श्रीशिवमहापुराणम् अथ श्रीशिवमहापुराणं विद्येश्वरसंहिता प्रारभ्यते ॥ श्रीगणेशाय नमः ॥ श्रीगुरुभ्यो नमः ॥ श्रिसरस्वत्यै नमः ॥ अथ शिवपुरणे प्रथमा विद्येश्वरसंहिताप्रारभ्यते ॥ आद्यन्तमंगलमजातसमानभावमार्यं तमीशमजरामरमात्मदेवम् ॥ १,म_ पञ्चाननं प्रबलपञ्चविनोदशीलं संभावये मनसिशंकरमम्बिकेशम् ॥ १,म_ अध्याय १ व्यास उवाच धर्मक्षेत्रे महाक्षेत्रे गंगाकालिन्दिसंगमे ॥ १,१.१ प्रयागे परमे पुण्ये ब्रह्मलोकस्य वर्त्मनि ॥ १,१.१ मुनयः शंसितात्मनस्सत्यव्रतपरायणाः ॥ १,१.२ महौजसो महाभागा महासत्रं वितेनिरे ॥ १,१.२ तत्र सत्रं समाकर्ण्य व्यासशिष्यो महामुनिः ॥ १,१.३ आजगाम मुनीन्द्रष्टुं सूतः पौराणिकोत्तमः ॥ १,१.३ तं दृष्ट्वा सूतमायांतं हर्षिता मुनयस्तदा ॥ १,१.४ चेतसा सुप्रसन्नेन पूजां चक्रुर्यथाविधि ॥ १,१.४ ततो विनयसंयुक्ता प्रोचुः सांजलयश्चते ॥ १,१.५ सुप्रसन्ना महात्मानः स्तुतिं कृत्वायथाविधि ॥ १,१.५ रोमहर्षण सर्वज्ञ भवान् वै भाग्यगौरवात् ॥ १,१.६ पुराणविद्यामखिलां व्यासात्प्रत्यर्थमीयिवान् ॥ १,१.६ तस्मादाश्चर्यभूतानां कथानां त्वं हि भाजनम् ॥ १,१.७ रत्नानामुरुसाराणां रत्नाकर इवार्णवः ॥ १,१.७ यच्च भूतं च भव्यं च यच्चान्यद्वस्तु वर्तते ॥ १,१.८ न त्वया ऽविदितं किंचित्त्रिषु लोकेषु विद्यते ॥ १,१.८ त्वं मद्दिष्टवशादस्य दर्शनार्थमिहागतः ॥ १,१.९ कुर्वन्किमपि नः श्रेयो न वृथा गंतुमर्हसि ॥ १,१.९ तत्त्वं श्रुतं स्म नः सर्वं पूर्वमेव शुभाशुभम् ॥ १,१.१० न तृप्तिमधिगच्छामः श्रवणेच्छा मुहुर्मुहुः ॥ १,१.१० इदानीमेकमेवास्ति श्रोतव्यं सूत सन्मते ॥ १,१.११ तद्रहस्यमपि ब्रूहि यदि ते ऽनुग्रहो भवेत् ॥ १,१.११ प्राप्ते कलियुगे घोरे नराः पुण्यविवर्जिताः ॥ १,१.१२ दुराचाररताः सर्वे सत्यवार्तापराङ्मुखाः ॥ १,१.१२ परापवादनिरताः परद्रव्याभिलाषिणः ॥ १,१.१३ परस्त्रीसक्तमनसः परहिंसापरायणाः ॥ १,१.१३ देहात्मदृष्टया मूढा नास्तिकाः पशुबुद्धयः ॥ १,१.१४ मातृपितृकृतद्वेषाः स्त्रीदेवाः कामकिंकराः ॥ १,१.१४ विप्रा लोभग्रहग्रस्ता वेदविक्रयजीविनः ॥ १,१.१५ धनार्जनार्थमभ्यस्तविद्या मदविमोहिताः ॥ १,१.१५ त्यक्तस्वजातिकर्माणः प्राय्हशःपरवंचकाः ॥ १,१.१६ त्रिकालसंध्यया हीना ब्रह्मबोधविवर्जिताः ॥ १,१.१६ अदयाः पंडितंमन्यास्स्वाचारव्रतलोपकाः ॥ १,१.१७ कृष्युद्यमरताः क्रूरस्वभावा मलिनाशयाः ॥ १,१.१७ क्षत्रियाश्च तथा सर्वे स्वधर्मत्यागशीलिनः ॥ १,१.१८ असत्संगाः पापरता व्यभिचारपरायणाः ॥ १,१.१८ अशूरा अरणप्रीताः पलायनपरायणाः ॥ १,१.१९ कुचौरवृत्तयः शूद्राः कामकिंकरचेतसः ॥ १,१.१९ शस्त्रास्त्रविद्यया हीना धेनुविप्रावनोज्झिताः ॥ १,१.२० शरण्यावनहीनाश्च कामिन्यूतिमृगास्सदा ॥ १,१.२० प्रजापालनसद्धर्मविहीना भोगतत्पराः ॥ १,१.२१ प्रजासंहारका दुष्टा जीवहिंसाकरा मुदा ॥ १,१.२१ वैश्याः संस्कारहीनास्ते स्वधर्मत्यागशीलिनः ॥ १,१.२२ कुपथाः स्वार्जनरतास्तुलाकर्मकुवृत्तयः ॥ १,१.२२ गुरुदेवद्विजातीनां भक्तिहीनाः कुबुद्धयः ॥ १,१.२३ अभोजितद्विजाः प्रायः कृपणा बद्धमुष्टयः ॥ १,१.२३ कामिनीजारभावेषु सुरता मलिनाशयाः ॥ १,१.२४ लोभमोहविचेतस्काः पूर्तादिसुवृषोज्झिताः ॥ १,१.२४ तद्वच्छूद्राश्च ये केचिद्ब्राह्मणाचारतत्पराः ॥ १,१.२५ उज्ज्वलाकृतयो मूढाः स्वधर्मत्यागशीलिनः ॥ १,१.२५ कर्तारस्तपसां भूयो द्विजतेजोपहारकाः ॥ १,१.२६ शिश्वल्पमृत्युकाराश्च मंत्रोच्चारपरायणाः ॥ १,१.२६ शीलिग्रामशिलादीनां पूजकाहोमतत्पराः ॥ १,१.२७ प्रतिकूलविचाराश्च कुटिला द्विजदूषकाः ॥ १,१.२७ धनवंतः कुकर्माणो विद्यावन्तो विवादिनः ॥ १,१.२८ आख्यायोपासना धर्मवक्तारो धर्मलोपकाः ॥ १,१.२८ सुभूपाकृतयो दंभाः सुदातारो महामदाः ॥ १,१.२९ विप्रादीन्सेवकान्मत्वा मन्यमाना निजं प्रभुम् ॥ १,१.२९ स्वधर्मरहिता मूडाः संकराः क्रूरबुद्धयः ॥ १,१.३० महाभिमानिनो नित्यं चतुर्वर्णविलोपकाः ॥ १,१.३० सुकुलीनान्निजान्मत्वा चतुर्वर्णैर्विवर्तनाः ॥ १,१.३१ सर्ववर्णभ्रष्टकरा मूढास्सत्कर्मकारिणः ॥ १,१.३१ स्त्रियश्च प्रायशो भ्रष्टा भर्त्रवज्ञानकारिकाः ॥ १,१.३२ श्वशुरद्रोहकारिण्यो निर्भया मलिनाशनाः ॥ १,१.३२ कुहावभावनिरताः कुशीलास्स्मरविह्वलाः ॥ १,१.३३ जारसंगरता नित्यं स्वस्वामिविमुखास्तथा ॥ १,१.३३ तनया मातृपित्रोश्च भक्तिहीना दुराशयाः ॥ १,१.३४ अविद्यापाठका नित्यं रोगग्रसितदेहकाः ॥ १,१.३४ एतेषां नष्टबुद्धीनां स्वधर्मत्यागशीलिनाम् ॥ १,१.३५ परलोकेपीह लोके कथं सूत गतिर्भवेत् ॥ १,१.३५ इति चिंताकुलं चित्तं जायते सततं हि नः ॥ १,१.३६ परोपकारसदृशो नास्ति धर्मो परः खलु ॥ १,१.३६ लघूपायेन येनैषां भवेत्सद्योघनाशनम् ॥ १,१.३७ सर्वसिद्धान्तवित्त्वं हि कृपया तद्वदाधुना ॥ १,१.३७ व्यास उवाच इत्याकर्ण्य वचस्तेषां मुनीनां भावितात्मनाम् ॥ १,१.३८ मनसा शंकरं स्मृत्वा सूतः प्रोवाच तान्मुनीन् ॥ १,१.३८ इति श्रीशैवे महापुराणे विद्येश्वरसंहितायां मुनिप्रश्नवर्णनोनामप्रथमो ऽध्यायः अध्याय २ सूतौवाच साधुपृष्टं साधवो वस्त्रैलोक्यहितकारकम् ॥ १,२.१ गुरुं स्मृत्वा भवत्स्नेहाद्वक्ष्ये तच्छृणुतादरात् ॥ १,२.१ वेदांतसारसर्वस्वं पुराणं शैवमुत्तमम् ॥ १,२.२ सर्वाघौघोद्धारकरं परत्र परमार्थदम् ॥ १,२.२ कलिकल्मषविध्वंसि यस्मिञ्च्छिवयशः परम् ॥ १,२.३ विजृम्भते सदा विप्राश्चतुर्वर्गफलप्रदम् ॥ १,२.३ तस्याध्ययनमात्रेण पुराणस्य द्विजोत्तमाः ॥ १,२.४ सर्वोत्तमस्य शैवस्य ते यास्यंति सुसद्गतिम् ॥ १,२.४ तावद्विजृंभते पापं ब्रह्महत्यापुरस्सरम् ॥ १,२.५ यावच्छिवपुराणं हि नोदेष्यति जगत्यहो ॥ १,२.५ तावत्कलिमहोत्पाताः संचरिष्यंति निर्भयाः ॥ १,२.६ यावच्छिवपुराणं हि नोदेष्यति जगत्यहो ॥ १,२.६ तावत्सर्वाणि शास्त्राणि विवदंति परस्परम् ॥ १,२.७ यावच्छिवपुराणं हि नोदेष्यति जगत्यहो ॥ १,२.७ तावत्स्वरूपं दुर्बोधं शिवस्य महतामपि ॥ १,२.८ यावच्छिवपुराणं हि नो देष्यति जगत्यहो ॥ १,२.८ तावद्यमभटाः क्रूराः संचरिष्यंति निर्भयाः ॥ १,२.९ यावच्छिवपुराणं हि नोदेष्यति जगत्यहो ॥ १,२.९ तावत्सर्वपुराणानि प्रगर्जंति महीतले ॥ १,२.१० यावच्छिवपुराणं हि नोदेष्यति जगत्यहो ॥ १,२.१० तावत्सर्वाणि तीर्थानि विवदंति महीतले ॥ १,२.११ यावछिवपुराणं हि नोदेष्यति जगत्यहो ॥ १,२.११ तावत्सर्वाणि मंत्राणि विवदंति महीतले ॥ १,२.१२ यावच्छिवपुराणं हि नोदेष्यति महीतले ॥ १,२.१२ तावत्सर्वाणि क्षेत्राणि विवदंति महीतले ॥ १,२.१३ यावच्छिवपुराणं हि नोदेष्यति महीतले ॥ १,२.१३ तावत्सर्वाणि पीठानि विवदंति महीतले ॥ १,२.१४ यावच्छिवपुराणं हि नोदेष्यति महीतले ॥ १,२.१४ तावत्सर्वाणि दानानि विवदंति महीतले ॥ १,२.१५ यावच्छिवपुराणं हि नोदेष्यति महीतले ॥ १,२.१५ तावत्सर्वे च ते देवा विवदंति महीतले ॥ १,२.१६ यावच्छिवपुराणं हि नोदेष्यति महीतले ॥ १,२.१६ तावत्सर्वे च सिद्धान्ता विवदंति महीतले ॥ १,२.१७ यावच्छिवपुराणं हि नोदेष्यति महीतले ॥ १,२.१७ अस्य शैवपुराणस्य कीर्तनश्रवणाद्द्विजाः ॥ १,२.१८ फलं वक्तुं न शक्नोमि कार्त्स्न्येन मुनिसत्तमाः ॥ १,२.१८ तथापि तस्य माहात्म्यं वक्ष्ये किंचित्तु वोनघाः ॥ १,२.१९ चित्तमाधाय शृणुत व्यासेनोक्तं पुरा मम ॥ १,२.१९ एतच्छिवपुराणं हि श्लोकं श्लोकार्धमेव च ॥ १,२.२० यः पठेद्भक्तिसंयुक्तस्स पापान्मुच्यते क्षणात् ॥ १,२.२० एतच्छिवपुराणं हि यः प्रत्यहमतंद्रितः ॥ १,२.२१ यथाशक्ति पठेद्भक्त्या स जीवन्मुक्त उच्यते ॥ १,२.२१ एतच्छिवपुराणं हि यो भक्त्यार्चयते सदा ॥ १,२.२२ दिने दिने ऽश्वमेधस्य फलं प्राप्नोत्यसंशयम् ॥ १,२.२२ एतच्छिवपुराणं यस्साधारणपदेच्छया ॥ १,२.२३ अन्यतः शृणुयात्सो ऽपि मत्तो मुच्येत पातकात् ॥ १,२.२३ एतच्छिवपुराणं यो नमस्कुर्याददूरतः ॥ १,२.२४ सर्वदेवार्चनफलं स प्राप्नोति न संशयः ॥ १,२.२४ एतच्छिवपुराणं वै लिखित्वा पुस्तकं स्वयम् ॥ १,२.२५ यो दद्याच्छिवभक्तेभ्यस्तस्य पुण्यफलं शृणु ॥ १,२.२५ अधीतेषु च शास्त्रेषु वेदेषु व्याकृतेषु च ॥ १,२.२६ यत्फलं दुर्लभं लोके तत्फलं तस्य संभवेत् ॥ १,२.२६ एतच्छिवपुराणं हि चतुर्दश्यामुपोषितः ॥ १,२.२७ शिवभक्तसभायां यो व्याकरोति स उत्तमः ॥ १,२.२७ प्रत्यक्षरं तु गायत्रीपुरश्चर्याफलं लभेत् ॥ १,२.२८ इह भुक्त्वाखिलान्कामानंते निर्वाणतां व्रजेत् ॥ १,२.२८ उपोषितश्चतुर्दश्यां रात्रौ जागरणान्वितः ॥ १,२.२९ यः पठेच्छृणुयाद्वापि तस्य पुण्यं वदाम्यहम् ॥ १,२.२९ कुरुक्षेत्रादिनिखिलपुण्यतीर्थेष्वनेकशः ॥ १,२.३० आत्मतुल्यधनं सूर्यग्रहणे सर्वतोमुखे ॥ १,२.३० विप्रेभ्यो व्यासमुख्येभ्यो दत्त्वायत्फलमश्नुते ॥ १,२.३१ तत्फलं संभवेत्तस्य सत्यं सत्यं न संशयः ॥ १,२.३१ एतच्छिवपुराणं हि गायते योप्यहर्निशम् ॥ १,२.३२ आज्ञां तस्य प्रतीक्षेरन्दवा इन्द्रपुरोगमाः ॥ १,२.३२ एतच्छिवपुराणं यः पठञ्छृण्वन्हि नित्यशः ॥ १,२.३३ यद्यत्करोति सत्कर्म तत्कोटिगुणितं भवेत् ॥ १,२.३३ समाहितः पठेद्यस्तु तत्र श्रीरुद्रसंहिताम् ॥ १,२.३४ स ब्रह्मघ्नोऽपि पूतात्मा त्रिभिरेव दिनैर्भवेत् ॥ १,२.३४ तां रुद्रसंहितां यस्तु भैरवप्रतिमांतिके ॥ १,२.३५ त्रिः पठेत्प्रत्यहं मौनी स कामानखिलांल्लभेत् ॥ १,२.३५ तां रुद्रसंहितां यस्तु सपठेद्वटबिल्वयोः ॥ १,२.३६ प्रदक्षिणां प्रकुर्वाणो ब्रह्महत्या निवर्तते ॥ १,२.३६ कैलाससंहिता तत्र ततोऽपि परमस्मृता ॥ १,२.३७ ब्रह्मस्वरूपिणी साक्षात्प्रणवार्थप्रकाशिका ॥ १,२.३७ कैलाससंहितायास्तु माहात्म्यं वेत्ति शंकरः ॥ १,२.३८ कृत्स्नं तदर्धं व्यासश्च तदर्धं वेद्म्यहं द्विजाः ॥ १,२.३८ तत्र किंचित्प्रवक्ष्यामि कृत्स्नं वक्तुं न शक्यते ॥ १,२.३९ यज्ज्ञात्वा तत्क्षणाल्लोकश्चित्तशुद्धिमवाप्नुयात् ॥ १,२.३९ न नाशयति यत्पापं सा रौद्री संहिता द्विजाः ॥ १,२.४० तन्न पश्याम्यहं लोके मार्गमाणोऽपि सर्वदा ॥ १,२.४० शिवेनोपनिषत्सिंधुमन्थनोत्पादितां मुदा ॥ १,२.४१ कुमारायार्पितां तां वै सुधां पीत्वा ऽमरो भवेत् ॥ १,२.४१ ब्रह्महत्यादिपापानां निष्कृतिं कर्तुमुद्यतः ॥ १,२.४२ मासमात्रं संहितां तां पठित्वा मुच्यते ततः ॥ १,२.४२ दुष्प्रतिग्रहदुर्भोज्यदुरालापादिसंभवम् ॥ १,२.४३ पापं सकृत्कीर्तनेन संहिता सा विनाशयेत् ॥ १,२.४३ शिवालये विल्ववने संहितां तां पठेत्तु यः ॥ १,२.४४ स तत्फलमवाप्नोति यद्वाचोऽपि न गोचरे ॥ १,२.४४ संहितां तां पठन् भक्त्या यः श्राद्धे भोजयेद्द्विजान् ॥ १,२.४५ तस्य ये पितरः सर्वे यांति शंभोः परं पदम् ॥ १,२.४५ चतुर्दश्यां निराहारो यः पठेत्संहितां च ताम् ॥ १,२.४६ बिल्वमूले शिवः साक्षात्सदेवैश्च प्रपूज्यते ॥ १,२.४६ अन्यापि संहिता तत्र सर्वकामफलप्रदा ॥ १,२.४७ उभे विशिष्टे विज्ञेये लीलाविज्ञानपूरिते ॥ १,२.४७ तदिदं शैवमाख्यातं पुराणं वेदसंमितम् ॥ १,२.४८ निर्मितं तच्छिवेनैव प्रथमं ब्रह्मसंमितम् ॥ १,२.४८ विद्येशंच तथारौद्रं वैनायकमथौमिकम् ॥ १,२.४९ मात्रं रुद्रैकादशकं कैलासं शतरुद्रकम् ॥ १,२.४९ कोटिरुद्रसहस्राद्यं कोटिरुद्रं तथैव च ॥ १,२.५० वायवीयं धर्मसंज्ञं पुराणमिति भेदतः ॥ १,२.५० संहिता द्वादशमिता महापुण्यतरा मता ॥ १,२.५१ तासां संख्यां ब्रुवे विप्राः शृणुतादरतोखिलम् ॥ १,२.५१ विद्येशं दशासाहस्रं रुद्रं वैनायकं तथा ॥ १,२.५२ औमं मातृपुराणाख्यं प्रत्येकाष्टसहस्रकम् ॥ १,२.५२ त्रयोदशसहस्रं हि रुद्रैकादशकं द्विजाः ॥ १,२.५३ षट्सहस्रं च कैलासं शतरुद्रं तदर्धकम् ॥ १,२.५३ कोटिरुद्रं त्रिगुणितमेकादशसहस्रकम् ॥ १,२.५४ सहस्रकोटिरुद्राख्यमुदितं ग्रंथसंख्यया ॥ १,२.५४ वायवीयं खाब्धिशतं घर्मं रविसहस्रकम् ॥ १,२.५५ तदेवं लक्षसंख्याकं शैवसंख्याविभेदतः ॥ १,२.५५ व्यासेन तत्तु संक्षिप्तं चतुर्विंशत्सहस्रकम् ॥ १,२.५६ शैवं तत्र चतुर्थं वै पुराणं सप्तसंहितम् ॥ १,२.५६ शिवे संकल्पितं पूर्वं पुराणं ग्रन्थसंख्यया ॥ १,२.५७ शतकोटिप्रमाणं हि पुरा सृष्टौ सुविस्मृतम् ॥ १,२.५७ व्यस्तेष्टादशधा चैव पुराणे द्वापरादिषु ॥ १,२.५८ चतुर्लक्षेण संक्षिप्ते कृते द्वैपायनादिभिः ॥ १,२.५८ प्रोक्तं शिवपुराणं हि चतुर्विंशत्सहस्रकम् ॥ १,२.५९ श्लोकानां संख्यया सप्तसंहितं ब्रह्मसंमितम् ॥ १,२.५९ विद्येश्वराख्या तत्राद्या रौद्री ज्ञेया द्वितीयिका ॥ १,२.६० तृतीया शतरुद्राख्या कोटिरुद्रा चतुर्थिका ॥ १,२.६० पञ्चमी चैव मौमाख्या षष्ठी कैलाससंज्ञिका ॥ १,२.६१ सप्तमी वायवीयाख्या सप्तैवं संहितामताः ॥ १,२.६१ ससप्तसंहितं दिव्यं पुराणं शिवसंज्ञकम् ॥ १,२.६२ वरीवर्ति ब्रह्मतुल्यं सर्वोपरि गतिप्रदम् ॥ १,२.६२ एतच्छिवपुराणं हि सप्तसंहितमादरात् ॥ १,२.६३ परिपूर्णं पठेद्यस्तु स जीवन्मुक्त उच्यते ॥ १,२.६३ श्रुतिस्मृतिपुराणेतिहासागमशतानि च ॥ १,२.६४ एतच्छिवपुराणस्य नार्हंत्यल्पां कलामपि ॥ १,२.६४ शैवं पुराणममलं शिवकीर्तितं तद्व्यासेन शैवप्रवणेन न संगृहीतम् ॥ १,२.६५ संक्षेपतः सकलजीवगुणोपकारे तापत्रयघ्नमतुलं शिवदं सतां हि ॥ १,२.६५ विकैतवो धर्म इह प्रगीतो वेदांतविज्ञानमयः प्रधानः ॥ १,२.६६ अमत्सरांतर्बुधवेद्यवस्तु सत्कॢप्तमत्रैव त्रिवर्गयुक्तम् ॥ १,२.६६ शैवं पुराणतिलकं खलु सत्पुराणं वेदांतवेदविलसत्परवस्तुगीतम् ॥ १,२.६७ यो वै पठेच्च शृणुयात्परमादरेण शंभुप्रियः स हि लभेत्परमां गतिं वै ॥ १,२.६७ इति श्रीशिवमहापुराणे विद्येश्वरसंहितायां द्विदीयो ऽध्यायः अध्याय ३ व्यास उवाच इत्याकर्ण्य वचः सौतं प्रोचुस्ते परमर्षयः ॥ १,३.१ वेदांतसारसर्वस्वं पुराणं श्रावयाद्भुतम् ॥ १,३.१ इति श्रुत्वा मुनीनां स वचनं सुप्रहर्षितः ॥ १,३.२ संस्मरञ्छंकरं सूतः प्रोवाच मुनिसत्तमान् ॥ १,३.२ सूत उवाच शृण्वंतु ऋषयः सर्वे स्मृत्वा शिवमनामयम् ॥ १,३.३ पुराणप्रवणं शैवं पुराणं वेदसारजम् ॥ १,३.३ यत्र गीतं त्रिकं प्रीत्या भक्तिज्ञानविरागकम् ॥ १,३.४ वेदांतवेद्यं सद्वस्तु विशेषेण प्रवर्णितम् ॥ १,३.५ सूत उवाच शृण्वंतु ऋषयः सर्वे पुराणं वेदसारजम् ॥ १,३.६ पुरा कालेन महता कल्पे ऽतीते पुनःपुनः ॥ १,३.६ अस्मिन्नुपस्थिते कल्पे प्रवृत्ते सृष्टिकर्मणि ॥ १,३.७ मुनीनां षट्कुलीनानां ब्रुवतामितरेतरम् ॥ १,३.७ इदं परमिदं नेति विवादः सुमहानभूत् ॥ १,३.८ ते ऽभिजग्मुर्विधातारं ब्रह्माणं प्रष्टुमव्ययम् ॥ १,३.८ वाग्भिर्विनयगर्भाभिः सर्वे प्रांजलयो ऽब्रुवन् ॥ १,३.९ त्वं हि सर्वजगद्धाता सर्वकारणकारणम् ॥ १,३.९ कः पुमान्सर्वतत्त्वेभ्यः पुराणः परतः परः ॥ १,३.१० ब्रह्मोवाच यतो वाचो निवर्तंते अप्राप्य मनसा सह ॥ १,३.१० यस्मात्सर्वमिदं ब्रह्मविष्णुरुद्रेंद्रपूर्वकम् ॥ १,३.११ सहभूतेंद्रियैः सर्वैः प्रथमं संप्रसूयते ॥ १,३.११ एष देवो महादेवः सर्वज्ञो जगदीश्वरः ॥ १,३.१२ अयं तु परया भक्त्या दृश्यते ना ऽन्यथा क्वचित् ॥ १,३.१२ रुद्रो हरिर्हरश्चैव तथान्ये च सुरेश्वराः ॥ १,३.१३ भक्त्या परमया तस्य नित्यं दर्शनकांक्षिणः ॥ १,३.१३ बहुनात्र किमुक्तेन शिवे भक्त्या विमुच्यते ॥ १,३.१४ प्रसादाद्देवताभक्तिः प्रसादो भक्तिसंभवः ॥ १,३.१४ यथेहांकुरतो बीजं बीजतो वा यथांकुरः ॥ १,३.१४ तस्मादीशप्रसादार्थं यूयं गत्वा भुवं द्विजाः ॥ १,३.१५ दीर्घसत्रं समाकृध्वं यूयं वर्षसहस्रकम् ॥ १,३.१५ अमुष्यैवाध्वरेशस्य शिवस्यैव प्रसादतः ॥ १,३.१६ वेदोक्तविद्यासारं तु ज्ञायते साध्यसाधनं ॥ १,३.१६ मुनय ऊचुः अथ किं परमं साध्यं किंवा तत्साधनं परम् ॥ १,३.१७ साधकः कीदृशस्तत्र तदिदं ब्रूहि तत्त्वतः ॥ १,३.१७ ब्रह्मोवाच साध्यं शिवपदप्राप्तिः साधनं तस्य सेवनम् ॥ १,३.१८ साधकस्तत्प्रसादाद्योऽनित्यादिफलनिःस्पृहः ॥ १,३.१८ कर्म कृत्वा तु वेदोक्तं तदर्पितमहाफलम् ॥ १,३.१९ परमेशपदप्राप्तः सालोक्यादिक्रमात्ततः ॥ १,३.१९ तत्तद्भक्त्यनुसारेण सर्वेषां परमं फलम् ॥ १,३.२० तत्साधनं बहुविधं साक्षादीशेन बोधितम् ॥ १,३.२० संक्षिप्य तत्र वः सारं साधनं प्रब्रवीम्यहम् ॥ १,३.२१ श्रोत्रेण श्रवणं तस्य वचसा कीर्तनं तथा ॥ १,३.२१ मनसा मननं तस्य महासाधनमुच्यते ॥ १,३.२२ श्रोतव्यः कीर्तितव्यश्च मन्तव्यश्च महेश्वरः ॥ १,३.२२ इति श्रुतिप्रमाणं नः साधनेनाऽमुना परम् ॥ १,३.२३ साध्यं व्रजत सर्वार्थसाधनैकपरायणाः ॥ १,३.२३ प्रत्यक्षं चक्षुषा दृष्ट्वा तत्र लोकः प्रवर्तते ॥ १,३.२४ अप्रत्यक्षं हि सर्वत्र ज्ञात्वा श्रोत्रेण चेष्टते ॥ १,३.२४ तस्माच्छ्रवणमेवादौ श्रुत्वा गुरुमुखाद्बुधः ॥ १,३.२५ ततः संसाधयेदन्यत्कीर्तनं मननं सुधीः ॥ १,३.२५ क्रमान्मननपर्यंते साधने ऽस्मिन्सुसाधिते ॥ १,३.२६ शिवयोगो भवेत्तेन सालोक्यादिक्रमाच्छनैः ॥ १,३.२६ सर्वांगव्याधयः पश्चात्सर्वानंदश्च लीयते ॥ १,३.२७ अभ्यासात्क्लेशमेतद्वै पश्चादाद्यंतमंगलम् ॥ १,३.२७ इति श्रीशिवमहापुराणे विद्येश्वरसंहितायां साध्यसाधनखण्डे तृतीयो ऽध्यायः अध्याय ४ मुनय ऊचुः मननं कीदृशं ब्रह्मञ्छ्रवणं चापि कीदृशम् ॥ १,४.१ कीर्तनं वा कथं तस्य कीर्तयैतद्यथायथम् ॥ १,४.१ ब्रह्मोवच पूजाजपेशगुणरूपविलासनाम्नां युक्तिप्रियेण मनसा परिशोधनं यत् ॥ १,४.२ तत्संततं मननमीश्वरदृष्टिलभ्यं सर्वेषु साधनवरेष्वपि मुख्यमुख्यम् ॥ १,४.२ गीतात्मना श्रुतिपदेन च भाषया वा शंभुप्रतापगुणरूपविलासनाम्नाम् ॥ १,४.३ वाचा स्फुटं तु रसवत्स्तवनं यदस्य तत्कीर्तनं भवति सा धनमत्र मध्यम् ॥ १,४.३ येनापि केन करणेन च शब्दपुंजं यत्र क्वचिच्छिवपरं श्रवणेंद्रियेण ॥ १,४.४ स्त्रीकेलिवद्दृढतरं प्रणिधीयते यत्तद्वै बुधाः श्रवणमत्र जगत्प्रसिद्धम् ॥ १,४.४ सत्संगमेन भवति श्रवणं पुरस्तात्संकीर्तनं पशुपतेरथ तद्दृढं स्यात् ॥ १,४.५ सर्वोत्तमं भवति तन्मननं तदंते सर्वं हि संभवति शंकरदृष्टिपाते ॥ १,४.५ सूत उवाच अस्मिन्साधनमाहत्म्ये पुरा वृत्तं मुनीश्वराः ॥ १,४.६ युष्मदर्थं प्रवक्ष्यामि शृणुध्वमवधानतः ॥ १,४.६ पुरा मम गुरुर्व्यासः पराशरमुनेः सुतः ॥ १,४.७ तपश्चचार संभ्रांतः सरस्वत्यास्तटे शुभे ॥ १,४.७ गच्छन्यदृछया तत्र विमानेनार्करोचिषा ॥ १,४.८ सनत्कुमारो भगवान्ददर्श मम देशिकम् ॥ १,४.८ ध्यानारूढः प्रबुद्धो ऽसौ ददर्श तमजात्मजम् ॥ १,४.९ प्रणिपत्याह संभ्रांतः परं कौतूहलं मुनिः ॥ १,४.९ दत्त्वार्घ्यमस्मै प्रददौ देवयोग्यं च विष्टिरम् ॥ १,४.१० प्रसन्नः प्राह तं प्रह्वं प्रभुर्गंभीरया गिरा ॥ १,४.१० सनत्कुमार उवाच सत्यं वस्तु मुने दध्याः साक्षात्करणगोचरः ॥ १,४.११ स शिवोथासहायोत्र तपश्चरसि किं कृते ॥ १,४.११ एवमुक्तः कुमारेण प्रोवाच स्वाशयं मुनिः ॥ १,४.१२ धर्मार्थकाममोक्षाश्च वेदमार्गे कृतादराः ॥ १,४.१२ बहुधा स्थापिता लोके मया त्वत्कृपया तथा ॥ १,४.१३ एवं भुतस्य मेप्येवं गुरुभूतस्य सर्वतः ॥ १,४.१३ मुक्तिसाधनकं ज्ञानं नोदेति परमाद्भुतम् ॥ १,४.१४ तपश्चरामि मुक्त्यर्थं न जाने तत्र कारणम् ॥ १,४.१४ इत्थं कुमारो भगवान् व्यासेन मुनिनार्थितः ॥ १,४.१५ समर्थः प्राह विप्रेंद्रा निश्चयं मुक्तिकारणम् ॥ १,४.१५ श्रवणं कीर्तनं शंभोर्मननं च महत्तरम् ॥ १,४.१६ त्रयं साधनमुक्तं च विद्यते वेदसंमतम् ॥ १,४.१६ पुराहमथ संभ्रांतो ह्यन्यसाधनसंभ्रमः ॥ १,४.१७ अचले मंदरे शैले तपश्चरणमाचरम् ॥ १,४.१७ शिवाज्ञया ततः प्राप्तो भगवान्नन्दिकेश्वरः ॥ १,४.१८ स मे दयालुर्भगवान्सर्वसाक्षी गणेश्वरः ॥ १,४.१८ उवाच मह्यं सस्नेहं मुक्तिसाधनमुत्तमम् ॥ १,४.१९ श्रवणं कीर्तनं शंभोर्मननं वेदसंमतम् ॥ १,४.१९ त्रिकं च साधनं मुक्तौ शिवेन मम भाषितम् ॥ १,४.२० श्रवणादिं ब्रह्मन्कुरुष्वेति मुहुर्मुहुः ॥ १,४.२० एवमुक्त्वा ततो व्यासं सानुगो विधिनंदनः ॥ १,४.२१ जगाम स्वविमानेन पदं परमशोभनम् ॥ १,४.२१ एवमुक्तं समासेन पूर्ववृत्तांतमुत्तमम् ॥ १,४.२२ ऋषय ऊचुः श्रवणादित्रयं सूत मुक्त्योपायस्त्वयेरितः ॥ १,४.२२ श्रवणादित्रिके ऽशक्तः किं कृत्वा मुच्यते जनः ॥ १,४.२३ अयत्नेनैव मुक्तिः स्यात्कर्मणा केन हेतुना ॥ १,४.२३ इति श्रीशिवमहापुराणे प्रथमायां विद्येश्वरसंहितायं साध्यसाधनखण्डे चतुर्थो ऽध्यायः अध्याय ५ सूत उवाच श्रवणादित्रिके ऽशक्तो लिंगं बेरं च शांकरम् ॥ १,५.१ संस्थाप्य नित्यमभ्यर्च्य तरेत्संसारसागरम् ॥ १,५.१ अपि द्रव्यं वहेदेव यथाबलमवंचयन् ॥ १,५.२ अर्पयेल्लिंगबेरार्थमर्चयेदपि संततम् ॥ १,५.२ मंडपं गोपुरं तीर्थं मठं क्षेत्रं तथोत्सवम् ॥ १,५.३ वस्त्रं गंधं च माल्यं च धूपं दीपं च भक्तितः ॥ १,५.३ विविधान्नं च नैवेद्यमपूपव्यंजनैर्युतम् ॥ १,५.४ छत्रं ध्वजं च व्यजनं चामरं चापि सांगकम् ॥ १,५.४ राजोपचारवत्सर्वं धारयेल्लिंगबेरयोः ॥ १,५.५ प्रदक्षिणां नमस्कारं यथाशक्ति जपं तथा ॥ १,५.५ आवाहनादिसर्गांतं नित्यं कुर्यात्सुभक्तितः ॥ १,५.६ इत्थमभ्यर्च्य यन्देवं लिंगेबेरे च शांकरे ॥ १,५.६ सिद्धिमेति शिवप्रीत्या हित्वापि श्रवणादिकम् ॥ १,५.७ लिंगबेरार्चनामात्रान्मुक्ताः पुर्वे महाजनाः ॥ १,५.७ मनुय ऊचुः बेरमात्रे तु सर्वत्र पूज्यंते देवतागणाः ॥ १,५.८ लिंगेबेरे च सर्वत्र कथं संपूज्यते शिवः ॥ १,५.८ सूत उवाच अहो मुनीश्वराः पुण्यं प्रश्नमेतन्महाद्भुतम् ॥ १,५.९ अत्र वक्ता महादेवो नान्यो ऽस्ति पुरुषः क्वचित् ॥ १,५.९ शिवेनोक्तं प्रवक्ष्यामि क्रमाद्गुरुमुखाच्छ्रुतम् ॥ १,५.१० शिवैको ब्रह्मरूपत्वान्निष्कलः परिकीर्तितः ॥ १,५.१० रूपित्वात्सकलस्तद्वत्तस्मात्सकलनिष्कलः ॥ १,५.११ निष्कलत्वान्निराकारं लिंगं तस्य समागतम् ॥ १,५.११ सकलत्वात्तथा बेरं साकारं तस्य संगतम् ॥ १,५.१२ सकलाकलरूपत्वाद्ब्रह्मशब्दाभिधः परः ॥ १,५.१२ अपि लिंगे च बेरे च नित्यमभ्यर्च्यते जनैः ॥ १,५.१३ अब्रह्मत्वात्तदन्येषां निष्कलत्वं न हि क्वचित् ॥ १,५.१३ तस्मात्ते निष्कले लिंगे नाराध्यंते सुरेश्वराः ॥ १,५.१४ अब्रह्मत्वाच्च जीवत्वात्तथान्ये देवतागणाः ॥ १,५.१४ तूष्णीं सकलमात्रत्वादर्च्यंते बेरमात्रके ॥ १,५.१५ जीवत्वं शंकरान्येषां ब्रह्मत्वं शंकरस्य च ॥ १,५.१५ वेदांतसारसंसिद्धं प्रणवार्थे प्रकाशनात् ॥ १,५.१६ एवमेव पुरा पृष्टो मंदरे नन्दिकेश्वरः ॥ १,५.१६ सनत्कुमारमुनिना ब्रह्मपुत्रेण धीमता ॥ १,५.१७ सनत्कुमार उवाच शिवान्यदेववश्यानां सर्वेषामपि सर्वतः ॥ १,५.१७ बेरमात्रं च पूजार्थं श्रुतं दृष्टं च भूरिशः ॥ १,५.१८ शिवमात्रस्य पूजायां लिंगं बेरं च दृश्यते ॥ १,५.१८ अतस्तद्ब्रूहि कल्याण तत्त्वं मे साधुबोधनम् ॥ १,५.१९ नन्दिकेश्वर उवाच अनुत्तरमिमं प्रश्नं रहस्यं ब्रह्मलक्षणम् ॥ १,५.१९ कथयामि शिवेनोक्तं भक्तियुक्तस्य ते ऽनघ ॥ १,५.२० शिवस्य ब्रह्मरूपत्वान्निष्कलत्वाच्च निष्कलम् ॥ १,५.२० लिंगं तस्यैव पूजायां सर्ववेदेषु संमतम् ॥ १,५.२१ तस्यैव सकलत्वाच्च तथा सकलनिष्कलम् ॥ १,५.२१ सकलं च तथा बेरं पूजायां लोकसंमतम् ॥ १,५.२२ शिवान्येषां च जीवत्वात्सकलत्वाच्च सर्वतः ॥ १,५.२२ बेरमात्रं च पूजायां संमतं वेदनिर्णये ॥ १,५.२३ स्वाविर्भावे च देवानां सकलं रूपमेव हि ॥ १,५.२३ शिवस्य लिंगं बेरं च दर्शने दृश्यते खलु ॥ १,५.२४ सनत्कुमार उवाच उक्तं त्वया महाभाग लिंगबेरप्रचारणम् ॥ १,५.२४ शिवस्य च तदन्येषां विभज्य परमार्थतः ॥ १,५.२५ तस्मात्तदेव परमं लिंगबेरादिसंभवम् ॥ १,५.२५ श्रोतुमिच्छामि योगींद्र लिंगाविर्भावलक्षणम् ॥ १,५.२६ नन्दिकेश्वर उवाच शृणु वत्स भवत्प्रीत्या वक्ष्यामि परमार्थतः ॥ १,५.२६ पुरा कल्पे महाकाले प्रपन्ने लोकविश्रुते ॥ १,५.२७ आयुध्येतां महात्मानौ ब्रह्मविष्णू परस्परम् ॥ १,५.२७ तयोर्मानं निराकर्तुं तन्मध्ये परमेश्वरः ॥ १,५.२८ निष्कलस्तंभरूपेण स्वरूपं समदर्शयत् ॥ १,५.२८ ततः स्वलिंगचिह्नत्वात्स्तम्भतो निष्कलं शिवः ॥ १,५.२९ स्वलिंगं दर्शयामास जगतां हितकाम्यया ॥ १,५.२९ तदाप्रभृति लोकेषु निष्कलं लिंगमैश्वरम् ॥ १,५.३० सकलं च तथा बेरं शिवस्यैव प्रकल्पितम् ॥ १,५.३० शिवान्येषः तु देवानां बेरमात्रं प्रकल्पितम् ॥ १,५.३१ तत्तद्बेरं तु देवानां तत्तद्भोगप्रदं शुभम् ॥ १,५.३१ शिवस्य लिंगबेरत्वं भोगमोक्षप्रदं शुभम् ॥ १,५.३१ इति श्रीशिवमहापुराणे विद्येश्वरसंहितायां पञ्चमो ऽध्यायः अध्याय ६ नन्दिकेश्वर उवाच पुरा कदाचिद्योगींद्र विष्णुर्विषधरासनः ॥ १,६.१ सुष्वाप परया भूत्या स्वानुगैरपि संवृतः ॥ १,६.१ यदृच्छया गतस्तत्र ब्रह्मा ब्रह्मविदांवरः ॥ १,६.२ अपृच्छत्पुंडरीकाक्षं शयनं सर्वसुन्दरम् ॥ १,६.२ कस्त्वं पुरुषवच्छेषे दृष्ट्वा मामपि दृप्तवत् ॥ १,६.३ उत्तिष्ठ वत्स मां पश्य तव नाथमिहागतम् ॥ १,६.३ आगतं गुरुमाराध्यं दृष्ट्वा यो दृप्तवच्चरेत् ॥ १,६.४ द्रोहिणस्तस्य मूढस्य प्रायश्चित्तं विधीयते ॥ १,६.४ इति श्रुत्वा वचः क्रुद्धो बहिः शांतवदाचरत् ॥ १,६.५ स्वस्ति ते स्वागतं वत्स तिष्ठ पीठमितो विश ॥ १,६.५ किमु ते व्याग्रवद्वक्त्रं विभाति विषमेक्षणम् ॥ १,६.६ ब्रह्मोवाच वत्स विष्णो महामानमागतं कालवेगतः ॥ १,६.६ पितामहश्च जगतः पाता च तव वत्सक ॥ १,६.७ विष्णुरुवाच मत्स्थं जगदिदं वत्स मनुषे त्वं हि चोरवत् ॥ १,६.७ मन्नाभिकमलाज्जातः पुत्रस्त्वं भाषसे वृथा ॥ १,६.८ नन्दिकेश्वर उवाच एवं हि वदतोस्तत्र मुग्धयोरजयोस्तदा ॥ १,६.८ अहमेव बरो न त्वमहं प्रभुरहं प्रभुः ॥ १,६.९ परस्परं हंतुकामौ चक्रतुः समरोद्यमम् ॥ १,६.९ युयुधाते ऽमरौ वीरौ हंसपक्षींद्रवाहनौ ॥ १,६.१० वैरंच्या वैष्णवाश्चैवं मिथो युयुधिरे तदा ॥ १,६.१० तावद्विमानगतयः सर्वा वै देवजातयः ॥ १,६.११ दिदृक्षवः समाजग्मुः समरं तं महाद्भुतम् ॥ १,६.११ क्षिपंतः पुष्पवर्षाणि पश्यंतः स्वैरमंबरे ॥ १,६.१२ सुपर्णवाहनस्तत्र क्रुद्धो वै ब्रह्मवक्षसि ॥ १,६.१२ मुमोच बाणानसहानस्त्रांश्च विविधान्बहून् ॥ १,६.१३ मुमोचाऽथ विधिः क्रुद्धो विष्णोरुरसि दुःसहान् ॥ १,६.१३ बाणाननलसंकाशानस्त्रांश्च बहुशस्तदा ॥ १,६.१४ तदाश्चर्यमिति स्पष्टं तयोः समरगोचरम् ॥ १,६.१४ समीक्ष्य दैवतगणाः शशंसुर्भृशमाकुलाः ॥ १,६.१५ ततो विष्णुः सुसंक्रुद्धः श्वसन्व्यसनकर्शितः ॥ १,६.१५ माहेश्वरास्त्रं मतिमान् संदधे ब्रह्मणोपरि ॥ १,६.१६ ततो ब्रह्मा भृशं क्रुद्धः कंपयन्विश्वमेव हि ॥ १,६.१६ अस्त्रं पाशुपतं घोरं संदधे विष्णुवक्षसि ॥ १,६.१७ ततस्तदुत्थितं व्योम्नि तपनायुतसन्निभम् ॥ १,६.१७ सहस्रमुखमत्युग्रं चंडवातभयंकरम् ॥ १,६.१८ अस्त्रद्वयमिदं तत्र ब्रह्मविष्ण्वोर्भयंकरम् ॥ १,६.१८ इत्थं बभूव समरो ब्रह्मविष्ण्वोः परस्परम् ॥ १,६.१९ ततो देवगणाः सर्वे विषण्णा भृशमाकुलाः ॥ १,६.१९ ऊचुः परस्परं तात राजक्षोभे यथा द्विजाः ॥ १,६.१९ सृष्टिः स्थितिश्च संहारस्तिरो भावोप्यनुग्रहः ॥ १,६.२० यस्मात्प्रवर्तते तस्मै ब्रह्मणे च त्रिशूलिने ॥ १,६.२० अशक्यमन्यैर्यदनुग्रहं विना तृणक्षयोप्यत्र यदृच्छया क्वचित् ॥ १,६.२१ इति देवाभयं कृत्वा विचिन्वंतः शिवक्षयम् ॥ १,६.२२ जग्मुः कैलासशिखरं यत्रास्ते चंद्रशेखरः ॥ १,६.२२ दृष्ट्वैवममरा हृष्टाः पदंतत्पारमेश्वरम् ॥ १,६.२३ प्रणेमुः प्रणवाकारं प्रविष्टास्तत्र सद्मनि ॥ १,६.२३ तेपि तत्र सभामध्ये मंडपे मणिविष्टरे ॥ १,६.२४ विराजमानमुमया ददृशुर्देवपुंगवम् ॥ १,६.२४ सव्योत्तरेतरपदं तदर्हितकरां बुजम् ॥ १,६.२५ स्वगणैः सर्वतो जुष्टं सर्वलक्षणलक्षितम् ॥ १,६.२५ वीज्यमानं विशोषजैः स्त्रीजनैस्तीव्रभावनैः ॥ १,६.२६ शस्यमानं सदावेदैरनुगृह्णंतमीश्वरम् ॥ १,६.२६ दृष्ट्वैवमीशममराः संतोषसलिलेक्षणाः ॥ १,६.२७ दंडवद्दूरतो वत्स नमश्चक्रुर्महागणाः ॥ १,६.२७ तानवेक्ष्य पतिर्देवान्समीपे चाह्वयद्गणैः ॥ १,६.२८ अथ संह्लादयन्देवान्देवो देवशिखामणिः ॥ १,६.२८ अवोचदर्थगंभीरं वचनं मधुमंगलम् ॥ १,६.२८ इति श्रीशिवमहापुराणे विद्येश्वरसंहितायां षष्ठो ऽध्यायः अध्याय ७ ईश्वर उवाच वत्सकाः स्वस्तिवः कच्चिद्वर्तते मम शासनात् ॥ १,७.१ जगच्च देवतावंशः स्वस्वकर्मणि किं नवा ॥ १,७.१ प्रागेव विदितं युद्धं ब्रह्मविष्ण्वोर्मयासुराः ॥ १,७.२ भवतामभितापेन पौनरुक्त्येन भाषितम् ॥ १,७.२ इति सस्मितया माध्व्या कुमारपरिभाषया ॥ १,७.३ समतोषयदंबायाः स पतिस्तत्सुरव्रजम् ॥ १,७.३ अथ युद्धांगणं गंतुं हरिधात्रोरधीश्वरः ॥ १,७.४ आज्ञापयद्गणेशानां शतं तत्रैव संसदि ॥ १,७.४ ततो वाद्यं बहुविधं प्रयाणाय परेशितुः ॥ १,७.५ गणेश्वराश्च संनद्धा नानावाहनभूषणाः ॥ १,७.५ प्रणवाकारमाद्यंतं पञ्चमंडलमंडितम् ॥ १,७.६ आरुरोह रथं भद्रमंबिकापतिरीश्वरः ॥ १,७.६ ससूनुगणमिंद्राद्याः सर्वेप्यनुययुः सुराः ॥ १,७.६ चित्रध्वजव्यजनचामरपुष्पवर्षसंगतिनृत्यनिवहैरैपि वाद्यवर्गैः ॥ १,७. ७ संमानितः पशुपतिः परया च देव्या साकं तयोः समरभूमिमगात्ससैन्यः ॥ १,७.७ समीक्ष्यं तु तयोर्युद्धं निगूढो ऽभ्रं समास्थितः ॥ १,७.८ समाप्तवाद्यनिर्घोषः शांतोरुगणनिःस्वनः ॥ १,७.८ अथ ब्रह्माच्युतौ वीरौ हंतुकामौ परस्परम् ॥ १,७.९ माहेश्वरेण चाऽस्त्रेण तथा पाशुपतेन च ॥ १,७.९ अस्त्रज्वालैरथो दग्धं ब्रह्मविष्ण्वोर्जगत्त्रयम् ॥ १,७.१० ईशोपि तं निरीक्ष्याथ ह्यकालप्रलयं भृशम् ॥ १,७.१० महानलस्तंभविभीषणाकृतिर्बभूव तन्मध्यतले स निष्कलः ॥ १,७.११ ते अस्त्रे चापि सज्वाले लोकसंहरणक्षमे ॥ १,७.१२ निपतेतुः क्षणे नैव ह्याविर्भूते महानले ॥ १,७.१२ दृष्ट्वा तदद्भुतं चित्रमस्त्रशांतिकरं शुभम् ॥ १,७.१३ किमेतदद्भुताकारमित्यूचुश्च परस्परम् ॥ १,७.१३ अतींद्रियमिदं स्तंभमग्निरूपं किमुत्थितम् ॥ १,७.१४ अस्योर्ध्वमपि चाधश्चावयोर्लक्ष्यमेव हि ॥ १,७.१४ इति व्यवसितौ वीरौ मिलितौ वीरमानिनौ ॥ १,७.१५ तत्परौ तत्परीक्षार्थं प्रतस्थाते ऽथ सत्वरम् ॥ १,७.१५ आवयोर्मिश्रयोस्तत्र कार्यमेकं न संभवेत् ॥ १,७.१६ इत्युक्त्वा सूकरतनुर्विष्णुस्तस्यादिमीयिवान् ॥ १,७.१६ तथा ब्रह्माहं सतनुस्तदंतं वीक्षितुं ययौ ॥ १,७.१७ भित्त्वा पातालनिलयं गत्वा दूरतरं हरिः ॥ १,७.१७ ना ऽपि श्यात्तस्य संस्थानं स्तंभस्यानलवर्चसः ॥ १,७.१८ श्रांतः स सूकरहरीः प्राप पूर्वं रणांगणम् ॥ १,७.१८ अथ गच्छंस्तु व्योम्ना च विधिस्तात पिता तव ॥ १,७.१९ ददर्श केतकी पुष्पं किंचिद्विच्युतमद्भुतम् ॥ १,७.१९ अतिसौरभ्यमम्लानं बहुवर्षच्युतं तथा ॥ १,७.२० अन्वीक्ष्य च तयोः कृत्यं भगवान्परमेश्वरः ॥ १,७.२० परिहासं तु कृतवान्कंपनाच्चलितं शिरः ॥ १,७.२१ तस्मात्तावनुगृह्णातुं च्युतं केतकमुत्तमम् ॥ १,७.२१ किं त्वं पतसि पुष्पेश पुष्पराट्केन वा धृतम् ॥ १,७.२२ आदिमस्याप्रमेयस्य स्तंभमध्याच्च्युतश्चिरम् ॥ १,७.२२ न संपश्यामि तस्मात्त्वं जह्याशामंतदर्शने ॥ १,७.२३ अस्यां तस्य च सेवार्थं हंसमूर्तिरिहागतः ॥ १,७.२३ इतः परं सखे मे ऽद्य त्वया कर्तव्यमीप्सितम् ॥ १,७.२४ मया सह त्वया वाच्यमेतद्विष्णोश्च सन्निधौ ॥ १,७.२४ स्तंभांतो वीक्षितो धात्रा तत्र साक्ष्यहमच्युत ॥ १,७.२५ इत्युक्त्वा केतकं तत्र प्रणनाम पुनः नः ॥ १,७.२५ असत्यमपि शस्तं स्यादापदीत्यनुशासनम् ॥ १,७.२५ समीक्ष्य तत्राऽच्युतमायतश्रमं प्रनष्टहर्षं तु ननर्त हर्षात् ॥ १,७.२६ उवाच चैनं परमार्थमच्युतं षंढात्तवादः स विधिस्ततो ऽच्युतम् ॥ १,७.२६ स्तंभाग्रमेतत्समुदीक्षितं हरे तत्रैव साक्षी ननु केतकं त्विदम् ॥ १,७.२७ ततो ऽवदत्तत्र हि केतकं मृषा तथेति तद्धातृवचस्तदंतिके ॥ १,७.२७ हरिश्च तत्सत्यमितीव चिंतयंश्चकार तस्मै विधये नमः स्वयम् ॥ १,७.२८ षोडशैरुपचारैश्च पूजयामास तं विधिम् ॥ १,७.२८ विधिं प्रहर्तुं शठमग्निलिंगतः स ईश्वरस्तत्र बभूव साकृतिः ॥ १,७.२९ समुत्थितः स्वामि विलोकनात्पुनः प्रकंपपाणिः परिगृह्य तत्पदम् ॥ १,७.२९ आद्यंतहीनवपुषि त्वयि मोहबुद्ध्या भूयाद्विमर्श इह नावति कामनोत्थः ॥ १,७.३० स त्वं प्रसीद करुणाकर कश्मलं नौ मृष्टं क्षमस्व विहितं भवतैव केल्या ॥ १,७.३० ईश्वर उवाच वत्सप्रसन्नो ऽस्मि हरे यतस्त्वमीशत्वमिच्छन्नपि सत्यवाक्यम् ॥ १,७.३१ ब्रूयास्ततस्ते भविता जनेषु साम्यं मया सत्कृतिरप्यलप्थाः ॥ १,७.३१ इतः परं ते पृथगात्मनश्च क्षेत्रप्रतिष्ठोत्सवपूजनं च ॥ १,७.३२ इति देवः पुरा प्रीतः सत्येन हरये परम् ॥ १,७.३३ ददौ स्वसाम्यमत्यर्थं देवसंघे च पश्यति ॥ १,७.३३ इति श्रीशिवमहापुराणे विद्येश्वरसंहितायां सप्तमो ऽध्यायः अध्याय ८ नन्दिकेश्वर उवाच ससर्जाथ महादेवः पुरुषं कंचिदद्भुतम् ॥ १,८.१ भैरवाख्यं भ्रुवोर्मध्याद्ब्रह्मदर्पजिघांसया ॥ १,८.१ स वै तदा तत्र पतिं प्रणम्य शिवमंगणे ॥ १,८.२ किं कार्यं करवाण्यत्र शीघ्रमाज्ञापय प्रभो ॥ १,८.२ वत्सयो ऽयं विधिः साक्षाज्जगतामाद्यदैवतम् ॥ १,८.३ नूनमर्चय खड्गं स्वं तिग्मेन जवसा परम् ॥ १,८.३ स वै गृहीत्वैककरेण केशं तत्पञ्चमं दृप्तमसत्यभाषणम् ॥ १,८.४ छित्त्वा शिरांस्यस्य निहंतुमुद्यतः प्रकंपयन्खड्गमतिस्फुटं करैः ॥ १,८.४ पिता तवोत्सृष्टविभूषणांबरस्रगुत्तरीयामलकेशसंहतिः ॥ १,८.५ प्रवातरंभेव लतेव चंचलः पपात वै भैरवपादपंकजे ॥ १,८.५ तावद्विधिं तात दिदृक्षुरच्युतः कृपालुरस्मत्पतिपादपल्लवम् ॥ १,८.६ निषिच्य बाष्पैरवदत्कृतांजलिर्यथा शिशुः स्वं पितरं कलाक्षरम् ॥ १,८.६ अच्युत उवाच त्वया प्रयत्नेन पुरा हि दत्तं यदस्य पञ्चाननमीशचिह्नम् ॥ १,८.७ तस्मात्क्षमस्वाद्यमनुग्रहार्हं कुरु प्रसादं विधये ह्यमुष्मै ॥ १,८.७ इत्यर्थितो ऽच्युतेनेशस्तुष्टः सुरगणांगणे ॥ १,८.८ निवर्तयामास तदा भैरवं ब्रह्मदंडतः ॥ १,८.८ अथाह देवः कितवं विधिं विगतकंधरम् ॥ १,८.९ ब्रह्मंस्त्वमर्हणाकांक्षी शठमीशत्वमास्थितः ॥ १,८.९ नातस्ते सत्कृतिर्लोके भूयात्स्थानोत्सवादिकम् ॥ १,८.१० ब्रह्मोवच स्वामिन्प्रसीदाद्य महाविभूते मन्ये वरं वरद मे शिरसः प्रमोक्षम् ॥ १,८.१० नमस्तुभ्यं भगवते बंधवे विश्वयोनये ॥ १,८.११ सहिष्णवे सर्वदोषाणां शंभवे शैलधन्वने ॥ १,८.११ ईश्वर उवाच अराजभयमेतद्वै जगत्सर्वं न शिष्यति ॥ १,८.१२ ततस्त्वं जहि दंडार्हं वह लोकधुरं शिशो ॥ १,८.१२ वरं ददामि ते तत्र गृहाण दुर्लभं परम् ॥ १,८.१३ वैतानिकेषु गृह्येषु यज्ञे च भवान् गुरुः ॥ १,८.१३ निष्फलस्त्वदृते यज्ञः सांगश्च सहदक्षिणः ॥ १,८.१४ अथाह देवः कितवं केतकं कूटसाक्षिणम् ॥ १,८.१४ रे रे केतक दुष्टस्त्वं शठ दूरमितो व्रज ॥ १,८.१५ ममापि प्रेम ते पुष्पे मा भूत्पूजास्वितः परम् ॥ १,८.१५ इत्युक्ते तत्र देवेन केतकं देवजातयः ॥ १,८.१६ सर्वानि वारयामासुस्तत्पार्श्वादन्यतस्तदा ॥ १,८.१६ केतक उवाच नमस्ते नाथ मे जन्मनिष्फलं भवदाज्ञया ॥ १,८.१७ सफलं क्रियतां तात क्षम्यतां मम किल्बिषम् ॥ १,८.१७ ज्ञानाज्ञानकृतं पापं नाशयत्येव ते स्मृतिः ॥ १,८.१८ तादृशे त्वयि दृष्टे मे मिथ्यादोषः कुतो भवेत् ॥ १,८.१८ तथा स्तुतस्तु भगवान्केतकेन सभातले ॥ १,८.१९ न मे त्वद्धारणं योग्यं सत्यवागहमीश्वरः ॥ १,८.१९ मदीयास्त्वां धरिष्यंि जन्म ते सफलं ततः ॥ १,८.२० त्वं वै वितानव्याजेन ममोपरि भविष्यसि ॥ १,८.२० इत्यनुगृह्य भगवान्केतकं विधिमाधवौ ॥ १,८.२१ विरराज सभामध्ये सर्वदेवैरभिष्टुतः ॥ १,८.२१ इति श्रीशिवमहापुराणे विद्येश्वरसंहितायामष्टमो ऽध्यायः अध्याय ९ नन्दिकेश्वर उवाच तत्रांतरे तौ च नाथं प्रणम्य विधिमाधवौ ॥ १,९.१ बद्धांजलिपुटौ तूष्णीं तस्थतुर्दक्षवामगौ ॥ १,९.१ तत्र संस्थाप्य तौ देवं सकुटुंबं वरासने ॥ १,९.२ पूजयामासतुः पूज्यं पुण्यैः पुरुषवस्तुभिः ॥ १,९.२ पौरुषं प्राकृतं वस्तुज्ञेयं दीर्घाल्पकालिकम् ॥ १,९.३ हारनूपुरकेयूरकिरीटमणिकुंडलैः ॥ १,९.३ यज्ञसूत्रोत्तरीयस्रक्क्षौममाल्यांगुलीयकैः ॥ १,९.४ पुष्पतांबूलकर्पूरचंदनागुरुलेपनैः ॥ १,९.४ धूपदीपसितच्छत्रव्यजनध्वजचामरैः ॥ १,९.५ अन्यैर्दिव्योपहारैश्च वाङ्मनोतीतवैभवैः ॥ १,९.५ पतियोग्यैः पश्वलभ्यैस्तौ समर्चयतां पतिम् ॥ १,९.६ यद्यच्छ्रेष्ठतमं वस्तु पतियोग्यं हितद्ध्वजे ॥ १,९.६ तद्वस्त्वखिलमीशोपि पारं पर्यचिकीर्षया ॥ १,९.७ सभ्यानां प्रददौ हृष्टः पृथक्तत्र यथाक्रमम् ॥ १,९.७ कोलाहलो महानासीत्तत्र तद्वस्तु गृह्णताम् ॥ १,९.८ तत्रैव ब्रह्मविष्णुभ्यां चार्चितः शंकरः पुरा ॥ १,९.८ प्रसन्नः प्राह तौ नम्रौ सस्मितं भक्तिवर्धनः ॥ १,९.९ ईश्वर उवाच तुष्टो ऽहमद्य वां वत्सौ पूजया ऽस्मिन्महादिने ॥ १,९.९ दिनमेतत्ततः पुण्यं भविष्यति महत्तरम् ॥ १,९.१० शिवरात्रिरिति ख्याता तिथिरेषा मम प्रिया ॥ १,९.१० एतत्काले तु यः कुर्यात्पूजां मल्लिंगबेरयोः ॥ १,९.११ कुर्यात्तु जगतः कृत्यं स्थितिसर्गादिकं पुमान् ॥ १,९.११ शिवरात्रावहोरात्रं निराहारो जितेंद्रियः ॥ १,९.१२ अर्चयेद्वा यथान्यायं यथाबलमवंचकः ॥ १,९.१२ यत्फलं मम पूजायां वर्षमेकं निरंतरम् ॥ १,९.१३ तत्फलं लभते सद्यः शिवरात्रौ मदर्चनात् ॥ १,९.१३ मद्धर्मवृद्धिकालो ऽयं चंद्रकाल इवांबुधेः ॥ १,९.१४ प्रतिष्ठाद्युत्सवो यत्र मामको मंगलायनः ॥ १,९.१४ यत्पुनः स्तंभरूपेण स्वाविरासमहं पुरा ॥ १,९.१५ स कालो मार्गशीर्षे तु स्यादार्द्रा ऋक्षमर्भकौ ॥ १,९.१५ आर्द्रायां मार्गशीर्षे तु यः पश्येन्मामुमासखम् ॥ १,९.१६ मद्बेरमपि वा लिंगं स गुहादपि मे प्रियः ॥ १,९.१६ अलं दर्शनमात्रेण फलं तस्मिन्दिने शुभे ॥ १,९.१७ अभ्यर्चनं चेदधिकं फलं वाचामगोचरम् ॥ १,९.१७ रणरंगतले ऽमुष्मिन्यदहं लिंगवर्ष्मणा ॥ १,९.१८ जृंभितो लिंगवत्तस्माल्लिंगस्थानमिदं भवेत् ॥ १,९.१८ अनाद्यंतमिदं स्तंभमणुमात्रं भविष्यति ॥ १,९.१९ दर्शनार्थं हि जगतां पूजनार्थं हि पुत्रको ॥ १,९.१९ भोगावहमिदं लिंगं भुक्तिं मुक्त्येकसाधनम् ॥ १,९.२० दर्शनस्पर्शनध्यानाज्जंतूनां जन्ममोचनम् ॥ १,९.२० अनलाचलसंकाशं यदिदं लिंगमुत्थितम् ॥ १,९.२१ अरुणाचलमित्येव तदिदं ख्यातिमेष्यति ॥ १,९.२१ अत्र तीर्थं च बहुधा भविष्यति महत्तरम् ॥ १,९.२२ मुक्तिरप्यत्र जंतूनां वासेन मरणेन च ॥ १,९.२२ स्थोत्सवादिकल्याणं जनावासं तु सर्वतः ॥ १,९.२३ अत्र दत्तं हुतं जप्तं सर्वं कोटिगुणं भवेत् ॥ १,९.२३ मत्क्षेत्रादपि सर्वस्मात्क्षेत्रमेतन्महत्तरम् ॥ १,९.२४ अत्र संस्मृतिमात्रेण मुक्तिर्भवति देहिनाम् ॥ १,९.२४ तस्मान्महत्तरमिदं क्षेत्रमत्यंतशोभनम् ॥ १,९.२५ सर्वकल्याणसंपूर्णं सर्वमुक्तिकरं शुभम् ॥ १,९.२५ अर्चयित्वा ऽत्र मामेव लिंगे लिंगिनमीश्वरम् ॥ १,९.२६ सालोक्यं चैव सामीप्यं सारूप्यं सार्ष्टिरेव च ॥ १,९.२६ सायुज्यमिति पञ्चैते क्रियादीनां फलं मतम् ॥ १,९.२७ सर्वेपि यूयं सकलं प्राप्स्यथाशु मनोरथम् ॥ १,९.२७ नन्दिकेश्वर उवाच इत्यनुगृह्य भगवान्विनीतौ विधिमाधवौ ॥ १,९.२८ यत्पूर्वं प्रहतं युद्धे तयोः सैन्यं परस्परम् ॥ १,९.२८ तदुत्थापयदत्यर्थं स्वशक्त्यामृतधारया ॥ १,९.२९ तयोर्माढ्यं च वैरं च व्यपनेतुमुवाच तौ ॥ १,९.२९ सकलं निष्कलं चेति स्वरूपद्वयमस्ति मे ॥ १,९.३० नान्यस्य कस्यचित्तस्मादन्यः सर्वोप्यनीश्वरः ॥ १,९.३० पुरस्तात्स्तंभरूपेण पश्चाद्रूपेण चार्भकौ ॥ १,९.३१ ब्रह्मत्वं निष्कलं प्रोक्तमीशत्वं सकलं तथा ॥ १,९.३१ द्वयं ममैव संसिद्धं न मदन्यस्य कस्यचित् ॥ १,९.३२ तस्मादीशत्वमन्येषां युवयोरपि न क्वचित् ॥ १,९.३२ तदज्ञानेन वां वृत्तमीशमानं महाद्भुतम् ॥ १,९.३३ तन्निराकर्तुमत्रैवमुत्थितो ऽहं रणक्षितौ ॥ १,९.३३ त्यजतं मानमात्मीयं मयीशे कुरुतं मतिम् ॥ १,९.३४ मत्प्रसादेन लोकेषु सर्वोप्यर्थः प्रकाशते ॥ १,९.३४ गुरूक्तिर्व्यंजकं तत्र प्रमाणं वा पुनः पुनः ॥ १,९.३५ ब्रह्मतत्त्वमिदं गूढं भवत्प्रीत्या भणाम्यहम् ॥ १,९.३५ अहमेव परं ब्रह्म मत्स्वरूपं कलाकलम् ॥ १,९.३६ ब्रह्मत्वादीश्वरश्चाहं कृत्यं मेनुग्रहादिकम् ॥ १,९.३६ बृहत्त्वाद्बृंहणत्वाच्च ब्रह्माहं ब्रह्मकेशवौ ॥ १,९.३७ समत्वाद्व्यापकत्वाच्च तथैवात्माहमर्भकौ ॥ १,९.३७ अनात्मानः परे सर्वे जीवा एव न संशयः ॥ १,९.३८ अनुग्रहाद्यं सर्गांगं जगत्कृत्यं च पंकजम् ॥ १,९.३८ ईशत्वादेव मे नित्यं न मदन्यस्य कस्यचित् ॥ १,९.३९ आदौ ब्रह्मत्त्वबुद्ध्यर्थं निष्कलं लिंगमुत्थितम् ॥ १,९.३९ तस्मादज्ञातमीशत्वं व्यक्तं द्योतयितुं हि वाम् ॥ १,९.४० सकलोहमतो जातः साक्षादीशस्तु तत्क्षणात् ॥ १,९.४० सकलत्वमतो ज्ञेयमीशत्वं मयि सत्वरम् ॥ १,९.४१ यदिदं निष्कलं स्तंभं मम ब्रह्मत्वबोधकम् ॥ १,९.४१ लिंगलक्षणयुक्तत्वान्मम लिंगं भवेदिदम् ॥ १,९.४२ तदिदं नित्यमभ्यर्च्यं युवाभ्यामत्र पुत्रकौ ॥ १,९.४२ मदात्मकमिदं नित्यं मम सान्निध्यकारणम् ॥ १,९.४३ महत्पूज्यमिदं नित्यमभेदाल्लिंगसिंगिनोः ॥ १,९.४३ यत्रप्रतिष्ठितं येन मदीयं लिंगमीदृशम् ॥ १,९.४४ तत्र प्रतिष्ठितः सोहमप्रतिष्ठोपि वत्सकौ ॥ १,९.४४ मत्साम्यमेकलिंगस्य स्थापने फलमीरितम् ॥ १,९.४५ द्वितीये स्थापिते लिंगे मदैक्यं फलमेव हि ॥ १,९.४५ लिंगं प्राधान्यतः स्थाप्यं तथाबेरं तु गौणकम् ॥ १,९.४६ लिंगाभावेन तत्क्षेत्रं सबेरमपि सर्वतः ॥ १,९.४६ इति श्रीशिवमहापुराणे विद्येश्वरसंहितायां नवमो ऽध्यायः अध्याय १० ब्रह्मविष्णू ऊचतुः सर्गादिपञ्चकृत्यस्य लक्षणं ब्रूहि नौ प्रभो ॥ १,१०.१ शिव उवाच मत्कृत्यबोधनं गुह्यं कृपया प्रब्रवीमि वाम् ॥ १,१०.१ सृष्टिः स्थितिश्च संहारस्तिरोभावो ऽप्यनुग्रहः ॥ १,१०.२ पञ्चैव मे जगत्कृत्यं नित्यसिद्धमजाच्युतौ ॥ १,१०.२ सर्गः संसारसंरंभस्तत्प्रतिष्ठा स्थितिर्मता ॥ १,१०.३ संहारो मर्दनं तस्य तिरोभावस्तदुत्क्रमः ॥ १,१०.३ तन्मोक्षो ऽनुग्रहस्तन्मे कृत्यमेवं हि पञ्चकम् ॥ १,१०.४ कृत्यमेतद्वहत्यन्यस्तूष्णीं गोपुरबिंबवत् ॥ १,१०.४ सर्गादि यच्चतुष्कृत्यं संसारपरिजृंभणम् ॥ १,१०.५ पञ्चमं मुक्तिहेतुर्वै नित्यं मयि च सुस्थिरम् ॥ १,१०.५ तदिदं पञ्चभूतेषु दृश्यते मामकैर्जनैः ॥ १,१०.६ सृष्टिर्भूमौ स्थितिस्तोये संहारः पावके तथा ॥ १,१०.६ तिरोभावो ऽनिले तद्वदनुग्रह इहाम्बरे ॥ १,१०.७ सृज्यते धरया सर्वमद्भिः सर्वं प्रवर्धते ॥ १,१०.७ अर्द्यते तेजसा सर्वं वायुना चापनीयते ॥ १,१०.८ व्योम्नानुगृह्यते सर्वं ज्ञेयमेवं हि सूरिभिः ॥ १,१०.८ पञ्चकृत्यमिदं बोढुं ममास्ति मुखपञ्चकम् ॥ १,१०.९ चतुर्दिक्षु चतुर्वक्त्रं तन्मध्ये पञ्चमं मुखम् ॥ १,१०.९ युवाभ्यां तपसा लब्धमेतत्कृत्यद्वयं सुतौ ॥ १,१०.१० सृष्टिस्थित्यभीधं भाग्यं मत्तः प्रीतादतिप्रियम् ॥ १,१०.१० तथा रुद्रमहेशाभ्यामन्यत्कृत्यद्वयं परम् ॥ १,१०.११ अनुग्रहाख्यं केनापि लब्धुं नैव हि शक्यते ॥ १,१०.११ तत्सर्वं पौर्विकं कर्म युवाभ्यां कालविस्मृतम् ॥ १,१०.१२ न तद्रुद्र महेशाभ्यां विस्मृतं कर्म तादृशम् ॥ १,१०.१२ रूपे वेशे च कृत्ये च वाहने चासने तथा ॥ १,१०.१३ आयुधादौ च मत्साम्यमस्माभिस्तत्कृते कृतम् ॥ १,१०.१३ मद्ध्यानविरहाद्वत्सौ मौढ्यं वामेवमागतम् ॥ १,१०.१४ मज्ज्ञाने सति नैवं स्यान्मानं रूपे महेशवत् ॥ १,१०.१४ तस्मान्मज्ज्ञानसिद्ध्यर्थं मंत्रमोंकारनामकम् ॥ १,१०.१५ इतः परं प्रजपतं मामकं मानभंजनम् ॥ १,१०.१५ उपादिशं निजं मंत्रमोंकारमुरुमंगलम् ॥ १,१०.१६ ओंकारो मन्मुखाज्जज्ञे प्रथमं मत्प्रबोधकः ॥ १,१०.१६ वाचको ऽयमहं वाच्यो मंत्रो ऽयं हि मदात्मकः ॥ १,१०.१७ तदनुस्मरणं नित्यं ममानुस्मरणं भवेत् ॥ १,१०.१७ अकारौत्तरात्पूर्वमुकारः पश्चिमाननात् ॥ १,१०.१८ मकारो दक्षिणमुखाद्बिंदुः प्राङ्मुखतस्तथा ॥ १,१०.१८ नादो मध्यमुखादेवं पञ्चधा ऽसौ विजृंभितः ॥ १,१०.१९ एकीभूतः पुनस्तद्वदोमित्येकाक्षरो भवेत् ॥ १,१०.१९ नामरूपात्मकं सर्वं वेदभूतकुलद्वयम् ॥ १,१०.२० व्याप्तमेतेन मंत्रेण शिवशक्त्योश्च बोधकः ॥ १,१०.२० अस्मात्पञ्चाक्षरं जज्ञे बोधकं सकलस्यतत् ॥ १,१०.२१ आकारादिक्रमेणैव नकारादियथाक्रमम् ॥ १,१०.२१ अस्मात्पञ्चाक्षराज्जाता मातृकाः पञ्चभेदतः ॥ १,१०.२२ तस्माच्छिरश्चतुर्वक्त्रात्त्रिपाद्गाय त्रिरेव हि ॥ १,१०.२२ वेदः सर्वस्ततो जज्ञे ततो वै मंत्रकोटयः ॥ १,१०.२३ तत्तन्मंत्रेण तत्सिद्धिः सर्वसिद्धिरितो भवेत् ॥ १,१०.२३ अनेन मंत्रकंदेन भोगो मोक्षश्च सिद्ध्यति ॥ १,१०.२४ सकला मंत्रराजानः साक्षाद्भोगप्रदाः शुभाः ॥ १,१०.२४ नंदिकेश्वर उवाच पुनस्तयोस्तत्र तिरः पटं गुरुः प्रकल्प्य मंत्रं च समादिशत्परम् ॥ १,१०.२५ निधाय तच्छीर्ष्णि करांबुजं शनैरुदङ्मुखं संस्थितयोः सहांबिकः ॥ १,१०.२५ त्रिरुच्चार्याग्रहीन्मंत्रं यंत्रतंत्रोक्तिपूर्वकम् ॥ १,१०.२६ शिष्यौ च तौ दक्षिणायामात्मानं च समर्पयत् ॥ १,१०.२६ प्रबद्धहस्तौ किल तौ तदंतिके तमेव देवं जगतुर्जगद्गुरुम् ॥ १,१०.२७ ब्रह्माच्युतावूचतुः नमो निष्कलरूपाय नमो निष्कलतेजसे ॥ १,१०.२८ नमः सकलनाथाय नमस्ते सकलात्मने ॥ १,१०.२८ नमः प्रणववाच्याय नमः प्रणवलिंगिने ॥ १,१०.२९ नमः सृष्ट्यादिकर्त्रे च नमः पञ्चमुखायते ॥ १,१०.२९ पञ्चब्रह्मस्वरूपाय पञ्च कृत्यायते नमः ॥ १,१०.३० आत्मने ब्रह्मणे तुभ्यमनंतगुणशक्तये ॥ १,१०.३० सकलाकलरूपाय शंभवे गुरवे नमः ॥ १,१०.३१ इति स्तुत्वा गुरुं पद्यैर्ब्रह्मा विष्णुश्च नेमतुः ॥ १,१०.३१ ईश्वर उवाच वत्सकौ सर्वतत्त्वं च कथितं दर्शितं च वाम् ॥ १,१०.३२ जपतं प्रणवं मंत्रं देवीदिष्टं मदात्मकम् ॥ १,१०.३२ ज्ञानं च सुस्थिरं भाग्यं सर्वं भवति शाश्वतम् ॥ १,१०.३३ आर्द्रायां च चतुर्दश्यां तज्जाप्यं त्वक्षयं भवेत् ॥ १,१०.३३ सूर्यगत्या महार्द्रायामेकं कोटिगुणं भवेत् ॥ १,१०.३४ मृगशीर्षांतिमो भागः पुनर्वस्वादिमस्तथा ॥ १,१०.३४ आर्द्रासमः सदा ज्ञेयः पूजाहोमादितर्पणे ॥ १,१०.३५ दर्शनं तु प्रभाते च प्रातःसंगवकालयोः ॥ १,१०.३५ चतुर्दशी तथा ग्राह्या निशीथव्यापिनी भवेत् ॥ १,१०.३६ प्रदोषव्यापिनी चैव परयुक्ता प्रशस्यते ॥ १,१०.३६ लिंगं बेरं च मेतुल्यं यजतां लिंगमुत्तमम् ॥ १,१०.३७ तस्माल्लिंगं परं पूज्यं बेरादपि मुमुक्षुभिः ॥ १,१०.३७ लिंगमोंकारमंत्रेण बेरं पञ्चाक्षरेण तु ॥ १,१०.३८ स्वयमेव हि द्रव्यैः प्रतिष्ठाप्यं परैरपि ॥ १,१०.३८ पूजयेदुपचारैश्च मत्पदं सुलभं भवेत् ॥ १,१०.३९ इति शास्य तथा शिष्यौ तत्रैवांऽतर्हितः शिवः ॥ १,१०.३९ इति श्रीशिवमहापुराणे विद्येश्वरसंहितायां दशमो ऽध्यायः अध्याय ११ ऋषय ऊचुः कथं लिंगं प्रतिष्ठाप्यं कथं वातस्य लक्षणम् ॥ १,११.१ कथं वा तत्समभ्यर्च्यं देशे काले च केन हि ॥ १,११.१ सूत उवाच युष्मदर्थं प्रवक्ष्यामि बुद्ध्यतामवधानतः ॥ १,११.२ अनुकूले शुभे काले पुण्ये तीर्थे तटे तथा ॥ १,११.२ यथेष्टं लिंगमारोप्यं यत्र स्यान्नित्यमर्चनम् ॥ १,११.३ पार्थिवेन तथाप्येनं तैजसेन यथारुचि ॥ १,११.३ कल्पलक्षणसंयुक्तं लिंगं पूजाफलं लभेत् ॥ १,११.४ सर्वलक्षणसंयुक्तं सद्यः पूजाफलप्रदम् ॥ १,११.४ चरे विशिष्यते सूक्ष्मं स्थावरे स्थूलमेव हि ॥ १,११.५ सलक्षणं सपीठं च स्थापयेच्छिवनिर्मितम् ॥ १,११.५ मंडलं चतुरस्रं वा त्रिकोणमथवा तथा ॥ १,११.६ खट्वांगवन्मध्यसूक्ष्मं लिंगपीठं महाफलं ॥ १,११.६ प्रथमं मृच्छिलादिभ्यो लिगं लोहादिभिः कृतम् ॥ १,११.७ येन लिंगं तेन पीठं स्थावरे हि विशिष्यते ॥ १,११.७ लिंगं पीठं चरे त्वेकं लिंगं बाणकृतं विना ॥ १,११.८ लिंगप्रमाणं कर्त्ःणां द्वादशांगुलमुत्तमम् ॥ १,११.८ न्यूनं चेत्फलमल्पं स्यादधिकं नैव दूष्यते ॥ १,११.९ कर्तुरेकांगुलन्यूनं चरेपि च तथैव हि ॥ १,११.९ आदौ विमानं शिल्पेन कार्यं देवगणैर्युतम् ॥ १,११.१० तत्र गर्भगृहे रम्ये दृढे दर्पणसंनिभो भूषिते ॥ १,११.१० नवरत्नैश्च दिग्द्वारे च प्रधानकैः ॥ १,११.११ नीलं रक्तं च वै दूर्यं श्यामं मारकतं तथा ॥ १,११.११ मुक्ताप्रवालगोमेदवज्राणि नवरत्नकम् ॥ १,११.१२ मध्ये लिंगं महद्द्रव्यं निक्षिपेत्सहवैदिके ॥ १,११.१२ संपूज्य लिंगं सद्याद्यैः पञ्चस्थाने यथाक्रमम् ॥ १,११.१३ अग्नौ च हुत्वा बहुधा हविषास कलं च माम् ॥ १,११.१३ अभ्यर्च्य गुरुमाचार्यमर्थैः कामैश्च बांधवम् ॥ १,११.१४ दद्यादैश्वर्यमर्थिभ्यो जडमप्यजडं तथा ॥ १,११.१४ स्थावरं जंगमं जीवं सर्वं संतोष्य यत्नतः ॥ १,११.१५ सुवर्णपूरिते श्वभ्रे नवरत्नैश्च पूरिते ॥ १,११.१५ सद्यादि ब्रह्म चोच्चार्य ध्यात्वा देवं परं शुभम् ॥ १,११.१६ उदीर्य च महामंत्रमोंकारं नादघोषितम् ॥ १,११.१६ लिंगं तत्र प्रतिष्ठाप्य लिगं पीठेन योजयेत् ॥ १,११.१७ लिंगं सपीठं निक्षिप्य नित्यलेपेन बंधयेत् ॥ १,११.१७ एवं बेरं च संस्थाप्यं तत्रैव परमं शुभम् ॥ १,११.१८ पञ्चाक्षरेण बेरं तु उत्सवार्थं वहिस्तथा ॥ १,११.१८ बेरं गुरुभ्यो गृह्णीयात्साधुभिः पूजितं तु वा ॥ १,११.१९ एवं लिंगे च बेरे च पूजा शिवपदप्रदा ॥ १,११.१९ पुनश्च द्विविधं प्रोक्तं स्थावरं जंगमं तथा ॥ १,११.२० स्थावरं लिंगमित्याहुस्तरुगुल्मादिकं तथा ॥ १,११.२० जंगमं लिंगमित्याहुः कृमिकीटादिकं तथा ॥ १,११.२१ स्थावरस्य च शुश्रूषा जंगमस्य च तर्पणम् ॥ १,११.२१ तत्तत्सुखानुरागेण शिवपूजां विदुर्बुधाः ॥ १,११.२२ पीठमंबामयं सर्वं शिवलिंगं च चिन्मयम् ॥ १,११.२२ यथा देवीमुमामंके धृत्वा तिष्ठति शंकरः ॥ १,११.२३ तथा लिंगमिदं पीठं धृत्वा तिष्ठति संततम् ॥ १,११.२३ एवं स्थाप्य महालिंगं पूजयेदुपचारकैः ॥ १,११.२४ नित्यपूजा यथा शक्तिध्वजादिकरणं तथा ॥ १,११.२४ इति संस्थापयेल्लिंगं साक्षाच्छिवपदप्रदम् ॥ १,११.२५ अथवा चरलिंगं तु षोडशैरुपचारकैः ॥ १,११.२५ पूजयेच्च यथान्यायं क्रमाच्छिवपदप्रदम् ॥ १,११.२६ आवाहनं चासनं च अर्घ्यं पाद्यं तथैव च ॥ १,११.२६ तदंगाचमनं चैव स्नानमभ्यंगपूर्वकम् ॥ १,११.२७ वस्त्रं गंधं तथा पुष्पं धूपं दीपं निवेदनम् ॥ १,११.२७ नीराजनं च तांबूलं नमस्कारो विसर्जनम् ॥ १,११.२८ अथवा ऽर्घ्यादिकं कृत्वा नैवेद्यां तं यथाविधि ॥ १,११.२८ अथाभिषेकं नैवेद्यं नमस्कारं च तर्पणम् ॥ १,११.२९ यथाशक्ति सदाकुर्यात्क्रमाच्छिवपदप्रदम् ॥ १,११.२९ अथवा मानुषे लिंगेप्यार्षे दैवे स्वयंभुवि ॥ १,११.३० स्थापिते ऽपूर्वके लिंगे सोपचारं यथा तथा ॥ १,११.३० पूजोपकरणे दत्ते यत्किंचित्फलमश्नुते ॥ १,११.३१ प्रदक्षिणानमस्कारैः क्रमाच्छिवपदप्रदम् ॥ १,११.३१ लिंगं दर्शनमात्रं वा नियमेन शिवप्रदम् ॥ १,११.३२ मृत्पिष्टगोशकृत्पुष्पैः करवीरेण वा फलैः ॥ १,११.३२ गुडेन नवनीतेन भस्मनान्नैर्यथारुचि ॥ १,११.३३ लिंगं यत्नेन कृत्वांते यजेत्तदनुसारतः ॥ १,११.३३ अंगुष्ठादावपि तथा पूजामिच्छंति केचन ॥ १,११.३४ लिंगकर्मणि सर्वत्र निषेधोस्ति न कर्हिचित् ॥ १,११.३४ सर्वत्र फलदाता हि प्रयासानुगुणं शिवः ॥ १,११.३५ अथवा लिंगदानं वा लिंगमौल्यमथापि वा ॥ १,११.३५ श्रद्धया शिवभक्ताय दत्तं शिवपदप्रदम् ॥ १,११.३६ अथवा प्रणवं नित्यं जपेद्दशसहस्रकम् ॥ १,११.३६ संध्ययोश्च सहस्रं वा ज्ञेयं शिवपदप्रदम् ॥ १,११.३७ जपकाले मकारांतं मनःशुद्धिकरं भजेत् ॥ १,११.३७ समाधौ मानसं प्रोक्तमुपांशु सार्वकालिकम् ॥ १,११.३८ समानप्रणवं चेमं बिंदुनादयुतं विदुः ॥ १,११.३८ अथ पञ्चाक्षरं नित्यं जपेदयुतमादरात् ॥ १,११.३९ संध्ययोश्च सहस्रं वा ज्ञेयं शिवपदप्रदम् ॥ १,११.३९ प्रणवेनादिसंयुक्तं ब्राह्मणानां विशिष्यते ॥ १,११.४० दीक्षायुक्तं गुरोर्ग्राह्यं मंत्रं ह्यथ फलाप्तये ॥ १,११.४० कुंभस्नानं मंत्रदीक्षां मातृकान्यासमेव च ॥ १,११.४१ ब्राह्मणः सत्यपूतात्मा गुरुर्ज्ञानी विशिष्यते ॥ १,११.४१ द्विजानां च नमःपूर्वमन्येषां च नमोन्तकम् ॥ १,११.४२ स्त्रीणां च क्वचिदिच्छंति नमो तं च यथाविधि ॥ १,११.४२ विप्रस्त्रीणां नमः पूर्वमिदमिच्छंति केचन ॥ १,११.४३ पञ्चकोटिजपं कृत्वा सदा शिवसमो भवेत् ॥ १,११.४३ एकद्वित्रिचतुःकोट्याब्रह्मादीनां पदं व्रजेत् ॥ १,११.४४ जपेदक्षरलक्षंवा अक्षराणां पृथक्पृथक् ॥ १,११.४४ अथवाक्षरलक्षं वा ज्ञेयं शिवपदप्रदम् ॥ १,११.४५ सहस्रं तु सहस्राणां सहस्रेण दिनेन हि ॥ १,११.४५ जपेन्मंत्रादिष्टसिद्धिर्नित्यं ब्राह्मणभोजनात् ॥ १,११.४६ अष्टोत्तरसहस्रं वै गायत्रीं प्रातरेव हि ॥ १,११.४६ ब्राह्मणस्तु जपेन्नित्यं क्रमाच्छिवपदप्रदान् ॥ १,११.४७ वेदमंत्रांस्तु सूक्तानि जपेन्नियममास्थितः ॥ १,११.४७ एकं दशार्णं मंत्रं च शतोनं च तदूर्ध्वकम् ॥ १,११.४८ अयुतं च सहस्रं च शतमेकं विना भवेत् ॥ १,११.४८ वेदपारायणं चैव ज्ञेयं शिवपदप्रदम् ॥ १,११.४९ अन्यान्बहुतरान्मंत्राञ्जपेदक्षरलक्षतः ॥ १,११.४९ एकाक्षरांस्तथा मंत्राञ्जपेदक्षरकोटितः ॥ १,११.५० ततः परं जपेच्चैव सहस्रं भक्तिपूर्वकम् ॥ १,११.५० एवं कुर्याद्यथाशक्ति क्रमाच्छिव पदं लभेत् ॥ १,११.५१ नित्यं रुचिकरं त्वेकं मंत्रमामरणांतिकम् ॥ १,११.५१ जपेत्सहस्रमोमिति सर्वाभीष्टं शिवाज्ञया ॥ १,११.५२ पुष्पारामादिकं वापि तथा संमार्जनादिकम् ॥ १,११.५२ शिवाय शिवकार्याथे कृत्वा शिवपदं लभेत् ॥ १,११.५३ शिवक्षेत्रे तथा वासं नित्यं कुर्याच्च भक्तितः ॥ १,११.५३ जडानामजडानां च सर्वेषां भुक्तिमुक्तिदम् ॥ १,११.५४ तस्माद्वासं शिवक्षेत्रे कुर्यदामरणं बुधः ॥ १,११.५४ लिंगाद्धस्तशतं पुण्यं क्षेत्रे मानुषके विदुः ॥ १,११.५५ सहस्रारत्निमात्रं तु पुण्यक्षेत्रे तथार्षके ॥ १,११.५५ दैवलिंगे तथा ज्ञेयं सहस्रारत्निमानतः ॥ १,११.५६ धनुष्प्रमाणसाहस्रं पुण्यं क्षेत्रे स्वयं भुवि ॥ १,११.५६ पुण्यक्षेत्रे स्थिता वापी कूपाद्यपुष्कराणि च ॥ १,११.५७ शिवगंगेति विज्ञेयं शिवस्य वचनं यथा ॥ १,११.५७ तत्र स्नात्वा तथा दत्त्वा जपित्वा हि शिवं व्रजेत् ॥ १,११.५८ शिवक्षेत्रं समाश्रित्य वसेदामरणं तथा ॥ १,११.५८ दाहं दशाहं मास्यं वा सपिंडीकरणं तु वा ॥ १,११.५९ आब्दिकं वा शिवक्षेत्रे क्षेत्रे पिंडमथापि वा ॥ १,११.५९ सर्वपाप विनिर्मुक्तः सद्यः शिवपदं लभेत् ॥ १,११.६० अथवा सप्तरात्रं वा वसेद्वा पञ्चरात्रकम् ॥ १,११.६० त्रिरात्रमेकरात्रं वा क्रमाच्छिवपदं लभेत् ॥ १,११.६१ स्ववर्णानुगुणं लोके स्वाचारात्प्राप्नुते नरः ॥ १,११.६१ वर्णोद्धारेण भक्त्या च तत्फलातिशयं नरः ॥ १,११.६२ सर्वं कृतं कामनया सद्यः फलमवाप्नुयात् ॥ १,११.६२ सर्वं कृतमकामेन साक्षाच्छिवपदप्रदम् ॥ १,११.६३ प्रातर्मध्याह्नसायाह्नमहस्त्रिष्वेकतः क्रमात् ॥ १,११.६३ प्रातर्विधिकरं ज्ञेयं मध्याह्नं कामिकं तथा ॥ १,११.६४ सायाह्नं शांतिकं ज्ञेयं रात्रावपि तथैव हि ॥ १,११.६४ कालो निशीथो वै प्रोक्तोमध्ययामद्वयं निशि ॥ १,११.६५ शिवपूजा विशेषेण तत्काले ऽभीष्टसिद्धिदा ॥ १,११.६५ एवं ज्ञात्वा नरः कुर्वन्यथोक्तफलभाग्भवेत् ॥ १,११.६६ कलौ युगे विशेषेण फलसिद्धिस्तु कर्मणा ॥ १,११.६६ उक्तेन केनचिद्वापि अधिकारविभेदतः ॥ १,११.६७ सद्वृत्तिः पापभीरुश्चेत्ततत्फलमवाप्नुयात् ॥ १,११.६७ ऋषय ऊचुः अथ क्षेत्राणि पुण्यानि समासात्कथयस्व नः ॥ १,११.६८ सर्वाः स्त्रियश्च पुरुषा यान्याश्रित्य पदं लभेत् ॥ १,११.६८ सूत योगिवरश्रेष्ठ शिवक्षेत्रागमांस्तथा ॥ १,११.६९ सूत उवाच शृणुत श्रद्धया सर्वक्षेत्राणि च तदागमान् ॥ १,११.६९ इति श्रीशिवमहापुराणे विद्येश्वरसंहितायांेकदशो ऽध्यायः अध्याय १२ सूत उवाच शृणुध्वमृषयः प्राज्ञाः शिवक्षेत्रं विमुक्तिदम् ॥ १,१२.१ तदागमांस्ततो वक्ष्ये लोकरक्षार्थमेव हि ॥ १,१२.१ पञ्चाशत्कोटिविस्तीर्णा सशैलवनकानना ॥ १,१२.२ शिवाज्ञया हि पृथिवी लोकं धृत्वा च तिष्ठति ॥ १,१२.२ तत्र तत्र शिवक्षेत्रं तत्र तत्र निवासिनाम् ॥ १,१२.३ मोक्षार्थं कृपया देवः क्षेत्रं कल्पितवान्प्रभुः ॥ १,१२.३ परिग्रहादृषीणां च देवानां परिग्रहात् ॥ १,१२.४ स्वयंभूतान्यथान्यानि लोकरक्षार्थमेव हि ॥ १,१२.४ तीर्थे क्षेत्रे सदाकार्यं स्नानदानजपादिकम् ॥ १,१२.५ अन्यथा रोगदारिद्र्यमूकत्वाद्याप्नुयान्नरः ॥ १,१२.५ अथास्मिन्भारते वर्षे प्राप्नोति मरणं नरः ॥ १,१२.६ स्वयंभूस्थानवासेन पुनर्मानुष्यमाप्नुयात् ॥ १,१२.६ क्षेत्रे पापस्य करणं दृढं भवति भूसुराः ॥ १,१२.७ पुण्यक्षेत्रे निवासे हि पापमण्वपि नाचरेत् ॥ १,१२.७ येन केनाप्युपायेन पुण्यक्षेत्रे वसेन्नरः ॥ १,१२.८ सिंधोः शतनदीतीरे संति क्षेत्राण्यनेकशः ॥ १,१२.८ सरस्वती नदी पुण्या प्रोक्ता षष्टिमुखा तथा ॥ १,१२.९ तत्तत्तीरे वसेत्प्राज्ञः क्रमाद्ब्रह्मपदं लभेत् ॥ १,१२.९ हिमवद्गिरिजा गंगा पुण्या शतमुखा नदी ॥ १,१२.१० तत्तीरे चैव काश्यादिपुण्यक्षेत्राण्यनेकशः ॥ १,१२.१० तत्र तीरं प्रशस्तं हि मृगबृहस्पतौ ॥ १,१२.११ शोणभद्रो दशमुखः पुण्योभीष्टफलप्रदः ॥ १,१२.११ तत्र स्नानोपवासेन पदं वैनायकं लभेत् ॥ १,१२.१२ चतुर्वींशमुखा पुण्या नर्मदा च महानदी ॥ १,१२.१२ तस्यां स्नानेन वासेन पदं वैष्णवमाप्नुयात् ॥ १,१२.१३ तमसा द्वादशमुखा रेवा दशमुखा नदी ॥ १,१२.१३ गोदावरी महापुण्या ब्रह्मगोवधनाशिनी ॥ १,१२.१४ एकविंशमुखा प्रोक्ता रुद्रलोकप्रदायिनी ॥ १,१२.१४ कृष्णवेणी पुण्यनदी सर्वपापक्षयावहा ॥ १,१२.१५ साष्टादशमुखाप्रोक्ता विष्णुलोकप्रदायिनी ॥ १,१२.१५ तुंगभद्रा दशमुखा ब्रह्मलोकप्रदायिनी ॥ १,१२.१६ सुवर्णमुखरी पुण्या प्रोक्ता नवमुखा तथा ॥ १,१२.१६ तत्रैव सुप्रजायंते ब्रह्मलोकच्युतास्तथा ॥ १,१२.१७ सरस्वती च पंपा च कन्याश्वेतनदी शुभा ॥ १,१२.१७ एतासां तीरवासेन इंद्रलोकमवाप्नुयात् ॥ १,१२.१८ सह्याद्रिजा महापुण्या कावेरीति महानदी ॥ १,१२.१८ सप्तविंशमुखा प्रोक्ता सर्वाभीष्टं प्रदायिनी ॥ १,१२.१९ तत्तीराः स्वर्गदाश्चैव ब्रह्मविष्णुपदप्रदाः ॥ १,१२.१९ शिवलोकप्रदा शैवास्तथा ऽभीष्टफलप्रदाः ॥ १,१२.२० नैमिषे बदरे स्नायान्मेषगे च गुरौ रवौ ॥ १,१२.२० ब्रह्मलोकप्रदं विद्यात्ततः पूजादिकं तथा ॥ १,१२.२१ सिंधुनद्यां तथा स्नानं सिंहे कर्कटगे रवौ ॥ १,१२.२१ केदारोदकपानं च स्नानं च ज्ञानदं विदुः ॥ १,१२.२२ गोदावर्यां सिंहमासे स्नायात्सिंहबृहस्पतौ ॥ १,१२.२२ शिवलोकप्रदमिति शिवेनोक्तं तथा पुरा ॥ १,१२.२३ यमुनाशोणयोः स्नायाद्गुरौ कन्यागते रवौ ॥ १,१२.२३ धर्मलोके दंतिलोके महाभोगप्रदं विदुः ॥ १,१२.२४ कावेर्यां च तथास्नायात्तुलागे तु रवौ गुरौ ॥ १,१२.२४ विष्णोर्वचनमहात्म्यात्सर्वाभीष्टप्रदं विदुः ॥ १,१२.२५ वृश्चिके मासि संप्राप्ते तथार्के गुरुवृश्चिके ॥ १,१२.२५ नर्मदायां नदीस्नानाद्विष्णुलोकम्वाप्नुयात् ॥ १,१२.२६ सुवर्णमुखरीस्नानं चापगे च गुरौ रवौ ॥ १,१२.२६ शिवलोकप्रदमिति ब्राह्मणो वचनं यथा ॥ १,१२.२७ मृगमासि तथा स्नायाज्जाह्नव्यां मृगगे गुरौ ॥ १,१२.२७ शिवलोकप्रदमिति ब्रह्मणो वचनं यथा ॥ १,१२.२८ ब्रह्मविष्ण्वोः पदे भुक्त्वा तदंते ज्ञानमाप्नुयात् ॥ १,१२.२८ गंगायां माघमासे तु तथाकुंभगते रवौ ॥ १,१२.२९ श्राद्धं वा पिंडदानं वा तिलोदकमथापिवा ॥ १,१२.२९ वंशद्वयपित्ःणां च कुलकोट्युद्धरं विदुः ॥ १,१२.३० कृष्णवेण्यां प्रशंसंति मीनगे च गुरौ रवौ ॥ १,१२.३० तत्तत्तीर्थे च तन्मासि स्नानमिंद्रपदप्रदम् ॥ १,१२.३१ गंगां वा सह्यजां वापि समाश्रित्य वसेद्बुधः ॥ १,१२.३१ तत्कालकृतपापस्य क्षयो भवति निश्चितम् ॥ १,१२.३२ रुद्रलोकप्रदान्येव संति क्षेत्राण्यनेकशः ॥ १,१२.३२ ताम्रपर्णी वेगवती ब्रह्मलोकफलप्रदे ॥ १,१२.३३ तयोस्तीरे हि संत्येव क्षेत्राणि स्वर्गदानि च ॥ १,१२.३३ संति क्षेत्राणि तन्मध्ये पुण्यदानि च भूरिशः ॥ १,१२.३४ तत्र तत्र वसन्प्राज्ञस्तादृशं च फलं लभेत् ॥ १,१२.३४ सदाचारेण सद्वृत्त्या सदा भावनयापि च ॥ १,१२.३५ वसेद्दयालुः प्राज्ञो वै नान्यथा तत्फलं लभेत् ॥ १,१२.३५ पुण्यक्षेत्रे कृतं पुण्यं बहुधा ऋद्धिमृच्छति ॥ १,१२.३६ पुण्यक्षेत्रे कृतं पापं महदण्वपि जायते ॥ १,१२.३६ तत्कालं जीवनार्थश्चेत्पुण्येन क्षयमेष्यति ॥ १,१२.३७ पुण्यमैश्वर्यदं प्राहुः कायिकं वाचिकं तथा ॥ १,१२.३७ मानसं च तथा पापं तादृशं नाशयेद्द्विजाः ॥ १,१२.३८ मानसं वज्रलेपं तु कल्पकल्पानुगं तथा ॥ १,१२.३८ ध्यानादेव हि तन्नश्येन्नान्यथा नाशमृच्छति ॥ १,१२.३९ वाचिकं जपजालेन कायिकं कायशोषणात् ॥ १,१२.३९ दानाद्धनकृतं नश्येन्ना ऽन्यथाकल्पकोटिभिः ॥ १,१२.४० क्वचित्पापेन पुण्यं च वृद्धिपूर्वेण नश्यति ॥ १,१२.४० बीजांशश्चैव वृद्ध्यंशो भोगांशः पुण्यपापयोः ॥ १,१२.४१ ज्ञाननाश्यो हि बीजांशो वृद्धिरुक्तप्रकारतः ॥ १,१२.४१ भोजांशो भोगनाश्यस्तु नान्यथा पुण्यकोटिभिः ॥ १,१२.४२ बीजप्ररोहे नष्टे तु शेषो भोगाय कल्पते ॥ १,१२.४२ देवानां पूजया चैव ब्रह्मणानां च दानतः ॥ १,१२.४३ तपोधिक्याच्च कालेन भोगः सह्यो भवेन्नृणाम् ॥ १,१२.४३ तस्मात्पापमकृत्वैव वस्तव्यंस्सुखमिच्छता ॥ १,१२.४३ इति श्रीशिवमहापुराणे विद्येश्वरसंहितायां द्वादशो ऽध्यायः अध्याय १३ ऋषय ऊचुः सदाचारं श्रावयाशु येन लोकाञ्जयेद्बुधः ॥ १,१३.१ धर्माधर्ममयान्ब्रूहि स्वर्गनारकदांस्तथा ॥ १,१३.१ सूत उवाच सदाचारयुतो विद्वान्ब्राह्मणो नाम नामतः ॥ १,१३.२ वेदाचारयुतो विप्रो ह्येतैरेकैकवान्द्विजः ॥ १,१३.२ अल्पाचारोल्पवेदश्च क्षत्रियो राजसेवकः ॥ १,१३.३ किंचिदाचारवान्वैश्यः कृषिवाणिज्यकृत्तया ॥ १,१३.३ शूद्रब्राह्मण इत्युक्तः स्वयमेव हि कर्षकः ॥ १,१३.४ असूयालुः परद्रोही चंडालद्विज उच्यते ॥ १,१३.४ पृथिवीपालको राजा इतरेक्षत्रिया मताः ॥ १,१३.५ धान्यादिक्रयवान्वैश्य इतरो वणिगुच्यते ॥ १,१३.५ ब्रह्मक्षत्रियवैश्यानां शुश्रूषुः शूद्र उच्यते ॥ १,१३.६ कर्षको वृषलो ज्ञेय इतरे चैव दस्यवः ॥ १,१३.६ सर्वो ह्युषःप्राचीमुखश्चिन्तयेद्देवपूर्वकान् ॥ १,१३.७ धर्मानर्थांश्च तत्क्लेशानायं च व्ययमेव च ॥ १,१३.७ आयुर्द्वेषश्च मरणं पापं भाग्यं तथैव च ॥ १,१३.८ व्याधिः पुष्टिस्तथा शक्तिः प्रातरुत्थानदिक्फलम् ॥ १,१३.८ निशांत्यायामोषा ज्ञेया यामार्धं संधिरुच्यते ॥ १,१३.९ तत्काले तु समुत्थाय विण्मूत्रे विसृजेद्द्विजः ॥ १,१३.९ गृहाद्दूरं ततो गत्वा बाह्यतः प्रवृतस्तथा ॥ १,१३.१० उदङ्मुखः समाविश्य प्रतिबंधे ऽन्यदिङ्मुखः ॥ १,१३.१० जलाग्निब्राह्मणादीनां देवानां नाभिमुख्यतः ॥ १,१३.११ लिंगं पिधाय वामेन मुखमन्येन पाणिना ॥ १,१३.११ मलमुत्सृज्य चोत्थाय न पश्येच्चैव तन्मलम् ॥ १,१३.१२ उद्धृतेन जलेनैव शौचं कुर्याज्जलाद्बहिः ॥ १,१३.१२ अथवा देवपित्रार्षतीर्थावतरणं विना ॥ १,१३.१३ सप्त वा पञ्च वा त्रीन्वा गुदं संशोधयेन्मृदा ॥ १,१३.१३ लिंगे कर्कोटमात्रं तु गुदे प्रसृतिरिष्यते ॥ १,१३.१४ तत उत्थाय पद्धस्तशौचं गण्डूषमष्टकम् ॥ १,१३.१४ येन केन च पत्रेण काष्ठेन च जलाद्बहिः ॥ १,१३.१५ कार्यं संत्यज्य तर्जनीं दंतधावनमीरितम् ॥ १,१३.१५ जलदेवान्नमस्कृत्य मंत्रेण स्नानमाचरेत् ॥ १,१३.१६ अशक्तः कंठदघ्नं वा कटिदघ्नमथापि वा ॥ १,१३.१६ आजानु जलमाविश्य मंत्रस्नानं समाचरेत् ॥ १,१३.१७ देवादींस्तर्पयेद्विद्वांस्तत्र तीर्थजलेन च ॥ १,१३.१७ धौतवस्त्रं समादाय पञ्चकच्छेन धारयेत् ॥ १,१३.१८ उत्तरीयं च किं चैव धार्यं सर्वेषु कर्मसु ॥ १,१३.१८ नद्यादितीर्थस्नाने तु स्नानवस्त्रं न शोधयेत् ॥ १,१३.१९ वापीकूपगृहादौ तु स्नानादूर्ध्वं नयेद्बुधः ॥ १,१३.१९ शिलादार्वादिके वापि जले वापि स्थलेपि वा ॥ १,१३.२० संशोध्य पीडयेद्वस्त्रं पित्ःणां तृप्तये द्विजाः ॥ १,१३.२० जाबालकोक्तमंत्रेण भस्मना च त्रिपुंड्रकम् ॥ १,१३.२१ अन्यथा चेज्जले पात इतस्तन्नरकमृच्छति ॥ १,१३.२१ आपोहिष्ठेति शिरसि प्रोक्षयेत्पापशांतये ॥ १,१३.२२ यस्येति मंत्रं पादे तु संधिप्रोक्षणमुच्यते ॥ १,१३.२२ पादे मूर्ध्नि हृदि चैव मूर्ध्नि हृत्पाद एव च ॥ १,१३.२३ हृत्पादमूर्ध्नि संप्रोक्ष्य मंत्रस्नानं विदुर्बुधाः ॥ १,१३.२३ ईषत्स्पर्शे च दौः स्वास्थ्ये राजराष्ट्रभये ऽपि च ॥ १,१३.२४ अत्यागतिकाले च मंत्रस्नानं समाचरेत् ॥ १,१३.२४ प्रातः सूर्यानुवाकेन सायमग्न्यनुवाकतः ॥ १,१३.२५ अपः पीत्वा तथामध्ये पुनः प्रोक्षणमाचरेत् ॥ १,१३.२५ गायत्र्या जपमंत्रांते वीरूर्ध्वं प्राग्विनिक्षिपेत् ॥ १,१३.२६ मंत्रेण सह चैकं वै मध्ये ऽर्घ्यं तु रवेर्द्विजा ॥ १,१३.२६ अथ जाते च सायाह्ने भुवि पश्चिमदिङ्मुखः ॥ १,१३.२७ उद्धृत्य दद्यात्प्रातस्तु मध्याह्नेंगुलिभिस्तथा ॥ १,१३.२७ अंगुलीनां च रंध्रेण लंबं पश्येद्दिवाकरम् ॥ १,१३.२८ आत्मप्रदक्षिणं कृत्वा शुद्धाचमनमाचरेत् ॥ १,१३.२८ सायं मुहूर्तादर्वाक्तु कृता संध्या वृथा भवेत् ॥ १,१३.२९ अकालात्काल इत्युक्तो दिने ऽतीते यथाक्रमम् ॥ १,१३.२९ दिवा ऽतीते च गायत्रीं शतं नित्ये क्रमाज्जपेत् ॥ १,१३.३० आदर्शाहात्पराऽतीते गायत्रीं लक्षमभ्यसेत् ॥ १,१३.३० मासातीते तु नित्ये हि पुनश्चोपनयं चरेत् ॥ १,१३.३१ ईशो गौरीगुहो विष्णुर्ब्रह्मा चेंद्रश्च वै यमः ॥ १,१३.३१ एवं रूपांश्च वै देवांस्तर्पयेदर्थसिद्धये ॥ १,१३.३२ ब्रह्मार्पणं ततः कृत्वा शुद्धाचमनमाचरेत् ॥ १,१३.३२ तीर्थदक्षिणतः शस्ते मठे मंत्रालये बुधः ॥ १,१३.३३ तत्र देवालये वापि गृहे वा नियतस्थले ॥ १,१३.३३ सर्वान्देवान्नमस्कृत्य स्थिरबुद्धिः स्थिरासनः ॥ १,१३.३४ प्रणवं पूर्वमभ्यस्य गायत्रीमभ्यसेत्ततः ॥ १,१३.३४ जीवब्रह्मैक्यविषयं बुद्ध्वा प्रणवमभ्यसेत् ॥ १,१३.३५ त्रैलोक्यसृष्टिकर्तारं स्थितिकर्तारमच्युतम् ॥ १,१३.३५ संहर्तारं तथा रुद्रं स्वप्रकाशमुपास्महे ॥ १,१३.३६ ज्ञानकर्मेंद्रियाणां च मनोवृत्तीर्धियस्तथा ॥ १,१३.३६ भोगमोक्षप्रदे धर्मे ज्ञाने च प्रेरयेत्सदा ॥ १,१३.३७ इत्थमर्थं धियाध्यायन्ब्रह्मप्राप्नोति निश्चयः ॥ १,१३.३७ केवलं वा जपेन्नित्यं ब्राह्मण्यस्य च पूर्तये ॥ १,१३.३८ सहस्रमभ्यसेन्नित्यं प्रातर्ब्राह्मणपुंगवः ॥ १,१३.३८ अन्येषां च यथा शक्तिमध्याह्ने च शतं जपेत् ॥ १,१३.३९ सायं द्विदशकं ज्ञेयं शिखाष्टकसमन्वितम् ॥ १,१३.३९ मूलाधारं समारभ्य द्वादशांतस्थितांस्तथा ॥ १,१३.४० विद्येशब्रह्मविष्ण्वीशजीवात्मपरमेश्वरान् ॥ १,१३.४० ब्रह्मबुद्ध्या तदैक्यं च सोहं भावनया जपेत् ॥ १,१३.४१ तानेव ब्रह्मरंध्रादौ कायाद्बाह्ये च भावयेत् ॥ १,१३.४१ महत्तत्त्वं समारभ्य शरीरं तु सहस्रकम् ॥ १,१३.४२ एकैकस्माज्जपादेकमतिक्रम्य शनैः शनैः ॥ १,१३.४२ परस्मिन्योजयेज्जीवं जपतत्त्वमुदाहृतम् ॥ १,१३.४३ शतद्विदशकं देहं शिखाष्टकसमन्वितम् ॥ १,१३.४३ मंत्राणां जप एवं हि जपमादिक्रमाद्विदुः ॥ १,१३.४४ सहस्रं ब्राह्मदं विद्याच्छतमैंद्रप्रदं विदुः ॥ १,१३.४४ इतरत्त्वात्मरक्षार्थं ब्रह्मयोनिषु जायते ॥ १,१३.४५ दिवाकरमुपस्थाय नित्यमित्थं समाचरेत् ॥ १,१३.४५ लक्षद्वादशयुक्तस्तु पूर्णब्राह्मण ईरितः ॥ १,१३.४६ गायत्र्या लक्षहीनं तु वेदकार्येन योजयेत् ॥ १,१३.४६ आसप्ततेस्तु नियमं पश्चात्प्रव्राजनं चरेत् ॥ १,१३.४७ प्रातर्द्वादशसाहस्रं प्रव्राजीप्रणवं जपेत् ॥ १,१३.४७ दिने दिने त्वतिक्रांते नित्यमेवं क्रमाज्जपेत् ॥ १,१३.४८ मासादौ क्रमशो ऽतीते सार्धलक्षजपेन हि ॥ १,१३.४८ अत ऊर्ध्वमतिक्रांते पुनः प्रैषं समाचरेत् ॥ १,१३.४९ एवं कृत्वा दोषशांतिरन्यथा रौरवं व्रजेत् ॥ १,१३.४९ धर्मार्थयोस्ततो यत्नं कुर्यात्कामी न चेतरः ॥ १,१३.५० ब्राह्मणो मुक्तिकामः स्याद्ब्रह्मज्ञानं सदाभ्यसेत् ॥ १,१३.५० धर्मादर्थो ऽर्थतो भोगो भोगाद्वैराग्यसंभवः ॥ १,१३.५१ धर्मार्जितार्थभोगेन वैराग्यमुपजायते ॥ १,१३.५१ विपरीतार्थभोगेन राग एव प्रजायते ॥ १,१३.५२ धर्मश्च द्विविधः प्रोक्तो द्रव्यदेहद्वयेन च ॥ १,१३.५२ द्रव्यमिज्यादिरूपं स्यात्तीर्थस्नानादि दैहिकम् ॥ १,१३.५३ धनेन धनमाप्नोति तपसा दिव्यरूपताम् ॥ १,१३.५३ निष्कामः शुद्धिमाप्नोति शुद्ध्या ज्ञानं न संशयः ॥ १,१३.५४ कृतादौ हि तपःश्लोघ्यं द्रव्यधर्मः कलौ युगे ॥ १,१३.५४ कृतेध्यानाज्ज्ञानसिद्धिस्त्रेतायां तपसा तथा ॥ १,१३.५५ द्वापरे यजनाज्ज्ञानं प्रतिमापूजया कलौ ॥ १,१३.५५ यादृशं पुण्यं पापं वा तादृशं फलमेव हि ॥ १,१३.५६ द्रव्यदेहांगभेदेन न्यूनवृद्धिक्षयादिकम् ॥ १,१३.५६ अधर्मो हिंसिकारूपो धर्मस्तु सुखरूपकः ॥ १,१३.५७ अधर्माद्दुःखमाप्नोति धर्माद्वै सुखमेधते ॥ १,१३.५७ विद्यादुर्वृत्तितो दुःखं सुखं विद्यात्सुवृत्तितः ॥ १,१३.५८ धर्मार्जनमतः कुर्याद्भोगमोक्षप्रसिद्धये ॥ १,१३.५८ सकुटुंबस्य विप्रस्य चतुर्जनयुतस्य च ॥ १,१३.५९ शतवर्षस्य वृत्तिं तु दद्यात्तद्ब्रह्मलोकदम् ॥ १,१३.५९ चांद्रायणसहस्रं तु ब्रह्मलोकप्रदं विदुः ॥ १,१३.६० सहस्रस्य कुटुंबस्य प्रतिष्ठां क्षत्रियश्चरेत् ॥ १,१३.६० इंद्रलोकप्रदं विद्यादयुतं ब्रह्मलोकदम् ॥ १,१३.६१ यां देवतां पुरस्कृत्य दानमाचरते नरः ॥ १,१३.६१ तत्तल्लोकमवाप्नोति इति वेदविदो विदुः ॥ १,१३.६२ अर्थहीनः सदा कुर्यात्तपसा मार्जनं तथा ॥ १,१३.६२ तीर्थाच्च तपसा प्राप्यं सुखमक्षय्यमश्नुते ॥ १,१३.६३ अर्थार्जनमथो वक्ष्ये न्यायतः सुसमाहितः ॥ १,१३.६३ कृतात्प्रतिग्रहाच्चैव याजनाच्च विशुद्धितः ॥ १,१३.६४ अदैन्यादनतिक्लेशाद्ब्राह्मणो धनमर्जयेत् ॥ १,१३.६४ क्षत्रियो बाहुवीर्येण कृषिगोरक्षणाद्विशः ॥ १,१३.६५ न्यायार्जितस्य वित्तस्य दानात्सिद्धिं समश्नुते ॥ १,१३.६५ ज्ञानसिद्ध्या मोक्षसिद्धिः सर्वेषां गुर्वनुग्रहात् ॥ १,१३.६६ मोक्षात्स्वरूपसिद्धिः स्यात्परानन्दं समश्नुते ॥ १,१३.६६ सत्संगात्सर्वमेतद्वै नराणां जायते द्विजाः ॥ १,१३.६७ धनधान्यादिकं सर्वं देयं वै गृहमेधिना ॥ १,१३.६७ यद्यत्काले वस्तुजातं फलं वा धान्यमेव च ॥ १,१३.६८ तत्तत्सर्वं ब्राह्मणेभ्यो देयं वै हितमिच्छता ॥ १,१३.६८ जलं चैव सदा देयमन्नं क्षुद्व्याधिशांतये ॥ १,१३.६९ क्षेत्रं धान्यं तथाऽऽमान्नमन्नमेवं चतुर्विधम् ॥ १,१३.६९ यावत्कालं यदन्नं वै भुक्त्वा श्रवणमेधते ॥ १,१३.७० तावत्कृतस्य पुण्यस्य त्वर्धं दातुर्न संशयः ॥ १,१३.७० ग्रहीताहिगृहीतस्य दानाद्वै तपसा तथा ॥ १,१३.७१ पापसंशोधनं कुर्यादन्यथा रौरवं व्रजेत् ॥ १,१३.७१ आत्मवित्तं त्रिधा कुर्याद्धर्मवृद्ध्यात्मभोगतः ॥ १,१३.७२ नित्यं नैमित्तकं काम्यं कर्म कुर्यात्तु धर्मतः ॥ १,१३.७२ वित्तस्य वर्धनं कुर्याद्वृद्ध्यंशेन हि साधकः ॥ १,१३.७३ हितेन मितमे ध्येन भोगं भोगांशतश्चरेत् ॥ १,१३.७३ कृष्यर्जिते दशांशं हि देयं पापस्य शुद्धये ॥ १,१३.७४ शेषेण कुर्याद्धर्मादि अन्यथा रौरवं व्रजेत् ॥ १,१३.७४ अथवा पापबुद्धिः स्यात्क्षयं वा सत्यमेष्यति ॥ १,१३.७५ वृद्धिवाणिज्यके देयष्षडंशो हि विचक्षणैः ॥ १,१३.७५ शुद्धप्रतिग्रहे देयश्चतुर्थांशो द्विजोत्तमैः ॥ १,१३.७६ अकस्मादुत्थिते ऽर्थे हि देयमर्धं द्विजोत्तमैः ॥ १,१३.७६ असत्प्रतिग्रहसर्वं दुर्दानं सागरे क्षिपेत् ॥ १,१३.७७ आहूय दानं कर्तव्यमात्मभोगसमृद्धये ॥ १,१३.७७ पृष्टं सर्वं सदा देयमात्मशक्त्यनुसारतः ॥ १,१३.७८ जन्मांतरे ऋणी हि स्याददत्ते पृष्टवस्तुनि ॥ १,१३.७८ परेषां च तथा दोषं न प्रशंसेद्विचक्षणः ॥ १,१३.७९ विशेषेण तथाब्रह्मञ्छ्रुतं दृष्टं च नो वदेत् ॥ १,१३.७९ न वदेत्सर्वजंतूनां हृदि रोषकरं बुधः ॥ १,१३.८० संध्ययोरग्निकार्यं च कुर्यादैश्वर्यसिद्धये ॥ १,१३.८० अशक्तस्त्वेककाले वा सूर्याग्नी च यथाविधि ॥ १,१३.८१ तंडुलं धान्यमाज्यं वा फलं कंदं हविस्तथा ॥ १,१३.८१ स्थालीपाकं तथा कुर्याद्यथान्यायं यथाविधि ॥ १,१३.८२ प्रधानहोममात्रं वा हव्याभावे समाचरेत् ॥ १,१३.८२ नित्यसंधानमित्युक्तं तमजस्रं विदुर्बुधाः ॥ १,१३.८३ अथवा जपमात्रं वा सूर्यवंदनमेव च ॥ १,१३.८३ एवमात्मार्थिनः कुर्युरर्थार्थी च यथाविधि ॥ १,१३.८४ ब्रह्मयज्ञरता नित्यं देवपूजारतास्तथा ॥ १,१३.८४ अग्निपूजापरा नित्यं गुरुपूजारतास्तथा ॥ १,१३.८५ ब्राह्मणानां तृप्तिकराः सर्वे स्वर्गस्य भागिनः ॥ १,१३.८५ इति श्रीशिवमहापुराणे विद्येश्वरसंहितायां त्रयोदशो ऽध्यायः अध्याय १४ ऋषय ऊचुः अग्नियज्ञदेवयज्ञं ब्रह्मयज्ञं तथैव च ॥ १,१४.१ गुरुपूजां ब्रह्मतृप्तिं क्रमेण ब्रूहि नः प्रभो ॥ १,१४.१ सूत उवाच अग्नौ जुहोति यद्द्रव्यमग्नियज्ञः स उच्यते ॥ १,१४.२ ब्रह्मचर्याश्रमस्थानां समिदाधानमेव हि ॥ १,१४.२ समिदग्रौ व्रताद्यं च विशेषयजनादिकम् ॥ १,१४.३ प्रथमाश्रमिणामेवं यावदौपासनं द्विजाः ॥ १,१४.३ आत्मन्यारोपिताग्नीनां वनिनां यतिनां द्विजाः ॥ १,१४.४ हितं च मितमेध्यान्नं स्वकाले भोजनं हुतिः ॥ १,१४.४ औपासनाग्निसंधानं समारभ्य सुरक्षितम् ॥ १,१४.५ कुंडे वाप्यथ भांडे वा तदजस्रं समीरितम् ॥ १,१४.५ अग्निमात्मन्यरण्यां वा राजदैववशाद्ध्रुवम् ॥ १,१४.६ अग्नित्यागभयादुक्तं समारोपितमुच्यते ॥ १,१४.६ संपत्करी तथा ज्ञेया सायमग्न्याहुतिर्द्विजाः ॥ १,१४.७ आयुष्करीति विज्ञेया प्रातः सूर्याहुतिस्तथा ॥ १,१४.७ अग्नियज्ञो ह्ययं प्रोक्तो दिवा सूर्यनिवेशनात् ॥ १,१४.८ इंद्रादीन्सकलान्देवानुद्दिश्याग्नौ जुहोतियत् ॥ १,१४.८ देवयज्ञं हि तं विद्यात्स्थालीपाकादिकान्क्रतून् ॥ १,१४.९ चौलादिकं तथा ज्ञेयं लौकिकाग्नौ प्रतिष्ठितम् ॥ १,१४.९ ब्रह्मयज्ञं द्विजः कुर्याद्देवानां तृप्तये सकृत् ॥ १,१४.१० ब्रह्मयज्ञ इति प्रोक्तो वेदस्याऽध्ययनं भवेत् ॥ १,१४.१० नित्यानंतरमासोयं ततस्तु न विधीयते ॥ १,१४.११ अनग्नौ देवयजनं शृणुत श्रद्धयादरात् ॥ १,१४.११ आदिसृष्टौ महादेवः सर्वज्ञः करुणाकरः ॥ १,१४.१२ सर्वलोकोपकारार्थं वारान्कल्पितवान्प्रभुः ॥ १,१४.१२ संसारवैद्यः सर्वज्ञः सर्वभेषजभेषजम् ॥ १,१४.१३ आदावारोग्यदं वारं स्ववारं कृतवान्प्रभुः ॥ १,१४.१३ संपत्कारं स्वमायाया वरं च कृतवांस्ततः ॥ १,१४.१४ जनने दुर्गतिक्रांते कुमारस्य ततः परम् ॥ १,१४.१४ आलस्यदुरितक्रांत्यै वारं कल्पितवान्प्रभुः ॥ १,१४.१५ रक्षकस्य तथा विष्णोर्लोकानां हितकाम्यया ॥ १,१४.१५ पुष्ट्यर्थं चैव रक्षार्थं वारं कल्पितवान्प्रभुः ॥ १,१४.१६ आयुष्करं ततो वारमायुषां कर्तुरेव हि ॥ १,१४.१६ त्रैलोक्यसृष्टिकर्तुर्हि ब्रह्मणः परमेष्ठिनः ॥ १,१४.१७ जगदायुष्यसिद्ध्यर्थं वारं कल्पितवान्प्रभुः ॥ १,१४.१७ आदौ त्रैलोक्यवृद्ध्यर्थं पुण्यपापे प्रकल्पिते ॥ १,१४.१८ तयोः कर्त्रोस्ततो वारमिंद्रस्य च यमस्य च ॥ १,१४.१८ भोगप्रदं मृत्युहरं लोकानां च प्रकल्पितम् ॥ १,१४.१९ आदित्यादीन्स्वस्वरूपान्सुखदुःखस्य सूचकान् ॥ १,१४.१९ वारेशान्कल्पयित्वादौ ज्योतिश्चक्रेप्रतिष्ठितान् ॥ १,१४.२० स्वस्ववारे तु तेषां तु पूजा स्वस्वफलप्रदा ॥ १,१४.२० आरोग्यं संपदश्चैव व्याधीनां शांतिरेव च ॥ १,१४.२१ पुष्टिरायुस्तथा भोगो मृतेर्हानिर्यथाक्रमम् ॥ १,१४.२१ वारक्रमफलं प्राहुर्देवप्रीतिपुरःसरम् ॥ १,१४.२२ अन्येषामपि देवानां पूजायाः फलदः शिवः ॥ १,१४.२२ देवानां प्रीतये पूजापञ्चधैव प्रकल्पिता ॥ १,१४.२३ तत्तन्मंत्रजपो होमो दानं चैव तपस्तथा ॥ १,१४.२३ स्थंडिले प्रतिमायां च ह्यग्नौ ब्राह्मणविग्रहे ॥ १,१४.२४ समाराधनमित्येवं षोडशैरुपचारकैः ॥ १,१४.२४ उत्तरोत्तरवैशिष्ट्यात्पूर्वाभावे तथोत्तरम् ॥ १,१४.२५ नेत्रयोः शिरसो रोगे तथा कुष्ठस्य शांतये ॥ १,१४.२५ आदित्यं पूजयित्वा तु ब्राह्मणान्भोजयेत्ततः ॥ १,१४.२६ दिनं मासं तथा वर्षं वर्षत्रयमथवापि वा ॥ १,१४.२६ प्रारब्धं प्रबलं चेत्स्यान्नश्येद्रोगजरादिकम् ॥ १,१४.२७ जपाद्यमिष्टदेवस्य वारादीनां फलं विदुः ॥ १,१४.२७ पापशांतिर्विशेषेण ह्यादिवारे निवेदयेत् ॥ १,१४.२८ आदित्यस्यैव देवानां ब्राह्मणानां विशिष्टदम् ॥ १,१४.२८ सोमवारे च लक्ष्म्यादीन्संपदर्थं यजेद्बुधः ॥ १,१४.२९ आज्यान्नेन तथा विप्रान्सपत्नीकांश्च भोजयेत् ॥ १,१४.२९ काल्यादीन्भौम वारे तु यजेद्रोगप्रशांतये ॥ १,१४.३० माषमुद्गाढकान्नेन ब्रह्मणांश्चैव भोजयेत् ॥ १,१४.३० सौम्यवारे तथा विष्णुं दध्यन्नेन यजेद्बुधः ॥ १,१४.३१ पुत्रमित्रकलत्रादिपुष्टिर्भवति सर्वदा ॥ १,१४.३१ आयुष्कामो गुरोर्वारे देवानां पुष्टिसिद्धये ॥ १,१४.३२ उपवीतेन वस्त्रेण क्षीराज्येन यजेद्बुधः ॥ १,१४.३२ भोगार्थं भृगवारे तु यजेद्देवान्समाहितः ॥ १,१४.३३ षड्रसोपेतमन्नं च दद्याद्ब्राह्मणतृप्तये ॥ १,१४.३३ स्त्रीणां च तृप्तये तद्वद्देयं वस्त्रादिकं शुभम् ॥ १,१४.३४ अपमृत्युहरे मंदे रुद्राद्रींश्च यजेद्बुधः ॥ १,१४.३४ तिलहोमेन दानेन तिलान्नेन च भोजयेत् ॥ १,१४.३५ इत्थं यजेच्च विबुधानारोग्यादिफलं लभेत् ॥ १,१४.३५ देवानां नित्ययजने विशेषयजनेपि च ॥ १,१४.३६ स्नाने दाने जपे होमे ब्राह्मणानां च तर्पणे ॥ १,१४.३६ तिथिनक्षत्रयोगे च तत्तद्देवप्रपूजने ॥ १,१४.३७ आदिवारादिवारेषु सर्वज्ञो जगदीश्वरः ॥ १,१४.३७ ततद्रूपेण सर्वेषामारोग्यादिफलप्रदः ॥ १,१४.३८ देशकालानुसारेण तथा पात्रानुसारतः ॥ १,१४.३८ द्रव्यश्रद्धानुसारेण तथा लोकानुसारतः ॥ १,१४.३९ तारतम्यक्रमाद्देवस्त्वारोग्यादीन्प्रयच्छति ॥ १,१४.३९ शुभादावशुभांते च जन्मर्क्षेषु गृहे गृही ॥ १,१४.४० आरोग्यादिसमृद्ध्यर्थमादित्यादीन्ग्रहान्यजेत् ॥ १,१४.४० तस्माद्वै देवयजनं सर्वाभीष्टफलप्रदम् ॥ १,१४.४१ समंत्रकं ब्राह्मणानामन्येषां चैव तांत्रिकम् ॥ १,१४.४१ यथाशक्त्यानुरूपेण कर्तव्यं सर्वदा नरैः ॥ १,१४.४२ सप्तस्वपि च वारेषु नरैः शुभफलेप्सुभिः ॥ १,१४.४२ दरिद्रस्तपसा देवान्यजेदाढ्यो धनेन हि ॥ १,१४.४३ पुनश्चैवंविधं धर्मं कुरुते श्रद्धया सह ॥ १,१४.४३ पुनश्च भोगान्विविधान्भुक्त्वा भूमौ प्रजायते ॥ १,१४.४४ छायां जलाशयं ब्रह्मप्रतिष्ठां धर्मसंचयम् ॥ १,१४.४४ सर्वं च वित्तवान्कुर्यात्सदा भोगप्रसिद्धये ॥ १,१४.४५ कालाच्च पुण्यपाकेन ज्ञानसिद्धिः प्रजायते ॥ १,१४.४५ य इमं शृणुते ऽध्यायं पठते वा नरो द्विजाः ॥ १,१४.४६ श्रवणस्योपकर्ता च देवयज्ञफलं लभेत् ॥ १,१४.४६ इति श्रीशिवमहापुराणे विद्येश्वरसंहितायां चतुर्दशो ऽध्यायः अध्याय १५ ऋषय ऊचुः देशादीन्क्रमशो ब्रूहि सूत सर्वार्थवित्तम् ॥ १,१५.१ सूत उवाच शुद्धं गृहं समफलं देवयज्ञादिकर्मसु ॥ १,१५.१ ततो दशगुणं गोष्ठं जलतीरं ततो दश ॥ १,१५.२ ततो दशगुणं बिल्वतुलस्यश्वत्थमूलकम् ॥ १,१५.२ ततो देवालयं विद्यात्तीर्थतीरं ततो दश ॥ १,१५.३ ततो दशगुणं नद्यास्तीर्थनद्यास्ततो दश ॥ १,१५.३ सप्तगंगानदीतीरं तस्या दशगुणं भवेत् ॥ १,१५.४ गंगा गोदावरी चैव कावेरी ताम्रपर्णिका ॥ १,१५.४ सिंधुश्च सरयू रेवा सप्तगंगाः प्रकीर्तिताः ॥ १,१५.५ ततो ऽब्धितीरं दश च पर्वताग्रे ततो दश ॥ १,१५.५ सर्वस्मादधिकं ज्ञेयं यत्र वा रोचते मनः ॥ १,१५.६ कृते पूर्णफलं ज्ञेयं यज्ञदानादिकं तथा ॥ १,१५.६ त्रेतायुगे त्रिपादं च द्वापरे ऽर्धं सदा स्मृतम् ॥ १,१५.७ कलौ पादं तु विज्ञेयं तत्पादोनं ततोर्धके ॥ १,१५.७ शुद्धात्मनः शुद्धदिनं पुण्यं समफलं विदुः ॥ १,१५.८ तस्माद्दशगुणं ज्ञेयं रविसंक्रमणे बुधाः ॥ १,१५.८ विषुवे तद्दशगुणमयने तद्दश स्मृतम् ॥ १,१५.९ तद्दश मृगसंक्रांतौ तच्चंद्रग्रहणे दश ॥ १,१५.९ ततश्च सूर्यग्रहणे पूर्णकालोत्तमे विदुः ॥ १,१५.१० जगद्रूपस्य सूर्यस्य विषयोगाच्च रोगदम् ॥ १,१५.१० अतस्तद्विषशांत्यर्थं स्नानदानजपां चरेत् ॥ १,१५.११ विषशांत्यर्थकालत्वात्स कालः पुण्यदः स्मृतः ॥ १,१५.११ जन्मर्क्षे च व्रतांते च सूर्यरागोपमं विदुः ॥ १,१५.१२ महतां संगकालश्च कोट्यर्कग्रहणं विदुः ॥ १,१५.१२ तपोनिष्ठा ज्ञाननिष्ठा योगिनो यतयस्तथा ॥ १,१५.१३ पूजायाः पात्रमेते हि पापसंक्षयकारणम् ॥ १,१५.१३ चतुर्विंशतिलक्षं वा गायत्र्या जपसंयुतः ॥ १,१५.१४ ब्राह्मणस्तु भवेत्पात्रं संपूर्णफलभोगदम् ॥ १,१५.१४ पतनात्त्रायत इति पात्रं शास्त्रे प्रयुज्यते ॥ १,१५.१५ दातुश्च पातकात्त्राणात्पात्रमित्यभिधीयते ॥ १,१५.१५ गायकं त्रायते पाताद्गायत्रीत्युच्यते हि सा ॥ १,१५.१६ यथाऽर्थहिनो लोके ऽस्मिन्परस्यार्थं न यच्छति ॥ १,१५.१६ अर्थवानिह यो लोके परस्यार्थं प्रयच्छति ॥ १,१५.१७ स्वयं शुद्धो हि पूतात्मा नरान्सत्रातुमर्हति ॥ १,१५.१७ गायत्रीजपशुद्धो हि शुद्धब्राह्मण उच्यते ॥ १,१५.१८ तस्माद्दाने जपे होमे पूजायां सर्वकर्मणि ॥ १,१५.१८ दानं कर्तुं तथा त्रातुं पात्रं तु ब्राह्मणोर्हति ॥ १,१५.१९ अन्नस्य क्षुधितं पात्रं नारीनरमयात्मकम् ॥ १,१५.१९ ब्राह्मणं श्रेष्ठमाहूय यत्काले सुसमाहितम् ॥ १,१५.२० तदर्थं शब्दमर्थं वा सद्बोधकमभीष्टदम् ॥ १,१५.२० इच्छावतः प्रदानं च संपूर्णफलदं विदुः ॥ १,१५.२१ यत्प्रश्नानंतरं दत्तं तदर्थफलदं विदुः ॥ १,१५.२१ यत्सेवकाय दत्तं स्यात्तत्पादफलदं विदुः ॥ १,१५.२२ जातिमात्रस्य विप्रस्य दीनवृत्तेर्द्विजर्षभाः ॥ १,१५.२२ दत्तमर्थं हि भोगाय भूर्लोकेदशवार्षिकम् ॥ १,१५.२३ वेदयुक्तस्य विप्रस्य स्वर्गे हि दशवार्षिकम् ॥ १,१५.२३ गायत्रीजपयुक्तस्य सत्ये हि दशवार्षिकम् ॥ १,१५.२४ विष्णुभक्तस्य विप्रस्य दत्तं वैकुंठदं विदुः ॥ १,१५.२४ शिवभक्तस्य विप्रस्य दत्तं कैलासदं विदुः ॥ १,१५.२५ तत्तल्लोकोपभोगार्थं सर्वेषां दानमिष्यते ॥ १,१५.२५ दशांगमन्नं विप्रस्य भानुवारे ददन्नरः ॥ १,१५.२६ परजन्मनि चारोग्यं दशवर्षं समश्नुते ॥ १,१५.२६ बहुमानमथाह्वानमभ्यंगं पादसेवनम् ॥ १,१५.२७ वासो गंधाद्यर्चनं च घृतापूपरसोत्तरम् ॥ १,१५.२७ षड्रसं व्यंजनं चैव तांबूलं दक्षिणोत्तरम् ॥ १,१५.२८ नमश्चानुगमश्चैव स्वन्नदानं दशांगकम् ॥ १,१५.२८ दशांगमन्नं विप्रेभ्यो दशभ्यो वै ददन्नरः ॥ १,१५.२९ अर्कवारे तथाऽऽरोग्यं शतवर्षं समश्नुते ॥ १,१५.२९ सोमवारादिवारेषु तत्तद्वारगुणं फलम् ॥ १,१५.३० अन्नदानस्य विज्ञेयं भूर्लोके परजन्मनि ॥ १,१५.३० सप्तस्वपि च वारेषु दशभ्यश्च दशांगकम् ॥ १,१५.३१ अन्नं दत्त्वा शतं वर्षमारोग्यादिकमश्नुते ॥ १,१५.३१ एवं शतेभ्यो विप्रेभ्यो भानुवारे ददन्नरः ॥ १,१५.३२ सहस्रवर्षमारोग्यं शर्वलोके समश्नुते ॥ १,१५.३२ सहस्रेभ्यस्तथा दत्त्वा ऽयुतवर्षं समश्नुते ॥ १,१५.३३ एवं सोमादिवारेषु विज्ञेयं हि विपश्चिता ॥ १,१५.३३ भानुवारे सहस्राणां गायत्रीपूतचेतसाम् ॥ १,१५.३४ अन्नं दत्त्वा सत्यलोके ह्यारोग्यादि समश्नुते ॥ १,१५.३४ अयुतानां तथा दत्त्वा विष्णुलोके समश्नुते ॥ १,१५.३५ अन्नं दत्त्वा तु लक्षाणां रुद्रलोके समश्नुते ॥ १,१५.३५ बालानां ब्रह्मबुद्ध्या हि देयं विद्यार्थिभिर्नरैः ॥ १,१५.३६ यूनां च विष्णुबुद्ध्या हि पुत्रकामार्थिभिर्नरैः ॥ १,१५.३६ वृद्धानां रुद्रबुद्ध्या हि देयं ज्ञानार्थिभिर्नरैः ॥ १,१५.३७ बालस्त्रीभारतीबुद्ध्या बुद्धिकामैर्नरोत्तमैः ॥ १,१५.३७ लक्ष्मीबुद्ध्या युवस्त्रीषु भोगकामैर्नरोत्तमैः ॥ १,१५.३८ वृद्धासु पार्वतीबुद्ध्या देयमात्मार्थिभिर्जनैः ॥ १,१५.३८ शिलवृत्त्योञ्छवृत्त्या च गुरुदक्षिणयार्जितम् ॥ १,१५.३९ शुद्धद्रव्यमिति प्राहुस्तत्पूर्णफलदं विदुः ॥ १,१५.३९ शुक्लप्रतिग्रहाद्दत्तं मध्यमं द्रव्यमुच्यते ॥ १,१५.४० कृषिवाणिज्यकोपेतमधमं द्रव्यमुच्यते ॥ १,१५.४० क्षत्रियाणां विशां चैव शौर्यवाणिज्यकार्जितम् ॥ १,१५.४१ उत्तमं द्रव्यमित्याहुः शूद्राणां भृतकार्जितम् ॥ १,१५.४१ स्त्रीणां धर्मार्थिनां द्रव्यं पैतृकं भर्तृकं तथा ॥ १,१५.४२ गवादीनां द्वादशीनां चैत्रादिषु यथाक्रमम् ॥ १,१५.४२ संभूय वा पुण्यकाले दद्यादिष्टसमृद्धये ॥ १,१५.४३ गोभूतिलहिरण्याज्यवासोधान्यगुडानि च ॥ १,१५.४३ रौप्यं लवणकूष्मांडे कन्याद्वादशकं तथा ॥ १,१५.४४ गोदानाद्दत्तगव्येन गोमयेनोपकारिणा ॥ १,१५.४४ धनधान्याद्याश्रितानां दुरितानां निवारणम् ॥ १,१५.४५ जलस्नेहाद्याश्रितानां दुरितानां तु गोजलैः ॥ १,१५.४५ कायिकादित्राणां तु क्षीरदध्याज्यकैस्तथा ॥ १,१५.४६ तथा तेषां च पुष्टिश्च विज्ञेया हि विपश्चिता ॥ १,१५.४६ भूदानं तु प्रतिष्ठार्थमिह चाऽमुत्र च द्विजाः ॥ १,१५.४७ तिलदानं बलार्थं हि सदा मृत्युजयं विदुः ॥ १,१५.४७ हिरण्यं जाठराग्नेस्तु वृद्धिदं वीर्यदं तथा ॥ १,१५.४८ आज्यं पुष्टिकरं विद्याद्वस्त्रमायुष्करं विदुः ॥ १,१५.४८ धान्यमन्नं समृद्ध्यर्थं मधुराहारदं गुडम् ॥ १,१५.४९ रौप्यं रेतोभिवृद्ध्यर्थं षड्रसार्थं तु लावणम् ॥ १,१५.४९ सर्वं सर्वसमृद्ध्यर्थं कूष्मांडं पुष्टिदं विदुः ॥ १,१५.५० प्राप्तिदं सर्वभोगानामिह चाऽमुत्र च द्विजाः ॥ १,१५.५० यावज्जीवनमुक्तं हि कन्यादानं तु भोगदम् ॥ १,१५.५१ पनसाम्रकपित्थानां वृक्षाणां फलमेव च ॥ १,१५.५१ कदल्याद्यौषधीनां च फलं गुल्मोद्भवं तथा ॥ १,१५.५२ माषादीनां च मुद्गानां फलं शाकादिकं तथा ॥ १,१५.५२ मरीचिसर्षपाद्यानां शाकोपकरणं तथा ॥ १,१५.५३ यदृतौ यत्फलं सिद्धं तद्देयं हि विपश्चिता ॥ १,१५.५३ श्रोत्रादींद्रियतृप्तिश्च सदा देया विपश्चिता ॥ १,१५.५४ शब्दादिदशभोगार्थं दिगादीनां च तुष्टिदा ॥ १,१५.५४ वेदशास्त्रं समादाय बुद्ध्वा गुरुमुखात्स्वयम् ॥ १,१५.५५ कर्मणां फलमस्तीति बुद्धिरास्तिक्यमुच्यते ॥ १,१५.५५ बंधुराजभयाद्बुद्धिश्रद्धा सा च कनीयसी ॥ १,१५.५६ सर्वाभावे दरिद्रस्तु वाचा वा कर्मणा यजेत् ॥ १,१५.५६ वाचिकं यजनं विद्यान्मंत्रस्तोत्रजपादिकम् ॥ १,१५.५७ तीर्थयात्राव्रताद्यं हि कायिकं यजनं विदुः ॥ १,१५.५७ येन केनाप्युपायेन ह्यल्पं वा यदि वा बहु ॥ १,१५.५८ देवतार्पणबुद्ध्या च कृतं भोगाय कल्पते ॥ १,१५.५८ तपश्चर्या च दानं च कर्तव्यमुभयं सदा ॥ १,१५.५९ प्रतिश्रयं प्रदातव्यं स्ववर्णगुणशोभितम् ॥ १,१५.५९ देवानां तृप्तये ऽत्यर्थं सर्वभोगप्रदं बुधैः ॥ १,१५.६० इहाऽमुत्रोत्तमं जन्मसदाभोगं लभेद्बुधः ॥ १,१५.६० ईश्वरार्पणबुद्ध्या हि कृत्वा मोक्षफलं लभेत् ॥ १,१५.६० य इमं पठते ऽध्यायं यः शृणोति सदा नरः ॥ १,१५.६१ तस्य वैधर्मबुद्धिश्च ज्ञानसिद्धिः प्रजायते ॥ १,१५.६१ इति श्रीशिवमहापुराणे विद्येश्वरसंहितायां पञ्चदशोध्यायः अध्याय १६ ऋषय ऊचुः पार्थिवप्रतिमापूजाविधानं ब्रूहि सत्तम ॥ १,१६.१ येन पूजाविधानेन सर्वाभिष्टमवाप्यते ॥ १,१६.१ सूत उवाच सुसाधुपृष्टं युष्माभिः सदा सर्वार्थदायकम् ॥ १,१६.२ सद्यो दुःखस्य शमनं शृणुत प्रब्रवीमि वः ॥ १,१६.२ अपमृत्युहरं कालमृत्योश्चापि विनाशनम् ॥ १,१६.३ सद्यः कलत्रपुत्रादिधनधान्यप्रदं द्विजाः ॥ १,१६.३ अन्नादिभोज्यं वस्त्रादिसर्वमुत्पद्यते यतः ॥ १,१६.४ ततो मृदादिप्रतिमापूजाभीष्टप्रदा भुवि ॥ १,१६.४ पुरुषाणां च नारीणामधिकारोत्र निश्चितम् ॥ १,१६.५ नद्यां तडागे कूपे वा जलांतर्मृदमाहरेत् ॥ १,१६.५ संशोध्य गंधचूर्णेन पेषयित्वा सुमंडपे ॥ १,१६.६ हस्तेन प्रतिमां कुर्यात्क्षीरेण च सुसंस्कृताम् ॥ १,१६.६ अंगप्रत्यंगकोपेतामायुधैश्च समन्विताम् ॥ १,१६.७ पद्मासनस्थितां कृत्वा पूजयेदादरेण हि ॥ १,१६.७ विघ्नेशादित्यविष्णूनामंबायाश्च शिवस्य च ॥ १,१६.८ शिवस्यशिवलिंगं च सर्वदा पूजयेद्द्विज ॥ १,१६.८ षोडशैरुपचारैश्च कुर्यात्तत्फलसिद्धये ॥ १,१६.९ पुष्पेण प्रोक्षणं कुर्यादभिषेकं समंत्रकम् ॥ १,१६.९ शाल्यन्नेनैव नैवेद्यं सर्वं कुडवमानतः ॥ १,१६.१० गृहे तु कुडवं ज्ञेयं मानुषे प्रस्थमिष्यते ॥ १,१६.१० दैवे प्रस्थत्रयं योग्यं स्वयंभोः प्रस्थपञ्चकम् ॥ १,१६.११ एवं पूर्णफलं विद्यादधिकं वै द्वयं त्रयम् ॥ १,१६.११ सहस्रपूजया सत्यं सत्यलोकं लभेद्द्विजः ॥ १,१६.१२ द्वादशांगुलमायामं द्विगुणं च ततो ऽधिकम् ॥ १,१६.१२ प्रमाणमंगुलस्यैकं तदूर्ध्वं पञ्चकत्रयम् ॥ १,१६.१३ अयोदारुकृतं पात्रं शिवमित्युच्यते बुधैः ॥ १,१६.१३ तदष्टभागः प्रस्थः स्यात्तच्चतुःकुडवं मतम् ॥ १,१६.१४ दशप्रस्थं शतप्रस्थं सहस्रप्रस्थमेव च ॥ १,१६.१४ जलतैलादिगंधानां यथायोग्यं च मानतः ॥ १,१६.१५ मानुषार्षस्वयंभूनां महापूजेति कथ्यते ॥ १,१६.१५ अभिषेकादात्मशुद्धिर्गंधात्पुण्यमवाप्यते ॥ १,१६.१६ आयुस्तृप्तिश्च नैवेद्याद्धूपादर्थमवाप्यते ॥ १,१६.१६ दीपाज्ज्ञानमवाप्नोति तांबूलाद्भोगमाप्नुयात् ॥ १,१६.१७ तस्मात्स्नानादिकं षट्कं प्रयत्नेन प्रसाधयेत् ॥ १,१६.१७ नमस्कारो जपश्चैव सर्वाभीष्टप्रदावुभौ ॥ १,१६.१८ पूजान्ते च सदाकार्यौ भोगमोक्षार्थिभिर्नरैः ॥ १,१६.१८ संपूज्य मनसा पूर्वं कुर्यात्तत्तत्सदा नरः ॥ १,१६.१९ देवानां पूजया चैव तत्तल्लोकमवाप्नुयात् ॥ १,१६.१९ तदवांतरलोके च यथेष्टं भोग्यमाप्यते ॥ १,१६.२० तद्विशेषान्प्रवक्ष्यामि शृणुत श्रद्धया द्विजाः ॥ १,१६.२० विघ्नेशपूजया सम्यग्भूर्लोके ऽभीष्टमाप्नुयात् ॥ १,१६.२१ शुक्रवारे चतुर्थ्यां च सिते श्रावणभाद्रके ॥ १,१६.२१ भिषगृक्षे धनुर्मासे विघ्नेशं विधिवद्यजेत् ॥ १,१६.२२ शतं पूजासहस्रं वा तत्संख्याकदिनैर्व्रजेत् ॥ १,१६.२२ देवाग्निश्रद्धया नित्यं पुत्रदं चेष्टदं नृणाम् ॥ १,१६.२३ सर्वपापप्रशमनं तत्तद्दुरितनाशनम् ॥ १,१६.२३ वारपूजांशिवादीनामात्मशुद्धिप्रदां विदुः ॥ १,१६.२४ तीथिनक्षत्रयोगानामाधारं सार्वकामिकम् ॥ १,१६.२४ तथा बृद्धिक्षयाभावात्पूर्णब्रह्मात्मकं विदुः ॥ १,१६.२५ उदयादुदयं वारो ब्रह्मप्रभृति कर्मणाम् ॥ १,१६.२५ तिथ्यादौ देवपूजा हि पूर्णभोगप्रदा नृणाम् ॥ १,१६.२६ पूर्वभागः पित्ःणां तु निशि युक्तः प्रशस्यते ॥ १,१६.२६ परभागस्तु देवानां दिवा युक्तः प्रशास्यते ॥ १,१६.२७ उदयव्यापिनी ग्राह्या मध्याह्ने यदि सा तिथिः ॥ १,१६.२७ देवकार्ये तथा ग्राह्यास्थिति ऋक्षादिकाः शुभाः ॥ १,१६.२८ सम्यग्विचार्य वारादीन्कुर्यात्पूजाजपादिकम् ॥ १,१६.२८ पूजार्यते ह्यनेनेति वेदेष्वर्थस्य योजना ॥ १,१६.२९ पूर्णभोगफलसिद्धिश्च जायते तेन कर्मणा ॥ १,१६.२९ मनोभावांस्तथा ज्ञानमिष्टभोगार्थयोजनात् ॥ १,१६.३० पूजाशब्दर्थ एवं हि विश्रुतो लोकवेदयोः ॥ १,१६.३० नित्यनैमित्तिकं कालात्सद्यः काम्ये स्वनुष्ठिते ॥ १,१६.३१ नित्यं मासं च पक्षं च वर्षं चैव यथाक्रमम् ॥ १,१६.३१ तत्तत्कर्मफलप्राप्तिस्तादृक्पापक्षयः क्रमात् ॥ १,१६.३२ महागणपतेः पूजा चतुर्थ्यां कृष्णपक्षके ॥ १,१६.३२ पक्षपापक्षयकरी पक्षभोगफलप्रदा ॥ १,१६.३३ चैत्रे चतुर्थ्यां पूजा च कृता मासफलप्रदा ॥ १,१६.३३ वर्षभोगप्रदा ज्ञेया कृता वै सिंहभाद्रके ॥ १,१६.३४ श्रवण्यादित्यवारे च सप्तम्यां हस्तभे दिने ॥ १,१६.३४ माघशुक्ले च सप्तम्यामादित्ययजनं चरेत् ॥ १,१६.३५ ज्येष्ठभाद्रकसौम्ये च द्वादश्यां श्रवर्णक्षके ॥ १,१६.३५ द्वादश्यां विष्णुयजनमिष्टंसंपत्करं विदुः ॥ १,१६.३६ श्रावणे विष्णुयजनमिष्टारोग्यप्रदं भवेत् ॥ १,१६.३६ गवादीन्द्वादशानर्थान्सांगान्दत्वा तु यत्फलम् ॥ १,१६.३७ तत्फलं समवाप्नोति द्वादश्यां विष्णुतर्पणात् ॥ १,१६.३७ द्वादश्यां द्वादशान्विप्रान्विष्णोर्द्वादशनामतः ॥ १,१६.३८ षोडशैरुपचारैश्च यजेत्तत्प्रीतिमाप्नुयात् ॥ १,१६.३८ एवं च सर्वदेवानां तत्तद्द्वादशनामकैः ॥ १,१६.३९ द्वादशब्रह्मयजनं तत्तत्प्रीतिकरं भवेत् ॥ १,१६.३९ कर्कटे सोमवारे च नवम्यां मृगशीर्षके ॥ १,१६.४० अंबां यजेद्भूतिकामः सर्वभोगफलप्रदाम् ॥ १,१६.४० आश्वयुक्छुक्लनवमी सर्वाभीष्टफलप्रदा ॥ १,१६.४१ आदिवारे चतुर्दश्यां कृष्णपक्षे विशेषतः ॥ १,१६.४१ आर्द्रायां च महार्द्रायां शिवपूजा विशिष्यते ॥ १,१६.४२ माघकृष्णचतुर्दश्यां सर्वाभीष्टफलप्रदा ॥ १,१६.४२ आयुष्करी मृत्युहरा सर्वसिद्धिकरी नृणाम् ॥ १,१६.४३ ज्येष्ठमासे महार्द्रायां चतुर्दशीदिनेपि च ॥ १,१६.४३ मार्गशीर्षार्द्रकायां वा षोडशैरुपचारकैः ॥ १,१६.४४ तत्तन्मूर्तिशिवं पूज्य तस्य वै पाददर्शनम् ॥ १,१६.४४ शिवस्य यजनं ज्ञेयं भोगमोक्षप्रदं नृणाम् ॥ १,१६.४५ वारादिदेवयजनं कार्तिके हि विशिष्यते ॥ १,१६.४५ कार्तिके मासि संप्राप्ते सर्वान्देवान्यजेद्बुधः ॥ १,१६.४६ दानेन तपसा होमैर्जपेन नियमेन च ॥ १,१६.४६ षोडशैरुपचारैश्च प्रतिमा विप्रमंत्रकैः ॥ १,१६.४७ ब्राह्मणानां भोजनेन निष्कामार्तिकरो भवेत् ॥ १,१६.४७ कार्तिके देवयजनं सर्वभोगप्रदं भवेत् ॥ १,१६.४८ व्याधीनां हरणं चैव भवेद्भूतग्रहक्षयः ॥ १,१६.४८ कार्तिकादित्यवारेषु नृणामादित्यपूजनात् ॥ १,१६.४९ तैलकार्पासदानात्तु भवेत्कुष्ठादिसंक्षयः ॥ १,१६.४९ हरीतकीमरीचीनां वस्त्रक्षीरादिदानतः ॥ १,१६.५० ब्रह्मप्रतिष्ठया चैव क्षयरोगक्षयो भवेत् ॥ १,१६.५० दीपसर्षपदानाच्च अपस्मारक्षयो भवेत् ॥ १,१६.५१ कृत्तिकासोमवारेषु शिवस्य यजनं नृणाम् ॥ १,१६.५१ महादारिद्र्यशमनं सर्वसंपत्करं भवेत् ॥ १,१६.५२ गृहक्षेत्रादिदानाच्च गृहोपकरणादिना ॥ १,१६.५२ कृत्तिकाभौमवारेषु स्कंदस्य यजनान्नृणाम् ॥ १,१६.५३ दीपघंटादिदानाद्वै वाक्सिद्धिरचिराद्भवेत् ॥ १,१६.५३ कृत्तिकासौम्यवारेषु विष्णोर्वै यजनं नृणाम् ॥ १,१६.५४ दध्योदनस्य दानं च सत्संतानकरं भवेत् ॥ १,१६.५४ कृतिकागुरुवारेषु ब्रह्मणो यजनाद्धनैः ॥ १,१६.५५ मधुस्वर्णाज्यदानेन भोगवृद्धिर्भवेन्नृणाम् ॥ १,१६.५५ कृत्तिकाशुक्रवारेषु गजकोमेडयाजनात्१ ॥ १,१६.५६ गंधपुष्पान्नदानेन भोग्यवृद्धिर्भवेन्नृणाम् ॥ १,१६.५६ वंध्या सुपुत्रं लभते स्वर्णरौप्यादिदानतः ॥ १,१६.५७ कृत्तिकाशनिवारेषु दिक्पालानां च वंदनम् ॥ १,१६.५७ दिग्गजानां च नागानां सेतुपानां च पूजनम् ॥ १,१६.५८ गजकोमेडो गजवक्त्रः त्र्यंबकस्य च रुद्रस्य विष्णोः पापहरस्य च ॥ १,१६.५८ ज्ञानदं ब्रह्मणश्चैव धन्वंतर्यश्विनोस्तथा ॥ १,१६.५९ रोगापमृत्युहरणं तत्कालव्याधिशांतिदम् ॥ १,१६.५९ लवणायसतैलानां माषादीनां च दानतः ॥ १,१६.६० त्रिकटुफलगंधानां जलादीनां च दानतः ॥ १,१६.६० द्रवाणां कठिनानां च प्रस्थेन पलमानतः ॥ १,१६.६१ स्वर्गप्राप्तिर्धनुर्मासे ह्युषःकाले च पूजनम् ॥ १,१६.६१ शिवादीनां च सर्वेषां क्रमाद्वै सर्वसिद्धये ॥ १,१६.६२ शाल्यन्नस्य हविष्यस्य नैवेद्यं शस्तमुच्यते ॥ १,१६.६२ विविधान्नस्य नैवेद्यं धनुर्मासे विशिष्यते ॥ १,१६.६३ मार्गशीर्षे ऽन्नदस्यैव सर्वमिष्टफलं भवेत् ॥ १,१६.६३ पापक्षयं चेष्टसिद्धिं चारोग्यं धर्ममेव च ॥ १,१६.६४ सम्यग्वेदपरिज्ञानं सदनुष्ठानमेव च ॥ १,१६.६४ इहामुत्र महाभोगानंते योगं च शाश्वतम् ॥ १,१६.६५ वेदांतज्ञानसिद्धिं च मार्गशीर्षान्नदो लभेत् ॥ १,१६.६५ मार्गशीर्षे ह्युषःकाले दिनत्रयमथापि वा ॥ १,१६.६६ यजेद्देवान्भोगकामो नाधनुर्मासिको भवेत् ॥ १,१६.६६ यावत्संगवकालं तु धनुर्मासो विधीयते ॥ १,१६.६७ धनुर्मासे निराहारो मासमात्रं जितेंद्रियः ॥ १,१६.६७ आमध्याह्नजपेद्विप्रो गायत्रीं वेदमातरम् ॥ १,१६.६८ पञ्चाक्षरादिकान्मंत्रान्पश्चादासप्तिकं जपेत् ॥ १,१६.६८ ज्ञानं लब्ध्वा च देहांते विप्रो मुक्तिमवाप्नुयात् ॥ १,१६.६९ अन्येषां नरनारीणां त्रिःस्नानेन जपेन च ॥ १,१६.६९ सदा पञ्चाक्षरस्यैव विशुद्धं ज्ञानमाप्यते ॥ १,१६.७० इष्टमन्त्रान्सदाजप्त्वा महापापक्षयं लभेत् ॥ १,१६.७० धनुर्मासे विशेषेण महानैवेद्यमाचरेत् ॥ १,१६.७१ शालितंडुलभारेण मरीचप्रस्थकेन च ॥ १,१६.