सर्व तथागत तत्त्व सङ्ग्रह् [एवं मया श्रु]तमेकस्मिन् समये भगवान् सर्वतथागत-वज्राधिष्ठानसमयज्ञानविविधविशेषसमन्वागतः, सर्वतथागतरत्नमुकुटत्रैधातुकधर्मराज्याभिषेकप्राप्तः, सर्वतथागतसर्वज्ञानमहायोगीश्वरः, सर्वतथागतसर्वमुद्रासमताधिगतविश्वकार्यकरणताशेषानवशेषसत्त्वधातुसर्वाशापरिपूरकः, महाकृपो वैरोचनः शाश्वतस्त्र्यध्वसमयव्यवस्थितः सर्वकायवाक्चित्तवज्रस्तथागतः, सर्वतथागताध्युषितप्रशस्तस्तविते महामणिरत्नप्रत्युप्ते विचित्रवर्णघण्टावसक्तमारुतोद्धतपट्टस्रक्चामरहारार्धहारचन्द्रोपशोभिते अकनिष्ठदेवराजस्य भवने विजहार । नवनवतिभिर्बोधिसत्त्वकोटिभिः सार्धं, तद्यथा वज्रपाणिना च बोधिसत्त्वेन, अवलोकितेश्वरेण च बोधिसत्त्वेन, आकाशगर्भेण च, वज्रमुष्टिना च, मञ्जुश्रिया च, सहचित्तोत्पादधर्मचक्रप्रवर्तिना च, गगनगञ्जेन च सर्वमारबलप्रमर्दिना च, एवंप्रमुखैर्नवनवतिभिर्बोधिसत्त्वकोटिभिः; गङ्गानदीवालुकासमाख्यातैश्च तथागतैः, तद्यथापि नाम तिलबिम्बमिव परिपूर्णं जम्बूद्वीपे संदृश्यते । तैश्चाप्रमेयैस्तथागतैरेकैकस्माच्च तथागतकायादप्रमेयासंख्येयानि बुद्धक्षेत्राणि संदृश्यन्ते, तेषु च बुद्धक्षेत्रेषु इममेव धर्मनयं देशयन्ति स्म । अथ भगवान्महावैरोचनः सर्वाकाशधातुसदावस्थितकायवाक्चित्तवज्रः सर्वतथागतसमवसरणतया सर्ववज्रधात्ववबोधनज्ञानसत्त्वः सर्वाकाशधातुपरमाणुरजो वज्राधिष्ठानसम्भवज्ञानगर्भः सर्वतथागतानन्ततया महवज्रज्ञानाभिषेकरत्नः सर्वाकाशस्फरणतथताज्ञानाभिसम्बोध्यभिसम्बोधिभूतः सर्वतथागतात्मभावशुद्धितयास्वभावशुद्धसर्वधर्मः सर्वाकाशचर्याग्र्यः सर्वतथागतामोघाज्ञाकारितया सर्वासमानुत्तरविश्वकर्मा । सर्वतथागतमहाबोधिदृढसत्त्वः सर्वतथागतकर्षणसमयः सर्वतथागतानुरागणज्ञानेश्वरः सर्वतथागतसाधुकारः सर्वतथागतमहाभिषेकरत्नः सर्वतथागतसूर्यप्रभामण्डलः सर्वतथागतचिन्ताराजमणिरत्नकेतुः सर्वतथागतमहाहासः सर्वतथागतमहाशुद्धधर्मः सर्वतथागतप्रज्ञाज्ञानः सर्वतथागतचक्रः सर्वतथागतमहावीर्यसुदृढकवचः सर्वतथागतरक्षपरिपालनवज्रयक्षः सर्वतथागतकायवाक्चित्तवज्रबन्धमुद्राज्ञानः । एउलोग्योf समन्तभद्र थे महबोधिस्तत्त्व समन्तभद्रः स्वमोघः मारः प्रामोद्यनायकः । खगर्भः सु[महाते]जा रत्नकेतुर्महास्मितः ॥ १ ॥ अवलोकितमहेशश्च मञ्जुश्रीः सर्वमण्डलः । अवाचो विश्वकर्मा च वीर्यश्चण्डो [दृढग्रहः] ॥ २ ॥ वज्रोऽङ्कुशः शरस्तुष्टिः रत्नः सूर्यो ध्वजः स्मितः । पद्मः कोशः सुचक्रो वाक्कर्म वर्म रवयो ग्रहः ॥ ३ ॥ अनादिनिध[नः शान्तो रुद्रः क्रोधो महा]क्षमः । यक्षः सुराक्षसो धीरः सौरिः सौरिर्महाविभुः ॥ ४ ॥ उमापतिः प्रजानाथो विष्णुर्जिष्णुर्महामुनिः । लोकपालो नभो भूमि[स्त्रिलोक]स्तु त्रिधातुकः ॥ ५ ॥ महाभूतः सुसत्त्वार्थः सर्वः शर्वः पितामहः । संसारो निर्वृतिः शश्वत्सम्यग्वृत्तिर्महामहः ॥ ६ ॥ बुद्धः शुद्धो महायानस्त्रिभवः शाश्वतो हिसः । त्रिलोकविजयी शम्भुः शम्भुनाथः प्रदामकः ॥ ७ ॥ ॥ वज्रनाथः सुभूम्यग्र्यो ज्ञानः पारमितानयः । विमोक्षो बोधिसत्त्वश्च चर्यः सर्वतथागतः ॥ ८ ॥ बुद्धार्थो बुद्धहृदयः सर्वबोधिरनुत्तरः । वैरोचनो जिनो नाथः स्वयंभूर्धारणी स्मृतिः ॥ ९ ॥ महासत्त्वो महामुद्रः समाधिर्बुद्धकर्मकृत् । सर्वबुद्धात्मको भूतः सत्त्वो नित्यार्थबोधकः ॥ १० ॥ महास्थाणुर्महाकालो महारागो महासुखः । महापापो महाग्र्याग्र्यः सर्वाग्र्यो भुवनेश्वरः ॥ ११ ॥ भगवान्महाबोधिचित्तः समन्तभद्रो महाबोधिसत्त्वः सर्वतथागतहृदयेषु विजहार । अथ सर्वतथागतैरिदं बुद्धक्षेत्रं तद्यथा तिलबिम्बमिव परिपूर्णम ॥ अथ खलु सर्वतथागता महासमाजमापद्य, येन सर्वार्थसिद्धिर्बोधिसत्त्वो महासत्त्वः बोधिमण्डनिषण्णस्तेनोपजग्मुः । उपेत्य बोधिसत्त्वस्य सांभोगिकैः कायैर्दर्शनन्दत्वैवमाहुः- "कथं कुलपुत्रानुत्तरां सम्यक्सम्बोधिमभिसंभोत्स्यसे, यस्त्वं सर्वतथागततत्त्वानभिज्ञतया सर्वदुःकराण्युत्सहसी-?"ति । अथ सर्वार्थसिद्धिर्बोधिसत्त्वो महासत्वस्सर्वतथागतचोदितःसमानस्तत आस्फानसमाधितो व्युत्थाय, सर्वतथागतान् प्रणिपत्याहू यैवमाह- "भगवन्तस्तथागता आज्ञापयत कथं प्रतिपद्यामि कीदृशं तत्तत्त्वम्" इति । एवमुक्ते सर्वतथागतास्तं बोधिसत्त्वमेककण्ठेनैवमाहुः- "प्रतिपद्यस्व कुलपुत्र स्वचित्तप्रत्यवेक्षणसमाधानेन प्रकृतिसिद्धेन रुचिजप्तेन मन्त्रेण" इति ओं चित्तप्रतिवेधं करोमि । अथ बोधिसत्त्वः सर्वतथागतानेवमाह- "आज्ञातं मे भगवन्तस्तथागताः स्वहृदि चन्द्रमण्डलाकारं पश्यामि" । सर्वतथागताः प्रोचुः- "प्रकृतिप्रभास्वरमिदं कुलपुत्र चित्तं, तद्यथा परिकर्ष्यते तत्तथैव भवति । तद्यथापि नाम श्वेतवस्त्रे रागरञ्जनम्" इति । अथ सर्वतथागताः प्रकृतिप्रभास्वरचित्तज्ञानस्य स्फीतीकरणहेतोः पुनरपि तस्मै बोधिसत्त्वाय ओं बोधिचित्तमुत्पादयामि इत्यनेन प्रकृतिसिद्धेन मन्त्रेण बोधिचित्तमुत्पादितवन्तः । अथ बोधिसत्त्वः पुनरपि सर्वतथागताज्ञया बोधिचित्तमुत्पाद्यैवमाह- "यत्तच्चन्द्रमण्डलाकारं तच्चन्द्रमण्डलमेव पश्यामि" । सर्वतथागता आहुः- "सर्वतथागतहृदयन्ते समन्तभद्रश्चित्तोत्पादः सामीचीभूतः, तत्साधु प्रतिपद्यताम्, सर्वतथागतसमन्तभद्रचित्तोत्पादस्य दृढीकरणहेतोः स्वहृदि चन्द्रमण्डले वज्रबिम्बं चिन्तयानेन मन्त्रेण ओं तिष्ठ वज्र । बोधिसत्त्व आह- "पश्यामि भगवन्तस्तथागताश्चन्द्रमण्डले वज्रम्" । सर्वतथागता आहुः- "दृढीकुर्विदं सर्वतथागतसमन्तभद्रचित्तवज्रमनेन मन्त्रेण ओं वज्रात्मकोऽहम् ॥ अथ यावन्तः सर्वाकाशधातुसमवसरणाः सर्वतथागतकायवाक्चित्तवज्रधातवः, ते सर्वे सर्वतथागताधिष्ठानेन तस्मिन् सत्त्ववज्रे प्रविष्टाः । ततः सर्वतथागतैः स भगवान् सर्वार्थसिद्धिर्महाबोधिसत्त्वो वज्रधातुर्वज्रधातुरिति वज्रनामाभिषेकेणाभिषिक्तः । अथ वज्रधातुर्महाबोधिसत्त्वस्तान् सर्वतथागतानेवमाह "पश्यामि भगवन्तस्तथागताः सर्वतथागतकायमात्मानम्" । सर्वतथागताः प्राहुः- "तेन हि महासत्त्व सत्त्ववज्रं सर्वाकारवरोपेतं बुद्धबिम्बमात्मानं भावयानेन प्रकृतिसिद्धेन मन्त्रेण रुचितः परिजप्य ओं यथा सर्वतथागतास्तथाहम्" ॥ अथैवमुक्ते वज्रधातुर्महाबोधिसत्त्वस्तथागतमात्मानमभिसम्बुध्य, तान् सर्वतथागतान् प्रणिपत्याहू यैवमाह "अधितिष्ठत मां भगवन्तस्तथागता इमामभिसंबोधिं दृढीकुरुत चेति" । अथैवमुक्ते सर्वतथागता वज्रधातोस्तथागतस्य तस्मिन् सत्त्ववज्रे प्रविष्टा इति ॥ अथ भगवान् वज्रधातुस्तथागतस्तस्मिनेव क्षणे सर्वतथागतसमताज्ञानाभिसंबुद्ध सर्वतथागतवज्रसमताज्ञानमुद्रागुह्यसमयप्रविष्टः सर्वतथागतधर्मसमताज्ञानाधिगमस्वभावशुद्धः सर्वतथागतसर्वसमताप्रकृतिप्रभास्वरज्ञानाकरभूतस्तथागतोऽर्हान् सम्यक्संबुद्धः संवृत्त इति ॥ अथ सर्वतथागताः पुनरपि ततः सर्वतथागतसत्त्ववज्रान्निःसृत्याकाशगर्भमहामणिरत्नाभिषेकेणाभिषिच्यावलोकितेश्वरधर्मज्ञानमुत्पाद्य सर्वतथागतविश्वकर्मतायां प्रतिष्ठाप्य येन सुमेरुगिरिमूर्धा येन च वज्रमणिरत्नशिखरकूटागारस्तेनोपसंक्रान्ताः, उपसंक्रम्य वज्रधातुन्तथागतं सर्वतथागतत्वेऽधिष्ठ्य, सर्वतथागतसिंहासने सर्वतोमुखं प्रतिष्ठापयामासुरिति ॥ एमनतिओनोf थे ३७ देइतिएस्fरों समधि अथ खलु अक्षोभ्यस्तथागतो रत्नसंभवश्च तथागतो लोकेश्वरराजश्च तथागतो अमोघसिद्धिश्च तथागतः सर्वतथागतत्वं स्वयमात्मन्यधिष्ठाय, भगवतः शाक्यमुनेस्तथागतस्य सर्वसमतासुप्रतिवेधत्वात्सर्वदिक्समतामभ्यालम्ब्य, चतसृषु दिक्षु निषण्णाः ॥ इ.१.६ वज्रसत्त्व अथ भगवान् वैरोचनस्तथागतः अचिराभिसंबुद्धः सर्वतथागतसमन्तभद्रहृदयसर्वतथागताकाशसंभवमहामणिरत्नाभिषेकाभिषिक्तः सर्वतथागतावलोकितेश्वरधर्मज्ञानपरमपारमिताप्राप्तः सर्वतथागतविश्वकर्मतामोघाप्रतिहतशासनः परिपूर्णकार्यः परिपूर्णमनोरथः सर्वतथागतत्वं स्वयमात्मन्यधिष्ठाय, सर्वतथागतसमन्तभद्रमहाबोधिसत्त्वसमयसम्भवसत्त्वाधिष्ठानवज्रं नाम समाधिं समापद्येदं सर्वतथागतमहायानाभिसमयं नाम सर्वतथागतहृदयं स्वहृदयान निश्चचार वज्रसत्त्व ॥ अथास्मिन् विनिःसृतमात्रे सर्वथागतहृदयेभ्यः स एव भगवां समन्तभद्रश्चन्द्रमण्डलानि भूत्वा विनिःसृत्य, सर्वसत्त्वानां महाबोधिचित्तानि संशोध्य, सर्वतथागतानां सर्वपार्श्वेष्ववस्थिताः । अथ तेभ्यश्चन्द्रमण्डलेभ्यः सर्वतथागतज्ञानवज्राणि विनिःसृत्य, भगवतो वैरोचनस्य तथागतस्य हृदये प्रविष्टानि । समन्तभद्रत्वाच्च सुदृढत्वाच्च वज्रसत्त्वसमाधेः सर्वतथागताधिष्ठानेन चैकधनः सकलाकाशधातुसमवसरणप्रमाणो रश्मिमालो पञ्चमूर्धा सर्वतथागतकायवाक्चित्तवज्रमयोवज्रविग्रहः प्रादुर्भूय, सर्वथागतहृदयान्निष्क्रम्य पाणौ प्रतिष्ठितः । अथ ततो वज्राद्वज्राकारा रश्मयो विचित्रवर्णरूपाः सर्वलोकधात्वाभासनस्फरणा विनिश्चरिताः । तेभ्यश्च वज्ररश्मिमुखेभ्यः सर्वलोकधातुपरमाणुरजःसमास्तथागतविग्रहा विनिःसृत्य, सकलधर्मधातुसमवसरणेषु सर्वाकाशधातुपर्यवसानेषु सर्वलोकधातुप्रसरमेघसमुद्रेषु सर्वतथागतसमताज्ञानाभिज्ञास्वभिसंबोधात्, सर्वतथागतमहाबोधिचित्तोत्पादनसमन्तभद्रविविधचर्यानिष्पादनसर्व- तथागतकुलारागणमहाबोधिमण्डोपसंक्रमणसर्वमारधर्षणसर्व- तथागतसमतामहाबोध्यभिसंबुध्यनधर्मचक्रप्रवर्तनं यावदशेषानवशेषसत्त्वधातुपरित्राणसर्वहितसुखसर्वतथागतज्ञानाभिज्ञोत्तमसिद्धिनिष्पादनादीनि सर्वतथागतविकुर्वितानि सन्दर्श्य, समन्तभद्रत्वाद्वज्रसत्त्वसमाधेः सुदृढत्वाच्चैकघनः समन्तभद्रमहाबोधिसत्त्वकायः संभूय, भगवतो वैरोचनस्य हृदये स्थित्वेदमुदानमुदानयामास । अहो समन्तभद्रोऽहं दृढसत्त्वः स्वयंभुवाम् । यद्दृढत्वादकायोऽपि सत्त्वकायत्वमागतः ॥ अथ समन्तभद्रमहाबोधिसत्त्वकायो भगवतो हृदयादवतीर्य, सर्वतथागतानां पुरतश्चन्द्रमण्डलाश्रितो भूत्वाज्ञां मार्गयामास ॥ अथ भगवान् सर्वतथागतज्ञानसमयवज्रं नाम समाधिं समापद्य, सर्वतथागतशीलसमाधिप्रज्ञाविमुक्तिविमुक्तिज्ञानदर्शनधर्मचक्रप्रवर्तनसत्त्वार्थमहोपायबलवीर्यमहाज्ञानसमयमशेषानवशेषसत्त्वधातुपरित्राणसर्वाधिपत्यसर्वसुखसौमनस्यानुभवनार्थ यावत्सर्वतथागतसमताज्ञानाभिज्ञानुत्तरमहायानाभिसमयोत्तमसिद्ध्यवाप्तिफलहेतोस्तत्सर्वतथागतसिद्धिवज्रं तस्मै समन्तभद्राय महाबोधिसत्त्वाय सर्वतथागतचक्रवर्तित्वे सर्वबुद्धकायरत्नमुकुटपट्टाभिषेकेणाभिषिच्य पाणिभ्यामनुप्रादात् । ततः सर्वतथागतैर्वज्रपाणिर्वज्रपाणिरिति वज्रनामाभिषेकेणाभिषिक्तः । अथ वज्रपाणिर्बोधिसत्त्वो महासत्त्वो वामवज्रगर्वोल्लालनतया तदवज्रं स्वहृद्युत्कर्षणयोगेन धारयन्निदमुदानमुदानयामास । इदं तत्सर्वबुद्धानां सिद्धिवज्रमनुत्तरम् । अहं मम करे दत्तं वज्रं वज्रे प्रतिष्ठितम् ॥ इति ॥ इ.१.७ वज्ररज अथ भगवान् पुनरप्यमोघराजमहाबोधिसत्त्वसमयसंभवसत्त्वाधिष्ठानवज्रं नाम समाधिं समापद्यदं सर्वतथागताकर्षणसमयन्नाम सर्वतथागतहृदयं स्वहृदयान्निश्चचार वज्रराज ॥ अथास्मिन् विनिःसृतमात्रे सर्वतथागतहृदयेभ्यः स एव भगवान् वज्रपाणि सर्वतथागतमहाङ्कुशानि भूत्वा विनिःसृत्य, भगवतो वैरोचनस्य हृदये प्रविष्ट्वैकघनो वज्राङ्कु शमहाविग्रहः प्रादुर्भूय, भगवतः पाणौ प्रतिष्ठितः । अथ ततो वज्राङ्कु शमहाविग्रहात्सर्वलोकधातुपरमाणुरजःसमास्तथागतविग्रहा विनिःसृत्य, सर्वतथागतकर्षणादीनि सर्वबुद्धर्द्धिविकुर्वितानि कृत्वा, स्वमोघराजत्वाद्वज्रसत्त्वसमाधेः सुदृढत्वाच्चैकघनः अमोघराजमहाबोधिसत्त्वकायः संभूय, भगवतो वैरोचनस्य हृदये स्थित्वेदमुदानमुदानयामास । अहो ह्यमोघराजाहं वज्रसंभवमङ्कु शः । यत्सर्वव्यापिनो बुद्धाः समाकृष्यन्ति सिद्धयः ॥ इति ॥ अथ सोऽमोघराजमहाबोधिसत्त्वकायो भगवतो हृदयादवतीर्य, सर्वतथागतानां दक्षिणचन्द्रमण्डलाश्रितो भूत्वा, पुनरप्याज्ञां मार्गयामास ॥ अथ भगवान् सर्वतथागताकर्षणसमयवज्रन्नाम समाधिं समापद्य, सर्वतथागताकर्षणसमयमशेषानवशेषसत्त्वधातुसर्वाकर्षणसर्वसुखसौमनस्यानुभवनार्थं यावत्सर्वतथागतसमाजाधिष्ठानोत्तमसिद्ध्यर्थं तद्वज्राङ्कुशं तस्मै अमोघराजाय महाबोधिसत्त्वाय तथैव पाणिभ्यामनुप्रादात् । ततः सर्वतथागतैर्वज्राकर्षो वज्राकर्ष इति वज्रनामाभिषेकेणाभिषिक्तः ॥ अथ वज्राकर्षो बोधिसत्त्वस्तेन वज्राङ्कुशेन सर्वतथागतानाकर्षयन्निदमुदानमुदानयामास । इदं तत्सर्वबुद्धानां वज्रज्ञानमनुत्तरम् । यत्सर्वबुद्धार्थसिद्ध्यर्थ समाकर्षणमुत्तमम ॥ इति ॥ इ.१.८ वज्ररग अथ भगवान् पुनरपि मारमहाबोधिसत्त्वसमयसंभवसत्त्वाधिष्ठानवज्रं नाम समाधिं समापद्येदं सर्वतथागतानुरागणसमयन्नाम सर्वतथागतहृदयं स्वहृदयान्निश्चचार वज्रराग ॥ अथास्मिन् विनिःसृतमात्रे सर्वतथागतहृदयेभ्यः स एव भगवान् वज्रधरः सर्वतथागतकुसुमायुधानि भूत्वा विनिःसृत्य, भगवतो वैरोचनस्य हृदये प्रविष्ट्वैकघनो महावज्रवाणविग्रहः प्रादुर्भूय, पाणौ प्रतिष्ठितः । अथ ततो वज्रवाणविग्रहात्सर्वलोकधातुपरमाणुरजःसमास्तथागतविग्रहा विनिःसृत्य, सर्वतथागतानुरागणादीनि सर्वबुद्धर्द्धिविकुर्वितानि कृत्वा, सुमारणत्वाद्वज्रसत्त्वसमाधेः सुदृढत्वाच्चैकघनो मारमहाबोधिसत्त्वकायः संभूय, भगवतो वैरोचनस्य हृदये स्थित्वेदमुदानमुदानयामास । अहो स्वभावशुद्धोऽहमनुरागः स्वयंभुवाम् । यच्छुद्ध्यर्थं विरक्तानां रागेण विनयन्ति हि ॥ अथ स मारमहाबोधिसत्त्वकायो भगवतो हृदयादवतीर्य सर्वतथागतानां वामचन्द्रमण्डलाश्रितो भूत्वा, पुनरप्याज्ञां मार्गयामास ॥ अथ भगवान् सर्वतथागतानुरागणाधिष्ठानवज्रन्नाम समाधिं समापद्य, सर्वतथागतमारणवज्रसमयमशेषानवशेषत्वधात्वनुरागणर्सासुखसौमनस्यानुभवनार्थं यावत्सर्वतथागतमारकर्मोत्तमसिद्ध्यवाप्तिफलहेतोस्तद्वज्रवाणं तस्मै माराय महाबोधिसत्त्वाय तथैव पाणिभ्यामनुप्रादात् । ततः सर्वतथागतैर्वज्रधनुर्वज्रधनुरिति वज्रनामाभिषेकेणाभिषिक्तः ॥ अथ वज्रधनुर्बोधिसत्त्वो महासत्त्वस्तेन वज्रवाणेन सर्वतथागतान्मारयन्निदमुदानमुदानयामास । इदन्तत्सर्वबुद्धानां रागज्ञानमनाविलम् । हत्वा विरागं रागेण सर्वसौख्यं ददन्ति हि ॥ इ.१.९ वज्रसधु अथ भगवान् पुनरपि प्रामोद्यराजमहाबोधिसत्त्वसमयसंभवसत्त्वाधिष्ठानवज्रन्नाम समाधिं समापद्येदं सर्वतथागतप्रमोदसमयन्नाम सर्वतथागतहृदयं स्वहृदयान्निश्चचार वज्रसाधु ॥ अथास्मिन् विनिःसृतमात्रे सर्वतथागतहृदयेभ्यः स एव भगवान् वज्रधरः साधुकाराणि भूत्वा, भगवतो वैरोचनस्य हृदये प्रविष्ट्वैकघनो भूत्वा, वज्रतुष्टिविग्रहः प्रादुर्भूय, भगवतः पाणौ प्रतिष्ठितः । अथ ततो वज्रतुष्टिविग्रहात्सर्वलोकधातुपरमाणुरजःसमाः तथागतविग्रहा विनिःसृत्य, सर्वतथागतसाधुकारादीनि सर्वबुद्धर्द्धिविकुर्वितानि कृत्वा, सुप्रामोद्यत्वाद्वज्रसत्त्वसमाधेः सुदृढत्वाच्चैकघनः प्रामोद्यराजमहाबोधिसत्त्वकायः संभूय, भगवतो वैरोचनस्य तथागतस्य हृदये स्थित्वेदमुदानमुदानयामास । अहो हि साधुकारोऽहं सर्वः सर्वविदां वरः । यद्विकल्पप्रहीणानां तुष्टिं जनयति ध्रुवम् ॥ अथ स प्रामोद्यराजमहाबोधिसत्त्वकायो भगवतो वैरोचनस्य हृदयादवतीर्य, सर्वतथागतानां पृष्ठतश्चन्द्रमण्डलाश्रितो भूत्वा, पुनरप्याज्ञां मार्गयामास ॥ अथ भगवान् सर्वतथागतसंतोषणवज्रन्नाम समाधिं संपाद्य, सर्वतथागतानुत्तरप्रामोद्यज्ञानसमयशेषानवशेषसत्त्वधातुसर्वसत्त्वसन्तोषणमहासुखसौमनस्यानुभवनार्थ यावत्सर्वतथागतानुत्तरहर्षरसोत्तमसिद्धिप्राप्तिफलहेतोस्तद्वज्रतुष्टिं तस्मै प्रामोद्यराजाय महाबोधिसत्त्वाय तथैव पाणिभ्यामनुप्रादात् । ततः सर्वतथागतैर्वज्रहर्षो वज्रहर्ष इति वज्रनामाभिषेकेणाभिषिक्तः ॥ अथ वज्रहर्षो बोधिसत्त्वस्तेन वज्रतुष्टिना सर्वतथागतान् साधुकारैः प्रहर्षयन्निदमुदानमुदानयामास । इदं तत्सर्वबुद्धानां साधुकारप्रवर्तकम् । सर्वतुष्टिकरं वज्रं दिव्यं प्रामोद्यवर्धनम् ॥ इति ॥ महाबोधिचित्तं, सर्वतथागतकर्षणसमयः, सर्वतथागतानुरागणज्ञानं, महातुष्टिरिति सर्वतथागतमहासमयसत्त्वाः ॥ इ.१.१० वज्ररत्न अथ भगवान् पुनरप्याकाशगर्भमहाबोधिसत्त्वसमयसंभवरत्नाधिष्ठानवज्रन्नाम समाधिं समापद्येदं सर्वतथागताभिषेकसमयन्नाम सर्वतथागतहृदयं स्वहृदयान्निश्चचार वज्ररत्नः ॥ अथास्मिन् विनिःसृतमात्रे सर्वतथागतहृदयेभ्यः सर्वाकाशसमताज्ञानसुप्रतिवेधत्वाद्, वज्रसत्त्वसमाधेः स एव भगवान् वज्रधरः सर्वाकाशरसमयो भूत्वा विनिःसृतास्, तैः सर्वैः सर्वाकाशरश्मिभिः सर्वलोकधातवोऽवभासिताः, सर्वाकाशधातुसमाः संवृता अभूवन् । अथ सर्वतथागताधिष्ठानेन सर्वोऽसाकाशधातुर्भगवतो वैरोचनस्य हृदये प्रविष्टाः । सुपरिभावितत्वाच्च वज्रसत्त्वसमाधेः सर्वाकाशधातुगर्भमयः सर्वलोकधातुसमवसरणप्रमाणो महावज्ररत्नविग्रहः प्रादुर्भूय, भगवतः पाणौ प्रतिष्ठितः । अथ तस्माद्वज्ररत्नविग्रहात्सर्वलोकधातुपरमाणुरजःसमास्तथागतविग्रहाः प्रादुर्भूय, सर्वतथागताभिषेकादीनि सर्वतथागतर्द्धिविकुर्वितानि सर्वलोकधातुषु कृत्वा, सर्वाकाशधातुगर्भसुसंभवत्वाद्वज्रसत्त्वसमाधेः सुदृढत्वाच्चैकघनः आकाशगर्भमहाबोधिसत्त्वकायः संभूय, भगवतो वैरोचनस्य हृदये स्थित्वेदमुदानमुदानयामास । अहो हि स्वभिषेकोऽहं वज्ररत्नमनुत्तरम् । यन्निःसंगा अपि जिनास्त्रिधातुपतयः स्मृताः ॥ अथ स आकाशगर्भमहाबोधिसत्त्वकायो भगवतो हृदयादवतीर्य, सर्वतथागतानां पुरतश्चन्द्रमण्डलाश्रितो भूत्वा, पुनरप्याज्ञां मार्गयामास ॥ अथ भगवान् सर्वतथागतमणिरत्नवज्रन्नाम समाधिं समापद्य, सर्वतथागताभिप्रायपरिपूर्णसमयमशेषानवशेषसत्त्वधातुसर्वार्थपरिप्राप्तिसर्वसुखसौमनस्यानुभवनार्थं यावत्सर्वतथागतार्थसंपदुत्तमसिद्धिप्राप्त्यै तं वज्रमणिं तस्मै आकाशगर्भाय महाबोधिसत्त्वाय वज्ररत्नचक्रवर्तित्वे वज्ररत्नाङ्कुराभिषेकेणाभिषिच्य पाणिभ्यामनुप्रादात् । ततः सर्वतथागतैर्वज्रगर्भो वज्रगर्भ इति वज्रनामाभिषेकेणाभिषिक्तः । अथ वज्रगर्भो महाबोधिसत्त्वस्तं वज्रमणिं स्वाभिषेकस्थाने स्थापयन्निदमुदानमुदानयामास । इदं तत्सर्वबुद्धानां सत्त्वधात्वभिषेचनम् । अहम्मम करे दत्तं रत्ने रत्नन्नियोजितम् ॥ इ.१.११ वज्रतेज अथ भगवान् पुनरपि महातेजमहाबोधिसत्त्वसमयसंभवरत्नाधिष्ठानवज्रन्नाम समाधिं समापद्यदं सर्वतथागतरश्मिसमयन्नाम सर्वतथागतहृदयं स्वहृदयान्निश्चचार वज्रतेज ॥ अथास्मिन् विनिःसृतमात्रे सर्वतथागतहृदयेभ्यः स एव भगवान् वज्रपाणिः महासूर्यमण्डलानि भूत्वा, भगवतो वैरोचनस्य हृदये प्रविष्ट्वैकघनो वज्रसूर्यविग्रहः प्रादुर्भूय, भगवतः पाणौ प्रतिष्ठितः । अथ ततो वज्रसूर्यमण्डलात्सर्वलोकधातुपरमाणुरजःसमाः तथागतविग्रहा विनिःसृत्य, सर्वतथागतरश्मिप्रमुञ्चनादीनि सर्वतथागतर्द्धिविकुर्वितानि कृत्वा, सुमहातेजस्त्वाद्वज्रसत्त्वसमाधेः सुदृढत्वाच्चैकघनो महातेजमहाबोधिसत्त्वकायः संभूय, भगवतो वैरोचनस्य हृदये स्थित्वेदमुदानमुदानयामास । अहो ह्यनुपमं तेजः सत्त्वधात्ववभासनम् । यच्छोधयति शुद्धानां बुद्धानामपि तायिनाम् । अथ स विमलतेजमहाबोधिसत्त्वकायो भगवतो हृदयादवतीर्य, सर्वतथागतानां दक्षिणचन्द्रमण्डलाश्रितो भूत्वा, पुनरप्याज्ञां मार्गयामास ॥ अथ भगवान् सर्वतथागतप्रभामण्डलाधिष्ठानवज्रन्नाम समाधिं समापद्य, सर्वतथागतरश्मिसमयमशेषानवशेषसत्त्वधात्वनुपमतेजःसर्वसुखसौमनस्यानुभवनार्थं यावत्सर्वतथागतस्वयंप्रभावाप्त्युत्तमसिद्धये तद्वज्रसूर्यं तस्मै महातेजसे महाबोधिसत्त्वाय तथैव पाणिभ्यामनुप्रादात् । ततः सर्वतथागतैर्वज्रप्रभो वज्रप्रभ इति वज्रनामाभिषेकेणाभिषिक्तः ॥ अथ वज्रप्रभो महाबोधिसत्त्वस्तेन वज्रसूर्येण सर्वतथागतानवभासयन्निदमुदानमुदानयामास । इदं तत्सर्वबुद्धानामज्ञानध्वान्तनाशनम् । परमाणुरजःसंख्यसूर्याधिकतरप्रभम् ॥ इति ॥ इ.१.१२ वज्रकेतु अथ भगवान् पुनरपि रत्नकेतुमहाबोधिसत्त्वसमयसंभवरत्नाधिष्ठानवज्रन्नाम समाधिं समापद्येदं सर्वतथागताशापरिपूरणसमयन्नाम सर्वतथागतहृदयं स्वहृदयान्निश्चचार वज्रकेतु ॥ अथास्मिन् विनिःसृतमात्रे सर्वतथागतहृदयेभ्यः स एव भगवान् वज्रधरो विचित्रवर्णरूपालङ्कारसंस्थानाः पताका भूत्वा विनिःसृत्य, भगवतो वैरोचनस्य हृदये प्रविष्ट्वैकघनो वज्रध्वजविग्रहः प्रादुर्भूय, भगवतः पाणौ प्रतिष्ठितः । अथ ततो वज्रध्वजविग्रहात्सर्वलोकधातुपरमाणुरजःसमास्तथागतविग्रहा विनिश्चरित्वा, सर्वतथागतरत्नध्वजोच्छ्रेपणादीनि सर्वबुद्धर्द्धिविकुर्वितानि कृत्वा, महारत्नकेतुत्वाद्वज्रसत्त्वसमाधेः सदृढत्वाच्चैकघनो रत्नकेतुमहाबोधिसत्त्वकायः संभूय, भगवतो वैरोचनस्य तथागतस्य हृदये स्थित्वेदमुदानमुदानयामास । अहो ह्यसदृशः केतुरहं सर्वार्थसिद्धीनाम् । यत्सर्वाशापरिपूर्णानां सर्वार्थप्रतिपूरणम् ॥ इति ॥ अथ स रत्नकेतुर्महाबोधिसत्त्वकायो भगवतो हृदयादवतीर्य, सर्वतथागतानां वामचन्द्रमण्डलाश्रितो भूत्वा, पुनरप्याज्ञां मार्गयामास ॥ अथ भगवान् सर्वतथागतोच्छ्रयाधिष्ठानवज्रन्नाम समाधिं समापद्य, सर्वतथागतचिन्ताराजमणिध्वजोच्छ्रेपणसमयमशेषानवशेषसत्त्वधातुसर्वाशापरिपूरिसर्वसुखसौमनस्यानुभवनार्थं यावत्सर्वतथागतमहार्थोत्तमसिद्धिप्राप्तिफलहेतोः तद्वज्रध्वजं तस्मै रत्नकेतवे महाबोधिसत्त्वाय तथैव पाणिभ्यामनुप्रादात् । ततः सर्वतथागतैर्वज्रयष्टिर्वज्रयष्टिरिति वज्रनामभिषेकेणाभिषिक्तः । अथ वज्रयष्टिर्बोधिसत्त्वो महासत्त्वस्तेन वज्रध्वजेन सर्वतथागतान् दानपारमितायान्नियोजयन्निदमुदानमुदानयामास । इदं तत्सर्वबुद्धानां सर्वाशापपरिपूरणम् । चिन्तामणिध्वजन्नाम दानपारमितानयम् ॥ इति ॥ इ.१.१३ वज्रहस अथ भगवान् पुनरपि नित्यप्रीतिप्रमुदितेन्द्रियमहाबोधिसत्त्वसमयसंभवरत्नाधिष्ठानवज्रन्नाम समाधिं समापद्येदं सर्वतथागतप्रीतिसमयन्नाम सर्वतथागतहृदयं स्वहृदयान्निश्चचार वज्रहास ॥ अथास्मिन् विनिःसृतमात्रे सर्वतथागतहृदयेभ्यः स एव भगवान् वज्रधरः सर्वतथागतस्मितानि भूत्वा विनिःसृत्य, भगवतो वैरोचनस्य हृदये प्रविष्ट्वैकघनो वज्रस्मितविग्रहः प्रादुर्भूय, प्राणौ प्रतिष्ठितः । अथ ततो वज्रस्मितविग्रहात्सर्वलोकधातुपरमाणुरजःसमास्तथागतविग्रहाः सर्वतथागताद्भूतादीनि सर्वबुद्धर्द्धिविकुर्वितानि कृत्वा, नित्यप्रीतिप्रमुदितेन्द्रियत्वाद्वज्रसत्त्वसमाधेः सुदृढत्वाच्चैकघनो नित्यप्रीतिप्रमुदितेन्द्रियमहाबोधिसत्त्वकायः संभूय, भगवतो वैरोचनस्य हृदये स्थित्वेदमुदानमुदानयामास । अहो महाहासमहं सर्वाग्र्याणां महाद्भुतम् । यत्प्रयुञ्जन्ति बुद्धार्थे सदैव सुसमाहिताः ॥ अथ स नित्यप्रीतिप्रमुदितेन्द्रियमहाबोधिसत्त्वकायो भगवतो हृदयादवतीर्य, सर्वतथागतानां पृष्ठतश्चन्द्रमण्डलाश्रितो भूत्वा, पुनरप्याज्ञां मार्गयामास ॥ अथ भगवान् सर्वतथागताद्भुताधिष्ठानवज्रन्नाम समाधिं समापद्य, सर्वतथागताद्भुतोत्पादसमयमशेषानवशेषसत्त्वधातुसर्वेन्द्रियानुत्तरसुखसौमनस्यानुभवनार्थं यावत्सर्वतथागतेन्द्रियपरिशोधनज्ञानाभिज्ञावाप्तिफलहेतोस्तद्वज्रस्मितं तस्मै नित्यप्रीतिप्रमुदितेन्द्रियाय महाबोधिसत्त्वाय तथैव पाणिभ्यामनुप्रादात् । ततः सर्वतथागतैर्वज्रप्रीतिर्वज्रप्रीतिरिति वज्रनामाभिषेकेणाभिषिक्तः ॥ अथ वज्रप्रीतिर्बोधिसत्त्वो महासत्त्वः तेन वज्रस्मितेन सर्वतथागतान् प्रहर्षयन्निदमुदानमुदानयामास । इदन्तत्सर्वबुद्धानामद्भुतोत्पाददर्शकम् । महाहर्षकरं ज्ञानमज्ञातं परशासिभिर् ॥ इति ॥ महाभिषेकः, व्यामप्रभामण्डलं, महासत्त्वार्थो, महाहर्षश्चेति । सर्वतथागतमहाभिषेकसत्त्वाः ॥ इ.१.१४ वज्रधर्म अथ भगवान् पुनरप्यवलोकितेश्वरमहाबोधिसत्त्वसमयसंभवधर्माधिष्ठानवज्रन्नाम समाधिं समापद्येदं सर्वतथागधर्मसमयन्नाम सर्वतथागतहृदयं स्वहृदयान्निश्चचार वज्रधर्म ॥ अथास्मिन् विनिःसृतमात्रे सर्वतथागतहृदयेभ्यः स एव भगवान् वज्रधरः स्वभावशुद्धधर्मसमताज्ञानसुप्रतिवेधत्वात्वज्रसत्त्वसमाधेः सद्धर्मरश्मयो भूत्वा विनिश्चरितः, तैः सद्धर्मरश्मिभिः सर्वलोकधातवोऽवभासिताः, धर्मधातुमयाः संवृता अभूवन् । स च सकलो धर्मधातुर्भगवतो वरोचनस्य हृदये प्रविष्ट्वैकघनः सर्वाकाशधातुसमवसरणप्रमाणो महापद्मविग्रहः प्रादुर्भूय, भगवतः पाणौ प्रतिष्ठितः । अथ तस्माद्वज्रपद्मविग्रहात्सर्वलोकधातुपरमाणुरजःसमास्तथागतविग्रहा विनिःसृत्य, सर्वतथागतसमाधिज्ञानाभिज्ञादीनि सर्वबुद्धर्द्धिविकुर्वितानि सर्वलोकधातुषु कृत्वा, स्ववलोकनैस्वर्यत्वाद्वज्रसत्त्वसमाधेः सुदृढत्वाच्चैकघनः अवलोकितेश्वरमहाबोधिसत्त्वकायःसंभूय, भगवतो वैरोचनस्य तथागतस्य हृदये स्थित्वेदमुदानमुदानयामास । अहो हि परमार्थोऽहमादिशुद्धः स्वयंभुवान् । यत्कोलोपमधर्माणां विशुद्धिरुपलभ्यते ॥ अथ सोऽवलोकितेश्वरमहाबोधिसत्त्वकायो भगवतो वैरोचनस्य हृदयादवतीर्य, सर्वतथागतानां पुरतश्चन्द्रमण्डलाश्रितो भूत्वा, पुनरप्याज्ञां मार्गयामास ॥ अथ भगवान् सर्वतथागतसमाधिज्ञानसमयवज्रन्नाम समाधिं समापद्य, सर्वतथागतविशोधनसमयमशेषानवशेषसत्त्वात्मपरिशुद्धिसर्वसुखसौमनस्यानुभवनार्थं यावत्सर्वतथागतधर्मज्ञानाभिज्ञावाप्तिफलहेतोस्तद्वज्रपद्मं तस्म अवलोकितेश्वराय महाबोधिसत्त्वाय सद्धर्मचक्रवर्तित्वे सर्वतथागतधर्मकायाभिषेकेणाभिषिच्य, पाणिभ्यामनुप्रादात् । ततः सर्वतथागतर्वज्रनेत्रो वज्रनेत्र इति वज्रनामाभिषेकेणाभिषिक्तः ॥ अथ वज्रनेत्रो बोधिसत्त्वो महासत्त्वः तद्वज्रपद्मं पत्रविकासनतया रागविशुद्धिनिर्लेपस्वभावावलोकनतथावलोकयन्निदमुदानमुदानयामास । इदं तत्सर्वबुद्धानां रागतत्त्वावबोधनम् । अहं मम करे दत्तं धर्म धर्मे प्रतिष्ठितम् ॥ इति ॥ इ.१.१५ वज्रतिक्स्न अथ भगवान् पुनरपि मञ्जुश्रीमहाबोधिसत्त्वसमयसंभवधर्माधिष्ठानवज्रं नाम समाधिं समापद्यदं सर्वतथागतमहाप्रज्ञाज्ञानसमयन्नाम सर्वतथागतहृदयं स्वहृदयान्निश्चचार वज्रतीक्ष्ण ॥ अथास्मिन् विनिःसृतमात्रे सर्वतथागतहृदयेभ्यः स एव भगवान् वज्रधरः प्रज्ञाशस्त्राणि भूत्वा विनिःसृत्य, भगवतो वैरोचनस्य हृदये प्रविष्ट्वैकधनो वज्रकोशविग्रहः प्रादुर्भूय, भगवतः पाणौ प्रतिष्ठितः । अथ ततो वज्रकोशविग्रहात्सर्वलोकधातुपरमाणुरजःसमास्तथागतविग्रहा विनिश्चरित्वा, सर्वतथागतप्रज्ञाज्ञानादीनि सर्वबुद्धर्द्धिविकुर्वितानि कृत्वा, सुमञ्जुश्रियत्वात्वज्रसत्त्वसमाधेः सुदृढत्वाच्चैकघनो मञ्जुश्रीमहाबोधिसत्त्वकायः संभूय, भगवतो वैरोचनस्य हृदये स्थित्वेदमुदानमुदानयामास ॥ अहो हि सर्वबुद्धानां मञ्जुघोषमहं स्मृतः । यत्प्रज्ञाया अरूपिण्या घोषत्वमुपलभ्यते ॥ अथ स मञ्जुश्रीमहाबोधिसत्त्वकायो भगवतो हृदयादवतीर्य, सर्वतथागतानां दक्षिणचन्द्रमण्डलाश्रितो भूत्वा, पुनरप्याज्ञां मार्गयामास ॥ अथ भगवान् सर्वतथागतप्रज्ञाज्ञानवज्रं नाम समाधिं समापद्य, सर्वतथागतक्लेशच्छेदनसमयमशेषानवशेषसत्त्वधातुसर्वदुःखच्छेदनसर्वसुखसौमनस्यानुभवनार्थं यावत्सर्वतथागतघोषानुगप्रज्ञापारिर्पूर्युत्तमसिद्ध्यर्थं तस्मै मञ्जुश्रिये महाबोधिसत्त्वाय तद्वज्रकोशं तथैव पाणिभ्यामनुप्रादात् । ततः सर्वतथागतैर्वज्रबुद्धिर्वज्रबुद्धिरिति वज्रनामाभिषेकेणाभिषिक्तः ॥ अथ स वज्रबुद्धिर्बोधिसत्त्वो महासत्त्वः तेन वज्रकोशेन सर्वतथागतान् प्रहरन्निदमुदानमुदानयामास । इदं तत्सर्वबुद्धानां प्रज्ञापारमितानयम् । छेत्तारं सर्वशत्रूणां सर्वपापहरं परम् ॥ इति ॥ इ.१.१६ वज्रहेतु अथ भगवान् पुनरपि सहचित्तोत्पादितधर्मचक्रप्रवर्तिमहाबोधिसत्त्वसमयसंभवधर्माधिष्ठानवज्रं नाम समाधिं समापद्येदं सर्वतथागतचक्रसमयन्नाम सर्वतथागतहृदयं स्वहृदयान्निश्चचार वज्रहेतु ॥ अथास्मिन् विनिःसृतमात्रे सर्वतथागतहृदयेभ्यः स एव भगवान् वज्रधरो वज्रधातुमहामण्डलादीनि सर्वतथागतमण्डलानि भूत्वा विनिःसृत्य, भगवतो वैरोचनस्य हृदये प्रविष्ट्वैकघनो वज्रचक्रविग्रहः प्रादुर्भूय, भगवतः पाणौ प्रतिष्ठितः । अथ ततो वज्रचक्रविग्रहात्सर्वलोकधातुपरमाणुरजःसमाः तथागतविग्रहा विनिश्चरित्वा, सहचित्तोत्पादधर्मचक्रप्रवर्तनादीनि सर्वबुद्धर्द्धिविकुर्वितानि सर्वलोकधातुषु कृत्वा, सहचित्तोत्पादधर्मचक्रप्रवर्तनत्वाद्वज्रसत्त्वसमाधेः सुदृढत्वाच्चैकघनः सहचित्तोत्पादितधर्मचक्रप्रवर्तिमहाबोधिसत्त्वकायः संभूय, भगवतो वैरोचनस्य हृदये स्थित्वेदमुदानमुदानयामास । अहो वज्रमयं चक्रमहं वज्राग्रधर्मिणाम् । यच्चित्तोत्पादमात्रेण धर्मचक्रं प्रवर्तते ॥ अथ स सहचित्तोत्पादितधर्मचक्रप्रवर्तिमहाबोधिसत्त्वकायो भगवतो हृदयादवतीर्य, सर्वतथागतानां वामचन्द्रमण्डलाश्रितो भूत्वा, पुनरप्याज्ञां मार्गयामास ॥ अथ भगवान् सर्वतथागतचक्रवज्रन्नाम समाधिं समापद्य, सर्वतथागतमहामण्डलसमयं शेषानवशेषसत्त्वधातुप्रवेशावैवर्तिकचक्रसर्वसुखसौमनस्यानुभवनार्थं यावत्सर्वतथागतसद्धर्मचक्रप्रवर्तनोत्तमसिद्धिनिमित्तं तद्वज्रचक्रं तस्मै सहचित्तोत्पादितधर्मचक्रप्रवर्तिने महाबोधिसत्त्वाय तथैव पाणिभ्यामनुप्रादात् । ततः सर्वतथागतैर्वज्रमण्डो वज्रमण्ड इति वज्रनामाभिषेकेणाभिषिक्तः ॥ अथ वज्रमण्डो बोधिसत्त्वो सहासत्त्वस्तेन वज्रचक्रेण सर्वतथागतानवैवर्तिकत्वे प्रतिष्ठापयन्निदमुदानमुदानयामास । इदं तत्सर्वबुद्धानां सर्वधर्मविशोधकम् । अवैवर्तिकचक्रन्तु बोधिमण्डमिति स्मृतम् ॥ इति ॥ इ.१.१७ वज्रभस अथ भगवानवाचमहाबोधिसत्त्वसमयसंभवधर्माधिष्ठानवज्रन्नाम समाधिं समापद्येदं सर्वतथागतजापसमयं नाम सर्वतथागतहृदयं स्वहृदयान्निश्चचार वज्रभाष ॥ अथास्मिन् विनिःसृतमात्रे सर्वतथागतहृदयेभ्यः स एव भगवान् वज्रपाणिः सर्वतथागतधर्माक्षराणि भूत्वा विनिः सृत्य, भगवतो वैरोचनस्य हृदये प्रविष्ट्वैकधनो वज्रजापविग्रहः प्रादुर्भूय, भगवतः पाणौ प्रतिष्ठितः । अथ ततो वज्रजापविग्रहात्सर्वलोकधातुपरमाणुरजःसमास्तथागतविग्रहा विनिःसृत्य, सर्वतथागतधर्मतादिनि सर्वबुद्धर्द्धिविकुर्वितानि कृत्वा स्ववाचत्वाद्वज्रसत्त्वसमाधेः सुदृढत्वाच्चैकघनः अवाचमहाबोधिसत्त्वकायः संभूय, भगवतो वैरोचनस्य हृदये स्थित्वेदमुदानयामास । अहो स्वयंभुवां गुह्यं सन्धाभाषमहं स्मृतः । यद्देशयन्ति सद्धर्मं वाक्प्रपञ्चविवर्जितम् ॥ अथ स अवाचमहाबोधिसत्त्वकायो भगवतो हृदयादवतीर्य, सर्वतथागतानां पृष्ठतश्चन्द्रमण्डलाश्रितो भूत्वा, पुनरप्याज्ञां मार्गयामास । अथ भगवान् सर्वतथागतगुह्यवाग्वज्रं नाम समाधिं समापद्य, सर्वतथागतवाग्ज्ञानसमयमशेषानवशेषसत्त्वधातुवाक्सिद्धिसर्वसुखसौमनस्यानुभवनार्थं यावत्सर्वतथागतवाग्गुह्यताप्राप्त्युत्तमसिद्धये तद्वज्रजापं तस्मै अवाचाय महाबोधिसत्त्वाय तथैव पाणिभ्यामनुप्रादात् । ततः सर्वतथागतैर्वज्रवाचो वज्रवाच इति वज्रनामाभिषेकेणाभिषिक्तः ॥ अथ वज्रवाचो बोधिसत्त्वो महासत्त्वस्तेन वज्रजापेन सर्वतथागतान् संल्लापयन्निदमुदानमुदानयामास । इदं तत्सर्वबुद्धानां वज्रजापमुदाहृतम् । सर्वतथागतानां तु मन्त्राणामाशुसाधनम् ॥ इति ॥ वज्रधर्मताज्ञानं, सर्वतथागतप्रज्ञाज्ञानं, महाचक्रप्रवर्तनज्ञानं, सर्वतथागतवाक्प्रपञ्चविनिवर्तनज्ञानं चेति । सर्वतथागतमहाज्ञानसत्त्वाः ॥ इ.१.१८ वज्रकर्म अथ भगवान् सर्वतथागतविश्वकर्ममहाबोधिसत्त्वसमयसंभवकर्माधिष्ठानवज्रं नाम समाधिं समापद्य, इदं सर्वतथागतकर्मसमयन्नाम सर्वतथागतहृदयं स्वहृदयान्निश्चचार वज्रकर्म ॥ अथास्मिन् विनिःसृतमात्रे सर्वतथागतहृदयेभ्यः सर्वकर्मसमताज्ञानसुप्रतिवेधत्वात्वज्रसत्त्वसमाधेः स एव भगवन् वज्रधरः सर्वतथागतकर्मसमयो भूत्वा विनिःसृतः, तैश्च सर्वतथागतकर्मरश्मिभिः सर्वलोकधातवो भासिताः, सर्वतथागतकर्मधातुमयाः संवृत्ताः, स सकलः सर्वतथागतकर्मधातुर्भगवतो वैरोचनस्य हृदये प्रविष्ट्वैकघनः सर्वाकाशधातुसमवसरणप्रमाणस्ततः सर्वतथागतकर्मधातुतः कर्मवज्रविग्रहः प्रादुर्भूय, भगवतः पाणौ प्रतिष्ठितः । अथ ततः कर्मवज्रविग्रहात्सर्वलोकधातुपरमाणुरजःसमास्तथागतविग्रहा विनिःसृत्य, सर्वलोकधातुषु सर्वतथागतकर्मादीनि सर्वबुद्धर्द्धिविकुर्वितानि कृत्वा, सर्वतथागतानन्तकर्मत्वाद्वज्रसत्त्वसमाधेः सुदृढत्वाच्चैकघनः सर्वतथागतविश्वकर्ममहाबोधिसत्त्वकायः संभूय, भगवतो वैरोचनस्य हृदये स्थित्वेदमुदानमुदानयामास । अहो ह्यमोघं बुद्धानां सर्वकर्ममहं बहु । यदनाभोगबुद्धार्थं वज्रकर्म प्रवर्तते ॥ अथ स सर्वतथागतविश्वकर्ममहाबोधिसत्त्वकायो भगवतो हृदयादवतीर्य, सर्वतथागतानां पुरतश्चन्द्रमण्डलाश्रितो भूत्वा, पुनरप्याज्ञां मार्गयामास ॥ अथ भगवान् सर्वतथागतामोघवज्रं नाम समाधिं समापद्य, सर्वतथागतपूजाप्रवर्तनाद्यप्रमेयामोघसर्वकर्मविधिविस्तरसमयशेषानवशेषसत्त्वधातुसर्वकर्मसिद्धिसर्वसुखसौमनस्यानुभवनार्थं यावत्सर्वतथागतवज्रकर्मताज्ञानाभिज्ञोत्तमसिद्धिफलहेतोस्तत्कर्मवज्रं तस्मै सर्वतथागतविश्वकर्मणे महाबोधिसत्त्वाय सर्वकर्मचक्रवर्तित्वे सर्वतथागतवज्राभिषेकेणाभिषिच्य, पाणिभ्यामनुप्रादात् । ततः सर्वतथागतैर्वज्रविश्वो वज्रविश्व इति वज्रमहाभिषेकेणाभिषिक्तः । अथ वज्रविश्वो बोधिसत्त्वो महासत्वस्तद्वज्रं स्वहृदि स्थाप्य, सर्वतथागतकर्मतायान्नियोजयन्निदमुदानमुदानयामास । इदं तत्सर्वबुद्धानां विश्वकर्मकरं परम् । अहं मम करे दत्तं विश्वे विश्वं नियोजितम् ॥ इति ॥ इ.१.१९ वज्ररक्स अथ भगवान् दुर्योधनवीर्यमहाबोधिसत्त्वसमयसंभवकर्माधिष्ठानवज्रं नाम समाधिं समापद्येदं सर्वतथागतरक्षासमयन्नाम सर्वतथागतहृदयं स्वहृदयान्निश्चचार वज्ररक्ष ॥ अथास्मिन् विनिःसृतमात्रे सर्वतथागतहृदयेभ्यः स एव भगवान् वज्रपाणिर्दृढकवचानि भूत्वा विनिःसृत्य, भगवतो वैरोचनस्य हृदये प्रविष्ट्वैकघनो महावज्रकवचविग्रहः प्रादुर्भूय, भगवतः पाणौ प्रतिष्ठितः । अथ ततो वज्रकवचविग्रहात्सर्वलोकधातुपरमाणुरजःसमास्तथागतविग्रहा विनिःसृत्य, सर्वतथागतरक्षाविधिविस्तरकर्मादीनि सर्वबुद्धर्द्धिविकुर्वितानि कृत्वा, दुर्योधनवीर्यत्वाद्वज्रसत्त्वसमाधेः सुदृढत्वाच्चैकघनो दुर्योधनवीर्यमहाबोधिसत्त्वविग्रहः संभूय, भगवतो वैरोचनस्य हृदये स्थित्वेदमुदानमुदानयामास । अहो वीर्यमयो वर्मः सुदृढोऽहं दृढात्मनाम् । यद्दृढत्वादकायानां वज्रकायकरं परम् ॥ अथ स दुर्योधनवीर्यमहाबोधिसत्त्वकायो भगवतो हृदयादवतीर्य, सर्वतथागतानां दक्षिणचन्द्रमण्डलाश्रितो भूत्त्वा, पुनरप्याज्ञां मार्गयामास ॥ अथ भगवान् सर्वतथागतदृढवज्रन्नाम समाधिं समापद्य, सर्वतथागतवीर्यपारमितासमयमशेषानवशेषसत्त्वधातुपरित्राणसर्वसुखसौमनस्यानुभवनार्थं यावत्सर्वतथागतवज्रकायप्राप्त्युत्तमसिद्धिहेतोस्तद्वज्रवर्म तस्मै दुर्योधनवीर्याय महाबोधिसत्त्वाय पाणिभ्यामनुप्रादात् । ततः सर्वतथागतैर्वज्रमित्रो वज्रमित्र इति वज्रनामाभिषेकेणाभिषिक्तः ॥ अथ वज्रमित्रो बोधिसत्त्वो महासत्त्वः तेन वज्रवर्मेण सर्वतथागतान् कवचयन्निदमुदानमुदानयामास । इदं तत्सर्वबुद्धानां मैत्रीकवचमुत्तमम् । दृढवीर्यमहारक्षं महामित्रमुदाहृतम ॥ इति ॥ इ.१.२० वज्रयक्स अथ भगवान् पुनरपि सर्वमारप्रमार्देमहाबोधिसत्त्वसमयसंभवकर्माधिष्ठानवज्रन्नाम समाधिं समापद्येदं सर्वतथागतोपायसमयं नाम सर्वतथागतहृदयं स्वहृदयान्निश्चचार वज्रयक्ष ॥ अथास्मिन् विनिःसृतमात्रे सर्वतथागतहृदयेभ्यः स एव भगवान् वज्रधरो महादंष्ट्रायुधानि भूत्वा विनिःसृत्य, भगवतो वैरोचनस्य हृदये प्रविष्ट्वैकघनो वज्रदंष्ट्राविग्रहः प्रादुर्भूय, पाणौ प्रतिष्ठितः । अथ ततो वज्रदंष्ट्राविग्रहात्सर्वलोकधातुपरमाणुरजःसमास्तथागतविग्रहा विनिश्चरित्वा, सर्वतथागतरौद्रविनयादीनि सर्वबुद्धर्द्धिविकुर्वितानि कृत्वा, सर्वमारसुप्रमर्दित्वाद्वज्रसत्त्वसमाधेः सुदृढत्वाच्चैकघनः सर्वमारप्रमर्दिमहाबोधिसत्त्वकायः संभूय, भगवतो वैरोचनस्य हृदये स्थित्वेदमुदानमुदानयामास ॥ अहो महोपायमहं बुद्धानां करुणात्मनाम् । यत्सत्त्वार्थतया शान्ता रौद्रत्वमपि कुरुवते ॥ अथ स सर्वमारप्रमर्दिमहाबोधिसत्त्वकायो भगवतो हृदयादवतीर्य, सर्वतथागतानां वामचन्द्रमण्डलाश्रितो भूत्वा, पुनरप्याज्ञां मार्गयामास ॥ अथ भगवान् सर्वतथागतप्रचण्डवज्रन्नाम समाधिं समापद्य, सर्वतथागतदुष्टविनयसमयमशेषानवशेषत्वधात्वभयसर्वसुखसौमनस्यानुभवनार्थं यावत्सर्वतथागतमहोपायज्ञानाभिज्ञावाप्त्युत्तमसिद्धिफलहेतोस्तद्वज्रदंष्ट्रायुधं तस्मै सर्वमारप्रमर्दिने महाबोधिसत्त्वाय तथैव पाणिभ्यामनुप्रादात् । ततः सर्वतथागतैर्वज्रचण्डो वज्रचण्ड इति वज्रनामाभिषेकेणाभिषिक्तः ॥ अथ वज्रचण्डो बोधिसत्त्वो महासत्त्वस्तद्वज्रदंष्ट्रायुधं स्वमुखे प्रतिष्ठाप्य, सर्वतथागतान् भीषयन्निदमुदानमुदानयामास । इदं तत्सर्वबुद्धानां सर्वदुष्टाग्रदामकम् । वज्रदंष्ट्रायुधं तीक्ष्णमुपायः करूणात्मनाम् ॥ इति ॥ इ.१.२१ वज्रसन्धि अथ भगवान् पुनरपि सर्वतथागतमुष्टिमहाबोधिसत्त्वसमयसंभवकर्माधिष्ठानवज्रं नाम समाधिं समापद्यदं सर्वतथागतकायवाक्चित्तवज्रबन्धसमयन्नाम सर्वतथागतहृदयं स्वहृदयान्निश्चचार वज्रसन्धि ॥ अथास्मिन् विनिःसृतमात्रे सर्वतथागतहृदयेभ्यः स एव भगवान् वज्रधरः सर्वतथागतसर्वमुद्राबन्धा भूत्वा विनिःसृत्य, भगवतो वैरोचनस्य हृदये प्रविष्ट्वैकघनो वज्रबन्धविग्रहः प्रादुर्भूय, पाणौ प्रतिष्ठितः । अथ ततो वज्रबन्धविग्रहात्सर्वलोकधातुपरमाणुरजःसमास्तथागतविग्रहा विनिश्चरित्वा, सर्वलोकधातुषु सर्वतथागतमुद्राज्ञानादीनि सर्वबुद्धर्द्धिविकुर्वितानि कृत्वा, सर्वतथागतमहामुष्टिसुबन्धत्वाद्वज्रसत्त्वसमाधेः सुदृढत्वाच्चैकघनः सर्वतथागतमुष्टिमहाबोधिसत्त्वकायः संभूय, भगवतो वैरोचनस्य हृदये स्थित्वेदमुदानमुदानयामास । अहो हि सुदृढो बन्धः समयोऽहं दृढात्मनाम् । यत्सर्वाशाप्रसिद्ध्यर्थं मुक्तानामपि बन्धनम् ॥ अथ सर्वतथागतमुष्टिमहाबोधिसत्त्वकायो भगवतो हृदयादवतीर्य, सर्वतथागतानां पृष्ठतश्चन्द्रमण्डलाश्रितो भूत्वा, पुनरप्याज्ञां मार्गयामास ॥ अथ भगवान् सर्वतथागतसमयवज्रन्नाम समाधिं समापद्य, सर्वतथागतमुद्राबन्धसमयमशेषानवशेषसत्त्वधातुसर्वतथागतदेवतासान्निध्यकल्पनात्सर्वसिद्धिसुखसौमनस्यानुभवनार्थं यावत्सर्वतथागतसर्वज्ञानमुद्राधिपत्योत्तमसिद्धिफलहेतोस्तद्वज्रबन्धं तस्मै सर्वतथागतमुष्टये महाबोधिसत्त्वाय तथैव पाणिभ्यामनुप्रादात् । ततः सर्वतथागतैर्वज्रमुष्टिर्वज्रमुष्टिरिति वज्रनामाभिषेकेणाभिषिक्तः ॥ अथ स वज्रमुष्टिर्बोधिसत्त्वो महासत्त्वः तेन वज्रबन्धेन सर्वतथागतान् बन्धयन्निदमुदानमुदानयामास । इदं तत्सर्वबुद्धानां मुद्राबन्धं महादृढम् । यत्सर्वबुद्धाशुसिद्ध्यर्थं समयो दुरतिक्रमः ॥ इति ॥ सर्वतथागतपूजाविधिविस्तरकर्म, महावीर्यदृढकवचः, सर्वतथागतमहोपायः, सर्वमुद्राज्ञानं चेति । सर्वतथागतमहाकर्मसत्त्वाः ॥ इ.१.२२ सत्त्ववज्रि अथ खल्वक्षोभ्यस्तथागतो भगवतो वैरोचनस्य तथागतस्य सर्वतथागतज्ञानानि निष्पाद्य, सर्वतथागतज्ञानमुद्रणार्थं वज्रापारमितासमयोभ्दववज्राधिष्ठानं नाम समाधिं समापद्येमां सर्वतथागतवज्रसमयां नाम सर्वतथागतमुद्रां स्वहृदयान्निश्चचार सत्त्ववज्रि ॥ अथास्यां विनिःसृतमात्रायां सर्वतथागतहृदयेभ्यो वज्ररश्मयो विनिश्चरिताः । तेभ्यश्च वज्ररश्मिभ्यः स एव भगवान् वज्रधरः सर्वलोकधातुपरमाणुरजःसमास्तथागतविग्रहा भूत्वा, सर्वतथागतवज्रपारमिताज्ञानान्यामुद्र्य, पुनरप्येकघनः सर्वलोकधातुसमवसरणप्रमाणो महावज्रविग्रहः प्रादुर्भूय, भगवतोवैरोचनस्य पुरतश्चन्द्रमण्डलाश्रितो भूत्वा, इदमुदानमुदानयामास । अहो हि सर्वबुद्धानां सत्त्ववज्रमहं दृढः । यद्दृढत्वादकायोऽपि वज्रकायत्वमागतः ॥ इति ॥ इ.१.२३ रत्नवज्रि अथ भगवान् रत्नसंभवस्तथागतः भगवतो वैरोचनस्य तथागतस्य सर्वतथागतज्ञानमुद्रणार्थं रत्नपारमितासमयसंभववज्राधिष्ठानं नाम समाधिं समापद्येमां वज्ररत्नसमयां नाम स्वमुद्रां स्वहृदयान्निश्चचार रत्नवज्रि ॥ अथास्यां विनिःसृतमात्रायां सर्वतथागतहृदयेभ्यो रत्नरश्मयो विनिश्चरिताः । तेभ्यो रत्नरश्मिभ्यः स एव भगवान् वज्रधरः सर्वलोकधातुपरमाणुरजःसमास्तथागतविग्रहा भूत्वा, सर्वतथागतज्ञानान्यामुद्र्य, पुनरप्येकघनः सर्वलोकधातुसमवसरणप्रमाणो महावज्ररत्नविग्रहः प्रादुर्भूय, भगवतो वैरोचनस्य दक्षिणपार्श्वे चन्द्रमण्डलाश्रितो भूत्वा, इदमुदानमुदानयामास । अहो हि सर्वबुद्धानां रत्नवज्रमहं स्मृतम् । यन्मुद्राणां हि सर्वासामभिषेकनयं दृढम् ॥ इति ॥ इ.१.२४ धरमवज्रि अथ भगवान् लोकेश्वरराजस्तथागतो भगवतो वैरोचनस्य तथागतस्य सर्वतथागतज्ञानमुद्रणार्थं धर्मपारमितासमयोद्भववज्राधिष्ठानं नाम समाधिं समापद्येमां धर्मसमयां नाम स्वमुद्रां स्वहृदयान्निश्चचार धर्म वज्रि ॥ अथास्यां विनिःसृतमात्रायां सर्वतथागतहृदयेभ्यः पद्मरश्मयो विनिश्चरिताः । तेभ्यः पद्मरश्मिभ्यः स एव भगवान् वज्रधरः सर्वलोकधातुपरमाणुरजःसमास्तथागतविग्रहा भूत्वा, सर्वतथागतज्ञानान्यामुद्र्य, पुनरप्येकघनः सर्वलोकधातुसमवसरणप्रमाणो महावज्रपद्मविग्रहः प्रादुर्भूय, भगवतो वैरोचनस्य पृष्ठतश्चन्द्रमण्डलाश्रितो भूत्वेदमुदानमुदानयामास । अहो हि सर्वबुद्धानां धर्मवज्रमहं शुचि । यत्स्वभावविशुद्ध्या वै रागोऽपि हि सुनिर्मलः ॥ इति ॥ इ.१.२५ कर्मवजिरि अथ भगवानमोघसिद्धिस्तथागतो भगवतो वैरोचनस्य तथागतस्य सर्वतथागतज्ञानमुद्रणार्थं कर्मपारमितासंभववज्राधिष्ठानं नाम समाधिं समापद्येमां सर्वतथागतकर्मसमयां नाम स्वमुद्रां स्वहृदयान्निश्चचार कर्मवज्रि ॥ अथास्यां विनिःसृतमात्रायां सर्वतथागतहृदयेभ्यः सर्वकर्मश्मयो विनिश्चरिताः । तेभ्यश्च सर्वतथागतकर्मरश्मिमभ्यः स एव भगवान् वज्रधरः सर्वलोकधातुपरमाणुरजःसमास्तथागतविग्रहा भूत्वा, सर्वतथागतज्ञानान्यमुद्र्य, पुनरप्येकघनः सर्वलोकधातुसमवसरणप्रमाणः सर्वतोमुखो महाकर्मवज्रविग्रहः प्रादुर्भूय, भगवतो वैरोचनस्य वामपार्श्वे चन्द्रमण्डलाश्रितो भूत्वा, इदमुदानमुदानयामास ॥ अहो हि सर्वबुद्धानां कर्मवज्रमहं बहु । यदेकः सन्नशेषस्य सत्त्वधातोः सुकर्मकृद् ॥ इति ॥ सर्वतथागतज्ञानसमया, महाभिषेका, वज्रधर्मता, सर्वपूजा चेति । सर्वतथागतपारमिताः ॥ इ.१.२६ वज्रलस्य अथ भगवान् वैरोचनः पुनरपि सर्वतथागतरतिपूजासमयसंभववज्रन्नाम समाधिं समापद्येमां सर्वतथागतकुलमहादेवीं स्वहृदयान्निश्चचार वज्रलास्ये ॥ अथास्यां विनिःसृतमात्रायां सर्वतथागतहृदयेभ्यो वज्रमुद्रा विनिःसृताः । तेभ्यो वज्रमुद्रामुखभ्यः स एव भगवान् वज्रधरः सर्वलोकधातुपरमाणुरजःसमास्तथागतविग्रहा भूत्वा, पुनरप्येकघना महादेवी वज्रसत्त्वसदृशात्मभावा विचित्रवर्णरूपलिङ्गेर्यापथा सर्वालङ्कारविभूषिता सर्वतथागतकुलसंग्रहभूता वज्रसत्त्वदयिता संभूय, भगवतोऽक्षोभ्यमण्डलवामपार्श्वे चन्द्रमण्डलाश्रिता भूत्वा, इदमुदानमुदानयामास । अहो न सदृशी मेऽस्ति पूजा ह्यन्या स्वयंभुवाम् । यत्कामरतिपूजाभिः सर्वपूजा प्रवर्तते ॥ इति ॥ इ.१.२७ वज्रमल अथ भगवान् पुनरपि सर्वतथागतरत्नमालाभिषेकसमयोद्भववज्रन्नाम समाधिं समापद्य मां सर्वतथागतकुलमहादेवीं स्वहृदयान्निश्चचार वज्रमाले । अथास्यां विनिःसृतमात्रायां सर्वतथागतहृदयेभ्यो महारत्नमुद्रा विनिःसृताः । ताभ्यो महारत्नमुद्राभ्यः स एव भगवान् वज्रधरः सर्वलोकधातुपरमाणुरजःसमास्तथागतविग्रहा भूत्वा, एकघनां वज्रमालां महादेवीं तथैव संभूय, भगवतो रत्नसंभवमण्डलवामपार्श्वे पूर्णचन्द्रमण्डलाश्रिता भूत्वेदमुदानमुदानयामास । अहो ह्यसदृशाहं वै रत्नपूजेति कीर्तिता । यत्त्रैधातुकराज्याग्र्यं शासयन्ति प्रपूजिता ॥ इति ॥ इ.१.२८ वज्रगित अथ भगवान् पुनरपि सर्वतथागतसंगीतिसमयसंभववज्रन्नाम समाधिं समापद्येमां सर्वतथागतकुलमहादेवीं स्वहृदयान्निश्चचार वज्रगीते ॥ अथास्यां विनिःसृतमात्रायां सर्वतथागतहृदयेऽभ्यः सर्वतथागतधर्ममुद्रा विनिश्चरिताः । ताभ्यश्च सर्वतथागतधर्ममुद्राभ्यः स एव भगवान् वज्रधरः सर्वलोकधातुपरमाणुरजःसमास्तथागतविग्रहा भूत्वा, पुनरप्येकघनां वज्रगीतां महादेवीं संभूय, भगवतो लोकेश्वरराजमण्डलवामपार्श्वे चन्द्रमण्डलाश्रिता भूत्वेदमुदानमुदानयामास । अहो हि संगीतिमयी पूजाहं सर्वदर्शिनाम् । यत्तोषयन्ति पूजाभिः प्रतिश्रुत्कोपमेष्वपि ॥ इति ॥ इ.१.२९ वज्रन्र्त्य अथ भगवान् पुनरपि सर्वतथागतनृत्यपूजासमयोद्भववज्रं नाम समाधिं समापद्येमां सर्वतथागतकुलमहादेवीं स्वहृदयान्निश्चचार वज्रनृत्ये । अथास्मिन विनिःसृतमात्रायां सर्वतथागतहृदयेभ्यः सर्वतथागतनृत्यपूजाविधिविस्तरा भूत्वा विनिःसृताः । तेभ्यश्च सर्वतथागतसर्वनृत्तपूजाविधिविस्तरेभ्यः स एव भगवान् वज्रधरः सर्वलोकधातुपरमाणुरजःसमास्तथागतविग्रहा भूत्वा, पुनरप्येकघनां वज्रनृत्तमहादेवीं संभूय, भगवतो अमोघसिद्धेस्तथागतस्य मण्डलवामपार्श्वे पूर्णचन्द्रमण्डलाश्रिता भूत्वेदमुदानमुदानयामास । अहो ह्युदारपूजाहं सर्वपूजार्थकरिणाम् । यद्वज्रनृत्तविधिना बुद्धपूजा प्रकल्प्यते ॥ इति ॥ सर्वतथागतानुत्तरसुखसौमनस्यसमया, सर्वतथागतमाला, सर्वतथागतगाथा, सर्वतथागतानुत्तरपूजाकर्मकरी चेति । सर्वतथागतगुह्यपूजाः ॥ इ.१.३० वज्रधुप अथ पुनरपि भगवानक्षोभ्यस्तथागतो भगवतो वैरोचनस्य तथागतस्य पूजाप्रतिपूजार्थ सर्वतथागतप्रल्हादनसमयोद्भववज्रन्नाम समाधिं समापद्येमां सर्वतथागतगणिकां स्वहृदयान्निश्चचार वज्रधूपे ॥ अथास्यां विनिःसृतमात्रायां सर्वतथागतहृदयेभ्यः स एव भगवान् वज्रधरः अनेकविधा धूपपूजामेघव्यूहाः सर्ववज्रधातुस्फरणा भूत्वा विनिश्चरिताः । तेभ्यश्च धूपपूजामेघसमुद्रेभ्यः सर्वलोकधातुपरमाणुरजःसमास्तथागतविग्रहा विनिःसृत्य, पुनरप्येकघनो वज्रधूपदेवताकायः संभूय, भगवतो वज्रमणिरत्नशिखरकूटागारस्य कोणे वामपार्श्वे चन्द्रमण्डलाश्रिता भूत्वेदमुदानमुदानयति स्म । अहो ह्यं महापूजा प्रल्हादनवती शुभा । यत्सत्त्वावेशयोगाद्धि क्षिप्रं बोधिरवाप्यते ॥ इति ॥ इ.१.३१ वज्रपुस्प अथ भगवान् रत्नसंभवस्तथागतो भगवतो वैरोचनस्य तथागतस्य पूजाप्रतिपूजार्थ रत्नाभरणपूजासमयसंभववज्रं नाम समाधिं समापद्येमां सर्वतथागतप्रतीहारीं स्वहृदयान्निश्चचार वज्रपुष्पे ॥ अथास्यां विनिःसृतमात्रायां सर्वतथागतहृदयेभ्यः स एव भगवान् वज्रधरः सर्वपुष्पपूजाव्यूहाः सर्वाकाशधातुस्फरणा भूत्वा विनिःसृतास्तेभ्यश्च सर्वपुष्पपूजाव्यूहेभ्यः सर्वलोकधातुपरमाणुरजःसमास्तथागतविग्रहा विनिःसृत्य, पुनरप्येकघनो वज्रपुष्पदेवताकायः संभूय, भगवतो वज्रमणिरत्नशिखरकूटागारस्य वामकोणे चन्द्रमण्डलाश्रिता भूत्वेदमुदानमुदानयामास । अहो हि पुष्पपूजाहं सर्वालङ्कारकारिका । यत्तथागतरत्नत्वं पूज्य क्षिप्रमवाप्यते ॥ इति ॥ इ.१.३२ वज्रलोक अथ भगवान् लोकेश्वरराजस्तथागतो भगवतो वैरोचनस्य तथागतस्य पूजाप्रतिपूजार्थ सर्वतथागतालोकपूजासमयोद्भववज्रं नाम समाधिं समापद्येमां सर्वतथागतदूतीं स्वहृदयान्निश्चचार वज्रालोके । अथास्यां विनिःसृतमात्रायां सर्वतथागतहृदयेभ्यः स एव भगवान् वज्रधरः सर्वालोकपूजाव्यूहाः सकलधर्मधातुस्फरणा भूत्वा विनिश्चरिताः । तेभ्यश्च सर्वालोकपूजाव्यूहेभ्यः सर्वलोकधातुपरमाणुरजःसमास्तथागतविग्रहा विनिःसृत्य, पुनरप्येकघनो वज्रालोकदेवताकायः संभूय, भगवतो वज्रमणिरत्नशिखरकूटागारस्य वामकोणे चन्द्रमण्डलाश्रिता भूत्वा, इदमुदानमुदानयामास । अहो ह्यहं महोदारा पूजा दीपमयी शुभा । यदालोकवती क्षिप्रं सर्वबुद्धदृशो लभेद् ॥ इति ॥ इ.१.३३ वज्रगन्ध अथ भगवानमोघसिद्धिस्तथागतो भगवतो वैरोचनस्य तथागतस्य पूजाप्रतिपूजार्थं सर्वतथागतगन्धपजासमयसंभववज्रन्नाम समाधिं समापद्येमां सर्वतथागतचेटीं स्वहृदयान्निश्चचार वज्रगन्धे ॥ अथास्यां विनिःसृतमात्रायां सर्वतथागतहृदयेभ्यः स एव भगवान् वज्रधरः सर्वगन्धपूजाव्यूहाः सर्वलोकधातुस्फरणा भूत्वा विनिःसृताः । तेभ्यश्च गन्धपूजाव्यूहेभ्यः सर्वलोकधातुपरमाणुरजः समास्तथागतविग्रहा विनिःसृत्य पुनरप्येकघनो वज्रगन्धदेवताकायः संभूय, भगवतो वज्रमणिरत्नशिखरकूटागारस्य वामकोणे चन्द्रमण्डलाश्रिता भत्वेदमुदानमुदानयामास । अहो गन्धमयी पूजा दिव्याहं मनोरमा । यत्तथागतगन्धो वै सर्वकाये ददाति हि ॥ इति ॥ सर्वतथागतज्ञानावेशा, महाबोध्यङ्गसंचया, सर्वतथागतधर्मालोका, शीलसमाधिप्रज्ञाविमुक्तिविमुक्तिज्ञानदर्शनगन्धा चेति । सर्वतथागताज्ञाकार्यः ॥ इ.१.३४ वज्रन्कुस अथ भगवान् वैरोचनस्तथागतः पुनरपि सर्वतथागतसमयां कुशमहासत्त्वसमयसंभवसत्त्ववज्रन्नाम समाधिं समापद्येयं सर्वतथागतसर्वमुद्रागणपतिं स्वहृदयान्निश्चचार वज्रांकुश ॥ अथास्मिन् विनिःसृतमात्र सर्वतथागतहृदयेभ्यः स एव भगवान् वज्रधरः सर्वतथागतसर्वमुद्रागणा भूत्वा विनिःसृतः । तेभ्यश्च सर्वतथागतमुद्रागणेभ्यः सर्वलोकधातुपरमाणुरजःसमास्तथागतविग्रहा विनिःसृत्य, पुनरप्येकघनो वज्राङ्कुशमहाबोधिसत्त्वकायः संभूय, भगवतो वज्रमणिरत्नशिखरकूटागारस्य वज्रद्वारमध्ये चन्द्रमण्डलाश्रितो भत्वा, सर्वतथागतसमयानाकर्षयन्न, इदमुदानमुदानयामास । अहो हि सर्वबुद्धानां समाकर्षमहं दृढः । यन्मया हि समाकृष्टा भजन्ते सर्वमण्डलम् ॥ इति ॥ इ.१.३५ वज्रपस अथ भगवान् पुनरपि सर्वतथागतसमयप्रवेशमहासत्त्वसमयसंभवसत्त्ववज्रन्नाम समाधिं समापद्य मं सर्वतथागतमुद्राप्रवेशप्रतीहारं स्वहृदयान्निश्चचार वज्रपाश ॥ अथास्मिन् विनिःसृतमात्रे सर्वतथागतहृदयेभ्यः स एव भगवान् वज्रधरः सर्वतथागतसमयप्रवेशमुद्रागणा भूत्वा विनिश्चरितः । तेभ्यश्च सर्वतथागतसमयप्रवेशमुद्रागणेभ्यः सर्वलोकधातुपरमाणुरजःसमास्तथागतविग्रहा विनिःसृत्य, पुनरप्येकघनो वज्रपाशमहाबोधिसत्त्वकायः संभूय, भगवतो वज्रमणिरत्नशिखरकूटागारस्य रत्नद्वारमध्ये चन्द्रमण्डलाश्रितो भूत्वा सर्वतथागतां प्रवेशयन्न्, इदमुदानमुदानयामास । अहो हि सर्वबुद्धानां वज्रपाशमहं दृढः । यत्सर्वाणुप्रविष्टापि प्रवेश्यन्ते मया पुनः ॥ इति ॥ इ.१.३६ वज्रस्फोत अथ भगवान् पुनरपि सर्वतथागतसमयस्फोटमहासत्त्वसमयोद्भवसत्त्ववज्रन्नामसमाधिं समापद्येमं सर्वतथागतसमयबन्धन्नाम सर्वतथागतदूतं स्वहृदयान्निश्चचार वज्रस्फोट ॥ अथास्मिन् विनिःसृतमात्रे सर्वतथागतहृदयेभ्यः स एव भगवान् वज्रधरः सर्वतथागतसमयबन्धमुद्रागणा भूत्वा विनिःसृतस्तेभ्यश्च सर्वतथागतसमयबन्धसर्वमुद्रागणेभ्यः सर्वलोकधातुपरमाणुरजःसमास्तथागतविग्रहा विनिःसृत्य, एकघनो वज्रस्फोटमहाबोधिसत्त्वकायः संभूय, भगवतो वज्रमणिरत्नशिखरकूटागारस्य धर्मद्वारमध्ये चन्द्रमण्डलाश्रितो भत्वा, सर्वतथागतान बन्धयन्न, इदमुदानमुदानयामास । अहो हि सर्वबुद्धानां वज्रस्फोटमहं दृढः । यत्सर्वबन्धमुक्तानां सत्त्वार्थाद्बन्ध इष्यते ॥ इति ॥ इ.१.३७ वज्रवेस अथ भगवान् पुनरपि सर्वतथागतावेशमहासत्त्वसमयसंभवसत्त्ववज्रन्नाम समाधिं समापद्येमं सर्वतथागतसर्वमुद्राचेटं स्वहृदयान्निश्चचार वज्रावेशः ॥ अथास्मिन् विनिःसृतमात्रे सर्वतथागतहृदयेभ्यः स एव भगवान् वज्रधरः सर्वतथागतसर्वमुद्रागणा भूत्वा विनिश्चरितः । तेभ्यश्च सर्वतथागतसर्वमुद्रागणेभ्यः सर्वलोकधातुपरमाणुरजः समास्तथागतविग्रहा विनिःसृत्य, एकघनो वज्रावेशमहाबोधिसत्त्वविग्रहः प्रादुर्भूय, भगवतो वज्रमणिरत्नशिखरकूटागारस्य कर्मद्वारमध्ये चन्द्रमण्डलाश्रितो भूत्वा, सर्वतथागतानावेशयन्न, इदमुदानमुदानयामास । अहो हि सर्वबुद्धानां वज्रावेशमहं दृढः । यत्सर्वपतयो भूत्वा चेटा अपि भवन्ति हि ॥ इति ॥ सवतथागतसमाकर्षणं, प्रवेशो, बन्धः, वशीकरणं चेति । सर्वतथागताज्ञाकराः ॥ अथ भगवान् सर्वतथागतासमाजाधिष्ठानाय वज्राच्छटिकासंज्ञामकार्षीत् । इदं सर्वतथागतसमाजाधिष्ठानहृदयमभाषत वज्रसमाज ॥ अथ तेन क्षपालवमुहूर्तेन सर्वतथागताच्छटिकासंज्ञासंचोदिताः सर्वलोकधातुप्रसरमेघसमुद्रेषु सर्वलोकधातुपरमाणुरजःसमास्तथागताः सबोधिसत्त्वपर्षन्मण्डलाः समाजमापद्य, येन भगवान् वज्रमणिरत्नशिखरकूटागारो येन च भगवान् वैरोचनस्तेनोपजग्मुरुपेत्य ओं सर्वतथागतपादवन्दनाङ्करोमि ॥ इत्येनेन प्रकृतिसिद्धेन मन्त्रेण रुचिजप्तेन सर्वतथागतपादवन्दनां कृत्वेदमुदानमुदानयामासुः ॥ अहो समन्तभद्रस्य बोधिसत्त्वस्य सत्क्रिया । यत्तथागतचक्रस्य मध्ये भाति तथागतः ॥ अथेदमुक्त्वा ते दशदिक्सर्वलोकधातुसन्निपतिताः सर्वतथागताः सर्वतथागताधिष्ठानेन भगवतो वैरोचनस्य हृदये सबोधिसत्त्वपर्षन्मण्डलाः प्रविष्टाः । तेभ्यश्च सर्वतथागतहृदयेभ्यः स्वानि स्वानि बोधिसत्त्वपर्षन्मण्डलानि विनिःसृत्य भगवतो वज्रमणिरत्नशिखरकूटागारस्य सर्वपार्श्वेषु मण्डलीभूत्वा समापद्यावस्थिता इदमुदानमुदानयामासुः । अहो हि सर्वबुद्धानां महोदार्यमनादिजम् । यत्सर्वाणुप्रसंख्या वै बुद्धा ह्येकत्वमागता ॥ इति ॥ ह्य्म्नोf १०८ नमेसोf महवज्रधर अथ भगवन्तः सर्वतथागताः पुनरपि समाजमागम्यास्य वज्रधातुमहामण्डलस्याधिष्ठानायाशेषानवशेषस्य च सत्त्वधातोः परित्राणसर्वहितसुखावाप्त्यै यावत्सर्वतथागतसमताज्ञानाभिज्ञाभिसंबोध्युत्तमसिद्धये भगवन्तं सर्वतथागताधिपतिं स्ववज्रसत्त्वमनादिनिधनं महावज्रधरमनेन नामाष्टशतेनाध्येषितवन्तः ॥ वज्रसत्त्वमहासत्त्व वज्रसर्वतथागत । समन्तभद्र वज्राद्य वज्रपाणे नमोऽस्तु ते ॥ १ ॥ वज्रराज सुबुद्धाग्र्य वज्राङ्कुशतथागत । अमोघराज वज्राग्र्य वज्राकर्ष नमोस्तु ते ॥ २ ॥ वज्रराग महासौख्य वज्रवाण वशङ्कर । भारकाम महावज्र वज्रचापो नमोऽस्तु ते ॥ ३ ॥ वज्रसाधो सुसत्त्वाग्र्य वज्रतुष्टि महारते । प्रामोद्यराज वज्राग्रय वज्रहर्ष नमोऽस्तु ते ॥ ४ ॥ वज्ररत्न सुवज्रार्थं वज्राकाश महामणे । आकाशगर्भ वज्राढ्य वज्रगर्भ नमोस्तु ते ॥ ५ ॥ वज्रतेज महाज्वाल वज्रसूर्य जिनप्रभ । वज्ररश्मि महातेज वज्रप्रभ नमोऽस्तु ते ॥ ६ ॥ वज्रकेतु सुसत्त्वार्थ वज्रध्वज सुतोषक । रत्नकेतु महावज्र वज्रयष्टे नमोऽस्तु ते ॥ ७ ॥ वज्रहास महाहास वज्रस्मित महाद्भुत । प्रीतिप्रामोद्य वज्राग्र्य वज्रप्रीते नमोऽस्तु ते ॥ ८ ॥ वज्रधर्म सुतत्वार्थ वज्रपद्म सुशोधक । लोकेश्वर सुवज्राक्ष वज्रनेत्र नमोऽस्तु ते ॥ ९ ॥ वज्रतीक्ष्ण महायान वज्रकोश महायुध । मञ्जुश्री वज्रगांभीर्य वज्रबुद्धे नमोऽस्तु ते ॥ १० ॥ वज्रहेतु महामण्ड वज्रचक्र महानय । सुप्रवर्तन वज्रोत्थ वज्रमण्ड नमोऽस्तु ते ॥ ११ ॥ वज्रभाष सुविद्याग्र्य वज्रजाप सुसिद्धिद । अवाच वज्रसिद्ध्यग्र वज्रवाच नमोऽस्तु ते ॥ १२ ॥ वज्रकर्म सुवज्राज्ञा कर्मवज्र सुसर्वग । वज्रामोघ महोदार्य वज्रविश्व नमोऽस्तु ते ॥ १३ ॥ वज्ररक्ष महाधैर्य वज्रवर्म महादृढ । दुयोधन सुवीर्यग्र्य वज्रवीर्य नमोऽस्तु ते ॥ १४ ॥ वज्रयक्ष महोपाय वज्रदंष्ट्र महाभय । भारप्रमर्दिन् वज्रोग्र वज्रचण्ड नमोऽस्तु ते ॥ १५ ॥ वज्रसन्धि सुसान्निध्य वज्रबन्ध प्रमोचक । वज्रमुष्ट्यग्रसमय वज्रमुष्टे नमोऽस्तु ते ॥ १६ ॥ यः कश्चिद्धारयेन्नाम्नामिदन्तेऽष्टदशतं शिवम् । वज्रनामाभिषेकाद्यैः सर्वाग्रैः सोऽभिषिच्यते ॥ १७ ॥ यस्तु गौणमिदन्नाम्नां महावज्रधरस्य तु । शश्वद्गेयं स्तुयात्सोऽपि भवेद्वज्रधरोपमः ॥ १८ ॥ अनेनाभिष्टुतोऽस्माभिर्नाम्नामष्टशतेन तु । महायानाभिसमयं विस्फारय महानयम् ॥ १९ ॥ अध्येषयामस्त्वां नाथ भाषस्व परमं विधिम् । सर्वबुद्धमहाचक्रं महामण्डलमुत्तमम् ॥ २० ॥िति ॥ देलिनेअतिओनोf थे मन्दल अथ भगवान् वज्रधरः सर्वतथागताध्येषणवचनमुपश्रुत्य सर्वतथागतसमयसंभववज्राधिष्ठानन्नाम समाधिं समापद्ये वज्रधातुन्नाम महामण्डलमुदाजहार । अथातः संप्रवक्ष्यामि महामण्डलमुत्तमम् । वज्रधातुप्रतीकाशं वज्रधातुरिति स्मृतम् ॥ १ ॥ उपविश्य यथास्यायं मण्डलस्य तु मध्यतः । महासत्वमहामुद्रां भावयं समधिष्ठ्य च ॥ २ ॥ तथैवोत्थाय मुद्रास्थः सर्वतो व्यवलोकयेत् । परिक्रमेत गर्वेण वज्रसत्त्वमुदाहरन् ॥ ३ ॥ नवेन सुनियुक्तेन सुप्रमाणेन चारुणा । सूत्रेण सूत्रयेत्प्राज्ञैर्यथाशक्तेन मण्डलम् ॥ ४ ॥ चतुरस्त्रं चतुर्द्वारं चतुस्तोरणशोभितम् । चतुःसूत्रसमायुक्तं पट्टस्त्रग्दामभूषितम् ॥ ५ ॥ कोणभागेषु सर्वेषु द्वारनिर्यूहसन्धिषु । खचितं वज्ररत्नैस्तु सूत्रयेद्बाह्यमण्डलम् ॥ ६ ॥ तस्य चक्रप्रतीकाशं प्रविश्याभ्यन्तरं पुरम् । वज्रसूत्रपरिक्षिप्तमष्टस्तम्भोपशोभितम् ॥ ७ ॥ वज्र [स्तंभाग्रस्थश्चन्द्रपञ्च] मण्डलमण्डितम् । मध्यमण्डलमध्ये तु बुद्धबिम्बन्निवेशयेत् ॥ ८ ॥ बुद्धस्य सर्वपार्श्वेषु मण्डलानान्तु मध्यतः । समयाग्र्यश्चतस्रो हि संलिखेदनुपूर्वशः ॥ ९ ॥ वज्रवेगेन चाक्रम्य मण्डलानां चतुष्टये । अक्षोभ्याद्यांस्तु चतुरः सर्वबुद्धान्निवेशयेत् ॥ १० ॥ अक्षोभ्यमण्डलं कुर्यात्समं वज्रधरादिभिः । वज्रगर्भादिभिः पूर्णं रत्नसंभवमण्डलम् ॥ ११ ॥ वज्रनेत्रादिभिः शुद्धं मण्डलममितायुषः । अमोघसिद्धेः संलेख्यं वज्रविश्वादिमण्डलम् ॥ इति ॥ १२ ॥ चक्रस्य कोणसंस्थेषु वज्रदेव्यः समालिखेत् । बाह्यमण्डलकोणेषु बुद्धपूजाः समालिखेत् ॥ १३ ॥ द्वारमध्येषु सर्वेषु द्वारपालचतुष्टयम् । बाह्यमण्डलसंस्थेषु महसत्वान्निवेशयेत् ॥ १४ ॥ ततो वै सम्यगाग्रीन्तु मुद्रां बध्वा यथाविधि । वज्राचार्यः प्रविष्ट्वा तु स्फोट्य मुद्रां समाविशेत ॥ १५ ॥ इनितिअतिओन् तत्रे दं सर्वावेशहृदयं भवति अः ॥ आज्ञां मार्ग्य यथावत्तु स्वाधिष्ठानादिकन्तथा । कृत्वोच्चार्य स्वकन्नाम ततो वज्रेण साधयेत ॥ १ ॥ सत्त्ववज्राङ्कुशीं बध्वा वज्राचार्यस्ततः पुनः । कुर्वन्नच्छटसंघातं सर्वबुद्धां समाजयेत् ॥ २ ॥ तत्क्षणं सर्वबुद्धास्तु वज्रसत्त्वसमन्विताः । सर्वमण्डलसंपूर्णाः समाजं यान्ति मण्डले ॥ ३ ॥ ततः शीघ्रं महामुद्रां [बध्वा] वज्रधरस्य तु । उच्चारयेत्सकृद्वारन्नामाष्टशतमुत्तमम ॥ ४ ॥ ततस्तुष्टाः समाजेन दृढं यान्ति तथागताः । वज्रसत्त्वः स्वयंसिद्धो मित्रत्वेनोपतिष्ठति ॥ ५ ॥ ततो द्वारेषु सर्वेषु कर्म कृत्वाङ्कु शादिभिः । महाकर्माग्र्यमुद्राभिः समयांस्तु निवेशयेत् ॥ ६ ॥ मुद्राभिः समयाग्र्याभिः सत्त्ववज्रादिभिस्तथा । साधयेत महासत्त्वो जः हूं वं होः प्रवर्तयन् ॥ ७ ॥ ततो बुद्धादयः सर्वमहासत्त्वाः समग्रतः । आकृष्टा सुप्रविष्टाश्च बध्वा याम्यन्ति तद्वशम् ॥ ८ ॥ ततस्तु गुह्यपूजाभिः सन्तोष्य स महात्मना । विज्ञयेत्सर्वसत्वार्थं कुरुध्वं सर्वसिद्धये ॥ ९ ॥ इति ॥ एवं सर्वमण्डलेष वज्राचार्यकर्मेति ॥ इनितिअतिओनोf थे दिस्चिप्ले अथात्र वज्रधातुमहामण्डले वज्रशिष्यप्रवेशादिविधिविस्तरो भवति ॥ तत्र प्रथमं तावत्प्रवेशो भवत्यशेषानवशेषसत्त्वधातुपरित्राणसर्वहितसुखोत्तमसिद्धिकार्यकरणतया । अत्र महामण्डलप्रवेशे पात्रापात्रपरीक्षा न कार्या । तत्कस्माद्धेतोः । सन्ति भगवन्तस्तथागताः केचित्सत्त्वा महापापकारिणस्ते इदं वज्रधातुमहामण्डलं दृष्ट्वा प्रविष्टा च सर्वापायविगता भविष्यन्ति । सन्ति च भगवन्तः सत्त्वाः सर्वार्थभोजनपानकामगुणगृद्धाः समयद्विष्टाः पुरश्चरणादिष्वशक्ताः । तेषामप्यत्रयथाकामकरणीयतया प्रविष्टानां सर्वाशापरिपूरिर्भविष्यति । सन्ति भगवन्तः सत्त्वा नृत्यगीतहास्यलास्याहारविहारप्रियतया सर्वतथागतमहायानाभिसमयधर्मतानवबोधत्वादन्यदेवकुलमण्डलानि प्रविशन्ति, सर्वाशापरिपूरिसंपदभूतेषु निरुत्तररतिप्रीतिहर्षसंभवकरेषु सर्वतथागतकुलमण्डलेषु शिक्षापदभयभीता न प्रविशन्ति । तेषामपायमण्डलप्रवेश [पथाभिमुखविहाराणामप्येव] वज्रधातुमहामण्डलप्रवेशो युज्यत सर्वरतिप्रीत्युत्तमसिद्धिसुखसौमनस्यानुभवनार्थं सर्वापायगतिप्रवेशाभिमुखपथविनिवर्तनाय च । सन्ति च पुनर्भगवन्तो धार्मिकाः सत्त्वाः सर्वतथागतशीलसमाधिप्रज्ञोत्तमसिद्ध्युपायैर्बुद्धबोधिं प्रार्थयन्तो ध्यानविमोक्षादिभिर्भूमिभिर्यन्तः क्लिश्यन्ते । तेषामत्रैव वज्रधातुमहामण्डलप्रवेशमात्रेणैव सर्वतथागतत्वमपि न दुर्लभम्, किमङ्गा पुनरन्या सिद्धिरिति ॥ तत्रादित एव तावत्सर्वतथागतप्रणामचतुष्टयं कारयेत् । तद्यथा । सर्वशरीरेण वज्राञ्जलिप्रसारितेन प्रणमेदनेन मन्त्रेण । ओं सर्वतथागतपूजोपस्थानायात्मानन्निर्यातयामि सर्वतथागतवज्रसत्त्वाधितिष्ठस्व माम् ॥ तथैव स्थितो वज्राञ्जलिं हृदि कृत्वा ललाटेन प्रणमेदनेन मन्त्रेण ओं सर्वतथागतपूजाभिषेकायात्मानन्निर्यातयामि सवतथागतवज्ररत्नाभिषिञ्च माम् ॥ ततस्तथैवोत्थाय वज्रांजलिबन्धेन शिरसा मुखेन प्रणमेदनेन मन्त्रेण ओं सर्वतथागतपूजाप्रवर्तनायात्मानं निर्यातयामि सर्वतथागतवज्रधर्म प्रवर्तय माम् ॥ ततस्तथैव स्थितो वज्रांजलिं शिरसोऽवतार्य हृदि कृत्वा मुर्ध्ना प्रणमेदनेन मन्त्रेण ओं सर्वतथागतपूजाकर्मणे आत्मानन्निर्यातयामि सर्वतथातवज्रकर्म कुरु माम् ॥ ततो रक्तवस्त्रोत्तरीयो रक्तपट्टकावच्छादितमुखः सत्त्ववज्रिमुद्रां बन्धयेदनेन हृदयेन समयस्त्वम् ॥ ततो मध्याङ्गुलिद्वयेन मालां ग्रन्थ्या प्रवेशयेदनेन हृदयेन समय हूम् ॥ ततः प्रवेश्यैवं वदेत् । "अद्य त्वं सर्वतथागतकुले प्रविष्टः । तदहं ते वज्रज्ञानमुत्पादयिष्यामि, येन ज्ञानेन त्व सर्वतथागतसिद्धिरपि प्राप्स्यसि, किमुतान्याः सिद्धीः । न च त्वयादृष्टमहामण्डलस्य वक्तव्यं, मा ते समयो व्यथेद्" इति । ततः स्वयं वज्राचार्यः सत्त्ववज्रमुद्रामेव मूर्ध्वामुखीं बध्वा वज्रशिष्यस्य मूर्ध्नि स्थास्यैवं वदेत् । "अयं ते समयवज्रो मूर्धानं स्फलयेद्, यदि त्वं कस्यचिद्ब्रूयात् ।" ततस्तयैव समयमुद्रया उदकं शपथहृदयेन सकृत्परिज्ञाप्य, तस्य शिष्याय पाययेदिति ॥ तत्रेदं शपथहृदयं भवति । वज्रसत्त्वः स्वयन्तेऽद्य हृदये समवस्थितः । निर्भिद्य तत्क्षणं यायाद्यदि ब्रूयादिमं नयम् ॥ वज्रोदक ठः ॥ ततः शिष्याय ब्रूयात् । "अद्य प्रभृत्यहन्ते वज्रपाणिर्यत्तेऽहं ब्रूयामिदं कुरु तत्कर्तव्यं, न च त्वयाहमवमन्तव्यो, मा ते विषमापरिहारेण कालक्रियां कृत्वा नरपतनं स्याद्" इति उक्त्वा, वक्तव्यं ब्रूहि, "सर्वतथागता अधितिष्ठन्तो वज्रसत्त्वो मे आविशतु" । ततस्त्वरमाणेन वज्राचार्येण सत्त्ववज्रिमुद्रां बध्वा इदमुच्चारयितव्यम् । अयं तत्समयो वज्रं वज्रसत्त्वमिति स्मृतम् । आवेशयतु तेऽद्यैव वज्रज्ञानमनुत्तरम् । वज्रावेश अः । ततः क्रोधमुष्टिं बध्वा सत्त्ववज्रिमुद्रां स्फोटयेत्, महायानाभिसमयं च वज्रवाचा रुचितोच्चारयेदिति । ततः समाविशत्याविष्टमात्रस्य दिव्यं ज्ञानमुत्पद्यते । तेन ज्ञानेन परचित्ताभ्यवबुध्यति । सर्वकार्याणि चातीतानागतवर्तमानानि जानाति । हृदयं चास्य दृढीभवति सर्वतथागतशासने । सर्वदुःखानि च [संप्र]णश्यन्ति । सर्वभयविगतश्च भवति । अवध्यः सर्वसत्त्वेषु । सर्वतथागताश्चाधितिष्ठन्ति । सर्वसिद्धयश्चास्याभिमुखीभवन्ति । अपूर्वाणि चास्याकारणहर्षरतिप्रीतिकराणि सुखान्युत्पद्यन्ते । तैः सुखैः केषाञ्चित्समाधयो निष्पद्यन्ते, केषाञ्चिद धारण्यः, केषाञ्चित सर्वाशापरिपूरयो, यावत्, केषाञ्चित्सर्वतथागतत्वमपि निष्पद्यत इति । ततस्तां मुद्रां बध्वा स्वहृदि मोक्षयेदनेन हृदयेन तिष्ठ वज्र दृढो मे भव, शाश्वतो मे भव, हृदयं मेऽधितिष्ठ, सर्वसिद्धिञ्च मे प्रयच्छ, हूं ह ह ह ह होः ॥ ततस्तां मालां महामण्डले क्षेपयेदनेन हृदयेन प्रतीच्छ वज्र होः ॥ ततो यत्र पतति सोऽस्य सिध्यति । ततस्तां मालां गृह्य तस्यैध शिरसि बन्धयेदनेन हदयेन ओं प्रतिगृण्हत्वमिमं सत्वं महाबलः ॥ तया बन्धया तेन महासत्त्वेन प्रतीच्छितो भवति, शीघ्रं चास्य सिध्यति । ततस्तथाविष्टस्यैव मुखबन्धं मुंचेदनेन हृदयेन ओं वज्रसत्त्वः स्वयन्तेऽद्य चक्षूद्धाटनतत्परः उद्धाटयति सर्वाक्षो वज्रचक्षु रनुत्तरम् ॥ हे वज्र पश्य ॥ ततो महामण्डलं यथानुपूर्वतो दर्शयेत् । महामण्डले च दृष्टमात्रे सर्वतथागतैरधिष्ठ्यते, वज्रसत्त्वश्चास्य हृदये तिष्ठति । नानाद्यतीवरश्मिमण्डलदर्शनादीनि प्रातीहार्यविकुर्वितानि पश्यति । सर्वतथागताधिष्ठितत्वात् । कदाचित्भगवान्महावज्रधरः स्वरूपेण दर्शनं ददाति, तथागतो वति । ततः प्रभृति सर्वार्थाः सर्वमनोऽभिरुचितकार्याणि सर्वसिद्धिर, यावद्, वज्रधरत्वमपि तथागतत्वं वेति । ततो महामण्डलं दर्शयित्वा वज्राधिष्ठितकलशाद्गन्धोदकेनाभिषिंचेदनेन हृदयेन वज्राभिषिञ्च ॥ ततस्त्वेकतमां मुद्रां मालां वध्वा स्वचिन्हं पाणौ प्रतिष्ठाप्यैवं वदेत् । अद्याभिषिक्तस्त्वमसि बुद्धैर्वज्राभिषेकतः । इदन्ते सर्वबुद्धत्वं गृह्ण वज्रं सुसिद्धये ॥ ओं वज्राधिपति त्वामभिषिंचामि तिष्ठ वज्र समयस्त्वम् ॥ ततो वज्रनामाभिषेकेण अभिषिंचेदनेन हृदयेन । ओं वज्रसत्त्व त्वामभिषिंचामि वज्रनामाभिषेकतः हे वज्र नाम ॥ यस्य यन्नाम कुर्यात्तस्य हे- शब्दः प्रयोक्तव्य इति ॥ सर्वमण्डलप्रवेशविधिविस्तरः ॥ ततो ब्रूयात्, "किन्तेऽभिरुचिरर्थोत्पत्तिसिद्धिज्ञानं वा, ऋद्धिसिद्धिनिष्पत्तिज्ञानं वा, विद्याधरसिद्धिनिष्पत्तिज्ञानं वा, यावत्, सर्वतथागतोत्तमसिद्धिनिष्पत्तिज्ञानं वे" ति । ततो यस्य यदभिरुचितं तत तस्योच्चेयम् ॥ ततोऽर्थसिद्धिनिष्पत्तिमुद्राज्ञानं शिक्षयेत् । वज्रबिम्बन्निधिस्थं तु हृदये परिभावयेत् ॥ भावयन् भूमिसंस्थानि निधानानि स पश्यति ॥ १ ॥ वज्रबिम्बं समालिख्य गगने परिभावयेत् । पतेद्यत्र तु पश्येत निधितत्र विनिर्दिशेत् ॥ २ ॥ वज्रबिम्बं तु जिव्हायां भावयेद्बुद्धिमान्नरः । अत्रास्तीति स्वयं वाचा ब्रवीति परमार्थतः ॥ ३ ॥ वज्रबिम्बमयं सर्वं भावयं कायमात्मनः । समाविष्टः पतेद्यत्र निधिन्तत्र विनिर्दिशेद् ॥ इति ॥ ४ ॥ तत्रैतानि [हृदयानि भवन्ति] ॥ वज्रनिधि ॥ रन्त निधि ॥ धर्म निधि ॥ कर्मनिधि ॥ ततो वज्रऋद्धिसिद्धिनिष्पत्तिमुद्राज्ञानं शिक्षयेत् । वज्रावेशे समुत्पन्ने वज्रबिम्बमयं जलम् । भावय[ञ्छीघ्रं सि]द्धस्तु जलस्योपरि चंक्रमेत् ॥ १ ॥ तथैवावेशमुत्पद्य यद्रूपं स्वयमात्मनः । भावयं भवते तत्तु बुद्धरूपमपि स्वयम् ॥ २ ॥ तथैवाविष्टमात्मानमाकाशोऽहमिति स्वयम् । भावयन् यावदिच्छेत तावददृश्यतां ब्रजेत् ॥ ३ ॥ वज्राविष्टः स्वयं भत्वा वज्रोऽहमिति भावयन् । यावदारुहते स्थानन्तावदाकाशगो भवेद् ॥ इति ॥ ४ ॥ तत्रैतानि हृदयानि भवन्ति । वज्रजल ॥ वज्ररूप ॥ वज्राकाश ॥ वज्रमहम् ॥ ततो वज्रविद्याधरसिद्धिनिष्पत्तिमुद्राज्ञानं शिक्षयेत् । चन्द्रबिम्बं समालिख्य नमस्यूर्ध्व समारुहेत् । पाणौ प्रभावयं वज्रं वज्रविद्याधरो भवेत् ॥ १ ॥ चन्द्रबिम्बं समारुह्य वज्ररत्नं प्रभावयेत् । यावदिच्छति शुद्धात्मा तावदुत्पतति क्षणात् ॥ २ ॥ चन्द्रबिम्बाभिरूढस्तु वज्रपद्मं करे स्थितम् । भावयन् वज्रनेत्रं तु दद्याद्विद्याधृतां पदम् ॥ ३ ॥ चन्द्रमण्डलमध्यस्थः कर्मवज्रां तु भावयेत् । वज्रविश्वधराच्छीघ्रं सर्वैविद्याधरो भवेद ॥ इति ॥ ४ ॥ अथ हृदयानि भवन्ति । वज्रधर ॥ रत्नधर ॥ पद्मधर ॥ कर्मधर ॥ ततः सर्वतथागतोत्तमसिद्धिनिष्पत्तिमुद्राज्ञानं शिक्षयेत् । सर्ववज्रसमाधिन्तु संविष्ट्याकाशधातुषु । यावदिच्छति वज्रात्मा तावदुत्पतति क्षणात् ॥ १ ॥ सर्वशुद्धसमाधिन्तु भावयन्नुत्तमांस्तथा । पंचाभिज्ञानवाप्नोति शीघ्रं ज्ञानप्रसाधक ॥ २ ॥ वज्रसत्त्वमयं सर्व आकाशमिति संस्फरन् । दृढानुस्मृतिमाञ्छिघ्रं भवेद्वज्रधरः स्वयम् ॥ ३ ॥ बुद्धबिम्बमयं सर्वमधिमुच्य खधातुषु । सर्वबुद्धसमाधिषु बुद्धत्वाय भविष्यति ॥ इति ॥ ४ ॥ अथात्र हृदयानि भवन्ति । वज्र वज्र ॥ शुद्ध शुद्ध ॥ सत्व सत्व ॥ बुद्ध बुद्ध ॥ सर्वसिद्धिज्ञाननिष्पत्तयः ॥ अथ रहस्याधरणक्षमो भवति ॥ तस्य प्रथमं तावच्छपथहृदयं भूयात् । ओं वज्रसत्त्वः स्वयं तेऽद्य हृदयं समवस्थितः । निर्भिद्य तत्क्षणं यायाद्यदि भूयादिदन्नयम् ॥ तत एवं वदेन् "न त्वयेदं शपथहृदयमतिक्रमितव्यम्; मा ते विषमापरिहारेणाकालमरणं स्याद्, अनेनैव कायेन नरकपतनम्" । ततो रहस्यमुद्राज्ञानं शिक्षयेत् । वज्रावेशं समुत्पाद्य तालं दद्यात्समाहितः । वज्रांजलितलैः सूक्ष्मं पर्वतोऽपि वशं नयेत् ॥ १ ॥ वज्रतालमुद्रा ॥ वज्रावेशविधिं योज्य वज्रबन्धतलैः हनेत् । सूक्ष्मतालप्रयोगेण पर्वतेऽपि समाविशेत् ॥ २ ॥ तथैवावेशविधिना वज्रबन्धप्रसारिते । अग्रांगुलिसमास्फोटाद्धनेत्कुलशतं क्षणात् ॥ ३ ॥ सूक्ष्मावेशविधेर्योगात्सर्वागुलिसमाहितम् । वज्रबन्धविनिर्मुक्तं सर्वदुःखहरं परम् ॥ इति ॥ ४ ॥ अथासां गुह्यसाधनं भवति । भगेन प्रविशेत्कायं स्त्रियायाः पुरुषस्य वा । प्रविष्ट्वा मनसा सर्वं तस्य कार्यं समं स्फरेद् ॥ इति । तत्रैतानि तालहृदयानि भवन्ति । वज्र वश ॥ वज्र विश ॥ वज्र हन ॥ वज्र हर ॥ ततो हृदयं दत्त्वा स्वकुलदेवताचतुर्मुद्राज्ञानं शिक्षयेत् । अनेन विधिना वक्तव्यम् । "न कस्यचित्त्वयान्यस्यैषां मुद्राणामकोविदस्य एकतरापि मुद्रा दर्शयितव्या । तत्कस्य हे तोः । तथा हि ते सत्वा अदृष्टमहामण्डलाः सन्तो मुद्राबन्धं प्रयोजयन्ति तदा तेषान्न तथा सिद्धिर्भविष्यति । ततस्ते विचिकित्सा प्राप्ता विषमापरिहारेण शीघ्रमेव कालं कृत्वावीचीमहानरके पतन्तः । तव चापायगमनं स्याद्" इति ॥ अथ सर्वतथागतसत्वसाधनमहामुद्राज्ञानं भवति । चित्तज्ञानात्समारभ्य वज्रसूर्यं तु भावयेत् । बुद्धबिम्बं स्वमात्मानं वज्रधातुं प्रवर्तयन् ॥ १ ॥ अन्या सिद्धिमात्रस्तु ज्ञानमायुर्बलं वर्षः । प्राप्नोति सर्वगामित्वं बुद्धत्वमपि न दुर्लभम् ॥ २ ॥ इति ॥ सर्वतथागताभिसंबोधिमुद्रा ॥ अथ वज्रसत्त्वसाधनमहामुद्राबन्धो भवति । सगर्वं वज्रमुल्लास्य वज्रगर्वां समुद्वहन् । कायवाक्चित्तवज्रैस्तु वज्रसत्त्वः स्वयं भवेत ॥ १ ॥ अन्या सर्वगामी सर्वकामपतिः सुखी । ऋद्ध्यायुर्बलरूपाग्र्यो वज्रसत्त्वसमो भवेद् ॥ इति ॥ २ ॥ कायवाक्चित्तवज्रैस्तु यथा लेख्यानुसारतः । चिन्हमुद्रान् समोपेतान्महासत्वांस्तु साधयेत् ॥ ३ ॥ अथात्र सर्वकल्पानां साधनं सिद्धिरेव च । सिद्धानां च महत्कर्म प्रवक्ष्याम्यनुपूर्वशः ॥ ४ ॥ प्रत्यहं प्राग्यथाकालं स्वाधिष्ठानादिकन्तथा । कृत्वा तु साधयेत्सर्वं ततः पश्चाद्यथासुखम् ॥ ५ ॥ इति ॥ तत्रायं महामुद्रासाधनविधिविस्तरो भवति । वज्रावेशं समुत्पाद्य महामुद्रां यथाविधि । बध्वा तु परतस्तं तु महासत्त्वं प्रभावयेत् ॥ १ ॥ तं दृष्ट्वा ज्ञानसत्त्वं तु स्वशरीरे प्रभावयेत् । आकृष्य प्रवेश्य बध्वा वशीकृत्वा च साधयेत् ॥ तत्रैषां हृदयानि भवन्ति । वज्रसत्त्व अः ॥ वज्रावेशहृदयम् ॥ वज्रसत्त्व दृश्य ॥ महासत्वानुस्मृतिहृदयम् ॥ जः हूं वं होः ॥ महासत्वाकर्षणप्रवेशनबन्धनवशीकरणहृदयम ॥ "समयस्त्वम्" इति प्रोक्ते पृष्ठतश्चन्द्रमाविशेत् । तत्रात्मा भावयेत्सत्वं "समयस्त्वम्" अहं ब्रूवन् ॥ १ ॥ यस्य सत्त्वस्य या मुद्रा तामात्मानन्तु भावयेत् । साधयेद्वज्रजापेन सर्वमुद्राप्रसाधनम् ॥ २ ॥ "जः हूं वं होः" ब्रुवन् काये सर्वबुद्धान् प्रवेशयेत् । मनसा साधुयोगेन साधनं त्वपरं महद् ॥ इति ॥ ३ ॥ अथासां कर्म प्रवक्ष्यामि वज्रकर्म निरुत्तरम् । बुद्धानुस्मृतिसंसिद्धः शीघ्रं बुद्धत्वमाप्नुयात् ॥ ४ ॥ सत्त्ववज्या तु संसिद्धः सर्वमुद्राधिपो भवेत् । सत्त्ववज्र यान्तु मुद्रायां सर्वरत्नाधिपः स तु ॥ ५ ॥ सिद्धस्तु धर्मवज्र या वै बुद्धधर्मधरो भवेत् । कर्मवज्रिणि मुद्रायां वज्रकर्मकरो भवेत् ॥ ६ ॥ सिद्ध्यते वज्रसत्त्वस्तु बन्धया सत्त्वमुद्रया । आकर्षयेद्वज्रधरां वज्राकर्षप्रयोगतः ॥ ७ ॥ वज्ररागमहामुद्रा सर्वबुद्धांस्तु रागयेत् । तोषयेत्सर्वबुद्धानां वज्रसाधप्रयोगतः ॥ ८ ॥ दद्याद्बुद्धाभिषेकाणि रत्नमुद्राविधिस्तथा । वज्रतेजा भवेच्छीघ्रं वज्रतेजःप्रयोगतः ॥ ९ ॥ वज्रकेतुधरं सेव्य भवेदाशाप्रपूरकः । वज्रहासविधिं योज्य सर्वबुद्धैः समं हसेत् ॥ १० ॥ वज्रधर्मधरो भूयाद्वज्रधर्मप्रयोगतः । प्रज्ञाग्र्यः सर्वबुद्धानां वज्रतीक्ष्णप्रयोगतः ॥ ११ ॥ वज्रचक्रधरं सेव्य धर्मचक्रं स वर्तयेत् । बुद्धवाक्सिद्धिमाप्नोति वज्रभाषप्रयोगतः ॥ १२ ॥ वज्रकर्म[गतं] क्षिप्रं वज्रकर्माग्र्यसाधनात् । निबध्य वज्रकवचं वज्रकायत्वमाप्नुयात् ॥ १३ ॥ वज्रयक्षं तु वै साध्य वज्रयक्षसमो भवेत् । सर्वमुद्राप्रसिद्धस्तु वज्रमुष्टिनिबन्धनान् ॥ १४ ॥ वज्रलास्यां तु वै साध्य महावज्ररतिं लभेत् । वज्रमाला निबन्धस्तु सर्वबुद्धाभिषेकदः ॥ १५ ॥ योजयेद्वज्रगीतां तु वज्रगीताप्रयोगतः । वज्रनृत्यां तु संयोज्य सर्वबुद्धैः स पूज्यते ॥ १६ ॥ प्रल्हादयेज्जगत्सर्वं वज्रधूपाप्रयोगतः । वज्रपुष्पां तु संयोज्य वशीकुर्याज्जगत्स तु ॥ १७ ॥ वज्रालोकमहामुद्रा चक्षुर्दद्यात्प्रपूजयन् । सर्वदुःखहरो भूयाद्वज्रगन्धप्रयोगतः ॥ १८ ॥ वज्राङ्कुशसमाकर्षात्सर्वाकर्षकरः परः । सर्वप्रवेशको भूयाद्वज्रपाशप्रयोगतः ॥ १९ ॥ वज्रस्फोटन्तु संयोज्य सर्वबन्धक्षयो भवेद् । वज्रावेशविधिं योज्य सर्वावेशप्रसाधक ॥ २० ॥ इति ॥ अथ सर्वतथागतवज्रसमयमुद्राज्ञानं भवति । अञ्जलिं तु दृढं बध्वा सर्वाङगुलिनिबन्धितम् । वज्राञ्जलिः समाख्यातो वज्रबन्धः सुबन्ध[नात् ॥ १ ॥ सर्व] समयमुद्रास्तु वज्रबन्धसमुद्भवाः । तासां बन्धं प्रवक्ष्यामि वज्रबन्धमनुत्तरम् ॥ २ ॥ सत्त्ववज्रां दृढीकृत्य मध्यमोत्थासमाङकुराम् । मध्यमान्तरसंकोचान् द्वितीया बुद्धवर्णिता ॥ ३ ॥ मध्यमाङगुष्ठरत्ना तु पद्मसंकोचमध्यमा । पञ्चमी बुद्धमुद्रा तु तथैवाग्रसुकुञ्चिता ॥ ४ ॥ अथातः संप्रवक्ष्यामि तथागतकुलस्य हि । समयग्राहिका मुद्रा बन्धं सिद्धिं च कर्म च ॥ ५ ॥ पाणिद्वयमये चन्द्रे मध्यमाङ्गुलिवर्जिते । अन्त्याङ्गुलिमुखासङ्गाद वज्रं वै सत्त्ववज्रया ॥ ६ ॥ अग्राङ्कुशाग्रसंयोगाद्साधुकारप्रदायिका । वज्रसत्वचतुष्कस्य सिद्धिमुद्रागणो ह्ययम् ॥ ७ ॥ रत्नवज्रा समाङगुष्ठतर्जनीमुखसन्धनात् । सा एव मध्यमानामकनिष्ठा सुप्रसारिता ॥ ८ ॥ पताका तु समानामकनिष्ठाभ्यां समन्विता । हासस्थानस्थिता चैव सा एव परिवर्तिता ॥ ९ ॥ प्रसारितसमाङगुष्ठस्थिता कुञ्चिततर्जनी । सा एव वर्जकोशा तु मध्यमा मुखसन्धिता ॥ १० ॥ सा एव तु समानामकनिष्ठा चक्रसंज्ञिता । निर्युक्ताङगुष्ठबन्धा तु प्रसारितमुखोत्थिता ॥ ११ ॥ कनिष्ठाङगुष्ठमुखयोः समाजात्कर्मवर्जिता । सा एव तु समाग्र्या वै हृदिस्था सुप्रसारिता ॥ १२ ॥ कुञ्चिताग्र्याग्रदंष्ट्रा तु कनिष्ठा सन्धिमोक्षिता । कनिष्ठान्तरतोऽङगुष्ठौ पीडयेत्कुञ्चिताग्र्यया ॥ १३ ॥ हृदये तु समाङगुष्ठा सुप्रसारितमालिनी । अङगुल्यग्रमखोद्धान्ता नृत्यतो मूर्ध्नि संयुता ॥ १४ ॥ वज्रबन्ध त्वधो दानात्स्वाञ्जलिश्चोर्ध्वदायिका । समाङगुष्ठनिपीडा च सुप्रसारितलेपना ॥ १५ ॥ एकतर्जनीसंकोचा द्व्यङगुष्ठग्रन्थिबन्धिता । अङगुष्ठाग्र यकटा बन्धा वज्रटमुष्ट्यग्रसन्धिता ॥ इति ॥ १६ ॥ अथासां साधनं वक्ष्ये वज्रसाधनमुत्तमम् । स्वमुद्रया हृदिस्थया सत्त्ववज्रसमाधिना ॥ १७ ॥ अथासां कर्म वक्ष्यामि वज्रकर्म निरुत्तरम् । वज्रधात्वादिमुद्रासु समाजेन तथागताः ॥ १८ ॥ मण्डलाचार्यशिष्याणामधिष्ठास्यन्ति तत्क्षणात् । सत्त्ववज्र्यान्तु बद्धायां भवेद्वज्रधरोपमः ॥ १९ ॥ वज्राङ्कुश्यां बद्धमात्रायां सर्वबुद्धां समाह्वयेत् । रागवज्रप्रयोगेण स बुद्धानपि रागयेत् ॥ २० ॥ [वज्रसाधुबन्धेन बुद्धदानतुष्टिं लभति ।] वज्रतुष्ट्या जिनैः सर्वैः साधुकारैः प्रशंस्यते ॥ २१ ॥ रत्नवज्र्यान्तु बद्धायां बुद्धैः सोऽप्यभिषिच्यते । वज्रसूर्यां बध्वा वै भवेद्बुद्धप्रभोपमः ॥ २२ ॥ वज्रकेतुधरो भूत्वा सर्वाशाः स तु पूरयेत् । वज्रहासप्रयोगेण सर्वबुद्धैः समं हसेत् ॥ २३ ॥ धर्मवज्रां समाधाय वज्रधर्मोपमो भवेत् । वज्रकोशां तु संगृह्य सर्वक्लेशां च्छिनत्ति सः ॥ २४ ॥ वज्रचक्रां दृढीकृत्वा मण्डलाधिपतिर्भवेत् । वज्रभाषप्रयोगेण वज्रवाक्सिद्धिरुत्तमा ॥ २५ ॥ कर्मवज्रां तु सन्धाय वज्रकर्मसमो भवेत् । वज्रवर्मां दृढीकृत्वा कायो वज्रमयो भवेत् ॥ २६ ॥ वज्रदंष्ट्राग्रमुद्रया दुष्टमारां स भञ्जति । वज्रमुष्टिं दृढां बध्वा सर्वमुद्रां वशन्नयेत् ॥ २७ ॥ लास्यया रतयो दिव्याः मालया भूषणानि च । गीतया स्फुटवाचो नित्यं पूजां लभति नृत्यया ॥ २८ ॥ धूपया ल्हादयेद्लोक पुष्पया रूपशोभिताम् । दीपया लोकशुद्धित्वं गन्धया दिव्यगन्धताम् ॥ २९ ॥ वज्राङकुशः समाकर्षेद्वज्रपाशा प्रवेशयेत् । वज्रस्फोटा तु बन्धयाद्वज्रघण्टा समाविशेद् ॥ ३० ॥ इति ॥ अथ धममुद्रा भवन्ति । वज्रज्ञानं तु बुद्धानां वज्रधातु दृढंकरम् । अतः परं प्रवक्ष्यामि धर्ममुद्रा यथाविधि ॥ १ ॥ "समयस्त्वम्" इति प्रोक्ते सर्वमुद्रापतिर्भवेत् । "अन्यस्व" इति वै प्रोक्ते बुद्धानाकर्षयेद्ध्रुवम् ॥ २ ॥ "अहो सुख" इति प्रोक्ते बुद्धानपि स रागयेत् । "साधु साध्व्" इति वै प्रोक्त्वा साधुकारैः स तोषयेत् ॥ ३ ॥ "सुमह[त्त्वम्" इति] प्रोक्ते सर्वबुद्धाभिषेचनम् । "रूपोद्योते"- ति वै प्रोक्ते धर्मतेजो भविष्यति ॥ ४ ॥ "अर्थप्राप्तिर" इति प्रोक्ते सर्वाशाः पूरयेत्स तु । "ह ह हूं हे- "[ति प्रोक्ते समबुद्धहासं प्राप्नु] यात् ॥ ५ ॥ "सर्वकारि" इति प्रोक्ते अकार्यमपि शोधयेत् । "दुः खच्छेद" इति प्रोक्ते सर्वदुःखाञ्छिनत्ति सः ॥ ६ ॥ ["बुद्ध बोधि" इति] प्रोक्ते मण्डलाधिपतिर्भवेत् । "प्रतिशब्द" इति प्रोक्ते बुद्धैः सहसमालपेत् ॥ ७ ॥। "शुभसिद्धम्" इति प्रोक्ते वशित्वं सर्वतो भवेत् । ["निर्भयस्त्वम्" इति] प्रोक्ते निर्भयो भवेत्तत्क्षणात् ॥ ८ ॥ "शत्रु भक्ष" इति प्रोक्ते सर्वशत्रुन् स भक्षयेत् । "सर्वसिद्धिर्" इति प्रोक्ते सर्वसिद्धिर्भविष्यति ॥ ९ ॥ ["महारति" रतिं] दिव्यां "रूपशोभा" तथैव च । "श्रोत्रसौख्या" सुखं दद्यात्"सर्वपूजा" सुपूजताम् ॥ १० ॥ "प्रल्हादिनि" मनःसौख्यं "फलागमी" फलागमा । "सु[तेजाग्रि" महातेजः] "सुगन्धाङ्गि" सुगन्धताम् ॥ ११ ॥ "अयाहि जः" समाकर्षा "अहि हूं हूं" प्रवेशिका । "हेस्फोट वं" महाबन्धा "घण्टा अः अः" प्रचालिते- ॥ ति ॥ १२ ॥ अथासां धर्ममुद्रा [साधनं प्र] वक्ष्यते शुभम् । जिव्हायां भावयेद्वज्रां सर्वकर्माणि कुर्वते ॥ ति ॥ १३ ॥ अथ कर्ममुद्राबन्धो भवति । वज्रमुष्टिं दृढां बध्वा द्विधीकुर्यात्समाहितः । वज्रमुद्राद्वयं भूयात्ततो बन्धः प्रवक्ष्यते ॥ १ ॥ वामवज्राङगुलिर्ग्राह्यं दक्षिणेन समुत्थिता । बोधाग्री नाम मुद्रेयं बुद्धबोधिप्रदायिका ॥ २ ॥ अक्षोभ्यस्य भूमिस्पर्शा रत्ने तु वरदा तथा । अमितायोः समाध्यग्रा अमोघस्याभयप्रदा ॥ ३ ॥ अतः परं प्रवक्ष्यामि कर्ममुद्रा समासतः । वज्रसत्त्वादिसत्त्वानां वज्रकर्मप्रवर्तिकाः ॥ ४ ॥ सगर्वोत्कर्षणं द्वाभ्यामङ्कु शग्रहसंस्थिता । वाणघन्तनयोगाच्च साधुकारा हृदि स्थिता ॥ ५ ॥ अभिषेके द्विवज्रं तु हृदि सूर्यप्रदर्शनम् । वामस्थबाहुदण्डा च तथास्ये परिवर्तिता ॥ ६ ॥ सव्यापसव्यविकचा हृद्वामां खड्गमारण । अलातचक्रभ्रमिता बज्रद्वयमुखोत्थिता ॥ ७ ॥ वज्रनृत्यभ्रमोन्मुक्तं कपोलोष्णीषसंस्थिता । कवचा कनिष्ठदंष्ट्राग्र्या मुष्टिद्वयनिपीडिता ॥ ८ ॥ वज्रगर्वाप्रयोगेण नमेदाशयकंपितैः । मालाबन्धा मुखोद्वान्ता वज्रनृत्यप्रनर्तिता ॥ ९ ॥ वज्रमुष्टिप्रयोगेण दद्याद्धूपादयस्तथा । सर्वबुद्धप्रपूजायाः पूजामुद्राः प्रकल्पिता ॥ १० ॥ तर्जन्यङ्कुशबन्धेन कनिष्ठाया महाङ्कुशी । बाहुग्रन्थिकटाग्र्याभ्यां पृष्ठयोश्च निपीडिता ॥ इति ॥ ११ ॥ अथासां साधनं वक्ष्ये वज्रकर्मकृता समम् । सर्ववज्रमयं वज्रं हृदये परिभावयेद् ॥ इति ॥ १२ ॥ अथासां कर्ममुद्राणां वज्रकर्माण्यनेकधा । ज्ञानमुष्ट्यां तु बद्धायां बुद्धज्ञानं समाविशेत् ॥ १३ ॥ अक्षोभ्यायां तु बन्धायामक्षोभ्यं भवेत्मनः । रत्नसंभवमुद्रायां परानुग्रहवान् भवेत् ॥ १४ ॥ सद्धर्मचक्रमुद्रायां धर्मचक्रं प्रवर्तयेत् । अभयाग्र्या भवेत क्षिप्रं सर्वसत्त्वामयप्रदः ॥ १५ ॥ ज्रगर्वां दृढीकृत्य वज्रसत्वसुखं लभत् । वज्राङ्कुश्या समाकर्षेत्क्षणात्सर्वतथागतान ॥ १६ ॥ रागयेद्वज्रवाणैस्तु वज्रभार्यामपि स्वयम् । वज्रतुष्ट्या जिनाः सर्वे साधुकारान् ददन्ति हि ॥ १७ ॥ महावज्रमणिं बध्वा शास्तृभिः सोऽभिषिच्यते । वज्रसूर्यां समाधाय वज्रसूर्यसमो भवेत् ॥ १८ ॥ वज्रध्वजां समुच्छ्राप्य रत्नवृष्टिं स वर्षयेत् । वज्रस्मितां समाधाय हसेद्बुद्धैः समं लघु ॥ १९ ॥ वज्रफुल्लां समाधाय वज्रधर्मं स पश्यति । वज्रकोशां दृढं बध्वा सर्वदुःखाञ्छिनत्ति सः ॥ २० ॥ वज्रचक्रं समाधाय धर्मचक्रं प्रवर्तयेत् । सर्वं वै बुद्धवचनं सिध्यते वज्रजापतः ॥ २१ ॥ [वज्रनृत्यपूजया बुद्धोऽपि वशिभूतं भवेत्] । वज्रवर्म निबध्वा सो वज्रसारत्वं प्राप्नुयात् ॥ २२ ॥ वज्रदंष्ट्रं समाधाय [प्रध्वंसेद्वज्रत्वमपि] । वज्रमुष्ट्याहरे[त्सर्वं मुद्रासिद्धिरालभ्यते] ॥ २३ ॥ वज्रलास्या रतिन् दद्याद्वज्रमाला सुरूपताम् । वज्रगीता सुगीता [त्वं वज्रनृत्या च वशयेत्] ॥ २४ ॥ धूपया तु मनोल्हादं पुष्पयाभरणानि तु । दीपपूजा महादीप्तिं वज्रगन्धा सुगन्धताम् ॥ २५ ॥ वज्राङ्कुश्या समाकर्षेद्वज्र आशा प्रवेशयेत् । बन्धयेद्वज्रनिगडा वज्रघण्टा तु चालयेद् ॥ इति ॥ २६ ॥ अथ सर्वमुद्राणां सामान्या बन्धविधिविस्तरो भवति । तत्रादित एव वज्रबन्धाङ्गुलीं तालं कृत्वा हृदये, इदं हृदयमुच्चारयेत्वज्रबन्ध त्रट् ॥ ततः सर्वमुद्राबन्धाः स्वकायवाक्चित्तवज्रेषु वशीभवन्ति ॥ ततो वज्रावेशसमयमुद्रां बध्वा, इदं हृदयमुच्चारयेतः ॥ ततः समाविष्टा मित्रत्वेनोपतिष्ठन्ति ॥ ततो मुद्रासमयमहासत्त्वाननुस्मृत्येदं हृदयमुदाहरेत्महासमयसत्त्वोऽहम् ॥ अनेन सर्वमुद्राः सिद्ध्यन्तीति । सर्वमुद्राविधिविस्तरः ॥ अथ सामान्यः साधनविधिविस्तरो भवति । तत्रादित एव स्वमुद्रां बध्वा स्वमुद्रासत्वमात्मानं भावयेदनेन हृदयेन समयोऽहम् ॥ ततः स्वमुद्रासत्त्वमात्मानं भाव्य तेनाधिष्ठायेदनेन मन्त्रेण समयसत्त्वाधितिष्ठस्व माम् । ततः साधयेदिति । साधनाविधिविस्तरः ॥ अथ सिद्धिविधिविस्तरो भवति । तत्रादित एव अर्थसिद्धिमिच्छता तेन हृदयेन अर्थसिद्धि ॥ अनेन सिद्धा मुद्रा महार्थोत्पत्तिन् करोति ॥ अथ वज्रसिद्धिमिच्छेदनेन हृदयेन वज्रसिद्धि ॥ अनेन यथाभिरुचितवज्रसिद्धो भवति ॥ अथ विद्याधरसिद्धिमिच्छेदनेन हृदयेन वज्रविद्याधर ॥ अनेन यथाभिरुचितविद्याधरसिद्धिः । अथोत्तमसिद्धिमिच्छेत्स्वमुद्राहृदयेनेति । सिद्धिविधिविस्तरः ॥ अथ सर्वमुद्राणां सामान्यः स्वकायवाक्चित्तवज्रेषु वज्रीकरणविधिविस्तरो भवति । यदा मुद्राधिष्ठानं शिथिलीभवति, स्वयं वा मुक्तुकामो भवति, ततोऽनेन हृदयेन दृढीकर्तव्या । ओं वज्र सत्त्वसमयमनुपालय, वज्रसत्त्वत्वेनोपतिष्ठ, दृढो मे भव, सुतोष्यो मे भवानुरक्तो मे भव, सुपोष्यो मे भव, सर्वसिद्धिञ्च मे प्रयच्छ, सर्वकर्मसु च मे चित्तश्रेयः कुरु हूं ह ह ह ह होः भगवन् सर्वतथागतवज्र मा मे मुंच, वज्रीभव महासमयसत्व आः ॥ "अनेनानन्तर्यकारिणोऽपि सर्वतथागतमोक्षा अपि सद्धर्मप्रतिक्षेपका अपि सर्वदुष्कृतकारिणोऽपि सर्वतथागतमुद्रासाधका वर्जसत्त्वदृढीभावादिहैव जन्मन्यासु यथाभिरुचितां सर्वसिद्धिमुत्तमसिद्धिं वज्रसिद्धिं वज्रसत्त्वसिद्धिं वा यावत्तथागतसिद्धिं वा प्राप्स्यन्ती- "त्याह भगवां सर्वतथागतवज्रसत्त्वः ॥ अथ स्वमुद्राणां सामान्यो मोक्षविधिविस्तरो भवति । तत्रादित एव यतोयतः समुत्पन्ना मुद्रा तान् तत्रतत्रैव मुञ्चेदनेन हृदयेन वज्र मुः ॥ ततो हृदयोत्थितया रत्नवज्रिमुद्रया स्वाभिषेकस्थानस्थितयाभिषिच्याग्राङ्गुलिभ्यां मालां वेष्टव्यं बध्वा तथैव कवचं बन्धयेदनेन हृदयेन ओं रत्नवज्राभिषिञ्च सर्वमुद्रा मे दृढीकुरु वरकवचेन वम् ॥ ततः पुनः कवचान्तं मालाबन्धं कृत्वा, समतालया तोषयेदनेन हृदयेन वज्र तुष्य होः ॥ अनेन विधिना मुद्रा मुक्ता बद्धाश्च तोषिता । वज्रत्वमुपयास्यन्ति वज्रसत्त्वेन वा पुनः ॥ वज्रसत्त्वः सकृज्जप्तो यथाकामं सुखात्मना । सिध्यते जापमात्रेण वज्रपाणिवचो यथा ॥ इत्याह भगवान् समन्तभद्रः ॥ वज्रसत्त्वादिसत्त्वानां सर्वसाधनकर्मसु । जापस्तु रुचितोऽप्यत्र सर्वकल्पेषु सिद्धिदः ॥ हृन्मुद्रामन्त्रविद्यानां यथाभिरुचितैर्नयैः । कल्पोक्तैः स्वकृतैर्वापि साधनं त्वत्र सर्वतः ॥ इति ॥ ततः पूजागुह्यमुद्रामुदाहरन्, गुह्यपूजाचतुष्टयं कार्यम्, अनेन वज्रस्तुतिगीतेन गायन् । ओं वज्रसत्त्वसंग्रहाद्वज्ररत्नमनुत्तरम् । वज्रधर्मगायनैश्च वज्रकर्मकरो भव ॥ ततोऽभ्यन्तरमण्डलेऽप्यनेनैव वज्रस्तुतिगीतेन वज्रनृत्यकरपुटेन गृह्य धूपादिभिः पूजा कार्या । ततो बाह्यमण्डले वज्रधूपादिभिः पूजां कृत्वा, ताः पूजा स्वस्थानेषु स्थापयेत् । ततः "सर्वे यथाशक्त्या पूजयन्त्वि" ति सर्वतथागतान् विज्ञाप्य, यथेच्छया धूपादिभिः पूजां कारयित्वा, यथा प्रविष्टां यथा विभवतः सर्वरसाहारविहारादिभिः सर्वोपकरणर्महामण्डले निर्यातितैः सन्तुष्येदं सर्वतथागतसिद्धिवज्रव्रतं दद्यात् । इदं तत्सर्वबुद्धत्वं वज्रसत्त्वकरे स्थितम् । त्वयापि हि सदा धार्यं वज्रपाणिदृढव्रतम ॥ ओं सर्वतथागतसिद्धि वज्रसमय तिष्ठ एष त्वा धारयामि वज्रसत्व हि हि हि हि हूम् ॥ ततः " सर्वेषां पुनरपि न कस्यचिद्वक्तव्यम्" इति शपथहृदयमाख्येयम् । ततो यथा प्रविष्टान् संप्रेष्य सर्वतथागतान् विज्ञापयेत्, सत्ववज्रिमुद्रां बध्वोर्ध्वतो मुञ्चेद्, इदं च हृदयमुच्चारयेत् । ओं कृतो वः सर्वसत्वार्थः सिद्धिर्दत्ता यथानुगा । गच्छध्वं बुद्धविषयं पुनरागमनाय तु ॥ वज्रसत्त्व मुः ॥ एवं सर्वमण्डलेषु कर्तव्यम् । समयाग्र्या मुद्रासु च मोक्त इति ॥ सर्वतथागतमहायानाभिसमयान्महाकल्पराजाद्वज्रधातुमहामण्डलविधिविस्तरः समाप्तः ॥ छप्तेर्२ वज्र-गुह्य-वज्र-मन्दल-विधि-विस्तर अथ भगवान् सर्वतथागतसर्ववज्रधरणीसमयसंभववज्रन्नाम समाधिं समापन्नः । समनन्तरसमापन्ने चाथ तावदेव सर्वतथागतहृदयेभ्यः । स एव भगवान् वज्रपाणिः वज्रधररूपधारिण्यः समन्त ज्वालागर्भा वज्रधारणीसमयमुद्रा देवता भूत्वा विनिःसृत्य, सर्वलोकधातुषु सर्वबुद्धानां सर्वतथागतवज्रधारणी ज्ञानानि निष्पाद्य, सर्वतथागतसमयमुद्राबिम्बानि भूत्वा, सर्वतथागतानां वज्रधातुमहामण्डले सन्निवेशयोगेन चन्द्रमण्डलान्याश्रित्येदमुदानमुदानयामास । अहो हि बोधिचित्तस्य सर्वसत्वहितैषिता । यद्विनयवशाद्धीराः स्त्रीरूपमपि कुर्वते ॥ एमनतिओनोf देइतिएस्fरों समधि अथ भगवान् सर्वतथागतज्ञानमुद्रासमयवज्रधात्वधिष्ठानं नाम समाधिं समापद्येमां स्वविद्यात्तमामभाषतों वज्रधात्वीश्वरि हूं वज्रिणि ॥ अथ खल्वक्षोभयस्तथागतः सर्वतथागतवज्रसत्वसमयज्ञानमुद्रामण्डलाधिष्ठानन्नाम समाधिं समापद्येमां स्वविद्योत्तमामभाषतों वज्रवज्रिणि हूम् ॥ अथ रत्नसंभवस्तथागतः सर्वतथागतवज्ररत्नसमयज्ञानमुद्रामण्डलाधिष्ठानन्नाम समाधिं समापद्येमां स्वविद्योत्तमामभाषतों रत्नवज्रिणि हूम् ॥ अथामितायुस्तथागतः सर्वतथागतवज्रधर्मसमयज्ञानमुद्रामण्डलाधिष्ठानन्नाम समाधिं समापद्येमां स्वविद्योत्तमामभाषतों धर्मवज्रिणि हूम् ॥ अथामोघसिद्धिस्तथागतः सर्वतथागतवज्रकर्नसमयज्ञानमुद्रामण्डलाधिष्ठानन्नाम समाधिं समापद्येमां स्वविद्योत्तमामभाषतों कर्मवज्रिणि हूम् ॥ अथ वज्रपाणिर्महाबोधिसत्वः सर्वतथागतमहाधारणीसमयमुद्राचतुष्टयमभाषत् ॥ ओं वज्रसत्वगुह्यसमये हूम् ॥ ओं गुह्यवज्राङ्कुशि हूम् ॥ ओं वज्रगुह्यरागे रागय हूम् ॥ ओं गुह्यवज्रसाध्वीश्वरि हूम् ॥ समन्तभद्रा, तथागताङ्क शी, रतिरागा, साधुमती च । वज्रधारण्यः । ओं वज्रगुह्यरत्नसमये हूम् ॥ ओं वज्रगुह्यप्रभे हूम् ॥ ओं वज्रध्वजाग्रगुह्ये हूम् ॥ ओं गुह्यहासवज्रि हूम् ॥ रत्नोत्तमा, रत्नोल्का, ध्वजाग्रकेयूरा, हासवती च । रत्नधारण्यः ॥ ओं वज्रधर्मगुह्यसमये हूम् ॥ ओं वज्रकोशगुह्ये हूम् ॥ ओं वज्रगुह्यमण्डले हूम् ॥ ओं वज्रगुह्यजापसमये हूम् ॥ वज्राम्बुजा, आधारणी, सर्वचक्र, सहस्रावर्ता च । धर्मधारण्यः ॥ ओं वज्रगुह्यकर्मसमये हूम् ॥ ओं वज्रगुह्यकवचे हूम् ॥ ओं गुह्यवज्रदंष्ट्राधारिणि हूम् ॥ ओं वज्रगुह्यमुष्टि हूम् ॥ सिद्धोत्तरा, सर्वरक्षा, तेजःप्रत्याहारिणी, धरणीमुद्रा च । सर्वधारण्य इति ॥ अथ वज्रपाणिर्महाबोधिसत्वः पुनरपि सर्वतथागतवज्रगुह्यसमयमुद्राचतुष्टयमभाषत् । ओं गुह्यसत्ववज्रि हूम् ॥ ओं गुह्यरत्नवज्रि हूम् ॥ ओं गुह्यधर्मवज्रि हूम् ॥ ओं गुह्यकर्मवज्रि हूम् ॥ ता एव वज्रपारमितादयः सर्वतथागतवज्रगुह्यसमयधारणीसंग्रहसमयमुद्राः । वज्रधत्वीश्वरीमहामण्डले सज्वालाः चन्द्रमण्डलाश्रिताः स्थाप्याः ॥ अथ पुनरपि वज्रपाणिः सर्वतथागत वज्रगुह्यपूजासमयमुद्राचतुष्टयमभाषत् । ओं वज्रगुह्यरतिपूजासमये सर्वपूजां प्रवर्तय हूम् ॥ ओं वज्रगुह्याभिषेकपूजासमये सर्वपूजां प्रवर्तय हूम् ॥ ओं वज्रगुह्यगीतापूजासमये सर्वपूजां प्रवर्तय हूम् ॥ ओं वज्रगुह्यनृत्यपूजासमये सर्वपूजां प्रवर्तय हूम् ॥ ता एव वज्रलास्यादयः सज्वालाः स्वचिन्हा मुद्राश्चक्रमण्डलकोणचतुष्टये स्थाप्याः ॥ देलिनेअतिओनोf थे मन्दल अथ वज्रपाणिः पुनरपीदं वज्रगुह्यं नाम महावज्रमण्डलमभाषत् । अथातः संप्रवक्ष्यामि वज्रमण्डलमुत्तमम् । वज्रधातुप्रतीकाशं वज्रगुह्यमितिस्मृतम् ॥ १ ॥ महामण्डलयोगेन सर्वमण्डलमालिखेत् । सर्वमण्डलमध्येषु बुद्धमुद्राः समालिखेत् ॥ २ ॥ पर्यङके सुस्थितं चैत्यं वज्रधात्वीश्वरी स्मृता । पर्यङ्के वज्रा वज्रां तु वज्रचिन्तेति कीर्तिता ॥ ३ ॥ ॥ वज्ररत्नं तु पर्यङ्के स्वाभिषेकेति कीर्तिता । पर्यङ्के वज्रपद्मं तु आयुधैति प्रकीर्तिता ॥ ४ ॥ कर्मवज्रं तु पर्यङ्के सर्ववज्रेति कीर्तिता । पद्मप्रतिष्ठाः समालेख्याः प्रभामण्डलसंस्थिताः ॥ ५ ॥ पर्यङ्केतु लिखेद्वज्रमुत्थितं द्वयङ्कुशं तथा । वज्रं वज्रपरियुक्तं साधुकारद्वयं तथा ॥ ६ ॥ रत्नं करोज्वलं कुर्यात्सूर्यमुद्रान्तथैव च । ध्वजाग्रं चैव सज्वालं दन्तपङिक्तर्द्विवज्रगे ॥ ७ ॥ वज्रमध्ये लिखेत्पद्मं खड्गं सज्वालमेव च । वज्रारं वज्रचक्रं तु जिव्हां रश्मिकरोज्ज्वलाम् ॥ ८ ॥ वज्रं तु सर्वतो वक्त्रं कवचं वज्रसंयुतम् । वज्रदंष्ट्रे तथा लेख्ये मुष्टिमुद्रा करद्वये ॥ ९ ॥ सत्ववज्रादयो लेख्या यथावद्धातुमण्डले । चिन्हमुद्राः समालेख्या वज्रलास्यादिमण्डले ॥ १० ॥ बाह्यातश्च यथायोगं स्वचिन्हंतु समालिखेत् । मैत्रेयादिस्वचिन्हानि यथाभिरुचितं लिखेद् ॥ ११ ॥ इति ॥ इनितिअतिओनिन्तो थे मन्दल अथात्र वज्रगुह्यमण्डले प्रवेशादिविविधविस्तरो भवति । तत्र प्रथमं तावद्वज्राचार्यः स्वयं सत्ववज्रिमुद्रां बध्वा प्रविशेत्; प्रविश्य सकृत्प्रदक्षिणीकृत्य, तां मुद्रां भगवते वज्रपाणये निर्यात्य, स्वहृदये यथावन्मुक्त्वा, चतुर्षु द्वारेषु वज्राङ्कु शकर्ममुद्रादिभिर्यथावत्कर्माणि कृत्वा निष्क्रमेद्, अभिनिष्क्रम्य शिष्यां प्रवेशयेत्वज्रधातुमहामण्डलयोगेनेति । ततः प्रवेश्य मुष्ट्याच्छाद्य सिद्धिगुह्यवज्रचिन्हं दत्वा, वज्रगुह्यमुद्राज्ञानं शिक्षयेत् ॥ मुद्र तत्र प्रथमं तावद्वज्रगुह्यकायमुद्राज्ञानं शिक्षयेत् । चन्द्रमण्डलमध्ये तु हस्तपादाञ्जलिं मुखम् । विजृंभन् भावयेद्वज्रं वज्रिणीमपि रागयेत् ॥ १ ॥ अङ्कुशं बाहुसंकोचं शीर्षे वज्रं तु भावयेत् । शब्दापयंस्तु हस्तेन आनयेदङ्कुशीमपि ॥ २ ॥ वाणप्रक्षेपयोगेन विजृंभन् प्रहरेधृदि । रागयेन्मारयोगेन रतिवज्रामपि स्वयम् ॥ ३ ॥ बाहुबन्धेन बध्नीयाधृदयं स्वयमात्मनः । वज्रवर्मप्रयोगेण रक्षेद्बुद्धमपि स्वयम् ॥ इति ॥ ४ ॥ तत्रैषां हृदयानि भवन्ति । वज्र रागय होः ॥ वज्राङ्कु श जः ॥ मारय मारय फट् ॥ बन्ध रक्ष हम् ॥ ततो वज्रगुह्यदृष्टिमुद्राज्ञानं शिक्षयेत् । वज्रदृष्टिस्तु संरागप्रहर्षोत्फुल्ललोचना । तया निरीक्षता स्त्री तु वश्या भवति शाश्वती ॥ १ ॥ प्रद्रुतप्रचलच्चक्षुः पक्ष्मकर्षणलोचना । दीप्तकृष्टिरिति प्रोक्ता सर्वमाकर्षयेज्जगत् ॥ २ ॥ प्रध्वस्तभृकुटीभङ्गक्रोधसंकुचितेक्षणम् । क्रोधदृष्टिं समाधाय त्रैलोक्यमपि नाशयेत् ॥ ३ ॥ मेरुमर्दनपाषाणदृढानिमिषलोचना । मैत्रीदृष्टिरिति ख्याता ज्वरग्रहविषापहा ॥ इति ॥ ४ ॥ अथासां हृदयानि भवन्ति । वज्रदृष्टि मट् ॥ दीप्तदृष्ट्याङ्कु शिज्जः ॥ क्रोधदृष्टि हीः ॥ दृढदृष्टि त्रट् ॥ ततो वज्रगुह्यवाङ्मुद्राज्ञानं शिक्षयेत् । होः होः होः हो इति प्रोक्ते वाग्विवर्तितया क्षणात् । रागयेत्सर्वसत्वां सो वज्रवाचा परिस्फुटाम् ॥ १ ॥ ज्जः ज्जः ज्जः ज्ज इति प्रोक्ते क्रोधवाचा परिस्फुटाम् । आकर्षयेज्जगत्सर्वमपि वज्रधरोपमम् ॥ २ ॥ हुं हुं हुं हुं समाधाय शब्दवाचा परिस्फुटाम् । मारयेत्सर्वसत्वां सो मेरुमर्दनसन्निभाम् ॥ ३ ॥ हं हं हं हमिति प्रोक्ते सूक्ष्मवाचा परिस्फुटाम् । रक्षेत्सर्वमिदं लोचमपि वज्रात्मकं जिनम् ॥ इति ॥ ४ ॥ तत्रैतानि हृदयानि भवन्ति । वज्र होः ॥ वज्र ज्जः ॥ वज्र हुम् ॥ वज्र हम् ॥ ततो वज्रगुह्यचित्तमुद्राज्ञानं शिक्षयेत् । सर्वाकारवरोपेतं भावयन् स्वयमात्मना । वज्रपाणिं स्वमात्मानं सर्वबुद्धां वशन्नयेत् ॥ १ ॥ सर्वाकारवरोपेतं भावयन् स्वयमात्मना । वज्रगर्भं स्वमात्मानमाकर्षयेद्वज्रपाणिनम् ॥ २ ॥ सर्वाकारवरोपेतं भावयन् स्वयमात्मना । वज्रनेत्रं स्वमात्मानं सर्वधर्मां स मारयेत् ॥ ३ ॥ सर्वाकारवरोपेतं भावयन् स्वयमात्मना । वज्रविश्वं स्वमात्मानं सर्ववज्रं स रक्षति ॥ इति ॥ ४ ॥ तत्रैतानि हृदयानि भवन्ति । वज्रपाणि वशमानय सर्वबुद्धान् होः ॥ वज्रगर्भ वज्रपाणिं शीघ्रमाकर्षय हूं ज्जः ॥ वज्रनेत्र सर्वधर्मान्मारय हूं फट् ॥ वज्रविश्व रक्ष सर्ववज्रान् हम् ॥ ततो वज्रगुह्यमुद्राज्ञानं शिक्षयेत् । सत्ववज्रां समाधाय हृदये स्वयमात्मनः । वज्रदृष्ट्या निरीक्षन् वै सर्वमावेशयेज्जगत् ॥ १ ॥ रत्नवज्रां समाधाय हृदये स्वयमात्मनः । दीप्तदृष्ट्या निरीक्षन् वै सर्वमानयते वशम् ॥ २ ॥ धर्मवज्रां समाधाय हृदये स्वयमात्मनः । क्रोधदृष्ट्या निरीक्षन् वै जगत्सर्वं स मारयेत् ॥ ३ ॥ कर्मवज्रां समाधाय हृदये स्वयमात्मनः । मैत्रीदृष्ट्या निरीक्षन् वै रक्षेत्सर्वमिदं जगद् ॥ इति ॥ ४ ॥ अथासां वज्रगुह्यज्ञानमुद्राणां हृदयानि भवन्ति । वज्रगुह्यसमय अः ॥ वज्रगुह्यसमय होः ॥ वज्रगुह्यसमय हुम् ॥ वज्रगुह्यसमय हम् ॥ ततो वज्रगुह्यमुद्राबन्धं शिक्षयेत् । वज्राञ्जलिसमुद्भूता महागुह्याः प्रकीर्तिताः । महामुद्राः समासेन तासां बन्धः प्रवक्ष्यते ॥ १ ॥ अङ्गुष्ठद्वयपर्यङ्का कुञ्चिताग्राग्रविग्रहा । सममध्योत्तमाङ्गा च वज्रधात्वीश्वरी स्मृता ॥ २ ॥ सा एव मध्यवज्रा तु मध्याभ्यां तु मणीकृता । मध्यानामान्त्यपद्मा च प्रसारितकराङ्गुली ॥ ३ ॥ अग्र्या वज्रा दिवज्राग्री साङ्गुष्ठद्वयगूहिता । साधुकाराग्र्यरत्ना च स रत्नाग्राकरोज्वला ॥ ४ ॥ समानामान्त्यरत्ना च सा एव परिवर्तिता । सुप्रसारितसर्वाग्रा समाङ्गुष्ठान्तरस्थिता ॥ ५ ॥ प्रसारिताङ्गुलीमण्डासा एव तु मुखोद्धृता । अङ्गुष्ठवज्रसंच्छन्ना समाग्र्याभ्यन्तरस्थिता ॥ ६ ॥ द्वयङ्गुष्ठविकचा सा तु ततोऽभ्यन्तरवज्रिणी । वज्रगुह्याः पुनश्चैता वज्रबन्धसमुद्भवाः ॥ ७ ॥ धर्मगुह्याः पुनश्चिन्हैः संपुटान्तरभावितैः । कर्मगुह्यान्तरस्थितैस्तु चिन्हैः कर्मप्रदर्शनम् ॥ ८ ॥ अतः परं प्रवक्ष्यामि धर्ममुद्राः समासतः । आः ज्जः होः सः, उमां त्रं हः, ह्रीः धं भं रं, कं हं हुं वम् ॥ १ ॥ गुह्यमुद्रा द्विधिकृत्य कर्ममुद्रासु कल्पयेत् । यावद्यः समयाग्र्यो वै द्विधीकृत्य तथैव च ॥ २ ॥ अथासां साधनं वक्ष्ये समयस्त्वमिति ब्रूवन् । स्वयं बध्वा तु सिध्यन्ते कामरागसुखात्मनः ॥ १ ॥ आसां त्वधिकमेकं तु सर्वकालं न बन्धयेत् । गुह्ये वार्थमहत्कार्ये प्रयुञ्जीत्विचक्षणः ॥ २ ॥ यसर्वात्मसित्थात ह्येता दृढभार्याः स्वयंभुवाम् । साधकेषु दृढं रक्ता मा त्यजेयुः पतिन्निजम् ॥ ३ ॥ इति ॥ अथासां सर्वमुद्राणां बन्धादिति कर्माणि भवन्ति । वज्रवेशं समुत्पाद्य आत्मनश्च परस्य वा । बन्धयेद्वा बन्धयेद्वापि अनेन हृदयेन तु ॥ वज्र हूं बन्ध ॥ अथ मोक्षो भवति । यतो यतः समुत्पन्नाः सर्वमुद्राः समासतः । तत्र तत्र तां मुञ्चेदनेन हृदयेन तु ॥ ओं वज्र मुः ॥ अथ दृढीकरणं भवति । रत्न वज्रां दृढीकृत्य हृदयान्मूर्ध्नि मोक्षिता । अग्राभ्यां कवचं बन्धेदनेन हृदयेन तु ॥ ओं दृढ वज्रकवच धृट् ॥ अथ बन्धसमयो भवति । यथा स्थानेषु वै मुक्ता कवचेन दृढीकृता । निबन्धेत्तालया सर्वा ह्यनेन हृदयेन तु ॥ ओं गुह्यसमयताल सः ॥ वज्रसत्वो रुचिजप्तिः सर्वमण्डलकर्मसु । प्रयोक्तव्योऽत्र समये सर्वसिद्धिकरः परम् ॥ इति ॥ सर्वतथागतमहायानाभिसमयान्महाकल्पराजाद्वज्रगुह्यवज्रमण्डलविधिविस्तरः समाप्तः ॥ छप्तेर्३ वज्र-ज्नन-धर्म-मन्दल-विधि-विस्तर एमनतिओनोf देइतिएस्fरों समधि अथ भगवान् पुनरपि सर्वतथागतसूक्ष्मवज्रज्ञानमुद्रासमयमण्डलाधिष्ठानं नाम समाधिं समापद्येमां स्वविद्योत्तमामभाषतों सूक्ष्मवज्रज्ञानसमय हूम् ॥ अथ खल्वक्षोभ्यः तथागतः सर्वतथागतवज्रसत्वसूक्ष्मज्ञानसमयमण्डलाधिष्ठानन्नाम समाधिं समापद्येमां स्वविद्योत्तममभाषतों वज्रसत्व सूक्ष्मज्ञानसमय हूम् ॥ अथ खलु रत्नसंभवस्तथागतः सर्वतथागतवज्ररत्नसूक्ष्मज्ञानसमयमण्डलाधिष्ठानं नाम समाधिं समापद्येमां स्वविद्योत्तममभाषतों वज्ररत्न सूक्ष्मज्ञानसमय हूम् ॥ अथ खल्वमितायुस्तथागतः सर्वतथागतवज्रधर्मसूक्ष्मज्ञानसमयमण्डलाधिष्ठानं नाम समाधिं समापद्येमां स्वविद्योत्तममभाषतों वज्रधर्म सूक्ष्मज्ञानसमय हूम् ॥ अथ खल्वमोघसिद्धिस्तथागतः सर्वतथागतवज्रकर्मसूक्ष्मज्ञानसमयमण्डलाधिष्ठानन्नाम समाधिं समापद्येमां स्वविद्योत्तममभाषतों वज्रकम सूक्ष्मज्ञानसमय हूम् ॥ अथ भगवान् वैरोचनः सर्वतथागतसूक्ष्मज्ञानवज्रं नाम समाधिं समापन्नः, समनन्तरसमापन्ने च भगवत्यथ तावदेव सर्वतथागतहृदयेभ्यः सूक्ष्मज्ञानवज्ररश्मयो विनिश्चरित्वा, सर्वलोकधातवोऽवभास्य सर्वसत्वानां, सर्वतथागतसूक्ष्मज्ञानवज्रसमाधिसमापत्तीन् दृढी कृत्य पुनरप्येकध्यीभूत्वा, समाधिज्ञानवज्रकायतामध्यालम्ब्यैकघनस्तथागतज्ञानः संभूय, भगवतो वैरोचनस्य हृदये प्रविष्टः ॥ अथ वज्रपाणिः सर्वतथागतज्ञानहृदयेभ्यः प्रविष्ट्वेदं सर्वतथागतसूक्ष्मज्ञानमहासमयवज्रमभाषत्सूक्ष्मवज्र ॥ अथास्मिन् भाषितमात्रे सर्वतथागतहृदयेभ्यो वज्रपाणिर्विनिःसृत्य, सर्वतथागतसूक्ष्मज्ञानवज्रबिम्बमात्मानमधिष्ठाय, सर्वतथागतनासिकाग्रेषु स्थित्वेदमुदानमुदानयामास । अहो हि सर्वबुद्धानां सूक्ष्मवज्रमहं महत् । यन्महत्वात्स सूक्ष्मोऽपि त्रैधातुकमपि स्फरेद् ॥ इति ॥ अथेदमुक्त्वा भगवान् वज्रपाणिर्महाबोधिसत्वः सर्वतथागतनासिकाग्रेभ्यः सुसूक्ष्मवज्रज्ञाननिमित्तस्फरणताय सर्वतथागतकायेभ्यः स्फरित्वा, सकलधर्मधातुस्फरणतायोगेन सर्वाकाशधातुं सुसूक्ष्मवज्रज्ञाननिमित्तैः संस्फर्य, सकलाकाशधातुविस्फरितसर्वतथागतज्ञानवज्रबिम्बमात्मानमधिष्ठायावस्थितः ॥ अथ तस्मिन्नेव क्षणे सर्वतथागताः सर्वतथागतज्ञानवज्रमध्ये वज्रधर्मतामध्यालम्ब्य, सर्वतथागतसूक्ष्मज्ञानवज्राधिष्ठानन्नाम समाधिं समापद्यावस्थिताः ॥ अथ ततः सर्वतथागतज्ञानवज्रात्सर्वतथागतसमाधिज्ञानहृदयं निश्चचार वज्रनाभि तथागत हूम् ॥ अथास्मिन् विनिःसृतमात्रे भगवान् वज्रपाणिः पुनरपि सूक्ष्मज्ञानप्रवेशयोगेन सर्वतथागतकायेषु प्रविष्ट्वा, हृदये वज्रबिम्बानि भूत्वावस्थिताः । अथ तेभ्यः सर्वतथागतसत्ववज्रेभ्य इदं महाज्ञानहृदयचतुष्टयं निश्चचार । वज्रात्मक ॥ हृद्वज्राङ्कुश ॥ तिष्ठ रागवज्र प्रविश हृदयम् ॥ अहो वज्रतुष्टि ॥ वज्रसत्वज्ञानमुद्रः, सर्वतथागतसमाजाधिष्ठानज्ञानमुद्रः, सर्वतथागतानुरागणज्ञानमुद्रः, महातुष्टिज्ञानमुद्रश्चेति । सर्वतथागतमहावज्रसमाधयः ॥ अथ वज्रपाणिः सर्वतथागतहृदयः पुनरपि सूक्ष्मज्ञानप्रवेशयोगेन स्वहृदयं प्रविष्ट्वा हृदये वज्रबिम्बमात्मानमधिष्ठायावस्थितः ॥ अथ ततो वज्रविग्रहादिदं हृदयचतुष्टयं निश्चचार । वज्ररत्नात्मक ॥ हृदय वज्रसूर्य ॥ तिष्ठवज्रध्वजाग्र वम् ॥ हृदयवज्रहास ॥ सर्वतथागतवज्राभिषेकज्ञानमुद्रः, महाप्रभामण्डलव्यूहज्ञानमुद्रः, सर्वतथागताशापरिपूरणज्ञानमुद्रः, सर्वतथागतमहाहासज्ञानमुद्र इति । सर्वतथागतरत्नसमाध्यः ॥ अथ वज्रपाणिः पुनरपि सूक्ष्मवज्रज्ञानप्रवेशयोगेन स्वहृदयं वज्रहृदयं प्रविष्ट्वा वज्रबिम्बमात्मानमधिष्ठायावस्थितः ॥ अथ ततो वज्रबिम्बादिदं हृदयचतुष्टयं निश्चचार । वज्रपद्मात्मक ॥ हृद्वज्रकोश ॥ तिष्ठ वज्रचक्र हृदयं प्रविश ॥ वज्रजिव्हाग्र हृदय ॥ सर्वधर्मसमताज्ञानमुद्रः, सर्वतथागतप्रज्ञाज्ञानमुद्रः, महाचक्रप्रवेशज्ञानमुद्रः, सर्वतथागतधर्मवाग्निःप्रपञ्चज्ञानमुद्र इति । सर्वतथागतधर्मसमाधयः ॥ अथ वज्रपाणिः पुनरपि स्वहृदयवज्रहृदयवज्रात्सुसूक्ष्मज्ञानप्रवेशयोगेन तद्वज्रहृदयं प्रविष्ट्वा, पुनरपि सूक्ष्मवज्रबिम्बमात्मानमधिष्ठायावस्थितः ॥ अथ ततः सूक्ष्मवज्रबिम्बादिदं हृदयचतुष्टयं निश्चचार । सर्ववज्रात्मक ॥ हृद्वज्रकवच ॥ तिष्ठ वज्रयक्ष हृदय ॥ वज्रमुष्टिहृदय ॥ सर्वतथागतविश्वकर्मज्ञानमुद्रः, दुर्योधनवीर्यज्ञानमुद्रः, सर्वमारमण्डलविध्वंसनज्ञानमुद्रः, सर्वतथागतबन्धज्ञानमुद्र इति । सर्वतथागतकर्मसमाधयः ॥ अथ भगवान् वज्रपाणिः पुनरपि सुसूक्ष्मज्ञाननिमित्तस्फरणयोगेन सर्वतथागतकायेभ्यो निःक्रम्य, वज्रपाणिमहाबोधिसत्त्वकायः संभूय, पुनरपि वज्रसत्वादिमहाबोधिसत्वविग्रहाणि भूत्वा, स्वानि स्वानि चिन्हानि हृदयेषु प्रतिष्ठाप्य, वज्रधातुमहामण्डलसन्निवेशयोगेन चन्द्रमण्डलान्याश्रित्य स्वहृदयसमाधयः समापद्यावस्थिता इति ॥ देलिनेअतिओनोf थे मन्दल अथ वज्रापाणिः पुनरपि सर्वतथागतसमाधिज्ञानाभिज्ञानिष्पादनार्थमिदं वज्रसूक्ष्मज्ञानमण्डलमभाषत । अथातः संप्रवक्ष्यामि धर्ममण्डलमुत्तमम् । वज्रधातुप्रतीकाशं वज्रसूक्ष्ममिति स्मृतम् ॥ १ ॥ महामण्डलयोगेन महासत्वान्निवेशयेत् । वज्रमध्ये लिखेद्बुद्धं बुद्धमण्डलकेष्वपि ॥ २ ॥ महासत्वाः समालेख्याः स्वमुद्राहृदयन्तथा । समाधितो निषण्णास्तु वज्रबन्धकरद्वया ॥ ३ ॥ इति ॥ मुद्र अथात्र वज्रसूक्ष्मधर्ममण्डल आकर्षणादिविधिविस्तरो, महामण्डलयोगेन प्रवेशादिविधिविस्तरं ज्ञानचिन्हं पाणिभ्यां दत्वा, स्वचित्तपरिकर्ममहामुद्राज्ञानं शिक्षयेत् । जिव्हां तालुगतां कृत्वा नासिकाग्रं तु चिन्तयेत् । सूक्ष्मवज्रसुखस्पर्शाद्भवेच्चितं समाहितम् ॥ १ ॥ सूक्ष्मवज्रसुखस्पर्शनिमित्तं जायते यदा । स्फरयेत्तन्निमित्तन्तु तच्चित्तं सर्वतः स्फरेत् ॥ २ ॥ यथेच्छास्फरणाच्चित्तं त्रैधातुकमपि स्फरेत् । पुनस्तु संहरेत्तत्तु यावन्नासाग्रमागतम् ॥ ३ ॥ ततः प्रभृति यत्किञ्चद्भावयेत्सुसमाहितः । सर्वं चैतद्दृढीकुर्यात्समाधिज्ञानकल्पितम् ॥ ४ ॥ अथैषां हृदयानि भवन्ति । सूक्ष्म वज्र ॥ स्फर वज्र ॥ संहर वज्र ॥ वज्र दृढ तिष्ठ ॥ मैत्री यस्य सत्वस्य सह भूयात्महादृढा । चित्तस्फरणयोगेन सर्वसत्वेषु तां स्फरेत् ॥ १ ॥ मैत्रीस्फरणयोगेन कारुण्यं यस्य कस्यचित् । सर्वसत्वार्थयुक्तस्तु स्फरेद्वै प्रतिपत्तितः ॥ २ ॥ प्रकृतिप्रभास्वराः सर्वे ह्यादिशुद्धा नभःसमाः । अधर्मोऽप्यथ वा धर्म्[अः स्फ]रं भावेन तुष्यति ॥ ३ ॥ दुर्दुरूटसममुख्या बुद्धबोधावभाजयाः । तेषां संशोधनार्थाय महोपेक्षां तु भावयेद् ॥ इति ॥ ४ ॥ तत्रैतानि हृदया[नि भवन्ति] । महामैत्र्या स्फर ॥ महाकरुणया स्फर ॥ सर्वशुद्ध प्रमोद स्फर ॥ सर्वसत्वान् संबोधय ॥ ततः सर्वतथागतानुस्मृतिज्ञानं शिक्षयेत् । आकाशे वान्यदेशे वा सूक्ष्मवज्रप्रयोगतः । उत्थितो वा निषण्णो वा वज्रबिम्बं तु भावयेत् ॥ १ ॥ तथैव सर्वस्थानेषु सुक्ष्मवज्रप्रयोगतः । हृद्वज्रं बोधिसत्वं तु भावयेत्सुसमाहितः ॥ २ ॥ वज्रपाणिमहाबिम्बं सर्वस्थानेषु भावयेत् । सूक्ष्मवज्रप्रयोगेण यथावदनुपूर्वशः ॥ ३ ॥ सर्वाकारवरोपेतं बुद्धबिम्बं तु सर्वतः । यथावदनुपूर्वेण भावयेत्सुसमाहित ॥ इति ॥ ४ ॥ तत्रैतानि हृदयानि भवन्ति । वज्रामुखीभव ॥ महाबोधिसत्वाविश ॥ वज्रपाणि दर्शय स्वं रूपम् ॥ बुद्धानुस्मृत्याविश ॥ सूक्ष्मवज्रप्रयोगेण भावयेत्स्वयमात्मना । चन्द्रबिम्बं स्वमात्मानं बोधिचित्तस्य भावना ॥ १ ॥ चन्द्रमण्डलमध्ये तु भावयेत्स्वयमात्मना । वज्रबिम्बं स्वमात्मानं सत्ववज्रस्य भावना ॥ २ ॥ सूक्ष्मवज्रविधिं योज्य भावयेत्स्वयमात्मना । सत्ववज्रहृदात्मानं वज्रसत्वस्य भावना ॥ ३ ॥ सर्वाकारवरोपेतं भावयेत्स्वयमात्मना । बुद्ध बिम्बं स्वमात्मानं बुद्धबोधेस्तु भावना ॥ इति ॥ ४ ॥ तत्रेमानि हृदयानि भवन्ति । समन्तभद्राविश ॥ सत्ववज्राविश ॥ वज्रसत्वसमाधिज्ञानाविश ॥ तथागतोऽहम् ॥ ततः सर्वतथागतधर्मतारहस्यमुद्राज्ञानं शिक्षयेत् । तथागतसमोऽहं हि वज्रवाचा सकृद्वदन् । द्वयेन्द्रियसमापत्त्या सर्वसत्वां स मारयेत् ॥ १ ॥ महावज्रसमोऽहं हि वज्रवाचा सकृद्वदन् । द्वयेन्द्रियसमापत्त्या लोकमाकर्षयेद्ध्रुवम् ॥ २ ॥ वज्रधर्मसमोऽहं हि वज्रवाचा सकृद्वदन् । द्वयेन्द्रियसमापत्त्या सर्वलोकं स नाशयेत् ॥ ३ ॥ विश्ववज्रसमोऽहं हि वज्रवाचा सकृद्वदन् । द्वयेन्द्रियसमापत्त्या सर्वकर्म स साधयेद् ॥ इति ॥ ४ ॥ ततः सर्वतथागतज्ञानवज्राधिष्ठानसमाधिमुद्राज्ञानं शिक्षयेत् । सूक्ष्मवज्रप्रयोगेण भावयेद्वज्रमध्यतः । बुद्धबिम्बं स्वमात्मानं बुद्धत्वं सो ह्यवाप्नुयाद् ॥ इति ॥ ततो वज्रसत्वसमाधिमुद्राज्ञानं शिक्षयेत् । सुक्ष्मवज्रविधिं योज्य हृदि वज्रादयो गणाः । भावयं वज्रसत्वाद्याः प्रददन्ति स्वसिद्धये ॥ इति ॥ ततः सर्वतथागतकुलसमाधिसमयमुद्राज्ञानं शिक्षयेत् । वज्रबन्धसमुद्भूताः षोडशस्तु प्रकीर्तिताः । समाधिसमयाग्र्यस्तु तासां बन्धः प्रवक्ष्यते ॥ १ ॥ पर्यङ्कस्था समुत्ताना वलितोद्ववलिता तथा । हृदिस्था च चतुर्थी तु वज्रसत्वादिमण्डले ॥ २ ॥ ललातस्था शिरः पृष्ठे स्कन्धे हासप्रयोजिता । मुखधात्री हृदि खड्गा हृद्विकासा मुखस्थिता ॥ ३ ॥ मू(र्धन्)वक्षस्तु वक्त्रस्था ज्येष्ठस्था पुरतस्तथा । अतः परं समासेन धर्ममुद्रास्तु शिक्षयेद् ॥ इति ॥ ४ ॥ दृ क्कि । ग्र ग्र । म टः । अ ग्र । त्रं त्रम् । अमम् । चं चम् । त्र टः । धृ टः । भृ टः । क्र सः । ह हः । व व । वं वम् । फ टः । ग्र सः ॥ ततस्तु धर्मकर्माग्र्य शिक्षयेत्सूक्ष्मवज्रिणम् । ज्ञानमुष्टिन्तु समायां द्विधीकृत्य प्रयोजयेद् ॥ इति ॥ सर्वतथागतमहायानाभिसमयान्महाकल्पराजाद्वज्रज्ञानधर्ममण्डलविधिविस्तरः परिसमाप्तः ॥ छप्तेर्४ वज्र-कर्य-कर्म-मन्दल-विधि-विस्तर इ.४ एमनतिओनोf देइतिएस्fरों समधि अथ भगवान् पुनरपि सर्वतथागतानुत्तरपूजाविधिविस्तरस्फरणकर्मसमयवज्राधिष्ठानन्नाम समाधिं समापद्येमं स्वविद्योत्तममभाषतों सर्वतथागत वज्रधात्वनुत्तरपूजास्फरण समये हूम् ॥ अथ खल्वक्षोभयस्तथागताः सर्वतथागतवज्रसत्वानुत्तरपूजाविधिविस्तरस्फरणकर्मसमयवज्राधिष्ठानं नाम समाधिं समापद्येमं स्वविद्योत्तममभाषतों सर्वतथागतवज्रसत्वानुत्तरपूजास्फरणसमये हूम् ॥ अथ खलु रत्नसंभवस्तथागतः सर्वतथागतवज्ररत्नानुत्तरपूजाविधिविस्तरस्फरणकर्मसमयवज्राधिष्ठानं नाम समाधिं समापद्येमं स्वविद्योत्तममभाषतों सर्वतथागतवज्ररत्नानुत्तरपूजास्फरणसमये हूम् ॥ अथ खल्वमितायुस्तथागतः सर्वतथागतवज्रधर्मानुत्तरपूजाविधिविस्तरस्फरणकर्मसमयवज्राधिष्ठाननाम समाधिं समापद्येमं स्वविद्योत्तममभाषतों सर्वतथागतवज्रधर्मानुत्तरपूजास्फरणसमये हूम् ॥ अथ खल्वमोघसिद्धिस्तथागतः सर्वतथागतवज्रकर्मानुत्तरपूजाविधिविस्तरस्फरणकर्मसमयवज्राधिष्ठानं नाम समाधिं समापद्येमं स्वविद्योत्तममभाषतों सर्वतथागतवज्रकर्मानुत्तरपूजास्फरणसमय हूम् ॥ अथ भगवान् वैरोचनः पुनरपि सर्वतथागतपूजाविधिविस्तरसकलधर्मधातुस्फरणकर्मसमयवज्रन्नाम समाधिं समापन्नः; समनन्तरसमापन्ने चाथ तावदेव सर्वतथागतहृदयेभ्यः स एव भगवां वज्रधरः सकलधर्मधातुस्फरणाः सर्वाकाशधातुसमवसरणाः सर्वविचि[त्र]पूजाव्यूहविधिविस्तरमेघसमुद्रदेवता भूत्वा विनिःसृत्य, सर्वलोकधातुप्रसरमेघसमुद्रसर्वतथागतपर्षन्मडलेषु सर्वतथागतानुत्तरमहाबोधिचित्तोत्पादनसर्वतथागतकुलारागणसमन्तभद्रचर्यानिष्पादनमहो बोधिमण्डपसंक्रममणसर्वमारधर्षणसर्वतथागत[समता]भिसंभुध्यनसर्वतथागतमहामण्डलोत्पादनसकलत्रिलोकविजयसद्धर्मचक्रप्रवर्तनाशेषानवशेषसत्वधात्वर्थकरणादिनि सर्वबुद्धर्द्धिविकुर्वितानि सन्दर्शयन्तोऽवस्थिताः ॥ ताश्च पूजामेघसमुद्रदेवताः स्वमुद्राव्यग्रकरयुगलाः सर्वतथागतान् विधिवत्संपूज्य, वज्रधातुमहामण्डलयोगेन चन्द्रमण्डलाश्रितो भूत्वेदमुदानमुदानयामासुः । अहो हि बुद्धपूजाहं सर्वपूजाप्रवर्तिका । यद्बुद्धत्वमहत्वं तु सर्वबुद्धददन्ति हि ॥ अथ वज्रपाणिः पुनरपि सर्वतथागतपूजादिकर्मविधिविस्तरं वज्रकार्यन्नाम कर्ममण्डलमभाषत् । ओं सर्वतथागतसर्वात्मनिर्यातनपूजास्फरण कर्मवज्रि अः । ओं सर्वतथागतसर्वात्मनिर्यातनाकर्षणपूजास्फरण कर्माग्रि ज्जः ॥ ओं सर्वतथागतसर्वात्मानिर्यातनानुरागणपूजास्फरण कर्मवाणे हूं होः ॥ ओं सर्वतथागतसर्वात्मनिर्यातनसाधुकारपूजास्फरण कर्मतुष्टि अः ॥ सर्वतथागतसुखसुखा, सर्वतथागताकर्षणी, सर्वतथागतानुरागिणी, सर्वतथागतसंतोषणी चेति सर्वतथागतमहापूजाः ॥ ओं नमः सर्वतथागतकायाभिषेकरत्नेभ्यो वज्रमणिमोम् ॥ ओं नमः सर्वतथागतसूर्येभ्यो वज्रतेजिनि ज्वाल ह्रीः ॥ ओं नमः सर्वतथागताशापरिपूरणचिन्तामणिध्वज्राग्रेभ्यो वज्रध्वजाग्रे त्रम् ॥ ओं नमः सर्वतथागतमहाप्रीतिप्रामोद्यकरेभ्यो वज्रहासे हः ॥ महाधिपतिनी, महोद्योता, महारत्नवर्षा, महाप्रीतिहर्षा चेति सर्वतथागताभिषेकपूजाः ॥ ओं सर्वतथागतवज्रधर्मतासमाधिभिः स्तुनोमि महाधर्माग्रिह्रीः ॥ ओं सर्वतथागतप्रज्ञापारमितानिर्हारैः स्तुनोमि महाघोषानुगे धम् ॥ ओं सर्वतथागतचक्राक्षरपरिवर्तादिसर्वसूत्रान्तनयैः स्तुनोमि सर्वमण्डले हूम् ॥ ओं सर्वतथागसन्धाभाषबुद्धसंगीतिभिर्गायन् स्तुनोमि वज्रावाचे वम् ॥ महाज्ञानगीता, महाघोषानुगा, सर्वमण्डलप्रवेशा, मन्त्रचर्या चेति । सर्वतथागतधर्मपूजाः ॥ ओं सर्वतथागतधूपमेघस्फरणपूजाकर्मे कर कर ॥ ओं सर्वतथागतपुष्पप्रसरस्फरणपूजाकर्मे किरि किरि ॥ ओं सर्वतथागतालोकज्वालस्फरणपूजाकर्मे भर भर ॥ ओं सर्वतथागतगन्धसमुद्रस्फरणपूजाकर्मे कुरु कुरु ॥ सत्ववती, महाबोध्यङ्गवती, चक्षुष्मती, गन्धवती चेति । सर्वतथागतकर्मपूजाः ॥ देलिनेअतिओनोf थे मन्दल अथात्र वज्रकार्यकर्ममण्डलं भवत्यशेषानवशेषतथागतपूजाप्रवर्तकमिति ॥ अथातः संप्रवक्ष्यामि कर्मण्डलमुत्तमम् । वज्रधातुप्रतीकाशं वज्रकार्यमिति स्मृतम् ॥ महामण्डलयोगेन बुद्धबिम्बान्निवेशयेत् । वज्रसत्वादियोगेन समुद्रा देवता लिखेद् ॥ इति ॥ इनितिअतिओनिन्तो थे मन्दल अथात्र वज्रकार्यकर्ममण्डलप्रवेशादिविधिविस्तरो भवति ॥ तत्रादित एव प्रवेशयेत्वज्रधातुप्रवेशयोगेन । प्रवेश्यैवं वदेत् । "सर्वतथागतपूजासमयोऽयम् । तत्त्वया दिनेदिने एताः षोडशपूजा यथाशक्तितः कार्या" इति ॥ ततो मुखबन्धं मुक्त्वा, कर्ममण्डलं दर्शयित्वा, विश्वचिन्हं पाणिभ्यां दद्यात् ॥ ततः सर्वतथागतैरपि स पूज्यते, कः पुनर्वादोऽन्यैरिति ॥ मुद्र ततो महबोधिचित्तनिष्पत्तिपूजामुद्राज्ञानं शिक्षयेत् । बोधिचित्तदृढोत्पादाद्बुद्धोऽहमिति चिन्तयन् । रत्ना तु पुजयन्नात्मा लभेद्बुद्धसुखान्यपि ॥ १ ॥ बोधिचित्तदृढोत्पादाद्बुद्धोऽहमिति चिन्तयन् । मलादिभिः प्रपूजाभिः संपूज्यात्माभिषिच्यते ॥ २ ॥ बोधिचित्तदृढोत्पादाद्बुद्धोऽहमिति चिन्तयन् । गीतिसौख्यप्रपूजाभिः संपूज्यात्मा स रागयेत् ॥ ३ ॥ बोधिचित्तदृढोत्पादाद्बुद्धोऽहमिति चिन्तयन् । नृत्यतः पूजयन्नात्मा बुद्धैरपि स पूज्यते ॥ ४ ॥ इति ॥ तत्रेमानि हृदयानि भवन्ति । बुद्धात्माहम् ॥ बुद्धमभिषिञ्चामि ॥ बुद्धस्तुतिङ्करोमि ॥ बुद्धपूजाङ्करोमि ॥ ततः सर्वबुद्धपूजामुद्राज्ञानं शिक्षयेत् । कायवाक्चित्तवज्राग्र्यप्रयोगैः प्रणमन्तथा । पूजयं सर्वबुद्धांस्तु वन्दनीयो भवेद्ध्रुवम् ॥ १ ॥ सर्वबुद्धमहापुण्यकायावाक्चित्तवज्रजम् । अनुमोदनपूजात्मा बुद्धत्वं क्षिप्रमाप्नुयात् ॥ २ ॥ आत्मानियतिनाद्दिव्यकायवाक्चित्तवज्रतः । सर्वपूजाभिः संबुद्धान् पूजयामीति पूज्यते ॥ ३ ॥ सर्व कुशलसंभारङ्कायवाक्चित्तवज्रतः । परिणामनपूजाभिः सर्वबुद्धसमो भवेद् ॥ इति ॥ ४ ॥ तत्रैतानि भवन्ति । प्रणमामि ॥ अनुमोदे ॥ बुद्धपूज ॥ परिणाम ॥ ततो धर्मपूजामुद्राज्ञानं शिक्षयेत् । प्रकृतिप्रभास्वरा धर्मा ह्यादिशुद्धाः स्वभावतः । पूजितोऽनेन धर्मेण लभेद्रतिसुखानि तु ॥ १ ॥ अ-कारस्तु मुखं वाच्यं सर्वधर्मसमुच्चये । अनया धर्ममुद्रया सर्वदुःखांश्छिनत्ति सः ॥ २ ॥ सर्वेषामेव धर्माणां हेतुरत्र तथागतः । सद्धर्मचक्रपूजया पूज्य धर्मधरो भवेत् ॥ ३ ॥ प्रतिश्रुत्कोपमानुक्त्वा सर्वधर्मा स्वभावतः । अनया धर्मपूजया संपूज्य स्वरतां लभेत् ॥ ४ ॥ तत्रैतानि हृदयानि भवन्ति । सर्वशुद्ध ॥ समन्तभद्र ॥ धर्मचक्र ॥ निःप्रपञ्च ॥ ततः समाधिपूजामुद्राज्ञानं शिक्षयेत् । कायवाक्चित्तवज्रेषु स्वकीयाः परमाणवः । भावयन्वज्रविम्बानि वज्रात्मा भवे[त्क्षिप्रं] ॥ १ ॥ कायवाक्चित्तवज्रेषु स्वकीयाः परमाणवः । भावयन् सर्वबुद्धांस्तु धर्मकायो भवेल्लघु ॥ २ ॥ कायवाक्चित्तवज्रेषु स्व(कीयाःपरमा)णवः । भावयन्वज्रसत्वांस्तु वज्रसत्वसमो भवेत् ॥ ३ ॥ कायवाक्चित्तवज्रेषु स्वकीयाः परमाणवः । भावयन् बुद्धबिम्बानि संबुद्धत्वमवाप्नुयाद् ॥ इति ॥ ४ ॥ तत्रैतानि हृदयानि भवन्ति । वज्रकाय ॥ धर्मकाय ॥ सत्वकाय ॥ बुद्धकाय ॥ ततो रहस्यपूजामुद्राज्ञानं शिक्षयेत् । सर्वकायपरिष्वङ्गसुखपूजा स्वयंभुवा । निर्यातयं भवेच्छीघ्रं वज्रसत्वसमो हि सः ॥ १ ॥ दृढानुरागसंयोगकचग्रहसुखानि तु । निर्यातयंस्तु बुद्धानां वज्ररत्नसमो भवेत् ॥ २ ॥ दृढप्रतीतिसुखसक्तिचुम्बिताग्र्यसुखानि तु । निर्यातयंस्तु बुद्धानां वज्रधर्मसमो भवेत् ॥ ३ ॥ द्वयेन्द्रियसमापत्तियोगसौख्यानि सर्वतः । निर्यातयंस्तु पूजायां वज्रकर्मसमो भवेद् ॥ इति ॥ ४ ॥ तत्रैतानि गुह्यमुद्राहृदयानि भवन्ति । रतिवज्र ॥ रागवज्र ॥ प्रीतिवज्र ॥ कामवज्र ॥ ततः सर्वतथागतपूजाकर्ममहामुद्राज्ञानं शिक्षयेत् । हृत्पार्श्वपृष्ठतो योगाल्ललाटादेस्तथैव च । मुखकर्णशिरःपृष्ठमूर्धासासकटिस्थितेति ॥ ततः सर्वतथागतपूजाकर्मसमयमुद्राज्ञानं शिक्षयेत् । वज्रबन्धं दृढीकृत्य महामुद्राप्रयोगतः । हृदयादिस्थानयोगेन स्थापयन्पूजयेज्जिनान् ॥ इति ॥ ततः सर्वतथागतपूजाधर्मज्ञानं शिक्षयेत् । ओं ग्रयः य्यः सा । त्रि रं हं नः । खं षं हूं हि । श ण सिः सम् । कर्ममुद्राः समासेन कर्ममुद्रा द्विधीकृता ॥ इति ॥ सर्वतथागतमहायानाभिसमयान्महाकल्पराजाद्वज्रकार्यकर्ममण्डलविधिविस्तरः परिसमाप्तः ॥ छप्तेर्५ एपिलोगुए ओf थे सर्व-तथगत-महयनभिसमय नम मह-कल्प-रज १.५ एमनतिओनोf देइतिएस् अथ भगवान् वैरोचनस्तथागतः सर्वतथागताधिष्ठानेन सर्वतथागतकुलमुत्पाद्य, अस्य सर्वतथागतकुलमहाकल्पविधिविस्तरस्य सर्वसिद्धिसंग्रहार्थमिदं सर्वतथागतमुद्राहृदयमभाषतों सर्वतथागतमुष्टि वम् ॥ अथ खल्वक्षोभयस्तथागतः सर्वतथागताधिष्ठानेन सर्वतथागतकुलमुत्पाद्यास्य सर्वतथागतकुलमहाकल्पविधिविस्तरस्य सर्वसिद्धिसंग्रहार्थमिमां सर्वतथागतमुद्रामभाषतों वज्रसत्वमुष्टि अः ॥ अथ रत्नसंभवस्तथागतः सर्वतथागताधिष्ठानेन सर्वतथागतकुलमुत्पाद्यास्य सर्वतथागतकुलमहाकल्पविधिविस्तरस्य सर्वसिद्धिसंग्रहार्थमिमां सर्वतथागतमुद्रामभाषतों वज्ररत्नमुष्टि त्रम् ॥ अथामितायुस्तथागतः सर्वतथागताधिष्ठानेन सर्वतथागतकुलमुत्पाद्यास्य सर्वतथागतकुलमहाकल्पविधिविस्तरस्य सर्वसिद्धिसंग्रहार्थमिमां सर्वतथागतमुद्रामभाषतों वज्रधर्ममुष्टि खम् ॥ अथामोघसिद्धिस्तथागतः सर्वतथागताधिष्ठानेन सर्वतथागतकुलमुत्पाद्यास्य सर्वतथागतकुलमहाकल्पविधिविस्तरस्य सर्वसिद्धिसंग्रहार्थमिमां सर्वतथागतमुद्रामभाषतों वज्रकर्ममुष्टि हाम् ॥ देलिनेअतिओनोf थे मन्दल अथ वज्रपाणिर्महाबोधिसत्वः स्वाधिष्ठानेन भगवतो वैरोचनस्य तथागतस्य सर्वतथागतकुलमुत्पाद्यास्य सर्वतथागतकुलमहाकल्पविधिविस्तरस्य सर्वसिद्धिसंग्रहायेदं वज्रसिद्धिन्नाम चतुर्मुद्रामण्डलमभाषत् । अथातः संप्रवक्ष्यामि मुद्रामण्डलमुत्तमम् । वज्रधातुप्रतीकाशं वज्रसिद्धिरिति स्मृतम् ॥ १ ॥ महामण्डलयोगेन सूत्रयेत विचक्षणः । बुद्धबिम्बन्निवेश्यादौ लिखेन्मुद्राचतुष्टयम् ॥ २ ॥ ॥ चन्द्रमण्डलमध्येषु वज्रमुद्रादयो लिखेद् ॥ इति ॥ ३ ॥ इनितिअतिओनिन्तो थे मन्दल अथात्र वज्रसिद्धिमुद्रामण्डल आकर्षणादिविधिविस्तरङ्कृत्वा तथैव प्रवेश्यैवं ब्रुयात् । "न त्वया कस्यचिदिमं रहस्यपटलमुद्घाटयितव्यम् । तत्कस्य हेतोः? सन्ति सत्वा दुर्दृष्टयः पापकर्माणो हीनवीर्या वैकल्यरहिताः चित्रकर्मण्यनभिज्ञाः; ते वज्रधात्वादिषु सर्वतथागतकुलमण्डलेषु महत्स्विति कृत्वा हीनवीर्यतया न प्रविशन्ते । तेषामर्थायेदं वज्रसिद्धिमुद्रामण्डलं सर्वतथागतकुलमण्डलसमयभूतमशेषानवशेषसत्वधातुपरित्राणसर्वहितसुखसौमनस्यानुभवनार्थ यावत्सर्वतथागतवज्रोत्तमसिद्धिनिमित्तमधिष्ठितमिति । न त्वयैषां सर्वतथागतकुलसमयमुद्रारहस्यानां न प्रत्यभिश्रद्धानीयम् । मा ते नरकतिर्यक्प्रेतोपपत्तिः स्यात्, विषमापरिहारेण वाकालमरणं स्याद्" इत्युक्त्वा, मुखबन्धं मुक्त्वा मण्डलं दर्शयेत् । मुद्र ततः सर्वतथागतमुद्रासमयं ब्रूयात् । यां यां मुद्रां तु बध्नीयाद्य[स्य य]स्य महात्मनः । जपंस्तु हृदयार्थेन भावयेत्तं स्वमात्मना ॥ १ ॥ अनेन ज्ञानयोगेन सिद्धिं यान्ति महात्मनाम् । सर्वमुद्रास्तु सर्वेषां वज्रपा[णेर्व]चो यथा ॥ २ ॥ ततः सर्वमुद्रारहस्यं ब्रुयात् । विदार्य स्वेन्द्रियं गृण्हेद्वज्रमुष्टिग्रहेण तु । तेन मुद्रां स्पृशेद्यां तु सा वशं याति तत्क्षणात् ॥ ततः सर्वमुद्राधर्मतां ब्रुयात् । सूक्ष्मवज्रविधिं योज्य ज्ञानमुद्रां तु बन्धयेत् । अनेन विधियोगेन ज्ञानमुद्रां वशन्नयेत् ॥ ततः सर्वमुद्राकर्म ब्रुयात् । गीतनृत्यरसाहारविहारादिसुखानि तु । निर्यातयंस्तु बुद्धेभ्यः कर्ममुद्रावशन्नयेद् ॥ इति ॥ ततः सर्वमण्डलसाधिकारहस्यमुद्राज्ञानं शिक्षयेत् । स्तब्धलिङ्गः स्वयंभूत्वा निपद्येत्पटके सिते । लिङ्गं चैत्यमधिष्ठाय वज्रधातुरहं स्वयम् ॥ १ ॥ वज्रबन्धं दृढीकृत्य मध्यमोत्थसमाङ्कुरा । कन्यसाग्र्या मुखोत्थानान्समयः समयाग्रीणाम् ॥ २ ॥ सूक्ष्मवज्रप्रयोगेण भावयेत्स समाहितः । मण्डलं सूक्ष्मवज्रां तु समाधिवशितां नयन् ॥ ३ ॥ वज्रमुद्राद्विकं बध्वा गृण्हेद्वज्रन्तयोर्दृढम् । कनिष्ठाग्रा निबन्धेन वज्रकार्याग्रमण्डल ॥ ४ ॥ इति ॥ "ततो यथावद्वज्रसत्वादिमहामुद्राबन्धचतुष्टयं शिक्षयित्वा, यथावद्वज्रधातुमहामण्डलविधिविस्तर इति, यथावज्रसिद्धिचतुर्मुद्रामण्डलमेवमक्षोभयादीनि सर्वमण्डलानि चतुर्मुद्रामण्डलयोगेन लिखेत् । स्वाभिः स्वाभिर्मुद्राभिः सर्वसिद्धयो ददन्तीति । एवम्पटाकुड्याकाशसर्वस्थानाभिलिखितानि सर्वसिद्धयो ददन्तीति ॥ मण्डलकल्पनात्प्रभृति केषांचित्तस्मिन्नेव मण्डलप्रवेशे सिद्धिर्यथाभिरुचिता, केषांचित्तत आरभ्य दिवसेन, केषांचिद्दिवसचतुष्टयेत्, केषांचिच्छोडशाहात्, केषांचित्पञ्चानन्तर्यकारिणामपि यथाकामं सुखतः सर्वकार्याणि कुर्वतां सर्वानुरागसर्वरसाहारविहारसुखान्यनुभवतां वर्षेणोत्तमा सिद्धिरिति भगवता निदिष्टेति ॥ १.६ एमनतिओनोf थे देइत्य्fरों समधि अथ भगवान् वैरोचनः पुनरपि सर्वतथागतोत्तमसिद्धिसमयवज्रन्नाम समाधिं समापद्येमं सर्वतथागतमहायानाभिसमयन्नाम सर्वतथागतहृदयं स्वहृदयान्निश्चचार वज्रसत्व ॥ देलिनेअतिओनोf थे मन्दल अथ भगवान् वज्रपाणिर्महाबोधिसत्वः अशेषानवशेषसत्वधातुपरित्राणसर्वहितसुखसौमनस्यानुभवनार्थं यावत्सर्वतथागतसर्वोत्तमसिद्धये इदं महायानाभिसमयमण्डलमभाषत् । अथातः संप्रवक्ष्यामि सत्वमण्डलमुत्तमम् । वज्रधातुप्रतीकाश वज्रसत्वमिति [स्मृतं] ॥ १ ॥ महामण्डलयोगेन सुत्रयेद्बाह्यमण्डलम् । चन्द्रमण्डलमध्ये तु वज्रसत्वन्निवेशयेद् ॥ २ ॥ इति ॥ इनितिअतिओनिन्तो थे मन्दल ततो यथावदाकर्षण[प्रवेशादिं कृ]त्वा सर्वतथागतसिद्धिज्ञानान्युत्पादयेत् ॥ तत्र प्रथमन्तावद्वक्तव्यं "न त्वया कस्यचिददृष्टसमयस्यैषां रहस्यानाम[कोवि]दस्य वक्तव्यम् । मा ते सर्वापायोपपत्तये भवेयु, र्विषमापरिहारेणाकालमरणं वा स्याद्" इति ॥ ततो वज्रसत्वोत्तमसिद्धिसाधनज्ञानं शिक्षयेत् । पूर्णचन्द्रमण्डलारूढो महामुद्रापरिग्रहः । वज्रसत्वं स्वमात्मानं भावयं सिध्यते लघु ॥ रिति ॥ ततः सर्वमण्डलगुह्यसमयज्ञानं शिक्षयेत् । विरागसदृशं पापमन्यन्नास्ति त्रिधातुके । तस्मात्कामविरागित्वं न कार्यं भवता पुनः ॥ महासमय हन् फट् ॥ ततः शपथहृदयं दद्यादेवम् । सर्वतथागतकुलमण्डलेषु विधिविस्तरेषु समयसंवरन्दातव्यम् ॥ ततो वज्रसत्वमहामुद्रादिबन्धचतुष्टयं शिक्षयेत् । तथैव सिद्धय इति । एवं पटादिषु सर्वप्रतिमासु च मनीषितविधानेन सर्वसिद्धयो ददन्ति । एवं यथा वज्रधातुमहामण्डलविधिविस्तर इति ॥ मुद्र अथ सर्वतथागताः पुनरपि समाहजामागत्य, भगवते सर्वतथागताधिपतये महाबोधिचित्ताय वज्रसत्वाय महावज्रपाणये वज्रतुष्ट्यानेन हृदयेन साधुकारमददुः ओम् ॥ साधु ते वज्रसत्वाय वज्ररत्नाय साधु ते । वज्रधर्माय ते साधु साधु ते वज्रकर्मणे ॥ १ ॥ सुभाषितमिदं सूत्रं वज्रयानमनुत्तरम् । सर्वतथागतं गुह्यं महायानाभिसंग्रहम् ॥ २ ॥ वज्रसत्वस्य नामापि सर्वसिद्धिकरं परम् । साध्यमानस्तु शुद्ध्या वै सुखैर्बुद्धत्वमाप्नुयात् ॥ ३ ॥ वज्रधर्मप्रयोगेण सर्वकामसुखैः सुखम् । साधयेज्जन्मनीहैव सुखमक्षयमव्ययम् ॥ ४ ॥ इति । सर्वतथागततत्वसंग्रहात्सर्वतथागतमहायानाभिसमयो नाम महाकल्पराजा समाप्तः ॥ छप्तेर्६ त्रिलोकविजय-मह-मन्दल-विधि-विस्तर ह्य्म्नोf १०८ नमेसोf महचक्रवर्तिन् अथ भगवन्तः सर्वतथागताः पुनः समाजमागम्य, भगवन्तं सर्वतथागतमहाचक्रवर्तिनमनेन नामाष्टशतेनाध्येषितवन्तः । वज्रसत्व महावज्र वज्रनाथ सुसाधक । वज्राभिषेक वज्राभ वज्रकेतु नमो [ऽस्तुते] ॥ १ ॥ हासवज्र महाधर्म वज्रकोश महावर । सर्वमण्डलराजाग्र्य निःप्रपञ्च नमोऽस्तु ते ॥ २ ॥ वज्रकर्म महारक्ष चण्डयक्ष महाग्रह । वज्रमुष्टि महामुद्र सर्वमुद्र नमोऽस्तु ते ॥ ३ ॥ बोधिचित्त महाबोधे बुद्ध सर्वतथागत् । वज्रयान्महाज्ञान महायान नमोऽस्तु ते ॥ ५ ॥ सर्वार्थ सर्वतत्वार्थ महासत्वार्थ सर्ववित् । सर्वज्ञ सर्वकृत्सर्व सर्वदर्शि नमोऽस्तु ते ॥ ५ ॥ वज्रात्मक सुवज्राग्र्य वज्रवीर्य सुवज्रधृक् । महासमय तत्वार्थ महासत्य नमोऽस्तु ते ॥ ६ ॥ वज्राङ्कुश महाकाम सुरते सुमहाप्रभ । वज्रप्रभ प्रभोद्योत बुद्धप्रभ नमोऽस्तु ते ॥ ७ ॥ वज्रराजाग्र्य वज्राग्र्य विद्याग्र्याग्र्य नरोत्तम । वज्रोत्तम महाग्र्याग्र्य विद्योत्तम नमोऽस्तु ते ॥ ८ ॥ वज्रधातो महागुह्य वज्रगुह्य सुगुह्यधृक् । वज्रसूक्ष्म महाध्यान वज्रकार्य नमोऽस्तु ते ॥ ९ ॥ बुद्धाग्र्य बुद्धवज्राग्र्य बुद्धबोधे महाबुध । बुद्धज्ञान महाबुद्ध बुद्धबुद्ध नमोऽस्तु ते ॥ १० ॥ बुद्धपूजा महापूजा सत्वपूजा सुपूजक । महोपाय महासिद्धे वज्रसिद्धि नमोऽस्तु ते ॥ ११ ॥ तथागतमहाकाय तथागतसरस्वते । तथागतमहाचित्त वज्रचित्त नमोऽस्तु ते ॥ १२ ॥ बुद्धाधिप जिनाज्ञाकृद्बुद्धमित्रे जिनाग्रज । महावैरोचन विभो[शास्ता]शान्तरौद्र नमोऽस्तु ते ॥ १३ ॥ तथागतमहातत्व भूतकोटे महानय । सर्वपारमिताज्ञान परमार्थ नमोऽस्तु ते ॥ १४ ॥ समन्तभद्र चर्याग्र्य मार मारप्रमर्दक । सर्वाग्र्य समाताज्ञान सर्वत्रग नमोऽस्तु ते ॥ १५ ॥ बुद्धहुंकर हुंकर वज्रहुंकर दामक । विश्ववज्राङ्ग वज्रोग्र वज्रपाणे नमोऽस्तु ते ॥ १६ ॥ वन्द्यः पूज्यश्च मान्यश्च सत्कर्तव्यस्तथागतैः । यस्माद्वज्रदृढं चित्तं वज्रसत्वस्त्वमुच्यसे ॥ १७ ॥ त्वदधीना हि संबोधि पिता त्वं सर्वदर्शिनाम् । संभूताः संभविष्यन्ति त्वामासाद्य तथागताः ॥ १८ ॥ अनेन स्तोत्रराजेन स्तुयाद्वै सुभक्तितः । यो गायंस्तु स्तुयात्सोऽपि भवेद्वज्रधरोपमः ॥ १९ ॥ अध्येषयामस्त्वान्नाथ सर्वबुद्धवशङ्करम् । सर्वसत्वार्थकार्यार्थमुत्पादय कुलं स्वकम् ॥ २० ॥ इति ॥ सुब्जुगतिओनोf महेस्वर अन्धिस्रेतिनुए अथ वज्रपाणिः सर्वतथागताधिपतिः सर्वतथागताध्येषणवचनमुपश्रुत्य, तद्वज्रं स्वहृदि प्रतिष्ठाप्य, तान् सर्वतथागतानाहूयैवमाह । "भागवन्तः सर्वतथागता न प्रतिपद्यामि" ॥ सर्वतथागता प्राहुः । "को हेतुः?" ॥ वज्रधरः प्राह । "सन्ति भगवन्तः सत्वाः महेश्वरा दिदुष्टस] त्वा, ये युष्माभिरपि सर्वतथागतैरविनेयाः, तेषां मया कथं प्रतिपत्तव्यम्!" ॥ अथ भगवान् वैरोचनस्तथागतः [सर्वतथाग]ताधिष्ठानेन सर्वतथागतमहोपायज्ञानवज्रन्नाम समाधिं समापन्नः । समनन्तरसमापन्ने चाथ तावदेव स[र्वतथाग]ताः सकलाकाशधातुपरमाणुरजः समवसरण[स्फरण] ताय सुमेरुगिरिमूर्ध्नि वज्रमणिरत्नकूटागारे [पुनः] समाजमागम्य, सर्वतथागतसमतामध्यालम्भ्य, भगवतो वैरोचनस्य श्रीवत्सहृदये प्रविष्टाः । अथ भगवान् वैरोचनस्तथागतः सर्वतथागतहृदयमात्मानमधिष्ठाय सर्ववज्रसमतया अशेषानवशेषसत्वधातुपरित्राणसर्वहितसुखोत्तमसिद्धिहेतोः सर्वदुष्टविनयाय च, सर्वतथागतमहाकरुणोपायसमाधिज्ञानमध्यालम्भ्य, सर्वतथागतमहाकरूणोपायक्रोधसमय वज्रं नाम समाधिं समापन्नः । समनन्तरसमापन्ने चात्रैतस्मिन्नेव क्षणे सर्वतथागतहृदयेभ्यः सर्वतथागतसमयन्नाम सर्वतथागतहृदयं निश्चचार हुम् ॥ अथास्मिन् विनिःसृतमात्रे वज्रपाणिहृदयवज्रात्स एव भगवान् वज्रधरः समन्तज्वालागर्भाः सभ्रुकुटिभ्रूभङ्गोत्कुञ्चितललाटविकटदंष्ट्राकरालमुखाः वज्राङ्कुशकोषपाशादिवज्रज्वालान्निप्रदीप्तप्रहरणव्यग्रकराः अनेकविधवर्णालङ्कारविचित्रवेषधराः वज्रपाणिविग्रहा विनिश्चरित्वा, सर्वलोकधातुषु सर्वदुष्टविनयङ्कृत्वा, भगवतो वैरोचनस्य सर्वतो वज्रधातुमहामण्डलयोगेन चन्द्रमण्डलाश्रिता भुत्वेदमुदानमुदानयिंसुः ॥ अहो ह्युपायविनयं महोपायवतामहम् । यत्सत्वोपायविनयात्क्रोधत्वं यान्ति निर्मला ॥ इति ॥ अथ भगवान् वैरोचनस्तथागतः सर्वतथागताप्रपञ्चधर्मतामध्यालम्भ्य, सर्वतथागतमहाक्रोधवज्रसमयवज्राधिष्ठानन्नाम समाधिं समापद्येमं सर्वतथागतवज्र-हुङ्-करन्नाम सर्वतथागतहृदयं विद्योत्तममभाषत् । ओं सुंभ निसुंभ हुम् । गृह्ण गृह्ण हुम् । गृह्णापय हुम् । आनय हों भगवन् । वज्र हुं फट् ॥ अथास्मिन् विनिःसृतमात्रे सर्वतथागतहृदयेभ्यो भगवान्वज्रपाणिर्विनिःसृत्य, सर्वलोकधातुप्रसरमेघसमुद्रेभ्यो यावन्तः सर्वतथागताः सबोधिसत्वपर्षद्मण्डलाः समाधिष्ठायाकृष्य, वज्रसमयमहामण्डले प्रवेश्य, समयैर्बध्वा, पुनरप्येकघनो महावज्रक्रोधकायो भूत्वा, भगवतो [वैरो]चनस्य हृदये स्थित्वेममुदानमुदानयामास । अहो हि बोधिचैत्तस्य सर्वतो भद्रतानघा । यत्सत्वविनयाद्याति क्रोधोऽपि रमणीय[ताम् ॥ इति] ॥ अथ स महावज्रक्रोधकायो भगवतो हृदयादवतीर्य, सर्वतथागतानां पुरतश्चन्द्रमण्डलाश्रितो भूत्वा, पुनरप्याज्ञां मार्गया[मास] ॥ अथ भगवान् सर्वतथागतसमयाकर्षणवज्रन्नाम समाधिं समापद्येदं सर्वतथागतसमयाङ्कुशन्नाम सर्वतथागतहृदयं स्वहृ[दय]न्निश्चचार हुं टक्कि ज्जः ॥ अथास्मिन् विनिःसृतमात्रे सर्वलोकधातुप्रसरमेघसमुद्रेषु यावन्तस्त्रैलोक्याधिपतयो महेश्वरादयस्ते स[र्वे स]र्वलोकसन्निवेशगणपरिवृताः अशेषानवशेषाः सर्वतथागतसमयवज्राङ्कु शेनाकृष्टाः समाना येन सुमेरुगिरिमूर्धा [येन] च वज्रमणिरत्नशिखरकूटागारस्तेनोपसंक्रम्य, भगवतो वज्रमणिरत्नशिखरकूटागारस्य सर्वतः परिवार्यावस्थिता अभूवन् ॥ अथ वज्रपाणिस्तद्वज्रं स्वहृदयाद्गृह्योल्लालयन् सर्वावन्तं सकलत्रैधातुकत्रिलोकचक्रमवलोक्यैवमाह । "प्रतिपद्यत [मार्षा]स्सर्वतथागतशासने, मम चाज्ञां पालयत!" । अथ त एवमाहुः । "कथं प्रतिपद्यामः?" । भगवान् वज्रपाणिराह । "बुद्ध धर्मं च सङ्घं च शरणगमनं प्रतिपत्तितः, सर्वज्ञज्ञानलाभाय प्रतिपद्यध्वं मार्षा!" इति ॥ अथ योऽस्मिन् लोकधातौ सकलत्रैलोक्याधिपतिर्महादेवः सर्वत्रैलोक्याधिपत्यगर्वितो महाक्रोधतान्दर्शयन्नेवमाह । "अहं भो यक्ष त्रैलोक्याधिपतिरीश्वरः कर्ता विकर्ता सर्वभूतेश्वरो देवातिदेवो महादेवः; तत्कथमहं ते यक्षज्ञाङ्करिष्यामी-?" ति ॥ अथ वज्रपाणिः पुनरपि वज्रमुल्लालयन्नाज्ञाप्यति । "भो दुष्टसत्त्व शीघ्रं प्रविश मण्डलं, मम च समये तिष्ठ!" । अथ महादेवो देवो भगवन्तमिदमवोचत् । "कोऽयं भगवन्नीदृशः सत्वो योऽयमीश्वरस्यैवमाज्ञान्ददाति?" । अथ भगवान् सर्वावन्तं महेश्वरादित्रैलोक्यगणमाहूयैवमाह । "प्रतिपद्यत मार्षास्त्रिशरणगमनसमयसंवरे; मायं वज्रपाणिर्यक्षः क्रूरः क्रोधनश्चण्डो महाबोधिसत्वश्च वो दीप्तेन वज्रेण सकलमेव त्रैधातुकं नाशयेद्" इति । अथ महेश्वरः सकलत्रैलोक्याधिपत्यतया स्वज्ञानवशितया च भगवतो वज्रपाणेर्भयसन्दर्शनार्थं महाचण्डक्रोधतां महाभैरवरूपतां महाज्वालोत्सृजनतां महा[रौ]द्राहासतां सहगणैः सन्दर्शयन्नेवमाह । "अहं भोः सकलत्रैलोक्याधिपस्त्वं ममाज्ञान्ददासी-" ति ॥ अथ वज्रपाणिस्तद्वज्रं [सगर्वम्] उल्लालयन् विहसन्नेवमाह । "प्रतिपद्य भो कटपूतनमानुषमान्साहार चितिभस्मभक्ष्यभोज्य शय्यासनप्रावरण ममाज्ञा[म्पालय]!" । अथ महेश्वरो महादेवः सकलं त्रैलोक्यं महाक्रोधाविष्टमधिष्ठाय, एवमाह । "त्वमपि ममाज्ञां पालय, समये च प्रति[पद्य!" इ]ति ॥ अथ वज्रापाणिर्महाक्रोधराजो भगवन्तमेतदवोचद् । "अयम्भगवन्महादेवो देवः स्वज्ञानबलगर्वात्महेश्वर्या[धिप]त्यात्च सर्वतथागतशासने न प्रणमति । तत्कथमस्य क्रियत?" इति ॥ अथ भगवान् सर्वतथागतहृदयसंभूतं महावज्रस[मयं] स्मारयति ओं निसुम्भ वज्र हुं फट् ॥ अथ वज्रपाणिर्महाबोधिसत्वः स्ववज्रहृदयमुदाजहार हुम् ॥ अथास्मिन् भाषितमात्र सकलत्रैधातुकसन्निपतिता महादेवादयः सर्वत्रैलोक्याधिपतयः अधोमुखाः प्रपतिताः आर्तस्वरं मन्वन्तो भगवतो वज्रपाणेश्च शरणं गताः । स च महादेवो देवो भूम्यां प्रपतितो निश्चेष्टीभूतो मृतः ॥ अथ भगवान् जानन्नेव वज्रपाणिमेवमाह । "प्रतिपद्यस्व वज्रपाणे अस्य सकलत्रिलोकचक्रस्याभयाय, मा पञ्चत्वमापादय" । अथ वज्रपाणिर्महाक्रोधराजो भगवतो वचनमुपश्रुत्य तां सर्वदेवादीनाहूयैवमाह । "बुद्धं धर्म सङ्घं च शरणं प्रतिपद्यत, ममाज्ञाकारितायां च, यदीष्टं वः स्वजीवितम्" इति । अथ त एवमाहुः । "सबुद्धधर्मसङ्घसमुद्रांच्छरणं गच्छामः, त्वच्छासनाज्ञां न जानीम" इति ॥ अथ भगवान् वैरोचनस्तथागतस्तानाहूयैवमाह । "अयं भो देवोऽस्माकं सर्वतथागताधिपतिः सर्वतथागतपिता सर्वतथागताज्ञाकरः सर्वतथागतज्येष्ठपुत्रो भगवां समन्तभद्रो बोधिसत्वो महासत्वः सर्वसत्वविनयेन कार्यकरणतया महाक्रोधराज्यतायामभिषिक्तः । तत्कस्माद्धेतोः? । सन्ति युष्मद्मध्ये महादेवादयो दुष्टगणास्ते सर्वतथागतैरपि न शक्याः शान्तया पापेभ्यो निवारयितुम् । तेषां पापसत्वानां निग्रहाय अधितिष्ठितस्तद्युस्माभिरस्य समये स्थातव्यमित्याज्ञा" इति । त एवमाहुर् । "अस्माकं भगवन्नस्माज्जीवितविप्रलायात्परित्रायस्व । यामाज्ञान्दास्यति तत्करिष्यमह" इति । भगवानाह । "हं भो मार्षा एतमेव शरणं गच्छतायमेव वः परित्रास्यति, नान्य" इति ॥ अथ ते त्रिलोकसकलत्रैधातुकसन्निपतिताः त्रिभुव[नपत]यो येन भगवान् वज्रधरस्तेनाभिमुखा एककण्ठेन महार्तान् स्वरान्प्रमुञ्चत एवमाहुः । "परित्रायस्व भो भगवन् परित्रायस्व अतो मरणदुःखाद्" इति ॥ अथ वज्रपाणिर्महाबोधिसत्वस्तां देवादीनाहूयैवमाह । "हं भो दुष्टाः प्रतिपद्यत मम शासने । मा वो [दीप्तेना]नेन वज्रेण एकज्वालीकृत्य, सर्वानेव भस्मीकुर्याम्" इति । त एवमाहुः । "समन्तभद्रस्त्वं भगवन्सर्वतथागतचित्तोत्पाद[ः शान्तविनीतः] सर्वसत्वहितैषी सर्वसत्वाभयप्रदः । तत्कथं भगवन्नस्माकन्निर्दहिष्यती-?" ति । अथ वज्रपाणिर्महाक्रोधरजस्तानेवमाह । "[अहं भो] मार्षाः समन्तभद्रो येन सर्वतथागताज्ञाकारित्वाद्युष्मद्विधानां दुष्टसत्वजातीयानां पापचित्तानां संशोधनार्थाय, विनाशयामि यदि मत्समये न तिष्ठत" इति । ते प्राहुर्"एवमस्त्वि" ति ॥ अथ वज्रपाणिर्महाक्रोधराजो महेश्वरं मुक्त्वान्यान्देवानाश्वास्योत्थापनार्थमिदं वज्रोत्तिष्ठन्नाम सर्वतथागतहृदयमभाषत्वज्रोत्तिष्ठ ॥ अथास्मिन् भाषितमात्रे महेश्वरं मुक्त्वा सर्वे ते त्रिधातुकसन्निपतितास्त्रिभुवनपतयः सपरिवाराः संमूर्च्छिताः समानाः समाश्वस्तहृदया अभूवन् दिव्यानि सुखान्यनुभवन्तो विगतभयच्छभितरोमहर्षा भगवन्तं वज्रपाणिनमवलोकयन्तः समुत्थिता इति ॥ अथ भगवान् वज्रपाणिं बोधिसत्वमामन्त्रयामास । "अयं महासत्वो महादेवो देवाधिपतिर्नोत्थापितः, तत्किमस्य जीवितविप्रणाशेन कृतेन?; जीवापयैनं, सत्पुरुषोऽयं भविष्यती-" ति । अथ वज्रपाणिर्"एवमस्त्व्" इति कृत्वेदं मृत संजीवनहृदयमुदाजहार वज्रायुः ॥ अथास्मिन् भाषितमात्रे महादेवो देवो मृतः संजीव्योत्थातुमिच्छति, न शक्तो व्युत्थातुम् । ततो भगवन्तमेतदवोचत् । "किमहं भगवता एवं शास्यामि?" । भगवानाह । "न त्वं प्रतिपद्यस्वास्य महासत्पुरुषस्याज्ञाङ्कर्तु । अयमेव तेन शास्ति, नाहं" । महेश्वरः प्राह । "किन्न त्वं भगवंच्छक्तोऽस्माद्दृष्टसत्वान्परित्रातुम्?" इति । भगवानाह । "नाहमस्मात्समर्थः परित्रातुं" । आह । "तत्कस्माद्धेतोर्" । आह । "सर्वतथागताधिपतित्वात्" । आह । "नाहं भगवं भगवतो भाषितस्यार्थमाजाने । किन्तु यत्र हि नाम तथागतानामपि सर्वत्रैधातुकाधिपतीनामन्योऽधिपतिस्तन्न जाने कोऽयम्" इति ॥ अथ भगवान् वज्रपाणिर्महाबोधिसत्वः पुनरपि महादेवमाहूयैवमाह । "न प्रतिप[द्यसि किं] दुष्टसत्व ममाज्ञाङ्कर्तुम्?" इति । अथ महादेवो वज्रसत्ववचनमुपश्रुत्य कुपितश्चण्डीभूतस्तथा पतित एव पुनरपि महारौद्ररूपतां दर्शय[न्ने]वमाह । "मरणमप्युत्सहामि; न च तवाज्ञाङ्करिष्यामि" ॥ अथ वज्रपाणिर्महाबोधिसत्वो महाकोपतां सन्दर्शयन्स्वक्रमतालादिद[मनुच]रन्निश्चचार ओं पादाकर्षण वज्र हूम् ॥ अथ भगवतश्चरणतालात्समन्तज्वाला गर्भाकृतभ्रुकुटीदंष्ट्राकरालमहावक्त्रो वज्रा नुचरो भगवतो वज्रपा] णेः पुरतः स्थित्वाज्ञां मार्गयामास ॥ अथ वज्रापाणिर्महेश्वरसंशोधननिमित्तमेवमाह ओं पादाकर्षाकर्षस्य सर्ववज्रधरानुचर [कण्ड कण्ड व]ज्र हूं जः ॥ अथैवमुक्ते महादेव उमादेवीसहितः ऊर्ध्वपादो नग्नः सर्वजगद्भिरुपहस्यमानः पादाकर्षणवज्रानुचरेण भगव[तो वज्रपा]णेः पुरतः पादताले स्थापित इति । अथ वज्रपाणिर्बोधिसत्वो भगवन्तमेतदवोचत् । "अयं भगवन् दुष्टसत्वः सपत्नीकः किं करोमि?" [इति] । भगवानाह ओं वज्राक्रम होः ॥ अथैवमुक्ते वज्रपाणिर्महाबोधिसत्वो महादेवं वामपादाक्रान्तं कृत्वा, दक्षिणेन चोमा [याः स्तनौ पीड]यन्निदं स्वहृदयमुदाजहार ओं वज्राविश हनय त्रं त्रट् ॥ अथास्मिन् भाषितमात्रे महादेवः समाविष्ट्वा, स्वकरसहस्रेण मुख[सह]स्त्रमहनत् । अथ वज्रमणिरत्नशिखरकूटागारस्य बाह्यतः सर्वत्रिभुवनैर्महानादो मुक्तः । "अयं सोऽस्माकमधिपतिरनेन महात्मना [शास्यत" इति] ॥ अथ भगवान्महादेवस्योपरि महाकरुणामुत्पाद्य, इदं सर्वबुद्धमैत्रीहृदयमभाषतों बुद्ध मैत्री वज्र रक्ष हम् ॥ अथास्मिन् भाषितमात्रे महादेवस्य तदावेशदुःखमुपशान्तम् । तच्च वज्रपाणिपादतलस्पर्शमनुत्तरसिद्ध्यभिषेकसमाधिविमोक्षधारणी ज्ञानाभिज्ञावाप्तये यावत्तथागतत्वाय संवृत्त इति । अथ महादेवो भगवत्पादतलस्पर्शात्सर्वतथागतसमाधिधारणीविमोक्षसुखान्यनुभवन्त महादेवकायं वज्रपाणिपादमूले निपातयित्वा, अधस्ताद्द्वात्रिंशद्गङ्गानदीवालुकोपमलोकधातुपरमाणुरजः समा लोकधातवोऽतिक्रम्य, भस्मच्छत्रा नाम लोकधातुस्तत्र भस्मेश्वरनिर्घोषो नाम तथागत उत्पन्नः । अथ तस्मान्महादेवकायादिदमुदानं निः सृतवान् । अहो हि सर्वबुद्धानां बुद्धज्ञानमनुत्तरम् । पातयित्वाक्षरपदे निर्वृत्तौ स्थापयन्ति हि ॥ इति ॥ अथ वज्रपाणिर्महाबोधिसत्वस्तानन्यान्नारायणादान् सर्वत्रिलोकाधिपतीनेवमाह । "प्रविशध्वं मार्षा अस्मिन्सर्वतथागतवज्रसमयमहामण्डले; प्रविष्ट्वा सर्वतथागतसमयमनुपालयत!" । त एवमाहुः । "यथा ज्ञापयसि तथा कुर्म" इति ॥ अथ वज्रपाणिर्महाबोधिसत्वस्तांस्त्रिभुवनसन्निवेशानाहूयैवमाह । "प्रतिगृण्हत मार्षाः पुनस्त्रिशरणगमनशिक्षासमयसंवरं, मम च समये तिष्ठत!" । त एवमाहुः "एवमस्त्विति । किन्तु वयं तव समयम् [अकोविदाः]" । अथ वज्रपाणिः स्वसमयमनुप्रादात् । बोधिचित्तं समुत्पद्य यथा च क्रमतः पर[म् । बोध्यर्थाय यथाबलं यत]ध्वं सुसमाहिताः ॥ अथ वज्रपाणिर्महाबोधिसत्वः तेषां देवादीनां, "प्रवेशमहासमयमुद्रां बन्धान" इति कृत्वा, बन्धयन्ति स्म, अनेन [महासमय]मुद्राहृदयेनेति । ओं वज्र समय गृह्ण बन्ध समयं, वज्रसत्व समयमनुस्मर सर्वतथागतसमयस्त्वम् । दृढी मे भव, स्थिरो मे भव, [आहार्यो मे भव, अप्रतिहा]र्यो मे भव, सर्वकर्मसु च मे चित्तश्रेयः कुरु । ह ह ह ह हूम् ॥ अथास्मिन्नुच्चारितमात्रे सकलत्रैधातुकत्रिभुवनजनसनिवेशस्य[वज्रक्रोधतेरिन्तिरिमुद्रापाणिभ्यामाविश्य बन्धतो दृढीभूतेति ॥ नेw नमेसोf सर्व देइतिएस् अथ वज्रपाणिर्यथावत्प्रवेशयित्वा, सर्वमहामण्डलं यथानुपूर्वेण देशयित्वा, वज्ररत्नाभिषेकैरभिषिच्य, वज्रचिन्हानि च करेभ्यो दत्वा, वज्रनामाभिषेकैरभिषिच्य, सर्वतथागतसत्वार्थतायां स्थापयामास । अथ सर्वत्रैलोक्याधिपतीनां कर्म भवति । तद्यथा, महेश्वराय क्रोधवज्रः, नारायणाय मायावज्रः, सनत्कुमाराय वज्रघण्टः, ब्रह्मणे मौनवज्रः, इन्द्राय वज्रायुधः, इति विद्याराज्यका इत्यभिषिक्ताः । ततोऽन्तरीक्षचराणां सर्वदेवाधिप[तीनामनुप्रादात् ।] तद्यथा, अमृतकुण्डले वज्रकुण्डलिः, इन्दवे वज्रप्रभः, महादण्डाग्राय वज्रदण्डः, पिङ्गलाय वज्रपिङ्गलः, इत्येवमादाय वज्रक्रोधा इत्यभिषिक्ताः । तत आकाशचराणां सर्वदेवाधिपतीनामनुप्रादात् । तद्यथा, मधुमत्ताय वज्रशौण्डः, मधुकराय वज्रमाला, जयाय वज्रवशी, जयावहाय विजयवज्र, इत्येवमाद्या गणपतय इत्यभिषिक्ताः । ततो भौमानां सर्वदेवाधिपतीनामनुप्रादात् । तद्यथा, कोशपालाय वज्रमुसलः, वायवे वज्रानिलः, अग्नये वज्रानलः, कुबेराय वज्रभैरवः, इत्येवमादयो दूता इत्यभिषिक्ताः । ततः पातालाधिपतीनां सर्वदेवानामनुप्रादात् । तद्यथा, वराहाय वज्राङ्कुशः, यमाय वज्रकालः, पृथ्वीचूलिकाय वज्रविनायकः, वरुणाय नागवज्रः, इत्येवमाद्याश्चेटका इत्यभिषिक्ताः ॥ नेw नमेसोf सैव गोद्देस्सेस् ततस्त्रैलोक्याधिपतिः सर्वदेवीनां वज्ररत्नाभिषेकेणाभिषिच्य, स्वचिन्हेभ्यो वज्राधिष्ठाप्य, [वज्र] नामाभिषेकेणाभिषिच्य, सर्वतथागतसत्वार्थतायां प्रतिष्ठापयामास । तद्यथा, उमायै क्रोधवज्राग्निः, रुक्मिण्यै [वज्रसौवर्णी], षष्ठ्यै वज्रकौमारी, ब्रह्माण्यै वज्रशान्तिः, इन्द्राण्यै वज्रमुष्टिरि, त्येवमाद्या वज्रराजनिका इत्यभिषिक्ताः । ततोऽन्तरीक्षचरीणां [सर्वमा]तृणामनुप्रादात् । तद्यथा, अमृतायै वज्रामृता, रोहिण्यै वज्रकान्तिः, दण्डहारिण्यै दण्डवज्राग्रा, जाताहारिण्यै वज्र[मेखला], इत्येवमाद्या वज्रक्रोधिन्य इत्यभिषिक्ताः । ततः खेचरीणां सर्वमातॄणामनुप्रादात् । तद्यथा, मारण्यै वज्रविलया, [अशना]यै वज्राशना, वसनायै वज्रवसना, रत्यै वज्रवशा, इत्येवमाद्या गणिका इत्यभिषिक्ताः । ततो भूचरीणां सर्वमातॄणामनुप्रादात् । तद्यथा, शिवायै वज्रदूती, वायव्यै वेगवज्रिणी, आग्नेध्र्यायै वज्रज्वाला, कुबेर्यै वज्रविकटा, इत्येवमाद्या वज्रदूत्य इत्यभिषिक्ताः । ततः पातालवासिनीनां सर्वमातॄणामनुप्रादात् । वाराह्यै वज्रमुखी, चामुण्डायै वज्रकाली, च्छिन्ननासायै वज्रपूतना, वारुण्यै वज्रमकरी, इत्येवमाद्या वज्रचेट्य इत्यभिषिक्ताः ॥ अथ वज्रपाणिर्महाबोधिसत्वः तेषां सर्वप्रविष्टानाम्बुद्धज्ञानानि निष्पाद्य, सर्वमुद्राबन्धानि शिक्षयित्वा, वज्रसमयान्यनुप्रादातनेन शपथहृदयेन । अयं वज्रो महावज्रस्सर्वबुद्धैरधिष्ठितः । समयव्यतिक्रमात्क्षिप्रं भस्मीकुर्यत्कुलानि तु ॥ ओं हन समय हुं फट् मुद्र ततो हृदयग्रहणमुद्रमनुप्रादात् । वज्रमुद्राद्विकं बध्वा तर्जन्यङ्कुशबन्धितम् । वलितोद्वलितं कुर्याद्यस्तु कार्यार्थचिन्तकः ॥ १ ॥ तस्य युष्माभिः पुरतः स्थातव्यं कार्यसिद्धये । मा वो जीवितनाशाय भवेत्समयो ह्ययम् ॥ २ ॥ वज्रबन्धं दृढीकृत्य कुञ्चिताग्र्या सुयन्त्रितम् । सन्धायाङ्गुष्ठयुगलं पीडयेन्मध्यमाद्वयम् ॥ ३ ॥ अयं वः समयो हन्याद्यदिं कश्चिदतिक्रमेत् । बन्धं समयमुद्राया वज्रविद्याधरस्य तु ॥ ४ ॥ कनिष्ठाङ्ग लिबन्धन्तु वज्रमुद्राद्विकस्य तु । पृष्ठतोऽग्राङ्गु लिग्रस्तं परिवर्त्य शिरे स्थितम् ॥ ५ ॥ वज्रविद्याधराबन्धः समयाऽयं महात्मनः । यस्तु क्रोधो निरीक्षेत स्थेयन्तस्य पुरस्तथा ॥ ६ ॥ वज्ररक्षां दृढां बध्वा वज्रबन्धं तु पीडयेत् । भौमानां समयो ह्येष सर्वसत्वाभिरक्षकः ॥ ७ ॥ यस्तु कश्चित्परित्रार्थे बन्धेत्क्रोधसमन्वितः । रक्षायै[य]स्य सत्वस्य स्थातव्यं तस्य पृष्ठतः ॥ ८ ॥ वज्रमुद्रद्विकं बध्वा वमवज्राग्रपीडिता । वलितोद्वलितं कृत्वा स्फोटयेत्कन्यसाङ्गलि ॥ ९ ॥ य[दि क्रोधं समाविशेत्] प्रयुञ्चेत्समयोह्य । तस्य युष्माभिः पुरतः स्थेयं सर्वाग्रसिद्धय ॥ इति ॥ १० ॥ ग्रन्थितं वज्रबन्धेन दृढन्तर्जनी [योगेन] । मध्यमाङ्गुष्ठमुखयोर्वज्रमुद्रां परिक्षिपेत् ॥ ११ ॥ परिवर्त्य ललाटे तु स्थाप्य यस्तु समाव्हयेत् । तस्य स्थेयं पुरः शश्वद्यदि जीवि[तं स्थापयेद् ॥ १२ ॥ इ]ति ॥ अथासां सकलत्रिलोकहृदयग्रहणसमयमुद्राणां समयग्रहणहृदयानि भवन्ति । ओं वलितोद्वलित वज्राकर्षय [हुं ज्जः ॥] वज्रवलितमुद्राया देवाकर्षणहृदयम् । हुं वज्राग्र पीडय समय हुम् ॥ अन्तरीक्षचराणम् ॥ ओं वज्रमालाग्र वम् ॥ मालधारिणी[नाम् ।] ओं वज्रबन्ध हम् ॥ भूचराणाम् । ओं वज्र पाताल भंज भंज हुं फट् ॥ पातालनिवासिनाम् । ओं हेरूक वज्र समय सर्वदुष्ट समय मुद्रा प्रभंजक हुं फट् ॥ सर्वमातॄणामिति ॥ अथ भगवान् वज्रपाणिर्भगवन्तमेतदवोचत् । "अहं भगवं सर्वतथागतैर्दुष्टदमक इत्यभिषिक्तः, तत्साध्वाज्ञापयैषां सर्वदुष्टमण्डलबन्धानां कथं प्रतिपद्यामि" । अथ भगवानिदमुपश्रुत्य एवमाह । ओं वज्र सुंभ निसुंभ हुं फट् ॥ अथ वज्रपाणिर्महाबोधिसत्वः सर्वसत्वपरित्राणार्थमिदं सर्वमण्डलाकर्षणहृदयमभाषत् । ओं वज्र समयाकर्षय सर्वमण्डलान् वज्रधर सत्यं मातिक्रम हुं फट् ॥ वज्राङ्कुशद्वयं हृदये परिवर्तितम् । अर्गाङ्कुशीद्वया बाह्यमण्डलाकर्षणं परम् ॥ अथास्मिन् भाषितमात्रे सर्वमण्डलानि सर्वतः सुमेरुगिरिमूर्ध्नि बाध्यतः परिवार्यावस्थितानि । अथ भगवान् वज्रपाणिस्तां सर्वमण्डलसन्निवेशानाहूयैवमाह । "प्रतिपद्यत मार्षाः प्राणातिपातवैरमण्यसमयसंग्रहणम्!" इति । अथ तैर्बाह्यमण्डलसमयसत्वैर्भगवां विज्ञप्तो, "वयं भगवन्मान्साहारा दृष्टसत्वतया ओजोहारेण जीविकां कल्पयामः; तदाज्ञापयतु भगवान् कथमस्माभिर्जीवितव्यम्" इति । अथ वज्रपाणिर्महाबोधिसत्व इमं दुष्टवज्रक्रोधमभाषत् । ओं दुष्टवज्रक्रोध हन दह पच विध्वंसय विकिर सर्वदुष्टसमयमुद्रामण्डलान् भंज भंज मर्द मर्द खाद खाद परमन्त्रान् वज्र समय हुं फट् ॥ वज्र क्रोधाङ्गुली सम्यग्नखसन्धानवेष्टिते । सन्धयेन्मुखतो गाढां मुद्रेयं दुष्टनाशनी ॥ ति ॥ अथास्मिन् भाषितमात्रे सर्वदुष्टमण्डलानि एकध्यीभूत्वानेकानि विध्वन्सितानि विकीर्णानि, समयमुद्राबन्धाः स्फोटिताः । ते च दुष्टसमयसत्वा दह्यमानाः पच्यमाना महान्तो महारौरवान्तान्तान् खान्मुञ्चन्तो, येन भगवान्महावज्रधरस्तेनाञ्जलयो बध्वैवमाहुः । "परित्रायस्व भगवन्, येन वयं प्राणान्न परित्यजामः!" । अथ वज्रपाणिः पुनरपि भगवन्तमेतदवोचत् । "आज्ञापयस्व भगवन् कथमेषां दुष्टमण्डलानां प्रतिपद्यामि" । अथ भगवानिदमुवाच ओं निसुंभ हन दह पच गृह्ण बन्ध हुं फट् ॥ अथ वज्रपाणिर्महाबोधिसत्व इ[मं] वज्रक्रूरक्रोधमभाषतों महावज्रक्रूरक्रोध पातय सर्वदुष्टमण्डलान्, विनाशय सर्वदुष्टसमयान्, विकिर विध्वं[सय स्फो]टय भंजय सर्वदुष्टसमयमुद्राबन्धान्, गृह्ण हन दह पच सर्वदुष्टसमयसत्वान्, वज्र समय हुं फट् ॥ अथास्मिन् भाषितमात्रे सर्वदुष्टसमयमुद्रामण्डलानि पुनरप्येकध्यीभूत्वा महासागरे प्रपतितानीति ॥ अथ वज्रपाणिर्महाबोधिसत्वः पुनरपि भगवन्तमेतदवोचत् । "अहं भगवता सर्वदुष्टदमनायाध्येषितः । तदेषां डाकिनीग्रहादीनां सर्वग्रहाणां कथं प्रतिपद्यामि? ।" अथ भगवानिदमवोचतों हन हन वज्र हुं फट् ॥ अथ वज्रपाणिर्महाबोधिसत्वः पुनरपि सर्वडाकिन्यादिदुष्टग्रहाकर्षणहृदयमभाषतों वज्राकर्षय शीघ्रं सर्वदुष्टग्रहान् वज्रधरसत्येन हुं जः ॥ अथास्मिन् भाषितमात्रे डाकिन्यादयः सर्वदुष्टग्रहाः सुमेरुगिरिमूर्ध्नि बाह्यतो मण्डलीभूत्वावस्थिता इति ॥ अथ वज्रपाणिर्महाबोधिसत्वः तां डाकिन्यादीन् सर्वदुष्टग्रहानाहूयैवमाह । "प्रतिपद्यत मार्षाः प्राणातिपातवैरमण्यशिक्षासमयसंवरे; मा वो वज्रेणादीप्तेन प्रदीप्तेनैकज्वालीभूतेन कुलानि निर्दहेयम्" । अथ ते डाकिन्यादयः सर्वदुष्टग्रहा येन भगवान् तेनाञ्जलिं बध्वा भगवन्तं विज्ञापयामासुः । "वयं भगवन्मान्साशिनस्, तदाज्ञापयस्व कथं प्रतिपत्तव्यम्" इति । अथ भगवान् वज्रपाणिमेवमाह "प्रतिपद्यस्व वज्रपाणे एषां सर्वानां महाकरुणामुत्पाद्योपायन्दातुम्" इति । अथ वज्रपाणिर्महाकारुणिक इदं सर्वसत्वमरणनिमित्तज्ञानमुद्राहृदयमभाषतों वज्र प्रतिगृहण हृदयमाकर्षय, यद्ययं सत्वो मांसादत्वेन म्रियते, तदस्य हृदयन्निष्क्रमतु, समय हुं ज्जः ॥ अथास्य मुद्राबन्धो भवति । वज्रबन्धं समाधाय बाहुभ्यां सुहृदं हृदि । वज्राङ्गुलिमुखाभ्यान्तु स्वकक्षौ तु समुत्कर्षेद् ॥ इति ॥ अनया मुद्रया भवद्भिः सर्वसत्वहृदयान्यपकृष्य भोक्तव्यानी-" ति । अथ ते डाकिन्यादयः सर्वदुष्टग्रहा हुलुहुलुप्रक्ष्वेडितानि कृत्वा स्वभवनं गता इति ॥ अथ भगवान् वज्रपाणिः पुनरपि भगवन्तमेतदवोचत् । "अहं भगवद्भिः सर्वतथागतैः सर्वदुष्टदमक इति कृत्वाध्यिष्टः । तदाज्ञापयतु मे भगवान् ज्वरादीनां व्याधीनां किङ्करोमि" ॥ अथ भगवानाह ओं हुं फट् ॥ अथ वज्रपाणिर्महाबोधिसत्वः सर्वज्वराद्याकर्षणहृदयमुदाजहार ओं वज्र समयानय सर्व[दुष्ट]ज्वरादीन्नाशयं हुं फट् ॥ अथास्मिन् भाषितमात्रे ज्वरादयः सर्वे सुमेरुगिरिमूर्ध्नि बाह्यतः परिवार्यवस्थिता अभूवन् । अथ वज्रपाणिस्तान् ज्वरादीनाहूयैवमाह । "प्रतिपद्यत मार्षाः सत्वोपघातवैरमण्यशिक्षाग्रहणसंवरे!" । अथ त एवमाहु । "वयं भगवन् सत्वौ [जोऽप]हृत्य जीविकां कल्पयामः । तत्साधु भगवानाज्ञापयतु कथं प्रतिपद्यामह" इति । अथ वज्रपाणिर्महाबोधिसत्व इदं स्वकर्मविशुद्धिज्ञानमुद्राहृदयमुदाजहार ओं वज्रकर्म विशोधय सर्वावरणानि बुद्धसत्येन समय हूम् ॥ अथास्य मुद्राबन्धो भवति । वज्राञ्जलिं दृढीकृत्य तर्जनीद्वयकुञ्चिताम् । सुबन्धितसमाङ्गुष्ठ्ययन्त्रिता पापहारिणी ॥ इति ॥ इयं मुद्रा यस्य ज्वरादिसर्वव्याधिस्पृष्टस्य कर्मतो दर्शयेत्, तद्युष्माभिरपसर्तव्यं; मा वो जीवितनाशो भवेद्" इति । अथ त "एवमस्त्व्" इति कृत्वा प्रक्रान्ता इति ॥ अथ वज्रपाणिर्महाबोधिसत्वः सर्वतथागतानेवमाह । "अहं भगवद्भिः सर्वावरणनीवरणकर्मावरणविशुद्धिहेतोः स्वहृदयेभ्यो विनिःसृष्टः । तदाज्ञापयतु मे भगवन्तः एषान्नरकादीनां सर्वापायानां कथं प्रतिपत्तव्यम्" इति । भगवानाह ओं क्षपय वज्र स्वाहा ॥ अथ वज्रपाणिर्महाबोधिसत्वः रौरवादिसर्वापायगतिचक्राकर्षणहृदमभाषतों सर्वापायकर्षण विशोधन वज्रसमय हुं फट् ॥ अथास्मिन् भाषितमात्रे रौरवमहारौरवादयः सर्वापायसन्निवेशाः सुमेरुगिरिमुर्ध्नि बाह्यतः परिवार्यावस्थिताः । अथ वज्रपाणिर्महाबोधिसत्वः तानपायभूमिपतितान् सर्वसत्वानाहूयैवमाह । "गृह्णत मार्षास्त्रिशरणगमनसङ्कटात्! । एष वयं बुद्धं धर्म संघं त्वं च शरणं गच्छाम" इति । अथ वज्रपाणिः सर्वापायस्फोटनहृदयमुदाजहार ओं वज्रपाणि विस्फोटय सर्वापायबन्धनानि प्रमोक्षय सर्वापायगतिभ्य सर्वसत्वान् सर्वतथागतवज्र समय त्रट् ॥ अथास्य मुद्राबन्धो भवति । वज्रबन्धं दृढीकृत्य मध्यमाद्वयसन्धिता । चतुरन्त्यमुखासक्ता पापस्फोटेति कीर्तिता ॥ अथ ते त्र्यपायगतिचक्रान्तरस्थिताः सर्वसत्वा वज्रपाणिसकाशादिमां मुद्रां दृष्ट्वा, सर्वदुर्गतिभ्यश्च्युत्वा, भगवतो वैरोचनस्य पादमूले उपपन्नाः । ते चापाया महासमुद्रे पतिता इति । अथ वज्रपाणिर्महाबोधिसत्त्वः पुनरपि भगवन्तमेतदवोचत् । "अहं भगवन्नशेषानवशेषत्वधातुपरित्राणसर्वहितसुखानुभवनार्थ यावत्सर्वतथागतत्वोत्तमसिद्धिफलावाप्तिहेतोः सर्वतथागतसिद्धिवज्रं दत्वा, सर्वतथागतैरध्यिष्टः ।तत्साधु आज्ञापयन्तु मे भग[वन्तः] सर्वतथागता अथैषां मनुष्याणां किङ्करोमी-"ति । अथ सर्वतथागताः पुनः समाजमागम्येदमवोचनों वज्रपाणि महा[मण्डले] प्रवेशय, सर्वान् दुष्टरौद्रान्निवारय, पापेभ्यः प्रमोक्षय, दुर्दृष्टिपर्यापन्नान् विशोधय नाशय विनाशय ह ह ह ह हूम् ॥ अथ वज्रपाणिः सर्वतथागताज्ञावचनमुपश्रुत्य, अशेषानवशेषसत्वधातुपरित्राणसर्वहितसुखोत्तमसिद्धिनिमित्तं यावत्सर्वतथागतज्ञानाभिज्ञावाप्तिफलहेतोरिदं सर्वतथागतमहावज्रसमयभूतं त्रिलोकविजयन्नाम महामण्डलमभाषत् । अथातः संप्रवक्ष्यामि महामण्डलमुत्तमम् । वज्रधातुप्रतीकाशं सर्वसिद्धिकरं परम् ॥ १ ॥ त्रिलोकविजयन्नाम समयं वज्रसंभवम् । बुद्धबोधिप्रवर्तारं सर्वदुष्टविनाशनम् ॥ २ ॥ तत्रानेन मन्त्रण सूत्रयेतों वज्रसमय सूत्रं मातिक्रम ॥ चतुरस्त्रं चतुर्द्वारं चतुस्तोरणशोभितम् । चतुःसूत्रसमायुक्तं पट्टमालासुशोभितम् ॥ १ ॥ सर्वमण्डलकोणेषु द्वारनिर्यूहसन्धिषु । स्वचित्तं वज्ररत्नैस्तु सूत्रयेद्बाह्यमण्डलम् ॥ २ ॥ तस्याभ्यन्तरतः प्राज्ञो वज्ररत्नविभूषितम् । चतुरस्त्रं चतुर्द्वारमष्टस्तम्भसतोरणम् ॥ ३ ॥ वज्रस्तम्भाग्रसंस्थेषु पञ्चमण्डलमण्डितम् । सूत्रयेन्मण्डलस्तत्र सूत्रं रङ्गैः प्रपूरयेत् ॥ ४ ॥ तत्रायं रङ्गजापः ओं वज्रचित्र समय हूम् ॥ ततो मध्यस्थितो भूत्वा वज्राचार्यः समाहितः । मनसोद्घाटयेच्चैव वज्रद्वारचतुष्टयम् ॥ तत्रायं द्वारोद्घाटनमन्त्रः ओं वज्रोद्घाटय समय प्रवेशय हूम् ॥ सौवर्णे राजते वापि मृण्मये वा सुचित्रिते । इष्टके चतुरस्त्रे तु बुद्धबिम्बन्निवेशयेत् ॥ तत्रेदं सर्वतथागताकर्षणहृदयं भवति । ओं वज्र ज्वालाग्निप्रदीप्ताकर्षय सर्वतथागतान्महावज्र समय हूं जः ॥ बुद्धस्य पुरतो वज्रं ज्वालामध्ये निवेशयेत् । ज्वालामध्ये लिखेद्रत्नं पद्मं विश्वायुधन्तथा ॥ अथासां वज्रसमयमुद्राणां निवेशहृदयानि भवन्ति । हूं सत्ववज्र ज्वालामाल हूं फट् ॥ ओं रत्नवज्र ज्वालामाल हूं त्रः ॥ ओं धर्मवज्र ज्वालामाल हूं ह्रीः ॥ हूं कर्मवज्र ज्वालामाल हूं हः ॥ वज्रवेगेन निःक्रम्य बुद्धस्य पुरतस्तथा । संलिखेद्विधिवत्प्राज्ञो वज्रहुंकारमण्डलम् ॥ तत्रेदं वज्रवेगहृदयं भवति ओं वज्रवेगाक्रम हूम् ॥ एवं वज्रधात्वादिषु सर्वमण्डलेषु सूत्रमाक्रम्य, सर्वतो गच्छेदिति ॥ अथास्य मुद्रा भवति । मनोत्क्षिप्य रेखात्तु वज्रसूत्रमथापि वा । प्रविशन्ति क्रमत्वापि भ्रम्यते समयान्न सः ॥ १ ॥ तत्र मध्ये महासत्वं व[ज्रपा]णिं समालिखेत् । महानीलोत्पलरुचं वज्र-हूं-कारसंग्रहम् ॥ २ ॥ ईषद्दंष्ट्राकरालास्यं सरोषहसिताननम् । प्रत्यालीढस[माक्रान्तं ज्वा]लामालाकुलप्रभम् ॥ ३ ॥ वामपादसमाक्रान्तस्तेन कार्य महेश्वरः । दक्षिणं तु लिखेत्पादमुमास्तनभरस्थितम् ॥ ४ ॥ तत्रास्य हृद[यं भवति हूम् ॥] तस्य पार्श्वेषु सर्वेषु वज्रक्रोधान्निवेशयेत् । क्रुद्धदंष्ट्राकरालांस्तु ज्वालामालाकुलप्रभान् ॥ अथैषां हृदयानि भवन्ति । [हूम् ॥ ओं वज्रसत्व]क्रोध हूं फट् ॥ ओं वज्रक्रोधाकर्षय हूं फट् ॥ ओं वज्रकाम क्रोध रागाय हूं फट् ॥ ओं वज्रतुष्टिक्रोध साधु साधु हूं फट् ॥ वज्रवेगे[न चा]क्रम्य द्वितीयं मण्डलोत्तमम् । तत्रा वज्राभिषेकं तु लिखेत्क्रोधैः परिवृतम् ॥ अथैषां हृदयानि भवन्ति । त्रः ॥ ओं वज्रभृकुटि क्रोध हर हर हुं फट् ॥ ओं वज्रसूर्य महाज्वालामाल क्रोध ज्वालय सर्व हुं फट् ॥ ओं वज्र क्रोध केतु देहि हुं फट् ॥ ओं वज्राट्टहास क्रोध हः हः हः हः हुं फट् ॥ वज्रवेगेन चाक्रम्य तृतीयं मण्डलात्तमम् । वज्रसेनं समालेख्यं वृतं क्रोधैर्महात्मभिः ॥ अथैषां हृदयानि भवन्ति । ह्रीः ॥ ओं वज्रधर्म क्रोध विनाशय विशोधय हुं फट् ॥ ओं वज्रतीक्ष्ण क्रोध च्छिन्द च्छिन्द हुं फट् ॥ ओं वज्रहेतु क्रोध प्रविश प्रवेशय मण्डलं सर्वा हुं फट् ॥ ओं वज्रक्रोध भाष वद वद हुं फट् ॥ वज्रवेगेन चाक्रम्य चतुरथं मण्डलोत्तमम् । वज्रावेशं समालेख्यं वज्रक्रोधगणैर्वृतम् ॥ तत्रैषां हृदयानि भवन्ति । अः ॥ ओं वज्रकर्म ॥ ओं वज्रकवच क्रोध रक्ष रक्ष हुं फट् ॥ ओं वज्रयक्ष क्रोध खाद खाद हुं फट् ॥ हुं वज्रक्रोध मुष्टि साधय समय हुं फट् ॥ मण्डलस्य तु कोणेषु यथावदनुपूर्वता । वज्रधातुप्रयोगेण गुह्यपूजां समालिखेत् ॥ अथासां हृदयमुद्रा भवन्ति । ओं वज्रलास्ये रागय हूं फट् ॥ ओं वज्रमालेऽभिषिञ्च हुं फट् ॥ ओं वज्रगीते गाद गाद हूं फट् ॥ ओं वज्रनृत्ये वशीकुरु हुं फट् ॥ वज्रवेगेन निःक्रम्य बाह्यमण्डलमुत्तमम् । तत्र कोणेषु कर्तव्यं पूजादेवीचतुष्टयम् ॥ अथासां हृदयमुद्रा भवन्ति । ओं वज्रधूपपूजास्फरणसमये हुं फट् ॥ ओं वज्रपुष्पपूजास्फरणसमये हुं फट् ॥ ओं वज्रालोकपूजास्फरणसमये हुं फट् ॥ ओं वज्रगन्धपूजास्फरणसमये हुं फट् ॥ अङ्कुशाद्यास्तु कर्तव्या द्वारमध्यचतुष्टये । बाह्यमण्डलसंस्थेषु बाह्यवज्रकुलानि तु ॥ अथासां हृदयमुद्रा भवन्ति । ओं वज्राङ्कुश महाक्रोधाकर्षय सर्वसमयान् हूं ज्जः ॥ ओं वज्रपाश महाक्रोध प्रवेशय सर्वसमयान् हुं हूम् ॥ ओं वज्रस्फोट महाक्रोध बन्ध बन्ध सर्वसमयान् हुं वम् ॥ ओं वज्रावेश महाक्रोधावेशय सर्वसमयान् हुमः ॥ इनितिअतिओनिन्तो थे मन्दल अथात्र त्रिलोकविजयमहामण्डले प्रवेशविधिविस्तरो भवति । तत्रादित एव तावत्स्वयं वज्रा [चार्यो व]ज्रकोधतेरिन्तिरिमुद्रां बध्वा प्रविशेत् । प्रविष्ट्वा सर्वतथागतां विज्ञापयेत् । "अहं भगवन्तस्तथागताः क्रोधवशं यास्यामि [निग्रहीतव्यां] निग्रहीष्यामि संग्रहीतव्यां संग्रहीष्यामि । तन्मे भगवन्त आज्ञापयन्तु, कथं प्रतिपद्यामी"ति कृत्वा, वज्रक्रोधतेरिन्तिरिमुद्रां स्व[हृदये य]थावत्स्थाप्य, वज्राङ्कुशादिभिः कर्माणि कृत्वा, पुनः सर्वसमयमुद्रां बन्धयेत्; ततः सर्वे सान्निध्यङ्कल्पयन्ति । ततो गुह्यपूजाचतुष्टयं कृत्वा तथा धूपादिभिश्च ॥ ततो वज्रशिष्यां प्रवेशयेदनेन विधिना स्वयं वज्राचार्यो वज्रकोधतिरिन्तिरिमुद्रां बध्वा, शिष्याय बन्धयेदनेन हृदयेन ओं गृण्ह वज्र समय हुं वम् ॥ ततो नीलवस्त्रान्तरीयनीलोष्णीषावबन्धशिराः, नीलरक्तकेन मुखं बध्वा, प्रवेशयेदनेन मन्त्रेण ओं वज्र समयं प्रविशामि ॥ ततः प्रवेश्य वज्रावेशसमयमुद्रयास्यावेशमुत्पादयेदनेन हृदयेन वज्रावेश अः ॥ ततः समाविशति । तेनावेशेन सर्वतथागतैरधिष्ठ्यते । सर्वं चातीतानागतप्रत्युत्पन्नन्निमिषादेव जानाति । अवध्यश्च भवति सर्वसत्वेभ्यः, अधृष्यः । हुंकारेण च सर्वसत्वनिग्रहानुग्रहसमर्थीभवति । वज्रपाणिश्चास्य नित्यं सर्वकार्याणि साधयतीति ॥ ततः शपथहृदयं दद्यात् । ततो यथावत्मुखबन्धं मुक्त्वा, महामण्डलं दर्शयेत् । मण्डले दृष्टमात्रे तु सर्वपापैर्विमुच्यते, सकलत्रिलोकविजयसमर्थो भवति । हुंकारेण च महादेवादिसर्वदेवाकर्षणप्रवेशनबन्धनवशीकरणपातनक्षमो भवति । सर्वतथागताधिष्ठानाच्च वज्रपाणिर्महाबोधिसत्वः सततानुद्धः स्वकीयाः सिद्धीर्ददाति ॥ ततोऽस्य वज्राभिषेकेणाभिषिच्य, तीक्ष्णस्ववज्रचिन्हं यथावत्पाणिभ्यां दातव्यमनेन मन्त्रेण ओं वज्रपाणि वज्रकर्मकरो भव ॥ ततो वज्रनामाभिषेकन्दद्यादनेन मन्त्रेण । ओं वज्रक्रोध त्वामभिषिंचामि वज्रनामाभिषेकतः हेवज्र नाम ॥ ततो यस्य यन्नाम कुर्यात्तस्य हेशब्दः प्रयोक्तव्य इति ॥ ततो ज्ञानान्युत्पादयेत् । वज्रबिम्बं समालिख्य हृदि वालाकुलप्रभम् । वज्रक्रोधसमापत्त्या सर्व आवेशयेज्जगत् ॥ १ ॥ वज्ररत्नं ललाटे तु समालिख्य तथैव च । वज्रक्रोधसमापत्त्या सर्वसत्वान् वशन्नयेत् ॥ २ ॥ वज्रपद्मं गले कृत्वा ज्वालामालाकुलप्रभम् । वज्रक्रोधसमापत्त्या सर्वसत्वां स नाशयेत् ॥ ३ ॥ सत्ववज्रं प्रतिष्ठाप्य मूर्ध्नि ज्वालाकुल[प्रभं] । वज्रक्रोधसमापत्त्या रक्षेत्सर्वमिदं जगत् ॥ ४ ॥ अथासां ज्ञानमुद्राणां हृदयानि भवन्ति । हुं सत्व वज्र क्रोधाविश अः ॥ हो रत्न [वज्रक्रोध] त्रः ॥ हुं धर्म वज्रक्रोध फट् ॥ हं कर्म वज्रक्रोध रक्ष ॥ मुद्र ततो देवाद्याकर्षणमुद्राज्ञानं शिक्षयेत् । वज्राङ्कुशं समा[लिख्य ताले हूंक]रसंज्ञितम् । अङ्गुलीं चालयेत्क्रुद्धो देवाकर्षणमुत्तमम् ॥ १ ॥ वज्राङ्कुशं समालिख्य स्वपादतलमध्यतः । लिङ्गमाक्रम्य तेनैव दे[वा समाकर्षे]द्ध्रुवम् ॥ २ ॥ वज्राङ्कुशं समालिख्य स्वमेढ्रे तु समुत्थिते । चालयंस्तु समाकर्षेदुमाद्याः सर्वयोषितः ॥ ३ ॥ वज्राङ्कुशं समालिख्ये गुदे कुदे तथा । तेनाक्रमीत यं देवं तस्याकर्षणमुत्तमम् ॥ ४ ॥ तत्रैषां हृदयानि भवन्ति । ओं वज्र क्रोधाग्राकर्षय हुं फट् ॥ ओं वज्र क्रमाङ्कुशक्रोधाकर्षय हुं फट् ॥ ओं वज्र क्रोधदण्डाग्राकर्षय हुं फट् ॥ ओं वज्रक्रोधासनागच्छाकर्षयामि ते वज्र समयमनुस्मर हुं फट् ॥ ततश्चतुर्विधमुद्राज्ञानं शिक्षयेत् । प्रत्यालीढं समास्थाय वज्रावेशप्रयोगतः । क्षणाद्धुंकारमात्रेण सर्वमावेशयेज्जगत् ॥ १ ॥ वज्रवाचा वदेत्सम्यग्चतुर्हुंकारसंयुतम् । हृदयं सर्वबुद्धानां सर्वमप्यानयेद्ध्रुवम् ॥ २ ॥ वज्रक्रोधसमापत्त्या वज्रक्रोधाग्रदृष्टितः । मारयेत जगत्सर्व वज्रहुंकारयोगतः ॥ ३ ॥ मनसा वर्मयेत्कायमात्मनस्तु परस्य वा । महाकवचयोगेन रक्षेत्सर्वमिदं जगद् ॥ इति ॥ ४ ॥ अथैषां हृदयानि भवन्ति । ओं वज्र क्रोध कायावेशय हुमः ॥ ओं वज्र विद्योत्तम महाक्रोधानय हो भगवन् वज्र हुं फट् ॥ ओं वज्र क्रोध दृष्टि हन दह पच विनाशय हुङ्कारेण पातय वज्र समय हुं फट् ॥ ओं मनोदृढ वज्र कवच क्रोध रक्ष हुं फट् ॥ ततः सर्वसत्वमुद्रणमुद्राज्ञानं शिक्षयेत् । वज्रक्रोधसमापत्त्या यस्य यस्य परिष्वजेत् । वज्रहुंकारजापेन मुद्रितो भवते स तु ॥ १ ॥ संलपन्महता वाचा ट्टक्कि हूं फट्सकृद्वदेत् । यस्य क्रुद्धः स दीप्तेन वज्रेणाभिहतो भवेत् ॥ २ ॥ वज्रदृष्टया निरीक्षेद्वै वज्रक्रोधसमाधिना । यस्य यस्य तु सत्वस्य सो सो मरणमाप्नुयात् ॥ ३ ॥ मनसा मारयामीति वज्रं हृदि तु भावयेत् । हुंकारेणैव सर्वेषां मुद्रयत्यभितः स्वयम् ॥ इति ॥ ४ ॥ यस्य सत्वस्य येनैव मनसा मुद्रयत्यसौ । आभिर्मुद्राभिरभ्यर्थ सर्वकर्माणि साधयेद् ॥ इति ॥ ५ ॥ अथैषां हृदयानि भवन्ति । टक्कि अः ॥ टक्कि ज्जः ॥ टक्कि हुम् ॥ टक्कि हम् ॥ एकैकया तु मुद्रया चतुर्षु कर्मसु चत्वारि मुद्राहृदयानि प्रयुञ्चेदिति ॥ ततो रहस्यक्रोधमुद्राज्ञानं शिक्षयेत् । सर्वाङ्गतः परिष्वज्य हुंकारमस्य योजयेत् । द्वयेन्द्रियसमापत्त्या तस्य नश्येत जीवितम् ॥ १ ॥ चुम्बंस्तु दशनैरोष्ठं गृह्य हुङ्कारयोगतः । द्वयेन्द्रियसमापत्त्या यस्य तस्य मुखं पतेत् ॥ २ ॥ हुं-कारं यः प्रयुञ्जीत सुखं ह्यनुभवन्नसौ । द्वयेन्द्रियसमापत्त्या यस्य सो दुःखमाप्नुयात् ॥ ३ ॥ हुंकारं यः प्रयुञ्जीत सर्वाङ्गेन तु पीडयन् । द्वये[न्द्रियस]मापत्त्या तस्य सर्वतनुः पतेद् ॥ इति ॥ ४ ॥ अथात्र हृदयानि भवन्ति । हुमः ॥ हुं ज्जः ॥ हुं होः ॥ हुं हम् ॥ ततस्त्रिलोकविजयमहामण्डलसमयतत्वमुद्राज्ञानं शिक्षयेत् । वज्रधातुप्रयोगेण बुद्धानुस्मृतिमान् भवेत् । यस्तु सत्वहितार्थाय स तु बुद्धत्वमाप्नुयात् ॥ १ ॥ महेश्वरमुमांश्चैव भूमौ लिख्य तथाक्रमेत् । यथालेख्यानुसारेण सत्वमुद्रां समाधयेत् ॥ २ ॥ अनया बद्धमात्रया त्रिलोकविजयी स तु । सिद्धविद्यो भवेत्क्षिप्रं बज्रहुंकारसन्निभः ॥ ३ ॥ ज्वालामण्डलमध्यस्था यथा लेख्यानुसारतः । कायवाक्चित्तवज्रैस्तु सत्वमुद्रास्तु बन्धयेत् ॥ ४ ॥ अथासां कर्म वक्ष्यामि वज्रकर्ममनुत्तरम् । बुद्धानुस्मृतिसंसिद्धः शीघ्रं बुद्धत्वमाप्नुयाद् ॥ इति ॥ ५ ॥ त्रिलोकविजयां बध्वा त्रिलोकविजयी भवेत् । वज्रायुः सर्वगामी तु वज्रहुंकारसन्निभः ॥ ६ ॥ वज्राभिषेका राज्यत्वं लोकैश्वर्यं सुधर्मिणी । कर्मवज्रमहाक्रोधा वज्रकर्मकरी भवेत् ॥ ७ ॥ सत्वक्रोधा महादाढ्र्यं क्रोधाङ्कुश्या समाव्हान । रागयेत्क्रोधरागा तु साधुक्रोधा तु तुष्टिदा ॥ ८ ॥ भृकुट्या नाशयेत्सर्वं क्रोधसूर्या सुतेजताम् । केतुक्रोधा हरेदर्थानट्टहासा तु मारयेत् ॥ ९ ॥ धर्मक्रोधा हरेद्धर्मान् च्छिन्देद्वै क्रोधवज्रया । हेतुक्रोधा हरेद्दुःखान् वाग्घरेत्क्रोधभाषया ॥ १० ॥ कर्मक्रोधा सुकर्माणि कुर्याद्रक्षां तु रक्षया । क्रोधयक्षा रिपुं खादेत्क्रोधमुष्टिस्तु सिद्धिदा ॥ इति ॥ ११ ॥ अथ वज्रसमयमुद्राबन्धी भवति । वज्र[द्विकस]मुद्भूताः समयाग्र्यास्तु कीर्तिताः । तासां बन्धं प्रवक्ष्यामि क्रोधबन्धमनुत्तरम् ॥ १ ॥ बाहुवज्रं समाधाय कनिष्ठाङ्कुशं बन्धिता । त्रिलोकविजया नाम तर्जनीद्वयतर्जनी ॥ २ ॥ तथैवाग्र्या मुखासंगान्मणिस्तु प्रविकुञ्चिता । समोत्थमध्यपद्मा तु मध्याग्र्यद्वयवर्जिते ॥ ति ॥ ३ ॥ तर्जनीद्वयवज्रा तु दक्षिणाङ्कुञ्चिताङ्कुशी । तयैव ग्रस्तहुंकारा साधुकारा तथव हि ॥ ४ ॥ द्व्यग्रा संस्था भृकुट्यान्तु हृदि सूर्याग्रमण्डला । प्रसारितभुजा मूर्ध्नि तर्जनीमुखहासिनी ॥ ५ ॥ तर्जनीनखसंसक्ता कोशमुष्टिस्तु दक्षिणा । सममध्याग्र्योत्थचक्रा तु मुखतः प्रविनिः सृताः ॥ ६ ॥ तर्जनीमध्यवज्रा च ग्रीवा वेष्टिततर्जनी । अग्र्याधिकमहादंष्ट्रा ग्रस्ताग्रा वज्रा मुष्टिने- ॥ति ॥ ७ ॥ वज्रलास्यादिसन्धीनां मुद्रास्ता एव हुंकृताः । धर्ममुद्रास्तु ता एव हुंकारैः सहिताः पुनः ॥ ८ ॥ अथ वज्रसमयधर्ममुद्रा भवन्ति । हुंकारो बुद्धवज्रिभ्यां त्रःकारो वज्रगर्भतः । ह्रीःकारो वज्रसेनस्य अःकारो वज्रविश्वन ॥ इति ॥ [अतः परं धर्ममुद्राः समासत एवं भवन्ति ।] हुं हेः त्रां तं, हि हीः देः हः, धिक्खीः हूं ग्रं, कृ वं दृ अः । धर्ममुद्रा सुसिद्धास्तु वज्रक्रोधगणस्य हि ॥ इति ॥ ततो वज्रसमयकर्ममुद्रा भवन्ति । क्रोधमुष्टिं द्विधीकृत्य वज्रगर्वादियोगतः । कर्ममुद्राः समासेन महवज्रकुले स्मृताः ॥ १ ॥ यस्या [य]स्यास्तु मुद्राया यद्यत्पार्श्वं च कर्मणः । तत्र तत्र तु वै वेष्ट्य तां तां मुद्रां प्रयोजयेत् ॥ २ ॥ सर्वमुद्राविधिः ॥ अथात्र त्रिलोकविजयम[हामण्डल]साधारणमुद्राबन्धो भवति । त्रिलोकविजया मुद्रा वज्राग्रसमयस्य तु । वज्रहुंकारमन्त्रस्य सर्वसिद्धिप्रदा क्षणात् ॥ १ ॥ कनिष्ठाग्र्याङ्कुशैर्बन्धेद्वज्रौ द्वावधरोत्तरौ । समयाङ्कुशमुद्रेयं सर्वमाकर्षयेत्क्षणात् ॥ २ ॥ सर्वविद्योत्तमानां तु त्रिलोकविजया स्मृता । [घातनी चैव] सर्वस्य सर्वकर्मकरी तथा ॥ ३ ॥ द्विवज्राग्र्याङ्गुली सम्यक्सन्धाय सुसमाहितः । उत्थापयेन्मृतं सर्व वज्रोत्तिष्ठेति संज्ञिता ॥ ४ ॥ द्विवज्राग्र्याङ्गुली सम्यक्वज्रबन्धेन बन्धयेत् । परिवर्त्य स्थापेन्मूर्ध्नि आयुरारोग्यवर्धनी ॥ ५ ॥ वज्रबन्धं दृढीकृत्य समाङ्गुष्ठप्रवेशिता । तर्जनी दृढं संकोचा वलिता पादकर्षणी ॥ ६ ॥ ॥ त्रिलोकविजयां बध्वा यस्य बिम्बं समाक्रमेत् । वामपादेन तं सत्वं मासादर्धेन सिद्ध्यति ॥ ७ ॥ वज्रमुद्राद्विकं बध्वा ताडयेत परस्परम् । यस्य वै रात्वकायं तु समाविष्टस्तु ताडयेत् ॥ ८ ॥ वज्रमुद्राद्विकं बध्वा कवचं स्वं परस्य वा । ग्रन्थनन् तर्जनीभ्यां तु रक्षा भवती शाश्वती ॥ ९ ॥ वज्रबन्धं तले कृत्वाच्छादयेत्क्रुद्धमानसः । गाढमङ्गुष्ठ [वज्रेण] सिद्ध्येद्वज्रकुलं महत् ॥ १० ॥ सत्ववज्रं दृढीकृत्य द्व्यङ्गुष्ठग्रस्तमध्यमे । कनिष्ठा वज्रमुखतो तीक्ष्ण[आन्तु समय]ग्रहाम् ॥ ११ ॥ वज्रमुद्राद्विकं बध्वा कुञ्चिताग्र्या निबन्धितम् । वलितोद्वलितं कुर्वन् देवाकर्षणमुत्तमम् ॥ १२ ॥ वज्रबन्धं दृढीकृत्य कुञ्चिताग्र्या सुयन्त्रितम् । सन्धायाङ्गुष्ठयुगलं पीड्य मध्येऽन्तरीक्षिणाम् ॥ १३ ॥ कनिष्ठाङ्गुलिमध्यन्तु वज्रमुद्राद्विकस्य तु । पृष्ठतोऽग्र्याङ्गुलिग्रस्तं परिवर्त्य खचारिणाम् ॥ १४ ॥ वज्ररक्षां दृढीकृत्य वज्रबन्धं तु पीडयेत् । भौमानां समयो ह्येष सर्वकृद्दुरतिक्रमः ॥ १५ ॥ वज्रमुद्राद्विकं बध्वा वामवज्राग्र्यपीडिता । अन्त्याङ्गुलिसमास्फोटा पाताताकर्षणी त्वियम् ॥ १६ ॥ ग्रन्थितं वज्रबन्धेन दृढन्तर्जनिकाद्वयम् । मध्यमाङ्गुष्ठवज्रं तु दुष्टमुद्राप्रभञ्जकम् ॥ १७ ॥ वज्रमुद्राद्वयं बध्वा हृदि स्थाप्य समाहितः । पीडयेत्क्रोधमुष्टिं तु बाह्यमण्डलनाशनी ॥ १८ ॥ वामवज्राङ्गुलिं गृह्य दक्षिणाकुञ्चिताग्र्यया । आस्फोटयं सुसंक्रुद्धः सुमेरुमपि पातयेत् ॥ १९ ॥ वामवज्राङ्गुलिं गृह्य दक्षिणाग्र्याङ्कु शेन तु । आकर्षयत्सुसंक्रुद्धो ग्रहां सर्वान् वशन्नयेत् ॥ २० ॥ वज्रबन्धं समाधाय बाहुभ्यां सुदृढं हृदि । वज्राग्र्याभ्यां स्वकुक्षौ तु कुशंस्तु हृदयं हृदि ॥ २१ ॥ अ[ग्र्याङ्गु]लिमुखाभ्यां तु पीडयेत्क्रुद्धमानसः । अङ्गुष्ठद्वयमूलन्तु ज्वराकर्षणमुत्तमम् ॥ २२ ॥ वज्राञ्जलिं दृढीकृत्य तर्जनीद्वय [कुञ्चिता] । सुसन्धितसमाङ्गुष्ठयन्त्रिता पापहारिणी ॥ २३ ॥ अग्र्याङ्गु लिद्वयं बध्वा वज्रमुद्राद्विकान्तरात् । समुत्क्षिपेत्क्षणादूर्ध्वं पतितोत्क्षे[पकोत्तमं] ॥ २४ ॥ वज्रबन्धं दृढीकृत्य मध्यमामुखसन्धिता । चतुरन्त्यमुखासङ्गात्पापं स्फोटयति क्षणात् ॥ २५ ॥ अथ सर्वतथागतमण्डल[साधन]मुद्राबन्धो भवति । सूत्रयन्मण्डलं पूर्व वज्रमुद्राग्रहेण तु । सूत्रं तु धारयेत्पश्चात्यथावत्सूत्रणं स्मृतम् ॥ १ ॥ सुसन्धितसमाग्र्यन्तु वज्रमुद्राद्विकस्य तु । कृत्वा तु सर्वरङ्गाणि दीप्तदृष्ट्या समाव्हयेत् ॥ २ ॥ द्विवज्राग्र्याङ्गुली सम्यक्सन्धायोत्तानतो दृढम् । विवारयेत संक्रुद्धो द्वारोद्धाटनमुत्तमम् ॥ इति ॥ ३ ॥ अथ सर्ववज्रकुलसर्वमुद्रासाधनं भवति । प्रत्यालीढकृतिङ्कृत्वा क्रोधवाचा प्रवर्तयन् । क्रोधदृष्ट्या तु संक्रुद्धः सर्वकर्माणि साधयेद् ॥ इति ॥ सर्वतथागतवज्रसमयान्महाकल्पराजात्त्रिलोकविजयमहामण्डलविधिविस्तरः समाप्तः ॥ छप्तेर्७ क्रोध-गुह्य-मुद्र-मन्दल-विधि-विस्तर एमनतिओनोf देइतिएस्fओर्ं समधि अथ भगवान् पुनरपि वज्रधारणीसमयसंभववज्राधिष्ठानं नाम समाधिं समापद्येमां स्वविद्योत्तमामभाषतों सर्ववज्रिणि वज्रमाते आनय सर्व वज्रसत्येन हूं ज्जः ॥ अथास्यां भाषितमात्रायां वज्रपाणिहृदयात्स एव भगवान् वज्रापाणिः वज्रपाणिसदृशसर्वात्मभावाः समन्तज्वालागर्भा वज्रक्रोधसमयमुद्रा देवता भूत्वा विनिःसृत्य, सर्वलोकधातुषु सर्वतथागतार्थान्निष्पाद्य, भगवतो वज्रसत्वस्य गुह्यभार्यताप्रच्छादनार्थ कायवाक्चित्तवज्रमुद्राबिम्बानि भूत्वा, भगवतो वैरोचनस्य त्रिलोकविजयमहामण्डलयोगेन चन्द्रमण्डलाश्रिता भूत्वेदमुदानमुदानयिंसुः । अहो हि सर्वबुद्धानां गुह्यज्ञानमनुत्तरम् । यत्तथागतसौख्यार्थं भार्यात्वमपि कुर्वते ॥ ति ॥ हीः ॥ देलिनेअतिओनोf थे मन्दल अथ वज्रापाणिः पुनरपि स्वकुलसमयमुद्रामण्डलवज्रसमयगुह्यन्नाममभाषत् । अथातः संप्रवक्ष्यामि वज्रमण्डलमुत्तमम् । वज्रधातुप्रतीकाशं क्रोधगुह्यमिति स्मृतम् ॥ १ ॥ महामण्डलयोगेन सूत्रयेत्सर्वमण्डलम् । पञ्चमण्डलसंस्थेषु गुह्यमुद्रान्निवेशयेत् ॥ २ ॥ वज्रमण्डलमध्येऽस्मिं बुद्धबिम्बन्निवेशयेत् । बुद्धस्य क्रोधसमयान् यथावत्तु लिखेद्बुधः ॥ ३ ॥ वज्रवेगेन निःक्रम्य वज्रपाणेस्तु मण्डलम् । तत्र मध्ये लिखेत्तिर्यक्शूलवज्रं प्रतिष्ठितम् ॥ ४ ॥ ज्वालामध्ये लिखेत्तस्य यथावदनुपूर्वशः । वज्रं वज्राङ्कुशं चैव वाणं तुष्टिस्तथैव च ॥ ५ ॥ वज्र[वेगे]न चाक्रम्य द्वितीयं मण्डलोत्तमम् । वज्ररत्नं लिखेत्चैव चक्रमध्ये प्रतिष्ठितम् ॥ ६ ॥ वज्रभृकुटिमध्ये [वज्रसूर्यं त]था ध्वजम् । दन्तपंक्ती तथा वज्रैतस्य पार्श्वेषु संलिखेत् ॥ ७ ॥ वज्रवेगेन चाक्रम्य तृतीयं मण्ड[लोत्तमम् । वज्रपद्मं लिखेद्दिव्यं पद्ममध्ये प्रति]ष्ठितम् ॥ ८ ॥ ज्वालामध्ये लिखेत्पद्मं खङ्गं चक्रन्तथैव च । वज्रजिव्हां यथावत्तु तस्याः पार्श्वेषु स[र्वेषु ॥ ९ ॥ वज्रवेगेन चाक्रम्य चतुर्थ मण्डलोत्त]मम् । तिर्यग्वज्रे लिखेद्वज्रं वृतं वज्रैर्महाप्रभैः ॥ १० ॥ तस्याः पार्श्वेषु सर्वेषु सर्वज्वालाकुलप्रभाः । [विश्ववज्रं सुकवचं वज्रदंष्ट्रमुष्टिं लिखेत् ॥]११ ॥ कोणेषु बाह्यसंस्थेषु यथावत्तु लिखेन्नयम् । अतः परं प्रवक्ष्यामि मुद्राविद्याः समासतः ॥ १२ ॥ [सिः ॥ ओं वज्रक्रोधसमये सिः ॥ ओं वज्र]रोषाङ्कुश्यानय सर्व सिः ॥ ओं वज्ररोषे कामवज्रिणि वशं मे आनय हि सिः ॥ ओं वज्रतुष्टि[क्रोधे तोष्य सर्वाणि सिः ॥ वज्रसिंकारम]ण्डले ॥] जिः ॥ ओं वज्रभृकुटिक्रोधे हर सर्वार्थ जिः ॥ ओं वज्रज्वालामालप्रभे महाक्रोधा[ग्नि ज्वालय सर्व विरोषे जिः ॥ ओं वज्र]ध्वजाग्रकेयूरमहाक्रोधे देहि मे सर्वं जिः ॥ ओं वज्राट्टहासनि हस हसाट्टाट्टहासेन [मारय जिः ॥ वज्रजिंकारमण्डले ॥] दिः ॥ ओं वज्रशुद्धक्रोधे हन मारय दुष्टान् दिः ॥ ओं वज्रतीक्ष्णक्रोधेच्छिन्द वज्रकोशेन सर्वान् दिः ॥ ओं [वज्रहेतुमहा क्रोधे प्रवेश चक्र प्रवेशय सर्वान्] दिः ॥ ओं वज्रजिव्हे महाक्रोधभाषे वाचं मुञ्च दिः ॥ वज्रदिंकारमण्डले ॥] न्हिः ॥ ओं सर्व मुखे [कर्मवज्रिणि महाक्रोधे कुरु सर्वान्न्हिः ॥ ओं वज्र] कवचक्रोधे रक्ष मां न्हिः ॥ ओं वज्रचण्डक्रोधे महायक्षिणि वज्रदंष्ट्राकरालभीषणि भीषा[पय न्हिः ॥ ओं वज्रक्रोधे मुष्टिबन्ध न्हिः ॥ वज्रन्हिं]कारमण्डले ॥] ततः कोणमण्डलेषु वज्रनृत्यगुह्यपूजाविद्याहृदयानि भवन्ति । वज्र हूं र्ख्ने ॥ वज्र हूं घूम् ॥ वज्र हूं र्ते ॥ वज्र हूं स्तेम् ॥ बहिःकोणेषु तूर्यपूजाहृदयानि भवन्ति । वज्र ती ते ॥ वज्र टं टः ॥ वज्र धा धू ॥ वज्र धौ धः ॥ द्वारपालानां पूजाहृदयानि भवन्ति । वज्र जः ज्जः ॥ वज्र हूं हूम् ॥ वज्र वं वम् ॥ वज्र अः अः ॥ इनितिअतिओनिन्तो थे मन्दल अथास्मिन् वज्रकुलगुह्यमण्डले प्रवेशविधिविस्तरो भवति । तत्रादित एव तावत्त्रिलोकविजयमहामण्डलप्रवेशविधिना प्रविश्य, वज्रगुह्यवज्रकुलसमयमुद्राप्रतिमुद्रोपमुद्राज्ञानमुद्राभिः वज्रधरपूजार्थ नृत्योपहारः कर्तव्य इति । तत्रेदं नृत्यप्रतिनृत्योपनृत्यज्ञाननृत्योपहारमुद्राज्ञानं भवति । [तत्रादित एव वज्रधातुसंग्रहहृदयं वज्रगीतेन गायन् सर्वतथागतानां स्तोत्रोपहारङ्कृत्वा, वज्राचार्येण सत्ववज्रिमुद्रा स्फोटयितव्या, ततो यथा प्र[विष्ट]मुद्राभिः समाविशन्ति । वज्रनृत्यप्रयोगेण वज्रक्रोधाङ्गुलिद्वयम् । वज्रहुंकारमुद्रां तु हृदये तु निबन्धयेत् ॥ १ ॥ ततस्तु नृत्यविधि[ना वज्र]क्रोधाङ्कुशेन तु । आकर्षयत्सर्वबुद्धान् वज्रवाणां परिक्षिपेत् ॥ २ ॥ वज्रवाणपरिक्षेपाद्वज्रतुष्ट्या तु साधयेत् । मुक्त्वा मुद्रां यथा[विधि]तालया चैव बन्धयेत् ॥ ३ ॥ अनेन पूजाविधिना वज्रपाणिन्तु तोषयेत् । तुष्टः सत्सर्वकार्याणि साधयेद्रुचितः क्षणात् ॥ ४ ॥ तत्रैतानि नृत्यहृदयानि भवन्ति । सिद्ध्य वज्र ॥ आनय वज्र ॥ रागय वज्र ॥ साधु वज्र ॥ ततः प्रतिनृत्योपहारः कर्तव्यः । तथैव नृत्यन् वामां तु गृह्य दक्षिणमुष्टिना । परिवर्त्य ललाटो तु निवेश्याग्र्या मुखेन तु ॥ १ ॥ तथैव नृत्यं सूर्यान्तु परिवर्त समाव्हयेत् । वज्रकेतुं समुत्क्षिप्य हसेद्वज्राट्टहासया ॥ २ ॥ अनेन पूजाविधिना राजादीन् सर्वमानुषान् । वशित्वाच्च सुतेजस्त्वाद्दानाच्चाशाच्च तोषयेत् ॥ ३ ॥ तत्रैतानि प्रतिमुद्राहृदयानि भवन्ति । आहि वज्र ॥ ज्वालय वज्र ॥ देहि वज्र ॥ हस हस वज्र ॥ तथैव नृत्यं मुक्त्वा तु समकुड्मलसन्धिते । अग्राङ्गुली हृदि स्थाप्य नमेदाशयकंपितैः ॥ १ ॥ तथैव नृत्यं छिन्देद्वै वज्रकोशेन नाशकान् । अलातचक्रभ्रमया भ्रामयेच्चक्रमण्डलन् ॥ २ ॥ गायन् वै वज्रवाचा तु पूजयेद्वज्रपाणिनम् । अनेन पूजाविधिना सर्व भवति शाश्वतम् ॥ ३ ॥ तत्रैतान्युपमुद्राहृदयानि भवन्ति ॥ कामय वज्र ॥ च्छिन्दय वज्र ॥ भ्रामय वज्र ॥ ब्रूहि वज्र ॥ वज्रक्रोधाङ्गुली सम्यगुत्तानमुखसन्धिता । परिवर्त्य तथोष्णीषे तर्जनी मुखसंस्थिता ॥ १ ॥ वज्रकर्मप्रयोगेण सर्वकार्याग्रमण्डलम् । दर्शयन्नृत्यविधिना हृदये प्रतिशामयेत् ॥ २ ॥ तथैव नृत्यविधिना वज्ररक्षां तु बन्धयेत् । वज्रदंष्ट्रे समाधाय वज्रमुष्ट्या तु पीडयेत् ॥ ३ ॥ अनेन पूजाविधिना सर्वकर्मक्षमो भवेत् । कृत्वा चतुर्विधां पूजां मुद्रां मुञ्चेद्यथाविधिर् ॥ इति ॥ ४ ॥ तत्रैतानि हृदयानि भवन्ति । नृत्य वज्र ॥ रक्ष वज्र ॥ खाद वज्र ॥ बन्ध वज्र ॥ ततः क्रोधगुह्यमुद्राज्ञानं शिक्षयेत् । वज्रं गृह्य तु पाणिभ्यां स्फोटयेत्क्रुद्धमानसः । यस्य नाम्ना तु हृदयं स्फुटेत्तस्य जनस्य हि ॥ १ ॥ अधोष्ठं दशनैर्गृह्य यस्य नाम्ना तु पीडयेत् । शिरस्तस्य स्फुटेच्छीघ्रं यद्याज्ञां समतिक्रमेत् ॥ २ ॥ वज्रक्रोधमहादृष्ट्या चक्षुषी तु निमीलयेत् । निरीक्षत्यस्य नाम्ना तु स्फुटेतेतस्य चाक्षिणी ॥ ३ ॥ वज्रक्रोधसमापत्त्या हृदयं स्वयमात्मना । पीडयेद्वज्रबन्धेन तस्य चित्तं परिस्फुटेद् ॥ इति ॥ ४ ॥ तत्रैतानि हृदयानि भवन्ति । हुं वज्रस्फोट ठः ॥ हुं मुखवज्र ठः ॥ हुं वज्रनेत्र ठः ॥ हुं मनोवज्र ठः ॥ ततो महावज्रकुलगुह्यमुद्राज्ञानं शिक्षयेत् । तत्र प्रथमं तावन्महामुद्राबन्धो भवति । कनिष्ठाङ्कुशबन्धेन वज्रक्रोधान्निवेशयेत् । वामत्रिशूलपृष्ठे तु त्रिलोकविजया स्मृता ॥ १ ॥ सुप्रसारितवामाग्र्या तथैवोत्तानवारिजा । परिवर्त्य तथा चैव वामवज्रा प्रतिष्ठिते ॥ ति ॥ २ ॥ वज्रबन्धन्तले कृत्वा च्छादयेत्क्रुद्धमानसः । गाढमङ्गुष्ठवज्रेण क्रोधतेरिन्तिरिः स्मृता ॥ ३ ॥ कुञ्चिताग्र्याङ्कुशी चैव तर्जनीमुखवज्रिणी । साधुकारा तथाग्र्याभ्यामग्रवज्रा मुखस्थिता ॥ ४ ॥ हृदये सूर्यसंदर्शा समाग्र्या मूर्ध्नि संस्थिता । परिवर्त्य स्मितस्था तु समाग्र्या कुड्मला तथा ॥ ५ ॥ खङ्गमुष्टिग्रहद्वाभ्यामग्र्या चक्रा निबन्धनः । समाग्र्या मुखतोद्धान्ता तर्जनी संप्रसारिता ॥ ६ ॥ तर्जनी गले बन्धा तु ताभ्यां दंष्ट्रा मुखस्थिता । गाढमुष्टिनिबन्धाश्च महामुद्राः प्रकल्पिता ॥ ७ ॥ इति ॥ अथ वज्रकुलगुह्यसमयमुद्राबन्धो भवति । गुह्यमुष्टिसमुद्भूताः समयाग्र्यः प्रकीर्तिताः । तासां बन्धं प्रवक्ष्यामि वज्र[बन्ध]मनुत्तरम् ॥ १ ॥ हृदिस्था वलिता पार्श्वे वाणाकर्षा तु वामतः । हृदयाच्च समुद्धान्ता भृकुटिः परिवर्त्य वै ॥ २ ॥ सूर्यमण्डलसंदर्शा मूर्ध्नि बाहुप्रसारिता । परिवर्त्य स्मितस्था तु मुखमध्यसुसंस्थिता ॥ ३ ॥ कोशग्रप्रहराकारा चक्रनिक्षेपदर्शिका । मुखतश्च समुद्धान्ता मूर्ध्नि कायाग्रमण्डला ॥ ४ ॥ स्कन्धयोर्हृदि पार्श्वाभ्यां वज्ररक्षाकृतिस्तथा । दंष्ट्रासंस्थानयोगाच्च गाढमुष्टिनिपीडिता ॥ ५ ॥ बाह्यमण्डलमुद्रास्तु बन्धेच्चिह्नानुसारतः । समया वज्रबन्धेन तथास्या वज्रमुष्टिना ॥ ६ ॥ इति ॥ अथ वज्रकुलगुह्यधर्ममुद्रा भवन्ति । फ ट्टः । श ट्टः । म ट्टः । स ट्टः । र ट्टः । त ट्टः । घृ ट्टः । ह ट्टः । प ट्टः । त्र ट्टः । क ट्टः । ध ट्टः । कु ट्टः । रि ट्टः । ख ट्टः । व ट्टः ॥ अथ वज्रकुलगुह्यकर्ममुद्राबन्धो भवति । कर्ममुद्राः समासेन वज्रमुष्टिर्द्विधीकृता । यथा स्थानेषु संस्थेया क्रोधदुष्ट्या सुरोषवान् ॥ इति ॥ सर्वतथागतवज्रसमयान्महाकल्पराजात्क्रोधगुह्यमुद्रामण्डलविधिविस्तरः परिसमाप्तः ॥ छप्तेर्८ वज्र-कुल-धर्म-ज्नन-समय-मन्दल-विधि-विस्तर एमनतिओनोf देइतिएस्fरों समधि अथ भगवान् पुनरपि सर्वतथागतवज्रकुलसमाधिज्ञानमुद्राधिष्ठानं नाम समाधिं समापद्येमं सविद्योत्तममभाषतों सर्वतथागतसूक्ष्मवज्रक्रोध हूं फट् । अथ वज्रपाणिर्महाक्रोधराजा त्रिलोकविजयसूक्ष्मवज्रविद्योत्तममभाषतों सूक्ष्मवज्रक्रोधाक्रम हूं फट् ॥ अथ वज्रगर्भो [बोधि]सत्व इमं त्रिलोकविजयसूक्ष्मवज्रविद्योत्तमभाषतों सूक्ष्मवज्ररत्नाक्रम हूं फट् ॥ अथ वज्रनेत्रो बोधिसत्व इमं त्रिलोकविजयसूक्ष्मवज्रविद्योत्तममभाषतों सूक्ष्मवज्रपद्मक्रोधाक्रम हूं फट् ॥ अथ वज्रविश्वो बोधिसत्व इमं त्रिलोकविजयसूक्ष्मवज्रविद्योत्तममभाषतों सूक्ष्मवज्रकर्मक्रोधाक्रम हूं फट् ॥ अथ वज्रपाणिर्महाबोधिसत्वः पुनरपि स्वकुलमुत्साद्य, वज्रधातुमहामण्डलयोगेन सन्निवेश्यैतानि स्वहृदयान्यभाषत् । ओं वज्रसत्व सूक्ष्मज्ञान क्रोध हूं फट् ॥ १ ॥ ओं सूक्ष्मवज्राङ्कुशाकर्षय महाक्रोध हूं फट् ॥ २ ॥ ओं वज्रसूक्ष्मरागक्रोधानुरागय तीव्रं हूं फट् ॥ ३ ॥ ओं सूक्ष्मवज्रतुष्टिक्रोध हूं फट् ॥ ४ ॥ ओं सूक्ष्मवज्रभृकुटिक्रोध हर हर हूं फट् ॥ ५ ॥ ओं वज्रसूक्ष्मज्वालामण्डलक्रोध सूर्य ज्वालय हूं फट् ॥ ६ ॥ ओं सूक्ष्मवज्रध्वजाग्रक्रोध सर्वार्थान्मे प्रयच्छ शीघ्रं हूं फट् ॥ ७ ॥ ओं वज्रसूक्ष्महासक्रोध ह ह ह ह हूं फट् ॥ ८ ॥ ओं सूक्ष्मवज्रधर्मक्रोध शोधय हूं फट् ॥ ९ ॥ ओं सूक्ष्मवज्रच्छेदक्रोध छिन्द भिन्द हुं फट् ॥ १० ॥ ओं सूक्ष्मवज्रक्रोध महाचक्र छिन्द पातय शिरः प्रविश्य हृदयं भिन्द हूं फट् ॥ ११ ॥ ओं सूक्ष्मवज्रहूंकारक्रोध हन पातय वाङ्मात्रेण हूं फट् ॥ १२ ॥ ओं सूक्ष्मवज्रकर्मक्रोध सर्वकर्मकरो भव सर्वकार्याणि साधय हूं फट् ॥ १३ ॥ ओं वज्रसूक्ष्मकवचक्रोध रक्ष रक्ष हूं फट् ॥ १४ ॥ ओं सूक्ष्मवज्रयक्षक्रोध हन भक्षय सर्वदुष्टान् चिन्तितमात्रेण वज्रदंष्ट्र हूं फट् ॥ १५ ॥ ओं सूक्ष्मवज्रमुष्टिक्रोध बन्ध बन्ध हूं फट् ॥ १६ ॥ देलिनेअतिओनोf थे मन्दल अथ वज्रापाणिः पुनरपीदं वज्रकुलसूक्ष्मज्ञानसमयमण्डलमुदाजहार । अथातः संप्रवक्ष्यामि धर्ममण्डलमुत्तमम् । वज्रधातुप्रतीकाशं क्रोधज्ञानमिति स्मृतम् ॥ १ ॥ महामण्डलयोगेन सूत्रयेत्सर्वमण्डलम् । तस्य मध्ये लिखेद्बुद्धं ज्ञानवज्रस्य मध्यगम् ॥ २ ॥ बुद्धस्य सर्वपार्श्वेषु मुद्रास्ता एव संलिखेत् । वज्रवेगेन निष्क्रम्य मण्डलानां चतुष्टये ॥ ३ ॥ त्रिलोकविजयाभ्यांस्तु यथावत्तु निवेशयेत् । तेषां तु सर्वपार्श्वेभ्यो वज्रक्रोधान् यथाविधिर् ॥ ४ ॥ इति ॥ इनितिअतिओनिन्तो थे मन्दल अथात्र वज्रकुलसूक्ष्मज्ञानमण्डले यथावद्विधिविस्तरो भवति । तत्रादित एव तावत्प्रवेश्य ब्रूयाद्"अद्य त्वं सर्वतथागतवज्रक्रोधतायां वज्रपाणिना भगवताभिषि[क्तं] तत्साधु; प्रतिपद्यस्वाशेषानवशेषसत्वधातुपरित्राण यावत्सर्वतथागतहितसुखोत्तमसिद्ध्यवाप्तिफलहेतोर्वज्रक्रोधे[ण सर्व]सत्वानपि संशोधननिमित्तं मारयितुं; कः पुनर्वादः सर्वदुष्टान्" इति । इदमुक्त्वा मुखबन्धं मुञ्चेत् । ततः सर्वमण्डलं दर्शयित्वा, [वज्रं] यथावत्पाणौ दत्वा, ततो वज्रक्रोधसूक्ष्मज्ञानानि शिक्षयेत् । सूक्ष्मवज्रं दृढीकृत्य वज्रहुंकारयोगतः । हुंकारं योजयेद्यस्य तस्य नश्यति जीवितम् ॥ १ ॥ सूक्ष्मवज्रं दृढीकृत्य स्फरयेत यथाविधि । यावत्तः स्फरते तं तु तावन्नश्यत्यसौ रिपुः ॥ २ ॥ सूक्ष्मवज्रविधिं योज्य वज्रहुंकारयोगतः । स्फरयेत्क्रोधवान् यावत्तावत्सत्वान् विनाशयेत् ॥ ३ ॥ तथैव संहरेत्तत्तु यावदिच्छेत योगवान् । सर्वं वापि हि निःशेष पुनरदयात्तु जीवितम् ॥ ४ ॥ ॥ इति ॥ तत्रैषां हृदयानि भवन्ति । हुम् ॥ हुंनाशय वज्र ॥ हुं विनाशय सर्वान् वज्र ॥ ओं सूक्ष्मवज्र प्रत्यानय शीघ्रं हुम् ॥ वज्रं तु यस्य सत्वस्य सहभूत्वा महादृढम् । मैत्रीस्फरणतायोगात्स्फरन् वैरेण नाशयेत् ॥ १ ॥ वैरस्फरणतायोगात्कारुण्यं यस्य कस्यचित् । तेन कारुण्ययोगेन सर्वदुष्टान् स नाशयेत् ॥ २ ॥ अधर्मा यदि वा धर्माः प्रकृत्या तु प्रभास्वराः । एवं तु भावयं सत्वां हुंकारेण तु नाशयेत् ॥ ३ ॥ दुर्दुरूटा हि ये सत्वा बुद्धबोधावभाजनाः । तेषां तु संशोधनार्थाय हुंकारेण तु नाशयेत् ॥ ४ ॥ तत्रैषां हृदयानि भवन्ति । वैर वज्रक्रोध हुं फट् ॥ करुणा वज्रक्रोध हुं फट् ॥ हुं विशुद्ध वज्रक्रोध हूं फट् ॥ हुं विशोधन वज्रक्रोध हूं फट् ॥ वज्रबिम्बं समालिख्य मनसा यस्य कस्यचित् । पातयेद्गृहमध्ये तु तस्य तन्नश्यते कुलम् ॥ १ ॥ तथैव सूक्ष्मविधानेन हृद्वज्रं परिभावयेत् । बोधिसत्वमहाबिम्बं पातयेन्नाशयेत्कुलम् ॥ २ ॥ वज्रपाणिमहाबिम्बं भावयन् यत्र पातयेत् । तद्राज्यं विविधैर्दोषै राज्ञैव सह नश्यति ॥ ३ ॥ सर्वाकारवरोपेतं बुद्धबिम्बं तु भावयन् । पातयेद्यत्र राज्ये तु तद्राज्यन्नश्यते ध्रुवम् ॥ ४ ॥ इति ॥ तत्रैतानि हृदयानि भवन्ति । हुं वज्र प्रपात ॥ हूं बोधिसत्त्व प्रपात ॥ हूं वज्रधर प्रपात ॥ हूं बुद्ध प्रपात ॥ सूक्ष्मवज्रप्रयोगेण चन्द्रबिम्बं स्वमात्मना । भावयं स्वयमात्मानं पतेद्यत्र पतेत्स तु ॥ १ ॥ चन्द्रे वज्रं स्वमात्मानं भावयं स्वयमात्मना । पतेद्यत्र सुसंक्रुद्धस्तत्कुलं पतति क्षणात् ॥ २ ॥ वज्रपाणिं स्वमात्मानं भावयं स्वयमात्मना । पतेद्यत्र हि तं देशमचिराद्विप्रणंक्ष्यते ॥ ३ ॥ बुद्धबिम्बं स्वमात्मानं भावयं स्वयमात्मना । पतेद्यत्र तु तद्राज्यमचिरेणैब नश्यति ॥ ४ ॥ इति ॥ तत्रैतानि हृदयानि भवन्ति । बोध्यग्र प्रपातय हुम् ॥ सर्ववज्र प्रपातय हुम् ॥ वज्रसत्व प्रपातय हुम् ॥ बुद्ध प्रपातय हुम् ॥ मुद्र ततो वज्रकुलधर्मरहस्यमुद्राज्ञानं शिक्षयेत् । वज्र[क्रोधसमाप]त्या स्वकायं परिवेष्टयेत् । यस्य नाम्ना स म्रियते संवेष्टन् वज्रहुंकृतः ॥ १ ॥ सूक्ष्मवज्रं समापद्य सूक्ष्मनासिकया सकृतः । श्वासहुंकारयोगेन त्रयोक्यमपि पातयेत् ॥ २ ॥ सूक्ष्मवज्रविधिं योज्य क्रुद्धः सन् वज्रदृष्टितः । निरीक्षन्नन्धतां याति मरणं वातिगच्छति ॥ ३ ॥ भगेन तु प्रविष्ट्या वै मनसा यस्य कस्यचित् । हृदयाकर्षणाद्याति वशं स्वं वा यमस्य वे- ॥ इति ४ ॥ तत्रैषां हृदयानि भवन्ति । हुं वज्र वलित क्रोध मारय हुं फट् ॥ ओं वज्र सूक्ष्म श्वास विषं पातय हुं फट् ॥ ओं वज्र दृष्टि विषं नाशय हुं फट् ॥ हुं हृदयाकर्षण क्रोध प्रविश कायं हृदयं च्छिन्द भिन्द कड्ढाकड्ढ फट् ॥ ततो वज्रकुलधर्ममुद्राज्ञानं शिक्षयेत् । तत्र तावन्महामुद्राबन्धो भवति । वज्रज्ञानप्रयोगेण ज्वालामालाकुलप्रभान् । वज्रक्रोधान् स्वमात्मानं भावयं सिद्ध्यति क्षणाद् ॥ इति ॥ ततो वज्रकुलधर्मसमयमुद्राज्ञानं शिक्षयेत् । समाधिज्ञानसमया द्वि-हुं-कारसमन्धिता । यथा स्थानेषु संस्थेया सर्वसिद्धिप्रदावरम् ॥ इति ॥ ततो वज्रकुलधर्मसमयधर्ममुद्राज्ञानं शिक्षयेत् । फट्सट्मट्सट्रट्तट्धृठट् पट्त्रट्घट्भट्कृट्रिट्खट्वट् इति च प्रोक्ता धर्ममुद्राः समासत इति ॥ ततो वज्रकुलधर्मसमयकर्ममुद्राज्ञानं शिक्षयेत् । धर्ममुष्टिं द्विधीकृत्य यथा स्थानप्रयोगतः कर्ममुद्राः समासेन सिद्धिं यान्ति यथाविधिर् ॥ इति ॥ सर्वतथागतवज्रसमयान्महाकल्पराजाद्वज्रकुलधर्मज्ञानसमयमण्डलविधिविस्तरः समाप्तः ॥ छप्तेर्९ वज्र-कुल-कर्म-मन्दल-विधि-विस्तर एमनतिओनोf देइतिएस्fरों समधि अथ भगवान् सर्वतथागतवज्रकर्मसमयसंभवाधिष्ठानन्नाम समाधिं समापद्येमां स्वविद्योत्तमामभाषतों सर्वतथागत कर्मेश्वरि हूम् ॥ अथ वज्रपाणिर्महाबोधिसत्वः पुनरपीमां स्वविद्योत्तमामभाषतों सर्वतथागतधर्मधातुस्फरणमहापूजाकर्मविधिविस्तरसमये त्रिलोकविजयंकरि सर्वदुष्टान् दामय वज्रिणि हूम् ॥ अथ वज्रगर्भो बोधिसत्वः पुनरपीमां स्वविद्योत्तमामभाषतों सर्वतथागताकाशधातुसमवसरणमहापूजाकर्मविधिविस्तरसमये हूम् ॥ अथ वज्रनेत्रो बोधिसत्वः पुनरपीमां स्वविद्योत्तमामभाषतों सर्वतथागतधर्मधातुस्फरणमहापूजाकर्मविधिविस्तरसमये हूम् ॥ अथ वज्रविश्वो बोधिसत्वः पुनरपीमां स्वविद्योत्तमामभाषतों सर्वतथागतसर्वलोकधातुविविधमहापूजाकर्मविधिविस्तरसमये हूम् ॥ अथ वज्रपाणिर्महाबोधिसत्वः पुनरपि स्वकुलपूजाविधिविस्तरदेवताः स्वहृदयादुत्पाद्य, सर्वलोकधातुषु सर्वतथागताकर्षणवशीकरणानुरागणसर्वकर्मसिद्धिकार्यकरणतासन्नियोजनादीनि सर्वतथागतर्द्धिविकुर्वितानि कृत्वा, पुनरपि भगवतो वैरोचनस्य वज्रधातुमहामण्डलयोगेन चण्द्रमण्डलान्याश्रित्यावस्थिता इति । देलिनेअतिओनोf थे मन्दल अथ वज्रपाणिर्महाबोधिसत्व इदं वज्रकर्मसमयविधिविस्तरकर्ममण्डलमभाषत् । अथातः संप्रवक्ष्यामि कर्ममण्डलमुत्तमम् । वज्रधातुप्रतीकाशं कर्मवज्रमिति स्मृतम् ॥ १ ॥ महामण्डलयोगेन सूत्रयेत्सर्वमण्डलम् । मध्यमण्डलसंस्थेषु बुद्धबिम्बन्निवेशयेत् ॥ २ ॥ बुद्धस्य सर्वपार्श्वेषु समयाग्र्यो निवेशयेत् । वज्रवेगैः समाक्रम्य मण्डलानां चतुष्टये ॥ ३ ॥ चत्वारो वज्रनाथाद्या यथावत्तु निवेशयेत् । तेषां सर्वेषु पार्श्वेषु महासत्व्यो निवेशयेद् ॥ ४ ॥ इति ॥ अथात्र कर्ममण्डले वज्रकर्ममुद्रा भवन्ति । ओं वज्रसत्वसिद्धिज्ञानसमये हुं ज्जः ॥ १ ॥ ओं वज्राकर्षणकर्मज्ञानसमये हुं ज्जः ॥ २ ॥ ओं वज्ररतिरागकर्मज्ञानसमये हुं ज्जः ॥ ३ ॥ ओं वज्रसाधुकर्मज्ञानसमये हुं ज्जः ॥ ४ ॥ ॥ ओं वज्रभृकुटी वशीकुरु हुम् ॥ ५ ॥ ओं वज्रसूर्यमण्डले वशीकुरु हुम् ॥ ६ ॥ ओं वज्रध्वजाग्रकेयूरे वशीकुरु हुम् ॥ ७ ॥ ओं वज्राट्टहासे वशीकुरु हुम् ॥ ८ ॥ ओं वज्रपद्मरागे रागय हुम् ॥ ९ ॥ ओं वज्रतीक्ष्णरागे रागय हुम् ॥ १० ॥ ओं वज्रमण्डलरागे रागय हुम् ॥ ११ ॥ ओं वज्रवाग्रागे रागय हुम् ॥ १२ ॥ ओं वज्रकर्मसमये पूजय हुम् ॥ १३ ॥ ओं वज्रकवचबन्धे रक्षय हुम् ॥ १४ ॥ ओं वज्रयक्षिणि मारय वज्रदंष्ट्राया भिन्द हृदयममुकस्य हुं फट् ॥ १५ ॥ ओं वज्रकर्ममुष्टि सिद्ध्य सिद्ध्य हुं फट् ॥ १६ ॥ रितुअल् अथात्र कर्ममण्डले यथावद्विधिविस्तरं कृत्वा, वज्रकुलकर्मज्ञानान्युत्पादयेत् । तत्रादित एव शान्तिकर्मादिज्ञानं शिक्षयेत् । समिद्भिर्मधुरैरग्निं प्रज्वाल्य सुसमाहितः । वज्रक्रोधसमापत्त्या तिलां हुत्वा अघान्दहेत् ॥ १ ॥ तैरेव तु समिद्भिस्तु प्रज्वाल्य तु हुताशनम् । तण्डुलांस्तु जुह्वन्नित्यं गृहपुष्टिर्भवेद्ध्रुवम् ॥ २ ॥ समिद्भिर्मधुरैश्चापि अग्निं प्रज्वाल्य पण्डितः । दूर्वाप्रवालां सघृतान् जुह्वन्नायुः प्रवर्धते ॥ ३ ॥ तैरेव तु समिद्भिस्तु प्रज्वाल्य तु हुताशनम् । कुशप्रवालांस्तैलेन जुह्वन् रक्षा तु शाश्वतम् ॥ इति ॥ ४ ॥ अथैषां हृदयमन्त्राणि भवन्ति । ओं सर्वपापदहनवज्राय स्वाहा ॥ ओं वज्रपुष्टये स्वाहा ॥ ओं वजायुषे स्वाहा ॥ ओमप्रतिहतवज्राय स्वाहा ॥ समिद्भिः कडकैः पूर्व वज्रक्रोधसमाधिना । अग्निं [प्रज्वाल्य] कुञ्जैस्तु कण्टकैरभिकर्षितः ॥ १ ॥ तैरेव तु समिद्भिस्तु प्रज्वाल्याग्निं सुरोषवान् । रक्तपुष्पफलान् चापि जुह्वन् रागयते जगत् ॥ २ ॥ समि[द्भिरपि]कुपितो ह्यग्निं प्रज्वाल्य योगवान् । अयोरजांसि हि जुह्वन् वज्रबन्धो भविष्यति ॥ ३ ॥ तैरेव तु समिद्भिस्तु प्रज्वाल्याग्निं समाहितः । जुहेत्तिक्तफलं क्रोधान्मारिमुत्पादयेत्क्षणात् ॥ ४ ॥ तत्रैषां हृदयानि भवन्ति । हुं वज्राकर्षय स्वाहा ॥ हुं वज्र रागय स्वाहा ॥ हुं वज्र बन्धाय स्वाहा ॥ हुं वज्र मारणाय स्वाहा ॥ समिद्भिरमलैः प्रज्वाल्य ऋद्धो हुतभुजं बुधः । होममाम्लफलैः पुष्पैर्वशीकरणमुत्तमम् ॥ १ ॥ तैरेव तु समिद्भिस्तु प्रज्वाल्याग्निं समाहितः । जुहुयात्कामफलां कुद्धः कामरूपित्वमाप्नुयात् ॥ २ ॥ समिद्भिस्तादृशैरेव प्रज्वाल्य तु हुताशनम् । काण्डान्यदृश्यपुष्पाणां जुह्वं रुच्या न दृश्यते ॥ ३ ॥ तैरेव तु समिद्भिस्तु प्रज्वाल्याग्निं समाहितः । आकाशवल्लीपुष्पाणि जुह्वन्नाकाशगो भवेद् ॥ इति ॥ ४ ॥ तत्रैषां हृदयानि भवन्ति । ओं वज्रवशंकराय स्वाहा ॥ ओं कामरूपवज्राय स्वाहा ॥ ओमदृश्यवज्राय स्वाहा ॥ ओं वज्रखचारिणी स्वाहा ॥ समिद्भिस्तिक्तवीर्यैस्तु प्रज्वाल्याग्निं समाहितः । वज्रिपुष्पा जुहेत्क्रुद्धो वज्रमाज्ञाकरं भवेत् ॥ १ ॥ तैरेवं तु समिद्भिस्तु प्रज्वाल्याग्निं सुरोषवान् । यस्य सौरे जुहेन्माल्यं सोऽप्याज्ञाकरतां वज्रेत् ॥ २ ॥ समिद्भिस्तैस्तु संक्रुद्धः प्रज्वाल्याग्निं समाहितः । वज्रपाणेर्जुहेन्माल्यं सोऽप्याज्ञाकरतां व्रजेत् ॥ ३ ॥ तैरेव तु समिद्भिस्तु प्रज्वाल्याग्निं सुरोषितः । चीवराणि जुहेत्बुद्धो यात्याज्ञाकरतां क्षणात् ॥ ४ ॥ तत्रैषां हृदयानि भवन्ति ॥ हुं वज्रवशंकराय स्वाहा ॥ हुं सौरिवशंकरवज्राय स्वाहा ॥ हुं वज्रपाणिवशंकराय स्वाहा ॥ हुं बुद्धवशंकरवज्राय स्वाहा ॥ मुद्र ततो रहस्यकर्ममुद्राज्ञानं शिक्षयेत् । प्रियया तु स्त्रिया सार्ध संवसंस्तु भगेऽञ्जनम् । प्रक्षिप्य घट्टयेत्तत्र तेनांज्याक्षी वशं नयेत् ॥ १ ॥ मनःशिलां भग विध्वा वज्रबन्धेन तां पिघेत् । चतुर्विधैर्निमित्तैस्तु सिद्धिश्चापि चतुर्विधा ॥ २ ॥ रोचनां तु भगे स्थाप्य गुह्यमुष्ट्या निपीडयेत् । [स्था]पितं ज्वालते तत्र भवेद्वज्रधरो समः ॥ ३ ॥ कुङ्कुमं तु भगे विध्वा तद्भगं सत्ववज्रया । च्छादितं ज्वालते तन्तु भवेद्वज्रधरो सम ॥ इति ॥ ४ ॥ तत्रैषां हृदयानि भवन्ति । ओं वज्रगुह्य रतिवशंकर सिध्य हुम् ॥ ओं वज्रगुह्य सिध्य हुम् ॥ ओं गुह्यवज्र सिध्य हुम् ॥ ओं वज्रधरगुह्य सिध्य हुम् ॥ ततो वज्रकुलकर्ममहामुद्राज्ञानं शिक्षयेत् । वज्रकार्यप्रयोगेण महामुद्राः समासतः । वज्रक्रोधसमापत्त्या वज्रमुष्टिप्रयोगतः ॥ १ ॥ ॥ समयाग्र्यस्तथैवेहहुंकाराङ्गु लियोगतः । धर्ममुद्रास्तथैवेह ओंकाराद्यै आक्षरैः ॥ २ ॥ कर्ममुद्राः समासेन कर्ममुष्टिद्विधीकृता । सर्वसिद्धिकरा शुद्धा वज्रकर्मप्रयोगतः ॥ ३ ॥ सर्वतथागतवज्रसमयात्महाकल्पराजाद्वज्रकुलकर्ममण्डलविधिविस्तरः समाप्तः ॥ छप्तेर्१० मह-कल्प-विधि-विस्तर एमनतिओनोf देइतिएस्fओर्ं समधि अथ भगवान् पुनरपि सर्वतथागतवज्रसमयमुद्राधिष्ठानं नाम समाधिं समापद्येमां सर्वविद्योत्तममभाषतों सर्वतथागतवज्रसमये हूम् ॥ अथ वज्रपाणिर्महाबोधिसत्व इमां स्ववज्रससयमुद्रामभाषथुं वज्रि मट् ॥ अथ वज्रगर्भो बोधिसत्व इमां स्वरत्नसमयमुद्रामभाषथुं भृकुटिवज्रे रट् ॥ अथ वज्रनेत्रो बोधिसत्वो महासत्व इमां स्वधर्मसमयमुद्रामभाषथूं पद्मवज्रि त्रिट् ॥ अथ वज्रविश्वो बोधिसत्त्वो महासत्व इमां स्वकर्मसमयमुद्रामभाषथूं वज्रकर्माग्रि कृट् ॥ देलिनेअतिओनोf थे मन्दल अथ वज्रपाणिर्महाबोधिसत्वः पुनरपीदं त्रिलोकविजयचतुर्मुद्रामण्डलमभाषत् । अथातः संप्रवक्ष्यामि मुद्रामण्डलमुत्तमम् । वज्रधातुप्रतीकाशं क्रोधवज्रमिति स्मृतम् ॥ १ ॥ महामण्डलयोगेन सूत्रयेत्सर्वमण्डलम् । त्रिलोकविजयाद्यांस्तु लिखेद्बुद्धस्य सर्वत ॥ इति ॥ २ ॥ मुद्र अथात्र चतुर्मुद्रामण्डले महामण्डलयोगेनाकर्षणादिविधिविस्तरंकृत्वा प्रवेश्य चतुर्मुद्रामण्डलं गुह्यमुद्राज्ञानं शिक्षयेत् । स्वयं लिख्य चतुर्मुद्रामण्डलं शुद्धधर्मताम् । उच्चारयं स्त्रिया सार्धं संवसं सिद्धिराप्यते ॥ १ ॥ स्वयं लिख्य चतुर्मुद्रामण्डलं शुद्धधर्मताम् । उच्चारयन् रागेण स्त्रीं निरीक्षं सिद्धिराप्यते ॥ २ ॥ स्वयं लिख्य चतुर्मुद्रामण्डलं शुद्धधर्मताम् । प्रवर्तयं स्त्रियं कान्तां परिचुम्बंस्तु सिध्यति ॥ ३ ॥ स्वयं लिख्य चतुर्मुद्रामण्डलं शुद्धधर्मताम् । उच्चारयं समालिङ्गेत्सर्वसिद्धिरवाप्यते ॥ ४ ॥ तत्रैताः शुद्धधर्मतामुद्रा भवन्ति । ओं सर्वतथागतविशुद्धधर्मते होः ॥ ओं वज्रविशुद्धदृष्टि ज्जः ॥ ओं स्वभावविशुद्धमुखे हुम् ॥ ओं सर्वविशुद्धकायवाङ्मनःकर्मवज्रि हन् ॥ ततश्चतुर्मुद्रामण्डलगुह्यरहस्यमुद्रां शिक्षयेत् । प्रविश्य मण्डलमिदं पञ्चभिः कामसद्गुणैः । रमयन् परदाराणि सुतरां सिद्धिमाप्नुते ॥ अथास्या हृदयं भवति हो वज्रकाम ॥ ततो यथावद्वज्राक्रान्तित्रिशूलमुद्राद्याः चतस्रः समयमुद्राः सविधिविस्तराः शिक्षयित्वा, तेन चतुर्मुद्राप्रयोगेण वज्रवाद्यतूर्यतालान्निर्यात्य, वज्रसत्वसंग्रहहृदयगीतिं गायता मुद्राप्रतिमुद्रोपमुद्राज्ञानमुद्राभिर्नृत्योपहारपूजा कार्यति । तत्रेयं नृत्योपहारपूजा भवति । वज्रनृत्यप्रयोगेण वज्रक्रोधाङ्गु लिद्वयम् । वज्रहुंकारमुद्रां तु हृद्ये तु निबन्धयेत् ॥ १ ॥ तथैव नृत्यन् वामां तु गृह्य दक्षिणमुष्टिना । परिवर्त्य ललाटो तु निवेश्याग्र्या मुखेन त ॥ २ ॥ ततैव नृत्यन्मुक्त्वा तु समकुड्मलसन्धिते । अग्र्याञ्जलिं हृदि स्थाप्य नमेदाशयकम्पितैः ॥ ३ ॥ वज्रक्रोधाङ्गुली सम्यगुत्तारमुखसन्धिते । परिवर्त्य तथोष्णीषे तु तर्जनी मुखसुस्थिता ॥ ४ ॥ इति ॥ इइ.६ एकमुद्रमन्दल अ[थ वज्रपा]णिर्महाबोधिसत्वः पुनरपीमं स्ववज्रसमयक्रोधसमयमभाषथुम् ॥ देलिनेअतिओनोf थे मन्दल अथास्य मण्डलं भवति । अथातः संप्रवक्ष्यामि गुह्यमण्डलमुत्तमम् । वज्रधातुप्रतीकाशं वज्रहुंकरसंज्ञितम् ॥ १ ॥ महामण्डलयोगेन बाह्यमण्डलमालिखेत् । तस्य मध्ये लिखेत्सम्यग्वज्रिणं चन्द्रमण्डले ॥ २ ॥ सवज्र वज्रहुंकारमहामुद्राकरग्रहम् । प्रत्यालीढसुसंस्थानं यथावद्वर्णरूपिणम् ॥ इति ॥ ३ ॥ मुद्र अथात्र गुह्यमण्डले सर्वसिद्धिविधिविस्तरं कृत्वा, वज्रहुंकारगुह्यमुद्राज्ञानमुदीरयेत् । प्रविश्य मण्डलमिदं त्रिलोकविजयाङ्गुलीम् । साधये तु भगे बिध्वा सर्वकर्म सुसिध्यति ॥ अथास्य साधनहृदयं भवति हुं वज्रसमय कृत ॥ ततो वज्रहुंकारहस्यसाधनमुद्राज्ञानं शिक्षयेत् । प्रविष्ट्वा मण्डलं सम्यग्महामुद्राग्रसंस्थितः । संवसन् वज्रहुंकारः सर्वकर्मकरो भवेद् ॥ इति ॥ तत्रास्याः साधनहृदयं भवति हुं वज्रसमय हुम् ॥ ततो यथावन्मुद्राबन्धचतुष्टयं शिक्षयेत् । तथैव सिद्धयः संभवन्तीति ॥ यथा मण्डले एवं पटादिषु लिखितानां सर्वप्रतिमास्वपि सामान्या सिद्धिरिति । अथ वज्रपाणिः सर्वतथागतानाहूयैवमाह । "अधितिष्ठत भगवन्तः सर्वतथागता ममे[दं कुलं ये च] सर्वसत्वा यथाकामकरणीयतया सर्वसिद्धीः प्राप्नुयुर्" इति ॥ अथ भगवन्तः सर्वतथागताः पुनः समाजमागम्यास्य त्रिलोकविजयकल्पस्याधिष्ठानायेदमूचुः । साधु ते वज्रसत्वाय वज्ररत्नाय साधु ते । वज्रधर्माय ते साधु साधु ते वज्रकर्मणे ॥ सुभाषितमिदं सूत्रं वज्रयानमनुत्तरम् । सर्वतथागतं गुह्यं महायानाभिसंग्रहम् ॥ इति ॥ सर्वतथागतवज्रसमयान्महाकल्पराजान्महाकल्पविधिविस्तरः समाप्तः ॥ छप्तेर्११ त्रिलोकचक्र-मह-मन्दल-विधि-विस्तर अथ भगवन्तः सर्वतथागताः पुनरपि समाजमापद्य जानन्नेव वज्रपाणिं महाबोधिसत्वमेवमाहुः । "प्रतिपद्यस्व वत्स सर्वतथागताज्ञाकारितयै इमं महेश्वरकायमतः स्वपादतालात्मोक्षुम्!" इति । अथ भगवां वज्रपाणिस्तांस्तथागतानेवमाह । "अहं भगवद्भिः सर्वदुष्टदमकः क्रोध इत्यभिषिक्तः । तन्मयायं व्यापादितः, तत्कथमस्य मोक्षामी?" ति । अथ सर्वतथागता महेश्वरस्य सर्वत्रिलोकाधिपतेः शरीरस्य जीवितसंजननहेतोरिदं मृतविज्ञानाकर्षणहृदयं स्वहृदये[भ्यो निश्चरन्ति ।] ओं वज्रसत्व हूं ज्जः ॥ अथास्य मुद्राबन्धो भवति । गुह्याङ्कुशी दृढीकृत्य समान्त्यासु प्रसारिता । मृतस्य मूर्ध्नि सन्धाय [पुनर्जीवितं प्राप्स्यत ॥ इति ॥] अथास्मिन् विनिःसृतमात्रे स भगवान् [भस्मेश्वरनिर्घोषस्] तथागतो भस्मच्छत्राया लोकधातोर्[आगम्य, तस्य] महेश्वर[स्य काये प्रविष्ट्वा, इदमुदानमुदानयामास ।] अहो हि सर्वबुद्धानां बुद्धाज्ञानमनुत्तरम् । यन्मृतोऽपि हि कायोऽयं जीवधातुत्वमागत ॥ इति ॥ [अथ वज्रपाणिर्] महाबोधिसत्व इदं पादोच्चारन्नाम हृदयमुदाजहार ओं वज्र मुः ॥ अथास्य मुद्राबन्धो भवति । वज्रक्रोधाङ्गुली[मुत्थापयित्वाग्रासङ्गं स्थिते ।] परिवर्त्य[द्वयोर्वज्रयोरधस्तात्समुद्धरेद् ॥ इति ॥] अथास्मिन् भाषितमात्रे महावज्रधरपादमूलान्महादेवो [मुक्तयित्वा पुनः संजीवीकृतः ।] अथ महेश्वर[कायं तेन तथागतेन सं]जीवमधिष्ठाय, स्वयौवराज्यतायामत्रैव लोकधातौ सर्वसत्व[हितार्थञ्च दुष्ट]विनयार्थं च प्रतिष्ठापितवानिति ॥ अथ ततो वज्रपाणि चरणतलादिमां चन्द्रपादान्नाम सर्वतथागतबोधिचित्तमुद्रां [विनिःसृतः ।] ओं चन्द्रोत्तरे समन्तभद्रकिरणी महावज्रिणि हूम् ॥ अथास्य मुद्राबन्धो भवति । वज्रबन्धं दृढीकृत्य कनिष्ठाङ्गुष्ठ[समोत्था । समोत्थित्वा सुसारिता चन्द्रप्रभेति] कीर्तिता ॥ अथास्यां विनिःसृतमात्रायां तत एव पादतलाच्चन्द्रोत्तर एव तथागतो [निश्चचार, तस्य महेश्वरस्य शिरे वज्रपाणि पादावक्रान्ते तदर्धचन्द्रमूर्धनभिषिक्तो, वज्रपाणेर्वामपार्श्वे स्थितः । ततः] सर्वतथागतै[र्वज्रपाणेर्मित्रस्य पाणौ] वज्रशूलं दत्वा, वज्रविद्योत्तमो वज्रविद्योत्तम इति वज्रनामाभिषेकेणाभिषिक्तः ॥ अथ वज्रविद्योत्तमो बोधिसत्त्वो [महासत्त्वश्च] तेन वज्रशूलेन चक्रपरिवर्तनगत्या नृत्योपहारपूजां कुर्वन्निदमुदानमुदानयामास । अहो हि सर्वबुद्धानां बोधिचित्तमनुत्तरम् । यत्पादाग्रस्पर्शेनापि बुद्धत्वं प्राप्यते मया ॥ इति ॥ अथ वज्रपाणिर्महाबोधिसत्वः, ततो वज्रक्रोधसमाधेर्व्युत्थाय, भगवन्तमे[तां वाचमुवाच] । "अहं भगवं सर्वतथागतैर्वज्रं पाणिभ्यां दत्वा वज्रपाणित्वेनाभिषिक्तः ॥ तदेषां देवादीनां बाह्यवज्रकुलानामस्मिं त्रिलोकविजयमहामण्डले स्थानविनियोगङ्करिष्यामि । येन ते सत्वा अवैवर्तिका भविष्यन्ति अनुत्तरायां सम्यक्संबोधाव्" इति ॥ अथ भग[वान् वैरोचनस्] तथागतोऽर्हन् सम्यक्संबुद्ध इदं सर्वतथागतोष्णीषमुदाजहार ओं वज्रसत्वोष्णीष हुं फट् ॥ अथास्मिन् भाषितमात्रे सर्वतथागतोष्णी[षेम्यो विनिःसृतो भगवद्वज्रपाणिविग्रहः, नाना]वर्णरश्मयो भूत्वा, सर्वलोकधातवोऽवभास्य, पुनरपि भगवतो वज्रपाणेर्मूधम् [अनुपरिवेष्टिताः, सर्वतथागतोष्णीषतेजोराशिं भूत्वा] स्थितः । अथ ततस्तेजोराशित इदं सर्वतथागतोष्णीषं निश्चचार । ओं नमस्सर्वतथाग[तोष्णीष] तेजोराशि अनवलोकितमूर्ध हूं ज्वाल धक विधक दर विदर हुं फट् ॥ अथ वज्रपाणिर्बोधिसत्वो महासत्व इदं स्वविद्योत्तममुदा[जहार]ओं निसुंभ वज्र हुं फट् ॥ ततः पुनरपि वज्रपाणिः स्वहृदयादिदं हृदयमुदाजहार ओं ट्टक्कि ज्जः ॥ अथ वज्रगर्भो बोधिसत्वो महासत्व इदं स्वविद्योत्तममभाषतों वज्र रत्नोत्तम ज्वालय हुं फट् ॥ अथ वज्रनेत्रो बोधिसत्वो महासत्व इदं स्वविद्योत्तममभाषतों स्वभावशुद्ध वज्रपद्म शोधय सर्वान् विद्योत्तम हुं फट् ॥ अथ वज्रविश्वो बोधिसत्त्वो महासत्व इमं स्वविद्योत्तममभाषतों वज्रकर्मोत्तम वज्रधर समयमनुस्मर सुंभनिसुंभाकर्षय प्रवेशयावेशय बन्धय समयं ग्रहय सर्वकर्माणि मे कुरु महासत्व हुं फट् ॥ अथ वज्रविद्योत्तमो बोधिसत्वो महासत्व इदं स्वहृदयं भगवतो वज्रपाणेः पादवन्दनीयं निर्यातयामास ओं सुंभ निसुंभ वज्रविद्योत्तम हुं फट् ॥ अथ क्रोधवज्रो विद्याराजो भगवतश्चरणयोर्निपत्येद स्वहृदयमदाथुं वज्रशूल ॥ अथ मायावज्रो विद्याराजेदं स्वहृदयमभाषतों वज्रमाय विदर्शय सर्व हुं फट् ॥ अथ वज्रघण्टो विद्याराजः स्वहृदयमदातों वज्रघण्ट रण रण हुं फट् ॥ अथ मौनवज्रः स्वहृदयमदातों वज्रमौन महाव्रत हुं फट् ॥ अथ वज्रायुधः स्वहृदयमदातों वज्रायुध दामक हुं फट् ॥ विद्याराजनकाः ॥ अथ वज्रकुण्डलिर्वज्रक्रोधो भगवते वज्रपाणये इदं स्वहृदयं पादवन्दनीयं निर्यातयामास । ओं वज्रकुण्डलि महावज्रक्रोध गुह्ण हन दह पच विध्वंसय । वज्रेण मूर्धानं स्फालय भिन्द हृदयं वज्रक्रोध हुं फट् ॥ अथ वज्रप्रभो वज्रक्रोध इदं स्वहृदयमदात् । ओं वज्रप्रभ मारय सौम्यक्रोध हुं फट् ॥ अथ वज्रदण्डो वज्रक्रोधः स्वहृदयमदात् । ओं वज्रदण्ड तनुय सर्वदुष्टान्महाक्रोध हुं फट् ॥ अथ वज्रपिङ्गलो वज्रक्रोध इदं स्वहृदयमदात् । ओं वज्रपिङ्गल भीषय सर्वदुष्टान् भीमक्रोध हुं फट् ॥ वज्रक्रोधाः ॥ अथ वज्रशौण्डो गणपतिर्भगवते वज्रपाणये इदं हृदयन्निर्यातयति स्म । ओं वज्रशौण्ड महागणपति रक्ष सर्वदुष्टेभ्यो वज्रधराज्ञां पालय हुं फट् । अथ वज्रमाल इदं स्वहृदयमदात् । ओं वज्रमाल गणपतये मालयाकर्षय प्रवेशयावेशय बन्धय वशीकुरु मारय हुं फट् ॥ अथ वज्रवशी स्वहृदयमदात् । ओं वज्रवशी महागणपते वशीकुरु हुं फट् ॥ अथ विजयवज्रो गणपतिः स्वहृदयमदात् । ओं वज्रविजय विजयं कुरु महागणपति हुं फट् ॥ गणप[तयः ॥] अथ वज्रमुसलो वज्रदूत इदं स्वहृदयं वज्रपाणये निर्यातयामास । ओं वज्रमुसल कृट्ट कुट्ट सर्वदुष्टान् वज्रदूतहुं फट् ॥ [अथ वज्रा]निलो दूतः स्वहृदयमदात् । ओं वज्रानिल महावेगानय सर्वदुष्टान् हुं फट् ॥ अथ वज्रानलो दूतः स्वहृदयमदात् । ओं वज्रानल महादूत ज्वालय सर्व भस्मीकुरु सर्वदुष्टान् हुं फट् ॥ अथ वज्रभैरवो दूतः स्वहृदयमदात् । ओं वज्रभैरव वज्रदूत भक्षय सर्वदुष्टान्महायक्ष हुं फट् ॥ दूताः ॥ अथ वज्राङ्कुशो वज्रचेट इदं स्वहृदयं भगवते वज्रपाणये निर्यातयामास । ओं वज्रङ्कुशाकर्षय सर्व महाचेट हुं फट् ॥ अथ वज्रकालः स्वहृदयमदात् । ओं वज्रकाल महामृत्युमुत्पादय हुं फट् ॥ अथ वज्रविनायकः स्वहृदयमदात् । ओं वज्रविनायकास्य विघ्नं कुरु हुं फट् ॥ अथ नागवज्र इदं स्वहृदयं भगवते वज्रापाणये पादवन्दनीयं निर्यतयामास । ओं नागवज्रानय सर्वधनधान्यहिरण्यसुवर्णमणिमुक्तालङ्कारादीनि सर्वोपकरणानि वज्रधर समयमनुस्मरकड्ढ गृह्ण बन्ध हर हर प्राणान्महाचेट हुं फट् ॥ चेटाः ॥ अथ वज्रपाणिर्महाबोधिसत्व इदं सर्ववज्रकुलाकर्षणसमयमुदाजहार ओं वज्राङ्कुशाकर्षय हुम् ॥ ततः प्रवेशनसमयमुदाजहार हुं वज्रपाशाकड्ढ हुम् ॥ ततः समयबन्धमुदाजहार हुं वज्रस्फोट वम् ॥ ततः कर्महृदयमुदाजहार ओं वज्रकर्म साधय कृत् ॥ देलिनेअतिओनोf थे मन्दल अथ वज्रपाणिरिदं सर्ववज्रकुलमहामण्डलमभाषत् । अथातः संप्रवक्ष्यामि महामण्डलमुत्तमम् । धर्मचक्रप्रतीकाशं सूत्रये सर्वमण्डलम् ॥ तत्रेदं सूत्रणहृदयं भवति ओं वज्रसूत्राकर्षय सर्वमण्डलान् हुम् ॥ मण्डलस्य तु मध्ये वै विध्वा खदिरकीलकम् । ततस्तु सूत्रं द्विगुणं कृत्वा तेन प्रसूत्रयेत् ॥ तत्रेदं कीलकहृदयम् । ओं वज्रकील कीलय सर्वविध्नान् बन्धय हूं फट् ॥ चतुःसूत्रसमायुक्तं सूत्रयेच्चक्रमण्डलम् । बाह्यतस्तस्य निःक्रम्य द्विगुणं तु तथैव च ॥ १ ॥ तस्यापि त्रिगुणङ्कुर्यात्बाह्यमण्डलसूत्रणम् । विदिशाश्चारयोगेन कोणरेखास्तु सूत्रयेद् ॥ इति ॥ २ ॥ सूत्रणविधिः । ततस्तु सूत्रणं तत्तु रङ्गैः शुद्धैस्तु पूरयेत् । वामवज्रमहामुष्ट्या प्राग्रेखां तु यथासुखम् ॥ तत्रेदं रङ्गहृदयम् । ओं वज्ररङ्ग समय हूम् ॥ ततो मध्यस्थितो भूत्वा वज्राचार्यः समाहितः । मनसोद्घाटयेच्चैव वज्रद्वारचतुष्टयम् ॥ तत्रेदं द्वारोद्घाटनहृदयम् । ओं वज्रोद्घाटनसमय प्रविश शीघ्रं स्मर वज्रसमय हुं फट् ॥ सौर्वर्णराजते वापि मृण्मये वा सुचित्रिते । इष्टके तु चतुरश्रे तु बुद्धबिम्बं निवेशयेत् ॥ तत्रेदं सर्वबुद्धहृदयं[भ]वति । ओं सर्वविद् ॥ बुद्धस्य सर्वतः कुर्यन्महासत्वचतुष्टयम् । त्रिलोकविजयं कुर्वन् वज्रापाणिं पुरःस्थितम् ॥ तत्रैतानि महासत्वचतुष्टयहृदयानि भवन्ति । ओं सुंभ निसुंभ हुं गृण्ह गृण्ह हुं गृण्ह प्य हुमानय हो भगवन् वज्र हुं फट् ॥ १ ॥ ओं वज्रभृकुटि क्रोधानय सर्वरत्नान् हीः फट् ॥ २ ॥ ओं वज्रदृष्टि क्रोधदृष्ट्या मारय हुं फट् ॥ ३ ॥ ओं वज्रविश्व क्रोध कुरु सर्वं विश्वरूपतया साधय हूं फट् ॥ ४ ॥ प्रवेशेन्निष्क्रमेद्वापि सुत्राधस्तान्मनोगतम् । वज्रवेग इति ख्यातस्तेन रेखां समाक्रमेद् ॥ इति ॥ तत्रेदं वज्रवेगहृदयम् । वज्रवेग ॥ वज्रवेगेन निःक्रम्य प्रथमं मण्डलं तथा । यथावदनुपूर्वेण वज्रमायादयो लिखेत् ॥ तत्रैषां समयहृदयानि भवन्ति । ओं वज्रचक्र हूम् ॥ १ ॥ ओं वज्रघण्ट हूम् ॥ २ ॥ ओं वज्रदण्डकाष्ठ हूम् ॥ ३ ॥ ओं वज्रायुध हूम् ॥ ४ ॥ वज्रवेगेन चाक्रम्य द्वितीयं मण्डलं तथा । वज्रकुण्डलिपूर्वांस्तु वज्रकोधान्निवेशयेत् ॥ तत्रैषां हृदयानि भवन्ति । ओं प्रज्वलित प्रदीप्तवज्र हूम् ॥ १ ॥ ओं वज्रसौम्य हूम् ॥ २ ॥ ओं वज्रदण्ड हूम् ॥ ३ ॥ ओं वज्रविकृत हुम् ॥ ४ ॥ ततस्तु वज्रवेगेन लिखेद्द्वारचतुष्टये । वज्रशौण्डादयः सर्वे यथावदनुपूर्वशः ॥ तत्रैषां समयहृदयानि भवन्ति । ओं वज्रमद हुम् ॥ ओं वज्रमाले हूम् ॥ ओं वज्रार्थ हूम् ॥ ओं वज्राशि हूम् ॥ वज्रवेगेन चाक्रम्य तृतीये मण्डले लिखेत् । यथावदनुपूर्वेण स वज्रमुसलादयः ॥ तत्रैषां हृदयानि भवन्ति । ओं वज्रमुसल हूम् ॥ ओं वज्रपट हूम् ॥ ओं वज्रज्वाल हूम् ॥ ओं वज्रग्रह हूम् ॥ वज्रवेगेन चाक्रम्य चतुर्थे मण्डले लिखेत् । वज्राङ्कुशादयश्चेटा यथावदनुपूर्वशः ॥ तत्रैषां हृदयानि भवन्ति ॥ ओं वज्रदंष्ट्र हूम् ॥ ओं वज्रामारण हूम् ॥ ओं वज्रविध्न हूम् ॥ ओं वज्रहरण हुम् ॥ वज्रवेगेन निःक्रम्य बाह्यमण्डले संस्थिता । यथावदनुपूर्वेण संलिखेत्सर्वमातरः ॥ १ ॥ वज्रद्वारेषु सर्वेषु द्वारपालास्त एव तु । अतः परं प्रवक्ष्यामि यथावद्विधिविस्तरम् ॥ २ ॥ इति ॥ अथात्र त्रिलोकचक्रमहामण्डले आकर्षणादिकर्म कृत्वा, स्वयं वज्राचार्यो वज्रक्रोधतेरिन्तिरिमुद्रां बध्वा, एवं ब्रूयाद्, "अहन्ते वज्रसमयज्ञानमुत्पादयिष्यामि । तत्त्वया न कस्यचिद्वक्तव्यम् । मा ते विषमा परिहारेण कालक्रियया नरकपतनं स्याद्," इदमुक्त्वेदं शपथहृदयं दद्यात् । वज्रक्रोधतेरिन्तिरिमुद्रां बध्वा दर्शयेत्"अयं वज्रक्रोधसमयस्ते सन्दहेत्कुलन्, मुर्धादारभ्य कायं तु नाशयेत्, यद्यतिक्रमेत्समयं बन्धय" ॥ ततो वज्रधारि कर्ममुद्रां बन्धयेदनेन हृदयेन ओं सर्वतथागत वज्रधर गृह्ण बन्ध समय हूम् ॥ अथास्या मुद्राया बन्धो भवति । कनिष्ठाङ्गुष्ठबन्धो तु हस्तौ द्वावधरोत्तरौ । मुद्रेयङ्कर्मसमय[वज्रबन्धेति] कीर्तिता ॥ ततो वज्र ओदकेनाभिषिञ्चेदनेन हृदयेन ओं वज्राभिषेकाभिषिञ्च वज्रधरत्वे समय ग्र ग्र ॥ ततो नक्तकेन मुखं बध्वा [प्रवेशयत्य] नेन हृदयेन ओं प्रविश वज्र प्रवेशय वज्र आविश वज्र आधितिष्ठ वज्र हूम् ॥ ततः प्रवेश्य पुष्पाणि क्षिपेतनेन हृदयेन ओं प्रतीच्छाधितिष्ठ वज्र होः ॥ ततो यत्र पतति सोऽस्य सिध्यति । ततो मुखबन्धं मुक्त्वा, मण्डलं यथानुपूर्वतो दर्शयेत् । न चास्य वक्तव्यं किं देव इति । तत्कस्माद्धेतोः? सन्ति सत्वा मिथ्यादृष्टयो ये न श्रद्धास्यन्ति, किमेतदमोघं बुद्धानां भगवतां ज्ञानं, यथा तथागता वज्रकुले वज्रपाणिनाभिषिक्तास्तथागता एवेति समयः । अन्यत्र ये देवे भक्तास्तेषां शपथहृदयं दत्वा वाच्यमिति । ततो वज्ररत्नचिन्हमालाभिषेकं दत्वा, कर्मवज्रं पाणिभ्यामभिप्रयच्छ्य, वज्रनाम कुर्यात्, यथा वज्रसमयमहामण्डल इति ॥ मुद्र ततो महामुद्राबन्धं शिक्षयेत् । वज्रबन्धं दृढीकृत्य प्रविष्टाङ्गु ष्ठसंचयम् । कुञ्चिताग्र्याषु गच्छन्नं सत्वोष्णीषेति संज्ञिता ॥ १ ॥ वज्रबन्धं समाधाय समाङ्गुष्ठात्म्यमध्यमा । तेजोराशीति विख्याता तेजोराशेर्महात्मनः ॥ २ ॥ वज्रमुद्राद्विकं बध्वा कनिष्ठाङ्गुष्ठसन्धितम् । गाढमङ्कुशबन्धेन महाविद्योत्तमस्य तु ॥ ३ ॥ महाविद्योत्तममयीं मुद्रां बध्वा सुयन्त्रिताम् । हृद्यङ्गष्ठमुखानां तु बन्धनाद्धृदया स्मृता ॥ ४ ॥ तामेवानाममध्याभिरङ्गुलीभिः सुयन्त्रिताम् । वज्ररत्नप्रयोगेण परिवर्त्य मुखस्थिता ॥ ५ ॥ तामेवोत्तानसंस्थां स्वहृदये परिवर्त्य वै । चतुःपुष्पा तु नामेन पद्मविद्योत्तमस्य तु ॥ ६ ॥ तामेव मूर्धादारभ्य भ्रमत्कायाग्रमण्डला । वज्रविश्वस्य मुद्रेयं वज्रकर्मप्रसाधिके ॥ ति ॥ ७ ॥ सत्ववज्रां दृढीकृत्य कनिष्ठा वज्रसन्धिता । सर्वविद्धृदयस्यास्य मुद्रेयं सर्वसाधिका ॥ ८ ॥ कनिष्ठाङ्गुष्ठबन्धे तु वाममध्याङ्गुलित्रिके । त्रिशूले मध्यशूलं तु वज्रमुद्रापरिग्रहम् ॥ ९ ॥ वज्रविद्योत्तमस्येयं वज्रशूलेति कीर्तिता । अतः परं प्रवक्ष्यामि मायावज्रादिसंज्ञिता ॥ १० ॥ वज्रबन्धं दृढीकृत्य वामवज्रं तु बन्धयेत् । वज्रमुष्टिरिति ख्याता सर्ववज्रकुलेष्वियम् ॥ १ ॥ द्विधीकृत्य तु तद्वज्रं सर्वचिह्ननिवेशितम् । सर्ववज्रकुलानां तु मुद्रासु च निवेशयेत् ॥ २ ॥ प्रसारिताग्रा पृष्ठस्था ज्येष्ठाङ्गुष्ठग्रहाधगा । ओंकार मूर्ध्नि संस्था तु वज्र चैव प्रतिष्ठिता ॥ ३ ॥ विद्याराजमहामुद्रागणः ॥ प्रसारिताश्रिता पाणौ हस्तपृष्ठे तथैव वा । मुष्टिसंस्था भुजा वा च मुखतः परिवर्तिता ॥ वज्रक्रोधमहामुद्रागणः ॥ वामाङ्गुष्ठसुसंस्था तु मालबन्धप्रयोजिता । दक्षिणेनार्थदायी च खङ्गमुद्राग्रमुष्टिमा ॥ गणपतिमहामुद्रागणः ॥ दक्षिणग्रस्तमुसला प्रसारितभुजा तथा । दक्षिणज्वालसन्दर्शा वज्रमुष्टिप्रकम्पिता ॥ दूतमहामुद्रागणः ॥ सगर्वमुखदंष्ट्राग्रा दण्डाघातप्रपातिता । बाहुसंकोचलम्बा च वामदक्षिणहारिणी ॥ ति ॥ चेटमहामुद्रागणः ॥ कल्पनं मण्डले सर्वे [वाम]वज्रग्रहेण तु । अतः परं प्रवक्ष्यामि साधनं कर्म एव च ॥ १ ॥ यस्य सत्वस्य या मुद्रा भवेत्तस्य स्वमात्मना । भावयन्तं स्वमात्मानं मुद्रासाधनमुत्तमम् ॥ २ ॥ मनोष्णीषमहारक्षा तेजोराशी सुसिद्धदा । सर्वकृद्वज्रहुंकारा सर्वाकर्षा तु हृद्गते ॥ ति ॥ ३ ॥ बुद्धमुद्राः ॥ सर्ववित्सर्वसिद्धिस्तु वज्रविद्योत्तमा । वज्रशूला महामुद्रा महसिद्धिप्रदायिका ॥ १ ॥ मायावज्रसुसिद्धिस्तु समावेशा तु घण्टिका । दण्डकाष्ठा तु नैर्वाणी वज्रवज्रा तु मारणी ॥ २ ॥ विद्याराजनिकाः ॥ ज्वालाग्री दुष्टदमनी सौम्याग्री सर्वमारणी । दण्डाग्रा घातनी चैव भीमाक्षी तु भयङ्करी ॥ वज्रक्रोधाः ॥ मदनी मदनी तीव्रं माला सर्वकरी स्मृता । कामिनी प्रियकारी तु मारणी सर्वमारणी ॥ गणमुद्राः ॥ मुसला दुष्टनिर्घाता पटा सूत्रपटा तथा । ज्वालाग्री दुष्टदमनी यक्षिणी ग्रहलायिका ॥ दूतमुद्राः । भक्षणी वज्रदंष्ट्रा तु मारणी सर्वमारणी । सुविघ्ना विध्नकर्त्री तु हारिणी सर्वहारिणी ॥ चेटमुद्राः ॥ सर्वतथागतवज्रसमयान्महाकल्पराजात्त्रिलोकचक्रमहामण्डलविधिविस्तरः परिसमाप्तः ॥ छप्तेर्१२ सर्व-वज्र-कुल-वज्र-मन्दल-विधि-विस्तर एमनतिओनोf देइतिएस्fरों समधि अथ भगवान् पुनरपि सर्वतथागतवज्रधारणीसमयसंभवाधिष्ठानन्नाम समाधिं समापद्येमां स्वविद्योत्तमामभाषतों वज्रसावित्रे स्वाहा ॥ अथ वज्रापाणिर्महाबोधिसत्वः पुनरपीमं स्वविद्योत्तमामभाषतों वज्रधारि हूम् ॥ वज्रविक्रमे हूं फट् ॥ अथ वज्रगर्भो बोधिसत्त्वो महासत्व इमां स्वविद्योत्तमामभाषतों वज्ररत्नगोत्रे स्वाहा ॥ अथ वज्रनेत्रो बोधिसत्वो महासत्व इमां स्वविद्योत्तमामभाषतों वज्रपद्मनेत्रे हूं फट् ॥ अथ वज्रविश्वो बोधिसत्वो महासत्व इमां स्वविद्योत्तमामभाषतों वज्रकर्मकरि हूम् ॥ अथ वज्रविद्योत्तमो बोधिसत्त्व इमां स्वविद्योत्तमामभाषतों वज्रशूलाग्रे स्वाहा ॥ अथ वज्रमायो विद्याराज इमां स्वमुद्रामभाषतों वज्रचक्रे हूम् ॥ वज्रघण्टोवाच ओं वज्रघण्टिके हूम् ॥ मौनवज्रोवाच ओं वज्रदण्डकाष्ठे हूम् ॥ वज्रायुधोवाच ओं वज्रे हूम् ॥ विद्याराजसमयमुद्राः ॥ अथ वज्रकुण्डलिर्वज्रक्रोध इमां समयमुद्रामभाषतों ज्वालावज्रे हूम् ॥ अथ वज्रप्रभ उवाच ओं वज्रसौम्ये हूम् ॥ वज्रदण्डोवाच ओं वज्रदण्डे हूम् ॥ वज्रपिङ्गलोवाच ओं वज्रभीषणे हूम् ॥ वज्रक्रोधसमयमुद्राः ॥ अथ वज्रशौण्डः स्वसमयमुद्रामभाषतों वज्रमेद हूम् ॥ वज्रमालोवाच ओं वज्रमाले हूम् ॥ वज्रवश्युवाच ओं वज्रवशे हूम् ॥ विजयवज्रोवाच ओं वज्रापराजिते हूम् ॥ वज्रगणपतिसमयमुद्राः ॥ अथ वज्रमुसलः स्वसमयमुद्रामुदाजहार ओं वज्रमुसलग्रहे हूम् ॥ वज्रानिलोवाच ओं वज्रपटे हूम् ॥ वज्रानलोवाच ओं वज्रज्वाले हूम् ॥ वज्रभैरवोवाच ओं वज्रग्रहे हूम् ॥ वज्रदूतसमयमुद्राः ॥ अथ वज्राङ्कुशोवाच ओं वज्रदंष्ट्रे हूम् ॥ वज्राकालोवाच ओं वज्रमारणि हूम् ॥ वज्रविनायकोवाच ओं वज्रविघ्ने हूम् ॥ नागवज्रोवाच ओं वज्रहारिणि हूम् ॥ वज्रचेटसमयमुद्राः ॥ देलिनेअतिओनोf थे मन्दल अथ वज्रपाणिः पुनरपीदं सर्ववज्रकुलवज्रमण्डलमभाषत् । अथातः संप्रवक्ष्यामि वज्रमण्डलमुत्तमम् । चतुरश्रमुत्तरद्वारं सूत्रयेद्बाह्यमण्डलम् ॥ १ ॥ तस्याभ्यन्तरतस्तत्र पूर्वद्वारन्तथैव च । तस्य मध्ये यथायोगं बुद्धबिम्बन्निवेशयेत् ॥ २ ॥ त्रिलोकविजयाद्यास्तु चतस्रस्तस्य सर्वतः । मण्डलस्य तथा श्रेष्ठ वज्रमुद्राः समालिखेत् ॥ ३ ॥ तासां सर्वेषु पार्श्वेषु कुलमुद्राः समालिखेत् । वज्रशौण्डादयश्चैव चत्वारो द्वाररक्षकाः ॥ ४ ॥ भीमां श्रियं सरस्वतीं दुर्गां कोणेषु वामतः । बाह्यकोणेषु मुद्रा वै आसामेव तु संलिखेत् ॥ ५ ॥ बाह्यमण्डलेषु पुनर्यथावद्देवीः संलिखेत् । अतः परं प्रवक्ष्यामि यथावद्विधिविस्तरम् ॥ इति ॥ ६ ॥ इनितिअतिओनिन्तो थे मन्दल अथत्र वज्रमण्डले यथाकामकरणीयतया वज्राङ्कु शादिभिः समयकर्म कृत्वा, वज्रधारिमुद्रां यथावद्बध्वा, ब्रूयान् "न कस्यचित्त्वया अदृष्टसमयस्तैताः समयमुद्राः पुरतो वक्तव्याः, न च रहस्यभेदः कर्तव्यः" ॥ ततस्तत्कर्मवज्रं वज्रधारिमुद्रायामुपरि स्थाप्य, यथावत्प्रवेशयेत् । प्रवेश्य तद्वज्रं तथैव क्षिपेत् । यत्र पतति सास्य समयमुद्रा वश्य भवति आ ॥ तया सर्वकर्माणि करोति ॥ ततो मुखबन्धं मुक्त्वा, मण्डलं यथावद्दर्शयित्वा, समयमुद्रारहस्यं ब्रूयात् । एताः समयमुद्रास्ते सर्वकर्मकराः शुभाः । मातरश्च भगिन्यश्च भार्या दुहितरोऽनुगा ॥ इति ॥ तत्रास्या हृदयं भवति ओं सर्ववज्रगामिनि सर्वभक्षे साधय गुह्यवज्रिणि हूं फट् ॥ "अनया सकृज्जप्तया सर्वस्त्रियो वशीकृत्योपभोक्तव्याः, अधर्मो न भवति । यथाभिरुचित्तश्च सर्वभुज्त्व साध्याः । ततः सर्वशुद्धिचित्ततामवेत्य, सर्वमुद्रामनसोत्तमान्यपि सर्वकर्माणि कुर्वन्ती" त्याह भगवान् वज्रधरः ॥ मुद्र अतः समयमुद्राः शिक्षयितव्याः ॥ समयक्रोधाङ्गुली मूर्ध्नि हृदये वज्रदृढीकृता । मुखोर्णा च मुखोद्धान्ता मूर्ध्नि स्थाप्य द्विधिकृते ॥ ति ॥ १ ॥ वामवज्राग्रबन्धेन त्रिशूलाङ्गन्तु पीडयेत् । अनया बन्धया सम्यक्सिध्येद्विद्योत्तमः स्वयम् ॥ २ ॥ सर्ववज्रकुलानां तु वामवज्राग्रसंग्रहम् । मुद्राबन्धं प्रवक्ष्यामि समयानां यथाविधि ॥ ३ ॥ चक्रा सर्वाङ्गसंपीडा घण्टा मुद्रा तथैव च । तथैवोङ्कारमुद्रा तु सिंहकर्णपरिग्रहा ॥ ४ ॥ मुद्राराजनिकाः ॥ ज्वाला परिग्रहा चैव प्रभा संग्रहमेव च । दण्डमुष्टिग्रहा चैव मुखतः परिवर्तिता ॥ क्रोधसमयाः ॥ पानमुद्रा च माला च वज्रा च ष्टंभनामिता । मूर्धस्था चैव गणिका मण्डलद्वारपालिकाः ॥ गणिकासमयाः ॥ बाहुंसंकोचचक्रा तु पृष्ठतः परिवर्तिता । ज्वाला स्फुलिङ्गमोक्षा च विदारितमुखस्थिता ॥ दूतीसमयाः ॥ द्व्यन्तप्रवेशितमुखी पीड्य चैव प्रपातनी । बाहुवेष्टनवेष्टा च सहसा हारिणी तथे ॥ ति ॥ चेटीसमया ॥ सर्वतथागतवज्रसमयान्महाकल्पराजात्सर्ववज्रकुलवज्रमण्डलविधिविस्तरः परिसमाप्तः ॥ छप्तेर्१३ सर्व-वज्र-कुल-धर्म-समय-मन्दल-विधि-विस्तर एमनतिओनोf देइतिएस्fरों समधि अथ भगवां पुनरपि सर्वतथागतधर्मसमयसंभववज्राधिष्ठानन्नाम समाधिं समापद्येमां स्वविद्योत्तमामभाषतों वज्र वित् ॥ अथ वज्रापाणिः पुनरपीदं स्वधर्मसमयमभाषतों हन हन हु फट् ॥ अथ वज्रगर्भः स्वधर्मसमयमभाषतों हर हर हुं फट् ॥ अथ वज्रनेत्रः स्वधर्मसमयमभाषतों मर मर हुं फट् ॥ अथ वज्रविश्वः स्वधर्मसमयमभाषतों कुरु कुरु हुं फट् ॥ अथ वज्रविद्योत्तमः स्वधर्मसमयमभाषतों हुं हुं फट् ॥ अथ मायावज्र उवाच ओं च्छिन्द च्छिन्द हुं फट् ॥ ओमाविशाविश हुं फट् ॥ ओं भूर्भुवः स्व हुं फट् ॥ ओं भिन्द भिन्द हुं फट् ॥ विद्याराजनकाः ॥ ओं दम दम हुं फट् ॥ ओं मारय मारय हुं फट् ॥ ओं घातय घातय हुं फट् ॥ ओं भय भय हुं फट् ॥ क्रोधाः ॥ ओं मद मद हुं फट् ॥ ओं बन्ध बन्ध हुं फट् ॥ ओं वशीभव हुं फट् ॥ ओं जय जय हुं फट् ॥ गणपतयः ॥ ओं भ्यो भ्यो हुं फट् ॥ ओं घु घु हुं फट् ॥ ओं ज्वल ज्वल हुं फट् ॥ ओं खाद खाद हुं फट् ॥ दूताः ॥ ओं खन खन हुं फट् ॥ ओं मर मर हुं फट् ॥ ओं गृह्ण गृह्ण हुं फट् ॥ ओं विभ विभ हुं फट् ॥ चेटाः ॥ देलिनेअतिओनोf थे मन्दल अथ वज्रपाणिः पुनरपीदं सर्ववज्रकुलधर्मसमयमण्डलमभाषत् । अथातः संप्रवक्ष्यामि महामण्डलमुत्तमम् । [त्रिलोक]चक्रसंकाशं संलिखेत्सर्वमण्डलम् ॥ १ ॥ सर्वे चैव समापन्ना बुद्धवज्रधरादयः । धर्ममण्डलयोगेन हृच्चिह्नास्तु समालिखेत् ॥ इनितिअतिओनिन्तो थे मन्दल अथात्र [धर्मसमय]मण्डले यथावत्कर्म कृत्वा, वज्रधारिमुद्रांसु वज्रघण्टां [बद्धं बध्यै]वं ब्रुयात्"न त्वया कस्यचिदसमयदृष्टस्यादृष्टदेवकुलस्य वक्तव्यम्" इति उक्त्वा, तां घण्टां रणापयेतेवं च ब्रूयात्, शपथहृदयं दत्वा । यथेयं रणितघण्टा शब्दश्चास्य यथा ध्रुवः । तथेदं कर्मवज्रं ते नाशं कुर्यत्तथा ध्रुवम् ॥ १ ॥ वज्राचार्यत्वगौरव्यं वज्रस्रातृष्वमित्रता । दुष्टमैत्रीविरासश्च यदि कुर्याद्भवान् कदा ॥ इति ॥ २ ॥ मुद्र ततो मुखबन्धं मुक्त्वा, मण्डलं दर्श्य, धर्मसमयमुद्राज्ञानं शिक्षयेत् । समधिसोf विद्यरज, वज्रक्रोध, गन, दुत अन्द्चेत बुद्धवज्रधरादीनां यथावद्धर्ममण्डले । ध्यानं सर्वसमत्वं हि वज्रविद्योत्तमस्य तु ॥ १ ॥ मायोपमं जगदिदं दुःखं गण्ठोपमं तथा । निर्वाणं सर्वदुःखानां वज्रं भेदिष्वनुत्तरम् ॥ इति ॥ २ ॥ विद्याराजसमाधयः ॥ क्रोधोऽग्रयः सत्वविनये सौम्यत्वं मारणं ध्रुवम् । दण्डात्समो न निर्घातो मिथ्यादृष्टिर्भयंकरः ॥ इति ॥ वज्रक्रोधसमाधयः ॥ मदात्तुल्यो न धैर्यास्ति मालातुल्यन्न बन्धनम् । स्त्रियो हि रागो जगद्वशंकरः धैर्यमात्रा पराजिता ॥ इति ॥ गणसमाधयः ॥ प्रहारो निग्रहाग्रयो हि स्पर्शानां तु समीरणः । तेजसां हुतभुग्ज्येष्ठः भोजनानां तु लोहितम् ॥ इति ॥ दूतसमाधयः ॥ दंष्ट्रा शुद्धः प्रविष्टस्तु मृत्युः सर्व पदे स्थितः । भयात्तुल्यो न विघ्नास्ति जलात्तुल्यो न वै रस ॥ इति ॥ चेटसमाधयः ॥ सर्वतथागतवज्रसमयान्महाकल्पराजात्सर्ववज्रकुलधर्मसमयमण्डलविधिविस्तरः समाप्तः ॥ छप्तेर्१४ सर्व-वज्र-कुल-कर्म-मन्दल-विधि-विस्तर अथ भगवान् पुनरपि सर्वतथागतकर्मसमयोद्भववज्राधिष्ठानन्नाम समाधिं समापद्येमां स्ववि[द्योत्तमामभाषत् । ओं वज्र] कर्मप्रवर्तनि समये हूम् ॥ अथ वज्रपाणिः पुनरपि स्वकर्मोत्तममभाषत्[ओं वज्रविलासे पूजय हूम् ॥] अथ वजगर्भः स्वकर्मोत्तममभाषतों वज्राभिषेकेऽभिषिञ्चे हूम् ॥ अथ वज्रनेत्रः स्वकर्मोत्तममभाष[तों वज्रगीते गाहि हूम् ॥] अथ वज्रविश्वो बोधिसत्वः स्वकर्मविद्योत्तममभाषतों वज्रनृत्ये नृत्य हूम् ॥ अथ वज्रविद्योत्तम [इमां स्वकर्मसमयामभाषत्] ओं वज्रविद्योत्तम नृत्य नृत्य विकुर्व विकुर्व हुं फट् ॥ अथ वज्रक्रोधवज्राग्नि महादेवीमां स्वकर्मसम[यामभाषतों वज्रक्रोध] वज्राग्ने ज्वालय त्रिशूलं भिन्द हृदयं वज्रेण हूं फट् ॥ अथ वज्रहेमा महादेवीमां स्वकर्मसंमयामभाषत्[ओं वज्रहेमे च्छिन्द चक्रेण] वज्रिणि हूं फट् ॥ अथ वज्रकौमारीमां स्वकर्मसमयामभाषतों वज्रकौमारी शीघ्रमावेशय घण्[टाशब्देन] वज्रपाणिप्रिये वज्रसमयमनुस्मर रण रण हूं फट् ॥ अथ वज्रशान्तिर्महादेवीमां स्वकर्मसमयामभाषतों वज्रशा[न्त जप ज]पाक्षमालया सर्वान्मारय शान्त दृष्ट्या हूं फट् । अथ वज्रमुष्टिर्महादेवीमां स्वकर्मसमयामभाषतों वज्रमुष्टि [हन हन] वज्रेण भिन्द भिन्द पीडय पीडय सर्वदुष्टहृदयानि ओं सुंभ निसुंभ हूं फट् ॥ विद्याराजनिकाः ॥ अथ [वज्रामृतक्रोधा इमां स्वकर्मसमयामभाषतों वज्रामृते सर्वदुष्टान् गृह्ण बन्ध हन पच विध्वंसय विनाशय भिन्द च्छिन्द भस्मीकुरु मूर्धन्तानुय [वज्रेण ये केतुमममुकस्य] विध्नविनायकास्तान् दामय दीप्तक्रोधवज्रिणि हूं फट् ॥ अथ वज्रकान्तिः स्वकर्मसमयामभाषतों वज्रकान्ति मा[रय सौम्यरूपे प्र]दीप्तरागेण शीघ्रं स्फोटय हृदयं वज्रधरसत्येन महाज्योत्स्नाकराले शीतरश्मिवज्रिणि हूं फट् ॥ अथ वज्रदण्डाग्रा स्वकर्मस[मयामभाषत्] ओं वज्रदण्डाग्रे घातय हुं फट् ॥ अथ वज्रमेखला महाक्रोधा इमां स्वकर्मसमयामभाषतों वज्रमेखले ख[न खन शब्देन वशीकु]रु दुष्ट्या मारय भीषणि हूं फट् ॥ क्रोधविद्याः ॥ अथवज्रविलया स्वकर्मसमयामभाषतों वज्रवि[लये च्छिन्द सिन भिन्द व]ज्रिणी मादयोन्मादय पिव पिव हूं फट् ॥ अथ वज्राशना स्वकर्मसमयामभाषतों वज्राशने भ[क्षय सर्वदुष्टान् वज्रदशनि शक्तिधारि]णि मानुषमांसाहारे नररुचिराशुभप्रिये मज्जवसानुलेपनविलिप्तगात्रे आनय सर्वधनधान्यहिरण्यसुव[र्णादीनि संक्रामय बलदेवरक्षि]णि हूं फट् ॥ अथ वज्रवसना स्वकर्मसमयमभाषतों वज्रवसने आनय सर्ववस्त्रान्नपानाद्यु प[करणानि शीघ्रं वशीकुरु एनं] मे प्रयच्छाविशाविश सत्यं कथय वज्रकोशधारिणि हूं फट् । अथ वज्रवशी स्वकर्मसमयामभाषतों [वज्रवशी आनय वशीकुरु सर्वस्त्रिय] सर्वपुरुषान् दासीकुरु ऋद्धान् प्रसादय व्यवहारेभ्योऽप्युत्तारय विजयकरि वज्रपताकाधारिणि हुं [फट् ॥ वज्रगणिकाः ॥ अथ वज्र] दूतीमां स्वकर्मसमयामभाषतों वज्रदूति आनय सर्वान्मण्डलं प्रवेशयावेशय बन्धय सर्वकर्मा[णि मे कुरु शीघ्रं शीघ्रं लघु लघु] त्रासय मारय रावेण वज्रखङ्गधारिणि हुं फट् ॥ अथ वेगवज्रिणि स्वकर्मसमयामभाषतों वेगवज्रिणी घु घु] घु घु शब्देन मारय विकिर विध्वंसय वज्रपटधारिणि हुं फट् ॥ अथ वज्रज्वाला स्वकर्मसमयामभाषतों वज्रज्वालय स]र्वं वज्र ज्वालय दह दह भस्मीकुरु हुं फट् ॥ अथ वज्रविकटा स्वकर्मसमयामभाषतों वज्रविकटे प्रविकट[दंष्ट्राकरालभीषण]वक्ते शीघ्रं गृह्णावेशय भक्षय रुधिरं पिव महायक्षिणि वज्रपाशधारिणि हुं फट् ॥ वज्रदूत्य ॥ अथ वज्रमु[खी वज्रचेटी स्व]कर्मसमयामभाषातों वज्रमुखि आनय वज्रदंष्ट्रि भयानिके पातालनिवासिनि खन खन खाहि खाहि सर्व मुखे [प्रवेशय स्फोट]य मर्माणि सर्वदुष्टानां वज्रनिशितासिधारिणि हुं फट् ॥ अथ वज्रकाली स्वकर्मसमयामभाषतों वज्रकालि [महाप्रेत]रूपिणि मानुषमांसरुधिरप्रिये एह्येहि गृह्ण गृह्ण भक्षय वज्रडाकिनि वज्रशङ्कले सर्वदेवगणमातृभूते हर हर [प्राणानमुकस्य] कपालमालालंङ्कृतसर्वकाये किं चिरायसि वज्रखट्वाङ्गधारिणि प्रेतमानुषशरीरे शीघ्रमावेशय प्रवेशय बन्ध[य वशीकुरु मारय वज्रराक्षसि हूं हूं हूं हूं फट् ॥] अथ वज्रपूतना स्वकर्मसमयामभाषतथ वज्रपूतने मानुषमांसवसारुधिरमूत्रपुरीषश्लेष्मसिंघाणकरे[तो गर्भकरिण्य याहि] शीघ्रमिदमस्य कुरु वज्रशोधनिकाधारिणि सर्वकर्माणि मे कुरु हुं फट् ॥ अथ वज्रमकरीमां स्वकर्मसमयामभाषत्[ओं वज्रमकरि ग्र]स ग्रस शीघ्रं शीघ्रं प्रवेशय पातालं भक्षय वज्रमकरधारिणि हुं फट् ॥ वज्रचेट्यः ॥ देलिनेअतिओनोf थे मन्दल अथ वज्रपाणिः पुनरपीदं सर्ववज्रकुलकर्ममण्डल[मभाषत् ॥ अ]थातः संप्रवक्ष्यामि कर्ममण्डलमुत्तमम् । वज्रमण्डलयोगेन सूत्रयेत्सर्वमण्डलम् ॥ १ ॥ मण्डलाग्राणि सर्वाणि बुद्धमध्यस्थितानि [वै । अनुपूर्वेण प]ङ्क्त्या वै महासत्वान्निवेशयेत् ॥ २ ॥ तस्य मध्ये सपत्नीकं वज्रविद्योत्तमं स्वयम् । वज्रलास्यदिभिर्गुह्यनृत्यपूजाभिरर्चयेत् ॥ ३ ॥ [तत्र देवी यथाक्रमं] चक्रमण्डलयोगतः । स्वमुद्राप्रतिमुद्राभिर्नृत्यमानास्तु संलिखेत् ॥ ४ ॥ पूजार्थ बुद्धवज्रिभ्यां वज्रनृत्यप्रयोगतः । [चतुरश्रद्वारेषु वै यथाक्रमं धू]पादिकम् ॥ इति ॥ ५ ॥ मुद्र अथात्र कर्ममण्डले समाकर्षणादिकर्म कृत्वा, यथावद्वज्रधारिकर्मसमयमुद्रां बध्वैवं वदेत्["न त्वया कस्यचिददृष्टदेवकुलस्या]ज्ञातकर्मस्येदं गुह्यकर्म वक्तव्यं, मा ते समयो व्यथेद्!" इति उक्त्वा, वज्राचार्यः स्वकर्मवज्रधारिसमयमुद्रां बन्धयेत्; क्रोधदृष्ट्या निरीक्षन्निदमुत्तारयेतों वज्रधार्यावेशय प्रवेशय नृत्यापय सर्वकर्मसिद्धिं प्रयच्छ हुम हूम ल ल ल ल वज्रि ॥ ततः स्वयमाविश्य प्रविशेति, मुद्राप्रतिमुद्राभिर्नृत्योपहारपूजां करोति । ततः प्रभृति सर्वकर्माणि कायवाग्दृष्टिमनोवज्रमुद्राभिरीप्सितेन करोति । ततो मुखबन्धं मुक्त्वा, नृत्योपहारमुद्राज्ञानं शिक्षयेत् । बुद्धवज्रधरादीनां स्मयाग्र्यो द्विधीकृताः । वज्रलास्यादिपूजां तु वज्रविद्योत्तमस्य वै ॥ १ ॥ सर्वासां चैव विद्यानां यथावदनुपूर्वशः । नृत्योपहारपूजाभिः पूजयेत्कर्ममण्डलम् ॥ २ ॥ वज्रनृत्यप्रयोगेण महामुद्रास्तु संक्षिपेत् । समयाग्र्य द्विधीकृत्य प्रतिमुद्राभिमोक्षयेत् ॥ ३ ॥ आभिर्नृत्योपहारेण पूजयं सर्वनायकान् । महावज्रधरादिश्च कर्मसिद्धि भवेद्ध्रुवम् ॥ ४ ॥ इति ॥ सर्वतथागतवज्रसमयान्महाकल्पराजात्सर्ववज्रकुलकर्ममण्डलविधिविस्तरः परिसमाप्तः ॥ छप्तेर्१५ एपिलोगुए ओf थे सर्व-तथगत-वज्र-समय नम मह-कल्प-रज अथ वज्रपाणिः सर्ववज्रकुलान् सर्वसत्त्वार्थं [स्थित्वा] यावन् सन्नियोज्यावैवर्तिकभूमौ प्रतिष्ठाप्य, जानन्नेव भगवन्तमेतदभाषत् । "अहं भगवद्भिः सर्वतथागतैस्तव गुह्यधारित्वेऽभिषिक्तः । [यदा]ज्ञापयस्व किन्तत्तथागतगुह्यम्!" इति ॥ अथ भगवान् सर्वतथागतगुह्यवज्रं नाम समाधिं समापद्येदं [सर्वतथागतगुह्यमभाषत् । यथा यथा हि विनयाः सर्वसत्वाः] स्वभावतः । तथा तथा हि सत्वार्थं कुर्याद्रागादिभिः शुचिः ॥ अथ वज्रपाणिरिदं स्वगुह्यतामभाषत् । [सर्वसत्वहितार्थाय बुद्धशासनहेतुतः ।] मारयेत्सर्वसत्वास्तु न स पापेन लिप्यते ॥ अथ वज्रगर्भो बोधिसत्व इदं स्वमणिगुह्यमभाषत् । सर्वसत्वहिता[र्थाय बुद्धकायप्र]योगतः ॥ हरस्तु सर्वचिन्तानि न स पापेन लिप्यते ॥ अथ वज्रनेत्रो बोधिसत्व इदं स्वधर्मगुह्यमभाषत् । रागशुद्धः सुखा[समः जिनगोचरदानतः ।] सहाय परदारा निषेवे स पुण्यमाप्नुते ॥ अथ वज्रविश्वो बोधिसत्व इदं स्वकर्मगुह्यमभाषत् । सर्वसत्वहितार्थाय बुद्धशासनहेतुतः । सर्वकर्माणि कुर्वन् वं स बहुपुण्यमाप्नुते ॥ इति ॥ अथ भगवान् वैरोचनस्तथागतो भगवते गुह्यधारि[णे वज्र]धराय साधुकारैरभिष्टवेत् ॥ साधु ते वज्रसत्वाय वज्ररत्नाय साधु ते । वज्रधर्माय ते साधु साधु ते वज्रकर्मणे ॥ सुभाषितमिदं सूत्रं वज्रयानमनुत्तरम् । सर्वतथागतं गुह्यं महायानाभिसंग्रहम् ॥ इति ॥ सर्वतथागतत्वसंग्रहात्सर्वतथागतवज्रसमयो नाम महाकल्पराजः परिसमाप्तः ॥ छप्तेर्१६ सकल-जगद्-विनय-मह-मन्दल-विधि-विस्तर ह्य्म्नोf १०८ नमेसोf अवलोकितेस्वर अथ सर्वतथागताः पुनः समाजमागम्य, [तमेव वज्रधरं] भगवन्तं सर्वधर्मेश्वरमवलोकितेश्वरमनेन नामाष्टशतेनाध्येषितवन्तः । पद्मसत्व महापद्म लोकेश्वर महेश्वर । अवलोकितेश धीराग्र्य वज्रधर्म नमोऽस्तु ते ॥ १ ॥ धर्मराज महाशुद्ध सत्वराज महामते । पद्मात्मक महापद्म पद्मनाथ नमोऽस्तु ते ॥ २ ॥ पद्मो[द्भव] सुपद्माभ पद्मशुद्ध सुशोधक । वज्रपद्म सुपद्माङ्ग पद्मपद्म नमोऽस्तु ते ॥ ३ ॥ महाविश्व महालोक महाकार्य महोपम । महाधीर महावीर महाशौरे नमोऽस्तु ते ॥ ४ ॥ सत्वाशय महायान महायोग पितामह । शम्भु शङ्कर शुद्धार्थ बुद्धपद्म नमोऽस्तु ते ॥ ५ ॥ धर्मतत्वार्थ सद्धर्म शुद्धधर्म सुधर्मकृत् । महाधर्म सुधर्माग्र्य धर्मचक्र नमोऽस्तु ते ॥ ६ ॥ बुद्धसत्व सुसत्वाग्र्य धर्मसत्व सुसत्वधृक् । सत्वोत्तम सुसत्वज्ञ सत्वसत्व नमोऽस्तु ते ॥ ७ ॥ अवलोकितेश नाथाग्र्य महानाथ विलोकित । आलोकलोक लोकार्थ लोकनाथ नमोऽस्तु ते ॥ ८ ॥ लोकाक्षराक्षरमहा अक्षराग्र्याक्षरोपम । अक्षराक्षर सर्वाक्ष चक्राक्षर नमोऽस्तु ते ॥ ९ ॥ पद्महस्त महाहस्त समाश्वासक दायक । बुद्धधर्म महाबुद्ध बुद्धात्मक नमोऽस्तु ते ॥ १० ॥ बुद्धरूप महारूप वज्ररूप सुरूपवित् । धर्मालोक सुतेजाग्र्य लोकालोक नमोऽस्तु ते ॥ ११ ॥ पद्मश्रीनाथ नाथाग्र धर्मश्रीनाथ नाथवान् । ब्रह्मनाथ महाब्रह्म ब्रह्मपुत्र नमोऽस्तु ते ॥ १२ ॥ दीप दीपाग्र्य दी[पोग्र दीपा]लोक सुदीपक । दीपनाथ महादीप बुद्धदीप नमोऽस्तु ते ॥ १३ ॥ बुद्धाभिषिक्त बुद्धाग्र्य बुद्धपुत्र महाबुध । बुद्धाभिषेक मूर्धाग्र्य बुद्धबुद्ध [नमोऽस्तु] ते ॥ १४ ॥ बुद्धचक्षोर्महाचक्षोर्धर्मचक्षोर्महेक्षण । समाधिज्ञान सर्वस्व वज्रनेत्र नमोऽस्तु ते ॥ १५ ॥ यैवं सर्वात्मना गौणं नाम्नामष्टशतं तव । भावयेत्स्तुनुयाद्वापि लोकैश्वर्यमवाप्नुयात् ॥ १६ ॥ अध्येषयाम त्वां वीर प्रकाशय महामुने । स्वकं तु कुलमुत्पाद्य धर्ममण्डलमुत्तमम् ॥ १७ ॥ इति ॥ अथार्यावलोकितेश्वरो बोधिसत्वो महासत्वः सर्वतथागताध्येषणवचनमुपश्रुत्य, येन भगवांच्छाक्यमुनिस्तथागतः तेनाभिमुखं स्थित्वा, तद्वज्रपद्मं स्वहृदि प्रतिष्ठाप्येदमुदानमुदानयामास । अहो हि परमं शुद्धं वज्रपद्ममिदं मम । पिताहमस्य च सुतोऽधितिष्ठ कुलं त्विदम् ॥ इति ॥ एमनतिओनोf थे देइतिएस्fरों समधि अथ भगवान् वैरोचनस्तथागतः सर्वतथागतवज्रधर्मसमयसंभवाधिष्ठानपद्मन्नाम समाधिं समापद्येदं सर्वतथागतधर्मसमयं नाम सर्वतथागतहृदयं स्वहृदयान्निश्चचार ह्रीः ॥ अथास्मिन् विनिःसृतमात्रे सर्वतथागतहृदयेभ्यः पद्माकारा अनेकवर्णरूपलिङ्गेर्यपथा रश्मयो विनिःसृत्य, सर्वलोकधातुषु रागादीनि विशुद्धधर्मताज्ञानानि संशोध्य, पुनरप्यागत्यार्यावलोकितेश्वरस्य हृदये प्रविष्टा इति ॥ अथ भगवान् सर्वतथागतधर्मसमयन्नाम स्वविद्योत्तममभाषतों वज्रपद्मोत्तम ह्रीः ॥ अथ वज्रपाणिर्महाबोधिसत्व इदं स्वविद्योत्तममभाषतों वज्र हुं फट् ॥ अथ वज्रगर्भो बोधिसत्व इदं स्वविद्योत्तममभाषतों वज्ररत्नोत्तम त्रः ॥ अथ वज्रनेत्रो बोधिसत्व इदं स्वविद्योत्तममभाषतों वज्रविद्योत्तम ह्रीः ॥ अथ वज्रविश्वो बोधिसत्व इदं स्वविद्योत्तममभाषतों वज्रविश्वोत्तम अः ॥ अथ खल्ववलोकितेश्वरो बोधिसत्वो महासत्वः सर्वरूपसंदर्शनं नाम समाधिं समापद्येदं सर्वजगद्विनयसमयन्नाम स्वहृदयमभाषतों हुं ह्रीः होः ॥ अथास्मिन् भाषितमात्रे आर्यावलोकितेश्वरहृदयात्स एव भगवां वज्रधरः आर्यावलोकितेश्वररूपधारिणः पद्मप्रतिष्ठाः पद्ममुद्राचिन्हधारिविचित्रवर्णरूपवेषालङ्काराः तथागतादिसर्वसत्वमूर्तिधारा महाबोधिसत्वविग्रहा भूत्वा विनिःसृत्य, सर्वलोकधातुषु सर्वसत्वानां यथा वैनेयतया स्वरूपाणि सन्दर्श्याशेषानवशेषसत्वधातुविनयं कृत्वा, पुनरप्यागत्य, वज्रधातुमहामण्डलयोगेन भगवतः शाक्यमुनेस्तथागतस्य सर्वतश्चन्द्रमण्डलाश्रिता भूत्वेदमुदानमुदानयिंसुः । अहो हि सर्वबुद्धानामुपायः करुणात्मनाम् । यत्र ह्यु पायविनयाद्देवा अपि भवन्ति हि ॥ देलिनेअतिओनोf थे मन्दल अथ भगवानवलोकितेश्वरो बोधिसत्वो महासत्वः स्वकुलमुत्पाद्य, सर्वतथागतेभ्य सर्वसत्वाभयार्थप्राप्त्युत्तमसिद्धिवज्रधर्मताज्ञानाभिज्ञावाप्तिफलहेतोर्निर्या[त्य, सर्वजग]द्विनयं नाम महामण्डलमभाषत् । अथातः संप्रवक्ष्यामि महामण्डलमुत्तमम् । वज्रधातुप्रतीकाशं जगद्विनयं संज्ञितम् ॥ १ ॥ चतु[रश्रं] चतुर्द्वारं चतुस्तोरणशोभितम् । चतुःसूत्रसमायुक्तं पट्टस्रग्दामभूषितम् ॥ २ ॥ सर्वमण्डलकोणेषु द्वारनिर्यूहसन्धिषु । खचितं वज्ररत्नैस्तु सूत्रयेद्बाह्यमण्डलम् ॥ ३ ॥ तस्याभ्यन्तरतः सूत्रं चतुरश्रं परिक्षिपेत् । द्वितीयं द्वारकोणं तु पद्माकारं प्रकल्पयेत् ॥ ४ ॥ अष्टस्तम्भप्रयोगेण पद्ममष्टदलं लिखेत् । तस्य केसरमध्ये तु बुद्धबिम्बन्निवेशयेत् ॥ ५ ॥ तत्रेदं बुद्धप्रवेशहृदयं भवति बुद्ध हूम् ॥ बुद्धस्य सर्वतो लेख्याः पद्ममध्ये प्रतिष्ठा । वज्रं रत्नं तथा पद्मं विश्वपद्मं तथैव च ॥ तत्रैषां हृदयानि भवन्ति । ओम् ॥ हुः ॥ धीः ॥ कृः ॥ वज्रवेगेन निष्क्रम्य जगद्विनयमण्डलम् । तत्र लोकेश्वरः कार्यः सर्वरूपान्समुत्सृजन् ॥ १ ॥ तस्य पार्श्वेषु सर्वेषु वज्रगर्वादियोगतः । बुद्धादयो महासत्वां पद्मचिन्हधरां लिखेत् ॥ २ ॥ तत्रैषां हृदयानि भवन्ति । आः ॥ ओं तथागतधर्म हूम् । ओं वज्रपद्माङ्कुश कोशधर वज्रसत्व हूं फट् ॥ ओं मारय मारय पद्मकुसुमायुधधरामोघशर होः ॥ ओं पद्मसंभव पद्महस्त साधु हूम् । वज्रवेगेन चाक्रम्य द्वितीयं मण्डलन्तथा । तत्र मध्ये समालेख्यं जटामध्ये तथागतम् ॥ १ ॥ तस्य पार्श्वेषु सर्वेषु भृकुट्यादिप्रयोगतः । पद्मचिन्हधरा लेख्य यथावदनुपूर्वशः ॥ २ ॥ तत्रैषां हृदयानि भवन्ति । हूम् ॥ ओं पद्मभृकुटि त्रः ॥ ओं पद्मसूर्य ज्वल हूम् ॥ ओं पद्ममणि केतुधर चन्द्र प्रल्हादयावलोकितेश्वर देहि मे सर्वार्थान् शीघ्रं समय हूम् ॥ ओं पद्माट्टहासैकदशमुख हः हः हः हः हूम् ॥ वज्रवेगेन चाक्रम्य तृतीयं मण्डलन्तथा । समापन्नं महासत्वं लिखेत्पद्मप्रतिष्ठितम् ॥ १ ॥ तस्य पार्श्वेषु सर्वेषु यथावदनुपूर्वशः । पद्मालोकादियोगेन महासत्वान्निर्वेशयेत् ॥ २ ॥ तत्रैषां हृदयानि भवन्ति । ध ॥ ओं तारा पद्मवलोकय मां समयसत्व हूम् ॥ ओं पद्मकुमार पद्मशक्तिधर खङ्गेन च्छिन्द च्छिन्द हूं फट् ॥ ओं पद्म नीलकण्ठ शंखचक्रगदापद्मपाणि व्याघ्रचर्मनिवसन् कृष्णसर्पकृतयज्ञोपवीताजिनचर्मवामस्कन्धोत्तरीय नारायण[रूपध]र त्रिनेत्र मुंचाट्टहासं प्रवेशय समयान् देहि मे सिद्धिमवलोकितेश्वर हूम् ॥ ओं ब्रह्म पद्मसंभव जप जप पद्मभाष हूम् ॥ वज्रवेगेन चाक्रम्य चतुर्थमण्डलं तथा । तत्र पद्मं चतुर्वक्त्रं पद्मशूलधरं लिखेत् ॥ १ ॥ तस्य पार्श्वेषु सर्वेषु वज्रनृत्यादियोगतः । पद्मचिन्हधरा लेख्या महासत्वा यथाविधि ॥ २ ॥ तत्रैषां हृदयानि भवन्ति । त्रीः ॥ ओं पद्मनट्टेश्वर नट्ट नट्ट पूजय सर्वतथागतान् वज्रकर्मसमयाकर्षय प्रवेशय बन्धयावेशय सर्वकर्मसिद्धिं मे प्रयच्छावलोकितेश्वर हूम् ॥ ओमभयंददावलोकितेश्वर रक्ष बन्ध पद्मकवचं समय हम् ॥ ओं महाप्रचण्ड विश्वरूप विकटपद्मदंष्ट्राकराल भीषणवक्त्र त्रासय सर्वान् पद्मयक्ष खाद खाद धिक्धिक्धिक्धिक् ॥ ओं पद्ममुष्टि समय[स्त्व] बन्ध हूं फट् ॥ वज्रवेगेन चाक्रम्य सर्वकोणेषु संलिखेत् । वज्रलास्यादियोगेन पद्मलास्यादिदेवताः ॥ तत्रैता मुद्रा भवन्ति । ओं पद्मलास्ये रागय महादेवि रागपूजासमये हूम् ॥ ओं पद्ममालेऽभिषिञ्चाभिषेकपूजासमये हूम् ॥ ओं पद्मगीते गाद गीतपूजासमये हूम् ॥ ओं पद्मनृत्ये नृत्य सर्वपूजाप्रवर्तनसमये हूम् ॥ वज्रवेगेन निःक्रम्य बाह्यमण्डलसन्निधौ । चतस्रः पद्मधूपाद्याः पूजादेव्यः समालिखेत् ॥ तत्रैताः पूजामुद्रा भवन्ति । ओं पद्मधूपपूजासमये प्रल्हादय पद्मकूलदयिते महागणि पद्मरति हूम् ॥ ओं पद्मपुष्पपूजासमये पद्मवासिनि महाश्रिये पद्मकुलप्रतीहारि सर्वार्थान् साधय हूम् ॥ ओं पद्मदीपूजासमये पद्मकुलसुन्दरि महादूत्यालोक संजनय पद्मसरस्वति हूम् ॥ ओं पद्मगन्धपूजासमये महापद्मकुलचेटि कुरु सर्वकर्माणि मे पद्मसिद्धि हूम् ॥ ततो गणादयः सर्वे पद्मद्वारचतुष्टये । समालेख्या यथावत्तु तेषां च हृदयार्थत ॥ इति ॥ तत्रेषां हृदयानि भवन्ति । ओं हयग्रीव महापद्माङ्कुशाकर्षय शीघ्रं सर्वपद्मकुलसमयान् पद्माङ्कुशधर हूं ज्जः ॥ ओममोघपद्मपाश क्रोधाकर्षय प्रवेशय महापशुपतियमवरूणकुबेरब्रह्मवेषधर पद्मकुल समयान् हूं हूम् ॥ ओं पद्मस्फोट बन्ध सर्वपद्मकुलसमयान् शीघ्रं हूं वम् ॥ ओं षड्मुख सनत्कुमारवेषधर पद्मघण्टयावेशय सर्वपद्मकुलसमयान् सर्वमुद्रां बन्धय सर्वसिद्धयो मे प्रयच्छ पद्मावेश अः अः अः अः अः ॥ इनितिअतिओनिन्तो थे मन्दल अथात्र सर्वजगद्विनयपद्ममण्डलविधिविस्तरो भवति । तत्रादित एव पद्माचार्यो वज्रपद्मसमयमुद्रां बध्वा यथावत्प्रविश्य, वज्रधातुमहामण्डलयोगेन कर्म कुर्यादिमैर्हृदयैः ओं पद्मस्फोटाधितिष्ठ अः ॥ ततस्तथैवाज्ञामाज्य, तथैव समयमुद्रया स्वयमभिषिच्य, पद्मविग्रहं गृह्य, स्वपद्मनामोच्चार्य, पद्माङ्कुशादिभिश्च कर्म कृत्वा, ततस्ताभिरेव धर्ममुद्राभिर्महासत्वां साधयेत् । ततस्तथैव सिद्धिरिति ॥ ततः पद्मशिष्यान् प्रवेशयेत् । तत्रादितः पद्मशिष्याय शपथहृदयं दद्यात् । "पद्मसत्वः स्वयन्तेऽद्य इति कर्तव्यम्" । ततो [आज्ञाप]यात् । "न कस्यचित्त्वयेदं गुह्यविधिविस्तरमाख्येयं; मा ते नरकपतनं भवेत्, विषमापरिहारेण च कालक्रिये" ति ॥ ततः समय[मुद्रां बन्धये]दनेन हृदयेन ओं वज्रपद्मसमयस्त्वम् ॥ ततः श्वेतवस्त्रोत्तरीयः श्वेतरक्तकेन मुखं वध्वा प्रवेशयेदनेन हृदयेन ओं पद्मसमय हूम् ॥ ततो यथावत्कर्म कृत्वा, पद्मविग्रहं पाणौ दातव्यमों पद्महस्त वज्रधर्मतां पालय ॥ तेन वक्तव्यं "कीदृशीमा वज्रधर्मते-" ति । ततो वक्तव्यम् । यथा रक्तमिदं पद्मं गोत्रदोषैर्न लिप्यते । भावयेत्सर्वशुद्धिं तु तथा पापैर्न लिप्यते ॥ इयमत्र धर्मता ॥ मुद्र ततः पद्मकुलमुद्राज्ञानं शिक्षयेत् । पद्मं तु हृदये लिख्ये पद्मभावनया हृदि । पद्मश्रियं वशीकुर्यात्किं पुनः स्त्रीजनोऽवरः ॥ १ ॥ बुद्धबिम्बं ललाटे तु लिख्याभीक्ष्णं तु भावयेत् । तया भावनया शीघ्रमभिषेकमवाप्नुते ॥ २ ॥ बुद्धबिम्बं मुखे विध्वाजिव्हायां तु प्रभावयेत् । स्वयं सरस्वती देवी मुखे तिष्ठत्यभीक्ष्णशः ॥ ३ ॥ पद्ममुष्णीषमध्ये तु स्थापयित्वा समाहितः । भावयन् पद्ममुष्णीषे खेगामी स वशन्नयेद् ॥ इति ॥ ४ ॥ तत्रैतानि हृदयानि भवन्ति । पद्मश्रियं वशमानय होः ॥ पद्माभिषेकं प्रयच्छ वम् ॥ पद्मसरस्वती शोधय हूम् ॥ पद्मोर्ध्वगान् वशीकुरु ज्जः ॥ इमानि पद्मकुलमुद्राज्ञानानि ॥ कुड्ये वाप्यथ वाकाशे भावयन् पद्ममुत्तमम् । अनया सर्वसत्वानां वशिकरणमुत्तमम् ॥ १ ॥ आकाशे वान्यदेशे वा भावयन् पद्ममुत्तमम् । यदा पश्येत्तदा गृह्णेद्रुच्यानदृश्यतां व्रजेत् ॥ २ ॥ कुड्ये वाप्यथ वाकाशे विश्वपद्मं समाधयेत् । पश्यं गृण्हेद्यथा तं तु विश्वरूपी तदा भवेत् ॥ ३ ॥ आकाशे वान्यदेशे वा वज्रपद्मं तु भावयेत् । तं तु गृह्णं क्षणाच्चैव पद्मविद्याधरो भवेत् ॥ ४ ॥ तत्रैषां हृदयानि भवन्ति । ओं सर्वजगद्वशिता ज्ञानपद्माविश अः ॥ ओं ज्ञानपद्म तिष्ठादृश्यं कुरु वम् ॥ ओं समाधि विश्वपद्म तिष्ठ वैश्वरूप्यं दर्शय भगवन् ढः । ओं समाधि वज्रपद्म तिष्ठोत्तिष्ठ शीघ्रं ह्रीः ॥ लोकेश्वरं समालिख्य मण्डलादिषु सर्वतः । पुरस्तस्य समाकर्षेथयग्रीवाग्र्यमुद्रया ॥ १ ॥ लोकेश्वरं समालिख्य मण्डलादिषु तस्य वै । अमोघपाशमुद्रया वशीकुर्याज्जगत्स तु ॥ २ ॥ लोकेश्वरं समालिख्य मण्डलादिषु सर्वतः । पुरस्तस्य बन्धनीयात्पद्मस्फोटाग्रमुद्रया ॥ ३ ॥ लोकेश्वरं समालिख्य मण्डलादिषु तस्य वै । पुरतः पद्मघण्टया सर्वावेशनमुत्तमम् ॥ इति ॥ ४ ॥ तत्रैषां हृदयानि भवन्ति । ओं पदमाङ्कुशाकर्षय सर्वमहासत्वान् हूं जः ॥ ओममोघपाश क्रोध हूं होः ॥ ओं पद्मस्फोट वम् ॥ ओं पद्मघण्टावेशय सर्वमः ॥ चतुःपद्ममुखं सत्वं भावयेत्स्वयमात्मना । स्वमात्मानन्ततः सिद्धो बहुरूपी भवेत्क्षणात् ॥ १ ॥ भावयन् पद्मपद्मन्तु स्वमात्मानन्तथात्मना । वज्रधर्मसमाधिस्थः प्राप्नोति पद्ममक्षरम् ॥ २ ॥ लोकेश्वरजटामध्ये भावयन् स्वयमात्मना । बुद्धबिम्बं स्वमात्मानममितायुसमो भवेत् ॥ ३ ॥ भावयन् स्वयम्[आत्मना विश्व]रूपसमाधिना । विश्वरूपसमाधिस्थो लोकेश्वरसमो भवेत् ॥ इति ॥ ४ ॥ तत्रैषां हृदयानि भवन्ति । पद्मविश्व ॥ धर्मकायपद्म ॥ बुद्धाभिषे[क ॥ लोकेश्व]र ॥ ततो महामण्डलसर्वमुद्राज्ञानं शिक्षयेत् । तत्र प्रवेशं तावन्महामुद्राज्ञानं भवति । चन्द्रमण्डलमध्यस्थां यथा लेख्यानुसारतः । पद्म[प्रति]ष्ठां सत्वान्स्वं भावयेत्स्वयमात्मने ॥ ति ॥ अथासां कर्म भवति ॥ बध्वा बुद्धमहामुद्राममितायुसमो भवेत् । वज्रपद्मं समाधाय लोकेश्वर[समो] भवेत् ॥ १ ॥ बुद्धाभिषेकां बध्वा वै सुगतैः सोऽभिषिच्यते । पद्मपद्मा समाधिं तु दद्याद्विश्वा सुविश्वताम् ॥ २ ॥ वैश्वरूप्यं वैनेयांस्तु बुद्ध रत्नाभिषेकदा । पद्मसत्वि समाधिन्तु पद्मक्रोधेश्वरीं श्रियम् ॥ ३ ॥ वज्रलोकेश्वरी सिद्धिमुत्तमां पद्मरागिणी । बुद्धेश्वरी तु बुद्धत्वं वज्रपद्मा सुसिद्धिदा ॥ ४ ॥ कामेश्वरी सुरागित्वं दद्यात्तुष्टिन्तु साधुता । भृकुटिः क्रोधशमनी पद्मसूर्या सुतेजदा ॥ ५ ॥ पद्मचन्द्रा महाकान्तिं दद्याधासा सुहासताम् । तारया चोत्तरा सिद्धिः सौभोग्यं पद्मखङ्गया ॥ ६ ॥ नीलकण्ठा महाकर्षा सिद्धिं पण्डरवासिनी । पद्मनर्तेश्वरी सिद्धिमभया अभयन्ददा ॥ ७ ॥ प्रचण्डा दुष्टदमनी पद्ममुष्टिः सुसाधिका । लास्या रतिं धनं माला सर्वं गीता सुखं नृत्या ॥ ८ ॥ धूपा ल्हादं शुभं पुष्पादीपा दृष्टिं गन्ध सुगन्धताम् ॥ ९ ॥ हयग्रीवा समा[कर्षणा]मोघा तु वशङ्करी । पद्मस्फोटा महाबन्धा सर्वावेशा तु घण्टिके-ति ॥ १० ॥ ततः पद्मकुलसमयमुद्राज्ञानं भवति । वज्रबन्धं समाधाय समाङ्गुष्ठान्त्यसन्धानात् । मुद्रेयं धर्मसमया बुद्धधर्मप्रदायिका ॥ १ ॥ वज्रबन्धं समाधाय समाग्र्यानाममध्यमा । बुद्धविद्योत्तमस्येयं मुद्रा बुद्धत्वदायिका ॥ २ ॥ वज्रबन्धं समाधाय मध्यमा वज्रसंयुता । वज्रविद्योत्तमस्येयं मुद्रा वज्रत्वदायिका ॥ ३ ॥ सा एव मणिमध्या तु वज्ररत्नप्रदायिका । मध्यकुड्मलयोगेन पद्मसिद्धिप्रदायिका ॥ ४ ॥ वज्राञ्जलिन्तु सन्धाय वज्रकर्मकरी भवेत् । धर्मवज्रां समाधाय समयः सिध्यते क्षणात् ॥ ५ ॥ वज्रबन्धं समाग्रन्तु बुद्धसिद्धिप्रदायिका । अतः परं प्रवक्ष्यामि सत्वमुद्रा विशेषतः ॥ ६ ॥ वज्राञ्जलिं समाधाय सममध्योत्थिता तथा । कनिष्ठाङ्गुष्ठविकचा विश्वपद्मेति कीर्तिता ॥ ७ ॥ सा एवाङ्गुष्ठपर्यङ्का कुञ्चिताग्राग्र्यविग्रहा । मध्यवज्रजटा मूर्ध्नि जटाबुद्धेति कीर्तिता ॥ ८ ॥ वज्रबन्धं दृढीकृत्य समाङ्गुष्ठमधस्तनम् । तर्जनीद्वयसंकोचा समुद्गता समाधितः ॥ ९ ॥ समाञ्जलिं समाधाय तर्जनी वज्रपीडिता । विकसिताङ्गुष्ठमुखयोर्मुद्रामोघेश्वरस्य तु ॥ १० ॥ वज्रबन्धं दृढीकृत्य समुत्तानं तु बन्धयेत् । समाङ्गुष्ठकृता पद्मे पद्मबुद्धेति कीर्तिता ॥ ११ ॥ अङ्गुष्ठवज्राग्राभ्यामङ्कुशं खड्गमेव च । अन्त्यद्वयविकासा च मध्यानामाग्रकुड्मला ॥ १२ ॥ समाञ्जलिं समाधाय वलिताङ्गुष्ठकुञ्चिता । तर्जन्या तर्जनीङ्गृह्याकर्षयेत्पद्मवाणया ॥ १३ ॥ समाञ्जलिन्तथोत्तानां बन्धयेत्साधुमुद्रया । साधुकारां [प्रददाति] साधुपद्मेति कीर्तिता ॥ १४ ॥ समाञ्जलिं दृढीकृत्य कुञ्चिताग्र्या मुखस्थिता । कनिष्ठाभ्यां तु विकचा पद्मभृकुटिरुच्यते ॥ १५ ॥ वज्रबन्धं दृढीकृत्य हृद[ये तु] प्रसारयेत् । पद्मसूर्येति विख्याता सर्वाङ्गु लिसुमण्डला ॥ १६ ॥ समाञ्जलिं दृढीकृत्य तर्जनीभ्यां मणीकृता । पद्मरत्नध्वजाग्री तु मूर्ध्नि बाहुप्रसारिता ॥ १७ ॥ वज्रबन्धं शिरोमूर्ध्नि प्रसार्याग्रमुखैः सह । स्वमुखेनाट्टहासेन एकादशमुखी भवेत् ॥ १८ ॥ समाधिपद्मां सन्धाय समाङ्गुष्ठसमुत्थिता । पद्मतारस्य मुद्रेमं सर्वसिद्धिप्रदायिका ॥ १९ ॥ पद्मतारस्य मुद्रा तु पद्म योगाग्र्यबन्धनात् । पद्मखड्गस्य मुद्रेयं खड्गाकारनियोजनात् ॥ २० ॥ कुड्मलान्त्यमहापद्मास्तच्चाङ्गुष्ठगदा तथा । कुञ्चिताग्र्यमहाशङ्खा वज्रबन्धेन चक्रिता ॥ २१ ॥ वज्राञ्जलिं दृढीकृत्य दक्षिणौंकारवेष्टिता । वामग्र्याङ्गुष्ठजापा तु सर्वाग्रविकचाम्बुजा ॥ २२ ॥ वज्राङ्गुलिं समाधाय वामदक्षिणतस्तथा । नृत्यं सलीलवलिता मूर्ध्निस्था नृत्यपद्मिनी ॥ २३ ॥ वज्राञ्जलिं दृढीइकृत्य सर्वाग्रकवचा तथा । परिवर्त्य तु पद्मेन हृदि स्थाप्य दृढंकरी ॥ २४ ॥ वज्राञ्जलिं दृढीकृत्य गुह्ययक्षप्रयोगतः । प्रसारिताञ्जलिपुटा मुखस्था पद्मयक्षिणी ॥ २५ ॥ वज्रमुष्टिं द्विधीकृत्य कुञ्चयित्वा तु मध्यमे । स्वाङ्गुष्ठपृष्ठनिहिते पद्ममुष्टिरुदाहृता ॥ २६ ॥ वज्रधातुप्रयोगेण वज्राञ्जलिसमुत्थिता । सर्वपूजाग्र्यदेवीनां समयाग्र्यस्तु बन्धयेत् ॥ २७ ॥ वज्रबन्धं दृढीकृत्य सन्धयेत्तर्जनीद्वयम् । संकोचात्पुरतः सन्धेथयग्रीवेति कीर्तिता ॥ २८ ॥ पद्माञ्जलिं समाधाय तर्जनीग्रन्थिबन्धना । अमोघपाशमुद्रेयं तर्जन्यङ्गुष्ठशङ्कला ॥ २९ ॥ पद्माञ्जलिं समाधाय वज्रावेशप्रयोगतः । अङ्गुष्ठाभ्यां तु संपीड्य कनिष्ठानामिकान्तराव् ॥ ३० ॥ इति ॥ अथ पद्मकुलधर्ममुद्राज्ञानं भवति । ह्री । ग्री । प्री । ही । श्री । सी । दी । हीः । गी । धी । क्री । वी । वि । री । ष्ट्री । अः । पद्ममुष्टिं द्विधीकृत्य कर्ममुद्राः समाधयेद् ॥ इति ॥ सर्वतथागतधर्मसमयान्महाकल्पराजात्सकलजगद्विनयमहामण्डलविधिविस्तरः समाप्तः ॥ छप्तेर्१६ पद्म-गुह्य-मुद्र-मन्दल-विधि-विस्तर एमनतिओनोf देइतिएस्fरों समधि अथ भगवान् पुनरपि सर्वतथागतधर्मधारणीसमयसंभवमुद्राधिष्ठानपद्मन्नाम समाधिं समापद्येमां स्वविद्योत्तमामभाषतों सर्वतथागतधर्मसमये हूम् ॥ अथ वज्रपाणिर्महाबोधिसत्वः इमां स्वकुलसंभवां विद्योत्तमामभाषतों वज्रसमये हूम् ॥ अथ वज्रगर्भो बोधिसत्व महासत्व इमां स्वविद्योत्तमामभाषतों मणिरत्नसमये हूम् ॥ अथ वज्रनेत्रो बोधिसत्व इमां स्वविद्योत्तमामभाषतों पद्मसमये हूम् ॥ अथ वज्रविश्वो बोधिसत्व इमां स्वविद्योत्तमामभाषतों कर्मसमये हूम् ॥ अथ भगवानार्यावलोकितेश्वरो बोधिसत्व इदं स्वकुलसमयमुद्रामण्डलमभाषत् ॥ अथातः संप्रवक्ष्यामि मुद्रामण्ड[लानुत्तरम् ।] वज्रधातुप्रतीकाशं पद्मगुह्यमिति स्मृतम् ॥ १ ॥ महामण्डलयोगेन सूत्रयेत्सर्वमण्डलम् । तस्य मध्ये सुपद्मे वै वज्रधात्वीश्वरीं लिखेत् ॥ २ ॥ [तस्य] सर्वपार्श्वेषु समयाग्र्यो यथोपरि । धर्मवज्र्यादयो लेख्याः स्वविद्याभिः समन्धिताः ॥ ३ ॥ तत्रासां मुद्रा भवन्ति । ओं सर्वतथागत धर्मेश्वरि हूम् ॥ ओं धर्म समये वज्रपद्मिनि हूम् । ओं बुद्धाभिषेक रत्न समये हूम् ॥ ओं तारा समये हूम् ॥ ओं विश्वमुखे हूम् ॥ वज्रवेगेन निष्क्रम्य विश्वरूपाग्र्यमण्डलम् । तत्र मध्ये लिखेत्पद्मं पद्मैस्तु परिवारितम् ॥ १ ॥ तस्य पार्श्वेषु सर्वेषु पद्ममुद्रा प्रतिष्ठिताः । पद्मचिन्हः समालेख्याः स्वमुद्राः सुगतात्मनाम् ॥ २ ॥ तत्रासां मुद्रा भवन्ति । ह्रीः ॥ ओं पद्मतथागते ॥ ओं समन्तभद्र पद्मवज्राङ्कुशकोशधारिणि हूम् ॥ ओं पद्मरति । ओं पद्मतुष्टि ॥ वज्रवेगेन चाक्रम्य द्वितीये मण्डले तथा । बुद्धाभिषेका समालेख्या जटामध्ये महाम्बुजम् ॥ १ ॥ तस्य पार्श्वेषु सर्वेषु यथावदनुपूर्वशः । पद्मचिन्हसमोपेताः समयाग्र्यो निवेशयेत् ॥ २ ॥ तत्रासां हृदयानि भवन्ति । श्रीः ॥ ओं भृकुटि तटि वेतटि पद्मे हूम् ॥ ओं पद्मज्वाले हूम् ॥ ओं सोमिनि पद्मे हूम् ॥ ओं पद्महासिनि एकादशवक्त्रे दिरि दिरि ईट्टे वट्टे चले प्रचले कुसुमधरे इलि प्रविश सिद्धिं मे प्रयच्छ हूम् ॥ वज्रवेगेन चाक्रम्य तृतीयं मण्डलं तथा । तत्र मध्ये सुपद्मे तु पद्ममुद्रां निवेशयेत् ॥ १ ॥ तथैव सर्वपार्श्वेषु यथावदनुपूर्वशः । पद्मचिन्हसमोपेताः पद्मसंस्थास्तु संलिखेत् ॥ २ ॥ तत्रासां मुद्रा भवन्ति । धीः ॥ ओं तारे तुत्तारे हूम् ॥ ओं धी हूम् ॥ ओं पद्मचक्रगदाधारिणि नीलकण्ठे सिध्य सिध्य हुम् ॥] ओं पण्डरवासिनिं पद्मसंभवे वद वद हूम् ॥ वज्रवेगेन चाक्रम्य चतुष्ठे मण्डलोत्तमे । पद्ममध्ये लिखेत्पद्मं ज्वालमालाकुलप्रभम् ॥ १ ॥ तस्य पार्श्वेषु सर्वेषु यथावदनुपूर्वशः । पद्मचिन्हाः समालेख्याः पद्ममध्यप्रतिष्ठिताः ॥ २ ॥ तत्रासां मुद्रा भवन्ति । स्त्रीः ॥ ओं पद्मनर्तेश्वरि पूजय सर्वतथागतान्नट्ट नट्ट हूम् । ओमभये पद्मकवचबन्धे रक्ष मां हूं हम् ॥ ओं महाप्रचण्डि पद्मयक्षिणि विश्वरूपधारिणि भीषापय सर्वदुष्टान् खाद खाधुं फट् ॥ ओं पद्ममुष्टि अः मुः ॥ वज्रवेगेन चाक्रम्य बुद्धपूजाः समालिखेत् । पद्माङ्कुश्यादयो मुद्राः पद्मचिन्हः समासतः ॥ इति ॥ अथासां मुद्रा भवन्ति । ओं पद्मरतिपूजे होः ॥ ओं पद्माभिषेकपूजे रट् ॥ ओं पद्मगीतपूजे गीः ॥ ओं पद्मनृत्यपूजे कृट् ॥ ओं धूपपद्मिनि हुम् ॥ ओं पद्मपुष्पि हूम् ॥ ओं पद्मकुलसुन्दरि धर्मालोके पूजय हूम् ॥ ओं पद्मगन्धे हूम् ॥ पूजादेव्यः । ओं पद्माङ्कुश्याकर्षय महापद्मकुलान् हयग्रीवसमये हुं जः ॥ ओममोघपाशक्रोधसमये प्रविश प्रवेशय सर्वसमयान् हूम् ॥ ओं पद्मशङ्कले वम् ॥ ओं पद्मघण्टाधारि शीघ्रमावेशय समयान् षण्मुखि अः ॥ अथात्र मुद्रामण्डले आकर्षणादिविधिविस्तरं कृत्वा, पद्मशिष्यान् यथावत्[प्रवेश्य,] एवंवदेन् "न त्वया कस्यचिद्वक्तव्यं यदत्र गुह्यं, मा ते नरकपतनं भवेत्, दुःखानि चात्रजन्मनि-" ति । ततः समावेश्यैवं वदेत् । "[ते चक्षुःपथे] कीदृशोऽवभासः? तद्यथा वदति तथा सिद्धिर्" इति । "तद्यदि श्वेतालोकं पश्येत्तस्योत्तमसिद्धिज्ञानं शिक्षयेत् । अथ पीतं पश्येत्तस्यार्थोत्पत्तिज्ञानं शिक्षयेत् । अथ रक्तं पश्येत्ततोऽनुरागणज्ञानं शिक्षयेत् । अथ कृष्णं पश्येत्ततोऽभिचारकज्ञानं शिक्षयेत् । अथ विचित्रं पश्येत्ततः सर्वसिद्धिज्ञानं शिक्षयेद्" इति ज्ञात्वा, यथावन्मुखबन्धं मुक्त्वा, यथाभाजनतया ज्ञानान्युत्पादयेत् । मुद्राज्ञानं च शिक्षयेत् । एवं वज्रधात्वादिष्वपि सर्वमण्डलेषु यथाभाजनतया मुद्राज्ञानानि शिक्षयेदिंयं परीक्षा ॥ fओउर्ज्नन अथोत्तमसिद्धिनिष्पत्तिज्ञानं भवति । लोकेश्वरमहासत्वं विश्वरूपं स्वमात्मना । भावयंस्तु महामुद्रामग्र्यां सिद्धिमवाप्नुयात् ॥ १ ॥ बुद्धाभिषेकसमयां दृढीकृत्वा समाहितः । भावयंस्तु स्वमात्मानमग्र्यां सिद्धिमवाप्नुते ॥ २ ॥ पद्मपद्ममहासत्वं भावयेत्स्वयमात्मना । आत्मानमुत्तमां सिद्धिं प्राप्नोति सुसमाहितः ॥ ३ ॥ अमोघेश्वरमयीङ्कर्ममुद्रां स्वयम्भुवः । साधयन् विधिवच्छीघ्रमग्र्यां सिद्धिमवाप्नुयाद् ॥ ४ ॥ इति ॥ अथैषां हृदयानि भवन्ति । ओं पद्मसत्वोऽहं सिध्य होः ॥ ओं बुद्धाभिषेकोऽहं सिध्य माम् ॥ ओं धर्मसमाधिरहं सिध्य होः ॥ ओममोघेश्वरोऽहं सिध्य माम् ॥ ततोऽर्थनिष्पत्तिज्ञानं भवति । हिरण्यं तु मुखे विध्वा भावयेत्स्वयमात्मना । विश्वेश्वरमहामुद्रामेकं भूयात्सहस्रशः ॥ १ ॥ सुवर्णतोलकं गृह्य समयाग्र्या महादृढम् । भाव[यन् स्व]यमात्मानमेको भूयात्सहस्रशः ॥ २ ॥ मुक्ताफलं मुखे विध्वा भावयेत्स्वयमात्मना । लोकेश्वरं स्वमात्मानमेको भूयात्सहस्रशः ॥ ३ ॥ सर्वरत्नानि संगृह्य पाणिभ्यां कर्ममुद्रया । भावयन् स्वयमात्मानमेको भूयात्सहस्रश ॥ इति ॥ ४ ॥ तत्रैषां हृदयानि भवन्ति । ओं पद्महिरण्यप्रद हुं ज्जः ॥ ओं पद्मसुवर्णप्रद हुं ज्जः ॥ ओं पद्ममुक्ताप्रद हुं ज्जः ॥ ओं पद्मसर्वरत्नप्रद हुं ज्जः ॥ अथानुरागणज्ञानं भवति । विश्वेश्वरमहामुद्रां भावयन् स्वयमात्मना । पद्मं गृह्य पुरः स्थाति यस्य सोऽस्यानुरज्यति ॥ १ ॥ रक्तपद्मं दृढं गृह्य महासमयमुद्रया । भावयन् स्वयमात्मानं रागयेत्सर्वयोषितः ॥ २ ॥ भावयेत्स्वयमात्मानं पद्मं गुह्य यथा तथा । निरीक्षेद्वज्रदृष्ट्या वै सर्वलोकं स रागयेत् ॥ ३ ॥ कर्ममुद्राप्रयोगेण पद्मं गृह्य यथाविधि । कराभ्यां भ्रामयन् तन्तु रागयेत्सर्वयोषित ॥ इति ॥ ४ ॥ तत्रैषां हृदयानि भवन्ति । ओं विश्वेश्वर महापद्म होः ॥ ओं समयपद्म होः ॥ ओं योगपद्म होः ॥ ओं कर्मपद्म होः ॥ अथाभिचारज्ञानं भवति । विश्वेश्वरमहामुद्रां भावयनात्मना । च्छिन्देद्यस्य पुरःपद्मं तस्य मृत्युः क्षणाद्भवेत् ॥ १ ॥ पद्मं गृह्य दृढं सम्यक्समयाग्र्या तयैव हि । स्फोटयेत्तन्तु सुदृढं यस्य नाम्ना स नश्यति ॥ २ ॥ समाधिमुद्रां सन्धाय पद्मं गुह्य यथा तथा । यस्य नाम्ना तु पद्मं वै च्छिन्देत्स तु विनश्यति ॥ ३ ॥ कर्ममुद्राप्रयोगेण पद्मं गृह्य यथाविधि । स्फोटयेद्यस्य संक्रुद्धः स्फुटेत्तस्य तु जीवितम् ॥ इति ॥ ४ ॥ तत्रैषां हृदयानि भवन्ति । ओं महापद्म च्छेद मारय होः फट् ॥ ओं समयपद्म स्फोट नाशय रट्फट् ॥ ओं धर्मपद्म च्छेद विनाशय धृट्फट् ॥ ओं कर्मपद्म स्फोट स्फोटय जीवितमस्य कृट्फट् ॥ मुद्र ततो धर्मसमयरहस्यमुद्राज्ञानं भवति । पद्मं तु योषितां चिन्त्य वज्रन्तस्योपरि स्वयम् । रामयन् वज्रपद्माग्र्या समापत्त्या तु सिध्यति ॥ १ ॥ पद्मं तु योषितां चिन्त्य बुद्धन्तस्योपरि स्वयम् । रामयन् बुद्धमुकुटां भावयन् सोऽस्य सिध्यति ॥ २ ॥ पद्मं तु योषितां चिन्त्य पद्मं तस्योपरि स्वयम् । रामयन् पद्मपद्माग्री शुद्धां सिद्धिमवाप्नुते ॥ ३ ॥ पद्मं तु योषितां चिन्त्य विश्वन्तस्योपरि स्वयम् । रामयन् विश्वपद्याग्री विश्वां सिद्धिमवाप्नुयाद् ॥ इति ॥ ४ ॥ तत्रैषां हृदयानि भवन्ति । ओं वज्रपद्म संयोग साधय ह्रीः ॥ ओं बुद्धमुकुट संयोग साधय श्रीः ॥ ओं पद्मपद्म संयोग साधय धीः ॥ ओं विश्वपद्म संयोग साधय स्त्रीः ॥ ततो यथावत्पद्मकुलगुह्यमहामुद्राज्ञानं भवति । कुड्मलाञ्जलिरग्रस्य वज्रक्रोधाङ्गुली द्विके । द्वयग्रा मणिस्तथा पद्मं वज्रबन्धन्तथैव ॥ १ ॥ वज्रबन्धां समानीय सममध्याङ्कुरो स्थितो । तर्जन्यानामसंकोचा मुद्रा शाक्यमुनेर्दृढा ॥ २ ॥ धर्मवज्रा हृदिस्था तु परिवर्त्य ललाटगा । समाधियोगा चोत्सङ्गे परिवर्त्य तु मूर्धगा ॥ ३ ॥ वज्रधात्वीश्वरीम्बध्वा चैत्यं पद्मप्रयोगतः । संधयेन्मध्यमाभ्यां तु बुद्धपद्मेति कीर्तिता ॥ ४ ॥ सा एवाङ्गुष्ठवज्रा तु द्व्यग्रखड्गाङ्कुशी तथा । पद्वज्रधरस्यैता गुह्यमुद्राः प्रकीर्तिताः ॥ ५ ॥ सा एवाङ्गुष्ठमुक्ता तु तर्जन्या तर्जनीग्रहा । वलिता सुरतिः प्रोक्ता साधुकार्या तथैव च ॥ ६ ॥ वज्रबन्धं दृढीकृत्य समाङ्गुष्ठप्रवेशिता । कुञ्चिताग्र्यमुखस्था तु भृकुट्यां मध्यपद्मिनी ॥ ७ ॥ सा एव हृदये चैव सूर्यमण्डलदर्शिका । ध्वजबन्धेन सा एव शिरःपृष्ठे प्रसारिता ॥ ८ ॥ वज्रबन्धं दृढीकृत्य कुञ्चिताग्र्याग्रविग्रहा । तथैव पद्मखड्गा तु पद्मयोगाग्र्यसन्धनात् ॥ ९ ॥ वज्रबन्धं दृढिकृत्य वामाङ्गुष्ठप्रवेशनात् । शङ्खमङ्गुष्ठदण्डोत्थाङ्गुल्यग्रोत्थान्त्यपद्मिनी ॥ १० ॥ सा एव सर्वसंकोचा कनिष्ठा पद्मसंयुता । अक्षमालाग्रगणनी दक्षिणाङ्गुष्ठयोगतः ॥ ११ ॥ वज्रबन्धं दृढीकृत्य कनिष्ठा पद्मसंयुता । समाग्र्या पद्मनेत्रा तु प्रनर्तन् परिवर्तिता ॥ १२ ॥ वज्रबन्धं दृढीकृत्य कनिष्ठा पद्मसंयुता । कुञ्चिता[ग्र्यं पीडयन्तु] द्वयङ्गुष्ठकवचीकृते- ॥ ति ॥ १३ ॥ सा एवाङ्गुष्ठदंष्ट्रा तु समाङ्गुष्ठप्रवेशिता । अतः परं प्रवक्ष्यामि समयाग्र्यो निरुत्तराः ॥ १४ ॥ वज्रबन्धन्तले कृत्वा तर्जनीपद्मसन्धिता । अङ्गुष्ठा बन्धपर्यङ्का गुह्यविश्वेश्वरी स्मृता ॥ १५ ॥ ॥ तथैव वज्रबन्धेन कनिष्ठा मध्यसन्धिता । अङ्गुष्ठमुखयोर्वज्रन् पट्टमध्ये तथागतम् ॥ १६ ॥ तथैव वज्रबन्धे तु पद्ममङ्गुष्ठसन्धितम् । कृत्वा तु मुखतोद्धान्तं स्थितोत्सङ्गे समाधिना ॥ १७ ॥ तथैव वज्रबन्धे तु मुखतः समसन्धिता । सर्वाङ्गुल्या दृढीकृत्य तर्जनी वज्रसंयुता ॥ १८ ॥ तथैव वज्रबन्धे तु तर्जनी पद्मसन्धिता । अङ्गुष्ठा बन्धपर्यङ्का मध्यसंकोचविग्रहा ॥ १९ ॥ तथैव वज्रबन्धे तु वज्रमङ्गुष्ठसन्धिता । खड्गाङ्कुशी तथग्राभ्यां कनिष्ठा पद्मसंयुता ॥ २० ॥ तथैव वलितां कृत्वा तर्जन्यङ्गुष्ठसंग्रहाम् । उत्थितान् तर्जनीं वामां कर्षयेत्सुदृढन्तथा ॥ २१ ॥ सा एव तु समीकृत्वा तर्जन्यङ्गुष्ठयोगतः । साधुकारप्रदात्री तु पद्मतुष्टेर्महात्मनः ॥ २२ ॥ तथैव वज्रबन्धं तु सर्वाग्रमुखसन्धितम् । द्वयङ्गुष्ठमुखपीडन्तु समाग्र्या सन्निवेशितम् ॥ २३ ॥ सा एव हृदि सूर्या तु मूर्ध्नि पद्मध्वजीकृता । परिवर्त्य च हासा तु स्थिता पद्माट्टहासिनी ॥ २४ ॥ वज्रवन्धन्तले कृत्वा धर्मवज्राग्रयोगतः । कनिष्ठाङ्ग ष्ठसन्धी तु तारायाः समयो ह्ययम् ॥ २५ ॥ तथैव वज्रबन्धे तु ज्येष्ठाभ्यां खड्गपद्मिनी । तलचक्रा तथैवेह जापदात्री तथैव च ॥ २६ ॥ तथैव वज्रबन्धा तु खटकद्वयमोक्षिता । पुनश्च हृदये बन्धे गुह्यरक्षेति कीर्तिता ॥ २७ ॥ तथैव वज्रबन्धे तु कनिष्ठा पद्मसंयुता । तर्जनी दृढसंकोचा विकचाङ्गुष्ठदंष्ट्रिणी ॥ २८ ॥ सा एव मुष्टियोगेन द्वयङ्गुष्ठमुखपीडिता । पद्मगुह्यमहामुष्टि समयाग्री प्रकीर्तिता ॥ २९ ॥ सर्वासामेव चान्यासां पद्मलास्यादिसंज्ञिनाम् । वज्रबन्धं तले कृत्वाबन्धस्तादृश एव ही-ति ॥ ३० ॥ ततः पद्मकुलगुह्यधर्ममुद्रा भवन्ति । ह्राः । ग्रा । प्रा । हा । स्र । सा । दः । हः । गा । धा । क्रा । वा । व । रा । ष्ट्र । मः । कर्ममुद्राः समासेन मुष्टिरेव द्विधीकृते- ॥ ति ॥ सर्वतथागतधर्मसमयान्महाकल्पराजात्पद्मगुह्यमुद्रामण्डलविधिविस्तरः परिसमाप्तः ॥ छप्तेर्१७ ज्नन-मन्दल-विधि-विस्तर अथ भगवान् पुनरपि सर्वतथागतधर्मसमयज्ञानसमयसंभवाधिष्ठानन् पद्मन्नाम समाधिं समापद्ममां स्वविद्योत्तमामभाषतों धर्मसमाधिज्ञानतथागत हूम् ॥ अथ वज्रपाणिर्महाबोधिसत्व इमं स्वकुलधर्मसंभवं स्वविद्योत्तममभाषतों वज्रधर्म हूम् ॥ अथ वज्रगर्भो बोधिसत्वो महासत्व इमं स्वविद्योत्तममभाषतों रत्नधर्म हूम् । अथ वज्रनेत्रो बोधिसत्वो महासत्व इमं स्वविद्योत्तममभाषतों धर्मधर्म हूम् ॥ अथ वज्रविश्वो बोधिसत्वो महासत्व इमं स्वविद्योत्तममभाषतों कर्मधर्म हूम् ॥ देलिनेअतिओनोf थे मन्दल अथार्यावलोकितेश्वरो बोधिसत्वो महासत्व इदं स्वधर्ममण्डलमभाषत् । अथातः संप्रवक्ष्यामि ज्ञानमण्डलमुत्तमम् । वज्रधातुप्रतीकाशं धर्मज्ञानमिति स्मृतम् ॥ १ ॥ महामण्डलयोगेन सुत्रयेत्सर्वमण्डलम् । तस्य मध्ये समालेख्यं ज्ञानवज्रतथागतम् ॥ २ ॥ तस्य पार्श्वेषु सर्वेषु महासत्वा यथाविधि । विश्वेश्वरादयो लेख्याः समापन्नाः समाहिता ॥ ३ ॥ इति ॥ तत्रैषां हृदयानि भवन्ति । ओं ज्ञानबुद्ध हूम् ॥ १ ॥ ओं ज्ञानविश्वेश्वर हूम् ॥ २ ॥ ओं ज्ञानबुद्धमुकुट हूम् ॥ ३ ॥ ओं ज्ञानधर्मेश्वर हूम् ॥ ४ ॥ ओं ज्ञानामोघेश्वर हूम् ॥ ५ ॥ ओं ज्ञानपद्मबुद्ध हूम् ॥ ६ ॥ ओं ज्ञानपद्मराजधर हूम् ॥ ७ ॥ ओं ज्ञानपद्ममार हूम् ॥ ८ ॥ ओं ज्ञानपद्मतुष्टि हूम् ॥ ९ ॥ ओं ज्ञानपद्मभृकुटि हूम् ॥ १० ॥ ओं ज्ञानपद्मसूर्य हूम् ॥ ११ ॥ ओं ज्ञानपद्मचन्द्र हूम् ॥ १२ ॥ ओं ज्ञानपद्महास हूम् ॥ १३ ॥ ओं ज्ञानपद्मतार हूम् ॥ १४ ॥ ओं ज्ञानपद्मकुमार हूम् ॥ १५ ॥ ओं ज्ञानपद्मनारायण हूम् ॥ १६ ॥ ओं ज्ञानपद्मभाष हूम् ॥ १७ ॥ ओं ज्ञानपद्मनृत्येश्वर हूम् ॥ १८ ॥ ओं ज्ञानपद्मरक्ष हूम् ॥ १९ ॥ ओं ज्ञानपद्मयक्ष हूम् ॥ २० ॥ ओं ज्ञानपद्ममुष्टि हूम् ॥ २१ ॥ ओं ज्ञानपद्मलास्ये हूम् ॥ २२ ॥ ओं ज्ञानपद्ममाले हूम् ॥ २३ ॥ ओं ज्ञानपद्मगीते हूम् ॥ २४ ॥ ओं ज्ञानपद्मनृत्ये हूम् ॥ २५ ॥ ओं पद्मज्ञानधूपे हूम् ॥ २६ ॥ ओं पद्मज्ञानपुष्पे हूम् ॥ २७ ॥ ओं पद्मज्ञानदीपे हूम् ॥ २८ ॥ ओं पद्मज्ञानगन्धे हूम् ॥ २९ ॥ ओं पद्मज्ञानाङ्कुश हूम् ॥ ३० ॥ ओं पद्मज्ञानामोघपाश हूम् ॥ ३१ ॥ ओं पद्मज्ञानस्फोट हूम् ॥ ३२ ॥ ओं पद्मज्ञानावेश हूम् ॥ ३३ ॥ इनितिअतिओनिन्तो थे मन्दल अथात्र पद्मधर्ममण्डले आकर्षणादिविधिविस्तरंकृत्वा, यथावत्प्रवेश्यैवं वदेत्"न त्वयान्यस्य वक्तव्यं; मा ते नरकं पतनं भवेत्, दुःखानि वे-" ति । ज्नन ततोऽस्य ज्ञानान्युत्पादयेत् । लोकेश्वरसमापत्त्या हृदि पद्मं तु भावयेत् । प्राप्तपद्मसमाधिस्तु शीघ्रमुत्पतति क्षणात् ॥ १ ॥ लोकेश्वरसमापत्त्या ललाटे पद्मभावनात् । अभ्यसन् सुदृढीभूतः खेगामी भवते क्षणात् ॥ २ ॥ जिव्हायां भावयन् पद्मं लोकेश्वरसमाधिना । संसिद्धो भवते शीघ्रमाकाशेन स गच्छति ॥ ३ ॥ भावयेत्पद्ममुष्णीषे लोकेश्वरसमाधिना । संसिद्धो भवते शीघ्रमूर्ध्वमुत्पतति क्षणात् ॥ ४ ॥ तत्रैषां हृदयानि भवन्ति । ओं पद्मज्ञानहृदयाविश ॥ ओं पद्मज्ञानाभिषेकाविश ॥ ओं पद्मज्ञानविद्योत्तमाविश ॥ ओं पद्मज्ञानोष्णीषाविश ॥ आकाशे वान्यदेशे व पद्मबिम्बं तु भावयेत् । अनेन विधिना सिद्धो अदृश्यो भवति क्षणात् ॥ १ ॥ आकाशे वान्यदेशे वा पद्मबिम्बं तु भावयेत् । तत्रारूढः स्वमात्मानं भावयन्नदृश्यो भवेत् ॥ २ ॥ आकाशे वान्यदेशे वा पद्मबिम्बं तु भावयेत् । यदा पश्येत्तदा गृह्णाच्छीघ्रम् [अदृश्यो भवति] ॥ ३ ॥ आकाशे वान्यदेशे वा पद्मबिम्बं तु भावयेत् । दृष्ट्वा तु भुक्ष्वा तत्पद्ममदृश्यो भवति क्षणाद् ॥ इति ॥ ४ ॥ तत्रैषां हृदयानि भवन्ति । ओं पद्माकाश ॥ ओं पद्मरथ ॥ ओं पद्मज्ञान गृह्ण ॥ ओं पद्मरसायन ॥ विचित्रवर्णसंस्थानं पद्मबिम्बं तु पाणिना । गृह्य बध्वा महामुद्रां सर्वरूपधरो भवेत् ॥ १ ॥ विचित्रवर्णसंस्थानं पद्मबिम्बं तु लेखयेत् । तत्र भावयमानस्तु बहुरूपधरो भवेत् ॥ २ ॥ विचित्रवर्णसंस्थानं पद्मबिम्बं [तु भा]वयेत् । आकाशे वान्यदेशे वा च्छब्दरूपी भविष्यति ॥ ३ ॥ विचित्रवर्णसंस्थानं पद्मबिम्बं घटापयेत् । तत्रारूढस्तु खेगामी कामरूपी भवेद्ध्रुवम् ॥ इति ॥ ४ ॥ तत्रैषां हृदयानि भवन्ति । ओं पद्मधर विश्वरूपप्रवर्तकाविश ॥ ओं विश्वपद्म प्रवर्तय माम् ॥ ओं समाधिविश्वपद्माविश ॥ ओं विश्वपद्मासनोत्क्षिपाकाशं विश्वरूपमधितिष्ठ माम् ॥ बध्वा चैकवरां सम्यक्महामुद्रां समाधितः । पद्मं गुह्य प्रदातव्यं वशी[करोऽवश्यं भवेत्] ॥ १ ॥ बध्वा चैकवरां सम्यग्[मुद्रां] समयसंज्ञिताम् ॥ तया गृह्य तु वै पद्मं दद्याद्वश्यकरो भवेत् ॥ २ ॥ बध्वा चकतमां मुद्रां समाधिविहितां शुभाम् । ज्ञानपद्मं ददेद्यस्य सोऽस्य शीघं वशीभवेत् ॥ ३ ॥ बध्वा चैकतमां मुद्रां कर्माख्यां समयान्वितः । यस्य दद्यात्[स सुवशीः] पद्मदानात्क्षणाद्भवेद् ॥िति ॥ ४ ॥ तत्रैषां हृदयानि भवन्ति ॥ ओं महापद्म होः ॥ ओं समयपद्म होः ॥ ओं ज्ञानपद्म होः ॥ ओं कर्मपद्म होः ॥ मुद्र ततो ज्ञानमण्डलमहामुद्राज्ञानं शिक्षयेत् । धर्ममण्डलयोगेन महामुद्रास्तु साधयेत् । अतः परं संप्रवक्ष्यामि समयाग्र्यः प्रसाधयेत् ॥ धर्ममण्डलयोगेन पद्मपद्मं तु संस्थपेत् । धर्ममुष्टि द्विधीकृत्य कर्ममुद्रा द्विधीकृता ॥ इति ॥ सर्वतथागतधर्मसमयान्महाकल्पराजाज्ज्ञानमण्डलविधिविस्तरः परिसमाप्तः ॥ छप्तेर्१८ कर्म-मन्दल-विधि-विस्तर अथ भगवान् पुनरपि सर्वतथागतधर्मकर्मसमयसंभवाधिष्ठानपद्मं नाम समाधिं समापद्येमां स्वविद्योत्तमामभाषतों सर्वतथागतकर्माग्र हूम् ॥ अथ वज्रपाणिरिमां स्वकुलकर्मसंभवां स्वविद्योत्तमामभाषतों हूं धीः ॥ अथ वज्रगर्भो बोधिसत्व इमां स्वविद्योत्तमामभाषतों रत्नकर्मसमये हूम् ॥ अथ वज्रनेत्रो बोधिसत्व इमां स्वविद्योत्तमामभाषतों पद्मकर्मि हूम् ॥ अथ वज्रविश्वो बोधिसत्व इमां स्वविद्योत्तमामभाषतों विश्वकर्मि हूम् ॥ अथार्यावलोकितेश्वरो बोधिसत्वो महासत्व इदं स्वकर्ममण्डलमभाषत् । अथातः संप्रवक्ष्यामि कर्ममण्डलमुत्तमम् । वज्रधातुप्रतीकाशं पद्मकर्ममिति [स्मृतं] ॥ १ ॥ महामण्डलयोगेन सूत्रयेत्सर्वमण्डलम् । बुद्धस्य सर्वतः सर्वाः पद्मचिन्हधरा लिखेद् ॥ इति ॥ २ ॥ तत्रासां विद्याहृदयानि भवन्ति । ओं पद्मभूरिणी हुम् ॥ १ ॥ ओं विश्वकर्मेश्वरि हूम् ॥ २ ॥ ओं तथागतेश्वर्याभिषेककर्मविद्ये हूम् ॥ ३ ॥ ओं धर्मकर्मेश्वरि ज्ञानपूजासमये हूम् ॥ ४ ॥ ओममोघ[कर्मेश्वरि हूं] ॥ ५ ॥ ओं पद्मकर्मबुद्धे हूम् ॥ ६ ॥ ओं पद्मकर्मवज्रिणि हूम् ॥ ७ ॥ ओं पद्मकामिनि मारणपूजाकर्मसमये हूम् ॥ ८ ॥ ओं पद्मकर्मतुष्टि हूम् ॥ ९ ॥ ओं पद्म[कर्म भृ]कुटि हूं त्रः ॥ १० ॥ ओं पद्मकर्मसूर्ये हूम् ॥ ११ ॥ ओं पद्मकर्मध्वजे हूम् ॥ १२ ॥ ओं पद्मकर्महासे हः ॥ १३ ॥ ओं पद्मकर्मतारे हूम् ॥ १४ ॥ ओं पद्मकर्मकुमारि हूम् ॥ १५ ॥ ओं पद्मकर्मनारायणि हूम् ॥ १६ ॥ ओं पद्मकर्मब्राह्मि हूम् ॥ १७ ॥ ओं पद्मकर्मनृत्येश्वरि हूम् ॥ १८ ॥ ओं पद्मरक्षकर्मसमये हूम् ॥ १९ ॥ ओं महाप्रचण्डि घातनि पद्मदंष्ट्राकर्मकरि हूम् ॥ २० ॥ ओं पद्मकर्ममुष्टि घातय हूम् ॥ २१ ॥ ओं रतिपूजे हूं जः ॥ २२ ॥ ओमभिषेकपूजे हूं होः ॥ २३ ॥ ओं गीतपूजे हूं धः ॥ २४ ॥ ओं नृत्यपूजे हूं वः ॥ २५ ॥ ओं धूपपूजे अः ॥ २६ ॥ ओं पुष्पपूजे हूं त्रः ॥ २७ ॥ ओमालोकपूजे हूं धीः ॥ २८ ॥ ओं गन्धपूजे हूं वम् ॥ २९ ॥ ओं हयग्रीवे आनय हूं जः ॥ ३० ॥ ओममोघपाशक्रोधे पीडय हूं फट् ॥ ३१ ॥ ओं पद्मशङ्कलबन्धे हूं फट् ॥ ३२ ॥ ओं पद्मघण्टावेशय हूं फट् ॥ ३३ ॥ अथात्र कर्ममण्डले आकर्षणादिविधिविस्तरं कृत्वा, यथावत्प्रवेश्यैवं वदेत् । "न त्वया कुलपुत्र कस्यचिदयं वक्तव्यः मा ते नरकपतनं भवेद्" इति । ज्नन ततो ज्ञानान्युत्पादयेदिति । ततः पापदेशनाज्ञानं शिक्षयेदिति । लोकेश्वरमहामुद्रां भावयन् सुसमाहितः । पापानि देशयेच्छीघ्रं सर्वपापान् समाधयेत् ॥ १ ॥ समयाग्रीन् समाधाय लोकेश्वरसमाधिना । देशयन् सर्वपापान्यानन्तर्याणि शोधयेत् ॥ २ ॥ लोकेश्वरसमाधिन्तु भावयन् सुसमाहितः । देशयेत्सर्वपापानि सर्वपापप्रणाशनम् ॥ ३ ॥ बध्वा चैकतमां सम्यक्कर्ममुद्रां समासतः । देशयेत्सर्वपापानि सर्वकर्मविशोधनम् ॥ इति ॥ ४ ॥ अथैषां हृदयानि भवन्ति । ओं सर्वपापसंशोधन महापद्म ॥ ओं सवानन्तर्यशोधन समयपद्म ॥ ओं सर्वपापप्रणाशन धर्मपद्म ॥ ओं सर्वकर्मावरणविशोधक कर्मपद्म ॥ ततः सर्वावरणपरिक्षयज्ञानं शिक्षयेत् । लोकेश्वरमहामुद्रां भावयेत्सुसमाहितः । शुध्य शुध्य इति प्रोच्य सर्वकर्माणि शोधयेत् ॥ १ ॥ बध्वा वै कर्मसमयां लोकेश्वरसमाधिना । बुध्य बुध्य प्रवर्तस्तु सर्वकर्माणि शोधयेत् ॥ २ ॥ लोकेश्वरसमापत्त्या धर्ममुद्रां तु भावयेत् । धी धी धी धी-ति प्रोच्यन् वै सर्वकर्माणि शोधयेत् ॥ ३ ॥ बध्वा वै कर्ममुद्रां तु लोकेश्वरसमाधिना । ही ही ही ही-ति सन्धाय सर्वकर्माणि शोधयेद् ॥ इति ॥ ४ ॥ तत्रैषां हृदयानि भवन्ति । ओं पाप क्षपय पद्म ॥ ओमावरण क्षपय पद्म ॥ ओं नीवरण क्षपय पद्म ॥ ओं कर्म क्षपय पद्म ॥ ततः सर्वतथागतपूजाज्ञानं शिक्षयेत् । लोकेश्वरमहामुद्रां बध्वा तु सुसमाहितः । ओमोमोमोमिति ब्रुयात्सर्वपूजाप्रवर्तनन् ॥ १ ॥ बध्वा वै समयाग्रन्तु लोकेश्वरसमाधिना । भूर्भूर्भूर्भूरिति प्रोक्तो सर्वबुद्धान् स पूजयेत् ॥ २ ॥ लोकेश्वरसमापत्त्या धर्मपद्मं तु भावयेत् । हे हे हे हे-ति सन्धाय सर्वबुद्धान् स पूजयेत् ॥ ३ ॥ पद्मकर्ममयीम्मुद्रां बध्वा गाढं समाहितः । धे धे धे धे-ति प्रोच्यन् सर्वबुद्धान् स पूजयेद् ॥ इति ॥ ४ ॥ तत्रासां हृदयानि भवन्ति । ओमोंकार महापद्म ॥ ओं भूक्कार समयपद्म ॥ ओं हेक्कार धर्मपद्म ॥ ओं धेक्कार कर्मपद्म ॥ ततः सिद्धिज्ञानं शिक्षयेत् । लोकेश्वरमहामुद्रां बध्वा तु सुसमा[हितः । ह्री ह्री ह्री ह्री-]ति वर्तेत सिद्धिन् लोकेश्वरी भवेत् ॥ १ ॥ बध्वा वै समयाग्रीन्तु लोकेश्वरसमाधिना । श्री श्री श्री श्री-ति सन्धाय प्राप्नुयात्सिद्धिमुत्तमाम् ॥ २ ॥ लोकेश्वरसमापत्तिं भावयन् सुसमाहितः । धिक्धिक्धिक्धिगिति प्रोक्ते पद्मक्रोधस्तु सिध्यति ॥ ३ ॥ कर्ममुद्रां समाधाय महापद्ममयीं [शुभाम् । सिः] सिः सिः सी-ति सन्धाय पद्मसिद्धिमवाप्नुते- ॥ ति ॥ अथासां हृदयानि भवन्ति । ओं ह्रिः सिध्य ॥ ओं श्रीः सिध्य ॥ ओं धिक्सिध्य ॥ ओं [सिः सिध्य ॥] मुद्र ततः कर्मरहस्यमुद्राज्ञानं भवति । लोकेश्वरसमापत्त्या रमयन् सर्वयोषितः । अहो सुख इति प्रोक्ते सर्वबुद्धान् स पूजयेत् ॥ १ ॥ लोकेश्वरसमापत्त्या रमयन्सर्वयोषितः । प्रिये प्रिये-ति वै प्रोके बुद्धानां भवति प्रियः ॥ २ ॥ लोकेश्वरसमापत्त्या रमयन् सर्वयोषितः । [अहो रति-ति वै प्रोक्ते नित्यं रतिं स प्राप्नुते ॥ ३ ॥ लोकेश्वरसमापत्त्या रमयन् सर्वयोषितः । सुख सुख इति प्रोक्ते तस्य सुखं न नश्यत ॥ इति ॥ ४ ॥ अथासां] हृदयानि भवन्ति । ओं सर्वबुद्धपूजाप्रवर्तन पद्म ॥ ओं प्रीतिकर पद्म होः ॥ ओं रतिप्रवर्तन पद्म ॥ ओं महासुख पद्म दृढ हन् ॥ [ततः कर्ममहामुद्रां] यथावच्छिक्षयेत् । ततः सुकुड्मलाञ्जलिं समयमुद्रां वज्रकार्यं मण्डलयोगेन सर्वस्थानेषु स्थापयेत् । ततः पद्मकुल[कर्ममुद्रा त्र इति] वक्तव्याः । कर्मसमयां द्विधीकृत्य कर्ममुद्राः स साधयेदिति ॥ सर्वतथागतधर्मसमयान्महाकल्पराजात्कर्ममण्डल[विधिविस्तरः समाप्तः] ॥ छप्तेर्१८ एपिलोगुए ओf थे सर्व-तथगत-धर्म-समय नम मह-कल्प-रज अथ भगवान् पुनरपि वज्रधर्मसमयमुद्राधिष्ठानं नाम समाधिं समापद्येमां स्वमुद्राहृदय[मभाषतों वज्र]धर्मपद्म हूम् ॥ अथवज्रपाणिरियं स्वमुद्राहृदयमभाषतथ वज्र जीः ॥ अथ वज्रगर्भो बोधिसत्व इमां स्व[मुद्रामभाषतों वज्ररत्न]मुकुटे हूम् ॥ अथ वज्रनेत्रो बोधिसत्व इमां स्वमुद्रामभाषतों धर्मपद्मि धीः ॥ अथ वज्रविश्वो बोधि[सत्व इमां स्वमुद्रामभाषतों सर्व]मुखि हूम् ॥ देलिनेअतिओनोf थे मन्दल अथार्यावलोकितेश्वरो बोधिसत्वो महासत्व इदं चतुर्मुद्रामण्डलमभाषत् । [अथातः संप्रवक्ष्यामि] चतुर्मुद्राग्रमण्डलम् । वज्रधातुप्रतीकाशं महामण्डलसन्निभम् ॥ १ ॥ मुद्रामण्डलमध्ये तु बुद्धबिम्बं निवेशयेत् । तस्य पार्श्वेषु सर्वेषु [वज्रपद्मादिं वै लिखे]त् ॥ २ ॥ इनितिअतिओनिन्तो थे मन्दल अथात्र महामण्डले आकर्षणादिविधिविस्तरङ्कृत्वा, यथावत्प्रवेश्यैवं ब्रूयात्"न त्वयेदं कस्यचिद्वक्तव्यं; मा ते महादुःखं [भवेद्, अकाल]मरणं विषमक्रियये" ति । ज्नन ततो ज्ञानान्युत्पादयेत् । पद्मं हस्तेन वै गृह्य समाजिघ्रन् प्रयत्नतः । तेन गन्धेन संयोज्य बुद्धानां तु प्रसिध्य[ति] ॥ १ ॥ बुद्धबिम्बं जटामध्ये प्रतिष्ठाप्य समाहितः । सर्वलोकं वशंकुर्याद्दर्शयन् गर्वया व्रजन् ॥ २ ॥ पद्मपद्ममहाबिम्बं कारयित्वा समाधिना । उपविश्य यथापायं मनसा स तु मारयेत् ॥ ३ ॥ चतुर्मुखं तु वै पद्मं कारयित्वा करेण तु । संगृह्यावेशनादिनि भ्रामयन् प्रकरोति सः ॥ ४ ॥ अथैषां हृदयानि भवन्ति । ओं गन्धपूजाग्र्य साधय ह्रीः ॥ ओं पद्ममुकुट तथागत वशीकुरु सर्वान् लोकेश्वराभिषेक समय होः ॥ ओं पद्मपद्म मारय सर्वप्रत्यर्थिकान् समाधिज्ञान धिक् ॥ ओं विश्वपद्म सर्वकर्मकरो भव ललि लुलि लेलि हूं फट् ॥ मुद्र ततो मुद्रारहस्यज्ञानं शिक्षयेत् । रक्तः सं सर्वकार्याणि साधयेत्समयो ह्ययम् । दुःसाध्यापि हि मुद्रा वै क्षणात्सिध्यति योगत ॥ इति ॥ तत्रास्य समयो भवति ओं साधय पद्मराग समय अः ॥ ततो महामुद्रादिसर्वमुद्राबन्धं शिक्षयेत् ॥ चतुर्मुद्रामण्डलविधिविस्तरः समाप्तः ॥ इइइ.६ एकमुद्र-मन्दल अथार्यावलोकितेश्वरो महाबोधिसत्व इदं सर्वजगद्विनयंनाम हृदयमभाषत् । ओं सर्वजगद्विनय महासत्वागच्छ शीघ्रं वैश्वरूप्यं दर्शय मम च सर्वसिद्धयः प्रयच्छ ह्रीः ॥ देलिनेअतिओनोf थे मन्दल अथार्यावलोकितेश्वरो महाबोधिसत्व इदं सर्वजगद्विनयं नाम मण्डलमभाषत् । अथातः संप्रवक्ष्यामि जगद्विनयमण्डलम् । महामण्डलयोगेन संलिखेद्बाह्यमण्डलम् ॥ १ ॥ तस्याभ्यन्तरतः पद्मं तथैव च समालिखेत् । तत्र सरोजा विस्फारि विश्वरूपं समालिखेद् ॥ इति ॥ २ ॥ इनितिअतिओनिन्तो थे मन्दल अथात्र महामण्डले यथावद्विधिविस्तरेण प्रवेश्य, तथैवोक्त्वा, सर्वजगद्विनयज्ञानं शिक्षयेत् । मुद्र मण्डलं तु समालिख्य जगद्विनयसंज्ञितम् । भावयंस्तु महामुद्रां भवेद्विश्वधरोपम ॥ इति ॥ ततो जगद्विनयरहस्यमुद्राज्ञानं शिक्षयेत् । विश्वरूपसमाधिन्तु भावयन् सुसमाहितः । द्वयेन्द्रियसमापत्त्या मण्डले तु स सिध्यति ॥ ततो महामुद्रादिमुद्राबन्धं शिक्षयेत् । तथैव सिद्धयः, एवं पटादिष्विति ॥ मुद्रायामप्येकमुद्रामण्डलयोगेन तथैव सिद्धय इति ॥ अथ सर्वतथागताः पुनः समाजमागम्यावलोकितेश्वराय महाबोधिसत्वाय साधुकाराण्यददन् । साधु ते वज्रसत्वाय वज्ररत्नाय साधु ते । वज्रधर्माय ते साधु साधु ते वज्र[कर्मणे ॥]१ ॥ सुभाषितमिदं सूत्रं वज्रयानमनुत्तरम् । सर्वतथागतं गुह्यं महायानभिसंग्रहम् ॥ इति ॥ सर्वतथागततत्त्वसंग्रहात्सर्वतथागतधर्मसमयो नाम महाकल्पराजा परिसमाप्तः ॥ छप्तेर्१९ सर्वर्थसिद्धि-महमन्दल-विधि-विस्तर ह्य्म्नोf १०८ नमेसोf थे महबोधिसत्त्व अकसगर्भ अथ खलु सर्वतथागताः पुनः समाजमागम्य, सर्वतथागताभिषेकरत्नं तमेव वज्रधरमार्याकाशगर्भ महाबोधिसत्वमनेन नामष्टशतेनाध्येषितवन्तः । आकाशगर्भं सत्वार्थ महासत्व महाद्युते । महारत्न सुरत्नाग्र्य वज्ररत्न नमोऽस्तु ते ॥ १ ॥ अभिषेक महारत्न महाशुद्ध महाशुभ । बुद्धरत्न विशुद्धाङ्ग रत्नरत्न नमोऽस्तु ते ॥ २ ॥ आकाशाकाशसंभूत सर्वाकाश महानभ । आकाशधातु सर्वाश सर्वाशाग्र्य नमोऽस्तु ते ॥ ३ ॥ रत्नसंभव रत्नोर्ण बुद्धोर्ण सुतथागत । सर्वरत्न सुसर्वाग्र्य रत्नकार्य नमोऽस्तु ते ॥ ४ ॥ रत्न रत्नाग्र्य रत्नोग्र रत्नसर्वतथागत । रत्नोत्तम महाकाश समाकाश नमोऽस्तु ते ॥ ५ ॥ अलङ्कार महाशोभ शोभाकर सुशोभक । शुद्ध सर्वार्थ शुद्धार्थ दानचर्य नमोऽस्तु ते ॥ ६ ॥ धर्मरत्न विशुद्धाग्र्य सङ्घरत्न तथागत । महाभिषेक लोकार्थ प्रमोदार्थ नमोऽस्तु ते ॥ ७ ॥ दान प्रदन दानाग्र्य त्याग त्यागाग्र्य दायक । सर्वसत्वार्थ तत्वार्थ महार्थार्थ नमोऽस्तु ते ॥ ८ ॥ चिन्ताराज महातेज दानपारमितानय । तथागत महासत्व सर्वबुद्ध नमोऽस्तु ते ॥ ९ ॥ तथागत महारत्न तथागत महाप्रभ । तथागत महाकेतो महाहास नमोऽस्तु ते ॥ १० ॥ तथागताभिषेकाग्र्य महाभिषेक महाविभो । लोकनाथत्व लोकाग्र्य लोकसूर्य नमोऽस्तु ते ॥ ११ ॥ रत्नाधिकाधिकतर रत्नभूषण रत्नधृक् । रत्नालोक महालोक रत्नकीर्ते नमोऽस्तु ते ॥ १२ ॥ रत्नोत्कर सुरत्नोत्थ मणे वज्रमणे गुण । रत्नाकर सुदीप्ताङ्ग सर्वरत्न नमोऽस्तु ते ॥ १३ ॥ महात्म यष्टि रत्नेश सर्वाशापरिपूरक । सर्वाभिप्रायसंप्राप्ति रत्नराशि नमोऽस्तु ते ॥ १४ ॥ अ[भ्व]ग्र्य व्यापि सर्वात्म वरप्रद महावर । विभूते सर्वसंपत्ते वज्रगर्भ नमोऽस्तु ते ॥ १५ ॥ यः कश्चिद्धारयेन्नाम्नामिदन्तेऽष्टशतं शिवम् । सर्वबुद्धाभिषेकं तु स प्राप्नोत्यनघः क्षणात् ॥ १६ ॥ अध्येषयामस्त्वां रत्न भाष स्वधनसंचयम् । सर्वबुद्धाभिषेकाग्र्यमुत्पाद नियमकुलम् ॥ १७ ॥ इति ॥ अथाकाशगर्भो बोधिसत्वः इदं सर्वतथागतवचनमुपश्रुत्य, सर्वतथागताभिषेकसमयं नाम स्वहृदयमभाषतों वज्ररत्नं हूम् ॥ अथ भगवान् वैरोचनस्तथागत इदं सर्वतथागतमणिसमयं नाम विद्योत्तममभाषतों सर्वतथागताशापरिपूरणमहारत्न हूम् ॥ अथ वज्रपाणिर्महाबोधिसत्व इमं स्वकुलसंभवं विद्योत्तममभाषतों वज्र हूं त्रः ॥ अथ वज्रगर्भो बोधिसत्व इमं स्वविद्योत्तममभाषतों मणि हूम् ॥ अथ वज्रनेत्रो बोधिसत्व इमं स्वकुलसंभवं विद्योत्तममभाषतों पद्म ह्रीः ॥ अथ वज्रविश्वो बोधिसत्वो महासत्व इमं स्वविद्योत्तममभाषतों विश्वरत्न हूम् ॥ अथार्याकाशगर्भो बोधिस[त्वो महासत्वः] सर्वतथागताभिषेकरत्नंनाम समाधिं समापन्नः; समनन्तरसमापन्ने चाथ तावदेव सर्वतथागतहृदयेभ्यो वज्रमणिरत्नरश्मयो निश्चरिताः । ते सर्वलोकधातवोऽवभास्य सर्वसत्वान् सर्वतथागताभिषेकैरभिषिच्य, पुनरप्येकध्यीभूत्वा, भगवत आकाशगर्भस्य महाबोधिसत्वस्य हृदयेऽनुप्रविष्टा इति । अथ तताकाशगर्भहृदयात्स एव भगवान् वज्रपाणिः समन्तरश्मिज्वालागर्भा विचित्रवज्रमणिरत्नाभिषेकाद्याभरणालङ्कारालङ्कृतकाया महवज्रमणिरत्नचिन्हमुद्राव्यग्रकरा महाबोधिसत्वकाया भूत्वा विनिःसृत्य, सर्वलोकधातुषु महारत्नवर्षादिभिः रत्नोत्पत्तिभिः सन्तोष्य, पुनरागत्य, भगवतो वैरोचनस्य सर्वतो वज्रधातुमहामण्डलयोगेन चन्द्रमण्डलाश्रिता भूत्वेदमुदानमुदानयिंसुः । अहो हि सर्वबुद्धानां सर्वरत्नसमुच्चयम् । वज्ररत्नकुलं त्वेदं संभूतं जगदर्थत ॥ इति ॥ देलिनेअतिओनोf थे मन्दल अथाकाशगर्भो बोधिसत्वो महासत्व इति स्वकुलमुत्पाद्य, सर्वतथागतेभ्यः सर्वाशापरिपूर्ये निर्यात्येदं सर्वार्थसिद्धिन्नाम महामण्डलमभाषत् । अथातः संप्रवक्ष्यामि महामण्डलमुत्तमम् । वज्रधातुप्रतीकाशं सर्वसिद्धिरिति स्मृतम् ॥ १ ॥ चतुरश्रं चतुर्द्वारं चतुष्तोरणशोभितम् । चतुःसूत्रसमायुक्तं पट्टस्रग्दामभूषितम् ॥ २ ॥ सर्वमण्डलकोणेषु द्वारनिर्यूहसन्धिषु । खचितं वज्ररत्नैस्तु सूत्रयेद्बाह्यमण्डलम् ॥ ३ ॥ तस्याभ्यन्तरतः कार्यं वज्ररत्नसमं पुरम् । अष्टस्तंभाग्रयोगेन सूत्रणं तत्र कारयेत् ॥ ४ ॥ पञ्चमण्डलशोभं तु नानारत्नाकरोज्ज्वलम् । स्वमुद्रापरिवारं तु तत्र बुद्धन्निवेशयेत् ॥ ५ ॥ तत्रैषां हृदयानि भवन्ति । ओं बुद्धरत्न हूम् ॥ ओं वज्रमणि हूम् ॥ ओं वज्ररत्नाङ्कुर हूम् ॥ ओं वज्ररत्नपद्म हूम् ॥ ओं रत्नपद्मवर्ष हूम् ॥ वज्रवेगेन चाक्रम्य सर्वाशासिद्धिमण्डलम् । तत्रस्थं वज्रगर्भ तु लिखेद्रत्नवरप्रदम् ॥ १ ॥ तस्य पार्श्वेषु सर्वेषु रत्नमुद्रा समन्धिताः । महासत्वाः समालेख्या यथावदनुपूर्वशः ॥ २ ॥ अथैषां हृदयानि भवन्ति । ओं सर्वार्थसिद्धिप्रद हूम् ॥ ओं वज्रमणिचिन्हाकाशगर्भ भगवन् सिध्य सिध्य हूम् ॥ ओं रत्नाङ्कुशाकर्षय सर्वार्थानानय शीघ्रं सर्वतथागतसत्यमनुस्मर हूम् ॥ ओं मणिराग वशीकुरु सर्वार्थनानयाकाशगर्भ हूम् ॥ ओं रत्नतुष्टि हूम् ॥ वज्रवेगेन चाक्रम्य रत्नामालस्य मण्डलम् । तत्र मध्ये लिखेत्सम्यग्रत्नमालाधरं परम् ॥ १ ॥ तस्य पार्श्वेषु सर्वेषु यथावदनुपूर्वशः । महासत्वाः समालेख्या मणिचिन्हाग्रपाणयः ॥ २ ॥ तत्रैषां हृदयानि भवन्ति । ओं रत्नदृष्टि त्रः ॥ ओं सर्वतथागताभिषेकरत्नमाल हूम् ॥ ओं मणिसूर्य हूम् ॥ ओं चिन्तामणिध्वज सर्वाशाप्रपूरकाकाशगर्भ हूम् ॥ ओं रत्नाट्टहास हस ह ह हूम् ॥ वज्रवेगेन चाक्रम्य रत्नपद्मस्य मण्डलम् । तत्रस्थं तु समालेख्यं रत्नपद्मधरं विभुम् ॥ १ ॥ तस्य पार्श्वेषु सर्वेषु महासत्वान् समालिखेत् । मणिचिन्हान् समासेन यथावदनुपूर्वशः ॥ २ ॥ तत्रैषां हृदयानि भवन्ति ॥ ओं रत्नपद्म हूम् ॥ ओं [त्यागसमाधिज्ञान]गर्भ हूम् ॥ ओं रत्नकोशाग्र्य हूम् ॥ ओं मणिचक्र प्रवर्तय हूम् ॥ ओं रत्नभाष हूम् ॥ वज्रवेगेन चाक्रम्य रत्नवृष्टेस्तु मण्डलम् । तत्र लेख्यं महासत्वं र[त्नवृष्टिं प्रवर्ष]यन् ॥ १ ॥ तस्य पार्श्वेषु सर्वेषु महासत्वान् यथाविधि । रत्नचिन्हसमोपेतान्मुद्राहस्तान् समासतः ॥ २ ॥ तत्रैषां हृदयानि भवन्ति । ओं रत्नवृष्टि वर्षय सर्वार्थसंपदो भगवन्मणिहस्त हूम् ॥ ओं मणिपूजा समय हूम् ॥ ओं मणिबन्ध कवच हूम् ॥ ओं मणिदंष्ट्राकराल महायक्ष हर हर सर्वार्थान् भीषापय हूम् ॥ ओं मणिरत्न बन्ध समय हूम् ॥ वज्रवेगेन चाक्रम्य कोणभागेषु सर्वतः । रत्नलास्यादयो लेख्या यथावदनुपूर्वशः ॥ तत्रासां मुद्रा भवन्ति । ओं रत्नरति हूम् ॥ ओं रत्नमाले हूम् ॥ ओं रत्नगीते हूम् ॥ ओं रत्ननृत्ये हूम् ॥ वज्रवेगेन निःक्रम्य बाह्यमण्डलमुत्तमम् । बाह्यमण्डलकोणेषु धूपपूजादयो लिखेत् ॥ तत्रासां मुद्रा भवन्ति । ओं धूपरत्ने ॥ ओं पुष्पमणि ॥ ओं रत्नालोके ॥ ओं मणिगन्धे ॥ द्वारपालास्तु कर्तव्या द्वारमध्यचतुष्टये । अतः परं प्रवक्ष्यामि मण्डले विधिविस्तरम् ॥ अथात्र हृदयानि भवन्ति । ओं सर्वरत्नाकर्ष आर्यारुण महासत्व भगवन्तमाकाशगर्भ चोदयाकर्षय शीघ्रं होः जः ॥ ओं सर्वरत्नप्रवेशसमय प्रवेशय समयान्महामणिराजकुलं रत्नपाश हूम् ॥ ओं मणिबन्ध हूं वम् ॥ ओं मणिरत्नावेश अः ॥ इनितिअतिओनिन्तो थे मन्दल अथात्र महामण्डले स्वयं मणिरत्नाचार्यो यथावत्प्रविश्य, विधिविस्तरमात्मनः कृत्वा, ततो रत्नाधिष्ठितकलशोदकेन मणिशिष्यानभिषिच्य, वज्रमणिसमयमुद्रां बन्धयेदनेन हृदयेन ओं वज्रमणि समय वम् ॥ ततो यथावर्णप्राप्तितया वस्त्रमुत्तरासङ्गं कृत्वा, तादृशेनैवाक्षिणी बध्वा, प्रवेशयेदनेन हृदयेन ओं हूं मणिराजकुलम् ॥ ततः प्रवेश्य वक्तव्यं "न त्वयेदं कस्यचिद्वक्तव्यं; माते सर्वजन्मसु दारिद्र्यदुःखान्मोक्षे न भवेन्, नरकवासश्च दृढो भवेद्" इत्युक्त्वा, समयं स्फोटयेत्; महायानाभिसमयं चोच्चारयेत् । ततः समाविष्टस्य वज्रवाचा परिपृच्छेत् । "कुत्र महानिधिरस्ति? । कथं वा प्राप्यते ।" ततो भगवानाकाशगर्भो बोधिसत्वः सर्वं जल्पापयतीत्य; उक्तमात्रे मुखबन्धं मुक्त्वा, महामण्डलं दर्शयेत्, सर्वतथागताभिषेकसमयं चोदाहरेत्, यावद्भगवांस्तथागतस्तु गत इति । ततो यथाविभवतः पूजान् कृत्वा, सर्वकार्याणि साधयेदिति । मुद्र अथात्र ज्ञानमुद्रा भवन्ति । वज्रगर्भमहामुद्रां बध्वा तु सुसमाहितः । निधानं खनते यत्र निधानं तत्र पश्यति ॥ १ ॥ बध्वा तु समयाग्रीं वै निधानं यत्र विद्यते । पीडयेत्तत्र तां मुद्रां स्वयमुत्तिष्ठते तदा ॥ २ ॥ वज्रगर्भसमाधिन्तु भावयन् सुसमाहितः । मनसा चैव जानाति निधानं यत्र तिष्ठति ॥ ३ ॥ बध्वा कर्ममयीं मुद्रां वज्रगर्भसमाधिना । तां मुद्रमाविशेद्यत्र निधानं तत्र लक्षयेत् ॥ ४ ॥ तत्रैषां हृदयानि भवन्ति । ओं महामणिरत्नाविश हूम् ॥ ओं मणिपीड दर्शय ॥ ओं रत्नसमाधि ब्रूहि ॥ ओं रत्नावेश दर्शय ॥ महामुद्रां समाधाय यत्र कायं तु वेष्टयेत् । तत्र रत्ननिधानं तु ज्ञातव्यं समयात्मभिः ॥ १ ॥ बध्वा तु समयाग्रीं वै यत्राविश्य परिस्फुटेत् । निधानन्तत्र विज्ञेयं महारत्नमयं भवेएत् ॥ २ ॥ समाधिमुद्रां बध्वा वै यद्याविश्य स्वयं पुनः । ब्रूयाद्यत्र निधानं तु महारत्नमयं भवेत् ॥ ३ ॥ कर्ममुद्रां तु बध्वा वै यदाविश्य परम्परम् । हस्तौ बन्धे तु समयान्निधिन्तत्र विनिर्देशेद् ॥ इति ॥ ४ ॥ तत्रैषां हृदयानि भवन्ति ॥ ओं महारत्नकाय दर्शय रत्नम् ॥ ओमाकाशगर्भ मणिरत्न स्फुट स्फुट यत्र निधिः ॥ ओं मणिरत्नज्ञान स्वयं ब्रूहि ॥ ओं पुनः समय बन्ध दर्शयस्व ॥ बध्वा तु वै महामुद्रां यत्राशङ्का भवेत्तथा । तत्र ज्ञानेन विज्ञेयं निधानं रत्नसंभवम् ॥ १ ॥ यत्र शङ्का भवेत्तत्र समयाग्रीन्तु बन्धयेत् । यदा मोक्षं स्वयं यायान्निधिन्तत्र विनिर्दिशेत् ॥ २ ॥ समाधिमुद्रां बध्वा वै शङ्का यत्र भवेद्ध्रुवा । ज्ञानमुत्पाद्य विज्ञेयं निधिस्तत्रास्ति शाश्वतः ॥ ३ ॥ यत्र भूयो भवेच्छङ्का कर्ममुद्रां तु तत्र वै । बध्नीयाद्विधिवत्तां तु स्फुटेज्ज्ञेयो निधिः पुनः ॥ ४ ॥ तत्रैषां हृदयानि भवन्ति । ओं निधिज्ञानाविश ॥ ओं रत्नसमय मुञ्च निधि बन्धान् ॥ ओं धर्मरत्न ब्रूहि निधानम् ॥ ओं सर्वकर्माणि स्फोटय दर्शय निधि बन्धोत्क्षिप ॥ महामुद्रां तु सन्धाय निधानं परिमार्गयेत् । यत्रस्थस्य समावेशो भवेत्तत्र विनिर्दिशेत् ॥ १ ॥ बध्वा समयाग्रीन् वै निधिं तु परिमार्गयेत् । यत्रस्थो दृढतां यायान्निधिन्तत्र विनिर्दिशेत् ॥ २ ॥ समाधिमुद्रां सन्धाय निधानं परिमार्गयेत् । यत्रस्थो ज्ञानवान् भूयान्निधिन्तत्र विनिर्दिशेत् ॥ ३ ॥ बध्वा कर्ममयीं मुद्रां निधिं तु परिमार्गयेत् । यत्रस्थः कर्ममुद्रां तु भ्रामयेत्तत्र निर्दिशेत् ॥ ४ ॥ तत्रैषां हृदयानि भवन्ति । ओं महारत्न परीक्षाविश ॥ ओं रत्नसमय दृढ दर्शय ॥ ओं रत्नपरीक्षा ज्ञानाविश ॥ ओं मणिकर्म भ्रामय ॥ ततो मणिरहस्यमुद्राज्ञानं शिक्षयेत् ॥ द्वयेन्द्रियसमापत्त्या निधानं परिमार्गयेत् । भावयंस्तु महामुद्रां समावेशान्निधिं लभेत् ॥ १ ॥ बध्वा तु समयाग्रीन् वै रामयंस्तु स्त्रियन्तथा । यत्र मुद्रा दृढीभूयान्निधिन्तत्र विनिर्दिशेत् ॥ २ ॥ द्वयेन्द्रियसमापत्त्या निधानं परिमार्गयेत् । भावयन् ज्ञानमुद्रां तु निधिज्ञानं प्रवर्तते ॥ ३ ॥ बध्वा तु कर्ममुद्रां वै द्वयेन्द्रियसमाधितः । स्फुटेद्यत्र तु सा मुद्रा निधिन्तत्र विनिर्दिशेद् ॥ इति ॥ ४ ॥ तत्रैषां हृदयादि भवन्ति । ओं महामणि संयोगविश ॥ ओं समय संयोगदृढो मे भव ॥ ओं निधिज्ञानाविशाविश संयोग ॥ ओं सर्वकर्म स्फोट संयोग ॥ ततो महामणिकुलसर्वमुद्राज्ञानं शिक्षयेत् । अथ महामुद्रा भवन्ति । यथालेख्यानुसारतौ भावयंस्तु महामुद्राः । सर्वार्थोत्तमं सि[ध्यति चन्द्रमण्डलमध्यस्थाः ॥ ततो] महामुद्राणां [क्रिया भवन्ति ।] बुद्धमुद्रा तु बुद्धत्वं सुसिद्धिर्वज्रगर्भयोः । रत्नाङ्क[श्या समाकर्षेत्मणिरामयानुरमेत् ॥ १ ॥ मण्युदग्र्या संतोषका] मणिदृष्ट्यार्थहारिका । मणिमालाभिषेका तु मणिसूर्या सुतेजदा ॥ २ ॥ चिन्तामणिर्यथेच्छदा रत्नहासार्थहारिका । धर्मरत्ना[प्राप्तं धर्मं त्या] गाग्री लाभमुत्तमम् ॥ ३ ॥ रत्नकोशा महाकोशं मणिचक्राधिपत्यताम् । भाषामार्गेण सिद्धिस्तु रत्नवृष्टिर्महाधनम् ॥ ४ ॥ मणिपूजा सुपूज्यत्वं रत्नवर्मा दृढंकरी । रत्नदंष्ट्रा हरेदर्थं मणिमुष्ट्या तु सिध्यति ॥ ५ ॥ अथात्र महामण्डले समयमुद्राज्ञानं भवति । वज्ररत्नमयी मुद्रा सर्वबुद्धाभिषेकदा । महावज्रमणिं बध्वा वज्ररत्नं तु सिध्यति ॥ १ ॥ वज्रद्विकं मणीकृत्वा धनं वज्रधराल्लभेत् । सा एवाङ्गु ष्ठवज्रेण मणिं दद्याधृदि स्थितम् ॥ २ ॥ कुड्मलाग्र्या मणिं बध्वा लोकेशो धनदो भवेत् । वज्रकर्ममणिन्दद्यान्महाविश्वमणिध्वजम् ॥ ३ ॥ वज्रधात्वग्रमणिना बुद्धरत्नत्वमाप्नुयात् । समाग्रग्रा पृष्ठसंकोचा वज्रमङ्गुष्ठबन्धतः ॥ ४ ॥ इयं वज्रमणिः प्रोक्ता वज्रगर्भस्य पाणितः । अनया बुद्धमात्रया महावज्रमणिं लभेत् ॥ ५ ॥ रत्नवज्रां समाधाय सममध्योत्थिताङ्कराम् । अनया बद्धमात्रया स्वभिषेकाप्यवाप्नुयात् ॥ ६ ॥ सा एव मध्यमानामकनिष्ठा कुड्मलीकृत्वा । अनया तु धनं दद्यादवलोकितनामधृक् ॥ ७ ॥ वज्ररत्नप्रयोगेण तर्जन्यङ्गुष्ठकन्यसा । मध्यमाभ्यां नखसन्धानान् समानामाङ्कु रोत्थिता ॥ ८ ॥ वज्रबन्धं दृढीकृत्य तर्जनीभ्यां मणीकृता । प्रसारिताङ्गुष्ठमुखा हृदि सर्वार्थसिद्धिदा ॥ ९ ॥ वज्रबन्धं समाधाय मध्यमा मणियोजिता । मुद्रेयं मणिचिन्हस्य मणिरत्नप्रदायिका ॥ १० ॥ स एवाङ्कुशयोगेन तर्जनीभ्यां समन्धिता । सर्वार्थकर्षणी मुद्रा मणिरत्नाङ्कुशी स्मृता ॥ ११ ॥ सा एव वलि[तां कृत्वा] तर्जन्या तर्जनी ग्रहा । वाणाकर्षणायोगेन कर्षयन् रागयेज्जगत् ॥ १२ ॥ सा एव साधुकारा तु तर्जन्यङ्गुष्ठयोजिता । सा एवाङ्गुष्ठसन्धानसंच्छन्नाग्र्याङ्गुली तथा ॥ १३ ॥ अङ्गुष्ठान्तरयोश्चैव पुनरग्र्या मुखे क्षणात् । मणिदृष्टिस्तु सा ख्याता दृष्ट्यर्थानां प्रहारिका ॥ १४ ॥ सर्वार्थसिद्धिमाला तु स्वभिषेकप्रदायिका । सा एव हृदयेऽङ्गुष्ठमुखसन्धानयोजिता ॥ १५ ॥ हृदये मणिसूर्या तु महातेजःप्रदायिका । मूर्ध्निस्था च समानाम पताकाग्रविदारिता ॥ १६ ॥ महावज्रमणि पूर्वं सर्वाशापरिपूरिका । सा एव हाससंस्था तु लीलया परिवर्तिता ॥ १७ ॥ रत्नाट्टहासनाम्ना वै हासात्सर्वार्थकारिका । सर्वाग्रमणिपद्मा तु धनहारी समाधिना ॥ १८ ॥ सा एवान्त्यादिदाना तु महादानप्रदायिका । अधर्गतसमाङ्गुष्ठतर्जनी मणिसंस्थिता ॥ १९ ॥ भणिकोशा हरेदर्थान् जगतां विक्रमेण तु । वज्रबन्धाग्रचक्रा तु समाङ्गुस्थप्रवेशिता ॥ २० ॥ तर्जनीमणिसंस्थानाच्चक्रवर्तित्वदायिका । सा एवाञ्जली मुखबन्धे समुद्धृता ॥ २१ ॥ स तु सन्धाय वाचा वै स्वाज्ञया हरते धनम् । महावज्रमणिं बध्वा रत्नवर्ष [प्रवर्षिता] ॥ २२ ॥ सर्वाङ्गुल्युपस्तोभा तु चतुःशो वर्षते धनम् । महावज्रमणिं बध्वा नृत्यन्नुष्णीषमध्यतः ॥ २३ ॥ संपूज्य विधिवत्सर्वै सर्वरत्नैः संपूज्यते । [सर्वार्थसिद्धि] मुद्रां तु कण्ठदेशे परिष्वजेत् ॥ २४ ॥ मणिबन्धेति विख्याता रक्षा कवचिनी स्मृता । सा एव सर्वसिद्धयर्था यक्षयोगा मुखस्थिता ॥ २५ ॥ मणिदंष्ट्रेति [विख्या]ता भयात्सर्वार्थहारिणी । वज्रबन्धं दृढीकृत्य कुञ्चिताग्र्या सुयन्त्रिता ॥ २६ ॥ संगृह्याङ्गुष्ठयोः सम्यग्मणिमुष्टिस्तु सिद्धिदा । पूजाग्रसमयानां तु वज्रधातुप्रयोगतः ॥ २७ ॥ यथावन्मणियोगेन समयाग्र्योऽत्र कल्पिताः । मध्यमा मणियोगेन ता एव तु विकल्पिताः ॥ २८ ॥ एकाङ्कुश्यादियोगेन सर्वकर्मप्रसाधिका ॥ इति ॥ अथ महामणिकुलधर्ममुद्राज्ञानं भवन्ति, त्रः, ग्रः, त्रिः, ह्रीः, श्रीः, इः, रः हः, ध्रीः धीः, कृ, वा, रो, ढः, य, अः । रत्नमुष्टिं द्विधीकृत्य कर्ममुद्रास्तु साधयेद् ॥ इति ॥ सर्वतथागतकर्मसमयान्महाकल्पराजात्सर्वार्थसिद्धिमहामण्डलविधिविस्तरः समाप्तः । छप्तेर्२० रत्न-गुह्य-मुद्र-मन्दल-विधि-विस्तर अथ भगवान् पुनरपि सर्वतथागताभिषेकधारणीसमयसंभवरत्नाधिष्ठानं नाम समाधिं समापद्येमां स्वमुद्रामभाषतों वज्ररत्नस्तूपे हूम् ॥ अथ वज्रपाणिर्महाबोधिसत्व इमां स्वकुलसंभवां मुद्रामभाषतों वज्राभिषेकमाले अभिषिञ्च समये हूम् ॥ अथ वज्रगर्भो बोधिसत्वो महासत्व इमां स्वमुद्रामभाषतों वज्ररत्नाभिषेके हूम् ॥ अथ वज्रनेत्रो बोधिसत्वो महासत्व इमां स्वमुद्रामभाषतों वज्रधर्माभिषिञ्च माम् ॥ अथ वज्रविश्वो बोधिसत्वो महासत्व इमां स्वमुद्रामभाषतों सर्वाभिषेकपूजासमये हूम् ॥ देलिनेअतिओनोf थे मन्दल अथ भगवानार्याकाशगर्भो बोधिसत्वो महासत्व इदं स्वकुलसमयमुद्रामण्डलमभाषत् । अथातः संप्रवक्ष्यामि मुद्रामण्डलमुत्तमम् । वज्रधातुप्रतीकाशं रत्नगुह्यमिति स्मृतम् ॥ १ ॥ महामण्डलयोगन सूत्रयेत्सर्वमण्डलम् । तस्य मध्ये यथान्यायं बुद्धमुद्रां समालिखेत् ॥ २ ॥ पर्यङ्कस्थं मणिं पूर्व वज्रधातोः पुरो लिखेत् । मणिमालां मणीं पद्मे मणिं मणिपरीवृत्तम् ॥ तत्रासां मुद्रा भवन्ति । ओं त्रः ॥ ओं मणिसमये हूम् ॥ ओं मणिरत्नाभिषेकमाले हूम् ॥ ओं मणिरत्नपद्मि हूम् ॥ ओं मणिरत्नवृष्टिसमये हूम् ॥ वज्रवेगेन निष्क्रम्य सर्वसिद्धेस्तु मण्डले । वज्ररत्नस्य मध्ये तु महारत्नमणिं लिखेत् ॥ १ ॥ तस्य पार्श्वषु सर्वेषु स्वमुद्रामणिसंयुता । यथावदनुपूर्वेण रत्नाचार्यः समालिखेत् ॥ २ ॥ तत्रासां मुद्रा भवन्ति । ओं सर्वार्थसिद्धिप्रदे महावज्ररत्नसमय मणि सर्वार्थान्मे साधय धारणी हू ॥ ओं मणिरत्नाकर्षे हूम् ॥ ओं मणिरत्नसमयाङ्कुश्याकर्षय मणिकुलं जः ॥ ओं मणिरागसमये हूम् ॥ ओं मणिसार्थि हूम् ॥ वज्रवेगेन चाक्रम्य द्वितीयं मण्डलं तथा । तत्र मध्ये मणिं लेख्यं नेत्रद्विकसमन्धितन् ॥ १ ॥ तस्यास्तु सर्वपार्श्वेषु यथावदनपूर्वशः । मणिचिन्हसमोपेताः स्वमुद्रास्तु समालिखेत् ॥ २ ॥ तत्रासां मुद्रा भवन्ति ॥ ओं वज्रमणिरत्ननेत्रानय वशीकुरु सर्वार्थसंपदः शीघ्रं दृष्ट्याङ्कुशी हूम् ॥ ओं वज्रमणिरत्नमालेऽभिषिञ्च हूम् ॥ ओं मणिरत्नसूर्ये ज्वालय सर्व महातेजिनि हूम् ॥ ओं मणिचन्द्रध्वजाग्रि हूम् ॥ ओं मणिहासे हस हूम् ॥ वज्रवेगेन चाक्रम्य मणिपद्मं समालिखेत् । तस्य पार्श्वेषु सर्वेषु यथावदनुपूर्वशः ॥ १ ॥ तत्रासां मुद्रां भवन्ति । ओं मणिसमाधिपद्मिनि हूम् ॥ ओं मणिरत्नत्यागसमये हूम् ॥ ओं मणिसमयकोशे हूम् ॥ ओं मणिसमयचक्रे हूम् ॥ ओं मणिभाषाग्रि हूम् ॥ वज्रवेगेन चाक्रम्य चतुर्थं मण्डलोत्तमम् । तत्रस्थं रत्नवृष्ट्या तु वज्रं रत्नसमन्धितम् ॥ १ ॥ संलिखेत यथावत्तु कर्ममुद्रापरिवृतम् । मणिचिन्हप्रयोगैस्तु यथावदनुपूर्वशः ॥ २ ॥ अथासां मुद्रा भवन्ति । ओं रत्नवृष्टि साधय महामणि हूम् ॥ ओं महापूजासमये नृत्य अः ॥ ओं मणिरत्नसमयरक्षे हम् ॥ ओं वज्रमणिरत्न द्रंष्ट्राकराले हर हर हूम् ॥ ओं मणिसमयमुष्टि हूम् ॥ इनितिअतिओनिन्तो थे मन्दल अथात्र मणिगुह्यमण्डले यथावत्कर्म कृत्वा, शिष्यां प्रवेय, ब्रूयात् । "न त्वया कस्यचिदयं नयो वक्तव्यः । मा ते महादारि द्यमकालक्रिया नरकपतनं स्याद्" , इत्युक्त्वा स्वमणिसमयज्ञानान्युत्पादयेत् । मुद्र वज्ररत्नं नभे लिख्य वज्ररत्नसमाधिना । आत्मनस्तु ललाटे वै स्थाप्य राजा भवेद्ध्रुवम् ॥ १ ॥ वज्ररत्नं समालिख्य समयाग्रीन्तु बन्धयेत् । स्थाप्याभिषेकस्थानेषु राज्यत्वं भवते ध्रुवम् ॥ २ ॥ वज्ररत्नं समालिख्य वज्ररत्नसमाधिना । तज्ज्ञानरत्नं संस्थाप्य भवेद्राजा स्वयंकृतः ॥ ३ ॥ वज्ररत्नं नभे लिख्य कर्ममुद्रां तु बन्धयेत् । स्वस्थाने तत्प्रतिष्ठाप्य भवेद्राजा स्वयं कृत ॥ इति ॥ ४ ॥ तत्रैषां हृदयानि भवन्ति । महावज्ररत्नाभिषिञ्च माम् ॥ समयरत्नाभिषिञ्च माम् ॥ धर्मरत्नाभिषिञ्च माम् ॥ कर्मरत्नाभिषिञ्च माम् ॥ वज्ररत्नं तु हृदये महामुद्रां तु भावयेत् । भावयन्नभिषेकं तु प्राप्नोति परमाद्भुतम् ॥ १ ॥ वज्ररत्नं ललाटे तु भावयं सुसमाहितः । बध्वा वै रत्नवज्रान्तु भवेद्राजा तु सर्वतः ॥ २ ॥ वज्ररत्नं तु जिव्हायां वज्ररत्नसमाधिना । भावयन्नभिषेकं प्राप्नुयाद्धर्मराज्यताम् ॥ ३ ॥ वज्ररत्नं स्वमुष्णीषे भावयं सुसमाहितः । बध्वा वै कर्ममुद्रां तु भवेद्राजा सुकर्मकृद् ॥ इति ॥ ४ ॥ अथासां हृदयानि भवन्ति । ओं वज्ररत्नहृदयाभिषिञ्च होः ॥ ओं वज्ररत्नाभिषेक त्रः ॥ ओं वज्ररत्नज्ञानाभिषिञ्च वम् ॥ ओं वज्ररत्नोष्णीषाधीतिष्ठस्व माम् ॥ पटादिषु समालिख्य वज्ररत्नं स्वमात्मना । भावयंस्तु महामुद्रां महाराजा भवेत्स तु ॥ १ ॥ पटादिषु समालिख्य [वज्ररत्न] मनुत्तरम् । भावयेत्सत्ववज्रां तु समयानां भवेत्पतिः ॥ २ ॥ पटादिषु समालिख्य वज्ररत्नं स्वमात्मना । भावयं ध्यानमुद्रां तु भवे[द्धर्मपतिर्ध्रुवं] ॥ ३ ॥ पटादिषु समालिख्य वज्ररत्नमनुत्तरम् । भावयेत्कर्ममुद्रां तु भवेत्कर्माधिपः स्वयम् ॥ इति ॥ ॥ ४ ॥ तत्रैषां हृदयानि भवन्ति । वज्ररत्न[बिम्बाधितिष्ठ] ॥ वज्ररत्नबिम्ब प्रतिष्ठ ॥ वज्ररत्नबिम्बाविश ॥ वज्ररत्नबिम्ब कुरु ॥ सौवर्ण वाथ रौप्यं वज्ररत्नं तु भावयेत् । अन्यरत्नमयं वापि हृदि भाव्याभिषिच्यते ॥ १ ॥ सौवर्णमन्यरत्नं वा वज्ररत्नं त्वनुत्तरम् । स्थाप्य भूयो ललाटे तु भवेद्राजा महाधनः ॥ २ ॥ सौवर्णमन्यरत्नं वा वज्ररत्नन्तु भावयेत् । स्वमुखे चैव प्रक्षिप्य भवेद्वाचां पतिस्तु सः ॥ ३ ॥ सौवर्णमन्यरत्नं वा वज्ररत्नन्तु भावयेत् । उष्णीषे भावयं भूयो सर्वकर्मपतिर्भवेद् ॥ इति ॥ ४ ॥ तत्रैषां हृदयानि भवन्ति । ओं वज्ररत्नहृदयाभरण हूम् ॥ ओं वज्ररत्नाभिषेक महार्थप्रद ॥ ओं वज्ररत्नवाचस्पते ॥ ओं वज्ररत्नमहाकर्मपते ॥ ततो मणिकुलसमयमुद्रारहस्यज्ञानं शिक्षयेत् । महावज्रमणिं बध्वा तन्मणिं स्त्रीभगे तथा । प्रवेश्य तु महामुद्रां भावयन् सिद्धिमाप्नुते ॥ १ ॥ समयाग्र्या मणिं बध्वा स्त्रीभगे समयग्र्यया । बन्धया तु भवेत्सिद्धिरभिषेकेषु सर्वतः ॥ २ ॥ महावज्रमणिं बध्वा धर्ममुद्रां तु भावयन् । तन्मणिं स्त्रीभगे विध्वा भवेत्सिद्धिरनुत्तरा ॥ ३ ॥ कर्ममुद्रामणिं विध्वा स्त्रीभगे कर्ममुद्रया । बन्धया तु भवेत्सिद्धिः सर्वकर्मस्वनुत्तरम् ॥ इति ॥ ४ ॥ तत्रासां हृदयानि भवन्ति । ओं महासिद्धिः ॥ ओं समयाभिषेकसिद्धिः ॥ ओं धर्मसिद्धिः ॥ ओं कर्मसिद्धिः ॥ अथात्र मण्डले महामुद्राबन्धो भवति । रत्नवज्राङ्कुरां बध्वा मध्यानामान्तिमाङ्गुली । प्रसारितास्तु संधाय मूर्ध्नि स्थाप्याग्रसिद्धिदा ॥ १ ॥ वज्रबन्धं समाधाय ग्रन्थिताग्र्या युयोर्णगा । द्वयङ्गुष्ठानामिका वज्रा परिवर्त्याभिषेकदा ॥ २ ॥ वज्ररत्नप्रयोगेण सा एव परिवर्तिता । तर्जन्यग्रमुखा सङ्गादभिषेकन्ददाति सा ॥ ३ ॥ सा एवाङ्गुष्ठज्येष्ठाभ्यां धर्मवज्रप्रयोगतः । बध्वा ललाटगा चैव महाधर्माभिषेकदा ॥ ४ ॥ कर्मवज्रां समाधाय ललाटे परिवर्त्य वै । सर्वाभिषेकमालां तु स्थापयन्नभिषिञ्चति ॥ ५ ॥ रत्नसंभवमुद्रां तु समयां वज्रधातुजाम् । बध्वा रत्नप्रतिष्ठां तु ललाटे त्वभिषिच्यते ॥ ६ ॥ अङ्गुष्ठा बन्धपर्यङ्का तर्जनीद्वयसन्धिता । मणिमुखाग्र्ययोः कुर्यान्महावज्रमणिं लभेत् ॥ ७ ॥ वज्रबन्धं समाधाय मणिमुष्टिं प्रसारयेत् । मणिस्तु मध्यमाभ्यां तु मणिमालाभिषेकदा ॥ ८ ॥ वज्रबन्धं समाधाय मध्यमा मणियोजिता । द्व्यग्रानामविकासा तु पद्मङ्कृत्वा तुं सिध्यति ॥ ९ ॥ मध्यमाभ्यां मणिं बध्वा सर्वाङ्गुल्यः समुच्छिताः । भावयंस्तु मणीनेव भवेत्सुपरिवारवान् ॥ १० ॥ वज्ररत्नं समाधाय [मध्यमाङ्]गुष्ठयोगतः । समानामकनिष्ठा तु जिव्हा मुखे मणिप्रदा ॥ ११ ॥ सा एव तर्जनी वज्रा तत्स्था एव तथाङ्कु शी । तर्जन्या तर्जनी कर्षा [ताभ्यन्तुष्टिप्रदायि]का ॥ १२ ॥ मध्यमाभ्यां मणिं बध्वा द्र्यग्रसंकोचसंस्थिता । बध्वानामाङ्गुलिमुखानङ्गुष्ठद्वयच्छादिता ॥ १३ ॥ सा एव सूर्यावर्ता तु मूर्ध्नि बाहुप्रसारिता । मणिं ध्वजाग्रकेयूरा हासयोगेन योजिता ॥ १४ ॥ वज्रबन्धं समाधाय ज्येष्ठानाममुखोच्छिता । ताभिः पद्मं तु संभाव्य मध्यमाम्यां मणीकृता ॥ १५ ॥ ॥ सा एवान्त्यप्रदाना तु वज्रकोशप्रयोजिता । वज्रचक्रप्रयोगा तु सा एव मुखतोद्धृता ॥ १६ ॥ वज्ररत्नाङ्कु रां बध्वा सर्वाङ्गुल्यः प्रसारयेत् । तां तु मूर्ध्नि प्रतिष्ठाप्य रत्नवृष्टिस्तु वर्षयेत् ॥ १७ ॥ सा एव चक्रयोगा तु हृदि रत्नद्विधीकृता । मणिग्रहाग्रदंष्ट्रा तु मुष्टिर्मध्यमसन्धिते ॥ ति ॥ १८ ॥ ततः समयमुद्राज्ञानं शिक्षयेत् । एता एव महामुद्राः संपुटीकृत्य बन्धयेत् । गुह्यगुह्याः समासेन सिद्धिन्दद्युश्चतुर्गुणम् ॥ इति ॥ यथावद्वज्रगुह्ये तु सर्वकालं न बन्धयेत् । अतः परं प्रवक्ष्यामि धर्भमुद्राः समासत ॥ इति ॥ त्रैः ग्रैः हैः सैः ग्र्यः ख द्व्यैः हैः ध्रैः ध्यैः क्रैः वैः क्रयैः रै य्यः मैः । गुह्यगुह्याग्रमुष्टिस्तु द्विधीकृत्य सर्वकर्मिका ॥ इति ॥ सर्वतथागतकर्मसमयात्महाकल्पराजाद्रत्नगुह्यमुद्रामण्डलविधिविस्तरः समाप्तः ॥ छप्तेर्२१ ज्नन-मन्दल-विधि-विस्तर एमनतिओनोf देइतेइस्fरों समधि अथ भगवान् पुनरपि सर्वतथागताभिषेकज्ञानसमयसंभवाधिष्ठानन्नाम समाधिं समापद्येमं स्वविद्योत्तममभाषतों सर्वतथागताभिषेकज्ञानोत्तम हूम् ॥ अथ वज्रपाणिर्महाबोधिसत्व इमं स्वविद्योत्तममभाषतों वज्रज्ञानाभिषेकसमय हूम् ॥ अथ वज्रगर्भो बोधिसत्वो महासत्व इमं स्वविद्योत्तममभाषतों मणिरत्नाभिषेकज्ञान हूम् ॥ अथ वज्रनेत्रो बोधिसत्वो महासत्व इमं स्वविद्योत्तममभाषतों धर्माभिषेकज्ञानं हूम् ॥ अथ वज्रविश्वो बोधिसत्त्वो महासत्वः इमं स्वविद्योत्तममभाषतों सर्वाभिषेकज्ञान हूम् ॥ देलिनेअतिओनोf थे मन्दल अथाकाशगर्भो बोधिसत्वो महासत्वः इदं स्वकुलज्ञानमण्डलममभाषत् । अथातः संप्रवक्ष्यामि ज्ञानमण्डलमुत्तमम् । वज्रधातुप्रतीकाशं रत्नज्ञानमितिस्मृतम् ॥ १ ॥ महामण्डलयोगेन सूत्रयेत्सर्वमण्डलम् । हृदि चिन्हास्तु संलेख्या धर्ममण्डलयोगत ॥ इति ॥ २ ॥ अथात्र महामण्डले ज्ञानहृदयानि भवन्ति । ओं सर्वार्थसिद्धिज्ञान हूम् ॥ १ ॥ ओं मणिज्ञान हूम् ॥ २ ॥ ओं मणिज्ञानाङ्कुश ॥ ३ ॥ ओं मणिज्ञानराग ॥ ४ ॥ ओं मणिज्ञानतुष्टि ॥ ५ ॥ ओं ज्ञानदृष्टिमणि हूम् ॥ ६ ॥ ओं ज्ञानाभिषेक ॥ ७ ॥ ओं मणिज्ञानसूर्य ॥ ८ ॥ ओं मणिज्ञानध्वज ॥ ९ ॥ ओं मणिज्ञानाट्टहास ॥ १० ॥ ओं मणिज्ञान पद्म हूम् ॥ ११ ॥ ओं ज्ञानमणित्याग ॥ १२ ॥ ओं ज्ञानमणिकोश ॥ १३ ॥ ओं ज्ञानमणिचक्र ॥ १४ ॥ ओं ज्ञानमणिभाष ॥ १५ ॥ ओं ज्ञानमणिरत्नवर्ष ॥ १६ ॥ ओं मणिज्ञाननृत्यपूजासमय हूम् ॥ १७ ॥ ओं मणिज्ञानरक्ष ॥ १८ ॥ ओं मणिज्ञानयक्ष ॥ १९ ॥ ओं मणिज्ञानमुष्टि ॥ २० ॥ इनितिअतिओनिन्तो थे मन्दल अथात्र मण्डले यथावद्विधिविस्तरं कृत्वा, शिष्यानेवं ब्रूयात् । "न त्वया अदृष्टधर्ममण्डलस्य वक्तव्यम् । मा ते मरणकालः शीघ्रमेवासिद्धस्य स्याद्" , इत्युक्त्वा, मणिकुलधर्मज्ञानान्युत्पादयेत् । वज्रगर्भ समालिख्य पटादिषु समाधिना । भावयन् याचयेदर्थान्देहि रत्न इति ब्रूवन् ॥ १ ॥ वर्जगर्भं समालिख्य पटादिषु समाधिना । भावयन् याचयेद्रत्नां देहीति वाग्ब्रूवन् ॥ २ ॥ वज्रगर्भं समालिख्य पटादिषु विभावयन् । समापत्त्या तु सद्धर्भं देहि ज्ञानेति याचयन् ॥ ३ ॥ वज्रगर्भं समालिख्य पटादिषु विभावयन् । समापत्त्या तु सत्कर्म देहीति याचयेदिति ॥ ४ ॥ तत्रैषां हृदयानि भवन्ति । ओं देहि सर्वार्थान् भगवन् वज्रगर्भ ॥ ओं देहि सर्वरत्नान् भगवन् वज्रगर्भ ॥ ओं देहि सद्धर्म भगवन् वज्रगर्भ सत्सत्व ॥ ओं देहि सत्कर्म भगवन् वज्रगर्भ ॥ आकाशे वान्यदेशे वाभावयं सुसमाहितः । आकाशगर्भं सत्सत्वं याचयेदर्थसंपदः ॥ १ ॥ आकाशे वान्यदेशे वा भावयं सुसमाहितः । आकाशगर्भं सत्सत्वं याचयन् रत्नसंचयम् ॥ २ ॥ आकाशे वान्यदेशे वा भावयं सुसमाहितः । आकाशगर्भं सत्सत्वं याचयेद्धर्मसंपदः ॥ ३ ॥ आकाशे वान्यदेशे वा भावयं सुसमाहितः । आकाशगर्भं सत्सत्वं याचयेत्कर्मसंचयम् ॥ इति ॥ ४ ॥ अथैषां हृदयानि भवन्ति । ओं ज्ञानगर्भ देहि सर्वार्थान् । ओं ज्ञानगर्भ देहि सर्वरत्नान ॥ ओं ज्ञानगर्भ देहि सर्वधर्मानों ज्ञानगर्भ देहि सर्वकर्मान् ॥ वज्रगर्भ हृदि लिख्यं भावयं सुसमाहितः । यदा तु हृदयं कंपेत्ततः सिद्धो धनं ददेत् ॥ १ ॥ वज्रगर्भं ललाटे तु समालिख्य विभावयेत् । यदा तु कंपते शीर्षमभिषेकं स लप्स्यति ॥ २ ॥ वज्रगर्भं मुखे विध्वा भावयेत्तत्र एव हि । यदा तु स्फुटते तत्तु तदा वागस्य सिध्यति ॥ ३ ॥ वज्रगर्भं स्वमूर्धे तु प्रतिष्ठाप्य विभावयेत् । यदा तु ज्वालते तत्तु तदैवोर्ध्वगमो भवेद् ॥ इति ॥ ४ ॥ तत्रैषां हृदयानि भवन्ति । ओं हृदय गर्भ देहि धनम् ॥ ओं रत्नाभिषेकगर्भाभिषिञ्च ॥ ओं वाग्गर्भ सिध्य । ओं रत्नगर्भोष्णीषाकाशं गच्छ ॥ वज्रगर्भमहामुद्रां भावयं सुसमाहितः । याचयेद्देहि सिद्धिं मे इति-रत्नेति सिध्यति ॥ १ ॥ आकाशगर्भ समयीम्बध्वा तु सुसमाहितः । याचयेदभिषेकाणि मिलि-रत्नेति लप्स्यति ॥ २ ॥ वज्रगर्भसमाधिन्तु भावयं सुसमाहितः । याचयेद्देहि मे धर्म चिलि-रत्नेति लप्स्यति ॥ ३ ॥ आकाशगर्भकर्माग्रीं बध्वा तु सुसमाहितः । याचे[त्सर्वर]त्नानि किलि-रत्नेति लप्स्यतीति ॥ ४ ॥ अथैषां हृदयानि भवन्ति । ओमिलि ॥ ओं मिलि ॥ ओं चिलि ॥ ओं किलि ॥ मुद्र ततो मणिज्ञानरहस्यमुद्राज्ञानं[शिक्षयेत् ॥] द्वयेन्द्रियसमापत्त्या वज्रगर्भं तु भावयेत् । आकाशे वान्यदेशे वा परां सिद्धिमवाप्नुते ॥ १ ॥ द्वयेन्द्रियसमापत्त्या वज्रगर्भं तु भावयन् । आलेख्य चित्रलिखितं प्राप्नुयादभिषेचनम् ॥ २ ॥ द्वयेन्द्रियसमापत्त्या वज्रगर्भं तु भावयन् । तं प्रियं यस्य रमयेत्सर्वलोकं स रागयेत् ॥ ३ ॥ द्वयेन्द्रियसमापत्त्या वज्रगर्भ तु भावयन् । सर्वाकाशरजोविश्वैः सर्वसिद्धिर्भवेद्रध्रुवम् ॥ इति ॥ ४ ॥ तत्रासां हृदयानि भवन्ति । आकाशगुह्यज्ञान साधय हूम् ॥ चित्रगुह्यज्ञानाभिषिञ्च हूम् ॥ प्रियानुस्मृतिज्ञानगुह्य सर्वलोकं रामय हूम् ॥ सर्वगुह्यज्ञान सर्वसिद्धिं मे प्रयच्छ हूम् ॥ ततो महामुद्रां यथावद्बध्नीयात् । तादृशा एव सिद्धिः । ततो वज्रमणिं वज्रज्ञानमण्डलयोगेन स्थापयेत् ॥ अथ धर्ममुद्रा भवन्ति । सः, राः, रा, साः, राः, तेः, केः, हाः, धं, तीः, हे, भा, क, र, यः, सः । कर्ममुद्रा समासेन यथा स्थानेषु संस्थयेद् ॥ इति ॥ सर्वतथागतकर्मसमयात्महाकल्पराजाज्ज्ञानमण्डलविधिविस्तरः परिसमाप्तः ॥ छप्तेर्२२ कर्म-मन्दल-विधि-विस्तर एमनतिओनोf देइतिएस्fरों समधि अथ भगवान् पुनरपि सर्वतथागताभिषेककर्मसमयसंभवाधिष्ठानन्नाम समाधिं समापद्येमां स्वविद्योत्तममभाषतों सर्वतथागतकर्माभिषेके हूम् ॥ अथ वज्रापाणिर्महाबोधिसत्व इमां स्वकर्मसंभवां विद्योत्तमामभाषतों वज्रहुंकाराभिषेके ॥ अथ वज्रगर्भो बोधिसत्व इमां स्वविद्योत्तमामभाषातों सर्वाकाशसमताभिषेके हूम् ॥ अथ वज्रनेत्रो बोधिसत्व इमां स्वविद्योत्तमामभाषतों सद्धर्माभिषेकरत्ने ॥ अथ वज्रविश्वो बोधिसत्व इमां स्वविद्योत्तमामभाषतों विश्वाभिषेके ॥ देलिनेअतिओनोf थे मन्दल अथाकाशगर्भो बोधिसत्वो महासत्व इदं स्वकुलकर्ममण्डलमभाषत् । अथातः संप्रवक्ष्यामि कर्ममण्डलमुत्तमम् । वज्रधातुप्रतीकाशं रत्नकर्ममिति स्मृतम् ॥ १ ॥ महामण्डलयोगेन सूत्रयेत्सर्वं मण्डलम् । तस्य मध्ये यथान्यायं बुद्धबिम्बन्निवेशयेत् ॥ २ ॥ महासत्वप्रयोगेण रत्नसत्व्यः समालिखेद् ॥ इति ॥ ॥ ३ ॥ तत्रासां मुद्रा भवन्ति । ओं मणिरत्नपूजाग्र्य ॥ १ ॥ ओं सर्वार्थसिद्धिवज्ररत्नाभिषेके हूम् ॥ २ ॥ ओं वज्रमणिधारिणिसमये हूम् ॥ ३ ॥ ओं मणिरत्नाकर्षे कर्मसमये हूम् ॥ ४ ॥ ओं मणिरत्नरागरति कर्मपूजे प्रवर्त ॥ ५ ॥ ओं मणिरत्नसाधुकारपूजासमये ॥ ६ ॥ ओं महामणिरत्नदृष्ट्याकर्षे ॥ ७ ॥ ओं मणिरत्नमालापूजे ॥ ८ ॥ ओं मणिरत्नसूर्यालोकपूजे ॥ ९ ॥ ओं मणिरत्नध्वजपताकापूजे ॥ १० ॥ ॥ ओं मणिरत्नाट्टहासपूजे ॥ ११ ॥ ओं पद्ममणिसमाधिसमये हूम् ॥ १२ ॥ ओं सर्वत्यागानुस्मृतिसमाधिकर्मकारि हूम् ॥ १३ ॥ ओं मणिरत्नतीक्ष्णसमये च्छिन्द हूम् ॥ १४ ॥ ओं मणिरत्नचक्रसमये हूम् ॥ १५ ॥ ओं मणिरत्नभाषे वद वद हूम् ॥ १६ ॥ ओं मणिरत्नवृष्टिकर्मसमये हूम् ॥ १७ ॥ ओं मणिरत्नकर्मणि हूम् ॥ १८ ॥ ओं मणिरत्नकवचे रक्ष हूम् ॥ १९ ॥ ओं मणिरत्नदंष्ट्री खाद खाद हूम् ॥ २० ॥ ओं मणिरत्नकर्ममुष्टि हूम् ॥ २१ ॥ ओं मणिरत्नलास्ये पूजय होः ॥ २२ ॥ ओं मणिरत्नमालाभिषेके पूजय ॥ २३ ॥ ओं मणिरत्नगीते पूजय ॥ २४ ॥ ओं मणिरत्ननृत्ये पूजय ॥ २५ ॥ ओं मणिरत्नधूपे पूजय ॥ २६ ॥ ओं मणिरत्नपुष्पे पूजय ॥ २७ ॥ ओं मणिरत्नदीपे पूजय ॥ २८ ॥ ओं मणिरत्नगन्धे पूजय ॥ २९ ॥ ओं मणिरत्नाङ्कुश्याकर्षे ज्जः ॥ ३० ॥ ओं मणिरत्नपाशे हूम् ॥ ३१ ॥ ओं मणिरत्नस्फोटे वम् ॥ ३२ ॥ ओं मणिरत्नावेशे अः ॥ ३३ ॥ इनितिअतिओनिन्तो थे मन्दल अथात्र कर्ममण्डले यथावद्विधिविस्तरं कृत्वा प्रवेश्यैवं वदेत् । "न त्वया कस्यचिदयं वक्तव्यः । मा ते कर्मावरणधिष्ठितस्यैव मरणं भवेद्" इति, उक्त्वा, मणिकर्मज्ञानानि शिक्षयेत् । मुद्र वज्रगर्भमहामुद्रां बध्वा तु समाहितः । पूजयं सर्वपूजाभिः सर्वबुद्धान् वशन्नयेत् ॥ १ ॥ बध्वा चैकतराम्मुद्रां समयग्रीं समाधिना । पूजयं सर्वबुद्धां हि स्वभिषेकां स लप्स्यति ॥ २ ॥ वज्रगर्भसमाधिं तु भावयं सुसमाहितः । पूजयं सर्वबुद्धांस्तु नाशयेज्जगदुत्तमम् ॥ ३ ॥ बध्वा कर्ममयीं मुद्रां वज्रगर्भसमाधिना । पूजयं सर्वबुद्धांस्तु सवार्थां लभते क्षणाद् ॥ इति ॥ ॥ ४ ॥ तत्रैषां हृदयानि भवन्ति । ओं रत्नपूजा वशीकुरु ॥ ओं रत्नपूजासमयाभिषिञ्च ॥ ओं रत्नपूजाधर्म नाशय पतिम् ॥ ओं रत्नपूजाकर्म सर्वार्थान्मे दद ॥ अथ रहस्यमुद्राकर्मज्ञानं भवति । द्वयेन्द्रियसमापत्त्या वज्रगर्भसमाधिना । पूजयं सर्वबुद्धांस्तु सर्वलोकं स रागयेद् ॥ इति ॥ ततो यथावन्महामुद्राज्ञानेनोत्तमसिद्धय ॥ इति ॥ अथ समयमुद्राज्ञानं शिक्षयेत् । वज्ररत्नं समाधायस्थानेषु संस्थयेत् । वज्रकार्यप्रयोगेण यथावदनुपूर्वशः ॥ अथ धर्ममुद्राज्ञानं भवति । त्वः, जः, गः, ध्रुः, त्नः, जाः, तुः, सः, मीः, क्ष्णः, नुः, षः, र्मः, क्षः, क्षः, धीः । वज्ररत्नां द्विधीकृत्य कर्ममुद्राः समाधयेद् ॥ इति ॥ सर्वतथागतकर्मसमयान्महाकल्पराजात्कर्ममण्डलविधिविस्तरः परिसमाप्तः ॥ छप्तेर्२२ एपिलोगुए ओf थे सर्व-तथगत-कर्म-समय नम मह-कल्प-रज मन्दल इव्.५ एमनतिओनोf देइतिएस्fरों समधि अथ भगवान् रत्नमुद्रान्नाम समाधिं समापद्येमां स्वविद्योत्तमामभाषतों वज्ररत्ने त्राम् ॥ अथ वज्रपाणिर्बोधिसत्वो महासत्व इमां स्वमुद्रामभाषतों वज्रमाले हूम् ॥ अथ वज्रगर्भो बोधिसत्वो महासत्व इमां स्वमुद्रामभाषतों मणिरत्ने ॥ अथ वज्रनेत्रो बोधिसत्वो महासत्व इमां [स्वमु]द्रामभाषतों धर्मरत्ने ॥ अथ वज्रविश्वो बोधिसत्वो महासत्व इमां स्वमुद्रामभाषतों विश्वदृष्टि ॥ देलिनेअतिओनोf थे मन्दल अथार्याकाश[गर्भो बोधि]सत्व इदं मणिकुलचतुर्मुद्रामण्डलमभाषत् । अथातः संप्रवक्ष्यामि मुद्रामण्डलमुत्तमम् । चतुर्मुद्राप्रयोगेण मण्डलं परिकल्पयेत् ॥ ततो यथावत्प्रवेश्य शिक्षयेत्"न त्वया कस्यचिद्वक्तव्यम्" इति ॥ ज्नन ततो ज्ञानान्युत्पादयेत् । वज्ररत्नं समाधाय वज्ररत्नसमाधिना । ललाटे तु प्रतिष्ठाप्य सर्वसिद्धिमवाप्नुयाद् ॥ इति ॥ अथात्र हृदयं भवति । ओं वज्ररत्न सर्वाभिषेक सर्वसिद्धयो मे प्रयच्छ रल रल हूं त्रः ॥ मुद्र ततो रहस्यमुद्रां दर्शयेत् । पतिं वापि प्रियां वापि स्त्रियं वा पुरुषोऽपि वा । ललाटद्वयसन्धानाच्चुम्बं द्वावपि सिध्यतः ॥ तत्रास्याः साधनहृदयं भवति ओं वज्ररत्नसखि विद्याधर त्वं प्रयच्छ शीघ्रमभिषिञ्चाहि ह ह ह ह त्रः ॥ ततो यथावच्चतुर्मुद्राबन्धं चतुर्विधं शिक्षयेत् । तथैव सिद्धय इति ॥ चतुमुद्रामण्डलम् ॥ इव्. ६ एकमुद्र-मन्दल ओf सर्वर्थसिद्धि अथाकाशगर्भो बोधिसत्वो महासत्व इदं सर्वार्थसिद्धिं नाम मण्डलमभाषतों वज्रमणिधर सर्वार्थसिद्धिं मे प्रयच्छ हो भगवन् वज्ररत्न हूम् ॥ देलिनेअतिओनोf थे मन्दल अथात्र मण्डलं भवति । अथातः संप्रवक्ष्यामि महामण्डलमुत्तमम् । यथावत्तु समालेख्यं सर्वसिद्धेस्तु मण्डलम् ॥ इति ॥ मुद्र अथात्र ज्ञानरहस्यमुद्राज्ञानं शिक्षयेत् । रूपादीनां तु कामानामविरक्तः सुखानि तु । निर्यातयंस्तु बुद्धेभ्यः कल्पसिद्धिमवाप्नुत ॥ इति ॥ ततश्चतुर्विधं मुद्राज्ञानं शिक्षयेत् ॥ एवं पटादिषु सत्वं मुद्रां वा मण्डलेषु लिख्य साधयेदिति ॥ अथ सर्वतथागताः पुनः समाजमागम्याकाशगर्भं महाबोधिसत्वमनेन साधुकारदानेनाच्छादितवन्तः । साधु ते वज्रसत्वाय वज्ररत्नाय साधु ते । साधु ते वज्रधर्माय साधु ते वज्रकर्मणे ॥ सुभाषितमिदं सूत्रं वज्रयानमनुत्तरम् । सर्वतथागतं गुह्यं महायानाभिसंग्रहम् ॥ इति ॥ सर्वतथागततत्वसंग्रहात्सर्वतथागतकर्मसमयो नाम महाकल्पराजः परिसमाप्तः ॥ छप्तेर्२३ सर्व-कल्पोपय-सिद्धि-विधि-विस्तर-तन्त्र अथ वज्रपाणिर्महाब्रोधिसत्व इदं सर्वतथागतमहातत्वविधिविस्तरतन्त्रमुदाजहार । तत्र प्रथमं तावत्महामुद्रोत्तमसिद्धितन्त्रं भवति । तथागतमहामुद्रां बध्वा सर्वखधातुषु । बुद्धबिम्बानधिष्ठाय स्वहृदिस्तु प्रवेशयेत् ॥ १ ॥ इहैव जन्मनि वरं यदीच्छेदुत्तमं शिवम् । बुद्धत्वं तेन कामेदं न चेत्सिद्धिर्यथोपरि ॥ २ ॥ महामुद्रां समाधाय महातत्वमुदाहरन् । पदशः सर्वमेवाहं भावयेत्सत्वयोगतः ॥ १ ॥ इहैव जन्मनि पदं यदीच्छेत्सौरित्वं शुभम् । आत्मनस्तेन कामेदं न चेत्सिद्धिर्यथोपरि ॥ २ ॥ अथ समयमुद्रोत्तमसिद्धितन्त्रं भवति । यथा वज्रधरः सिद्धस्तथाहमिति भावयन् । बुद्धसौरित्वमाप्नोति न चेत्सिद्धिर्यथोपरी- ॥ ति ॥ अथ धर्ममुद्रोत्तमसिद्धितन्त्रं भवति । स्वभावशुद्ध्या वाचा वै सर्वधर्मा इति ब्रूवन् । बुद्धसौरित्वमाप्नोति न चेत्सिद्धिर्यथोपरी- ॥ ति ॥ अथ कर्ममुद्रोत्तमसिद्धितन्त्रं भवति । सर्वस्य सर्वशुद्धित्वात्सर्वकर्माणि शोधयन् । बुद्धसौरित्वमाप्नोति न चेत्सिद्धिर्यथोपरी- ॥ ति ॥ तथागतकुलोत्तमसिद्धयः ॥ अथ वज्रपाणिः स्वकुलोत्तमसिद्धितन्त्रमुदाजहार । बुद्धाज्ञां सर्वसत्वार्थात्सर्वसिद्धिप्रयोगतः । साधयंस्तु महामुद्रां बुद्धत्वमिह जन्मनी- ॥ ति ॥ अथ समयोत्तमसिद्धितन्त्रं भवति । यथा वज्रधरः सिद्धिस्तथाहमिति भावयन् । महामुद्राप्रयोगेण क्षणात्सौरित्वमाप्नुत ॥ इति ॥ अथ धर्ममुद्रोत्तमसिद्धितन्त्रं भवति । अनक्षरेषु धर्मेषु प्रपञ्चो न हि विद्यते । इमं वदंस्तु धर्माग्रीं भावयन् सौरितां ब्रजेद् ॥ इति ॥ अथ कर्ममुद्रोत्तमसिद्धितन्त्रं भवति । यत्करोति हि कर्म वै शुभं वा यदि वाशुभम् । निर्यातयं जिनेष्वस्तु क्षणात्सौरितां व्रजेद् ॥ इति ॥ अथ वज्रपाणिर्महाबोधिसत्वः पद्मकुलोत्तमसिद्धितन्त्रमुदाजहार । तत्र प्रथमन्तावन्महामुद्रोत्तमसिद्धितन्त्रं भवति । रागः शुद्धः स्वभावेन तीर्थिकैरवसन्यते । तस्याविरागो धर्मोऽस्मिं महायाने तु सिध्यती- ॥ ति ॥ अथ समयमुद्रोत्तमसिद्धितन्त्रं भवति । अभ्यसंस्तु महामैत्रीन् समाधिदृढयोगतः । स्फरेद्विधिवद्योगात्क्षणात्सौरित्वमाप्नुयाद् ॥ इति ॥ अथ धर्ममुद्रोत्तमसिद्धितन्त्रं भवति । स्वभावशुद्धः संराग इति ब्रूयादिमं नयम् । रागपारमिताप्राप्ते क्षणात्सौरित्वमाप्नुयाद् ॥ इति ॥ अथ कर्ममुद्रोत्तमसिद्धितन्त्रं भवति । दर्शनस्पर्शनाभ्यां तु श्रवणस्मरणेन वा । स्यामहं सर्वसत्वानां सर्वदुःखान्तकस्थितिर् ॥ इति ॥ अथ वज्रपाणिर्महाबोधिसत्वो मणिकुलोत्तमसिद्धितन्त्रमुदाजहार । तत्र महामुद्रोत्तमसिद्धितन्त्रं भवति । सर्वबुद्धाभिषेकोऽहं भवेयं वज्रगर्भवत् । भावयं विभावयन् वै क्षणात्सौरित्वमाप्नुत ॥ इति ॥ अथ समयमुद्रोत्तमसिद्धितन्त्रं भवति । भवेयं सर्वसत्वानां सर्वाशापरिपूरकः । आकाशगर्भसदृशः क्षणात्सौरित्वमाप्नुत ॥ इति ॥ अथ धर्ममुद्रोत्तमसिद्धितन्त्रं भवति । आत्मनस्तु समुत्सृज्य धनदानान् सुहर्षितः । वदन् धर्ममयीं मुद्रामिह सौरित्वमाप्नुत ॥ इति ॥ अथ कर्ममुद्रोत्तमसिद्धितन्त्रं भवति । दारिद्राणां हितार्थाय धनोत्पादने तत्परः । उद्योगात्सौरितां याति न चेत्सिद्धिर्यथोपरी- ॥ ति ॥ सर्वकुलमुद्राणां बुद्धबोधिसत्वोत्तमसिद्ध्यवाप्तिविधिविस्तरः ॥ अथ वज्रपाणिर्महाबोधिसत्वः पुनरपि सर्वतथागत[समयसि]द्धितन्त्रमुदाजहार । तत्रायं सर्वतथागतसमयसिद्धितन्त्रं भवति । यस्य रागसमापत्तिस्तस्य रागेण शोधयेत् । इति बुद्धन्महामुद्रा ज्ञानस्य समयः स्मृतः ॥ अथ तथागतकुलसमयसिद्धितन्त्रं भवति । कामानामविरागस्तु समयः सुमहानयम् । तथागतकुलशुद्धोऽनातिक्रम्यो जिनैरपि ॥ अथ वज्रकुलसमयसिद्धितन्त्रं भवति । अक्रोधस्यापि सत्वार्थान्महाक्रोधप्रदर्शनम् । महावज्रकुले त्वेष समयो दुरतिक्रमः ॥ अथ पद्मकुलसमयसिद्धितन्त्रं भवति । स्वभावशुद्धिज्ञानेन तस्य कार्यं स करोति । महापद्मकुले त्वेष समयो दुरतिक्रमः ॥ अथ रत्नकुलसमयसिद्धितन्त्रं भवति । अल्पत्वे वा बहुत्वे वा यथाभिरुचितं पुनः । अवश्यो दिवसः कार्यो दानेन समयो ह्ययम् ॥ इति ॥ सर्वकुलसमयविधिविस्तरतन्त्रम् ॥ अथ वज्रपाणिर्महाबोधिसत्वः सर्वतथागतधर्ममुद्राज्ञानसिद्धितन्त्रमुदाजहार । तत्रेयं सर्वतथागतधर्मसिद्धितन्त्र भवति । बुद्धो धर्म इति ख्यात इत्युक्त्वा धर्मताक्षरम् । बुद्धधर्ममहामुद्राज्ञानस्य परमनयम् ॥ तत्रेदं तथागतकुलधर्मसिद्धितन्त्रम् । रागाच्छ्रद्धतरन्नास्ति धर्मः सर्वसुखप्रदः । तथागतकुलेप्येष धर्मः सिद्धिकरः परः ॥ तत्रेदं वज्रकुलधर्मसिद्धितन्त्रम् । बुद्धाज्ञाच्छोधनार्थाद्वा सत्वत्राणार्थतस्तथा । अक्रोधोऽपि हि संदुष्टान्मारयंच्छुद्धिमाप्नुते ॥ तत्रेदं पद्मकुलधर्मसिद्धितन्त्रम् । अलिप्तं सलिलैः पद्मं तथा रागो न दुष्यति । इति ब्रूवन्नकार्याणि कुर्वं पापैर्न लिप्यते ॥ तत्रेदं मणिकुलसिद्धितन्त्रम् । दानात्समो न धर्मोऽस्ति प्रतिपत्त्या ब्रवीति हि । महामणिकुले धर्मः न चेत्सिद्धिर्यथोपरी- ॥ ति ॥ सर्वकुलधर्मसिद्धिविधिविस्तरतन्त्रम् ॥ अथ वज्रपाणिर्महाबोधिसत्वः सर्वतथागतकुलकर्मसिद्धितन्त्रमुदाजहार । तत्रेदं तथागतकर्मसिद्धितन्त्रं भवति । बुद्धत्वं सर्वसत्वानां बोधिसत्वत्वमेव च । यथावद्विनयं चैव कर्ममुद्राग्रसिद्धिदा ॥ तत्रेदं तथागतकुलकर्मसिद्धितन्त्रं भवति । चतुर्विधाभिः पूजाभिः सदा योगाच्चतुर्विधम् । चतुःकालयोगेन कुर्वन् कर्माणि साधयेत् ॥ तत्रेदं वज्रकुलकर्मसिद्धितन्त्रम् । दुष्टसत्वोपघाताय यद्यत्कार्य करोति सः । कर्मवज्रकुलेऽप्येष सर्वसिद्धिप्रदायकः ॥ तत्रेदं पद्मकुलकर्मसिद्धितन्त्रम् । भयात्मनामभयदो यथावद्विनयस्तथा । एतत्पद्मकुले कर्म बुद्धसिद्धिप्रदायकम् ॥ अथ मणिकुलकर्मसिद्धितन्त्रम् । अभिषेकस्तथा दानं सर्वाशापरिपूरयः । बुद्धानां देहिनां चैव कर्म सर्वार्थसाधकम् ॥ इति ॥ सर्वकुलकर्मसिद्धिविधिविस्तरतन्त्रम् ॥ अथ वज्रपाणिर्महाबोधिसत्वः सर्वतथागतकुलधर्मतामुद्राज्ञानतन्त्रमुदाजहार । तत्रेदं तथागतधर्मताज्ञानसिद्धितन्त्रं भवति । वज्रसत्वसमाधिस्तु बुद्धानां धर्मता स्मृता । एतद्बुद्धस्य बुद्धत्वं न बुद्धो भवतेऽन्यतः ॥ तत्रेदं तथागतकुलधर्मताज्ञानसिद्धितन्त्रम् । भावयंस्तु महामुद्रां साधयेत्सर्वसिद्धयः । तथागतकुलेऽप्येष धर्मतोत्तमसिद्धिदा ॥ तत्रेदं वज्रकुलधर्मताज्ञानसिद्धितन्त्रम् ॥ बद्धाभिः समयाग्र्याभिः सर्वकर्माणि साधयेत् । महामुद्राप्रयोगेण वज्रसिद्धिमवाप्नुयात् ॥ तत्रेदं पद्मकुलधर्मताज्ञानसिद्धितन्त्रम् । धर्ममुद्राप्रयोगेण धर्ममुद्राः प्रवर्तयेत् । अनया साधयं धर्मान् धर्मतावज्रधर्मिणः ॥ तत्रेदं मणिकुलधर्मताज्ञानसिद्धितन्त्रम् । कर्ममुद्राप्रयोगेण कर्मवज्रं हृदि स्थितम् । भावयं धर्मतामेतावाप्नोति स्वकर्मताम् ॥ इति ॥ सर्वकुलधर्मताज्ञानसिद्धितन्त्रम् ॥ अथ वज्रपाणिर्महाबोधिसत्वः सर्वतथागतकुलज्ञानसिद्धितन्त्रमुदाजहार । तत्रेदं तथागतज्ञानसिद्धितन्त्रं भवति । वज्रसत्वसमाधिस्थः चन्द्रवज्रप्रयोगतः । यथा वर्णौ तु तौ वेत्ति तथा लोकं तु वेत्ति सः ॥ १ ॥ शुद्धे शुद्धमिति ज्ञेयं पाण्डरे तु प्रभास्वरम् । रक्ते रक्तंतरे क्रुद्धं यादृग्वर्ण तदात्मकम् ॥ २ ॥ तत्रेदं तथागतकुलज्ञानसिद्धितन्त्रम् । महामुद्रां समाधाय चन्द्रमण्डलसप्रभाम् । स्वयं कायं यथा वेत्ति तथा वेद्यं जगन्मनः ॥ तत्रेदं वज्रकुलज्ञानसिद्धितन्त्रम् । आकाशे वान्यदेशे क्रुद्धः सन्मण्डलानि तु । यादृशानि तु पश्येद्वै विज्ञेयन्तादृशन्मनः ॥ तत्रेदं पद्मकुलज्ञानसिद्धितन्त्रम् । सूक्ष्ममक्षरपङिक्तर्वा पश्यन्नाकाशभूमिषु । यादृग्वर्ण समासेन वेत्ति चित्तं स तादृशम् ॥ तत्रेदं मणिकुलज्ञानसिद्धितन्त्रम् । सर्वलोकं निरीक्षन् वै प्रतिभासो हि यादृशः । पश्यते तादृशं चैव जगच्चित्तं तु लक्षयेद् ॥ इति ॥ एतमेव समापत्त्यो गमनागमनानि तु । कुर्वन्त्यश्च भ्रमन्त्यो वा यथा पश्येत्तथागमः ॥ १ ॥ यस्य यस्य च सत्वस्य समापत्त्या तु चिन्तयेत् । तस्य तस्य तथा चैव सर्वचित्तानि बुध्यती- ॥ २ ॥ त्याह भगवान् वज्रधरः ॥ सर्वकुलज्ञानविधिविस्तरतन्त्रम् ॥ अथ वज्रपाणिर्महाबोधिसत्वः सर्वतथागतकुलसिद्धिज्ञानतन्त्रमुदाजहार । तत्रेदं तथागतसिद्धिज्ञानतन्त्रम् । सत्वाधिष्ठानयोगेन बुद्धबिम्बात्मभावना । अनेन ज्ञानयोगेन बुद्धसिद्धिमवाप्नुयात् ॥ तत्रेदं तथागतकुलसिद्धिज्ञानतन्त्रम् । आकाशे वाऽन्यदेशे वा श्वेतपीताभमण्डलान् । स्वमुद्रासत्वमात्मानं साक्षादिव स पश्यति ॥ तत्रेदं वज्रकुलसिद्धिज्ञानतन्त्रम् । तादृशेष्वेव बिम्बेषु मध्ये श्यामं निर्यच्छति । सिद्धिर्वज्रकुलस्याग्रा भवेच्छीघ्रं यदिच्छति ॥ तत्रेदं पद्मकुलसिद्धिज्ञानतन्त्रम् । तान्येवाकाशनीलानि पद्माकाराणि पश्यति । महापद्मकुले विद्यासिद्धय संभवन्ति हि ॥ तत्रेदं मणिकुलसिद्धिज्ञानतन्त्रम् । आकाशे वान्यदेशे वा त एवाकाशनिर्मलाः । स्फुरन्तो रश्मिमण्डानि पश्यत्सि[द्धिमवाप्नुया]द् ॥ इति ॥ वज्रसत्वादयः सत्वाचश्चन्द्रमण्डलसप्रभाः । प्राग्दर्शयन्ति चात्मानं सिद्धिकाले स्वरूपतः ॥ सर्वकुल[सिद्धिज्ञानवि]धिविस्तरतन्त्रम् ॥ अथ वज्रपाणिर्महाबोधिसत्वः सर्वतथागतकुलाभिज्ञासिद्धिज्ञानमुद्रातन्त्रमुदाजहार । तत्रेदं तथागता[भिज्ञासिद्धिज्ञान] तन्त्रम् । वज्रसत्वसमाधिस्थः सर्वकाये तथागतान् । भावयन् बोधिसत्वांश्च दर्शयेत्कायतस्तथा ॥ तत्रेदं तथागतकुलाभिज्ञासिद्धि[तन्त्रं] । वज्रसत्वमहामुद्रां बध्वा तु सुसमाहितः । पञ्चाभिज्ञामवाप्नोति विधिनानेन साधकः ॥ तत्रेदं दिव्यचक्षुज्ञानं भवति । महामुद्रां समाधाय चक्षुर्विज्ञानमावहेत् । तेन यच्चिन्तयेत्किंचित्सुदूरापि पश्यती- ॥ त्याह भगवान् वज्रसत्वः ॥ महामुद्रां समाधाय श्रोत्रविज्ञानमावहेत् । तेन यच्चिन्तयेत्कार्यं सुदूरस्थं शृणोति ही- ॥ त्याह भगवान् वज्रधरः ॥ महामुद्रां समाधाय मनोविज्ञानमावहेत् । तेन य सत्वमुद्वीक्षेत्चित्तं जानाति तस्य सः ॥ १ ॥ महामुद्रां समाधाय आत्मनो वा परस्य वा । मनसा पश्यते रूपं यतो जन्म स आवहेद् ॥ २ ॥ इत्याह भगवान् वज्रपाणिः ॥ अथ ऋद्धिविधिज्ञानसिद्धिर्भवति । महामुद्रां समाधाय यां यामृद्धिमभीष्यति । यत्र वा तत्र वा तद्वै संदर्शयेत्समाधिने- ॥ त्याह भगवान्महाबोधिचित्तः ॥ तत्रेदं वज्रकुलाभिज्ञासिद्धितन्त्रम् ॥ त्रिलोकविजयाग्रीं वै बध्वा तु सुसमाहितः । पञ्चाभिज्ञानवाप्नोति विधिनानेन साधकः ॥ १ ॥ क्रुद्धः सः सर्वकार्याणि यथावदनुपूर्वशः । दिव्यचक्ष्वादियोगेन सर्वाभिज्ञो भवेत्क्षणाद् ॥ २ ॥ इत्याह भगवान् वज्रसत्वः ॥ तत्रेदं पद्मकुलाभिज्ञासिद्धितन्त्रम् । जगद्विनयमुद्राग्रीं सन्धाय सुसमाहितः । पञ्चाभिज्ञामवाप्नोति विधिनानेन साधकः ॥ १ ॥ रागसक्तस्तु विधिवद्यथानुक्रमतस्तथा । दिव्यचक्ष्वादियोगेन सर्वाभिज्ञो भविष्यति- ॥ २ ॥ त्याह भगवान् लोकेश्वरः ॥ तत्रेदं मणिकुलाभिज्ञासिद्धितन्त्रम् । सर्वार्थसिद्धिसन्मुद्रां बध्वा तु सुसमाहितः । पञ्चाभिज्ञामवाप्नोति विधिनानेन साधकः ॥ १ ॥ बुद्धपूजां प्रकुर्वन्वै यथानुक्रमतस्तथा । दिव्यचक्ष्वादियोगेन पञ्चाभिज्ञां स पश्यती- ॥ त्याह भगवानाकाशगभः ॥ सर्वकुलाभिज्ञाज्ञानविधिविस्तरतन्त्रः ॥ अथ भगवान् वज्रपाणिर्महाबोधिसत्वः सर्वतथागतकुलसत्यसिद्धितन्त्रमुदाजहार । तत्र तथागतसत्यसिद्धितन्त्रं भवति । सत्यानुपरिवर्तिन्या वाचा तु शपथक्रिया । पालयंस्तु महासत्यं लघु बुद्धत्वमाप्नुयाद् ॥ इत्याह भगवान् बुद्धः ॥ तत्रेदं तथागतकुलसत्यसिद्धितन्त्रम् । समये शपथा कार्या तथागतकुलोद्गता । पालयन् वज्रसत्यं तु सिद्धिमग्र्यामवाप्नुत ॥ इत्याह भगवान् वज्रधरः । तत्रेदं वज्रकुलसत्यसिद्धितन्त्रम् । वज्रधार्यासु शपथां कृत्वा तु दुरतिक्रमान् । पालयेत्सत्यमेतद्धि यदिच्छेत्सिद्धिमुत्तमाम् ॥ इत्याह भगवान् वज्रधरः । तत्रेदं पद्मकुलसत्यसिद्धितन्त्रम् । सद्धर्मे शपथाङ्कृत्वा महापद्मकुलोत्तमम् । पालयेत्सत्यसमयं यदिच्छेत्सिद्धिमुत्तमाम् ॥ इत्याह भगवान् [वज्रध]र्मः ॥ तत्रेदं मणिकुलसत्यसिद्धितन्त्रम् । बुद्धपूजासु शपथां कृत्वा तु दुरतिक्रमान् । पालयेदुत्तमं सत्यमभिषेकं स लप्स्यती ॥ [त्याह भगवान्] बुद्धपूजः ॥ सर्वकुलशपथसिद्धितन्त्रम् ॥ अथ वज्रपाणिर्महाबोधिसत्वः सर्वतथागतसमयतत्वसिद्धितन्त्रमुदाजहार । तत्रेदं सर्वतथागतसमयतत्वसिद्धितन्त्रं भवति । समयस्त्वमिति प्रोक्ते सर्वमुद्रान् कुलेष्वपि । स्वयं बध्वा दृढं यान्ति ततः पश्चादसाधिता ॥ इत्याह भगवान्महासमयसत्वः ॥ तत्रेदं तथागतकुलसमयतत्वसिद्धितन्त्रम् । सुरतस्त्वमिति प्रोक्ते सर्वमुद्रा असाधिताः । स्वयं बध्वा तु सिध्यन्ते तत्वचोदान्महात्मन ॥ इत्याह भगवान्महासमयसत्वः ॥ तत्रेदं वज्रकुलसमयतत्वसिद्धितन्त्रम् । एकहुंकारमात्रेण सर्वमुद्राः समासतः । स्वयं बन्धेद्वन्धयेद्वापि स्वयं वापि परस्य वे- ॥ ति ॥ तत्रेदं पद्मकुलसमयतत्वसिद्धितन्त्रम् । सर्वशुद्ध इति प्रोक्ते स्वतो वापि परस्य वा । स्त्रीसङ्गाद्यास्तु संयोगा न मोक्षं यान्ति सर्वश ॥ इति ॥ तत्रेदं मणिकुलसमयतत्वसिद्धितन्त्रम् ॥ ओंकारेणैव सिध्यन्ते सर्वमुद्राः समासतः ॥ सर्वलोकेषु चैवाग्र्याः पूजाश्चैव स्वयंभुवाम् ॥ इति ॥ सर्वकुलसमयतत्वसिद्धिमुद्राविधिविस्तरतन्त्रम् ॥ अथ भगवान् वज्रपाणिर्महाबोधिसत्वः सर्वतथागतसिद्धिमुद्रातन्त्रमुदाजहार । तत्र सर्वतथागतसिद्धितन्त्रं भवति । बुद्धमुद्रां तु संधाय तथागतमनुस्मरन् । साधयन् सिध्यते शीघ्रं बुद्धबोधिरपि स्थिरा ॥ तत्रेदं तथागतकुलसिद्धितन्त्रम् । वज्रसत्वमहामुद्रां बध्वा तु परिभावयन् । पुरतो वज्रसत्वं च सिद्धिः शीघ्रतरा भवेत् ॥ तत्रेदं वज्रकुलसिद्धितन्त्रम् । बध्वा तु समयाग्रीं वै वज्रसत्वसमाधिना । भावयन् वज्रसत्वं च सिद्धिस्तु द्विगुणा भवेत् ॥ तत्रेदं पद्मकुलसिद्धितन्त्रम् । बध्वा धर्ममयीं मुद्रां लोकेश्वरसमाधिना । भावयन् लोकनाथं च सिद्धिस्तु द्विगुणा भवेत् ॥ तत्रेदं मणिकुलसिद्धितन्त्रम् । कर्ममुद्रां समाधाय वज्रगर्भसमाधिना । भावयन् वज्रगर्भं च सिद्धिस्तु द्विगुणा भवेत् ॥ सर्वकुलसिद्धिविधिविस्तरतन्त्रम् ॥ अथ वज्रपाणिर्महाबोधिसत्वः सर्वतथागतसर्वसिद्धिसाधनतन्त्रमुदाजहार । तत्रेदं सर्वतथागतसिद्धिसाधनतन्त्रम् । आत्मनो वाथ परतो बुद्धानुस्मृतिसाधकः । बध्वा वै सर्वमुद्रास्तु ततः सिध्यन्ति तत्क्षणाद् ॥ इत्याह भगवान् बुद्धः ॥ तत्रेदं तथागतकुलादिसर्वसिद्धिसाधनतन्त्रम् । साधयेत्सर्वमुद्रास्तु कामोऽहमिति भावयन् । वज्रजापप्रयोगेण सर्वसिद्ध्यग्रसाधनम् ॥ इत्याह भगवान् वज्रसत्वः ॥ तत्रेदंवज्रकुलसर्वसिद्धिसाधनतन्त्रम् । वज्रबिम्बं स्वमात्मानं भावयन् [सुसमाहितः] । बध्नीयात्सर्वमुद्रास्तु सिद्धिं यान्ति हि तत्क्षणाद् ॥ इत्याह भगवान् सर्वतथागतवज्रः ॥ तत्रेदं पद्मकुलसर्वसिद्धिसाधनतन्त्रम् । पद्मबिम्बं स्व[मात्मानं] भावयन् स्वयमात्मना । सर्वज्ञानमयी सिद्धिर्महापद्मकुले स्मृते- ॥ त्याह भगवानवलोकितेश्वरः ॥ तत्रेदं मणिकुलसर्वसिद्धिसाधनतन्त्रम् । भावयेत्स्वयमात्मानं मणिरत्नंकरो ज्वालम् । सर्वपूजामयी सिद्धिर्महामणिकुले स्मृते- ॥ त्याह भगवानाकाशगर्भः ॥ सर्वकुलोत्तमसिद्धिविधिविस्तरतन्त्रः ॥ अथ वज्रपाणिर्महाबोधिसत्वः सर्वतथागताधिष्ठानमुद्रासिद्धितन्त्रमुदाजहार । तत्रेदन्तथागताधिष्ठानसिद्धितन्त्रम् । वज्रधात्वीश्वरीं मुद्रां बध्वा तु सुसमाहितः । हृद्यूर्णायां गले मूर्ध्नि स्थाप्य बुद्धैरधिष्ठ्यत् ॥ इत्याह भगवान् बुद्धः ॥ तत्रेदं तथागतकुलाधिष्ठानसिद्धितन्त्रं भवति । सत्ववज्रीन् दृढीकृत्य वज्रसत्वसमाधिना । हद्यूर्णायां तथा कण्ठे मूर्ध्नि स्थाप्याधितिष्ठ्यते । इत्याह भगवान् वज्रसत्वः ॥ तत्रेदं वज्रकुलाधिष्ठानसिद्धितन्त्रम् । वज्रहूंकारमुद्रां वै बध्वा तु सुसमाहितः । हृद्यूर्णाकण्ठमूर्धस्था समाधिष्ठानि तत्क्षणाद् ॥ इत्याह भगवान् वज्रनाथः ॥ तत्रेदं पद्मकुलाधिष्ठानसिद्धितन्त्रम् । वज्रपद्मां दृढीकृत्य लोकेश्वरसमाधिना । हृद्यूर्णाकण्ठमूर्धस्था स्वधिष्ठापय कल्पत ॥ इत्याह भगवानवलोकितेश्वरः । तत्रेदं मणिकुलाधिष्ठानसिद्धितन्त्रम् । महावज्रमणिं बध्वा वज्रगर्भसमाधिना । हृद्यूर्णाकण्ठमूर्धस्था स्वधिष्ठानाय कल्पयेद् ॥ इत्याह भगवान् वज्रगर्भः ॥ सर्वकुलाधिष्ठानविधिविस्तरतन्त्रः ॥ अथ वज्रपाणिर्महाबोधिसत्वः सर्वतथागताभिषेकमुद्रासिद्धितन्त्रमुदाजहार । तत्रेदं तथागताभिषेकसिद्धितन्त्रम् । सज्ररत्नां समाधाय ललाटे तु प्रतिष्ठिताम् । कृत्वा तु वज्ररत्नेभ्यामभिषिक्तो जिनेर्भवेद् ॥ इत्याह भगवान् बुद्धः ॥ तत्रेदं तथागतकुलाभिषेकसिद्धितन्त्रम् । वज्रधात्वीश्वर्याद्याभिर्बुद्धमुद्राभिरग्रतः । समारभ्य चतुःपार्श्वमालया त्वभिषिच्यती- ॥ ति ॥ तत्रेदं वज्रकुलाभिषेकसिद्धितन्त्रम् । वज्राभिषेकमालां तु सन्धाय च ललाटगान् । तया मालाभिषेकेण वज्रिणा सोऽभिषिच्यती- ॥ ति ॥ तत्रेदं पद्मकुलाभिषेकसिद्धितन्त्रम् । धर्मवज्रीं समाधाय पुरः शीर्षे प्रतिष्ठिताम् । तयाभिषिक्तो बुद्धैस्तु लोकेश्वर्येऽभिषिच्यती- ॥ त्याह भगवानवलोकितेश्वरः ॥ तत्रेदं मणिकुलाभिषेकसिद्धितन्त्रम् । वज्ररत्नाङ्कुरां बध्वा ललाटे तु प्रतिष्ठिताम् । तयाभिषिक्तो बुद्धैस्तु पूजैश्वर्येऽभिषिच्यती- ॥ त्याह भगवानाकाशगर्भः ॥ सर्वकुलाभिषेकसिद्धितन्त्रम् ॥ अथ वज्रपाणिर्महाबोधिसत्वः सर्वतथागतसमाधिसिद्धितन्त्रमुदाजहार । तत्रेदं सर्वतथागतसमाधिसिद्धितन्त्रम् । आहारतः सर्वबुद्धानां मुद्रां बध्वा समाहितः । जपन् वै मन्त्रविद्यास्तु शीघ्रं सिद्धिमवाप्नुते- ॥ त्याह भगवान् बुद्धः ॥ तत्रेदं तथागतकुलसमाधिसिद्धितन्त्रम् । समाधिर्वज्रधर्मेण सत्वाधिष्ठानयोगतः । हृन्मुद्रामन्द्रविद्यास्तु शीघ्रं सिध्यन्ति जापत ॥ इत्याह भगवान् बुद्धसमाधिः ॥ तत्रेदं वज्रकुलसमाधिसिद्धितन्त्रम् । रागात्त्वमसि संभूतः क्रोधोऽहमिति भावयन् । हृन्मुद्रामन्त्रविद्यानामाशुसिद्धिकरं भवेद् ॥ इ[त्याह भगवा]न् वज्रधरः ॥ तत्रेदं पद्मकुलसमाधिसिद्धितन्त्रम् । मैत्रीस्फरणतायोगः साधयेद्धृदयादयः । लोकेश्वरकुले जापः सिद्धिं शीघ्रं[तु ददाति- ॥ त्या]ह भगवानार्यावलोकितेश्वरः ॥ तत्रेदं मणिकुलसमाधिसिद्धितन्त्रम् । सर्वाकाशसमाधिस्तु भावयन् सुसमाहितः । हृन्मुद्रामन्त्रविद्यासु साधयन् सर्वगो भवेद् ॥ इत्याह भगवानाकाशगर्भः ॥ सर्वकुलसमाधिसिद्धिविधिविस्तरतन्त्रम् ॥ अथ वज्रपाणिर्महाबोधिसत्वः सर्वतथागतपूजामुद्रासिद्धितन्त्रमुदाजहार । तत्रेदं तथागतपूजासिद्धितन्त्रम् । पूर्वं धूपादिभिः पूजां कृत्वा तु सुसमाहितः । ततस्तु सिद्धिकामो वै साधयन् सिद्धिमाप्नुयाद् ॥ इत्याह भगवान् बुद्धः ॥ तत्रेदं तथागतकुलपूजासिद्धितन्त्रम् । गुह्यपूजाचतुष्ठेन पूजागुह्यमुदाहरन् । आत्मनिर्यातनाद्यैवां पूजां कुर्वस्तु सिध्यती- ॥ त्याह भगवान् वज्रसत्वः ॥ तत्रेदं वज्रकुलपूजासिद्धितन्त्रम् । क्रोधवज्रमहापूजां क्रोधगुह्यमुदाहरन् । क्रोधमुष्टि प्रकुर्वन् वै शीघ्रं सिध्येत्कुलं ममे- ॥ त्याह भगवान् वज्रधरः ॥ तत्रेदं पद्मकुलपूजासिद्धितन्त्रम् । गंभीरोदारसूत्रान्तप्रयोगसमुदाहृताः । निर्यातयन्मनोवाग्भिः शीघ्रं सिद्धिमवाप्नुयाद् ॥ इत्याह भगवानार्यावलोकितेश्वर । तत्रेदं मणिकुलपूजासिद्धितन्त्रम् । च्छत्रध्वजपताकाभिः राजपूजाभिरर्चयन् । सिध्यते मणिकुलं सर्वददन् दानानि वा सिध्यती- ॥ त्याह भगवान् वज्रगर्भः ॥ स्वाधिष्ठानादिसंयुक्तो वज्रसत्वसमो भवेत् । चतुर्भिः प्रातिहार्यस्तु वज्रविश्वं समाधयेत् ॥ सर्वसिद्धय इत्याह भगवान् वज्रसत्वः ॥ सर्वकुलाधिष्ठानाभिषेकसमाधिपूजासिद्धिविधिविस्तरतन्त्रम् ॥ अथ वज्रपाणिर्महाबोधिसत्वः सर्वतथागता[भिज्ञाज्ञा]नसिद्धितन्त्रमुदाजहार । तत्रेदं तथागताभिज्ञाज्ञानसिद्धितन्त्रं भवति । काये बुद्धसमाधिस्तु स्वभिज्ञा सौगती त्वियम् । तस्याः सुप्रति[वेदित्य]बौद्धीं सिद्धिमवाप्नुयाद् ॥ इत्याह भगवान् बुद्धः ॥ तत्रेदं तथागतकुलाभिज्ञाज्ञानसिद्धितन्त्रम् । दिव्यचक्ष्वादयोऽभिज्ञा भावयन् सुसमाहितः । पञ्चाभिज्ञः स्वयंभूत्वा वज्रसत्वत्वमाप्नुयाद् ॥ इत्याह भगवान् वज्रसत्वः ॥ तत्रेदं वज्रकुलाभिज्ञाज्ञानसिद्धितन्त्रम् । क्रोधाभिज्ञां समुत्पाद्य साधयन् सुसमाहितः । पञ्चाभिज्ञः स्वयंभूत्वा परां सिद्धिमवाप्नुयाद् ॥ इत्याह भगवान् वज्रधरः ॥ तत्रेदं पद्मकुलाभिज्ञाज्ञानसिद्धितन्त्रम् । रागाभिज्ञां समुत्पाद्य भावयन् सुसमाहितः । पञ्चाभिज्ञः स्वयंभूत्वा शुद्धां सिद्धिमवाप्नुयाद् ॥ इत्याह भगवान् वज्रनेत्रः ॥ तत्रेदं मणिकुलाभिज्ञाज्ञानसिद्धितन्त्रम् । पूजाभिज्ञां समुत्पाद्य भावयन् सुसमाहितः । पञ्चाभिज्ञः स्वयंभूत्वा सर्वसिद्धिर्वरा भवेद् ॥ इत्याह भगवान् वज्रधरः ॥ सर्वकुलाभिज्ञाज्ञानसिद्धिविधिविस्तरतन्त्रम् ॥ अथ वज्रपाणिर्महाबोधिसत्वः सर्वतथागतबोधिज्ञानसिद्धितन्त्रमुदाजहार । तत्रेदं तथागतबोधिज्ञानसिद्धितन्त्रम् । वज्रसत्वसमाधिस्थो बुद्धानुस्मृतिमान् स्वयम् । बुद्धबोधिरियं ज्ञानं भावयन् सिद्धिमाप्नुयाद् ॥ इत्याह भगवान् बुद्धः ॥ तत्रेदं तथागतकुलामहाबोधिज्ञानसिद्धितन्त्रम् । वज्रसत्वसमाधिस्थो महामुद्रां तु भावयन् । महाबोधिरियं ज्ञानं भावयन् सिद्धिमाप्नुयाद् ॥ इत्याह भगवान्महाबोधिसत्वः ॥ तत्रायं वज्रकुलमहाबोधिज्ञानसिद्धितन्त्रः । क्रोधराजसमाधिस्थः समयाग्र्या करग्रहः । महाबोधिरियं ज्ञानं भावयन् सिद्धिमाप्नुयाद् ॥ इत्याह भगवान् वज्रधरः ॥ तत्रेदं पद्मकुलमहाबोधिज्ञानसिद्धितन्त्रम् । लोकेश्वरसमाधिस्थो धर्ममुद्रां जपंस्तथा । महाबोधिरियं ज्ञानं भावयन् सिद्धिमाप्नुयाद् ॥ इत्याह भगवानवलोकितेश्वरः ॥ तत्रेदं मणिकुलमहाबोधिज्ञानसिद्धितन्त्रम् । वज्रगर्भसमाधिस्थः कर्ममुद्रा सुकर्मकृत् । महाबोधिरियं ज्ञानं भावयन् सिद्धिमाप्नुयाद् ॥ इत्याह भगवानाकाशगर्भः ॥ सर्वकुलमहाबोधिज्ञानसिद्धिविधिविस्तरतन्त्रः ॥ अथ वज्रपाणिर्महाबोधिसत्वः सर्वतथागतानुरागणसिद्धितन्त्रमुदाजहार । तत्रेदं तथागतानुरागणसिद्धितन्त्रम् । सत्वार्थं च प्रकुर्वन् वै बुद्धबोध्यर्थिकः स्वयम् । बुद्धानुस्मृतिमां भूत्वा सर्वबुद्धानुरागणम् ॥ इत्याह भगवान् वज्ररागः ॥ तत्रेदं तथागतकुलानुरागणसिद्धितन्त्रम् । यथा विषयवां भूत्वा वज्रसत्व[स्तु] साधयेत् । तत्वचोदनया शीघ्रमनुरक्तः स सिध्यती- ॥ त्याह भगवान् वज्रसत्वः ॥ तत्रेदं वज्रकुलानुरागणसिद्धितन्त्रम् । बुद्धाज्ञाकारितार्थं हि दुष्टानामभिचारुकैः । क्रोधान् सत्वविशुद्ध्यर्थमिदं वज्रानुरागणम् ॥ इत्याह भगवांस्त्रिलोकविजयः ॥ तत्रेदं पद्मकुलानुरागणसिद्धितन्त्रम् । रागावलोकनं मैत्रीकारुण्य धर्मवादिता । सर्वाभयप्रदानं च सर्वबुद्धानुरागणम्म् ॥ इत्याह भगवान् वज्रनेत्रः ॥ तत्रेदं मणिकुलानुरागणसिद्धितन्त्रम् । अभिषेकप्रदानं च प्रदानं धनसंचयम् । तच्च बुद्धार्थतो योज्यमिदं बुद्धानुरागणम् ॥ इत्याह भगवानार्याकाशगर्भः । सर्वकुलानुरागणसिद्धिविधिविस्तरतन्त्रम् ॥ अथ वज्रपाणिर्महाबोधिसत्वः सर्वतथागतवशीकरणसिद्धितन्त्रमुदाजहार । तत्रेदं तथागत वशीकरणसिद्धितन्त्रम् ॥ रागो वै नावमन्तर्यो विशुद्धः सुखदस्तथा । सवसत्वार्थतो योग इदं बुद्धवशङ्करम् ॥ इत्याह भगवान् बुद्धः ॥ तत्रेदं तथागतकुलवशीकरणसिद्धितन्त्रम् । कामं सेव्य सुखात्मा तु सुरतस्त्वमिति कुर्वन् । साधयेद्वज्रसत्वं तु तत्वचोदवशीकृतम् ॥ इत्याह भगवान् समन्तभद्रः ॥ तत्रेदं वज्रकुलवशीकरणसिद्धितन्त्रम् । बुद्धाज्ञान् सत्वशुद्ध्यर्थमभयार्थं च देहिनाम् । बुद्धशासनरक्षार्थं मारयं वशमानयेद् ॥ इत्याह भगवान् वज्रहुंकार ॥ तत्रेदं पद्मकुलवशीकरणसिद्धितन्त्रम् । रागशुद्धिं परीक्षत्वै पद्मपत्रविकासतः । रञ्जेद्वा रागयेच्चैव विनयार्थं वशंकरम् ॥ इत्याह आर्यावलोकितेश्वरः ॥ तत्रेदं मणिकुलवशीकरणसिद्धितन्त्रम् । सर्वबुद्धाभिषेकार्थं वज्ररत्नं दिनेदिने । शीर्षे स्थाप्याभिषिच्यतां सर्वबुद्धान् वशं नयेद् ॥ इत्याह भगवानाकाशगर्भः ॥ सर्वकुलवशीकरणसिद्धितन्त्रम् ॥ अथ वज्रपाणिर्महाबोधिसत्वः सर्वतथागतमारणसिद्धितन्त्रमुदाजहार । तत्रेदं तथागतमारणसिद्धितन्त्रम् । अपश्यं सर्वसत्वार्थ बुद्धतत्वा न शोधयन् । मनसा कर्मवाग्भ्यां वा मारणसिद्धिमाप्तयाद् ॥ इत्याह भगवांस्तथागतः ॥ तत्रेदं तथागतकुलमारणसिद्धितन्त्रम् । अलाभात्सर्वसिद्धीनामनुद्योगात्कुलस्य च । आस्फोटमहावज्रस्य मारयन् लघु सिध्यत ॥ इत्याह भगवान् वज्रपाणिः ॥ तत्रेदं वज्रकुलमारणसिद्धितन्त्रम् । अदुष्टदमनात्क्रोधादसत्वविनेयात्तथा । आत्मनो दुःखदानाच्च हुंकारेण तु मारयेद् ॥ इत्याह भगवान् वज्रधरः ॥ तत्रेदं पद्मकुलमारणसिद्धितन्त्रम् ॥ अकारुण्यादमैत्र्यात्तु दुःसत्वानामशोधनात् । आत्मनश्च विसंवादान मारयन् सिद्धिमाप्नुयाद् ॥ इत्याह भगवानवलोकितेश्वरः ॥ तत्रेदं मणिकुलमारणसिद्धितन्त्रम् । अत्यागादात्मनोऽनर्थातर्थकारादनर्थतः । दारिद्र्याच्चैव सत्वानां मारयन् सिद्धिमाप्नुयाद् ॥ इत्याह भगवान् सर्वाशापरिपूरकः ॥ केचिदप्राप्तियोगेन बुद्धानां मारणात्मकाः । तेषामुद्धरणार्थाय लघु सिद्धिप्रदा वयम् ॥ इत्याह भगवानार्यसमन्तभद्रः ॥ सर्वकुलमारणसिद्धिविधिविस्तरतन्त्रम् ॥ अथ भगवान् वज्रपाणिर्महाबोधिसत्वः सर्वतथागतरक्षामुद्रासिद्धितन्त्रमुदाजहार । तत्रेदं तथागतरक्षासिद्धितन्त्रम् । सर्वसत्वापरित्यागो बुद्धपूजात्मता सदा । नित्यं बुद्धमनस्कारो रक्षेयं परमाद्भुत- ॥ इत्याह भगवान् बुद्धः ॥ तत्रेदं तथागतकुलरक्षासिद्धितन्त्रम् । वज्रसत्वे सकृद्वारां नाममात्रपरिग्रहः । इयं रक्षा तु महती शाश्वती सिद्धिदा क्षणाद् ॥ इत्याह भगवान् वज्रधरः । तत्रेदं वज्रकुलरक्षासिद्धितन्त्रम् । विद्यातन्त्रेषु संतोषः त्रिलोकविजयात्मता । भक्तिर्वै वज्रहुंकारे रक्षेयं स्वपरस्य वे- ॥ त्याह भगवान् वज्रहुंकारः ॥ तत्रेदं पद्मकुलरक्षासिद्धितन्त्रम् । रागशुद्धिर्महामैत्री सत्वेषु अभयदानता । लोकेशनामजापश्य रक्षेयं परमाद्भुते- ॥ त्याह भगवान् वज्रधर्मः । तत्रेदं मणिकुलरक्षासिद्धितन्त्रम् । अबन्ध्यो दिवसः कार्यो यथा शक्त्या प्रयोगतः । त्यागेन बुद्धसत्वाभ्यां रक्षेयं परमाद्भूते- ॥ त्याह भगवान् वज्ररक्षः ॥ सर्वकुलरक्षासिद्धिविधिविस्तरतन्त्रम् ॥ अथ वज्रपाणिर्महाबोधिसत्वो भगवन्तमेतदवोचत् । "प्रतिगृहाण भगवन्निदं सर्वतथागतकुलतन्त्रम् । येन सर्वसत्वाः सर्वकल्पैश्वर्यतयाधिगमं कृत्वा, शीघ्रमनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यन्त" इति ॥ अथ भगवान् वज्रपाणये बोधिसत्वाय महासत्वाय साधुकारमदात् । "साधु साधु वज्रपाणे सुभाषितं, प्रतिगृहीतोऽस्माभिरधिष्ठितश्चे-" ति ॥ अथ सर्वतथागताः पुनः समाजमागम्य, वज्रपाणये महाबोधिसत्वाय साधुकाराण्यददन् । "साधु ते वज्रसत्वाय वज्ररत्नाय साधु ते । वज्रधर्माय ते साधु साधु ते वज्रकर्मणे ॥ सुभाषितमिदं सूत्रं वज्रयानमनुत्तरम् । सर्वतथागतं गुह्यं महायानाभिसंग्रहम् ॥ " इति ॥ सर्वतथागततत्वसंग्रहात्सर्वकल्पोपायसिद्धिविधिविस्तरतन्त्रः परिसमाप्तः ॥ छप्तेर्२४ सर्व-कुल-कल्प-गुह्य-विधि-विस्तर-तन्त्र अथ वज्रपाणिर्महाबोधिसत्वः सर्वतथागतगुह्यसिद्धितन्त्रमुदाजहार । तत्रादित एव सर्वतथागतोत्तमसिद्धिगुह्यतन्त्रम् । बुद्धबोधिसमाधिन्तु भावयन् सुसमाहितः । सुखेन लभ्यते बोधिरिति चिन्त्यावबुध्यती- ॥ त्याह भगवान् सर्वतथागतः ॥ तत्रेदं तथागतकुलोत्तमसिद्धिगुह्यतन्त्रम् । सत्ववज्रां हृदि बध्वा भार्या मे त्वमिति प्रिया । दृढीभव इति प्रोक्ते सर्वमुद्रास्तु साधयेत् ॥ १ ॥ अनेन विधियोगेन असिद्धापि स्वकर्मभिः । गुह्यभार्यामिति प्रोक्त्वा सुतरां सिद्धिमाप्नुयाद् ॥ इत्याह भगवान् सत्ववज्रः ॥ तत्रेदं वज्रकुलोत्तमसिद्धिगुह्यतन्त्रम् । यथा तथा हि कुपितो वज्र-हुं-कारमुद्रया । मारयन् सर्वबुद्धांस्तु भयात्सिद्धि[न्ददङ्करेद् ॥ इत्याह] भगवान् सर्वतथागतहुङ्कारः ॥ तत्रेदं पद्मकुलोत्तमसिद्धिगुह्यतन्त्रम् । समाधिमुद्रां सन्धाय निरीक्षन् वज्रदृष्टिना । स्वदारं परदारं वा प्रियां सिद्धिमवाप्नुयते- ॥ त्याह भगवान् पद्मरागः ॥ तत्रेदं मणिकुलोत्तमसिद्धिगुह्यतन्त्रम् । द्वयेन्द्रियसमापत्त्या सुखमग्रमिति ब्रूवन् । स्वेन्द्रियं सर्वबुद्धानां निर्यात्य लघु सिध्यती- ॥ त्याह भगवान्मणिरागः ॥ सर्वकुलोत्तमसिद्धिगुह्यतन्त्रः ॥ अथ वज्रपाणिर्महाबोधिसत्वः सर्वतथागतसमयसिद्धिगुह्यतन्त्रमुदाजहार । तत्रेदं तथागतसमयसिद्धिगुह्यतन्त्रम् । समयस्त्वमिति प्रोक्त्वा रागयेत्सर्वयोषितः । म विरागय सत्वार्थं ध्रुवं बुद्धां स रागयेद् ॥ इत्याह भगवान्महावैरोचनः ॥ तत्रेदं तथागतकुलसमयसिद्धिगुह्यतन्त्रम् । रागो हि नावमन्तव्यो रागयेत्सर्वयोषितः । वज्रिणो गुह्यसमयमिदं रक्षंस्तु सिध्यती- ॥ त्याह भगवान् वैरोचनः ॥ तत्रेदं वज्रकुलसमयसिद्धिगुह्यतन्त्रम् । मारयन्मारयेल्लोकं कायवाक्कर्मसत्क्रियैः । हूं-कारैस्तु विशुद्ध्यर्थं समयो ह्यर्थसिद्धिद ॥ इत्याह भगवान् त्रिलोकविजयः । तत्रेदं पद्मकुलसमयसिद्धिगुह्यतन्त्रम् । रागः शुद्धात्मनां शुद्धो ह्यशुद्धस्तीर्थ्ययोगिनाम् । शुद्धात्मनां तु समयं पालयन् सिद्धिमाप्नुयाद् ॥ इत्याह भगवानवलोकितेश्वरः ॥ तत्रेदं मणिकुलसमयसिद्धिगुह्यतन्त्रम् । बध्वा वज्रमणिं पूर्वं वज्रगर्भसमाधिना । दुष्टानां तु हरन्नर्थान् समयः सिद्धिदो भवेद् ॥ इ]त्याह भगवान् वज्ररत्नः ॥ सर्वकुलसमयसिद्धिगुह्यविधिविस्तरतन्त्रम् ॥ अथ वज्रपाणिर्महाबोधिसत्वः सर्वतथागतधर्मसिद्धिगुह्यतन्त्रमुदाजहार । तत्रेदं तथागतधर्मसिद्धिगुह्यतन्त्रम् । स्वभावशुद्धिं धर्माणां भावयन् सुसमाहितः । सर्वकार्याणि कुर्वन् वै बोधीं सिद्धिमवाप्नुते- ॥ त्याह भगवान् वज्रधातुः ॥ तत्रेदं तथागतकुलधर्मसिद्धिगुह्यतन्त्रम् । सर्वसत्वानुरागश्च विषयेष्वविरागिता । रामारामणशुद्धिस्तु गुह्यधर्मः सुसिद्धिद ॥ इत्याह भगवान् वज्रगुह्यः ॥ तत्रेदं वज्रकुलधर्मसिद्धिगुह्यतन्त्रम् । नासाहुंकारयोगेन सर्वदुष्टांस्तु मारयन् । सूक्ष्मवज्रसमाधिस्थः परां सिद्धिमवाप्नुयाद् ॥ इत्याह भगवान् धर्महुंकारः ॥ तत्रेदं पद्मकुलधर्मसिद्धिगुह्यतन्त्रम् । सूक्ष्मवज्रप्रयोगेण रामयेत्सर्वयोषितः । धर्मसिद्धिमवाप्नोति वज्रधर्मसमाधिने- ॥ त्याह भगवानवलोकितेश्वरः । तत्रेदं मणिकुलधर्मसिद्धिगुह्यतन्त्रम् । द्वयेन्द्रियसमापत्त्या सर्वाशा परिपूरयन् । योषितां वा प्रियाणां वा सिद्धिमाप्नोत्यनुत्तराम् । इत्याह भगवान् वज्ररत्नः ॥ सर्वकुलधर्मसिद्धिगुह्यविधिविस्तरतन्त्रम् ॥ अथ वज्रपाणिर्महाबोधिसत्वः सर्वतथागतकर्मसिद्धिगुह्यतन्त्रमुदाजहार । तत्रेदं तथागतकर्मसिद्धिगुह्यतन्त्रम् । वज्रसत्वसमाधिस्थो बुद्धानुस्मृतिभावकः । स्त्रीकायं प्रविशन्योन्या वशीकुर्यात्तु योषित ॥ इत्याह भगवान् वैरोचनः ॥ तत्रेदं तथागतकुलकर्मसिद्धिगुह्यतन्त्रम् । वज्रसत्वसमाधिस्थो भगेन प्रविशंस्तथा । स्त्रिया काये स्फरेत्सम्यग्निश्चेष्टामपि रागयेद् ॥ इत्याह भगवान् वज्ररागः ॥ तत्रेदं वज्रकुलकर्मसिद्धिगुह्यतन्त्रम् । वज्रहुंकारमुद्रां वै बध्वा तु सुसमाहितः । प्रविशंस्तु भगे क्रुद्धः मनसा स तु पातयेद् ॥ इत्याह भगवान् वज्रसमयः ॥ तत्रेदं पद्मकुलकर्मसिद्धिगुह्यतन्त्रम् । धर्मकर्ममयीमुद्रां बध्वा पद्मसमाधिना । भगेन प्रविशन् रक्षेदपि सर्वास्तु योषित ॥ इत्याह भगवान् वज्रपद्मः । तत्रेदं मणिकुलकर्मसिद्धिगुह्यतन्त्रम् । कर्मवज्रमणिं बध्वा वज्ररत्नसमाधिना । भगेन प्रविशन् स्त्रीणां क्षणादाविश्य नर्तती- ॥ त्याह भगवान् वज्ररत्नः ॥ सर्वकुलकर्मसिद्धिगुह्यविधिविस्तरतन्त्रम् ॥ अथवज्रपाणिर्महाबोधिसत्वः सर्वतथागतमण्डलशुद्धिसिद्धिगुह्यतन्त्रमुदाजहार । तत्रेदं सर्वतथागतचक्रशुद्धिसिद्धिगुह्यतन्त्रं भवति । धर्मचक्रसमाकारं कुर्याद्वा गुह्यमण्डलम् । मुद्रा भार्या परिवृतं तत्र बुद्धन्निवेशयेत् ॥ १ ॥ प्रविष्ट्वैव हि तद्गुह्यं ब्रूयाद्बुद्धस्य तत्क्षणात् । "भार्या ह्येतास्तव विभो ददस्व मम सर्वद" ॥ २ ॥ एवं ब्रूवंस्तु सर्वेषु कुलमुद्रा नयेषु च । गुह्यसिद्धिमवाप्नोति बुद्धानामसमत्विषाम् ॥ ३ ॥ इत्याह भगवान् बुद्धः ॥ तत्रेदं तथागतकुलसर्वमण्डलसिद्धिगुह्यतन्त्रम् । वज्रधातुप्रतीकाशं मण्डलं तु समालिखेत् । तथागतकुलानां तु सर्वेषां परमन्नयम् ॥ [सिद्धिकामस्त्वाशु] ब्रूयात्प्रवि[ष्टैव तन्मण्डलं] । सुरते समयस्त्वंहोः, वज्रसत्वाद्य सिध्य माम् ॥ २ ॥ इदं जपंस्तु हृदयं साधयेत्सर्वसिद्धयः । [तत्वचोदनयोगे]न तुष्टः स त्वाशु सिध्यती- ॥ त्याह भगवान् वज्रसत्वः ॥ तत्रेदं वज्रकुलसर्वमण्डलसिद्धिगुह्यतन्त्रम् । त्रिलोकविजयाकारं सर्ववज्रकुलस्य हि । सर्वमण्डलयोगं तु संलिखेत विचक्षणः ॥ १ ॥ तं प्रविष्ट्वैव शीघ्रं वै ब्रूयात्सिद्धिं तु याचयन् । "रागात्त्वमसि संभूत" , एवं सर्वेषु सिध्यती- ॥ २ ॥ त्याह भगवान् वज्रहुंकारः ॥ तत्रेदं पद्मकुलमण्डलसिद्धिगुह्यतन्त्रम् । जगद्विनययोगेन सर्वपद्मकुलेषु वै । मण्डलानि लिखेत्प्रज्ञस्तं प्रविष्ट्वैव वाग्वदेत् ॥ १ ॥ "रागधर्म महापद्म प्रसिध्य लघु मे विभो" । एवमुक्त्वा तु सर्वेषु मण्डलेषु स सिध्यती- ॥ २ ॥ त्याह भगवानवलोकितेश्वरः ॥ तत्रेदं मणिकुलमण्डलसिद्धिगुह्यतन्त्रम् । सर्वार्थसिद्धियोगेन मण्डलानि समालिखेत् । महामणिकुलानां तु तं प्रविष्ट्वैव वाग्वदेत् ॥ १ ॥ "सर्वाभिप्रायसिद्धीनां रागाशासिद्धिरुत्तमा । सिध्य सिध्य महासत्व भगवन् सर्वसिद्धये" ॥ २ ॥ एवं ब्रूवंस्तु सर्वेषु मण्डलेषु प्रवेशतः । महासिद्धिमवाप्नोति पूजागुह्यमनुत्तरम् ॥ ३ ॥ ततः प्रभृति सिद्धात्मा साधयन् सिद्धयः सदा । यदा न लघु सिद्धिः स्यात्सिध्यन्ते तत्वचोदनैर् ॥ ४ ॥ इत्याह भ[गवान् वज्रसत्वः ॥] सर्वकुलमण्डलसिद्धिगुह्यविधिविस्तरतन्त्रम् ॥ अथ वज्रपाणिर्महाबोधिसत्वः सर्वतथागतसर्वमुद्रागुह्यसिद्धितन्त्रमुदाजहार । तत्रेदं तथागतमुद्रागुह्यसिद्धितन्त्रम् । तथागतमहादेव्यः प्रियाः सर्वसुखप्रदाः । सत्यानुपरिवर्तिन्या वास्सत्यैः सापि ता यन्न सिध्यत ॥ इत्याह भगवान् बुद्धः ॥ तत्रेदं तथागतकुलमहामुद्रागुह्यसिद्धितन्त्रम् । महामुद्रां तु वै बध्वा यथावदनुपूर्वशः । इदं तत्वं रहस्यं च वज्रवाचा वदेत्वयम् ॥ १ ॥ वज्रसत्वः स्वयमहं त्वम्मे भार्या हृदि स्थिता । सर्वकायं परिष्वज्य वज्रगर्वे समुत्क्षिप ॥ २ ॥ वज्रगर्वा महादेवी तत्वचोदानुरागिता । सर्वकाये दृढीभूत्वा यथावत्सिध्यते लघुर् ॥ ३ ॥ इत्याह भगवान् वज्रगर्वापतिः ॥ तत्रेदं वज्रकुलसमयमुद्रागुह्यसिद्धितन्त्रम् । "सिध्य सिध्याद्य समये समयोऽहं त्वं प्रिया मम" । इति चोदनया शीघ्रमनुरक्ता प्रसिध्यती- ॥ त्याह भगवान् वज्रसत्वः ॥ तत्रेदं पद्मकुलधर्ममुद्रागुह्यसिद्धितन्त्रम् । "बुध्य बुध्य महासत्वि भार्या मे त्वमतिप्रिया" । इति चोदनया शीघ्रमनुरक्ता तु सिध्यती- ॥ त्याह भगवान् वज्रधर्मः ॥ तत्रेदं मणिकुलकर्ममुद्रागुह्यसिद्धितन्त्रम् । "सर्वकर्मकरी भार्या त्वं मे सिध्याद्य वज्रिणि" । इति चोदनया शीघ्रमनुरक्ता तु सिध्यती- ॥ त्याह भगवानाकाशगर्भः ॥ सर्वकुलसर्वमुद्रा[गुह्यसि]द्धिविधिविस्तरतन्त्रम् ॥ अथ वज्रपाणिर्महाबोधिसत्वः सर्वतथागतसमयगुह्यसिद्धितन्त्रमुदाजहार । तत्रेदं तथाग[तसमयगु]ह्यसिद्धितन्त्रम् । तीर्थिकानां हितार्थाय बुद्धभार्या प्रगोपिता । लेख्या मुद्रा प्रयोगेण इति विज्ञेय सिध्यती- ॥ त्याह भगवान् सर्वतथागत[समयः ॥] तत्रेदं तथागतकुलसमयगुह्यसिद्धितन्त्रम् । सर्वसत्वमनोव्यापी सर्वसत्वसुखप्रदः । सर्वसत्वपिता चैव कामोऽग्रः समयाग्रिणाम् ॥ इत्याहुर्भगवन्तः सर्वतथागताः ॥ इदं तत्सर्वबुद्धानां रहस्यं परमाद्भुतम् । विज्ञेय श्रद्दधच्छ्द्धो दुःसाध्योऽपि हि सिध्यती- ॥ त्याह भगवान् वज्रधरः ॥ तत्रेदं वज्रकुलसमयगुह्यसिद्धितन्त्रम् । रागशुद्ध्यै विरक्तानां तीर्थ्यदृष्टिकृतात्मनाम् । मारणं समयं त्वग्रमिदं विज्ञेयं सिध्यती- ॥ त्याह भगवान् वज्रधरः ॥ तत्रेदं पद्मकुलसमयगुह्यसिद्धितन्त्रम् । महाभूतोद्भवं सर्वं, कथं त्वशुचिरुच्यते? । तीर्थिकानां विनाशाय ध्रुवं सिद्धिमवाप्नुयाद् ॥ इत्याह भगवान् वज्रनेत्रः ॥ तत्रेदं मणिकुलसमयगुह्यसिद्धितन्त्रम् । स्त्रीप्रसङ्गात्तु रत्नानां संचयः क्रियते यदा । स्त्रियो ह्यनुत्तरं रत्नमिति चिन्त्यते सिध्यती- ॥ त्याह भगवानाज्ञाकरः ॥ सर्वकलसमयगुह्यसिद्धिविधिविस्तरतन्त्रः ॥ अथ वज्रपाणिर्महाबोधिसत्वः सर्वतथागतपूजागुह्यसिद्धितन्त्रमुदाजहार । तत्रायं तथागतपूजागुह्यसिद्धितन्त्रः । स्त्रीभिः परिवृतो भूत्वा परिहासक्रिया सुखम् । निर्यात्य बुद्धपूजायां पूजासिद्धिमवाप्नुयाद् ॥ इत्याह भगवान् बुद्धः । तत्रेदं तथागतकुलपूजागुह्यसिद्धितन्त्रम् । सुरतश्रमखिन्नस्तु तत्सौख्यं सुरतोद्भवम् । चतुःप्रणामे पूजायां निर्यात्य लघु सिध्यती- ॥ त्याह भगवान् वज्रधरः ॥ तत्रेदं वज्रकुलपूजागुह्यसिद्धितन्त्रम् । हुंकारसमयां बध्वा परिष्वज्य स्त्रियं जनम् । तत्परिष्वङ्गसौख्यं तु निर्यात्य हि स सिध्यती- ॥ त्याह भगवान् वज्रहुंकारः ॥ तत्रेदं पद्मकुलपूजागुह्यसिद्धितन्त्रम् । लोकेश्वरमहं भाव्य प्रियावक्त्रं निरीक्षन्वै । तन्निरीक्षणसौरव्यं तु निर्यात्य हि स सिध्यती- । त्याह भगवान् पद्मनेत्रः ॥ तत्रेदं मणिकुलपूजागुह्यसिद्धितन्त्रम् । कर्ममुद्राधरो भूत्वा सर्वाभरणभूषितः । स्त्रियं परिष्वज्य पूजायां विभूतिं निर्यात्य सिध्यती- ॥ त्याह भगवान् वज्ररत्नः ॥ सर्वकुलपूजागुह्यसिद्धिविधिविस्तरतन्त्रम् ॥ अथ वज्रपाणिर्महाबोधिसत्वः सर्वतथागतगुह्यपूजासिद्धितन्त्रमुदाजहार । तत्रेदं तथागतगुह्यपूजासिद्धितन्त्रम् । रमयन् परदाराणि यथा[क]श्चिन्न वेदयेत् । भावयन् बुद्धमात्मानं पूजया सिद्धिमाप्नुयाद् ॥ इत्याह भगवान् बुद्धः ॥ तत्रेदं तथागत[कुल]गुह्यपूजासिद्धितन्त्रम् । वज्रलास्यां समाधाय वज्रमालां तु बन्ध[येत्] । वज्रगीतां ततो बध्वा पूजयेद्वज्रनृत्यया ॥ का[मरत्याभिषेका]ग्र्या नृत्यगीतसुखात्सुखम् । नान्यदस्ति हि तेनेयं गुह्यपूजा निरुत्तरा ॥ तत्रेदं वज्रकुलगुह्यपूजासिद्धितन्त्रम् ॥ यथावद्विधियोगेन पूज[येद्] गुह्यपूजया । त्रिलोकविजयं भाव्य पूजासिद्धिम वाप्नुयाद् ॥ इत्याह भगवान् वज्रगुह्यः । तत्रेदं पद्मकुलगुह्यपूजासिद्धितन्त्रम् । य[थावद्गु]ह्ययोगेन धर्ममुद्रा सुपूजयन् । जगद्विनयमुद्रास्थः पूजासिद्धिमवाप्नुते- ॥ त्याह भगवानवलोकितेश्वरः ॥ तत्रेदं मणिकुलगुह्यपूजासिद्धितन्त्रम् । यथावद्गुह्ययोगेन कर्ममुद्रा सुसाधयन् । सर्वार्थसिद्धियोगेन पूजासिद्धिमवाप्नुते- ॥ त्याह भगवान् वज्रगर्भः ॥ सर्वकुलगुह्यपूजाविधिविस्तरतन्त्रम् ॥ अथ भगवान् वज्रपाणिर्महाबोधिसत्वः सर्वतथागतकुलोद्घाटनगुह्यसिद्धितन्त्रमुदाजहार । तत्रेदं तथागततत्वोत्पत्तिसिद्धिगुह्यतन्त्रम् । समाधिज्ञानसंभूतं बुद्धत्वं हि समासतः । सत्वरागणयोगेन शीघ्रमाप्नोत्यनुत्तरम् ॥ इत्याह भगवांस्तथागतः । तत्रेदं तथागतकुलमहातत्त्वोद्घाटनसिद्धिगुह्यतन्त्रम् । अनादिनिधनः सत्वः आकाशोत्पत्तिलक्षणः । समन्तभद्रः सर्वात्मा कामः सर्वजगत्पतिः ॥ १ ॥ यच्चित्तं सर्वसत्वानां दृढत्वात्सत्वनुच्यते । समाधानाद्वज्रसमो निश्चयैर्याति वज्रताम् ॥ २ ॥ सत्वाधिष्ठानयोगेन वज्रसत्वः पुनर्भवेत् । स एव भगवान् सत्वो वज्रकायस्तथागतः ॥ ३ ॥ स्वचित्तप्रतिवेधादिबुद्धबोधिर्यथाविधि । स एव भगवान् सर्वतथागतकुलं भवेद् ॥ इत्याह भगवाननादिनिधनसत्वः ॥ तथागतकुलं सैव सैव वज्रकुलं स्मृतम् । सैव पद्मकुलं शुद्धं सैवोक्तं मणिसत्कुलम् ॥ इत्याह भगवान् सर्वतथागतचक्रः ॥ सर्वकुलोत्पादनगुह्यसिद्धिविधिविस्तरतन्त्रम् ॥ अथ वज्रपाणिर्महाबोधिसत्वः सर्वतथागतमुद्राचिन्हाभिधानसिद्धिगुह्यतन्त्रमुदाजहार । तत्रेदं तथागतचिन्हाभिधानसिद्धिगुह्यतन्त्रं भवति । स एव भगवान् सत्वो वज्रसत्वो हृदि स्थितः । समाधानात्समाधिस्तु बुद्धबोधिप्रसाधक ॥ इत्याह भगवान् बुद्धः ॥ तत्रेदं तथाकुलचिन्हाभिधानसिद्धिगुह्यतन्त्रम् । वज्रं सुप्रतिवेधत्वादङ्कुशं ग्रहमोचकः । सूक्ष्मवेधितया वाणं साधुकारस्तु तुष्टितः ॥ १ ॥ रत्नस्तु रचनादुक्तः सूर्यस्तेजो विधानतः । केतुः समुच्छ्रयः प्रोक्तः स्मितो हासस्तु कीर्तितः ॥ २ ॥ रागशुद्धितया पद्मं कोशः क्लेशारिच्छेदनात् । चक्रो मण्डलयोगात्तु वाग्लापाज्जपनुच्यते ॥ ३ ॥ सर्ववज्रं तु विश्वत्वाद्वर्मदुर्भेद्ययोगतः । दंष्ट्रा भीषणयोगात्तु बन्धो मुद्राप्रयोगतः ॥ ४ ॥ यथा हि भगवान् शाश्वो वज्रसत्वस्तु सर्वगः । तथा वज्रां तु चिह्नादि भावयन्निति सिध्यती- ॥ त्याह भगवान् सर्वतथागतचिन्हः । सर्वकुलचिह्नाभिधानसिद्धिगुह्यतन्त्रम् ॥ अथ वज्रपाणिर्महाबोधिसत्वः सर्वतथागतमुद्राबन्धोत्पत्तिसिद्धिगुह्यतन्त्रमुदाजहार । तत्रेदं तथागतमुद्राबन्धोत्पत्तिसिद्धिगुह्यतन्त्रम् । बध्वा वै वज्रपर्यङ्कङ्कराभ्यां वज्रबन्धतः । वज्रसत्वसमाधिस्थः शीघ्रं बुद्धत्वमाप्नुयाद् ॥ इत्याह भगवान् बुद्धः ॥ [तत्रे]दं तथागतकुलमुद्राबन्धोत्पत्तिसिद्धिगुह्यतन्त्रम् । यथा राज्ञां स्वमुद्राभिः मुद्र्यते राजशासनम् । महात्मनां स्वमुद्राभिरामुद्र्यन्ते तथा जनाः ॥ १ ॥ कायवाक्चित्तवज्राणां प्रतिबिम्बप्रयोगतः । महात्मनां महामुद्रा इति विज्ञाय सिध्यती- ॥ २ ॥ त्याह भगवान्महामुद्रः ॥ तत्रेदं वज्रकुलमुद्राबन्धोत्पत्तिसिद्धिगुह्यतन्त्रम् । यथाहि समयैस्तीव्रैः कश्चिद्बन्धो भवेज्जनः । अनतिक्रमणीयैस्तु तथा सर्वतथागताः ॥ १ ॥ बद्धा हि वज्रबन्धाग्र्यमुद्रासमयबन्धनैः । नातिक्रमन्त्यामरणादिति विज्ञाय सिध्यती- ॥ त्याह भगवान् वज्रसमयः ॥ तत्रेदं धर्मकुलमुद्राबन्धोत्पत्तिसिद्धिगुह्यतन्त्रम् । अनतिक्रमणीया हि वज्रवास्सर्वशो जिनैः । अयं बन्ध इति ज्ञात्वा धर्ममस्य प्रसिध्यती- ॥ त्याह भगवान् वज्रधर्मः ॥ तत्रेदं कर्मकुलमुद्राबन्धोत्पत्तिसिद्धिगुह्यतन्त्रम् । अनतिक्रमणीया हि वज्राज्ञा कर्मभूरि च । आज्ञावतस्तु तत्कर्म विज्ञाय लघु सिध्यती- ॥ त्याह भगवान् वज्रः ॥ सर्वकुलमुद्राबन्धोत्पत्तिसिद्धिविधिविस्तरगुह्यतन्त्रम् ॥ अथ खलु भगवान् वज्रपाणिं महाबोधिसत्वमेवमाह । "इदमपि मया भगवन् परिगृहीतमधिष्ठितं चे-" ति ॥ अथ सर्वतथागताः पुनः समाजमागम्य वज्रपाणये सर्वतथागतधिपतये साधुकाराण्यददुः ॥ साधु ते वज्रसत्वाय वज्ररत्नाय साधु ते । वज्रधर्माय ते साधु साधु ते वज्रकर्मणे ॥ सुभाषितमिदं सूत्रं वज्रयानमनुत्तरम् । सर्वतथागतं गुह्यं महायानाभिसंग्रहम् ॥ इति ॥ सर्वतथागततत्वसंग्रहात्सर्वकुलकल्पगुह्यविधिविस्तरतन्त्रं समाप्तम् ॥ छप्तेर्२५ सर्व-कल्प-गुह्योत्तर-तन्त्र-विधि-विस्तर अथ वज्रपाणिर्महाबोधिसत्वः सर्वतथागतधर्मोत्तमसिद्धितन्त्रमुदाजहार । तत्रेदं तथागतधर्मोत्तमसिद्धितन्त्रं बुद्धधर्मसमाधिं तु भावयन् सुसमाहितः । बुद्धानुस्मृतियोगेन सिद्धिमाप्नोत्युत्तमाम् ॥ इत्याह भगवांस्तथागतः । तत्रेदं तथागतकुलधर्मोत्तमसिद्धितन्त्रम् । सर्वसत्वसमाधिस्थः भावयन् सुसमाहितः । रागानुस्मृतियोगेन प्राप्नुयात्सिद्धिमुत्तमाम् ॥ इत्याह भगवान् सर्वतथागतसमाधिः ॥ तत्रेदं वज्रकुलधर्मोत्तमसिद्धितन्त्रम् । त्रिलोकविजयाकारं भावयन् पुरतस्तथा । वज्रपाणिबलो भूत्वा त्रिलोकविजयी भवेद् ॥ इत्याह भगवान् वज्रसत्वः ॥ तत्रेदं पद्मकुलधर्मोत्तमसिद्धितन्त्रम् । जगद्विनयधर्मं तु भावयन् पुरतस्त[था ।] सर्वाकारवरोपेतं विनयं प्रकरोति स ॥ इत्याह भगवान् वज्रधर्मः ॥ तत्रेदं मणिकुलधर्मोत्तमसिद्धितन्त्रम् । सर्वार्थसिद्धिरा[कारं भावयन् पुरतस्तथा । सर्वाकारवरोपेतमर्थसंपत्स लप्स्यते- ॥ त्याह भगवान् वज्रपाणिः ॥ सर्वकुलधर्मोत्तमसिद्धिविधिविस्तरतन्त्रम् ॥ अथ वज्रपाणिर्महाबोधिसत्वः सर्वतथागतधर्मसमयसिद्धितन्त्रमुदाजहार । तत्रेदं तथागतधर्मसमयसिद्धितन्त्रम् । बुद्धा[नुस्मृ]तिमां भूत्वा वज्र वज्र इति ब्रूवन् । सूक्ष्मवज्रप्रयोगेण बुद्धसिद्धिमवाप्नुते- ॥ त्याह भगवान् बुद्धः ॥ तत्रेदं तथागतकुलधर्मसमयसिद्धितन्त्रम् । वज्रसत्वसमाधिन्तु भावयन् सूक्ष्मवज्रतः । वज्रसत्वत्वमाप्नोति वज्रसत्वमुदाहरन्न ॥ इत्याह भगवान् वज्रसत्वः ॥ तत्रेदं वज्रकुलधर्मसमयसिद्धितन्त्रम् । त्रिलोकविजयाकारन् संस्मरन् पुरतस्तथा । हुं हुं हुं हुमिति प्रोच्य सिद्धिमाप्नोत्यनुत्तराम् ॥ इत्याह भगवान् वज्रहुंकारः । तत्रेदं पद्मकुलधर्मसमयसिद्धितन्त्रम् । जगद्विनयरूपं तु भावयन् सूक्ष्मवज्रतः । शुध्य शुध्य इति प्रोच्य उत्तमां सिद्धिमाप्नुते- ॥ त्याह भगवान् वज्रधर्मः । तत्रेदं मणिकुलधर्मसमयसिद्धितन्त्रम् । सर्वार्थसिद्धिरूपं तु भावयन् सूक्ष्मवज्रतः । सिध्य सिध्य इति प्रोच्य अर्थसिद्धिः परा भवेद् ॥ इत्याह भगवान्मणिधर्मः ॥ सर्वकुलधर्मसमयसिद्धिविधिविस्तरतन्त्रम् ॥ अथ वज्रापाणिर्महाबोधिसत्वः सर्वतथागतसद्धर्मज्ञानसिद्धितन्त्रमुदाजहार । तत्रेदं सर्वतथागतसद्धर्मज्ञानसिद्धितन्त्र । अनक्षरं तु सद्धर्मं समाधिज्ञानसंभवम् । अकारस्तेन धर्माणामनुत्पाद इति स्मृतः ॥ १ ॥ अनेन मुद्राप्रयोगेण भावयन् प्रज्ञया ततः । सर्वाक्षरमयं ज्ञानं सिध्यते सौगतं क्षणाद् ॥ २ ॥ इत्याह भगवानार्यमञ्जुश्रीसर्वतथागतः ॥ तत्रेदं तथागतकुलसद्धर्मज्ञानसिद्धितन्त्रम् । सर्वतथागतं तत्वमिदं सूत्रं तु श्रद्दधन् । धारयन् वाचयन् श्राद्धः सिद्धिमाप्नोत्यनुत्तराम् ॥ इत्याह भगवान् वज्रसत्वः । तत्रेदं वज्रकुलसद्धर्मज्ञानसिद्धितन्त्रम् । पापसत्वहितार्थाय बुद्धाज्ञाकरणाय च । दुष्टानां विनयार्थाय मारणेन तु सिध्यती- ॥ त्याह भगवान् वज्रकुलः ॥ तत्रेदं पद्मकुलसद्धर्मज्ञानसिद्धितन्त्रम् । स्वभावशुद्धिमागम्य परमार्थमिति स्मृतम् । भावयन्निदमाद्यं तु धर्मेणाशु प्रसिध्यती- ॥ त्याह भगवानवलोकितेश्वरः ॥ तत्रेदं मणिकुलसद्धर्मज्ञानसिद्धितन्त्रम् । सर्वसत्वार्थदानं च सर्वाशापरिपूरये । इमं मणिकुले धर्म भावयन्नाशु सिध्यती- ॥ त्याह भगवान् धर्मरत्नः ॥ सर्वकुलसद्धर्मज्ञानसिद्धिविधिविस्तरतन्त्रम् ॥ अथ वज्रपाणिर्महाबोधिसत्वः सर्वतथागतसमाधिकर्मसिद्धितन्त्रमुदाजहार । तत्रेदं तथागतसमाधिकर्मसिद्धितन्त्रम् । समाधिकर्म बुद्धानां बुद्धबोधिप्रसाधकम् । इदं भावयमानस्तु परां सिद्धिमवाप्नुयाद् ॥ इत्याह भगवान् बुद्धः ॥ तत्रेदं [तथागत] कुलसमाधिकर्मसिद्धितन्त्रम् ॥ वज्रसत्वसमाधीनामुत्तमं कर्मभूरि च । सर्वसत्वकरं विश्वमिति भावेन सिध्यती- ॥ त्याह भगवान् वज्रः ॥ तत्रेदं वज्रकुलसमाधिकर्मसिद्धितन्त्रम् । पापशुद्धिनिमित्तं हि सर्वपापप्रदामकम् । मारणं सर्वसत्वानां श्रद्दधानात्तु सिध्यती- ॥ त्याह भगवान् वज्री ॥ तत्रेदं पद्मकुलसमाधिकर्मसिद्धितन्त्रम् । सर्वपापविशुद्धात्मा सर्वशुद्ध्या करोति सः । सर्वकार्याणि कर्मेयमिति भावेन सिध्यति ॥ इत्याह भगवान् पद्मः ॥ तत्रेदं मणिकुलसमाधिकर्मसिद्धितन्त्रः । सर्वाशिनां दरिद्राणां सर्वाशाः परिपूरयन् । सर्वार्थसिद्धिः सर्वात्मा सिध्यते नात्र संशय ॥ इत्याह भगवान् रत्नध्वजः ॥ सर्वकुलसमाधिकर्मसिद्धिविधिविस्तरतन्त्रः ॥ अथ वज्रपाणिर्महाबोधिसत्वः सर्वतथागतसूक्ष्मज्ञानसिद्धितन्त्रमुदाजहार । तत्रेदं तथागतसूक्ष्मज्ञानसिद्धितन्त्रं भवति । सूक्ष्मवज्रविधिं शाश्वत्योजयं सर्वभावतः । सर्वाकारवरोपेतां पञ्चाभिज्ञामवाप्नुयाद् ॥ इत्याह भगवान् बुद्धः ॥ तत्रेदं सर्वतथागतकुलसूक्ष्मज्ञानसिद्धितन्त्रम् । नानाचार्यस्य नान्यस्य नाशिष्यस्यासुतस्य वा । पुरतः प्रकाशयेन्मुद्राः सिद्धिरासां सुगुह्यत ॥ इत्याह भगवान् वज्रधरः । तत्रेदं वज्रकुलसूक्ष्मज्ञानसिद्धितन्त्रम् । सूक्ष्मवज्रप्रयोगेण नासा हुं-कारयोगतः । वज्रक्रोधसमाधिस्थः सर्वकार्याणि साधयेद् ॥ इत्याह भगवान् वज्रः ॥ तत्रेदं पद्मकुलसूक्ष्मज्ञानसिद्धितन्त्रम् । वज्रदृष्टिं समाधाय सूक्ष्मवज्रप्रयोगतः । महापद्मसमाधिस्थः रागसिद्धिमवाप्नुयाद् ॥ इत्याह भगवान् पद्मरागः ॥ तत्रेदं मणिकुलसूक्ष्मज्ञानसिद्धितन्त्रम् । दीप्तदृष्टिः सुसूक्ष्मा तु वज्ररत्नसमाधिना । सूक्ष्मवज्रप्रयोगेण सर्वार्थाकर्षो भवेद् ॥ इत्याह भगवान् वज्रपाणिः । सर्वकुलसूक्ष्मज्ञानसिद्धितन्त्रम् ॥ अथ वज्रपाणीर्महाबोधिसत्वः सर्वतथागतचक्षुर्ज्ञानसिद्धितन्त्रमुदाजहार । तत्रेदं तथागतचक्षुर्ज्ञानसिद्धितन्त्रम् । यदा मुद्रा समाधिर्वा साधनायोपयुज्यति । तदा खे धातवः शुभ्रास्तारकाकाराः स पश्यति ॥ १ ॥ तदा जानीत मतिमां बुद्धचक्षुरिदं मम । ततः प्रभृति बुद्धानां सर्वकल्पानि साधयेद् ॥ २ ॥ इत्याह भगवान् बुद्धः ॥ तत्रेदं तथागतकुलचक्षुर्ज्ञानसिद्धितन्त्रम् । यावन्तो भावा विद्यन्ते स्थावरा जंगमास्तथा । तेषां प्रतिबिम्बानि पश्यति खे प्रधावतः ॥ १ ॥ आगच्छं गच्छतो वै वज्रचक्षुर्विशुद्धिताम् । जानन्वै पूजया सिद्धिमाप्नोत्यनुत्तराम् ॥ २ ॥ इत्याह भगवान् वज्रसत्वः ॥ तत्रेदं वज्रकुलचक्षुर्ज्ञानसिद्धितन्त्रम् । सव्यापसव्यवर्तिभ्यो खे तः पश्यति चक्षुषा । आकाशधातवः शीघ्रं भ्रमन्तो अंभ्रसन्निभाः ॥ १ ॥ तां दृष्ट्वा न हि बिभ्येत मुद्रास्ता वज्रसंभवाः । तेषां ग्रहणतो मुद्राः सिध्यन्ते मुद्रचक्षुषा ॥ २ ॥ इत्याह भगवान् वज्रः ॥ तत्रेदं पद्मकुल चक्षुर्ज्ञानसिद्धितन्त्रम् । श्वेतां रक्तां सितां पितां यदा पश्यन्ति मण्डलान् । तदाभि[प्रायं वै] यान्ति सिध्यन्ते वज्रचक्षुषा ॥ २ ॥ इत्याह भगवानवलोकितेश्वरः । तत्रेदं मणिकुलचक्षुर्ज्ञानसिद्धितन्त्रम् । आकाशे रत्नसंकाशा हिरण्यादिषु सादृशाः । यदा तु पश्यते खे तु खचक्षुः सिध्यते सदे- । त्याह भगवान् वज्रगर्भः । सर्वकुलचक्षुर्ज्ञानसिद्धिविधिविस्तरतन्त्रम् ॥ अथ वज्रपाणिर्महाबोधिसत्वः सर्वतथागतकर्मोत्तमसिद्धितन्त्रमुदाजहार । तत्रेदं तथागतकर्मोत्तमसिद्धितन्त्रम् । कर्ममण्डलयोगेन पूजयं सर्वनायकान् । रागसौख्यविपाकार्थं बुद्धसिद्धिमवाप्नुयाद् ॥ इत्याह भगवान् बुद्धः ॥ तत्रेदं तथागतकुलकर्मोत्तमसिद्धितन्त्रम् । गुह्यपूजां प्रकुर्वाणो रागोऽहमिति भावयन् । प्राप्नुयादुत्तमां सिद्धिं वज्ररागसमद्युतिम् ॥ इत्याह भगवान् कामः ॥ तत्रेदं वज्रकुलकर्मोत्तमसिद्धितन्त्रम् । गुह्यपूजां प्रकुर्वाणो क्रोधोऽहमिति भावयन् । प्राप्नुयादुत्तमां सिद्धिं त्रिलोकविजयोपमाम् ॥ इत्याह भगवान् वज्रपाणिः ॥ तत्रेदं पद्मकुलकर्मोत्तमसिद्धितन्त्रम् । अन्तर्गतेन मनसा कामशुद्धिं तु भावयन् । स्वरेऽतो बिन्दुभिर्बुद्धां पूजयं सिद्धिमाप्नुयाद् ॥ इत्याह भगवानवलोकितेश्वरः ॥ तत्रेदं मणिकुलकर्मोत्तमसिद्धितन्त्रम् । वज्रगर्वा समाधाय नमेदाशयकम्पितैः । प्रणामपरमो नित्यमभिषेकां समाप्नुयाद् ॥ इत्याह भगवान् वज्राभिषेकरत्नः ॥ सर्वकुलकर्मोत्तमसिद्धिविधिविधिविस्तरतन्त्रः ॥ अथ वज्रपाणिर्महाबोधिसत्वः सर्वतथागतकर्मसमयगुह्यसिद्धितन्त्रमुदाजहार । तत्रायं तथागतकर्मसमयगुह्यसिद्धितन्त्रः । कामाद्याः सर्वसौख्या मे सदैव हृदये स्थिताः । अहो सत्वार्थानामविरागो यत्र देश्यते ॥ १ ॥ अयं हि कर्मसमयस्तथागतसमाधिना । भावयं पूजयेद्बुद्धामुत्तमां सिद्धिमाप्नुयाद् ॥ २ ॥ इत्याह भगवान् बुद्धः ॥ तत्रायं तथागतकुलकर्मसमयगुह्यसिद्धितन्त्रः । समन्तभद्रः कामोऽहं सर्वसत्वसुखप्रदः । वज्रसत्वसमाधिस्थः पूजयं सिद्धिमाप्नुयाद् ॥ इत्याह भगवान् कामः ॥ तत्रायं वज्रकुलकर्मसमयगुह्यसिद्धितन्त्रः । समन्तभद्रः क्रोधोऽहं सर्वसत्वहितंकरः । वज्रहुंकारयोगेन पूजयं सिद्धिमाप्नुयाद् ॥ इत्याह भगवान् वज्रपाणिः ॥ तत्रायं पद्मकुलकर्मसमयगुह्यसिद्धितन्त्रः । समन्तभद्रो रागोऽहं सर्वसौख्यप्रदः स्वयम् । जगद्विनयरूपस्थः पूजयं सिद्धिमाप्नुयाद् ॥ इत्याह भगवान् पद्मरागः ॥ तत्रायं मणिकुलकर्मसमयगुह्यसिद्धितन्त्रः । समन्तभद्रो राजाहं सर्वसत्व[महार्थदः । सर्वार्थसिद्धिरूपेण] पूजयं सिद्धिमाप्नुयाद् ॥ इत्याह भगवान् सर्वार्थसिद्धिः ॥ सर्वकुलकर्मसमयगुह्यसिद्धिविधिविस्तरतन्त्रम् ॥ अथ वज्रपाणिर्महाबोधिसत्वः सर्वतथागतकर्मधर्मतोत्तमसिद्धितन्त्रमुदाजहार । तत्रायं तथागतकर्मधर्मतोत्तमसिद्धितन्त्रः । दक्षिणाग्र्याभिमुखतः कवचं स्वसमाधिना । निबध्योष्णीषसंस्था तु रक्षात्यन्तं भविष्यती- ॥ त्याह भगवान् बुद्धः ॥ तत्रायं तथागतकुलकर्मधर्मोत्तमसिद्धितन्त्रः । संलिख्य तु भगाकारं कुड्ये मेढ्रं समुच्छ्रितम् । यां स्त्रियं चिन्तयन्मृदुं कुर्यात्सास्य वशीभवेद् ॥ इत्याह भगवानार्यवज्रपाणिः ॥ तत्रायं वज्रकुलकर्मधर्मोत्तमसिद्धितन्त्रः । भूमौ यक्षमुखं लिख्य तस्याग्र्याङ्गु लितो नखम् । निहत्य चक्षुर्देशे तु समाकर्षेत्स्त्रियो वराः ॥ इत्याह भगवान् वज्रसत्वः ॥ तत्रायं पद्मकुलकर्मधर्मोत्तमसिद्धितन्त्रः । पद्मं गृह्य कराभ्यां तु निरीक्ष्य रागशुद्धिताम् । वज्रदृष्ट्या तु स स्त्रीणां रागयेदभितस्तथे- ॥ त्याह भगवान् वज्रधरः ॥ तत्रायं मणिकुलकर्मधर्मोत्तमसिद्धितन्त्रः । वज्ररत्नसमाधिस्थो मणिं गृह्य [द्वि]पाणिना । रत्नहुंकारयोगेन मारयेत्सर्वयोषितः ॥ इत्याह भगवान् वज्रहुंकारः ॥ सर्वकुलकर्मधर्मोत्तमसिद्धिविधिविस्तरत्नत्रः ॥ ॥ अथ वज्रपाणिर्महाबोधिसत्वः सर्वतथागतकर्मकार्यसिद्धितन्त्रमुदाजहार । तत्रायं तथागतकर्मकार्यसिद्धितन्त्रः । पूजाकर्मविधिं योज्य यद्यत्कार्यं तु चिन्तयेत् । तत्तद्विज्ञाप्य मुद्रां तु साधयेत विचक्षणः ॥ इत्याह भगवान् वज्रधातुः ॥ तत्रायं तथागतकुलकर्मकार्यसिद्धितन्त्रः । गुह्यपूजाविधिं योज्य वज्रसत्वसमाधिना । यत्कार्यं वदते तत्तु शीघ्रं सिद्धिमवाप्नुयाद् ॥ इत्याह भगवान् वज्रधरः ॥ तत्रायं वज्रकुलकर्मकार्यसिद्धितन्त्रः । कुलगुह्यमहापूजां कृत्वा क्रोधसमाधिना । यत्किञ्चिच्चिन्तयेत्प्राज्ञः स शीघ्रं सिद्धिमेष्यती- ॥ त्याह भगवान् वज्रक्रोधः । तत्राय पद्मकुलकर्मकार्यसिद्धितन्त्रः । कृत्वा तु मनसीं पूजां लोकेश्वरसमाधिना । यत्कार्यं चिन्तयेत्प्राज्ञः तत्सर्वं शीघ्रमाप्नुयाद् ॥ इत्याह भगवान् पद्मधरः ॥ तत्रायं मणिकुलकर्मकार्यसिद्धितन्त्रः । कृत्वा धूपादिभिः पूजां वज्रगर्भसमाधिना । यत्कार्यं चिन्तयेत्प्राज्ञः तत्सर्वं सिध्यति क्षणाद् ॥ इत्याह भगवान् वज्रगर्भः ॥ सर्वकुल[कर्मकार्य]सिद्धिविधिविस्तरतन्त्रम् ॥ अथ वज्रपाणिर्महाबोधिसत्वः सर्वतथागतमुद्राभावना[धिष्ठानयोगसिद्धितन्त्रमुदाजहार ।] तत्रायं तथागताधिष्ठानयोगसिद्धितन्त्रो भवति । सूक्ष्मवज्रप्रयोगेण बुद्धयोगसमाहितः । उत्तमासि[द्धिमाप्नुयाद्] बुद्धमुद्राप्रसाधक ॥ इत्याह भगवान् वज्रपाणिस्तथागतः ॥ तत्रायं तथागतकुलसत्वाधिष्ठानयोगसिद्धितन्त्रः । सत्वो हि [सर्वात्मभावः कायेऽ]प्यात्मनि संस्थितः । इत्यधिष्ठाय सत्वोऽहमहंकारेण भावयन् ॥ सिध्यतीत्याह भगवान् सर्वतथागतमहायानाभिसमय[वज्रसत्वः ॥ तत्रायं व]ज्रकुलवज्राधिष्ठान[योगसिद्धितन्त्रः ।] यथा सत्वस्तथा मुद्रा यथा मुद्रास्तथा ह्यहम् । अनेन भावयोगेन सर्वमुद्राः सु[साधयेद् ॥ इत्याह भगवान् वज्रधरः ॥ तत्रायं पद्मकुलधर्मा]धिष्ठानयोगसिद्धितन्त्रः । धर्ममुद्राप्रयोगेण सूक्ष्मवज्रेण भावना । वाङ्मुद्राणां [तु तत्सर्वं महासत्वस्य समाधि ॥ इत्याह भगवानार्यावलोकितेश्वरः ॥] तत्रायं मणिकुलकर्माधिष्ठानयोगसिद्धितन्त्रः । सर्वबुद्धाभिषेकाणि [पजासमयसिद्धयः । भगवानिति भावयन् वज्रकर्माणि साधयेद् ॥ इत्याह भगवान्] वज्रकर्म ॥ सर्वकुलमुद्राभाव[नासिद्धितन्त्रम् ॥ अथ] भगवन्[सर्वतथागताः] पुनः समाजमागम्य, भगवते सर्वतथागतचक्रवर्तिने वज्रपाणये महाबोधिसत्वाय साधुकाराण्यददुः । साधु ते वज्रसत्वाय [वज्ररत्ना]य साधु ते । [वज्रधर्माय ते साधु साधु ते] वज्रकर्मणे ॥ सुभाषितमिदं सूत्रं वज्रयानमनुत्तरम् । सर्वतथागतं गुह्यं महायानाभिसं[ग्रहम् ॥ इति ॥] सर्वतथागततत्वसंग्रहात्सर्वकल्पगुह्योत्तरतन्त्रविधिविस्तरः परिसमाप्तः ॥ छप्तेर्२६ सर्व-कल्पनुत्तर-तन्त्र अथ वज्रपाणिर्महाबोधिसत्व इमा[मुदानमुदानयामास ।] दुर्दृष्टीनां विरक्तानामिदं गुह्यन्न युज्यते । सर्वसत्वहितार्थाय वक्ष्यामि विधयस्तथे- ॥ ति ॥ अथवज्रपाणिर्महाबोधिसत्वः [सर्वतथागत] कुलोपचारविधिविस्तरमभाषत् । तत्रेदं सर्वतथागतकुलोपचारविधिविस्तरतन्त्रम् । तत्रायं हृदयोपचारविधि[विस्तरतन्त्रो भवति] । महामण्डलं दृष्ट्वा धूपपुष्पदीपगन्धपूजामुद्राभिर्कृत्वा, ततो वज्र[वाचा जापमारभ्यति ।] तत्रायं जापविधिर्भवति । यथा स्थानस्थितश्चतुर्मासं चतुःसन्ध्यं धूपादिभिर्यथावत्पूजां कृत्वा, सर्वतथागतमहायानाभिसमयनामाष्टशतेन सर्वतथागतानभिष्टुत्य, चतुर्मुद्राप्रणामयोगेन प्रणमन्नात्मनिर्यातनपूजा कार्यनेन मन्त्रचतुष्टयेन । ओं सर्वतथागतपूजोपस्थानायात्मानं निर्यातयामि सर्वतथागतवज्रसत्वाधितिष्ठस्व माम् ॥ ओं सर्वतथागतपूजाभिषेकायात्मानं निर्यातयामि सर्वतथागतवज्ररत्नाभिषिञ्च माम् ॥ ओं सर्वतथागतपूजाप्रवर्तनायात्मानं निर्यातयामि सर्वतथागतवज्रधर्म प्रवर्तय माम् ॥ ओं सर्वतथागतपूजाकर्मणे आत्मानं निर्यातयामि सर्वतथागतवज्रकर्म कुरु माम् ॥ "ततोऽविरक्तः सर्वकामगुणेषु सर्वाहारः सर्वकामोपभोगीहृदयार्थः स्वमात्मानं बुद्धबिम्बं पुरतो वाङ्मात्रेणापि भावयन् यथाकामकरणीयतया, अष्टशतं वज्रवाचा जपन्नाशु प्रसिध्यती-" त्याह भगवान् वज्रसत्वः ॥ "अथोत्तमसिद्धिमिच्छेत्ततः पटे भगवन्तं तथागतं मध्ये लेखयेत् । तस्य चतुर्महासत्वमण्डलयोगेन यथाभिरुचितवर्णाभरणा महासत्वाश्चन्द्रमण्डलप्रतिष्ठिता लेख्याः कोणभागेषु कुलदेव्य इति । ततः पटस्योदारां पूजां कृत्वा यथावज्जपयोगेन तावज्जपेत्यावन्मासचतुष्टयं, ततः सकलां रात्रिं जपेत् । ततः प्रभाते सर्वतथागततत्वादीनुत्तमसिद्धीनवाप्नोती-" त्याह भगवान् वज्रधरः । "अथमुद्रासाधनमिच्छेत्तेन सर्वतथागतसत्ववज्रिमुद्रां बध्वा पटस्याग्रतो वज्रवाचां शतसहस्रं यथाकामकरणीयतया यथावद्बन्धन्मुञ्चंश्च जपेत् । ततोऽन्ते सकलां रात्रिं, अविश्रमतो किञ्चित्कालं मुञ्चन्, यथावच्च बन्धन् जपेत् । ततो मुद्रा ज्वलत्याविशत्युत्तिष्ठति वाचं मुञ्चतीति । ततो मुद्राबन्धनेनोत्पतति कामरूपी भवति अन्तर्धाति सर्वकर्माणि च करोति । सर्वमुद्राश्च बन्धमात्रा यथावत्सर्वकर्माणि कुर्वन्ती-"त्याह भगवान् वज्रधरः ॥ "अथ समाधयो इष्येत्तेन सूक्ष्मवज्रादारब्धव्य समाधिमभिरोचेत्तं हृदययोगतोऽभ्यसेत्, तावद्यावच्चतुर्मासम् । ततोऽन्ते सकलां [रात्रिं पर्यङ्काविक्षप्तसमापन्नेन तिष्ठेत् । ततः प्रभाते सर्वतथागताद्याः] सर्वसिद्धय आमुखीभवन्ति । ततो यादृशी अभिरुचिस्तादृ[शीमवाप्नोती-"त्याह भगवान् वज्रसत्वः ॥] अथ कर्मसाधनं भवति । तथैव जपन्मासमेकं साधयेत् । ततोऽन्ते सकलां रात्रिं ज[पेत् । ततः सर्वकर्माणि सिध्यन्ती-"त्याह भगवान् वज्रध]रः ॥ "अथ कर्माणि भवन्ति । सकृदुच्चारितेनात्मपरग्रामनगररक्ष भवति ॥ कवचब[न्धादिनावेशमपि कृत्वा चन्दनगन्धेन ग्रहाग्रह]स्पृष्टवज्राङ्कु शशरहस्तरत्नसूर्यध्वजदन्तपङ्क्तिपद्मखड्गचक्रजिव्हासर्ववज्रकवचदंष्ट्रामुष्टिमुद्रादिनिसर्वभावानाविशयति सकृज्जप्तेन ॥ मायाकर्म च मयूरपत्रपिञ्च्छके वज्रं चिध्वा बन्धयेत् । ततस्तं मयूराङ्गपिञ्च्छकं सत्ववज्रि मुद्र[या बध्यात्ता]वज्जपेद्यावत्सर्वतथागतमुद्रा आविशति । ततश्च पिञ्च्छकान्नानाद्यानि रूपाणि पश्यति । ततः प्रभृति तेन पिञ्च्छकेन सर्वरूपाणि विधिवद्दर्शयति । तेनैव पिञ्च्छकेन सकृज्जप्ते भ्रामितेनात्मनः सर्वरूपाणि दर्शयति । तेनैव पिञ्च्छकेन लौकिकानि मायाकर्माणि दर्शयति । बुद्धबोधिसत्वबिम्बान्यपि दर्शयति । दशसु दिक्षु सर्वबुद्धक्षेत्रेषु तथागताः सपर्षन्मण्डलाः समारसेनाधर्षणादिबुद्धर्द्धिविकुर्वितानि कुर्वन्तो दर्शयति । यावत्सर्वाकारवरोपेतं बुद्धरूपमात्मानं भवती-"ति ॥ "वशीकरणं कर्तुकामः सर्वतथागतसत्वमुद्रां बध्वा तावज्जपेद्यावत्सा मुद्रां ज्वलति । ततः प्रभृति मुद्राबन्धेन सर्वतथागतानभ्यारागयति वशीकरोति । किं पुनरन्यां सत्वान्? ॥ "अथ लौकिकोत्तमसिद्धयः साधयितुकामेन तेनादित एव तथैव जपता मासमेकमष्टसाहस्रिकेण जप्तव्यः । ततोऽन्ते मुद्रां बध्वा तथैव सकलां रात्रिं जपेत्, यावन्मुद्रा ज्वलति । ततः प्रभृति मुद्राबन्धेन लौकिकसिद्धिविद्याधरसिद्धीनामेकतरो भवती-"त्याह भगवां वज्रधरः ॥ तथागतकुलोपचारविधिविस्तरः परिसमाप्तः ॥ अथ वज्रकुलोपचारविधिविस्तरो भवति । "तत्रादित एव पूर्वमेवं कुर्यात् । तथैव यथाकामकरणीयतया, अक्षरलक्षं जपेत् । अस्य सकलां रात्रिं जपेत् । ततः प्रभृति सर्वसत्वनिग्रहानुग्रहक्षमो भवती-"त्याह भगवां वज्रधरः ॥ अथ साधयितुमिच्छेत्तेन यथावत्पटं चित्रापयितव्यः । ततस्तथैव पूजां कृत्वा मासमेकं सर्वकामभोजी यथाकामकरणीयतया, अष्टसाहस्रिकेण जापेन चतुःसन्ध्य वज्रवाचा जपेत्, तावद्यावन्मासान्ते पटस्योदारां पूजां कृत्वा वज्र-हुंकारमहामुद्रां बध्वा तावज्जपेद्यावत्तस्मात्मुद्रां बन्धात्, हुंकारशब्दो विनिःसृतः । ततः प्रभाते महेश्वरादयो देवाधिपतयः सगणपरिवाराः पुरःस्थित्वाज्ञां मार्गयन्ति । ततो विद्याधरेणैवं वक्तव्यं "यदाहं ब्रूयामागच्छतेदं कुरुत तदा भवद्भिरागत्य ममाज्ञा कार्ये-"ति । ततः प्रभृति सकलत्रिलोकाधिपतिर्भवति । यथेच्छया च मुहूर्तमात्रेण सकलं त्रिभुवनमाज्ञापयन् भ्रमति । पुनरप्येति च, निग्रहानुग्रहं कुर्वं, दिव्यानि च त्रिलोकभोगानि चोपभुञ्जन् यथाकामकरणीयतया, सर्वसुराधिपतियोषिताद्याः सर्वयोषिता आरागयित्वोपभुञ्जति । न च तस्य कश्चित्किंचिच्छक्नोति कर्तुं, हुंकारेण च सर्वदुष्टदे[वादीन् प्रमर्दित्वा ततस्तावत्कल्पशतसहस्रान् जीवती-"त्याह भगवान् वज्रधरः ॥ "अथ मुद्रासाधनमिच्छेद्] यथावज्जपं कृत्वा मासान्ते वज्र-हुं-कारसमयमुद्रां बध्वा सकलां रात्रिं जपेत् । ततः प्रभाते मुद्राः सिद्धा भवन्ति । ततो यथावन्मुद्राबन्धेन हुंकारप्रयुक्तेन आकाशगमनविश्वसंदर्शनान्तर्धानमायासन्दर्शनसर्वावेशनाकर्षणवशीकरणसर्वतुष्टिसंजननसर्वरत्नाभिहरणमहातेजोज्वालासन्दर्शनरत्नवृष्टिसन्दर्शनमहाट्टहासप्रमुञ्चनसर्वसत्वसंशोधनच्छिन्दनभिन्दनऋतुचक्रपरिवर्तनयथावत्तत्वोल्लापनसर्वकर्मप्रवर्तनरक्षजंभनस्तंभनत्रासनमारणसर्वसत्वमुद्रणकामरतिक्रियाप्रवर्तनाभिषेकसर्वभावगायापननृत्यापनाह्वायनप्रवेशनस्फोटनावेशनादीनि सर्वकर्माणि करोती-"त्याह भगवान् वज्रधरः ॥ "अथ सूक्ष्मज्ञानसाधनमिच्छेत्तेन वज्र-हुं-कारसमाधिमभ्यसता तथैव जापयोगेन मासं साधयितव्यम् । ततोऽन्ते ऽनेनैव समाधिना सकलां रात्रिं जपेत् । तावद्यावत्प्रभाते पञ्चाभिज्ञा भूत्वा सर्वसत्वानुग्रहनिग्रहक्षमो भवती-"त्याह भगवान् वज्रधरः ॥ "अथ कर्मसाधनमिच्छेत्तेन तथैव जपता मासमेकं साधयितव्यम् । ततोऽन्ते सकलां रात्रिं जपेत् । ततः सर्वकर्माणि सिध्यन्ती"त्याह भगवान् वज्रधरः ॥ ततः कर्माणि भवन्ति सकृदुच्चारितेन मनीषितया रक्षादीनि सर्वकर्माणि करोति ॥ वज्रकुलोपचारसिद्धिविधिविस्तरः [परिसमा]प्तः ॥ अथ पद्मकुलोपचारविधिविस्तरो भवति । "तत्रादित एव तावच्छतसहस्रं जपेत्, पूर्वमेवाकृता भ[वति]ततः साधनं भवति । पटे भगवान् सर्वजगद्विनयाद्याः कर्तव्यास्तस्य सर्वपार्श्वेषु चतुर्मण्डलयोगेन महासत्वचतुष्टयः कार्यः अन्ते च देव्यः । ततः स एव जापविधिविस्तरो मासान्ते सकलां रात्रिं जपेत् । ततः सर्वजगद्विनयो भगवानागच्छति, यथाकालं वरेणाभिप्रचारयती-"ति आह भगवान् वज्रधरः ॥ "अथ मुद्रासाधनमिच्छेत्तेन तथैव पद्मवज्रिमुद्राबन्धं कृत्वा यथावन्मुच्याष्टसाहस्रिकेण जापेन चतुःसन्ध्यं जपेत् । ततः सकलां रात्रिं मुद्राबन्धेन जपेत् । प्रभाते सिद्धिर्भवति । ततो मुद्राबन्धेन यथावत्सर्वजगद्विनयं करोती-"त्याह भगवानवलोकितेश्वरः ॥ "अथ समाधिनयसाधनममिच्छेत्तेन तथैव मासान्ते सकलां रात्रिं यथाभिरुचितेन समाधिना जापो दातव्यः । ततः प्रभाते सर्वसमाधय आमुखीभवन्ती-"त्याह भगवान् वज्रधर्मः ॥ अथ कर्मसाधनमिच्छेत्तथैव जपन्मासान्ते सकलां रात्रिं जपेत् । ततः सर्वकर्मक्षयो भवती-"त्याह भगवां वज्रधरः ॥ पद्मकुलोपचारविधिविस्तरः परिसमाप्तः ॥ अथ मणिकुलोपचारविधिविस्तरो भवति ॥ "तत्रादित एव सर्वतथागतप्रणामचतुष्टयं कृत्वा शतसहस्रं जपेत् । ततस्तथैव पटे भगवां सर्वार्थसिद्धिं चतुर्मुद्रामण्डलयोगेन लिखेत् । ततस्तथैव पूजां कृत्वा तथैव साधयेत् । मासान्ते सकलां रात्रिं जपेत् । ततः प्रभाते भगवां सर्वतथागताभिषेकरत्नः आकाशगर्भो बोधिसत्व आगत्याभिषेकं ददाति । तेनाभिषेकेण त्रिसाहस्रमहासाहस्रे लोकधातौ विद्याधरचक्रवर्ती भवती-"त्याह भगवान् वज्रधरः । "अथ मुद्रासाधनमिच्छेत्तेन तथैव धर्मवज्रिप्रयोगेण वज्ररत्नमुद्रा यथावत्साध्या सर्वाशाकर्मकरी भवती ॥ "अथ मणिज्ञानमिच्छेत्साधयितुं तेन तथैव वज्ररत्नोद्भवसमाधिर्यथानुक्रमतो भावयितव्यः । निःस्वभावादाकाशात्कथं रत्नसंभव इति, रत्नाच्च कथं बोधिसत्वकायसंभव इति । इमं समाधिं चतुःसंध्यं भाव्य जपेद्, यथोपरि ततो मासान्ते तेनैव समाधिना [सकलां रा]त्रिं जपेत् । ततः प्रभाते सर्वतथागतैरागत्य यथाभिरुचितोऽभिषिच्यत"इत्याह भगवनाकाशगर्भः ॥ "अथ कामसाधन[मिच्छेत्] तथैव जपता मासान्ते सकलां रात्रिं जपेत् । ततः प्रभाते भगवानाकाशगर्भः सर्वार्थसाधको भवतीति । ततः सर्वकर्माणि कुर्याद्" इत्याह भगवानार्यवज्रधरः ॥ मणिकुलोपचारविधिविस्तरः परिसमाप्तः ॥ अथ सर्वकुलोपचारसाधारणविधिविस्तरो भवति ॥ तत्रादित एव च सर्वहृदयोपचारविस्तरः । "हृदयमनीषितानि सर्वतथागतानां सिध्यन्ताम्" इत्युच्चार्य हृदयं यथाभिरुचितो जप्य साधनविधिः कर्तव्य इति ॥ तत्रायं मुद्रोपचारविधिः । "सर्वमुद्रा मे भोग्या भवन्ती-" त्युक्त्वा समयमुद्रां बध्वा यथाभिरुचितो यथाशक्त्या जपेत् । ततो यथावत्सिद्धिरिति ॥ तत्रायं सर्वमन्त्रोपचारविधिः । "निःप्रपञ्चा वाक्सिद्धिर्भवतु, सर्वतथागतसमाधयो मे आजायन्ताम्" इत्युक्त्वा मन्त्रं यथाभिरुचितो जपेत्, एषा सिद्धिरिति ॥ तत्रायं विद्योपचारविधिः । "अविद्यान्धा च ते मे सत्वाः सर्वतथागताश्च विद्याधिगमसंवरभूता" इत्युक्त्वा विद्यां यथाभिरुचितो जप्य साधनमावहेद्" इत्याह भगवानार्यवज्रधरः ॥ "अथ सर्वहृदयमुद्रामन्त्रविद्यानां यथाकामकरणीयतया वज्रजापविधिविस्तरो भवति । यस्य सत्वस्य हृन्मुद्रां मन्त्रं विद्यां तु साधयेत् । जापार्थतस्तमात्मानं सत्वं वा साध्य सिध्यती-" त्याह भगवान् वज्रसत्वः ॥ सर्वकुलसाधारणजापविधिविस्तरः परिसमाप्तः ॥ अथ सर्वकुलसाधारणसिद्धिविधिविस्तरो भवति ॥ तत्रादित एव तथागतकुलसिद्धयः । तद्यथार्थनिष्पत्तिसिद्धिः ऋद्धिसिद्धिर्विद्याधरत्वं महासिद्धिश्चेति ॥ "तत्रार्थनिष्पत्तिर्भवति । यत्रा निधिशङ्का भवेत्तत्र मुद्रां बध्वा स्वसमाधिना तन्निधिस्थानं वज्रदृष्ट्या निरीक्षयेत् । यदि वज्राकारमुत्तिष्ठत्वं पश्यति तथा ज्ञातव्यं निधिरत्रास्तीति । ततो वज्रस्फोटसमयमुद्रां बध्वोत्खन्य यथाकामकरणीयतया गृण्हीयादचिरात्प्राप्नोती-" त्याह भगवान् वज्रसत्वः ॥ "तत्र ऋद्धिसिद्धिनिष्पत्तिर्भवति । यां मुद्रां साधयेद्"वज्रसिद्धिर् । "इत्युक्त्वा ऋद्धिसिद्धिश्चतुर्विधा भव[न्ति तद्यथा] जलस्योपरिचंक्रमणनिषीदतादिकं तथागतादिसर्वरूपसंदर्शनं यावदभिरुचिस्तावदद्रेष्यत्वम् । आकाशगामी च योजनसहस्रमूर्ध्वमुत्पत्यधस्ताच्च गच्छति । सर्वादिशश्च योजनसहस्राद्यथाभिरुचितवेगः परिभ्रम्यागच्छति । योजनसहस्रादर्शेन सर्वसत्वमनीषितानि ज्ञानाति । सर्वभावानि च चक्षुषा पश्यति श्रोत्रेण शृणोति । सर्वदिक्षु स योजनसहस्रादर्शेन मनोऽभिरुचिताः सर्वस्त्रियोऽङ्गे समुत्क्षिप्यानयति । सर्वहिरण्यसुवर्णमणिमुक्तादयश्च सर्वार्थानपहरति, न चास्य कश्चित्किंचित्छक्नोति कर्तुम् । यद्वज्रेणाप्यदृश्यो भवति । किं पुनरन्यैः? । दशपुरुषसहस्रबली नित्यारोग्यवान्नित्यं सर्वकामोपभोजी सदायौवनो दिव्यरूपी सर्वतथागतान् सवज्रसत्वां पश्यन् पूजयंश्चानुत्तरवज्रसिद्धिश्चत्वारिवर्षसहस्राणि जीवती-" त्याह भगवान् सर्वतथागतवज्रऋद्धिः ॥ तत्रायं वज्रविद्याधरसिद्धिनिष्पत्तिर्भवति । मुद्रान् साधयं "वज्रविद्याधर" इति कुर्यात्, सिद्धया वज्रविद्याधरचक्रवर्ती भवति । सर्वकामोपभोगी सहस्रबुद्धक्षेत्रमेकक्षणेन परिभ्रम्यागच्छति । सर्वसुखानि परिभुंक्ते । द्विरष्टवर्षवयुः आकुञ्चितकुण्डलकेशधारी महावज्रविद्याधरः सर्वतथागतान् सवज्रसत्वान् पश्यन्महाकल्पस्थायी भवती-" त्याह भगवान् सर्वतथागतविद्याधरः ॥ तत्र महासिद्धिनिष्पत्तिर्भवति । स्वमुद्रां हृदयार्थतः साधयन् । स्वमुद्रा सत्वरूपी भवत्य, एकक्षणेन दशसु दिक्षु सर्वलोकधातुषु विश्वरूपी विश्वक्रियाप्रवर्तकः, सर्वतथागतान् सवज्रसत्वां दृष्ट्वा सर्वाकारवरोपेताभिः सर्वतथागतपूजाभिः संपूज्याशेषानवशेषसत्वार्थं च कृत्वा पुनरप्यायाति । सर्वलोकधातुसर्वकामसर्वसुखसौमनस्यानि सर्वाकारवरोपेतान्युपभुञ्जन्, वज्रसत्वसमो महाबोधिसत्वः अशेषानवशेषमहाकल्पायुर्भवती-" त्याह भगवान् सर्वतथागतसिद्धिः । तत्रैता वज्रकुलसिद्धयः । तद्यथा त्रिलोकविजयसिद्धिः सर्वाभिषेकसिद्धिः सर्वसुखसौमनस्यसिद्धिः उत्तमसिद्धिरिति ॥ "तत्र त्रिलोकविजयसिद्धिर्भवति । त्रिलोकविजयमुद्रां बध्वा महेश्वरं [वामप]देनाक्रम्य साधयेत् । ततः सा प्रतिमा नादं मुञ्चति । ततो हुंकारः प्रयोक्तव्यः । हुंकारे प्रयुक्तेमात्रे महेश्वरादयः सर्वत्रैलोक्याधिपतयः सपरिवारा; साधकस्य पुरत आगत्वा आज्ञावश्यविधेया भवन्ति । ततः प्रभृति सर्वत्रिलोकाधिपतिर्वज्रधरो भवति । आकाशेन गच्छति सकलत्रिलोकचक्रं परिक्रम्यागच्छति, दुष्टदेवादयश्च सर्वसत्वान् हुंकारेण दमयति । सर्वतथागतवज्रहुंकाररूपी सकलत्रिलोकमाज्ञया वर्तयन् सर्वतथागतान् सवज्रसत्वान् पश्यन्नारागयंश्च वर्षहस्रान् जीवती-" त्याह भगवान् वज्रहुंकारः ॥ "तत्रायं सर्वाभिषेकसिद्धिमुद्रां साधयन् । सर्वतथागताभिषेकरत्नमुद्रया पूर्वमात्मानमभिषिच्य साधयेत् । ततस्तस्य सिद्धस्य चतुर्विधमभिषेको भवति । वज्राभिषेको रत्नाभिषेको धर्माभिषेकः कर्माभिषेकश्चेति । तत्र वज्राभिषेके लब्धे सर्वतथागतानां वज्रधरो भवति । रत्नाभिषेके सर्वरत्नाधिपतिर्भवति । धर्माभिषेके धर्मराजा भवति । कर्माभिषेके लौकिकरोकोत्तरसर्वकर्मसिद्धिमवाप्नोती-" त्याह भगवां सर्वतथागताभिषेकः ॥ "तत्रेयं सर्वसुखसौमनस्यसिद्धिर्, यदुत गुह्यपूजाभिर्नित्यं सर्वतथागतपूजां कुर्वन्, सर्वतथागतसर्वसुखसौमनस्यसिद्धिमवाप्नोती-" त्याह भगवां सर्वतथागतसर्वसुखसौमनस्यः ॥ "तत्रेयमुत्तमसिद्धिः, यदुत वज्रधरसमोऽहम्" इत्याह भगवां वज्रधरः ॥ तत्रैताः पद्मकुलसिद्धयः । तद्यथानुरागणवशीकरणरक्षपद्मसिद्विश्चेति ॥ "तत्रानुरागणसिद्धिर्भवति, यथावत्पद्मरागभावनया सर्वतथागतादिसर्वसत्वानुरागणक्षमो भवति । स्वलोकेश्वरानुस्मृत्या तथैव सर्वसत्ववशीकरणसमर्थो भवति । मैत्र्यस्फरणसमाधिना सर्वजगद्रक्षावरणगुप्तक्षमो भवति । स्वं पद्मसमाधिना पद्मं हस्तेन गृह्य साधयं लोकेश्वररूपी सर्वाकारवरोपेतश्चतुर्वर्षहस्रं जीवती-" त्याह भगवान् सर्वतथागतपद्मः ॥ तत्रैता मणिकुलसिद्धयः । तद्यथा सर्वकुलाभिषेकसिद्धिः, महातेजस्त्वं, सर्वाशाप्रपूरणं, रत्नसिद्धिश्चेति ॥ "तत्र सर्वतथागताभिषेकसिद्धिः । यदुत स्वाभिषेकनिर्यातना प्रदीपदानं दानपारमितापारिपूरिः, यथाशक्यरत्नसाधनं चत्वाभिः सिद्धिभिः सर्वतथागतां पूजयन्नचिरात्सिध्यती-" त्याह भगवां सर्वतथागतरत्नः ॥ सर्वकुलसाधारणसिद्धिविधिविस्तरः [परिसमा]प्तः ॥ "अथ सर्वकल्पोपायसिद्धितन्त्रमनुव्याख्यास्यामी-" त्याह भगवाननादिनिधनसत्वः ॥ [तत्रादित एव हृदयोपायसिद्धितन्त्रम् ।] यथा विनयो लोको हि तादृशी सिद्धिरिष्यते । उपायस्तत्र मुद्रा हि सर्वसिद्धिप्रदं महत् ॥ तत्रायं मुद्रोपायसिद्धितन्त्रम् । विरागविनयो लोको मुद्रासिद्धिस्तु रागजा । उपायो भावना तत्र सर्वसिद्धिकरी वरा ॥ तत्रेदं मन्त्रोपायसिद्धितन्त्रम् । लोकोऽयं सत्यविभ्रष्टो मन्त्रसिद्धिर्न इष्यते । उपायो निःप्रपञ्चस्तु सर्वसिद्धिकरः परः ॥ तत्रेदं विद्योपायसिद्धितन्त्रम् । अविद्याभिनिविष्टोऽयं विद्यासिद्धिर्न इष्यते । उपायस्तत्र चौदारां सर्वसिद्धिप्रदं वरम् ॥ इति ॥ सर्वकल्पोपायसिद्धितन्त्रम् ॥ "अथ सर्वकल्पपुण्यसिद्धितन्त्रमनुव्याख्यास्यामी-" त्याह भगवां सर्वतथागतः ॥ तत्रादित एव स्वहृदयपुण्यसिद्धितन्त्रम् । कृत्वा चतुर्विधां पूजां महापुण्यमवाप्नुते । बुद्धपूजाग्रपुण्या हि सिध्यते नात्रं संशय ॥ इति ॥ तत्रेदं मुद्रापुण्यसिद्धितन्त्रम् । रक्षंस्तु समयं गुह्यं महापुण्यमवाप्नुते । अपुण्योऽपि हि सिध्येय शीघ्रं समयरक्षणाद् ॥ इति ॥ तत्रेदं मन्त्रपुण्यसिद्धितन्त्रम् । बुद्धानामादिवचनैर्महापुण्यमवाप्नुयात् । धर्मदानादपुण्योऽपि शीघ्रं सिद्धिमवाप्नुते ॥ तत्रेदं विद्यापुण्यसिद्धितन्त्रम् । दानमग्र्यं हि पुण्यानां ददन्पुण्यमवाप्नुते । दानपारमिता पूर्णः शीघ्रं बुद्धत्वमाप्नुते- ॥ ति ॥ सर्वकल्पपुण्यसिद्धितन्त्रम् ॥ "अथ सर्वकल्पप्रज्ञासिद्धितन्त्रमनुव्याख्यास्यामि ॥ तत्रादित एव हृदयप्रज्ञासिद्धितन्त्रम् । आक्षरप्रवेशेन सर्वाक्षरविजानना । स्ववक्त्रपरवक्त्रं तु भावयं सिद्धिमाप्नुयाद् । इत्याह भगवान्मञ्जुश्रीर्महाबोधिसत्वः ॥ तत्रेदं मुद्राप्रज्ञासिद्धितन्त्रम् । प्रज्ञा नैर्वेधिकी नाम समाधिरिति कीर्तिता । तया तु मुद्राः सिध्यन्ते भावयं सिध्यति क्षणाद् ॥ इत्याह भगवान् प्रज्ञाग्र्यः ॥ तत्रेदं मन्त्रप्रज्ञासिद्धितन्त्रम् ॥ प्रज्ञाघोषानुगा नाम समाधित्वात्प्रपञ्चतः । तय भावितया शीघ्रं मन्त्रसिद्धिमवाप्नुयाद् ॥ इत्याह भगवान् वज्रबुद्धिः ॥ तत्रेदं विद्याप्रज्ञासिद्धितन्त्रम् । विद्यामन्त्रविशेषाणां विशेषो नहि विद्यते । प्रज्ञया भावयन्नेवमाशु सिद्धिर्ध्रुवा भवेद् ॥ इत्याह भगवान् सर्वतथागतप्रज्ञाज्ञानः ॥ सर्वकल्पप्रज्ञासिद्धिविधिविस्तरतन्त्रम् ॥ ॥ "अथ कल्पसंभारसिद्धितन्त्रमनुव्याख्यास्यामी-" त्याह भगवान् वज्रपाणिः ॥ तत्रादित एव सर्वहृदसंभारसिद्धितन्त्रम् । सर्वपूजां प्रकुर्वाणः सं[भारं हि] विवर्धते । कुशलानां तु धर्माणां ततः सिध्यति संभृतः ॥ तत्रेदं मुद्रासंभारसिद्धितन्त्रम् । बहुचक्रप्रवेशाच्च बहुमण्डल[कल्पनात्] । [संभार]पूजामुद्राणां महासिद्धिः प्रवर्तते ॥ तत्रेदं मन्त्रसंभारसिद्धितन्त्रम् । अनुमोदनादियोगेन सद्धर्मपठनात्तथा । बहुजापप्रदानाच्च मन्त्रसिद्धिर्ध्रुवा भवेद् ॥ इति ॥ तत्रेदं विद्यासंभारसिद्धितन्त्रम् । अविद्यासुप्रहीणत्वात्दानपारमितानयात् । संभारपरिपूर्णस्तु शीघ्रं सिद्धिमवाप्नुते- ॥ ति ॥ सर्वकल्पसंभारसिद्धितन्त्रम् ॥ सर्वकल्पविधिविस्तरतन्त्रं परिसमाप्तम् ॥ अथ वज्रपाणिर्महाबोधिसत्वः सर्वकुलचिह्नसंभवज्ञानतन्त्रमुदाजहार ॥ तत्र कथं वज्रसंभवः? । स एव भगवां सत्वः सर्वचित्तः स्वयं प्रभुः । कायवाक्चित्तवज्रस्तु दृढः सत्वः स्वयंभुवाम् ॥ सत्वानामुत्तमः सत्वो वज्रभावनया हृदि । वज्रसत्व इति ख्यातस्तु तस्मिं वज्रो प्रतिष्ठितः ॥ स एव ज्ञानयोगेन बुद्धानामसमत्विषाम् । निःक्रम्य हृदयाद्विश्वो विश्वरूपो भवत्यपि ॥ सर्वधातुरजःसंख्याः स एव तु जिनो भवेत् । तेभ्यो वै वज्रकायेभ्यो वज्रसत्वस्तु संभवेत् ॥ तत एवादिसत्वास्तु सर्वचिह्नसमुद्भवः । चिह्नेभ्यस्तु महासत्वास्तेभ्यः सर्वमिदं नयम् ॥ इति ॥ य इदं शृणुयात्कश्चिच्छ्द्दधेद्धारयेधृदि । भावयेच्च सदा तुष्टः शीघ्रं सिद्धिमवाप्नुयाद् ॥ इत्याह भगवान् वज्रसत्वः ॥ सर्वतथागततत्वसंभवज्ञानविधिविस्तरतन्त्रम् ॥ ॥ अथ वज्रपाणिर्महाबोधिसत्वः सर्वकल्पसंभवज्ञानविधिविस्तरतन्त्रमभाषत् ॥ तत्रादित एव तावत्सर्वतथागतकल्पसंभवज्ञानन्तन्त्रं भवति । बुद्धानामविकल्पं तु ज्ञानं भवति शाश्वतम् । अविकल्पात्ततो ज्ञानात्कल्पनात्कल्प उच्यते ॥ तत्रेदं तथागतकुलकल्पसंभवज्ञानतन्त्रम् । यत्राविकल्पः कल्पात्मा कल्प्यते कल्पनोद्भवः । वज्रसत्वो महासत्वः तेन कल्पो निरुच्यते ॥ तत्रेदं वज्रकुलकल्पसंभवज्ञानतन्त्रम् । यथा लिख्य हि कल्पयन्ते विधयः कल्पसिद्धिदाः । तेन कल्प इति प्रोक्तो विकल्परहितात्मभिः ॥ तत्रेदं पद्मकुलकल्पसंभवज्ञानतन्त्रम् । रागो विकल्पसंभूतः स च पद्मे प्रतिष्ठितः । ततस्तु कल्पस्थायिन्यः सिद्धयः संभवन्ति हि ॥ तत्रेदं मणिकुलकल्पसंभवज्ञानतन्त्रम् । मणयो ह्यविकल्पास्तु प्रभावैः सुसमुच्छ्रिताः । एवंस्तु सिद्धयो दिव्याः संभवन्त्यविकल्पिताः ॥ इत्याह भगवान् वज्रधरः ॥ सर्वकुलकल्पसंभवज्ञानतन्त्रम् ॥ अथ सर्वकल्पहृदयसंभवज्ञानतन्त्रम् ॥ मनीषितविधानैस्तु सिध्यते तु मनीषितम् । समाधिसाधनो हृद्स्थः हृदयस्तु तेन चोच्यते ॥ अथ सर्वमुद्रासंभवज्ञानतन्त्रम् ॥ दुरतिक्रमो यथाभेद्यो राजमुद्राग्रशासनः । महात्मचिह्नविश्वस्तु तथा मुद्रेति कीर्तिता ॥ अथ मन्त्रसंभवज्ञानतन्त्रम् ॥ अनतिक्रम[णो च] हि दुर्भेद्यो गुह्य एव च । मन्त्र्यते गुह्यसिद्ध्यत्वं मन्त्रस्तेन निरुच्यते ॥ अथ विद्यासंभवज्ञानतन्त्रम् ॥ अविद्याविप्रणाशाय वाग्विद्यो[त्तम]सिद्धये । विद्यते वेदनासिद्धिस्तेन विद्या प्रकीर्तिते ॥ त्याह भगवान् वज्रधरः ॥ सर्वकल्पहृदयादिसंभवज्ञानतन्त्रम् ॥ ॥ अथ सर्वकल्पज्ञानोत्पत्तितन्त्रम् ॥ तत्रादित एव हृदयज्ञानोत्पत्तितन्त्रो भवति ॥ हृदयं जप्य विज्ञेयमात्मनो वा परस्य वा । भव्यं भूतं भविष्यं च यः पश्यति शृणोति च ॥ तत्रेदं मुद्राज्ञानोत्पत्तितन्त्रं भवति । मुद्रामेकतरां बध्वा यथावद्विधिना मनः । कृत्वा निरीक्षेल्लोकं तु सर्वं ज्ञेयं यथोपरी- ॥ ति ॥ तत्रेदं मन्त्रज्ञानोत्पत्तितन्त्रम् । सकृदुच्चारयन्मन्त्रं ब्रूयाज्जिह्वां स्वकीन्तु यः । भव्यं भूतं भविष्यं च तत्सर्वं सत्यमावहेद् ॥ इत्याह भगवानवलोकितेश्वरः ॥ तत्रेदं विद्याज्ञानोत्पत्तितन्त्रम् । सकृदुच्चार्य विद्यां तु वेदयेन्मनसा स तु । भव्य भूतं भविष्यं [च वज्रवाक्शास]नं यथे- ॥ ति ॥ सर्वकल्पज्ञानोत्पत्तिविधिविस्तरतन्त्रं परिसमाप्तम् ॥ ॥ अथ सर्वकुलसाधारणगुह्यकायवाक्चित्तवज्रमुद्रासाधनतन्त्रं भवति ॥ तत्रेदं तथागतकुलगुह्यकायमुद्रासाधनं भवति । यथा तथा निषण्णस्तु पर्यङ्केन तु साधयेत् । यथा लेख्यानुसारेण महासत्वः प्रसिध्यती- ॥ त्याह भगवान् वज्रसत्वः ॥ तत्रेदं वज्रकुलगुह्यकायमुद्रासाधनं भवति । प्रत्यालीढसुसंस्थानं यथा लेख्यानुसारतः । साधयेत सुसंक्रुद्धः सिध्यते नात्र संशय ॥ इत्याह भगवान् वज्रहुंकारः ॥ तत्रेदं पद्मकुलगुह्यकायमुद्रासाधनं भवति । वज्रपर्यङ्कसंस्थं तु वज्रबन्धं करद्वयम् । समाधिकायो भूत्वा तु साधयेत्पद्मसंभवम् ॥ इत्याह भगवान् पद्मसत्वः ॥ तत्रेदं मणिकुलगुह्यकायमुद्रासाधनं भवति । उत्थितो वा निषण्णो वा चङ्क्रमन् वा यथा तथा । वज्ररत्नाभिषेकेण सिध्यते नत्र संशय ॥ इत्याह भगवान् वज्रगर्भः । तत्रेदं तथागतकुलगुह्यवाङ्मुद्रासाधनतन्त्रः । नातिस्यन्दितजिह्वाग्रदन्तोष्ठद्वयसंयुता । साधयेत्सर्वकल्पान्तु वज्रवाक्स्वरवर्जिते- ॥ त्याह भगवान् वज्रवाचः । तत्रेदं वज्रकुलगुह्यवाङ्मुद्रासाधनतन्त्रम् । मेघघूल्लित-हुं-कारक्रोधगंभीरवाक्स्थिरा । क्रोधस्फुटा महावज्रं वज्रक्रोधवाग्साधनम् ॥ इत्याह भगवान् वज्रहुंकारः ॥ तत्रेदं पद्मकुलगुह्यवाङ्मुद्रासाधनतन्त्रम् । अनुच्छ्वासं सूक्ष्म[श्वासं सूक्ष्मवाचासुसं]स्फुटम् । सिध्यते सर्वजापानि समाधिज्ञानगर्भये- ॥ त्याह सर्वतथागतसमाधिज्ञानगर्भः ॥ तत्रेदं मणिकुलगुह्यवाङ्मुद्रा[साधन]तन्त्रम् । सुपरिस्फुटया वाचा प्रणामपरमः सदा । जपेते विनयैश्चापि सर्वमाशु प्रसिध्यती- ॥ त्याह भगवान् सर्वतथागतपूजावि[धिविस्त]रकर्मा ॥ तत्रेदं तथागतकुलगुह्यचित्तमुद्रासाधनतन्त्रम् । कामो हि भगवांच्छश्वः सर्वसत्वसुखप्रदः । वज्रसत्वः स्वयमे[व इ]ति भाव्याशु सिध्यती- ॥ त्याह भगवान् कामः । तत्रेदं वज्रकुलगुह्यचित्तमुद्रासाधनतन्त्रम् । सर्वसत्वहितार्थाय दुष्टानां [विनयार्थाय] । बुद्धशासनरक्षार्थं क्रोधः सिद्धिकरः पर ॥ इत्याह भगवान् सर्वतथागतवज्रहुंकारः । तत्रेदं पद्मकुलगुह्यचित्तमुद्रासाधनतन्तम् । यथा पद्ममलिष्ठं तु वासदोषैः सुरागवान् । तथा मे रागदोषैस्तु भवेद्रागः स सिध्यती- ॥ त्याह भगवान् पद्मरागः ॥ तत्रेदं मणिकुलगुह्यचित्तमुद्रासाधनतन्त्रम् । कदा नु सर्वसत्वानां सर्वकार्यार्थसिद्धये । रत्नवर्षाणि वर्षेयं सिद्धः सर्वाशु सिध्यती- । त्याह भगवानार्याकाशगर्भः । तत्रेदं तथागतकुलगुह्यवज्रमुद्रासाधनतन्त्रम् । उत्थितो वा निषण्णो वा [चङ्क्रमन्वा] यथा तथा । वाममुद्रागुह्यकरः सर्वं कुर्वं स सिध्यती- ॥ त्याह भगवां सर्वतथागतगुह्यवज्रपा[णिः ॥ तत्रेदं वज्रकुलगुह्यवज्रमुद्रासाधनतन्त्रम् ॥] यथा तथा स्थितश्चैव कुर्वन् चापि यथा तथा । वक्रज्रोधाङ्गुलिं बध्वा वस्त्रच्छन्नां तु सिध्यती- ॥ त्याह भगवा[न् सर्वतथागतक्रोधराजः ॥ तत्रेदं पद्मकुलगु]ह्यवज्रमुद्रासाधनतन्त्रम् । पद्ममुष्टिं तु वामेन करेणाच्छादितेन तु । बध्वा यथा शीघ्रं पद्म[सिद्धिमवाप्नुयाद् ॥ इत्याह भगवानवलोकितेश्व]रः ॥ तत्रेदं मणिकुलगुह्यवज्रमुद्रासाधनतन्त्रम् । रत्नमुष्टिं तु बध्वा वै वामाच्छादितसत्क[रः । यथा तथा क्रियते वै रत्नसिद्धिमवाप्नु] याद् ॥ इत्याह भगवानाकाशगर्भः । तत्रेदं सर्वकुलगुह्यसाधारणमुद्रासाधनतन्त्रम् । महामु[द्राप्रयोगेण स्वसत्वसमाधिना हि ।] वज्रवाग्वज्रदृष्टिभ्यामचिरात्सिद्धिरुत्तमे- ॥ त्याह भगवान् सर्वतथागतवज्रसत्वः ॥ सर्वकुलगुह्य[कायवाक्चित्तवज्रमुद्रासाधनतन्त्रं स]माप्तम् ॥ ॥ अथ भगवान् वज्रपाणिः सर्वतथागतनाहूयैवमाह । "प्रतिपद्यत भगवन्तस्तथा[गता इदं कल्पमधितिष्ठन्ति प्रतिवेदयन्ति ।" अथ स]र्वतथागताः पुनः समाजमागम्य, पुनरपि साधुकाराण्यददुः । साधु ते वज्रसत्वाय वज्ररत्ना[य साधु ते । वज्रधर्माय ते साधु साधु ते] वज्रकर्मणे ॥ सुभाषितमिदं सूत्रं वज्रयानमनुत्तरम् । सर्वतथागतगुह्यं महायानाभिसंग्रहम् ॥ इ[ति ॥ सर्वतथागततत्वसंग्र]हात्सर्वकल्पानुत्तरतन्त्रं परिसमाप्तम् ॥ छप्तेर्२६ एपिलोगुए ओf थे सर्व-तथगत-तत्त्व-सन्ग्रह अथ वज्रपाणिर्महाबोधिसत्वः उत्थायास[नाद्भगवन्तमनेन नामाष्टशतेनाध्येषामा]स । वज्रधातु महासत्व सर्वार्थ परमार्थक । शाक्यराज महाज्ञान वज्रात्मक नमोऽस्तु ते ॥ १ ॥ [सत्वसंभव तत्वार्थ सत्वहेतु महानय ।] महासत्वार्थ कार्यार्थ सत्वसत्व नमोऽस्तु ते ॥ २ ॥ बुद्धधर्म महाधर्म धर्मचक्रप्रवर्तक । म[हावचन विद्याग्र्य महासत्व नमोऽस्तु ते] ॥ ३ ॥ महाकर्म महारक्ष सर्वकर्म प्रसाधक । महात्म सत्वचर्याग्र सत्वहेतो नमोऽस्तु ते ॥ ४ ॥ [सर्वपारमिताप्राप्त सर्वज्ञज्ञानवेदक । सर्वस]त्व महोपाय महाप्रज्ञा नमोऽस्तु ते ॥ ५ ॥ महाकारुणिकाग्र्याग्र्य कारुण्य करुणात्मक । सर्वदा[न महामैत्री सर्वकार नमोऽस्तु ते] ॥ ६ ॥ शाक्यसिंह महाशाक्य शाक्यशाक्य महामुने । विभो महाविनय नेयार्थ विनयाग्र नमोऽस्तु [ते ॥ ७ ॥ धर्मधातु समप्राप्त धर्मधातु तथाग]त । वज्रनाथ महानाथ सत्वराशि नमोऽस्तु ते ॥ ८ ॥ महाप्रभ महालोक महावीर्य महाबल । म[हावीर सुवीराग्र्य शम्भु वीर नमोऽस्तु ते] ॥ ९ ॥ ब्रह्मन् स्वयंभू भगवन् शाक्यवीर महामुने । सर्वात्मक मुने शुद्ध धर्मराज नमोऽस्तु ते ॥ १० ॥ आ[काशकाय कायाग्र्य त्रिकायाकायभा]वक । सर्वकाय महाकाय वज्रकाय नमोऽस्तु ते ॥ ११ ॥ अवाच वाच [वाचाग्र्य त्रिवाचावाचदर्शक । सर्ववाच] सुमहावाच वज्रवाच नमोऽस्तु ते ॥ १२ ॥ अचित्त चित्त चित्ताग्र्य त्रिचित्ताचित्तदर्शक । सर्वचित्त महाचित्त [वज्रचित्त नमोऽस्तु ते ॥ १३ ॥ अवज्र वज्र व]ज्राग्र्य त्रिवज्रावज्रशोधक । सर्ववज्र महावज्र वज्रवज्र नमोऽस्तु ते ॥ १४ ॥ सर्वव्यापि भवाग्र्याग्र्य सु[गताधिपति जय । त्रैधातुकमहाराज] वैरोचन नमोऽस्तु ते ॥ १५ ॥ नामाष्टशतकंश्च तद्यः कश्चिच्छृणुया सकृत् । पठेद्वा भावयेद्वापि [सर्वो बुद्धत्वमाप्नुयात् ॥ १६ ॥ अध्येषया]मि त्वान्नाथ सर्वसत्वहितार्थतः । महाकारुण्यमुत्पाद्य धर्मचक्रं प्रवर्तये- ॥ १७ ॥ ति ॥ [अथ भगवान् वैरोचनः सर्वतथागतधिपतिना]ज्ञावचनमुपश्रुत्य, सर्वतथागतानाहूयैवमाह । "प्रतिपद्यत भगवन्तः तथागताः समा[जमापन्तुम्" इति ॥ अथ सर्वतथाग]ताः समाजमापद्य, इमां गाथामभाषन्त । सर्वसत्वहितार्थाय सर्वलोकेषु सर्वतः । [यथा विनयतो विश्वं धर्मचक्रं प्रवर्त्यताम् ॥ इति ॥] अथास्मिन् भाषितमात्रे सर्वबुद्धक्षेत्रेषु सर्वलोकधातुषु सर्वसत्वानां पुरतः स्फर्य यावत्सर्व[परमाणुरजोमण्डलेषु भगवान् शाक्यमुनि]स्तथागतो धर्मचक्रं प्रवर्तयामास ॥ अथ वज्रपाणिर्महाबोधिसत्वः पुनरपीमां गाथमभाष[त् । सर्वसत्वहितार्थाय सर्वलोकेषु] सर्वतः । यथा विनयतो विश्वं वज्रचक्रं प्रवर्त्यताम् ॥ इति ॥ अथास्मिन् भाषितमात्रे तथैव सर्वबुद्धक्षे[त्रेषु यावत्सर्वपरमाणुरजोमण्डलेषु भ]गवान् वज्रधातुस्तथागतो वज्रधात्वादीन् सर्ववज्रचक्राणि प्रवर्तयामास ॥ अथ त्रिलोकविजयो [महाबोधिसत्व इमां] गाथामभाषत् । सर्वसत्वहितार्थाय सर्वलोकेषु सर्वतः । यथा विनयतो विश्वं क्रोधचक्रं प्रवर्त्यताम् ॥ [इति ॥ अथास्मिन् भाषितमात्रे तथैव] सर्वबुद्धक्षेत्रेषु यावत्सर्वपरमाणुरजोमण्डलेषु भगवांस्त्रिलोकविजयी तथागतः सर्वतथागतक्रो[धचक्रं प्रवर्तयामास ॥ अथार्याव]लोकितेश्वरो बोधिसत्व इमां गाथामभाषत् । सर्वसत्वहितार्थाय सर्वलोकेषु सर्वतः । यथा वि[नयतो विश्वं पद्मचक्रं प्रवर्त्यताम् ॥ इति ॥] अथास्मिन् भाषितमात्रे तथैव सर्वबुद्धक्षेत्रेषु यावत्सर्वपरमाणुरजोमण्डलेषु भगवां धर्मराजा तथागतः पद्मचक्रं प्रवर्तयामास ॥ अथार्याकाशगर्भो बोधिसत्व इमां गाथामभाषत् । सर्वसत्वहितार्थाय सर्वलोकेषु सर्वतः । यथा विनयतो विश्वं मणिचक्रं प्रवर्त्यताम् ॥ इति ॥ अथास्मिन्[भाषितमात्रे सर्वबुद्धक्षेत्रान्तर्गत]सर्वसत्वाः सूक्ष्मा वा स्थूला वा ते सर्वे सर्वतथागतं सुमेरुगिरिमूर्ध्नि वज्रमणिरत्नशिखरकूटागारे सर्वतथा[गतसिंहासने स्थित्वा वज्रधात्वादीन् सर्व]चक्राणि प्रवर्तयन्तं सर्वतोऽद्राक्षुरिति ॥ अथ वज्रपाणिर्महाबोधिसत्वः तस्यां वेलायामिमां गा[थामभाषत् । सर्वसत्वहितार्थाय प्र]तिपद्यस्व कार्यतः । मानुष्यमवताराग्र्यं वज्रचक्रं प्रवर्त्यताम् ॥ इति ॥ अथ पुनरपि भगवान् सर्वत[थागतानाहूयैवमाह । "प्रतिपद्यत भ]गवन्तस्तथागताः पुनः समाजमापन्तुम्" इति ॥ अथ भगवन्तः सर्वतथागताः पुनः समाजमा[पद्य, वैरोचनस्य हृदये प्रविष्टा]इति ॥ अथ भगवान् वैरोचनस्तथागतः सर्वतथागतकायवाक्चित्तवज्रमात्मानमवबुध्य, व[ज्रपाणिमेवमाह । "प्रविशकुलपु]त्र त्वमपि मम हृदये; सर्वतथागतसर्ववज्रकुलसर्वमण्डलाः सर्वतथागतहृदयेषु समनुप्र[विष्टाः" । अथ वज्रपाणिर्महाबोधिसत्वः] सर्वतथागतानुज्ञात इमां गाथामभाषत् । सर्वसत्वहितार्थाय प्रतिपद्यामि सर्वतः । प्रवेष्टुं सर्वबुद्धानां का[यवाक्चित्तस्य वज्र ॥ इति ॥ अथास्मिन् भा]षितमात्रे यावन्तस्तथागताः सर्वलोकधातुपरमाणुरजःसमेषु सर्वलोकधातुषु तिष्ठन्ति ते तथा[गता एकैकेन सर्वलोक]धातुपरमाणुरजःसमाः स्फरणकायाः भगवतो वैरोचनस्य हृदये प्रविष्टाः । अथ वज्रपाणिर्महाबोधिस[त्वः सर्वतथागतेषु] भगवतश्च वैरोचनस्य सर्वकायेषु सर्ववाक्प्रवर्तनस्थानेषु सर्वचित्तसन्ततिप्रवाहेषु सर्ववज्रनयेषु सर्वा[ङ्गप्रत्यङ्गेषु सर्वस्थानेषु] सर्वलक्षणेषु सर्वानुव्यञ्जनेषु सर्वरोमकूपेषु सर्वपरमाणुरजोमण्डलेषु च हृदयेषु प्रविष्ट्वा स्थिता इति ॥ [अथ भगवानचिराभि] संबुद्धः सर्वतथागतकायवाक्चित्तवज्रः सर्वतथागतकायमात्मानमवबुध्य, तस्मात्सुमेरुगिरिमूर्धाद्येन [बोधिमण्डं तेनोपजगा]मोपेत्य, भगवतो बोधिवृक्षस्याधस्तात्लोकानुवर्तनतया, पुनस्तृणानि गृह्येदमुदानमुदानयामास । अ[हो ह्यग्रार्थ आत्मनः स]त्वार्थः सत्वशासिनाम् । यद्विनेयवशाद्धीरास्तीर्थदृष्ट्या विहन्ति हि ॥ अविनेयस्य लोकस्य दुर्दृष्ट्यान्धस्य सर्वतः । ज्ञा[नाभया शोधनार्थं बुद्धबो]धिमवाप्नुयाद् ॥ इति ॥ अथ कामावचरा देवा भगवतस्तत्वमजानन्तो ब्रूवन् । "किं भो श्रमण एवं तीव्राण्येवं रौद्राणि बो[ध्यार्थाय] दुःखान्युत्सहसी-" ति । अथ भगवांस्तानि तृणान्यास्तर्योपविष्ट्वा तां देवानेवमाह । "प्रतिपद्यत मार्षा मम बोधिं [प्राप्तुम्" इति । अथ कामाव]चरा देवा भगवतो भाषितस्यार्थमजानन्तो येन शक्रो देवानामिन्द्रः तेनोपजगामोपेत्य, शक्रं देवानामिन्द्रमि[दं वृत्तान्तमारोचया]मास । अथ शक्रो देवानामिन्द्रः सर्वकामावचरदेवसङ्घपरिवारो रूपावचराधिपतिं महाब्रह्माणमिदं [वृत्तान्तमारोचया]मास । अथ महाब्रह्मा सर्वकामावचररूपावचरदेवसहितस्त्रिलोकाधिपतिमीश्वरं तं वृत्तान्तमारोच[यामास ॥ अथ महे]श्वरस्त्रिलोकाधिपतिर्नारायणादीन् सर्वदेवाधिपतीनेवमाह । "प्रतिपद्यत मार्षास्तथागतोऽर्हं सम्यक्संबुद्धो [लोकानुवर्तनतया पु]नरनुत्तरां सम्यक्संबोधिं दर्शयिष्यति । मामन्त्र्या एवं विद्येन्न तथागतो मानुषो भवति, देवा एव [तथागता भवन्ति], मनुषे घटयेयुः, न तथागतत्व इति । तत्साधु प्रतिपद्यत तत्र पूजनाय गन्तु" मिति । अथ महेश्व[रादिदेवाधिपतयः स्थित्वा] बोधिमण्डे, येन च भगवान् बोधिमण्डनिषण्णः तेनोपजगामोपेत्य च भगवतः पादौ शिरसाभिवन्द्य, भगवन्तमेवमाहुः । ["प्रतिपद्य भ]गवन्नस्माकमनुकम्पामुपादाय, अस्मात्तृणसंस्तरादुत्थाय, दिव्येष्वासनेषु निषद्यानुत्तरां समयक्संबोधिमभिसंबोद्धु" ॥ अथ [भगवान् दे]वाधिपतीनेवमाह । "प्रतिपद्यत मार्षा ममानुत्तरां समयक्संबोधि दातु" मिति । अथ ते एवमाहुर् । "न वयं भगवं समर्था बोधिं द[आतुं] । यदि वयं समर्था भवेमस्तदात्मनैवाभिसंबोधिमभिसंबुध्येमही-" ति ॥ अथ भगवानिदमेवार्थमुद्दीपयं भूयस्या मात्रया इ[मां गाथा]मभाषत् । न सा रूपि न चारूपि न सत्यं न मृषाशुचि । बुद्धबोधिरिदं ज्ञानमवबुध्य जिनो भवेद् ॥ इति ॥ अथ ते देवाधिप[तियो मु]हूर्तं तूष्णीम्भावेन तस्थुः ॥ अथ भगवांस्ततस्तृणासनादुत्थाय, तां देवानेवमाह । "प्रतिपद्यत मार्षा ईदृशं ज्ञानमवबोद्धुम् ।" [त ए]वमाहुर् । "न शक्तमो भगवन्" ॥ अथ भगवांस्तस्मिन्नेवासने निषद्येमां गाथामभाषत् । मनसः प्रतिवेद्येन बोधिचित्तं दृढीकुरु । वज्रं सत्वे दृढीकृत्वा बुद्धमात्मानुभावय ॥ अथ त एवमाहुर् । "एवमस्त्व्" इति कृत्वा सर्वे प्रक्रान्ताः ॥ अथ भगवान् रात्रौ प्रभातायां [लोकानु]वर्तनतया मारां जित्वानुत्तरां सम्यक्संबोधिमभिसंबुध्य, अशेषानवशेष[सत्वधातुषु सर्वसत्वहितार्थाय, स्वहृद]यावस्थितमार्यवज्रपाणिनमनेन नामाष्टशतेनाभिस्तौति । वज्रसत्व महासत्व [महायान महात्मक । महाप्रभ महाशु]द्ध महानाथ नमोऽस्तु ते ॥ १ ॥ वज्रराज महावज्र वज्र सर्वतथागत । महासत्व महावीर्य महोपाय नमोऽस्तु ते ॥ २ ॥ वज्ररा[ग महाशुद्ध स]र्वसौख्य महासुख । सुखाग्र्यानादिनिधन महाकाम नमोऽस्तु ते ॥ ३ ॥ वज्रसाधु महातुष्टि साधुकार प्रहर्षक । महाहर्ष महामो[दन] प्रामोद्य नमोऽस्तु ते ॥ ४ ॥ वज्ररत्न महाराज स्वभिषेक महामते । सर्वरत्न महाशोभ विभूषण नमोऽस्तु ते ॥ ५ ॥ वज्रतेज म[हातेज] वज्रप्रभ महाद्युते । जिनप्रभ महाज्वाल बुद्धप्रभ नमोऽस्तु ते ॥ ६ ॥ वज्रकेतु महाकेतु महाध्वज धनप्रद । आकाशकेतो महा[यष्टि त्या]गध्वज नमोऽस्तु ते ॥ ७ ॥ वज्रहास महाहास महाप्रीति प्रमोदन । प्रीतिवेग रतिप्रीते धर्मप्रीते नमोऽस्तु ते ॥ ८ ॥ वज्रधर्म महा[धर्म सर्व]र्धर्म सुशोधक । बुद्धधर्म सुधर्माग्र्य रागधर्म नमोऽस्तु ते ॥ ९ ॥ वज्रतीक्ष्ण महाकोश प्रज्ञाज्ञान महामते । पापच्छेद म[हाखड्ग बु]द्धशस्त्र नमोऽस्तु ते ॥ १० ॥ वज्रहेतु महाचक्र बुद्धचक्र महानिधि । सर्वमण्डल धर्माग्र धर्मचक्र नमोऽस्तु ते ॥ ११ ॥ वज्रभा[ष महाभाष] निःप्रपञ्च महाक्षर । अनक्षर महाजाप बुद्धवाच नमोऽस्तु ते ॥ १२ ॥ वज्रकर्म सुकर्माग्र्य महाकर्म सुकर्मकृत् । गुह्यपू[ज महापूज बुद्धपूज नमो]स्तु ते ॥ १३ ॥ वज्ररक्ष महावर्म कवचाग्र्य महादृढ । महारक्ष महासार बुद्धवीर्य नमोऽस्तु ते ॥ १४ ॥ वज्रयक्ष महाक्रोध सर्वदुष्टभयानक । सर्वबुद्धमहोपाय अग्रयक्ष नमोऽस्तु ते ॥ १५ ॥ महासन्धि महामुद्र महासमयबन्धक । महामुष्टे समुद्राग्र्य वज्रमुष्टे नमोऽस्तु ते ॥ १६ ॥ वन्द्यो मान्यश्च पूज्यश्च सत्कर्तव्यस्तथागतैः । यस्मादनादिनिधनं बोधिचित्तं त्वमुच्यसे ॥ १७ ॥ त्वामासाद्य जिनाः सर्वे बोधिसत्वाश्च शौरिणः । संभूता संभविष्यन्ति बुद्धबोध्यग्रहेतवः ॥ १८ ॥ नमस्ते वज्रसत्त्वाय वज्ररत्नाय च ते नमः । नमस्ते वज्रधर्माय नमस्ते वज्रकर्मणे ॥ १९ ॥ त्वामभिष्टुत्य नामाग्रैः प्रणम्य च सुभावतः । यत्पुण्यं तेन सर्वो हि बुद्धबोधिमवाप्नुयात् ॥ २० ॥ येदमुच्चारयेत्सम्यग्नामाष्टशतमुत्तमम् । सकृद्वारं सुभक्तिस्थः सर्वबुद्धत्वमाप्नुयाद् ॥ इत्याह भगवान् बुद्धः ॥ अथ वज्रपाणिं महाबोधिसत्वं ते सर्वतथागता [एककष्ठे]न साधुकाराण्यनुप्रादान् ॥ साधु ते वज्रसत्वाय वज्ररत्नाय साधु ते । वज्रधर्माय ते साधु साधु ते वज्रकर्मणे ॥ सुभाषितमि[दं सूत्रं] वज्रयानमनुत्तरम् । सर्वतथागतं गुह्यं महायानाभिसंग्रहम् ॥िति ॥ इदम् [अवोचद्भगवानात्तमनाः सतथारतार्यबोधिसत्वश्च सर्वः स्वहृदये प्रविश्य भगवतश्च वज्रसत्वस्य च] भाषितमभ्यनन्दन्निति ॥ [सर्वतथागततत्वसंग्रहं नाम महायानसू]त्रं समाप्तम् ॥ ॥ ओं नमो बुद्धाय ॥