत्यादिकस्य च ॥३९.०११ वैरृते मन्दिरं कुर्यात्वरुणाददेश्च वारुणे ।३९.०१२ वायोर्नागस्य वायव्ये सौम्ये यक्षगुहस्य च ॥३९.०१२ चण्डीशस्य महेशस्य ऐशे विष्णोश्च सर्वशः ।३९.०१३ पूर्वदेवकुलं पीड्य प्रासादं स्वल्पकं त्वथ ॥३९.०१३ समं वाप्यधिकं वापि न कर्तव्यं विजानता ।३९.०१४ उभयोर्द्विगुणां सीमां त्यक्त्वा चोच्छ्रयसम्मितां ॥३९.०१४ प्रासादं कारयेदन्यं नोभयं पीडयेद्बुधः ।३९.०१५ भूमौ तु शोधितायां तु कुर्याद्भुमिपरिग्रहं ॥३९.०१५ प्राकारसीमापर्यन्तं ततो भुतबलिं हरेत् ।३९.०१६ माषं हरिद्राचूर्णन्तु सलाजं दधिसक्तुभिः ॥३९.०१६ अष्टाक्षरेण सक्तूंश्च पातायित्वाष्टदिक्षु च ।३९.०१७ राक्षसाश्च पिशाचाश्च येस्मिंस्तिष्ठन्ति भूतले ॥३९.०१७ सर्वे ते व्यपगच्छन्तु स्थानं कुर्यामहं हरेः ।३९.०१८ हलेन वाहयित्वा गां गोभिश्चैवावदारयेत् ॥३९.०१८ प्रमाण्वष्टकेनैव त्रसरेणुः प्रकीर्त्यते ॥१९॥३९.०१९ तैरष्टभिस्तु बालाग्रं लिख्या तैरष्टभिर्मता ।३९.०२० ताभिर्यूकाष्टभिः ख्याता ताश्चाष्टौ यवमध्यमः ॥३९.०२० टिप्पणी १ नद्यद्रिषु इति ख, ग, ङ, चिह्नितपुस्तकत्रयपाठः पृष्ठ ११५ यवाष्टकैरङ्गुलं स्याच्चतुर्विंशाङ्गुलः करः ।३९.०२१ चतुरङ्गुलसंयुक्तः स हस्तः(१) पद्महस्तकः ॥३९.०२१ इत्यादिमहापुराणे आग्नेये प्रतिष्ठायां भूपरिग्रहो नामोनचत्वारिंशोध्यायः ॥ अध्याय {४०} अथ चत्वारिंशोऽध्यायः अर्घ्यदानविधानं भगवानुवाच पूर्वमासित्महद्भूतं सर्वभूतभयङ्करं ।४०.००१ तद्देवैर्निहितं भुमौ स वास्तुपुरुषः स्मृतः ॥४०.००१ चतुःषष्टिपदे क्षेत्रे ईशं कोणार्धसंस्थितं ।४०.००२ घृताक्षतैस्तर्पयेत्तं पर्जन्यं पदगतं ततः ॥४०.००२ उत्पलादिभिर्जयन्तञ्च द्विपदस्थं पताकया ।४०.००३ महेन्द्रञ्चैककोष्ठस्थं सर्वरक्तैः पदे रविं ॥४०.००३ वितानेनार्धपदगं सत्यं पदे भृशं घृतैः ।४०.००४ व्योम शाकुनमांसेन(२) कोणार्धपदसंस्थितं ॥४०.००४ स्रुचा चार्धपदे वह्निं पूषाणं लाजयैकतः ।४०.००५ स्वर्णेन वितथं द्विष्ठं मथनेन गृहाक्षतं ॥४०.००५ मांसौदनेन धर्मेशमेकैकस्मिन् स्थितं द्वयं ।४०.००६ गन्धर्वं द्विपदं गन्धैर्भृशं शाकुनजिह्वया ॥४०.००६ एकस्थमूर्ध्वसंस्थञ्च मृगं नीलपटैस्तथा ।४०.००७ पितॄन् कृशरयार्धस्थं दन्तकाष्ठैः पदस्थितं ॥४०.००७ टिप्पणी १ नृहस्त इति ख, चिह्नितपुस्तकपाठः २ व्योम शाकुलमांसेनेति ख, चिह्नितपुस्तकपाठः पृष्ठ ११६ दौवारिकं द्विसंस्थञ्च सुग्रीवं यावकेन तु ।४०.००८ पुष्पदन्तं कुशस्तम्बैः पद्मैर्वरुणमेकतः ॥४०.००८ असुरं सुरया द्विष्ठं पदे शेषं घृताम्भसा ।४०.००९ यवैः पापं पदार्धस्थं रोगमर्धे च मण्डकैः ॥४०.००९ नागपुष्पैः पदे नागं मुख्यं भक्ष्यैर्द्विसंस्थितं ।४०.०१० मुद्गौदनेन भल्लाटं पदे सोमं पदे तथा ॥४०.०१० मधुना पायसेनाथ शालूकेन ऋषिं द्वये ।४०.०११ पदे दितिं लोपिकाभिरर्धे दितिमथापरं ॥४०.०११ पूरिकाभिस्ततश्चापमीशाधः पयसा पदे ।४०.०१२ ततोधश्चापवत्सन्तु दध्ना चैकपदे स्थितं ॥४०.०१२ लड्डुकैश्च मरीचिन्तु पूर्वकोष्ठचतुष्टये(१) ।४०.०१३ सवित्रे रक्तपुष्पाणि ब्रह्माधःकोणकोष्ठके ॥४०.०१३ तदधःकोष्ठके दद्यात्सावित्र्यै च कुशोदकं ।४०.०१४ विवस्तेऽरुणं दद्याच्चन्दनञ्चतुरङ्घ्रिषु ॥४०.०१४ रक्षोधःकोणकोष्ठे तु इन्द्रायान्नं निशान्वितं ।४०.०१५ इन्द्रजयाय तस्याधो घृतान्नं कोणकोष्ठके ॥४०.०१५ चतुष्पदेषु दातव्यमिन्द्राय गुडपायसं ।४०.०१६ वाय्वधःकोणदेशे तु रुद्राय पक्वमांसकं ॥४०.०१६ तदधःकोणकोष्ठे तु यक्षायार्द्रं फलन्तथा ।४०.०१७ महीधराय मांसान्नं माघञ्च चतुरङ्घ्रिषु ॥४०.०१७ मध्ये चतुष्पदे स्थाप्या ब्रह्मणे तिलतण्डुलाः ।४०.०१८ चरकीं माषसर्पिभ्यां स्कन्दं कृशरयासृजा ॥४०.०१८ रक्तपद्मैर्विदारीञ्च कन्दर्पञ्च पलोदनैः ।४०.०१९ पूतनां पलपित्ताभ्यां मांसासृग्भ्याञ्च जम्भकं ॥४०.०१९ टिप्पणी १ मध्यचतुष्टये इति ख, चिह्नितपुस्तकपाठः पृष्ठ ११७ पित्तासृगस्थिभिः पापां पिलिपिञ्जं(१) स्रजासृजा ।४०.०२० ईशाद्यान् रक्तमांसेन अभावादक्षतैर्यजेत् ॥४०.०२० रक्षोमातृगणेभ्यश्च पिशाचादिभ्य एव च ।४०.०२१ पितृभ्यः क्षेत्रपालेभ्यो बलीन् दद्यात्प्रकामतः ॥४०.०२१ आहुत्वैतानसन्तर्प्य प्रासादादीन्न कारयेत् ।४०.०२२ ब्रहमस्थाने हरिं लक्ष्मीं गणं पश्चात्समर्चयेत् ॥४०.०२२ महीश्वरं वास्तुमयं(२) वर्धन्या सहितं घटं ।४०.०२३ ब्रह्माणं मध्यतः कुम्भे ब्रह्मादींश्च दिगीश्वरान् ॥४०.०२३ दद्यात्पूर्णाहुतिं पश्चात्स्वस्ति वाच्य प्रणम्य च ।४०.०२४ प्रगृह्य कर्करीं सम्यक्मण्डलन्तु प्रदक्षिणं ॥४०.०२४ सूत्रमार्देण हे ब्रह्मंस्तोयधाराञ्च भ्रामयेत् ।४०.०२५ पूर्ववत्तेन मार्गेण सप्त वीजानि वापयेत् ॥४०.०२५ प्रारम्भं तेन मार्गेण तस्य खातस्य कारयेत् ।४०.०२६ ततो गर्तं खनेन्मध्ये हस्तमात्रं प्रमाणतः ॥४०.०२६ चतुरङ्गुलकं चाधश्चोपलिप्यार्चयेत्ततः ।४०.०२७ ध्यात्वा चतुर्भुजं विष्णुमर्घ्यं दद्यात्तु कुम्भतः ॥४०.०२७ कर्कर्या पूरयेत्श्वभ्रं शुक्लपुष्पाणि च न्यसेत् ।४०.०२८ दक्षिणावर्तकं श्रेष्ठं बीजैर्मृद्द्भिश्च पूरयेत् ॥४०.०२८ अर्घ्यादानं विनिष्पाद्य गोवस्त्रादीन्ददेद्गुरौ ।४०.०२९ कालज्ञाय स्थपतये वैष्णवादिभ्य अर्चयेत् ॥४०.०२९ ततस्तु खानयेद्यत्नज्जलान्तं यावदेव तु ।४०.०३० पुरुषाधःस्थितं शल्यं(३) न गृहे दोषदं भवेत् ॥४०.०३० टिप्पणी १ पिलिपिच्छमिति ङ, चिह्नितपुस्तकपाठः २ महीधरं वास्तुमयमिति ख, ङ, चिह्नितपुस्तकपाठः ३ पुरुषाधिष्ठितं शल्यमिति ग, चिह्नितपुस्तकपाठः पृष्ठ ११८ अस्थिशल्ये विद्यते वै भित्तिर्वै गृहिणोऽसुखं ।४०.०३१ यन्नामशब्दं शृणुयात्तत्र शल्यं तदुद्भवं ॥४०.०३१ इत्यादिमहापुराणे आग्नेये अर्घ्यदानकथनं नाम चत्वारिंशोऽध्यायः ॥ अध्याय {४१} अथैकचत्वारिंशोऽध्यायः शिलाविन्यासविधानं भगवानुवाच पादप्रतिष्ठां वक्षामि शिलाविन्यासलक्षणं ।४१.००१ अग्रतो मण्डपः कार्यः कुण्डलानान्तु चतुष्टयं ॥४१.००१ कुम्भन्यासेष्टकान्यासो द्वारस्तम्भोच्छ्रयं शुभं ।४१.००२ पादोनं पूरयेत्खातं तत्र वास्तुं यजेत्समे ॥४१.००२ इष्टकाश्च सुपक्वाः स्युर्द्वादशाङ्गुलसम्मिताः ।४१.००३ सविस्तारत्रिभागेन वैपुल्येन(१) समन्विताः ॥४१.००३ करप्रमाणा श्रेष्ठा स्याच्छिलाप्यथ शिलामये(२) ।४१.००४ नव कुम्भांस्ताम्रमयान् स्थापयेदिष्टकाघटान् ॥४१.००४ अद्भिः पञ्चकषायेण सर्वौषधिजलेन च ।४१.००५ गन्धतोयेन च तथा कुम्भैस्तोयसुपूरितैः ॥४१.००५ हिरण्यव्रीहिसंयुक्तैर्गन्धचन्दनचर्चितैः ।४१.००६ आपो हि ष्ठेति तिसृभिः शन्नो देवीति चाप्यथ ॥४१.००६ तरत्समन्दीरिति च(३) पावमानीभिरेव च ।४१.००७ उदुत्तमं वरुणमिति कथानश्च तथैव च ॥४१.००७ टिप्पणी १ सुविस्तारं विभागेन नैपुण्यनेति ख, चिह्नितपुस्तकपाठः २ शिला स्यान्न शिलामये इति ग, चिह्नितपुस्तकपाठः ३ भवतत्समन्दीरितीति ख, ग, ङ, चिह्नितपुस्तकद्वयपाठः पृष्ठ ११९ वरुणस्येति मन्त्रेण हंसः शुचिषदित्यपि ।४१.००८ श्रीसूक्तेन तथा शिलाः संस्थाप्य संघटाः(१) ॥४१.००८ शय्यायां मण्डपे प्राच्यां मण्डले हरिमर्चयेत् ।४१.००९ जुहुयाज्जनयित्वाग्निं समिधो द्वादशीस्ततः ॥४१.००९ आघारावाज्यभागौ तु प्रणवेनैव कारयेत् ।४१.०१० अष्टाहुतीस्तथाष्टान्तैराज्यं(२) व्याहृतिभिः क्रमात् ॥४१.०१० लोकेशानामग्नये वै सोमायावग्रहेषु च(३) ।४१.०११ पुरुषोत्तमायेति च व्याहृतीर्जुहुयात्ततः ॥४१.०११ प्रायश्चित्तं ततः पूर्णां मूर्तिमांसघृतांस्तिलान् ।४१.०१२ वेदाद्यैर्द्वादशान्तेन(४) कुम्भेषु च पृथक्पृथक् ॥४१.०१२ प्राङ्मुखस्तु गुरुः कुर्यादष्टदिक्षु विलिप्य च ।४१.०१३ मध्ये चैकां शिलां कुम्भं न्यसेदेतान् सुरान् क्रमात् ॥४१.०१३ पद्मं चैव महापद्मं मकरं कच्छपं तथा ।४१.०१४ कुमुदञ्च तथा नन्दं पद्मं शङ्खञ्च पद्मिनीं ॥४१.०१४ कुम्भान्न चालयेत्तेषु इष्टकानान्तु देवताः ।४१.०१५ ईशानान्ताश्च पूर्वादाविष्टकां प्रथमं न्यसेत् ॥४१.०१५ शक्तयो विमलाद्यास्तु इष्टकानान्तु देवताः ।४१.०१६ न्यसनीया यथा योगं मध्ये न्यस्या त्वनुग्रहा ॥४१.०१६ अव्यङ्गे चाक्षत पूर्णं मुनेरङ्गिरसः सुते ।४१.०१७ इष्टके त्वं प्रयच्छेष्टं प्रतिष्ठां कारयाम्यहं ॥४१.०१७ मन्त्रेणानेन विन्यस्य इष्टका देशक्रमोत्तमः ।४१.०१८ टिप्पणी १ सम्युता इति ङ, चिह्नितपुस्तकपाठः .। २ अष्टाहुतीप्लथा पूर्णैराज्यमिति ग, घ, ङ, इति पुस्तकत्रयपाठः ३ सोमाय च ग्रहाय चेति ङ, चिह्नितपुस्तकपाठः ४ द्वादशार्णेन इति ख, चिह्नितपुस्तकपाठः पृष्ठ १२० गर्भाधानं ततः कुर्यान्मध्यस्थाने समाहितः ॥४१.०१८ कुम्भोपरिष्ठादेवेशं पद्मिनीं न्यस्य देवतां ।४१.०१९ मृत्तिकाश्चैव पुष्पाणि धातवो रत्नमेव च(१) ॥४१.०१९ लौहानि दिक्पतेरस्त्रं यजेद्वै गर्भभाजने ।४१.०२० द्वादशाङ्गुलविस्तारे चतुरङ्गुलकोच्छ्रये ॥४१.०२० पद्माकारे ताम्रमये भाजने पृथिवीं यजेत् ।४१.०२१ एकान्ते सर्वभूतेशे पर्वतासनमण्डिते ॥४१.०२१ समुद्रपरिवारे त्वं देवि गर्भं समाश्रय ।४१.०२२ नन्दे नन्दय वासिष्ठे वसुभिः प्रजया(२) सह ॥४१.०२२ जये भार्गवदायादे प्रजानां विजयावहे ।४१.०२३ पूर्णेङ्गिरसदायादे पूर्णकामं कुरुष्व मां ॥४१.०२३ भद्रे काश्यपदायादे कुरु भद्रां मतिं मम ।४१.०२४ सर्ववीजसमायुक्ते सर्वरत्नौषधीवृते ॥४१.०२४ जये सुरुचिरे नन्दे वासिष्ठे रम्यतामिह ।४१.०२५ प्रजापतिसुते देवि चतुरस्रे महीयसि ॥४१.०२५ सुभगे सुप्रभे भद्रे गृहे काश्यपि रम्यतां ।४१.०२६ पूजिते परमाश्चर्ये गन्धमाल्यैरलङ्कृते ॥४१.०२६ भवभूतिकरी देवि गृहे भार्गवि रम्यतां ।४१.०२७ देशस्वामिपुरस्वामिगृहस्वामिपरिग्रहे ॥४१.०२७ मनुष्यादिकतुष्ट्यर्थं पशुवृद्धिकरी भव ।४१.०२८ एवमुक्त्वा ततः खातं गोमूत्रेण तु सेचयेत् ॥४१.०२८ कृत्वा निधापयेद्गर्भं गर्भाधानं भवेन्निशि ।४१.०२९ गोवस्त्रादि प्रदद्याच्च गुरवेन्येषु भोजनं ॥४१.०२९ टिप्पणी १ रसमेव चेति ग. घ. ङ. चिह्नितपुस्तकद्वयपाठः २ प्रिययेति ग, चिह्नितपुस्तकपाठः पृष्ठ १२१ गर्भं न्यस्येष्टका न्यस्य ततो गर्भं प्रपूरयेत् ।४१.०३० पीठबन्धमतः कुर्यान्मितप्रासादमानतः(१) ॥४१.०३० पीठोत्तमञ्चोच्छ्रयेण प्रासादस्यार्धविस्तरात् ।४१.०३१ पदहीनं मध्यमं स्यात्कनिष्ठं चोत्तमार्धतः ॥४१.०३१ पीठबन्धोपरिष्ठात्तु वास्तुयागं पुनर्यजेत् ।४१.०३२ पादप्रतिष्ठाकारी तु निष्पापो दिवि मोदते ॥४१.०३२ देवागारं करोमीति मनसा यस्तु चिन्तयेत् ।४१.०३३ तस्य कायगतं पापं तदह्ना हि प्रणश्यति ॥४१.०३३ कृते तु किं पुनस्तस्य प्रासादे विधिनैव तु ।४१.०३४ अष्टेष्टकसमायुक्तं यः कुर्याद्देवतालयं ॥४१.०३४ न तस्य फलसम्पत्तिर्वक्तुं शक्येत केनचित् ।४१.०३५ अनेनैवानुमेयं हि फलं प्रासादविस्तरात् ॥४१.०३५ ग्राममध्ये च पूर्वे च प्रत्यग्द्वारं प्रकल्पयेत् ।४१.०३६ विदिशासु च सर्वासु ग्रामे प्रत्यङ्मुखो भवेत् ।४१.०३६ दक्षिणे चोत्तरे चैव पश्चिमे प्राङ्मुखो भवेत् ॥४१.०३६ इत्यादिमहापुराणे आग्नेये पातालयोगकथनं नाम एकचत्वारिंशोऽध्यायः ॥ अध्याय {४२} अथ द्वाचत्वारिंशोऽध्यायः प्रासादलक्षणकथनं हयग्रीव उवाच प्रासादं सम्प्रवक्ष्यामि सर्वसाधारणं शृणु ।४२.००१ चतुरस्रीकृतं क्षेत्रं भजेत्षोडशधा बुधः ॥४२.००१ मध्ये तस्य चतुर्भिस्तु कुर्यादायसमन्वितं ।४२.००२ टिप्पणी १ समप्रासादमानत इति ङ, चिह्नितपुस्तकपाठः पृष्ठ १२२ द्वदशैव तु भागानि भित्त्यर्थं परिकल्पयेत् ॥४२.००२ जङ्घोच्छ्रायन्तु कर्तव्यं चतुर्भागेण चायतं(१) ।४२.००३ जङ्घायां द्विगुणोच्छ्रायं मञ्जर्याः कल्पयेद्बुधः ॥४२.००३ तुर्यभागेन मञ्जर्याः कार्यः सम्यक्प्रदक्षिणः(२) ।४२.००४ तन्माननिर्गमं कार्यमुभयोः पार्श्वयोः समं ॥४२.००४ शिखरेण समं कार्यमग्रे जगति विस्तरं ।४२.००५ द्विगुणेनापि कर्तव्यं यथाशोभानुरूपतः ॥४२.००५ विस्तारान्मण्डपस्याग्रे गर्भसूत्रद्वयेन तु ।४२.००६ दैर्घ्यात्पादाधिकं कुर्यान्मध्यस्तम्भैर्विभूषितं ॥४२.००६ प्रासादगर्भमानं वा कुर्वीत मुखमण्डपं ।४२.००७ एकाशीतिपदैर्व्यास्तुं पश्चात्मण्डपमारभेत् ॥४२.००७ शुकान् प्राग्द्वारविन्यासे पादान्तःस्थान् यजेत्सुरान् ।४२.००८ तथा प्राकारविन्यासे यजेद्द्वात्रिंशदन्तगान्(३) ॥४२.००८ सर्वसाधारणं चैतत्प्रासादस्य च लक्षणं ।४२.००९ मानेन प्रतिमाया वा प्रासादमपरं शृणु ॥४२.००९ प्रतिमायाः प्रमाणन कर्तव्या पिण्डिका शुभा ।४२.०१० गर्भस्तु पिण्डिकार्धेन गर्भमानास्तु भित्तयः ॥४२.०१० भित्तेरायाममानेन उत्सेधन्तु प्रकल्पयेत् ।४२.०११ भित्त्युच्छ्रायात्तु द्विगुणं शिखरं कल्पयेद्बुधः ॥४२.०११ शिखरस्य तु तुर्येण भ्रमणं परिकल्पयेत् ।४२.०१२ शिखरस्य चतुर्थेन व्यग्रतो मुखमण्डपं ॥४२.०१२ टिप्पणी १ चत्युर्भागेण वा युतमिति ख, चिह्नितपुस्तकपाठः । चतुर्भागेण संयुतमिति ग, चिह्नितपुस्तकपाठः २ सम्यक्कुर्यात्प्रदक्षिणमिति ख, चिह्नितपुस्तकपाठः ३ द्वात्रिंशदन्तरे इति ख, चिह्नितपुस्तकपाठः पृष्ठ १२३ अष्टमांसेन गर्भस्य रथकानान्तु निर्गमः ।४२.०१३ परिधेर्गुणभागेन रथकांस्तत्र कल्पयेत् ॥४२.०१३ तत्तृतीयेण(४) वा कुर्याद्रथकानान्तु निर्गमं ।४२.०१४ वामत्रयं स्थापनीयं रथकत्रितये सदा ॥४२.०१४ शिखरार्थं हि सूत्राणि चत्वारि विनिपातयेत् ।४२.०१५ शुकनाशोर्ध्वतः सूत्रं तिर्यग्भूतं निपातयेत् ॥४२.०१५ शिखरस्यार्धभागस्थं सिंहं तत्र तु कारयेत् ।४२.०१६ शुकनासां स्थिरीकृत्य मध्यसन्धौ निधापयेत् ॥४२.०१६ अपरे च तथा पार्श्वं तद्वत्सूत्रं निधापयेत् ।४२.०१७ तदूर्ध्वन्तु भवेद्वेदी सकण्टा मनसारकं ॥४२.०१७ स्कन्धभग्नं न कर्तव्यं विकरालं तथैव च ।४२.०१८ ऊर्ध्वं च वेदिकामानात्कलशं परिकल्पयेत् ॥४२.०१८ विस्ताराद्द्विगुणं द्वारं कर्तव्यं तु सुशोभनं ।४२.०१९ उदुम्बरौ तदूर्ध्वञ्च न्यसेच्छाखां सुमङ्गलैः ॥४२.०१९ द्वारस्य तु चतुर्थांशे कार्यौ चण्डप्रचण्दकौ ।४२.०२० विश्वक्सेनवत्सदण्डौ शिखोर्ध्वोडुम्बरे श्रियं ॥४२.०२० दिग्गजैः स्नाप्यमानान्तां घटेः साब्जां सुरूपिकां ।४२.०२१ प्रासादस्य चतुर्थांशैः प्राकारस्योच्छ्रयो भवेत् ॥४२.०२१ प्रासादात्पादहीनस्तु गोपुरस्योच्छ्रयो भवेत् ।४२.०२२ पञ्चहस्तस्य देवस्य एकहस्ता तु पीठिका ॥४२.०२२ गारुडं मण्डपञ्चाग्रे एकं भौमादिधाम च ।४२.०२३ कुर्याद्धि प्रतिमायान्तु दिक्षु चाष्टमासु चोपरि ॥४२.०२३ पूर्वे वराहं दक्षे च नृसिंहं श्रीधरं जले ।४२.०२४ उत्तरे तु हयग्रीवनाग्नेय्यां जामदग्न्यकं ॥४२.०२४ टिप्पणी १ तत्तुरीयेणेति ख, चिह्नितपुस्तकपाठः पृष्ठ १२४ नैरृत्यां रामकं वायौ वामनं वासुदेवकं ।४२.०२५ ईशे प्रासादरचना देया वस्वर्ककादिभिः ।४२.०२५ द्वारस्य चाष्टमाद्यंशं त्यत्का बेधो न दोषभाक् ॥४२.०२५ इत्यादिमहापुराणे आग्नेये प्रासादलक्षणं नाम द्वाचत्त्वारिंशोऽध्यायः अध्याय {४३} अथ त्रिचत्वारिंशोऽध्यायः प्रासाददेवतास्थापनं भगवानुवाच प्रासादे देवताः स्थाप्या वक्ष्ये ब्रह्मन् शृणुष्व मे ।४३.००१ पञ्चायतमध्ये तु वासुदेवं निवेशयेत् ॥४३.००१ वामनं नृहरिञ्चाश्वशीर्षं तद्वञ्च शूकरं ।४३.००२ आग्नेये नैरृते चैव वायव्ये चेशगोचरे ॥४३.००२ अथ नारायणं मध्ये आग्नेय्यामम्बिकां न्यसेत् ।४३.००३ नैरृत्यां भास्करं वायौ ब्रह्माणं लिङ्गमीशके ॥४३.००३ अथवा रुद्ररूपन्तु अथवा नवधामसु ।४३.००४ वासुदेवं न्यसेन्मध्ये पूर्वादौ वामवामकान् ॥४३.००४ इन्द्रादीन् लोकपालांश्च अथवा नवधामसु ।४३.००५ पञ्चायतनकं कुर्यात्मध्ये तु पुरुषोत्तमं ॥४३.००५ लक्ष्मीवैश्रवणौ पूर्वं दक्षे मातृगणं न्यसेत् ।४३.००६ स्कन्दं गणेशमीशानं सूर्यादीन् पश्चिमे ग्रहान् ॥४३.००६ उत्तरे दश मत्स्यादीनाग्नेय्यां चण्डिकां तथा ।४३.००७ नैरृत्यामम्बिकां स्थाप्य वायव्ये तु सरस्वतीं ॥४३.००७ पद्मामैशे वासुदेवं मध्ये नारायणञ्च वा ।४३.००८ त्रयोदशालये मध्ये विश्वरूपं न्यसेद्धरिं ॥४३.००८ पृष्ठ १२५ पूर्वादौ केशवादीन् वा अन्यधामस्वयं हरिं(१) ।४३.००९ मृण्मयी दारुघटिता लोहजा रत्नजा तथा ॥४३.००९ शैलजा गन्धजा चैव कौसुमी(२) सप्तधा स्मृता ।४३.०१० कौसुमी गन्धजा चैव मृण्मयी प्रतिमा तथा ॥४३.०१० तत्कालपूजिताश्चैताः सर्वकामफलप्रदाः ।४३.०११ अथ शैलमयीं वक्ष्ये शिला यत्र च गृह्यते ॥४३.०११ पर्वतानामभावे च गृह्णीयाद्भूगतां शिलां ।४३.०१२ पाण्डरा ह्यरुणा पीता कृष्णा शस्ता तु वैर्णिनां ॥४३.०१२ न यदा लभ्यते सम्यग्वर्णिनां वर्णतः शिला ।४३.०१३ वर्णाद्यापादानं तत्र जुह्यात्सिंहविद्यया ॥४३.०१३ शिलायां शुक्लरेखाग्र्या कृष्णाग्र्या सिंहहोमतः ।४३.०१४ कांस्यघण्टानिनादा स्यात्पुंलिङ्गा विस्फुलिङ्गिका ॥४३.०१४ तन्मन्दलक्षणा(३) स्त्री स्याद्रूपाभावान्नपुंसका ।४३.०१५ दृश्यते मण्डलं यस्यां सगर्भां तां विवर्जयेत् ॥४३.०१५ प्रतिमार्थं वनं गत्वा व्रजयागं समाचरेत् ।४३.०१६ तत्र खात्वोपलिप्याथ मण्डपे तु हरिं यजेत् ॥४३.०१६ बलिं दत्वा कर्मशस्त्रं टङ्कादिकमथार्चयेत् ।४३.०१७ हुत्वाथ शालितोयेन अस्त्रेण प्रोक्षयेच्छिलां ॥४३.०१७ रक्षां कृत्वा नृसिंहेन मूलमन्त्रेण पूजयेत्(४) ।४३.०१८ हुत्वा पूर्णाहुतिं दद्यात्ततो भूतबलिं गुरुः ॥४३.०१८ टिप्पणी १ अन्यधामसु यज्ञविदिति ख, चिह्नितपुस्तकपाठः । युग्मधामस्वयं हरिमिति घ, चिह्नितपुस्तकपाठः २ कौमुदी इति ख, घ, चिह्नितपुस्तकद्वयपाठः ३ उन्मत्तलक्षणा इति ङ, चिह्नितपुस्तकपाठः ४ मन्त्रयेदिति ख, चिह्नितपुस्तकपाठः पृष्ठ १२६ अत्र ये संस्थिताः सत्त्वा यातुधानाश्च गुह्यकाः ।४३.०१९ सिद्धादयो वा ये चान्ये तान् सम्पूज्य क्षमापयेत् ॥४३.०१९ विष्णुबिम्बार्थमस्माकं(१) यात्रैषा केशवाज्ञया ।४३.०२० विष्ण्वर्थं यद्भवेत्कार्यं युष्माकमपि तद्भवेत् ॥४३.०२० अनेन बलिदानेन प्रीता भवत सर्वथा ।४३.०२१ क्षमेण गच्छतान्यत्र मुक्त्वा स्थानमिदं त्वरात् ॥४३.०२१ दे एवं प्रबोधिताः सत्त्वा यान्ति तृप्ता यथासुखं ।४३.०२२ शिल्पिभिश्च चरुं प्राश्य स्वप्नमन्त्रं जपेन्निशि ॥४३.०२२ ओं नमः सकललोकाय विष्णवे प्रभविष्णवे ।४३.०२३ विश्वाय विश्वरूपाय स्वप्नाधिपतये(२) नमः ॥४३.०२३ आचक्ष्व देवदेवेश प्रसुप्तोस्मि(३) तवान्तिकं ।४३.०२४ स्वप्ने सर्वाणि कार्याणि हृदिस्थानि तु यानि मे ॥४३.०२४ ओं ओं ह्रूं फट्विष्णवे स्वाहा(४) शुभे स्वप्ने शुभं सर्वं ह्यशुभे सिंहहोमतः ।४३.०२५ प्रातरर्घ्यं शिलायां तु दत्वास्त्रेणास्त्रकं यजेत् ॥४३.०२५ कुद्दालटङ्कशस्त्राद्यं मध्वान्याक्तमुखञ्चरेत् ।४३.०२६ आत्मानं चिन्तयेद्विष्णुं शिल्पिनं विश्वकर्मकं(५) ॥४३.०२६ शस्त्रं विष्ण्वात्मकं(६) दद्यात्मुखपृष्ठादि दर्शयेत् ।४३.०२७ जितेन्द्रियः टङ्कहस्तः शिल्पी तु चतुरस्रकां ॥४३.०२७ टिप्पणी १ लोकसिद्ध्यर्थमस्माकमिति ख, चिह्नितपुस्तकपाठः २ विश्वाधिपतये इति ख, चिह्नितपुअतकपाठः ३ प्रपन्नोऽस्मि इति ख, चिह्नितपुस्तकपाठः ४ ओं ओं ह्रीं फडिति ग, चिह्नितपुस्तकपाठः ५ विश्वकर्मणिमिति ख, ग, चिह्नितपुअतकपाठः ६ विश्वात्मकमिति ग, घ, ङ, चिह्नितपुस्तकत्रयपाठः पृष्ठ १२७ शिलां कृत्वा पिण्डिकार्थं किञ्चिन्न्यूनान्तु कल्पयेत् ।४३.०२८ रथे स्थाप्य समानीय सवस्त्रां कारुवेश्मनि ।४३.०२८ पूजयित्वाथ घटयेत्प्रतिमां स तु कर्मकृत् ॥४३.०२८ इत्यादि महापुराणे आग्नेये शान्त्यादिवर्णनं नाम त्रिचत्वारिंशोऽध्यायः ॥ अध्याय {४४} अथ चतुश्चत्वारिंशोऽध्यायः वासुदेवादिप्रतिमालक्षणविधिः भगवानुवाच वासुदेवादिप्रतिमालक्षणं प्रवदामि ते ।४४.००१ प्रासादस्योत्तरे पूर्वमुखीं वा चोत्तराननां ॥४४.००१ संस्थाप्य पूज्य च बलिं दत्वाथो मध्यसूचकं ।४४.००२ शिलां शिल्पी तु नवधा विभज्य नवमेऽंशके ॥४४.००२ सूर्पभक्तैः शिलायां तु भागं स्वाङ्गुलमुच्यते ।४४.००३ द्व्यङ्गुलं गोलकं नाम्ना कालनेत्रं तदुच्यते ॥४४.००३ भागमेकं त्रिधा भक्त्वा पार्ष्णिभागं प्रकल्पयेत् ।४४.००४ भागमेकं तथा जानौ ग्रीवायां भागमेव च ॥४४.००४ मुकुटं तालमात्रं स्यात्तालमात्रं तया मुखं ।४४.००५ तालेनैकेन कण्ठन्तु तालेन हृदयं तथा ॥४४.००५ नाभिमेढ्रान्तरन्तालं द्वितालावूरुकौ तथा ।४४.००६ तालद्वयेन जङ्घा स्यात्सूत्राणि शृणु साम्प्रतं ॥४४.००६ कार्यं सूत्रद्वयं पादे जङ्घामध्ये तथापरं ।४४.००७ जानौ सूत्रद्वयं कार्यमूरूमध्ये तथापरं ॥४४.००७ मेढ्रे तथापरं कार्यं कट्यां सूत्रन्तथापरं ।४४.००८ मेखलाबन्धसिद्ध्यर्थं नाभ्यां चैवापरन्तथा ॥४४.००८ पृष्ठ १२८ हृदये च तथा कार्यं कण्ठे सूत्रद्वयं तथा ।४४.००९ ललाते चापरं कार्यं मस्तके च तथापरं ॥४४.००९ मुकुटोपरि कर्तव्यं सूत्रमेकं विचक्षणैः ।४४.०१० सूत्राण्यूर्ध्वं प्रदेयानि सप्तैव कमलोद्भव(१) ॥४४.०१० कक्षात्रिकान्तरेणैव घट्सूत्राणि प्रदापयेत् ।४४.०११ मध्यसूत्रं तु सन्त्यज्य सूत्राण्येव निवेदयेत् ॥४४.०११ ललाटं नासिकावक्त्रं कर्तव्यञ्चतुरङ्गुलं ।४४.०१२ ग्रीवाकर्णौ तु कर्तव्यौ आयामाच्चतुरङ्गुलौ ॥४४.०१२ द्व्यङ्गुले हनुके कार्ये विस्ताराच्चिबुकन्तथा ।४४.०१३ अष्टाङ्गुलं ललाटन्तु विस्तारेण प्रकीर्तितम् ॥४४.०१३ परेण द्व्यङ्गुलौ शङ्खौ कर्तव्यावलकान्वितौ ।४४.०१४ चतुरङ्गुलमाख्यातमन्तरं कर्णनेत्रयोः ॥४४.०१४ द्व्यङ्गुलौ पृथुकौ कर्णौ कर्णापाङ्गार्धपञ्चमे ।४४.०१५ भ्रूसमेन तु सूत्रेण कर्णश्रोत्रं प्रकीर्तितम् ॥४४.०१५ विद्धं षडङ्गुलं कर्णमविद्धञ्चतुरङ्गुलम् ।४४.०१६ चिवुकेन समं विद्धमविद्धं वा षडङ्गुलम् ॥४४.०१६ गन्धपात्रं तथावर्तं शष्कुलीं कल्पयेत्तथा ।४४.०१७ द्व्यङ्गुलेनाधरः कार्यस्तस्यार्धेनोत्तराधरः ॥४४.०१७ अर्धाङ्गुलं तथा नेत्रं(२) वक्त्रन्तु चतुरङ्गुलम् ।४४.०१८ आयामेन तु वैपुल्यात्सार्धमङ्गुलमुच्यते ॥४४.०१८ अव्यात्तमेवं स्याद्वक्त्रं व्यात्तं त्र्यङ्गुलमिष्यते ।४४.०१९ नासावंशसमुच्छ्रायं मूले त्वेकाङ्गुलं मतम् ॥४४.०१९ उच्छ्राया द्व्यङ्गुलं चाग्रे करवीरोपमाः स्मृताः ।४४.०२० टिप्पणी १ मुकुटोपरि इति ख, चिह्नितपुस्तकपाठः २ तथा गोजी इति ख, चिह्नितपुस्तकपाठः पृष्ठ १२९ अन्तरं चक्षुषोः कार्यं चतुरङ्गुलमानतः ॥४४.०२० द्व्यङ्गुलं चाक्षिकोणं च द्व्यङ्गुलं चान्तरं तयोः ।४४.०२१ तारा नेत्रत्रिभागेण दृक्तारा पञ्चमांशिका ॥४४.०२१ त्र्यङ्गुलं नेत्रविस्तारं द्रोणी चार्धाङ्गुला मता ।४४.०२२ तत्समाणा भ्रुवोर्लेखा भ्रुवौ चैव समे मते ॥४४.०२२ भ्रूमध्यं द्व्यङ्गुलं कार्यं भ्रूदैर्घ्यं चतुराङ्गुलम्(१) ।४४.०२३ षट्त्रिंशदङ्गुलायामम्मस्तकस्य तु वेष्टनम् ॥४४.०२३ मूर्तीनां केशवादीनां द्वात्रिंशद्वेष्टनं भवेत् ।४४.०२४ पञ्चनेत्रा त्वधोग्रीवा विस्ताराद्वेष्टनं पुनः ॥४४.०२४ त्रिगुणन्तु भवेदूर्ध्वं विस्तृताष्टाङ्गुलं पुनः ।४४.०२५ ग्रीवात्रिगुणमायामं ग्रीवावक्षोन्तरं भवेत् ॥४४.०२५ स्कन्धावष्टाङ्गुलौ कार्यौ त्रिकलावंशकौ शुभौ ।४४.०२६ सप्तनेत्रौ स्मृतौ बाहू प्रबाहू षोडशाङ्गुलौ ॥४४.०२६ त्रिकलौ विस्तृतौ बाहू प्रबाहू चापि तत्समौ ।४४.०२७ बाहुदण्डोर्ध्वतो ज्ञेयः परिणाहः कला नव ॥४४.०२७ सप्तदशाङ्गुलो मध्ये कूर्पारोर्धे च षोडश ।४४.०२८ कूर्पारस्य भवेन्नाहः त्रिगुणः कमलोद्भव ॥४४.०२८ नाहः प्रबाहुमध्ये तु षोडशाङ्गुल उच्यते ।४४.०२९ अग्रहस्ते परीणाहो द्वादशाङ्गुल उच्यते ॥४४.०२९ विस्तरेण करतलं कीर्तितं तु षडङ्गुलम् ।४४.०३० दैर्घ्यं सप्ताङ्गुलं कार्यं मध्या पज्चाङ्गुला मता ॥४४.०३० तर्जन्यनामिका चैव तस्मादर्धाङ्गुलं विना ।४४.०३१ कनिष्ठाङ्गुष्ठकौ कार्यौ चतुरङ्गुलसम्मितौ ॥४४.०३१ टिप्पणी १ भ्रूदैर्घ्याच्चतुरङ्गुला इति ङ, चिह्नितपुस्तकपाठः पृष्ठ १३० द्विपर्वोङ्गुष्ठकः कार्यः शेषागुल्यस्त्रिपर्विकाः ।४४.०३२ सर्वासां पर्वणोर्धेन नखमानं विधीयते ॥४४.०३२ वक्षसो यत्प्रमाणन्तु जठरं तत्प्रमाणतः ।४४.०३३ अङ्गुलैकं भवेन्नाभी वेधेन च प्रमाणतः ॥४४.०३३ ततो मेढ्रान्तरं कार्यं तालमात्रं प्रमाणतः ।४४.०३४ नाभिमध्ये प्रीणाहो द्विचत्वारिंशदङ्गुलैः ॥४४.०३४ अन्तरं स्तनयोः कार्यं तालमात्रं प्रमाणतः ।४४.०३५ चिवुकौ(१) यवमानौ तु मण्डलं द्विपदं भवेत् ॥४४.०३५ चतुःषष्ट्यङ्गुलं कार्यं वेष्टनं वक्षसः स्फुटम् ।४४.०३६ चतुर्मुखञ्च तदधोवेष्टनं परिकीर्तितम् ॥४४.०३६ परिणाहस्तथा कट्या चतुःपञ्चाशदङ्गुलैः ।४४.०३७ विस्तारश्चोरुमूले तु प्रोच्यते द्वादशङ्गुलः ॥४४.०३७ तस्मादभ्यधिकं मध्ये ततो निम्नतरं क्रमात् ।४४.०३८ विस्तृताष्टाङ्गुलं जानुत्रिगुणा परिणाहतः ॥४४.०३८ जङ्घामध्ये तु विस्तारः सप्ताङ्गुल उदाहृतः ।४४.०३९ त्रिगुणा परिधिश्चास्य जङ्घाग्रं पञ्चविस्तरात् ॥४४.०३९ त्रिगुणा परिधिश्चास्य पादौ तालप्रमाणकौ ।४४.०४० आयामादुत्थितौ पादौ चतुरङ्गुलमेव च ॥४४.०४० गुल्फात्पूर्वं तु कर्तव्यं प्रमाणाच्चतुरङ्गुलम् ।४४.०४१ त्रिकलं विस्तृतौ पादौ त्र्यङ्गुलो गुह्यकः स्मृतः ॥४४.०४१ पञ्चाङ्गुलस्तु नाहोस्य दीर्घा तद्वत्प्रदेशिनी ।४४.०४२ अष्टमाष्टांशतोन्यूनः शेषाङ्गुल्यः क्रमेण तु ॥४४.०४२ सपादाङ्गुलमुत्सेधमङ्गुष्टस्य प्रकीर्तितं ।४४.०४३ यवोनमङ्गुलं कार्यमङ्गुष्ठस्य नखं तथा ॥४४.०४३ टिप्पणी १ चूचुकौ इति ङ, चिह्नितपुस्तकपाठः पृष्ठ १३१ अर्धाङ्गुलं तथान्यासां(१) क्रमान्न्यूनं तु कारयेत् ।४४.०४४ अङ्गुलौ वृषणौ कार्यौ मेढ्रं तु चतुरङ्गुलम् ॥४४.०४४ परिणाहोत्र कोषाग्रं कर्तव्यञ्चतुरङ्गुलम् ।४४.०४५ षडङ्गुलपरीणाहौ वृषणौ परिकीर्तितौ ॥४४.०४५ प्रतिमा भूषणाढ्या स्यादेतदुद्देशलक्षणम् ।४४.०४६ अनयैव दिशा कार्यं लोके दृष्ट्वा तु लक्षणम् ॥४४.०४६ दक्षिणे तु करे चक्रमधस्तात्पद्ममेव च ।४४.०४७ वामे शङ्खं गदाधस्ताद्वासुदेवस्य लक्षणात् ॥४४.०४७ श्रीपुष्टौ वापि कर्तव्ये पद्मवीणाकरान्विते ।४४.०४८ ऊरुमात्रोच्छितायामे मालाविद्याधरौ(२) तथा ॥४४.०४८ प्रभामण्डलसंस्थौ तौ प्रभा हस्त्यादिभूषणा ।४४.०४९ पद्माभं पादपीठन्तु प्रतिमास्वेवमाचरेत् ॥४४.०४९ इत्यादिमहापुराणे आग्नेये प्रतिमालक्षणं नाम चतुश्चत्वारिंशोध्यायः ॥ अध्याय {४५} अथ पञ्चचत्वारिंशोध्यायः पिण्डिकालक्षणकथनं भगवानुवाच पिण्डिकालक्षणं वक्ष्ये दैर्घ्येण प्रतिमासमा ।४५.००१ उच्छ्रायं प्रतिमार्धन्तु चतुःषष्टिपुटां(२) च ताम् ॥४५.००१ त्यक्त्वा पङ्क्तिद्वयं चाधस्तदूर्ध्वं यत्तु कोष्ठकम् ।४५.००२ टिप्पणी १ सार्धाङ्गुलं तथायाममिति ङ, चिह्नितपुस्तकपाठः २ मणिविद्याधराविति घ, चिह्नितपुस्तकपाठः ३ चतुःषष्टिपदामिति ङ, चिह्नितपुस्तकपाठः पृष्ठ १३२ समन्तादुभयोः पार्श्वे अन्तस्थं परिमार्जयेत् ॥४५.००२ ऊर्ध्वं पङ्ग्क्तिद्वयं त्यक्त्वा अधस्ताद्यत्तु कोष्ठकम् ।४५.००३ अन्तः सम्मार्जयेत्यत्नात्पार्श्वयोरुभयोः समम् ॥४५.००३ तयोर्मध्यगतौ तत्र चतुष्कौ मार्जयेत्ततः ।४५.००४ चतुर्धा भाजयित्वा तु ऊर्ध्वपङ्क्तिद्वयं बुधः ॥४५.००४ मेखला भागमात्रा स्यात्खातं तस्यार्धमानतः ।४५.००५ भागं भागं परित्यज्य पार्श्वयोरुभयोः समं ॥४५.००५ दत्वा चैकं पदं वाह्ये प्रमाणं कारयेद्बुधः ।४५.००६ त्रिभागेण च भागस्याग्रे स्यात्तोयविनिर्गमः ॥४५.००६ नानाप्रकारभेदेन भद्रेयं(१) पिण्डिका शुभा ।४५.००७ अष्टताला तु कर्तव्या देवी लक्ष्मीस्तया स्त्रियः ॥४५.००७ भ्रुवौ यवाधिके कार्ये यवहीना तु नासिका ।४५.००८ गोलकेनाधिकं वक्त्रमूर्ध्वं तिर्यग्विवर्जितं ॥४५.००८ आयते नयने कार्ये त्रिभागोनैर्यवैस्त्रिभिः ।४५.००९ तदर्धेन तु वैपुल्यं नेत्रयोः परिकल्पयेत् ॥४५.००९ कर्णपाशो .धिकः कार्यः सृक्कणीसमसूत्रतः ।४५.०१० नम्रं कलाविहीनन्तु कुर्यादंशद्वयं तथा ॥४५.०१० ग्रीवा सार्धकला कार्या तद्विस्तारोपशोभिता ।४५.०११ नेत्रं विना तु विस्तारौ ऊरू जानू च पिण्डिका ॥४५.०११ अङ्घ्रिपृष्ठौ स्फिचौ कट्यां यथाभागं प्रकल्पयेत् ।४५.०१२ सप्तांशोनास्तथाङ्गुल्यो दीर्घं विष्कम्भनाहतं ॥४५.०१२ नेत्रैकवर्जितायामा जङ्घोरू च तथा कटिः ।४५.०१३ मध्यपार्श्वं च तद्वृत्तं घनं पीनं कुचद्वयं ॥४५.०१३ टिप्पणी १ तत्रेयमिति ङ, चिह्नितपुस्तकपाठः पृष्ठ १३३ तालमात्रौ स्तनौ कर्यौ कटिः सार्धकलाधिका ।४५.०१५ लक्ष्म शेषं पुरावत्स्यात्दक्षिणे चामुबुजं करे ॥४५.०१५ वामे वित्त्वं स्त्रियौ पार्श्वे शुभे चामरहस्तके ।४५.०१६ दीर्घघोणस्तु गरुडश्चक्राङ्गाद्यानथो वदे ॥४५.०१६ इत्यादिमहापुराणे आग्नेये पिण्डिकालक्ष्मादिलक्षणं नाम पञ्चचत्वारिंशोऽध्यायः अध्याय {४६} अथ षट्चत्वारिंशोऽध्यायः शालग्रामादिमूर्तिलक्षणकथनं भगवानुवाच शालग्रामादिमूर्तेश्च वक्ष्येहं भुक्तिमुक्तिदाः ।४६.००१ वासुदेवोऽसितो द्वारे शालग्रामद्विचक्रकः ॥४६.००१ ज्ञेयः सङ्कर्षणो लग्नद्विचक्रो रक्त उत्तमः ।४६.००२ सूक्ष्मचक्रो बहुच्छिद्रः प्रद्युम्नो नीलदीघवः ॥४६.००२ पीतो निरुद्धः पद्माङ्गो वर्तुलो द्वित्रिरेखवान् ।४६.००३ कृष्णो नारायणो नाभ्युन्नतः शुषिरदीर्घवान् ॥४६.००३ परमेष्ठो साब्जचक्रः पृष्ठच्छिद्रकश्च(१) विन्दुमान् ।४६.००४ स्थूलचक्रोऽसितो विष्णुर्मध्ये रेखा गदाकृतिः ॥४६.००४ नृसिंहः कपिकः स्थूलवक्रः स्यात्पञ्चविन्दुकः ।४६.००५ वराहः शक्तिलिङ्गः स्यात्तच्चक्रौ विषमौ सृतौ ॥४६.००५ इन्द्रनीलनिभः स्थूलस्त्रिरेखालाञ्छितः शुभः ।४६.००६ कूर्मस्तथोन्नतः पृष्ठे वर्तुलावर्तकोऽसितः ॥४६.००६ हयग्रीवोङ्कुशावाररेखो नीलः सविन्दुकः ।४६.००७ टिप्पणी १ पृथुश्च्च्छिद्रश्चेति ङ, चिह्नितपुस्तकपाठः पृष्ठ १३४ वैकुण्ठः एकचक्रोऽब्जी मणिभिः पुच्छरेखकः ॥४६.००७ मत्स्यो दीर्घस्त्रिविन्दुः स्यात्काचवर्णस्तु पूरितः ।४६.००८ श्रीधरो वनमालाङ्कः पञ्जरेखस्तु वर्तुलः ॥४६.००८ वामनो वर्तुलश्चातिह्रस्वो नीलः सविन्दुकः ।४६.००९ श्यामस्त्रिविक्रमो दक्षरेखो वामेन विन्दुकः ॥४६.००९ अनन्तो नागभोगाङ्गो नैकाभो नैकमूर्तिमान् ।४६.०१० स्थूलो दामोदरो मध्यचक्रो द्वाःसूक्ष्मविन्दुकः(१) ॥४६.०१० सुदर्शनस्त्वेकचक्रो लक्ष्मीनारायणो द्वयात् ।४६.०११ त्रिचक्रश्चाच्युतो देवस्त्रिचक्रको वा त्रिविक्रमः ॥४६.०११ जनार्दनश्चतुश्चक्रो वासुदेवश्च पञ्चभिः ।४६.०१२ षट्वक्रश्चैव प्रद्युम्नः सङ्कर्षणञ्च सप्तभिः ॥४६.०१२ पुरुषोत्तमोष्टचक्रो नवव्यूहो नवाङ्कितः ।४६.०१३ दशावतारो दशभिर्दशैकेनानिरुद्धकः ।४६.०१३ द्वादशात्मा द्वादशभिरत ऊर्ध्वमनन्तकः ॥४६.०१३ इत्यादिमहापुराणे आग्नेये शालग्रामादिमूर्तिलक्षणं नाम षट्चत्वारिंशोऽध्यायः अध्याय {४७} अथ सप्तचत्वारिंशोऽध्यायः शालग्रामादिपूजाकथनं भगवानुवाच शालग्रामादिचक्राङ्कपूजाः सिद्ध्यै वदामि ते ।४७.००१ त्रिविधा स्याद्धरेः पूजा काम्याकाम्योभयात्मिका ॥४७.००१ मीनादीनान्तु पञ्चानां काम्याथो वोभयात्मिका(२) ।४७.००२ टिप्पणी १ मध्यचक्राधः सूक्ष्मविन्दुक इति ङ, चिह्नितपुस्तकपाठः २ काम्यार्थेवोभयात्मकेति घ, चिह्नितपुस्तकपाठः पृष्ठ १३५ वराहस्य नृसिंहस्य वामनस्य च मुक्तये ॥४७.००२ चक्रादीनां त्रयाणान्तु शालग्रामार्चनं शृणु ।४७.००३ उत्तमा निष्फला पूजा कनिष्ठा सफलार्चना ॥४७.००३ मध्यमा मूर्तिपूजा स्याच्चक्राब्जे चतुरस्रके ।४७.००४ प्रणवं हृदि विन्यस्य षडङ्गङ्करदेहयोः ॥४७.००४ कृतमुद्रात्रयश्चक्राद्वहिः पूवे गुरुं यजेत् ।४७.००५ आप्ये गणं वायवे च धातारं नैरृते यजेत् ॥४७.००५ विधातारञ्च कर्तारं हर्तारं दक्षसौम्ययोः ।४७.००६ विश्वक्सेनं यजेदीशे आग्नेये क्षेत्रपालकम् ॥४७.००६ ऋगादिवेदान् प्रागादौ आधारानन्तकं भुवं ।४७.००७ पीठं पद्मं चार्कचन्द्रवह्न्याख्यं मण्डलत्रयं ॥४७.००७ आसनं द्वादशार्णेन तत्र स्थाप्य शिलां यजेत् ।४७.००८ अस्तेन च समस्तेन स्ववीजेन यजेत्क्रमात् ॥४७.००८ पूर्वादावथ वेदाद्यैर्गायत्रीभ्यां जितादिना ।४७.००९ प्रणवेनार्चयेत्पञ्चान्मुद्रास्तिस्रः प्रदर्शयेत् ॥४७.००९ विश्वक्सेनस्य चक्रस्य क्षेत्रपालस्य दर्शयेत् ।४७.०१० शालग्रामस्य प्रथमा पूजार्थो निष्फलोच्यते ॥४७.०१० पूर्ववत्षोडशारञ्च सपद्मं मण्डलं लिखेत् ।४७.०११ शङ्खचक्रगदाखड्गैर्गुर्वाद्यं पूर्ववद्यजेत्(१) ॥४७.०११ पूर्वे सौम्ये धनुर्वाणान् वेदाद्यैरासनं ददेत् ।४७.०१२ शिलां न्यसेद्द्वादशार्णैस्तृतीयं पूजनं शृणु ॥४७.०१२ अष्टारमब्जं विलिखेत्गुर्वाद्यं(२) पूर्ववद्यजयेत् ।४७.०१३ टिप्पणी १ चतुर्भिः पूर्ववद्यजेदिति ङ, चिह्नितपुस्तकपाठः २ गन्धाद्यैरिति ङ, चिह्नितपुस्तकपाठः पृष्ठ १३६ अष्टार्णेनासनं दत्वा तेनैव च शिलां न्यसेत् ।४७.०१३ पूजयेद्दशधा तेन गायत्रीभ्यां जितं तथा(१) ॥४७.०१३ इत्यादिमहापुराणे आग्नेये शालग्रामादिपूजाकथनं नाम सप्तचत्वारिंशोऽध्यायः ॥ अध्याय {४८} ॒शथाष्टाचत्वारिंशोऽध्यायः चतुर्विंशतिमूर्तिस्तोत्रकथनं भगवानुवाच ओंरूपः केशवः पद्मशङ्खचक्रगदाधरः ।४८.००१ नारायणः शङ्खपद्मगदाचक्री प्रदक्षिणं ॥४८.००१ ततो गदो माधवोरिशङ्खपद्मी नमामि तं ।४८.००२ चक्रकौमोदकीपद्मशङ्खी गोविन्द ऊर्जितः ॥४८.००२ भोक्षदः श्रीगदी पद्मी शङ्खी विष्णुश्च चक्रधृक् ।४८.००३ शङ्खचक्राब्जगदिनं मधुसूदनमानमे ॥४८.००३ भक्त्या त्रिविक्रमः पद्मगदी चक्री च शङ्ख्यपि ।४८.००४ शङ्खचक्रगदापद्मी वामनः पातु मां सदा ॥४८.००४ गदितः श्रीधरः पद्मी चक्रशार्ङ्गी च शङ्ख्यपि(२) ।४८.००५ हृषीकेशो गदाचक्री पद्मी चक्रशङ्खी च पातु नः ॥४८.००५ वरदः पद्मनाभस्तु शङ्खाब्जारिगदाधरः ।४८.००६ दामोदरः पद्मशङ्खगदाचक्री नमामि तं ॥४८.००६ तेने गदी शङ्खचक्री वासुदेवोब्जभृज्जगत् ।४८.००७ सङ्कर्षणो गदी शङ्खी पद्मी चक्री च पातु वः ॥४८.००७ टिप्पणी १ जितं तत इति ख, ग, ङ, चिह्नितपुस्तकत्रयपाठः २ चक्री गद्यथ शङ्ख्यपि इति ङ, चिह्नितपुस्तकपाठः पृष्ठ १३७ गदी चक्री शङ्खगदी (१) प्रद्युम्नः पद्मभृत्प्रभुः ।४८.००८ अनिरुद्धश्चक्रगदी शङ्खी पद्मी च पातु नः ॥४८.००८ सुरेशोर्यब्जशङ्खाढ्यः श्रीगदी पुरुषोत्तमः ।४८.००९ अधोक्षजः पद्मगदी शङ्खी चक्री च पातु वः ॥४८.००९ देवो नृसिंहश्चक्राब्जगदाशङ्खी नमामि तम् ।४८.०१० अच्युतः श्रीगदी पद्मी चक्री शङ्खी च पातु वः ॥४८.०१० बालरूपी शङ्खगदी उपेन्द्रश्चक्रपद्म्यपि ।४८.०११ जनार्दनः पद्मचक्री शङ्खधारी गदाधरः ॥४८.०११ शङ्खी पद्मी च चक्री च हरिः कौमोदकीधरः ।४८.०१२ कृष्णः शङ्खी गदी पद्मी चक्री मे भुक्तिमुक्तिदः ॥४८.०१२ आदिमूत्तिर्वासुदेवस्तस्मात्सङ्कर्षणोभवत् ।४८.०१३ सङ्कर्षणाच्च प्रद्युम्नः प्रद्युम्नादनिरुद्धकः ॥४८.०१३ केशवादिप्रभेदेन ऐकैकस्य त्रिधा क्रमात् ।४८.०१४ द्वादशाक्षरकं स्तोत्रं चतुर्विंशतिमूर्तिमत् ।४८.०१४ यः पठेच्छृणुयाद्वापि निर्मलः सर्वमाप्नुयात् ॥४८.०१४ इत्यादिमहापुराणे आग्नेये चतुर्विंशतिमूर्तिस्तोत्रं नाम अष्टाचत्वारिंशोऽध्यायः ॥ अध्याय {४९} ॒शथोनपञ्चाशोऽध्यायः मत्स्यादिलक्षणवर्णनं भगवानुवाच दशावतारं मत्स्यादिलक्षणं प्रवदामि ते ।४९.००१ मत्स्याकारस्तु मत्स्यः स्यात्कूर्मः कार्माकृलिर्भवेत् ॥४८.००१ टिप्पणी १ शङ्खपद्मी इति ग, ङ, चिह्नितपुस्तकद्वयपाठः पृष्ठ १३८ नराङ्गो वाथ कर्तव्यो भूवराहो गदादिभृत् ।४८.००२ दक्षिणे वामके शङ्खं लक्ष्मीर्वा पद्ममेव वा ॥४८.००२ श्रीवामकूर्परस्था तु क्ष्मानन्तौ चरणानुगौ ।४८.००३ वराहस्थापनाद्राज्यं भवाब्धितरणं भवेत् ॥४८.००३ नरसिंहो विवृत्तास्यो वामोरुक्षतदानवः(१) ।४८.००४ तद्वक्षो दारयन्माली स्फुरच्चक्रगदाधरः ॥४८.००४ छत्री दण्डी वामनः स्यादथवा स्याच्चतुर्भुजः ।४८.००५ रामश्चापेषुहस्तः स्यात्कड्गी परशुनान्वितः ॥४८.००५ रामश्चापी शरी खड्गी शङ्खी वा द्विभुजः स्मृतः ।४८.००६ गदालाङ्गलधारी च रामो वाथ चतुर्भुजः ॥४८.००६ वामोर्ध्वे लाङ्गलं दद्यादधः शङ्खं सुशोभनं ।४८.००७ मुषलं दक्षिणोर्ध्वे तु चक्रञ्चाधः सुशोभनं ॥४८.००७ शान्तात्मा लम्बकर्णश्च गौराङ्गश्चाम्बरावृतः(२) ।४८.००८ ऊर्ध्वपद्मस्थितो बुद्धो वरदाभयदायकः ॥४८.००८ धनुस्तूणान्वितः(३) कल्की म्लेच्छोत्सादकरो द्विजः ।४८.००९ अथवाश्वस्थितः खड्गी शङ्खचक्रशरान्वितः ॥४८.००९ लक्षणं वासुदेवादिनवकस्य वदामि ते ।४८.०१० दक्षिणोर्ध्वे गदा वामे वामोर्ध्वे चक्रमुत्तमं ॥४८.०१० ब्रह्मेशौ पार्श्वगौ नित्यं वासुदेवोस्ति पूर्ववत् ।४८.०११ शङ्खी स वरदो वाथ द्विभुजो वा चतुर्भुजः ॥४८.०११ लाङ्गली मुषली रामो गदापद्मधरः स्मृतः ।४८.०१२ टिप्पणी १ वामोरुहृतदानव इति ङ, चिह्नितपुस्तकपाठः २ गौराङ्गश्चायुधावृत इति ख, ग, चिह्नितपुस्तकद्वयपाठः ३ धनुर्वाणान्वित इति ङ, चिह्नितपुस्तकपाठः पृष्ठ १३९ प्रद्युम्नो दक्षिणे वज्रं(१) शङ्खं वामे धनुः करे ॥४८.०१२ गदानाभ्यावृतः(२) पीत्या प्रद्युम्नो वा धनुःशरी ।४८.०१३ चतुर्भुजो निरुद्धः स्यात्तथा नारायणो विभुः ॥४८.०१३ चतुर्मुखश्चतुर्बाहुर्वृहज्जठरमण्डलः ।४८.०१४ लम्बकूर्चो(३) जटायुक्तो व्रह्मा हंसाग्रवाहनः ॥