कोकिलसंदेश पूर्वभागः सौधे तुङ्गे सह दयितया को ऽपि सङ्क्रीडमानः प्राप स्वापं परमपुरुषः शेषभोगे श्रियेव । चित्रा दैवी गतिरियमसौ शैलजामण्डितायां काञ्च्यां कम्पातटभुवि तयानन्वितो बुध्यते स्म ॥ १.१ ॥ त्वामानिन्युः सुभग शयितं लीलया नीलकेश्यो द्रष्टुं देवं वरुणपुरतः सम्पतन्त्यो विमानैः । अत्रामुञ्चन्नपि भगवतीकिङ्करोक्त्या सशङ्काः शुश्रावेत्थं स पुनरवपुस्सङ्ग्रहां व्योम्नि वाणीम् ॥ १.२ ॥ क्षेत्रे चास्मिन्सकलविपदां भञ्जने पञ्च मासानासीथाश्चेत्प्रियजनवियोगार्तिरूर्ध्वं न ते स्यात् । आकर्ण्येमां पुनरिति तथा सैष चक्रे निवासं क्लेशो भूयानपि बहुमतः श्लाघ्यते चेदुदर्कः ॥ १.३ ॥ तत्र द्वित्रान्प्रियसहचरीविप्रयोगातिदीर्घान्कामार्तो ऽयं शिवशिव समुल्लङ्घ्य मासान्कथञ्चित् । चैत्रारम्भे समुदितमधुश्रीकटाक्षाभिरामं चूताङ्कूरास्वदनरसिकं कोकिलं सन्ददर्श ॥ १.४ ॥ तं कूजन्तं कलमधुरया पञ्चमस्वानभङ्ग्या कान्तालापस्मरणविवशः किञ्चिदारादुपेत्य । दत्वा नेत्राञ्जलिपुटभृतैरर्घ्यमश्रुप्रवाहैर्जाताश्वासः स्फुटमिति गिरा श्राव्यया सन्दिदेश ॥ १.५ ॥ अत्रायाहि प्रियसख ननु स्वागतं पश्य पार्श्वे प्रत्यग्रोद्यन्मधुरसकणस्वेदिनीं चूतवल्लीम् । त्वत्सम्पर्कं सुभग नियतं काङ्क्षते ऽसौ विलोला लोलम्बाक्षी चलकिसलयैराह्वयन्ती सरागा ॥ १.६ ॥ अन्तस्तोषं मम वितनुषे हन्त जाने भवन्तं स्कन्धावारप्रथमसुभटं पञ्चबाणस्य राज्ञः । कूजाव्याजाद्धितमुपदिशन्कोकिलाव्याजबन्धो कान्तैः साकं ननु घटयसे कामिनीर्मानभाजः ॥ १.७ ॥ वाचालं मा परभृत कृथा मां प्रियाविप्रयुक्तं प्रायः प्राप्तं प्रणयवचनं त्वादृशे मादृशानाम् । किञ्चिल्लीनां किसलयपुटे कोकिलामाकुलात्मा त्वं चापश्यन्बत विरहिणां येन जानासि तापम् ॥ १.८ ॥ यावत्कालं महितपतगाधीश कार्ये नियोक्तुं सङ्कोचं मे व्रजति रसना सन्दिदिक्षोर्मृगाक्ष्याः । तावत्कालं तव च हृदयं तान्तिमेतीति शङ्के दीनापन्नप्रणयघटने दीर्घसूत्रेतरस्य ॥ १.९ ॥ सन्देशं मे नय खगपते साधय भ्रातृकृत्यं सन्तापार्तां सुवचन समाश्वासय प्रेयसीं मे । कान्तोदन्तः सुहृदुपनतो विप्रयोगार्दितानां प्रायः स्त्रीणां भवति किमपि प्राणसन्धारणाय ॥ १.१० ॥ गन्तव्यस्ते त्रिदिवविजयी मङ्गलाग्रेण देशः प्राप्तः ख्यातिं विहिततपसः प्राग्जयन्तस्य नाम्ना । पारे चूर्ण्याः परिसरसमासीनगोविन्दवक्षो लक्ष्मीवीक्षाविवलनसुधाशीतलः केरलेषु ॥ १.११ ॥ तत्र द्रक्ष्यस्यखिलमहिलामौलिमालायमानां बालामेनां नियतमधुना मद्वियोगेन दीनाम् । कल्याणी सा कनककदलीकन्दलीकोमलाङ्गी कन्दर्पाग्निं कथमिव कुकूलाग्निकल्पं सहेत ॥ १.१२ ॥ अध्वानं ते हितमुपदिशाम्यश्रमेणैव गन्तुं स्निग्धच्छायैस्तरुभिरभितः शान्तघर्मप्रचारम् । संस्कर्तासि ध्रुवमुपगतो यत्र पत्रीन्द्र तेषामुद्दामानामपि नवनवोद्यानलीलायितानाम् ॥ १.१३ ॥ श्रीकामाक्ष्या विनतममरैरुत्सवं फाल्गुनाख्यं दृष्ट्वा यान्त्यः स्वभवनमुपारूढनानाविमानाः । त्वत्संल्लापश्रवणतरलाः पश्चिमाम्भोधिवेला पर्यन्तं ते वरुणनगरीमञ्जुवाचः सहायाः ॥ १.१४ ॥ आकर्षन्तः प्रतिनवलतापुष्पगन्धोपहारानासिञ्चन्तः सरणिमभितः शीतलैः शीथुलेशैः । भृङ्गीनादैर्मधुरमधुरं व्याहरन्तो वलन्ते कम्पाकूलोपवनपवना बन्धवस्ते ऽनुकूलाः ॥ १.१५ ॥ वन्दस्वारात्प्रियसख पुनर्दर्शनायात्र शौरेः काञ्चीभर्तुः करिगिरितटे पुण्यमेनं विमानम् । आधत्ते यत्कनकवलभीनीडलीनैः कपोतैरद्याप्यम्भोरुहभवमखालग्नधूमाभिशङ्काम् ॥ १.१६ ॥ पीठेष्वष्टादशसु महितं कामपीठं भजेथाः पारेकम्पं स्वयमिह परा देवता सन्निधत्ते । सभ्रूचापं नयनजलदं प्राप्य यस्याः कृपापं तुण्डीरक्ष्मा सुलभकवितासस्यवृद्धिः समिन्धे ॥ १.१७ ॥ उड्डीयास्माद्बकुलसरसात्स त्वमुद्यानदेशात्प्रादक्षिण्याद्व्रज परिसरे पुण्यमेकाम्रवृक्षम् । मूले यस्य प्रकृतिसुभगे मुक्तकैलासलोभो देवः साक्षाद्वसति वलयाङ्काह्वयश्चन्द्रचूडः ॥ १.१८ ॥ दृष्ट्वा शम्भुं गगनसरणावुज्जिहाने त्वयि द्राक्पक्षद्वन्द्वव्यजनपवनोच्चालिताभ्यो लताभ्यः । उत्थास्यन्ति भ्रमरतरुणाः सिक्तदेहा मरन्दैरुद्यानश्रीप्रहितसजलापाङ्गभङ्गानुकाराः ॥ १.१९ ॥ स्पष्टालक्ष्यस्त्वयि पिक समालम्बमाने ऽम्बरान्तं काञ्चीदेशः किमपि वसुधां भूषयन्गौरवेण । तत्सौन्दर्यापहृतहृदयो मा विलम्बस्व गन्तुं बन्धुत्राणाद्बहुमतिपदं नापरं त्वद्विधानाम् ॥ १.२० ॥ आशां पाशायुधतिलकितामाश्रयन्नात्तवेगः कूलोन्मीलत्क्रमुककुहलीचामरान्दोलितोर्मिम् । द्रक्ष्यस्यग्रे विकचकमलोद्गन्धिमाध्वीकपानात्क्षीबक्षीबभ्रमरतरुणीसेवितां क्षीरसिन्धुम् ॥ १.२१ ॥ पक्षोद्यौतैः पतग पुरजित्कन्धराकाण्डनीलैर्व्याप्ताभोगा विसृमरतरैर्व्योम सीमन्तयन्ती । सुव्यक्तं ते गमनसरणिः सूत्रयेदूर्ध्वमस्याः सिन्धुस्नेहोपगतयमुनावेणिवीथीविलासम् ॥ १.२२ ॥ चूते चूते कुसुमकलिकां त्वां च दृष्ट्वा समेतं बालाशोकाहननमरुणैरङ्घ्रिभिस्तन्वतीनाम् । तन्वङ्गीनां श्रवणसुभगैर्नूपुराणां विरावैर्वाचालाः स्युर्नियतमभितः कूलमारामसीमाः ॥ १.२३ ॥ स्नातोत्तीर्णाः सजलकणिकासुन्दरोरोजकुम्भाः श्यामापङ्कैः शुभपरिमलैः स्पृष्टमाङ्गल्यभूषाः । तीरे तस्या द्रमिडसुदृशो दर्शनीया विलोक्य प्रायो भावी क्षणमिव सखे गच्छतस्ते विलम्बः ॥ १.२४ ॥ धूमस्तोमैः सवनजनितैर्धूसरोपान्तवृक्षाः प्रौढश्लाघ्यैर्मुखरितमठाः पावनैर्ब्रह्मघोषैः । रुद्धाभोगा द्विजवरविधिस्नानपूतैस्तटाकैर्द्रष्टव्यास्ते तदनु सरितं दक्षिणेनाग्रहाराः ॥ १.२५ ॥ सा वैदग्धी श्रुतिषु स पुनः सर्वशास्त्रावगाहस्तच्चाम्लानप्रसरसरसं निष्कलङ्कं कवित्वम् । तत्रत्यानां किमिह बहुना सर्वमेतत्पठन्तः शृङ्गे शृङ्गे गृहविटपिनां स्पष्टयिष्यन्ति कीराः ॥ १.२६ ॥ तानुल्लङ्घ्य स्मितकुवलयस्निग्धमुत्कन्धराणां चोलस्त्रीणामयि सफलयन्नेत्रमुत्पक्ष्ममालम् । विल्वक्षेत्रं विश पशुपतेर्वेश्म नीवासमीरैर्धूतालिन्दध्वजपटशिखैर्नूनमाहूयमानः ॥ १.२७ ॥ कामः स्वामी किल शलभतामाप नेत्रस्फुलिङ्गे मा मा भैषीरिति भवभिदो दर्शनाच्चन्द्रमौलेः । श्यामा वर्णे वचसि मधुरा चञ्चला दृग्विलासे वामोत्सङ्गे लसति करुणा कापि कामं दुहाना ॥ १.२८ ॥ पक्षिस्वानैः पटुमदकलैः स्वागतानि ब्रुवाणा व्याकीर्णार्घ्याः कुसुममधुभिर्वीजयन्तः प्रवालैः । तत्रारामाः सुरभिसचिवं त्वां सखे मानयेयुस्तुल्यप्रीतिर्भवति हि जनो राजवद्राजमित्रे ॥ १.२९ ॥ काले तस्मिन्करधृतगलन्नीवयो वारकान्ताः सम्भोगान्ते निबिडलतिकामन्दिरेभ्यश्चलन्त्यः । वीतस्वेदास्तव विहरतः पक्षपालीसमीरैराखिन्नभ्रूवलनमलसैरर्चयिष्यन्त्यपाङ्गैः ॥ १.३० ॥ भूयो गच्छन्जनपदमिमं स त्वमुल्लङ्घ्य चोलानालोकेथास्तरलहरिणीनेत्रतापिञ्छितानि । कान्ताराणि प्रसवशयनैश्छिन्नगुञ्जाकलापैः कुञ्जे कुञ्जे कथितशबरद्वन्द्वलीलायितानि ॥ १.३१ ॥ तत्रत्यास्त्वां कुसुमकलिकाशीथुधारां वमन्तो नीरन्ध्रेषु स्खलितगतयो निर्झरीशीकरेषु । वल्लीडोलाविहरदटवीदेवतालालनीयाः सेविष्यन्ते चपलचमरीबालभारास्समीराः ॥ १.३२ ॥ चुम्बन्बिम्बाधरमिव नवं पल्लवं शीथुगर्भं प्राप्ताश्लेषः स्तन इव नवे कोरके कामचारी । भोक्तासि त्वं कमपि समयं तत्र माकन्दवल्लीः कान्तारागे सति विकसिते कः पुमांस्त्यक्तुमीष्टे ॥ १.३३ ॥ दष्ट्वा चञ्च्वा कनककपिशा मञ्जरीश्चूतषण्डात्पक्षच्छायाशबलितनभोभागमुद्गत्वरं त्वाम् । विद्युत्वन्तं नवजलधरं मन्यमानाः सलीलं नर्तिष्यन्ति प्रियसख चलत्पिञ्छभारा मयूराः ॥ १.३४ ॥ दृश्या दूरे तदनु लहरीसम्पतद्राजहंसा सा कावेरी मदजलझरी सह्यदन्तावलस्य । मेघश्यामो भुजगशयनो मेदिनीहारयष्टेर्मध्ये यस्या मरतक इव प्रेक्ष्यते रङ्गनाथः ॥ १.३५ ॥ पुण्यानस्यास्तटभुवि पुरीखर्वटग्रामरुद्धानुद्यानद्रुप्रसवसुरभीन्होसलान्गाहमानः । लक्ष्मीनारायणपुरमिति ख्यातमन्तर्मुरारेः प्राप्यावासं भव पिकपते पावनानां पुरोगः ॥ १.३६ ॥ तत्रत्यानां रुचिरचिकुरन्यस्तसौगन्धिकानां तारुण्योष्माञ्चितकुचतटीवित्रुटत्कञ्चुकानाम् । नासामुक्ताभरणकिरणोन्मिश्रमन्दस्मितानां वेशस्त्रीणां भवति विवशो विभ्रमैर्दर्पको ऽपि ॥ १.३७ ॥ ताश्चेन्मानग्रथितहृदयाः सन्नतान्नाद्रि येरन्कान्ताः कान्तान्परभृत कुहूकारमेकं विमुञ्च । सन्तु त्रस्यन्निजनिजवधूदोर्लतालिङ्गितानां यूनामार्द्रस्मितसहचरास्त्वय्यपाङ्गानुषङ्गाः ॥ १.३८ ॥ क्रीडन्तीनां मुखरितलतामन्दिरं खेचरीणां भूषानादैर्भुवनविदितं सह्यशैलं श्रयेथाः । क्षत्रध्वंसात्स्वयमुपरतो विप्रसात्कृत्य कृत्स्नं पृथ्वीचक्रं भृगुकुलपतिर्यत्तटे सन्निधत्ते ॥ १.३९ ॥ त्वञ्चद्धूमान्दवहुतभुजो ज्वालमालाजटालान्वल्गद्भृङ्गान्वनविटपिनो भासुरान्पल्लवौघैः । दृष्ट्वा दूरादनुमिनुतमामुष्णशीतैः समीरैः सन्दिग्धायां विपदि सहसावृत्तिरार्तिं हि सूते ॥ १.४० ॥ दृष्ट्वा तत्रामलकधरणीमन्दिरं शार्ङ्गपाणिं तस्माच्छैलात्तटमवतरन्किञ्चिदाकुञ्च्य पक्षौ । कूले ऽम्भोधेः क्रमुककलिलां केरलक्षोणिमग्रे पश्य स्फीतां भृगुसुतभुजाविक्रमोपक्रमं या ॥ १.४१ ॥ प्राप्तव्यस्ते यदि कृतमहो वाङ्मयीतीरवासी देवो दक्षाध्वरविमथनोड्डामरश्चन्द्रचूडः । आस्ते शातत्रिशिखशिखया दारुकं जघ्नुषी सा यस्यादूरे मृगपतिशिरस्तस्थुषी भद्रकाली ॥ १.४२ ॥ सिक्तः स्वच्छैर्झरजलकणैस्तं भज व्योम्नि तिष्ठन्मुक्ताच्छन्नासितनवपटीकायमानायमानः । ध्वाङ्क्षभ्रान्त्या यदि परिजनास्त्वां समुत्सारयेरन्कूजां किञ्चित्कुरु ननु गिरा व्यज्यते सन्नसंश्च ॥ १.४३ ॥ इत्थं भक्त्या पुरमथनमाराध्य लब्धप्रसादः कृष्टः कृष्टः पथि पथि सखे केरलीनां कटाक्षैः । उच्चैः सौधैरुडुगणगतीरूर्ध्वमुत्सारयन्तीं फुल्लारामां प्रविश पुरलीक्ष्माभृतां राजधानीम् ॥ १.४४ ॥ येषां वंशे समजनि हरिश्चन्द्रनामा नरेन्द्रः प्रत्यापत्तिः पतग यदुपज्ञं च कौमारिलानाम् । युद्धे येषामहितहतये चण्डिका सन्निधत्ते तेषामेषां स्तुतिषु न भवेत्कस्य वक्त्रं पवित्रम् ॥ १.४५ ॥ पुत्रस्यासौ प्रियसख इति प्रीतिगर्भैः कटाक्षैर्दृष्टस्तस्यां पुरि विहरता रुक्मिणीवल्लभेन । तस्यैवाग्रे सदयमबलालूनसूनप्रवाले बालोद्याने क्वचन विहरन्मार्गखेदं विजह्याः ॥ १.४६ ॥ केलीयानक्वणितरशना कोमलाभ्यां पदाभ्यामालीहस्तार्पितकरतला तत्र चेदागता स्यात् । स्वाती नाम क्षितिपतिसुता सेवितुं देवमस्याः स्वैरालापैस्तव पिक गिरां कापि शिक्षा भवित्री ॥ १.४७ ॥ तामायान्तीं स्तनभरपरित्रस्तभुग्नावलग्नां स्वेदच्छेदच्छुरितवदनां श्रोणिभारेण खिन्नाम् । किञ्चिच्चञ्चूकलितकलिकाशीथुभारेण सिञ्चेश्चञ्चच्चिल्लीचलनसुभगान्लप्स्यसे ऽस्याः कटाक्षान् ॥ १.४८ ॥ कञ्चित्कालं धुतकिसलयाच्छादनं सप्रकम्पं प्रत्याख्यातभ्रमरतरुणा मञ्जरी भुज्यमाना । यात्रोद्युक्ते सुभग भवति व्यञ्जयेदात्मसादं मुक्ताश्च्योतन्मधुरसमिषान्मुञ्चती बाष्पलेशम् ॥ १.४९ ॥ दिग्यातव्या यदपि भवतो दक्षिणा रक्षणार्थं मत्प्राणानां पुनरपि सखे पश्चिमामेव यायाः । धूतारामं मुकुटतटिनीमारुतैस्तत्र शम्भोः सम्पद्ग्रामं यदि न भजसे जन्मना किं भृतेन ॥ १.५० ॥ सौधैस्तुङ्गैर्हसदिव सुधाक्षालितै राजताद्रिं तेजोराशेः प्रविश भवनं धूर्जटेरूर्जितं तत् । पार्श्वे पार्श्वे परिचितनमस्कारजातश्रमाणां क्ष्मादेवानां क्षणमनुभवंस्तालवृन्तस्य लीलाम् ॥ १.५१ ॥ उत्कीर्णानां कनकवलभीषूद्गतो विष्किराणां त्यक्ताशङ्कं प्रणम गिरिशं ध्याननिष्कम्पगात्रः । कण्ठच्छाया प्रतिफलति किं भर्तुरित्यद्रिपुत्र्या निध्यातः सन्कुतुकनिभृतैर्नेत्रपातैः पवित्रैः ॥ १.५२ ॥ श्रीनन्दिभ्रूनियमितमिथोरोधमाबद्धसेवान्ब्रह्मेन्द्राद्यान्क्वचन विबुधान्सादरं वीक्षमाणः । गायन्तीनां क्वचिदपि सखे कोमलान्किन्नरीणां वीणारावानुपशृणु भवत्कूजितेनाविशिष्टान् ॥ १.५३ ॥ दिव्यैश्वर्यं दिशसि भजतां वर्तसे भिक्षमाणो गौरीमङ्के वहसि भसितं पञ्चबाणं चकर्थ । कृत्स्नं व्याप्य स्फुरसि भुवनं मृग्यसे चागमान्तैः कस्ते तत्त्वं प्रभवति परिच्छेत्तुमाश्चर्यसिन्धो ॥ १.५४ ॥ इत्थं स्तुत्वा बहिरुपवनोपान्तमाकन्दशृङ्गे यावद्भानुर्व्रजति चरमं भूधरं तावदास्स्व । द्रक्ष्यस्यन्वक्सफलनयनं ताण्डवानीन्दुमौलेर्लास्यक्रीडाललितगिरिजापाङ्गसम्भावितानि ॥ १.५५ ॥ तस्मिन्काले बलिमहजुषां वारवामालकानां स्थालीचक्रे स्तनतटधृते सानुरागे हृदीव । बिम्बव्याजाद्विशति भवति स्यादमुष्येति शङ्के स्पष्टाङ्कस्य क्षणमुदयगस्येन्दुबिम्बस्य लक्ष्मीः ॥ १.५६ ॥ विष्वक्कीर्णैरिव पशुपतेः कन्धराकान्तिपुञ्जैर्वीतालोके जगति तिमिरैर्व्योमनीलाब्जभृङ्गैः । विश्रान्तः सन्क्वचन विपुले वृक्षशाखाकुटुम्बे तां तत्रैव क्षपय रजनीं श्रान्तविस्रस्तपक्षः ॥ १.५७ ॥ वेलावाताश्चरमजलधेर्वीचिमान्दोलयन्तः स्तोकोन्निद्रैः कुमुदमुकुलैः पीतमुक्ताः सरस्सु । स्वेदाङ्कूरान्सुरतजनितान्सुभ्रुवां चोरयन्तः सेविष्यन्ते निशि परभृत त्वां सुखेन प्रसुप्तम् ॥ १.५८ ॥ प्राप्तोन्मेषे प्रथमशिखरिप्रस्थदावाग्निकल्पे बालाशोकस्तबकरुचिरे भानवीये मयूखे । प्रस्थातुं त्वं पुनरपि सखे प्रक्रमेथाः प्रभाते स्वात्मक्लेशः सुहृदुपकृतौ त्वादृशानां सुखाय ॥ १.५९ ॥ पद्मोपान्तादुषसि रमणे प्राप्नुवत्येव पार्श्वं मध्ये मारज्वरपरवशां वीक्षमाणो रथाङ्गीम् । दूरं प्राप्ते मयि विधिवशाद्दूयमानां सखीं ते स्मारं स्मारं द्विगुणगमनोत्साह एव ध्रुवं स्याः ॥ १.६० ॥ दृष्ट्वा देवं परिसरजुषं शम्बरे बालकृष्णं लोपामुद्रासखतिलकितं दिङ्मुखं भूषयिष्यन् । कोलानेलावनसुरभिलान्याहि यत्र प्रथन्ते वेलातीतप्रथितवचसः शङ्कराद्याः कवीन्द्राः ॥ १.६१ ॥ उन्मज्जद्भिः पुनरिव जवात्पक्षवद्भिर्गिरीन्द्रैर्वृन्दैर्नावां भुजपटलिकोड्डामरैर्गाह्यमानम् । लक्ष्मीजानेः शयनसदनं पुष्पवाटं पुरारेः पाकस्थानं निखिलमरुतां पश्य वारान्निधानम् ॥ १.६२ ॥ मुक्ताजालैर्धवलपुलिनं वीचिमालाविकीर्णैः कूलाध्वानं कुसुमिततरुस्निग्धमालम्बमानः । देशाद्देशं व्रजसि कुतुकोत्तानमुग्धाननानां वामाक्षीणां नयनचुलकैः सादरं पीयमानः ॥ १.६३ ॥ कुर्यात्प्रीतिं तव नयनयोः कुक्कुटक्रोडनाम प्रासादाग्रोल्लिखितगगनं पत्तनं तत्प्रतीतम् । यद्दोर्वीर्यद्रढिमकरदीभूतराजन्यवीराः शूराग्रण्यः शिखरिजलधिस्वामिनः पालयन्ति ॥ १.६४ ॥ गेहे गेहे नवनवसुधाक्षालितं यत्र सौधं सौधे सौधे सुरभिकुसुमैः कल्पितं केलितल्पम् । तल्पे तल्पे रसपरवशं कामिनीकान्तयुग्मं युग्मे युग्मे स खलु विहरन्विश्ववीरो मनोभूः ॥ १.६५ ॥ व्यर्थं कर्णे नवकुवलयं विद्यमाने कटाक्षे भारो हारः स्तनकलशयोर्भासुरे मन्दहासे । यत्र स्निग्धेष्वपि कचभरेष्वेणशाबेक्षणानां माद्यद्भृङ्गे सति परिमले मङ्गलाय प्रसूनम् ॥ १.६६ ॥ यत्र ज्ञात्वा कृतनिलयनामिन्दिरामात्मकन्यां मन्ये स्नेहाकुलितहृदयो वाहिनीनां विवोढा । तत्तद्द्वीपान्तरशतसमानीतरत्नौघपूर्णं नौकाजालं मुहुरुपहरन्वीचिभिः श्लिष्यतीव ॥ १.६७ ॥ तत्सौधाग्रेष्वरुणदृषदां सान्द्रसिन्दूरकल्पं तेजःपुञ्जं किसलयधिया चर्वितुं मारभेथाः । दृष्ट्वा वातायनविनिहितैर्लोचनाब्जैस्तरुण्यो वल्गद्वक्षोरुहमुपचितैर्हस्ततालैर्हसेयुः ॥ १.६८ ॥ कृष्ट्वा दृष्टिं कथमपि ततः कौतुकानां निदानादुड्डीयेथाः पथि विटपिनां पुष्पमाध्वीं लिहानः । हारं हारं मदनपृतनाकाहलैः कण्ठनादैरुत्कण्ठानां जनपदमृगीलोचनानां मनांसि ॥ १.६९ ॥ ब्रह्माभ्यासप्रशमितकलीन्प्राप्य दीप्रान्प्रकाशान्श्वेतारण्यं व्रज बहुमतं धाम मृत्युञ्जयस्य । दृष्ट्वा दूरे सकृदपि जना यन्न पश्यन्त्यवश्यं मृत्योर्वक्त्रं निटिलघटितभ्रूकुटीकं कदाचित् ॥ १.७० ॥ सेव्यं शम्भोररुणमुरसस्ताडनाद्दण्दपाणेः पादाम्भोजं शिखरितनयापाणिसंवाहयोग्यम् । येनाक्रान्ते सति गिरिपतौ लोष्टमानास्यचक्रश्चक्रन्दाधःकृतभुजवनो रक्षसां चक्रवर्ती ॥ १.७१ ॥ पार्श्वे यस्य प्रवहति निला नाम कल्लोलिनी सा सन्ध्यानृत्तभ्रमिषु पतिता मस्तकाज्जाह्नवीव । नावाक्षेत्रप्रणयि रमयाक्रान्तदोर्मध्यमास्ते कूले यस्याः कुवलयदलश्यामलं धाम किञ्चित् ॥ १.७२ ॥ साकं कान्तैर्मिलति ललितं केरलीनां कदम्बे मत्प्रेयस्याः प्रियसख महामाघसेवागतायाः । पायं पायं मुखपरिमलं मोहनं यत्र मत्ताः प्रायो ऽद्यापि भ्रमरकलभा नैव जिघ्रन्ति पद्मान् ॥ १.७३ ॥ शैवालौघच्छुरितकमला सैकतस्रंसिहंसा नीता कार्श्यं तपनकिरणैर्वासरेष्वेषु सिन्धुः । आकीर्णास्यामलकनिकरैः श्रोणिविभ्रंशिकाञ्चीं मन्ये दीनां विरहदशया प्रेयसीं मे ऽनुयायात् ॥ १.७४ ॥ शास्ता तस्या यदि तटपथैः शम्बरक्रोडवासी तिष्ठन्नश्वे जविनि मृगयाकौतुकी सञ्चरेत । लुम्पेस्तस्य श्रमजलकणान्कोमलैः पक्षवातैर्भूयात्प्रीत्यै लघु च समये सेवनं हि प्रभूणाम् ॥ १.७५ ॥ सर्वोत्कृष्टा जगति विदिताः केरलेषु द्विजेन्द्रा वल्लीकौण्योस्तदपि महिमा कापि मध्यश्रितानाम् । तत्राप्यस्याः सलिलपवना यत्र यत्र प्रथन्ते तेषां तेषामतिशयजुषः शीलविद्यानुभावाः ॥ १.७६ ॥ ईष्टे तेषां स्तुतिषु न गुरुः का कथाल्पीयसां नो भ्रातर्भूयः शृणु परिमितं प्रस्तुताद्यावशेषम् । तामुत्तीर्णः सरितममृतस्यन्दिमाकन्दवृन्दान्देशान्पूतान्पत गुणगणैर्नेत्रनारायणीयैः ॥ १.७७ ॥ यः प्राक्पाणिग्रहणसमये शम्भुना सानुकम्पं हस्ते कृत्वा कथमपि शनैरश्मपृष्ठे न्यधायि । द्रष्टव्यो ऽसौ किसलयमृदुर्मुक्तिपुर्यालयायाः कात्यायन्या महिषमथनोड्डामरः पादपद्मः ॥ १.७८ ॥ किञ्चित्पूर्वं रणखलभुवि श्रीमदध्यक्षयेथास्तन्मीमांसाद्वयकुलगुरोः सद्म पुण्यं महर्षेः । विद्वद्वृन्दे विवदितुमनस्यागते यत्र शश्वद्व्याख्याशालावलभिनिलयस्तिष्ठते कीरसङ्घः ॥ १.७९ ॥ शास्त्रव्याख्या हरिहरकथा सत्क्रियाभ्यागतानामालापो वा यदि सह बुधैराक्षिपेदस्य चेतः । तद्विस्रब्धद्विजपरिवृते निष्कुटाद्रौ निषण्णः कोकूयेथाः स खलु मधुरां सूक्तिमाकर्ण्य तुष्येत् ॥ १.८० ॥ श्लाघ्यच्छन्दस्थितिमयि मया शोभने ऽर्थे नियुक्तं श्राव्यं शब्दैः सरससुमनोभाजमभ्रान्तवृत्तिम् । दूरप्राप्त्या प्रशिथिलमिव त्वां सखे काव्यकल्पं धीमान्पश्येत्स यदि ननु ते शुद्ध एव प्रचारः ॥ १.८१ ॥ पार्श्वादस्य प्रचलितवतः पावनानाहरन्तः कुन्दस्वच्छान्वृषपतिमुखासक्तरोमन्थफेनान् । छिन्द्युस्तापं तव वृषपुरीसङ्गिनः शङ्कराङ्क क्रीडद्गौरीकचतरलनोद्गन्धयो गन्धवाहाः ॥ १.८२ ॥ पूर्वो भागः स्तनभरनतः प्रेक्ष्यते चेच्चलाक्षः पश्चाद्भागो ललितचिकुरो दृश्यते नो नितम्बी । इत्थं गौर्या युगपदुभयं द्रष्टुकामो ऽष्टमूर्तिर्मूर्तिद्वन्द्वं वहति भगवान्यः स मुक्त्यै निषेव्यः ॥ १.८३ ॥ भूषाभोगिश्वसितपवनैः फालनेत्रे प्रदीप्ते स्विन्नस्येन्दोरमृतपृषतैरूर्जितं निर्गलद्भिः । मौलौ यस्य द्रुहिणशिरसां मण्डलं मण्डपान्तः क्ष्मादेवानां श्रुतिपदजुषां संशयानुच्छिनत्ति ॥ १.८४ ॥ द्वारोपान्तस्थितिकृदणिमापाङ्गदत्तेहितार्थैराशापालैर्निबिडितबहिःप्राङ्गणं सेवमानैः । तस्यादूरे कनकभवनं पक्षपातात्प्रविष्टः सम्पन्मूर्तिं प्रणम गिरिजां सा हि विश्वस्य माता ॥ १.८५ ॥ संसर्पद्भिस्तनुरुचिभरैः सङ्गमग्रामशौरेस्तापिञ्छाभैः स्तबकिततलं गाहमानो विहायः । तुल्यच्छायस्मृतनवतमालावलीवाससौख्यो मन्ये लोकैः क्षणमिव पृथङ्नो विभाविष्यसे त्वम् ॥ १.८६ ॥ कालीवासं भज पथि महत्काननं यत्र शश्वत्सेवायाते त्रिदशनिकरे श्राद्धदेवौपवाह्यम् । भूतैर्भेद्यो बलिमहिष इत्युद्भटैः कृष्टशृङ्गे रज्जुग्राहं रुदति विजया रूढहासं रुणद्धि ॥ १.८७ ॥ रम्यां हर्म्यध्वजपटमरुद्वीजितब्रध्नयुग्यामग्रे पश्याञ्जनखलपुरीमाश्रितां शङ्करेण । यत्राश्लिष्टो वरयुवतिभिश्चुम्बति स्विन्नगण्डं चूर्णीवातः प्रिय इव रतिश्रान्तमास्यारविन्दम् ॥ १.८८ ॥ सा च प्रेक्ष्या सरिदनुपदं यत्र कल्माषितायां मज्जन्माहोदयपुरवधूकण्ठकस्तूरिकाभिः । रक्ताः पद्माः कुवलयवनीसाम्यमापद्यमाना विज्ञायन्ते स्फुटमहिमधामोदये जृम्भमाणे ॥ १.८९ ॥ चारुस्वच्छा शफरनयना चक्रवाकस्तनश्रीः कल्लोलभ्रूः कमलवदना कम्रशैवालकेशा । संसेव्या स्यात्सरसमधुरा सानुकूलावतीर्णैर्दुर्गाहान्यैरिति हि सरणिः कापि गाम्भीर्यभाजाम् ॥ १.९० ॥ त्वय्याकाशे सुभग तटिनीं लम्बमाने सलीलं बिम्बं दृष्ट्वा पयसि मणिभङ्गामले कम्पमानम् । वीचीवेगप्रचलदसिताम्भोजिनीगुच्छबुद्ध्या कूजं कूजं मधुरमलयः कोकिल व्यालपेरन् ॥ १.९१ ॥ तीरं तस्याः प्रति गतवतो दक्षिणं तत्क्षणं ते देशः सर्वातिशयिविभवो दृक्पथेतः प्रथेत । तां जानीया दिशि दिशि जयन्ताख्यया ख्यायमानां प्रत्यादिष्टत्रिदिवनगरप्राभवां प्राप्यभूमिम् ॥ १.९२ ॥ बालोद्यानैः समदमहिलाभुक्तवल्लीनिकुञ्जैः केलीहंसक्षुभितनगरभ्रान्तभृङ्गैः सरोभिः । रत्नश्रेणीघटितशिखरैर्गोपुरैः सा पुरी ते प्रायः प्रज्ञाभरण सुगमा स्यादनावेदितापि ॥ १.९३ ॥ उत्तरभागः लक्ष्मीजन्मस्थितिमनुपमैः पूरितां रत्नजालैर्भूभृद्गर्भां प्रकटितकलेशोदयश्लाघ्यवृद्धिम् । पाथोराशेस्तनुमिव परां मन्यमानो विशालां यामध्यास्ते स खलु निगमाम्भोजभृङ्गो रथाङ्गी ॥ २.१ ॥ वक्त्रौपम्यं वहति विमलं पश्य पार्श्वे सुधांशोः पश्चाद्भागं सुमुखि रमणैरित्थमावेद्यमानाः । हर्म्ये यस्यां हरिणनयनाः कुर्वते ऽस्मिन्कलङ्कं दृष्ट्वा सेर्ष्या इव कुवलयाध्येयशोभैरपाङ्गैः ॥ २.२ ॥ वीथ्यां वीथ्यां वलरिपुशिलाभङ्गबद्धस्थलायां सम्मूर्छद्भिः किरणपटलैस्त्वद्गरुज्जालनीलैः । यत्रारब्धे दिनकरकरैरप्यहार्ये ऽन्धकारे लोलाक्षीणां भवति दिवसे निर्विशङ्को ऽभिसारः ॥ २.३ ॥ यस्यां रात्रौ युवतिवदनाम्भोजसौन्दर्यचौर्यात्सत्यं सौधध्वजपटशिखाघृष्टबिम्बे हिमांशौ । दृष्ट्वा कृष्णं किणमणिकणं हन्त गाढं प्ररूढं मूढो लोको वदति शशको रोहितो ऽन्यत्तथेति ॥ २.४ ॥ वीचीक्षिप्ता इव सुरधुनीबालशैवालमाला यत्रोदीर्णा मरतकरुचश्चन्द्रशालातलेभ्यः । घासभ्रान्त्या गगनपदवीदीर्घपान्थायमानाश्चञ्चत्प्रोथं तरणितुरगाश्चर्वितुं प्रारभन्ते ॥ २.५ ॥ यत्रोद्याने मलिनितदिशाकुञ्जपुञ्जे तरूणां शृङ्गे लग्ना भ्रमरपटलीनिर्विशेषाः पयोदाः । वापीष्वम्बून्यधिकसुरभीण्युत्सृजन्ति स्वकाले सोपानाग्रस्फटिककिरणोज्जृम्भणाम्रेडितानि ॥ २.६ ॥ अन्यामग्रे मम मणिगृहे भुक्तवानित्यवादीर्मुग्धे कान्तो धृतनखपदा भित्तिलीना किमेषा । इत्थं यस्यां स्मितलवजुषो ह्रेपयन्ते नवोढां सख्यस्तस्यास्तनुमनुपमां बिम्बितां दर्शयन्त्यः ॥ २.७ ॥ चिल्लीवल्या धनुषि घटिते क्षिप्त एवेक्षुकाण्डो नेत्रोपान्ते वहति शरतां न्यस्तमेवारविन्दम् । रोमावल्यामपि गुणदशां यत्र बिम्बाधराणां बिभ्राणायां मदनविभुना भ्रंशितैवालिमाला ॥ २.८ ॥ शृङ्गाराब्धिप्लव इव गलद्वेणि कम्प्रस्तनं तत्भ्रश्यन्नीवि स्थितमिति विटा वीक्ष्य संश्लिष्य यत्र । मुग्धाक्षीणां मुकुलितदृशां मोहनाडम्बरान्ते भूयः श्रान्तं पुनरपि रतोद्योगमुद्वेलयन्ति ॥ २.९ ॥ यस्यां मेघा हरिमणिशिलाहर्म्यपर्यन्तभाजो न ज्ञायेरन्श्रवणसुभगं गर्जितं चेन्न दद्युः । विद्युद्वल्ली पुनरपि नवारब्धसंभोगलीला वेल्लत्कान्ताविपुलजघनस्रस्तकाञ्चीसमैव ॥ २.१० ॥ तस्यां लक्ष्मीरमणनिलयं दक्षिणेनेक्षणीयं मत्कान्तायाः सदनमभितो वेष्टितं रत्नसालैः । मध्ये सौधं कनकघटितं बिभ्रदूढच्छदौघे यस्मिन्नम्भोरुह इव कनत्कर्णिके खेलति श्रीः ॥ २.११ ॥ माहाभाग्यं रतिपतिभुजाडम्बरः पौनरुक्त्यात्कल्याणौघः स्फुरति रसिकानन्तताप्यत्र हीति । एषामाद्यक्षरगणमुपादाय बद्धेन नाम्ना मान्यं मारक्करनिलयनं यत्कवीन्द्रा गृणन्ति ॥ २.१२ ॥ लीलावापी लसति ललिता तत्र सोपानमार्गे माणिक्यांशुस्फुरणसततस्मेरनालीकषण्डा । यत्रायान्त्याः पयसि विमले स्नातुमस्मत्प्रियाया मन्ये यानाभ्यसनविधये मल्लिकाक्षा वसन्ति ॥ २.१३ ॥ तस्यास्तीरे पुनरुपवनं तत्र चूतो ऽस्ति पोतस्त्वज्जतीयैः पिक परिवृतः पल्लवास्वादलुब्धैः । पार्श्वे चास्य स्तबकनमिता माधवीमुग्धवल्ली प्रेयस्या मे परिणयमहं प्रापितौ सादरं यौ ॥ २.१४ ॥ तस्यादूरे मरतकतले हेमबद्धालवालः सिक्तो मूले हिमजलभरैश्चम्पकः कश्चिदास्ते । लब्ध्वा सख्यास्तव स सुकृती स्मेरवक्त्राब्जरागं सूते तस्यास्तनुलतिकया तुल्यवर्णं प्रसूनम् ॥ २.१५ ॥ क्रीडानृत्ते भवनशिखिनां दूरमुक्ताहिसङ्गा सान्द्रच्छायाहृतरविकरा तत्र पाटीरवाटी । मध्ये तस्यां स खलु लतिकामण्डपो रत्नभूमिः शश्वद्यस्मिन्किमपि वलति स्मावयोः प्रेमवल्ली ॥ २.१६ ॥ स्निग्धस्कन्धस्रुतमधुरसः किञ्च तस्योपकण्ठे कूजद्भृङ्गः कुरवकतरुर्यः कुरङ्गेक्षणायाः । काले काले करिकरशिरोविभ्रमाभ्यां भुजाभ्यामाश्लिष्टाङ्गो वहति मुकुलच्छद्मना रोमभेदान् ॥ २.१७ ॥ स्थानेष्वेषु क्वचन कथितेषूत्सुका पुष्पशय्यामध्यासीना परिजनकृतां सा न चेदीक्षिता स्यात् । प्रासादो ऽस्याः परमभिमतः को ऽपि माहेन्द्रनीलस्तस्मिन्दृश्या तटिदिव घने चारुरूपा प्रिया मे ॥ २.१८ ॥ सा नेत्राणाममृतगुलिका सृष्टिसारो विधातुः सौन्दर्येन्दोः प्रथमकलिका दीपिका भूतधात्र्याः । कन्दर्पस्य त्रिभुवनविभोः काञ्चनी केतुयष्टिः शृङ्गाराब्धेः शशधरकला जीवितं मे द्वितीयम् ॥ २.१९ ॥ पश्यन्नेनां बहलसुषमामण्डलान्तर्निमग्नां मध्ये ऽन्यासामपि चलदृशां ज्ञास्यसे नो कथं त्वम् । ज्योत्स्नाजालस्नपितभुवना तारकाणां समीपे चान्द्री मूर्तिः कथय जगतो ज्ञाप्यते केन रात्रौ ॥ २.२० ॥ सान्द्रामोदस्तिमिरनिकरश्चन्द्रमा निष्कलङ्कः शैलौ हैमौ भ्रमरपटलीकीलितो व्योमभागः । कम्रं चक्रं मृदुकरिकरद्वन्द्वमब्जे सलीले सर्वं चैतन्मदनघटितं सौम्य सम्भूय साभूत् ॥ २.२१ ॥ नीचीकुर्वन्त्यलसवलिता नेत्रपाताः कुरङ्गान्वीचीगर्वं हरति निखिलं विभ्रमान्दोलिता भ्रूः । पाणी कल्पद्रुमकिसलयप्राभवं न क्षमेते वाणी तस्या वहति भवतां पञ्चमैर्बालमैत्रीम् ॥ २.२२ ॥ सा कान्तिश्चेद्द्रवति कनकं तन्मुखं चेत्क इन्दुः सा चेद्बिम्बाधरमधुरता तिक्ततामेति माध्वी । सा वा तस्या यदि तनुलता मालती लोहतुल्या तौ चेदूरू कनककदलीस्तम्भयोः क्वापि डम्भः ॥ २.२३ ॥ उक्तेष्वेव प्रसजति पुनर्नव्यलावण्यसारेष्वङ्गेष्वस्या मम कथयतो हन्त वाचां प्रवृत्तिः । तादृग्भूते मनसि विवशे किन्नु कुर्वीत सेयं यद्यच्चेतो विमृशति गिरां तत्तदेवाभिधेयम् ॥ २.२४ ॥ अद्य प्रायः प्रणयिनि मयि प्रोषिते भाग्यदोषात्कल्पप्रायैरहह दिवसैरेभिरुत्कण्ठमाना । सञ्जायेत प्रबलविरहोद्वेजिता पेशलाङ्गी मूर्छद्घर्मज्वरपरवशा नीलकण्ठीव खिन्ना ॥ २.२५ ॥ यत्रापाङ्गद्युतिकवचिते किञ्चिदुत्सार्य केशान्दत्तः प्रेम्णा दिनमनु मया दीर्घिकारक्तपद्मः । तस्मिन्नस्या भवति नियतं हन्त चिन्ताकुलाया गण्डन्यस्तः करकिसलयः कर्णजाहे ऽवतंसः ॥ २.२६ ॥ पक्ष्मस्पन्दः समजनि सखे पश्यतोर्मां ययोः प्राङ्निष्पत्राकृन्मयि तु विधिना तादृशे दूरनीते । अन्तर्बाष्पच्छुरणनिभृते साम्प्रतं ते मृगाक्ष्या नेत्रे धत्तस्तुहिनकणिकादन्तुराम्भोजदैन्यम् ॥ २.२७ ॥ सान्द्रामोदं सपटु सदयं सस्मरं सानुतर्षं सम्भोगान्ते मुहुरपि मया सादरं चुम्बितो यः । नर्मालापस्मितलवसुधासेचनैर्मुच्यमानस्ताम्यत्युष्णश्वसितपवनैः सो ऽति बिम्बाधरो ऽस्याः ॥ २.२८ ॥ क्रीडाशैलौ मदननृपतेः कान्तिपूरस्य कोकौ स्यातां तस्या ध्रुवमुरसिजौ किञ्चिदापाण्डुमूलौ । मद्विश्लेषः शरदुडुनिभां त्याजयन्हारमालां मन्ये भीतो वितरति तयोरश्रुधाराभिरन्याम् ॥ २.