तत्त्वमीमांसा । सुखैकविषया भूतानां प्रवृत्तिः । सुखं च सति दुःखहेतावसम्भवति । अतो भवति दुःखाभिघातके जिज्ञासा सा च तत्त्वज्ञानात्‌ । अतस्तत्त्वमत्र निरूप्यते । ननु त्रिविधं दुःखम्‌ आध्यात्मिकमाधिदैविकमाधिभौतिकं च । तत्राध्यात्मिकं द्विविधं शारीरं मानसञ्च । शारीरं वातपित्तश्लेष्मणां वैषम्यनिमित्तं मानसं कामक्रोधादिनिबन्धनम्‌ । आधिभौतिकं मानुषपशुपक्ष्यादिनिमित्तम्‌ । आधिदैविकं यक्षराक्षसग्रहाद्यावेशनिबन्धनम्‌ । तेषां चैषां लौकिकैरेवोपायैः प्रतीकारः शक्यते । तथा हि शारीरस्यौषधादिभिः मानसस्य मनोज्ञस्त्रीपानभोजनवस्त्रालङ्कारादिप्राप्त्या आधिभौतिकस्य नीतिशास्त्राभ्याससुस्थानोपवेशादिना आधिदैविकस्य मणिमन्त्राद्युपयोगेनेति सुकर उपायः तत्त्वज्ञानं त्वनेकजन्मरपराभ्याससाध्यम्‌ । तथा च लौकिकानामाभाणकः । अक्के चेन्मधु विन्देत किमर्थं पर्वतं व्रजेत्‌ । इष्टस्यार्थस्य संप्राप्तौ को विद्वान्‌ यत्नमाचरेत्‌ ॥ इति । अक्के गृहकोणे । मैवम्‌ । न ह्येतैरुपायैः सर्वमेव दुःखं निवर्तते । निवृत्तं पुनर्नोत्पद्यते । यद्यपि शास्त्रीयमपि अहोरात्रमासवर्षादिसाध्यमुपायान्तरं सुकरं श्रूयते अपाम सोमममृता अभूमेति तथापि एतदपि लौकिकोपायतुल्यमेव । तथाहि सोमयागः पशुवधादिसाधनत्वान्न विशेषतः शुद्धः । अकृते हि तद्वधप्रायश्चित्ते स्वर्गादिगत्यनन्तरं परिपच्यते एव तद्दुःखम्‌ । न च न हिंस्यात्सर्वाभूतानीति सामान्यशास्त्रभ्य विशेषशास्त्रेणाग्नीषोमीयं पशुमालभेतेत्यनेन बाधः शङ्क्यः भिन्नविषयत्वेन बाध्यबाधकभावासम्भवात्‌ अग्नीषोमीयं पशुमालभेतेति वाक्येन हि वधस्य क्रतूपकारकत्वमेव बोध्यते न तु पुरुषप्रत्यवायाभावः । एवं स्वर्गादेरनित्यत्वमपि सत्त्वे सति कार्यत्वादनुमीयते । तथा च श्रुतिरपि न कर्मणा न प्रजया धनेन त्यागेनैकेनामृतत्वमानशुः । परेण नाकं निहितं गुहायां विभ्राजते यद्यतयो विशन्ति ॥ कर्मणा ज्योतिष्टोमादिना प्रजया पुत्रेण धनेन देवताज्ञानेन पुत्रेणायं लोको जेयो विद्यया देवलोकः कर्मणा पितृलोक इति श्रुत्यन्तरात्‌ एभिः पित्रादिलोकस्यैव प्राप्तिर्नामृतत्वस्येति भावह । तर्हि कथममृतत्वमित्यत आह त्यागेनेति । सर्वकर्मसंन्याससाध्यज्ञानेनेत्यर्थः । तदमृतत्वं स्वर्ग एव चेत्तत्त्राह परेण नाकमिति । तर्हि दूरस्थत्वान्न प्राप्यमिति चेत्तत्राह निहितं गुहायामिति । तच्चासन्नत्वात्पृथक्‌ जनैरपि लभ्यमिति चेत्तत्राह यद्यतय इति । अदूरभूतमप्यविवेकिनां दूरभूतमेव । तथा श्रुत्यन्तरम्‌ । कर्मणा मृत्युमृषयो निषेदुः प्रजावन्तो द्वविणमीहमानाः । तथाऽपरे ऋषयो ये मनीषिणः परं कर्मभ्योऽमृतत्वमानशुरिति ॥ अपाम सोमममृता अभूमेत्यमृतत्वाभिधानं तु चिरस्थित्यभिप्रायम्‌ । यदाहुः आभूतसम्प्लवं स्थानममृतत्वं हि भाष्यते इति । तदेतत्सर्वमभिप्रेत्योक्तं शास्त्रकृद्भिः तद्बिपरीतः श्रेयान्‌ व्यक्ताव्यक्तज्ञविज्ञानात्‌ । अस्यार्थः । तस्मात्सोमपानादेरविशुद्धादनित्यात्‌ विपरीतो हिंसाद्यसङ्कराद्विशुद्ध उपायः श्रेयान्‌ । स च कथम्‌ ? व्यक्तस्य कार्यजातस्य तत्कारणस्य अव्यक्तस्य प्रधानस्य ताभ्यां परस्य तस्यात्मनश्च विवेकेन ज्ञानाद्भवति इति । न च विवेकोत्पन्नफलस्यापि कार्यत्वादनित्यत्वं शंक्यम्‌ । भावरूपकार्यस्यैवानित्यत्वात्‌ दुःखध्वंसस्य तु कार्यत्वेऽपि नित्यत्वात्‌ । अथात्र शास्त्रे चतस्रो विधाः । प्रकृतिर्विकृतिरुभयमनुभयञ्चेति । तत्र जगतो मूलकारणभूतं प्रधानं न विकारः किन्तु प्रकृतिरेव प्रकरोतीति प्रकृतिः सत्त्वरजस्तमसां साम्यावस्था । अस्याश्च मूलान्तरमनवस्थाभयान्नास्तीति मूलप्रकृतिरित्युच्यते । सैव शास्त्रान्तरे अविद्या मायाशब्देनोच्यते । एतदेवाव्यक्तं सत्त्वादीनां गुणानां वैषम्ये सति व्यक्तमित्युच्यते । यथाहि समुद्रजले चलिताचलितप्रदेशाः । एवं त्रिगुणात्मिके प्रधाने परिणामवांस्तद्विधुरश्च प्रदेशः । तत्र प्रकृतिविकारेषु मध्ये आद्यो विकारो महानित्युच्यते स एतद्बुद्धिलक्षणः । स आह महान्सात्त्विको राजसस्तामसश्चेति त्रिविधः । बुद्धेस्तु प्रथमो विकारोऽहङ्कारः । एते च महदादयः प्रकृतयो विकृतयश्च । तथाहि महत्तत्त्वमहङ्कारस्य प्रकृतिर्विकृतिश्च मूलप्रकृतेः । अयं हि क्रमः प्रकृतेर्महान्‌ महतोऽहङ्कारं अहङ्कारात्पञ्च तन्मात्राः ताभ्यः पञ्च भूतानि तन्मात्राणि पुनः क्षीरदध्योरन्तराले कललपरिणामात्परिणतानि सूक्ष्मभूतानि कुसुमसौरभ्येन सूक्ष्मस्थूलतयोपलक्ष्यमाणं गुणवैषम्यमेव तन्मात्रशब्देन भूतशब्देन चोच्यते । पञ्च भूतानि एकादशेन्द्रियाणि चेति एष षोडशको गणस्तु विकार एव न प्रकृतिः । पुरुषस्त्वात्मा न प्रकृतिर्न विकृतिः । तदेतदाहुः । मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त । षोडशकस्तु विकारो न प्रकृतिर्न विकृतिः पुरुषः ॥ इति । अथ शास्त्रपरिभाषा । दृष्टमनुमानमाप्तवचनञ्चेति त्रिविधं लौकिकं प्रमाणम्‌ । आर्षं तु विज्ञानं योगिनामेवेति तदत्र नोक्तम्‌ । तत्र पृथिव्यादयः सुखादयश्चास्मदादीनां विषयाः । तन्मात्रलक्षणास्तु देवानां योगिनां च विषया न त्वस्मदादीनाम्‌ तेषां चेन्द्रियैः सम्बन्धः सन्निकर्षः । एवञ्च विषयसम्बद्धेन्द्रियाश्रितो यो बुद्धिधर्मोऽध्यवसायः स एव प्रमाणम्‌ । अयं हि क्रमः । विषयसम्बद्धानामिन्द्रियाणां वृत्तौ सत्यां बुद्धेस्तु तमोभिभवे सति यः सत्त्वसमुद्रेकः सोऽध्यवसाय इति ज्ञानमिति वृत्तिश्चाख्यायते । तदिदं प्रत्यक्षप्रमाणम्‌ । अस्माच्च यश्चेतनाशक्तेरनुग्रहस्तत्फलं प्रमा बोधः । बुद्धिसत्त्वं हि प्राकृतत्वादचेतनमिति तदीयोऽध्यवसायोऽप्यचेतनः घटादिवत्‌ । एवं हि बुद्धिसत्त्वस्य परिणामभेदाः सुखादयोऽप्यचेतनाः । पुरुषस्तु सुखाद्यननुषङ्गी चेतनः । सोऽयं बुद्धितत्त्ववर्त्तिना ज्ञानसुखादिना तत्प्रतिबिम्बितो बुद्धिसादृश्यप्राप्त्या ज्ञानसुखादिमानिव भवति चितिसादृश्यप्राप्त्या च अचेतनापि बुद्धिस्तदवध्यवसायश्च चेतन इव भवति । चार्वाकास्तु प्रत्यक्षान्यत्‌ न मानमिति वदन्ति । तन्मते संदिग्धविपर्ययस्तु पुरुषबोधनं नोपपद्येत । नहि पुरुषान्तरगतः संशयः अनुमानं कथनं विना वा ज्ञातुं शक्यः । प्रमाणान्तराणि त्वत्रैवान्तर्भवन्ति । तथाहि उपमानं तावत्‌ गोसदृशो गवय इति वाक्यं तज्जनितो बोधो शब्द एवान्तर्भवति चक्षुःसंनिकृष्टस्य गवयस्य यत्‌ गोसादृश्यज्ञानं तत्प्रत्यक्षमेव । एवं जीवतश्चैत्रस्य गृहासत्त्वेन बहिःसत्त्वकल्पनमर्थापत्तिः साप्यनुमान एवान्तर्भवति । विमतश्चैत्रो बहिर्भवितुमर्हति गृहेष्वविद्यमानत्वात्‌ । यदा त्वव्यापकः सन्नेकत्रास्ति तदान्यत्र नास्ति यदैकत्र नास्ति तदान्यत्रास्तीति व्याप्तिग्रहात्‌ । एवमिह वटे यक्षः प्रतिवसति इति ऐतिह्यं न प्रमाणमनिर्दिष्टस्ववक्तृकत्वेन सन्देहात् । आप्तोक्तत्वनिश्चये त्वागम एव । एवमभावो नानुपलब्धिगम्यः किन्तु प्रत्यक्ष एव । न हि भूतलस्य कैवल्यलक्षणात्परिणामविशेषादन्यो घटाभावो नाम । सर्व एव हि भावाः