अध्याय १ शशिकलाकलितं हि शुभाननं शिवनिधानमथो ऋषिपूजितम् । जननपालनसंहरणात्मकं हरिहरं प्रथमं प्रणमाम्यहम् ॥ १.१ ॥ कुमुदकुन्दसिताम्बरधारिणीं विमलमौक्तिकहारसुशोभिताम् । सकलसिद्धगणैरपि सेवितामहरहः प्रणमामि च शारदाम् ॥ १.२ ॥ वदनकुंजरमभ्रदलद्युतिं त्रिनयनं च चतुर्भुजवामनम् । कनकरत्नसुशोभितशेखरं गणपतिं प्रथमं प्रणमाम्यहम् ॥ १.३ ॥ गिरिशधाम सदा महदद्भुतं सकलरोगविघातकरं परम् । सकलसिद्धिसमूहविशारदं प्रणतपापहरं भवपारदम् ॥ १.४ ॥ <ईन्हल्त्स्वेर्शेइछ्निस्> प्रथमं पारदोत्पत्तिं कथयामि यथातथम् । ततः शोधनकं तस्य तथाष्टादश कर्म च ॥ १.५ ॥ चतुर्धा बंधविज्ञानं भस्मत्वं सूतकस्य च । धातूनां शोधनं चैव मारणं गुणवर्णनम् ॥ १.६ ॥ अष्टौ महारसाः सम्यक्प्रोच्यन्तेऽत्र मया खलु । तथा चोपरसानां हि गुणाः शोधनमारणम् ॥ १.७ ॥ द्रुतिपातं च सर्वेषां कथयामि सविस्तरम् । रत्नानां गुणदोषश्च तथा शोधनमारणम् ॥ १.८ ॥ क्रामणं रंजनं चैव द्रुतिमेलानकं रसे । रसांश्च शतसंख्याकान् कथयामि सविस्तरात् ॥ १.९ ॥ औषधीनां समाख्याता भेदाश्चत्वार एव च । दिव्यौषध्यो रसौषध्यः सिद्धौषध्यस्तथा पराः ॥ १.१० ॥ महौषध्य इति प्रोक्ता यंत्राण्यथ पुटानि च । मूषाश्चैव हि धातूनां कौतुकानि समासतः ॥ १.११ ॥ वाजीकरणयोगाश्च शुक्ररतंभकरास्त । नातिसंक्षेपविस्तारात्ग्रंथेऽस्मिन् परिकल्पिताः ॥ १.१२ ॥ <सूतोत्पत्ति (मिथिल्fए एइनेर्स्छ्ण्नेन् Fरौ)> हिमालयात्पश्चिमदिग्विभागे गिरीन्द्रनामा रुचिरोऽस्ति भूधरः । तत्सन्निधानेऽतिसुवृत्तकूपे साक्षाद्रसेंद्रो निवसत्ययं हि ॥ १.१३ ॥ कुमारिकारूपगुणेन युक्ता स्वलंकृता वाहवरेऽधिरूढा । तत्रागता कूपमवेक्षमाणा निवर्तिता सा महता जवेन ॥ १.१४ ॥ प्रधावितः सूतवरश्चतुर्षु ककुप्सु भूमौ पतितो हि नूनम् ॥ १.१५ ॥ परितः पर्वतात्सम्यक्क्षेत्रं द्वादशयोजनम् । विस्तीर्णं च सुवृत्तं हि सूतकस्य समीरितम् ॥ १.१६ ॥ तन्मृदः पातने यंत्रे पातितः खलु रोगहा । जायते रुचिरः साक्षादुच्यते पारदः स्वयम् ॥ १.१७ ॥ <मेर्चुर्य्:: सुब्त्य्पेस्:: चस्ते (अfतेरेमनतिओन् fरों थे wएल्ल्)> कूपाद्विनिःसृतः सूतश्चतुर्दिक्षु गतो द्विजः । क्षत्रियो वैश्यशूद्रौ च चतुर्णां जायते खलु ॥ १.१८ ॥ <मेर्चुर्य्:: सुब्त्य्पेस्:: चोलोउर्> श्वेता कृष्णा तथा पीता रक्ता वै जायते छविः । प्राच्यां याम्यां प्रतीच्यां च कौबेर्यां च दिशि क्रमात् ॥ १.१९ ॥ <मेर्चुर्य्:: सुब्त्य्पेस्:: चोलोउर्:: उसे> श्वेतः श्वेतविधाने स्यात्कृष्णो देहकरस्तथा । पीतवर्णः स्वर्णकर्ता रक्तो रोगविनाशकृत् ॥ १.२० ॥ सर्व एकीकृता एव सर्वकार्यकराः सदा । सेविताः सर्वरोगघ्नाः सर्वसिद्धिविधायकाः ॥ १.२१ ॥ इत्थं सूतोद्भवं ज्ञात्वा न रोगैवार्ध्यते खलु । शोधितो मारितश्चैव क्रामितः सारितः शुभः ॥ १.२२ ॥ <पारद्ना आठ्संस्कारथवा कर्म्> स्वेदनं मर्दनं चैव मूर्च्छनं स्यात्तदुत्थितम् । पातनं रोधनं सम्यक्नियामनसुदीपने ॥ १.२३ ॥ तथाभ्रकग्रासमान- चारणं च क्रमेण हि । गर्भद्रुतिर्बाह्यद्रुतिः प्रोक्तं जारणकं तथा ॥ १.२४ ॥ सारणं क्रामणं प्रोक्तं वेधकर्म च रंजनम् । सेवनं पारदस्याथ कर्माण्यष्टादशैव हि । उद्देशतो मयात्रैव नामानि कथितानि वै ॥ १.२५ ॥ <पारददोषाः> दोषाः पञ्च समुद्दिष्टाः पारदानां भिषग्वरैः । मलो विषं तथा वह्निर्मदो दर्पश्च वै क्रमात् । मूर्च्छां मृत्युं मदं चैव स्फोटं कुर्युः शिरोभ्रमम् ॥ १.२६ ॥ <पारदकञ्चुकाः> कञ्चुकाः सप्त सूतस्य कथयामि यथार्थतः । नामानि कथयाम्येषां देवीशास्त्रानुसारतः ॥ १.२७ ॥ मृच्छैलजलशुल्बायो- नागवंगसमुद्भवाः । सूतके कंचुकाः सप्त ततश्चैव विषोपमाः ॥ १.२८ ॥ <मेर्चुर्य्:: उसे ओf शोधन> द्वादशैव हि दोषाः स्युर्यैश्च निष्कासिता द्विजैः । तेषां हि रससिद्धिः स्यादपरे यमसन्निभाः । तस्माद्दोषापहरणं कर्तव्यं भिषगुत्तमैः ॥ १.२९ ॥ <स्वेदन> तत्र स्वेदनकं कुर्याद्यथावच्च शुभे दिने । सूतस्य स्वेदनं कार्यं दोलायंत्रेण वार्तिकैः ॥ १.३० ॥ क्षारौ चाम्लेन सहितौ तथा च पटुपंचकम् । त्रिकटु त्रिफला चैव चित्रकेण समन्विता ॥ १.३१ ॥ पुष्पकासीससौराष्ट्र्यौ सर्वाण्येव तु मर्दयेत् । ओषधानि समांशानि रसादष्टमभागतः ॥ १.३२ ॥ कृत्वान्धमूषां तेषां तु तन्मध्ये पारदं क्षिपेत् । त्रिगुणेन सुवस्त्रेण भूर्जपत्रेण वेष्टयेत् ॥ १.३३ ॥ गुणेन काष्ठखण्डे वै बद्धां तु रसपोटलीम् । लम्बायमानां भाण्डे तु तुषवारिप्रपूरिते ॥ १.३४ ॥ त्रिदिनं स्वेदयेत्सम्यक्स्वेदनं तदुदीरितम् ॥ १.३५ ॥ <२. मर्दन> अथ मर्दनकं कर्म येन शुद्धतमो रसः । प्रजायते विस्तरेण कथयामि यथातथम् ॥ १.३६ ॥ खल्वे विमर्दयेत्सूतं दिनानि त्रीणि चैव हि । <खल्व:: दिमेन्सिओन्स्> अथ खल्वप्रमाणं हि वक्ष्ये तत्र मयाधुना ॥ १.३७ ॥ कलांगुलस्तदायामश्चोत्सेधोऽपि नवांगुलः । विस्तरेण तथा कुर्यान्निम्नत्वेन षडङ्गुलम् ॥ १.३८ ॥ द्व्यंगुलः पृष्ठविस्तारो मध्येऽतिमसृणीकृतः । <पेस्त्ले:: सिशे> अर्धचन्द्राकृतिश्चापि मर्दकोऽत्र दशांगुलः ॥ १.३९ ॥ <मर्दन (चोन्त्.)> सूतः पञ्चपलस्तस्मिन्मर्दयेत्काञ्जिकैस्त्र्यहम् । बहिर्मलविनाशाय रसराजं तु निश्चितम् ॥ १.४० ॥ उष्णकांजिकतोयेन क्षालयेत्तदनन्तरम् ॥ १.४१ ॥ <३. मूर्छन> अतःपरं प्रवक्ष्यामि पारदस्य तु मूर्च्छनम् । मूर्च्छनं दोषरहितं सप्तकञ्चुकनाशनम् ॥ १.४२ ॥ स्वर्जिका यावशूकश्च तथा च पटुपंचकम् । अम्लौषधानि सर्वाणि सूतेन सह मर्दयेत् ॥ १.४३ ॥ खल्वे दिनत्रयं तावद्यावन्नष्टत्वमाप्नुयात् । स्वरूपस्य विनाशेन मूर्च्छनं तदिहोच्यते । निर्मलत्वमवाप्नोति ग्रन्थिभेदश्च जायते ॥ १.४४ ॥ <४. उत्थापन> अथोत्थापनकं कर्म पारदस्य भिषग्वरैः । करणीयं प्रयत्नेन रसशास्त्रस्य वर्त्मना ॥ १.४५ ॥ दोलायंत्रे ततः स्वेद्यः पूर्ववद्दिवसत्रयम् । सूर्यातपे मर्दितोऽसौ दिनमेकं शिलातले । उत्थापनं भवेत्सम्यक्मूर्छादोषविनाशनम् ॥ १.४६ ॥ <५. पातन> पातनं हि महत्कर्म कथयामि सुविस्तरम् । त्रिधा पातनमित्युक्तं रसदोषविनाशनम् ॥ १.४७ ॥ ऊर्ध्वपातस्त्वधःपातस्तिर्यक्पातः क्रमेण हि । <ऊर्ध्वपातनयन्त्र> ऊर्ध्वपातनयंत्रस्य लक्षणं तदिहोच्यते । मृण्मयी स्थालिका कार्या चोच्छ्रिता तु षडंगुला ॥ १.४८ ॥ मुखे सप्ताङ्गुलायामा परितस्त्रिदशांगुला । इयन्माना द्वितीया च कर्तव्या स्थालिका शुभा ॥ १.४९ ॥ क्षारद्वयं रामठं च तथा हि पटुपञ्चकम् । अम्लवर्गेण संयुक्तं सूतकं तैस्तु मर्दयेत् ॥ १.५० ॥ लेपयेत्तेन कल्केन अधःस्थां स्थालिकां शुभाम् । उपरिस्थामधोवक्त्रां दत्त्वा संपुटमाचरेत् ॥ १.५१ ॥ सभस्मलवणेनैव मुद्रां तत्र प्रकारयेत् । चुल्यां स्थालीं निवेश्याथ धान्याग्निं तत्र कारयेत् ॥ १.५२ ॥ तस्योपरि जलाधानं कार्यं यामचतुष्टयम् । स्वाङ्गशीतलतां ज्ञात्वा ऊर्ध्वंगं ग्राहयेद्रसम् ॥ १.५३ ॥ ऊर्ध्वपातनयंत्रं हि तदेवं परिकीर्तितम् । <५.२. अधःपातन> पूर्वोक्तां स्थालिकां सम्यक्विपरीतां तु पंकिले । गर्ते तु स्थापितां भूमौ ज्वालयेन्मूर्ध्नि पावकम् ॥ १.५४ ॥ यामत्रितयपर्यंतमधः पतति पारदः । अधःपातनयंत्रं हि कीर्तितं रसवेदिभिः ॥ १.५५ ॥ <५.३. तिर्यक्पातन> पूर्वोक्तैरौषधैः सार्धं रसराजं विमर्दयेत् । तिर्यग्घटे रसं क्षिप्त्वा तन्मुखे ह्यपरो घटः ॥ १.५६ ॥ कनीयानुदरे छिद्रं छिद्रे चायसनालिकाम् । नालिकां जलपात्रस्थां कारयेच्च भिषग्वरैः ॥ १.५७ ॥ अधस्ताद्रसयंत्रस्य तीव्राग्निं ज्वालयेद्बुधः । यामत्रितयपर्यंतं तिर्यक्पातो भवेद्रसः ॥ १.५८ ॥ यंत्राणां पातनानां च त्रितयं सुकरं खलु ॥ १.५९ ॥ कथितं हि मया सम्यक्रसागमनिदर्शनात् ॥ १.६० ॥ <६. रोधन> अधुना कथयिष्यामि रसरोधनकर्म च । यत्कृते च पलत्वं हि रसराजस्य शाम्यति ॥ १.६१ ॥ सिन्धूद्भवं दशपलं जलप्रस्थत्रयं तथा । धारयेद्घटमध्ये च सूतकं दोषवर्जितम् ॥ १.६२ ॥ पिधानेन यथा सम्यक्मुद्रितं मृत्स्नया खलु । निर्वाते निर्जने देशे धारयेद्दिवसत्रयम् ॥ १.६३ ॥ अनेनैव प्रकारेण रोधनं कुरु वैद्यराट् ॥ १.६४ ॥ <७. नियामन> अतःपरं प्रवक्ष्यामि पारदस्य नियामनम् । जलसैंधवसंयुक्तो घटस्थो हि रसोत्तमः । दिनत्रयं स्वेदितश्च वीर्यवानपि जायते ॥ १.६५ ॥ <८. दीपन> अथेदानीं प्रवक्ष्यामि रसराजस्य दीपनम् । बुभुक्षा व्यापकत्वं च येन कृत्वा प्रजायते ॥ १.६६ ॥ राजिका लवणोपेता मरिचं शिग्रुटंकणे । कासीससंयुता कांक्षी कांजिकेन समन्वितैः ॥ १.६७ ॥ दिनानि त्रीणि संस्वेद्य पश्चात्क्षारेण मर्दयेत् । अनेनैव प्रकारेण दीपनं जायते ध्रुवम् ॥ १.६८ ॥ तीव्रत्वं वेगकारित्वं व्यापकत्वं बुभुक्षुता । बलवत्त्वं विशेषेण कृते सम्यक्प्रजायते ॥ १.६९ ॥ <८.१. दीपन: मुखोत्पादन> मुखोत्पादनकं कर्म प्रकारो दीपनस्य हि । कथयामि समासेन यथावद्रसशोधनम् ॥ १.७० ॥ अष्टादशांशभागेन कनकेन च सूतकः । निम्बूरसेन संमर्द्यो वासरैकमतःपरम् ॥ १.७१ ॥ क्षारैश्च लवणै रम्यैः स्वेदितः कांजिकेन हि । क्षालिते कांजिकेनैव वक्त्रं भोक्तुं प्रजायते ॥ १.७२ ॥ <८.२. दीपन: मुखोत्पादन (२)> ताप्यसत्वं कलांशेन हेम्ना तद्द्विगुणेन च । तप्तमायसखल्वेन तप्तेनाथ प्रमर्दयेत् ॥ १.७३ ॥ व्यक्तं हि रसचुक्रेण क्षारेण चणकस्य हि । जंबीरपूरकजलैर्मर्दयेदेकविंशतिम् ॥ १.७४ ॥ वासरे याममेकं तु प्रत्येकं हि विमर्दयेत् । यातुधानमुखं सम्यक्यात्येव हि न संशयः ॥ १.७५ ॥ द्वितीयो दीपनस्यैवं प्रकारः कथितो मया । सूतस्याष्टौ च संस्काराः कथिता देहकर्मणि ॥ १.७६ ॥ तथा च दश कर्माणि देहलोहकराणि हि ॥ १.७७ ॥ <९. ग्रासमान> अथेदानीं प्रवक्ष्यामि भक्षणं चाभ्रकस्य हि । करोटिविधिना सम्यक्कर्तव्यं लोहसंपुटम् ॥ १.७८ ॥ जलयंत्रस्य योगेन विडेन सहितो रसः । भक्षयत्येव चाभ्रस्य कवलानि न संशयः ॥ १.७९ ॥ <जलयन्त्र> अतो हि जलयंत्रस्य लक्षणं कथ्यते मया । सुवृत्तं लोहपात्रं च जलं तत्राढकत्रयम् ॥ १.८० ॥ तन्मध्ये सुदृढं सम्यक्कर्तव्यं लोहसंपुटम् । लोहसंपुटमध्ये तु निक्षिप्तं शुद्धपारदम् ॥ १.८१ ॥ बिडेन सहितं चैव षोडशांशेन यत्नतः । चतुःषष्ट्यंशकं चाभ्र- सत्त्वं संपुटके तथा ॥ १.८२ ॥ संपुटं मुद्रयेत्पश्चात्दृढया तोयमृत्स्नया । वह्निमृत्तिकया वापि संधिरोधं तु कारयेत् ॥ १.८३ ॥ चुल्यां निवेश्य तं यंत्रं जलेनोष्णेन पूरितम् । क्रमादग्निः प्रकर्तव्यो दिवसार्धकमेव हि ॥ १.८४ ॥ एवं कृते ग्रासमानं भक्षयेन्नात्र संशयः । अनेनैव प्रकारेण षड्ग्रासं भक्षयेद्ध्रुवम् ॥ १.८५ ॥ भक्षिते चाभ्रसत्त्वे तु सर्वकार्येषु सिद्धिदः । <विडमान> मानं मानविहीनेन कर्तुं केन न शक्यते ॥ १.८६ ॥ तस्मान्मया मानकर्म कथितव्यं यथोदितम् । चतुःषष्ट्यंशतो बीजं पारदान्मुखकारकम् ॥ १.८७ ॥ पश्चाद्द्वात्रिंशभागेन दातव्यं बीजमुत्तमम् । ततःषोडशभागेन बीजस्य कवलं न्यसेत् ॥ १.८८ ॥ रसादष्टमभागेन दातव्यं भिषगुत्तमैः । चतुर्थेनाथ भागेन ग्रास एवं प्रदीयते ॥ १.८९ ॥ तथा च समभागेन ग्रासेनैव च साधयेत् । बिडेन षोडशांशेन क्षुधितो जायते रसः ॥ १.९० ॥ यदा जीर्णो भवेद्ग्रासः पातितश्च विडेन हि ॥ १.९१ ॥ <बिड> कासीससिन्धुलवण- सौवर्चलसुराष्ट्रिकाः । गंधकेन समं कृत्वा विडोऽयं वह्निकृद्भवेत् ॥ १.९२ ॥ <१०. चारण> अथ गर्भद्रुतेः कर्म चारणं गुणवर्धनम् । कथयामि यथातथ्यं रसराजस्य सिद्धिदम् ॥ १.९३ ॥ ताप्यसत्वाभ्रसत्त्वं च घोषाकृष्टं च ताम्रकम् । समभागानि सर्वाणि ध्मापयेत्खदिराग्निना ॥ १.९४ ॥ भस्त्रिकाद्वितयेनैव यावदभ्रकशेषकम् । तदभ्रसत्वं सूतस्य चारयेत्समभागिकम् ॥ १.९५ ॥ <११. गर्भद्रुति> अनेनैव प्रकारेण त्रिगुणं जारणं रसे । गर्भद्रुतेर्जारणं हि कथितं भिषगुत्तमैः ॥ १.९६ ॥ <१२. बाह्यद्रुति> बाह्यद्रुतिविधानं हि कथ्यते गुरुमार्गतः । अभ्रसत्वं हि मूषायां वज्रवल्लीरसेन हि ॥ १.९७ ॥ सौवर्चलेन संध्मातं रसरूपं प्रजायते । अभ्रद्रुतेश्च सूतस्य समांशैर्मेलनं कृतम् ॥ १.९८ ॥ तेन बन्धत्वमायाति बाह्या सा कथ्यते द्रुतिः । बाह्यद्रुतिक्रियाकर्म शिवभक्त्या हि सिध्यति ॥ १.९९ ॥ गुरोः प्रसादात्सततं महाभैरवपूजनात् । शिवयोरर्चनादेव बाह्यगा सिध्यति द्रुतिः ॥ १.१०० ॥ <१३. जारण> अथ जारणकं कर्म कथयामि सुविस्तरम् । अभ्रकं ताप्यसत्वं च समं कृत्वा तु संधमेत् ॥ १.१०१ ॥ अभ्रशेषं कृतं यच्च तत्सत्वं जारयेद्रसे । एवं पूतिद्वयेनैव घनसत्वं हि साधयेत् ॥ १.१०२ ॥ धातुवादविधानेन लोहकृत्देहकृन्न हि । गजवंगौ महाघोरावसेव्यौ हि निरन्तरम् ॥ १.१०३ ॥ साधितं घनसत्वं तद्रेतितं रजःसन्निभम् । बुभुक्षितरसस्यास्ये निक्षिप्तं वल्लमात्रकम् ॥ १.१०४ ॥ रसो गद्याणकस्यापि तुर्यभागः प्रकीर्तितः । ताम्रपात्रस्थमम्लं वै सैंधवेन समन्वितम् ॥ १.१०५ ॥ क्षीरेण सहितं वापि प्रहितं द्विदिनावधि । जातं तुत्थसमं नीलं कल्कं तत्प्रोच्यते बुधैः ॥ १.१०६ ॥ कल्केनानेन सहितं सूतकं च विमर्दयेत् । दिनत्रयं तप्तखल्वे धौतः पश्चाच्च कांजिकैः ॥ १.१०७ ॥ स्थापयेत्कांस्यपात्रे तु तदूर्ध्वाधो विडं न्यसेत् । रसस्याष्टमभागेन संपुटं कारयेत्ततः ॥ १.१०८ ॥ भूर्जपत्रैर्मुखं रुद्ध्वा सूत्रेणैव तु वेष्टयेत् । संपुटं वाससावेष्ट्य दोलायां स्वेदयेत्ततः ॥ १.१०९ ॥ गोमूत्रेणाम्लवर्गेण कांजिकेन दिनं दिनम् । अश्मपात्रेऽथ लोहस्य पात्रे काचमयेऽथवा ॥ १.११० ॥ उष्णकांजिकतोयेन क्षालयित्वा रसं ततः । दृढे चतुर्गुणे वस्त्रे क्षिप्त्वाधः पीडनाद्रसः ॥ १.१११ ॥ निपतत्यन्यपात्रे तु सर्वोऽपि यदि पारदः । तदाभ्रं जारितं सम्यक्दण्डधारी भवेद्रसः ॥ १.११२ ॥ ग्रासमाने पुनर्देयमभ्रबीजमनुत्तमम् । अष्टग्रासेन सर्वं हि जारयेद्गुरुमार्गतः ॥ १.११३ ॥ एवं कृते समं चाभ्रं सूतके जीर्यति ध्रुवम् । स्वहस्तेन कृतं सम्यक्जारणं न श्रुतं मया ॥ १.११४ ॥ <मेर्चुर्य्:: "अगे" अच्चोर्दिन्ग्तो जारण> समाभ्रे जारिते सम्यक्दण्डधारी भवेद्रसः । बालश्च कथ्यते सोऽपि किंचित्कार्यकरो भवेत् ॥ १.११५ ॥ द्विगुणे त्रिगुणे चैव कथ्यतेऽत्र मया खलु । चतुर्गुणेऽभ्रके जीर्णे किशोरः कथ्यते मया ॥ १.११६ ॥ जीर्णे पञ्चगुणे चाभ्रे युवा चैव रसोत्तमः । षड्गुणे जारिते त्वभ्रे वृद्धश्चैव रसोत्तमः ॥ १.११७ ॥ सप्ताष्टगुणिते चाभ्र- सत्वे जीर्णेऽतिवृद्धकः । सर्वसिद्धिकरः सोऽयं पारदः पारदः स्वयम् ॥ १.११८ ॥ अनेनैव प्रकारेण सर्वलोहानि जारयेत् ॥ १.११९ ॥ <१४. सारण> अथेदानीं प्रवक्ष्यामि वेधवृद्धेश्च कारणम् । महासिद्धिकरं यत्स्यात्सारणं सर्वकर्मणाम् ॥ १.१२० ॥ धूर्तपुष्पसमाकारा मूषाष्टाङ्गुलदीर्घिका । मुखे सुविस्तृता कार्या चतुरंगुलसंमिता ॥ १.१२१ ॥ मृण्मया सापि शुष्का च मध्येऽतिमसृणीकृता । अन्या पिधानिका मूषा सुनिम्ना छिद्रसंयुता ॥ १.१२२ ॥ शुद्धं सुजारितं सूतं मूषामध्ये निधापयेत् । <सारणातैल> मत्स्यकच्छपमण्डूक- जलौकामेषसूकराः ॥ १.१२३ ॥ एकीकृत्य वसामेषामेवं तैलं तु सारणम् । भूनागविट्तथा क्षौद्रं वायसानां पुरीषकम् ॥ १.१२४ ॥ तथैव शलभादीनां महिषीकर्णयोर्मलम् । रसस्य षोडशांशेन चैतेषां कल्कमादिशेत् ॥ १.१२५ ॥ पटेन गालितं कृत्वा तैलमध्ये नियोजयेत् । <सारणा (चोन्त्.)> सारणार्थे कृतं तैलं तस्मिन् तैले सुपाचयेत् ॥ १.१२६ ॥ बीजं च कल्कमिश्रं हि कृत्वा मूषोपरि न्यसेत् । पिधानेन द्वितीयेन मूषावक्त्रं निरुन्धयेत् ॥ १.१२७ ॥ भस्मना लवणेनैव मूषायुग्मं तु मुद्रयेत् । मूषिकायास्त्रिभागं हि खनित्वा वसुधां क्षिपेत् ॥ १.१२८ ॥ तदूर्ध्वं ध्मापयेत्सम्यक्दृढांगारैः खराग्निना । एवं संजारितं बीजं रसमध्ये पतत्यलम् ॥ १.१२९ ॥ बन्धमायाति सूतेन्द्रः सारितो गुणवान् भवेत् । प्रथमं जारितश्चैव सारितः सर्वसिद्धिदः ॥ १.१३० ॥ नो जारितः सारितश्च कथं बन्धकरो भवेत् । गुरूपदेशतो दृष्टं सारणं कर्म चोत्तमम् ॥ १.१३१ ॥ हस्तानुभवयोगेन कृतं सम्यक्श्रुतं नहि ॥ १.१३२ ॥ <१५. क्रामण> अथ क्रामणकं कर्म पारदस्य निगद्यते । शास्त्रात्कृतं न दृष्टं हि यथावत्क्रामयेद्रसम् ॥ १.१३३ ॥ कर्णमलं महिषीणां स्त्रीदुग्धं टंकणेन सम्मिश्रम् । एतान्येव समानि च कृत्वा द्रव्याणि मर्दयेच्च दिनम् ॥ १.१३४ ॥ विषं च दरदश्चैव रसको रक्तकान्तकौ । इन्द्रगोपश्च तुवरी माक्षिकं काकविट्तथा ॥ १.१३५ ॥ कल्कमेतदधोर्ध्वं हि मध्ये सूतं निधापयेत् । काचचूर्णं ततो दत्त्वा चान्धमूषागतं धमेत् ॥ १.१३६ ॥ अनेन क्रामणेनैव पारदः क्रमते क्षणात् । इदं क्रामणकं श्रेष्ठं नन्दिराजेन भाषितम् ॥ १.१३७ ॥ ताप्यसत्त्वं तथा नागं शुद्धं क्रामणकं तथा । बीजानि पारदस्यापि क्रमते च न संशयः ॥ १.१३८ ॥ <१६. वेधन> अथ वेधविधानं हि कथयामि सुविस्तरम् । येन विज्ञातमात्रेण वेधज्ञो जायते नरः ॥ १.१३९ ॥ धूर्ततैलमहेःफेनं कंगुणीतैलमेव च । भृङ्गीतैलं विषं चैव तैलं जातीफलोद्भवम् ॥ १.१४० ॥ हयमारशिफातैलमब्धेःशोषकतैलकम् । एतान्यन्यानि तैलानि विद्धि वेधकराणि च ॥ १.१४१ ॥ सिद्धसूतेन च समं मर्दितं वेधकृद्भवेत् ॥ १.१४२ ॥ <वेधभेदाः> लेपवेधस्तथा क्षेपः कुंतवेधस्तथैव च ॥ १.१४३ ॥ धूमाख्यः शब्दवेधः स्यादेवं पञ्चविधः स्मृतः । <लेपवेध> सूक्ष्माणि ताम्रपत्राणि कलधूतभवानि च । कल्केन लेपितान्येव ध्मापयेदन्धमूषया ॥ १.१४४ ॥ शीतीभूते तमुत्तार्य लेपवेधश्च कथ्यते । <क्षेपवेध> द्रुते ताम्रेऽथवा रौप्ये रसं तत्र विनिक्षिपेत् ॥ १.१४५ ॥ विध्यते तेन सहसा क्षेपवेधः स कथ्यते । <कुन्तवेध> द्रावयेन्नागरूप्यं च ताम्रं चैव तथावरान् ॥ १.१४६ ॥ पारदोऽन्यतमे पात्रे द्रावितेऽत्र नियोजितः । वेधते कुन्तवेधः स्यादिति शास्त्रविदोऽब्रुवन् ॥ १.१४७ ॥ <धूमवेध> धूमस्पर्शेन जायन्ते धातवो हेमरूप्यकौ । धूमवेधः स विज्ञेयो रसराजस्य निश्चितम् ॥ १.१४८ ॥ <शब्दवेध> बद्धे रसवरे साक्षात्स्पर्शनाज्जायते रवः । तथैव जायते वेधः शब्दवेधः स कथ्यते ॥ १.१४९ ॥ <१७. रञ्जन> अथेदानीं प्रवक्ष्यामि रंजनं पारदस्य हि । रञ्जितः क्रामितश्चैव साक्षाद्देवो महेश्वरः ॥ १.१५० ॥ रंजनं लोहताम्राभ्यां रसकेन विधीयते । तथा रक्तगणेनैव कर्तव्यं शास्त्रवर्त्मना ॥ १.१५१ ॥ गन्धरागेण कर्तव्यं पारदस्याथ रंजनम् । ताम्रेण रक्तकाचेन रक्तसैन्धवकेन च ॥ १.१५२ ॥ अंधमूषागतं सूतं रञ्जयेत्ताम्रकादिभिः । इष्टिकायन्त्रयोगेन गन्धरागेण रञ्जयेत् ॥ १.१५३ ॥ रसकस्य च रागेण तुलायन्त्रस्य योगतः । <मेर्चुर्य्:: रञ्जन> मर्दनात्तीक्ष्णचूर्णेन रञ्जयेत्सूतकं सदा ॥ १.१५४ ॥ <मेर्चुर्य्:: रञ्जन> ताम्रकल्कीकृतेनैव स्थापयेत्सप्तवासरम् । रंजनं सूतराजस्य जायते नात्र संशयः ॥ १.१५५ ॥ <मेर्चुर्य्:: रञ्जन> मृण्मूषा च प्रकर्तव्या रक्तवर्गेण लेपिता । तन्मध्ये पारदं क्षिप्त्वा ध्मानाद्रञ्जनकं भवेत् ॥ १.१५६ ॥ मया संक्षेपतः प्रोक्तं रंजनं पारदस्य हि । शास्त्रमार्गेण बहुधा रंजनं हि निदर्शितम् ॥ १.१५७ ॥ <१८. सेवन> अथ सेवनकं कर्म पारदस्य दशाष्टमम् । कथ्यतेऽत्र प्रयत्नेन विस्तरेण मयाधुना ॥ १.१५८ ॥ यत्नेन सेवितः सूतः शास्त्रमार्गेण सिद्धिदः । अन्यथा भक्षितश्चैव विषवन्मारयेन्नरम् ॥ १.१५९ ॥ आदौ तु वमनं कृत्वा पश्चाद्रेचनमाचरेत् । ततो मृताभ्रं भक्षेत पश्चात्सूतस्य सेवनम् ॥ १.१६० ॥ सम्यक्सूतवरः शुद्धो देहलोहकरः सदा । सेवितः सर्वरोगघ्नः सर्वसिद्धिकरो भवेत् ॥ १.१६१ ॥ यावन्मानेन लोहस्य गद्याणे वेधकृद्भवेत् । तावन्मानेन देहस्य भक्षितो रोगहा भवेत् ॥ १.१६२ ॥ राजिकाथ प्रियंगुश्च सर्षपो मुद्गमाषकौ । रक्तिका चणको वाथ वल्लमात्रो भवेद्रसः ॥ १.१६३ ॥ एषा मात्रा रसे प्रोक्ता सर्वकर्मविशारदैः । अनुपानेन भुञ्जीत पर्णखण्डिकया सह ॥ १.१६४ ॥ इत्थं संसेविते सूते सर्वरोगाद्विमुच्यते । सर्वपापाद्विनिर्मुक्तः प्राप्नोति परमां गतिम् ॥ १.१६५ ॥ ____________________________________________________________ अध्याय २ <पारदबन्ध> अथेदानीं प्रवक्ष्यामि रसराजस्य बंधनम् । अनुभूतं मया किंचित्गुरूणां हि प्रसादतः ॥ २.१ ॥ <बन्धन:: सुब्त्य्पेस्> बंधश्चतुर्विधः प्रोक्तो जलौका खोटपाटकौ । तथा भस्माभिधः साक्षात्कथितोऽपि रसागमे ॥ २.२ ॥ पक्वबन्धो जलौका स्यात्पिष्टीस्तम्भस्तु खोटकः । पाटः पर्पटिकाबन्धो भस्म भूतिसमो भवेत् ॥ २.३ ॥ <सुब्स्तन्चेसिन्दुचिन्ग्बन्धन> मूलिकात्र मणिश्चैव स्वर्णकं नागवङ्गके । चत्वार एते सूतस्य बन्धनस्याथ कारणम् ॥ २.४ ॥ उत्तमो मूलिकाबन्धो मणिबन्धस्तु मध्यमः । अधमो धातुबन्धस्तु पूतिबन्धोऽधमाधमः ॥ २.५ ॥ द्रुतिबन्धः पञ्चमोऽसौ देहलोहकरः सदा । अभ्रद्रुतिविशेषेण विज्ञेयोऽसौ भिषग्वरैः ॥ २.६ ॥ <मूलिकाबन्ध> क्रमप्राप्तमिदं वक्ष्ये मूलिकाबन्धनं रसे । शुद्धो राक्षसवक्त्रश्च रसश्चाभ्रकजारितः ॥ २.७ ॥ इङ्गुदीमूलनिर्यासे मर्दितः पारदस्त्र्यहम् । तत उद्धृत्य वस्त्रेण बंधनं कारयेद्भिषक् ॥ २.८ ॥ कांजिके स्वेदनं कुर्यान्नियतं सप्तवासरम् । पाचितं चान्नमध्ये तु कर्तव्यं वत्सरावधि ॥ २.९ ॥ ततो धूर्तफले न्यस्तं स्वेदयेच्छतसंख्यया । पाचितोऽसौ महातैले धूर्ततैलेऽन्नराशिके ॥ २.१० ॥ बद्धस्तु तेन विधिना कठिनत्वं प्रजायते । वंगस्य स्तम्भनं सम्यक्करोत्येव न संशयः ॥ २.११ ॥ धारितोऽसौ मुखे साक्षाद्वीर्यस्तम्भकरः सदा । मूलिकाबंधनं ह्येकं कथितं पारदस्य वै ॥ २.११* ॥ <मूलिकाबन्ध (२)> अथापरः प्रकारो हि बन्धनस्यापि पारदे । नागार्जुनीमूलरसैर्मर्दयेद्दिनसप्तकम् ॥ २.१२ ॥ मुखचर्वणसम्भूतैर्निम्बकाष्ठेन पेषितः । नवनीतसमस्तेन जायते पारदस्ततः ॥ २.१३ ॥ वस्त्रेण बंधनं कृत्वा फले धौर्ते निवेशयेत् । गोमयैर्वेष्टितं तच्च करीषाग्नौ विपाचयेत् ॥ २.१४ ॥ लावकाख्ये पुटे सम्यक्क्रमवृद्ध्या शतं पुटेत् । मासत्रयप्रमाणेन पाचयेदन्नमध्यतः ॥ २.१५ ॥ पश्चात्पुटशतं दद्याच्छगणेनाथ पूर्ववत् । अनेनैव प्रकारेण बध्यते सूतकः सदा ॥ २.१६ ॥ दृष्टप्रत्यययोगोऽयं कथितः साधकाय वै । धारितोऽसौ मुखे सम्यक्वीर्यस्तंभकरः परम् । वंगस्तंभकरोऽप्येवं बद्धः सूतवरोऽप्यलम् ॥ २.१७ ॥ <मूलिकाबन्ध> शुद्धं सुजारिताभ्रं वै सूतकं च विमर्दयेत् । अर्कमूलरसेनैव वासरैकं प्रयत्नतः ॥ २.१८ ॥ वज्रमूषा ततः कार्या सुदृढा मसृणीकृता । अर्कमूलभवेनैव कल्केन परिलेपिता ॥ २.१९ ॥ मूषामध्ये रसं मुक्त्वा चान्धयेदन्यमूषया । यामार्धं ध्मापितः सम्यक्रसखोटः प्रजायते ॥ २.२० ॥ स्वांगशीतं परिज्ञाय रसखोटं समुद्धरेत् । वर्षमात्रं धृतो वक्त्रे वलीपलितनाशनः ॥ २.२१ ॥ सर्वसिद्धिकरोऽप्येष मूलिकाबद्धपारदः । मूलिकाबंधनं सत्यं कृतं नागार्जुनादिभिः ॥ २.२२ ॥ सर्वसिद्धिकरं श्रेष्ठं सर्वकार्यकरं सदा ॥ २.२३ ॥ <मूलिकाबन्ध (४)> शुद्धं रसवरं सम्यक्तथैवाम्बरभक्षितम् । जलकूम्भीरसैः पश्चान्मर्दयेद्दिनसप्तकम् ॥ २.२४ ॥ तस्याः प्रकल्पयेन्मूषां सूतकं तत्र निक्षिपेत् । अन्यस्यामन्धमूषायां सूतमूषां निरुन्धयेत् ॥ २.२५ ॥ पुटं तत्र प्रदातव्यमेकेनारण्यकेन च । पुटान्येवं प्रदेयानि एकैकोत्पलवृद्धितः ॥ २.२६ ॥ अनेनैव प्रकारेण पुटानि त्रीणि दापयेत् । बन्धमाप्नोति सूतेन्द्रः सत्यं गुरुवचो यथा ॥ २.२७ ॥ <मूलिकाबन्ध (५)> चूर्णीकृतानि सततं धूर्तबीजानि यत्नतः । सूतराजसमान्येवमूर्ध्वयन्त्रेण पातयेत् ॥ २.२८ ॥ एकविंशतिवाराणि ततः खल्वे निधापयेत् । इङ्गुदीपत्रनिर्यासे मर्दयेद्दिनसप्तकम् ॥ २.२९ ॥ भृंगराजरसेनैव विषखर्परकेन च । पाठारसेन संमर्द्य लज्जालुस्वरसेन वै ॥ २.३० ॥ त्र्यहं त्र्यहं च संमर्द्य बन्धमायाति निश्चितम् । दोलायंत्रेण संस्वेद्य सप्ताहं धूर्तजे रसे ॥ २.३१ ॥ विषमूषोदरे धृत्वा मांसे सूकरसंभवे । भर्जयेद्धूर्ततैलेन सप्ताहाज्जायते मुखम् ॥ २.३२ ॥ कठिनो वज्रसदृशो जायते नात्र संशयः । क्षीरं शोषयते नित्यं कौतुकार्थे न संशयः ॥ २.३३ ॥ वीर्यं वंगं स्तम्भयति सत्यं सत्यं न संशयः । प्रकाराः कथिताः पञ्च सूतराजस्य बंधने ॥ २.३४ ॥ <वज्रसत्त्वेन शतवेधी रसबन्धः (१)> वज्रबंधं द्वितीयं तु क्रमेणैव यथातथम् । रसशास्त्राणि बहुधा निरीक्ष्य प्रवदाम्यहम् ॥ २.३५ ॥ वज्रसत्वं तथा सूतं समांशं कारयेद्बुधः । रसपादसमं हेम त्रयमेकत्र मर्दयेत् ॥ २.३६ ॥ वंध्याकर्कोटिकामूल- रसेनैवाथ भावयेत् । तथा धूर्तरसेनापि चित्रकस्य रसेन वै ॥ २.३७ ॥ काम्बोजीरसकेनापि तथा नाडीरसेन वै । आसां नियामिकानां च रसं वस्त्रेण गालयेत् ॥ २.३८ ॥ सूर्यातपे दिनैकैकं क्रमेणानेन मर्दयेत् । अंधमूषागतं गोलं मुद्रयेद्दृढमुद्रया ॥ २.३९ ॥ लोहसंपुटके पश्चान्निक्षिप्तं मुद्रितं दृढम् । घटिकाद्वयमानेन ध्मापितं भस्त्रया खलु ॥ २.४० ॥ स्वांगशीतलकं ज्ञात्वा गृह्णीयातां च मूषिकाम् । उत्खन्योत्खन्य यत्नेन सूतभस्म समाहरेत् ॥ २.४१ ॥ काचटंकणयोगेन ध्मापितं तं च गोलकम् । वेधते शतवेधेन सूतको नात्र संशयः ॥ २.४२ ॥ वक्त्रस्थो निधनं हन्याद्देहलोहकरो भवेत् ॥ २.४३ ॥ <वज्रभस्मयोगेन रसबन्धः (७)> वज्रभस्म तथा सूतं समं कृत्वा तु मर्दयेत् । त्रिनेमिकावज्रवल्ली- सहदेवीरसेन च ॥ २.४४ ॥ स्नुहिक्षीरेण सप्ताहं सूर्यघर्मे सुतीव्रके । रसगोलं सुवृत्तं तु शुष्कं चैवाथ लेपयेत् ॥ २.४५ ॥ काकमाचीरसेनैव लांगलीस्वरसेन हि । गोजिह्विकारसेनैव सप्तवारं प्रलेपयेत् ॥ २.४६ ॥ वज्रमूषागतं गोलं मुद्रयेद्दृढमुद्रया । लोहसंपुटमूषायामन्धितं मध्यसंस्थितम् ॥ २.४७ ॥ सप्तमृत्कर्पटैः सम्यग्लेपितं सुदृढं कुरु । ध्मापितं दृढमंगारैस्तत्रस्थं शीतलीकृतम् ॥ २.४८ ॥ भित्त्वा मूषागतं सूतं खोटं नक्षत्रसन्निभम् । सर्वकार्यकरं शुभ्रं रञ्जितं वेधकृद्भवेत् ॥ २.४९ ॥ <अभ्रद्रुत्या रसबन्धः (८)> अभ्रकद्रुतिभिः सार्धं सूतकं च विमर्दयेत् । समांशेन शिलापृष्ठे यामत्रयमनारतम् ॥ २.५० ॥ कस्तूरीधनसाराभ्यां कृष्णागरुसमन्वितम् । शर्करालशुनाभ्यां च रामठेन च संयुतम् ॥ २.५१ ॥ पलाशबीजस्य तथा तत्प्रसूनरसेन हि । तीक्ष्णांशुनाथ मृदितं द्रुतिभिः सह सूतकम् ॥ २.५२ ॥ मिलत्येव न संदेहः किमन्यैर्बहुभाषितैः । ततो गुञ्जारसेनैव श्वेतवृश्चीवकस्य च ॥ २.५३ ॥ लांगल्याश्च रसैस्तावद्यावद्भवति बन्धनम् ॥ २.५४ ॥ ततः प्रकाशमूषायां पञ्चांगारैर्धमेत्क्षणम् । बन्धमायाति वेगेन यथा सूर्योदयेऽम्बुजम् ॥ २.५५ ॥ अभ्रद्रुतिसमायोगे रसेन्द्रो वध्यते खलु । शिवभक्तो भवेत्साक्षात्सत्यवाक्संयतेन्द्रियः ॥ २.५६ ॥ शिवयोर्मेलनं सम्यक्तस्य हस्ते भविष्यति । रसागमेषु यत्प्रोक्तं बंधनं पारदस्य च ॥ २.५७ ॥ कथितं तन्मया स्पष्टं नानुभूतं न चेष्टितम् ॥ २.५८ ॥ <वज्रद्रुत्या रसबन्धः (९)> वज्राणां ब्रह्मजातीनां द्रुतिर्वल्लप्रमाणिका । तोलकं शुद्धसूतं च मर्दयेत्कन्यकारसे ॥ २.५९ ॥ तावत्तं मर्दयेत्सम्यग्यावत्पिष्टी प्रजायते । कृत्वा मूषां समां शुद्धां दहनोपलनिर्मिताम् ॥ २.६० ॥ तन्मध्ये पिष्टिकां मुक्त्वा पिष्टीमानं विषं त्वहेः । पिधानं तादृशं कुर्यान्मुखं तेनाथ रुन्धयेत् ॥ २.६१ ॥ कांस्यभाजनमध्ये तु स्थापयेन्मूषिकां शुभाम् । भाजनानि च चत्वारि चतुर्दिक्षु गतानि च ॥ २.६२ ॥ चित्रं घर्मप्रसंगेन बन्धमायाति पारदः । यामात्खरातपे नित्यं शिवेनोक्तमतिस्फुटम् ॥ २.६३ ॥ वज्रद्रुतिसमायोगात्सूतो बन्धनकं व्रजेत् । सर्वेषां सूतबन्धानां श्रेष्ठं सत्यमुदीरितम् ॥ २.६४ ॥ <सुवर्णद्रुत्या रसबन्धः (१०)> अथेदानीं प्रवक्ष्यामि सूतराजस्य बन्धनम् । हेमद्रुतिं रसेन्द्रेण मर्दयेत्सप्तवासरान् ॥ २.६५ ॥ ज्वालामुखीरसेनैव धौतः पश्चाच्च कांजिकैः । प्रत्यहं क्षालयेद्रात्रौ रसेनोक्तेन वै दिवा ॥ २.६६ ॥ अंधमूषागतं पश्चान्मृदा कर्पटयोगतः । लेपयेत्सप्तवाराणि भूगर्ते गोलकं न्यसेत् ॥ २.६७ ॥ द्वादशांगुलविस्तीर्णं द्वादशांगुलनिम्नकम् । खातप्रमाणं कथितं गुरुमार्गेण च स्फुटम् ॥ २.६८ ॥ तत्रोपरि पुटं देयं गजाह्वं छगणेन च । यामद्वादशकेनैव बध्यते पारदः स्वयम् ॥ २.६९ ॥ हेमद्रुतौ बद्धरसो देहलोहप्रसाधकः । सर्वसिद्धिकरः श्रीमान् जरादारिद्र्यनाशनः ॥ २.७० ॥ <सुवर्णेन रसबन्धः> धातुबन्धस्तृतीयोऽसौ स्वहस्तेन कृतो मया । तदहं कथयिष्यामि साधकार्थे यथातथम् ॥ २.७१ ॥ भूर्जवत्सूक्ष्मपत्राणि कारयेत्कनकस्य च । तान्येव कोलमात्राणि पलमात्रं तु सूतकम् ॥ २.७२ ॥ मर्दयेन्निम्बुकद्रावैर्दिनमेकमनारतम् । ततस्तद्गोलकं कृत्वा खर्परोपरि विन्यसेत् ॥ २.७३ ॥ चुल्यामारोपणं कार्यं धान्याम्लेन निषिञ्चयेत् । पिष्टिस्तंभस्तु कर्तव्यो नियतं त्रिदिनावधि ॥ २.७४ ॥ ततो धूर्तरसेनैव स्वेदयेत्सप्तवासरान् । श्वेता पुनर्नवा चिंचा सहदेवी च नीलिका ॥ २.७५ ॥ तथा धूर्तवधूश्चैव लांगली सुरदालिका । सूतबन्धकरा श्रेष्ठा प्रोक्ता नागार्जुनादिभिः ॥ २.७६ ॥ एतासां स्वरसैः पङ्कैर्लेपयेत्सूतगोलकम् । त्रिगुणैर्भूर्जपत्रैस्तु वेष्टयेत्तदनंतरम् ॥ २.७७ ॥ वस्त्रेण पोटलीं बद्ध्वा स्वेदयेन्निंबुकद्रवैः । यामत्रयं प्रयत्नेन धौतः पश्चाद्गवां जलैः ॥ २.७८ ॥ ततो धूर्तफलान्तस्थं पाचयेद्बहुभिः पुटैः । लावकाख्यैः सुमतिमान् शोभनः सूर्यकान्तिवत् । जायते नात्र संदेहो बद्धः शिवसमो भवेत् ॥ २.७९ ॥ <रौप्येण रसबन्धः> अष्टमांशेन रूप्येन सूतकं हि प्रमर्दयेत् । चांगेरीस्वरसेनैव पिष्टिकां कारयेद्बुधः ॥ २.८० ॥ खोटं बद्ध्वा तु विपचेत्धूर्ततैले त्रिवासरान् । तथा च कंगुणीतैले करवीरजटोद्भवे ॥ २.८१ ॥ जातीफलोद्भवेनापि वत्सनागोद्भवेन च । भृंग्युद्भवेन च तथा समुद्रशोषकस्य वै ॥ २.८२ ॥ देवदारुभवेनापि पाचयेन्मतिमान् भिषक् । पश्चात्सुतीक्ष्णमदिरा दातव्या तु तुषाग्निना ॥ २.८३ ॥ दिनानि सप्तसंख्यानि मुखमुत्पद्यते ध्रुवम् । शुक्रस्तम्भकरः सम्यक्क्षीरं पिबति नान्यथा ॥ २.८४ ॥ <तुत्थेन तुत्थोत्थताम्रेण रसबन्धः> लोहपात्रे सुविस्तीर्णे तुत्थकस्यालवालकम् । अष्टसंस्कारितं सूतं तस्मिन्निक्षिप्य मात्रया ॥ २.८५ ॥ तुत्थचूर्णेन संछाद्य पूरयेन्निम्बुकद्रवैः । पिधानेन मुखं रुद्ध्वा लोहपात्रस्य यत्नतः ॥ २.८६ ॥ निर्वाते निर्जने देशे त्रिदिनं स्थापयेत्ततः । उष्णकांजिकयोगेन क्षालयेद्बहुशो भिषक् ॥ २.८७ ॥ नवनीतसमो वर्णः सूतकस्यापि दृश्यते । रसखोटं ततो बद्ध्वा स्वेदयेत्कांजिकैस्त्र्यहम् ॥ २.८८ ॥ अश्मचूर्णस्य कणिकाम्- अध्ये खोटं निधाय च । जलसेकः प्रकर्तव्यः शीतीभूतं समुद्धरेत् ॥ २.८९ ॥ अनेनैव प्रकारेण त्रिवारं पाचयेद्ध्रुवम् । कठिनत्वं प्रयात्येव सत्यं गुरुवचो यथा ॥ २.९० ॥ ततो धूर्तफलानां हि सहस्रेणापि पाचयेत् । मुखमुत्पद्यते सम्यक्वीर्यस्तंभकरोऽप्ययम् ॥ २.९१ ॥ <धातुबीजेन रसबन्धः> वंगतीक्ष्णे समे कृत्वा ध्मापयेद्वज्रमूषया । वङ्गमुत्तारयेत्सम्यक्तीव्राङ्गारैः प्रयत्नतः ॥ २.९२ ॥ अनेनैव प्रकारेण त्रिगुणं वाहयेत्त्रपु । बीजं शाणप्रमाणं हि सूतं पलमितं भवेत् ॥ २.९३ ॥ मर्दयेत्कन्यकाद्रावैर्दिनमेकं विशोषयेत् । गोलस्य स्वेदनं कार्यमहोभिः सप्तभिस्तथा ॥ २.९४ ॥ त्रिफलाक्वाथमध्ये तु त्रियामं स्वेदयेत्सुधीः । कुमार्याः स्वरसेनैव भृंगराजरसेन हि ॥ २.९५ ॥ भृंगीरसेन च तथा त्रिदिनं स्वेद्यमेव हि । एकैकेनौषधेनैवं काचकूप्यां निवेशयेत् ॥ २.९६ ॥ खटीपटुशिवाभक्तं पिष्ट्वा वक्त्रं निरुन्धयेत् । खातं त्रिहस्तमात्रं स्याल्लद्दीपूर्णं तु कारयेत् ॥ २.९७ ॥ मध्ये तु काचघटिकां सुरापूर्णां निवेशयेत् । भूमिस्थां मासयुग्मेन पश्चादेनां समुद्धरेत् ॥ २.९८ ॥ बद्धं सूतवरं ग्राह्यं शुभ्रं चंद्रप्रभानिभम् । मुखस्थं कुरुते सम्यक्दृढवज्रसमं वपुः ॥ २.९९ ॥ कामिनीनां शतं गच्छेद्वलीपलितवर्जितः । देवीशास्त्रानुसारेण धातुबद्धरसोऽप्ययम् ॥ २.१०० ॥ प्रकाशितो मया सम्यक्नात्र कार्या विचारणा ॥ २.१०१ ॥ <कान्तलोहेन रसबन्धः> रसेंद्रः कान्तलोहं च तीक्ष्णलोहं तथैव च । अभ्रसत्वं तथा ताप्य- सत्वं हेमसमन्वितम् ॥ २.१०२ ॥ समांशानि च सर्वाणि मर्दयेन्निम्बुकद्रवैः । निषेचयेदेकदिनं पश्चाद्गोलं तु कारयेत् ॥ २.१०३ ॥ पक्वमूषा प्रकर्तव्या गोलं गर्भे निवेशयेत् । गोजिह्वा काकमाची च निर्गुंडी दुग्धिका तथा ॥ २.१०४ ॥ कुमारी मेघनादा च मधुसैंधवसंयुता । एतासां स्वरसेनैव स्वेदयेद्बहुशो भिषक् ॥ २.१०५ ॥ यावद्दृढत्वमायाति तावत्स्वेद्यं तु गोलकम् । वक्त्रे धृतं जरामृत्युं निहन्ति च न संशयः ॥ २.१०६ ॥ सर्वरोगान्निहत्याशु वयः स्तम्भयते ध्रुवम् । कर्णे कण्ठे तथा हस्ते धारिता मस्तकेऽपि वा । अभिचारादिदोषाश्च न भवन्ति कदाचन ॥ २.१०७ ॥ चतुर्विधान्येव तु बन्धनानि श्रीसूतराजस्य मयोदितानि । कुर्वन्ति ये तत्त्वविदो भिषग्वरा राज्ञां गृहे तेऽपि भवन्ति पूज्याः ॥ २.१०८ ॥ इति परमरहस्यं सूतराजस्य चोक्तं रसनिगममहाब्धेर्लब्धमेतत्सुरत्नम् । सकलगुणवरिष्ठा वादिनः कौतुकज्ञा निजहृदि च सुकण्ठे धारयिष्यन्ति तज्ज्ञाः ॥ २.१०९ ॥ ____________________________________________________________ अध्याय ३ अथ मया रसभस्म निगद्यते सकलपारदशास्त्रनियोगतः । ससितकृष्णसुपीतकलोहितं भवति वर्णचतुष्टयभूषितम् ॥ ३.१ ॥ <मेर्चुर्य्:: प्रोदुच्तिओन् fरों दरद> हंसपाकदरदः सुशोभितो निखिलनिम्बरसेन विमर्दितः । नियतयामचतुष्टयमम्लके घनरसे समभागविलोडितः ॥ ३.२ ॥ डमरुकाभिधयंत्रनिवेशितस्तदनु लोहरजः खटिकासमम् । सुपयसा लवणेन विमर्दितं कुरु भिषग्वर यन्त्रसुरोधनम् ॥ ३.३ ॥ नियतयामचतुष्टयवह्निना मृदु समं रसमत्र विपाचयेत् । उपरि तत्र जलेन निषिञ्चयेदिति भवेद्दरदाद्वरसूतकः ॥ ३.४ ॥ अखिलशोधवरेण च वै यथा सकलकञ्चुकदोषविवर्जितः । बहुलदोषहरोऽपि भवेत्तथा भवति शुद्धतमो दरदोद्भवः ॥ ३.५ ॥ <मेर्चुर्य्:: मेदिच्. उसे (रसकर्पूर?)> विमलसूतवरो हि पलाष्टकं तदनु धातुखटीपटुकांक्षिकाः । पृथगिमाश्च चतुष्पलभागिकाः स्फटिकशुद्धपलाष्टकसंमिताः ॥ ३.६ ॥ सह जलेन विमृद्य च यामकं लवणकाम्लजलेन विमिश्रिताः । उदितधातुगणस्य च मूषिकां कुरु विषं विनिवेशय तत्र वै ॥ ३.७ ॥ डमरूकाभिधयंत्रवरेण तं द्विदशयामममुं पच वह्निना । पवनपित्तकफक्षयहारकः सकलरोगहरः परमः सदा ॥ ३.८ ॥ गजपतेर्बलवद्बलदो नृणां द्विजपतीक्षणवन्नयनप्रदः । युवतिकामविलासविधायको भवति सूतवरः सुखदः सदा । सघनसाररसः किल कान्तिदस्त्वखिलकुष्ठहरः कथितो मया ॥ ३.९ ॥ <मेर्चुर्य्:: अरुणभस्मन्> विगतदोषकृतौ रसगंधकौ तदनु लुङ्गरसेन परिप्लुतौ । प्रहरयुग्ममितं च शिलातले रविकरेण विमर्द्य विचूर्णितौ ॥ ३.१० ॥ रुचिरकाचघटीविनिवेशितौ सिकतयंत्रवरेण दिनत्रयम् । कुरु भिषग्वर वह्निमधस्ततः स च भवेदरुणः कमलच्छविः ॥ ३.११ ॥ उदयभास्करनामरसो ह्ययं भवति रोगविघातकरः स्वयम् । मगधजामधुना सह गुञ्जिका- त्रयमितश्च सदा परिसेवितः ॥ ३.१२ ॥ ललितकामविधावभिलाषुकः स्थविरकोऽपि रतौ तरुणायते । गदहरो बलदोऽपि हि वर्णदो भवति कर्मविपाकजरोगहा । सकलसूतकशास्त्रविमर्शनाद्द्विजवरेण मया प्रकटीकृतः ॥ ३.१३ ॥ <मेर्चुर्य्:: रेद्भस्मन्> रसविदापि रसः परिशोधितो विगतदोषकृतोऽपि हि गंधकः । विमललोहमये कृतखर्परे ह्यमलसाररजः परिमुच्यताम् ॥ ३.१४ ॥ अतिकुशाग्नियुते द्रवति स्वयं तदनु तत्र रसः परिमुच्यताम् । विशदलोहमयेन च दर्विणा विघटयेत्प्रहरत्रयसंमितम् ॥ ३.१५ ॥ तदनु काचघटीं विनिवेश्य वै सिकतयन्त्रवरेण हि पाचितः । द्विदशयाममधःकृतवह्निना भवति रक्तरसस्तलभस्मसात् ॥ ३.१६ ॥ गतबलेन नरेण सुसेवितो भवति वाजिकरः सुखदः सदा ॥ ३.१७ ॥ स च वलीपलितानि विनाशयेच्छतशरत्सु निरामयकृत्परम् ॥ ३.१८ ॥ <मेर्चुर्य्:: रेद्भस्मन्> विमलनागवरैकविभागिकं हरजभागचतुष्टयमिश्रितम् । सततमेव विमर्द्य शिलातले बलिवसां च समां कुरु तद्भिषक् ॥ ३.१९ ॥ दिनमितं सुविमर्द्य च कन्यका- स्वरस ऐनकरेण विशोषयेत् । तदनु सूतवरस्य तु कज्जलीं रुचिरकाचघटे विनिवेशय ॥ ३.२० ॥ दिवसयुग्ममधः कृतवह्निना स च भवेदरुणः कमलच्छविः । सकलरोगविनाशनवह्निकृत्बलकरः परमोऽपि हि कान्तिकृत् ॥ ३.२१ ॥ नयनरोगविनाशकरो भवेत्सकलकामुकविभ्रमकारकः । स खलु कर्मविपाकजरोगहा विशदनागयुतः खलु पारदः ॥ ३.२२ ॥ <मेर्चुर्य्:: जारण wइथ्सुल्fउर्> मृदुमृदा रचिता मसृणेष्टिका उपरि गर्तवरेण च संयुता । रसवरं दशशाणमितं हि तत्सशुकपिच्छवरेण निधापयेत् ॥ ३.२३ ॥ सकलपूर्णकृतं च सुगर्तकं गलितनिम्बुफलोद्भवकेन वै । स्थगय तं च पिधानवरेण वै मृदितया सुमृदा परिमुद्रितम् ॥ ३.२४ ॥ तदनु कुक्कुटानां पुटे शृतो हुपलकेन वनोद्भवकेन वै । विधिविदा भिषजा ह्यमुना कृतो विमलषड्गुणगन्धकमश्नुते ॥ ३.२५ ॥ स च शरीरकरोऽप्यथ लोहकृत्सकलसिद्धिकरः परमो भवेत् । शतगुणं हि यदा परिजीर्यते रसवरः खलु हेमकरो भवेत् ॥ ३.२६ ॥ <मेर्चुर्य्:: रसपोट्टली> सशुकपिच्छसमोऽपि हि पारदो भवति खल्वतलेन च कुट्टितः । दृढतरामुपकल्पय पर्पटीं वसनबद्धकृतामपि पोटलीम् ॥ ३.२७ ॥ उपरि नागरसेन विलेपिता रविकरेण सदा परिशोषिताम् । कनकपत्ररसेन च सप्तधाप्यवनिगर्ततले विनिवेशय ॥ ३.२८ ॥ अवनिगर्तमरत्निकमायतं द्विदशमङ्गुलमेव सुनिम्नकम् । सिकतया परिपूर्य तदर्धकं तदनु तत्र निवेशय पोट्टलीम् ॥ ३.२९ ॥ उपरि वालुकया परिपूर्य तच्छगणकैश्च पुटं परिदीयताम् । द्विदशयाममथाग्निमहो कुरु भवति तेन महारसपोटली । इति मया कथिता रसपोटली बलकरा सुकरा सुखसिद्धिदा ॥ ३.३० ॥ <मेर्चुर्य्:: मारण> विशदसूतसमोऽपि हि गंधकस्तदनु खल्वतले सुविमर्दितः । त्रिदिनमेव हि हंसपदीरसे दिनकरस्य करेण सुशोषितः ॥ ३.३१ ॥ विमललोहमये दृढखर्परे तदनु कज्जलिकां प्रतिमुच्य वै । करमिता सुकृतापि हि चुह्लिका ह्युपरि तत्र निवेशय च भाजनं ॥ ३.३२ ॥ अमललोहमयेन च दर्विणा रसवरं नियतं परिमर्दयेत् । तदनु वह्निमधः कुरु वै दृढं सततमेव हि यामचतुष्टयम् ॥ ३.३३ ॥ सुपच एष रसो जलदोपमो भवति वल्लमितो मधुना युतः । कवलितः क्षयरोगगणापहो मदनवृद्धिकरः परमो नृणाम् ॥ ३.३४ ॥ स च वलीपलितानि विनाशयेत्सकलकुष्ठविनाशकरः परः ॥ ३.३५ ॥ <मेर्चुर्य्:: मारण> मृदुमृदा परिकल्पितमूषिकां रसमिताङ्गुलिकां भुवि संन्यसेत् । रसवरं विमलं च सुशोभितं सशुकपिच्छसमं परिमर्दितम् ॥ ३.३६ ॥ रससमानमितं धृतमूषया द्वितययुग्मकृतं परिमुद्रितम् । कनकमूलरसेन च पाचितं तदनु सप्तदिनं कृशवह्निना ॥ ३.३७ ॥ रसवरस्य शुभं हि विपाचनं यवमितो रसराजवरस्तदा । दिनमुखे प्रतिहन्ति सुभक्षितः सकलदोषकृतां विकृतिं जयेत् ॥ ३.३८ ॥ <रसपर्पटी> रसवरं पलयुग्ममितं शुभं रुचिरताम्रमयः समभागिकम् । बलिवसां च घृतेन विमर्दयेदतिकृशाग्निकृते द्रवति स्वयम् ॥ ३.३९ ॥ तदनु ताम्ररसौ विनिवेश्यतां त्रयमिदं सरसं च विमर्दितम् । द्रुतमयं च सदायसभाजने तदनु सूतकृतां वरकज्जलीम् ॥ ३.४० ॥ विघटयेदथ लोहसुदर्विणा तदनु मोचदलोपरि ढाल्यते । भवति सारतमा रसपर्पटी सकलरोगविघातकरी हि सा ॥ ३.४१ ॥ कुरु समानकटुत्रयसंयुतां मरिचयुग्ममितां सुखदां सदा ॥ ३.४२ ॥ अनुपाने प्रयोक्तव्या त्रिफलाक्षौद्रसंयुता । पर्पटीं भक्षयेत्प्रातस्तथा त्र्यूषणसंयुताम् ॥ ३.४३ ॥ सन्निपातहरा सा तु पञ्चकोलेन संयुता । भक्षिता मधुना सार्धं सर्वज्वरविनाशिनी ॥ ३.४४ ॥ कणाक्षौद्रेण सहिता सर्वशोफान्निकृन्तति । श्यामात्रिकटुकेनापि वातजां ग्रहणीं जयेत् ॥ ३.४५ ॥ गुग्गुलुत्रिफलासार्धं वातरक्तं विनाशयेत् । वातशूलहरा सम्यखिंगुपुष्करसंयुता ॥ ३.४६ ॥ व्योषैः कन्यारसैर्वापि कफामयविनाशिनी । दशमूलशृतेनापि वातज्वरनिबर्हणी ॥ ३.४७ ॥ वाकुचीबीजकल्केन कण्डूपामे विनाशयेत् । आरुष्करेण सहिता सा तु सिध्मविनाशिनी ॥ ३.४८ ॥ गोमूत्रेणानुपानेन चार्शोरोगविनाशिनी । नवमाल्यर्जुनश्चैव चित्रको भृङ्गराजकः ॥ ३.४९ ॥ शाल्मली निम्बपंचांगं कल्हारश्च गुडूचिका । निर्गुंडी च समांशानि कारयेद्भिषगुत्तमः ॥ ३.५० ॥ चूर्णीकृत्य च तत्सर्वं पर्पट्याश्चानुपानकम् । अष्टादश च कुष्ठानि निहन्त्येव न संशयः ॥ ३.५१ ॥ पर्पटी रसराजश्च रोगान्हन्त्यनुपानतः । अपथ्यं नैव भुञ्जीयाद्दोषदूष्याद्यपेक्षया ॥ ३.५२ ॥ <रसपर्पटी> शुद्धं रसं गंधकमेव शुद्धं पृथक्समांशं कुरु यत्नतस्ततः । एरंडमूलस्य रसेन सूतं तथाद्रिकर्ण्या स्वरसेन मर्दयेत् ॥ ३.५३ ॥ तं काकमाच्याः स्वरसेन पिष्ट्वा तथा च तं दाडिमबीजतोयैः । क्रमेण सूतं हि दिनैश्चतुर्भिः शुद्धत्वमायाति हि निश्चयेन ॥ ३.५४ ॥ ततस्तु गंधं खलु मार्कवद्रवैर्विभाव्यमानं कुरु लोहपात्रे । प्रद्रावयेत्तं बदरस्य चाग्निना प्रढालयेद्भृंगरसे त्रिवारम् ॥ ३.५५ ॥ कार्या ततः कज्जलिका विमर्द्य तां द्रावयेल्लोहमये सुपात्रे । प्रढालयेत्तां कदलीदले हि संछाद्य चान्येन दलेन पश्चात् ॥ ३.५६ ॥ तस्यास्त्वधोर्ध्वं प्रददीत गोमयं शीतीकृता गव्यघृतेन भर्जिता । रोगानशेषान्मलदोषजातान् हिनस्ति चैषा रसपर्पटी हि ॥ ३.५७ ॥ सा जीरकेणैव तु रामठेन वातामशूलं गृहणीं सकामलाम् । गुल्मानि चाष्टावुदराणि हन्यात्संसेविता शुद्धरसस्य पर्पटी ॥ ३.५८ ॥ मयापि सद्वैद्यहिताय नूनं प्रदर्शितेयं खलु रोगनाशिनी ॥ ३.५९ ॥ <मेर्चुर्य्:: मारण> सूतं सुशुद्धं लवणैश्चतुर्भिः क्षारैस्त्रिभिश्चापि विमर्दयेच्च । संशोष्य पश्चादपि हिंगुराजिका- शुंठीभिरेभिश्च समं विमर्द्य ॥ ३.६० ॥ रसेन सार्धं हि कुमारिकाया मूषां विदध्याद्रविघर्मशोषिताम् । तस्यां निधायाथ रसस्य गोलकं तं स्वेदितं चाम्लरसेन सम्यक् ॥ ३.६१ ॥ यामाष्टकेनाग्निकृतेन दोलया पश्चाद्रसेनाभिविमर्दितोऽसौ । भेकपर्ण्युरुवुभृंगराजकैः शृङ्गवेरगिरिकर्णिकारसैः ॥ ३.६२ ॥ काकमाचिजविभक्तिकाजलैर्धूर्तजैरपि जयन्तिकाद्रवैः । सिंधुवारकरसेन मर्दितं मसृणखल्वतले त्रिवासरम् ॥ ३.६३ ॥ प्रतिरसं च विशोष्य हि भक्षयेद्रक्तिकाद्वयमितं रुजापहम् । केकिमाहिषवराहपित्तकैः कच्छपस्य च रसेन मर्दितम् । जायतेऽधिकतरं गुणेन वै सन्निपातभवमूर्च्छनं जयेत् ॥ ३.६४ ॥ यः श्रीसूतवरस्य सेवनमिदं नित्यं करोतीह वै दीर्घायुर्धनधान्यधर्मसहितः प्राप्नोति सौख्यं परम् । लोके कीर्तिपरंपरां वितनुते धर्मे मतिर्जायते प्रान्ते तस्य परा गतिर्हि नियतं सत्यं शिवेनोदितम् ॥ ३.६५ ॥ ____________________________________________________________ अध्याय ४ अथेदानीं प्रवक्ष्यामि धातुशोधनमारणम् । अनुभूतं मया किंचित्किंचित्शास्त्रानुसारतः ॥ ४.१ ॥ <अष्टधातवः> सुवर्णं रजतं चेति शुद्धलोहमुदीरितम् । ताम्रं चैवाश्मसारं च नागवंगौ तथैव ॥ ४.२ ॥ पूतिलोहं निगदितं द्वितीयं रसवेदिना । संमिश्रलोहं त्रितयं सौराष्ट्ररीतिवर्तकम् । एतेऽष्टौ धातवो ज्ञेया लोहान्येवं भवन्ति हि ॥ ४.३ ॥ <सुवर्णभेदाः> सुवर्णं द्विविधं ज्ञेयं रसजं खनिसंभवम् । अन्ये त्रयः सुवर्णस्य प्रकाराः सन्ति नोदिताः ॥ ४.४ ॥ <गोल्द्:: रसज> रसजं रसवेधेन जायते हेम सुन्दरं । तच्चतुर्दशवर्णाढ्यं सर्वकार्यकरं परम् ॥ ४.५ ॥ <खनिज:: ओरिगिन्> पर्वते भूमिदेशेषु खन्यमानेषु कुत्रचित् । दृश्यते खनिजं प्राज्ञैस्तच्चतुर्दशवर्णकम् ॥ ४.६ ॥ <गोल्द्:: शोधन> रूप्यादियोगेन यदा मिश्रं स्वर्णं हि जायते । हेमकार्यं न चेत्तेन तदा शोध्यं भिषग्वरैः ॥ ४.७ ॥ हीनवर्णस्य हेम्नश्च पत्राण्येव तु कारयेत् । खटिकापटुचूर्णं च कांजिकेन प्रमर्दयेत् ॥ ४.८ ॥ पत्राणि लेपयेत्तेन कल्केनाथ प्रयत्नतः । आरण्योत्पलकैः कार्या कोष्ठिका नातिविस्तृता ॥ ४.९ ॥ मध्ये तत्संपुटं मुक्त्वा वह्निं प्रज्वालयेत्ततः । एवं पुटत्रयं दत्त्वा शुद्धं हेम समुद्धरेत् ॥ ४.१० ॥ न तु शुद्धस्य हेम्नश्च शोधनं कारयेद्भिषक् । अन्येषामेव लोहानां शोधनं कारयेद्भिषक् ॥ ४.११ ॥ <गोल्द्:: मारण:: निरुत्थ> ततः स्वर्णभवं पत्रं तापितं हि विनिक्षिपेत् । ज्वालामुखीरसे षष्ठी- पुटैर्भस्मीभवत्यलम् ॥ ४.१२ ॥ गुरुणा कथितं सम्यक्निरुत्थं जायते ध्रुवम् । रोगान्हिनस्ति सकलान्नात्र कार्या विचारणा ॥ ४.१३ ॥ <गोल्द्:: मारण:: निरुत्थ> हेम्नः पत्राणि सूक्ष्माणि सूचिवेध्यानि कारयेत् । पुराम्बुभस्मसूतेन लेपयित्वाथ शोषयेत् ॥ ४.१४ ॥ संपुटे च ततो रुन्ध्यात्पुटयेद्दशभिः पुटैः । म्रियते नात्र संदेहो निरुत्थं भस्म जायते ॥ ४.१५ ॥ <गोल्द्:: मारण> हेम्नः सूक्ष्मदलानि भूर्जसदृशान्यादाय संलेप्य वै वज्रीदुग्धकहिङ्गुहिङ्गुलसमैरेकत्र पिष्टीकृतैः । सत्यं संपुटके निधाय दशभिश्चैवं पुटैः कुक्कुटैः पाच्यं हेम च रक्तगैरिकसमं संजायते निश्चितम् ॥ ४.१७ ॥ <गोल्द्:: मारण> लोहपर्पटीकाबद्धं मृतं सूतं समांशकम् । विद्रुते हेम्नि निक्षिप्तं स्वर्णभूतिप्रभं भवेत् ॥ ४.१७ ॥ तद्भस्म पुरतोयेन दरदेन समन्वितम् । मर्दयेद्दिनमेकं तु संपुटे धारयेत्ततः ॥ ४.१८ ॥ पुटितं दशवारेण स्वर्णं सिंदूरसन्निभम् । जायते नात्र संदेहो रंजनं कुरुते ध्रुवम् । देहं लोहं च मतिमान् सुधनी साधयेदिदम् ॥ ४.१९ ॥ <गोल्द्:: मृत:: मेदिच्. प्रोपेर्तिएस्> एतत्स्वर्णभवं करोतिच रजः सौन्दर्यतां वै सदा रोगान्दैवकृतान्निहन्ति सकलान्येवं त्रिदोषोद्भवान् । यः सेवेत नरः समान् द्विदशकान् वृद्धश्च नो जायते दोषाश्चैव गरोद्भवा विषकृता आगन्तुजा नैव हि ॥ ४.२० ॥ <सिल्वेर्:: सुब्त्य्पेस्> रूप्यं च त्रिविधं प्रोक्तं खनिजं सहजं तथा । कृत्रिमं च त्रयो भेदाः कथिताः पूर्वसूरिभिः ॥ ४.२१ ॥ <सिल्वेर्:: खनिज> भूधरे कुत्र चेत्प्राप्तं खन्यमाने च खनिजम् । <सिल्वेर्:: सहज> कैलासशिखराज्जातं सहजं तदुदीरितम् ॥ ४.२२ ॥ <सिल्वेर्:: कृत्रिम> रसवेधेन यज्जातं वङ्गात्तत्कृत्रिमं मतम् । <सिल्वेर्:: शुद्ध:: परीक्षा> यद्रूप्यं वह्निना तप्तमुज्ज्वलं हि विनिःसरेत् । तच्छुद्धं कलधूतं हि सर्वकार्यकरं परम् ॥ ४.२३ ॥ <सिल्वेर्:: शोधन> ताम्रादिसंसर्गभवं त्वशुद्धं रूप्यं हि मिश्रं खलु दोषलं च । तच्छोधयेद्वै भसितस्य मूष्यां सीसेन सार्धं रजतं तु ध्मापयेत् ॥ ४.२४ ॥ ताराच्च षड्गुणं नागं ध्मापयेद्यत्नतः सुधीः । शनैर्विधम्यमानं हि दोषशून्यं प्रजायते ॥ ४.२५ ॥ अनेनैव प्रकारेण शोधयेद्रजतं सदा । सर्वकार्ये प्रयोक्तव्यं सर्वसिद्धिविधायकम् ॥ ४.२६ ॥ <सिल्वेर्:: मारण> भागमेकं तु रजतं सूतभागचतुष्टयम् । मर्दयेद्दिनमेकं तु सततं निम्बुवारिणा ॥ ४.२७ ॥ पेषणाज्जायते पिष्टीर्दिनैकेन तु निश्चितम् । मूषामध्ये तु तां मुक्त्वा अधोर्ध्वं गंधकं न्यसेत् ॥ ४.२८ ॥ वालुकायंत्रमध्यस्थां दिनैकं तु दृढाग्निना । पाचितां तु प्रयत्नेन स्वांगशीतलतां गताम् ॥ ४.२९ ॥ तालेनाम्लेन सहितां मर्दितां हि शिलातले । ततो द्वादशवाराणि पुटान्यत्र प्रदापयेत् ॥ ४.३० ॥ अनेन विधिना सम्यक्रजतं म्रियते ध्रुवम् । <सिल्वेर्:: मारण> तारमाक्षिकयोश्चूर्णमम्लेन सह मर्दयेत् ॥ ४.३१ ॥ विंशत्पुटेन तत्तारं भूतीभवति निश्चितम् । <रेपेअतेद्मारण> पुटाधिक्यं हि लोहानां सम्यक्स्याद्गुणकारि च । रंजनं कुरुतेऽत्यर्थं रक्तं श्वेतत्वमादिशेत् ॥ ४.३२ ॥ <सिल्वेर्:: मृत:: मेदिच्. प्रोपेर्तिएस्> शुद्धं भस्मीकृतं रूप्यं सारघाज्यसमन्वितम् । नेत्ररोगानपि सदा क्षवजान्गुदजानपि ॥ ४.३३ ॥ पित्तजान् काससम्भूतान् पाण्डुजानुदराणि च । दोषजानपि सर्वांश्च नाशयेदरुचिं सदा ॥ ४.३४ ॥ <चोप्पेर्:: सुब्त्य्पेस्> ताम्रं चापि द्विधा प्रोक्तं नेपालं म्लेच्छदेशजम् । नेपालदेशजादन्यन्म्लेच्छं तत्कथितं बुधैः ॥ ४.३५ ॥ <चोप्पेर्:: शोधन> सीसकेन समं ताम्रं रजतेनैव शोधयेत् । पश्चान्मारणकं सम्यक्कर्तव्यं रसवादिना ॥ ४.३६ ॥ <चोप्पेर्:: मारणम्> कृत्वा ताम्रस्य पत्राणि कन्यापत्रे निवेशयेत् । कुक्कुटाख्ये पुटे सम्यक्पुटयेत्तदनंतरम् ॥ ४.३७ ॥ सूतगंधकयोः पिष्टिः कार्या चातिमनोरमा । विमर्द्य निम्बुतोयेन तानि पत्राणि लेपयेत् ॥ ४.३८ ॥ स्थालीमध्ये निरुन्ध्याथ पचेद्यामचतुष्टयम् । पञ्चदोषविनिर्मुक्तं शुल्बं तेनैव जायते ॥ ४.३९ ॥ <चोप्पेर्:: मारण> रवितुल्येन बलिना सूतकेन समेन च । तालकेन तदर्धेन शिलया च तदर्धया ॥ ४.४० ॥ चूर्णं कज्जलसंकाशं कारयेन्मतिमान् भिषक् ॥ ४.४१ ॥ शरावसंपुटस्यान्तः पत्राण्याधाय यत्नतः । उपर्युपरि पत्राणि कज्जलीं च निधापयेत् ॥ ४.४२ ॥ यामैकं पाचयेदग्नौ गर्भयन्त्रोदरान्तरे । स्वांगशीतं समुत्तार्य खल्वे सूक्ष्मं प्रचूर्णयेत् ॥ ४.४३ ॥ लेहयेन्मधुसंयुक्तमनुपानैर्यथोचितैः । <चोप्पेर्:: मारण (?)।सोमनाथ (?)> शुद्धताम्रस्य पत्राणि कर्तव्यानि प्रयत्नतः ॥ ४.४४ ॥ तत्समांशस्य गंधस्य पारदस्य समस्य च ॥ ४.४५ ॥ तालकस्य तदर्धस्य शिलायाश्च तदर्धतः । लांगलीचित्रकव्योष- तालमूलीकरञ्जकैः ॥ ४.४६ ॥ विषशम्याकातिविषा- सैंधवैश्च समांशकैः । जंबीरस्य द्रवेणाथ चूर्णं चातिद्रवीकृतम् ॥ ४.४७ ॥ तत्सर्वं हि शिलाभाण्डे विनिधाय प्रयत्नतः । सूचीवेध्यानि पत्राणि रसेनालेपितानि च ॥ ४.४८ ॥ कल्कमध्ये विनिःक्षिप्य दिनसप्तकमेव हि । चूर्णीकृतं तु मध्वाज्यैः कणाद्वयसमन्वितम् ॥ ४.४९ ॥ लेहितं वल्लमात्रं हि जरामृत्युविनाशनम् । कथितं सोमदेवेन सोमनाथाभिधं शुभम् ॥ ४.५० ॥ <चोप्पेर्:: मारण> शुद्धं शुल्वं गंधकं वै समांशं पूर्वं स्थाल्यां स्थापयेद्गंधकार्धम् । मध्ये शुल्बं स्थापनीयं प्रयत्नात्तस्योर्ध्वं वै गंधचूर्णस्य चार्धम् ॥ ४.५१ ॥ स्थालीमुखे चूर्णघटीं निवेश्य लेपं तथा सैन्धवमृत्स्नयापि । चुल्ल्यां च कुर्यादथ वह्निमेव यामत्रयेणैव सुपाचितं भवेत् ॥ ४.५२ ॥ शीतीभूतं दोषहीनं तदेव कृत्वा चूर्णं गालितं वस्त्रखण्डे । सेव्यं सम्यक्चैकवल्लप्रमाणं कासं श्वासं हन्ति गुल्मप्रमेहान् ॥ ४.५३ ॥ <चोप्पेर्:: मृत:: मेदिच्. उसे> वल्लमेकं ताम्रभस्म पूर्वाह्णे भिषजाज्ञया । परिणामभवं शूलं तथा चाष्टविधं च रुक् ॥ ४.५३* ॥ उदरं पाण्डुशोफं च गुल्मप्लीहयकृत्क्षयान् । अग्निसादक्षयकृतान्मेहादीन् ग्रहणीगदान् ॥ ४.५४ ॥ जयेद्बहुविधान् रोगाननुपानप्रभेदतः । पिप्पलीमधुना सार्धं सर्वदोषहरं परम् ॥ ४.५५ ॥ अर्शोऽजीर्णज्वरादींश्च निहन्ति च रसायनम् । वृद्धिश्वसनकासघ्नं जरामृत्युविनाशनम् ॥ ४.५६ ॥ <इरोन्:: सुब्त्य्पेस्> यथोत्तरं स्याद्गुणवर्णहीनं प्रकाशितं वैद्यवरेण सम्यक् । कांतं तथा तीक्ष्णवरं हि मुण्डं लोहं भवेद्वै त्रिविधं क्रमेण ॥ ४.५७ ॥ <कान्त:: सुब्त्य्पेस्> कांतं चतुर्धा किल कथ्यतेऽत्र तद्रोमकं भ्रामकचुम्बके च । संद्रावकं श्रेष्ठतमं तथा हि संकथ्यते शास्त्रविदै रसज्ञैः ॥ ४.५८ ॥ <रोमकम्> खन्यां संखन्यमानायां पाषाणा निःसरन्ति ये । तेभ्यो यद्द्रावितं लोहं रोमकं तत्प्रचक्षते ॥ ४.५९ ॥ <भ्रामकम्> यत्र क्वापि गिरौ श्रेष्ठे लभ्यते भ्रामकोपलः । तस्माज्जातं तु यल्लौहं भ्रामकं तदिहोच्यते ॥ ४.६० ॥ <चुम्बकम्> विंध्याचले भवेदश्मा लोहं चुम्बति चाद्भुतम् । न मुञ्चत्येव सततं शिवभक्तिं यथानुगः ॥ ४.६१ ॥ <द्रावकम्> हिमाद्रौ लभ्यते दुःखाद्यः स्पृष्टो द्रावयेदयः । सुवर्णादींश्च तद्वद्धि तत्कांतं द्रावकं भवेत् ॥ ४.६२ ॥ <कान्त:: परीक्षा:: शुद्ध> शुद्धे कांतभवे पात्रे शृतं दुग्धं हि नोद्गिरेत् । पानीयं क्वथितं चास्मिन् हिंगुगंधसमं भवेत् ॥ ४.६३ ॥ तैलबिंदुर्जले क्षिप्तो न चातिप्रसृतो भवेत् । लेपोऽपि नैव जायेत शुद्धकांतस्य लक्षणम् ॥ ४.६४ ॥ मुंडाच्छतगुणं तीक्ष्णं तीक्ष्णात्कांतं महागुणम् । कोटिसंख्यागुणं प्रोक्तं चुंबकं द्रावकं तथा ॥ ४.६५ ॥ <इरोन्:: शोधन> शशरक्तेन लिप्तं हि सप्तवारेण तापितम् । कांतादिसर्वलोहं हि शुध्यत्येव न संशयः ॥ ४.६६ ॥ <इरोन्:: शोधन> सामुद्रलवणैस्तद्वल्लेपितं त्रिफलाजले । निर्वापितं भवेच्छुद्धं सत्यं गुरुवचो यथा ॥ ४.६७ ॥ <इरोन्:: मारण> लोहचूर्णं घृताक्तं हि क्षिप्त्वा लोहस्य खर्परे । अग्निवर्णप्रभं यावत्तावद्दर्व्या प्रचालयेत् ॥ ४.६८ ॥ खल्वे च विपचेत्तद्वत्पञ्चवारमतः परम् । वरोदकैः पुटेल्लोहं चतुर्वारमिदं खलु ॥ ४.६९ ॥ सुपेषितं वारितरं जायते नात्र संशयः । अनेन विधिना कार्यं सर्वलोहस्य साधनम् ॥ ४.७० ॥ जायते सर्वरोगानां सेवितं पलितापहम् । <इरोन्:: मारण> लोहचूर्णं पलद्वंद्वं गुडगंधौ समांशकौ ॥ ४.७१ ॥ खल्वे विमर्द्य नितरां पुटेद्विंशतिवारकम् । पेषणं तु प्रकर्तव्यं पुटः पश्चात्प्रदीयते ॥ ४.७२ ॥ अनेन विधिना सम्यग्भस्मीभवति निश्चितम् । सर्वरोगान्निहन्त्येव नात्र कार्या विचारणा ॥ ४.७३ ॥ श्वेता पुनर्नवापत्र- तोयेन दशसंख्यकाः । पुटास्तत्र प्रदेयाश्च सिन्दूराभं प्रजायते ॥ ४.७४ ॥ <इरोन्:: मारण> अथापरः प्रकारोऽत्र कथ्यते लोहमारणे । लोहचूर्णसमं गंधं मर्दयेत्कन्यकाद्रवैः ॥ ४.७५ ॥ पिण्डीकृतं लोहपात्रे छायायां स्थापयेच्चिरम् । म्रियते नात्र संदेहो ह्यनुभूतं मयैव हि ॥ ४.७६ ॥ <इरोन्:: भस्मन्:: मेदिच्. उसे> निरुत्थं लोहजं भस्म सेवेतात्र पुमान्सुधीः । व्योषवेल्लाज्यमधुना टंकमानेन मिश्रितम् ॥ ४.७७ ॥ जरां च मरणं व्याधिं हन्यात्पुत्रप्रदायकम् । जरादोषकृतान् रोगान् विनिहन्ति शरीरिणाम् ॥ ४.७८ ॥ <तिन्:: सुब्त्य्पेस्> बंगं तु द्विविधं प्रोक्तं खुरं मिश्रं तथैव च । <खुर:: फ्य्स्. प्रोपेर्तिएस्> यच्छुद्धं सरलं शुभ्रं खुरं तदभिधीयते ॥ ४.७९ ॥ <खुर:: शोधन> भल्लातकभवे तैले खुरं शुध्यति ढालितम् । <तिन्:: मिश्रक:: शोधन> पुनर्नवासिन्धुचूर्ण- विषयुक्तं प्रढालितम् । तक्रमध्ये त्रिवारं हि मिश्रं बंगं विशुध्यति ॥ ४.८० ॥ <तिन्:: मारण> छाणोपरि कृते गर्ते चिंचात्वक्चूर्णकं क्षिपेत् । कर्षमानां बंगचक्रीं तत्रोपरि निधापयेत् ॥ ४.८१ ॥ चक्रीं चतुर्गुणेनैव वेष्टितां धारयेत्ततः । छगणेन विशुष्केण पुटाग्निं दापयेत्ततः ॥ ४.८२ ॥ स्वांगशीतं समुद्धृत्य सर्वकार्येषु योजयेत् । अनेन विधिना शेषमपक्वं मारयेद्ध्रुवम् ॥ ४.८३ ॥ <तिन्:: मारण> अथापरः प्रकारो हि वक्ष्यते चाधुना मया । शुद्धबंगस्य पत्राणि समान्येव तु कारयेत् ॥ ४.८४ ॥ अजाशकृत्वरा तुल्या चूर्णिता च निशा तथा । चतुरस्रमथो निम्नं गर्तं हस्तप्रमाणकम् ॥ ४.८५ ॥ कृत्वा छगणकैश्चार्धं पूरयेत्सततं भिषक् । ततः शणभवेनापि वस्त्रेणाच्छाद्य गर्तकम् ॥ ४.८६ ॥ पूर्वं प्रकल्पितं चूर्णं तत्रोपरि च विन्यसेत् । तस्योपरि च पत्राणि समानि परितो न्यसेत् ॥ ४.८७ ॥ चूर्णेनाच्छाद्य यत्नेन छगणेनाथ पूरयेत् । पुटयेदग्निना सम्यक्स्वांगशीतं समुद्धरेत् ॥ ४.८८ ॥ मृतं बंगं ततः पश्चान्मर्दयेत्पूरवारिणा । समांशं रससिन्दूरमनेन सह मेलयेत् ॥ ४.८९ ॥ खल्वे दृढतरं पिष्ट्वा काचकूप्यां निवेशयेत् । विपचेदग्नियोगेन यामषोडशमात्रया ॥ ४.९० ॥ हेमप्रभं मृतं बंगं जायते रसवङ्गकम् । <तिन्:: मृत:: मेदिच्. प्रोपेर्तिएस्> बंगं वातकरं रूक्षं तिक्तं मेहप्रणाशनम् । मेदःकृम्यामयघ्नं हि कफदोषविषापहम् ॥ ४.९१ ॥ सर्वरोगान् हरत्याशु शक्तिदायि गुणाधिकम् ॥ ४.९२ ॥ यथारोगबलं वीक्ष्य दातव्यं वल्लमात्रकम् । अशीतिर्वातजान् रोगान् तथा मेहांश्च विंशतिः । हन्ति भक्षणमात्रेण सप्तकैकेन नान्यथा ॥ ४.९३ ॥ <तिन्:: मृत:: मेदिच्. प्रोपेर्तिएस्> बंगं वातकरं रूक्षं प्रोक्तं मेहप्रणाशनम् । कृमिमेदामयघ्नं हि कफदोषविषापहम् ॥ ४.९४ ॥ <लेअद्:: परीक्षा:: गोओदॄउअलित्य्> छेदे कृष्णं गुरु स्निग्धं द्रुतद्रावमथोज्ज्वलम् । कृष्णवर्णं बहिः शुद्धं नागं हितमतोऽन्यथा ॥ ४.९५ ॥ <लेअद्:: शोधन> दालयेच्च रसे नागं सिन्दुवारहरिद्रयोः । एवं नागो विशुद्धः स्यान्मूर्च्छास्फोटादि नाचरेत् ॥ ४.९६ ॥ <लेअद्:: मारण> शुद्धनागस्य पत्राणि सदलान्येव कारयेत् । शिलां वासारसेनापि मर्दयेद्याममात्रकम् ॥ ४.९७ ॥ पत्राण्यालेपयेत्तेन ततः संपुटके न्यसेत् । पुटेन विपचेद्धीमान् वाराहेण खराग्निना । एवं कृते त्रिवारेण नागभस्म प्रजायते ॥ ४.९८ ॥ <लेअद्:: मारण> अथापरप्रकारेण नागमारणकं भवेत् । लोहपात्रे द्रुते नागे घर्षणं तु प्रकारयेत् ॥ ४.९९ ॥ चतुर्यामं प्रयत्नेन मूलैश्चैव पलाशजैः । अधस्ताज्ज्वालयेत्सम्यखठाग्निं म्रियते ध्रुवम् । रक्ताभं जायते चूर्णं सर्वकार्येषु योजयेत् ॥ ४.१०० ॥ जायते सर्वकार्येषु रोगोच्छेदकरं सदा । नागस्य मारणं प्रोक्तं बहुधा बहुभिर्बुधैः ॥ ४.१०१ ॥ सर्वथा सूतनागस्य शंभोश्च मरणं नहि ॥ ४.१०२ ॥ <लेअद्:: मृत:: मेदिच्. प्रोपेर्तिएस्> प्रमेहान् वातजान् रोगान् धनुर्वातादिकान् गदान् । विंशतिश्लेष्मजांश्चैव निहन्ति च न संशयः ॥ ४.१०३ ॥ <ब्रस्स्:: सुब्त्य्पेस्> पित्तलं द्विविधं प्रोक्तं रीतिका काकतुंडिका । <रीतिका:: परीक्षा> तप्ता तुषजले क्षिप्ता शुक्लवर्णा तु रीतिका ॥ ४.१०४ ॥ <काकतुण्डी:: परीक्षा> निक्षिप्ता कांजिके कृष्णा सा स्मृता काकतुण्डिका ॥ ४.१०५ ॥ <ब्रस्स्:: परीक्षा:: गोओदॄउअलित्य्> पीताभा मृदु चेद्गुर्वी साराङ्गी हेमवर्णिका । मसृणाङ्गी तु सुस्निग्धा शुभा रीतीति कथ्यते ॥ ४.१०६ ॥ <ब्रस्स्:: परीक्षा:: बदॄउअलित्य्> दुर्गन्धा पूतिगन्धा वा खरस्पर्शा च पाण्डुरा । घनघाताक्षमा रूक्षा रीतिर्नेष्टा रसायने ॥ ४.१०७ ॥ <ब्रस्स्:: शोधन> तापिता चैव निर्गुंडी- रसे क्षिप्ता प्रयत्नतः । पञ्चवाराणि चायाति शुद्धिं रीतिस्तु तत्क्षणात् ॥ ४.१०८ ॥ <ब्रस्स्:: मारण> शिलागंधकसिन्धूत्थ- रसैश्चातिप्रमर्दितैः । रीतिपत्राणि लेप्यानि पुटितान्यष्टधा पुनः । सद्यो भस्मत्वमायान्ति ततो योज्या रसायने ॥ ४.१०९ ॥ <ब्रस्स्:: रीतिका:: मृत:: मेदिच्. प्रोपेर्तिएस्> रक्तपित्तहरा रूक्षा कृमिघ्नी रीतिका मता । <ब्रस्स्:: काकतुण्डिका:: मृत:: मेदिच्. प्रोपेर्तिएस्> काकतुंडा कुष्ठहरा सोष्णवीर्या सरा मता ॥ ४.११० ॥ <ब्रोन्शे:: प्रोदुच्तिओन्> चतुर्भागेन रविणा भागैकं त्रपु चोत्तमम् । जायते प्रवरं कांस्यं तत्सौराष्ट्रभवं शुभम् ॥ ४.१११ ॥ <ब्रोन्शे:: शोधन> तप्तं कांस्यं गवां मूत्रे सप्तवारेण शुध्यति । <ब्रोन्शे:: मारण> हरितालकगंधाभ्यां म्रियते पञ्चभिः पुटैः ॥ ४.११२ ॥ <ब्रोन्शे:: मृत:: मेदिच्. प्रोपेर्तिएस्> मृतं कांस्यं वातहरं प्रमेहाणां च नाशनम् । शुद्धे कांस्यभवे पात्रे सर्वमेव हि भोजनम् । पथ्यं संजायते नाम्लं घृतशाकादिवर्जितम् ॥ ४.११३ ॥ <वर्तलोह:: प्रोदुच्तिओन्> लोहकांस्यार्करीतिभ्यो जातं तद्वर्तलोहकम् । तदेव विडलोहाख्यं विद्वद्भिः समुदाहृतम् ॥ ४.११४ ॥ <वर्तलोह:: शोधन> हयमूत्रे द्रुतं सम्यक्निक्षिप्तं शुद्धिमृच्छति । <वर्तलोह:: मारण> गन्धतालेन पुटितं म्रियते वर्तलोहकम् ॥ ४.११५ ॥ <वर्तलोह:: मृत:: मेदिच्. प्रोपेर्तिएस्> श्लेष्मपित्तहरं चाम्लं रुच्यं कृमिहरं तथा । नेत्ररोगप्रशमनं गलरोगनिबर्हणम् ॥ ४.११६ ॥ पथ्यं सर्वं हि तद्भाण्डे सर्वदोषहरं परम् । क्षारेणाम्लेन च विना दीप्तिकृत्पाचनं परम् ॥ ४.११७ ॥ संशोधनान्येव हि मारणानि गुणागुणान्येव मयोदितानि । अन्यानि शास्त्राणि सुविस्तराणि निरीक्ष्य यत्नात्कृतमेव सम्यक् ॥ ४.११८ ॥ ____________________________________________________________ अध्याय ५ अथेदानीं प्रवक्ष्यामि गुणाधिक्यान्महारसान् । तेषां नामानि वर्गांश्च सत्त्वानि तद्गुणांस्तथा ॥ ५.१ ॥ <महारसाः> क्रमेण गगनं ताप्यं वैक्रांतं विमलं तथा । रसकं शैलसंभूतं राजावर्तकसस्यके । एते महारसाश्चाष्टावुदिता रसवादिभिः ॥ ५.२ ॥ <अभ्र:: सुब्त्य्पेस्:: चोलोउर्> क्रमप्राप्तमहं वक्ष्ये गगनं तु चतुर्विधम् । श्वेतं रक्तं तथा पीतं कृष्णं परमसुंदरम् ॥ ५.३ ॥ श्वेतं श्वेतक्रियायोग्यं रक्तं पीतं हि पीतकृत् । कृष्णाभ्रं सर्वरोगाणां नाशनं परमं सदा ॥ ५.४ ॥ <अभ्र:: सुब्त्य्पेस्> वज्रं पिनाकं नागं च मंडूकमभिधीयते । अनेन विधिना प्रोक्ता भेदाः सन्तीह षोडश ॥ ५.५ ॥ अभ्राणामेव सर्वेषां वज्रमेवोत्तमं सदा । शेषाणि त्रीणि चाभ्राणि घोरान् व्याधीन् सृजन्ति हि । तस्माद्यत्नेन सद्वैद्यैर्वर्जनीयानि नित्यशः ॥ ५.६ ॥ <वज्र:: परीक्षा> वज्राभ्रं धम्यमानेऽग्नौ विकृतिं न क्वचिद्भजेत् । सेवितं तन्मृतिं हन्ति वज्राभं कुरुते वपुः ॥ ५.७ ॥ <पिनाक:: परीक्षा> पिनाकं चाग्निसंतप्तं विमुञ्चति दलोच्चयम् । सेवितं चैकमासेन कृमिं कुष्ठं करोत्यलम् ॥ ५.८ ॥ <नाग:: परीक्षा> नागाभ्रं ध्मापितं सम्यक्नागवत्स्फूर्जते ध्रुवम् । <नाग:: मेदिच्. प्रोपेर्तिएस्> सेवितं तत्प्रकुरुते क्षयरोगसमुद्भवम् ॥ ५.९ ॥ विषं हालाहलं पीतं मारयत्येव निश्चितम् । तथा नागाभ्रनामेदं सद्वैद्यः कथयत्यलम् ॥ ५.१० ॥ <मण्डूक:: परीक्षा> मंडूकाभ्रं प्रकुरुते ताप्यमानं हि नित्यशः । क्षणं चाग्नौ न तिष्ठेत मंडूकसदृशां गतिम् ॥ ५.११ ॥ मंडूकाभ्रं न सेव्यं हि कथितं रसवेदिभिः ॥ ५.१२ ॥ <अभ्रक:: शोधन> स्वेदयेद्दिनमेकं तु कांजिकेन तथाभ्रकम् । पश्चात्कुलत्थजे क्वाथे तक्रे मूत्रेऽथ वह्निना ॥ ५.१३ ॥ <अभ्र:: शोधन> पाचितं दोषशून्यं तु शुद्धिमायाति निश्चितम् । तथाग्नौ परितप्तं तु निषिञ्चेत्सप्तवारकम् ॥ ५.१४ ॥ कांजिके चापि निर्दोषमभ्रके जायते ध्रुवम् । वराक्वाथे तथा दुग्धे गवां मूत्रे तथैव च । मार्कवस्य रसेनापि दोषशून्यं प्रजायते ॥ ५.१५ ॥ <अभ्र:: मारण> सूक्ष्मचूर्णं ततः कृत्वा पिष्ट्वा हंसपदीरसैः । चक्राकारं कृतं शुष्कं दद्यादर्धगजाह्वये ॥ ५.१६ ॥ षट्पुटानि ततो दत्त्वा पुनरेवं पुनर्नवा । रसेन मर्दितं गाढमभ्रांशेन तु टंकणम् ॥ ५.१७ ॥ पुनश्च चक्रिकां कृत्वा सप्तवारं पुटेत्खलु । तण्डुलीयरसेनैव तद्वद्वासारसेन च ॥ ५.१८ ॥ पुटयेत्सप्तवाराणि पुटं दद्याद्गजार्धकम् । अनेन विधिना चाभ्रं म्रियते नात्र संशयः । चन्द्रिकारहितं सम्यक्सिंदूराभं प्रजायते ॥ ५.१९ ॥ <अभ्र:: मारण> कासमर्दरसेनैव धान्याभ्रं पाचितं शुभम् । शतवारेण म्रियते नात्र कार्या विचारणा ॥ ५.२० ॥ <अभ्र:: मारण> एवं मुस्तारसेनापि तण्डुलीयशिफारसैः । टंकणेन समं पिष्ट्वा चक्राकारमथाभ्रकम् ॥ ५.२१ ॥ षष्टिसंख्यपुटैः पक्वं सिन्दूरसदृशं भवेत् । कुष्ठक्षयादिरोगघ्नमभ्रकं जायते ध्रुवम् ॥ ५.२२ ॥ <अभ्र:: मारण> नागवल्लीदलरसैर्वटमूलत्वचा तथा । वृषामत्स्यादनीभ्यां च मत्स्याक्ष्या सपुनर्भुवा ॥ ५.२३ ॥ वटवृक्षस्य मूलेन मर्दितं पुटितं घनम् । सिंदूरसदृशं वर्णे भवेद्विंशतिमे पुटे ॥ ५.२४ ॥ सूक्ष्मं सूक्ष्मं जलप्लावं रक्तवर्णसमुज्ज्वलम् । सर्वरोगहरं चापि जायते बहुभिः पुटैः ॥ ५.२५ ॥ <अभ्र:: मृत:: मेदिच्. प्रोपेर्तिएस्> मृतं वज्राभ्रकं सम्यक्सेवनीयं सदा बुधैः । वलिपलितनाशाय दृढतायै शरीरिणाम् ॥ ५.२६ ॥ सर्वव्याधिहरं त्रिदोषशमनं वह्नेश्च संदीपनं वीर्यस्तंभविवृद्धिकृत्परमिदं कृच्छ्रादिरोगापहम् । भूतोन्मादनिवारणं स्मृतिकरं शोफामयध्वंसनं सद्यः प्राणविवर्धनं ज्वरहरं सेव्यं सदा चाभ्रकम् ॥ ५.२७ ॥ यथा विषं यथा वज्रं शस्त्रोऽग्निः प्राणहृद्यथा । भक्षितं चन्द्रिकायुक्तमभ्रकं तादृशं गुणैः ॥ ५.२८ ॥ <अभ्र:: सत्त्व:: पातन> पादांशं टंकणं दत्त्वा मुसलीरसमर्दितम् । ध्मापितं कोष्ठिकायन्त्रे सत्त्वरूपं प्रजायते ॥ ५.२९ ॥ <अभ्र:: सत्त्व:: पातन> खल्वे पिष्ट्वा तु मतिमान् सूक्ष्मचूर्णं तु कारयेत् । गालितं वस्त्रखण्डेन घृतेन च परिप्लुतम् ॥ ५.३० ॥ भर्जितं दशवाराणि लोहखर्परकेण वै । अग्निवर्णसमं यावत्तावत्पिष्ट्वा तु भर्जयेत् ॥ ५.३१ ॥ शुकपिच्छसमं पिष्ट्वा क्वाथे तु वटमूलजे । ततो विंशतिवाराणि पुटेच्छूकरसंज्ञकैः ॥ ५.३२ ॥ वराकषायैर्मतिमान् तथा कुरु भिषग्वर । नीलीगुंजावरापथ्याम्- ऊलकेन सुभावयेत् ॥ ५.३३ ॥ संशुष्कं भक्षयेद्विद्वान् सर्वरोगहरं परम् । अभ्रसत्वात्परं नास्ति रसायनमनुत्तमम् ॥ ५.३४ ॥ यदि चेत्शतवाराणि पाचयेत्तीव्रवह्निना । तदामृतोपमं चाभ्रं देहलोहकरं परम् ॥ ५.३५ ॥ <अभ्र:: सत्त्व:: पातन> धान्याभ्रकं ततः कृत्वा द्वात्रिंशत्पलमात्रकम् । लाक्षागुंजाक्षुद्रमीनाः टङ्कणं दुग्धमाविकम् ॥ ५.३६ ॥ सर्षपाः शिग्रुपिण्याकं सिन्धूत्थं मृगशृङ्गकम् । माक्षिकं च समांशानि सर्वाण्येव तु कारयेत् ॥ ५.३७ ॥ धान्याभ्रकेन तुल्येन मर्दयेन्मतिमान्भिषक् । पुनर्नवाया वासायाः कासमर्दस्य तण्डुलैः ॥ ५.३८ ॥ मत्स्याक्ष्या हंसपद्याश्च कारवेल्ल्या रसैः पृथक् । खलगोधूमयोश्चूर्णैः कारयेद्वटकान् शुभान् ॥ ५.३९ ॥ पश्चात्कोष्ठ्यां धमेच्छुष्कान् भस्त्रिकाद्वितयेन तान् । खदिरस्य तु चांगारैः सत्वं निःसरति ध्रुवम् ॥ ५.४० ॥ पृथक्कृत्वा तु रवकान् कांस्यवर्णान् विशेषतः । तत्किट्टं गोमयेनाथ वटकान्कारयेत्पुनः ॥ ५.४१ ॥ ध्मापयेत्पूर्वविधिना पुनः सत्वं हि निःसरेत् । अनेन विधिना कार्यं पञ्चगव्येन मिश्रितम् ॥ ५.४२ ॥ पञ्चाजेनाथ महिषी- पञ्चकेन समं कुरु । पतत्येवमसंदिग्धं सत्यं गुरुवचो यथा ॥ ५.४३ ॥ <अभ्र:: सत्त्व:: मारण> अथाभ्रसत्त्वरवकानम्लवर्गेण पाचयेत् । शोधनीयगणेनैव मूषामध्ये तु शोधयेत् ॥ ५.४४ ॥ काचटंकणगुंजाज्य- सारघैः शोधयेत्खलु । मधुतैलवसाज्येषु दशवाराणि ढालयेत् ॥ ५.४५ ॥ मार्दवं कारयेत्सत्यं योगेनानेन सर्वदा । सत्वस्य गोलकानेवं तप्तानेवं तु कांजिके ॥ ५.४६ ॥ निर्वाप्य तत्क्षणादेव कण्डयेल्लोहपारया । अनेनैव प्रकारेण सूक्ष्मचूर्णं तु कारयेत् ॥ ५.४७ ॥ भर्जयेद्घृतमध्ये तु त्रीणि वाराणि यत्नतः । पेषणं तु प्रकर्तव्यं शिलापट्टेन यत्नतः ॥ ५.४८ ॥ धात्रीपत्ररसेनापि तस्याः फलरसेन वा । पुनर्भुवा वासया च कांजिकेनाथ गन्धकैः । पुटयेद्दशवाराणि म्रियते चाभ्रसत्त्वकम् ॥ ५.४९ ॥ <अभ्र:: सत्त्व:: मृत:: मेदिच्. प्रोपेर्तिएस्> मृतं सत्वं हरेन्मृत्युं सर्वरोगविनाशनम् । क्षयं पाण्डुं ग्रहणिकां श्वासं शूलं सकामलम् ॥ ५.५० ॥ ज्वरान्मेहांश्च कासांश्च गुल्मान्पञ्चविधानपि । मन्दाग्निमुदराण्येवमर्शांसि विविधानि च ॥ ५.५१ ॥ अनुपानप्रयोगेण सर्वरोगान्निहन्ति च । अभ्रसत्वगुणान्वक्तुं शक्यते न समासतः ॥ ५.५२ ॥ <राजावर्त:: परीक्षा:: गोओदॄउअलित्य्> किंचिद्रक्तोऽथ नीलश्च मिश्रवर्णप्रभः सदा । तौल्ये गुरुश्च मसृणो राजावर्त्तो वरः स्मृतः ॥ ५.५३ ॥ <राजावर्त:: शोधन> गोमूत्रेणाथ क्षारैश्च तथाम्लैः स्वेदिताः खलु । त्रिवारेण विशुध्यन्ति राजावर्तादयो रसाः ॥ ५.५४ ॥ <राजावर्त:: मारण> चूर्णितः शुकपिच्छेन भृंगराजरसेन वै । सप्तवारेण पुटितो राजावर्त्तो मरिष्यति ॥ ५.५५ ॥ <राजावर्त:: मृत:: मेदिच्. प्रोपेर्तिएस्> श्लेष्मप्रमेहदुर्नाम- पाण्डुक्षयनिवारणः । पाचनो दीपनश्चैव वृष्योऽनिलविषापहः ॥ ५.५६ ॥ <राजावर्त:: सत्त्व:: पातन> कोशातकी क्षीरकन्दो वंध्याकर्कोटकी तथा । काकमाची राजशमी त्रिफला गृहधूमकः ॥ ५.५७ ॥ राजावर्तो रसैरेषां सत्वं मुञ्चति मर्दितः । ध्मापितः खदिरांगारैर्भस्त्रिकाद्वितयेन च ॥ ५.५८ ॥ <वैक्रान्त:: फ्य्स्. प्रोपेर्तिएस्> अष्टधारोष्ठफलकः षट्कोणो मसृणो गुरुः । शुद्धमिश्रितवर्णैश्च युक्तो वैक्रांत उच्यते ॥ ५.५९ ॥ <वैक्रान्त:: सुब्त्य्पेस्:: चोलोउर्> श्वेतः पीतस्तथा कृष्णो नीलः पारावच्छविः । कर्बूरः श्यामवर्णश्च वैक्रांतश्चाष्टधा स्मृतः ॥ ५.६० ॥ <वैक्रान्त:: शोधन> क्वाथे कुलत्थजे स्विन्नो वैक्रांतः शुध्यति ध्रुवम् । <वैक्रान्त:: मारण> गन्धनिम्बूरसैर्मर्द्यः पुटितो म्रियते ध्रुवम् ॥ ५.६१ ॥ <वैक्रान्त:: मृत:: मेदिच्. प्रोपेर्तिएस्> आयुःप्रदस्त्रिदोषघ्नो वृष्यः प्राणप्रदः सदा । वेगप्रदो वीर्यकर्ता प्रज्ञावर्णौ करोति हि ॥ ५.६२ ॥ रसायनेषु सर्वेषु पूर्वगण्यस्तु रोगहा । वज्रवद्गुणकारी च वैक्रांतो रसबन्धकः ॥ ५.६३ ॥ <वैक्रान्त:: सत्त्व:: पातन> सूर्यातपे मर्दितोऽसौ सत्वपातगणौषधैः । शुष्कायितो वटीकृत्य मूषास्थो ध्मापितोऽपि वै ॥ ५.६४ ॥ सत्वं मुञ्चति वैक्रांतः सत्यं गुरुवचो यथा । <वैक्रान्त:: सत्त्व:: मेदिच्. उसे> मृतसूतेन तुल्यांशं सत्वं वैक्रांतसंभवम् ॥ ५.६५ ॥ मृताभ्रसत्वसंयुक्तं मर्दितं सममात्रकम् । कणामध्वाज्यसंमिश्रं वल्लमात्रं निषेवितम् ॥ ५.६६ ॥ सर्वान् रोगान्निहन्त्याशु जीवेद्वर्षशतं सुखी । त्रिवर्षसेवनान्नूनं वलीपलितनाशनम् ॥ ५.६७ ॥ <सस्यक:: म्य्थ्. ओरिगिन्> सद्यो हालाहलं पीतममृतं गरुडेन च । सुधायुक्ते विषे वान्ते पर्वते मरुताह्वये ॥ ५.६८ ॥ घनीभूतं च संजातं सस्यकं खलु कथ्यते । <सस्यक:: परीक्षा:: गोओदॄउअलित्य्> नीलं मरकतच्छायं तेजोयुक्तं प्रशस्यते ॥ ५.६९ ॥ <सस्यक:: शोधन> स्वेदितं माहिषाज्याभ्यां गवां मूत्रैर्नरस्य वा । दोलायन्त्रेण यामौ द्वौ शुध्यत्येव हि सस्यकम् ॥ ५.७० ॥ <सस्यक:: मारण> गंधाश्मटंकणाभ्यां च लकुचद्रावमर्दितम् । कुक्कुटाह्वैः सप्तपुटैर्म्रियते चांधमूषया ॥ ५.७१ ॥ <सस्यक:: सत्त्व:: पातन> निघृष्टं टंकणेनैव निम्बूद्रावेण मूषया । ध्मातं च ताम्ररूपं हि सत्त्वं मुञ्चति सस्यकम् ॥ ५.७२ ॥ विषेण सहितं यस्मात्तस्माद्विषगुणाधिकम् । सुधायुक्तं विषं येन सुधाधिकगुणं तथा ॥ ५.७३ ॥ <सस्यक:: मृत:: मेदिच्. प्रोपेर्तिएस्> त्रिदोषशमनं चैव विषहृद्गुदशूलनुत् । अम्लपित्तविबन्धघ्नं रसायनवरं सदा ॥ ५.७४ ॥ वान्तिं करोति रेकं च श्वित्रकुष्ठापहं तथा । नाम्ना मयूरतुत्थं हि सर्वव्याधिनिवारणम् ॥ ५.७५ ॥ <सस्यक, भूनाग:: सत्त्व:: रिन्ग्> भूनागसत्वसंयुक्तं सत्वमेतत्समीकृतम् । अनयोर्मुद्रैका कार्या शूलघ्नी सा भवेत्खलु ॥ ५.७६ ॥ डाकिनीभूतसंवेश- चराचरविषं जयेत् । राज्ञां सदैव रक्षार्थं विधातव्या सुमुद्रिका ॥ ५.७७ ॥ <माक्षिक> माक्षिकं द्विविधं ज्ञेयं रुक्मताप्यप्रभेदतः । <स्वर्णमाक्षिक (?)> प्रथमं माक्षिकं स्वर्णं कान्यकुब्जसमुत्थितम् ॥ ५.७८ ॥ सुवर्णवर्णसदृशं नववर्णसमन्वितम् । <माक्षिक:: ताप्य (<> स्वर्ण)> तटे तपत्याः संजातं ताप्याख्यं माक्षिकं वदेत् ॥ ५.७९ ॥ पाषाणदलसंमिश्रं पाण्डुरं पञ्चवर्णवत् । गुणाल्पकं भवत्येतत्स्वल्पं सत्त्वं विमुञ्चति ॥ ५.८० ॥ <माक्षिक:: मारण> मूत्रे तक्रे च कौलत्थे मर्दितं शुष्कमेव च । गंधाश्मबीजपूराभ्यां पिष्टं तच्छ्रावसंपुटे ॥ ५.८१ ॥ पञ्चवाराहपुटकैर्दग्धं मृतिमवाप्नुयात् ॥ ५.८२ ॥ <माक्षिक:: सत्त्व:: पातन> लोहपात्रे सुसंदग्धं लोहदण्डेन घर्षितम् । यदा रक्तं धातुनिभं जायते निंबुकद्रवैः ॥ ५.८३ ॥ घर्षयेत्त्रिगुणं सूतं मुक्त्वा संघर्षणं कुरु । दिनैकं घर्षयित्वा तु दृढवस्त्रेण गालयेत् ॥ ५.८४ ॥ वस्त्रस्था पिष्टिका लग्ना त्वधः पतति पारदः । अनेनैव प्रकारेण द्वित्रिवारेण गालयेत् ॥ ५.८५ ॥ तत्पिष्टीगोलकं ग्राह्यं यंत्रे डमरुके न्यसेत् । प्रहरद्वयमात्रं चेदग्निं प्रज्वालयेदधः ॥ ५.८६ ॥ इन्द्रगोपसमं सत्वमधःस्थं ग्राहयेत्सुधीः । अनेनैव विधानेन ताप्यसत्वं समाहरेत् ॥ ५.८७ ॥ टंकणेन समायुक्तं द्रावितं मूषया यदा । तदा ताम्रप्रभं सत्वं जायते नात्र संशयः ॥ ५.८८ ॥ देहलोहकरं सम्यक्देवीशास्त्रेण भाषितम् ॥ ५.८९ ॥ सर्वामयघ्नं सततं पारदस्यामृतं परम् । मेलनं कुरुते लोहे परमं च रसायनम् ॥ ५.९० ॥ <विमल:: सुब्त्य्पेस्> प्रथमो हेमविमलो हेमवद्वर्णसंयुतः । द्वितीयो रूप्यविमलो रूप्यवद्दृश्यते खलु ॥ ५.९१ ॥ तृतीयः कांस्यविमलः कांस्यवर्णसमो हि सः । <विमल:: फ्य्स्. प्रोपेर्तिएस्> स्निग्धश्च वर्तुलश्चैव षट्कोणः फलकान्वितः ॥ ५.९२ ॥ <विमल:: शोधन> वासारसे मर्दितो हि शुद्धोऽतिविमलो भवेत् । <विमल:: मारण> गंधाश्मनिंबुकद्रावैर्मर्दितः पुटितो मृतिम् । शृङ्गस्य भस्मना चापि पुटैश्च दशधा पुटेत् ॥ ५.९३ ॥ <विमल:: सत्त्व:: पातन> निम्बूरसेन संपिष्ट्वा मूषामध्ये निरुध्य च । विमलः सीससदृशं ध्मातो मुञ्चति सत्त्वकम् ॥ ५.९४ ॥ <विमल:: सत्त्व:: मेदिच्. उसे> पिष्टीकृतं हि तत्सत्वं पारदेन समन्वितम् । द्रुते गंधे हि निक्षिप्तं तालकं त्रिगुणं तथा ॥ ५.९५ ॥ मनःशिला पञ्चगुणा वालुकायन्त्रके खलु । ज्वालयेत्क्रमशश्चैव पश्चाद्रजतभस्मकम् ॥ ५.९६ ॥ सममात्रं हि वैक्रांतं सर्वं संचूर्णयेत्खलु । संगाल्य यत्नतो वस्त्रात्स्थापयेत्कूपिकान्तरे ॥ ५.९७ ॥ वह्निं कुर्यादष्टयामं स्वांगशीतं समुद्धरेत् । वल्लमात्रं च मधुना लेहयेत्व्योषसंयुतं ॥ ५.९८ ॥ बालानां रोगहरणं ज्वरपाण्डुप्रमेहनुत् । ग्रहणीकामलाशूल- मन्दाग्निक्षयपित्तहृत् ॥ ५.९९ ॥ अनुपानविशेषणं सर्वरोगान्निहन्ति च ॥ ५.१०० ॥ वृष्यः पित्तानिलहरो रसायनवरः खलु ॥ ५.१०१ ॥ <शिलाजतु:: सुब्त्य्पेस्> तत्राद्यं द्विविधं चैव सत्सत्वं सत्वहीनकम् । गुणाधिकं तयोर्मध्ये यत्पूर्वं सर्वदोषहृत् ॥ ५.१०२ ॥ <शिलाजतु:: ओरिगिन् fरों रोच्क्स्> निदाघे तीव्रतापाद्धि हिमप्रत्यन्तपर्वतात् । हेमतारार्कगर्भेभ्यः शिलाजतु विनिःसरेत् ॥ ५.१०३ ॥ <शिलाजतु:: fरों गोल्द्> बन्धूकपुष्पसदृशं गुरु स्निग्धं सुशीतलम् । रुक्मगर्भगिरौ जातं परमं तद्रसायनम् ॥ ५.१०४ ॥ किंचित्तिक्तं च मधुरं शिलाजं सर्वदोषनुत् ॥ ५.१०५ ॥ <शिलाजतु:: fरों सिल्वेर्> तारगर्भगिरेर्जातं पाण्डुरं स्वादु शीतलम् । पित्तपाण्डुक्षयघ्नं च शिलाजतु हि पाण्डुरम् ॥ ५.१०६ ॥ <शिलाजतु:: fरों चोप्पेर्> शुल्वगर्भगिरेर्जातं कृष्णवर्णं घनं गुरु । गिरिजं कफवातघ्नं विशेषात्सर्वरोगजित् ॥ ५.१०७ ॥ <शिलाजतु:: परीक्षा:: शुद्ध> अग्नौ यज्जायते क्षिप्तं लिंगाकारमधूमकम् । उदके च विलीयेत तच्छुद्धं च विधीयते ॥ ५.१०८ ॥ <शिलाजतु:: शोधन> अम्लैश्च गुग्गुलूपेतैः क्षाराद्यैर्भाण्डमध्यतः । विशुध्यति शिलाजातं स्वेदितं घटिकाद्वयम् ॥ ५.१०९ ॥ <शिलाजतु:: मारण> मनःशिलालुङ्गरसैः शिलया गंधकेन वा । तालकेनाथ पुटितं शिलाजं म्रियते ध्रुवम् ॥ ५.११० ॥ छगणैरष्टभिः कृत्वा भस्मीभूतं शिलाजतु ॥ ५.१११ ॥ <शिलाजतु:: मेदिच्. उसे> शिलाजतु तु संशुद्धं सेवेत यः पुमान् सदा । जीवेद्वर्षशतं साग्रं न रोगैर्बाध्यते खलु ॥ ५.११२ ॥ मूत्रकृच्छ्राश्मरीरोगाः प्रयान्त्येव न संशयः । महारसे चोपरसे धातुरत्नेषु पारदे । ये गुणाः कथिताः सद्भिः शिलाधातौ वदन्ति ते ॥ ५.११३ ॥ वैक्रांतकांतत्रिफला- त्रिकटुभिः समन्वितम् । वल्लोन्मितं वै सेवेत सर्वरोगगणापहम् ॥ ५.११४ ॥ पलितं वलिभिः सार्धं हन्यादेव न संशयः ॥ ५.११५ ॥ <कर्पूरशिलाजतु> कर्पूरसदृशं श्वेतं कर्पूराख्यं शिलाजतु । <कर्पूरशिलाजतु:: मेदिच्. प्रोपेर्तिएस्> अश्मरीमेहकृच्छ्रघ्नं कामलापाण्डुनाशनम् ॥ ५.११६ ॥ <कर्पूरशिलाजतु:: शोधन> अम्लतोयेन संस्विन्नं शुष्कं शुद्धिमुपैति च । <कर्पूरशिलाजतु:: मारण, सत्त्वपातन> नोदितं मारणं तस्य सत्वपातनकं बुधैः ॥ ५.११७ ॥ <रसक:: सुब्त्य्पेस्> द्विविधो रसकः प्रोक्तः कारवेल्लकदर्दुरः । <कारवेल्लक:: मेदिच्. प्रोपेर्तिएस्> सत्वपाते परः प्रोक्तः प्रथमश्चौषधादिषु ॥ ५.११८ ॥ सर्वमेहहरश्चैव पित्तश्लेष्मविनाशनः । नागार्जुनेन कथितौ सिद्धौ श्रेष्ठरसावुभौ ॥ ५.११९ ॥ कृतौ येनाग्निसहनौ सूतखर्परकौ शुभौ । तेन स्वर्गमयी सिद्धिरर्जिता नात्र संशयः ॥ ५.१२० ॥ <रसक:: शोधन> रसकस्तापितः सम्यक्निक्षिप्तो रसपूरके । निर्मलत्वमवाप्नोति सप्तवारं निमज्जितः ॥ ५.१२१ ॥ <रसक:: शोधन> कांजिके वाथ तक्रे वा नृमूत्रे मेषमूत्रके । द्रावितो ढालितः सम्यक्खर्परः परिशुध्यति ॥ ५.१२२ ॥ <रसक:: रञ्जन ओf चोप्पेर्wइथ्ँ> खर्परं रेतितं शुद्धं स्थापितं नरमूत्रके । रञ्जयेन्मासमेकं हि ताम्रं स्वर्णप्रभं वरम् ॥ ५.१२३ ॥ <रसक:: सत्त्व:: पातन> शिला हरिद्रा त्रिफला गृहधूमैः ससैंधवैः । भल्लातकैष्टंकणैश्च क्षारैरम्लैश्च वर्तितम् ॥ ५.१२४ ॥ पादांशसंयुतैर्मूषां वृंताकफलसन्निभाम् । निरुध्य शोषयित्वाथ मूषां मूषोपरि न्यसेत् ॥ ५.१२५ ॥ प्रध्माते खर्परे ज्वाला सिता नीला भवेद्यदा । लोहसंदंशके कृत्वा धृत्वा मूषामधोमुखीम् ॥ ५.१२६ ॥ भूम्यामाढालयेत्सत्त्वं यथा नालं न भज्यते । तदा सीसोपमं सत्वं पतत्येव न संशयः ॥ ५.१२७ ॥ अनेनैव प्रकारेण त्रिवारं हि कृते सति । विनिःसरेत्सर्वसत्वं सत्यं हि गुरुणोदितम् ॥ ५.१२८ ॥ <रसक:: सत्त्व:: मारण> तालकेन समायुक्तं सत्वं निक्षिप्य खर्परे । घर्षयेल्लोहदण्डेन म्रियते च न संशयः ॥ ५.१२९ ॥ <रसक:: सत्त्व:: मृत:: मेदिच्. उसे> मृतं सत्वं मृतं कांतं समांशेनापि योजितम् । माषमात्रमिदं चूर्णं वराक्वाथेन संयुतम् ॥ ५.१३० ॥ लोहपात्रस्थितं रात्रौ तिलजप्रतिवापकम् । निहन्ति मधुमेहं च क्षयं पाण्डुं तथानिलम् ॥ ५.१३१ ॥ योनिरोगांश्च नारीणां ज्वरांश्च विषमानपि । स्त्रीरोगान्हन्ति सर्वांश्च श्वासकासपुरोगमान् ॥ ५.१३२ ॥ ____________________________________________________________ अध्याय ६ <उपरसाः> तालकं तुवरी गंधं कंकुष्ठं कुनटी तथा । सौवीरं गैरिकं चैवमष्टमं खेचराह्वयम् ॥ ६.१ ॥ <हरिताल:: सुब्त्य्पेस्> तालकं द्विविधं प्रोक्तं दलाख्यं चाश्मसंज्ञितम् । <पत्त्रतालक:: फ्य्स्. प्रोपेर्तिएस्> सूक्ष्मपत्रं हेमवर्णं गुरु स्निग्धं च भासुरम् ॥ ६.२ ॥ दलाख्यं तालकं तच्च बहुसत्वं रसायनम् । <अश्मतालक:: फ्य्स्. प्रोपेर्तिएस्> निष्पत्रं चाश्मसदृशं किंचित्सत्वं तथागुरु ॥ ६.३ ॥ नारीणां पुष्पहृत्तत्तु कुपथ्यं चाश्मतालकम् । <हरिताल:: शोधन> कुष्माण्डतोयसंस्विन्नं ततः क्षारजलेन वा । चूर्णतोयेन वा स्विन्नं दोलायंत्रेण शुध्यति ॥ ६.४ ॥ <हरिताल:: सत्त्व:: पातन> कुलत्थक्वाथसौभाग्य- माहिषाज्यमधुप्लुतम् । खल्वे क्षिप्त्वा च तत्तालं मर्दयेदेकवासरम् ॥ ६.५ ॥ निस्तुषीकृत्य चैरण्ड- बीजान्येव तु मर्दयेत् । पलाष्टमानं तालस्य चाष्टमांशं तु कारयेत् ॥ ६.६ ॥ बीजान्येरण्डजान्येव क्षिप्त्वा चैकत्र मर्दयेत् । यवाभा गुटिका कार्या शुष्का कुप्यां निधाय च ॥ ६.७ ॥ वालुकायंत्रमध्ये तु वह्निं द्वादशयामकम् । स्वांगशीतं समुत्तार्य ऊर्ध्वगं सत्वमाहरेत् ॥ ६.८ ॥ पाषाणधातुसत्त्वानां प्रकाराः सन्त्यनेकशः । यानि कार्यकराण्येव सत्वानि कथितानि वै ॥ ६.९ ॥ <हरिताल:: मेदिच्. प्रोपेर्तिएस्> वातश्लेष्महरं रक्त- भूतनुत्पुष्पहृत्स्त्रियाः । सुस्निग्धमुष्णकटुकं दीपनं कुष्ठहारि तत् ॥ ६.१० ॥ <सौराष्ट्री:: ओरिगिन्> सौराष्ट्रदेशे संजाता खनिजा तुवरी मता । <सौराष्ट्री:: चोलोर्स्fअब्रिच्> या लेपिता श्वेतवस्त्रे रङ्गबन्धकरी हि सा ॥ ६.११ ॥ <सौराष्ट्री:: सुब्त्य्पेस्> फुल्लिका खटिका तद्वत्द्विप्रकारा प्रशस्यते । किंचित्पीता च सुस्निग्धा गरदोषविनाशिनी ॥ ६.१२ ॥ श्वेतवर्णापरा साम्ला फुल्लिका लोहमारणी । <सौराष्ट्री:: मेदिच्. प्रोपेर्तिएस्> कषाया मधुरा कांक्षी कटुका विषनाशिनी ॥ ६.१३ ॥ व्रणघ्नी कफहा चैव नेत्रव्याधित्रिदोषहा । कुष्ठरोगहरा सा तु पारदे बीजधारिणी ॥ ६.१४ ॥ <सौराष्ट्री:: शोधन> धान्याम्ले तुवरी क्षिप्ता शुध्यति त्रिदिनेन वै । <सौराष्ट्री:: सत्त्व:: पातन> क्षारैरम्लैश्च मृदिता ध्माता सत्वं विमुञ्चति । <सौराष्ट्री:: सत्त्व:: मेदिच्. उसे> तत्सत्वं धातुवादार्थे औषधे नोपपद्यते ॥ ६.१५ ॥ <मनःशिला:: सुब्त्य्पेस्> मनःशिला त्रिप्रकारा श्यामा रक्ता च खण्डिका । <श्यामा> श्यामा रक्ता मिश्रवर्णा भाराढ्या श्यामिका भवेत् ॥ ६.१६ ॥ <कणवीरका> कणवीरा सुरक्ताङ्गी ताम्राभा सैव शस्यते । <खण्डिका> चूर्णिता याति रक्ताङ्गी गुरुः स्निग्धा च खण्डिका ॥ ६.१७ ॥ सर्वाः कुनट्यः कथिताः पूर्वं पूर्वं गुणोत्तराः । <मनःशिला:: शोधन> मुनिपत्ररसेनापि शृङ्गवेररसेन वा ॥ ६.१८ ॥ भाविता सप्तवारेण विशुध्यति न संशयः । <मनःशिला:: सत्त्व:: पातन> सर्पिषा च गुडेनाथ किट्टगुग्गुलुनाथ वा ॥ ६.१९ ॥ ध्माता तु कोष्ठिकायन्त्रे मुञ्चेत्सत्त्वं न संशयः ॥ ६.२० ॥ <मनःशिला:: शुद्ध:: मेदिच्. प्रोपेर्तिएस्> रसायनवरा सर्वा वातश्लेष्मविनाशिनी । सत्वाधिका विषघ्नी च भूतकण्डूक्षयापहा । अग्निमांद्यं प्रशमयेत्कोष्ठरोगनिबर्हिणी ॥ ६.२१ ॥ <अञ्जन:: सुब्त्य्पेस्> सौवीरं च रसांजनं निगदितं स्रोतोंजनं चैव हि तद्वत्पुष्पमथाञ्जनं तदनु चेन्नीलांजनं कथ्यते । पञ्चानामपि नामवर्णगुणवद्रूपाणि सम्यग्विधौ कथ्यन्तेऽत्र मयापि शोधनमिदं सत्वं मृतिश्चोच्यते ॥ ६.२२ ॥ <सौवीर> सौवीराख्यं चांजनं धूमवर्णं पित्तास्रघ्नं छर्दिहिध्माव्रणघ्नम् । नेत्रव्याधौ शोधने रोपणे च श्रेष्ठं प्रोक्तं कर्णरोगप्रशांत्यै ॥ ६.२३ ॥ <रसाञ्जन> पीताभं विषरक्तदोषशमनं सश्वासहिध्मापहं वर्ण्यं वातविनाशनं कृमिहरं दार्व्युद्भवं शोभनम् । <स्रोतोञ्जन> स्निग्धं स्वादु कषायकं विषवमीपित्तास्रनुल्लेखनं नेत्र्यं हिध्मरुजापहं निगदितं स्रोतोंजनं सर्वदा ॥ ६.२४ ॥ <पुष्पाञ्जन> सितं स्निग्धं हिमं चैव नेत्ररोगविषापहम् । ज्वरघ्नमतिहिध्माघ्नं पुष्पांजनमिहोदितम् ॥ ६.२५ ॥ <नीलाञ्जन> रसायनं सुवर्णघ्नं गुरु स्निग्धं त्रिदोषहा । नीलांजनं च कथितं लोहमार्दवकारकम् ॥ ६.२६ ॥ <अञ्जन:: शोधन> भृंगराजरसेनैव सर्वाण्येवांजनानि हि । विशुध्यन्तीह सततं सत्यं गुरुवचो यथा । <अञ्जन:: सत्त्व:: पातन> शिलायाः सत्ववत्सत्त्वमञ्जनानां च पातयेत् ॥ ६.२७ ॥ <सुल्fउर्:: सुब्त्य्पेस्:: चोलोउर्> गंधकस्य चतुर्भेदा लक्षिताः पूर्वसूरिभिः । श्वेतः पीतस्तथा रक्तः कृष्णश्चेति चतुर्विधः ॥ ६.२८ ॥ <सुल्fउर्:: wहिते> श्वेतस्तु खटिकाकारो लेपनाल्लोहमारणम् । जायते नात्र संदेहो ह्यनुभूतं मया खलु ॥ ६.२९ ॥ <सुल्fउर्:: येल्लोw> पीतवर्णो भवेद्यस्तु स चोक्तोऽमलसारकः । रसे रसायने श्रेष्ठः शुकपिच्छः स कथ्यते ॥ ६.३० ॥ <सुल्fउर्:: रेद्> लाक्षारसनिभो रक्तः शुकतुण्डः स कथ्यते । धातूनां रंजनं कुर्याद्रसबन्धं करोत्यलम् ॥ ६.३१ ॥ <सुल्fउर्:: ब्लच्क्> यः कृष्णवर्णः स तु दुर्लभोऽस्ति नाशं करोतीह जरापमृत्योः । संसेवनाद्वज्रसमं शरीरं भवेत्सुकान्तं हि निरामयं च ॥ ६.३२ ॥ <सुल्fउर्:: शोधन> घटीमध्ये पयः क्षिप्त्वा मुखे वस्त्रं प्रबन्धयेत् । वस्त्रोपरि बलेश्चूर्णं मुखं रुद्ध्वा शरावतः ॥ ६.३३ ॥ भूमौ निधाय तत्पात्रं पुटं दद्यात्प्रयत्नतः । विंशत्युपलकैश्चैव स्वांगशीतं समुद्धरेत् ॥ ६.३४ ॥ अनेनैव प्रकारेण स्वांगशीतं पुनः पुनः । एवं संशोधितो गन्धः सर्वकार्यकरो भवेत् ॥ ६.३५ ॥ <सुल्fउर्:: शुद्ध:: मेदिच्. प्रोपेर्तिएस्> विपाके मधुरो गन्ध- पाषाणस्तु रसायनः । विसर्पकण्डुकुष्ठस्य शमनो दीपनस्तथा ॥ ६.३६ ॥ आमाजीर्णप्रशमनो विषहा रसशोषणः । सूतस्य वीर्यदः साक्षात्पार्वतीपुष्पसंभवः ॥ ६.३७ ॥ कृमिरोगहरः सम्यक्सूतं मूर्छयति ध्रुवम् । <सुल्fउर्:: निरुक्ति fओर्बलिवसा> सेवितो बलिराज्ञा यः प्रभूतबलहेतवे ॥ ६.३८ ॥ तस्माद्बलिवसेत्युक्तो गंधकोऽतिमनोहरः । <सुल्fउर्::मेदिच्. उसे> शुकपिच्छस्तु मरिच- समांशेन तु कल्कितः ॥ ६.३९ ॥ त्रिफला षड्गुणा कार्या मर्दयेत्कृतमालकैः । मूलद्रवैस्ततः पीतो हन्ति कुष्ठान्यनेकशः ॥ ६.४० ॥ तन्मूलसलिले घृष्टं वपुस्तेनाथ लेपितम् । कुष्ठान्येव निहन्त्याशु सद्यः प्रत्ययकारकम् ॥ ६.४१ ॥ <सुल्fउर्:: मेदिच्. उसे> संशुद्धगंधकं चैव तैलेन सह पेषयेत् । अपामार्गक्षारतोयैस्तैलेन मरिचेन च ॥ ६.४२ ॥ विलिप्य सकलं देहं तिष्ठेत्सूर्यातपेषु च । भोजयेत्तक्रभक्तं च तृतीये प्रहरे खलु ॥ ६.४३ ॥ वह्निना स्वेदयेद्रात्रौ प्रातरुत्थाय मर्दयेत् । महिषस्य पुरीषेण स्नायाच्छीतेन वारिणा ॥ ६.४४ ॥ स्नानं कुर्यादुषस्येवं कण्डूः पामा च नश्यति । दृष्टप्रत्यययोगोऽयं कथितोऽत्र मया खलु । नाशयेच्चिरकालोत्थाः कुष्ठपामाविचर्चिकाः ॥ ६.४५ ॥ <सुल्fउर्:: मेदिच्. उसे> कलांशव्योषसंयुक्तं शुद्धगन्धकचूर्णकम् । वस्त्रे वितस्तिमात्रे तु गंधचूर्णं सतैलकम् ॥ ६.४६ ॥ विलिप्य वेष्टयित्वा च वर्तिं सूत्रेण वेष्टयेत् । धृत्वा संदंशतो वर्ति- मध्यं प्रज्वालयेच्च ताम् ॥ ६.४७ ॥ विद्रुतः पतते गंधो बिन्दुशः काचभाजने । तां द्रुतिं प्रक्षिपेत्पत्त्रे नागवल्ल्यास्त्रिबिन्दुकाम् ॥ ६.४८ ॥ रसं वल्लमितं तत्र दत्त्वाङ्गुल्या विमर्दयेत् । तत्सर्वं भक्षयेत्पश्चाद्गोदुग्धं चानु सम्पिबेत् ॥ ६.४९ ॥ कामस्य दीप्तिं कुरुते क्षयपाण्डुविनाशनम् । ग्रहणीं नाशयेद्दुष्टां शूलार्तिश्वासकासकम् ॥ ६.५० ॥ आमाजीर्णं प्रशमयेल्लघुत्वं च प्रजायते । गंधकस्य गुणान्वक्तुं शक्तः कः शंभुना विना ॥ ६.५१ ॥ <कङ्कुष्ठ:: ओरिगिन्> पर्वते हिमसमीपवर्तिनि जायतेऽतिरुचिरं कङ्कुष्ठकम् । <कङ्कुष्ठ:: सुब्त्य्पेस्> एकमेव नलिकाभिधानकं रेणुकं तदनु चापरं भवेत् ॥ ६.५२ ॥ <नलिका:: फ्य्स्. प्रोपेर्तिएस्> पीतवर्णमसृणं च वै गुरु स्निग्धमुत्तमतरं प्रवक्ष्यते । <रेणुक:: फ्य्स्. प्रोपेर्तिएस्> श्यामपीतमतिहीनसत्त्वकं रेणुकं हि कथितं द्वितीयकम् ॥ ६.५३ ॥ <कङ्कुष्ठ:: थिर्द्त्य्पे fरों थे fएचेसोf अ नेwबोर्नेलेफन्त्> वदन्ति कंकुष्ठमथापरे हि सद्यः प्रसूतस्य च दन्तिनः शकृत् । तत्कृष्णपीतं भवतीव रेचनं तृतीयमाहुर्विबुधा भिषग्वराः ॥ ६.५४ ॥ <कङ्कुष्ठ:: ४. त्य्पे = नाल ओf होर्सेस्> चतुर्थकङ्कुष्ठमिहैव वाजिनां नालं हि केचित्प्रवदन्ति तज्ज्ञाः । यद्धस्तिजं श्वेतमथातिपीतं विरेचनं तत्प्रकरोति शीघ्रम् ॥ ६.५५ ॥ रसायने श्रेष्ठतरं रसे च सत्वेन युक्तं खलु गौरवान्वितम् । <कङ्कुष्ठ:: शोधन> शुंठ्यम्भसा भावितमेव शुद्धिं कंकुष्ठमायाति हि सत्यमुक्तम् ॥ ६.५६ ॥ <कङ्कुष्ठ:: शुद्ध:: मेदिच्. प्रोपेर्तिएस्> कङ्कुष्ठकं तिक्तकटूष्णवीर्यं विशेषतो रेचनकं करोति । गुदार्तिगुल्मव्रणशूलहृत्परं प्रचक्षते शास्त्रविदः पुराणाः ॥ ६.५७ ॥ <कङ्कुष्ठ:: सत्त्व:: पातन> सत्त्वाकृष्टिर्न च प्रोक्ता यस्मात्सत्वमयं हि तत् । <कङ्कुष्ठ:: मेदिच्. उसे> यवमात्रं भजेदेनं विरेकार्थं न संशयः ॥ ६.५८ ॥ क्षणादामज्वरं हन्ति जाते सति विरेचने । तांबूलेन समं चैवं भक्षितं सारयेद्ध्रुवम् ॥ ६.५९ ॥ बब्बूलमूलिकाक्वाथं सौभाग्याजाजिसंयुतम् । भूयो भूयः पिबेद्धीमान् विषं कंकुष्ठजं जयेत् ॥ ६.६० ॥ <कासीस:: सुब्त्य्पेस्> कासीसं प्रथमं हि सैकतमिदं पुष्पाख्यमन्यत्तथा क्षाराम्लं गुरु धूम्रवर्णविषहृत्वीर्योष्णकं रागदम् । <वालुकाकासीस:: मेदिच्. प्रोपेर्तिएस्> श्वित्रघ्नं मुखकेशरंजनकरं तत्सैकतं पूर्वकं पुष्पाख्यं ह्यपरं गुणैश्च सहितं सेव्यं सदा रोगहृत् ॥ ६.६२ ॥ <पुष्पकासीस:: मेदिच्. प्रोपेर्तिएस्> पुष्पाभिधं च कासीसं प्रसिद्धं नेत्ररोगहा । सोष्णवीर्यं कषायाम्लं विषघ्नं श्लेष्मनाशनम् । व्रणहृत्क्षयरोगघ्नं पटरञ्जनकं परम् ॥ ६.६३ ॥ <कासीस:: शोधन> भृंगराजरसे स्विन्नं निर्मलं हि प्रजायते । <कासीस:: सत्त्व:: पातन> सौराष्ट्रीसत्ववत्सत्त्वमेतस्यापि समाहरेत् ॥ ६.६४ ॥ <कासीस:: मेदिच्. उसे> कासीसं भस्म कांतस्य चोभयं समभागिकम् । वराविडङ्गसंयुक्तं घृतक्षौद्रप्लुतं प्रगे ॥ ६.६५ ॥ भक्षितं हन्ति वेगेन पाण्डुयक्ष्माणमेव च । प्लीहं गुल्मं गुदे शूलं मूत्रकृच्छ्राण्यशेषतः ॥ ६.६६ ॥ सेवितं सर्वरोगघ्नं रसायनविधानतः । अग्निसंधुक्षणं कुर्यात्वलीपलितनाशनम् । आमाजीर्णभवान् रोगान्निहन्त्येव न संशयः ॥ ६.६७ ॥ <नवसार:: स्य्नोन्य्म्स्> उद्दिष्टं नवसाराख्यं लवणं चुल्लिकाभिधम् । <नवसार:: अल्छेम्., मेदिच्. प्रोपेर्तिएस्> लोहद्रावणकं प्रोक्तं रसजारणकं तथा ॥ ६.६८ ॥ वह्निं च दीपयत्याशु गुल्मप्लीहामयापहम् । मांसादिजारणं सम्यक्भुक्तपाकं करोति तत् ॥ ६.६९ ॥ <वराटिका:: परीक्षा> पीता वराटिका या तु सार्धनिष्कप्रमाणिका । श्रेष्ठा सैव बुधैः प्रोक्ता टङ्कभारा हि मध्यमा ॥ ६.७० ॥ पादोनटङ्कभारा या कथ्यते सा कनिष्ठिका ॥ ६.७१ ॥ <मोनेय्चोwरिए:: मेदिच्. प्रोपेर्तिएस्> रसे रसायने प्रोक्ता परिणामादिशूलनुत् । ग्रहणीक्षयरोगघ्नी वीर्योष्णा दीपनी मता ॥ ६.७२ ॥ वृष्या दोषहरी नेत्र्या कफवातविनाशिनी । रसेन्द्रजारणे शस्ता बिडमध्ये सदा हिता ॥ ६.७३ ॥ स्थूला वराटिका प्रोक्ता गुरुश्च श्लेष्मपित्तहा । <मोनेय्चोwरिए:: शोधन> स्वेदिता ह्यारनालेन यामाच्छुद्धिमवाप्नुयात् ॥ ६.७४ ॥ <दरद:: सुब्त्य्पेस्> दरदः शुकतुण्डाख्यो हंसपाकस्तथापरः । <शुकतुण्ड:: फ्य्स्. प्रोपेर्तिएस्> चर्मारः प्रथमः प्रोक्तो हीनसत्वः स उच्यते ॥ ६.७५ ॥ <हंसपाक:: फ्य्स्. प्रोपेर्तिएस्> प्रवालाभः शलाकाढ्यः उत्तमो हंसपाककः । <दरद:: मेदिच्. प्रोपेर्तिएस्> दीपनः सर्वदोषघ्नो हिंगुलोऽतिरसायनः ॥ ६.७६ ॥ सर्वरोगहरः साक्षात्द्रावणे संप्रशस्यते । <मेर्चुर्य्:: हिङ्गुलाकृष्ट> यथा षड्गुणगंधेन जारितरसराजकः ॥ ६.७७ ॥ दरदाकर्षितः सूतो गुणैरेवंविधो भवेत् । <दरद:: शोधन> कुष्माण्डखण्डमध्ये तु स्वेदितो लकुचाम्बुना । सकृत्संजायते शुद्धः सर्वकार्येषु योजयेत् ॥ ६.७८ ॥ <गैरिक:: सुब्त्य्पेस्> पाषाणगैरिकं चैकं द्वितीयं स्वर्णगैरिकम् । <पाषाणगैरिक:: फ्य्स्. प्रोपेर्तिएस्> पाषाणगैरिकं प्रोक्तं कठिनं ताम्रवर्णकम् ॥ ६.७९ ॥ <स्वर्णगैरिक:: फ्य्स्. प्रोपेर्तिएस्> अत्यन्तशोणितं स्निग्धं मसृणं स्वर्णगैरिकम् । <स्वर्णगैरिक:: मेदिच्. प्रोपेर्तिएस्> स्वादु तिक्तं हिमं नेत्र्यं कषायं रक्तपित्तनुत् ॥ ६.८० ॥ हिक्कावमिविषघ्नं च रक्तघ्नं स्वर्णगैरिकम् । <पाषाणगैरिक:: मेदिच्. प्रोपेर्तिएस्> पाषाणगैरिकं चान्यत्पूर्वस्मादल्पकं गुणैः ॥ ६.८१ ॥ <गैरिक:: शोधन> गैरिकं तु गवां दुग्धैर्भावितं शुद्धिमृच्छति । <गैरिक:: सत्त्व:: पातन> गैरिकं सत्वरूपं हि नन्दिना परिकीर्तितम् ॥ ६.८२ ॥ <अग्निजार:: ओरिगिन्> समुद्रेणाग्निनक्रस्य जरायुर्बहिरुज्झितः । रवितापेन संशुष्कः सोऽग्निजार इति स्मृतः ॥ ६.८३ ॥ <अग्निजार:: मेदिच्. प्रोपेर्तिएस्> त्रिदोषशमनो ग्राही धनुर्वातहरः परः । वर्धनो रसवीर्यस्य जारणः परमः स्मृतः ॥ ६.८४ ॥ <गिरिसिन्दूर:: ओरिगिन्> महागिरौ शिलान्तस्थो रक्तवर्णच्युतो रसः । सूर्यातपेन संशुष्को गिरिसिन्दूरसंज्ञितः ॥ ६.८५ ॥ <गिरिसिन्दूर:: मेदिच्. प्रोपेर्तिएस्> रसबंधकरो भेदी त्रिदोषशमनस्तथा । देहलोहकरो नेत्र्यो गिरिसिन्दूर ईरितः ॥ ६.८६ ॥ <उदारशृङ्ग:: ओरिगिन्> भवेद्गुर्जरके देशे सदलं पीतवर्णकम् । अर्बुदस्य गिरेः पार्श्वे नाम्ना वोदारशृङ्गकम् ॥ ६.८७ ॥ <उदारशृङ्ग:: मेदिच्. प्रोपेर्तिएस्> नागसत्वं लिंगदोष- हरं श्लेष्मविकारनुत् । रसबन्धकरं सम्यक्श्मश्रुरञ्जनकं परम् ॥ ६.८८ ॥ <साधारणरस:: शोधन> साधारणरसाः सर्वे बीजपूररसेन वै । त्रिवारं भाविताः शुष्का जायन्ते दोषवर्जिताः ॥ ६.८९ ॥ <विड्लवण:: मेदिच्. प्रोपेर्तिएस्> बिडं हि कथ्यते तद्वत्सर्वदोषहरं परम् ॥ ६.९० ॥ ____________________________________________________________ अध्याय ७ <नव रत्नानि> माणिक्यं मौक्तिकं चैव विद्रुमं तार्क्ष्यं पुष्पकम् । वज्रं नीलं च गोमेदं वैडूर्यं च क्रमेण हि ॥ ७.१ ॥ सुजातिगुणसम्पन्नं रत्नं सर्वार्थसिद्धिदम् । दाने रसायने चैव धारणे देवतार्चने ॥ ७.२ ॥ <रुब्य्:: सुब्त्य्पेस्> पद्मरागाभिधं श्रेष्ठं प्रथमं तदुदीरितम् । <रुब्य्:: नीलगन्धि> द्वितीयं नीलगन्धि स्याद्घनं रक्तं सुशोभनम् ॥ ७.३ ॥ <रुब्य्:: परीक्षा> महच्च कमलच्छायं स्निग्धं स्वच्छं गुरु स्फुटम् । समं वृत्तायतं गात्रे माणिक्यं चोत्तमं मतम् ॥ ७.४ ॥ <नीलगन्धि:: फ्य्स्. प्रोपेर्तिएस्> गंगोदकसमुद्भूतं नीलगर्भारुणच्छवि । माणिक्यं पूर्ववच्छायं नीलगन्धि तदुच्यते ॥ ७.५ ॥ <रुब्य्:: परीक्षा:: बदॄउअलित्य्> माणिक्यं चाष्टधा नेष्टं सच्छिद्रं मलिनं लघु । कर्कशं चिपिटं वक्रं सूक्ष्मं चाविशदं तथा ॥ ७.६ ॥ <रुब्य्:: मेदिच्. प्रोपेर्तिएस्> संदीपनं वृष्यतमं हि रूक्षं वातापहं कर्मरुजापहं च । भूतादिदोषत्रयनाशनं परं राज्ञां सदा योग्यतमं प्रशस्तम् ॥ ७.७ ॥ <पेअर्ल्:: परीक्षा:: गोओदॄउअलित्य्> ह्लादि श्वेतं रश्मिमन्निर्मलं च वृत्तं ख्यातं मौक्तिकं तोयभासम् । स्निग्धं तौल्ये गौरवं चेन्महत्तल्लिंगैरेतैर्लक्षितं तच्च शुद्धम् ॥ ७.८ ॥ <पेअर्ल्:: परीक्षा:: बदॄउअलित्य्> रूक्षाङ्गं चेन्निष्प्रभं श्यावताम्रं चार्धं शुभ्रं ग्रंथिलं मौक्तिकं च । क्षाराभासं वैकटं युग्मकं च दोषैर्युक्तं सर्वथा त्याज्यमेभिः ॥ ७.९ ॥ <पेअर्ल्:: मेदिच्. प्रोपेर्तिएस्> कासं श्वासं वह्निमांद्यं क्षयं च हन्याद्वृष्यं बृंहणं पित्तहारि । दाहश्लेष्मोन्मादवातादिरोगान् हन्यादेवं सेवितं सर्वकाले ॥ ७.१० ॥ <चोरल्:: परीक्षा:: गोओदॄउअलित्य्> स्निग्धं स्थूलं पक्वबिम्बीफलाभं वृत्तं दीर्घं निर्व्रणं चाप्यदीर्घम् । ख्यातं सद्भिः सप्तधा विद्रुमं च दोषैर्मुक्तं सर्वकार्येषु शस्तम् ॥ ७.११ ॥ <चोरल्:: परीक्षा:: बदॄउअलित्य्> रूक्षं श्वेतं सव्रणं धूसरं च निर्भारं चेच्छुल्बवर्णं प्रवालम् । दोषैर्युक्तं कोटरैरावृतं च नेष्टं सद्भिर्भक्षणे धारणे च ॥ ७.१२ ॥ <चोरल्:: मेदिच्. प्रोपेर्तिएस्> पित्तास्रघ्नं श्वासकासादिरोगान् हन्यादेवं दुर्निवारं विषं च । भूतोन्मादान्नेत्ररोगान्निहन्यात्सद्यः कुर्याद्दीपनं पाचनं च ॥ ७.१३ ॥ <एमेरल्द्:: परीक्षा:: गोओदॄउअलित्य्> तार्क्ष्यं स्निग्धं भासुरं शष्पवर्णं गात्रैः शुद्धं भारवद्रश्मियुक्तम् । एते प्रोक्ता सप्तसंख्या गुणा वै दाने शस्तं भक्षणे धारणे च ॥ ७.१४ ॥ <एमेरल्द्:: परीक्षा:: बदॄउअलित्य्> नीलं श्वेतं कर्कशं श्यावरूक्षं वक्रं कृष्णं चिप्पटं भारहीनम् । <एमेरल्द्:: मेदिच्. प्रोपेर्तिएस्> दुष्टं तार्क्ष्यं चौषधेनोपयोज्यं कासं श्वासं सन्निपाताग्निमांद्यम् ॥ ७.१५ ॥ शोफं शूलं जूर्तिरोगं विषं च दुर्नामानं पाण्डुरोगं निहन्यात् ॥ ७.१६ ॥ <पुष्पराग:: परीक्षा:: गोओदॄउअलित्य्> स्वच्छं स्थूलं पुष्परागं गुरु स्यात्स्निग्धं वर्णे कर्णिकारप्रसूनम् । तच्चावक्रं मसृणं कोमलं च लिंगैरेतैः शोभनं पुष्परागम् ॥ ७.१७ ॥ <पुष्पराग:: परीक्षा:: बदॄउअलित्य्> रूक्षं पीतं कर्कशं श्यामलं च पाण्डु स्याद्वा कापिलं तोयहीनम् । दोषैर्युक्तं निष्प्रभं पुष्परागं नो सेव्यं तन्नैव देयं द्विजेभ्यः ॥ ७.१८ ॥ <पुष्पराग:: मेदिच्. प्रोपेर्तिएस्> कुष्ठं छर्दिं श्लेष्मवातौ निहन्ति मंदाग्नीनामेतदेव प्रशस्तम् । दाहे कृच्छ्रे दीपनं पाचनं च तस्मात्सेव्यं सर्वकालं मनुष्यैः ॥ ७.१९ ॥ <वज्र:: सुब्त्य्पेस्:: गेन्देर्> सर्वेषु रत्नेषु सदा वरिष्ठं मूल्यैर्गरिष्ठं विविधं हि वज्रम् । नरश्च नारी च तथा तृतीयं तेषां गुणान्वच्मि समासतो हि ॥ ७.२० ॥ पूर्वं पूर्वं श्रेष्ठमेतत्प्रदिष्टं द्रव्याद्वीर्यात्पाकतश्च प्रभावात् । तेषां वर्णा जातयश्च प्रभेदाः कथ्यन्तेऽष्टौ शास्त्रतश्चापकर्षात् ॥ ७.२१ ॥ श्वेतादिकं वर्णचतुष्टयं हि सर्वेषु रत्नेषु च कथ्यते बुधैः । स्युर्ब्राह्मणक्षत्रियवैश्यशूद्रास्ते जातयो वै क्रमशश्च वर्णाः ॥ ७.२२ ॥ <पुंवज्र:: फ्य्स्. प्रोपेर्तिएस्> पुंवज्रं यत्प्रोच्यते चाष्टधारं षट्कोणं चेदिन्द्रचापेन तुल्यम् । अष्टौ चेत्स्युः फालका भासुरं वै पूर्वं श्रेष्ठं सर्वदोषापहं स्यात् ॥ ७.२३ ॥ <स्त्रीवज्र:: फ्य्स्. प्रोपेर्तिएस्> स्त्रीवज्रं चेत्तादृशं वर्तुलं हि किंचिच्चैवं चिप्पटं कर्कशं च । <नपुंसक:: फ्य्स्. प्रोपेर्तिएस्> कोणाग्रं वै कुण्ठितं वर्तुलं च किंचिद्धीनं प्रोच्यते तत्तृतीयम् ॥ ७.२४ ॥ स्त्री पुमान्नो स्त्री पुमान् यच्च वज्रं योज्यं तच्च स्त्रीषु पुंस्वेव षण्ढे । व्यत्यासाद्वै नैव दत्तं फलं तद्दद्याद्वज्रं वा विना तत्पुमांसम् ॥ ७.२५ ॥ वर्णेऽप्येवं यस्य वर्णस्य वज्रं तत्तद्वर्णे शोभनीयं प्रदिष्टम् । न्यायश्चायं भैरवेण प्रदिष्टः सर्वेष्वेव रत्नवर्गेषु सम्यक् ॥ ७.२६ ॥ <वज्र:: शोधन> यामावधि स्वेदितमेव वज्रं शुद्धिं प्रयातीह कुलत्थतोये । सिद्धं तथा कोद्रवजे शृते वा वज्रं विशुध्येद्धि विनिश्चितेन ॥ ७.२७ ॥ <वज्र:: मारण:: वारितर> सुभावितं मत्कुणशोणितेन वज्रं चतुर्वारविशोषितं च । छुच्छुंदरीस्थं हि विपाचितं पुटे पुटेद्वराहेण च त्रिंशदेवम् ॥ ७.२८ ॥ ध्मातं पुनर्ध्माय शतं हि वारान् क्वाथे कुलत्थस्य हि निक्षिपेच्च । संपेषयेत्तं हि शिलातलेन मनःशिलाभिः सह कारयेद्वटीम् ॥ ७.२९ ॥ क्षिप्त्वा निरुन्ध्यापि च मूषिकायां पुटान्यथाष्टौ च वनोपलैर्ददेत् । वारान् शतं चापि ततो धमेत्तं संमर्दितं शोधितपारदेन ॥ ७.३० ॥ वज्राणि सर्वाणि मृतीभवन्ति तद्भस्मकं वारितरं भवेच्च । श्रीसोमदेवेन च सत्यवाचा वज्रस्य मृत्युः कथितो हि सम्यक् ॥ ७.३१ ॥ <वज्र:: मारण> कासमर्दरसपूर्णलोहजे मत्कुणस्य रुधिरैर्विलेपितम् । स्वेदितं च भिदुरं हि सप्तभिर्वासरैः परिनिषेच्य मूत्रके ॥ ७.३२ ॥ ध्मापितं हि खलु वज्रसंज्ञकं मारयेदिति वदन्ति तद्विदः । <वज्र:: मारण> नीलज्वालावीरुधः कन्दकेषु घृष्टं घर्मे शोषितं भस्मभावम् ॥ ७.३३ ॥ वज्रं याति स्वैरवह्निप्रदानात्पिष्टैश्चापि क्षोणिनागैः प्रलिप्तम् । विंशद्वारान् संपुटेच्च प्रयत्नादारण्यैर्वा गोमयैस्तद्धठाग्नौ । वज्रं चैवं भस्मसाद्वीर्ययुक्तं सर्वस्मिन्वै योजनीयं रसादौ ॥ ७.३४ ॥ <वज्र:: मृत:: मेदिच्. प्रोपेर्तिएस्> आयुःप्रदं वृष्यतमं प्रदिष्टं दोषत्रयोन्मूलनकं तथैव । रसेन्द्रकस्यापि हि बंधकृत्सदा सुधासमं चापमृतिं च हन्यात् ॥ ७.३५ ॥ <वज्र:: मेदिच्. उसे> भूनागसत्वेन समं विमर्द्य वज्रस्य भूतिं च समानहेम्ना । ध्मातं रसादावपि योजनीयं रसायनं तद्भवतीह सम्यक् ॥ ७.३६ ॥ भागास्त्रयश्चैव हि सूतकस्य भागं विमर्द्याथ मृतं हि वज्रम् । वज्रस्य भूतिः किल पोटलीकृता मुखे धृता दार्ढ्यकरी द्विजानाम् ॥ ७.३७ ॥ <वज्ररसायनं षाड्गुण्यसिद्धिदम्> वज्रभस्म किल भागत्रिंशकं स्वर्णमेव कथितं कलांशकम् । अष्टभागमिह तारकं कुरु सूतमत्र समभागकं सदा ॥ ७.३८ ॥ अभ्रसत्वभसितं समांशकं तुर्यभागमिह ताप्यकं भवेत् । वैक्रांतभस्मात्र तथाष्टभागकं षडेव भागा हि बलेर्विधेयाः ॥ ७.३९ ॥ षाड्गुण्यसंसिद्धिमुपैति सर्वदा सर्वार्थसंसिद्धिमुपैति सेविते ॥ ७.४० ॥ <सप्फिरे:: सुब्त्य्पेस्> इन्द्रनीलमथ वारिनीलकं श्वैत्यगर्भितमथापि नीलकम् । कथ्यते हि लघु वारिनीलकं तुच्छमेव कथितं भिषग्वरैः । <इन्द्रनील:: परीक्षा> कान्त्या युक्तं कार्ष्ण्यगर्भं च नीलं तच्चाप्युक्तं शक्रनीलाभिधानम् ॥ ७.४१ ॥ <सप्फिरे:: परीक्षा:: गोओदॄउअलित्य्> एकच्छायं स्निग्धवर्णं गुरु स्यात्स्वच्छं मध्ये चोल्लसत्कांतियुक्तम् । नीलं प्रोक्तं पिण्डितं सप्तसंज्ञैरेतैर्लिङ्गैर्लक्षितं चोत्तमं हि ॥ ७.४२ ॥ <सप्फिरे:: परीक्षा:: बदॄउअलित्य्= जलनील> निर्भारं चेत्कोमलं चास्रगन्धि रूक्षं वर्णे सूक्ष्मकं चिप्पिटं च । प्रोक्तं वै तद्वारिनीलं भिषग्भिरेतैर्लिंगैः सप्तभिः क्षेपणीयम् ॥ ७.४३ ॥ <सप्फिरे:: मेदिच्. प्रोपेर्तिएस्> संदीपनं श्वासहरं च वृष्यं दोषत्रयोन्मूलनकं विषघ्नम् । दुर्नामपांडुघ्नमतीव बल्यं जूर्तिं जयेन्नीलमिदं प्रशस्तम् ॥ ७.४४ ॥ <गोमेद:: परीक्षा:: गोओदॄउअलित्य्> गोमेदकं रत्नवरं प्रशस्तं गोमेदवद्रागयुतं प्रचक्षते । सुस्वच्छगोमूत्रसमानवर्णं गोमेदकं शुद्धमिहोच्यते खलु ॥ ७.४५ ॥ दीप्तं स्निग्धं निर्दलं मसृणं वै मूत्रच्छायं स्वच्छमेतत्समं च । एभिर्लिङ्गैर्लक्षितं वै गरीयः सर्वास्वेतद्योजनीयं क्रियासु ॥ ७.४६ ॥ <गोमेद:: परीक्षा:: बदॄउअलित्य्> विच्छायं वा चिप्पिटं निष्प्रभं च रूक्षं चाल्पं चावृतं पाटलेन । निर्भारं वा पीतकाचाभयुक्तं गोमेदं चेदीदृशं नो वरिष्ठम् ॥ ७.४७ ॥ <गोमेद:: मेदिच्. प्रोपेर्तिएस्> गोमेदकं पित्तहरं प्रदिष्टं पाण्डुक्षयघ्नं कफनाशनं च । संदीपनं पाचनमेव रुच्यमत्यंतबुद्धिप्रविबोधनं च ॥ ७.४८ ॥ <वैडूर्य:: परीक्षा:: गोओदॄउअलित्य्> स्वच्छं समं चापि विडूर्यकं हि श्यामाभशुभ्रं च गुरु स्फुटं वा । यज्ञोपवीतोपमशुद्धरेषास्तिस्रश्च संदर्शयतीह शुभ्राः ॥ ७.४९ ॥ <वैडूर्य:: परीक्षा:: बदॄउअलित्य्> कर्कशं च लघु चिप्पटं सदा श्यामतोयमिव दृश्यते छविः । रक्तगर्भसममुत्तरीयकं नैव शोभनमिदं विडूर्यकम् ॥ ७.५० ॥ <वैडूर्य:: मेदिच्. प्रोपेर्तिएस्> रक्तपित्तशमनं विडूर्यकं बुद्धिवर्धनकरं च दीपनम् । पित्तरोगमलमोचनं सदा धारयेच्च मतिमान् सुखावहम् ॥ ७.५१ ॥ <सर्वरत्नेषु दोषाः> घर्षश्च बिंदुश्च तथैव रेषा त्रासश्च पानीयकृता सगर्भता । सर्वेषु रत्नेषु च पञ्चदोषाः साधारणास्ते कथिता मुनीन्द्रैः ॥ ७.५२ ॥ ये क्षेत्रतोयप्रभवाश्च दोषाः सर्वेषु रत्नेषु गलन्ति सम्यक् ॥ ७.५३ ॥ तेषां च शुद्धिं शृणु भैरवोक्तां यथा हि दोषस्य विनाशनं स्यात् । <जेwएल्:: शोधन> अम्लेन वै शुध्यति माणिक्याख्यं जयन्तिकायाः स्वरसेन मौक्तिकम् ॥ ७.५४ ॥ क्षारेण सर्वेण हि विद्रुमं च गोदुग्धतस्तार्क्ष्यमुपैति शुद्धिम् । धान्यस्याम्लैः पुष्परागस्य शुद्धिं कौलत्थे वै क्वाथ्यमानं हि वज्रम् ॥ ७.५५ ॥ नीलं नीलीपत्रजातै रसैश्च गोमेदं वै रोचनाया रसेन । वैडूर्यं चेदुत्तमाक्वाथयुक्तं यामैकैकं स्वेदितं शुद्धिमेति ॥ ७.५६ ॥ <रत्नमारणम्> तालगंधकशिलासमन्वितं मर्दयेल्लकुचवारिणा खलु । वज्रवर्ज्यमपि चाष्टभिः पुटै रत्नभस्म भवतीति निश्चितम् ॥ ७.५७ ॥ <जेwएल्:: द्रावण> रामठं लवणपंचकं सदा क्षारयुग्ममपि चेत्सुपेषितम् । चूलिकालवणमम्लवेतसं पक्वकुम्भिकफलं तथैव च ॥ ७.५८ ॥ चित्रमूलकरुदन्तिके शुभा जम्बुकी जलयुता द्रवन्तिका । अर्कदुग्धसमसौधदुग्धकं सर्वमेव मृदितं शिलातले ॥ ७.५९ ॥ गोलमस्य च विधाय निक्षिपेद्रत्नजातिषु वराणि पेषयेत् । भूर्जपत्रमभिवेष्ट्य गोलके गोलकोपरि निवेष्ट्य मूत्रतः ॥ ७.६० ॥ वस्त्रेण संवेष्ट्य ततः प्रयत्नाद्दोलाख्ययंत्रेऽथ निवेश्य गोलकम् । सर्वाम्लयुक्ते तुषवारिपूरिते पात्रं दृढे मृण्मयसंज्ञके हि ॥ ७.६१ ॥ दिनत्रयं स्वेदनकं विधेयमाहृत्य तस्माद्वरगोलकं हि । संक्षालयेच्चाम्लजलेन चापि संजायते रत्नभवा द्रुतिश्च ॥ ७.६२ ॥ <द्रुतिलक्षणानि> वर्णेन सा रत्ननिभा च कान्त्या लघ्वी भवेद्देहकरी च सम्यक् । लोहस्य वेधं प्रकरोति सम्यक्सूतेन सम्यङ्मिलनं प्रयाति ॥ ७.६३ ॥ तदा भवेयुः खलु सिद्धता यदा हिंग्वादिवर्गेण मिलन्ति सम्यक् । यामद्वयं कांस्यविमर्दिता वै चातिप्रयत्नेन तु वैद्यवर्यैः ॥ ७.६४ ॥ कस्यापि नुः सिध्यति वै द्रुतिश्च यदा प्रसन्नः खलु पार्वतीशः । न स्याद्यावद्भैरवस्य प्रसादस्तावत्सूते बन्धनं दुर्लभं हि । तासां मध्ये दुर्लभाभ्रद्रुतिश्च स्वल्पं भाग्यं भूरिदौर्भाग्यभाजाम् ॥ ७.६५ ॥ रत्नानां क्रमतो गुणाश्च कथितास्तच्छोधनं मारणं तेभ्यश्चैव हि सत्वपातनमथो सम्यग्द्रुतेः पातनम् । सर्वेषां हि परीक्षणं च द्रुतयः सम्मेलनं वै रसे अध्यायेऽत्र निदर्शितानि सकलान्येवं हि कर्माणि वै ॥ ७.६६ ॥ ____________________________________________________________ अध्याय ८ भवति गदगणानां नाशनं येन सद्यो विविधरसविधानं कथ्यतेऽत्रैव सम्यक् । रसनिगमसुधाब्धौ मथ्यमाने मयैव गणितरसशतानां संग्रहः प्रोच्यते वै ॥ ८.१ ॥ <ज्वराङ्कुश (१)> सुखण्डितं हारिणजं विषाणं रसेन पाच्यं जलजंबुकस्य । रुद्ध्वाथ भाण्डे विपचेच्च चुल्ल्यां यामद्वयं शीतगतं समुद्धरेत् ॥ ८.२ ॥ ततोऽष्टभागं त्रिकटुं नियोज्य निष्कप्रमाणं च भजेत्प्रभाते । तं नागवल्लीदलजेन सार्धं निहन्ति वातोद्भवकं ज्वरं च ॥ ८.३ ॥ <ज्वराङ्कुश (२)> सूतगंधविषकारवीकणा- दन्तिबीजमिति वर्धितैः क्रमात् । मर्दितैश्च दशनिंबुकद्रवै रक्तिकार्धतुलिता वटी कृता । भक्षिता ज्वरगणान्निहन्त्ययं रेचनो ज्वरहरोऽयमङ्कुशः ॥ ८.४ ॥ एक एव कथितस्तु सोऽमलः स्वेदितोऽपि सह चूर्णजलेन । यामपूर्वमपि रक्तिकामितो भक्षितः सकलशीतजूर्तिहृत् ॥ ८.५ ॥ <ज्वरारिरस> पारदं रसकगंधतालकं तुत्थटंकणयुतं सुशोधितम् । मर्दयेच्च सममात्रमेकतः कारवेल्लजरसैर्दिनं तथा ॥ ८.६ ॥ लेपयेच्च रविभाजनोदरे चांगुलार्धमपि मानमेव हि । ताम्रभाजनमुखं निरुध्य वै तं पचेत्सिकतयंत्रमध्यतः ॥ ८.७ ॥ धान्यकान्युपरि मुञ्चितानि चेत्संस्फुटन्ति यदि शुद्धमुच्यते । जायतेऽतिरुचिरो ज्वरारिकः सेवितो ज्वरगणापहारकः ॥ ८.८ ॥ माषमात्रमुषणैः समैः सदा पर्णखण्डसहितैश्च भक्षितः । नाशयेद्धि विषमोद्भवान् ज्वरानन्धकारमिव भास्करोदयः ॥ ८.९ ॥ <तरुणज्वरारिरसः> तालताम्ररसगंधतुत्थकान् शाणमात्रतुलितान् समस्तकान् । निष्कमात्ररुचिरां मनःशिलां मर्दयेत्त्रिफलकाम्बुभिर्दृढम् ॥ ८.१० ॥ गोलमस्य च विधाय संपुटे पाचयेच्च पुटपाकयोगतः । अर्कवज्रिपयसा सुभावयेत्सप्तवारमथ दन्तिकाशृतैः ॥ ८.११ ॥ माषमात्ररस एष भक्षितः शाणमानमरिचैर्युतो यदा । सार्धनिष्ककगुडेन योजितः सौरसैर्द्विदशपत्रकैर्युतः ॥ ८.१२ ॥ शीतपूर्वमथ दाहपूर्वकं द्व्याहिकं च सकलान् ज्वरानपि । नाशयेद्धि तरुणज्वरारिकः सर्वदोषशमनः सुखावहः ॥ ८.१३ ॥ <ज्वरघ्नी वटी> भागैकः स्यात्पारदः शोधितश्च एलीयः स्यात्पिप्पली श्रेयसी च । आकल्लो वै गंधकः सार्षपेण तैलेनाथो शोधितो बुद्धिमद्भिः ॥ ८.१४ ॥ तुर्यान्भागानिन्द्रवल्लीफलानां कृत्वा चूर्णं शोषयेत्सूर्यतापे । चूर्णं चैतद्भावयेत्तद्रसेन माषैस्तुल्यां कारयेत्तद्वटीं च ॥ ८.१५ ॥ दत्त्वा चैकां जातसद्योज्वराय छिन्नाङ्गायाः क्वाथपानं विधेयम् । दोषोद्भूतं सन्निपातोद्भवां च जूर्तिं सम्यङ्नाशयत्याशु तीव्राम् ॥ ८.१६ ॥ <ज्वरकृन्तनरसः> शुद्धः सूतो गंधको वत्सनाभः प्रत्येकं वै शाणमात्रा विधेया । धूर्ताद्बीजं कारयेद्वै त्रिशणं सर्वेभ्यो वै द्वैगुणा हेमदुग्धा ॥ ८.१७ ॥ सूक्ष्मं चूर्णं कारयेत्तत्प्रयत्नाद्देयं गुंजायुग्ममानं च सम्यक् । खादेदार्द्रं चानुपाने ज्वरार्तः सद्यो हन्यात्सर्वदोषोत्थजूर्तिम् ॥ ८.१८ ॥ <ज्वरारिरसः> सूतं गंधं हिङ्गुलं दंतिबीजं भागैर्वृद्धं कारयेच्च क्रमेण । चूर्णं कृत्वा मर्दितं दंतितोयैर्गुंजामात्रो भक्षितश्चेज्ज्वरारिः ॥ ८.१९ ॥ <सूर्यरसः> एकं भागं वत्सनाभं च कुर्याद्द्वौ भागौ चेट्टङ्कणं दंतिबीजम् । त्रीण्येवैते हिंगुलस्यापि तुर्यः सद्यो जूर्तिं नाशयत्येव सूर्यः ॥ ८.२० ॥ <प्रतिज्ञावाचकरसः> शुद्धं सूतं भागमेकं तु तालाद्द्वौ भागौ चेद्वेदसंख्याः शिलायाः । ताम्रस्यैवं भागयुग्मं प्रकुर्याद्भल्लातं वा वेदभागं तथैव ॥ ८.२१ ॥ अर्कक्षीरैर्भावयेच्च त्रिवारं कृत्वा चूर्णं कारयेद्गोलकं तत् । स्थालीमध्ये स्थापितं तच्च गोलं दत्त्वा मुद्रां भस्मना सैंधवेन ॥ ८.२२ ॥ धूम्रस्यैवं रोधनं च प्रकुर्याच्छाणैर्दद्यात्स्वेदनं मन्दवह्नौ । पश्चात्तोयेनैव भाव्यं च चूर्णं गोलं कृत्वा मंदवह्नौ विपाच्य ॥ ८.२३ ॥ पश्चादेनं भक्षयेद्वै रसेन्द्रं वल्लं चैकं शर्कराचूर्णमिश्रम् ॥ ८.२४ ॥ तद्वत्कृष्णामाक्षिकेणैव जूर्तिं हन्यादेतत्सर्वदोषोत्थितां वै ॥ ८.२५ ॥ <अतिसारसंग्रहणीहरा योगाः> अथातीसारशमनान् रसान् संकथयामि वै । भक्षिताश्चैव ये नित्यं सद्यः प्रत्ययकारकाः ॥ ८.२६ ॥ <शङ्खोदररसः> शुद्धं सूतं गंधकं वै समांशं चित्रोन्मत्तैर्मर्दयेद्वासरैकम् । चूर्णैरेतैः शंखमापूरितं वै भाण्डे स्थाप्यं मुद्रितव्यं प्रयत्नात् ॥ ८.२७ ॥ तस्याधस्तादष्टयामं प्रकुर्याद्वह्निं शीते कर्षमात्रं विषं हि । दत्त्वा घर्मे त्रीणि चाथो पुटानि दद्यात्तद्वत्कन्यकाया रसेन ॥ ८.२८ ॥ वल्लं योज्यं जीरकेणाथ भृंग्या क्षौद्रैर्युक्तं भक्षितं संग्रहण्याम् । श्वासे शूले चानिले श्लेष्मजे वा कासेऽर्शःसु विड्ग्रहे चातिसारे ॥ ८.२९ ॥ <आनन्दभैरवी गुटी> सौभाग्यं वै हिंगुलं वत्सनाभं मारीचं वै हेमबीजेन युक्तम् । कृत्वा चूर्णं सर्वमेतत्समांशं जम्बीरैस्तन्मर्दितं यामयुग्मम् । गुंजामात्रा निर्मिता भक्षिता हि गुट्यो हन्युः सन्निपातातिसारान् ॥ ८.३० ॥ <अतिसारभैरवी गुटी> जातीपत्त्री देवपुष्पं च शुण्ठी कङ्कोल्लं चेच्चंदनं कुंकुमं च । कृष्णायुक्तं शुद्धमाकल्लकं स्यात्सर्वाण्येवं चूर्णयेद्वै समानि ॥ ८.३१ ॥ सूतस्यैवं भस्म मिश्रं प्रकुर्याद्भागं चैकं मिश्रयेन्नागफेनम् । खल्वे सर्वं मर्दितं चैकयामं कार्या गोली वल्लमात्रा जलेन ॥ ८.३२ ॥ भक्षेद्रात्रौ पाययेत्तंडुलोदं हन्यात्सर्वान् सर्वदोषातिसारान् ॥ ८.३३ ॥ <कनकसुन्दररसः> मारीचं चेट्टंकणं हिंगुलं च गंधाश्मा वै पिप्पली वत्सनाभम् । धूर्तस्यैवं बीजकानीह शुद्धान्येवं कृत्वा तच्च चूर्णं विधेयम् ॥ ८.३४ ॥ प्रातः सायं भक्षितं वल्लमात्रं जूर्तिं रक्तं नाशयेच्चातिसारम् । दध्यन्नं वा भोजयेत्तक्रयुक्तं हन्यादेवं चाग्निमान्द्यं सुतीव्रम् ॥ ८.३५ ॥ ____________________________________________________________ अध्याय ९ <दिव्यौषधी> दिव्यौषधीनां नामानि कथ्यन्तेऽत्र मयाधुना । चतुःषष्टिमिताः सम्यग्- रसबन्धकराः शुभाः । सोमवल्ली तथा सोभवृक्षं सोमकला लता ॥ ९.१ ॥ भूपद्मिनी गोनसा चेदुच्चटा चेश्वरी लता । भूतकेशी कृष्णलता लशुनी च रुदन्तिका । वाराही सप्तपत्त्रा च नागिनी सर्पिणी तथा ॥ ९.२ ॥ छत्त्रिणी चैव गोशृंगी ज्योतिर्नाम्नी च रक्तिका । पत्त्रवल्ली काकिनी च चाण्डाली ताम्रवल्लिका ॥ ९.३ ॥ पीतवल्ली च विजया महौषध्यमरी लता । नवनीता रुद्रवल्ली लम्बिनी भूमितुम्बिका ॥ ९.४ ॥ गान्धर्वी व्याघ्रपादी च गोमारी च त्रिशूलिनी । त्रिदण्डी करसी भृंग- वल्ली चमरिका तथा ॥ ९.५ ॥ करवल्ली लता चैव वज्राङ्गी चिरवल्ल्यपि । रोहिणी बिल्विनी भूत- शोचनी चैव कथ्यते ॥ ९.६ ॥ मार्कण्डी च करीरी च ह्यक्षरा कुटजा तथा । मूलकन्दाम्बुवल्ली च मुनिवल्ली च कीर्तिता ॥ ९.७ ॥ घृतगन्धा निम्बुवल्ली तिलकन्दातसीतला । बोधवल्ली सत्त्वगन्धा कूर्मवल्ली च माधवी ॥ ९.८ ॥ विशाला च महानागी मण्डूकी क्षीरगन्धिका । चतुःषष्टिरिति प्रोक्ता दिव्यौषध्यो महाबलाः ॥ ९.९ ॥ एकैकाया रसेनापि सूतो बन्धत्वमाप्नुयात् । अनया साधितः सूतो जरादारिद्र्यनाशनः ॥ ९.१० ॥ तास्तु लक्षणसंयुक्ताः सोमदेवेन भाषिताः । ग्रन्थविस्तरभीत्यात्र नाममात्रेण कीर्तिताः ॥ ९.११ ॥ <रसौध्यः> अतः परं रसौषध्यः प्रोच्यन्ते शास्त्रवर्त्मना । जलोत्पला चिञ्चिका च जलापामार्गमांसिके ॥ ९.१२ ॥ जलकुम्भी मेघनादा ईश्वरी चापराजिता । मालार्जुनी वेणुका च शिखिपादा च तिक्तिका ॥ ९.१३ ॥ काश्मर्यतिविषा प्रोक्ता समङ्गा जालिनी तथा । तुषम्बुका च दुर्गन्धा पाषाणी शुकनासिका ॥ ९.१४ ॥ वनमाली च वाराही गोजिह्वा मुसली तथा । पटोली शठिका मूर्वा पाटला जलमूलका ॥ ९.१५ ॥ रसाजमारी कथिता शिंशिका सितगन्धिका । पोतकी च विषघ्नी च बृहती गरुडी तथा ॥ ९.१६ ॥ तुलसी च विदारी च मञ्जिष्ठा चित्रपालिका । जलपिप्पलिका भार्ंगी मण्डूकी चोत्तमा तथा ॥ ९.१७ ॥ चन्द्रोदका सारिवा च हरिणी कुक्कुटापि च । सर्पाक्षी हंसपादी च वनकुष्माण्डवल्लिका ॥ ९.१८ ॥ मर्कस्फोटी धन्वयासः पागवः स्थलसारिणी । अर्धचन्द्रा हेमपुष्पी मोहिनी वज्रकन्दिका ॥ ९.१९ ॥ अलम्बुषा च हलिनी रसचित्रा च नन्दिनी । वृश्चिकाली गुडूची च वासा शृङ्गी च कथ्यते ॥ ९.२० ॥ अष्टषष्टिरिति प्रोक्ता रसौषध्यो महाबलाः । सूतस्य मारणे प्रोक्ता जारणे च नियामने ॥ ९.२१ ॥ <महौषध्यः> अष्टषष्टिर्महौषध्यः प्रोच्यन्ते रसशास्त्रतः । ऋद्धिः शोषिण्यधोगुप्ता श्रावणी सारिवा तथा ॥ ९.२२ ॥ ज्योतिष्मती तेजवती रास्ना बाकुची बिम्बिका । विषाणिका चाश्वगन्धा वर्षाभूः शरपुष्पिका ॥ ९.२३ ॥ बला चातिबला नाग- बला दन्ती महाबला । द्रवन्ती नीलिनी चैव शतपुष्पा प्रसारणी ॥ ९.२४ ॥ वरा शतावरी चैला हपुषा सातला त्रिवृत् । स्वर्णक्षीरी तुगा पृथ्वी विशाला नलिकामली ॥ ९.२५ ॥ इन्द्रवारुणिकाकाह्वे सिन्दुवारोऽजमोदिका । त्रायमाणासुरी शंख- पुष्पी च गिरिकर्णिका ॥ ९.२६ ॥ धातकी कदली दूर्वा अम्लिका कासमर्दिका । जन्तुपादी च निर्गुण्डी द्राक्षा नीलोत्पलं शमी ॥ ९.२७ ॥ नालिकेरी च खर्जूरी फल्गुः शिंशी च मल्लिका । वार्षिकी शाल्मली जाती ग्रीष्मवर्षा तु यूथिका ॥ ९.२८ ॥ केकिचूडाजगन्धा च लक्ष्मणा तरुणीति च । अष्टषष्टिरिति प्रोक्ता महौषध्यो महाबलाः ॥ ९.२९ ॥ <सिद्धौषध्यः> अथेदानीं प्रवक्ष्यामि सिद्धौषध्यो रसाधिकाः । देवीलता कालवर्णी विजयासुरी सिंहिका ॥ ९.३० ॥ पालाशतिलका क्षेत्री संवीरा ताम्रवल्लिका । नाही कन्या तथा सोम- राजिका च टुटुम्भटी ॥ ९.३१ ॥ कुबेराक्षी गृध्रनखी पर्पटी छिद्रलम्बिका । क्षुत्कारी दुग्धिका भृंगी गङ्गेटी शरपुङ्खिका ॥ ९.३२ ॥ अष्टावल्ली राजशमी पनसी च जयन्तिका । विषखर्परिकावन्ती काकाण्डोलाम्बुमूलिका ॥ ९.३३ ॥ सिद्धेश्वरी हंसपादी खोटका शृङ्गरीटिका । अधःपुष्पी मधुराख्या शृङ्खला गृञ्जनीति च ॥ ९.३४ ॥ जारावली महाराष्ट्री सहदेवेश्वरी तथा । काष्ठगोधामती देव- गान्धारी रजनीङ्गुदी ॥ ९.३५ ॥ पलाशिनी नाकुली च काम्बोजिकाश्विनी तथा । चक्रवल्ली सर्पदंष्ट्रा शल्लकी रोहिता तथा ॥ ९.३६ ॥ तौवरी वङ्गजा राज- पद्मा जम्बीरवल्लिका । गजपिप्पलिका भृंग- वल्ली चैवार्कवल्लिका ॥ ९.३७ ॥ जन्तुकारी शिग्रुवल्ली करवीरा शिवाटिका । नाराची काञ्चनी चाज- गन्धा सूतेन्द्रसिद्धिदाः ॥ ९.३८ ॥ अष्टषष्टिरिति प्रोक्ताः सिद्धौषध्यो रसाधिकाः । सर्वकार्यकरा देह- लोहसिद्धिप्रदायकाः ॥ ९.३९ ॥ ____________________________________________________________ अध्याय १० अथ यन्त्राणि वक्ष्यन्ते पारदो येन यन्त्र्यते । तस्माद्यन्त्रस्य रूपाणि दर्शनीयानि शास्त्रतः ॥ १०.१ ॥ <यन्त्राणि> दोला पलभलीयन्त्रमूर्ध्वपातनकं च यत् । अधःपातनकं चापि तिर्यक्पातनकं तथा ॥ १०.२ ॥ घटीयन्त्रं गर्भयन्त्रमिष्टिका जलयन्त्रकम् । खल्वं डमरुकाख्यं च चिपिटाख्यं तुलाभिधम् ॥ १०.३ ॥ लवणं कोष्ठिकासंज्ञमन्तरालिकसंज्ञितम् । धूपयन्त्रं नाभियन्त्रं ग्रस्तयन्त्रं तथैव च ॥ १०.४ ॥ विद्याधरं कुण्डकं च ढेकीसंज्ञमुदाहृतम् । सोमानलं च निगडं किंनरं भैरवाभिधम् ॥ १०.५ ॥ वालुकानामकं चापि पातालं भूधराभिधम् । सारणायन्त्रकं गुह्यं गन्धपिष्टकयन्त्रकम् ॥ १०.६ ॥ कूपीयन्त्रं पालिकाख्यं दीपिकायन्त्रकं तथा । स्थालीयन्त्रं भस्मयंत्रं देगयन्त्रमुदीरितम् ॥ १०.७ ॥ घाणिकायन्त्रमुद्दिष्टं हंसपाकाभिधं तथा । ऊनचत्वारिंशदत्र यन्त्राण्युक्तानि नामतः ॥ १०.८ ॥ <मूषाः> अथ मूषाश्च कथ्यन्ते मृत्तिकाभेदतः क्रमात् । <च्रुचिब्ले:: स्य्नोन्य्म्स्> मूषा कुमुदिका प्रोक्ता कोविका करहाटिका ॥ १०.९ ॥ पातिनी कथ्यते सैव वह्निमित्रा प्रकीर्तिता । <योगमूषा> तुषभस्मयुता मृत्स्ना वाल्मिकी बिडसंयुता ॥ १०.१० ॥ तया या रचिता मूषा योगमूषेति कथ्यते । <गारमूषा> गारभूनागसत्वाभ्यां शणैर्दग्धतुषैस्तथा ॥ १०.११ ॥ मर्दिता महिषीक्षीरे मृत्तिका पक्षमात्रकम् । तन्मृदा रचिता मूषा गारमूषेति कथ्यते ॥ १०.१२ ॥ <वरमूषा> वस्त्रांगारतुषास्तुल्यास्तच्चतुर्गुणमृत्तिका । भूनागमृत्तिका तुल्या सर्वैरेभिर्विमर्दिता । कथिता वरमूषा सा यामं वह्निं सहेत वै ॥ १०.१३ ॥ <वर्णमूषा> पूर्वोक्ता मृत्तिका या तु रक्तवर्गांबुभाविता । रक्तवर्गयुता मृत्स्ना- कारिता मूषिका शुभा ॥ १०.१४ ॥ तुरीपुष्पकसीसाभ्यां लेपिता सा च मूषिका । वर्णोत्कर्षे प्रयोक्तव्या वर्णमूषेति कथ्यते ॥ १०.१५ ॥ <रूप्यमूषा> श्वेतवर्गेण वै लिप्ता रूप्यमूषा प्रकीर्तिता ॥ १०.१६ ॥ <विडमूषा> विडेन रचिता या तु विडेनैव प्रलेपिता । देहलोहार्थसिद्ध्यर्थं विडमूषेत्युदाहृता ॥ १०.१७ ॥ <वज्रमूषा> गारभूनागसत्त्वाभ्यां तुषमिश्रा शणेन च । मृत्समा महिषीक्षीरैर्दिवसत्रयमर्दिता ॥ १०.१८ ॥ संस्थिता पक्षमात्रं हि पश्चान्मूषा कृता तया । लेपिता मत्कुणस्याथ शोणितेन बलारसैः ॥ १०.१९ ॥ चतुर्यामं ध्मापिता हि द्रवते नैव वह्निना । वज्रमूषेति कथिता वज्रद्रावणहेतवे ॥ १०.२० ॥ <वृन्ताकमूषा> वृन्ताकाकारमूषायां नालं कृत्वा दशांगुलम् । धत्तूरपुष्पवद्दीर्घं सुदृढं चैव कारयेत् ॥ १०.२१ ॥ अष्टांगुलं च सच्छिद्रं भवेद्वृन्ताकमूषिका । अनया खर्परादीनां मृदूनां सत्त्वमाहरेत् ॥ १०.२२ ॥ <गोस्तनमूषा> गोस्तनाकारमूषा या मुखोपरि विमुद्रिता । सत्वानां द्रावणे शुद्धौ मूषा सा गोस्तनी भवेत् ॥ १०.२३ ॥ <मल्लमूषा> निर्दिष्टा मल्लमूषा या मल्लद्वितयसंपुटात् । रसपर्पटिकादीनां स्वेदनाय प्रकीर्तिता ॥ १०.२४ ॥ <पक्वमूषा> पक्वमूषा कुलालभाण्डरूपा या दृढा च परिपाचिता । पक्वमूषेति सा प्रोक्ता सत्वरद्रव्यशोधिनी ॥ १०.२५ ॥ <महामूषा> अतिस्थूलातिदीर्घा च मुखे किंचिच्च विस्तृता । महामूषेति सा प्रोक्ता सत्वरद्रव्यशोधिनी ॥ १०.२६ ॥ <मञ्जूषमूषा> षडंगुलोन्नता दीर्घा चतुरस्रा च निम्नका । मञ्जूषाकारमूषा सा कथिता रसमारणे ॥ १०.२७ ॥ <गर्भमूषा> भूमौ निखन्यमानां हि मूषामाच्छाद्य वालुकैः । गर्भमूषा तु सा ज्ञेया पारदस्य निबन्धिनी ॥ १०.२८ ॥ <मुशलमूषा> मूषा या चिपिटा मूले वर्तुलाष्टांगुलोच्छ्रया । मूषा सा मुसलाख्या स्याच्चक्रीबद्धरसे हिता ॥ १०.२९ ॥ <कोष्ट्ःयः, अङ्गारकोष्ठी> अंगारकोष्ठिका नाम राजहस्तप्रमाणका । द्वादशांगुलविस्तारा चतुरस्रा प्रकीर्तिता ॥ १०.३० ॥ वेष्टिता मृण्मयेनाथ एकभित्तौ च गर्तकम् । वितस्तिमात्रं द्वारं च सार्धवैतस्तिकं दृढम् ॥ १०.३१ ॥ अधोभागे विधातव्या देहली धमनाय वै । प्रादेशमात्रा भित्तिः स्यादुत्तरङ्गस्य चोर्ध्वतः ॥ १०.३२ ॥ प्रादेशमात्रं कर्तव्यं द्वारं तस्योपरि ध्रुवम् । द्वारं चेष्टिकया रुद्ध्वा संधिरोधं च कारयेत् ॥ १०.३३ ॥ पूरयेत्कोकिलैस्तां तु भस्त्रिकां प्रधमेत्खलु । कोकिलाधमनद्रव्यमूर्ध्वद्वारे विनिक्षिपेत् ॥ १०.३४ ॥ एषा चांगारकोष्ठी च खराणां सत्त्वपातनी ॥ १०.३५ ॥ <पातालकोष्ठी> गर्तं खनेद्दृढं भूमौ द्वादशांगुलमात्रकम् । तन्मध्ये वर्तुलं गर्तं चतुरङ्गुलकं दृढम् ॥ १०.३६ ॥ खर्परं स्थापयेत्तत्र मध्यगर्तोपरि दृढम् । आपूर्य कोकिलैर्गर्तं प्रधमेदेकभस्त्रया । पातालकोष्ठिका सा तु मृदुसत्त्वस्य पातनी ॥ १०.३७ ॥ <गारकोष्ठी> वितस्तिप्रमिता निम्ना प्रादेशप्रमिता तथा । उपरिष्टात्पिधानं तु भूरिच्छिद्रसमन्वितम् ॥ १०.३८ ॥ गर्तमापूर्य चांगारैः प्रधमेद्वंकनालतः । गारगोष्ठी समुद्दिष्टा सत्वपातनहेतवे ॥ १०.३९ ॥ <तिर्यक्प्रधमनकोष्ठी> वितस्तिप्रमितोत्सेधा सा बुध्ने चतुरंगुला । तिर्यक्प्रधमनाख्या च मृदुसत्वस्य पातनी ॥ १०.४० ॥ <महापुट> भूम्यां वै खनयेद्गर्तं द्विहस्तं चतुरस्रकम् । छगणानां सहस्रेण पूरयेत्तमनन्तरम् ॥ १०.४१ ॥ औषधं धारयेन्मध्ये तमाच्छाद्य वनोत्पलैः । सहस्रार्धैश्च वै सम्यग्- वह्निं प्रज्वालयेत्ततः ॥ १०.४२ ॥ महापुटमिदं प्रोक्तं ग्रन्थकारेण निर्मितम् ॥ १०.४३ ॥ <गजपुट> राजहस्तप्रमाणं हि चतुरस्रं हि गर्तकम् । वनोत्पलसहस्रेण गर्तमध्यं च पूरितम् ॥ १०.४४ ॥ मूषिकां चौषधेनाथ पूरितां तां तु मुद्रयेत् । गर्तमध्ये निधायाथ गिरिण्डानि च निक्षिपेत् । अधोऽग्निं ज्वालयेत्सम्यकेवं गजपुटो भवेत् ॥ १०.४५ ॥ <वाराहपुट> अरत्निमात्रे कुण्डे च वाराहपुटमुच्यते । <कुक्कुटपुट> वितस्तिद्वयमानेन गर्तं चेच्चतुरस्रकम् । कुक्कुटाख्यं पुटं विद्यादौषधानां च साधनम् ॥ १०.४६ ॥ <कपोतपुट> छगणैरष्टभिः सम्यक्कपोतपुटमुच्यते ॥ १०.४७ ॥ <गोवरपुट> तुषैर्वा गोमयैर्वापि रसभस्मप्रसाधनम् । माणिकाद्वयमानेन गोवरं पुटमुच्यते ॥ १०.४८ ॥ <मृद्भाण्डपुट> मृदा भाण्डं प्रपूर्यैव मध्ये द्रव्यं तु विन्यसेत् । अधस्ताज्ज्वालयेदग्निं मृद्भाण्डपुटमुच्यते ॥ १०.४९ ॥ <वालुकापुट> गर्ते तु वालुकापूर्णे मध्ये द्रव्यं तु विन्यसेत् । उपरिष्टादधस्ताच्च वह्निं कुर्यात्प्रयत्नतः । तद्वालुकापुटं सम्यगुच्यते शास्त्रकोविदैः ॥ १०.५० ॥ <भूधरपुट> मूषिकां भूमिमध्ये तु स्थापितां द्व्यंगुलादधः । उपरिष्टात्पुटं दद्यात्तत्पुटं भूधराह्वयम् ॥ १०.५१ ॥ <लावकपुट> गोवरैर्वा तुषैर्वापि कर्षमात्रमितैः पुटम् । यत्र तल्लावकाख्यं स्यान्मृदुद्रव्यस्य साधने ॥ १०.५२ ॥ <द्रिएद्चोwदुन्ग्> उत्पलं पिष्टकं छाणमुपलं च गरिण्डकम् । छगणोपलसारी च नवारि छगणाभिधाः ॥ १०.५३ ॥ ____________________________________________________________ अध्याय ११ अथातः सम्प्रवक्ष्यामि धातूनां कौतुकं परं । स्वानुभूतं मया किंचित्श्रुतं वा शास्त्रतः खलु । तदहं सम्प्रवक्ष्यामि यत्कृत्वा ना सुखी भवेत् ॥ ११.१ ॥ <हेमकरणविधिः (१)> रसकं दरदं ताप्यं गगनं कुनटी समम् । रक्तस्नुहीपयोभिश्च मर्दयेद्दिनसप्तकम् ॥ ११.२ ॥ जलयंत्रेण वै पाच्यं चतुर्विंशतियामकम् । तेन वेध्यं द्रुतं ताम्रं तारं वा नागमेव वा ॥ ११.३ ॥ सहस्रवेधी तत्कल्को जायते नात्र संशयः ॥ ११.४ ॥ <हेमकरणविधिः (२)> एकभागस्तथा सूतो वज्रवल्ल्याथ मर्दितः । खल्वे त्रिनेम्याः स्वरसे पञ्चभागसमन्विते ॥ ११.५ ॥ वेत्रयष्ट्या च रागिण्या पीतकल्कं प्रजायते । षोडशांशेन दातव्यं द्रुते ताम्रं सुशोधिते ॥ ११.६ ॥ जायते प्रवरं हेम शुद्धं वर्णचतुर्दशम् ॥ ११.७ ॥ <हेमकरणविधिः (३)> सुवर्णमाक्षिकं स्वेद्यं कांजिके दिवसत्रयम् । चर्मरङ्ग्या रसेनैव मर्दयेद्दिनसप्तकम् । जलेन धौतं तावच्च यावद्धेमनिभं भवेत् ॥ ११.८ ॥ <हेमकरणविधिः (४)> दरदं रोमदेशीयं गोमूत्रेणैव स्वेदयेत् । दोलायंत्रे चतुर्यामं पश्चाच्छुद्धतमो भवेत् ॥ ११.९ ॥ मनःशिला पद्मनिभा रक्ता चैव सुशोभना । स्वेदिता मुनिपुष्पस्य रसेनैव तु दोलया ॥ ११.१० ॥ याममर्धमितं शुद्धा सर्वकार्येषु योजयेत् । नवसारस्तथा सूतः शोधितोऽग्निसहः खलु ॥ ११.११ ॥ समभागानि सर्वाणि मर्दयेन्निम्बुकै रसैः । मातलुंगरसेनैव कुमारीस्वरसेन च ॥ ११.१२ ॥ सूर्यातपे विमर्द्योऽसौ पाचितो जलयन्त्रके । दिनानि त्रीणि तीव्राग्नौ ततस्तदवतारयेत् ॥ ११.१३ ॥ शतांशं वेधयेत्तारं शुद्धं हेम प्रजायते । जलभेदो यदा न स्यान्नात्र कार्या विचारणा ॥ ११.१४ ॥ <हेमकरणविधिः (५)> शिलया मारितं नागं कुमार्याः स्वरसेन च । पुटद्वादशयोगेन नागभस्म प्रजायते ॥ ११.१५ ॥ शतसंख्यानि वै कुर्यात्पुटान्येवं शरावके । कुमार्याः स्वरसेनैव भावयेद्दिनसप्तकम् ॥ ११.१६ ॥ पूर्ववत्पुटनं कार्यं शतसङ्ख्यामितं तथा । सूतभस्म शिला ताल- समं चेन्नागभस्मकम् ॥ ११.१७ ॥ त्रिंशद्वनोपलैर्दद्यात्पुटं वाराहसंज्ञितम् । अनेन विधिना सम्यक्शतसंख्यानि दापयेत् ॥ ११.१८ ॥ पुटान्येवं कृते त्रीणि शतानि द्वादशाधिकम् । पश्चाद्दृढे काचमये कूपे द्वात्रिंशयामकम् ॥ ११.१९ ॥ वालुकाग्निं प्रदद्याच्च स्वांगशीतं समुद्धरेत् । तलभस्म गृहीतव्यं वेधयेच्छुल्बतारके ॥ ११.२० ॥ शुद्धहेम भवेत्तेन नात्र कार्या विचारणा । दृष्टप्रत्यययोगोऽयं कथितो नात्र संशयः ॥ ११.२१ ॥ <हेमकरणविधिः (६)> गोमूत्रे काञ्जिके चाथ कुलत्थे वासरत्रयम् । ताप्यकं स्वेदयेत्पश्चाल्लोहपात्रे प्रमर्दयेत् ॥ ११.२२ ॥ तप्तखल्वेन संमर्द्य सेचयेन्निम्बुजद्रवैः । सैन्धवं दापयेत्पश्चाच्चतुर्थांशं विशेषतः ॥ ११.२३ ॥ भागैकं ताप्यकं सूताद्भागांस्त्रीनेव कारयेत् । मर्दयेन्निम्बुनीरेण शुद्धवस्त्रेण गालयेत् ॥ ११.२४ ॥ वस्त्रे लग्ना तु या पिष्टी ग्राहयेत्तां भिषग्वरः । एवं कृते द्विस्त्रिवारं ताप्यसत्वं ग्रसेद्रसः ॥ ११.२५ ॥ पिष्ट्या गोलस्तु कर्तव्यो मूषायां ध्मापयेत्सुधीः । इन्द्रगोपनिभं ग्राह्यं ताप्यसत्वं सुशोभनम् ॥ ११.२६ ॥ हीनवर्णसुवर्णेऽपि गद्याणे वल्लमात्रकम् । तुत्थकं वल्लमात्रं च दत्त्वा हेम प्रगालयेत् ॥ ११.२७ ॥ तत्सुवर्णस्य पत्राणि कार्याण्येवं प्रलेपयेत् । तुत्थकं बीजपूरस्य रसेनापि प्रमर्दयेत् ॥ ११.२८ ॥ गैरिकेण समं कृत्वा हेमपत्राणि लेपयेत् । मन्दवह्नौ च प्रपुटेत्द्वित्रिवारं प्रयत्नतः ॥ ११.२९ ॥ कुङ्कुमाभं सुवर्णं हि जायते नात्र संशयः । वार्तिकेन्द्राः कुरुध्वं हि सत्यं गुरुवचो यथा ॥ ११.३० ॥ द्वौ वर्णौ वर्धते सम्यक्नात्र कार्या विचारणा ॥ ११.३१ ॥ <हेमकरणविधिः (७)> शुद्धं ताम्रं ताप्यचूर्णेन तुल्यं द्राव्यं पश्चाड्ढालयेल्लाकुचे हि । गन्धाच्चूर्णं ताप्यताम्रावशेषं कृत्वा दद्याद्वल्लकं हीनवये । वर्णोत्कर्षो जायते तेन सम्यक्सत्यं प्रोक्तं नन्दिना कौतुकाय ॥ ११.३२ ॥ <हेमकरणविधिः (८)> ताप्यं नागं गन्धकं सूतराजो हिंगूलं वै हेम शुद्धं शिला च । चूर्णं कृत्वा निक्षिपेत्काचकूप्यामापूर्यान्ते स्वै रसैः शाकजैर्वा ॥ ११.३३ ॥ अग्निं दद्याल्लावकाख्ये पुटे च शुद्धः कल्को जायते षष्टिसंख्यैः । शुद्धं तारं वेधितं वल्लकेन गद्याणं वै जायते शुद्धहेम ॥ ११.३४ ॥ <हेमकरणविधिः (९)> अहिरिपुमहितुल्यं सारितं सूतराजे बलिवसगिरिचूर्णैः कान्तपात्रे सुदग्धम् । सुविहितफणिभागैर्हेमगर्भेण बद्धो भुजगजितरसेन्द्रो वेधयेल्लक्षवेधी ॥ ११.३५ ॥ <हेमकरणविधिः (१०)> द्वौ भागौ शुद्धताम्रस्य द्वौ भागौ शुद्धहेमजौ । चतुर एव भागांश्च शुद्धतारस्य कारयेत् ॥ ११.३६ ॥ अष्टौ भागाः प्रकर्तव्या रसकस्य प्रयत्नतः । अन्धमूषागतं ध्मातं द्रावितं हेम जायते ॥ ११.३७ ॥ <हेमकरणविधिः (११)> विदितागमवृद्धैर्हि पुटे पक्वं कनीयसि । त्रिगुणं चूर्णनिर्बद्धं तारमायाति काञ्चनम् ॥ ११.३८ ॥ <हेमकरणविधिः (१२)> पारदं पलमेकं तु प्रस्थार्धं शुद्धगन्धकम् । किंशुपत्ररसेनैव रसैर्वा पुष्पसंभवैः ॥ ११.३९ ॥ सूर्यातपे मर्दयेद्धि षण्मासावधिमात्रकम् । षोडशांशेन रजतं विध्यते नात्र संशयः ॥ ११.४० ॥ सप्तवर्णं भवेद्धेम हट्टविक्रययोग्यकम् ॥ ११.४१ ॥ <हेमकरणविधिः (१३)> पारदं गंधकं शुल्वं माक्षिकं तुत्थकं तथा । रसकं दरदं स्वर्ण- गैरिकं नवसादरम् ॥ ११.४२ ॥ सूरक्षारं शिलां चैव समभागानि मर्दयेत् । तदर्धं रसकं मुक्त्वा वज्रमूषे निरुन्धयेत् ॥ ११.४३ ॥ यथा धूमो न निर्गच्छेत्तथा मुद्रां प्रदापयेत् । तोलमेकं सुवर्णं हि जायते नात्र संशयः ॥ ११.४४ ॥ घटिकातुर्यमात्रं हि ध्मापयेत्सततं भिषक् ॥ ११.४५ ॥ <हेमकरणविधिः (१४)> स्वल्पवर्णसुवर्णस्य गद्याणैकस्य मुद्रिका । माक्षिकं रसकं तुत्थं गैरिकं नवसादरम् ॥ ११.४६ ॥ सूरक्षारं सदरदं टङ्कणेन समन्वितम् । प्रतिवल्लद्वयं कुर्यात्कासमर्दप्रसूनकैः ॥ ११.४७ ॥ स्त्रीदुग्धेन च संमर्द्य लेपयेत्तेन मुद्रिकाम् । सोरक्षारं सदरदं टंकणेन समन्वितम् ॥ ११.४८ ॥ सैंधवस्य च भागैकमिष्टिकाभागयुग्मकम् । स्थालिकायन्त्रमध्यस्थं मध्ये संस्थाप्य मुद्रिकाम् ॥ ११.४९ ॥ यामत्रितयपर्यन्तं वह्निं कुर्यात्प्रयत्नतः । स्वांगशीतं ततः कृत्वा मुद्रिकां तां समुद्धरेत् । वेदवर्णास्तु संघर्षाद्वर्धन्ते नात्र संशयः ॥ ११.५० ॥ <हेमकरणविधिः (१५)> घोषाकृष्टं तु यत्ताम्रं रजतेन समन्वितम् । तीक्ष्णचूर्णं सदरदं घृष्टं कन्यारसेन वै ॥ ११.५१ ॥ पश्चाद्विधेया गुटिकाः सूक्ष्माश्चैवाढकीसमाः । वापिता द्राविते द्रव्ये सर्वं ताम्रं तु संक्षिपेत् ॥ ११.५२ ॥ रूप्यमानं समुत्तार्य समहेम्ना च गालयेत् । जायते दशवर्णं तु सत्यमेतदुदीरितम् ॥ ११.५३ ॥ <हेमकरणविधिः (१६)> ताम्रे सप्तगुणं नागं वाहितं पुनरेव हि । तेन ताम्रेण रसकं सप्तवारं च वाहयेत् ॥ ११.५४ ॥ स्वर्णवर्णं हि तत्ताम्रं जायते नात्र संशयः ॥ ११.५५ ॥ <हेमकरणविधिः (१७)> भूनागसत्त्वमूषायां द्रावयेत्स्वर्णमुत्तमम् । ताप्यसत्वेन संयुक्तं शतवारं पुनः पुनः । जपापुष्पनिभं स्वर्णं जायते नात्र संशयः ॥ ११.५६ ॥ <हेमकरणविधिः (१८)> दशवर्णस्य गद्याणे रक्तं तद्धेमवल्लकम् । द्वौ वर्णौ वर्धतः सम्यखट्टविक्रययोग्यकम् ॥ ११.५७ ॥ <हेमकरणविधिः (१९)> पुष्पकासीसकं रम्यं मर्दयेदर्कपत्रजे । रसेऽथ च चक्रिकां कुर्याद्रसकस्य पलोन्मिताम् ॥ ११.५८ ॥ वेष्टितां पूर्वकल्केन रविघर्मेण शोषयेत् । त्रिंशद्वनोपलैः सम्यक्पुटान्येवं हि विंशतिः ॥ ११.५९ ॥ षोडशांशेन रजतं विध्यते नात्र संशयः । सप्तवर्णसवर्णं हि जायते नात्र संशयः ॥ ११.६० ॥ <हेमकरणविधिः (२०)> सूतको द्विपलः कार्यः सुम्बिलश्च चतुष्पलः । चतुष्टंकमिता कार्या स्फटिकी निर्मला शुभा ॥ ११.६१ ॥ वृश्चिकालीरसे घृष्टा दिनमेकं तु वार्तिकैः । पश्चाच्च शोषयेत्सर्वं यन्त्रे डमरुके न्यसेत् ॥ ११.६२ ॥ गैरिकं स्थापयेत्पूर्वं खटिकां च तथोपरि । तन्मध्ये गर्तकं कृत्वा गर्तके नवसादरम् ॥ ११.६३ ॥ टङ्कमानं प्रकर्तव्यं तस्योपरि च सूतकम् । सूतकोपरि सारं हि पूर्वोक्तं टंकमानकम् ॥ ११.६४ ॥ मुद्रां कृत्वा शोषयित्वा पश्चाच्चुल्ल्यां निवेशयेत् । अग्निं कुर्यात्प्रयत्नेन यामषोडशमात्रकं ॥ ११.६५ ॥ स्वांगशीतं समुत्तार्य ऊर्ध्वलग्नं तु ग्राहयेत् । पश्चात्खल्वे निधायाथ वृश्चिकाल्या प्रमर्दयेत् ॥ ११.६६ ॥ काचकूप्यां क्षिपेत्सर्वं कूपीं वालुकायन्त्रके । वह्निं द्वादशभिर्यामैः कुर्याच्छीतं समाहरेत् ॥ ११.६७ ॥ वल्लमात्रं ततो दद्यात्सार्धटङ्के सुताम्रके । दृष्टप्रत्यययोगोऽयं नाथसुन्दरभाषितः ॥ ११.६८ ॥ <रौप्यकरणविधिः (१)> लोहचूर्णं पलमितं सुमलक्षारमभ्रकम् । टंकणं शाणमानं हि तैलेनैरण्डजेन वै ॥ ११.६९ ॥ घर्षयेद्वटिकायुग्मं गोलं कृत्वा धमेत्ततः । भस्त्रया ध्मापयेत्सम्यक्लोहं रसनिभं भवेत् ॥ ११.७० ॥ तल्लोहं त्रिगुणं चैव रसकं कारयेत्सुधीः । लोहं च रसकं पश्चाद्गालितं वज्रमूषया ॥ ११.७१ ॥ लोहशेषं समुत्तार्य ताम्रे दद्याच्च वल्लकम् । गद्याणके भवेत्तारं तत्तारं शुद्धतारके ॥ ११.७२ ॥ अर्धभागे भवेच्छुद्धं तारं दोषविवर्जितम् ॥ ११.७३ ॥ <रौप्यकरणविधिः (२)> खण्डं कर्षप्रमाणं हि सुमलक्षारकस्य हि । वेष्टितं नरकेशेन द्रुते नागे निमज्जितम् ॥ ११.७४ ॥ निर्वापितं निम्बुजले चैकविंशतिवारकम् । द्रुते शुल्वस्य गद्याणे रक्तिकापञ्चमात्रकम् ॥ ११.७५ ॥ कल्कं दद्यात्प्रयत्नेन तारवर्णं प्रजायते । गद्याणे चतुरो वल्लान् रूप्यं दत्त्वा प्रगालयेत् । जायते रुचिरं तारं सत्यमेतदुदीरितम् ॥ ११.७६ ॥ <रौप्यकरणविधिः (३)> शंखं सुम्बलनामानं पलान्यष्टौ प्रकल्पयेत् । गोजिह्वारससंमिश्रं दिनमेकं प्रमर्दयेत् ॥ ११.७७ ॥ निम्बूरसेन धूर्तेन काकमाचीरसेन वै । गृंजनस्य रसेनैव दिनमेकं प्रमर्दयेत् ॥ ११.७८ ॥ अर्कदुग्धेन वै भाव्यं तैलेनैरण्डजेन च । यवमात्रां गुटीं कृत्वा विशोष्य चातपे खरे ॥ ११.७९ ॥ काचकूप्यां विनिक्षिप्य मुद्रयेत्कूपिकामुखं । संस्थाप्य वालुकायन्त्रे पचेत्षोडशयामकम् ॥ ११.८० ॥ स्वांगशीतं समुत्तार्य ग्राह्यं सत्वं तदूर्ध्वगम् । सत्त्वं गद्याणमेकं तु तन्मात्रं तारसंपुटम् ॥ ११.८१ ॥ सूतं गद्याणकं स्वच्छं टंकणं वल्लपञ्चकम् । सूतमात्रं क्षारसत्त्वं सर्वं चैकत्र मर्दितम् ॥ ११.८२ ॥ स्वरसेन तु केतक्या गोलं कृत्वा विशोषितम् । तारसंपुटमध्ये तु धारितं तं च गोलकम् ॥ ११.८३ ॥ पश्चात्ताम्रकृतां मूषामष्टवल्लमितां शुभाम् । शरावसंपुटस्यान्तर्धारयेत्तदनंतरम् ॥ ११.८४ ॥ धान्याभ्रं तुल्यं पंकेन कृत्वा श्रावं तु पूरयेत् । वाराहाख्यपुटैकेन जायते कल्क उत्तमः ॥ ११.८५ ॥ ताम्रं द्वादशवल्लं हि रूप्यं वल्लद्वयं तथा । वंगं वल्लमितं शुद्धं सर्वमेकत्र गालयेत् ॥ ११.८६ ॥ चतुर्गुञ्जाप्रमाणं हि दापयेन्मतिमान् भिषक् । जायते प्रवरं तारं सत्यमेतदुदीरितम् ॥ ११.८७ ॥ <रौप्यकरणविधिः (४)> अस्थिभक्षमलबंगमारितं तालकाभ्रविषसूतटंकणम् । वज्रिभानुपयसा सुभावितं स्यान्नरेन्द्र शुभतारपर्वतम् ॥ ११.८८ ॥ <रौप्यकरणविधिः (५)> वंगं तालकमभ्रकं शशिरसं तीक्ष्णं विषं टंकणं । त्रैवारेण च मूकमूषधमितं विन्दन्ति चन्द्रप्रभम् ॥ ११.८९ ॥ आरं द्वादशभागमष्टरविणो बीजं चतुर्थांशकम् । भूगण्डादिसमस्तदोषरहितं श्रीपूज्यपादोदितम् ॥ ११.९० ॥ <रौप्यकरणविधिः (६)> पारदस्य त्रयो भागा भागैकं रजतस्य हि । निम्बूरसेन संमर्द्य पिष्टीं कृत्वा प्रयत्नतः ॥ ११.९१ ॥ कांजिकेन तु तां पिष्टीं स्तम्भयेद्वासरत्रयम् । सारयेद्बंगमध्ये तु सूतकं तदनंतरम् ॥ ११.९२ ॥ सारितं सूतकं तेन तालसत्त्वेन साधयेत् । तेन वेध्यं द्रुतं ताम्रं षोडशांशेन यत्नतः ॥ ११.९३ ॥ जायते प्रवरं तारं चंद्रनक्षत्रसन्निभम् ॥ ११.९४ ॥ <रौप्यकरणविधिः (७)> सूतकस्य त्रयो भागा बंगं भागद्वयं तथा । मर्दयेद्दिनमेकं तु कांजिकेन समन्वितम् ॥ ११.९५ ॥ सर्वेभ्यस्त्रिगुणेनाथ सुम्बलेन प्रमर्दयेत् । स्नुह्यर्कदुग्धेन समं भावयेद्वासरत्रयम् ॥ ११.९६ ॥ यवप्रमाणां गुटिकां रवितापेन शोषिताम् । काचकूप्यां निधायाथ वह्निं कुर्यात्प्रयत्नतः ॥ ११.९७ ॥ यामषोडशपर्यंतं वालुकायंत्रके पचेत् । स्वांगशीतं समुद्धृत्य चोर्ध्वगं सत्वमाहरेत् ॥ ११.९८ ॥ षोडशांशेन शुल्बं हि कुन्तवेधेन वेधयेत् । जायते प्रवरं तारं हट्टविक्रययोग्यकम् ॥ ११.९९ ॥ <रौप्यकरणविधिः (८)> पलाष्टमात्रं तालं तु द्विकर्षप्रमितं रसम् । निम्बूरसेन संमर्द्यं वासरैकं प्रयत्नतः ॥ ११.१०० ॥ पश्चात्तं मर्दयेद्धीमान् तैलेनैरण्डजेन वै । वालुकायन्त्रमध्यस्थं पचेद्यामांस्तु षोडश ॥ ११.१०१ ॥ पश्चात्सत्त्वं समुद्धृत्य मर्दयेदेकवासरम् । अतसीतिलतैलेन काचकूप्यां निधापयेत् ॥ ११.१०२ ॥ पूर्ववत्पाचयेद्वह्नौ स्वांगशीतं समुद्धरेत् । अनेनैव प्रकारेण पुनरेवं तु कारयेत् ॥ ११.१०३ ॥ कूपीतलस्थितं सत्त्वं ग्राह्यं चेत्प्रवरं सदा । षोडशांशेन शुल्बस्य वेधं कुर्यान्न संशयः ॥ ११.१०४ ॥ <रौप्यकरणविधिः (९)> पारदं टंकमानं तु लवणं द्विगुणं तथा । खल्वे विमर्दयेत्तावद्यावन्नष्टो रसो भवेत् ॥ ११.१०५ ॥ ताम्रं गद्याणकं शुद्धं बंगं वल्लमितं कुरु । द्रुते ताम्रेऽथ लवणं सूतकेन समन्वितम् ॥ ११.१०६ ॥ माषमात्रं प्रदातव्यं चतुर्थांशेन रूप्यकम् । तद्रूप्ये मर्दितं सूतं क्षेप्तव्यं जलयन्त्रके ॥ ११.१०७ ॥ तत्त्रयोदशकं रूप्यं जायते नात्र संशयः ॥ ११.१०८ ॥ <रौप्यकरणविधिः (१०)> तालेन निहतं बंगं तद्बंगेन तु रूप्यकम् । पचेद्यामाष्टकं सम्यक्कल्क एवं प्रजायते । वल्लं गद्याणके दद्याद्बंगं स्तम्भयते ध्रुवम् ॥ ११.१०९ ॥ <रौप्यकरणविधिः (११)> दरदं खण्डशः कृत्वा टंकत्रयमितं पृथक् । वज्रीक्षीरेण तत्स्वेद्यं दोलायंत्रेण वार्तिकैः ॥ ११.११० ॥ तारचूर्णं समं लेप्यं लुङ्गतोयसमं तथा । गोवरैः पाचयेत्स्वल्पमेव द्वादशयामकम् ॥ ११.१११ ॥ पिष्टिस्तम्भो भवेत्तेन पश्चात्ताररजः पृथक् । कुर्याद्दरदखण्डेन समं सीसं च दापयेत् ॥ ११.११२ ॥ गालयेन्मूषिकामध्ये शीतं कृत्वा तु खोटकम् । भस्म मूषोपरि न्यस्य ध्मापयेच्च शनैः शनैः ॥ ११.११३ ॥ शुद्धशङ्खनिभं रूप्यं निष्कमात्रं हि निःसरेत् ॥ ११.११४ ॥ <रौप्यकरणविधिः (१२)> द्विपलं शुद्धसूतं च द्विपलं रसकस्य च । तालकं च पलद्वंद्वं सुर्मिलं युग्ममात्रकम् ॥ ११.११५ ॥ कूप्यामारोपयेत्सर्वं मुखं ताम्रेण रुन्धयेत् । वालुकायन्त्रके सम्यक्पचेद्द्वादशयामकम् ॥ ११.११६ ॥ कूपीमुखे तु यल्लग्नं सत्त्वं ग्राह्यं प्रयत्नतः । शुल्बे षोडशवेधेन कारयेद्रजतं वरम् ॥ ११.११७ ॥ <रौप्यकरणविधिः (१३)> सूतकं पलमेकं तु शंखाभं सुर्मिलं पलम् । एरण्डतैले घृष्टं तद्धारितं खर्परे वरे ॥ ११.११८ ॥ अन्धितं ताम्रपात्रेण मुद्रितं सुदृढं कृतम् । पश्चाच्चुल्ल्यां समारोप्य वह्निं कुर्याच्छनैः शनैः ॥ ११.११९ ॥ सार्धं यामं ततः पाच्यं स्वांगशीतं समुद्धरेत् । ताम्रपात्रे तु यल्लग्नं सर्वं सत्त्वं समाहरेत् ॥ ११.१२० ॥ घृताक्तं टंकणोपेतं गालितं मूषिकामुखे । देयं तद्वल्लमात्रं हि द्रुते ताम्रे तु सत्त्वकम् ॥ ११.१२१ ॥ शंखाभं जायते तारं नात्र कार्या विचारणा ॥ ११.१२२ ॥ <रौप्यकरणविधिः (१४)> तालं ताम्रं रीतिघोषं समांशं कुर्यादेवं गालितं ढालितं हि । अम्ले वर्गे सप्तवारं प्रढाल्य पश्चाद्योज्यं तुल्यभागे च रूप्ये । शुद्धं रूप्यं षोडशाख्यं हि सम्यक्जातं दृष्टं नानृतं सत्यमेतत् ॥ ११.१२३ ॥ <रौप्यकरणविधिः (१५)> श्वेतं सौवीरकं शुद्धं पाचितं विषमुष्टिना । स्वच्छे सूतवरे वल्लं निक्षिप्तं रूप्यकृद्भवेत् ॥ ११.१२४ ॥ <रौप्यकरणविधिः (१६)> शुद्धस्फटिकसंकाशं सुर्मिलं दृश्यते क्वचित् । मृत्खर्परे पाचितं हि निम्बूकद्रवसंयुतम् ॥ ११.१२५ ॥ घटिकाद्वयमानेन शुद्धकल्कः प्रजायते । चतुःषष्ट्यंशमानेन वेधयेच्छुल्बकं शुभम् ॥ ११.१२६ ॥ जायते प्रवरं तारं सर्वदोषविवर्जितम् ॥ ११.१२७ ॥ <रौप्यकरणविधिः (१७)> सप्तधातुमयी मूषा क्षारभस्मप्रपूरिता । कदल्याः क्षारकेणैव तथापामार्गसंभवैः ॥ ११.१२८ ॥ मध्ये पारदकं मुक्त्वा पुनरेवं प्रपूरयेत् । अनेन विधिना पूर्या द्वितीया मूषिका शुभा ॥ ११.१२९ ॥ मुद्रितव्या प्रयत्नेन गोवरे पुटके न्यसेत् । सूतकं बन्धमायाति वङ्गाभं तु प्रजायते । द्रुतद्रावं घातसहं दृष्टमेवं मया खलु ॥ ११.१३० ॥ <कृत्रिममौक्तिककरणम्> नेत्राण्याहृत्य मत्स्यानां पक्त्वा दुग्धेन यामकम् । पश्चादाकृष्णकणकानाकृष्य किल कण्डयेत् ॥ ११.१३१ ॥ तानि शालिसमेतानि तावच्छुभ्राणि कारयेत् । पश्चादिष्टिकचूर्णेन हस्ते कृत्वा प्रमर्दयेत् ॥ ११.१३२ ॥ मौक्तिकानि हि जायन्ते कृतान्येवं मया खलु ॥ ११.१३३ ॥ <सूक्ष्ममौक्तिकेभ्यो बृहन्मौक्तिककरणम्> मूषिकां कारयेच्छुद्धां स्फाटिकीं दहनोपलाम् । मौक्तिकानि तु सूक्ष्माणि निम्बूद्रावे निधापयेत् ॥ ११.१३४ ॥ अहोरात्रेण सर्वाणि नवनीतसमानि च । तस्य पंकस्य गुटिकां मसृणां तु प्रकारयेत् ॥ ११.१३५ ॥ पश्चात्तां मूषिकामध्ये चित्राघर्मे द्वियामकम् । चत्वारि कांस्यभाण्डानि चतुर्दिक्षु गतानि च ॥ ११.१३६ ॥ अर्भकाः पातयेत्सर्वाः मध्यभाजनकोपरि । बध्यते मौक्तिकं श्रेष्ठ- तरं सर्वगुणैर्युतम् ॥ ११.१३७ ॥ <कृत्रिमप्रवालकरणम्> शुद्धशङ्खस्य चूर्णं हि सूक्ष्मं कृत्वा प्रयत्नतः । अर्धभागं च दरदं चूर्णयेन्मतिमांस्ततः ॥ ११.१३८ ॥ सद्यः सूताविकक्षीरं तेन दुग्धेन मर्दयेत् । वर्तिं विधाय मतिमान् कार्पासास्थिषु स्वेदयेत् ॥ ११.१३९ ॥ स्वांगशीतं समुत्तार्य प्रवालं रुचिरं भवेत् ॥ ११.१४० ॥ ____________________________________________________________ अध्याय १२ <वानरी वटी> आत्मगुप्ताफलं शुष्कं निस्तुषं चाष्टपालिकम् । माषस्याष्टपलं तद्वज्जलेन परिपेषितम् ॥ १२.१ ॥ आर्द्रं कृत्वोभयं सम्यक्शिलापट्टेन पेषयेत् । कुंकुमं केसरं चैव जातीपत्रं शतावरी ॥ १२.२ ॥ गोक्षुरेक्षुरबीजानि लवंगं मरिचं कणा । शृङ्गाटकं कर्षमितं कुर्यादेवं पृथक्पृथक् ॥ १२.३ ॥ सूक्ष्मचूर्णं विधायाथ पूर्वपिष्टे निधापयेत् । वटकान् कारयेत्पश्चात्कर्षमात्रान् विपाचयेत् ॥ १२.४ ॥ घृतप्रस्थत्रयेणैव सुतलथ्य निमज्जयेत् । माक्षिके घृतमाने वै मुखं रुन्ध्याद्दिनत्रयम् ॥ १२.५ ॥ मध्वाज्यमिश्रितं भुञ्ज्यादेकैकं वटकं प्रगे । सप्तकानि च पञ्चैवमाहारं मधुरं भजेत् ॥ १२.६ ॥ दुग्धौदनं तथा रात्रौ क्षारमम्लं च वर्जयेत् । रेतःक्षयी तथा क्लीबो गच्छेच्च प्रमदाशतम् ॥ १२.७ ॥ अपुत्रः पुत्रमाप्नोति षण्ढोऽपि पुरुषायते । दृष्टप्रत्यययोगोऽयं सत्यमेतदुदीरितम् ॥ १२.८ ॥ <शतावर्यादिवाजीकरोऽवलेहः (१)> शतावरीं क्षीरविदारिकां च प्रस्थार्धमानां पृथगेव कुर्यात् । रसं तथा शाल्मलिमध्यमूलात्प्रस्थं सितार्धाढकमत्र देयम् ॥ १२.९ ॥ सुपाचितं वै मृदुवह्निना तथा दर्वीप्रलेपोऽपि हि जायते यथा । त्वक्पत्रकैलाः सह केसरेण पलप्रमाणा हि ततो विदध्यात् ॥ १२.१० ॥ लेहे सुशीते मधु बिल्वमात्रं प्रातः प्रभक्षेदिह कर्षमात्रम् ॥ १२.११ ॥ <शृङ्गातकादिवाजीकरोऽवलेहः (२)> शृङ्गाटकस्यापि पलं विधेयं वाराहिकन्दश्च पलप्रमाणः । चूर्णीकृतं गालितमेव वस्त्राद्भृष्टं तथाज्येन सितासमेतम् ॥ १२.१२ ॥ लवंगकृष्णागरुकेशराणां पलं प्रदद्याद्दशभागदुग्धम् । लेहं सुजातं खलु भक्षयेत्तत्कर्षप्रमाणं नितरां प्रभाते । कामस्य बोधं कुरुते हि शीघ्रं नारीं रमेद्वै चटकायतेऽसौ ॥ १२.१३ ॥ <कामदीप्तिकरवाजीकरोऽवलेहः (३)> शतावरीगोक्षुरदर्भमूलं शृङ्गाटकं नागबलात्मगुप्ते । संचूर्ण्य सर्वं पृथगेव पालिकं क्षीरेण पाच्यं दशभागकेन ॥ १२.१४ ॥ सिता प्रदेया दशपालिकात्र पाकं विदध्यादपि चाग्नियोगात् । मधुप्लुतं भक्षितमर्धयामात्कामप्रदीप्तिं कुरुते सदैव ॥ १२.१५ ॥ वीर्यस्य वृद्धिं जठराग्निवृद्धिं कामाग्निवृद्धिं सहसा करोति ॥ १२.१६ ॥ <माषादिवाजीकरोऽवलेहः (४)> माषाणामात्मगुप्ताया बीजानामाढकं नवम् । जीवकर्षभकौ जीवां मेदां वृद्धिं शतावरीम् ॥ १२.१७ ॥ मधुकं चाश्वगन्धां च साधयेत्प्रसृतोन्मिताम् । रसे तस्मिन्घृतप्रस्थं गव्यं दशगुणं पयः ॥ १२.१८ ॥ विदारीस्वरसप्रस्थं प्रस्थमिक्षुरसस्य च । दत्त्वा मृद्वग्निना साध्यं सिद्धसर्पिर्निधापयेत् ॥ १२.१९ ॥ शर्करायास्तुगाक्षीर्याः क्षौद्रस्य च पृथक्पृथक् । भागांश्चतुष्पलांस्तत्र पिप्पल्याश्चावपेत्पलम् ॥ १२.२० ॥ पलं पूर्वमितो लीढ्वा ततोऽन्नमुपयोजयेत् । यदीच्छेदक्षयं शुक्रं शेफसश्चोत्तमं बलम् ॥ १२.२१ ॥ ____________________________________________________________ अध्याय १३ <वीर्यस्तम्भकरी वटी> श्रीवासमस्तकीनाग- केसरं च लवंगकम् । कंकोलं तुलसीबीजं खुरासान्यहीफेनकम् ॥ १३.१ ॥ जावित्रिकाब्धिशोषं च करभागुरुकुंकुमम् । कङ्कोलकतुगाक्षीरी- जातीफलसमांशकान् ॥ १३.२ ॥ सर्वाण्येवं विचूर्ण्याथ नालिकेरोदरे क्षिपेत् । दुग्धमध्ये विपाच्यैनं दिनान्येवं हि पञ्च च ॥ १३.३ ॥ नालिकेरफलाद्ग्राह्यं मर्दयेन्मधुना सह । गुटिका कोलमात्रा हि भक्षणीया निशामुखे ॥ १३.४ ॥ वीर्यस्तंभं करोत्युग्रं चतुर्यामावधिं तथा ॥ १३.५ ॥ <शुक्रस्तम्भकरी वटी> लवंगं शुद्धकर्पूरं जातीपत्रं फलं तथा । कुङ्कुमं स्वर्णबीजं च धूर्तपर्णं प्रसूनकम् ॥ १३.६ ॥ मूलं त्वक्चाब्धिशोषस्य सर्वाण्येकत्र मर्दयेत् । गोदुग्धे शोधनीयं च भागमेकं प्रकल्पयेत् ॥ १३.७ ॥ भृङ्गीपत्त्रभवं चूर्णं भागैकं स्वर्णगैरिकम् । भावनां पोस्ततोयेन एकविंशतिसंख्यया ॥ १३.८ ॥ कारयेन्मतिमान् वैद्यः शुक्रस्तंभकरीं वटीम् ॥ १३.९ ॥ <रेतःस्तम्भकरी वटी> जातीफलार्ककरहाटलवङ्गशुण्ठीकङ्कोलकेशरकणाहरिचन्दनानि एतैः समानमहिफेनमनेन चाभ्रं श्वेतं निधाय मधुना वटकान् विदध्यात् । माषद्वयोन्मितममुं निशि भक्षयित्वा मृष्टं पयस्तदनु माहिषमाशु पीत्वा कुर्वन्तु कामुकजनाः प्रतिरुद्धपाताश्चेतांसि तानि चकितानि कलावतीनाम् ॥ १३.१० ॥ <वीर्यस्तम्भकरी लेपवटी> स्कन्धदेशाच्च संजातं वीर्यं दर्दुरसंभवम् । घनसारेण संयुक्तं करहाटस्य चूर्णकम् ॥ १३.११ ॥ संमर्द्य कारयेच्चूर्णं वटीं मुद्गप्रमाणकाम् । संघर्ष्य मुखतोयेन लिंगलेपं प्रकारयेत् ॥ १३.१२ ॥ यामार्धं धारयेद्बिन्दुं सत्यं गुरुवचो यथा ॥ १३.१३ ॥ <शुक्रस्तम्भकचूर्णम्> पोस्तकं पलमेकं वै शुंठीकर्षः सिता पलैका च । कर्षमिता त्वक्पयसा पीतं रेतो ध्रुवं धत्ते ॥ १३.१४ ॥ श्रीगङ्गाधरभक्तिसक्तमनसो विद्याविनोदाम्बुधेः श्रीगोडान्वयपद्मनाभसुधियस्तस्यात्मजेनाप्ययम् । सद्वैद्येन यशोधरेण कविना विद्वज्जनानन्दकृद्ग्रन्थोऽयं ग्रथितः करोतु सततं सौख्यं सतां मानसे ॥ १३.१५ ॥ देशानां सुरराष्ट्रमुत्तमतमं तत्रापि जीर्णाभिधः प्राकारोऽस्ति स वेदशास्त्रनिरतैर्विप्रैश्च संशोभितः । तस्मिन् शंभुपदारविन्दरतिकृच्छ्रीपद्मनाभः स्वयं तत्पुत्रेण यशोधरेण कविना ग्रंथः स्वयं निर्मितः ॥ १३.१६ ॥ संबोधाय सतां सुखाय सरुजां शिष्यार्थसंसिद्धये वैद्यानामुपजीवनाय विदुषामुद्वेगनाशाय वै । श्रीमद्दुर्गपुरातनेऽतिनिपुणः श्रीपद्मनाभात्मजः श्रीमद्भट्टयशोधरः कविवरो ग्रन्थः स्वयं निर्ममे ॥ १३.१७ ॥