२९ ॥ भूषास्वास्थां यदपि जहती तां वहत्येव काञ्चीं ग्राहं ग्राहं पृथु पृथु मया मौक्तिकं गुम्भिता या । श्रोणीबिम्बे सुमहति तया भूषिते कोमलाङ्ग्याः सालावीतां स किल मदनो मन्यते राजधानीम् ॥ २.३० ॥ मच्चिताख्यद्विपनियमनालानयोर्द्वन्द्वमूर्वोः श्रोणीभारादलसमधुना जायते खिन्नखिन्नम् । आरब्धानां हर हर मया यत्र संवाहनानां नित्यं जाता निरवधिरसाः के ऽपि के ऽप्यन्तरायाः ॥ २.३१ ॥ आद्वारान्तं मदभिगमनाशङ्कया चञ्चलाक्ष्या यातायातैः किसलयनिभौ क्लिश्यतः पादपद्मौ । मिथ्यागोत्रस्खलनमसकृत्प्रस्तुतं हन्त याभ्यां लब्धुं पादप्रणतिषु मया हन्त सन्ताडनानि ॥ २.३२ ॥ यद्यप्यस्याः क्रशयति वपुर्वल्लरीं दीप्यमानो विश्लेषाग्निर्द्विगुणयति तां किन्तु लावण्यलक्ष्मीम् । तप्तां तप्तां नयति नितरां तानवं जातवेदा हैमीं लेखामपि तु जनयत्येव वर्णप्रकर्षम् ॥ २.३३ ॥ पृथ्वीरेणूनलकनिकरे नेत्रयोर्बाष्पपूरं हस्ते गण्डं सितबिसलताहारजालं स्तनाग्रे । श्रोण्यां क्षौमं मलिनमसृणं सा वहत्येव हन्तेत्यास्तामेतद्बहुविलपितैर्मास्तु कालातिपातः ॥ २.३४ ॥ स्थित्वा चूते प्रथमकथिते मुग्धकान्ताधराभं दष्ट्वा स्वैरं किसलयमथ प्रेक्षणीया त्वया सा । पृच्छन्ती वा मलयवपनं प्रश्रयान्मत्प्रवृत्तिं मद्वृत्तान्तं कथय कठिनस्येति वा प्रार्थयन्ती ॥ २.३५ ॥ छिन्ते तापं हिमजलमयी चान्दनी किन्नु चर्चा मन्दस्पन्दाः किमु सुखकरा मारुताश्चामराणाम् । पृच्छन्तीनामिति सवयसां सातिरेके ऽपि तापे स्मित्वा रम्यं सकलमिति वा चित्तमाश्वासयन्ती ॥ २.३६ ॥ प्रस्पन्दन्ते मलयपवना रुन्धि जालं कवाटैः शम्भोर्नाम्ना शरगणमुचं भीषयेः पञ्चबाणम् । जीवञ्जीवं विसृज चरितुं चन्द्रिके चन्द्रिकायामित्थं चेटीं सजलनयनामादिशन्ती मुहुर्वा ॥ २.३७ ॥ प्राप्तालम्बा परिजनकरैः प्राप्य वा चित्रशालां मुग्धा स्वस्याश्चरणपतितं वेति तं मां निरीक्ष्य । एह्युत्तिष्ठ प्रिय न कुपितास्मीति बाष्पाकुलाक्षी गाढाश्लेषप्रचलितकरा रुध्यमाना सखीभिः ॥ २.३८ ॥ कोपं चण्डि त्यज परिजने दैवमत्रापराद्धं येनाकाण्डे समघटि महानावयोर्विप्रयोगः । इत्थं बद्धाञ्जलि कृतरुषं भावितामग्रतस्तां साहंभूता प्रियचटुशतैरुद्यता वानुनेतुम् ॥ २.३९ ॥ गण्डालम्बैर्लुलितमलकैर्धूसरैर्वक्त्रबिम्बं दृष्ट्वा शुद्धस्फटिकघटिते बिम्बितं भित्तिभागे । अन्तर्गेहं जलदशकलैरावृतो रोहिताङ्कः केनानीतः पुर इति भिया व्याहरन्ती सखीर्वा ॥ २.४० ॥ निद्रां प्राप्ता कथमपि चिरात्तत्र चालोकिनी मां शून्याश्लेषं विरचितवती हन्त घातात्कुचाद्र्योः । निर्भिन्दाना निजकरधृतं कङ्कणं स्रस्तशेषं पश्यन्तीनां नयनकमले बध्नती वा सखीनाम् ॥ २.४१ ॥ वक्ति ध्वाङ्क्षः सुहृदुपगमं दक्षिणे क्षीरवृक्षे वामं नेत्रं स्फुरति सुचिरादुच्छ्वसित्यद्य चेतः । किञ्च स्वानः श्रवणमधुरो जायते कोकिलानां प्राणेष्वाशामिति कथमपि भ्रातराबध्नती वा ॥ २.४२ ॥ मुक्त्वा जीवाम्यसुसममिति व्रीलिता विस्मिता वा तत्सङ्गाशा पुनरिह परं हेतुरित्यासिता वा । शोचन्ती मां दयितमथवा विप्रयोगासहिष्णुं स्त्रीणां चेष्टास्विति हि विरहोत्थासु दिङ्मात्रमेतत् ॥ २.४३ ॥ गाढाश्लेषव्यतिकररसग्रन्थनादूयमानः सम्भोगान्ते स्वपनविधये यः पुरा धूयते स्म । कण्ठोत्सङ्गान्मम स विधिना वैरिणा दूरकृष्टो वामो बाहुस्त्वयि सविधगे यास्यति स्पन्दमस्याः ॥ २.४४ ॥ वक्तुर्वक्त्रं तमसि भवतो नैव दृश्येत रात्रावामध्याह्नं भवति नियमव्याकुला वासरे सा । सह्यस्पर्शे सति रविकरे तामसह्यस्मरार्तिं मत्सन्देशं मणिवलभिकामाश्रितः श्रावयेथाः ॥ २.४५ ॥ त्यक्त्वा चूतानपि कुसुमितानागतो मत्समीपं किन्न्वेष स्यात्कमपि कुशलोदन्तमाख्यातुकामः । इत्यालीभिर्भृतजलकणं पाणिनामृष्टनेत्रं दृष्टः स्पष्टाक्षरमिति शनैः शंसितुं प्रक्रमेथाः ॥ २.४६ ॥ अम्लाना ते जयति कमनीयाङ्गि मङ्गल्यभूषा पत्युः पार्श्वात्सुहृदहमुपेतो ऽस्मि सन्देशहारः । जातं विद्धि श्रुतिसुखगिरां कोकिलानां कुले मां ये पञ्चेषोः किमपि पथिकाकर्षणं षष्ठमस्त्रम् ॥ २.४७ ॥ चोलेष्वास्ते सुमुखि कुशली त्वत्प्रियः पृच्छति त्वां कच्चित्क्षेमं भजति भवतीत्यात्तवाचं भवन्तम् । भूयोभूयः कथय कथयेत्यालपन्त्यश्रुमिश्रैः प्रीतिस्मेरैर्मदिरनयना मानयिष्यत्यपाङ्गैः ॥ २.४८ ॥ एवं ब्रूयाः पुनरजनि यः प्रेमकोपे मिथो वां जाते मौने चपलचपलस्तत्क्षणं पूर्वमुक्त्याम् । तादृक्प्रेम्णश्चिरविरहिणः प्राणनाथस्य वाणी सेयं मत्तः श्रवणसरसा श्रूयतां श्राव्यबन्धा ॥ २.४९ ॥ कल्याणाङ्गि प्रियसहचरीं त्वामनासादयद्भिर्बाह्यैरक्षैः सह परमहं यामि कामप्यवस्थाम् । धन्यं चेतः पुनरिदमहोरात्रमन्यानपेक्षं त्वय्यामग्नं बत ननु पृथग्भाग्यमप्येकजानाम् ॥ २.५० ॥ माद्यद्भृङ्गैः कुमुदपवनैस्तर्ज्यमानस्य घोरैरातङ्काख्ये सरसि लुठतो हा निशीथे निशीथे । निद्रामूके जगति रुदति श्वासचिन्ताजुषो मे सङ्क्रन्दन्तश्चटुलनयने चक्रवाकाः सहायाः ॥ २.५१ ॥ मोहाद्वैतं विहरति धृतिर्लीयते जाड्यमीने भात्युन्मादो भ्रमति मतिरित्यादि सो ऽहं न वेद्मि । बाणं मुञ्चन्परिसरचरो न स्वपन्नापि खादन्कृत्स्नं जानात्यलसगमने केवलं पञ्चबाणः ॥ २.५२ ॥ काले चास्मिन्कनदलिभृतः कम्पिताग्रप्रवालाः कम्रा वल्ल्यः किमपि मरुता चुम्बिता दक्षिणेन । किञ्चिद्दष्टाधरकिसलयां प्राङ्मया भोगकाले सीत्कुर्वाणां धुतकरतलां त्वां प्रिये स्मारयन्ति ॥ २.५३ ॥ अंसालम्बिश्लथकचभरं हस्तरुद्धाम्बरान्तं प्राक्क्रीडान्ते तव मणिगवाक्षोपकण्ठेषु चारम् । स्मारं स्मारं कथमपि मया मुह्यता सह्यते ऽसौ मन्दो वायुः सुतनु बकुलोद्भेदसौरभ्यबन्धुः ॥ २.५४ ॥ तीर्त्वा रात्रिं विरहमहतीं तीव्रतापां कथञ्चिद्दृष्ट्वा भानोः किरणमरुणं जम्भशत्रोर्दिगन्ते । प्रत्युद्यान्तीं त्वरितमबलां श्लिष्यते भाग्यसीम्ने सारङ्गाक्षि स्पृहयति मनो हन्त चक्राख्ययूने ॥ २.५५ ॥ उत्कण्ठो ऽस्मि त्वदुदितधिया मुग्धहंसीनिनादे त्वद्भूषायां हरिति सततं लोचने पातयामि । त्वत्संस्पृष्टे मम च वपुषि प्रेम बध्नामि कान्ते सत्यं प्राणानपि परमहं त्वत्प्रियान्धारयामि ॥ २.५६ ॥ त्वं चाहं च क्षितिमुपगतावित्यविश्लेषचिन्ता निन्दावन्तौ स्मर इति मिथो वाक्यसम्भेदसौख्यम् । स्पृश्येते नौ निशि शशिकरैरङ्गके यौगपद्यात्तेनाप्यस्ति द्विरदगमने सत्यमाश्लेषबुद्धिः ॥ २.५७ ॥ हाहन्तास्मिन्नसुलभमिथोदर्शने विप्रयोगे सैवालम्बो मम भगवती भावनाकल्पवल्ली । त्वामासीनामसकृदनया गाढमालिङ्ग्य रागादङ्कारूढामलघुजघने नोचितं वक्तुमन्यत् ॥ २.५८ ॥ जातं चेतो मदनसुभटस्याद्य योग्यं शरव्यं नैकच्छिद्रं नियतममुतः सुभ्रु विभ्रंशि धैर्यम् । कालात्क्षीणे पुनरवयवे वर्धते केवलं नो तापस्तीव्रस्मरहुतभुजा तस्य वर्णोद्गमो ऽपि ॥ २.५९ ॥ एवंप्राया न हि न विरहे जीवितुं सन्त्युपायाः सत्यं तैस्तैः कृतधृतिरहं प्राणिमि प्राणनाथे । निश्चित्यैवं निरुपमगुणे साहसेभ्यो निवृत्ता त्वं च स्नानादिषु सवयसां प्रार्थनां मा निषेधीः ॥ २.६० ॥ तीर्णप्रायो विरहजलधिः शैलकन्याप्रसादाच्छेषं मासद्वितयमबले सह्यतां मा विषीद । धूपोद्गारैः सुरभिषु ततो भीरु सौधान्तरेषु क्रीडिष्यावो नवजलधरध्वानमन्द्राण्यहानि ॥ २.६१ ॥ कच्चिच्चित्ते स्फुरति चपलापाङ्गि चूर्ण्यां कदाचित्स्रस्तोत्तंसं धवलनयनं धौतबिम्बाधरोष्ठम् । स्नानान्ते ते मुखमुपसखि प्रेक्षमाणे मयि द्राग्वक्षोदघ्ने पयसि पुनरप्यावयोर्मज्जनं तत् ॥ २.६२ ॥ आश्लिष्यन्तं विटपभुजया तत्र वल्लीरनेकाः क्रीडारामे कमपि तरुणं वीक्ष्य माकन्दवृक्षम् । साचीकृत्य स्फुरदधरया चण्डि वक्त्रं भवत्या सुभ्रूभङ्गः सजलकणिकः प्रेषितो मय्यपाङ्गः ॥ २.६३ ॥ प्रत्याख्यातः प्रणयिनि रुषा बिम्बितो ऽहं स्तने ते सैरन्ध्र्यज्ञा स्थगयितुमभूच्चन्दनेन प्रवृत्ता । मा पाटीरं पुलकिनि पुनश्चात्र लिम्पेति शंसत्यालीवृन्दे स्मितजुषि कृता दृक्त्वया व्रीलगर्भा ॥ २.६४ ॥ उच्चिन्वत्याः किसलयरुचा पाणिनोद्यानपुष्पं साकं भृङ्गैस्तव मयि मुखाम्भोजसौरभ्यलुब्धे । रेणुत्रस्ता इव सुमनसां दक्षिणाः केलिसख्यः कञ्चित्कालं करकिसलयैरप्यधुर्लोचनानि ॥ २.६५ ॥ इत्येतस्मान्मम कुशलितां विद्ध्यभिज्ञानदानाद्भूयश्चैकं शृणु सहचरीं धूतनैकानुनीतिम् । केलीहंसे स्मरजुषि हठाच्चुम्बतीषत्स्तनन्तीं त्वं तु स्मृत्वा किमपि बहलव्रीलमालोकथा माम् ॥ २.६६ ॥ रागो नाम त्रुटति विरहेणेति लोकप्रवादस्त्वत्सम्बद्धो मम शतगुणः सङ्गमाद्विप्रयोगे । सो ऽयं भेदो विषयभिदया सङ्गमे त्वं किलैका विश्लेषे तु त्रिभुवनमिदं जायते त्वन्मयं हि ॥ २.६७ ॥ एतत्कृत्यं प्रियसख मम भ्रातुरार्तस्य कृत्वा नासीरः स्या जगति करुणाशालिनां संविभागे । शंसन्ति त्वां ननु परभृतं शैशवे यद्भृतो ऽन्यैः पत्रिव्राताभरण भरणेनाद्य स त्वं परेषाम् ॥ २.६८ ॥ एवं तस्या विरहविधुरं जीवितं स्थापयित्वा गच्छ स्वेच्छाविहरण यथाप्रार्थितं दिग्विभागम् । मान्यश्रीः स्यान्मदननृपतेः कोकिला ते ऽनुकूला भूयान्मैवं सकृदपि तया विप्रयोगप्रसङ्गः ॥ २.६९ ॥