४८.०१४ दक्षिणे चाक्षसूत्रञ्च स्रुवो वामे तु कुण्डिका ।४८.०१५ आज्यस्थाली सरस्वती सावित्री वामदक्षिणे ॥४८.०१५ विष्णुरष्टभुजस्तार्क्षे करे खड्गस्तु दक्षिणे ।४८.०१६ गदाशरश्च वरदो वामे कार्मुकखेटके ॥४८.०१६ चक्रशङ्खौ चतुर्बाहुर्नरसिंहश्चतुर्भुजः ।४८.०१७ शङ्खचक्रधरो वापि विदारितमहासुरः ॥४८.०१७ अचतुर्बाहुर्वराहस्तु शेषः पाणितले धृतः ।४८.०१८ धारयन् बाहुना पृथ्वीं वाम्नेन कमलाधरः(४) ॥४८.०१८ पादलग्ना धरा कार्या पदा लक्ष्मीर्व्यवस्थिता ।४८.०१९ त्रैलोक्यमोहनस्तार्क्ष्ये अष्टबाहुस्तु दक्षिणे ॥४८.०१९ चक्रं खड्गं च मुषलं अङ्कुशं वामके करे ।४८.०२० शङ्खशार्ङ्गगदापाशान् पद्मवीणासमन्विते ॥४८.०२० लक्ष्मीः सरस्वती कार्ये विश्वरूपोऽथ दक्षिणे ।४८.०२१ मुद्गरं च तथा पाशं शक्तिशूलं शरं करे ॥४८.०२१ वामे शङ्खञ्च शार्ङ्गञ्च गदां पाशं च तोमरं ।४८.०२२ टिप्पणी १ दक्षिणे चक्रमिति ङ, चिह्नितपुस्तकपाठः २ गदी रत्यावृत इति ङ, चिह्नितपुस्तकपाठः ३ लम्बभ्रुव इति ङ, चिह्नितपुस्तकपाटः ४ धारयन्नाकुलां पृथ्वीं वामेन कमलामध इति ङ, चिह्नितपुस्तकपाठः पृष्ठ १४० लाङ्गलं परशुं दण्डं छुरिकां चर्मक्षेपकं(१) ॥४८.०२२ विंशद्बाहुश्चतुर्वक्त्रो दक्षिणस्थोथ वामके ।४८.०२३ त्रिनेत्रे वामपार्श्वे न शयितो जलशाय्यपि ॥४८.०२३ श्रिया धृतैकचरणो विमलाद्याभिरीडितः ।४८.०२४ नाभिपद्मचतुर्वक्त्रो हरिशङ्करको हरिः ॥४८.०२४ शूलर्ष्टिधारी दक्षे च गदाचक्रधरो पदे ।४८.०२५ रुद्रकेशवलक्ष्माङ्गो गौरीलक्ष्मीसमन्वितः ॥४८.०२५ शङ्खचक्रगदावेदपाणिश्चाश्वशिरा हरिः ।४८.०२६ वामपादो धृतः शेषे दक्षिणः कूर्मपृष्ठगः ॥४८.०२६ दत्तात्रेयो द्विबाहुः स्याद्वामोत्सङ्गे श्रिया सह ।४८.०२७ विश्वक्सेनश्चक्रगदी हली शङ्खी हरेर्गणः ॥४८.०२७ इत्यादिमहापुराणे आग्नेये प्रतिमालक्षणं नाम ऊनपञ्चाशोऽध्यायः ॥ अध्याय {५०} अथ पञ्चाशोध्यायः देवीप्रतिमालक्षणकथनं भगवानुवाच चण्डी विंशतिबाहुः स्याद्बिभ्रती दक्षिणैः करः ।५०.००१ शूलासिशक्तिचक्राणि पाशं खेटायुधाभयं ॥५०.००१ डमरुं शक्तिकां वामैर्नागपाशञ्च खेटकं ।५०.००२ कुठाङ्कुशचापांश्च घण्टाध्वजगदांस्तथा ॥५०.००२ आदर्शमुद्गरान् हस्तैश्चण्डी वा दशबाहुका ।५०.००३ तदधो महिषश्छिन्नमूर्धा पतितमस्तकः ॥५०.००३ टिप्पणी १ चर्म चोत्तममिति ङ, चिह्नितपुस्तकपाठः पृष्ठ १४१ शस्त्रोद्यतकरः क्रुद्धस्तद्ग्रीवासम्भवः पुमान् ।५०.००४ शूलहस्तो वमद्रक्तो रक्तस्रङ्मूर्धजेक्षणः ॥५०.००४ सिंहेनास्वाद्यमानस्तु पाशबद्धो गले भृशं ।५०.००५ याम्याङ्घ्य्राक्रान्तसिंहा च सव्याङ्घ्रिर्नीचगासुरे ॥५०.००५ चण्डिकेयं त्रिनेत्रा च सशस्त्रा रिपुमर्दनी ।५०.००६ नवपद्मात्मके स्थाने पूज्या दुर्गा स्वमूर्तितः ॥५०.००६ आदौ मध्ये तथेन्द्रादौ नवातत्त्वात्मभिः(१) क्रमात् ।५०.००७ अष्टादशभुजैका तु दक्षे मुण्डं च खेटकं ॥५०.००७ आदर्शतर्जनीचापं ध्वजं डमरुकं तथा ।५०.००८ पाशं वामे बिभ्रती च शक्तिमुद्गरशूलकं ॥५०.००८ वज्रखड्गाङ्कुशशरान् चक्रन्देवी शलाकया ।५०.००९ एतैरेवायुधैर्युक्ता शेषाः षोडशबहुकाः ॥५०.००९ डमरुं तर्जनीं त्यक्त्वा रुद्रचण्डादयो नव ।५०.०१० रुद्रचण्डा प्रचण्डा च चण्डोग्रा चण्डनायिका ॥५०.०१० चण्डा चण्दवती चैव चण्डरूपातिचण्डिका ।५०.०११ उग्रचण्डा च मध्यस्था रोचनाभारुणासिता ॥५०.०११ नीला शुक्ला धूम्रिका च पीता श्वेता च सिंहगाः ।५०.०१२ महिषोथ पुमान् शस्त्री तत्कचग्रहमुष्टिकाः ॥५०.०१२ आलीढा नव(२) दुर्गाः स्युः स्थाप्याः पुत्रादिवृद्धये ।५०.०१३ तथा गौरी च चण्डिकाद्या कुण्ड्यक्षररदाग्निधृक् ॥५०.०१३ सैव रम्भा वने सिद्धाग्निहीना ललिता तथा ।५०.०१४ स्कन्धमूर्धकरा वामे द्वितीये धृतदर्पणा ॥५०.०१४ टिप्पणी १ नवतत्वादिभिरिर्ति ङ,चिह्नितपुस्तकपाठः २ शालासु नव इति ङ, चिह्नितपुस्तकपाठः पृष्ठ १४२ याम्ये फलाञ्जलिहस्ता सौभाग्या तत्र चोर्ध्विका ।५०.०१५ लक्ष्मीर्याम्यकराम्भोजा वामे श्रीफलसंयुता ॥५०.०१५ पुस्ताक्षमालिकाहस्ता वीणाहस्ता सरस्वती ।५०.०१६ कुम्भाब्जहस्ता श्वेताभा मकरोपरि जाह्नवी (१)॥५०.०१६ कूर्मगा यमुना कुम्भकरा श्यामा च पूज्यते ।५०.०१७ सवीणस्तुम्बुरुः शुक्लः शूली मात्रग्रतो वृषे ॥५०.०१७ गौरी चतुर्मुखी ब्राह्मी अक्षमालासुरान्विता ।५०.०१८ कुण्डक्षपात्रिणी वामे हंसगा शाङ्करी सिता ॥५०.०१८ शरचापौ दक्षिणेऽस्या वामे चक्रं(२) धनुर्वृषे ।५०.०१९ कौमारी शिखिगा रक्ता शक्तिहस्ता द्विबाहुका ॥५०.०१९ चक्रशङ्खधरा सव्ये वामे लक्ष्मीर्गदाब्जधृक् ।५०.०२० दण्डशङ्खासि(३) गदया वाराहो महिषस्थिता ॥५०.०२० ऐन्द्री वामे वज्रहस्ता सहस्राक्षी तु सिद्धये ।५०.०२१ चामुण्डा कोटराघ्नी स्यान्निर्मांसा तु त्रिलोचना ॥५०.०२१ निर्मांसा अस्थिसारा वा ऊर्ध्वकेशी कृशोदरी ।५०.०२२ द्वीपचर्मधरा वामे कपालं पट्टिशङ्करे ॥५०.०२२ शूलं कर्त्री दक्षणेऽस्याः शवारूढास्थितभूषणा ।५०.०२३ विनायको नराकारो वृहत्कुक्षिर्गजाननः ॥५०.०२३ वृहच्छुण्डो ह्युपवीतो मुखं सप्तकलं भवेत् ।५०.०२४ विस्ताराद्दैर्घ्यतचैव शुण्डं षट्त्रिंशदङ्गुलं ॥५०.०२४ कला द्वादश नाडी तु ग्रीवा सार्धकलोच्छ्रिता ।५०.०२५ षट्त्रिंशदङ्गुलं कण्ठं गुह्यमध्यर्धमङ्गुलं ॥५०.०२५ टिप्पणी १ मकरेद्धरि जाह्नवीति ख, घ, ङ, चिह्नितपुस्तत्रयकपाठः २ वामे वज्रमिति ख, ङ, चिह्नितपुस्तकद्वयपाठः २ शङ्खारि इति ख, चिह्नितपुस्तकपाठः पृष्ठ १४३ नाभिरूरू द्वादशञ्च जङ्घे पादे तु दक्षिणे ।५०.०२६ स्वदन्तं परशुं वामे लड्डुकञ्चोत्पलं शये ॥५०.०२६ सुमुखी च विडालाक्षी पार्श्वे स्कन्दो मयूरगः ।५०.०२७ स्वामी शाखो विशाखश्च द्विभुजो बालरूपधृक् ॥५०.०२७ दक्षे शक्तिः कुक्कुटोथ एकवक्त्रोथ षण्मुखः ।५०.०२८ षड्भुजो वा द्वादशभिर्ग्रामेरण्ये द्विबाहुकः ॥५०.०२८ शक्तीषुपाशनिस्त्रिंशतोत्रदोस्तर्जनीयुतः ।५०.०२९ शक्त्या दाक्षिणहस्तेषु षट्सु वामे करे तथा ॥५०.०२९ शिखिपिच्छन्धनुः खेटं पताकाभयकुक्कुटे ।५०.०३० कपालकर्तरीशूलपाशभृद्याम्यसौम्ययोः ॥५०.०३० गजचर्मभृदूर्ध्वास्यपादा स्यात्रुद्रचर्चिका ।५०.०३१ सैव चाष्टभुजा देवी शिरोडमरुकान्विता ॥५०.०३१ तेन सा रुद्रचामुण्डा नाटेश्वर्यथ नृत्यती ।५०.०३२ इयमेव महालक्ष्मीरुपविष्टा चतुर्मुखी ॥५०.०३२ नृवाजिमहिषेभांश्च खादन्ती च करे स्थितान् ।५०.०३३ दशबाहुस्त्रिनेत्रा च शस्त्रासिडमरुत्रिकं ॥५०.०३३ बिभ्रती दक्षिणे हस्ते वामे घण्टां च खेटकं ।५०.०३४ खट्वाङ्गं च त्रिशूलञ्च सिद्धचामुण्डकाह्वया ॥५०.०३४ सिद्धयोगेश्वरी देवी सर्वसिद्धप्रदायिका ।५०.०३५ एतद्रूपा भवेदन्या पाशाङ्कुशयुतारुणा ॥५०.०३५ भैरवी रूपविद्या तु भुजैर्द्वादशभिर्युता ।५०.०३६ एताः श्मशानजा रौद्रा अम्बाष्टकमिदं(१) स्मृतं ॥५०.०३६ टिप्पणी १ आद्याष्टकमिदमिति ख, ग, घ, चिह्नितपुस्तकत्रयपाठः पृष्ठ १४४ क्षमा शिवावृता(१) वृद्धा द्विभुजा विवृतानना ।५०.०३७ दन्तुरा क्षेमकरी स्याद्भूमौ जानुकरा स्थिता ॥५०.०३७ यक्षिण्यस्तब्धदीर्घाक्षाः शाकिन्यो वक्रदृष्टयः(२) ।५०.०३८ पिङ्गाक्षाः स्युर्महारम्या रूपिण्योप्सरसः(३) सदा ॥५०.०३८ साक्षमाली त्रिशूली च नन्दीशो द्वारपालकः ।५०.०३९ महाकालोसिमुण्डी स्याच्छूलखटकवांस्तथा ॥५०.०३९ कृशो भङ्गी च नृत्यन् वै कुष्माण्डस्थूलखर्ववान् ।५०.०४० गजगोकर्णवक्त्राद्या वीरभद्रादयो गणाः ॥५०.०४० घण्टाकर्णोष्टदशदोः पापरोगं विदारयन् ।५०.०४१ वज्रासिदण्डचक्रेषुमुषलाङ्कुशमुद्गरान् ॥५०.०४१ दक्षिणे तर्जनीं खेटं शक्तिं मुण्डञ्च पाशकं ।५०.०४२ चापं घण्टां कुठारञ्च द्वाभ्याञ्चैव त्रिशूलकं ।५०.०४२ घण्टामालाकुलो देवो विस्फोटकविमर्दनः(४) ॥५०.०४२ इत्यादिमहापुराणे आग्नेये देवीप्रतिमालक्षणं नाम पञ्चाशोऽध्यायः ॥ अध्याय {५१} अथ एकपञ्चाशोऽध्यायः सूर्यादिप्रतिमालक्षणं भगवानुवाच ससप्ताश्वे सैकचक्रे रथे सूर्यो द्विपद्मधृक् ।५१.००१ मसीभाजनलेखन्यौ बिभ्रत्कुण्डी तु दक्षिणे ॥५१.००१ वामे तु पिङ्गलो द्वारि दण्डभृत्स रवेर्गणः ।५१.००२ टिप्पणी १ शिवाच्युतेति ख, चिह्नितपुस्तकपाठः २ वज्रदृष्टय इति ख, चिह्नितपुस्तकपाठः ३ महारथ्यो रूपिण्योऽप्सरस इति ख, चिह्नितपुस्तकपाठः ४ विस्फोटकरुणर्दन इति ग, ङ, चिह्नितपुस्तकपाठः पृष्ठ १४५ बालव्यजनधारिण्यौ पार्श्वे राज्ञी च निष्प्रभा ॥५१.००२ अथवाश्वारूढः कार्य एकस्तु भास्करः ।५१.००३ वरदा द्व्यब्जनः सर्वे दिक्पालास्त्रकराः क्रमात् ॥५१.००३ मुद्गरशूलचक्राब्जभृतोग्न्यादिविदिक्स्थिताः ।५१.००४ सूर्यार्यमादिरक्षोन्ताश्चतुर्हस्ता द्विषड्दले ॥५१.००४ वरुणः सूर्यनामा च सहस्रांशुस्तथापरः ।५१.००५ धाता तपनसञ्ज्ञश्च सविताथ गभस्तिकः ॥५१.००५ रविश्चैवाथ पर्जन्यस्त्वष्टा मित्रोथ विष्णुकः ।५१.००६ मेषादिराशिसंस्थाश्च मार्गादिकार्त्तिकान्तकाः ॥५१.००६ कृष्णो रक्तो मनाग्रक्तः पीतः पाण्डरकः सितः ।५१.००७ कपिलः पीतवर्णश्च शुकाभो धवलस्तथा ॥५१.००७ धूम्रो नीलः क्रमाद्वर्णाः शक्तयः केशराग्रगाः ।५१.००८ इडा सुषुम्ना विश्वार्चिरिन्दुसञ्ज्ञा प्रमर्दिनी(१) ॥५१.००८ प्रहर्षिणी महाकाली कपिला च प्रबोधनी ।५१.००९ नीलाम्बरा घनान्तस्था अमृताख्या च शक्तयः ॥५१.००९ वरुणादेश्च तद्वर्णाः केशराग्रेषु विन्यसेत् ।५१.०१० तेजश्चण्डो महावक्रो(२) द्विभुजः पद्मखद्गभृत्(३) ॥५१.०१० कुण्डिकाजप्यामालीन्दुः कुजः शक्त्यक्षमालिकः ।५१.०११ बुधश्चापाक्षपाणिः स्याज्जीवः कुण्ड्यक्षमालिकः ॥५१.०११ टिप्पणी १ विश्वाची विन्दुसञ्ज्ञाप्रवर्धनी इति ङ, चिह्नितपुस्तकपाठः २ महारक्त इति ख, चिह्नितपुस्तकपाठः । मार्तण्डश्च महारक्त इति ङ, चिह्नितपुस्तकपाठः ३ पद्मखड्गधृगिति ग, घ, चिह्नितपुस्तकपुस्तकपाठः । खड्गचर्मभृदिति ङ, चिह्नितपुस्तकपाठः पृष्ठ १४६ शुक्रः कुण्ड्यक्षमाली स्यात्किण्किणीसूत्रवाञ्छनिः(१) ।५१.०१२ अर्धचन्द्रधरो राहुः केतुः खड्गी च दीपभृत् ॥५१.०१२ अनन्तस्तक्षकः कर्कः पद्मो महाब्जः शङ्खकः ।५१.०१३ कुलिकः सूत्रिणः सर्वे फणवक्त्रा महाप्रभाः ॥५१.०१३ इन्द्रो वज्री गजारूढश्छागगोग्निश्च शक्तिमान् ।५१.०१४ यमो दण्डी च महिषे नैरृतः खड्गवान् करे ॥५१.०१४ मकरे वरुणः पाशी वायुर्ध्वजधरो मृगे ।५१.०१५ गदी(२) कुवेरो मेषस्थ ईशानश्च जटी वृषे ॥५१.०१५ द्विबाहवो लोकपाला विश्वकर्माक्षसूत्रभृत् ।५१.०१६ हनूमान् वज्रहस्तः स्यात्पद्भ्यां सम्पीडिताश्रयः ॥५१.०१६ वीणाहस्ताः किन्नराः स्युर्मालाविद्याधराश्च खे(३) ।५१.०१७ दुर्बलाङ्गाः पिशाचाः स्युर्वेताला विकृताननाः(४) ।५१.०१७ क्षेत्रपालाः शूलवन्तः(५) प्रेता महोदराः कृशाः ॥५१.०१७ इत्यादिमहापुराणे आग्नेये प्रतिमालक्षणं नाम एकपञ्चाशोऽध्यायः ॥ अध्याय {५२} अथ द्विपञ्चोशोऽध्यायः देवीप्रतिमालक्षणं भगवानुवाच योगिन्यष्टाष्टकं वक्ष्ये ऐन्द्रादीशान्ततः क्रमात् ।५२.००१ टिप्पणी १ शिखिनीसूत्रवान् शनिरिति ग, घ, चिह्नितपुस्तकद्वयपाठः २ खड्गो इति घ, चिह्नितपुस्तकपाठः ३ मणिविद्याधराश्च खे इति ख, चिहितपुस्तकपाठः ४ विस्तृतानना इति ख, चिह्नितपुस्तकपाठः ५ शूलयुता इति ग, घ, ङ, चिह्नितपुस्तकपाठः पृष्ठ १४७ अक्षोभ्या रूक्षकर्णो च राक्षसी कृपणाक्षया(१) ॥५२.००१ पिङ्गाक्षी च क्षया क्षेमा इला लीलालया तथा ।५२.००२ लोला लक्ता बलाकेशी(२) लालसा विमला पुनः(३) ॥५२.००२ हुताशा च विशालाक्षी हुङ्कारा वडवामुखी ।५२.००३ महाक्रूरा क्रोधना तु भयङ्करी महानना ॥५२.००३ सर्वज्ञा तरला तारा ऋग्वेदा तु हयानना ।५२.००४ साराख्या रुद्रशङ्ग्राही(४) सम्बरा तालजङ्घिका ॥५२.००४ रक्ताक्षी सुप्रसिद्धा तु विद्युज्जिह्वा करङ्किणी ।५२.००५ मेघनादा प्रचण्डोग्रा कालकर्णी(५) वरप्रदा ॥५२.००५ चन्द्रा चन्द्रावली(६) चैव प्रपञ्चा प्रलयान्तिका ।५२.००६ शिशुवक्त्रा पिशाची च पिशिताशा च लोलुपा ॥५२.००६ धमनी तापनी चैव रागिणी(७) विकृतानना ।५२.००७ वायुवेगा वृहत्कुक्षिर्विकृता विश्वरूपिका ॥५२.००७ यमजिह्वा जयन्ती च दुर्जया च जयान्तिका ।५२.००८ विडाली रेवती चैव पूतना विजयान्तिका ॥५२.००८ अष्टहस्ताश्चतुर्हस्ता इच्छास्त्राः सर्वसिद्धिदाः ।५२.००९ टिप्पणी १ क्षपणा क्षमा इति ख, चिह्नितपुस्तकपाठः । क्षपणा क्षपा इति ग, घ, चिह्नितपुस्तकद्वयकपाठः २ लोला रक्ता च लोकेशो इति ग, घ, ङ, चिह्निअपुस्तकत्रयपाठः ३ विमला तत इति ग, घ, चिह्नितपुस्तकद्वयपाठः ४ रससङ्ग्राही इति ख, चिह्नितपुस्तकपाठः । वसुसङ्ग्राही इति घ, चिह्नितपुस्तकपाठः ५ कालवर्णी इति ग, घ, चिह्नितपुस्तकद्वयपाठः ६ चण्डा चण्दवतीति ङ, चिह्नितपुस्तकपाठः ७ वामनी इति ख, ग, ङ, चिह्नितपुस्तकपाठः पृष्ठ १४८ भैरवश्चार्कहस्तः स्यात्कूर्परास्यो(१) जटेन्दुभृत् ॥५२.००९ खड्गाङ्कुशकुठारेषुविश्वभयभृदेकतः ।५२.०१० चापत्रिशूलखट्वाङ्गपाशकार्धवरोद्यतः ॥५२.०१० गजचर्मधरो द्वाभ्यां कृत्तिवासोहिभूषतः ।५२.०११ प्रेताशनो मातृमध्ये पूज्यः पञ्चाननोथवा ॥५२.०११ अविलोमाग्निपर्यन्तं दीर्घाष्टकैकभेदितं ।५२.०१२ तत्षडङ्गानि जात्यन्तैरन्वितं च क्रमाद्यजेत् ॥५२.०१२ मन्दिराग्निदलारूढं(२) सुवर्णरसकान्वितं ।५२.०१३ नादविन्द्वन्दुसंयुक्तं मातृनाथाङ्गदीपितं ॥५२.०१३ वीरभद्रो वृषारूढो मात्रग्रे स चतुर्मुखः ।५२.०१४ गौरीं तु द्विभुजा त्र्यक्षा शूलिनी दर्पणान्विता ॥५२.०१४ शूलं गलन्तिका कुण्डी(३) वरदा च चतुर्भुजा ।५२.०१५ अब्जस्था ललिता स्कन्दगणादर्शशलाकया(४) ॥५२.०१५ चण्डिका सशहस्ता स्यात्खड्गशूलारिशक्तिधृक् ।५२.०१६ दक्षे वामे नागपाशं चर्माग्कुशकुठारकं ।५२.०१६ धनुः सिंहे च महिषः शूलेन प्रहतोग्रतः ॥५२.०१६ इत्यादिमहापुराणे आग्नेये प्रतिमालक्षणं नाम द्विपञ्चाशत्तमोऽध्यायः ॥ टिप्पणी १ दन्तुरास्य इति ख, घ, चिह्नितपुस्तकद्वयपाठः २ मण्डलाग्निदलारूढमिति ङ, चिह्नितपुस्तकपाठः ३ शूलं गलन्ती कुण्डी चेति ख, चिह्नितपुस्तकपाठः ४ स्कन्दगणा दश विनायका इति ख, चिहिनितपुस्तकपाठः ५ अत्र चण्डिकादशहस्तेषु खड्गशूलारिशक्तिधृगिति युक्तः पाठः अस्मल्लब्धपुस्तकपञ्चकेषु नायं पाठः पृष्ठ १४९ अध्याय {५३} अथ त्रिपञ्चाशत्तमोध्यायः लिङ्गलक्षणं भगवानुवाच लिङ्गादिलक्षणं वक्ष्ये कमलोद्भव तच्छृणु ।५३.००१ दैर्घ्यार्धं वसुभिर्भक्त्वा त्यक्त्वा भागत्रयं ततः ॥५३.००१ विष्कम्भं भूतभागैस्तु चतुरस्रन्तु कारयेत् ।५३.००२ आयामं मूर्तिभिर्भक्त्वा एकद्वित्रिक्रमान्न्यसेत् ॥५३.००२ ब्रह्मविष्णुशिवांशेषु वर्धमानोयमुच्यते ।५३.००३ चतुरस्रेस्य वर्णार्धं गुह्यकोणेषु लाञ्छयेत् ॥५३.००३ अष्टाग्रं वैष्णवं भागं सिध्यत्येव न संशयः ।५३.००४ षोडशास्रं ततः कुर्याद्द्वात्रिंशास्रं ततः पुनः ॥५३.००४ चतुःषष्ट्यस्रकं कृत्वा वर्तुलं साधयेत्ततः ।५३.००५ कर्तयेदथ लिङ्गस्य शिरो वै देशिकोत्तमः ॥५३.००५ विस्तारमथ लिङ्गस्य अष्टधा संविभाजयेत् ।५३.००६ भागार्धार्धन्तु सन्त्यज्य च्छत्राकारं शिरो भवेत् ॥५३.००६ त्रिषु भागेषु सदृशमायामं यस्य चिस्तरः ।५३.००७ तद्विभागसमं लिङ्गं सर्वकामफलप्रदं ॥५३.००७ दैर्घ्यस्य तु चतुर्थेन विष्कम्भं देवपूजिते ।५३.००८ सर्वेषामेव लिङ्गानां लक्षणं शृणु साम्प्रतं ॥५३.००८ मध्यसूत्रं समासाद्य ब्रह्मरुद्रान्तिकं(१) बुधः ।५३.००९ षोडशाङ्गुललिङ्गस्य षड्भागैर्भाजितो यथा ॥५३.००९ तद्वैयमनसूत्राभ्यां मानमन्तरमुच्यते ।५३.०१० यवाष्टमुत्तरे कार्यं शेषाणां यवहानितः ॥५३.०१० अधोभागं त्रिधा कृत्वा त्वर्धमेकं परित्यजेत् ।५३.०११ टिप्पणी १ व्रजेदात्यन्तिकमिति ग, चिह्नितपुस्तकपाठः पृष्ठ १५० अष्टधा तद्द्वयं कृत्वा ऊर्ध्वभागत्र्यं त्यजेत् ॥५३.०११ ऊर्ध्वञ्च पञ्चमाद्भागाद्भ्राम्य रेखां प्रलम्बयेत् ।५३.०१२ भागमेकं परित्यज्य सङ्गं कारयेत्तयोः ॥५३.०१२ एतत्साधारणं प्रोक्तं लिङ्गानां लक्षणं मया ।५३.०१३ सर्वसाधारणं वक्ष्ये पिण्डिकान्तान्निबोध मे ॥५३.०१३ ब्रह्मभागप्रवेशञ्च ज्ञात्वा लिङ्गस्य चोच्छ्रयं ।५३.०१४ न्यसेद्ब्रह्मशिलां विद्वान् सम्यक्कर्मशिलोपरि ॥५३.०१४ तथा सुमुच्छ्रयं ज्ञात्वा पिण्डिकां प्रविभाजयेत् ।५३.०१५ द्विभागमुच्छ्रितं पीठं विस्तारं लिङ्गसम्मितम् ॥५३.०१५ त्रिभागं मध्यतः खातं कृत्वा पीठं(१) विभाजयेत् ।५३.०१६ स्वमानार्धत्रिभागेण बाहुल्यं परिकल्पयेत् ॥५३.०१६ बाहुल्यस्य त्रिभागेण मेखलामथ कल्पयेत् ।५३.०१७ खातं स्यान्मेखलातुल्यं क्रमान्निम्नन्तु कारयेत् ॥५३.०१७ मेखलाषोडशांशेन खातं वा तत्प्रमाणज्ञः ।५३.०१८ उच्छ्रायं तस्य पीठस्य विकाराङ्गं तु(२) कारयेत् ॥५३.०१८ भूमौ प्रविष्टमेकं तु भागैकेन(३) पिण्डिका ।५३.०१९ कण्ठं भागैस्त्रिभिः कार्यं भागेनैकेन पट्टिका ॥५३.०१९ द्यंगेन चोर्ध्वपट्टन्तु(४) एकांशाः शेषपट्टिका ।५३.०२० भागं भागं प्रविष्टन्तु यावत्कण्ठं ततः पुनः ॥५३.०२० निर्गमं भागमेकं तु यावद्वै शेषपट्टिका ।५३.०२१ प्रणालस्य त्रिभागेन निर्गमस्तु त्रिभागतः ॥५३.०२१ टिप्पणी १ मध्यतः कृत्वा ततः पीठमिति घ, चिह्नितपुस्तकपाठः २ विकारांशांश्चेति घ, चिह्नितपुस्तकपाठः ३ भागेनैकेनेति ग, चिह्नितपुस्तकपाठः ४ चार्धपट्टन्तु इति ख, ग, चिह्नितपुस्तकपाठः पृष्ठ १५१ मूलेङ्गुल्यग्रविस्तारमग्रे त्र्यंशेन चार्धतः ।५३.०२२ ईषन्निम्नन्तु कुर्वीत खातं तच्चोत्तरेण वै ।५३.०२२ पिण्डिकासहितं लिङ्गमेतत्साधारणं स्मृतम् ॥५३.०२२ इत्यादिमहापुराणे आग्नेये लिङ्गलक्षणं नाम त्रिपञ्चाशत्तमोध्यायः ॥ अध्याय {५४} अथ चतुःपञ्चाशत्तमोध्यायः लिङ्गमानादिकथनं भगवानुवाच वक्ष्याम्यन्यप्रकारेण(१) लिङ्गमानादिकं शृणु ।५४.००१ वक्ष्ये लवणजं लिङ्गं घृतजं बुद्धिवर्धनम् ॥५४.००१ भूतये वस्त्रलिङ्गन्तु लिङ्गन्तात्कालिकं विदुः ।५४.००२ पक्वापक्वं मृण्मयं स्यादपक्वात्पक्वजं वरं ॥५४.००२ ततो दारुमयं पुण्यं दारुजात्शैलजं वरं ।५४.००३ शैलाद्वरं तु मुक्ताजं ततो लौहं सुवर्णजं ॥५४.००३ राजतं कीर्तितं ताम्रं पैत्तलं भुक्तिमुक्तिदं ।५४.००४ रङ्गजं (२) रसलिङ्गञ्च भुक्तिमुक्तिप्रदं वरं ॥५४.००४ रसजं रसलोहादिरत्नगर्भन्तु वर्धयेत् ।५४.००५ मानादि नेष्टं सिद्धादि स्थापितेथ स्वयम्भुवि ॥५४.००५ वामे च स्वेच्छया तेषां पीठप्रासादकल्पना ।५४.००६ पूजयेत्सूर्यविम्बस्थं दर्पणे प्रतिविम्बितं ॥५४.००६ पूज्ये हरस्तु सर्वत्र लिङ्गे पूर्णार्चनं भवेत् ।५४.००७ हस्तोत्तरविधं शैलं(३) दारुजं तद्वदेव हि ॥५४.००७ टिप्पणी १ प्रवक्ष्येऽहं प्रकारेणेति ग. चिह्नितपुस्तकपाठः २ रत्नजमिति ख, चिह्नितपुस्तकपाठः ३ हस्ते तु विविधं शैलमिति ग. चिह्नितपुस्तकपाठः पृष्ठ १५२ चलमङ्गुलमानेन द्वारगर्भकरैः स्थितम्(१) ।५४.००८ अङ्गुलाद्गृहलिङ्गं स्याद्यावत्पञ्चशाङ्गुलं ॥५४.००८ द्वारमानात्त्रिसङ्ख्याकं नवधा गर्भमानतः ।५४.००९ नवधा गर्भमानेन लिङ्गन्धाम्नि च पूजयेत् ॥५४.००९ एवं लिङ्गानि षट्त्रिंशत्ज्ञेयानि ज्येष्ठमानतः ।५४.०१० मध्यमानेन षट्त्रिंशत्षट्त्रिंशदधमेन च ॥५४.०१० इत्थमैक्येन लिङ्गानां शतमष्टोत्तरं भवेत् ।५४.०११ एकाङ्गुलादिपञ्चान्तं कन्यसञ्चलमुच्यते ॥५४.०११ षद्वादिदशपर्यन्तञ्चलं लिङ्गञ्च मध्यमं ।५४.०१२ एकादशाङ्गुलादि स्यात्ज्येष्ठं पञ्चदशान्तकम् ॥५४.०१२ षडङ्गुलं महारत्नै रत्नैरन्यैर्नवाङ्गुलम् ।५४.०१३ रविभिर्हेमभारोत्थं लिङ्गं शेषैस्त्रिपञ्चभिः ॥५४.०१३ षोडशांशे च वेदांशे युगं लुप्त्वोर्ध्वदेशतः ।५४.०१४ द्वात्रिंशत्षोडशांशांश्च(२) कोणयोस्तु विलोपयेत् ॥५४.०१४ चतुर्निवेशनात्कण्ठो विंशतिस्त्रियुगैस्तथा(३) ।५४.०१५ पार्श्वाभ्यां तु विलुप्ताभ्यां चललिङ्गं भवेद्वरं(४) ॥५४.०१५ धाम्नो युगर्तुनागांशैर्द्वारं हीनादितः क्रमात् ।५४.०१६ लिङ्गद्वारोच्छ्रयादर्वाग्भवेत्पादोनतः क्रमात् ॥५४.०१६ गर्भार्धेनाधमं लिङ्गं भूतांशैः स्यात्त्रिभिर्वरं ।५४.०१७ तयोर्मध्ये च सूत्राणि सप्त सम्पातयेत्समं ॥५४.०१७ टिप्पणी १ वनमङ्गुलमानेन द्वारगर्भकरे स्थितमिति ग, चिह्नितपुस्तकपाठः २ द्वात्रिंशत्षोडशार्धञ्चेति ग, घ, ङ, चिह्नितपुस्तकत्रयपाठः ३ विंशतिस्त्रिगुणैस्तथेति घ, चिह्नितपुसुतकपाठः ४ वनलिङ्गं भवेद्वरमिति ग, घ, चिह्नितपुस्तकपाठः । चललिङ्गं भवेद्ध्रुवमिति ख, चिह्नितपुस्तकपाठः पृष्ठ १५३ एवं स्युर्नव सूत्राणि भूतसूत्रैश्च मध्यमं ।५४.०१८ द्व्यन्तरो वामवामञ्च(१) लिङ्गानां दीर्घता नव ॥५४.०१८ हस्ताद्विवर्धते हस्तो यावत्स्युर्नव पाणयः ।५४.०१९ हीनमध्योत्तमं लिङ्गं त्रिविधं त्रिविधात्मकम् ॥५४.०१९ एकैकलिङ्गमध्येषु त्रीणि त्रीणि च पादशः ।५४.०२० लिङ्गानि घटयेद्धीमान् षट्सु चाष्टोत्तरेषु च ॥५४.०२० स्थिरदीर्घप्रमेयात्तु द्वारगर्भकरात्मिका ।५४.०२१ भागेशञ्चाप्यमीशञ्च देवेज्यन्तुल्यसंज्ञितं ॥५४.०२१ चत्वारि लिङ्गरूपाणि विष्कम्भेण तु लक्षयेत् ।५४.०२२ दीर्घमायान्वितं कृत्वा लिङ्गं कुर्यात्त्रिरूपकं ॥५४.०२२ चतुरष्टाष्टवृत्तञ्च तत्त्वत्रयगुणात्मकं ।५४.०२३ लिङ्गानामीप्सितं दैर्घ्यं तेन कृत्वाङ्गुलानि वै ॥५४.०२३ ध्वजाद्यायैः सुरैर्भूतैः शिखिभिर्वा हरेत्कृतिं ।५४.०२४ तान्यङ्गुलानि यच्छेषं लक्षयेच्च शुभाशुभं ॥५४.०२४ ध्वजाद्या ध्वजसिंहेभवृषाः ज्येष्ठाः परे शुभाः ।५४.०२५ स्वरेषु षड्जगान्धारपञ्चमाः शुभदायकाः ॥५४.०२५ भूतेषु च शुभा भूः स्यादग्निष्वाहवनीयकः ।५४.०२६ उक्तायामस्य चार्धांशे नागांशैर्भाजिते क्रमात् ॥५४.०२६ रसभूतांशषष्ठांशत्र्यंशाधिकशरैर्भवेत् ।५४.०२७ आढ्यानाढ्यसुरेज्यार्कतुल्यानाञ्चतुरस्रता ॥५४.०२७ पञ्चमं वर्धमानाख्यं व्यासान्नाहप्रवृद्धितः ।५४.०२८ द्विधा भेदा बहून्यत्र वक्ष्यन्ते विश्वकर्मतः ॥५४.०२८ आढ्यादीनां त्रिधा स्थौल्याद्यवधूतं तदष्टधा(२) ।५४.०२९ टिप्पणी १ अन्तरे वामवामे चेति ङ, चिह्नितपुस्तकपाठः २ स्थौल्याद्यववृद्ध्या तदष्टधा इति ख, चिह्नितपुस्तकपाठः पृष्ठ १५४ त्रिधा हस्ताज्जिनाख्यञ्च युक्तं सर्वसमेन च(१) ॥५४.०२९ पञ्चविंशतिलिङ्गानि नाद्ये(२) देवार्चिते तथा ।५४.०३० पञ्चसप्तभिरेकत्वाज्जिनैर्भक्तैर्भवन्ति हि ॥५४.०३० चतुर्दशसहस्राणि चतुर्दशशतानि च ।५४.०३१ एवमष्टाङ्गुलविस्तारो(३) नवैककरगर्भतः ॥५४.०३१ तेषां कोणार्धकोणस्थैश्चिन्त्यात्कोणानि(४) सूत्रकैः ।५४.०३२ विस्तारं मध्यमः कृत्वा स्थाप्यं वा मध्यतस्त्रयं ॥५४.०३२ विभागादूर्ध्वमष्टास्रो(५) द्व्यष्टास्रः स्याच्छिवांशकः ।५४.०३३ पादाज्जान्वन्तको ब्रह्मा नाभ्यन्तो विष्णुरित्यतः ॥५४.०३३ मूर्ध्वान्तो भूतभागेशो व्यक्तेऽव्यक्ते च तद्वति ।५४.०३४ पञ्चलिङ्गव्यवस्थायां शिरो वर्तुलमुच्यते ॥५४.०३४ छत्राभं कुक्कुटाभं वा बालेन्दुप्रतिमाकृतिः(६) ।५४.०३५ एकैकस्य चतुर्भेदैः(७) काम्यभेदात्फलं वदे ॥५४.०३५ लिङ्गमस्तकविस्तारं वसुभक्तन्तु कारयेत् ।५४.०३६ आद्यभागं चतुर्धा तु(८) विस्तारोच्छ्रायतो भजेत् ॥५४.०३६ चत्वारि तत्र सूत्राणि(९) भागभागानुपातनात् ।५४.०३७ टिप्पणी १ पूजयेत्सर्वमेव चेति ङ, चिह्नितपुस्तकपाठः २ नाढ्ये देवार्चित इति ख, ग, चिह्नितपुस्तकपाठः ३ एवमष्टाङ्गुअलविन्यास इति ग, घ, चिह्नितपुस्तकपाठः ४ छिन्द्यात्कोणानीति ख, चिह्नितपुस्तकपाठः । छिन्द्यात्कोषाणि इति ङ, चिह्नितपुस्तकपाठः ५ द्विभागादूर्धवमष्टास्र इति ख, ङ, चिह्नितपुस्तकपाठः ६ बालेन्दुत्रपुषाकृतिरिति ख, ग, घ, चिह्नितपुस्तकपाठः ७ चतुर्भागैरिति ख, चिह्नितपुस्तकपाठः ८ अन्त्यभागमिति ग, घ, चिह्नितपुस्तकपाठः ९ चत्वारि तत्र छत्राणि इति ग, घ, ङ, चिह्नितपुस्तकचतुष्ट्यपाठः पृष्ठ १५५ पुण्डरीकन्तु भागेन विशालाख्यं विलोपनात् ॥५४.०३७ त्रिशातनात्तु श्रीवत्सं शत्रुकृद्वेदलोपनात् ।५४.०३८ शिरः सर्वसमे श्रेष्ठं कुक्कुटाभं सुराह्वये(१) ॥५४.०३८ चतुर्भागात्मके लिङ्गेत्रपुषं द्वयलोपनात् ।५४.०३९ अनाद्यस्य शिरः प्रोक्तमर्धचन्द्रं शिरः शृणु ॥५४.०३९ अंशात्प्रान्ते युगांशैश्च त्वेकाहान्यामृताक्षकं(२) ।५४.०४० पूर्णबालेन्दुकुमुदं द्वित्रिवेदक्षयात्क्रमात् ॥५४.०४० चतुस्त्रिरेकवदनं मुखलिङ्गमतः शृणु ।५४.०४१ पूजाभागं प्रकर्तव्यं मूर्त्यग्निपदकल्पितं(३) ॥५४.०४१ अर्कांशं पूर्ववत्त्यक्त्वा षट्स्थानानि विवर्तयत् ।५४.०४२ शिरोन्नतिः प्रकर्तव्या ललाटं नासिका ततः ॥५४.०४२ वदनं चिवुकं ग्रीवा युगभागैर्भुजाक्षिभिः ।५४.०४३ कराभ्यां मुकुलीकृत्य(४) प्रतिमायाः प्रमाणतः ॥५४.०४३ मुखं प्रति समः कार्यो विस्तारादष्टमांशतः ।५४.०४४ चतुर्मुखं मया प्रोक्तं त्रिमुखञ्चोच्यते शृणु ॥५४.०४४ कर्णपादाधिकास्तस्य ललाटादीनि निर्दिशेत् ।५४.०४५ भुजौ चतुर्भिर्भागैस्तु कर्तव्यौ पश्चिमोर्जितं ॥५४.०४५ विस्तरादष्टमांशेन मुखानां प्रतिनिर्गमः ।५४.०४६ एकवक्त्रं तथा कार्यं पूर्वस्यां सौम्यलोचनं ॥५४.०४६ ललाटनासिकावक्त्रग्रीवायाञ्च विवर्तयेत् ।५४.०४७ टिप्पणी १ कुक्कुटाण्डं सुधाद्वये इति ख, चिह्नितपुस्तकपाठः २ द्वैकहान्या सुताह्वयमिति ख, चिह्नितपुस्तकपाठः ३ ऋत्वग्निपदकल्पितमिति ख, चिह्नितपुस्तकपाठः, मुखभागं प्रकर्तव्यं मूलाग्निपदकल्पितमिति ङ, चिह्नितपुस्तकपाठः ४ कर्णाभ्यां कुण्डलीकृत्वेति ग, चिह्नितपुस्तकपाठः पृष्ठ १५६ भुजाच्च पञ्चमांशेन(१) भुजहीनं विवर्तयेत् ॥५४.०४७ विस्तारस्य षडंशेन मुखैर्निर्गमनं हितं ।५४.०४८ सर्वेषां मुखलिङ्गानां त्रपुषं वाथ कुक्कुटं ॥५४.०४८ इत्यादिमहापुराणे आग्नेये व्यक्ताव्यक्तलक्षणं नाम चतुःपञ्चाशत्तमोऽध्यायः अध्याय {५५} अथ पञ्चपञ्चाशत्तमोऽध्यायः पिण्डिकालक्षणकथनं भगवानुवाच अतः परंप्रवक्ष्यामि प्रतिमानान्तु पिण्डिकाम् ।५५.००१ दैर्घ्येण प्रतिमातुल्या तदर्धेन तु विस्तृता ॥५५.००१ उच्छ्रितायामतोर्धेन सुविस्तारार्धभागतः ।५५.००२ तृतीयेन तु वा तुल्यं(२) तत्त्रिभागेण मेखला ॥५५.००२ खातं च तत्प्रमाणं तु किञ्चिदुत्तरतो नतम् ।५५.००३ विस्तारस्य चतुर्थेन प्रणालस्य विनिर्गमः ॥५५.००३ समूलस्य विस्तारमग्रे कुर्यात्तदर्धतः ।५५.००४ विस्तारस्य तृतीयेन तोयमार्गन्तु कारयेत् ॥५५.००४ पिण्डिकार्धेन वा तुल्यं(३) दैर्घ्यमीशस्य(४) कीर्तितम् ।५५.००५ ईशं वा(५) तुल्यदीर्घञ्च ज्ञात्वा सूत्रं प्रकल्पयेत् ॥५५.००५ टिप्पणी १ भुजार्धपञ्चमांशेनेति ङ, चिह्नितपुस्तकपाठः २ त्रिभागेन तु बाहुल्यमिति ङ, चिह्नितपुस्तकपाठः ३ पिण्डिकार्धेन बाहुल्यमिति ङ, चिह्नितपुस्तकपाठः ४ दैर्घ्यं कुशस्येति ग, ङ, चिह्नितपुस्तकपाठः ५ कुशम्बाहुल्यदीर्घञ्चेति ङ, चिह्नितपुस्तकपाठः पृष्ठ १५७ उच्छ्रायं पूर्ववत्कुर्याद्भागषोडशसङ्ख्यया ।५५.००६ अधः षट्कं द्विभागन्तु कण्ठं कुर्यात्त्रिभागकम् ॥५५.००६ शेषास्त्वेकैकशः कार्याः प्रतिष्ठानिर्गमास्तथा ।५५.००७ पट्टिका पिण्डिका चेयं सामान्यप्रतिमासु च ॥५५.००७ प्रासादद्वारमानेन प्रतिमाद्वारमुच्यते(१) ।५५.००८ गजव्यालकसंयुक्ता प्रभा स्यात्प्रतिमासु च ॥५५.००८ पिण्डिकापि यथाशोभं कर्तव्या सततं हरेः ।५५.००९ सर्वेषामेव देवानां शिष्णूक्तं मानमुच्यते ।५५.००९ देवीनामपि सर्वासां लक्ष्म्युक्तं मानमुच्यते ॥५५.००९ इत्यादिमहापुराणे आग्नेये पिण्डिकालक्षणं नाम पञ्चपञ्चाशत्तमोऽध्यायः ॥ अध्याय {५६} अथ षट्पञ्चाशत्तमोऽध्यायः दिक्पालयागकथनं भगवानुवाच प्रतिष्ठापञ्चकं वक्ष्ये प्रतिमात्मा तु पूरुषः ।५६.००१ प्रकृतिः पिण्डिका लक्ष्मीः प्रतिष्ठा योगकस्तयोः ॥५६.००१ इच्छाफलार्थिभिस्तस्मात्प्रतिष्ठा क्रियते नरैः ।५६.००२ गर्भसूत्रं तु निःसार्य(२) प्रासादस्याग्रतो गुरुः ॥५६.००२ अष्टषोडशविंशान्तं मण्डपञ्चाधमादिकम् ।५६.००३ स्नानं कलशार्थञ्च यागद्रव्यार्थमर्धतः ॥५६.००३ त्रिभागेणार्धभागेन वेदिं कुर्यात्तु शोभनाम् ।५६.००४ टिप्पणी १ प्रतिमाद्रव्यमुच्यते इति ख, ङ, चिह्नितपुस्तकपाठः २ गर्भसूत्रन्तु निर्मायेति ङ, चिह्नितपुस्तकपाठः पृष्ठ १५८ कलशैर्घटिकाभिश्च वितानाद्यैश्च भूषयेत् ॥५६.००४ पञ्चगव्येन सम्प्रोक्ष्य सर्वद्रव्याणि धारयेत् ।५६.००५ अलङ्कृतो गुरुर्विष्णुं ध्यात्वात्मानं प्रपूजयेत् ॥५६.००५ अङ्गुलीयप्रभृतिभिर्मूर्तिपान् वलयादिभिः ।५६.००६ कुण्डे कुण्डे स्थापयेच्च मूर्तिपांस्तत्र पारगान् ॥५६.००६ चतुष्कोणे चार्धकोणे वर्तुले पद्मसन्निभे ।५६.००७ पूर्वादौ तोरणार्थन्तु पिप्पलोडुम्बरौ वटं ॥५६.००७ प्लक्षं सुशोभनं पूर्वं सुभद्रन्दक्षतोरणं ।५६.००८ सुकर्म च सुहोत्रञ्च आप्ये सौम्ये समुच्छ्रयम् ॥५६.००८ पञ्चहस्तं तु संस्थाप्य स्योनापृथ्वीति पूजयेत् ।५६.००९ तोरणस्तम्भमूले तु कलशान्मङ्गलाङ्कुरान् ॥५६.००९ प्रदद्यादुपरिष्टाच्च कुर्याच्चक्रं सुदर्शनं ।५६.०१० पञ्चहस्तप्रमाणन्तु ध्वजं कुर्याद्द्विचक्षणः ॥५६.०१० वैपुल्यं चास्य कुर्वीत षोडशाङ्गुलसन्मितं ।५६.०११ सप्तहस्तोच्छ्रितं वास्य कुर्यात्कुण्डं सुरोत्तम(१) ॥५६.०११ अरुणोग्निनिभश्चैव कृष्णः शुक्लोथ पीतकः ।५६.०१२ रक्तवर्णस्तथा श्वेतः श्वेतवर्णादिकक्रमात्(२) ॥५६.०१२ कुमुदः कुमुदाक्षश्च पुण्डरीकोथ वामनः ।५६.०१३ शङ्कुकर्णः सर्वनेत्रः सुमुखः सुप्रतिष्ठितः ॥५६.०१३ पूज्या कोटिगुणैर्युक्ताः पूर्वाद्या ध्वजदेवताः ।५६.०१४ जलाढकसुपूरास्तु पक्वविम्बोपमा घटाः ॥५६.०१४ टिप्पणी १ समाहित इति ङ, चिह्नितपुस्तकपाठः २ श्वेतवर्नक्रमात्ध्वजा इति ङ, चिह्नितपुस्तकपाठः । कृष्णवर्णः क्रमाद्ध्वजा इति ङ, चिह्नितपुस्तकपाठः पृष्ठ १५९ अष्टाविंशाधिकशतं कालमण्डनवर्जिताः ।५६.०१५ सहिरण्या वस्त्रकण्ठाः सोदकास्तोरणाद्वहिः ॥५६.०१५ घटाः स्थाप्याश्च पूर्वादौ वेदिकायाश्च कोणगान् ।५६.०१६ चतुरः स्थापयेत्कुम्भानाजिघ्रेति च मन्त्रतः ॥५६.०१६ कुम्भेष्वावाह्य शक्रादीन् पूर्वादौ पूजयेत्क्रमात् ।५६.०१७ इन्द्रागच्छ देवराज वज्रहस्त गजस्थित ॥५६.०१७ पूर्वद्वारञ्च मे रक्ष देवैः सह नमोस्तु ते ।५६.०१८ त्रातारमिन्द्रमन्त्रेण अर्चयित्वा यजेद्बुधः ॥५६.०१८ आगच्छाग्रे शक्तियुत(१) च्छागस्थ बलसंयुत ।५६.०१९ रक्षाग्नेयीं दिशं देवैः पूजां गृह नमोस्तु ते ॥५६.०१९ अग्निमूर्धेतिमन्त्रेण(२) यजेद्वा आग्नेय नमः ।५६.०२० महिषस्थ यमागच्छ दण्डहस्त महाबल ॥५६.०२० रक्ष त्वं दक्षिणद्वारं वैवस्वत नमोस्तु ते ।५६.०२१ वैवस्वतं सङ्गमनमित्यनेन यजेद्यमं ॥५६.०२१ नैरृतागच्छ खड्गाढ्य बलवाहनसंयुत(३) ।५६.०२२ इदमर्घ्यमिदं पाद्यं रक्ष त्वं नैरृतीं दिशं ॥५६.०२२ एष ते नैरृते मन्त्रेण यजेदर्घ्यादिभिर्नरः ।५६.०२३ मकरारूढ वरुण पाशहस्त महाबल ॥५६.०२३ आगच्छ पश्चिमं द्वारं रक्ष रक्ष नमोस्तु ते ।५६.०२४ उरुं हि राजा वरुणं यजेदर्घ्यादिभिर्गुरुः ॥५६.०२४ आगच्छ वायो सबल ध्वजहस्त सवाहन ।५६.०२५ वायव्यं रक्ष देवैस्त्वं समरुद्भिर्नमोस्तु ते ॥५६.०२५ टिप्पणी १ शक्तिहस्त इति ङ, चिह्नितपुस्तकपाठः २ अग्निमूर्ध्वेति अर्घ्याद्यैरिति ख, चिह्नितपुस्तकपाठः ३ नरवाहनसंयुत इति ख, ङ, चिह्नितपुस्तकपाठः पृष्ठ १६० वात इत्यादिभिश्चार्वेदोन्नमो वायवेपि वा ।५६.०२६ आगच्छ सोम सबला गदाहस्त सवाहन ॥५६.०२६ रक्ष त्वमुत्तरद्वारं सकुवेर नमोस्तु ते ।५६.०२७ सोमं राजानमिति वा यजेत्सोमाय वै नमः ॥५६.०२७ आगच्छेशान सबल शूलहस्त वृषस्थित ।५६.०२८ यज्ञमण्डपस्यैशानीं दिशं रक्ष नमोस्तु ते ॥५६.०२८ ईशानमस्येति यजेदीशानाय नमोपि वा ।५६.०२९ ब्रह्मन्नागच्छ हंसस्थ स्रुक्स्रुवव्यग्रहस्तक ॥५६.०२९ सलोकोर्ध्वां दिशं रक्ष यज्ञस्याज नमोस्तु ते ।५६.०३० हिरण्यगर्भेति यजेन्नमस्ते ब्रह्मणेपि वा ॥५६.०३० अनन्तागच्छ चक्राढ्य कूर्मस्थाहिगणेश्वर ।५६.०३१ अधोदिशं रक्ष रक्ष अनन्तेश नमोस्तु ते ।५६.०३१ नमोस्तु सर्पेति यजेदनन्ताय नमोपि वा ॥५६.०३१ इत्यादिमहापुराणे आग्नेये दिक्पतियागो नाम षट्पञ्चाशत्तमोध्यायः ॥ अध्याय {५७} अथ सप्तपञ्चाशोध्यायः कुम्भाधिवासविधिः भगवानुवाच भूमेः परिग्रहं कुर्यात्क्षिपेद्ब्रीहींश्च सर्षपान् ।५७.००१ नारसिंहेन रक्षोघ्नान् प्रोक्षोघ्नान् प्रोक्षयेत्पञ्चगव्यतः ॥५७.००१ भूमिं घटे तु सम्पूज्य सरत्ने साङ्गकं हरिं ।५७.००२ अस्त्रमन्त्रेण करकं(१) तत्र चाष्टशतं यजेत् ॥५७.००२ अच्छिन्नधारया सिञ्चन् ब्रीहीन् संस्कृत्य धारयेत् ।५७.००३ टिप्पणी १ अस्त्रमन्त्रेण कवचमिति ङ, चिह्नितपुस्तकपाठः पृष्ठ १६१ प्रदक्षिणं परिभ्राम्य कलशं विकिरोपरि ॥५७.००३ सवस्त्रे कलशे भूयः पूजयेदच्युतं श्रियं ।५७.००४ योगे योगेति मन्त्रेण न्यसेच्छय्यान्तु मण्डले ॥५७.००४ कुशोपरि तूलिकाञ्च शय्यायां दिग्विदिक्षु च ।५७.००५ विद्याधिपान् यजेद्विष्णुं मधुघातं त्रिविक्रमं ॥५७.००५ वामनं दिक्षु वाय्वादौ(१) श्रीधरञ्च हृषीकपं ।५७.००६ पद्मनाभं दामोदरमैशान्यां स्नानमण्डपे ॥५७.००६ अभ्यर्च्य पश्चादैशान्यां चतुष्कुम्भे(२) सवेदिके ।५७.००७ स्नानमण्डषके सर्वद्रव्याण्यानीय निक्षिपेत् ॥५७.००७ स्नानकुम्भेषु कुम्भांस्तांश्चतुर्दिक्ष्वधिवासयेत् ।५७.००८ कलशाः स्थापनीयास्तु अभिषेकार्थमादरात् ॥५७.००८ वटोदुम्बरकाश्वत्थांश्चम्पकाशोकश्रीद्रुमान्(३) ।५७.००९ पलाशार्जुनप्लक्षांस्तु कदम्बवकुलाम्रकान् ॥५७.००९ पल्लवांस्तु समानीय पूर्वकुम्भे(४) विनिक्षिपेत् ।५७.०१० पद्मकं रोचनां दूर्वां दर्भपिञ्जलमेव च ॥५७.०१० जातीपुष्पं कुन्दपुष्पचन्दनं रक्तचन्दनं ।५७.०११ सिद्धार्थं तगरञ्चैव तण्डुलं दक्षिणे न्यसेत् ॥५७.०११ सवर्णं रजतञ्चैव कूलद्वयमृदन्तथा ।५७.०१२ नद्याः समुद्रगामिन्या विशेषात्जाह्नवीमृदं ॥५७.०१२ गोमयञ्च यवान् शालींस्तिलांश्चैवापरे न्यसेत् ।५७.०१३ विष्णुपर्णीं श्यामलतां भृङ्गराजं शतावरीं ॥५७.०१३ टिप्पणी १ दिक्षु वह्न्यादाविति ङ, चिह्नितपुस्तकपाठः २ चतुस्तम्भे इति ग, चिह्नितपुस्तकपाठः ३ पद्मकाशोकश्रीद्रुमानिति ग, चिह्नितपुस्तकपाठः ४ पर्णकुम्भ इति ङ, चिह्नितपुस्तकपाठः पृष्ठ १६२ सहदेवां महादेवीं(१) बलां व्यघ्रीं सलक्ष्मणां ।५७.०१४ ऐशान्यामपरे कुम्भे मङ्गल्यान्विनिवेशयेत् ॥५७.०१४ वल्मीकमृत्तिकां सप्तस्थानोत्थामपरे न्यसेत् ।५७.०१५ जाह्नवीवालुकातोयं विन्यसेदपरे घटे ॥५७.०१५ वराहवृषनागेन्द्रविषाणोद्धृतमृत्तिकां ।५७.०१६ मृत्तिकां पद्ममूलस्य कुशस्य त्वपरे न्यसेत् ॥५७.०१६ तीर्थपर्वतमृद्भिश्च युक्तमप्यपरे न्यसेत् ।५७.०१७ नागकेशरपुष्पञ्च काश्मीरमपरे न्यसेत् ॥५७.०१७ चन्दनागुरुकर्पूरैः पुष्पं चैवापरे न्यसेत् ।५७.०१८ वैदूर्यं विद्रुमं मुक्तां स्फटिकं वज्रमेव च ॥५७.०१८ एतान्येकत्र निक्षिप्य स्थापयेद्देवसत्तम ।५७.०१९ नदीनदतडागानां सलिलैरपरं न्यसेत् ॥५७.०१९ एकाशीतिपदे चान्यान्मण्डपे कलशान्न्यसेत् ।५७.०२० गन्धोदकाद्यैः सम्पूर्णान् श्रीसूक्तेनाभिमन्त्रयेत् ॥५७.०२० यवं सिद्धार्थकं गन्धं कुशाग्रं चाक्षतं तथा ।५७.०२१ तिलान् फलं तथा पुष्पमर्घ्यार्थं पूर्वतो न्यसेत् ॥५७.०२१ पद्मं श्यामलतां दूर्वां विष्णुपर्णीं कुशांस्तथा ।५७.०२२ पाद्यार्थं दक्षिणे भागे मधुपर्कं तु दक्षिणे(२) ॥५७.०२२ कक्कोलकं लवङ्गञ्च तथा जातीफलं शुभं ।५७.०२३ उत्तरे ह्याचमनाय अग्नौ दूर्वाक्षतान्वितं ॥५७.०२३ पात्रं नीराजनार्थं च तथोद्वर्तनमानिले ।५७.०२४ गन्धपुष्पान्वितं पात्रमैशान्यां पात्रके न्यसेत् ॥५७.०२४ टिप्पणी १ सहदेवां सिंहपुच्छीमिति ख, चिह्नितपुस्तकपाठः । सहदेवां जवां सिंहीमिति ङ, चिह्नितपुस्तकपाठः २ मधुपर्कन्तु पश्चिमे इति ङ, चिह्नितपुस्तकपाठः पृष्ठ १६३ मुरामांसी चामलकं सहदेवां निशादिकं ।५७.०२५ षष्टिदीपान्न्यसेदष्टौ न्यसेन्नीराजनाय च ॥५७.०२५ शङ्खं चक्रञ्च श्रीवत्सं कुलिशं पङ्कजादिकं ।५७.०२६ हेमादिपात्रे कृत्वा तु नानावर्णादिपुष्पकं ॥५७.०२६ इत्यादिमहापुराणे आग्नेये कलशाधिवासो नाम सप्तपञ्चाशत्तमोऽध्यायः ॥ अध्याय {५८} अथ अष्टपञ्चाशत्तमोऽध्यायः स्नानादिविधिः भगवानुवाच ऐशान्यां जनयेत्कुण्डं गुरुर्वह्निञ्च वैष्णवं ।५८.००१ गायत्र्यष्टशतं हुत्वा सम्पातविधिना घटान् ॥५८.००१ प्रोक्षयेत्कारुशालायां शिल्पिभिर्मूर्तिपैर्व्रजेत् ।५८.००२ तूर्यशब्दैः कौतुकञ्च बन्धयेद्दक्षिणे करे ॥५८.००२ विष्णवे शिपिविष्टेति ऊर्णासूत्रेण सर्षपैः ।५८.००३ पट्टवस्त्रेण कर्तव्यं देशिकस्यापि कौतुकं ॥५८.००३ मण्डपे(१) प्रतिमां स्थाप्य सवस्त्रां पूजितान् स्तुवन् ।५८.००४ नमस्तेर्च्ये सुरेशानि प्रणीते विश्वकर्मणा ॥५८.००४ प्रभाविताशेषजगद्धात्रि तुभ्यं नमो नमः ।५८.००५ त्वयि सम्पूजयामीशे नारायणमनामयं ॥५८.००५ रहिता शिल्पिदोषैस्त्वमृद्धियुक्ता सदा भव ।५८.००६ एवं विज्ञाप्य प्रतिमां नयेत्तां स्नानमण्डपं ॥५८.००६ शिल्पिनन्तोषयेद्द्रव्यैर्गुरवे गां प्रदापयेत् ।५८.००७ चित्रं देवेति मन्त्रेण नेत्रे चोन्मीलयेत्ततः ॥५८.