७१ गणनाद्द्वादशं सर्वं मध्वाज्यकुडवेन हि ॥ १,१६.७२ द्रोणयुक्तेन मुद्गेन द्वादशव्यंजनेन च ॥ १,१६.७२ घृतपक्वैरपूपैश्च मोदकैः शालिकादिभिः ॥ १,१६.७३ द्वादशैश्च दधिक्षीरैर्द्वादशप्रस्थकेन च ॥ १,१६.७३ नारिकेलफलादीनां तथा गणनया सह ॥ १,१६.७४ द्वादशक्रमुकैर्युक्तं षट्त्रिंशत्पत्रकैर्युतम् ॥ १,१६.७४ कर्पूरखुरचूर्णेन पञ्चसौगंधिकैर्युतम् ॥ १,१६.७५ तांबूलयुक्तं तु यदा महानैवेद्यलक्षणम् ॥ १,१६.७५ महानैवेद्यमेतद्वै देवतार्पणपूर्वकम् ॥ १,१६.७६ वर्णानुक्रमपूर्वेण तद्भक्तेभ्यः प्रदापयेत् ॥ १,१६.७६ एवं चौदननैवेद्याद्भूमौ राष्ट्रपतिर्भवेत् ॥ १,१६.७७ महानैवेद्यदानेन नरः स्वर्गमवाप्नुयात् ॥ १,१६.७७ महानैवेद्यदानेन सहस्रेण द्विजर्षभाः ॥ १,१६.७८ सत्यलोके च तल्लोके पूर्णमायुरवाप्नुयात् ॥ १,१६.७८ सहस्राणां च त्रिंशत्या महानैवेद्यदानतः ॥ १,१६.७९ तदूर्ध्वलोकमाप्यैव न पुनर्जन्मभाग्भवेत् ॥ १,१६.७९ सहस्राणां च षट्त्रिंशज्जन्म नैवेद्यमीरितम् ॥ १,१६.८० तावन्नैवेद्यदानं तु महापूर्णं तदुच्यते ॥ १,१६.८० महापूर्णस्य नैवेद्यं जन्मनैवेद्यमिष्यते ॥ १,१६.८१ जन्मनैवेद्यदानेन पुनर्जन्म न विद्यते ॥ १,१६.८१ ऊर्जे मासि दिने पुण्ये जन्म नैवेद्यमाचरेत् ॥ १,१६.८२ संक्रांतिपातजन्मर्क्षपौर्णमास्यादिसंयुते ॥ १,१६.८२ अब्दजन्मदिने कुर्याज्जन्मनैवेद्यमुत्तमम् ॥ १,१६.८३ मासांतरेषु जन्मर्क्षपूर्णयोगदिनेपि च ॥ १,१६.८३ मेलनेचशनेर्वापितावत्साहस्रमाचरेत् ॥ १,१६.८४ जन्मनैवेद्यदानेनजन्मार्पणफलंलभेत् ॥ १,१६.८४ जन्मार्पणाच्छिवः प्रीतिःस्वसायुज्यंददातिहि ॥ १,१६.८५ इदंतज्जन्मनैवेद्यंशिवस्यैवप्रदापयेत् ॥ १,१६.८५ योनिलिंगस्वरूपेणशिवोजन्मानिरूपकः ॥ १,१६.८६ तस्माज्जन्मनिवृत्त्यर्थंजन्म पूजा शिवस्य हि ॥ १,१६.८६ बिंदुनादात्मकंसर्वंजगत्स्थावरजंगमम् ॥ १,१६.८७ बिंदुःशक्तिःशिवोनादःशिवशक्त्यात्मकंजगत् ॥ १,१६.८७ नादाधारमिदंबिंदुर्बिंद्वाधारमिदं जगत् ॥ १,१६.८८ जगदाधारभूतौहिबिंदुनादौ व्यवस्थितौ ॥ १,१६.८८ विन्दुनादयुतंसर्वंसकलीकरणंभवेत् ॥ १,१६.८९ सकलीकरणाज्जन्मजगत्प्राप्नोत्यसंशयः ॥ १,१६.८९ बिंदुनादात्मकंलिंगंजगत्कारणमुच्यते ॥ १,१६.९० बिंदुर्देर्वीशिवोनादःशिवलिंगंतुकथ्यते ॥ १,१६.९० तस्माज्जन्मनिवृत्त्यर्थंशिवलिंगंप्रपूजयेत् ॥ १,१६.९१ मातादेवीबिंदुरूपानादरूपः शिवः पिता ॥ १,१६.९१ पूजिताभ्यांपितृभ्यांतुपरमानंद एव हि ॥ १,१६.९२ परमानंदलाभार्थंशिवलिंगंप्रपूजयेत् ॥ १,१६.९२ सादेवीजगतांमातासशिवोजगतः पिता ॥ १,१६.९३ पित्रोः शुश्रूषकेनित्यंकृपाधिक्यं हि वर्धते ॥ १,१६.९३ कृपयांतर्गतैश्वर्यंपूजकस्यददातिहि ॥ १,१६.९४ तस्मादंतर्गतानंदलाभार्थंमुनिपुंगवाः ॥ १,१६.९४ पितृमातृस्वरूपेणशिवलिंगंप्रपूजयेत् ॥ १,१६.९५ भर्गः पुरुषरूपो हि भर्गाप्रकृतिरुच्यते ॥ १,१६.९५ अव्यक्तांतरधिष्ठानं गर्भः पुरुष उच्यते ॥ १,१६.९६ सुव्यक्तांतरधिष्ठानंगर्भः प्रकृतिरुच्यते ॥ १,१६.९६ पुरुषत्वादिगर्भोहिगर्भवाञ्जनकोयतः ॥ १,१६.९७ पुरुषात्प्रकृतोयुक्तंप्रथमंजन्मकथ्यते ॥ १,१६.९७ प्रकृतेर्व्यक्ततांयातंद्वितीयं जन्म कथ्यते ॥ १,१६.९८ जन्मजंतुर्मृत्युजन्म पुरुषात्प्रतिपद्यते ॥ १,१६.९८ अन्यतोभाव्यते ऽवश्यंमाययाजन्मकथ्यते ॥ १,१६.९९ जीर्यतेजन्मकालाद्यत्तस्माज्जीव इति स्मृतः ॥ १,१६.९९ जन्मतेतन्यते पाशैर्जीवशब्दार्थ एव हि ॥ १,१६.१०० जन्मपाशनिवृत्त्यर्थंजन्मलिंगंप्रपूजयेत् ॥ १,१६.१०० भं वृद्धिं गच्छतीत्यर्थाद्भगःप्रकृतिरुच्यते ॥ १,१६.१०१ प्राकृतैः शब्दमात्राद्यैः प्राकृतेंद्रियभोजनात् ॥ १,१६.१०१ भगस्येदं भोगमिति शब्दार्थो मुख्यतः श्रुतः ॥ १,१६.१०२ मुख्यो भगस्तु प्रकृतिर्भगवाञ्छिव उच्यते ॥ १,१६.१०२ भगवान्भोगदाताहिना ऽन्योभोगप्रदायकः ॥ १,१६.१०३ भगस्वामीचभगवान्भर्ग इत्युच्यतेबुधैः ॥ १,१६.१०३ भगेनसहितंलिंगं भगंलिंगेनसंयुतम् ॥ १,१६.१०४ इहामुत्रचभोगार्थंनित्यभोगार्थमेव च ॥ १,१६.१०४ भगवंतंमहादेवं शिवलिंगंप्रपूजयेत् ॥ १,१६.१०५ लोकप्रसवितासूर्यस्तच्चिह्नं प्रसवाद्भवेत् ॥ १,१६.१०५ लिंगेप्रसूतिकर्तारंलिंगिनंपुरुषोयजेत् ॥ १,१६. १०६ लिंगार्थगमकंचिह्नंलिंगमित्यभिधीयते ॥ १,१६.१०६ लिंगमर्थंहिपुरुषं शिवंगमयतीत्यदः ॥ १,१६.१०७ शिवशक्त्योश्चचिह्नस्यमेलनंलिंगमुच्यते ॥ १,१६.१०७ स्वचिह्नपूजनात्प्रीतश्चिह्नकार्यं न वीयते ॥ १,१६.१०८ चिह्नकार्यंतुजन्मादिजन्माद्यंविनिवर्तते ॥ १,१६.१०८ प्राकृतैः पुरुषैश्चापिबाह्याभ्यंतरसंभवैः ॥ १,१६.१०९ षोडशैरुपचारैश्च शिवलिंगंप्रपूजयेत् ॥ १,१६.१०९ एवमादित्यवारेहिपूजाजन्मनिवर्तिका ॥ १,१६.११० आदिवारेमहालिंगंप्रणवेनैवपूजयेत् ॥ १,१६.११० आदिवारे पञ्चगव्यैरभिषेको विशिष्यते ॥ १,१६.१११ गोमयंगोजलंक्षीरंदध्याज्यं पञ्चगव्यकम् ॥ १,१६.१११ क्षीराद्यंचपृथक्च्चैवमधुनाचेक्षुसारकैः ॥ १,१६.११२ गव्यक्षीरान्ननैवेद्यंप्रणवेनैवकारयेत् ॥ १,१६.११२ प्रणवंध्वनिलिंगंतुनादलिंगंस्वयंभुवः ॥ १,१६.११३ बिंदुलिंगं तु यंत्रंस्यान्मकारंतुप्रतिष्ठितम् ॥ १,१६.११३ उकारंचरलिंगंस्यादकारंगुरुविग्रहम् ॥ १,१६.११४ षड्लिंगपूजयानित्यंजीवन्मुक्तोनसंशयः ॥ १,१६.११४ शिवस्यभक्त्यापूजा हि जन्ममुक्तिकरीनृणाम् ॥ १,१६.११५ रुद्राक्षधारणात्पादमर्धं वैभूतिधारणात् ॥ १,१६.११५ त्रिपादं मंत्रजाप्याच्च पूजया पूर्णभक्तिमान् ॥ १,१६.११६ शिवलिंगं च भक्तं च पूज्य मोक्षं लभेन्नरः ॥ १,१६.११६ य इमं पठते ऽध्यायं शृणुयाद्वा समाहितः ॥ १,१६.११७ तस्यैव शिवभक्तिश्च वर्धतेसुदृढा द्विजाः ॥ १,१६.११७ इति श्रीशिवमहापुराणे विद्येश्वरसंहितायां षोडशो ऽध्यायः अध्याय १७ ऋषय ऊचुः प्रणवस्यचमाहात्म्यंषड्लिंगस्यमहामुने ॥ १,१७.१ शिवभक्तस्यपूजांचक्रमशोब्रूहिनःप्रभो ॥ १,१७.१ सूत उवाच तपोधनैर्भवद्भिश्च सम्यक्प्रश्नस्त्वयं कृतः ॥ १,१७.२ अस्योत्तरंमहादेवोजानातिस्मनचापरः ॥ १,१७.२ अथापिवक्ष्येतमहंशिवस्यकृपयैवहि ॥ १,१७.३ शिवो ऽस्माकंचयुष्माकंरक्षांगृह्णातुभूरिशः ॥ १,१७.३ प्रोहिप्रकृतिजातस्यसंसारस्यमहोदधेः ॥ १,१७.४ नवं नावांतरमिति प्रणवं वै विदुर्बुधाः ॥ १,१७.४ प्रःप्रपञ्चोननास्तिवो युष्माकंप्रणवंविदुः ॥ १,१७.५ प्रकर्षेणनयेद्यस्मान्मोक्षंवः प्रणवं विदुः ॥ १,१७.५ स्वजापकानांयोगिनांस्वमंत्रपूजकस्यच ॥ १,१७.६ सर्वकर्मक्षयंकृत्वादिव्यज्ञानंतुनूतनम् ॥ १,१७.६ तमेव मायारहितं नूतनं परिचक्षते ॥ १,१७.७ प्रकर्षेण महात्मानं नवं शुद्धस्वरूपकम् ॥ १,१७.७ नूतनं वै करोतीति प्रणवं तं विदुर्बुधाः ॥ १,१७.८ प्रणवंद्विविधंप्रोक्तंसूक्ष्मस्थूलविभेदतः ॥ १,१७.८ सूक्ष्ममेकाक्षरं विद्यात्स्थूलं पञ्चाक्षरं विदुः ॥ १,१७.९ सूक्ष्ममव्यक्तपञ्चार्णं सुव्यक्तार्णं तथेतरत् ॥ १,१७.९ जीवन्मुक्तस्य सूक्ष्मं हि सर्वसारं हि तस्यहि ॥ १,१७.१० मंत्रेणार्थानुसंधानं स्वदेहविलयावधि ॥ १,१७.१० स्वदेहेगलितेपूर्णंशिवंप्राप्नोतिनिश्चयः ॥ १,१७.११ केवलंमंत्रजापीतुयोगंप्राप्नोतिनिश्चयः ॥ १,१७.११ षट्त्रिंशत्कोटिजापीतुनिश्चयंयोगमाप्नुयात् ॥ १,१७.१२ सूक्ष्मंचद्विविधंज्ञेयंह्रस्वदीर्घविभेदतः ॥ १,१७.१२ अकारश्च उकारश्चमकारश्चततःपरम् ॥ १,१७.१३ बिंदुनादयुतं तद्धि शब्दकालकलान्वितम् ॥ १,१७.१३ दीर्घप्रणवमेवंहियोगिनामेवहृद्गतम् ॥ १,१७.१४ मकारंतंत्रितत्त्वं हि ह्रस्वप्रणव उच्यते ॥ १,१७.१४ शिवःशक्तिस्तयोरैक्यंमकारंतुत्रिकात्मकम् ॥ १,१७.१५ ह्रस्वमेवंहिजाप्यंस्यात्सर्वपापक्षयैषिणाम् ॥ १,१७.१५ भूवायुकनकार्णोद्योःशब्दाद्याश्चतथादश ॥ १,१७.१६ आशान्वयेदशपुनः प्रवृत्ता इतिकथ्यते ॥ १,१७.१६ ह्रस्वमेवप्रवृत्तानांनिवृत्तानांतुदीर्घकम् ॥ १,१७.१७ व्याहृत्यादौचमंत्रादौकामंशब्दकलायुतम् ॥ १,१७.१७ वेदादौचप्रयोज्यंस्याद्वंदनेसंध्ययोरपि ॥ १,१७.१८ नवकौटिजपाञ्जप्त्वासंशुद्धःपुरुषोभवेत् ॥ १,१७.१८ पुनश्चनवकोट्यातुपृथिवीजयमाप्नुयात् ॥ १,१७.१९ पुनश्चनवकोट्यातुह्यपांजयमवाप्नुयात् ॥ १,१७.१९ पुनश्चनवकोट्यातुतेजसांजयमाप्नुयात् ॥ १,१७.२० पुनश्चनवकोट्या तु वायोर्जयमवाप्नुयात् ॥ १,१७.२० आकाशजयमाप्नोति नवकोटिजपेन वै ॥ १,१७.२० गंधादीनांक्रमेणैवनवकोटिजपेणवै ॥ १,१७.२१ अहंकारस्य च पुनर्नव कोटिजपेन वै ॥ १,१७.२१ सहस्रमंत्रजप्तेन नित्यशुद्धो भवेत्पुमान् ॥ १,१७.२२ ततः परंस्वसिद्ध्यर्थंजपोभवतिहिद्विजाः ॥ १,१७.२२ एवमष्टोत्तरशतकोटिजप्तेनवैपुनः ॥ १,१७.२३ प्रणवेनप्रबुद्धस्तुशुद्धयोगमवाप्नुयात् ॥ १,१७.२३ शुद्धयोगेनसंयुक्तोजीवन्मुक्तोनसंशयः ॥ १,१७.२४ सदाजपन्सदाध्यायञ्छिवं प्रणवरूपिणम् ॥ १,१७.२४ समाधिस्थोमहायोगीशिव एव नसंशयः ॥ १,१७.२५ ऋषिच्छंदोदेवतादिन्यस्यदेहेपुनर्जपेत् ॥ १,१७.२५ प्रणवं मातृकायुक्तंदेहेत्यस्य ऋषिर्भवेत् ॥ १,१७.२६ दशमातृषडध्वादि सर्वंन्यासफलं लभेत् ॥ १,१७.२६ प्रवृत्तानां चमिश्राणांस्थूलप्रणवमिष्यते ॥ १,१७.२७ क्रियातपोजपैर्युक्तास्त्रिविधाः शिवयोगिनः ॥ १,१७.२७ धनादिविभवैश्चैवकराद्यंगैर्नमादिभिः ॥ १,१७.२८ क्रियया पूजयायुक्तःक्रियायोगीति कथ्यते ॥ १,१७.२८ पूजायुक्तश्चमितभुग्बाह्यंद्रियजयान्वितः ॥ १,१७.२९ परद्रोहादिरहितस्तपोयोगीति कथ्यते ॥ १,१७.२९ एतैर्युक्तःसदाक्रुद्धःसर्वकामादिवर्जितः ॥ १,१७.३० सदाजपपरःशांतोजपयोगीति तंविदुः ॥ १,१७.३० उपचारैः षोडशभिः पूजया शिवयोगिनाम् ॥ १,१७.३१ सालोक्यादिक्रमेणैवशुद्धोमुक्तिंलभेन्नरः ॥ १,१७.३१ जपयोगमथोवक्ष्येगदतः शृणुतद्विजाः ॥ १,१७.३२ तपःकर्तुर्जपः प्रोक्तोयज्जमन्परिमार्जते ॥ १,१७.३२ शिवनामनमःपूर्वंचतुर्थ्यांपञ्चतत्त्वकम् ॥ १,१७.३३ स्थूलप्रणवरूपं हि शिवपञ्चाक्षरं द्विजाः ॥ १,१७.३३ पञ्चाक्षरजपेनैव सर्वसिद्धिं लभेन्नरः ॥ १,१७.३४ प्रणवेनादिसंयुक्तंसदापञ्चाक्षरंजपेत् ॥ १,१७.३४ गुरूपदेशंसंगम्यसुखवासेसुभूतले ॥ १,१७.३५ पूर्वपक्षेसमारभ्यकृष्णभूतावधिद्विजाः ॥ १,१७.३५ माघंभाद्रंविशिष्टंतुसर्वकालोत्तमोत्तमम् ॥ १,१७.३६ एकवारंमिताशीतुवाग्यतोनियतेंद्रियः ॥ १,१७.३६ स्वस्यराजपित्ःणांचशुश्रूषणंचनित्यशः ॥ १,१७.३७ सहस्रजपमात्रेणभवेच्छुद्धो ऽन्यथा ऋणी ॥ १,१७.३७ पञ्चाक्षरंपञ्चलक्षंजपेच्छिवमनुस्मरन् ॥ १,१७.३८ पद्मासनस्थंशिवदंगंगाचंद्रकलान्वितम् ॥ १,१७.३८ वामोरुस्थितशक्त्याचविराजंतंमहागणैः ॥ १,१७.३९ मृगटंकधरंदेवंवरदाभयपाणिकम् ॥ १,१७.३९ सदानुग्रहकर्तारं सदाशिवमनुस्मरन् ॥ १,१७.४० संपूज्यमनसा पूर्वंहृदिवासूर्यमंडले ॥ १,१७.४० जपेत्पञ्चाक्षरींविद्यांप्राङ्मुखः शुद्धकर्मकृत् ॥ १,१७.४१ प्रातःकृष्णचतुर्दश्यां नित्यकर्मसमाप्यच ॥ १,१७.४१ मनोरमेशुचौदेशेनियतः शुद्धमानसः ॥ १,१७.४२ पञ्चाक्षरस्यमंत्रस्य सहस्रंद्वादशंजपेत् ॥ १,१७.४२ वरयेच्चसपत्नीकाञ्छैवान्वैब्राह्मणोत्तमान् ॥ १,१७.४३ एकंगुरुवरंशिष्टंवरयेत्सांबमूर्तिकम् ॥ १,१७.४३ ईशानंचाथपुरुषमघोरंवाममेव च ॥ १,१७.४४ सद्योजातं चपञ्चैवशिवभक्तान्द्विजोत्तमान् ॥ १,१७.४४ पूजाद्रव्याणिसंपाद्यशिवपूजांसमारभेत् ॥ १,१७.४५ शिवपूजांचविधिवत्कृत्वाहोमंसमारभेत् ॥ १,१७.४५ मुखांतं च स्वसूत्रेणकृत्याहोमंसमारभेत् ॥ १,१७.४६ दशैकंवाशतैकंवासहस्रैकमथापिवा ॥ १,१७.४६ कापिलेनघृतेनैवजुहुयात्स्वयमेवहि ॥ १,१७.४७ कारयेच्छिवभक्तैर्वाप्यष्टोत्तरशतंबुधः ॥ १,१७.४७ होमान्ते दक्षिणादेयागुरोर्गोमिथुनं तथा ॥ १,१७.४८ ईशानादिस्वरूपांस्तान्गुरुंसांबंविभाव्य च ॥ १,१७.४८ तेषां पत्सिक्ततोयेनस्वशिरः स्नानमाचरेत् ॥ १,१७.४९ षट्त्रिंशत्कोटितीर्थेषुसद्यःस्नानफलंलभेत् ॥ १,१७.४९ दशांगमन्नंतेषां वैदद्याद्वैभक्तिपूर्वकम् ॥ १,१७.५० पराबुद्ध्यागुरोः पत्नीमीशानादिक्रमेण तु ॥ १,१७.५० परमान्नेनसंपूज्ययथाविभवविस्तरम् ॥ १,१७.५१ रुद्राक्षवस्त्रपूर्वंचवटकापूपकैर्युतम् ॥ १,१७.५१ बलिदानंततः कृत्वाभूरिभोजनमाचरेत् ॥ १,१७.५२ ततः संप्रार्थ्यदेवेशंजपंतावत्समापयेत् ॥ १,१७.५२ पुरश्चरणमेवंतुकृत्वामन्त्रीभवेन्नरः ॥ १,१७.५३ पुनश्चपञ्च लक्षेणसर्वपापक्षयोभवेत् ॥ १,१७.५३ अतलादिसमारभ्यसत्यलोकावधिक्रमात् ॥ १,१७.५४ पञ्चलक्षजपात्तत्तल्लोकैश्वर्यमवाप्नुयात् ॥ १,१७.५४ मध्येमृतश्चेद्भोगांतेभूमौतज्जापकोभवेत् ॥ १,१७.५५ पुनश्चपञ्चलक्षेणब्रह्मसामीप्यमाप्नुयात् ॥ १,१७.५५ पुनश्चपञ्चलक्षेण सारूप्यैश्वर्यमाप्नुयात् ॥ १,१७.५६ आहत्यशतलक्षेणसाक्षाद्ब्रह्मसमोभवेत् ॥ १,१७.५६ कार्यब्रह्मण एवं हि सायुज्यंप्रतिपद्य वै ॥ १,१७.५७ यथेष्टंभोगमाप्नोतितद्ब्रह्मप्रलयावधि ॥ १,१७.५७ पुनः कल्पांतरेवृत्ते ब्रह्मपुत्रः सजायते ॥ १,१७.५८ पुनश्चतपसादीप्तःक्रमान्मुक्तोभविष्यति ॥ १,१७.५८ पृथ्व्यादिकार्यभूतेभ्योलोकावैनिर्मिताःक्रमात् ॥ १,१७.५९ पातालादि च सत्यांतंब्रह्मलोकाश्चतुर्दश ॥ १,१७.५९ सत्यादूर्ध्वंक्षमांतंवैविष्णुलोकाश्चतुर्दश ॥ १,१७.६० क्षमलोकेकार्यविष्णुर्वैकुंठेवरपत्तने ॥ १,१७.६० कार्यलक्ष्म्यामहाभोगिरक्षांकृत्वा ऽधितिष्ठति ॥ १,१७.६१ तदूर्ध्वगाश्चाशुच्यंतालोकाष्टाविंशतिः स्थिताः ॥ १,१७.६१ शुचौलोकेतुकैलासेरुद्रोवैभूतहृत्स्थितः ॥ १,१७.६२ षडुत्तराश्चपञ्चाशदहिंसांतास्तदूर्ध्वगाः ॥ १,१७.६२ अहिंसालोकमास्थायज्ञानकैलासकेपुरे ॥ १,१७.६३ कार्येश्वरस्तिरोभावंसर्वान्कृत्वाधितिष्ठति ॥ १,१७.६३ तदंतेकालचक्रंहिकालातीतस्ततःपरम् ॥ १,१७.६४ शिवेनाधिष्ठितस्तत्रकालश्चक्रेश्वराह्वयः ॥ १,१७.६४ माहिषं धर्ममास्थायसर्वान्कालेन युंजति ॥ १,१७.६५ असत्यश्चाशुचिश्चैव हिंसाचैवाथनिर्घृणा ॥ १,१७.६५ असत्यादिचतुष्पादःसर्वांशः कामरूपधृक् ॥ १,१७.६६ नास्तिक्यलक्ष्मीर्दुःसंगोवेदबाह्यध्वनिःसदा ॥ १,१७.६६ क्रोधसंगःकृष्णवर्णोमहामहिषवेषवान् ॥ १,१७.६७ तावन्महेश्वरःप्रोक्तस्तिरोधास्तावदेव हि ॥ १,१७.६७ तदर्वाक्कर्मभोगो हि तदूर्ध्वंज्ञानभोगकम् ॥ १,१७.६८ तदर्वाक्कर्म मायाहिज्ञानमाया तदूर्ध्वकम् ॥ १,१७.६८ मा लक्ष्मीः कर्मभोगोवैयातिमायेतिकथ्यते ॥ १,१७.६९ मा लक्ष्मीर्ज्ञानभोगोवैयातिमायेतिकथ्यते ॥ १,१७.६९ तदूर्ध्वंनित्यभोगोहितदर्वाङ्नश्वरंविदुः ॥ १,१७.७० तदर्वाक्चतिरोधानंतदूर्ध्वंनतिरोधनम् ॥ १,१७.७० तदर्वाक्पाशबंधोहितदूर्ध्वंनहिबंधनम् ॥ १,१७.७१ तदर्वाक्परिवर्तंतेकाम्यकर्मानुसारिणः ॥ १,१७.७१ निष्कामकर्मभोगस्तुतदूर्ध्वंपरिकीर्तितः ॥ १,१७.७२ तदर्वाक्परिवर्तंतेबिंदुपूजापरायणाः ॥ १,१७.७२ तदूर्ध्वंहिव्रजंत्येवनिष्कामालिंगपूजकाः ॥ १,१७.७३ तदर्वाक्परिवर्तंतंशिवान्यसुरपूजकाः ॥ १,१७.७३ शिवैकनिरताये च तदूर्ध्वंसंप्रयांतिते ॥ १,१७.७४ तदर्वाग्जीवकोटिःस्यात्तदूर्ध्वंपरकोटिकाः ॥ १,१७.७४ सांसारिकास्तदर्वाक्च मुक्ताः खलु तदूर्ध्वगाः ॥ १,१७.७५ तदर्वाक्परिवर्तंते प्राकृतद्रव्यपूजकाः ॥ १,१७.७५ तदूर्ध्वंहिव्रजंत्येतेपौरुषद्रव्यपूजकाः ॥ १,१७.७६ तदर्वाक्छक्तिलिंगं तु शिवलिंगं तदूर्ध्वकम् ॥ १,१७.७६ तदर्वागावृतं लिंगं तदूर्ध्वं हि निरावृति ॥ १,१७.७७ तदर्वाक्कल्पितं लिंगं तदूर्ध्वं वै न कल्पितम् ॥ १,१७.७७ तदर्वाग्बाह्यलिंगं स्यादंतरंगं तदूर्ध्वकम् ॥ १,१७. ७८ तदर्वाक्छक्तिलोका हि शतं वै द्वादशाधिकम् ॥ १,१७.७८ तदर्वाग्बिंदुरूपं हि नादरूपं तदुत्तरम् ॥ १,१७.७९ तदर्वाक्कर्मलोकस्तु तदूर्ध्वं ज्ञानलोककः ॥ १,१७.७९ नमस्कारस्तदूर्ध्वंहिमदाहंकारनाशनः ॥ १,१७.८० जनिजंतिरोधानंनानिषिद्ध्यातते इति ॥ १,१७.८० ज्ञानशब्दार्थ एवं हि तिरोधाननिवारणात् ॥ १,१७.८१ तदर्वाक्परिवर्तंतेह्याधिभौतिकपूजकाः ॥ १,१७.८१ आध्यात्मिकार्चका एव तदूर्ध्वंसंप्रयांतिवै ॥ १,१७.८२ तावद्वैवेदिभागंतन्महालोकात्मलिंगके ॥ १,१७.८२ प्रकृत्याद्यष्टबंधोपिवेद्यंतेसंप्रतिष्ठतः ॥ १,१७.८३ एवमेतादृशंज्ञेयंसर्वंलौकिकवैदिकम् ॥ १,१७.८३ अधर्ममहिषारूढंकालचक्रंतरंतिते ॥ १,१७.८४ सत्यादिधर्मयुक्तायेशिवपूजापराश्चये ॥ १,१७.८४ तदूर्ध्वंवृषभोधर्मोब्रह्मचर्यस्वरूपधृक् ॥ १,१७.८५ सत्यादिपादयुक्तस्तुशिवलोकाग्रतःस्थितः ॥ १,१७.८५ क्षमाशृङ्गः शमश्रोत्रो वेदध्वनिविभूषितः ॥ १,१७.८६ आस्तिक्यचक्षुर्निश्वासगुरुबुद्धिमना वृषः ॥ १,१७.८६ क्रियादिवृषभा ज्ञेयाः कारणादिषु सर्वदा ॥ १,१७.८७ तं क्रियावृषभं धर्मं कालातीतोधितिष्ठति ॥ १,१७.८७ ब्रह्मविष्णुमहेशानां स्वस्वायुर्दिनमुच्यते ॥ १,१७.८८ तदूर्ध्वं न दिनं रात्रिर्न जन्ममरणादिकम् ॥ १,१७. ८८ पुनः कारणसत्यांताः कारणब्रह्मणस्तथा ॥ १,१७.८९ गंधादिभ्यस्तु भूतेभ्यस्तदूर्ध्वं निर्मिताः सदा ॥ १,१७.८९ सूक्ष्मगंधस्वरूपाहिस्थितालोकाश्चतुर्दश ॥ १,१७.९० पुनः कारणविष्णोर्वैस्थिता लोकाश्चतुर्दश ॥ १,१७.९० पुनःकारणरुद्रस्यलोकाष्टाविंशका मताः ॥ १,१७.९१ पुनश्चकारणेशस्यषट्पञ्चाशत्तदूर्ध्वगाः ॥ १,१७.९१ ततः परंब्रह्मचर्यलोकाख्यं शिवसंमतम् ॥ १,१७.९२ तत्रैवज्ञानकैलासेपञ्चावरणसंयुते ॥ १,१७.९२ पञ्चमंडलसंयुक्तंपञ्चब्रह्मकलान्वितम् ॥ १,१७.९३ आदिशक्तिसमायुक्तमादिलिंगंतुतत्रवै ॥ १,१७.९३ शिवालयमिदंप्रोक्तंशिवस्यपरमात्मनः ॥ १,१७.९४ परशक्त्यासमायुक्तस्तत्रैवपरमेश्वरः ॥ १,१७.९४ सृष्टिः स्थितिश्चसंहारस्तिरोभावोप्यनुग्रहः ॥ १,१७.९५ पञ्चकृत्यप्रवीणो ऽसौसच्चिदानंदविग्रहः ॥ १,१७.९५ ध्यानधर्मः सदायस्यसदानुग्रहतत्परः ॥ १,१७.९६ समाध्यासनमासीनः स्वात्मारामोविराजते ॥ १,१७.९६ तस्यसंदर्शनंसांध्यंकर्मध्यानादिभिः क्रमात् ॥ १,१७.९७ नित्यादिकर्मयजनाच्छिवकर्ममतिर्भवेत् ॥ १,१७.९७ क्रियादिशिवकर्मभ्यः शिवज्ञानंप्रसाधयेत् ॥ १,१७.९८ तद्दर्शनगताःसर्वेमुक्ता एव नसंशयः ॥ १,१७.९८ मुक्तिरात्मस्वरूपेणस्वात्मारामत्वमेवहि ॥ १,१७.९९ क्रियातपोजपज्ञानध्यानधर्मेषुसुस्थितः ॥ १,१७.९९ शिवस्यदर्शनंलब्धास्वात्मारामत्वमेवहि ॥ १,१७.१०० यथारविःस्वकिरणादशुद्धिमपनेष्यति ॥ १,१७.१०० कृपाविचक्षणःशंभुरज्ञानमपनेष्यति ॥ १,१७.१०१ अज्ञानविनिवृत्तौतुशिवज्ञानंप्रवर्तते ॥ १,१७.१०१ शिवज्ञानात्स्वस्वरूपमात्मारामत्वमेष्यति ॥ १,१७.१०२ आत्मारामत्वसंसिद्धौकृतकृत्योभवेन्नरः ॥ १,१७.१०२ पुनश्चशतलक्षेणब्रह्मणःपदमाप्नुयात् ॥ १,१७.१०३ पुनश्चशतलक्षेणविष्णोःपदमवाप्नुयात् ॥ १,१७.१०३ पुनश्चशतलक्षेणरुद्रस्यपदमाप्नुयात् ॥ १,१७.१०४ पुनश्च शतलक्षेण ऐश्वर्यं पदमाप्नुयात् ॥ १,१७.१०४ पुनश्चैवंविधेनैव जपेन सुसमाहितः ॥ १,१७.१०५ शिवलोकादिभूतं हि कालचक्रमवाप्नुयात् ॥ १,१७.१०५ कालचक्रंपञ्चचक्रमेकैकेनक्रमोत्तरे ॥ १,१७.१०६ सृष्टिमोहौब्रह्मचक्रंभोगमोहौतुवैष्णवम् ॥ १,१७.१०६ कोपमोहौरौद्रचक्रंभ्रमणंचैश्वरंविदुः ॥ १,१७.१०७ शिवचक्रंज्ञानमोहौपञ्चचक्रंविदुर्बुधाः ॥ १,१७.१०७ पुनश्चदशकोट्या हि कारणब्रह्मणः पदम् ॥ १,१७.१०८ पुनश्च दशकोट्याहितत्पदैश्वर्यमाप्नुयात् ॥ १,१७.१०८ एवं क्रमेण विष्ण्वादेः पदंलब्ध्वामहौजसः ॥ १,१७.१०९ क्रमेणतत्पदैश्वर्यं लब्ध्वाचैवमहात्मनः ॥ १,१७.१०९ शतकोटिमनुं जप्त्वा पञ्चोत्तरमतंद्रितः ॥ १,१७.११० शिवलोकमवाप्नोतिपञ्चमावरणाद्बहिः ॥ १,१७.११० राजसंमंडपंतत्रनंदीसंस्थानमुत्तमम् ॥ १,१७.१११ तपोरूपश्चवृषभस्तत्रैवपरिदृश्यते ॥ १,१७.१११ सद्योजातस्यतत्स्थानंपञ्चमावरणंपरम् ॥ १,१७.११२ वामदेवस्यचस्थानंचतुर्थावरणंपुनः ॥ १,१७.११२ अघोरनिलयंपश्चात्तृतीयावरणंपरम् ॥ १,१७.११३ पुरुषस्यैवसांबस्यद्वितीयावरणंशुभम् ॥ १,१७.११३ ईशानस्यपरस्यैवप्रथमावरणंततः ॥ १,१७.११४ ध्यानधर्मस्य च स्थानंपञ्चमंमंडपंततः ॥ १,१७.११४ बलिनाथस्यसंस्थानंतत्रपूर्णामृतप्रदम् ॥ १,१७.११५ चतुर्थंमंडपंपश्चाच्चंद्रशेखरमूर्तिमत् ॥ १,१७.११५ सोमस्कंदस्यचस्थानंतृतीयंमंडपंपरम् ॥ १,१७.११६ द्वितीयंमंडपंनृत्यमंडपंप्राहुरास्तिकाः ॥ १,१७.११६ प्रथमंमूलमायायाः स्थानंतत्रैवशोभनम् ॥ १,१७.११७ ततः परं गर्भगृहंलिंगस्थानं परं शुभम् ॥ १,१७.११७ नन्दिसंस्थानतः पश्चान्नविदुः शिववैभवम् ॥ १,१७.११८ नंदीश्वरोबहिस्तिष्ठन्पञ्चाक्षरमुपासते ॥ १,१७.११८ एवं गुरुक्रमाल्लब्धं नंदीशाच्च मयापुनः ॥ १,१७.११९ ततः परंस्वसंवेद्यं शिवे नैवानुभावितम् ॥ १,१७.११९ शिवस्यकृपयासाक्षाच्छिवलोकस्यवैभवम् ॥ १,१७.१२० विज्ञातुंशक्यते सर्वैर्नान्यथेत्याहुरास्तिकाः ॥ १,१७.१२० एवंक्रमेणमुक्ताःस्युर्ब्राह्मणावैजितेंद्रियः ॥ १,१७.१२१ अन्येषां च क्रमंवक्ष्ये गदतः शृणुतादरात् ॥ १,१७.१२१ गुरूपदेशाज्जाप्यंवैब्राह्मणानांनमो ऽंतकम् ॥ १,१७.१२२ पञ्चाक्षरं पञ्चलक्षमायुष्यंप्रजपेद्विधिः ॥ १,१७.१२२ स्त्रीत्वापनयनार्थंतुपञ्चलक्षंजपेत्पुनः ॥ १,१७.१२३ मंत्रेणपुरुषोभूत्वाक्रमान्मुक्तोभवेद्बुधः ॥ १,१७.१२३ क्षत्रियःपञ्चलक्षेणक्षत्त्रत्वमपनेष्यति ॥ १,१७.१२४ पुनश्चपञ्चलक्षेणक्षत्त्रियोब्राह्मणोभवेत् ॥ १,१७.१२४ मंत्रसिद्धिर्जपाच्चैवक्रमान्मुक्तोभवैन्नरः ॥ १,१७.१२५ वैश्यस्तुपञ्चलक्षेणवैश्यत्वमपनेष्यति ॥ १,१७.१२५ पुनश्चपञ्चलक्षेणमंत्रक्षत्त्रिय उच्यते ॥ १,१७.१२६ पुनश्चपञ्चलक्षेण क्षत्त्रत्वमपनेष्यति ॥ १,१७.१२६ पुनश्चपञ्चलक्षेणमंत्रब्राह्मण उच्यते ॥ १,१७.१२७ शूद्रश्चैवनमोंतेन पञ्चविंशतिलक्षतः ॥ १,१७.१२७ मंत्रविप्रत्वमापद्य पश्चाच्छुद्धो भवेद्द्विजः ॥ १,१७.१२८ नारीवाथ नरो वाथ ब्राह्मणो वान्य एव वा ॥ १,१७.१२८ नमोन्तं वा नमः पूर्वमातुरः सर्वमातुरः सर्वदा जपेत् ॥ १,१७.१२९ ततः स्त्रीणांतथैवोह्यगुरुर्निर्दर्शयेत्क्रमात् ॥ १,१७.१२९ साधकः पञ्चलक्षान्ते शिवप्रीत्यर्थमेव हि ॥ १,१७.१३० महाभिषेक नैवेद्यं कृत्वा भक्तांश्च पूजयेत् ॥ १,१७.१३० पूजया शिवभक्तस्य शिवः प्रीततरो भवेत् ॥ १,१७.१३१ शिवस्य शिवभक्तस्य भेदो नास्ति शिवो हि सः ॥ १,१७.१३१ शिवस्वरूपमंत्रस्यधारणाच्छिव एव हि ॥ १,१७.१३२ शिवभक्तशरीरे हि शिवेतत्परमोभवेत् ॥ १,१७.१३२ शिवभक्ताः क्रियाः सर्वा वेदसर्वक्रियांविदुः ॥ १,१७.१३३ यावद्यावच्छिवंमंत्रंयेनजप्तंभवेत्क्रमात् ॥ १,१७.१३३ तावद्वैशिवसान्निध्यं तस्मिन्देहे न संशयः ॥ १,१७.१३४ देवीलिंगंभवेद्रूपं शिवभक्तस्त्रियास्तथा ॥ १,१७.१३४ यावन्मंत्रंजपेद्देव्यास्तावत्सान्निध्यमस्ति हि ॥ १,१७.१३५ शिवंसंपूजयेद्धीमान्स्वयंवैशब्दरूपभाक् ॥ १,१७.१३५ स्वयंचैवशिवोभूत्वापरांशक्तिंप्रपूजयेत् ॥ १,१७.१३६ शक्तिंबेरंचलिंगं च ह्यालेख्यामाययायजेत् ॥ १,१७.१३६ शिवलिंगं शिवंमत्वास्वात्मानंशक्तिरूपकम् ॥ १,१७.१३७ शक्तिलिंगंचदेवींचमत्वास्वंशिवरूपकम् ॥ १,१७.१३७ शिवलिंगंनादरूपबिंदुरूपंतुशक्तिकम् ॥ १,१७.१३८ उपप्रधानभावेन अन्योन्यासक्तलिंगकम् ॥ १,१७.१३८ पूजयेच्च शिवंशक्तिसशिवोमूलभावनात् ॥ १,१७.१३९ शिवभक्ताञ्छिवमत्ररूपकाञ्छिवरूपकान् ॥ १,१७.१३९ षोडशैरुपचारैश्चपूजयेदिष्टमाप्नुयात् ॥ १,१७.१४० येनशुश्रूषणाद्यैश्च शिवभक्तस्य लिंगिनः ॥ १,१७.१४० आनंदंजनयेद्विद्वाञ्छिवःप्रीततरो भवेत् ॥ १,१७.१४१ शिवभक्तान्सपत्नीकान्पत्न्यासहसदैवतत् ॥ १,१७.१४१ पूजयेद्भोजनाद्यैश्चपञ्चवादशवाशतम् ॥ १,१७.१४२ धनेदेहेचमंत्रेचभावनायामवंचकः ॥ १,१७.१४२ शिवशक्तिस्वरूपेणनपुनर्जायते भुवि ॥ १,१७.१४३ नाभेरधो ब्रह्मभागमाकंठंविष्णुभागकम् ॥ १,१७.१४३ मुखंलिंगमितिप्रोक्तंशिवभक्तशरीरकम् ॥ १,१७.१४४ मृतान्दाहादियुक्तान्वादाहादिरहितान्मृतान् ॥ १,१७.१४४ उद्दिश्यपूजयेदादिपितरंशिवमेवहि ॥ १,१७.१४५ पूजांकृत्वादिमातुश्चशिवभक्तांश्च पूजयेत् ॥ १,१७.१४५ पितृलोकंसमासाद्यक्रमान्मुक्तोभवेन्मृतः ॥ १,१७.१४६ क्रियायुक्तदशभ्यश्चतपोयुक्तोविशिष्यते ॥ १,१७.१४६ तपोयुक्तशतेभ्यश्चजपयुक्तोविशिष्यते ॥ १,१७.१४७ जपयुक्तसहस्रेभ्यः शिवज्ञानी विशिष्यते ॥ १,१७.१४७ शिवज्ञानिषुलक्षेषु ध्यानयुक्तो विशिष्यते ॥ १,१७.१४८ ध्यानयुक्तेषु कोटिभ्यः समाधिस्थो विशिष्यते ॥ १,१७.१४८ उत्तरोत्तर वै शिष्ट्यात्पूजायामुत्तरोत्तरम् ॥ १,१७.१४९ फलंवैशिष्ट्यरूपञ्चदुर्विज्ञेयंमनीषिभिः ॥ १,१७.१४९ तस्माद्वैशिवभक्तस्यमहिमानंवेत्तिकोनरः ॥ १,१७.१५० शिवशक्त्योः पूजनं च शिवभक्तस्य पूजनम् ॥ १,१७.१५० कुरुतेयोनरोभक्त्यासशिवः शिवमेधते ॥ १,१७.१५१ य इमं पठते ऽध्यायमर्थवद्वेदसंमतम् ॥ १,१७.१५१ शिवज्ञानीभवेद्विप्रःशिवेन सहमोदते ॥ १,१७.१५२ श्रावयेच्छिवभक्तांश्चविशेषज्ञो मनीश्वराः ॥ १,१७.१५२ शिवप्रसादशिद्धिः स्याच्छिवस्यकृपया बुधाः ॥ १,१७.१५३ इति श्रीशिवमहापुराणे विद्येश्वरसंहितायां सप्तदशो ऽध्यायः अध्याय १८ ऋष्य ऊचुः बंधमोक्षस्वरूपं हि ब्रूहि सर्वार्थवित्तम ॥ १,१८.१ सूत उवाच बंधमोक्षंतथोपायंवक्ष्ये ऽहंशृणुतादरात् ॥ १,१८.१ प्रकृत्याद्यष्टबंधेनबद्धोजीवः स उच्यते ॥ १,१८.२ प्रकृत्याद्यष्टबंधेननिर्मुक्तोमुक्त उच्यते ॥ १,१८.२ प्रकृत्यादिवशीकारोमोक्ष इत्युच्यतेस्वतः ॥ १,१८.३ बद्धजीवस्तुनिर्मुक्तोमुक्तजीवः स कथ्यते ॥ १,१८.३ प्रकृत्यग्रेततोबुद्धिरहंकारोगुणात्मकः ॥ १,१८.४ पञ्चतन्मात्रमित्येतेप्रकृत्याद्यष्टकंविदुः ॥ १,१८.४ प्रकृट्याद्यष्टजोदेहोदेहजंकर्म उच्यते ॥ १,१८.५ पुनश्चकर्मजोदेहोजन्मकर्मपुनःपुनः ॥ १,१८.५ शरीरंत्रिविधंज्ञेयंस्थूलंसूक्ष्मंचकारणम् ॥ १,१८.६ स्थूलंव्यापारदंप्रोक्तंसूक्ष्ममिंद्रियभोगदम् ॥ १,१८.६ कारणंत्वात्मभोगार्थंजीवकर्मानुरूपतः ॥ १,१८.७ सुखं दुःखं पुण्यपापैः कर्मभिः फलमश्नुते ॥ १,१८.७ तस्माद्धिकर्मरज्ज्वा हि बद्धो जीवः पुनः पुनः ॥ १,१८.८ शरीरत्रयकर्मभ्यां चक्रवद्भ्राम्यते सदा ॥ १,१८.८ चक्रभ्रमनिवृत्यर्थं चक्रकर्तारमीडयेत् ॥ १,१८.९ प्रकृत्यादि महाचक्रं प्रकृतेः परतः शिवः ॥ १,१८.९ चक्रकर्तामहेशो हि प्रकृतेः परतोयतः ॥ १,१८.१० पिबतिवाथवमतिजीवन्बालोजलंयथा ॥ १,१८.१० शिवस्तथा प्रकृत्यादि वशीकृत्याधितिष्ठति ॥ १,१८.११ सर्वंवशीकृतंयस्मात्तस्माच्छिव इति स्मृतः ॥ १,१८.११ शिव एव हि सर्वज्ञः परिपूर्णश्च निःस्पृहः ॥ १,१८.११ सर्वज्ञतातृप्तिरनादिबोधः स्वतंत्रता नित्यमलुप्तशक्तिः ॥ १,१८.१२ अनंतशक्तिश्चमहेश्वरस्य यन्मानसैश्वर्यमवैति वेदः ॥ १,१८.१२ अतः शिवप्रसादेन प्रकृत्यादिवशंभवेत् ॥ १,१८.१३ शिवप्रसादलाभार्थं शिवमेवप्रपूजयतेत् ॥ १,१८.१३ निःस्पृहस्य च पूर्णस्यतस्य पूजाकथं भवेत् ॥ १,१८.१४ शिवोद्देशकृतं कर्म प्रसादजनकं भवेत् ॥ १,१८.१४ लिंगेबेरेभक्तजनेशिवमुद्दिश्यपूजयेत् ॥ १,१८.१५ कायेनमनसावाचाधनेनापिप्रपूजयेत् ॥ १,१८.१५ पुजया तु महेशो हि प्रकृतेः परमः शिवः ॥ १,१८.१६ प्रसादंकुरुतेसत्यंपूजकस्यविशेषतः ॥ १,१८.१६ शिवप्रसादात्कर्माद्यंक्रमेणस्ववशंभवेत् ॥ १,१८.१७ कर्मारभ्यप्रकृत्यंतंयदासर्वं वशंभवेत् ॥ १,१८.१७ तदामुक्त इतिप्रोक्तःस्वात्मारामोविराजते ॥ १,१८.१८ प्रसादात्परमेशस्यकर्म देहोयदावशः ॥ १,१८.१८ तदावैशिवलोकेतुवासःसालोक्यमुच्यते ॥ १,१८.१९ सामीप्यंयातिसांबस्यतन्मात्रेचवशंगते ॥ १,१८.१९ तदातुशिवसायुज्यमायुधाद्यैः क्रियादिभिः ॥ १,१८.२० महाप्रसादलाभेचबुद्धिश्चापिवशाभवेत् ॥ १,१८.२० बुद्धिस्तुकार्यंप्रकृतेस्तत्सृष्टिरितिकथ्यते ॥ १,१८.२१ पुनर्महाप्रसादेनप्रकृतिर्वशमेष्यति ॥ १,१८.२१ शिवस्यमानसैश्वर्यंतदा ऽयत्नंभविष्यति ॥ १,१८.२२ सार्वज्ञाद्यंशिवैश्वर्यंलब्ध्वास्वात्मनि राजते ॥ १,१८.२२ तत्सायुज्यमितिप्राहुर्वेदागमपरायणाः ॥ १,१८.२३ एवंक्रमेणमुक्तिःस्याल्लिंगादौपूजयास्वतः ॥ १,१८.२३ अतःशिवप्रसादार्थंक्रियाद्यैःपूजयेच्छिवम् ॥ १,१८.२४ शिवक्रिया शिवतपः शिवमंत्रजपः सदा ॥ १,१८.२४ शिवज्ञानंशिवध्यानमुत्तरोत्तरमभ्यसेत् ॥ १,१८.२५ आसुप्तेरामृतेःकालंनयेद्वैशिवचिंतया ॥ १,१८.२५ सद्यादिभिश्चकुसुमैरर्चयेच्छिंवमेष्यति ॥ १,१८. २६ ऋषय ऊचुः लिंगादौशिवपूजायाविधानंब्रूहिसर्वतः ॥ १,१८.२६ सूत उवाच लिंगानांचक्रमंवक्ष्येयथावच्छृणुत द्विजाः ॥ १,१८.२७ तदेवलिंगं प्रथमं प्रणवं सार्वकामिकम् ॥ १,१८.२७ सूक्ष्मप्रणवरूपंहिसूक्ष्मरूपंतुनिष्फलम् ॥ १,१८.२८ स्थूललिंगं हि सकलंतत्पञ्चाक्षरमुच्यते ॥ १,१८.२८ तयोः पूजातपः प्रोक्तंसाक्षान्मोक्षप्रदे उभे ॥ १,१८.२९ पौरुषप्रकृतिभूतानिलिंगानिसुबहूनिच ॥ १,१८.२९ तानि विस्तरतोवक्तुं शिवो वेत्तिनचापरः ॥ १,१८.३० भूविकाराणिलिंगानिज्ञातानिप्रब्रवीमिवः ॥ १,१८.३० स्वयंभूलिंगंप्रथमंबिंदुलिंगंद्वितीयकम् ॥ १,१८.३१ प्रतिष्ठितंचरंचैवगुरुलिंगंतु पञ्चमम् ॥ १,१८.३१ देवर्षितपसा तुष्टः सान्निध्यार्थंतुतत्रवै ॥ १,१८.३२ पृथिव्यन्तर्गतःशर्वोबीजं वै नादरूपतः ॥ १,१८.३२ स्थावरांकुरवद्भूमिमुद्भिद्य व्यक्त एव सः ॥ १,१८.३३ स्वयंभूतं जातमिति स्वयंभूरिति तं विदुः ॥ १,१८.३३ तल्लिंगपूजया ज्ञानं स्वयमेव प्रवर्धते ॥ १,१८.३४ सुवर्णरजतादौ वा पृथिव्यांस्थिंडिलेपिवा ॥ १,१८.३४ स्वहस्ताल्लिखितं लिंगं शुद्धप्रणवमंत्रकम् ॥ १,१८.३५ यंत्रलिंगं समालिख्य प्रतिष्ठावाहनं चरेत् ॥ १,१८.३५ बिंदुनादमयंलिंगंस्थावरंजंगमंचयत् ॥ १,१८.३६ भावनामयमेतद्धि शिवदृष्टं न संशयः ॥ १,१८.३६ यत्र विश्वस्यते शंभुस्तत्र तस्मै फलप्रदः ॥ १,१८.३७ स्वहस्ताल्लिख्यते यंत्रे स्थावरादावकृत्रिमे ॥ १,१८.३७ आवाह्यपूजयेच्छंभुंषोडशैरुपचारकैः ॥ १,१८.३८ स्वयमैस्वर्यमाप्नोतिज्ञानमभ्यासतोभवेत् ॥ १,१८.३८ देवैश्च ऋषिभिश्चापिस्वात्मसिद्ध्यर्थमेवहि ॥ १,१८.३९ समंत्रेणात्महस्तेनकृतंयच्छुद्धमंडले ॥ १,१८.३९ शुद्धभावनया चैवस्थापितं लिंगमुत्तमम् ॥ १,१८.४० तल्लिंगंपौरुषं प्राहुस्तत्प्रतिष्ठितमुच्यते ॥ १,१८.४० तल्लिंगपूजयानित्यंपौरुषैश्वर्यमाप्नुयात् ॥ १,१८.४१ महद्भिर्ब्राह्मणैश्चापिराजभिश्चमहाधनैः ॥ १,१८.४१ शिल्पिनाकल्पितंलिंगंमंत्रेणस्थापितंचयत् ॥ १,१८.४२ प्रतिष्ठितंप्राकृतंहिप्राकृतैश्वर्यभोगदम् ॥ १,१८.४२ यदूर्जितंचनित्यं च तद्धि पौरुषमुच्यते ॥ १,१८.४३ यद्दुर्बलमनित्यं च तद्धि प्राकृतमुच्यते ॥ १,१८.४३ लिंगंनाभिस्तथाजिह्वानासाग्रञ्चशिखाक्रमात् ॥ १,१८.४४ कट्यादिषुत्रिलोकेषु लिंगमाध्यात्मिकंचरम् ॥ १,१८.४४ पर्वतंपौरुषं प्रोक्तंभूतलं प्राकृतं विदुः ॥ १,१८.४५ वृक्षादि पौरुषं ज्ञेयं गुल्मादि प्राकृतं विदुः ॥ १,१८.४५ षाष्टिकं प्राकृतं ज्ञेयं शालिगोधूमपौरुषम् ॥ १,१८.४६ ऐश्वर्यं पौरुषं विद्यादणिमाद्यष्टसिद्धिदम् ॥ १,१८.४६ सुस्त्रीधनादिविषयं प्राकृतं प्राहुरास्तिकाः ॥ १,१८.४७ प्रथमं चरलिंगेषु रसलिंगं प्रकथ्यते ॥ १,१८.४७ रसलिंगंब्राह्मणानांसर्वाभीष्टप्रदंभवेत् ॥ १,१८.४८ बाणलिंगंक्षत्रियाणां महाराज्यप्रदंशुभम् ॥ १,१८.४८ स्वर्णलिंगं तु वैश्यानांमहाधनपतित्वदम् ॥ १,१८.४९ शिलालिंगंतुशूद्राणांमहाशुद्धिकरंशुभम् ॥ १,१८.४९ स्फाटिकंबाणलिंगं च सर्वेषांसर्वकामदम् ॥ १,१८.५० स्वीयाभावे ऽन्यदीयंतुपूजायांननिषिद्ध्यते ॥ १,१८.५० स्त्रीणांतुपार्थिवंलिंगंसभत्ःणांविशेषतः ॥ १,१८.५१ विधवानांप्रवृत्तानांस्फाटिकं परिकीर्तितम् ॥ १,१८.५१ विधवानां निवृत्तानां रसलिंगं विशिष्यते ॥ १,१८.५२ बाल्येवायौवनेवापिवार्धकेवापिसुव्रताः ॥ १,१८.५२ शुद्धस्फटिकलिंगंतुस्त्रीणांतत्सर्वभोगदम् ॥ १,१८.५३ प्रवृत्तानांपीठपूजासर्वाभीष्टप्रदा भुवि ॥ १,१८.५३ पात्रेणैवप्रवृत्तस्तुसर्वपूजांसमाचरेत् ॥ १,१८.५४ अभिषेकांतेनैवेद्यंशाल्यन्नेनसमाचरेत् ॥ १,१८.५४ पूजांतेस्थापयेल्लिंगंसंपुटेषुपृथग्गृहे ॥ १,१८.५५ करपूजानिवृत्तानांस्वभोज्यंतुनिवेदयेत् ॥ १,१८.५५ निवृत्तानांपरंसूक्ष्मलिंगमेवविशिष्यते ॥ १,१८.५६ विभूत्यभ्यर्चनं कुर्याद्विभूतिंचनिवेदयेत् ॥ १,१८.५६ पूजांकृत्वाथतल्लिंगंशिरसाधारयेत्सदा ॥ १,१८.५७ विभूतिस्त्रिविधाप्रोक्तालोकवेदशिवाग्निभिः ॥ १,१८.५७ लोकाग्निजमथो भस्मद्रव्यशुद्ध्यर्थमावहेत् ॥ १,१८.५८ मृद्दारुलोहरूपाणांधान्यानांचतथैवच ॥ १,१८.५८ तिलादीनां च द्रव्याणांवस्त्रादीनांतथैव च ॥ १,१८.५९ तथापर्युषितानांचभस्मनाशिद्धिरिष्यते ॥ १,१८.५९ श्वादिभिर्दूषितानांचभस्मनाशुद्धिरिष्यते ॥ १,१८.६० सजलंनिर्जलंभस्म यथायोग्यं तु योजयेत् ॥ १,१८.६० वेदाग्निजंतथाभस्मतत्कर्मांतेषु धारयेत् ॥ १,१८.६१ मंत्रेणक्रिययाजन्यंकर्माग्नौ भस्मरूपधृक् ॥ १,१८.६१ तद्भस्मधारणात्कर्म स्वात्मन्यारोपितं भवेत् ॥ १,१८.६२ अघोरेणात्मंत्रेण बिल्वकाष्ठंप्रदाहयेत् ॥ १,१८.६२ शिवाग्निरितिसंप्रोक्तस्तेनदग्धंशिवाग्निजम् ॥ १,१८.६३ कपिलागोमयं पूर्वं केवलं गव्यमेव वा ॥ १,१८.६३ शम्यस्वत्थपलाशान्वावटारम्वधबिल्वकान् ॥ १,१८.६४ शिवाग्निनादहेच्छुद्धंतद्वैभस्म शिवाग्निजम् ॥ १,१८.६४ दर्भाग्नौ वादहेत्काष्ठंशिवमंत्रंसमुच्चरन् ॥ १,१८.६५ सम्यक्संशोध्यवस्त्रेणनवकुंभेनिधापयेत् ॥ १,१८.६५ दीप्त्यर्थं तत्तु संग्राह्यं मन्यते पूज्यतेपि च ॥ १,१८.६६ भस्मशब्दार्थ एवं हि शिवःपूर्वंतथा ऽकरोत् ॥ १,१८.६६ यथास्वविषयेराजासारंगृह्णातियत्करम् ॥ १,१८.६७ यथामनुष्याःसस्यादीन्दग्ध्वासारंभजंतिवै ॥ १,१८.६७ यथाहिजाठराग्निश्चभक्ष्यादीन्विविधान्बहून् ॥ १,१८.६८ दग्ध्वासारतरंसारात्स्वदेहंपरिपुष्यति ॥ १,१८.६८ तथाप्रपञ्चकर्तापिसशिवःपरमेश्वरः ॥ १,१८.६९ स्वाधिष्ठेयप्रपञ्चस्यदग्ध्वासारंगृहीतवान् ॥ १,१८.६९ दग्ध्वाप्रपञ्चंतद्भस्मस्वात्मन्यारोपयच्छिवः ॥ १,१८.७० उद्धूलनेनव्याजेन जगत्सारं गृहीतवान् ॥ १,१८.७० स्वरत्नंस्थापयामास स्वकीयेहिशरीरके ॥ १,१८.७१ केशमाकाशसारेणवायुसारेणवैमुखम् ॥ १,१८.७१ हृदयंचाग्निसारेणत्वपांसारेणवैकटिम् ॥ १,१८.७२ जानुचावनिसारेणतद्वत्सर्वं तदंगकम् ॥ १,१८.७२ ब्रह्मविष्ण्वोश्चरुद्राणांसारंचैवत्रिपुंड्रकम् ॥ १,१८.७३ तथातिलकरूपेणललाटान्तेमहेश्वरः ॥ १,१८.७३ भवृद्ध्यासर्वमेतद्धिमन्यतेस्वयमैत्यसौ ॥ १,१८.७४ प्रपञ्चसारसर्वस्वमनेनैववशीकृतम् ॥ १,१८.७४ तस्मादस्यवशीकर्तानास्तीतिसशिवःस्मृतः ॥ १,१८.७५ यथासर्वमृगाणांचहिंसकोमृगहिंसकः ॥ १,१८.७५ अस्यहिंसामृगोनास्तिततस्मात्सिंह इतीरितः ॥ १,१८.७६ शं नित्यंसुखमानंदमिकारः पुरुषः स्मृतः ॥ १,१८.७६ वकारः शक्तिरमृतंमेलनंशिव उच्यते ॥ १,१८.७७ तस्मादेवंस्वमात्मानं शिवंकृत्वार्चयेच्छिवम् ॥ १,१८.७७ तस्मादुद्धूलनंपूर्वं त्रिपुंड्रंधारयेत्परम् ॥ १,१८.७८ पूजाकालेहिसजलंशुद्ध्यर्थंनिर्जलंभवेत् ॥ १,१८.७८ दिवावा यदिवारात्रौनारीवाथनरोपिवा ॥ १,१८.७९ पूजार्थंसजलंभस्मत्रिपुंड्रेणैवधारयेत् ॥ १,१८.७९ त्रिपुंड्रंसजलंभस्मधृत्वापूजांकरोतियः ॥ १,१८.८० शिवपूजांफलंसांगंतस्यैवहिसुनिश्चितम् ॥ १,१८.८० भस्मवैशिवमंत्रेणधृत्वाह्यत्याश्रमीभवेत् ॥ १,१८.८१ शिवाश्रमीतिसंप्रोक्तः शिवैकपरमोयतः ॥ १,१८.८१ शिवव्रतैकनिष्ठस्यनाशौचंनचसूतकम् ॥ १,१८.८२ ललाटे ऽग्रेसितंभस्मतिलकंधारयेन्मृदा ॥ १,१८.८२ स्वहस्ताद्गुरुहस्ताद्वाशिवभक्तस्यलक्षणम् ॥ १,१८.८३ गुणान्रुंध इति प्रोक्तोगुरुशब्दस्यविग्रहः ॥ १,१८.८३ सविकारान्राजसादीन्गुणान्रुंधेव्यपोहति ॥ १,१८.८४ गुणातीतः परशिवोगुरुरूपंसमाश्रितः ॥ १,१८.८४ गुणत्रयंव्यपोह्याग्रेशिवंबोधयतीतिसः ॥ १,१८.८५ विश्वस्तानांतुशिष्याणांगुरुरित्यभिधीयते ॥ १,१८.८५ तस्माद्गुरुशरीरंतुगुरुलिंगंभवेद्बुधः ॥ १,१८.८६ गुरुलिंगस्यपूजातुगुरुशुश्रूषणं भवेत् ॥ १,१८.८६ श्रुतंकरोतिशुश्रूषाकायेनमनसागिरा ॥ १,१८.८७ उक्तं यद्गुरुणापूर्वं शक्यंवा ऽशक्यमेववा ॥ १,१८.८७ करोत्येवहिपूतात्माप्राणैरपिधनैरपि ॥ १,१८.८८ तस्माद्वैशासनेयोग्यः शिष्य इत्यभिधीयते ॥ १,१८.८८ शरीराद्यर्थकंसर्वंगुरोर्दत्त्वासुशिष्यकः ॥ १,१८.८९ अग्रपाकंनिवेद्याग्रेभुंजीयाद्गुर्वनुज्ञया ॥ १,१८.८९ शिष्यःपुत्र इति प्रोक्तः सदाशिष्यत्वयोगतः ॥ १,१८.९० जिह्वालिंगान्मंत्रशुक्रंकर्णयोनौनिषिच्यवै ॥ १,१८.९० जातःपुत्रोमंत्रपुत्रःपितरंपूजयेद्गुरुम् ॥ १,१८.९१ निमज्जयतिपुत्रंवैसंसारेजनकःपिता ॥ १,१८.९१ संतारयतिसंसाराद्गुरुर्वैबोधकः पिता ॥ १,१८.९२ उभयोरंतरंज्ञात्वापितरंगुरुमर्चयेत् ॥ १,१८.९२ अंगशुश्रूषयाचापि धनाद्यैः स्वार्जितैर्गुरुम् ॥ १,१८.९३ पादादिकेशपर्यंतंलिंगान्यंगानियद्गुरोः ॥ १,१८.९३ धनरूपैः पादुकाद्यैः पादसंग्रणादिभिः ॥ १,१८.९४ स्नानाभिषेकनैवेद्यैर्भोजनैश्चप्रपूजयेत् ॥ १,१८.९४ गुरुपूजैवपूजास्याच्छिवस्यपरमात्मनः ॥ १,१८.९५ गुरुशेषंतुयत्सर्वमात्मशुद्धिकरंभवेत् ॥ १,१८.९५ गुरोःशेषःशिवोच्छिष्टंजलमन्नादिनिर्मितम् ॥ १,१८.९६ शिष्याणांशिवभक्तानांग्राह्यंभोज्यंभवेद्द्विजाः ॥ १,१८.९६ गुर्वनुज्ञाविरहितंचोरवत्सकलंभवेत् ॥ १,१८.९७ गुरोरपिविशेषज्ञंयत्नाद्गृह्णीतवैगुरुम् ॥ १,१८.९७ अज्ञानमोचनंसाध्यंविशेषज्ञोहिमोचकः ॥ १,१८.९८ आदौचविघ्नशमनंकर्तव्यंकर्मपूर्तये ॥ १,१८.९८ निर्विघ्नेनकृतंसांगंकर्मवैसफलं भवेत् ॥ १,१८.९९ तस्मात्सकलकर्मादौविघ्नेशं पूजयेद्बुधः ॥ १,१८.९९ सर्वबाधानिवृत्त्यर्थंसर्वान्देवान्यजेद्बुधः ॥ १,१८.१०० ज्वरादिग्रंथिरोगाश्चबाधाह्याध्यात्मिकामता ॥ १,१८.१०० पिशाचजंबुकादीनांवल्मीकाद्युद्भवेतथा ॥ १,१८.१०१ अकस्मादेवगोधादिजंतूनांपतनेपिच ॥ १,१८.१०१ गृहेकच्छपसर्पस्त्रीदुर्जनादर्शनेपिच ॥ १,१८.१०२ वृक्षनारीगवादीनांप्रसूतिविषयेपिच ॥ १,१८.१०२ भाविदुःखंसमायातितस्मात्तेभौतिकामता ॥ १,१८.१०३ अमेध्या शनिपातश्चमहामारीतथैवच ॥ १,१८.१०३ ज्वरमारीविषूचिश्चगोमारीचमसूरिका ॥ १,१८.१०४ जन्मर्क्षग्रहसंक्रांतिग्रहयोगास्वराशिके ॥ १,१८.१०४ दुःस्वप्नदर्शनाद्याश्चमतावैह्यधिदैविकाः ॥ १,१८.१०५ शवचांडालपतितस्पर्शाद्येंतर्गृहेगते ॥ १,१८.१०५ एतादृशेसमुत्पन्नेभाविदुःखस्यसूचके ॥ १,१८.१०६ शांतियज्ञंतुमतिमान्कुर्यात्तद्दोषशांतये ॥ १,१८.१०६ देवालये ऽथगोष्ठेवाचैत्येवापिगृहांगणे ॥ १,१८.१०७ प्रादेशोन्नतधिष्ण्येवैद्विहस्तेयस्वलंकृते ॥ १,१८.१०७ भारमात्रव्रीहिधान्यंप्रस्थाप्यपरिसृत्यच ॥ १,१८.१०८ मध्येविलिख्यकमलंतथादिक्षुविलिख्यवै ॥ १,१८.१०८ तंतुनावेष्टितंकुंभं नवगुग्गुलधूपितम् ॥ १,१८.१०९ मध्येस्थाप्यमहाकुंभंतथादिक्ष्वपिविन्यसेत् ॥ १,१८.१०९ सनालाम्रककूर्चादीन्कलशांश्च तथाष्टसु ॥ १,१८.११० पूरयेन्मंत्रपूतेनपञ्चद्रव्ययुतेनहि ॥ १,१८.११० प्रक्षिपेन्नवरत्नानिनीलादीन्क्रमशस्तथा ॥ १,१८.१११ कर्मज्ञंचसपत्नीकमाचार्यंवरयेद्बुधः ॥ १,१८.१११ सुवर्णप्रतिमां विष्णोरिंद्रादीनांच निक्षिपेत् ॥ १,१८.११२ सशिरस्केमध्यकुंभेविष्णुमाबाह्यपूजयेत् ॥ १,१८.११२ प्रागादिषुयथामंत्रमिंद्रादीन्क्रमशोयजेत् ॥ १,१८.११३ तत्तन्नाम्नाचतुर्थ्यांचनमोन्ते नयथाक्रमम् ॥ १,१८.११३ आवाहनादिकंसर्वमाचार्येणैवकारयेत् ॥ १,१८.११४ आचार्य ऋत्विजा सार्धं तन्मात्रान्प्रजपेच्छतम् ॥ १,१८.११४ कुंभस्य पश्चिमे भागेजपांतेहोममाचरेत् ॥ १,१८.११५ कोटिंलक्षंसहस्रंवाशतमष्टोत्तरं बुधाः ॥ १,१८.११५ एकाहंवानवाहंवातथामंडलमेव वा ॥ १,१८.११६ यथायोग्यंप्रकुर्वीतकालदेशानुसारतः ॥ १,१८.११६ शमीहोमश्च शांत्यर्थे वृत्त्यर्थेचपलाशकम् ॥ १,१८.११७ समिदन्नाज्यकैर्द्रव्यैर्नाम्नामंत्रेण वा हुनेत् ॥ १,१८.११७ प्रारंभेयत्कृतंद्रव्यंतत्क्रियांतंसमाचरेत् ॥ १,१८.११८ पुण्याहंवाचयित्वांते दिनेसंप्रोक्ष्ययेज्जलैः ॥ १,१८.११८ ब्राह्मणान्भोजयेत्पश्चाद्यावदाहुतिसंख्यया ॥ १,१८.११९ आचार्यश्चहविष्याशीत्विजश्चभवेद्बुधाः ॥ १,१८.११९ आदित्यादीन्ग्रहानिष्ट्वासर्वहोमांत एवहि ॥ १,१८.१२० ऋत्विभ्योदक्षिणांदद्यान्नवरत्नंयथा क्रमम् ॥ १,१८.१२० दशदानंततःकुर्याद्भूरिदानंततः परम् ॥ १,१८.१२१ बालानामुपनीतानांगृहिणांवनिनांधनम् ॥ १,१८.१२१ कन्यानांचसभर्त्ःणांविधवानांततःपरम् ॥ १,१८.१२२ तंत्रोपकरणंसर्वमाचार्यायनिवेदयेत् ॥ १,१८.१२२ उत्पातानांचमारीणांदुःखस्वामीयमःस्मृतः ॥ १,१८.१२३ तस्माद्यमस्यप्रीत्यर्थंकालदानंप्रदापयेत् ॥ १,१८.१२३ शतनिष्केण वा कुर्याद्दशनिष्केण वा पुनः ॥ १,१८.१२४ पाशांकुशधरं कालं कुर्यात्पुरुषरूपिणम् ॥ १,१८.१२४ तत्स्वर्णप्रतिमादानंकुर्याद्दक्षिणयासह ॥ १,१८.१२५ तिलदानंततःकुर्यात्पूर्णायुष्यप्रसिद्धये ॥ १,१८.१२५ आज्यावेक्षणदानंचकुर्याद्व्याधिनिवृत्तये ॥ १,१८.१२६ सहस्रंभोजयेद्विप्रान्दरिद्रःशतमेववा ॥ १,१८.१२६ वित्ताभावेदरिद्रस्तुयथाशक्तिसमाचरेत् ॥ १,१८.१२७ भैरवस्यमहापूजांकुर्याद्भूतादिशांतये ॥ १,१८.१२७ महाभिषेकंनैवेद्यंशिवस्यान्तेतुकारयेत् ॥ १,१८.१२८ ब्राह्मणान्भोजयेत्पश्चाद्भूरिभोजनरूपतः ॥ १,१८.१२८ एवंकृतेनयज्ञेनदोषशांतिमवाप्नुयात् ॥ १,१८.१२९ शांतियज्ञमिमंकुर्याद्वर्षेवर्षेतुफाल्गुने ॥ १,१८.१२९ दुर्दर्शनादौ सद्यो वै मासमात्रेसमाचरेत् ॥ १,१८.१३० महापापादिसंप्राप्तौ कुर्याद्भैरवपूजनम् ॥ १,१८.१३० महाव्याधिसमुत्पत्तौसंकल्पंपुनराचरेत् ॥ १,१८.१३१ सर्वभावे दरिद्रस्तु दीपदानमथाचरेत् ॥ १,१८.१३१ तदप्यशक्तः स्नात्वावैयत्किंचिद्दानमाचरेत् ॥ १,१८.१३२ दिवाकरंनमस्कुर्यान्मन्त्रेणाष्टोत्तरंशतम् ॥ १,१८.१३२ सहस्रमयुतंलक्षंकोटिंवाकारयेद्बुधः ॥ १,१८.१३३ नमस्कारात्मयज्ञेन तुष्टाः स्युः सर्वदेवताः ॥ १,१८.१३३ त्वत्स्वरूपेर्पिताबुद्धिर्नते ऽशून्ये च रोचति ॥ १,१८.१३४ या चास्त्यस्मदहंतेति त्वयिदृष्टे विवर्जिता ॥ १,१८.१३४ नम्रो ऽहंहिस्वदेहेनभोमहांस्त्वमसिप्रभो ॥ १,१८.१३५ नशून्योमत्स्वरूपोवैतवदासो ऽस्मिसांप्रतम् ॥ १,१८.१३५ यथायोग्यंस्वात्मयज्ञंनमस्कारंप्रकल्पयेत् ॥ १,१८.१३६ अथात्रशिवनैवेद्यंदत्त्वातांबूलमाहरेत् ॥ १,१८.१३६ शिवप्रदक्षिणंकुर्यात्स्वयमष्टोत्तरं शतम् ॥ १,१८.१३७ सहस्रमयुतंलक्षं कोटिमन्येन कारयेत् ॥ १,१८.१३७ शिवप्रदक्षिणात्सर्वंपातकंनश्यतिक्षणात् ॥ १,१८.१३८ दुःखस्यमूलंव्याधिर्हिव्याधेर्मूलंहिपातकम् ॥ १,१८.१३८ धर्मेणैवहिपापानामपनोदनमीरितम् ॥ १,१८.१३९ शिवोद्देशकृतोधर्मःक्षमःपापविनोदने ॥ १,१८.१३९ अध्यक्षं शिवधर्मेषु प्रदक्षिणमितीरितम् ॥ १,१८.१४० क्रियया जपरूपंहिप्रणवंतुप्रदक्षिणम् ॥ १,१८.१४० जननंमरणंद्वंद्वंमायाचक्रमितीरितम् ॥ १,१८.१४१ शिवस्यमायाचक्रंहिबलिपीठंतदुच्यते ॥ १,१८.१४१ बलिपीठंसमारभ्यप्रादक्षिण्यक्रमेणवै ॥ १,१८.१४२ पदेपदांतरंगत्वाबलिपीठं समाविशेत् ॥ १,१८.१४२ नमस्कारंततः कुर्यात्प्रदक्षिणमितीरितम् ॥ १,१८.१४३ निर्गमाज्जननंप्राप्तंनमस्त्वात्मसमर्पणम् ॥ १,१८.१४३ जननं मरणं द्वंद्वं शिवमायासमर्पितम् ॥ १,१८.१४४ शिवमायार्पितद्वंद्वो न पुनस्त्वात्मभाग्भवेत् ॥ १,१८.१४४ यावद्देहंक्रियाधीनःसजीवोबद्ध उच्यते ॥ १,१८.१४५ देहत्रयवशीकारेमोक्ष इत्युच्यते बुधैः ॥ १,१८.१४५ मायाचक्रप्रणेताहिशिवः परमकारणम् ॥ १,१८.१४६ शिवमायार्पितद्वंद्वंशिवस्तुपरिमार्जति ॥ १,१८.१४६ शिवेनकल्पितंद्वंद्वंतस्मिन्नेव समर्पयेत् ॥ १,१८.१४७ शिवस्यातिप्रियंविद्यात्प्रदक्षिणंनमोबुधाः ॥ १,१८.१४७ प्रदक्षिणनमस्काराः शिवस्यपरमात्मनः ॥ १,१८.१४८ षोडशैरुपचारैश्चकृतपूजाफलप्रदा ॥ १,१८.१४८ प्रदक्षिणा ऽविनाश्यंहि पातकंनास्ति भूतले ॥ १,१८.१४९ तस्मात्प्रदक्षिणेनैवसर्वपापंविनाशयेत् ॥ १,१८.१४९ शिवपूजापरोमौनीसत्यादिगुणसंयुतः ॥ १,१८.१५० क्रियातपोजपज्ञानध्यानेष्वेकैकमाचरेत् ॥ १,१८.१५० ऐश्वर्यंदिव्यदेहश्चज्ञानमज्ञानसंशयः ॥ १,१८.१५१ शिवसान्निध्यमित्येतेक्रियादीनांफलंभवेत् ॥ १,१८.१५१ करणेनफलंयातितमसः परिहापनात् ॥ १,१८.१५२ जन्मनःपरिमार्जित्वाज्ज्ञबुद्ध्याजनितानिच ॥ १,१८.१५२ यथादेशं यथाकालं यथादेहं यथाधनम् ॥ १,१८.१५३ यथायोग्यंप्रकुर्वीत क्रियादीञ्छिवभक्तिमान् ॥ १,१८.१५३ न्यायार्जितसुवित्तेनवसेत्प्राज्ञः शिवस्थले ॥ १,१८.१५४ जीवहिंसादिरहितमतिक्लेशविवर्जितम् ॥ १,१८.१५४ पञ्चाक्षरेणजप्तंचतोयमन्नंविदुः सुखम् ॥ १,१८.१५५ अथवा ऽहुर्दरिद्रस्यभिक्षान्नंज्ञानदंभवेत् ॥ १,१८.१५५ शिवभक्तस्यभिक्षान्नंशिवभक्तिविवर्धनम् ॥ १,१८.१५६ शंभुसत्रमितिप्राहुर्भिक्षान्नंशिवयोगिनः ॥ १,१८.१५६ येनकेनाप्युपायेनयत्रकुत्रापिभूतले ॥ १,१८.१५७ शुद्धान्नभुक्सदामौनीरहस्यं न प्रकाशयेत् ॥ १,१८.१५७ प्रकाशयेत्तुभक्तानांशिवमाहात्म्यमेवहि ॥ १,१८.१५८ रहस्यंशिवमंत्रस्यशिवोजानातिनापरः ॥ १,१८.१५८ शिवभक्तोवसेन्नित्यंशिवलिंगंसमाश्रितः ॥ १,१८.१५९ स्थाणुलिंगाश्रयेणैवस्थाणुर्भवतिभूसुराः ॥ १,१८.१५९ पूजयाचरलिंगस्यक्रमान्मुक्तोभवेद्ध्रुवम् ॥ १,१८.१६० सर्वमुक्तंसमासेनसाध्यसाधनमुत्तमम् ॥ १,१८.१६० व्यासेनयत्पुराप्रोक्तंयच्छ्रुतंहिमयापुरा ॥ १,१८.१६१ भद्रमस्तुहिवो ऽस्माकं शिवभक्तिर्दृढा ऽस्तुसा ॥ १,१८.१६१ य इमंपठते ऽध्यायं यः शृणोति नरः सदा ॥ १,१८.१६२ शिवज्ञानंसलभतेशिवस्यकृपयाबुधाः ॥ १,१८.१६२ इति श्रीशैवे महापुराणे विद्येश्वरसंहितायां साध्यसाधनखंडे शिवलिंगमहिमावर्णनं नामाष्टादशो ऽध्यायः अध्याय १९ ऋषय ऊचुः सूतसूतचिरंजीवधन्यस्त्वंशिवभक्तिमान् ॥ १,१९.१ सम्यगुक्तस्त्वयालिंगमहिमासत्फलप्रदः ॥ १,१९.१ यत्रपार्थिवमाहेशलिंगस्यमहिमाधुना ॥ १,१९.२ सर्वोत्कृष्टश्चकथितोव्यासतोब्रूहितंपुनः ॥ १,१९.२ सूत उवाच शृणुध्वमृषयः सर्वे सद्भक्त्या हरतो खिलाः ॥ १,१९.३ शिवपार्थिवलिंगस्यमहिमाप्रोच्यतेमया ॥ १,१९.३ उक्तेष्वेतेषु लिंगेषु पार्थिवं लिंगमुत्तमम् ॥ १,१९.४ तस्यपूजनतोविप्राबहवः सिद्धिमागताः ॥ १,१९.४ हरिर्ब्रह्मा च ऋषयः सप्रजापतयस्तथा ॥ १,१९.५ संपूज्य पार्थिवंलिंगंप्रापुःसर्वेप्सितंद्विजाः ॥ १,१९.५ देवासुरमनुष्याश्चगंधर्वोरगराक्षसाः ॥ १,१९.६ अन्येपिबहवस्तंसंपूज्यसिद्धिंगताःपरम् ॥ १,१९.६ कृतेरत्नमयंलिंगंत्रेतायांहेमसंभवम् ॥ १,१९.७ द्वापरेपारदंश्रेष्ठंपार्थिवंतुकलौयुगे ॥ १,१९.७ अष्टमूर्तिषुसर्वासुमूर्तिर्वैपार्थिवीवराः ॥ १,१९.८ अनन्यपूजिताविप्रास्तपस्तस्मान्महत्फलम् ॥ १,१९.८ यथासर्वेषुदेवेषुज्येष्ठःश्रेष्ठोमहेश्वरः ॥ १,१९.९ एवंसर्वेषु लिंगेषुपार्थिवंश्रेष्टमुच्यते ॥ १,१९.९ यथानदीषुसर्वासुज्येष्ठाश्रेष्ठासुरापगा ॥ १,१९.१० तथासर्वेषुलिंगेषुपार्थिवंश्रेष्ठमुच्यते ॥ १,१९.१० यथासर्वेषुमंत्रेषुप्रणवो हि महान्स्मृतः ॥ १,१९.११ तथेदंपार्थिवंश्रेष्ठमाराध्यंपूज्यमेवहि ॥ १,१९.११ यथासर्वेषुवर्णेषुब्राह्मणःश्रेष्ठ उच्यते ॥ १,१९.१२ तथासर्वेषुलिंगेषुपार्थिवं श्रेष्ठमुच्यते ॥ १,१९.१२ यथापुरीषुसर्वासुकाशीश्रेष्ठतमास्मृता ॥ १,१९.१३ तथासर्वेषुलिंगेषुपार्थिवंश्रेष्ठमुच्यते ॥ १,१९.१३ यथाव्रतेषुसर्वेषुशिवरात्रिव्रतंपरम् ॥ १,१९.१४ तथासर्वेषुलिंगेषुपार्थिवंश्रेष्थमुच्यते ॥ १,१९.१४ यथादेवीषुसर्वासुशैवीशक्तिः परास्मृता ॥ १,१९.१५ तथा सर्वेषु लिंगेषु पार्थिवं श्रेष्ठमुच्यते ॥ १,१९.१५ प्रकृत्यपार्थिवंलिंगंयोन्यदेवंप्रपूजयेत् ॥ १,१९.१६ वृथा भवति सा पूजा स्नानदानादिकंवृथा ॥ १,१९.१६ पार्थिवाराधनंपुण्यंधन्यमायुर्विवर्धनम् ॥ १,१९.१७ तुष्टिदंपुष्टिदंश्रीदंकार्यंसाधकसत्तमैः ॥ १,१९.१७ यथालब्धोपचारैश्चभक्त्या श्रद्धासमन्वितः ॥ १,१९.१८ पूजयेत्पार्थिवं लिंगं सर्वकामार्थसिद्धिदम् ॥ १,१९.१८ यःकृत्वापार्थिवंलिंगेपूजयेच्छुभवेदिकम् ॥ १,१९.१९ इहैवधनवाञ्छ्रीमानंतेरुद्रोभिजायते ॥ १,१९.१९ त्रिसंध्यंयोर्चयंल्लिंगंकृत्वाबिल्वेनपार्थिवम् ॥ १,१९.२० दशैकादशकंयावत्तस्यपुण्यफलंशृणु ॥ १,१९.२० अनेनैव स्वदेहेन रुद्रलोकेमहीयते ॥ १,१९.२१ पापहं सर्वमर्त्यानां दर्शनात्स्पर्शनादपि ॥ १,१९.२१ जीवन्मुक्तः सवैज्ञानीशिव एव न संशयः ॥ १,१९.२२ तस्यदर्शनमात्रेणभुक्तिर्मुक्तिश्च जायते ॥ १,१९.२२ शिवं यः पूजयेन्नित्यं कृत्वालिंगं तु पार्थिवम् ॥ १,१९.२३ यावज्जीवनपर्यंतं स याति शिवमन्दिरम् ॥ १,१९.२३ मृडेनाप्रमितान्वर्षाञ्छिवलोकेहि तिष्ठति ॥ १,१९.२४ सकामः पुनरागत्य राजेन्द्रोभारतेभवेत् ॥ १,१९.२४ निष्कामः पूजयेन्नित्यं पार्थिवंलिंगमुत्तमम् ॥ १,१९.२५ शिवलोके सदा तिष्ठेत्ततः सायुज्यमाप्नुयात् ॥ १,१९.२५ पार्थिवं शिवलिंगं च विप्रो यदि न पूजयेत् ॥ १,१९.२६ सयातिनरकंघोरंशूलप्रोतं सुदारुणम् ॥ १,१९.२६ यथाकथंचिद्विधिनारम्यं लिंगं प्रकारयेत् ॥ १,१९.२७ पञ्चसूत्रविधानां च पार्थिवेन विचारयेत् ॥ १,१९.२७ अखण्डंतद्धिकर्तव्यंनविखण्डंप्रकारयेत् ॥ १,१९.२८ द्विखण्डंतुप्रकुर्वाणोनैवपूजाफलंलभेत् ॥ १,१९.२८ रत्नजं हेमजं लिंगं पारदं स्फाटिकं तथा ॥ १,१९.२९ पार्थिवं पुष्परागोत्थमखंडं तु प्रकारयेत् ॥ १,१९.२९ अखंडं तु चरं लिंगंद्विखंडमचरं स्मृतम् ॥ १,१९.३० खंडाखंडविचारोयं सचराचरयोः स्मृतः ॥ १,१९.३० वेदिकातुमहाविद्यालिंगंदेवो महेश्वरः ॥ १,१९.३१ अतो हि स्थावरेलिंगे स्मृताश्रेष्ठादिखंडिता ॥ १,१९.३१ द्विखंडंस्थावरंलिंगंकर्तव्यंहिविधानतः ॥ १,१९.३२ अखंडंजंगमंप्रोक्तंशैवसिद्धान्तवेदिभिः ॥ १,१९.३२ द्विखंडंतुचरांलिंगंकुर्वन्त्यज्ञानमोहिताः ॥ १,१९.३३ नैवसिद्धान्तवेत्तारो मुनयः शास्त्रकोविदाः ॥ १,१९.३३ अखंडंस्थावरंलिंगंद्विखंडंचरमेवच ॥ १,१९.३४ येकुर्वन्तिनरामूढानपूजाफलभागिनः ॥ १,१९.३४ तस्माच्छास्त्रोक्तविधिना अखंडंचरसंज्ञकम् ॥ १,१९.३५ द्विखंडं स्थावरं लिंगं कर्तव्यं परया मुदा ॥ १,१९.३५ अखंडे तु चरे पूजासम्पूर्णफलदायिनी ॥ १,१९.३६ द्विखंडे तु चरे पूजामहाहानिप्रदा स्मृता ॥ १,१९.३६ अखंडे स्थावरे पूजा न कामफलदायिनी ॥ १,१९.३७ प्रत्यवायकरीनित्यमित्युक्तंशास्त्रवेदिभिः ॥ १,१९.३७ इति श्रीशिवमहापुराणे विद्येश्वरसंहितायां साध्यसाधनखंडे पार्थिवशिवलिंगपूजनमाहात्म्यवर्णनं नामैकोनविंशो ऽध्यायः अध्याय २० सूत उवाच अथ वैदिकभक्तानां पार्थिवार्चां निगद्यते ॥ १,२०.१ वैदिकेनैवमार्गेणभुक्तिमुक्तिप्रदायिनी ॥ १,२०.१ सूत्रोक्तविधिनास्नात्वासंध्यां कृत्वा यथाविधि ॥ १,२०.२ ब्रह्मयज्ञंविधायादौततस्तर्पणमाचरेत् ॥ १,२०.२ नैत्यिकं सकलंकामं विधायानंतरंपुमान् ॥ १,२०. ३ शिवस्मरणपूर्वं हि भस्मरुद्राक्षधारकः ॥ १,२०.३ वेदोक्ताविधिना सम्यक्संपूर्णफलसिद्धये ॥ १,२०.४ पूजयेत्परयाभक्त्यापार्थिवंलिंगमुत्तमम् ॥ १,२०.४ नदीतीरे तडागे च पर्वतेकानने ऽपिच ॥ १,२०.५ शिवालये शुचौ देशे पार्थिवार्चा विधीयते ॥ १,२०.५ शुद्धप्रदेशसंभूतां मृदमाहृत्य यत्नतः ॥ १,२०.६ शिवलिंगं प्रकल्पेत सावधानतया द्विजाः ॥ १,२०.६ विप्रे गौरा स्मृता शोणा बाहुजे पीतवर्णका ॥ १,२०.७ वैश्येकृष्णा पादजाते ह्यथवा यत्र या भवेत् ॥ १,२०.७ संगृह्यमृत्तिकांलिंगनिर्माणार्थंप्रयत्नतः ॥ १,२०.८ अतीवशुभदेशेचस्थापयेत्तांमृदंशुभाम् ॥ १,२०.८ संशोध्यचजलेनापिपिंडीकृत्य शनैः शनैः ॥ १,२०.९ विधीयेतशुभंलिंगंपार्थिवंवेदमार्गतः ॥ १,२०.९ ततः संपूजयेद्भक्त्याभुक्तिमुक्तिफलाप्तये ॥ १,२०.१० तत्प्रकारमहंवच्मिशृणुध्वंसंविधानतः ॥ १,२०.१० नमः शिवायमंत्रेणार्चनंद्रव्यंचप्रोक्षयेत् ॥ १,२०.११ भूरसीतिचमंत्रेणक्षेत्रसिद्धिंप्रकारयेत् ॥ १,२०.११ आपोस्मानितिमंत्रेणजलसंस्कारमाचरेत् ॥ १,२०.१२ नमस्ते रुद्रमंत्रेण फाटिकाबंधमुच्यते ॥ १,२०.१२ शंभवायेतिमंत्रेणक्षेत्रशुद्धिं प्रकारयेत् ॥ १,२०.१३ नमः पूर्वेण कुर्यात्पञ्चामृतस्यापि प्रोक्षणम् ॥ १,२०.१३ नीलग्रीवायमंत्रेणनमःपूर्वेणभक्तिमान् ॥ १,२०.१४ चरेच्छंकरलिंगस्यप्रतिष्ठापनमुत्तमम् ॥ १,२०.१४ भक्तितस्तत एतत्तेरुद्रायेति च मंत्रतः ॥ १,२०.१५ आसनं रमणीयं वैदद्याद्वैदिकमार्गकृत् ॥ १,२०.१५ मानोमहन्तमितिचमंत्रेणावाहनंचरेत् ॥ १,२०.१६ यातेरुद्रेणमंत्रेणसंचरेदुपवेशनम् ॥ १,२०.१६ मंत्रेणयामिषुमिति न्यासंकुर्याच्छिवस्यच ॥ १,२०.१७ अध्यवोचदिति प्रेम्णाधिवासंमनुनाचरेत् ॥ १,२०.१७ मनुनासौजीव इतिदेवतान्यासमाचरेत् ॥ १,२०.१८ असौयोवसर्पतीति चाचरेदपसर्पणम् ॥ १,२०.१८ नमोस्तु नीलग्रीवायेति पाद्यं मनुनाहरेत् ॥ १,२०. १९ अर्घ्यं च रुद्रगायत्र्या ऽचमनं त्र्यंबकेण च ॥ १,२०.१९ पयःपृथिव्यामिति च पयसास्नानमाचरेत् ॥ १,२०.२० दधिक्राव्णेतिमंत्रेणदधिस्नानं च कारयेत् ॥ १,२०.२० घृटंस्नानेखलुघृतंघृतंयावेतिमंत्रतः ॥ १,२०. २१ मधुवातामधुनक्तंमधुमान्न इति त्र्यृचा ॥ १,२०. २१ मधुखंडस्नपनंप्रोक्तमितिपञ्चामृतं स्मृतम् ॥ १,२०.२२ अथवा पाद्यमंत्रेण स्नानंपञ्चामृतेन च ॥ १,२०.२२ मानस्तोके इति प्रेम्णा मंत्रेण कटिबंधनम् ॥ १,२०.२३ नमो धृष्णवे इति वा उत्तरीयं च धापयेत् ॥ १,२०.२३ या ते हेतिरिति प्रेम्णा ऋक्चतुष्केण वैदिकः ॥ १,२०.२४ शिवाय विधिना भक्तश्चरेद्वस्त्रसमर्पणम् ॥ १,२०.२४ नमः श्वभ्य इति प्रेम्णा गंधं दद्यादृचा सुधीः ॥ १,२०.२५ नमस्तक्षभ्य इति चाक्षतान्मंत्रेण चार्पयेत् ॥ १,२०. २५ नमः पार्याय इति वा पुष्प मंत्रेण चार्पयेत् ॥ १,२०.२६ नमः पर्ण्याय इति वा बिल्बपत्रसमर्पणम् ॥ १,२०.२६ नमःकपर्दिनेचेति धूपं दद्याद्यथाविधि ॥ १,२०.२७ दीपं दद्याद्यथोक्तं तु नम आशव इत्यृचा ॥ १,२०.२७ नमोज्येष्ठायमंत्रेण दद्यान्नैवेद्यमुत्तमम् ॥ १,२०.२८ मनुनात्र्यम्बकमितिपुनराचमनंस्मृतम् ॥ १,२०.२८ इमा रुद्रायेति ऋचा कुर्यात्फलसमर्पणम् ॥ १,२०.२९ नमो व्रज्यायेति ऋचा सकलं शंभवेर्पयेत् ॥ १,२०.२९ मनो महांतमिति च मानस्तोके इति ततः ॥ १,२०.३० मंत्रेद्वयेनैकदशाक्षतै रुद्रान्प्रपूजयेत् ॥ १,२०.३० हिरण्यगर्भ इति त्र्यृचादक्षिणांहिसमर्पयेत् ॥ १,२०.३१ देवस्यत्वेतिमंत्रेणह्यभिषेकंचरेद्बुधः ॥ १,२०.३१ दीपमंत्रेणवाशंभोर्नीराजनविधिंचरेत् ॥ १,२०.३२ पुष्पांजलिंचरेद्भक्त्या इमा रुद्रायचत्र्यृचा ॥ १,२०.३२ मानोमहान्तमिति च चरेत्प्राज्ञः प्रदक्षिणाम् ॥ १,२०.३३ मानस्तोकेति मंत्रेण साष्टाङ्गंप्रणमेत्सुधीः ॥ १,२०.३३ एषते इतिमंत्रेणशिवमुद्रांप्रदर्शयेत् ॥ १,२०. ३४ यतोयत इत्यभयांज्ञानाख्यां त्र्यंबकेण च ॥ १,२०.३४ नमःसेनेति मंत्रेणमहामुद्रांप्रदर्शयेत् ॥ १,२०.३५ दर्शयेद्धेनुमुद्रांचनमोगेभ्य ऋचानया ॥ १,२०.३५ पञ्चमुद्राःप्रदर्श्याथ शिवमंत्रजपं चरेत् ॥ १,२०.३६ शतरुद्रियमंत्रेण जपेद्वेदविचक्षणः ॥ १,२०.३६ ततः पञ्चाङ्गपाठंचकुर्याद्वेदविचक्षणः ॥ १,२०.३७ देवागात्वितिमंत्रेणकुर्याच्छंभोर्विसर्जनम् ॥ १,२०.३७ इत्युक्तः शिवपूजायाव्यासतोवैदिकोविधिः ॥ १,२०.३८ समासतश्चशृणुतवैदिकंविधिमुत्तमम् ॥ १,२०.३८ ऋचासद्योजातमितिमृदाहरणमाचरेत् ॥ १,२०.३९ वामदेवाय इति च जलप्रक्षेपमाचरेत् ॥ १,२०.३९ अघोरेण च मंत्रेणलिंगनिर्माणमाचरेत् ॥ १,२०.४० तत्पुरुषायमंत्रेणाह्वानं कुर्याद्यथाविधि ॥ १,२०.४० संयोजयेद्वेदिकायामीशानमनुनाहरम् ॥ १,२०.४१ अन्यत्सर्वं विधानंचकुर्यात्संक्षेपतः सुधीः ॥ १,२०.४१ पञ्चाक्षरेणमंत्रेणगुरुदत्तेनवातथा ॥ १,२०.४२ कुर्यात्पूजां षोडशोपचारेण विधिवत्सुधीः ॥ १,२०.४२ भवायभवनाशायमहादेवायधीमहि ॥ १,२०.४३ उग्राय उग्रनाशाय शर्वाय शशिमौलिने ॥ १,२०.४३ अनेन मनुना वापि पूजयेच्छंकरंसुधीः ॥ १,२०.४४ सुभक्त्या चभ्रमंत्यक्त्वाभक्त्यैवफलदः शिवः ॥ १,२०.४४ इत्यपि प्रोक्तमादृत्य वैदिकक्रमपूजनम् ॥ १,२०.४५ प्रोच्यतेन्यविधिः सम्यक्साधारणतयाद्विजः ॥ १,२०.४५ पूजापार्थिवलिंगस्यसंप्रोक्ताशिवनामभिः ॥ १,२०.४६ तां शृणुध्वं मुनिश्रेष्ठाः सर्वकामप्रदायिनीम् ॥ १,२०. ४६ हरोमहेश्वरः शंभुःशूलपाणिः पिनाकधृक् ॥ १,२०.४७ शिवः पशुपतिश्चैवमहादेव इति क्रमात् ॥ १,२०.४७ मृदाहरणसंघट्टप्रतिष्ठाह्वानमेवच ॥ १,२०.४८ स्नपनंपूजनंचैवक्षमस्वेतिविसर्जनम् ॥ १,२०.४८ अंकारादिचतुर्थ्यंतैर्नमोन्तैर्नामभिः क्रमात् ॥ १,२०.४९ कर्तव्याचक्रियासर्वाभक्त्यापरमयामुदा ॥ १,२०.४९ कृत्वा न्यासविधिंसम्यक्षडङ्गकरयोस्तथा ॥ १,२०.५० षडक्षरेणमंत्रेणततोध्यानंसमाचरेत् ॥ १,२०.५० कैलासपीठासनमध्यसंस्थं भक्तैः सनंदादिभिरर्च्यमानम् ॥ १,२०.५१ भक्तर्तिदावानलमप्रमेयंध्यायेदुमालिंगितविश्वभूषणम् ॥ १,२०.५१ ध्यायेन्नित्यंमहेशंरजतगिरिनिभंचारुचंद्रावतंसंरत्नाकल्पोज्ज्वलांगंपरशुमृगवराभीतिहस्तंप्रसन्नम् ॥ १,२०.५२ पद्मासीनंसमंतात्स्थितममरगणैर्व्याघ्रकृत्तिंवसानंविश्वाद्यंविश्वबीजंनिखिलभयहरंपञ्चवक्त्रंत्रिनेत्रम् ॥ १,२०.५२ इतिध्यात्वाचसंपूज्यपार्थिवंलिंगमुत्तमम् ॥ १,२०.५३ जपेत्पञ्चाक्षरंमंत्रंगुरुदत्तंयथाविधि ॥ १,२०.५३ स्तुतिभिश्चैवदेवेशंस्तुवीतप्रणमन्सुधीः ॥ १,२०.५४ नानाभिधाभिर्विप्रेन्द्राः पठेद्वैशतरुद्रियम् ॥ १,२०.५४ ततः साक्षतपुष्पाणिगृहीत्वांजलिनामुदा ॥ १,२०.५५ प्रार्थयेच्छंकरंभक्त्यामंत्रैरेभिःसुभक्तितः ॥ १,२०.५५ तावकस्त्वद्गुणप्राणस्त्वच्चित्तोहंसदामृड ॥ १,२०.५६ कृपानिध इतिज्ञात्वाभूतनाथप्रसीदमे ॥ १,२०.५६ अज्ञानाद्यदिवाज्ञानाज्जप पूजादिकं मया ॥ १,२०.५७ कृतं तदस्तुसफलंकृपयातवशंकर ॥ १,२०.५७ अहंपापीमहानद्यपावनश्चभवान्महान् ॥ १,२०.५८ इतिविज्ञायगौरीशयदिच्छसितथाकुरु ॥ १,२०.५८ वेदैः पुराणैः सिद्धान्तैरृषिभिर्विविधैरपि ॥ १,२०.५९ नज्ञातोसिमहादेवकुतोहंत्वंमहाशिव ॥ १,२०.५९ यथा तथा त्वदीयोस्मि सर्वभावैर्महेश्वर ॥ १,२०.६० रक्षणीयस्त्वयाहं वै प्रसीद परमेश्वर ॥ १,२०.६० इत्येवं चाक्षतान्पुष्पानारोप्य च शिवोपरि ॥ १,२०.६१ प्रणमेद्भक्तितश्शंभुं साष्टांगं विधिवन्मुने ॥ १,२०.६१ ततः प्रदक्षिणां कुर्याद्यथोक्तविधिना सुधीः ॥ १,२०.६२ पुनः स्तुवीत देवेशं स्तुतिभिः श्रद्धयान्वितः ॥ १,२०.६२ ततो गलरवंकृत्वा प्रणमेच्छुचिनम्रधीः ॥ १,२०.६३ कुर्याद्विज्ञप्तिमादृत्य विसर्जनमथाचरेत् ॥ १,२०.६३ इत्युक्ता मुनिशार्दूलाः पार्थिवार्चा विधानतः ॥ १,२०.६४ भुक्तिदामुक्तिदाचैवशिवभक्तिविवर्धिनी ॥ १,२०.६४ इत्यध्यायंसुचित्तेनयःपठेच्छृणुयादपि ॥ १,२०.६५ सर्वपापविशुद्धात्मासर्वान्कामानवाप्नुयात् ॥ १,२०.६५ आयुरायोग्यदंचैवयशस्यंस्वर्ग्यमेवच ॥ १,२०.६६ पुत्रपौत्रादिसुखदमाख्यानमिदमुत्तमम् ॥ १,२०.६६ इति श्रीशिवमहापुराणे प्र विद्येश्वरसंहितायां साध्यसाधनखण्डे पार्थिवशिवलिंगपूजाविधिवर्णनं नाम विंशो ऽध्यायः अध्याय २१ ऋषय ऊचुः सूतसूतमहाभागव्यासशिष्यनमोस्तुते ॥ १,२१. १ सम्यगुक्तंत्वयातातपार्थिवार्चाविधानकम् ॥ १,२१.१ कामनाभेदमाश्रित्यसंख्यांब्रूहिविधानतः ॥ १,२१.२ शिवपार्थिवलिंगानां कृपयादीनवत्सल ॥ १,२१.२ सूत उवाच शृणुध्वमृषयः सर्वेपार्थिवार्चाविधानकम् ॥ १,२१.३ यस्यानुष्ठानमात्रेणकृतकृत्योभवेन्नरः ॥ १,२१.३ अकृत्वा पार्थिवं लिंगं योन्यदेवंप्रपूजयेत् ॥ १,२१.४ वृथाभवतिसापूजादमदानादिकंवृथा ॥ १,२१.४ संख्यापार्थिवलिंगानांयथाकामंनिगद्यते ॥ १,२१.५ संख्यासद्योमुनिश्रेष्ठनिश्चयेनफलप्रदा ॥ १,२१.५ प्रथमावाहनंतत्रप्रतिष्ठापूजनंपृथक् ॥ १,२१.६ लिंगाकारंसमंतत्रसर्वंज्ञेयंपृथक्पृथक् ॥ १,२१.६ विद्यार्थीपुरुषःप्रीत्यासहस्रमितपार्थिवम् ॥ १,२१.७ पूजयेच्छिवलिंगंहिनिश्चयात्तत्फलप्रदम् ॥ १,२१.७ नरःपार्थिवलिंगानांधनार्थीचतदर्धकम् ॥ १,२१.८ पुत्रार्थीसार्धसाहस्रंवस्त्रार्थीशतपञ्चक्रम् ॥ १,२१.८ मोक्षार्थीकोटिगुणितंभूकामश्चसहस्रकम् ॥ १,२१.९ दयार्थीचत्रिसाहस्रंतीर्थार्थीद्विसहस्रकम् ॥ १,२१.९ सुहृत्कामीत्रिसाहस्रंवश्यार्थीशतमष्टकम् ॥ १,२१.१० मारणार्थीसप्तशतंमोहनार्थीशताष्टकम् ॥ १,२१.१० उच्चाटनपरश्चैवसहस्रंचयथोक्ततः ॥ १,२१.११ स्तंभनार्थीसहस्रंतुद्वेषणार्थी तदर्धकम् ॥ १,२१.११ निगडान्मुक्तिकामस्तुसहस्रंसर्धमुत्तमम् ॥ १,२१.१२ महाराजभयेपञ्चशतंज्ञेयंविचक्षणैः ॥ १,२१.१२ चौरादिसंकटेज्ञेयंपार्थिवानांशतद्वयम् ॥ १,२१.१३ डाकिन्यादिभयेपञ्चशतमुक्तंजपार्थिवम् ॥ १,२१.१३ दारिद्र्येपञ्चसाहस्रमयुतंसर्वकामदम् ॥ १,२१.१४ अथनित्यविधिंवक्ष्येशृणुध्वंमुनिसत्तमाः ॥ १,२१.१४ एकंपापहरंप्रोक्तंद्विलिंगंचार्थसिद्धिदम् ॥ १,२१.१५ त्रिलिंगंसर्वकामानांकारणंपरमीरितम् ॥ १,२१.१५ उत्तरोत्तरमेवंस्यात्पूर्वोक्तगणानाविधि ॥ १,२१.१६ मतांतरमथोवक्ष्येसंख्यायांमुनिभेदतः ॥ १,२१.१६ लिंगानामयुतंकृत्वापार्थिवानांसुबुद्धिमान् ॥ १,२१.१७ निर्भयोहिभवेन्नूनंमहाराजभयंहरेत् ॥ १,२१.१७ कारागृहादिमुक्त्यर्थमयुतंकारयेद्बुधः ॥ १,२१.१८ डाकिन्यादिभयेसप्तसहस्रंकारयेत्तथा ॥ १,२१.१८ सहस्राणिपञ्चपञ्चाशदपुत्रःप्रकारयेत् ॥ १,२१.१९ लिंगानामयुतेनैवकन्यकासंततिंलभेत् ॥ १,२१.१९ लिंगानामयुतेनैवविष्ण्वादैश्वर्यमाप्नुयात् ॥ १,२१.२० लिंगानांप्रयुतेनैवह्यतुलांश्रियमाप्नुयात् ॥ १,२१.२० कोटिमेकांतुलिंगानां यः करोतिनरोभुवि ॥ १,२१.२१ शिव एवभवेत्सोपिनात्रकार्या विचारणा ॥ १,२१.२१ अर्चा पार्थिवलिंगानां कोटियज्ञफलप्रदा ॥ १,२१.२२ भुक्तिदामुक्तिदानित्यंततःकामर्थिनांनृणाम् ॥ १,२१.२२ विनालिंगार्चनं यस्य कालोगच्छति नित्यशः ॥ १,२१.२३ महाहानिर्भवेत्तस्यदुर्वृत्तस्यदुरात्मनः ॥ १,२१.२३ एकतः सर्वदानानि व्रतानि विविधानि च ॥ १,२१.२४ तीर्थानिनियमायज्ञालिंगार्चाचैकतः स्मृता ॥ १,२१.२४ कलौलिंगार्चनंश्रेष्ठंतथालोकेप्रदृश्यते ॥ १,२१.२५ तथानास्तीति शास्त्राणामेष सिद्धान्तनिश्चयः ॥ १,२१.२५ भुक्तिमुक्तिप्रदंलिंगं विविधापन्निवारणम् ॥ १,२१.२६ पूजयित्वानरोनित्यं शिवसायुज्यमाप्नुयात् ॥ १,२१.२६ शिवानाममयं लिंगंनित्यं पूज्यं महर्षिभिः ॥ १,२१.२७ यतश्च सर्वलिंगेषु तस्मात्पूज्यंविधानतः ॥ १,२१.२७ उत्तमं मध्यमं नीचं त्रिविधं लिंगमीरितम् ॥ १,२१.२८ मानतो मुनिशार्दूलास्तच्छृणुध्वं वदाम्यहम् ॥ १,२१.२८ चतुरंगुलमुच्छ्रायंरम्यंवेदिकयायुतम् ॥ १,२१.२९ उत्तमंलिंगमाख्यातंमुनिभिःशास्त्रकोविदैः ॥ १,२१.२९ तदर्धंमध्यमंप्रोक्तंतदर्धमघमंस्मृतम् ॥ १,२१.३० इत्थंत्रिविधमाख्यातमुत्तरोत्तरतःपरम् ॥ १,२१.३० अनेकलिंगंयोनित्यंभक्तिश्रद्धासमन्वितः ॥ १,२१.३१ पूजयेत्सलभेत्कामान्मनसा मानसेप्सितान् ॥ १,२१.३१ नलिंगाराधनादन्यत्पुण्यंवेदचतुष्टये ॥ १,२१.३२ विद्यतेसर्वशास्त्राणामेष एवविनिश्चयः ॥ १,२१.३२ सर्वमेतत्परित्यज्यकर्मजालमशेषतः ॥ १,२१.३३ भक्त्यापरमया विद्वांल्लिंगमेकंप्रपूजयेत् ॥ १,२१.३३ लिंगेर्चितेर्चितंसर्वंजगत्स्थावरजंगमम् ॥ १,२१.३४ संसारांबुधिमग्नानांनान्यत्तारणसाधनम् ॥ १,२१.३४ अज्ञानतिमिरांधानांविषयासक्तचेतसाम् ॥ १,२१.३५ प्लवोनान्योस्तिजगतिलिंगाराधनमंतरा ॥ १,२१.३५ हरिब्रह्मादयोदेवामुनयोयक्षराक्षसाः ॥ १,२१.३६ गंधर्वाश्चरणास्सिद्धादैतेयादानवास्तथा ॥ १,२१.३६ नागाःशेषप्रभृतयोगरुडाद्याःखगास्तथा ॥ १,२१.३७ सप्रजापतयश्चान्येमनवःकिन्नरानराः ॥ १,२१.३७ पूजयित्वामहाभक्त्यालिंगंसर्वार्थसिद्धिदम् ॥ १,२१.३८ प्राप्ताःकामानभीष्टांश्चतांस्तान्सर्वान्हृदिस्थितान् ॥ १,२१.३८ ब्राह्मणःक्षत्रियोवैश्यःशूद्रोवाप्रतिलोमजः ॥ १,२१.३९ पूजयेत्सततंलिंगंतत्तन्मंत्रेणसादरम् ॥ १,२१.३९ किंबहूक्तेनमुनयःस्त्रीणामपितथान्यतः ॥ १,२१.४० अधिकारोस्तिसर्वेषांशिवलिंगार्चनेद्विजाः ॥ १,२१.४० द्विजानांवैदिकेनापिमार्गेणाराधनंवरम् ॥ १,२१.४१ अन्येषामपिजंतूनांवैदिकेननसंमतम् ॥ १,२१.४१ वैदिकानांद्विजानांचपूजावैदिकमार्गतः ॥ १,२१.४२ कर्तव्यानान्यमार्गेण इत्याहभगवाञ्छिवः ॥ १,२१.४२ दधीच गौतमादीनांशापेनादग्धचेतसाम् ॥ १,२१.४३ द्विजानां जायतेश्रद्धानैव वैदिककर्मणि ॥ १,२१.४३ योवैदिकमनादृत्यकर्मस्मार्तमथापिवा ॥ १,२१.४४ अन्यत्समाचरेन्मर्त्योनसंकल्पफलंलभेत् ॥ १,२१.४४ इत्थंकृत्वार्चनंशंभोर्नैवेद्यांतंविधानतः ॥ १,२१.४५ पूजयेदष्टमूर्तीश्चतत्रैवत्रिजगन्मयीः ॥ १,२१.४५ क्षितिरापोनलोवायुराकाशः सूर्यसोमकौ ॥ १,२१.४६ यजमान इति त्वष्टौमूर्तयःपरिकीर्तिताः ॥ १,२१.४६ शर्वोभवश्च रुद्रश्च उग्रोभीम इतीश्वरः ॥ १,२१.४७ महादेवः पशुपतिरेतान्मूर्तिभिरर्चयेत् ॥ १,२१.४७ पूजयेत्परिवारं चततःशंभोःसुभक्तितः ॥ १,२१.४८ ईशानादिक्रमात्तत्रचंदनाक्षतपत्रकैः ॥ १,२१.४८ ईशानंनन्दिनंचंडंमहाकालंचभृंगिणम् ॥ १,२१.४९ वृषंस्कंदंकपर्दीशंसोमंशुक्रंचतत्क्रमात् ॥ १,२१.४९ अग्रतोवीरभद्रं च पृष्ठेकीर्तिमुखं तथा ॥ १,२१.५० तत एकादशान्नुद्रान्पूजयेद्विधिनाततः ॥ १,२१.५० ततःपञ्चाक्षरं जप्त्वा शतरुद्रियमेव च ॥ १,२१.५१ स्तुतीर्नानाविधाः कृत्वा पञ्चांगपठनं तथा ॥ १,२१.५१ ततः प्रदक्षिणां कृत्वा नत्वा लिंगं विसर्जयेत् ॥ १,२१.५२ इतिप्रोक्तमशेषं च शिवपूजनमादरात् ॥ १,२१.५२ रात्रावुदङ्मुखः कुर्याद्देवकार्यंसदैवहि ॥ १,२१.५३ शिवार्चनं सदाप्येवंशुचिः कुर्यादुदङ्मुखः ॥ १,२१.५३ न प्राचीमग्रतः शंभोर्नोदीचीं शक्तिसंहितान् ॥ १,२१.५४ नप्रतीचींयतः पृष्ठमतोग्राह्यं समाश्रयेत् ॥ १,२१.५४ विनाभस्मत्रिपुंड्रेण विना रुद्राक्षमालया ॥ १,२१.५५ बिल्वपत्रं विना नैव पूजयेच्छंकरं बुधः ॥ १,२१.५५ भस्माप्राप्तौमुनिश्रेष्ठाः प्रवृत्ते शिवपूजने ॥ १,२१.५६ तस्मान्मृदापि कर्तव्यं ललाटे च त्रिपुण्ड्रकम् ॥ १,२१.५६ इति श्रीशिवमहापुराणे प्रथमायां विद्येश्वरसंहितायां साध्यसाधनखण्डे पार्थिवपूजनवर्णनं नामैकविंशो ऽध्यायः अध्याय २२ ऋष्य ऊचुः अग्राह्यं शिवनैवेद्यमिति पूर्वं श्रुतं वचः ॥ १,२२.१ ब्रूहि तन्निर्णयं बिल्वमाहात्म्यमपि सन्मुने ॥ १,२२.१ सूत उवाच शृणुध्वंमुनयःसर्वेसावधानतयाधुना ॥ १,२२. २ सर्वंवदामिसंप्रीत्या धन्या यूयं शिवव्रताः ॥ १,२२.२ शिवभक्तः शुचिः शुद्धः सद्व्रतीदृढनिश्चयः ॥ १,२२.३ भक्षयेच्छिवनैवेद्यंत्यजेदग्राह्यभावनाम् ॥ १,२२.३ दृष्ट्वापि शिवनैवेद्ये यांति पापानि दूरतः ॥ १,२२.४ भक्तेतुशिवनैवेद्येपुण्यान्या यांतिकोटिशः ॥ १,२२.४ अलं यागसहस्रेणाप्यलं यागार्बुदैरपि ॥ १,२२.५ भक्षिते शिवनैवेद्ये शिवसायुज्यमाप्नुयात् ॥ १,२२.५ यद्गृहेशिवनैवेद्यप्रचारोपिप्रजायते ॥ १,२२.६ तद्गृहंपावनंसर्वमन्यपावनकारणम् ॥ १,२२.६ आगतं शिवनैवेद्यं गृहीत्वा शिरसामुदा ॥ १,२२.७ भक्षणीयंप्रयत्ने न शिवस्मरणपूर्वकम् ॥ १,२२.७ आगतं शिवनैवेद्यमन्यदा ग्राह्यमित्यपि ॥ १,२२.८ विलंबेपापसंबंधोभवत्येव हि मानवे ॥ १,२२.८ न यस्य शिवनैवेद्यग्रहणेच्छाप्रजायते ॥ १,२२.९ सपापिष्ठोगरिष्ठःस्यान्नरकंयात्यपिध्रुवम् ॥ १,२२.९ हृदये चन्द्रकान्ते च स्वर्णरूप्यादिनिर्मिते ॥ १,२२.१० शिवदीक्षावताभक्तेनेदंभक्ष्यमितीर्यते ॥ १,२२.१० शिवदीक्षान्वितोभक्तो महाप्रसादसंज्ञकम् ॥ १,२२.११ सर्वेषामपि लिंगानां नैवेद्यं भक्षयेच्छुभम् ॥ १,२२.११ अन्यदीक्षायुजांन्ःणांशिवभक्तिरतात्मनाम् ॥ १,२२.१२ शृणुध्वंनिर्णयंप्रीत्याशिवनैवेद्यभक्षणे ॥ १,२२.१२ शालग्रामोद्भवे लिंगे रसलिंगेतथा द्विजाः ॥ १,२२.१३ पाषाणे राजतेस्वर्णेसुरसिद्धप्रतिष्ठिते ॥ १,२२.१३ काश्मीरे स्फाटिकेरात्ने ज्योतिर्लिंगेषु सर्वशः ॥ १,२२.१४ चान्द्रायणसमं प्रोक्तं शंभोर्नैवेद्यभक्षणम् ॥ १,२२.१४ ब्रह्महापि शुचिर्भूत्वा निर्माल्यंयस्तुधारयेत् ॥ १,२२.१५ भक्षयित्वाद्रुतंतस्यसर्वपापं प्रणश्यति ॥ १,२२.१५ चंडाधिकारोयत्रास्तितद्भाक्तव्यंनमानवैः ॥ १,२२.१६ चंडाधिकारोनोयत्रभोक्तव्यंतच्चभक्तितः ॥ १,२२.१६ बाणलिंगेचलौहेचसिद्धेलिंगेस्वयंभुवि ॥ १,२२.१७ प्रतिमासुचसर्वासुनचंडोधिकृतोभवेत् ॥ १,२२.१७ स्नापयित्वाविधानेनयोलिंगस्नापनोदकम् ॥ १,२२.१८ त्रिःपिबेत्त्रिविधंपापंतस्येहाशु विनश्यति ॥ १,२२.१८ अग्राह्यंशिवनैवेद्यं पत्रंपुष्पंफलंजलम् ॥ १,२२.१९ शालग्रामशिलासंगात्सर्वं याति पवित्रिताम् ॥ १,२२.१९ लोंगोपरि च यद्द्रव्यंतदग्राह्यं मुनीश्वराः ॥ १,२२.२० सुपवित्रं च तज्ज्ञेयं यल्लिंगस्पर्शबाह्यतः ॥ १,२२.२० नैवेद्यनिर्णयःप्रोक्त इत्थंवोमुनिसत्तमाः ॥ १,२२.२१ शृणुध्वं बिल्वमाहात्म्यं सावधानतया ऽदरात् ॥ १,२२.२१ महादेवस्वरूपोयं बिल्वोदेवैरपिस्तुतिः ॥ १,२२.२२ यथाकथंचिदेतस्यमहिमाज्ञायतेकथम् ॥ १,२२.२२ पुण्यतीर्थानियावंतिलोकेषुप्रथितान्यपि ॥ १,२२.२३ तानिसर्वाणितीर्थानिबिल्वमूलेवसंतिहि ॥ १,२२.२३ बिल्वमूले महादेवं लिंगरूपिणमव्ययम् ॥ १,२२.२४ यः पूजयति पुण्यात्मा स शिवं प्राप्नुयाद्ध्रुवम् ॥ १,२२.२४ बिल्वमूले जलैर्यस्तु मूर्धानमभिषिंचति ॥ १,२२.२५ स सर्वतीर्थस्नातःस्यात्स एव भुवि पावनः ॥ १,२२.२५ एतस्यबिल्वमूलस्याथालवालमनुत्तमम् ॥ १,२२.२६ जलाकुलंमहादेवोदृष्ट्वातुष्टोभवत्यलम् ॥ १,२२.२६ पूजयेद्विल्वमूलं यो गंधपुष्पादिभिर्नरः ॥ १,२२.२७ शिवलोकमवाप्नोतिसंततिर्वर्धते सुखम् ॥ १,२२.२७ बिल्वमूले दीपमालांयः कल्पयति सादरम् ॥ १,२२.२८ सतत्त्वज्ञानसंपन्नोमहेशांतर्गतोभवेत् ॥ १,२२.२८ बिल्वशाखां समादाय हस्तेन नवपल्लवम् ॥ १,२२.२९ गृहीत्वापूजयेद्बिल्वंसचपापैः प्रमुच्यते ॥ १,२२.२९ बिल्वमूले शिवरतं भोजयेद्यस्तु भक्तितः ॥ १,२२.३० एकंवाकोटिगुणितंतस्यपुण्यंप्रजायते ॥ १,२२.३० बिल्वमूले क्षीरमुक्तमन्नमाज्येन संयुतम् ॥ १,२२.३१ यो दद्याच्छिवभक्ताय स दरिद्रो न जायते ॥ १,२२.३१ सांगोपांगमिति प्रोक्तं शिवलिंगप्रपूजनम् ॥ १,२२.३२ प्रवृत्तानां निवृत्तानां भेदतो द्विविधं द्विजाः ॥ १,२२.३२ प्रवृत्तानां पीठपूजां सर्वपूजां समाचरेत् ॥ १,२२.३३ अभिषेकान्ते नैवेद्यं शाल्यन्नेन समाचरेत् ॥ १,२२.३४ पूजान्ते स्थापयेल्लिंगं पुटे शुद्धे पृथग्गृहे ॥ १,२२.३४ करपूजानिवृत्तानां स्वभोज्यं तु निवेदयेत् ॥ १,२२.३५ निवृत्तानां परंसूक्ष्मं लिंगमेव विशिष्यते ॥ १,२२.३५ विभूत्यभ्यर्चनं कुर्याद्विभूतिं च निवेदयेत् ॥ १,२२.३६ पूजां कृत्वा तथा लिंगंशिरसाधारयेत्सदा ॥ १,२२.३६ इति श्रीशिवमहापुराणे विद्येश्वरसंहितायां साध्यसाधनखण्डे शिवनैवेद्यवर्णनोनामद्वाविंशो ऽध्यायः अध्याय २३ ऋषय ऊचुः सूतसूतमहाभागव्यासशिष्यनमोस्तुते ॥ १,२३.१ तदेवव्यासतोब्रूहिभस्ममाहात्म्यमुत्तमम् ॥ १,२३.१ तथा रुद्राक्षमाहात्म्यं नाम माहात्म्यमुत्तमम् ॥ १,२३.२ त्रितयं ब्रूहिसुप्रीत्याममानंदयचेतसम् ॥ १,२३.२ सूत उवाच साधुपृष्टंभवद्भिश्चलोकानांहितकारकम् ॥ १,२३.३ भवंतोवैमहाधन्याः पवित्राः कुलभूषणाः ॥ १,२३.३ येषांचैवशिवःसाक्षाद्दैवतंपरमंशुभम् ॥ १,२३.४ सदाशिवकथालोकेवल्लभाभवतां सदा ॥ १,२३.४ तेधन्याश्चकृतार्थाश्चसफलंदेहधारणम् ॥ १,२३.५ उद्धृतञ्चकुलंतेषांयेशिवंसमुपासते ॥ १,२३.५ मुखेयस्यशिवनामसदाशिवशिवेतिच ॥ १,२३.६ पापानिनस्पृशंत्येवखदिरांगारंकयथा ॥ १,२३.६ श्रीशिवायनमस्तुभ्यंमुखंव्याहरतेयदा ॥ १,२३.७ तन्मुखंपावनंतीर्थंसर्वपापविनाशनम् ॥ १,२३.७ तन्मुखञ्चतथायोवैपश्यतिप्रीतिमान्नरः ॥ १,२३.८ तीर्थजन्यंफलंतस्यभवतीतिसुनिश्चितम् ॥ १,२३.८ यत्रत्रयंसदातिष्ठेदेतच्छुभतरंद्विजा ॥ १,२३.९ तस्यदर्शनमात्रेणवेणीस्नानफलंलभेत् ॥ १,२३.९ शिवनामविभूतिश्चतथारुद्राक्ष एव च ॥ १,२३.१० एतत्त्रयंमहापुण्यंत्रिवेणीसदृशंस्मृतम् ॥ १,२३.१० एतत्त्रयंशरीरेचयस्यतिष्ठतिनित्यशः ॥ १,२३.११ तस्यैवदर्शनंलोकेदुर्लभंपापहारकम् ॥ १,२३.११ तद्दर्शनंयथावेणीनोभयोरंतरंमनाक् ॥ १,२३.१२ एवंयोनविजानातिसपापिष्ठोनसंशयः ॥ १,२३.१२ विभूतिर्यस्यनोभालेनांगेरुद्राक्षधारणम् ॥ १,२३.१३ नास्ये शिवमयीवाणीतंत्यजेदधमंयथा ॥ १,२३.१३ शैवंनामयथागंगाविभूतिर्यमुनामता ॥ १,२३.१४ रुद्राक्षं विधिजाप्रोक्तासर्वपापाविनाशिनी ॥ १,२३.१४ शरीरेचत्रयंयस्यतत्फलंचैकतःस्थितम् ॥ १,२३.१५ एकतोवेणिकायाश्चस्नानजंतुफलंबुधैः ॥ १,२३.१५ तदेवंतुलितंपूर्वंब्रह्मणाहितकारिणा ॥ १,२३.१६ समानं चैवतज्जातंतस्माद्धार्यंसदाबुधैः ॥ १,२३.१६ तद्दिनंहिसमारभ्यब्रह्मविष्ण्वादिभिःसरैः ॥ १,२३.१७ धार्यते त्रितयंतच्चदर्शनात्पापहारकम् ॥ १,२३.१७ ऋष्य ऊचुः ईदृशंहिफलंप्रोक्तंनामादित्रितयोद्भवम् ॥ १,२३.१८ तन्माहात्म्यंविशेषेणवक्तुमर्हसिसुव्रत ॥ १,२३.१८ सूत उवाच ऋषयोहिमहाप्राज्ञाः सच्छैवाज्ञानिनांमराः ॥ १,२३.१९ तन्माहात्म्यंहिसद्भक्त्याशृणुतादरतोद्विजाः ॥ १,२३.१९ सुगूढमपि शास्त्रेषुपुराणेश्रुतिष्वपि ॥ १,२३.२० भवत्स्नेहान्मया विप्राःप्रकाशः क्रियते ऽधुना ॥ १,२३.२० कस्तत्त्रितयमाहात्म्यंसंजानातिद्विजोत्तमाः ॥ १,२३.२१ महेश्वरंविनासर्वंब्रह्माण्डेसदसत्परम् ॥ १,२३.२१ वच्म्यहंनाममाहात्म्यंयथाभक्तिसमासतः ॥ १,२३.२२ शृणुतप्रीतितोविप्राः सर्वपापहरंपरम् ॥ १,२३.२२ शिवेतिनामदावाग्नेर्महापातकपर्वताः ॥ १,२३.२३ भस्मीभवंत्यनायासात्सत्यंसत्यंनसंशयः ॥ १,२३.२३ पापमूलानि दुःखानिविविधान्यपिशौनक ॥ १,२३.२४ शिवनामैकनश्यानिनान्यनश्यानिसर्वथा ॥ १,२३.२४ सवैदिकः सपुण्यात्मासधन्यस्सबुधोमतः ॥ १,२३.२५ शिवनामजपासक्तोयोनित्यंभुविमानव ॥ १,२३.२५ भवंतिविविधाधर्मास्तेषांसद्यःफलोन्मुखाः ॥ १,२३.२६ येषांभवतिविश्वासःशिवनामजपेमुने ॥ १,२३.२६ पातकानिविनश्यंतियावंतिशिवनामतः ॥ १,२३.२७ भुवितावंतिपापानिक्रियंतेननरैर्मुने ॥ १,२३.२७ ब्रह्महत्यादिपापानांराशीनप्रमितान्मुने ॥ १,२३.२८ शिवनामद्रुतंप्रोक्तंनाशयत्यखिलान्नरैः ॥ १,२३.२८ शिवनामतरींप्राप्यसंसाराब्धिंतरंतिये ॥ १,२३.२९ संसारमूलपापानितानिनश्यंत्यसंशयम् ॥ १,२३.२९ संसारमूलभूतानांपातकानांमहामुने ॥ १,२३.३० शिवनामकुठारेणविनाशोजायतेध्रुवम् ॥ १,२३.३० शिवनामामृतंपेयंपापदावानलार्दितैः ॥ १,२३.३१ पापदावाग्नितप्तानांशांतिस्तेनविनानहि ॥ १,२३.३१ शिवेतिनामपीयूषवर्षवर्षधारापरिप्लुताः ॥ १,२३.३२ संसारदवमध्येपिनशोचंतिकदाचन ॥ १,२३.३२ शिवनाम्निमहद्भक्तिर्जातायेषांमहात्मनाम् ॥ १,२३.३३ तद्विधानांतुसहसामुक्तिर्भवतिसर्वथा ॥ १,२३.३३ अनेकजन्मभिर्येनतपस्तप्तंमुनीश्वर ॥ १,२३.३४ शिवनाम्निभवेद्भक्तिःसर्वपापापहारिणी ॥ १,२३.३४ यस्या साधारणं शंभुनाम्निभक्तिरखंडिता ॥ १,२३.३५ तस्यैवमोक्षः सुलभोनान्यस्येतिमतिर्मम ॥ १,२३.३५ कृत्वाप्यनेकपापानिशिवनामजपादरः ॥ १,२३.३६ सर्वपापविनिर्मुक्तोभवत्येवनसंशयः ॥ १,२३.३६ भवंतिभस्मसाद्वृक्षादवदग्धायथावने ॥ १,२३.३७ तथातावंतिदग्धानिपापानिशिवनामतः ॥ १,२३.३७ योनित्यंभस्मपूतांगः शिवनामजपादरः ॥ १,२३.३८ संतरत्येवसंसारंसघोरमपिशौनक ॥ १,२३.३८ ब्रह्मस्वहरणंकृत्वाहत्वापिब्राह्मणान्बहून् ॥ १,२३.३९ नलिप्यतेनरः पापैःशिवनामजपादरः ॥ १,२३.३९ विलोक्यवेदानखिलाञ्छिवनामजपःपरम् ॥ १,२३.४० संसारतारणोपाय इतिपूर्वैर्विनिश्चितः ॥ १,२३.४० किंबहूक्त्यामुनिश्रेष्ठाः श्लोकेनैकेनवच्म्यहम् ॥ १,२३.४१ शिवनाम्नोमहिमानंसर्वपापापहारिणम् ॥ १,२३.४१ पापानांहरणेशंभोर्नामः शक्तिर्हिपावनी ॥ १,२३.४२ शक्नोतिपातकंतावत्कर्तुंनापिनरः क्वचित् ॥ १,२३.४२ शिवनामप्रभावेणलेभेसद्गतिमुत्तमाम् ॥ १,२३.४३ इन्द्रद्युम्ननृपःपूर्वंमहापापः पुरामुने ॥ १,२३.४३ तथाकाचिद्द्विजायोषासौमुनेबहुपापिनी ॥ १,२३.४४ शिवनामप्रभावेणलेभेसद्गतिमुत्तमाम् ॥ १,२३.४४ इत्युक्तंवोद्विजश्रेष्ठानाममाहात्म्यमुत्तमम् ॥ १,२३.४५ शृणुध्वंभस्ममाहात्म्यंसर्वपावनपावनम् ॥ १,२३.४५ इति श्रीशिवमहापुराणे विद्येश्वरसंहितायां साध्यसाधनखंडेशिवनममाहात्म्यवर्णनोनामत्रयोविंशो ऽध्यायः अध्याय २४ सूत उवाच द्विविधंभस्मसंप्रोक्तंसर्वमंगलदंपरम् ॥ १,२४.१ तत्प्रकारमहंवक्ष्येसावधानतयाशृणु ॥ १,२४.१ एकंज्ञेयं महाभस्मद्वितीयंस्वल्पसंज्ञकम् ॥ १,२४.२ महाभस्म इतिप्रोक्तंभस्मनानाविधंपरम् ॥ १,२४.२ तद्भस्मत्रिविधंप्रोक्तंश्रोतंस्मार्तंचलौकिकम् ॥ १,२४.३ भस्मैव स्वल्पसज्ञाहिबहुधापरिकीर्तितम् ॥ १,२४.३ श्रौतंभस्मतथास्मार्तंद्विजानामेवकीर्तितम् ॥ १,२४.४ अन्येषामपिसर्वेषामपरंभस्मलौकिकम् ॥ १,२४.४ धारणंमंत्रतः प्रोक्तंद्विजानांमुनिपुंगवैः ॥ १,२४.५ केवलंधारणंज्ञेयमन्येषांमंत्रवर्जितम् ॥ १,२४.५ आग्नेयमुच्यतेभस्मदग्धगोमयसंभवम् ॥ १,२४.६ तदापिद्रव्यमित्युक्तंत्रिपुंड्रस्यमहामुने ॥ १,२४.६ अग्निहोत्रोत्थितंभस्मसंग्राह्यंवामनीषिभिः ॥ १,२४.७ अन्ययज्ञोत्थितंवापित्रिपुण्ड्रस्यचधारणे ॥ १,२४.७ अग्निरित्यादिभिर्मंत्रैर्जाबालोपनिषद्गतेः ॥ १,२४.८ सप्तभिधूलनंकार्यंभस्मनासजलेनच ॥ १,२४.८ वर्णानामाश्रमाणांचमंत्रतोमंत्रतोपि च ॥ १,२४.९ त्रिपुंड्रोद्धूलनंप्रोक्तजाबालैरादरेणच ॥ १,२४.९ भस्मनोद्धूलनंचैवयथातिर्यक्त्रिपुंड्रकम् ॥ १,२४.१० प्रमादादपिमोक्षार्थीनत्यजेदितिविश्रुतिः ॥ १,२४.१० शिवेनविष्णुनाचैवतथातिर्यक्त्रिपुंड्रकम् ॥ १,२४.११ उमादेवीचलक्ष्मींश्चवाचान्याभिश्चनित्यशः ॥ १,२४.११ ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्रैरपिचसंस्करैः ॥ १,२४.१२ अपभ्रंशैर्धृतंभस्मत्रिपुंड्रोद्धूलनात्मना ॥ १,२४.१२ उद्धूलनंत्रिपुंड्रंचश्रद्धयानाचरंतिये ॥ १,२४.१३ तेषांनास्तिसमाचारोवर्णाश्रमसमन्वितः ॥ १,२४.१३ उद्धूलनंत्रिपुंड्रंचश्रद्धयानाचरंतिये ॥ १,२४.१४ तेषांनास्तिविनिमुंक्तिस्संसाराज्जन्मकोटिभिः ॥ १,२४.१४ उद्धूलनंत्रिपुंड्रंचश्रद्धयानाचरन्तिये ॥ १,२४.१५ तेषांनास्तिशिवज्ञानंकल्पकोटिशतैरपि ॥ १,२४.१५ उद्धूलनंत्रिपुंड्रं च श्रद्धयानाचरन्तिये ॥ १,२४.१६ तेमहापातकैर्युक्ता इतिशास्त्रीयनिर्णयः ॥ १,२४.१६ उद्धूलनंत्रिपुंड्रंचश्रद्धयानाचरन्ति ये ॥ १,२४.१७ तेषामाचरितं सर्वंविपरीतफलाय हि ॥ १,२४.१७ महापातकयुक्तानां जंतूनांशर्वविद्विषाम् ॥ १,२४.१८ त्रिपुंड्रोद्धूलनद्वेषोजायतेसुदृढं मुने ॥ १,२४.१८ शिवाग्निकार्यं यः कृत्वाकुर्यात्त्रियायुषात्मवित् ॥ १,२४.१९ मुच्यतेसर्वपापैस्तुस्पृष्टेनभस्मनानरः ॥ १,२४.१९ सितेनभस्मनाकुर्यात्त्रिसन्ध्यंयस्त्रिपुण्ड्रकम् ॥ १,२४.२० सर्वपापविनिर्मुक्तः शिवेनसहमोदते ॥ १,२४.२० सितेनभस्मना कुर्यालाटे तु त्रिपुण्ड्रकम् ॥ १,२४.२१ योसावनादिभूतान्हिलोकानाप्तो मृतोभवेत् ॥ १,२४.२१ अकृत्वा भस्मनास्नानं न जपेद्वैषडक्षरम् ॥ १,२४.२२ त्रिपुंड्रं च रचित्वा तु विधिनाभस्मनाजपेत् ॥ १,२४.२२ अदयो वाधमो वापि सर्वपापान्वितोपि वा ॥ १,२४.२३ उषःपापान्वितो वापिमूर्खो वा पतितोपि वा ॥ १,२४.२३ यस्मिन्देशेवसेन्नित्यंभूतिशासनसंयुतः ॥ १,२४.२४ सर्वतीर्थैश्चक्रतुभिःसांनिध्यंक्रियतेसदा ॥ १,२४.२४ त्रिपुंड्रसहितो जीवः पूज्यः सर्वैः सुरासुरैः ॥ १,२४.२५ पापान्वितोपि शुद्धात्मा किं पुनः श्रद्धया युतः ॥ १,२४.२५ यस्मिन्देशे शिवज्ञानी भूतिशासनसंयुतः ॥ १,२४.२६ गतो यदृच्छयाद्यापि तस्मिस्तीर्थाः समागताः ॥ १,२४.२६ बहुनात्रकिमुक्तेनधार्यंभस्मसदा बुधैः ॥ १,२४.२७ लिंगार्चनंसदाकार्यंजप्योमंत्रःषडक्षरः ॥ १,२४.२७ ब्रह्मणाविष्णुनावापि रुद्रेणमुनिभिः सुरैः ॥ १,२४.२८ भस्मधारणमाहात्म्यंनशक्यंपरिभाषितुम् ॥ १,२४.२८ इति वर्णाश्रमाचारोलुप्तवर्णक्रियोपि च ॥ १,२४.२९ पापात्सकृत्त्रिपुंड्रस्यधारणात्सोपिमुच्यते ॥ १,२४.२९ येभस्मधारिणंत्यक्त्वाकर्मकुर्वंतिमानवाः ॥ १,२४.३० तेषां नास्तिविनिर्मोक्षः संसाराज्जन्मकोटिभिः ॥ १,२४.३० ते नाधीतंगुरोःसर्वंतेनसर्वमनुष्ठितम् ॥ १,२४.३१ येनविप्रेणशिरसित्रिपुंड्रंभस्मनाकृतम् ॥ १,२४.३१ ये भस्मधारिणं दृष्ट्वानराः कुर्वंतिताडनम् ॥ १,२४.३२ तेषांचंडालतोजन्मब्रह्मन्नूह्यंविपश्चिता ॥ १,२४.३२ मानस्तोकेनमंत्रेणमंत्रितंभस्मधारयेत् ॥ १,२४.३३ ब्राह्मणःक्षत्रियश्चैव प्रोक्तेष्वंगेषुभक्तिमान् ॥ १,२४.३३ वैश्यस्त्रियंबकेनैवशूद्रःपञ्चाक्षरेणतु ॥ १,२४.३४ अन्येषां विधवास्त्रीणां विधिः प्रोक्तश्चशूद्रवत् ॥ १,२४.३४ पञ्चब्रह्मादिमनुभिर्गृहस्थस्यविधीयते ॥ १,२४.३५ त्रियंबकेनमनुनाविधिर्वैब्रह्मचारिणः ॥ १,२४.३५ अघोरेणाथमनुनाविपिनस्थविधिःस्मृतः ॥ १,२४.३६ यतिस्तुप्रणवेनैव त्रिपुंड्रादीनिकारयेत् ॥ १,२४.३६ अतिवर्णाश्रमीनित्यंशिवोहंभावनात्परात् ॥ १,२४.३७ शिवयोगी च नियतमीशानेनापि धारयेत् ॥ १,२४.३७ न त्याज्यं सर्ववर्णैश्च भस्मधारणमुत्तमम् ॥ १,२४.३८ अन्यैरपि यथाजीवैस्सदेति शिवशासनम् ॥ १,२४.३८ भस्मस्नानेनयावंतः कणाः स्वाङ्गेप्रतिष्ठिताः ॥ १,२४.३९ तावंति शिवलिंगानि तनौधत्तेहिधारकः ॥ १,२४.३९ ब्राह्मणाः क्षत्रियावैश्याः शूद्राश्चापि च संकराः ॥ १,२४.४० स्त्रियोथविधवाबालाः प्राप्ताः पाखंडिकास्तथा ॥ १,२४.४० ब्रह्मचारीगृहीवन्यःसंन्यासीवाव्रतीतथा ॥ १,२४.४१ नार्योभस्मत्रिपुंड्रांकामुक्ता एवनसंशयः ॥ १,२४.४१ ज्ञानधृज्ञानतोवापिवह्निदाहसमोयथा ॥ १,२४.४२ ज्ञानाज्ञानधृतंभस्मपावयेत्सकलंनरम् ॥ १,२४.४२ नाश्नीयाज्जलमन्नमल्पमपिवा भस्माक्षधृत्याविना भुक्त्वावाथगृहीवनीपतियतिर्वर्णीतथासंकरः ॥ १,२४.४३ एनोभुङ्नरकंप्रयातिसतदागायत्रिजापेनतद्वर्णानां तु यतेस्तु मुख्यप्रणवाजपेन मुक्तंभवेत् ॥ १,२४.४३ त्रिपुंड्रं ये विनिंदंति निन्दन्तिशिवमेवते ॥ १,२४.४४ धारयंतिचयेभक्त्या धारयन्ति तमेवते ॥ १,२४.४४ धिग्भस्मरहितं भालंधिग्ग्राममशिवालयम् ॥ १,२४.४५ धिगनीशार्चनं जन्मधिग्विद्यामशिवाश्रयाम् ॥ १,२४.४५ येनिंदंतिमहेश्वरंत्रिजगतामाधारभूतंहरं ये निन्दंतित्रिपुंड्रधारणकरं दोषस्तु तद्दर्शने ॥ १,२४.४६ तेवैसंकरसूकरासुरखरश्वक्रोष्टुकीटोपमाजाता एव भवंतिपापपरमास्तेनारकाः केवलम् ॥ १,२४.४६ तेदृष्ट्वा शशिभास्करौनिशि दिनेस्वप्नेपिनोकेवलंपश्यंतुश्रुतिरुद्रसूक्तजपतोमुच्येततेनादृताः ॥ १,२४.४७ सत्संभाषणतोभवेद्धिनरकंनिस्तारवानास्थितंयेभस्मादिविधारणंहिपुरुषंनिंदंतिमंदाहिते ॥ १,२४.४७ नतांत्रिकस्त्वधिकृतोनोर्ध्वपुंड्रधरोमुने ॥ १,२४.४८ संतप्तचक्रचिह्नोत्रशिवयज्ञेबहिष्कृतः ॥ १,२४.४८ तत्रैतेबहवोलोकाबृहज्जाबालचोदिताः ॥ १,२४.४९ तेविचार्याःप्रयत्नेनततोभस्मरतोभवेत् ॥ १,२४.४९ यच्चंदनैश्चंदनकेपिमिश्रंधार्यंहिभस्मैवत्रिपुंड्रभस्मना ॥ १,२४.५० विभूतिभालोपरिकिंचनापिधार्यंसदानोयदिसंतिबुद्धयः ॥ १,२४.५० स्त्रीभिस्त्रिपुण्ड्रमलकावधि धारणीयं भस्मद्विजादिभिरथो विधवाभिरेवम् ॥ १,२४.५१ तद्वत्सदाश्रमवतां विशदाविभूतिर्धार्यापवर्गफलदासकलाघहन्त्री ॥ १,२४.५१ त्रिपुण्ड्रंकुरुतेयस्तु भस्मना विधिपूर्वकम् ॥ १,२४.५२ महापातकसंघातैर्मुच्यते चोपपातकैः ॥ १,२४.५२ ब्रह्मचारीगृहस्थोवावानप्रस्थोथवायतिः ॥ १,२४.५३ ब्रह्मक्षत्त्राश्चविट्शूद्रास्तथान्ये पतिताधमाः ॥ १,२४.५३ उद्धूलनंत्रिपुंड्रं च धृत्वाशुद्धाभवंतिच ॥ १,२४.५४ भस्मनोविधिना सम्यक्पापराशिंविहाय च ॥ १,२४.५४ भस्मधारी विशेषेण स्त्रीगोहत्यादिपातकैः ॥ १,२४.५५ वीरहत्याश्वहत्याभ्यां मुच्यतेनात्र संशयः ॥ १,२४.५५ परद्रव्यापहरणं परदाराभिमर्शनम् ॥ १,२४.५६ परनिन्दा परक्षेत्रहरणं परपीडनम् ॥ १,२४.५६ सस्यारामादिहरणं गृहदाहादिकर्म च ॥ १,२४.५७ गोहिरण्यमहिष्यादितिलकम्बलवाससाम् ॥ १,२४.५७ अन्नधान्यजलादीनां नीचेभ्यश्चपरिग्रहः ॥ १,२४.५८ दशवेश्यामतंगीषु वृषलीषु नटीषु च ॥ १,२४.५८ रजस्वलासु कन्यासु विधवासु च मैथुनम् ॥ १,२४.५९ मांसचर्मरसादीनां लवणस्य च विक्रयः ॥ १,२४.५९ पैशुन्यं कूटवादश्च साक्षिमिथ्याभिलाषिणाम् ॥ १,२४.६० एवमादीन्यसंख्यानि पापानि विधानि च ॥ १,२४.६० सद्य एव विनश्यंति त्रिपुंड्रस्य च धारणात् ॥ १,२४.६० शिवद्रव्यापहरणंशिवनिंदाचकुत्रचित् ॥ १,२४.६१ निंदाचशिवभक्तानांप्रायश्चित्तैर्नशुद्ध्यति ॥ १,२४.६१ रुद्राक्षं यस्य गात्रेषु ललाटे तु त्रिपंड्रकम् ॥ १,२४.६२ सचांडालोपिसंपूज्यस्सर्ववर्णोत्तमोत्तमः ॥ १,२४.६२ यानितीर्थानिलोकेस्मिन्गंगाद्यास्सरितश्चयोः ॥ १,२४.६३ स्नातोभवतिसर्वत्रललाटेयस्त्रिपुंड्रकम् ॥ १,२४.६३ सप्तकोटि महामंत्राः पञ्चाक्षरपुरस्सराः ॥ १,२४.६४ तथान्ये कोटिशो मंत्राः शैवकैवल्यहेतवः ॥ १,२४.६४ अन्ये मंत्राश्च देवानां सर्वसौख्यकरामुने ॥ १,२४.६५ ते सर्वे तस्य वश्याः स्युर्यो बिभर्ति त्रिपुंड्रकम् ॥ १,२४.६५ सहस्रं पूर्वजातानां सहस्रं जनयिष्यताम् ॥ १,२४.६६ स्ववंशजानां ज्ञातीनामुद्धरेद्यस्त्रिपुण्ड्रकृत् ॥ १,२४.६६ इह भुक्त्वाखिलान्भोगान्दीर्घायुर्व्याधिवर्जितः ॥ १,२४.६७ जीवितांते च मरणं सुखेनैव प्रपद्यते ॥ १,२४.६७ अष्टैश्वर्यगुणोपेतंप्राप्यदिव्यवपुः शिवम् ॥ १,२४.६८ दिव्यंविमानमारुह्यदिव्यत्रिदशसेवितम् ॥ १,२४.६८ विद्याधराणांसर्वेषांगंधर्वाणांमहौजसाम् ॥ १,२४.६९ इंद्रादिलोकपालानांलोकेषुचयथाक्रमम् ॥ १,२४.६९ भुक्त्वा भोगान्सुविपुलान्प्रजेशानां पदेषु च ॥ १,२४.७० ब्रह्मणः पदमासाद्यतत्रकन्याशतंलमेत् ॥ १,२४.७० तत्र ब्रह्मायुषोमानंभुक्त्वाभोगाननेकशः ॥ १,२४.७१ विष्णोर्लोकेलभेद्भोगंयावद्ब्रह्मशतात्ययः ॥ १,२४.७१ शिवलोकं ततः प्राप्य लब्ध्वेष्टं काममक्षयम् ॥ १,२४.७२ शिवसायुज्यमाप्नोतिसंशयोनात्रजायते ॥ १,२४.७२ सर्वोपनिषदांसारंसमालोक्यमुहुर्मुहुः ॥ १,२४.७३ इदमेव हि निर्णीतं परं श्रेयस्त्रिपुंड्रकम् ॥ १,२४.७३ विभूतिंनिंदतेयोवैब्राह्मणः सोन्यजातकः ॥ १,२४.७४ यातिचनरकेघोरेयावद्ब्रह्मा चतुर्मुखः ॥ १,२४.७४ श्राद्धेयज्ञेजपेहोमेवैश्वदेवेसुरार्चने ॥ १,२४.७५ धृतत्रिपुंड्रःपूतात्मामृत्युंजयतिमानवः ॥ १,२४.७५ जलस्नानं मलत्यागेभस्मस्नानंसदाशुचि ॥ १,२४.७६ मंत्रस्नानंहरेत्पापंज्ञानस्नानेपरंपदम् ॥ १,२४.७६ सर्वतीर्थेषुयत्पुण्यंसर्वतीर्थेषुयत्फलम् ॥ १,२४.७७ तत्फलंसमवाप्नोतिभस्मस्नानकरोनरः ॥ १,२४.७७ भस्मस्नानं परं तीर्थंगंगास्नानंदिनेदिने ॥ १,२४.७८ भस्मरूपीशिवःसाक्षाद्भस्म त्रैलोक्यपावनम् ॥ १,२४.७८ नतदूनंनतद्ध्यानंनतद्दानंजपोनसः ॥ १,२४.७९ त्रिपुंड्रेणविनायेन विप्रेण यदनुष्ठितम् ॥ १,२४.७९ वानप्रस्थस्यकन्यानांदीक्षाहीननृणां तथा ॥ १,२४.८० मध्याह्नात्प्राग्जलैर्युक्तंपरतोजलवर्जितम् ॥ १,२४.८० एवं त्रिपुंड्रं यः कुर्यान्नित्यंनियतमानसः ॥ १,२४.८१ शिवभक्तः सविज्ञेयो भुक्तिमुक्तिं च विंदति ॥ १,२४.८१ यस्यांगेनैवरुद्राक्ष एकोपिबहुपुण्यदः ॥ १,२४.८२ तस्यजन्मनिरर्थंस्यात्त्रिपुंड्ररहितो यदि ॥ १,२४.८२ एवंत्रिपुंड्रमाहात्म्यंसमासात्कथितंमया ॥ १,२४.८३ रहस्यंसर्वजंतूनां गोपनीयमिदं त्वया ॥ १,२४.८३ तिस्रोरेखाभवंत्येवस्थानेषुमुनिपुंगवाः ॥ १,२४.८४ ललाटादिषुसर्वेषुयथोक्तेषुबुधैर्मुने ॥ १,२४.८४ भ्रुवोर्मध्यंसमारभ्ययावदंतोभवेद्भ्रुवोः ॥ १,२४.८५ तावत्प्रमाणंसंधार्यं ललाटे च त्रिपुंड्रकम् ॥ १,२४.८५ मध्यमानामिकांगुल्यामध्येतुप्रतिलोमतः ॥ १,२४.८६ अंगुष्ठेन कृतारेखा त्रिपुंड्राख्या भिधीयते ॥ १,२४.८६ मध्येंगुलिभिरादाय तिसृभिर्भस्मयत्नतः ॥ १,२४.८७ त्रिपुण्ड्रधारयेद्भक्त्याभुक्तिमुक्तिप्रदंपरम् ॥ १,२४.८७ तिसृणामपि रेखानां प्रत्येकंनवदेवताः ॥ १,२४.८८ सर्वत्रांगेषुतावक्ष्येसावधानतया शृणु ॥ १,२४.८८ अकारो गार्हपत्याग्निर्भूधर्मश्च रजोगुणः ॥ १,२४.८९ ऋग्वेदश्च क्रियाशक्तिः प्रातःसवनमेव च ॥ १,२४.८९ महदेवश्च रेखायाः प्रथमायाश्च देवता ॥ १,२४.९० विज्ञेया मुनिशार्दूलाः शिवदीक्षापरायणैः ॥ १,२४.९० उकारो दक्षिणाग्निश्च नभस्तत्त्वं यजुस्तथा ॥ १,२४.९१ मध्यंदिनं च सवनमिच्छाशक्त्यंतरात्मकौ ॥ १,२४.९१ महेश्वरश्च रेखाया द्वितीयायाश्च देवता ॥ १,२४.९२ विज्ञेयामुनिशार्दूल शिवदीक्षापरायणैः ॥ १,२४.९२ मकाराहवनीयौ च परमात्मा तमोदिवौ ॥ १,२४.९३ ज्ञानशक्तिः सामवेदस्तृतीयं सवनं तथा ॥ १,२४.९३ शिवश्चैव च रेखायास्तृतियायाश्च देवता ॥ १,२४.९४ विज्ञेयामुनिशार्दूल शिवदीक्षापरायणौ ॥ १,२४.९४ एवं नित्यं नमस्कृत्य सद्भक्त्या स्थानदेवताः ॥ १,२४.९५ त्रिपुंड्रं धारयेच्छुद्धो भुक्तिंमुक्तिं च विंदति ॥ १,२४.९५ इत्युक्ताःस्थानदेवाश्चसर्वांगेषुमुनिश्वर ॥ १,२४.९६ तेषां संबंधिनोभक्त्यास्थानानिशृणुसांप्रतम् ॥ १,२४.९६ द्वात्रिंशत्स्थानके वार्धषोडशस्थानकेपि च ॥ १,२४.९७ अष्टस्थाने तथा चैव पञ्चस्थानेपि नान्यसेत् ॥ १,२४.९७ उत्तमांगे ललाटे च कर्णयोर्नेत्रयोस्तथा ॥ १,२४.९८ नासावक्त्रगलेष्वेवंहस्तद्वय अतःपरम् ॥ १,२४.९८ कूर्परे मणिबंधेचहृदयेपार्श्वयोर्द्वयोः ॥ १,२४.९९ नाभौमुष्कद्वयेचैवमूर्वोर्गुल्फेचजानुनि ॥ १,२४.९९ जंघाद्वयेपदद्वन्द्वेद्वात्रिंशत्स्थानमुत्तमम् ॥ १,२४.१०० अग्न्यब्भूवायुदिग्देशदिक्पालान्वसुभिः सह ॥ १,२४.१०० धराध्रुवश्चसोमश्च अपश्चेवानिलोनलः ॥ १,२४.१०१ प्रत्यूषश्च प्रभासश्चवसवोष्टप्रकीर्तिताः ॥ १,२४.१०१ एतेषांनाममात्रेणत्रिपुंड्रंधारयेद्बुधाः ॥ १,२४.१०२ कुर्याद्वाषोडशस्थानेत्रिपुण्ड्रंतुसमाहितः ॥ १,२४.१०२ शीर्षकेचललाटेचकंठेचांसद्वयेभुजे ॥ १,२४.१०३ कूर्परेमणिबंधेचहृदयेनाभिपार्श्वके ॥ १,२४.१०३ पृष्ठेचैवंप्रतिष्ठाययजेत्तत्राश्विदैवते ॥ १,२४.१०४ शिवशक्तिंतथारुद्रमीशंनारदमेवच ॥ १,२४.१०४ वामादिनवशक्तीश्च एताः षोडशदेवताः ॥ १,२४.१०५ नासत्योदस्रकश्चैव अश्विनौद्वौप्रकीर्तितौ ॥ १,२४.१०५ अथवामूर्ध्निकेशेचकर्मयोर्वदनेतथा ॥ १,२४.१०६ बाहुद्वये च हृदयेनाभ्यामूरुयुगेतथा ॥ १,२४.१०६ जानुद्वयेचपदयोः पृष्ठभागे च षोडश ॥ १,२४.१०७ शिवश्चन्द्रश्च रुद्रःको विघ्नेशोविष्णुरेव वा ॥ १,२४.१०७ श्रीश्चैवहृदयेशम्भुस्तथानाभौप्रजापतिः ॥ १,२४.१०८ नागश्चनागकन्याश्च उभयोरृषिकन्यकाः ॥ १,२४.१०८ पादयोश्चसमुद्राश्चतीर्थाः पृष्ठे विशालतः ॥ १,२४.१०९ इत्येव षोडश स्थानमथोच्यते ॥ १,२४.१०९ गुह्यस्थानं ललाटश्च कर्णद्वयमनुत्तमम् ॥ १,२४.११० अंसयुग्मं च हृदयं नाभिरित्येवमष्टकम् ॥ १,२४.११० ब्रह्मा च ऋषयः सप्तदेवताश्चप्रकीर्तिताः ॥ १,२४.१११ इत्येवं तु समुद्दिष्टं भस्मविद्भिर्मुनीश्वराः ॥ १,२४.१११ अथ वा मस्तकं बाहूहृदयं नाभिरेव च ॥ १,२४.११२ पञ्चस्थानान्यमून्याहुर्धारणे भस्मविज्जनाः ॥ १,२४.११२ यथासंभवनं कुर्याद्देशकालाद्यपेक्षया ॥ १,२४.११३ उद्धूलनेप्यशक्तिश्चेत्त्रिपुण्ड्रादीनि कारयेत् ॥ १,२४.११३ त्रिनेत्रंत्रिगुणाधारंत्रिवेदजनकंशिवम् ॥ १,२४.११४ स्मरन्नमः शिवायेति ललाटे तु त्रिपुण्ड्रकम् ॥ १,२४.११४ ईशाभ्यांनम इत्युक्त्वापार्श्वयोश्च त्रिपुण्ड्रकम् ॥ १,२४.११५ बीजाभ्यां नम इत्युक्त्वाधारयेत्तुप्रकोष्ठयोः ॥ १,२४.११५ कुर्यादधः पितृभ्यां च उमेशाभ्यांतथोपरि ॥ १,२४.११६ भीमायेतिततःपृष्ठेशिरसःपश्चिमेतथा ॥ १,२४.११६ इति श्रीशिवमहापुराणे विद्येश्वरसंहितायां भस्मधारणवर्णनोनाम चतुर्विंशो ऽध्यायः अध्याय २५ सूत उवाच शैनकर्षे महाप्राज्ञशिवरूपमहापते ॥ १,२५.१ शृणुरुद्राक्षमाहात्म्यं समासात्कथयाम्यहम् ॥ १,२५.१ शिवप्रियतमोज्ञेयो रुद्राक्षः परपावनः ॥ १,२५.२ दर्शनात्स्पर्शनाज्जाप्यात्सर्वपापहरःस्मृतः ॥ १,२५.२ पुरारुद्राक्षमहिमादेव्यग्रेकथितोमुने ॥ १,२५.३ लोकोपकरणार्थायशिवेन परमात्मना ॥ १,२५.३ शिव उवाच शृणुदेविमहेशानिरुद्राक्षमहिमाशिवे ॥ १,२५.४ कथयामितवप्रीत्याभक्तानांहितकाम्यया ॥ १,२५.४ दिव्यवर्षसहस्राणि महेशानिपुनःपुरा ॥ १,२५.५ तपःप्रकुर्वतस्त्रस्तंमनः संयम्यवै मम ॥ १,२५.५ स्वतंत्रेण परेशेन लोकोपकृतिकारिणा ॥ १,२५.६ लीलयापरमेशानि चक्षुरुन्मीलितंमया ॥ १,२५.६ पुटाभ्यांचारुचक्षुर्भ्यांपतिताजलबिंदवः ॥ १,२५.७ तत्राश्रुबिन्दवोजातावृक्षारुद्राक्षसंज्ञकाः ॥ १,२५.७ स्थावरत्वमनुप्राप्यभक्तानुग्रहकारणात् ॥ १,२५.८ ते दत्ताविष्णुभक्तेभ्यश्चतुर्वर्णेभ्य एव च ॥ १,२५.८ भूमौगौंडोद्भवांश्चक्रेरुद्राक्षाञ्छिववल्लभान् ॥ १,२५.९ मथुरायामयोध्यायालंकायांमलये तथा ॥ १,२५.९ सह्याद्रौचतथाकाश्यांदशेष्वन्येषुवातथा ॥ १,२५.१० परानसह्यपापौघभेदनाञ्छ्रुतिनोदनात् ॥ १,२५.१० ब्राह्मणाःक्षत्रियावैश्याःशूद्राजाताममाज्ञया ॥ १,२५.११ रुद्राक्षास्तेपृथिव्यांतुतज्जातीयाः शुभाक्षकाः ॥ १,२५.११ श्वेतरक्ताः पीतकृष्णावर्णाज्ञेयाः क्रमाद्बुधैः ॥ १,२५.१२ स्वजातीयंनृभिर्धार्यं रुद्राक्षंवर्णतः क्रमात् ॥ १,२५.१२ वर्णैस्तुतत्फलंधार्यंभुक्तिमुक्तिफलेप्सुभिः ॥ १,२५.१३ शिवभक्तैर्विशेषेणशिवयोः प्रीतयेसदा ॥ १,२५.१३ धात्रीफलप्रमाणंयच्छ्रेष्ठमेतदुदाहृतम् ॥ १,२५.१४ बदरीफलमात्रंतुमध्यमंसंप्रकीर्तितम् ॥ १,२५.१४ अधमंचणमात्रंस्यात्प्रक्रियैषापरोच्यते ॥ १,२५.१५ शृणुपार्वतिसुप्रीत्याभक्तानांहितकाम्यया ॥ १,२५.१५ बदरीफलमात्रंचयत्स्यात्किलमहेश्वरि ॥ १,२५.१६ तथापिफलदंलोकेसुखसौभाग्यवर्धनम् ॥ १,२५.१६ धात्रीफलसमंयत्स्यात्सर्वारिष्टविनाशनम् ॥ १,२५.१७ गुंजयासदृशंयत्स्यात्सर्वार्थफलसाधनम् ॥ १,२५.१७ यथायथालघुःस्याद्वैतथाधिकफलप्रदम् ॥ १,२५.१८ एकैकतःफलंप्रोक्तंदशांशैरधिकंबुधैः ॥ १,२५.१८ रुद्राक्षधारणंप्रोक्तंपापनाशनहेतवे ॥ १,२५.१९ तस्माच्चधारणीयोवैसर्वार्थसाधनोध्रुवम् ॥ १,२५.१९ यथाचदृश्यतेलोकेरुद्राक्षफलदः शुभः ॥ १,२५.२० नतथादृश्यते ऽन्याचमालिकापरमेश्वरि ॥ १,२५.२० समाःस्निग्धादृढाःस्थूलाःकंटकैःसंयुताःशुभाः ॥ १,२५.२१ रुद्राक्षाःकामदादेविभुक्तिमुक्तिप्रदाः सदा ॥ १,२५.२१ क्रिमिदुष्टंछिन्नभिन्नंकंटकैर्हीनमेवच ॥ १,२५.२२ व्रणयुक्तमवृत्तंचरुद्राक्षान्षड्विवर्जयेत् ॥ १,२५.२२ स्वयमेवकृतद्वारंरुद्राक्षंस्यदिहोत्तमम् ॥ १,२५.२३ यत्तुपौरुषयत्नेनकृतंतन्मध्यमंभवेत् ॥ १,२५.२३ रुद्राक्षधारणंप्राप्तंमहापातकनाशनम् ॥ १,२५.२४ रुद्रसंख्याशतंधृत्वरुद्ररूपोभवेन्नरः ॥ १,२५.२४ एकादशशतानीहधृत्वायत्फलमाप्यते ॥ १,२५.२५ तत्फलंशक्यतेनैव वक्तुं वर्षशतैरपि ॥ १,२५.२५ शतार्धेनयुतेः पञ्चशतैर्वै मुकुटं मतम् ॥ १,२५.२६ रुद्राक्षैर्विरचेत्सम्यग्भक्तिमान्पुरुषो वरः ॥ १,२५.२६ त्रिभिः शतैः षष्टियुक्तैस्त्रिरावृत्त्या तथा पुनः ॥ १,२५.२७ रुद्राक्षैरुपवीतं व निर्मीयाद्भक्तितत्परः ॥ १,२५.२७ शिखायांचत्रयंप्रोक्तंरुद्रक्षाणां महेश्वरि ॥ १,२५.२८ कर्णयोः षट्च षट्चैववामदक्षिणयोस्तथा ॥ १,२५.२८ शतमेकोत्तरंकंठेबाह्वोर्वैरुद्रसंख्यया ॥ १,२५.२९ कूर्परद्वारयोस्तत्रमणिबंधेतथापुनः ॥ १,२५.२९ उपवीतेत्रयंधार्यंशिवभक्तिरतैर्नरैः ॥ १,२५.३० शेषानुर्वरितान्पञ्चसम्मितान्धारयेत्कटौ ॥ १,२५.३० एतत्संख्याधृतायेनरुद्राक्षाः परमेश्वरि ॥ १,२५.३१ तद्रूपं तु प्रणम्यंहिस्तुत्यंसर्वैर्महेशवत् ॥ १,२५.३१ एवंभूतंस्थितंध्यानेयदाकृत्वासनैर्जनम् ॥ १,२५.३२ शिवेतिव्याहरंश्चैवदृष्ट्वापापैः प्रमुच्यते ॥ १,२५.३२ शतादिकसहस्रस्यविधिरेषप्रकीर्तितः ॥ १,२५.३३ तदभावेप्रकारोन्यः शुभः संप्रोच्यतेमया ॥ १,२५.३३ शिखायामेकरुद्राक्षंशिरसात्रिंशतंवहेत् ॥ १,२५.३४ पञ्चाशच्चगलेदध्याद्बाह्वोः षोडशषोडश ॥ १,२५.३४ मणिबंधे द्वादशद्विस्कंधे पञ्चशतंवहेत् ॥ १,२५.३५ अष्टोत्तरशतैर्माल्यमुपवीतंप्रकल्पयेत् ॥ १,२५.३५ एवंसहस्ररुद्राक्षान्धारयेद्योदृढव्रतः ॥ १,२५.३६ तंनमंतिसुराःसर्वेयथारुद्रस्तथैव सः ॥ १,२५.३६ एकंशिखायांरुद्राक्षंचत्वारिंशत्तुमस्तके ॥ १,२५.३७ द्वात्रिंशत्कण्ठदेशेतुवक्षस्यष्टोत्तरंशतम् ॥ १,२५.३७ एकैकंकर्णयोः षट्षड्बाह्वोःषोडशषोडश ॥ १,२५.३८ करयोरविमानेनद्विगुणेनमुनीश्वर ॥ १,२५.३८ संख्याप्रीतिर्धृयायेनसोपिशैवजनःपरः ॥ १,२५.३९ शिववत्पूजनीयोहिवंद्यस्सर्वैरभीक्ष्णशः ॥ १,२५.३९ शिरसीशानमंत्रेणकर्णेतत्पुरुषेण च ॥ १,२५.४० अघोरेणगलेधार्यंतेनैवहृदयेपि च ॥ १,२५.४० अघोरबीजमंत्रेण करयोर्धारयेत्सुधीः ॥ १,२५.४१ पञ्चदशाक्षग्रथितांवामदेवेनचोदरे ॥ १,२५.४१ पञ्चब्रह्मभिरंगश्चत्रिमालां पञ्चसप्त च ॥ १,२५.४२ अथवामूलमंत्रेण सर्वानक्षांस्तुधारयेत् ॥ १,२५.४२ मद्यंमांसंतुलशुनंपलाण्डुंशिग्रुमेव च ॥ १,२५.४३ श्लेष्मांतकं विड्वराहंभक्षणे वर्जयेत्ततः ॥ १,२५.४३ वलक्षंरुद्राक्षंद्विजतनुभिरेवेहविहितंसुरक्तंक्षत्राणांप्रमुदितमुमेपीतमसकृत् ॥ १,२५.४४ छिन्नं खंडितं भिन्नं विदीर्ण ततोवैश्यैर्धायप्रतिदिवसभावश्यकमहोतथाकृष्णंशूद्रैःश्रुतिगदितमार्गोयमगजे ॥ १,२५.४४ वर्णीवनीगृहयतीर्नियमेनदध्यादेतद्रहस्यपरमोनहिजातुतिष्ठेत् ॥ १,२५.४५ रुद्राक्षधारणमिदंसुकृतैश्चलभ्यंत्यक्त्वेदमेतदखिलान्नरकान्प्रयांति ॥ १,२५.४५ आदावामलकात्स्वतो लघुतरा रुग्णास्ततःकंटकैःसंदष्टाःक्रिमिभिस्तनूपकरणच्छिद्रेण हीनास्तथा ॥ १,२५.४६ धार्यानैव शुभेप्सुभिश्चणकवद्रुद्राक्षमप्यंततोरुद्राक्षोममलिंगमंगलमुमेसूक्ष्मंप्रशस्तंसदा ॥ १,२५.४६ सर्वाश्रमाणांवर्णानांस्त्रीशूद्रणांशिवाज्ञया ॥ १,२५.४७ धार्याः सदैवरुद्राक्षायतीनां प्रणवेन हि ॥ १,२५.४७ दिवाबिभ्रद्रात्रिकृतैरात्रौविभ्रद्दिवाकृतैः ॥ १,२५.४८ प्रातर्मध्याह्नसायाह्नेमुच्यतेसर्वपातकैः ॥ १,२५.४८ ये त्रिपुण्ड्र धरालोके जटाधारिण एव ये ॥ १,२५.४९ ये रुद्राक्षधरास्तेवैयमलोकंप्रयांतिन ॥ १,२५.४९ रुद्राक्षमेकंशिरसाबिभर्तितथात्रिपुण्ड्रंचललाटमध्ये ॥ १,२५.५० पञ्चाक्षरंयेहिजपंतिमंत्रंपूज्याभवद्भिः खलुतेहिसाधवः ॥ १,२५.५० यस्याङ्गेनास्तिरुद्राक्षस्त्रिपुण्ड्रंभालपट्टके ॥ १,२५.५१ मुखेपञ्चाक्षरंनास्तितमानययमालयम् ॥ १,२५.५१ ज्ञात्वाज्ञात्वातत्प्रभावंभस्मरुद्राक्षधारिणः ॥ १,२५.५२ तेपूज्याः सर्वदास्माकंनोनेतव्याः कदाचन ॥ १,२५.५२ एवमाज्ञापयामासकालोपिनिजकिङ्करान् ॥ १,२५.५३ तथेतिमत्त्वातेसर्वेतूष्णीमासन्सुविस्मिताः ॥ १,२५.५३ अत एवमहादेविरुद्राक्षोत्यघनाशनः ॥ १,२५.५४ तद्धरोमत्प्रियः शुद्धो ऽत्यघवानपिपार्वति ॥ १,२५.५४ हस्तेबाहौतथामूर्ध्निरुद्राक्षंधारयेत्तुयः ॥ १,२५.५५ अवध्यःसर्वभूतानांरुद्ररूपीचरेद्भुवि ॥ १,२५.५५ सुरासुराणांसर्वेषां वंदनीयःसदासवै ॥ १,२५.५६ पूजनीयो हि दृष्टस्यपापहाचयथाशिवः ॥ १,२५.५६ ध्यानज्ञानावमुक्तोपिरुद्राक्षंधारयेत्तुयः ॥ १,२५.५७ सर्वपापविनिर्मुक्तःसयातिपरमांगतिम् ॥ १,२५.५७ रुद्राक्षेणजपन्मन्त्रं पुण्यंकोटि गुणं भवेत् ॥ १,२५.५८ दशकोटिगुणंपुण्यंधारणाल्लभते नरः ॥ १,२५.५८ यावत्कालंहिजीवस्यशरीरस्थोभवेत्सवै ॥ १,२५.५९ तावत्कालंस्वल्पमृत्युर्नतंदेविबाधते ॥ १,२५.५९ त्रिपुंड्रेणचसंयुक्तंरुद्राक्षाविलसांगकम् ॥ १,२५.६० मृत्युंजयंजपंतंचदृष्ट्वारुद्रफलंलभेत् ॥ १,२५.६० पञ्चदेवप्रियश्चैवसर्वदेवप्रियस्तथा ॥ १,२५.६१ सर्वमन्त्राञ्जपेद्भक्तोरुद्राक्षमालयाप्रिये ॥ १,२५.६१ विष्ण्वादिदेवभक्ताश्चधारयेयुर्नसंशयः ॥ १,२५.६२ रुद्रभक्तो विशेषेणरुद्राक्षान्धारयेत्सदा ॥ १,२५.६२ रुद्राक्षाविविधाःप्रोक्तास्तेषां भेदान्वदाम्यहम् ॥ १,२५.६३ शृणुपार्वति सद्भक्त्या भुक्तिमुक्तिफलप्रदान् ॥ १,२५.६३ एकवक्त्रः शिवः साक्षाद्भुक्तिमुक्तिफलप्रदः ॥ १,२५.६४ तस्यदर्शनमात्रेणब्रह्महत्याव्यपोहति ॥ १,२५.६४ यत्रसंपूजितस्तत्रलक्ष्मीर्दूरतरा नहि ॥ १,२५.६५ नश्यंत्युपद्रवाःसर्वेसर्वकामाभवंतिहि ॥ १,२५.६५ द्विवक्त्रोदेवदेवेशस्सर्वकामफलप्रदः ॥ १,२५.६६ विशेषतः सरुद्राक्षोगोवधंनाशयेद्द्रुतम् ॥ १,२५.६६ त्रिवक्त्रोयोहिरुद्राक्षः साक्षात्साधनदस्सदा ॥ १,२५.६७ तत्प्रभावाद्भवेयुर्वैविद्याः सर्वाः प्रतिष्ठिताः ॥ १,२५.६७ चतुर्वक्त्रः स्वयंब्रह्मानरहत्यांव्यपोहति ॥ १,२५.६८ दर्शनात्स्पर्शनात्सद्यश्चतुर्वर्गफलप्रदः ॥ १,२५.६८ पञ्चवक्त्रः स्वयंरुद्रः कालाग्निर्नामतः प्रभुः ॥ १,२५.६९ सर्वमुक्तिप्रदश्चैवसर्वकामफलप्रदः ॥ १,२५.६९ अगम्यागमनंपापमभक्ष्यस्य च भक्षणम् ॥ १,२५.७० इत्यादि सर्वपापानि पञ्चवक्त्रोव्यपोहति ॥ १,२५.७० षड्वक्त्रःकार्तिकेयस्तुधारणाद्दक्षिणेभुजे ॥ १,२५.७१ ब्रह्महत्यादिकैः पापैर्मुच्यतेनात्र संशयः ॥ १,२५.७१ सप्तवक्त्रोमहेशानि ह्यनंगोनामनामतः ॥ १,२५.७२ धारणात्तस्य देवेशिदरिद्रोपीश्वरोभवेत् ॥ १,२५.७२ रुद्राक्षश्चाष्टवक्त्रश्च वसुमूर्तिश्च भैरवः ॥ १,२५.७३ धारणात्तस्य पूर्णायुर्मृतो भवति शूलभृत् ॥ १,२५.७३ भैरवोनववक्त्रश्च कपिलश्चमुनिःस्मृतः ॥ १,२५.७४ दुर्गावातदधिष्ठात्री नवरूपामहेश्वरी ॥ १,२५.७४ तं धारयेद्वामहस्ते रुद्राक्षंभक्तितत्परः ॥ १,२५.७५ सर्वेश्वरोभवेन्नूनंमम तुल्यो न संशयः ॥ १,२५.७५ दशवक्त्रो महेशानि स्वयं देवो जनार्दनः ॥ १,२५.७६ धारणात्तस्य देवेशि सर्वान्कामानवाप्नुयात् ॥ १,२५.७६ एकादशमुखोयस्तुरुद्राक्षःपरमेश्वरि ॥ १,२५.७७ सरुद्रोधारणात्तस्यसर्वत्रविजयीभवेत् ॥ १,२५.७७ द्वादशास्यं तु रुद्राक्षं धारयेत्केशदेशके ॥ १,२५.७८ आदित्याश्चैव ते सर्वेद्वादशैव स्थितास्तथा ॥ १,२५.७८ त्रयोदशमुखो विश्वेदेवस्तद्धारणान्नरः ॥ १,२५.७९ सर्वान्कामानवाप्नोति सौभाग्यं मंगलंलभेत् ॥ १,२५.७९ चतुर्दशमुखो यो हि रुद्राक्षः परमःशिवः ॥ १,२५.८० धारयेन्मूर्ध्नि तं भक्त्यासर्वपापं प्रणश्यति ॥ १,२५.८० इतिरुद्राक्षभेदा हि प्रोक्तावैमुखभेदतः ॥ १,२५.८१ तत्तन्मंत्राञ्छृणु प्रीत्या क्रमाच्छैल्लेश्वरात्मजे ॥ १,२५. ८१ अं ह्रीनमः १ अंनमः २ अंक्लींनमः ३ अंह्रींनमः ४ अंह्रींनमः ५ अंह्रीं हुं नमः ६ अंहुंनमः ७ अंहुंनमः ८ अंह्रींहुंनमः ९ अंह्रींनमः नमः १० अंह्रींहुंनमः ११ अंक्रों क्षौं रौं नमः १२ अंह्रींनमः १३ अंनम १४ भक्तिश्रद्धायुतश्चैव सर्वकामार्थसिद्धये ॥ १,२५.८२ रुद्राक्षान्धारयेन्मंत्रैर्देवनालस्य वर्जितः ॥ १,२५.८२ विना मंत्रेण हो धत्ते रुद्राक्षं भुविमानवः ॥ १,२५.८३ स याति नरकं घोरं यावदिन्द्राश्चतुर्दश ॥ १,२५.८३ रुद्राक्षमालिनंदृष्ट्वा भूतप्रेतपिशाचकाः ॥ १,२५.८४ डाकिनीशाकिनी चैव ये चान्ये द्रोहकारकाः ॥ १,२५.८४ कृत्रिमं चैव यत्किंचिदभिचारादिकंचयात् ॥ १,२५.८५ तत्सर्वंदूरतोयातिदृष्ट्वा शंकितविग्रहम् ॥ १,२५.८५ रुद्राक्षमालिनं दृष्ट्वा शिवो विष्णुः प्रसीदति ॥ १,२५.८६ देवीगणपतिस्सूर्यःसुराश्चान्येपिपार्वति ॥ १,२५.८६ एवंज्ञात्वातुमाहात्म्यंरुद्राक्षस्यमहेश्वरि ॥ १,२५.८७ सम्यग्धार्यास्समंत्राश्चभक्त्याधर्मविवृद्धये ॥ १,२५.८७ इत्युक्तंगिरिजाग्रेहिशिवेनपरमात्मना ॥ १,२५.८८ भस्मरूद्राक्षमाहात्म्यं भुक्तिमुक्तिफलप्रदम् ॥ १,२५.८८ शिवस्यातिप्रियौज्ञेयौ भस्मरुद्राक्षधारिणौ ॥ १,२५.८९ तद्धारणप्रभावद्धि भुक्तिर्मुक्तिर्न संशयः ॥ १,२५.८९ भस्मरुद्राक्षधारी यः शिवभक्तस्स उच्यते ॥ १,२५.९० पञ्चाक्षरजपासक्तः परिपूर्णश्चसन्मुखे ॥ १,२५.९० विनाभस्मत्रिपुंड्रेणविनारुद्राक्षमालया ॥ १,२५.९१ पूजितोपिमहादेवोनाभीष्टफलदायकः ॥ १,२५.९१ तत्सर्वं च समाख्यातं यत्पृष्टंहिमुनीश्वर ॥ १,२५.९२ भस्मरुद्राक्षमाहात्म्यं सर्वकामसमृद्धिदम् ॥ १,२५.९२ एतद्यःशृणुयान्नित्यंमाहात्म्यपरमंशुभम् ॥ १,२५.९३ रुद्राक्षभस्मनोर्भक्त्यासर्वान्कामानवाप्नुयात् ॥ १,२५.९३ इह सर्वसुखं भुक्त्वा पुत्रपौत्रादिसंयुतः ॥ १,२५.९४ लभेत्परत्र सन्मोक्षं शिवस्यातिप्रियो भवेत् ॥ १,२५.९४ विद्येश्वरसंहितेयं कथिता वो मुनीश्वराः ॥ १,२५.९५ सर्वसिद्धिप्रदा नित्यंमुक्तिदा शिवशासनात् ॥ १,२५.९५ इति श्रीशिवमहापुराणे प्रथमायां विद्येश्वरसंहितायां साध्यसाधनखण्डे रुद्राक्षमहात्म्यवर्णनोनाम पञ्चविंशो ऽध्यायः वायवीयसंहिता अथ श्रीशिवमहापुराणे सप्तमी वायवीयसंहिता प्रारभ्यते ॥ श्रीगणेशाय नमः ॥ श्रीगौरीशंकराभ्यां नमः ॥ अथ सप्तमी वायवीयसंहिता प्रारभ्यते ॥ अध्याय १ व्यास उवाच नमश्शिवाय सोमाय सगणाय ससूनवे ॥ ७.१,१.१ प्रधानपुरुषेशाय सर्गस्थित्यंतहेतवे ॥ ७.१,१.१ शक्तिरप्रतिमा यस्य ह्यैश्वर्यं चापि सर्वगम् ॥ ७.१,१.२ स्वामित्वं च विभुत्वं च स्वभावं संप्रचक्षते ॥ ७.१,१.२ तमजं विश्वकर्माणं शाश्वतं शिवमव्ययम् ॥ ७.१,१.३ महादेवं महात्मानं व्रजामि शरणं शिवम् ॥ ७.१,१.३ धर्मक्षेत्रे महातीर्थे गंगाकालिंदिसंगमे ॥ ७.१,१.४ प्रयागे नैमिषारण्ये ब्रह्मलोकस्य वर्त्मनि ॥ ७.१,१.४ मुनयश्शंसितात्मानः सत्यव्रतपरायणाः ॥ ७.१,१.५ महौजसो महाभागा महासत्रं वितेनिरे ॥ ७.१,१.५ तत्र सत्रं समाकर्ण्य तेषामक्लिष्टकर्मणाम् ॥ ७.१,१.६ साक्षात्सत्यवतीसूनोर्वेदव्यासस्य धीमतः ॥ ७.१,१.६ शिष्यो महात्मा मेधावी त्रिषु लोकेषु विश्रुतः ॥ ७.१,१.७ पञ्चावयवयुक्तस्य वाक्यस्य गुणदोषवित् ॥ ७.१,१.७ उत्तरोत्तरवक्ता च ब्रुवतो ऽपि बृहस्पतेः ॥ ७.१,१.८ मधुरः श्रवणानां च मनोज्ञपदपर्वणाम् ॥ ७.१,१.८ कथानां निपुणो वक्ता कालविन्नयवित्कविः ॥ ७.१,१.९ आजगाम स तं देशं सूतः पौराणिकोत्तमः ॥ ७.१,१.९ तं दृष्ट्वा सूतमायांतं मुनयो हृष्टमानसाः ॥ ७.१,१.१० तस्मै साम च पूजां च यथावत्प्रत्यपादयन् ॥ ७.१,१.१० प्रतिगृह्य सतां पूजां मुनिभिः प्रतिपादिताम् ॥ ७.१,१.११ उद्दिष्टमानसं भेजे नियुक्तो युक्तमात्मनः ॥ ७.१,१.११ ततस्तत्संगमादेव मुनीनां भावितात्मनाम् ॥ ७.१,१.१२ सोत्कंठमभवच्चितं श्रोतुं पौराणिकीं कथाम् ॥ ७.१,१.१२ तदा तमनुकूलाभिर्वाग्भिः पूज्य १ महर्षयः ॥ ७.१,१.१३ अतीवाभिमुखं कृत्वा वचनं चेदमब्रुवन् ॥ ७.१,१.१३ ऋषय ऊचुः रोमहर्षण सर्वज्ञ भवान्नो भाग्यगौरवात् ॥ ७.१,१.१४ संप्राप्तोद्य महाभाग शैवराज महामते ॥ ७.१,१.१४ पुराणविद्यामखिलां व्यासात्प्रत्यक्षमीयिवान् ॥ ७.१,१.१५ तस्मादाश्चर्यभूतानां कथानां त्वं हि भाजनम् ॥ ७.१,१.१५ रत्नानामुरुसाराणां रत्नाकर इवार्णवः ॥ ७.१,१.१६ यच्च भूतं यच्च भव्यं यच्चान्यद्वस्तु वर्तते ॥ ७.१,१.१६ न तवाविदितं किञ्चित्त्रिषु लोकेषु विद्यते ॥ ७.१,१.१७ त्वमदृष्टवशादस्मद्दर्शनार्थमिहागतः ॥ ७.१,१.१७ अकुर्वन्किमपि श्रेयो न वृथा गन्तुमर्हसि ॥ ७.१,१.१७ तस्माच्छ्राव्यतरं पुण्यं सत्कथाज्ञानसंहितम् ॥ ७.१,१.१८ वेदांतसारसर्वस्वं पुराणं श्रावयाशु नः ॥ ७.१,१.१८ एवमभ्यर्थितस्सूतो मुनिभिर्वेदवादिभिः ॥ ७.१,१.१९ श्लक्ष्णां च न्यायसंयुक्तां प्रत्युवाच शुभां गिरम् ॥ ७.१,१.१९ ५०२ सूत उवाच पूजितो ऽनुगृहीतश्च भवद्भिरिति चोदितः ॥ ७.१,१.२० कस्मात्सम्यङ्न विब्रूयां पुराणमृषिपूजितम् ॥ ७.१,१.२० अभिवंद्य महादेवं देवीं स्कंदं विनायकम् ॥ ७.१,१.२१ नंदिनं च तथा व्यासं साक्षात्सत्यवतीसुतम् ॥ ७.१,१.२१ वक्ष्यामि परमं पुण्यं पुराणं वेदसंमितम् ॥ ७.१,१.२२ शिवज्ञानार्णवं साक्षाद्भक्तिमुक्तिफलप्रदम् ॥ ७.१,१.२२ शब्दार्थन्यायसंयुक्तै रागमार्थैर्विभूषितम् ॥ ७.१,१.२३ श्वेतकल्पप्रसंगेन वायुना कथितं पुरा ॥ ७.१,१.२३ विद्यास्थानानि सर्वाणि पुराणानुक्रमं तथा ॥ ७.१,१.२४ तत्पुराणस्य चोत्पत्तिं ब्रुवतो मे निबोधत ॥ ७.१,१.२४ अंगानि वेदाश्चत्वारो मीमांसान्यायविस्तरः ॥ ७.१,१.२५ पुराणं धर्मशास्त्रं च विद्याश्चेताश्चतुर्दश ॥ ७.१,१.२५ आयुर्वेदो धनुर्वेदो गांधर्वश्चेत्यनुक्रमात् ॥ ७.१,१.२६ अर्थशास्त्रं परं तस्माद्विद्या ह्यष्टादश स्मृताः ॥ ७.१,१.२६ अष्टादशानां विद्यानामेतासां भिन्नवर्त्मनाम् ॥ ७.१,१.२७ आदिकर्ता कविस्साक्षाच्छूलपाणिरिति श्रुतिः ॥ ७.१,१.२७ स हि सर्वजगन्नाथः सिसृक्षुरखिलं जगत् ॥ ७.१,१.२८ ब्रह्माणं विदधे साक्षात्पुत्रमग्रे सनातनम् ॥ ७.१,१.२८ तस्मै प्रथमपुत्राय ब्रह्मणे विश्वयोनये ॥ ७.१,१.२९ विद्याश्चेमा ददौ पूर्वं विश्वसृष्ट्यर्थमीश्वरः ॥ ७.१,१.२९ पालनाय हरिं देवं रक्षाशक्तिं ददौ ततः ॥ ७.१,१.३० मध्यमं तनयं विष्णुं पातारं ब्रह्मणो ऽपि हि ॥ ७.१,१.३० लब्धविद्येन विधिना प्रजासृष्टिं वितन्वता ॥ ७.१,१.३१ प्रथमं सर्वशास्त्राणां पुराणं ब्रह्मणा स्मृतम् ॥ ७.१,१.३१ अनंतरं तु वक्त्रेभ्यो वेदास्तस्य विनिर्गताः ॥ ७.१,१.३२ प्रवृत्तिस्सर्वशास्त्राणां तन्मुखादभवत्ततः ॥ ७.१,१.३२ यदास्य विस्तरं शक्ता नाधिगंतुं प्रजा भुवि ॥ ७.१,१.३३ तदा विद्यासमासार्थं विश्वेश्वरनियोगतः ॥ ७.१,१.३३ द्वापरांतेषु विश्वात्मा विष्णुर्विश्वंभरः प्रभुः ॥ ७.१,१.३४ व्यासनाम्ना चरत्यस्मिन्नवतीर्य महीतले ॥ ७.१,१.३४ एवं व्यस्ताश्च वेदाश्च द्वापरेद्वापरे द्विजाः ॥ ७.१,१.३५ निर्मितानि पुराणानि अन्यानि च ततः परम् ॥ ७.१,१.३५ स पुनर्द्वापरे चास्मिन्कृष्णद्वैपायनाख्यया ॥ ७.१,१.३६ अरण्यामिव हव्याशी सत्यवत्यामजायत ॥ ७.१,१.३६ संक्षिप्य स पुनर्वेदांश्चतुर्धा कृतवान्मुनिः ॥ ७.१,१.३७ व्यस्तवेदतया लोके वेदव्यास इति श्रुतः ॥ ७.१,१.३७ पुराणानाञ्च संक्षिप्तं चतुर्लक्षप्रमाणतः ॥ ७.१,१.३८ अद्यापि देवलोके तच्छतकोटिप्रविस्तरम् ॥ ७.१,१.३८ यो विद्याच्चतुरो वेदान् सांगोपणिषदान्द्विजः ॥ ७.१,१.३९ न चेत्पुराणं संविद्यान्नैव स स्याद्विचक्षणः ॥ ७.१,१.३९ इतिहासपुराणाभ्यां वेदं समुपबृंहयेत् ॥ ७.१,१.४० बिभेत्यल्पश्रुताद्वेदो मामयं प्रतरिष्यति ॥ ७.१,१.४० सर्गश्च प्रतिसर्गश्च वंशो मन्वंतराणि च ॥ ७.१,१.४१ वंशानुचरितं चैव पुराणं पञ्चलक्षणम् ॥ ७.१,१.४१ दशधा चाष्टधा चैतत्पुराणमुपदिश्यते ॥ ७.१,१.४२ ५०२ बृहत्सूक्ष्मप्रभेदेन मुनिभिस्तत्त्ववित्तमैः ॥ ७.१,१.४२ ब्राह्मं पाद्मं वैष्णवं च शैवं भागवतं तथा ॥ ७.१,१.४३ भविष्यं नारदीयं च मार्कंडेयमतः परम् ॥ ७.१,१.४३ आग्नेयं ब्रह्मवैवर्तं लैंगं वाराहमेव च ॥ ७.१,१.४४ स्कान्दं च वामनं चैव कौर्म्यं मात्स्यं च गारुडम् ॥ ७.१,१.४४ ब्रह्मांडं चेति पुण्यो ऽयं पुराणानामनुक्रमः ॥ ७.१,१.४५ तत्र शैवं तुरीयं यच्छार्वं सर्वार्थसाधकम् ॥ ७.१,१.४५ ग्रंथो लक्षप्रमाणं तद्व्यस्तं द्वादशसंहितम् ॥ ७.१,१.४६ निर्मितं तच्छिवेनैव तत्र धर्मः प्रतिष्ठितः ॥ ७.१,१.४६ तदुक्तेनैव धर्मेण शैवास्त्रैवर्णिका नराः ॥ ७.१,१.४७ तस्माद्विमुकुतिमन्विच्छञ्च्छिवमेव समाश्रयेत् ॥ ७.१,१.४७ तमाश्रित्यैव देवानामपि मुक्तिर्न चान्यथा ॥ ७.१,१.४८ यदिदं शैवमाख्यातं पुराणं वेदसंमितम् ॥ ७.१,१.४९ तस्य भेदान्समासेन ब्रुवतो मे निबोधत ॥ ७.१,१.४९ विद्येश्वरं तथा रौद्रं वैनायकमनुत्तमम् ॥ ७.१,१.५० औमं मातृपुराणं च रुद्रैकादशकं तथा ॥ ७.१,१.५० कैलासं शतरुद्रं च शतरुद्राख्यमेव च ॥ ७.१,१.५१ सहस्रकोटिरुद्राख्यं वायवीयं ततःपरम् ॥ ७.१,१.५१ धर्मसंज्ञं पुराणं चेत्येवं द्वादश संहिताः ॥ ७.१,१.५२ विद्येशं दशसाहस्रमुदितं ग्रंथसंख्यया ॥ ७.१,१.५२ रौद्रं वैनायकं चौमं मातृकाख्यं ततः परम् ॥ ७.१,१.५३ प्रत्येकमष्टसाहस्रं त्रयोदशसहस्रकम् ॥ ७.१,१.५३ रौद्रकादशकाख्यं यत्कैलासं षट्सहस्रकम् ॥ ७.१,१.५४ शतरुद्रं त्रिसाहस्रं कोटिरुद्रं ततः परम् ॥ ७.१,१.५४ सहस्रैर्नवभिर्युक्तं सर्वार्थज्ञानसंयुतम् ॥ ७.१,१.५५ सहस्रकोटिरुद्राख्यमेकादशसहस्रकम् ॥ ७.१,१.५५ चतुस्सहस्रसंख्येयं वायवीयमनुत्तमम् ॥ ७.१,१.५६ धर्मसंज्ञं पुराणं यत्तद्द्वादशसहस्रकम् ॥ ७.१,१.५६ तदेवं लक्षमुद्दिष्टं शैवं शाखाविभेदतः ॥ ७.१,१.५७ पुराणं वेदसारं तद्भुक्तिमुक्तिफलप्रदम् ॥ ७.१,१.५७ व्यासेन तत्तु संक्षिप्तं चतुर्विंशत्सहस्रकम् ॥ ७.१,१.५८ शैवन्तत्र पुराणं वै चतुर्थं सप्तसंहितम् ॥ ७.१,१.५८ विद्येश्वराख्या तत्राद्या द्वितीया रुद्रसंहिता ॥ ७.१,१.५९ तृतीया शतरुद्राख्या कोटिरुद्रा चतुर्थिका ॥ ७.१,१.५९ पञ्चमी कथिता चोमा षष्ठी कैलाससंहिता ॥ ७.१,१.६० सप्तमी वायवीयाख्या सप्तैवं संहिता इह ॥ ७.१,१.६० विद्येश्वरं द्विसाहस्रं रौद्रं पञ्चशतायुतम् ॥ ७.१,१.६१ त्रिंशत्तथा द्विसाहस्रं सार्धैकशतमीरितम् ॥ ७.१,१.६१ शतरुद्रन्तथा कोटिरुद्रं व्योमयुगाधिकम् ॥ ७.१,१.६२ द्विसाहस्रं च द्विशतं तथोमं भूसहस्रकम् ॥ ७.१,१.६२ चत्वारिंशत्साष्टशतं कैलासं भूसहस्रकम् ॥ ७.१,१.६३ चत्वारिंशच्च द्विशतं वायवीयमतः परम् ॥ ७.१,१.६३ चतुस्साहस्रसंख्याकमेवं संख्याविभेदतः ॥ ७.१,१.६४ श्रुतम्परमपुण्यन्तु पुराणं शिवसंज्ञकम् ॥ ७.१,१.६४ चतुःसाहस्रकं यत्तु वायवीयमुदीरितम् ॥ ७.१,१.६५ तदिदं वर्तयिष्यामि भागद्वयसमन्वितम् ॥ ७.१,१.६५ नावेदविदुषे वाच्यमिदं शास्त्रमनुत्तमम् ॥ ७.१,१.६६ न चैवाश्रद्धधानाय नापुराणविदे तथा ॥ ७.१,१.६६ परीक्षिताय शिष्याय धार्मिकायानसूयवे ॥ ७.१,१.६७ प्रदेयं शिवभक्ताय शिवधर्मानुसारिणे ॥ ७.१,१.६७ पुराणसंहिता यस्य प्रसादान्मयि वर्तते ॥ ७.१,१.६८ नमो भगवते तस्मै व्यासायामिततेजसे ॥ ७.१,१.६८ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे विद्यावतारकथनं नामप्रथमो ऽध्यायः अध्याय २ सूत उवाच पुरा कालेन महता कल्पेतीते पुनःपुनः ॥ ७.१,२.१ अस्मिन्नुपस्थिते कल्पे प्रवृत्ते सृष्ठिकर्मणि ॥ ७.१,२.१ प्रतिष्ठितायां वार्तायां प्रबुद्धासु प्रजासु च ॥ ७.१,२.२ मुनीनां षट्कुलीयानां ब्रुवतामितरेतरम् ॥ ७.१,२.२ इदं परमिदं नेति विवादस्सुमहानभूत् ॥ ७.१,२.३ परस्य दुर्निरूपत्वान्न जातस्तत्र निश्चयः ॥ ७.१,२.३ ते ऽभिजग्मुर्विधातारं द्रष्टुं ब्रह्माणमव्ययम् ॥ ७.१,२.४ यत्रास्ते भगवान् ब्रह्मा स्तूयमानस्सुरासुरैः ॥ ७.१,२.४ मेरुशृंगे शुभे रम्ये देवदानवसंकुले ॥ ७.१,२.५ सिद्धचारणसंवादे यक्षगंधर्वसेविते ॥ ७.१,२.५ विहंगसंघसंघुष्टे मणिविद्रुमभूषिते ॥ ७.१,२.६ निकुंजकंदरदरीगृहानिर्झरशोभिते ॥ ७.१,२.६ तत्र ब्रह्मवनं नाम नानामृगसमाकुलम् ॥ ७.१,२.७ दशयोजनविस्तीर्णं शतयोजनमायतम् ॥ ७.१,२.७ सुरसामलपानीयपूर्णरम्यसरोवरम् ॥ ७.१,२.८ मत्तभ्रमरसंछन्नरम्यपुष्पितपादपम् ॥ ७.१,२.८ तरुणादित्यसंकाशं तत्र चारु महत्पुरम् ॥ ७.१,२.९ दुर्धर्षबलदृप्तानां दैत्यदानवरक्षसाम् ॥ ७.१,२.९ तप्तजांबूनदमयं प्रांशुप्राकारतोरणम् ॥ ७.१,२.१० निर्व्यूहवलभीकूटप्रतोलीशतमंडितम् ॥ ७.१,२.१० महार्हमणिचित्राभिर्लेलिहानमिवांबरम् ॥ ७.१,२.११ महाभवनकोटीभिरनेकाभिरलंकृतम् ॥ ७.१,२.११ तस्मिन्निवसति ब्रह्मा सभ्यैः सार्धं प्रजापतिः ॥ ७.१,२.१२ तत्र गत्वा महात्मानं साक्षाल्लोकपितामहम् ॥ ७.१,२.१२ दद्दशुर्मुनयो देवा देवर्षिगणसेवितम् ॥ ७.१,२.१३ शुद्धचामीकरप्रख्यं सर्वाभरणभूषितम् ॥ ७.१,२.१३ प्रसन्नवदनं सौम्यं पद्मपत्रायतेक्षणम् ॥ ७.१,२.१४ दिव्यकांतिसमायुक्तं दिव्यगंधानुलेपनम् ॥ ७.१,२.१४ दिव्यशुक्लांबरधरं दिव्यमालाविभूषितम् ॥ ७.१,२.१५ सुरासुरेन्द्रयोगींद्रवंद्यमानपदांबुजम् ॥ ७.१,२.१५ सर्वलक्षणयुक्तांग्या लब्धचामरहस्तया ॥ ७.१,२.१६ भ्राजमानं सरस्वत्या प्रभयेव दिवाकरम् ॥ ७.१,२.१६ तं दृष्ट्वा मुनयस्सर्वे प्रसन्नवदनेक्षणाः ॥ ७.१,२.१७ शिरस्यंजलिमाधाय तुष्टुवुस्सुरपुंगवम् ॥ ७.१,२.१७ मुनय ऊचुः नमस्त्रिमूर्तये तुभ्यं सर्गस्थित्यंतहेतवे ॥ ७.१,२.१८ पुरुषाय पुराणाय ब्रह्मणे परमात्मने ॥ ७.१,२.१८ नमः प्रधानदेहाय प्रधानक्षोभकारिणे ॥ ७.१,२.१९ त्रयोविंशतिभेदेन विकृतायाविकारिणे ॥ ७.१,२.१९ नमो ब्रह्माण्डदेहाय ब्रह्मांडोदरवर्तिने ॥ ७.१,२.२० तत्र संसिद्धकार्याय संसिद्धकरणाय च ॥ ७.१,२.२० नमोस्तु सर्वलोकाय सर्वलोकविधायिने ॥ ७.१,२.२१ सर्वात्मदेहसंयोग वियोगविधिहेतवे ॥ ७.१,२.२१ त्वयैव निखिलं सृष्टं संहृतं पालितं जगत् ॥ ७.१,२.२२ तथापि मायया नाथ न विद्मस्त्वां पितामह ॥ ७.१,२.२२ सूत उवाच एवं ब्रह्मा महाभागैर्महर्षिभिरभिष्टुतः ॥ ७.१,२.२३ प्राह गंभीरया वाचा मुनीन् प्रह्लादयन्निव ॥ ७.१,२.२३ ब्रह्मोवाच ऋषयो हे महाभागा महासत्त्वा महौजसः ॥ ७.१,२.२४ किमर्थं सहितास्सर्वे यूयमत्र समागताः ॥ ७.१,२.२४ तमेवंवादिनं देवं ब्रह्माणं ब्रह्मवित्तमाः ॥ ७.१,२.२५ वाग्भिर्विनयगर्भाभिस्सर्वे प्रांजलयो ऽब्रुवन् ॥ ७.१,२.२५ मुनय ऊचुः भगवन्नंधकारेण महता वयमावृताः ॥ ७.१,२.२६ खिन्ना विवदमानाश्च न पश्यामो ऽत्र यत्परम् ॥ ७.१,२.२६ त्वं हि सर्वजगद्धाता सर्वकारणकारणम् ॥ ७.१,२.२७ त्वया ह्यविदितं नाथ नेह किंचन विद्यते ॥ ७.१,२.२७ कः पुमान् सर्वसत्त्वेभ्यः पुराणः पुरुषः परः ॥ ७.१,२.२८ विशुद्धः परिपूर्णश्च शाश्वतः परमेश्वरः ॥ ७.१,२.२८ केनैव चित्रकृत्येन प्रथमं सृज्यते जगत् ॥ ७.१,२.२९ तत्त्वं वद महाप्राज्ञ स्वसंदेहापनुत्तये ॥ ७.१,२.२९ एवं पृष्टस्तदा ब्रह्मा विस्मयस्मेरवीक्षणः ॥ ७.१,२.३० देवानां दानवानां च मुनीनामपि सन्निधौ ॥ ७.१,२.३० उत्थाय सुचिरं ध्यात्वा रुद्र इत्युद्धरन् गिरिम् ॥ ७.१,२.३१ आनंदक्लिन्नसर्वांगः कृतांजलिरभाषत ॥ ७.१,२.३१ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे मुनिप्रस्ताववर्णनं नाम द्वितीयो ऽध्यायः अध्याय ३ ब्रहमोवाच यतो वाचो निवर्तंते अप्राप्य मनसा सह ॥ ७.१,३.१ आनंदं यस्य वै विद्वान्न बिभेति कुतश्चन ॥ ७.१,३.१ यस्मात्सर्वमिदं ब्रह्मविष्णुरुद्रेन्द्रपूर्वकम् ॥ ७.१,३.२ सह भूतेन्द्रियैः सर्वैः प्रथमं संप्रसूयते ॥ ७.१,३.२ कारणानां च यो धाता ध्याता परमकारणम् ॥ ७.१,३.३ न संप्रसूयते ऽन्यस्मात्कुतश्चन कदाचन ॥ ७.१,३.३ सर्वैश्वर्येण संपन्नो नाम्ना सर्वेश्वरः स्वयम् ॥ ७.१,३.४ सर्वैर्मुमुक्षुभिर्ध्येयश्शंभुराकाशमध्यगः ॥ ७.१,३.४ यो ऽग्रे मां विदधे पुत्रं ज्ञानं च प्रहिणोति मे ॥ ७.१,३.५ तत्प्रसादान्मयालब्धं प्राजापत्यमिदं पदम् ॥ ७.१,३.५ ईशो वृक्ष इव स्तब्धो य एको दिवि तिष्ठति ॥ ७.१,३.६ येनेदमखिलं पूर्णं पुरुषेण महात्मना ॥ ७.१,३.६ ५०४ एको बहूनां जंतूनां निष्क्रियाणां च सक्रियः ॥ ७.१,३.७ य एको बहुधा बीजं करोति स महेश्वरः ॥ ७.१,३.७ जीवैरेभिरिमांल्लोकान्सर्वानीशो य ईशते १ ॥ ७.१,३.८ य एको भागवान्रुद्रो न द्वितीयो ऽस्ति कश्चन ॥ ७.१,३.८ सदा जनानां हृदये संनिविष्टो ऽपि यः परैः ॥ ७.१,३.९ अलक्ष्यो लक्षयन्विश्वमधितिष्ठति सर्वदा ॥ ७.१,३.९ यस्तु कालात्प्रमुक्तानि कारणान्यखिलान्यपि ॥ ७.१,३.१० अनन्तशक्तिरेवैको भगवानधितिष्ठति ॥ ७.१,३.१० न यस्य दिवसो रात्रिर्न समानो न चाधिकः ॥ ७.१,३.११ स्वभाविकी पराशक्तिर्नित्या ज्ञानक्रिये अपि ॥ ७.१,३.११ यदिदं क्षरमव्यक्तं यदप्यमृतमक्षरम् ॥ ७.१,३.१२ तावुभावक्षरात्मानावेको देवः स्वयं हरः ॥ ७.१,३.१२ ईशते तदभिध्यानाद्योजनासत्त्वभावनः ॥ ७.१,३.१३ भूयो ह्यस्य पशोरन्ते विश्वमाया निवर्तते ॥ ७.१,३.१३ यस्मिन्न भासते विद्युन्न सूर्यो न च चन्द्रमाः ॥ ७.१,३.१४ यस्य भासा विभातीदमित्येषा शाश्वती श्रुतिः ॥ ७.१,३.१४ एको देवो महादेवो विज्ञेयस्तु महेश्वरः ॥ ७.१,३.१५ न तस्य परमं किंचित्पदं समधिगम्यते ॥ ७.१,३.१५ अयमादिरनाद्यन्तस्स्वभावादेव निर्मलः ॥ ७.१,३.१६ स्वतन्त्रः परिपूर्णश्च स्वेच्छाधीनश्चराचरः ॥ ७.१,३.१६ अप्राकृतवपुः श्रीमांल्लक्ष्यलक्षणवर्जितः ॥ ७.१,३.१७ अयं मुक्तो मोचकश्च ह्यकालः कालचोदकः ॥ ७.१,३.१७ सर्वोपरिकृतावासस्सर्वावासश्च सर्ववित् ॥ ७.१,३.१८ षड्विधाध्वमयस्यास्य सर्वस्य जगतः पतिः ॥ ७.१,३.१८ उत्तरोत्तरभूतानामुत्तरश्च निरुत्तरः ॥ ७.१,३.१९ अनन्तानन्तसन्दोहमकरंदमधुव्रतः ॥ ७.१,३.१९ अखंडजगदंडानां पिंडीकरणपंडितः ॥ ७.१,३.२० औदार्यवीर्यगांभीर्यमाधुर्यमकरालयः ॥ ७.१,३.२० नैवास्य सदृशं वस्तु नाधिकं चापि किंचन ॥ ७.१,३.२१ अतुलः सर्वभूतानां राजराजश्च तिष्ठति ॥ ७.१,३.२१ अनेन चित्रकृत्येन प्रथमं सृज्यते जगत् ॥ ७.१,३.२२ अंतकाले पुनश्चेदं तस्मिन्प्रलयमेष्यते ॥ ७.१,३.२२ अस्य भूतानि वश्यानि अयं सर्वनियोजकः ॥ ७.१,३.२३ अयं तु परया भक्त्या दृश्यते नान्यथा क्वचित् ॥ ७.१,३.२३ व्रतानि सर्वदानानि तपांसि नियमास्तथा ॥ ७.१,३.२४ कथितानि पुरा सद्भिर्भावार्थं नात्र संशयः ॥ ७.१,३.२४ हरिश्चाहं च रुद्रश्च तथान्ये च सुरासुराः ॥ ७.१,३.२५ तपोभिरुग्रैरद्यापि तस्य दर्शनकांक्षिणः ॥ ७.१,३.२५ अदृश्यः पतितैर्मूढैर्दुर्जनैरपि कुत्सितैः ॥ ७.१,३.२६ भक्तैरन्तर्बहिश्चापि पूज्यः संभाष्य एव च ॥ ७.१,३.२६ तदिदं त्रिविधं रूपं स्थूलं सूक्ष्मं ततः परम् ॥ ७.१,३.२७ अस्मदाद्यमरैर्दृश्यं स्थूलं सूक्ष्मं तु योगिभिः ॥ ७.१,३.२७ १ शपो लुगभाव आर्ष ५०४ ततः परं तु यन्नित्यं ज्ञानमानंदमव्ययम् ॥ ७.१,३.२८ तन्निष्ठैस्तत्परैर्भक्तैर्दृश्यं तद्व्रतमाश्रितैः ॥ ७.१,३.२८ बहुनात्र किमुक्तेन गुह्याद्गुह्यतरं परम् ॥ ७.१,३.२९ शिवे भक्तिर्न सन्देहस्तया युक्तो विमुच्यते ॥ ७.१,३.२९ प्रसादादेव सा भक्तिः प्रसादो भक्तिसंभवः ॥ ७.१,३.३० यथा चांकुरतो बीजं बीजतो वा यथांकुरः ॥ ७.१,३.३० प्रसादपूर्विका एव पशोस्सर्वत्र सिद्धयः ॥ ७.१,३.३१ स एव साधनैरन्ते सर्वैरपि च साध्यते ॥ ७.१,३.३१ प्रसादसाधनं धर्मस्स च वेदेन दर्शितः ॥ ७.१,३.३२ तदभ्यासवशात्साम्यं पूर्वयोः पुण्यपापयोः ॥ ७.१,३.३२ साम्यात्प्रसादसंपर्को धर्मस्यातिशयस्ततः ॥ ७.१,३.३३ धर्मातिशयमासाद्य पशोः पापपरिक्षयः ॥ ७.१,३.३३ एवं प्रक्षीणपापस्य बहुभिर्जन्मभिः क्रमात् ॥ ७.१,३.३४ सांबे सर्वेश्वरे भक्तिर्ज्ञानपूर्वा प्रजायते ॥ ७.१,३.३४ भावानुगुणमीशस्य प्रसादो व्यतिरिच्यते ॥ ७.१,३.३५ प्रसादात्कर्मसंत्यागः फलतो न स्वरूपतः ॥ ७.१,३.३५ तस्मात्कर्मफलत्यागाच्छिवधर्मान्वयः शुभः ॥ ७.१,३.३६ स च गुर्वनपेक्षश्च तदपेक्ष इति द्विधा ॥ ७.१,३.३६ तत्रानपेक्षात्सापेक्षो मुख्यः शतगुणाधिकः ॥ ७.१,३.३७ शिवधर्मान्वयस्यास्य शिवज्ञानसमन्वयः ॥ ७.१,३.३७ ज्ञनान्वयवशात्पुंसः संसारे दोषदर्शनम् ॥ ७.१,३.३८ ततो विषयवैराग्यं वैराग्याद्भावसाधनम् ॥ ७.१,३.३८ भावसिद्ध्युपपन्नस्य ध्याने निष्ठा न कर्मणि ॥ ७.१,३.३९ ज्ञानध्यानाभियुक्तस्य पुंसो योगः प्रवर्तते ॥ ७.१,३.३९ योगेन तु परा भक्तिः प्रसादस्तदनंतरम् ॥ ७.१,३.४० प्रसादान्मुच्यते जंतुर्मुक्तः शिवसमो भवेत् ॥ ७.१,३.४० अनुग्रहप्रकारस्य क्रमो ऽयमविवक्षितः ॥ ७.१,३.४१ यादृशी योग्यता पुंसस्तस्य तादृगनुग्रहः ॥ ७.१,३.४१ गर्भस्थो मुच्यते कश्चिज्जायमानस्तथापरः ॥ ७.१,३.४२ बालो वा तरुणो वाथ वृद्धो वा मुच्यते परः ॥ ७.१,३.४२ तिर्यग्योनिगतः कश्चिन्मुच्यते नारको ऽपरः ॥ ७.१,३.४३ अपरस्तु पदं प्राप्तो मुच्यते स्वपदक्षये ॥ ७.१,३.४३ कश्चित्क्षीणपदो भूत्वा पुनरावर्त्य मुच्यते ॥ ७.१,३.४४ कश्चिदध्वगतस्तस्मिन् स्थित्वास्थित्वा विमुच्यते ॥ ७.१,३.४४ तस्मान्नैकप्रकारेण नराणां मुक्तिरिष्यते ॥ ७.१,३.४५ ज्ञानभावानुरूपेण प्रसादेनैव निर्वृतिः ॥ ७.१,३.४५ तस्मादस्य प्रसादार्थं वाङ्मनोदोषवर्जिताः ॥ ७.१,३.४६ ध्यायंतश्शिवमेवैकं सदारतनयाग्नयः ॥ ७.१,३.४६ तन्निष्ठास्तत्परास्सर्वे तद्युक्तास्तदुपाश्रयाः ॥ ७.१,३.४७ सर्वक्रियाः प्रकुर्वाणास्तमेव मनसागताः ॥ ७.१,३.४७ दीर्घसूत्रसमारब्धं दिव्यवर्षसहस्रकम् ॥ ७.१,३.४८ सत्रांते मंत्रयोगेन वायुस्तत्र गमिष्यति ॥ ७.१,३.४८ स एव भवतः श्रेयः सोपायं कथयिष्यति ॥ ७.१,३.४९ ५०५ ततो वाराणसी पुण्या पुरी परमशोभना ॥ ७.१,३.४९ गंतव्या यत्र विश्वेशो देव्या सह पिनाकधृक् ॥ ७.१,३.५० सदा विहरति श्रीमान् भक्तानुग्रहकारणात् ॥ ७.१,३.५० तत्राश्चर्यं महद्दृष्ट्वा मत्समीपं गमिष्यथ ॥ ७.१,३.५१ ततो वः कथयिष्यामि मोक्षोपाय द्विजोत्तमाः ॥ ७.१,३.५१ येनैकजन्मना मुक्तिर्युष्मत्करतले स्थिता ॥ ७.१,३.५२ अनेकजन्मसंसारबंधनिर्मोक्षकारिणी ॥ ७.१,३.५२ एतन्मनोमयं चक्रं मया सृष्टं विसृज्यते ॥ ७.१,३.५३ यत्रास्य शीर्यते नेमिः स देशस्तपसश्शुभः ॥ ७.१,३.५३ इत्युक्त्वा सूर्यसंकाशं चक्रं दृष्ट्वा मनोमयम् ॥ ७.१,३.५४ प्रणिपत्य महादेवं विससर्ज पितामहः ॥ ७.१,३.५४ ते ऽपि हृष्टतरा विप्राः प्रणम्य जगतां प्रभुम् ॥ ७.१,३.५५ प्रययुस्तस्य चक्रस्य यत्र नेमिरशीर्यत ॥ ७.१,३.५५ चक्रं तदपि संक्षिप्तं श्लक्ष्णं चारुशिलातले ॥ ७.१,३.५६ विमलस्वादुपानीये निजपात वने क्वचित् ॥ ७.१,३.५६ तद्वनं तेन विख्यातं नैमिषं मुनिपूजितम् ॥ ७.१,३.५७ अनेकयक्षगंधर्वविद्याधरसमाकुलम् ॥ ७.१,३.५७ अष्टादश समुद्रस्य द्वीपानश्नन्पुरूरवाः ॥ ७.१,३.५८ विलासवशमुर्वश्या यातो दैवेन चोदितः ॥ ७.१,३.५८ अक्रमेण हरन्मोहाद्यज्ञवाटं हिरण्मयम् ॥ ७.१,३.५९ मुनिभिर्यत्र संक्रुद्धैः कुशवज्रैर्निपातितः ॥ ७.१,३.५९ विश्वं सिसृक्षमाणा वै यत्र विश्वसृजः पुरा ॥ ७.१,३.६० सत्रमारेभिरे दिव्यं ब्रह्मज्ञा गार्हपत्यगाः ॥ ७.१,३.६० ऋषिभिर्यत्र विद्वद्भिः शब्दार्थन्यायकोविदैः ॥ ७.१,३.६१ शक्तिप्रज्ञाक्रियायोगैर्विधिरासीदनुष्ठितः ॥ ७.१,३.६१ यत्र वेदविदो नित्यं वेदवादबहिष्कृतान् ॥ ७.१,३.६२ वादजल्पबलैर्घ्नंति वचोभिरतिवादिनः ॥ ७.१,३.६२ स्फटिकमयमहीभृत्पादजाभ्यश्शिलाभ्यः प्रसरदमृतकल्पस्स्वच्छपानीयरम्यम् ॥ ७.१,३.६३ अतिरसफलवृक्षप्रायमव्यालसत्त्वं तपस उचितमासीन्नैमिषं तन्मुनीनाम् ॥ ७.१,३.६३ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे नैमिषोपाख्यानं नाम तृतीयो ऽध्यायः अध्याय ४ सूत उवाच तस्मिन्देशे महाभागा मुनयश्शंसितव्रताः ॥ ७.१,४.१ अर्चयंतो महादेवं सत्रमारेभिरे तदा ॥ ७.१,४.१ तच्च सत्रं प्रववृते सर्वाश्चर्यं महर्षिणाम् १ ॥ ७.१,४.२ विश्वं सिसृक्षमाणानां पुरा विश्वसृजामिव ॥ ७.१,४.२ अथ काले गते सत्रे समाप्ते भूरिदक्षिणे ॥ ७.१,४.३ पितामहनियोगेन वायुस्तत्रागमत्स्वयम् ॥ ७.१,४.३ शिष्यस्स्वयंभुवो देवस्सर्वप्रत्यक्षदृग्वशी ॥ ७.१,४.४ आज्ञायां मरुतो यस्य संस्थितास्सप्तसप्तकाः ॥ ७.१,४.४ १ दीर्घाभाव आर्षः ५०५ प्रेरयञ्छश्वदंगानि प्राणाद्याभिः स्ववृत्तिभिः ॥ ७.१,४.५ सर्वभूतशरीराणां कुरुते यश्च धारणम् ॥ ७.१,४.५ अणिमादिभिरष्टाभिरैश्वर्यैश्च समन्वितः ॥ ७.१,४.६ तिर्यक्कालादिभिर्मेध्यैर्भुवनानि बिभर्ति यः ॥ ७.१,४.६ आकाशयोनिर्द्विगुणः स्पर्शशब्दसमन्वयात् ॥ ७.१,४.७ तेजसां प्रकृतिश्चेति यमाहुस्तत्त्वचिंतकाः ॥ ७.१,४.७ तमाश्रमगतं दृष्ट्वा मुनयो दीर्घसत्रिणः ॥ ७.१,४.८ पितामहवचः स्मृत्वा प्रहर्षमतुलं ययुः ॥ ७.१,४.८ अभ्युत्थाय ततस्सर्वे प्रणम्यांबरसंभवम् ॥ ७.१,४.९ चामीकरमयं तस्मै विष्टरं समकल्पयन् ॥ ७.१,४.९ सोपि तत्र समासीनो मुनिभिस्सम्यगर्चितः ॥ ७.१,४.१० प्रतिनंद्य च तान् सर्वान् पप्रच्छ कुशलं ततः ॥ ७.१,४.१० वायुरुवाच अत्र वः कुशलं विप्राः कच्चिद्वृत्ते महाक्रतौ ॥ ७.१,४.११ कच्चिद्यज्ञहनो दैत्या न बाधेरन्सुरद्विषः ॥ ७.१,४.११ प्रायश्चित्तं दुरिष्टं वा न कच्चित्समजायत ॥ ७.१,४.१२ स्तोत्रशस्त्रगृहैर्देवान् पित्ःन् पित्र्यैश्च कर्मभिः ॥ ७.१,४.१२ कच्चिदभ्यर्च्य युष्माभिर्विधिरासीत्स्वनुष्ठितः ॥ ७.१,४.१३ निवृत्ते च महासत्रे पश्चात्किं वश्चिकीर्षितम् ॥ ७.१,४.१३ इत्युक्ता मुनयः सर्वे वायुना शिवभाविना ॥ ७.१,४.१४ प्रहृष्टमनसः पूताः प्रत्यूचुर्विनयान्विताः ॥ ७.१,४.१४ मुनय ऊचुः अद्य नः कुशलं सर्वमद्य साधु भवेत्तपः ॥ ७.१,४.१५ अस्मच्छ्रेयोभिवृद्ध्यर्थं भवानत्रागतो यतः ॥ ७.१,४.१५ शृणु चेदं पुरावृत्तं तमसाक्रांतमानसैः ॥ ७.१,४.१६ उपासितः पुरास्माभिर्विज्ञानार्थं प्रजापतिः ॥ ७.१,४.१६ सोप्यस्माननुगृह्याह शरण्यश्शरणागतान् ॥ ७.१,४.१७ सर्वस्मादधिको रुद्रो विप्राः परमकारणम् ॥ ७.१,४.१७ तमप्रतर्क्यं याथात्म्यं भक्तिमानेव पश्यति ॥ ७.१,४.१८ भक्तिश्चास्य प्रसादेन प्रसादादेव निर्वृतिः ॥ ७.१,४.१८ तस्मादस्य प्रसादार्थं नैमिषे सत्रयोगतः ॥ ७.१,४.१९ यजध्वं दीर्घसत्रेण रुद्रं परमकारणम् ॥ ७.१,४.१९ तत्प्रसादेन सत्रांते वायुस्तत्रागमिष्यति ॥ ७.१,४.२० तन्मुखाज्ज्ञानलाभो वस्तत्र श्रेयो भविष्यति ॥ ७.१,४.२० इत्यादिश्य वयं सर्वे प्रेषिता परमेष्ठिना ॥ ७.१,४.२१ अस्मिन्देशे महाभाग तवागमनकांक्षिणः ॥ ७.१,४.२१ दीर्घसत्रं समासीना दिव्यवर्षसहस्रकम् ॥ ७.१,४.२२ अतस्तवागमादन्यत्प्रार्थ्यं नो नास्ति किंचन ॥ ७.१,४.२२ इत्याकर्ण्य पुरावृत्तमृषीणां दीर्घसत्रिणाम् ॥ ७.१,४.२३ वायुः प्रीतमना भूत्वा तत्रासीन्मुनिसंवृतः ॥ ७.१,४.२३ ततस्तैर्मुनिभिः पृष्टस्तेषां भावविवृद्धये ॥ ७.१,४.२४ सर्गादि शार्वमैश्वर्यं समासाद वदद्विभुः ॥ ७.१,४.२४ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे वायुसमागमो नाम चतुर्थो ऽध्यायः ५०६ अध्याय ५ सूत उवाच तत्र पूर्वं महाभागा नैमिषारण्यवासिनः ॥ ७.१,५.१ प्रणिपत्य यथान्यायं पप्रच्छुः पवनं प्रभुम् ॥ ७.१,५.१ नैमिषीया ऊचुः भवान् कथमनुप्राप्तो ज्ञानमीश्वरगोचरम् ॥ ७.१,५.२ कथं च शिवभावस्ते ब्रह्मणो ऽव्यक्तजन्मनः ॥ ७.१,५.२ वायुरुवाच एकोनविंशतिः कल्पो विज्ञेयः श्वेतलोहितः ॥ ७.१,५.३ तस्मिन्कल्पे चतुर्वक्त्रस्स्रष्टुकामो ऽतपत्तपः ॥ ७.१,५.३ तपसा तेन तीव्रेण तुष्टस्तस्य पिता स्वयम् ॥ ७.१,५.४ दिव्यं कौमारमास्थाय रूपं रूपवतां वरः ॥ ७.१,५.४ श्वेतो नाम मुनिर्भूत्वा दिव्यां वाचमुदीरयन् ॥ ७.१,५.५ दर्शनं प्रददौ तस्मै देवदेवो महेश्वरः ॥ ७.१,५.५ तं दृष्ट्वा पितरं ब्रह्मा ब्रह्मणो ऽधिपतिं पतिम् ॥ ७.१,५.६ प्रणम्य परमज्ञानं गायत्र्या सह लब्धवान् ॥ ७.१,५.६ ततस्स लब्धविज्ञानो विश्वकर्मा चतुर्मुखः ॥ ७.१,५.७ असृजत्सर्वभूतानि स्थावराणि चराणि च ॥ ७.१,५.७ यतश्श्रुत्वामृतं लब्धं ब्रह्मणा परमेश्वरात् ॥ ७.१,५.८ ततस्तद्वदनादेव मया लब्धं तपोबलात् ॥ ७.१,५.८ मुनय ऊचुः किं तज्ज्ञानं त्वया लब्धं तथ्यात्तथ्यंतरं शुभम् ॥ ७.१,५.९ यत्र कृत्वा परां निष्ठां पुरुषस्सुखमृच्छति ॥ ७.१,५.९ वयुरुवाच पशुपाशपतिज्ञानं यल्लब्धं तु मया पुरा ॥ ७.१,५.१० तत्र निष्ठा परा कार्या पुरुषेण सुखार्थिना ॥ ७.१,५.१० अज्ञानप्रभवं दुःखं ज्ञानेनैव निवर्तते ॥ ७.१,५.११ ज्ञानं वस्तुपरिच्छेदो वस्तु च द्विविधं स्मृतम् ॥ ७.१,५.११ अजडं च जडं चैव नियंतृ च तयोरपि ॥ ७.१,५.१२ पशुः पाशः पतिश्चेति कथ्यते तत्त्रयं क्रमात् ॥ ७.१,५.१२ अक्षरं च क्षरं चैव क्षराक्षरपरं तथा ॥ ७.१,५.१३ तदेतत्त्रितयं भूम्ना कथ्यते तत्त्ववेदिभिः ॥ ७.१,५.१३ अक्षरं पशुरित्युक्तः क्षरं पाश उदाहृतः ॥ ७.१,५.१४ क्षराक्षरपरं यत्तत्पतिरित्यभिधीयते ॥ ७.१,५.१४ मुनय ऊचुः किं तदक्षरमित्युक्तं किं च क्षरमुदाहृतम् ॥ ७.१,५.१५ तयोश्च परमं किं वा तदेतद्ब्रूहि मारुत ॥ ७.१,५.१५ वायुरुवाच प्रकृतिः क्षरमित्युक्तं पुरुषो ऽक्षर उच्यते ॥ ७.१,५.१६ ताविमौ प्रेरयत्यन्यस्स परा परमेश्वरः ॥ ७.१,५.१६ मुनय ऊचुः कैषा प्रकृतिरित्युक्ता क एष पुरुषो मतः ॥ ७.१,५.१७ अनयोः केन सम्बन्धः कोयं प्रेरक ईश्वरः ॥ ७.१,५.१७ वायुरुवाच माया प्रकृतिरुद्दिष्टा पुरुषो मायया वृतः ॥ ७.१,५.१८ संबन्धो मूलकर्मभ्यां शिवः प्रेरक ईश्वरः ॥ ७.१,५.१८ मुनय ऊचुः केयं माया समा ख्याता किंरूपो मायया वृतः ॥ ७.१,५.१९ मूलं कीदृक्कुतो वास्य किं शिवत्वं कुतश्शिवः ॥ ७.१,५.१९ वायुरुवाच माया माहेश्वरी शक्तिश्चिद्रूपो मायया वृतः ॥ ७.१,५.२० ५०६ मलश्चिच्छादको नैजो विशुद्धिश्शिवता स्वतः ॥ ७.१,५.२० मुनय ऊचुः आवृणोति कथं माया व्यापिनं केन हेतुना ॥ ७.१,५.२१ किमर्थं चावृतिः पुंसः केन वा विनिवर्तते ॥ ७.१,५.२१ वायुरुवाच आवृतिर्व्यपिनो ऽपि स्याद्व्यापि यस्मात्कलाद्यपि ॥ ७.१,५.२२ हेतुः कर्मैव भोगार्थं निवर्तेत मलक्षयात् ॥ ७.१,५.२२ मुनय ऊचुः कलादि कथ्यते किं तत्कर्म वा किमुदाहृतम् ॥ ७.१,५.२३ तत्किमादि किमन्तं वा किं फलं वा किमाश्रयम् ॥ ७.१,५.२३ कस्य भोगेन किं भोग्यं किं वा तद्भोगसाधनम् ॥ ७.१,५.२४ मलक्षयस्य को हेतुः कीदृक्क्षीणमलः पुमान् ॥ ७.१,५.२४ वायुरुवाच कला विद्या च रागश्च कालो नियतिरेव च ॥ ७.१,५.२५ कलादयस्समाख्याता यो भोक्ता पुरुषो भवेत् ॥ ७.१,५.२५ पुण्यपापात्मकं कर्म सुखदुःखफलं तु यत् ॥ ७.१,५.२६ अनादिमलभोगान्तमज्ञानात्मसमाश्रयम् ॥ ७.१,५.२६ भोगः कर्मविनाशाय भोगमव्यक्तमुच्यते ॥ ७.१,५.२७ बाह्यांतःकरणद्वारं शरीरं भोगसाधनम् ॥ ७.१,५.२७ भावातिशयलब्धेन प्रसादेन मलक्षयः ॥ ७.१,५.२८ क्षीणे चात्ममले तस्मिन् पुमाञ्च्छिवसमो भवेत् ॥ ७.१,५.२८ मुनय ऊचुः कलादिपञ्चतत्त्वानां किं कर्म पृथगुच्यते ॥ ७.१,५.२९ भोक्तेति पुरुषश्चेति येनात्मा व्यपदिश्यते ॥ ७.१,५.२९ किमात्मकं तदव्यक्तं केनाकारेण भुज्यते ॥ ७.१,५.३० किं तस्य शरणं भुक्तौ शरीरं च किमुच्यते ॥ ७.१,५.३० वायुरुवाच दिक्क्रियाव्यंजका विद्या कालो रागः प्रवर्तकः ॥ ७.१,५.३१ कालो ऽवच्छेदकस्तत्र नियतिस्तु नियामिका ॥ ७.१,५.३१ अव्यक्तं कारणं यत्तत्त्रिगुणं प्रभवाप्ययम् ॥ ७.१,५.३२ प्रधानं प्रकृतिश्चेति यदाहुस्तत्त्वचिंतकाः ॥ ७.१,५.३२ कलातस्तदभिव्यक्तमनभिव्यक्तलक्षणम् ॥ ७.१,५.३३ सुखदुःखविमोहात्मा भुज्यते गुणवांस्त्रिधा ॥ ७.१,५.३३ सत्त्वं रजस्तम इति गुणाः प्रकृतिसंभवाः ॥ ७.१,५.३४ प्रकृतौ सूक्ष्मरूपेण तिले तैलमिव स्थिताः ॥ ७.१,५.३४ सुखं च सुखहेतुश्च समासात्सात्त्विकं स्मृतम् ॥ ७.१,५.३५ राजसं तद्विपर्यासात्स्तंभमोहौ तु तामसौ ॥ ७.१,५.३५ सात्त्विक्यूर्ध्वगतिः प्रोक्ता तामसी स्यादधोगतिः ॥ ७.१,५.३६ मध्यमा तु गतिर्या सा राजसी परिपठ्यते ॥ ७.१,५.३६ तन्मात्रापञ्चकं चैव भूतपञ्चकमेव च ॥ ७.१,५.३७ ज्ञानेंद्रियाणि पञ्चैक्यं पञ्च कर्मेन्द्रियाणि च ॥ ७.१,५.३७ प्रधानबुद्ध्यहंकारमनांसि च चतुष्टयम् ॥ ७.१,५.३८ समासादेवमव्यक्तं सविकारमुदाहृतम् ॥ ७.१,५.३८ तत्कारणदशापन्नमव्यक्तमिति कथ्यते ॥ ७.१,५.३९ व्यक्तं कार्यदशापन्नं शरीरादिघटादिवत् ॥ ७.१,५.३९ ५०७ यथा घटादिकं कार्यं मृदादेर्नातिभिद्यते ॥ ७.१,५.४० शरीरादि तथा व्यक्तमव्यक्तान्नातिभिद्यते ॥ ७.१,५.४० तस्मादव्यक्तमेवैक्यकारणं करणानि च ॥ ७.१,५.४१ शरीरं च तदाधारं तद्भोग्यं चापि नेतरत् ॥ ७.१,५.४१ मुनय ऊचुः बुद्धीन्द्रियशरीरेभ्यो व्यतिरेकस्य कस्यचित् ॥ ७.१,५.४२ आत्मशब्दाभिधेयस्य वस्तुतो ऽपि कुतः स्थितिः ॥ ७.१,५.४२ वायुरुवाच बुद्धीन्द्रियशरीरेभ्यो व्यतिरेको विभोर्ध्रुवम् ॥ ७.१,५.४३ अस्त्येव कश्चिदात्मेति हेतुस्तत्र सुदुर्गमः ॥ ७.१,५.४३ बुद्धीन्द्रियशरीराणां नात्मता सद्भिरिष्यते ॥ ७.१,५.४४ स्मृतेरनियतज्ञानादयावद्देहवेदनात् ॥ ७.१,५.४४ अतः स्मर्तानुभूतानामशेषज्ञेयगोचरः ॥ ७.१,५.४५ अन्तर्यामीति वेदेषु वेदांतेषु च गीयते ॥ ७.१,५.४५ सर्वं तत्र स सर्वत्र व्याप्य तिष्ठति शाश्वतः ॥ ७.१,५.४६ तथापि क्वापि केनापि व्यक्तमेष न दृश्यते ॥ ७.१,५.४६ नैवायं चक्षुषा ग्राह्यो नापरैरिन्द्रियैरपि ॥ ७.१,५.४७ मनसैव प्रदीप्तेन महानात्मावसीयते १ ॥ ७.१,५.४७ न च स्त्री न पुमानेष नैव चापि नपुंसकः ॥ ७.१,५.४८ नैवोर्ध्वं नापि तिर्यक्नाधस्तान्न कुतश्चन ॥ ७.१,५.४८ अशरीरं शरीरेषु चलेषु स्थाणुमव्ययम् ॥ ७.१,५.४९ सदा पश्यति तं धीरो नरः प्रत्यवमर्शनात् ॥ ७.१,५.४९ किमत्र बहुनोक्तेन पुरुषो देहतः पृथक् ॥ ७.१,५.५० अपृथग्ये तु पश्यंति ह्यसम्यक्तेषु दर्शनम् ॥ ७.१,५.५० यच्छरीरमिदं प्रोक्तं पुरुषस्य ततः परम् ॥ ७.१,५.५१ अशुद्धमवशं दुःखमध्रुवं न च विद्यते ॥ ७.१,५.५१ विपदां वीजभूतेन पुरुषस्तेन संयुतः ॥ ७.१,५.५२ सुखी दुःखी च मूढश्च भवति स्वेन कर्मणा ॥ ७.१,५.५२ अद्भिराप्लवितं क्षेत्रं जनयत्यंकुरं यथा ॥ ७.१,५.५३ आज्ञानात्प्लावितं कर्म देहं जनयते तथा ॥ ७.१,५.५३ अत्यंतमसुखावासास्स्मृताश्चैकांतमृत्यवः ॥ ७.१,५.५४ अनागता अतीताश्च तनवो ऽस्य सहस्रशः ॥ ७.१,५.५४ आगत्यागत्य शीर्णेषु शरीरेषु शरीरिणः ॥ ७.१,५.५५ अत्यंतवसतिः क्वापि न केनापि च लभ्यते ॥ ७.१,५.५५ छादितश्च वियुक्तश्च शरीरैरेषु लक्ष्यते ॥ ७.१,५.५६ चंद्रबिंबवदाकाशे तरलैरभ्रसंचयैः ॥ ७.१,५.५६ अनेकदेहभेदेन भिन्ना वृत्तिरिहात्मनः ॥ ७.१,५.५७ अष्टापदपरिक्षेपे ह्यक्षमुद्रेव लक्ष्यते ॥ ७.१,५.५७ नैवास्य भविता कश्चिन्नासौ भवति कस्यचित् ॥ ७.१,५.५८ पथि संगम एवायं दारैः पुत्रैश्च बंधुभिः ॥ ७.१,५.५८ यथा काष्ठं च काष्ठं च समेयातां महोदधौ ॥ ७.१,५.५९ समेत्य च व्यपेयातां तद्वद्भूतसमागमः ॥ ७.१,५.५९ स पश्यति शरीरं तच्छरीरं तन्न पश्यति ॥ ७.१,५.६० तौ पश्यति परः कश्चित्तावुभौ तं न पश्यतः ॥ ७.१,५.६० १ निश्चीयते ५०७ ब्रह्माद्याः स्थावरांतश्च पशवः परिकीर्तिताः ॥ ७.१,५.६१ पशूनामेव सर्वेषां प्रोक्तमेतन्निदर्शनम् ॥ ७.१,५.६१ स एष बध्यते पाशैः सुखदुःखाशनः पशुः ॥ ७.१,५.६२ लीलासाधनभूतो य ईश्वरस्येति सूरयः ॥ ७.१,५.६२ अज्ञो जंतुरनीशो ऽयमात्मनस्सुखदुःखयोः ॥ ७.१,५.६३ ईश्वरप्रेरितो गच्छेत्स्वर्गं वा श्वभ्रमेव वा ॥ ७.१,५.६३ सूत उवाच इत्याकर्ण्यानिलवचो मुनयः प्रीतमानसाः ॥ ७.१,५.६४ प्रोचुः प्रणम्य तं वायुं शैवागमविचक्षणम् ॥ ७.१,५.६४ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे शिवतत्त्वज्ञानवर्णनं नाम पञ्चमो ऽध्यायः अध्याय ६ मुनय ऊचुः यो ऽयं पशुरिति प्रोक्तो यश्च पाश उदाहृतः ॥ ७.१,६.१ अभ्यां विलक्षणः कश्चित्कोयमस्ति तयोः पतिः ॥ ७.१,६.१ वायुरुवाच अस्ति कश्चिदपर्यंतरमणीयगुणाश्रयः ॥ ७.१,६.२ पतिर्विश्वस्य निर्माता पशुपाशविमोचनः ॥ ७.१,६.२ अभावे तस्य विश्वस्य सृष्टिरेषा कथं भवेत् ॥ ७.१,६.३ अचेतनत्वादज्ञानादनयोः पशुपाशयोः ॥ ७.१,६.३ प्रधानपरमाण्वादि यावत्किंचिदचेतनम् ॥ ७.१,६.४ तत्कर्तृकं स्वयं दृष्टं बुद्धिमत्कारणं विना ॥ ७.१,६.४ जगच्च कर्तृसापेक्षं कार्यं सावयवं यतः ॥ ७.१,६.५ तस्मात्कार्यस्य कर्तृत्वं पत्युर्न पशुपाशयोः ॥ ७.१,६.५ पशोरपि च कर्तृत्वं पत्युः प्रेरणपूर्वकम् ॥ ७.१,६.६ अयथाकरणज्ञानमंधस्य गमनं यथा ॥ ७.१,६.६ आत्मानं च पृथङ्मत्वा प्रेरितारं ततः पृथक् ॥ ७.१,६.७ असौ जुष्टस्ततस्तेन ह्यमृतत्वाय कल्पते ॥ ७.१,६.७ पशोः पाशस्य पत्युश्च तत्त्वतो ऽस्ति पदं परम् ॥ ७.१,६.८ ब्रह्मवित्तद्विदित्वैव योनिमुक्तो भविष्यति ॥ ७.१,६.८ संयुक्तमेतद्द्वितयं क्षरमक्षरमेव च ॥ ७.१,६.९ व्यक्ताव्यक्तं बिभर्तीशो विश्वं विश्वविमोचकः ॥ ७.१,६.९ भोक्ता भोग्यं प्रेरयिता मंतव्यं त्रिविधं स्मृतम् ॥ ७.१,६.१० नातः परं विजानद्भिर्वेदितव्यं हि किंचनः ॥ ७.१,६.१० तिलेषु वा यथा तैलं दध्नि वा सर्पिरर्पितम् ॥ ७.१,६.११ यथापः स्रोतसि व्याप्ता यथारण्यां हुताशनः ॥ ७.१,६.११ एवमेव महात्मानमात्मन्यात्मविलक्षणम् ॥ ७.१,६.१२ सत्येन तपसा चैव नित्ययुक्तो ऽनुपश्यति ॥ ७.१,६.१२ य एको जालवानीश ईशानीभिस्स्वशक्तिभिः ॥ ७.१,६.१३ सर्वांल्लोकानिमान् कृत्वा एक एव स ईशते १ ॥ ७.१,६.१३ एक एव तदा रुद्रो न द्वितीयो ऽस्ति कश्चन ॥ ७.१,६.१४ संसृज्य विश्वभुवनं गोप्ता ते संचुकोच यः ॥ ७.१,६.१४ १ शब्लुगभाव आर्ष ५०८ विश्वतश्चक्षुरेवायमुतायं विश्वतोमुखः ॥ ७.१,६.१५ तथैव विश्वतोबाहुविश्वतः पादसंयुतः ॥ ७.१,६.१५ द्यावाभूमी च जनयन् देव एको महेश्वरः ॥ ७.१,६.१६ स एव सर्वदेवानां प्रभवश्चोद्भवस्तथा ॥ ७.१,६.१६ हिरण्यगर्भं देवानां प्रथमं जनयेदयम् ॥ ७.१,६.१७ विश्वस्मादधिको रुद्रो महर्षिरिति हि श्रुतिः ॥ ७.१,६.१७ वेदाहमेतं पुरुषं महांतममृतं ध्रुवम् ॥ ७.१,६.१८ आदित्यवर्णं तमसः परस्तात्संस्थितं प्रभुम् ॥ ७.१,६.१८ अस्मान्नास्ति परं किंचिदपरं परमात्मनः ॥ ७.१,६.१९ नाणीयो ऽस्ति न च ज्यायस्तेन पूर्णमिदं जगत् ॥ ७.१,६.१९ सर्वाननशिरोग्रीवः सर्वभूतगुहाशयः ॥ ७.१,६.२० सर्वव्यापी च भगवांस्तस्मात्सर्वगतश्शिवः ॥ ७.१,६.२० सर्वतः पाणिपादो ऽयं सर्वतो ऽक्षिशिरोमुखः ॥ ७.१,६.२१ सर्वतः श्रुतिमांल्लोके सर्वमावृत्य तिष्ठति ॥ ७.१,६.२१ सर्वेन्द्रियगुणाभासस्सर्वेन्द्रियविवर्जितः ॥ ७.१,६.२२ सर्वस्य प्रभुरीशानः सर्वस्य शरणं सुहृत् ॥ ७.१,६.२२ अचक्षुरपि यः पश्यत्यकर्णो ऽपि शृणोति यः ॥ ७.१,६.२३ सर्वं वेत्ति न वेत्तास्य तमाहुः पुरुषं परम् ॥ ७.१,६.२३ अणोरणीयान्महतो महीयानयमव्ययः ॥ ७.१,६.२४ गुहायां निहितश्चापि जंतोरस्य महेश्वरः ॥ ७.१,६.२४ तमक्रतुं क्रतुप्रायं महिमातिशयान्वितम् ॥ ७.१,६.२५ धातुः प्रसादादीशानं वीतशोकः प्रपश्यति ॥ ७.१,६.२५ वेदाहमेनमजरं पुराणं सर्वगं विभुम् ॥ ७.१,६.२६ निरोधं जन्मनो यस्य वदंति ब्रह्मवादिनः ॥ ७.१,६.२६ एको ऽपि त्रीनिमांल्लोकान् बहुधा शक्तियोगतः ॥ ७.१,६.२७ विदधाति विचेत्यंते १ विश्वमादौ महेश्वरः ॥ ७.१,६.२७ विश्वधात्रीत्यजाख्या च शैवी चित्रा कृतिः परा ॥ ७.१,६.२८ तामजां लोहितां शुक्लां कृष्णामेकां त्वजः प्रजाम् ॥ ७.१,६.२८ जनित्रीमनुशेते ऽन्योजुषमाणस्स्वरूपिणीम् ॥ ७.१,६.२९ तामेवाजामजो ऽन्यस्तु भक्तभोगा जहाति च ॥ ७.१,६.२९ द्वौ सुपर्णौ च सयुजौ समानं वृक्षमास्थितौ ॥ ७.१,६.३० एको ऽत्ति पिप्पलं स्वादु परो ऽनश्नन् प्रपश्यति ॥ ७.१,६.३० वृक्षेस्मिन् पुरुषो मग्नो गुह्यमानश्च शोचति ॥ ७.१,६.३१ जुष्टमन्यं यदा पश्येदीशं परमकारणम् ॥ ७.१,६.३१ तदास्य महिमानं च वीतशोकस्सुखी भवेत् ॥ ७.१,६.३२ छंदांसि यज्ञाः ऋतवो यद्भूतं भव्यमेव च ॥ ७.१,६.३२ मायी विश्वं सृजत्यस्मिन्निविष्टो मायया परः ॥ ७.१,६.३३ मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम् ॥ ७.१,६.३३ तस्यास्त्ववयवैरेव व्याप्तं सर्वमिदं जगत् ॥ ७.१,६.३४ सूक्ष्मातिसूक्ष्ममीशानं कललस्यापि मध्यतः ॥ ७.१,६.३४ १ विचेतोति प्रयोगस्त्वार्षत्वेन, ’व्यत्ययो बहुलम्ऽ इति स्मरणेन साधुः ५०८ स्रष्टारमपि विश्वस्य वेष्टितारं च तस्य तु ॥ ७.१,६.३५ शिवमेवेश्वरं ज्ञात्वा शांतिमत्यंतमृच्छति ॥ ७.१,६.३५ स एव कालो गोप्ता च विश्वस्याधिपतिः प्रभुः ॥ ७.१,६.३६ तं विश्वाधिपतिं ज्ञात्वा मृत्युपाशात्प्रमुच्यते ॥ ७.१,६.३६ घृतात्परं मंडमिव सूक्ष्मं ज्ञात्वा स्थितं प्रभुम् ॥ ७.१,६.३७ सर्वभूतेषु गूढं च सर्वपापैः प्रमुच्यते ॥ ७.१,६.३७ एष एव परो देवो विश्वकर्मा महेश्वरः ॥ ७.१,६.३८ हृदये संनिविष्टं तं ज्ञात्वैवामृतमश्नुते ॥ ७.१,६.३८ यदा समस्तं न दिवा न रात्रिर्न सदप्यसत् ॥ ७.१,६.३९ केवलश्शिव एवैको यतः प्रज्ञा पुरातनी ॥ ७.१,६.३९ नैनमूर्ध्वं न तिर्यक्च न मध्यं पर्यजिग्रहत् ॥ ७.१,६.४० न तस्य प्रतिमा चास्ति यस्य नाम महद्यशः ॥ ७.१,६.४० अजातमिममेवैके बुद्धा जन्मनि भीरवः ॥ ७.१,६.४१ रुद्रस्यास्य प्रपद्यंते रक्षार्थं दक्षिणं सुखम् ॥ ७.१,६.४१ द्वे अक्षरे ब्रह्मपरे त्वनंते समुदाहृते ॥ ७.१,६.४२ विद्याविद्ये समाख्याते निहिते यत्र गूढवत् ॥ ७.१,६.४२ क्षरं त्वविद्या ह्यमृतं विद्येति परिगीयते ॥ ७.१,६.४३ ते उभे ईशते यस्तु सो ऽन्यः खलु महेश्वरः ॥ ७.१,६.४३ एकैकं बहुधा जालं विकुर्वन्नेकवच्च यः ॥ ७.१,६.४४ सर्वाधिपत्यं कुरुते सृष्ट्वा सर्वान् प्रतापवान् ॥ ७.१,६.४४ दिश ऊर्ध्वमधस्तिर्यक्भासयन् भ्राजते स्वयम् ॥ ७.१,६.४५ यो निःस्वभावादप्येको वरेण्यस्त्वधितिष्ठति ॥ ७.१,६.४५ स्वभाववाचकान् सर्वान् वाच्यांश्च परिणामयन् ॥ ७.१,६.४६ गुणांश्च भोग्यभोक्तृत्वे तद्विश्वमधितिष्ठति ॥ ७.१,६.४६ ते वै गुह्योपणिषदि गूढं ब्रह्म परात्परम् ॥ ७.१,६.४७ ब्रह्मयोनिं जगत्पूर्वं विदुर्देवा महर्षयः ॥ ७.१,६.४७ भावग्राह्यमनीहाख्यं भावाभावकरं शिवम् ॥ ७.१,६.४८ कलासर्गकरं देवं ये विदुस्ते जहुस्तनुम् ॥ ७.१,६.४८ स्वभावमेके मन्यंते कालमेके विमोहिताः ॥ ७.१,६.४९ देवस्य महिमा ह्येष येनेदं भ्राम्यते जगत् ॥ ७.१,६.४९ येनेदमावृतं नित्यं कालकालात्मना यतः ॥ ७.१,६.५० तेनेरितमिदं कर्म भूतैः सह विवर्तते ॥ ७.१,६.५० तत्कर्म भूयशः कृत्वा विनिवृत्य च भूयशः ॥ ७.१,६.५१ तत्त्वस्य सह तत्त्वेन योगं चापि समेत्य वै ॥ ७.१,६.५१ अष्टाभिश्च त्रिभिश्चैवं द्वाभ्यां चैकेन वा पुनः ॥ ७.१,६.५२ कालेनात्मगुणैश्चापि कृत्स्नमेव जगत्स्वयम् ॥ ७.१,६.५२ गुणैरारभ्य कर्माणि स्वभावादीनि योजयेत् ॥ ७.१,६.५३ तेषामभावे नाशः स्यात्कृतस्यापि च कर्मणः ॥ ७.१,६.५३ कर्मक्षये पुनश्चान्यत्ततो याति स तत्त्वतः ॥ ७.१,६.५४ स एवादिस्स्वयं योगनिमित्तं भोक्तृभोगयोः ॥ ७.१,६.५४ परस्त्रिकालादकलस्स एव परमेश्वरः ॥ ७.१,६.५५ सर्ववित्त्रिगुणाधीशो ब्रह्मसाक्षात्परात्परः ॥ ७.१,६.५५ तं विश्वरूपमभवं भवमीड्यं प्रजापतिम् ॥ ७.१,६.५६ ५०९ देवदेवं जगत्पूज्यं स्वचित्तस्थमुपास्महे ॥ ७.१,६.५६ कालादिभिः परो यस्मात्प्रपञ्चः परिवर्तते ॥ ७.१,६.५७ धर्मावहं पापनुदं भोगेशं विश्वधाम च ॥ ७.१,६.५७ तमीश्वराणां परमं महेश्वरं तं देवतानां परमं च दैवतम् ॥ ७.१,६.५८ पतिं पतीनां परमं परस्ताद्विदाम देवं भुवनेश्वरेश्वरम् ॥ ७.१,६.५८ न तस्य विद्येत कार्यं कारणं च न विद्यते ॥ ७.१,६.५९ न तत्समो ऽधिकश्चापि क्वचिज्जगति दृश्यते ॥ ७.१,६.५९ परास्य विविधा शक्तिः श्रुतौ स्वाभाविकी श्रुता ॥ ७.१,६.६० ज्ञानं बलं क्रिया चैव याभ्यो विश्वमिदं कृतम् ॥ ७.१,६.६० तस्यास्ति पतिः कश्चिन्नैव लिंगं न चेशिता ॥ ७.१,६.६१ कारणं कारणानां च स तेषामधिपाधिपः ॥ ७.१,६.६१ न चास्य जनिता कश्चिन्न च जन्म कुतश्चन ॥ ७.१,६.६२ न जन्महेतवस्तद्वन्मलमायादिसंज्ञकाः ॥ ७.१,६.६२ स एकस्सर्वभूतेषु गूढो व्याप्तश्च विश्वतः ॥ ७.१,६.६३ सर्वभूतांतरात्मा च धर्माध्यक्षस्स कथ्यते ॥ ७.१,६.६३ सर्वभूताधिवासश्च साक्षी चेता च निर्गुणः ॥ ७.१,६.६४ एको वशी निष्क्रियाणां बहूनां विवशात्मनाम् ॥ ७.१,६.६४ नित्यानामप्यसौ नित्यश्चेतनानां च चेतनः ॥ ७.१,६.६५ एको बहूनां चाकामः कामानीशः प्रयच्छति ॥ ७.१,६.६५ सांख्ययोगाधिगम्यं यत्कारणं जगतां पतिम् ॥ ७.१,६.६६ ज्ञात्वा देवं पशुः पाशैस्सर्वैरेव विमुच्यते ॥ ७.१,६.६६ विश्वकृद्विश्ववित्स्वात्मयोनिज्ञः कालकृद्गुणी ॥ ७.१,६.६७ प्रधानः क्षेत्रज्ञपतिर्गुणेशः पाशमोचकः ॥ ७.१,६.६७ ब्रह्माणं विदधे पूर्वं वेदांश्चोपादिशत्स्वयम् ॥ ७.१,६.६८ यो देवस्तमहं बुद्ध्वा स्वात्मबुद्धिप्रसादतः ॥ ७.१,६.६८ मुमुक्षुरस्मात्संसारात्प्रपद्ये शरणं शिवम् ॥ ७.१,६.६९ निष्फलं निष्क्रियं शांतं निरवद्यं निरंजनम् ॥ ७.१,६.६९ अमृतस्य परं सेतुं दग्धेंधनमिवानिलम् ॥ ७.१,६.७० यदा चर्मवदाकाशं वेष्टयिष्यंति मानवाः ॥ ७.१,६.७० तदा शिवमविज्ञाय दुःखस्यांतो भविष्यति ॥ ७.१,६.७१ तपःप्रभावाद्देवस्य प्रसादाच्च महर्षयः ॥ ७.१,६.७२ अत्याश्रमोचितज्ञानं पवित्रं पापनाशनम् ॥ ७.१,६.७२ वेदांते परमं गुह्यं पुराकल्पप्रचोदितम् ॥ ७.१,६.७३ ब्रह्मणो वदनाल्लब्धं मयेदं भाग्यगौरवात् ॥ ७.१,६.७३ नाप्रशांताय दातव्यमेतज्ज्ञानमनुत्तमम् ॥ ७.१,६.७४ न पुत्रायाशुवृत्ताय नाशिष्याय च सर्वथा ॥ ७.१,६.७४ यस्य देवे पराभक्तिर्यथा देवे तथा गुरौ ॥ ७.१,६.७५ तस्यैते कथिताह्यर्थाः प्रकाशंते महात्मनः ॥ ७.१,६.७५ अतश्च संक्षेपमिदं शृणुध्वं शिवः परस्तात्प्रकृतेश्च पुंसः ॥ ७.१,६.७६ स सर्गकाले च करोति सर्वं संहारकाले पुनराददाति ॥ ७.१,६.७६ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे शिवतत्त्ववर्णनं नाम षष्ठो ऽध्यायः ५०९ अध्याय ७ मुनय ऊचुः कालादुत्पद्यते सर्वं कालदेव विपद्यते ॥ ७.१,७.१ न कालनिरपेक्षं हि क्वचित्किंचन विद्यते ॥ ७.१,७.१ यदास्यांतर्गतं विश्वं शश्वत्संसारमण्डलम् ॥ ७.१,७.२ सर्गसंहृतिमुद्राभ्यां चक्रवत्परिवर्तते ॥ ७.१,७.२ ब्रह्मा हरिश्च रुद्रश्च तथान्ये च सुरासुराः ॥ ७.१,७.३ यत्कृतां नियतिं प्राप्य प्रभवो नातिवर्तितुम् ॥ ७.१,७.३ भूतभव्यभविष्याद्यैर्विभज्य जरयन् प्रजाः ॥ ७.१,७.४ अतिप्रभुरिति स्वैरं वर्तते ऽतिभयंकरः ॥ ७.१,७.४ क एष भगवान् कालः कस्य वा वशवर्त्ययम् ॥ ७.१,७.५ क एवास्य वशे न स्यात्कथयैतद्विचक्षण ॥ ७.१,७.५ वायुरुवाच कालकाष्ठानिमेषादिकलाकलितविग्रहम् ॥ ७.१,७.६ कालात्मेति समाख्यातं तेजो माहेश्वरं परम् ॥ ७.१,७.६ यदलंघ्यमशेषस्य स्थावरस्य चरस्य च ॥ ७.१,७.७ नियोगरूपमीशस्य बलं विश्वनियामकम् ॥ ७.१,७.७ तस्यांशांशमयी मुक्तिः कालात्मनि महात्मनि ॥ ७.१,७.८ ततो निष्क्रम्य संक्रांता विसृष्टाग्रेरिवायसी ॥ ७.१,७.८ तस्मात्कालवशे विश्वं न स विश्ववशे स्थितः ॥ ७.१,७.९ शिवस्य तु वशे कालो न कालस्य वशे शिवः ॥ ७.१,७.९ यतो ऽप्रतिहतं शार्वं तेजः काले प्रतिष्ठितम् ॥ ७.१,७.१० महती तेन कालस्य मर्यादा हि दुरत्यया ॥ ७.१,७.१० कालं प्रज्ञाविशेषेण को ऽतिवर्तितुमर्हति ॥ ७.१,७.११ कालेन तु कृतं कर्म न कश्चिदतिवर्तते ॥ ७.१,७.११ एकच्छत्रां महीं कृत्स्नां ये पराक्रम्य शासति ॥ ७.१,७.१२ ते ऽपि नैवातिवर्तंते कालवेलामिवाब्धयः ॥ ७.१,७.१२ ये निगृह्येंद्रियग्रामं जयंति सकलं जगत् ॥ ७.१,७.१३ न जयंत्यपि ते कालं कालो जयति तानपि ॥ ७.१,७.१३ आयुर्वेदविदो वैद्यास्त्वनुष्ठितरसायनाः ॥ ७.१,७.१४ न मृत्युमतिवर्तंते कालो हि दुरतिक्रमः ॥ ७.१,७.१४ श्रिया रूपेण शीलेन बलेन च कुलेन च ॥ ७.१,७.१५ अन्यच्चिंतयते जंतुः कालो ऽन्यत्कुरुते बलात् ॥ ७.१,७.१५ अप्रियैश्च प्रियैश्चैव ह्यचिंतितगमागमैः ॥ ७.१,७.१६ संयोजयति भूतानि वियोजयति चेश्वरः ॥ ७.१,७.१६ यदैव दुःखितः कश्चित्तदैव सुखितः परः ॥ ७.१,७.१७ दुर्विज्ञेयस्वभावस्य कालास्याहो विचित्रता ॥ ७.१,७.१७ यो युवा स भवेद्वृद्धो यो बलीयान्स दुर्बलः ॥ ७.१,७.१८ यः श्रीमान्सो ऽपि निःश्रीकः कालश्चित्रगतिर्द्विजा ॥ ७.१,७.१८ नाभिजात्यं न वै शीलं न बलं न च नैपुणम् ॥ ७.१,७.१९ भवेत्कार्याय पर्याप्तं कालश्च ह्यनिरोधकः ॥ ७.१,७.१९ ये सनाथाश्च दातारो गीतवाद्यैरुपस्थिताः ॥ ७.१,७.२० ये चानाथाः परान्नादाः कालस्तेषु समक्रियः ॥ ७.१,७.२० फलंत्यकाले न रसायनानि सम्यक्प्रयुक्तान्यपि चौषधानि ॥ ७.१,७.२१ तान्येव कालेन समाहृतानि सिद्धिं प्रयांत्याशु सुखं दिशंति ॥ ७.१,७.२१ ५१० नाकालतो ऽयं म्रियते जायते वा नाकालतः पुष्टिमग्र्यामुपैति ॥ ७.१,७.२२ नाकालतः सुखितं दुःखितं वा नाकालिकं वस्तु समस्ति किंचित् ॥ ७.१,७.२२ कालेन शीतः प्रतिवाति वातःकालेन वृष्टिर्जलदानुपैति ॥ ७.१,७.२३ कालेन चोष्मा प्रशमं प्रयाति कालेन सर्वं सफलत्वमेति ॥ ७.१,७.२३ कालश्च सर्वस्य भवस्य हेतुः कालेन सस्यानि भवंति नित्यम् ॥ ७.१,७.२४ कालेन सस्यानि लयं प्रयांति कालेन संजीवति जीवलोकः ॥ ७.१,७.२४ इत्थं कालात्मनस्तत्त्वं यो विजानाति तत्त्वतः ॥ ७.१,७.२५ कालात्मानमतिक्रम्य कालातीतं स पश्यति ॥ ७.१,७.२५ न यस्य कालो न च बंधमुक्ती न यः पुमान्न प्रकृतिर्न विश्वम् ॥ ७.१,७.२६ विचित्ररूपाय शिवाय तस्मै नमःपरस्मै परमेश्वराय ॥ ७.१,७.२६ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे कालमहिमवर्णनं नाम सप्तमो ऽध्यायः अध्याय ८ ऋषय ऊचुः केन मानेन कालेस्मिन्नायुस्संख्या प्रकल्प्यते ॥ ७.१,८.१ संख्यारूपस्य कालस्य कः पुनः परमो ऽवधिः ॥ ७.१,८.१ वायुरुवाच आयुषो ऽत्र निमेषाख्यमाद्यमानं प्रचक्षते ॥ ७.१,८.२ संख्यारूपस्य कालस्य शांत्त्वतीतकलावधि ॥ ७.१,८.२ अक्षिपक्ष्मपरिक्षेपो निमेषः परिकल्पितः ॥ ७.१,८.३ तादृशानां निमेषाणां काष्ठा दश च पञ्च च ॥ ७.१,८.३ काष्ठांस्त्रिंशत्कला नाम कलांस्त्रिंशन्मुहूर्तकः ॥ ७.१,८.४ मुहूर्तानामपि त्रिंशदहोरात्रं प्रचक्षते ॥ ७.१,८.४ त्रिंशत्संख्यैरहोरात्रैर्मासः पक्षद्वयात्मकः ॥ ७.१,८.५ ज्ञेयं पित्र्यमहोरात्रं मासः कृष्णसितात्मकः ॥ ७.१,८.६ मासैस्तैरयनं षड्भिर्वर्षं द्वे चायनं मतम् ॥ ७.१,८.७ लौकिकेनैव मानेन अब्दो यो मानुषः स्मृतः ॥ ७.१,८.७ एतद्दिव्यमहोरात्रमिति शास्त्रस्य निश्चयः ॥ ७.१,८.८ दक्षिणं चायनं रात्रिस्तथोदगयनं दिनम् ॥ ७.१,८.८ मासस्त्रिंशदहोरात्रैर्दिव्यो मानुषवत्स्मृतः ॥ ७.१,८.९ संवत्सरो ऽपि देवानां मासैर्द्वादशभिस्तथा ॥ ७.१,८.९ त्रीणि वर्षशतान्येव षष्टिवर्षयुतान्यपि ॥ ७.१,८.१० दिव्यस्संवत्सरो ज्ञेयो मानुषेण प्रकीर्तितः ॥ ७.१,८.१० दिव्येनैव प्रमाणेन युगसंख्या प्रवर्तते ॥ ७.१,८.११ चत्वारि भारते वर्षे युगानि कवयो विदुः ॥ ७.१,८.११ पूर्वं कृतयुगं नाम ततस्त्रेता विधीयते ॥ ७.१,८.१२ द्वापरं च कलिश्चैव युगान्येतानि कृत्स्नशः ॥ ७.१,८.१२ चत्वारि तु सहस्राणि वर्षाणां तत्कृतं युगम् ॥ ७.१,८.१३ तस्य तावच्छतीसंध्या संध्यांशश्च तथाविधः ॥ ७.१,८.१३ इतरेषु ससंध्येषु ससंध्यांशेषु च त्रिषु ॥ ७.१,८.१४ एकापायेन वर्तंते सहस्राणि शतानि च ॥ ७.१,८.१४ एतद्द्वादशसाहस्रं साधिकं च चतुर्युगम् ॥ ७.१,८.१५ चतुर्युगसहस्रं यत्संकल्प इति कथ्यते ॥ ७.१,८.१५ चतुर्युगैकसप्तत्या मनोरंतरमुच्यते ॥ ७.१,८.१६ कल्पे चतुर्दशैकस्मिन्मनूनां परिवृत्तयः ॥ ७.१,८.१६ एतेन क्रमयोगेन कल्पमन्वंतराणि च ॥ ७.१,८.१७ सप्रजानि व्यतीतानि शतशो ऽथ सहस्रशः ॥ ७.१,८.१७ अज्ञेयत्वाच्च सर्वेषामसंख्येयतया पुनः ॥ ७.१,८.१८ शक्यो नैवानुपूर्व्याद्वै तेषां वक्तुं सुविस्तरः ॥ ७.१,८.१८ कल्पो नाम दिवा प्रोक्तो ब्रह्मणो ऽव्यक्तजन्मनः ॥ ७.१,८.१९ कल्पानां वै सहस्रं च ब्राह्मं वर्षमिहोच्यते ॥ ७.१,८.१९ वर्षाणामष्टसाहस्रं यच्च तद्ब्रह्मणो युगम् ॥ ७.१,८.२० सवनं युगसाहस्रं ब्रह्मणः पद्मजन्मनः ॥ ७.१,८.२० सवनानां सहस्रं च त्रिगुणं त्रिवृतं तथा ॥ ७.१,८.२१ कल्प्यते सकलः कालो ब्रह्मणः परमेष्ठिनः ॥ ७.१,८.२१ तस्य वै दिवसे यांति चतुर्दश पुरंदराः ॥ ७.१,८.२२ शतानि मासे चत्वारि विंशत्या सहितानि च ॥ ७.१,८.२२ अब्दे पञ्च सहस्राणि चत्वारिंशद्युतानि च ॥ ७.१,८.२३ चत्वारिंशत्सहस्राणि पञ्च लक्षाणि चायुषि ॥ ७.१,८.२३ ब्रह्मा विष्णोर्दिने चैको विष्णू रुद्रदिने तथा ॥ ७.१,८.२४ ईश्वरस्य दिने रुद्रस्सदाख्यस्य तथेश्वरः ॥ ७.१,८.२४ साक्षाच्छिवस्य तत्संख्यस्तथा सो ऽपि सदाशिवः ॥ ७.१,८.२५ चत्वारिंशत्सहस्राणि पञ्चलक्षाणि चायुषि ॥ ७.१,८.२५ तस्मिन्साक्षाच्छिवेनैष कालात्मा सम्प्रवर्तते ॥ ७.१,८.२६*१ यत्तत्सृष्टेस्समाख्यातं कालान्तरमिह द्विजाः ॥ ७.१,८.२६*१ एतत्कालान्तरं ज्ञेयमहर्वै पारमेश्वरम् ॥ ७.१,८.२६*२ रात्रिश्च तावती ज्ञेया परमेशस्य कृत्स्नशः ॥ ७.१,८.२६*२ अहस्तस्य तु या सृष्टी रात्रिश्च प्रलयः स्मृतः ॥ ७.१,८.२७ अहर्न विद्यते तस्य न रात्रिरिति धारयेत् ॥ ७.१,८.२७ एषोपचारः क्रियते लोकानां हितकाम्यया ॥ ७.१,८.२८ प्रजाः प्रजानां पतयो मूर्तयश्च सुरासुराः ॥ ७.१,८.२८ इन्द्रियाणीन्द्रियार्थाश्च महाभूतानि पञ्च च ॥ ७.१,८.२९ तन्मात्राण्यथ भूतादिर्बुद्धिश्च सह दैवतः ॥ ७.१,८.२९ अहस्तिष्ठंति सर्वाणि पारमेशस्य धीमतः ॥ ७.१,८.३० अहरंते प्रलीयन्ते रात्र्यन्ते विश्वसंभवः ॥ ७.१,८.३० यो विश्वात्मा कर्मकालस्वभावाद्यर्थे शक्तिर्यस्य नोल्लंघनीया ॥ ७.१,८.३१ यस्यैवाज्ञाधीनमेतत्समस्तं नमस्तस्मै महते शंकराय ॥ ७.१,८.३१ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वभागे कालप्रभावे त्रिदेवायुर्वर्णनं नामाष्टमो ऽध्यायः अध्याय ९ मुनय ऊचुः कथं जगदिदं कृत्स्नं विधाय च निधाय च ॥ ७.१,९.१ आज्ञया परमां क्रीडां करोति परमेश्वरः ॥ ७.१,९.१ किं तत्प्रथमसंभूतं केनेदमखिलं ततम् ॥ ७.१,९.२ केना वा पुनरेवेदं ग्रस्यते पृथुकुक्षिणा ॥ ७.१,९.२ वायुरुवाच शक्तिः प्रथमसम्भूता शांत्यतीतपदोत्तरा ॥ ७.१,९.३ ततो माया ततो ऽव्यक्तं शिवाच्छक्तिमतः प्रभोः ॥ ७.१,९.३ ५११ शान्त्यतीतपदं शक्तेस्ततः शान्तिपदक्रमात् ॥ ७.१,९.४ ततो विद्यापदं तस्मात्प्रतिष्ठापदसंभवः ॥ ७.१,९.४ निवृत्तिपदमुत्पन्नं प्रतिष्ठापदतः क्रमात् ॥ ७.१,९.५ एवमुक्ता समासेन सृष्टिरीश्वरचोदिता ॥ ७.१,९.५ आनुलोम्यात्तथैतेषां प्रतिलोम्येन संहृतिः ॥ ७.१,९.६ अस्मात्पञ्चपदोद्दिष्टात्परस्स्रष्टा समिष्यते ॥ ७.१,९.६ कलाभिः पञ्चभिर्व्याप्तं तस्माद्विश्वमिदं जगत् ॥ ७.१,९.७ अव्यक्तं कारणं यत्तदात्मना समनुष्ठितम् ॥ ७.१,९.७ महदादिविशेषांतं सृजतीत्यपि संमतम् ॥ ७.१,९.८ किं तु तत्रापि कर्तृत्वं नाव्यक्तस्य न चात्मनः ॥ ७.१,९.८ अचेतनत्वात्प्रकृतेरज्ञत्वात्पुरुषस्य च ॥ ७.१,९.९ प्रधानपरमाण्वादि यावत्किञ्चिदचेतनम् ॥ ७.१,९.९ तत्कर्तृकं स्वयं दृष्टं बुद्धिमत्कारणं विना ॥ ७.१,९.१० जगच्च कर्तृसापेक्षं कार्यं सावयवं यतः ॥ ७.१,९.१० तस्माच्छक्तस्स्वतन्त्रो यः सर्वशक्तिश्च सर्ववित् ॥ ७.१,९.११ अनादिनिधनश्चायं महदैश्वर्यसंयुतः ॥ ७.१,९.११ स एव जगतः कर्ता महादेवो महेश्वराः ॥ ७.१,९.१२ पाता हर्ता च सर्वस्य ततः पृथगनन्वयः ॥ ७.१,९.१२ परिणामः प्रधानस्य प्रवृत्तिः पुरुषस्य च ॥ ७.१,९.१३ सर्वं सत्यव्रतस्यैव शासनेन प्रवर्तते ॥ ७.१,९.१३ इतीयं शाश्वती निष्ठा सतां मनसि वर्तते ॥ ७.१,९.१४ न चैनं पक्षमाश्रित्य वर्तते स्वल्पचेतनः ॥ ७.१,९.१४ यावदादिसमारंभो यावद्यः प्रलयो महान् ॥ ७.१,९.१५ तावदप्येति सकलं ब्रह्मणः शारदां शतम् ॥ ७.१,९.१५ परमित्यायुषो नाम ब्रह्मणो ऽव्यक्तजन्मनः ॥ ७.१,९.१६ तत्पराख्यं तदर्धं च परार्धमभिधीयते ॥ ७.१,९.१६ परार्धद्वयकालांते प्रलये समुपस्थिते ॥ ७.१,९.१७ अव्यक्तमात्मनः कार्यमादायात्मनि तिष्ठति ॥ ७.१,९.१७ आत्मन्यवस्थिते ऽव्यक्ते विकारे प्रतिसंहृते ॥ ७.१,९.१८ साधर्म्येणाधितिष्ठेते प्रधानपुरुषावुभौ ॥ ७.१,९.१८ तमः सत्त्वगुणावेतौ समत्वेन व्यवस्थितौ ॥ ७.१,९.१९ अनुद्रिक्तावनन्तौ तावोतप्रोतौ परस्परम् ॥ ७.१,९.१९ गुणसाम्ये तदा तस्मिन्नविभागे तमोदये ॥ ७.१,९.२० शांतवातैकनीरे च न प्राज्ञायत किंचन ॥ ७.१,९.२० अप्रज्ञाते जगत्यस्मिन्नेक एव महेश्वरः ॥ ७.१,९.२१ उपास्य रजनीं कृत्स्नां परां माहेश्वरीं ततः ॥ ७.१,९.२१ प्रभातायां तु शर्वर्यां प्रधानपुरुषावुभौ ॥ ७.१,९.२२ प्रविश्य क्षोभयामास मायायोगान्महेश्वरः ॥ ७.१,९.२२ ततः पुनरशेषाणां भूतानां प्रभवाप्ययात् ॥ ७.१,९.२३ अव्यक्तादभवत्सृष्टिराज्ञया परमेष्ठिनः ॥ ७.१,९.२३ विश्वोत्तरोत्तरविचित्रमनोरथस्य यस्यैकशक्तिशकले सकलस्समाप्तः ॥ ७.१,९.२४ आत्मानमध्वपतिमध्वविदो वदंति तस्मै नमः सकललोकविलक्षणाय ॥ ७.१,९.२४ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वभागे सृष्टिपालनप्रलयकर्तृत्ववर्णनं नाम नवमो ऽध्यायः अध्याय १० वायुरुवाच पुरुषाधिष्ठितात्पूर्वमव्यक्तादीश्वराज्ञया ॥ ७.१,१०.१ बुद्ध्यादयो विशेषांता विकाराश्चाभवन् क्रमात् ॥ ७.१,१०.१ ततस्तेभ्यो विकारेभ्यो रुद्रो विष्णुः पितामहः ॥ ७.१,१०.२ कारणत्वेन सर्वेषां त्रयो देवाः प्रजज्ञिरे ॥ ७.१,१०.२ सर्वतो भुवनव्याप्तिशक्तिमव्याहतां क्वचित् ॥ ७.१,१०.३ ज्ञानमप्रतिमं शश्वदैश्वर्यं चाणिमादिकम् ॥ ७.१,१०.३ सृष्टिस्थितिलयाख्येषु कर्मसु त्रिषु हेतुताम् ॥ ७.१,१०.४ प्रभुत्वेन सहैतेषां प्रसीदति महेश्वरः ॥ ७.१,१०.४ कल्पान्तरे पुनस्तेषामस्पर्धा बुद्धिमोहिनाम् ॥ ७.१,१०.५ सर्गरक्षालयाचारं प्रत्येकं प्रददौ च सः ॥ ७.१,१०.५ एते परस्परोत्पन्ना धारयन्ति परस्परम् ॥ ७.१,१०.६ परस्परेण वर्धंते परस्परमनुव्रताः ॥ ७.१,१०.६ क्वचिद्ब्रह्मा क्वचिद्विष्णुः क्वचिद्रुद्रः प्रशस्यते ॥ ७.१,१०.७ नानेन तेषामाधिक्यमैश्वर्यं चातिरिच्यते ॥ ७.१,१०.७ मूर्खा निंदंति तान्वाग्भिः संरंभाभिनिवेशिनः ॥ ७.१,१०.८ यातुधाना भवंत्येव पिशाचाश्च न संशयः ॥ ७.१,१०.८ देवो गुणत्रयातीतश्चतुर्व्यूहो महेश्वरः ॥ ७.१,१०.९ सकलस्सकलाधारशक्तेरुत्पत्तिकारणम् ॥ ७.१,१०.९ सोयमात्मा त्रयस्यास्य प्रकृतेः पुरुषस्य च ॥ ७.१,१०.१० लीलाकृतजगत्सृष्टिरीश्वरत्वे व्यवस्थितः ॥ ७.१,१०.१० यस्सर्वस्मात्परो नित्यो निष्कलः परमेश्वरः ॥ ७.१,१०.११ स एव च तदाधारस्तदात्मा तदधिष्ठितः ॥ ७.१,१०.११ तस्मान्महेश्वरश्चैव प्रकृतिः पुरुषस्तथा ॥ ७.१,१०.१२ सदाशिवभवो विष्णुर्ब्रह्मा सर्वशिवात्मकम् ॥ ७.१,१०.१२ प्रधानात्प्रथमं जज्ञे वृद्धिः ख्यातिर्मतिर्महान् ॥ ७.१,१०.१३ महत्तत्त्वस्य संक्षोभादहंकारस्त्रिधा ऽभवत् ॥ ७.१,१०.१३ अहंकारश्च भूतानि तन्मात्रानींद्रियाणि च ॥ ७.१,१०.१४ वैकारिकादहंकारात्सत्त्वोद्रिक्तात्तु सात्त्विकः ॥ ७.१,१०.१४ वैकारिकः स सर्गस्तु युगपत्संप्रवर्तते ॥ ७.१,१०.१५ बुद्धीन्द्रियाणि पञ्चैव पञ्चकर्मेंद्रियाणि च ॥ ७.१,१०.१५ एकादशं मनस्तत्र स्वगुणेनोभयात्मकम् ॥ ७.१,१०.१६ तमोयुक्तादहंकाराद्भूततन्मात्रसंभवः ॥ ७.१,१०.१६ भूतानामादिभूतत्वाद्भूतादिः कथ्यते तु सः ॥ ७.१,१०.१७ भूतादेश्शब्दमात्रं स्यात्तत्र चाकाशसंभवः ॥ ७.१,१०.१७ आकाशात्स्पर्श उत्पन्नः स्पर्शाद्वायुसमुद्भवः ॥ ७.१,१०.१८ वायो रूपं ततस्तेजस्तेजसो रससंभवः ॥ ७.१,१०.१८ रसादापस्समुत्पन्नास्तेभ्यो गन्धसमुद्भवः ॥ ७.१,१०.१९ गन्धाच्च पृथिवी जाता भूतेभ्योन्यच्चराचरम् ॥ ७.१,१०.१९ पुरुषाधिष्ठितत्वाच्च अव्यक्तानुग्रहेण च ॥ ७.१,१०.२० महदादिविशेषान्ता ह्यण्डमुत्पादयन्ति ते ॥ ७.१,१०.२० ५१२ तत्र कार्यं च करणं संसिद्धं ब्रह्मणो यदा ॥ ७.१,१०.२१ तदंडे सुप्रवृद्धो ऽभूत्क्षेत्रज्ञो ब्रह्मसंज्ञितः ॥ ७.१,१०.२१ स वै शरीरी प्रथमः स वै पुरुष उच्यते ॥ ७.१,१०.२२ आदिकर्ता स भूतानां ब्रह्माग्रे समवर्तत ॥ ७.१,१०.२२ तस्येश्वरस्य प्रतिमा ज्ञानवैराग्यलक्षणा ॥ ७.१,१०.२३ धर्मैश्वर्यकरी बुद्धिर्ब्राह्मी यज्ञे ऽभिमानिनः ॥ ७.१,१०.२३ अव्यक्ताज्जायते तस्य मनसा यद्यदीप्सितम् ॥ ७.१,१०.२४ वशी विकृत्वात्त्रैगुण्यात्सापेक्षत्वात्स्वभावतः ॥ ७.१,१०.२४ त्रिधा विभज्य चात्मानं त्रैलोक्ये संप्रवर्तते ॥ ७.१,१०.२५ सृजते ग्रसते चैव वीक्षते च त्रिभिस्स्वयम् ॥ ७.१,१०.२५ चतुर्मुखस्तु ब्रह्मत्वे कालत्वे चांतकस्स्मृतः ॥ ७.१,१०.२६ सहस्रमूर्धा पुरुषस्तिस्रोवस्थास्स्वयंभुवः ॥ ७.१,१०.२६ सत्त्वं रजश्च ब्रह्मा च कालत्वे च तमो रजः ॥ ७.१,१०.२७ विष्णुत्वे केवलं सत्त्वं गुणवृद्धिस्त्रिधा विभौ ॥ ७.१,१०.२७ ब्रह्मत्वे सृजते लोकान् कालत्वे संक्षिपत्यपि ॥ ७.१,१०.२८ पुरुषत्वे ऽत्युदासीनः कर्म च त्रिविधं विभोः ॥ ७.१,१०.२८ एवं त्रिधा विभिन्नत्वाद्ब्रह्मा त्रिगुण उच्यते ॥ ७.१,१०.२९ चतुर्धा प्रविभक्तत्वाच्चातुर्व्यूहः प्रकीर्तितः ॥ ७.१,१०.२९ आदित्वादादिदेवो ऽसावजातत्वादजः स्मृतः ॥ ७.१,१०.३० पाति यस्मात्प्रजाः सर्वाः प्रजापतिरिति स्मृतः ॥ ७.१,१०.३० हिरण्मयस्तु यो मेरुस्तस्योल्बं सुमहात्मनः ॥ ७.१,१०.३१ गर्भोदकं समुद्राश्च जरायुश्चाऽपि पर्वताः ॥ ७.१,१०.३१ तस्मिन्नंडे त्विमे लोका अंतर्विश्वमिदं जगत् ॥ ७.१,१०.३२ चंद्रादित्यौ सनक्षत्रौ सग्रहौ सह वायुना ॥ ७.१,१०.३२ अद्भिर्दशगुणाभिस्तु बाह्यतोण्डं समावृतम् ॥ ७.१,१०.३३ आपो दशगुणेनैव तेजसा बहिरावृताः ॥ ७.१,१०.३३ तेजो दशगुणेनैव वायुना बहिरावृतम् ॥ ७.१,१०.३४ आकाशेनावृतो वायुः खं च भूतादिनावृतम् ॥ ७.१,१०.३४ भूतादिर्महता तद्वदव्यक्तेनावृतो महान् ॥ ७.१,१०.३५ एतैरावरणैरण्डं सप्तभिर्बहिरावृतम् ॥ ७.१,१०.३५ एतदावृत्त्य चान्योन्यमष्टौ प्रकृतयः स्थिताः ॥ ७.१,१०.३६ सृष्टिपालनविध्वंसकर्मकर्त्र्यो द्विजोत्तमाः ॥ ७.१,१०.३६ एवं परस्परोत्पन्ना धारयंति परस्परम् ॥ ७.१,१०.३७ आधाराधेयभावेन विकारास्तु विकारिषु ॥ ७.१,१०.३७ कूर्मोंगानि यथा पूर्वं प्रसार्य विनियच्छति ॥ ७.१,१०.३८ विकारांश्च तथा ऽव्यक्तं सृष्ट्वा भूयो नियच्छति ॥ ७.१,१०.३८ अव्यक्तप्रभवं सर्वमानुलोम्येन जायते ॥ ७.१,१०.३९ प्राप्ते प्रलयकाले तु प्रतिलोम्येनुलीयते ॥ ७.१,१०.३९ गुणाः कालवशादेव भवंति विषमाः समाः ॥ ७.१,१०.४० गुणसाम्ये लयो ज्ञेयो वैषम्ये सृष्टिरुच्यते ॥ ७.१,१०.४० तदिदं ब्रह्मणो योनिरेतदंडं घनं महत् ॥ ७.१,१०.४१ ब्रह्मणः क्षेत्रमुद्दिष्टं ब्रह्मा क्षेत्रज्ञ उच्यते ॥ ७.१,१०.४१ इतीदृशानामण्डानां कोट्यो ज्ञेयाः सहस्रशः ॥ ७.१,१०.४२ सर्वगत्वात्प्रधानस्य तिर्यगूर्ध्वमधः स्थिताः ॥ ७.१,१०.४२ ५१२ तत्र तत्र चतुर्वक्त्रा ब्रह्माणो हरयो भवाः ॥ ७.१,१०.४३ सृष्टा प्रधानेन तथा लब्ध्वा शंभोस्तु सन्निधिम् ॥ ७.१,१०.४३ महेश्वरः परोव्यक्तादंडमव्यक्तसंभवम् ॥ ७.१,१०.४४ अण्डाज्जज्ञे विभुर्ब्रह्मा लोकास्तेन कृतास्त्विमे ॥ ७.१,१०.४४ अबुद्धिपूर्वः कथितो मयैष प्रधानसर्गः प्रथमः प्रवृतः ॥ ७.१,१०.४५ आत्यंतिकश्च प्रलयोन्तकाले लीलाकृतः केवलमीश्वरस्य ॥ ७.१,१०.४५ यत्तत्स्मृतं कारणमप्रमेयं ब्रह्मा प्रधानं प्रकृतेः प्रसूतिः ॥ ७.१,१०.४६ अनादिमध्यान्तमनन्तवीर्यं शुक्लं सुरक्तं पुरुषेण युक्तम् ॥ ७.१,१०.४६ उत्पादकत्वाद्रजसोतिरेकाल्लोकस्य संतानविवृद्धिहेतून् ॥ ७.१,१०.४७ अष्टौ विकारानपि चादिकाले सृष्ट्वा समश्नाति तथांतकाले ॥ ७.१,१०.४७ प्रकृत्यवस्थापितकारणानां या च स्थितिर्या च पुनः प्रवृत्तिः ॥ ७.१,१०.४८ तत्सर्वमप्राकृतवैभवस्य संकल्पमात्रेण महेश्वरस्य ॥ ७.१,१०.४८ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां ब्रह्मांडस्थितिवर्णनं नाम दशमो ऽध्यायः अध्याय ११ मुनय ऊचुः मन्वंतराणि सर्वाणि कल्पभेदांश्च सर्वशः ॥ ७.१,११.१ तेष्वेवांतरसर्गं च प्रतिसर्गं च नो वद ॥ ७.१,११.१ वायुरुवाच कालसंख्याविवृत्तस्य परार्धो ब्रह्मणस्स्मृतः ॥ ७.१,११.२ तावांश्चैवास्य कालोन्यस्तस्यांते प्रतिसृज्यते ॥ ७.१,११.२ दिवसे दिवसे तस्य ब्रह्मणः पूर्वजन्मनः ॥ ७.१,११.३ चतुर्दशमहाभागा मनूनां परिवृत्तयः ॥ ७.१,११.३ अनादित्वादनंतत्वादज्ञेयत्वाच्च कृत्स्नशः ॥ ७.१,११.४ मन्वंतराणि कल्पाश्च न शक्या वचनात्पृथक् ॥ ७.१,११.४ उक्तेष्वपि च सर्वेषु शृण्वतां वो वचो मम ॥ ७.१,११.५ किमिहास्ति फलं तस्मान्न पृथक्वक्तुमुत्सहे ॥ ७.१,११.५ य एव खलु कल्पेषु कल्पः संप्रति वर्तते ॥ ७.१,११.६ तत्र संक्षिप्य वर्तंते सृष्टयः प्रतिसृष्टयः ॥ ७.१,११.६ यस्त्वयं वर्तते कल्पो वाराहो नाम नामतः ॥ ७.१,११.७ अस्मिन्नपि द्विजश्रेष्ठा मनवस्तु चतुर्दश ॥ ७.१,११.७ स्वायंभुवादयस्सप्त सप्त सावर्णिकादयः ॥ ७.१,११.८ तेषु वैवस्वतो नाम सप्तमो वर्तते मनुः ॥ ७.१,११.८ मन्वंतरेषु सर्वेषु सर्गसंहारवृत्तयः ॥ ७.१,११.९ प्रायः समाभवंतीति तर्कः कार्यो विजानता ॥ ७.१,११.९ पूर्वकल्पे परावृत्ते प्रवृत्ते कालमारुते ॥ ७.१,११.१० समुन्मूलितमूलेषु वृक्षेषु च वनेषु च ॥ ७.१,११.१० जगंति तृणवक्त्रीणि देवे दहति पावके ॥ ७.१,११.११ वृष्ट्या भुवि निषिक्तायां विवेलेष्वर्णवेषु च ॥ ७.१,११.११ दिक्षु सर्वासु मग्नासु वारिपूरे महीयसि ॥ ७.१,११.१२ तदद्भिश्चटुलाक्षेपैस्तरंगभुजमण्डलैः ॥ ७.१,११.१२ प्रारब्धचण्डनृत्येषु ततः प्रलयवारिषु ॥ ७.१,११.१३ ब्रह्मा नारायणो भूत्वा सुष्वाप सलिले सुखम् ॥ ७.१,११.१३ ५१३ इमं चोदाहरन्मंत्रं श्लोकं नारायणं प्रति ॥ ७.१,११.१४ तं शृणुध्वं मुनिश्रेष्ठास्तदर्थं चाक्षराश्रयम् ॥ ७.१,११.१४ आपो नारा इति प्रोक्ता आपो वै नरसूनवः ॥ ७.१,११.१५ अयनं तस्य ता यस्मात्तेन नारायणः स्मृतः ॥ ७.१,११.१५ शिवयोगमयीं निद्रां कुर्वन्तं त्रिदशेश्वरम् ॥ ७.१,११.१६ बद्धांजलि पुटास्सिद्धा जनलोकनिवासिनः ॥ ७.१,११.१६ स्तोत्रैः प्रबोधयामासुः प्रभातसमये सुराः ॥ ७.१,११.१७ यथा सृष्ट्यादिसमये ईश्वरं श्रुतयः पुरा ॥ ७.१,११.१७ ततः प्रबुद्ध उत्थाय शयनात्तोयमध्यगात् ॥ ७.१,११.१८ उदैक्षत दिशः सर्वा योगनिद्रालसेक्षणः ॥ ७.१,११.१८ नापश्यत्स तदा किंचित्स्वात्मनो व्यतिरेकि यत् ॥ ७.१,११.१९ सविस्मय इवासीनः परां चिंतामुपागमत् ॥ ७.१,११.१९ क्व सा भगवती या तु मनोज्ञा महती मही ॥ ७.१,११.२० नानाविधमहाशैलनदीनगरकानना ॥ ७.१,११.२० एवं संचिंतयन्ब्रह्मा बुबुधे नैव भूस्थितिम् ॥ ७.१,११.२१ तदा सस्मार पितरं भगवंतं त्रिलोचनम् ॥ ७.१,११.२१ स्मरणाद्देवदेवस्य भवस्यामिततेजसः ॥ ७.१,११.२२ ज्ञातवान्सलिले मग्नां धरणीं धरणीपतिः ॥ ७.१,११.२२ ततो भूमेस्समुद्धारं कर्तुकामः प्रजापतिः ॥ ७.१,११.२३ जलक्रीडोचितं दिव्यं वाराहं रूपमस्मरत् ॥ ७.१,११.२३ महापर्वतवर्ष्माणं महाजलदनिःस्वनम् ॥ ७.१,११.२४ नीलमेघप्रतीकाशं दीप्तशब्दं भयानकम् ॥ ७.१,११.२४ पीनवृत्तघनस्कंधपीनोन्नतकटीतटम् ॥ ७.१,११.२५ ह्रस्ववृत्तोरुजंघाग्रं सुतीक्ष्णपुरमण्डलम् ॥ ७.१,११.२५ पद्मरागमणिप्रख्यं वृत्तभीषणलोचनम् ॥ ७.१,११.२६ वृत्तदीर्घमहागात्रं स्तब्धकर्णस्थलोज्ज्वलम् ॥ ७.१,११.२६ उदीर्णोच्छ्वासनिश्वासघूर्णितप्रलयार्णवम् ॥ ७.१,११.२७ विस्फुरत्सुसटाच्छन्नकपोलस्कंधबंधुरम् ॥ ७.१,११.२७ मणिभिर्भूषणैश्चित्रैर्महारत्नैःपरिष्कृतम् ॥ ७.१,११.२८ विराजमानं विद्युद्भिर्मेघसंघमिवोन्नतम् ॥ ७.१,११.२८ आस्थाय विपुलं रूपं वाराहममितं विधिः ॥ ७.१,११.२९ पृथिव्युद्धरणार्थाय प्रविवेश रसातलम् ॥ ७.१,११.२९ स तदा शुशुभे ऽतीव सूकरो गिरिसंनिभः ॥ ७.१,११.३० लिंगाकृतेर्महेशस्य पादमूलं गतो यथा ॥ ७.१,११.३० ततस्स सलिले मग्नां पृथिवीं पृथिवींधरः ॥ ७.१,११.३१ उद्धृत्यालिंग्य दंष्ट्राभ्यामुन्ममज्ज रसातलात् ॥ ७.१,११.३१ तं दृष्ट्वा मुनयस्सिद्धा जनलोकनिवासिनः ॥ ७.१,११.३२ मुमुदुर्ननृतुर्मूर्ध्नि तस्य पुष्पैरवाकिरन् ॥ ७.१,११.३२ वपुर्महावराहस्य शुशुभे पुष्पसंवृतम् ॥ ७.१,११.३३ पतद्भिरिव खद्योतैः प्राशुरंजनपर्वतः ॥ ७.१,११.३३ ततः संस्थानमानीय वराहो महतीं महीम् ॥ ७.१,११.३४ स्वमेव रूपमास्थाय स्थापयामास वै विभुः ॥ ७.१,११.३४ पृथिवीं च समीकृत्य पृथिव्यां स्थापयन्गिरीन् ॥ ७.१,११.३५ ५१३ भूराद्यांश्चतुरो लोकान् कल्पयामास पूर्ववत् ॥ ७.१,११.३५ इति सह महतीं महीं महीध्रैः प्रलयमहाजलधेरधःस्थमध्यात् ॥ ७.१,११.३६ उपरि च विनिवेश्य विश्वकर्मा चरमचरं च जगत्ससर्ज भूयः ॥ ७.१,११.३६ इति श्रीशिवमहापुराणे सप्तम्यां वा पू सृष्ट्यादिवर्णनं नामैकादशो ऽध्यायः अध्याय १२ वायुरुवाच सर्गं चिंतयतस्तस्य तदा वै बुद्धिपूर्वकम् ॥ ७.१,१२.१ प्रध्यानकाले मोहस्तु प्रादुर्भूतस्तमोमयः ॥ ७.१,१२.१ तमोमोहो महामोहस्तामिस्रश्चान्धसंज्ञितः ॥ ७.१,१२.२ अविद्या पञ्चमी चैषा प्रादुर्भूता महात्मनः ॥ ७.१,१२.२ पञ्चधा ऽवस्थितः सर्गो ध्यायतस्त्वभिमानिनः ॥ ७.१,१२.३ सर्वतस्तमसातीव बीजकुम्भवदावृतः ॥ ७.१,१२.३ बहिरन्तश्चाप्रकाशः स्तब्धो निःसंज्ञ एव च ॥ ७.१,१२.४ तस्मात्तेषां वृता बुद्धिर्मुखानि करणानि च ॥ ७.१,१२.४ तस्मात्ते संवृतात्मानो नगा मुख्याः प्रकीर्तिताः ॥ ७.१,१२.५ तं दृष्ट्वाऽसाधकं ब्रह्मा प्रथमं सर्गमीदृशम् ॥ ७.१,१२.५ अप्रसन्नमना भूत्वा द्वितीयं सो ऽभ्यमन्यत ॥ ७.१,१२.६ तस्याभिधायतः सर्गं तिर्यक्स्रोतो ऽभ्यवर्तत ॥ ७.१,१२.६ अन्तःप्रकाशास्तिर्यंच आवृताश्च बहिः पुनः ॥ ७.१,१२.७ पश्वात्मानस्ततो जाता उत्पथग्राहिणश्च ते ॥ ७.१,१२.७ तमप्यसाधकं ज्ञात्वा सर्गमन्यममन्यत ॥ ७.१,१२.८ तदोर्ध्वस्रोतसो वृत्तो देवसर्गस्तु सात्त्विकः ॥ ७.१,१२.८ ते सुखप्रीतिबहुला बहिरन्तश्च नावृताः ॥ ७.१,१२.९ प्रकाशा बहिरन्तश्चस्वभावादेव संज्ञिताः ॥ ७.१,१२.९ ततो ऽभिध्यायतोव्यक्तादर्वाक्स्रोतस्तु साधकः ॥ ७.१,१२.१० मनुष्यनामा सञ्जातः सर्गो दुःखसमुत्कटः ॥ ७.१,१२.१० प्रकाशाबहिरन्तस्ते तमोद्रिक्ता रजो ऽधिकाः ॥ ७.१,१२.११ पञ्चमोनुग्रहः सर्गश्चतुर्धा संव्यवस्थितः ॥ ७.१,१२.११ विपर्ययेण शक्त्या च तुष्ट्यासिद्ध्या तथैव च ॥ ७.१,१२.१२ ते ऽपरिग्राहिणः सर्वे संविभागरताः पुनः ॥ ७.१,१२.१२ खादनाश्चाप्यशीलाश्च भूताद्याः परिकीर्तिताः ॥ ७.१,१२.१३ प्रथमो महतः सर्गो ब्रह्मणः परमेष्ठिनः ॥ ७.१,१२.१३ तन्मात्राणां द्वितीयस्तु भूतसर्गः स उच्यते ॥ ७.१,१२.१४ वैकारिकस्तृतीयस्तु सर्ग ऐन्द्रियकः स्मृतः ॥ ७.१,१२.१४ इत्येष प्रकृतेः सर्गः सम्भृतो ऽबुद्धिपूर्वकः ॥ ७.१,१२.१५ मुख्यसर्गश्चतुर्थस्तु मुख्या वै स्थावराः स्मृताः ॥ ७.१,१२.१५ तिर्यक्स्रोतस्तु यः प्रोक्तस्तिर्यग्योनिः स पञ्चमः ॥ ७.१,१२.१६ तदूर्ध्वस्रोतसः षष्ठो देवसर्गस्तु स स्मृतः ॥ ७.१,१२.१६ ततो ऽर्वाक्स्रोतसां सर्गः सप्तमः स तु मानुषः ॥ ७.१,१२.१७ अष्टमो ऽनुग्रहः सर्गः कौमारो नवमः स्मृतः ॥ ७.१,१२.१७ प्राकृताश्च त्रयः पूर्वे सर्गास्ते ऽबुद्धिपूर्वकाः ॥ ७.१,१२.१८ ५१४ बुद्धिपूर्वं प्रवर्तन्ते मुख्याद्याः पञ्च वैकृताः ॥ ७.१,१२.१८ अग्रे ससर्ज वै ब्रह्मा मानसानात्मनः समान् ॥ ७.१,१२.१९ सनन्दं सनकञ्चैव विद्वांसञ्च सनातनम् ॥ ७.१,१२.१९ ऋभुं सनत्कुमारञ्च पूर्वमेव प्रजापतिः ॥ ७.१,१२.२० सर्वे ते योगिनो ज्ञेया वीतरागा विमत्सराः ॥ ७.१,१२.२० इश्वरासक्तमनसो न चक्रुः सृष्टये मतिम् ॥ ७.१,१२.२१ तेषु सृष्ट्यनपेक्षेषु गतेषु सनकादिषु ॥ ७.१,१२.२१ स्रष्टुकामः पुनर्ब्रह्मा तताप परमं तपः ॥ ७.१,१२.२२ तस्यैवं तप्यमानस्य न किंचित्समवर्तत ॥ ७.१,१२.२२ ततो दीर्घेण कालेन दुःखात्क्रोधो व्यजायत ॥ ७.१,१२.२३ क्रोधाविष्टस्य नेत्राभ्यां प्रापतन्नश्रुबिन्दवः ॥ ७.१,१२.२३ ततस्तेभ्यो ऽश्रुबिन्दुभ्यो भूताः प्रेतास्तदाभवन् ॥ ७.१,१२.२४ सर्वांस्तानश्रुजान्दृष्ट्वा ब्रह्मात्मानमनिंदत ॥ ७.१,१२.२४ तस्य तीव्रा ऽभवन्मूर्छा क्रोधामर्षसमुद्भवा ॥ ७.१,१२.२५ मूर्छितस्तु जहौ प्राणान्क्रोधाविष्टः प्रजापतिः ॥ ७.१,१२.२५ ततः प्राणेश्वरो रुद्रो भगवान्नीललोहितः ॥ ७.१,१२.२६ प्रसादमतुलं कर्तुं प्रादुरासीत्प्रभोर्मुखात् ॥ ७.१,१२.२६ दशधा चैकधा चक्रे स्वात्मानं प्रभुरीश्वरः ॥ ७.१,१२.२७ ते तेनोक्ता महात्मानो दशधा चैकधा कृताः ॥ ७.१,१२.२७ यूयं सृष्टा मया वत्सा लोकानुग्रहकारणात् ॥ ७.१,१२.२८ तस्मात्सर्वस्य लोकस्य स्थापनाय हिताय च ॥ ७.१,१२.२८ प्रजासन्तानहेतोश्च प्रयतध्वमतन्द्रिताः ॥ ७.१,१२.२९ एवमुक्ताश्च रुरुदुर्दुद्रुवुश्च समन्ततः ॥ ७.१,१२.२९ रोदनाद्द्रावणाच्चैव ते रुद्रा नामतः स्मृताः ॥ ७.१,१२.३० ये रुद्रास्ते खलु प्राणा ये प्राणास्ते महात्मकाः ॥ ७.१,१२.३० ततो मृतस्य देवस्य ब्रह्मणः परमेष्ठिनः ॥ ७.१,१२.३१ घृणी ददौ पुनः प्राणान्ब्रह्मपुत्रो महेश्वरः ॥ ७.१,१२.३१ प्रहृष्टवदनो रुद्रः प्राणप्रत्यागमाद्विभोः ॥ ७.१,१२.३२ अभ्यभाषत विश्वेशो ब्रह्माणं परमं वचः ॥ ७.१,१२.३२ माभैर्माभैर्महाभाग विरिंच जगतां गुरो ॥ ७.१,१२.३३ मया ते प्राणिताः प्राणाः सुखमुत्तिष्ठ सुव्रत ॥ ७.१,१२.३३ स्वप्नानुभूतमिव तच्छ्रुत्वा वाक्यं मनोहरम् ॥ ७.१,१२.३४ हरं निरीक्ष्य शनकैर्नेत्रैः फुल्लाम्बुजप्रभैः ॥ ७.१,१२.३४ तथा प्रत्यागतप्राणः स्निग्धगम्भीरया गिरा ॥ ७.१,१२.३५ उवाच वचनं ब्रह्मा तमुद्दिश्य कृताञ्जलिः ॥ ७.१,१२.३५ त्वं हि दर्शनमात्रेण चानन्दयसि मे मनः ॥ ७.१,१२.३६ को भवान् विश्वमूर्त्या वा स्थित एकादशात्मकः ॥ ७.१,१२.३६ तस्य तद्वचनं श्रुत्वा व्याजहार महेश्वरः ॥ ७.१,१२.३७ स्पृशन् काराभ्यां ब्रह्माणं सुसुखाभ्यां सुरेश्वरः ॥ ७.१,१२.३७ मां विद्धि परमात्मानं तव पुत्रत्वमागतम् ॥ ७.१,१२.३८ एते चैकादश रुद्रास्त्वां सुरक्षितुमागताः ॥ ७.१,१२.३८ तस्मात्तीव्रामिमाम्मूर्छां विधूय मदनुग्रहात् ॥ ७.१,१२.३९ प्रबुद्धस्व यथापूर्वं प्रजा वै स्रष्टुमर्हसि ॥ ७.१,१२.३९ ५१४ एवं भगवता प्रोक्तो ब्रह्मा प्रीतमना ह्यभूत् ॥ ७.१,१२.४० नानाष्टकेन विश्वात्मा तुष्टाव परमेश्वरम् ॥ ७.१,१२.४० ब्रह्मोवाच नमस्ते भगवन् रुद्र भास्करामिततेजसे ॥ ७.१,१२.४१ नमो भवाय देवाय रसायाम्बुमयात्मने ॥ ७.१,१२.४१ शर्वाय क्षितिरूपाय नन्दीसुरभये नमः ॥ ७.१,१२.४१ ईशाय वसवे तुभ्यं नमस्स्पर्शमयात्मने ॥ ७.१,१२.४२ पशूनां पतये चैव पावकायातितेजसे ॥ ७.१,१२.४२ भीमाय व्योमरूपाय शब्दमात्राय ते नमः ॥ ७.१,१२.४२ उग्रायोग्रस्वरूपाय यजमानात्मने नमः ॥ ७.१,१२.४३ महादेवाय सोमाय नमोस्त्वमृतमूर्तये ॥ ७.१,१२.४३ एवं स्तुत्वा महादेवं ब्रह्मा लोकपितामहः ॥ ७.१,१२.४४ प्रार्थयामास विश्वेशं गिरा प्रणतिपूर्वया ॥ ७.१,१२.४४ भगवन् भूतभव्येश मम पुत्र महेश्वर ॥ ७.१,१२.४५ सृष्टिहेतोस्त्वमुत्पन्नो ममांगे ऽनंगनाशनः ॥ ७.१,१२.४५ तस्मान्महति कार्येस्मिन् व्यापृतस्य जगत्प्रभो ॥ ७.१,१२.४६ सहायं कुरु सर्वत्र स्रष्टुमर्हसि स प्रजाः ॥ ७.१,१२.४६ तेनैषां पावितो देवो रुद्रस्त्रिपुरमर्दनः ॥ ७.१,१२.४७ बाढमित्येव तां वाणीं प्रतिजग्राह शंकरः ॥ ७.१,१२.४७ ततस्स भगवान् ब्रह्मा हृष्टं तमभिनंद्य च ॥ ७.१,१२.४८ स्रष्टुं तेनाभ्यनुज्ञातस्तथान्याश्चासृजत्प्रजाः ॥ ७.१,१२.४८ मरीचिभृग्वंगिरसः पुलस्त्यं पुलहं क्रतुम् ॥ ७.१,१२.४९ दक्षमत्रिं वसिष्ठं च सो ऽसृजन्मनसैव च ॥ ७.१,१२.४९ पुरस्तादसृजद्ब्रह्मा धर्मं संकल्पमेव च ॥ ७.१,१२.४९ इत्येते ब्रह्मणः पुत्रा द्वादशादौ प्रकीर्तिताः ॥ ७.१,१२.५० सह रुद्रेण संभूताः पुराणा गृहमेधिनः ॥ ७.१,१२.५० तेषां द्वादश वंशाः स्युर्दिव्या देवगणान्विताः ॥ ७.१,१२.५१ प्रजावन्तः क्रियावन्तो महर्षिभिरलंकृताः ॥ ७.१,१२.५१ अथ देवासुरपित्ःन्मनुष्यांश्च चतुष्टयम् ॥ ७.१,१२.५२ सह रुद्रेण सिसृक्षुरंभस्येतानि वै विधिः ॥ ७.१,१२.५२ स सृष्ट्यर्थं समाधाय ब्रह्मात्मानमयूयुजत् ॥ ७.१,१२.५३ मुखादजनयद्देवान् पित्ःंश्चैवोपपक्षतः ॥ ७.१,१२.५३ जघनादसुरान् सर्वान् प्रजनादपि मानुषान् ॥ ७.१,१२.५४ अवस्करे क्षुधाविष्टा राक्षसास्तस्य जज्ञिरे ॥ ७.१,१२.५४ पुत्रास्तमोरजःप्राया बलिनस्ते निशाचराः ॥ ७.१,१२.५५ सर्पा यक्षास्तथा भूता गंधर्वाः संप्रजज्ञिरे ॥ ७.१,१२.५५ वयांसि पक्षतः सृष्टाः पक्षिणो वक्षसो ऽसृजत् ॥ ७.१,१२.५६ मुखतोजांस्तथा पार्श्वादुरगांश्च विनिर्ममे ॥ ७.१,१२.५६ पद्भ्यां चाश्वान्समातंगान् शरभान् गवयान्मृगान् ॥ ७.१,१२.५७ उष्ट्रानश्वतरांश्चैव न्यंकूनन्याश्च जातयः १ ॥ ७.१,१२.५७ औषध्यः फलमूलानि रोमभ्यस्तस्य जज्ञिरे ॥ ७.१,१२.५८ गायत्रीं च ऋचं चैव त्रिवृत्साम रथंतरम् ॥ ७.१,१२.५८ अग्निष्टोमं च यज्ञानां निर्ममे प्रथमान्मुखात् ॥ ७.१,१२.५९ यजूंषि त्रैष्टुभं छंदःस्तोमं पञ्चदशं तथा ॥ ७.१,१२.५९ १ प्रथमार्षो ५१५ बृहत्साम तथोक्थं च दक्षिणादसृजन्मुखात् ॥ ७.१,१२.६० सामानि जगतीछंदः स्तोमं सप्तदशं तथा ॥ ७.१,१२.६० वैरूप्यमतिरात्रं च पश्चिमादसृजन्मुखात् ॥ ७.१,१२.६१ एकविंशमथर्वाणमाप्तोर्यामाणमेव च ॥ ७.१,१२.६१ अनुष्टुभं स वैराजमुत्तरादसृजन्मुखात् ॥ ७.१,१२.६२ उच्चावचानि भूतानि गात्रेभ्यस्तस्य जज्ञिरे ॥ ७.१,१२.६२ यक्षाः पिशाचा गंधर्वास्तथैवाप्सरसां गणाः ॥ ७.१,१२.६३ नरकिन्नररक्षांसि वयःपशुमृगोरगाः ॥ ७.१,१२.६३ अव्ययं चैव यदिदं स्थाणुस्थावरजंगमम् ॥ ७.१,१२.६४ तेषां वै यानि कर्माणि प्राक्सृष्टानि प्रपेदिरे ॥ ७.१,१२.६४ तान्येव ते प्रपद्यंते सृज्यमानाः पुनः पुनः ॥ ७.१,१२.६५ हिंस्राहिंस्रे मृदुक्रूरे धर्माधर्मावृतानृते ॥ ७.१,१२.६५ तद्भाविताः प्रपद्यंते तस्मात्तत्तस्य रोचते ॥ ७.१,१२.६६ महाभूतेषु नानात्वमिंद्रियार्थेषु मुक्तिषु ॥ ७.१,१२.६६ विनियोगं च भूतानां धातैव व्यदधत्स्वयम् ॥ ७.१,१२.६७ नाम रूपं च भूतानां प्राकृतानां प्रपञ्चनम् ॥ ७.१,१२.६७ वेदशब्देभ्य एवादौ निर्ममे ऽसौ पितामहः ॥ ७.१,१२.६८ आर्षाणि चैव नामानि याश्च वेदेषु वृत्तयः ॥ ७.१,१२.६८ शर्वर्यंते प्रसूतानां तान्येवैभ्यो ददावजः ॥ ७.१,१२.६९ यथर्तावृतुलिंगानि नानारूपाणि पर्यये ॥ ७.१,१२.६९ दृश्यंते तानि तान्येव तथा भावा युगादिषु ॥ ७.१,१२.७० इत्येष करणोद्भूतो लोकसर्गस्स्वयंभुवः ॥ ७.१,१२.७० महदाद्योविशेषांतो विकारः प्रकृतेः स्वयम् ॥ ७.१,१२.७१ चंद्रसूर्यप्रभाजुष्टो ग्रहनक्षत्रमंडितः ॥ ७.१,१२.७१ नदीभिश्च समुद्रैश्च पर्वतैश्च स मंडितः ॥ ७.१,१२.७२ परैश्च विविधैरम्यैस्स्फीतैर्जनपदैस्तथा ॥ ७.१,१२.७२ तस्मिन् ब्रह्मवने ऽव्यक्तो ब्रह्मा चरति सर्ववित् ॥ ७.१,१२.७३ अव्यक्तबीजप्रभव ईश्वरानुग्रहे स्थितः ॥ ७.१,१२.७३ बुद्धिस्कंधमहाशाख इन्द्रियांतरकोटरः ॥ ७.१,१२.७४ महाभूतप्रमाणश्च विशेषामलपल्लवः ॥ ७.१,१२.७४ धर्माधर्मसुपुष्पाढ्यः सुखदुःखफलोदयः ॥ ७.१,१२.७५ आजीव्यः सर्वभूतानां ब्रह्मवृक्षः सनातनः ॥ ७.१,१२.७५ द्यां मूर्धानं तस्य विप्रा वदंति खं वै नाभिं चंद्रसूर्यौ च नेत्रे ॥ ७.१,१२.७६ दिशः श्रोत्रे चरणौ च क्षितिं च सो ऽचिन्त्यात्मा सर्वभूतप्रणेता ॥ ७.१,१२.७६ वक्त्रात्तस्य ब्रह्मणास्संप्रसूतास्तद्वक्षसः क्षत्रियाः पूर्वभागात् ॥ ७.१,१२.७७ वैश्या उरुभ्यां तस्य पद्भ्यां च शूद्राः सर्वे वर्णा गात्रतः संप्रसूताः ॥ ७.१,१२.७७ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे सृष्टिवर्णनं नाम द्वादशो ऽध्यायः अध्याय १३ ऋषय ऊचुः भवता कथिता सृष्टिर्भवस्य परमात्मनः ॥ ७.१,१३.१ चतुर्मुखमुखात्तस्य संशयो नः प्रजायते ॥ ७.१,१३.१ देवश्रेष्ठो विरूपाक्षो दीप्तश्शूलधरो हरः ॥ ७.१,१३.२ कालात्मा भगवान् रुद्रः कपर्दी नीललोहितः ॥ ७.१,१३.२ सब्रह्मकमिमं लोकं सविष्णुमपि पावकम् ॥ ७.१,१३.३ ५१५ यः संहरति संक्रुद्धो युगांते समुपस्थिते ॥ ७.१,१३.३ यस्य ब्रह्मा च विष्णुश्च प्रणामं कुरुतो भयात् ॥ ७.१,१३.४ लोकसंकोचकस्यास्य यस्य तौ वशवर्तिनौ ॥ ७.१,१३.४ यो ऽयं देवः स्वकादंगाद्ब्रह्मविष्णू पुरासृजत् ॥ ७.१,१३.५ स एव हि तयोर्नित्यं योगक्षेमकरः प्रभुः ॥ ७.१,१३.५ स कथं भगवान् रुद्र आदिदेवः पुरातनः ॥ ७.१,१३.६ पुत्रत्वमगमच्छंभुर्ब्रह्मणो ऽव्यक्तजन्मनः ॥ ७.१,१३.६ प्रजापतिश्च विष्णुश्च रुद्रस्यैतौ परस्परम् ॥ ७.१,१३.७ सृष्टौ परस्परस्यांगादिति प्रागपि शुश्रुम ॥ ७.१,१३.७ कथं पुनरशेषाणां भूतानां हेतुभूतयोः ॥ ७.१,१३.८ गुणप्रधानभावेन प्रादुर्भावः परस्परात् ॥ ७.१,१३.८ नापृष्टं भवता किंचिन्नाश्रुतं च कथंचन ॥ ७.१,१३.९ भगवच्छिष्यभूतेन भवता सकलं स्मृतम् ॥ ७.१,१३.९ तत्त्वं वद यथा ब्रह्मा मुनीनामवदद्विभुः ॥ ७.१,१३.१० वयं श्रद्धालवस्तात श्रोतुमीश्वरसद्यशः ॥ ७.१,१३.१० वायुरुवाच स्थाने पृष्टमिदं विप्रा भवद्भिः प्रश्नकोविदैः ॥ ७.१,१३.११ इदमेव पुरा पृष्टो मम प्राह पितामहः ॥ ७.१,१३.११ तदहं सम्प्रवक्ष्यामि यथा रुद्रसमुद्भवः ॥ ७.१,१३.१२ यथा च पुनरुत्पत्तिर्ब्रह्मविष्ण्वोः परस्परम् ॥ ७.१,१३.१२ त्रयस्ते कारणात्मानो जतास्साक्षान्महेश्वरात् ॥ ७.१,१३.१३ चराचरस्य विश्वस्य सर्गस्थित्यंतहेतवः ॥ ७.१,१३.१३ परमैश्वर्यसंयुक्ताः परमेश्वरभाविताः ॥ ७.१,१३.१४ तच्छक्त्याधिष्ठिता नित्यं तत्कार्यकरणक्षमाः ॥ ७.१,१३.१४ पित्रा नियमिताः पूर्वं त्रयोपि त्रिषु कर्मसु ॥ ७.१,१३.१५ ब्रह्मा सर्गे हरिस्त्राणे रुद्रः संहरणे तथा ॥ ७.१,१३.१५ तथाप्यन्योन्यमात्सर्यादन्योन्यातिशयाशिनः ॥ ७.१,१३.१६ तपसा तोषयित्वा स्वं पितरं परमेश्वरम् ॥ ७.१,१३.१६ लब्ध्वा सर्वात्मना तस्य प्रसादात्परमेष्ठिनः ॥ ७.१,१३.१७ ब्रह्मनारायणौ पूर्वं रुद्रः कल्पान्तरे ऽसृजत् ॥ ७.१,१३.१७ कल्पान्तरे पुनर्ब्रह्मा रुद्रविष्णू जगन्मयः ॥ ७.१,१३.१८ विष्णुश्च भगवान्रुद्रं ब्रह्माणमसृजत्पुनः ॥ ७.१,१३.१८ नारायणं पुनर्ब्रह्मा ब्रह्माणमसृजत्पुनः ॥ ७.१,१३.१९ एवं कल्पेषु कल्पेषु ब्रह्मविष्णुमहेश्वराः ॥ ७.१,१३.१९ परस्परेण जायंते परस्परहितैषिणः ॥ ७.१,१३.२० तत्तत्कल्पान्तवृत्तान्तमधिकृत्य महर्षिभिः ॥ ७.१,१३.२० प्रभावः कथ्यते तेषां परस्परसमुद्भवात् ॥ ७.१,१३.२१ शृणु तेषां कथां चित्रां पुण्यां पापप्रमोचिनीम् ॥ ७.१,१३.२१ कल्पे तत्पुरुषे वृत्तां ब्रह्मणः परमेष्ठिनः ॥ ७.१,१३.२२ पुरा नारायणो नाम कल्पे वै मेघवाहने ॥ ७.१,१३.२२ दिव्यं वर्षसहस्रं तु मेघो भूत्वावहद्धराम् ॥ ७.१,१३.२३ तस्य भावं समालक्ष्य विष्णोर्विश्वजगद्गुरुः ॥ ७.१,१३.२३ सर्वस्सर्वात्मभावेन प्रददौ शक्तिमव्ययाम् ॥ ७.१,१३.२४ शक्तिं लब्ध्वा तु सर्वात्मा शिवात्सर्वेश्वरात्तदा ॥ ७.१,१३.२४ ससर्ज भगावन् विष्णुर्विश्वं विश्वसृजा सह ॥ ७.१,१३.२५ ५१६ विष्णोस्तद्वैभवं दृष्ट्वा सृष्टस्तेन पितामहः ॥ ७.१,१३.२५ ईर्ष्यया परया ग्रस्तः प्रहसन्निदमब्रवीत् ॥ ७.१,१३.२६ गच्छ विष्णो मया ज्ञातं तव सर्गस्य कारणम् ॥ ७.१,१३.२६ आवयोरधिकश्चास्ति स रुद्रो नात्र संशयः ॥ ७.१,१३.२६ तस्य देवाधिदेवस्य प्रसादात्परमेष्ठिनः ॥ ७.१,१३.२७ स्रष्टा त्वं भगवानाद्यः पालकः परमार्थतः ॥ ७.१,१३.२७ अहं च तपसाराध्य रुद्रं त्रिदशनायकम् ॥ ७.१,१३.२८ त्वया सह जगत्सर्वं स्रक्ष्याम्यत्र न संशयः ॥ ७.१,१३.२८ एवं विष्णुमुपालभ्य भगवानब्जसम्भवः ॥ ७.१,१३.२९ एवं विज्ञापयामास तपसा प्राप्य शंकरम् ॥ ७.१,१३.२९ भगवन् देवदेवेश विश्वेश्वर महेश्वर ॥ ७.१,१३.३० तव वामांगजो विष्णुर्दक्षिणांगभवो ह्यहम् ॥ ७.१,१३.३० मया सह जगत्सर्वं तथाप्यसृजदच्युतः ॥ ७.१,१३.३१ स मत्सरादुपालब्धस्त्वदाश्रयबलान्मया ॥ ७.१,१३.३१ मद्भावान्नाधिकस्तेति भावस्त्वयि महेश्वरे ॥ ७.१,१३.३२ त्वत्त एव समुत्पत्तिरावयोस्सदृशी यतः ॥ ७.१,१३.३२ तस्य भक्त्या यथापूर्वं प्रसादं कृतवानसि ॥ ७.१,१३.३३ तथा ममापि तत्सर्वं दातुमर्हसि शंकर ॥ ७.१,१३.३३ इति विज्ञापितस्तेन भगवान् भगनेत्रहा ॥ ७.१,१३.३४ न्यायेन वै ददौ सर्वं तस्यापि स घृणानिधिः ॥ ७.१,१३.३४ लब्ध्वैवमीश्वरादेव ब्रह्मा सर्वात्मतां क्षणात् ॥ ७.१,१३.३५ त्वरमाणोथ संगम्य ददर्श पुरुषोत्तमम् ॥ ७.१,१३.३५ क्षीरार्णवालये शुभ्रे विमाने सूर्यसंनिभे ॥ ७.१,१३.३६ हेमरत्नान्विते दिव्ये मनसा तेन निर्मिते ॥ ७.१,१३.३६ अनंतभोगशय्यायां शयानं पंकजेक्षणम् ॥ ७.१,१३.३७ चतुर्भुजमुदारांगं सर्वाभरणभूषितम् ॥ ७.१,१३.३७ शंखचक्रधरं सौम्यं चन्द्रबिंबसमाननम् ॥ ७.१,१३.३८ श्रीवत्सवक्षसं देवं प्रसन्नमधुरस्मितम् ॥ ७.१,१३.३८ धरामृदुकरांभोजस्पर्शरक्तपदांबुजम् ॥ ७.१,१३.३९ क्षीरार्णवामृतमिव शयानं योगनिद्रया ॥ ७.१,१३.३९ तमसा कालरुद्राख्यं रजसा कनकांडजम् ॥ ७.१,१३.४० सत्त्वेन सर्वगं विष्णुं निर्गुणत्वे महेश्वरम् ॥ ७.१,१३.४० तं दृष्ट्वा पुरुषं ब्रह्मा प्रगल्भमिदमब्रवीत् ॥ ७.१,१३.४१ ग्रसामि त्वामहं विष्णो त्वमात्मानं यथा पुरा ॥ ७.१,१३.४१ तस्य तद्वचनं श्रुत्वा प्रतिबुद्ध्य पितामहम् ॥ ७.१,१३.४२ उदैक्षत महाबाहुस्स्मितमीषच्चकार च ॥ ७.१,१३.४२ तस्मिन्नवसरे विष्णुर्ग्रस्तस्तेन महात्मना ॥ ७.१,१३.४३ सृष्टश्च ब्रह्मणा सद्यो भ्रुवोर्मध्यादयत्नतः ॥ ७.१,१३.४३ तस्मिन्नवसरे साक्षाद्भगवानिन्दुभूषणः ॥ ७.१,१३.४४ शक्तिं तयोरपि द्रष्टुमरूपो रूपमास्थितः ॥ ७.१,१३.४४ प्रसादमतुलं कर्तुं पुरा दत्तवरस्तयोः ॥ ७.१,१३.४५ आगच्छत्तत्र यत्रेमौ ब्रह्मनारायणौ स्थितौ ॥ ७.१,१३.४५ अथ तुष्टुवतुर्देवं प्रीतौ भीतौ च कौतुकात् ॥ ७.१,१३.४६ प्रणेमतुश्च बहुशो बहुमानेन दूरतः ॥ ७.१,१३.४६ ५१६ भवोपि भगवानेतावनुगृह्य पिनाकधृक् ॥ ७.१,१३.४७ सादरं पश्यतोरेव तयोरंतरधीयत ॥ ७.१,१३.४७ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे ब्रह्मविष्णुसृष्टिकथनं नाम त्रयोदशो ऽध्यायः अध्याय १४ वायुरुवाच प्रतिकल्पं प्रवक्ष्यामि रुद्राविर्भावकारणम् ॥ ७.१,१४.१ यतो विच्छिन्नसंताना ब्रह्मसृष्टिः प्रवर्तते ॥ ७.१,१४.१ कल्पेकल्पे प्रजाः सृष्ट्वा ब्रह्मा ब्रह्मांडसंभवः ॥ ७.१,१४.२ अवृद्धिहेतोर्भूतानां मुमोह भृशदुःखितः ॥ ७.१,१४.२ तस्य दुःखप्रशांत्यर्थं प्रजानां च विवृद्धये ॥ ७.१,१४.३ तत्तत्कल्पेषु कालात्मा रुद्रो रुद्रगणाधिपः ॥ ७.१,१४.३ निर्दिष्टः पममेशेन महेशो नीललोहितः ॥ ७.१,१४.४ पुत्रो भूत्वानुगृह्णाति ब्रह्माणं ब्रह्मणोनुजः ॥ ७.१,१४.४ स एव भगवानीशस्तेजोराशिरनामयः ॥ ७.१,१४.५ अनादिनिधनोधाता भूतसंकोचको विभुः ॥ ७.१,१४.५ परमैश्वर्यसंयुक्तः परमेश्वरभावितः ॥ ७.१,१४.६ तच्छक्त्याधिष्ठितश्शश्वत्तच्चिह्नैरपि चिह्नितः ॥ ७.१,१४.६ तन्नामनामा तद्रूपस्तत्कार्यकरणक्षमः ॥ ७.१,१४.७ तत्तुल्यव्यवहारश्च तदाज्ञापरिपालकः ॥ ७.१,१४.७ सहस्रादित्यसंकाशश्चन्द्रावयवभूषणः ॥ ७.१,१४.८ भुजंगहारकेयूरवलयो मुंजमेखलः ॥ ७.१,१४.८ जलंधरविरिंचेन्द्रकपालशकलोज्ज्वलः ॥ ७.१,१४.९ गङ्गातुंगतरंगार्धपिंगलाननमूर्धजः ॥ ७.१,१४.९ भग्नदंष्ट्रांकुराक्रान्तप्रान्तकान्तधराधरः ॥ ७.१,१४.१० सव्यश्रवणपार्श्वांतमंडलीकृतकुण्डलः ॥ ७.१,१४.१० महावृषभनिर्याणो महाजलदनिःस्वनः ॥ ७.१,१४.११ महानलसमप्रख्यो महाबलपराक्रमः ॥ ७.१,१४.११ एवं घोरमहारूपो ब्रह्मपुत्रीं महेश्वरः ॥ ७.१,१४.१२ विज्ञानं ब्रह्मणे दत्त्वा सर्गे सहकरोति च ॥ ७.१,१४.१२ तस्माद्रुद्रप्रसादेन प्रतिकल्पं प्रजापतेः ॥ ७.१,१४.१३ प्रवाहरूपतो नित्या प्रजासृष्टिः प्रवर्तते ॥ ७.१,१४.१३ कदाचित्प्रार्थितः स्रष्टुं ब्रह्मणा नीललोहितः ॥ ७.१,१४.१४ स्वात्मना सदृशान् सर्वान् ससर्ज मनसा विभुः ॥ ७.१,१४.१४ कपर्दिनो निरातंकान्नीलग्रीवांस्त्रिलोचनान् ॥ ७.१,१४.१५ जरामरणनिर्मुक्तान् दीप्तशूलवरायुधान् ॥ ७.१,१४.१५ तैस्तु संच्छादितं सर्वं चतुर्दशविधं जगत् ॥ ७.१,१४.१६ तान्दृष्टा विविधान्रुद्रान् रुद्रमाह पितामहः ॥ ७.१,१४.१६ नमस्ते देवदेवेश मास्राक्षीरीदृशीः प्रजाः ॥ ७.१,१४.१७ अन्याः सृज त्वं भद्रं ते प्रजा मृत्युसमन्विताः ॥ ७.१,१४.१७ इत्युक्तः प्रहसन्प्राह ब्रह्माणं परमेश्वरः ॥ ७.१,१४.१८ नास्ति मे तादृशस्सर्गस्सृज त्वमशुभाः प्रजाः ॥ ७.१,१४.१८ ये त्विमे मनसा सृष्टा महात्मानो महाबलाः ॥ ७.१,१४.१९ चरिष्यंति मया सार्धं सर्व एव हि याज्ञिकाः ॥ ७.१,१४.१९ इत्युक्त्वा विश्वकर्माणं विश्वभूतेश्वरो हरः ॥ ७.१,१४.२० सह रुद्रैः प्रजासर्गान्निवृत्तात्मा व्यतिष्ठत ॥ ७.१,१४.२० ततः प्रभृति देवो ऽसौ न प्रसूते प्रजाः शुभाः ॥ ७.१,१४.२१ ५१७ ऊर्ध्वरेताः स्थितः स्थाणुर्यावदाभूतसंप्लवम् ॥ ७.१,१४.२१ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे रुद्राविर्भाववर्णनं नाम चतुर्दशो ऽध्यायः अध्याय १५ वायुरुवाच यदा पुनः प्रजाः सृष्टा न व्यवर्धन्त वेधसः ॥ ७.१,१५.१ तदा मैथुनजां सृष्टिं ब्रह्मा कर्तुममन्यत ॥ ७.१,१५.१ न निर्गतं पुरा यस्मान्नारीणां कुलमीश्वरात् ॥ ७.१,१५.२ तेन मैथुनजां सृष्टिं न शशाक पितामहः ॥ ७.१,१५.२ ततस्स विदधे बुद्धिमर्थनिश्चयगामिनीम् ॥ ७.१,१५.३ प्रजानमेव वृद्ध्यर्थं प्रष्टव्यः परमेश्वर ॥ ७.१,१५.३ प्रसादेन विना तस्य न वर्धेरन्निमाः प्रजाः ॥ ७.१,१५.४ एवं संचिन्त्य विश्वात्मा तपः कर्तुं प्रचक्रमे ॥ ७.१,१५.४ तदाद्या परमा शक्तिरनंता लोकभाविनी ॥ ७.१,१५.५ आद्या सूक्ष्मतरा शुद्धा भावगम्या मनोहरा ॥ ७.१,१५.५ निर्गुणा निष्प्रपञ्चा च निष्कला निरुपप्लवा ॥ ७.१,१५.६ निरंतरतरा नित्या नित्यमीश्वरपार्श्वगा ॥ ७.१,१५.६ तया परमया शक्त्या भगवंतं त्रियम्बकम् ॥ ७.१,१५.७ संचिन्त्य हृदये ब्रह्मा तताप परमं तपः ॥ ७.१,१५.७ तीव्रेण तपसा तस्य युक्तस्य परमेष्ठिनः ॥ ७.१,१५.८ अचिरेणैव कालेन पिता संप्रतुतोष ह ॥ ७.१,१५.८ ततः केनचिदंशेन मूर्तिमाविश्य कामपि ॥ ७.१,१५.९ अर्धनारीश्वरो भूत्वा ययौ देवस्स्वयं हरः ॥ ७.१,१५.९ तं दृष्ट्वा परमं देवं तमसः परमव्ययम् ॥ ७.१,१५.१० अद्वितीयमनिर्देश्यमदृश्यमकृतात्मभिः ॥ ७.१,१५.१० सर्वलोकविधातारं सर्वलोकेश्वरेश्वरम् ॥ ७.१,१५.