प्रतिक्षणं परिणामिनः स च परिणामभेद ऐन्द्रियक एवेत्यलम्‌ । तत्र सूक्ष्मस्याव्यक्तस्याप्रत्यक्षत्वेऽपि महदादिकार्येण तदनुमीयते । तथाहि सदेव कार्यं कारणव्यापारात्प्रागपि । असतो हि सत्त्वं दुष्करम्‌ नहि नीलं शिल्पिसहस्रेणापि पीतं शक्यं कर्तुम्‌ । किन्तु तिलेषु पीडनेन तैलस्येव आविर्भावमात्रमुत्पत्तिः तिरोभाव एव विनाशः । किञ्चासम्बद्धस्यापि कार्यस्य जन्यत्वे सम्बद्धत्वाविशेषात्सर्वं कार्यं सर्वस्माद्भवेदिति कार्यसम्बद्धस्यैव कारणस्य जनकत्वमुपेयम्‌ । न च सदसतोः सम्बन्धोऽस्तीति सत्कार्यम्‌ । किञ्च तन्तुधर्मत्वात्तन्तूपादेयत्वाच्च न पटस्यार्थान्तरत्वम्‌ यन्नैवं तन्नैवं यथा घटपटौ । तथा अर्थान्तरयोः संयोगो वा भवति यथा कुंडबदरयोः अप्राप्तिर्वा भवति हिमवद्विन्ध्ययोः । तस्माद्यथा कूर्मशरीरे कूर्माङ्गानि निविशमानानि तिरोभवन्ति न तत्र तान्युत्पद्यन्ते न विनश्यन्ति वा एवमेकस्मात्सुवर्णादेर्मुकुटादिप्रादुर्भाव एवोत्पत्तिः । एवञ्च महदादिकार्यं प्रधानेऽभिनिविशते अव्यक्तं भवति इति । कारणे सत्त्येव कार्यस्य विभागाविभागाभ्यामव्यक्तं कारणमस्तीति गम्यते । तच्चाव्यक्तं नित्यं व्यापकं च सर्वं कार्यं व्याप्नोति तथा निःक्रियं क्वचिदप्यनाश्रितञ्च एवं निरवयवं स्वतन्त्रं च । एतद्विपरीतन्तु व्यक्तम्‌ । एवं व्यक्तमव्यक्तं च सुखदुःखमोहरूपगुणत्रयान्वितमचेतनं प्रसवधर्मि च तद्विपरीतः पुरुषः सुखादयश्च गुणाः सत्त्वरजस्तमोरूपाः । सत्त्वस्य प्रयोजनं तु प्रकाशः रजस्तु तस्य प्रवर्तकं तमस्तु नियामकं यदि हि तमसा गुरुणा नियम्येत तदा रजः लघु सत्त्वं सर्वत्र प्रवर्त्तयेत्‌ । यथा सत्त्वं रजस्तमसी अभिभूय शान्ता वृत्तिमधिगच्छति यथा च रजः सत्त्वरजसी अभिभूय घोरां तथा तमः सत्त्वरजसी अभिभूय मूढामिति । यद्यप्येते परस्परं विरोधशीलाः तथापि यथा वातपित्तश्लेष्माणः परस्परविरोधिनः शरीरधारणरूपैककार्यकारिणः एवमेतेऽपि । एवं सुखहेतुत्वात्सत्त्वं सुखात्मकं दुःखहेतुत्वाद्दुःखात्मकं रजः यन्मोहकं तत्तमः । ते च सुखदुःखमोहाः परस्परविरोधिनः स्वानुरूपाण्येव परस्परं विरुद्धानि सुखदुःखमोहात्मकानि निमित्तानि कल्पयन्ति । तथाहि एकैव स्त्री स्वामिनं प्रति सुखरूपसद्भावात्तं सुखाकरोति सपत्नीस्तु दुःखाकरोति एवमत्राप्येकस्यापि