००७ टिप्पणी १ मण्डले इति ग, चिह्नितपुस्तकपाठः पृष्ठ १६४ अग्निर्ज्योतीति दृष्टिञ्च दद्याद्वै भद्रपीठके ।५८.००८ ततः शुक्लानि पुष्पाणि घृतं सिद्धार्थकं तथा ॥५८.००८ दूर्वां कुशाग्रं देवस्य दद्याच्छिरसि देशिकः ।५८.००९ मधुवातेति मन्त्रेण नेत्रे चाभ्यञ्जयेद्गुरुः ॥५८.००९ हिरण्यगर्भमन्त्रेण इमं मेति च कीर्तयेत् ।५८.०१० घृतेनाभ्यञ्जयेत्पश्चात्पठन् घृतवतीं पुनः ॥५८.०१० मसूरपिष्टे नोद्वर्त्य(१) अतो देवेति कीर्तयन् ।५८.०११ क्षालयेदुष्णतोयेन सप्त तेऽग्रेति देशिकः ॥५८.०११ द्रुपदादिवेत्यनुलिम्पेदापो हि ष्ठेति सेचयेत् ।५८.०१२ नदीजैस्तीर्थजैः स्नानं पावमानीति रत्नजैः ॥५८.०१२ समुद्रं गच्छ चन्दनैस्तीर्थमृत्कलशेन च ।५८.०१३ शन्नो देवीः स्नापयेच्च गायत्र्याप्युष्णवारिणा(२) ॥५८.०१३ पञ्चमृद्धिर्हिरण्येति स्नापयेत्परमेश्वरं ।५८.०१४ सिकताद्भिरिर्मं मेति वल्मीकोदघटेन च ॥५८.०१४ तद्विष्णोरिति ओषध्यद्भिर्या ओषधीति मन्त्रतः ।५८.०१५ यज्ञायज्ञेति काषायैः पञ्चभिर्गव्यकैस्ततः ॥५८.०१५ पयः पृथिव्यां मन्त्रेण याः फलिनी फलाम्बुभिः ।५८.०१६ विश्वतश्चक्षुः सौम्येन पूर्वेण कलसेन च ॥५८.०१६ सोमं राजानमित्येवं विष्णो रराटं दक्षतः ।५८.०१७ हंसः शुचिः पश्चिमेन कुर्यादुद्वर्तनं हरेः ॥५८.०१७ मूर्धानन्दिवमन्त्रेण धात्रीं मांसीं च के ददेत्(३) ।५८.०१८ मानस्तोकेति मन्त्रेण गन्धद्वारेति गन्धकैः ॥५८.०१८ टिप्पणी १ मयूरपिच्छेनोद्वर्त्य इति घ, चिह्नितपुस्तकपाठः २ गायत्र्या गन्धवारिणा इति ग, घ, ङ, चिह्नितपुस्तकत्रयपाठः ३ धात्रीमांस्युदकेन चेति घ, चिह्नितपुस्तकपाठः पृष्ठ १६५ इदमापेति च घटैरेताशीतिपदस्थितैः ।५८.०१९ एह्येहि भगवन् विष्णो लोकानुग्राहकारक ॥५८.०१९ यज्ञभागं गृहाणेमं वासुदेव नमोस्तु ते ।५८.०२० अनेनावाह्य देवेशं कुर्यात्कौतुकमोचनं ॥५८.०२० मुञ्चामि त्वेति सूक्तेन देशिकस्यापि मोचयेत् ।५८.०२१ हिरण्मयेन पाद्यं दद्यादतो देवेति चार्घ्यकं ॥५८.०२१ मधुवाता मधुपर्कं मयि गृह्णामि चाचमेत् ।५८.०२२ अक्षन्नमीमदन्तेति किरेद्दर्वाक्षतं बुधः ॥५८.०२२ काण्डान्निर्मञ्छनं कुर्याद्गन्धं गन्धवतीति च ।५८.०२३ उन्नयामीति(१) माल्यञ्च इदं विष्णुः पवित्रकं ॥५८.०२३ वृहस्पते वस्त्रयुग्मं वेदाहमित्युत्तरीयकं ।५८.०२४ महाव्रतेन सकलीपुष्पं चौषधयः क्षिपेत् ॥५८.०२४ धूपं दद्याद्धूरसीति विभ्राट्सूक्तेन चाञ्जनं ।५८.०२५ युञ्जन्तीति च तिलकं दीर्घायुष्ट्वेति माल्यकं ॥५८.०२५ इन्द्रच्छत्रेति छत्रन्तु आदर्शन्तु विराजतः ।५८.०२६ चामरन्तु विकर्णेन भूषां रथन्तरेण च ॥५८.०२६ व्यजनं वायुदैवत्यैर्मुञ्चामि त्वेति पुष्पकं ।५८.०२७ वेदाद्यैः संस्तुतिं कुर्याद्धरेः पुरुषसूक्ततः ॥५८.०२७ सर्वमेतत्समं कुर्यात्पिण्डिकादौ हरादिके ।५८.०२८ देवस्योत्थानसमये सौपर्णं सूक्तमुच्चरेत् ॥५८.०२८ उत्तिष्ठेति समुत्थाप्य शय्याया मण्डपे नयेत् ।५८.०२९ शाकुनेनैव सूक्तेन देवं ब्रह्मरथादिना ॥५८.०२९ अतो देवेति सूक्तेन प्रातिमां पिण्डिकां तथा ।५८.०३० श्रीसूक्तेन च शय्यायां विष्णोस्तु शकलीकृतिः ॥५८.०३० टिप्पणी १ तत्त्वायामीति घ, चिह्नितपुस्तकपाठः पृष्ठ १६६ मृगराजं वृषं नागं व्यजनं कलशं तथा ।५८.०३१ वैजयन्तीं तथा भेरीं दीपमित्यष्टमङ्गलं ॥५८.०३१ दर्शयेदश्वसूक्तेन पाददेशे त्रिपादिति ।५८.०३२ उखां पिधानकं पात्रमम्बिकां दर्विकां ददेत् ॥५८.०३२ मुषलोलूखलं दद्याच्छिलां सम्मार्जनीं तथा ।५८.०३३ तथा भोजनभाण्डानि गृहोपकारणानि च ॥५८.०३३ शिरोदेशे च निद्राख्यं वस्त्ररत्नयुतं घटं ।५८.०३४ खण्डखाद्यैः पूरयित्वा स्नपनस्य विधिः स्मृतः ॥५८.०३४ इत्यादिमहापुराणे आग्नेये स्नपनादिविधानं नाम अष्टपञ्चाशोऽध्यायः ॥ अध्याय {५९} ॒शथोनषष्टितमोऽध्यायः अधिवासनकथनं भगवानुवाच हरेः सान्निध्यकरणमधिवासनमुच्यते ।५९.००१ सर्वज्ञं सर्वगं ध्यात्वा आत्मानं पुरुषोत्तमं ॥५९.००१ ओंकारेण समायोज्य चिच्छक्तिमभिमानिनीं(१) ।५९.००२ निःसार्यात्मैकतां कृत्वा स्वस्मिन्(२) सर्वगते विभौ ॥५९.००२ योजयेन्मरुतां पृथ्वीं वह्निवीजेन दीपयेत् ।५९.००३ संहरेद्वायुना चाग्निं वायुमाकाशतो नयेत् ॥५९.००३ टिप्पणी १ मतिशालिनीमिति ख, चिह्नितपुस्तकपाठः २ कृत्वा पुंसीति ङ, चिह्नितपुस्तकपाठः पृष्ठ १६७ अधिभूतादिदेवैस्तु साध्याख्यैर्विभवैः(१) सह ।५९.००४ तन्मात्रपात्रकान् कृत्वा संहरेत्तत्क्रमाद्बुधः ॥५९.००४ आकाशं मनसाहत्य मनोहङ्करणे कुरु(२) ।५९.००५ अहङ्कारञ्च महति तञ्चाप्यव्याकृते नयेत् ॥५९.००५ अव्याकृतं ज्ञानरूपे वासुदेवः स ईरितः(३) ।५९.००६ स तामव्याकृतिं मायामभ्यष्ट सिसृक्षया ॥५९.००६ सङ्कर्षणं सं शब्दात्मा स्पर्शाख्यमसृजत्प्रभुः ।५९.००७ क्षोभ्य मायां स प्रद्युम्नं तेजोरूपं स चासृजत् ॥५९.००७ अनिरुद्धं रसमात्रं ब्रह्माणं गन्धरूपकं ।५९.००८ अनिरुद्धः स च ब्रह्मा अप आदौ ससर्ज ह ॥५९.००८ तस्मिन् हिरण्मयञ्चाण्डं सोऽसृजत्पञ्चभूतवत् ।५९.००९ तस्मिन् सङ्क्रामिते जीवे(४) शक्तिरात्मोपसंहृता ॥५९.००९ प्राणो जीवेन संयुक्तो वृत्तिमानिति शब्द्यते ।५९.०१० जीवोव्याहृतिसञ्ज्ञस्तु प्राणेष्वाध्यात्मिकः स्मृतः ॥५९.०१० प्राणैर्युक्ता ततो बुद्धिः सञ्जाता चाष्टमूर्तिकी(५) ।५९.०११ अहङ्कारस्ततो जज्ञे मनस्तस्मादजायत ॥५९.०११ अर्थाः प्रजज्ञिरे पञ्च सङ्कल्पादियुतास्ततः ।५९.०१२ शब्दः स्पर्शश्च रूपञ्च रसो गन्ध इति स्मृता ॥५९.०१२ ज्ञानशक्तियुतान्येतैरारब्धानीन्द्रियाणि तु ।५९.०१३ टिप्पणी १ साध्यार्थैर्विभवैरिति ख, ग, चिह्नितपुस्तकपाठः साध्याद्यैर्विभवैरिति ङ, चिहिनितपुस्तकपाठः २ मनसाहृत्य मनोऽहङ्करणे क्षरे इति घ, चिह्नितपुस्तकपाठः ३ वासुदेवे समाहित इति ङ, इति चिह्नितपुस्तकपाठः ४ सङ्क्रमते जीव इति ख, चिह्नितपुस्तकपाठः ५ चाष्टवृत्तिकीति ङ, चिह्नितपुस्तकपाठः पृष्ठ १६८ त्वक्श्रोत्रघ्राणचक्षूंषि जिह्वाबुद्धीन्द्रियाणि तु ॥५९.०१३ पादौ पायुःस्तथा पाणी वागुपस्थश्च पञ्चमः ।५९.०१४ कर्मेन्द्रियाणि चैतानि पञ्चभूतान्यतः शृणु ॥५९.०१४ आकाशवायुतेजांसि सलिलं पृथिवी तथा ।५९.०१५ स्थूलमेभिः शरीरन्तु सर्वाधारं प्रजायते ॥५९.०१५ एतेषां वाचका मन्त्रा न्यासायोच्यन्त उत्तमाः ।५९.०१६ जीवभूतं मकारन्तु देवस्य(१) व्यापकं न्यसेत् ॥५९.०१६ प्राणतत्त्वं भकारन्तु जीवोपाधिगतं न्यसेत् ।५९.०१७ हृदयस्थं बकारन्तु बुद्धितत्त्वं न्यसेद्बुधः ॥५९.०१७ फकारमपि तत्रैव अहङ्कारमयं न्यसेत् ।५९.०१८ मनस्तत्त्वं पकारन्तु न्यसेत्सङ्कल्पसम्भवं ॥५९.०१८ शब्दतन्मात्रतत्त्वन्तु नकारं मस्तके न्यसेत् ।५९.०१९ स्पर्शात्मकं धकारन्तु वक्त्रदेशे तु विन्यसेत् ॥५९.०१९ दकारं रूपतत्त्वन्तु हृद्देशे विनिवेशयेत्(२) ।५९.०२० थकारं वस्तिदेशे तु रसतन्मात्रकं न्यसेत् ॥५९.०२० तकारं गन्धतन्मात्रं जङ्घयोर्विनिवेशयेत् ।५९.०२१ णकारं श्रोत्रयोर्न्यस्य ढकारं विन्यसेत्त्वचि ॥५९.०२१ डकारं नेत्रयुग्मे तु रसनायां ठकारकं ।५९.०२२ टकारं नासिकायान्तु ञकारं वाचि विन्यसेत् ॥५९.०२२ झकारं करयोर्न्यस्य पाणितत्त्वं विचक्षणः ।५९.०२३ जकारं पदयोर्न्यस्य छं पायौ चमुपस्थके ॥५९.०२३ विन्यसेत्पृथिवीतत्त्वं ङकारं पादयुग्मके ।५९.०२४ वस्तौ घकारं गं तत्त्वं तैजसं हृदि विन्यसेत् ॥५९.०२४ टिप्पणी १ मकारन्तद्देहस्येति ङ, चिह्नितपुस्तकपाठः २ विनियोजयेदिति ङ, चिह्नितपुस्तकपाठः पृष्ठ १६९ खकारं वायुतत्त्वञ्च नासिकायां निवेशयेत् ।५९.०२५ ककारं विन्यसेन्नित्यं खतत्त्वं मस्तके बुधः ॥५९.०२५ हृत्पुण्डरीके विन्यस्य यकारं सूर्यदैवतं ।५९.०२६ द्वासप्ततिसहस्राणि हृदयादभिनिःसृताः ॥५९.०२६ कलाषोडशसंयुक्तं मकारं तत्र विन्यसेत् ।५९.०२७ तन्मध्ये चिन्तयेन्मन्त्री विन्दुं वह्नेस्तु मण्डलं ॥५९.०२७ हकारं(१) विन्यसेत्तत्र प्रणवेन सुरोत्तमः ।५९.०२८ ओं आं परमेष्ठ्यात्मने आं नमः पुरुषात्मने ॥५९.०२८ ओं वां मनोनिवृत्त्यात्मने नाञ्च विश्वात्मने नमः ।५९.०२९ ओं वं नमः सर्वात्मने इत्युक्ताः पञ्च शक्तयः(२) ॥५९.०२९ स्थाने तु प्रथमा योज्या द्वितीया आसने मता ।५९.०३० तृतीया शयने तद्वच्चतुर्थी पानकर्मणि(३) ॥५९.०३० प्रत्यर्चायां(४) पञ्चमी स्यात्पञ्चोपनिषदः स्मृताः ।५९.०३१ हूङ्कारं(५) विन्यसेन्मध्ये ध्यात्वा मन्त्रमयं हरिं ॥५९.०३१ यां मूर्तिं स्थापयेत्तस्मात्(६) मूलमन्त्रं न्यसेत्ततः ।५९.०३२ ओं नमो भगवते वासुदेवाय मूलकं ॥५९.०३२ शिरोघ्राणललाटेषु मुखकण्ठहृदि क्रमात् ।५९.०३३ भुजयोर्जङ्घयोरङ्घ्य्रोः केशवं शिरसि न्यसेत् ॥५९.०३३ नारायणं न्यसेद्वक्त्रे ग्रीवायां माधवं न्यसेत् ।५९.०३४ टिप्पणी १ क्रूंकारमिति ङ, चिह्नितओपुस्तकपाठः २ ओं षं परमेष्ट्यात्मने यन्नमः पुरुषात्मने । लं नमो विश्वात्मने नमः ॥ नं नमः सर्वात्मने इत्युक्ताः पञ्चशक्तयः इति ङ, चिह्नितपुस्तकपाठः ३ दानकर्मणि इति ङ, चिह्नितपुस्तकपाठः ४ अभ्यर्चायामिति ख, चिह्नितपुस्तकपाठः ५ क्षकारमिति ख, चिह्नितपुस्तकपाठः ६ या मूर्तिः स्थाप्यते तस्यामिति ख, चिह्नितपुस्तकपाठः पृष्ठ १७० गोविन्दं भुजयोर्न्यस्य विष्णुं च हृदये न्यसेत् ॥५९.०३४ मधुसूदनकं पृष्ठे वामनं जठरे न्यसेत् ।५९.०३५ कक्ष्यान्त्रिविक्रमं न्यस्य जङ्घायां श्रीधरं न्यसेत् ॥५९.०३५ हृषीकेशं दक्षिणायां पद्मनाभं तु गुल्फके ।५९.०३६ दामोदरं पादयोश्च हृदयादिषडङ्गकं ॥५९.०३६ एतत्साधारणं प्रोक्तमादिर्मूर्तेस्तु सत्तम ।५९.०३७ अथवा यस्य देवस्य प्रारब्धं स्थापनं भवेत् ॥५९.०३७ तस्यैव मूलमन्त्रेण सजीवकरणं भवेत् ।५९.०३८ यस्या मूर्तेस्तु यन्नाम तस्याद्यं चाक्षरं च यत् ॥५९.०३८ तत्स्वैरैर्द्वादशैर्भेद्य ह्यङ्गानि परिकल्पयेत् ।५९.०३९ हृदयादीनि देवेश मूलञ्च दशमाक्षरं ॥५९.०३९ यथा देवे तथा देहे(१) तत्त्वानि विनियोजयेत् ।५९.०४० चक्राब्जमण्दले विष्णुं यजेद्गन्धादिना तथा(२) ॥५९.०४० पूर्ववच्चासनं ध्यायेत्सगात्रं(३) सपरिच्छदं ।५९.०४१ शुभञ्चक्रं द्वादशारं ह्युपरिष्टाद्विचिन्तयेत् ॥५९.०४१ त्रिनाभिचक्रं द्विनेमि स्वरैस्तच्च समन्वितं ।५९.०४२ पृष्ठदेशे ततः प्राज्ञः प्रकृत्यादीन्निवेशयेत् ॥५९.०४२ पूजयेदारकाग्रेषु(४) सूर्यं द्वादशधा पुनः ।५९.०४३ टिप्पणी १ यथा तत्त्वे तथा देहे इति ख, ग, घ, ङ, चिह्नितपुस्तकपाठः २ यजेद्गन्धादिना तत इति ख, चिह्नितपुस्तकपाठः । यजेदाहुतिभिस्तथा इति ग, चिह्नितपुस्तकपाठः ३ ध्यायेत्तन्मात्रमिति ग, चिह्ह्नितपुस्तकपाठः । ध्यायेत्समात्रमिति ख, चिह्नितपुस्तकपाठः ४ पूजयेद्द्वादशाग्रेषु इति ख, चिह्नितपुस्तकपाठः । पूजयेद्द्वादशारेषु इति घ, चिह्नितपुस्तकपाठः पृष्ठ १७१ कलाषोडशसंयुक्तं सोमन्तत्र विचिन्तयेत् ॥५९.०४३ सबलं त्रितयं नाभौ चिन्तयेद्देशिकोत्तमः ।५९.०४४ पद्मञ्च द्वादशदलं पद्ममध्ये विचिन्तयेत् ॥५९.०४४ तन्मध्ये पौरुषीं शक्तिं ध्यात्वाभ्यर्च्य च दिशिकः(१) ।५९.०४५ प्रतिमायां हरिं न्यस्य तत्र तं पूजयेत्सुरान्(२) ॥५९.०४५ गन्धपुष्पादिभिः सम्यक्साङ्गं सावरणं क्रमात् ।५९.०४६ द्वादशाक्षरवीजैस्तु केशवादीन् समर्चयेत् ॥५९.०४६ द्वादशारे मण्डले तु लौकपालादिकं क्रमात् ।५९.०४७ प्रतिमामर्चयेत्पश्चाद्गन्धपुष्पादिभिर्द्विजः ॥५९.०४७ पौरुषेण तु सूक्तेन श्रियाः सूक्तेन पिण्डिकां ।५९.०४८ जननादिक्रमात्पश्चाज्जनयेद्वैष्णवानलं ॥५९.०४८ हुत्वाग्निं हुतमिति कुण्डेग्निं प्रणयेद्बुधः ।५९.०४९ अग्निप्रणयने मन्त्रस्त्वमग्ने ह्यग्निरुच्यते ॥५९.०४९ दक्षिणेग्निं हुतमिति कुण्डेग्निं प्रणयेद्बुधः ।५९.०५० अग्निमग्नीति पूर्वे तु कुण्डेग्निं प्रणयेद्बुधः ॥५९.०५० उत्तरे प्रणयेदग्निमग्निमग्नी हवामहे ।५९.०५१ अग्निप्रणयने मन्त्रस्त्वमग्ने ह्यग्निरुच्यते ॥५९.०५१ पलाशसमिधानान्तु अष्टोत्तरसहस्रकं ।५९.०५२ कुण्डे कुण्डे होमयेच्च व्रीहीन् वेदादिकैस्तथा ॥५९.०५२ साज्यांस्तिलान् व्याहृतिभिर्मूलमन्त्रेण वै घृतं ।५९.०५३ कुर्यात्ततः शान्तिहोमं मधुरत्रितयेन च ॥५९.०५३ द्वादशार्णैः स्पृशेत्पादौ नाभिं हृन्मस्तकं ततः ।५९.०५४ घृतं दधि पयो हुत्वा स्पृशेन्मूर्धन्यथो ततः ॥५९.०५४ टिप्पणी १ ध्यात्वा पश्चात्तु देशिक इति ङ, चिह्नितपुस्तकपाठः २ तत्र तान् पूजयेत्सुरामिति ग, चिह्नितपुस्तकपाठः पृष्ठ १७२ स्पृष्ट्वा शिरोनाभिपादांश्चतस्रः स्थापयेन्नदीः(१) ।५९.०५५ गङ्गा च यमुना गोदा क्रमान्नाम्ना सरस्वती ॥५९.०५५ दहेत्तु विष्णुगायत्र्या गायत्र्या श्रपयेच्चरुं ।५९.०५६ होमयेच्च बलिं दद्यादुत्तरे भोजयेद्द्विजान् ॥५९.०५६ सामाधिपानां तुष्ट्यर्थं हेमगां गुरवे ददेत् ।५९.०५७ दिक्पतिभ्यो बलिं दत्त्वा रात्रौ कुर्याच्च जागरं ।५९.०५७ ब्रह्मगीतादिशब्देन सर्वभागधिवासनात् ॥५९.०५७ इत्यादिमहापुराणे आग्नेये अधिवासनं नाम ऊनषष्टितमोऽध्यायः ॥ अध्याय {६०} अथ षष्टितमोध्यायः वासुदेवप्रतिष्ठादिविधिः भगवानुवाच पिण्डिकास्थापनार्थन्तु गर्भागारं तु सप्तधा ।६०.००१ विभजेद्ब्रह्मभागे तु प्रतिमां स्थापयेद्बुधः ॥६०.००१ देवमनुषपैशाचभागेषु न कदाचन ।६०.००२ ब्रह्मभागं परित्यज्य किञ्चिदाश्रित्य चाण्डज ॥६०.००२ देवमानुषभागाभ्यां स्थाप्या यत्नात्तु पिण्डिका(३) ।६०.००३ नपुंसककशिलायान्तु रत्नन्यासं समाचरेत् ॥६०.००३ नारसिंहेन हुत्वा रत्नन्यासं(४) च तेन वै ।६०.००४ टिप्पणी १ चतस्रः स्थापयेच्च गा इति ग, घ, ङ, चिह्नितपुस्तकत्रयपठः २ घोषयेच्च ततो मखे इति ग, चिह्नितपुस्तकपाठः ३ स्थापयेदाशु पिण्डिकामिति ङ, चिह्नितपुस्तकपाठः ४ वर्णन्यासमिति ग, चिह्नितपुस्तकपाठः पृष्ठ १७३ व्रीहीन् रत्नांस्त्रिधातूंश्च लोहादींश्चन्दनादिकान् ॥६०.००४ पूर्वादिनवगर्तेषु न्यसेन्मध्ये यथारुचि ।६०.००५ अथ चेन्द्रादिमन्त्रैश्च गर्तो गुग्गुलुनावृतः ॥६०.००५ रत्नन्यासविधिं कृत्वा प्रतिमामालभेद्गुरुः ।६०.००६ सशलाकैर्दर्भपुञ्जैश्च सहदेवैः समन्वितैः ॥६०.००६ सवाह्यन्तैश्च संस्कृत्य पञ्चगव्येन शोधयेत् ।६०.००७ प्रोक्षयेद्दर्भतोयेन(१) नदीतीर्थोदकेन च ॥६०.००७ होमार्थे खण्डिलं कुर्यात्सिकताभिः समन्ततः ।६०.००८ सार्धहस्तप्रमाणं तु चतुरस्रं सुशोभनं ॥६०.००८ अष्टदिक्षु यथान्यासं कलशानपि विन्यसेत् ।६०.००९ पूर्वाद्यानष्टवर्णेन अग्निमानीय संस्कृतं ॥६०.००९ त्वमग्नेद्युभिरिति गायत्र्या समिधो हुनेत् ।६०.०१० अष्टार्णेनाष्टशतकं(२) आज्यं पूर्णां प्रदापयेत् ॥६०.०१० शान्त्युदकं आम्रपत्रैः(३) मूलेन शतमन्त्रितं ।६०.०११ सिञ्चेद्देवस्य तन्मूर्ध्नि श्रीश्च ते ह्यनया ऋचा ॥६०.०११ ब्रह्मयानेन(४) चोद्धृत्य उत्तिष्ठ ब्रह्मणस्पते ।६०.०१२ तद्विष्णोरिति मन्त्रेण प्रासादाभिमुखं नयेत् ॥६०.०१२ शिविकायां हरिं स्थाप्य भ्रामयीत पुरादिकं ।६०.०१३ गीतवेदादिशब्दैश्च(५) प्रासादद्वारि धारयेत् ॥६०.०१३ टिप्पणी १ प्रोक्षयेद्गन्धतोयेनेति ख, घ, ङ, चिह्नितपुस्तकत्रयपाठः २ अष्टान्तेनाष्टशतकमिति ख, घ, चिह्नितपुस्तकद्वयपाठः ३ शान्त्युदकमाज्यपात्रैरिति ख, चिह्नितपुस्तकपाठः ४ ब्रह्मपात्रेणेति ङ, चिह्नितपुस्तकपाठः ५ गीतवाद्यादिशब्दैश्च इति ङ, चिह्नितपुस्तकपाठः पृष्ठ १७४ स्त्रीभिर्विप्रैर्मङ्गलाष्टघटैः(१) संस्नापयेद्धरिं ।६०.०१४ ततो गन्धादिनाभ्यर्च्य मूलमन्त्रेण देशिकः ॥६०.०१४ अतो देवेति वस्त्राद्यमष्टाङ्गार्घ्यं निवेद्य च ।६०.०१५ स्थिरे लग्ने पिण्डिकायां देवस्य त्वेति धारयेत् ॥६०.०१५ ओं त्रैलोक्यविक्रान्ताय नमस्तेस्तु त्रिविक्रम ।६०.०१६ संस्थ्याप्य पिण्डिकायान्तु स्थिरं कुर्याद्विचक्षणः ॥६०.०१६ ध्रुवा द्यौरिति मन्त्रेण विश्वतश्चक्षुरित्यपि ।६०.०१७ पञ्चगव्येन संस्नाप्य क्षाल्य गन्धदकेन च ॥६०.०१७ पूजयेत्सकलीकृत्य साङ्गं सावरणं हरिं ।६०.०१८ ध्यायेत्स्वं तस्य मूर्तिन्तु पृथिवी तस्य पीठिका ॥६०.०१८ कल्पयेद्विग्रहं तस्य तैजसैः परमाणुभिः ।६०.०१९ जीवमावाहयिष्यामि पञ्चविंशतितत्त्वगं ॥६०.०१९ चैतन्यं परमानन्दं जाग्रत्स्वप्नविवर्जितं ।६०.०२० देहेन्द्रियमनोबुद्धिप्राणाहङ्कारवर्जितं ॥६०.०२० ब्रह्मादिस्तम्बपर्यन्तं हृदयेषु व्यवस्थितं ।६०.०२१ हृदयात्प्रतिमाविम्बे स्थिरो भव परेश्वर ॥६०.०२१ सजीवं कुरु बिम्बं त्वं सवाह्याभ्यन्तरस्थितः ।६०.०२२ अङ्गुष्ठमात्रः पुरुषो देहोपाधिषु संस्थितः ॥६०.०२२ ज्योतिर्ज्ञानं परं ब्रह्म एकमेवाद्वितीयकं ।६०.०२३ सजीवीकरणं कृत्वा प्रणवेन निबोधयेत् ॥६०.०२३ सान्निध्यकरणन्नाम हृदयं स्पृश्य वै जपेत् ।६०.०२४ सूक्तन्तु पौरुषं ध्यायनिदं गुह्यमनुं जपेत् ॥६०.०२४ नमस्तेस्तु सुरेशाय सन्तोषविभवात्मने ।६०.०२५ टिप्पणी १ मङ्गलाष्टघटे इति ख, ग, चिह्नितपुस्तकद्वयपाठः पृष्ठ १७५ ज्ञानविज्ञानरूपाय ब्रह्मतेजोनुयायिने ॥६०.०२५ गुणातिक्रान्तवेशाय(१) पुरुषाय महात्मने ।६०.०२६ अक्षयाय पुराणाय विष्णो सन्निहितो भव ॥६०.०२६ यच्च ते परमं तत्त्वं(२) यच्च ज्ञानमयं वपुः ।६०.०२७ तत्सर्वमेकतो लीनमस्मिन्देहे विबुध्यतां ॥६०.०२७ आत्मानं सन्निधीकृत्य ब्रह्मादिपरिवारकान् ।६०.०२८ स्वनाम्ना स्थापयेदन्यानायुधान् स्वमुद्रया ॥६०.०२८ यात्रावर्षादिकं दृष्ट्वा(३) ज्ञेयः सन्निहितो हरिः ।६०.०२९ नत्वा स्तुत्वा स्तवाद्यैश्च जप्त्वा चाष्टाक्षरादिकं ॥६०.०२९ चण्डप्रचण्डौ द्वारस्थौ निर्गत्याभ्यर्चयेद्गुरुः ।६०.०३० अग्निमण्डपमासाद्य गरुडं स्थाप्य पूजयेत् ॥६०.०३० दिगीशान् दिशि देवांश्च स्थाप्य सम्पूज्य देशिकः ।६०.०३१ विश्वक्सेनं तु संस्थाप्य शङ्खचक्रादि पूजयेत् ॥६०.०३१ सर्वपार्षदकेभ्यश्च बलिं भूतेभ्य अर्चयेत् ।६०.०३२ परमवस्त्रसुवर्णादि गुरवे दक्षिणां ददेत् ॥६०.०३२ यागोपयोगिद्रव्याद्यमाचार्याय नरोर्पयेत् ।६०.०३३ आचार्यदक्षिणार्धन्तु ऋत्विग्भ्यो दक्षिणां ददेत् ॥६०.०३३ अन्येभ्यो दक्षिणां दद्याद्भोजयेद्ब्राह्मणांस्ततः ।६०.०३४ अवारितान् फलान्(४) दद्याद्यजमानाय वै गुरुः ॥६०.०३४ विष्णुं नयेत्प्रतिष्ठाता(५) चात्मना सकलं कुलं ।६०.०३५ टिप्पणी १ गुणातिक्रान्तरूपाय इति ख, चिह्नितपुस्तकपाठः २ यच्च ते परमं गुह्यमिति ङ, चिह्नितपुस्तकपाठः ३ यात्रावर्षादिकं कृत्वेति ख, चिह्नितपुस्तकपाठः ४ अवारितफलमिति ङ, चिह्नितपुस्तकपाठः ५ प्रतिष्ठाकृदिति ख, ग, घ, ङ, चिह्नितपुस्तकचतुष्टयपाठः पृष्ठ १७६ सर्वेषामेव देवानामेष साधारणो विधिः ।६०.०३५ मूलमन्त्राः पृथक्तेषां शेषं कार्यं समानकं ॥६०.०३५ इत्यादिमहापुराणे आग्नेये वासुदेवप्रतिष्ठादिकथनं नाम षष्टितमोऽध्यायः ॥ अध्याय {६१} अथ एकषष्टितमोऽध्यायः द्वारप्रतिष्ठाध्वजारोहाणादिविधिः भगवानुवाच वक्षे चावभृतस्नानं विष्णोर्नत्वेति(१) होमयेत् ।६१.००१ एकाशीतिपदे कुम्भान् स्थाप्य संस्थापयेद्धरिं ॥६१.००१ पूजयेद्गन्धपुष्पाद्यैर्बलिं दत्वा गुरुं यजेत् ।६१.००२ द्वारप्रतिष्ठां वक्ष्यामि द्वाराधो हेम वै ददेत् ॥६१.००२ अष्टभिः कलशैः स्थाप्य शाखोदुम्बरकौ गुरुः ।६१.००३ गन्धादिभिः समभ्यर्च्य मन्त्रैर्वेदादिभिर्गुरुः ॥६१.००३ कुण्डेषु होमयेद्वह्निं समिल्लाजतिलादिभिः ।६१.००४ दत्वा शय्यादिकञ्चाधो दद्यादाधारशक्तिकां ॥६१.००४ शाखयोर्विन्यसेन्मूले देवौ चण्डप्रचण्दकौ ।६१.००५ ऊर्ध्वोदुम्बरके देवीं लक्ष्मीं सुरगणार्चितां ॥६१.००५ न्यस्याभ्यर्च्य(३) यथान्यायं श्रीसूक्तेन चतुर्मुखं ।६१.००६ दत्वा तु श्रीफलादीनि आचार्यादेस्तु दक्षिणां ॥६१.००६ प्रतिष्ठासिद्धद्वारस्य त्वाचार्यः स्थापयेद्धरिं ।६१.००७ टिप्पणी १ विष्णुर्नुकेति घ, ङ, चिह्नितपुर्स्तकद्वयपाठः २ समिदाज्यतिलादिभिरिति ङ, चिह्नितपुस्तकपाठः ३ अथाभ्यर्च्येति ङ, चिह्नितपुस्तकपाठः पृष्ठ १७७ प्रासादादस्य प्रतिष्ठन्तु हृत्प्रतिष्ठेति तां शृणु ॥६१.००७ समाप्तौ शुकनाशाया(१) वेद्याः प्राग्दर्भमस्तके ।६१.००८ सौवर्णं राजतं कुम्भमथवा शुक्लनिर्मितं(२) ॥६१.००८ अष्टरत्नौषधीधातुवीजलौहान्वितं शुभं ।६१.००९ सवस्त्रं पूरितं चाद्भिर्मण्डले चाधिवासयेत् ॥६१.००९ सपल्लवं नृसिंहेन हुत्वा सम्पातसञ्चितं ।६१.०१० नारायणाख्यतत्त्वेन प्राणभूतं न्यसेत्ततः ॥६१.०१० वैराजभूतान्तं(३) ध्यायेत्प्रासादस्य सुरेश्वर ।६१.०११ ततः पुरुषवत्सर्वं प्रासादं चिन्तयेद्बुधः ॥६१.०११ अधो दत्वा सुवर्णं तु तद्ववद्भूतं(४) घटं न्यसेत् ।६१.०१२ गुर्वादौ दक्षिणां दद्याद्ब्राह्मणादेश्च भोजनं ॥६१.०१२ ततः पश्चाद्वेदिबन्धं तदूर्ध्वं कण्ठबन्धनं ।६१.०१३ कण्ठोपरिष्टात्कर्तव्यं विमलामलसारकं ॥६१.०१३ तदूर्ध्वं वृकलं(५) कुर्याच्चक्रञ्चाद्यं सुदर्शनं ।६१.०१४ मूत्तिं श्रीवासुदेवस्य ग्रहगुप्तां निवेदयेत् ॥६१.०१४ कलशं वाथ कुर्वीत तदूर्ध्वं चक्रमुत्तमं ।६१.०१५ वेद्याश्च परितः स्थाप्या अष्टौ विघ्नेश्वरास्त्वज(६) ॥६१.०१५ टिप्पणी १ वनमालायामिति ङ, चिह्नितपुस्तकपाठः २ शुक्तिनिर्मलमिति ग, घ, चिह्नितपुस्तकद्वयपाठः । शुल्वनिर्मितमिति ङ, चिह्नितपुस्तकपाठः ३ वैराजरूपं तमिति ङ, चिह्नितपुस्तकपाठः ४ तत्त्वभूतमिति घ, ङ, चिह्नितपुस्तकपाठः ५ तदूर्ध्वं चूर्णकं कुर्यादिति ग, ङ, चिह्नितपुस्तकपाठः । तदूर्ध्वं चुल्वकं कुर्यादिति ख, घ, चिह्नितपुस्तकद्वयपाठः ६ अष्टौ वेद्येश्वरास्त्वज इति ग, घ, ङ, चिह्नितपुस्तकत्रयपाठः पृष्ठ १७८ चत्वारो वा चतुर्दिक्षु स्थापनीया गरुत्मतः ।६१.०१६ ध्वजारोहं च वक्ष्यामि येन भूतादि नश्यति ॥६१.०१६ प्रासादविम्बद्रव्याणां यावन्तः परमाणवः ।६१.०१७ तावद्वर्षसहस्राणि तत्कर्ता विष्णुलोकभाक् ॥६१.०१७ कुम्भाण्डवेदिविम्बानां भ्रमणाद्वायुनानघ ।६१.०१८ कण्ठस्यावेष्टनाज्ज्ञेयं फलं कोटिगुणं ध्वजात् ॥६१.०१८ पताकानां प्रकृतिं विद्धि दण्डं पुरुषरूपिणं ।६१.०१९ प्रासादं वासुदेवस्य मूर्तिभेदं(१) निबोध मे ॥६१.०१९ धारणाद्धरणीं(२) विद्धि आकाशं शुषिरात्मकं ।६१.०२० तेजस्तत्पावकं विद्धि वायुं स्पर्शगतं तथा ॥६१.०२० पाषाणादिष्वेव जलं पार्थिवं पृथिवीगुणं(३) ।६१.०२१ प्रतिशब्दोद्भवं शब्दं स्पर्शं स्यात्कर्कशादिकं ॥६१.०२१ शुक्लादिकं भवेद्रूपं रसमन्नादिदर्शनं(४) ।६१.०२२ धूपादिगन्धं गन्धन्तु वाग्भेर्यादिषु संस्थिता ॥६१.०२२ शुकनाशाश्रिता नासा बाहू तद्रथकौ स्मृतौ ।६१.०२३ शिरस्त्वण्डं निगदितं कलशं मूर्धजं स्मृतं ॥६१.०२३ कण्ठं कण्ठमिति ज्ञेयं स्कन्धं वेदी निगद्येते ।६१.०२४ पायूपस्थे प्रणाले तु त्वक्सुधा परिकीर्तिता ॥६१.०२४ मुखं द्वारं भवेदस्य प्रतिमा जीव उच्यते ।६१.०२५ तच्छक्तिं पिण्डिकां विद्धि प्रकृतिं च तदाकृतिं ॥६१.०२५ टिप्पणी १ मूर्तिभूतमिति ख, ङ, चिह्नितपुस्तकपाठः २ धरणाद्वारुणीं विद्धि इति ख, चिह्नितपुस्तकपाठः । धरणाद्वारुणीं देवीमिति ग, चिह्नितपुस्तकपाठः । धारणीं धरणीं विद्धि इति ङ, चिह्नितपुस्तकपाठः ३ पार्थिवं पृथिवीतलमिति ख, चिह्नितपुस्तकपाठः । पार्थिवं पृथिवीजलमिति ग, चिह्नितपुस्तकपाठः ४ रसमास्थाय दर्शनं रसमाह्वादि दर्शनमिति ख, चिह्नितप्सुअतकपाठः पृष्ठ १७९ निश्चलत्वञ्च गर्भोस्या अधिष्ठाता तु केशवः ।६१.०२६ एवमेव हरिः साक्षात्प्रासादत्वेन संस्थितः ॥६१.०२६ जङ्घा त्वस्य शिवो ज्ञेयः स्कन्धे धाता व्यवस्थितः ।६१.०२७ ऊर्ध्वभागे स्थितो विष्णुरेवं तस्य स्थितस्य हि ॥६१.०२७ प्रासादस्य प्रतिष्ठान्तु ध्वजरूपेण मे शृणु ।६१.०२८ ध्वजं कृत्वा सुरैर्दैत्या जिताः शस्त्रादिचिह्नितं(१) ॥६१.०२८ अण्डोर्ध्वं कलशं न्यस्य तदूर्ध्वं विन्यसेद्ध्वजं ।६१.०२९ विम्बार्धमानं दण्डस्य(२) त्रिभागेनाथ कारयेत् ॥६१.०२९ अष्टारं द्वादशारं वा मध्ये मूर्तिमतान्वितं ।६१.०३० नारसिंहेन तार्क्ष्येण ध्वजदण्डस्तु निर्ब्रणः ॥६१.०३० प्रासादस्य तु विस्तारो मानं दण्डस्य कीर्तितं ।६१.०३१ शिखरार्धेन वा कुर्यात्तृतीयार्धेन वा पुनः ॥६१.०३१ द्वारस्य दैर्घ्याद्द्विगुणं दण्डं वा परिकल्पयेत् ।६१.०३२ ध्वजयष्टिर्देवगृहे ऐशान्यां वायवेथवा ॥६१.०३२ क्षौमाद्यैश्च ध्वजं कुर्याद्विचित्रं वैकवर्णकं(३) ।६१.०३३ घण्टाचामरकिङ्किण्या भूषितं पापनाशनं ॥६१.०३३ दण्डाग्राद्धरणीं यावद्धस्तैकं विस्तरेण तु ।६१.०३४ महाध्वजः सर्वदः स्यात्तुर्यांशाद्धीनतोर्चितः ॥६१.०३४ ध्वजे चार्धेन विज्ञेया पताका मानवर्जिता ।६१.०३५ विस्तरेण ध्वजः कार्यो विंशदङ्गुलसन्निभः ॥६१.०३५ अधिवासविधानेन चक्रं दण्डं ध्वजं तथा ।६१.०३६ टिप्पणी १ जिताः शक्त्यादिचिह्नितमिति ख, चिह्नितपुस्तकपाठः । जिताः शक्रादिचिह्नितमिति ग, चिह्नितपुस्तकपाठः २ विम्बार्धमानं चक्रन्तु इति ख, ङ, चिह्नितपुस्तकपाठः ३ विचित्रञ्चैव वर्णकमिति ख, चिह्नितपुस्तकपाठः पृष्ठ १८० देववत्सकलं कृत्वा मण्डपस्नपनादिकं ॥६१.०३६ नेत्रोन्मीलनकं त्यक्ता पूर्वोक्तं सर्वमाचरेत् ।६१.०३७ अधिवासयेच्च विधिना शय्यायां स्थाप्य देशिकः ॥६१.०३७ ततः सहस्रशीर्षेति सूक्तं चक्रे न्यसेद्बुधः ।६१.०३८ तथा सुदर्शनं मन्त्रं मनस्तत्त्वं निवेशयेत् ॥६१.०३८ मनोरूपेण तस्यैव सजीवकरणं स्मृतं ।६१.०३९ अरेषु मूर्तयो न्यस्याः केशवाद्याः सुरोत्तम ॥६१.०३९ नाभ्यब्जप्रतिनेमीषु न्यसेत्तत्त्वानि देशिकः ।६१.०४० नृसिंहं विश्वरूपं वा अब्जमध्ये निवेशयेत् ॥६१.०४० सकलं विन्यसेद्दण्डे सूत्रात्मानं सजीवकं ।६१.०४१ निष्कलं परमात्मानं ध्वजे ध्यायन्न्यसेद्धरिं ॥६१.०४१ तच्छक्तिं व्यापिनीं ध्यायेद्ध्वजरूपां बलाबलां(१) ।६१.०४२ मण्डपे(२) स्थाप्य चाभ्यर्च्य होमं कुण्डेषु कारयेत् ॥६१.०४२ कलशे स्वर्णकलशं न्यस्य रत्नानि पञ्च च ।६१.०४३ स्थापयेच्चक्रमन्त्रेण स्वर्णचक्रमधस्ततः(३) ॥६१.०४३ पारदेन तु सम्प्लाव्य नेत्रपट्टेन च्छादयेत्(४) ।६१.०४४ ततो निवेशयेच्चक्रं तन्मध्ये नृहरिं स्मरेत् ॥६१.०४४ ओं क्षों नृसिंहाय(५) नमः पूजयेत्स्थापयेद्धरिं ।६१.०४५ ततो ध्वजं गृहीत्वा तु यजमानः सबान्धवः ॥६१.०४५ टिप्पणी १ चलाचलामिति ख, ङ, चिह्नितपुस्तकपाठः, सुलोचनमिति ग, चिह्नितपुस्तकपाठः २ मण्डले इति ग, ङ, चिह्नितपुस्तकद्वयपाठः ३ स्वर्णचक्रन्तु मध्यत इति ङ, चिह्नितपुस्तकपाठः ४ नेत्रं यत्नेन च्छादयेदिति ङ, चिह्नितपुस्तकपाठः ५ ओं क्षौं नृसिंहाय नम इति ख, चिह्नितपुस्तकपाठः पृष्ठ १८१ दधिभक्तयुते पात्रे ध्वजस्याग्रं निवेशयेत् ।६१.०४६ ध्रुवाद्येन फडन्तेन ध्वजं मन्त्रेण पूजयेत् ॥६१.०४६ शिरस्याधाय तत्पात्रं नारायनमनुस्मरन् ।६१.०४७ प्रदक्षिणं तु कुर्वीत तुर्यमङ्गलनिःस्वनैः ॥६१.०४७ ततो निवेशयेत्दण्डं मन्त्रेणाष्टाक्षरेण तु ।६१.०४८ मुञ्चामि त्वेति सूक्तेन ध्वजं मुञ्चेद्विचक्षणः ॥६१.०४८ पात्रं ध्वजं कुञ्जरादि दद्यादाचार्यके द्विजः ।६१.०४९ एष साधारणः प्रोक्तो ध्वजस्यारोहणे विधिः ॥६१.०४९ यस्य देवस्य यच्चिह्नं तन्मन्त्रेण स्थिरं चरेत् ।६१.०५० स्वर्गत्वा ध्वजदानात्तु राजा बली भवेत् ॥६१.०५० इत्यादिमहापुराणे आग्नेये ध्वजारोहणं नाम एकषष्टितमोऽध्यायः अध्याय {६२} अथ द्विषष्टितमोऽध्यायः लक्ष्मीप्रतिष्ठाविधिः भगवानुवाच समुदायेन देवादेः प्रतिष्ठां प्रवदामि ते ।६२.००१ लक्ष्म्याः प्रतिष्ठा प्रथमं तथा देवीगणस्य च ॥६२.००१ पूर्ववत्सकलं कुर्यान्मण्डपस्नपनादिकं(१) ।६२.००२ भद्रपीठे श्रियं न्यस्य स्थापयेदष्ट वै घटान्(२) ॥६२.००२ घृतेनाभ्यज्य मूलेन स्नपयेत्पञ्चगव्यकैः ।६२.००३ हिरण्यवर्णा हरिणी नेत्रे चोन्मीलयेच्छ्रियाः ॥६२.००३ टिप्पणी १ मण्डलस्नपनादिकमिति ङ, चिह्नितपुस्तकपाठः २ स्थापयेद्वरुणे घटानिति घ, ङ, चिह्नितपुस्तकपाठः पृष्ठ १८२ तन्म आवह(१) इत्येवं प्रदद्यान्मधुरत्रयम् ।६२.००४ अश्वपूर्वेति पूर्वेण तां कुम्भेनाभिषेचयेत्(२) ॥६२.००४ कामोस्मितेति याम्येन पश्चिमेनाभिषेचयेत् ।६२.००५ चन्द्रं प्रभासामुच्चार्यादित्यवर्णेति चोत्तरात् ॥६२.००५ उपैतु मेति चाग्नेयात्क्षुत्पिपासेति नैरृतात् ।६२.००६ गन्धद्वारेति वायव्यां मनसः काममाकृतिम् ॥६२.००६ ईशानकलशेनैव शिरः सौवर्णकर्दमात् ।६२.००७ एकाशीतिघटैः स्नानं मन्त्रेणापः सृजन् क्षितिम्(३) ॥६२.००७ आर्द्रां पुष्करिणीं गन्धैरार्द्रामित्यादिपुष्पकैः ।६२.००८ तन्मयावह मन्त्रेण य आनन्द ऋचाखिलं(४) ॥६२.००८ शायन्तीयेन शय्यायां श्रीसूक्तेन च सन्निधिम् ।६२.००९ लक्ष्मीवीजेन चिच्छक्तिं विन्यस्याभ्यर्चयेत्पुनः ॥६२.००९ श्रीसूक्तेन मण्डपेथ कुण्डेष्वब्जानि होमयेत् ।६२.०१० करवीराणि वा हुत्वा सहस्रं शतमेव वा ॥६२.०१० गृहोपकरणान्तादि श्रीसूक्तेनैव चार्पयेत् ।६२.०११ ततः प्रासादसंस्कारं सर्वं कृत्वा तु पूर्ववत् ॥६२.०११ मन्त्रेण पिण्डिकां कृत्वा प्रतिष्ठानं ततः श्रियः(५) ।६२.०१२ श्रीसूक्तेन च सान्निध्यं पूर्ववत्प्रत्यृचं जपेत्(६) ॥६२.०१२ चिच्छक्तिं बोधयित्वा तु मालात्सान्निध्यकं चरेत् ।६२.०१३ टिप्पणी १ अस्मिन्नावह इति ख, चिह्नितपुस्तकपाठः २ अश्वमूर्धेति मन्त्रेण तां कुम्भेभिनिवेशयेदिति ङ, चिह्नितपुस्तकपाठः ३ मन्त्रेण चासृजत्क्षितिमिति ख, चिह्नतपुस्तकपाठः ४ य आनन्देति वाससमिति ङ, चिह्नितपुस्तकपाठः ५ मन्त्रेण पिण्डिकां कृत्वा प्रतिमां स्थापयन् श्रिय इति ङ, चिह्न्तपुस्तकपाठः ६ प्रत्यृचं यजेदिति ङ, चिह्नितपुस्तकपाठः पृष्ठ १८३ भूस्वर्णवस्त्रगोन्नादि(१) गुरवे ब्रह्मणेर्पयेत् ।६२.०१३ एवं देव्योऽखिलाः स्थाप्यावाह्य स्वर्गादि भावयेत् ॥६२.०१३ इत्यादिमहापुराणे आग्नेये लक्ष्मीस्थापनं नाम द्विषष्टितमोऽध्यायः अध्याय {६३} अथ त्रिषष्टितमोऽध्यायः सुदर्शनचक्रादिप्रतिष्ठाकथनं भगवानुवाच एवं तार्क्ष्यस्य चक्रस्य ब्रह्मणो नृहरेस्तथा ।६३.००१ प्रतिष्ठा विष्णुवत्कार्या स्वस्वमन्त्रेण तां शृणु ॥६३.००१ सुदर्शन महाचक्र शान्त दुष्टभयङ्कर ।६३.००२ च्छिन्द छिन्द भिन्द भिन्द विदारय विदारय परमन्त्रान् ग्रस ग्रस भक्षय भक्षय भूतान् त्रायस त्रायस हूं फट्सुदर्शनाय नमः ॥ अभ्यर्च्य चक्रं चानेन रणे दारयेते रिपून् ॥६३.००२ ओं क्षौं नरसिंह उग्ररूप ज्वल ज्वल प्रज्वल प्रज्वल स्वाहा ॥ नरसिंहस्य मन्त्रोयं पातालाख्यस्य वच्मि ते(२) ।६३.००३ ओं क्षौं नमो भगवते नरसिंहाय प्रदीप्तसूर्यकोटिसहस्रसमतेजसे वज्रनखदंष्ट्रायुधायं स्फुटविकटविकीर्णकेसरसटाप्रक्षुभितमहार्णवाम्भोददुन्दुभिनिर्घोषाय सर्वमन्त्रोत्तारणाय एह्येहि भगवन्नरसिंह पुरुषपरापरब्रह्मसत्येन स्फुर स्फुर विजृम्भ विजृम्भ आक्रम गर्ज गर्ज मुञ्च मुञ्च सिंहनादान् विदारय विदारय विद्रावय विद्रावय आविश टिप्पणी १ भूस्वर्णगवान्नादि इति ङ, चिह्नितपुस्तकपाठः २ पातालाख्यस्य वक्ष्यते इति ङ, चिह्नितपुस्तकपाठः पृष्ठ १८४ आविश सर्वमन्त्ररूपाणि सर्वमन्त्रजातयश्च हन हन छिन्द सङ्क्षिप सङ्क्षिप सर सर(१) दारय दारय स्फुट स्फुट स्फोटय स्फोटय ज्वालामालासङ्घातमय सर्वतोऽनन्तज्वालावज्राशनिचक्रेण सर्वपातालानुत्सादय उत्सादय सर्वतोऽनतज्वालावज्रशरपञ्जरेण सर्वपातालान् परिवारय परिवारय सर्वपातालासुरवासिनां हृदयान्याकर्षय आकर्षय शीघ्रं दह दह पच पच मथ मथ शोषय शोषय निकृन्तय निकृन्तय तावद्यावन्मे वशमागताः पातालेभ्यः फटसुरेभ्यः फट्मन्त्ररूपेभ्यः फट्मन्त्रजातिभ्यः फट्संशयान्मां भगवन्नरसिंहरूप विष्णो सर्वापद्भ्यः सर्वमन्त्ररूपेभ्यो रक्ष रक्ष ह्रूं फट्(२) नमोऽस्तु ते ॥ नरसिंहस्य विद्येयं हरिरूपार्थसिद्धिदा(३) ॥६३.००३ त्रिलोक्यमोहनैर्मन्त्रैः स्थाप्यस्त्रैलोक्यमोहनः ।६३.००४ गदो दक्षे शान्तिकरो द्विभुजो वा चतुर्भुजः ॥६३.००४ वामोर्ध्वे कारयेच्चक्रं पाञ्चजन्यमथो ह्यधः ।६३.००५ श्रीपुष्टिसंयुक्तं कुर्याद्बलेन सह भद्रया ॥६३.००५ प्रासादे स्थापयेद्विष्णुं गृहे वा मण्डपेऽपि वा ।६३.००६ वामनं चैव वैकुण्ठं हयास्यमनिरुद्धकं ॥६३.००६ स्थापयेज्जलशय्यास्थं मत्स्यादींश्चावतारकान् ।६३.००७ सङ्कर्षणं विश्वरूपं लिङ्गं वै रुद्रमूर्तिकं ॥६३.००७ अर्धनारीश्वरं तद्वद्धरिशङ्करमातृकाः ।६३.००८ भैरवं च तथा सूर्यं ग्रहांस्तद्विनायकम् ॥६३.००८ टिप्पणी १ दर दर इति ख, ग, ङ, इति चिह्नितपुस्तकपाठः २ रक्ष रक्ष ओं फटिति ख, चिह्नितपुस्तकपाठः । रक्ष रक्ष ह्रीं फडिति ग, चिह्नितपुस्तकपाठः ३ हरिरूपा सुमिद्विदा इति ग, ङ, चिह्नितपुस्तकद्वयपाठः पृष्ठ १८५ गौरीमिन्द्रादिकां लेप्यां(१) चित्रजां च बलाबलां ।६३.००९ पुस्तकानां प्रतिष्ठां च वक्ष्ये लिखनतद्विधिं ॥६३.००९ स्वस्तिके मण्डलेऽभ्यर्च्य शरपत्रासने स्थितं(२) ।६३.०१० लेख्यञ्च लिखितं पुस्तं गुरुर्विद्यां हरिं यजेत् ॥६३.०१० यजमानो गुरुं विद्यां हरिं लिपिकृतं नरं ।६३.०११ प्राङ्मुखः पद्मिनीं ध्यायेत्लिखित्वा श्लोकपञ्चकं ॥६३.०११ रौप्यस्थमस्या हैम्या च लेखन्या नागराक्षरं(३) ।६३.०१२ ब्राह्मणान् भोजयेच्छक्या शक्त्या दद्याच्च दक्षिणां(४) ॥६३.०१२ गुरुं विद्यां हरिं प्रार्च्य पुराणादि लिखेन्नरः ।६३.०१३ पूर्ववन्मण्डलाद्ये(५) च ऐशान्यां भद्रपीठके ॥६३.०१३ दर्पणे पुस्तकं दृष्ट्वा सेचयेत्पूर्ववद्घटैः ।६३.०१४ नेत्रोन्मीलनकं कृत्वा शय्यायां तु न्यसेन्नरः ॥६३.०१४ न्यसेत्तु पौरुषं सूक्तं देवाद्यं तत्र पुस्तके ।६३.०१५ कृत्वा सजीवीकरणं प्रार्च्य हुत्वा चरुं ततः ॥६३.०१५ सम्प्राश्य दक्षिणाभिस्तु गुर्वादीन् भोजयेद्द्विजान् ।६३.०१६ रथेन हस्तिना वापि भ्राम्येत्पुस्तकं नरैः(६) ॥६३.०१६ गृहे देवालयादौ तु पुस्तकं स्थाप्य पूजयेत् ।६३.०१७ वस्त्रादिवेष्टितं पाठादादावन्ते समर्चयेत्(७) ॥६३.०१७ टिप्पणी १ इन्द्रादिकां जप्यमिति ग, घ, चिह्नितपुस्तकपाठः २ शरयन्त्रासने स्थितमिति ख, घ, चिह्नितपुस्तकपाठः ३ रौप्यमय्याथ हैम्या वा लेखन्यथ वराक्षरमिति ङ, चिह्नितपुस्तकपाठः ४ प्राङ्मुखः पद्मिनीं ध्यायेत्लिखित्वा च प्रदापयेत् । ब्राह्मणान् भोजयेच्छक्त्या शक्त्यादद्याच्च दक्षिणामिति ग, चिह्नितपुस्तकपाठः ५ पूर्वमण्डपपार्श्वे इति ङ, चिह्नितपुस्तकपाठः ६ पुस्तकं नर इति ख, चिह्नितपुस्तकपाठः ७ अन्ते सदार्चयेदिति ख, ग, चिह्नितपुस्तकपाठः पृष्ठ १८६ जगच्छान्तिञ्चावधार्य पुस्तकं वाचयेन्नरः ।६३.०१८ अध्यायमेकं कुम्भाद्भिर्यजमानादि सेचयेत् ॥६३.०१८ द्विजाय पुस्तकं दत्वा फलस्यान्तो न विद्यते ।६३.०१९ त्रीण्याहुरतिदानानि गावः पृथ्वीं सरस्वती ॥६३.०१९ विद्यादानफलं दत्वा मस्यन्तं पत्रसञ्चयं ।६३.०२० यावत्तु पत्रसङ्ख्यानमक्षराणां तथानघ ॥६३.०२० तावद्वर्षसहस्राणि विष्णुलोके महीयते ।६३.०२१ पञ्चरात्रं पुराणानि भारतानि ददन्नरः ।६३.०२१ कुलैकविंशमुद्धृत्य परे तत्त्वे तु लीयते ॥६३.०२१ इत्यादिमहापुत्राणे आग्नेये देवादिप्रतिष्ठापुस्तकप्रतिष्ठाकथनं नाम त्रिषष्टितमोध्यायः अध्याय {६४} अथ चतुःषष्टितमोध्यायः कूपादिप्रतिष्ठाकथनं भगवानुवाच कूपवापीतडागानां प्रतिष्ठां वच्मि तां शृणु ।६४.००१ जलरूपेण हि हरिः सोमो वरुण उत्तम ॥६४.००१ अग्नीषोममयं विश्वं विष्णुरापस्तु कारणं ।६४.००२ हैमं रौप्यं रत्नजं वा वरुणं कारयेन्नरः ॥६४.००२ द्विभुजं हंसपृष्ठस्थं दक्षिणेनाभयप्रदं ।६४.००३ वामेन नागपाशं तं नदीनागादिसंयुतं ॥६४.००३ यागमण्डपमध्ये स्याद्वेदिका कुण्डमण्डिता ।६४.००४ तोरणं वारुणं कुम्भं न्यसेच्च करकान्वितं ॥६४.००४ भद्रके चार्धचन्द्रे वा स्वस्तिके द्वारि कुम्भकान् ।६४.००५ अग्न्याधानं चाप्यकुण्डे कृत्वा पूर्णां प्रदापयेत् ॥६४.००५ पृष्ठ १८७ वरुणं स्नानपीठे तु ये ते शतेति संस्पृशेत् ।६४.००६ घृतेनाभ्यञ्जयेत्पश्चान्मूलमन्त्रेण देशिकः ॥६४.००६ शन्नो देवीति प्रक्षाल्य शुद्धवत्या शिवोदकैः ।६४.००७ अधिवासयेदष्टकुम्भान् सामुद्रं पूर्वकुम्भके ॥६४.००७ गाङ्गमग्नौ वर्षतोयं दक्षे रक्षस्तु नैर्झरं ।६४.००८ नदीतोयं पश्चिमे तु वायव्ये तु नदोदकं ॥६४.००८ औद्भिज्जं चोत्तरे स्थाप्य ऐशान्यां तीर्थसम्भवं ।६४.००९ अलाभे तु नदीतोयं(१) यासां राजेति मन्त्रयेत्(२) ॥६४.००९ देवं निर्मार्ज्य निर्मञ्छ्य दुर्मित्रियेति विचक्षणः(३) ।६४.०१० नेत्रे चोन्मीलयेच्चित्रं तच्चक्षुर्मधुरत्रयैः ॥६४.०१० ज्योतिः सम्पूरयेद्धैम्यां गुरवे गामथार्पयेत् ।६४.०११ समुद्रज्येष्ठेत्यभिषिञ्चयेद्वरुणं पूर्वकुम्भतः ॥६४.०११ समुद्रं गच्छ गाङ्गेयात्सोमो धेन्विति वर्षकात् ।६४.०१२ देवीरापो निर्झराद्भिर्नदाद्भिः पञ्चनद्यतः ॥६४.०१२ उद्भिदद्भ्यश्चोद्भिदेन पावमान्याथ तीर्थकैः ।६४.०१३ आपो हि ष्ठा पञ्चगव्याद्धिरण्यवर्णेति स्वर्णजात् ॥६४.०१३ आपो अस्मेति वर्षोप्त्यैर्व्याहृत्या कूपसम्भवैः ।६४.०१४ वरुणञ्च तडागोप्त्यैर्वरुणाद्भिस्तु वश्यतः ॥६४.०१४ आपो देवीति गिरिजैरेकाशीविघटैस्ततः ।६४.०१५ स्नापयेद्वरुणस्येति त्वन्नो वरुणा चार्घ्यकं ॥६४.०१५ व्याहृत्या मधुपर्कन्तु वृहस्पतेति वस्त्रकं ।६४.०१६ वरुणेति पवित्रन्तु प्रणवेनोत्तरीयकं ॥६४.