११ सर्वलोकविधायिन्या शक्त्या परमया युतम् ॥ ७.१,१५.११ अप्रतर्क्यमनाभासममेयमजरं ध्रुवम् ॥ ७.१,१५.१२ अचलं निर्गुणं शांतमनंतमहिमास्पदम् ॥ ७.१,१५.१२ सर्वगं सर्वदं सर्वसदसद्व्यक्तिवर्जितम् ॥ ७.१,१५.१३ सर्वोपमाननिर्मुक्तं शरण्यं शाश्वतं शिवम् ॥ ७.१,१५.१३ प्रणम्य दंडवद्ब्रह्मा समुत्थाय कृतांजलिः ॥ ७.१,१५.१४ श्रद्धाविनयसंपन्नैः श्राव्यैः संस्करसंयुतैः ॥ ७.१,१५.१४ यथार्थयुक्तसर्वार्थैर्वेदार्थपरिबृंहितैः ॥ ७.१,१५.१५ तुष्टाव देवं देवीं च सूक्तैः सूक्ष्मार्थगोचरैः ॥ ७.१,१५.१५ ब्रह्मोवाच जय देव महादेव जयेश्वर महेश्वर ॥ ७.१,१५.१६ जय सर्वगुण श्रेष्ठ जय सर्वसुराधिप ॥ ७.१,१५.१६ जय प्रकृति कल्याणि जय प्रकृतिनायिके ॥ ७.१,१५.१७ जय प्रकृतिदूरे त्वं जय प्रकृतिसुन्दरि ॥ ७.१,१५.१७ जयामोघमहामाय जयामोघ मनोरथ ॥ ७.१,१५.१८ जयामोघमहालील जयामोघमहाबल ॥ ७.१,१५.१८ जय विश्वजगन्मातर्जय विश्वजगन्मये ॥ ७.१,१५.१९ जय विश्वजगद्धात्रि जय विश्वजगत्सखि ॥ ७.१,१५.१९ जय शाश्वतिकैश्वर्ये जय शाश्वतिकालय ॥ ७.१,१५.२० जय शाश्वतिकाकार जय शाश्वतिकानुग ॥ ७.१,१५.२० जयात्मत्रयनिर्मात्रि जयात्मत्रयपालिनि ॥ ७.१,१५.२१ ५१७ जयात्मत्रयसंहर्त्रि जयात्मत्रयनायिके ॥ ७.१,१५.२१ जयावलोकनायत्तजगत्कारणबृंहण ॥ ७.१,१५.२२ जयोपेक्षाकटाक्षोत्थहुतभुग्भुक्तभौतिक ॥ ७.१,१५.२२ जय देवाद्यविज्ञेये स्वात्मसूक्ष्मदृशोज्ज्वले ॥ ७.१,१५.२३ जय स्थूलात्मशक्त्येशेजय व्याप्तचराचरे ॥ ७.१,१५.२३ जय नामैकविन्यस्तविश्वतत्त्वसमुच्चय ॥ ७.१,१५.२४ जयासुरशिरोनिष्ठश्रेष्ठानुगकदंबक ॥ ७.१,१५.२४ जयोपाश्रितसंरक्षासंविधानपटीयसि ॥ ७.१,१५.२५ जयोन्मूलितसंसारविषवृक्षांकुरोद्गमे ॥ ७.१,१५.२५ जय प्रादेशिकैश्वर्यवीर्यशौर्यविजृंभण ॥ ७.१,१५.२६ जय विश्वबहिर्भूत निरस्तपरवैभव ॥ ७.१,१५.२६ जय प्रणीतपञ्चार्थप्रयोगपरमामृत ॥ ७.१,१५.२७ जय पञ्चार्थविज्ञानसुधास्तोत्रस्वरूपिणि ॥ ७.१,१५.२७ जयति घोरसंसारमहारोगभिषग्वर ॥ ७.१,१५.२८ जयानादिमलाज्ञानतमःपटलचंद्रिके ॥ ७.१,१५.२८ जय त्रिपुरकालाग्ने जय त्रिपुरभैरवि ॥ ७.१,१५.२९ जय त्रिगुणनिर्मुक्ते जय त्रिगुणमर्दिनि ॥ ७.१,१५.२९ जय प्रथमसर्वज्ञ जय सर्वप्रबोधिक ॥ ७.१,१५.३० जय प्रचुरदिव्यांग जय प्रार्थितदायिनि ॥ ७.१,१५.३० क्व देव ते परं धाम क्व च तुच्छं च नो वचः ॥ ७.१,१५.३१ तथापि भगवन् भक्त्या प्रलपंतं क्षमस्व माम् ॥ ७.१,१५.३१ विज्ञाप्यैवंविधैः सूक्तैर्विश्वकर्मा चतुर्मुखः ॥ ७.१,१५.३२ नमश्चकार रुद्राय रद्राण्यै च मुहुर्मुहुः ॥ ७.१,१५.३२ इदं स्तोत्रवरं पुण्यं ब्रह्मणा समुदीरितम् ॥ ७.१,१५.३३ अर्धनारीश्वरं नाम शिवयोर्हर्षवर्धनम् ॥ ७.१,१५.३३ य इदं कीर्तयेद्भक्त्या यस्य कस्यापि शिक्षया ॥ ७.१,१५.३४ स तत्फलमवाप्नोति शिवयोः प्रीतिकारणात् ॥ ७.१,१५.३४ सकलभुवनभूतभावनाभ्यां जननविनाशविहीनविग्रहाभ्याम् ॥ ७.१,१५.३५ नरवरयुवतीवपुर्धराभ्यां सततमहं प्रणतोस्मि शंकराभ्याम् ॥ ७.१,१५.३५ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पू शिवशिवास्तुतिवर्णनं नाम पञ्चदशो ऽध्यायः अध्याय १६ वायुरुवाच अथ देवो महादेवो महाजलदनादया ॥ ७.१,१६.१ वाचा मधुरगंभीरशिवदश्लक्ष्णवर्णया ॥ ७.१,१६.१ अर्थसंपन्नपदया राजलक्षणयुक्तया ॥ ७.१,१६.२ अशेषविषयारंभरक्षाविमलदक्षया ॥ ७.१,१६.२ मनोहरतरोदारमधुरस्मितपूर्वया ॥ ७.१,१६.३ संबभाषे सुसंपीतो विश्वकर्माणमीश्वरः ॥ ७.१,१६.३ ईश्वर उवाच वत्स वत्स महाभाग मम पुत्र पितामह ॥ ७.१,१६.४ ज्ञातमेव मया सर्वं तव वाक्यस्य गौरवम् ॥ ७.१,१६.४ प्रजानामेव बृद्ध्यर्थं तपस्तप्तं त्वयाधुना ॥ ७.१,१६.५ तपसा ऽनेन तुष्टोस्मि ददामि च तवेप्सितम् ॥ ७.१,१६.५ इत्युक्त्वा परमोदारं स्वभावमधुरं वचः ॥ ७.१,१६.६ ससर्ज वपुषो भागाद्देवीं देववरो हरः ॥ ७.१,१६.६ यामाहुर्ब्रह्मविद्वांसो देवीं दिव्यगुणान्विताम् ॥ ७.१,१६.७ परस्य परमां शक्तिं भवस्य परमात्मनः ॥ ७.१,१६.७ ५१८ यस्यां न खलु विद्यंते जन्म मृत्युजरादयः ॥ ७.१,१६.८ या भवानी भवस्यांगात्समाविरभवत्किल ॥ ७.१,१६.८ यस्या वाचो निवर्तन्ते मनसा चेंद्रियैः सह ॥ ७.१,१६.९ सा भर्तुर्वपुषो भागाज्जातेव समदृश्यत ॥ ७.१,१६.९ या सा जगदिदं कृत्स्नं महिम्ना व्याप्य तिष्ठति ॥ ७.१,१६.१० शरीरिणीव स देवी विचित्रं समलक्ष्यत ॥ ७.१,१६.१० सर्वं जगदिदं चैषा संमोहयति मायया ॥ ७.१,१६.११ ईश्वरात्सैव जाताभूदजाता परमार्थतः ॥ ७.१,१६.११ न यस्या परमो भावः सुराणामपि गोचरः ॥ ७.१,१६.१२ विश्वामरेश्वरी चैव विभक्ता भर्तुरंगतः ॥ ७.१,१६.१२ तां दृष्ट्वा परमेशानीं सर्वलोकमहेश्वरीम् ॥ ७.१,१६.१३ सर्वज्ञां सर्वगां सूक्ष्मां सदसद्व्यक्तिवर्जिताम् ॥ ७.१,१६.१३ परमां निखिलं भासा भासयन्तीमिदं जगत् ॥ ७.१,१६.१४ प्रणिपत्य महादेवीं प्रार्थयामास वै विराट् ॥ ७.१,१६.१४ ब्रह्मोवाच देवि देवेन सृष्टो ऽहमादौ सर्वजगन्मयि ॥ ७.१,१६.१५ प्रजासर्गे नियुक्तश्च सृजामि सकलं जगत् ॥ ७.१,१६.१५ मनसा निर्मिताः सर्वे देवि देवादयो मया ॥ ७.१,१६.१६ न वृद्धिमुपगच्छन्ति सृज्यमानाः पुनः पुनः ॥ ७.१,१६.१६ मिथुनप्रभवामेव कृत्वा सृष्टिमतः परम् ॥ ७.१,१६.१७ संवर्धयितुमिच्छामि सर्वा एव मम प्रजाः ॥ ७.१,१६.१७ न निर्गतं पुरा त्वत्तो नारीणां कुलमव्ययम् ॥ ७.१,१६.१८ तेन नारीकुलं स्रष्टुं शक्तिर्मम न विद्यते ॥ ७.१,१६.१८ सर्वासामेव शक्तीनां त्वत्तः खलु समुद्भवः ॥ ७.१,१६.१९ तस्मात्सर्वत्र सर्वेषां सर्वशक्तिप्रदायिनीम् ॥ ७.१,१६.१९ त्वामेव वरदां मायां प्रार्थयामि सुरेश्वरीम् ॥ ७.१,१६.२० चराचरविवृद्ध्यर्थमंशेनैकेन सर्वगे ॥ ७.१,१६.२० दक्षस्य मम पुत्रस्य पुत्री भव भवार्दिनि ॥ ७.१,१६.२१ एवं सा याचिता देवी ब्रह्मणा ब्रह्मयोनिना ॥ ७.१,१६.२१ शक्तिमेकां भ्रुवोर्मध्यात्ससर्जात्मसमप्रभाम् ॥ ७.१,१६.२२ तामाह प्रहसन्प्रेक्ष्य देवदेववरो हरः ॥ ७.१,१६.२२ ब्रह्माणं तपसाराध्य कुरु तस्य यथेप्सितम् ॥ ७.१,१६.२३ तामाज्ञां परमेशस्य शिरसा प्रतिगृह्य सा ॥ ७.१,१६.२३ ब्रह्मणो वचनाद्देवी दक्षस्य दुहिताभवत् ॥ ७.१,१६.२४ दत्त्वैवमतुलां शक्तिं ब्रह्मणे ब्रह्मरूपिणीम् ॥ ७.१,१६.२४ विवेश देहं देवस्य देवश्चांतरधीयत ॥ ७.१,१६.२५ तदा प्रभृति लोके ऽस्मिन् स्त्रियां भोगः प्रतिष्ठितः ॥ ७.१,१६.२५ प्रजासृष्टिश्च विप्रेंद्रा मैथुनेन प्रवर्तते ॥ ७.१,१६.२६ ब्रह्मापि प्राप सानन्दं सन्तोषं मुनिपुंगवाः ॥ ७.१,१६.२६ एतद्वस्सर्वमाख्यातं देव्याः शक्तिसमुद्भवम् ॥ ७.१,१६.२७ पुण्यवृद्धिकरं श्राव्यं भूतसर्गानुपंगतः ॥ ७.१,१६.२७ य इदं कीर्तयेन्नित्यं देव्याः शक्तिसमुद्भवम् ॥ ७.१,१६.२८ पुण्यं सर्वमवाप्नोति पुत्रांश्च लभते शुभान् ॥ ७.१,१६.२८ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे देवीशक्त्युद्भवो नाम षोडशो ऽध्यायः ५१८ अध्याय १७ वायुरुवाच एवं लब्ध्वा परां शक्तिमीश्वरादेव शाश्वतीम् ॥ ७.१,१७.१ मैथुनप्रभवां सृष्टिं कर्तृकामः प्रजापतिः ॥ ७.१,१७.१ स्वयमप्यद्भुतो नारी चार्धेन पुरुषो ऽभवत् ॥ ७.१,१७.२ यार्धेन नारी सा तस्माच्छतरूपा व्यजायत ॥ ७.१,१७.२ विराजमसृजद्ब्रह्मा सो ऽर्धन पुरुषो ऽभवत् ॥ ७.१,१७.३ स वै स्वायंभुवः पूर्वं पुरुषो मनुरुच्यते ॥ ७.१,१७.३ सा देवी शतरूपा तु तपः कृत्वा सुदुश्चरम् ॥ ७.१,१७.४ भर्तारं दीप्तयशसं मनुमेवान्वपद्यत ॥ ७.१,१७.४ तस्मात्तु शतरूपा सा पुत्रद्वयमसूयत ॥ ७.१,१७.५ प्रियव्रतोत्तानपादौ पुत्रौ पुत्रवतां वरौ ॥ ७.१,१७.५ कन्ये द्वे च महाभागे याभ्यां जातास्त्विमाः प्रजाः ॥ ७.१,१७.६ आकूतिरेका विज्ञेया प्रसूतिरपरा स्मृता ॥ ७.१,१७.६ स्वायंभुवः प्रसूतिं च ददौ दक्षाय तां प्रभुः ॥ ७.१,१७.७ रुचेः प्रजापतिश्चैव चाकूतिं समपादयत् ॥ ७.१,१७.७ आकूत्यां मिथुनं जज्ञे मानसस्य रुचेः शुभम् ॥ ७.१,१७.८ यज्ञश्च दक्षिणा चैव याभ्यां संवर्तितं जगत् ॥ ७.१,१७.८ स्वायंभुवसुतायां तु प्रसूत्यां लोकमातरः १ ॥ ७.१,१७.९ चतस्रो विंशतिः कन्या दक्षस्त्वजनयत्प्रभुः ॥ ७.१,१७.९ श्रद्धा लक्ष्मीर्धृतिः पुष्टिस्तुष्टिर्मेधा क्रिया तथा ॥ ७.१,१७.१० बुद्धिर्लज्जा वपुः शांतिस्सिद्धिः कीर्तिस्त्रयोदशी ॥ ७.१,१७.१० पत्न्यर्थं प्रतिजग्राह धर्मो दाक्षायणीः प्रभुः ॥ ७.१,१७.११ ताभ्यः शिष्टा यवीयस्य एकादश सुलोचनाः ॥ ७.१,१७.११ ख्यातिः सत्यर्थसंभूतिः स्मृतिः प्रीतिः क्षमा तथा ॥ ७.१,१७.१२ सन्नतिश्चानसूया च ऊर्जा स्वाहा स्वधा तथा ॥ ७.१,१७.१२ भृगुश्शर्वो मरीचिश्च अंगिराः पुलहः क्रतुः ॥ ७.१,१७.१३ पुलस्त्यो ऽत्रिर्विशिष्ठश्च पावकः पितरस्तथा ॥ ७.१,१७.१३ ख्यात्याद्या जगृहुः कन्यामुनयो मुनिसत्तमाः ॥ ७.१,१७.१४ कामाद्यास्तु यशोंता ये ते त्रयोदश सूनवः ॥ ७.१,१७.१४ धर्मस्य जज्ञिरे तास्तु श्रद्धाद्यास्सुसुखोत्तराः ॥ ७.१,१७.१५ दुःखोत्तराश्च हिंसायामधर्मस्य च संततौ ॥ ७.१,१७.१५ निकृत्यादय उत्पन्नाःपुत्राश्च धर्मलक्षणाः ॥ ७.१,१७.१६ नैषां भार्याश्च पुत्रा वा सर्वे त्वनियमाः स्मृताः ॥ ७.१,१७.१६ स एष तामसस्सर्गो जज्ञे धर्मनियामकः ॥ ७.१,१७.१७ या सा दक्षस्य दुहिता रुद्रस्य दयिता सती ॥ ७.१,१७.१७ भर्तृनिन्दाप्रसंगेन त्यक्त्वा दाक्षायिणीं तनुम् ॥ ७.१,१७.१८ दक्षं च दक्षभार्यां च विनिंद्य सह बन्धुभिः ॥ ७.१,१७.१८ सा मेनायामाविरभूत्पुत्री हिमवतो गिरेः ॥ ७.१,१७.१९ १ प्रथमार्षी ५१९ रुद्रस्तु तां सतीं दृष्ट्वा रुद्रांस्त्वात्मसमप्रभान् ॥ ७.१,१७.१९ यथासृजदसंख्यातांस्तथा कथितमेव च ॥ ७.१,१७.२० भृगोः ख्यात्यां समुत्पन्ना लक्ष्मीर्नारायणप्रिया ॥ ७.१,१७.२० देवौ धातृविधातारौ मन्वंतरविधारिणौ ॥ ७.१,१७.२१ तयोर्वै पुत्रपौत्राद्याश्शतशो ऽथ सहस्रशः ॥ ७.१,१७.२१ स्वायंभुवे ऽंतरे नीताः सर्वे ते भार्गवा मताः ॥ ७.१,१७.२२ मरीचेरपि संभूतिः पौर्णमासमसूयत ॥ ७.१,१७.२२ कन्याचतुष्टयं चैव महीयांसस्तदन्वयाः ॥ ७.१,१७.२३ येषां वंशे समुत्पन्नो बहुपुत्रस्य कश्यपः ॥ ७.१,१७.२३ स्मृतिश्चांगिरसः पत्नी जनयामास वै सुतौ ॥ ७.१,१७.२४ आग्नीध्रं शरभञ्चैव तथा कन्याचतुष्टयम् ॥ ७.१,१७.२४ तदीयाः पुत्रपौत्राश्च येतीतास्ते सहस्रशः ॥ ७.१,१७.२५ प्रीत्यां पुलस्त्यभार्यायां दन्तोग्निरभवत्सुतः ॥ ७.१,१७.२५ पूर्वजन्मनि योगस्त्यस्स्मृतः स्वायंभुवे ऽंतरे ॥ ७.१,१७.२५ तत्संततीया बहवः पौलस्त्या इति विश्रुताः ॥ ७.१,१७.२६ क्षमा तु सुषुवे पुत्रान्पुलहस्य प्रजापतेः ॥ ७.१,१७.२६ कर्दमश्च सुरिश्चैव सहिष्णुश्चेति ते त्रयः ॥ ७.१,१७.२७ त्रेताग्निवर्चसस्सर्वे येषां वंशः प्रतिष्ठितः ॥ ७.१,१७.२७ क्रतोः क्रतुसमान्भार्या सन्नतिस्सुषुवे सुतान् ॥ ७.१,१७.२८ नैषां भार्याश्च पुत्राश्च सर्वे ते ह्यूर्ध्वरेतसः ॥ ७.१,१७.२८ षष्टिस्तानि सहस्राणि वालखिल्या इति स्मृताः ॥ ७.१,१७.२९ अनूरोरग्रतो यांति परिवार्य दिवाकरम् ॥ ७.१,१७.२९ अत्रेर्भार्यानुसूया च पञ्चात्रेयानसूयत ॥ ७.१,१७.३० कन्यकां च श्रुतिं नाम माता शंखपदस्य च ॥ ७.१,१७.३० सत्यनेत्रश्च हव्यश्च आपोमूर्तिश्शनैश्चरः ॥ ७.१,१७.३१ सोमश्च पञ्चमस्त्वेते पञ्चात्रेयाः प्रकीर्तिताः ॥ ७.१,१७.३१ तेषां पुत्राश्च पौत्राश्च ह्यात्रेयाणां महात्मनाम् ॥ ७.१,१७.३२ स्वायंभुवे ऽंतरे ऽतीताः शतशो ऽथ सहस्रशः ॥ ७.१,१७.३२ ऊर्जायां तु वसिष्ठस्य पुत्रा वै सप्त जज्ञिरे ॥ ७.१,१७.३३ ज्यायसी च स्वसा तेषां पुंडरीका सुमध्यमा ॥ ७.१,१७.३३ रजो गात्रोर्ध्वबाहू च सवनश्चानयश्च यः ॥ ७.१,१७.३४ सुतपाश्शुक्र इत्येते सप्त सप्तर्षयः स्मृताः ॥ ७.१,१७.३४ गोत्राणि नामभिस्तेषां वासिष्ठानां महात्मनाम् ॥ ७.१,१७.३५ स्वायंभुवे ऽंतरे ऽतीतान्यर्बुदानि शतानि च ॥ ७.१,१७.३५ इत्येष ऋषिसर्गस्तु सानुबंधः प्रकीर्तितः ॥ ७.१,१७.३६ समासाद्विस्तराद्वक्तुमशक्यो ऽयमिति द्विजाः ॥ ७.१,१७.३६ यो ऽसौ रुद्रात्मको बह्निब्रह्मणो मानसस्सुतः ॥ ७.१,१७.३७ स्वाहा तस्य प्रिया लेभे पुत्रांस्त्रीनमितौजसः ॥ ७.१,१७.३७ पावकः पवमानश्च शुचिरित्येष ते त्रयः ॥ ७.१,१७.३८ निर्मंथ्यः पवमानस्स्याद्वैद्युतः पावकस्स्मृतः ॥ ७.१,१७.३८ सूर्ये तपति यश्चासौ शुचिः सौर उदाहृतः ॥ ७.१,१७.३९ हव्यवाहः कव्यवाहः सहरक्षा इति त्रयः ॥ ७.१,१७.३९ त्रयाणां क्रमशः पुत्रा देवपितृसुराश्च ते ॥ ७.१,१७.४० ५१९ एतेषां पुत्रपौत्राश्च चत्वारिंशन्नवैव ते ॥ ७.१,१७.४० काम्यनैमित्तिकाजस्रकर्मसु त्रिषु संस्थिताः ॥ ७.१,१७.४१ सर्वे तपस्विनो ज्ञेयाः सर्वे व्रतभृतस्तथा ॥ ७.१,१७.४१ सर्वे रुद्रात्मकश्चैव सर्वे रुद्रपरायणाः ॥ ७.१,१७.४२ तस्मादग्निमुखे यत्तद्धुतं स्यादेव केनचित् ॥ ७.१,१७.४२ तत्सर्वं रुद्रमुद्दिश्य दत्तं स्यान्नात्र संशयः ॥ ७.१,१७.४३ इत्येवं निश्चयोग्नीनामनुक्रांतो यथातथम् ॥ ७.१,१७.४३ नातिविस्तरतो विप्राः पित्ःन्वक्ष्याम्यतः परम् ॥ ७.१,१७.४४ यस्मात्षडृतवस्तेषां स्थानं स्थानाभिमानिनाम् ॥ ७.१,१७.४४ ऋतवः पितरस्तस्मादित्येषा वैदिकी श्रुतिः ॥ ७.१,१७.४५ युष्मादृतुषु सर्वे हि जायंते स्थास्नुजंगमा ॥ ७.१,१७.४५ तस्मादेते पितर आर्तवा इति च श्रुतम् ॥ ७.१,१७.४६ एवं पित्ःणामेतेषामृतुकालाभिमानिनाम् ॥ ७.१,१७.४६ आत्मैश्वर्या महात्मानस्तिष्ठंतीहाब्भ्रसंगमात् ॥ ७.१,१७.४७ आग्निष्वात्ता बर्हिषदः पितरो द्विविधाः स्मृताः ॥ ७.१,१७.४७ अयज्वानश्च यज्वानः क्रमात्ते मृहमेधिनः ॥ ७.१,१७.४८ स्वधासूत पितृभ्यश्च द्वे कन्ये लोकविश्रुते ॥ ७.१,१७.४८ मेनां च धरणीं चैव याभ्यां विश्वमिदं धृतम् ॥ ७.१,१७.४९ अग्निष्वात्तसुता मेना धरणी बर्हिषत्सुता ॥ ७.१,१७.४९ मेना हिमवतः पत्नी मैनाकं क्रौंचमेव च ॥ ७.१,१७.५० गौरीं गंगां च सुषुवे भवांगाश्लेषपावनीम् ॥ ७.१,१७.५० मेरोस्तु धरणी पत्नी दिव्यौषधिसमन्वितम् ॥ ७.१,१७.५१ मंदरं सुषुवे पुत्रं चित्रिसुन्दरकन्धरम् ॥ ७.१,१७.५१ स एव मंदरः श्रीमान्मेरुपुत्रस्तपोबलात् ॥ ७.१,१७.५२ साक्षाच्छ्रीकंठनाथस्य शिवस्यावसथं गतः ॥ ७.१,१७.५२ सासूता धरणी भूयस्त्रिंशत्कन्याश्च विश्रुताः ॥ ७.१,१७.५३ वेलां च नियतिं चैव तृतीयामपि चायतिम् ॥ ७.१,१७.५३ आयतिर्नियतिश्चैव पत्न्यौ द्वे भृगुपुत्रयोः ॥ ७.१,१७.५४ स्वायंभुवे ऽंतरे पूर्वं कथितस्ते तदन्वयः ॥ ७.१,१७.५४ सुषुवे सागराद्वेला कन्यामेकामनिंदिताम् ॥ ७.१,१७.५५ सवर्णां नाम सामुद्रीं पत्नीं प्राचीनबर्हिषः ॥ ७.१,१७.५५ सामुद्री सुषुवे पुत्रान्दश प्राचीनबर्हिषः ॥ ७.१,१७.५६ सर्वे प्राचेतसा नाम धनुर्वेदस्य पारगाः ॥ ७.१,१७.५६ येषां स्वायंभुवे दक्षः पुत्रत्वमगमत्पुरा ॥ ७.१,१७.५७ त्रियम्बकस्य शापेन चाक्षुषस्यांतरे मनोः ॥ ७.१,१७.५७ इत्येते ब्रह्मपुत्राणां धर्मादीनाम्महात्मनाम् ॥ ७.१,१७.५८ नातिसंक्षेपतो विप्रा नाति विस्तरतः क्रमात् ॥ ७.१,१७.५८ वर्णिता वै मया वंशा दिव्या देवगणान्विताः ॥ ७.१,१७.५९ क्रियावंतः प्रजावंतो महर्धिभिरलंकृताः ॥ ७.१,१७.५९ प्रजानां संनिवेशो ऽयं प्रजापतिसमुद्भवः ॥ ७.१,१७.६० न हि शक्यः प्रसंख्यातुं वर्षकोटिशतैरपि ॥ ७.१,१७.६० राज्ञामपि च यो वंशो द्विधा सो ऽपि प्रवर्तते ॥ ७.१,१७.६१ सूर्यवंशस्सोमवंश इति पुण्यतमः क्षितौ ॥ ७.१,१७.६१ ५२० इक्ष्वाकुरम्बरीषश्च ययातिर्नाहुषादयः ॥ ७.१,१७.६२ पुण्यश्लोकाः श्रुता ये ऽत्र ते पि तद्वंशसंभवाः ॥ ७.१,१७.६२ अन्ये च राजऋषयो नानावीर्यसमन्विता ॥ ७.१,१७.६३ किं तैः फलमनुत्क्रांतैरुक्तपूर्वैः पुरातनैः ॥ ७.१,१७.६३ किं चेश्वरकथा वृत्ता यत्र तत्रान्यकीर्तनम् ॥ ७.१,१७.६४ न सद्भिः संमतं मत्वा नोत्सहे बहुभाषितुम् ॥ ७.१,१७.६४ प्रसंगादीश्वरस्यैव प्रभावद्योतनादपि ॥ ७.१,१७.६५ सर्गादयो ऽपि कथिता इत्यत्र तत्प्रविस्तरैः ॥ ७.१,१७.६५ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे सृष्टिकथनं नाम सप्तदशो ऽध्यायः अध्याय १८ ऋषय ऊचुः देवी दक्षस्य तनया त्यक्त्वा दाक्षायणी तनुम् ॥ ७.१,१८.१ कथं हिमवतः पुत्री मेनायामभवत्पुरा ॥ ७.१,१८.१ कथं च निन्दितो रुद्रो दक्षेण च महात्मना ॥ ७.१,१८.२ निमित्तमपि किं तत्र येन स्यान्निंदितो भवः ॥ ७.१,१८.२ उत्पन्नश्च कथं दक्षो अभिशापाद्भवस्य तु ॥ ७.१,१८.३ चाक्षुषस्यांतरे पूर्वं मनोः प्रब्रूहि मारुत ॥ ७.१,१८.३ वायुरुवाव शृण्वंतु कथयिष्यामि दक्षस्य लघुचेतसः ॥ ७.१,१८.४ वृत्तं पापात्प्रमादाच्च विश्वामरविदूषणम् ॥ ७.१,१८.४ पुरा सुरासुराः सर्वे सिद्धाश्च परमर्षयः ॥ ७.१,१८.५ कदाचिद्द्रष्टुमीशानं हिमवच्छिखरं ययुः ॥ ७.१,१८.५ तदा देवश्च देवी च दिव्यासनगतावुभौ ॥ ७.१,१८.६ दर्शनं ददतुस्तेषां देवादीनां द्विजोत्तमाः ॥ ७.१,१८.६ तदानीमेव दक्षो ऽपि गतस्तत्र सहामरैः ॥ ७.१,१८.७ जामातरं हरं द्रष्टुं द्रष्टुं चात्मसुतां सतीम् ॥ ७.१,१८.७ तदात्मगौरवाद्देवो देव्या दक्षे समागते ॥ ७.१,१८.८ देवादिभ्यो विशेषेण न कदाचिदभूत्स्मृतिः ॥ ७.१,१८.८ तस्य तस्याः परं भावमज्ञातुश्चापि केवलम् ॥ ७.१,१८.९ पुत्रीत्येवं विमूढस्य तस्यां वैरमजायत ॥ ७.१,१८.९ ततस्तेनैव वैरेण विधिना च प्रचोदितः ॥ ७.१,१८.१० नाजुवाह भवं दक्षो दीक्षितस्तामपि द्विषन् ॥ ७.१,१८.१० अन्याञ्१ आमातरस्सर्वानाहूय स यथाक्रमम् ॥ ७.१,१८.११ शतशः पुष्कलामर्चाञ्चकार च पृथक्पृथक् ॥ ७.१,१८.११ तथा तान्संगताञ्छ्रुत्वा नारदस्य मुखात्तदा ॥ ७.१,१८.१२ ययौ रुद्राय रुद्राणी विज्ञाप्य भवनं पितुः ॥ ७.१,१८.१२ अथ संनिहितं दिव्यं विमानं विश्वतोमुखम् ॥ ७.१,१८.१३ लक्षणाढ्यं सुखारोहमतिमात्रमनोहरम् ॥ ७.१,१८.१३ तप्तजांबूनदप्रख्यं चित्ररत्नपरिष्कृतम् ॥ ७.१,१८.१४ मुक्तामयवितानाग्न्यं स्रग्दामसमलंकृतम् ॥ ७.१,१८.१४ तप्तकंचननिर्व्यूहं रत्नस्तंभशतावृतम् ॥ ७.१,१८.१५ वज्रकल्पितसोपानं विद्रुमस्तंभतोरणम् ॥ ७.१,१८.१५ १ प्रथमान्तः प्रयोग आर्षः ५२० पुष्पपट्टपरिस्तीर्णं चित्ररत्नमहासनम् ॥ ७.१,१८.१६ वज्रजालकिरच्छिद्रमच्छिद्रमणिकुट्टिमम् ॥ ७.१,१८.१६ मणिदंडमनोज्ञेन महावृषभलक्ष्मणा ॥ ७.१,१८.१७ अलंकृतपुरोभागमब्भ्रशुब्भ्रेण केतुना ॥ ७.१,१८.१७ रत्नकंचुकगुप्तांगैश्चित्रवेत्रकपाणिभिः ॥ ७.१,१८.१८ अधिष्ठितमहाद्वारमप्रधृष्यैर्गुणेश्वरैः ॥ ७.१,१८.१८ मृदंगतालगीतादिवेणुवीणाविशारदैः ॥ ७.१,१८.१९ विदग्धवेषभाषैश्च बहुभिः स्त्रीजनैर्वृतम् ॥ ७.१,१८.१९ आरुरोह महादेवी सह प्रियसखीजनैः ॥ ७.१,१८.२० चामारव्यञ्जनं तस्या वज्रदंडमनोहरे ॥ ७.१,१८.२० गृहीत्वा रुद्रकन्ये द्वे विवीजतुरुभे शुभे ॥ ७.१,१८.२१ तदाचामरयोर्मध्ये देव्या वदनमाबभौ ॥ ७.१,१८.२१ अन्योन्यं युध्यतोर्मध्ये हंसयोरिव पंकजम् ॥ ७.१,१८.२२ छत्रं शशिनिभं तस्याश्चूडोपरि सुमालिनी ॥ ७.१,१८.२२ धृतमुक्तापरिक्षिप्तं बभार प्रेमनिर्भरा ॥ ७.१,१८.२३ तच्छत्रमुज्ज्वलं देव्या रुरुचे वदनोपरि ॥ ७.१,१८.२३ उपर्यमृतभांडस्य मंडलं शशिनो यथा ॥ ७.१,१८.२४ अथ चाग्रे समासीना सुस्मितास्या शुभावती ॥ ७.१,१८.२४ अक्षद्यूतविनोदेन रमयामास वै सतीम् ॥ ७.१,१८.२५ सुयशाः पादुके देव्याश्शुभे रत्नपरिष्कृते ॥ ७.१,१८.२५ स्तनयोरंतरे कृत्वा तदा देवीमसेवतः ॥ ७.१,१८.२६ अन्या कांचनचार्वंगी दीप्तं जग्राह दर्पणम् ॥ ७.१,१८.२६ अपरा तालवृन्तं च परा तांबूलपेटिकाम् ॥ ७.१,१८.२७ काचित्क्रीडाशुकं चारु करे ऽकुरुत भामिनी ॥ ७.१,१८.२७ काचित्तु सुमनोज्ञानि पुष्पाणि सुरभीणि च ॥ ७.१,१८.२८ काचिदाभरणाधारं बभार कमलेक्षणा ॥ ७.१,१८.२८ काचिच्च पुनरालेपं सुप्रसूतं शुभांजनम् ॥ ७.१,१८.२९ अन्याश्च सदृशास्तास्ता यथास्वमुचितक्रियाः ॥ ७.१,१८.२९ आवृत्त्या तां महादेवीमसेवंत समंततः ॥ ७.१,१८.३० अतीव शुशुभे तासामंतरे परमेश्वरी ॥ ७.१,१८.३० तारापरिषदो मध्ये चंद्रलेखेव शारदी ॥ ७.१,१८.३१ ततः शंखसमुत्थस्य नादस्य समनंतरम् ॥ ७.१,१८.३१ प्रास्थानिको महानादः पटहः समताड्यत ॥ ७.१,१८.३२ ततो मधुरवाद्यानि सह तालोद्यतैस्स्वनैः ॥ ७.१,१८.३२ अनाहतानि सन्नेदुः काहलानां शतानि च ॥ ७.१,१८.३३ सायुधानां गणेशानां महेशसमतेजसाम् ॥ ७.१,१८.३३ सहस्राणि शतान्यष्टौ तदानीं पुरतो ययुः ॥ ७.१,१८.३४ तेषां मध्ये वृषारूढो गजारूढो यथा गुरुः ॥ ७.१,१८.३४ जगाम गणपः श्रीमान् सोमनंदीश्वरार्चितः ॥ ७.१,१८.३५ देवदुंदुभयो नेदुर्दिवि दिव्यसुखा घनाः ॥ ७.१,१८.३५ ननृतुर्मुनयस्सर्वे मुमुदुः सिद्धयोगिनः ॥ ७.१,१८.३६ ससृजुः पुष्पवृष्टिं च वितानोपरि वारिदाः ॥ ७.१,१८.३६ तदा देवगणैश्चान्यैः पथि सर्वत्र संगता ॥ ७.१,१८.३७ क्षणादिव पितुर्गेहं प्रविवेश महेश्वरी ॥ ७.१,१८.३७ तां दृष्ट्वा कुपितो दक्षश्चात्मनः क्षयकारणात् ॥ ७.१,१८.३८ तस्या यवीयसीभ्यो ऽपि चक्रे पूजाम सत्कृताम् ॥ ७.१,१८.३८ ५२१ तदा शशिमुखी देवी पितरं सदसि स्थितम् ॥ ७.१,१८.३९ अंबिका युक्तमव्यग्रमुवाचाकृपणं वचः ॥ ७.१,१८.३९ देव्युवाच ब्रह्मादयः पिशाचांता यस्याज्ञावशवर्तिनः ॥ ७.१,१८.४० स देवस्सांप्रतं तात विधिना नार्चितः किल ॥ ७.१,१८.४० तदास्तां मम ज्यायस्याः पुत्र्याः पूजां किमीदृशीम् ॥ ७.१,१८.४१ असत्कृतामवज्ञाय कृतवानसि गर्हितम् ॥ ७.१,१८.४१ एवमुक्तो ऽब्रवीदेनां दक्षः क्रोधादमर्षितः ॥ ७.१,१८.४२ त्वत्तः श्रेष्ठा विशिष्टाश्च पूज्या बालाः सुता मम ॥ ७.१,१८.४२ तासां तु ये च भर्तारस्ते मे बहुमता मुदा ॥ ७.१,१८.४३ गुनैश्चाप्यधिकास्सर्वैर्भर्तुस्ते त्र्यंबकादपि ॥ ७.१,१८.४३ स्तब्धात्मा तामसश्शर्वस्त्वमिमं समुपाश्रिता ॥ ७.१,१८.४४ तेन त्वामवमन्ये ऽहं प्रतिकूलो हि मे भवः ॥ ७.१,१८.४४ तथोक्ता पितरं दक्षं क्रुद्धा देवी तमब्रवीत् ॥ ७.१,१८.४५ शृण्वतामेव सर्वेषां ये यज्ञसदसि स्थिताः ॥ ७.१,१८.४५ अकस्मान्मम भर्तारमजाताशेषदूषणम् ॥ ७.१,१८.४६ वाचा दूषयसे दक्ष साक्षाल्लोकमहेश्वरम् ॥ ७.१,१८.४६ विद्याचौरो गुरुद्रोही वेदेश्वरविदूषकः ॥ ७.१,१८.४७ त एते बहुपाप्मानस्सर्वे दंड्या इति श्रुतिः ॥ ७.१,१८.४७ तस्मादत्युत्कटस्यास्य पापस्य सदृशो भृशम् ॥ ७.१,१८.४८ सहसा दारुणो दंडस्तव दैवाद्भविष्यति ॥ ७.१,१८.४८ त्वया न पूजितो यस्माद्देवदेवस्त्रियंबकः ॥ ७.१,१८.४९ तस्मात्तव कुलं दुष्टं नष्टमित्यवधारय ॥ ७.१,१८.४९ इत्युक्त्वा पितरं रुष्टा सती संत्यक्तसाध्वसा ॥ ७.१,१८.५० तदीयां च तनुं त्यक्त्वा हिमवंतं ययौ गिरिम् ॥ ७.१,१८.५० स पर्वतपरः श्रीमांल्लब्धपुण्यफलोदयः ॥ ७.१,१८.५१ तदर्थमेव कृतवान् सुचिरं दुश्चरं तपः ॥ ७.१,१८.५१ तस्मात्तमनुगृह्णाति भूधरेश्वरमीश्वरी ॥ ७.१,१८.५२ स्वेच्छया पितरं चक्रे स्वात्मनो योगमायया ॥ ७.१,१८.५२ यदा गता सती दक्षं विनिंद्य भयविह्वला ॥ ७.१,१८.५३ तदा तिरोहिता मंत्रा विहतश्च ततो ऽध्वरः ॥ ७.१,१८.५३ तदुपश्रुत्य गमनं देव्यास्त्रिपुरुमर्दनः ॥ ७.१,१८.५४ दक्षाय च ऋषिभ्यश्च चुकोप च शशाप तान् ॥ ७.१,१८.५४ यस्मादवमता दक्षमत्कृते ऽनागसा सती ॥ ७.१,१८.५५ पूजिताश्चेतराः सर्वाः स्वसुता भर्तृभिः सह ॥ ७.१,१८.५५ वैवस्वते ऽंतरे तस्मात्तव जामातरस्त्वमी ॥ ७.१,१८.५६ उत्पत्स्यंते समं सर्वे ब्रह्मयज्ञेष्वयोनिजाः ॥ ७.१,१८.५६ भविता मानुषो राजा चाक्षुषस्य त्वमन्वये ॥ ७.१,१८.५७ प्राचीनबर्हिषः पौत्रः पुत्रश्चापि प्रचेतसः ॥ ७.१,१८.५७ अहं तत्रापि ते विघ्नमाचरिष्यामि दुर्मते ॥ ७.१,१८.५८ धर्मार्थकामयुक्तेषु कर्मस्वपि पुनः पुनः ॥ ७.१,१८.५८ तेनैवं व्याहृतो दक्षो रुद्रेणामिततेजसा ॥ ७.१,१८.५९ स्वायंभुवीं तनुं त्यक्त्वा पपात भुवि दुःखितः ॥ ७.१,१८.५९ ततः प्राचेतसो दक्षो जज्ञे वै चाक्षुषे ऽन्तरे ॥ ७.१,१८.६० प्राचीनबर्हिषः पौत्रः पुत्रश्चैव प्रचेतसाम् ॥ ७.१,१८.६० ५२१ भृग्वादयो ऽपि जाता वै मनोर्वैवस्वतस्य तु ॥ ७.१,१८.६१ अंतरे ब्रह्मणो यज्ञे वारुणीं बिभ्रतस्तनुम् ॥ ७.१,१८.६१ तदा दक्षस्य धर्मार्थं यज्ञे तस्य दुरात्मनः ॥ ७.१,१८.६२ महेशः कृतवान्विघ्नं मना ववस्वते सति ॥ ७.१,१८.६२ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे सतीदेहत्यागो नामाष्टादशो ऽध्यायः अध्याय १९ ऋषय ऊचुः कथं दक्षस्य धर्मार्थं प्रवृत्तस्य दुरात्मनः ॥ ७.१,१९.१ महेशः कृतवान् विघ्नमेतदिच्छाम वेदितुम् ॥ ७.१,१९.१ वायुरुवाच विश्वस्य जगतो मातुरपि देव्यास्तपोबलात् ॥ ७.१,१९.२ पितृभावमुपागम्य मुदिते हिमवद्गिरौ ॥ ७.१,१९.२ देवे ऽपि तत्कृतोद्वाहे हिमवच्छिखरालये ॥ ७.१,१९.३ संकीडति तया सार्धं काले बहुतरे गते ॥ ७.१,१९.३ वैवस्वते ऽंतरे प्राप्ते दक्षः प्राचेतसः स्वयम् ॥ ७.१,१९.४ अश्वमेधेन यज्ञेन यक्ष्यमाणो ऽन्वपद्यत ॥ ७.१,१९.४ ततो हिमवतः पृष्ठे दक्षो वै यज्ञमाहरत् ॥ ७.१,१९.५ गंगाद्वारे शुभे देशे ऋषिसिद्धनिषेविते ॥ ७.१,१९.५ तस्य तस्मिन्मखेदेवाः सर्वे शक्र पुरोगमाः ॥ ७.१,१९.६ गमनाय समागम्य बुद्धिमापेदिरे तदा ॥ ७.१,१९.६ आदित्या वसवो रुद्रास्साध्यास्सह मरुद्गणैः ॥ ७.१,१९.७ ऊष्मपाः सोमपाश्चैव आज्यपा धूमपास्तथा ॥ ७.१,१९.७ अश्विनौ पितरश्चैव तथा चान्ये महर्षयः ॥ ७.१,१९.८ विष्णुना सहिताः सर्वे स्वागता यज्ञभागिनः ॥ ७.१,१९.८ दृष्ट्वा देवकुलं सर्वमीश्वरेण विनागतम् ॥ ७.१,१९.९ दधीचो मन्युनाविष्टो दक्षमेवमभाषत ॥ ७.१,१९.९ दधीच उवाच अप्रपूज्ये चैव पूजा पूज्यानां चाप्य पूजने ॥ ७.१,१९.१० नरः पापमवाप्नोति महद्वै नात्र संशयः ॥ ७.१,१९.१० असतां संमतिर्यत्र सतामवमतिस्तथा ॥ ७.१,१९.११ दंडो देवकृतस्तत्र सद्यः पतति दारुणः ॥ ७.१,१९.११ एवमुक्त्वा तु विप्रर्षिः पुनर्दक्षमभाषत ॥ ७.१,१९.१२ पूज्यं तु पशुभर्तारं कस्मान्नार्चयसे प्रभुम् ॥ ७.१,१९.१२ दक्ष उवाच संति मे बहवो रुद्राः शूलहस्ताः कपर्दिनः ॥ ७.१,१९.१३ एकादशावस्थिता ये नान्यं वेद्मि महेश्वरम् ॥ ७.१,१९.१३ दधीच उवाच किमेभिरमरैरन्यैः पूजितैरध्वरे फलम् ॥ ७.१,१९.१४ राजा चेदध्वरस्यास्य न रुद्रः पूज्यते त्वया ॥ ७.१,१९.१४ ब्रह्मविष्णुमहेशानां स्रष्टा यः प्रभुरव्ययः ॥ ७.१,१९.१५ ब्रह्मादयः पिशाचांता यस्य कैंकर्यवादिनः ॥ ७.१,१९.१५ प्रकृतीनां परश्चैव पुरुषस्य च यः परः ॥ ७.१,१९.१६ चिंत्यते योगविद्वद्भि ऋषिभिस्तत्त्वदर्शिभिः ॥ ७.१,१९.१६ अक्षरं परमं ब्रह्म ह्यसच्च सदसच्च यत् ॥ ७.१,१९.१७ अनादिमध्यनिधनमप्रतर्क्यं सनातनम् ॥ ७.१,१९.१७ यः स्रष्टा चैव संहर्ता भर्ता चैव महेश्वरः ॥ ७.१,१९.१८ ५२२ तस्मादन्यं न पश्यामि शंकरात्मानमध्वरे ॥ ७.१,१९.१८ दक्ष उवाच एतन्मखेशस्य सुवर्णपात्रे हविः समस्तं विधिमंत्रपूतम् ॥ ७.१,१९.१९ विष्णोर्नयाम्यप्रतिमस्य भागं प्रभोर्विभज्यावहनीयमद्य ॥ ७.१,१९.१९ दधीच उवाच यस्मान्नाराधितो रुद्रस्सर्वदेवेश्वरेश्वरः ॥ ७.१,१९.२० तस्माद्दक्ष तवाशेषो यज्ञो ऽयं न भविष्यति ॥ ७.१,१९.२० इत्युक्त्वा वचनं क्रुद्धो दधीचो मुनिसत्तमः ॥ ७.१,१९.२१ निर्गम्य च ततो देशाज्जगाम स्वकमाश्रमम् ॥ ७.१,१९.२१ निर्गते ऽपि मुनौ तस्मिन्देवा दक्षं न तत्यजुः ॥ ७.१,१९.२२ अवश्यमनुभावित्वादनर्थस्य तु भाविनः ॥ ७.१,१९.२२ एतस्मिन्नेव काले तु ज्ञात्वैतत्सर्वमीश्वरात् ॥ ७.१,१९.२३ दग्धुं दक्षाध्वरं विप्रा देवी देवमचोदयत् ॥ ७.१,१९.२३ देव्या संचोदितो देवो दक्षाध्वरजिघांसया ॥ ७.१,१९.२४ ससर्ज सहसा वीरं वीरभद्रं गणेश्वरम् ॥ ७.१,१९.२४ सहस्रवदनं देवं सहस्रकमलेक्षणम् ॥ ७.१,१९.२५ सहस्रमुद्गरधरं सहस्रशरपाणिकम् ॥ ७.१,१९.२५ शूलटंकगदाहस्तं दीप्तकार्मुकधारिणम् ॥ ७.१,१९.२६ चक्रवज्रधरं घोरं चंद्रार्धकृतशेखरम् ॥ ७.१,१९.२६ कुलिशोद्योतितकरं तडिज्ज्वलितमूर्धजम् ॥ ७.१,१९.२७ दंष्ट्राकरालं बिभ्राणं महावक्त्रं महोदरम् ॥ ७.१,१९.२७ विद्युज्जिह्वं प्रलंबोष्ठं मेघसागरनिःस्वनम् ॥ ७.१,१९.२८ वसानं चर्म वैयाघ्रं महद्रुधिरनिस्रवम् ॥ ७.१,१९.२८ गण्डद्वितयसंसृष्टमण्डलीकृतकुण्डलम् ॥ ७.१,१९.२९ वरामरशिरोमालावलीकलितशेखरम् ॥ ७.१,१९.२९ रणन्नूपुरकेयूरमहाकनकभूषितम् ॥ ७.१,१९.३० रत्नसंचयसंदीप्तं तारहारावृतोरसम् ॥ ७.१,१९.३० महाशरभशार्दूलसिंहैः सदृशविक्रमम् ॥ ७.१,१९.३१ प्रशस्तमत्तमातंगसमानगमनालसम् ॥ ७.१,१९.३१ शंखचामरकुंदेन्दुमृणालसदृशप्रभम् ॥ ७.१,१९.३२ सतुषारमिवाद्रीन्द्रं साक्षाज्जंगमतां गतम् ॥ ७.१,१९.३२ ज्वालामालापरिक्षिप्तं दीप्तमौक्तिकभूषणम् ॥ ७.१,१९.३३ तेजसा चैव दीव्यंतं युगांत इव पावकम् ॥ ७.१,१९.३३ स जानुभ्यां महीं गत्वा प्रणतः प्रांजलिस्ततः ॥ ७.१,१९.३४ पार्श्वतो देवदेवस्य पर्यतिष्ठद्गणेश्वरः ॥ ७.१,१९.३४ मन्युना चासृजद्भद्रां भद्रकालीं महेश्वरीम् ॥ ७.१,१९.३५ आत्मनः कर्मसाक्षित्वे तेन गंतुं सहैव तु ॥ ७.१,१९.३५ तं दृष्ट्वावस्थितं वीरभद्रं कालाग्निसन्निभम् ॥ ७.१,१९.३६ भद्रया सहितं प्राह भद्रमस्त्विति शंकरः ॥ ७.१,१९.३६ स च विज्ञापयामास सह देव्या महेश्वरम् ॥ ७.१,१९.३७ आज्ञापय महादेव किं कार्यं करवाण्यहम् ॥ ७.१,१९.३७ ततस्त्रिपुरहा प्राह हैमवत्याः प्रियेच्छया ॥ ७.१,१९.३८ वीरभद्रं महाबाहुं वाचा विपुलनादया ॥ ७.१,१९.३८ देवदेव उवाच प्राचेतसस्य दक्षस्य यज्ञं सद्यो विनाशय ॥ ७.१,१९.३९ भद्रकाल्या सहासि त्वमेतत्कृत्यं गणेश्वर ॥ ७.१,१९.३९ ५२२ अहमप्यनया सार्धं रैभ्याश्रमसपीपतः ॥ ७.१,१९.४० स्थित्वा वीक्षे गणेशान विक्रमं तव दुःसहम् ॥ ७.१,१९.४० वृक्षा कनखले ये तु गंगाद्वारसमीपगाः ॥ ७.१,१९.४१ सुवर्णशृंगस्य गिरेर्मेरुमंदरसंनिभाः ॥ ७.१,१९.४१ तस्मिन्प्रदेशे दक्षस्य युज्ञः संप्रति वर्तते ॥ ७.१,१९.४२ सहसा तस्य यज्ञस्य विघातं कुरु मा चिरम् ॥ ७.१,१९.४२ इत्युक्ते सति देवेन देवी हिमगिरीन्द्रजा ॥ ७.१,१९.४३ भद्रं भद्रं च संप्रेक्ष्य वत्सं धेनुरिवौरसम् ॥ ७.१,१९.४३ आलिंग्य च समाघ्राय मूर्ध्नि षड्वदनं यथा ॥ ७.१,१९.४४ सस्मिता वचनं प्राह मधुरं मधुरं स्वयम् ॥ ७.१,१९.४४ देव्युवाच वत्स भद्र महाभाग महाबलपराक्रम ॥ ७.१,१९.४५ मत्प्रियार्थं त्वमुत्पन्नो मम मन्युं प्रमार्जक ॥ ७.१,१९.४५ यज्ञेश्वरमनाहूय यज्ञकर्मरतो ऽभवत् ॥ ७.१,१९.४६ दक्षं वैरेण तं तस्माद्भिंधि यज्ञं गणेश्वर ॥ ७.१,१९.४६ यज्ञलक्ष्मीमलक्ष्मीं त्वं भद्र कृत्वा ममाज्ञया ॥ ७.१,१९.४७ यजमानं च तं हत्वा वत्स हिंसय भद्रया ॥ ७.१,१९.४७ अशेषामिव तामाज्ञां शिवयोश्चित्रकृत्ययोः ॥ ७.१,१९.४८ मूर्ध्नि कृत्वा नमस्कृत्य भद्रो गंतुं प्रचक्रमे ॥ ७.१,१९.४८ अथैष भगवान्क्रुद्धः प्रेतावासकृतालयः ॥ ७.१,१९.४९ वीरभद्रो महादेवो देव्या मन्युप्रमार्जकः ॥ ७.१,१९.४९ ससर्ज रोमकूपेभ्यो रोमजाख्यान्गणेश्वरान् ॥ ७.१,१९.५० दक्षिणाद्भुजदेशात्तु शतकोटिगविश्वरान् ॥ ७.१,१९.५० पादात्तथोरुदेशाच्च पृष्ठात्पार्श्वान्मुखाद्गलात् ॥ ७.१,१९.५१ गुह्याद्गुल्फाच्छिरोमध्यात्कंठादास्यात्तथोदरात् ॥ ७.१,१९.५१ तदा गणेश्वरैर्भद्रैर्भद्रतुल्यपराक्रमैः ॥ ७.१,१९.५२ संछादितमभूत्सर्वं साकाशविवरं जगत् ॥ ७.१,१९.५२ सर्वे सहस्रहस्तास्ते सहस्रायुधपाणयः ॥ ७.१,१९.५३ रुद्रस्यानुचरास्सर्वे सर्वे रुद्रसमप्रभाः ॥ ७.१,१९.५३ शूलशक्तिगदाहस्ताष्टंकोपलशिलाधराः ॥ ७.१,१९.५४ कालाग्निरुद्रसदृशास्त्रिनेत्राश्च जटाधराः ॥ ७.१,१९.५४ निपेतुर्भृशमाकाशे शतशस्सिंहवाहनाः ॥ ७.१,१९.५५ विनेदुश्च महानादाञ्जलदा इव भद्रजाः ॥ ७.१,१९.५५ तैर्भद्रैर्भगवान्मद्रस्तथा परिवृतो बभौ ॥ ७.१,१९.५६ कालानलशतैर्युक्तो यथांते कालभैरवः ॥ ७.१,१९.५६ तेषां मध्ये समारुह्य वृषेंद्रं वृषभध्वजः ॥ ७.१,१९.५७ जगाम भगवान्भद्रश्शुभमभ्रं यथा भवः ॥ ७.१,१९.५७ तस्मिन्वृषभमारूढे भद्रे तु भसितप्रभः ॥ ७.१,१९.५८ बभार मौक्तिकं छत्रं गृहीतसितचामरः ॥ ७.१,१९.५८ स तदा शुशुभे पार्श्वे भद्रस्य भसितप्रभः ॥ ७.१,१९.५९ भगवानिव शैलेन्द्रः पार्श्वे विश्वजगद्गुरोः ॥ ७.१,१९.५९ सो ऽपि तेन बभौ भद्रः श्वेतचामरपाणिना ॥ ७.१,१९.६० बालसोमेन सौम्येन यथा शूलवरायुधः ॥ ७.१,१९.६० दध्मौ शंखं सितं भद्रं भद्रस्य पुरतः शुभम् ॥ ७.१,१९.६१ भानुकंपो महातेजा हेमरत्नैरलंकृतः ॥ ७.१,१९.६१ देवदुंदुभयो नेदुर्दिव्यसंकुलनिःस्वनाः ॥ ७.१,१९.६२ ५२३ ववृषुश्शतशो मूर्ध्नि पुष्पवर्षं बलाहकाः ॥ ७.१,१९.६२ फुल्लानां मधुगर्भाणां पुष्पाणां गंधबंधवः ॥ ७.१,१९.६३ मार्गानुकूलसंवाहा वबुश्च पथि मारुताः ॥ ७.१,१९.६३ ततो गणेश्वराः सर्वे मत्ता युद्धबलोद्धताः ॥ ७.१,१९.६४ ननृतुर्मुमुदुर्१ एदुर्जहसुर्जगदुर्जगुः ॥ ७.१,१९.६४ तदा भद्रगणांतःस्थो बभौ भद्रः स भद्रया ॥ ७.१,१९.६५ यथा रुद्रगणांतः स्थस्त्र्यम्बकोंबिकया सह ॥ ७.१,१९.६५ तत्क्षणादेव दक्षस्य यज्ञवाटं रण्मयम् ॥ ७.१,१९.६६ प्रविवेश महाबाहुर्वीरभद्रो महानुगः ॥ ७.१,१९.६६ ततस्तु दक्षप्रतिपादितस्य क्रतुप्रधानस्य गणप्रधानः ॥ ७.१,१९.६७ प्रयोगभूमिं प्रविवेश भद्रो रुद्रो यथांते भुवनं दिधक्षुः ॥ ७.१,१९.६७ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे वीरभद्रोत्पत्तिवर्णनं नामैकोनविंशो ऽध्यायः अध्याय २० वायुरुवाच ततो विष्णुप्रधानानां सुराणाममितौजसाम् ॥ ७.१,२०.१ ददर्श च महत्सत्रं चित्रध्वजपरिच्छदम् ॥ ७.१,२०.१ सुदर्भऋतुसंस्तीर्णं सुसमिद्धहुताशनम् ॥ ७.१,२०.२ कांचनैर्यज्ञभांडैश्च भ्राजिष्णुभिरलंकृतम् ॥ ७.१,२०.२ ऋषिभिर्यज्ञपटुभिर्यथावत्कर्मकर्तृभिः ॥ ७.१,२०.३ विधिना वेददृष्टेन स्वनुष्ठितबहुक्रमम् ॥ ७.१,२०.३ देवांगनासहस्राढ्यमप्सरोगणसेवितम् ॥ ७.१,२०.४ वेणुवीणारवैर्जुष्टं वेदघोषैश्च बृंहितम् ॥ ७.१,२०.४ दृष्ट्वा दक्षाध्वरे वीरो वीरभद्रः प्रतापवान् ॥ ७.१,२०.५ सिंहनादं तदा चक्रे गंभीरो जलदो यथा ॥ ७.१,२०.५ ततः किलकिलाशब्द आकाशं पूरयन्निव ॥ ७.१,२०.६ गणेश्वरैः कृतो जज्ञे महान्न्यक्कृतसागरः ॥ ७.१,२०.६ तेन शब्देन महताः ग्रस्ता सर्वेदिवौकसः ॥ ७.१,२०.७ दुद्रुवुः परितो भीताः स्रस्तवस्त्रविभूषणाः ॥ ७.१,२०.७ किंस्विद्भग्नो महामेरुः किंस्वित्संदीर्यते मही ॥ ७.१,२०.८ किमिदं किमिदं वेति जजल्पुस्त्रिदशा भृशम् ॥ ७.१,२०.८ मृगेन्द्राणां यथा नादं गजेंद्रा गहने वने ॥ ७.१,२०.९ श्रुत्वा तथाविधं केचित्तत्यजुर्जीवितं भयात् ॥ ७.१,२०.९ पर्वताश्च व्यशीर्यंत चकम्पे च वसुंधरा ॥ ७.१,२०.१० मरुतश्च व्यघूर्णंत चुक्षुभे मकरालयः ॥ ७.१,२०.१० अग्नयो नैव दीप्यंते न च दीप्यति भास्करः ॥ ७.१,२०.११ ग्रहाश्च न प्रकाशंते नक्षत्राणि च तारकाः ॥ ७.१,२०.११ एतस्मिन्नेव काले तु यज्ञवाटं तदुज्ज्वलम् ॥ ७.१,२०.१२ संप्राप भगवान्भद्रो भद्रैश्च सह भद्रया ॥ ७.१,२०.१२ तं दृष्ट्वा भीतभीतो ऽपि दक्षो दृढ इव स्थितः ॥ ७.१,२०.१३ क्रुद्धवद्वचनं प्राह को भवान् किमिहेच्छसि ॥ ७.१,२०.१३ तस्य तद्वचनं श्रुत्वा दक्षस्य च दुरात्मनः ॥ ७.१,२०.१४ वीरभद्रो महातेजा मेघसंभीरनिस्स्वनः ॥ ७.१,२०.१४ १ परस्मैपदमार्षम् ५२३ स्मयन्निव तमालोक्य दक्षं देवाश्च ऋत्विजः ॥ ७.१,२०.१५ अर्थगर्भमसंभ्रान्तमवोचदुचितं वचः ॥ ७.१,२०.१५ वीरभद्र उवाच वयं ह्यनुचराः सर्वे शर्वस्यामिततेजसः ॥ ७.१,२०.१६ भागाभिलिप्सया प्राप्ता भागो नस्संप्रदीयताम् ॥ ७.१,२०.१६ अथ चेदध्वरे ऽस्माकं न भागः परिकल्पितः ॥ ७.१,२०.१७ कथ्यतां कारणं तत्र युध्यतां वा मयामरैः ॥ ७.१,२०.१७ इत्युक्तास्ते गणेंद्रेण देवा दक्षपुरोगमाः ॥ ७.१,२०.१८ ऊचुर्मन्त्राः प्रमाणं नो न वयं प्रभवस्त्विति ॥ ७.१,२०.१८ मन्त्रा ऊचुस्सुरा यूयं मोहोपहतचेतसः ॥ ७.१,२०.१९ येन प्रथमभागार्हं न यजध्वं महेश्वरम् ॥ ७.१,२०.१९ मंत्रोक्ता अपि ते देवाः सर्वे संमूढचेतसः ॥ ७.१,२०.२० भद्राय न ददुर्भागं तत्प्रहाणमभीप्सवः ॥ ७.१,२०.२० यदा तथ्यं च पथ्यं च स्ववाक्यं तद्वृथा ऽभवत् ॥ ७.१,२०.२१ तदा ततो ययुर्मंदा ब्रह्मलोकं सनातनम् ॥ ७.१,२०.२१ अथोवाच गणाध्यक्षो देवान्विष्णुपुरोगमान् ॥ ७.१,२०.२२ मन्त्राः प्रमाणं न कृता युष्माभिर्बलगर्वितैः ॥ ७.१,२०.२२ यस्मादस्मिन्मखे देवैरित्थं वयमसत्कृताः ॥ ७.१,२०.२३ तस्माद्वो जीवितैस्सार्धमपनेष्यामि गर्वितम् ॥ ७.१,२०.२३ इत्युक्त्वा भगवान् क्रुद्धो व्यदहन्नेत्रवह्निना ॥ ७.१,२०.२४ यक्षवाटं महाकूटं यथातिस्रः पुरो हरः ॥ ७.१,२०.२४ ततो गणेश्वरास्सर्वे पर्वतोदग्रविग्रहाः ॥ ७.१,२०.२५ यूपानुत्पाट्य होत्ःणां कंठेष्वाबध्य रज्जुभिः ॥ ७.१,२०.२५ यज्ञपात्राणि चित्राणि भित्त्वा संचूर्ण्य वारिणि ॥ ७.१,२०.२६ गृहीत्वा चैव यज्ञांगं गंगास्रोतसि चिक्षिपुः ॥ ७.१,२०.२६ तत्र दिव्यान्नपानानां राशयः पर्वतोपमाः ॥ ७.१,२०.२७ क्षीरनद्यो ऽमृतस्रावाः सुस्निग्धदधिकर्दमाः ॥ ७.१,२०.२७ उच्चावचानि मांसानि भक्ष्याणि सुरभीणि च ॥ ७.१,२०.२८ रसवन्ति च पानानि लेह्यचोष्याणि तानि वै ॥ ७.१,२०.२८ वीरास्तद्भुजते वक्त्रैर्विलुंपंति क्षिपंति च ॥ ७.१,२०.२९ वज्रैश्चक्रैर्महाशूलैश्शक्तिभिः पाशपट्टिशैः ॥ ७.१,२०.२९ मुसलैरसिभिष्टंकैर्भिधिपालैः परश्वधैः ॥ ७.१,२०.३० उद्धतांस्त्रिदशान्सर्वांल्लोकपालपुरस्सरान् ॥ ७.१,२०.३० बिभिदुर्बलिनो वीरा वीरभद्रांगसंभवाः ॥ ७.१,२०.३१ छिंधि भिंधि क्षिप क्षिप्रं मार्यतां दार्यतामिति ॥ ७.१,२०.३१ हरस्व प्रहरस्वेति पाटयोत्पाटयेति च ॥ ७.१,२०.३२ संरंभप्रभवाः क्रूराश्शब्दाः श्रवणशंकवः ॥ ७.१,२०.३२ यत्रतत्र गणेशानां जज्ञिरे समरोचिताः ॥ ७.१,२०.३३ विवृत्तनयनाः केचिद्दष्टदंष्ट्रोष्ठतालवः ॥ ७.१,२०.३३ आश्रमस्थान्समाकृष्य मारयन्ति तपोधनात् ॥ ७.१,२०.३४ स्रुवानपहरन्तश्च क्षिपन्तोग्निं जलेषु च ॥ ७.१,२०.३४ कलशानपि भिन्दंतश्छिंदंतो मणिवेदिकाः ॥ ७.१,२०.३५ गायंतश्च नदन्तश्च हसन्तश्च मुहुर्मुहुः ॥ ७.१,२०.३५ रक्तासवं पिबन्तश्च ननृतुर्गणपुंगवाः ॥ ७.१,२०.३६ ५२४ निर्मथ्य सेंद्रानमरान् गणेन्द्रान्वृषेन्द्रनागेन्द्रमृगेन्द्रसाराः ॥ ७.१,२०.३६ चक्रुर्बहून्यप्रतिमभावाः सहर्षरोमाणि विचेष्टितानि ॥ ७.१,२०.३७ नन्दंति केचित्प्रहरन्ति केचिद्धावन्ति केचित्प्रलपन्ति केचित् ॥ ७.१,२०.३७ नृत्यन्ति केचिद्विहसन्ति केचिद्वल्गन्ति केचित्प्रमथा बलेन ॥ ७.१,२०.३८ केचिज्जिघृक्षंति घनान्स तोयान्केचिद्ग्रहीतुं रविमुत्पतंति ॥ ७.१,२०.३९ केचित्प्रसर्तुं पवनेन सार्धमिच्छंति भीमाः प्रमथा वियत्स्थाः ॥ ७.१,२०.३९ आक्षिप्य केचिच्च वरायुधानि महा भुजंगानिव वैनतेयाः ॥ ७.१,२०.४० भ्रमंति देवानपि विद्रवंतः खमंडले पर्वतकूटकल्पाः ॥ ७.१,२०.४० उत्पाट्य चोत्पाट्यगृहाणि केचित्सजालवातायनवेदिकानि ॥ ७.१,२०.४१ विक्षिप्य विक्षिप्य जलस्य मध्ये कालांबुदाभाः प्रमथा निनेदुः ॥ ७.१,२०.४१ उद्वर्तितद्वारकपाटकुड्यं विध्वस्तशालावलभीगवाक्षम् ॥ ७.१,२०.४२ अहो बताभज्यत यज्ञवाटमनाथवद्वाक्यमिवायथार्थम् ॥ ७.१,२०.४२ हा नाथ तातेति पितुः सुतेति भ्रतर्ममाम्बेति च मातुलेति ॥ ७.१,२०.४३ उत्पाट्यमानेषु गृहेषु नार्यो ह्यानाथशब्दान्बहुशः प्रचक्रुः ॥ ७.१,२०.४३ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे यज्ञविध्वंसनो नाम विंशो ऽध्यायः अध्याय २१ वायुरुवाच ततस्त्रिदशमुख्यास्ते विष्णुशक्रपुरोगमाः ॥ ७.१,२१.१ सर्वे भयपरित्रस्तादुद्रुवुर्भयविह्वलाः ॥ ७.१,२१.१ निजैरदूषितैरंगैर्दृष्ट्वा देवानुपद्रुतान् ॥ ७.१,२१.२ दंड्यानदंडितान्मत्वा चुकोप गणपुंगवः ॥ ७.१,२१.२ ततस्त्रिशूलमादाय शर्वशक्तिनिबर्हणम् ॥ ७.१,२१.३ ऊर्ध्वदृष्टिर्महाबाहुर्मुखाज्ज्वालाः समुत्सृजन् ॥ ७.१,२१.३ अमरानपि दुद्राव द्विरदानिव केसरी ॥ ७.१,२१.४ तानभिद्रवतस्तस्य गमनं सुमनोहरम् ॥ ७.१,२१.४ वाराणस्येव मत्तस्य जगाम प्रेक्षणीयताम् ॥ ७.१,२१.५ ततस्तत्क्षोभयामास महत्सुरबलं बली ॥ ७.१,२१.५ महासरोवरं यद्वन्मत्तो वारणयूथपः ॥ ७.१,२१.६ विकुर्वन्बहुधावर्णान्नीलपांडुरलोहितान् ॥ ७.१,२१.६ विभ्रद्व्याघ्राजिनं वासो हेमप्रवरतारकम् ॥ ७.१,२१.७ छिन्दन्भिन्दन्नुद १ लिन्दन्दारयन्प्रमथन्नपि ॥ ७.१,२१.७ व्यचरद्देवसंघेषु भद्रो ऽग्निरिव कक्षगः ॥ ७.१,२१.८ तत्र तत्र महावेगाच्चरंतं शूलधारिणम् ॥ ७.१,२१.८ तमेकं त्रिदशाः सर्वे सहस्रमिव मेनिरे ॥ ७.१,२१.९ भद्रकाली च संक्रुद्धा युद्धवृद्धमदोद्धता ॥ ७.१,२१.९ मुक्तज्वालेन शूलेन निर्बिभेद रणे सुरान् ॥ ७.१,२१.१० स तया रुरुचे भद्रो रुद्रकोपसमुद्भवः ॥ ७.१,२१.१० प्रभयेव युगांताग्निश्चलया धूमधूम्रया ॥ ७.१,२१.११ भद्रकाली तदायुद्धे विद्रुतत्रिदशाबभौ ॥ ७.१,२१.११ १ नलोप आर्षः ५२४ कल्पे शेषानलज्वालादग्धाविश्वजगद्यथा ॥ ७.१,२१.१२ तदा सवाजिनं सूर्यं रुद्रान्रुद्रगणाग्रणीः ॥ ७.१,२१.१२ भद्रो मूर्ध्नि जघानाशु वामपादेन लीलया ॥ ७.१,२१.१३ असिभिः पावकं भद्रः पट्टिशैस्तु यमं यमी ॥ ७.१,२१.१३ रुद्रान्दृढेन शूलेन मुद्गरैर्वरुणं दृढैः ॥ ७.१,२१.१४ परिघैर्निरृतिं वायुं टंकैष्टंकधरः स्वयम् ॥ ७.१,२१.१४ निर्बिभेद रणे वीरो लीलयैव गणेश्वरः ॥ ७.१,२१.१५ सर्वान्देवगणान्सद्यो मुनीञ्छंभोर्विरोधिनः ॥ ७.१,२१.१५ ततो देवः सरस्वत्या नासिकाग्रं सुशोभनम् ॥ ७.१,२१.१६ चिच्छेद करजाग्रेण देवमातुस्तथैव च ॥ ७.१,२१.१६ चिच्छेद च कुठारेण बाहुदंडं विभावसोः ॥ ७.१,२१.१७ अग्रतो द्व्यंगुलां जिह्वां मातुर्देव्या लुलाव च ॥ ७.१,२१.१७ स्वाहादेव्यास्तथा देवो दक्षिणं नासिकापुटम् ॥ ७.१,२१.१८ चकर्त करजाग्रेण वामं च स्तनचूचुकम् ॥ ७.१,२१.१८ भगस्य विपुले नेत्रे शतपत्रसमप्रभे ॥ ७.१,२१.१९ प्रसह्योत्पाटयामास भद्रः परमवेगवान् ॥ ७.१,२१.१९ पूष्णो दशनरेखां च दीप्तां मुक्तावलीमिव ॥ ७.१,२१.२० जघान धनुषः कोट्या स तेनास्पष्टवागभूत् ॥ ७.१,२१.२० ततश्चंद्रमसं देवः पादांगुष्ठेन लीलया ॥ ७.१,२१.२१ क्षणं कृमिवदाक्रम्य घर्षयामास भूतले ॥ ७.१,२१.२१ शिरश्चिच्छेद दक्षस्य भद्रः परमकोपतः ॥ ७.१,२१.२२ क्रोशंत्यामेव वैरिण्यां भद्रकाल्यै ददौ च तत् ॥ ७.१,२१.२२ तत्प्रहृष्टा समादाय शिरस्तालफलोपमम् ॥ ७.१,२१.२३ सा देवी कंडुकक्रीडां चकार समरांगणे ॥ ७.१,२१.२३ ततो दक्षस्य यज्ञस्त्री कुशीला भर्तृभिर्यथा ॥ ७.१,२१.२४ पादाभ्यां चैव हस्ताभ्यां हन्यते स्म गणेश्वरैः ॥ ७.१,२१.२४ अरिष्टनेमिने सोमं धर्मं चैव प्रजापतिम् ॥ ७.१,२१.२५ बहुपुत्रं चांगिरसं कृशाश्वं कश्यपं तथा ॥ ७.१,२१.२५ गले प्रगृह्य बलिनो गणपाः सिंहविक्रमाः ॥ ७.१,२१.२६ भर्त्सयंतो भृशं वाग्भिर्निर्जघ्नुर्मूर्ध्नि मुष्टिभिः ॥ ७.१,२१.२६ धर्षिता भूतवेतालैर्दारास्सुतपरिग्रहाः ॥ ७.१,२१.२७ यथा कलियुगे जारैर्बलेन कुलयोषितः ॥ ७.१,२१.२७ तच्च विध्वस्तकलशं भग्नयूपं गतोत्सवम् ॥ ७.१,२१.२८ प्रदीपितमहाशालं प्रभिन्नद्वारतोरणम् ॥ ७.१,२१.२८ उत्पाटितसुरानीकं हन्यमानं तपोधनम् ॥ ७.१,२१.२९ प्रशान्तब्रह्मनिर्घोषं प्रक्षीणजनसंचयम् ॥ ७.१,२१.२९ क्रन्दमानातुरस्त्रीकं हताशेषपरिच्छदम् ॥ ७.१,२१.३० शून्यारण्यनिभं जज्ञे यज्ञवाटं तदार्दितम् ॥ ७.१,२१.३० शूलवेगप्ररुग्णाश्च भिन्नबाहूरुवक्षसः ॥ ७.१,२१.३१ विनिकृत्तोत्तमांगाश्च पेतुरुर्व्यां सुरोत्तमाः ॥ ७.१,२१.३१ हतेषु तेषु देवेषु पतितेषुः सहस्रशः ॥ ७.१,२१.३२ प्रविवेश गणेशानः क्षणादाहवनीयकम् ॥ ७.१,२१.३२ प्रविष्टमथ तं दृष्ट्वा भद्रं कालाग्निसंनिभम् ॥ ७.१,२१.३३ दुद्राव मरणाद्भीतो यज्ञो मृगवपुर्धरः ॥ ७.१,२१.३३ स विस्फार्य महच्चापं दृढज्याघोषणभीषणम् ॥ ७.१,२१.३४ ५२५ भद्रस्तमभिदुद्राव विक्षिपन्नेव सायकान् ॥ ७.१,२१.३४ आकर्णपूर्णमाकृष्टं धनुरम्बुदसंनिभम् ॥ ७.१,२१.३५ नादयामास च ज्यां द्यां खं च भूमिं च सर्वशः ॥ ७.१,२१.३५ तमुपश्रित्य सन्नादं हतो ऽस्मीत्येव विह्वलम् ॥ ७.१,२१.३६ शरणार्धेन वक्रेण स वीरो ऽध्वरपूरुषम् ॥ ७.१,२१.३६ महाभयस्खलत्पादं वेपन्तं विगतत्विषम् ॥ ७.१,२१.३७ मृगरूपेण धावन्तं विशिरस्कं तदाकरोत् ॥ ७.१,२१.३७ तमीदृशमवज्ञातं दृष्ट्वा वै सूर्यसंभवम् ॥ ७.१,२१.३८ विष्णुः परमसंक्रुद्धो युद्धायाभवदुद्यतः ॥ ७.१,२१.३८ तमुवाह महावेगात्स्कन्धेन नतसंधिना ॥ ७.१,२१.३९ सर्वेषां वयसां राजा गरुडः पन्नगाशनः ॥ ७.१,२१.३९ देवाश्च हतशिष्टा ये देवराजपुरोगमाः ॥ ७.१,२१.४० प्रचक्रुस्तस्य साहाय्यं प्राणांस्त्यक्तुमिवोद्यताः ॥ ७.१,२१.४० विष्णुना सहितान्देवान्मृगेन्द्रः क्रोष्टुकानिव ॥ ७.१,२१.४१ दृष्ट्वा जहास भूतेन्द्रो मृगेन्द्र इव विव्यथः ॥ ७.१,२१.४१ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे देवदंडवर्णनं नामैकविंशो ऽध्यायः अध्याय २२ तस्मिन्नवसरे व्योम्नि समाविरभवद्रथः ॥ ७.१,२२.१ सहस्रसूर्यसंकाशश्चारुचीरवृषध्वजः ॥ ७.१,२२.१ अश्वरत्नद्वयोदारो रथचक्रचतुष्टयः ॥ ७.१,२२.२ सञ्चितानेकदिव्यास्त्रशस्त्ररत्नपरिष्कृतः ॥ ७.१,२२.२ तस्यापि रथवर्यस्य स्यात्स एव हि सारथिः ॥ ७.१,२२.३ यथा च त्रैपुरे युद्धे पूर्वं शार्वरथे स्थितः ॥ ७.१,२२.३ स तं रथवरं ब्रह्मा शासनादेव शूलिनः ॥ ७.१,२२.४ हरेस्समीपमानीय कृताञ्जलिरभाषत ॥ ७.१,२२.४ भगवन्भद्र भद्रांग भगवानिन्दुभूषणः ॥ ७.१,२२.५ आज्ञापयति वीरस्त्वां रथमारोढुमव्ययः ॥ ७.१,२२.५ रेभ्याश्रमसमीपस्थस्त्र्यंबको ऽंबिकया सह ॥ ७.१,२२.६ सम्पश्यते महाबाहो दुस्सहं ते पराक्रमम् ॥ ७.१,२२.६ तस्य तद्वचनं श्रुत्वा स वीरो गणकुञ्जरः ॥ ७.१,२२.७ आरुरोह रथं दिव्यमनुगृह्य पितामहम् ॥ ७.१,२२.७ तथा रथवरे तस्मिन्स्थिते ब्रह्मणि सारथौ ॥ ७.१,२२.८ भद्रस्य ववृधे लक्ष्मी रुद्रस्येव पुरद्विषः ॥ ७.१,२२.८ ततः शंखवरं दीप्तं पूर्णचंद्रसमप्रभम् ॥ ७.१,२२.९ प्रदध्मौ वदने कृत्वा भानुकंपो महाबलः ॥ ७.१,२२.९ तस्य शंखस्य तं नादं भिन्नसारससन्निभम् ॥ ७.१,२२.१० श्रुत्वा भयेन देवानां जज्वाल जठरानलः ॥ ७.१,२२.१० यक्षविद्याधराहीन्द्रैः सिद्धैर्युद्धदिदृक्षुभिः ॥ ७.१,२२.११ क्षणेन निबडीभूताः साकाशविवरा दिशाः ॥ ७.१,२२.११ ततः शार्ङ्गेण चापाङ्कात्स नारायणनीरदः ॥ ७.१,२२.१२ महता बाणवर्षेण तुतोद गणगोवृषम् ॥ ७.१,२२.१२ तं दृष्ट्वा विष्णुमायांतं शतधा बाणवर्षिणम् ॥ ७.१,२२.१३ स चाददे धनुर्जैत्रं भद्रो बाणसहस्रमुक् ॥ ७.१,२२.१३ समादाय च तद्दिव्यं धनुस्समरभैरवम् ॥ ७.१,२२.१४ शनैर्विस्फारयामास मेरुं धनुरिवेश्वरः ॥ ७.१,२२.१४ तस्य विस्फार्यमाणस्य धनुषो ऽभून्महास्वनः ॥ ७.१,२२.१५ तेन स्वनेन महता पृथिवीं समकंपयत् ॥ ७.१,२२.१५ ततः शरवरं घोरं दीप्तमाशीविषोपमम् ॥ ७.१,२२.१६ जग्राह गणपः श्रीमान्स्वयमुग्रपराक्रमः ॥ ७.१,२२.१६ बाणोद्धारे भुजो ह्यस्य तूणीवदनसंगतः ॥ ७.१,२२.१७ प्रत्यदृश्यत वल्मीकं विवेक्षुरिव पन्नगः ॥ ७.१,२२.१७ समुद्धृतः करे तस्य तत्क्षणं रुरुचे शरेः ॥ ७.१,२२.१८ महाभुजंगसंदष्टो यथा बालभुजङ्गमः ॥ ७.१,२२.१८ शरेण घनतीव्रेण भद्रो रुद्रपराक्रमः ॥ ७.१,२२.१९ विव्याध कुपितो गाढं ललाटे विष्णुमव्ययम् ॥ ७.१,२२.१९ ललाटे ऽभिहितो विष्णुः पूर्वमेवावमानितः ॥ ७.१,२२.२० चुकोप गणपेंद्राय मृगेंद्रायेव गोवृषः ॥ ७.१,२२.२० ततस्त्वशनिकल्पेन क्रूरास्येन महेषुणा ॥ ७.१,२२.२१ विव्याध गणराजस्य भुजे भुजगसन्निभे ॥ ७.१,२२.२१ सो ऽपि तस्य भुजे भूयः सूर्यायुतसमप्रभम् ॥ ७.१,२२.२२ विससर्ज शरं वेगाद्वीरभद्रो महाबलः ॥ ७.१,२२.२२ स च विष्णुः पुनर्भद्रं भद्रो विष्णुं तथा पुनः ॥ ७.१,२२.२३ स च तं स च तं विप्राश्शरैस्तावनुजघ्नतुः ॥ ७.१,२२.२३ तयोः परस्परं वेगाच्छरानाशु विमुंचतोः ॥ ७.१,२२.२४ द्वयोस्समभवद्युद्धं तुमुलं रोमहर्षणम् ॥ ७.१,२२.२४ तद्दृष्ट्वा तुमुलं युद्धं तयोरेव परस्परम् ॥ ७.१,२२.२५ हाहाकारो महानासीदाकाशे खेचरेरितः ॥ ७.१,२२.२५ ततस्त्वनलतुंडेन शरेणादित्यवर्चसा ॥ ७.१,२२.२६ विव्याध सुदृढं भद्रो विष्णोर्महति वक्षसि ॥ ७.१,२२.२६ स तु तीव्रप्रपातेन शरेण दृढमाहतः ॥ ७.१,२२.२७ महतीं रुजमासाद्य निपपात विमोहितः ॥ ७.१,२२.२७ पुनः क्षणादिवोत्थाय लब्धसंज्ञस्तदा हरिः ॥ ७.१,२२.२८ सर्वाण्यपि च दिव्यास्त्राण्यथैनं प्रत्यवासृजत् ॥ ७.१,२२.२८ स च विष्णुर्धनुर्मुक्तान्सर्वाञ्छर्वचमूपतिः ॥ ७.१,२२.२९ सहसा वारयामास घोरैः प्रतिशरैः शरान् ॥ ७.१,२२.२९ ततो विष्णुस्स्वनामांकं बाणमव्याहतं क्वचित् ॥ ७.१,२२.३० ससर्ज क्रोधरक्ता क्षस्तमुद्दिश्य गणेश्वरम् ॥ ७.१,२२.३० तं बाणं बाणवर्येण भद्रो भद्राह्वयेण तु ॥ ७.१,२२.३० अप्राप्तमेव भगवाञ्चिच्छेद शतधा पथि ॥ ७.१,२२.३१ अथैकेनेषुणा शार्ङ्गं द्वाभ्यां पक्षौ गरुत्मतः ॥ ७.१,२२.३१ निमेषादेव चिच्छेद तदद्भुतमिवाभवत् ॥ ७.१,२२.३२ ततो योगबलाद्विष्णुर्देहाद्देवान्सुदारुणान् ॥ ७.१,२२.३२ शंखचक्रगदाहस्तान् विससर्ज सहस्रशः ॥ ७.१,२२.३३ सर्वांस्तान्क्षणमात्रेण त्रैपुरानिव शंकरः ॥ ७.१,२२.३३ निर्ददाह महाबाहुर्नेत्रसृष्टेन वह्निना ॥ ७.१,२२.३४ ततः क्रुद्धतरो विष्णुश्चक्रमुद्यम्य सत्वरः ॥ ७.१,२२.३४ तस्मिन्वीरो समुत्स्रष्टुं तदानीमुद्यतो ऽभवत् ॥ ७.१,२२.३५ तं दृष्ट्वा चक्रमुद्यम्य पुरतः समुपस्थितम् ॥ ७.१,२२.३५ स्मयन्निव गणेशानो व्यष्टंभयदयत्नतः ॥ ७.१,२२.३६ स्तंभितांगस्तु तच्चक्रं घोरमप्रतिमं क्वचित् ॥ ७.१,२२.३६ इच्छन्नपि समुत्स्रष्टुं न विष्णुरभवत्क्षमः ॥ ७.१,२२.३७ श्वसन्निवैकमुद्धृत्य बाहुं चक्रसमन्वितम् ॥ ७.१,२२.३७ अतिष्ठदलसो भूत्वा पाषाण इव निश्चलः ॥ ७.१,२२.३८ विशरीरो यथाजीवो विशृङ्गो वा यथा वृषः ॥ ७.१,२२.३८ विदंष्ट्रश्च यथा सिंहस्तथा विष्णुरवस्थितः ॥ ७.१,२२.३९ तं दृष्ट्वा दुर्दशापन्नं विष्णुमिंद्रादयः सुराः ॥ ७.१,२२.३९ समुन्नद्धा गणेन्द्रेण मृगेंद्रेणेव गोवृषाः ॥ ७.१,२२.३९ प्रगृहीतायुधा यौद्धुंक्रुद्धाः समुपतस्थिरे ॥ ७.१,२२.४० तान्दृष्ट्वा समरे भद्रःक्षुद्रानिव हरिर्मृगान् ॥ ७.१,२२.४० साक्षाद्रुद्रतनुर्वीरो वरवीरगणावृतः ॥ ७.१,२२.४१ अट्टहासेन घोरेण व्यष्टं भयदनिंदितः ॥ ७.१,२२.४१ तथा शतमखस्यापि सवज्रो दक्षिणः करः ॥ ७.१,२२.४२ सिसृक्षोरेव उद्वज्रश्चित्रीकृत इवाभवत् ॥ ७.१,२२.४२ अन्येषामपि सर्वेषां सरक्ता अपि बाहवः ॥ ७.१,२२.४३ अलसानामिवारंभास्तादृशाः प्रतियांत्युत ॥ ७.१,२२.४३ एवं भगवता तेन व्याहताशेषवैभवात् ॥ ७.१,२२.४४ अमराः समरे तस्य पुरतः स्थातुमक्षमाः ॥ ७.१,२२.४४ स्तब्धैरवयवैरेव दुद्रुवुर्भयविह्वलाः ॥ ७.१,२२.४५ स्थितिं च चक्रिरे युद्धे वीरतेजोभयाकुलाः ॥ ७.१,२२.४५ विद्रुतांस्त्रिदशान्वीरान्वीरभद्रो महाभुजः ॥ ७.१,२२.४६ विव्याध निशितैर्बाणैर्मघो वर्षैरिवाचलान् ॥ ७.१,२२.४६ बहवस्तस्य वीरस्य बाहवः परिघोपमाः ॥ ७.१,२२.४७ शस्त्रैश्चकाशिरे दीप्तैः साग्निज्वाला इवोरगाः ॥ ७.१,२२.४७ अस्त्रशस्त्राण्यनेकानिसवीरो विसृजन्बभौ ॥ ७.१,२२.४८ विसृजन्सर्वभूतानि यथादौ विश्वसंभवः ॥ ७.१,२२.४८ यथा रश्मिभिरादित्यः प्रच्छादयति मेदिनीम् ॥ ७.१,२२.४९ तथा वीरः क्षणादेव शरैः प्राच्छादयद्दिशः ॥ ७.१,२२.४९ खमंडले गणेन्द्रस्य शराः कनकभूषिताः ॥ ७.१,२२.५० उत्पतंतस्तडिद्रूपैरुपमानपदं ययुः ॥ ७.१,२२.५० महांतस्ते सुरगणान्मंडूकानिवडुंडुभाः ॥ ७.१,२२.५१ प्राणैर्वियोजयामासुः पपुश्च रुधिरासवम् ॥ ७.१,२२.५१ निकृत्तबाहवः केचित्केचिल्लूनवराननाः ॥ ७.१,२२.५२ पार्श्वे विदारिताः केचिन्निपेतुरमरा भुवि ॥ ७.१,२२.५२ विशिखोन्मथितैर्गात्रैर्बहुभिश्छिन्नसन्धिभिः ॥ ७.१,२२.५३ विवृत्तनयनाः केचिन्निपेतुर्भूतले मृताः ॥ ७.१,२२.५३ गां प्रवेष्टुमिवेच्छंतः खं गंतुमिव लिप्सवः ॥ ७.१,२२.५३ अलब्धात्मनिरोधानां व्यलीयंतः परस्परम् ॥ ७.१,२२.५४ भूमौ केचित्प्रविविशुः पर्वतानां गुहाः परे ॥ ७.१,२२.५४ अपरे जग्मुराकाशं परे च विविशुर्जलम् ॥ ७.१,२२.५५ तथा संछिन्नसर्वांगैस्स वीरस्त्रिदशैर्बभौ ॥ ७.१,२२.५५ परिग्रस्तप्रजावर्गो भगवानिव भैरवः ॥ ७.१,२२.५६ दग्धत्रिपुरसंव्यूहस्त्रिपुरारिर्यथाभवत् ॥ ७.१,२२.५६ एवं देवबलं सर्वं दीनं बीभत्सदर्शनम् ॥ ७.१,२२.५७ गणेश्वरसमुत्पन्नं कृपणं वपुराददे ॥ ७.१,२२.५७ तदा त्रिदशवीराणामसृक्सलिलवाहिनी ॥ ७.१,२२.५८ ५२६ प्रावर्तत नदी घोरा प्राणिनां भयशंसिनी ॥ ७.१,२२.५८ रुधिरेण परिक्लिन्ना यज्ञभूमिस्तदा बभौ ॥ ७.१,२२.५९ रक्तार्द्रवसना श्यामा हतशुंभेव कैशिकी ॥ ७.१,२२.५९ तस्मिन्महति संवृत्ते समरे भृशदारुणे ॥ ७.१,२२.६० भयेनेव परित्रस्ता प्रचचाल वसुन्धरा ॥ ७.१,२२.६० महोर्मिकलिलावर्तश्चुक्षुभे च महोदधिः ॥ ७.१,२२.६१ पेतुश्चोल्का महोत्पाताः शाखाश्च मुमुचुर्द्रुमाः ॥ ७.१,२२.६१ अप्रसन्ना दिशः सर्वाः पवनश्चाशिवो ववौ ॥ ७.१,२२.६२ अहो विधिविपर्यासस्त्वश्वमेधोयमध्वरः ॥ ७.१,२२.६२ यजमानस्स्वयं दक्षौ ब्रह्मपुत्रप्रजापतिः ॥ ७.१,२२.६२ धर्मादयस्सदस्याश्च रक्षिता गरुडध्वजः ॥ ७.१,२२.६३ भागांश्च प्रतिगृह्णंति साक्षादिंद्रादयः सुराः ॥ ७.१,२२.६३ तथापि यजमानस्य यज्ञस्य च सहर्त्विजः ॥ ७.१,२२.६४ सद्य एव शिरश्छेदस्साधु संपद्यते फलम् ॥ ७.१,२२.६४ तस्मान्नावेदनिर्दिष्टं न चेश्वरबहिष्कृतम् ॥ ७.१,२२.६५ नासत्परिगृहीतं च कर्म कुर्यात्कदाचन ॥ ७.१,२२. ६५ कृत्वापि सुमहत्पुण्यमिष्ट्वा यज्ञशतैरपि ॥ ७.१,२२.६६ न तत्फलमवाप्नोति भक्तिहीनो महेश्वरे ॥ ७.१,२२.६६ कृत्वापि सुमहत्पापं भक्त्या यजति यश्शिवम् ॥ ७.१,२२.६७ मुच्यते पातकैः सर्वैर्नात्र कार्या विचारणा ॥ ७.१,२२.६७ बहुनात्र किमुक्तेन वृथा दानं वृथा तपः ॥ ७.१,२२.६८ वृथा यज्ञो वृथा होमः शिवनिन्दारतस्य तु ॥ ७.१,२२.६८ ततः सनारायणकास्सरुद्राः सलोकपालास्समरे सुरौघाः ॥ ७.१,२२.६९ गणेंद्रचापच्युतबाणविद्धाः प्रदुद्रुवुर्गाढरुजाभिभूताः ॥ ७.१,२२.६९ चेलुः क्वचित्केचन शीर्णकेशाः सेदुः क्वचित्केचन दीर्घगात्राः ॥ ७.१,२२.७० पेतुः क्वचित्केचन भिन्नवक्त्रा नेशुः क्वचित्केचन देववीराः ॥ ७.१,२२.७० केचिच्च तत्र त्रिदशा विपन्ना विस्रस्तवस्त्राभरणास्त्रशस्त्राः ॥ ७.१,२२.७१ निपेतुरुद्भासितदीनमुद्रा मदं च दर्पं च बलं च हित्वा ॥ ७.१,२२.७१ सस्मुत्पथप्रस्थितमप्रधृष्यो विक्षिप्य दक्षाध्वरमक्षतास्त्रैः ॥ ७.१,२२.७२ बभौ गणेशस्स गणेश्वराणां मध्ये स्थितः सिंह इवर्षभाणाम् ॥ ७.१,२२.७२ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्खण्डे दक्षयज्ञविध्वंसवर्णनं नाम द्वाविंशो ऽध्यायः अध्याय २३ वायुरुवाच इति सञ्छिन्नभिन्नांगा देवा विष्णुपुरोगमाः ॥ ७.१,२३.१ क्षणात्कष्टां दशामेत्य त्रेसुः स्तोकावशेषिता ॥ ७.१,२३.१ त्रस्तांस्तान्समरे वीरान् देवानन्यांश्च वै गणाः ॥ ७.१,२३.२ प्रमथाः परमक्रुद्धा वीरभद्रप्रणोदिताः ॥ ७.१,२३.२ प्रगृह्य च तथा दोषं निगडैरायसैर्दृढैः ॥ ७.१,२३.३ बबन्धुः पाणिपादेषु कंधरेषूदरेषु च ॥ ७.१,२३.३ तस्मिन्नवसरे ब्रह्मा भद्रमद्रीन्द्रजानुतम् ॥ ७.१,२३.४ सारथ्याल्लब्धवात्सल्यः प्रार्थयन् प्रणतो ऽब्रवीत् ॥ ७.१,२३.४ ५२७ अलं क्रोधेन भगवन्नष्टाश्चैते दिवौकसः ॥ ७.१,२३.५ प्रसीद क्षम्यतां सर्वं रोमजैस्सह सुव्रत ॥ ७.१,२३.५ एवं विज्ञापितस्तेन ब्रह्मणा परमेष्ठिना ॥ ७.१,२३.६ शमं जगाम संप्रीतो गणपस्तस्य गौरवात् ॥ ७.१,२३.६ देवाश्च लब्धावसरा देवदेवस्य मंत्रिणः ॥ ७.१,२३.७ धारयन्तो ऽञ्जलीन्मूर्ध्नि तुष्टुवुर्विविधैः स्तवैः ॥ ७.१,२३.७ देवा ऊचुः नमः शिवाय शान्ताय यज्ञहन्त्रे त्रिशूलिने ॥ ७.१,२३. ८ रुद्रभद्राय रुद्राणां पतये रुद्रभूतये ॥ ७.१,२३.८ कालाग्निरुद्ररूपाय कालकामांगहारिणे ॥ ७.१,२३.९ देवतानां शिरोहन्त्रे दक्षस्य च दुरात्मनः ॥ ७.१,२३.९ संसर्गादस्य पापस्य दक्षस्याक्लिष्टकर्मणः ॥ ७.१,२३.१० शासिताः समरे वीर त्वया वयमनिन्दिता ॥ ७.१,२३.१० दग्धाश्चामी वयं सर्वे त्वत्तो भीताश्च भो प्रभो ॥ ७.१,२३.११ त्वमेव गतिरस्माकं त्राहि नश्शरणागतान् ॥ ७.१,२३.११ वायुरुवाच तुष्टस्त्वेवं स्तुतो देवान् विसृज्य निगडात्प्रभुः ॥ ७.१,२३.१२ आनयद्देवदेवस्य समीपममरानिह ॥ ७.१,२३.१२ देवोपि तत्र भगवानन्तरिक्षे स्थितः प्रभुः ॥ ७.१,२३.१३ सगणः सर्वगः शर्वस्सर्वलोकमहेश्वरः ॥ ७.१,२३.१३ तं दृष्ट्वा परमेशानं देवा विष्णुपुरोगमाः ॥ ७.१,२३.१४ प्रीता अपि च भीताश्च नमश्चक्रुर्महेश्वरम् ॥ ७.१,२३.१४ दृष्ट्वा तानमरान्भीतान्प्रणतार्तिहरो हरः ॥ ७.१,२३.१५ इदमाह महादेवः प्रहसन् प्रेक्ष्य पार्वतीम् ॥ ७.१,२३.१५ महादेव उवाच माभैष्ट त्रिदशास्सर्वे यूयं वै मामिकाः प्रजाः ॥ ७.१,२३.१६ अनुग्रहार्थमेवेह धृतो दंडः कृपालुना ॥ ७.१,२३.१६ भवतां निर्जराणां हि क्षान्तो ऽस्माभिर्व्यतिक्रमः ॥ ७.१,२३.१७ क्रुद्धेष्वस्मासु युष्माकं न स्थितिर्न च जीवितम् ॥ ७.१,२३.१७ वायुरुवाच इत्युक्तास्त्रिदशास्सर्वे शर्वेणामिततेजसा ॥ ७.१,२३.१८ सद्यो विगतसन्देहा ननृतुर्विबुधा मुदा ॥ ७.१,२३.१८ प्रसन्नमनसो भूत्वानन्दविह्वलमानसाः ॥ ७.१,२३.१९ स्तुतिमारेभिरे कर्तुं शंकरस्य दिवौकसः ॥ ७.१,२३.१९ देवा ऊचुः त्वमेव देवाखिललोककर्ता पाता च हर्ता परमेश्वरो ऽसि ॥ ७.१,२३.२० कविष्णुरुद्राख्यस्वरूपभेदै रजस्तमस्सत्त्वधृतात्ममूर्ते ॥ ७.१,२३.२० सर्वमूर्ते नमस्ते ऽस्तु विश्वभावन पावन ॥ ७.१,२३.२१ अमूर्ते भक्तहेतोर्हि गृहीताकृतिसौख्यद ॥ ७.१,२३.२१ चंद्रो ऽगदो हि देवेश कृपातस्तव शंकर ॥ ७.१,२३.२२ निमज्जनान्मृतः प्राप सुखं मिहिरजाजलिः ॥ ७.१,२३.२२ सीमन्तिनी हतधवा तव पूजनतः प्रभो ॥ ७.१,२३.२३ सौभाग्यमतुलं प्राप सोमवारव्रतात्सुतान् ॥ ७.१,२३.२३ श्रीकराय ददौ देवः स्वीयं पदमनुत्तमम् ॥ ७.१,२३.२४ सुदर्शनमरक्षस्त्वं नृपमंडलभीतितः ॥ ७.१,२३.२४ मेदुरं तारयामास सदारं च घृणानिधिः ॥ ७.१,२३.२५ शारदां विधवां चक्रे सधवां क्रियया भवान् ॥ ७.१,२३.२५ भद्रायुषो विपत्तिं च विच्छिद्य त्वमदाः सुखम् ॥ ७.१,२३.२६ ५२७ सौमिनी भवबन्धाद्वै मुक्ता ऽभूत्तव सेवनात् ॥ ७.१,२३.२६ विष्णुरुवाच त्वं शंभो कहरीशाश्च रजस्सत्त्वतमोगुणैः ॥ ७.१,२३.२७ कर्ता पाता तथा हर्ता जनानुग्रहकांक्षया ॥ ७.१,२३.२७ सर्वगर्वापहारी च सर्वतेजोविलासकः ॥ ७.१,२३.२८ सर्वविद्यादिगूढश्च सर्वानुग्रहकारकः ॥ ७.१,२३.२८ त्वत्तः सर्वं च त्वं सर्वं त्वयि सर्वं गिरीश्वर ॥ ७.१,२३.२९ त्राहि त्राहि पुनस्त्राहि कृपां कुरु ममोपरि ॥ ७.१,२३.२९ अथास्मिन्नन्तरे ब्रह्मा प्रणिपत्य कृतांजलिः ॥ ७.१,२३.३० एवं त्ववसरं प्राप्य व्यज्ञापयत शूलिने ॥ ७.१,२३.३० ब्रह्मोवाच जय देव महादेव प्रणतार्तिविभंजन ॥ ७.१,२३.३१ ईदृशेष्वपराधेषु को ऽन्यस्त्वत्तः प्रसीदति ॥ ७.१,२३.३१ लब्धमानो भविष्यंति ये पुरा निहिता मृधे ॥ ७.१,२३.३२ प्रत्यापत्तिर्न कस्य स्यात्प्रसन्ने परमेश्वरे ॥ ७.१,२३.३२ यदिदं देवदेवानां कृतमन्तुषु दूषणम् ॥ ७.१,२३.३३ तदिदं भूषणं मन्येत अंगीकारगौरवात् ॥ ७.१,२३.३३ इति विज्ञाप्यमानस्तु ब्रह्मणा परमेष्ठिना ॥ ७.१,२३.३४ विलोक्य वदनं देव्या देवदेवस्स्मयन्निव ॥ ७.१,२३.३४ पुत्रभूतस्य वात्सल्याद्ब्रह्मणः पद्मजन्मनः ॥ ७.१,२३.३५ देवादीनां यथापूर्वमंगानि प्रददौ प्रभुः ॥ ७.१,२३.३५ प्रथमाद्यैश्च या देव्यो दंडिता देवमातरः ॥ ७.१,२३.३६ तासामपि यथापूर्वाण्यंगानि गिरिशो ददौ ॥ ७.१,२३.३६ दक्षस्य भगवानेव स्वयं ब्रह्मा पितामहः ॥ ७.१,२३.३७ तत्पापानुगुणं चक्रे जरच्छागमुखं मुखम् ॥ ७.१,२३.३७ सो ऽपि संज्ञां ततो लब्ध्वा स दृष्ट्वा जीवितः सुधी ॥ ७.१,२३.३८ भीतः कृताञ्जलिः शंभुं तुष्टाव प्रलपन्बहु ॥ ७.१,२३.३८ दक्ष उवाच जय देव जगन्नाथ लोकानुग्रहकारक ॥ ७.१,२३.३९ कृपां कुरु महेशानापराधं मे क्षमस्व ह ॥ ७.१,२३.३९ कर्ता भर्ता च हर्ता च त्वमेव जगतां प्रभो ॥ ७.१,२३.४० मया ज्ञातं विशेषेण विष्ण्वादिसकलेश्वरः ॥ ७.१,२३.४० त्वयैव विततं सर्वं व्याप्तं सृष्टं न नाशितम् ॥ ७.१,२३.४१ न हि त्वदधिकाः केचिदीशास्ते ऽच्युतकादयः ॥ ७.१,२३.४१ वायुरुवाच तं तथा व्याकुलं भीतं प्रलपंतं कृतागसम् ॥ ७.१,२३.४२ स्मयन्निवावदत्प्रेक्ष्य मा भैरिति १ घृणानिधिः ॥ ७.१,२३.४२ तथोक्त्वा ब्रह्मणस्तस्य पितुः प्रियचिकीर्षया ॥ ७.१,२३.४३ गाणपत्यं ददौ तस्मै दक्षायाक्षयमीश्वरः ॥ ७.१,२३.४३ ततो ब्रह्मादयो देवा अभिवंद्य कृत २ ंजलिः ॥ ७.१,२३.४४ तुष्टुवुः प्रश्रया वाचा शंकरं गिरिजाधिपम् ॥ ७.१,२३.४४ ब्रह्मादय ऊचुः जय शंकर देवेश दीनानाथ महाप्रभो ॥ ७.१,२३.४५ १ सिज्लोप आर्षः २ एकवचनमार्षम् ५२८ कृपां कुरु महेशानापराधं नो क्षमस्व वै ॥ ७.१,२३.४५ मखपाल मखाधीश मखविध्वंसकारक ॥ ७.१,२३.४६ कृपां कुरु मशानापराधं नः क्षमस्व वै ॥ ७.१,२३.४६ देवदेव परेशान भक्तप्राणप्रपोषक ॥ ७.१,२३.४७ दुष्टदण्डप्रद स्वामिन्कृपां कुरु नमो ऽस्तु ते ॥ ७.१,२३.४७ त्वं प्रभो गर्वहर्ता वै दुष्टानां त्वामजानताम् ॥ ७.१,२३.४८ रक्षको हि विशेषेण सतां त्वत्सक्तचेतसाम् ॥ ७.१,२३.४८ अद्भुतं चरितं ते हि निश्चितं कृपया तव ॥ ७.१,२३.४९ सर्वापराधः क्षंतव्यो विभवो दीनवत्सलाः ॥ ७.१,२३.४९ वायुरुवाच इति स्तुतो महादेवो ब्रह्माद्यैरमरैः प्रभुः ॥ ७.१,२३.५० स भक्तवत्सलस्स्वामी तुतोष करुणोदधिः ॥ ७.१,२३.५० चकारानुग्रहं तेषां ब्रह्मादीनां दिवौकसाम् ॥ ७.१,२३.५१ ददौ नरांश्च सुप्रीत्या शंकरो दीनवत्सलः ॥ ७.१,२३.५१ स च ततस्त्रिदशाञ्छरणागतान् परमकारुणिकः परमेश्वरः ॥ ७.१,२३.५२ अनुगतस्मितलक्षणया गिरा शमितसर्वभयः समभाषत ॥ ७.१,२३.५२ शिव उवाच यदिदमाग इहाचरितं सुरैर्विधिनियोगवशादिव यन्त्रितैः ॥ ७.१,२३.५३ शरणमेव गतानवलोक्य वस्तदखिलं किल विस्मृतमेव नः ॥ ७.१,२३.५३ तदिह यूयमपि प्रकृतं मनस्यविगणय्य विमर्दमपत्रपाः ॥ ७.१,२३.५४ हरिविरिंचिसुरेन्द्रमुखास्सुखं व्रजत देवपुरं प्रति संप्रति ॥ ७.१,२३.५४ इति सुरानभिधाय सुरेश्वरो निकृतदक्षकृतक्रतुरक्रतुः ॥ ७.१,२३.५५ सगिरिजानुचरस्सपरिच्छदः स्थित इवाम्बरतोन्तरधाद्धरः ॥ ७.१,२३.५५ अथ सुरा अपि ते विगतव्यथाः कथितभद्रसुभद्रपराक्रमाः ॥ ७.१,२३.५६ सपदि खेन सुखेन यथासुखं ययुरनेकमुखाः मघवन्मुखाः ॥ ७.१,२३.५६ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे गिरिशानुनयो नाम त्रयोविंशो ऽध्यायः अध्याय २४ ऋषय ऊचुः अन्तर्धानगतो देव्या सह सानुचरो हरः ॥ ७.१,२४.१ क्व यातः कुत्र वासः किं कृत्वा विरराम ह ॥ ७.१,२४.१ वायुरुवाच महीधरवरः श्रीमान्मंदरश्चित्रकंदरः ॥ ७.१,२४.२ दयितो देवदेवस्य निवासस्तपसो ऽभवत् ॥ ७.१,२४.२ तपो महत्कृतं तेन वोढुं स्वशिरसा शिवौ ॥ ७.१,२४.३ चिरेण लब्धं तत्पादपंकजस्पर्शजं सुखम् ॥ ७.१,२४.३ तस्य शैलस्य सौन्दर्यं सहस्रवदनैरपि ॥ ७.१,२४.४ न शक्यं विस्तराद्वक्तुं वर्षकोटिशतैरपि ॥ ७.१,२४.४ शक्यमप्यस्य सौन्दर्यं न वर्णयितुमुत्सहे ॥ ७.१,२४.५ पर्वतान्तरसौन्दर्यं साधारणविधारणात् ॥ ७.१,२४.५ इदन्तु शक्यते वक्तुमस्मिन्पर्वतसुन्दरे ॥ ७.१,२४.६ ऋद्ध्या कयापि सौन्दर्यमीश्वरावासयोग्यता ॥ ७.१,२४.६ अत एव हि देवेन देव्याः प्रियचिकीर्षया ॥ ७.१,२४.७ अतीव रमणीयोयं गिरिरन्तःपुरीकृतः ॥ ७.१,२४.७ ५२८ मेखलाभूमयस्तस्य विमलोपलपादपाः ॥ ७.१,२४.८ शिवयोर्नित्यसान्निध्यान्न्यक्कुर्वंत्यखिलंजगत् ॥ ७.१,२४.८ पितृभ्यां जगतो नित्यं स्नानपानोपयोगतः ॥ ७.१,२४.९ अवाप्तपुण्यसंस्कारः प्रसरद्भिरितस्ततः ॥ ७.१,२४.९ लघुशीतलसंस्पर्शैरच्छाच्छैर्निर्झराम्बुभिः ॥ ७.१,२४.१० अधिराज्येन चाद्रीणामद्रीरेषो ऽभिषिच्यते ॥ ७.१,२४.१० निशासु शिखरप्रान्तर्वर्तिना स शिलोच्चयः ॥ ७.१,२४.११ चंद्रेणाचल साम्राज्यच्छत्रेणेव विराजते ॥ ७.१,२४.११ स शैलश्चंचलीभूतैर्बालैश्चामरयोषिताम् ॥ ७.१,२४.१२ सर्वपर्वतसाम्राज्यचामरैरिव वीज्यते ॥ ७.१,२४.१२ प्रातरभ्युदिते भानौ भूधरो रत्नभूषितः ॥ ७.१,२४.१३ दर्पणे देहसौभाग्यं द्रष्टुकाम इव स्थितः ॥ ७.१,२४.१३ कूजद्विहंगवाचालैर्वातोद्धृतलताभुजैः ॥ ७.१,२४.१४ विमुक्तपुष्पैः सततं व्यालम्बिमृदुपल्लवैः ॥ ७.१,२४.१४ लताप्रतानजटिलैस्तरुभिस्तपसैरिव ॥ ७.१,२४.१५ जयाशिषा सहाभ्यर्च्य निषेव्यत इवाद्रिराट् ॥ ७.१,२४.१५ अधोमुखैरूर्ध्वमुखैश्शृंगैस्तिर्यङ्मुखैस्तथा ॥ ७.१,२४.१६ प्रपतन्निव पाताले भूपृष्ठादुत्पतन्निव ॥ ७.१,२४.१६ परीतः सर्वतो दिक्षु भ्रमन्निव विहायसि ॥ ७.१,२४.१७ पश्यन्निव जगत्सर्वं नृत्यन्निव निरन्तरम् ॥ ७.१,२४.१७ गुहामुखैः प्रतिदिनं व्यात्तास्यो विपुलोदरैः ॥ ७.१,२४.१८ अजीर्णलावण्यतया जृंभमाण इवाचलः ॥ ७.१,२४.१८ ग्रसन्निव जगत्सर्वं पिबन्निव पयोनिधिम् ॥ ७.१,२४.१९ वमन्निव तमोन्तस्थं माद्यन्निव खमम्बुदैः ॥ ७.१,२४.१९ निवास भूमयस्तास्ता दर्पणप्रतिमोदराः ॥ ७.१,२४.२० तिरस्कृतातपास्स्निग्धाश्रमच्छायामहीरुहाः ॥ ७.१,२४.२० सरित्सरस्तडागादिसंपर्कशिशिरानिलाः ॥ ७.१,२४.२१ तत्र तत्र निषण्णाभ्यां शिवाभ्यां सफलीकृताः ॥ ७.१,२४.२१ तमिमं सर्वतः श्रेष्ठं स्मृत्वा साम्बस्त्रियम्बकः ॥ ७.१,२४.२२ रैभ्याश्रमसमीपस्थश्चान्तर्धानं गतो ययौ ॥ ७.१,२४.२२ तत्रोद्यानमनुप्राप्य देव्या सह महेश्वरः ॥ ७.१,२४.२३ रराम रमणीयासु देव्यान्तःपुरभूमिषु ॥ ७.१,२४.२३ तथा गतेषु कालेषु प्रवृद्धासु प्रजासु च ॥ ७.१,२४.२४ दैत्यौ शुंभनिशुंभाख्यौ भ्रातरौ संबभूवतुः ॥ ७.१,२४.२४ ताभ्यां तपो बलाद्दत्तं ब्रह्मणा परमेष्टिना ॥ ७.१,२४.२५ अवध्यत्वं जगत्यस्मिन्पुरुषैरखिलैरपि ॥ ७.१,२४.२५ अयोनिजा तु या कन्या ह्यंबिकांशसमुद्भवा ॥ ७.१,२४.२६ अजातपुंस्पर्शरतिरविलंघ्यपराक्रमा ॥ ७.१,२४.२६ तया तु नौ वधः संख्ये तस्यां कामाभिभूतयोः ॥ ७.१,२४.२७ इति चाभ्यर्थितो ब्रह्मा ताभ्याम्प्राह तथास्त्विति ॥ ७.१,२४.२७ ततः प्रभृति शक्रादीन्विजित्य समरे सुरान् ॥ ७.१,२४.२८ निःस्वाध्यायवषट्कारं जगच्चक्रतुरक्रमात् ॥ ७.१,२४.२८ तयोर्वधाय देवेशं ब्रह्माभ्यर्थितवान्पुनः ॥ ७.१,२४.२९ विनिंद्यापि रहस्यं वां क्रोधयित्वा यथा तथा ॥ ७.१,२४.२९ ५२९ तद्वर्णकोशजां शक्तिमकामां कन्यकात्मिकाम् ॥ ७.१,२४.३० निशुम्भशुंभयोर्हंत्रीं सुरेभ्यो दातुमर्हसि ॥ ७.१,२४.३० एवमभ्यर्थितो धात्रा भगवान्नीललोहितः ॥ ७.१,२४.३१ कालीत्याह रहस्यं वां निन्दयन्निव सस्मितः ॥ ७.१,२४.३१ ततः क्रुद्धा तदा देवी सुवर्णा वर्णकारणात् ॥ ७.१,२४.३२ स्मयन्ती चाह भर्तारमसमाधेयया गिरा ॥ ७.१,२४.३२ देव्युवाच ईदृशो मम वर्णेस्मिन्न रतिर्भवतो ऽस्ति चेत् ॥ ७.१,२४.३३ एवावन्तं चिरं कालं कथमेषा नियम्यते ॥ ७.१,२४.३३ अरत्या वर्तमानो ऽपि कथं च रमसे मया ॥ ७.१,२४.३४ न ह्यशक्यं जगत्यस्मिन्नीश्वरस्य जगत्प्रभोः ॥ ७.१,२४.३४ स्वात्मारामस्य भवतो रतिर्न सुखसाधनम् ॥ ७.१,२४.३५ इति हेतोः स्मरो यस्मात्प्रसभं भस्मसात्कृतः ॥ ७.१,२४.३५ या च नाभिमता भर्तुरपि सर्वांगसुन्दरी ॥ ७.१,२४.३६ सा वृथैव हि जायेत सर्वैरपि गुणान्तरैः ॥ ७.१,२४.३६ भर्तुर्भोगैकशेषो हि सर्ग एवैष योषिताम् ॥ ७.१,२४.३७ तथासत्यन्यथाभूता नारी कुत्रोपयुज्यते ॥ ७.१,२४.३७ तस्माद्वर्णमिमं त्यक्त्वा त्वया रहसि निन्दितम् ॥ ७.१,२४.३८ वर्णान्तरं भजिष्ये वा न भजिष्यामि वा स्वयम् ॥ ७.१,२४.३८ इत्युक्त्वोत्थाय शयनाद्देवी साचष्ट गद्गदम् ॥ ७.१,२४.३९ ययाचे ऽनुमतिं भर्तुस्तपसे कृतनिश्चया ॥ ७.१,२४.३९ तथा प्रणयभंगेन भीतो भूतपतिः स्वयम् ॥ ७.१,२४.४० पादयोः प्रणमन्नेव भवानीं प्रत्यभाषत ॥ ७.१,२४.४० ईश्वर उवाच अजानती च क्रीडोक्तिं प्रिये किं कुपितासि मे ॥ ७.१,२४.४१ रतिः कुतो वा जायेत त्वत्तश्चेदरतिर्मम ॥ ७.१,२४.४१ माता त्वमस्य जगतः पिताहमधिपस्तथा ॥ ७.१,२४.४२ कथं तदुत्पपद्येत त्वत्तो नाभिरतिर्मम ॥ ७.१,२४.४२ आवयोरभिकामो ऽपि किमसौ कामकारितः ॥ ७.१,२४.४३ यतः कामसमुत्पत्तिः प्रागेव जगदुद्भवः ॥ ७.१,२४.४३ पृथग्जनानां रतये कामात्मा कल्पितो मया ॥ ७.१,२४.४४ ततः कथमुपालब्धः कामदाहादहं त्वया ॥ ७.१,२४.४४ मां वै त्रिदशसामान्यं मन्यमानो मनोभवः ॥ ७.१,२४.४५ मनाक्परिभवं कुर्वन्मया वै भस्मसात्कृतः ॥ ७.१,२४.४५ विहारोप्यावयोरस्य जगतस्त्राणकारणात् ॥ ७.१,२४.४६ ततस्तदर्थं त्वय्यद्य क्रीडोक्तिं कृतवाहनम् ॥ ७.१,२४.४६ स चायमचिरादर्थस्तवैवाविष्करिष्यते ॥ ७.१,२४.४७ क्रोधस्य जनकं वाक्यं हृदि कृत्वेदमब्रवीत् ॥ ७.१,२४.४७ देव्युवाच श्रुतपूर्वं हि भगवंस्तव चाटु वचो मया ॥ ७.१,२४.४८ येनैवमतिधीराहमपि प्रागभिवंचिता ॥ ७.१,२४.४८ प्राणानप्यप्रिया भर्तुर्नारी या न परित्यजेत् ॥ ७.१,२४.४९ कुलांगना शुभा सद्भिः कुत्सितैव हि गम्यते ॥ ७.१,२४.४९ भूयसी च तवाप्रीतिरगौरमिति मे वपुः ॥ ७.१,२४.५० क्रीडोक्तिरपि कालीति घटते कथमन्यथा ॥ ७.१,२४.५० सद्भिर्विगर्हितं तस्मात्तव कार्ष्ण्यमसंमतम् ॥ ७.१,२४.५१ ५२९ अनुत्सृज्य तपोयोगात्स्थातुमेवेह नोत्सहे ॥ ७.१,२४.५१ शिव उवाच स यद्येवंविधतापस्ते तपसा किं प्रयोजनम् ॥ ७.१,२४.५२ ममेच्छया स्वेच्छया वा वर्णान्तरवती भव ॥ ७.१,२४.५२ देव्युवाच नेच्छामि भवतो वर्णं स्वयं वा कर्तुमन्यथा ॥ ७.१,२४.५३ ब्रह्माणं तपसाराध्य क्षिप्रं गौरी भवाम्यहम् ॥ ७.१,२४.५३ ईश्वर उवाच मत्प्रसादात्पुरा ब्रह्मा ब्रह्मत्वं प्राप्तवान्पुरा ॥ ७.१,२४.५४ तमाहूय महादेवि तपसा किं करिष्यसि ॥ ७.१,२४.५४ देव्युवाच त्वत्तो लब्धपदा एव सर्वे ब्रह्मादयः सुराः ॥ ७.१,२४.५५ तथाप्याराध्य तपसा ब्रह्माणं त्वन्नियोगतः ॥ ७.१,२४.५५ पुरा किल सती नाम्ना दक्षस्य दुहिता ऽभवम् ॥ ७.१,२४.५६ जगतां पतिमेवं त्वां पतिं प्राप्तवती तथा ॥ ७.१,२४.५६ एवमद्यापि तपसा तोषयित्वा द्विजं विधिम् ॥ ७.१,२४.५७ गौरी भवितुमिच्छामि को दोषः कथ्यतामिह ॥ ७.१,२४.५७ एवमुक्तो महादेव्या वामदेवः स्मयन्निव ॥ ७.१,२४.५८ न तां निर्बंधयामास देवकार्यचिकीर्षया ॥ ७.१,२४.५८ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे शिवमन्दरगिरिनिवासक्रीडोक्तवर्णनं नाम चतुर्विंशो ऽध्यायः अध्याय २५ वायुरुवाच ततः प्रदक्षिणीकृत्य पतिमम्बा पतिव्रता ॥ ७.१,२५.१ नियम्य च वियोगार्तिं जगाम हिमवद्गिरिम् ॥ ७.१,२५.१ तपःकृतवती पूर्वं देशे यस्मिन्सखीजनैः ॥ ७.१,२५.२ तमेव देशमवृनोत्तपसे प्रणयात्पुनः ॥ ७.१,२५.२ ततः स्वपितरं दृष्ट्वा मातरं च तयोर्गृहे ॥ ७.१,२५.३ प्रणम्य वृत्तं विज्ञाप्य ताभ्यां चानुमता सती ॥ ७.१,२५.३ पुनस्तपोवनं गत्वा भूषणानि विसृज्य च ॥ ७.१,२५.४ स्नात्वा तपस्विनो वेषं कृत्वा परमपावनम् ॥ ७.१,२५.४ संकल्प्य च महातीव्रं तपः परमदुश्चरम् ॥ ७.१,२५.५ सदा मनसि सन्धाय भर्तुश्चरणपंकजम् ॥ ७.१,२५.५ तमेव क्षणिके लिंगे ध्यात्वा बाह्यविधानतः ॥ ७.१,२५.६ त्रिसन्ध्यमभ्यर्चयन्ती वन्यैः पुष्पैः फलादिभिः ॥ ७.१,२५.६ स एव ब्रह्मणो मूर्तिमास्थाय तपसः फलम् ॥ ७.१,२५.७ प्रदास्यति ममेत्येवं नित्यं कृत्वा ऽकरोत्तपः ॥ ७.१,२५.७ तथा तपश्चरन्तीं तां काले बहुतिथे गते ॥ ७.१,२५.८ दृष्टः कश्चिन्महाव्याघ्रो दुष्टभावादुपागमत् ॥ ७.१,२५.८ तथैवोपगतस्यापि तस्यातीवदुरात्मनः ॥ ७.१,२५.९ गात्रं चित्रार्पितमिव स्तब्धं तस्यास्सकाशतः ॥ ७.१,२५.९ तं दृष्ट्वापि तथा व्याघ्रं दुष्टभावादुपागतम् ॥ ७.१,२५.१० न पृथग्जनवद्देवी स्वभावेन विविच्यते ॥ ७.१,२५.१० स तु विष्टब्धसर्वांगो बुभुक्षापरिपीडितः ॥ ७.१,२५.११ ममामिषं ततो नान्यदिति मत्वा निरन्तरम् ॥ ७.१,२५.११ निरीक्ष्यमाणः सततं देवीमेव तदा ऽनिशम् ॥ ७.१,२५.१२ अतिष्ठदग्रतस्तस्या उपासनमिवाचरत् ॥ ७.१,२५.१२ ५३० देव्याश्च हृदये नित्यं ममैवायमुपासकः ॥ ७.१,२५.१३ त्राता च दुष्टसत्त्वेभ्य इति प्रववृते कृपा ॥ ७.१,२५.१३ तस्या एव कृपा योगात्सद्योनष्टमलत्रयः ॥ ७.१,२५.१४ बभूव सहसा व्याघ्रो देवीं च बुबुधे तदा ॥ ७.१,२५.१४ न्यवर्तत बुभुक्षा च तस्यांगस्तम्भनं तथा ॥ ७.१,२५.१५ दौरात्म्यं जन्मसिद्धं च तृप्तिश्च समजायत ॥ ७.१,२५.१५ तदा परमभावेन ज्ञात्वा कार्तार्थ्यमात्मनः ॥ ७.१,२५.१६ सद्योपासक एवैष सिषेवे परमेश्वरीम् ॥ ७.१,२५.१६ दुष्टानामपि सत्त्वानां तथान्येषान्दुरात्मनाम् ॥ ७.१,२५.१७ स एव द्रावको भूत्वा विचचार तपोवने ॥ ७.१,२५.१७ तपश्च ववृधे देव्यास्तीव्रं तीव्रतरात्मकम् ॥ ७.१,२५.१८ देवाश्च दैत्यनिर्बन्धाद्ब्रह्माणं शरणं गताः ॥ ७.१,२५.१८ चक्रुर्निवेदनं देवाः स्वदुःखस्यारिपीडनात् ॥ ७.१,२५.१९ यथा च ददतुः शुम्भनिशुम्भौ वरसम्मदात् ॥ ७.१,२५.१९ सो ऽपि श्रुत्वा विधिर्दुःखं सुराणां कृपयान्वितः ॥ ७.१,२५.२० आसीद्दैत्यवधायैव स्मृत्वा हेत्वाश्रयां कथाम् ॥ ७.१,२५.२० सामरः प्रार्थितो ब्रह्मा ययौ देव्यास्तपोवनम् ॥ ७.१,२५.२१ संस्मरन्मनसा देवदुःखमोक्षं स्वयत्नतः ॥ ७.१,२५.२१ ददर्श च सुरश्रेष्ठः श्रेष्ठे तपसि निष्ठिताम् ॥ ७.१,२५.२२ प्रतिष्ठामिव विश्वस्य भवानीं परमेश्वरीम् ॥ ७.१,२५.२२ ननाम चास्य जगतो मातरं स्वस्य वै हरेः ॥ ७.१,२५.२३ रुद्रस्य च पितुर्भार्यामार्यामद्रीश्वरात्मजाम् ॥ ७.१,२५.२३ ब्रह्माणमागतं दृष्ट्वा देवी देवगणैः सह ॥ ७.१,२५.२४ अर्घ्यं तदर्हं दत्त्वा ऽस्मै स्वागताद्यैरुपाचरत् ॥ ७.१,२५.२४ तां च प्रत्युपचारोक्तिं पुरस्कृत्याभिनंद्य च ॥ ७.१,२५.२५ पप्रच्छ तपसो हेतुमजानन्निव पद्मजः ॥ ७.१,२५.२५ ब्रह्मोवाच तीव्रेण तपसानेन देव्या किमिह साध्यते ॥ ७.१,२५.२६ तपःफलानां सर्वेषां त्वदधीना हि सिद्धयः ॥ ७.१,२५.२६ यश्चैव जगतां भर्ता तमेव परमेश्वरम् ॥ ७.१,२५.२७ भर्तारमात्मना प्राप्य प्राप्तञ्च तपसः फलम् ॥ ७.१,२५.२७ अथवा सर्वमेवैतत्क्रीडाविलसितं तव ॥ ७.१,२५.२८ इदन्तु चित्रं देवस्य विरहं सहसे कथम् ॥ ७.१,२५.२८ देव्युवाच सर्गादौ भवतो देवादुत्पत्तिः श्रूयते यदा ॥ ७.१,२५.२९ तदा प्रजानां प्रथमस्त्वं मे प्रथमजः सुतः ॥ ७.१,२५.२९ यदा पुनः प्रजावृद्ध्यै ललाटाद्भवतो भवः ॥ ७.१,२५.३० उत्पन्नो ऽभूत्तदा त्वं मे गुरुः श्वशुरभावतः ॥ ७.१,२५.३० यदा भवद्गिरीन्द्रस्ते पुत्रो मम पिता स्वयम् ॥ ७.१,२५.३१ तदा पितामहस्त्वं मे जातो लोकपितामह ॥ ७.१,२५.३१ तदीदृशस्य भवतो लोकयात्राविधायिनः ॥ ७.१,२५.३२ वृत्तवन्तःपुरे भर्ता कथयिष्ये कथं पुनः ॥ ७.१,२५.३२ किमत्र बहुना देहे यश्चायं मम कालिमा ॥ ७.१,२५.३३ त्यक्त्वा सत्त्वविधानेन गौरी भवितुमुत्सहे ॥ ७.१,२५.३३ ५३० ब्रह्मोवाच एतावता किमर्थेन तीव्रं देवि तपः कृतम् ॥ ७.१,२५.३४ स्वेच्छैव किमपर्याप्ता क्रीडेयं हि तवेदृशी ॥ ७.१,२५.३४ क्रीडा ऽपि च जगन्मातस्तव लोकहिताय वै ॥ ७.१,२५.३५ अतो ममेष्टमनया फलं किमपि साध्यताम् ॥ ७.१,२५.३५ निशुंभशुंभनामानौ दैत्यौ दत्तवरौ मया ॥ ७.१,२५.३६ दृप्तौ देवान्प्रबाधेते त्वत्तो लब्धस्तयोर्वधः ॥ ७.१,२५.३६ अलं विलंबनेनात्र त्वं क्षणेन स्थिरा भव ॥ ७.१,२५.३७ शक्तिर्विसृज्यमाना ऽद्य तयोर्मृत्युर्भविष्यति ॥ ७.१,२५.३७ ब्राह्मणाभ्यर्थिता चैव देवी गिरिवरात्मजा ॥ ७.१,२५.३८ त्वक्कोशं सहसोत्सृज्य गौरी सा समजायत ॥ ७.१,२५.३८ सा त्वक्कोशात्मनोत्सृष्टा कौशिकी नाम नामतः ॥ ७.१,२५.३९ काली कालाम्बुदप्रख्या कन्यका समपद्यत ॥ ७.१,२५.३९ सा तु मायात्मिका शक्तिर्योगनिद्रा च वैष्णवी ॥ ७.१,२५.४० शंखचक्रत्रिशूलादिसायुधाष्टमहाभुजा ॥ ७.१,२५.४० सौम्या घोरा च मिश्रा च त्रिनेत्रा चन्द्रशेखरा ॥ ७.१,२५.४१ अजातपुंस्पर्शरतिरधृष्या चातिसुन्दरी ॥ ७.१,२५.४१ दत्ता च ब्रह्मणे देव्या शक्तिरेषा सनातनी ॥ ७.१,२५.४२ निशुंभस्य च शुंभस्य निहंत्री दैत्यसिंहयोः ॥ ७.१,२५.४२ ब्रह्मणापि प्रहृष्टेन तस्यै परमशक्तये ॥ ७.१,२५.४३ प्रबलः केसरी दत्तो वाहनत्वे समागतः ॥ ७.१,२५.४३ विन्ध्ये च वसतिं तस्याः पूजामासवपूर्वकैः ॥ ७.१,२५.४४ मांसैर्मत्स्यैरपूपैश्च निर्वर्त्यासौ समादिशत् ॥ ७.१,२५.४४ सा चैव संमता शक्तिर्ब्रह्मणो विश्वकर्मणः ॥ ७.१,२५.४५ प्रणम्य मातरं गौरीं ब्रह्माणं चानुपूर्वशः ॥ ७.१,२५.४५ शक्तिभिश्चापि तुल्याभिः स्वात्मजाभिरनेकशः ॥ ७.१,२५.४६ परीता प्रययौ विन्ध्यं दैत्येन्द्रौ हन्तुमुद्यता ॥ ७.१,२५.४६ निहतौ च तया तत्र समरे दैत्यपुंगवौ ॥ ७.१,२५.४७ तद्बाणैः कामबाणैश्च च्छिन्नभिन्नांगमानसौ ॥ ७.१,२५.४७ तद्युद्धविस्तरश्चात्र न कृतो ऽन्यत्र वर्णनात् ॥ ७.१,२५.४८ ऊहनीयं परस्माच्च प्रस्तुतं वर्णयामि वः ॥ ७.१,२५.४८ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे देवीगौरत्वभवनं नाम पञ्चविंशो ऽध्यायः अध्याय २६ वायुरुवाच उत्पाद्य कौशिकीं गौरी ब्रह्मणे प्रतिपाद्य ताम् ॥ ७.१,२६.१ तस्य प्रत्युपकाराय पितामहमथाब्रवीत् ॥ ७.१,२६.१ देव्युवाच दृष्टः किमेष भवता शार्दूलो मदुपाश्रयः ॥ ७.१,२६.२ अनेन दुष्टसत्त्वेभ्यो रक्षितं मत्तपोवनम् ॥ ७.१,२६.२ मय्यर्पितमना एष भजते मामनन्यधीः ॥ ७.१,२६.३ अस्य संरक्षणादन्यत्प्रियं मम न विद्यते ॥ ७.१,२६.३ भवितव्यमनेनातो ममान्तःपुरचारिणा ॥ ७.१,२६.४ गणेश्वरपदं चास्मै प्रीत्या दास्यति शंकरः ॥ ७.१,२६.४ एनमग्रेसरं कृत्वा सखीभिर्गन्तुमुत्सहे ॥ ७.१,२६.५ प्रदीयतामनुज्ञा मे प्रजानां पतिना १ त्वया ॥ ७.१,२६.५ १ धित्वमार्षम् ५३१ इत्युक्तः प्रहसन्ब्रह्मा देवीम्मुग्धामिव स्मयन् ॥ ७.१,२६.६ तस्य तीव्रैः पुरावृत्तैर्दौरात्म्यं समवर्णयत्१ ॥ ७.१,२६.६ ब्रह्मोवाच पशौ देवि मृगाः क्रूराः क्व च ते ऽनुग्रहः शुभः ॥ ७.१,२६.७ आशीविषमुखे साक्षादमृतं किं निषिच्यते ॥ ७.१,२६.७ व्याघ्रमात्रेण सन्नेष दुष्टः को ऽपि निशाचरः ॥ ७.१,२६.८ अनेन भक्षिता गावो ब्राह्मणाश्च तपोधनाः ॥ ७.१,२६.८ तर्पयंस्तान्यथाकामं कामरूपी चरत्यसौ ॥ ७.१,२६.९ अवश्यं खलु भोक्तव्यं फलं पापस्य कर्मणः ॥ ७.१,२६.९ अतः किं कृपया कृत्यमीदृशेषु दुरात्मसु ॥ ७.१,२६.१० अनेन देव्याः किं कृत्यं प्रकृत्या कलुषात्मना ॥ ७.१,२६.१० देव्युवाच यदुक्तं भवता सर्वं तथ्यमस्त्वयमीदृशः ॥ ७.१,२६.११ तथापि मां प्रपन्नो ऽभून्न त्याज्यो मामुपाश्रितः ॥ ७.१,२६.११ ब्रह्मोवाच अस्य भक्तिमविज्ञाय प्राग्वृत्तं ते निवेदितम् ॥ ७.१,२६.१२ भक्तिश्चेदस्य किं पापैर्न ते भक्तः प्रणश्यति ॥ ७.१,२६.१२ पुण्यकर्मापि किं कुर्यात्त्वदीयाज्ञानपेक्षया ॥ ७.१,२६.१३ अजा प्रज्ञा पुराणी च त्वमेव परमेश्वरी ॥ ७.१,२६.१३ त्वदधीना हि सर्वेषां बंधमोक्षव्यवस्थितिः ॥ ७.१,२६.१४ त्वदृते परमा शक्तिः संसिद्धिः कस्य कर्मणा ॥ ७.१,२६.१४ त्वमेव विविधा शक्तिः भवानामथ वा स्वयम् ॥ ७.१,२६.१५ अशक्तः कर्मकरणे कर्ता वा किं करिष्यति ॥ ७.१,२६.१५ विष्णोश्च मम चान्येषां देवदानवरक्षसाम् ॥ ७.१,२६.१६ तत्तदैश्वर्यसम्प्राप्त्यै तवैवाज्ञा हि कारणम् ॥ ७.१,२६.१६ अतीताः खल्वसंख्याता ब्रह्माणो हरयो भवाः ॥ ७.१,२६.१७ अनागतास्त्वसंख्यातास्त्वदाज्ञानुविधायिनः ॥ ७.१,२६.१७ त्वामनाराध्य देवेशि पुरुषार्थचतुष्टयम् ॥ ७.१,२६.१८ लब्धुं न शक्यमस्माभिरपि सर्वैः सुरोत्तमैः ॥ ७.१,२६.१८ व्यत्यासो ऽपि भवेत्सद्यो ब्रह्मत्वस्थावरत्वयोः ॥ ७.१,२६.१९ सुकृतं दुष्कृतं चापि त्वयेव स्थापितं यतः ॥ ७.१,२६.१९ त्वं हि सर्वजगद्भर्तुश्शिवस्य परमात्मनः ॥ ७.१,२६.२० अनादिमध्यनिधना शक्तिराद्या सनातनी ॥ ७.१,२६.२० समस्तलोकयात्रार्थं मूर्तिमाविश्य कामपि ॥ ७.१,२६.२१ क्रीडसे २ विविधैर्भावैः कस्त्वां जानाति तत्त्वतः ॥ ७.१,२६.२१ अतो दुष्कृतकर्मापि व्याघ्रो ऽयं त्वदनुग्रहात् ॥ ७.१,२६.२२ प्राप्नोतु परमां सिद्धिमत्र कः प्रतिबन्धकः ॥ ७.१,२६.२२ इत्यात्मनः परं भावं स्मारयित्वानुरूपतः ॥ ७.१,२६.२३ ब्रह्मणाभ्यर्थिता गौरी तपसो ऽपि न्यवर्तत ॥ ७.१,२६.२३ ततो देवीमनुज्ञाप्य ब्रह्मण्यन्तर्हिते सति ॥ ७.१,२६.२४ देवीं च मातरं दृष्ट्वा मेनां हिमवता सह ॥ ७.१,२६.२४ प्रणम्याश्वास्य बहुधा पितरौ विरहासहौ ॥ ७.१,२६.२५ १ परस्मैपदमार्षम् २ आत्मनेपदमार्षम् ५३१ तपः प्रणयिनो देवी तपोवनमहीरुहान् ॥ ७.१,२६.२५ विप्रयोगशुचेवाग्रे पुष्पबाष्पं विमुंचतः ॥ ७.१,२६.२६ तत्तुच्छाखासमारूढविहगो दीरितै रुतैः ॥ ७.१,२६.२६ व्याकुलं बहुधा दीनं विलापमिव कुर्वतः ॥ ७.१,२६.२७ सखीभ्यः कथयंत्येवं सत्त्वरा भर्तृदर्शने ॥ ७.१,२६.२७ पुरस्कृत्य च तं व्याघ्रं स्नेहात्पुत्रमिवौरसम् ॥ ७.१,२६.२८ देहस्य प्रभया चैव दीपयन्ती दिशो दश ॥ ७.१,२६.२८ प्रययौ मंदरं गौरी यत्र भर्ता महेश्वरः ॥ ७.१,२६.२९ सर्वेषां जगतां धाता कर्ता पाता विनाशकृत् ॥ ७.१,२६.२९ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे व्याघ्रगतिवर्णनं नाम षड्विंशो ऽध्यायः अध्याय २७ ऋषय ऊचुः कृत्वा गौरं वपुर्दिव्यं देवी गिरिवरात्मजा ॥ ७.१,२७.१ कथं ददर्श भर्तारं प्रविष्टा मन्दितं सती ॥ ७.१,२७.१ प्रवेशसमये तस्या भवनद्वारगोचरैः ॥ ७.१,२७.२ गणेशैः किं कृतं देवस्तान्दृष्ट्वा किन्तदा ऽकरोत् ॥ ७.१,२७.२ वायुरुवाच प्रवक्तुमंजसा ऽशक्यः तादृशः परमो रसः ॥ ७.१,२७.३ येन प्रणयगर्भेण भावो भाववतां हृतः ॥ ७.१,२७.३ द्वास्थैस्ससंभ्रमैरेव देवो देव्यागमोत्सुकः ॥ ७.१,२७.४ शंकमाना प्रविष्टान्तस्तञ्च सा समपश्यत ॥ ७.१,२७.४ तैस्तैः प्रणयभावैश्च भवनान्तरवर्तिभिः ॥ ७.१,२७.५ गणेन्द्रैर्वन्दिता वाचा प्रणनाम त्रियम्बकम् ॥ ७.१,२७.५ प्रणम्य नोत्थिता यावत्तावत्तां परमेश्वरः ॥ ७.१,२७.६ प्रगृह्य दोर्भ्यामाश्लिष्य परितः परया मुदा ॥ ७.१,२७.६ स्वांके धर्तुं प्रवृत्तो ऽपि सा पर्यंके न्यषीदत ॥ ७.१,२७.७ पर्यंकतो बलाद्देवीं सोङ्कमारोप्य सुस्मिताम् ॥ ७.१,२७.७ सस्मितो विवृतैर्नेत्रैस्तद्वक्त्रं प्रपिबन्निव ॥ ७.१,२७.८ तया संभाषणायेशः पूर्वभाषितमब्रवीत् ॥ ७.१,२७.८ देवदेव उवाच सा दशा च व्यतीता किं तव सर्वांगसुन्दरि ॥ ७.१,२७.९ यस्यामनुनयोपायः को ऽपि कोपान्न लभ्यते ॥ ७.१,२७.९ स्वेच्छयापि न कालीति नान्यवर्णवतीति च ॥ ७.१,२७.१० त्वत्स्वभावाहृतं चित्तं सुभ्रु चिंतावहं मम ॥ ७.१,२७.१० विस्मृतः परमो भावः कथं स्वेच्छांगयोगतः ॥ ७.१,२७.११ न सम्भवन्ति ये तत्र चित्तकालुष्यहेतवः ॥ ७.१,२७.११ पृथग्जनवदन्योन्यं विप्रियस्यापि कारणम् ॥ ७.१,२७.१२ आवयोरपि यद्यस्ति नास्त्येवैतच्चराचरम् ॥ ७.१,२७.१२ अहमग्निशिरोनिष्ठस्त्वं सोमशिरसि स्थिता ॥ ७.१,२७.१३ अग्नीषोमात्मकं विश्वमावाभ्यां समधिष्ठितम् ॥ ७.१,२७.१३ जगद्धिताय चरतोः स्वेच्छाधृतशरीरयोः ॥ ७.१,२७.१४ आवयोर्विप्रयोगे हि स्यान्निरालम्बनं जगत् ॥ ७.१,२७.१४ अस्ति हेत्वन्तरं चात्र शास्त्रयुक्तिविनिश्चितम् ॥ ७.१,२७.१५ वागर्थमिव मे वैतज्जगत्स्थावरजंगमम् ॥ ७.१,२७.१५ त्वं हि वागमृतं साक्षादहमर्थामृतं परम् ॥ ७.१,२७.१६ द्वयमप्यमृतं कस्माद्वियुक्तमुपपद्यते ॥ ७.१,२७.१६ ५३२ विद्याप्रत्यायिका त्वं मे वेद्यो ऽहं प्रत्ययात्तव ॥ ७.१,२७.१७ विद्यावेद्यात्मनोरेव विश्लेषः कथमावयोः ॥ ७.१,२७.१७ न कर्मणा सृजामीदं जगत्प्रतिसृजामि च ॥ ७.१,२७.१८ सर्वस्याज्ञैकलभ्यत्वादाज्ञात्वं हि गरीयसी ॥ ७.१,२७.१८ आज्ञैकसारमैश्वर्यं यस्मात्स्वातंत्र्यलक्षणम् ॥ ७.१,२७.१९ आज्ञया विप्रयुक्तस्य चैश्वर्यं मम कीदृशम् ॥ ७.१,२७.१९ न कदाचिदवस्थानमावयोर्विप्रयुक्तयोः ॥ ७.१,२७.२० देवानां कार्यमुद्दिश्य लीलोक्तिं कृतवानहम् ॥ ७.१,२७.२० त्वयाप्यविदितं नास्ति कथं कुपितवत्यसि ॥ ७.१,२७.२१ ततस्त्रिलोकरक्षार्थे कोपो मय्यपि ते कृतः ॥ ७.१,२७.२१ यदनर्थाय भूतानां न तदस्ति खलु त्वयि ॥ ७.१,२७.२२ इति प्रियंवदे साक्षादीश्वरे परमेश्वरे ॥ ७.१,२७.२२ शृंगारभावसाराणां जन्मभूमिरकृत्रिमा ॥ ७.१,२७.२३ स्वभर्त्रा ललितन्तथ्यमुक्तं मत्वा स्मितोत्तरम् ॥ ७.१,२७.२३ लज्जया न किमप्यूचे कौशिकी वर्णनात्परम् ॥ ७.१,२७.२४ तदेव वर्णयाम्यद्य शृणु देव्याश्च वर्णनम् ॥ ७.१,२७.२४ देव्युवाच किं देवेन न सा दृष्टा या सृष्टा कौशिकी मया ॥ ७.१,२७.२५ तादृशी कन्यका लोके न भूता न भविष्यति ॥ ७.१,२७.२५ तस्या वीर्यं बलं विन्ध्यनिलयं विजयं तथा ॥ ७.१,२७.२६ शुंभस्य च निशुंभस्य मारणे च रणे तयोः ॥ ७.१,२७.२६ प्रत्यक्षफलदानं च लोकाय भजते सदा ॥ ७.१,२७.२७ लोकानां रक्षणं शश्वद्ब्रह्मा विज्ञापयिष्यति ॥ ७.१,२७.२७ इति संभाषमाणाया देव्या एवाज्ञया तदा ॥ ७.१,२७.२८ व्याघ्रः सख्या समानीय पुरो ऽवस्थापितस्तदा ॥ ७.१,२७.२८ तं प्रेक्ष्याह पुनर्देवी देवानीतमुपायतम् ॥ ७.१,२७.२९ व्याघ्रं पश्य न चानेन सदृशो मदुपासकः ॥ ७.१,२७.२९ अनेन दुष्टसंघेभ्यो रक्षितं मत्तपोवनम् ॥ ७.१,२७.३० अतीव मम भक्तश्च विश्रब्धश्च स्वरक्षणात् ॥ ७.१,२७.३० स्वदेशं च परित्यज्य प्रसादार्थं समागतः ॥ ७.१,२७.३१ यदि प्रीतिरभून्मत्तः परां प्रीतिं करोषि मे ॥ ७.१,२७.३१ नित्यमन्तःपुरद्वारि नियोगान्नन्दिनः स्वयम् ॥ ७.१,२७.३२ रक्षिभिस्सह तच्चिह्नैर्वर्ततामयमीश्वर ॥ ७.१,२७.३२ वायुरुवाच मधुरं प्रणयोदर्कं श्रुत्वा देव्याः शुभं वचः ॥ ७.१,२७.३३ प्रीतो ऽस्मीत्याह तं देवस्स चादृश्यत तत्क्षणात् ॥ ७.१,२७.३३ बिभ्रद्वेत्रलतां हैमीं रत्नचित्रं च कंचुकम् ॥ ७.१,२७.३४ छुरिकामुरगप्रख्यां गणेशो रक्षवेषधृक् ॥ ७.१,२७.३४ यस्मात्सोमो महादेवो नन्दी चानेन नन्दितः ॥ ७.१,२७.३५ सोमनन्दीति विख्यातस्तस्मादेष समाख्यया ॥ ७.१,२७.३५ इत्थं देव्याः प्रियं कृत्वा देवश्चर्धेन्दुभूषणः ॥ ७.१,२७.३६ भूषयामास तन्दिव्यैर्भूषणै रत्नभूषितैः ॥ ७.१,२७.३६ ततस्स गौरीं गिरिशो गिरीन्द्रजां सगौरवां सर्वमनोहरां हरः ॥ ७.१,२७.३७ पर्यंकमारोप्य वरांगभूषणैर्विभूषयामास शशांकभूषणः ॥ ७.१,२७.३७ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे सप्तविंशो ऽध्यायः अध्याय २८ ऋषय ऊचुः देवीं समादधानेन देवेनेदं किमीरितम् ॥ ७.१,२८.१ अग्निषोमात्मकं विश्वं वागर्थात्मकमित्यपि ॥ ७.१,२८.१ आज्ञैकसारमैश्वर्यमाज्ञा त्वमिति चोदितम् ॥ ७.१,२८.२ तदिदं श्रोतुमिच्छामो यथावदनुपूर्वशः ॥ ७.१,२८.२ वायुरुवाच अग्निरित्युच्यते रौद्री घोरा या तैजसी तनुः ॥ ७.१,२८.३ सोमः शाक्तो ऽमृतमयः शक्तेः शान्तिकरी तनुः ॥ ७.१,२८.३ अमृतं यत्प्रतिष्ठा सा तेजो विद्या कला स्वयम् ॥ ७.१,२८.४ भूतसूक्ष्मेषु सर्वेषु त एव रसतेजसी ॥ ७.१,२८.४ द्विविधा तेजसो वृत्तिसूर्यात्मा चानलात्मिका ॥ ७.१,२८.५ तथैव रसवृत्तिश्च सोमात्मा च जलात्मिका ॥ ७.१,२८.५ विद्युदादिमयन्तेजो मधुरादिमयो रसः ॥ ७.१,२८.६ तेजोरसविभेदैस्तु धृतमेतच्चराचरम् ॥ ७.१,२८.६ अग्नेरमृतनिष्पत्तिरमृतेनाग्निरेधते ॥ ७.१,२८.७ अत एव हि विक्रान्तमग्नीषोमं जगद्धितम् ॥ ७.१,२८.७ हविषे सस्यसम्पत्तिर्वृष्टिः सस्याभिवृद्धये ॥ ७.१,२८.८ वृष्टेरेव हविस्तस्मादग्नीषोमधृतं जगत् ॥ ७.१,२८.८ अग्निरूर्ध्वं ज्वलत्येष यावत्सौम्यं परामृतम् ॥ ७.१,२८.९ यावदग्न्यास्पदं सौम्यममृतं च स्रवत्यधः ॥ ७.१,२८.९ अत एव हि कालाग्निरधस्ताच्छक्तिरूर्ध्वतः ॥ ७.१,२८.१० यावदादहनं चोर्ध्वमधश्चाप्लावनं भवेत् ॥ ७.१,२८.१० आधारशक्त्यैव धृतः कालाग्निरयमूर्ध्वगः ॥ ७.१,२८.११ तथैव निम्नगः सोमश्शिवशक्तिपदास्पदः ॥ ७.१,२८.११ शिवश्चोर्ध्वमधश्शक्तिरूर्ध्वं शक्तिरधः शिवः ॥ ७.१,२८.१२ तदित्थं शिवशक्तिभ्यान्नाव्याप्तमिह किञ्चन ॥ ७.१,२८.१२ असकृच्चाग्निना दग्धं जगद्यद्भस्मसात्कृतम् ॥ ७.१,२८.१३ अग्नेर्वीर्यमिदं चाहुस्तद्वीर्यं भस्म यत्ततः ॥ ७.१,२८.१३ यश्चेत्थं भस्मसद्भावं ज्ञात्वा स्नाति च भस्मना ॥ ७.१,२८.१४ अग्निरित्यादिभिर्मन्त्रैर्बद्धः पाशात्प्रमुच्यते ॥ ७.१,२८.१४ अग्नेर्वीर्यं तु यद्भस्म सोमेनाप्लावितम्पुनः ॥ ७.१,२८.१५ अयोगयुक्त्या प्रकृतेरधिकाराय कल्पते ॥ ७.१,२८.१५ योगयुक्त्या तु तद्भस्म प्लाव्यमानं समन्ततः ॥ ७.१,२८.१६ शाक्तेनामृतवर्षेण चाधिकारान्निवर्तयेत् ॥ ७.१,२८.१६ अतो मृत्युंजयायेत्थममृतप्लावनं सदा ॥ ७.१,२८.१७ शिवशक्त्यमृतस्पर्शे लब्धं येन कुतो मृतिः ॥ ७.१,२८.१७ यो वेद दहनं गुह्यं प्लावनं च यथोदितम् ॥ ७.१,२८.१८ अग्नीषोमपदं हित्वा न स भूयो ऽभिजायते ॥ ७.१,२८.१८ शिवाग्निना तनुं दग्ध्वा शक्तिसौम्या मृतेन यः ॥ ७.१,२८.१९ प्लावयेद्योगमार्गेण सो ऽमृतत्वाय कल्पते ॥ ७.१,२८.१९ हृदि कृत्वेममर्थं वै देवेन समुदाहृतम् ॥ ७.१,२८.२० अग्नीषोमात्मकं विश्वं जगदित्यनुरूपतः ॥ ७.१,२८.२० ५३३ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे भस्मतत्त्ववर्णनं नामाष्टाविंशो ऽध्यायः अध्याय २९ वायुरुवाच निवेदयामि जगतो वागर्थात्म्यं कृतं यथा ॥ ७.१,२९.१ षडध्ववेदनं सम्यक्समासान्न तु विस्तरात् ॥ ७.१,२९.१ नास्ति कश्चिदशब्दार्थो नापि शब्दो निरर्थकः ॥ ७.१,२९.२ ततो हि समये शब्दस्सर्वस्सर्वार्थबोधकः ॥ ७.१,२९.२ प्रकृतेः परिणामो ऽयं द्विधा शब्दार्थभावना ॥ ७.१,२९.३ तामाहुः प्राकृतीं मूर्तिं शिवयोः परमात्मनोः ॥ ७.१,२९.३ शब्दात्मिका विभूतिर्या सा त्रिधा कथ्यते बुधैः ॥ ७.१,२९.४ स्थूला सूक्ष्मा परा चेति स्थूला या श्रुतिगोचरा ॥ ७.१,२९.४ सूक्ष्मा चिन्तामयी प्रोक्ता चिंतया रहिता परा ॥ ७.१,२९.५ या शक्तिः सा परा शक्तिश्शिवतत्त्वसमाश्रया ॥ ७.१,२९.५ ज्ञानशक्तिसमायोगादिच्छोपोद्बलिका तथा ॥ ७.१,२९.६ सर्वशक्तिसमष्ट्यात्मा शक्तितत्त्वसमाख्यया ॥ ७.१,२९.६ समस्तकार्यजातस्य मूलप्रकृतितां गता ॥ ७.१,२९.७ सैव कुण्डलिनी माया शुद्धाध्वपरमा सती ॥ ७.१,२९.७ सा विभागस्वरूपैव षडध्वात्मा विजृंभते ॥ ७.१,२९.८ तत्र शब्दास्त्रयो ऽध्वानस्त्रयश्चार्थाः समीरिताः ॥ ७.१,२९.८ सर्वेषामपि वै पुंसां नैजशुद्ध्यनुरूपतः ॥ ७.१,२९.९ लयभोगाधिकारास्स्युस्सर्वतत्त्वविभागतः ॥ ७.१,२९.९ कलाभिस्तानि तत्त्वानि व्याप्तान्येव यथातथम् ॥ ७.१,२९.१० परस्याः प्रकृतेरादौ पञ्चधा परिणामतः ॥ ७.१,२९.१० कलाश्च ता निवृत्त्याद्याः पर्याप्ता इति निश्चयः ॥ ७.१,२९.११ मंत्राध्वा च पदाध्वा च वर्णाध्वा चेति शब्दतः ॥ ७.१,२९.११ भुवनाध्वा च तत्त्वाध्वा कलाध्वा चार्थतः क्रमात् ॥ ७.१,२९.१२ अत्रान्योन्यं च सर्वेषां व्याप्यव्यापकतोच्यते ॥ ७.१,२९.१२ मंत्राः सर्वैः पदैर्व्याप्ता वाक्यभावात्पदानि च ॥ ७.१,२९.१३ वर्णैर्वर्णसमूहं हि पदमाहुर्विपश्चितः ॥ ७.१,२९.१३ वर्णास्तु भुवनैर्व्याप्तास्तेषां तेषूपलंभनात् ॥ ७.१,२९.१४ भुवनान्यपि तत्त्वौघैरुत्पत्त्यांतर्बहिष्क्रमात् ॥ ७.१,२९.१४ व्याप्तानि कारणैस्तत्त्वैरारब्धत्वादनेकशः ॥ ७.१,२९.१५ अंतरादुत्थितानीह भुवनानि तु कानिचित् ॥ ७.१,२९.१५ पौराणिकानि चान्यानि विज्ञेयानि शिवागमे ॥ ७.१,२९.१६ सांख्ययोगप्रसिद्धानि तत्त्वान्यपि च कानिचित् ॥ ७.१,२९.१६ शिवशास्त्रप्रसिद्धानि ततोन्यान्यपि कृत्स्नशः ॥ ७.१,२९.१७ कलाभिस्तानि तत्त्वानि व्याप्तान्येव यथातथम् ॥ ७.१,२९.१७ परस्याः प्रकृतेरादौ पञ्चधा परिणामतः ॥ ७.१,२९.१८ कलाश्च ता निवृत्त्याद्या व्याप्ताः पञ्च यथोत्तरम् ॥ ७.१,२९.१८ व्यापिकातः परा शक्तिरविभक्ता षडध्वनाम् ॥ ७.१,२९.१९ परप्रकृतिभावस्य तत्सत्त्वाच्छिवतत्त्वतः ॥ ७.१,२९.१९ शक्त्यादि च पृथिव्यन्तं शिवतत्त्वसमुद्भवम् ॥ ७.१,२९.२० व्याप्तमेकेन तेनैव मृदा कुंभादिकं यथा ॥ ७.१,२९.२० शैवं तत्परमं धाम यत्प्राप्यं षड्भिरध्वभिः ॥ ७.१,२९.२१ ५३३ व्यापिका ऽव्यापिका शक्तिः पञ्चतत्त्वविशोधनात् ॥ ७.१,२९.२१ निवृत्त्या रुद्रपर्यन्तं स्थितिरण्डस्य शोध्यते ॥ ७.१,२९.२२ प्रतिष्ठया तदूर्ध्वं तु यावदव्यक्तगोचरम् ॥ ७.१,२९.२२ तदूर्ध्वं विद्यया मध्ये यावद्विश्वेश्वरावधि ॥ ७.१,२९.२३ शान्त्या तदूर्ध्वं मध्वान्ते विशुद्धिः शान्त्यतीतया ॥ ७.१,२९.२३ यामाहुः परमं व्योम परप्रकृतियोगतः ॥ ७.१,२९.२४ एतानि पञ्चतत्त्वानि यैर्व्याप्तमखिलं जगत् ॥ ७.१,२९.२४ तत्रैव सर्वमेवेदं द्रष्टव्यं खलु साधकैः ॥ ७.१,२९.२५ अध्वव्याप्तिमविज्ञाय शुद्धिं यः कर्तुमिच्छति ॥ ७.१,२९.२५ स विप्रलम्भकः शुद्धेर्नालम्प्रापयितुं फलम् ॥ ७.१,२९.२६ वृथा परिश्रमस्तस्य निरयायैव केवलम् ॥ ७.१,२९.२६ शक्तिपातसमायोगादृते तत्त्वानि तत्त्वतः ॥ ७.१,२९.२७ तद्व्याप्तिस्तद्विवृद्धिश्च ज्ञातुमेवं न शक्यते ॥ ७.१,२९.२७ शक्तिराज्ञा परा शैवी चिद्रूपा मरमेश्वरी ॥ ७.१,२९.२८ शिवो ऽधितिष्ठत्यखिलं यया कारणभूतया ॥ ७.१,२९.२८ नात्मनो नैव मायैषा न विकारो विचारतः ॥ ७.१,२९.२९ न बंधो नापि मुक्तिश्च बंधमुक्तिविधायिनी ॥ ७.१,२९.२९ सर्वैश्वर्यपराकाष्टा शिवस्य व्यभिचारिणी ॥ ७.१,२९.३० समानधर्मिणी तस्य तैस्तैर्भावैर्विशेषतः ॥ ७.१,२९.३० स तयैव गृही सापि तेनैव गृहिणी सदा ॥ ७.१,२९.३१ तयोरपत्यं यत्कार्यं परप्रकृतिजं जगत् ॥ ७.१,२९.३१ स कर्ता कारणं सेति तयोर्भेदो व्यवस्थितः ॥ ७.१,२९.३२ एक एव शिवः साक्षाद्द्विधा ऽसौ समवस्थितः ॥ ७.१,२९.३२ स्त्रीपुंसभावेन तयोर्भेद इत्यपि केचन ॥ ७.१,२९.३३ अपरे तु परा शक्तिः शिवस्य समवायिनी ॥ ७.१,२९.३३ प्रभेव भानोश्चिद्रूपा भिन्नैवेति व्यवस्थितः ॥ ७.१,२९.३४ तस्माच्छिवः परो हेतुस्तस्याज्ञा परमेश्वरी ॥ ७.१,२९.३४ तयैव प्रेरिता शैवी मूलप्रकृतिरव्यया ॥ ७.१,२९.३५ महामाया च माया च प्रकृतिस्त्रिगुणेति च ॥ ७.१,२९.३५ त्रिविधा कार्यवेधेन सा प्रसूते षडध्वनः ॥ ७.१,२९.३६ स वागर्थमयश्चाध्वा षड्विधो निखिलं जगत् ॥ ७.१,२९.३६ अस्यैव विस्तरं प्राहुः शास्त्रजातमशेषतः ॥ ७.१,२९.३७ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे वागर्थकतत्त्ववर्णनं नामैकोनत्रिंशो ऽध्यायः अध्याय ३० ऋषय ऊचुः चरितानि विचित्राणि गृह्याणि गहनानि च ॥ ७.१,३०.१ दुर्विज्ञेयानि देवैश्च मोहयंति मनांसि नः ॥ ७.१,३०.१ शिवयोस्तत्त्वसम्बन्धे न दोष उपलभ्यते ॥ ७.१,३०.२ चरितैः प्राकृतो भावस्तयोरपि विभाव्यते ॥ ७.१,३०.२ ब्रह्मादयो ऽपि लोकानां सृष्टिस्थित्यन्तहेतवः ॥ ७.१,३०.३ निग्रहानुग्रहौ प्राप्य शिवस्य वशवर्तिनः ॥ ७.१,३०.३ शिवः पुनर्न कस्यापि निग्रहानुग्रहास्पदम् ॥ ७.१,३०.४ अतो ऽनायत्तमैश्वर्यं तस्यैवेति विनिश्चितम् ॥ ७.१,३०.४ ५३४ यद्येवमीदृशैश्वर्यं तत्तु स्वातन्त्र्यलक्षणम् ॥ ७.१,३०.५ स्वभावसिद्धं चैतस्य मूर्तिमत्तास्पदं भवेत् ॥ ७.१,३०.५ न मूर्तिश्च स्वतंत्रस्य घटते मूलहेतुना ॥ ७.१,३०.६ मूर्तेरपि च कार्यत्वात्तत्सिद्धिः स्यादहैतुकी ॥ ७.१,३०.६ सर्वत्र परमो भावो ऽपरमश्चान्य उच्यते ॥ ७.१,३०.७ परमापरमौ भावौ कथमेकत्र संगतौ ॥ ७.१,३०.७ निष्फलो हि स्वभावो ऽस्य परमः परमात्मनः ॥ ७.१,३०.८ स एव सकलः कस्मात्स्वभावो ह्यविपर्ययः ॥ ७.१,३०.८ स्वभावो विपरीतश्चेत्स्वतंत्रः स्वेच्छया यदि ॥ ७.१,३०.९ न करोति किमीशानो नित्यानित्यविपर्ययम् ॥ ७.१,३०.९ मूर्तात्मा सकलः कश्चित्स चान्यो निष्फलः शिवः ॥ ७.१,३०.१० शिवेनाधिष्ठितश्चेति सर्वत्र लघु कथ्यते ॥ ७.१,३०.१० मूर्त्यात्मैव तदा मूर्तिः शिवस्यास्य भवेदिति ॥ ७.१,३०.११ तस्य मूर्तौ मूर्तिमतोः पारतंत्र्यं हि निश्चितम् ॥ ७.१,३०.