ओं नमो मङ्गलमूर्तये । अथ प्रत्यभिज्ञाहृदयम् ॥ [१] ________ नमः शिवाय सततं पञ्चकृत्यविधायिने । चिदानन्दघनस्वात्मपरमार्थावभासिने ॥ [२] शाङ्करोपनिषत्सारप्रत्यभिज्ञामहोदधेः । क्षेमेणोद्धृयते सारः संसारविषशान्तये ॥ इह ये सुकुमारमतयोऽकृततीक्ष्णतर्कशास्त्रपरिश्रमाः शक्तिपातोन्मिषितपारमेश्वरसमावेशाभिलाषिणः कतिचित्भक्तिभाजः तेषामीश्वरप्रत्यभिज्ञोपदेशतत्त्वं मनाकुन्मील्यते । तत्र स्वात्मदेवताया एव सर्वत्र कारणत्वं सुखोपायप्राप्यत्वं महाफलत्व.= म् च अभिव्यङ्क्तुमाह चितिः स्वतन्त्रा विश्वसिद्धिहेतुः ॥ १ ॥ विश्वस्य सदाशिवादेः भूम्यन्तस्य सिद्धौ निष्पत्तौ प्रकाशने स्थित्यात्मनि परप्रमातृविश्रान्त्यात्मनि च संहारे पराशक्तिरूपा चितिर् एव भगवती स्वतन्त्रा अनुत्तरविमर्शमयी शिवभट्टारकाभिन्ना हेतुः कारणम् । अस्यां हि प्रसरन्त्यां जगतुन्मिषति व्यवतिष्ठते च निवृत्तप्रसरायां च निमिषति इति स्वानुभव एव अत्र साक्षी । अन्यस्य तु मायाप्रकृत्यादेः चित्प्रकाशभिन्नस्य अप्रकाशमानत्वेन असत्त्वान्न क्वचिदपि हेतुत्वं प्रकाशमानत्वे तु प्रकाशैकात्म्यात् प्रकाशरूपा चितिरेव हेतुः न त्वसौ कश्चित् । अत एव देशकालाकारा एतत्सृष्टा एतदनुप्राणिताश्च नैतत्स्वरूपं भेत्तुमलमिति व्यापकनित्योदितपरिपूर्णरूपा इयमित्यर्थलभ्यमेव एतत् । ननु जगदपि चितो भिन्नं नैव किंचितभेदे च कथं हेतुहेतुमद्भावः उच्यते । चिदेव भगवती स्वच्छस्वतन्त्ररूपा तत्तदनन्तजगदात्मना स्फुरति इत्येतावत्परमार्थोऽयं कार्यकारणभावः । यतश्च इयमेव प्रमातृप्रमाणप्रमेयमयस्य विश्वस्य सिद्धौ प्रकाशने हेतुः ततोऽस्याः स्वतन्त्रापरिच्छिन्नस्वप्रकाशरूपायाः सिद्धौ अभिनवार्थप्रकाशनरूप.= म् न प्रमाणवराकमुपयुक्तमुपपन्नं वा । तदुक्तं त्रिकसारे स्वपदा स्वशिरश्छायां यद्वल्लङ्घितुमीहते । पादोद्देशे शिरो न स्यात्तथेयं बैन्दवी कला ॥ इति । यतश्च इयं विश्वस्य सिद्धौ पराद्वयसमारस्यापादनात्मनि च संहरे हेतुः तत एव स्वतन्त्रा । प्रत्यभिज्ञातस्वातन्त्र्या सती भोगमोक्षस्वरूपाणां विश्वसिद्धीनां हेतुः । इत्यावृत्त्या व्याख्येयम् । अपि च विश्वं नीलसुखदेहप्राणादि तस्य या सिद्धिः प्रमानोपारोहक्रमेण विमर्शमयप्रमात्रावेशः सैव हेतुः परिज्ञाने उपायो यस्याः । अनेन च सुखोपायत्वमुक्तम् । यदुक्तं श्रीविज्ञानभट्टारके ग्राह्यग्राहकसंवित्तिः सामान्या सर्वदेहिनाम् । योगिनां तु विशेषोऽयं संबन्धे सावधानता [३] ॥ इति । चितिः इति एकवचनं देशकालाद्यनवच्छिन्नतामभिदधत् समस्तभेदवादानामवास्तवतां व्यनक्ति । स्वतन्त्रशब्दो ब्रह्मवादवैलक्षण्यमाचक्षाणः चितो माहेश्वर्यसारतां ब्रूते । विश्व इत्यादिपदमशेषशक्तित्वं सर्वकारणत्वं सुखोपायत्वं महाफलं च आह ॥ ननु विश्वस्य यदि चितिः हेतुः ततस्या उपादानाद्यपेक्षायां भेदवादापरित्यागः स्यात् इत्याशङ्क्य आह स्वेच्छया स्वभित्तौ विश्वमुन्मीलयति ॥ २ ॥ स्वेच्छया न तु ब्रह्मादिवदन्येच्छया । तयैव च न तु उपादानाद्यपेक्षय्= आ । एवं हि प्रागुक्तस्वातन्त्र्यहान्या चित्त्वमेव न घटेत । स्वभित्तौ न तु अन्यत्र क्वापि । प्राक्निर्णीतं विश्वं दर्पणे नगरवतभिन्नमपि भिन्नमिव उन्मीलयति । उन्मीलनं च अवस्थितस्यैव प्रकटीकरणमित्= य् अनेन जगतः प्रकशैकात्म्येनावस्थानमुक्तम् ॥ अथ विश्वस्य स्वरूपं विभागेन प्रतिपादयितुमाह तन्नाना अनुरूपग्राह्यग्राहकभेदात् ॥ ३ ॥ तद्विश्वं नाना अनेकप्रकारम् । कथमनुरूपाणां परस्परौचित्यावस्थीनां ग्राह्याणां ग्राहकाणां च भेदाद्वैचित्र्यात् । तथा च सदाशिवतत्त्वेऽहन्ताच्छादितास्फुटेदन्तामयं यादृशं परापररूपं विश्वं ग्राह्यं तादृगेव श्रीसदाशिवभट्टारकाधिष्ठितो मन्त्रमहेश्वराख्यः प्रमातृवर्गः परमेश्वरेच्छावकल्पिततथावस्थानः । ईश्वरतत्त्वे स्फुटेदन्ताहन्तासामानाधिकरण्यात्म यादृग्विश्वं ग्राह्य.= म् तथाविध एव ईश्वरभट्टारकाधिष्ठितो मन्त्रेश्वरवर्गः । विद्यापदे श्रीमदनन्तभट्टारकाधिष्ठिता बहुशाखावान्तरभेदभिन्ना यथाभूता मन्त्राः प्रमातारः तथाभूतमेव भेदैकसारं विश्वमपि प्रमेयम् । मायोर्ध्वे यादृशा विज्ञानाकलाः कर्तृताशून्यशुद्धबोधात्मानः तादृगेव तदभेदसारं सकलप्रलयाकलात्मकपूर्वावस्थापरिचितमेषां प्रमेयम् । मायायां शून्यप्रमातॄणां प्रलयकेवलिनां स्वोचितं प्रलीनकल्पं प्रमेयम् । क्षितिपर्यन्तावस्थितानांतु सकलानां सर्वतो भिन्नानां परिमितानां तथाभूतमेव प्रमेयम् । तदुत्तीर्णशिवभट्टारकस्य प्रकाशैकवपुषः प्रकाशैकरूपा एव भावाः । श्रीमत्परमशिवस्य पुनः विश्वोत्तीर्णविश्वात्मकपरमानन्दमयप्रकाशैकघनस्य एवंविधमेव शिवादिधरण्यन्तमखिलमभेदेनैव स्फुरति । न तु वस्तुतः अन्यत्किंचित्ग्राह्यं ग्राहकं वा । अपि तु श्रीपरमशिवभट्टारक एव इत्थं नानावैचित्र्यसहस्रैः स्फुरतीत्य् अभिहितप्रायम् ॥ यथा च भगवान् विश्वशरीरः तथा चितिसंकोचात्मा चेतनोऽपि संकुचितविश्वमयः ॥ ४ ॥ श्रीपरमशिवः स्वात्मैक्येन स्थितं विश्वं सदाशिवाद्युचितेन रूपेन अवबिभासयिषुः पूर्वं चिदैक्याख्यातिमयानाश्रितशिवपर्यायशून्यातिशून्यात्मतया प्रकाशाभेदेन प्रकाशमानतया स्फुरति । ततः चिद्रसाश्यानतारूपाशेषतत्त्वभुवनभावतत्तत्प्रमात्राद्यात्मतयापि प्रथते । यथा च एवं भगवान् विश्वशरीरः तथा चितिसंकोचात्मा संकुचितचिद्रूपः चेतनो ग्राहकोऽपि वटधानिकावत् संकुचिताशेषविश्वरूपः । तथा च सिद्धान्तवचनम् विग्रहो विग्रही चैव सर्वविग्रहविग्रही । इति । त्रिशिरोमतेऽपि=२० सर्वदेवमयः कायस्तं चेदानीं शृणु प्रिये । पृथिवी कठिनत्वेन द्रवत्वेऽम्भः प्रकीर्तितम् ॥ इत्युपक्रम्य=२० त्रिशिरोभैरवः साक्षाद्व्याप्य विश्वं व्यवस्थितः । इत्यन्तेन ग्रन्थेन ग्राहकस्य संकुचितविश्वमयत्वमेव व्याहरति । अयं चात्राशयः ग्राहकोऽपि अयं प्रकाशैकात्म्येन उक्तागमयुक्त्या च विश्वशरीरशिवैकरूप एव केवलं तन्मायाशक्त्या अनभिव्यक्तस्वरूपत्वात्संकुचित इव आभाति । संकोचोऽपि विचार्यमाणः चिदैकात्म्येन प्रथमानत्वात्चिन्मय एव । अन्यथा तु न किंचितिति सर्वो ग्राहको विश्वशरीरः शिवभट्टारक एव । तदुक्तं मयैव अख्यातिर्यदि न ख्याति ख्यातिरेवावशिष्यते । ख्याति चेत्ख्यातिरूपत्वात्ख्यातिरेवावशिष्यते ॥ इति । अनेनैवाशयेन श्रीस्पन्दशास्त्रेषु यस्मात्सर्वमयो जीवः ............................ । इत्युपक्रम्य=२० तेन शब्दार्थचिन्तासु न सावस्था न यः शिवः [४] । इत्यादिना शिवजीवयोरभेद एवोक्तः । एतत्तत्त्वपरिज्ञानमेव मुक्तिः । एतत्तत्त्वापरिज्ञानमेव च बन्ध इति भविष्यति एव एतत् ॥ ननु ग्राहकोऽयं विकल्पमयः विकल्पनं च चित्तहेतुकं सति च चित्ते कथमस्य शिवात्मकत्वमिति शङ्क्त्वा चित्तमेव निर्नेतुमाह चितिरेव चेतनपदादवरूढा चेत्यसंकोचिनी चित्तम् ॥ ५ ॥ न चित्तं नाम अन्यत्किंचितपि तु सैव भगवती तत् । तथा हि सा स्व.= म् स्वरूपं गोपयित्वा यदा संकोचं गृह्णाति तदा द्वयी गतिः । कदाचिद् उल्लसितमपि संकोचं गुणीकृत्य चित्प्राधान्येन स्फुरति । कदाचित् संकोचप्रधानतया । चित्प्राधान्यपक्षे सहजं प्रकाशमात्रप्रधानत्वे विज्ञानाकलता । प्रकाशपरामर्शप्रधानत्वे तु विद्याप्रमातृता । तत्रापि क्रमेण संकोचस्य तनुतायामीशसदाशिवानाश्रितरूपता । समाधिप्रयत्नोपार्जिते तु चित्प्रधानत्वे शुद्धाध्वप्रमातृता क्रमात् क्रमं प्रकर्षवती । संकोचप्राधान्ये तु शून्यादिप्रमातृता । एवम् अवस्थिते सति चितिरेव संकुचितग्राहकरूपा चेतनपदातवरूढा अर्थग्रहणोन्मुखी सती चेत्येन नीलसुखादिना संकोचिनी उभयसंकोचसंकुचितैव चित्तम् । तथा च=२० स्वाङ्गरूपेषु भावेषु पत्युर्ज्ञानं क्रिया च या । माया तृतीये ते एव पशोः सत्त्वं रजस्तमः [५] ॥ इत्यादिना स्वातन्त्र्यात्मा चितिशक्तिरेव ज्ञानक्रियामायाशक्तिरूपा पशुदशायां संकोचप्रकर्षात्सत्त्वरजस्तमःस्वभावचित्तात्मतया स्फुरतीति श्रीप्रत्यभिज्ञायामुक्तम् । अत एव श्रीतत्त्वगर्भस्तोत्रे विकल्पदशायाम् अपि तात्त्विकस्वरूपसद्भावात्तदनुसरणाभिप्रायेणोक्तम् अत एव तु ये केचित्परमार्थानुसारिणः । तेषां तत्र स्वरूपस्य स्वज्योतिष्ट्वं न लुप्यते ॥ इति ॥ चित्तमेव तु मायाप्रमातुः स्वरूपमित्याह तन्मयो मायाप्रमाता ॥ ६ ॥ देहप्राणपदं तावत्चित्तप्रधानमेव । शून्यभूमिरपि चित्तसंस्कारवत्येव । अन्यथा ततो व्युत्थितस्य स्वकर्तव्यानुधावनाभावः स्यादिति चित्तमय एव मायीयः प्रमाता । अमुनैव आशयेन शिवसूत्रेषु वस्तुवृत्तानुसारेण "चैतन्यमात्मा" [६] इत्यभिधाय मायाप्रमातृलक्षणावसरे पुनः "चित्तमात्मा" [७] इत्युक्त= म् ॥ अस्यैव सम्यक्स्वरूपज्ञानात्यतो मुक्तिः असम्यक्तु संसारः ततः तिलश एतत्स्वरूपं निर्भङ्क्तुमाह स चैको द्विरूपस्त्रिमयश्चतुरात्मा सप्तपञ्चकस्वभावः ॥ ७ ॥ निर्णीतदृशा चिदात्मा शिवभट्टारक एव एक आत्मा न तु अन्यः कश्चित् प्रकाशस्य देशकालादिभिः भेदायोगात् । जडस्य तु ग्राहकत्वानुपपत्तेः । प्रकाश एव यतः स्वातन्त्र्यात्गृहीतप्राणादिसंकोचः संकुचितार्थग्राहकतामश्नुते ततोऽसौ प्रकाशरूपत्वसंकोचावभासवत्त्वाभ्यां द्विरूपः । आणवमायीयकार्ममलावृतत्वात्त्रिमयः । शून्यप्राणपुर्यष्टकशरीरस्वभावत्वात्चतुरात्मा । सप्तपञ्चकानि शिवादिपृथिव्यन्तानि पञ्चत्रिंशत्तत्त्वानि तत्स्वभावः । तथा शिवादिसकलान्तप्रमातृसप्तकस्वरूपः । चिदानन्देच्छाज्ञानक्रियाशक्तिरूपत्वेऽपि अख्यातिवशात् कलाविद्यारागकालनियतिकञ्चुकवलितत्वात्पञ्चकस्वरूपः । एवं च शिवैकरूपत्वेन पञ्चत्रिंशत्तत्त्वमयत्वेन प्रमातृसप्तकस्वभावत्वेन्= अ चिदादिशक्तिपञ्चकात्मकत्वेन च अयं प्रत्यभिज्ञायमानो मुक्तिः । अन्यथा तु संसारहेतुः ॥ एवं च तद्भूमिकाः सर्वदर्शनस्थितयः ॥ ८ ॥ सर्वेषां चार्वाकादिदर्शनानां स्थितयः सिद्धान्ताः तस्य एतस्य आत्मनो नटस्येव स्वेच्छावगृहीताः कृत्रिमा भूमिकाः । तथा च चैतन्यविशिष्टं शरीरमात्मा इति चार्वाकाः । नैयायिकादयो ज्ञानादिगुणगणाश्रयं बुद्धितत्त्वप्रायमेव आत्मानं संसृतौ मन्यन्ते । अपवर्गे तु तदुच्छेदे शून्यप्रायम् । अहंप्रतीतिप्रत्येयः सुखदुःखाद्युपाधिभिः तिरस्कृतात्मा मन्वाना मीमांसकाऽपि बुद्धावेव निविष्टा । ज्ञानसन्तान एव तत्त्वमिति सौगत्= आ बुद्धिवृत्तिष्वेव पर्यवसिताः । प्राण एवात्मेति केचित्श्रुत्यन्तविदः = । असदेव इदमासीदित्यभावब्रह्मवादिनः शून्यभुवमवगाह्य स्थिताः = । माध्यमिकापि एवमेव । परा प्रकृतिर्भगवान् वासुदेवः तद्विस्फुलिङ्गप्राया एव जीवा इति पाञ्चरात्राः परस्याः प्रकृतेः परिणामाभ्युपगमातव्यक्त एवाभिनिविष्टाः । सांख्यादयस्तु विज्ञानकलप्रायां भूमिमवलम्बन्ते । सदेव इदमग्र आसीदिति ईश्वरतत्त्वपदमाश्रिता अपरे श्रुत्यन्तविद.= ह् ।=२० शब्दब्रह्ममयं पश्यन्तीरूपमात्मतत्त्वमिति वैयाकरणाः श्रीसदाशिवपदमध्यासिताः । एवमन्यदपि अनुमन्तव्यम् । एतच्च आगमेषु बुद्धितत्त्वे स्थिता बौद्धा गुणेष्वेवार्हताः स्थिताः । स्थिता वेदविदः पुंसि अव्यक्ते पाञ्चरात्रिकाः ॥ इत्यादिना निरूपितम् । विश्वोत्तीर्णमात्मतत्त्वमिति तान्त्रिकाः । विश्वमयमिति कुलाद्याम्नायनिविष्टाः । विश्वोत्तीर्णं विश्वमयं च इति त्रिकादिदर्शनविदः । एवमेकस्यैव चिदात्मनो भगवतः स्वातन्त्र्यावभासिताः सर्वा इमा भूमिकाः स्वातन्त्र्यप्रच्छादनोन्मीलनतारतम्यभेदिताः । अत एक एव एतावद्व्याप्तिकात्मा । मितदृष्टयस्तु अंशांशिकासु तदिच्छयैव अभिमानं ग्राहिताः येन देहादिषु भूमिषु पूर्वपूर्वप्रमातृव्याप्तिसारताप्रथायामपि उक्तरूपां महाव्यप्तिं परशक्तिपातं विना न लभन्ते । यथोक्तं=२० वैष्णवाद्यास्तु ये केचित्विद्यारागेण रञ्जिताः । न विदन्ति परं देवं सर्वज्ञं ज्ञानशालिनम् ॥ इति । तथा=२० भ्रमयत्येव तान्माया ह्यमोक्षे मोक्षलिप्सया [८] । इति । त आत्मोपासकाः शैवं न गच्छन्ति परं पदम् [९] । इति च । अपि च सर्वेषां दर्शनानां समस्तानां नीलसुखादिज्ञानानां याः स्थितयः अन्तर्मुखरूपा विश्रान्तयः ताः तद्भूमिकाः चिदानन्दघनस्वात्मस्वरूपाभिव्यक्त्युपायाः । तथा हि यदा यदा बहिर्मुखं रूपं स्वरूपे विश्राम्यति तदा तदा बाह्यवस्तूपसंहारः अन्तःप्रशान्तपदावस्थितिः तत्तदुदेष्यत्संवित्सन्तत्यासूत्रणमिति सृष्टिस्थितिसंहारमेलनरूप्= आ इयं तुरीया संविद्भट्टारिका तत्तत्सृष्ट्यादिभेदानुद्वमन्ती संहरन्ती च सदा पूर्णा च कृशा च उभयरूपा च अनुभयात्मा च अक्रम= म् एव स्फुरन्ती स्थिता । उक्तं च श्रीप्रत्यभिज्ञाटीकायां तावदर्थावलेहेन उत्तिष्ठति पूर्णा च भवति । इति । एषा च भट्टारिका क्रमात्क्रममधिकमनुशील्यमाना स्वात्मसात्करोत्य् एव भक्तजनम् ॥ यदि एवंभूतस्य आत्मनो विभूतिः तत्कथमयं मलावृतोऽणुः कलादिवलितः संसारी अभिधीयते इत्याह चिद्वत्तच्छक्तिसंकोचात्मलावृतः संसारी ॥ ९ ॥ यदा चिदात्मा परमेश्वरः स्वस्वातन्त्र्यातभेदव्याप्तिं निमज्ज्य भेदव्याप्तिमवलम्बते तदा तदीया इच्छादिशक्तयः असंकुचिता अपि संकोचवत्यो भान्ति । तदानीमेव अयं मलावृतः संसारी भवति । तथा च अप्रतिहतस्वातन्त्र्यरूपा इच्छाशक्तिः संकुचिता सती अपूर्णमन्यतारूपं [१०] आणवं मलम् । ज्ञानशक्तिः क्रमेण संकोचात् भेदे सर्वज्ञत्वस्य किंचिज्ज्ञत्वाप्तेः अन्तःकरणबुद्धीन्द्रियतापत्तिपूर्वमत्यन्तसंकोचग्रहणेन [११] भिन्नवेद्यप्रथारूपं मायीयं मलम् । क्रियाशक्तिः क्रमेण भेदे सर्वकर्तृत्वस्य किंचित्कर्तृत्वाप्तेः कर्मेन्द्रियरूपसंकोचग्रहणपूर्वमत्यन्तपरिमिततां [१२] प्राप्ता शुभाशुभानुष्टानमयं कार्मं मलम् । तथा सर्वकर्तृत्वसर्वज्ञत्वपूर्णत्वनित्यत्वव्यापकत्वशक्तयः संकोचं गृह्णाना यथाक्रमं कलाविद्यारागकालनियतिरूपतया भान्ति । तथाविधश्च अयं शक्तिदरिद्रः संसारी उच्यते । स्वशक्तिविकासे तु शिव एव ॥ ननु संसार्यवस्थायामस्य किंचित्शिवतोचितमभिज्ञानमस्ति येन शिव एव तथावस्थित इत्युद्घोष्यते अस्तीत्याह तथापि तद्वत्पञ्चकृत्यानि करोति ॥ १० ॥ इह ईश्वराद्वयदर्शनस्य ब्रह्मवादिभ्यः अयमेव विशेषः । यत्=२० सृष्टिसंहारकर्तारं विलयस्थितिकारकम् । अनुग्रहकरं देवं प्रणतार्तिविनाशनम् [१३] ॥ इति श्रिमत्स्वच्छन्दादिशासनोक्तनीत्या सदा पञ्चविधकृत्यकारित्वं चिदात्मनो भगवतः । यथा च भगवान् शुद्धेतराध्वस्फारणक्रमेण स्वरूपविकासरूपाणि सृष्ट्यादीनि करोति तथा संकुचितचिच्छक्त्या संसारभूमिकायामपि पञ्चकृत्यानि विधत्ते । तथा हि तदेवं व्यवहारेऽपि प्रभुर्देहादिमाविशन् । भान्तमेवान्तरर्थौघमिच्छया भासयेद्बहिः [१४] ॥ इति प्रत्यभिज्ञाकारिकोक्तार्थदृष्ट्या देहप्राणादिपदमाविशन् चिद्रूपो महेश्वरो बहिर्मुखीभावावसरे नीलादिकमर्थं नियतदेशकालादितया यदा आभासयति तदा नियतदेशकालाद्याभासांशे अस्य स्रष्टृता । अन्यदेशकालाद्याभासांशे अस्य संहर्तृता । नीलाद्याभासांशे स्थापकता । भेदेन आभासांशे विलयकारिता । प्रकाशैक्येन प्रकाशने अनुग्रहीतृता । यथा च सदा पञ्चविधकृत्यकारित्वं भगवतः तथा मया वितत्य स्पन्दसन्दोहे निर्नीतम् । एवमिदं पञ्चविधकृत्यकारित्वमात्मीयं सदा दृढप्रतिपत्त्या परिशील्यमानं माहेश्वर्यमुन्मीलयत्येव भक्तिभाजाम् । अत एव ये सदा एतत्परिशीलयन्ति ते स्वरूपविकासमयं विश्वं जानाना जीवन्मुक्ता इत्याम्नाताः । ये तु न तथा ते सर्वतो विभिन्नं मेयजातं पश्यन्तो बद्धात्मनः ॥ न च अयमेव प्रकारः पञ्चविधकृत्यकारित्वे यावदन्योऽपि कश्चित् रहस्यरूपोऽस्तीत्याह आभासनरक्तिविमर्शनबीजावस्थापनविलापनतस् तानि ॥ ११ ॥ पञ्चविधकृत्यानि करोति इति पूर्वतः संबध्यते । श्रीमन्महार्थदृष्ट्या दृगादिदेवीप्रसरणक्रमेण यद्यदाभाति तत् तत्सृज्यते । तथा सृष्टे पदे तत्र यदा प्रशान्तनिमेषं कंचित् कालं रज्यति तदा स्थितिदेव्या तत्स्थप्यते । चमत्कारापरपर्यायविमर्शनसमये तु संह्रियते । यथोक्तं श्रीरामेन समाधिवज्रेणाप्यन्यैरभेद्यो भेदभूधरः । परामृष्टश्च नष्टश्च त्वद्भक्तिबलशालिभिः ॥ इति । यदा तु संह्रियमाणमपि एततन्तः विचित्राशङ्कादिसंस्कारमाधत्ते तदा तत्पुनरुद्भविष्यत्संसारबीजभावमापन्नं विलयपदमध्यारोपितम् । यदा पुनः तत्तथान्तःस्थापितमन्यद् वानुभूयमानमेव हठपाकक्रमेणालंग्रासयुक्त्या चिदग्निसाद्भावम् आपद्यते तदा पूर्णतापादनेन अनुगृह्यत एव । ईदृशं च पञ्चविधकृत्यकारित्वं सर्वस्य सदा सन्निहितमपि सद्गुरूपदेशं विन्= आ न प्रकाशत इति सद्गुरुसपर्यैव एतत्प्रथार्थमनुसर्तव्या ॥ यस्य पुनः सद्गुरूपदेशं विना एतत्परिज्ञानं नास्ति तस्यावच्छादितस्वस्वरूपाभिः निजाभिः शक्तिभिः व्यामोहितत्वं भवतीत्याह तदपरिज्ञाने स्वशक्तिभिर्व्यामोहितता संसारित्वम् ॥ १२ ॥ तस्यैतस्य सदा संभवतः पञ्चविधकृत्यकारित्वस्य अपरिज्ञाने शक्तिपातहेतुकस्वबलोन्मीलनाभावातप्रकाशने स्वभिः शक्तिभिः व्यामोहितत्वं विविधलौकिकशास्त्रीयशङ्काशङ्कुकीलितत्वं यतिदमेव्= अ संसारित्वम् । तदुक्तं श्रीसर्ववीरभट्टारके अज्ञानाच्छङ्कते लोकस्ततः सृष्टिश्च संहृतिः । इति । मन्त्रा वर्णात्मकाः सर्वे सर्वे वर्णाः शिवात्मकाः । इति च । तथा हि चित्प्रकाशातव्यतिरिक्ता नित्योदितमहामन्त्ररूपा पूर्णाहंविमर्शमयी येयं परावाक्छक्तिः आदिक्षान्तरूपाशेषशक्तिचक्रगर्भिणी सा तावत् पश्यन्तीमध्यमादिक्रमेण ग्राहकभूमिकां भासयति । तत्र च परारूपत्वेन स्वरूपमप्रथयन्ती मायाप्रमातुः अस्फुटासाधारणार्थावभासरूपां प्रतिक्षणं नवनवां विकल्पक्रिया.= म् उल्लासयति । शुद्धामपि च अविकल्पभूमिं तदाच्छादितामेव दर्शयति । तत्र च ब्राह्म्यादिदेवताधिष्ठितककारादिविचित्रशक्तिभिः व्यामोहितो देहप्राणादिमेव परिमितमवशमात्मानं मन्यते मूढजनः । ब्राह्म्यादिदेव्यः पशुदशायां भेदविषये सृष्टिस्थिती अभेदविषये च्= अ संहारं प्रथयन्त्यः परिमितविकल्पपात्रतामेव संपादयन्ति । पतिदशायां तु भेदे संहारमभेदे च सर्गस्थिती प्रकटयन्त्यः क्रमात्क्रमं विकल्पनिर्ह्रासनेन श्रीमद्भैरवमुद्रानुप्रवेशमयीं महतीमविकल्पभूमिमेव उन्मीलयन्ति । सर्वो ममायं विभव इत्येवं परिजानतः । विश्वात्मनो विकल्पानां प्रसरेऽपि महेशता [१५] ॥ इत्यादिरूपां चिदानन्दावेशमग्नां शुद्धविकल्पशक्तिमुल्लासयन्ति । ततः उक्तनीत्या स्वशक्तिव्यामोहिततैव संसारित्वम् । किं च चितिशक्तिरेव भगवती विश्ववमनात्संसारवामाचारत्वाच्च वामेश्वर्याख्या सती खेचरीगोचरीदिक्चरीभूचरीरूपैः अशेषैः प्रमात्रन्तःकरणबहिष्करणभावस्वभावैः परिस्फुरन्ती पशुभूमिकायां शून्यपदविश्रान्ता किंचित्कर्तृत्वाद्यात्मककलादिशक्त्यात्मना खेचरीचक्रेण गोपितपारमार्थिकचिद्गगनचरीत्वस्वरूपेण चकस्ति । भेदनिश्चयाभिमानविकल्पनप्रधानान्तःकरणदेवीरूपेण गोचरीचक्रेन गोपिताभेदनिश्चयाद्यात्मकपारमार्थिकस्वरूपेण प्रकाशते । भेदालोचनादिप्रधानबहिष्करणदेवतात्मना च दिक्चरीचक्रेण गोपिताभेदप्रथात्मकपारमार्थिकस्वरूपेण स्फुरति । सर्वतो व्यवच्छिन्नाभासस्वभावप्रमेयात्मना च भूचरीचक्रेण गोपितसार्वात्म्यस्वरूपेण पशुहृदयव्यामोहिना भाति । पतिभूमिकायां तु सर्वकर्तृत्वादिशक्त्यात्मकचिद्गगनचरीत्वेन अभेदनिश्चयाद्यात्मना गोचरीत्वेन अभेदालोचनाद्यात्मना दिक्चरीत्वेन स्वाङ्गकल्पाद्वयप्रथासारप्रमेयात्मना च भूचरीत्वेन पतिहृदयविकासिना स्फुरति । तथा चोक्तं सहजचमत्कारपरिजनिताकृतकादरेण भट्टदामोदरेण विमुक्तकेषु पूर्णावच्छिन्नमात्रान्तर्बहिष्करणभावगाः । वामेशाद्याः परिज्ञानाज्ञानात्स्युर्मुक्तिबन्धदाः ॥ इति । एवं च निजशक्तिव्यामोहिततैव संसरित्वम् । अपि च चिदात्मनः परमेश्वरस्य स्वा अनपायिनी एकैव स्फुरत्तासारकर्तृतात्मा ऐश्वर्यशक्तिः । सा यदा स्वरूपं गोपयित्वा पाशवे पदे प्राणापानसमानशक्तिदशाभिः जाग्रत्स्वप्नसुषुप्तभूमिभिः देहप्राणपुर्यष्टककलाभिश्च व्यामोहयति तदा तद्व्यामोहितता संसारित्वम् । यदा तु मध्यधामोल्लासामुदानशक्तिं विश्वव्याप्तिसारां च व्यानशक्तिं तुर्यदशारूपां तुर्यातीतदशारूपां च चिदानन्दघनां उन्मीलयति तदा देहाद्यवस्थायामपि पतिदशात्मा जीवन्मुक्तिर्भवति । एवं त्रिधा स्वशक्तिव्यामोहितता व्याख्याता । चिद्वतिति सूत्रे [१६] चित्प्रकाशो गृहीतसंकोचः संसारी इत्युक्तम् । इह्= अ तु स्वशक्तिव्यामोहितत्वेन अस्य संसारित्वं भवति इति भङ्ग्यन्तरेण उक्तम् । एवं संकुचितशक्तिः प्राणादिमानपि यदा स्वशक्तिव्यामोहितो न भवति तदा अयं शरीरी परमेश्वरः इत्याम्नायस्थित्या शिवभट्टारक एव इति भङ्ग्या निरूपितं भवति । यदागमः=२० मनुष्यदेहमास्थाय छन्नास्ते परमेश्वराः । इति । उक्तं च प्रत्यभिज्ञाटीकायां "शरीरमेव घटाद्यपि वा ये षट्त्रिंशत्तत्त्वमयं शिवरूपतयापश्यन्ति तेऽपि सिध्यन्ति" इति ॥ उक्तसूत्रार्थप्रातिपक्ष्येण तत्त्वदृष्टिं दर्शयितुमाह तत्परिज्ञाने चित्तमेव अन्तर्मुखीभावेन चेतनपदाध्यारोहात्चितिः ॥ १३ ॥ पूर्वसूत्रव्याख्याप्रसङ्गेन प्रमेयदृष्ट्या वितत्य व्याख्यातप्रायमेतत् सूत्रम् । शब्दसंगत्या तु अधुना व्याख्यायते । तस्यात्मीयस्य पञ्चकृत्यकारित्वस्य परिज्ञाने सति अपरिज्ञानलक्षणकारणापगमात् स्वशक्तिव्यामोहिततानिवृत्तौ स्वातन्त्र्यलभात्प्राक्व्याख्यातं यत्चित्तं तदेव संकोचिनीं बहिर्मुखतां जहतन्तर्मुखीभावेन चेतनपदाध्यारोहात्ग्राहकभूमिकाक्रमणक्रमेण संकोचकलाया अपि विगलनेन स्वरूपापत्त्या चितिर्भवति । स्वां चिन्मयीं परां भूमिम् आविशतीत्यर्थः ॥ ननु यदि पारमार्थिकं चिच्छक्तिपदं सकलभेदकवलनस्वभावं [१७] तदस्य मायापदेऽपि तथारूपेण भवितव्यं यथा जलदाच्छादितस्यापि भानोः भावावभासकत्वमित्याशङ्क्याह चितिवह्निररोहपदे छन्नोऽपि मात्रया मेयेन्धनं प्लुष्यति ॥ १४ ॥ चितिरेव विश्वग्रसनशीलत्वात्वह्निः । असौ एव अवरोहपदे मायाप्रमातृतायां छन्नोऽपि स्वातन्त्र्याताच्छादितस्वभावोऽपि भूरिभूतिछन्नाग्निवत्मात्रया अंशेन नीलपीतादिप्रमेयेन्धनं प्लुष्यति स्वात्मसात्करोति । मात्रापदस्येदमाकूतं यत्कवलयन्नपि सार्वात्म्येन न ग्रसते अपि तु अंशेन संस्कारात्मना उत्थापयति । ग्रासकत्वं च सर्वप्रमातॄणां स्वानुभवत एव सिद्धम् । यदुक्तं श्रीमदुत्पलदेवपादैः निजस्तोत्रेषु वर्तन्ते जन्तवोऽशेषा अपि ब्रह्मेन्द्रविष्णवः । ग्रसमानास्ततो वन्दे देव विश्वं भवन्मयम् [१८] ॥ इति ॥ यदा पुनः करणेश्वरीप्रसरसंकोचं संपाद्य सर्गसंहारक्रमपरिशीलनयुक्तिमाविशति तदा बललाभे विश्वमात्मसात्करोति ॥ १५ ॥ चितिरेव देहप्राणाद्याच्छादननिमज्जनेन स्वरूपमुन्मग्नत्वेन स्फारयन्ती बलम् । यथोक्तम् तदाक्रम्य बलं मन्त्राः ... ... [१९] । इति । एवं च बललाभे उन्मग्नस्वरूपाश्रयणे क्षित्यादिसदाशिवान्तं विश्वं आत्मसात्करोति स्वस्वरूपाभेदेन निर्भासयति । तदुक्तं पूर्वगुरुभिः स्वभाषामयेषु क्रमसूत्रेषु यथा वह्निरुद्बोधितो दाह्यं दहति तथा विषयपाशान् भक्षयेत् । इति = । न चैवं वक्तव्यम् =अद्विश्वात्मसात्काररूपा समावेशभूः कादाचित्की । कथमुपादेया इयं स्यादिति यतो देहाद्युन्मज्जननिमज्जनवशेन इयं अस्याः कादाचित्कत्वमिव आभाति । वस्तुतस्तु चितिस्वातन्त्र्यावभासितदेहाद्युन्मज्जनादेव कादाचित्कत्वम् । एषा तु सदैव प्रकाशमाना । अन्यथा तद्देहाद्यपि न प्रकाशेत । अत एव देहादिप्रमातृताभिमाननिमज्जनाय अभ्यासः । न तु सदाप्रथमानतासारप्रमातृताप्राप्त्यर्थमिति श्रीप्रत्यभिज्ञाकाराः ॥ एवं च चिदानन्दलाभे देहादिषु चेत्यमानेष्वपि चिदैकात्म्यप्रतिपत्तिदार्ढ्यं जीवन्मुक्तिः ॥ १६ ॥ विश्वात्मसात्कारात्मनि समावेशरूपे चिदानन्दे लब्धे व्युत्थानदशायां दलकल्पतया देहप्राणनीलसुखादिषु आभासमानेष्वपि यत् समावेशसंस्कारबलात्प्रतिपादयिष्यमाणयुक्तिक्रमोपबृंहितात् चिदैकात्म्यप्रतिपत्तिदार्ढ्यम् । अविचला चिदेकत्वप्रथा सैव जीवन्मुक्तिः जीवतः प्राणानपि धारयतो मुक्तिः प्रत्यभिज्ञातनिजस्वरूपविद्राविताशेषपाशराशित्वात् । यथोक्तं स्पन्दशास्त्रे इति वा यस्य संवित्तिः क्रीडात्वेनाखिलं जगत् । स पश्यन् सततं युक्तो जीवन्मुक्तो न संशयः [२०] ॥ इति ॥ अथ कथं चिदानन्दलाभो भवति इत्याह मध्यविकासाच्चिदानन्दलाभः ॥ १७ ॥ सर्वान्तरतमत्वेन वर्तमानत्वात्तद्भित्तिलग्नतां विना च कस्यचिदपि स्वरूपानुपपत्तेः संविदेव भगवती मध्यम् । सा तु मायादशायां तथाभूतापि स्वरूपं गूहयित्वा "प्राक्संवित्प्राणे परिणता " इति नीत्या प्राणशक्तिभूमिं स्वीकृत्य अवरोहक्रमेण बुद्धिदेहादिभुवं अधिशयाना नाडीसहस्रसरणिमनुसृता । तत्रापि च पलाशपर्णमध्यशाखान्यायेन आब्रह्मरन्ध्रात् अधोवक्त्रपर्यन्तं प्राणशक्तिब्रह्माश्रयमध्यमनाडीरूपतया प्राधान्येन स्थिता । तत एव सर्ववृत्तीनामुदयात्तत्रैव च विश्रामात् । एवंभूताप्येषा पशूनां निमीलितस्वरूपैव स्थिता । यदा तु उक्तयुक्तिक्रमेण सर्वान्तरतमत्वे [२१] मध्यभूता संविद् भगवती विकसति यदि वा वक्ष्यमाणक्रमेण मध्यभूता ब्रह्मनाडी विकसति तदा तद्विकासाच्चिदानन्दस्य उक्तरूपस्य लाभः प्राप्तिः भवति = । ततश्च प्रागुक्ता जीवन्मुक्तिः ॥ मध्यविकासे युक्तिमाह विकल्पक्षयशक्तिसंकोचविकासवाहच्छेदाद्यन्तकोटिनिभालनादय इह उपायाः ॥ १८ ॥ इह मध्यशक्तिविकासे विकल्पक्षयादय उपायाः । प्रागुपदिष्टपञ्चविधकृत्यकारित्वाद्यनुसरणेन सर्वमध्यभूतायाः संविदो विकासो जायत इत्यभिहितप्रायम् । उपायान्तरमपि तु उच्यते प्राणायाममुद्राबन्धादिसमस्तयन्त्रणातन्त्रत्रोटनेन सुखोपायमेव हृदये निहितचित्तः उक्तयुक्त्या स्वस्थितिप्रतिबन्धकं विकल्पं अकिंचिच्चिन्तकत्वेन प्रशमयनविकल्पपरामर्शेन देहाद्यकलुषस्वचित्प्रमातृतानिभालनप्रवणः अचिरादेव उन्मिषद्विकासां तुर्यतुर्यातीतसमावेशदशामासादयति । यथोक्तम्=२० विकल्पहानेनैकाग्र्यात्क्रमेणेश्वरतापदम् [२२] । इति श्रीप्रत्यभिज्ञायाम् । श्रीस्पन्देऽपि=२० यदा क्षोभः प्रलीयेत तदा स्यात्परमं पदम् [२३] । इति । श्रीज्ञानगर्भेऽपि विहाय सकलाः क्रिया जननि मानसीः सर्वतो विमुक्तकरणक्रियानुसृतिपारतन्त्र्योज्ज्वलम् । स्थितैस्त्वदनुभावतः सपदि वेद्यते सा परा दशा नृभिरतन्द्रितासमसुखामृतस्यन्दिनी ॥ इति । अयं च उपायो मूर्धन्यत्वात्प्रत्यभिज्ञायां [२४] प्रतिपादितत्वातादाव् उक्तः । शक्तिसंकोचादयस्तु यद्यपि प्रत्यभिज्ञायां न प्रतिपादिताः तथापि आम्नायिकत्वातस्माभिः प्रसङ्गात्प्रदर्श्यन्ते । बहुषु हि प्रदर्शितेषु कश्चित्केनचित्प्रवेक्ष्यतीति । शक्तेः संकोच इन्द्रियद्वारेण प्रसरन्त्या एवाकुञ्चनक्रमेण उन्मुखीकरणम् । यथोक्तं आथर्वणिकोपनिषत्सु कठवल्ल्यां चतुर्थवल्लीप्रथममन्त्रे पराञ्चि खानि व्यतृणत्स्वयंभूः तस्मात्पराङ्पश्यति नान्तरात्मन् । कश्चिद्धीरः प्रत्यगात्मानमैक्षद् आवृत्तचक्षुरमृतत्वमश्नन् [२५] ॥ इति । प्रसृताया अपि वा कूर्माङ्गसंकोचवत्त्राससमये हृत्प्रवेशवच्च सर्वतो निवर्तनम् । यथोक्तं "तदपोद्धृते नित्योदितस्थितिः" इति । शक्तेर्विकासः अन्तर्निगूढाया अक्रममेव सकलकरणचक्रविस्फारणेन्= अ "अन्तर्लक्ष्यो बहिर्दृष्टिः निमेषोन्मेषवर्जितः " इति । भैरवीयमुद्रानुप्रवेशयुक्त्या बहिः प्रसरणम् । यथोक्तं कक्ष्यस्तोत्रे=२० सर्वाः शक्तीः चेतसा दर्शनाद्याः स्वे स्वे वेद्ये यौगपद्येन विष्वक् । क्षिप्त्वा मध्ये हाटकस्तम्भभूतः तिष्टन् विश्वाधार एकोऽवभासि ॥ इति । श्रीभट्टकल्लटेनापि उक्तम् "रूपादिषु परिणामात्तत्सिद्धिः " इति । शक्तेश्च संकोचविकासौ नासापुटस्पन्दनक्रमोन्मिषत्सूक्ष्मप्राणशक्त्या भ्रूभेदनेन क्रमासादितोर्ध्वकुण्डलिनीपदे प्रसरविश्रान्तिदशापरिशीलनम् । अधःकुण्डलिन्यां च षष्टवक्त्ररूपायां प्रगुणीकृत्य शक्तिं तन्मूलतदग्रतन्मध्यभूमिस्पर्शावेशः । यथोक्तं विज्ञानभट्टारके वह्नेर्विषस्य मध्ये तु चित्तं सुखमयं क्षिपेत् । केवलं वायुपूर्णं वा स्मरानन्देन युज्यते [२६] ॥ इति । अत्र वह्निः अनुप्रवेशक्रमेण संकोचभूः । विषस्थानं प्रसरयुक्त्य्= आ विकासपदं=२० "विषॢ व्याप्तौ" इत्यर्थानुगमात् । वाहयोः वामदक्षिणगतयोः प्राणापानयोः छेदो हृदयविश्रान्तिपुरःसरं अन्तःककारहकारादिप्रायानच्कवर्णोच्चारेण विच्छेदनम् । यथोक्तं ज्ञानगर्भे अनच्कककृतायतिप्रसृतपार्श्वनाडीद्वयच्छिदो विधृतचेतसो हृदयपङ्कजस्योदरे । उदेति तव दारितान्धतमसः स विद्याङ्कुरो य एष परमेशतां जनयितुं पशोरपि अलम् ॥ इति । आदिकोटिः हृदयम् । अन्तकोटिः द्वादशान्तः । तयोः प्राणोल्लासविश्रान्त्यवसरे निभालनं चित्तनिवेशनेन परिशीलनम् । यथोक्तं विज्ञानभैरवे हृद्याकाशे निलीनाक्षः पद्मसंपुटमध्यगः । अनन्यचेताः सुभगे परं सौभाग्यमाप्नुयात्[२७] ॥ इति । तथा=२० यथा तथा यत्र तत्र द्वादशान्ते मनः क्षिपेत् । प्रतिक्षणं क्षीणवृत्तेः वैलक्षण्यं दिनैर्भवेत्[२८] ॥ इति । आदिपदातुन्मेषदशानिषेवणम् । यथोक्तं उन्मेषः स तु विज्ञेयः स्वयं तमुपलक्षयेत्[२९] । इति स्पन्दे । तथा रमणीयविषयचर्वणादयश्च संगृहीताः । यथोक्तं श्रीविज्ञानभैरव एव जग्धिपानकृतोल्लासरसानन्दविजृम्भणात् । भावयेद्भरितावस्थां महानन्दमयो भवेत् ॥ गीतादिविषयास्वादासमसौख्यैकतात्मनः । योगिनस्तन्मयत्वेन मनोरूढेस्तदात्मता ॥ यत्र यत्र मनस्तुष्टिर्मनस्तत्रैव धारयेत् । तत्र तत्र परानन्दस्वरूपं संप्रकाशते [३०] ॥ इति । एवमन्यदपि आनन्दपूर्णस्वात्मभावनादिकमनुमन्तव्यम् । इत्य् एवमादयः अत्र मध्यविकासे उपायाः ॥ मध्यविकासाच्चिदानन्दलाभः । स एव च परमयोगिनः समावेशसमपत्त्यादिपर्यायः समाधिः । तस्य नित्योदितत्वे युक्तिमाह समाधिसंस्कारवति व्युत्थाने भूयो भूयः चिदैक्यामर्शान्नित्योदितसमाधिलाभः ॥ १९ ॥ आसादितसमावेशो योगिवरो व्युत्थानेऽपि समाधिरससंस्कारेण क्षीब इव सानन्दं घूर्णमानो भावराशिं शरदभ्रलवमिव चिद्गगन एव लीयमानं पश्यन् भूयो भूयः अन्तर्मुखतामेव समवलम्बमानो निमीलनसमाधिक्रमेण चिदैक्यमेव विमृशन् व्युत्थानाभिमतावसरेऽपि समाध्येकरस एव भवति । यथोक्तं क्रमसूत्रेषु "क्रममुद्रया अन्तःस्वरूपया बहिर्मुखः [३१] समाविष्टो भवति साधकः । तत्रादौ बाह्यातन्तःप्रवेशः आभ्यन्तरात्बाह्यस्वरूपे प्रवेशः आवेशवशात्जायते इति सबाह्याभ्यन्तरोऽयं मुद्राक्रमः " इति । अत्रायमर्थः सृष्टिस्थितिसंहृतिसंविच्चक्रात्मकं क्रमं मुद्रयत्= इ स्वाधिष्ठितमात्मसात्करोति येयं तुरीया चितिशक्तिः तया क्रममुद्रया अन्तरिति पूर्णाहन्तास्वरूपया [३२] बहिर्मुख इति विषयेषु व्यापृतोऽपि समाविष्टः साक्षात्कृतपरशक्तिस्फारः साधकः परमयोगी भवति । तत्र च बाह्यात्ग्रस्यमानात्विषयग्रामातन्तः परस्यां चितिभूमौ ग्रसनक्रमेणैव प्रवेशः समावेशो भवति । आभ्यन्तरात् चितिशक्तिस्वरूपात्च साक्षात्कृतातावेशवशात्समावेशसामर्थ्यादेव बाह्यस्वरूपे इदन्तानिर्भासे विषयग्रामे वमनयुक्त्या प्रवेशः चिद्रसाश्यानताप्रथनात्मा समावेशो जायते इति सबाह्याभ्यन्तरोऽयं नित्योदितसमावेशात्मा मुदो हर्षस्य वितरणात् परमानन्दस्वरूपत्वात्पाशद्रावणात्विश्वस्य अन्तःतुरीयसत्तायां मुद्रणात्च मुद्रात्मा क्रमोऽपि सृष्ट्यादिक्रमाभासकत्वात् तत्क्रमाभासरूपत्वात्च क्रम इति अभिधीयत इति ॥ इदानीमस्य समाधिलाभस्य फलमाह तदा प्रकाशानन्दसारमहामन्त्रवीर्यात्मकपूर्णाहन्तावेशात्सदा सर्वसर्गसंहारकारिनिजसंविद्देवताचक्रेश्वरताप्रप्तिर् भवतीति शिवम् ॥ २० ॥ नित्योदिते समाधौ लब्धे सति प्रकाशानन्दसारा चिदाह्लादैकघना [३३] महती मन्त्रवीर्यात्मिका सर्वमन्त्रजीवितभूता पूर्णा पराभट्टारिकारूपा येयमहन्ता अकृत्रिमः स्वात्मचमत्कारः तत्र आवेशात्सदा कालाग्न्यादेः चरमकलापर्यन्तस्य विश्वस्य यौ सर्गसंहारौ विचित्रौ सृष्टिप्रलय= उ तत्कारि यत्निजं संविद्देवताचक्रं तदैश्वर्यस्य प्राप्तिः आसादनं भवति । प्राकरणिकस्य परमयोगिन इत्यर्थः । इति एतत्सर्वं शिवस्वरूपमेवेत्युपसंहार इति संगतिः । तत्र यावतिदं किंचित्संवेद्यते तस्य संवेदनमेव स्वरूपम् । तस्यापि अन्तर्मुखविमर्शमयाः प्रमातारः तत्त्वम् । तेषामपि विगलितदेहाद्युपाधिसंकोचाभिमाना अशेषशरीरा सदाशिवेश्वरतैव सारम् । अस्या अपि प्रकाशैकसद्भावापादिताशेषविश्वचमत्कारमयः श्रीमान्महेश्वर एव परमार्थः । न हि पारमार्थिकप्रकाशावेशं विना कस्यापि प्रकाशमानता घटते । स च परमेश्वरः स्वातन्त्र्यसारत्वात् आदिक्षान्तामायीयशब्दराशिपरामर्शमयत्वेनैव एतत्स्वीकृतसमस्तवाच्यवाचकमयाशेषजगदानन्दसद्भावापादनात्परं परिपूर्णत्वात्सर्वाकाङ्क्षाशून्यतया आनन्दप्रसरनिर्भरः । अत एव अनुत्तराकुलस्वरूपातकारातारभ्य शक्तिस्फाररूपहकलापर्यन्त.= म् यत्विश्वं प्रभृतं क्षकारस्य प्रसरशमनरूपत्वात्तत् अकारहकाराभ्यामेव संपुटीकारयुक्त्या प्रत्याहारन्यायेन अन्तःस्वीकृतं सतविभागवेदनात्मकबिन्दुरूपतया स्फुरितमनुत्तर एव विश्राम्यति । इति शब्दराशिस्वरूप एव अयमकृतको विमर्शः । यथोक्तम्=२० प्रकाशस्यात्मविश्रान्तिरहंभावो हि कीर्तितः । उक्ता च सैव विश्रान्तिः सर्वापेक्षानिरोधतः ॥ स्वातन्त्र्यमथ कर्तृत्वं मुख्यमीश्वरतापि च [३४] । इति । एषैव च अहन्ता सर्वमन्त्राणामुदयविश्रान्तिस्थानत्वातेतद्बलेनैव च्= अ तत्तदर्थक्रियाकारित्वात्महती वीर्यभूमिः । तदुक्तम् तदाक्रम्य बलं मन्त्रा ..... । इत्यादि ..... त एते शिवधर्मिणः [३५] । इत्यन्तं श्रीस्पन्दे । शिवसूत्रेष्वपि=२० महाह्रादानुसंधानान्मन्त्रवीर्यानुभवः [३६] । इति । तदत्र महामन्त्रवीर्यात्मकायां पूर्णाहन्तायामावेशो देहप्राणादिनिमज्जनात्तत्पदावाप्त्यवष्टम्भेन देहादीनां नीलादीनामपि तद्रसाप्लावनेन तन्मयीकरणम् । तथा हि देहसुखनीलादि यत्किंचित् प्रथते अध्यवसीयते स्मर्यते संकल्प्यते वा तत्र सर्वत्रैव भगवती चितिशक्तिमयी प्रथा भित्तिभूतैव स्फुरति । "तदस्फुरणे कस्यापि अस्फुरणात्" इति उक्तत्वात्केवलं तथा स्फुरन्त्यपि सा तन्मायाशक्त्या अवभासितदेहनीलाद्युपरागदत्ताभिमानवशात्भिन्नभिन्नस्वभावा इव भान्ती ज्ञानसंकल्पाध्यवसायादिरूपतया मायाप्रमातृभिः अभिमन्यते । वस्तुतस्तु एकैव असौ चितिशक्तिः । यथोक्तम् या चैषा प्रतिभा तत्तत्पदार्थक्रमरूषिता । अक्रमानन्तचिद्रूपः प्रमाता स महेश्वरः [३७] ॥ इति । तथा=२० मायाशक्त्या विभोः सैव भिन्नसंवेद्यगोचरा । कथिता ज्ञानसंकल्पाध्यवसायादिनामभिः [३८] ॥ इति । एवमेषा सर्वदशासु एकैव चितिशक्तिः विजृम्भमाणा यदि तदनुप्रवेशतदवष्टम्भयुक्त्या समासाद्यते तत्तदावेशात् पूर्वोक्तयुक्त्या करणोन्मीलननिमीलनक्रमेण सर्वस्य सर्वमयत्वात् तत्तत्संहारादौ अपि सदा सर्वसर्गसंहारकारि यत् सहजसंवित्तिदेवताचक्रममायीयान्तर्बहिष्करणमरीचिपुञ्जः तत्र ईश्वरतासाम्रज्यं परभैरवात्मता तत्प्राप्तिः भवति परमयोगिनः । यथोक्तम् यदा त्वेकत्र संरूढस्तदा तस्य लयोद्भवौ । नियच्छन् भोक्तृतामेति ततश्चक्रेश्वरो भवेत्[३९] ॥ इति । अत्र एकत्र इति "एकत्रारोपयेत्सर्वं" [४०] इति चित्सामान्यस्पन्दभूः उन्मेषात्मा व्याख्यातव्या । तस्य इति अनेन "पुर्यष्टकेन संरुद्ध" [४१] इति । उपक्रान्तं पुर्यष्टकमेव पराम्रष्टव्यं न तु यथा विवरणकृतः एकत्र सूक्ष्मे स्थूले शरीरे वा इति व्याकृतवन्तः । स्तुतं च मया स्वतन्त्रश्चितिचक्राणां चक्रवर्ती महेश्वरः । संवित्तिदेवताचक्रजुष्टः कोऽपि जयत्यसौ ॥ इति । इतिशब्द उपसंहारे । यतेतावतुक्तप्रकरणशरीरं तत्सर्वं शिवं शिवप्राप्तिहेतुत्वात्शिवात्प्रसृतत्वात्शिवस्वरूपाभिन्नत्वाच्च शिवमयमेव इति शिवम् । देहप्राणसुखादिभिः प्रतिकलं संरुध्यमानो जनः पूर्णानन्दघनामिमां न चिनुते माहेश्वरीं स्वां चितिम् । मध्येबोधसुधाब्धि विश्वमभितस्तत्फेनपिण्डोपमं यः पश्येदुपदेशतस्तु कथितः साक्षात्स एकः शिवः ॥ येषां वृत्तः शाङ्करः शक्तिपातो येऽनभ्यासात्तीक्ष्णयुक्तिष्वयोग्याः । शक्ता ज्ञातुं नेश्वरप्रत्यभिज्ञाम् उक्तस्तेषामेष तत्त्वोपदेशः ॥ ________ समाप्तमिदं प्रत्यभिज्ञाहृदयं कृतिस् तत्रभवन्महामाहेश्वराचार्यवर्यश्रीमदभिनवगुप्तपादपद्मोपजीविनः श्रीमतो राजानकक्षेमराजाचर्यस्य ________ शुभमस्तु ------------------------------------------------------------------------