०१६ टिप्पणी १ नदीक्षोदमिति ख, चिह्नितपुस्तकपाठः २ आसां रुद्रेति कीर्तयेदिति ङ, ग, चिह्नितपुस्तकपाठः ३ इन्द्रियेति विचक्षण इति ग, घ, चिह्नितपुस्तकपाठः पृष्ठ १८८ यद्वारण्येन पुष्पादि प्रदद्याद्वरुणाय तु ।६४.०१७ चामरं दर्पणं छत्रं व्यजनं वैजयन्तिकां ॥६४.०१७ मूलेनोत्तिष्ठेत्युत्थाप्य तां रात्रिमधिवासयेत् ।६४.०१८ वरुणञ्चेति सान्निध्यं यद्वारण्येन पूजयेत् ॥६४.०१८ सजीवीकरणं मूलात्पुनर्गन्धादिना यजेत् ।६४.०१९ मण्डपे(१) पूर्ववत्प्रार्च्य कुण्डेषु समिदादिकं ॥६४.०१९ वेदादिमन्त्रैर्गन्धाद्याश्चतस्रो धेनवो दुहेत् ।६४.०२० दिक्ष्वथो वै यवचरुं ततः संस्थाप्य होमयेत्(२) ॥६४.०२० व्याहृत्या वाथ गायत्र्या मूलेनामन्त्रयेत्तथा ।६४.०२१ सूर्याय प्रजापतये द्यौः स्वाहा चान्तरिक्षकः ॥६४.०२१ तस्यै पृथिव्यै देहधृत्यै इह स्वधृतये ततः ।६४.०२२ इह रत्यै चेह रमत्या उग्रो भीमश्च रौद्रकः ॥६४.०२२ विष्णुश्च वरुणो धाता रायस्पोषो महेन्द्रकः(३) ।६४.०२३ अग्निर्यमो नैरृतोऽथ वरुणो वायुरेव च ॥६४.०२३ कुवेर ईशोऽनन्तोऽथ ब्रह्मा राजा जलेश्वरः ।६४.०२४ तस्मै स्वाहेदं विष्णुश्च तद्विप्रासेति होमयेत् ॥६४.०२४ सोमो धेन्विति षढुत्वा इमं मेति च होमयेत् ।६४.०२५ आपो हि ष्ठेति तिसृभिरिमा रुद्रेति होमयेत् ॥६४.०२५ दशादिक्षु बलिं दद्यात्गन्धपुष्पादिनार्चयेत् ।६४.०२६ प्रतिमां तु समुत्थाप्य मण्डले विन्यसेद्बुधः ॥६४.०२६ पूजयेद्गन्धपुष्पाद्यैर्हेमपुष्पादिभिः क्रमात् ।६४.०२७ टिप्पणी १ मण्डले इति ख, ङ, चिह्नितपुस्तकद्वयपाठः २ मूले त्वग्नौ च होमयेदिति ङ, चिह्नितपुस्तकपाठः ३ वायुः सोमो महेन्द्रक इति ङ, चिह्नितपुस्तकपाठः पृष्ठ १८९ जलाशयांस्तु दिग्भागे वितस्तिद्वयसम्मितान् ॥६४.०२७ कृत्वाष्टौ स्थण्डिलान् रम्यान् सैकतान् देशिकोत्तमः ।६४.०२८ वरुणस्येति मन्त्रेण साज्यमष्टशतं ततः ॥६४.०२८ चरुं यवमयं हुत्वा(१) शान्तितोयं समाचरेत् ।६४.०२९ सेचयेन्मूर्ध्नि देवं तु सजीवकरणं चरेत् ॥६४.०२९ ध्यायेत्तु वरुणं युक्तं गौर्या नदनदीगणैः ।६४.०३० ओं वरुणाय नमोऽभ्यर्च्य ततः सान्निध्यमाचरेत् ॥६४.०३० उत्थाप्य(२) नागपृष्ठाद्यैर्भ्रामयेत्तैः समङ्गलैः ।६४.०३१ आपो हि ष्ठेति च क्षिपेत्त्रिमध्वाक्ते घटे जले ॥६४.०३१ जलाशये मध्यगतं सुगुप्तं विनिवेशयेत् ।६४.०३२ स्नात्वा ध्यायेच्च वरुणं सृष्टिं ब्रह्माण्डसञ्ज्ञिकां ॥६४.०३२ अग्निवीजेन सन्दग्द्ध्य तद्भस्म प्लावयेद्धरां ।६४.०३३ सर्वमपोमयं लोकं ध्यायेत्तत्र जलेश्वरं ॥६४.०३३ तोयमध्यस्थितं देवं ततो यूपं निवेशयेत् ।६४.०३४ चतुरस्रमथाष्टास्रं वर्तुलं वा प्रवर्तितं(३) ॥६४.०३४ आराध्य देवतालिङ्गं दशहस्तं तु कूपके ।६४.०३५ यूपं यज्ञीयवृक्षोत्थं मूले हैमं फलं न्यसेत् ॥६४.०३५ वाप्यां पञ्चदशकरं पुष्करिण्यां तु विंशतिकं ।६४.०३६ तडागे पञ्चविंशाख्यं जलमध्ये निवेशयेत् ॥६४.०३६ यागमण्डपाङ्गेण वा यूपब्रस्केति मन्त्रतः (४) ।६४.०३७ स्थाप्य तद्वेष्टयेद्वस्त्रैर्यूपोपरि पताकिकां ॥६४.०३७ टिप्पणी १ चरुं सचमसं हुत्वेति ख, चिह्नितपुस्तकपाठः २ उत्थाय इति ख, ग, घ, चिह्नितपुस्तकपाठः ३ सुवर्तितमिति ङ, चिह्नितपुस्तकपाठः ४ यूपस्थानेति मन्त्रत इति ग, घ, ङ, चिह्नितपुस्तकपाठः पृष्ठ १९० तदभ्यर्च्य च गन्धाद्यैर्जगच्छान्तिं समाचरेत् ।६४.०३८ दक्षिणां गुरवे दद्याद्भूगोहेमाम्बुपात्रकं ॥६४.०३८ द्विजेभ्यो दक्षिणा देया आगतान् भोजयेत्तथा ।६४.०३९ आब्रह्मस्तम्बपर्यन्ता ये केचित्सलिलार्थिनः ॥६४.०३९ ते तृप्तिमुपगच्छन्तु तडागस्थेन वारिणा ।६४.०४० तोयमुत्सर्जयेदेवं(१) पञ्चगव्यं विनिक्षिपेत् ॥६४.०४० आपो हि ष्ठेति तिसृभिः शान्तितोयं द्विजैः कृतं ।६४.०४१ तीर्थतोयं क्षिपेत्पुण्यं गोकुलञ्चार्पयेद्विजान्(२) ॥६४.०४१ अनिवारितमन्नाद्यं सर्वजन्यञ्च कारयेत् ।६४.०४२ अश्वमेधसहस्राणां सहस्रं यः समाचरेत् ॥६४.०४२ एकाहं स्थापयेत्तोयं तत्पुण्यमयुतायुतं ।६४.०४३ . विमाने मोदते स्वर्गे नरकं न स गच्छति ॥६४.०४३ गवादि पिवते यस्मात्तस्मात्कर्तुर्न पातकं ।६४.०४४ तोयदानात्सर्वदानफलं प्राप्य दिवं यजेत् ॥६४.०४४ इत्यादिमहापुराणे आग्नेये कूपवापीतडागादिप्रतिष्ठाकथनं नाम चतुःषष्टितमोऽध्यायः ॥ अध्याय {६५} अथ पञ्चषष्टितमोऽध्यायः सभास्थापनकथनं भगवानुवाच सभादिस्थानं वक्ष्ये तथैव तेषां प्रवर्तनं ।६५.००१ भूमौ परीक्षितायाञ्च वास्तुयागं समाचरेत् ॥६५.००१ स्वेच्छया तु सभां कृत्वा स्वेच्छया स्थापयेत्सुरान् ।६५.००२ टिप्पणी १ तोयं समुत्सृजेदेवमिति ख, चिह्नितपुस्तकपाठः २ गोकुलं पाययेद्द्विजानिति ङ, चिह्नितपुस्तकपाठः पृष्ठ १९१ चतुष्पथे ग्रामादौ(१) च न शून्ये कारयेत्सभां ॥६५.००२ निर्मलः कुलमुद्धृत्य कर्ता स्वर्गे विमोदते ।६५.००३ अनेन विधिना कुर्यात्सप्तभौमं हरेर्गृहं ॥६५.००३ यथा राज्ञां तथान्येषां पूर्वाद्याश्च ध्वजादयः ।६५.००४ कोणभुजान् वर्जयित्वा चतुःशालं तु वर्तयेत् ॥६५.००४ त्रिशालं वा द्विशालं वा एकशालमथापि वा ।६५.००५ व्ययाधिकं न कुर्वीत व्ययदोषकरं हि तत् ॥६५.००५ आयाधिके भवेत्पीडा तस्मात्कुर्यात्समं द्वयं ।६५.००६ करराशिं समस्तन्तु कुर्याद्वसुगुणं गुरुः ॥६५.००६ सप्तार्चिषा हृते भागे गर्गविद्याविचक्षणः ।६५.००७ अष्टधा भाजिते तस्मिन् यच्छेषं स व्ययो गतः ॥६५.००७ अथवा करराशिं तु हन्यात्सप्तार्चिषा बुधः ।६५.००८ वसुभिः संहृते भागे पृथ्व्यादि(२) परिकल्पयेत् ॥६५.००८ ध्वजो धूम्रस्तथा सिंहः श्वा वृषस्तु खरो गजः ।६५.००९ तथा ध्वाङ्क्षस्तु पूर्वादावुद्भवन्ति विकल्पयेत् ॥६५.००९ त्रिशालकत्रयं शस्तं उदक्पूर्वविवर्जितं ।६५.०१० याम्यां परगृहोपेतं द्विशालं लभ्यते सदा ॥६५.०१० याम्ये शालैकशालं तु प्रत्यक्शालमथापि वा ।६५.०११ एकशालद्वयं शस्तं शेषास्त्वन्ये भयावहाः ॥६५.०११ चतुःशालं सदा शस्तं सर्वदोषविवर्जितं ।६५.०१२ एकभौमादि कुर्वीत भवनं सप्तभौमकं ॥६५.०१२ द्वारवेद्यादिरहितं पूरणेन विवर्जितं ।६५.०१३ देवगृहं देवतायाः प्रतिष्ठाविधिना सदा ॥६५.०१३ टिप्पणी १ पूश्चतुष्पथग्रामादाविति ख, चिह्नितपुस्तकपाठः २ ध्वजादि इति ख, चिह्नितपुस्तकपाठः पृष्ठ १९२ संस्थाप्य मनुजानाञ्च समुदायोक्तकर्मणा ।६५.०१४ प्रातः सर्वौषधीस्नानं कृत्वा शुचिरतन्द्रितः ॥६५.०१४ मधुरैस्तु द्विजान् भोज्य पूर्णकुम्भादिशोभितं ।६५.०१५ सतोरणं स्वस्ति वाच्य द्विजान् गोष्ठहस्तकः(१) ॥६५.०१५ गृही गृहं प्रविशेच्च दैवज्ञान् प्रार्च्य(२) संविशेत् ।६५.०१६ गृहे पुष्टिकरं मन्त्रं पठेच्चेमं समाहितः ॥६५.०१६ ओं नन्दे नन्दय वाशिष्ठे वसुभिः प्रजया सह ।६५.०१७ जये भार्गवदायदे प्रजानां विजयावहे ॥६५.०१७ पूर्णेऽङ्गिरसदायादे पूर्णकामं कुरुध्व मां ।६५.०१८ भद्रे काश्यपदायादे कुरु भद्रां मतिं मम ॥६५.०१८ सर्ववीजौषधीयुक्ते सर्वरत्नौषधीवृते ।६५.०१९ रुचिरे नन्दने नन्दे वासिष्ठे रम्यतामिह ॥६५.०१९ प्रजापतिसुते देवि चतुरस्रे महीयसि ।६५.०२० सुभगे सुव्रते देवि गृहे काश्यपि रम्यतां ॥६५.०२० पूजिते परमाचार्यैर्गन्धमाल्यैरलङ्कृते ।६५.०२१ भवभूतिकरे देवि गृहे भार्गवि रम्यतां ॥६५.०२१ अव्यक्ते व्याकृते पूर्णे मुनेरङ्गिरसः सुते ।६५.०२२ इष्टके त्वं प्रयच्छेष्टं प्रतिष्ठां कारयाम्यहं ॥६५.०२२ देशस्वामिपुरस्वामिगृहस्वामिपरिग्रहे ।६५.०२३ मनुष्यधनहस्त्यश्वपशुवृद्धिकरी भव ॥६५.०२३ इत्यादिमहापुराणे आग्नेये सभागृहस्थापनं नाम पञ्चषष्टितमोऽध्यायः ॥ टिप्पणी १ गोपुच्छहस्तक इति घ, चिह्नितपुस्तकपाठः २ देवाज्ञां प्राप्य इति ग, चिह्नितपुस्तकपाठः पृष्ठ १९३ अध्याय {६६} अथ षट्षष्टितमोऽध्यायः साधारणप्रतिष्ठाविधानं भगवानुवाच समुदायप्रतिष्ठाञ्च वक्ष्ये सा वासुदेववत् ।६६.००१ आदित्या वसवो रुद्राः साध्या विश्वेऽश्विनौ तथा ॥६६.००१ ऋषयश्च तथा सर्वे वक्ष्ये तेषां विशेषकं ।६६.००२ यस्य देवस्य यन्नाम तस्याद्यं गृह्य चाक्षरं ॥६६.००२ मात्राभिर्भेदयित्वा तु दीर्घाण्यङ्गानि भेदयेत्(१) ।६६.००३ प्रथमं कल्पयेद्वीजं सविन्दुं प्रणवं नतिं(२) ॥६६.००३ सर्वेषां मूलमन्त्रेण पूजनं स्थापनं तथा ।६६.००४ नियमव्रतकृच्छ्राणां मठसङ्क्रमवेश्मनां ॥६६.००४ मासोपवासं द्वादश्यां इत्यादिस्थापनं वदे ।६६.००५ शिलां पूर्णघटं कांस्यं सम्भारं स्थापयेत्ततः ॥६६.००५ ब्रह्मकूर्चं समाहृत्य श्रपेद्यवमयं चरुं ।६६.००६ क्षीरेण कपिलायास्तु तद्विष्णोरिति साधकः ॥६६.००६ प्रणवेनाभिघार्यैव दर्व्या सङ्घट्टयेत्ततः ।६६.००७ साधयित्वावतार्याथ विष्णुमभ्यर्च्य होमयेत् ॥६६.००७ व्याहृता चैव गायत्र्या तद्विप्रासेति होमयेत् ।६६.००८ विश्वतश्चक्षुर्वेद्यैर्भूरग्नये तथैव च ॥६६.००८ सूर्याय प्रजापतये अन्तरिक्षाय होमयेत् ।६६.००९ द्यौः स्वाहा ब्रह्मणे स्वाहा पृथिवी महाराजकः ॥६६.००९ तस्मै सोमञ्च राजानं इन्द्राद्यैर्होममाचरेत् ।६६.०१० टिप्पणी १ अङ्गानि कल्पयेदिति ख, ङ, चिह्नितपुस्तकद्वयपाठः २ प्रणवं गतिमिति ख, चिह्नितपुस्तकपाठः पृष्ठ १९४ एवं हुत्वा(१) चरोर्भागान् दद्याद्दिग्बलिमादरात् ॥६६.०१० समिधोऽष्टशतं हुत्वा पालाशांश्चाज्यहोमकं ।६६.०११ कुर्यात्पुरुषसूक्तेन इरावती तिलाष्टकं ॥६६.०११ हुत्वा तु ब्रह्मविष्ण्वीशदेवानामनुयायिनां ।६६.०१२ ग्रहाणामाहुतीर्हुत्वा लोकेशानामथो पुनः ॥६६.०१२ पर्वतानां नदीनाञ्च समुद्राणां तथा.अहुतीः ।६६.०१३ हुत्वा च व्याहृतीर्दद्द्यात्स्रुवपूर्णाहुतित्रयं ॥६६.०१३ वौषडन्तेन मन्त्रेण वैष्णवेन पितामह ।६६.०१४ पञ्चगव्यं चरुं प्राश्य दत्वाचार्याय दक्षिणां ॥६६.०१४ तिलपात्रं हेमयुक्तं सवस्त्रं गामलङ्कृतां ।६६.०१५ प्रीयतां भगवान् विष्णुरित्युत्सृजेद्व्रतं बुधः ॥६६.०१५ मासोपवासादेरन्यां प्रतिष्ठां वच्मि पूर्णतः ।६६.०१६ यज्ञेनातोष्य देवेशं श्रपयेद्वैष्णवं चरुं ॥६६.०१६ तिलतण्डुलनीवारैः श्यामाकैरथवा यवैः ।६६.०१७ आज्येनाधार्य चोत्तार्य होमयेन्मूर्तिमन्त्रकैः ॥६६.०१७ विष्ण्वादीनां मासपानां तदन्ते होमयेत्पुनः ।६६.०१८ ओं विष्णवे स्वाहा । ओं विष्णवे(२) निभूयपाय स्वाहा । ओं विष्णवे शिपिविष्टाय स्वाहा । ओं नरसिंहाय स्वाहा । ओं पुरुषोत्तमाय स्वाहा द्वादशाश्वत्थसमिधो होमयेद्घृतसम्प्लुताः ॥६६.०१८ विष्णो रराटमन्त्रेण ततो द्वादश चाहुतीः ।६६.०१९ टिप्पणी १ एवं दत्वा इति ख, ङ, चिह्नितपुस्तकपाठः । एतान् दत्वा इति घ, चिह्नितपुस्तकपाठः २ ओं विष्णवे प्रवृषाय स्वाहा इति घ, चिह्नितपुस्तकपाठः पृष्ठ १९५ इदं विष्णुरिरावती चरोर्द्वादश आहुतीः ॥६६.०१९ हुत्वा चाज्याहुतीस्तद्वत्तद्विप्रासेति होमयेत् ।६६.०२० शेषहोमं ततः कृत्वा दद्यात्पूर्णाहुतित्रयं ॥६६.०२० युञ्जतेत्यनुवाकन्तु(१) जप्त्वा प्राशीत वै चरुं ।६६.०२१ प्रणवेन स्वशब्दान्ते कृत्वा पात्रे तु पैप्पले ॥६६.०२१ ततो मासाधिपानान्तु विप्रान् द्वादश भोजयेत् ।६६.०२२ त्रयोदश गुरुस्तत्र तेभ्यो दद्यात्त्रयोदश ॥६६.०२२ कुम्भान् स्वाद्वम्बुसंयुक्तान्(२) सच्छत्रोपानहान्वितान् ।६६.०२३ गावः प्रीतिं समायान्तु प्रचरन्तु प्रहर्षिताः ।६६.०२४ इति गोपथमुत्सृज्य यूपं तत्र निवेशयेत् ॥६६.०२४ दशहस्तं प्रपा.अराममठसङ्क्रमणादिषु ।६६.०२५ गृहे च होममेवन्तु कृत्वा सर्वं यथाविधि ॥६६.०२५ पूर्वोक्तेन विधानेन प्रविशेच्च गृहं गृही ।६६.०२६ अनिवारितमन्नाद्यं सर्वेष्वेतेषु कारयेत् ॥६६.०२६ द्विजेभ्यो दक्षिणा देया यथाशक्त्या विचक्षणैः ।६६.०२७ आरामं कारयेद्यस्तु नन्दने स चिरं वसेत् ॥६६.०२७ मठप्रदानात्स्वर्लोके शक्रलोके वसेत्ततः ।६६.०२८ प्रपादानाद्वारुणेन सङ्क्रमेण वसेद्दिवि ॥६६.०२८ इष्टकासेतुकारी च गोलोके मार्गकृद्गवां ।६६.०२९ नियमव्रतकृद्विष्णुः कृच्छ्रकृत्सर्वपापहा ॥६६.०२९ गृहं दत्वा वसेत्स्वर्गे यावदाभूतसम्प्लवं ।६६.०३० टिप्पणी १ अञ्जतेत्यनुवाकस्तु इति ग, ङ, चिह्नितपुस्तकपाठः २ स्वाद्वन्नसंयुक्तानिति ख, ग, घ, ङ, चिह्नितपुस्तकचतुष्टयपाठः पृष्ठ १९६ समुदायप्रतिष्ठेष्टा शिवादीनां गृहात्मनां ॥६६.०३० इत्यादिमहापुराणे आग्नेये समुदायप्रतिष्ठाकथनं नाम षट्षष्टितमोऽध्यायः ॥ अध्याय {६७} अथ सप्तषष्टितमोऽध्यायः जीर्णोद्धारविधानं भगवानुवाच जीर्णाद्धारविधिं वक्ष्ये भूषितां स्नपयेद्गुरुः(१) ।६७.००१ अचलां विन्यसेद्गेहे अतिजीर्णां परित्यजेत् ॥६७.००१ व्यङ्गां भग्नां च शैलाढ्यां न्यसेदन्यां च पूर्ववत् ।६७.००२ संहारविधिना तत्र तत्त्वान् संहृत्य देशिकः ॥६७.००२ सहस्रं नारसिंहेन हुत्वा तामुद्धरेद्गुरुः ।६७.००३ दारवीं दारयेद्वह्नौ शैलजां प्रक्षिपेज्जले ॥६७.००३ धातुजां रत्नजां वापि अगाधे वा जलेऽम्बुधौ ।६७.००४ यानमारोप्य जीर्णाङ्गं छाद्य वस्त्रादिना नयेत् ॥६७.००४ वादित्रैः प्रक्षिपेत्तोये गुरवे दक्षिणां ददेत् ।६७.००५ यत्प्रमाणा च यद्द्रव्या तन्मानां स्थापयेद्दिने ।६७.००५ कूपवापीतडागादेर्जीर्णोद्धारे महाफलं ॥६७.००५ इत्यादिमहापुराणे आग्नेये जीर्णोद्धारकथनं नाम सप्तषष्टितमोऽध्यायः ॥ टिप्पणी १ भूषिताञ्च यजेद्गुरुरिति घ, चिह्नितपुस्तकपाठः पृष्ठ १९७ अध्याय {६८} अथ अष्टषष्टितमोऽध्यायः यात्रोत्सवविधिकथनं भगवानुवाच वक्ष्ये विधिं चोत्सवस्य स्थापिते तु सुरे चरेत् ।६८.००१ तस्मिन्नब्दे चैकरात्रं त्रिरात्रञ्चाष्टरात्रकं ॥६८.००१ उत्सवेन विना यस्मात्स्थापनं निष्फलं भवेत् ।६८.००२ अयने विषुवे चापि शयनोपवने गृहे(१) ॥६८.००२ कारकस्यानुकूले वा यात्रान्देवस्य कारयेत् ।६८.००३ मङ्गलाङ्कुररोपैस्तु गीतनृत्यादिवाद्यकैः ॥६८.००३ शरावघटिकापालीस्त्वङ्कुरारोहणे हिताः ।६८.००४ यवाञ्छालींस्तिलान्मुद्गान् गोधूमान् सितसर्षपान् ॥६८.००४ कुलत्थमाषनिष्पावान् क्षालयित्वा तु वापयेत् ।६८.००५ पूर्वादौ च बलिं दद्यात्भ्रमन् दीपैः पुरं निशि ॥६८.००५ इन्द्रादेः कुमुदादेश्च सर्वभूतेभ्य एव च ।६८.००६ अनुगच्छन्ति ते तत्र प्रतिरूपधराः पुनः ॥६८.००६ पदे पदेऽश्वमेधस्य फलं तेषां न संशयः ।६८.००७ आगत्य देवतागारं देवं विज्ञापयेद्गुरुः ॥६८.००७ तीर्थयात्रा तु या देव श्वः कर्तव्या सुरोत्तम ।६८.००८ तस्यारम्भमनुज्ञातुमर्हसे देव सर्वथा ॥६८.००८ देवमेवन्तु विज्ञाप्य ततः कर्म समारभेत्(२) ।६८.००९ प्ररोहघटिकाभ्यान्तु वेदिकां भूषितां व्रजेत् ॥६८.००९ टिप्पणी १ शयनोत्थापने गृहे इति ख, चिह्नितपुस्तकपाठः । शयनोत्थापने हरेरिति ङ, चिह्नितपुस्तकपाठः २ समाचरेदिति ग, चिह्नितपुस्तकपाठः पृष्ठ १९८ चतुःस्तम्भान्तु तन्मध्ये स्वस्तिके प्रतिमां न्यसेत् ।६८.०१० काम्यार्थां लेख्यचित्रेषु स्थाप्य तत्राधिवासयेत् ॥६८.०१० वैष्णवैः सह कुर्वीत घृताभ्यङ्गन्तु मूलतः ।६८.०११ घृतधाराभिषेकं वा सकलां शर्वरीं बुधः ॥६८.०११ दर्पणं दर्श्य नीराजं गीतवाद्यैश्च मङ्गलं ।६८.०१२ व्यजनं पूजनं दीपं गन्धपुष्पादिभिर्यजेत् ॥६८.०१२ हरिद्रामुद्गकाश्मीरशुक्लचूर्णादि मूर्ध्नि ।६८.०१३ प्रतिमायाश्च भक्तानां सर्वतीर्थफलं धृते ॥६८.०१३ स्नापयित्वा समभ्यर्च्य यात्राविम्बं रथे स्थितं ।६८.०१४ नयेद्गुरुर्नदीर्नादैश्छत्राद्यै राष्ट्रपालिकाः ॥६८.०१४ निम्नगायोजनादर्वाक्तत्र वेदीन्तु कारयेत् ।६८.०१५ वाहनादवतार्यैनं तस्यां वेद्यान्निवेशयेत् ॥६८.०१५ चरुं वै श्रपयेत्तत्र पायसं होमयेत्ततः ।६८.०१६ अब्लिङ्गैः(१) वैदिकैर्मन्त्रैस्तीर्थानावाहयेत्ततः ॥६८.०१६ आपो हिष्ठोपनिषदैः पूजयेदर्घ्यमुख्यकैः ।६८.०१७ पुनर्देवं समादाय तोये कृत्वाघमर्षणं ॥६८.०१७ स्नायान्महाजनैर्विप्रैर्वेद्यामुत्तार्य तं न्यसेत् ।६८.०१८ पूजयित्वा तदह्ना च प्रासादं तु नयेत्ततः ।६८.०१८ पूजयेत्पावकस्थन्तु गुरुः स्याद्भुक्तिमुक्तिकृत् ॥६८.०१८ इत्यादिमहापुराणे आग्नेये देवयात्रोत्सवकथनं नाम अष्टषष्टितमोऽध्यायः ॥ टिप्पणी १ अर्चिकैरिति ग, चिह्नितपुस्तकपाठः पृष्ठ १९९ अध्याय {६९} ॒शथोनसप्ततितमोऽध्यायः स्नानविधानं अग्निरुवाच ब्रह्मन् शृणु प्रवक्षामि स्नपनोत्सवविस्तरं ।६९.००१ प्रासादस्याग्रतः कुम्भान्मण्डपे मण्डले न्यसेत् ॥६९.००१ कुर्याद्ध्यानार्चनं होमं हरेरादौ च कर्मसु ।६९.००२ सहस्रं वा शतं वापि होमयेत्पूर्णया सह ॥६९.००२ स्नानद्रव्याण्यथाहृत्य कलशांश्चापि विन्यसेत् ।६९.००३ अधिवास्य सूत्रकण्ठान् धारयेन्मण्डले घटान् ॥६९.००३ चतुरस्रं पुरं कृत्वा रुद्रैस्तं प्रविभाज्येत्(१) ।६९.००४ मध्येन तु चरुं स्थाप्य पार्श्वे पङ्क्तिं प्रमार्जयेत् ॥६९.००४ शालिचूर्णादिनापूर्य पूर्वादिनवकेषु च ।६९.००५ कुम्भमुद्रां ततो बध्वा घटं तत्रानयेद्बुधः ॥६९.००५ पुण्डरीकाक्षमन्त्रेण दर्भांस्तांस्तु विसर्जयेत् ।६९.००६ अद्भिः पूर्णं सर्वरत्नयुतं मध्ये न्यसेद्घटं ॥६९.००६ यवव्रीहितिलांश्चैव नीवरान् श्यामकान् क्रमात् ।६९.००७ कुलत्थमुद्गसिद्धार्थांस्तच्छुक्तानष्टदिक्षु च ॥६९.००७ ऐन्द्रे तु नवके मध्ये घृतपूर्णं घटं न्यसेत् ।६९.००८ पलाशाश्वत्थन्यग्रोधविल्वोदुम्बरशीर्षां ॥६९.००८ जम्बूशमीकपित्थानां त्वक्कषायैर्घटाष्टकं ।६९.००९ आग्नेयनवके मध्ये मधुपूर्णं घटं न्यसेत् ॥६९.००९ गोशृङ्गनश्वगङ्गागजेन्द्रदशनेषु च ।६९.०१० तीर्थक्षेत्रखलेष्वष्टौ मृत्तिकाः स्युर्घटाष्टके ॥६९.०१० टिप्पणी १ प्रविभावयेदिति ख, ग, घ, चिह्नितपुस्तकत्रयपाठः पृष्ठ २०० याम्ये तु नवके मध्ये तिलतैलघटं न्यसेत् ।६९.०११ नारङ्गमथ जम्बीरं खर्जूरं मृद्विकां क्रमात् ॥६९.०११ नारिकेलं न्यसेत्पूगं दाडिमं पनसं फलं ।६९.०१२ नैरृते नवके मध्ये क्षीरपूर्णं घटं न्यसेत् ॥६९.०१२ कुङ्कुमं नागपुष्पञ्च चम्पकं मालतीं क्रमात् ।६९.०१३ मल्लिकामथ पुन्नागं करवीरं महोत्पलं ॥६९.०१३ पुष्पाणि चाप्ये नवके मध्ये वै नारिकेलकम् ।६९.०१४ नादयेमथ सामुद्रं सारसं कौपमेव च ॥६९.०१४ वर्षजं हिमतोयञ्च नैर्झरङ्गाङ्गमेव च ।६९.०१५ उदकान्यथ वायव्ये नवके कदलीफलं ॥६९.०१५ सहदेवीं कुमारीं च सिंहीं व्याघ्रीं तथामृतां ।६९.०१६ विष्णुपर्णीं शतशिवां वचां दिव्यौषधीर्न्यसेत् ॥६९.०१६ पूर्वादौ सौम्यनवके मध्ये दधिघटं न्यसेत् ।६९.०१७ पत्रमेलां त्वचं कुष्ठं बालकं चन्दनद्वयं ॥६९.०१७ लतां कस्तूरिकां चैव कृष्णागुरुमनुक्रमात् ।६९.०१८ सिद्धद्रव्याणि पूर्वादौ शान्तितोयमथैकतः ॥६९.०१८ चन्द्रतारं क्रमाच्छुक्लं गिरिसारं त्रपु न्यसेत् ।६९.०१९ घनसारं(१) तथा शीर्षं पूर्वादौ रत्नमेव च ॥६९.०१९ घृतेनाभ्यर्ज्य चोद्वर्त्य स्नपयेन्मूलमन्त्रतः ।६९.०२० गन्धाद्यैः पूजयेद्वह्नौ हुत्वा पूर्णाहुतिं चरेत् ॥६९.०२० बलिञ्च सर्वभूतेभ्यो भोजयेद्दत्तदक्षिणः ।६९.०२१ देवैश्च मुनिभिर्भूपैर्देवं(२) संस्थाप्य चेश्वराः ॥६९.०२१ टिप्पणी १ घोषसारमिति ख, ग, घ, चिह्नितपुस्तकत्रयपाठः २ देवैश्च मुनिभिः सार्धमिति ङ, चिह्नितपुस्तकपाठः । दिव्यैश्च बलिभिर्धूपैर्देवमिति घ, चिह्नितपुस्तकपाठः पृष्ठ २०१ बभूवुः स्थापित्वेत्थं स्नपनोत्सवकं चरेत् ।६९.०२२ अष्टोत्तरसहस्रेण घटानां सर्वभाग्भवेत् ॥६९.०२२ यज्ञावभृथस्नानेन पूर्णसंस्नापनं कृतम् ।६९.०२३ गौरीलक्ष्मीविवाहादि चोत्सवं स्नानपूर्वकम् ॥६९.०२३ इत्यादिमहापुराणे आग्नेये यज्ञावभृतस्नानं नाम ऊनसप्ततितमोऽध्यायः ॥ अध्याय {७०} अथ सप्ततितमोऽध्यायः वृक्षादिप्रतिष्ठाकथनं भगवानुवाच प्रतिष्ठां पादपानाञ्च वक्ष्येऽहं भुक्तिमुक्तिदां ।७०.००१ सर्वौषध्युदकैर्लिप्तान् पिष्टातकविभूषितान् ॥७०.००१ वृक्षान्माल्यैरलङ्कृत्य वासोभिरभिवेष्टयेत् ।७०.००२ सूच्या सौवर्णया कार्यं सर्वेषां कर्णवेधनम् ॥७०.००२ हेमशलाकयाञ्जनञ्च वेद्यान्तु फलसप्तकम् ।७०.००३ अधिवासयेच्च प्रत्येकं घटान् बलिनिवेदनं ॥७०.००३ इन्द्रादेरधिवासोऽथ होमः कार्यो वनस्पतेः ।७०.००४ वृक्षमध्यादुत्सृजेद्गां ततोऽभिषेकमन्त्रतः ॥७०.००४ ऋग्यजुःसाममन्त्रैश्च वारुणैर्मङ्गलै रवैः(१) ।७०.००५ वृक्षवेदिककुम्भकैश्च(२) स्नपनं द्विजपुङ्गवाः ॥७०.००५ तरूणां यजमानस्य कुर्युश्च यजमानकः ।७०.००६ भूषितो दक्षिणां दद्याद्गोभूभूषणवस्त्रकं ॥७०.००६ टिप्पणी १ वारुणमनुमिर्वररिति ङ, चिह्नितपुस्तकपाठः २ वृक्षवेदीशकुम्भैस्तु इति ङ, चिह्नितपुस्तकपाठः पृष्ठ २०२ क्षीरेण भोजनं दद्याद्यावद्दिनचतुष्टयं ।७०.००७ होमस्तिलाद्यैः कार्यस्तु पलाशसमिधैस्तथा ॥७०.००७ आचार्ये द्विगुणं दद्यात्पूर्ववन्मण्डपादिकम् ।७०.००८ पापनाशः परा सिद्धिर्वृक्षारामप्रतिष्ठया ॥७०.००८ स्कन्दायेशो यथा प्राह प्रतिष्ठाद्यं तथा शृणु ।७०.००९ सूर्येशगणशक्त्यादेः परिवारस्य वै हरेः ॥७०.००९ इत्यादिमाहापुराणे आग्नेये पादपारामप्रतिष्ठाकथनं नाम सप्ततितमोऽध्यायः ॥ अध्याय {७१} अथ एकसप्ततितमोऽध्यायः गणेशपूजाविधिः ऐश्वर उवाच गणपूजां प्रवक्ष्यामि निर्विघ्नामखिलार्थदां(१) ।७१.००१ गणाय स्वाहा हृदयमेकदंष्ट्राय वै शिरः ॥७१.००१ गजकर्णिने च(२) शिखा गजवक्त्राय वर्म च ।७१.००२ महोदराय स्वदन्तहस्तायाक्षि(३) तथास्त्रकम् ॥७१.००२ गणो गुरुः पादुका च शक्त्यनन्तौ च धर्मकः ।७१.००३ मुख्यास्थिमण्डलं(४) चाधश्चोर्ध्वच्छदनमर्चयेत् ॥७१.००३ पद्मकर्णिकवीजांश्च ज्वालिनीं नन्दयार्चयेत् ।७१.००४ सूर्येशा कामरूपा च उदया कामवर्तिनी ॥७१.००४ टिप्पणी १ निर्विघ्नां पापनाशिनीमिति ग, घ, चिह्नितपुस्तकद्वयपाठः २ बलकर्णिने चेति ख, ग, घ, ङ, चिह्नितपुस्तकपाठः ३ महोदराये दण्डहस्तायाक्षि इति ङ, चिह्नितपुस्तकपाठः ४ मुख्यास्तिमण्डलमिति ख, ङ, चिह्नितपुस्तकद्वयपाठः पृष्ठ २०३ सत्यां च विघ्ननाशा च आसनं गन्धमृत्तिका ।७१.००५ यं शोषा रं च दहनं प्लवो लं वं तथामृतम् ॥७१.००५ लम्बोदराय विद्महे महोदराय धीमहि तन्नो दन्ती प्रचोदयात् ।७१.००६ गणपतिर्गणाधिपो गणेशो गणनायकः ।७१.००६ गणक्रीडो वक्रतुण्ड एकदंष्ट्रो महोदरः ॥७१.००६ गजवक्त्रो लम्बुक क्षिर्विकटो विघ्ननाशनः(१) ।७१.००७ धूम्रवर्णा महेन्द्राद्याः पूज्या गणपतेः स्मृताः ॥७१.००७ इत्यादिमहापुराणे आग्नेये विनायकपूजाकथनं नाम एकसप्ततितमोऽध्यायः ॥ अध्याय {७२} अथ द्विसप्ततितमोऽध्यायः स्नानविशेषादिकथनं ईश्वर उवाच वक्ष्यामि स्कन्द नित्याद्यं स्नानं पूजां प्रतिष्ठया ।७२.००१ खात्वासिना समुद्धृत्य मृदमष्टाङ्गुलां ततः ॥७२.००१ सर्वात्मना समुद्धृत्य पुनस्तेनैव पूरयेत् ।७२.००२ शिरसा पयसस्तीरे निधायास्त्रेण शोधयेत्(२) ॥७२.००२ तृणानि शिखयोद्धृत्य वर्मणा विभजेत्त्रिधा ।७२.००३ एकया नाभिपादान्तं प्रक्षाल्य पुनरन्यया ॥७२.००३ अस्त्राभिलब्धयालभ्य दीप्तया सर्वविग्रहं ।७२.००४ निरुद्धाक्षाणि पाणिभ्यां प्राणान् संयम्य वारिणि ॥७२.००४ निमज्यासीत हृद्यस्त्रं स्मरन् कालानलप्रभं ।७२.००५ टिप्पणी १ विघ्नराजक इति ङ, चिह्नितपुस्तकपाठः २ निजास्त्रेण विशोधयेदिति ख, ग, चिह्नितपुस्तकपाठः पृष्ठ २०४ मलस्नानं विशोधयेत्थं समुत्थाय जलान्तरात् ॥७२.००५ अस्त्रसन्ध्यामुपास्याथ विधिस्नानं समाचरेत् ।७२.००६ सारस्वतादितीर्थानां एकमङ्कुशमुद्रया ॥७२.००६ हृदाकृष्य तथा स्नाप्य पुनः संहारमुद्रया ।७२.००७ शेषं मृद्भागमादाय प्रविश्य नाभिवारिणि ॥७२.००७ वामपाणितले कुर्याद्भागत्रयमुदङ्मुखः ।७२.००८ अङ्गैर्दक्षिणमेकाद्यं पूर्वमस्त्रेण सप्तधा ॥७२.००८ शिवेन दशधा सौम्यं जपेद्भागत्रयं क्रमात् ।७२.००९ सर्वदिक्षु क्षिपेत्पूर्वं हूं फडन्तशरात्मना(१) ॥७२.००९ कुर्याच्छिवेन सौम्येन शिवतीर्थं भुजक्रमात् ।७२.०१० सर्वाङ्गमङ्गजप्तेन मूर्धादिचरणावधि ॥७२.०१० दक्षिणेन समालभ्य पठन्नङ्गचतुष्टयम् ।७२.०११ पिधाय खानि सर्वाणि सम्मुखीकरणेन च ॥७२.०११ शिवं स्मरन्निमज्जेत हरिं गङ्गेति वा स्मरन् ।७२.०१२ वौषडन्तषडङ्गेन के कुर्यादभिषेचनं ॥७२.०१२ कुम्भमात्रेण रक्षार्थं पूर्वादौ निक्षिपेज्जलं ।७२.०१३ स्नात्वा रजोपचारेण सुगन्धामलकादिभिः ॥७२.०१३ स्नात्वा चोत्तीर्य तत्तीर्थं संहारिण्योपसंहरेत् ।७२.०१४ अथातो विधिशुद्धेन संहितामन्त्रितेन च ॥७२.०१४ निवृत्यादिविशुद्धेन भस्मना स्नानमाचरेत् ।७२.०१५ शिरस्तः पादपर्यन्तं ह्रूं फडन्तशरात्मना(२) ॥७२.०१५ तेन कृत्वा मलस्नानं विधिस्नानं समाचरेत् ।७२.०१६ टिप्पणी १ क्रूं फडन्तशरात्मना इति ख, ङ, चिह्नितपुस्तकद्वयपाठः २ क्रूं फडन्तशरात्मना इति ख, ङ, चिह्नितपुस्तकद्वयपाठः पृष्ठ २०५ ईशतत्पुरुषाघोरगुह्यकाजातसञ्चरैः(१) ॥७२.०१६ क्रमेणोद्धूनयेन्मूर्ध्नि वक्त्रहृद्गुह्यविग्रहात् ।७२.०१७ सन्ध्यात्रये निशीथे च वर्षापूर्वावसानयोः ॥७२.०१७ सुप्त्वा भुक्त्वा पयः पीत्वा कृत्वा चावश्यकादिकम् ।७२.०१८ स्त्रीपुन्नपुंसकं शूद्रं विडालशशमूषिकम् ॥७२.०१८ स्नानमाग्नेयकं स्पृष्ट्वा शुचा वुद्धूलकं चरेत् ।७२.०१९ सूर्यांशुवर्षसम्पर्कैः प्राङ्मुखेनोर्ध्वबाहुना ॥७२.०१९ माहेन्द्रं स्नानमैशेन कार्यं सप्तपदावधि ।७२.०२० गोसङ्घमध्यगः कुर्यात्खुरोत्खातकरेणुभिः(२) ॥७२.०२० पावनं नवमन्त्रेण स्नानन्तद्वर्मणाथवा ।७२.०२१ सद्योजातादिभिर्मन्त्रैरम्भोभिरभिषेचनम् ॥७२.०२१ मन्त्रस्नानं भवेदेवं वारुणाग्नेययोरपि ।७२.०२२ मनसा मूलमन्त्रेण प्राणायामपुरःसरम् ॥७२.०२२ कुर्वीत मानसं स्नानं सर्वत्र विहितं च यत् ।७२.०२३ वैष्णवादौ च तन्मन्त्रैरेवं स्नानादि कारयेत् ॥७२.०२३ सन्ध्याविधिं प्रवक्ष्यामि मन्त्रैर्भिन्नैः समं गुह ।७२.०२४ संवीक्ष्य त्रिः पिवेदम्बु ब्रह्मतीर्थेन शङ्करैः ॥७२.०२४ स्वधान्तैरात्मतत्त्वाद्यैस्ततः खानि स्पृशेद्धृदा ।७२.०२५ शकलीकरणं कृत्वा प्राणायामेन संस्थितः ॥७२.०२५ त्रिः समावर्तयेन्मन्त्री मनसा शिवसंहितां ।७२.०२६ आचम्य न्यस्य सन्ध्याञ्च ब्राह्मीं प्रातः स्मरेन्नरः(३) ॥७२.०२६ हंसपद्मासनां रक्तां चतुर्वक्त्रां चतुर्भुजां ।७२.०२७ टिप्पणी १ गुह्यकाजातसंरवैरिति ख, चिह्नितपुस्तकपाठः २ तत्खरोत्खातरेणुभिरिति ख, चिह्नितपुस्तकपाठः ३ स्मरेत्तत इति ग, चिह्नितपुस्तकपाठः पृष्ठ २०६ प्रस्कन्दमालिनीं दक्षे वामे दण्डकमण्डलुं ॥७२.०२७ तार्क्ष्यपद्मासनां ध्यायेन्मध्याह्ने वैष्णवीं सितां ।७२.०२८ शङ्खचक्रधरां वामे दक्षिणे सगदाभयं ॥७२.०२८ रौद्रीं ध्यायेद्वृषाब्जस्थां त्रिनेत्रां शशिभूषितां ।७२.०२९ त्रिशूलाक्षधरां दक्षे वामे साभयशक्तिकां ॥७२.०२९ साक्षिणीं कर्मणां सन्ध्यां(१) आत्मानं तत्प्रभानुगं ।७२.०३० चतुर्थी ज्ञानिनः सन्ध्या निशीथादौ विभाव्यते ॥७२.०३० हृद्बिन्दुब्रह्मरन्ध्रेषु अरूपा तु परे स्थिता ।७२.०३१ शिवबोधपरा या तु सा सन्ध्या मरमोच्यते ॥७२.०३१ पैत्र्यं मूले प्रदेशिन्याः कनिष्ठायाः प्रजापतेः ।७२.०३२ ब्राह्म्यमङ्गुष्ठमूलस्थं तीर्थं दैवं कराग्रतः ॥७२.०३२ सव्यपाणितले वह्नेस्तीर्थं सोमस्य वामतः ।७२.०३३ ऋषीणां तु समग्रेषु अङ्गुलीपर्वसन्धिषु ॥७२.०३३ ततः शिवात्मकैर्मन्त्रैः कृत्वा तीर्थं शिवात्मकं ।७२.०३४ मार्जनं संहितामन्त्रैस्तत्तोयेन समाचरेत् ॥७२.०३४ वामपाणिपतत्तोययोजनं सव्यपाणिना ।७२.०३५ उत्तमाङ्गे क्रमान्मन्त्रैर्मार्जनं समुदाहृतं ॥७२.०३५ नीत्वा तदुपनासाग्रं दक्षपाणिपुटस्थितं ।७२.०३६ बोधरूपं सितं तोयं वाममाकृष्य स्तम्भयेत्(२) ॥७२.०३६ तत्पापं कज्जलाभासम्पिङ्गयारिच्य मुष्टिना ।७२.०३७ क्षिपेद्वज्रशिलायान्तु तद्भवेदघमर्षणं ॥७२.०३७ स्वाहान्तशिवमन्त्रेण कुशपुष्पाक्षतान्वितं ।७२.०३८ शिवायार्घ्याञ्जलिन्दत्वा गायत्रीं शक्तितो जपेत् ॥७२.०३८ टिप्पणी १ दाक्षिण्यः कर्मणां सन्ध्या इति ख, चिह्नितपुस्तकपाठः २ कुम्भयेदिति ख, ङ, चिह्नितपुस्तकपाठः पृष्ठ २०७ तर्पणं सम्प्रवक्ष्यामि देवतीर्थेन मन्त्रकात् ।७२.०३९ तर्पयेद्धौं शिवायेति स्वाहान्यान् स्वाहया युतान् ॥७२.०३९ ह्रां हृद्याय ह्रीं शिरसे ह्रूं शिखायै ह्रैं कवचाय ।७२.०४० अस्त्रायाष्टौ देवगणान् हृदादित्येभ्य एव च ॥७२.०४० हां वसुभ्योऽथ रुद्रेभ्यो विश्वेभ्यश्चैव मरुद्भ्यः ।७२.०४१ भृगुभ्यो हामङ्गिरोभ्य ऋषीन् कण्ठोपवीत्यथ ॥७२.०४१ अत्रेयेऽथ वसिष्ठाय नमश्चाथ पुलस्तये(१) ।७२.०४२ कृतवे भारद्वजाय विश्वामित्राय वै नमः ॥७२.०४२ प्रचेतसे मनुष्यांश्च सनकाय वषट्तथा ।७२.०४३ हां सनन्दाय वषट्सनातनाय वै वषट् ॥७२.०४३ सनत्कुमाराय वषट्कपिलाय तथा वषट् ।७२.०४४ पञ्चशिखाय द्युभवे संलग्नकरमूलतः ॥७२.०४४ सर्वेभ्यो भूतेभ्यो वौषट्भूतान् देवपितॄनथ ।७२.०४५ दक्षस्कन्धोपवीती च कुशमूलाग्रतस्तिलैः ॥७२.०४५ कव्यबालानलायाथ सोमाय च यमाय च ।७२.०४६ अर्यम्णे चाग्निसोमाय वर्हिषद्भ्यः स्वधायुतान् ॥७२.०४६ आज्यपाय च सोमाय विशेषसुरवत्पितॄन् ।७२.०४७ ओं हां ईशानाय पित्रे स्वधा दद्यात्पितामहे(२) ॥७२.०४७ शान्तप्रपितामहाय तथाप्रेतपितॄंस्तथा ।७२.०४८ पितृभ्यः पितामहेभ्यः स्वधाथ प्रपितामहे ॥७२.०४८ वृद्धप्रपितामहेभ्यो मातृभ्यश्च स्वधा तथा ।७२.०४९ हां मातामहेभ्यः स्वधा हां प्रमातामहेभ्यश्च ॥७२.०४९ वृद्धप्रमातामहेभ्यः सर्वेभ्यः पितृभ्यस्तथा ।७२.०५० टिप्पणी १ मरीचये पुलस्त्यायेति ङ, चिह्नितपुस्तकपाठः २ हां ईशानाय पित्रे च सदाज्याय पितामहायेति ख, चिह्नितपुस्तकपाठः पृष्ठ २०८ सर्भेभ्यः स्वधा ज्ञातिभ्यः सर्वाचार्येभ्य एव च ।७२.०५० दिशां दिक्पतिसिद्धानां मातॄणां ग्रहरक्षसां ॥७२.०५० इत्यादिमहापुराणे आग्नेये स्नानादिविधिर्नाम द्विसप्ततितमोऽध्यायः ॥ अध्याय {७३} अथ त्रिसप्ततितमोऽध्यायः सूर्यपूजाविधिः ईश्वर उवाच वक्ष्ये सूर्यार्चनं स्कन्द कराङ्गन्यासपूर्वकं ।७३.००१ अहं तेजोमयः सूर्य इति ध्यात्वार्घ्यमर्चयेत् ॥७३.००१ पूरयेद्रक्तवर्णेन ललाटाकृष्टविन्दुना ।७३.००२ तं संपूज्य रवेरङ्गैः कृत्वा रक्षावगुण्ठनं ॥७३.००२ सम्प्रोक्ष्य तज्जलैर्द्रव्यं पूर्वास्यो भानुमर्चयेत् ।७३.००३ ओं अं हृद्वीजादि(१) सर्वत्र पूजनं दण्डिपिङ्गलौ ॥७३.००३ द्वारि दक्षे वामपार्श्वे ईशाने अं गणाय च ।७३.००४ अग्नौ गुरुं पीठमध्ये प्रभूतं चासनं यजेत् ॥७३.००४ अग्न्यादौ विमलं सारमाराध्यं परमं सुखं ।७३.००५ सितरक्तपीतनीलवर्णान् सिंहनिभान् यजेत् ॥७३.००५ पद्ममध्ये रां च दीप्तां रीं सूक्ष्मां रं जयां क्रमात्(२) ।७३.००६ रूं भद्रां रें विभूतीश्च विमलां रैममोघया ॥७३.००६ रों रौं विद्युता शक्तिं पूर्वाद्याः सर्वतोमुखाः ।७३.००७ टिप्पणी १ ओं हां हृद्वीजादीति ख, चिह्नितपुस्तकपाठः २ रुं जयां क्रमादिति ख, चिह्नितपुस्तकपाठः पृष्ठ २०९ रं मध्ये अर्कासनं स्यात्सूर्यमूर्तिं षडक्षरं ॥७३.००७ ओं हं खं खोल्कयेति यजेदावाह्य भास्करं ।७३.००८ ललाटाकृष्टमञ्जल्यां ध्यात्वा रक्तं न्यसेद्रविं ॥७३.००८ ह्रां ह्रीं सः(१) सूर्याय नमो मुद्रयावाहनादिकं ।७३.००९ विधाय प्रीतये विम्बमुद्रां गन्धादिकं ददेत् ॥७३.००९ पद्ममुद्रां बिल्वमुद्रां प्रदर्श्याग्नौ हृदीरितं ।७३.०१० ओं आं हृदयाय नमः अर्काय शिरसे तथा ॥७३.०१० भूर्भुवः स्वः सुरेशाय शिखायै(२) नैरृते यजेत् ।७३.०११ हुं कवचाय(३) वायव्ये हां नेत्रायेति(४) मध्यतः ॥७३.०११ वः अस्त्रायेति पूर्वादौ ततो मुद्राः प्रदर्शयेत् ।७३.०१२ धेनुमुद्रा हृदादीनां गोविषाणा च नेत्रयोः ॥७३.०१२ अस्त्रस्य त्रासनी योज्या ग्रहणां च नमस्क्रिया ।७३.०१३ सों सोमं बुं बुधं वृञ्च जीवं भं भार्गवं यजेत् ॥७३.०१३ दले पूर्वादिकेऽग्न्यादौ अं भौमं शं शनैश्चरं ।७३.०१४ रं राहुं कें केतवे च गन्धाद्यैश्च खखोल्कया ॥७३.०१४ मूलं जप्त्वार्घ्यपात्राम्बु दत्वा सूर्याय संस्तुतिः ।७३.०१५ नत्वा पराङ्मुखञ्चार्कं(५) क्षमस्वेति ततो वदेत् ॥७३.०१५ शराणुना फडन्तेन समाहत्याणुसंहृतिं(६) ।७३.०१६ टिप्पणी १ ह्रीं ह्रं ह्रैं स इति घ, चिह्नितपुस्तकपाठः २ सुरेशाय ज्वालिनिशिखायै इति ख, चिह्नितपुस्तकपाठः ३ क्रूं कवचाय इति ख, ङ, चिह्नितपुस्तकद्वयपाठः ४ ह्रीं नेत्रायेतीति ख, चिह्नितपुस्तकपाठः । भां नेत्रायेति ग, चिह्नितपुस्तकपाठः ५ पराङ्मुखञ्चार्घ्यमिति ख, ग, चिह्नितपुस्तकपाठः ६ शवानुना फडन्तेन समाहृत्यानुसंहतिमिति ख, चिह्नितपुस्तकद्वयपाठः । शवाणुना फडन्तेन समहत्यार्थं संहतिमिति ग, चिह्नितपुस्तकपाठः पृष्ठ २१० हृत्पद्मे शिवसूर्येतिसंहारिण्योपसंस्कृतिं(१) ॥७३.०१६ योजयेत्तेजश्चण्डाय रविनिर्माल्यमर्पयेत् ।७३.०१७ अभ्यर्च्यैशे(२) जपाद्ध्यानाद्धोमात्सर्वं रवेर्भवेत् ॥७३.०१७ इत्यादिमहापुराणे आग्नेये सूर्यपूजा नाम त्रिसप्ततितमोऽध्यायः ॥ अध्याय {७४} अथ चतुःसप्ततितमोऽध्यायः शिवपूजाकथनं ईश्वर उवाच शिवपूजां प्रवक्ष्यामि आचम्य प्रणवार्घ्यवान् ।७४.००१ द्वारमस्त्राम्बुना प्रोक्ष्य होमादिद्वारपान्यजेत् ॥७४.००१ गणं सरस्वतीं लक्ष्मीमूर्ध्वोदुम्बरके यजेत् ।७४.००२ नन्दिगङ्गे दक्षिणेऽथ स्थिते(३) वामगते यजेत् ॥७४.००२ महाकालं च यमुनां दिव्यदृष्टिनिपातितः ।७४.००३ उत्सार्य दिव्यान् विघ्नांश्च पुष्पाक्षेपान्तरिक्षगान् ॥७४.००३ दक्षपार्ष्णित्रिभिर्घातैभूमिष्ठान्यागमन्दिरं ।७४.००४ देहलीं लङ्घयेद्वामशाखामाश्रित्य वै विशेत् ॥७४.००४ प्रविश्य दक्षपादेन विन्यस्यास्त्रमुदुम्बरे ।७४.००५ ओं हां वास्त्वधिपतये ब्रह्मणे मध्यतो यजेत् ॥७४.००५ टिप्पणी १ संहारिण्योपसंहतमिति ख, चिह्नितपुस्तकपाठः । संहारिष्णोपसंहृतमिति ग, ङ, चिह्नितपुस्तकद्वयपाठः २ अभ्यर्च्य चेति ङ, चिह्नितपुस्तकपाठः ३ दक्षशाखास्थिते इति घ, ङ, चिह्नितपुस्तकद्वयपाठः पृष्ठ २११ निरीक्षणादिभिः शस्त्रैः शुद्धानादाय गड्डुकान्(१) ।७४.००६ लब्धानुज्ञः शिवान्मौनी गङ्गादिकमनुव्रजेत् ॥७४.००६ पवित्राङ्गः प्रजप्तेन वस्त्रपूतेन वारिणा ।७४.००७ पूरयेदम्बुधौ तांस्तान् गयत्र्या हृदयेन वा ॥७४.००७ गन्धकाक्षत(२) पुष्पादिसर्वद्रव्यसमुच्चयं ।७४.००८ सन्निधीकृत्य पूजार्थं भूतशुद्धादि कारयेत् ॥७४.००८ देवदक्षे ततो न्यस्य सौम्यास्यश्च शरीरतः(३) ।७४.००९ संहारमुद्रयादाय मूर्ध्नि मन्त्रेण(४) धारयेत् ॥७४.००९ भोग्यकर्मोपभोगार्थं पाणिकच्छपिकाख्यया ।७४.०१० हृदम्बुजे निजात्मानं द्वादशान्तपदेऽथवा ॥७४.०१० शोधयेत्पञ्चभूतानि सञ्चिन्त्य शुषिरन्तनौ(५) ।७४.०११ चरणाङ्गुष्ठयोर्युग्मान् शुषिरान्तर्वहिः स्मरेत् ॥७४.०११ शक्तिं हृद्व्यापिनीं पश्चाद्धूङ्कारे(६) पावकप्रभे ।७४.०१२ रन्ध्रमध्यस्थिते(७) कृत्वा प्राणरोधं हि चिन्तकः ॥७४.०१२ निवेशयेद्रेचकान्ते(८) फडन्तेनाथ तेन च ।७४.०१३ हृत्कण्ठतालुभ्रूमध्यब्रह्मरन्ध्रे विभिद्य च ॥७४.०१३ टिप्पणी १ गन्धकानिति ङ, चिह्नितपुस्तकपाठः । लुड्डुकानिति ख, चिह्नितपुस्तकपाठः २ गुड्डुकाक्षतेति ङ, चिह्नितपुस्तकपाठः । गण्डूकाक्षतेति घ, चिह्नितपुस्तकपाठः ३ सौम्यास्यः स्वशरीरत इति घ, चिह्नितपुस्तकपाठः ४ मूर्तिमन्त्रेणेति ग, घ, ङ, चिहिनितपुस्तकत्रयपाठः ५ स्वशिरस्तनौ इति ङ, चिह्नितपुस्तकपाठः ६ पश्चादोङ्कारे इति ङ, चिह्नितपुस्तकपाठः ७ चन्द्रमध्यस्थिते इति ख, चिह्नितपुस्तकपाठः चक्रमध्यस्थिते इति ङ, चिह्नितपुस्तकपाठः ८ निवोधयेद्रेचकान्ते इति ख, चिह्नितपुस्तकपाठः पृष्ठ २१२ ग्रन्थीन्निर्भिद्य हूङ्कारं मूर्ध्नि विन्यस्य जीवनं ।७४.०१४ सम्पुटं हृदयेनाथ पूरकाहितचेतनं ॥७४.०१४ हूं शिखोपरि विन्यस्य शुद्धं विन्द्वात्मकं(१) स्मरेत् ।७४.०१५ कृत्वाथ कुम्भकं शम्भौ एकोद्घातेन योजयेत् ॥७४.०१५ रेचकेन वीजवृत्त्या शिवे लीनोऽथ शोधयेत् ।७४.०१६ प्रतिलोमं स्वदेहे तु(२) विन्द्वन्तं तत्र विन्दुकं ॥७४.०१६ लयन्नीत्वा महीवातौ जलवह्नी परस्परं ।७४.०१७ द्वौ द्वौ साध्यौ तथाकाशमविरोधेन तच्छृणु ॥७४.०१७ पार्थिवं मण्डलं पीतं कठिनं वज्रलाञ्छितं ।७४.०१८ हौमित्यात्मीयवीजेन(३) तन्निवृत्तिकलामयं ॥७४.०१८ पदादारभ्य मूर्धानं विचिन्त्य चतुरस्रकं ।७४.०१९ उद्घातपञ्चकेनैव वायुभूतं विचिन्तयेत् ॥७४.०१९ अर्धचन्द्रं द्रवं सौम्यं शुभ्रसम्भोजलाञ्छितं(४) ।७४.०२० ह्रीमित्यनेन वीजेन प्रतिष्ठारूपतां गतं ॥७४.०२० संयुक्तं राममन्त्रेण(५) पुरुषान्तमकारणं ।७४.०२१ अर्घ्यञ्चतुर्भिरुद्घातैर्वह्निभूतं विशोधयेत् ॥७४.०२१ आग्नेयं मण्डलं त्र्यस्त्रं रक्तं स्वस्तिकलाञ्छितं ।७४.०२२ हूमित्यनेन वीजेन विद्यारूपं विभावयेत् ॥७४.०२२ घोराणुत्रिभिरुद्घातैर्जलभूतं विशोधयेत् ।७४.०२३ टिप्पणी १ विष्ण्वात्मकमिति ख, चिह्नितपुस्तकपाठः २ स्वहेतौ तु इति ख, चिह्नितपुस्तकपाठः ३ हौमित्युन्नीय वीजेनेति ख, चिह्नितपुस्तकपाठः । हौमित्याग्नेयवीजेनेति घ, चिह्नितपुस्तकपाठः ४ अर्धचन्द्रं ततः सौम्ये शिवं पूर्वेण योजयेदिति ङ, चिह्नितपुस्तकपाठः ५ वामं मन्त्रेणेति घ, चिह्नितपुस्तकपाठः । वा समन्त्रेणेति ख, चिह्नितपुस्तकपाठः पृष्ठ २१३ षडस्रं मण्डलं वायोर्विन्दुभिः षड्भिरङ्कितं ॥७४.०२३ कृष्णं ह्रेमिति वीजेन जातं शान्तिकलामयं ।७४.०२४ सञ्चित्योद्घातयुग्मेन पृथ्वीभूतं विशोधयेत् ॥७४.०२४ नभोविन्दुमयं वृत्तं विन्दुशक्तिविभूषितं ।७४.