निमित्तभेदाद्भेदः । सुखप्रकाशलाघवैस्तु परस्परमविरोधान्न निमित्तभेदाः कल्प्यन्ते । सर्गादौ तु परिणामस्वभावा गुणाः क्षणमप्यपरिणमय्य न तिष्ठन्तीति सत्त्वं सत्त्वरूपतया रजो रजोरूपतया तमस्तमोरूपतया प्रवर्त्तते । यथाहि घनविमुक्तजलानां जम्बीरकरवीरनारिकेराद्याश्रयभेदादस्ति भेदः एवमेकरूपाणामपि गुणानां प्रतिगुणाश्रयविशेषादनेकरूपता । आत्मा तु व्यक्ताव्यक्तसंघातभिन्नः । परार्थो हि संघातो भवति । यथा शयनासनादयः संघाताः शरीरार्था दृष्टाः । किञ्च यथा रथादि यंत्र्यादिनाधिष्ठितं एवं त्रिगुणात्मकमपि परेण केनचिदधिष्ठीयमानं युक्तम्‌ । स चात्मा प्रतिशरीरं भिन्नः न ह्येकस्मिन्‌ सुखिनि सर्वे सुखिनः । स चायं पुरुषः साक्षी च भवति प्रकृतिर्हि स्वविषयचरितं पुरुषाय प्रदर्शयति । तथाहि लोके अर्थिप्रत्यर्थिनौ विवादविषयं साक्षिणे दर्शयतः । एवं चायं द्रष्टापि भवति । तथा अत्रैगुणादस्य कैवल्यं च धर्मः । आत्यन्तिको हि दुःखत्रयाभावः कैवल्यम्‌ । अत एवात्रिगुणत्वान्मध्यस्थोऽपि भवति सुखी हि सुखे तृप्यन्‌ दुःखी द्विषन्‌ मध्यस्थो न भवति । आत एवोभयराहित्यादुदासीन इत्युच्यते । एवमप्रसवधर्मितादकर्ताऽपि । यद्यपि चेतनोऽहं करोमीति कृतिचैतन्ययोरैकाधिकरण्यं प्रतीयते तथापि पुरुषप्रधानादिसम्बन्धात्पुरुषचैतन्यमव्यक्ते गुणकर्तृत्वं च पुरुषे उपचर्यते । भोग्यं हि प्रधानं भोक्तारमन्तरेण न संभवति इति भवति तस्य भोक्त्रपेक्षा पुरुषस्तु भोग्येन प्रधानेन संयुक्तस्तद्गतं दुःखमात्मन्यभिमन्यमानः कैवल्यं प्रार्थयते । तच्च सत्त्वपुरुषान्यताख्यातिनिबन्धनम्‌ न च सत्त्वपुरुषान्यताख्यातिः प्रधानमन्तरेणेति कैवल्यार्थं पुरुषः प्रधानमपेक्षत इति तयोः संयोगः अत एव संयोगो न महदादिसर्गमन्तरेण भोगाय कैवल्याय च पर्याप्त इति संयोग एव भोगापवर्गार्थं सर्गं करोतीति ॥ अथ विवेकज्ञानोपयोगिनी बुद्धिर्निरूप्यते । तस्याश्च व्यापारोऽध्यवसायः तदभिन्नः । एष बुद्धेर्लक्षणं समानासमानजातीयव्यवच्छेदकत्वात्‌ । तथाहि सर्वोऽपि व्यवहर्ताऽहमत्राधिकृत इति अभिमत्य मया एतत्कर्तव्यमिति अध्यवस्यति ततश्च प्रवर्तते । तत्र चितिसन्निधानादापन्नचैतन्याया बुद्धेर्योऽयं कर्तव्यमिति विनिशययः सोऽध्यवसायः । तत्र धर्मो यागाद्यनुष्ठानजनितः । ज्ञानं