११ अन्यथा निरपेक्षेण मूर्तिः स्वीक्रियते कथम् ॥ ७.१,३०.१२ मूर्तिस्वीकरणं तस्मान्मूर्तौ साध्यफलेप्सया ॥ ७.१,३०.१२ न हि स्वेच्छाशरीरत्वं स्वातंत्र्यायोपपद्यते ॥ ७.१,३०.१३ स्वेच्छैव तादृशी पुंसां यस्मात्कर्मानुसारिणी ॥ ७.१,३०.१३ स्वीकर्तुं स्वेच्छया देहं हातुं च प्रभवन्त्युत ॥ ७.१,३०.१४ ब्रह्मादयः पिशाचांताः किं ते कर्मातिवर्तिनः ॥ ७.१,३०.१४ इच्छया देहनिर्माणमिन्द्रजालोपमं विदुः ॥ ७.१,३०.१५ अणिमादिगुणैश्वर्यवशीकारानतिक्रमात् ॥ ७.१,३०.१५ विश्वरूपं दधद्विष्णुर्दधीचेन महर्षिणा ॥ ७.१,३०.१६ युध्यता समुपालब्धस्तद्रूपं दधता स्वयम् ॥ ७.१,३०.१६ सर्वस्मादधिकस्यापि शिवस्य परमात्मनः ॥ ७.१,३०.१७ शरीरवत्तयान्यात्मसाधर्म्यं प्रतिभाति नः ॥ ७.१,३०.१७ सर्वानुग्राहकं प्राहुश्शिवं परमकारणम् ॥ ७.१,३०.१८ स निर्गृह्णाति देवानां सर्वानुग्राहकः कथम् ॥ ७.१,३०.१८ चिच्छेद बहुशो देवो ब्रह्मणः पञ्चमं शिरः ॥ ७.१,३०.१९ शिवनिन्दां प्रकुर्वंतं पुत्रेति कुमतेर्हठात् ॥ ७.१,३०.१९ विष्णोरपि नृसिंहस्य रभसा शरभाकृतिः ॥ ७.१,३०.२० बिभेद पद्भ्यामाक्रम्य हृदयं नखरैः खरैः ॥ ७.१,३०.२० देवस्त्रीषु च देवेषु दक्षस्याध्वरकारणात् ॥ ७.१,३०.२१ वीरेण वीरभद्रेण न हि कश्चिददण्डितः ॥ ७.१,३०.२१ पुरत्रयं च सस्त्रीकं सदैत्यं सह बालकैः ॥ ७.१,३०.२२ क्षणेनैकेन देवेन नेत्राग्नेरिंधनीकृतम् ॥ ७.१,३०.२२ प्रजानां रतिहेतुश्च कामो रतिपतिस्स्वयम् ॥ ७.१,३०.२३ क्रोशतामेव देवानां हुतो नेत्रहुताशने ॥ ७.१,३०.२३ गावश्च कश्चिद्दुग्धौघं स्रवन्त्यो मूर्ध्नि खेचराः ॥ ७.१,३०.२४ सरुषा प्रेक्ष्य देवेन तत्क्षणे भस्मसात्कृतः ॥ ७.१,३०.२४ जलंधरासुरो दीर्णश्चक्रीकृत्य जलं पदा ॥ ७.१,३०.२५ बद्ध्वानंतेन यो विष्णुं चिक्षेप शतयोजनम् ॥ ७.१,३०.२५ तमेव जलसंधायी शूलेनैव जघान सः ॥ ७.१,३०.२६ तच्चक्रं तपसा लब्ध्वा लब्धवीर्यो हरिस्सदा ॥ ७.१,३०.२६ ५३४ जिघांसतां सुरारीणां कुलं निर्घृणचेतसाम् ॥ ७.१,३०.२७ त्रिशूलेनान्धकस्योरः शिखिनैवोपतापितम् ॥ ७.१,३०.२७ कण्ठात्कालांगनां सृष्ट्वा दारको ऽपि निपातितः ॥ ७.१,३०.२८ कौशिकीं जनयित्वा तु गौर्यास्त्वक्कोशगोचराम् ॥ ७.१,३०.२८ शुंभस्सह निशुंभेन प्रापितो मरणं रणे ॥ ७.१,३०.२९ श्रुतं च महदाख्यानं स्कान्दे स्कन्दसमाश्रयम् ॥ ७.१,३०.२९ वधार्थे तारकाख्यस्य दैत्येन्द्रस्येन्द्रविद्विषः ॥ ७.१,३०.३० ब्रह्मणाभ्यर्थितो देवो मन्दरान्तःपुरं गतः ॥ ७.१,३०.३० विहृत्य सुचिरं देव्या विहारा ऽतिप्रसङ्गतः ॥ ७.१,३०.३१ रसां रसातलं नीतामिव कृत्वाभिधां ततः ॥ ७.१,३०.३१ देवीं च वंचयंस्तस्यां स्ववीर्यमतिदुर्वहम् ॥ ७.१,३०.३२ अविसृज्य विसृज्याग्नौ हविः पूतमिवामृतम् ॥ ७.१,३०.३२ गंगादिष्वपि निक्षिप्य वह्निद्वारा तदंशतः ॥ ७.१,३०.३३ तत्समाहृत्य शनकैस्तोकंस्तोकमितस्ततः ॥ ७.१,३०.३३ स्वाहया कृत्तिकारूपात्स्वभर्त्रा रममाणया ॥ ७.१,३०.३४ सुवर्णीभूतया न्यस्तं मेरौ शरवणे क्वचित् ॥ ७.१,३०.३४ संदीपयित्वा कालेन तस्य भासा दिशो दश ॥ ७.१,३०.३५ रञ्जयित्वा गिरीन्सर्वान्कांचनीकृत्य मेरुणा ॥ ७.१,३०.३५ ततश्चिरेण कालेन संजाते तत्र तेजसि ॥ ७.१,३०.३६ कुमारे सुकुमारांगे कुमाराणां निदर्शने ॥ ७.१,३०.३६ तच्छैशवं स्वरूपं च तस्य दृष्ट्वा मनोहरम् ॥ ७.१,३०.३७ सह देवसुरैर्लोकैर्विस्मिते च विमोहिते ॥ ७.१,३०.३७ देवो ऽपि स्वयमायातः पुत्रदर्शनलालसः ॥ ७.१,३०.३८ सह देव्यांकमारोप्य ततो ऽस्य स्मेरमाननम् ॥ ७.१,३०.३८ पीतामृतमिव स्नेहविवशेनान्तरात्मना ॥ ७.१,३०.३९ देवेष्वपि च पश्यत्सु वीतरागैस्तपस्विभिः ॥ ७.१,३०.३९ स्वस्य वक्षःस्थले स्वैरं नर्तयित्वा कुमारकम् ॥ ७.१,३०.४० अनुभूय च तत्क्रीडां संभाव्य च परस्परम् ॥ ७.१,३०.४० स्तन्यमाज्ञापयन्देव्याः पाययित्वामृतोपमम् ॥ ७.१,३०.४१ तवावतारो जगतां हितायेत्यनुशास्य च ॥ ७.१,३०.४१ स्वयन्देवश्च देवी च न तृप्तिमुपजग्मतुः ॥ ७.१,३०.४२ ततः शक्रेण संधाय बिभ्यता तारकासुरात् ॥ ७.१,३०.४२ कारयित्वाभिषेकं च सेनापत्ये दिवौकसाम् ॥ ७.१,३०.४३ पुत्रमन्तरतः कृत्वा देवेन त्रिपुरद्विषा ॥ ७.१,३०.४३ स्वयमंतर्हितेनैव स्कन्दमिन्द्रादिरक्षितम् ॥ ७.१,३०.४४ तच्छक्त्या क्रौञ्चभेदिन्या युधि कालाग्निकल्पया ॥ ७.१,३०.४४ छेदितं तारकस्यापि शिरश्शक्रभिया सह ॥ ७.१,३०.४५ स्तुतिं चक्रुर्विशेषेण हरिधातृमुखाः सुराः ॥ ७.१,३०.४५ तथा रक्षोधिपः साक्षाद्रावणो बलगर्वितः ॥ ७.१,३०.४६ उद्धरन्स्वभुजैर्दीर्घैः कैलासं गिरिमात्मनः ॥ ७.१,३०.४६ तदागो ऽसहमानस्य देवदेवस्य शूलिनः ॥ ७.१,३०.४७ पदांगुष्ठपरिस्पन्दान्ममज्ज मृदितो भुवि ॥ ७.१,३०.४७ बटोः केनचिदर्थेन स्वाश्रितस्य गतायुषः ॥ ७.१,३०.४८ ५३५ त्वरयागत्य देवेन पादांतं गमितोन्तकः ॥ ७.१,३०.४८ स्ववाहनमविज्ञाय वृषेन्द्रं वडवानलः ॥ ७.१,३०.४९ सगलग्रहमानीतस्ततो ऽस्त्येकोदकं जगत् ॥ ७.१,३०.४९ अलोकविदितैस्तैस्तैर्वृत्तैरानन्दसुन्दरैः ॥ ७.१,३०.५० अंगहारस्वसेनेदमसकृच्चालितं जगत् ॥ ७.१,३०.५० शान्त एव सदा सर्वमनुगृह्णाति चेच्छिवः ॥ ७.१,३०.५१ सर्वाणि पूरयेदेव कथं शक्तेन मोचयेत् ॥ ७.१,३०.५१ अनादिकर्म वैचित्र्यमपि नात्र नियामकम् ॥ ७.१,३०.५२ कारणं खलु कर्मापि भवेदीश्वरकारितम् ॥ ७.१,३०.५२ किमत्र बहुनोक्तेन नास्तिक्यं हेतुकारकम् ॥ ७.१,३०.५३ यथा ह्याशु निवर्तेत तथा कथय मारुत ॥ ७.१,३०.५३ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे शिवतत्त्वप्रश्नो नाम त्रिंशो ऽध्यायः अध्याय ३१ वायुरुवाच स्थने संशयितं विप्रा भवद्भिर्हेतुचोदितैः ॥ ७.१,३१.१ जिज्ञासा हि न नास्तिक्यं साधयेत्साधुबुद्धिषु ॥ ७.१,३१.१ प्रमणमत्र वक्ष्यामि सताम्मोहनिवर्तकम् ॥ ७.१,३१.२ असतां त्वन्यथाभावः प्रसादेन विना प्रभोः ॥ ७.१,३१.२ शिवस्य परिपूर्णस्य परानुग्रहमन्तरा ॥ ७.१,३१.३ न किंचिदपि कर्तव्यमिति साधु विनिश्चितम् ॥ ७.१,३१.३ स्वभाव एव पर्याप्तः परानुग्रहकर्मणि ॥ ७.१,३१.४ अन्यथा निस्स्वभवेन न किमप्यनुगृह्यते ॥ ७.१,३१.४ परं सर्वमनुग्राह्यं पशुपाशात्मकं जगत् ॥ ७.१,३१.५ परस्यानुग्रहार्थं तु पत्युराज्ञासमन्वयः ॥ ७.१,३१.५ पतिराज्ञापकः सर्वमनुगृह्णाति सर्वदा ॥ ७.१,३१.६ तदर्थमर्थस्वीकारे परतंत्रः कथं शिवः ॥ ७.१,३१.६ अनुग्राह्यनपेक्षो ऽस्ति न हि कश्चिदनुग्रहः ॥ ७.१,३१.७ अतः स्वातन्त्र्यशब्दार्थाननपेक्षत्वलक्षणः ॥ ७.१,३१.७ एतत्पुनरनुग्राह्यं परतंत्रं तदिष्यते ॥ ७.१,३१.८ अनुग्रहादृते तस्य भुक्तिमुक्त्योरनन्वयात् ॥ ७.१,३१.८ मूर्तात्मनो ऽप्यनुग्राह्या शिवाज्ञाननिवर्तनात् ॥ ७.१,३१.९ अज्ञानाधिष्ठितं शम्भोर्न किंचिदिह विद्यते ॥ ७.१,३१.९ येनोपलभ्यते ऽस्माभिस्सकलेनापि निष्कलः ॥ ७.१,३१.१० स मूर्त्यात्मा शिवः शैवमूर्तिरित्युपचर्यते ॥ ७.१,३१.१० न ह्यसौ निष्कलः साक्षाच्छिवः परमकारणम् ॥ ७.१,३१.११ साकारेणानुभावेन केनाप्यनुपलक्षितः ॥ ७.१,३१.११ प्रमाणगम्यतामात्रं तत्स्वभावोपपादकम् ॥ ७.१,३१.१२ न तावतात्रोपेक्षाधीरुपलक्षणमंतरा ॥ ७.१,३१.१२ आत्मोपमोल्वणं साक्षान्मूर्तिरेव हि काचन ॥ ७.१,३१.१३ शिवस्य मूर्तिर्मूर्त्यात्मा परस्तस्योपलक्षणम् ॥ ७.१,३१.१३ यथा काष्ठेष्वनारूढो न वह्निरुपलभ्यते ॥ ७.१,३१.१४ एवं शिवो ऽपि मूर्त्यात्मन्यनारूढ इति स्थितिः ॥ ७.१,३१.१४ यथाग्निमानयेत्युक्ते ज्वलत्काष्ठादृते स्वयम् ॥ ७.१,३१.१५ नाग्निरानीयते तद्वत्पूज्यो मूर्त्यात्मना शिवः ॥ ७.१,३१.१५ अत एव हि पूजादौ मूर्त्यात्मपरिकल्पनम् ॥ ७.१,३१.१६ मूर्त्यात्मनि कृतं साक्षाच्छिव एव कृतं यतः ॥ ७.१,३१.१६ लिंगादावपि तत्कृत्यमर्चायां च विशेषतः ॥ ७.१,३१.१७ तत्तन्मूर्त्यात्मभावेन शिवो ऽस्माभिरुपास्यते ॥ ७.१,३१.१७ यथानुगृह्यते सो ऽपि मूर्त्यात्मा पारमेष्ठिना ॥ ७.१,३१.१८ तथा मूर्त्यात्मनिष्ठेन शिवेन पशवो वयम् ॥ ७.१,३१.१८ लोकानुग्रहणायैव शिवेन परमेष्ठिना ॥ ७.१,३१.१९ सदाशिवादयस्सर्वे मूर्त्यात्मनो ऽप्यधिष्ठिताः ॥ ७.१,३१.१९ आत्मनामेव भोगाय मोक्षाय च विशेषतः ॥ ७.१,३१.२० तत्त्वातत्त्वस्वरूपेषु मूर्त्यात्मसु शिवान्वयः ॥ ७.१,३१.२० भोगः कर्मविपाकात्मा सुखदुःखात्मको मतः ॥ ७.१,३१.२१ न च कर्म शिवो ऽस्तीति तस्य भोगः किमात्मकः ॥ ७.१,३१.२१ सर्वं शिवो ऽनुगृह्णाति न निगृह्णाति किंचन ॥ ७.१,३१.२२ निगृह्णतां तु ये दोषाश्शिवे तेषामसंभवात् ॥ ७.१,३१.२२ ये पुनर्निग्रहाः केचिद्ब्रह्मादिषु निदर्शिताः ॥ ७.१,३१.२३ ते ऽपि लोकहितायैव कृताः श्रीकण्ठमूर्तिना ॥ ७.१,३१.२३ ब्रह्माण्डस्याधिपत्यं हि श्रीकण्ठस्य न संशयः ॥ ७.१,३१.२४ श्रीकण्ठाख्यां शिवो मूर्तिं क्रीडतीमधितिष्ठति ॥ ७.१,३१.२४ सदोषा एव देवाद्या निगृहीता यथोदितम् ॥ ७.१,३१.२५ ततस्तेपि विपाप्मानः प्रजाश्चापि गतज्वराः ॥ ७.१,३१.२५ निग्रहो ऽपि स्वरूपेण विदुषां न जुगुप्सितः ॥ ७.१,३१.२६ अत एव हि दण्ड्येषु दण्डो राज्ञां प्रशस्यते ॥ ७.१,३१.२६ यत्सिद्धिरीश्वरत्वेन कार्यवर्गस्य कृत्स्नशः ॥ ७.१,३१.२७ न स चेदीशतां कुर्याज्जगतः कथमीश्वरः ॥ ७.१,३१.२७ ईशेच्छा च विधातृत्वं विधेराज्ञापनं परम् ॥ ७.१,३१.२८ आज्ञावश्यमिदं कुर्यान्न कुर्यादिति शासनम् ॥ ७.१,३१.२८ तच्छासनानुवर्तित्वं साधुभावस्य लक्षणम् ॥ ७.१,३१.२९ विपरीतसमाधोः स्यान्न सर्वं तत्तु दृश्यते ॥ ७.१,३१.२९ साधु संरक्षणीयं चेद्विनिवर्त्यमसाधु यत् ॥ ७.१,३१.३० निवर्तते च सामादेरंते दण्डो हि साधनम् ॥ ७.१,३१.३० हितार्थलक्षणं चेदं दण्डान्तमनुशासनम् ॥ ७.१,३१.३१ अतो यद्विपरीतं तदहितं संप्रचक्षते ॥ ७.१,३१.३१ हिते सदा निषण्णानामीश्वरस्य निदर्शनम् ॥ ७.१,३१.३२ स कथं दुष्यते सद्भिरसतामेव निग्रहात् ॥ ७.१,३१.३२ अयुक्तकारिणो लोके गर्हणीयाविवेकिता ॥ ७.१,३१.३३ यदुद्वेजयते लोकन्तदयुक्तं प्रचक्षते ॥ ७.१,३१.३३ सर्वो ऽपि निग्रहो लोके न च विद्वेषपूर्वकः ॥ ७.१,३१.३४ न हि द्वेष्टि पिता पुत्रं यो निगृह्याति शिक्षयेत् ॥ ७.१,३१.३४ माध्यस्थेनापि निग्राह्यान्यो निगृह्णाति मार्गतः ॥ ७.१,३१.३५ तस्याप्यवश्यं यत्किंचिन्नैर्घृण्यमनुवर्तते ॥ ७.१,३१.३५ अन्यथा न हिनस्त्येव सदोषानप्यसौ परान् ॥ ७.१,३१.३६ हिनस्ति चायमप्यज्ञान्परं माध्यस्थ्यमाचरन् ॥ ७.१,३१.३६ तस्माद्दुःखात्मिकां हिंसां कुर्वाणो यः सनिर्घृणः ॥ ७.१,३१.३७ ५३६ इति निर्बंधयंत्येके नियमो नेति चापरे ॥ ७.१,३१.३७ निदानज्ञस्य भिषजो रुग्णो हिंसां प्रयुंजतः ॥ ७.१,३१.३८ न किंचिदपि नैर्घृण्यं घृणैवात्र प्रयोजिका ॥ ७.१,३१.३८ घृणापि न गुणायैव हिंस्रेषु प्रतियोगिषु ॥ ७.१,३१.३९ तादृशेषु घृणी भ्रान्त्या घृणान्तरितनिर्घृणः ॥ ७.१,३१.३९ उपेक्षापीह दोषाह रक्ष्येषु प्रतियोगिषु ॥ ७.१,३१.४० शक्तौ सत्यामुपेक्षातो रक्ष्यस्सद्यो विपद्यते ॥ ७.१,३१.४० सर्पस्या"स्यगतम्पश्यन्यस्तु रक्ष्यमुपेक्षते ॥ ७.१,३१.४१ दोषाभासान्समुत्प्रेक्ष्य फलतः सो ऽपि निर्घृणः ॥ ७.१,३१.४१ तस्माद्घृणा गुणायैव सर्वथेति न संमतम् ॥ ७.१,३१.४२ संमतं प्राप्तकामित्वं सर्वं त्वन्यदसम्मतम् ॥ ७.१,३१.४२ मूर्त्यात्मस्वपि रागाद्या दोषाः सन्त्येव वस्तुतः ॥ ७.१,३१.४३ तथापि तेषामेवैते न शिवस्य तु सर्वथा ॥ ७.१,३१.४३ अग्नावपि समाविष्टं ताम्रं खलु सकालिकम् ॥ ७.१,३१.४३ इति नाग्निरसौ दुष्येत्ताम्रसंसर्गकारणात् ॥ ७.१,३१.४४ नाग्नेरशुचिसंसर्गादशुचित्वमपेक्षते ॥ ७.१,३१.४४ अशुचेस्त्वग्निसंयोगाच्छुचित्वमपि जायते ॥ ७.१,३१.४५ एवं शोध्यात्मसंसर्गान्न ह्यशुद्धः शिवो भवेत् ॥ ७.१,३१.४५ शिवसंसर्गतस्त्वेष शोध्यात्मैव हि शुध्यति ॥ ७.१,३१.४६ अयस्यग्नौ समाविष्टे दाहो ऽग्नेरेव नायसः ॥ ७.१,३१.४६ मूर्तात्मन्येवमैश्वर्यमीश्वरस्यैव नात्मनाम् ॥ ७.१,३१.४७ न हि काष्ठं ज्वलत्यूर्ध्वमग्निरेव ज्वलत्यसौ ॥ ७.१,३१.४७ काष्ठस्यांगारता नाग्नेरेवमत्रापि योज्यताम् ॥ ७.१,३१.४८ अत एव जगत्यस्मिन्काष्ठपाषाणमृत्स्वपि ॥ ७.१,३१.४८ शिवावेशवशादेव शिवत्वमुपचर्यते ॥ ७.१,३१.४९ मैत्र्यादयो गुणा गौणास्तस्मात्ते भिन्नवृत्तयः ॥ ७.१,३१.४९ तैर्गुणैरुपरक्तानां दोषाय च गुणाय च ॥ ७.१,३१.५० यत्तु गौणमगौणं च तत्सर्वमनुगृह्णतः ॥ ७.१,३१.५० न गुणाय न दोषाय शिवस्य गुणवृत्तयः ॥ ७.१,३१.५० न चानुग्रहशब्दार्थं गौणमाहुर्विपश्चितः ॥ ७.१,३१.५१ संसारमोचनं किं तु शैवमाज्ञामयं हितम् ॥ ७.१,३१.५१ हितं तदाज्ञाकरणं यद्धितं तदनुग्रहः ॥ ७.१,३१.५२ सर्वं हिते नियुञ्जावः सर्वानुग्रहकारकः ॥ ७.१,३१.५२ यस्तूपकारशब्दार्थस्तमप्याहुरनुग्रहम् ॥ ७.१,३१.५३ तस्यापि हितरूपत्वाच्छिवः सर्वोपकारकः ॥ ७.१,३१.५३ हिते सदा नियुक्तं तु सर्वं चिदचिदात्मकम् ॥ ७.१,३१.५४ स्वभावप्रतिबन्धं तत्समं न लभते हितम् ॥ ७.१,३१.५४ यथा विकासयत्येव रविः पद्मानि भानुभिः ॥ ७.१,३१.५५ समं न विकसन्त्येव स्वस्वभावानुरोधतः ॥ ७.१,३१.५५ स्वभावो ऽपि हि भावानां भाविनो ऽर्थस्य कारणम् ॥ ७.१,३१.५६ न हि स्वभावो नश्यन्तमर्थं कर्तृषु साधयेत् ॥ ७.१,३१.५६ सुवर्णमेव नांगारं द्रावयत्यग्निसंगमः ॥ ७.१,३१.५७ एवं पक्वमलानेव मोचयेन्न शिवपरान् ॥ ७.१,३१.५७ ५३६ यद्यथा भवितुं योग्यं तत्तथा न भवेत्स्वयम् ॥ ७.१,३१.५८ विना भावनया कर्ता स्वतन्त्रस्सन्ततो भवेत् ॥ ७.१,३१.५८ स्वभावविमलो यद्वत्सर्वानुग्राहकश्शिवः ॥ ७.१,३१.५९ स्वभावमलिनास्तद्वदात्मनो जीवसंज्ञिताः ॥ ७.१,३१.५९ अन्यथा संसरन्त्येते नियमान्न शिवः कथम् ॥ ७.१,३१.६० कर्ममायानुबन्धोस्य संसारः कथ्यते बुधैः ॥ ७.१,३१.६० अनुबन्धो ऽयमस्यैव न शिवस्येति हेतुमान् ॥ ७.१,३१.६१ स हेतुरात्मनामेव निजो नागन्तुको मलः ॥ ७.१,३१.६१ आगन्तुकत्वे कस्यापि भाव्यं केनापि हेतुना ॥ ७.१,३१.६२ यो ऽयं हेतुरसावेकस्त्वविचित्रस्वभावतः ॥ ७.१,३१.६२ आत्मतायाः समत्वे ऽपि बद्धा मुक्ताः परे यतः ॥ ७.१,३१.६३ बद्धेष्वेव पुनः केचिल्लयभोगाधिकारतः ॥ ७.१,३१.६३ ज्ञानैश्वर्यादिवैषम्यं भजन्ते सोत्तराधराः ॥ ७.१,३१.६४ केचिन्मूर्त्यात्मतां यान्ति केचिदासन्नगोचराः ॥ ७.१,३१.६४ मूर्त्यात्मसु शिवाः केचिदध्वनां मूर्धसु स्थिताः ॥ ७.१,३१.६५ मध्ये महेश्वरा रुद्रास्त्वर्वाचीनपदे स्थिताः ॥ ७.१,३१.६५ आसन्ने ऽपि च मायायाः परस्मात्कारणात्त्रयम् ॥ ७.१,३१.६६ तत्राप्यात्मा स्थितो ऽधस्तादन्तरात्मा च मध्यतः ॥ ७.१,३१.६६ परस्तात्परमात्मेति ब्रह्मविष्णुमहेश्वराः ॥ ७.१,३१.६७ वर्तन्ते वसवः केचित्परमात्मपदाश्रयाः ॥ ७.१,३१.६७ अन्तरात्मपदे केचित्केचिदात्मपदे तथा ॥ ७.१,३१.६८ शान्त्यतीतपदे शैवाः शान्ते माहेश्वरे ततः ॥ ७.१,३१.६८ विद्यायान्तु यथा रौद्राः प्रतिष्ठायां तु वैष्णवाः ॥ ७.१,३१.६९ निवृत्तौ च तथात्मानो ब्रह्मा ब्रह्मांगयोनयः ॥ ७.१,३१.६९ देवयोन्यष्टकं मुख्यं मानुष्यमथ मध्यमम् ॥ ७.१,३१.७० पक्ष्यादयो ऽधमाः पञ्चयोनयस्ताश्चतुर्दश ॥ ७.१,३१.७० उत्तराधरभावो ऽपि ज्ञेयस्संसारिणो मलः ॥ ७.१,३१.७१ यथामभावो मुक्तस्य पूर्वं पश्चात्तु पक्वता ॥ ७.१,३१.७१ मलो ऽप्यामश्च पक्वश्च भवेत्संसारकारणम् ॥ ७.१,३१.७२ आमे त्वधरता पुंसां पक्वे तूत्तरता क्रमात् ॥ ७.१,३१.७२ पश्वात्मानस्त्रिधाभिन्ना एकद्वित्रिमलाः क्रमात् ॥ ७.१,३१.७३ अत्रोत्तरा एकमला द्विमला मध्यमा मताः ॥ ७.१,३१.७३ त्रिमलास्त्वधमा ज्ञेया यथोत्तरमधिष्ठिताः ॥ ७.१,३१.७३ त्रिमलानधितिष्ठंति द्विमलैकमलाः क्रमात् ॥ ७.१,३१.७४ इत्थमौपाधिको भेदो विश्वस्य परिकल्पितः ॥ ७.१,३१.७४ एकद्वित्रिमलान्सर्वाञ्छिव एको ऽधितिष्ठति ॥ ७.१,३१.७५ अशिवात्मकमप्येतच्छिवेनाधिष्ठितं यथा ॥ ७.१,३१.७५ अरुद्रात्मकमित्येवं रुद्रैर्जगदधिष्ठितम् ॥ ७.१,३१.७६ अण्डान्ता हि महाभूमिश्शतरुद्राद्यधिष्ठिता ॥ ७.१,३१.७६ मायान्तमन्तरिक्षं तु ह्यमरेशादिभिः क्रमात् ॥ ७.१,३१.७७ अंगुष्ठमात्रपर्यन्तैस्समंतात्संततं ततम् ॥ ७.१,३१.७७ महामायावसाना द्यौर्वाय्वाद्यैर्भुवनाधिपैः ॥ ७.१,३१.७८ ५३७ अनाश्रितान्तैरध्वान्तर्वर्तिभिस्समधिष्ठिताः ॥ ७.१,३१.७८ ते हि साक्षाद्दिविषदस्त्वन्तरिक्षसदस्तथा ॥ ७.१,३१.७९ पृथिवीपद इत्येवं देवा देवव्रतैः स्तुता ॥ ७.१,३१.७९ एवन्त्रिभिर्मलैरामैः पक्वैरेव पृथक्पृथक् ॥ ७.१,३१.८० निदानभूतैस्संसाररोगः पुंसां प्रवर्तते ॥ ७.१,३१.८० अस्य रोगस्य भैषज्यं ज्ञानमेव न चापरम् ॥ ७.१,३१.८१ भिषगाज्ञापकः शम्भुश्शिवः परमकारणम् ॥ ७.१,३१.८१ अदुःखेना ऽपि शक्तो ऽसौ पशून्मोचयितुं शिवः ॥ ७.१,३१.८२ कथं दुःखं करोतीति नात्र कार्या विचारणा ॥ ७.१,३१.८२ दुःखमेव हि सर्वो ऽपि संसार इति निश्चितम् ॥ ७.१,३१.८३ कथं दुःखमदुःखं स्यात्स्वभावो ह्यविपर्ययः ॥ ७.१,३१.८३ न हि रोगी ह्यरोगी स्याद्भिषग्भैषज्यकारणात् ॥ ७.१,३१.८४ रोगार्तं तु भिषग्रोगाद्भैषजैस्सुखमुद्धरेत् ॥ ७.१,३१.८४ एवं स्वभावमलिनान्स्वभावाद्दुःखिनः पशून् ॥ ७.१,३१.८५ स्वाज्ञौषधविधानेन दुःखान्मोचयते शिवः ॥ ७.१,३१.८५ न भिषक्कारणं रोगे शिवः संसारकारणम् ॥ ७.१,३१.८६ इत्येतदपि वैषम्यं न दोषायास्य कल्पते ॥ ७.१,३१.८६ दुःखे स्वभावसंसिद्धे कथन्तत्कारणं शिवः ॥ ७.१,३१.८७ स्वाभाविको मलः पुंसां स हि संसारयत्यमून् ॥ ७.१,३१.८७ संसारकारणं यत्तु मलं मायाद्यचेतनम् ॥ ७.१,३१.८८ तत्स्वयं न प्रवर्तेत शिवसान्निध्यमन्तरा ॥ ७.१,३१.८८ यथा मणिरयस्कांतस्सान्निध्यादुपकारकः ॥ ७.१,३१.८९ अयसश्चलतस्तद्वच्छिवो ऽप्यस्येति सूरयः ॥ ७.१,३१.८९ न निवर्तयितुं शक्यं सान्निध्यं सदकारणम् ॥ ७.१,३१.९० अधिष्ठाता ततो नित्यमज्ञातो जगतश्शिवः ॥ ७.१,३१.९० न शिवेन विना किंचित्प्रवृत्तमिह विद्यते ॥ ७.१,३१.९१ तत्प्रेरितमिदं सर्वं तथापि न स मुह्यति ॥ ७.१,३१.९१ शक्तिराज्ञात्मिका तस्य नियन्त्री विश्वतोमुखी ॥ ७.१,३१.९२ तया ततमिदं शश्वत्तथापि स न दुष्यति ॥ ७.१,३१.९२ अनिदं प्रथमं सर्वमीशितव्यं स ईश्वरः ॥ ७.१,३१.९३ ईशनाच्च तदीयाज्ञा तथापि स न दुष्यति ॥ ७.१,३१.९३ यो ऽन्यथा मन्यते मोहात्स विनष्यति दुर्मतिः ॥ ७.१,३१.९४ तच्छक्तिवैभवादेव तथापि स न दुष्यति ॥ ७.१,३१.९४ एतस्मिन्नंतरे व्योम्नः श्रुताः वागरीरिणी ॥ ७.१,३१.९५ सत्यमोममृतं सौम्यमित्याविरभवत्स्फुटम् ॥ ७.१,३१.९५ ततो हृष्टतराः सर्वे विनष्टाशेषसंशयाः ॥ ७.१,३१.९६ मुनयो विस्मयाविष्टाः प्रेणेमुः पवनं प्रभुम् ॥ ७.१,३१.९६ तथा विगतसन्देहान्कृत्वापि पवनो मुनीन् ॥ ७.१,३१.९७ नैते प्रतिष्ठितज्ञाना इति मत्वैवमब्रवीत् ॥ ७.१,३१.९७ वायुरुवाच्व परोक्षमपरोक्षं च द्विविधं ज्ञानमिष्यते ॥ ७.१,३१.९८ परोक्षमस्थिरं प्राहुरपरोक्षं तु सुस्थिरम् ॥ ७.१,३१.९८ हेतूपदेशगम्यं यत्तत्परोक्षं प्रचक्षते ॥ ७.१,३१.९९ ५३७ अपरोक्षं पुनः श्रेष्ठादनुष्ठानाद्भविष्यति ॥ ७.१,३१.९९ नापरोक्षादृते मोक्ष इति कृत्वा विनिश्चयम् ॥ ७.१,३१.१०० श्रेष्ठानुष्ठानसिद्ध्यर्थं प्रयतध्वमतन्द्रिताः ॥ ७.१,३१.१०० इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे ज्ञानोपदेशो नामैकत्रिंशो ऽध्यायः अध्याय ३२ ऋषय ऊचुः किं तच्छ्रेष्टमनुष्ठानं मोक्षो येनपरोक्षितः ॥ ७.१,३२.१ तत्तस्य साधनं चाद्य वक्तुमर्हसि मारुत ॥ ७.१,३२.१ वायुरुवाच शैवो हि परमो धर्मः श्रेष्ठानुष्ठानशब्दितः ॥ ७.१,३२.२ यत्रापरोक्षो लक्ष्येत साक्षान्मोक्षप्रदः शिवः ॥ ७.१,३२.२ स तु पञ्चविधो ज्ञेयः पञ्चभिः पर्वभिः क्रमात् ॥ ७.१,३२.३ क्रियातपोजपध्यानज्ञानात्मभिरनुत्तरैः ॥ ७.१,३२.३ तैरेव सोत्तरैस्सिद्धो धर्मस्तु परमो मतः ॥ ७.१,३२.४ परोक्षमपरोक्षं च ज्ञानं यत्र च मोक्षदम् ॥ ७.१,३२.४ परमो ऽपरमश्चोभौ धर्मौ हि श्रुतिचोदितौ ॥ ७.१,३२.५ धर्मशब्दाभिधेयेर्थे प्रमाणं श्रुतिरेव नः ॥ ७.१,३२.५ परमो योगपर्यन्तो धर्मः श्रुतिशिरोगतः ॥ ७.१,३२.६ धर्मस्त्वपरमस्तद्वदधः श्रुतिमुखोत्थितः ॥ ७.१,३२.६ अपश्वात्माधिकारत्वाद्यो धरमः परमो मतः ॥ ७.१,३२.७ साधारणस्ततो ऽन्यस्तु सर्वेषामधिकारतः ॥ ७.१,३२.७ स चायं परमो धर्मः परधर्मस्य साधनम् ॥ ७.१,३२.८ धर्मशास्त्रादिभिस्सम्यक्सांग एवोपबृंहितः ॥ ७.१,३२.८ शैवो यः परमो धर्मः श्रेष्ठानुष्ठानशब्दितः ॥ ७.१,३२.९ इतिहासपुराणाभ्यां कथंचिदुपबृंहितः ॥ ७.१,३२.९ शैवागमैस्तु संपन्नः सहांगोपांविस्तरः ॥ ७.१,३२.१० तत्संस्काराधिकारैश्च सम्यगेवोपबृंहितः ॥ ७.१,३२.१० शैवागमो हि द्विविधः श्रौतो ऽश्रौतश्च संस्कृतः ॥ ७.१,३२.११ श्रुतिसारमयः श्रौतस्स्वतंत्र इतरो मतः ॥ ७.१,३२.११ स्वतंत्रो दशधा पूर्वं तथाष्टादशधा पुनः ॥ ७.१,३२.१२ कामिकादिसमाख्याभिस्सिद्धः सिद्धान्तसंज्ञितः ॥ ७.१,३२.१२ श्रुतिसारमयो यस्तु शतकोटिप्रविस्तरः ॥ ७.१,३२.१३ परं पाशुपतं यत्र व्रतं ज्ञानं च कथ्यते ॥ ७.१,३२.१३ युगावर्तेषु शिष्येत योगाचार्यस्वरूपिणा ॥ ७.१,३२.१४ तत्रतत्रावतीर्णेन शिवेनैव प्रवर्त्यते ॥ ७.१,३२.१४ संक्षिप्यास्य प्रवक्तारश्चत्वारः परमर्षय ॥ ७.१,३२.१५ रुरुर्दधीचो ऽगस्त्यश्च उपमन्युर्महायशाः ॥ ७.१,३२.१५ ते च पाशुपता ज्ञेयास्संहितानां प्रवर्तकाः ॥ ७.१,३२.१६ तत्संततीया गुरवः शतशो ऽथ सहस्रशः ॥ ७.१,३२.१६ तत्रोक्तः परमो धर्मश्चर्याद्यात्मा चतुर्विधः ॥ ७.१,३२.१७ तेषु पाशुपतो योगः शिवं प्रत्यक्षयेद्दृढम् ॥ ७.१,३२.१७ तस्माच्छ्रेष्ठमनुष्ठानं योगः पाशुपतो मतः ॥ ७.१,३२.१८ तत्राप्युपायको युक्तो ब्रह्मणा स तु कथ्यते ॥ ७.१,३२.१८ नामाष्टकमयो योगश्शिवेन परिकल्पितः ॥ ७.१,३२.१९ तेन योगेन सहसा शैवी प्रज्ञा प्रजायते ॥ ७.१,३२.१९ प्रज्ञया परमं ज्ञानमचिराल्लभते स्थिरम् ॥ ७.१,३२.२० ५३८ प्रसीदति शिवस्तस्य यस्य ज्ञानं प्रतिष्ठितम् ॥ ७.१,३२.२० प्रसादात्परमो योगो यः शिवं चापरोक्षयेत् ॥ ७.१,३२.२१ शिवापरोक्षात्संसारकारणेन वियुज्यते ॥ ७.१,३२.२१ ततः स्यान्मुक्तसंसारो मुक्तः शिवसमो भवेत् ॥ ७.१,३२.२२ ब्रह्मप्रोक्त इत्युपायः स एव पृथगुच्यते ॥ ७.१,३२.२२ शिवो महेश्वरश्चैव रुद्रो विष्णुः पितामहः ॥ ७.१,३२.२३ संसारवैद्यः सर्वज्ञः परमात्मेति मुख्यतः ॥ ७.१,३२.२३ नामाष्टकमिदं मुख्यं शिवस्य प्रतिपादकम् ॥ ७.१,३२.२४ आद्यन्तु पञ्चकं ज्ञेयं शान्त्यतीताद्यनुक्रमात् ॥ ७.१,३२.२४ संज्ञा सदाशिवादीनां पञ्चोपाधिपरिग्रहात् ॥ ७.१,३२.२५ उपाधिविनिवृत्तौ तु यथास्वं विनिवर्तते ॥ ७.१,३२.२५ पदमेव हि तन्नित्यमनित्याः पदिनः स्मृताः ॥ ७.१,३२.२६ पदानां प्रतिकृत्तौ तु मुच्यन्ते पदिनो यतः ॥ ७.१,३२.२६ परिवृत्त्यन्तरे भूयस्तत्पदप्राप्तिरुच्यते ॥ ७.१,३२.२७ आत्मान्तराभिधानं स्याद्यदाद्यं नाम पञ्चकम् ॥ ७.१,३२.२७ अन्यत्तु त्रितयं नाम्नामुपादानादियोगतः ॥ ७.१,३२.२८ त्रिविधोपाधिवचनाच्छिव एवानुवर्तते ॥ ७.१,३२.२८ अनादिमलसंश्लेषः प्रागभावात्स्वभावतः ॥ ७.१,३२.२९ अत्यंतं परिशुद्धात्मेत्यतो ऽयं शिव उच्यते ॥ ७.१,३२.२९ अथवाशेषकल्याणगुणैकधन ईश्वरः ॥ ७.१,३२.३० शिव इत्युच्यते सद्भिश्शिवतत्त्वार्थवादिभिः ॥ ७.१,३२.३० त्रयोविंशतितत्त्वेभ्यः प्रकृतिर्हि परा मता ॥ ७.१,३२.३१ प्रकृतेस्तु परं प्राहुः पुरुषं पञ्चविंशकम् ॥ ७.१,३२.३१ यं वेदादौ स्वरं प्राहुर्वाच्यवाचकभावतः ॥ ७.१,३२.३२ वेदैकवेद्ययाथात्म्याद्वेदान्ते च प्रतिष्ठितः ॥ ७.१,३२.३२ तस्य प्रकृतिलीनस्य यः परस्स महेश्वरः ॥ ७.१,३२.३३ तदधीनप्रवृत्तित्वात्प्रकृतेः पुरुषस्य च ॥ ७.१,३२.३३ अथवा त्रिगुणं तत्त्वमुपेयमिदमव्ययम् ॥ ७.१,३२.३४ मायान्तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम् ॥ ७.१,३२.३४ मायाविक्षोभको ऽनंतो महेश्वरसमन्वयात् ॥ ७.१,३२.३५ कालात्मा परमात्मादिः स्थूलः सूक्ष्मः प्रकीर्तितः ॥ ७.१,३२.३५ रुद्दुःखं दुःखहेतुर्वा तद्रावयति नः प्रभुः ॥ ७.१,३२.३६ रुद्र इत्युच्यते सद्भिः शिवः परमकारणम् ॥ ७.१,३२.३६ तत्त्वादिभूतपर्यन्तं शरीरादिष्वतन्द्रितः ॥ ७.१,३२.३७ व्याप्याधितिष्ठति शिवस्ततो रुद्र इतस्ततः ॥ ७.१,३२.३७ जगतः पितृभूतानां शिवो मूर्त्यात्मनामपि ॥ ७.१,३२.३८ पितृभावेन सर्वेषां पितामह उदीरितः ॥ ७.१,३२.३८ निदानज्ञो यथा वैद्यो रोगस्य विनिवर्तकः ॥ ७.१,३२.३९ उपायैर्भेषजैस्तद्वल्लयभोगाधिकारतः ॥ ७.१,३२.३९ संसारस्येश्वरो नित्यं समूलस्य निवर्तकः ॥ ७.१,३२.४० संसारवैद्य इत्युक्तः सर्वतत्त्वार्थवेदिभिः ॥ ७.१,३२.४० दशार्थज्ञानसिद्ध्यर्थमिन्द्रियेष्वेषु सत्स्वपि ॥ ७.१,३२.४१ त्रिकालभाविनो भावान्स्थूलान्सूक्ष्मानशेषतः ॥ ७.१,३२.४१ अणवो नैव जानन्ति माययैव मलावृताः ॥ ७.१,३२.४२ असत्स्वपि च सर्वेषु सर्वार्थज्ञानहेतुषु ॥ ७.१,३२.४२ ५३८ यद्यथावस्थितं वस्तु तत्तथैव सदाशिवः ॥ ७.१,३२.४३ अयत्नेनैव जानाति तस्मात्सर्वज्ञ उच्यते ॥ ७.१,३२.४३ सर्वात्मा परमैरेभिर्गुणैर्नित्यसमन्वयात् ॥ ७.१,३२.४४ स्वस्मात्परात्मविरहात्परमात्मा शिवः स्वयम् ॥ ७.१,३२.४४ नामाष्टकमिदं चैव लब्ध्वाचार्यप्रसादतः ॥ ७.१,३२.४५ निवृत्त्यादिकलाग्रन्थिं शिवाद्यैः पञ्चनामभिः ॥ ७.१,३२.४५ यथास्वं क्रमशश्छित्वा शोधयित्वा यथागुणम् ॥ ७.१,३२.४६ गुणितैरेव सोद्धातैरनिरुद्धैरथापि वा ॥ ७.१,३२.४६ हृत्कण्ठतालुभ्रूमध्यब्रह्मरन्ध्रसमन्विताम् ॥ ७.१,३२.४७ छित्त्वा पर्यष्टकाकारं स्वात्मानं च सुषुम्णया ॥ ७.१,३२.४७ द्वादशांतःस्थितस्येन्दोर्नीत्वोपरि शिवौजसि ॥ ७.१,३२.४८ संहृत्यं वदनं पश्चाद्यथासंस्करणं लयात् ॥ ७.१,३२.४८ शाक्तेनामृतवर्षेण संसिक्तायां तनौ पुनः ॥ ७.१,३२.४९ अवतार्य स्वमात्मानममृतात्माकृतिं हृदि ॥ ७.१,३२.४९ द्वादशांतःस्थितस्येन्दोः परस्ताच्छ्वेतपंकजे ॥ ७.१,३२.५० समासीनं महादेवं शंकरम्भक्तवत्सलम् ॥ ७.१,३२.५० अर्धनारीश्वरं देवं निर्मलं मधुराकृतिम् ॥ ७.१,३२.५१ शुद्धस्फटिकसंकाशं प्रसन्नं शीतलद्युतिम् ॥ ७.१,३२.५१ ध्यात्वा हि मानसे देवं स्वस्थचित्तो ऽथ मानवः ॥ ७.१,३२.५२ शिवनामाष्टकेनैव भावपुष्पैस्समर्चयेत् ॥ ७.१,३२.५२ अभ्यर्चनान्ते तु पुनः प्राणानायम्य मानवः ॥ ७.१,३२.५३ सम्यक्चित्तं समाधाय शार्वं नामाष्टकं जपेत् ॥ ७.१,३२.५३ नाभौ चाष्टाहुतीर्हुत्वा पूर्णाहुत्या नमस्ततः ॥ ७.१,३२.५४ अष्टपुष्पप्रदानेन कृत्वाभ्यर्चनमंतिमम् ॥ ७.१,३२.५४ निवेदयेत्स्वमात्मानं चुलुकोदकवर्त्मना ॥ ७.१,३२.५५ एवं कृत्वा चिरादेव ज्ञानं पाशुपतं शुभम् ॥ ७.१,३२.५५ लभते तत्प्रतिष्ठां च वृत्तं चानुत्तमं तथा ॥ ७.१,३२.५६ योगं च परमं लब्ध्वा मुच्यते नात्र संशयः ॥ ७.१,३२.५६ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे श्रेष्ठानुष्ठानवर्णनं नाम द्वात्रिंशो ऽध्यायः अध्याय ३३ ऋषय ऊचुः भगवञ्छ्रोतुमिच्छामो व्रतं पाशुपतं परम् ॥ ७.१,३३.१ ब्रह्मादयो ऽपि यत्कृत्वा सर्वे पाशुपताः स्मृताः ॥ ७.१,३३.१ वायुरुवाच रहस्यं वः प्रवक्ष्यामि सर्वपापनिकृन्तनम् ॥ ७.१,३३.२ व्रतं पाशुपतं श्रौतमथर्वशिरसि श्रुतम् ॥ ७.१,३३.२ कालश्चैत्री पौर्णमासी देशः शिवपरिग्रहः ॥ ७.१,३३.३ क्षेत्रारामाद्यरण्यं वा प्रशस्तश्शुभलक्षणः ॥ ७.१,३३.३ तत्र पूर्वं त्रयोदश्यां सुस्नातः सुकृताह्निकः ॥ ७.१,३३.४ अनुज्ञाप्य स्वमाचार्यं संपूज्य प्रणिपत्य च ॥ ७.१,३३.४ पूजां वैशेषिकीं कृत्वा शुक्लांबरधरः स्वयम् ॥ ७.१,३३.५ शुक्लयज्ञोपवीती च शुक्लमाल्यानुलेपनः ॥ ७.१,३३.५ दर्भासने समासीनो दर्भमुष्टिं प्रगृह्य च ॥ ७.१,३३.६ ५३९ प्राणायामत्रयं कृत्वा प्राङ्मुखो वाप्युदङ्मुखः ॥ ७.१,३३.६ ध्यात्वा देवं च देवीं च तद्विज्ञापनवर्त्मना ॥ ७.१,३३.६ व्रतमेतत्करोमीति भवेत्संकल्प्य दीक्षितः ॥ ७.१,३३.७ यावच्छरीरपातं वा द्वादशाब्दमथापि वा ॥ ७.१,३३.७ तदर्धं वा तदर्धं वा मासद्वादशकं तु वा ॥ ७.१,३३.८ तदर्धं वा तदर्धं वा मासमेकमथापि वा ॥ ७.१,३३.८ दिनद्वादशकं वा ऽथ दिनषट्कमथापि वा ॥ ७.१,३३.९ तदर्धं दिनमेकं वा व्रतसंकल्पनावधि ॥ ७.१,३३.९ अग्निमाधाय विधिवद्विरजाहोमकारणात् ॥ ७.१,३३.१० हुत्वाज्येन समिद्भिश्च चरुणा च यथाक्रमम् ॥ ७.१,३३.१० पूर्णामापूर्य तां भूयस्तत्त्वानां शुद्धिमुद्दिशन् ॥ ७.१,३३.११ जुहुयान्मूलमन्त्रेण तैरेव समिदादिभिः ॥ ७.१,३३.११ तत्त्वान्येतानि मद्देहे शुद्ध्यंताम् १ त्यनुस्मरन् ॥ ७.१,३३.१२ पञ्चभूतानि तन्मात्राः पञ्चकर्मेन्द्रियाणि च ॥ ७.१,३३.१२ ज्ञानकर्मविभेदेन पञ्चकर्मविभागशः ॥ ७.१,३३.१३ त्वगादिधातवस्सप्त पञ्च प्राणादिवायवः ॥ ७.१,३३.१३ मनोबुद्धिरहं ख्यातिर्गुणाः प्रकृतिपूरुषौ ॥ ७.१,३३.१४ रागो विद्याकले चैव नियतिः काल एव च ॥ ७.१,३३.१४ माया च शुद्धिविद्या च महेश्वरसदाशिवौ ॥ ७.१,३३.१५ शक्तिश्च शिवतत्त्वं च तत्त्वानि क्रमशो विदुः ॥ ७.१,३३.१५ मन्त्रैस्तु विरजैर्हुत्वा होतासौ विरजा भवेत् ॥ ७.१,३३.१६ शिवानुग्रहमासाद्य ज्ञानवान्स हि जायते ॥ ७.१,३३.१६ अथ गोमयमादाय पिण्डीकृत्याभिमंत्र्य च ॥ ७.१,३३.१७ विन्यस्याग्नौ च सम्प्रोक्ष्य दिने तस्मिन्हविष्यभुक् ॥ ७.१,३३.१७ प्रभाते तु चतुर्दश्यां कृत्वा सर्वं पुरोदितम् ॥ ७.१,३३.१८ दिने तस्मिन्निराहारः कालं शेषं समापयेत् ॥ ७.१,३३.१८ प्रातः पर्वणि चाप्येवं कृत्वा होमा वसानतः ॥ ७.१,३३.१९ उपसंहृत्य रुद्राग्निं गृह्णीयाद्भस्म यत्नतः ॥ ७.१,३३.१९ ततश्च जटिलो मुण्डी शिखैकजट एव वा ॥ ७.१,३३.२० भूत्वा स्नात्वा ततो वीतलज्जश्चेत्स्याद्दिगम्बरः ॥ ७.१,३३.२० अपि काषायवसनश्चर्मचीराम्बरो ऽथ वा ॥ ७.१,३३.२१ एकाम्बरो वल्कली वा भवेद्दण्डी च मेखली ॥ ७.१,३३.२१ प्रक्षाल्य चरणौ पश्चाद्द्विराचम्यात्मनस्तनुम् ॥ ७.१,३३.२२ संकुलीकृत्य तद्भस्म विरजानलसंभवम् ॥ ७.१,३३.२२ अग्निरित्यादिभिर्मंत्रैः षड्भिराथर्वणैः क्रमात् ॥ ७.१,३३.२३ विभृज्यांगानि मूर्धादिचरणांतानि तैस्स्पृशेत् ॥ ७.१,३३.२३ ततस्तेन क्रमेणैव समुद्धृत्य च भस्मना ॥ ७.१,३३.२४ सर्वांगोद्धूलनं कुर्यात्प्रणवेन शिवेन वा ॥ ७.१,३३.२४ ततस्त्रिपुण्ड्रं रचयेत्त्रियायुषसमाह्वयम् ॥ ७.१,३३.२५ शिवभावं समागम्य शिवयोगमथाचरेत् ॥ ७.१,३३.२५ कुर्यात्स्त्रिसन्ध्यमप्येवमेतत्पाशुपतं व्रतम् ॥ ७.१,३३.२६ भुक्तिमुक्तिप्रदं चैतत्पशुत्वं विनिवर्तयेत् ॥ ७.१,३३.२६ तत्पशुत्वं परित्यज्य कृत्वा पाशुपतं व्रतम् ॥ ७.१,३३.२७ पूजनीयो महादेवो लिंगमूर्तिस्सनातनः ॥ ७.१,३३.२७ पद्ममष्टदलं हैमं नवरत्नैरलंकृतम् ॥ ७.१,३३.२८ कर्णिकाकेशरोपेतमासनं परिकल्पयेत् ॥ ७.१,३३.२८ विभवे तदभावे तु रक्तं सितमथापि वा ॥ ७.१,३३.२९ पद्मं तस्याप्यभावे तु केवलं भावनामयम् ॥ ७.१,३३.२९ तत्पद्मकर्णिकामध्ये कृत्वा लिंगं कनीयसम् ॥ ७.१,३३.३० स्फीटिकं पीठिकोपेतं पूजयेद्विधिवत्क्रमात् ॥ ७.१,३३.३० प्रतिष्ठाप्य विधानेन तल्लिंगं कृतशोधनम् ॥ ७.१,३३.३१ परिकल्प्यासनं मूर्तिं पञ्चवक्त्रप्रकारतः ॥ ७.१,३३.३१ पञ्चगव्यादिभिः पूर्णैर्यथाविभवसंभृतैः ॥ ७.१,३३.३२ स्नापयेत्कलशैः पूर्णैरष्टापदसमुद्भवैः ॥ ७.१,३३.३२ गंधद्रव्यैस्सकर्पूरैश्चन्दनाद्यैस्सकुंकुमैः ॥ ७.१,३३.३३ सवेदिकं समालिप्य लिंगं भूषणभूषितम् ॥ ७.१,३३.३३ बिल्वपत्रैश्च पद्मैश्च रक्तैः श्वेतैस्तथोत्पलैः ॥ ७.१,३३.३४ नीलोत्पलैस्तथान्यैश्च पुष्पैस्तैस्तैस्सुगंधिभिः ॥ ७.१,३३.३४ पुण्यैः प्रशस्तैः पत्रैश्च चित्रैर्दूर्वाक्षतादिभिः ॥ ७.१,३३.३५ समभ्यर्च्य यथालाभं महापूजाविधानतः ॥ ७.१,३३.३५ धूपं दीपं तथा चापि नैवेद्यं च समादिशेत् ॥ ७.१,३३.३६ निवेदयित्वा विभवे कल्याणं च समाचरेत् ॥ ७.१,३३.३६ इष्टानि च विशिष्टानि न्यायेनोपार्जितानि च ॥ ७.१,३३.३७ सर्वद्रव्याणि देयानि व्रते तस्मिन्विशेषतः ॥ ७.१,३३.३७ श्रीपत्रोत्पलपद्मानां संख्या साहस्रिकी मता ॥ ७.१,३३.३८ प्रत्येकमपरा संख्या शतमष्टोत्तरं द्विजाः ॥ ७.१,३३.३८ तत्रापि च विशेषेण न त्यजेद्बिल्वपत्रकम् ॥ ७.१,३३.३९ हैममेकं परं प्राहुः पद्मं पद्मसहस्रकात् ॥ ७.१,३३.३९ नीलोत्पलादिष्वप्येतत्समानं बिल्बपत्रकैः ॥ ७.१,३३.४० पुष्पान्तरे न नियमो यथालाभं निवेदयेत् ॥ ७.१,३३.४० अष्टाङ्गमर्घ्यमुत्कृष्टं धूपालेपौ विशेषतः ॥ ७.१,३३.४१ चन्दनं वामदेवाख्ये हरितालं च पौरुषे ॥ ७.१,३३.४१ ईशाने भसितं केचिदालेपनमितीदृशाम् ॥ ७.१,३३.४२ न धूपमिति मन्यन्ते धूपान्तरविधानतः ॥ ७.१,३३.४२ सितागुरुमघोराख्ये मुखे कृष्णागुरुं पुनः ॥ ७.१,३३.४२ पौरुषे गुग्गुलं सव्ये सौम्ये सौगंधिकं मुखे ॥ ७.१,३३.४३ ईशाने ऽपि ह्युशीरादि देयाद्धूपं विशेषतः ॥ ७.१,३३.४३ शर्करामधुकर्पूरकपिलाघृतसंयुतम् ॥ ७.१,३३.४४ चंदनागुरुकाष्ठाद्यं सामान्यं संप्रचक्षते ॥ ७.१,३३.४४ कर्पूरवर्तिराज्याढ्या देया दीपावलिस्ततः ॥ ७.१,३३.४५ अर्घ्यमाचमनं देयं प्रतिवक्त्रमतः परम् ॥ ७.१,३३.४५ प्रथमावरणे पूज्यो क्रमाद्धेरम्बषण्मुखौ ॥ ७.१,३३.४६ ब्रह्मांगानि ततश्चैव प्रथमावरणेर्चिते ॥ ७.१,३३.४६ द्वितीयावरणे पूज्या विघ्नेशाश्चक्रवर्तिनः ॥ ७.१,३३.४७ तृतीयावरणे पूज्या भवाद्या अष्टमूर्तयः ॥ ७.१,३३.४७ ५४० महादेवादयस्तत्र तथैकादशमूर्तयः ॥ ७.१,३३.४८ चतुर्थावरणे पूज्याः सर्व एव गणेश्वराः ॥ ७.१,३३.४८ बहिरेव तु पद्मस्य पञ्चमावरणे क्रमात् ॥ ७.१,३३.४९ दशदिक्पतयः पूज्याः सास्त्राः सानुचरास्तथा ॥ ७.१,३३.४९ ब्रह्मणो मानसाः पुत्राः सर्वे ऽपि ज्योतिषां गणाः ॥ ७.१,३३.५० सर्वा देव्यश्च देवाश्च सर्वे सर्वे च खेचराः ॥ ७.१,३३.५० पातालवासिनश्चान्ये सर्वे मुनिगणा अपि ॥ ७.१,३३.५१ योगिनो हि सखास्सर्वे पतंगा मातरस्तथा ॥ ७.१,३३.५१ क्षेत्रपालाश्च सगणाः सर्वं चैतच्चराचरम् ॥ ७.१,३३.५२ पूजनीयं शिवप्रीत्या मत्त्वा शंभुविभूतिमत् ॥ ७.१,३३.५२ अथावरणपूजांते संपूज्य परमेश्वरम् ॥ ७.१,३३.५३ साज्यं सव्यं जनं हृद्यं हविर्भक्त्या निवेदयेत् ॥ ७.१,३३.५३ मुखवासादिकं दत्त्वा ताम्बूलं सोपदंशकम् ॥ ७.१,३३.५४ अलंकृत्य च भूयो ऽपि नानापुष्पविभूषणैः ॥ ७.१,३३.५४ नीराजनांते विस्तीर्य पूजाशेषं समापयेत् ॥ ७.१,३३.५५ चषकं सोपकारं च शयनं च समर्पयेत् ॥ ७.१,३३.५५ चन्द्रसंकाशहारं च शयनीयं समर्पयेत् ॥ ७.१,३३.५६ आद्यं नृपोचितं हृद्यं तत्सर्वमनुरूपतः ॥ ७.१,३३.५६ कृत्वा च कारयित्वा च हित्वा च प्रतिपूजनम् ॥ ७.१,३३.५७ स्तोत्रं व्यपोहनं जप्त्वा विद्यां पञ्चाक्षरीं जपेत् ॥ ७.१,३३.५७ प्रदक्षिणां प्रणामं च कृत्वात्मानं समर्पयेत् ॥ ७.१,३३.५८ ततः पुरस्ताद्देवस्य गुरुविप्रौ च पूजयेत् ॥ ७.१,३३.५८ दत्त्वार्घ्यमष्टौ पुष्पाणि देवमुद्वास्य लिंगतः ॥ ७.१,३३.५९ अग्नेश्चाग्निं सुसंयम्य ह्युद्वास्य च तमप्युत ॥ ७.१,३३.५९ प्रत्यहं च जनस्त्वेवं कुर्यात्सेवां पुरोदिताम् ॥ ७.१,३३.६० ततस्तत्साम्बुजं लिंगं सर्वोपकरणान्वितम् ॥ ७.१,३३.६० समर्पयेत्स्वगुरवे स्थापयेद्वा शिवालये ॥ ७.१,३३.६१ संपूज्य च गुरून्विप्रान्व्रतिनश्च विशेषतः ॥ ७.१,३३.६१ भक्तान्द्विजांश्च शक्तश्चेद्दीनानाथांश्च तोषयेत् ॥ ७.१,३३.६२ स्वयं चानशने शक्तः फलमूलाशने ऽथ वा ॥ ७.१,३३.६२ पयोव्रतो वा भिक्षाशी भवेदेकाशनस्तथा ॥ ७.१,३३.६३ नक्तं युक्ताशनो नित्यं भूशय्यानिरतः शुचिः ॥ ७.१,३३.६३ भस्मशायी तृणेशायी चीराजिनधृतो ऽथवा ॥ ७.१,३३.६४ ब्रह्मचर्यव्रतो नित्यं व्रतमेतत्समाचरेत् ॥ ७.१,३३.६४ अर्कवारे तथार्द्रायां पञ्चदश्यां च पक्षयोः ॥ ७.१,३३.६५ अष्टम्यां च चतुर्दश्यां शक्तस्तूपवसेदपि ॥ ७.१,३३.६५ पाखण्डिपतितोदक्यास्सूतकान्त्यजपूर्वकान् ॥ ७.१,३३.६६ वर्जयेत्सर्वयत्नेन मनसा कर्मणा गिरा ॥ ७.१,३३.६६ क्षमदानदयासत्याहिंसाशीलः सदा भवेत् ॥ ७.१,३३.६७ संतुष्टश्च प्रशान्तश्च जपध्यानरतस्तथा ॥ ७.१,३३.६७ कुर्यात्त्रिषवणस्नानं भस्मस्नानमथापि वा ॥ ७.१,३३.६८ पूजां वैशेषिकीं चैव मनसा वचसा गिरा ॥ ७.१,३३.६८ बहुनात्र किमुक्तेन नाचरेदशिवं व्रती ॥ ७.१,३३.६९ प्रमादात्तु तथाचारे निरूप्य गुरुलाघवे ॥ ७.१,३३.६९ ५४० उचितां निष्कृतिं कुर्यात्पूजाहोमजपादिभिः ॥ ७.१,३३.७० आसमाप्तेर्व्रतस्यैवमाचरेन्न प्रमादतः ॥ ७.१,३३.७० गोदानं च वृषोत्सर्गं कुर्यात्पूजां च संपदा ॥ ७.१,३३.७१ भक्तश्च शिवप्रीत्यर्थं सर्वकामविवर्जितः ॥ ७.१,३३.७१ सामान्यमेतत्कथितं व्रतस्यास्य समासतः ॥ ७.१,३३.७२ प्रतिमासं विशेषं च प्रवदामि यथाश्रुतम् ॥ ७.१,३३.७२ वैशाखे वज्रलिंगं तु ज्येष्ठे मारकतं शुभम् ॥ ७.१,३३.७३ आषाढे मौक्तिकं विद्याच्छ्रावणे नीलनिर्मितम् ॥ ७.१,३३.७३ मासे भाद्रपदे चैव पद्मरागमयं परम् ॥ ७.१,३३.७४ आश्विने मासि विद्याद्वै लिंगं गोमेदकं वरम् ॥ ७.१,३३.७४ कार्तिक्यां वैद्रुमं लिंगं वैदूर्यं मार्गशीर्षके ॥ ७.१,३३.७५ पुष्परागमयं पौषे माघे द्युमणिजन्तथा ॥ ७.१,३३.७५ फाल्गुणे चन्द्रकान्तोत्थं चैत्रे तद्व्यत्ययो ऽथवा ॥ ७.१,३३.७६ सर्वमासेषु रत्नानामलाभे हैममेव वा ॥ ७.१,३३.७६ हैमाभावे राजतं वा ताम्रजं शैलजन्तथा ॥ ७.१,३३.७७ मृन्मयं वा यथालाभं जातुषं चान्यदेव वा ॥ ७.१,३३.७७ सर्वगंधमयं वाथ लिंगं कुर्याद्यथारुचि ॥ ७.१,३३.७८ व्रतावसानसमये समाचरितनित्यकः ॥ ७.१,३३.७८ कृत्वा वैशेषिकीं पूजां हुत्वा चैव यथा पुरा ॥ ७.१,३३.७९ संपूज्य च तथाचार्यं व्रतिनश्च विशेषतः ॥ ७.१,३३.७९ देशिकेनाप्यनुज्ञातः प्राङ्मुखो वाप्युदङ्मुखः ॥ ७.१,३३.८० दर्भासनो दर्भपाणिः प्राणापानौ नियम्य च ॥ ७.१,३३.८० जपित्वा शक्तितो मूलं ध्यात्वा साम्बं त्रियम्बकम् ॥ ७.१,३३.८१ अनुज्ञाप्य यथापूर्वं नमस्कृत्य कृताञ्जलिः ॥ ७.१,३३.८१ समुत्सृजामि भगवन्व्रतमेतत्त्वदाज्ञया ॥ ७.१,३३.८२ इत्युक्त्वा लिंगमूलस्थान्दर्भानुत्तरतस्त्यजेत् ॥ ७.१,३३.८२ ततो दण्डजटाचीरमेखला अपि चोत्सृजेत् ॥ ७.१,३३.८३ पुनराचम्य विधिवत्पञ्चाक्षरमुदीरयेत् ॥ ७.१,३३.८३ यः कृत्वात्यंतिकीं दीक्षामादेहान्तमनाकुलः ॥ ७.१,३३.८४ व्रतमेतत्प्रकुर्वीत स तु वै नैष्ठिकः स्मृतः ॥ ७.१,३३.८४ सो ऽत्याश्रमी च विज्ञेयो महापाशुपतस्तथा ॥ ७.१,३३.८५ स एव तपतां श्रेष्ठ स एव च महाव्रती ॥ ७.१,३३.८५ न तेन सदृशः कश्चित्कृतकृत्यो मुमुक्षुषु ॥ ७.१,३३.८६ यो यतिर्नैष्ठिको जातस्तमाहुर्नैष्ठिकोत्तमम् ॥ ७.१,३३.८६ यो ऽन्वहं द्वादशाहं वा व्रतमेतत्समाचरेत् ॥ ७.१,३३.८७ सो ऽपि नैष्ठिकतुल्यः स्यात्तीव्रव्रतसमन्वयात् ॥ ७.१,३३.८७ घृताक्तो यश्चरेदेतद्व्रतं व्रतपरायणः ॥ ७.१,३३.८८ द्वित्रैकदिवसं वापि स च कश्चन नैष्ठिकः ॥ ७.१,३३.८८ कृत्यमित्येव निष्कामो यश्चरेद्व्रतमुत्तमम् ॥ ७.१,३३.८९ शिवार्पितात्मा सततं न तेन सदृशः क्वचित् ॥ ७.१,३३.८९ भस्मच्छन्नो द्विजो विद्वान्महापातकसंभवैः ॥ ७.१,३३.९० पापैस्सुदारुणैस्सद्यो मुच्यते नात्र संशयः ॥ ७.१,३३.९० रुद्राग्निर्यत्परं वीर्यन्तद्भस्म परिकीर्तितम् ॥ ७.१,३३.९१ तस्मात्सर्वेषु कालेषु वीर्यवान्भस्मसंयुतः ॥ ७.१,३३.९१ ५४१ भस्मनिष्ठस्य नश्यन्ति देषा भस्माग्निसंगमात् ॥ ७.१,३३.९२ भस्मस्नानविशुद्धात्मा भस्मनिष्ठ इति स्मृतः ॥ ७.१,३३.९२ भस्मना दिग्धसर्वांगो भस्मदीप्तत्रिपुंड्रकः ॥ ७.१,३३.९३ भस्मस्नायी च पुरुषो भस्मनिष्ठ इति स्मृतः ॥ ७.१,३३.९३ भूतप्रेतपिशासाश्च रोगाश्चातीव दुस्सहाः ॥ ७.१,३३.९४ भस्मनिष्ठस्य सान्निध्याद्विद्रवंति न संशयः ॥ ७.१,३३.९४ भासनाद्भासितं प्रोक्तं भस्म कल्मषभक्षणात् ॥ ७.१,३३.९५ भूतिभूतिकरी चैव रक्षा रक्षाकरी परम् ॥ ७.१,३३.९५ किमन्यदिह वक्तव्यं भस्ममाहात्म्यकारणम् ॥ ७.१,३३.९६ व्रती च भस्मना स्नातस्स्वयं देवो महेश्वरः ॥ ७.१,३३.९६ परमास्त्रं च शैवानां भस्मैतत्पारमेश्वरम् ॥ ७.१,३३.९७ धौम्याग्रजस्य तपसि व्यापदो यन्निवारिताः ॥ ७.१,३३.९७ तस्मात्सर्वप्रयत्नेन कृत्वा पाशुपतव्रतम् ॥ ७.१,३३.९८ धनवद्भस्म संगृह्य भस्मस्नानरतो भवेत् ॥ ७.१,३३.९८ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे पशुपतिव्रतविधानवर्णनं नाम त्रयस्त्रिंशो ऽध्यायः अध्याय ३४ ऋषय ऊचुः धौम्याग्रजेन शुशुना क्षीरार्थं हि तपः कृतम् ॥ ७.१,३४.१ तस्मात्क्षीरार्णवो दत्तस्तस्मै देवेन शूलिना ॥ ७.१,३४.१ स कथं शिशुको लेभे शिवशास्त्रप्रवक्तृताम् ॥ ७.१,३४.२ कथं वा शिवसद्भावं ज्ञात्वा तपसि निष्ठितः ॥ ७.१,३४.२ कथं च लब्धविज्ञानस्तपश्चरणपर्वणि ॥ ७.१,३४.३ रुद्राग्नेर्यत्परं वीर्यं लभे भस्म स्वरक्षकम् ॥ ७.१,३४.३ वायुरुवाच न ह्येष शिशुकः कश्चित्प्राकृतः कृतवांस्तपः ॥ ७.१,३४.४ मुनिवर्यस्य तनयो व्याघ्रपादस्य धीमतः ॥ ७.१,३४.४ जन्मान्तरेण संसिद्धः केनापि खलु हेतुना ॥ ७.१,३४.५ स्वपदप्रच्युतो दिष्ट्या प्राप्तो मुनिकुमारताम् ॥ ७.१,३४.५ महादेवप्रसादस्य भाग्यापन्नस्य भाविनः ॥ ७.१,३४.६ दुग्धाभिलाषप्रभवद्वारतामगमत्तपः ॥ ७.१,३४.६ अतः सर्वगणेशत्वं कुमारत्वं च शाश्वतम् ॥ ७.१,३४.७ सह दुग्धाब्धिना तस्मै प्रददौ शंकरः स्वयम् ॥ ७.१,३४.७ तस्य ज्ञानागमोप्यस्य प्रसादादेव शांकरात् ॥ ७.१,३४.८ कौमारं हि परं साक्षाज्ज्ञानं शक्तिमयं विदुः ॥ ७.१,३४.८ शिवशास्त्रप्रवक्तृत्वमपि तस्य हि तत्कृतम् ॥ ७.१,३४.९ कुमारो मुनितो लब्धज्ञानाब्धिरिव नन्दनः ॥ ७.१,३४.९ दृष्टं तु कारणं तस्य शिवज्ञानसमन्वये ॥ ७.१,३४.१० स्वमातृवचनं साक्षाच्छोकजं क्षीरकारणात् ॥ ७.१,३४.१० कदाचित्क्षीरमत्यल्पं पीतवान्मातुलाश्रमे ॥ ७.१,३४.११ ईर्षयया मातुलसुतं संतृप्तक्षीरमुत्तमम् ॥ ७.१,३४.११ पीत्वा स्थितं यथाकामं दृष्ट्वा वै मातुलात्मजम् ॥ ७.१,३४.१२ उपमन्युर्व्याघ्रपादिः प्रीत्या प्रोवाच मातरम् ॥ ७.१,३४.१२ उपमन्युरुवाच मातर्मातर्महाभागे मम देहि तपस्विनि ॥ ७.१,३४.१३ ५४१ गव्यं क्षीरमतिस्वादु नाल्पमुष्णं पिबाम्यहम् ॥ ७.१,३४.१३ वायुरुवाच तच्छ्रुत्वा पुत्रवचनं तन्माता च तपस्विनी ॥ ७.१,३४.१४ व्याघ्रपादस्य महिषी दुःखमापत्तदा च सा ॥ ७.१,३४.१४ उपलाल्याथ सुप्रीत्या पुत्रमालिंग्य सादरम् ॥ ७.१,३४.१५ दुःखिता विललापाथ स्मृत्वा नैर्धन्यमात्मनः ॥ ७.१,३४.१५ स्मृत्वास्मृत्वा पुनः क्षीरमुपमन्युस्स बालकः ॥ ७.१,३४.१६ देहि देहीति तामाह रुद्रन्भूयो महाद्युतिः ॥ ७.१,३४.१६ तद्धठं सा परिज्ञाय द्विजपत्नी तपस्विनी ॥ ७.१,३४.१७ शान्तये तद्धठस्याथ शुभोपायमरीरचत् ॥ ७.१,३४.१७ उञ्छवृत्त्यार्जितान्बीजान्स्वयं दृष्ट्वा च सा तदा ॥ ७.१,३४.१८ बीजपिष्टमथालोड्य तोयेन कलभाषिणी ॥ ७.१,३४.१८ एह्येहि मम पुत्रेति सामपूर्वं ततस्सुतम् ॥ ७.१,३४.१९ आलिंग्यादाय दुःखार्ता प्रददौ कृत्रिमं पयः ॥ ७.१,३४.१९ पीत्वा च कृत्रिमं क्षीरं मात्रां दत्तं स बालकः ॥ ७.१,३४.२० नैतत्क्षीरमिति प्राह मातरं चातिविह्वलः ॥ ७.१,३४.२० दुःखिता सा तदा प्राह संप्रेक्ष्याघ्राय मूर्धनि ॥ ७.१,३४.२१ समार्ज्य नेत्र पुत्रस्य कराभ्यां कमलायते ॥ ७.१,३४.२१ जनन्युवाच तटिनी रत्नपूर्णास्तास्स्वर्गपातालगोचराः ॥ ७.१,३४.२२ भाग्यहीना न पश्यन्ति भक्तिहीनाश्च ये शिवे ॥ ७.१,३४.२२ राज्यं स्वर्गं च मोक्षं च भोजनं क्षीरसंभवम् ॥ ७.१,३४.२३ न लभन्ते प्रियाण्येषां न तुष्यति यदा शिवः ॥ ७.१,३४.२३ भवप्रसादजं सर्वं नान्यद्देवप्रसादजम् ॥ ७.१,३४.२४ अन्यदेवेषु निरता दुःखार्ता विभ्रमन्ति च ॥ ७.१,३४.२४ क्षीरं तत्र कुतो ऽस्माकं वने निवसतां सदा ॥ ७.१,३४.२५ क्व दुग्धसाधनं वत्स क्व वयं वनवासिनः ॥ ७.१,३४.२५ कृत्स्नाभावेन दारिद्र्यान्मया ते भाग्यहीनया ॥ ७.१,३४.२६ मिथ्यादुग्धमिदं दत्तम्पिष्टमालोड्य वारिणा ॥ ७.१,३४.२६ त्वं मातुलगृहे स्वल्पं पीत्वा स्वादु पयः शृतम् ॥ ७.१,३४.२७ ज्ञात्वा स्वादु त्वया पीतं तज्जातीयमनुस्मरन् ॥ ७.१,३४.२७ दत्तं न पय इत्युक्त्वा रुदन् दुःखीकरोषि माम् ॥ ७.१,३४.२८ प्रसादेन विना शंभो पयस्तव न विद्यते ॥ ७.१,३४.२८ पादपंकजयोस्तस्य साम्बस्य सगणस्य च ॥ ७.१,३४.२९ भक्त्या समर्पितं यत्तत्कारणं सर्वसम्पदाम् ॥ ७.१,३४.२९ अधुना वसुदोस्माभिर्महादेवो न पूजितः ॥ ७.१,३४.३० सकामानां यथाकामं यथोक्तफलदायकः ॥ ७.१,३४.३० धनान्युद्दिश्य नास्माभिरितः प्रागर्चितः शिवः ॥ ७.१,३४.३१ अतो दरिद्रास्संजाता वयं तस्मान्न ते पयः ॥ ७.१,३४.३१ पूर्वजन्मनि यद्दत्तं शिवमुद्दिश्य वै सुतः ॥ ७.१,३४.३२ तदेव लभ्यते नान्यद्विष्णुमुद्दिश्य वा प्रभुम् ॥ ७.१,३४.३२ वायुरुवाच इति मातृवचः श्रुत्वा तथ्यं शोकादिसूचकम् ॥ ७.१,३४.३३ बालो ऽप्यनुतपन्नंतः प्रगल्भमिदमब्रवीत् ॥ ७.१,३४.३३ ५४२ उपमन्युरुवाच शोकेनालमितो मतः सांबो यद्यस्ति शंकरः ॥ ७.१,३४.३४ त्यज शोकं महाभागे सर्वं भद्रं भविष्यति ॥ ७.१,३४.३४ शृणु मातर्वचो मेद्य महादेवो ऽस्ति चेत्क्वचित् ॥ ७.१,३४.३५ चिराद्वा ह्यचिराद्वापि क्षीरोदं साधयाम्यहम् ॥ ७.१,३४.३५ वायुरुवाच इति श्रुत्वा वचस्तस्य बालकस्य महामतेः ॥ ७.१,३४.३६ प्रय्तुवाच तदा माता सुप्रसन्ना मनस्विनी ॥ ७.१,३४.३६ मातोवाच शुभं विचारितं तात त्वया मत्प्रीतिवर्धनम् ॥ ७.१,३४.३७ विलंबं मा कथास्त्वं हि भज सांबं सदाशिवम् ॥ ७.१,३४.३७ सर्वस्मादधिको ऽस्त्येव शिवः परमकारणम् ॥ ७.१,३४.३८ तत्कृतं हि जगत्सर्वं ब्रह्माद्यास्तस्य किंकराः ॥ ७.१,३४.३८ तत्प्रसादकृतैश्वर्या दासास्तस्य वयं प्रभोः ॥ ७.१,३४.३९ तं विनान्यं न जानीमश्शंकरं लोकशंकरम् ॥ ७.१,३४.३९ अन्यान्देवान्परित्यज्य कर्मणा मनसा गिरा ॥ ७.१,३४.४० तमेव सांबं सगणं भज भावपुरस्सरम् ॥ ७.१,३४.४० तस्य देवाधिदेवस्य शिवस्य वरदायिनः ॥ ७.१,३४.४१ साक्षान्नमश्शिवायेति मंत्रो ऽयं वाचकः स्मृतः ॥ ७.१,३४.४१ सप्तकोटिमहामंत्राः सर्वे सप्रणवाः परे ॥ ७.१,३४.४२ तस्मिन्नेव विलीयंते पुनस्तस्माद्विनिर्गताः ॥ ७.१,३४.४२ सप्रसादाश्च ते मंत्राः स्वाधिकाराद्यपेक्षया ॥ ७.१,३४.४३ सर्वाधिकारस्त्वेको ऽयं मंत्र एवेश्वराज्ञया ॥ ७.१,३४.४३ यथा निकृष्टानुत्कृष्टान्सर्वानप्यात्मनः शिवः ॥ ७.१,३४.४४ क्षमते रक्षितुं तद्वन्मंत्रो ऽयमपि सर्वदा ॥ ७.१,३४.४४ प्रबलश्च तथा ह्येष मंत्रो मन्त्रान्तरादपि ॥ ७.१,३४.४५ सर्वरक्षाक्षमो ऽप्येष नापरः कश्चिदिष्यते ॥ ७.१,३४.४५ तस्मान्मन्त्रान्तरांस्त्यक्त्वा पञ्चाक्षरपरो भव ॥ ७.१,३४.४६ तस्मिञ्जिह्वांतरगते न किंचिदिह दुर्लभम् ॥ ७.१,३४.४६ अधोरास्त्रं च शैवानां रक्षाहेतुरनुत्तमम् ॥ ७.१,३४.४७ तच्च तत्प्रभवं मत्वा तत्परो भव नान्यथा ॥ ७.१,३४.४७ भस्मेदन्तु मया लब्धं पितुरेव तवोत्तमम् ॥ ७.१,३४.४८ विरजानलसंसिद्धं महाव्यापन्निवारणम् ॥ ७.१,३४.४८ मंत्रं च ते मया दत्तं गृहाण मदनुज्ञया ॥ ७.१,३४.४९ अनेनैवाशु जप्तेन रक्षा तव भविष्यति ॥ ७.१,३४.४९ वायुरुवाच एवं मात्रा समादिश्य शिवमस्त्वित्युदीर्य च ॥ ७.१,३४.५० विसृष्टस्तद्वचो मूर्ध्नि कुर्वन्नेव तदा मुनिः ॥ ७.१,३४.५० तां प्रणम्यैवमुक्त्वा च तपः कर्तुं प्रचक्रमे ॥ ७.१,३४.५१ तमाह च तदा माता शुभं कुर्वंतु ते सुराः ॥ ७.१,३४.५१ अनुज्ञातस्तया तत्र तपस्तेपे स दुश्चरम् ॥ ७.१,३४.५२ हिमवत्पर्वतं प्राप्य वायुभक्षः समाहितः ॥ ७.१,३४.५२ अष्टेष्टकाभिः प्रसादं कृत्वा लिंगं च मृन्मयम् ॥ ७.१,३४.५३ तत्रावाह्य महादेवं सांबं सगणमव्ययम् ॥ ७.१,३४.५३ ५४२ भक्त्या पञ्चाक्षरेणैव पुत्रैः पुष्पैर्वनोद्भवैः ॥ ७.१,३४.५४ समभ्यर्च्य चिरं कालं चचार परमं तपः ॥ ७.१,३४.५४ ततस्तपश्चरत्तं तं बालमेकाकिनं कृशम् ॥ ७.१,३४.५५ उपमन्युं द्विजवरं शिवसंसक्तमानसम् ॥ ७.१,३४.५५ पुरा मरीचिना शप्ताः केचिन्मुनिपिशाचकाः ॥ ७.१,३४.५६ संपीड्य राक्षसैर्भावैस्तपसोविघ्नमाचरन् ॥ ७.१,३४.५६ स च तैः पीड्यमानो ऽपि तपः कुर्वन्कथञ्चन ॥ ७.१,३४.५७ सदा नमः शिवायेति क्रोशति स्मार्तनादवत् ॥ ७.१,३४.५७ तन्नादश्रवणादेव तपसो विघ्नकारिणः ॥ ७.१,३४.५८ ते तं बालं समुत्सृज्य मुनयस्समुपाचरन् ॥ ७.१,३४.५८ तपसा तस्य विप्रस्य चोपमन्योर्महात्मनः ॥ ७.१,३४.५९ चराचरं च मुनयः प्रदीपितमभूज्जगत् ॥ ७.१,३४.५९ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे उपमन्युतपोवर्णनं नाम चतुस्त्रिंशो ऽध्यायः अध्याय ३५ वायुरुवाच अथ सर्वे प्रदीप्तांगा वैकुण्ठं प्रययुर्द्रुतम् ॥ ७.१,३५.१ प्रणम्याहुश्च तत्सर्वं हरये देवसत्तमाः ॥ ७.१,३५.१ श्रुत्वा तेषां तदा वाक्यं भगवान्पुरुषोत्तमः ॥ ७.१,३५.२ किमिदन्त्विति संचिन्त्य ज्ञात्वा तत्कारणं च सः ॥ ७.१,३५.२ जगाम मन्दरं तूर्णं महेश्वरदिदृक्षया ॥ ७.१,३५.३ दृष्ट्वा देवं प्रणम्यैवं प्रोवाच सुकृतांजलिः ॥ ७.१,३५.३ विष्णुरुवाच भगवन्ब्राह्मणः कश्चिदुपमन्युरिति श्रुतः ॥ ७.१,३५.४ क्षीरार्थमदहत्सर्वं तपसा तन्निवारय ॥ ७.१,३५.४ वायुरुवाच इति श्रुत्वा वचो विष्णोः प्राह देवो महेश्वरः ॥ ७.१,३५.५ शिशुं निवारयिष्यामि तत्त्वं गच्छ स्वमाश्रमम् ॥ ७.१,३५.५ तच्छ्रुत्वा शंभुवचनं स विष्णुर्देववल्लभः ॥ ७.१,३५.६ जगामाश्वास्य तान्सर्वान्स्वलोकममरादिकान् ॥ ७.१,३५.६ एतस्मिन्नंतरे देवः पिनाकी परमेश्वरः ॥ ७.१,३५.७ शक्रस्य रूपमास्थाय गन्तुं चक्रे मतिं ततः ॥ ७.१,३५.७ अथ जगाम मुनेस्तु तपोवनं गजवरेण सितेन सदाशिवः ॥ ७.१,३५.८ सह सुरासुरसिद्धमहोरगैरमरराजतनुं स्वयमास्थितः ॥ ७.१,३५.८ स वारणश्चारु तदा विभुं तं निवीज्य वालव्यजनेन दिव्यम् ॥ ७.१,३५.९ दधार शच्या सहितं सुरेंद्रं करेण वामेन शितातपत्रम् ॥ ७.१,३५.९ रराज भगवान्सोमः शक्ररूपी सदाशिवः ॥ ७.१,३५.१० तेनातपत्रेण यथा चन्द्रबिंबेन मन्दरः ॥ ७.१,३५.१० आस्थायैवं हि शक्रस्य स्वरूपं परमेश्वरः ॥ ७.१,३५.११ जगामानुग्रहं कर्तुमुपमन्योस्तदाश्रमम् ॥ ७.१,३५.११ तं दृष्ट्वा परमेशानं शक्ररूपधरं शिवम् ॥ ७.१,३५.१२ प्रणम्य शिरसा प्राह महामुनिवरः स्वयम् ॥ ७.१,३५.१२ उपमन्युरुवाच पावितश्चाश्रमस्सो ऽयं मम देवेश्वर स्वयम् ॥ ७.१,३५.१३ प्राप्तो यत्त्वं जगन्नाथ भगवन्देवसत्तम ॥ ७.१,३५.१३ वायुरुवाच एवमुक्त्वा स्थितं प्रेक्ष्य कृतांजलिपुटं द्विजम् ॥ ७.१,३५.१४ ५४३ प्राह गंभीरया वाचा शक्ररूपधरो हरः ॥ ७.१,३५.१४ शक्र उवाच तुष्टो ऽस्मि ते वरं ब्रूहि तपसानेन सुव्रत ॥ ७.१,३५.१५ ददामि चेप्सितान्सर्वान्धौम्याग्रज महामुने ॥ ७.१,३५.१५ वायुरुवाच एवमुक्तस्तदा तेन शक्रेण मुनिपुंगवः ॥ ७.१,३५.१६ वारयामि शिवे भक्तिमित्युवाच कृताञ्जलिः ॥ ७.१,३५.१६ तन्निशम्य हरिः १ प्राह मां न जानासि लेखपम् ॥ ७.१,३५.१७ त्रैलोक्याधिपतिं शक्रं सर्वदेवनमस्कृतम् ॥ ७.१,३५.१७ मद्भक्तो भव विप्रर्षे मामेवार्चय सर्वदा ॥ ७.१,३५.१८ ददामि सर्वं भद्रं ते त्यज रुद्रं च निर्गुणम् ॥ ७.१,३५.१८ रुद्रेण निर्गुणेनापि किं ते कार्यं भविष्यति ॥ ७.१,३५.१९ देवपङ्क्तिबहिर्भूतो यः पिशाचत्वमागतः ॥ ७.१,३५.१९ वायुरुवाच तच्छ्रुत्वा प्राह स मुनिर्जपन्पञ्चाक्षरं मनुम् ॥ ७.१,३५.२० मन्यमानो धर्मविघ्नं प्राह तं कर्तुमागतम् ॥ ७.१,३५.२० उपमन्युरुवाच त्वयैवं कथितं सर्वं भवनिंदारतेन वै ॥ ७.१,३५.२१ प्रसंगादेव देवस्य निर्गुणत्वं महात्मनः ॥ ७.१,३५.२१ त्वं न जानामि वै रुद्रं सर्वदेवेश्वरेश्वरम् ॥ ७.१,३५.२२ ब्रह्मविष्णुमहेशानां जनक प्रकृतेः परम् ॥ ७.१,३५.२२ सदसद्व्यक्तमव्यक्तं यमाहुर्ब्रह्मवादिनः ॥ ७.१,३५.२३ नित्यमेकमनेकं च वरं तस्माद्वृणोम्यहम् ॥ ७.१,३५.२३ हेतुवादविनिर्मुक्तं सांख्ययोगार्थदम्परम् ॥ ७.१,३५.२४ उपासते यं तत्त्वज्ञा वरं तस्माद्वृणोम्यहम् ॥ ७.१,३५.२४ नास्ति शंभोः परं तत्त्वं सर्वकारणकारणात् ॥ ७.१,३५.२५ ब्रह्मविष्ण्वादिदेवानां स्रष्टुर्गुणपराद्विभोः ॥ ७.१,३५.२५ बहुनात्र किमुक्तेन मयाद्यानुमितं महत् ॥ ७.१,३५.२६ भवांतरे कृतं पापं श्रुता निन्दा भवस्य चेत् ॥ ७.१,३५.२६ श्रुत्वा निंदां भवस्याथ तत्क्षणादेव सन्त्यजेत् ॥ ७.१,३५.२७ स्वदेहं तन्निहत्याशु शिवलोकं स गच्छति ॥ ७.१,३५.२७ आस्तां तावन्ममेच्छेयं क्षीरं प्रति सुराधम ॥ ७.१,३५.२८ निहत्य त्वां शिवास्त्रेण त्यजाम्येतं कलेवरम् ॥ ७.१,३५.२८ वायुरुवाच एवमुक्त्वोपमन्युस्तं मर्तुं व्यवसितस्स्वयम् ॥ ७.१,३५.२९ क्षीरे वाञ्छामपि त्यक्त्वा निहन्तुं शक्रमुद्यतः ॥ ७.१,३५.२९ भस्मादाय तदा घोरमघोरास्त्राभिमंत्रितम् ॥ ७.१,३५.३० विसृज्य शक्रमुद्दिश्य ननाद स मुनिस्तदा ॥ ७.१,३५.३० स्मृत्वा शंभुपदद्वंद्वं स्वदेहं दुग्धुमुद्यतः ॥ ७.१,३५.३१ आग्नेयीं धारणां बिभ्रदुपमन्युरवस्थितः ॥ ७.१,३५.३१ एवं व्यवसिते विप्रे भगवान्भगनेत्रहा ॥ ७.१,३५.३२ वारयामास सौम्येन धारणां तस्य योगिनः ॥ ७.१,३५.३२ तद्विसृष्टमघोरास्त्रं नंदीश्वरनियोगतः ॥ ७.१,३५.३३ जगृहे मध्यतः क्षिप्तं नन्दी शंकरवल्लभः ॥ ७.१,३५.३३ १ इन्द्रः ५४३ स्वं रूपमेव भगवानास्थाय परमेश्वरः ॥ ७.१,३५.३४ दर्शयामास शिप्राय बालेन्दुकृतशेखरम् ॥ ७.१,३५.३४ क्षीरार्णवसहस्रं च पीयूषार्णवमेव वा ॥ ७.१,३५.३५ दध्यादेरर्णवांश्चैव घृतोदार्णवमेव च ॥ ७.१,३५.३५ फलार्णवं च बालस्य भक्ष्य भोज्यार्णवं तथा ॥ ७.१,३५.३६ अपूपानां गिरिं चैव दर्शयामास स प्रभुः ॥ ७.१,३५.३६ एवं स ददृशे देवो देव्या सार्धं वृषोपरि ॥ ७.१,३५.३७ गणेश्वरैस्त्रिशूलाद्यैर्दिव्यास्त्रैरपि संवृतः ॥ ७.१,३५.३७ दिवि दुंदुभयो नेदुः पुष्पवृष्टिः पपात च ॥ ७.१,३५.३८ विष्णुब्रह्मेन्द्रप्रमुखैर्देवैश्छन्ना दिशो दश ॥ ७.१,३५.३८ अथोपमन्युरानन्दसमुद्रोर्मिभिरावृतः ॥ ७.१,३५.३९ पपात दण्डवद्भूमौ भक्तिनम्रेण चेतसा ॥ ७.१,३५.३९ एतस्मिन्समये तत्र सस्मितो भगवान्भवः ॥ ७.१,३५.४० एह्येहीति तमाहूय मूर्ध्न्याघ्राय ददौ वरान् ॥ ७.१,३५.४० शिव उवाच भक्ष्यभोज्यान्यथाकामं बान्धवैर्भुक्ष्व सर्वदा ॥ ७.१,३५.४१ सुखी भव सदा दुःखान्निर्मुक्ता भक्तिमान्मम ॥ ७.१,३५.४१ उपमन्यो महाभाग तवाम्बैषा हि पार्वती ॥ ७.१,३५.४२ मया पुत्रीकृतो ह्यद्य दत्तः क्षीरोदकार्णवः ॥ ७.१,३५.४२ मधुनश्चार्णवश्चैव दध्यन्नार्णव एव च ॥ ७.१,३५.४३ आज्यौदनार्णवश्चैव फलाद्यर्णव एव च ॥ ७.१,३५.४३ अपूपगिरयश्चैव भक्ष्यभोज्यार्णवस्तथा ॥ ७.१,३५.४४ एते दत्ता मया ते हि त्वं गृह्णीष्व महामुने ॥ ७.१,३५.४४ पिता तव महादेवो माता वै जगदम्बिका ॥ ७.१,३५.४५ अमरत्वं मया दत्तं गाणपत्यं च शाश्वतम् ॥ ७.१,३५.४५ वरान्वरय सुप्रीत्या मनो ऽभिलषितान्परान् ॥ ७.१,३५.४६ प्रसन्नो ऽहं प्रदास्यामि नात्र कार्या विचारणा ॥ ७.१,३५.४६ वायुरुवाच एवमुक्त्वा महादेवः कराभ्यामुपगृह्यतम् ॥ ७.१,३५.४७ मूर्ध्न्याघ्राय सुतस्ते ऽयमिति देव्यै न्यवेदयत् ॥ ७.१,३५.४७ देवी च गुहवत्प्रीत्या मूर्ध्नि तस्य कराम्बुजम् ॥ ७.१,३५.४८ विन्यस्य प्रददौ तस्मै कुमारपदमव्ययम् ॥ ७.१,३५.४८ क्षीराब्धिरपि साकारः क्षीरं स्वादु करे दधत् ॥ ७.१,३५.४९ उपस्थाय ददौ पिण्डीभूतं क्षीरमनश्वरम् ॥ ७.१,३५.४९ योगैश्वर्यं सदा तुष्टिं ब्रह्मविद्यामनश्वराम् ॥ ७.१,३५.५० समृद्धिं परमान्तस्मै ददौ संतुष्टमानसः ॥ ७.१,३५.५० अथ शंभुः प्रसन्नात्मा दृष्ट्वा तस्य तपोमहः ॥ ७.१,३५.५१ पुनर्ददौ वरं दिव्यं मुनये ह्युपमन्यवे ॥ ७.१,३५.५१ व्रतं पाशुपतं ज्ञानं व्रतयोगं च तत्त्वतः ॥ ७.१,३५.५२ ददौ तस्मै प्रवक्तृत्वपाटवं सुचिरं परम् ॥ ७.१,३५.५२ सो ऽपि लब्ध्वा वरान्दिव्यान्कुमारत्वं च सर्वदा ॥ ७.१,३५.५३ तस्माच्छिवाच्च तस्याश्च शिवाया मुदितो ऽभवत् ॥ ७.१,३५.५३ ततः प्रसन्नचेतस्कः सुप्रणम्य कृतांजलिः ॥ ७.१,३५.५४ ययाचे स वरं विप्रो देवदेवान्महेश्वरात् ॥ ७.१,३५.५४ उपमन्युरुवाच प्रसीद देवदेवेश प्रसीद परमेश्वर ॥ ७.१,३५.५५ स्वभक्तिन्देहि परमान्दिव्यामव्यभिचारिणीम् ॥ ७.१,३५.५५ ५४४ श्रद्धान्देहि महादेव द्वसम्बन्धिषु मे सदा ॥ ७.१,३५.५६ स्वदास्यं परमं स्नेहं सान्निध्यं चैव सर्वदा ॥ ७.१,३५.५६ एवमुक्त्वा प्रसन्नात्माहर्षगद्गदया गिरा ॥ ७.१,३५.५७ सतुष्टाव महादेवमुपमन्युर्द्विजोत्तमः ॥ ७.१,३५.५७ उपमन्युरुवाच देवदेव महादेव शरणागतवत्सल ॥ ७.१,३५.५८ प्रसीद करुणासिंधो साम्ब शंकर सर्वदा ॥ ७.१,३५.५८ वायुरुवाच एवमुक्तो महादेवः सर्वेषां च वरप्रदः ॥ ७.१,३५.५९ प्रत्युवाच प्रसन्नात्मोपमन्युं मुनिसत्तमम् ॥ ७.१,३५.५९ शिव उवाच वत्सोपमन्यो तुष्टो ऽस्मि सर्वं दत्तं मया हि ते ॥ ७.१,३५.६० दृढभक्तो ऽसि विप्रर्षे मया विज्ञासितो ह्यसि ॥ ७.१,३५.६० अजरश्चामरश्चैव भव त्वन्दुःखवर्जितः ॥ ७.१,३५.६१ यशस्वी तेजसा युक्तो दिव्यज्ञानसमन्वितः ॥ ७.१,३५.६१ अक्षया बान्धवाश्चैव कुलं गोत्रं च ते सदा ॥ ७.१,३५.६२ भविष्यति द्विजश्रेष्ठ मयि भक्तिश्च शाश्वती ॥ ७.१,३५.६२ सान्निध्यं चाश्रमे नित्यं करिष्यामि द्विजोत्तम ॥ ७.१,३५.६३ उपकंठं मम त्वं वै सानन्दं विहरिष्यसि ॥ ७.१,३५.६३ एवमुक्त्वा स भगवान्सूर्यकोटिसमप्रभः ॥ ७.१,३५.६४ ईशानस्स वरान्दत्त्वा तत्रैवान्तर्दधे हरः ॥ ७.१,३५.६४ उपमन्युः प्रसन्नात्मा प्राप्य तस्माद्वराद्वरान् ॥ ७.१,३५.६५ जगाम जननीस्थानं सुखं प्रापाधिकं च सः ॥ ७.१,३५.६५ इति श्रीशिवमहापुराणे वैयासिक्यां चतुर्विंशतिसाहस्र्यां संहितायां तदन्तर्गतायां सप्तम्यां वायवीयसंहितायां पूर्वखण्डे उपमन्युचरितवर्णनं नाम पञ्चत्रिंशो ऽध्यायः समाप्तो ऽयं सप्तम्या वायवीयसंहितायाः पूर्वखण्डः ॥ श्रीः ॥ ५४४ __________________________________________________________ श्रीगणेशाय नमः ॥ श्रीगौरीशंकराभ्यां नमः ॥ अथ सप्तम्यां वायवीयसंहितायामुत्तरखण्डः प्रारभ्यते ॥ अध्याय १ ओं नमस्समस्तसंसारचक्रभ्रमणहेतवे ॥ ७.२,१.१ गौरीकुचतटद्वन्द्वकुंकुमांकितवक्षसे ॥ ७.२,१.१ सूत उवाच उक्त्वा भगवतो लब्धप्रसादादुपमन्युना ॥ ७.२,१.२ नियमादुत्थितो वायुर्मध्ये प्राप्ते दिवाकरे ॥ ७.२,१.२ ऋषयश्चापि ते सर्वे नैमिषारण्यवासिनः ॥ ७.२,१.३ अथायमर्थः प्रष्टव्य इति कृत्वा विनिश्चयम् ॥ ७.२,१.३ कृत्वा यथा स्वकं कृत्यं प्रत्यहं ते यथा पुरा ॥ ७.२,१.४ भगवंतमुपायांतं समीक्ष्य समुपाविशन् ॥ ७.२,१.४ अथासौ नियमस्यांते भगवानम्बरोद्भवः ॥ ७.२,१.५ मध्ये मुनिसभायास्तु भेजे कॢप्तं वरासनम् ॥ ७.२,१.५ सुखासनोपविष्टश्च वायुर्लोकनमस्कृतः ॥ ७.२,१.६ श्रीमद्विभूतिमीशस्य हृदि कृत्वेदमब्रवीत् ॥ ७.२,१.६ तं प्रपद्ये महादेवं सर्वज्ञमपराजितम् ॥ ७.२,१.७ विभूतिस्सकलं यस्य चराचरमिदं जगत् ॥ ७.२,१.७ इत्याकर्ण्य शुभां वाणीमृषयः क्षीणकल्मषाः ॥ ७.२,१.८ विभूतिविस्तरं श्रोतुमूचुस्ते परमं वचः ॥ ७.२,१.८ ऋषय ऊचुः उक्तं भगवता वृत्तमुपमन्योर्महात्मनः ॥ ७.२,१.९ क्षीरार्थेनापि तपसा यत्प्राप्तं परमेश्वरात् ॥ ७.२,१.९ दृष्टो ऽसौ वासुदेवेन कृष्णेनाक्लिष्टकर्मणा ॥ ७.२,१.१० धौम्याग्रजस्ततस्तेन कृत्वा पाशुपतं व्रतम् ॥ ७.२,१.१० प्राप्तं च परमं ज्ञानमिति प्रागेव शुश्रुम ॥ ७.२,१.११ कथं स लब्धवान् कृष्णो ज्ञानं पाशुपतं परम् ॥ ७.२,१.११ वायुरुवाच स्वेच्छया ह्यवतीर्णोपि वासुदेवस्सनातनः ॥ ७.२,१.१२ निंदयन्निव मानुष्यं देहशुद्धिं चकार सः ॥ ७.२,१.१२ पुत्रार्थं हि तपस्तप्तुं गतस्तस्य महामुनेः ॥ ७.२,१.१३ आश्रमं मुनिभिर्दृष्टं दृष्टवांस्तत्र वै मुनिम् ॥ ७.२,१.१३ भस्मावदातसर्वांगं त्रिपुंड्रांकितमस्तकम् ॥ ७.२,१.१४ रुद्राक्षमालाभरणं जटामंडलमंडितम् ॥ ७.२,१.१४ तच्छिष्यभूतैर्मुनिभिश्शास्त्रैर्वेदमिवावृतम् ॥ ७.२,१.१५ शिवध्यानरतं शांतमुपमन्युं महाद्युतिम् ॥ ७.२,१.१५ नमश्चकार तं दृष्ट्वा हृष्टसर्वतनूरुहः ॥ ७.२,१.१६ बहुमानेन कृष्णो ऽसौ त्रिः कृत्वा तु प्रदक्षिणाम् ॥ ७.२,१.१६ स्तुतिं चकार सुप्रीत्या नतस्कंधः कृताञ्जलिः ॥ ७.२,१.१६ तस्यावलोकनादेव मुनेः कृष्णस्य धीमतः ॥ ७.२,१.१७ नष्टमासीन्मलं सर्वं मायाजं कार्ममेव च ॥ ७.२,१.१७ तपःक्षीणमलं कृष्णमुपमन्युर्यथाविधिः ॥ ७.२,१.१८ भस्मनोद्धूल्य तं मन्त्रैरग्निरित्यादिभिः क्रमात् ॥ ७.२,१.१८ अथ पाशुपतं साक्षाद्व्रतं द्वादशमासिकम् ॥ ७.२,१.१९ कारयित्वा मुनिस्तस्मै प्रददौ ज्ञानमुत्तमम् ॥ ७.२,१.१९ तदाप्रभृति तं कृष्णं मुनयश्शंसितव्रताः ॥ ७.२,१.२० दिव्याः पाशुपताः सर्वे परिवृत्योपतस्थिरे ॥ ७.२,१.२० ततो गुरुनियोगाद्वै कृष्णः परमशक्तिमान् ॥ ७.२,१.२१ ५४५ तपश्चकार पुत्रार्थं सांबमुद्दिश्य शंकरम् ॥ ७.२,१.२१ तपसो तेन वर्षांते दृष्टो ऽसौ परमेश्वरः ॥ ७.२,१.२२ श्रिया परमया युक्तस्सांबश्च सगणश्शिवः ॥ ७.२,१.२२ वरार्थमाविर्भूतस्य हरस्य सुभगाकृतेः ॥ ७.२,१.२३ स्तुतिं चकार नत्वासौ कृष्णः सम्यक्कृतांजलिः ॥ ७.२,१.२३ सांबं समगणव्यग्रो लब्धवान्पुत्रमात्मनः ॥ ७.२,१.२४ तपसा तुष्टचित्तेन दत्तं विष्णोश्शिवेन वै ॥ ७.२,१.२४ यस्मात्सांबो महादेवः प्रददौ पुत्रमात्मनः ॥ ७.२,१.२५ तस्माज्जांबवतीसूनुं सांबं चक्रे स नामतः ॥ ७.२,१.२५ तदेतत्कथितं सर्वं कृष्णस्यामितकर्मणः ॥ ७.२,१.२६ महर्षेर्ज्ञानलाभश्च पुत्रलाभश्च शंकरात् ॥ ७.२,१.२६ य इदं कीर्तयेन्नित्यं शृणुयाच्छ्रावयेत्तथा ॥ ७.२,१.२७ स विष्णोर्ज्ञानमासाद्य तेनैव सह मोदते ॥ ७.२,१.२७ ओं इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे कृष्णपुत्रप्राप्तिवर्णनं नम प्रथमो ऽध्यायः अध्याय २ ऋषय ऊचुः किं तत्पाशुपतं ज्ञानं कथं पशुपतिश्शिवः ॥ ७.२,२.१ कथं धौम्याग्रजः पृष्टः कृष्णेनाक्लिष्टकर्मणा ॥ ७.२,२.१ एतत्सर्वं समाचक्ष्व वायो शंकरविग्रह ॥ ७.२,२.२ तत्समो न हि वक्तास्ति त्रैलोक्येष्वपरः प्रभुः ॥ ७.२,२.२ सूत उवाच इत्याकर्ण्य वचस्तेषां महर्षीणां प्रभंजनः ॥ ७.२,२.३ संस्मृत्य शिवमीशानं प्रवक्तुमुपचक्रमे ॥ ७.२,२.३ वायुरुवाच पुरा साक्षान्महेशेन श्रीकंठाख्येन मन्दरे ॥ ७.२,२.४ देव्यै देवेन कथितं ज्ञानं पाशुपतं परम् ॥ ७.२,२.४ तदेव पृष्टं कृष्णेन विष्णुना विश्वयोनिना ॥ ७.२,२.५ पशुत्वं च सुरादीनां पतित्वं च शिवस्य च ॥ ७.२,२.५ यथोपदिष्टं कृष्णाय मुनिना ह्युपमन्युना ॥ ७.२,२.६ तथा समासतो वक्ष्ये तच्छृणुध्वमतंद्रिताः ॥ ७.२,२.६ पुरोपमन्युमासीनं विष्णुःकृष्णवपुर्धरः ॥ ७.२,२.७ प्रणिपत्य यथान्यायमिदं वचनमब्रवीत् ॥ ७.२,२.७ श्रीकृष्ण उवाच भगवञ्छ्रोतुमिच्छामि देव्यै देवेन भाषितम् ॥ ७.२,२.८ दिव्यं पाशुपतं ज्ञानं विभूतिं वास्य कृत्स्नशः ॥ ७.२,२.८ कथं पशुपतिर्देवः पशवः के प्रकीर्तिताः ॥ ७.२,२.९ कैः पाशैस्ते निबध्यंते विमुच्यंते च ते कथम् ॥ ७.२,२.९ इति संचोदितः श्रीमानुपमन्युर्महात्मना ॥ ७.२,२.१० प्रणम्य देवं देवीं च प्राह पुष्टो यथा तथा ॥ ७.२,२.१० उपमन्युरुवाच ब्रह्माद्याः स्थावरांताश्च देवदेवस्य शूलिनः ॥ ७.२,२.११ पशवः परिकीर्त्यंते संसारवशवर्तिनः ॥ ७.२,२.११ तेषां पतित्वाद्देवेशः शिवः पशुपतिः स्मृतः ॥ ७.२,२.१२ मलमायादिभिः पाशैः स बध्नाति पशून्पतिः ॥ ७.२,२.१२ स एव मोचकस्तेषां भक्त्या सम्यगुपासितः ॥ ७.२,२.१३ चतुर्विंशतितत्त्वानि मायाकर्मगुणा अमी ॥ ७.२,२.१३ विषया इति कथ्यन्ते पाशा जीवनिबन्धनाः ॥ ७.२,२.१४ ब्रह्मादिस्तम्बपर्यंतान् पशून्बद्ध्वा महेश्वरः ॥ ७.२,२.१४ ५४५ पाशैरेतैः पतिर्देवः कार्यं कारयति स्वकम् ॥ ७.२,२.१५ तस्याज्ञया महेशस्य प्रकृतिः पुरुषोचिताम् ॥ ७.२,२.१५ बुद्धिं प्रसूते सा बुद्धिरहंकारमहंकृतिः ॥ ७.२,२.१६ इन्द्रियाणि दशैकं च तन्मात्रापञ्चकं तथा ॥ ७.२,२.१६ शासनाद्देवदेवस्य शिवस्य शिवदायिनः ॥ ७.२,२.१७ तन्मात्राण्यपि तस्यैव शासनेन महीयसा ॥ ७.२,२.१७ महाभूतान्यशेषाणि भावयंत्यनुपूर्वशः ॥ ७.२,२.१८ ब्रह्मादीनां तृणान्तानां देहिनां देहसंगतिम् ॥ ७.२,२.१८ महाभूतान्यशेषाणि जनयंति शिवाज्ञया ॥ ७.२,२.१९ अध्यवस्यति वै बुद्धिरहंकारोभिमन्यते ॥ ७.२,२.१९ चित्तं चेतयते चापि मनः संकल्पयत्यपि ॥ ७.२,२.२० श्रोत्रादीनि च गृह्णन्ति शब्दादीन्विषयान् पृथक् ॥ ७.२,२.२० स्वानेव नान्यान्देवस्य दिव्येनाज्ञाबलेन वै ॥ ७.२,२.२१ वागादीन्यपि यान्यासंस्तानि कर्मेन्द्रियाणि च ॥ ७.२,२.२१ यथा स्वं कर्म कुर्वन्ति नान्यत्किंचिच्छिवाज्ञया ॥ ७.२,२.२२ शब्दादयोपि गृह्यंते क्रियन्ते वचनादयः ॥ ७.२,२.२२ अविलंघ्या हि सर्वेषामाज्ञा शंभोर्गरीयसी ॥ ७.२,२.२३ अवकाशमशेषाणां भूतानां संप्रयच्छति ॥ ७.२,२.२३ आकाशः परमेशस्य शासनादेव सर्वगः ॥ ७.२,२.२४ प्राणाद्यैश्च तथा नामभेदैरंतर्बहिर्जगत् ॥ ७.२,२.२४ बिभर्ति सर्वं शर्वस्य शासनेन प्रभञ्जनः ॥ ७.२,२.२५ हव्यं वहति देवानां कव्यं कव्याशिनामपि ॥ ७.२,२.२५ पाकाद्यं च करोत्यग्निः परमेश्वरशासनात् ॥ ७.२,२.२६ संजीवनाद्यं सर्वस्य कुर्वत्यापस्तदाज्ञया ॥ ७.२,२.२६ विश्वम्भरा जगन्नित्यं धत्ते विश्वेश्वराज्ञया ॥ ७.२,२.२७ देवान्पात्यसुरान् हंति त्रिलोकमभिरक्षति ॥ ७.२,२.२७ आज्ञया तस्य देवेन्द्रः सर्वैर्देवैरलंघ्यया ॥ ७.२,२.२८ आधिपत्यमपां नित्यं कुरुते वरुणस्सदा ॥ ७.२,२.२८ पाशैर्बध्नाति च यथा दंड्यांस्तस्यैव शासनात् ॥ ७.२,२.२९ ददाति नित्यं यक्षेन्द्रो द्रविणं द्रविणेश्वरः ॥ ७.२,२.२९ पुण्यानुरूपं भूतेभ्यः पुरुषस्यानुशासनात् ॥ ७.२,२.३० करोति संपदः शश्वज्ज्ञानं चापि सुमेधसाम् ॥ ७.२,२.३० निग्रहं चाप्यसाधूनामीशानश्शिवशासनात् ॥ ७.२,२.३१ धत्ते तु धरणीं मूर्ध्ना शेषः शिवनियोगतः ॥ ७.२,२.३१ यामाहुस्तामसीं रौद्रीं मूर्तिमंतकरीं हरेः ॥ ७.२,२.३२ सृजत्यशेषमीशस्य शासनाच्चतुराननः ॥ ७.२,२.३२ अन्याभिर्मूर्तिभिः स्वाभिः पाति चांते निहन्ति च ॥ ७.२,२.३३ विष्णुः पालयते विश्वं कालकालस्य शासनात् ॥ ७.२,२.३३ सृजते त्रसते चापि स्वकाभिस्तनुभिस्त्रिभिः ॥ ७.२,२.३४ हरत्यंते जगत्सर्वं हरस्तस्यैव शासनात् ॥ ७.२,२.३४ सृजत्यपि च विश्वात्मा त्रिधा भिन्नस्तु रक्षति ॥ ७.२,२.३५ कालः करोति सकलं कालस्संहरति प्रजाः ॥ ७.२,२.३५ कालः पालयते विश्वं कालकालस्य शासनात् ॥ ७.२,२.३६ ५४६ त्रिभिरंशैर्जगद्बिभ्रत्तेजोभिर्वृष्टिमादिशन् ॥ ७.२,२.३६ दिवि वर्षत्यसौ भानुर्देवदेवस्य शासनात् ॥ ७.२,२.३७ पुष्णात्योषधिजातानि भूतान्याह्लादयत्यपि ॥ ७.२,२.३७ देवैश्च पीयते चंद्रश्चन्द्रभूषणशासनात् ॥ ७.२,२.३८ आदित्या वसवो रुद्रा अश्विनौ मरुतस्तथा ॥ ७.२,२.३८ खेचरा ऋषयस्सिद्धा भोगिनो मनुजा मृगाः ॥ ७.२,२.३९ पशवः पक्षिणश्चैव कीटाद्याः स्थावराणि च ॥ ७.२,२.३९ नद्यस्समुद्रा गिरयः काननानि सरांसि च ॥ ७.२,२.४० वेदाः सांगाश्च शास्त्राणि मंत्रस्तोममखादयः ॥ ७.२,२.४० कालाग्न्यादिशिवांतानि भुवनानि सहाधिपैः ॥ ७.२,२.४१ ब्रह्मांडान्यप्यसंख्यानि तेषामावरणानि च ॥ ७.२,२.४१ वर्तमानान्यतीतानि भविष्यन्त्यपि कृत्स्नशः ॥ ७.२,२.४२ दिशश्च विदिशश्चैव कालभेदाः कलादयः ॥ ७.२,२.४२ यच्च किंचिज्जगत्यस्मिन् दृश्यते श्रूयते ऽपि वा ॥ ७.२,२.४३ तत्सर्वं शंकरस्याज्ञा बलेन समधिष्ठितम् ॥ ७.२,२.४३ आज्ञाबलात्तस्य धरा स्थितेह धराधरा वारिधराः समुद्राः ॥ ७.२,२.४४ ज्योतिर्गणाः शक्रमुखाश्च देवाः स्थिरं चिरं वा चिदचिद्यदस्ति ॥ ७.२,२.४४ उपमन्युरुवाच अत्याश्चर्यमिदं कृष्ण शंभोरमितकर्मणः ॥ ७.२,२.४५ आज्ञाकृतं शृणुष्वैतच्छ्रुतं श्रुतिमुखे मया ॥ ७.२,२.४५ पुरा किल सुराः सेंद्रा विवदंतः परस्परम् ॥ ७.२,२.४६ असुरान्समरे जित्वा जेताहमहमित्युत ॥ ७.२,२.४६ तदा महेश्वरस्तेषां मध्यतो वरवेषधृक् ॥ ७.२,२.४७ स्वलक्षणैर्विहीनांगः स्वयं यक्ष इवाभवत् ॥ ७.२,२.४७ स तानाह सुरानेकं तृणमादाय भूतले ॥ ७.२,२.४८ य एतद्विकृतं कर्तुं क्षमते स तु दैत्यजित् ॥ ७.२,२.४८ यक्षस्य वचनं श्रुत्वा वज्रपाणिः शचीपतिः ॥ ७.२,२.४९ किंचित्क्रुद्धो विहस्यैनं तृणमादातुमुद्यतः ॥ ७.२,२.४९ न तत्तृणमुपदातुं मनसापि च शक्यते ॥ ७.२,२.५० यथा तथापि तच्छेत्तुं वज्रं वज्रधरो ऽसृजत् ॥ ७.२,२.५० तद्वज्रं निजवज्रेण संसृष्टमिव सर्वतः ॥ ७.२,२.५१ तृणेनाभिहतं तेन तिर्यगग्रं पपात ह ॥ ७.२,२.५१ ततश्चान्ये सुसंरब्धा लोकपाला महाबलाः ॥ ७.२,२.५२ ससृजुस्तृणमुद्दिश्य स्वायुधानि सहस्रशः ॥ ७.२,२.५२ प्रजज्ज्वाल महावह्निः प्रचंडः पवनो ववौ ॥ ७.२,२.५३ प्रवृद्धो ऽपांपतिर्यद्वत्प्रलये समुपस्थिते ॥ ७.२,२.५३ एवं देवैस्समारब्धं तृणमुद्दिश्य यत्नतः ॥ ७.२,२.५४ व्यर्थमासीदहो कृष्ण यक्षस्यात्मबलेन वै ॥ ७.२,२.५४ तदाह यक्षं देवेंद्रः को भवानित्यमर्षितः ॥ ७.२,२.५५ ततस्स पश्यतामेव तेषामंतरधादथ ॥ ७.२,२.५५ तदंतरे हैमवती देवी दिव्यविभूषणा ॥ ७.२,२.५६ आविरासीन्नभोरंगे शोभमाना शुचिस्मिता ॥ ७.२,२.५६ तां दृष्ट्वा विस्मयाविष्टा देवाः शक्रपुरोगमाः ॥ ७.२,२.५७ ५४६ प्रणम्य यक्षं पप्रच्छुः को ऽसौ यक्षो विलक्षणः ॥ ७.२,२.५७ सा ऽब्रवीत्सस्मितं देवी स युष्माकमगोचरः ॥ ७.२,२.५८ तेनेदं भ्रम्यते चक्रं संसाराख्यं चराचरम् ॥ ७.२,२.५८ तेनादौ क्रियते विश्वं तेन संह्रियते पुनः ॥ ७.२,२.५९ न तन्नियन्ता कश्चित्स्यात्तेन सर्वं नियम्यते ॥ ७.२,२.५९ इत्युक्त्वा सा महादेवी तत्रैवांतरधत्त वै ॥ ७.२,२.६० देवाश्च विस्मिताः सर्वे तां प्रणम्य दिवं ययुः ॥ ७.२,२.६० ओं इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखंडे द्वितीयो ऽध्यायः अध्याय ३ उपमन्युरुवाच शृणु कृष्ण महेशस्य शिवस्य परमात्मनः ॥ ७.२,३.१ मूर्त्यात्मभिस्ततं कृत्स्नं जगदेतच्चराचरम् ॥ ७.२,३.१ स शिवस्सर्वमेवेदं स्वकीयाभिश्च मूर्तिभिः ॥ ७.२,३.२ अधितिष्ठत्यमेयात्मा ह्येतत्सर्वमनुस्मृतम् ॥ ७.२,३.२ ब्रह्मा विष्णुस्तथा रुद्रो महेशानस्सदाशिवः ॥ ७.२,३.३ मूर्तयस्तस्य विज्ञेया याभिर्विश्वमिदं ततम् ॥ ७.२,३.३ अथान्याश्चापि तनवः पञ्च ब्रह्मसमाह्वयाः ॥ ७.२,३.४ तनूभिस्ताभिराव्याप्तमिह किंचिन्न विद्यते ॥ ७.२,३.४ ईशानः पुरुषो ऽघोरो वामः सद्यस्तथैव च ॥ ७.२,३.५ ब्रह्माण्येतानि देवस्य मूर्तयः पञ्च विश्रुताः ॥ ७.२,३.५ ईशानाख्या तु या तस्य मूर्तिराद्या गरीयसी ॥ ७.२,३.६ भोक्तारं प्रकृतेः साक्षात्क्षेत्रज्ञमधितिष्ठति ॥ ७.२,३.६ स्थाणोस्तत्पुरुषाख्या या मूर्तिर्मूर्तिमतः प्रभोः ॥ ७.२,३.७ गुणाश्रयात्मकं भोग्यमव्यक्तमधितिष्ठति ॥ ७.२,३.७ धर्माद्यष्टांगसंयुक्तं बुद्धितत्त्वं पिनाकिनः ॥ ७.२,३.८ अधितिष्ठत्यघोराख्या मूर्तिरत्यंतपूजिता ॥ ७.२,३.८ वामदेवाह्वयां मूर्तिं महादेवस्य वेधसः ॥ ७.२,३.९ अहंकृतेरधिष्ठात्रीमाहुरागमवेदिनः ॥ ७.२,३.९ सद्यो जाताह्वयां मूर्तिं शम्भोरमितवर्चसः ॥ ७.२,३.१० मानसः समधिष्ठात्रीं मतिमंतः प्रचक्षते ॥ ७.२,३.१० श्रोत्रस्य वाचः शब्दस्य विभोर्व्योम्नस्तथैव च ॥ ७.२,३.११ ईश्वरीमीश्वरस्येमामीशाख्यां हि विदुर्बुधाः ॥ ७.२,३.११ त्वक्पाणिस्पर्शवायूनामीश्वरीं मूर्तिमैश्वरीम् ॥ ७.२,३.१२ पुरुषाख्यं विदुस्सर्वे पुराणार्थविशारदाः ॥ ७.२,३.१२ चक्षुषश्चरणस्यापि रूपस्याग्नेस्तथैव च ॥ ७.२,३.१३ अघोराख्यामधिष्ठात्रीं मूर्तिमाहुर्मनीषिणः ॥ ७.२,३.१३ रमनायाश्च पायोश्च रसस्यापां तथैव च ॥ ७.२,३.१४ ईश्वरीं वामदेवाख्यां मूर्तिं तन्निरतां विदुः ॥ ७.२,३.१४ घ्राणस्य चैवोपस्थस्य गंधस्य च भुवस्तथा ॥ ७.२,३.१५ सद्यो जाताह्वयां मूर्तिमीश्वरीं संप्रचक्षते ॥ ७.२,३.१५ मूर्तयः पञ्च देवस्य वंदनीयाः प्रयत्नतः ॥ ७.२,३.१६ श्रेयोर्थिभिर्नरैर्नित्यं श्रेयसामेकहेतवः ॥ ७.२,३.१६ तस्य देवादिदेवस्य मूर्त्यष्टकमयं जगत् ॥ ७.२,३.१७ तस्मिन्व्याप्य स्थितं विश्वं सूत्रे मणिगणा इव ॥ ७.२,३.१७ शर्वो भवस्तथा रुद्र उग्रो भीमः पशोः पतिः १ ॥ ७.२,३.१८ १ अलुक्समास आर्षः ५४७ ईशानश्च महादेवो मूर्तयश्चाष्ट विश्रुताः ॥ ७.२,३.१८ भूम्यंभोग्निमरुद्व्योमक्षेत्रज्ञार्कनिशाकराः ॥ ७.२,३.१९ अधिष्ठिता महेशस्य शर्वाद्यैरष्टमूर्तिभिः ॥ ७.२,३.१९ चराचरात्मकं विश्वं धत्ते विश्वंभरात्मिका ॥ ७.२,३.२० शार्वीर्शिवाह्वया मूर्तिरिति शास्त्रस्य निश्चयः ॥ ७.२,३.२० संजीवनं समस्तस्य जगतस्सलिलात्मिका ॥ ७.२,३.२१ भावीति गीयते मूर्तिभवस्य परमात्मनः ॥ ७.२,३.२१ बहिरंतर्गता विश्वं व्याप्य तेजोमयी शुभा ॥ ७.२,३.२२ रौद्री रुद्राव्यया मूर्तिरास्थिता घोररूपिणी ॥ ७.२,३.२२ स्पंदयत्यनिलात्मदं बिभर्ति स्पंदते स्वयम् ॥ ७.२,३.२३ औग्रीति कथ्यते सद्भिर्मूर्तिरुग्रस्य वेधसः ॥ ७.२,३.२३ सर्वावकाशदा सर्वव्यापिका गगनात्मिका ॥ ७.२,३.२४ मूर्तिर्भीमस्य भीमाख्या भूतवृंदस्य भेदिका ॥ ७.२,३.२४ सर्वात्मनामधिष्ठात्री सर्वक्षेत्रनिवासिनी ॥ ७.२,३.२५ मूर्तिः पशुपतेर्ज्ञेया पशुपाशनिकृंतनी ॥ ७.२,३.२५ दीपयंती जगत्सर्वं दिवाकरसमाह्वया ॥ ७.२,३.२६ ईशानाख्यमहेशस्य मूर्तिर्दिवि विसर्पति ॥ ७.२,३.२६ आप्याययति यो विश्वममृतांशुर्निशाकरः ॥ ७.२,३.२७ महादेवस्य सा मूर्तिर्महादेवसमाह्वया ॥ ७.२,३.२७ आत्मा तस्याष्टमी मूर्तिः शिवस्य परमात्मनः ॥ ७.२,३.२८ व्यापिकेतरमूर्तीनां विश्वं तस्माच्छिवात्मकम् ॥ ७.२,३.२८ वृक्षस्य मूलसेकेन शाखाः पुष्यंति वै यथा ॥ ७.२,३.२९ शिवस्य पूजया तद्वत्पुष्यत्यस्य वपुर्जगत् ॥ ७.२,३.२९ सर्वाभयप्रदानं च सर्वानुग्रहणं तथा ॥ ७.२,३.३० सर्वोपकारकरणं शिवस्याराधनं विदुः ॥ ७.२,३.३० यथेह पुत्रपौत्रादेः प्रीत्या प्रीतो भवेत्पिता ॥ ७.२,३.३१ तथा सर्वस्य संप्रीत्या प्रीतो भवति शंकरः ॥ ७.२,३.३१ देहिनो यस्य कस्यापि क्रियते यदि निग्रहः ॥ ७.२,३.३२ अनिष्टमष्टमूर्तेस्तत्कृतमेव न संशयः ॥ ७.२,३.३२ अष्टमूर्त्यात्मना विश्वमधिष्ठाय स्थितं शिवम् ॥ ७.२,३.३३ भजस्व सर्वभावेन रुद्रः परमकारणम् ॥ ७.२,३.३३ ओं इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे तृतीयो ऽध्यायः अध्याय ४ कृष्ण उवाच भगवन्परमेशस्य शर्वस्यामिततेजसः ॥ ७.२,४.१ मूर्तिभिर्विश्वमेवेदं यथा व्याप्तं तथा श्रुतम् ॥ ७.२,४.१ अथैतज्ज्ञातुमिच्छामि याथात्म्यं पमेशयोः ॥ ७.२,४.२ स्त्रीपुंभावात्मकं चेदं ताभ्यां कथमधिष्ठितम् ॥ ७.२,४.२ उपमन्युरुवाच श्रीमद्विभूतिं शिवयोर्याथात्म्यं च समासतः ॥ ७.२,४.३ वक्ष्ये तद्विस्तराद्वक्तुं भवेनापि न शक्यते ॥ ७.२,४.३ शक्तिः साक्षान्महादेवी महादेवश्च शक्तिमान् ॥ ७.२,४.४ तयोर्विभूतिलेशो वै सर्वमेतच्चराचरम् ॥ ७.२,४.४ वस्तु किंचिदचिद्रूपं किंचिद्वस्तु चिदात्मकम् ॥ ७.२,४.५ ५४७ द्वयं शुद्धमशुद्धं च परं चापरमेव च ॥ ७.२,४.५ यत्संसरति चिच्चक्रमचिच्चक्रसमन्वितम् ॥ ७.२,४.६ तदेवाशुद्धमपरमितरं तु परं शुभम् ॥ ७.२,४.६ अपरं च परं चैव द्वयं चिदचिदात्मकम् ॥ ७.२,४.७ शिवस्य च शिवायाश्च स्वाम्यं चैतत्स्वभावतः ॥ ७.२,४.७ शिवयोर्वै वशे विश्वं न विश्वस्य वशे शिवौ ॥ ७.२,४.८ ईशितव्यमिदं यस्मात्तस्माद्विश्वेश्वरौ शिवौ ॥ ७.२,४.८ यथा शिवस्तथा देवी यथा देवी तथा शिवः ॥ ७.२,४.९ नानयोरंतरं विद्याच्चंद्रचन्द्रिकयोरिव ॥ ७.२,४.९ चंद्रो न खलु भात्येष यथा चंद्रिकया विना ॥ ७.२,४.१० न भाति विद्यमानो ऽपि तथा शक्त्या विना शिवः ॥ ७.२,४.१० प्रभया हि विनायद्वद्भानुरेष न विद्यते ॥ ७.२,४.११ प्रभा च भानुना तेन सुतरां तदुपाश्रया ॥ ७.२,४.११ एवं परस्परापेक्षा शक्तिशक्तिमतोः स्थिता ॥ ७.२,४.१२ न शिवेन विना शक्तिर्न शक्त्या च विना शिवः ॥ ७.२,४.१२ शक्तौयया शिवो नित्यं भक्तौ मुक्तौ च देहिनाम् ॥ ७.२,४.१३ आद्या सैका परा शक्तिश्चिन्मयी शिवसंश्रया ॥ ७.२,४.१३ यामाहुरखिलेशस्य तैस्तैरनुगुणैर्गुणैः ॥ ७.२,४.१४ समानधर्मिणीमेव शिवस्य परमात्मनः ॥ ७.२,४.१४ सैका परा च चिद्रूपा शक्तिः प्रसवधर्मिणी ॥ ७.२,४.१५ विभज्य बहुधा विश्वं विदधाति शिवेच्छया ॥ ७.२,४.१५ सा मूलप्रकृतिर्माया त्रिगुणा च त्रिधा स्मृता ॥ ७.२,४.१६ शिवया च विपर्यस्तं यया ततमिदं जगत् ॥ ७.२,४.१६ एकधा च द्विधा चैव तथा शतसहस्रधा ॥ ७.२,४.१७ शक्तयः खलु भिद्यंते बहुधा व्यवहारतः ॥ ७.२,४.१७ शिवेच्छया पराशक्तिः शिवतत्त्वैकतां गता ॥ ७.२,४.१८ ततः परिस्फुरत्यादौ सर्गे तैलं तिलादिव ॥ ७.२,४.१८ ततः क्रियाख्यया शक्त्या शक्तौ शक्तिमदुत्थया ॥ ७.२,४.१९ तस्यां विक्षोभ्यमाणायामादौ नादः समुद्बभौ ॥ ७.२,४.१९ नादाद्विनिःसृतो बिंदुर्बिंदोदेवस्सदाशिवः ॥ ७.२,४.२० तस्मान्महेश्वरो जातः शुद्धविद्या महेश्वरात् ॥ ७.२,४.२० सा वाचामीश्वरी शक्तिर्वागीशाख्या हि शूलिनः ॥ ७.२,४.२१ या सा वर्णस्वरूपेण मातृकेपि विजृम्भते ॥ ७.२,४.२१ अथानंतसमावेशान्माया कालमवासृजत् ॥ ७.२,४.२२ नियतिञ्च कलां विद्यां कलातोरागपूरुषौ ॥ ७.२,४.२२ मायातः पुनरेवाभूदव्यक्तं त्रिगुणात्मकम् ॥ ७.२,४.२३ त्रिगुणाच्च ततो व्यक्ताद्विभक्ताः स्युस्त्रयो गुणाः ॥ ७.२,४.२३ सत्त्वं रजस्तमश्चेति यैर्व्याप्तमखिलं जगत् ॥ ७.२,४.२४ गुणेभ्यः क्षोभ्यमाणेभ्यो गुणेशाख्यास्त्रिमूर्तयः ॥ ७.२,४.२४ अभवन्महदादीनि तत्त्वानि च यथाक्रमम् ॥ ७.२,४.२५ तेभ्यस्स्युरण्डपिण्डानि त्वसंख्यानि शिवाज्ञया ॥ ७.२,४.२५ ५४८ अधिष्ठितान्यनन्ताद्यैर्विद्येशैश्चक्रवर्तिभिः ॥ ७.२,४.२५ शरीरांतरभेदेन शक्तेर्भेदाः प्रकीर्तिताः ॥ ७.२,४.२६ नानारूपास्तु विज्ञेयाः स्थूलसूक्ष्मविभेदतः ॥ ७.२,४.२६ रुद्रस्य रौद्री सा शक्तिर्विष्णौर्वै वैष्णवी मता ॥ ७.२,४.२७ ब्रह्माणी ब्रह्मणः प्रोक्ता चेन्द्रस्यैंद्रीति कथ्यते ॥ ७.२,४.२७ किमत्र बहुनोक्तेन यद्विश्वमिति कीर्तितम् ॥ ७.२,४.२८ शक्यात्मनैव तद्व्याप्तं यथा देहे ऽंतरात्मना ॥ ७.२,४.२८ तस्माच्छक्तिमयं सर्वं जगत्स्थावरजंगमम् ॥ ७.२,४.२९ कला या परमा शक्तिः कथिता परमात्मनः ॥ ७.२,४.२९ एवमेषा परा शक्तिरीश्वरेच्छानुयायिनी ॥ ७.२,४.३० स्थिरं चरं च यद्विश्वं सृजतीति विनिश्चयः ॥ ७.२,४.३० ज्ञानक्रिया चिकीर्षाभिस्तिसृभिस्स्वात्मशक्तिभिः ॥ ७.२,४.३१ शक्तिमानीश्वरः शश्वद्विश्वं व्याप्याधितिष्ठति ॥ ७.२,४.३१ इदमित्थमिदं नेत्थं भवेदित्येवमात्मिका ॥ ७.२,४.३२ इच्छाशक्तिर्महेशस्य नित्या कार्यनियामिका ॥ ७.२,४.३२ ज्ञानशक्तिस्तु तत्कार्यं करणं कारणं तथा ॥ ७.२,४.३३ प्रयोजनं च तत्त्वेन बुद्धिरूपाध्यवस्यति ॥ ७.२,४.३३ यथेप्सितं क्रियाशक्तिर्यथाध्यवसितं जगत् ॥ ७.२,४.३४ कल्पयत्यखिलं कार्यं क्षणात्संकल्परूपिणी ॥ ७.२,४.३४ यथा शक्तित्रयोत्थानं शक्तिप्रसवधर्मिणी ॥ ७.२,४.३५ शक्त्या परमया नुन्ना प्रसूते सकलं जगत् ॥ ७.२,४.३५ एवं शक्तिसमायोगाच्छक्तिमानुच्यते शिवः ॥ ७.२,४.३६ शक्तिशक्तिमदुत्थं तु शाक्तं शैवमिदं जगत् ॥ ७.२,४.३६ यथा न जायते पुत्रः पितरं मातरं विना ॥ ७.२,४.३७ तथा भवं भवानीं च विना नैतच्चराचरम् ॥ ७.२,४.३७ स्त्रीपुंसप्रभवं विश्वं स्त्रीपुंसात्मकमेव च ॥ ७.२,४.३७ स्त्रीपुंसयोर्विभूतिश्च स्त्रीपुंसाभ्यामधिष्ठितम् ॥ ७.२,४.३८ परमात्मा शिवः प्रोक्तश्शिवा सा च प्रकीर्तिता ॥ ७.२,४.३८ शिवस्सदाशिवः प्रोक्तः शिवा सा च मनोन्मनी ॥ ७.२,४.३९ शिवो महेश्वरो ज्ञेयः शिवा मायेति कथ्यते ॥ ७.२,४.३९ पुरुषः परमेशानः प्रकृतिः परमेश्वरी ॥ ७.२,४.४० रुद्रो महेश्वरस्साक्षाद्रुद्राणी रुद्रवल्लभा ॥ ७.२,४.४० विष्णुर्विश्वेश्वरो देवो लक्ष्मीर्विश्वेश्वरप्रिया ॥ ७.२,४.४१ ब्रह्मा शिवो यदा स्रष्टा ब्रह्माणी ब्रह्मणः प्रिया ॥ ७.२,४.४१ भास्करो भगवाञ्छंभुः प्रभा भगवती शिवा ॥ ७.२,४.४२ महेंद्रो मन्मथारातिः शची शैलेन्द्रकन्यका ॥ ७.२,४.४२ जातवेदा महादेवः स्वाहा शर्वार्धदेहिनी ॥ ७.२,४.४३ यमस्त्रियंबको देवस्तत्प्रिया गिरिकन्यका ॥ ७.२,४.४३ निरृतिर्भगवानीशो नैरृती नगनंदनी ॥ ७.२,४.४४ वरुणो भगवान्रुद्रो वारुणी भूधरात्मजा ॥ ७.२,४.४४ बालेंदुशेखरो वायुः शिवा शिवमनोहरा ॥ ७.२,४.४५ यक्षो यज्ञशिरोहर्ता ऋद्धिर्हिमगिरीन्द्रजा ॥ ७.२,४.४५ ५४८ चंद्रार्धशेखरश्चंद्रो रोहिणी रुद्रवल्लभा ॥ ७.२,४.४६ ईशानः परमेशानस्तदार्या परमेश्वरी ॥ ७.२,४.४६ अनंतवलयो ऽनंतो ह्यनंतानंतवल्लभा ॥ ७.२,४.४७ कालाग्निरुद्रः कालारिः काली कालांतकप्रिया ॥ ७.२,४.४७ पुरुषाख्यो मनुश्शंभुः शतरूपा शिवप्रिया ॥ ७.२,४.४८ दक्षस्साक्षान्महादेवः प्रसूतिः परमेश्वरी ॥ ७.२,४.४८ रुचिर्भवो भवानी च बुधैराकूतिरुच्यते ॥ ७.२,४.४९ भृगुर्भगाक्षिहा देवः ख्यातिस्त्रिनयनप्रिया ॥ ७.२,४.४९ मरीचिभगवान्रुद्रः संभूतिश्शर्ववल्लभा ॥ ७.२,४.५० गंगाधरो ऽंगिरा ज्ञेयः स्मृतिः साक्षादुमा स्मृता ॥ ७.२,४.५० पुलस्त्यः शशभृन्मौलिः प्रीतिः कांता पिनाकिनः ॥ ७.२,४.५१ पुलहस्त्रिपुरध्वंसी तत्प्रिया तु शिवप्रिया ॥ ७.२,४.५१ क्रतुध्वंसी क्रतुः प्रोक्तः संनतिर्दयिता विभोः ॥ ७.२,४.५२ त्रिनेत्रो ऽत्रिरुमा साक्षादनसूया स्मृता बुधैः ॥ ७.२,४.५२ कश्यपः कालहा देवो देवमाता महेश्वरी ॥ ७.२,४.५३ वसिष्ठो मन्मथारातिर्देवी साक्षादरुंधती ॥ ७.२,४.५३ शंकरः पुरुषास्सर्वे स्त्रियस्सर्वा महेश्वरी ॥ ७.२,४.५४ सर्वे स्त्रीपुरुषास्तस्मात्तयोरेव विभूतयः ॥ ७.२,४.५४ विषयी भगवानीशो विषयः परमेश्वरी ॥ ७.२,४.५५ श्राव्यं सर्वमुमारूपं श्रोता शूलवरायुधः ॥ ७.२,४.५५ प्रष्टव्यं वस्तुजातं तु धत्ते शंकरवल्लभा ॥ ७.२,४.५६ प्रष्टा स एव विश्वात्मा बालचन्द्रावतंसकः ॥ ७.२,४.५६ द्रष्टव्यं वस्तुरूपं तु बिभर्ति वक्तवल्लभा ॥ ७.२,४.५७ द्रष्टा विश्वेश्वरो देवः शशिखंडशिखामणिः ॥ ७.२,४.५७ रसजातं महादेवी देवो रसयिता शिवः ॥ ७.२,४.५८ प्रेयजातं च गिरिजा प्रेयांश्चैव गराशनः ॥ ७.२,४.५८ मंतव्यवस्तुतां धत्ते सदा देवी महेश्वरी ॥ ७.२,४.५९ मंता स एव विश्वात्मा महादेवो महेश्वरः ॥ ७.२,४.५९ बोद्धव्यवस्तुरूपं तु बिभर्ति भववल्लभा ॥ ७.२,४.६० देवस्स एव भगवान्बोद्धा मुग्धेन्दुशेखरः ॥ ७.२,४.६० प्राणः पिनाकी सर्वेषां प्राणिनां भगवान्प्रभुः ॥ ७.२,४.६१ प्राणस्थितिस्तु सर्वेषामंबिका चांबुरूपिणी ॥ ७.२,४.६१ बिभर्ति क्षेत्रतां देवी त्रिपुरांतकवल्लभा ॥ ७.२,४.६२ क्षेत्रज्ञत्वं तदा धत्ते भगवानंतकांतकः ॥ ७.२,४.६२ अहः शूलायुधो देवः शूलपाणिप्रिया निशा ॥ ७.२,४.६३ आकाशः शंकरो देवः पृथिवी शंकरप्रिया ॥ ७.२,४.६३ समुद्रो भगवानीशो वेला शैलेन्द्रकन्यका ॥ ७.२,४.६४ वृक्षो वृषध्वजो देवो लता विश्वेश्वरप्रिया ॥ ७.२,४.६४ पुंल्लिंगमखिलं धत्ते भगवान्पुरशासनः ॥ ७.२,४.६५ स्त्रिलिंगं चाखिलं धत्ते देवी देवमनोरमा ॥ ७.२,४.६५ शब्दजालमशेषं तु धत्ते सर्वस्य वल्लभा ॥ ७.२,४.६६ अर्थस्वरूपमखिलं धत्ते मुग्धेन्दुशेखरः ॥ ७.२,४.६६ यस्य यस्य पदार्थस्य या या शक्तिरुदाहृता ॥ ७.२,४.६७ सा सा विश्वेश्वरी देवी स स सर्वो महेश्वरः ॥ ७.२,४.६७ ५४९ यत्परं यत्पवित्रं च यत्पुण्यं यच्च मंगलम् ॥ ७.२,४.६८ तत्तदाह महाभागास्तयोस्तेजोविजृंभितम् ॥ ७.२,४.६८ यथा दीपस्य दीप्तस्य शिखा दीपयते गृहम् ॥ ७.२,४.६९ तथा तेजस्तयोरेतद्व्याप्य दीपयते जगत् ॥ ७.२,४.६९ तृणादिशिवमूर्त्यंतं विश्वख्यातिशयक्रमः ॥ ७.२,४.७० सन्निकर्षक्रमवशात्तयोरिति परा श्रुतिः ॥ ७.२,४.७० सर्वाकारात्मकावेतौ सर्वश्रेयोविधायिनौ ॥ ७.२,४.७१ पूजनीयौ नमस्कार्यौ चिंतनीयौ च सर्वदा ॥ ७.२,४.७१ यथाप्रज्ञमिदं कृष्ण याथात्म्यं परमेशयोः ॥ ७.२,४.७२ कथितं हि मया ते ऽद्य न तु तावदियत्तया ॥ ७.२,४.७२ तत्कथं शक्यते वक्तुं याथात्म्यं परमेशयोः ॥ ७.२,४.७३ महतामपि सर्वेषां मनसो ऽपि बहिर्गतम् ॥ ७.२,४.७३ अंतर्गतमनन्यानामीश्वरार्पितचेतसाम् ॥ ७.२,४.७४ अन्येषां बुद्ध्यनारूढमारूढं च यथैव तत् ॥ ७.२,४.७४ येयमुक्ता विभूतिर्वै प्राकृती सा परा मता ॥ ७.२,४.७५ अप्राकृतां परामन्यां गुह्यां गुह्यविदो विदुः ॥ ७.२,४.७५ यतो वाचो निवर्तंते मनसा चेन्द्रियैस्सह ॥ ७.२,४.७६ अप्राकृती परा चैषा विभूतिः पारमेश्वरी ॥ ७.२,४.७६ सैवेह परमं धाम सैवेह परमा गतिः ॥ ७.२,४.७७ सैवेह परमा काष्ठा विभूतिः परमेष्ठिनः ॥ ७.२,४.७७ तां प्राप्तुं प्रयतंते ऽत्र जितश्वासा जितेंद्रियाः ॥ ७.२,४.७८ गर्भकारा गृहद्वारं निश्छिद्रं घटितुं यथा ॥ ७.२,४.७८ संसाराशीविषालीढमृतसंजीवनौषधम् ॥ ७.२,४.७९ विभूतिं शिवयोर्विद्वान्न बिभेति कुतश्चन ॥ ७.२,४.७९ यः परामपरां चैव विभूतिं वेत्ति तत्त्वतः ॥ ७.२,४.८० सो ऽपरो भूतिमुल्लंघ्य परां भूतिं समश्नुते ॥ ७.२,४.८० एतत्ते कथितं कृष्ण याथात्म्यं परमात्मनोः ॥ ७.२,४.८१ रहस्यमपि योग्यो ऽसि भर्गभक्तो भवानिति ॥ ७.२,४.८१ नाशिष्येभ्यो ऽप्यशैवेभ्यो नाभक्तेभ्यः कदाचन ॥ ७.२,४.८२ व्याहरेदीशयोर्भूतिमिति वेदानुशासनम् ॥ ७.२,४.८२ तस्मात्त्वमतिकल्याणपरेभ्यः कथयेन्न हि ॥ ७.२,४.८३ त्वादृशेभ्यो ऽनुरूपेभ्यः कथयैतन्न चान्यथा ॥ ७.२,४.८३ विभूतिमेतां शिवयोर्योग्येभ्यो यः प्रदापयेत् ॥ ७.२,४.८४ संसारसागरान्मुक्तः शिवसायुज्यमाप्नुयात् ॥ ७.२,४.८४ कीर्तनादस्य नश्यंति महान्त्यः पापकोटयः ॥ ७.२,४.८५ त्रिश्चतुर्धासमभ्यस्तैर्विनश्यंति ततो ऽधिकाः ॥ ७.२,४.८५ नश्यंत्यनिष्टरिपवो वर्धन्ते सुहृदस्तथा ॥ ७.२,४.८६ विद्या च वर्धते शैवी मतिस्सत्ये प्रवर्तते ॥ ७.२,४.८६ भक्तिः पराः शिवे साम्बे सानुगे सपरिच्छिदे ॥ ७.२,४.८७ यद्यदिष्टतमं चान्यत्तत्तदाप्नोत्यसंशयम् ॥ ७.२,४.८७ अन्तःशुचिः शिवे भक्तो विस्रब्धः कीर्तयेद्यदि ॥ ७.२,४.८८ प्रबलैः कर्मभिः पूर्वैः फलं चेत्प्रतिबध्यते ॥ ७.२,४.८८ पुनः पुनः समभ्यस्येत्तस्य नास्तीह दुर्ल्लभम् ॥ ७.२,४.८८ ५४९ ओं इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे गौरीशंकरविभूतियोगो नाम चतुर्थो ऽध्यायः अध्याय ५ उपमन्युरुवाच विग्रहं देवदेवस्य विश्वमेतच्चराचरम् ॥ ७.२,५.१ तदेवं न विजानंति पशवः पाशगौरवात् ॥ ७.२,५.१ तमेकमेव बहुधा वदंति यदुनंदन ॥ ७.२,५.२ अजानन्तः परं भावमविकल्पं महर्षयः ॥ ७.२,५.२ अपरं ब्रह्मरूपं च परं ब्रह्मात्मकं तथा ॥ ७.२,५.३ केचिदाहुर्महादेवमनादिनिधनं परम् ॥ ७.२,५.३ भूतेंद्रियांतःकरणप्रधानविषयात्मकम् ॥ ७.२,५.४ अपरं ब्रह्म निर्दिष्टं परं ब्रह्म चिदात्मकम् ॥ ७.२,५.४ बृहत्त्वाद्बृहणत्वाद्वा ब्रह्म चेत्यभिधीयते ॥ ७.२,५.५ उभे ते ब्रह्मणो रूपे ब्रह्मणो ऽधिपतेः प्रभोः ॥ ७.२,५.५ विद्या ऽविद्यास्वरूपीति कैश्चिदीशो निगद्यते ॥ ७.२,५.५ विद्यां तु चेतनां प्राहुस्तथाविद्यामचेतनाम् ॥ ७.२,५.६ विद्या ऽविद्यात्मकं चैव विश्वं विश्वगुरोर्विभोः ॥ ७.२,५.६ रूपमेव न संदेहो विश्वं तस्य वशे यतः ॥ ७.२,५.७ भ्रांतिर्विद्या परा चेति शार्वं रूपं परं विदुः ॥ ७.२,५.७ अयथाबुद्धिरर्थेषु बहुधा भ्रांतिरुच्यते ॥ ७.२,५.८ यथार्थाकारसंवित्तिर्विद्येति परिकीर्त्यते ॥ ७.२,५.८ विकल्परहितं तत्त्वं परमित्यभिधीयते ॥ ७.२,५.९ वैपरीत्यादसच्छब्दः कथ्यते वेदवादिभिः ॥ ७.२,५.९ तयोः पतित्वात्तु शिवः सदसत्पतिरुच्यते ॥ ७.२,५.१० क्षराक्षरात्मकं प्राहुः क्षराक्षरपरं परे ॥ ७.२,५.१० क्षरस्सर्वाणि भूतानि कूटस्थो ऽक्षर उच्यते ॥ ७.२,५.११ उभे ते परमेशस्य रूपे तस्य वशे यतः ॥ ७.२,५.११ तयोः परः शिवः शांतः क्षराक्षरापरस्स्मृतः ॥ ७.२,५.१२ समष्टिव्यष्ठिरूपं च समष्टिव्यष्टिकारणम् ॥ ७.२,५.१२ वदंति मुनयः केचिच्छिवं परमकारणम् ॥ ७.२,५.१३ समष्टिमाहुरव्यक्तं व्यष्टिं व्यक्तं तथैव च ॥ ७.२,५.१३ ते रूपे परमेशस्य तदिच्छायाः प्रवर्तनात् ॥ ७.२,५.१४ तयोः कारणभावेन शिवं परमकारणम् ॥ ७.२,५.१४ कारणार्थविदः प्राहुः समष्टिव्यष्टिकारणम् ॥ ७.२,५.१५ जातिव्यक्तिस्वरूपीति कथ्यते कैश्चिदीश्वरः ॥ ७.२,५.१५ या पिंडेप्यनुवर्तेत सा जातिरिति कथ्यते ॥ ७.२,५.१६ व्यक्तिर्व्यावृत्तिरूपं तं पिण्डजातेः समाश्रयम् ॥ ७.२,५.१६ जातयो व्यक्तयश्चैव तदाज्ञापरिपालिताः ॥ ७.२,५.१७ यतस्ततो महादेवो जातिव्यक्तिवपुः स्मृतः ॥ ७.२,५.१७ प्रधानपुरुषव्यक्तकालात्मा कथ्यते शिवः ॥ ७.२,५.१८ प्रधानं प्रकृतिं प्राहुःक्षेत्रज्ञं पुरुषं तथा ॥ ७.२,५.१८ त्रयोविंशतितत्त्वानि व्यक्तमाहुर्मनीषिणः ॥ ७.२,५.१९ कालः कार्यप्रपञ्चस्य परिणामैककारणम् ॥ ७.२,५.१९ एषामीशो ऽधिपो धाता प्रवर्तकनिवर्तकः ॥ ७.२,५.२० आविर्भावतिरोभावहेतुरेकः स्वराडजः ॥ ७.२,५.२० तस्मात्प्रधानपुरुषव्यक्तकालस्वरूपवान् ॥ ७.२,५.२१ ५५० हेतुर्नेताधिपस्तेषां धाता चोक्ता महेश्वरः ॥ ७.२,५.२१ विराड्ढिरण्यगर्भात्मा कैश्चिदीशो निगद्यते ॥ ७.२,५.२२ हिरण्यगर्भो लोकानां हेतुर्विश्वात्मको विराट् ॥ ७.२,५.२२ अंतर्यामी परश्चेति कथ्यते कविभिश्शिवः ॥ ७.२,५.२३ प्राज्ञस्तैजसविश्वात्मेत्यपरे संप्रचक्षते ॥ ७.२,५.२३ तुरीयमपरे प्राहुः सौम्यमेव परे विदुः ॥ ७.२,५.२४ माता मानं च मेयं च मतिं चाहुरथापरे ॥ ७.२,५.२४ कर्ता क्रिया च कार्यं च करणं कारणं परे ॥ ७.२,५.२५ जाग्रत्स्वप्नसुषुप्त्यात्मेत्यपरे संप्रचक्षते ॥ ७.२,५.२५ तुरीयमपरे प्राहुस्तुर्यातीतमितीतरे ॥ ७.२,५.२६ तमाहुर्विगुणं केचिद्गुणवन्तं परे विदुः ॥ ७.२,५.२६ केचित्संसारिणं प्राहुस्तमसंसारिणं परे ॥ ७.२,५.२७ स्वतंत्रमपरे प्राहुरस्वतंत्रं परे विदुः ॥ ७.२,५.२७ घोरमित्यपरे प्राहुः सौम्यमेव परे विदुः ॥ ७.२,५.२८ रागवंतं परे प्राहुर्वीतरागं तथा परे ॥ ७.२,५.२८ निष्क्रियं च परे प्राहुः सक्रियं चेतरे जनाः ॥ ७.२,५.२९ निरिंद्रियं परे प्राहुः सेंद्रियं च तथापरे ॥ ७.२,५.२९ ध्रुवमित्यपरे प्राहुस्तमध्रुवामितीरते ॥ ७.२,५.३० अरूपं केचिदाहुर्वै रूपवंतं परे विदुः ॥ ७.२,५.३० अदृश्यमपरे प्राहुर्दृश्यमित्यपरे विदुः ॥ ७.२,५.३१ वाच्यमित्यपरे प्राहुरवाच्यमिति चापरे ॥ ७.२,५.३१ शब्दात्मकं परे प्राहुश्शब्दातीतमथापरे ॥ ७.२,५.३१ केचिच्चिन्तामयं प्राहुश्चिन्तया रहितं परे ॥ ७.२,५.३२ ज्ञानात्मकं परे प्राहुर्विज्ञानमिति चापरे ॥ ७.२,५.३२ केचिच्ज्ञेयमिति प्राहुरज्ञेयमिति केचन ॥ ७.२,५.३३ परमेके तमेवाहुरपरं च तथा परे ॥ ७.२,५.३३ एवं विकल्प्यमानं तु याथात्म्यं परमेष्ठिनः ॥ ७.२,५.३४ नाध्यवस्यंति मुनयो नानाप्रत्ययकारणात् ॥ ७.२,५.३४ ये पुनस्सर्वभावेन प्रपन्नाः परमेश्वरम् ॥ ७.२,५.३५ ते हि जानंत्ययत्नेन शिवं परमकारणम् ॥ ७.२,५.३५ यावत्पशुर्नैव पश्यत्यनीशं १ पुराणं भुवनस्येशितारम् ॥ ७.२,५.३६ तावद्दुःखे वर्तते बद्धपाशः संसारे ऽस्मिञ्चक्रनेमिक्रमेण ॥ ७.२,५.३६ यदा २ पश्यः पश्यते रुक्मवर्णं कर्तारमीशं पुरुषं ब्रह्मयोनिम् ॥ ७.२,५.३७ तदाविद्वान्पुण्यपापे विधूय निरंजनः परममुपैति साम्यम् ॥ ७.२,५.३७ ओं इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे पशुपतित्वज्ञानयोगो नाम पञ्चमो ऽध्यायः १ नास्तीशो यस्मात्सो ऽनीश इति बहुव्रीहिः परन्तु क्लिष्टकल्पनापेक्षया यावत्पशुश्चेश्वरं न प्रपश्येदिति पाठे ऽर्थस्सुगमः २ यदा पश्यो वीक्षते रुक्मेति पाठे तु भग्नप्रक्रमस्तस्मादात्मनेपदमार्षमित्येव समाधिः ५५० अध्याय ६ उपमन्युरुवाच नशिवस्याणवो बंधः कार्यो मायेय एव वा ॥ ७.२,६.१ प्राकृतो वाथ बोद्धा वा ह्यहंकारात्मकस्तथा ॥ ७.२,६.१ नैवास्य मानसो बंधो न चैत्तो नेंद्रियात्मकः ॥ ७.२,६.२ न च तन्मात्रबंधो ऽपि भूतबंधो न कश्चन ॥ ७.२,६.२ न च कालः कला चैव न विद्या नियतिस्तथा ॥ ७.२,६.३ न रागो न च विद्वेषः शंभोरमिततेजसः ॥ ७.२,६.३ न चास्त्यभिनिवेशो ऽस्य कुशला ऽकुशलान्यपि ॥ ७.२,६.४ कर्माणि तद्विपाकश्च सुखदुःखे च तत्फले ॥ ७.२,६.४ आशयैर्नापि संबन्धः संस्कारैः कर्मणामपि ॥ ७.२,६.५ भोगैश्च भोगसंस्कारैः कालत्रितयगोचरैः ॥ ७.२,६.५ न तस्य कारणं कर्ता नादिरंतस्तथांतरम् ॥ ७.२,६.६ न कर्म करणं वापि नाकार्यं कार्यमेव च ॥ ७.२,६.६ नास्य बंधुरबंधुर्वा नियंता प्रेरको ऽपि वा ॥ ७.२,६.७ न पतिर्न गुरुस्त्राता नाधिको न समस्तथा ॥ ७.२,६.७ न जन्ममरणे तस्य न कांक्षितमकांक्षितम् ॥ ७.२,६.८ न विधिर्न निषेधश्च न मुक्तिर्न च बन्धनम् ॥ ७.२,६.८ नास्ति यद्यदकल्याणं तत्तदस्य कदाचन ॥ ७.२,६.९ कल्याणं सकलं चास्ति परमात्मा शिवो यतः ॥ ७.२,६.९ स शिवस्सर्वमेवेदमधिष्ठाय स्वशक्तिभिः ॥ ७.२,६.१० अप्रच्युतस्स्वतो भावः स्थितः स्थाणुरतः स्मृतः ॥ ७.२,६.१० शिवेनाधिष्ठितं यस्माज्जगत्स्थावरजंगमम् ॥ ७.२,६.११ सर्वरूपः स्मृतश्शर्वस्तथा ज्ञात्वा न मुह्यति ॥ ७.२,६.११ शर्वो रुद्रो नमस्तस्मै पुरुषः सत्परो महान् ॥ ७.२,६.१२ हिरण्यबाहुर्भगवान्हिरण्यपतिरीश्वरः ॥ ७.२,६.१२ अंबिकापतिरीशानः पिनाकी वृषवाहनः ॥ ७.२,६.१३ एको रुद्रः परं ब्रह्म पुरुषः कृष्णपिंगलः ॥ ७.२,६.१३ बालाग्रमात्रो हृन्मध्ये विचिंत्यो दहरांतरे ॥ ७.२,६.१४ हिरण्यकेशः पद्माक्षो ह्यरुणस्ताम्र एव च ॥ ७.२,६.१४ यो ऽवसर्पत्य सौ देवो नीलग्रीवो हिरण्मयः ॥ ७.२,६.१५ सौम्यो घोरस्तथा मिश्रश्चाक्षारश्चामृतो ऽव्ययः ॥ ७.२,६.१५ स पुंविशेषः परमो भगवानन्तकांतकः ॥ ७.२,६.१६ चेतनचेतनोन्मुक्तः प्रपञ्चाच्च परात्परः ॥ ७.२,६.१६ शिवेनातिशयत्वेन ज्ञानैश्वर्ये विलोकिते ॥ ७.२,६.१७ लोकेशातिशयत्वेन स्थितं प्राहुर्मनीषिणः ॥ ७.२,६.१७ प्रतिसर्गप्रसूतानां ब्रह्मणां शास्त्रविस्तरम् ॥ ७.२,६.१८ उपदेष्टा स एवादौ कालावच्छेदवर्तिनाम् ॥ ७.२,६.१८ कालावच्छेदयुक्तानां गुरूणामप्यसौ गुरुः ॥ ७.२,६.१९ सर्वेषामेव सर्वेशः कालावच्छेदवर्जितः ॥ ७.२,६.१९ शुद्धा स्वाभाविकी तस्य शक्तिस्सर्वातिशायिनी ॥ ७.२,६.२० ज्ञानमप्रतिमं नित्यं वपुरत्यन्तनिर्मितम् ॥ ७.२,६.२० ऐश्वर्यमप्रतिद्वंद्वं सुखमात्यन्तिकं बलम् ॥ ७.२,६.२१ तेजःप्रभावो वीर्यं च क्षमा कारुण्यमेव च ॥ ७.२,६.२१ परिपूर्णस्य सर्गाद्यैर्नात्मनो ऽस्ति प्रयोजनम् ॥ ७.२,६.२२ परानुग्रह एवास्य फलं सर्वस्य कर्मणः ॥ ७.२,६.२२ ५५१ प्रणवो वाचकस्तस्य शिवस्य परमात्मनः ॥ ७.२,६.२३ शिवरुद्रादिशब्दानां प्रणवो हि परस्स्मृतः ॥ ७.२,६.२३ शंभो प्रणववाच्यस्य भवनात्तज्जपादपि ॥ ७.२,६.२४ या सिद्धिस्सा परा प्राप्या भवत्येव न संशयः ॥ ७.२,६.२४ तस्मादेकाक्षरं देवमाहुरागमपारगाः ॥ ७.२,६.२५ वाच्यवाचकयोरैक्यं मन्यमाना मनस्विनः ॥ ७.२,६.२५ अस्य मात्राः समाख्याताश्चतस्रो वेदमूर्धनि ॥ ७.२,६.२६ अकारश्चाप्युकारश्च मकारो नाद इत्यपि ॥ ७.२,६.२६ अकारं बह्वृचं प्राहुरुकारो यजुरुच्यते ॥ ७.२,६.२७ मकारः सामनादोस्य श्रुतिराथर्वणी स्मृताः ॥ ७.२,६.२७ अकारश्च महाबीजं रजः स्रष्टा चतुर्मुखः ॥ ७.२,६.२८ उकारः प्रकृतिर्योनिः सत्त्वं पालयिता हरिः ॥ ७.२,६.२८ मकारः पुरुषो बीजं तमः संहारको हरः ॥ ७.२,६.२९ नादः परः पुमानीशो निर्गुणो निष्क्रियः शिवः ॥ ७.२,६.२९ सर्वं तिसृभिरेवेदं मात्राभिर्निखिलं त्रिधा ॥ ७.२,६.३० अभिधाय शिवात्मानं बोधयत्यर्धमात्रया ॥ ७.२,६.३० यस्मात्परं नापरमस्ति किंचिद्यस्मान्नाणीयो न ज्यायो ऽस्ति किंचित् ॥ ७.२,६.३१ वृक्ष इव स्तब्धो दिवि तिष्ठत्येकस्तेनेदं पूर्णं पुरुषेण सर्वम् ॥ ७.२,६.३१ ओं इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे शिवतत्त्ववर्णनं नाम षष्ठो ऽध्यायः अध्याय ७ उपमन्युरुवच शक्तिस्स्वाभविकी तस्य विद्या विश्वविलक्षणा ॥ ७.२,७.१ एकानेकस्य रूपेण भाति भानोरिव प्रभा ॥ ७.२,७.१ अनंताः शक्तयो यस्या इच्छाज्ञानक्रियादयः ॥ ७.२,७.२ मायाद्याश्चाभवन्वह्नोर्विस्फुलिंगा यथा तथा ॥ ७.२,७.२ सदाशिवेश्वराद्या हि विद्या ऽविद्येश्वरादयः ॥ ७.२,७.३ अभवन्पुरुषाश्चास्याः प्रकृतिश्च परात्परा ॥ ७.२,७.३ महदादिविशेषांतास्त्वजाद्याश्चापि मूर्तयः ॥ ७.२,७.४ यच्चान्यदस्ति तत्सर्वं तस्याः कार्यं न संशयः ॥ ७.२,७.४ सा शक्तिस्सर्वगा सूक्ष्मा प्रबोधानंदरूपिणी ॥ ७.२,७.५ शक्तिमानुच्यते देवश्शिवश्शीतांशुभूषणः ॥ ७.२,७.५ वेद्यश्शिवश्शिवा विद्या प्रज्ञा चैव श्रुतिः स्मृतिः ॥ ७.२,७.६ धृतिरेषा स्थितिर्निष्ठा ज्ञानेच्छाकर्मशक्तयः ॥ ७.२,७.६ आज्ञा चैव परं ब्रह्म द्वे विद्ये च परापरे ॥ ७.२,७.७ शुद्धविद्या शुद्धकला सर्वं शक्तिकृतं यतः ॥ ७.२,७.७ माया च प्रकृतिर्जीवो विकारो विकृतिस्तथा ॥ ७.२,७.८ असच्च सच्च यत्किंचित्तया सर्वमिदं ततम् ॥ ७.२,७.८ सा देवी मायया सर्वं ब्रह्मांडं सचराचरम् ॥ ७.२,७.९ मोहयत्यप्रयत्नेन मोचयत्यपि लीलया ॥ ७.२,७.९ अनया सह सर्वेशः सप्तविंशप्रकारया ॥ ७.२,७.१० विश्वं व्याप्य स्थितस्तस्मान्मुक्तिरत्र प्रवर्तते ॥ ७.२,७.१० मुमुक्षवः पुरा केचिन्मुनयो ब्रह्मवादिनः ॥ ७.२,७.११ संशयाविष्टमनसो विस्मृशंति यथातथम् ॥ ७.२,७.११ ५५१ किं कारणं कुतो जाता जीवामः केन वा वयम् ॥ ७.२,७.१२ कुत्रास्माकं संप्रतिष्ठा केन वाधिष्ठिता वयम् ॥ ७.२,७.१२ केन वर्तामहे शश्वत्सुखेष्वन्येषु चानिशम् ॥ ७.२,७.१३ अविलंघ्या च विश्वस्य व्यवस्था केन वा कृता ॥ ७.२,७.१३ कालस्य भावो नियतिर्यदृच्छा नात्र युज्यते ॥ ७.२,७.१४ भूतानि योनिः पुरुषो योगी चैषां परो ऽथ वा ॥ ७.२,७.१४ अचेतनत्वात्कालादेश्चेतनत्वेपि चात्मनः ॥ ७.२,७.१५ सुखदुःखानि भूतत्वादनीशत्वाद्विचार्यते ॥ ७.२,७.१५ तद्ध्यानयोगानुगतां प्रपश्यञ्छक्तिमैश्वरीम् ॥ ७.२,७.१६ पाशविच्छेदिकां साक्षान्निगूढां स्वगुणैर्भृशम् ॥ ७.२,७.१६ तया विच्छिन्नपाशास्ते सर्वकारणकारणम् ॥ ७.२,७.१७ शक्तिमंतं महादेवमपश्यन्दिव्यचक्षुषा ॥ ७.२,७.१७ यः कारणान्यशेषाणि कालात्मसहितानि च ॥ ७.२,७.१८ अप्रमेयो ऽनया शक्त्या सकलं यो ऽधितिष्ठति ॥ ७.२,७.१८ ततः प्रसादयोगेन योगेन परमेण च ॥ ७.२,७.१९ दृष्टेन भक्तियोगेन दिव्यः गतिमवाप्नुयुः ॥ ७.२,७.१९ तस्मात्सह तथा शक्त्या हृदि पश्यंति ये शिवम् ॥ ७.२,७.२० तेषां शाश्वतिकी शांतिर्नैतरेषामिति श्रुतिः ॥ ७.२,७.२० न हि शक्तिमतश्शक्त्या विप्रयोगो ऽस्ति जातुचित् ॥ ७.२,७.२१ तस्माच्छक्तेः शक्तिमतस्तादात्म्यान्निर्वृतिर्द्वयोः ॥ ७.२,७.२१ क्रमो विवक्षितो नूनं विमुक्तौ ज्ञानकर्मणोः ॥ ७.२,७.२२ प्रसादे सति सा मूर्तिर्यस्मात्करतले स्थिता ॥ ७.२,७.२२ देवो वा दानवो वापि पशुर्वा विहगो ऽपि वा ॥ ७.२,७.२३ कीरो वाथ कृमिर्वापि मुच्यते तत्प्रसादतः ॥ ७.२,७.२३ गर्भस्थो जायमानो वा बालो वा तरुणो.पि वा ॥ ७.२,७.२४ वृद्धो वा म्रियमाणो वा स्वर्गस्थो वाथ नारकी ॥ ७.२,७.२४ पतितो वापि धर्मात्मा पंडितो मूढ एव वा ॥ ७.२,७.२५ प्रसादे तत्क्षणादेव मुच्यते नात्र संशयः ॥ ७.२,७.२५ अयोग्यानां च कारुण्याद्भक्तानां परमेश्वरः ॥ ७.२,७.२६ प्रसीदति न संदेहो विगृह्य विविधान्मलान् ॥ ७.२,७.२६ प्रसदादेव सा भक्तिः प्रसादो भक्तिसंभवः ॥ ७.२,७.२७ अवस्थाभेदमुत्प्रेक्ष्य विद्वांस्तत्र न मुह्यति ॥ ७.२,७.२७ प्रसादपूर्विका येयं भुक्तिमुक्तिविधायिनी ॥ ७.२,७.२८ नैव सा शक्यते प्राप्तुं नरैरेकेन जन्मना ॥ ७.२,७.२८ अनेकजन्मसिद्धानां श्रौतस्मार्तानुवर्तिनाम् ॥ ७.२,७.२९ विरक्तानां प्रबुद्धानां प्रसीदति महेश्वरः ॥ ७.२,७.२९ प्रसन्ने सति देवेश पशौ तस्मिन्प्रवर्तते ॥ ७.२,७.३० अस्ति नाथो ममेत्यल्पा भक्तिर्बुद्धिपुरस्सरा ॥ ७.२,७.३० तपसा विविधैश्शैवैर्धर्मैस्संयुज्यते नरः ॥ ७.२,७.३१ तत्र योगे तदभ्यासस्ततो भक्तिः परा भवेत् ॥ ७.२,७.३१ परया च तया भक्त्या प्रसादो लभ्यते परः ॥ ७.२,७.३२ प्रसादात्सर्वपाशेभ्यो मुक्तिर्मुक्तस्य निर्वृतिः ॥ ७.२,७.३२ ५५२ अल्पभावो ऽपि यो मर्त्यस्सो ऽपि जन्मत्रयात्परम् ॥ ७.२,७.३३ नयोनियंत्रपीडायै भवेन्नैवात्र संशयः ॥ ७.२,७.३३ सांगा ऽनंगा च या सेवा सा भक्तिरिति कथ्यते ॥ ७.२,७.३४ सा पुनर्भिद्यते त्रेधा मनोवाक्कायसाधनैः ॥ ७.२,७.३४ शिवरूपादिचिंता या सा सेवा मानसी स्मृता ॥ ७.२,७.३५ जपादिर्वाचिकी सेवा कर्मपूजादि कायिकी ॥ ७.२,७.३५ सेयं त्रिसाधना सेवा शिवधर्मश्च कथ्यते ॥ ७.२,७.३६ स तु पञ्चविधः प्रोक्तः शिवेन परमात्मना ॥ ७.२,७.३६ तपः कर्म जपो ध्यानं ज्ञानं चेति समासतः ॥ ७.२,७.३७ कर्मलिङ्गार्चनाद्यं च तपश्चान्द्रायणादिकम् ॥ ७.२,७.३७ जपस्त्रिधा शिवाभ्यासश्चिन्ता ध्यानं शिवस्य तु ॥ ७.२,७.३८ शिवागमोक्तं यज्ज्ञानं तदत्र ज्ञानमुच्यते ॥ ७.२,७.३८ श्रीकंठेन शिवेनोक्तं शिवायै च शिवागमः ॥ ७.२,७.३९ शिवाश्रितानां कारुण्याच्छ्रेयसामेकसाधनम् ॥ ७.२,७.३९ तस्माद्विवर्धयेद्भक्तिं शिवे परमकारणे ॥ ७.२,७.४० त्यजेच्च विषयासंगं श्रेयो ऽर्थी मतिमान्नरः ॥ ७.२,७.४० ओं इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे शिवतत्त्वकथनं नाम सप्तमो ऽध्यायः अध्याय ८ कृष्ण उवाच भगवञ्छ्रोतुमिच्छामि शिवेन परिभाषितम् ॥ ७.२,८.१ वेदसारे शिवज्ञानं स्वाश्रितानां विमुक्तये ॥ ७.२,८.१ अभक्तानामबुद्धीनामयुक्तानामगोचरम् ॥ ७.२,८.२ अर्थैर्दशर्धैः संयुक्तं गूढमप्राज्ञनिंदितम् ॥ ७.२,८.२ वर्णाश्रमकृतैर्धर्मैर्विपरीतं क्वचित्समम् ॥ ७.२,८.३ वेदात्षडंगादुद्धृत्य सांख्याद्योगाच्च कृत्स्नशः ॥ ७.२,८.३ शतकोटिप्रमाणेन विस्तीर्णं ग्रंथसंख्यया ॥ ७.२,८.४ कथितं परमेशेन तत्र पूजा कथं प्रभोः ॥ ७.२,८.४ कस्याधिकारः पूजादौ ज्ञानयोगादयः कथम् ॥ ७.२,८.५ तत्सर्वं विस्तरादेव वक्तुमर्हसि सुव्रत ॥ ७.२,८.५ उपमन्युरुवाच शैवं संक्षिप्य वेदोक्तं शिवेन परिभाषितम् ॥ ७.२,८.६ स्तुतिनिंदादिरहितं सद्यः प्रत्ययकारणम् ॥ ७.२,८.६ गुरुप्रसादजं दिव्यमनायासेन मुक्तिदम् ॥ ७.२,८.७ कथयिष्ये समासेन तस्य शक्यो न विस्तरः ॥ ७.२,८.७ सिसृक्षया पुराव्यक्ताच्छिवः स्थाणुर्महेश्वरः ॥ ७.२,८.८ सत्कार्यकारणोपेतस्स्वयमाविरभूत्प्रभुः ॥ ७.२,८.८ जनयामास च तदा ऋषिर्विश्वाधिकः प्रभुः ॥ ७.२,८.९ देवानां प्रथमं देवं ब्रह्माणं ब्रह्मणस्पतिम् ॥ ७.२,८.९ ब्रह्मापि पितरं देवं जायमानं न्यवैक्षत ॥ ७.२,८.१० तं जायमानं जनको देवः प्रापश्यदाज्ञया ॥ ७.२,८.१० दृष्टो रुद्रेण देवो ऽसावसृजद्विश्वमीश्वरः ॥ ७.२,८.११ वर्णाश्रमव्यवस्थां च चकार स पृथक्पृथक् ॥ ७.२,८.११ सोमं ससर्ज यज्ञार्थे सोमाद्द्यौस्समजायत ॥ ७.२,८.१२ धरा च वह्निः सूर्यश्च यज्ञो विष्णुश्शचीपतिः ॥ ७.२,८.१२ ५५२ ते चान्ये च सुरा रुद्रं रुद्राध्यायेन तुष्टुवुः ॥ ७.२,८.१३ प्रसन्नवदनस्तस्थौ देवानामग्रतः प्रभुः ॥ ७.२,८.१३ अपहृत्य स्वलीलार्थं तेषां ज्ञानं महेश्वरः ॥ ७.२,८.१४ तमपृच्छंस्ततो देवाः को भवानिति मोहिताः ॥ ७.२,८.१४ सो ऽब्रवीद्भगवान्रुद्रो ह्यहमेकः पुरातनः ॥ ७.२,८.१५ आसं प्रथममेवाहं वर्तामि १ च सुरोत्तमाः ॥ ७.२,८.१५ भविष्यामि च मत्तोन्यो व्यतिरिक्तो न कश्चन ॥ ७.२,८.१६ अहमेव जगत्सर्वं तर्पयामि स्वतेजसा ॥ ७.२,८.१६ मत्तो ऽधिकः समो नास्ति मां यो वेद स मुच्यते ॥ ७.२,८.१७ इत्युक्त्वा भगवान्रुद्रस्तत्रैवांतरधत्त स ॥ ७.२,८.१७ अपश्यंतस्तमीशानं स्तुवंतश्चैव सामभिः ॥ ७.२,८.१७ व्रतं पाशुपतं कृत्वा त्वथर्वशिरसि स्थितम् ॥ ७.२,८.१८ भस्मसंछन्नसर्वांगा बभूवुरमरास्तदा ॥ ७.२,८.१८ अथ तेषां प्रसादार्थं पशूनां पतिरीश्वरः ॥ ७.२,८.१९ सगणश्चोमया सार्धं सान्निध्यमकरोत्प्रभुः ॥ ७.२,८.२० यं विनिद्रा जितश्वासा योगिनो दग्धकिल्बिषाः ॥ ७.२,८.२० हृदि पश्यंति तं देवं ददृशुर्देवपुंगवाः ॥ ७.२,८.२१ यामाहुः परमां शक्तिमीश्वरेच्छानुवर्तिनीम् ॥ ७.२,८.२१ तामपश्यन्महेशस्य वामतो वामलोचनाम् ॥ ७.२,८.२२ ये विनिर्धूतसंसाराः प्राप्ताः शैवं परं पदम् ॥ ७.२,८.२२ नित्यसिद्धाश्च ये वान्यं ते च दृष्टा गणेश्वराः ॥ ७.२,८.२३ अथ तं तुष्टुवुर्देवा देव्या सह महेश्वरम् ॥ ७.२,८.२३ स्तोत्रैर्माहेश्वरैर्दिव्यैः श्रोतैः पौराणिकैरपि ॥ ७.२,८.२४ देवो ऽपि देवानालोक्य घृणया वृषभध्वजः ॥ ७.२,८.२४ तुष्टो ऽस्मीत्याह सुप्रीतस्स्वभावमधुरां गिरम् ॥ ७.२,८.२५ अथ सुप्रीतमनसं प्रणिपत्य वृषध्वजम् ॥ ७.२,८.२५ अर्थमहत्तमं देवाः पप्रच्छुरिममादरात् ॥ ७.२,८.२५ देवा ऊचुः भगवन्केन मार्गेण पूजनीयो ऽसि भूतले ॥ ७.२,८.२६ कस्याधिकारः पूजायां वक्तुमर्हसि तत्त्वतः ॥ ७.२,८.२६ ततः सस्मितमालोक्य देवीं देववरोहरः ॥ ७.२,८.२७ स्वरूपं दर्शयामास घोरं सूर्यात्मकं परम् ॥ ७.२,८.२७ सर्वैश्वर्यगुणोपेतं सर्वतेजोमयं परम् ॥ ७.२,८.२८ शक्तिभिर्मूर्तिभिश्चांगैर्ग्रहैर्देवैश्च संवृतम् ॥ ७.२,८.२८ अष्टबाहुं चतुर्वक्त्रमर्धनारीकमद्भुतम् ॥ ७.२,८.२९ दृष्ट्वैवमद्भुताकारं देवा विष्णुपुरोगमाः ॥ ७.२,८.२९ बुद्ध्वा दिवाकरं देवं देवीं चैव निशाकरम् ॥ ७.२,८.३० पञ्चभूतानि शेषाणि तन्मयं च चराचरम् ॥ ७.२,८.३० एवमुक्त्वा नमश्चक्रुस्तस्मै चार्घ्यं प्रदाय वै ॥ ७.२,८३१ सिंदूरवर्णाय सुमण्डलाय सुवर्णवर्णाभरणाय तुभ्यम् ॥ ७.२,८.३२ पद्माभनेत्राय सपंकजाय ब्रह्मेन्द्रनारायणकारणाय ॥ ७.२,८.३२ सुरत्नपूर्णं ससुवर्णतोयं सुकुंकुमाद्यं सकुशं सपुष्पम् ॥ ७.२,८.३३ प्रदत्तमादाय सहेमपात्रं प्रशस्तमर्घ्यं भगवन्प्रसीद ॥ ७.२,८.३३ नमश्शिवाय शांताय सगणायादिहेतवे ॥ ७.२,८.३४ १ परस्मैपदमार्षम् रुद्राय विष्णवे तुभ्यं ब्रह्मणे सूर्यमूर्तये ॥ ७.२,८.३४ यश्शिवं मण्डले सौरे संपूज्यैव समाहितः ॥ ७.२,८.३५ प्रातर्मध्याह्नसायाह्ने प्रदद्यादर्घ्यमुत्तमम् ॥ ७.२,८.३५ प्रणमेद्वा पठेदेताञ्छ्लोकाञ्छ्रुतिमुखानिमान् ॥ ७.२,८.३६ न तस्य दुर्ल्लभं किंचिद्भक्तश्चेन्मुच्यते दृढम् ॥ ७.२,८.३६ तस्मादभ्यर्चयेनित्यं शिवमादित्यरूपिणम् ॥ ७.२,८.३७ धर्मकामार्थमुक्त्यर्थं मनसा कर्मणा गिरा ॥ ७.२,८.३७ अथ देवान्समालोक्य मण्डलस्थो महेश्वरः ॥ ७.२,८.३८ सर्वागमोत्तरं दत्त्वा शास्त्रमंतरधाद्धरः ॥ ७.२,८.३८ तत्र पूजाधिकारो ऽयं ब्रह्मक्षत्रविशामिति ॥ ७.२,८.३९ ज्ञात्वा प्रणम्य देवेशं देवा जग्मुर्यथागतम् ॥ ७.२,८.३९ अथ कालेन महता तस्मिञ्छास्त्रे तिरोहिते ॥ ७.२,८.४० भर्तारं परिपप्रच्छ तदंकस्था महेश्वरी ॥ ७.२,८.४० तया स चोदितो देवो देव्या चन्द्रविभूषणः ॥ ७.२,८.४१ अवदत्करमुद्धृत्य शास्त्रं सर्वागमोत्तरम् ॥ ७.२,८.४१ प्रवर्तितं च तल्लोके नियोगात्परमेष्ठिनः ॥ ७.२,८.४२ मयागस्त्येन गुरुणा दधीचेन महर्षिणा ॥ ७.२,८.४२ स्वयमप्यवतीर्योर्व्यां युगावर्तेषु शूलधृक् ॥ ७.२,८.४३ स्वाश्रितानां विमुक्त्यर्थं कुरुते ज्ञानसंततिम् ॥ ७.२,८.४३ ऋभुस्सत्यो भार्गवश्च ह्यंगिराः सविता द्विजाः ॥ ७.२,८.४४ मृत्युः शतक्रतुर्धीमान्वसिष्ठो मुनिपुंगवः ॥ ७.२,८.४४ सारस्वतस्त्रिधामा च त्रिवृतो मुनिपुंगवः ॥ ७.२,८.४५ शततेजास्स्वयं धर्मो नारायण इति श्रुतः ॥ ७.२,८.४५ स्वरक्षश्चारुणिर्धीमांस्तथा चैव कृतंजयः ॥ ७.२,८.४६ कृतंजयो भरद्वाजो गौतमः कविरुत्तमः ॥ ७.२,८.४६ वाचःस्रवा मुनिस्साक्षात्तथा सूक्ष्मायणिः शुचिः ॥ ७.२,८.४७ तृणबिंदुर्मुनिः कृष्णः शक्तिः शाक्तेय उत्तरः ॥ ७.२,८.४७ जातूकर्ण्यो हरिस्साक्षात्कृष्णद्वैपायनो मुनिः ॥ ७.२,८.४८ व्यासावताराञ्छृण्वंतु कल्पयोगेश्वरान्क्रमात् ॥ ७.२,८.४८ लैंगे व्यासावतारा हि द्वापरां तेषु सुव्रताः ॥ ७.२,८.४९ योगाचार्यावताराश्च तथा शिष्येषु शूलिनः ॥ ७.२,८.४९ तत्र तत्र विभोः शिष्याश्चत्वारः स्युर्महौजसः ॥ ७.२,८.५० शिष्यास्तेषां प्रशिष्याश्च शतशो ऽथ सहस्रशः ॥ ७.२,८.५० तेषां संभावनाल्लोके शैवाज्ञाकरणादिभिः ॥ ७.२,८.५१ भाग्यवंतो विमुच्यंते भक्त्या चात्यंतभाविताः ॥ ७.२,८.५१ ओं इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे शिवतत्त्वज्ञाने व्यासावतारवर्णनं नामाष्टमो ऽध्यायः अध्याय ९ कृष्ण उवाच युगावर्तेषु सर्वेषु योगाचार्यच्छलेन तु ॥ ७.२,९.१ अवतारान्हि शर्वस्य शिष्यांश्च भगवन्वद ॥ ७.२,९.१ उपमन्युरुवाच श्वेतः सुतारो मदनः सुहोत्रः कङ्क एव च ॥ ७.२,९.२ लौगाक्षिश्च महामायो जैगीषव्यस्तथैव च ॥ ७.२,९.२ दधिवाहश्च ऋषभो मुनिरुग्रो ऽत्रिरेव च ॥ ७.२,९.३ ५५३ सुपालको गौतमश्च तथा वेदशिरा मुनिः ॥ ७.२,९.३ गोकर्णश्च गुहावासी शिखण्डी चापरः स्मृतः ॥ ७.२,९.४ जटामाली चाट्टहासो दारुको लांगुली तथा ॥ ७.२,९.४ महाकालश्च शूली च डंडी मुण्डीश एव च ॥ ७.२,९.५ सविष्णुस्सोमशर्मा च लकुलीश्वर एव च ॥ ७.२,९.५ एते वाराह कल्पे ऽस्मिन्सप्तमस्यांतरो मनोः ॥ ७.२,९.६ अष्टाविंशतिसंख्याता योगाचार्या युगक्रमात् ॥ ७.२,९.६ शिष्याः प्रत्येकमेतेषां चत्वारश्शांतचेतसः ॥ ७.२,९.७ श्वेतादयश्च रुष्यांतांस्तान्ब्रवीमि यथाक्रमम् ॥ ७.२,९.७ श्वेतश्श्वेतशिखश्चैव श्वेताश्वः श्वेतलोहितः ॥ ७.२,९.८ दुन्दुभिश्शतरूपश्च ऋचीकः केतुमांस्तथा ॥ ७.२,९.८ विकोशश्च विकेशश्च विपाशः पाशनाशनः ॥ ७.२,९.९ सुमुखो दुर्मुखश्चैव दुर्गमो दुरतिक्रमः ॥ ७.२,९.९ सनत्कुमारस्सनकः सनंदश्च सनातनः ॥ ७.२,९.१० सुधामा विरजाश्चैव शंखश्चांडज एव च ॥ ७.२,९.१० सारस्वतश्च मेघश्च मेघवाहस्सुवाहकः ॥ ७.२,९.११ कपिलश्चासुरिः पञ्चशिखो बाष्कल एव च ॥ ७.२,९.११ पराशराश्च गर्गश्च भार्गवश्चांगिरास्तथा ॥ ७.२,९.१२ बलबन्धुर्निरामित्राः केतुशृंगस्तपोधनः ॥ ७.२,९.१२ लंबोदरश्च लंबश्च लम्बात्मा लंबकेशकः ॥ ७.२,९.१३ सर्वज्ञस्समबुद्धिश्च साध्यसिद्धिस्तथैव च ॥ ७.२,९.१३ सुधामा कश्यपश्चैव वसिष्ठो विरजास्तथा ॥ ७.२,९.१४ अत्रिरुग्रो गुरुश्रेष्ठः श्रवनोथ श्रविष्टकः ॥ ७.२,९.१४ कुणिश्च कुणिबाहुश्च कुशरीरः कुनेत्रकः ॥ ७.२,९.१५ काश्यपो ह्युशनाश्चैव च्यवनश्च बृहस्पतिः ॥ ७.२,९.१५ उतथ्यो वामदेवश्च महाकालो महा ऽनिलः ॥ ७.२,९.१६ वाचःश्रवाः सुवीरश्च श्यावकश्च यतीश्वरः ॥ ७.२,९.१६ हिरण्यनाभः कौशल्यो लोकाक्षिः कुथुमिस्तथा ॥ ७.२,९.१७ सुमन्तुर्जैमिनिश्चैव कुबन्धः कुशकन्धरः ॥ ७.२,९.१७ प्लक्षो दार्भायणिश्चैव केतुमान्गौतमस्तथा ॥ ७.२,९.१८ भल्लवी मधुपिंगश्च श्वेतकेतुस्तथैव च ॥ ७.२,९.१८ उशिजो बृहदश्वश्च देवलः कविरेव च ॥ ७.२,९.१९ शालिहोत्रः सुवेषश्च युवनाश्वः शरद्वसुः ॥ ७.२,९.१९ अक्षपादः कणादश्च उलूको वत्स एव च ॥ ७.२,९.२० कुलिकश्चैव गर्गश्च मित्रको रुष्य एव च ॥ ७.२,९.२० एते शिष्या महेशस्य योगाचार्यस्वरूपिणः ॥ ७.२,९.२१ संख्या च शतमेतेषां सह द्वादशसंख्यया ॥ ७.२,९.२१ सर्वे पाशुपताः सिद्धा भस्मोद्धूलितविग्रहाः ॥ ७.२,९.२२ सर्वशास्त्रार्थतत्त्वज्ञा वेदवेदांगपारगाः ॥ ७.२,९.२२ शिवाश्रमरतास्सर्वे शिवज्ञानपरायणाः ॥ ७.२,९.२३ सर्वे संगविनिर्मुक्ताः शिवैकासक्तचेतसः ॥ ७.२,९.२३ सर्वद्वंद्वसहा धीराः सर्वभूतहिते रताः ॥ ७.२,९.२४ ऋजवो मृदवः स्वस्था जितक्रोधा जितेंद्रियाः ॥ ७.२,९.२४ रुद्राक्षमालाभरणास्त्रिपुंड्रांकितमस्तकाः ॥ ७.२,९.२५ शिखाजटास्सर्वजटा अजटा मुंडशीर्षकाः ॥ ७.२,९.२५ फलमूलाशनप्रायाः प्राणायामपरायणाः ॥ ७.२,९.२६ ५५४ शिवाभिमानसंपन्नाः शिवध्यानैकतत्पराः ॥ ७.२,९.२६ समुन्मथितसंसारविषवृक्षांकुरोद्गमाः ॥ ७.२,९.२७ प्रयातुमेव सन्नद्धाः परं शिवपुरं प्रति ॥ ७.२,९.२७ सदेशिकानिमान्मत्वा नित्यं यश्शिवमर्चयेत् ॥ ७.२,९.२८ स याति शिवसायुज्यं नात्र कार्या विचारणा ॥ ७.२,९.२८ ओं इति श्रीशिवमहापु सप्तम्यां वायवीयसंहितायामुत्तरखण्डे शिवस्य योगावतारवर्णनं नाम नवमो ऽध्यायः अध्याय १० कृष्ण उवाच भगवन्सर्वयोगींद्र गणेश्वर मुनीश्वर ॥ ७.२,१०.१ षडाननसमप्रख्य सर्वज्ञाननिधे गुरो ॥ ७.२,१०.१ प्रायस्त्वमवतीर्योर्व्यां पाशविच्छित्तये नृणाम् ॥ ७.२,१०.२ महर्षिवपुरास्थाय स्थितो ऽसि परमेश्वर ॥ ७.२,१०.२ अन्यथा हि जगत्यस्मिन् देवो वा दानवो ऽपि वा ॥ ७.२,१०.३ त्वत्तोन्यः परमं भावं को जानीयाच्छिवात्मकम् ॥ ७.२,१०.३ तस्मात्तव मुखोद्गीर्णं साक्षादिव पिनाकिनः ॥ ७.२,१०.४ शिवज्ञानामृतं पीत्वा न मे तृप्तमभून्मनः ॥ ७.२,१०.४ साक्षात्सर्वजगत्कर्तुर्भर्तुरंकं समाश्रिता ॥ ७.२,१०.५ भगवन्किन्नु पप्रच्छ भर्तारं परमेश्वरी ॥ ७.२,१०.५ उपमन्युरुवाच स्थाने पृष्टं त्वया कृष्ण तद्वक्ष्यामि यथातथम् ॥ ७.२,१०.६ भवभक्तस्य युक्तस्य तव कल्याणचेतसः ॥ ७.२,१०.६ महीधरवरे दिव्ये मंदरे चारुकंदरे ॥ ७.२,१०.७ देव्या सह महादेवो दिव्यो ध्यानगतो ऽभवत् ॥ ७.२,१०.७ तदा देव्याः प्रियसखी सुस्मितास्या शुभावती ॥ ७.२,१०.८ फुल्लान्यतिमनोज्ञानि पुष्पाणि समुदाहरत् ॥ ७.२,१०.८ ततः स्वमंकमारोप्य देवीं देववरोरहः ॥ ७.२,१०.९ अलंकृत्य च तैः पुष्पैरास्ते हृष्टतरः स्वयम् ॥ ७.२,१०.९ अथांतःपुरचारिण्यो देव्यो दिव्यविभूषणाः ॥ ७.२,१०.१० अंतरंगा गणेन्द्राश्च सर्वलोकमहेश्वरीम् ॥ ७.२,१०.१० भर्तारं परिपूर्णं च सर्वलोकमहेश्वरम् ॥ ७.२,१०.११ चामरासक्तहस्ताश्च देवीं देवं सिषेविरे ॥ ७.२,१०.११ ततः प्रियाः कथा वृत्ता विनोदाय महेशयोः ॥ ७.२,१०.१२ त्राणाय च नृणां लोके ये शिवं शरणं गताः ॥ ७.२,१०.१२ तदावसरमालोक्य सर्वलोकमहेश्वरी ॥ ७.२,१०.१३ भर्तारं परिपप्रच्छ सर्वलोकमहेश्वरम् ॥ ७.२,१०.१३ देव्युवाच केन वश्यो महादेवो मर्त्यानां मंदचेतसाम् ॥ ७.२,१०.१४ आत्मतत्त्वाद्यशक्तानामात्मनामकृतात्मनाम् ॥ ७.२,१०.१४ ईश्वर उवाच न कर्मणा न तपसा न जपैर्नासनादिभिः ॥ ७.२,१०.१५ न ज्ञानेन न चान्येन वश्यो ऽहं श्रद्धया विना ॥ ७.२,१०.१५ श्रद्धा मय्यस्ति चेत्पुंसां येन केनापि हेतुना ॥ ७.२,१०.१६ वश्यः स्पृश्यश्च दृश्यश्च पूज्यस्संभाष्य एव च ॥ ७.२,१०.१६ साध्या तस्मान्मयि शद्धा मां वशीकर्तुमिच्छता ॥ ७.२,१०.१७ श्रद्धा हेतुस्स्वधर्मस्य रक्षणं वर्णिनामिह ॥ ७.२,१०.१७ स्ववर्णाश्रमधर्मेण वर्तते यस्तु मानवः ॥ ७.२,१०.१८ तस्यैव भवति श्रद्धा मयि नान्यस्य कस्यचित् ॥ ७.२,१०.१८ ५५४ आम्नायसिद्धमखिलं धर्ममाश्रमिणामिह ॥ ७.२,१०.१९ ब्रह्मणा कथितं पूर्वं ममैवाज्ञापुरस्सरम् ॥ ७.२,१०.१९ स तु पैतामहो धर्मो बहुवित्तक्रियान्वितः ॥ ७.२,१०.२० नात्यन्त फलभूयिष्ठः क्लेशाया ससमन्वितः ॥ ७.२,१०.२० तेन धर्मेण महतां श्रद्धां प्राप्य सुदुर्ल्लभाम् ॥ ७.२,१०.२० वर्णिनो ये प्रपद्यंते मामनन्यसमाश्रयाः ॥ ७.२,१०.२१ तेषां सुखेन मार्गेण धर्मकामार्थमुक्तयः ॥ ७.२,१०.२१ वर्णाश्रमसमाचारो मया भूयः प्रकल्पितः ॥ ७.२,१०.२२ तस्मिन्भक्तिमतामेव मदीयानां तु वर्णिनाम् ॥ ७.२,१०.२२ अधिकारो न चान्येषामित्याज्ञा नैष्ठिकी मम ॥ ७.२,१०.२३ तदाज्ञप्तेन मार्गेण वर्णिनो मदुपाश्रयाः ॥ ७.२,१०.२३ मलमायादिपाशेभ्यो विमुक्ता मत्प्रसादतः ॥ ७.२,१०.२४ परं मदीयमासाद्य पुनरावृत्तिदुर्लभम् ॥ ७.२,१०.२४ परमं मम साधर्म्यं प्राप्य निर्वृतिमाययुः ॥ ७.२,१०.२४ तस्माल्लब्ध्वाप्यलब्ध्वा वा वर्णधर्मं मयेरितम् ॥ ७.२,१०.२५ आश्रित्य मम भक्तश्चेत्स्वात्मनात्मानमुद्धरेत् ॥ ७.२,१०.२५ अलब्धलाभ एवैष कोटिकोटिगुणाधिकः ॥ ७.२,१०.२६ तस्मान्मे मुखतो लब्धं वर्णधर्मं समाचरेत् ॥ ७.२,१०.२६ ममावतारा हि शुभे योगाचार्यच्छलेन तु ॥ ७.२,१०.२७ सर्वांतरेषु सन्त्यार्ये संततिश्च सहस्रशः ॥ ७.२,१०.२७ अयुक्तानामबुद्धीनामभक्तानां सुरेश्वरि ॥ ७.२,१०.२८ दुर्लभं संततिज्ञानं ततो यत्नात्समाश्रयेत् ॥ ७.२,१०.२८ सा हानिस्तन्महच्छिद्रं स मोहस्सांधमूकता ॥ ७.२,१०.२९ यदन्यत्र श्रमं कुर्यान्मोक्षमार्गबहिष्कृतः ॥ ७.२,१०.२९ ज्ञानं क्रिया च चर्या च योगश्चेति सुरेश्वरि ॥ ७.२,१०.३० चतुष्पादः समाख्यातो मम धर्मस्सनातनः ॥ ७.२,१०.३० पशुपाशपतिज्ञानं ज्ञानमित्यभिधीयते ॥ ७.२,१०.३१ षडध्वशुद्धिर्विधिना गुर्वधीना क्रियोच्यते ॥ ७.२,१०.३१ वर्णाश्रमप्रयुक्तस्य मयैव विहितस्य च ॥ ७.२,१०.३२ ममार्चनादिधर्मस्य चर्या चर्येति कथ्यते ॥ ७.२,१०.३२ मदुक्तेनैव मार्गेण मय्यवस्थितचेतसः ॥ ७.२,१०.३३ वृत्त्यंतरनिरोधो यो योग इत्यभिधीयते ॥ ७.२,१०.३३ अश्वमेधगणाच्छ्रेष्ठं देवि चित्तप्रसाधनम् ॥ ७.२,१०.३४ मुक्तिदं च तथा ह्येतद्दुष्प्राप्यं विषयैषिणाम् ॥ ७.२,१०.३४ विजितेंद्रियवर्गस्य यमेन नियमेन च ॥ ७.२,१०.३५ पूर्वपापहरो योगो विरक्तस्यैव कथ्यते ॥ ७.२,१०.३५ वैराग्याज्जायते ज्ञानं ज्ञानाद्योगः प्रवर्तते ॥ ७.२,१०.३६ योगज्ञः पतितो वापि मुच्यते नात्र संशयः ॥ ७.२,१०.३७ दया कार्याथ सततमहिंसा ज्ञानसंग्रहः ॥ ७.२,१०.३७ सत्यमस्तेयमास्तिक्यं श्रद्धा चेंद्रियनिग्रहः ॥ ७.२,१०.३८ अध्यापनं चाध्ययनं यजनं याजनं तथा ॥ ७.२,१०.३८ ध्यानमीश्वरभावश्च सततं ज्ञानशीलता ॥ ७.२,१०.३९ य एवं वर्तते विप्रो ज्ञानयोगस्य सिद्धये ॥ ७.२,१०.३९ अचिरादेव विज्ञानं लब्ध्वा योगं च विंदति ॥ ७.२,१०.४० ५५५ दग्ध्वा देहमिमं ज्ञानी क्षणाज्ज्ञानाग्निना प्रिये ॥ ७.२,१०.४० प्रसादान्मम योगज्ञः कर्मबंधं प्रहास्यति ॥ ७.२,१०.४१ पुण्यःपुण्यात्मकं कर्ममुक्तेस्तत्प्रतिबंधकम् ॥ ७.२,१०.४१ तस्मान्नियोगतो योगी पुण्यापुण्यं विवर्जयेत् ॥ ७.२,१०.४१ फलकामनया कर्मकरणात्प्रतिबध्यते ॥ ७.२,१०.४२ न कर्ममात्रकरणात्तस्मात्कर्मफलं त्यजेत् ॥ ७.२,१०.४२ प्रथमं कर्मयज्ञेन बहिः सम्पूज्य मां प्रिये ॥ ७.२,१०.४३ ज्ञानयोगरतो भूत्वा पश्चाद्योगं समभ्यसेत् ॥ ७.२,१०.४३ विदिते मम याथात्म्ये कर्मयज्ञेन देहिनः ॥ ७.२,१०.४४ न यजंति हि मां युक्ताः समलोष्टाश्मकांचनाः ॥ ७.२,१०.४४ नित्ययुक्तो मुनिः श्रेष्ठो मद्भक्तश्च समाहितः ॥ ७.२,१०.४५ ज्ञानयोगरतो योगी मम सायुज्यमाप्नुयात् ॥ ७.२,१०.४५ अथाविरक्तचित्ता ये वर्णिनो मदुपाश्रिताः ॥ ७.२,१०.४६ ज्ञानचर्याक्रियास्वेव ते ऽधिकुर्युस्तदर्हकाः ॥ ७.२,१०.४६ द्विधा मत्पूजनं ज्ञेयं बाह्यमाभ्यंतरं तथा ॥ ७.२,१०.४७ वाङ्मनःकायभेदाच्च त्रिधा मद्भजनं विदुः ॥ ७.२,१०.४७ तपः कर्म जपो ध्यानं ज्ञानं वेत्यनुपूर्वशः ॥ ७.२,१०.४८ पञ्चधा कथ्यते सद्भिस्तदेव भजनं पुनः ॥ ७.२,१०.४८ अन्यात्मविदितं बाह्यमस्मदभ्यर्चनादिकम् ॥ ७.२,१०.४९ तदेव तु स्वसंवेद्यमाभ्यंतरमुदाहृतम् ॥ ७.२,१०.४९ मनोमत्प्रवणं चित्तं न मनोमात्रमुच्यते ॥ ७.२,१०.५० मन्नामनिरता वाणी वाङ्मता खलु नेतरा ॥ ७.२,१०.५० लिंगैर्मच्छासनादिष्टैस्त्रिपुंड्रादिभिरंकितः ॥ ७.२,१०.५१ ममोपचारनिरतः कायः कायो न चेतरः ॥ ७.२,१०.५१ मदर्चाकर्म विज्ञेयं बाह्ये यागादिनोच्यते ॥ ७.२,१०.५२ मदर्थे देहसंशोषस्तपः कृच्छ्रादि नो मतम् ॥ ७.२,१०.५२ जपः पञ्चाक्षराभ्यासः प्रणवाभ्यास एव च ॥ ७.२,१०.५३ रुद्राध्यायादिकाभ्यासो न वेदाध्ययनादिकम् ॥ ७.२,१०.५३ ध्यानम्मद्रूपचिंताद्यं नात्माद्यर्थसमाधयः ॥ ७.२,१०.५४ ममागमार्थविज्ञानं ज्ञानं नान्यार्थवेदनम् ॥ ७.२,१०.५४ बाह्ये वाभ्यंतरे वाथ यत्र स्यान्मनसो रतिः ॥ ७.२,१०.५५ प्राग्वासनावशाद्देवि तत्त्वनिष्ठां समाचरेत् ॥ ७.२,१०.५५ बाह्यादाभ्यंतरं श्रेष्ठं भवेच्छतगुणाधिकम् ॥ ७.२,१०.५६ असंकरत्वाद्दोषाणां दृष्टानामप्यसम्भवात् ॥ ७.२,१०.५६ शौचमाभ्यंतरं विद्यान्न बाह्यं शौचमुच्यते ॥ ७.२,१०.५७ अंतः शौचविमुक्तात्मा शुचिरप्यशुचिर्यतः ॥ ७.२,१०.५७ बाह्यमाभ्यंर्तरं चैव भजनं भवपूर्वकम् ॥ ७.२,१०.५८ न भावरहितं देवि विप्रलंभैककारणम् ॥ ७.२,१०.५८ कृतकृत्यस्य पूतस्य मम किं क्रियते नरैः ॥ ७.२,१०.५९ बहिर्वाभ्यंतरं वाथ मया भावो हि गृह्यते ॥ ७.२,१०.५९ भावैकात्मा क्रिया देवि मम धर्मस्सनातनः ॥ ७.२,१०.६० मनसा कर्मणा वाचा ह्यनपेक्ष्य फलं क्वचित् ॥ ७.२,१०.६० फलोद्देशेन देवेशि लघुर्मम समाश्रयः ॥ ७.२,१०.६१ फलार्थी तदभावे मां परित्यक्तुं क्षमो यतः ॥ ७.२,१०.६१ ५५५ फलार्थिनो ऽपि यस्यैव मयि चित्तं प्रतिष्ठितम् ॥ ७.२,१०.६२ भावानुरूपफलदस्तस्याप्यहमनिन्दिते ॥ ७.२,१०.६२ फलानपेक्षया येषां मनो मत्प्रवणं भवेत् ॥ ७.२,१०.६३ प्रार्थयेयुः फलं पश्चाद्भक्तास्ते ऽपि मम प्रियाः ॥ ७.२,१०.६३ प्राक्संस्कारवशादेव ये विचिंत्य फलाफले ॥ ७.२,१०.६४ विवशा मां प्रपद्यंते मम प्रियतमा मताः ॥ ७.२,१०.६४ मल्लाभान्न परो लाभस्तेषामस्ति यथातथम् ॥ ७.२,१०.६५ ममापि लाभस्तल्लाभान्नापरः परमेश्वरि ॥ ७.२,१०.६५ मदनुग्रहतस्तेषां भावो मयि समर्पितः ॥ ७.२,१०.६६ फलं परमनिर्वाणं प्रयच्छति बलादिव ॥ ७.२,१०.६६ महात्मनामनन्यानां मयि संन्यस्तचेतसाम् ॥ ७.२,१०.६७ अष्टधा लक्षणं प्राहुर्मम धर्माधिकारिणाम् ॥ ७.२,१०.६७ मद्भक्तजनवात्सल्यं पूजायां चानुमोदनम् ॥ ७.२,१०.६८ स्वयमभ्यर्चनं चैव मदर्थे चांगचेष्टितम् ॥ ७.२,१०.६८ मत्कथाश्रवणे भक्तिः स्वरनेत्रांगविक्रियाः ॥ ७.२,१०.६९ ममानुस्मरणं नित्यं यश्च मामुपजीवति ॥ ७.२,१०.६९ एवमष्टविधं चिह्नं यस्मिन्म्लेच्छे ऽपि वर्तते ॥ ७.२,१०.७० स विप्रेन्द्रो मुनिः श्रीमान्स यतिस्स च पंडितः ॥ ७.२,१०.७० न मे प्रियश्चतुर्वेदी मद्भक्तो श्वपचो ऽपि यः ॥ ७.२,१०.७१ तस्मै देयं ततो ग्राह्यं स च पूज्यो यथा ह्यहम् ॥ ७.२,१०.७१ पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति ॥ ७.२,१०.७२ तस्याहं न प्रणश्यामि स च मे न प्रणश्यति ॥ ७.२,१०.७२ ओं इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे शिवभक्तिवर्णनं नाम दशमो ऽध्यायः अध्याय ११ ईश्वर उवाच अथ वक्ष्यामि देवेशि भक्तानामधिकारिणाम् ॥ ७.२,११.१ विदुषां द्विजमुख्यानां वर्णधर्मसमासतः ॥ ७.२,११.१ त्रिः स्नानं चाग्निकार्यं च लिंगार्चनमनुक्रमम् ॥ ७.२,११.२ दानमीश्ररभावश्च दया सर्वत्र सर्वदा ॥ ७.२,११.२ सत्यं संतोषमास्तिक्यमहिंसा सर्वजंतुषु ॥ ७.२,११.३ ह्रीश्रद्धाध्ययनं योगस्सदाध्यापनमेव च ॥ ७.२,११.३ व्याख्यानं ब्रह्मचर्यं च श्रवणं च तपः क्षमा ॥ ७.२,११.४ शौचं शिखोपवीतं च उष्णीषं चोत्तरीयकम् ॥ ७.२,११.४ निषिद्धासेवनं चैव भस्मरुद्राक्षधारणम् ॥ ७.२,११.५ पर्वण्यभ्यर्चनं देवि चतुर्दश्यां विशेषतः ॥ ७.२,११.५ पानं च ब्रह्मकूर्चस्य मासि मासि यथाविधि ॥ ७.२,११.६ अभ्यर्चनं विशेषेण तेनैव स्नाप्य मां प्रिये ॥ ७.२,११.६ सर्वक्रियान्न सन्त्यागः श्रद्धान्नस्य च वर्जनम् ॥ ७.२,११.७ तथा पर्युषितान्नस्य यावकस्य विशेषतः ॥ ७.२,११.७ मद्यस्य मद्यगन्धस्य नैवेद्यस्य च वर्जनम् ॥ ७.२,११.८ सामान्यं सर्ववर्णानां ब्राह्मणानां विशेषतः ॥ ७.२,११.८ क्षमा शांतिश्च सन्तोषस्सत्यमस्तेयमेव च ॥ ७.२,११.९ ब्रह्मचर्यं मम ज्ञानं वैराग्यं भस्मसेवनम् ॥ ७.२,११.९ ५५६ सर्वसंगनिवृत्तिश्च दशैतानि विशेषतः ॥ ७.२,११.१० लिंगानि योगिनां भूयो दिवा भिक्षाशनं तथा ॥ ७.२,११.१० वानप्रस्थाश्रमस्थानां समानमिदमिष्यते ॥ ७.२,११.११ रात्रौ न भोजनं कार्यं सर्वेषां ब्रह्मचारिणाम् ॥ ७.२,११.११ अध्यापनं याजनं च क्षत्रियस्याप्रतिग्रहः ॥ ७.२,११.१२ वैश्यस्य च विशेषेण मया नात्र विधीयते ॥ ७.२,११.१२ रक्षणं सर्ववर्णानां युद्धे शत्रुवधस्तथा ॥ ७.२,११.१३ दुष्टपक्षिमृगाणां च दुष्टानां शातनं नृणाम् ॥ ७.२,११.१३ अविश्वासश्च सर्वत्र विश्वासो मम योगिषु ॥ ७.२,११.१४ स्त्रीसंसर्गश्च कालेषु चमूरक्षणमेव च ॥ ७.२,११.१४ सदा संचारितैश्चारैर्लोकवृत्तांतवेदनम् ॥ ७.२,११.१५ सदास्त्रधारणं चैव भस्मकंचुकधारणम् ॥ ७.२,११.१५ राज्ञां ममाश्रमस्थानामेष धर्मस्य संग्रहः ॥ ७.२,११.१६ गोरक्षणं च वाणिज्यं कृषिर्वैश्यस्य कथ्यते ॥ ७.२,११.१६ शुश्रूषेतरवर्णानां धर्मः शूद्रस्य कथ्यते ॥ ७.२,११.१७ उद्यानकरणं चैव मम क्षेत्रसमाश्रयः ॥ ७.२,११.१७ धर्मपत्न्यास्तु गमनं गृहस्थस्य विधीयते ॥ ७.२,११.१८ ब्रह्मचर्यं वनस्थानां यतीनां ब्रह्मचारिणाम् ॥ ७.२,११.१८ स्त्रीणां तु भर्तृशुश्रूषा धर्मो नान्यस्सनातनः ॥ ७.२,११.१९ ममार्चनं च कल्याणि नियोगो भर्तुरस्ति चेत् ॥ ७.२,११.१९ या नारी भर्तृशुश्रूषां विहाय व्रततत्परा ॥ ७.२,११.२० सा नारी नरकं याति नात्र कार्या विचारणा ॥ ७.२,११.२० अथ भर्तृविहीनाया वक्ष्ये धर्मं सनातनम् ॥ ७.२,११.२१ व्रतं दानं तपः शौचं भूशय्यानक्तभोजनम् ॥ ७.२,११.२१ ब्रह्मचर्यं सदा स्नानं भस्मना सलिलेन वा ॥ ७.२,११.२२ शांतिर्मौनं क्षमा नित्यं संविभागो यथाविधि ॥ ७.२,११.२२ अष्टाभ्यां च चतुर्दश्यां पौर्णमास्यां विशेषतः ॥ ७.२,११.२३ एकादश्यां च विधिवदुपवासोममार्चनम् ॥ ७.२,११.२३ इति संक्षेपतः प्रोक्तो मयाश्रमनिषेविणाम् ॥ ७.२,११.२४ ब्रह्मक्षत्रविशां देवि यतीनां ब्रह्मचारिणाम् ॥ ७.२,११.२४ तथैव वानप्रस्थानां गृहस्थानां च सुन्दरि ॥ ७.२,११.२५ शूद्राणामथ नारीणां धर्म एष सनातनः ॥ ७.२,११.२५ ध्येयस्त्वयाहं देवेशि सदा जाप्यः षडक्षरः ॥ ७.२,११.२६ वेदोक्तमखिलं धर्ममिति धर्मार्थसंग्रहः ॥ ७.२,११.२६ अथ ये मानवा लोके स्वेच्छया धृतविग्रहाः ॥ ७.२,११.२७ भावातिशयसंपन्नाः पूर्वसंस्कारसंयुताः ॥ ७.२,११.२७ विरक्ता वानुरक्ता वा स्त्र्यादीनां विषयेष्वपि ॥ ७.२,११.२८ पापैर्न ते विलिंपंते १ पद्मपत्रमिवांभसा ॥ ७.२,११.२८ तेषां ममात्मविज्ञानं विशुद्धानां विवेकिनाम् ॥ ७.२,११.२९ मत्प्रसादाद्विशुद्धानां दुःखमाश्रमरक्षणात् ॥ ७.२,११.२९ नास्ति कृत्यमकृत्यं च समाधिर्वा परायणम् ॥ ७.२,११.३० न विधिर्न निषेधश्च तेषां मम यथा तथा ॥ ७.२,११.३० १ आत्मनेपदमार्षम् ५५६ तथेह परिपूर्णस्य साध्यं मम न विद्यते ॥ ७.२,११.३१ तथैव कृतकृत्यानां तेषामपि न संशयः ॥ ७.२,११.३१ मद्भक्तानां हितार्थाय मानुषं भावमाश्रिताः ॥ ७.२,११.३२ रुद्रलोकात्परिभ्रष्टास्ते रुद्रा नात्र संशयः ॥ ७.२,११.३२ ममानुशासनं यद्वद्ब्रह्मादीनां प्रवर्तकम् ॥ ७.२,११.३३ तथा नराणामन्येषां तन्नियोगः प्रवर्तकः ॥ ७.२,११.३३ ममाज्ञाधारभावेन सद्भावातिशयेन च ॥ ७.२,११.३४ तदालोकनमात्रेण सर्वपापक्षयो भवेत् ॥ ७.२,११.३४ प्रत्ययाश्च प्रवर्तंते प्रशस्तफलसूचकाः ॥ ७.२,११.३५ मयि भाववतां पुंसां प्रागदृष्टार्थगोचराः ॥ ७.२,११.३५ कंपस्वेदो ऽश्रुपातश्च कण्ठे च स्वरविक्रिया ॥ ७.२,११.३६ आनंदाद्युपलब्धिश्च भवेदाकस्मिकी मुहुः ॥ ७.२,११.३६ स तैर्व्यस्तैस्समस्तैर्वा लिंगैरव्यभिचारिभिः ॥ ७.२,११.३७ मंदमध्योत्तमैर्भावैर्विज्ञेयास्ते नरोत्तमाः ॥ ७.२,११.३७ यथायोग्निसमावेशान्नायो भवति केवलम् ॥ ७.२,११.३८ स तथैव मम सान्निध्यान्न ते केवलमानुषाः ॥ ७.२,११.३८ हस्तपादादिसाधर्म्याद्रुद्रान्मर्त्यवपुर्धरान् ॥ ७.२,११.३९ प्राकृतानिव मन्वानो नावजानीत पंडितः ॥ ७.२,११.३९ अवज्ञानं कृतं तेषु नरैर्व्यामूढचेतनैः ॥ ७.२,११.४० आयुः श्रियं कुलं शीलं हित्वा निरयमावहेत् ॥ ७.२,११.४० ब्रह्मविष्णुसुरेशानामपि तूलायते पदम् ॥ ७.२,११.४१ मत्तोन्यदनपेक्षाणामुद्धृतानां महात्मनाम् ॥ ७.२,११.४१ अशुद्धं बौद्धमैश्वर्यं प्राकृतं पौरुषं तथा ॥ ७.२,११.४२ गुणेशानामतस्त्याज्यं गुणातीतपदैषिणाम् ॥ ७.२,११.४२ अथ किं बहुनोक्तेन श्रेयः प्राप्त्यैकसाधनम् ॥ ७.२,११.४३ मयि चित्तसमासंगो येन केनापि हेतुना ॥ ७.२,११.४३ उपमन्युरुवाच इत्थं श्रीकण्ठनाथेन शिवेन परमात्मना ॥ ७.२,११.४४ हिताय जगतामुक्तो ज्ञानसारार्थसंग्रहः ॥ ७.२,११.४४ विज्ञानसंग्रहस्यास्य वेदशास्त्राणि कृत्स्नशः ॥ ७.२,११.४५ सेतिहासपुराणानि विद्या व्याख्यानविस्तरः ॥ ७.२,११.४५ ज्ञानं ज्ञेयमनुष्ठेयमधिकारो ऽथ साधनम् ॥ ७.२,११.४६ साध्यं चेति षडर्थानां संग्रहत्वेष संग्रहः ॥ ७.२,११.४६ गुरोरधिकृतं ज्ञानं ज्ञेयं पाशः पशुः पतिः ॥ ७.२,११.४७ लिंगार्चनाद्यनुष्ठेयं भक्तस्त्वधिकृतो ऽपि यः ॥ ७.२,११.४७ साधनं शिवमंत्राद्यं साध्यं शिवसमानता ॥ ७.२,११.४८ षडर्थसंग्रहस्यास्य ज्ञानात्सर्वज्ञतोच्यते ॥ ७.२,११.४८ प्रथमं कर्म यज्ञादेर्भक्त्या वित्तानुसारतः ॥ ७.२,११.४९ बाह्येभ्यर्च्य शिवं पश्चादंतर्यागरतो भवेत् ॥ ७.२,११.४९ रतिरभ्यंतरे यस्य न बाह्ये पुण्यगौरवात् ॥ ७.२,११.५० न कर्म करणीयं हि बहिस्तस्य महात्मनाः ॥ ७.२,११.५० ज्ञानामृतेन तृप्तस्य भक्त्या शैवशिवात्मनः ॥ ७.२,११.५१ नांतर्न च बहिः कृष्ण कृत्यमस्ति कदाचन ॥ ७.२,११.५१ तस्मात्क्रमेण संत्यज्य बाह्यमाभ्यंतरं तथा ॥ ७.२,११.५२ ज्ञानेन ज्ञेयमालोक्याज्ञानं चापि परित्यजेत् ॥ ७.२,११.५२ नैकाग्रं चेच्छिवे चित्तं किं कृतेनापि कर्मणा ॥ ७.२,११.५३ ५५७ एकाग्रमेव चेच्चित्तं किं कृतेनापि कर्मणा ॥ ७.२,११.५३ तस्मात्कर्माण्यकृत्वा वा कृत्वा वांतर्बहिःक्रमात् ॥ ७.२,११.५४ येन केनाप्युपायेन शिवे चित्तं निवेशयेत् ॥ ७.२,११.५४ शिवे निविष्टचित्तानां प्रतिष्ठितधियां सताम् ॥ ७.२,११.५५ परत्रेह च सर्वत्र निर्वृतिः परमा भवेत् ॥ ७.२,११.५५ इहोन्नमः शिवायेति मंत्रेणानेन सिद्धयः ॥ ७.२,११.५६ स तस्मादधिगंतव्यः परावरविभूतये ॥ ७.२,११.५६ ओं इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखंडे शिवज्ञानवर्णनं नामैकादशो ऽध्यायः अध्याय १२ श्रीकृष्ण उवाच महर्षिवर सर्वज्ञ सर्वज्ञानमहोदधे ॥ ७.२,१२.१ पञ्चाक्षरस्य माहात्म्यं श्रोतुमिच्छामि तत्त्वतः ॥ ७.२,१२.१ उपमन्युरुवाच पञ्चाक्षरस्य माहात्म्यं वर्षकोटिशतैरपि ॥ ७.२,१२.२ अशक्यं विस्तराद्वक्तुं तस्मात्संक्षेपतः शृणु ॥ ७.२,१२.२ वेदे शिवागमे चायमुभयत्र षडक्षरेः ॥ ७.२,१२.३ सर्वेषां शिवभक्तानामशेषार्थसाधकः ॥ ७.२,१२.३ तदल्पाक्षरमर्थाढ्यं वेदसारं विमुक्तिदम् ॥ ७.२,१२.४ आज्ञासिद्धमसंदिग्धं वाक्यमेतच्छिवात्मकम् ॥ ७.२,१२.४ नानासिद्धियुतं दिव्यं लोकचित्तानुरंजकम् ॥ ७.२,१२.५ सुनिश्चितार्थं गंभीरं वाक्यं तत्पारमेश्वरम् ॥ ७.२,१२.५ मन्त्रं सुखमुकोच्चार्यमशेषार्थप्रसिद्धये ॥ ७.२,१२.६ प्राहोन्नमः शिवायेति सर्वज्ञस्सर्वदेहिनाम् ॥ ७.२,१२.६ तद्बीजं सर्वविद्यानां मंत्रमाद्यं षडक्षरम् ॥ ७.२,१२.७ अतिसूक्ष्मं महार्थं च ज्ञेयं तद्वटबीजवत् ॥ ७.२,१२.७ देवो गुणत्रयातीतः सर्वज्ञः सर्वकृत्प्रभुः ॥ ७.२,१२.८ ओमित्येकाक्षरे मन्त्रे स्थितः सर्वगतः शिवः ॥ ७.२,१२.८ इशानाद्यानि सूक्ष्माणि ब्रह्माण्येकाक्षराणि तु ॥ ७.२,१२.९ मंत्रे नमश्शिवायेति संस्थितानि यथाक्रमम् ॥ ७.२,१२.९ मंत्रे षडक्षरे सूक्ष्मे पञ्चब्रह्मतनुः शिवः ॥ ७.२,१२.९ वाच्यवाचकभावेन स्थितः साक्षात्स्वभावतः ॥ ७.२,१२.१० वाच्यश्शिवोप्रमेयत्वान्मंत्रस्तद्वाचकस्स्मृतः ॥ ७.२,१२.१० वाच्यवाचकभावो ऽयमनादिसंस्थितस्तयोः ॥ ७.२,१२.११ यथा ऽनादिप्रवृत्तोयं घोरसंसारसागरः ॥ ७.२,१२.११ शिवो ऽपि हि तथानादिसंसारान्मोचकः स्थितः ॥ ७.२,१२.१२ व्याधीनां भेषजं यद्वत्प्रतिपक्षः स्वभावतः ॥ ७.२,१२.१२ तद्वत्संसारदोषाणां प्रतिपक्षः शिवस्स्मृतः ॥ ७.२,१२.१३ असत्यस्मिन् जगन्नाथे तमोभूतमिदं भवेत् ॥ ७.२,१२.१३ अचेतनत्वात्प्रकृतेरज्ञत्वात्पुरषस्य च ॥ ७.२,१२.१४ प्रधानपरमाण्वादि यावत्किंचिदचेतनम् ॥ ७.२,१२.१४ न तत्कर्तृ स्वयं दृष्टं बुद्धिमत्कारणं विना ॥ ७.२,१२.१५ धर्माधर्मोपदेशश्च बंधमोक्षौ विचारणात् ॥ ७.२,१२.१५ न सर्वज्ञं विना पुंसामादिसर्गः प्रसिद्ध्यति ॥ ७.२,१२.१६ वैद्यं विना निरानंदाः क्लिश्यंते रोगिणो यथा ॥ ७.२,१२.१६ ५५७ तस्मादनादिः सर्वज्ञः परिपूर्णस्सदाशिवः ॥ ७.२,१२.१७ अस्ति नाथः परित्राता पुंसां संसारसागरात् ॥ ७.२,१२.१७ आदिमध्यांतनिर्मुक्तस्स्वभावविमलः प्रभुः ॥ ७.२,१२.१८ सर्वज्ञः परिपूर्णश्च शिवो ज्ञेयश्शिवागमे ॥ ७.२,१२.१८ तस्याभिधानमन्त्रो ऽयमभिधेयश्च स स्मृतः ॥ ७.२,१२.१९ अभिधानाभिधेयत्वान्मंत्रस्सिद्धः परश्शिवः ॥ ७.२,१२.१९ एतावत्तु शिवज्ञानमेतावत्परमं पदम् ॥ ७.२,१२.२० यदोंनमश्शिवायेति शिववाक्यं षडक्षरम् ॥ ७.२,१२.२० विधिवाक्यमिदं शैवं नार्थवादं शिवात्मकम् ॥ ७.२,१२.२१ यस्सर्वज्ञस्सुसंपूर्णः स्वभावविमलः शिवः ॥ ७.२,१२.२१ लोकानुग्रहकर्ता च स मृषार्थं कथं वदेत् ॥ ७.२,१२.२२ यद्यथावस्थितं वस्तु गुणदोषैः स्वभावतः ॥ ७.२,१२.२२ यावत्फलं च तत्पूर्णं सर्वज्ञस्तु यथा वदेत् ॥ ७.२,१२.२३ रागाज्ञानादिभिर्दोषैर्ग्रस्तत्वादनृतं वदेत् ॥ ७.२,१२.२३ ते चेश्वरे न विद्येते ब्रूयात्स कथमन्यथा ॥ ७.२,१२.२४ अज्ञाताशेषदोषेण सर्वज्ञेय शिवेन यत् ॥ ७.२,१२.२४ प्रणीतममलं वाक्यं तत्प्रमाणं न संशयः ॥ ७.२,१२.२४ तस्मादीश्वरवाक्यानि श्रद्धेयानि विपश्चिता ॥ ७.२,१२.२५ यथार्थपुण्यपापेषु तदश्रद्धो व्रजत्यधः ॥ ७.२,१२.२५ स्वर्गापवर्गसिद्ध्यर्थं भाषितं यत्सुशोभनम् ॥ ७.२,१२.२६ वाक्यं मुनिवरैः शांतैस्तद्विज्ञेयं सुभाषितम् ॥ ७.२,१२.२६ रागद्वेषानृतक्रोधकामतृष्णानुसारि यत् ॥ ७.२,१२.२७ वाक्यं निरयहेतुत्वात्तद्दुर्भाषितमुच्यते ॥ ७.२,१२.२७ संस्कृतेनापि किं तेन मृदुना ललितेन वा ॥ ७.२,१२.२८ अविद्यारागवाक्येन संसारक्लेशहेतुना ॥ ७.२,१२.२८ यच्छ्रुत्वा जायते श्रेयो रागादीनां च संशयः ॥ ७.२,१२.२९ विरूपमपि तद्वाक्यं विज्ञेयमिति शोभनम् ॥ ७.२,१२.२९ बहुत्वेपि हि मंत्राणां सर्वज्ञेन शिवेन यः ॥ ७.२,१२.३० प्रणीतो विमलो मन्त्रो न तेन सदृशः क्वचित् ॥ ७.२,१२.३० सांगानि वेदशास्त्राणि संस्थितानि षडक्षरे ॥ ७.२,१२.३१ न तेन सदृशस्तस्मान्मन्त्रो ऽप्यस्त्यपरः क्वचित् ॥ ७.२,१२.३१ सप्तकोटिमहामन्त्रैरुपमन्त्रैरनेकधा ॥ ७.२,१२.३२ मन्त्रः षडक्षरो भिन्नस्सूत्रं वृत्यात्मना यथा ॥ ७.२,१२.३२ शिवज्ञानानि यावंति विद्यास्थानापि यानि च ॥ ७.२,१२.३३ षडक्षरस्य सूत्रस्य तानि भाष्यं समासतः ॥ ७.२,१२.३३ किं तस्य बहुभिर्मंत्रैश्शास्त्रैर्वा बहुविस्तरैः ॥ ७.२,१२.३४ यस्योन्नमः शिवायेति मन्त्रो ऽयं हृदि संस्थितः ॥ ७.२,१२.३४ तेनाधीतं श्रुतं तेन कृतं सर्वमनुष्ठितम् ॥ ७.२,१२.३५ येनोन्नमश्शिवायेति मंत्राभ्यासः स्थिरीकृतः ॥ ७.२,१२.३५ नमस्कारादिसंयुक्तं शिवायेत्यक्षरत्रयम् ॥ ७.२,१२.३६ जिह्वाग्रे वर्तते यस्य सफलं तस्य जीवितम् ॥ ७.२,१२.३६ अंत्यजो वाधमो वापि मूर्खो वा पंडितो ऽपि वा ॥ ७.२,१२.३७ पञ्चाक्षरजपे निष्ठो मुच्यते पापपंजरात् ॥ ७.२,१२.३७ इत्युक्तं परमेशेन देव्या पृष्टेन शूलिना ॥ ७.२,१२.३८ हिताय सर्वमर्त्यानां द्विजानां तु विशेषतः ॥ ७.२,१२.३८ ओं इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे पञ्चाक्षरमाहात्म्यवर्णनं नाम द्वादशो ऽध्यायः अध्याय १३ देव्युवाच कलौ कलुषिते काले दुर्जये दुरतिक्रमे ॥ ७.२,१३.१ अपुण्यतमसाच्छन्ने लोके धर्मपराङ्मुखे ॥ ७.२,१३.१ क्षीणे वर्णाश्रमाचारे संकटे समुपस्थिते ॥ ७.२,१३.२ सर्वाधिकारे संदिग्धे निश्चिते वापि पर्यये ॥ ७.२,१३.२ तदोपदेशे विहते गुरुशिष्यक्रमे गते ॥ ७.२,१३.३ केनोपायेन मुच्यंते भक्तास्तव महेश्वर ॥ ७.२,१३.३ ईश्वर उवाच आश्रित्य परमां विद्यां हृद्यां पञ्चाक्षरीं मम ॥ ७.२,१३.४ भक्त्या च भावितात्मानो मुच्यंते कलिजा नराः ॥ ७.२,१३.४ मनोवाक्कायजैर्दोषैर्वक्तुं स्मर्तुमगोचरैः ॥ ७.२,१३.५ दूषितानां कृतघ्नानां निंदकानां छलात्मनाम् ॥ ७.२,१३.५ लुब्धानां वक्रमनसामपि मत्प्रवणात्मनाम् ॥ ७.२,१३.६ मम पञ्चाक्षरी विद्या संसारभयतारिणी ॥ ७.२,१३.६ मयैवमसकृद्देवि प्रतिज्ञातं धरातले ॥ ७.२,१३.७ पतितो ऽपि विमुच्येत मद्भक्तो विद्ययानया ॥ ७.२,१३.७ देव्युवाच कर्मायोग्यो भवेन्मर्त्यः पतितो यदि सर्वथा ॥ ७.२,१३.८ कर्मायोगेन यत्कर्म कृतं च नरकाय हि ॥ ७.२,१३.८ ततः कथं विमुच्येत पतितो विद्यया ऽनया ॥ ७.२,१३.८ ईश्वर उवाच तथ्यमेतत्त्वया प्रोक्तं तथा हि शृणु सुन्दरि ॥ ७.२,१३.९ रहस्यमिति मत्वैतद्गोपितं यन्मया पुरा ॥ ७.२,१३.९ समंत्रकं मां पतितः पूजयेद्यदि मोहितः ॥ ७.२,१३.१० नारकी स्यान्न सन्देहो मम पञ्चाक्षरं विना ॥ ७.२,१३.१० अब्भक्षा वायुभक्षाश्च ये चान्ये व्रतकर्शिताः ॥ ७.२,१३.११ तेषामेतैर्व्रतैर्नास्ति मम लोकसमागमः ॥ ७.२,१३.११ भक्त्या पञ्चाक्षरेणैव यो हि मां सकृदर्चयेत् ॥ ७.२,१३.१२ सो ऽपि गच्छेन्मम स्थानं मन्त्रस्यास्यैव गौरवात् ॥ ७.२,१३.१२ तस्मात्तपांसि यज्ञाश्च व्रतानि नियमास्तथा ॥ ७.२,१३.१३ पञ्चाक्षरार्चनस्यैते कोट्यंशेनापि नो समः ॥ ७.२,१३.१३ बद्धो वाप्यथ मुक्तो वा पाशात्पञ्चाक्षरेण यः ॥ ७.२,१३.१४ पूजयेन्मां स मुच्येत नात्र कार्या विचारणा ॥ ७.२,१३.१४ अरुद्रो वा सरुद्रो वा सकृत्पञ्चाक्षरेण यः ॥ ७.२,१३.१५ पूजयेत्पतितो वापि मूढो वा मुच्यते नरः ॥ ७.२,१३.१५ षडक्षरेण वा देवि तथा पञ्चाक्षरेण वा ॥ ७.२,१३.१६ स ब्रह्मांगेन मां भक्त्या पूजयेद्यदि मुच्यते ॥ ७.२,१३.१६ पतितो ऽपतितो वापि मन्त्रेणानेन पूजयेत् ॥ ७.२,१३.१७ मम भक्तो जितक्रोधो सलब्धो ऽलब्ध एव वा ॥ ७.२,१३.१७ अलब्धालब्ध एवेह कोटिकोटिगुणाधिकः ॥ ७.२,१३.१८ तस्माल्लब्ध्वैव मां देवि मन्त्रेणानेन पूजयेत् ॥ ७.२,१३.१८ लब्ध्वा संपूजयेद्यस्तु मैत्र्यादिगुणसंयुतः ॥ ७.२,१३.१९ ब्रह्मचर्यरतो भक्त्या मत्सादृश्यमवाप्नुयात् ॥ ७.२,१३.१९ ५५८ किमत्र बहुनोक्तेन भक्तास्सर्वेधिकारिणः ॥ ७.२,१३.२० मम पञ्चाक्षरे मंत्रे तस्माच्छ्रेष्ठतरो हि सः ॥ ७.२,१३.२० पञ्चाक्षरप्रभावेण लोकवेदमहर्षयः ॥ ७.२,१३.२१ तिष्ठंति शाश्वता धर्मा देवास्सर्वमिदं जगत् ॥ ७.२,१३.२१ प्रलये समनुप्राप्ते नष्टे स्थावरजंगमे ॥ ७.२,१३.२२ सर्वं प्रकृतिमापन्नं तत्र संलयमेष्यति ॥ ७.२,१३.२२ एको ऽहं संस्थितो देवि न द्वितीयो ऽस्ति कुत्रचित् ॥ ७.२,१३.२३ तदा वेदाश्च शास्त्राणि सर्वे पञ्चाक्षरे स्थिताः ॥ ७.२,१३.२३ ते नाशं नैव संप्राप्ता मच्छक्त्या ह्यनुपालिताः ॥ ७.२,१३.२४ ततस्सृष्टिरभून्मत्तः प्रकृत्यात्मप्रभेदतः ॥ ७.२,१३.२४ गुणमूर्त्यात्मनां चैव ततोवांतरसंहृतिः ॥ ७.२,१३.२५ तदा नारायणश्शेते देवो मायामयीं तनुम् ॥ ७.२,१३.२५ आस्थाय भोगिपर्यंकशयने तोयमध्यगः ॥ ७.२,१३.२६ तन्नाभिपंकजाज्जातः पञ्चवक्त्रः पितामहः ॥ ७.२,१३.२६ सिसृक्षमाणो लोकांस्त्रीन्न सक्तो ह्यसहायवान् ॥ ७.२,१३.२७ मुनीन्दश ससर्जादौ मानसानमितौजसः ॥ ७.२,१३.२७ तेषां सिद्धिविवृद्ध्यर्थं मां प्रोवाच पितामहः ॥ ७.२,१३.२८ मत्पुत्राणां महादेव शक्तिं देहि महेश्वर ॥ ७.२,१३.२८ इत्येवं प्रार्थितस्तेन पञ्चवक्त्रधरो ह्यहम् ॥ ७.२,१३.२९ पञ्चाक्षराणि क्रमशः प्रोक्तवान्पद्मयोनये ॥ ७.२,१३.२९ स पञ्चवदनैस्तानि गृह्णंल्लोकपितामहः ॥ ७.२,१३.३० वाच्यवाचकभावेन ज्ञातवान्मां महेश्वरम् ॥ ७.२,१३.३० ज्ञात्वा प्रयोगं विविधं सिद्धमंत्रः प्रजापतिः ॥ ७.२,१३.३१ पुत्रेभ्यः प्रददौ मंत्रं मंत्रार्थं च यथातथम् ॥ ७.२,१३.३१ ते च लब्ध्वा मंत्ररत्नं साक्षाल्लोकपितामहात् ॥ ७.२,१३.३२ तदाज्ञप्तेन मार्गेण मदाराधनकांक्षिणः ॥ ७.२,१३.३२ मेरोस्तु शिखरे रम्ये मुंजवान्नाम पर्वतः ॥ ७.२,१३.३३ मत्प्रियः सततं श्रीमान्मद्भक्तै रक्षितस्सदा ॥ ७.२,१३.३३ तस्याभ्याशे तपस्तीव्रं लोकं स्रष्टुं समुत्सुकाः ॥ ७.२,१३.३४ दिव्यं वर्षसहस्रं तु वायुभक्षास्समाचरन् ॥ ७.२,१३.३४ तेषां भक्तिमहं दृष्ट्वा सद्यः प्रत्यक्षतामियाम् ॥ ७.२,१३.३५ ऋषिं छंदश्च कीलं च बीजशक्तिं च दैवतम् ॥ ७.२,१३.३५ न्यासं षडंगं दिग्बंधं विनियोगमशेषतः ॥ ७.२,१३.३६ प्रोक्तवानहमार्याणां जगत्सृष्टिविवृद्धये ॥ ७.२,१३.३६ ततस्ते मंत्रमाहात्म्यादृषयस्तपसेधिताः ॥ ७.२,१३.३७ सृष्टिं वितन्वते सम्यक्सदेवासुरमानुषीम् ॥ ७.२,१३.३७ अस्याः परमविद्यायास्स्वरूपमधुनोच्यते ॥ ७.२,१३.३८ आदौ नमः प्रयोक्तव्यं शिवाय तु ततः परम् ॥ ७.२,१३.३८ सैषा पञ्चाक्षरी विद्या सर्वश्रुतिशिरोगता ॥ ७.२,१३.३९ सर्वजातस्य सर्वस्य बीजभूता सनातनी ॥ ७.२,१३.३९ प्रथमं मन्मुखोद्गीर्णा सा ममैवास्ति वाचिका ॥ ७.२,१३.४० तप्तचामीकरप्रख्या पीनोन्नतपयोधरा ॥ ७.२,१३.४० चतुर्भुजा त्रिनयना बालेंदुकृतशेखरा ॥ ७.२,१३.४१ पद्मोत्पलकरा सौम्या वरदाभयपाणिका ॥ ७.२,१३.४१ सर्वलक्षणसंपन्ना सर्वाभरणभूषिता ॥ ७.२,१३.४२ सितपद्मासनासीना नीलकुंचितमूर्धजा ॥ ७.२,१३.४२ ५५९ अस्याः पञ्चविधा वर्णाः प्रस्फुरद्रश्मिमंडलाः ॥ ७.२,१३.४३ पीतः कृष्णस्तथा धूम्रः स्वर्णाभो रक्त एव च ॥ ७.२,१३.४३ पृथक्प्रयोज्या यद्येते बिंदुनादविभूषिताः ॥ ७.२,१३.४४ अर्धचन्द्रनिभो बिंदुर्नादो दीपशिखाकृतिः ॥ ७.२,१३.४४ बीजं द्वितीयं बीजेषु मंत्रस्यास्य वरानने ॥ ७.२,१३.४५ दीर्घपूर्वं तुरीयस्य पञ्चमं शक्तिमादिशेत् ॥ ७.२,१३.४५ वामदेवो नाम ऋषिः पंक्तिश्छन्द उदाहृतम् ॥ ७.२,१३.४६ देवता शिव एवाहं मन्त्रस्यास्य वरानने ॥ ७.२,१३.४६ गौतमो ऽत्रिर्वरारोहे विश्वामित्रस्तथांगिराः ॥ ७.२,१३.४७ भरद्वाजश्च वर्णानां क्रमशश्चर्षयः स्मृताः ॥ ७.२,१३.४७ गायत्र्यनुष्टुप्त्रिष्टुप्च छंदांसि बृहती विराट् ॥ ७.२,१३.४८ इन्द्रो रुद्रो हरिर्ब्रह्मा स्कंदस्तेषां च देवताः ॥ ७.२,१३.४८ मम पञ्चमुखान्याहुः स्थाने तेषां वरानने ॥ ७.२,१३.४९ पूर्वादेश्चोर्ध्वपर्यंतं नकारादि यथाक्रमम् ॥ ७.२,१३.४९ अदात्तः प्रथमो वर्णश्चतुर्थश्च द्वितीयकः ॥ ७.२,१३.५० पञ्चमः स्वरितश्चैव तृतीयो निहतः स्मृतः ॥ ७.२,१३.५० मूलविद्या शिवं शैवं सूत्रं पञ्चाक्षरं तथा ॥ ७.२,१३.५१ नामान्यस्य विजानीयाच्छैवं मे हृदयं महत् ॥ ७.२,१३.५१ नकारश्शिर उच्येत मकारस्तु शिखोच्यते ॥ ७.२,१३.५२ शिकारः कवचं तद्वद्वकारो नेत्रमुच्यते ॥ ७.२,१३.५२ यकारो ऽस्त्रं नमस्स्वाहा वषठुंवौषडित्यपि ॥ ७.२,१३.५३ फडित्यपि च वर्णानामन्ते ऽङ्गत्वं यदा तदा ॥ ७.२,१३.५३ तत्रापि मूलमंत्रो ऽयं किंचिद्भेदसमन्वयात् ॥ ७.२,१३.५४ तत्रापि पञ्चमो वर्णो द्वादशस्वरभूषितः ॥ ७.२,१३.५४ तास्मादनेन मंत्रेण मनोवाक्कायभेदतः ॥ ७.२,१३.५५ आवयोरर्चनं कुर्याज्जपहोमादिकं तथा ॥ ७.२,१३.५५ यथाप्रज्ञं यथाकालं यथाशास्त्रं यथामति ॥ ७.२,१३.५६ यथाशक्ति यथासंपद्यथायोगं यथारति ॥ ७.२,१३.५६ यदा कदापि वा भक्त्या यत्र कुत्रापि वा कृता ॥ ७.२,१३.५७ येन केनापि वा देवि पूजा मुक्तिं नयिष्यते ॥ ७.२,१३.५७ मय्यासक्तेन मनसा यत्कृतं मम सुन्दरि ॥ ७.२,१३.५८ मत्प्रियं च शिवं चैव क्रमेणाप्यक्रमेण वा ॥ ७.२,१३.५८ तथापि मम भक्ता ये नात्यंतविवशाः पुनः ॥ ७.२,१३.५९ तेषां सर्वेषु शास्त्रेषु मयेव नियमः कृतः ॥ ७.२,१३.५९ तत्रादौ संप्रवक्ष्यामि मन्त्रसंग्रहणं शुभम् ॥ ७.२,१३.६० यं विना निष्फलं जाप्यं येन वा सफलं भवेत् ॥ ७.२,१३.६० ओं इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे पञ्चाक्षरमाहात्म्यवर्णनं नाम त्रयोदशो ऽध्यायः अध्याय १४ ईश्वर उवाच आज्ञाहीनं क्रियाहीनं श्रद्धाहीनं वरानने ॥ ७.२,१४.१ आज्ञार्थं दक्षिणाहीनं सदा जप्तं च निष्फलम् ॥ ७.२,१४.१ आज्ञासिद्धं क्रियासिद्धं श्रद्धासिद्धं ममात्मकम् ॥ ७.२,१४.२ एवं चेद्दक्षिणायुक्तं मंत्रसिद्धिर्महत्फलम् ॥ ७.२,१४.२ ५५९ उपगम्य गुरुं विप्रमाचार्यं तत्त्ववेदिनम् ॥ ७.२,१४.३ जापितं सद्गुणोपेतं ध्यानयोगपरायणम् ॥ ७.२,१४.३ तोषयेत्तं प्रयत्नेन भावशुद्धिसमन्वितः ॥ ७.२,१४.४ वाचा च मनसा चैव कायेन द्रविणेन च ॥ ७.२,१४.४ आचार्यं पूजयेद्विप्रः सर्वदातिप्रयत्नतः ॥ ७.२,१४.५ हस्त्यश्वरथरत्नानि क्षेत्राणि च गृहाणि च ॥ ७.२,१४.५ भूषणानि च वासांसि धान्यानि च धनानि च ॥ ७.२,१४.६ एतानि गुरवे दद्याद्भक्त्या च विभवे सति ॥ ७.२,१४.६ वित्तशाठ्यं न कुर्वीत यदीच्छेत्सिद्धिमात्मनः ॥ ७.२,१४.७ पश्चान्निवेद्य स्वात्मानं गुरवे सपरिच्छदम् ॥ ७.२,१४.७ एवं संपूज्य विधिवद्यथाशक्तित्ववंचयन् ॥ ७.२,१४.८ आददीत गुरोर्मंत्रं ज्ञानं चैव क्रमेण तु ॥ ७.२,१४.८ एवं तुष्टो गुरुः शिष्यं पूजकं वत्सरोषितम् ॥ ७.२,१४.९ शुश्रूषुमनहंकारं स्नातं शुचिमुपोषितम् ॥ ७.२,१४.९ स्नापयित्वा विशुद्ध्यर्थं पूर्णकुंभघृतेन वै ॥ ७.२,१४.१० जलेन मन्त्रशुद्धेन पुण्यद्रव्ययुतेन च ॥ ७.२,१४.१० अलंकृत्य सुवेषं च गंधस्रग्वस्त्रभूषणैः ॥ ७.२,१४.११ पुण्याहं वाचयित्वा च ब्राह्मणानभिपूज्य च ॥ ७.२,१४.११ समुद्रतीरे नद्यां च गोष्ठे देवालये ऽपि वा ॥ ७.२,१४.१२ शुचौ देशे गृहे वापि काले सिद्धिकरे तिथौ ॥ ७.२,१४.१२ नक्षत्रे शुभयोगे च सर्वदोषविवर्जिते ॥ ७.२,१४.१३ अनुगृह्य ततो दद्याज्ज्ञानं मम यथाविधि ॥ ७.२,१४.१३ स्वरेणोच्चारयेत्सम्यगेकांते ऽतिप्रसन्नधीः ॥ ७.२,१४.१४ उच्चार्योच्चारयित्वा तमावयोर्मंत्रमुत्तमम् ॥ ७.२,१४.१४ शिवं चास्तु शुभं चास्तु शोभनो ऽस्तु प्रियो ऽस्त्विति ॥ ७.२,१४.१५ एवं दद्याद्गुरुर्मंत्रमाज्ञां चैव ततः परम् ॥ ७.२,१४.१५ एवं लब्ध्वा गुरोर्मंत्रमाज्ञां चैव समाहितः ॥ ७.२,१४.१६ संकल्प्य च जपेन्नित्यं पुरश्चरणपूर्वकम् ॥ ७.२,१४.१६ यावज्जीवं जपेन्नित्यमष्टोत्तरसहस्रकम् ॥ ७.२,१४.१७ अनन्यस्तत्परो भूत्वा स याति परमां गतिम् ॥ ७.२,१४.१७ जपेदक्षरलक्षं वै चतुर्गुणितमादरात् ॥ ७.२,१४.१८ नक्ताशी संयमी यस्स पौरश्चरणिकः स्मृतः ॥ ७.२,१४.१८ यः पुरश्चरणं कृत्वा नित्यजापी भवेत्पुनः ॥ ७.२,१४.१९ तस्य नास्ति समो लोके स सिद्धः सिद्धदो भवेत् ॥ ७.२,१४.१९ स्नानं कृत्वा शुचौ देशे बद्ध्वा रुचिरमानसम् ॥ ७.२,१४.२० त्वया मां हृदि संचिंत्य संचिंत्य स्वगुरुं ततः ॥ ७.२,१४.२० उदङ्मुखः प्राङ्मुखो वा मौनी चैकाग्रमानसः ॥ ७.२,१४.२१ विशोध्य पञ्चतत्त्वानि दहनप्लावनादिभिः ॥ ७.२,१४.२१ मन्त्रन्यासादिकं कृत्वा सफलीकृतविग्रहः ॥ ७.२,१४.२२ आवयोर्विग्रहौ ध्यायन्प्राणापानौ नियम्य च ॥ ७.२,१४.२२ विद्यास्थानं स्वकं रूपमृषिञ्छन्दो ऽधिदैवतम् ॥ ७.२,१४.२३ बीजं शक्तिं तथा वाक्यं स्मृत्वा पञ्चाक्षरीं जपेत् ॥ ७.२,१४.२३ उत्तमं मानसं जाप्यमुपांशुं चैवमध्यमम् ॥ ७.२,१४.२४ अधमं वाचिकं प्राहुरागमार्थविशारदाः ॥ ७.२,१४.२४ ५६० उत्तमं रुद्रदैवत्यं मध्यमं विष्णुदैवतम् ॥ ७.२,१४.२५ अधमं ब्रह्मदैवत्यमित्याहुरनुपूर्वशः ॥ ७.२,१४.२५ यदुच्चनीचस्वरितैःस्पष्टास्पष्टपदाक्षरैः ॥ ७.२,१४.२६ मंत्रमुच्चारयेद्वाचा वाचिको ऽयं जपस्स्मृतः ॥ ७.२,१४.२६ जिह्वामात्रपरिस्पंदादीषदुच्चारितो ऽपि वा ॥ ७.२,१४.२७ अपरैरश्रुतः किंचिच्छ्रुतो वोपांशुरुच्यते ॥ ७.२,१४.२७ धिया यदक्षरश्रेण्या वर्णाद्वर्णं पदात्पदम् ॥ ७.२,१४.२८ शब्दार्थचिंतनं भूयः कथ्यते मानसो जपः ॥ ७.२,१४.२८ वाचिकस्त्वेक एव स्यादुपांशुः शतमुच्यते ॥ ७.२,१४.२९ साहस्रं मानसः प्रोक्तः सगर्भस्तु शताधिकः ॥ ७.२,१४.२९ प्राणायामसमायुक्तस्सगर्भो जप उच्यते ॥ ७.२,१४.३० आद्यंतयोरगर्भो ऽपि प्राणायामः प्रशस्यते ॥ ७.२,१४.३० चत्वारिंशत्समावृत्तीः प्राणानायम्य संस्मरेत् ॥ ७.२,१४.३१ मंत्रं मंत्रार्थविद्धीमानशक्तः शक्तितो जपेत् ॥ ७.२,१४.३१ पञ्चकं त्रिकमेकं वा प्राणायामं समाचरेत् ॥ ७.२,१४.३२ अगर्भं वा सगर्भं वा सगर्भस्तत्र शस्यते ॥ ७.२,१४.३२ सगर्भादपि साहस्रं सध्यानो जप उच्यते ॥ ७.२,१४.३३ एषु पञ्चविधेष्वेकः कर्तव्यः शक्तितो जपः ॥ ७.२,१४.३३ अङ्गुल्या जपसंख्यानमेकमेवमुदाहृतम् ॥ ७.२,१४.३४ रेखयाष्टगुणं विद्यात्पुत्रजीवैर्दशाधिकम् ॥ ७.२,१४.३४ शतं स्याच्छंखमणिभिः प्रवालैस्तु सहस्रकम् ॥ ७.२,१४.३५ स्फटिकैर्दशसाहस्रं मौक्तिकैर्लक्षमुच्यते ॥ ७.२,१४.३५ पद्माक्षैर्दशलक्षन्तु सौवर्णैः कोटिरुच्यते ॥ ७.२,१४.३६ कुशग्रंथ्या च रुद्राक्षैरनंतगुणितं भवेत् ॥ ७.२,१४.३६ त्रिंशदक्षैः कृता माला धनदा जपकर्मणि ॥ ७.२,१४.३७ सप्तविंशतिसंख्यातैरक्षैः पुष्टिप्रदा भवेत् ॥ ७.२,१४.३७ पञ्चविंशतिसंख्यातैः कृता मुक्तिं प्रयच्छति ॥ ७.२,१४.३८ अक्षैस्तु पञ्चदशभिरभिचारफलप्रदा ॥ ७.२,१४.३८ अंगुष्ठं मोक्षदं विद्यात्तर्जनीं शत्रुनाशिनीम् ॥ ७.२,१४.३९ मध्यमां धनदां शांतिं करोत्येषा ह्यनामिका ॥ ७.२,१४.३९ अष्टोत्तरशतं माला तत्र स्यादुत्तमोत्तमा ॥ ७.२,१४.४० शतसंख्योत्तमा माला पञ्चाशद्भिस्तु मध्यमा ॥ ७.२,१४.४० चतुः पञ्चाशदक्षैस्तु हृच्छ्रेष्ठा हि प्रकीर्तिता ॥ ७.२,१४.४१ इत्येवं मालया कुर्याज्जपं कस्मै न दर्शयेत् ॥ ७.२,१४.४१ कनिष्ठा क्षरिणी प्रोक्ता जपकर्मणि शोभना ॥ ७.२,१४.४२ अंगुष्ठेन जपेज्जप्यमन्यैरंगुलिभिस्सह ॥ ७.२,१४.४२ अंगुष्ठेन विना जप्यं कृतं तदफलं यतः ॥ ७.२,१४.४३ गृहे जपं समं विद्याद्गोष्ठे शतगुणं विदुः ॥ ७.२,१४.४३ पुण्यारण्ये तथारामे सहस्रगुणमुच्यते ॥ ७.२,१४.४४ अयुतं पर्वते पुण्ये नद्यां लक्षमुदाहृतम् ॥ ७.२,१४.४४ कोटिं देवालये प्राहुरनन्तं मम सन्निधौ ॥ ७.२,१४.४५ सूर्यस्याग्नेर्गुरोरिंदोर्दीपस्य च जलस्य च ॥ ७.२,१४.४५ विप्राणां च गवां चैव सन्निधौ शस्यते जपः ॥ ७.२,१४.४६ ५६० तत्पूर्वाभिमुखं वश्यं दक्षिणं चाभिचारिकम् ॥ ७.२,१४.४६ पश्चिमं धनदं विद्यादौत्तरं शातिदं भवेत् ॥ ७.२,१४.४७ सूर्याग्निविप्रदेवानां गुरूणामपि सन्निधौ ॥ ७.२,१४.४७ अन्येषां च प्रसक्तानां मन्त्रं न विमुखो जपेत् ॥ ७.२,१४.४८ उष्णीषी कुंचुकी नम्रो मुक्तकेशो गलावृतः ॥ ७.२,१४.४८ अपवित्रकरो ऽशुद्धो विलपन्न जपेत्क्वचित् ॥ ७.२,१४.४९ क्रोधं मदं क्षुतं त्रीणि निष्ठीवनविजृंभणे ॥ ७.२,१४.४९ दर्शनं च श्वनीचानां वर्जयेज्जपकर्मणि ॥ ७.२,१४.५० आचमेत्संभवे तेषां स्मरेद्वा मां त्वया सह ॥ ७.२,१४.५० ज्योतींषि च प्रपश्येद्वा कुर्याद्वा प्राणसंयमम् ॥ ७.२,१४.५१ अनासनः शयाने वा गच्छन्नुत्थित एव वा ॥ ७.२,१४.५१ रथ्यायामशिवे स्थाने न जपेत्तिमिरान्तरे ॥ ७.२,१४.५२ प्रसार्य न जपेत्पादौ कुक्कुटासन एव वा ॥ ७.२,१४.५२ यानशय्याधिरूढो वा चिंताव्याकुलितो ऽथ वा ॥ ७.२,१४.५३ शक्तश्चेत्सर्वमेवैतदशक्तः शक्तितो जपेत् ॥ ७.२,१४.५३ किमत्र बहुनोक्तेन समासेन वचः शृणु ॥ ७.२,१४.५४ सदाचारो जपञ्छुद्धं ध्यायन्भद्रं समश्नुते ॥ ७.२,१४.५४ आचारः परमो धर्म आचारः परमं धनं ॥ ७.२,१४.५५ आचारः परमा विद्या आचारः परमा गतिः ॥ ७.२,१४.५५ आचारहीनः पुरुषो लोके भवति निंदितः ॥ ७.२,१४.५६ परत्र च सुखी न स्यात्तस्मादाचारवान्भवेत् ॥ ७.२,१४.५६ यस्य यद्विहितं कर्म वेदे शास्त्रे च वैदिकैः ॥ ७.२,१४.५७ तस्य तेन समाचारः सदाचारो न चेतरः ॥ ७.२,१४.५७ सद्भिराचरितत्वाच्च सदाचारः स उच्यते ॥ ७.२,१४.५८ सदाचारस्य तस्याहुरास्तिक्यं मूलकारणम् ॥ ७.२,१४.५८ आस्तिकश्चेत्प्रमादाद्यैः सदाचारादविच्युतः ॥ ७.२,१४.५९ न दुष्यति नरो नित्यं तस्मादास्तिकतां व्रजेत् ॥ ७.२,१४.५९ यथेहास्ति सुखं दुःखं सुकृतैर्दुष्कृतैरपि ॥ ७.२,१४.६० तथा परत्र चास्तीति मतिरास्तिक्यमुच्यते ॥ ७.२,१४.६० रहस्यमन्यद्वक्ष्यामि गोपनीयमिदं प्रिये ॥ ७.२,१४.६१ न वाच्यं यस्य कस्यापि नास्तिकस्याथ वा पशोः ॥ ७.२,१४.६१ सदाचारविहीनस्य पतितस्यान्त्यजस्य च ॥ ७.२,१४.६२ पञ्चाक्षरात्परं नास्ति परित्राणं कलौ युगे ॥ ७.२,१४.६२ गच्छतस्तिष्ठतो वापि स्वेच्छया कर्म कुर्वतः ॥ ७.२,१४.६३ अशुचेर्वा शुचेर्वापि मन्त्रो ऽयन्न च निष्फलः ॥ ७.२,१४.६३ अनाचारवतां पुंसामविशुद्धषडध्वनाम् ॥ ७.२,१४.६४ अनादिष्टो ऽपि गुरुणा मन्त्रो ऽयं न च निष्फलः ॥ ७.२,१४.६४ अन्त्यजस्यापि मूर्खस्य मूढस्य पतितस्य च ॥ ७.२,१४.६५ निर्मर्यादस्य नीचस्य मंत्रो ऽयं न च निष्फलः ॥ ७.२,१४.६५ सर्वावस्थां गतस्यापि मयि भक्तिमतः परम् ॥ ७.२,१४.६६ सिध्यत्येव न संदेहो नापरस्य तु कस्यचित् ॥ ७.२,१४.६६ न लग्नतिथिनक्षत्रवारयोगादयः प्रिये ॥ ७.२,१४.६७ अस्यात्यंतमवेक्ष्याः स्युर्नैष सप्तस्सदोदितः ॥ ७.२,१४.६७ ५६१ न कदाचिन्न कस्यापि रिपुरेष महामनुः ॥ ७.२,१४.६८ सुसिद्धो वापि सिद्धो वा साध्यो वापि भविष्यति ॥ ७.२,१४.६८ सिद्धेन गुरुणादिष्टस्सुसिद्ध इति कथ्यते ॥ ७.२,१४.६९ असिद्धेनापि वा दत्तस्सिद्धसाध्यस्तु केवलः ॥ ७.२,१४.६९ असाधितस्साधितो वा सिध्यत्वेन न संशयः ॥ ७.२,१४.७० श्रद्धातिशययुक्तस्य मयि मंत्रे तथा गुरौ ॥ ७.२,१४.७० तस्मान्मंत्रान्तरांस्त्यक्त्वा सापायान् १ धिकारतः ॥ ७.२,१४.७१ आश्रमेत्परमां विद्यां साक्षात्पञ्चाक्षरीं बुधः ॥ ७.२,१४.७१ मंत्रान्तरेषु सिद्धेषु मंत्र एष न सिध्यति ॥ ७.२,१४.७२ सिद्धे त्वस्मिन्महामंत्रे ते च सिद्धा भवंत्युत ॥ ७.२,१४.७२ यथा देवेष्वलब्धो ऽस्मि लब्धेष्वपि महेश्वरि ॥ ७.२,१४.७३ मयि लब्धे तु ते लब्धा मंत्रेष्वेषु समो विधिः ॥ ७.२,१४.७३ ये दोषास्सर्वमंत्राणां न ते ऽस्मिन्संभवंत्यपि ॥ ७.२,१४.७४ अस्य मंत्रस्य जात्यादीननपेक्ष्य प्रवर्तनात् ॥ ७.२,१४.७४ तथापि नैव क्षुद्रेषु फलेषु प्रति योगिषु ॥ ७.२,१४.७५ सहसा विनियुंजीत तस्मादेष महाबलः ॥ ७.२,१४.७५ उपमन्युरुवाच एवं साक्षान्महादेव्यै महादेवेन शूलिना ॥ ७.२,१४.७६ हिता य जगतामुक्तः पञ्चाक्षरविधिर्यथा ॥ ७.२,१४.७६ य इदं कीर्तयेद्भक्त्या शृणुयाद्वा समाहितः ॥ ७.२,१४.७७ सर्वपापविनिर्मुक्तः प्रयाति परमां गतिम् ॥ ७.२,१४.७७ १ नाशयुक्तानित्यर्थः ओं इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखंडे पञ्चाक्षरमहिमवर्णनं नाम चतुर्दशोध्यायः अध्याय १५ श्रीकृष्ण उवाच भगवान्मंत्रमाहात्म्यं भवता कथितं प्रभो ॥ ७.२,१५.१ तत्प्रयोगविधानं च साक्षाच्छ्रुतिसमं यथा ॥ ७.२,१५.१ इदानीं श्रोतुमिच्छामि शिवसंस्कारमुत्तमम् ॥ ७.२,१५.२ मंत्रसंग्रहणे किंचित्सूचितन्न तु विस्मृतम् ॥ ७.२,१५.२ उपमन्युरुवाच हन्त ते कथयिष्यामि सर्वपापविशोधनम् ॥ ७.२,१५.३ संस्कारं परमं पुण्यं शिवेन पतिभाषितम् ॥ ७.२,१५.३ सम्यक्कृताधिकारः स्यात्पूजादिषु नरो यतः ॥ ७.२,१५.४ संस्कारः कथ्यते तेन षडध्वपरिशोधनम् ॥ ७.२,१५.४ दीयते येन विज्ञानं क्षीयते पाशबंधनम् ॥ ७.२,१५.५ तस्मात्संस्कार एवायं दीक्षेत्यपि च कथ्यते ॥ ७.२,१५.५ शांभवी चैव शाक्ती च मांत्री चैव शिवागमे ॥ ७.२,१५.६ दीक्षोपदिश्यते त्रेधा शिवेन परमात्मना ॥ ७.२,१५.६ गुरोरालोकमात्रेण स्पर्शात्संभाषणादपि ॥ ७.२,१५.७ सद्यस्संज्ञा भवेज्जंतोः पाशोपक्षयकारिणी ॥ ७.२,१५.७ सा दीक्षा शांभवी प्रोक्ता सा पुनर्भिद्यते द्विधा ॥ ७.२,१५.८ तीव्रा तीव्रतरा चेति पाशो पक्षयभेदतः ॥ ७.२,१५.८ यया स्यान्निर्वृतिः सद्यस्सैव तीव्रतरा मता ॥ ७.२,१५.९ ५६१ तीव्रा तु जीवतोत्यंतं पुंसः पापविशोधिका ॥ ७.२,१५.९ शक्ती ज्ञानवती दीक्षा शिष्यदेहं प्रविश्य तु ॥ ७.२,१५.१० गुरुणा योगमार्गेण क्रियते ज्ञानचक्षुषा ॥ ७.२,१५.१० मांत्री क्रियावती दीक्षा कुंडमंडलपूर्विका ॥ ७.२,१५.११ मंदमंदतरोद्देशात्कर्तव्या गुरुणा बहिः ॥ ७.२,१५.११ शक्तिपातानुसारेण शिष्यो ऽनुग्रहमर्हति ॥ ७.२,१५.१२ शैवधर्मानुसारस्य तन्मूलत्वात्समासतः ॥ ७.२,१५.१२ यत्र शक्तिर्न पतिता तत्र शुद्धिर्न जायते ॥ ७.२,१५.१३ न विद्या न शिवाचारो न मुक्तिर्न च सिद्धयः ॥ ७.२,१५.१३ तस्माल्लिंगानि संवीक्ष्य शक्तिपातस्य भूयसः ॥ ७.२,१५.१४ ज्ञानेन क्रियया वाथ गुरुश्शिष्यं विशोधयेत् ॥ ७.२,१५.१४ यो ऽन्यथा कुरुते मोहात्स विनश्यति दुर्मतिः ॥ ७.२,१५.१५ तस्मात्सर्वप्रकारेण गुरुः शिष्यं परीक्षयेत् ॥ ७.२,१५.१५ लक्षणं शक्तिपातस्य प्रबोधानंदसंभवः ॥ ७.२,१५.१६ सा यस्मात्परमा शक्तिः प्रबोधानंदरूपिणी ॥ ७.२,१५.१६ आनंदबोधयोर्लिंगमंतःकरणविक्रियाः ॥ ७.२,१५.१७ यथा स्यात्कंपरोमांचस्वरनेत्रांगविक्रियाः ॥ ७.२,१५.१७ शिष्योपि लक्षणैरेभिः कुर्याद्गुरुपरीक्षणम् ॥ ७.२,१५.१८ तत्संपर्कैः शिवार्चादौ संगतैर्वाथ तद्गतैः ॥ ७.२,१५.१८ शिष्यस्तु शिक्षणीयत्वाद्गुरोर्गौरवकारणात् ॥ ७.२,१५.१९ तस्मात्सर्वप्रयत्नेन गुरोर्गौरवमाचरेत् ॥ ७.२,१५.१९ यो गुरुस्स शिवः प्रोक्तो यः शिवः स गुरुः स्मृतः ॥ ७.२,१५.२० गुरुर्वा शिव एवाथ विद्याकारेण संस्थितः ॥ ७.२,१५.२० यथा शिवस्तथा विद्या यथा विद्या तथा गुरुः ॥ ७.२,१५.२१ शिवविद्या गुरूणां च पूजया सदृशं फलम् ॥ ७.२,१५.२१ सर्वदेवात्मकश्चासौ सर्वमंत्रमयो गुरुः ॥ ७.२,१५.२२ तस्मात्सर्वप्रयत्नेन यस्याज्ञां शिरसा वहेत् ॥ ७.२,१५.२२ श्रेयो ऽर्थी यदि गुर्वाज्ञां मनसापि न लंघयेत् ॥ ७.२,१५.२३ गुर्वाज्ञापालको यस्माज्ज्ञानसंपत्तिमश्नुते ॥ ७.२,१५.२३ गच्छंस्तिष्ठन्स्वपन्भुंजन्नान्यत्कर्म समाचरेत् ॥ ७.२,१५.२४ समक्षं यदि कुर्वीत सर्वं चानुज्ञया गुरोः ॥ ७.२,१५.२४ गुरोर्गृहे समक्षं वा न यथेष्टासनो भवेत् ॥ ७.२,१५.२५ गुरुर्देवो यतः साक्षात्तद्गृहं देवमन्दिरम् ॥ ७.२,१५.२५ पापिनां च यथा संगात्तत्पापात्पतितो भवेत् ॥ ७.२,१५.२६ यथेह वह्निसंपर्कान्मलं त्यजति कांचनम् ॥ ७.२,१५.२६ तथैव गुरुसंपर्कात्पापं त्यजति मानवः ॥ ७.२,१५.२७ यथा वह्निसमीपस्थो घृतकुम्भो विलीयते ॥ ७.२,१५.२७ तथा पापं विलीयेत ह्याचार्यस्य समीपतः ॥ ७.२,१५.२८ यथा प्रज्वलितो वह्निः शुष्कमार्द्रं च निर्दहेत् ॥ ७.२,१५.२८ तथायमपि संतुष्टो गुरुः पापं क्षणाद्दहेत् ॥ ७.२,१५.२९ मनसा कर्मणा वाचा गुरोः क्रोधं न कारयेत् ॥ ७.२,१५.२९ तस्य क्रोधेन दह्यंते ह्यायुःश्रीज्ञानसत्क्रियाः ॥ ७.२,१५.३० तत्क्रोधकारिणो ये स्युस्तेषां यज्ञाश्च निष्फलाः ॥ ७.२,१५.३० ५६२ यमश्च नियमाश्चैव नात्र कार्या विचारणा ॥ ७.२,१५.३१ गुरोर्विरुद्धं यद्वाक्यं न वदेज्जातुचिन्नरः ॥ ७.२,१५.३१ वदेद्यदि महामोहाद्रौरवं नरकं व्रजेत् ॥ ७.२,१५.३२ मनसा कर्मणा वाचा गुरुमुद्दिश्य यत्नतः ॥ ७.२,१५.३२ श्रेयोर्थी चेन्नरो धीमान्न मिथ्याचारमाचरेत् ॥ ७.२,१५.३३ गुरोर्हितं प्रियं कुर्यादादिष्टो वा न वा सदा ॥ ७.२,१५.३३ असमक्षं समक्षं वा तस्य कार्यं समाचरेत् ॥ ७.२,१५.३४ इत्थमाचारवान्भक्तो नित्यमुद्युक्तमानसः ॥ ७.२,१५.३४ गुरुप्रियकरः शिष्यः शैवधर्मांस्ततो ऽर्हति ॥ ७.२,१५.३५ गुरुश्चेद्गुणवान्प्राज्ञः परमानंदभासकः ॥ ७.२,१५.३५ तत्त्वविच्छिवसंसक्तो मुक्तिदो न तु चापरः ॥ ७.२,१५.३६ संवित्संजननं तत्त्वं परमानंदसंभवम् ॥ ७.२,१५.३६ तत्तत्त्वं विदितं येन स एवानंददर्शकः ॥ ७.२,१५.३७ न पुनर्नाममात्रेण संविदारहितस्तु यः ॥ ७.२,१५.३७ अन्योन्यं तारयेन्नौका किं शिला तारयेच्छिलाम् ॥ ७.२,१५.३८ एतस्या नाममात्रेण मुक्तिर्वै नाममात्रिका ॥ ७.२,१५.३८ यैः पुनर्विदितं तत्त्वं ते मुक्ता मोचयन्त्यपि ॥ ७.२,१५.३९ तत्त्वहीने कुतो बोधः कुतो ह्यात्मपरिग्रहः ॥ ७.२,१५.३९ परिग्रहविनिर्मुक्तः पशुरित्यभिधीयते ॥ ७.२,१५.४० पशुभिः प्रेरितश्चापि पशुत्वं नातिवर्तते ॥ ७.२,१५.४० तस्मात्तत्त्वविदेवेह मुक्तो मोचक इष्यते ॥ ७.२,१५.४१ सर्वलक्षणसंयुक्तः सर्वशास्त्रविदप्ययम् ॥ ७.२,१५.४१ सर्वोपायविधिज्ञो ऽपि तत्त्वहीनस्तु निष्फलः ॥ ७.२,१५.४२ यस्यानुभवपर्यंता बुद्धिस्तत्त्वे प्रवर्तते ॥ ७.२,१५.४२ तस्यावलोकनाद्यैश्च परानन्दो ऽभिजायते ॥ ७.२,१५.४३ तस्माद्यस्यैव संपर्कात्प्रबोधानंदसंभवः ॥ ७.२,१५.४३ गुरुं तमेव वृणुयान्नापरं मतिमान्नरः ॥ ७.२,१५.४४ स शिष्यैर्विनयाचारचतुरैरुचितो गुरुः ॥ ७.२,१५.४४ यावद्विज्ञायते तावत्सेवनीयो मुमुक्षुभिः ॥ ७.२,१५.४५ ज्ञाते तस्मिन्स्थिरा भक्तिर्यावत्तत्त्वं समाश्रयेत् ॥ ७.२,१५.४५ न तु तत्त्वं त्यजेज्जातु नोपेक्षेत कथंचन ॥ ७.२,१५.४६ यत्रानंदः प्रबोधो वा नाल्पमप्युपलभ्यते ॥ ७.२,१५.४६ वत्सरादपि शिष्येण सो ऽन्यं गुरुमुपाश्रयेत् ॥ ७.२,१५.४७ गुरुमन्यं प्रपन्ने ऽपि नावमन्येत पौर्विकम् ॥ ७.२,१५.४७ गुरोर्भ्रात्ःंस्तथा पुत्रान्बोधकान्प्रेरकानपि ॥ ७.२,१५.४७ तत्रादावुपसंगम्य ब्राह्मणं वेदपारगम् ॥ ७.२,१५.४८ गुरुमाराधयेत्प्राज्ञं शुभगं प्रियदर्शनम् ॥ ७.२,१५.४८ सर्वाभयप्रदातारं करुणाक्रांतमानसम् ॥ ७.२,१५.४९ तोषयेत्तं प्रयत्नेन मनसा कर्मणा गिरा ॥ ७.२,१५.४९ तावदाराधयेच्छिष्यः प्रसन्नोसौ भवेद्यथा ॥ ७.२,१५.५० तस्मिन्प्रसन्ने शिष्यस्य सद्यः पापक्षयो भवेत् ॥ ७.२,१५.५० तस्माद्धनानि रत्नानि क्षेत्राणि च गृहाणि च ॥ ७.२,१५.५१ भूषणानि च वासांसि यानशय्यासनानि च ॥ ७.२,१५.५१ एतानि गुरवे दद्याद्भक्त्या वित्तानुसारतः ॥ ७.२,१५.५२ ५६२ वित्तशाठ्यं न कुर्वीत यदीच्छेत्परमां गतिम् ॥ ७.२,१५.५२ स एव जनको माता भर्ता बन्धुर्धनं सुखम् ॥ ७.२,१५.५३ सखा मित्रं च यत्तस्मात्सर्वं तस्मै निवेदयेत् ॥ ७.२,१५.५३ निवेद्य पश्चात्स्वात्मानं सान्वयं सपरिग्रहम् ॥ ७.२,१५.५४ समर्प्य सोदकं तस्मै नित्यं तद्वशगो भवेत् ॥ ७.२,१५.५४ यदा शिवाय स्वात्मानं दत्तवान् देशिकात्मने ॥ ७.२,१५.५५ तदा शैवो भवेद्देही न ततो ऽस्ति पुनर्भवः ॥ ७.२,१५.५५ गुरुश्च स्वाश्रितं शिष्यं वर्षमेकं परीक्षयेत् ॥ ७.२,१५.५६ ब्राह्मणं क्षत्रियं वैश्यं द्विवर्षं च त्रिवर्षकम् ॥ ७.२,१५.५६ प्राणद्रव्यप्रदानाद्यैरादेशैश्च समासमैः ॥ ७.२,१५.५७ उत्तमांश्चाधमे कृत्वा नीचानुत्तमकर्मणि ॥ ७.२,१५.५७ आक्रुष्टास्ताडिता वापि ये विषादं न यान्त्यपि ॥ ७.२,१५.५८ ते योग्याः संयताः शुद्धाः शिवसंस्कारकर्मणि ॥ ७.२,१५.५८ अहिंसका दयावंतो नित्यमुद्युक्तचेतसः ॥ ७.२,१५.५९ अमानिनो बुद्धिमंतस्त्यक्तस्पर्धाः प्रियंवदाः ॥ ७.२,१५.५९ ऋजवो मृदवः स्वच्छा विनीताः स्थिरचेतसः ॥ ७.२,१५.६० शौचाचारसमायुक्ताः शिवभक्ता द्विजातयः ॥ ७.२,१५.६० एवं वृत्तसमोपेता वाङ्मनःकायकर्मभिः ॥ ७.२,१५.६१ शोध्या बोध्या यथान्यायमिति शास्त्रेषु निश्चयः ॥ ७.२,१५.६१ नाधिकारः स्वतो नार्याः शिवसंस्कारकर्मणि ॥ ७.२,१५.६२ नियोगाद्भर्तुरस्त्येव भक्तियुक्ता यदीश्वरे ॥ ७.२,१५.६२ तथैव भर्तृहीनाया पुत्रादेरभ्यनुज्ञया ॥ ७.२,१५.६३ अधिकारो भवत्येव कन्यायाः पितुराज्ञया ॥ ७.२,१५.६३ शूद्राणां मर्त्यजातीनां पतितानां विशेषतः ॥ ७.२,१५.६३ तथा संकरजातीनां नाध्वशुद्धिर्विधीयते ॥ ७.२,१५.६४ तैप्यकृत्रिमभावश्चेच्छिवे परमकारणे ॥ ७.२,१५.६४ पादोदकप्रदानाद्यैः कुर्युः पापविशोधनम् ॥ ७.२,१५.६५ अत्रानुलोमजाता ये युक्ता एव द्विजातिषु ॥ ७.२,१५.६५ तेषामध्वविशुद्ध्यादि कुर्यान्मातृकुलोचितम् ॥ ७.२,१५.६६ या तु कन्या स्वपित्राद्यैश्शिवधर्मे नियोजिता ॥ ७.२,१५.६६ सा भक्ताय प्रदातव्या नापराय विरोधिने ॥ ७.२,१५.६७ दत्ता चेत्प्रतिकूलाय प्रमादाद्बोधयेत्पतिम् ॥ ७.२,१५.६७ अशक्ता तं परित्यज्य मनसा धर्ममाचरेत् ॥ ७.२,१५.६८ यथा मुनिवरं त्यक्त्वा पतिमत्रिं पतिव्रता ॥ ७.२,१५.६८ कृतकृत्या ऽभवत्पूर्वं तपसाराध्य शङ्करम् ॥ ७.२,१५.६९ यथा नारायणं देवं तपसाराध्य पांडवान् ॥ ७.२,१५.६९ पतींल्लब्धवती धर्मे गुरुभिर्न नियोजिता ॥ ७.२,१५.७० अस्वातन्त्र्यकृतो दोषो नेहास्ति परमार्थतः ॥ ७.२,१५.७० शिवधर्मे नियुक्तायाश्शिवशासनगौरवात् ॥ ७.२,१५.७१ बहुनात्र किमुक्तेन यो ऽपि को ऽपि शिवाश्रयः ॥ ७.२,१५.७१ संस्कार्यो गुर्वधीनश्चेत्संस्क्रिया न प्रभिद्यते ॥ ७.२,१५.७२ गुरोरालोकनादेव स्पर्शात्संभाषणादपि ॥ ७.२,१५.७२ ५६३ यस्य संजायते प्रज्ञा तस्य नास्ति पराजयः ॥ ७.२,१५.७३ मनसा यस्तु संस्कारः क्रियते योगवर्त्मना ॥ ७.२,१५.७३ स नेह कथितो गुह्यो गुरुवक्त्रैकगोचरः ॥ ७.२,१५.७४ क्रियावान्यस्तु संस्कारः कुंडमंडपपूर्वकः ॥ ७.२,१५.७४ स वक्ष्यते समासेन तस्य शक्यो न विस्तरः ॥ ७.२,१५.७४ ओं इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे दीक्षाविधाने गुरुमाहात्म्यं नाम पञ्चदशो ऽध्यायः अध्याय १६ उपमन्युरुवाच पुण्ये ऽहनि शुचौ देशे बहुदोषविवर्जिते ॥ ७.२,१६.१ देशिकः प्रथमं कुर्यात्संस्कारं समयाह्वयम् ॥ ७.२,१६.१ परीक्ष्य भूमिं विधिवद्गंधवर्णरसादिभिः ॥ ७.२,१६.२ शिल्पिशास्त्रोक्तमार्गेण मण्डपं तत्र कल्पयेत् ॥ ७.२,१६.२ कृत्वा वेदिं च तन्मध्ये कुण्डानि परिकल्पयेत् ॥ ७.२,१६.३ अष्टदिक्षु तथा दिक्षु तत्रैशान्यां पुनः क्रमात् ॥ ७.२,१६.३ प्रधानकुंडं कुर्वीत यद्वा पश्चिमभागतः ॥ ७.२,१६.४ प्रधानमेकमेवाथ कृत्वा शोभां प्रकल्पयेत् ॥ ७.२,१६.४ वितानध्वजमालाभिर्विविधाभिरनेकशः ॥ ७.२,१६.५ वेदिमध्ये ततः कुर्यान्मंडलं शुभलक्षणम् ॥ ७.२,१६.५ रक्तहेमादिभिश्चूर्णैरीश्वरावाहनोचितम् ॥ ७.२,१६.६ सिंदूरशालिनीवारचूर्णैरेवाथ निर्धनः ॥ ७.२,१६.६ एकहस्तं द्विहस्तं वा सितं वा रक्तमेव वा ॥ ७.२,१६.७ एकहस्तस्य पद्मस्य कर्णिकाष्टांगुला मता ॥ ७.२,१६.७ केसराणि तदर्धानि शेषं चाष्टदलादिकम् ॥ ७.२,१६.८ द्विहस्तस्य तु पद्मस्य द्विगुणं कर्णिकादिकम् ॥ ७.२,१६.८ कृत्वा शोभोपशोभाढ्यमैशान्यां तस्य कल्पयेत् ॥ ७.२,१६.९ एकहस्तं तदर्धं वा पुनर्वेद्यः तु मंडलम् ॥ ७.२,१६.९ व्रीहितंदुलसिद्धार्थतिलपुष्पकुशास्तृते ॥ ७.२,१६.१० तत्र लक्षणसंयुक्तं शिवकुंभं प्रसाधयेत् ॥ ७.२,१६.१० सौवर्णं राजतं वापि ताम्रजं मृन्मयं तु वा ॥ ७.२,१६.११ गन्धपुष्पाक्षताकीर्णं कुशदूर्वांकुराचितम् ॥ ७.२,१६.११ सितसूत्रावृतं कंठे नववस्त्रयुगावृतम् ॥ ७.२,१६.१२ शुद्धाम्बुपूर्णमुत्कूर्चं सद्रव्यं सपिधानकम् ॥ ७.२,१६.१२ भृङ्गारं वर्धनीं चापि शंखं च चक्रमेव वा ॥ ७.२,१६.१३ विना सूत्रादिकं सर्वं पद्मपत्रमथापि वा ॥ ७.२,१६.१३ तस्यासनारविंदस्य कल्पयेदुत्तरे दले ॥ ७.२,१६.१४ अग्रतश्चंदनांभोभिरस्त्रराजस्य वर्धनीम् ॥ ७.२,१६.१४ मण्डलस्य ततः प्राच्यां मंत्रकुंभे च पूर्ववत् ॥ ७.२,१६.१५ कृत्वा विधिवदीशस्य महापूजां समाचरेत् ॥ ७.२,१६.१५ अथार्णवस्य तीरे वा नद्यां गोष्ठे ऽपि वा गिरौ ॥ ७.२,१६.१६ देवागरे गृहे वापि देशे ऽन्यस्मिन्मनोहरे ॥ ७.२,१६.१६ कृत्वा पूर्वोदितं सर्वं विना वा मंडपादिकम् ॥ ७.२,१६.१७ मंडलं पूर्ववत्कृत्वा स्थंडिलं च विभावसोः ॥ ७.२,१६.१७ प्रविश्य पूजाभवनं प्रहृष्टवदनो गुरुः ॥ ७.२,१६.१८ सर्वमंगलसंयुक्तः समाचरितनैत्यकः ॥ ७.२,१६.१८ ५६३ महापूजां महेशस्य कृत्वा मण्डलमध्यतः ॥ ७.२,१६.१९ शिवकुंभे तथा भूयः शिवमावाह्य पूजयेत् ॥ ७.२,१६.१९ पश्चिमाभिमुखं ध्यात्वा यज्ञरक्षकमीश्वरम् ॥ ७.२,१६.२० अर्चयेदस्त्रवर्धन्यामस्त्रमीशस्य दक्षिणे ॥ ७.२,१६.२० मन्त्रकुम्भे च विन्यस्य मन्त्रं मन्त्रविशारदः ॥ ७.२,१६.२१ कृत्वा मुद्रादिकं सर्वं मन्त्रयागं समाचरेत् ॥ ७.२,१६.२१ ततश्शिवानले होमं कुर्याद्देशिकसत्तमः ॥ ७.२,१६.२२ प्रधानकुण्डे परितो जुहुयुश्चापरे द्विजाः ॥ ७.२,१६.२२ आचार्यात्पादमर्धं वा होमस्तेषां विधीयते ॥ ७.२,१६.२३ प्रधानकुण्ड एवाथ जुहुयाद्देशिकोत्तमः ॥ ७.२,१६.२३ स्वाध्यायमपरे कुर्युः स्तोत्रं मंगलवाचनम् ॥ ७.२,१६.२४ जपं च विधिवच्चान्ये शिवभक्तिपरायणाः ॥ ७.२,१६.२४ नृत्यं गीतं च वाद्यं च मंगलान्यपराणि च ॥ ७.२,१६.२५ पूजनं च सदस्यानां कृत्वा सम्यग्विधानतः ॥ ७.२,१६.२५ पुण्याहं कारयित्वाथ पुनः संपूज्य शंकरम् ॥ ७.२,१६.२६ प्रार्थयेद्देशिको देवं शिष्यानुग्रहकाम्यया ॥ ७.२,१६.२६ प्रसीद देवदेवेश देहमाविश्य मामकम् ॥ ७.२,१६.२७ विमोचयैनं विश्वेश घृणया च घृणानिधे ॥ ७.२,१६.२७ अथ चैवं करोमीति लब्धानुज्ञस्तु देशिकः ॥ ७.२,१६.२८ आनीयोपोषितं शिष्यं हविष्याशिनमेव वा ॥ ७.२,१६.२८ एकाशनं वा विरतं स्नातं प्रातःकृतक्रियम् ॥ ७.२,१६.२९ जपंतं प्रणवं देवं ध्यायंतं कृतमंगलम् ॥ ७.२,१६.२९ द्वारस्य पश्चिमस्याग्रमण्डले दक्षिणस्य वा ॥ ७.२,१६.३० दर्भासने समासीनं विधायोदङ्मुखं शिशुम् ॥ ७.२,१६.३० स्वयं प्राग्वदनस्तिष्ठन्नूर्ध्वकायं कृतांजलिम् ॥ ७.२,१६.३१ संप्रोक्ष्य प्रोक्षणौतोयैर्मूर्धन्यस्त्रेण मुद्रया ॥ ७.२,१६.३१ पुष्पक्षेपेण संताड्य बध्नीयाल्लोचनं गुरुः ॥ ७.२,१६.३२ दुकूलार्धेन वस्त्रेण मंत्रितेन नवेन च ॥ ७.२,१६.३२ ततः प्रवेशयेच्छिष्यं गुरुर्द्वारेण मंडलम् ॥ ७.२,१६.३३ सो ऽपि तेनेरितः शंभोराचरेत्त्रिः प्रदक्षिणम् ॥ ७.२,१६.३३ ततस्सुवर्णसंमिश्रं दत्त्वा पुष्पांजलिं प्रभोः ॥ ७.२,१६.३४ प्राङ्मुखश्चोदङ्मुखो वा प्रणमेद्दंडवत्क्षितो ॥ ७.२,१६.३४ ततस्संप्रोक्ष्य मूलेन शिरस्यस्त्रेण पूर्ववत् ॥ ७.२,१६.३५ संताड्य देशिकस्तस्य मोचयेन्नेत्रबंधनम् ॥ ७.२,१६.३५ स दृष्ट्वा मंडलं भूयः प्रणमेत्साञ्जलिः प्रभुम् ॥ ७.२,१६.३६ अथासीनं शिवाचार्यो मंडलस्य तु दक्षिणे ॥ ७.२,१६.३६ उपवेश्यात्मनस्सव्ये शिष्यं दर्भासने गुरुः ॥ ७.२,१६.३७ आराध्य च महादेवं शिवहस्तं प्रविन्यसेत् ॥ ७.२,१६.३७ शिवतेजोमयं पाणिं शिवमंत्रमुदीरयेत् ॥ ७.२,१६.३८ शिवाभिमानसंपन्नो न्यसेच्छिष्यस्य मस्तके ॥ ७.२,१६.३८ सर्वांगालंबनं चैव कुर्यात्तेनैव देशिकः ॥ ७.२,१६.३९ शिष्यो ऽपि प्रणमेद्भूमौ देशिकाकृतमीश्वरम् ॥ ७.२,१६.३९ ततश्शिवानले देवं समभ्यर्च्य यथाविधि ॥ ७.२,१६.४० हुताहुतित्रयं शिष्यमुपवेश्य यथा पुरा ॥ ७.२,१६.४० ५६४ दर्भाग्रैः संस्पृशंस्तं च विद्ययात्मानमाविशेत् ॥ ७.२,१६.४१ नमस्कृत्य महादेवं नाडीसंधानमाचरेत् ॥ ७.२,१६.४१ शिवशास्त्रोक्तमार्गेण कृत्वा प्राणस्य निर्गमम् ॥ ७.२,१६.४२ शिष्यदेहप्रवेशं च स्मृत्वा मंत्रांस्तु तर्पयेत् ॥ ७.२,१६.४२ संतर्पणाय मूलस्य तेनैवाहुतयो दश ॥ ७.२,१६.४३ देयास्तिस्रस्तथांगानामंगैरेव यथाक्रमम् ॥ ७.२,१६.४३ ततः पूर्णाहुतिं दत्त्वा प्रायश्चित्ताय देशिकः ॥ ७.२,१६.४४ पुनर्दशाहुतीन्कुर्यान्मूलमंत्रेण मंत्रवित् ॥ ७.२,१६.४४ पुनः संपूज्य देवेशं सम्यगाचम्य देशिकः ॥ ७.२,१६.४५ हुत्वा चैव यथान्यायं स्वजात्या वैश्यमुद्धरेत् ॥ ७.२,१६.४५ तस्यैवं जनयेत्क्षात्रमुद्धारं च ततः पुनः ॥ ७.२,१६.४६ कृत्वा तथैव विप्रत्वं जनयेदस्य देशिकः ॥ ७.२,१६.४६ राजन्यं चैवमुद्धृत्य कृत्वा विप्रं पुनस्तयोः ॥ ७.२,१६.४७ रुद्रत्वं जनयेद्विप्रे रुद्रनामैव साधयेत् ॥ ७.२,१६.४७ प्रोक्षणं ताडनं कृत्वा शिशोस्स्वात्मानमात्मनि ॥ ७.२,१६.४८ शिवात्मकमनुस्मृत्य स्फुरंतं विस्फुलिंगवत् ॥ ७.२,१६.४८ नाड्या यथोक्तया वायुं रेचयेन्मंत्रतो गुरुः ॥ ७.२,१६.४९ निर्गम्य प्रविशेन्नाड्या शिष्यस्य हृदयं तथा ॥ ७.२,१६.४९ प्रविश्य तस्य चैतन्यं नीलबिन्दुनिभं स्मरन् ॥ ७.२,१६.५० स्वतेजसापास्तमलं ज्वलंतमनुचिंतयेत् ॥ ७.२,१६.५० तमादाय तया नाड्या मंत्री संहारमुद्रया ॥ ७.२,१६.५१ न पूरकेण निवेश्यैनमेकीभावार्थमात्मनः ॥ ७.२,१६.५१ कुंभकेन तथा नाड्या रेचकेन यथा पुरा ॥ ७.२,१६.५२ तस्मादादाय शिष्यस्य हृदये तन्निवेशयेत् ॥ ७.२,१६.५२ तमालभ्य शिवाल्लब्धं तस्मै दत्त्वोपवीतकम् ॥ ७.२,१६.५३ हुत्वा"हुतित्रयं पश्चाद्दद्यात्पूर्णाहुतिं ततः ॥ ७.२,१६.५३ देवस्य दक्षिणे शिष्यमुपवेश्यवरासने ॥ ७.२,१६.५४ कुशपुष्पपरिस्तीर्णे बद्धांजलिरुदङ्मुखम् ॥ ७.२,१६.५४ स्वस्तिकासनमारूढं विधाय प्राङ्मुखः स्वयम् ॥ ७.२,१६.५५ वरासनस्थितो मंत्रैर्महामंगलनिःस्वनैः ॥ ७.२,१६.५५ समादाय घटं पूर्णं पूर्णमेव प्रसादितम् ॥ ७.२,१६.५६ ध्यायमानः शिवं शिष्यमाभिषिंचेत देशिकः ॥ ७.२,१६.५६ अथापनुद्य स्नानांबु परिधाय सितांबरम् ॥ ७.२,१६.५७ आचान्तोलंकृतश्शिष्यः प्रांजलिर्मंडपं व्रजेत् ॥ ७.२,१६.५७ उपवेश्य यथापूर्वं तं गुरुर्दर्भविष्टरे ॥ ७.२,१६.५८ संपूज्य मंडलं देवं करन्यासं समाचरेत् ॥ ७.२,१६.५८ ततस्तु भस्मना देवं ध्यायन्मनसि देशिकः ॥ ७.२,१६.५९ समालभेत पाणिभ्यां शिशुं शिवमुदीरयेत् ॥ ७.२,१६.५९ अथ तस्य शिवाचार्यो दहनप्लावनादिकम् ॥ ७.२,१६.६० सकलीकरणं कृत्वा मातृकान्यासवर्त्मना ॥ ७.२,१६.६० ततः शिवासनं ध्यात्वा शिष्यमूर्ध्नि देशिकः ॥ ७.२,१६.६१ तत्रावाह्य यथान्यायमर्चयेन्मनसा शिवम् ॥ ७.२,१६.६१ प्रार्थयेत्प्रांजलिर्देवं नित्यमत्र स्थितो भव ॥ ७.२,१६.६२ इति विज्ञाप्य तं शंभोस्तेजसा भासुरं स्मरेत् ॥ ७.२,१६.६२ ५६४ संपूज्याथ शिवं शैवीमाज्ञां प्राप्य शिवात्मिकाम् ॥ ७.२,१६.६३ कर्णे शिष्यस्य शनकैश्शिवमन्त्रमुदीरयेत् ॥ ७.२,१६.६३ स तु बद्धांजलिः श्रुत्वा मन्त्रं तद्गतमानसः ॥ ७.२,१६.६४ शनैस्तं व्याहरेच्छिष्यशिवाचार्यस्य शासनात् ॥ ७.२,१६.६४ ततः शाक्तं च संदिश्य मन्त्रं मन्त्रविचक्षणः ॥ ७.२,१६.६५ उच्चारयित्वा च सुखं तस्मै मंगलमादिशेत् ॥ ७.२,१६.६५ ततस्समासान्मन्त्रार्थं वाच्यवाचकयोगतः ॥ ७.२,१६.६६ समदिश्येश्वरं रूपं योगमासनमादिशेत् ॥ ७.२,१६.६६ अथ गुर्वाज्ञया शिष्यः शिवाग्निगुरुसन्निधौ ॥ ७.२,१६.६७ भक्त्यैवमभिसंधाय दीक्षावाक्यमुदीरयेत् ॥ ७.२,१६.६७ वरं प्राणपरित्यागश्छेदनं शिरसो ऽपि वा ॥ ७.२,१६.६८ न त्वनभ्यर्च्य भुंजीय भगवन्तं त्रिलोचनम् ॥ ७.२,१६.६८ स एव दद्यान्नियतो यावन्मोहविपर्ययः ॥ ७.२,१६.६९ तावदाराधयेद्देवं तन्निष्ठस्तत्परायणः ॥ ७.२,१६.६९ ततः स समयो नाम भविष्यति शिवाश्रमे ॥ ७.२,१६.७० लब्धाधिकारो गुर्वाज्ञापालकस्तद्वशो भवेत् ॥ ७.२,१६.७० अतः परं न्यस्तकरो भस्मादाय स्वहस्ततः ॥ ७.२,१६.७१ दद्याच्छिष्याय मूलेन रुद्राक्षं चाभिमंत्रितम् ॥ ७.२,१६.७१ प्रतिमा वापि देवस्य गूढदेहमथापि वा ॥ ७.२,१६.७२ पूजाहोमजपध्यानसाधनानि च संभवे ॥ ७.२,१६.७२ सोपि शिष्यः शिवाचार्याल्लब्धानि बहुमानतः ॥ ७.२,१६.७३ आददीताज्ञया तस्य देशिकस्य न चान्यथा ॥ ७.२,१६.७३ आचार्यादाप्तमखिलं शिरस्याधाय भक्तितः ॥ ७.२,१६.७४ रक्षयेत्पूजयेच्छंभुं मठे वा गृह एववा ॥ ७.२,१६.७४ अतः परं शिवाचारमादिशेदस्य देशिकः ॥ ७.२,१६.७५ भक्तिश्रद्धानुसारेण प्रज्ञायाश्चानुसारतः ॥ ७.२,१६.७५ यदुक्तं यत्समाज्ञातं यच्चैवान्यत्प्रकीर्तितम् ॥ ७.२,१६.७६ शिवाचार्येण समये तत्सर्वं शिरसा वहेत् ॥ ७.२,१६.७६ शिवागमस्य ग्रहणं वाचनं श्रवणं तथा ॥ ७.२,१६.७७ देशिकदेशतः कुर्यान्न स्वेच्छातो न चान्यतः ॥ ७.२,१६.७७ इति संक्षेपतः प्रोक्तः संस्कारः समयाह्वयः ॥ ७.२,१६.७८ साक्षाच्छिवपुरप्राप्तौ नृणां परमसाधनम् ॥ ७.२,१६.७८ ओं इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखंडे शिष्यसंस्कारवर्णनं नाम षोडशो ऽध्यायः अध्याय १७ उपमन्युरुवाच अतः परं समावेक्ष्य गुरुः शिष्यस्य योग्यताम् ॥ ७.२,१७.१ षडध्वशुद्धिं कुर्वीत सर्वबंधविमुक्तये ॥ ७.२,१७.१ कलां तत्त्वं च भुवनं वर्णं पदमतः परम् ॥ ७.२,१७.२ मंत्रश्चेति समासेन षडध्वा परिपठ्यते ॥ ७.२,१७.२ निवृत्त्याद्याः कलाः पञ्च कलाध्वा कथ्यते बुधैः ॥ ७.२,१७.३ व्याप्ताः कलाभिरितरे त्वध्वानः पञ्च पञ्चभिः ॥ ७.२,१७.३ ५६५ शिवतत्त्वादिभूम्यंतं तत्त्वाध्वा समुदाहृतः ॥ ७.२,१७.४ षड्विंशत्संख्ययोपेतः शुद्धाशुद्धोभयात्मकः ॥ ७.२,१७.४ आधाराद्युन्मनांतश्च भुवनाध्वा प्रकीर्तितः ॥ ७.२,१७.५ विना भेदोपभेदाभ्यां षष्टिसंख्यासमन्वितः ॥ ७.२,१७.५ पञ्चाशद्रुद्ररूपास्तु वर्णा वर्णाध्वसंज्ञिताः ॥ ७.२,१७.६ अनेकभेदसंपन्नः पदाध्वा समुदाहृतः ॥ ७.२,१७.६ सर्वोपमंत्रैर्मंत्राध्वा व्याप्तः परमविद्यया ॥ ७.२,१७.७ यथा शिवो न तत्त्वेषु गण्यते तत्त्वनायकः ॥ ७.२,१७.७ मंत्राध्वनि न गण्येत तथासौ मंत्रनायकः ॥ ७.२,१७.८ कलाध्वनो व्यापकत्वं व्याप्यत्वं चेतराध्वनाम् ॥ ७.२,१७.८ न वेत्ति तत्त्वतो यस्य नैवार्हत्यध्वशोधनम् ॥ ७.२,१७.९ षड्विधस्याध्वनो रूपं न येन विदितं भवेत् ॥ ७.२,१७.९ व्याप्यव्यापकता तेन ज्ञातुमेव न शक्यते ॥ ७.२,१७.१० तस्मादध्वस्वरूपं च व्याप्यव्यापकतां तथा ॥ ७.२,१७.१० यथावदवगम्यैव कुर्यादध्वविशोधनम् ॥ ७.२,१७.११ कुंडमंडलपर्यंतं तत्र कृत्वा यथा पुरा ॥ ७.२,१७.११ द्विहस्तमानं कुर्वीत प्राच्यां कलशमंडलम् ॥ ७.२,१७.१२ ततः स्नातश्शिवाचार्यः सशिष्यः कृतनैत्यकः ॥ ७.२,१७.१२ प्रविश्य मंडलं शंभोः पूजां पूर्ववदाचरेत् ॥ ७.२,१७.१३ तत्राढकावरैस्सिद्धं तंदुलैः पायसं प्रभोः ॥ ७.२,१७.१३ अर्धं निवेद्य होमार्थं शेषं समुपकल्पयेत् ॥ ७.२,१७.१४ पुरतः कल्पिते वाथ मंडले वर्णिमंडिते ॥ ७.२,१७.१४ स्थापयेत्पञ्चकलशान्दिक्षु मध्ये च देशिकः ॥ ७.२,१७.१५ तेषु ब्रह्माणि मूलार्णैर्बिन्दुनादसमन्वितैः ॥ ७.२,१७.१५ नम आद्यैर्यकरांतैः कल्पयेत्कल्पवित्तमः ॥ ७.२,१७.१६ ईशानं मध्यमे कुंभे पुरुषं पुरतः स्थिते ॥ ७.२,१७.१६ अघोरं दक्षिणे वामे वामं सद्यं च पश्चिमे ॥ ७.२,१७.१७ रक्षां विधाय मुद्रा च बद्ध्वा कुंभाभिमंत्रणम् ॥ ७.२,१७.१७ कृत्वा शिवानलैर्होमं प्रारभेत्यथा पुरा ॥ ७.२,१७.१८ यदर्धं पायसं पूर्वं होमार्थं परिकल्पितम् ॥ ७.२,१७.१८ हुत्वा शिष्यस्य तच्छेषं भोक्तुं समुपकल्पयेत् ॥ ७.२,१७.१९ तर्पणांतं च मंत्राणां कृत्वा कर्म यथा पुरा ॥ ७.२,१७.१९ हुत्वा पूर्णाहुतिं तेषां ततः कुर्यात्प्रदीपनम् ॥ ७.२,१७.२० ओंकारादनु हुंकारं ततो मूलं फडंतकम् ॥ ७.२,१७.२० स्वाहांतं दीपने प्राहुरंगानि च यथाक्रमम् ॥ ७.२,१७.२१ तेषामाहुतयस्तिस्रो देया दीपनकर्मणि ॥ ७.२,१७.२१ मंत्रैरेकैकशस्तैस्तु विचिन्त्या दीप्तमूर्तयः ॥ ७.२,१७.२२ त्रिगुणं त्रिगुणी कृत्य द्विजकन्याकृतं सितम् ॥ ७.२,१७.२२ सूत्रं सूत्रेण संमंत्र्य शिखाग्रे बंधयेच्छिशोः ॥ ७.२,१७.२३ चरणांगुष्ठपर्यंतमूर्ध्वकायस्य तिष्ठतः ॥ ७.२,१७.२३ लंबयित्वा तु तत्सूत्रं सुषुम्णां तत्र योजयेत् ॥ ७.२,१७.२४ शांतया मुद्रयादाय मूलमंत्रेण मंत्रवित् ॥ ७.२,१७.२४ हुत्वाहुतित्रयं तस्यास्सान्निध्यमुपकल्पयेत् ॥ ७.२,१७.२५ हृदि संताड्य शिष्यस्य पुष्पक्षेपेण पूर्ववत् ॥ ७.२,१७.२५ ५६५ चैतन्यं समुपादाय द्वादशांते निवेद्य च ॥ ७.२,१७.२६ सूत्रं सूत्रेण संयोज्य संरक्ष्यास्त्रेण वर्मणा ॥ ७.२,१७.२६ अवगुंठ्याथ तत्सूत्रं शिष्यदेहं विचिंतयेत् ॥ ७.२,१७.२७ मूलत्रयमयं पाशं भोगभोग्यत्वलक्षणम् ॥ ७.२,१७.२७ विषयेन्द्रियदेहादिजनकं तस्य भावयेत् ॥ ७.२,१७.२८ व्योमादिभूतरूपिण्यः शांत्यतीतादयः कलाः ॥ ७.२,१७.२८ सूत्रे स्वनामभिर्योज्यः पूज्यश्चैव नमोयुतैः ॥ ७.२,१७.२९ अथवा बीजभूतैस्तत्कृत्वा पूर्वोदितं क्रमात् ॥ ७.२,१७.२९ ततो मलादेस्तत्त्वादौ व्याप्तिं समलोकयेत् ॥ ७.२,१७.३० कलाव्याप्तिं मलादौ च हुत्वा संदीपयेत्कलाः ॥ ७.२,१७.३० शिष्यं शिरसि संताड्य सूत्रं देहे यथाक्रमम् ॥ ७.२,१७.३१ शांत्यतीतपदे सूत्रं लाञ्छयेन्मंत्रमुच्चरन् ॥ ७.२,१७.३१ एवं कृत्वा निवृत्त्यन्तं शांत्यतीतमनुक्रमात् ॥ ७.२,१७.३२ हुत्वाहुतित्रयं पश्चान्मण्डले च शिवं यजेत् ॥ ७.२,१७.३२ देवस्य दक्षिणे शिष्यमुपवेश्योत्तरामुखम् ॥ ७.२,१७.३३ सदर्भे मण्डले दद्याद्धोमशिष्टं चरुं गुरुः ॥ ७.२,१७.३३ शिष्यस्तद्गुरुणा दत्तं सत्कृत्य शिवपूर्वकम् ॥ ७.२,१७.३४ भुक्त्वा पश्चाद्द्विराचम्य शिवमन्त्रमुदीरयेत् ॥ ७.२,१७.३४ अपरे मण्डले दद्यात्पञ्चगव्यं तथा गुरुः ॥ ७.२,१७.३५ सो ऽपि तच्छक्तितः पीत्वा द्विराचम्य शिवं स्मरेत् ॥ ७.२,१७.३५ तृतीये मण्डले शिष्यमुपवेश्य यथा पुरा ॥ ७.२,१७.३६ प्रदद्याद्दंतपवनं यथाशास्त्रोक्तलक्षणम् ॥ ७.२,१७.३६ अग्रेण तस्य मृदुना प्राङ्मुखो वाप्युदङ्मुखः ॥ ७.२,१७.३७ वाचं नियम्य चासीनश्शिष्यो दंतान्विशोधयेत् ॥ ७.२,१७.३७ प्रक्षाल्य दंतपवनं त्यक्त्वाचम्य शिवं स्मरेत् ॥ ७.२,१७.३८ प्रविशेद्देशिकादिष्टः प्रांजलिः शिवमण्डलम् ॥ ७.२,१७.३८ त्यक्तं तद्दन्तपवनं दृश्यते गुरुणा यदि ॥ ७.२,१७.३९ प्रागुदक्पश्चिमे वाग्रे शिवमन्यच्छिवेतरम् ॥ ७.२,१७.३९ अशस्ताशामुखे तस्मिन्गुरुस्तद्दोषशांतये ॥ ७.२,१७.४० शतमर्धं तदर्धं वाजुहुयान्मूलमन्त्रतः ॥ ७.२,१७.४० ततः शिष्यं समालभ्य जपित्वा कर्णयोः शिवम् ॥ ७.२,१७.४१ देवस्य दक्षिणे भागे तं शिष्यमधिवासयेत् ॥ ७.२,१७.४१ अहतास्तरणास्तीर्णे स दर्भशयने शुचिः ॥ ७.२,१७.४२ मंत्रिते ऽन्तः शिवं ध्यायञ्शयीत प्राक्छिरा निशि ॥ ७.२,१७.४२ शिखायां बद्धसूत्रस्य शिखया तच्छिखां गुरुः ॥ ७.२,१७.४३ आबध्याहतवस्त्रेण तमाच्छाद्य च वर्मणा ॥ ७.२,१७.४३ रेखात्रयं च परितो भस्मना तिलसर्षपैः ॥ ७.२,१७.४४ कृत्वास्त्रजप्तैस्तद्वाह्ये दिगीशानां बलिं हरेत् ॥ ७.२,१७.४४ शिष्यो ऽपि परतो ऽनश्नन्कृत्वैवमधिवासनम् ॥ ७.२,१७.४५ प्रबुध्योत्थाय गुरवे स्वप्नं दृष्टं निवेदयेत् ॥ ७.२,१७.४५ ओं इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे शिवदीक्षाविधानवर्णनं नाम सप्तदशो ऽध्यायः ५६६ अध्याय १८ उपमन्युरुवाच ततः स्नानादिकं सर्वं समाप्याचार्यचोदितः ॥ ७.२,१८.१ गच्छेद्बद्धांजलिर्ध्यायञ्छिवमण्डलपार्श्वतः ॥ ७.२,१८.१ अथ पूजां विना सर्वं कृत्वा पूर्वदिने यथा ॥ ७.२,१८.२ नेत्रबंधनपर्यंतं दर्शयेन्मण्डलं गुरुः ॥ ७.२,१८.२ बद्धनेत्रेण शिष्येण पुष्पावकिरणे कृते ॥ ७.२,१८.३ यत्रापतंति पुष्णाणि तस्य नामा ऽस्य संदिशेत् ॥ ७.२,१८.३ तं चोपनीय निर्माल्यमण्डले ऽस्मिन्यथा पुरा ॥ ७.२,१८.४ पूजयेद्देवमीशानं जुहुयाच्च शिवानले ॥ ७.२,१८.४ शिष्येण यदि दुःस्वप्नो दृष्टस्तद्दोषशांतये ॥ ७.२,१८.५ शतमर्धं तदर्धं वा जुहुयान्मूलविद्यया ॥ ७.२,१८.५ ततः सूत्रं शिखाबद्धं लंबयित्वा यथा पुरा ॥ ७.२,१८.६ आधारपूजाप्रभृति यन्निवृत्तिकलाश्रयम् ॥ ७.२,१८.६ वागीश्वरीपूजनांतं कुर्याद्धोमपुरस्सरम् ॥ ७.२,१८.७ अथ प्रणम्य वागीशं निवृत्तेर्व्यापिकां सतीम् ॥ ७.२,१८.७ मण्डले देवमभ्यर्च्य हुत्वा चैवाहुतित्रयम् ॥ ७.२,१८.८ प्रापयेच्च शिशोः प्राप्तिं युगपत्सर्वयोनिषु ॥ ७.२,१८.८ सूत्रदेहे ऽथ शिष्यस्य ताडनप्रोक्षणादिकम् ॥ ७.२,१८.९ कृत्वात्मानं समादाय द्वादशांते निवेद्य च ॥ ७.२,१८.९ ततो ऽप्यादाय मूलेन मुद्रया शास्त्रदृष्टया ॥ ७.२,१८.१० योजयेन्मनसाचार्यो युगपत्सर्वयोनिषु ॥ ७.२,१८.१० देवानां जातयश्चाष्टौ तिरश्चां पञ्च जातयः ॥ ७.२,१८.११ जात्यैकया च मानुष्या योनयश्च चतुर्दश ॥ ७.२,१८.११ तासु सर्वासु युगपत्प्रवेशाय शिशोर्धिया ॥ ७.२,१८.१२ वागीशान्यां यथान्यायं शिष्यात्मानं निवेशयेत् ॥ ७.२,१८.१२ गर्भनिष्पत्तये देवं संपूज्य प्रणिपत्य च ॥ ७.२,१८.१३ हुत्वा चैव यथान्यायं निष्पन्नं तदनुस्मरेत् ॥ ७.२,१८.१३ निष्पन्नस्यैवमुत्पत्तिमनुवृत्तिं च कर्मणा ॥ ७.२,१८.१४ आर्जवं भोगनिष्पत्तिः कुर्यात्प्रीतिं परां तथा ॥ ७.२,१८.१४ निष्कृत्यर्थं च जात्यायुर्भोगसंस्कारसिद्धये ॥ ७.२,१८.१५ हुत्वाहुतित्रयं देवं प्रार्थयेद्देशिकोत्तमः ॥ ७.२,१८.१५ भोक्तृत्वविषयासंगमलं १ तत्कायशोधनम् ॥ ७.२,१८.१६ कृत्वैवमेव शिष्यस्य छिंद्यात्पाशत्रयं ततः ॥ ७.२,१८.१६ निकृत्या परि बद्धस्य पाशस्यात्यंतभेदतः ॥ ७.२,१८.१७ कृत्वा शिष्यस्य चैतन्यं स्वच्छं मन्येत केवलम् ॥ ७.२,१८.१७ हुत्वा पूर्णाहुतिं वह्नौ ब्रह्माणं पूजयेत्ततः ॥ ७.२,१८.१८ हुत्वाहुतित्रयं तस्मै शिवाज्ञामनुसंदिशेत् ॥ ७.२,१८.१८ पितामह त्वया नास्य यातुः शैवं परं पदम् ॥ ७.२,१८.१९ प्रतिबन्धो विधातव्यः शैवाज्ञैषा गरीयसी ॥ ७.२,१८.१९ इत्यादिश्य तमभ्यर्च्य विसृज च विधानतः ॥ ७.२,१८.२० १ त्याजयित्वेति शेषः ५६६ समभ्यर्च्य महादेवं जुहुयादाहुतित्रयम् ॥ ७.२,१८.२० निवृत्त्या शुद्धमुद्धृत्य शिष्यात्मानं यथा पुरा ॥ ७.२,१८.२१ निवेश्यात्मनि सूत्रे च वागीशं पूजयेत्ततः ॥ ७.२,१८.२१ हुत्वाहुतित्रयं तस्मै प्रणम्य च विसृज्य ताम् ॥ ७.२,१८.२२ कुर्यान्निवृत्तः संधानं प्रतिष्ठां कलया सह ॥ ७.२,१८.२२ संधाने युगपत्पूजां कृत्वा हुत्वाहुतित्रयम् ॥ ७.२,१८.२३ शिष्यात्मनः प्रतिष्ठायां प्रवेशं त्वथ भावयेत् ॥ ७.२,१८.२३ ततः प्रतिष्ठामावाह्य कृत्वाशेषं पुरोदितम् ॥ ७.२,१८.२४ तद्व्याप्तिं व्यापिकां तस्य वागीशानीं च भावयेत् ॥ ७.२,१८.२४ पूर्णेदुमंडलप्रख्यां कृत्वा शेषं च पूर्ववत् ॥ ७.२,१८.२५ विष्णवे संविशेदाज्ञां शिवस्य परमात्मनः ॥ ७.२,१८.२५ विष्णोर्विसर्जनाद्यं च कृत्वा शेषं च विद्यया ॥ ७.२,१८.२६ प्रतिष्ठामनुसंधाय तस्यां चापि यथा पुरा ॥ ७.२,१८.२६ कृत्वानुचिन्त्य तद्व्याप्तिं वागीशां च यथाक्रमम् ॥ ७.२,१८.२७ दीप्ताग्नौ पूर्णहोमान्तं कृत्वा शेषं च पूर्ववत् ॥ ७.२,१८.२७ नीलरुद्रमुपस्थाप्य तस्मै पूजादिकं तथा ॥ ७.२,१८.२८ कृत्वा कर्म शिवाज्ञां च दद्यात्पूर्वोक्तवर्त्मना ॥ ७.२,१८.२८ तपस्तमपि चोद्वास्य कृत्वा तस्याथ शांतये ॥ ७.२,१८.२९ विद्याकलां समाधाय तद्व्याप्तिं चावलोकयेत् ॥ ७.२,१८.२९ स्वात्मनो व्यापिकां तद्वद्वागीशीं च यथा पुरा ॥ ७.२,१८.३० बालार्कसदृशाकारां भासयंतीं दिशो दश ॥ ७.२,१८.३० ततः शेषं यथापूर्वं कृत्वा देवं महेश्वरम् ॥ ७.२,१८.३१ आवाह्याराध्य हुत्वास्मै शिवाज्ञां मनसा दिशेत् ॥ ७.२,१८.३१ महेश्वरं तथोत्सृज्य कृत्वान्यां च कलामिमाम् ॥ ७.२,१८.३२ शांत्यतीतां कलां नीत्वा तद्व्याप्तिमवलोकयेत् ॥ ७.२,१८.३२ स्वात्मनो व्यापिकां तद्वद्वागीशां च विचिंतयेत् ॥ ७.२,१८.३३ नभोमंडलसंकाशां पूर्णांतं चापि पूर्ववत् ॥ ७.२,१८.३३ कृत्वा शेषविधानेन समभ्यर्च्य सदाशिवम् ॥ ७.२,१८.३४ तस्मै समादिशेदाज्ञां शंभोरमितकर्मणः ॥ ७.२,१८.३४ तत्रापि च यथापूर्वं शिवं शिरसि पूर्ववत् ॥ ७.२,१८.३५ समभ्यर्च्य च वागीशं प्रणम्य च विसर्जयेत् ॥ ७.२,१८.३५ ततश्शिवेन सम्प्रोक्ष्य शिष्यं शिरसि पूर्ववत् ॥ ७.२,१८.३६ विलयं शांत्यतीतायाः शक्तितत्त्वे ऽथ चिंतयेत् ॥ ७.२,१८.३६ षडध्वनः परे पारे सर्वाध्वव्यापिनी पराम् ॥ ७.२,१८.३७ कोटिसूर्यप्रतीकाशं शैवीं शक्तिञ्च चिन्तयेत् ॥ ७.२,१८.३७ तदग्रे शिष्यमानीय शुद्धस्फटिकनिर्मलम् ॥ ७.२,१८.३८ प्रक्षाल्य कर्तरीं पश्चाच्छिवशास्त्रोक्तमार्गतः ॥ ७.२,१८.३८ कुर्यात्तस्य शिखाच्छेदं सह सूत्रेण देशिकः ॥ ७.२,१८.३९ ततस्तां गोमये न्यस्य शिवाग्नौ जुहुयाच्छिखाम् ॥ ७.२,१८.३९ वौषडंतेन मूलेन पुनः प्रक्षाल्य कर्तरीम् ॥ ७.२,१८.४० हस्ते शिष्यस्य चैतन्यं तद्देहे विनिवर्तयेत् ॥ ७.२,१८.४० ५६७ ततः स्नातं समाचांतं कृतस्वस्त्ययनं शिशुम् ॥ ७.२,१८.४१ प्रवेश्य मंडलाभ्यासं प्रणिपत्य च दंडवत् ॥ ७.२,१८.४१ पूजां कृत्वा यथान्यायं क्रियावैकल्यशुद्धये ॥ ७.२,१८.४२ वाचकेनैव मंत्रेण जुहुयादाहुतित्रयम् ॥ ७.२,१८.४२ उपांशूच्चारयोगेन जुहुयादाहुतित्रयम् ॥ ७.२,१८.४३ पुनस्संपूज्य देवेशं मन्त्रवैकल्यशुद्धये ॥ ७.२,१८.४३ मानसोच्चारयोगेन जुहुयादाहुतित्रयम् ॥ ७.२,१८.४४ तत्र शंभुं समाराध्य मंडलस्थं सहांबया ॥ ७.२,१८.४४ हुत्वाहुतित्रयं पश्चात्प्रार्थयेत्प्रांजलिर्गुरुः ॥ ७.२,१८.४४ भगवंस्त्वत्प्रसादेन शुद्धिरस्य षडध्वनः ॥ ७.२,१८.४५ कृता तस्मात्परं धाम गमयैनं तवाव्ययम् ॥ ७.२,१८.४५ इति विज्ञाप्य देवाय नाडीसंधानपूर्वकम् ॥ ७.२,१८.४६ पूर्णांतं पूर्ववत्कृत्वा ततो भूतानि शोधयेत् ॥ ७.२,१८.४६ स्थिरास्थिरे ततः शुद्ध्यै शीतोष्णे च ततः पदे ॥ ७.२,१८.४७ ध्यायेद्व्याप्त्यैकताकारे भूतशोधनकर्मणि ॥ ७.२,१८.४७ भूतानां ग्रंथिविच्छेदं कृत्वा त्यक्त्वा सहाधिपैः ॥ ७.२,१८.४८ भूतानि स्थितयोगेन यो जपेत्परमे शिवे ॥ ७.२,१८.४८ विशोध्यास्य तनुं दग्ध्वा प्लावयित्वा सुधाकणैः ॥ ७.२,१८.४९ स्थाप्यात्मानं ततः कुर्याद्विशुद्धाध्वमयं वपुः ॥ ७.२,१८.४९ तत्रादौ शान्त्यतीतां तु व्यापिकां स्वाध्वनः कलाम् ॥ ७.२,१८.५० शुद्धामेव शिशोर्मूर्ध्नि न्यसेच्छान्तिमुखे तथा ॥ ७.२,१८.५० विद्यां गलादिनाभ्यंतं प्रतिष्ठां तदधः क्रमात् ॥ ७.२,१८.५१ जान्वंतं तदधो न्यस्येन्निवृत्तिं चानुचिंतयेत् ॥ ७.२,१८.५१ स्वबीजैस्सूत्रमंत्रं च न्यस्यां गैस्तं शिवात्मकम् ॥ ७.२,१८.५२ बुद्ध्वा तं हृदयांभोजे देवमावाह्य पूजयेत् ॥ ७.२,१८.५२ आशास्य नित्यसांनिध्यं शिवस्वात्म्यं शिशौ गुरुः ॥ ७.२,१८.५३ शिवतेजोमयस्यास्य शिशोरापादयेद्गुणान् ॥ ७.२,१८.५३ अणिमादीन्प्रसीदेति प्रदद्यादाहुतित्रयम् ॥ ७.२,१८.५४ तथैव तु गुणानेव पुनरस्योपपादयेत् ॥ ७.२,१८.५४ सर्वज्ञातां तथा तृप्तिं बोधं चाद्यन्तवर्जितम् ॥ ७.२,१८.५५ अलुप्तशक्तिं स्वातन्त्र्यमनंतां शक्तिमेव च ॥ ७.२,१८.५५ ततो देवमनुज्ञाप्य सद्यादिकलशैस्तु तम् ॥ ७.२,१८.५६ अभिषिंचेत देवेशं ध्यायन्हृदि यथाक्रमम् ॥ ७.२,१८.५६ अथोपवेश्य तं शिष्यं शिवमभ्यर्च्य पूर्ववत् ॥ ७.२,१८.५७ लब्धानुज्ञः शिवाच्छैवीं विद्यामस्मै समादिशेत् ॥ ७.२,१८.५७ ओंकारपूर्विकां तत्र संपुटान्तु नमो ऽंतगाम् ॥ ७.२,१८.५८ शिवशक्तियुताञ्चैव शक्तिविद्यां च तादृशीम् ॥ ७.२,१८.५८ ऋषिं छन्दश्च देवं च शिवतां शिवयोस्तथा ॥ ७.२,१८.५९ पूजां सावरणां शम्भोरासनानि च सन्दिशेत् ॥ ७.२,१८.५९ पुनः संपूज्य देवेशं यन्मया समनुष्ठितम् ॥ ७.२,१८.६० सुकृतं कुरु तत्सर्वमिति विज्ञापयेच्छिवम् ॥ ७.२,१८.६० सहशिष्यो गुरुर्देवं दण्डवत्क्षितिमंडले ॥ ७.२,१८.६१ प्रणम्योद्वासयेत्तस्मान्मंडलात्पावकादपि ॥ ७.२,१८.६१ ५६७ ततः सदसिकाः सर्वे पूज्याः पूजार्हकाः क्रमात् ॥ ७.२,१८.६२ सेव्या वित्तानुसारेण सदस्याश्च सहर्त्विजः ॥ ७.२,१८.६३ वित्तशाठ्यं न कुर्वीत यदीच्छेच्छिवमात्मनः ॥ ७.२,१८.६३ ओं इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे षडध्वशुद्ध्यादिकथनं नामाष्टादशो ऽध्यायः अध्याय १९ उपमन्युरुवाच अतः परं प्रवक्ष्यामि साधकं नाम नामतः ॥ ७.२,१९.१ संस्कारमन्त्रमाहात्म्यं कथने सूचितं मया ॥ ७.२,१९.१ संपूज्य मंडले देवं स्थाप्य कुम्भे च पूर्ववत् ॥ ७.२,१९.२ हुत्वा शिष्यमनुष्णीषं प्रापयेद्भुवि मंडले ॥ ७.२,१९.२ पूर्वांतं पूर्ववत्कृत्वा हुत्वाहुतिशतं तथा ॥ ७.२,१९.३ संतर्प्य मूलमन्त्रेण कलशैर्देशिकोत्तमः ॥ ७.२,१९.३ सन्दीप्य च यथापूर्वं कृत्वा पूर्वोदितं क्रमात् ॥ ७.२,१९.४ अभिषिच्य यथापूर्वं प्रदद्यान्मन्त्रमुत्तमम् ॥ ७.२,१९.४ तत्र विद्योपदेशांतं कृत्वा विस्तरशः क्रमात् ॥ ७.२,१९.५ पुष्पाम्बुना शिशोः पाणौ विद्यां शैवीं समर्पयेत् ॥ ७.२,१९.५ तवैहिकामुष्मिकयोः सर्वसिद्धिफलप्रदः ॥ ७.२,१९.६ भवत्येव महामन्त्रः प्रसादात्परमेष्ठिनः ॥ ७.२,१९.६ इत्युत्वा देवमभ्यर्च्य लब्धानुज्ञः शिवाद्गुरुः ॥ ७.२,१९.७ साधनं शिवयोगं च साधकाय समादिशेत् ॥ ७.२,१९.७ तच्छ्रुत्वा गुरुसंदेशं क्रमशो मंत्रसाधकः ॥ ७.२,१९.८ पुरतो विनियोगस्य मन्त्रसाधनमाचरेत् ॥ ७.२,१९.८ साधनं मूलमन्त्रस्य पुरश्चरणमुच्यते ॥ ७.२,१९.९ पुरतश्चरणीयत्वाद्विनियोगाख्यकर्मणः ॥ ७.२,१९.९ नात्यन्तं करणीयन्तु मुमुक्षोर्मन्त्रसाधनम् ॥ ७.२,१९.१० कृतन्तु तदिहान्यत्र तास्यापि शुभदं भवेत् ॥ ७.२,१९.१० शुभे ऽहनि शुभे देशे काले वा दोषवर्जिते ॥ ७.२,१९.११ शुक्लदन्तनखः स्नातः कृतपूर्वाह्णिकक्रियः ॥ ७.२,१९.११ अलंकृत्य यथा लब्धैर्गंधमाल्यविभूषणैः ॥ ७.२,१९.१२ सोष्णीषः सोत्तरासंगः सर्वशुक्लसमाहितः ॥ ७.२,१९.१२ देवालये गृहे ऽन्यस्मिन्देशे वा सुमनोहरे ॥ ७.२,१९.१३ सुखेनाभ्यस्तपूर्वेण त्वासनेन कृतासनः ॥ ७.२,१९.१३ तनुं कृत्वात्मनः शैवीं शिवशास्त्रोक्तवर्त्मना ॥ ७.२,१९.१४ संपूज्य देवदेवेशं नकुलीश्वरमीश्वरम् ॥ ७.२,१९.१४ निवेद्य पायसं तस्मै समप्याराधनं क्रमात् ॥ ७.२,१९.१५ प्रणिपत्य च तं देवं प्राप्तानुज्ञश्च तन्मुखात् ॥ ७.२,१९.१५ कोटिवारं तदर्धं वा तदर्धं वा जपेच्छिवम् ॥ ७.२,१९.१६ लक्षविंशतिकं वापि दशलक्षमथापि वा ॥ ७.२,१९.१६ ततश्च पायसाक्षारलवणैकमिताशनः ॥ ७.२,१९.१७ अहिंसकः क्षमी शांतो दांतश्चैव सदा भवेत् ॥ ७.२,१९.१७ अलाभे पायसस्याश्नन्फलमूलादिकानि वा ॥ ७.२,१९.१८ विहितानि शिवेनैव विशिष्टान्युत्तरोत्तरम् ॥ ७.२,१९.१८ चरुं भक्ष्यमथो सक्तुकणान्यावकमेव च ॥ ७.२,१९.१९ ५६८ शाकं पयो दधि घृतं मूलं फलमथोदकम् ॥ ७.२,१९.१९ अभिमंत्र्य च मन्त्रेण भक्ष्यभोज्यादिकानि च ॥ ७.२,१९.२० साधने ऽस्मिन्विशेषेण नित्यं भुञ्जीत वाग्यतः ॥ ७.२,१९.२० मन्त्राष्टशतपूतेन जलेन शुचिना व्रती ॥ ७.२,१९.२१ स्नायान्नदीनदोत्थेन प्रोक्षयेद्वाथ शक्तितः ॥ ७.२,१९.२१ तर्पयेच्च तथा नित्यं जुहुयाच्च शिवानले ॥ ७.२,१९.२२ सप्तभिः पञ्चभिर्द्रव्यैस्त्रिभिर्वाथ घृतेन वा ॥ ७.२,१९.२२ इत्थं भक्त्या शिवं शैवो यः साधयति साधकः ॥ ७.२,१९.२३ तस्येहामुत्र दुष्प्रापं न किंचिदपि विद्यते ॥ ७.२,१९.२३ अथवा ऽहरहर्मंत्रं जपेदेकाग्रमानसः ॥ ७.२,१९.२४ अनश्नन्नेव साहस्रं विना मन्त्रस्य साधनम् ॥ ७.२,१९.२४ न तस्य दुर्लभं किंचिन्न तस्यास्त्यशुभं क्वचित् ॥ ७.२,१९.२५ इह विद्यां श्रियं सौख्यं लब्ध्वा मुक्तिं च विंदति ॥ ७.२,१९.२५ साधने विनियोगे च नित्ये नैमित्तिके तथा ॥ ७.२,१९.२६ जपेज्जलैर्भस्मना च स्नात्वा मन्त्रेण च क्रमात् ॥ ७.२,१९.२६ शुचिर्बद्धशिखस्सूत्री सपवित्रकरस्तथा ॥ ७.२,१९.२७ धृतत्रिपुंड्ररुद्राक्षो विद्यां पञ्चाक्षरीं जपेत् ॥ ७.२,१९.२७ ओं इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखंडे साधकसंस्कारमन्त्रमाहात्म्यं नामैकोनविंशो ऽध्यायः अध्याय २० उपमन्युरुवाच अथैवं संस्कृतं शिष्यं कृतपाशुपतव्रतम् ॥ ७.२,२०.१ आचार्यत्वे ऽभिषिंचेत तद्योगत्वेन चान्यथा ॥ ७.२,२०.१ मण्डलं पूर्ववत्कृत्त्वा संपूज्य परमेश्वरम् ॥ ७.२,२०.२ स्थापयत्पञ्चकलशान्दिक्षु मध्ये च पूर्ववत् ॥ ७.२,२०.२ निवृत्तिं पुरतो न्यस्य प्रतिष्ठां पश्चिमे घटे ॥ ७.२,२०.३ विद्यां दक्षिणतः शांतिमुत्तरे मध्यतः पराम् ॥ ७.२,२०.३ कृत्वा रक्षादिकं तत्र बद्ध्वा मुद्रां च धैनवीम् ॥ ७.२,२०.४ अभिमंत्र्य घटान्हुत्वा पूर्णांतं च यथा पुरा ॥ ७.२,२०.४ प्रवेश्य मंडले शिष्यमनुष्णीषं च देशिकः ॥ ७.२,२०.५ तर्पणाद्यं तु मंत्राणां कुर्यात्पूर्वावसानकम् ॥ ७.२,२०.५ ततः संपूज्य देवेशमनुज्ञाप्य च पूर्ववत् ॥ ७.२,२०.६ अभिषेकाय तं शिष्यमासनं त्वधिरोहयेत् ॥ ७.२,२०.६ सकलीकृत्य तं पश्चात्कलापञ्चकरूपिणम् ॥ ७.२,२०.७ न्यस्तमंत्रतनुं बद्ध्वा शिवं शिष्यं समर्पयेत् ॥ ७.२,२०.७ ततो निवृत्तिकुंभादिघटानुद्धृत्य वै क्रमात् ॥ ७.२,२०.८ मध्यमान्ताच्छिवेनैव शिष्यं तमभिषेचयत् ॥ ७.२,२०.८ शिवहस्तं समर्प्याथ शिशोः शिरसि देशिकः ॥ ७.२,२०.९ शिवभावसमापन्नः शिवाचार्यं तमादिशेत् ॥ ७.२,२०.९ अथालंकृत्य तं देवमाराध्य शिवमण्डले ॥ ७.२,२०.१० शतमष्टोत्तरं हुत्वा दद्यात्पूर्णाहुतिं ततः ॥ ७.२,२०.१० पुनः सम्पूज्य देवेशं प्रणम्य भुवि दंडवत् ॥ ७.२,२०.११ शिरस्यंजलिमाधाय शिवं विज्ञापयेद्गुरुः ॥ ७.२,२०.११ भगवंस्त्वत्प्रसादेन देशिको.यं मया कृतः ॥ ७.२,२०.१२ अनुगृह्य त्वया देव दिव्याज्ञास्मै प्रदीयताम् ॥ ७.२,२०.१२ एवं विज्ञाप्य शिष्येण सह भूयः प्रणम्य च ॥ ७.२,२०.१३ ५६८ शिवं शिवागमं दिव्यं पूजयेच्छिववद्गुरुः ॥ ७.२,२०.१३ पुनः शिवमनुज्ञाप्य शिवज्ञानस्य पुस्तकम् ॥ ७.२,२०.१४ उभाभ्यामथ पाणिभ्यां दद्याच्छिष्याय देशिकः ॥ ७.२,२०.१४ स ताम्मूर्ध्नि समाधाय विद्यां विद्यासनोपरि ॥ ७.२,२०.१५ अधिरोप्य यथान्यायमभिवंद्य समर्चयेत् ॥ ७.२,२०.१५ अथ तस्मै गुरुर्दद्याद्राजोपकरणान्यपि ॥ ७.२,२०.१६ आचार्यपदवीं प्राप्तो राज्यं चापि यतो ऽर्हति ॥ ७.२,२०.१६ अथानुशासनं कुर्यात्पूर्वैराचरितं यथा ॥ ७.२,२०.१७ यथा च शिवशास्त्रोक्तं यथा लोकेषु पूज्यते ॥ ७.२,२०.१७ शिष्यान्परिक्ष्य यत्नेन शिवशास्त्रोक्तलक्षणैः ॥ ७.२,२०.१८ संस्कृत्य च शिवज्ञानं तेभ्यो दद्याच्च देशिकः ॥ ७.२,२०.१८ एवं सर्वमनायासं शौचं क्षांतिं दयां तथा ॥ ७.२,२०.१९ अस्पृहामप्यसूयां च यत्नेन च विभावयेत् ॥ ७.२,२०.१९ इत्थमादिश्य तं शिष्यं शिवमुद्वास्य मंडलात् ॥ ७.२,२०.२० शिवकुंभानलादींश्च सदस्यानपि पूजयेत् ॥ ७.२,२०.२० युगपद्वाथ संस्कारान्कुर्वीत सगणो गुरुः ॥ ७.२,२०.२१ तत्र यत्र द्वयं वापि प्रयोगस्योपदिश्यते ॥ ७.२,२०.२१ तदादावेव कलशान्कल्पयेदध्वशुद्धिवत् ॥ ७.२,२०.२२ कृत्वा समयसंस्कारमभिषेकं विनाखिलम् ॥ ७.२,२०.२२ समभ्यर्च्य शिवं भूयः कृत्वा चाध्वविशोधनम् ॥ ७.२,२०.२३ तस्मिन्परिसमाप्ते तु पुनर्देवं प्रपूजयेत् ॥ ७.२,२०.२३ हुत्वा मंत्रन्तु संतर्प्य संदीप्याशास्य चेश्वरम् ॥ ७.२,२०.२४ समर्प्य मंत्रं शिष्यस्य पाणौ शेषं समापयेत् ॥ ७.२,२०.२४ अथवा मंत्रसंस्कारमनुचिंत्याखिलं क्रमात् ॥ ७.२,२०.२५ अध्वशुद्धिं गुरुः कुर्यादभिषेकावसानिकम् ॥ ७.२,२०.२५ तत्र यः शान्त्यतीतादिकलासु विहितो विधिः ॥ ७.२,२०.२६ स सर्वो ऽपि विधातव्यस्तत्त्वत्रयविशोधने ॥ ७.२,२०.२६ शिवविद्यात्मतत्त्वाख्यं तत्त्वत्रयमुदाहृतम् ॥ ७.२,२०.२७ शक्तौ शिवस्ततो विद्यात्तस्यास्त्वात्मा समुद्बभौ ॥ ७.२,२०.२७ शिवेन शांत्यतीताध्वा व्याप्तस्तदपरः परः ॥ ७.२,२०.२८ विद्यया परिशिष्टो ऽध्वा ह्यात्मना निखिलः क्रमात् ॥ ७.२,२०.२८ दुर्लभं शांभवं मत्वा मंत्रमूलं मनीषिणः ॥ ७.२,२०.२९ शाक्तं शंसीत संस्कारं शिवशास्त्रार्थपारगाः ॥ ७.२,२०.२९ इति ते सर्वमाख्यातं संस्काराख्यस्य कर्मणः ॥ ७.२,२०.३० चातुर्विध्यमिदं कृष्ण किं भूय श्रोतुमिच्छसि ॥ ७.२,२०.३० ओं इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे विशेषादिसंस्कृतिर्नाम विंशो ऽध्यायः अध्याय २१ कृष्ण उवाच भगवञ्छ्रोतुमिच्छामि शिवाश्रमनिषेविणाम् ॥ ७.२,२१.१ शिवशास्त्रोदितं कर्म नित्यनैमित्तिकं तथा ॥ ७.२,२१.१ उपमन्युरुवाच प्रातरुत्थाय शयनाद्ध्यात्वा देवं सहाम्बया ॥ ७.२,२१.२ विचार्य कार्यं निर्गच्छेद्गृहादभ्युदिते ऽरुणे ॥ ७.२,२१.२ अबाधे विजने देशे कुर्यादावश्यकं ततः ॥ ७.२,२१.३ ५६९ कृत्वा शौचं विधानेन दंतधावनमाचरेत् ॥ ७.२,२१.३ अलाभे दंतकाष्ठानामष्टम्यादिदिनेषु च ॥ ७.२,२१.४ अपां द्वादशगण्डूषैः कुर्यादास्यविशोधनम् ॥ ७.२,२१.४ आचम्य विधिवत्पश्चाद्वारुणं स्नानमाचरेत् ॥ ७.२,२१.५ नद्यां वा देवखाते वा ह्रदे वाथ गृहे ऽपि वा ॥ ७.२,२१.५ स्नानद्रव्याणि तत्तीरे स्थापयित्वा बहिर्मलम् ॥ ७.२,२१.६ व्यापोह्य मृदमालिप्य स्नात्वा गोमयमालिपेत् ॥ ७.२,२१.६ स्नात्वा पुनः पुनर्वस्त्रं त्यक्त्वावाथ विशोध्य च ॥ ७.२,२१.७ सुस्नातो नृपवद्भूयः शुद्धं वासो वसीत च ॥ ७.२,२१.७ मलस्नानं सुगंधाद्यैः स्नानं दन्तविशोधनम् ॥ ७.२,२१.८ न कुर्याद्ब्रह्मचारी च तपस्वी विधवा तथा ॥ ७.२,२१.८ सोपवीतश्शिखां बद्धा प्रविश्य च जलांतरम् ॥ ७.२,२१.९ अवगाह्य समाचांतो जले न्यस्येत्त्रिमंडलम् ॥ ७.२,२१.९ सौम्ये मग्नः पुनर्मंत्रं जपेच्छक्त्या शिवं स्मरेत् ॥ ७.२,२१.१० उत्थायाचम्य तेनैव स्वात्मानमभिषेचयेत् ॥ ७.२,२१.१० गोशृंगेण सदर्भेण पालाशेन दलेन वा ॥ ७.२,२१.११ पाद्मेन वाथ पाणिभ्यां पञ्चकृत्वस्त्रिरेव वा ॥ ७.२,२१.११ उद्यानादौ गृहे चैव वर्धन्या कलशेन वा ॥ ७.२,२१.१२ अवगाहनकाले ऽद्भिर्मंत्रितैरभिषेचयेत् ॥ ७.२,२१.१२ अथ चेद्वारुणं कर्तुमशक्तः शुद्धवाससा ॥ ७.२,२१.१३ आर्द्रेण शोधयेद्देहमापादतलमस्तकम् ॥ ७.२,२१.१३ आग्नेयं वाथ वा मांत्रं कुर्यात्स्नानं शिवेन वा ॥ ७.२,२१.१४ शिवचिंतापरं स्नानं युक्तस्यात्मीयमुच्यते ॥ ७.२,२१.१४ स्वसूत्रोक्तविधानेन मंत्राचमनपूर्वकम् ॥ ७.२,२१.१५ आचरेद्ब्रह्मयज्ञांतं कृत्वा देवादितर्पणम् ॥ ७.२,२१.१५ मंडलस्थं महादेवं ध्यात्वाभ्यर्च्य यथाविधि ॥ ७.२,२१.१६ दद्यादर्घ्यं ततस्तस्मै शिवायादित्यरूपिणे ॥ ७.२,२१.१६ अथ वैतत्स्वसूत्रोक्तं कृत्वा हस्तौ विशोधयेत् ॥ ७.२,२१.१७ करन्यासं ततः कृत्वा सकलीकृतविग्रहः ॥ ७.२,२१.१७ वामहस्तगतांभोभिर्गंधसिद्धार्थकान्वितैः ॥ ७.२,२१.१८ कुशपुंजेन वाभ्युक्ष्य मूलमंत्रसमन्वितैः ॥ ७.२,२१.१८ आपोहिष्ठादिभिर्मन्त्रैः शेषमाघ्राय वै जलम् ॥ ७.२,२१.१९ वामनासापुटेनैव देवं संभावयेत्सितम् ॥ ७.२,२१.१९ अर्घमादाय देहस्थं सव्यनासापुटेन च ॥ ७.२,२१.२० कृष्णवर्णेन बाह्यस्थं भावयेच्च शिलागतम् ॥ ७.२,२१.२० तर्पयेदथ देवेभ्य ऋषिभिश्च विशेषतः ॥ ७.२,२१.२१ भूतेभ्यश्च पितृभ्यश्च दद्यादर्घ्यं यथाविधि ॥ ७.२,२१.२१ रक्तचंदनतोयेन हस्तमात्रेण मंडलम् ॥ ७.२,२१.२२ सुवृत्तं कल्पयेद्भूमौ रक्तचूर्णाद्यलंकृतम् ॥ ७.२,२१.२२ तत्र संपूजयेद्भानुं स्वकीयावरणैः सह ॥ ७.२,२१.२३ स्वखोल्कायेति मंत्रेण सांगतस्सुखसिद्धये ॥ ७.२,२१.२३ पुनश्च मंडलं कृत्वा तदंगैः परिपूज्य च ॥ ७.२,२१.२४ तत्र स्थाप्य हेमपात्रं मागधप्रस्थसंमितम् ॥ ७.२,२१.२४ ५६९ पूरयेद्गंधतोयेन रक्तचंदनयोगिना ॥ ७.२,२१.२५ रक्तपुष्पैस्तिलैश्चैव कुशाक्षतसमन्वितैः ॥ ७.२,२१.२५ दूर्वापामार्गगव्यैश्च केवलेन जलेन वा ॥ ७.२,२१.२६ जानुभ्यां धरणीं गत्वा नत्वा देवं च मंडले ॥ ७.२,२१.२६ कृत्वा शिरसि तत्पात्रं दद्यादर्घ्यं शिवाय तत् ॥ ७.२,२१.२७ अथवांजलिना तोयं सदर्भं मूलविद्यया ॥ ७.२,२१.२७ उत्क्षिपेदम्बरस्थाय शिवायादित्यमूर्तये ॥ ७.२,२१.२८ कृत्वा पुनः करन्यासं करशोधनपूर्वकम् ॥ ७.२,२१.२८ बुद्ध्वेशानादिसद्यांतं पञ्चब्रह्ममयं शिवम् ॥ ७.२,२१.२९ गृहीत्वा भसितं मन्त्रैर्विमृज्याङ्गानि संस्पृशेत् ॥ ७.२,२१.२९ या दिनांतैश्शिरोवक्त्रहृद्गुह्यचरणान्क्रमात् ॥ ७.२,२१.३० ततो मूलेन सर्वांगमालभ्य वसनान्तरम् ॥ ७.२,२१.३० परिधाय द्विराचम्य प्रोक्ष्यैकादशमन्त्रितैः ॥ ७.२,२१.३१ जलैराच्छाद्य वासो ऽयद्द्विराचम्य शिवं स्मरेत् ॥ ७.२,२१.३१ पुनर्न्यस्तकरो मन्त्री त्रिपुंड्रं भस्मना लिखेत् ॥ ७.२,२१.३२ अवक्रमाय तं व्यक्तं ललाटे गन्धवारिणा ॥ ७.२,२१.३२ वृत्तं वा चतुरस्रं वा बिन्दुमर्धेन्दुमेव वा ॥ ७.२,२१.३३ ललाटे यादृशं पुण्ड्रं लिखितं भस्मना पुनः ॥ ७.२,२१.३३ तादृशं भुजयोर्मूर्ध्नि स्तनयोरंतरे लिखेत् ॥ ७.२,२१.३४ सर्वांगोद्धूलनं चैव न समानं त्रिपुण्ड्रकैः ॥ ७.२,२१.३४ तस्मात्त्रिपुण्ड्रमेवैकं लिखेदुद्धूलनं विना ॥ ७.२,२१.३५ रुद्राक्षान्धारयेद्मूर्ध्नि कंठे श्रोते करे तथा ॥ ७.२,२१.३५ सुवर्णवर्णमच्छिन्नं शुभं नान्यैर्धृतं शुभम् ॥ ७.२,२१.३६ विप्रादीनां क्रमाच्छ्रेष्ठं पीतं रक्तमथासितम् ॥ ७.२,२१.३६ तदलाभे यथालाभं धारणीयमदूषितम् ॥ ७.२,२१.३७ तत्रापि नोत्तरं नीचैर्धार्यं नीचमथोत्तरैः ॥ ७.२,२१.३७ नाशुचिर्धारयेदक्षं सदा कालेषु धारयेत् ॥ ७.२,२१.३८ इत्थं त्रिसंध्यमथवा द्विसंध्यं सकृदेव वा ॥ ७.२,२१.३८ कृत्वा स्नानादिकं शक्त्या पूजयेत्परमेश्वरम् ॥ ७.२,२१.३९ प्रजास्थानं समासाद्य बद्ध्वा रुचिरमासनम् ॥ ७.२,२१.३९ ध्यायेद्देवं च देवीं च प्राङ्मुखो वाप्युदङ्मुखः ॥ ७.२,२१.४० श्वेतादीन्नकुलीशांतांस्तच्छिष्यान्प्रणमेद्गुरुम् ॥ ७.२,२१.४० पुनर्देवं शिवं नत्वा ततो नामाष्टकं जपेत् ॥ ७.२,२१.४१ शिवो महेश्वरश्चैव रुद्रो विष्णुः पितामहः ॥ ७.२,२१.४१ संसारवैद्यस्सर्वज्ञः परमात्मेति चाष्टकम् ॥ ७.२,२१.४२ अथवा शिवमेवैकं जपित्वैकादशाधिकम् ॥ ७.२,२१.४२ जिह्वाग्रे तेजसो राशिं ध्यात्वाव्याध्यादिशांतये ॥ ७.२,२१.४३ प्रक्षाल्य चरणौ कृत्वा करौ चंदनचर्चितौ ॥ ७.२,२१.४३ प्रकुर्वीत करन्यासं करशोधनपूर्वकम् ॥ ७.२,२१.४३ ओं इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे नित्यनैमित्तिककर्मवर्णनं नामैकविंशो ऽध्यायः अध्याय २२ उपमन्युरुवाच न्यासस्तु त्रिविधः प्रोक्तः स्थित्युत्पत्तिलयक्रमात् ॥ ७.२,२२.१ स्थितिर्न्यासो गृहस्थानामुत्पत्तिर्ब्रह्मचारिणाम् ॥ ७.२,२२.१ ५७० यतीनां संहृतिन्यासो वनस्थानां तथैव च ॥ ७.२,२२.२ स एव भर्तृहीनायाः कुटुंबिन्याः स्थितिर्भवेत् ॥ ७.२,२२.२ कन्यायाः पुनरुत्पत्तिं वक्ष्ये न्यासस्य लक्षणम् ॥ ७.२,२२.३ अंगुष्ठादिकनिष्ठांतं स्थितिन्यास उदाहृतः ॥ ७.२,२२.३ दक्षिणांगुष्ठमारभ्य वामांगुष्ठान्तमेव च ॥ ७.२,२२.४ उत्पत्तिन्यास आख्यातो विपरीतस्तु संहृतिः ॥ ७.२,२२.४ सबिंदुकान्नकारादीन्वर्णान्न्यस्येदनुक्रमात् ॥ ७.२,२२.५ अंगुलीषु शिवं न्यस्येत्तलयोरप्यनामयोः ॥ ७.२,२२.५ अस्त्रन्यासं ततः कृत्वा दशदिक्ष्वस्त्रमंत्रतः ॥ ७.२,२२.६ निवृत्त्यादिकलाः पञ्च पञ्चभूतस्वरूपिणीः ॥ ७.२,२२.६ पञ्चभूताधिपैस्सार्धं ततच्चिह्नसमन्विताः ॥ ७.२,२२.७ हृत्कण्टतालुभ्रूमध्यब्रह्मरन्ध्रसमाश्रयाः ॥ ७.२,२२.७ तद्तद्बीजेन संग्रंथीस्तद्तद्बीजेषु भावयेत् ॥ ७.२,२२.८ तासां विशोधनार्थाय विद्यां पञ्चाक्षरीं जपेत् ॥ ७.२,२२.८ निरुद्ध्वा प्राणवायुं च गुणसंख्यानुसारतः ॥ ७.२,२२.९ भूतग्रंथिं ततश्छिद्यादस्त्रेणैवास्त्रमुद्रया ॥ ७.२,२२.९ नाड्या सुषुम्नयात्मानं प्रेरितं प्राणवायुना ॥ ७.२,२२.१० निर्गतं ब्रह्मरन्ध्रेण योजयेच्छिवतेजसा ॥ ७.२,२२.१० विशोष्य वायुना पश्चाद्देहं कालाग्निना दहेत् ॥ ७.२,२२.११ ततश्चोपरिभावेन कलास्संहृत्य वायुना ॥ ७.२,२२.११ देहं संहृत्य वै दग्धं कलास्स्पृष्ट्वा सहाब्धिना ॥ ७.२,२२.१२ प्लावयित्वामृतैर्देहं यथास्थानं निवेशयेत् ॥ ७.२,२२.१२ अथ संहृत्य वै दग्धः कलासर्गं विनैव तु ॥ ७.२,२२.१३ अमृतप्लावनं कुर्याद्भस्मीभूतस्य वै ततः ॥ ७.२,२२.१३ ततो विद्यामये तस्मिन्देहे दीपशिखाकृतिम् ॥ ७.२,२२.१४ शिवान्निर्गतमात्मानं ब्रह्मरंध्रेण योजयेत् ॥ ७.२,२२.१४ देहस्यान्तः प्रविष्टं तं ध्यात्वा हृदयपंकजे ॥ ७.२,२२.१५ पुनश्चामृतवर्षेण सिंचेद्विद्यामयं वपुः ॥ ७.२,२२.१५ ततः कुर्यात्करन्यासं करशोधनपूर्वकम् ॥ ७.२,२२.१६ देहन्यासं ततः पश्चान्महत्या मुद्रया चरेत् ॥ ७.२,२२.१६ अंगन्यासं ततः कृत्वा शिवोक्तेन तु वर्त्मना ॥ ७.२,२२.१७ वर्णन्यासं ततः कुर्याद्धस्तपादादिसंधिषु ॥ ७.२,२२.१७ षडंगानि ततो न्यस्य जातिषट्कयुतानि च ॥ ७.२,२२.१८ दिग्बंधमाचरेत्पश्चादाग्नेयादि यथाक्रमम् ॥ ७.२,२२.१८ यद्वा मूर्धादिपञ्चांगं न्यासमेव समाचरेत् ॥ ७.२,२२.१९ तथा षडंगन्यासं च भूतशुद्ध्यादिकं विना ॥ ७.२,२२.१९ एवं समासरूपेण कृत्वा देहात्मशोधनम् ॥ ७.२,२२.२० शिवभावमुपागम्य पूजयेत्परमेश्वरम् ॥ ७.२,२२.२० अथ यस्यास्त्यवसरो नास्ति वा मतिविभ्रमः ॥ ७.२,२२.२१ स विस्तीर्णेन कल्पेन न्यासकर्म समाचरेत् ॥ ७.२,२२.२१ तत्राद्यो मातृकान्यासो ब्रह्मन्यासस्ततः परः ॥ ७.२,२२.२२ तृतीयः प्रणवन्यासो हंसन्यासस्तदुत्तरः ॥ ७.२,२२.२२ पञ्चमः कथ्यते सद्भिर्न्यासः पञ्चाक्षरात्मकः ॥ ७.२,२२.२३ ५७० एतेष्वेकमनेकं वा कुर्यात्पूजादि कर्मसु ॥ ७.२,२२.२३ अकारं मूर्ध्नि विन्यस्य आकारं च ललाटके ॥ ७.२,२२.२४ इं ईं च नेत्रयोस्तद्वतुं ऊं श्रवणयोस्तथा ॥ ७.२,२२.२४ ऋं ःं कपोलयोश्चैव ळं ॡं नासापुटद्वये ॥ ७.२,२२.२५ एमेमोष्ठद्वयोरोमौं दंतपंक्तिद्वयोः क्रमात् ॥ ७.२,२२.२५ अं जिह्वायामथो तालुन्यः प्रयोज्यो यथाक्रमम् ॥ ७.२,२२.२६ कवर्गं दक्षिणे हस्ते न्यसेत्पञ्चसु संधिषु ॥ ७.२,२२.२६ चवर्गं च तथा वामहस्तसंधिषु विन्यसेत् ॥ ७.२,२२.२७ टवर्गं च तवर्गं च पादयोरुभयोरपि ॥ ७.२,२२.२७ पफौ तु पार्श्वयोः पृष्ठे नाभौ चापि बभौ ततः ॥ ७.२,२२.२८ न्यसेन्मकारं हृदये त्वगादिषु यथाक्रमम् ॥ ७.२,२२.२८ यकरादिसकारांतान्न्यसेत्सप्तसु धातुषु ॥ ७.२,२२.२९ हंकारं हृदयस्यांतः क्षकारं भ्रूयुगांतरे ॥ ७.२,२२.२९ एवं वर्णान्प्रविन्यस्य पञ्चाशद्रुद्रवर्त्मना ॥ ७.२,२२.३० अंगवक्त्रकलाभेदात्पञ्च ब्रह्माणि विन्यसेत् ॥ ७.२,२२.३० करन्यासाद्यमपि तैः कृत्वा वाथ न वा क्रमात् ॥ ७.२,२२.३१ शिरोवदनहृद्गुह्यपादेष्वेतानि कल्पयेत् ॥ ७.२,२२.३१ ततश्चोर्ध्वादिवक्त्राणि पश्चिमांतानि कल्पयेत् ॥ ७.२,२२.३२ ईशानस्य कलाः पञ्च पञ्चस्वेतेषु च क्रमात् ॥ ७.२,२२.३२ ततश्चतुर्षु वक्त्रेषु पुरुषस्य कला अपि ॥ ७.२,२२.३३ चतस्रः प्रणिधातव्याः पूर्वादिक्रमयोगतः ॥ ७.२,२२.३३ हृत्कंठांसेषु नाभौ च कुक्षौ पृष्ठे च वक्षसि ॥ ७.२,२२.३४ अघोरस्य कलाश्चाष्टौ पादयोरपि हस्तयोः ॥ ७.२,२२.३४ पश्चात्त्रयोःदशकलाः पायुमेढ्रोरुजानुषु ॥ ७.२,२२.३५ जंघास्फिक्कटिपार्श्वेषु वामदेवस्य भावयेत् ॥ ७.२,२२.३५ घ्राणे शिरसि बाह्वोश्च कल्पयेत्कल्पवित्तमः ॥ ७.२,२२.३६ अष्टत्रिंशत्कलान्यासमेवं कृत्वानुपूर्वशः ॥ ७.२,२२.३६ पश्चात्प्रणवविद्धीमान्प्रणवन्यासमाचरेत् ॥ ७.२,२२.३७ बाहुद्वये कूर्परयोस्तथा च मणिबन्धयोः ॥ ७.२,२२.३७ पार्श्वोदरोरुजंघेषु पादयोः पृष्ठतस्तथा ॥ ७.२,२२.३८ इत्थं प्रणवविन्यासं कृत्वा न्यासविचक्षणः ॥ ७.२,२२.३८ हंसन्यासं प्रकुर्वीत शिवशास्त्रे यथोदितम् ॥ ७.२,२२.३९ बीजं विभज्य हंसस्य नेत्रयोर्घ्राणयोरपि ॥ ७.२,२२.३९ विभज्य बाहुनेत्रास्यललाटे घ्राणयोरपि ॥ ७.२,२२.४० कक्षयोः स्कन्धयोश्चैव पार्श्वयोस्तनयोस्तथा ॥ ७.२,२२.४० कठ्योः पाण्योर्गुल्फयोश्च यद्वा पञ्चांगवर्त्मना ॥ ७.२,२२.४१ हंसन्यासमिमं कृत्वा न्यसेत्पञ्चाक्षरीं ततः ॥ ७.२,२२.४१ यथा पूर्वोक्तमार्गेण शिवत्वं येन जायते ॥ ७.२,२२.४२ नाशिवः शिवमभ्यस्येन्नाशिवः शिवमर्चयेत् ॥ ७.२,२२.४२ नाशिवस्तु शिवं ध्यायेन्नाशिवम्प्राप्नुयाच्छिवम् ॥ ७.२,२२.४३ तस्माच्छैवीं तनुं कृत्वा त्यक्त्वा च पशुभावनाम् ॥ ७.२,२२.४३ शिवो ऽहमिति संचिन्त्य शैवं कर्म समाचरेत् ॥ ७.२,२२.४४ कर्मयज्ञस्तपोयज्ञो जपयज्ञस्तदुत्तरः ॥ ७.२,२२.४४ ध्यानयज्ञो ज्ञानयज्ञः पञ्च यज्ञाः प्रकीर्तिताः ॥ ७.२,२२.४४ ५७१ कर्मयज्ञरताः केचित्तपोयज्ञरताः परे ॥ ७.२,२२.४५ जपयज्ञरताश्चान्ये ध्यानयज्ञरतास्तथा ॥ ७.२,२२.४५ ज्ञानयज्ञरताश्चान्ये विशिष्टाश्चोत्तरोत्तरम् ॥ ७.२,२२.४६ क्रमयज्ञो द्विधा प्रोक्तः कामाकामविभेदतः ॥ ७.२,२२.४६ कामान्कामी ततो भुक्त्वा कामासक्तः पुनर्भवेत् ॥ ७.२,२२.४७ अकामे रुद्रभवने भोगान्भुक्त्वा ततश्च्युतः ॥ ७.२,२२.४७ तपोयज्ञरतो भूत्वा जायते नात्र संशयः ॥ ७.२,२२.४८ तपस्वी च पुनस्तस्मिन्भोगान् भुक्त्वा ततश्च्युतः ॥ ७.२,२२.४८ जपध्यानरतो भूत्वा जायते भुवि मानवः ॥ ७.२,२२.४९ जपध्यानरतो मर्त्यस्तद्वैशिष्ट्यवशादिह ॥ ७.२,२२.४९ ज्ञानं लब्ध्वाचिरादेव शिवसायुज्यमाप्नुयात् ॥ ७.२,२२.५० तस्मान्मुक्तो शिवाज्ञप्तः कर्मयज्ञो ऽपि देहिनाम् ॥ ७.२,२२.५० अकामः कामसंयुक्तो बन्धायैव भविष्यति ॥ ७.२,२२.५१ तस्मात्पञ्चसु यज्ञेषु ध्यानज्ञानपरो भवेत् ॥ ७.२,२२.५१ ध्यानं ज्ञानं च यस्यास्ति तीर्णस्तेन भवार्णवः ॥ ७.२,२२.५२ हिंसादिदोषनिर्मुक्तो विशुद्धश्चित्तसाधनः ॥ ७.२,२२.५२ ध्यानयज्ञः परस्तस्मादपवर्गफलप्रदः ॥ ७.२,२२.५३ बहिः कर्मकरा यद्वन्नातीव फलभागिनः ॥ ७.२,२२.५३ दृष्ट्वा नरेन्द्रभवने तद्वदत्रापि कर्मिणः ॥ ७.२,२२.५४ ध्यानिनां हि वपुः सूक्ष्मं भवेत्प्रत्यक्षमैश्वरम् ॥ ७.२,२२.५४ यथेह कर्मणां स्थूलं मृत्काष्ठाद्यैः प्रकल्पितम् ॥ ७.२,२२.५५ ध्यानयज्ञरतास्तस्माद्देवान्पाषाणमृण्मयान् ॥ ७.२,२२.५५ नात्यंतं प्रतिपद्यंते शिवयाथात्म्यवेदनात् ॥ ७.२,२२.५६ आत्मस्थं यः शिवं त्यक्त्वा बहिरभ्यर्चयेन्नरः ॥ ७.२,२२.५६ हस्तस्थं फलमुत्सृज्य लिहेत्कूर्परमात्मनः ॥ ७.२,२२.५७ ज्ञानाद्ध्यानं भवेद्ध्यानाज्ज्ञानं भूयः प्रवर्तते ॥ ७.२,२२.५७ तदुभाभ्यां भवेन्मुक्तिस्तस्माद्ध्यानरतो भवेत् ॥ ७.२,२२.५८ द्वादशान्ते तथा मूर्ध्नि ललाटे भ्रूयुगान्तरे ॥ ७.२,२२.५८ नासाग्रे वा तथास्ये वा कन्धरे हृदये तथा ॥ ७.२,२२.५९ नाभौ वा शाश्वतस्थाने श्रद्धाविद्धेन चेतसा ॥ ७.२,२२.५९ बहिर्यागोपचारेण देवं देवीं च पूजयेत् ॥ ७.२,२२.६० अथवा पूजयेन्नित्यं लिंगे वा कृतकेपि वा ॥ ७.२,२२.६० वह्नौ वा स्थण्डिले वाथ भक्त्या वित्तानुसारतः ॥ ७.२,२२.६१ अथवांतर्बहिश्चैव पूजयेत्परमेश्वरम् ॥ ७.२,२२.६१ अंतर्यागरतः पूजां बहिः कुर्वीत वा न वा ॥ ७.२,२२.६१ ओं इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे शिवशास्त्रोक्तनित्यनैमित्तिककर्मवर्णनं नाम द्वाविंशो ऽध्यायः अध्याय २३ उपमन्युरुवाच व्याख्यां पूजाविधानस्य प्रवदामि समासतः ॥ ७.२,२३.१ शिवशास्त्रे शिवेनैव शिवायै कथितस्य तु ॥ ७.२,२३.१ अंगमभ्यंतरं यागमग्निकार्यावसानकम् ॥ ७.२,२३.२ विधाय वा न वा पश्चाद्बहिर्यागं समाचरेत् ॥ ७.२,२३.२ तत्र द्रव्याणि मनसा कल्पयित्वा विशोध्य च ॥ ७.२,२३.३ ५७१ ध्यात्वा विनायकं देवं पूजयित्वा विधानतः ॥ ७.२,२३.३ दक्षिणे चोत्तरे चैव नंदीशं सुयशं तथा ॥ ७.२,२३.४ आराध्य मनसा सम्यगासनं कल्पयेद्बुधः ॥ ७.२,२३.४ आराधनादिकैर्युक्तस्सिंहयोगासनादिकम् ॥ ७.२,२३.५ पद्मासनं वा विमलं तत्त्वत्रयसमन्वितम् ॥ ७.२,२३.५ तस्योपरि शिवं ध्यायेत्सांबं सर्वमनोहरम् ॥ ७.२,२३.६ सर्वलक्षणसंपन्नं सर्वावयवशोभनम् ॥ ७.२,२३.६ सर्वातिशयसंयुक्तं सर्वाभरणभूषितम् ॥ ७.२,२३.७ रक्तास्यपाणिचरणं कुंदचंद्रस्मिताननम् ॥ ७.२,२३.७ शुद्धस्फटिकसंकाशं फुल्लपद्मत्रिलोचनम् ॥ ७.२,२३.८ चतुर्भुजमुदाराङ्गं चारुचंद्रकलाधरम् ॥ ७.२,२३.८ वरदाभयहस्तं च मृगटंकधरं हरम् ॥ ७.२,२३.९ भुजंगहारवलयं चारुनीलगलांतरम् ॥ ७.२,२३.९ सर्वोपमानरहितं सानुगं सपरिच्छदम् ॥ ७.२,२३.१० ततः संचिंतयेत्तस्य वामभागे महेश्वरीम् ॥ ७.२,२३.१० प्रफुल्लोत्पलपत्राभां विस्तीर्णायतलोचनाम् ॥ ७.२,२३.११ पूर्णचंद्राभवदनां नीलकुंचितमूर्धजाम् ॥ ७.२,२३.११ नीलोत्पलदलप्रख्यां चन्द्रार्धकृतशेखराम् ॥ ७.२,२३.१२ अतिवृत्तघनोत्तुंगस्निग्धपीनपयोधराम् ॥ ७.२,२३.१२ तनुमध्यां पृथुश्रोणीं पीतसूक्ष्मवराम्बराम् ॥ ७.२,२३.१३ सर्वाभरणसंपन्नां ललाटतिलकोज्ज्वलाम् ॥ ७.२,२३.१३ विचित्रपुष्पसंकीर्णकेशपाशोपशोभिताम् ॥ ७.२,२३.१४ सर्वतो ऽनुगुणाकारां किंचिल्लज्जानताननाम् ॥ ७.२,२३.१४ हेमारविंदं विलसद्दधानां दक्षिणे करे ॥ ७.२,२३.१५ दंडवच्चापरं हस्ते न्यस्यासीनां महासने ॥ ७.२,२३.१५ पाशविच्छेदिकां साक्षात्सच्चिदानंदरूपिणीम् ॥ ७.२,२३.१६ एवं देवं च देवीं च ध्यात्वासनवरे शुभे ॥ ७.२,२३.१६ सर्वोपचारवद्भक्त्या भावपुष्पैस्समर्चयेत् ॥ ७.२,२३.१७ अथवा परिकल्प्यैवं मूर्तिमन्यतमां विभोः ॥ ७.२,२३.१७ शैवीं सदाशिवाख्यां वा तथा माहेश्वरीं पराम् ॥ ७.२,२३.१८ षड्विंशकाभिधानां वा श्रीकंठाख्यामथापि वा ॥ ७.२,२३.१८ मन्त्रन्यासादिकां चापि कृत्वा स्वस्यां तनौ यथा ॥ ७.२,२३.१९ अस्यां मूर्तौ मूर्तिमंतं शिवं सदसतः परम् ॥ ७.२,२३.१९ ध्यात्वा बाह्यक्रमेणैव पूजां निर्वर्तयेद्धिया ॥ ७.२,२३.२० समिदाज्यादिभिः पश्चान्नाभौ होमं च भावयेत् ॥ ७.२,२३.२० भ्रूमध्ये च शिवं ध्यायेच्छुद्धदीपशिखाकृतिम् ॥ ७.२,२३.२१ इत्थमंगे स्वतंत्रे वा योगे ध्यानमये शुभे ॥ ७.२,२३.२१ अग्निकार्यावसानं च सर्वत्रैव समो विधिः ॥ ७.२,२३.२२ अथ चिंतामयं सर्वं समाप्याराधनक्रमम् ॥ ७.२,२३.२२ लिंगे च पूजयेद्देवं स्थंडिले वानले ऽपि वा ॥ ७.२,२३.२३ ओं इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे पूजाविधानव्याख्यानवर्णनं नाम त्रयोविंशो ऽध्यायः ५७२ अध्याय २४ उपमन्युरुवाच प्रोक्षयेन्मूलमंत्रेण पूजास्थानं विशुद्धये ॥ ७.२,२४.१ गन्धचन्दनतोयेन पुष्पं तत्र विनिक्षिपेत् ॥ ७.२,२४.१ अस्त्रेणोत्सार्य वै विघ्नानवगुण्ठ्य च वर्मणा ॥ ७.२,२४.२ अस्त्रं दिक्षु प्रविन्यस्य कल्पयेदर्चनाभुवम् ॥ ७.२,२४.२ तत्र दर्भान्परिस्तीर्य क्षालयेत्प्रोक्षणादिभिः ॥ ७.२,२४.३ संशोध्य सर्वपात्राणि द्रव्यशुद्धिं समाचरेत् ॥ ७.२,२४.३ प्रोक्षणीमर्ध्यपात्रं च पाद्यपात्रमतः परम् ॥ ७.२,२४.४ तथैवाचमनीयस्य पात्रं चेति चतुष्टयम् ॥ ७.२,२४.४ प्रक्षाल्य प्रोक्ष्य वीक्ष्याथ क्षिपेत्तेषु जलं शिवम् ॥ ७.२,२४.५ पुण्यद्रव्याणि सर्वाणि यथालाभं विनिक्षिपेत् ॥ ७.२,२४.५ रत्नानि रजतं हेम गन्धपुष्पाक्षतादयः ॥ ७.२,२४.६ फलपल्लवदर्भांश्च पुण्यद्रव्याण्यनेकधा ॥ ७.२,२४.६ स्नानोदके सुगन्धादि पानीये च विशेषतः ॥ ७.२,२४.७ शीतलानि मनोज्ञानी कुसुमादीनि निक्षिपेत् ॥ ७.२,२४.७ उशीरं चन्दनं चैव पाद्ये तु परिकल्पयेत् ॥ ७.२,२४.८ जातिकंकोलकर्पूरबहुमूलतमालकान् ॥ ७.२,२४.८ क्षिपेदाचमनीये च चूर्णयित्वा विशेषतः ॥ ७.२,२४.९ एलां पात्रेषु सर्वेषु कर्पूरं चन्दनं तथा ॥ ७.२,२४.९ कुशाग्राण्यक्षतांश्चैव यवव्रीहितिलानपि ॥ ७.२,२४.१० आज्यसिद्धार्थपुष्पाणि भसितञ्चार्घ्यपात्रके ॥ ७.२,२४.१० कुशपुष्पयवव्रीहिबहुमूलतमालकान् ॥ ७.२,२४.११ प्रक्षिपेत्प्रोक्षणीपात्रे भसितं च यथाक्रमम् ॥ ७.२,२४.११ सर्वत्र मन्त्रं विन्यस्य वर्मणावेष्ट्य बाह्यतः ॥ ७.२,२४.१२ पश्चादस्त्रेण संरक्ष्य धेनुमुद्रां प्रदर्शयेत् ॥ ७.२,२४.१२ पूजाद्रव्याणि सर्वाणि प्रोक्षणीपात्रवारिणा ॥ ७.२,२४.१३ सम्प्रोक्ष्य मूलमंत्रेण शोधयेद्विधिवत्ततः ॥ ७.२,२४.१३ पात्राणां प्रोक्षणीमेकामलाभे सर्वकर्मसु ॥ ७.२,२४.१४ साधयेदर्घ्यमद्भिस्तत्सामान्यं साधकोत्तमः ॥ ७.२,२४.१४ ततो विनायकं देवं भक्ष्यभोज्यादिभिः क्रमात् ॥ ७.२,२४.१५ पूजयित्वा विधानेन द्वारपार्श्वे ऽथ दक्षिणे ॥ ७.२,२४.१५ अन्तःपुराधिपं साक्षान्नन्दिनं सम्यगर्चयेत् ॥ ७.२,२४.१६ चामीकराचलप्रख्यं सर्वाभरणभूषितम् ॥ ७.२,२४.१६ बालेन्दुमुकुटं सौम्यं त्रिनेत्रं च चतुर्भुजम् ॥ ७.२,२४.१७ दीप्तशूलमृगीटंकतिग्मवेत्रधरं प्रभुम् ॥ ७.२,२४.१७ चन्द्रबिम्बाभवदनं हरिवक्त्रमथापि वा ॥ ७.२,२४.१८ उत्तरे द्वारपार्श्वस्य भार्यां च मरुतां सुताम् ॥ ७.२,२४.१८ सुयशां सुव्रतामम्बां पादमण्डनतत्पराम् ॥ ७.२,२४.१९ पूजयित्वा प्रविश्यान्तर्भवनं परमेष्ठिनः ॥ ७.२,२४.१९ संपूज्य लिङ्गं तैर्द्रव्यैर्निर्माल्यमपनोदयेत् ॥ ७.२,२४.२० प्रक्षाल्य पुष्पं शिरसि न्यसेत्तस्य विशुद्धये ॥ ७.२,२४.२० पुष्पहस्तो जपेच्छक्त्या मन्त्रं मन्त्रविशुद्धये ॥ ७.२,२४.२१ ऐशान्यां चण्दमाराध्य निर्माल्यं तस्य दापयेत् ॥ ७.२,२४.२१ कल्पयेदासनं पश्चादाधारादि यथाक्रमम् ॥ ७.२,२४.२२ आधारशक्तिं कल्याणीं श्यामां ध्यायेदधो भुवि ॥ ७.२,२४.२२ ५७२ तस्याः पुरस्तादुत्कंठमनंतं कुण्डलाकृतिम् ॥ ७.२,२४.२३ धवलं पञ्चफणिनं लेलिहानमिवाम्बरम् ॥ ७.२,२४.२३ तस्योपर्यासनं भद्रं कण्ठीरवचतुष्पदम् ॥ ७.२,२४.२४ धर्मो ज्ञानं च वैराग्यमैश्वर्यञ्च पदानि वै ॥ ७.२,२४.२४ आग्नेयादिश्वेतरक्तपीतश्यामानि वर्णतः ॥ ७.२,२४.२५ अधर्मादीनि पूर्वादीन्युत्तरांतान्यनुक्रमात् ॥ ७.२,२४.२५ राजावर्तमणिप्रख्यान्न्यस्य गात्राणि भावयेत् ॥ ७.२,२४.२६ अस्योर्ध्वच्छादनं पद्ममासनं विमलं सितम् ॥ ७.२,२४.२६ अष्टपत्राणि तस्याहुरणिमादिगुणाष्टकम् ॥ ७.२,२४.२७ केसराणि च वामाद्या रुद्रावामादिशक्तिभिः ॥ ७.२,२४.२७ बीजान्यपि च ता एव शक्तयोंतर्मनोन्मनीः ॥ ७.२,२४.२८ कर्णिकापरवैराग्यं नालं ज्ञानं शिवात्मकम् ॥ ७.२,२४.२८ कन्दश्च शिवधर्मात्मा कर्णिकान्ते त्रिमण्डले ॥ ७.२,२४.२९ त्रिमण्डलोपर्यात्मादि तत्त्वत्रितयमासनम् ॥ ७.२,२४.२९ सर्वासनोपरि सुखं विचित्रास्तरणास्तृतम् ॥ ७.२,२४.३० आसनं कल्पयेद्दिव्यं शुद्धविद्यासमुज्ज्वलम् ॥ ७.२,२४.३० आवाहनं स्थापनं च सन्निरोधं निरीक्षणम् ॥ ७.२,२४.३१ नमस्कारं च कुर्वीत बध्वा मुद्राः पृथक्पृथक् ॥ ७.२,२४.३१ पाद्यमाचमनं चार्घ्यं गंधं पुष्पं ततः परम् ॥ ७.२,२४.३२ धूपं दीपं च तांबूलं दत्त्वाथ स्वापयेच्छिवौ ॥ ७.२,२४.३२ अथवा परिकल्प्यैवमासनं मूर्तिमेव च ॥ ७.२,२४.३३ सकलीकृत्य मूलेन ब्रह्माभिश्चापरैस्तथा ॥ ७.२,२४.३३ आवाहयेत्ततो देव्या शिवं परमकारणम् ॥ ७.२,२४.३४ शुद्धस्फटिकसंकाशं देवं निश्चलमक्षरम् ॥ ७.२,२४.३४ कारणं सर्वलोकानां सर्वलोकमयं परम् ॥ ७.२,२४.३५ अंतर्बहिःस्थितं व्याप्य ह्यणोरणु १ महत्तरम् २ ॥ ७.२,२४.३५ भक्तानामप्रयत्नेन दृश्यमीश्वरमव्ययम् ॥ ७.२,२४.३६ ब्रह्मेंद्रविष्णुरुद्राद्यैरपि देवैरगोचरम् ॥ ७.२,२४.३६ देवसारं च विद्वद्भिरगोचरमिति श्रुतम् ॥ ७.२,२४.३७ आदिमध्यान्तरहितं भेषजं भवरोगिणाम् ॥ ७.२,२४.३७ शिवतत्त्वमिति ख्यातं शिवार्थं जगति स्थिरम् ॥ ७.२,२४.३८ पञ्चोपचारवद्भक्त्या पूजयेल्लिंगमुत्तमम् ॥ ७.२,२४.३८ लिंगमूर्तिर्महेशस्य शिवस्य परमात्मनः ॥ ७.२,२४.३९ स्नानकाले प्रकुर्वीत जयशब्दादिमंगलम् ॥ ७.२,२४.३९ पञ्चगव्यघृतक्षीरदधिमध्वादिपूर्वकैः ॥ ७.२,२४.४० मूलैः फलानां सारैश्च तिलसर्षपसक्तुभिः ॥ ७.२,२४.४० बीजैर्यवादिभिश्शस्तैश्चूर्णैर्माषादिसंभवैः ॥ ७.२,२४.४१ संस्नाप्यालिप्य पिष्टाद्यैः स्नापयेदुष्णवारिभिः ॥ ७.२,२४.४१ घर्षयेद्विल्वपत्राद्यैर्लेपगंधापनुत्तये ॥ ७.२,२४.४२ पुनः संस्नाप्य सलिलैश्चक्रवर्त्युपचारतः ॥ ७.२,२४.४२ १ क्लीबत्वमार्षम् २ महत इति क्षेष ५७३ सुगंधामलकं दद्याद्धरिद्रां च यथाक्रमम् ॥ ७.२,२४.४३ ततः संशोध्य सलिलैर्लिंगं बेरमथापि वा ॥ ७.२,२४.४३ स्नापयेद्गंधतोयेन कुशपुष्पोदकेन च ॥ ७.२,२४.४४ हिरण्यरत्नतोयैश्च मंत्रसिद्धैर्यथाक्रमम् ॥ ७.२,२४.४४ असंभवे तु द्रव्याणां यथासंभवसंभृतैः ॥ ७.२,२४.४५ केवलैर्मंत्रतोयैर्वा स्नापयेच्छ्रद्धया शिवम् ॥ ७.२,२४.४५ कलशेनाथ शंखेन वर्धन्या पाणिना तथा ॥ ७.२,२४.४६ सकुशेन सपुष्पेण स्नापयेन्मंत्रपूर्वकम् ॥ ७.२,२४.४६ पवमानेन रुद्रेण नीलेन त्वरितेन च ॥ ७.२,२४.४७ लिंगसूक्तादिसूक्तैश्च शिरसाथर्वणेन च ॥ ७.२,२४.४७ ऋग्भिश्च सामभिः शैवैर्ब्रह्मभिश्चापि पञ्चभिः ॥ ७.२,२४.४८ स्नापयेद्देवदेवेशं शिवेन प्रणवेन च ॥ ७.२,२४.४८ यथा देवस्य देव्याश्च कुर्यात्स्नानादिकं तथा ॥ ७.२,२४.४९ न तु कश्चिद्विशेषो ऽस्ति तत्र तौ सदृशौ यतः ॥ ७.२,२४.४९ प्रथमं देवमुद्दिश्य कृत्वा स्नानादिकाः क्रियाः ॥ ७.२,२४.५० देव्यैः प्रश्चात्प्रकुर्वीत देवदेवस्य शासनात् ॥ ७.२,२४.५० अर्धनारीश्वरे पूज्ये पौर्वापर्यं न विद्यते ॥ ७.२,२४.५१ तत्र तत्रोपचाराणां लिंगे वान्यत्र वा क्वचित् ॥ ७.२,२४.५१ कृत्वा ऽभिषेकं लिंगस्य शुचिना च सुगंधिना ॥ ७.२,२४.५२ संमृज्य वाससा दद्यादंबरं चोपवीतकम् ॥ ७.२,२४.५२ पाद्यमाचमनं चार्घ्यं गंधं पुष्पं च भूषणम् ॥ ७.२,२४.५३ धूपं दीपं च नैवेद्यं पानीयं मुखशोधनम् ॥ ७.२,२४.५३ पुनश्चाचमनीयं च मुखवासं ततः परम् ॥ ७.२,२४.५४ मुकुटं च शुभं भद्रं सर्वरत्नैरलंकृतम् ॥ ७.२,२४.५४ भूषणानि पवित्राणि माल्यानि विविधानि च ॥ ७.२,२४.५५ व्यजने चामरे छत्रं तालवृंतं च दर्पणम् ॥ ७.२,२४.५५ दत्त्वा नीराजनं कुर्यात्सर्वमंगलनिस्वनैः ॥ ७.२,२४.५६ गीतनृत्यादिभिश्चैव जयशब्दसमन्वितः ॥ ७.२,२४.५६ हैमे च राजते ताम्रे पात्रे वा मृन्मये शुभे ॥ ७.२,२४.५७ पद्मकैश्शोभितैः पुष्पैर्बीजैर्दध्यक्षतादिभिः ॥ ७.२,२४.५७ त्रिशूलशंखयुग्माब्जनन्द्यावर्तैः करीषजैः ॥ ७.२,२४.५८ श्रीवत्सस्वस्तिकादर्शवज्रैर्वह्न्यादिचिह्नितैः ॥ ७.२,२४.५८ अष्टौ प्रदीपान्परितो विधायैकं तु मध्यमे ॥ ७.२,२४.५९ तेषु वामादिकाश्चिन्त्याः पूज्याश्च नव शक्तयः ॥ ७.२,२४.५९ कवचेन समाच्छाद्य संरक्ष्यास्त्रेण सर्वतः ॥ ७.२,२४.६० धेनुमुद्रां च संदर्श्य पाणिभ्यां पात्रमुद्धरेत् ॥ ७.२,२४.६० अथवारोपयेत्पात्रे पञ्चदीपान्यथाक्रमम् ॥ ७.२,२४.६१ विदिक्ष्वपि च मध्ये च दीपमेकमथापि वा ॥ ७.२,२४.६१ ततस्तत्पात्रमुद्धृत्य लिंगादेरुपरि क्रमात् ॥ ७.२,२४.६२ त्रिः प्रदक्षिणयोगेन भ्रामयेन्मूलविद्यया ॥ ७.२,२४.६२ दद्यादर्घ्यं ततो मूर्ध्नि भसितं च सुगंधितम् ॥ ७.२,२४.६३ कृत्वा पुष्पांजलिं पश्चादुपहारान्निवेदयेत् ॥ ७.२,२४.६३ पानीयं च ततो दद्याद्दत्त्वा वाचमनं पुनः ॥ ७.२,२४.६४ ५७३ पञ्चसौगंधिकोपेतं ताम्बूलं च निवेदयेत् ॥ ७.२,२४.६४ प्रोक्षयेत्प्रोक्षणीयानि गाननाट्यानि कारयेत् ॥ ७.२,२४.६५ लिंगादौ शिवयोश्चिन्तां कृत्वा शक्त्यजपेच्छिवम् ॥ ७.२,२४.६५ प्रदक्षिणं प्रणामं च स्तवं चात्मसमर्पणम् ॥ ७.२,२४.६६ विज्ञापनं च कार्याणां कुर्याद्विनयपूर्वकम् ॥ ७.२,२४.६६ अर्घ्यं पुष्पांजलिं दत्त्वा बद्ध्वा मुद्रां यथाविधि ॥ ७.२,२४.६७ पश्चात्क्षमापयेद्देवमुद्वास्यात्मनि चिंतयेत् ॥ ७.२,२४.६७ पाद्यादिमुखवासांतमर्घ्याद्यं चातिसंकटे ॥ ७.२,२४.६८ पुष्पविक्षेपमात्रं वा कुर्याद्भावपुरस्सरम् ॥ ७.२,२४.६८ तावतैव परो धर्मो भावने सुकृतो भवेत् ॥ ७.२,२४.६९ असंपूज्य न भुञ्जीत शिवमाप्राणसंचरात् ॥ ७.२,२४.६९ यदि पापस्तु भुंजीत स्वैरं तय्स न निष्कृतिः ॥ ७.२,२४.७० प्रमादेन तु भुंक्ते चेत्तदुद्गीर्य प्रयत्नतः ॥ ७.२,२४.७० स्नात्वा द्विगुणमभ्यर्च्य देवं देवीमुपोष्य च ॥ ७.२,२४.७१ शिवस्यायुतमभ्यस्येद्ब्रह्मचर्यपुरस्सरम् ॥ ७.२,२४.७१ परेद्युश्शक्तितो दत्त्वा सुवर्णाद्यं शिवाय च ॥ ७.२,२४.७२ शिवभक्ताय वा कृत्वा महापूजां शुचिर्भवेत् ॥ ७.२,२४.७२ ओं इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे शास्त्रोक्तशिवपूजनवर्णनं नाम चतुर्विंशो ऽध्यायः अध्याय २५ उपमन्युरुवाच अनुक्तं चात्र पूजायाः कमलोपभयादिव ॥ ७.२,२५.१ यत्तदन्यत्प्रवक्ष्यामि समासान्न तु विस्तरात् ॥ ७.२,२५.१ हविर्निवेदनात्पूर्वं दीपदानादनन्तरम् ॥ ७.२,२५.२ कुर्यादावरणाभ्यर्चां प्राप्ते नीराजने ऽथ वा ॥ ७.२,२५.२ तत्रेशानादिसद्यांतं रुद्राद्यस्त्रांतमेव च ॥ ७.२,२५.३ शिवस्य वा शिवायाश्च प्रथमावरणे जपेत् ॥ ७.२,२५.३ ऐशान्यां पूर्वभागे च दक्षिणे चोत्तरे तथा ॥ ७.२,२५.४ पश्चिमे च तथाग्नेय्यामैशान्यां नैरृते तथा ॥ ७.२,२५.४ वायव्यां पुनरैशान्यां चतुर्दिक्षु ततः परम् ॥ ७.२,२५.५ गर्भावरणमाख्यातं मन्त्रसंघातमेव वा ॥ ७.२,२५.५ हृदयाद्यस्त्रपर्यंतमथवापि समर्चयेत् ॥ ७.२,२५.६ तद्बहिः पूर्वतः शक्रं यमं दक्षिणतो यजेत् ॥ ७.२,२५.६ वरुणं वारुणे भागे धनदं चोत्तरे बुधः ॥ ७.२,२५.७ ईशमैशे ऽनलं स्वीये नैरृते निरृतिं यजेत् ॥ ७.२,२५.७ मारुते मारुतं विष्णुं नैरृते विधिमैश्वरे ॥ ७.२,२५.८ बहिःपद्मस्य वज्राद्यान्यब्जांतान्यायुधान्यपि ॥ ७.२,२५.८ प्रसिद्धरूपाण्याशासु लोकेशानां क्रमाद्यजेत् ॥ ७.२,२५.९ देवं देवीं च संप्रेक्ष्य सर्वावरणदेवताः ॥ ७.२,२५.९ बद्धांजलिपुटा ध्येयाः समासीना यथासुखम् ॥ ७.२,२५.१० सर्वावरणदेवानां स्वाभिधानैर्नमोयुतैः ॥ ७.२,२५.१० पुष्पैः संपूजनं कुर्यान्नत्वा सर्वान्यथाक्रमम् ॥ ७.२,२५.११ गर्भावरणमेवापि यजेत्स्वावरणेन वा ॥ ७.२,२५.११ योगे ध्याने जपे होमे वाह्ये वाभ्यंतरे ऽपि वा ॥ ७.२,२५.१२ हविश्च षड्विधं देयं शुद्धं मुद्गान्नमेव च ॥ ७.२,२५.१२ पायसं दधिसंमिश्रं गौडं च मधुनाप्लुतम् ॥ ७.२,२५.१३ ५७४ एतेष्वेकमनेकं वा नानाव्यंजनसंयुतम् ॥ ७.२,२५.१३ गुडखंडन्वितं दद्यान्मथितं दधि चोत्तमम् ॥ ७.२,२५.१४ भक्ष्याण्यपूपमुख्यानि स्वादुमंति फलानि च ॥ ७.२,२५.१४ रक्तचन्दनपुष्पाढ्यं पानीयं चातिशीतलम् ॥ ७.२,२५.१५ मृदु एलारसाक्तं च खण्डं पूगफलस्य च ॥ ७.२,२५.१५ दलानि नागवल्ल्याश्च युक्तानि खदिरादिभिः ॥ ७.२,२५.१६ गौराणि स्वर्णवर्णानि विहितानि शिवानि च ॥ ७.२,२५.१६ शैलमेव सितं चूर्णं नातिरूक्षं न दूषितम् ॥ ७.२,२५.१६ कर्पूरं चाथ कंकोलं जात्यादि च नवं शुभम् ॥ ७.२,२५.१७ आलेपनं चन्दनं स्यान्मूलकाष्ठंरजोमयम् ॥ ७.२,२५.१७ कस्तूरिका कुंकुमं च रसो मृगमदात्मकः ॥ ७.२,२५.१८ पुष्पाणि सुरभीण्येव पवित्राणि शुभानि च ॥ ७.२,२५.१८ निर्गंधान्युग्रगंधानि दूषितान्युषितानि च ॥ ७.२,२५.१९ स्वयमेव विशीर्णानि न देयानि शिवार्चने ॥ ७.२,२५.१९ वासांसि च मृदून्येव तपनीयमयानि च ॥ ७.२,२५.२० विद्युद्वलयकल्पानि भूषणानि विशेषतः ॥ ७.२,२५.२० सर्वाण्येतानि कर्पूरनिर्यासागुरुचन्दनैः ॥ ७.२,२५.२१ आधूपितानि पुष्पौघैर्वासितानि समंततः ॥ ७.२,२५.२१ चन्दनागुरुकर्पूरकाष्ठगुग्गुलुचूर्णिकैः ॥ ७.२,२५.२२ घृतेन मधुना चैव सिद्धो धूपः प्रशस्यते ॥ ७.२,२५.२२ कपिलासम्भवेनैव घृतेनातिसुगन्धिना ॥ ७.२,२५.२३ नित्यं प्रदीपिता दीपाः शस्ताः कर्पूरसंयुताः ॥ ७.२,२५.२३ पञ्चगव्यं च मधुरं पयो दधि घृतं तथा ॥ ७.२,२५.२४ कपिलासम्भवं शम्भोरिष्टं स्नाने च पानके ॥ ७.२,२५.२४ आसनानि च भद्राणि गजदंतमयानि च ॥ ७.२,२५.२५ सुवर्णरत्नयुक्तानि चित्राण्यास्तरणानि च ॥ ७.२,२५.२५ मृदूपधानयुक्तानि सूक्ष्मतूलमयानि च ॥ ७.२,२५.२६ उच्चावचानि रम्याणि शयनानि सुखानि च ॥ ७.२,२५.२६ नद्यस्समुद्रगामिन्या नटाद्वाम्भः समाहृतम् ॥ ७.२,२५.२७ शीतञ्च वस्त्रपूतं तद्विशिष्टं स्नानपानयोः ॥ ७.२,२५.२७ छत्रं शशिनिभं चारु मुक्तादामविराजितम् ॥ ७.२,२५.२८ नवरत्नचितं दिव्यं हेमदण्डमनोहरम् ॥ ७.२,२५.२८ चामरे च सिते सूक्ष्मे चामीकरपरिष्कृते ॥ ७.२,२५.२९ राजहंसद्वयाकारे रत्नदंडोपशोभिते ॥ ७.२,२५.२९ दर्पणं चापि सुस्निग्धं दिव्यगन्धानुलेपनम् ॥ ७.२,२५.३० समंताद्रत्नसञ्छन्नं स्रग्वैरैश्चापि भूषितम् ॥ ७.२,२५.३० गम्भीरनिनदः शंखो हंसकुंदेन्दुसन्निभः ॥ ७.२,२५.३१ आस्वपृष्ठादिदेशेषु रत्नचामीकराचितः ॥ ७.२,२५.३१ काहलानि च रम्याणि नानानादकराणि च ॥ ७.२,२५.३२ सुवर्णनिर्मितान्येव मौक्तिकालंकृतानि च ॥ ७.२,२५.३२ भेरीमृदंगमुरजतिमिच्छपटहादयः ॥ ७.२,२५.३३ समुद्रकल्पसन्नादाः कल्पनीयाः प्रयत्नतः ॥ ७.२,२५.३३ भांडान्यपि च रम्याणि पत्राण्यपि च कृत्स्नशः ॥ ७.२,२५.३४ ५७४ तदाधाराणि १ सर्वाणि सौवर्णान्येव साधयेत् ॥ ७.२,२५.३४ आलयं च महेशस्य शिवस्य परमात्मनः ॥ ७.२,२५.३५ राजावसथवत्कल्प्यं शिल्पशास्त्रोक्तलक्षणम् ॥ ७.२,२५.३५ उच्चप्राकारसंभिन्नं भूधराकारगोपुरम् ॥ ७.२,२५.३६ अनेकरत्नसंच्छन्नं हेमद्वारकपाटकम् ॥ ७.२,२५.३६ तप्तजांबूनदमयं रत्नस्तम्भशतावृतम् ॥ ७.२,२५.३७ मुक्तादामवितानाढ्यं विद्रुमद्वारतोरणम् ॥ ७.२,२५.३७ चामीकरमयैर्दिव्यैर्मुकुटैः कुम्भलक्षणैः ॥ ७.२,२५.३८ अलंकृतशिरोभागमस्त्र २ आजेन चिह्नितम् ॥ ७.२,२५.३८ राजन्यार्हनिवासैश्च राजवीथ्यादिशोभितैः ॥ ७.२,२५.३९ प्रोच्छ्रितप्रांशुशिखरैः प्रासादैश्च समंततः ॥ ७.२,२५.३९ आस्थानस्थानवर्यैश्च स्थितैर्दिक्षु विदिक्षु च ॥ ७.२,२५.४० अत्यन्तालंकृतप्रांतमंतरावरणैरिव ॥ ७.२,२५.४० उत्तमस्त्रीसहस्रैश्च नृत्यगेयविशारदैः ॥ ७.२,२५.४१ वेणुवीणाविदग्धैश्च पुरुषैर्बहुभिर्युतम् ॥ ७.२,२५.४१ रक्षितं रक्षिभिर्वीरैर्गजवाजिरथान्वितैः ॥ ७.२,२५.४२ अनेकपुष्पवाटीभिरनेकैश्च सरोवरैः ॥ ७.२,२५.४२ दीर्घिकाभिरनेकाभिर्दिग्विदिक्षु विराजितम् ॥ ७.२,२५.४३ वेदवेदांततत्त्वज्ञैश्शिवशास्त्रपरायणैः ॥ ७.२,२५.४३ शिवाश्रमरतैर्भक्तैः शिवशास्त्रोक्तलक्षणैः ॥ ७.२,२५.४४ शांतैः स्मितमुखैः स्फीतैः सदाचारपरायणैः ॥ ७.२,२५.४४ शैवैर्माहेश्वरैश्चैव श्रीमद्भिस्सेवितद्विजैः ॥ ७.२,२५.४५ एवमंतर्बहिर्वाथयथाशक्तिविनिर्मितैः ॥ ७.२,२५.४५ स्थाने शिलामये दांते दारवे चेष्टकामये ॥ ७.२,२५.४६ केवलं मृन्मये वापि पुण्यारण्ये ऽथ वा गिरौ ॥ ७.२,२५.४६ नद्यां देवालये ऽन्यत्र देशे वाथ गृहे शुभे ॥ ७.२,२५.४७ आढ्यो वाथ दरिद्रो वा स्वकां शक्तिमवंचयन् ॥ ७.२,२५.४७ द्रव्यैर्न्यायार्जितैरेव भक्त्या देवं समर्चयेत् ॥ ७.२,२५.४७ अथान्यायार्जितैश्चापि भक्त्या चेच्छिवमर्चयेत् ॥ ७.२,२५.४८ न तस्य प्रत्यवायो ऽस्ति भाववश्यो यतः प्रभुः ॥ ७.२,२५.४८ न्यायार्जितैरपि द्रव्यैरभक्त्या पूजयेद्यदि ॥ ७.२,२५.४९ न तत्फलमवाप्नोति भक्तिरेवात्र कारणम् ॥ ७.२,२५.४९ भक्त्या वित्तानुसारेण शिवमुद्दिश्य यत्कृतम् ॥ ७.२,२५.५० अल्पे महति वा तुल्यं फलमाढ्यदरिद्रयोः ॥ ७.२,२५.५० भक्त्या प्रचोदितः कुर्यादल्पवित्तोपि मानवः ॥ ७.२,२५.५१ महाविभवसारोपि न कुर्याद्भक्तिवर्जितः ॥ ७.२,२५.५१ सर्वस्वमपि यो दद्याच्छिवे भक्तिविवर्जितः ॥ ७.२,२५.५२ न तेन फलभाक्स स्याद्भक्तिरेवात्र कारणम् ॥ ७.२,२५.५२ न तत्तपोभिरत्युग्रैर्न च सर्वैर्महामखैः ॥ ७.२,२५.५३ गच्छेच्छिवपुरं दिव्यं मुक्त्वा भक्तिं शिवात्मकम् ॥ ७.२,२५.५३ १ सम्बन्धमनुवर्तते इति भाष्यात्क्वचिद्घञान्तस्यापि क्लीबतात एव शेषं रामवदित्यादि संगच्छते २ त्रिशूलेनेति भावः ५७५ गुह्याद्गुह्यतरं कृष्ण सर्वत्र परमेश्वरे ॥ ७.२,२५.५४ शिवे भक्तिर्न संदेहस्तया भक्तो विमुच्यते ॥ ७.२,२५.५४ शिवमंत्रजपो ध्यानं होमो यज्ञस्तपःश्रुतम् ॥ ७.२,२५.५५ दानमध्ययनं सर्वे भावार्थं नात्र संशयः ॥ ७.२,२५.५५ भावहीनो नरस्सर्वं कृत्वापि न विमुच्यते ॥ ७.२,२५.५६ भावयुक्तः पुनस्सर्वमकृत्वापि विमुच्यते ॥ ७.२,२५.५६ चांद्रायणसहस्रैश्च प्राजापत्यशतैस्तथा ॥ ७.२,२५.५७ मासोपवासैश्चान्यैश्च शिवभक्तस्य किं पुनः ॥ ७.२,२५.५७ अभक्ता मानवाश्चास्मिंल्लोके गिरिगुहासु च ॥ ७.२,२५.५८ तपंति चाल्पभोगार्थं भक्तो भावेन मुच्यते ॥ ७.२,२५.५८ सात्त्विकं मुक्तिदं कर्म सत्त्वे वै योगिनः स्थिताः ॥ ७.२,२५.५९ राजसं सिद्धिदं कुर्युः कर्मिणो रजसावृताः ॥ ७.२,२५.५९ असुरा राक्षसाश्चैव तमोगुणसमन्विताः ॥ ७.२,२५.६० ऐहिकार्थं यजन्तीशं नराश्चान्ये ऽपि तादृशाः ॥ ७.२,२५.६० तामसं राजसं वापि सात्त्विकं भावमेव च ॥ ७.२,२५.६१ आश्रित्य भक्त्या पूजाद्यं कुर्वन्भद्रं समश्नुते ॥ ७.२,२५.६१ यतः पापार्णवात्त्रातुं भक्तिर्नौरिव निर्मिता ॥ ७.२,२५.६२ तस्माद्भक्त्युपपन्नस्य रजसा तमसा च किम् ॥ ७.२,२५.६२ अन्त्यजो वाधमो वापि मूर्खो वा पतितो ऽपि वा ॥ ७.२,२५.६३ शिवं प्रपन्नश्चेत्कृष्ण पूज्यस्सर्वसुरासुरैः ॥ ७.२,२५.६३ तस्मात्सर्वप्रयत्नेन भक्त्यैव शिवमर्चयेत् ॥ ७.२,२५.६४ अभुक्तानां क्वचिदपि फलं नास्ति यतस्ततः ॥ ७.२,२५.६४ वक्ष्याम्यतिरहस्यं ते शृणु कृष्ण वचो मम ॥ ७.२,२५.६५ वेदैश्शास्त्रैर्वेदविद्भिर्विचार्य सुविनिश्चितम् ॥ ७.२,२५.६५ ओं इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे शिवशास्त्रोक्तपूजनवर्णनं नाम पञ्चविंशो ऽध्यायः अध्याय २६ उपमन्युरुवाच ब्रह्मघ्नो वा सुरापो वा स्तेयीवा गुरुतल्पगः ॥ ७.२,२६.१ मातृहा पितृहा वापि वीरहा भ्रूणहापि वा ॥ ७.२,२६.१ संपूज्यामन्त्रकं भक्त्या शिवं परमकारणम् ॥ ७.२,२६.२ तैस्तैः पापैः प्रमुच्येत वर्षैर्द्वादशभिः क्रमात् ॥ ७.२,२६.२ तस्मात्सर्वप्रयत्नेन पतितो ऽपि यजेच्छिवम् ॥ ७.२,२६.३ भक्तश्चेन्नापरः कश्चिद्भिक्षाहारो जितेंद्रियः ॥ ७.२,२६.३ कृत्वापि सुमहत्पापं भक्त्या पञ्चाक्षरेण तु ॥ ७.२,२६.४ पूजयेद्यदि देवेशं तस्मात्पापात्प्रमुच्यते ॥ ७.२,२६.४ अब्भक्षा वायुभक्षाश्च ये चान्ये व्रतकर्शिताः ॥ ७.२,२६.५ तेषामेतैर्व्रतैर्नास्ति शिवलोकसमागमः ॥ ७.२,२६.५ भक्त्या पञ्चाक्षरेणैव यः शिवं सकृदर्चयेत् ॥ ७.२,२६.६ सोपि गच्छेच्छिवस्थानं शिवमन्त्रस्य गौरवात् ॥ ७.२,२६.६ तस्मात्तपांसि यज्ञांश्च सर्वे सर्वस्वदक्षिणाः ॥ ७.२,२६.७ शिवमूर्त्यर्चनस्यैते कोट्यंशेनापि नो समाः ॥ ७.२,२६.७ बद्धो वाप्यथ मुक्तो वा पश्चात्पञ्चाक्षरेण चेत् ॥ ७.२,२६.८ पूजयन्मुच्यते भक्तो नात्र कार्या विचारणा ॥ ७.२,२६.८ अरुद्रो वा सरुद्रो वा सूक्तेन शिवमर्चयेत् ॥ ७.२,२६.९ यः सकृत्पतितो वापिमूढो वा मुच्यते नरः ॥ ७.२,२६.९ ५७५ षडक्षरेण वा देवं सूक्तमन्त्रेण पूजयेत् ॥ ७.२,२६.१० शिवभक्तो जितक्रोधो ह्यलब्धो लब्ध एव च ॥ ७.२,२६.१० अलब्धाल्लब्ध एवात्र विशिष्टो नात्र संशयः ॥ ७.२,२६.११ स ब्रह्मांगेन वा तेन सहंसेन विमुच्यते ॥ ७.२,२६.११ तस्मान्नित्यं शिवं भक्त्या सूक्तमन्त्रेण पूजयेत् ॥ ७.२,२६.१२ एककालं द्विकालं वा त्रिकालं नित्यमेव वा ॥ ७.२,२६.१२ ये ऽर्चयंति महादेवं विज्ञेयास्ते महेश्वराः ॥ ७.२,२६.१३ ज्ञानेनात्मसहायेन नार्चितो भगवाञ्छिवः ॥ ७.२,२६.१३ स चिरं संसरत्यस्मिन्संसारे दुःखसागरे ॥ ७.२,२६.१४ दुर्ल्लभं प्राप्य मानुष्यं मूढो नार्चयते शिवम् ॥ ७.२,२६.१४ निष्फलं तस्य तज्जन्म मोक्षाय न भवेद्यतः ॥ ७.२,२६.१५ दुर्ल्लभं प्राप्य मानुष्यं ये ऽर्चयन्ति पिनाकिनम् ॥ ७.२,२६.१५ तेषां हि सफलं जन्म कृतार्थास्ते नरोत्तमाः ॥ ७.२,२६.१६ भवभक्तिपरा ये च भवप्रणतचेतसः ॥ ७.२,२६.१६ भवसंस्मरणोद्युक्ता न ते दुःखस्य भागिनः ॥ ७.२,२६.१७ भवनानि मनोज्ञानि विभ्रमाभरणाः स्त्रियः ॥ ७.२,२६.१७ धनं चातृप्तिपर्यन्तं शिवपूजाविधेः फलम् ॥ ७.२,२६.१८ ये वाञ्छन्ति महाभोगान्राज्यं च त्रिदशालये ॥ ७.२,२६.१८ ते वाञ्छन्ति सदाकालं हरस्य चरणाम्बुजम् ॥ ७.२,२६.१९ सौभाग्यं कान्तिमद्रूपं सत्त्वं त्यागार्द्रभावता ॥ ७.२,२६.१९ शौर्यं वै जगति ख्यातिश्शिवमर्चयतो भवेत् ॥ ७.२,२६.२० तस्मात्सर्वं परित्यज्य शिवैकाहितमानसः ॥ ७.२,२६.२० शिवपूजाविधिं कुर्याद्यदीच्छेच्छिवमात्मनः ॥ ७.२,२६.२१ त्वरितं जीवितं याति त्वरितं याति यौवनम् ॥ ७.२,२६.२१ त्वरितं व्याधिरभ्येति तस्मात्पूज्यः पिनाकधृक् ॥ ७.२,२६.२२ यावन्नायाति मरणं यावन्नाक्रमते जरा ॥ ७.२,२६.२२ यावन्नेन्द्रियवैकल्यं तावत्पूजय शंकरम् ॥ ७.२,२६.२३ न शिवार्चनतुल्यो ऽस्ति धर्मो ऽन्यो भुवनत्रये ॥ ७.२,२६.२३ इति विज्ञाय यत्नेन पूजनीयस्सदाशिवः ॥ ७.२,२६.२४ द्वारयागं जवनिकां परिवारबलिक्रियाम् ॥ ७.२,२६.२४ नित्योत्सवं च कुर्वीत प्रसादे यदि पूजयेत् ॥ ७.२,२६.२५ हविर्निवेदनादूर्ध्वं स्वयं चानुचरो ऽपि वा ॥ ७.२,२६.२५ प्रसादपरिवारेभ्यो बलिं दद्याद्यथाक्रमम् ॥ ७.२,२६.२६ निर्गम्य सह वादित्रैस्तदाशाभिमुखः स्थितः ॥ ७.२,२६.२६ पुष्पं धूपं च दीपञ्च दद्यादन्नं जलैः सह ॥ ७.२,२६.२७ ततो दद्यान्महापीठे तिष्ठन्बलिमुदङ्मुखः ॥ ७.२,२६.२७ ततो निवेदितं देवे यत्तदन्नादिकं पुरा ॥ ७.२,२६.२८ तत्सर्वं सावशेषं वा चण्डाय विनिवेदयेत् ॥ ७.२,२६.२८ हुत्वा च विधिवत्पश्चात्पूजाशेषं समापयेत् ॥ ७.२,२६.२९ कृत्वा प्रयोगं विधिवद्यावन्मन्त्रं जपं ततः ॥ ७.२,२६.२९ नित्योत्सवं प्रकुर्वीत यथोक्तं शिवशासने ॥ ७.२,२६.३० ५७६ विपुले तैजसे पात्रे रक्तपद्मोपशोभिते ॥ ७.२,२६.३० अस्त्रं पाशुपतं दिव्यं तत्रावाह्य समर्चयेत् ॥ ७.२,२६.३१ शिवस्यारोप्यः तत्पात्रं द्विजस्यालंकृतस्य च ॥ ७.२,२६.३१ न्यस्तास्त्रवपुषा तेन दीप्तयष्टिधरस्य च ॥ ७.२,२६.३२ प्रासादपरिवारेभ्यो बहिर्मंगलनिःस्वनैः ॥ ७.२,२६.३२ नृत्यगेयादिभिश्चैव सह दीपध्वजादिभिः ॥ ७.२,२६.३३ प्रदक्षिणत्रयं कृत्वा न द्रुतं चाविलम्बितम् ॥ ७.२,२६.३३ महापीठं समावृत्य त्रिःप्रदक्षिणयोगतः ॥ ७.२,२६.३४ पुनः प्रविष्टो द्वारस्थो यजमानः कृताञ्जलिः ॥ ७.२,२६.३४ आदायाभ्यंतरं नीत्वा ह्यस्त्रमुद्वासयेत्ततः ॥ ७.२,२६.३४ प्रदक्षिणादिकं कृत्वा यथापूर्वोदितं क्रमात् ॥ ७.२,२६.३५ आदाय चाष्टपुष्पाणि पूजामथ समापयेत् ॥ ७.२,२६.३५ ओं इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे सांगोपांगपूजाविधानवर्णनं नाम षड्विंशो ऽध्यायः अध्याय २७ उपमन्युरुवाच अथाग्निकार्यं वक्ष्यामि कुण्डे वा स्थंडिले ऽपि वा ॥ ७.२,२७.१ वेद्यां वा ह्यायसे पात्रे मृन्मये वा नवे शुभे ॥ ७.२,२७.१ आधायाग्निं विधानेन संस्कृत्य च ततः परम् ॥ ७.२,२७.२ तत्राराध्य महादेवं होमकर्म समाचरेत् ॥ ७.२,२७.२ कुण्डं द्विहस्तमानं वा हस्तमात्रमथापि वा ॥ ७.२,२७.३ वृत्तं वा चतुरस्रं वा कुर्याद्वेदिं च मण्डलम् ॥ ७.२,२७.३ कुण्डं विस्तारवन्निम्नं तन्मध्ये ऽष्टदलाम्बुजम् ॥ ७.२,२७.४ चतुरंगुलमुत्सेधं तस्य द्व्यंगुलमेव वा ॥ ७.२,२७.४ वितस्तिद्विगुणोन्नत्या नाभिमन्तः प्रचक्षते ॥ ७.२,२७.५ मध्यं च मध्यमांगुल्या मध्यमोत्तमपर्वणोः ॥ ७.२,२७.५ अंगुलैः कथ्यते सद्भिश्चतुर्विंशतिभिः करः ॥ ७.२,२७.६ मेखलानां त्रयं वापि द्वयमेकमथापि वा ॥ ७.२,२७.६ यथाशोभं प्रकुर्वीत श्लक्ष्णमिष्टं मृदा स्थिरम् ॥ ७.२,२७.७ अश्वत्थपत्रवद्योनिं गजाधारवदेव वा ॥ ७.२,२७.७ मेखलामध्यतः कुर्यात्पश्चिमे दक्षिणे ऽपि वा ॥ ७.२,२७.८ शोभनामग्नितः किंचिन्निम्नामुन्मीलिकां शनैः ॥ ७.२,२७.८ अग्रेण कुण्डाभिमुखीं किंचिदुत्सृज्य मेखलाम् ॥ ७.२,२७.९ नोत्सेधनियमो वेद्याः सा मार्दी वाथ सैकती ॥ ७.२,२७.९ मंडलं गोशकृत्तोयैर्मानं पात्रस्य नोदितम् ॥ ७.२,२७.१० कुण्डं च मृन्मयं वेदिमालिपेद्गोमयांबुना ॥ ७.२,२७.१० प्रक्षाल्य तापयेत्पात्रं प्रोक्षयेदन्यदंभसा ॥ ७.२,२७.११ स्वसूत्रोक्तप्रकारेण कुण्डादौ विल्लिखेत्ततः ॥ ७.२,२७.११ संप्रोक्ष्य कल्पयेद्दर्भैः पुष्पैर्वा वह्निविष्टरम् ॥ ७.२,२७.१२ अर्चनार्थं च होमार्थं सर्वद्रव्याणि साधयेत् ॥ ७.२,२७.१२ प्रक्षाल्यक्षालनीयानि प्रोक्षण्या प्रोक्ष्य शोधयेत् ॥ ७.२,२७.१३ मणिजं काष्ठजं वाथ श्रोत्रियागारसम्भवम् ॥ ७.२,२७.१३ १ अदन्तत्वमार्षम् ५७६ अन्यं वाभ्यर्हितं वह्निं ततः साधारमानयेत् ॥ ७.२,२७.१४ त्रिः प्रदक्षिणमावृत्य कुण्डादेरुपरि क्रमात् ॥ ७.२,२७.१४ वह्निबीजं समुच्चार्य त्वादधीताग्निमासने ॥ ७.२,२७.१५ योनिमार्गेण वा तद्वदात्मनः संमुखेन वा ॥ ७.२,२७.१५ नियोगः प्रदेश सर्वं कुंडं कुर्याद्विचक्षणः ॥ ७.२,२७.१६ स्वनाभ्यंतःस्थितं वह्निं तद्रंध्राद्विस्फुलिंगवद् ॥ ७.२,२७.१६ निर्गम्य पावके बह्ये लीनं बिंबाकृति स्मरेत् ॥ ७.२,२७.१७ आज्यसंस्कारपर्यंतमन्वाधानपुरस्सरम् ॥ ७.२,२७.१७ स्वसूत्रोक्तक्रमात्कुर्यान्मूलमन्त्रेण मन्त्रवित् ॥ ७.२,२७.१८ शिवमूर्तिं समभ्यर्च्य ततो दक्षिणपार्श्वतः ॥ ७.२,२७.१८ न्यस्य मन्त्रं घृते मुद्रां दर्शयेद्धेनुसंज्ञिताम् ॥ ७.२,२७.१९ स्रुक्स्रुवौ तैजसौ ग्राह्यौ न कांस्यायससैसकौ ॥ ७.२,२७.१९ यज्ञदारुमयौ वापि स्मार्तौ वा शिल्पसम्मतौ ॥ ७.२,२७.२० पर्णे वा ब्रह्मवृक्षादेरच्छिद्रे मध्य उत्थिते ॥ ७.२,२७.२० संसृज्य दर्भैस्तौ वह्नौ संताप्य प्रोक्षयेत्पुनः ॥ ७.२,२७.२१ पारार्षर्च्यस्वसूत्रोक्तक्रमेण शिवपूर्वकैः ॥ ७.२,२७.२१ जुहुयादष्टभिर्बीजैरग्निसंस्कारसिद्धये ॥ ७.२,२७.२२ भ्रुंस्तुंब्रुश्रुं क्रमेणैव पुंड्रंद्रमित्यतः परम् ॥ ७.२,२७.२२ बीजानि सप्त सप्तानां जिह्वानामनुपूर्वशः ॥ ७.२,२७.२३ त्रिशिखा मध्यमा जिह्वा बहुरूपसमाह्वया ॥ ७.२,२७.२३ रक्ताग्नेयी नैरृती च कृष्णान्या सुप्रभा मता ॥ ७.२,२७.२४ अतिरिक्ता मरुज्जिह्वा स्वनामानुगुणप्रभा ॥ ७.२,२७.२४ स्वबिजानन्तरं वाच्या स्वाहांतञ्च यथाक्रमम् ॥ ७.२,२७.२५ जिह्वामंत्रैस्तु तैर्हुत्वाज्यं जिह्वास्त्वेकैकश क्रमात् ॥ ७.२,२७.२५ रं वह्नयेति स्वाहेति मध्ये हुत्वाहुतित्रयम् ॥ ७.२,२७.२६ सर्पिषा वा समिद्भिर्वा परिषेचनमाचरेत् ॥ ७.२,२७.२६ एवं कृते शिवाग्निः स्यात्स्मरेत्तत्र शिवासनम् ॥ ७.२,२७.२७ तत्रावाह्य यजेद्देवमर्धनारीश्वरं शिवम् ॥ ७.२,२७.२७ दीपान्तं परिषिच्याथ समिद्धोमं समाचरेत् ॥ ७.२,२७.२७ ताः पालाश्यः परा वापि याज्ञिया द्वादशांगुलाः ॥ ७.२,२७.२८ अवक्रा न स्वयं शुष्कास्सत्वचो निर्व्रणाः समाः ॥ ७.२,२७.२८ दशांगुला वा विहिताः कनिष्ठांगुलिसंमिताः ॥ ७.२,२७.२९ प्रादेशमात्रा वालाभे होतव्याः सकला अपि ॥ ७.२,२७.२९ दूर्वापत्रसमाकारां चतुरंगुलमायताम् ॥ ७.२,२७.३० दद्यादाज्याहुतिं पश्चादन्नमक्षप्रमाणतः ॥ ७.२,२७.३० लाजांस्तथा सर्षपांश्च यवांश्चैव तिलांस्तथा ॥ ७.२,२७.३१ सर्पिषाक्तानि भक्ष्याणि लेह्यचोष्याणि सम्भवे ॥ ७.२,२७.३१ दशैवाहुतयस्तत्र पञ्च वा त्रितयं च वा ॥ ७.२,२७.३२ होतव्याः शक्तितो दद्यादेकमेवाथ वाहुतिम् ॥ ७.२,२७.३२ श्रुवेणाज्यं समित्याद्यास्रुचाशेषात्करेण वा ॥ ७.२,२७.३३ तत्र दिव्येन होतव्यं तीर्थेनार्षेण वा तथा ॥ ७.२,२७.३३ द्रव्येणैकेन वा ऽलाभे जुहुयाच्छ्रद्धया पुनः ॥ ७.२,२७.३४ प्रायश्चित्ताय जुहुयान्मंत्रयित्वाहुतित्रयम् ॥ ७.२,२७.३४ ५७७ ततो होमविशिष्टेन घृतेनापूर्य वै स्रुचम् ॥ ७.२,२७.३५ निधाय पुष्पं तस्याग्रे श्रुवेणाधोमुखेन ताम् ॥ ७.२,२७.३५ सदर्भेन समाच्छाद्य मूलेनांजलिनोत्थितः ॥ ७.२,२७.३६ वौषडंतेन जुहुयाद्धारां तु यवसंमिताम् ॥ ७.२,२७.३६ इत्थं पूर्णाहुतिं कृत्वा परिषिंचेच्च पूर्ववत् ॥ ७.२,२७.३७ तत उद्वास्य देवेशं गोपयेत्तु हुताशनम् ॥ ७.२,२७.३७ तमप्युद्वास्य वा नाभौ यजेत्संधाय नित्यशः ॥ ७.२,२७.३८ अथवा वह्निमानीय शिवशास्त्रोक्तवर्त्मना ॥ ७.२,२७.३८ वागीशीगर्भसंभूतं संस्कृत्य विधिवद्यजेत् ॥ ७.२,२७.३९ अन्वाधानं पुनः कृत्वा परिधीन् परिधाय च ॥ ७.२,२७.३९ पात्राणि द्वन्द्वरूपेण निक्षिप्येष्ट्वा शिवं ततः ॥ ७.२,२७.४० संशोध्य प्रोक्षणीपात्रं प्रोक्ष्यतानि तदंभसा ॥ ७.२,२७.४० प्रणीतापात्रमैशान्यां विन्यस्या पूरितं जलैः ॥ ७.२,२७.४१ आज्यसंस्कारपर्यंतं कृत्वा संशोध्य स्रक्स्रुवौ ॥ ७.२,२७.४१ गर्भाधानं पुंसवनं सीमन्तोन्नयनं ततः ॥ ७.२,२७.४२ कृत्वा पृथक्पृथग्घुत्वा जातमग्निं विचिन्तयेत् ॥ ७.२,२७.४२ त्रिपादं सप्तहस्तं च चतुःशृंगं द्विशीर्षकम् ॥ ७.२,२७.४३ मधुपिंगं त्रिनयनं सकपर्देन्दुशेखरम् ॥ ७.२,२७.४३ रक्तं रक्ताम्बरालेपं माल्यभूषनभूषितम् ॥ ७.२,२७.४४ सर्वलक्षणसंपन्नं सोपवीतं त्रिमेखलम् ॥ ७.२,२७.४४ शक्तिमन्तं स्रुक्स्रुवौ च दधानं दक्षिणे करे ॥ ७.२,२७.४५ तोमरं तालवृंतं च घृतपात्रं तथेतरैः ॥ ७.२,२७.४५ जातं ध्यात्वैवमाकारं जातकर्म समाचरेत् ॥ ७.२,२७.४६ नालापनयनं कृत्वा ततः संशोध्य सूतकम् ॥ ७.२,२७.४६ शिवाग्निरुचिनामास्य कृत्वाहुतिपुरस्सरम् ॥ ७.२,२७.४७ पित्रोर्विसर्जनं कृत्वा चौलोपनयनादिकम् ॥ ७.२,२७.४७ अप्तोर्यामावसानान्तं कृत्वा संस्कारमस्य तु ॥ ७.२,२७.४८ आज्यधारादिहोमं च कृत्वा स्विष्टकृतं ततः ॥ ७.२,२७.४८ रमित्यनेन बीजेन परिषिंचेत्ततः परम् ॥ ७.२,२७.४९ ब्रह्मविष्णुशिवेशानां लोकेशानां तथैव च ॥ ७.२,२७.४९ तदस्त्राणां च परितः कृत्वा पूजां यथाक्रमम् ॥ ७.२,२७.५० धूपदीपादिसिद्ध्यर्थं वह्निमुद्धृत्य कृत्यवित् ॥ ७.२,२७.५० साधयित्वाज्यपूर्वाणि द्रव्याणि पुनरेव च ॥ ७.२,२७.५१ कल्पयित्वासनं वह्नौ तत्रावाह्य यथापुरा ॥ ७.२,२७.५१ संपूज्य देवं देवीं च ततः पूर्णांतमाचरेत् ॥ ७.२,२७.५२ अथ वा स्वाश्रमोक्तं तु वह्निकर्म शिवार्पणम् ॥ ७.२,२७.५२ बुद्ध्वा शिवाश्रमी कुर्यान्न च तत्रापरो विधिः ॥ ७.२,२७.५३ शिवाग्नेर्भस्मसंग्राह्यमग्निहोत्रोद्भवं तु वा ॥ ७.२,२७.५३ वैवाहोग्निभवं वापि पक्वं शुचि सुगंधि च ॥ ७.२,२७.५४ कपिलायाः शकृच्छस्तं गृहीतं गगने पतत् ॥ ७.२,२७.५४ न क्लिन्नं नातिकठिनं न दुर्गन्धं न शोषितम् ॥ ७.२,२७.५५ उपर्यधः परित्यज्य गृह्णीयात्पतितं यदि ॥ ७.२,२७.५५ पिंडीकृत्य शिवाग्न्यादौ तत्क्षिपेन्मूलमंत्रतः ॥ ७.२,२७.५६ ५७७ अपक्वमतिपाक्वं च संत्यज्य भसितं सितम् ॥ ७.२,२७.५६ आदाय वा समालोड्य भस्माधारे विनिक्षिपेत् ॥ ७.२,२७.५७ तैजसं दारवं वापि मृन्मयं शैलमेव च ॥ ७.२,२७.५७ अन्यद्वा शोभनं शुद्धं भस्माधारं प्रकल्पयेत् ॥ ७.२,२७.५८ समे देशे शुभे शुद्धे धनवद्भस्म निक्षिपेत् ॥ ७.२,२७.५८ न चायुक्तकरे दद्यान्नैवाशुचितले क्षिपेत् ॥ ७.२,२७.५९ न संस्पृशेच्च नीचांगैर्नोपेक्षेत न लंघयेत् ॥ ७.२,२७.५९ तस्माद्भसितमादाय विनियुंजीत मन्त्रतः ॥ ७.२,२७.६० कालेषूक्तेषु नान्यत्र नायोग्येभ्यः प्रदापयेत् ॥ ७.२,२७.६० भस्मसंग्रहणं कुर्याद्देवे ऽनुद्वासिते सति ॥ ७.२,२७.६१ उद्वासने कृते यस्माच्चण्डभस्म प्रजापते ॥ ७.२,२७.६१ अग्निकार्ये कृते पश्चाच्छिवशास्त्रोक्तमार्गतः ॥ ७.२,२७.६२ स्वसूत्रोक्तप्रकाराद्वा बलिकर्म समाचरेत् ॥ ७.२,२७.६२ अथ विद्यासनं न्यस्य सुप्रलिप्ते तु मण्दले ॥ ७.२,२७.६३ विद्याकोशं प्रतिष्ठाप्य यजेत्पुष्पादिभिः क्रमात् ॥ ७.२,२७.६३ विद्यायाः पुरतः कृत्वा गुरोरपि च मण्डलम् ॥ ७.२,२७.६४ तत्रासनवरं कृत्वा पुष्पाद्यै गुरुमर्चयेत् ॥ ७.२,२७.६४ ततोनुपूजयेत्पूज्यान् भोजयेच्च बुभुक्षितान् ॥ ७.२,२७.६५ ततस्स्वयं च भुंजीत शुद्धमन्नं यथासुखम् ॥ ७.२,२७.६५ निवेदितं च वा देवे तच्छेषं चात्मशुद्धये ॥ ७.२,२७.६६ श्रद्दधानो न लोभेन न चण्डाय समर्पितम् ॥ ७.२,२७.६६ गन्धमाल्यादि यच्चान्यत्तत्राप्येष समो विधिः ॥ ७.२,२७.६७ न तु तत्र शिवोस्मीति बुद्धिं कुर्याद्विचक्षणः ॥ ७.२,२७.६७ भुक्त्वाचम्य शिवं ध्यात्वा हृदये मूलमुच्चरेत् ॥ ७.२,२७.६८ कालशेषं नयेद्योग्यैः शिवशास्त्रकथादिभिः ॥ ७.२,२७.६८ रात्रौ व्यतीते पूर्वांशे कृत्वा पूजां मनोहराम् ॥ ७.२,२७.६९ शिवयोः शयनं त्वेकं कल्पयेदतिशोभनम् ॥ ७.२,२७.६९ भक्ष्यभोज्यांबरालेपपुष्पमालादिकं तथा ॥ ७.२,२७.७० मनसा कर्मणा वापि कृत्वा सर्वं मनोहरम् ॥ ७.२,२७.७० ततो देवस्य देव्याश्च पादमूले शुचिस्स्वपेत् ॥ ७.२,२७.७१ गृहस्थो भार्यया सार्धं तदन्ये ऽपि तु केवलाः ॥ ७.२,२७.७१ प्रत्यूषसमयं बुद्ध्वा मात्रामाद्यामुदीरयेत् ॥ ७.२,२७.७२ प्रणम्य मनसां देवं सांबं सगणमव्ययम् ॥ ७.२,२७.७२ देशकालोचितं कृत्वा शौचाद्यमपि शक्तितः ॥ ७.२,२७.७३ शंखादिनिनदैर्दिव्यैर्देवं देवीं च बोधयेत् ॥ ७.२,२७.७३ ततस्तत्समयोन्निद्रैः पुष्पैरतिसुगंधिभिः ॥ ७.२,२७.७४ निर्वर्त्य शिवयोः पूजां प्रारभेत पुरोदितम् ॥ ७.२,२७.७४ ओं इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे अग्निकार्यवर्णनं नाम सप्तविंशो ऽध्यायः अध्याय २८ उपमन्युरुवाच अतः परं प्रवक्ष्यामि शिवाश्रमनिषेविणाम् ॥ ७.२,२८.१ शिवशास्त्रोक्तमार्गेण नैमित्तिकविधिक्रमम् ॥ ७.२,२८.१ सर्वेष्वपि च मासेषु पक्षयोरुभयोरपि ॥ ७.२,२८.२ ५७८ अष्टाभ्यां च चतुर्दश्यां तथा पर्वाणि च क्रमात् ॥ ७.२,२८.२ अयने विषुवे चैव ग्रहणेषु विशेषतः ॥ ७.२,२८.३ कर्तव्या महती पूजा ह्यधिका वापि शक्तितः ॥ ७.२,२८.३ मासिमासि यथान्यायं ब्रह्मकूर्चं प्रसाध्य तु ॥ ७.२,२८.४ स्नापयित्वा शिवं तेन पिबेच्छेषमुपोषितः ॥ ७.२,२८.४ ब्रह्महत्यादिदोषाणामतीव महतामपि ॥ ७.२,२८.५ निष्कृतिर्ब्रह्मकूर्चस्य पानान्नान्या विशिष्यते ॥ ७.२,२८.५ पौषे पुष्यनक्षत्रे कुर्यान्नीराजनं विभोः ॥ ७.२,२८.६ माघे मघाख्ये नक्षत्रे प्रदद्याद्घृतकंबलम् ॥ ७.२,२८.६ फाल्गुने चोत्तरान्ते वै प्रारभेत महोत्सवम् ॥ ७.२,२८.७ चैत्रे चित्रापौर्णमास्यां दोलां कुर्याद्यथाविधि ॥ ७.२,२८.७ वैशाख्यां तु विशाखायां कुर्यात्पुष्पमहालयम् ॥ ७.२,२८.८ ज्येष्ठे मूलाख्यनक्षत्रे शीतकुम्भं प्रदापयेत् ॥ ७.२,२८.८ आषाढे चोत्तराषाढे पवित्रारोपणं तथा ॥ ७.२,२८.९ श्रावणे प्राकृतान्यापि मण्डलानि प्रकल्पयेत् ॥ ७.२,२८.९ श्रविष्ठाख्ये तु नक्षत्रे प्रौष्ठपद्यां ततः परम् ॥ ७.२,२८.१० प्रोक्षयेच्च जलक्रीडां पूर्वाषाढाश्रये दिने ॥ ७.२,२८.१० आश्वयुज्यां ततो दद्यात्पायसं च नवोदनम् ॥ ७.२,२८.११ अग्निकार्यं च तेनैव कुर्याच्छतभिषग्दिने ॥ ७.२,२८.११ कार्तिक्यां कृतिकायोगे दद्याद्दीपसहस्रकम् ॥ ७.२,२८.१२ मार्गशीर्षे तथार्द्रायां घृतेन स्नापयेच्छिवम् ॥ ७.२,२८.१२ अशक्तस्तेषु कालेषु कुर्यादुत्सवमेव वा ॥ ७.२,२८.१३ आस्थानं वा महापूजामधिकं वा समर्चनम् ॥ ७.२,२८.१३ आवृत्ते ऽपि च कल्याणे प्रशस्तेष्वपि कर्मसु ॥ ७.२,२८.१४ दौर्मनस्ये दुराचारे दुःस्वप्ने दुष्टदर्शने ॥ ७.२,२८.१४ उत्पाते वाशुभेन्यस्मिन्रोगे वा प्रबले ऽथ वा ॥ ७.२,२८.१५ स्नानपूजाजपध्यानहोमदानादिकाः क्रियः ॥ ७.२,२८.१५ निर्मितानुगुणाः कार्याः पुरश्चरणपूर्विकाः ॥ ७.२,२८.१६ शिवानले च विहते पुनस्सन्धानमाचरेत् ॥ ७.२,२८.१६ य एवं शर्वधर्मिष्ठो वर्तते नित्यमुद्यतः ॥ ७.२,२८.१७ तस्यैकजन्मना मुक्तिं प्रयच्छति महेश्वरः ॥ ७.२,२८.१७ एतद्यथोत्तरं कुर्यान्नित्यनैमित्तिकेषु यः ॥ ७.२,२८.१८ दिव्यं श्रीकंठनाथस्य स्थानमाद्यं स गच्छति ॥ ७.२,२८.१८ तत्र भुक्त्वा महाभोगान्कल्पकोटिशतन्नरः ॥ ७.२,२८.१९ कालांतरेच्युतस्तस्मादौमं कौमारमेव च ॥ ७.२,२८.१९ संप्राप्य वैष्णवं ब्राह्मं रुद्रलोकं विशेषतः ॥ ७.२,२८.२० तत्रोषित्वा चिरं कालं भुक्त्वा भोगान्यथोदितान् ॥ ७.२,२८.२० पुनश्चोर्ध्वं गतस्तस्मादतीत्य स्थानपञ्चकम् ॥ ७.२,२८.२१ श्रीकण्ठाज्ज्ञानमासाद्य तस्माच्छैवपुरं व्रजेत् ॥ ७.२,२८.२१ अर्धचर्यारतश्चापि द्विरावृत्त्यैवमेव तु ॥ ७.२,२८.२२ पश्चाज्ज्ञानं समासाद्य शिवसायुज्यमाप्नुयात् ॥ ७.२,२८.२२ अर्धार्धचरितो यस्तु देही देहक्षयात्परम् ॥ ७.२,२८.२३ अंडांतं वोर्ध्वमव्यक्तमतीत्य भुवनद्वयम् ॥ ७.२,२८.२३ संप्राप्य पौरुषं रौद्रस्थानमद्रीन्द्रजापतेः ॥ ७.२,२८.२४ ५७८ अनेकयुगसाहस्रं भुक्त्वा भोगाननेकधा ॥ ७.२,२८.२४ पुण्यक्षये क्षितिं प्राप्य कुले महति जायते ॥ ७.२,२८.२५ तत्रापि पूर्वसंस्कारवशेन स महाद्युतिः ॥ ७.२,२८.२५ पशुधर्मान्परित्यज्य शिवधर्मरतो भवेत् ॥ ७.२,२८.२६ तद्धर्मगौरवादेव ध्यात्वा शिवपुरं व्रजेत् ॥ ७.२,२८.२६ भोगांश्च विविधान्भुक्त्वा विद्येश्वरपदं व्रजेत् ॥ ७.२,२८.२७ तत्र विद्येश्वरैस्सार्धं भुक्त्वा भोगान्बहून्क्रमात् ॥ ७.२,२८.२७ अण्डस्यांतर्बहिर्वाथ सकृदावर्तते पुनः ॥ ७.२,२८.२८ ततो लब्ध्वा शिवज्ञानं परां भक्तिमवाप्य च ॥ ७.२,२८.२८ शिवसाधर्म्यमासाद्य न भूयो विनिवर्तते ॥ ७.२,२८.२९ यश्चातीव शिवे भक्तो विषयासक्तचित्तवत् ॥ ७.२,२८.२९ शिवदर्मानसो कुर्वन्नकुर्वन्वापि मुच्यते ॥ ७.२,२८.३० एकावृत्तो द्विरावृत्तस्त्रिरावृत्तो निवर्तकः ॥ ७.२,२८.३० न पुनश्चक्रवर्ती स्याच्छिवधर्माधिकारवान् ॥ ७.२,२८.३१ तस्माच्च्छिवाश्रितो भूत्वा येन केनापि हेतुना ॥ ७.२,२८.३१ शिवधर्मे मतिं कुर्याच्छ्रेयसे चेत्कृतोद्यमः ॥ ७.२,२८.३२ नात्र निर्बंधयिष्यामो वयं केचन केनचित् ॥ ७.२,२८.३२ निर्बन्धेभ्यो ऽतिवादेभ्यः प्रकृत्यैतन्न रोचते ॥ ७.२,२८.३३ रोचते वा परेभ्यस्तु पुण्यसंस्कारगौरवात् ॥ ७.२,२८.३३ संसारकारणं येषां न प्ररोढुमलं भवेत् ॥ ७.२,२८.३४ प्रकृत्यनुगुणं तस्माद्विमृश्यैतदशेषतः ॥ ७.२,२८.३४ शिवधर्मे ऽधिकुर्वीत यदीच्छेच्छिवमात्मनः ॥ ७.२,२८.३५ ओं इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे नित्यनैमित्तिकविधिवर्णनं नामाष्टाविंशो ऽध्यायः अध्याय २९ श्रीकृष्ण उवाच भगवंस्त्वन्मुखादेव श्रुतं श्रुतिसमं मया ॥ ७.२,२९.१ स्वाश्रितानां शिवप्रोक्तं नित्यनैमित्तिकं तथा ॥ ७.२,२९.१ इदानीं श्रोतुमिच्छामि शिवधर्माधिकारिणाम् ॥ ७.२,२९.२ काम्यमप्यस्ति चेत्कर्म वक्तुमर्हसि साम्प्रतम् ॥ ७.२,२९.२ उपमन्युरुवाच अस्त्यैहिकफलं किञ्चिदामुष्मिकफलं तथा ॥ ७.२,२९.३ ऐहिकामुष्मिकञ्चापि तच्च पञ्चविधं पुनः ॥ ७.२,२९.३ किंचित्क्रियामयं कर्म किंचित्कर्म तपो मयम् ॥ ७.२,२९.४ जपध्यानमयं किंचित्किंचित्सर्वमयं तथा ॥ ७.२,२९.५ क्रियामयं तथा भिन्नं होमदानार्चनक्रमात् ॥ ७.२,२९.५ सर्वशक्तिमतामेव नान्येषां सफलं भवेत् ॥ ७.२,२९.६ शक्तिश्चाज्ञा मदेशस्य शिवस्य परमात्मनः ॥ ७.२,२९.६ तस्मात्काम्यानि कर्माणि कुर्यादाज्ञाधरोद्विजः ॥ ७.२,२९.७ अथ वक्ष्यामि काम्यं हि चेहामुत्र फलप्रदम् ॥ ७.२,२९.७ शैवैर्माहेश्वरैश्चैव कार्यमंतर्बहिः क्रमात् ॥ ७.२,२९.८ शिवो महेश्वरश्चेति नात्यंतमिह भिद्यते ॥ ७.२,२९.८ यथा तथा न भिद्यंते शैवा माहेश्वरा अपि ॥ ७.२,२९.९ शिवाश्रिता हि ते शैवा ज्ञानयज्ञरता नराः ॥ ७.२,२९.९ माहेश्वरास्समाख्याता कर्मयज्ञरता भुवि ॥ ७.२,२९.१० ५७९ तस्मादाभ्यन्तरे कुर्युः शैवा माहेश्वरा वहिः ॥ ७.२,२९.१० न तु प्रयोगो भिद्येत वक्ष्यमाणस्य कर्मणः ॥ ७.२,२९.११ परीक्ष्य भूमिं विधिवद्गंधवर्णरसादिभिः ॥ ७.२,२९.११ मनोभिलषिते तत्र वितानविततांबरे ॥ ७.२,२९.१२ सुप्रलिप्ते महीपृष्ठे दर्पणोदरसंनिभे ॥ ७.२,२९.१२ प्राचीमुत्पादयेत्पूर्वं शास्त्रदृष्टेन वर्त्मना ॥ ७.२,२९.१३ एकहस्तं द्विहस्तं वा मण्डलं परिकल्पयेत् ॥ ७.२,२९.१३ आलिखेद्विमलं पद्ममष्टपत्रं सकर्णिकम् ॥ ७.२,२९.१४ रत्नहेमादिभिश्चूर्णैर्यथासंभवसंभृतैः ॥ ७.२,२९.१४ पञ्चावरणसंयुक्तं बहुशोभासमन्वितम् ॥ ७.२,२९.१५ दलेषु सिद्धयः कल्प्याः केसरेषु सशक्तिकाः ॥ ७.२,२९.१५ रुद्रा वामादयस्त्वष्टौ पूर्वादिदलतः क्रमात् ॥ ७.२,२९.१६ कर्णिकायां च वैराग्यं बीजेषु नव शक्तयः ॥ ७.२,२९.१६ स्कन्दे शिवात्मको धर्मो नाले ज्ञानं शिवाश्रयम् ॥ ७.२,२९.१७ कर्णिकोपरि चाग्नेयं मंडलं सौरमैन्दवम् ॥ ७.२,२९.१७ शिवविद्यात्मतत्त्वाख्यं तत्त्वत्रयमतः परम् ॥ ७.२,२९.१८ सर्वासनोपरि सुखं विचित्रकुसुमान्वितम् ॥ ७.२,२९.१८ पञ्चावरणसंयुक्तं पूजयेदंबया सह ॥ ७.२,२९.१९ शुद्धस्फटिकसंकाशं प्रसन्नं शीतलद्युतिम् ॥ ७.२,२९.१९ विद्युद्वलयसंकाशजटामुकुटभूषितम् ॥ ७.२,२९.२० शार्दूलचर्मवसनं किञ्चित्स्मितमुखांबुजम् ॥ ७.२,२९.२० रक्तपद्मदलप्रख्यपादपाणितलाधरम् ॥ ७.२,२९.२१ सर्वलक्षणसंपन्नं सर्वाभरणभूषितम् ॥ ७.२,२९.२१ दिव्यायुधवरैर्युक्तं दिव्यगंधानुलेपनम् ॥ ७.२,२९.२२ पञ्चवक्त्रं दशभुजं चन्द्रखण्डशिखामणिम् ॥ ७.२,२९.२२ अस्य पूर्वमुखं सौम्यं बालार्कसदृशप्रभम् ॥ ७.२,२९.२३ त्रिलोचनारविंदाढ्यं कृतबालेंदुशेखरम् ॥ ७.२,२९.२३ दक्षिणं नीलजीमूतसमानरुचिरप्रभम् ॥ ७.२,२९.२४ भ्रुकुटीकुटिलं घोरं रक्तवृत्तेक्षणत्रयम् ॥ ७.२,२९.२४ दंष्ट्राकरालं दुर्धर्षं स्फुरिताधरपल्लवम् ॥ ७.२,२९.२५ उत्तरं विद्रुमप्रख्यं नीलालकविभूषितम् ॥ ७.२,२९.२५ सविलासं त्रिनयनं चन्द्राभरणशेखरम् ॥ ७.२,२९.२६ पश्चिमं पूर्णचन्द्राभं लोचनत्रितयोज्ज्वलम् ॥ ७.२,२९.२६ चन्द्ररेखाधरं सौम्यं मंदस्मितमनोहरम् ॥ ७.२,२९.२७ पञ्चमं स्फटिकप्रख्यमिंदुरेखासमुज्ज्वलम् ॥ ७.२,२९.२७ अतीव सौम्यमुत्फुल्ललोचनत्रितयोज्ज्वलम् ॥ ७.२,२९.२८ दक्षिणे शूलपरशुवज्रखड्गानलोज्ज्वलम् ॥ ७.२,२९.२८ सव्ये च नागनाराचघण्टापाशांकुशोज्ज्वलम् ॥ ७.२,२९.२९ निवृत्त्याजानुसंबद्धमानाभेश्च प्रतिष्ठया ॥ ७.२,२९.२९ आकंठं विद्यया तद्वदाललाटं तु शांतया ॥ ७.२,२९.३० तदूर्ध्वं शांत्यतीताख्यकलया परया तथा ॥ ७.२,२९.३० पञ्चाध्वव्यापिनं साक्षात्कलापञ्चकविग्रहम् ॥ ७.२,२९.३१ ईशानमुकुटं देवं पुरुषाख्यं पुरातनम् ॥ ७.२,२९.३१ अघोरहृदयं तद्वद्वामगुह्यं महेश्वरम् ॥ ७.२,२९.३२ ५७९ सद्यपादं च तन्मूर्तिमष्टत्रिंशत्कलामयम् ॥ ७.२,२९.३२ मातृकामयमीशानं पञ्चब्रह्ममयं तथा ॥ ७.२,२९.३३ ओंकाराख्यमयं चैव हंसशक्त्या समन्वितम् ॥ ७.२,२९.३३ तथेच्छात्मिकया शक्त्या समारूढांकमंडलम् ॥ ७.२,२९.३४ ज्ञानाख्यया दक्षिणतो वामतश्च क्रियाख्यया ॥ ७.२,२९.३४ तत्त्वत्रयमयं साक्षाद्विद्यामूर्तिं सदाशिवम् ॥ ७.२,२९.३५ मूर्तिमूलेन संकल्प्य सकलीकृत्य च क्रमात् ॥ ७.२,२९.३५ संपूज्य च यथान्यायमर्घान्तं मूलविद्यया ॥ ७.२,२९.३६ मूर्तिमन्तं शिवं साक्षाच्छक्त्या परमया सह ॥ ७.२,२९.३६ तत्रावाह्य महादेवं सदसद्व्यक्तिवर्जितम् ॥ ७.२,२९.३७ पञ्चोपकरणं कृत्वा पूजयेत्परमेश्वरम् ॥ ७.२,२९.३७ ब्रह्मभिश्च षडङ्गैश्च ततो मातृकया सह ॥ ७.२,२९.३८ प्रणवेन शिवेनैव शक्तियुक्तेन च क्रमात् ॥ ७.२,२९.३८ शांतेन वा तथान्यैश्च वेदमन्त्रैश्च कृत्स्नशः ॥ ७.२,२९.३९ पूजयेत्परमं देवं केवलेन शिवेन वा ॥ ७.२,२९.३९ पाद्यादिमुखवासांतं कृत्वा प्रस्थापनं विना ॥ ७.२,२९.४० पञ्चावरणपूजां तु ह्यारभेत यथाक्रमम् ॥ ७.२,२९.४० ओं इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे काम्यकर्मवर्णनं नामैकोनत्रिंशत्तमो ऽध्यायः अध्याय ३० तत्रादौ शिवयोः पार्श्वे दक्षिणे वामतः क्रमात् ॥ ७.२,३०.१ गंधाद्यैरर्चयेत्पूर्वं देवौ हेरंबषण्मुखौ ॥ ७.२,३०.१ ततो ब्रह्माणि परित ईशानादि यथाक्रमम् ॥ ७.२,३०.२ सशक्तिकानि सद्यांतं प्रथमावरणे यजेत् ॥ ७.२,३०.२ षडंगान्यपि तत्रैव हृदयादीन्यनुक्रमात् ॥ ७.२,३०.३ शिवस्य च शिवायाश्च वाह्नेयादि समर्चयेत् ॥ ७.२,३०.३ तत्र वामादिकान्रुद्रानष्टौ वामादिशक्तिभिः ॥ ७.२,३०.४ अर्चयेद्वा न वा पश्चात्पूर्वादिपरितः क्रमात् ॥ ७.२,३०.४ प्रथमावरणं प्रोक्तं मया ते यदुनंदन ॥ ७.२,३०.५ द्वितीयावरणं प्रीत्या प्रोच्यते श्रद्धया शृणु ॥ ७.२,३०.५ अनंतं पूर्वादिक्पत्रे तच्छक्तिं तस्य वामतः ॥ ७.२,३०.६ सूक्ष्मं दक्षिणदिक्पत्रे सह शक्त्या समर्चयेत् ॥ ७.२,३०.६ ततः पश्चिमदिक्पत्रे सह शक्त्या शिवोत्तमम् ॥ ७.२,३०.७ तथैवोत्तरदिक्पत्रे चैकनेत्रं समर्चयेत् ॥ ७.२,३०.७ एकरुद्रं च तच्छक्तिं पश्चादीशदले ऽर्चयेत् ॥ ७.२,३०.८ त्रिमूर्तिं तस्य शक्तिं च पूजयेदग्निदिग्दले ॥ ७.२,३०.८ श्रीकण्ठं नैरृते पत्रे तच्छक्तिं तस्य वामतः ॥ ७.२,३०.९ तथैव मारुते पत्रे शिखंडीशं समर्चयेत् ॥ ७.२,३०.९ द्वितीयावरणे चेज्यास्सर्वर्तश्चक्रवर्तिनः ॥ ७.२,३०.१० तृतीयावरणे पूज्याः शक्तिभिश्चाष्टमूर्तयः ॥ ७.२,३०.१० अष्टसु क्रमशो दिक्षु पूर्वादिपरितः क्रमात् ॥ ७.२,३०.११ भवः शर्वस्तथेशानो रुद्रः पशुपतिस्ततः ॥ ७.२,३०.११ उग्रो भीमो महादेव इत्यष्टौ मूर्तयः क्रमात् ॥ ७.२,३०.१२ अनंतरं ततश्चैव महादेवादयः क्रमात् ॥ ७.२,३०.१२ शक्तिभिस्सह संपूज्यास्तत्रैकादशमूर्तयः ॥ ७.२,३०.१२ ५८० महादेवः शिवो रुद्रः शंकरो नीललोहितः ॥ ७.२,३०.१३ ईशानो विजयो भीमो देवदेवो भवोद्भवः ॥ ७.२,३०.१३ कपर्दीशश्च कथ्यंते तथैकादशशक्तयः ॥ ७.२,३०.१४ तत्राष्टौ प्रथमं पूज्याः वाह्नेयादि यथाक्रमम् ॥ ७.२,३०.१४ देवदेवः पूर्वपत्रे ईशानं चाग्निगोचरे ॥ ७.२,३०.१५ भवोद्भवस्तयोर्मध्ये कपालीशस्ततः परम् ॥ ७.२,३०.१५ तस्मिन्नावरणे भूयो वृषेन्द्रं पुरतो यजेत् ॥ ७.२,३०.१६ नंदिनं दक्षिणे तस्य महाकालं तथोत्तरे ॥ ७.२,३०.१६ शास्तारं वह्निदिक्पत्रे मात्ःर्दक्षिणदिग्दले ॥ ७.२,३०.१७ गजास्यं नैरृते पत्रे षण्मुखं वारुणे पुनः ॥ ७.२,३०.१७ ज्येष्ठां वायुदले गौरीमुत्तरे चंडमैश्वरे ॥ ७.२,३०.१८ शास्तृनन्दीशयोर्मध्ये मुनीन्द्रं वृषभं यजेत् ॥ ७.२,३०.१८ महाकालस्योत्तरतः पिंगलं तु समर्चयेत् ॥ ७.२,३०.१९ शास्तृमातृसमूहस्य मध्ये भृंगीश्वरं ततः ॥ ७.२,३०.१९ मातृविघ्नेशमध्ये तु वीरभद्रं समर्चयेत् ॥ ७.२,३०.२० स्कन्दविघ्नेशयोर्मध्ये यजेद्देवीं सरस्वतीम् ॥ ७.२,३०.२० ज्येष्ठाकुमारयोर्मध्ये श्रियं शिवपदार्चिताम् ॥ ७.२,३०.२१ ज्येष्ठागणाम्बयोर्मध्ये महामोटीं समर्चयेत् ॥ ७.२,३०.२१ गणाम्बाचण्डयोर्मध्ये देवीं दुर्गां प्रपूजयेत् ॥ ७.२,३०.२२ अत्रैवावरणे भूयः शिवानुचरसंहतिम् ॥ ७.२,३०.२२ रुद्रप्रथमभूताख्यां विविधां च सशक्तिकाम् ॥ ७.२,३०.२३ शिवायाश्च सखीवर्गं जपेद्ध्यात्वा समाहितः ॥ ७.२,३०.२३ एवं तृतीयावरणे वितते पूजिते सति ॥ ७.२,३०.२४ चतुर्थावरणं ध्यात्वा बहिस्तस्य समर्चयेत् ॥ ७.२,३०.२४ भानुः पूर्वदले पूज्यो दक्षिणे चतुराननः ॥ ७.२,३०.२५ रुद्रो वरुणदिक्पत्रे विष्णुरुत्तरदिग्दले ॥ ७.२,३०.२५ चतुर्णामपि देवानां पृथगावरणान्यथ ॥ ७.२,३०.२६ तस्यांगानि षडेवादौ दीप्ताद्याभिश्च शक्तिभिः ॥ ७.२,३०.२६ दीप्ता सूक्ष्मा जया भद्रा विभूतिर्विमला क्रमात् ॥ ७.२,३०.२७ अमोघा विद्युता चैव पूर्वादि परितः स्थिताः ॥ ७.२,३०.२७ द्वितीयावरणे पूज्याश्चतस्रो मूर्तयः क्रमात् ॥ ७.२,३०.२८ पूर्वाद्युत्तरपर्यंताः शक्तयश्च ततः परम् ॥ ७.२,३०.२८ आदित्यो भास्करो भानू रविश्चेत्यनुपूर्वशः ॥ ७.२,३०.२९ अर्को ब्रह्मा तथा रुद्रो विष्णुश्चैते विवस्वतः ॥ ७.२,३०.२९ विस्तारा पूर्वदिग्भागे सुतरां दक्षिणे स्थिताः ॥ ७.२,३०.३० बोधनी पश्चिमे भागे आप्यायिन्युत्तरे पुनः ॥ ७.२,३०.३० उषां प्रभां तथा प्राज्ञां सन्ध्यामपि ततः परम् ॥ ७.२,३०.३१ ऐशानादिषु विन्यस्य द्वितीयावरणे यजेत् ॥ ७.२,३०.३१ सोममंगारकं चैव बुधं बुद्धिमतां वरम् ॥ ७.२,३०.३२ बृहस्पतिं बृहद्बुद्धिं भार्गवं तेजसां निधिम् ॥ ७.२,३०.३२ शनैश्चरं तथा राहुं केतुं धूम्रं भयंकरम् ॥ ७.२,३०.३३ समंततो यजेदेतांस्तृतीयावरणे क्रमात् ॥ ७.२,३०.३३ अथवा द्वादशादित्या द्वितीयावरणे यजेत् ॥ ७.२,३०.३४ ५८० तृतीयावरणे चैव राशीन्द्वादश पूजयेत् ॥ ७.२,३०.३४ सप्तसप्त गणांश्चैव बहिस्तस्य समंततः ॥ ७.२,३०.३५ ऋषीन्देवांश्च गंधर्वान्पन्नगानप्सरोगणान् ॥ ७.२,३०.३५ ग्रामण्यश्च तथा यक्षान्यातुधानांस्तथा हयान् ॥ ७.२,३०.३६ सप्तच्छंदोमयांश्चैव वालखिल्यांश्च पूजयेत् ॥ ७.२,३०.३६ एवं तृतीयावरणे समभ्यर्च्य दिवाकरम् ॥ ७.२,३०.३७ ब्रह्माणमर्चयेत्पश्चात्त्रिभिरावरणैः सहः ॥ ७.२,३०.३७ हिरण्यगर्भं पूर्वस्यां विराजं दक्षिणे ततः ॥ ७.२,३०.३८ कालं पश्चिमदिग्भागे पुरुषं चोत्तरे यजेत् ॥ ७.२,३०.३८ हिरण्यगर्भः प्रथमो ब्रह्मा कमलसन्निभः ॥ ७.२,३०.३९ कालो जात्यंजनप्रख्यः पुरुषः स्फटिकोपमः ॥ ७.२,३०.३९ त्रिगुणो राजसश्चैव तामसः सात्त्विकस्तथा ॥ ७.२,३०.४० चत्वार एते क्रमशः प्रथमावरणे स्थिताः ॥ ७.२,३०.४० द्वितीयावरणे पूज्याः पूर्वादिपरितः क्रमात् ॥ ७.२,३०.४१ सनत्कुमारः सनकः सनंदश्च सनातनः ॥ ७.२,३०.४१ तृतीयावरणे पश्चादर्चयेच्च प्रजापतीन् ॥ ७.२,३०.४२ अष्टौ पूर्वांश्च पूर्वादौ त्रीन्प्राक्पश्चादनुक्रमात् ॥ ७.२,३०.४२ दक्षो रुचिर्भृगुश्चैव मरीचिश्च तथांगिराः ॥ ७.२,३०.४३ पुलस्त्यः पुलहश्चैव क्रतुरत्रिश्च कश्यपः ॥ ७.२,३०.४३ वसिष्ठश्चेति विख्याताः प्रजानां पतयस्त्विमे ॥ ७.२,३०.४४ तेषां भार्याश्च तैस्सार्धं पूजनीया यथाक्रमम् ॥ ७.२,३०.४४ प्रसूतिश्च तथा"कूतिः ख्यातिः सम्भूतिरेव च ॥ ७.२,३०.४५ धृतिः स्मृतिः क्षमा चैव सन्नतिश्चानसूयका ॥ ७.२,३०.४५ देवमातारुन्धती च सर्वाः खलु पतिव्रताः ॥ ७.२,३०.४६ शिवार्चनरतो नित्यं श्रीमत्यः प्रियदर्शनाः ॥ ७.२,३०.४६ प्रथमावरणे वेदांश्चतुरो वा प्रपूजयेत् ॥ ७.२,३०.४७ इतिहासपुराणानि द्वितीयावरणे पुनः ॥ ७.२,३०.४७ तृतीयावरणे पश्चाद्धर्मशास्त्रपुरस्सराः ॥ ७.२,३०.४८ वैदिक्यो निखिला विद्याः पूज्या एव समंततः ॥ ७.२,३०.४८ पूर्वादिपुरतो वेदास्तदन्ये तु यथारुचि ॥ ७.२,३०.४९ अष्टधा वा चतुर्धा वा कृत्वा पूजां समंततः ॥ ७.२,३०.४९ एवं ब्रह्माणमभ्यर्च्य त्रिभिरावरणैर्युतम् ॥ ७.२,३०.५० दक्षिणे पश्चिमे पश्चाद्रुद्रं सावरणं यजेत् ॥ ७.२,३०.५० तस्य ब्रह्मषडंगानि प्रथमावरणं स्मृतम् ॥ ७.२,३०.५१ द्वितीयावरणे चैव विद्येश्वरमयं तथा ॥ ७.२,३०.५१ तृतीयावरणे भेदो विद्यते स तु कथ्यते ॥ ७.२,३०.५२ चतस्रो मूर्तयस्तस्य पूज्याः पूर्वादितः क्रमात् ॥ ७.२,३०.५२ त्रिगुणास्सकलो देवः पुरस्ताच्छिवसंज्ञकः ॥ ७.२,३०.५३ राजसो दक्षिणे ब्रह्मा सृष्टिकृत्पूज्यते भवः ॥ ७.२,३०.५३ तामसः पश्चिमे चाग्निः पूज्यस्संहारको हरः ॥ ७.२,३०.५४ सात्त्विकस्सुखकृत्सौम्ये विष्णुर्विश्वपतिर्मृडः ॥ ७.२,३०.५४ एवं पश्चिमदिग्भागे शम्भोः षड्विंशकं शिवम् ॥ ७.२,३०.५५ समभ्यर्च्योत्तरे पार्श्वे ततो वैकुंठमर्चयेत् ॥ ७.२,३०.५५ वासुदेवं पुरस्कृत्वा प्रथमावरणे यजेत् ॥ ७.२,३०.५६ ५८१ अनिरुद्धं दक्षिणतः प्रद्युम्नं पश्चिमे ततः ॥ ७.२,३०.५६ सौम्ये संकर्षणं पश्चाद्व्यत्यस्तौ वा यजेदिमौ ॥ ७.२,३०.५७ प्रथमावरणं प्रोक्तं द्वितीयावरणं शुभम् ॥ ७.२,३०.५७ मत्स्यः कूर्मो वराहश्च नरसिंहोथ वामनः ॥ ७.२,३०.५८ रामश्चान्यतमः कृष्णो भवानश्वमुखोपि च ॥ ७.२,३०.५८ तृतीयावरणे चक्रुः पूर्वभागे समर्चयेत् ॥ ७.२,३०.५९ नारायणाख्यां याम्येस्त्रं क्वचिदव्याहतं यजेत् ॥ ७.२,३०.५९ पश्चिमे पांचजन्यं च शार्ङ्गंधनुरथोत्तरे ॥ ७.२,३०.६० एवं त्र्यावरणैः साक्षाद्विश्वाख्यां परमं हरिम् ॥ ७.२,३०.६० महाविष्णुं सदाविष्णुं मूर्तीकृत्य समर्चयेत् ॥ ७.२,३०.६१ इत्थं विष्णोश्चतुर्व्यूहक्रमान्मूर्तिचतुष्टयम् ॥ ७.२,३०.६१ पूजयित्वा च तच्छक्तीश्चतस्रः पुजयेत्क्रमात् ॥ ७.२,३०.६१ प्रभामाग्नेयदिग्भागे नैरृते तु सरस्वतीम् ॥ ७.२,३०.६२ गणांबिका च वायव्ये लक्ष्मीं रौद्रे समर्चयेत् ॥ ७.२,३०.६२ एवं भान्वादिमूर्तीनां तच्छक्तीनामनंतरम् ॥ ७.२,३०.६३ पूजां विधाय लोकेशांस्तत्रैवावरणे यजेत् ॥ ७.२,३०.६३ इन्द्रमग्निं यमं चैव निरृतिं वरुणं तथा ॥ ७.२,३०.६४ वायुं सोमं कुबेरं च पश्चादीशानमर्चयेत् ॥ ७.२,३०.६४ एवं चतुर्थावरणं पूजयित्वा विधानतः ॥ ७.२,३०.६५ आयुधानि महेशस्य पश्चाद्बांह्यं समर्चयेत् ॥ ७.२,३०.६५ श्रीमन्त्रिशूलमैशाने वज्रं माहेन्द्रदिङ्मुखे ॥ ७.२,३०.६६ परशुं वह्निदिग्भागे याम्ये सायकमर्चयेत् ॥ ७.२,३०.६६ नैरृते तु यजेत्खड्गं पाशं वारुणगोचरे ॥ ७.२,३०.६७ अंकुशं मारुते भागे पिनाकं चोत्तरे यजेत् ॥ ७.२,३०.६७ पश्चिमाभिमुखं रौद्रं क्षेत्रपालं समर्चयेत् ॥ ७.२,३०.६८ पञ्चमावरणं चैव सम्पूज्यानन्तरं बहिः ॥ ७.२,३०.६८ सर्वावरणदेवानां बहिर्वा पञ्चमे ऽथवा ॥ ७.२,३०.६९ पञ्चमे मातृभिस्सार्धं महोक्ष पुरतो यजेत् ॥ ७.२,३०.६९ ततः समंततः पूज्यास्सर्वा वै देवयोनयः ॥ ७.२,३०.७० खेचरा ऋषयस्सिद्धा दैत्या यक्षाश्च राक्षसाः ॥ ७.२,३०.७० अनंताद्याश्च नागेंद्रा नागैस्तत्तत्कुलोद्भवैः ॥ ७.२,३०.७१ डाकिनीभूतवेतालप्रेतभैरवनायकाः ॥ ७.२,३०.७१ पातालवासिनश्चान्ये नानायोनिसमुद्भवाः ॥ ७.२,३०.७२ नद्यस्समुद्रा गिरयः काननानि सरांसि च ॥ ७.२,३०.७२ पशवः पक्षिणो वृक्षाः कीटाद्याः क्षुद्रयोनयः ॥ ७.२,३०.७३ नराश्च विविधाकारा मृगाश्च क्षुद्रयोनयः ॥ ७.२,३०.७३ भुवनान्यन्तरण्डस्य ततो ब्रह्माण्डकोटयः ॥ ७.२,३०.७४ बहिरंडान्यसंख्यानि भुवनानि सहाधिपैः ॥ ७.२,३०.७४ ब्रह्मांडाधारका रुद्रा दशदिक्षु व्यवस्थिताः ॥ ७.२,३०.७५ यद्गौड यच्च मामेयं यद्वा शाक्तं ततः परम् ॥ ७.२,३०.७५ यत्किञ्चिदस्ति शब्दस्य वाच्यं चिदचिदात्मकम् ॥ ७.२,३०.७६ तत्सर्वं शिवयोः पार्श्वे बुद्ध्वा सामान्यतो यजेत् ॥ ७.२,३०.७६ कृतांजलिपुटाः सर्वे ऽचिंत्याः स्मितमुखास्तथा ॥ ७.२,३०.७७ ५८१ प्रीत्या संप्रेक्षमाणाश्च देवं देवीं च सर्वदा ॥ ७.२,३०.७७ इत्थमावरणाभ्यर्चां कृत्वाविक्षेपशांतये ॥ ७.२,३०.७८ पुनरभ्यर्च्य देवेशं पक्त्वाक्षरमुदीरयेत् ॥ ७.२,३०.७८ निवेदयेत्ततः पश्चाच्छिवयोरमृतोपमम् ॥ ७.२,३०.७९ सुव्यञ्जनसमायुक्तं शुद्धं चारु महाचरुम् ॥ ७.२,३०.७९ द्वात्रिंशदाढकैर्मुख्यमधमं त्वाढकावरम् ॥ ७.२,३०.८० साधयित्वा यथासंपच्छ्रद्धया विनिवेदयेत् ॥ ७.२,३०.८० ततो निवेद्य पानीयं तांबूलं चोपदंशकैः ॥ ७.२,३०.८१ नीराजनादिकं कृत्वा पूजाशेषं समापयेत् ॥ ७.२,३०.८१ भोगोपयोग्यद्रव्याणि विशिष्टान्येव साधयेत् ॥ ७.२,३०.८२ वित्तशाठ्यं न कुर्वीत भक्तिमान्विभवे सति ॥ ७.२,३०.८२ शठस्योपेक्षकस्यापि व्यंग्यं चैवानुतिष्ठतः ॥ ७.२,३०.८३ न फलंत्येव कर्माणि काम्यानीति सतां कथा ॥ ७.२,३०.८३ तस्मात्सम्यगुपेक्षां च त्यक्त्वा सर्वांगयोगतः ॥ ७.२,३०.८४ कुर्यात्काम्यानि कर्माणि फलसिद्धिं यदीच्छति ॥ ७.२,३०.८४ इत्थं पूजां समाप्याथ देवं देवीं प्रणम्य च ॥ ७.२,३०.८५ भक्त्या मनस्समाधाय पश्चात्स्तोत्रमुदीरयेत् ॥ ७.२,३०.८५ ततः स्तोत्रमुपास्यान्ते त्वष्टोत्तरशतावराम् ॥ ७.२,३०.८६ जपेत्पञ्चाक्षरीं विद्यां सहस्रोत्तरमुत्सुकः ॥ ७.२,३०.८६ विद्यापूजां गुरोः पूजां कृत्वा पश्चाद्यथाक्रमम् ॥ ७.२,३०.८७ यथोदयं यथाश्राद्धं सदस्यानपि पूजयेत् ॥ ७.२,३०.८७ ततः उद्वास्य देवेशं सर्वैरावरणैः सह ॥ ७.२,३०.८८ मण्डलं गुरवे दद्याद्यागोपकरणैस्सह ॥ ७.२,३०.८८ शिवाश्रितेभ्यो वा दद्यात्सर्वमेवानुपूर्वशः ॥ ७.२,३०.८९ अथवा तच्छिवायैव शिवक्षेत्रे समर्पयेत् ॥ ७.२,३०.८९ शिवाग्नौ वा यजेद्देवं होमद्रव्यैश्च सप्तभिः ॥ ७.२,३०.९० समभ्यर्च्य यथान्यायं सर्वावरणदेवताः ॥ ७.२,३०.९० एष योगेश्वरो नाम त्रिषु लोकेषु विश्रुतः ॥ ७.२,३०.९१ न तस्मादधिकः कश्चिद्यागो ऽस्ति भुवने क्वचित् ॥ ७.२,३०.९१ न तदस्ति जगत्यस्मिन्नसध्यं यदनेन तु ॥ ७.२,३०.९२ ऐहिकं वा फलं किंचिदामुष्मिकफलं तु वा ॥ ७.२,३०.९२ इदमस्य फलं नेदमिति नैव नियम्यते ॥ ७.२,३०.९३ श्रेयोरूपस्य कृत्स्नस्य तदिदं श्रेष्टसाधनम् ॥ ७.२,३०.९३ इदं न शक्यते वक्तुं पुरुषेण यदर्च्यते ॥ ७.२,३०.९४ चिंतामणेरिवैतस्मात्तत्तेन प्राप्यते फलम् ॥ ७.२,३०.९४ तथापि क्षुद्रमुद्दिश्य फलं नैतत्प्रयोजयेत् ॥ ७.२,३०.९५ लघ्वर्थी महतो यस्मात्स्वयं लघुतरो भवेत् ॥ ७.२,३०.९५ महद्वा फलमल्पं वा कृतं चेत्कर्म सिध्यति ॥ ७.२,३०.९६ महादेवं समुद्दिश्य कृतं कर्म प्रयुज्यताम् ॥ ७.२,३०.९६ तस्मादनन्यलभ्येषु शत्रुमृत्युंजयादिषु ॥ ७.२,३०.९७ फलेषु दृष्टादृष्टेषु कुर्यादेतद्विचक्षणः ॥ ७.२,३०.९७ महत्स्वपि च पातेषु महारागभयादिषु ॥ ७.२,३०.९८ दुर्भिक्षादिषु शांत्यर्थं शांतिं कुर्यादनेन तु ॥ ७.२,३०.९८ बहुना किं प्रलापेन महाव्यापन्निवारकम् ॥ ७.२,३०.९९ आत्मीयमस्त्रं शैवानामिदमाह महेश्वरः ॥ ७.२,३०.९९ ५८२ तस्मादितः परं नास्ति परित्राणमिहात्मनः ॥ ७.२,३०.१०० इति मत्वा प्रयुंजानः कर्मेदं शुभमश्नुते ॥ ७.२,३०.१०० स्तोत्रमात्रं शुचिर्भूत्वा यः पठेत्सुसमाहितः ॥ ७.२,३०.१०१ सोप्यभीष्टतमादर्थादष्टांशफलमाप्नुयात् ॥ ७.२,३०.१०१ अर्थं तस्यानुसन्धाय पर्वण्यनशनः पठेत् ॥ ७.२,३०.१०२ अष्टाभ्यां वा चतुर्दश्यां फलमर्धं समाप्नुयात् ॥ ७.२,३०.१०२ यस्त्वर्थमनुसंधाय पर्वादिषु तथा व्रती ॥ ७.२,३०.१०३ मासमेकं जपेत्स्तोत्रं स कृत्स्नं फलमाप्नुयात् ॥ ७.२,३०.१०३ ओं इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे शैवानां काम्यकवर्णनं नाम त्रिंशो ऽध्यायः अध्याय ३१ उपमन्युरुवाच स्तोत्रं वक्ष्यामि ते कृष्ण पञ्चावरणमार्गतः ॥ ७.२,३१.१ योगेश्वरमिदं पुण्यं कर्म येन समाप्यते ॥ ७.२,३१.१ जय जय जगदेकनाथ शंभो प्रकृतिमनोहर नित्यचित्स्वभाव ॥ ७.२,३१.२ अतिगतकलुषप्रपञ्चवाचामपि मनसां पदवीमतीततत्त्वम् ॥ ७.२,३१.२ स्वभावनिर्मलाभोग जय सुन्दरचेष्टित ॥ ७.२,३१.३ स्वात्मतुल्यमहाशक्ते जय शुद्धगुणार्णव ॥ ७.२,३१.३ अनन्तकांतिसंपन्न जयासदृशविग्रह ॥ ७.२,३१.४ अतर्क्यमहिमाधार जयानाकुलमंगल ॥ ७.२,३१.४ निरंजन निराधार जय निष्कारणोदय ॥ ७.२,३१.५ निरन्तरपरानन्द जय निर्वृतिकारण ॥ ७.२,३१.५ जयातिपरमैश्वर्य जयातिकरुणास्पद ॥ ७.२,३१.६ जय स्वतंत्रसर्वस्व जयासदृशवैभव ॥ ७.२,३१.६ जयावृतमहाविश्व जयानावृत केनचित् ॥ ७.२,३१.७ जयोत्तर समस्तस्य जयात्यन्तनिरुत्तर ॥ ७.२,३१.७ जयाद्भुत जयाक्षुद्र जयाक्षत जयाव्यय ॥ ७.२,३१.८ जयामेय जयामाय जयाभाव जयामल ॥ ७.२,३१.८ महाभुज महासार महागुण महाकथ ॥ ७.२,३१.९ महाबल महामाय महारस महारथ ॥ ७.२,३१.९ नमः परमदेवाय नमः परमहेतवे ॥ ७.२,३१.१० नमश्शिवाय शांताय नमश्शिवतराय ते ॥ ७.२,३१.१० त्वदधीनमिदं कृत्स्नं जगद्धि ससुरासुरम् ॥ ७.२,३१.११ अतस्त्वद्विहितामाज्ञां क्षमते को ऽतिवर्तितुम् ॥ ७.२,३१.१२ अयं पुनर्जनो नित्यं भवदेकसमाश्रयः ॥ ७.२,३१.१३ भवानतो ऽनुगृह्यास्मै प्रार्थितं संप्रयच्छतु ॥ ७.२,३१.१३ जयांबिके जगन्मातर्जय सर्वजगन्मयि ॥ ७.२,३१.१४ जयानवधिकैश्वर्ये जयानुपमविग्रहे ॥ ७.२,३१.१४ जय वाङ्मनसातीते जयाचिद्ध्वांतभंजिके ॥ ७.२,३१.१५ जय जन्मजराहीने जय कालोत्तरोत्तरे ॥ ७.२,३१.१५ जयानेकविधानस्थे जय विश्वेश्वरप्रिये ॥ ७.२,३१.१६ जय विश्वसुराराध्ये जय विश्वविजृंभिणि ॥ ७.२,३१.१६ जय मंगलदिव्यांगि जय मंगलदीपिके ॥ ७.२,३१.१७ जय मंगलचारित्रे जय मंगलदायिनि ॥ ७.२,३१.१७ नमः परमकल्याणगुणसंचयमूर्तये ॥ ७.२,३१.१८ त्वत्तः खलु समुत्पन्नं जगत्त्वय्येव लीयते ॥ ७.२,३१.१८ ५८२ त्वद्विनातः फलं दातुमीश्वरोपि न शक्नुयात् ॥ ७.२,३१.१९ जन्मप्रभृति देवेशि जनोयं त्वदुपाश्रितः ॥ ७.२,३१.१९ अतो ऽस्य तव भक्तस्य निर्वर्तय मनोरथम् ॥ ७.२,३१.२० पञ्चवक्त्रो दशभुजः शुद्धस्फटिकसन्निभः ॥ ७.२,३१.२० वर्णब्रह्मकलादेहो देवस्सकलनिष्कलः ॥ ७.२,३१.२१ शिवभक्तिसमारूढः शांत्यतीतस्सदाशिवः ॥ ७.२,३१.२१ भक्त्या मयार्चितो मह्यं प्रार्थितं शं प्रयच्छतु ॥ ७.२,३१.२१ सदाशिवांकमारूढा शक्तिरिच्छा शिवाह्वया ॥ ७.२,३१.२२ जननी सर्वलोकानां प्रयच्छतु मनोरथम् ॥ ७.२,३१.२२ शिवयोर्दयिता पुत्रौ देवौ हेरंबषण्मुखौ ॥ ७.२,३१.२३ शिवानुभावौ सर्वज्ञौ शिवज्ञानामृताशिनौ ॥ ७.२,३१.२३ तृप्तौ परस्परं स्निग्धौ शिवाभ्यां नित्यसत्कृतौ ॥ ७.२,३१.२४ सत्कृतौ च सदा देवौ ब्रह्माद्यैस्त्रिदशैरपि ॥ ७.२,३१.२४ सर्वलोकपरित्राणं कर्तुमभ्युदितौ सदा ॥ ७.२,३१.२५ स्वेच्छावतारं कुर्वंतौ स्वांशभेदैरनेकशः ॥ ७.२,३१.२५ ताविमौ शिवयोः पार्श्वे नित्यमित्थं मयार्चितौ ॥ ७.२,३१.२६ तयोराज्ञां पुरस्कृत्य प्रार्थितं मे प्रयच्छताम् ॥ ७.२,३१.२६ शुद्धस्फटिकसंकाशमीशानाख्यं सदाशिवम् ॥ ७.२,३१.२७ मूर्धाभिमानिनी मूर्तिः शिवस्य परमात्मनः ॥ ७.२,३१.२७ शिवार्चनरतं शांतं शांत्यतीतं मखास्थितम् ॥ ७.२,३१.२८ पञ्चाक्षरांतिमं बीजं कलाभिः पञ्चभिर्युतम् ॥ ७.२,३१.२८ प्रथमावरणे पूर्वं शक्त्या सह समर्चितम् ॥ ७.२,३१.२९ पवित्रं परमं ब्रह्म प्रार्थितं मे प्रयच्छतु ॥ ७.२,३१.२९ बालसूर्यप्रतीकाशं पुरुषाख्यं पुरातनम् ॥ ७.२,३१.३० पूर्ववक्त्राभिमानं च शिवस्य परमेष्ठिनः ॥ ७.२,३१.३० शांत्यात्मकं मरुत्संस्थं शम्भोः पादार्चने रतम् ॥ ७.२,३१.३१ प्रथमं शिवबीजेषु कलासु च चतुष्कलम् ॥ ७.२,३१.३१ पूर्वभागे मया भक्त्या शक्त्या सह समर्चितम् ॥ ७.२,३१.३२ पवित्रं परमं ब्रह्म प्रार्थितं मे प्रयच्छतु ॥ ७.२,३१.३२ अञ्जनादिप्रतीकाशमघोरं घोरविग्रहम् ॥ ७.२,३१.३३ देवस्य दक्षिणं वक्त्रं देवदेवपदार्चकम् ॥ ७.२,३१.३३ विद्यापादं समारूढं वह्निमण्डलमध्यगम् ॥ ७.२,३१.३४ द्वितीयं शिवबीजेषु कलास्वष्टकलान्वितम् ॥ ७.२,३१.३४ शंभोर्दक्षिणदिग्भागे शक्त्या सह समर्चितम् ॥ ७.२,३१.३५ पवित्रं मध्यमं ब्रह्म प्रार्थितं मे प्रयच्छतु ॥ ७.२,३१.३५ कुंकुमक्षोदसंकाशं वामाख्यं वरवेषधृक् ॥ ७.२,३१.३६ वक्त्रमुत्तरमीशस्य प्रतिष्ठायां प्रतिष्ठितम् ॥ ७.२,३१.३६ वारिमंडलमध्यस्थं महादेवार्चने रतम् ॥ ७.२,३१.३७ तुरीयं शिवबीजेषु त्रयोदशकलान्वितम् ॥ ७.२,३१.३७ देवस्योत्तरदिग्भागे शक्त्या सह समर्चितम् ॥ ७.२,३१.३८ पवित्रं परमं ब्रह्म प्रार्थितं मे प्रयच्छतु ॥ ७.२,३१.३८ शंखकुंदेंदुधवलं संध्याख्यं सौम्यलक्षणम् ॥ ७.२,३१.३९ शिवस्य पश्चिमं वक्त्रं शिवपादार्चने रतम् ॥ ७.२,३१.३९ निवृत्तिपदनिष्ठं च पृथिव्यां समवस्थितम् ॥ ७.२,३१.४० तृतीयं शिवबीजेषु कलाभिश्चाष्टभिर्युतम् ॥ ७.२,३१.४० ५८३ देवस्य पश्चिमे भागे शक्त्या सह समर्चितम् ॥ ७.२,३१.४१ पवित्रं परमं ब्रह्म प्रार्थितं मे प्रयच्छतु ॥ ७.२,३१.४१ शिवस्य तु शिवायाश्च हृन्मूर्तिशिवभाविते ॥ ७.२,३१.४२ तयोराज्ञां पुरस्कृत्य ते मे कामं प्रयच्छताम् ॥ ७.२,३१.४२ शिवस्य च शिवायाश्च शिखामूर्तिशिवाश्रिते ॥ ७.२,३१.४३ सत्कृत्य शिवयोराज्ञां ते मे कामं प्रयच्छताम् ॥ ७.२,३१.४३ शिवस्य च शिवायाश्च वर्मणा शिवभाविते ॥ ७.२,३१.४४ सत्कृत्य शिवयोराज्ञां ते मे कामं प्रयच्छताम् ॥ ७.२,३१.४४ शिवस्य च शिवायाश्च नेत्रमूर्तिशिवाश्रिते ॥ ७.२,३१.४५ सत्कृत्य शिवयोराज्ञां ते मे कामं प्रयच्छताम् ॥ ७.२,३१.४५ अस्त्रमूर्ती च शिवयोर्नित्यमर्चनतत्परे ॥ ७.२,३१.४६ सत्कृत्य शिवयोराज्ञां ते मे कामं प्रयच्छताम् ॥ ७.२,३१.४६ वामौ ज्येष्ठस्तथा रुद्रः कालो विकरणस्तथा ॥ ७.२,३१.४७ बलो विकरणश्चैव बलप्रमथनः परः ॥ ७.२,३१.४७ सर्वभूतस्य दमनस्तादृशाश्चाष्टशक्तयः ॥ ७.२,३१.४८ प्रार्थितं मे प्रयच्छंतु शिवयोरेव शासनात् ॥ ७.२,३१.४८ अथानंतश्च सूक्ष्मश्च शिवश्चाप्येकनेत्रकः ॥ ७.२,३१.४९ एक रुद्राख्यमर्तिश्च श्रीकण्ठश्च शिखंडकः ॥ ७.२,३१.४९ तथाष्टौ शक्तयस्तेषां द्वितीयावरणे ऽर्चिताः ॥ ७.२,३१.५० ते मे कामं प्रयच्छंतु शिवयोरेव शासनात् ॥ ७.२,३१.५० भवाद्या मूर्तयश्चाष्टौ तासामपि च शक्तयः ॥ ७.२,३१.५१ महादेवादयश्चान्ये तथैकादशमूर्तयः ॥ ७.२,३१.५१ शक्तिभिस्सहितास्सर्वे तृतीयावरणे स्थिताः ॥ ७.२,३१.५२ सत्कृत्य शिवयोराज्ञां दिशंतु फलमीप्सितम् ॥ ७.२,३१.५२ वृक्षराजो महातेजा महामेघसमस्वनः ॥ ७.२,३१.५३ मेरुमंदरकैलासहिमाद्रिशिखरोपमः ॥ ७.२,३१.५३ सिताभ्रशिखराकारः ककुदा परिशोभितः ॥ ७.२,३१.५४ महाभोगींद्रकल्पेन वालेन च विराजितः ॥ ७.२,३१.५४ रक्तास्यशृंगचरणौ रक्तप्रायविलोचनः ॥ ७.२,३१.५५ पीवरोन्नतसर्वांगस्सुचारुगमनोज्ज्वलः ॥ ७.२,३१.५५ प्रशस्तलक्षणः श्रीमान्प्रज्वलन्मणिभूषणः ॥ ७.२,३१.५६ शिवप्रियः शिवासक्तः शिवयोर्ध्वजवाहनः ॥ ७.२,३१.५६ तथा तच्चरणन्यासपावितापरविग्रहः ॥ ७.२,३१.५७ गोराजपुरुषः श्रीमाञ्छ्रीमच्छूलवरायुधः ॥ ७.२,३१.५७ तयोराज्ञां पुरस्कृत्य स मे कामं प्रयच्छतु ॥ ७.२,३१.५७ नन्दीश्वरो महातेजा नगेन्द्रतनयात्मजः ॥ ७.२,३१.५८ सनारायणकैर्देवैर्नित्यमभ्यर्च्य वंदितः ॥ ७.२,३१.५८ शर्वस्यांतःपुरद्वारि सार्धं परिजनैः स्थितः ॥ ७.२,३१.५९ सर्वेश्वरसमप्रख्यस्सर्वासुरविमर्दनः ॥ ७.२,३१.५९ सर्वेषां शिवधर्माणामध्यक्षत्वे ऽभिषेचितः ॥ ७.२,३१.६० शिवप्रियश्शिवासक्तश्श्रीमच्छूलवरायुधः ॥ ७.२,३१.६० शिवाश्रितेषु संसक्तस्त्वनुरक्तश्च तैरपि ॥ ७.२,३१.६१ सत्कृत्य शिवयोराज्ञां स मे कामं प्रयच्छतु ॥ ७.२,३१.६१ महाकालो महाबाहुर्महादेव इवापरः ॥ ७.२,३१.६२ ५८३ महादेवाश्रितानां १ तु नित्यमेवाभिरक्षतु ॥ ७.२,३१.६२ शिवप्रियः शिवासक्तश्शिवयोरर्चकस्सदा ॥ ७.२,३१.६३ सत्कृत्य शिवयोराज्ञां स मे दिशतु कांक्षितम् ॥ ७.२,३१.६३ सर्वशास्त्रार्थतत्त्वज्ञः शास्ता विष्नोः परा तनुः ॥ ७.२,३१.६४ महामोहात्मतनयो मधुमांसासवप्रियः ॥ ७.२,३१.६४ तयोराज्ञां पुरस्कृत्य स मे कामं प्रयच्छतु ॥ ७.२,३१.६४ ब्रह्माणी चैव माहेशी कौमारी वैष्णवी तथा ॥ ७.२,३१.६५ वाराही चैव माहेंद्री चामुंडा चंडविक्रमा ॥ ७.२,३१.६५ एता वै मातरः सप्त सर्वलोकस्य मातरः ॥ ७.२,३१.६६ प्रार्थितं मे प्रयच्छंतु परमेश्वरशासनात् ॥ ७.२,३१.६६ मत्तमातंगवदनो गंगोमाशंकरात्मजः ॥ ७.२,३१.६७ आकाशदेहो दिग्बाहुस्सोमसूर्याग्निलोचनः ॥ ७.२,३१.६७ ऐरावतादिभिर्दिव्यैर्दिग्गजैर्नित्यमर्चितः ॥ ७.२,३१.६८ शिवज्ञानमदोद्भिन्नर्स्त्रिदशानामविघ्नकृत् ॥ ७.२,३१.६८ विघ्नकृच्चासुरादीनां विघ्नेशः शिवभावितः ॥ ७.२,३१.६९ सत्कृत्य शिवयोराज्ञां स मे दिशतु कांक्षितम् ॥ ७.२,३१.६९ षण्मुखश्शिवसम्भूतः शक्तिवज्रधरः प्रभुः ॥ ७.२,३१.७० अग्नेश्च तनयो देवो ह्यपर्णातनयः पुनः ॥ ७.२,३१.७० गंगायाश्च गणांबायाः कृत्तिकानां तथैव च ॥ ७.२,३१.७१ विशाखेन च शाखेन नैगमेयेन चावृतः ॥ ७.२,३१.७१ इंद्रजिच्चंद्रसेनानीस्तारकासुरजित्तथा ॥ ७.२,३१.७२ शैलानां मेरुमुख्यानां वेधकश्च स्वतेजसा ॥ ७.२,३१.७२ तप्तचामीकरप्रख्यः शतपत्रदलेक्षणः ॥ ७.२,३१.७३ कुमारस्सुकुमाराणां रूपोदाहरणं महत् ॥ ७.२,३१.७३ शिवप्रियः शिवासक्तः शिवपदार्चकस्सदा ॥ ७.२,३१.७४ सत्कृत्य शिवयोराज्ञां स मे दिशतु कांक्षितम् ॥ ७.२,३१.७४ ज्येष्ठा वरिष्ठा वरदा शिवयोर्यजनेरता ॥ ७.२,३१.७५ तयोराज्ञां पुरस्कृत्य सा मे दिशतु कांक्षितम् ॥ ७.२,३१.७५ त्रैलोक्यवंदिता साक्षादुल्काकारा गणांबिका ॥ ७.२,३१.७६ जगत्सृष्टिविवृद्ध्यर्थं ब्रह्मणा ऽभ्यर्थिता शिवात् ॥ ७.२,३१.७६ शिवायाः प्रविभक्ताया भ्रुवोरन्तरनिस्सृताः ॥ ७.२,३१.७७ दक्षायणी सती मेना तथा हैमवती ह्युमा ॥ ७.२,३१.७७ कौशिक्याश्चैव जननी भद्रकाल्यास्तथैव च ॥ ७.२,३१.७८ अपर्णायाश्च जननी पाटलायास्तथैव च ॥ ७.२,३१.७८ शिवार्चनरता नित्यं रुद्राणी रुद्रवल्लभा ॥ ७.२,३१.७९ सत्कृट्य शिवयोराज्ञां सा मे दिशतु कांक्षितम् ॥ ७.२,३१.७९ चंडः सर्वगणेशानः शंभोर्वदनसंभवः ॥ ७.२,३१.८० सत्कृत्य शिवयोराज्ञां स मे दिशतु कांक्षितम् ॥ ७.२,३१.८० पिंगलो गणपः श्रीमाञ्छिवासक्तः शिवप्रियः ॥ ७.२,३१.८१ आज्ञया शिवयोरेव स मे कामं प्रयच्छतु ॥ ७.२,३१.८१ भृंगीशो नाम गणपः शिवराधनतत्परः ॥ ७.२,३१.८२ १ सम्बन्धसामान्यविवक्षया कर्मणि पष्ठी ५८४ प्रयच्छतु स मे कामं पत्युराज्ञा पुरःसरम् ॥ ७.२,३१.८२ वीरभद्रो महातेजा हिमकुंदेंदुसन्निभः ॥ ७.२,३१.८३ भद्रकालीप्रियो नित्यं मात्ःणां चाभिरक्षिता ॥ ७.२,३१.८३ यज्ञस्य च शिरोहर्ता दक्षस्य च दुरात्मनः ॥ ७.२,३१.८४ उपेंद्रेंद्रयमादीनां देवानामंगतक्षकः ॥ ७.२,३१.८४ शिवस्यानुचरः श्रीमाञ्छिवशासनपालकः ॥ ७.२,३१.८५ शिवयोः शासनादेव स मे दिशतु कांक्षितम् ॥ ७.२,३१.८५ सरस्वती महेशस्य वाक्सरोजसमुद्भवा ॥ ७.२,३१.८६ शिवयोः पूजने सक्ता स मे दिशतु कांक्षितम् ॥ ७.२,३१.८६ विष्णोर्वक्षःस्थिता लक्ष्मीः शिवयोः पूजने रता ॥ ७.२,३१.८७ शिवयोः शासनादेव सा मे दिशतु कांक्षितम् ॥ ७.२,३१.८७ महामोटी महादेव्याः पादपूजापरायणा ॥ ७.२,३१.८८ तस्या एव नियोगेन सा मे दिशतु कांक्षितम् ॥ ७.२,३१.८८ कौशिकी सिंहमारूढा पार्वत्याः परमा सुता ॥ ७.२,३१.८९ विष्णोर्निद्रामहामाया महामहिषमर्दिनी ॥ ७.२,३१.८९ निशंभशुंभसंहत्री मधुमांसासवप्रिया ॥ ७.२,३१.९० सत्कृत्य शासनं मातुस्सा मे दिशतु कांक्षितम् ॥ ७.२,३१.९० रुद्रा रुद्रसमप्रख्याः प्रथमाः प्रथितौजसः ॥ ७.२,३१.९१ भूताख्याश्च महावीर्या महादेवसमप्रभाः ॥ ७.२,३१.९१ नित्यमुक्ता निरुपमा निर्द्वन्द्वा निरुपप्लवाः ॥ ७.२,३१.९२ सशक्तयस्सानुचरास्सर्वलोकनमस्कृताः ॥ ७.२,३१.९२ सर्वेषामेव लोकानां सृष्टिसंहरणक्षमाः ॥ ७.२,३१.९३ परस्परानुरक्ताश्च परस्परमनुव्रताः ॥ ७.२,३१.९३ परस्परमतिस्निग्धाः परस्परनमस्कृताः ॥ ७.२,३१.९४ शिवप्रियतमा नित्यं शिवलक्षणलक्षिताः ॥ ७.२,३१.९४ सौम्याधारास्तथा मिश्राश्चांतरालद्वयात्मिकाः ॥ ७.२,३१.९५ विरूपाश्च सुरूपाश्च नानारूपधरास्तथा ॥ ७.२,३१.९५ सत्कृत्य शिवयोराज्ञां ते मे कामं दिशंतु वै ॥ ७.२,३१.९६ देव्या प्रियसखीवर्गो देवीलक्षणलक्षितः ॥ ७.२,३१.९६ सहितो रुद्रकन्याभिः शक्तिभिश्चाप्यनेकशः ॥ ७.२,३१.९७ तृतीयावरणे शंभोर्भक्त्या नित्यं समर्चितः ॥ ७.२,३१.९७ सत्कृत्य शिवयोराज्ञां स मे दिशतु मंगलम् ॥ ७.२,३१.९८ दिवाकरो महेशस्य मूर्तिर्दीप्तिसुमंडलः ॥ ७.२,३१.९८ निर्गुणो गुणसंकीर्णस्तथैव गुणकेवलः ॥ ७.२,३१.९९ अविकारात्मकश्चाद्य एकस्सामान्यविक्रियः ॥ ७.२,३१.९९ असाधारणकर्मा च सृष्टिस्थितिलयक्रमात् ॥ ७.२,३१.१०० एवं त्रिधा चतुर्धा च विभक्ताः पञ्चधा पुनः ॥ ७.२,३१.१०० चतुर्थावरणे शंभोः पूजितश्चानुगैः सह ॥ ७.२,३१.१०१ शिवप्रियः शिवासक्तः शिवपादार्चने रतः ॥ ७.२,३१.१०१ सत्कृत्य शिवयोराज्ञां स मे दिशतु मंगलम् ॥ ७.२,३१.१०२ दिवाकरषडंगानि दीप्ताद्याश्चाष्टशक्तयः ॥ ७.२,३१.१०२ आदित्यो भास्करो भानू रविश्चेत्यनुपूर्वशः ॥ ७.२,३१.१०३ अर्को ब्रह्मा तथा रुद्रो विष्नुश्चादित्यमूर्तयः ॥ ७.२,३१.१०३ विस्तरासुतराबोधिन्याप्यायिन्यपराः पुनः ॥ ७.२,३१.१०४ ५८४ उषा प्रभा तथा प्राज्ञा संध्या चेत्यपि शक्तयः ॥ ७.२,३१.१०४ सोमादिकेतुपर्यंता ग्रहाश्च शिवभाविताः ॥ ७.२,३१.१०५ शिवयोराज्ञयानुन्ना मंगलं प्रदिशंतु मे ॥ ७.२,३१.१०५ अथवा द्वादशादित्यास्तथा द्वादश शक्तयः ॥ ७.२,३१.१०६ ऋषयो देवगंधर्वाः पन्नगाप्सरसां गणाः ॥ ७.२,३१.१०६ ग्रामण्यश्च तथा यक्षा राक्षसाश्चासुरास्तथा ॥ ७.२,३१.१०७ सप्तसप्तगणाश्चैते सप्तच्छंदोमया हयाः ॥ ७.२,३१.१०७ वालखिल्या दयश्चैव सर्वे शिवपदार्चकाः ॥ ७.२,३१.१०८ सत्कृत्यशिवयोराज्ञां मंगलं प्रदिशंतु मे ॥ ७.२,३१.१०८ ब्रह्माथ देवदेवस्य मूर्तिर्भूमण्डलाधिपः ॥ ७.२,३१.१०९ चतुःषष्टिगुणैश्वर्यो बुद्धितत्त्वे प्रतिष्ठितः ॥ ७.२,३१.१०९ निर्गुणो गुणसंकीर्णस्तथैव गुणकेवलः ॥ ७.२,३१.११० अविकारात्मको देवस्ततस्साधारणः पुरः ॥ ७.२,३१.११० असाधारणकर्मा च सृष्टिस्थितिलयक्रमात् ॥ ७.२,३१.१११ भुवं त्रिधा चतुर्धा च विभक्तः पञ्चधा पुनः ॥ ७.२,३१.१११ चतुर्थावरणे शंभो पूजितश्च सहानुगैः ॥ ७.२,३१.११२ शिवप्रियः शिवासक्तश्शिवपादार्चने रतः ॥ ७.२,३१.११२ सत्कृत्य शिवयोराज्ञां स मे दिशतु मंगलम् ॥ ७.२,३१.११३ हिरण्यगर्भो लोकेशो विराट्कालश्च पूरुषः ॥ ७.२,३१.११३ सनत्कुमारः सनकः सनंदश्च सनातनः ॥ ७.२,३१.११४ प्रजानां पतयश्चैव दक्षाद्या ब्रह्मसूनवः ॥ ७.२,३१.११४ एकादश सपत्नीका धर्मस्संकल्प एव च ॥ ७.२,३१.११५ शिवार्चनरताश्चैते शिवभक्तिपरायणाः ॥ ७.२,३१.११५ शिवाज्ञावशगास्सर्वे दिशंतु मम मंगलम् ॥ ७.२,३१.११६ चत्वारश्च तथा वेदास्सेतिहासपुराणकाः ॥ ७.२,३१.११६ धर्मशास्त्राणि विद्याभिर्वैदिकीभिस्समन्विताः ॥ ७.२,३१.११७ परस्परविरुद्धार्थाः शिवप्रकृतिपादकाः ॥ ७.२,३१.११७ सत्कृत्य शिवयोराज्ञां मंगलं प्रदिशंतु मे ॥ ७.२,३१.११८ अथ रुद्रो महादेवः शंभोर्मूर्तिर्गरीयसी ॥ ७.२,३१.११८ वाह्नेयमण्डलाधीशः पौरुषैश्वर्यवान्प्रभुः ॥ ७.२,३१.११९ शिवाभिमानसंपन्नो निर्गुणस्त्रिगुणात्मकः ॥ ७.२,३१.११९ केवलं सात्त्विकश्चापि राजसश्चैव तामसः ॥ ७.२,३१.१२० अविकाररतः पूर्वं ततस्तु समविक्रियः ॥ ७.२,३१.१२० असाधारणकर्मा च सृष्ट्यादिकरणात्पृथक् ॥ ७.२,३१.१२१ ब्रह्मणोपि शिरश्छेत्ता जनकस्तस्य तत्सुतः ॥ ७.२,३१.१२१ जनकस्तनयश्चापि विष्णोरपि नियामकः ॥ ७.२,३१.१२२ बोधकश्च तयोर्नित्यमनुग्रहकरः प्रभुः ॥ ७.२,३१.१२२ अंडस्यांतर्बहिर्वर्ती रुद्रो लोकद्वयाधिपः ॥ ७.२,३१.१२३ शिवप्रियः शिवासक्तः शिवपादार्चने रतः ॥ ७.२,३१.१२३ शिवस्याज्ञां पुरस्कृत्य स मे दिशतु मंगलम् ॥ ७.२,३१.१२४ तस्य ब्रह्म षडंगानि विद्येशांतं तथाष्टकम् ॥ ७.२,३१.१२४ चत्वारो मूर्तिभेदाश्च शिवपूर्वाः शिवार्चकाः ॥ ७.२,३१.१२५ शिवो भवो हरश्चैव मृडश्चैव तथापरः ॥ ७.२,३१.१२५ ५८५ शिवस्याज्ञां पुरस्कृत्य मंगलं प्रदिशंतु मे ॥ ७.२,३१.१२५ अथ विष्णुर्महेशस्य शिवस्यैव परा तनुः ॥ ७.२,३१.१२६ वारितत्त्वाधिपः साक्षादव्यक्तपदसंस्थितः ॥ ७.२,३१.१२६ निर्गुणस्सत्त्वबहुलस्तथैव गुणकेवलः ॥ ७.२,३१.१२७ अविकाराभिमानी च त्रिसाधारणविक्रियः ॥ ७.२,३१.१२७ असाधारणकर्मा च सृष्ट्यादिकरणात्पृथक् ॥ ७.२,३१.१२८ दक्षिणांगभवेनापि स्पर्धमानः स्वयंभुवा ॥ ७.२,३१.१२८ आद्येन ब्रह्मणा साक्षात्सृष्टः स्रष्टा च तस्य तु ॥ ७.२,३१.१२९ अंडस्यांतर्बहिर्वर्ती विष्णुर्लोकद्वयाधिपः ॥ ७.२,३१.१२९ असुरांतकरश्चक्री शक्रस्यापि तथानुजः ॥ ७.२,३१.१३० प्रादुर्भूतश्च दशधा भृगुशापच्छलादिह ॥ ७.२,३१.१३० भूभारनिग्रहार्थाय स्वेच्छयावातरक्षितौ ॥ ७.२,३१.१३१ अप्रमेयबलो मायी मायया मोहयञ्जगत् ॥ ७.२,३१.१३१ मूर्तिं कृत्वा महाविष्णुं सदाशिष्णुमथापि वा ॥ ७.२,३१.१३२ वैष्णवैः पूजितो नित्यं मूर्तित्रयमयासने ॥ ७.२,३१.१३२ शिवप्रियः शिवासक्तः शिवपादार्चने रतः ॥ ७.२,३१.१३३ शिवस्याज्ञां पुरस्कृत्य स मे दिशतु मंगलम् ॥ ७.२,३१.१३३ वासुदेवो ऽनिरुद्धश्च प्रद्युम्नश्च ततः परः ॥ ७.२,३१.१३४ संकर्षणस्समाख्याताश्चतस्रो मूर्तयो हरेः ॥ ७.२,३१.१३४ मत्स्यः कूर्मो वराहश्च नारसिंहो ऽथ वामनः ॥ ७.२,३१.१३५ रामत्रयं तथा कृष्णो विष्णुस्तुरगवक्त्रकः ॥ ७.२,३१.१३५ चक्रं नारायणस्यास्त्रं पांचजन्यं च शार्ङ्गकम् ॥ ७.२,३१.१३६ सत्कृत्य शिवयोराज्ञां मंगलं प्रदिशंतु मे ॥ ७.२,३१.१३६ प्रभा सरस्वती गौरी लक्ष्मीश्च शिवभाविता ॥ ७.२,३१.१३७ शिवयोः शासनादेता मंगलं प्रदिशंतु मे ॥ ७.२,३१.१३७ इन्द्रो ऽग्निश्च यमश्चैव निरृतिर्वरुणस्तथा ॥ ७.२,३१.१३८ वायुः सोमः कुबेरश्च तथेशानस्त्रिशूलधृक् ॥ ७.२,३१.१३८ सर्वे शिवार्चनरताः शिवसद्भावभाविताः ॥ ७.२,३१.१३९ सत्कृत्य शिवयोराज्ञां मंगलं प्रदिशंतु मे ॥ ७.२,३१.१३९ त्रिशूलमथ वज्रं च तथा परशुसायकौ ॥ ७.२,३१.१४० खड्गपाशांकुशाश्चैव पिनाकश्चायुधोत्तमः ॥ ७.२,३१.१४० दिव्यायुधानि देवस्य देव्याश्चैतानि नित्यशः ॥ ७.२,३१.१४१ सत्कृत्य शिवयोराज्ञां रक्षां कुर्वंतु मे सदा ॥ ७.२,३१.१४१ वृषरूपधरो देवः सौरभेयो महाबलः ॥ ७.२,३१.१४२ वडवाख्यानलस्पर्धां पञ्चगोमातृभिर्वृतः ॥ ७.२,३१.१४२ वाहनत्वमनुप्राप्तस्तपसा परमेशयोः ॥ ७.२,३१.१४३ तयोराज्ञां पुरस्कृत्य स मे कामं प्रयच्छतु ॥ ७.२,३१.१४३ नंदा सुनंदा सुरभिः सुशीला सुमनास्तथा ॥ ७.२,३१.१४४ पञ्चगोमातरस्त्वेताश्शिवलोके व्यवस्थिताः ॥ ७.२,३१.१४४ शिवभक्तिपरा नित्यं शिवार्चनपरायणाः ॥ ७.२,३१.१४५ शिवयोः शासनादेव दिशंतु मम वांछितम् ॥ ७.२,३१.१४५ क्षेत्रपालो महातेजा नील जीमूतसन्निभः ॥ ७.२,३१.१४६ दंष्ट्राकरालवदनः स्फुरद्रक्ताधरोज्ज्वलः ॥ ७.२,३१.१४६ रक्तोर्ध्वमूर्धजः श्रीमान्भ्रुकुटीकुटिलेक्षणः ॥ ७.२,३१.१४७ ५८५ रक्तवृत्तत्रिनयनः शशिपन्नगभूषणः ॥ ७.२,३१.१४७ नग्नस्त्रिशूलपाशासिकपालोद्यतपाणिकः ॥ ७.२,३१.१४८ भैरवो भैरवैः सिद्धैर्योगिनीभिश्च संवृतः ॥ ७.२,३१.१४८ क्षेत्रेक्षेत्रे समासीनः स्थितो यो रक्षकस्सताम् ॥ ७.२,३१.१४९ शिवप्रणामपरमः शिवसद्भावभावितः ॥ ७.२,३१.१४९ शिवश्रितान्विशेषेण रक्षन्पुत्रानिवौरसान् ॥ ७.२,३१.१५० सत्कृत्य शिवयोराज्ञां स मे दिशतु मङ्गलम् ॥ ७.२,३१.१५० तालजङ्घादयस्तस्य प्रथमावरणेर्चिताः ॥ ७.२,३१.१५१ सत्कृत्य शिवयोराज्ञां चत्वारः समवन्तु माम् ॥ ७.२,३१.१५१ भैरवाद्याश्च ये चान्ये समंतात्तस्य वेष्टिताः ॥ ७.२,३१.१५२ ते ऽपि मामनुगृह्णंतु शिवशासनगौरवात् ॥ ७.२,३१.१५२ नारदाद्याश्च मुनयो दिव्या देवैश्च पूजिताः ॥ ७.२,३१.१५३ साध्या मागाश्च ये देवा जनलोकनिवासिनः ॥ ७.२,३१.१५३ विनिवृत्ताधिकाराश्च महर्लोकनिवासिनः ॥ ७.२,३१.१५४ सप्तर्षयस्तथान्ये वै वैमानिकगुणैस्सह ॥ ७.२,३१.१५४ सर्वे शिवार्चनरताः शिवाज्ञावशवर्तिनः ॥ ७.२,३१.१५५ शिवयोराज्ञया मह्यं दिशंतु मम कांक्षितम् १ ॥ ७.२,३१.१५५ गंधर्वाद्याः पिशाचांताश्चतस्रो देवयोनयः ॥ ७.२,३१.१५६ सिद्धा विद्याधराद्याश्च ये ऽपि चान्ये नभश्चराः ॥ ७.२,३१.१५६ असुरा राक्षसाश्चैव पातालतलवासिनः ॥ ७.२,३१.१५७ अनंताद्याश्च नागेन्द्रा वैनतेयादयो द्विजाः ॥ ७.२,३१.१५७ कूष्मांडाः प्रेतवेताला ग्रहा भूतगणाः परे ॥ ७.२,३१.१५८ डाकिन्यश्चापि योगिन्यः शाकिन्यश्चापि तादृशाः ॥ ७.२,३१.१५८ क्षेत्रारामगृहादीनि तीर्थान्यायतनानि च ॥ ७.२,३१.१५९ द्वीपाः समुद्रा नद्यश्च नदाश्चान्ये सरांसि च ॥ ७.२,३१.१५९ गिरयश्च सुमेर्वाद्याः कननानि समंततः ॥ ७.२,३१.१६० पशवः पक्षिणो वृक्षाः कृमिकीटादयो मृगाः ॥ ७.२,३१.१६० भुवनान्यपि सर्वाणि भुवनानामधीश्वरः ॥ ७.२,३१.१६१ अण्डान्यावरणैस्सार्धं मासाश्च दश दिग्गजाः ॥ ७.२,३१.१६१ वर्णाः पदानि मंत्राश्च तत्त्वान्यपि सहाधिपैः ॥ ७.२,३१.१६२ ब्रह्मांडधारका रुद्रा रुद्राश्चान्ये सशक्तिकाः ॥ ७.२,३१.१६२ यच्च किंचिज्जगत्यस्मिन्दृष्टं चानुमितं श्रुतम् ॥ ७.२,३१.१६३ सर्वे कामं प्रयच्छन्तु शिवयोरेव शासनात् ॥ ७.२,३१.१६३ अथ विद्या परा शैवी पशुपाशविमोचिनी ॥ ७.२,३१.१६४ पञ्चार्थसंज्ञिता दिव्या पशुविद्याबहिष्कृता ॥ ७.२,३१.१६४ शास्त्रं च शिवधर्माख्यं धर्माख्यं च तदुत्तरम् ॥ ७.२,३१.१६५ शैवाख्यं शिवधर्माख्यं पुराणं श्रुतिसंमितम् ॥ ७.२,३१.१६५ शैवागमाश्च ये चान्ये कामिकाद्याश्चतुर्विधाः ॥ ७.२,३१.१६६ शिवाभ्यामविशेषेण सत्कृत्येह समर्चिताः ॥ ७.२,३१.१६६ १ सर्वाभिलाषमित्यर्थः ५८६ ताभ्यामेव समाज्ञाता ममाभिप्रेतसिद्धये ॥ ७.२,३१.१६७ कर्मेदमनुमन्यंतां सफलं साध्वनुष्ठितम् ॥ ७.२,३१.१६७ श्वेताद्या नकुलीशांताः सशिष्याश्चापि देशिकाः ॥ ७.२,३१.१६८ तत्संततीया गुरवो विशेषाद्गुरवो मम ॥ ७.२,३१.१६८ शैवा माहेश्वराश्चैव ज्ञानकर्मपरायणाः ॥ ७.२,३१.१६९ कर्मेदमनुमन्यंतां सफलं साध्वनुष्ठितम् ॥ ७.२,३१.१६९ लौकिका ब्राह्मणास्सर्वे क्षत्रियाश्च विशः क्रमात् ॥ ७.२,३१.१७० वेदवेदांगतत्त्वज्ञाः सर्वशास्त्रविशारदाः ॥ ७.२,३१.१७० सांख्या वैशेषिकाश्चैव यौगा नैयायिका नराः ॥ ७.२,३१.१७१ सौरा ब्रह्मास्तथा रौद्रा वैष्णवाश्चापरे नराः ॥ ७.२,३१.१७१ शिष्टाः सर्वे विशिष्टा च शिवशासनयंत्रिताः ॥ ७.२,३१.१७२ कर्मेदमनुमन्यंतां ममाभिप्रेतसाधकम् ॥ ७.२,३१.१७२ शैवाः सिद्धांतमार्गस्थाः शैवाः पाशुपतास्तथा ॥ ७.२,३१.१७३ शैवा महाव्रतधराः शैवाः कापालिकाः परे ॥ ७.२,३१.१७३ शिवाज्ञापालकाः पूज्या ममापि शिवशासनात् ॥ ७.२,३१.१७४ सर्वे ममानुगृह्णंतु शंसंतु सफलक्रियाम् ॥ ७.२,३१.१७४ दक्षिणज्ञाननिष्ठाश्च दक्षिणोत्तरमार्गगाः ॥ ७.२,३१.१७५ अविरोधेन वर्तंतां मंत्रश्रेयो ऽर्थिनो मम ॥ ७.२,३१.१७५ नास्तिकाश्च शठाश्चैव कृतघ्नाश्चैव तामसाः ॥ ७.२,३१.१७६ पाषंडाश्चातिपापाश्च वर्तंतां दूरतो मम ॥ ७.२,३१.१७६ बहुभिः किं स्तुतैरत्र ये ऽपि के ऽपिचिदास्तिकाः ॥ ७.२,३१.१७७ सर्वे मामनुगृह्णंतु संतः शंसंतु मंगलम् ॥ ७.२,३१.१७७ नमश्शिवाय सांबाय ससुतायादिहेतवे ॥ ७.२,३१.१७८ पञ्चावरणरूपेण प्रपञ्चेनावृताय ते ॥ ७.२,३१.१७८ इत्युक्त्वा दंडवद्भूमौ प्रणिपत्य शिवं शिवाम् ॥ ७.२,३१.१७९ जपेत्पञ्चाक्षरीं विद्यामष्टोत्तरशतावराम् ॥ ७.२,३१.१७९ तथैव शक्तिविद्यां च जपित्वा तत्समर्पणम् ॥ ७.२,३१.१८० कृत्वा तं क्षमयित्वेशं पूजाशेषं समापयेत् ॥ ७.२,३१.१८० एतत्पुण्यतमं स्तोत्रं शिवयोर्हृदयंगमम् ॥ ७.२,३१.१८१ सर्वाभीष्टप्रदं साक्षाद्भुक्तिमुक्त्यैकसाधनम् ॥ ७.२,३१.१८१ य इदं कीर्तयेन्नित्यं शृणुयाद्वा समाहितः ॥ ७.२,३१.१८२ स विधूयाशु पापानि शिवसायुज्यमाप्नुयात् ॥ ७.२,३१.१८२ गोघ्नश्चैव कृतघ्नश्च वीरहा भ्रूणहापि वा ॥ ७.२,३१.१८३ शरणागतघाती च मित्रविश्रंभघातकः ॥ ७.२,३१.१८३ दुष्टपापसमाचारो मातृहा पितृहापि वा ॥ ७.२,३१.१८४ स्तवेनानेन जप्तेन तत्तत्पापात्प्रमुच्यते ॥ ७.२,३१.१८४ दुःस्वप्नादिमहानर्थसूचकेषु भयेषु च ॥ ७.२,३१.१८५ यदि संकीर्तयेदेतन्न ततो नार्थभाग्भवेत् ॥ ७.२,३१.१८५ आयुरारोग्यमैश्वर्यं यच्चान्यदपि वाञ्छितम् ॥ ७.२,३१.१८६ स्तोत्रस्यास्य जपे तिष्ठंस्तत्सर्वं लभते नरः ॥ ७.२,३१.१८६ असंपूज्य शिवस्तोत्रं जपात्फलमुदाहृतम् ॥ ७.२,३१.१८७ संपूज्य च जपे तस्य फलं वक्तुं न शक्यते ॥ ७.२,३१.१८७ ५८६ आस्तामियं फलावाप्तिरस्मिन्संकीर्तिते सति ॥ ७.२,३१.१८८ सार्धमंबिकया देवः श्रुत्यैवं दिवि तिष्ठति ॥ ७.२,३१.१८८ तस्मान्नभसि संपूज्य देवं देवं सहोमया ॥ ७.२,३१.१८९ कृतांजलिपुटस्तिष्ठंस्तोत्रमेतदुदीरयेत् ॥ ७.२,३१.१८९ ओं इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे शिवमहास्तोत्रवर्णनं नामैकत्रिंशो ऽध्यायः अध्याय ३२ उपमन्युरुवाच एतत्ते कथितं कृष्ण कर्मेहामुत्र सिद्धिदम् ॥ ७.२,३२.१ क्रियातपोजपध्यानसमुच्चयमयं परम् ॥ ७.२,३२.१ अथ वक्ष्यामि शैवानामिहैव फलदं नृणाम् ॥ ७.२,३२.२ पूजाहोमजपध्यानतपोदानमयं महत् ॥ ७.२,३२.२ तत्र संसाधयेत्पूर्वं मन्त्रं मन्त्रार्थवित्तमः ॥ ७.२,३२.३ दृष्टसिद्धिकरं कर्म नान्यथा फलदं यतः ॥ ७.२,३२.३ सिद्धमन्त्रो ऽप्यदृष्टेन प्रबलेन तु केनचित् ॥ ७.२,३२.४ प्रतिबन्धफलं कर्म न कुर्यात्सहसा बुधः ॥ ७.२,३२.४ तस्य तु प्रतिबन्धस्य कर्तुं शक्येह निष्कृतिः ॥ ७.२,३२.५ परीक्ष्य शकुनाद्यैस्तदादौ निष्कृतिमाचरेत् ॥ ७.२,३२.५ यो ऽन्यथा कुरुते मोहात्कर्मैहिकफलं नरः ॥ ७.२,३२.६ न तेन फलभाक्स स्यात्प्राप्नुयाच्चोपहास्यताम् ॥ ७.२,३२.६ अबिस्रब्धो न कुर्वीत कर्म दृष्टफलं क्वचित् ॥ ७.२,३२.७ स खल्वश्रद्धधानः स्यान्नाश्रद्धः फलमृच्छति ॥ ७.२,३२.७ नापराधोस्ति देवस्य कर्मण्यपि तु निष्फले ॥ ७.२,३२.८ यथोक्तकारिणां पुंसामिहैव फलदर्शनात् ॥ ७.२,३२.८ साधकः सिद्धमंत्रश्च निरस्तप्रतिबंधकः ॥ ७.२,३२.९ विश्वस्तः श्रद्धधानश्च कुर्वन्नाप्नोति तत्फलम् ॥ ७.२,३२.९ अथवा तत्फलावाप्त्यै ब्रह्मचर्यरतो भवेत् ॥ ७.२,३२.१० रात्रौ हविष्यमश्नीयात्पायसं वा फलानि वा ॥ ७.२,३२.१० हिंसादि यन्निषिद्धं स्यान्न कुर्यान्मनसापि तत् ॥ ७.२,३२.११ सदा भस्मानुलिप्तां गस्सुवेषश्च शुचिर्भवेत् ॥ ७.२,३२.११ इत्थमाचारवान्भूत्वा स्वानुकूले शुभे ऽहनि ॥ ७.२,३२.१२ पूर्वोक्तलक्षणे देशे पुष्पदामाद्यलंकृते ॥ ७.२,३२.१२ आलिप्य शकृता १ भूमिं हस्तमानावरां यथा ॥ ७.२,३२.१३ विलिखेत्कमले भद्रे दीप्यमानं स्वतेजसा ॥ ७.२,३२.१३ तप्तजांबूनदमयमष्टपत्रं सकेसरम् ॥ ७.२,३२.१४ मध्ये कर्णिकया युक्तं सर्वरत्नैरलंकृतम् ॥ ७.२,३२.१४ स्वाकारसदृशेनैव नालेन च समन्वितम् ॥ ७.२,३२.१५ तादृशे स्वर्णनिर्माणे कंदे सम्यग्विधानतः ॥ ७.२,३२.१५ तत्राणिमादिकं सर्वं संकल्प्य मनसा पुनः ॥ ७.२,३२.१६ रत्नजं वाथ सौवर्णं स्फटिकं वा सलक्षणम् ॥ ७.२,३२.१६ लिङ्गं सवेदिकं चैव स्थापयित्वा विधानतः ॥ ७.२,३२.१६ तत्रावाह्य यजेद्देवं सांबं सगणमव्ययम् ॥ ७.२,३२.१७ तत्र माहेश्वरी कल्प्या मूर्तिर्मूर्तिमतः प्रभोः ॥ ७.२,३२.१७ १ गोरिति शेषः ५८७ चतुर्भुजा चतुर्वक्त्रा सर्वाभरणभूषिता ॥ ७.२,३२.१८ शार्दूलचर्मवसना किंचिद्विहसितानना ॥ ७.२,३२.१८ वरदाभयहस्ता च मृगटंकधरा तथा ॥ ७.२,३२.१९ अथ वाष्टभुजा चिंत्या चिंतकस्य यथारुचि ॥ ७.२,३२.१९ तदा त्रिशूलपरशुखड्गवज्राणि दक्षिणे ॥ ७.२,३२.२० वामे पाशांकुशौ तद्वत्खेटं नागं च बिभ्रती ॥ ७.२,३२.२० बालार्कसदृशप्रख्या प्रतिवक्त्रं त्रिलोचना ॥ ७.२,३२.२१ तस्याः पूर्वमुखं सौम्यं स्वाकारसदृशप्रभम् ॥ ७.२,३२.२१ दक्षिणं नीलजीमूतसदृशं घोरदर्शनम् ॥ ७.२,३२.२२ उत्तरं विद्रुमप्रख्यं नीलालकविभूषितम् ॥ ७.२,३२.२२ पश्चिमं पूर्णचंद्राभं सौम्यमिंदुकलाधरम् ॥ ७.२,३२.२३ तदंकमंडलारूढा शक्तिर्माहेश्वरी परा ॥ ७.२,३२.२३ महालक्ष्मीरिति ख्याता श्यामा सर्वमनोहरा ॥ ७.२,३२.२४ मूर्तिं कृत्वैवमाकारां सकलीकृत्य च क्रमात् ॥ ७.२,३२.२४ मूर्तिमंतमथावाह्य यजेत्परमकारणम् ॥ ७.२,३२.२५ स्नानार्थे कल्पयेत्तत्र पञ्चगव्यं तु कापिलम् ॥ ७.२,३२.२५ पञ्चामृतं च पूर्णानि बीजानि च विशेषतः ॥ ७.२,३२.२६ पुरस्तान्मण्डलं कृत्वा रत्नचूर्णाद्यलंकृतम् ॥ ७.२,३२.२६ कर्णिकायां प्रविन्यस्येदीशानकलशं पुनः ॥ ७.२,३२.२७ सद्यादिकलशान्पश्चात्परितस्तस्य कल्पयेत् ॥ ७.२,३२.२७ ततो विद्येशकलशानष्टौ पूर्वादिवत्क्रमात् ॥ ७.२,३२.२८ तीर्थाम्बुपूरितान्कृत्वा सूत्रेणावेष्ट्य पूर्ववत् ॥ ७.२,३२.२८ पुण्यद्रव्याणि निक्षिप्य समन्त्रं सविधानकम् ॥ ७.२,३२.२९ दुकूलाद्येन वस्त्रेण समाच्छाद्य समंततः ॥ ७.२,३२.२९ सर्वत्र मंत्रं विन्यस्य तत्तन्मंत्रपुरस्सरम् ॥ ७.२,३२.३० स्नानकाले तु संप्राप्ते सर्वमङ्गलनिस्वनैः ॥ ७.२,३२.३० पञ्चगव्यादिभिश्चैव स्नापयेत्परमेश्वरम् ॥ ७.२,३२.३१ ततः कुशोदकाद्यानि स्वर्णरत्नोदकान्यपि ॥ ७.२,३२.३१ गंधपुष्पादिसिद्धानि मन्त्रसिद्धानि च क्रमात् ॥ ७.२,३२.३२ उद्धृत्योद्धृत्य मन्त्रेण तैस्तैस्स्नाप्य महेश्वरम् ॥ ७.२,३२.३२ गंधं पुष्पादिदीपांश्च पूजाकर्म समाचरेत् ॥ ७.२,३२.३३ पलावरः स्यादालेप एकादशपलोत्तरः ॥ ७.२,३२.३३ सुवर्णरत्नपुष्पाणि शुभानि सुरभीणि च ॥ ७.२,३२.३४ नीलोत्पलाद्युत्पलानि बिल्वपत्राण्यनेकशः ॥ ७.२,३२.३४ कमलानि च रक्तानि श्वेतान्यपि च शंभवे ॥ ७.२,३२.३५ कृष्णागुरूद्भवो धूपः सकर्पूराज्यगुग्गुलः ॥ ७.२,३२.३५ कपिलाघृतसंसिद्धा दीपाः कर्पूरवर्तिजाः ॥ ७.२,३२.३६ पञ्चब्रह्मषडंगानि पूज्यान्यावरणानि च ॥ ७.२,३२.३६ नैवेद्यः पयसा सिद्धः स गुडाज्यो महाचरुः ॥ ७.२,३२.३७ पाटलोत्पलपद्माद्यैः पानीयं च सुगन्धितम् ॥ ७.२,३२.३७ पञ्चसौगंधिकोपेतं तांबूलं च सुसंस्कृतम् ॥ ७.२,३२.३८ सुवर्णरत्नसिद्धानि भूषणानि विशेषतः ॥ ७.२,३२.३८ ५८७ वासांसि च विचित्राणि सूक्ष्माणि च नवानि च ॥ ७.२,३२.३९ दर्शनीयानि देयानि गानवाद्यादिभिस्सह ॥ ७.२,३२.३९ जपश्च मूलमंत्रस्य लक्षः परमसंख्यया ॥ ७.२,३२.४० एकावरा त्र्युत्तरा च पूजा फलवशादिह ॥ ७.२,३२.४० दशसंख्यावरो होमः प्रतिद्रव्यं शतोत्तरः ॥ ७.२,३२.४१ घोररूपश्शिवश्चिंत्यो मारणोच्चाटनादिषु ॥ ७.२,३२.४१ शिवलिंगे शिवाग्नौ च ह्यन्यासु प्रतिमासु च ॥ ७.२,३२.४२ चिंत्यस्सौम्यतनुश्शंभुः कार्ये शांतिकपौष्टिके ॥ ७.२,३२.४२ आयसौ स्रुक्स्रुवौ कार्यौ मारणादिषु कर्मसु ॥ ७.२,३२.४३ तदन्यत्र तु सौवर्णौ शांतिकाद्येषु कृत्स्नशः ॥ ७.२,३२.४३ दूर्वया घृतगोक्षीरमिश्रया मधुना तथा ॥ ७.२,३२.४४ चरुणा सघृतेनैव केवलं पयसापि वा ॥ ७.२,३२.४४ जुहुयान्मृत्युविजये तिलै रोगोपशांतये ॥ ७.२,३२.४५ घृतेन पयसा चैव कमलैर्वाथ केवलैः ॥ ७.२,३२.४५ समृद्धिकामो जुहुयान्महादारिद्र्यशांतये ॥ ७.२,३२.४६ जातीपुष्पेण वश्यार्थी जुहुयात्सघृतेन तु ॥ ७.२,३२.४६ घृतेन करवीरैश्च कुर्यादाकर्षणं द्विजः ॥ ७.२,३२.४७ तैलेनोच्चाटनं कुर्यात्स्तंभनं मधुना पुनः ॥ ७.२,३२.४७ स्तंभनं सर्षपेणापि लशुनेन तु पातनम् ॥ ७.२,३२.४८ ताडनं रुधिरेण स्यात्खरस्योष्ट्रस्य चोभयोः ॥ ७.२,३२.४८ मारणोच्चाटने कुर्याद्रोहिबीजैस्तिलान्वितैः ॥ ७.२,३२.४९ विद्वेषणं च तैलेन कुर्याल्लांगलकस्य तु ॥ ७.२,३२.४९ बंधनं रोहिबीजेन सेनास्तंभनमेव च ॥ ७.२,३२.५० रक्तसर्षपसंमिश्रैर्होमद्रव्यैरशेषतः ॥ ७.२,३२.५० हस्तयंत्रोद्भवैस्तैलैर्जुहुयादाभिचारिके ॥ ७.२,३२.५१ कटुकीतुषसंयुक्तैः कार्पासास्थिभिरेव च ॥ ७.२,३२.५१ सर्षपैस्तैलसंमिश्रैर्जुहुयादाभिचारिके ॥ ७.२,३२.५२ ज्वरोपशांतिदं क्षीरं सौभाग्यफलदं तथा ॥ ७.२,३२.५२ सर्वसिद्धिकरो होमः क्षौद्राज्यदधिभिर्युतैः ॥ ७.२,३२.५३ क्षीरेण तंदुलैश्चैव चरुणा केवलेन वा ॥ ७.२,३२.५३ शांतिकं पौष्टिकं वापि सप्तभिः समिदादिभिः ॥ ७.२,३२.५४ द्रव्यैर्विशेषतो होमे वश्यमाकर्षणं तथा ॥ ७.२,३२.५४ वश्यमाकर्षणं चैव श्रीपदं च विशेषतः ॥ ७.२,३२.५५ बिल्वपत्रैस्तु हवनं शत्रोर्विजयदं तथा ॥ ७.२,३२.५५ समिधः शांतिकार्येषु पालाशखदिरादिकाः ॥ ७.२,३२.५६ करवीरार्कजाः क्रौर्ये कण्टकिन्यश्च विग्रहे ॥ ७.२,३२.५६ प्रशांतः शांतिकं कुर्यात्पौष्टिकं च विशेषतः ॥ ७.२,३२.५७ निर्घृणः क्रुद्धचित्तस्तु प्रकुर्यादाभिचारिकम् ॥ ७.२,३२.५७ अतीवदुरवस्थायां प्रतीकारांतरं न चेत् ॥ ७.२,३२.५८ आततायिनमुद्दिश्य प्रकुर्यादाभिचारिकम् ॥ ७.२,३२.५८ स्वराष्ट्रपतिमुद्दिश्य न कुर्यादाभिचारिकम् ॥ ७.२,३२.५९ यद्यास्तिकस्सुधर्मिष्ठो मान्यो वा यो ऽपि कोपि वा ॥ ७.२,३२.५९ तमुद्दिश्यापि नो कुर्यादाततायिनमप्युत ॥ ७.२,३२.६० मनसा कर्मणा वाचा यो ऽपि कोपि शिवाश्रितः ॥ ७.२,३२.६० ५८८ स्वराष्ट्रपतिमुद्दिश्य शिवा श्रितमथापि वा ॥ ७.२,३२.६१ कृत्वाभिचारिकं कर्म सद्यो विनिपतेन्नरः ॥ ७.२,३२.६१ स्वराष्ट्रपालकं तस्माच्छिवभक्तं च कञ्चन ॥ ७.२,३२.६२ न हिंस्यादभिचाराद्यैर्यदीच्छेत्सुखमात्मनः ॥ ७.२,३२.६२ अन्यं कमपि चोद्दिश्य कृत्वा वै मारणादिकम् ॥ ७.२,३२.६३ पश्चात्तापेन संयुक्तः प्रायश्चित्तं समाचरेत् ॥ ७.२,३२.६३ बाणलिंगे ऽपि वा कुर्यान्निर्धनो धनवानपि ॥ ७.२,३२.६४ स्वयंभूते ऽथ वा लिंगे आर्षके वैदिके ऽपि वा ॥ ७.२,३२.६४ अभावे हेमरत्नानामशक्तौ च तदर्जने ॥ ७.२,३२.६५ मनसैवाचरेदेतद्द्रव्यैर्वा प्रतिरूपकैः ॥ ७.२,३२.६५ क्वचिदंशे तु यः शक्तस्त्वशक्तः क्वचिदंशके ॥ ७.२,३२.६६ सो ऽपि शक्त्यनुसारेण कुर्वंश्चेत्फलमृच्छति ॥ ७.२,३२.६६ कर्मण्यनुष्ठिते ऽप्यस्मिन्फलं यत्र न दृश्यते ॥ ७.२,३२.६७ द्विस्त्रिर्वावर्तयेत्तत्र सर्वथा दृश्यते फलम् ॥ ७.२,३२.६७ पूजोपयुक्तं यद्द्रव्यं हेमरत्नाद्यनुत्तमम् ॥ ७.२,३२.६८ तत्सर्वं गुरवे दद्याद्दक्षिणां च ततः पृथक् ॥ ७.२,३२.६८ स चेन्नेच्छति तत्सर्वं शिवाय विनिवेदयेत् ॥ ७.२,३२.६९ अथवा शिवभक्तेभ्यो नान्येभ्यस्तु प्रदीयते ॥ ७.२,३२.६९ यः स्वयं साधयेच्छक्त्या गुर्वादिनिरपेक्षया ॥ ७.२,३२.७० सो ऽप्येवमाचरेदत्र न गृह्णीयात्स्वयं पुनः ॥ ७.२,३२.७० स्वयं गृह्णाति यो लोभात्पूजांगद्रव्यमुत्तमम् ॥ ७.२,३२.७१ कांक्षितं न लभेन्मूढो नात्र कार्या विचारणा ॥ ७.२,३२.७१ अर्चितं यत्तु तल्लिंगं गृह्णीयाद्वा नवा स्वयम् ॥ ७.२,३२.७२ गृह्णीयाद्यदि तन्नित्यं स्वयं वान्यो ऽपि वार्चयेत् ॥ ७.२,३२.७२ यथोक्तमेव कर्मैतदाचरेद्यो ऽनपायतः ॥ ७.२,३२.७३ फलं व्यभिचरेन्नैवमित्यतः किं प्ररोचकम् ॥ ७.२,३२.७३ तथाप्युद्देशतो वक्ष्ये कर्मणः सिद्धिमुत्तमम् ॥ ७.२,३२.७४ अपि शत्रुभिराक्रांतो व्याधिभिर्वाप्यनेकशः ॥ ७.२,३२.७४ मृत्योरास्यगतश्चापि मुच्यते निरपायतः ॥ ७.२,३२.७५ पूजायते ऽतिकृपणो रिक्तो वैश्रवणायते ॥ ७.२,३२.७५ कामायते विरूपो ऽपि वृद्धो ऽपि तरुणायते ॥ ७.२,३२.७६ शत्रुर्मित्रायते सद्यो विरोधी किंकरायते ॥ ७.२,३२.७६ विषायते यदमृतं विषमप्यमृतायते ॥ ७.२,३२.७७ स्थलायते समुद्रो ऽपि स्थलमप्यर्णवायते ॥ ७.२,३२.७७ महीधरायते श्वभ्रं स च श्वभ्रायते गिरिः ॥ ७.२,३२.७८ पद्माकरायते वह्निः सरो वैश्वानरायते ॥ ७.२,३२.७८ वनायते यदुद्यानं तदुद्यानायते वनम् ॥ ७.२,३२.७९ सिंहायते मृगः क्षुद्रः सिंहः क्रीडामृगायते ॥ ७.२,३२.७९ स्त्रियो ऽभिसारिकायन्ते लक्ष्मीः सुचरितायते ॥ ७.२,३२.८० स्वैरप्रेष्यायते वाणी कीर्तिस्तु गणिकायते ॥ ७.२,३२.८० स्वैराचारायते मेधा वज्रसूचीयते मनः ॥ ७.२,३२.८१ महावातायते शक्तिर्बलं मत्तगजायते ॥ ७.२,३२.८१ ५८८ स्तम्भायते समुद्योगैः शत्रुपक्षे स्थिता क्रिया ॥ ७.२,३२.८२ शत्रुपक्षायते ऽरीणां सर्व एव सुहृज्जनः ॥ ७.२,३२.८२ शत्रवः कुणपायन्ते जीवन्तोपि सबांधवाः ॥ ७.२,३२.८३ आपन्नो ऽपि गतारिष्टः स्वयं खल्वमृतायते ॥ ७.२,३२.८३ रसाय नायते नित्यमपथ्यमपि सेवितम् ॥ ७.२,३२.८४ अनिशं क्रियमाणापि रतिस्त्वभिनवायते ॥ ७.२,३२.८४ अनागतादिकं सर्वं करस्थामलकायते ॥ ७.२,३२.८५ यादृच्छिकफलायन्ते सिद्धयो ऽप्यणिमादयः ॥ ७.२,३२.८५ बहुनात्र किमुक्तेन सर्वकामार्थसिद्धिषु ॥ ७.२,३२.८६ अस्मिन्कर्मणि निर्वृत्ते त्वनवाप्यं न विद्यते ॥ ७.२,३२.८६ ओं इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे ऐहिकसिद्धिकर्मवर्णनं नाम द्वात्रिंशो ऽध्यायः अध्याय ३३ उपमन्युरुवाच अतः परं प्रवक्ष्यामि केवलामुष्मिकं विधिम् ॥ ७.२,३३.१ नैतेन सदृशं किंचित्कर्मास्ति भुवनत्रये ॥ ७.२,३३.१ पुण्यातिशयसंयुक्तः सर्वैर्देवैरनुष्ठितः ॥ ७.२,३३.२ ब्रह्मणा विष्णुना चैव रुद्रेण च विशेषतः ॥ ७.२,३३.२ इंद्रादिलोकपारैश्च सूर्याद्यैर्नवभिर्ग्रहैः ॥ ७.२,३३.३ विश्वामित्रवसिष्ठाद्यैर्ब्रह्मविद्भिर्महर्षिभिः ॥ ७.२,३३.३ श्वेतागस्त्यदधीचाद्यैरस्माभिश्च शिवाश्रितैः ॥ ७.२,३३.४ नंदीश्वरमहाकालभृंगीशाद्यैर्गणेश्वरैः ॥ ७.२,३३.४ पातालवासिभिर्दैत्यैः शेषाद्यैश्च महोरगैः ॥ ७.२,३३.५ सिद्धैर्यक्षैश्च गंधर्वै रक्षोभूतपिशाचकैः ॥ ७.२,३३.५ स्वंस्वं पदमनुप्राप्तं सर्वैरयमनुष्ठितः ॥ ७.२,३३.६ अनेन विधिना सर्वे देवा देवत्वमागताः ॥ ७.२,३३.६ ब्रह्मा ब्रह्मत्वमापन्नो विष्णुर्विष्णुत्वमागतः ॥ ७.२,३३.७ रुद्रो रुद्रत्वमापन्न इंद्रश्चेन्द्रत्वमागतः ॥ ७.२,३३.७ गणेशश्च गणेशत्वमनेन विधिना गतः ॥ ७.२,३३.८ सितचंदनतोयेन लिंगं स्नाप्य शिवं शिवाम् ॥ ७.२,३३.८ श्वेतैर्विकसितैः पद्मैः संपूज्य प्रणिपत्य च ॥ ७.२,३३.८ तत्र पद्मासनं रम्यं कृत्वा लक्षणसंयुतम् ॥ ७.२,३३.९ विभवे सति हेमाद्यै रत्नाद्यैर्वा स्वशक्तितः ॥ ७.२,३३.९ मध्ये केसरजालास्य स्थाप्य लिंगं कनीयसम् ॥ ७.२,३३.१० अंगुष्ठप्रतिमं रम्यं सर्वगन्धमयं शुभम् ॥ ७.२,३३.१० दक्षिणे स्थापयित्वा तु बिल्वपत्रैः समर्चयेत् ॥ ७.२,३३.११ अगुरुं दक्षिणे पार्श्वे पश्चिमे तु मनःशिलाम् ॥ ७.२,३३.११ उत्तरे चंदनं दद्याद्धरितालं तु पूर्वतः ॥ ७.२,३३.१२ सुगन्धैः कुसुमै रम्यैर्विचित्रैश्चापि पूजयेत् ॥ ७.२,३३.१२ धूपं कृष्णागुरुं दद्यात्सर्वतश्च सगुग्गुलम् ॥ ७.२,३३.१३ वासांसि चातिसूक्ष्माणि विकाशानि निवेदयेत् ॥ ७.२,३३.१३ पायसं घृतसंमिश्रं घृतदीपांश्च दापयेत् ॥ ७.२,३३.१४ सर्वं निवेद्य मन्त्रेण ततो गच्छेत्प्रदक्षिणाम् ॥ ७.२,३३.१४ प्रणम्य भक्त्या देवेशं स्तुत्वा चान्ते क्षमापयेत् ॥ ७.२,३३.१५ सर्वोपहारसंमिश्रं ततो लिंगं निवेदयेत् ॥ ७.२,३३.१५ शिवाय शिवमन्त्रेण दक्षिणामूर्तिमाश्रितः ॥ ७.२,३३.१६ एवं यो ऽर्चयते नित्यं पञ्चगन्धमयं शुभम् ॥ ७.२,३३.१६ ५८९ सर्वपापविनिर्मुक्तः शिवलोके महीयते ॥ ७.२,३३.१७ एतद्व्रतोत्तमं गुह्यं शिवलिंगमहाव्रतम् ॥ ७.२,३३.१७ भक्तस्य ते समाख्यातं न देयं यस्य कस्यचित् ॥ ७.२,३३.१८ देयं च शिवभक्तेभ्यः शिवेन कथितं पुरा ॥ ७.२,३३.१८ ओं इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे आमुष्मिककर्मविधिवर्णनं नाम त्रयस्त्रिंशो ऽध्यायः अध्याय ३४ उपमन्युरुवाच नित्यनैमित्तिकात्काम्याद्या सिद्धिरिह कीर्तिता ॥ ७.२,३४.१ सा सर्वा लभ्येत सद्यो लिंगबेरप्रतिष्ठया ॥ ७.२,३४.१ सर्वो लिंगमयो लोकस्सर्वं लिंगे प्रतिष्ठितम् ॥ ७.२,३४.२ तस्मात्प्रतिष्ठिते लिंगे भवेत्सर्वं पतिष्ठितम् ॥ ७.२,३४.२ ब्रह्मणा विष्णुना वापि रुद्रेणान्येन केन वा ॥ ७.२,३४.३ लिंगप्रतिष्ठामुत्सृज्य क्रियते स्वपदस्थितिः ॥ ७.२,३४.३ किमन्यदिह वक्तव्यं प्रतिष्ठां प्रति कारणम् ॥ ७.२,३४.४ पर्तिष्ठितं शिवेनापि लिंगं वैश्वेश्वरं यतः ॥ ७.२,३४.४ तस्मात्सर्वप्रयत्नेन परत्रेह च शर्मणे ॥ ७.२,३४.५ स्थापयेत्परमेशस्य लिंगं बेरमथापि वा ॥ ७.२,३४.५ श्रीकृष्ण उवाच किमिदं लिंगमाख्यातं कथं लिंगी महेश्वरः ॥ ७.२,३४.६ कथं च लिंगभावो ऽस्य कस्मादस्मिञ्छिवो ऽर्च्यते ॥ ७.२,३४.६ उपमन्युरुवाच अव्यक्तं लिंगमाख्यातं त्रिगुणप्रभवाप्ययम् ॥ ७.२,३४.७ अनाद्यनंतं विश्वस्य यदुपादानकारणम् ॥ ७.२,३४.७ तदेव मूलप्रकृतिर्माया च गगनात्मिका ॥ ७.२,३४.८ तत एव समुत्पन्नं जगदेतच्चराचरम् ॥ ७.२,३४.८ अशुद्धं चैव शुद्धं यच्छुद्धाशुद्धं च तत्त्रिधा ॥ ७.२,३४.९ ततः शिवो महेशश्च रुद्रो विष्णुः पितामहः ॥ ७.२,३४.९ भूतानि चेन्द्रियैर्जाता लीयन्ते ऽत्र शिवाज्ञया ॥ ७.२,३४.१० अत एव शिवो लिंगो लिंगमाज्ञापयेद्यतः ॥ ७.२,३४.१० यतो न तदनाज्ञातं कार्याय प्रभवेत्स्वतः ॥ ७.२,३४.११ ततो जातस्य विश्वस्य तत्रैव विलयो यतः ॥ ७.२,३४.११ अनेन लिंगतां तस्य भवेन्नान्येन केनचित् ॥ ७.२,३४.१२ लिंगं च शिवयोर्देहस्ताभ्यां यस्मादधिष्ठितम् ॥ ७.२,३४.१२ अतस्तत्र शिवः साम्बो नित्यमेव समर्चयेत् ॥ ७.२,३४.१३ लिंगवेदी महादेवी लिंगं साक्षान्महेश्वरः ॥ ७.२,३४.१३ तयोः संपूजनादेव स च सा च समर्चितौ ॥ ७.२,३४.१४ न तयोर्लिंगदेहत्वं विद्यते परमार्थतः ॥ ७.२,३४.१४ यतस्त्वेतौ विशुद्धौ तौ देहस्तदुपचारतः ॥ ७.२,३४.१५ तदेव परमा शक्तिः शिवस्य परमात्मनः ॥ ७.२,३४.१५ शक्तिराज्ञां यदादत्ते प्रसूते तच्चराचरम् ॥ ७.२,३४.१६ न तस्य महिमा शक्यो वक्तुं वर्षशतैरपि ॥ ७.२,३४.१६ येनादौ मोहितौ स्यातां ब्रह्मनारायणावपि ॥ ७.२,३४.१७ पुरा त्रिभुवनस्यास्य प्रलये समुपस्थिते ॥ ७.२,३४.१७ वारिशय्यागतो विष्णुः सुष्वापानाकुलः सुखम् ॥ ७.२,३४.१८ ५८९ यदृच्छया गतस्तत्र ब्रह्मा लोकपितामहः ॥ ७.२,३४.१८ ददर्श पुण्डरीकाक्षं स्वपन्तं तमनाकुलम् ॥ ७.२,३४.१९ मायया मोहितः शम्भोर्विष्णुमाह पितामहः ॥ ७.२,३४.१९ कस्त्वं वदेत्यमर्षेण प्रहृत्योत्थाप्य माधवम् ॥ ७.२,३४.२० स तु हस्तप्रहारेण तीव्रेणाभिहतः क्षणात् ॥ ७.२,३४.२० प्रबुद्धोत्थाय शयनाद्ददर्श परमेष्ठिनम् ॥ ७.२,३४.२१ तमाह चांतस्संक्रुद्धः स्वयमक्रुद्धवद्धरिः ॥ ७.२,३४.२१ कुतस्त्वमागतो वत्स कस्मात्त्वं व्याकुलो वद ॥ ७.२,३४.२२ इति विष्णुवचः श्रुत्वा प्रभुत्वगुणसूचकम् ॥ ७.२,३४.२२ रजसा बद्धवैरस्तं ब्रह्मा पुनरभाषत ॥ ७.२,३४.२३ वत्सेति मां कुतो ब्रूषे गुरुः शिष्यमिवात्मनः ॥ ७.२,३४.२३ मां न जानासि किं नाथं प्रपञ्चो यस्य मे कृतिः ॥ ७.२,३४.२४ त्रिधात्मानं विभज्येदं सृष्ट्वाथ परिपाल्यते ॥ ७.२,३४.२४ संहरामि नमे कश्चित्स्रष्टा जगति विद्यते ॥ ७.२,३४.२५ इत्युक्ते सति सो ऽप्याह ब्रह्माणं विष्णुरव्ययः ॥ ७.२,३४.२५ अहमेवादिकर्तास्य हर्ता च परिपालकः ॥ ७.२,३४.२६ भवानपि ममैवांगादवतीर्णः पुराव्ययात् ॥ ७.२,३४.२६ मन्नियोगात्त्वमात्मानं त्रिधा कृत्वा जगत्त्रयम् ॥ ७.२,३४.२७ सृजस्यवसि चांते तत्पुनः प्रतिसृजस्यपि ॥ ७.२,३४.२७ विस्मृतोसि जगन्नाथं नारायणमनामयम् ॥ ७.२,३४.२८ तवापि जनकं साक्षान्मामेवमवमन्यसे ॥ ७.२,३४.२८ तवापराधो नास्त्यत्र भ्रांतोसि मम मायया ॥ ७.२,३४.२९ मत्प्रसादादियं भ्रांतिरपैष्यति तवाचिरात् ॥ ७.२,३४.२९ शृणु सत्यं चतुर्वक्त्र सर्वदेवेश्वरो ह्यहम् ॥ ७.२,३४.३० कर्ता भर्ता च हर्ता च न मयास्ति समो विभुः ॥ ७.२,३४.३० एवमेव विवादोभूद्ब्रह्मविष्ण्वोः परस्परम् ॥ ७.२,३४.३१ अभवच्च महायुद्धं भैरवं रोमहर्षणम् ॥ ७.२,३४.३१ मुष्टिभिर्न्निघ्नतोस्तीव्रं रजसा बद्धवैरयोः ॥ ७.२,३४.३२ तयोर्दर्पापहाराय प्रबोधाय च देवयोः ॥ ७.२,३४.३२ मध्ये समाविरभवल्लिंगमैश्वरमद्भुतम् ॥ ७.२,३४.३३ ज्वालामालासहस्राढ्यमप्रमेयमनौपमम् ॥ ७.२,३४.३३ क्षयवृद्धिविनिर्मुक्तमादिमध्यांतवर्जितम् ॥ ७.२,३४.३४ तस्य ज्वालासहस्रेण ब्रह्मविष्णू विमोहितौ ॥ ७.२,३४.३४ विसृज्य युद्धं किं त्वेतदित्यचिंतयतां तदा ॥ ७.२,३४.३५ न तयोस्तस्य याथात्म्यं प्रबुद्धमभवद्यदा ॥ ७.२,३४.३५ तदा समुद्यतौ स्यातां तस्याद्यंतं परीक्षितुम् ॥ ७.२,३४.३६ तत्र हंसाकृतिर्ब्रह्मा विश्वतः पक्षसंयुतः ॥ ७.२,३४.३७ मनोनिलजवो भूत्वा गतस्तूर्ध्वं प्रयत्नतः ॥ ७.२,३४.३७ नारायणोपि विश्वात्मा लीलाञ्जनचयोपमम् ॥ ७.२,३४.३८ वाराहममितं रूपमस्थाय गतवानधः ॥ ७.२,३४.३८ एवं वर्षसहस्रं तु त्वरन् विष्णुरधोगतः ॥ ७.२,३४.३९ नापश्यदल्पमप्यस्य मूलं लिंगस्य सूकरः ॥ ७.२,३४.३९ तावत्कालं गतश्चोर्ध्वं तस्यांतं ज्ञातुमिच्छया ॥ ७.२,३४.४० श्रांतोत्यंतमदृष्ट्वांतं पापताधः पितामहः ॥ ७.२,३४.४० ५९० तथैव भगवान् विष्णुः श्रांतः संविग्नलोचनः ॥ ७.२,३४.४१ क्लेशेन महता तूर्णमधस्तादुत्थितो ऽभवत् ॥ ७.२,३४.४१ समागतावथान्योन्यं विस्मयस्मेरवीक्षणौ ॥ ७.२,३४.४२ मायया मोहितौ शंभोः कृत्याकृत्यं न जग्मतुः ॥ ७.२,३४.४२ पृष्ठतः पार्श्वतस्तस्य चाग्रतश्च स्थितावुभौ ॥ ७.२,३४.४३ प्रणिपत्य किमात्मेदमित्यचिंतयतां तदा ॥ ७.२,३४.४३ ओं इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे हरिविधिमोहवर्णनं नाम चतुस्त्रिंशो ऽध्यायः अध्याय ३५ उपमन्युरुवाच अथाविरभवत्तत्र सनादं शब्दलक्षणम् ॥ ७.२,३५.१ ओमित्येकाक्षरं ब्रह्म ब्रह्मणः प्रतिपादकम् ॥ ७.२,३५.१ तदप्यविदितं तावद्ब्रह्मणा विष्णुना तथा ॥ ७.२,३५.२ रजसा तमसा चित्तं तयोर्यस्मात्तिरस्कृतम् ॥ ७.२,३५.२ तदा विभक्तमभवच्चतुर्धैकं तदक्षरम् ॥ ७.२,३५.३ अ उ मेति त्रिमात्राभिः परस्ताच्चार्धमात्रया ॥ ७.२,३५.३ तत्राकारः श्रितो भागे ज्वलल्लिंगस्य दक्षिणे ॥ ७.२,३५.४ उकारश्चोत्तरे तद्वन्मकारस्तस्य मध्यतः ॥ ७.२,३५.४ अर्धमात्रात्मको नादः श्रूयते लिंगमूर्धनि ॥ ७.२,३५.५ विभक्ते ऽपि तदा तस्मिन्प्रणवे परमाक्षरे ॥ ७.२,३५.५ विभावार्थं च तौ देवौ न किंचिदवजग्मतुः ॥ ७.२,३५.६ वेदात्मना तदाव्यक्तः प्रणवो विकृतिं गतः ॥ ७.२,३५.६ तत्राकारो ऋगभवदुकारो यजुरव्ययः ॥ ७.२,३५.७ मकारस्साम संजातो नादस्त्वाथर्वणी श्रुतिः ॥ ७.२,३५.७ ऋगयं स्थापयामास समासात्त्वर्थमात्मनः ॥ ७.२,३५.८ रजोगुणेषु ब्रह्माणं मूर्तिष्वाद्यं क्रियास्वपि ॥ ७.२,३५.८ सृष्टिं लोकेषु पृथिवीं तत्त्वेष्वात्मानमव्ययम् ॥ ७.२,३५.९ कलाध्वनि निवृत्तिं च सद्यं ब्रह्मसु पञ्चसु ॥ ७.२,३५.९ लिंगभागेष्वधोभागं बीजाख्यं कारणत्रये ॥ ७.२,३५.१० चतुःषष्टिगुणैश्वर्यं बौद्धं यदणिमादिषु ॥ ७.२,३५.१० तदित्थमर्थैर्दशभिर्व्याप्तं विश्वमृचा जगत् ॥ ७.२,३५.११ अथोपस्थापयामास स्वार्थं दशविधं यजुः ॥ ७.२,३५.११ सत्त्वं गुणेषु विष्णुं च मूर्तिष्वाद्यं क्रियास्वपि ॥ ७.२,३५.१२ स्थितिं लोकेष्वंतरिक्षं विद्यां तत्त्वेषु च त्रिषु ॥ ७.२,३५.१२ कलाध्वसु प्रतिष्ठां च वामं ब्रह्मसु पञ्चसु ॥ ७.२,३५.१३ मध्यं तु लिंगभागेषु योनिं च त्रिषु हेतुषु ॥ ७.२,३५.१३ प्राकृतं च यथैश्वर्यं तस्माद्विश्वं यजुर्मयम् ॥ ७.२,३५.१४ ततोपस्थापयामास सामार्थं दशधात्मनः ॥ ७.२,३५.१४ तमोगुणेष्वथो रुद्रं मूर्तिष्वाद्यं क्रियासु च ॥ ७.२,३५.१५ संहृतिं त्रिषु लोकेषु तत्त्वेषु शिवमुत्तमम् ॥ ७.२,३५.१५ विद्याकलास्वघोरं च तथा ब्रह्मसु पञ्चसु ॥ ७.२,३५.१६ लिंगभागेषु पीठोर्ध्वं बीजिनं कारणत्रये ॥ ७.२,३५.१६ पौरुषं च तथैश्वर्यमित्थं साम्ना ततं जगत् ॥ ७.२,३५.१७ अथाथर्वाह नैर्गुण्यमर्थं प्रथममात्मनः ॥ ७.२,३५.१७ ततो महेश्वरं साक्षान्मूर्तिष्वपि सदाशिवम् ॥ ७.२,३५.१८ ५९० क्रियासु निष्क्रियस्यापि शिवस्य परमात्मनः ॥ ७.२,३५.१८ भूतानुग्रहणं चैव मुच्यंते येन जंतवः ॥ ७.२,३५.१९ लोकेष्वपि यतो वाचो निवृत्ता मनसा सह ॥ ७.२,३५.१९ तदूर्ध्वमुन्मना लोकात्सोमलोकमलौकिकम् ॥ ७.२,३५.२० सोमस्सहोमया यत्र नित्यं निवसतीश्वरः ॥ ७.२,३५.२० तदूर्ध्वमुन्मना लोकाद्यं प्राप्तो न निवर्तते ॥ ७.२,३५.२१ शांतिं च शांत्यतीतां च व्यापिकां चै कलास्वपि ॥ ७.२,३५.२१ तत्पूरुषं तथेशानं ब्रह्म ब्रह्मसु पञ्चसु ॥ ७.२,३५.२२ मूर्धानमपि लिंगस्य नादभागेष्वनुत्तमम् ॥ ७.२,३५.२२ यत्रावाह्य समाराध्यः केवलो निष्कलः शिवः ॥ ७.२,३५.२३ तत्तेष्वपि तदा बिंदोर्नादाच्छक्तेस्ततः परात् ॥ ७.२,३५.२३ तत्त्वादपि परं तत्त्वमतत्त्वं परमार्थतः ॥ ७.२,३५.२४ कारणेषु त्रयातीतान्मायाविक्षोभकारणात् ॥ ७.२,३५.२४ अनंताच्छुद्धविद्यायाः परस्ताच्च महेश्वरात् ॥ ७.२,३५.२५ सर्वविद्येश्वराधीशान्न पराच्च सदाशिवात् ॥ ७.२,३५.२५ सर्वमंत्रतनोर्देवाच्छक्तित्रयसमन्वितात् ॥ ७.२,३५.२६ पञ्चवक्त्राद्दशभुजात्साक्षात्सकलनिष्कलात् ॥ ७.२,३५.२६ तस्मादपि पराद्बिंदोरर्धेदोश्च ततः परात् ॥ ७.२,३५.२७ ततः परान्निशाधीशान्नादाख्याच्च ततः परात् ॥ ७.२,३५.२७ ततः परात्सुषुम्नेशाद्ब्रह्मरंध्रेश्वरादपि ॥ ७.२,३५.२८ ततः परस्माच्छक्तेश्च परस्ताच्छिवतत्त्वतः ॥ ७.२,३५.२८ परमं कारणं साक्षात्स्वयं निष्कारणं शिवम् ॥ ७.२,३५.२९ कारणानां च धातारं ध्यातारां ध्येयमव्ययम् ॥ ७.२,३५.२९ परमाकाशमध्यस्थं परमात्मोपरि स्थितं ॥ ७.२,३५.३० सर्वैश्वर्येण संपन्नं सर्वेश्वरमनीश्वरम् ॥ ७.२,३५.३० ऐश्वर्याच्चापि मायेयादशुद्धान्मानुषादिकात् ॥ ७.२,३५.३१ अपराच्च परात्त्याज्यादधिशुद्धाध्वगोचरात् ॥ ७.२,३५.३१ तत्पराच्छुद्धविद्याद्यादुन्मनांतात्परात्परात् ॥ ७.२,३५.३२ परमं परमैश्वर्यमुन्मनाद्यमनादि च ॥ ७.२,३५.३२ अपारमपराधीनं निरस्तातिशयं स्थिरम् ॥ ७.२,३५.३३ इत्थमर्थैर्दशविधैरियमाथर्वणी श्रुतिः ॥ ७.२,३५.३३ यस्माद्गरीयसी तस्माद्विश्वं व्याप्तमथर्वणात् ॥ ७.२,३५.३४ ऋग्वेदः पुनराहेदं जाग्रद्रूपं मयोच्यते ॥ ७.२,३५.३४ येनाहमात्मतत्त्वस्य नित्यमस्म्यभिधायकः ॥ ७.२,३५.३५ यजुर्वेदो ऽवदत्तद्वत्स्वप्नावस्था मयोच्यते ॥ ७.२,३५.३५ भोग्यात्मना परिणता विद्यावेद्या यतो मयि ॥ ७.२,३५.३६ साम चाह सुषुप्त्याख्यमेवं सर्वं मयोच्यते ॥ ७.२,३५.३६ ममार्थेन शिवेनेदं तामसेनाभिधीयते ॥ ७.२,३५.३७ अथर्वाह तुरायाख्यं तुरीयातीतमेव च ॥ ७.२,३५.३७ मयाभिधीयते तस्मादध्वातीतपदोस्म्यहम् ॥ ७.२,३५.३८ अध्वात्मकं तु त्रितयं शिवविद्यात्मसंज्ञितम् ॥ ७.२,३५.३८ तत्त्रैगुण्यं त्रयीसाध्यं संशोध्यं च पदैषिणा ॥ ७.२,३५.३९ ५९१ अध्वातीतं तुरीयाख्यं निर्वाणं परमं पदम् ॥ ७.२,३५.३९ तदतीतं च नैर्गुण्यादध्वनोस्य विशोधकम् ॥ ७.२,३५.४० द्वयोः प्रमापको नादो नदांतश्च मदात्मकः ॥ ७.२,३५.४० तस्मान्ममार्थस्वातंत्र्यात्प्रधानः परमेश्वरः ॥ ७.२,३५.४१ यदस्ति वस्तु तत्सर्वं गुणप्रधान्ययोगतः ॥ ७.२,३५.४१ समस्तं व्यस्तमपि च प्रणवार्थं प्रचक्षते ॥ ७.२,३५.४२ सवार्थवाचकं तस्मादेकं ब्रह्मैतदक्षरम् ॥ ७.२,३५.४२ तेनोमिति जगत्कृत्स्नं कुरुते प्रथमं शिवः ॥ ७.२,३५.४३ शिवो हि प्रणवो ह्येष प्रणवो हि शिवः स्मृतः ॥ ७.२,३५.४३ वाच्यवाचकयोर्भेदो नात्यंतं विद्यते यतः ॥ ७.२,३५.४४ चिंतया रहितो रुद्रो वाचोयन्मनसा सह ॥ ७.२,३५.४४ अप्राप्य तन्निवर्तंते वाच्यस्त्वेकाक्षरेण सः ॥ ७.२,३५.४५ एकाक्षरादकाराख्यादात्मा ब्रह्माभिधीयते ॥ ७.२,३५.४५ एकाक्षरादुकाराख्याद्द्विधा विष्णुरुदीर्यते ॥ ७.२,३५.४६ एकाक्षरान्मकाराख्याच्छिवो रुद्र उदाहृतः ॥ ७.२,३५.४६ दक्षिणांगान्महेशस्य जातो ब्रह्मात्मसंज्ञिकः ॥ ७.२,३५.४७ वामांगादभवद्विष्णुस्ततो विद्येति संज्ञितः ॥ ७.२,३५.४७ हृदयान्नीलरुद्रो भूच्छिवस्य शिवसंज्ञिकः ॥ ७.२,३५.४८ सृष्टेः प्रवर्तको ब्रह्मा स्थितेर्विष्णुर्विमोहकः ॥ ७.२,३५.४८ संहारस्य तथा रुद्रस्तयोर्नित्यं नियामकः ॥ ७.२,३५.४९ तस्मात्त्रयस्ते कथ्यंते जगतः कारणानि च ॥ ७.२,३५.५० कारणत्रयहेतुश्च शिवः परमकारणम् ॥ ७.२,३५.५० अर्थमेतमविज्ञाय रजसा बद्धवैरयोः ॥ ७.२,३५.५१ युवयोः प्रतिबोधाय मध्ये लिंगमुपस्थितम् ॥ ७.२,३५.५१ एवमोमिति मां प्राहुर्यदिहोक्तमथर्वणा ॥ ७.२,३५.५२ ऋचो यजूंषि सामानि शाखाश्चान्याः सहस्रशः ॥ ७.२,३५.५२ वेदेष्वेवं स्वयं वक्त्रैर्व्यक्तमित्यवदत्स्वपि ॥ ७.२,३५.५३ स्वप्नानुभूतमिव तत्ताभ्यां नाध्यवसीयते ॥ ७.२,३५.५३ तयोस्तत्र प्रबोधाय तमोपनयनाय च ॥ ७.२,३५.५४ लिंगेपि मुद्रितं सर्वं यथा वेदैरुदाहृतम् ॥ ७.२,३५.५४ तद्दृष्ट्वा मुद्रितं लिंगे प्रसादाल्लिंगिनस्तदा ॥ ७.२,३५.५५ प्रशांतमनसौ देवौ प्रबुद्धौ संबभूवतुः ॥ ७.२,३५.५५ उत्पत्तिं विलयं चैव यथात्म्यं च षडध्वनाम् ॥ ७.२,३५.५६ ततः परतरं धाम धामवंतं च पूरुषम् ॥ ७.२,३५.५६ निरुत्तरतरं ब्रह्म निष्कलं शिवमीश्वरम् ॥ ७.२,३५.५७ पशुपाशमयस्यास्य प्रपञ्चस्य सदा पतिम् ॥ ७.२,३५.५७ अकुतोभयमत्यंतमवृद्धिक्षयमव्ययम् ॥ ७.२,३५.५८ वाह्यमाभ्यंतरं व्याप्तं वाह्याभ्यंतरवर्जितम् ॥ ७.२,३५.५८ निरस्तातिशयं शश्वद्विश्वलोकविलक्षणम् ॥ ७.२,३५.५९ अलक्षणमनिर्देश्यमवाङ्मनसगोचरम् ॥ ७.२,३५.५९ प्रकाशैकरसं शांतं प्रसन्नं सततोदितम् ॥ ७.२,३५.६० सर्वकल्याणनिलयं शक्त्या तादृशयान्वितम् ॥ ७.२,३५.६० ज्ञात्वा देवं विरूपाक्षं ब्रह्मनारायणौ तदा ॥ ७.२,३५.६१ रचयित्वांजलिं मूर्ध्नि भीतौ तौ वाचमूचतुः ॥ ७.२,३५.६१ ५९१ ब्रह्मोवाच अज्ञो वाहमभिज्ञो वा त्वयादौ देव निर्मितः ॥ ७.२,३५.६२ ईदृशीं भ्रांतिमापन्न इति को ऽत्रापराध्यति ॥ ७.२,३५.६२ आस्तां ममेदमज्ञानं त्वयि सन्निहते प्रभो ॥ ७.२,३५.६३ निर्भयः को ऽभिभाषेत कृत्यं स्वस्य परस्य वा ॥ ७.२,३५.६३ आवयोर्देवदेवस्य विवादो ऽपि हि शोभनः ॥ ७.२,३५.६४ पादप्रणामफलदो नाथस्य भवतो यतः ॥ ७.२,३५.६४ विष्णुरुवाच स्तोतुं देव न वागस्ति महिम्नः सदृशी तव ॥ ७.२,३५.६५ प्रभोरग्रे विधेयानां तूष्णींभावो व्यतिक्रमः ॥ ७.२,३५.६५ किमत्र संघटेत्कृत्यमित्येवावसरोचितम् ॥ ७.२,३५.६६ अजानन्नपि यत्किंचित्प्रलप्य त्वां नतो ऽस्म्यहम् ॥ ७.२,३५.६६ कारणत्वं त्वया दत्तं विस्मृतं तव मायया ॥ ७.२,३५.६७ मोहितो ऽहंकृतश्चापि पुनरेवास्मि शासितः ॥ ७.२,३५.६७ विज्ञापितैः किं बहुभिर्भीतोस्मि भृशमीश्वर ॥ ७.२,३५.६८ यतो ऽहमपरिच्छेद्यं त्वां परिच्छेत्तुमुद्यतः ॥ ७.२,३५.६८ त्वामुशंति महादेवं भीतानामार्तिनाशनम् ॥ ७.२,३५.६९ अतो व्यतिक्रमं मे ऽद्य क्षंतुमर्हसि शंकर ॥ ७.२,३५.६९ इति विज्ञापितस्ताभ्यामीश्वराभ्यां महेश्वरः ॥ ७.२,३५.७० प्रीतो ऽनुगृह्य तौ देवौ स्मितपूर्वमभाषत ॥ ७.२,३५.७० ईश्वर उवाच वत्सवत्स विधे विष्णो मायया मम मोहितौ ॥ ७.२,३५.७१ युवां प्रभुत्वे ऽहंकृत्य बुद्धवैरो परस्परम् ॥ ७.२,३५.७१ विवादं युद्धपर्यंतं कृत्वा नोपरतौ किल ॥ ७.२,३५.७२ ततश्च्छिन्ना प्रजासृष्टिर्जगत्कारणभूतयोः ॥ ७.२,३५.७२ अज्ञानमानप्रभवाद्वैमत्याद्युवयोरपि ॥ ७.२,३५.७३ तन्निवर्तयितुं युष्मद्दर्पमोहौ मयैव तु ॥ ७.२,३५.७३ एवं निवारितावद्यलिंगाविर्भावलीलया ॥ ७.२,३५.७४ तस्माद्भूयो विवादं च व्रीडां चोत्सृज्य कृत्स्नशः ॥ ७.२,३५.७४ यथास्वं कर्म कुर्यातां भवंतौ वीतमत्सरौ ॥ ७.२,३५.७५ पुरा ममाज्ञया सार्धं समस्तज्ञानसंहिताः ॥ ७.२,३५.७५ युवाभ्यां हि मया दत्ता कारणत्वप्रसिद्धये ॥ ७.२,३५.७६ मंत्ररत्नं च सूत्राख्यं पञ्चाक्षरमयं परम् ॥ ७.२,३५.७६ मयोपदिष्टं सर्वं तद्युवयोरद्य विस्मृतम् ॥ ७.२,३५.७७ ददामि च पुनः सर्वं यथापूर्वं ममाज्ञया ॥ ७.२,३५.७७ यतो विना युवां तेन न क्षमौ सृष्टिरक्षणे ॥ ७.२,३५.७८ एवमुक्त्वा महादेवो नारायणपितामहौ ॥ ७.२,३५.७८ मंत्रराजं ददौ ताभ्यां ज्ञानसंहितया सह ॥ ७.२,३५.७९ तौ लब्ध्वा महतीं दिव्यामाज्ञां माहेश्वरीं पराम् ॥ ७.२,३५.७९ महार्थं मंत्ररत्नं च तथैव सकलाः कलाः ॥ ७.२,३५.८० दंडवत्प्रणतिं कृत्वा देवदेवस्य पादयोः ॥ ७.२,३५.८० अतिष्ठतां वीतभयावानंदास्तिमितौ तदा ॥ ७.२,३५.८१ एतस्मिन्नंतरे चित्रमिंद्रजालवदैश्वरम् ॥ ७.२,३५.८१ लिंगं क्वापि तिरोभूतं न ताभ्यामुपलभ्यते ॥ ७.२,३५.८२ ततो विलप्य हाहेति सद्यःप्रणयभंगतः ॥ ७.२,३५.८२ किमसत्यमिदं वृत्तमिति चोक्त्वा परस्परम् ॥ ७.२,३५.८३ अचिंत्यवैभवं शंभोर्विचिंत्य च गतव्यथौ ॥ ७.२,३५.८३ ५९२ अभ्युपेत्य परां मैत्रीमालिंग्य च परस्परम् ॥ ७.२,३५.८४ जगद्व्यापारमुद्दिश्य जग्मतुर्देवपुंगवौ ॥ ७.२,३५.८४ ततः प्रभृति शक्राद्याः सर्व एव सुरासुराः ॥ ७.२,३५.८५ ऋषयश्च नरा नागा नार्यश्चापि विधानतः ॥ ७.२,३५.८५ लिंगप्रतिष्ठा कुर्वंति लिंगे तं पूजयंति च ॥ ७.२,३५.८५ ओं इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे हरिविधिमोहनिवारणं नाम पञ्चत्रिंशो ऽध्यायः अध्याय ३६ श्रीकृष्ण उवाच भगवञ्छ्रोतुमिच्छामि प्रतिष्ठाविधिमुत्तमम् ॥ ७.२,३६.१ लिंगस्यापि च बेरस्य शिवेन विहितं यथा ॥ ७.२,३६.१ उपमन्युरुवाच अनात्मप्रतिकूले तु दिवसे शुक्लपक्षके ॥ ७.२,३६.२ शिवशास्त्रोक्तमार्गेण कुर्याल्लिंगं प्रमाणवत् ॥ ७.२,३६.२ स्वीकृत्याथ शुभस्थानं भूपरीक्षां विधाय च ॥ ७.२,३६.३ दशोपचारान्कुर्वीत लक्षणोद्धारपूर्वकान् ॥ ७.२,३६.३ तेषां दशोपचाराणां पूर्वं पूज्य १ विनायकम् ॥ ७.२,३६.४ स्थानशुद्ध्यादिकं कृत्वालिंगं स्नानालयं नयेत् ॥ ७.२,३६.४ शलाकया कांचनया २ कुंकुमादिरसाक्तया ॥ ७.२,३६.५ लक्षितं लक्षणं शिल्पशास्त्रेण विलिखेत्ततः ॥ ७.२,३६.५ अष्टमृत्सलिलैर्वाथ पञ्चमृत्सलिलैस्तथा ॥ ७.२,३६.६ लिङ्गं पिंडिकया सार्धं पञ्चगव्यैश्च शोधयेत् ॥ ७.२,३६.६ सवेदिकं समभ्यर्च्य दिव्याद्यं तु जलाशयम् ॥ ७.२,३६.७ नीत्वाधिवासयेत्तत्र लिंगं पिंडिकया सह ॥ ७.२,३६.७ अधिवासालये शुद्धे सर्वशोभासमन्विते ॥ ७.२,३६.८ सतोरणे सावरणे दर्भमालासमावृते ॥ ७.२,३६.८ दिग्गजाष्टकसंपन्ने दिक्पालाष्टघटान्विते ॥ ७.२,३६.९ अष्टमंगलकैर्युक्ते कृतदिक्पालकार्चिते ॥ ७.२,३६.९ तेजसं दारवं वापि कृत्वा पद्मासनांकितम् ॥ ७.२,३६.१० विन्यसेन्मध्यतस्तत्र विपुलं पीठकालयम् ॥ ७.२,३६.१० द्वारपालान्समभ्यर्च्य भद्रादींश्चतुरःक्रमात् ॥ ७.२,३६.११ समुद्रश्च विभद्रश्च सुनंदश्च विनंदकः ॥ ७.२,३६.११ स्नापयित्वा समभ्यर्च्य लिंगं वेदिकया सह ॥ ७.२,३६.१२ सकूर्चाभ्यां तु वस्त्राभ्यां समावेष्ट्यं समंततः ॥ ७.२,३६.१२ प्रापय्य शनकैस्तोयं पीठिकोपरि शाययेत् ॥ ७.२,३६.१३ प्राक्शिरस्कमधःसूत्रं पिंडिकां चास्य पश्चिमे ॥ ७.२,३६.१३ सर्वमंगलसंयुक्तं लिंगं तत्राधिवासयेत् ॥ ७.२,३६.१४ पञ्चरात्रं त्रिरात्रं वाप्येकरात्रमथापि वा ॥ ७.२,३६.१४ विसृज्य पूजितं तत्र शोधयित्वा च पूर्ववत् ॥ ७.२,३६.१५ संपूज्योत्सवमार्गेण शयनालयमानयेत् ॥ ७.२,३६.१५ तत्रापि शयनस्थानं कुर्यान्मंडलमध्यतः ॥ ७.२,३६.१६ शुद्धैर्जलैः स्नापयित्वा लिंगमभ्यर्चयेत्क्रमात् ॥ ७.२,३६.१६ ऐशान्यां पद्ममालिख्य शुद्धलिप्ते महीतले ॥ ७.२,३६.१७ १ ल्यबार्षः २ डिढ्ढणञिति डीबभाव आर्षः ५९२ शिवकुंभं शोधयित्वा तत्रावाह्य शिवं यजेत् ॥ ७.२,३६.१७ वेदीमध्ये सितं पद्मं परिकल्प्य विधानतः ॥ ७.२,३६.१८ तस्य पश्चिमतश्चापि चंडिकापद्ममालिखेत् ॥ ७.२,३६.१८ क्षौमाद्यैर्वाहतैर्वस्त्रैः पुष्पैर्दर्भैरथापि वा ॥ ७.२,३६.१९ प्रकल्प्य शयनं तस्मिन्हेमपुष्पं विनिक्षिपेत् ॥ ७.२,३६.१९ तत्र लिंगं समानीय सर्वमंगलनिःस्वनैः ॥ ७.२,३६.२० रक्तेन वस्त्रयुग्मेन सकूर्चेन समंततः ॥ ७.२,३६.२० सह पिंडिकयावेष्ट्य शाययेच्च यथा पुरा ॥ ७.२,३६.२१ पुरस्तात्पद्ममालिख्य तद्दलेषु यथाक्रमम् ॥ ७.२,३६.२१ विद्येशकलशान्न्यस्येन्मध्ये शैवीं च वर्धनीम् ॥ ७.२,३६.२२ परीत्य पद्मत्रितयं जुहुयुर्द्विजसत्तमाः ॥ ७.२,३६.२२ ते चाष्टमूर्तयः कल्प्याः पूर्वादिपरितः स्थिताः ॥ ७.२,३६.२३ चत्वारश्चाथ वा दिक्षु स्वध्येतारस्सजापकाः ॥ ७.२,३६.२३ जुहुयुस्ते विरंच्याद्याश्चतस्रो मूर्तयः स्मृताः ॥ ७.२,३६.२४ दैशिकः प्रथमं तेषामैशान्यां पश्चिमे ऽथ वा ॥ ७.२,३६.२४ प्रधानहोमं कुर्वीत सप्तद्रव्यैर्यथाक्रमम् ॥ ७.२,३६.२५ आचार्यात्पादमर्धं वा जुहुयुश्चापरे द्विजाः ॥ ७.२,३६.२५ प्रधानमेकमेवात्र जुहुयादथ वा गुरुः ॥ ७.२,३६.२६ पूर्वं पूर्णाहुतिं हुत्वा घृतेनाष्टोत्तरं शतम् ॥ ७.२,३६.२६ मूर्ध्नि मूलेन लिंगस्य शिवहस्तं प्रविन्यसेत् ॥ ७.२,३६.२७ शतमर्धं तदर्धं वा क्रमाद्द्रव्यैश्च सप्तभिः ॥ ७.२,३६.२७ हुत्वाहुत्वा स्पृशेल्लिंगं वेदिकां च पुनः पुनः ॥ ७.२,३६.२८ पूर्णाहुतिं ततो हुत्वा क्रमाद्दद्याच्च दक्षिणाम् ॥ ७.२,३६.२८ आचार्यात्पादमर्धं वा होत्ःणां स्थपतेरपि ॥ ७.२,३६.२९ तदर्धं देयमन्येभ्यः सदस्येभ्यश्च शक्तितः ॥ ७.२,३६.२९ ततः श्वभ्रे वृषं हैमं कूर्चं वापि निवेश्य च ॥ ७.२,३६.३० मृदंभसा पञ्चगव्यैः पुनः शुद्धजलेन च ॥ ७.२,३६.३० शोधितां चंदनालिप्तां श्वभ्रे ब्रह्मशिलां क्षिपेत् ॥ ७.२,३६.३१ करन्यासं ततः कृत्वा नवभिः शक्तिनामभिः ॥ ७.२,३६.३१ हरितालादिधातूंश्च बीजगंधौषधैरपि ॥ ७.२,३६.३२ शिवशास्त्रोक्तविधिना क्षिपेद्ब्रह्मशिलोपरि ॥ ७.२,३६.३२ प्रतिलिंगं तु संस्थाप्य क्षीरं वृक्षसमुद्भवम् ॥ ७.२,३६.३३ स्थितं बुद्ध्वा तदुत्सृज्य लिंगं ब्रह्मशिलोपरि ॥ ७.२,३६.३३ प्रागुदक्प्रवरां किंचित्स्थापयेन्मूलविद्यया ॥ ७.२,३६.३४ पिंडिकां चाथ संयोज्य शाक्तं मूलमनुस्मरन् ॥ ७.२,३६.३४ बन्धनं बंधकद्रव्यैः कृत्वा स्थानं विशोध्य च ॥ ७.२,३६.३५ दत्त्वा चार्घ्यं च पुष्पाणि कुर्युर्यवनिकां पुनः ॥ ७.२,३६.३५ यथायोग्यं निषेकादि लिंगस्य पुरतस्तदा ॥ ७.२,३६.३६ आनीय शयनस्थानात्कलशान्विन्यसेत्क्रमात् ॥ ७.२,३६.३६ महापूजामथारभ्य संपूज्य कलशान्दश ॥ ७.२,३६.३७ शिवमंत्रमनुस्मृत्य शिवकुंभजलांतरे ॥ ७.२,३६.३७ अंगुष्ठानामिकायोगादादाय तमुदीरयेत् ॥ ७.२,३६.३८ न्यसेदीशानभागस्य मध्ये लिंगस्य मंत्रवित् ॥ ७.२,३६.३८ ५९३ शक्तिं न्यसेत्तथा विद्यां विद्येशांश्च यथाक्रमम् ॥ ७.२,३६.३९ लिङ्गमूले शिवजलैस्ततो लिंगं निषेचयेत् ॥ ७.२,३६.३९ वर्धन्यां पिंडिकालिंगं विद्येशकलशैः पुनः ॥ ७.२,३६.४० अभिषिच्यासनं पश्चादाधाराद्यं प्रकल्पयेत् ॥ ७.२,३६.४० कृत्वा पञ्चकलान्यासं दीप्तं लिंगमनुस्मरेत् ॥ ७.२,३६.४१ आवाहयेच्छिवौ साक्षात्प्राञ्जलिः प्रागुदङ्मुखः ॥ ७.२,३६.४१ वृषाधिराजमारुह्य विमानं वा नभस्तलात् ॥ ७.२,३६.४२ अलंकृतं सहायांतं देव्या देवमनुस्मरन् ॥ ७.२,३६.४२ सर्वाभरणशोभाढ्यं सर्वमंगलनिस्वनैः ॥ ७.२,३६.४२ ब्रह्मविष्णुमहेशार्कशक्राद्यैर्देवदानवैः ॥ ७.२,३६.४३ आनंदक्लिन्नसर्वांगैर्विन्यस्तांजलिमस्तकैः ॥ ७.२,३६.४३ स्तुवद्भिरेव नृत्यद्भिर्नामद्भिरभितो वृतम् ॥ ७.२,३६.४४ ततः पञ्चोपचारांश्च कृत्वा पूजां समापयेत् ॥ ७.२,३६.४४ नातः परतरः कश्चिद्विधिः पञ्चोपचारकात् ॥ ७.२,३६.४५ प्रतिष्ठां लिंगवत्कुर्यात्प्रतिमास्वपि सर्वतः ॥ ७.२,३६.४५ लक्षणोद्धारसमये कार्यं नयनमोचनम् ॥ ७.२,३६.४६ जलाधिवासे शयने शाययेत्तान्त्वधोमुखीम् ॥ ७.२,३६.४६ कुम्भोदशायितां मंत्रैर्हृदि तां सन्नियोजयेत् ॥ ७.२,३६.४७ कृतालयां परामाहुः प्रतिष्ठामकृतालयात् ॥ ७.२,३६.४७ शक्तः कृतालयः पश्चात्प्रतिष्ठाविधिमाचरेत् ॥ ७.२,३६.४८ अशक्तश्चेत्प्रतिष्ठाप्य लिंगं बेरमथापि वा ॥ ७.२,३६.४८ शक्तेरनुगुणं पश्चात्प्रकुर्वीत शिवालयम् ॥ ७.२,३६.४९ गृहार्चां च पुनर्वक्ष्ये प्रतिष्ठाविधिमुत्तमम् ॥ ७.२,३६.४९ कृत्वा कनीयसंबेरं लिंगं वा लक्षणान्वितम् ॥ ७.२,३६.५० अयने चोत्तरे प्राप्ते शुक्लपक्शे शुभे दिने ॥ ७.२,३६.५० देवीं कृत्वा शुभे देशे तत्राब्जं पूर्ववल्लिखेत् ॥ ७.२,३६.५१ विकीर्य पत्रपुष्पाद्यैर्मध्ये कुंभं निधाय च ॥ ७.२,३६.५१ परितस्तस्य चतुरः कलशान् दिक्षु विन्यसेत् ॥ ७.२,३६.५२ पञ्च ब्रह्माणि तद्बीजैस्तेषु पञ्चसु पञ्चभिः ॥ ७.२,३६.५२ न्यस्य संपूज्य मुद्रादि दर्शयित्वाभिरक्ष्य च ॥ ७.२,३६.५३ विशोध्य लिंगं बेरं वा मृत्तोयाद्यैर्यथा पुरा ॥ ७.२,३६.५३ स्थापयेत्पुष्पसंछन्नमुत्तरस्थे वरासने ॥ ७.२,३६.५४ निधाय पुष्पं शिरसि प्रोक्षयेत्प्रोक्षणीजलैः ॥ ७.२,३६.५४ समभ्यर्च्य पुनः पुष्पैर्जयशब्दादिपूर्वकम् ॥ ७.२,३६.५५ कुम्भैरीशानविद्यांतैः स्नापयेन्मूलविद्यया ॥ ७.२,३६.५५ ततः पञ्चकलान्यासं कृत्वा पूजां च पूर्ववत् ॥ ७.२,३६.५६ नित्यमाराधयेत्तत्र देव्या देवं त्रिलोचनम् ॥ ७.२,३६.५६ एकमेवाथ वा कुंभं मूर्तिमन्त्रसमन्वितम् ॥ ७.२,३६.५७ न्यस्य पद्मांतरे सर्वं शेषं पूर्ववदाचरेत् ॥ ७.२,३६.५७ अत्यंतोपहतं लिंगं विशोध्य स्थापयेत्पुनः ॥ ७.२,३६.५८ संप्रोक्षयेदुपहतमनागुपहतं यजेत् ॥ ७.२,३६.५८ लिंगानि बाणसंज्ञानि स्थापनीयानि वा न वा ॥ ७.२,३६.५९ तानि पूर्वं शिवेनैव संस्कृतानि यतस्ततः ॥ ७.२,३६.५९ शेषाणि स्थापनीयानि यानि दृष्टानि बाणवत् ॥ ७.२,३६.६० स्वयमुद्भूतलिंगे च दिव्ये चार्षे तथैव च ॥ ७.२,३६.६० ५९३ अपीठे पीठमावेश्य कृत्वा संप्रोक्षणं विधिम् ॥ ७.२,३६.६१ यजेत्तत्र शिवं तेषां प्रतिष्ठा न विधीयते ॥ ७.२,३६.६१ दग्धं श्लथं क्षतांगं च क्षिपेल्लिंगं जलाशये ॥ ७.२,३६.६२ संधानयोग्यं संधाय प्रतिष्ठाविधिमाचरेत् ॥ ७.२,३६.६२ बेराद्वा विकलाल्लिंगाद्देवपूजापुरस्सरम् ॥ ७.२,३६.६३ उद्वास्य हृदि संधानं त्यागं वा युक्तमाचरेत् ॥ ७.२,३६.६३ एकाहपूजाविहतौ कुर्याद्द्विगुणमर्चनम् ॥ ७.२,३६.६४ द्विरात्रे च महापूजां संप्रोक्षणमतः परम् ॥ ७.२,३६.६४ मासादूर्ध्वमनेकाहं पूजा यदि विहन्यते ॥ ७.२,३६.६५ प्रतिष्ठा प्रोच्यते कैश्चित्कैश्चित्संप्रोक्षणक्रमः ॥ ७.२,३६.६५ संप्रोक्षणे तु लिंगादेर्देवमुद्वास्य पूर्ववत् ॥ ७.२,३६.६६ अष्टपञ्चक्रमेणैव स्नापयित्वा मृदंभसा ॥ ७.२,३६.६६ गवां रसैश्च संस्नाप्य दर्भतोयैर्विशोध्य च ॥ ७.२,३६.६७ प्रोक्षयेत्प्रोक्षणीतोयैर्मूलेनाष्टोत्तरं शतम् ॥ ७.२,३६.६७ सपुष्पं सकुशं पाणिं न्यस्य लिंगस्य मस्तके ॥ ७.२,३६.६८ पञ्चवारं जपेन्मूलमष्टोत्तरशतं ततः ॥ ७.२,३६.६८ ततो मूलेन मूर्धादिपीठांतं संस्पृशेदपि ॥ ७.२,३६.६९ पूजां च महतीं कुर्याद्देवमावाह्य पूर्ववत् ॥ ७.२,३६.६९ अलब्धे स्थापिते लिंगे शिवस्थाने जले ऽथ वा ॥ ७.२,३६.७० वह्नौ रवौ तथा व्योम्नि भगवंतं शिवं यजेत् ॥ ७.२,३६.७० ओं इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे प्ततिष्ठाविधिवर्णनं नाम षट्त्रिंशो ऽध्यायः अध्याय ३७ शीकृष्ण उवाच ज्ञाने क्रियायां चर्यायां सारमुद्धृत्य संग्रहात् ॥ ७.२,३७.१ उक्तं भगवता सर्वं श्रुतं श्रुतिसमं मया ॥ ७.२,३७.१ इदानीं श्रोतुमिच्छामि योगं परमदुर्लभम् ॥ ७.२,३७.२ साधिकारं च सांगं च सविधिं सप्रयोजनम् ॥ ७.२,३७.२ यद्यस्ति मरणं पूर्वं योगाद्यनुपमर्दतः ॥ ७.२,३७.३ सद्यः साधयितुं शक्यं येन स्यान्नात्महा नरः ॥ ७.२,३७.३ तच्च तत्कारणं चैव तत्कालकरणानि च ॥ ७.२,३७.४ तद्भेदतारतम्यं च वक्तुमर्हसि तत्त्वतः ॥ ७.२,३७.४ उपमन्युरुवाच स्थाने पृष्टं त्वया कृष्ण सर्वप्रश्नार्थवेदिना ॥ ७.२,३७.५ ततः क्रमेण तत्सर्वं वक्ष्ये शृणु समाहितः ॥ ७.२,३७.५ निरुद्धवृत्त्यंतरस्यं शिवे चित्तस्य निश्चला ॥ ७.२,३७.६ या वृत्तिः स समासेन योगः स खलु पञ्चधा ॥ ७.२,३७.६ मंत्रयोगःस्पर्शयोगो भावयोगस्तथापरः ॥ ७.२,३७.७ अभावयोगस्सर्वेभ्यो महायोगः परो मतः ॥ ७.२,३७.७ मंत्राभ्यासवशेनैव मंत्रवाच्यार्थगोचरः ॥ ७.२,३७.८ अव्याक्षेपा मनोवृत्तिर्मंत्रयोग उदाहृतः ॥ ७.२,३७.८ प्राणायाममुखा सैव स्पर्शे योगोभिधीयते ॥ ७.२,३७.९ स मंत्रस्पर्शनिर्मुक्तो भावयोगः प्रकीर्तितः ॥ ७.२,३७.९ विलीनावयवं विश्वं रूपं संभाव्यते यतः ॥ ७.२,३७.१० ५९४ अभावयोगः संप्रोक्तो ऽनाभासाद्वस्तुनः सतः ॥ ७.२,३७.१० शिवस्वभाव एवैकश्चिंत्यते निरुपाधिकः ॥ ७.२,३७.११ यथा शैवमनोवृत्तिर्महायोग इहोच्यते ॥ ७.२,३७.११ दृष्टे तथानुश्रविके विरक्तं विषये मनः ॥ ७.२,३७.१२ यस्य तस्याधिकारोस्ति योगे नान्यस्य कस्यचित् ॥ ७.२,३७.१२ विषयद्वयदोषाणां गुणानामीश्वरस्य च ॥ ७.२,३७.१३ दर्शनादेव सततं विरक्तं जायते मनः ॥ ७.२,३७.१३ अष्टांगो वा षडंगो वा सर्वयोगः समासतः ॥ ७.२,३७.१४ यमश्च नियमश्चैव स्वस्तिकाद्यं तथासनम् ॥ ७.२,३७.१४ प्राणायामः प्रत्याहारो धारणा ध्यानमेव च ॥ ७.२,३७.१५ समाधिरिति योगांगान्यष्टावुक्तानि सूरिभिः ॥ ७.२,३७.१५ आसनं प्राणसंरोधः प्रत्याहारोथ धारणा ॥ ७.२,३७.१६ ध्यानं समाधिर्योगस्य षडंगानि समासतः ॥ ७.२,३७.१६ पृथग्लक्षणमेतेषां शिवशास्त्रे समीरितम् ॥ ७.२,३७.१७ शिवागमेषु चान्येषु विशेषात्कामिकादिषु ॥ ७.२,३७.१७ योगशास्त्रेष्वपि तथा पुराणेष्वपि केषु च ॥ ७.२,३७.१८ अहिंसा सत्यमस्तेयं ब्रह्मचर्यापरिग्रहः ॥ ७.२,३७.१८ यम इत्युच्यते सद्भिः पञ्चावयवयोगतः ॥ ७.२,३७.१८ शौचं तुष्टिस्तपश्चैव जपः प्रणिधिरेव च ॥ ७.२,३७.१९ इति पञ्चप्रभेदस्स्यान्नियमः स्वांशभेदतः ॥ ७.२,३७.१९ स्वस्तिकं पद्ममध्येंदुं वीरं योगं प्रसाधितम् ॥ ७.२,३७.२० पर्यंकं च यथेष्टं च प्रोक्तमासनमष्टधा ॥ ७.२,३७.२० प्राणः स्वदेहजो वायुस्तस्यायामो निरोधनम् ॥ ७.२,३७.२१ तद्रोचकं पूरकं च कुंभकं च त्रिधोच्यते ॥ ७.२,३७.२१ नासिकापुटमंगुल्या पीड्यैकमपरेण तु ॥ ७.२,३७.२२ औदरं रेचयेद्वायुं तथायं रेचकः स्मृतः ॥ ७.२,३७.२२ बाह्येन मरुता देहं दृतिवत्परिपूरयेत् ॥ ७.२,३७.२३ नासापुटेनापरेण पूरणात्पूरकं मतम् ॥ ७.२,३७.२३ न मुंचति न गृह्णाति वायुमंतर्बहिः स्थितम् ॥ ७.२,३७.२४ संपूर्णं कुंभवत्तिष्ठेदचलः स तु कुंभक ॥ ७.२,३७.२४ रेचकाद्यं त्रयमिदं न द्रुतं न विलंबितम् ॥ ७.२,३७.२५ तद्यतः क्रमयोगेन त्वभ्यसेद्योगसाधकः ॥ ७.२,३७.२५ रेचकादिषु योभ्यासो नाडीशोधनपूर्वकः ॥ ७.२,३७.२६ स्वेच्छोत्क्रमणपर्यंतः प्रोक्तो योगानुशासने ॥ ७.२,३७.२६ कन्यकादिक्रमवशात्प्राणायामनिरोधनम् ॥ ७.२,३७.२७ तच्चतुर्धोपदिष्टं स्यान्मात्रागुणविभागतः ॥ ७.२,३७.२७ कन्यकस्तु चतुर्धा स्यात्स च द्वादशमात्रकः ॥ ७.२,३७.२८ मध्यमस्तु द्विरुद्धातश्चतुर्विंशतिमात्रकः ॥ ७.२,३७.२८ उत्तमस्तु त्रिरुद्धातः षड्विंशन्मात्रकः परः ॥ ७.२,३७.२९ स्वेदकंपादिजनकः प्राणायामस्तदुत्तरः ॥ ७.२,३७.२९ आनंदोद्भवरोमांचनेत्राश्रूणां विमोचनम् ॥ ७.२,३७.३० जल्पभ्रमणमूर्छाद्यं जायते योगिनः परम् ॥ ७.२,३७.३० जानुं प्रदक्षिणीकृत्य न द्रुतं न विलंबितम् ॥ ७.२,३७.३१ अंगुलीस्फोटनं कुर्यात्सा मात्रेति प्रकीर्तिता ॥ ७.२,३७.३१ ५९४ मात्राक्रमेण विज्ञेयाश्चोद्वातक्रमयोगतः ॥ ७.२,३७.३२ नाडीविशुद्धिपूर्वं तु प्राणायामं समाचरेत् ॥ ७.२,३७.३२ अगर्भश्च सगर्भश्च प्राणायामो द्विधा स्मृतः ॥ ७.२,३७.३३ जपं ध्यानं विनागर्भः सगर्भस्तत्समन्वयात् ॥ ७.२,३७.३३ अगर्भाद्गर्भसंयुक्तः प्राणायामःशताधिकः ॥ ७.२,३७.३४ तस्मात्सगर्भं कुर्वन्ति योगिनः प्राणसंयमम् ॥ ७.२,३७.३४ प्राणस्य विजयादेव जीयंते देह १ आयवः ॥ ७.२,३७.३५ प्राणो ऽपानः समानश्च ह्युदानो व्यान एव च ॥ ७.२,३७.३५ नागः कूर्मश्च कृकलो देवदत्तो धनंजयः ॥ ७.२,३७.३६ प्रयाणं कुरुते यस्मात्तस्मात्प्राणो ऽभिधीयते ॥ ७.२,३७.३६ अवाङ्नयत्यपानाख्यो यदाहारादि भुज्यते ॥ ७.२,३७.३७ व्यानो व्यानशयत्यंगान्यशेषाणि विवर्धयन् ॥ ७.२,३७.३७ उद्वेजयति मर्माणीत्युदानो वायुरीरितः ॥ ७.२,३७.३८ समं नयति सर्वांगं समानस्तेन गीयते ॥ ७.२,३७.३८ उद्गारे नाग आख्यातः कूर्म उन्मीलने स्थितः ॥ ७.२,३७.३९ कृकलः क्षवथौ ज्ञेयो देवदत्तो विजृंभणे ॥ ७.२,३७.३९ न जहाति मृतं चापि सर्वव्यापी धनंजयः ॥ ७.२,३७.४० क्रमेणाभ्यस्यमानोयं प्राणायामप्रमाणवान् ॥ ७.२,३७.४० निर्दहत्यखिलं दोषं कर्तुर्देहं च रक्षति ॥ ७.२,३७.४१ प्राणे तु विजिते सम्यक्तच्चिह्नान्युपलक्षयेत् ॥ ७.२,३७.४१ विण्मूत्रश्लेष्मणां तावदल्पभावः प्रजायते ॥ ७.२,३७.४२ बहुभोजनसामर्थ्यं चिरादुच्छ्वासनं तथा ॥ ७.२,३७.४२ लघुत्वं शीघ्रगामित्वमुत्साहः स्वरसौष्ठवम् ॥ ७.२,३७.४३ सर्वरोगक्षयश्चैव बलं तेजः सुरूपता ॥ ७.२,३७.४३ धृतिर्मेधा युवत्वं च स्थिरता च प्रसन्नता ॥ ७.२,३७.४४ तपांसि पापक्षयता यज्ञदानव्रतादयः ॥ ७.२,३७.४४ प्राणायामस्य तस्यैते कलां नार्हन्ति षोडशीम् ॥ ७.२,३७.४५ इन्द्रियाणि प्रसक्तानि यथास्वं विषयेष्विह ॥ ७.२,३७.४५ आहत्य यन्निगृह्णाति स प्रत्याहार उच्यते ॥ ७.२,३७.४६ नमःपूर्वाणींद्रियाणि स्वर्गं नरकमेव च ॥ ७.२,३७.४६ निगृहीतनिसृष्टानि स्वर्गाय नरकाय च ॥ ७.२,३७.४७ तस्मात्सुखार्थी मतिमाञ्ज्ञानवैराग्यमास्थितः ॥ ७.२,३७.४७ इंद्रियाश्वान्निगृह्याशु स्वात्मनात्मानमुद्धरेत् ॥ ७.२,३७.४८ धारणा नाम चित्तस्य स्थानबन्धस्समासतः ॥ ७.२,३७.४८ स्थानं च शिव एवैको नान्यद्दोषत्रयं यतः ॥ ७.२,३७.४९ कालं कंचावधीकृत्य स्थाने ऽवस्थापितं मनः ॥ ७.२,३७.४९ न तु प्रच्यवते लक्ष्याद्धारणा स्यान्न चान्यथा ॥ ७.२,३७.५० मनसः प्रथमं स्थैर्यं धारणातः प्रजायते ॥ ७.२,३७.५० तस्माद्धीरं मनः कुर्याद्धारणाभ्यासयोगतः ॥ ७.२,३७.५१ ध्यै चिंतायां स्मृतो धातुः शिवचिंता मुहुर्मुहुः ॥ ७.२,३७.५१ अव्याक्षिप्तेन मनसा ध्यानं नाम तदुच्यते ॥ ७.२,३७.५२ ध्येयावस्थितचित्तस्य सदृशः प्रत्ययश्च यः ॥ ७.२,३७.५२ १ दश वायव इति पाठान्तरम् ५९५ प्रत्ययान्तरनिर्मुक्तः प्रवाहो ध्यानमुच्यते ॥ ७.२,३७.५३ सर्वमन्यत्परित्यज्य शिव एव शिवंकरः ॥ ७.२,३७.५३ परो ध्येयो ऽधिदेवेशः समाप्ताथर्वणी श्रुतिः ॥ ७.२,३७.५४ तथा शिवा परा ध्येया सर्वभूतगतौ शिवौ ॥ ७.२,३७.५४ तौ श्रुतौ स्मृतिशास्त्रेभ्यः सर्वगौ सर्वदोदितौ ॥ ७.२,३७.५५ सर्वज्ञौ सततं ध्येयौ नानारूपविभेदतः ॥ ७.२,३७.५५ विमुक्तिः प्रत्ययः पूर्वः प्रत्ययश्चाणिमादिकम् ॥ ७.२,३७.५६ इत्येतद्द्विविधं ज्ञेयं ध्यानस्यास्य प्रयोजनम् ॥ ७.२,३७.५६ ध्याता ध्यानं तथा ध्येयं यच्च ध्यानप्रयोजनम् ॥ ७.२,३७.५७ एतच्चतुष्टयं ज्ञात्वा योगं युञ्जीत योगवित् ॥ ७.२,३७.५७ ज्ञानवैराग्यसंपन्नः श्रद्दधानः क्षमान्वितः ॥ ७.२,३७.५८ निर्ममश्च सदोत्साही ध्यातेत्थं पुरुषः स्मृतः ॥ ७.२,३७.५८ जपाच्छ्रांतः पुनर्ध्यायेद्ध्यानाच्छ्रांतः पुनर्जपेत् ॥ ७.२,३७.५९ जपध्यनाभियुक्तस्य क्षिप्रं योगः प्रसिद्ध्यति ॥ ७.२,३७.५९ धारणा द्वादशायामा ध्यानं द्वादशधारणम् ॥ ७.२,३७.६० ध्यानद्वादशकं यावत्समाधिरभिधीयते ॥ ७.२,३७.६० समाधिर्न्नाम योगांगमन्तिमं परिकीर्तितम् ॥ ७.२,३७.६१ समाधिना च सर्वत्र प्रज्ञालोकः प्रवर्तते ॥ ७.२,३७.६१ यदर्थमात्रनिर्भासं स्तिमितो दधिवत्स्थितम् ॥ ७.२,३७.६२ स्वरूपशून्यवद्भानं समाधिरभिधीयते ॥ ७.२,३७.६२ ध्येये मनः समावेश्य पश्येदपि च सुस्थिरम् ॥ ७.२,३७.६३ निर्वाणानलवद्योगी समाधिस्थः प्रगीयते ॥ ७.२,३७.६३ न शृणोति न चाघ्राति न जल्पति न पश्यति ॥ ७.२,३७.६४ न च स्पर्शं विजानाति न संकल्पयते मनः ॥ ७.२,३७.६४ नवाभिमन्यते किंचिद्बध्यते न च काष्टवत् ॥ ७.२,३७.६५ एवं शिवे विलीनात्मा समाधिस्थ इहोच्यते ॥ ७.२,३७.६५ यथा दीपो निवातस्थः स्पन्दते न कदाचन ॥ ७.२,३७.६६ तथा समाधिनिष्ठो ऽपि तस्मान्न विचलेत्सुधीः ॥ ७.२,३७.६६ एवमभ्यसतश्चारं योगिनो योगमुत्तमम् ॥ ७.२,३७.६७ तदन्तराया नश्यंति विघ्नाः सर्वे शनैःशनैः ॥ ७.२,३७.६७ ओं इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां वायुनैमिषेयर्षिसंवादे उत्तरखण्डे योगगतिवर्णनं नाम सप्तत्रिंशो ऽध्यायः अध्याय ३८ उपमन्युरुवाच आलस्यं व्याधयस्तीव्राः प्रमादः स्थानसंशयः ॥ ७.२,३८.१ अनवस्थितचित्तत्वमश्रद्धा भ्रांतिदर्शनम् ॥ ७.२,३८.१ दुःखानि दौर्मनस्यं च विषयेषु च लोलता ॥ ७.२,३८.२ दशैते युञ्जतां पुंसामन्तरायाः प्रकीर्तिताः ॥ ७.२,३८.२ आलस्यमलसत्त्वं तु योगिनां देहचेतनोः ॥ ७.२,३८.३ धातुवैषम्यजा दोषा व्याधयः कर्मदोषजाः ॥ ७.२,३८.३ प्रमादो नाम योगस्य साधना नाम भावना ॥ ७.२,३८.४ इदं वेत्युभयाक्रान्तं विज्ञानं स्थानसंशयः ॥ ७.२,३८.४ अप्रतिष्ठा हि मनसस्त्वनवस्थितिरुच्यते ॥ ७.२,३८.५ ५९५ अश्रद्धा भावरहिता वृत्तिर्वै योगवर्त्मनि ॥ ७.२,३८.५ विपर्यस्ता मतिर्या सा भ्रांतिरित्यभिधीयते ॥ ७.२,३८.६ दुःखमज्ञानजं पुंसां चित्तस्याध्यात्मिकं विदुः ॥ ७.२,३८.६ आधिभौतिकमंगोत्थं यच्च दुःखं पुरा कृतैः ॥ ७.२,३८.७ आधिदैविकमाख्यातमशन्यस्त्रविषादिकम् ॥ ७.२,३८.७ इच्छाविघातजं मोक्षं दौर्मनस्यं प्रचक्षते ॥ ७.२,३८.८ विषयेषु विचित्रेषु विभ्रमस्तत्र लोलता ॥ ७.२,३८.८ शान्तेष्वेतेषु विघ्नेषु योगासक्तस्य योगिनः ॥ ७.२,३८.९ उपसर्गाः प्रवर्तंते दिव्यास्ते सिद्धिसूचकाः ॥ ७.२,३८.९ प्रतिभा श्रवणं वार्ता दर्शनास्वादवेदनाः ॥ ७.२,३८.१० उपसर्गाः षडित्येते व्यये योगस्य सिद्धयः ॥ ७.२,३८.१० सूक्ष्मे व्यवहिते ऽतीते विप्रकृष्टे त्वनागते ॥ ७.२,३८.११ प्रतिभा कथ्यते यो ऽर्थे प्रतिभासो यथातथम् ॥ ७.२,३८.११ श्रवणं सर्वशब्दानां श्रवणे चाप्रयत्नतः ॥ ७.२,३८.१२ वार्त्ता वार्त्तासु विज्ञानं सर्वेषामेव देहिनाम् ॥ ७.२,३८.१२ दर्शनं नाम दिव्यानां दर्शनं चाप्रयत्नतः ॥ ७.२,३८.१३ तथास्वादश्च दिव्येषु रसेष्वास्वाद उच्यते ॥ ७.२,३८.१३ स्पर्शनाधिगमस्तद्वद्वेदना नाम विश्रुता ॥ ७.२,३८.१४ गन्धादीनां च दिव्यानामाब्रह्मभुवनाधिपाः ॥ ७.२,३८.१४ संतिष्ठन्ते च रत्नानि प्रयच्छंति बहूनि च ॥ ७.२,३८.१५ स्वच्छन्दमधुरा वाणी विविधास्यात्प्रवर्तते ॥ ७.२,३८.१५ रसायनानि सर्वाणि दिव्याश्चौषधयस्तथा ॥ ७.२,३८.१६ सिध्यंति प्रणिपत्यैनं दिशंति सुरयोषितः ॥ ७.२,३८.१६ योगसिद्ध्यैकदेशे ऽपि दृष्टे मोक्षे भवेन्मतिः ॥ ७.२,३८.१७ दृष्टमेतन्मया यद्वत्तद्वन्मोक्षो भवेदिति ॥ ७.२,३८.१७ कृशता स्थूलता बाल्यं वार्धक्यं चैव यौवनम् ॥ ७.२,३८.१८ नानाचातिस्वरूपं च चतुर्णां देहधारणम् ॥ ७.२,३८.१८ पार्थिवांशं विना नित्यं सुरभिर्गन्धसंग्रहः ॥ ७.२,३८.१९ एवमष्टगुणं प्राहुः पैशाचं पार्थिवं पदम् ॥ ७.२,३८.१९ जले निवसनं चैव भूम्यामेवं विनिर्गमः ॥ ७.२,३८.२० इच्छेच्छक्तः स्वयं पातुं समुद्रमपि नातुरः ॥ ७.२,३८.२० यत्रेच्छति जगत्यस्मिंस्तत्रैव जलदर्शनम् ॥ ७.२,३८.२१ विना कुम्भादिकं पाणौ जलसञ्चयधारणम् ॥ ७.२,३८.२१ यद्वस्तु विरसञ्चापि भोक्तुमिच्छति तत्क्षणात् ॥ ७.२,३८.२२ रसादिकं भवेच्चान्यत्त्रयाणां देहधारणम् ॥ ७.२,३८.२२ निर्व्रणत्वं शरीरस्य पार्थिवैश्च समन्वितम् ॥ ७.२,३८.२३ तदिदं षोडशगुणमाप्यमैश्वर्यमद्भुतम् ॥ ७.२,३८.२३ शरीरादग्निनिर्माणं तत्तापभयवर्जनम् ॥ ७.२,३८.२४ शक्तिर्जगदिदं दग्धुं यदीच्छेदप्रयत्नतः ॥ ७.२,३८.२४ स्थापनं वानलस्या ऽप्सु पाणौ पावकधारणम् ॥ ७.२,३८.२५ दग्धे सर्गे यथापूर्वं मुखे चान्नादिपाचनम् ॥ ७.२,३८.२५ द्वाभ्यां देहविनिर्माणमाप्यैश्वर्यसमन्वितम् ॥ ७.२,३८.२५ एतच्चतुर्विंशतिधा तैजसं परिचक्षते ॥ ७.२,३८.२६ मनोजवत्वं भूतानां क्षणादन्तःप्रवेशनम् ॥ ७.२,३८.२६ ५९६ पर्वतादिमहाभारधारणञ्चाप्रयत्नतः ॥ ७.२,३८.२७ गुरुत्वञ्च लघुत्वञ्च पाणावनिलधारणम् ॥ ७.२,३८.२७ अंगुल्यग्रनिपाताद्यैर्भूमेरपि च कम्पनम् ॥ ७.२,३८.२८ एकेन देहनिष्पत्तिर्युक्तं भोगैश्च तैजसैः ॥ ७.२,३८.२८ द्वात्रिंशद्गुणमैश्वर्यं मारुतं कवयो विदुः ॥ ७.२,३८.२९ छायाहीनविनिष्पत्तिरिन्द्रियाणामदर्शनम् ॥ ७.२,३८.२९ खेचरत्वं यथाकाममिन्द्रियार्थसमन्वयः ॥ ७.२,३८.३० आकाशलंघनं चैव स्वदेहे तन्निवेशनम् ॥ ७.२,३८.३० आकाशपिण्डीकरणमशरीरत्वमेव च ॥ ७.२,३८.३१ अनिलैश्वर्यसंयुक्तं चत्वारिंशद्गुणं महत् ॥ ७.२,३८.३१ ऐन्द्रमैश्वर्यमाख्यातमाम्बरं तत्प्रचक्षते ॥ ७.२,३८.३२ यथाकामोपलब्धिश्च यथाकामविनिर्गमः ॥ ७.२,३८.३२ सर्वस्याभिभवश्चैव सर्वगुह्यार्थदर्शनम् ॥ ७.२,३८.३३ कर्मानुरूपनिर्माणं वशित्वं प्रियदर्शनम् ॥ ७.२,३८.३३ संसारदर्शनं चैव भोगैरैन्द्रैस्समन्वितम् ॥ ७.२,३८.३४ एतच्चांद्रमसैश्वर्यं मानसं गुणतो ऽधिकम् ॥ ७.२,३८.३४ छेदनं ताडनं चैव बंधनं मोचनं तथा ॥ ७.२,३८.३५ ग्रहणं सर्वभूतानां संसारवशवर्तिनाम् ॥ ७.२,३८.३५ प्रसादश्चापि सर्वेषां मृत्युकालजयस्तथा ॥ ७.२,३८.३६ आभिमानिकमैश्वर्यं प्राजापत्यं प्रचक्षते ॥ ७.२,३८.३६ एतच्चान्द्रमसैर्भोगैः षट्पञ्चाशद्गुणं महत् ॥ ७.२,३८.३७ सर्गः संकल्पमात्रेण त्राणं संहरणं तथा ॥ ७.२,३८.३७ स्वाधिकारश्च सर्वेषां भूतचित्तप्रवर्तनम् ॥ ७.२,३८.३८ असादृश्यं च सर्वस्य निर्माणं जगतः पृथक् ॥ ७.२,३८.३८ शुभाशुभस्य करणं प्राजापत्यैश्च संयुतम् ॥ ७.२,३८.३९ चतुष्षष्ठिगुणं ब्राह्ममैश्वर्यं च प्रचक्षते ॥ ७.२,३८.३९ बौद्धादस्मात्परं गौणमैश्वर्यं प्राकृतं विदुः ॥ ७.२,३८.४० वैष्णवं तत्समाख्यातं तस्यैव भुवनस्थितिः ॥ ७.२,३८.४० ब्रह्मणा तत्पदं सर्वं वक्तुमन्यैर्न शक्यते ॥ ७.२,३८.४० तत्पौरुषं च गौणं च गणेशं पदमैश्वरम् ॥ ७.२,३८.४१ विष्णुना तत्पदं किंचिज्ज्ञातुमन्यैर्न शक्यते ॥ ७.२,३८.४१ विज्ञानसिद्धयश्चैव सर्वा एवौपसर्गिकाः ॥ ७.२,३८.४२ निरोद्धव्या प्रयत्नेन वर्राग्येण परेण तु ॥ ७.२,३८.४२ प्रतिभासेष्वशुद्धेषु गुणेष्वासक्तचेतसः ॥ ७.२,३८.४३ न सिध्येत्परमैश्वर्यमभयं सार्वकामिकम् ॥ ७.२,३८.४३ तस्माद्गुणांश्च भोगांश्च देवासुरमहीभृताम् ॥ ७.२,३८.४४ तृणवद्यस्त्यजेत्तस्य योगसिद्धिः परा भवेत् ॥ ७.२,३८.४४ अथवानुग्रहेच्छायां जगतो विचरेन्मुनिः ॥ ७.२,३८.४५ यथाकामंगुणान्भोगान्भुक्त्वा मुक्तिं प्रयास्यति ॥ ७.२,३८.४५ अथ प्रयोगं योगस्य वक्ष्ये शृणु समाहितः ॥ ७.२,३८.४६ शुभे काले शुभे देशे शिवक्षेत्रादिके पुनः ॥ ७.२,३८.४६ विजने जंतुरहिते निःशब्दे बाधवर्जिते ॥ ७.२,३८.४६ सुप्रलिप्ते स्थले सौम्ये गन्धधूपादिवासिते ॥ ७.२,३८.४७ मुक्तपुष्पसमाकीर्णे वितानादि विचित्रिते ॥ ७.२,३८.४७ कुशपुष्पसमित्तोयफलमूलसमन्विते ॥ ७.२,३८.४८ नाग्न्यभ्याशे जलाभ्याशे शुष्कपर्णचये ऽपि वा ॥ ७.२,३८.४८ ५९६ न दंशमशकाकीर्णे सर्पश्वापदसंकुले ॥ ७.२,३८.४९ न च दुष्टमृगाकीर्णे न भये दुर्जनावृते ॥ ७.२,३८.४९ श्मशाने चैत्यवल्मीके जीर्णागारे चतुष्पथे ॥ ७.२,३८.५० नदीनदसमुद्राणां तीरे रथ्यांतरे ऽपि वा ॥ ७.२,३८.५० न जीर्णोद्यानगोष्ठादौ नानिष्टे न च निंदिते ॥ ७.२,३८.५१ नाजीर्णाम्लरसोद्गारे न च विण्मूत्रदूषिते ॥ ७.२,३८.५१ नच्छर्द्यामातिसारे वा नातिभुक्तौ श्रमान्विते ॥ ७.२,३८.५२ न चातिचिंताकुलितो न चातिक्षुत्पिपासितः ॥ ७.२,३८.५२ नापि स्वगुरुकर्मादौ प्रसक्तो योगमाचरेत् ॥ ७.२,३८.५३ युक्ताहारविहारश्च युक्तचेष्टश्च कर्मसु ॥ ७.२,३८.५३ युक्तनिद्राप्रबोधश्च सर्वायासविवर्जितः ॥ ७.२,३८.५४ आसनं मृदुलं रम्यं विपुलं सुसमं शुचि ॥ ७.२,३८.५४ पद्मकस्वस्तिकादीनामभ्यसेदासनेषु च ॥ ७.२,३८.५५ अभिवंद्य स्वगुर्वंतानभिवाद्याननुक्रमात् ॥ ७.२,३८.५५ ऋजुग्रीवशिरोवक्षा नातिष्ठेच्छिष्टलोचनः ॥ ७.२,३८.५६ किंचिदुन्नामितशिरा दंतैर्दंतान्न संस्पृशेत् ॥ ७.२,३८.५६ दंताग्रसंस्थिता जिह्वामचलां सन्निवेश्य च ॥ ७.२,३८.५७ पार्ष्णिभ्यां वृषणौ रक्षंस्तथा प्रजननं पुनः ॥ ७.२,३८.५७ ऊर्वोरुपरि संस्थाप्य बाहू तिर्यगयत्नतः ॥ ७.२,३८.५८ दक्षिणं करपृष्ठं तु न्यस्य वामतलोपरि ॥ ७.२,३८.५८ उन्नाम्य शनकैः पृष्ठमुरो विष्टभ्य चाग्रतः ॥ ७.२,३८.५९ संप्रेक्ष्य नासिकाग्रं स्वं दिशश्चानवलोकयन् ॥ ७.२,३८.५९ संभृतप्राणसंचारः पाषाण इव निश्चलः ॥ ७.२,३८.६० स्वदेहायतनस्यांतर्विचिंत्य शिवमंबया ॥ ७.२,३८.६० हृत्पद्मपीठिकामध्ये ध्यानयज्ञेन पूजयेत् ॥ ७.२,३८.६१ मूले नासाग्रतो नाभौ कंठे वा तालुरंध्रयोः ॥ ७.२,३८.६१ भ्रूमध्ये द्वारदेशे वा ललाटे मूर्ध्नि वा स्मरेत् ॥ ७.२,३८.६२ परिकल्प्य यथान्यायं शिवयोः परमासनम् ॥ ७.२,३८.६२ तत्र सावरणं वापि निरावरणमेव वा ॥ ७.२,३८.६३ द्विदलेषोडशारे वा द्वादशारे यथाविधि ॥ ७.२,३८.६३ दशारे वा षडस्रे वा चतुरस्रे शिवं स्मरेत् ॥ ७.२,३८.६४ भ्रुवोरंतरतः पद्मं द्विदलं तडिदुज्ज्वलम् ॥ ७.२,३८.६४ भ्रूमध्यस्थारविन्दस्य क्रमाद्वै दक्षिणोत्तरे ॥ ७.२,३८.६५ विद्युत्समानवर्णे च पर्णे वर्णावसानके ॥ ७.२,३८.६५ षोडशारस्य पत्राणि स्वराः षोडश तानि वै ॥ ७.२,३८.६६ पूर्वादीनि क्रमादेतत्पद्मं कन्दस्य मूलतः ॥ ७.२,३८.६६ ककारादिटकारांता वर्णाः पर्णान्यनुक्रमात् ॥ ७.२,३८.६७ भानुवर्णस्य पद्मस्य ध्येयं तद्१ हृदयान्तरे ॥ ७.२,३८.६७ गोक्षीरधवलस्योक्ता डादिफान्ता यथाक्रमम् ॥ ७.२,३८.६८ अधो दलस्याम्बुजस्य एतस्य २ च दलानि षट् ॥ ७.२,३८.६८ विधूमांगारवर्णस्य वर्णा वाद्याश्च लान्तिमाः ॥ ७.२,३८.६९ मूलाधारारविंदस्य हेमाभस्य यथाक्रमम् ॥ ७.२,३८.६९ वकारादिसकारान्ता वर्णाः पर्णमयाः स्थिताः ॥ ७.२,३८.६९ एतेष्वथारविंदेषु यत्रैवाभिरतं मनः ॥ ७.२,३८.७० तत्रैव देवं देवीं च चिंतयेद्धीरया धिया ॥ ७.२,३८.७० अंगुष्ठमात्रममलं दीप्यमानं समंततः ॥ ७.२,३८.७१ शुद्धदीपशिखाकारं स्वशक्त्या पूर्णमण्डितम् ॥ ७.२,३८.७१ इन्दुरेखासमाकारं तारारूपमथापि वा ॥ ७.२,३८.७२ नीवारशूकस्सदृशं बिससुत्राभमेव वा ॥ ७.२,३८.७२ कदम्बगोलकाकारं तुषारकणिकोपमम् ॥ ७.२,३८.७३ क्षित्यादितत्त्वविजयं ध्याता यद्यपि वाञ्छति ॥ ७.२,३८.७३ तत्तत्तत्त्वाधिपामेव मूर्तिं स्थूलां विचिंतयेत् ॥ ७.२,३८.७४ सदाशिवांता ब्रह्माद्यभवाद्याश्चाष्टमूर्तयः ॥ ७.२,३८.७४ शिवस्य मूर्तयः स्थूलाः शिवशास्त्रे विनिश्चिताः ॥ ७.२,३८.७५ घोरा मिश्रा प्रशान्ताश्च मूर्तयस्ता मुनीश्वरैः ॥ ७.२,३८.७५ फलाभिलाषरहितैश्चिन्त्याश्चिन्ताविशारदैः ॥ ७.२,३८.७६ घोराश्चेच्चिंतिताः कुर्युः पापरोगपरिक्षयम् ॥ ७.२,३८.७६ चिरेण मिश्रे सौम्ये तु न सद्यो न चिरादपि ॥ ७.२,३८.७७ सौम्ये मुक्तिर्विशेषेण शांतिः प्रज्ञा प्रसिध्यति ॥ ७.२,३८.७७ सिध्यंति सिद्धयश्चात्र क्रमशो नात्र संशयः ॥ ७.२,३८.७८ ओं इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे योगगतौ विघ्नोत्पत्तिवर्णनं नामाष्टत्रिंशो ऽध्यायः अध्याय ३९ उपमन्युरुवाच श्रीकंठनाथं स्मरतां सद्यः सर्वार्थसिद्धयः ॥ ७.२,३९.१ प्रसिध्यंतीति मत्वैके तं वै ध्यायंति योगिनः ॥ ७.२,३९.१ स्थित्यर्थं मनसः केचित्स्थूलध्यानं प्रकुर्वते ॥ ७.२,३९.२ स्थूलं तु निश्चलं चेतो भवेत्सूक्ष्मे तु तत्स्थिरम् ॥ ७.२,३९.२ शिवे तु चिंतिते साक्षात्सर्वाः सिध्यन्ति सिद्धयः ॥ ७.२,३९.३ मूर्त्यंतरेषु ध्यातेषु शिवरूपं विचिंतयेत् ॥ ७.२,३९.३ लक्षयेन्मनसः स्थैर्यं तत्तद्ध्यायेत्पुनः पुनः ॥ ७.२,३९.४ ध्यानमादौ सविषयं ततो निर्विषयं जगुः ॥ ७.२,३९.४ तत्र निर्विषयं ध्यानं नास्तीत्येव सतां मतम् ॥ ७.२,३९.५ बुद्धेर्हि सन्ततिः काचिद्ध्यानमित्यभिधीयते ॥ ७.२,३९.५ तेन निर्विषया बुद्धिः केवलेह प्रवर्तते ॥ ७.२,३९.६ तस्मात्सविषयं ध्यानं बालार्ककिरणाश्रयम् ॥ ७.२,३९.६ सूक्ष्माश्रयं निर्विषयं नापरं परमार्थतः ॥ ७.२,३९.७ यद्वा सविषयं ध्यानं तत्साकारसमाश्रयम् ॥ ७.२,३९.७ निराकारात्मसंवित्तिर्ध्यानं निर्विषयं मतम् ॥ ७.२,३९.८ निर्बीजं च सबीजं च तदेव ध्यानमुच्यते ॥ ७.२,३९.८ निराकारश्रयत्वेन साकाराश्रयतस्तथा ॥ ७.२,३९.९ तस्मात्सविषयं ध्यानमादौ कृत्वा सबीजकम् ॥ ७.२,३९.९ अंते निर्विषयं कुर्यान्निर्बीजं सर्वसिद्धये ॥ ७.२,३९.१० प्राणायामेन सिध्यंति देव्याः शांत्यादयः क्रमात् ॥ ७.२,३९.१० शांतिः प्रशांतिर्दीप्तिश्च प्रसादश्च ततः परम् ॥ ७.२,३९.११ शमः सर्वापदां चैव शांतिरित्यभिधीयते ॥ ७.२,३९.११ ५९७ तमसो ऽन्तबहिर्नाशः प्रशान्तिः परिगीयते ॥ ७.२,३९.१२ बहिरन्तःप्रकाशो यो दीप्तिरित्यभिधीयते ॥ ७.२,३९.१२ स्वस्थता या तु सा बुद्धः प्रसादः परिकीर्तितः ॥ ७.२,३९.१३ कारणानि च सर्वाणि सबाह्याभ्यंतराणि च ॥ ७.२,३९.१३ बुद्धेः प्रसादतः क्षिप्रं प्रसन्नानि भवन्त्युत ॥ ७.२,३९.१४ ध्याता ध्यानं तथा ध्येयं यद्वा ध्यानप्रयोजनम् ॥ ७.२,३९.१४ एतच्चतुष्टयं ज्ञात्वा ध्याता ध्यानं समाचरेत् ॥ ७.२,३९.१४ ज्ञानवैराग्यसंपन्नो नित्यमव्यग्रमानसः ॥ ७.२,३९.१५ श्रद्दधानः प्रसन्नात्मा ध्याता सद्भिरुदाहृतः ॥ ७.२,३९.१५ ध्यै चिंतायां स्मृतो धातुः शिवचिंता मुहुर्मुहुः ॥ ७.२,३९.१६ योगाभ्यासस्तथाल्पे ऽपि यथा पापं विनाशयेत् ॥ ७.२,३९.१७ ध्यायतः क्षणमात्रं वा श्रद्धया परमेश्वरम् ॥ ७.२,३९.१७ अव्याक्षिप्तेन मनसा ध्यानमित्यभिधीयते ॥ ७.२,३९.१८ बुद्धिप्रवाहरूपस्य ध्यानस्यास्यावलंबनम् ॥ ७.२,३९.१९ ध्येयमित्युच्यते सद्भिस्तच्च सांबः स्वयं शिवः ॥ ७.२,३९.१९ विमुक्तिप्रत्ययं पूर्णमैश्वर्यं चाणिमादिकम् ॥ ७.२,३९.२० शिवध्यानस्य पूर्णस्य साक्षादुक्तं प्रयोजनम् ॥ ७.२,३९.२० यस्मात्सौख्यं च मोक्षं च ध्यानादभयमाप्नुयात् ॥ ७.२,३९.२१ तस्मात्सर्वं परित्यज्य ध्यानयुक्तो भवेन्नरः ॥ ७.२,३९.२१ नास्ति ध्यानं विना ज्ञानं नास्ति ध्यानमयोगिनः ॥ ७.२,३९.२२ ध्यानं ज्ञानं च यस्यास्ति तीर्णस्तेन भवार्णवः ॥ ७.२,३९.२२ ज्ञानं प्रसन्नमेकाग्रमशेषोपाधिवर्जितम् ॥ ७.२,३९.२३ योगाभ्यासेन युक्तस्य योगिनस्त्वेव सिध्यति ॥ ७.२,३९.२३ प्रक्षीणाशेषपापानां ज्ञाने ध्याने भवेन्मतिः ॥ ७.२,३९.२४ पापोपहतबुद्धीनां तद्वार्तापि सुदुर्लभा ॥ ७.२,३९.२४ यथावह्निर्महादीप्तः शुष्कमार्द्रं च निर्दहेत् ॥ ७.२,३९.२५ तथा शुभाशुभं कर्म ध्यानाग्निर्दहते क्षणात् ॥ ७.२,३९.२५ अत्यल्पो ऽपि यथा दीपः सुमहन्नाशयेत्तमः ॥ ७.२,३९.२६ योगाभ्यासस्तथाल्पो ऽपि महापापं विनाशयेत् ॥ ७.२,३९.२६ ध्यायतः क्षणमात्रं वा श्रद्धया परमेश्वरम् ॥ ७.२,३९.२७ यद्भवेत्सुमहच्छ्रेयस्तस्यांतो नैव विद्यते ॥ ७.२,३९.२७ नास्ति ध्यानसमं तीर्थं नास्ति ध्यानसमं तपः ॥ ७.२,३९.२८ नास्ति ध्यानसमो यज्ञस्तस्माद्ध्यानं समाचरेत् ॥ ७.२,३९.२८ तीर्थानि तोयपूर्णानि देवान्पाषाणमृन्मयान् ॥ ७.२,३९.२९ योगिनो न प्रपद्यंते स्वात्मप्रत्ययकारणात् ॥ ७.२,३९.२९ योगिनां च वपुः सूक्ष्मं भवेत्प्रत्यक्षमैश्वरम् ॥ ७.२,३९.३० यथा स्थूलमयुक्तानां मृत्काष्ठाद्यैः प्रकल्पितम् ॥ ७.२,३९.३० यथेहांतश्चरा राज्ञः प्रियाः स्युर्न बहिश्चराः ॥ ७.२,३९.३१ तथांतर्ध्याननिरताः प्रियाश्शंभोर्न कर्मिणः ॥ ७.२,३९.३१ बहिस्करा यथा लोके नातीव फलभोगिनः ॥ ७.२,३९.३२ ५९८ दृष्ट्वा नरेन्द्रभवने तद्वदत्रापि कर्मिणः ॥ ७.२,३९.३२ यद्यंतरा विपद्यंते ज्ञानयोगार्थमुद्यतः ॥ ७.२,३९.३३ योगस्योद्योगमात्रेण रुद्रलोकं गमिष्यति ॥ ७.२,३९.३३ अनुभूय सुखं तत्र स जातो योगिनां कुले ॥ ७.२,३९.३४ ज्ञानयोगं पुनर्लब्ध्वा संसारमतिवर्तते ॥ ७.२,३९.३४ जिज्ञासुरपि योगस्य यां गतिं लभते नरः ॥ ७.२,३९.३५ न तां गतिमवाप्नोति सर्वैरपि महामखैः ॥ ७.२,३९.३५ द्विजानां वेदविदुषां कोटिं संपूज्य यत्फलम् ॥ ७.२,३९.३६ भिक्षामात्रप्रदानेन तत्फलं शिवयोगिने ॥ ७.२,३९.३६ यज्ञाग्निहोत्रदानेन तीर्थहोमेषु यत्फलम् ॥ ७.२,३९.३७ योगिनामन्नदानेन तत्समस्तं फलं लभेत् ॥ ७.२,३९.३७ ये चापवादं कुर्वंति विमूढाश्शिवयोगिनाम् ॥ ७.२,३९.३८ श्रोतृभिस्ते प्रपद्यन्ते नरकेष्वामहीक्षयात् ॥ ७.२,३९.३८ सति श्रोतरि वक्तास्यादपवादस्य योगिनाम् ॥ ७.२,३९.३९ तस्माच्छ्रोता च पापीयान्दण्ड्यस्सुमहतां मतः ॥ ७.२,३९.३९ ये पुनः सततं भक्त्या भजंति शवयोगिनः ॥ ७.२,३९.३९ ते विदंति महाभोगानंते योगं च शांकरम् ॥ ७.२,३९.४० भोगार्थिभिर्नरैस्तस्मात्संपूज्याः शिवयोगिनः ॥ ७.२,३९.४० प्रतिश्रयान्नपानाद्यैः शय्याप्रावरणादिभिः ॥ ७.२,३९.४१ योगधर्मः ससारत्वादभेद्यः पापमुद्गरैः ॥ ७.२,३९.४१ वज्रतंदुलवज्ज्ञेयं तथा पापेन योगिनः ॥ ७.२,३९.४२ न लिप्यंते च तापौघैः पद्मपत्रं यथांभसा ॥ ७.२,३९.४२ यस्मिन्देशे वसेन्नित्यं शिवयोगरतो मुनिः ॥ ७.२,३९.४३ सो ऽपि देशो भवेत्पूतः सपूत इति किं पुनः ॥ ७.२,३९.४३ तस्मात्सर्वं परित्यज्य कृत्यमन्यद्विचक्षणः ॥ ७.२,३९.४४ सर्वदुःखप्रहाणाय शिवयोगं समभ्यसेत् ॥ ७.२,३९.४४ सिद्धयोगफलो योगी लोकानां हितकाम्यया ॥ ७.२,३९.४५ भोगान्भुक्त्वा यथाकामं विहरेद्वात्र वर्तताम् ॥ ७.२,३९.४५ अथवा क्षुद्रमित्येव मत्वा वैषयिकं सुखम् ॥ ७.२,३९.४६ त्यक्त्वा विरागयोगेन स्वेच्छया कर्म मुच्यताम् ॥ ७.२,३९.४६ यस्त्वासन्नां मृतिं मर्त्यो दृष्टारिष्टं च भूयसा ॥ ७.२,३९.४७ स योगारम्भनिरतः शिवक्षेत्रं समाश्रयेत् ॥ ७.२,३९.४७ स तत्र निवसन्नेव यदि धीरमना नरः ॥ ७.२,३९.४८ प्राणान्विनापि रोगाद्यैः स्वयमेव परित्यजेत् ॥ ७.२,३९.४८ कृत्वाप्यनशनं चैव हुत्वा चांगं शिवानले ॥ ७.२,३९.४९ क्षिप्त्वा वा शिवतीर्थेषु स्वदेहमवगाहनात् ॥ ७.२,३९.४९ शिवशास्त्रोक्तविधिवत्प्राणान्यस्तु परित्यजेत् ॥ ७.२,३९.५० सद्य एव विमुच्येत नात्र कार्या विचारणा २ ॥ ७.२,३९.५० रोगाद्यैर्वाथ विवशः शिवक्षेत्रं समाश्रितः ॥ ७.२,३९.५१ म्रियते यदि सोप्येवं मुच्यते नात्र संशयः ॥ ७.२,३९.५१ १ उद्योगं कुर्वत इत्यर्थः २ न चासावात्मघातक इति पाठान्तरम् ५९८ यथा हि मरणं श्रेष्ठमुशंत्यनशनादिभिः ॥ ७.२,३९.५२ शास्त्रविश्रंभधीरेण मनसा क्रियते यतः ॥ ७.२,३९.५२ शिवनिन्दारतं हत्वा पीडितः स्वयमेव वा ॥ ७.२,३९.५३ यस्त्यजेद्दुस्त्यजान्प्राणान्न स भूयः प्रजायते ॥ ७.२,३९.५३ शिवनिन्दारतं हंतुमशक्तो यः स्वयं मृतः ॥ ७.२,३९.५४ सद्य एव प्रमुच्येत त्रिः सप्तकुलसंयुतः ॥ ७.२,३९.५४ शिवार्थे यस्त्यजेत्प्राणाञ्छिवभक्तार्थमेव वा ॥ ७.२,३९.५५ न तेन सदृशः कश्चिन्मुक्तिमार्गस्थितो नरः ॥ ७.२,३९.५५ तस्माच्छीघ्रतरा मुक्तिस्तस्य संसारमंडलात् ॥ ७.२,३९.५६ एतेष्वन्यतमोपायं कथमप्यवलम्ब्य वा ॥ ७.२,३९.५६ षडध्वशुद्धिं विधिवत्प्राप्तो वा म्रियते यदि ॥ ७.२,३९.५७ पशूनामिव तस्येह न कुर्यादौर्ध्वदैहिकम् ॥ ७.२,३९.५७ नैवाशौचं प्रपद्येत तत्पुत्रादिविशेषतः ॥ ७.२,३९.५८ शिवचारार्थमथवा शिवविद्यार्थमेव वा ॥ ७.२,३९.५८ खनेद्वा भुवि तद्देहं दहेद्वा शुचिनाग्निना ॥ ७.२,३९.५८ क्षिपेद्वाप्सु शिवास्वेव त्यजेद्वा काष्ठलोष्टवत् ॥ ७.२,३९.५९ अथैनमपि चोद्दिश्य कर्म चेत्कर्तुमीप्सितम् ॥ ७.२,३९.५९ कल्याणमेव कुर्वीत शक्त्या भक्तांश्च तर्पयेत् ॥ ७.२,३९.६० धनं तस्य भजेच्छैवः शैवी चेतस्य सन्ततिः ॥ ७.२,३९.६० नास्ति चेत्तच्छिवे दद्यान्नदद्यात्पशुसन्ततिः ॥ ७.२,३९. ६० ओं इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे शैवयोगवर्णनं नामैकोनचत्वारिंशो ऽध्यायः अध्याय ४० श्रीसूत उवाच इति स विजितमन्योर्यादवेनोपमन्योरधिगतमभिधाय ज्ञानयोगं मुनिभ्यः ॥ ७.२,४०.१ प्रणतिमुपगतेभ्यस्तेभ्य उद्भावितात्मा सपदि वियति वायुः सायमन्तर्हितो ऽभूत् ॥ ७.२,४०.१ ततः प्रभातसमये नैमिषीयास्तपोधनाः ॥ ७.२,४०.२ सत्रान्ते ऽवभृथं कर्तुं सर्व एव समुद्ययुः ॥ ७.२,४०.२ तदा ब्रह्मसमादेशाद्देवी साक्षात्सरस्वती ॥ ७.२,४०.३ प्रसन्ना स्वादुसलिला प्रावर्तत नदीशुभा ॥ ७.२,४०.३ सरस्वतीं नदीं दृष्ट्वा मुनयो हृष्टमानसाः ॥ ७.२,४०.४ समाप्य सत्रं प्रारब्धं चक्रुस्तत्रावगाहनम् ॥ ७.२,४०.४ अथ संतर्प्य देवादींस्तदीयैः सलिलैः शिवैः ॥ ७.२,४०.५ स्मरन्तः पूर्ववृत्तान्तं ययुर्वाराणसीं प्रति ॥ ७.२,४०.५ तदा ते हिमवत्पादात्पंततीं दक्षिणामुखीम् ॥ ७.२,४०.६ दृष्ट्वा भागीरथी तत्र स्नात्वा तत्तीरतो ययुः ॥ ७.२,४०.६ ततो वाराणसीं प्राप्य मुदितास्सर्व एव ते ॥ ७.२,४०.७ तदोत्तरप्रवाहायां गंगायामवगाह्य च ॥ ७.२,४०.७ अविमुक्तेश्वरं लिंगं दृष्ट्वाभ्यर्च्य विधानतः ॥ ७.२,४०.८ प्रयातुमुद्यतास्तत्र ददृशुर्दिवि भास्वरम् ॥ ७.२,४०.८ सूर्यकोटिप्रतीकाशं तेजोदिव्यं महाद्भुतम् ॥ ७.२,४०.९ आत्मप्रभावितानेन व्याप्तसर्वदिगन्तरम् ॥ ७.२,४०.९ अथ पाशुपताः सिद्धाः भस्मसञ्छन्नविग्रहाः ॥ ७.२,४०.१० मुनयो ऽभ्येत्य शतशो लीनाः स्युस्तत्र तेजसि ॥ ७.२,४०.१० ५९९ तथा विलीयमानेषु तपस्विषु महात्मसु ॥ ७.२,४०.११ सद्यस्तिरोदधे तेजस्तदद्भुतमिवाभवत् ॥ ७.२,४०.११ तद्दृष्ट्वा महदाश्चर्यं नैमिषीया महर्षयः ॥ ७.२,४०.१२ किमेतदित्यजानन्तो ययुर्ब्रह्मवनं प्रति ॥ ७.२,४०.१२ प्रागेवैषां तु गमनात्पवनो लोकपावनः ॥ ७.२,४०.१३ दर्शनं नैमिषीयाणां संवादस्तैर्महात्मनः ॥ ७.२,४०.१३ शद्धां बुद्धिं ततस्तेषां सांबे सानुचरे शिवे ॥ ७.२,४०.१४ समाप्तिं चापि सत्रस्य दीर्घपूर्वस्य सत्रिणाम् ॥ ७.२,४०.१४ विज्ञाप्य जगतां धात्रे ब्रह्मणे ब्रह्मयोनये ॥ ७.२,४०.१५ स्वकार्ये तदनुज्ञातो जगाम स्वपुरं प्रति ॥ ७.२,४०.१५ अथ स्थानगतो ब्रह्मा तुम्बुरोर्नारदस्य च ॥ ७.२,४०.१६ परस्पर स्पर्धितयोर्गाने विवदमानयोः ॥ ७.२,४०.१६ तदुद्भावितगानोत्थरसैर्माध्यस्थमाचरन् ॥ ७.२,४०.१७ गन्धर्वैरप्सरोभिश्च सुखमास्ते निषेवितः ॥ ७.२,४०.१७ तदानवसरादेव द्वाःस्थैर्द्वारि निवारिताः ॥ ७.२,४०.१८ मुनयो ब्रह्मभवनाद्बहिः पार्श्वमुपाविशन् ॥ ७.२,४०.१८ अथ तुम्बुरुणा गाने समतां प्राप्य नारदः ॥ ७.२,४०.१९ साहचर्येष्वनुज्ञातो ब्रह्मणा परमेष्ठिना ॥ ७.२,४०.१९ त्यक्त्वा परस्परस्पर्धां मैत्रीं च परमां गतः ॥ ७.२,४०.२० सह तेनाप्सरोभिश्च गन्धर्वैश्च समावृतः ॥ ७.२,४०.२० उपवीणयितुं देवं नकुलीश्वरमीश्वरम् ॥ ७.२,४०.२१ भवनान्निर्ययौ धातुर्जलदादंशुमानिव ॥ ७.२,४०.२१ तं दृष्ट्वा षट्कुलीयास्ते नारदं मुनिगोवृषम् ॥ ७.२,४०.२२ प्रणम्यावसरं शंभोः पप्रच्छुः परमादरात् ॥ ७.२,४०.२२ स चावसर एवायमितोंतर्गम्यतामिति ॥ ७.२,४०.२३ वदन्ययावन्यपरस्त्वरया परया युतः ॥ ७.२,४०.२३ ततो द्वारि स्थिता ये वै ब्रह्मणे तान्न्यवेदयन् ॥ ७.२,४०.२४ तेन ते विविशुर्वेश्म पिंडीभूयांडजन्मनः ॥ ७.२,४०.२४ प्रविश्य दूरतो देवं प्रणम्य भुवि दंडवत् ॥ ७.२,४०.२५ समीपे तदनुज्ञाताः परिवृत्योपतस्थिरे ॥ ७.२,४०.२५ तांस्तत्रावस्थितान् पृष्ट्वा कुशलं कमलासनः ॥ ७.२,४०.२६ वृत्तांतं वो मया ज्ञातं वायुरेवाह नो यतः ॥ ७.२,४०.२६ भवद्भिः किं कृतं पश्चान्मारुतेंतर्हिते सति ॥ ७.२,४०.२७ इत्युक्तवति देवेशे मुनयो ऽवभृथात्परम् ॥ ७.२,४०.२७ गंगातीर्थेस्य गमनं यात्रां वाराणसीं प्रति ॥ ७.२,४०.२८ दर्शनं तत्र लिंगानां स्थापितानां सुरेश्वरैः ॥ ७.२,४०.२८ अविमुक्तेश्वरस्यापि लिंगस्याभ्यर्चनं सकृत् ॥ ७.२,४०.२९ आकाशे महतस्तस्य तेजोराशेश्च दर्शनम् ॥ ७.२,४०.२९ मुनीनां विलयं तत्र निरोधं तेजसस्ततः ॥ ७.२,४०.३० याथात्म्यवेदनं तस्य चिंतितस्यापि चात्मभिः ॥ ७.२,४०.३० सर्वं सविस्तरं तस्मै प्रणम्याहुर्मुहुर्मुहुः ॥ ७.२,४०.३१ मुनिभिः कथितं श्रुत्वा विश्वकर्मा चतुर्मुखः ॥ ७.२,४०.३१ कंपयित्वा शिरः किंचित्प्राह गंभीरया गिरा ॥ ७.२,४०.३२ प्रत्यासीदति युष्माकं सिद्धिरामुष्मिकी परा ॥ ७.२,४०.३२ ५९९ भवद्भिर्दीर्घसत्रेण चिरमाराधितः प्रभुः ॥ ७.२,४०.३३ प्रसादाभिमुखो भूत इति भुतार्थसूचितम् ॥ ७.२,४०.३३ वाराणस्यां तु युष्माभिर्यद्दृष्टं दिवि दीप्तिमत् ॥ ७.२,४०.३४ तल्लिंगसंज्ञितं साक्षात्तेजो माहेश्वरं परम् ॥ ७.२,४०.३४ तत्र लीनाश्च मुनयः श्रौतपाशुपतव्रताः ॥ ७.२,४०.३५ मुक्ता बभूवुः स्वस्थाश्च नैष्ठिका दग्धकिल्बिषाः ॥ ७.२,४०.३५ प्राप्यानेन यथा मुक्तिरचिराद्भवतामपि ॥ ७.२,४०.३६ स चायमर्थः सूच्येत युष्मद्दृष्टेन तेजसा ॥ ७.२,४०.३६ तत्र वः काल एवैष दैवादुपनतः स्वयम् ॥ ७.२,४०.३७ प्रयात दक्षिणं मेरोः शिखरं देवसेवितम् ॥ ७.२,४०.३७ सनत्कुमारो यत्रास्ते मम पुत्रः परो मुनिः ॥ ७.२,४०.३८ प्रतीक्ष्यागमनं साक्षाद्भूतनाथस्य नंदिनः ॥ ७.२,४०.३८ पुरा सनत्कुमारोपि दृष्ट्वापि परमेश्वरम् ॥ ७.२,४०.३९ अज्ञानात्सर्वयोगीन्द्रमानी विनयदूषितः ॥ ७.२,४०.३९ अभ्युत्थानादिकं युक्तमकुर्वन्नतिनिर्भयः ॥ ७.२,४०.४० ततो ऽपराधात्क्रुद्धेन महोष्ट्रो नंदिना कृतः ॥ ७.२,४०.४० अथ कालेन महता तदर्थे शोचता मया ॥ ७.२,४०.४१ उपास्य देवं देवीञ्च नंदिनं चानुनीय वै ॥ ७.२,४०.४१ कथंचिदुष्ट्रता तस्य प्रयत्नेन निवारिता ॥ ७.२,४०.४२ प्रापितो हि यथापूर्वं सनत्पूर्वां कुमारताम् ॥ ७.२,४०.४२ तदाह च महादेवः स्मयन्निव गणाधिपम् ॥ ७.२,४०.४३ अवज्ञाय हि मामेव तथाहंकृतवान्मुनिः ॥ ७.२,४०.४३ अतस्त्वमेव याथात्म्यं ममास्मै कथयानघ ॥ ७.२,४०.४४ ब्रह्मणः पूर्वजः पुत्रो मां मूढ इव संस्मरन् ॥ ७.२,४०.४४ मयैव शिष्यते दत्तो मम ज्ञानप्रवर्तकः ॥ ७.२,४०.४५ धर्माध्यक्षाभिषेकं च तव निर्वर्तयिष्यति ॥ ७.२,४०.४५ स एवं व्याहृतो भूयस्सर्वभूतगणाग्रणीः ॥ ७.२,४०.४६ यत्पराज्ञापनं मूर्ध्ना प्रातः प्रतिगृहीतवान् ॥ ७.२,४०.४६ तथा सनत्कुमारो ऽपि मेरौ मदनुशासनात् ॥ ७.२,४०.४७ प्रसादार्थं गणस्यास्य तपश्चरति दुश्चरम् ॥ ७.२,४०.४७ द्रष्टव्यश्चेति युष्माभिः प्राग्गणेशसमागमात् ॥ ७.२,४०.४८ तत्प्रसादार्थमचिरान्नंदी तत्रागमिष्यति ॥ ७.२,४०.४८ इति सत्वरमादिश्य प्रेषिता विश्वयोगिना ॥ ७.२,४०.४९ कुमारशिखरं मेरोर्दक्षिणं मुनयो ययुः ॥ ७.२,४०.४९ ओं इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे नैमिषर्षियात्रावर्णनं नाम चत्वारिंशो ऽध्यायः अध्याय ४१ सूत उवाच तत्र स्कंदसरो नाम सरस्सागरसन्निभम् ॥ ७.२,४१.१ अमृतस्वादुशिशिरस्वच्छा गाधलघूदकम् ॥ ७.२,४१.१ समंततः संघटितं स्फटिको पलसंचयैः ॥ ७.२,४१.२ सर्वर्तुकुसुमैः फुल्लैश्छादिताखिलदिङ्मुखम् ॥ ७.२,४१.२ शैवलैरुत्पलैः पद्मैः कुमुदैस्तारकोपमैः ॥ ७.२,४१.३ तरंगैरभ्रसंकाशैराकाशमिव भूमिगम् ॥ ७.२,४१.३ सुखावतरणारोहैः स्थलैर्नीलशिलामयैः ॥ ७.२,४१.४ सोपानमार्गौ रुचिरैश्शोभमानाष्टदिङ्मुखम् ॥ ७.२,४१.४ ६०० तत्रावतीर्णैश्च यथा तत्रोत्तीर्णश्च भूयसा ॥ ७.२,४१.५ स्नातैः सितोपवीतैश्च शुक्लाकौपीनवल्कलैः ॥ ७.२,४१.५ जटाशिखायनैर्मुंडैस्त्रिपुंड्रकृतमंडनैः ॥ ७.२,४१.६ विरागविवशस्मेरमुखैर्मुनिकुमारकैः ॥ ७.२,४१.६ घटैः कमलिनीपत्रपुटैश्च कलशैः शिवैः ॥ ७.२,४१.७ कमण्डलुभिरन्यैश्च तादृशैः करकादिभिः ॥ ७.२,४१.७ आत्मार्थं च परार्थं च देवतार्थं विशेषतः ॥ ७.२,४१.८ आनीयमानसलिलमात्तपुष्पं च नित्यशः ॥ ७.२,४१.८ अंतर्जलशिलारूढैर्नीचानां स्पर्शशंकया ॥ ७.२,४१.९ आचारवद्भिर्मुनिभिः कृतभस्मांगधूसरैः ॥ ७.२,४१.९ इतस्ततो ऽप्सु मज्जद्भिरिष्टशिष्टैः शिलागतैः ॥ ७.२,४१.१० तिलैश्च साक्षतैः पुष्पैस्त्यक्तदर्भपवित्रकैः ॥ ७.२,४१.१० देवाद्यमृषिमध्यं च निर्वर्त्य पितृतर्पणम् ॥ ७.२,४१.११ निवेदयेदभिज्ञेभ्यो नित्यस्नानगतान् द्विजान् ॥ ७.२,४१.११ स्थानेस्थाने कृतानेकबलिपुष्पसमीरणैः ॥ ७.२,४१.१२ सौरार्घ्यपूर्वं कुर्वद्भिःस्थंडलेभ्यर्चनादिकम् ॥ ७.२,४१.१२ क्वचिन्निमज्जदुन्मज्जत्प्रस्रस्तगजयूथपम् ॥ ७.२,४१.१३ क्वचिच्च तृषयायातमृगीमृगतुरंगमम् ॥ ७.२,४१.१३ क्वचित्पीतजनोत्तीर्णमयूरवरवारणम् ॥ ७.२,४१.१४ क्वचित्कृततटाघातवृषप्रतिवृषोज्ज्वलम् ॥ ७.२,४१.१४ क्वचित्कारंडवरवैः क्वचित्सारसकूजितैः ॥ ७.२,४१.१५ क्वचिच्च कोकनिनदैः क्वचिद्भ्रमरगीतिभिः ॥ ७.२,४१.१५ स्नानपानादिकरणैः स्वसंपद्द्रुमजीविभिः ॥ ७.२,४१.१६ प्रणयात्प्राणिभिस्तैस्तैर्भाषमाणमिवासकृत् ॥ ७.२,४१.१६ कूलशाखिशिखालीनकोकिलाकुलकूजितैः ॥ ७.२,४१.१७ आतपोपहतान्सर्वान्नामंत्रयदिवानिशम् ॥ ७.२,४१.१७ उत्तरे तस्य सरसस्तीरे कल्पतरोरधः ॥ ७.२,४१.१८ वेद्यां वज्रशिलामय्यां मृदुले मृगचर्मणि ॥ ७.२,४१.१८ सनत्कुमारमासीनं शश्वद्बालवपुर्धरम् ॥ ७.२,४१.१९ तत्कालमात्रोपरतं समाधेरचलात्मनः ॥ ७.२,४१.१९ उपास्यमानं मुनिभिर्योगींद्रैरपि पूजितम् ॥ ७.२,४१.२० ददृशुर्नैमिषेयास्ते प्रणताश्चोपतस्थिरे ॥ ७.२,४१.२० यावत्पृष्टवते तस्मै प्रोचुः स्वागतकारणम् ॥ ७.२,४१.२१ तुमुलः शुश्रुवे तावद्दिवि दुंदुभिनिस्वनः ॥ ७.२,४१.२१ ददृशे तत्क्षणे तस्मिन्विमानं भानुसन्निभम् ॥ ७.२,४१.२२ गणेश्वरैरसंख्येयैः संवृतं च समंततः ॥ ७.२,४१.२२ अप्सरोगणसंकीर्णं रुद्रकन्याभिरावृतम् ॥ ७.२,४१.२३ मृदंगमुरजोद्घुष्टं वेणुवीणारवान्वितम् ॥ ७.२,४१.२३ चित्ररत्नवितानाढ्यं मुक्तादामविराजितम् ॥ ७.२,४१.२४ मुनिभिस्सिद्धगंधर्वैर्यक्षचारणकिन्नरैः ॥ ७.२,४१.२४ नृत्यद्भिश्चैव गायद्भिर्वादयद्भिश्च संवृतम् ॥ ७.२,४१.२५ वीरगोवृषचिह्नेन विद्रमद्रुमयष्टिना ॥ ७.२,४१.२५ कृतगोपुरसत्कारं केतुना मान्यहेतुना ॥ ७.२,४१.२६ तस्य मध्ये विमानस्य चामरद्वितयांतरे ॥ ७.२,४१.२६ छत्त्रस्य मणिदंडस्य चंद्रस्येव शुचेरधः ॥ ७.२,४१.२७ दिव्यसिंहासनारूढं देव्या सुयशया सह ॥ ७.२,४१.२७ ६०० श्रिया च वपुषा चैव त्रिभिश्चापि विलोचनैः ॥ ७.२,४१.२८ प्राकारैरभिकृत्यानां प्रत्यभिज्ञापकं प्रभोः ॥ ७.२,४१.२८ अविलंघ्य जगत्कर्तुराज्ञापनमिवागतम् ॥ ७.२,४१.२९ सर्वानुग्रहणं शंभोः साक्षादिव पुरःस्थितम् ॥ ७.२,४१.२९ शिलादतनयं साक्षाच्छ्रीमच्छूलवरायुधम् ॥ ७.२,४१.३० विश्वेश्वरगणाध्यक्षं विश्वेश्वरमिवापरम् ॥ ७.२,४१.३० विश्वस्यापि विधात्ःणां निग्रहानुग्रहक्षमम् ॥ ७.२,४१.३१ चतुर्बाहुमुदारांगं चन्द्ररेखाविभूषितम् ॥ ७.२,४१.३१ कंठे नागेन मौलौ च शशांकेनाप्यलंकृतम् ॥ ७.२,४१.३२ सविग्रहमिवैश्वर्यं सामर्थ्यमिव सक्रियम् ॥ ७.२,४१.३२ समाप्तमिव निर्वाणं सर्वज्ञमिव संगतम् ॥ ७.२,४१.३३ दृष्ट्वा प्रहृष्टवदनो ब्रह्मपुत्रः सहर्षिभिः ॥ ७.२,४१.३३ तस्थौ प्राञ्जलिरुत्थाय तस्यात्मानमिवार्पयन् ॥ ७.२,४१.३४ अथ तत्रांतरे तस्मिन्विमाने चावनिं गते ॥ ७.२,४१.३४ प्रणम्य दण्डवद्देवं स्तुत्वा व्यज्ञापयन्मुनीम् ॥ ७.२,४१.३५ षट्कुलीया इमे दीर्घं नैमिषे सत्रमास्थिताः ॥ ७.२,४१.३५ आगता ब्रह्मणादिष्टाः पूर्वमेवाभिकांक्षया ॥ ७.२,४१.३५ श्रुत्वा वाक्यं ब्रह्मपुत्रस्य नंदीछित्त्वा पाशान्दृष्टिपातेन सद्यः ॥ ७.२,४१.३६ शैवं धर्मं चैश्वरं ज्ञानयोगं दत्त्वा भूयो देवपार्श्वं जगाम ॥ ७.२,४१.३६ सनत्कुमारेण च तत्समस्तं व्यासाय साक्षाद्गुरवे ममोक्तम् ॥ ७.२,४१.३७ व्यासेन चोक्तं महितेन मह्यं मया च तद्वः कथितं समासात् ॥ ७.२,४१.३७ नावेदविद्भ्यः कथनीयमेतत्पुराणरत्नं पुरशासनस्य ॥ ७.२,४१.३८ नाभक्तशिष्याय च नास्तिकेभ्यो दत्तं हि मोहान्निरयं ददाति ॥ ७.२,४१.३८ मार्गेण सेवानुगतेन यैस्तद्दत्तं गृहीतं पठितं श्रुतं वा ॥ ७.२,४१.३९ तेभ्यः सुखं धर्ममुखं त्रिवर्गं निर्वाणमंते नियतं ददाति ॥ ७.२,४१.३९ परस्परस्योपकृतं भवद्भिर्मया च पौराणिकमार्गयोगात् ॥ ७.२,४१.४० अतो गमिष्ये ऽहमवाप्तकामः समस्तमेवास्तु शिवं सदा नः ॥ ७.२,४१.४० सूते कृताशिषि गते मुनयः सुवृत्ता यागे च पर्यवसिते महति प्रयोगे ॥ ७.२,४१.४१ काले कलौ च विषयैः कलुषायमाणे वाराणसीपरिसरे वसतिं विनेतुः ॥ ७.२,४१.४१ अथ च ते पशुपाशमुमुक्षयाखिलतया कृतपाशुपतव्रताः ॥ ७.२,४१.४२ अधिकृताखिलबोधसमाधयः परमनिर्वृतिमापुरनिंदिताः ॥ ७.२,४१.४२ व्यास उवाच एतच्छिवपुराणं हि समाप्तं हितमादरात् ॥ ७.२,४१.४३ पठितव्यं प्रयत्नेन श्रोतव्यं च तथैव हि ॥ ७.२,४१.४३ नास्तिकाय न वक्तव्यमश्रद्धाय शठाय च ॥ ७.२,४१.४४ अभक्ताय महेशस्य तथा धर्मध्वजाय च ॥ ७.२,४१.४४ एतच्छ्रुत्या ह्येकवारं भवेत्पापं हि भस्मसात् ॥ ७.२,४१.४५ अभक्तो भक्तिमाप्नोति भक्तो भक्तिसमृद्धिभाक् ॥ ७.२,४१.४५ पुनः श्रुते च सद्भक्तिर्मुक्तिस्स्याच्च श्रुतेः पुनः ॥ ७.२,४१.४६ तस्मात्पुनःपुनश्चैव श्रोतव्यं हि मुमुक्षुभिः ॥ ७.२,४१.४६ ६०१ पञ्चावृत्तिः प्रकर्तव्या पुराणस्यास्य सद्धिया ॥ ७.२,४१.४७ परं फलं समुद्दिश्य तत्प्राप्नोति न संशयः ॥ ७.२,४१.४७ पुरातनाश्च राजानो विप्रा वैश्याश्च सत्तमाः ॥ ७.२,४१.४८ सप्तकृत्वस्तदावृत्त्यालभन्त शिवदर्शनम् ॥ ७.२,४१.४८ श्रोष्यत्यथापि यश्चेदं मानवो भक्तितत्परः ॥ ७.२,४१.४९ इह भुक्त्वाखिलान्भोगानंते मुक्तिं लभेच्च सः ॥ ७.२,४१.४९ एतच्छिवपुराणं हि शिवस्यातिप्रियं परम् ॥ ७.२,४१.५० भुक्तिमुक्तिप्रदं ब्रह्मसंमितं भक्तिवर्धनम् ॥ ७.२,४१.५० एतच्छिवपुराणस्य वक्तुः श्रोतुश्च सर्वदा ॥ ७.२,४१.५१ सगणस्ससुतस्सांबश्शं करोतु स शंकरः ॥ ७.२,४१.५१ ओं इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे व्यासोपदेशश्रीशिवमहापुराणमाहात्म्यवर्णनं नामैकचत्वारिंशो ऽध्यायः समाप्तो ऽयं ग्रन्थः ६०१