०२५ व्योमाकारं सुवृत्तञ्च शुद्धस्फटिकनिर्मलं ॥७४.०२५ हौङ्कारेण फडन्तेन शान्त्यतीतकलामयं ।७४.०२६ ध्यात्वैकोद्घातयोगेन सुविशुद्धं विभावयेत् ॥७४.०२६ आप्याययेत्ततः सर्वं मूलेनामृतवर्षिणा(१) ।७४.०२७ आधाराख्यामनन्तञ्च धर्मज्ञानादिपङ्कजं ॥७४.०२७ हृदासनमिदं(२) ध्यात्वा मूर्तिमावाहयेत्ततः ।७४.०२८ सृष्ट्या शिवमयं तस्यामात्मानं द्वादशान्ततः ॥७४.०२८ अथ तां शक्तिमन्त्रेण वौषडन्तेन सर्वतः ।७४.०२९ दिव्यामृतेन सम्प्लाव्य कुर्वीत सकलीकृतं ॥७४.०२९ हृदयादिकरान्तेषु(३) कनिष्ठाद्यङ्गुलीषु च ।७४.०३० हृदादिमन्त्रविन्यासः सकलीकरणं मतं ॥७४.०३० अस्त्रेण रक्ष्य प्राकारं तन्मन्त्रेणाथ तद्वहिः ।७४.०३१ शक्तिजालमधश्चोर्ध्वं महामुद्रां प्रदर्शयेत् ॥७४.०३१ आपदमस्तकं यावद्भावपुष्पैः(४) शिवं हृदि ।७४.०३२ पद्मे यजेत्पूरकेण आकृष्टामृतसद्घृतैः ॥७४.०३२ शिवमन्त्रैर्नाभिकुण्डे तर्पयेत शिवानलं ।७४.०३३ टिप्पणी १ मूलेनामृतसेचनादिति ङ, चिह्नितपुस्तकपाठः २ हृद्यासनमिदमिति ङ, चिह्नितपुस्तकपाठः ३ हृदयादिषडङ्गेन इति ङ, चिह्नितपुस्तकपाठः ४ तावत्पुष्पैरिति ङ, चिह्नितपुस्तकपाठः पृष्ठ २१४ ललाटे विन्दुरूपञ्च चिन्तयेच्छुभविग्रहं(१) ॥७४.०३३ एकं स्वर्णादिपात्राणां पात्रमस्त्राम्बुशोधितं ।७४.०३४ विन्दुप्रसूतपीयूषरूपतोयाक्षतादिना ॥७४.०३४ हृदापूर्य षडङ्गेन पूजयित्वाभिमन्त्रयेत् ।७४.०३५ संरक्ष्य हेति मन्त्रेण कवचेन विगुण्ठयेत् ॥७४.०३५ रचयित्वार्घ्यमष्टाङ्गं सेचयेद्धेनुमुद्रया(२) ।७४.०३६ अभिषिञ्चेदथात्मानं मूर्ध्नि तत्तोयविन्दुना ॥७४.०३६ तत्रस्थं यागसम्भारं प्रोक्षयेदस्त्रवारिणा ।७४.०३७ अभिमन्त्र्य हृदा पिण्डैस्तनुत्राणेन वेष्टयेत् ॥७४.०३७ दर्शयित्वामृतां मुद्रां पुष्पं दत्वा निजासने ।७४.०३८ विधाय तिलकं मूर्ध्नि पुष्पं मूलेन योजयेत् ॥७४.०३८ स्नाने देवार्चने होमे भोजने यागयोगयोः ।७४.०३९ आवश्यके जपे धीरः सदा वाचंयमो भवेत् ॥७४.०३९ नादान्तोच्चारणान्मन्त्रं शोधयित्वा सुसंस्कृतं ।७४.०४० पूजनेऽभ्यर्च्य गायत्र्या सामान्यार्घ्यमुपाहरेत् ॥७४.०४० ब्रह्मपञ्चकमावर्त्य माल्यमादाय लिङ्गतः ।७४.०४१ ऐशान्यान्दिशि चण्डाय हृदयेन निवेदयेत् ॥७४.०४१ प्रक्षाल्य पिण्दिकालिङ्गे अस्त्रतोये ततो हृदा ।७४.०४२ अर्घ्यपात्राम्बुना सिञ्चेदिति लिङ्गविशोधनं ॥७४.०४२ आतमद्रव्यमन्त्रलिङ्गशुद्धौ सर्वान् सुरान्यजेत् ।७४.०४३ वायव्ये गणपतये हां गुरुभ्योऽर्चयेच्छिवे ॥७४.०४३ टिप्पणी १ चिन्तयेत्सपरिग्रहमिति ङ, चिह्नितपुस्तकपाठः २ रोचयेद्धेनुमुद्रयेति ख, चिह्नितपुस्तकपाठः पृष्ठ २१५ आधारशक्तिमङ्कुरनिभां कूर्मशिलास्थितां ।७४.०४४ यजेद्ब्रह्मशिलारूढं शिवस्यानन्तमासनं ॥७४.०४४ विचित्रकेशप्रख्यानमन्योन्यं पृष्टदर्शिनः ।७४.०४५ कृतत्रेतादिरूपेण शिवस्यासनपादुकां ॥७४.०४५ धर्मं ज्ञानञ्च वैराग्यमैश्वर्यञ्चाग्निदिङ्मुखान् ।७४.०४६ कूर्पारकुङ्कुमस्वर्णकज्जलाभान् यजेत्क्रमात् ॥७४.०४६ पद्मञ्च कर्णिकामध्ये पूर्वादौ मध्यतो नव ।७४.०४७ वरदाभयहस्ताश्च शक्तयो धृतचामराः ॥७४.०४७ वामा ज्येष्ठा च रौद्री च काली कलविकारिणी ।७४.०४८ बलविकरणी पूज्या बलप्रमथनी क्रमात् ॥७४.०४८ हां सर्वभूतदमनी केशराग्रे मनोन्मनी ।७४.०४९ क्षित्त्यादि शुद्धविद्यान्तु तत्त्वव्यापकमासनं ॥७४.०४९ न्यसेत्सिंहासने देवं शुक्लं पञ्चमुखं विभुं ।७४.०५० दशबाहुं च खण्डेन्दुं दधानन्दक्षिणैः करैः ॥७४.०५० शक्त्यृष्टिशूलखट्वाङ्गवरदं वामकैः करैः ।७४.०५१ डमरुं वीजपुरञ्च नीलाब्जं सूत्रकोत्पलं ॥७४.०५१ द्वात्रिंशल्लक्षणोपेतां शैवीं मूर्तिन्तु मध्यतः ।७४.०५२ हां हं हां शिवमूर्तये स्वप्रकाशं शिवं स्मरन् ॥७४.०५२ ब्रह्मादिकारणत्यागान्मन्त्रं नीत्वा शिवास्पदं ।७४.०५३ ततो ललातमध्यस्थं स्फुरत्तारापतिप्रभं ॥७४.०५३ षडङ्गेन समाकीर्णं विन्दुरूपं परं शिवं ।७४.०५४ पुष्पाञ्जलिगतं ध्यात्वा लक्ष्मीमूर्तौ निवेशयेत् ॥७४.०५४ ओं हां हौं शिवाय नम आवाहन्या हृद्दा ततः ।७४.०५५ आवाह्य स्थाप्य स्थापन्या सन्निधायान्तिकं शिवं ॥७४.०५५ निरोधयेन्निष्ठुरया कालकान्त्या फडन्ततः ।७४.०५६ पृष्ठ २१६ विघ्नानुत्सार्य विष्ठ्याथ(१) लिङ्गमुद्रां नमस्कृतिं ॥७४.०५६ हृदावगुण्ठयेत्पश्चादावाहः सम्मुखी ततः ।७४.०५७ निवेशनं स्थापनं स्यात्सन्निधानं तवास्मि भोः ॥७४.०५७ आकर्मकाण्डपर्यन्तं सन्नेधेयोपरिक्षयः ।७४.०५८ स्वभक्तेश्च(२) प्रकाशोयस्तद्भवेदवगुण्ठनं ॥७४.०५८ सकलीकरणं कृत्वा मन्त्रैः षड्भिरथैकतां ।७४.०५९ अङ्गानामङ्गिना सार्धं विदध्यादमृतीकृतं ॥७४.०५९ चिच्छक्तिहृदयं शम्भोः शिव ऐश्वर्यमष्टधा(३) ।७४.०६० शिखावशित्वं चाभेद्यं तेजः कवचमैश्वरं ॥७४.०६० प्रतापो दुःसहश्चास्त्रमन्तरायापहारकं ।७४.०६१ नमः स्वधा च स्वाहा च वौषट्चेति यथाक्रमं ॥७४.०६१ हृत्पुरःसरमुच्चार्य पाद्यादीनि निवेदयेत् ।७४.०६२ पाद्यं पादाम्बुजद्वन्द्वे वक्त्रेष्वाचमनीयकं ॥७४.०६२ अर्घ्यं शिरसि देवस्य दूर्वापुष्पाक्षतानि च ।७४.०६३ एवं संस्कृत्य संस्कारैर्दशभिः परमेश्वरं ॥७४.०६३ यजेत्पञ्चोपचारेण विधिना कुसुमादिभिः ।७४.०६४ अभ्युक्ष्योद्धर्त्य निर्म्भञ्ज्य राजिकालवणादिभिः ॥७४.०६४ अर्घ्योदविन्दुपुष्पाद्यैर्गड्डूकैः(४) स्नापयेच्छनैः ।७४.०६५ पयोदधिघृतक्षौद्रशर्कराद्यैरनुक्रमात् ॥७४.०६५ ईशादिमन्त्रितर्द्रव्यैरर्च्य तेषां(५) विपर्ययः ।७४.०६६ टिप्पणी १ छोट्याथ इति ख, चिह्नितपुस्तकपाठः २ अभुक्तेज्या इति ग, चिह्नितपुस्तकपाठः ३ शिवमैश्वर्यमष्टधा इति ग, घ, चिह्नितपुस्तकद्वयपाठः ४ गन्धकैरिति ख, चिह्नितपुस्तकपाठः ५ इत्यादिमन्त्रितैर्भक्ष्यैश्चैषामिति ख, चिह्नितपुस्तकपाठः पृष्ठ २१७ तोयधूपान्तरैः सर्वैर्मूलेन स्नपयेच्छिवं ॥७४.०६६ विरूक्ष्य यवचूर्णेन यथेष्टं शीतलैर्जलैः ।७४.०६७ स्वशक्त्या गन्धतोयेन संस्नाप्य शुचिवाससा ॥७४.०६७ निर्मार्ज्यार्घ्यं प्रदद्याच्च नोपरि भ्रामयेत्करं ।७४.०६८ न शून्यमस्तकं लिङ्गं पुष्पैः कुर्यात्ततो ददेत् ॥७४.०६८ चन्दनाद्यैः समालभ्य पुष्पैः प्रार्च्य शिवाणुना(१) ।७४.०६९ धूपभाजनमस्त्रेण प्रोक्ष्याभ्यर्च्य शिवाणुना(२) ॥७४.०६९ अस्त्रेण पूजितां घण्टां चादाय गुग्गुलं ददेत् ।७४.०७० दद्यादाचमनं पश्चात्स्वधान्तं हृदयाणुना(३) ॥७४.०७० आरात्रिकं समुत्तार्य तथैवाचामयेत्पुनः ।७४.०७१ प्रणम्यादाय देवाज्ञां भोगाङ्गानि प्रपूजयेत् ॥७४.०७१ हृदग्नौ चन्द्रभं चैशे शिवं चामीकरप्रभं ।७४.०७२ शिखां रक्ताञ्च नैरृत्ये कृष्णं वर्म च वायवे ॥७४.०७२ चतुर्वक्त्रं चतुर्बाहुं(४) दलस्थान्(५) पूजयेदिमान् ।७४.०७३ दंष्ट्राकरालमप्यस्त्रं पूर्वादौ वज्रसन्निभं ॥७४.०७३ मूले हौं शिवाय नमः ओं हां हूं हीं हों शिरश्च ।७४.०७४ हृं शिखायै हैं वर्म हश्चास्त्रं परिवारयुताय च ॥७४.०७४ शिवाय दद्यात्पाद्यञ्च आचामञ्चार्घ्यमेव च ।७४.०७५ गन्धं पुष्पं धूपदीपं नैवेद्याचमनीयकं ॥७४.०७५ करोद्वर्तनताम्बूलं मुखवासञ्च दर्पणं ।७४.०७६ टिप्पणी १ शिवात्मनेति ख, चिह्नितपुस्तकपाठः २ शिवात्मनेति ख, चिह्नितपुस्तकपाठः ३ हृदयात्मनेति ख, चिह्नितपुस्तकपाठः ३ चतुर्वक्त्रांश्चतुर्बाहूनिति घ, ङ, चिह्नितपुस्तकद्वयपाठः ५ दलाग्रे इति ङ, चिह्नितपुस्तकपाठः पृष्ठ २१८ शिरस्यारोप्य देवस्य दूर्वाक्षतपवित्रकं ॥७४.०७६ मूलमष्टशतं जप्त्वा हृदयेनाभिमन्त्रितं ।७४.०७७ चर्मणावेष्टितं खड्गं रक्षितं कुशपुष्पकैः ॥७४.०७७ अक्षतैर्मुद्राया युक्तं शिवमुद्भवसञ्ज्ञया ।७४.०७८ गुह्यातिगुह्यगुप्त्यर्थं(१) गृहाणास्मत्कृतं जपं ॥७४.०७८ सिद्धिर्भवतु मे येन(२) त्वत्प्रसादात्त्वयि स्थिते ।७४.०७९ भोगी श्लोकं पठित्वाद्यं(३) दक्षहस्तेन शम्भवे ॥७४.०७९ मूलाणुनार्घ्यतोयेन वरहस्ते(४) निवेदयेत् ।७४.०८० यत्किञ्चित्कुर्महे देव सदा सुकृतदुस्कृतं ॥७४.०८० तन्मे शिवपदस्थस्य हूं क्षः क्षेपय शङ्कर ।७४.०८१ शिवो दाता शिवो भोक्ता शिवः सर्वमिदं जगत् ॥७४.०८१ शिवो जयति सर्वत्र यः शिवः सोहमेव च ।७४.०८२ श्लोकद्वयमधीत्यैवं जपं देवाय चार्पयेत् ॥७४.०८२ शिवाङ्गानां(५) दशांशञ्च दत्वार्घ्यं स्तुतिमाचरेत् ।७४.०८३ प्रदक्षिणीकृत्य नमेच्चाष्टाङ्गञ्चाष्टमूर्तये(६) ।७४.०८३ नत्वा ध्यानादिभिश्चैव यजेच्चित्रेऽनलादिषु ॥७४.०८३ इत्यादिमहापुराणे आग्नेये शिवपूजा नाम चतुःसप्ततितमोऽध्यायः ॥ टिप्पणी १ गुह्यातिगुह्यगोप्ता त्वमिति ग, ङ, चिह्नितपुस्तकपाठः २ सिद्धिर्भवतु मे देवेति ख, ग, चिह्नितपुस्तकपाठः ३ पठित्वामुमिति ख, चिह्नितपुस्तकपाठः ४ हरहस्ते इति ग, चिह्नितपुस्तकपाठः ५ शिवज्ञानामिति ख, चिह्नितपुस्तकपाठः ६ नमेदष्ताङ्गमूर्तये इति ङ, चिह्नितपुस्तकपाठः पृष्ठ २१९ अध्याय {७५} अथ पञ्चसप्ततितमोऽध्यायः अग्निस्थापनादिविधिः ईश्वर उवाच अर्घपात्रकरो यायादग्न्यागारं सुसंवृतः ।७५.००१ यागोपकरणं सर्वं दिव्यदृष्ट्या च कल्पयेत्(१) ॥७५.००१ उदङ्मुखः कुण्डमीक्षेत्प्रओक्षणं ताडनं कुशैः ।७५.००२ विदध्यादस्त्रमन्त्रेण वर्मणाभ्युक्षणं मतं ॥७५.००२ खड्गेन खातमुद्धारं पूरणं समतामपि ।७५.००३ कुर्वीत वर्मणा सेकं कुट्टनन्तु शरात्मना(२) ॥७५.००३ सम्मार्जनं समालेपं कलारूपप्रकल्पनं ।७५.००४ त्रिसूत्रीपरिधानं च वर्मणाभ्यर्चनं सदा ॥७५.००४ रेखात्रयमुदक्कुर्यादेकां पूर्वाननामधः ।७५.००५ कुशेन च शिवास्त्रेण यद्वा तासां विपर्ययः ॥७५.००५ वज्रीकरणमन्त्रेण हृदा दर्भैश्चतुष्पथं ।७५.००६ अक्षपात्रन्ततनुत्रेण विन्यसेद्विष्टरं हृदा ॥७५.००६ हृदा वागीश्वरीं तत्र ईशामावाह्य पूजयेत् ।७५.००७ वह्निं सदाश्रयानीतं शुद्धपात्रोपरिस्थितं ॥७५.००७ क्रव्यादांशं परित्यज्य वीक्षणादिविशोधितं ।७५.००८ औदर्यं चैन्दवं भौतं एकीकृत्यानलत्रयं ॥७५.००८ ओं हूं वह्निचैतन्याय वह्निवीजेन विन्यसेत् ।७५.००९ संहितामन्त्रितं वह्निं धेनुमुद्रामृतीकृतं ॥७५.००९ रक्षितं हेतिमन्त्रेण कवचेनावगुण्ठितं ।७५.०१० पूजितन्त्रिः परिभ्राम्य कुण्डस्योर्ध्वं प्रदक्षिणं ॥७५.०१० टिप्पणी १ दिव्यदृष्ट्या विल्प्कयेदिति घ, ङ, चिह्नितपुस्तकद्वयपाठः २ शराणुनेति ङ, चिह्नितपुस्तकपाठः पृष्ठ २२० शिववीजमिति ध्यात्वा वागीशागर्भगोचरे ।७५.०११ वागीश्वरेण देवेन क्षिप्यमानं विभावयेत् ॥७५.०११ भूमिष्ठजानुक्को मन्त्री हृदात्मसम्मुखं क्षिपेत् ।७५.०१२ ततोऽन्तस्थितवीजस्य(१) नाभिदेशे समूहनं ॥७५.०१२ सम्भृतिं परिधानस्य शौचमाचमनं हृदा ।७५.०१३ गर्भाग्नेः पूजनं कृत्वा तद्रक्षार्थं शराणुना(२) ॥७५.०१३ बध्नीयाद्गर्भजं देव्याः ककङ्कणं पाणिपल्लवे ।७५.०१४ गर्भाधानाय सम्पूज्य सद्योजातेन पावकं ॥७५.०१४ ततो हृदयमन्त्रेण जुहुयादाहुतित्रयं ।७५.०१५ पुंसवनाय वामेन तृतीये यासि पूजयेत् ॥७५.०१५ आहुतित्रितयं दद्याच्छिरसाम्बुकणान्वितं ।७५.०१६ सीमन्तोन्नयनं षष्ठे मासि सम्पूज्य रूपिणा ॥७५.०१६ जुहुयादाहुतीस्तिस्रः शिखया शिखयैव तु ।७५.०१७ वक्त्राङ्गकल्पनां कुर्याद्वक्त्रोद्घाटननिष्कृती ॥७५.०१७ जातकर्मनृकर्मभ्यां दशमे मासि पूर्ववत् ।७५.०१८ वह्निं सन्धुक्ष्य दर्भाद्यैः(३) स्नानं गर्भमलापहं ॥७५.०१८ सुवर्णबन्धनं देव्या कृतं ध्यात्वा हृदार्चयेत् ।७५.०१९ सद्यःसूतकनाशाय प्रोक्षयेदस्त्रवारिणा ॥७५.०१९ कुम्भन्तु(४) वहिरस्त्रेण ताडयेद्वर्मणोक्षयेत् ।७५.०२० अस्त्रेणोत्तरपूर्वाग्रान्मेखलासु वहिः कुशान् ॥७५.०२० टिप्पणी १ ततोन्तस्थितदेवस्य इति ख, चिह्नितपुस्तकपाठः २ शरात्मना इति ख, चिह्नितपुस्तकपाठः ३ गन्धाद्यैरिति ख, चिह्नितपुस्तकपाठः ४ कुण्डन्तु इति ख, ङ, चिह्नितपुस्तकद्वयपाठः पृष्ठ २२१ आस्थाप्य(१) स्थापयेत्तेषु हृदा परिधिविस्तरं ।७५.०२१ वक्ताणामस्त्रमन्त्रेण ततो नालापन्नुत्तये ॥७५.०२१ समिधिः पञ्च होतव्याः प्रान्ते मूले घृतप्लुताः ।७५.०२२ ब्रह्माणं शङ्करं विष्णुमनन्तञ्च हृदार्चयेत् ॥७५.०२२ दूर्वाक्षतैश्च पर्यन्तं परिधिस्थाननुक्रमात् ।७५.०२३ इन्द्रादीशानपर्यन्तान्तान्विष्टरस्थाननुक्रमात् ॥७५.०२३ अग्नेरभिमुखीभूतान्निजदिक्षु हृदार्चयेत् ।७५.०२४ निवार्य विघ्नसङ्घातं वालकं पालयिष्यथ ॥७५.०२४ शैवीमाज्ञाभिमान्तेषां श्रावयेत्तदनन्तरं ।७५.०२५ गृहीत्वा स्रुक्स्रुवावूर्ध्ववदनाधोमुखैः क्रमात् ॥७५.०२५ प्रताप्याग्नौ त्रिधा दर्भमूलमध्याग्रकैः स्पृशेत् ।७५.०२६ कुशस्पृष्टप्रदेशे तु आत्मविद्याशिवात्मकं ॥७५.०२६ क्रमात्तत्त्वत्रयं न्यस्य हां हीं हूं सं(२) रवैः क्रमात् ।७५.०२७ स्रुवि शक्तिं स्रुवे शम्भुं विन्यस्य हृदयाणुना ॥७५.०२७ त्रिसूत्रीवेष्टितग्रीवो पूजितौ कुसुमादिभिः ।७५.०२८ कुशानामुपरिष्टात्तौ स्थापयित्वा स्वदक्षिणे ॥७५.०२८ गव्यमाज्यं समादाय वीक्षणादिविशोधितं ।७५.०२९ स्वकां ब्रह्ममयीं मूर्तिं सञ्चिन्त्यादाय तद्घृतं ॥७५.०२९ कुण्डस्योर्ध्वं हृदावर्त्य भ्रामयित्वाग्निगोचरे ।७५.०३० पुनर्विष्णुमयीं ध्यात्वा घृतमीशानगोचरे ॥७५.०३० धृत्वादाय कुशाग्रेण स्वाहान्तं शिरसाणुना(२) ।७५.०३१ टिप्पणी १ आस्तीर्येति घ, ङ, चिह्नितपुस्तद्वयपाठः २ हां ह्रीं ह्रं समिति ख, चिह्नितपुस्तकपाठः । हूं हां क्रूं समिति ङ, चिह्नितपुस्तकपाठः ३ शिरसात्मना इति ख, चिह्नितपुस्तकपाठः पृष्ठ २२२ जुहुयाद्विष्णवे विन्दुं रुद्ररूपमनन्तरं ॥७५.०३१ भावयन्निजमात्मानं नाभौ धृत्वाप्लवेत्ततः ।७५.०३२ प्रादेशमात्रदर्भाभ्यामङ्गुष्टानामिकाग्रकैः ॥७५.०३२ धृताभ्यां सम्मुखं वह्नेरस्त्रेणाप्लवमाचरेत् ।७५.०३३ हृदात्मसम्मुखं तद्वत्कुर्यात्सम्प्लवनन्ततः ॥७५.०३३ हृदालब्धदग्धदर्भं शस्त्रक्षेपात्पवितयेत् ।७५.०३४ दीप्तेनापरदर्भेण निवाह्यानेन दीपयेत् ॥७५.०३४ अस्त्रमन्त्रेण निर्दग्धं वह्नौ दर्भं पुनः क्षिपेत् ।७५.०३५ क्षिप्त्वा घृते कृतग्रन्थिकुशं प्रादेशसम्मितं ॥७५.०३५ पक्षद्वयमिडादीनां त्रयं चाज्ये विभावयेत् ।७५.०३६ क्रामाद्भागत्रयादाज्यं स्रुवेणादाय होमयेत् ॥७५.०३६ स्वेत्यग्नौ हा घृते(१) भागं शेषमाज्यं क्षिपेत्क्रमात् ।७५.०३७ ओं हां अग्नये स्वाहा । ओं हां सोमाय स्वाहा । ओं हां अग्नीषोमाभ्यां स्वाहा उद्घाटनाय नेत्राणां अग्नेर्नेत्रत्रये मुखे ॥७५.०३७ स्रुवेण घृतपूर्णेन चतुर्थीमाहुतिं यजेत् ।७५.०३८ ओं हां अग्नये स्विष्टकृते स्वाहा अभिमन्त्र्य षडङ्गेन बोधयेद्धेनुमुद्रया ॥७५.०३८ अवगुण्ठ्य तनुत्रेण रक्षेदाज्यं शराणुना(२) ।७५.०३९ हृदाज्यविन्दुविक्षेपात्कुर्यादभ्युक्ष्य शोधनं ॥७५.०३९ वक्त्राभिघारसन्धानां वक्त्रैकीकरणं तथा ।७५.०४० ओं हां सद्योजाताय स्वाहा । ओं हां वामदेवाय स्वाहा । ओं हां टिप्पणी १ स्वाहेत्यग्नौ घृते इति ङ, चिह्नितपुस्तकपाठः २ शरात्मनेति ण, चिह्नितपुस्तकपाठः पृष्ठ २२३ अघोराय स्वाहा । ओं तत्पुरुषाय स्वाहा । ओं हां ईशानाय स्वाहा इत्येकैकघृताहुत्या कुर्याद्वक्त्राभिघारकं ॥७५.०४० औं हां सद्योजातवामदेवाभ्यां स्वाहा । ओं हां वामदेवाघोराभ्यां स्वाहा । ओं हां अघोरतत्पुरुषाभ्यां स्वाहा । ओं हां तत्पुरुषेशानाभ्यां स्वाहा इतिवक्त्रानुसन्धानं मन्त्रैरेभिः क्रमाच्चरेत् ।७५.०४१ अग्रितो गतया वायुं निरृतादिशिवान्तया ॥७५.०४१ वक्त्राणामेकतां कुर्यात्स्रुवेण घृतघारया ।७५.०४२ ओं हां सद्योजातवामदेवाघोरतत्पुरुषेशानेभ्यः स्वाहा ॥७५.०४२ इतीष्टवक्त्रे वक्त्राणामन्तर्भावस्तदाकृतिः ॥७५.०४२ ईशेन वह्निमभ्यर्च्य दत्वास्त्रेणाहुतित्रयं ।७५.०४३ कुर्यात्सर्वात्मना नाम शिवाग्निस्त्वं हुताशन ॥७५.०४३ हृदार्चितौ विसृष्टाग्नौ पितरौ विधिपूरणीं ।७५.०४४ मूलेन वौषडन्तेन दद्यात्पूर्णां यथाविधि ॥७५.०४४ ततो हृदम्बुजे साङ्गं ससेनं भासुरं परं(१) ।७५.०४५ यजेत्पूर्ववदावाह्य प्रार्थ्याज्ञान्तर्पयेच्छिवं ॥७५.०४५ यागाग्निशिवयोः कृत्वा नाडीसन्धानमात्मना ।७५.०४६ शक्त्या मूलाणुना होमं कुर्यादङ्गैर्दशांशतः ॥७५.०४६ घृतस्य कार्षिको होमः क्षीरस्य मधुनस्तथा ।७५.०४७ शक्तिमात्राहुतिर्दध्नः प्रसृतिः पायस्यतु ॥७५.०४७ यथावत्सर्वभक्षाणां लाजानां मुष्टिसम्मितं ।७५.०४८ खण्डत्रयन्तु मूलानां कलानां स्वप्रमाणतः ॥७५.०४८ टिप्पणी १ ससेनं भास्करं परमिति ख, चिह्नितपुस्तकपाठः । शासनं भास्करं परमिति ग, चिह्नितपुस्तकपाठः । शाशनं भास्रं परमिति ङ चिह्नितपुस्तकपाठः । शासनं त्र्यक्षरं परमिति घ, चिह्नितपुस्तकपाठः पृष्ठ २२४ ग्रासार्धमात्रमन्नानां सूक्ष्माणि पञ्च होमयेत् ।७५.०४९ इक्षोरापर्विकं मानं लतानामङ्गुलद्वयं ॥७५.०४९ पुष्पं पत्रं स्वमानेन समिधां तु दशाङ्गुलं ।७५.०५० चन्द्रचन्दनकाश्मीरकस्तूरीयक्षकर्दमान् ॥७५.०५० कलायसम्मितानेनान् गुग्गुलं वदरास्थिवत् ।७५.०५१ कन्दानामष्टमं भागं जुहुयाद्विधिवत्परं ॥७५.०५१ होमं निर्वर्तयेदेवं ब्रह्मवीजपदैस्ततः ।७५.०५२ घृतेन स्रुचि पूर्णायां निधायाधोमुखं स्रुवं ॥७५.०५२ स्रुगग्रे पुष्पमारोप्य पश्चाद्वामेन पाणिना ।७५.०५३ पुनः सव्येन तौ धृत्वा शङ्खसन्निभमुद्रया ॥७५.०५३ समुद्गतो अर्धकायश्च समपादः समित्थितः ।७५.०५४ नाभौ तन्मूलमाधाय स्रुगग्रव्यग्रलोचनः ॥७५.०५४ ब्रह्मादिकारणात्यागाद्विनिःसृत्य सुषुम्णया(१) ।७५.०५५ वामस्तनान्तमानीय तयोर्मूलमतन्द्रितः ॥७५.०५५ मूलमन्त्रमविस्पष्टं वौषडन्तं समुच्चरेत् ।७५.०५६ तदग्नौ जुहुयादाज्यं यवसम्मितधारया ॥७५.०५६ आचामं चन्दनं दत्वा ताम्बूलप्रभृतीनपि ।७५.०५७ भक्त्या तद्भूतिमावन्द्य विदध्यात्प्रणतिं परां ॥७५.०५७ ततो वह्निं समभ्यर्च्य पडन्तास्त्रेण संवरान् ।७५.०५८ संहारमुद्रयाहृत्य क्षमस्वेत्यभिधाय च ॥७५.०५८ भासुरान्(२) परिधीस्तांश्च पूरकेण हृदाणुना(३) ।७५.०५९ टिप्पणी १ विनिःसृत्य स्वपृष्टया इति ख, चिह्नितपुस्तकपाठः । विनिःसृत्य स्वपुष्टया इति ग, चिह्नितपुस्तकपाठः २ भास्वरानिति ख, ग, घ, ङ, चिह्नितपुस्तकपाठः ३ हृदात्मनेति ख, ग, चिह्नितपुस्तकपाठः पृष्ठ २२५ श्रद्धया परयात्मीये स्थापयेत हृदम्बुजे ॥७५.०५९ सर्वपाकाग्रमादाय कृत्वा मण्डलकद्वयं(१) ।७५.०६० अन्तर्वहिर्बलिं दद्यादाग्नेय्यां कुण्डसन्निधौ ॥७५.०६० ओं हां रुद्रेभ्यः स्वाहा पूर्वे मातृभ्यो दक्षिणे तथा ।७५.०६१ वारुणे हां गणेभ्यश्च स्वाहा तेभ्यस्त्वयं बलिः ॥७५.०६१ उत्तरे हाञ्च यक्षेभ्य ईशाने हां ग्रहेभ्य उ(२) ।७५.०६२ अग्नौ हामसुरेभ्यश्च रक्षोभ्यो नैरृते बलिः ॥७५.०६२ वायव्ये हाञ्च नागेभ्यो नक्षत्रेभ्यश्च मध्यतः ।७५.०६३ हां राशिभ्यः(३) स्वाहा वह्नौ विश्वेभ्यो नैरृते यथा ॥७५.०६३ वारुण्यां(४) क्षेत्रपालाय अन्तर्बलिरुदाहृतः ।७५.०६४ द्वितीये मण्डले वाह्ये इन्द्यायाग्नियमाय च ॥७५.०६४ नैरृताय जलेशाय वायवे धनरक्षिणे ।७५.०६५ ईशानाय च पूर्वादौ हीशाने ब्रह्मणे नमः ॥७५.०६५ नैरृते विष्णवे स्वाहा वायसादेर्वहिर्बलिः ।७५.०६६ बलिद्वयगतान्मन्त्रान् संहारमुद्रया.अत्मनि ॥७५.०६६ इत्यादिमहापुराणे आग्नेये अग्निकार्यं नाम पञ्चसप्ततितमोऽध्यायः ॥ टिप्पणी १ कृत्वा च मण्डलद्वयमिति ख, चिह्नितपुस्तकपाठः २ गणेभ्य उ इति ग, चिह्नितपुस्तकपाठः ३ हां ऋपिभ्य इति ङ, चिह्नितपुस्तकपाठः ४ वायव्यामिति ग, चिह्नितपुस्तकपाठः । नैरृत इति ङ, चिह्नितपुस्तकपाठः पृष्ठ २२६ अध्याय {७६} अथ षट्सप्ततितमोऽध्यायः चण्दपूजाकथनं ईश्वर उवाच ततः शिवान्तिकङ्गत्वा पूजाहोमादिकं मम ।७६.००१ गृहाण भगवन् पुण्यफलमित्यभिधाय च ॥७६.००१ अर्घ्योदकेन देवाय मुद्रयोद्भवसञ्ज्ञया ।७६.००२ हृद्वीजपूर्वमूलेन स्थिरचित्तो निवेदयेत् ॥७६.००२ ततः पूर्ववदभ्यर्च्य स्तुत्वा स्तोत्रैः प्रणम्य च ।७६.००३ अर्घ्यं पराङ्मुखं दत्वा क्षमस्वेत्यभिधाय च ॥७६.००३ नाराचमुद्रयास्त्रेण फडन्तेनात्मसञ्चयं ।७६.००४ संहृत्य दिव्यया लिङ्गं मूर्तिमन्त्रेण योजयेत् ॥७६.००४ स्थण्डिले त्वर्चिते देवे मन्त्रसङ्घातमात्मनि ।७६.००५ नियोज्य विधिनोक्तेन विदध्याच्चण्डपूजनं ॥७६.००५ ओं चण्डेशानाय नमो मध्यतश्चण्डमूर्तये ।७६.००६ ओं धूलिचण्डेश्वराय(१) हूं फट्(२) स्वाहा तमाह्णयेत् ॥७६.००६ चण्डहृदयाय हूं फटों चण्डशिरसे तथा(३) ।७६.००७ ओं चण्डशिखायै हूं फट्चण्डायुः(४) कवचाय च ॥७६.००७ चण्डस्त्राय तथा हूं फट्चण्डं रुद्राग्निजं स्मरेत् ।७६.००८ शूलटङ्कधरं कृष्णं साक्षसूत्रकण्डलुं ॥७६.००८ टङ्काकरेऽर्धचन्द्रे(५) वा चतुर्वक्त्रं प्रपूजयेत् ।७६.००९ टिप्पणी १ ओं बलिचण्डेश्वराय इति ग, चिह्नितपुस्तकपाठः २ क्रूं फडिति ङ, चिह्नितपुस्तकपाठः ३ हूं चण्डशिरसे स्वाहेति ग, चिह्नितपुस्तकपाठः ४ हूं फट्चण्दत इति ग, घ, चिह्नितपुस्तकद्वयपाठः ५ टङ्कारेणार्धचन्द्रे इति ख, चिह्नितपुस्तकपाठः पृष्ठ २२७ यथाशक्ति जपं कुर्यादङ्गानान्तु दशांशतः ॥७६.००९ गोभूहिरण्यवस्त्रादिमणिहेमादिभूषणं ।७६.०१० विहाय शेसनिर्माल्यं चण्डेशाय निवेदयेत् ॥७६.०१० लेह्यचोष्याद्यनुवरं ताम्बूलं स्रग्विलेपनं ।७६.०११ निर्माल्यं भोजनं तुभ्यं प्रदत्तन्तु शिवाज्ञया ॥७६.०११ सर्वमेतत्क्रियाकाण्डं मया चण्ड तवाज्ञया ।७६.०१२ न्यूनाधिकं कृतं मोहात्परिपूर्णं सदास्तु मे ॥७६.०१२ इति विज्ञाप्य देवेशं दत्वार्घ्यं तस्य संस्मरन् ।७६.०१३ संहारमूर्तिमन्त्रेण शनैः संहारमुद्रया ॥७६.०१३ पूरकान्वितमूलेन मन्त्रानात्मनि योजयेत् ।७६.०१४ निर्माल्यापनयस्थानं लिम्पेद्गोमयवारिणा ।७६.०१४ प्रोक्ष्यार्घ्यादि विसृज्याथ आचान्तोऽन्यत्समाचरेत् ॥७६.०१४ इत्यादिमहापुराणे आग्नेये चण्डपूजाकथनं नाम षट्सप्ततितमोऽध्यायः ॥ अध्याय {७७} अथ सप्तसप्ततितमोऽध्यायः कपिलादिपूजाविधनं ईश्वर उवाच कपिलापूजनं वक्ष्ये एभिर्मन्त्रैर्यजेच्च गां ।७७.००१ ओं कपिले नन्दे नमः ओं कपिले भद्रिके नमः ॥७७.००१ ओं कपिले सुशीले नमः कपिले सुरभिप्रभे ।७७.००२ ओं कपिले सुमनसे नमः ओं भुक्तिमुक्तिप्रदे नमः ॥७७.००२ सौरभेयि जगन्मातर्देवानाममृतप्रदे ।७७.००३ गृहाण वरदे ग्रासमीप्सितार्थञ्च देहि मे ॥७७.००३ पृष्ठ २२८ वन्दितासि वसिष्ठेन विश्वामित्रेण धीमता ।७७.००४ कपिले हर मे पापं यन्मया दुष्कृतं कृतं ॥७७.००४ गावो ममाग्रतो नित्यं गावः पृष्ठत एव च ।७७.००५ गावो मे हृदये चापि गवां मध्ये वसाम्यहं ॥७७.००५ दत्तं गृह्णन्तु(१) मे ग्रासं जप्त्वा स्यां निर्मलः शिवः ।७७.००६ प्रार्च्य विद्यापुस्तकानि गुरुपादौ नमेन्नरः ॥७७.००६ यजेत्स्नात्वा तु मध्याह्ने अष्टपुष्पिकया शिवं ।७७.००७ पीठमूर्तिशिवाङ्गानां पूजा स्यादष्टपुष्पिका ॥७७.००७ मध्याह्ने भोजनागारे सुलिप्ते पाकमानयेत् ।७७.००८ ततो मृत्युञ्जयेनैव वौषडन्तेन सप्तधा ॥७७.००८ जप्तैः सदर्भशङ्खस्थैः सिञ्चेत्तं वारिविन्दुभिः ।७७.००९ सर्वपाकाग्रमुद्धृत्य शिवाय विनिवेदयेत् ॥७७.००९ अथार्धं(२) चुल्लिकाहोमे विधानायोपकल्पयेत्(३) ।७७.०१० विशोध्य विधिना चुल्लीं तद्वह्निं पूरकाहुतिं ॥७७.०१० हुत्वा नाभ्यग्निना चैकं ततो रेचकवायुना ।७७.०११ वह्निवीजं समादाय कादिस्थानगतिक्रमात्(४) ॥७७.०११ शिवाग्निस्त्वमिति ध्यात्वा चुल्लिकाग्नौ निवेशयेत् ।७७.०१२ ओं हां अग्नये नमो वै हां सोमाय वै नमः ॥७७.०१२ सूर्याय वृहस्पतये प्रजानां पतये नमः ।७७.०१३ सर्वेभ्यश्चैव देवेभ्यः सर्वविश्वेभ्य एव च ॥७७.०१३ टिप्पणी १ दत्तं गृहाणेति ग, घ, चिह्नितपुस्तकद्वयपाठः २ अन्यार्धमिति ख, चिह्नितपुस्तकपाठः । अन्त्यार्धमिति ङ, चिह्नितपुस्तकपाठः ३ निधानायोपकल्पयेदिति च, ङ, चिह्नितपुस्तकद्वयपाठः ४ हृदि स्थानमतिक्रमेदिति ग, चिह्नितपुस्तकपाठः । कादिस्थानमतिक्रमादिति ख, चिह्नितपुस्तकपाठः पृष्ठ २२९ हामग्नये खिष्टिकृते पूर्वादावर्चयेदिमान् ।७७.०१४ स्वाहान्तामाहुतिं दत्वा क्षमयित्वा विसर्जयेत् ॥७७.०१४ चुल्ल्या दक्षिणबाहौ च यजेद्धर्माय वै नमः ।७७.०१५ वामबाहावधर्माय काञ्जिकादिकभाण्डके ॥७७.०१५ रसपरिवर्तमानाय वरुणाय जलाग्नये(१) ।७७.०१६ विघ्नराजो गृहद्वारे पेषण्यां सुभगे नमः ॥७७.०१६ ओं रौद्रिके नमो गिरिके(२) नमश्चओलूखले यजेत् ।७७.०१७ बलप्रियायायुधाय नमस्ते मुषले यजेत् ॥७७.०१७ सम्मार्जन्यां देवतोक्ते कामाय शयनीयके ।७७.०१८ मध्यस्तम्भे च स्कन्दाय दत्वा वास्तुबलिं ततः ॥७७.०१८ भुञ्जीत पात्रे सौवर्णे पद्मिन्यादिदलादिके ।७७.०१९ आचार्यः साधकःपुत्र समयी मौनमास्थितः ॥७७.०१९ वटाश्वत्थार्कवाताविसर्जभल्लातकांस्त्यजेत् ।७७.०२० अपोशानं पुरादाय प्राणाद्यैः प्रणवान्वितैः ॥७७.०२० स्वाहान्तेनाहुतीः पञ्च दत्वादीप्योदरानलं ।७७.०२१ नागः कूर्मोऽथ कृकरो देवदत्तो धनञ्जयः ॥७७.०२१ एतेभ्य उपवायुभ्यः स्वाहापोषानवारिणा ।७७.०२२ भक्तादिकं निवेद्याय पिवेच्छेषोदकं नरः ॥७७.०२२ अमृतोपस्तरणमसि प्राणाहुतीस्ततो ददेत् ।७७.०२३ प्राणाय स्वाहापानाय समानाय ततस्तथा ॥७७.०२३ उदानाय च व्यानाय भुक्त्वा चुल्लकमाचरेत् ।७७.०२४ टिप्पणी १ जलाशये इति ङ, चिह्नितपुस्तकपाठः २ ओं रौद्रकोटिगिरिके इति ख, ग, घ, ङ, चिह्नितपुस्तकचतुष्टयपाठः पृष्ठ २३० अमृतापिश्चानमसीति शरीरेऽन्नादिवायवः(१) ॥७७.०२४ इत्यादिमहापुराणे आग्नेये वास्तुपूजाकथनं नाम सप्तसप्ततितमोऽध्यायः ॥ अध्याय {७८} ॒शथोष्टसप्ततितमोऽध्यायः पवित्रारोहणकथनं ईश्वर उवाच पवित्रारोहणं वक्ष्ये क्रियार्चादिषु पूरणं ।७८.००१ नित्यं तन्नित्यमुद्दिष्टं नैमित्तिकमथापरं ॥७८.००१ आषाढादिचतुर्दश्यामथ श्रावणभाद्रयोः ।७८.००२ सितासितासु कर्तव्यं चतुर्दश्यष्टमीषु तत् ॥७८.००२ कुर्याद्वा कार्त्तिकीं यावत्तिथौ प्रतिपादिके ।७८.००३ वह्निब्रह्माम्बिकेभास्यनागस्कन्दार्कशूलिनां ॥७८.००३ दुर्गायमेन्द्रगोविन्दस्मरशम्भुसुधाभुजां(२) ।७८.००४ सौवर्णं राजतं ताम्रं कृतादिषु यथाक्रमं ॥७८.००४ कलौ कार्पासजं चापि पट्टपद्मादिसूत्रकं ।७८.००५ प्रणवश्चन्द्रमा वह्निर्ब्रह्मा नागो गुहो हरिः(३) ॥७८.००५ सर्वेशः(४) सर्वदेवाः स्युः क्रमेण नवतन्तुषु ।७८.००६ अष्टोत्तरशतान्यर्धं तदर्धं चोत्तमादिकं ॥७८.००६ एकाशीत्याथवा सूत्रैस्त्रिंशताप्पष्टयुक्तया ।७८.००७ टिप्पणी १ शरीरोन्मादवायव इति घ, चिह्नितपुस्तकपाठः २ स्वधाभुजामिति ख, घ, ङ, चिह्नितपुस्तकत्रयपाठः ३ गुहो रविरिति ख, ग, घ, ङ, चिह्नितपुस्तकचतुष्टयपाठः ४ सदेश इति ख, ग, घ, ङ, चिह्नितपुस्तकपाठः पृष्ठ २३१ पञ्चाशता वा कर्तव्यं तुल्यग्रन्थ्यन्तरालकं ॥७८.००७ द्वादशाङ्गुलमानानि व्यासादष्टाङ्गुलानि च ।७८.००८ लिङ्गविस्तारमानानि चतुरङ्गुलकानि वा ॥७८.००८ तथैव पिण्डिकास्पर्शं चतुर्थं सर्वदैवतं ।७८.००९ गङ्गावतारकं कार्यं सुजातेन सुधौतकं ॥७८.००९ ग्रन्थिं कुर्याच्च वामेन अघोरणाथ शोधयेत् ।७८.०१० रञ्जयेत्पुरुषेणैव रक्तचन्दनकुङ्कुमैः ॥७८.०१० कस्तूरीरोचनाचन्द्रैर्हरिद्रागैरिकादिभिः ।७८.०११ ग्रन्थयो दश कर्तव्या अथवा तन्तुसङ्ख्यया ॥७८.०११ अन्तरं वा यथाशोभमेकद्विचतुरङ्गुलं ।७८.०१२ प्रकृतिः पौरुषी वीरा चतुर्थी त्वपराजिता ॥७८.०१२ जयान्या विजया षष्ठी अजिता च सदाशिवा ।७८.०१३ मनोन्मनी सर्वमुखी ग्रन्थयोऽभ्यधिकाः शुभाः ॥७८.०१३ कार्या वा चन्द्रवह्न्यर्कपवित्रं(१) शिववद्धृदि ।७८.०१४ एकैकं निजमूर्तौ वा पुप्तके गुरुके गणे(२) ॥७८.०१४ स्यादेकैकं तथा द्वारदिक्पालकलशादिषु ।७८.०१५ हस्तादिनवहस्तान्तं लिङ्गानां स्यात्पवित्रकं ॥७८.०१५ अष्टाविंशतितो युद्धं दशभिर्दशभिः क्रमात् ।७८.०१६ द्व्यङ्गुलाभ्यन्तरास्तत्र क्रमादेकाङ्गुलान्तराः ॥७८.०१६ ग्रन्थयो मानमप्येषां लिङ्गविस्तारसस्मितं ।७८.०१७ सप्तम्यां वा त्रयोदश्यां कृतनित्यक्रियः शुचिः ॥७८.०१७ भूषयेत्पुष्पवस्त्राद्यैः सायाह्ने यागमन्दिरं ।७८.०१८ टिप्पणी १ चण्डवह्न्यर्कपवित्रमिति ख, ग, ङ. चिह्नितपुस्तकत्रयपाठः २ पुस्तके गुरवे गणो इति ख, ङ, चिह्नितपुस्तकपाठः पृष्ठ २३२ कृत्वा नैमित्तिकीं सन्ध्यां विशेषेण च तर्पणं ॥७८.०१८ परिगृहीते भूभागे पवित्रे सूर्यमर्चयेत्(१) ।७८.०१९ आचम्य सकलीकृत्य प्रणवार्घ्यकरो गुरुः ॥७८.०१९ द्वाराण्यस्त्रेण सम्प्रोक्ष्य पूर्वादिक्रमतोऽर्चयेत् ।७८.०२० हां शान्तिकलाद्वाराय तथा विद्याकलात्मने ॥७८.०२० निवृत्तिकलाद्वाराय प्रतिष्ठाख्यकलात्मने ।७८.०२१ तच्छाखयोः प्रतिद्वारं द्वौ द्वौ द्वाराधिपौ यजेत् ॥७८.०२१ नन्दिने महाकालाय भृङ्गिणेऽथ गणाय च ।७८.०२२ वृषभाय च स्कन्दाय देव्यै चण्डाय च क्रमात् ॥७८.०२२ नित्यं च द्वारपालादीन् प्रविश्य द्वारपश्चिमे ।७८.०२३ इष्ट्वा वास्तुं भूतशुद्धिं विशेषार्घ्यकरः शिवः ॥७८.०२३ प्रोक्षणाद्यं(२) विधायाथ यज्ञसम्भारकृन्नरः ।७८.०२४ मन्त्रयेद्दर्भदूर्वाद्यैः पुष्पाद्यैश्च हृदादिभिः ॥७८.०२४ शिवहस्तं विधायेत्थं(३) स्वशिरस्यधिरोपयेत् ।७८.०२५ शिवोऽहमादिः सर्वज्ञो मम यज्ञप्रधानता ॥७८.०२५ अत्यर्थं भावयेद्देवं ज्ञानखद्गकरो गुरुः ।७८.०२६ नैरृतीं दिशमासाद्य प्रक्षिपेदुदगाननः ॥७८.०२६ अर्घ्याम्बु पञ्चगव्यञ्च समस्तान्मखमण्डपे ।७८.०२७ चतुष्पथान्तसंस्कारैर्वीक्षणाद्यैः(४) सुसंस्कृतैः ॥७८.०२७ विक्षिप्य विकिरांस्तत्र कुशकूर्चोपसंहरेत्(५) ।७८.०२८ टिप्पणी १ सूत्रिते सूर्यमर्चयेदिति ख, ग, घ, ङ, चिह्नितपुस्तकचतुष्टयपाठः २ प्रोक्षणच्चेति ग, चिह्नितपुस्तकपाठः ३ विधायैकमिति ङ, चिह्नितपुस्तकपाठः ४ ब्राह्मणाद्यैरिति ग, चिह्नितपुस्तकपाठः ५ दशकूर्ञ्चोपसंहरेदिति ख, चिह्नितपुस्तकपाठः पृष्ठ २३३ तानीशदिशि(१) वर्धन्यामासनायोपकल्पयेत् ॥७८.०२८ नैरृते वास्तुगीर्वाणा द्वारे लक्ष्मीं प्रपूजयेत् ।७८.०२९ पश्चिमाभिमुखं कुम्भं सर्वधान्योपरि स्थितं ॥७८.०२९ प्रणवेन वृषारूढं सिंहस्थां वर्धनीन्ततः ।७८.०३० कुम्भे साङ्गं शिवन्देवं वर्धन्यामर्चयेत्(२) ॥७८.०३० दिक्षु शक्रादिदिक्पालान् विष्णुब्रह्मशिवादिकान्(३) ।७८.०३१ वर्धनीं सम्यगादाय घटपृष्टानुगामिनीं ॥७८.०३१ शिवाज्ञां श्रावयेन्मन्त्री पूर्वादीशानगोचरं ।७८.०३२ अविच्छिन्नपयोधारां मूलमन्त्रमुदीरयेत् ॥७८.०३२ समन्ताद्भ्रामयेदेनां रक्षार्थं शस्त्ररूपिणीं ।७८.०३३ पूर्वं कलशमारोप्य शस्त्रार्थन्तस्य(४) वामतः ॥७८.०३३ समग्रासनके कुम्भे यजेद्देवं स्थिरासने ।७८.०३४ वर्धन्यां प्रणवस्थायामायुधन्तदनु द्वयोः ॥७८.०३४ भगलिङ्गसमायोगं विदध्याल्लिङ्गमुद्रया ।७८.०३५ कुम्भे निवेद्य बोधासिं मूलमन्त्रजपन्तथा ॥७८.०३५ तद्दशांशेन वर्धन्यां रक्षां विज्ञापयेदपि(५) ।७८.०३६ गणेशं वायवेऽभ्यर्च्य हरं पञ्चामृतादिभिः ॥७८.०३६ स्नापयेत्पूर्ववत्प्रार्च्य(६) कुण्डे च शिवपावकं(७) ।७८.०३७ टिप्पणी १ अनीशदिशि इति ख, ङ, चिह्नितपुस्तकद्वयपाठः २ वर्धन्यां शस्त्रमर्चयेदिति ग, चिह्नितपुस्तकपाठः ३ विष्णुब्रह्मावसानकानिति ख, ङ, चिह्नितपुस्तकद्वयपाठः ४ शस्त्रालम्भस्येति क, ग, चिह्नितपुस्तकद्वयपाठः ५ रक्षां च कारयेत्सदेति ग, चिह्नितपुस्तकपाठः ६ पूर्ववत्स्नापयेत्प्रार्चेदिति ग, चिह्नितपुस्तकपाठः । स्थापयेत्पूर्ववच्चाग्निमिति ङ, चिह्नितपुस्तकपाठः ७ कुम्भे वा शिवमर्चयेदिति ग, चिह्नितस्पुस्तकपाठः पृष्ठ २३४ विधिवच्च चरुं कृत्वा सम्पाताहुतिशोधितं ॥७८.०३७ देवाग्र्यात्मविभेदेन दर्ष्या तं विभजेत्त्रिधा ।७८.०३८ दत्वा भागौ शिवाग्निभ्यां संरक्षेद्भागमात्मनि ॥७८.०३८ शरेण चर्मणा देयं पूर्वतो दन्तधावनं ।७८.०३९ तस्माद्घोरशिखाभ्यां वा दक्षिणे पश्चिमे मृदं ॥७८.०३९ साद्योजातेन च हृदा चोत्तरे वामनीकृतं(१) ।७८.०४० जलं(२) वामेन शिरसा ईशे गन्धान्वितं जलं ॥७८.०४० पञ्चगव्यं पलाशादिपुटकं वै समन्ततः ।७८.०४१ ऐशान्यां कुसुमं दद्यादाग्नेय्यां दिशि रोचनां ॥७८.०४१ अगुरुं निरृताशायां वायव्यां च चतुःसमं ।७८.०४२ होमद्रव्याणि सर्वाणि सद्योजातैः कुशैः सह ॥७८.०४२ दण्डाक्षसूत्रकौपीनभिक्षापात्राणि(३) रूपिणे ।७८.०४३ कज्जलं कुङ्कुमन्तैलं शलाकां केशशोधनीं ॥७८.०४३ ताम्बूलं दर्पणं दद्यादुत्तरे रोचनामपि ।७८.०४४ आसनं पादुके पात्रं योगपट्टातपत्रकं ॥७८.०४४ ऐशान्यामीशमन्त्रेण दद्यादीशानतुष्टये ।७८.०४५ पूर्वस्याञ्चरुकं साज्यं दद्याद्गन्धादिकं नवे ॥७८.०४५ पूर्वित्राणि समादाय प्रोक्षितान्यर्घ्यवारिणा ।७८.०४६ संहितामन्त्रपूतानि नीत्वा पावकसन्निधिं ॥७८.०४६ कृष्णाजिनादिना.अच्छाद्य स्मरन् संवत्सरात्मकं ।७८.०४७ साक्षिणं सर्वकृत्यानां गोप्तारं शिवमव्ययं ॥७८.०४७ टिप्पणी १ सद्योजातेन च हृदा चोत्तरे वामनीयकमिति ख, चिह्नितपुस्तकपाठः । सद्योजातेन च हृदा चोत्तरे धाम निष्फलमिति ग, चिह्नितपुस्तकपाठः २ फलमिति ख, चिह्नितपुस्तकपाठः ३ दण्डाक्षसूत्रकौपानतीर्थपात्राणि इति ङ, चिह्नितपुस्तकपाठः पृष्ठ २३५ स्वेति हेति प्रयोगेण मन्त्रसंहितया पुनः ।७८.०४८ शोधयेच्च पवित्राणि वाराणामेकविंशतिं ॥७८.०४८ गृहादि वेष्टयेत्सूत्रैर्गन्धाद्यं (१) रवये ददेत् ।७८.०४९ पूजिताय समाचम्य(२) कृतन्यासः कृतार्घ्यकः ॥७८.०४९ नन्द्यादिभ्योऽथ(३) गन्धाख्यं(४) वास्तोश्चाथ प्रविश्य च ।७८.०५० शस्त्रेभ्यो लोकपालेभ्यः स्वनाम्ना शिवकुम्भके ॥७८.०५० वर्धन्यै विघ्नराजाय गुरवे ह्यात्मने यजेत् ।७८.०५१ अथ सर्वौषधीलिप्तं धूपितं पुष्पदूर्वया ॥७८.०५१ आमन्त्र्य च पवित्रं(५) तत्विधायाञ्जलिमध्यगं ।७८.०५२ ओं समस्तविधिच्छिद्रपूरणे च विधिं प्रति ॥७८.०५२ प्रभवमन्त्रयामि त्वां त्वदिच्छावाप्तिकारिकां ।७८.०५३ तत्सिद्धिमनुजानीहि यजतश्चिदचित्पते ॥७८.०५३ सर्वथा सर्वदा शम्भो नमस्तेऽस्तु प्रसीद मे ।७८.०५४ आमन्त्रितोऽसि देवेश सह देव्या गणेश्वरैः ॥७८.०५४ मन्त्रेशैर्लोकपालैश्च सहितः परिचारकैः(६) ।७८.०५५ निमन्त्रयाम्यहन्तुभ्यं प्रभाते तु पवित्रकं ॥७८.०५५ नियमञ्च करिष्यामि परमेश तवाज्ञया ।७८.०५६ इत्येवन्देवमामन्त्र्य रेचकेनामृतीकृतं ॥७८.०५६ शिवान्तं मूलमुच्चार्य तच्छिवाय निवेदयेत् ।७८.०५७ टिप्पणी १ गन्धाख्यमिति ख, ग, चिह्नितपुस्तकद्वयपठः २ पूजनार्थं समाचम्य इति ङ, चिह्नितपुस्तकपाठः ३ रव्यादिभ्योऽथेति ग, चिह्नितपुस्तकपाठः ४ गन्धाद्यमिति ङ, चिह्नितपुस्तकपाठः ५ आमन्त्रणपवित्रमिति ख, चिह्नितपुस्तकपाठः ६ परिवारकैविति ग, ङ, चिह्नितपुस्तकपाठः पृष्ठ २३६ जपं स्तोत्रं प्रमाणञ्च कृत्वा शम्भुं क्षमापयेत् ॥७८.०५७ हुत्वा चरोस्तृतीयांशं तद्दद्दीत शिवाग्नये(१) ।७८.०५८ दिग्वासिभ्यो दिगीशेभ्यो भूतमातृगणेभ्य उ(२) ॥७८.०५८ रुद्रेभ्यो क्षेत्रपादिभ्यो(३) नमः स्वाहा बलिस्त्वयं ।७८.०५९ दिङ्नागाद्यैश्च पूर्वादौ क्षेत्राय चाग्नये बलिः ॥७८.०५९ समाचम्य विधिच्छिद्रपूरकं होममाचरेत् ।७८.०६० पूर्णां व्याहृतिहोमञ्च कृत्वा रुन्धीत पावकं ॥७८.०६० तत ओमग्नये स्वाहा स्वाहा सोमाय चैव हि ।७८.०६१ ओमग्नीषोमाभ्यां स्वाहाग्नये स्विष्टकृते तथा ॥७८.०६१ इत्याहुतिचतुष्कन्तु दत्वा कुर्यात्तु योजनां ।७८.०६२ वह्निकुण्डार्चितं देवं मण्डलाभ्यर्चिते शिवे ॥७८.०६२ नाडीसन्धानरूपेण विधिना योजयेत्ततः ।७८.०६३ वंशादिपात्रे विन्यस्य अस्त्रञ्च हृदयन्ततः ॥७८.०६३ अधिरोप्य पवित्राणि कलाभिर्वाथ मन्त्रयेत् ।७८.०६४ षडङ्गं ब्रह्ममूलैर्वा हृद्धर्मास्त्रञ्च योजयेत् ॥७८.०६४ विधाय सूत्रैः संवेष्ट्य पूजयित्वाङ्गसम्भवैः(४) ।७८.०६५ रक्षार्थं जगदीशाय भक्तिनम्रः समर्पयेत् ॥७८.०६५ पूजिते पुष्पधूपाद्यैर्दत्वा सिद्धान्तपुस्तके ।७८.०६६ गुरोः पादान्तिकं गत्वा भक्त्या दद्यात्पवित्रकं ॥७८.०६६ निर्गत्य वहिराचम्य गोमये मण्डलत्रये ।७८.०६७ टिप्पणी १ शिवाज्ञया इति ख, चिह्नितपुस्तकपाठः २ भूतमातृगणेषु फडिति ङ, चिह्नितपुस्तकपाठः ३ रुद्रेभ्यः क्षेत्रपालेभ्य इति ख, चिह्नितपुस्तकपाठः ४ पूजयित्वा ततः शिवमिति ग, चिह्नितपुस्तकपाठः । पूजयित्वाथ सञ्चरैरिति ङ, चिह्नितपुस्तकपाठः पृष्ठ २३७ पञ्चगव्यञ्चरुन्दन्तधावनञ्च क्रमाद्यजेत् ॥७८.०६७ आचान्तो मन्त्रसम्बद्धः कृतसङ्गीतजागरः ।७८.०६८ स्वपेदन्तः स्मरन्नीशं बुभुक्षुर्दर्भसंस्तरे ॥७८.०६८ अनेनैव प्रकारेण मुमुक्षुरपि संविशेत् ।७८.०६९ केवलम्भस्मशय्यायां सोपवासः समाहितः ॥७८.०६९ इत्यादिमहापुराणे आग्नेये पवित्राधिवासनविधिर्नाम अष्टसप्ततितमोऽध्यायः ॥ अध्याय {७९}॒ अथैकोनाशीतितमोऽध्यायः पवित्रारोहणविधिः ईश्वर उवाच अथ प्रातः समुत्थाय कृतस्नानः समाहितः ।७९.००१ कृतसन्ध्यार्चनो मन्त्री प्रविश्य मखमण्डपं ॥७९.००१ समादाय पवित्राणि अविसर्जितदैवतः ।७९.००२ ऐशान्यां भाजने शुद्धे स्थापयेत्कृतमण्डले ॥७९.००२ ततो विसर्ज्य देवेशं निर्माल्यमपनीय च ।७९.००३ पूर्ववद्भूतले शुद्धेकृत्वाह्निकमथ द्वयं ॥७९.००३ आदित्यद्वारदिक्पालकुम्भेशानौ शिवेऽनले(१) ।७९.००४ नैमित्तिकीं सविस्तरां कुर्यात्पूजां विशेषतः ॥७९.००४ मन्त्राणां तर्पणं प्रायश्चित्तहोमं शरात्मना(२) ।७९.००५ अष्टोत्तरशतं कृत्वा दद्यात्पूर्णाहुतिं शनैः ॥७९.००५ टिप्पणी १ आदित्यद्वारदिक्पालान् स्कन्देशानौ शिवेऽनले इति ङ, चिह्नितपुस्तकपाठः २ शराणुनेति घ, ङ, चिह्नितपुस्तकद्वयपाठः पृष्ठ २३८ पवित्रं भानवे दत्वा समाचम्य ददीत च ।७९.००६ द्वारमालादिदिक्पालकुम्भवर्धनिकादिषु ॥७९.००६ सन्निधाने ततः शम्भोरुपविश्य निजासने ।७९.००७ पवित्रमात्मने दद्याद्गणाय गुरुवह्नये ॥७९.००७ ओं कालात्मना त्वया देव यद्दिष्टं मामके विधौ(१) ।७९.००८ कृतं क्लिष्टं समुत्सृष्टं कृतं गुप्तञ्च यत्कृतं ॥७९.००८ तदस्तु क्लिष्टमक्लिष्टं कृतं क्लिष्टमसंस्कृतं(२) ।७९.००९ सर्वात्मनामुना शम्भो पवित्रेण त्वदिच्छया ॥७९.००९ ओं पूरयमखव्रतं नियमेश्वराय स्वाहा ।७९.०१० आत्मतत्त्वे प्रकृत्यन्ते पालिते पद्मयोनिना ॥७९.०१० मूलं लयान्तमुच्चार्य पवित्रेणार्चयेच्छिवं ।७९.०११ विद्यातत्त्वे च विद्यान्ते विष्णुकारणपालिते ॥७९.०११ ईश्वरान्तं समुच्चार्य पवित्रमधिरोपयेत् ।७९.०१२ शिवान्ते शिवतत्त्वे च रुद्रकारणपालिते ॥७९.०१२ शिवान्तं मन्त्रमुच्चार्य तस्मै देयं पवित्रकं ।७९.०१३ सर्वकारणपालेषु शिवमुच्चार्य सुव्रतः(३) ॥७९.०१३ मूलं लयान्तमुच्चार्य दद्याद्गङ्गावतारकं(४) ।७९.०१४ आत्मविद्याशिवैः प्रोक्तं मुमुक्षूणां पवित्रकं ॥७९.०१४ विनिर्दिष्टं बुभुक्षूणां शिवतत्त्वात्मभिः क्रमात् ।७९.०१५ स्वाहान्तं वा नमोऽन्तं वा मन्त्रमेषामुदीरयेत् ॥७९.०१५ ओं हां आत्मतत्त्वाधिपतये शिवाय स्वाहा टिप्पणी १ प्रभुस्त्वं मामकेविधौ इति ङ, चिह्नितपुस्तकपाठः २ हुतं यत्र वषट्कृतमिति ङ, चिह्नितपुस्तकपाठः ३ सर्वतत्त्वेषु सुव्रत इति ख, ग, ङ, चिह्नितपुस्तकत्रयपाठः ४ दद्यादङ्गावतारकमिति ख, चिह्नितपुस्तकपाठः पृष्ठ २३९ ओं हां विद्यातत्त्वाधिपतये शिवाय स्वाहा ओं हौं शिवतत्त्वाधिपतये शिवाय स्वाहा ओं हौं सर्वतत्त्वाधिपतये शिवाय स्वाहा नत्वा गङ्गावतारन्तु प्रार्थयेत्तं कृताञ्जलिः ।७९.०१६ त्वङ्गतिः सर्वभूतानां संस्थितिस्त्वञ्चराचरे ॥७९.०१६ अन्तश्चारेण भूतानां(१) द्रष्टा त्वं परमेश्वर ।७९.०१७ कर्मणा मनसा वाचा त्वत्तो नान्या गतिर्मम ॥७९.०१७ मन्त्रहीनं क्रियाहीनं द्रव्यहीनञ्च यत्कृतं ।७९.०१८ जपहोमार्चनैर्हीनं कृतं नित्यं मया तव ॥७९.०१८ अकृतं वाक्यहीनं च तत्पूरय महेश्वरं(२) ।७९.०१९ सुपूतस्त्वं परेशान(३) पवित्रं पापनाशनं ॥७९.०१९ त्वया पवित्रितं सर्वं जगत्स्थावरजङ्गमं ।७९.०२० खण्डितं यन्मया देव व्रतं वैकल्पयोगतः ॥७९.०२० एकीभवतु तत्सर्वं तवाज्ञासूत्रगुम्फितं ।७९.०२१ जपं निवेद्य देवस्य भक्त्या स्तोत्रं विधाय च ॥७९.०२१ नत्वा तु गुरुणादिष्टं गृह्णीयान्नियमन्नरः ।७९.०२२ चतुर्मासं त्रिमासं वा त्र्यहमेकाहमेव च ॥७९.०२२ प्रणम्य क्षमयित्वेशं गत्वा कुण्डान्तिकं व्रती ।७९.०२३ पावकस्थे शिवेऽप्येवं पवित्राणां चतुष्टयं ॥७९.०२३ समारोप्य समभ्यर्च्य पुष्पधूपाक्षतादिभिः ।७९.०२४ अन्तर्बलिं पवित्रञ्च रुद्रादिभ्यो निवेदयेत् ॥७९.०२४ प्रविश्यान्तः शिवं स्तुत्वा सप्रणामं क्षमापयेत् ।७९.०२५ टिप्पणी १ अन्तश्चर त्वं भूतानामिति ग, चिह्नितपुस्तकपाठः २ परिपूर्णं करो तु मे इति ग, चिहितपुस्तकपाठः ३ अमृतस्त्वं परेशान इति ग, चिह्नितपुस्तकपाठः पृष्ठ २४० प्रायश्चित्तकृतं होमं कृत्वा हुत्वा च पायसं ॥७९.०२५ शनैः पूर्णाहुतिं दत्वा वह्निस्थं विसृजेच्छिवं ।७९.०२६ होमं व्याहृतिभिः कृत्वा रुन्ध्यान्निष्ठुरयानलं ॥७९.०२६ अग्न्यादिभ्यस्ततो दद्यादाहुतीनां चतुष्टयं ।७९.०२७ दिक्पतिभ्यस्ततो दद्यात्(१) सपवित्रं वहिर्बलिं ॥७९.०२७ सिद्धान्तपुस्तके दद्यात्सप्रमाणं पवित्रकं ।७९.०२८ ओं हां भूः स्वाहा । ओं हां भुवः स्वाहा । ओं हां स्वः स्वाहा । ओं हां भूर्भुवः स्वः स्वाहा होमं व्याहृतिभिः कृत्वा दत्वा.अहुतिचतुष्टयं ॥७९.०२८ ओं हां अग्नये स्वाहा । ओं हां सोमाय स्वाहा । ओं हां अग्नीषोमाभ्यां स्वाहा । ओं हां अग्नये स्विष्टकृते स्वाहा गुरुं शिवमिवाभ्यर्च्य वस्त्रभूषादिविस्तरैः ।७९.०२९ समग्रं सफलं तस्य क्रियाकाण्डादि वार्षिकं ॥७९.०२९ यस्य तुष्टो गुरुः सम्यगित्याह परमेश्वरः ।७९.०३० इत्थं गुरोः समारोप्य हृदालम्बिपवित्रकं ॥७९.०३० द्विजातीन् भोजयित्वा तु भक्त्या वस्त्रादिकं ददेत् ।७९.०३१ दानेनानेन देवेश प्रीयतां मे सदा शिवः ॥७९.०३१ भक्त्या स्नानादिकं प्रातः कृत्वा शम्भोः समाहरेत् ।७९.०३२ पवित्राण्यष्टपुष्पैस्तं पूजयित्वा विसर्जयेत् ॥७९.०३२ नित्यं नैमित्तिकं कृत्वा विस्तरेण यथा पुरा ।७९.०३३ पवित्राणि समारोप्य प्रणम्याग्नौ शिवं यजेत् ॥७९.०३३ प्रायश्चित्तं ततोऽस्त्रेण हुत्वा(२) पूर्णाहुतिं यजेत् ।७९.०३४ टिप्पणी १ दिक्पालेभ्यस्ततो दत्वेति ख, चिह्नितपुस्तकपाठः २ ततोऽस्त्रेण कृत्वेति घ, चिह्नितपुस्तकपाठः पृष्ठ २४१ भुक्तिकामः शिवायाथ कुर्यात्कर्मसमर्पणं ॥७९.०३४ त्वत्प्रसादेन कर्मेदं मास्तु फलसाधकं ।७९.०३५ मुक्तिकामस्तु कर्मेदं मास्तु मे नाथ बन्धकं ॥७९.०३५ वह्निस्थं नाडीयोगेन शिवं संयोजयेछिवे ।७९.०३६ हृदि न्यस्याग्निसङ्घातं पावकं च विसर्जयेत् ॥७९.०३६ समाचम्य प्रविश्यान्तः कुम्भानुगतसंवरान् ।७९.०३७ शिवे संयोज्य साक्षेपं क्षमस्वेति विसर्जयेत् ॥७९.०३७ विसृज्य लोकपालादीनादायेशात्पवित्रकं ।७९.०३८ सति चण्डेश्वरे पूजां कृत्वा दत्वा पवित्रकं ॥७९.०३८ तन्निर्माल्यादिकं तस्मै सपवित्रं समर्पयेत् ।७९.०३९ अथवा स्थण्डिले चण्डं विधिना पूर्ववद्यजेत् ॥७९.०३९ यत्किञ्चिद्वार्षिकं कर्म कृतं न्यूनाधिकं मया ।७९.०४० तदस्तु परिपूर्णं मे चण्ड नाथ तवाज्ञया ॥७९.०४० इति विज्ञाप्य देवेशं नत्वा स्तुत्वा विसर्जयेत् ।७९.०४१ त्यक्तनिर्माल्यकः शुद्धः स्नापयित्वा शिवं यजेत् ।७९.०४१ पञ्चयोजनसंस्थोऽपि पवित्रं गुरुसन्निधौ ॥७९.०४१ इत्यादिमहापुराणे आग्नेये पवित्रारोहणं नाम एकोनाशीतितमोऽध्यायः ॥ अध्याय {८०} अथ अशीतितमोऽध्यायः दमनकारोहणविधिः ईश्वर उवाच वक्ष्ये दमनकारोहविधिं पूर्ववदाचरेत् ।८०.००१ हरकोपात्पुरा जातो भैरवो दमिताः सुराः ॥८०.००१ पृष्ठ २४२ तेनाथ शप्तो विटपो भवेति त्रिपुरारिणा ।८०.००२ प्रसन्नेनेरितं चेदं पूजयिष्यन्ति ये नराः ॥८०.००२ परिपूर्णफलं तेषां नान्यथा ते भविष्यति ।८०.००३ सप्तम्यां वा त्रयोदश्यां दमनं संहितात्मभिः ॥८०.००३ सम्पूज्य बोधयेद्वृक्षं भववाक्येन मन्त्रवित् ।८०.००४ हरप्रसादसंभूत त्वमत्र सन्निधीभव ॥८०.००४ शिवकार्यं समुद्दिश्य नेतव्योऽसि शिवाज्ञया ।८०.००५ गृहेऽप्यामन्त्रणं कुर्यात्सायाह्ने चाधिवासनं ॥८०.००५ यथाविधि समभ्यर्च्य सूर्यशङ्करपावकान् ।८०.००६ देवस्य पश्चिमे मूलं दद्यात्तस्य मृदा युतं ॥८०.००६ वामेन शिरसा वाथ नालं धात्रीं तथोत्तरे ।८०.००७ दक्षिणे भग्नपत्रञ्च प्राच्यां पुष्पञ्च धारणं ॥८०.००७ पुटिकास्थं फलं मूलमथैशान्यां यजेच्छिवं ।८०.००८ पञ्चाङ्गमञ्जलौ कृत्वा आमन्त्र्य शिरसि न्यसेत् ॥८०.००८ आमन्त्रितोऽसि देवेश प्रातःकाले(१) मया प्रभो ।८०.००९ कर्तव्यस्तपसो लाभः पूर्णं सर्वं तवाज्ञया ॥८०.००९ मूलेन शेषं पात्रस्थं पिधायाथ पवित्रकं ।८०.०१० प्रातः स्नात्वा जगन्नाथं गन्धपुष्पादिभिर्यजेत्(२) ॥८०.०१० नित्यं नैमित्तिकं कृत्वा दमनैः पूजयेत्ततः ।८०.०११ शेषमञ्जलिमादाय आत्मविद्याशिवात्मभिः ॥८०.०११ मूलाद्यैरीश्वरान्तैश्च चतुर्थाञ्जलिना ततः ।८०.०१२ ओं हौं मखेश्वराय मखं पूरय शूलपाणये नमः ॥८०.०१२ टिप्पणी १ देवेश पूजाकाले इति ग, चिह्नितपुस्तकपाठः २ गन्धपुष्पादिनार्चयेदिति ख, चिह्नितपुस्तकपाठः पृष्ठ २४३ शिवं वह्निं च सम्पूज्य गुरुं प्रार्च्याथ बोधयेत् ॥८०.०१२ भगवन्नतिरिक्तं वा हीनं वा यन्मया कृतं ।८०.०१३ सर्वं तदस्तु सम्पूर्णं यच्च दामनकं मम ।८०.०१३ सकलं चैत्रमासोत्थं फलं प्राप्य दिवं व्रजेत् ॥८०.०१३ इत्यादिमहापुराणे आग्नेये दमनकारोहणविधिर्नाम अशीतितमोऽध्यायः ॥ अध्याय {८१} अथैकाशीतितमोऽध्यायः समयदीक्षाविधानं ईश्वर उवाच वाक्ष्यामि भोगमोक्षार्थं दीक्षां पापक्षयङ्करीं ।८१.००१ मलमायादिपाशानां विश्लेषः क्रियते यया ॥८१.००१ ज्ञानञ्च जन्यते शिष्ये सा दीक्षा भुक्तिमुक्तिदा ।८१.००२ विज्ञातकलनामैको द्वितीयः प्रलयाकलः(१) ॥८१.००२ तृतीयः सकलः शास्त्रेऽनुग्राह्यस्त्रिविधो मतः ।८१.००३ तत्राद्यो मलमात्रेण मुक्तोऽन्यो मलकर्मभिः ॥८१.००३ कलादिभूमिपर्यन्तं स्तवैस्तु सकलो यतः ।८१.००४ निराधाराथ साधारा दीक्षापि द्विविधा मता ॥८१.००४ निराधारा द्वयोस्तेषां साधारा सकलस्य तु ।८१.००५ आधारनिरपेक्षेण क्रियते शम्भुचर्यया ॥८१.००५ तीव्रशक्तिनिपातेन निराधारेति सा स्मृता ।८१.००६ आचार्यमूर्तिमास्थाय मायातीव्रादिभेदया ॥८१.००६ शक्त्या यां कुरुते शम्भुः सा साधिकरणोच्यते ।८१.००७ टिप्पणी १ प्रलयानल इति ख, चिह्नितपुस्तकपाठः । प्रलयात्मक इति ङ, चिह्नितपुस्तकपाठः पृष्ठ २४४ इयं चतुर्विधा प्रोक्ता सवीजा वीजवर्जिता ॥८१.००७ साधिकारानधिकारा यथा तदभिधीयते ।८१.००८ समयाचारसंयुक्ता सवीजा जायते नृणां ॥८१.००८ निर्वीजा त्वसमर्थानां समयाचारवर्जिता ।८१.००९ नित्ये नैमित्तिके काम्ये यतः स्यादधिकारिता ॥८१.००९ साधिकारा भवेद्दीक्षा साधकाचार्ययोरतः ।८१.०१० निर्वीजा दीक्षितानान्तु यदास मम पुत्रयोः ॥८१.०१० नित्यमात्राधिकारत्वद्दीक्षा निरधिकारिका ।८१.०११ द्विविधेयं द्विरूपा हि प्रत्येकमुपजायते ॥८१.०११ एका क्रियावती तत्र कुण्डमण्डलपूर्विका ।८१.०१२ मनोव्यापारमात्रेण या सा ज्ञानवती मता ॥८१.०१२ इत्थं लब्धाधिकारेण दीक्षा.अचार्येण साध्यते ।८१.०१३ स्कन्ददीक्षां गुरुः कुर्यात्कृत्वा नित्यक्रियां ततः(१) ॥८१.०१३ प्रणवार्ग्यकराम्भोजकृतद्वाराधिपार्चणः ।८१.०१४ विघ्नानुत्सार्य देहल्यां न्यस्यास्त्रं स्वासने स्थितः ॥८१.०१४ कुर्वीत भूतसंशुद्धिं मन्त्रयोगं यथोदितं ।८१.०१५ तिलतण्डुलसिद्धार्थकुशदूर्वाक्षतोदकं ॥८१.०१५ सयवक्षीरनीरञ्च विशेषार्घ्यमिदन्ततः ।८१.०१६ तदम्बुना द्रव्यशुद्धिं तिलकं स्वासनात्मनोः ॥८१.०१६ पूजनं मन्त्रशिद्धिञ्च पञ्चगव्यञ्च पूर्ववत् ।८१.०१७ लाजचन्दनसिद्धार्थभस्मदूर्वाक्षतं(२) कुशान् ॥८१.०१७ विकिरान् शुद्धलाजांस्तान् सधूपानस्त्रमन्त्रितान् ।८१.०१८ टिप्पणी १ कृतनित्यक्रियाद्वय इति ख, चिह्नितपुस्तकपाठः २ भस्मदूर्वाक्षतानिति ङ, चिह्नितपुस्तकपाठः पृष्ठ २४५ शस्त्राम्बु(१)प्रोक्षितानेतान् कवचेनावगुण्ठितान् ॥८१.०१८ नानाग्रहणाकारान् विघ्नौघविनिवारकान् ।८१.०१९ दर्भाणान्तालमानेन कृत्वा षट्त्रिंशता दलैः ॥८१.०१९ सप्तजप्तं शिवास्त्रेण वेणीं बोधासिमुत्तमं ।८१.०२० शिवमात्मनि विन्यस्य सृष्ट्याधारमभीप्सितं ॥८१.०२० निष्कलं च शिवं न्यस्य शिवोऽहमिति भावयेत् ।८१.०२१ उष्णीषं शिरसि न्यस्य अलं कुर्यात्स्वदेहकं ॥८१.०२१ गन्धमण्डनकं स्वीये विदध्याद्दक्षिणे करे ।८१.०२२ विधिनात्रार्चयेदीशमित्थं स्याच्छिवमस्तकं ॥८१.०२२ विन्यस्य शिवमन्त्रेण भास्वरं निजमस्तके ।८१.०२३ शिवादभिन्नमात्मानं कर्तारं भावयेद्यथा ॥८१.०२३ मण्डले कर्मणां साक्षी कलशे यज्ञरक्षकः ।८१.०२४ होमाधिकरणं वह्नौ शिष्ये पाशविमोचकः(२) ॥८१.०२४ स्वात्मन्यनुगृहीतेति षडाधारो य ईश्वरः ।८१.०२५ सोऽहमेवेति कुर्वीत भावं स्थिरतरं पुनः ॥८१.०२५ ज्ञानखड्गकरः स्थित्वा नैरृत्याभिमुखो नरः ।८१.०२६ सार्घ्याम्बुपञ्चगव्याभ्यां प्रोक्षयेद्यागमण्डपं ॥८१.०२६ चतुष्पथान्तसंस्कारैः संस्कुर्यादीक्षणादिभिः ।८१.०२७ विक्षिप्य विकरांस्तत्र कुशकूर्चोपसंहरेत् ॥८१.०२७ तानीशदिशि वर्धन्यामासनायोपकल्पयेत् ।८१.०२८ नैरृते वास्तुगीर्वाणान् द्वारे लक्ष्मीं प्रपूजयेत् ॥८१.०२८ आप्ये रत्नैः पूरयन्तीं हृदा मण्डपरूपिणीं ।८१.०२९ टिप्पणी १ अस्त्राम्बु इति ङ, चिह्नितपुस्तकपाठः २ शिष्ये पापविमोचक इति ङ, चिह्नितपुस्तकपाठः पृष्ठ २४६ साम्बुवस्त्रे सरत्ने च धान्यस्थे पश्चिमानने ॥८१.०२९ ऐशे कुम्भे यजेच्छम्भुं शक्तिं कुम्भस्य दक्षिणे ।८१.०३० पश्चिमस्यान्तु सिंहस्थां वर्धनीं खड्गरूपिणीं ॥८१.०३० दिक्षु शक्रादिदिक्पालान्विष्ण्वन्तान् प्रणवासनान् ।८१.०३१ वाहनायुधसंयुक्तान् हृदाभ्यर्च्य स्वनामभिः ॥८१.०३१ प्रथमन्तां समादाय कुम्भस्याग्राभिगामिनीं ।८१.०३२ अविच्छिन्नपयोधरां भ्रामयित्वा प्रदक्षिणं ॥८१.०३२ शिवाज्ञां लोकपालानां श्रावयेन्मूलमुच्चरन् ।८१.०३३ संरक्षत यथायोगं कुम्भं धृत्वाथ तां धारेत् ॥८१.०३३ ततः स्थिरासने कुम्भे साङ्गं सम्पूज्य शङ्करं ।८१.०३४ विन्यस्य शोध्यमध्वानं वर्धन्यामस्त्रमर्चयेत् ॥८१.०३४ ओं हः अस्त्रासनाय हूं फट् । ओं ओं अस्त्रमूर्तये नमः । ओं हूं फट्पाशुपतास्त्राय नमः । ओं ओं हृदयाय हूं फट्नमः । ओं श्रीं शिरसे हूं फट्नमः । ओं यं शिखायै हूं फट्नमः । ओं गूं कवचाय हूं फट्नमः । ओं फटस्त्राय हूं फट्नमः(१) चतुर्वक्त्रं सदंष्ट्रञ्च स्मरेदस्त्रं सशक्तिकं ।८१.०३५ समुद्गरत्रिशूलासिं सूर्यकोटिसमप्रभं ॥८१.०३५ भगलिङ्गसमायोगं विदध्याल्लिङ्गमुद्रया ।८१.०३६ टिप्पणी १ ओं अं हः अस्त्रासनाय ह्रं फट् । ओं अं अस्त्रमूर्तये नमः । ओं पशूं हुं फट्पाशुपतास्त्राय नमः । ओं हृदयाय ह्रं फट्नमः । ओं श्रीं शिरसे ह्रूं फट्नमः । ओं मं शिखायै फट्नमः । ओं अस्त्राय फठूं फट्नमः । इति ग, चिह्न्कितपुस्तकपाठः । ओं हः अस्त्रासनाय क्रूं फट् । ओं ओं अस्त्रमूर्तये नमः । ओं स्वां स्वं क्रूं फट्पाशुपतास्त्राय स्वाहा । ओं ओं हृदयाय क्रूं फट्नमः । ओं पं शिखायै क्रूं फट्नमः । ओं खं कवचाय क्रूं फट्नमः । ओं हं फटस्त्राय फट्नमः । इति ङ, चिह्नितपुस्तकपाठः पृष्ठ २४७ अग्गुष्ठेन स्पृशेत्कुम्भं हृदा मुष्ट्यास्त्रवर्धनीं ॥८१.०३६ भुक्तये मुक्तये त्वादौ मुष्टिना वर्धनीं स्पृशेत् ।८१.०३७ कुम्भस्य मुखरक्षार्थं ज्ञानखड्गं समर्पयेत् ॥८१.०३७ शस्त्रञ्च मूलमन्त्रस्य शतं कुम्भे निवेशयेत् ।८१.०३८ तद्दशांशेन वर्धन्यां रक्षां विज्ञापयेत्ततः ॥८१.०३८ यथेदं कृतयत्नेन भगवन्मखमन्दिरं ।८१.०३९ रक्षणीयं जगन्नाथ सर्वाध्वरधर त्वया ॥८१.०३९ प्रणवस्थं चतुर्बाहुं वायव्ये गणमर्चयेत्(१) ।८१.०४० स्थण्डिले शिवमभ्यर्च्य सार्घ्यकुण्डं व्रजेन्नरः ॥८१.०४० निविष्टो मन्त्रतृप्त्यर्थमर्घ्यगन्धघृतादिकं ।८१.०४१ वामेऽसव्ये तु विन्यस्य समिद्दर्भतिलादिकं ॥८१.०४१ कुण्डवह्निस्रुगाज्यादि प्राग्वत्संस्कृत्य भावयेत् ।८१.०४२ मुख्यतामूर्ध्ववक्त्रस्य हृदि वह्नौ शिवं यजेत् ॥८१.०४२ स्वमूर्तौ शिवकुम्भे च स्थण्डिले त्वग्निशिष्ययोः ।८१.०४३ सृष्टिन्यासेन विन्यस्य शोध्याध्वानं यथाविधि ॥८१.०४३ कुण्डमानं मुखं ध्यात्वा हृदाहुतिभिरीप्सितं ।८१.०४४ वीजानि सप्तजिह्वानामग्नेर्होमाय भण्यते ॥८१.०४४ विरेफावन्तिमौवर्णौ रेफषष्ठस्वरान्वितौ ।८१.०४५ इन्दुविन्दुशिखायुक्तौ जिह्वावीजानुपक्रमात् ॥८१.०४५ हिरण्या वनका रक्ता कृष्णा तदनु सुप्रभा ।८१.०४६ अतिरिक्ता बहुरूपा रुद्रेन्द्राग्न्याप्यदिङ्मुखा ॥८१.०४६ क्षीरादिमधुरैर्होमं कुर्याच्छान्तिकपौष्टिके ।८१.०४७ अभिचारे तु पिण्याकसक्तुकञ्चुककाञ्चिकैः ॥८१.०४७ लवणैराजिकातक्रकटुतैलैश्च कण्टकैः ।८१.०४८ टिप्पणी १ वायव्ये कालमर्चयेदिति ग, चिह्नितपुस्तकपाठः पृष्ठ २४८ समिद्भिरपि वक्राभिः क्रुद्धो भाष्याणुना यजेत् ॥८१.०४८ कदम्बकलिकाहोमाद्यक्षिणी सिद्ध्यति ध्रुवं ।८१.०४९ बन्धूककिंशुकादीनि वश्याकर्षाय होमयेत् ॥८१.०४९ बिल्वं राज्याय लक्ष्मार्थं पाटलांश्चम्पकानपि ।८१.०५० पद्मानि चक्रवर्तित्वे भक्ष्यभोज्यानि सम्पदे ॥८१.०५० दूर्वा व्याधिविनाशाय सर्वसत्त्ववशीकृते ।८१.०५१ प्रियङ्गुपाटलीपुष्पं चूतपत्रं ज्वरान्तकं ॥८१.०५१ मृत्युञ्जयो मृत्युजित्स्याद्वृद्धिः स्यात्तिलहोमतः ।८१.०५२ रुद्रशान्तिः सर्वशान्त्यै अथ प्रस्तुतमुच्यते ॥८१.०५२ आहुत्यष्टशतैर्मूलमङ्गानि तु दशांशतः ।८१.०५३ सन्तर्पयेत मूलेन दद्यात्पूर्णां यथा पुरा ॥८१.०५३ तथा शिष्यप्रवेशाय प्रतिशिष्यं शतं जपेत् ।८१.०५४ दुर्निमित्तापसाराय सुनिमित्तकृते तथा ॥८१.०५४ शतद्वयञ्च होतव्यं मूलमन्त्रेण पूर्ववत् ।८१.०५५ मूलाद्यष्टास्त्रमन्त्राणां स्वाहान्तैस्तर्पणं सकृत् ॥८१.०५५ शिखासम्पुटितैर्वीजैर्ह्रूं फडन्तैश्च(१) दीपनं ।८१.०५६ ओं हौं शिवाय स्वाहेत्यादिमन्त्रैश्च तर्पणं ॥८१.०५६ ओं ह्रूं ह्रौं ह्रीं शिवाय ह्रूं(२) फडित्यादिदीपनं ।८१.०५७ ततः शिवाम्भसा स्थालीं क्षालितां वर्मगुण्ठितां(३) ॥८१.०५७ चन्दनादिसमालब्धां बध्नीयात्कटकं गले ।८१.०५८ वर्मास्त्रजप्तसद्दर्भपत्राभ्यां चरुसिद्धये ॥८१.०५८ टिप्पणी १ हुं फडन्तैश्च ख, चिह्नितपुस्तकपाठः २ ओं हूं हौं हूं शिवाय हूमिति ख, चिह्नितपुस्तकपाठः । ओं क्रं हौं क्रं शिवाय क्रूं इति ङ, चिह्नितपुस्तकपाठः ३ धर्मगुण्ठितामिति ख, चिह्नितपुस्तकपाठः पृष्ठ २४९ वर्माद्यैरासने(१) दत्ते सार्धेन्दुकृतमण्डले(२) ।८१.०५९ न्यस्तायां मूर्तिभूतायां भावपुष्पैः शिवं यजेत् ॥८१.०५९ वस्त्रबद्धमुखायां वा स्थाल्यां पुष्पैर्वहिर्भवैः ।८१.०६० चुल्ल्यां पश्चिमवक्त्रायां न्यस्तायां मानुषात्मना ॥८१.०६० न्यस्ताहङ्कारवीजायां शुद्धायां वीक्षणादिभिः ।८१.०६१ धर्माधर्मशरीरायां जप्तायां मानुषात्मना ॥८१.०६१ स्थालीमारोपयेदस्त्रजप्तां गव्याम्बुमार्जितां ।८१.०६२ गव्यं पयोऽस्त्रसंशुद्धं प्रासादशतमन्त्रितं ॥८१.०६२ तुण्डलान् श्यामकादीनां निक्षिपेत्तत्र तद्यथा ।८१.०६३ एकशिष्यविधानाय तेषां प्रसृतिपञ्चकं ॥८१.०६३ प्रसृतिं प्रसृतिं पश्चाद्वर्धयेद्द्व्यादिषु क्रमात् ।८१.०६४ कुर्याच्चानलमन्त्रेण पिधानं कवचाणुना ॥८१.०६४ शिवाग्नौ मूलमन्त्रेण पूर्वास्यश्चरुकं पचेत् ।८१.०६५ सुखिन्ने तत्र तच्चुल्ल्यां श्रुवमापूर्य सर्पिषा ॥८१.०६५ स्वाहान्तैः संहितामन्त्रैर्दत्वा तप्ताभिघारणं ।८१.०६६ संस्थाप्य मण्डले स्थालीं सद्दर्भेऽस्त्राणुना कृते ॥८१.०६६ प्रणवेन पिधायास्यां तद्देहलेपनं हृदा ।८१.०६७ सुशीतलो भवत्येवं प्राप्य शीताभिघारणं ॥८१.०६७ विदध्यात्संहितामन्त्रैः शिष्यं प्रति सकृत्सकृत् ।८१.०६८ धर्माद्यासनके हुत्वा(३) कुण्डमण्डलपश्चिमे ॥८१.०६८ सम्पातञ्च स्रुचा हुत्वा शुद्धिं संहितया चरेत् ।८१.०६९ चरुकं सकृदालभ्य तयैव वषडन्तया ॥८१.०६९ टिप्पणी १ धर्माद्यैरासने इति क, चिह्नितपुस्तकपाठः २ सार्दाम्बुकृतमण्डले इति ख, चिह्नितपुस्तकपाठः ३ धर्माद्यासनके धृत्वेति ख, ग, चिह्नितपुस्तकपाठः पृष्ठ २५० धेनुमुद्रामृतीभूतं स्थण्डिलेशान्तिकं नयेत्(१) ।८१.०७० साज्यभागं स्वशिष्याणां भागो देवाय वह्नये ॥८१.०७० कुर्यात्तु स्तोकपालादेः समध्वाज्यमितिदं त्रयं ।८१.०७१ नमोऽन्तेन हृदा दद्यात्तेनैवाचमनीयकं(२) ॥८१.०७१ साज्यं मन्त्रशतं हुत्वा दद्यात्पूर्णां यथाविधि ।८१.०७२ मण्डलं कुण्डतः पूर्वे मध्ये वा शम्भुकुम्भयोः ॥८१.०७२ रुद्रमातृगणादीनां निर्वर्त्यान्तर्बलिं हृदा ।८१.०७३ शिवमध्येऽप्यलब्धाज्ञो विधायैकत्वभावनं ॥८१.०७३ सर्वज्ञतादियुक्तोऽहं समन्ताच्चोपरि स्थितः ।८१.०७४ ममांशो योजनास्थानमधिष्ठाहमध्वरे ॥८१.०७४ शिवोऽहमित्यहङ्कारी निष्क्रमेद्यागमण्डपात् ।८१.०७५ न्यस्तपूर्वाग्रसन्धर्भे शस्त्राणुकृतमण्डले ॥८१.०७५ प्रणवासनके शिष्यं शुक्लवस्त्रोत्तरीयकं ।८१.०७६ स्नातञ्चोदङ्मुखं मुक्त्यै पूर्ववक्त्रन्तु भुक्तये ॥८१.०७६ ऊर्ध्वं कायं समारोप्य पूर्वास्यं प्रविलोकयेत् ।८१.०७७ चरणादिशिखां यावन्मुक्तौ भुक्तौ विलोमतः ॥८१.०७७ चक्षुषा सप्रसादेन शैवं धाम विवृण्वता ।८१.०७८ अस्त्रोदकेन सम्मोक्ष्य मन्त्राम्बुस्नानसिद्दये ॥८१.०७८ भस्मस्नानाय विघ्नानां शान्तये पापभित्तये(३) ।८१.०७९ सृष्टिसंहारयोगेन ताडयेदस्त्रभस्मना ॥८१.०७९ पुनरस्त्राम्बुना प्रोक्ष्य सकलीकरणाय तं ।८१.०८० टिप्पणी १ स्थण्डिलोपान्तिकं नयेदिति ङ, चिह्नितपुस्तकपाठः २ तेनैवाचमनीयमिति क, ख, ग, चिह्नितपुस्तकत्रयपाठः ३ पाशभित्तये इति ग, चिह्नितपुस्तकपाठः पृष्ठ २५१ नाभेरूर्ध्वं कुशाग्रेण मार्जनीयास्त्रमुच्चरन् ॥८१.०८० त्रिधा.अलभेत तन्मूलैरघमर्षाय नाभ्यधः ।८१.०८१ द्वैविध्याय च पाशानां आलभेत शराणुना ॥८१.०८१ तच्छरीरे शिवं साङ्गं सासनं विन्यसेत्ततः ।८१.०८२ पुष्पादिपूजितस्यास्य नेत्रे नेत्रेण वा हृदा ॥८१.०८२ बध्वामन्त्रितवस्त्रेण सितेन सदशेन च ।.८१.०८३ प्रदक्षिणक्रमादेनं प्रवेश्य शिवदक्षिणं ॥८१.०८३ सवस्त्रमासनं दद्यात्यथावर्णं(१) निवेदयेत् ।८१.०८४ संहारमुद्रयात्मानं मूर्त्या तस्य हृदम्बुजे ॥८१.०८४ निरुध्य शोधिते काये न्यासं कृत्वा तमर्चयेत् ।८१.०८५ पूर्वाननस्य शिष्यस्य मूलमन्त्रेण मस्तके ॥८१.०८५ शिवहस्तं प्रदातव्यं रुद्रेशपददायकं ।८१.०८६ शिवसेवाग्रहोपायं दत्तहस्तं शिवाणुना(२) ॥८१.०८६ शिवे प्रक्षेपयेत्पुष्पमपनीयार्चकन्तारं(३) ।८१.०८७ तत्पात्रस्थानमन्त्राढ्यं शिवदेवगणानुगं ॥८१.०८७ विप्रादीनां क्रमान्नाम कुर्याद्वा स्वेच्छया गुरुः ।८१.०८८ प्रणतिं कुम्भवर्धन्योः कारयित्वानलान्तिकं ॥८१.०८८ सदक्षिणासने तद्वत्(४) सौम्यास्यमुपवेशयेत् ।८१.०८९ शिष्यदेहविनिष्क्रान्तां सुषुम्णामिव चिन्तयेत् ॥८१.०८९ निजग्रहलीनाञ्च दर्भमूलेन मन्त्रितं ।८१.०९० टिप्पणी १ सुवर्णञ्चेति ग, चिह्नितपुस्तकपाठः २ शिवात्मनेति ख, ग, चिह्नितपुस्तकद्वयपाठः ३ अपनीयाधिकाम्बरं इति घ, चिह्नितपुस्तकपाठः ४ सदक्षिणासन तत्रेति ङ, चिह्नितपुस्तकपाठः पृष्ठ २५२ दर्भाग्रं दक्षिणे तस्य विधाय करपल्लवे ॥८१.०९० तम्मूलमात्मजङ्घायामग्रञ्चेति शिखिध्वजे ।८१.०९१ शिष्यस्य हृदयं गत्वा रेचकेन शिवाणुना(१) ॥८१.०९१ पुरकेण समागत्य स्वकीयं हृद्यान्तरं ।८१.०९२ शिवाग्निना पुनः कृत्वा नाडीसन्धानमीदृशं ॥८१.०९२ हृदा तत्सन्निधानार्थञ्जुहुयादाहुतित्रयं ।८१.०९३ शिवहस्तस्थिरत्वार्थं(२) शतं मूलेन होमयेत् ।८१.०९३ इत्थं समयदीक्षायां भवेद्योग्यो भवार्चने ॥८१.०९३ इत्यादिमहापुराणे आग्नेये समयदीक्षाकथनं नाम एकाशीतितमोऽध्यायः ॥ अध्याय {८२} अथ द्व्यशीतितमोऽध्यायः संस्कारदीक्षाकथनं ईश्वर उवाच वक्ष्ये संस्कारदीक्षायां विधानं शृणु षण्मुख ।८२.००१ आवाहयेन्महेशस्य वह्निस्थस्य शिरो हृदि ॥८२.००१ संश्लिष्टौ तौ समभ्यर्च्य सन्तर्प्य हृदयात्मना ।८२.००२ तयोः सन्निधये दद्यात्तेनैवाहुतिपञ्चकं ॥८२.००२ कुसुमेनास्त्रलिप्तेन(३) ताडयेत्तं हृदा शिशुं ।८२.००३ प्रस्फुरत्तारकाकारं चैतन्यं तत्र भावयेत् ॥८२.००३ टिप्पणी १ शिवात्मनेति ख, ग, चिह्नितपुस्तकद्वयपाठः २ शिवहस्ते च स्थित्यर्थमिति ग, चिह्नितपुस्तकपाठः ३ कुसुमेनाष्टजप्तेनेति ङ, चिह्नितपुस्तकपाठः पृष्ठ २५३ प्रविश्य तत्र हुङ्कारमुक्तं रेचकयोगतः ।८२.००४ संहारिण्या तदाकृष्य पूरकेण हृदि न्यसेत् ॥८२.००४ ततो वागीश्वरीयौनौ मुद्रयोद्भवसञ्ज्ञया ।८२.००५ हृत्सम्पुटितमन्त्रेण(१) रेचकेन विनिक्षिपेत् ॥८२.००५ ओं हां हां हां आत्मने नमः(२) जाज्वल्यमाने निर्धूमे जुहुयादिष्टसिद्धये ।८२.००६ अप्रवृद्धे सधूमे तु होमो वह्नौ न सिद्ध्यति ॥८२.००६ स्निग्धः प्रदक्षिणावर्तः सुगन्धिः शस्यतेऽनलः ।८२.००७ विपरीतस्फुलिङ्गी च भूमिस्पर्शः प्रशस्यते ॥८२.००७ इत्येवमादिभिश्चिह्नैर्हुत्वा शिष्यस्य कल्मषं ।८२.००८ पापभक्षणहोमेन(३) दहेद्वा तं भवात्मना ॥८२.००८ द्विजत्वापादनार्थाय तथा रुद्रांशभावने ।८२.००९ आहारवीजसंशुद्धौ(४) गर्भाधानाय संस्थितौ ॥८२.००९ सीमन्ते जन्मतो नामकरणाय च होमयेत् ।८२.०१० शतानि पञ्च मूलेन वौषडादिदशांशतः ॥८२.०१० शिथिलीभूतबन्धस्य शक्तावुत्कर्षणं च यत् ।८२.०११ आत्मनो रुद्रपुत्त्रत्वे गर्भाधानं तदुच्यते ॥८२.०११ स्वान्तत्र्यात्मगुणव्यक्तिरिह पुंसवनं मतं ।८२.०१२ मायात्मनोर्विवेकेन ज्ञानं सीमन्तवर्धनं ॥८२.०१२ शिवादितत्त्वशुद्धेस्तु स्वीकारो जननं मतं ।८२.०१३ टिप्पणी १ हृत्सम्पुटात्ममन्त्रेणेति ङ, चिह्नितपुस्तकपाठः २ ओं हां हां आत्मने नम इति ग, घ, चिह्नितपुस्तकपाठः । ओं हां आत्मने नम इति ङ, चिह्नितपुस्तकपाठः ३ पापक्षयेण होमनेति ङ, चिह्नितपुस्तकपाठः ४ वीजसंसिद्धौ इति ङ, चिह्नितपुस्तकपाठः पृष्ठ २५४ बोधनं यच्छिवत्वेन शिवत्वार्हस्य नो मतं(१) ॥८२.०१३ संहारमुद्रयात्मानं स्फुरद्वह्निकणोपमं ।८२.०१४ विदधीत समादाय निजे हृदयपङ्कजे ॥८२.०१४ ततः कुम्भयोगेन मूलमन्त्रमुदीरयेत् ।८२.०१५ कुर्यात्समवशीभावं तदा च शिवयोर्हृदि ॥८२.०१५ ब्रह्मादिकारणात्यागक्रमाद्रेचकयोगतः ।८२.०१६ नीत्वा शिवान्तमात्मानमादायोद्भवमुद्रया ॥८२.०१६ हृत्सम्पुटितमन्त्रेण रेचकेन विधानवित् ।८२.०१७ शिष्यस्य हृदयाम्भोजकर्णिकायां विनिक्षिपेत् ॥८२.०१७ पूजां शिवस्य वह्नेश्च गुरुः कुर्यात्तदोचितां ।८२.०१८ प्रणतिञ्चात्मने शिष्यं समयान् श्रावयेत्तथा ॥८२.०१८ देवं न निन्देच्छास्त्राणि निर्माल्यादि न लङ्घयेत् ।८२.०१९ शिवाग्निगुरुपूजा च कर्तव्या जीवितावधि ॥८२.०१९ बालबालिशवृद्धस्त्रीभोगभुग्व्याधितात्मनां ।८२.०२० यथाशक्ति ददीतार्थं(२) समर्थस्य समग्रकान् ॥८२.०२० भूताङ्गानि जटाभस्मदण्डकौपीनसंयमान् ।८२.०२१ ईशानाद्यैर्हृदाद्यैर्वा परिजप्य यथाक्रमात् ॥८२.०२१ स्वाहान्तसंहितमन्त्रैः पात्रेष्वारोप्य पूर्ववत् ।८२.०२२ सम्पादितद्रुतं हुत्वा स्थण्डिलेशाय दर्शयेत् ॥८२.०२२ रक्षणाय घटाधस्तादारोप्य क्षणमात्रकं ।८२.०२३ शिवादाज्ञां समादाय ददीत यतिने गुरुः ॥८२.०२३ एवं समयदीक्षायां विशिष्टायां विशेषतः ।८२.०२४ टिप्पणी १ वर्धनमिति घ, चिह्नितपुस्तकपाठः २ ददीतान्नमिति घ, चिह्नितपुस्तकपाठः पृष्ठ २५५ वह्निहोमागमज्ञानयोग्यः सञ्जायते शिश्रुः ॥८२.०२४ इत्यादिमहापुराणे आग्नेये समयदीक्षाकथनं नाम द्व्यशीतितमोऽध्यायः ॥ अध्याय {८३} अथ त्र्यशीतितमोऽध्यायः निर्वाणदीक्षाकथनं ईश्वर उवाच अथ निर्वाणदीक्षायां कुर्यान्मूलादिदीपनं ।८३.००१ पाशबन्धनशक्त्यर्थं ताडनादिकृतेन वा ॥८३.००१ एकैकया तदाहुत्या प्रत्येकं तत्त्रयेण वा ।८३.००२ वीजगर्भशिखार्धन्तु हूं फडन्तध्रुवादिना ॥८३.००२ ओं ह्रूं ह्रौं हौं ह्रूं फडिति(२) मूलमन्त्रस्य दीपनं ।८३.००३ ओं ह्रूं हौं हौं ह्रूं फडिति(३) हृदय एवं शिरोमुखे ॥८३.००३ प्रत्येकं दीपनं कुर्यात्सर्वस्मिन् क्रूरकर्मणि ।८३.००४ शान्तिके पौष्टिके चास्य वषडन्तादिनाणुना(४) ॥८३.००४ वषड्वौषट्समोपेतैः सर्वकाम्योपरि स्थितैः ।८३.००५ हवनं संवरैः कुर्यात्सर्वत्राप्यायनादिषु ॥८३.००५ ततः स्वसव्यभागस्थं मण्डले शुद्धविग्रहं ।८३.००६ टिप्पणी १ ह्रीं फडन्तध्रुवादिना इति ख, चिह्नितपुस्तकपाठः २ ओं हूं हौं हौं हूं फडिति ख, चिह्नितपुस्तकपाठः । ओं हूं हों हूं फडिति ग, चिह्नितपुस्तकपाठः ३ ओं हूं हां हां हूं फडिति ख, चिह्नितपुस्तकपाठः । ओं ह्रं ह्रीं ह्रं ह्रं फडिति ग, चिह्नितपुस्तकपाठः ४ वषडन्तादिनात्मनेति ख, ग, चिह्नितपुस्तकपाठः पृष्ठ २५६ शिष्यं सम्पूज्य तत्सूत्रं सुषुम्णेति विभावितं ॥८३.००६ मूलेन तच्छिखाबन्धं पादाङ्गुष्ठान्तमानयेत् ।८३.००७ संहारेण मुमुक्षोस्तु बध्नीयाच्छिष्यकायके ॥८३.००७ पुंसस्तु दक्षिणे भागे वामे नार्या नियोजयेत् ।८३.००८ शक्तिं च शक्तिमन्त्रेण पूजितान्तस्य मस्तके ॥८३.००८ संहारमुद्रया.अदाय सूत्रं तेनैव योजयेत् ।८३.००९ नाडीन्त्वादाय मूलेन सूत्रे न्यस्य हृदार्चयेत् ॥८३.००९ अवगुण्ठ्य तु रुद्रेण हृदयेनाहुतित्रयं ।८३.०१० प्रदद्यात्सन्निधानार्थं शक्तावप्येवमेव हि ॥८३.०१० ओं हां वर्णाध्वने नमो हां भवनाध्वने नमः ।८३.०११ ओं हां कालाध्वने नमः(१) शोध्याध्वानं हि सूत्रके ॥८३.०११ न्यस्यास्त्रवारिणा शिष्यं प्रोक्ष्यास्त्रमन्त्रितेन च ।८३.०१२ पुष्पेण हृदि सन्ताड्य शिष्यदेहे प्रविश्य च ॥८३.०१२ गुरुश्च तत्र हूङ्कारयुक्तं रेचकयोगतः ।८३.०१३ चैतन्यं हंसवीजस्थं विश्लिष्येदायुधात्मना ॥८३.०१३ ओं हौं हूं फट्(२) आछिद्य शक्तिसूत्रेण हां हं स्वाहेति चाणुना ।८३.०१४ संहारमुद्रया सूत्रे नाडीभूते नियोजयेत् ॥८३.०१४ ओं हां हं हां आत्मने नमः व्यापकं भावयेदेनं तनुत्राणावगुण्ठयेत्(३) ।८३.०१५ टिप्पणी १ ओं द्वां पदाध्वने नमः । ओं हां वर्णाध्वने नमः । ओं हां भवनाध्वने नमः । ओं हां कलाध्वने नमः । इति ग, चिह्नितपुस्तकपाठः । ओं हां पदात्मने नमः । ओं हां वर्णात्मने नमः । ओं हां मन्त्रात्मने नमः । ओं हां कालात्मने नम इति ङ, चिह्नितपुस्तकपाठः २ ओं हां हौं हूं फटिति ग, चिह्नितपुस्तकपाठः ३ तन्मात्रेणावगुण्ठयेदिति ग, चिह्नितपुस्तकपाठः पृष्ठ २५७ आहुतित्रितयं दद्याथृदा सन्निधिहेतवे ॥८३.०१५ विद्यादेहञ्च विन्यस्य शान्त्यतीतावलोकनं ।८३.०१६ तस्यामितरतत्त्वाद्यं मन्त्रभूतं विचिन्तयेत् ॥८३.०१६ ओं हां हौं शान्त्यतीतकलापाशाय(१) नम इत्यनेनावलोकयेत् हे तत्त्वे मन्त्रमप्येकं पदं वर्णाश्च षोडश ।८३.०१७ तथाष्टौ भुवनान्यस्यां वीजनाडीकथद्वयं ॥८३.०१७ विषयञ्च गुणञ्चैकं कारणं च सदा शिवं ।८३.०१८ सितायां शान्त्यतीतायामन्तर्भाव्य प्रपीडयेत् ॥८३.०१८ ओं हौं शान्त्यतीतकलापाशाय हूं फट् संहारमुद्रया.अदाय विदध्यात्सूत्रमस्तके ।८३.०१९ पूजयेदाहुतींस्तिस्रो दद्यात्सन्निधिहेतवे ॥८३.०१९ तत्त्वे द्वे अक्षरे द्वे च वीजनाडीकथद्वयं ।८३.०२० गुणौ मन्त्रौ तथाब्जस्थमेकं कारणमीश्वरं ॥८३.०२० पदानि भानुसङ्ख्यानि भुवनानि दश सप्त च ।८३.०२१ एकञ्च विषयं शान्तौ कृष्णायामच्युतं स्मरेत् ॥८३.०२१ ताडयित्वा समादाय मुखसूत्रे नियोजयेत् ।८३.०२२ जुहुयान्निजवीजेन सान्निध्यायाहुतित्रयं ॥८३.०२२ विद्यायां सप्त तत्त्वानि पादानामेकविंशतिं ।८३.०२३ षड्वर्णान् सञ्चरं चैकं लोकानां पञ्चविंशतिं ॥८३.०२३ गुणानान्त्रयमेकञ्च विषयं रुद्रकारणं ।८३.०२४ अन्तर्भाव्यातिरिक्तायां जीवनाडीकथद्वयं ॥८३.०२४ अस्त्रमादाय दध्याच्च पदं द्व्यधिकविंशतिं ।८३.०२५ लोकानाञ्च कलानाञ्च षष्टिं गुणचतुष्टयं ॥८३.०२५ टिप्पणी १ ओं हां हौं हों शान्त्यतीतकलापाशायेति ग, चिह्नितपुस्तकपाठः पृष्ठ २५८ मन्त्राणां त्रयमेकञ्च विषयं कारणं हरिं ।८३.०२६ अन्तर्भाव्य प्रतिष्ठायां शुक्लयान्ताडनादिकं ॥८३.०२६ विधाय नाभिसूत्रस्थां सन्निधायाहुतीर्यजेत् ।८३.०२७ ह्रीं भुवनानां(१) शतं साग्रं पदानामष्टविंशतिं(२) ।८३.०२७ वीजनाडीसमीराणां द्वयोरिन्द्रिययोरपि ।८३.०२८ वर्णन्तत्त्वञ्च विषयमेकैकं गुणपञ्चकं ॥८३.०२८ हेतुं ब्रह्माण्डमन्त्रस्थं शम्बराणां चतुष्टयं ।८३.०२९ निवृत्तौ पीतवर्णायामन्तर्भाव्य प्रताडयेत् ॥८३.०२९ आदौ यत्तत्त्वभागान्ते(३) सूत्रे विन्यस्यपूजयेत् ।८३.०३० जुहुयादाहुतीस्तिस्रः सन्निधाय पावके ॥८३.०३० इत्यादाय कलासूत्रे योजयेच्छिष्यविग्रहात् ।८३.०३१ सवीजायान्तु दीक्षायां समयाचारयागतः ॥८३.०३१ देहारम्भकरक्षार्थं मन्त्रसिद्धिफलादपि ।८३.०३२ इष्टापूर्तादिधर्मार्थं व्यतिरिक्तं प्रबन्धकं ॥८३.०३२ चैतन्यबोधकं सूक्ष्मं कलानामन्तरे स्मरेत् ।८३.०३३ अमुनैव क्रमेणाथ कुर्यात्तर्पणदीपने ॥८३.०३३ आहुतिभिः स्वमन्त्रेण तिसृभिस्तिसृभिस्तथा ।८३.०३४ ओं हौं शान्त्यतीतकलापाशाय स्वाहेत्यादितर्पणं ओं हां हं हां(४) शान्त्यतीतकलापाशाय हूम्फडित्यादिदीपनं तत्सूत्रं व्याप्तिबोधाय कलास्थानेषु पञ्चसु ॥८३.०३४ टिप्पणी १ ह्रीं त्रिभुवनाधिपानामिति ख, चिह्नितपुस्तकपाठः २ पदानामूनविंशतिमिति ग, चिह्नितपुस्तकपाठः ३ आदौ सतत्त्वभावेनेति ग, चिह्नितपुस्तकपाठः ४ ओं हां हौं हौं इति ग, चिह्नितपुस्तकपाठः पृष्ठ २५९ सङ्गृह्य कुङ्कुमाज्येन(१) तत्र साङ्गं शिवं यजेत् ।८३.०३५ हूम्फडन्तैः कलामन्त्रैर्भित्त्वा पाशाननुक्रमात् ॥८३.०३५ नमोऽन्तैश्च प्रविश्यान्तः कुर्याद्ग्रहणबन्धने ।८३.०३६ ओं हूं हां हौं हां हूं फट्शान्त्यतीतकलां गृह्णामि बध्नामि चेत्यादिमन्त्रैः कलानां ग्रहणबन्धनादिप्रयोगः पाशादीनाञ्च स्वीकारो ग्रहणं बन्धनं पुनः ॥८३.०३६ पुरुषं प्रति निःशेषव्यापारप्रतिपत्तये ।८३.०३७ उपवेश्याथ तत्सूत्रं शिष्यस्कन्धे निवेशयेत् ॥८३.०३७ विस्तृताघप्रमोषाय शतं मूलेन होमयेत् ।८३.०३८ शरावसम्पुटे पुंसः स्त्रियाश्च प्रणितोदरे ॥८३.०३८ हृदस्त्रसम्पुटं सूत्रं विधायाभ्यर्चयेद्धृदा(२) ।८३.०३९ सूत्रं शिवेन साङ्गेन कृत्वा सम्पातशोधितं ॥८३.०३९ निदध्यात्कलशस्याधो रक्षां विज्ञापयेदिति ।८३.०४० शिष्यं पुष्पं करे दत्वा सम्पूज्य कलशादिकं ॥८३.०४० प्रणमय्य वहिर्यायाद्यागमन्दिरमध्यतः ।८३.०४१ मण्डलत्रितयं कृत्वा मुमुक्ष्वनुत्तराननान् ॥८३.०४१ भुक्तये पूर्ववक्त्रांश्च शिष्यांस्तत्र निवेशयेत् ।८३.०४२ प्रथमे पञ्चगव्यस्य प्राशयेच्चुल्लकत्रयं ॥८३.०४२ पाणिना कुशयुक्तेन अर्चितानन्तरान्तरं ।८३.०४३ चरुन्ततस्तृतीये तु ग्रासत्रितयसम्मितं ॥८३.०४३ अष्टग्रासप्रमाणं वा दशनस्पर्शवर्जितं ।८३.०४४ पालाशपुटके मुक्तौ भुक्तौ पिप्पलपत्रके ॥८३.०४४ टिप्पणी १ कुम्भमाज्येनेति ग, चिह्नितपुस्तकपाठः २ निदध्यान् पूर्ववद्धृदा इति ङ, चिह्नितपुस्तकपाठः पृष्ठ २६० हृदा सम्भोजनं दत्वा पूतैराचामयेज्जलैः ।८३.०४५ दन्तकाष्ठं हृदा कृत्वा प्रक्षिपेच्छोभने शुभं ॥८३.०४५ न्यूनादिदोषमोषाय मूलेनाष्टोत्तरं शतं ।८३.०४६ विधाय स्थिण्डिलेशाय सर्वकर्मसमर्पणं ॥८३.०४६ पूजाविसर्जनञ्चास्य चण्डेशस्य च पूजनं ।८३.०४७ निर्माल्यमपनीयाथ शेषमग्नौ यजेच्चरोः ॥८३.०४७ कलशं लोकपलांश्च पूजयित्वा विसृज्य च ।८३.०४८ विसृजेद्गणमग्निञ्च रक्षितं यदि वाह्यतः ॥८३.०४८ वाह्यतो लोकपालानां दत्वा सङ्क्षेपतो बलिं ।८३.०४९ भस्मना शुद्धतोयैर्वा स्नात्वा या गालयं विशेत्(१) ॥८३.०४९ गृहस्थान् दर्भशय्यायां पूर्वशीर्षान् सुरक्षितान् ।८३.०५० हृदा सद्भस्मशय्यायां यतीन् दक्षिणमस्तकान् ॥८३.०५० शिखाबद्धसिखानस्त्रसप्तमाणवकान्वितान् ।८३.०५१ विज्ञाय स्नापयेच्छिष्यांस्ततो यायात्पुनर्वहिः ॥८३.०५१ ओं हिलि हिलि त्रिशूलपाणये स्वाहा पञ्चगव्यञ्चरुं प्राश्य गृहीत्वा दन्तधावनं ।८३.०५२ समाचम्य शिवं ध्यात्वा शय्यामास्थाय पावनीं(२) ॥८३.०५२ दीक्षागतङ्क्रियाकाण्डं संस्मरन् संविशेद्गुरुः ।८३.०५३ इति सङ्क्षेपतः प्रोक्तो विधिर्दीक्षाधिवासने ॥८३.०५३ इत्यादिमाहापुराणे आग्नेये निर्वाणदीक्षायामधिवासनं नाम त्र्यशीतितमोऽध्यायः ॥ टिप्पणी १ यागालयं व्रजेदिति ङ, चिह्नितपुस्तकपाठः २ विद्यामास्थाय पावनीमिति ङ, चिह्नितपुस्तकपाठः पृष्ठ २६१ अध्याय {८४} ॒श्चतुरशीतितमोऽध्यायः निर्वाणदीक्षाविधानं ईश्वर उवाच अथ प्रातः समुत्थाय कृतस्ननादिको गुरुः ।८४.००१ दध्यार्द्रमांसमद्यादेः प्रशस्ताभ्यवहारिता ॥८४.००१ गजाश्वरोहणं स्वप्ने शुभं शुक्लांशुकादिकं(१) ।८४.००२ तैलाभ्यङ्गादिकं हीनं होमो घोरेण शान्तये(२) ॥८४.००२ नित्यकर्मद्वयं कृत्वा प्रविश्य मखमण्डपं ।८४.००३ स्वाचान्तो नित्यवत्कर्म कुर्यान्नैमित्तिके विधौ ॥८४.००३ ततः संशोध्य चात्मानं शिवहस्तं तथात्मनि ।८४.००४ विन्यस्य कुम्भगं प्रार्च्य इन्द्रादीनामनुक्रमात् ॥८४.००४ मण्डले स्थण्डिले वापि प्रकुर्वीत शिवर्चनं ।८४.००५ तर्पणं पूजनं वह्नेः पूर्णान्तं मन्त्रतर्पणं ॥८४.००५ दुःखप्रदोषमोषाय शस्त्रेणाष्टाधिकं शतं ।८४.००६ हुत्वा हूं सम्पुटेनैव विदध्यात्मन्त्रदीपनं ॥८४.००६ अन्तर्बलिविधानञ्च मध्ये स्थण्डिलकुम्भयोः ।८४.००७ कृत्वा शिष्यप्रवेशाय लब्धानुज्ञो वहिर्व्रजेत् ॥८४.००७ कुर्यात्समयवत्तत्र मण्डलारोपणादिकं ।८४.००८ सम्पातहोमं तन्नाडीरूपदर्भकरानुगं ॥८४.००८ तत्सन्निधानाय तिस्त्रो हुत्वा मूलाणुना.अहुतीः ।८४.००९ कुम्भस्थं शिवमभ्यर्च्य पाशसूत्रमुपाहरेत्(३) ॥८४.००९ टिप्पणी १ शुक्लाम्बरादिकमिति ख, चिह्नितपुस्तकपाठः २ अस्मल्लब्धपञ्चपुस्तकेषु दध्यार्द्रमांसमद्यादेरित्यारभ्य होमो घोरेण शान्तये इत्यन्तः पाठः पूर्वेणानन्वित इव प्रतिभाति ३ पाशसूत्रं समाहरेदिति ङ, चिह्नितपुस्तकपाठः पृष्ठ २६२ स्वदक्षिणोर्ध्वकायस्य शिष्यस्याभ्यर्चितस्य च ।८४.०१० तच्छिखायां निबध्नीयात्पादाङ्गुष्ठावलम्बितं ॥८४.०१० तं निवेश्य निवृत्तेस्तु व्याप्तिमालोक्य चेतसा ।८४.०११ ज्ञेयानि भुवनान्यस्यां शतमष्टाधिकं ततः ॥८४.०११ कपालोऽजश्च बुद्धश्च वज्रदेहः प्रमर्दनः(१) ।८४.०१२ विभूतिरव्ययः शास्ता पिनाकी त्रिदशाधिपः ॥८४.०१२ अग्नी रुद्रो हुताशो च पिङ्गलः खादको हरः ।८४.०१३ ज्वलनो दहनो बभ्रुर्भस्मान्तकक्षपान्तकौ ॥८४.०१३ याम्यमृत्युहरो धाता विधाता कार्यरञ्जकः ।८४.०१४ कालो धर्मोऽप्यधर्मश्च संयोक्ता च वियोगकः ॥८४.०१४ नैरृतो मारणो(२) हन्ता क्रूरदृष्टिर्भयानकः ।८४.०१५ ऊर्ध्वांशको विरूपाक्षो धूम्रलोहितदंष्ट्रवान् ॥८४.०१५ बलश्चातिबलश्चैव पाशहस्तो महाबलः ।८४.०१६ श्वेतश्च जयभद्रश्च दीर्घबाहुर्जलान्तकः(३) ॥८४.०१६ वडवास्यश्च भीमश्च दशैते वारुणाः स्मृताः ।८४.०१७ शीघ्रो लघुर्वायुवेगः सूक्ष्मस्तीक्ष्णः क्षपान्तकः ॥८४.०१७ पञ्चान्तकः पञ्चशिखः कपर्दी मेघवाहनः ।८४.०१८ जटामुकुटधारी च नानारत्नधरस्तथा ॥८४.०१८ निधीशो रूपवान् धन्यो सौम्यदेहः प्रसादकृत् ।८४.०१९ प्रकाशोऽप्यथ लक्ष्मीवान् कामरूपो दशोत्तरे ॥८४.०१९ विद्याधरो ज्ञानधरः सर्वज्ञो वेदपारगः ।८४.०२० मातृवृत्तश्च पिङ्गाक्षो भूतपालो बलिप्रियः ॥८४.०२० टिप्पणी १ प्रवर्धन इति ङ, चिह्नितपुस्तकपाठः २ वरुण इति ख, चिह्नितपुस्तकपाठः ३ जनान्तक इति ङ, चिह्नितपुस्तकपाठः पृष्ठ २६३ सर्वविद्याविधता च सुखदुःखहरा दश ।८४.०२१ अनन्तः पालको धीरः(१) पातालाधिपतिस्तथा ॥८४.०२१ वृषो वृषधरो वीर्यो ग्रसनः(२) सर्वतोमुखः ।८४.०२२ लोहितश्चैव विज्ञेया दश रुद्राः फणिस्थिताः ॥८४.०२२ शम्भुर्विभुर्गणाध्यक्षस्त्र्यक्षस्त्रिदशवन्दितः ।८४.०२३ संहारश्च विहारश्च लाभो लिप्सुर्विचक्षणः ॥८४.०२३ अत्ता कुहककालाग्निरुद्रो(३) हाटक एव च ।८४.०२४ कुष्माण्डश्चैव सत्यश्च ब्रह्मा विष्णुश्च सप्तमः ॥८४.०२४ रुद्रश्चाष्टाविमे रुद्राः कटाहाभ्यन्तरे स्थिताः ।८४.०२५ एतेषामेव नामानि भुवनानामपि स्मरेत् ॥८४.०२५ भवोद्भवः सर्वभूतः सर्वभूतसुखप्रदः ।८४.०२६ सर्वसान्निध्यकृद्ब्रह्मविष्णुरुद्रशरार्चितः ॥८४.०२६ संस्तुत पूर्वस्थित ओं साक्षिनों रुद्रान्तक ओं पतङ्ग ओं शब्द ओं सूक्ष्म ओं शिव सर्वसर्वद सर्वसान्निध्यकर ब्रह्मविष्णुरुद्रकर ओं नमः शिवाय ओं नमो नमः(४) अष्टाविंशति पादानि व्योमव्यापि मनो गुह ।८४.०२७ सद्योहृदस्त्रनेत्राणि मन्त्रवर्णाष्टको मतः ॥८४.०२७ टिप्पणी १ घोर इति ङ, चिह्नितपुस्तकपाठः २ वीर्याप्रसन्न इति ख, ग, चिह्नितपुस्तकपाठः ३ अथ शुक्लककालाग्निरुद्र इति ख, चिह्नितपुस्तकपाठः ४ अनर्चित संस्तुत पूर्वस्थित साक्षिन् तुङ्ग २ पतङ्ग २ ज्ञान २ शब्द सूक्ष्म शिव सर्वद सर्वाध्यक्षकर ब्रह्मविष्णुरुद्र ओं नमः शिवाय ओं नमो नमः ओं नमः शिवाय ओं नमो नमः इति । अनर्चित संस्तुत पूर्वविन्द ओं साक्षिण ओं रुद्रान्तक ओं पतङ्ग ओं ज्ञान ओं शब्द ओं सूक्ष्म ओं शिव ओं सर्व ओं सर्वद ओं सर्वसान्निध्यकर ब्रह्मविष्णु रुद्रकर ओं नमः शिवाय ओं नमो नम इति च, चिह्नितपुस्तकपाठः पृष्ठ २६४ वीजाकारो मकारश्च(१) नाड्याविडापिङ्गलाह्वये ।८४.०२८ प्राणापानावुभौ वायू घ्राणोपस्थौ तथेन्द्रिये ॥८४.०२८ गन्धस्तु विषयः प्रोक्तो गन्धादिगुणपञ्चके ।८४.०२९ पार्थिवं मण्डलं पीतं वज्राङ्गं चतुरस्रकं ॥८४.०२९ विस्तारो योजनानान्तु कोटिरस्य शताहता ।८४.०३० अत्रैवान्तर्गता ज्ञेया योनयोऽपि चतुर्दश ॥८४.०३० प्रथमा सर्वदेवानां मन्वाद्या देवयोनयः ।८४.०३१ मृगपक्षी च पशवश्चतुर्धा तु सरीसृपाः ॥८४.०३१ स्थावरं पञ्चमं सर्वं योनिः षष्ठी अमानुषी(२) ।८४.०३२ पैशाचं राक्षसं याक्षं गान्धर्वं चैन्द्रमेव च ॥८४.०३२ सौम्यं प्राणेश्वरं(३) ब्राह्ममष्टमं परिकीर्तितं ।८४.०३३ अष्टानां पार्थिवन्तत्त्वमधिकारास्पदं मतं ॥८४.०३३ लयस्तु प्रकृतौ बुद्धौ भोगो ब्रह्मा च कारणं ।८४.०३४ ततो जाग्रदवस्थानैः समस्तैर्भुवनादिभिः ॥८४.०३४ निवृत्तिं गर्भितां ध्यात्वा स्वमन्त्रेण नियोज्य च ।८४.०३५ ओं हां ह्रूं हां(४) निवृत्तिकलापाशाय हूं फट्तत ओं हां हां(५) निवृत्तिकलापाशाय स्वाहेत्यनेनाङ्कुशमुद्रया पूरकेणाकृष्य ओं ह्रूं ह्रां ह्रूं(६) निवृत्तिकलापाशाय हूं फडित्यनेन संहारमुद्रया कुम्भकेनाधः[!!!] टिप्पणी १ वीजोङ्कारो मकरश्चेति ग, ङ, चिह्नितपुस्तकपाठः २ योनिः षष्ठी सुमानुषी इति ख, चिह्नितपुस्तकपाठः । योनिः षष्टीषु मानुषी इति ग, ङ, चिह्नितपुस्तकपाठः ३ प्रजेश्वरमिति ङ, चिह्नितपुस्तकपाठः ४ ओं हां हूं हामिति ख, चिह्नितपुस्तकपाठः ५ तत ओं हां हां हामिति ख, चिह्नितपुस्तकपाठः ६ ओं हूं ह्रूं हूमिति ख, चिह्नितपुस्तकपाठः पृष्ठ २६५ स्थानादादाय ओं ओं ह्रां हां(१) निवृत्तिकलापाशाय नम इत्यनेनोद्भवमुद्रया रेचकेन कुम्भे संस्थाप्य ओं हां निवृत्तिकलापाशाय नम इत्यनेनार्घ्यं दत्वा सम्पूज्य विमुखेनैव स्वाहान्तेनै सन्निधानायाहुतित्रयं सन्तर्पणाहुतित्रयं च दत्वा ओं हां ब्रह्मणे नम इति ब्रह्माणमावाह्य सम्पूज्य च स्वाहान्तेन सन्तर्प्य ब्रह्मन् तवाधिकारेऽस्मिन्मुमुक्षुं दोक्ष्ययाम्यहं ॥८४.०३५ भाव्यं त्वयानुकूलेन विधिं विज्ञापयेदिति ।८४.०३६ आवाहयेत्ततो देवीं रक्षां वागीश्वरीं हृदा ॥८४.०३६ इच्छाज्ञानक्रियारूपां षड्विधां ह्येककारणं ।८४.०३७ पूजयेत्तर्पयेद्देवीं प्रकारेणामुना ततः ॥८४.०३७ वागीश्वरीं विनिःशेषयोनिविक्षोभकारणं ।८४.०३८ हृत्सम्पुटार्थवीजादिहूं फडन्तशराणुना ॥८४.०३८ ताडयेद्धृदये तस्य प्रविशेत्स(२) विधानवित् ।८४.०३९ ततः शिष्यस्य चैतन्यं हृदि वह्निकणोपमं ॥८४.०३९ निवृत्तिस्थं युतं पाशैर्ज्येष्ठया विभजेद्यथा ।८४.०४० ओं हां हूं हः हूं फट् ओं हां स्वाहेत्यनेनाथ पूरकेणाङ्कुशमुद्रया ॥८४.०४० तदाकृष्य स्वमन्त्रेण गृहीत्वा.अत्मनि योजयेत् ।८४.०४१ ओं हां ह्रूं हां(३) आत्मने नमः पित्रोर्विभाव्य संयोगं चैतन्यं रेचकेन तत् ॥८४.०४१ ब्रह्मादिकारणत्यागक्रमान्नीत्वा शिवास्पदं ।८४.०४२ टिप्पणी १ ओं हूं ह्रीं हामिति ख, चिह्नितपुस्तकपाठः २ प्रविश्येच्चेति ख, ङ, चिह्नितपुस्तकपाठः ३ ओं हां हां क्षं हामिति ख, चिह्नितपुस्तकपाठः पृष्ठ २६६ गर्भाधानार्थमादाय युगपत्सर्वयोनिषु ॥८४.०४२ क्षिपेद्वागीश्वरीयोनौ वामयोद्भवमुद्रया ।८४.०४३ ओं हां हां हां आत्मने नमः(१) पूजयेदप्यनेनैव तर्पयेदपि पञ्चधा ॥८४.०४३ अन्ययोनिषु सर्वासु देहशुद्धिं हृदा चरेत् ।८४.०४४ नात्र पुंसवनं स्त्र्यादिशरीरस्यापि सम्भवात् ॥८४.०४४ सीमन्तोन्नयनं वापि दैवान्यङ्गानि देहवत् ।८४.०४५ शिरसा जन्म कुर्वीत जुगुप्सन् सर्वदेहिनां ॥८४.०४५ तथैव भावयेदेषामधिकारं शिवाणुना(२) ।८४.०४६ भोगं कवचमन्त्रेण शस्त्रेण विषयात्मना ॥८४.०४६ मोहरूपमभेदश्च लयसज्ञं विभावयेत् ।८४.०४७ शिवेन श्रोतसां शुद्धिं हृदा तत्त्वविशोधनं ॥८४.०४७ पञ्च पञ्चाहुतीः कुर्यात्(३) गर्भाधानादिषु क्रमात् ।८४.०४८ मायया मलकर्मादिपाशबन्धनिवृत्तये ॥८४.०४८ निष्कृत्यैव हृदा पश्चाद्यजेत शतमाहुतीः ।८४.०४९ मलशक्तिनिरोधेन पाशानाञ्च वियोजनं ॥८४.०४९ स्वाहान्तायुधमन्त्रेण पञ्चपञ्चाहुतीर्यजेत् ।८४.०५० मायाद्यन्तस्य पाशस्य सप्तवारास्त्रजप्तया ॥८४.०५० कर्तर्या छेदनं कुर्यात्कल्पशस्त्रेण तद्यथा ।८४.०५१ ओं हूं निवृत्तिकलापाशाय हूं फट् टिप्पणी १ ओं हं हं हां आत्मने नम इति ख, चिह्नितपुस्तकपाठः २ शिखात्मने ख, चिह्नितपुस्तकपाठः ३ पञ्चपञ्चाहुतीर्दद्यादिति ग, ङ, चिह्नितपुस्तकपाठः पृष्ठ २६७ बन्धकत्वञ्च निर्वर्त्य हस्ताभ्याञ्च शराणुना(१) ॥८४.०५१ विसृज्य वर्तुलीकृत्य घृतपूर्णे स्रुवे धरेत् ।८४.०५२ दहेदनुकलास्त्रेण केवलास्त्रेण भस्मसात् ॥८४.०५२ कुर्यात्पञ्चाहुतीर्दत्वा पाशाङ्कुशनिवृत्तये ।८४.०५३ ओं हः अस्त्राय हूं फट् प्रायश्चित्तं ततः कुर्यादस्त्राहुतिभिरष्टभिः ॥८४.०५३ अथावाह्य विधातारं पूजयेत्तर्पयेत्तथा ।८४.०५४ तत ओं हां शब्दस्पर्शशुद्धब्रह्मन् गृहाण स्वाहेत्याहुतित्रयेणाधिकारमस्य समर्पयेत् दग्धनिःशेषपापस्य(२) ब्रह्मन्नस्य पशोस्त्वया ॥८४.०५४ बन्धाय न पुनः स्थेयं शिवाज्ञां श्रावयेदिति ।८४.०५५ ततो विसृज्य धातारं नाड्या दक्षिणया शनैः ॥८४.०५५ संहारमुद्रयात्मानं कुम्भकेन निजात्मना ।८४.०५६ राहुयुक्तैकदेशेन चन्द्रविम्बेन सन्निभं ॥८४.०५६ आदाय योजयेत्सूत्रे रेचकेनोद्भवाख्यया ।८४.०५७ पूजयित्वार्घ्यपात्रस्थतोयविन्दुसुधोपमं ॥८४.०५७ विसृज्य पितरौ दद्याद्वौषडन्तशिवाणुना ।८४.०५८ पूरणाय विधिः पूर्णा निवृत्तिरिति शोधिता ॥८४.०५८ इत्यादिमहापुराणे आग्नेये निर्वाणदीक्षायां निवृत्तिकलाशोधनं नाम चतुरशीतितमोऽध्यायः ॥ टिप्पणी १ शिवात्मनेति ख, चिह्नितपुस्तकपाठः २ दग्धनिःशेषपाशस्य इति ख, ङ, चिह्नितपुस्तकपाठः पृष्ठ २६८ अध्याय {८५} अथ पञ्चाशीतितमोऽध्यायः प्रतिष्ठाकलाशोधनोक्तिः ईश्वर उवाच तत्त्वयोरथ सन्धानं कुर्याच्छुद्धविशुद्धयोः ।८५.००१ ह्रस्वदीर्घप्रयोगेण नादनादान्तसङ्गिना ॥८५.००१ ओं हां ह्रूं हां(१) अप्तेजो वायुराकाशं तन्मात्रेन्द्रियबुद्धयः ।८५.००२ गुणत्रयमहङ्कारश्चतुर्विंशः पुमानिति ॥८५.००२ प्रतिष्ठायां निविष्ठानि तत्त्वान्येतानि भावयेत् ।८५.००३ पञ्चविंशतिसङ्ख्यानि खादियान्ताक्षराणि च ॥८५.००३ पञ्चाशदधिका षष्टिर्भुवनैस्तुल्यसञ्ज्ञिताः ।८५.००४ तावन्त एव रुद्राश्च विज्ञेयास्तत्र तद्यथा ॥८५.००४ अमरेशः प्रभावश्च नेमिषः पुष्करोऽपि च ।८५.००५ तथा पादिश्च दण्डिश्च भावभूतिरथाष्टमः ॥८५.००५ नकुलीशो हरिश्चन्द्रः श्रीशैलो दशमः स्मृतः ।८५.००६ अन्वीशोऽस्रातिकेशश्च(२) महाकालोऽथ मध्यमः ॥८५.००६ केदारो भैरवश्चैव द्वितीयाष्टकमीरितं ।८५.००७ ततो गयाकुरुक्षेत्रखलानादिकनादिके ॥८५.००७ विमलश्चाट्टहासश्च(३) महेन्द्रो भाम एव च ।८५.००८ वस्वापदं रुद्रकोटिरवियुक्तो महावन्तः ॥८५.००८ गोकर्णो भद्रकर्णश्च स्वर्णाक्षः स्थाणुरेव च ।८५.००९ अजेशश्चैव सर्वज्ञो भास्वरः सूदनान्तरः ॥८५.००९ सुबाहुर्मत्तरूपी च विशालो जटिलस्तथा ।८५.०१० टिप्पणी १ ओं हां हूं हूं हामिति ख, चिह्नितपुस्तकपाठः २ अल्पीशो भ्रान्तिकेशश्चेति ङ, चिह्नितपुस्तकपाठः ३ विमलश्चण्डहासश्चेति ङ, चिह्नितपुस्तकपाठः पृष्ठ २६९ रौद्रोऽथ पिङ्गलाक्षश्च कालदंष्ट्री भवेत्ततः ॥८५.०१० विदुरश्चैव घोरश्च प्राजापत्यो हुताशनः ।८५.०११ कामरूपी तथा कालः कर्णोऽप्यथ भयानकः ॥८५.०११ मतङ्गः पिङ्गलश्चैव हरो वै धातृसज्ञकः ।८५.०१२ शङ्कुकर्णो विधानश्च श्रीकण्ठश्चन्द्रशेखरः ॥८५.०१२ सहैतेन च पर्यन्ताः कथ्यन्तेऽथ पदान्यपि ।८५.०१३ व्यापिनों अरूप ओं प्रमथ ओं तेजः ओं ज्योतिः ओं पुरुष ओं अग्ने ओं अधूम ओं अभस्म ओं अनादि ओं नाना ओं धूधू ओं भूः ओं भुवः ओं स्वः अनिधन निधनोद्भव शिव शर्व परमात्मन्महेश्वर महादेव सद्भावेश्वर महातेजः योगाधिपतये मुञ्च प्रथम सर्व सर्वेसर्वेति द्वात्रिंशत्पदानि वीजभावे त्रयो मन्त्रा वामदेवः शिवः शिखा ॥८५.०१३ गान्धारी च सुषुम्णा च नाड्यौ द्वौ मारुतौ तथा ।८५.०१४ समानोदाननामानौ रसनापायुरिन्द्रिये ॥८५.०१४ रसस्तु विषयो रूपशब्दस्पर्शरसा गुणाः ।८५.०१५ मण्डलं वर्तुलं तच्च पुण्डरीकाङ्कितं सितं ॥८५.०१५ स्वप्नावस्थाप्रतिष्ठायां कारणं गरुडध्वजं ।८५.०१६ प्रतिष्ठान्तकृतं सर्वं सञ्चिन्त्य भुवनादिकं ॥८५.०१६ सूत्रं देहे स्वमन्त्रेण प्रविश्यैनां वियोजयेत् ।८५.०१७ ओं हां खीं हां प्रतिष्ठाकलापाशाय ओं फट्स्वाहान्तेनानैनैव पूरकेणाङ्कुशमुद्रया समाकर्षेत्ततः ओं हां ह्रूं ह्रां ह्रूं(१) प्रतिष्ठा कलापाशाय ह्रूं फडित्यनेन संहारमुद्रया कुम्भकेन हृदयादधो नाडी[!!!] टिप्पणी १ ओं ह्रीं ह्रं हां हूं इति ख, चिह्नितपुस्तकपाठः पृष्ठ २७० सूत्रादादाय ओं हां ह्रूं ह्रां हां(१) प्रतिष्ठाकलापाशाय नम इत्यनेनोद्भवमुद्रया रेचकेन कुम्भे समारोपयेतों हां ह्रीं प्रतिष्ठाकलापाशाय नम इत्यनेनार्चयित्वा सम्पूज्य स्वाहान्तेनाहुतीनां त्रयेण सन्निधाय ततः ओं हां विष्णवे नम इति विष्णुमावाह्य सम्पूज्य सन्तर्प्य विष्णो तवाधिकारेऽस्मिन्मुमुक्षुं दीक्षयाम्यहं ॥८५.०१७ भाव्यं त्वयानुकूलेन विष्णुं विज्ञापयेदिति ।८५.०१८ ततो वागीश्वरीं देवीं वागीशमपि पूर्ववत् ॥८५.०१८ आवाह्याभ्यर्च्य सन्तर्प्य शिष्यं वक्षसि ताडयेत् ।८५.०१९ ओं हां हां हं फट्(२) प्रविशेदप्यनेनैव चैतन्यं विभजेत्ततः ॥८५.०१९ शस्त्रेण पाशसंयुक्तं ज्येष्टयाङ्कुशमुद्रया ।८५.०२० ओं हां हं हों ह्रूं फट्(३) स्वाहान्तेन हृदाकृष्य तेनैव पुटितात्मना ॥८५.०२० गृहीत्वा तं नमोन्तेन निजात्मनि नियोजयेत्(४) ।८५.०२१ ओं हां हं हों (५) आत्मने नमः पूर्ववत्पितृसंयोगं भावयित्वोद्भवाख्यया(६) ॥८५.०२१ वामया तदनेनैव देवीगर्भे विनिक्षिपेत् ।८५.०२२ ओं हां हं हां आत्मने नमः देहोत्पत्तौ हृदा ह्येवं शिरसा जन्मना तथा ॥८५.०२२ टिप्पणी १ ओं हूं ह्रां हां इति ख, चिह्नितपुस्तकपाठः २ ओं हां हं हां हः फटिति ख, ङ, चिह्नितपुस्तकद्वयपाठः ३ ओं हां हं हां हूं फटिति ख, चिह्नितपुस्तकपाठः ४ निवेदयेदिति ख, चिह्नितपुस्तकपाठः ५ ओं हां हं हां इति ख, ङ, चिह्नितपुस्तकपाठः ६ भावयित्वा तु दक्षयेति ख, चिह्नितपुस्तकपाठः पृष्ठ २७१ शिखया वाधिकाराय भोगाय कवचाणुना ।८५.०२३ तत्त्वशुद्धौ हृदा ह्येवं गर्भाधानाय पूर्ववत् ॥८५.०२३ शिरसा पाशशैथिल्ये निष्कृत्यैवं शतं जपेत् ।८५.०२४ एवं पाशवियोगेऽपि ततः शास्त्रजप्तया ॥८५.०२४ छिन्द्यादस्त्रेण कर्तर्या कलावीजवता यथा ।८५.०२५ ओं ह्रीं प्रतिष्ठाकलापाशाय हः फट् विसृज्य वर्तुलीकृत्य(१) पाशमन्त्रेण पूर्ववत् ॥८५.०२५ घृतपूर्णे श्रवे दत्वा कलास्त्रेणैव होमयेत् ।८५.०२६ अस्त्रेण जुहुयात्पञ्च पाशाङ्कुरनिवृत्तये ॥८५.०२६ प्रायश्चित्तनिषेधार्थं दद्यादष्टाहुतीस्ततः ।८५.०२७ ओं हः अस्त्राय ह्रूं फट् हृदावाह्य हृषीकेशं कृत्वा पूजतर्पणे ॥८५.०२७ पूर्वोक्तविधिना कुर्यादधिकारसमर्पणं ।८५.०२८ ओं हां रसशुल्कं गृहाण स्वाहा निःशेषदग्धपाशस्य पशोरस्य हरे त्वया ॥८५.०२८ न स्थेयं बन्धकत्वेन शिवाज्ञां श्रावयेदिति ।८५.०२९ ततो विसृज्य गोविन्दं विद्यात्मानं नियोज्य च ॥८५.०२९ बाहुमुक्तार्धदृश्येन चन्द्रविम्बेन सन्निभं ।८५.०३० संहारमुद्रया स्वस्थं(२) विधायोद्भवमुद्रया ॥८५.०३० सूत्रे संयोज्य विन्यस्य तोयविन्दुं यथा पुरा ।८५.०३१ विसृज्य पितरौ वह्नेः पूजितौ कुसुमादिभिः ।८५.०३१ टिप्पणी १ वर्धनीकृत्येति ख, चिह्नितपुस्तकपाठः २ संहारमद्रयात्मस्थं इति ख, चिह्नितपुस्तकपाठः पृष्ठ २७२ दद्यात्पूर्णां विधानेन प्रतिष्ठापि विशोधिता ॥८५.०३१ इत्यादिमहापुराणे आग्नेये निर्वाणदीक्षायां प्रतिष्ठाकलाशोधनं नाम पञ्चाशीतितमोऽध्यायः ॥ अध्याय {८६} अथ षडशीतितमोऽध्यायः विद्याविशोधनविधानं ईश्वर उवाच सन्धानमथ विद्यायाः प्राचीनकलया सह ।८६.००१ कुर्वीत पूर्ववत्कृत्वा(१) तत्त्वं वर्णय तद्यथा ॥८६.००१ ओं हों क्षीमिति सन्धानं राग्श्च शुद्धविद्या च नियतिः कलया सह ।८६.००२ कालो मया तथाविद्या तत्त्वानामिति सप्तकं ॥८६.००२ रलवाः शषसाः वर्णाः षड्विद्यायां प्रकीर्तिताः ।८६.००३ पदानि प्रणवादीनि एकविंशतिसङ्ख्यया ॥८६.००३ ओं नमः शिवाय सर्वप्रभवे हं शिवाय(२) ईशानमूर्धाय तत्पुरुषवक्त्राय अघोरहृदयाय वामदेवगुह्याय(३) सद्योजातमूर्तये(४) ओं नमो नमो गुह्यातिगुह्याय गोप्त्रे अनिधाय सर्वाधिपाय(५) ज्योतिरूपाय प्रमेश्वाराय भवेन ओं व्योम टिप्पणी १ पूर्ववत्धृत्वेति ख, चिह्नितपुस्तकपाठः २ इं शिवाय इति ख, चिह्नितपुस्तकपाठः ३ वचोगुह्याय इति ख, चिह्नितपुस्तकपाठः ४ सद्योजाताय मूर्तये इति ख, चिह्नितपुस्तकपाठः ५ अथ निधाय सर्वाधिपतय इति ख, चिह्नितपुस्तकपाठः पृष्ठ २७३ ओं रुद्राणां भुवनानाञ्च स्वरूपमथ कश्यपे ।८६.००४ प्रथमो वामदेवः स्यात्ततः सर्वभवोद्भवः ॥८६.००४ वज्रदेहः प्रभुर्धाता क्रविक्रमसुप्रभाः ।८६.००५ वटुः(१) प्रशान्तनामा च परमाक्षरसञ्ज्ञकः ॥८६.००५ शिवश्च सशिवो बभ्रुरक्षयः शम्भुरेव च ।८६.००६ अदृष्टरूपनामानौ तथान्यो रूपवर्धनः ॥८६.००६ मनोन्मनो महावीर्यश्चित्राङ्गस्तदनन्तरं ।८६.००७ कल्याण इति विज्ञेयाः पञ्चविंशतिसङ्ख्यया ॥८६.००७ मन्त्रो घोरामरौ वीजे नाड्यौ द्वे तत्र ते यथा ।८६.००८ पूषा च हस्तिजिह्वा च व्याननागौ प्रभञ्जनौ ॥८६.००८ विषयो रूपमेवैकमिन्द्रिये पादचक्षुषी ।८६.००९ शब्दः स्पर्शश्च रूपञ्च त्रय एते गुणाः स्मृताः ॥८६.००९ अवस्थात्र षुप्तिश्च रुद्रो देवस्तु कारणं ।८६.०१० विद्यामध्यगतं सर्वं भावयेद्भवनादिकं ॥८६.०१० ताडनं छेदनं तत्र प्रवेशञ्चापि योजनं ।८६.०११ आकृष्य ग्रहणं कुर्याद्विद्यया हृत्प्रदेशतः ॥८६.०११ आत्मन्यारोप्य सङ्गृह्य कलां कुण्डे निवेशयेत् ।८६.०१२ रुद्रं कारणमावाह्य विज्ञाप्य च शिशुं प्रति ॥८६.०१२ पित्रोरावहनं कृत्वा(२) हृदये ताडयेच्छिशुं ।८६.०१३ प्रविश्य पूर्वमन्त्रेण तदात्मनि नियोजयेत् ॥८६.०१३ आकृष्यादाय पूर्वोक्तविधिना.अत्मनि योजयेत् ।८६.०१४ वामया योजयेत्योनौ गृहीत्वा द्वादशान्ततः ॥८६.०१४ टिप्पणी १ बुद्ध इति घ, ङ, चिह्नितपुस्तकपाठः २ आवाहनं कुर्यादिति ग, घ, चिह्नितपुस्तकपाठः पृष्ठ २७४ कुर्वीत देहसम्पत्तिं जन्माधिकारमेव च ।८६.०१५ भोगं लयन्तथा श्रोतःशुद्धितत्त्वविशोधनं ॥८६.०१५ निःशेषमलकर्मादिपाशबन्धनिवृत्तये ।८६.०१६ निष्कृत्यैव विधानेन यजेत शतमाहुतीः ॥८६.०१६ अस्त्रेण पाशशैथिल्यं मलशक्तिं तिरोहितां ।८६.०१७ छेदनं मर्दनं तेषां वर्तुलीकरणं तथा(१) ॥८६.०१७ दाहं तदक्षराभावं प्रायश्चित्तमथोदितं ।८६.०१८ रुद्राण्यावाहनं पूजा रूपगन्धसमर्पणं ॥८६.०१८ ओं ह्रीं रूपगन्धौ शुल्कं रुद्र गृहाण स्वाहा संश्राव्य शाम्भवीमाज्ञां रुद्रं विसृज्य कारणं ।८६.०१९ विधायात्मनि चैतन्यं पाशसूत्रे निवेशयेत् ॥८६.०१९ विन्दुं शिरसि विन्यस्य विसृजेत्पितरौ ततः ।८६.०२० दद्यात्पूर्णां विधानेन समस्तविधिपूरणीं ॥८६.०२० पूर्वोक्तविधिना कार्यं विद्यायां ताडनादिकं ।८६.०२१ स्ववीजन्तु विशेषः स्यादिति विद्या विशोधिता ॥८६.०२१ इत्यादिमहापुराणे आग्नेये निर्वाणदीक्षायां विद्याविशोधनं नाम षडशीतितमोऽध्यायः ॥ अध्याय {८७} अथ सप्ताशीतितमोऽध्यायः शान्तिशोधनकथनं ईश्वर उवाच सन्दध्यादधुना विद्यां शान्त्या सार्धं यथाविधि ।८७.००१ शान्तौ तत्त्वद्वयं लीनं भावेश्वरसदाशिवौ ॥८७.००१ टिप्पणी १ छेदनं भेदनं तेषां बहुलीकरणन्तथा इति ग, चिह्नितपुस्तकपाठः पृष्ठ २७५ हकारश्च क्षकारश्च द्वौ वर्णौ परिकीर्तितौ ।८७.००२ रुद्राः समाननामानो भुवनैः सह तद्यथा ॥८७.००२ प्रभवः समयः क्षुद्रो विमलः शिव इत्यपि ।८७.००३ घनौ निरञ्जनाकारौ स्वशिवौ दीप्तिकारणौ ॥८७.००३ त्रिदशेश्वरनामा च त्रिदशः कालसज्ज्ञकः ।८७.००४ सूक्ष्माम्बुजेश्वरश्चेति(१) रुद्राः शान्तौ प्रतिष्ठिताः ॥८७.००४ व्योमव्यापिने व्योमव्याप्यरूपाय(२) सर्वव्यापिने शिवाय अनन्ताय अनाथाय अनाश्रिताय ध्रुवाय शाश्वताय योगपीठसंस्थिताय नित्ययोगिने ध्यानाहारायेति(३) द्वादशपादानि पुरुषः कवचौ मन्त्रौ वीजे विन्दूपकारकौ ।८७.००५ अलम्बुषायसानाड्यौ वायू कृकरकर्मकौ ॥८७.००५ इन्द्रिये त्वक्करावस्या स्पर्शस्तु विषयो मतः ।८७.००६ गुणौ स्पर्शनिनादौ द्वावेकः कारणमीश्वरः ॥८७.००६ तुर्म्यावस्थेति शान्तिस्थं सम्भाव्य भुवनादिकं ।८७.००७ विदध्यात्ताडनं भेदं प्रवेशञ्च वियोजनं ॥८७.००७ आकृष्य ग्रहणं कुर्याच्छान्तेर्वदनसूत्रतः ।८७.००८ आत्मन्यारोप्य सङ्गृह्य कलां कुण्डे निवेशयेत् ॥८७.००८ ईशं तवाधिकारेऽस्मिन्मुमुक्षुं दीक्षयाम्यहं ।८७.००९ भव्यं त्वयानुकूलेन(४) कुर्यात्विज्ञापनामिति ॥८७.००९ आवाहनादिकं पित्रोः शिष्यस्य ताडनादिकं ।८७.०१० टिप्पणी १ सूक्ष्मासूक्ष्मेश्वरश्चैव इति ग, चिह्नितपुस्तकपाठः २ व्योमव्यापकरूपाय इति ख, चिह्नितपुस्तकपाठः । व्योमरूपायेति ग, चिह्नितपुस्तकपाठः ३ ध्यायपरायेति ख, चिह्नितपुस्तकपाठः । व्यानाहारायेति ग, चिह्नितपुस्तकपाठः ४ भाव्यं त्वया च शुद्धेन इति ग, ङ, चिह्नितपुस्तकपाठः पृष्ठ २७६ विधायादाय चैतन्यं विधिना.अत्मनि योजयेत् ॥८७.०१० पूर्ववत्पितृसंयोगं भावयित्वोद्भवाख्यया ।८७.०११ हृत्सम्पुटात्मवीजेन देवीगर्भे नियोजयेत् ॥८७.०११ देहोत्पत्तौ हृदा पञ्च शिरसा जन्महेतवे ।८७.०१२ शिखया वाधिकाराय भोगाय कवचाणुना ॥८७.०१२ लयाय शस्त्रमन्त्रेण श्रोतःशुद्धौ शिवेन च ।८७.०१३ तत्त्वशुद्धौ हृदा ह्येवं गर्भाधानादि पूर्ववत् ॥८७.०१३ वर्मणा पाशशैथिल्यं निष्कृत्यैवं शतं जपेत् ।८७.०१४ मलशक्तितिरोधने शस्त्रेणाहुतिपञ्चकं ॥८७.०१४ एवं पाशवियोगेऽपि(१) ततः सप्तास्त्रजप्तया ।८७.०१५ छिन्द्यादस्त्रेण कर्तर्या पाशान्वीजवता यथा ॥८७.०१५ ओं हौं(२) शान्तिकलापाशाय हः हूं फट् विसृज्य वर्तुलीकृत्य पाशमन्त्रेण पूर्ववत् ।८७.०१६ घृतपूर्णे श्रुवे दत्वा कलास्त्रेणैव होमयेत् ॥८७.०१६ अस्त्रेण जुहुयात्पञ्च पाशाङ्कुशनिवृत्तये ।८७.०१७ प्रायश्चित्तनिषेधाय दद्यादष्टाहुतीरथ ॥८७.०१७ ओं हः अस्त्राय हूं फट् हृदेश्वरं समावाह्य कृत्वा पूजनतर्पणे ।८७.०१८ विदधीत विधानेन तस्मै शुल्कसमर्पणं ॥८७.०१८ ओं हां ईश्वर बुद्ध्यहङ्कारौ शुल्कं गृहाण स्वाहा निःशेषदग्धपाशस्य पशोरस्येश्वर त्वया ।८७.०१९ न स्थेयं बन्धकत्वेन शिवाज्ञां श्रावयेदिति ॥८७.०१९ टिप्पणी १ एकं पाशवियोगार्थमिति ग, घ, चिह्नितपुस्तकपाठः २ ओं ह्यैमिति क, ङ, चिह्नितपुस्तकपाठः । ओं ओमिति ग, चिह्नितपुस्तकपाठः । ओं यैमिति घ, चिह्नितपुस्तकपाठः पृष्ठ २७७ विसृजेदीश्वरन्देवं रौद्रात्मानं नियोजयेत् ।८७.०२० ईषच्चन्द्रमिवात्मानं विधिना.अत्मनि योजयेत् ॥८७.०२० सूत्रे संयोजयेदेनं शुद्धयोद्भवमुद्रया ।८७.०२१ दद्यात्मूलेन शिष्यस्य शिरस्यमृतविन्दुकं ॥८७.०२१ विसृज्य पितरौ वह्नेः पूजितौ कुसुमादिभिः ।८७.०२२ दद्यात्पूर्णां विधानज्ञो निःशेषविधिपूरणीं ॥८७.०२२ अस्यामपि विधातव्यं पूर्ववत्ताडनादिअकं ।८७.०२३ स्ववीजन्तु विशेषः स्याच्छुद्धिः शान्तेरपीडिता ॥८७.०२३ इत्यादिमहापुराणे आग्नेये निर्वाणदीक्षायां शान्तिशोधनं नाम सप्तशीतितमोऽध्यायः ॥ अध्याय {८८} ॒शथाष्टाशीतितमोऽध्यायः निर्वाणदीक्षाकथनं ईश्वर उवाच सन्धानं शान्त्यतीतायाः शान्त्या सार्धं विशुद्धया ।८८.००१ कुर्वीत पूर्ववत्तत्र तत्त्ववर्णादि तद्यथा ॥८८.००१ ओं हीं क्षौं हौं हां इति सन्धानानि उभौ शक्तिशिवौ तत्त्वे भुवनाष्टकसिद्धिकं ।८८.००२ दीपकं रोचिकञ्चैव मोचकं चोर्ध्वगामि च ॥८८.००२ व्योमरूपमनाथञ्च स्यादनाश्रितनष्टमं ।८८.००३ ओङ्कारपदमीशाने मन्त्रो वर्णाश्च षोडश ॥८८.००३ अकारादिविसर्गान्ता वीजेन देहकारकौ ।८८.००४ कुहूश्च शङ्खिनी नाड्यौ देवदत्तधनञ्जयौ ॥८८.००४ मरुतौ स्पर्शनं श्रोत्रं इन्द्रिये विषयो नभः ।८८.००५ पृष्ठ २७८ शब्दो गुणोऽस्यावस्था तु तुर्यातीता तु पञ्चमी ॥८८.००५ हेतुः सदाशिवो देव इति तत्त्वादिसञ्चयं ।८८.००६ सञ्चिन्त्य शान्त्यतीताख्यं विदध्यात्ताडनादिकं ॥८८.००६ कलापाशं समाताड्य फडन्तेन विभिद्य च ।८८.००७ प्रविश्यान्तर्नमोऽन्तेन फडन्तेन वियोजयेत् ॥८८.००७ शिखाहृत्सम्पुटीभूतं स्वाहान्तं सृणिमुद्रया ।८८.००८ पूरकेण समाकृष्य पाशं मस्तकसूत्रतः ॥८८.००८ कुम्भकेन समादाय रेचकेनोद्भवाख्यया ।८८.००९ हृत्सम्पुटनमोऽन्तेन वह्निं कुण्डे निवेशयेत् ॥८८.००९ अस्याः पूजादिकं सर्वं निवृत्तेरिव साधयेत् ।८८.०१० सदाशिवं समावाह्य पूजयित्वा प्रतर्प्य च ॥८८.०१० सदा ख्यातेऽधिकारेऽस्मिन्मुमुक्षुं दीक्षयाम्यहं ।८८.०११ भाव्यं त्वयानुकूलेन भक्त्या विज्ञापयेदिति ॥८८.०११ पित्रोरावाहनं पूजां कृत्वा तर्पणसन्निधी ।८८.०१२ हृत्सम्पुटात्मवीजेन शिष्यं वक्षसि ताडयेत् ॥८८.०१२ ओं हां हूं हं फट् प्रविश्य चाप्यनेनैव चैतन्यं विभजेत्ततः ।८८.०१३ शस्त्रेण पाशसंयुक्तं ज्येष्ठयाङ्कुशमुद्रया ॥८८.०१३ ओं हां हूं हं फट्(१) स्वाहान्तेन तदाकृष्य तेनैव पुटितात्मना ।८८.०१४ गृहीत्वा तन्नमोऽन्तेन निजात्मनि नियोजयेत् ॥८८.०१४ ओं हां हं हीं आत्मने नमः(२) टिप्पणी १ ओं हां हुं हः फटिति ख, चिह्नितपुस्तकपाठः २ ओं हां हं ह्रीमात्मने नम इति ख, चिह्नितपुस्तकपाठः पृष्ठ २७९ पूर्ववत्पितृसंयोगं भावयित्वोद्भवाख्यया ।८८.०१५ वामया तदनेनैव(१) देव्या गर्भे नियोजयेत् ॥८८.०१५ गर्भाधानादिकं सर्वं पूर्वोक्तविधिना चरेत् ।८८.०१६ मूलेन पाशशैथिल्ये निष्कृत्यैव शतं जपेत् ॥८८.०१६ मलशक्तितिरोधाने पाशानाञ्च वियोजने ।८८.०१७ पञ्चपञ्चाहुतीर्दद्यादायुधेन यथा पुरा ॥८८.०१७ पाशानायुधमन्त्रेण सप्रवाराभिजप्तया ।८८.०१८ छिन्द्यादस्त्रेण कर्तर्या कलावीजयुजा यथा ॥८८.०१८ ओं हां शान्त्यतीतकलापाशाय हः हूं फट् विसृज्य वर्तुलीकृत्य पाशानस्त्रेण पूर्ववत् ।८८.०१९ घृतपूर्णे श्रुवे दत्वा कलास्त्रेणैव होमयेत् ॥८८.०१९ अस्त्रेण जुहुयात्पज्च पाशाङ्कुशनिवृत्तये ।८८.०२० प्रायश्चित्तनिषेधार्थं दद्यादष्टाहुतीस्ततः ॥८८.०२० सदाशिवं हृदावाह्य कृत्वा पूजनतर्पणे ।८८.०२१ पूर्वोक्तविधिना कुर्यादधिकारसमर्पणं ॥८८.०२१ ओं हां सदाशिव मनोविन्दु शुल्कं गृहाण स्वाहा निःशेषदग्धपाशस्य पशोरस्य सदाशिव ।८८.०२२ बन्धाय न त्वया स्थेयं शिवाज्ञां श्रावयेदिति ॥८८.०२२ मूलेन जुहुयात्पूर्णां विसृजेत्तु सदाशिवं ।८८.०२३ ततो विशुद्धमात्मानं शरच्चन्द्रमिवोदितं ॥८८.०२३ संहारमुद्रया रौद्र्या संयोज्य गुरुरात्मनि ।८८.०२४ कुर्वीत शिष्यदेहस्थमुद्धृत्योद्भवमुद्रया ॥८८.०२४ दद्यादाप्यायनायास्य मस्तकेऽर्घ्याम्बुविन्दुकं ।८८.०२५ क्षमयित्वा महाभक्त्या पितरौ विसृजेत्तथा ॥८८.०२५ टिप्पणी १ वामया हृदयेनैवेति ग, चिह्नितपुस्तकपाठः पृष्ठ २८० खेदितौ शिष्यदीक्षायै यन्मया पितरौ युवां ।८८.०२६ कारुण्यनान्मोक्षयित्वा तद्व्रज त्वं स्थानमात्मनः ॥८८.०२६ शिखामन्त्रितकर्तर्या बोधशक्तिस्वरूपिणीं ।८८.०२७ शिखां छिद्याच्छिवास्त्रेण शिष्यस्य चतुरङ्गुलां ॥८८.०२७ ओं क्लीं शिखायै हूं फट्(१) ओं हः अस्त्राय हूं फट् स्रुचि तां घृतपूर्णायां गोविड्गोलकमध्यगां(२) ।८८.०२८ संविधायास्त्रमन्त्रेण हूं फडन्तेन होमयेत् ॥८८.०२८ ओं हौं हः अस्त्राय हूं फट् प्रक्षाल्य स्रुक्स्रुवौ शिष्यं संस्नाप्याचम्य च स्वयं ।८८.०२९ योजनिकास्थानमात्मानं शस्त्रमन्त्रेण ताडयेत् ॥८८.०२९ वियोज्याकृष्य सम्पूज्य(३) पूर्ववद्द्वादशान्ततः ।८८.०३० आत्मीयहृदयाम्भोजकर्णिकायां निवेशयेत् ॥८८.०३० पूरितं श्रुवमाज्येन विहिताधोमुखश्रुचा ।८८.०३१ नित्योक्तविधिना.अदाय शङ्खसन्निभमुद्रया ॥८८.०३१ प्रसारितशिरोग्रीवो नादोच्चारानुसारतः ।८८.०३२ समदृष्टिशिवश्चान्तः परभावसमन्वितः ॥८८.०३२ कुम्भमण्डलवह्निभ्यः(४) शिष्यादपि निजात्मनः ।८८.०३३ गृहीत्वा षड्विधविधानं श्रुगग्रे प्राणनाडिकं ॥८८.०३३ सञ्चिन्त्य विन्दुवद्ध्यात्वा क्रमशः सप्तधा यथा ।८८.०३४ प्रथमं प्राणसंयोगस्वरूपमपरन्ततः ॥८८.०३४ टिप्पणी १ ओं हूं शिखायै हूं फटिति ख, ङ, चिह्नितपुस्तकपाठः । ओं ह्रीं शिखायै ह्रं फडिति ग, चिह्नितपुस्तकपाठः २ गोविन्दलोकमध्यगामिति ख, चिह्नितपुस्तकपाठः ३ वियोज्याकृष्य सङ्गृह्येति ख, ङ, चिह्नितपुस्तकपाठः ४ कुण्डमण्डलवह्निभ्य इति ख, चिह्नितपुस्तकपाठः पृष्ठ २८१ हृदयादिक्रमोच्चारविसृष्टं मन्त्रसञ्ज्ञकं ।८८.०३५ पूरकं कुम्भकं कृत्वा व्यादाय वदनं मनाक् ॥८८.०३५ सुषुम्णानुगतं नादस्वरूपन्तु तृतीयकं ।८८.०३६ सप्तमे कारणे त्यागात्प्रशान्तविखरं लयः ॥८८.०३६ शक्तिनादोर्ध्वसञ्चारस्तच्छक्तिविखरं मतं ।८८.०३७ प्राणस्य निखिलस्यापि शक्तिप्रमेयवर्जितं ॥८८.०३७ तत्कालविखरं षष्ठं शक्त्यतीतञ्च सप्तमं ।८८.०३८ तदेतद्योजनास्थानं विखरन्तत्त्वसञ्ज्ञकं ॥८८.०३८ पूरकं कुम्भकं कृत्वा व्यादाय वदनं मनाक् ।८८.०३९ शनैरुदीरयन्मूलं कृत्वा शिष्यात्मनो लयं ॥८८.०३९ हकारे तडिदाकारे षडध्वजप्राणरूपिणि ।८८.०४० उकारं परतो नाभेर्वितस्तिं व्याप्य संस्थितं ॥८८.०४० ततः परं मकारन्तु हृदयाच्चतुरङ्गुलं ।८८.०४१ ओङ्कारं वाचकं विष्णोस्ततोऽष्टाङ्गुलकण्ठकं ॥८८.०४१ चतुरङ्गुलतालुस्थं मकारं रुद्रवाचकं ।८८.०४२ तद्वल्ललाटमध्यस्थं विन्दुमीश्वरवाचकं ॥८८.०४२ नादं सदाशिवं देवं ब्रह्मरन्ध्रावसानकं ।८८.०४३ शक्तिं च ब्रह्मरन्ध्रस्थां त्यजन्नित्यमनुक्रमात् ॥८८.०४३ दिव्यं पिपीलिकास्पर्शं तस्मिन्नेवानुभूय च ।८८.०४४ द्वादशान्ते परे तत्त्वे परमानन्दलक्षणे ॥८८.०४४ भावशून्ये मनोऽतीते शिवे नित्यगुणोदये ।८८.०४५ विलीय मानसे तस्मिन् शिष्यात्मानं विभावयेत् ॥८८.०४५ विमुञ्चन् सर्पिषो धारां ज्वालान्तेऽपि परे शिवे ।८८.०४६ योजनिकास्थिरत्वाय वौषडन्तशिवाणुना(१) ॥८८.०४६ टिप्पणी १ वौषडन्तशिवात्मनेति ख, चिह्नितपुस्तकपाठः पृष्ठ २८२ दत्वा पूर्णां विधानेन गुणापदानमचरेत् ।८८.०४७ ओं हां आत्मने(१) सर्वज्ञो भव स्वाहा । ओं हां आत्मने(२) परितृप्तो भव स्वाहा । ओं ह्रूं आत्मने(३) अनादिबोधो भव स्वाहा । ओं हौं आत्मने(४) स्वतन्त्रो भव स्वाहा । ओं हौं आत्मन्(५) अलुप्तशक्तिर्भव स्वाहा । ओं हः आत्मने(६) अनन्तशक्तिर्भव स्वाहा इत्थं षड्गुणमात्मानं गृहीत्वा परमाक्षरात् ॥८८.०४७ विधिना भावनोपेतः शिष्यदेहे नियोजयेत् ।८८.०४८ तीव्राणुशक्तिसम्पातजनितश्रमशान्तये ॥८८.०४८ शिष्यमूर्धनि विन्यस्येदर्घ्यादमृतविन्दुकं ।८८.०४९ प्रणमय्येशकुम्भादीन् शिवाद्दक्षिणमण्डले(७) ॥८८.०४९ सौम्यवक्त्रं व्यवस्थाप्य शिष्यं दक्षिणमात्मनः ।८८.०५० त्वयैवानुगृहीतोऽयं मूर्तिमास्थाय मामकीं ॥८८.०५० देवे वह्नौ गुरौ तस्माद्भक्तिं चाप्यस्य वर्धय(८) ।८८.०५१ इति विज्ञाप्य देवेशं प्रणम्य च गुरुः स्वयं ॥८८.०५१ टिप्पणी १ ओं ह्रीं आत्मन्निति ख, चिह्नितपुस्तकपाठः । ओं हौं आत्मन्निति घ, चिह्नितपुस्तकपाठः २ ओं ह्रीं आत्मने इति ख, ग, चिह्नितपुस्तकपाठः । ओं हीं आत्मन्निति ङ, चिह्नितपुस्तकपाठः ३ ओं ह्रैं आत्मन्निति ख, चिह्नितपुस्तकपाठः । ओं आत्मन्निति ग, घ, चिह्नितपुस्तकपाठः ४ ओं ह्रैं आत्मन्निति ख, चिह्नितपुस्तकपाठः । ओं हुं आत्मन्निति ग, चिह्नितपुस्तकपाठः । ओं हौं आत्मन्निति घ, ङ, चिह्नितपुस्तकपाठः ५ ओं हैं आत्मन्निति ख, चिह्नितपुस्तकपाठः ७ शिवदक्षिणमण्डले इति ग, चिह्नितपुस्तकपाठः ८ भक्तिं नाथास्य वर्धयेति ख, ङ, चिह्नितपुस्तकपाठः पृष्ठ २८३ श्रेयस्तवास्त्विति ब्रूयादाशिषं शिष्यमादरात् ।८८.०५२ ततः परमया भक्त्या दत्वा देवेऽष्टपुष्पिकां ।८८.०५२ पुत्रकं शिवकुम्भेन संस्नाप्य विसृजेन्मखं ॥८८.०५२ इत्यादिमहापुराणे आग्नेये निर्वाणदीक्षासमापनं नाम अष्टाशीतितमोऽध्यायः ॥ अध्याय {८९} ॒शथोननवतितमोऽध्यायः एकतत्त्वदीक्षाकथनं ईश्वर उवाच अथैकतात्त्विकी दीक्षा लघुत्वादुपदिश्यते ।८९.००१ सूत्रबन्धादि कुर्वीत यथायोगं निजात्मना ॥८९.००१ कालाग्न्यादिशिवान्तानि तत्त्वानि परभावयेत् ।८९.००२ समतत्त्वे समग्राणि सूत्रे मणिगणानिव ॥८९.००२ आवाह्य शिवतत्त्वादि गर्भाधानादि पूर्ववत् ।८९.००३ मूलेन किन्तु कुर्वीत सर्वशुल्कसमर्पणं ॥८९.००३ प्रददीत ततः पूर्णां तत्त्ववातोपगर्भितां ।८९.००४ एकयैव यया शिष्यो निर्वाणमधिगच्छति ॥८९.००४ योजनायै शिवे चान्यां स्थिरत्वापादनाय च ।८९.००५ दत्वा पूर्णां प्रकुर्वीत शिवकुम्भाभिषेचनं ॥८९.००५ इत्यादिमहपुराणे आग्नेये एकतत्त्वदीक्षाकथनं नाम ऊननवतितमोऽध्यायः पृष्ठ २८४ अध्याय {९०} अथ नवतितमोऽध्यायः अभिषेकादिकथनं ईश्वर उवाच शिवमभ्यर्च्याभिषेकं कुर्याच्छिष्यादिके श्रिये ।९०.००१ कुम्भानीशादिकाष्ठासु क्रमशो नव विन्यसेत् ॥९०.००१ तेषु क्षारोदं क्षीरोदं दध्युदं घृतसागरं ।९०.००२ इक्षुकादम्बरीस्वादुमस्तूदानष्टसागरान्(१) ॥९०.००२ निवेशयेद्यथासङ्ख्यमष्टौ विद्येश्वरानथ ।९०.००३ एकं शिखण्डिनं रुद्रं श्रीकण्ठन्तु द्वितीयकं ॥९०.००३ त्रिमूर्तमेकरुद्राक्षमेकनेत्रं शिवोत्तमं ।९०.००४ सप्तमं सूक्ष्मनामानमनन्तं रुद्रमष्टमं ॥९०.००४ मध्ये शिवं समुद्रञ्च शिवमन्त्रं च विन्यसेत् ।९०.००५ यागालयान् दिगीशस्य रचिते स्नानमण्डपे ॥९०.००५ कुर्यात्करद्वयायामां वेदीमष्टाङ्गुलोच्छ्रितां ।९०.००६ श्रीपर्णाद्यासने तत्र विन्यस्यानन्तमानसं ॥९०.००६ शिष्यं निवेश्य पूर्वास्यं सकलीकृत्य पूजयेत् ।९०.००७ काञ्जिकौदनमृद्भस्मदूर्वागोमयगोलकैः ॥९०.००७ सिद्धार्थदधितोयैश्च कुर्यान्निर्मञ्छनं ततः ।९०.००८ क्षारोदानुक्रमेणाथ हृदा विद्येशशम्बरैः ॥९०.००८ कलसैः स्नापयेच्छिष्यं स्वधाधारणयान्वितं ।९०.००९ परिधाप्य सिते वस्त्रे निवेश्य शिवदक्षिणे ॥९०.००९ पूर्वोदितासने शिष्यं पुनः पूर्ववदर्चयेत् ।९०.०१० उष्णीषं योगपट्टञ्च मुकुटं कर्तरीं घटीं ॥९०.०१० अक्षमालां पुस्तकादि शिवकाद्यधिकारकं ।९०.०११ टिप्पणी १ स्वादुगर्गोदानष्टसागरानिति क, ख, चिह्नितपुस्तकपाठः पृष्ठ २८५ दीक्षाव्याख्याप्रतिष्ठाद्यं ज्ञात्वाद्यप्रभृति त्वया ॥९०.०११ सुपरीक्ष्य(१) विधातव्यमाज्ञां संश्रावयेदिति ।९०.०१२ अभिवाद्य ततः शिष्यं प्रणिपत्य महेश्वरं ॥९०.०१२ विघ्नज्वालापनोदार्थं कुर्याद्विज्ञापनां यथा ।९०.०१३ अभिषेकार्थमादिष्टस्त्वयाहं गुरुमूर्तिना ॥९०.०१३ संहितापारगः सोऽयमभिषिक्तो मया शिव ।९०.०१४ तृप्तये मन्त्रचक्रस्य पञ्चपञ्चाहुतीर्यजेत् ॥९०.०१४ दद्यात्पूर्णां ततः शिष्यं स्थापयेन्निजदक्षिणे ।९०.०१५ शिष्यदक्षिणपाणिस्था अङ्गुष्ठाद्यङ्गुलीः क्रमात् ॥९०.०१५ लाञ्छयेदुपबद्धाय दग्धदर्भाग्रशम्बरैः ।९०.०१६ कुसुमानि करे दत्वा प्रणामं कारयेदमुं ॥९०.०१६ कुम्भेऽनले शिवे स्वस्मिसंस्ततस्कृत्यमाविशेत् ।९०.०१७ अनुग्राह्यास्त्वया शिष्याः शास्त्रेण सुपरीक्षिताः ॥९०.०१७ भूपवन्मानवादीनामभिषेकादभीप्सितं ।९०.०१८ आं श्रां श्रौं पशुं हूं फडिति अस्त्रराजाभिषेकतः ॥९०.०१८ इत्यादिमहापुराणे आग्नेये अभिषेकादिकथनं नाम नवतितमोऽध्यायः ॥ अध्याय {९१} अथैकनवतितमोऽध्यायः विविधमन्त्रादिकथनं ईश्वर उवाच अभिषिक्तः शिवं विष्णुं पूजयेद्भास्करादिकान् ।९१.००१ शङ्खभेर्यादिनिर्घोषैः स्नापयेत्पञ्चगव्यकैः ॥९१.००१ टिप्पणी १ स्वयं वीक्ष्येति ग, चिह्नितपुस्तकपाठः पृष्ठ २८६ यो देवान्देवलोकं स याति स्वकुलमुद्धरन् ।९१.००२ वर्षकोटिसहस्रेषु यत्पापं स्मुपार्जितं ॥९१.००२ घृताभ्यङ्गेन देवानां भस्मीभवति पावके ।९१.००३ आढकेन घृताद्यैश्च देवान् स्नाप्य सुरो भवेत् ॥९१.००३ चन्दनेनानुलिप्याथ गन्धाद्यैः पूजयेत्तथा ।९१.००४ अल्पायासनं स्तुतिभिस्तुता देवास्तु सर्वदा ॥९१.००४ अतीतानागतज्ञानमन्त्रधीभुक्तिमुक्तिदाः ।९१.००५ गृहीत्वा प्रश्नसूक्ष्मार्णे हृते द्वाभ्यां शुभाशुभं ॥९१.००५ त्रिभिर्जीवो मूलधातुश्चतुर्भिर्ब्राह्मणादिधीः ।९१.००६ यञ्चादौ भूततत्त्वादि शेषे चैवं जपादिकं ॥९१.००६ एकत्रिकातित्रिकान्ते पदे द्विपमकान्तके ।९१.००७ अशुभं मध्यमं मध्येष्विन्द्रस्त्रिषु नृपः शुभः ॥९१.००७ सङ्ख्यावृन्दे जीविताब्दं यमोऽब्ददशहा ध्रुवं ।९१.००८ सूर्येभास्येशदुर्गाश्रीविष्णुमन्त्रैर्लिखेत्कजे ॥९१.००८ कठिन्या जप्तया स्पृष्टे गोमूत्राकृतिरेखया ।९१.००९ आरभ्यैकं त्रिकं यावत्त्रिचतुष्कावसानकं ॥९१.००९ मरुद्व्योम मरुद्वीजैश्चतुःषष्टिपदे तथा ।९१.०१० अक्षाणां पतनात्स्पर्शाद्विषमादौ शुभादिकं ॥९१.०१० एकत्रिकादिमारभ्य अन्ते चाष्टत्रिकं तथा ।९१.०११ ध्वजाद्यायाः समा हीना विषमाः शोभनादिदाः(१) ॥९१.०११ आइपल्लवितैः काद्यैः षोडशस्वरपूर्वगैः ।९१.०१२ आद्यैस्तैः सस्वरैः काद्यैस्त्रिपुरानाममन्त्रकाः ॥९१.०१२ ह्रीं वीजाः प्रणवाद्याःस्पुर्नमोऽन्ता यत्र पूजने ।९१.०१३ मन्त्रा विंशतिसाहस्राः शतं षष्ठ्यधिकं ततः ॥९१.०१३ टिप्पणी १ शोभनादिकाः इति ङ, चिह्नितपुस्तकपाठः पृष्ठ २८७ आं ह्रीं मन्त्राः सरस्वत्याश्चण्डिकायास्तथैव च ।९१.०१४ तथा गौर्याश्च दुर्गाया आं श्रीं मन्त्राः श्रियस्तथा ॥९१.०१४ तथाक्षौं क्रौं मन्त्राः सूर्यस्य(१) आं हौं मन्त्राः शिवस्य च ।९१.०१५ आं गं मन्त्रा गणेशस्य आं मन्त्राश्च तथा हरेः ॥९१.०१५ शतार्धैकाधिकैः काद्यैस्तथा षोडशभिः खरैः ।९१.०१६ काद्यैस्तैः सस्वरैसाद्यैः कान्तैर्मन्त्रास्तथाखिलाः ॥९१.०१६ रवीशदेवीविष्णूनां स्वाब्धिदेवेन्द्रवर्तनात् ।९१.०१७ शतत्रयं षष्ट्यधिकं प्रत्येकं मण्डलं क्रमात् ।९१.०१७ अभिषिक्तो जपेद्ध्यायेच्छिष्यादीन् दीक्षयेद्गुरुः ॥९१.०१७ इत्यादिमहापुराणे आग्नेये नानामन्त्रादिकथनं नाम एकनवतितमोऽध्यायः ॥ अध्याय {९२} अथ द्विनवतितमोऽध्यायः प्रतिष्ठाविधिकथनं ईश्वर उवाच प्रतिष्ठां सम्प्रवक्ष्यामि क्रमात्सङ्क्षेपतो गुह ।९२.००१ पीठं शक्तिं शिवो लिङ्गं तद्योगः सा शिवाणुभिः ॥९२.००१ प्रतिष्ठायाः पञ्च भेदास्तेषां रूपं वदामि ते ।९२.००२ यत्र ब्रह्मशिलायोगः सा प्रतिष्ठा विशेषतः ॥९२.००२ स्थापनन्तु यथायोगं पीठ एव निवेशनं ।९२.००३ प्रतिष्ठाभिन्नपीठस्य स्थितस्थापनमुच्यते ॥९२.००३ उत्थापनञ्च सा प्रोक्ता लिङ्गोद्धारपुरःसरा ।९२.००४ यस्यां तु लिङ्गमारोप्य संस्कारः क्रियते बुधैः ॥९२.००४ टिप्पणी १ तथा क्षौ ह्रौ मन्त्राः सूर्यस्येति ग, घ, चिह्नितपुस्तकपाठः पृष्ठ २८८ आथापनं तदुद्दिष्टं द्विधा विष्ण्वादिकस्य च(१) ।९२.००५ आसु सर्वासु चैतन्यं नियुञ्जीत परं शिवम् ॥९२.००५ यदाधारादिभेदेन(२) प्रासादेष्वपि पञ्चधा ।९२.००६ परीक्षमथ मेदिन्याः कुर्यात्प्रासादकाम्यया ॥९२.००६ शुक्लाज्यगन्धा रक्ता च रक्तगन्धा सुगन्धिनी(३) ।९२.००७ पीता कृष्णा सुरागन्धा विप्रादीनां मही क्रमात् ॥९२.००७ पूर्वेशोत्तरसर्वत्र पूर्वा चैषां विशिष्यते(४) ।९२.००८ आखाते हास्तिके यस्याः पूर्णे मृदधिका भवेत् ॥९२.००८ उत्तमान्तां महीं विद्यात्तोयाद्यैर्वा समुक्षितां ।९२.००९ अस्थ्यङ्गारादिभिर्दुष्टामत्यन्तं शोधयेद्गुरुः(५) ॥९२.००९ नगरग्रामदुर्गार्थं गृहप्रासादकारणं(६) ।९२.०१० खननैर्गोकुलावासैः कर्षणैर्वा मुहुर्मुहुः ॥९२.०१० मण्डपे द्वारपूजादि मन्त्रतृप्त्यवसानकं(७) ।९२.०११ कर्म निर्वर्त्याघोरास्त्रं सहस्रं(८) विधिना यजेत् ॥९२.०११ समीकृत्योपलिप्तायां भूमौ संशोधयेद्दिशः ।९२.०१२ स्वर्णदध्यक्षतै रेखाः प्रकुर्वीत(९) प्रदक्षिणं ॥९२.०१२ मध्यादीशानकोष्टस्थे पूर्णकुम्भे(१०) शिवं यजेत् ।९२.०१३ वास्तुमभ्यर्च्य तत्तोयैः सिञ्चेत्कुद्दालकादिकं ॥९२.०१३ टिप्पणी १ उत्थापनश्चेत्यादि, विष्ण्वादिकस्य चेत्येत्यन्तः सार्धैकश्लोकात्मकपाठो ग.. पुस्तके नास्ति २ यथाधाराभिभेदेनेति ग.. ३ रक्तगन्धानुगन्धीति ख.. ४ प्रशस्यते इति घ.. ५ शोधयेत्ध्रुवमिति घ.. ६ नगरग्रामेत्यर्धश्लोको घ. पुस्तके नास्ति ७ मन्त्रदीप्त्यवसानकमिति ग.. । मन्त्रभूम्यवसानकमिति घ.. ८ निर्वर्त्य घोरास्त्रं महास्त्रमिति ग.. ९ रेखां प्रकुर्वीतेति ख.. ,ग.. च १० स्वर्णकुण्डे इति ग.. । स्वर्णकुम्भे इति घ.. , ङ.. , च पृष्ठ २८९ बाह्ये रक्षोगणानिष्ट्वा विधिना दिग्बलं क्षिपेत् ।९२.०१४ भूमिं संसिच्य संस्नाप्य(१) कुद्दालाद्यं(२) प्रपूजयेत् ॥९२.०१४ अन्यं वस्त्रयुगच्छज्ञं कुम्भं स्कन्धे द्विजन्मनः ।९२.०१५ निधाय गीतवाद्यादिब्रह्मगोषसमाकुलं ॥९२.०१५ पूजां कुम्भे समाहृत्य प्राप्ते लग्नेऽग्निकोष्ठके ।९२.०१६ कुद्दालेनाभिषिक्तेन मध्वक्तेन तु खानयेत् ॥९२.०१६ नैरृत्यां क्षेपयेन्मृत्स्नां खाते कुम्भजलं क्षिपेत् ।९२.०१७ पुरस्य पूर्वसीमन्तं(३) नयेद्यावदभीप्सितं ॥९२.०१७ अथ तत्र क्षणं स्थित्वा भ्रामयेत्(४) परितः पुरं ।९२.०१८ सिञ्चन् सीमन्तचिह्नानि यावदीशानगोचरं ॥९२.०१८ अर्घ्यदानमिदं प्रोक्तं तत्र कुम्भपरिब्रमात् ।९२.०१९ इत्थं परिग्रहं भूमेः कुर्वीत तदनन्तरं ॥९२.०१९ कर्करान्तं जलान्तं वा शल्यदोषजिघांसया ।९२.०२० खानयेद्भूः कुमारीं चेद्विधिना शल्यमुद्धरेत् ॥९२.०२० अकचटतपयशहान्मानवश्चेत्प्रश्नाक्षराणि तु(५) ।९२.०२१ अग्नेर्ध्वजादिपातिताः स्वस्थाने शल्यमाख्यान्ति ॥९२.०२१ कर्तुश्चाङ्गविकारेण जानीयात्तत्प्रमाणतः ।९२.०२२ पश्वादीनां प्रवेशेन कीर्तनैर्विरुतैर्दिशः ॥९२.०२२ मातृकामष्टवर्गाढ्यां फलके भुवि वा लिखेत् ।९२.०२३ शल्यज्ञानं वर्गवशात्पूर्वादीशान्ततः(६) क्रमात् ॥९२.०२३ अवर्गे चैव लोहन्तु कवर्गेऽङ्गारमग्नितः ।९२.०२४ टिप्पणी १ भूमिं संसिच्य संस्थाप्येति ग.. , घ.. , ङ.. च २ कुद्दालाख्यमिति ग.. ३ पूर्वमीशान्तमिति ख.. ४ स्रावयेतिति ख.. ५ नव चेत्प्रश्नाक्षराणि भाषन्ते इति ग.. , घ.. च ६ पूर्वादीनां तत इति ख.. पृष्ठ २९० चवर्गे भस्म दक्षे स्याट्टवर्गेऽस्थि च नैरृते ॥९२.०२४ तवर्गे चेष्टका चाप्ये कपालञ्च पवर्गके ।९२.०२५ यवर्गे शवकीतादि शवर्गे लोहमादिशेत् ॥९२.०२५ हवर्गे रजतं तद्वदवर्गाच्चानर्थकरानपि ।९२.०२६ प्रीक्ष्यात्मभिः करापूरैरष्टाङ्गुलमृदन्तरैः ॥९२.०२६ पादोनं खातमापूर्य सजलैर्मुद्गराहतैः(१) ।९२.०२७ लिप्तां समप्लवां तत्र कारयित्वा भुवं गुरुः ॥९२.०२७ सामान्यार्घ्यकरो यायान्मण्डपं वक्ष्यामाणकं ।९२.०२८ तोरणद्वाःपतीनिष्ट्वा प्रत्यग्द्वारेण संविशेत् ॥९२.०२८ कुर्यात्तत्रात्मशुद्ध्यादि कुण्डमण्डपसंस्कृतिं ।९२.०२९ कलसं वर्धनीसक्तं(२) लोकपालशिवार्चनं ॥९२.०२९ अग्नेर्जननपूजादि सर्वं पूर्ववदाचरेत् ।९२.०३० यजमानान्वितो(३) यायाच्छिलानां स्नानमण्डपं ॥९२.०३० शिलाः प्रासादलिङ्गस्य पादधर्मादिसञ्ज्ञकाः ।९२.०३१ अष्टाङ्गुलोच्छ्रिताः शस्ताश्चतुरस्राः करायताः ॥९२.०३१ पाषाणानां शिलाः कार्या इष्टकानां तदर्धतः ।९२.०३२ प्रासादेऽश्मशिलाः शैले इष्टका इष्टकामये ॥९२.०३२ अङ्किता नववक्त्राद्यैः(४) पङ्कजाः पङ्कजाङ्किताः ।९२.०३३ नन्दा भद्रा जया रिक्ता पूर्णाख्या पञ्चमी मता(५) ॥९२.०३३ आसां पद्मो महापद्मः शङ्खोऽथ मकरस्तथा ।९२.०३४ समुद्रश्चेति पञ्चामी निधिकुम्भाः क्रमाधः ॥९२.०३४ नन्दा भद्रा जया पूर्णा अजिता चापराजिता ।९२.०३५ टिप्पणी १ मुशलैर्मुद्गराहतैरिति ङ.. २ वर्धनीयुक्तमिति ग.. , ङ.. च ३ यजमानार्चित इति घ.. ४ नवरुद्राद्यैरिति घ.. ५ पाषाणानामित्यादिः, पञ्चमीर्मता इत्यन्तः श्लोकद्वयात्मकपाठो ग.. पुस्तके नास्ति पृष्ठ २९१ विजया मङ्गलाख्या च धरणी नवमी शिला ॥९२.०३५ सुभद्रश्च विभद्रश्च सुनन्दः पुष्पनन्दकः(१) ।९२.०३६ जयोऽथ विजयश्चैव कुम्भः पूर्णस्तथोत्तरः(२) ॥९२.०३६ नवानान्तु यथासङ्ख्यं निधिकुम्भः पूर्णस्तथोत्तरः(२) ।९२.०३७ आसनं प्रथमं दत्त्वा(३) ताड्योल्लिख्य शराणुना(४)॥९२.०३७ सर्वासामविशेषेण तनुत्रेणावगुण्ठनं(५) ।९२.०३८ मृद्भिर्गोमययोगामूत्रकषायैर्गन्धवारिणा ॥९२.०३८ अस्त्रेण हूं फडन्तेन(६) मलस्नानं समाचरेत् ।९२.०३९ विधिना पञ्चगव्येन स्नानं पञ्चामृतेन च ॥९२.०३९ गन्धतोयान्तरं कुर्यान्निजनामाङ्किताणुना(७) ।९२.०४० फलरत्नसुवर्णानां गोशृङ्गसलिलैस्ततः ॥९२.०४० चन्दनेन समालभ्य(८) वस्त्रैराच्छादयेच्छिलां ।९२.०४१ स्वर्णोत्थमासनं दत्वा नीत्वा यागं प्रदक्षिणं ॥९२.०४१ शय्यायां कुशतल्पे वा हृदयेन निवेशयेत्(९) ।९२.०४२ सम्पूज्य न्यस्य बुद्ध्यादिधरान्तं तत्त्वसञ्चयं ॥९२.०४२ त्रिखण्डव्यापकं तत्त्वत्रयञ्चानुक्रमान्न्यसेत् ।९२.०४३ बुद्ध्यादौ चित्तपर्यन्ते चिन्तातन्मात्रकावधौ(१०) ॥९२.०४३ टिप्पणी १ पुष्पदन्तक इत्ख.. , ग.. , घ.. , ङ.. च २ पूर्वस्तथोत्तर इति घ.. ३ प्रणवं दत्वा इति ख.. ४ शरात्मनेति ख.. , ग.. , च ५ तन्मात्रेणावगुण्ठनमिति ख.. ६ हुं फडन्तेनेति ग.. ७ कुर्याद्द्विजनामाङ्कितात्मनेति ख.. । कुर्यान्निजनामाङ्कितात्मनेति ग.. ८ समालिप्येति ग.. ९ कुशतल्पे वा हॄदयेन विशेषयेतिति ख.. । कुशतल्पे च हृदयेन निवेशयेतिति ग.. १० बुद्ध्यादौ चित्तपर्यन्ते चित्ततन्मात्रकावधौ इति घ.. । सम्पच्य इत्यादिः तन्मात्रकावधावित्यन्तः सार्धैकश्लोकपाठो ग.. पुस्तके नास्ति पृष्ठ २९२ तन्मात्रादौ धरान्ते च शिवविद्यात्मनां स्थितिः ।९२.०४४ तत्त्वानि निजमन्त्रेण तत्त्वेशांश्च हृदार्चयेत् ॥९२.०४४ स्थानेषु पुष्पमालादिचिह्नितेषु यथाक्रमं ।९२.०४५ ओं हूं(१) शिवतत्त्वाय नमः । ओं हूं(२) शिवतत्त्वाधिपतये रुद्राय नमः । ओं हां विद्यातत्त्वाय नमः । ओं हां(३) विद्यातत्त्वाधिपाय(४) विष्णवे नमः । ओं हां आत्मतत्त्वाय नमः । ओं हां आत्मतत्त्वाधिपतये ब्रह्मणे नमः(५) क्षमाग्नियजमानार्कान् जलवातेन्दुखानि च ॥९२.०४५ प्रतितत्त्वं न्यसेदष्टौ मूर्तीः प्रतिशिलां शिलां ।९२.०४६ सर्वं पशुपतिं चोग्रं(६) रुद्रं भवमथेश्वरं(७) ॥९२.०४६ महादेवं च भीमं च मूर्तीशांश्च यथाक्रमात् ।९२.०४७ ओं धरामूर्तये नमः, ओं धराधिपतये नमः, इत्यादिमन्त्रान् लोकपालान् यथासङ्ख्यं निजाणुभिः(८) ॥९२.०४७ विन्यस्य पूजयेत्कुम्भांस्तन्मन्त्रैर्वा निजाणुभिः(९) ।९२.०४८ इन्द्रादीनां तु वीजानि वक्ष्यमाणक्रमेण तु ॥९२.०४८ लूं रूं शूं पूं वूं यूं मूं हूं क्षूमिति(१०) उक्तो नवशिलापक्षः शिला पञ्चपदा तथा ।९२.०४९ टिप्पणी १,२ ओं ह्रं इति ग.. , घ.. च ३ ओं हीं इति घ.. ४ विद्यातत्त्वाधिपतये इति ख.. ५ ओं हूं शिवतत्त्वाधिपतये इत्यादिः, ओं हां आत्मतत्त्वाधिपतये ब्रह्मणे नम इत्यन्तः पाठो ग.. पुस्तके नास्ति ६ पशुपतिं भीममिति घ.. ७ भवमखेश्वरमिति घ.. ८,९ निजात्मभिरिति ख.. , ग.. । विन्यस्येत्यर्धश्लोको ग.. पुस्तके नास्ति १० ओं हूं घूं बूं यूं मूं हं क्षमितीति ग.. । ओं कं सूं पूं शूं ह्रूं क्षमितीति घ.. । लूं रूं शूं पूं वूं चूं मूं हूं क्षूमितीति ख.. पृष्ठ २९३ प्रतितत्त्वं न्यसेन्मूर्तीः सृष्ट्या पञ्च धरादिकाः ॥९२.०४९ ब्रह्मा विष्णुस्तथा रुद्र ईश्वरश्च सदाशिवः ।९२.०५० एते च पञ्च मूर्तीशा यष्टव्यास्तासु(१) पूर्ववत् ॥९२.०५० ओं पृथ्वीमूर्तये नमः । ओं पृथ्वीमूर्त्यधिपतये ब्रह्मणे नमः । इत्यादि मन्त्राः सम्पूज्य कलशान् पञ्च क्रमेण निजनामभिः ।९२.०५१ निरुन्धीत(२) विधानेन न्यासो मध्यशिलाक्रमात् ॥९२.०५१ कुर्यात्प्राकारमन्त्रेण भूतिदर्भैस्ततः ।९२.०५२ कुण्डेषु धारिकां शक्तिं विन्यस्याभ्यर्च्य तर्पयेत् ॥९२.०५२ तत्त्वतत्त्वाधिपान्मूर्तीर्मूर्तीशांश्च(३) घृतादिभिः ।९२.०५३ ततो ब्रह्मांशशुद्ध्यर्थं मूलाङ्गं ब्रह्मभिः क्रमात् ॥९२.०५३ कृत्वा शतादिपूर्णान्तं प्रोक्ष्याः शान्तिजलैः शिलाः(४) ।९२.०५४ पूजयेच्च कुशैः स्पृष्ट्वा प्रतितत्त्वमनुक्रमात् ॥९२.०५४ सांनिध्यमथ सन्धानं कृत्वा शुद्धं(५) पुनर्न्यसेत्(६) ।९२.०५५ एवं भागत्रये कर्म गत्वा गत्वा समाचरेत् ॥९२.०५५ ओं आं ईं आत्मतत्त्वविद्यातत्त्वाभ्यां नमः(७) इति ।९२.०५६ टिप्पणी १ न्यस्तव्य्स्तासु इति ख.. २ निबध्नीतीति ख.. , ग.. , ङ.. च ३ तत्र तत्राधिपान्मूर्तीर्मूर्तीशांश्चेति ङ.. । तन्त्रतत्त्वाधिपान्मूर्तीर्मूर्तीशांस्वेति ख.. ४ प्रोक्ष्य शान्तिजलैः शिलामिति ख.. । प्रोक्ष्य शान्तिजलैः शिला इति ग.. , घ.. च ५ कृत्वा मन्त्रमिति ग.. ६ सान्निध्यमित्यर्थश्लोको ङ.. पुस्तके नास्ति । सान्निध्यमथ सन्धानं इत्यतः परं ह्रस्वदीर्घप्रयोगतः इत्यतः प्राङ्मध्वगपाठो घ.. पुस्तके नास्ति ७ ओं आं हां आत्मतत्त्वविद्यातत्त्वाय नम इति ग.. । ओं आं इं उं विद्यातत्त्वशिवतत्त्वाभ्यां नम इति ड.. । ओं आं इं आत्मविद्यातत्त्वाय नम इति ख.. पृष्ठ २९४ संस्पृशेद्दर्भमूलाद्यैर्ब्रह्माङ्गादित्रयं क्रमात् ।९२.०५६ कुर्यात्तत्त्वानुसन्धानं ह्रस्वदीर्घप्रयोगतः ॥९२.०५६ ओं हां उं(१) विद्यातत्त्वशिवतत्त्वाभ्यां नमः ।९२.०५७ घृतेन मधुना पूर्णांस्ताम्रकुम्भान् सरत्नकान् ।९२.०५७ पञ्चगव्यार्घ्यर्ससिक्तान्(२) लोकपालाधिदैवतान् ॥९२.०५७ पूजयित्वा निजैर्मन्त्रैः सन्निधौ होममाचरेत् ।९२.०५८ शिलानामथ सर्वासां संस्मरेदधिदैवताः ॥९२.०५८ विद्यारूपाः कृतस्नाना हेमवार्णाः शिलाम्बराः ।९२.०५९ न्यूनादिदोषमोषार्थं(३) वास्तुभूमेश्च शुद्धये ।९२.०५९ यजेदस्त्रेण मूर्धान्तमाहुतीनां(४) शतं शतं ॥९२.०५९ इत्यादिमहापुराणे आग्नेये शिलान्यासकथनं नाम द्विनवतितमोऽध्यायः ॥ अध्याय {९३} अथ त्रिनवतितमोऽध्यायः वास्तुपूजादिविधानम् ईश्वर उवाच ततः प्रासादमासूत्र्य वर्तयेद्वास्तुमण्डपं(५) ।९३.००१ कुर्यात्कोष्ठचतुःषष्टिं क्षेत्रे वेदास्रके समे ॥९३.००१ कोणेषु विन्यसेद्वंशौ(६) रज्जवोऽष्टौ विकोणगाः ।९३.००२ टिप्पणी १ ओं इं उं इति घ.. , ङ्. च २ पञ्चगव्येन संसिक्तानिति ग.. ३ न्यूनादिदोषनाशार्थमिति घ.. ४ यजेदस्रेण शुद्ध्यर्थमाहुतीनामिति घ.. ५ वास्तुमण्डलमिति ग. ङ.. । तत इति श्लोकार्धं घ.. पुस्तके नास्ति ६ विन्यसेद्वंशमिति ख.. पृष्ठ २९५ द्विपदाः षट्पदास्तास्तु वास्तुन्तत्रार्चयेद्यथा ॥९३.००२ आकुञ्चितकचं(१) वास्तुमुत्तानमसुराकृतिं(२) ।९३.००३ स्मरेत्पूजासु कुड्यादिनिवेशे उत्तराननं ॥९३.००३ जानुनी कूर्परौ शक्थि दिशि वातहुताशयोः ।९३.००४ पैत्र्यां पादपुटे रौद्र्यां शिरोऽस्य हृदयेऽञ्जलिः ॥९३.००४ अस्य देहे समारूढा देवताः पूजिताः शुभाः ।९३.००५ अष्टौ कोणाधिपास्तत्र कोणार्धेष्वष्टसु स्थिताः(३) ॥९३.००५ षट्पदास्तु मरीच्याद्या दिक्षु पूर्वादिषु क्रमात् ।९३.००६ मध्ये चतुष्पदो ब्रह्मा शेषास्तु पदिकाः(४) स्मृताः ॥९३.००६ समस्तनाडीसंयोगे महामर्मानुजं फलं ।९३.००७ त्रिशूलं स्वस्तिकं वज्रं(५) महास्वस्तिकसम्पुटौ ॥९३.००७ त्रिकुटुं(९) मणिबन्धं च सुविशुद्धं पदं तथा ।९३.००८ इति द्वादश मर्माणि वास्तोर्भित्त्यादिषु त्यजेत् ॥९३.००८ साज्यमक्षतमीशाय पर्जन्यायाम्बुजोदकं ।९३.००९ ददीताथ जयन्ताय पताकां कुङ्कुमोज्ज्वलां(७) ॥९३.००९ रत्नवारि महेन्द्राय रवौ धूम्रं वितानकं ।९३.०१० सत्याय घृतगोधूममाज्यभक्तं भृशाय च ॥९३.०१० विमांसमन्तरीक्षाय शुक्तुन्तेभ्यस्तु पूर्वतः ।९३.०११ मधुक्षीराज्यसम्पूर्णां प्रदद्याद्वह्नये श्रुचं ॥९३.०११ लाजान् पूर्णं सुवर्णाम्बु वितथाय निवेदयेत् ।९३.०१२ टिप्पणी १ आकुञ्चितकरमिति घ.. २ कुर्यादित्यादिः मुत्तानमसुराकृतिमित्यन्तः श्लोकद्वयात्मकपाठो ग.. पुस्तकके नास्ति ३ कोणार्धेषु व्यवस्थिता इति घ.. ४ पादिका इति ख.. ५ मुष्टिकं वक्त्रमिति ख.. ६ त्रिकोष्ठमिति ग.. ७ ददीतेति अर्धश्लोको ग.. पुस्तके नास्ति पृष्ठ २९६ दद्याद्गृहक्षते क्षौद्रं(१) यमराजे पलौदनं(२) ॥९३.०१२ गन्धं गन्धर्वनाथाय जिह्वां भृङ्गाय पक्षिणः ।९३.०१३ मृगाय पद्मपर्णानि(३) याम्यामित्यष्टदेवताः(४) ॥९३.०१३ पित्रे तिलोदकं क्षीरं वृक्षजं दन्तधावनं ।९३.०१४ दौवारिकाय देवाय प्रदद्याद्धेनुमुद्रया(५) ॥९३.०१४ सुग्रीवाय दिशेत्पूपान् पुष्पदन्ताय दर्भकं ।९३.०१५ रक्तं प्रचेतसे पद्ममसुराय(६) सुरासवं ॥९३.०१५ घृतं गुडौदनं शेषे रोगाय घृतमण्डकान् ।९३.०१६ लाजान् वा पश्चिमाशायां देवाष्टकमितीरितं ॥९३.०१६ मारुताय ध्वजं पीतं नागाय नागकेशरं ।९३.०१७ मुख्ये भक्ष्याणि भल्लाटे मुद्गसूपं सुसंस्कृतं ॥९३.०१७ सोमाय पायसं साज्यं शालूकमूषये(७) दिशेत् ।९३.०१८ लोपीमदितये दित्यै पुरीमित्युत्तराष्टकं(८) ॥९३.०१८ मोदकान् ब्रह्मणः प्राच्यां षट्पादाय मरीचये ।९३.०१९ सवित्रे रक्तपुष्पाणि वह्न्यधःकोणकोष्ठके ॥९३.०१९ तदधःकोष्ठके दद्यात्सावित्र्यै च कुशोदकं(९) ।९३.०२० दक्षिणे चन्दनं(१०) रक्तं षट्पदाय विवस्वते ॥९३.०२० हरिद्रौदनमिन्द्राय रक्षोधःक्रीणकोष्ठके ।९३.०२१ टिप्पणी १ भूतक्षये रौद्रमिति ख.. , छ.. च । गृहकृते क्षौद्रमिति घ.. २ फलौदनमिति ख. घ.. च ३ यवपर्णानीति घ.. । पद्मवर्णानीति ख.. छ.. च ४ याम्यामित्यष्टदेवता इति ख.. ५ प्रदद्यादघमुद्रयेति ख.. । प्रदद्याद्वनमुद्रयेति घ.. , छ.. च ६ पद्मं सम्बरायेति घ.. ७ शालूकं शृणयेति ख.. , छ.. च ८ पुरीमित्यवराष्टकमिति ग.. ९ सवित्रे च कुशोदकमिति ग.. १० सावित्र्यै चन्दनमिति ग.. पृष्ठ २९७ इन्द्रजयाय मिश्रान्नमिन्द्राधस्तान्निवेदयेत् ॥९३.०२१ वरुण्यां षट्पदासीने मित्रे सङुडमोदनं ।९३.०२२ रुद्राय घृतसिद्धान्नं वायुकोणाधरे पदे ॥९३.०२२ तदधो रुद्रदासाय मासं मार्गमथोत्तरे ।९३.०२३ ददीत माषनैवेद्यं(१) षट्पदस्थे धराधरे(२) ॥९३.०२३ आपाय शिवकोणाधः तद्वत्साय च तत्स्थले(३) ।९३.०२४ क्रमाद्दद्याद्दधिक्षीरं पूजयित्वा विधानतः ॥९३.०२४ चतुष्पदे निविष्टाय ब्रह्मणे मध्मदेशतः ।९३.०२५ पञ्चगव्याक्षतोपेतञ्चरुं साज्यं निवेदयेत् ॥९३.०२५ ईशादिवायुपर्यन्तकोणेष्वथ यथाक्रमं ।९३.०२६ वास्तुवाह्ये चरक्याद्याश्चतस्रः पूजयेद्यथा ॥९३.०२६ चरक्यै(४) सघृतं मांसं विदार्यै(५) दधिपङ्कजे ।९३.०२७ पूतनायै पलं पित्तं रुधिरं च निवेदयेत् ॥९३.०२७ अस्थीनि पापराक्षस्यै रक्तपित्तपलानि च ।९३.०२८ ततो माषौदनं(६) प्राच्यां स्कन्दाय विनिवेदयेत् ॥९३.०२८ अर्यम्णे दक्षिणाशायां पूपान् कृसरया युतान् ।९३.०२९ जम्भकाय(७) च वारुण्यामामिषं रुधिरान्वितं ॥९३.०२९ उदीच्यां पिलिपिञ्जाय(८) रक्तान्नं कुसुमानि च ।९३.०३० यजेद्वा सकलं वास्तुं कुशदध्यक्षतेर्जलैः ॥९३.०३० टिप्पणी १ मांसनैवेद्यमिति ख.. , छ.. , च २ वराधरे इति घ.. ३ आपवत्सचतुष्टये इति ख.. । तद्वत्सायै च तत्तले इति घ.. , ज.. च ४ वाराह्यै इति ङ.. , छ.. च ५ विपचे इति ख.. , छ.. च ६ ततो मांसौदनमिति ख. घ.. छ.. च ७ कुम्भकायेति छ.. ८ पिलिपिच्छायेति ङ.. । लिपिपिञ्जायेति छ.. पृष्ठ २९८ गृहे च नगरादौ च एकाशीतिपदैर्यजेत् ।९३.०३१ त्रिपदा रज्जवः कार्याः षट्पदाश्च विकोणके ॥९३.०३१ ईशाद्याः पादिकास्तस्मिन्नागद्याश्च द्विकोष्ठगाः(१) ।९३.०३२ षट्पदस्था मरीच्याद्या ब्रह्मा नवपदः स्मृतः ॥९३.०३२ नगरग्रामखेटादौ वास्तुः शतपदोऽपि(२) वा ।९३.०३३ वंशद्वयं कोणगतं दुर्जयं दुर्धरं सदा ॥९३.०३३ यथा देवालये न्यसस्तथा शतपदे हितः ।९३.०३४ ग्रहाः स्कन्दादयस्तत्र विज्ञेयाश्चैव षट्पदाः ॥९३.०३४ चरक्याद्या भूतपदा रज्जुवंशादि पूर्ववत् ।९३.०३५ देशसंस्थापने(३) वास्तु चतुस्त्रिंशच्छतं(४) भवेत् ॥९३.०३५ चतुःषष्टिपदो(५) ब्रह्मा मरीच्याद्याश्च देवताः ।९३.०३६ चतुःपञ्चाशत्पदिका आपाद्यष्टौ रसाग्निभिः ॥९३.०३६ ईशानाद्या नवपदाः स्कन्दाद्याः शक्तिकाः(६) स्मृताः ।९३.०३७ चरक्याद्यास्तद्वदेव रज्जुवंशादि पूर्ववत्(७) ॥९३.०३७ ज्ञेयो वंशसहस्रैस्तु वास्तुमण्डलगः पदैः ।९३.०३८ न्यासो नवगुणस्तत्र कर्तव्यो देशवास्तुवित् ॥९३.०३८ पञ्चचिंशत्पदो वास्तुर्वैतालाख्यश्चितौ स्मृतः ।९३.०३९ अन्यो नवपदो वास्तुः षोडशाङ्घ्रिस्तथापरः ॥९३.०३९ षडस्रत्र्यस्रवृत्तादेर्मध्ये स्याच्चतुरस्रकं ।९३.०४० टिप्पणी १ नागाद्याश्चार्धकोष्टगा इति ख.. , छ.. च २ शतपदेऽपीति ग.. ३ दशमं स्थापने इति ख.. , ग.. , घ.. , ङ.. , छ.. च ४ चतुर्विंशच्छतमिति ग.. ५ चतुःषष्टिपदे इति घ.. ६ ईशानाद्याः शिवपदा स्कन्दाद्याः पदिका इति घ.. ७ समञ्च स्थापने वास्तुश्चतुस्त्रिंशच्छतं भवेदिति घ.. पुस्तकेऽधिकः पाठः । चतुःषष्टिपदो ब्रह्मा इत्यादिः, रज्जुवंशादि पूर्ववतित्यन्तः पाठो ग.. पुस्तके नास्ति पृष्ठ २९९ खाते वास्तोः समं पृष्ठे(१) न्यासे ब्रह्मशिलात्मके ॥९३.०४० शाषाकस्य निवेशे च(२) मूर्तिसंस्थापने तथा ।९३.०४१ पायसेन तु नैवेद्यं सर्वेषां वा प्रदापयेत् ॥९३.०४१ उक्तानुक्ते तु वै वास्तुः पञ्चहस्तप्रमाणतः ।९३.०४२ गृहप्रासादमानेन वास्तुः श्रेष्ठस्तु सर्वदा(४) ॥९३.०४२ इत्यादिमहपुराणे आग्नेये वास्तुपूजाकथनं नाम त्रिनवतितमोऽध्यायः ॥ अध्याय {९४} अथ चतुर्णवतितमोऽध्यायः शिलाविन्यासविधानं ईश्वर उवाच ईशादिषु चरक्याद्याः(५) पूर्ववत्पूजयेद्वहिः ।९४.००२ आहुतित्रितयं दद्यात्प्रतिदेवमनुक्रमात् ॥९४.००२ दत्वा भूतबलिं लग्ने शिलान्यासमनुक्रमात् ।९४.००३ मध्यसूत्रे(६) न्यसेच्छक्तिं कुम्भञ्चानन्तमुत्तमं(७) ॥९४.००३ नकारारूढमूलेन कुम्भेऽस्मिन् धारयेच्छिलां ।९४.००४ कुम्भानष्टौ सभद्रादीन् दिक्षु पूर्वादिषु क्रमात् ॥९४.००४ लोकपालाणुभिर्न्यस्य(८) श्वभ्रेषु(६) न्यस्तशक्तिषु ।९४.००५ टिप्पणी १ खातारम्भे समं पृष्ठे इति ङ.. । खातो बालोः समः पृष्ठे इति छ.. २ निवेशेनेति ख.. , छ.. च ३ परं हस्तप्रमानत इति छ.. ४ सर्वद इति ख.. , घ.. , छ.. च । सर्वश इति ग.. , च ५ ईशाद्यादिषु ब्रह्माद्या इति ग.. ६ मध्ये श्वभ्र इति घ.. ७ कुम्भञ्चानन्तमन्तिकमिति घ.. , छ.. च । कुम्भञ्चानन्तमन्तिममिति ङ.. ८ लोकपालात्मभिर्न्यस्येदिति ख.. , छ.. च । लोकपालाणुभिर्न्यस्येदिति ङ.. ९ सूत्रेष्विति क.. । कुम्भेष्विति ग.. पृष्ठ ३०० शिलास्तेष्वथ(१) नन्दाद्याः क्रमेण(२) विनियोजयेत् ॥९४.००५ शम्बरैर्मूर्तिनाथानां(३) यथा स्युर्भित्तिमध्यतः ।९४.००६ तासु धर्मादिकानष्टौ(४) कोणात्कोणं विभागशः(५) ॥९४.००६ सुभद्रादिषु नन्दाद्याश्चतस्रोऽग्न्यादिकोणगाः ।९४.००७ अजिताद्याश्च पूर्वादिजयादिष्वथ(६) विन्यसेत् ॥९४.००७ ब्रह्माणं चोपरि मस्य(७) व्यापकं च महेश्वरं ।९४.००८ चिन्तयेदेषु चाधानं व्योमप्रसादमध्यगं ॥९४.००८ बलिन्दत्त्वा जपेदस्त्रं विघ्नदोषनिवारणं(८) ।९४.००९ शिलापञ्चकपक्षेऽपि मनागुद्दिश्यते यथा ॥९४.००९ मध्ये पूर्णशिलान्यासः(९) सुभद्रकलशेऽर्धतः ।९४.०१० पद्मादिषु च नन्दाद्याः कोणेष्वग्न्यादिषु क्रमात् ॥९४.०१० मध्यभावे(१०) चतस्रोऽपि मातृवद्भावसम्मताः ।९४.०११ ओं पूर्णे त्वं महाविश्वे(११) सर्वसन्दोहलक्षणे ॥९४.०११ सर्वसम्पूर्णमेवात्र कुरुष्वाङ्गिरसः सुते ।९४.०१२ ओं नन्दे त्वं नन्दिनी पुंसां त्वामत्र स्थापयाम्यहं ॥९४.०१२ प्रासादे तिष्ठ सन्तृप्ता यावच्चन्द्रार्कतारकं ।९४.०१३ आयुः कामं श्रियन्नन्दे देहि वासिष्ठ देहिनां(१२) ॥९४.०१३ टिप्पणी १ शिलाद्यास्तथेति क.. २ क्रमश इति घ.. ३ शम्बरैर्मूर्तिनाधानामिति ख. छ.. च । शम्बरैर्मूर्तिमाधानमिति ङ.. ४ तान् सुधर्मादिकानष्टौ इति ख.. ५ विभागत इति घ.. ६ पूर्वादिजयादिषु चेति ग.. ७ ब्रह्माणं चोपविन्यस्येति ख.. , घ.. , ङ.. , छ.. , च ८ विघ्नदोषनिवारकमिति ग.. ९ पूर्वशिलान्यास इति घ.. १० मध्याभावे इति ख.. , ग.. च ११ महाभागे इति ग.. १२ देहि मामिति ख.. , छ.. च । देहि न इति घ.. पृष्ठ ३०१ अस्मिन् रक्षा सदा(१) कार्या प्रासादे यत्नतस्त्वया ।९४.०१४ ओं भद्रे त्वं सर्वदा भद्रं लोकानां कुरु काश्यपि ॥९४.०१४ आयुर्दा कामदा देवि(२) श्रीप्रदा च सदा भव ।९४.०१५ ओं जयेऽत्र सर्वदा देवि श्रीदा.अयुर्दा च सदा भव(३) ॥९४.०१५ ओं जयेऽत्र सर्वदा(४) देवि तिष्ठ त्वं स्थापिता मय(५) ।९४.०१६ नित्यञ्जयाय भूत्यै च स्वामिनी भव भार्गवि ॥९४.०१६ ओं रिक्तेऽतिरिक्तदोषघ्ने(६) सिद्धिमुक्तिप्रदे शुभं ।९४.०१७ सर्वदा सर्वदेशस्थे तिष्ठास्मिन् विश्वरूपिणि(७) ॥९४.०१७ गगनायतनन्ध्यात्वा तत्र तत्त्वत्रयं(८) न्यसेत् ।९४.०१८ प्रायश्चित्तन्ततो हुत्वा विधिना विसृजेन्मखं ॥९४.०१८ इत्यादिमहापुराणे आग्नेये शिलान्यासकथनं नाम चतुर्णवतितमोऽध्यायः ॥ अध्याय {९५} अथ पञ्चनवतितमोऽध्यायः प्रतिष्ठा सामग्रीविधानं ईश्वर उवाच वक्ष्ये लिङ्गप्रतिष्ठां च प्रासादे भुक्तिमुक्तिदां ।९५.००१ ताश्चरेत्सर्वदा मुक्तौ भुक्तौ देवदिने सति ॥९५.००१ विना चैत्रेण माघादौ प्रतिष्ठा मासपञ्चके ।९५.००२ टिप्पणी १ मुदा इति ख.. छ.. च २ कामदे देवीति घ.. ३ जयेत्रेत्यर्धश्लोकः छ.. पुस्तके नास्ति ४ ओं जय एनं सदेति ख.. छ.. च ५ मम इति ङ.. ६ रक्तातिरक्तदोषघ्न इति छ.. । रक्तात्रिरक्तदोषघ्ने इति ख.. ७ सन्तिष्ठास्मिन्नीशरूपिणीति घ.. । शर्परूपिणीति ज.. ८ तत्त्वे तत्त्वत्रयमिति घ.. ९ सर्वदा मुक्तौ देवादेवे ग्रहे सतीति घ.. । सर्वदा मुक्त्यै भुक्त्यै दैवदिने सतीति ङ.. पृष्ठ ३०२ गुरुशुक्रोदये कार्या प्रथमे करणेत्रये ॥९५.००२ शुक्लपक्षे विशेषेण कृष्णे वा पञ्चमन्दिनं(१) ।९५.००३ चतुर्थीं नवमीं षष्ठीं वर्जयित्वा चतुर्दशीं ॥९५.००३ शोभनास्तिथयः शषाः क्रूरवारविवर्जिताः ।९५.००४ शतभिषा धनिष्ठार्द्रा अनुरोधोत्तरत्रयं(२) ॥९५.००४ रोहिणी श्रवणश्चेति(३) स्थिरारम्भे महोदयाः ।९५.००५ लग्नञ्च कुम्भसिंहालितुलास्त्रीवृषधन्विनां ॥९५.००५ शस्तो जीवो नवर्क्षेषु सप्तस्थानेषु सर्वदा ।९५.००६ बुधः षडष्टदिक्सप्ततुर्येषु विनर्तुं(४) शितः ॥९५.००६ सप्तर्तुत्रिदशादिस्थः(५) शशाङ्कोबलदः सदा(६) ।९५.००७ रविर्दशत्रिषट्संस्थो राहुस्त्रिदशषड्गतः ॥९५.००७ षट्त्रिस्थानगताः शस्ता मन्दाङ्गारार्ककेतवः ।९५.००८ शुभ्राः क्रूरश्च पापाश्च सर्व एकादशस्थिताः ॥९५.००८ एषां दृष्टिर्मुनौ पूर्णा(७) त्वार्धिकी ग्रहभूतयोः ।९५.००९ पादिकी रामदिक्स्थाने चतुरष्टौ(८) पादवर्जिता ॥९५.००९ पादान्यूनचतुर्नाडी भोगः स्यान्मीनमेषयोः ।९५.०१० वृषकुम्भौ च भुञ्जाते चतस्रः पादवर्जिताः ॥९५.०१० मकरो मिथुनं पञ्च चापालिहरिकर्कटाः ।९५.०११ पादीनाः षट्तुलाकन्ये घटिकाः सार्धपञ्च च ॥९५.०११ टिप्पणी १ कृष्णेप्यापञ्चमं दिनमिति ख.. , छ.. च । कृष्णेप्यापञ्चमाद्दिनादिति घ.. २ अनुराधोत्तरात्रयमिति च.. ३ श्रवणश्चैते इति च.. ४ बुधः षडृतुतुर्येषु दिक्सप्ताह विनेति छ.. । बुधः षड्द्व्यष्टतुर्षेषु दिक्सप्तषड्विनेति ख.. ५ सप्तायत्रिदशादिस्थ इति ख.. छ.. च ६ बुधः षडष्टदिगित्यादिः, बलदः सदा इत्यन्तः पाठो ग.. पुस्तके नास्ति ७ एवं दृष्टिवले पूर्णादिति छ.. । एवं दृष्टिवले पूर्णेति ख.. ८ वस्वष्टौ इति ख.., छ.. च पृष्ठ ३०३ केशरी वृषभः कुम्भः स्थिराः स्युः सिद्धिदायकाः ।९५.०१२ चरा धनुस्तुलामेषा द्विःस्वभावास्तृतीयकाः(१) ॥९५.०१२ शुभः(२) शुभग्रहैर्दृष्टः शस्तो लग्नः शुभाश्रितः(३) ।९५.०१३ गुरुशुक्रबुधे युक्तो लग्नो दद्याद्बलायुधी(४) ॥९५.०१३ राज्यं शौर्यं(५) बलं पुत्रान् यशोधर्मादिकं बहु ।९५.०१४ प्रथमः सप्तमस्तुर्यो दशमः केन्द्र उच्यते ॥९५.०१४ गुरुशुक्रबुधास्तत्र सर्वसिद्धिप्रसादकाः ।९५.०१५ त्र्येकादशचतुर्थस्था(६) लग्नात्पापग्रहाः शुभाः ॥९५.०१५ अतोप्यनीचकर्माथं(७) योज्यास्तिथ्यादयो बुधैः ।९५.०१६ धाम्नः पञ्चगुणां भूमिं त्यक्त्वा वा धानसम्मितां(८) ॥९५.०१६ हस्ताद्द्वादशसोपानात्(९) कुर्यान्मण्डमग्रतः ।९५.०१७ चतुरस्रं चतुर्द्वारं स्नानार्थन्तु(१०) तदर्धतः ॥९५.०१७ एकास्यं चतुरास्यं वा रौद्र्यां प्राच्युत्तरेथवा(११) ।९५.०१८ हास्तिको दशहस्तो वै मण्डपोर्ककरोऽथवा ॥९५.०१८ द्विहस्तोत्तरया वृद्ध्या(१२) शेषं स्यान्मण्डपाष्टकं ।९५.०१९ टिप्पणी १ कर्कटो मकरो द्विस्थः प्रव्रज्याकार्यनाशकाः । गुरुशक्रबुधास्तत्र सर्वसिद्धिप्रदायका इति ग. घ.. पुस्तकेऽधिकः पाठः २ स्थिर इति ग.. ३ शुभान्वित इति ख.. , छ.. च ४ धनायुषीति ग.. ५ राज्यं सौख्यमिति ख.. ६ द्व्येकादशचतुर्थस्था इति छ.. । त्र्येकादशेत्यर्धश्लोको ग.. पुस्तके नास्ति ७ अतोन्येनिष्ठकर्मार्थमिति ख.. , घ.. , छ.. च ८ त्यक्त्वा वा चापसम्मितामिति ख.. । त्यक्त्वा वा रामसम्मितामिति छ.. ९ हस्ताद्वा दशसोपानादिति ख.. । हस्तान् वा दश सोपानादिति ख.. १० स्नानार्हं चेति ङ.. ११ प्राच्युतरे तथेति ङ.. १२ द्विहस्तोत्तरयावृत्त्या इति घ.. पृष्ठ ३०४ वेदी चतुष्करा मध्ये कोणस्तम्भेन संयुता(१) ॥९५.०१९ वेदीपादान्तरं त्यक्त्वा(२) कुण्डानि नव पञ्च वा ।९५.०२० एकं वा शिवकाष्ठायां(३) प्राच्यां वा तद्गुरोः परं ॥९५.०२० मुष्टिमात्रं शतार्धे स्याच्छते चारत्रिमात्रकं(४) ।९५.०२१ हस्तं सहस्रहोमे स्यान्नियुते तु द्विहास्तिकं(५) ॥९५.०२१ लक्षे चतुष्कारं कुण्डं कोटिहोमेऽष्टहस्तकं ।९५.०२२ भगाभमग्नौ(६) खण्डेन्दु दक्षे त्र्यस्रञ्च नैरृते ॥९५.०२२ षडस्रं वायवे पद्मं(७) सौम्ये चाष्टास्रकं शिवे ।९५.०२३ तिर्यक्पातशिवं खातमूर्ध्वं(८) मेखलया सह ॥९५.०२३ तद्वहिर्मेखलास्तिस्रो वेदवह्नियमाङ्गुलैः(९) ।९५.०२४ अङ्गुलैः षड्भिरेका वा कुण्डाकारास्तु मेखलाः ॥९५.०२४ तासामुपरि योनिः स्यान्मध्येऽश्वत्थदलाकृतिः ।९५.०२५ उच्छ्रायेणाङ्गुलं तस्माद्विस्तारेणाङ्गुलाष्टकं(१०) ॥९५.०२५ दैर्घ्यं कुण्डार्धमानेन कुण्डकण्ठसमोऽधरः ।९५.०२६ पूर्वाग्नियाम्यकुण्डानां योनिः स्यादुत्तरानना ॥९५.०२६ पूर्वानना तु शेषाणामैशान्येऽन्यतरा तयोः ।९५.०२७ टिप्पणी १ कोणस्तम्भेषु संयुतेति क.. , ग.. , घ.. च । कोणस्तम्भेषु सन्मतेति ङ.. । कोणस्तम्भेनुसंयुतेति ख.. , छ.. च २ वेदी पादान्तरं त्यक्तेति घ.. , ङ.. , च ३ शिवकाष्टादौ इति ग.. ४ शतार्धस्य शते वह्निमात्रकमिति छ.. । शतार्धस्य शते वारत्रिमात्रकमिति घ.. । शतार्धस्य शते वा वह्निमात्रकमिति ङ.. ५ द्विहस्तकमिति ख.. ६ खद्गाभमग्नौ इति ख.. , ग.. , ङ.. , छ.. च ७ पद्मे इति ख.. , घ.. च ८ तिर्यक्पातसममूर्ध्वमिति ख.. , ग.. , घ.. च ९ वेदवह्नियवाङ्गुलैरिति घ.. १० तस्य विस्तरेणाङ्गुलाष्टकमिति घ.. पृष्ठ ३०५ कुण्डानां यश्चतुर्विंशो भागः सोङ्गुल इत्यतः ॥९५.०२७ प्लक्षोदुम्वरकाश्वत्थवटजास्तोरणाः क्रमात् ।९५.०२८ शान्तिभूतिबलारोग्यपूर्वाद्या नामतः क्रमात् ॥९५.०२८ पञ्चषट्सप्तहस्तानि हस्तखातस्थितानि च ।९५.०२९ तदर्धविस्तराणि स्युर्युतान्याम्रदलादिभिः ॥९५.०२९ इन्द्रायुधोपमा रक्ता कृष्णा धूम्रा शशिप्रभा ।९५.०३० शुक्लाभा(१) हेमवर्णा च पताका स्फाटिकोपमा ॥९५.०३० पूर्वादितोब्जजे(२) रक्ता नीलानन्तस्य(३) नैरृते ।९५.०३१ पञ्चहस्तास्तदर्धाश्च ध्वजा दीर्घाश्च विस्तराः ॥९५.०३१ हस्तप्रदेशिता दण्डा ध्वजानां पञ्चहस्तकाः ।९५.०३२ वल्मीकाद्दन्तिदन्ताग्रात्तथा(४) वृषभशृङ्गतः ॥९५.०३२ पद्मषण्डाद्वराहाञ्च गोष्ठादपि चतुष्पथात् ।९५.०३३ मृत्तिका द्वादश ग्राह्या वैकुण्ठेष्टौ पिनाकिनि ॥९५.०३३ न्यग्रोधोदुम्वराश्वत्थचूतजम्वुत्वगुद्भवं ।९५.०३४ कषायपञ्चकं ग्राह्यमार्तवञ्च फलाष्टकं ॥९५.०३४ तीर्थाम्भांसि सुगन्धीनि(५) तथा सर्वौषधीजलं ।९५.०३५ शस्तं पुष्पफलं वक्ष्ये रत्नगोशृङ्गवारि(६) च ॥९५.०३५ स्नानायापाहरेत्(७) पञ्च पञ्चगव्यामृतं तथा ।९५.०३६ पिष्टनिर्मितवस्त्रादिद्रव्यं निर्मञ्जनाय(८) च ॥९५.०३६ टिप्पणी १ शुक्राभेति ख.. २ पूर्वादिनो ध्वजे इति ग.. ३ नीलानन्तेऽथेति ग.. ४ वल्मीकाद्धस्तिदन्ताग्रात्तयेति छ.. ५ तीर्थतोयसुगन्धीनि इति ङ.. ६ वर्गे गोशृङ्गवारि चेति छ.. ७ स्नानायोपहरेदिति ख.. , छ.. , घ.. च ८ पिष्टनिर्मितरुद्रादिद्रव्यं निर्मञ्जनायेति ग.. । पिष्टनिर्मितवज्रादिकं निर्मथनायेति ज.. पृष्ठ ३०६ सहस्रशुषिरं कुम्भं मण्डलाय च रोचना(१) ।९५.०३७ शतमोषधिमूलानां विजया लक्ष्मणा बला ॥९५.०३७ गुडूच्यतिबला पाठा सहदेवा शतावरी ।९५.०३८ ऋद्धिः(२) सुवर्चसा(३) वृद्धिः स्नाने प्रोक्ता पृथक्पृथक् ॥९५.०३८ रक्षायै तिलदर्भौघो(४) भस्मस्नानन्तु केवलं ।९५.०३९ यवगोधूमविल्वानां(५) चूर्णानि च विचक्षणः ॥९५.०३९ विलेपनं(६) सकर्पूरं स्नानार्थं कुम्भगण्डकान्(७) ।९५.०४० खट्वाञ्च तूलिकायुग्मं सोपधानं सवस्त्रकं ॥९५.०४० कुर्याद्वित्तानुसारेण शयने लक्ष्यकल्पने(८) ।९५.०४१ घृतक्षौद्रयुतं पात्रं कुर्यात्स्वर्णशलाकिकां ॥९५.०४१ वर्धनीं शिवकुम्भञ्च लोकपालघटानपि ।९५.०४२ एकं निद्राकृते कुम्भं शान्त्यर्थं कुण्डसङ्ख्यया(९) ॥९५.०४२ द्वारपालादिधर्मादिप्रशान्तादिघटानपि ।९५.०४३ वस्तुलक्ष्मीगणेशानां कलशानपरानपि ॥९५.०४३ धान्यपुञ्जकृताधारान् सवस्त्रान्(१०) स्रग्विभूषितान् ।९५.०४४ टिप्पणी १ मङ्गलाय च रोचनेति ग.. । मङ्गलाय च रोचनमिति ज.. २ सिद्धिरिति घ.. ३ सुवर्चलेति ज.. ४ तिलगर्भाद्यमिति ख.. , घ.. , ङ.. , छ.. च । तिलदर्भाज्यमिति ज.. ५ यवगोधूमचूर्णानामिति घ.. । पञ्चगोधूमविल्वानामिति छ.. ६ लेपनञ्चेति ज.. ७ कुम्भमण्डकानिति ख.. । कुम्भगड्डुकानिति घ.. । कुम्भगुण्डुकानिति ङ.. कुम्भसण्डकानिति छ.. । कुम्भखण्डकानिति ज.. ८ प्रायेण लक्ष्यकल्पने इति ग.. । शयने लक्ष्यकं परे इति ज.. ९ कुण्डसन्मितमिति ज.. १० सर्वांश्चेति घ.. , ज.. च पृष्ठ ३०७ सहिरण्यान् समालब्धान् गन्धपानीयपूरितान् ॥९५.०४४ पूर्णपात्रफलाधारान्(१) पल्लवाद्यान्(२) सलक्षणान् ।९५.०४५ वस्त्रैराच्छादयेत्कुम्भानाहरेद्गौरसर्षपान् ॥९५.०४५ विकिरार्थन्तथा लाजान् ज्ञानखड्गञ्च पूर्ववत् ।९५.०४६ सापिधानां चरुस्थालीं दर्वीं च ताम्रनिर्मितां(३) ॥९५.०४६ घृतक्षौद्रान्वितं पात्रं पादाभ्यङ्गकृते तथा ।९५.०४७ विष्टरांस्त्रिशतादर्भदलैर्बाहुप्रमाणकान्(४) ॥९५.०४७ चतुरश्चतुरस्तद्वत्पालाशान् परिधीनपि ।९५.०४८ तिलपात्रं हविःपात्रमर्धपात्रं पवित्रकं ॥९५.०४८ फलविंशाष्टमानानि घटो धूपप्रदानकं(५) ।९५.०४९ श्रुक्श्रुवौ पिटकं पीठं व्यजनं शुष्कमिन्धनं ॥९५.०४९ पुष्पं पत्रं गुग्ग्लञ्च घृतैर्दौपांश्च धूपकं ।९५.०५० अक्षतानि त्रिसूत्रीञ्च गव्यमाज्यं यवांस्तिलान् ॥९५.०५० कुशाः शान्त्यै त्रिमधुरं समिधो दशपर्विकाः ।९५.०५१ बाहुमात्रश्रुवं हस्तम्(६) अर्कादिग्रहशान्तये ॥९५.०५१ समिधोऽर्कपलाशोत्थाः खादिरामार्गपिप्पलाः(७) ।९५.०५२ उदुम्वरशमीदूर्वाकुशोत्थाः शतमष्ट च ॥९५.०५२ तदभावे यवतिला गृहोपकरणं तथा ।९५.०५३ स्थालीदर्वीपिधानादि देवादिभ्योऽंशुकद्वयं ॥९५.०५३ मुद्रामुकुटवासांसि हारकुण्डलकङ्कणान् ।९५.०५४ टिप्पणी १ पूर्वपात्रफलाधारानिति छ.. २ पल्लवाग्रानिति ख.. , घ.. , ज.. च ३ कुर्वीत ताम्रनिर्मितामिति ख.. ४ दलैर्बाहुमात्रप्रमाणत इति ग.. ५ घण्टाधूपप्रदानकमिति घ.. , छ.. च ६ बाहुमात्रां स्रुचं हस्तानामिति छ.. ७ खादिरापाङ्गपिप्पला इति ख.. , छ.. , च । खादिरापामार्कपिप्पला इति घ.. पृष्ठ ३०८ कुर्यादाचार्यपूजार्थं(१) वित्तशाठ्यं विवर्जयेत् ॥९५.०५४ तत्पादपादहीना च मूर्तिभृदस्त्रजापिनां(२) ।९५.०५५ पूजा स्याज्जापिभिस्तुल्या(३) विप्रदैवज्ञशिल्पिनां ॥९५.०५५ वज्रार्कशान्तौ(४) नीलातिनीलमुक्ताफलानि च(५) ।९५.०५६ पुष्पपद्मादिरागञ्च वैदूर्यं रत्नमष्टमं(६) ॥९५.०५६ उषीरमाधवक्रान्तारक्तचन्दनकागुरुं ।९५.०५७ श्रीखण्डं सारिकङ्कुष्ठं(७) शङ्क्षिनी ह्योषधीगुणः(८) ॥९५.०५७ हेमताम्रमयं रक्तं राजतञ्च(९) सकांस्यकं ।९५.०५८ शीसकञ्चेति लोहानि हरितालं मनःशिला ॥९५.०५८ गैरिकं हेममाक्षीकं पारदो(१०) वह्निगैरिकं ।९५.०५९ गन्धकाभ्रकमित्यष्टौ(११) धातवो ब्रीहयस्तथा ॥९५.०५९ गोधूमान् सतिलान्माषान्मुद्गानप्याहरेद्यवान् ।९५.०६० नीवारान् श्यामकानेवं ब्रीहयोऽप्यष्ट कीर्तिताः ॥९५.०६० इत्याग्नेये महापुराणे प्रतिष्ठासामग्री नाम पञ्चनवतितमोऽध्यायः ॥ टिप्पणी १ कुर्यादाचार्यपूजाद्यमिति घ.. २ मूर्तिभृच्छस्त्रजापिनामिति घ.. ३ पूजास्यात्पितृभिस्तुल्येति घ.. , ज.. च ४ वस्त्रार्ककान्तौ इति ङ.. , छ.. , च ५ नीलाभं नीलमुक्ताफलानि चेति ख.. । नीलादिनीलमुक्ताफलानि चेति ग.. । नीलाभं नीलं मुक्ताफलानि वेति ज.. ६ रत्नमष्टकमिति घ.. , ङ.. , ज.. च ७ सारिका कुष्ठमिति ख.. , छ.. , च । साविकं कुष्ठमिति ज.. ८ शङ्खिनीत्योषधीगण इति ङ.. , ज.. , च ९ हेमताम्रमयो रङ्गराजजञ्चेति ख.. १० पारदे इति ख.. , छ.. च ११ गन्धकत्रिकमित्यष्टौ इति घ.. पृष्ठ ३०९ अध्याय {९६} अथ षण्णवतितमोऽध्यायः अधिवासनविधिः ईश्वर उवाच स्नात्वा नित्यद्वयं कृत्वा(१) प्रणवार्घकरो गुरुः(२) ।९६.००१ सहायैर्मूर्तिपैर्विप्रैः(३) सह गच्छेन्मखालयं ॥९६.००१ क्षान्त्यादितोरणांस्तत्र पूर्ववत्पूजयेत्क्रमात् ।९६.००२ प्रदक्षिणक्रमादेषां शाखायां द्वारपालकान् ॥९६.००२ प्राचि नन्दिमहाकालौ याम्ये भृङ्गिविनायकौ(४) ।९६.००३ वारुणे वृषभस्कन्दौ देवीचण्डौ ततोत्तरे(५) ॥९६.००३ तच्छाखामूलदेशस्थौ प्रशान्तशिशिरौ घटौ ।९६.००४ पर्जन्याशोकनामानौ भूतं सञ्जीवनामृतौ(६) ॥९६.००४ धनदश्रीप्रदौ(७) द्वौ द्वौ पूजयेदनुपूर्वशः(८) ।९६.००५ स्वनामभिश्चतुर्थ्यन्तैः प्रणवादिनमोन्तगैः ॥९६.००५ लोकग्रहवसुद्वाःस्थस्रवन्तीनां(६) द्वयं द्वयं ।९६.००६ टिप्पणी १ नित्यक्रियां कृत्वेति ङ्. २ प्रणवार्घ्यकरो मुनिरिति ग.. । पुनरर्घ्यकरो मुनिरिति ङ.. ३ सहायैरृत्विग्विप्रैश्चेति ख.. , घ.. च । सहायैर्भूपतिविप्रैरिति ज.. ४ भृङ्गविनायकाविति छ.. ५ वृषोत्तरे इति ग.. , घ.. , ङ.. च ६ भूतसञ्जीवनासुतौ इति छ.. । भूतसञ्जीवनामृतौ इति ख.. , ज.. च ७ धनदद्विपदौ इति ख.. । धनदौ द्विपदौ इति घ.. । धनदश्चापदौ इति ज.. ८ पूजयेदथ पूर्वश इति ग.. ९ लोकग्रहवसुद्वाःस्थहस्तादीनामिति ग.. पृष्ठ ३१० भानुत्रयं युगं वेदो लक्ष्मीर्गणपतिस्तथा(१) ॥९६.००६ इति देवामखागारे(२) तिष्ठन्ति प्रतितोरणं ।९६.००७ विघ्नसङ्घापनोदाय क्रतोः संरक्षणाय च ॥९६.००७ वज्रं शक्तिं तथा दण्डं(३) खड्गं(३) पाशं ध्वजं गदां ।९६.००८ त्रिशूलं चक्रमम्भोजम्पताकास्वर्चयेत्(४) क्रमात् ॥९६.००८ ओं ह्रूं फट्नमः । ओं ह्रूं फट्द्वाःस्थशक्तये ह्रूं फट्नमः(५) इत्यादिमन्त्रैः कुमुदः कुमुदाक्षश्च पुण्डरीकोथ वामनः ।९६.००९ शङ्कुकर्णः सर्वनेत्रः सुमुखः(६) सुप्रतिष्ठितः ॥९६.००९ ध्वजाष्टदेवताः(७) पूज्याः पूर्वादौ(८) भूतकोटिभिः ।९६.०१० ओं कौं कुमुदाय नम इत्यादिमन्त्रैः ॥९६.०१० हेतुकं त्रिपुरघ्नञ्च शक्त्याख्यं(९) यमजिह्वकं(१०) ।९६.०११ कालं करालिनं षष्ठमेकाङ्घ्रिम्भीममष्टकं ॥९६.०११ तथैव पूजयेद्दिक्षु क्षेत्रपालाननुक्रमात् ।९६.०१२ टिप्पणी १ भानुत्रयं युगं वेदो लक्ष्मीकुलपतिस्तथेति ख.. , ग.. , छ.. च । भानुत्रययुगं वेदो वेदो लक्ष्मीपतिस्तथेति ज.. २ देवामरागरे इति ख.. , ग.. , घ.. , ङ.. , छ.. च ३ तथा कुण्डमिति ख.. , छ.. च । तथा चण्डमिति ज.. ४ पताकामर्चयेदिति ग.. । पताकासु यजेदिति ङ.. ५ हुं फट्नमः, ओं हुं फट्द्वाःस्थशक्तये हुं फट्नम इति ख.. । ओं क्रूं फट्नमः । ओं क्रूं फट्द्वाःस्थशक्तये क्रूं फट्नम इति छ.। ओं हुं फट्वक्राय हुं फट्नम इति ग.. । ओं हुं फट्वज्राय हुं फट्नम इति ङ.. ६ प्रमुख इति ज.. ७ ध्वजाश्च देवता इति ग.. ८ पूजादौ इति ङ.. , ज.. च ९ बुद्धाख्यमिति ग.. । बुद्ध्याख्यमिति ज.. १० अजजिह्वकमिति ज.. पृष्ठ ३११ बलिभिः कुसुमैर्धूपैः सन्तुष्टान् परिभावयेत्(१) ॥९६.०१२ कम्बलास्तृतेषु वर्णेषु वंशस्थूणास्वनुक्रमात्(२) ।९६.०१३ पञ्च क्षित्यादितत्त्वानि सद्योजातादिभिर्यजेत् ॥९६.०१३ सदाशिवपदव्यापि मण्डपं(३) धाम शाङ्करं ।९६.०१४