गुणपुरुषान्यताख्यातिः । वैराग्यं रागाभावः । एवमैश्वर्यमपि बुद्धिधर्मो यतोऽणिमादिप्रादुर्भावः । अहमत्र शक्तः मत्तो नान्योऽत्राधिकृतः अतोऽहमस्मि इत्यादिको योऽभिमानः सोऽहङ्कारव्यापारत्वादहङ्कारः । तमुपजीव्य हि बुद्धिरध्यवस्यति कर्त्तव्यमेतन्मयेति अहङ्काराच्च द्विविधः सर्गः सात्त्विकादेकादशेन्द्रियाणि तामसात्तु पञ्चतन्मात्राः । रजसस्तु तत्प्रवर्तकत्वमात्रात्कारणत्वम्‌ । सात्त्विकराजसतामसाहङ्काराणामेव क्रमेण वैकारिकस्तैजसो भूतादिरिति संज्ञाः । चक्षुःश्रोत्रघ्राणरसनत्वगाख्यानि बुद्धीन्द्रियाणि । वाक्पाणिपादपायूपस्थानि कर्मेन्द्रियाणि । मन उभयात्मकं बुद्धीन्द्रियं कर्मेन्द्रियञ्च । चक्षुरादीनां च मनोधिष्ठितानां स्वविषयेषु प्रवृत्तेः । प्रथमं वस्तुदर्शनन्तन्तरं बालमूकादिवन्निर्विकल्पात्मकं सामान्यतो ज्ञानमुत्पद्यते । पश्चाच्च वस्तुधमैर्जात्यादिभिर्योऽध्यवसायः स सङ्कल्पाख्यो मनसो व्यापारः । एकस्मादहङ्कारादेकादशविधानि इन्द्रियाणि भवन्तीत्यत्र तु शब्दाद्युपभोगसम्प्रवर्तकादृष्टभेद एव नियामकः । अदृष्टभेदस्तु गुणपरिणाम एव । पञ्चबुद्धीन्द्रियाणां सम्बद्धवस्त्वालोचनं वृत्तिः वागादिकर्मेन्द्रियाणां तु वचनादयो वृत्तयः । एवं महतोऽध्यवसायः अहङ्कारस्याभिमानः सङ्कल्पो मनसो वृत्तिर्व्यापारः । कार्यकरणाभिमुखानां करणानां वृत्तिसङ्करस्तु न भवति । यथाहि परावस्कन्दाय प्रवृत्ताः शाक्तीकयाष्टीकादयः स्वं स्वं शक्त्यादिकमेवाददते न परस्परयष्ट्यादिकम्‌ । ननु याष्टीकानां चेतनत्वादस्तु तथा प्रवृत्तिः करणानां त्वचेतनानां प्रवृत्तेरयुक्तत्वात्तत्स्वरूपसामर्थ्योपभोगाभिज्ञ अधिष्ठाता स्वीकार्य इति चेन्न तत्प्रवृत्तौ पुरुषार्थस्य हेतुत्वात्‌ एतच्चोपपादयिष्यति । करणानि तु त्रयोदश । करणत्वं तु शब्दस्पर्शादिप्रकाशनं कर्मेन्द्रियाणां तु वचनादिव्यापारः । एतद्बाह्यकरणं वर्त्तमानकालमन्तष्करणं तु त्रिकालम्‌ । नदीपूरभेदादभूद्वृष्टिः अस्ति धूमादिहाग्निः पिपीलिकाण्डसंचरणाद्भविष्यति वृष्टिरिति प्रत्ययात्‌ । ये तु वैशेषिकाः कालमेकमतिरिक्तं स्वीकुर्वते । तन्मतेऽप्यतीतानागतादिव्यवहारभेदः उपाधिभेदादेव भवति एवं च तैस्तैरुपाधिभिरेवातीतानागतादिभेदसिद्धौ किमतिरिक्तकालस्वीकारेणेति सांख्याः । एषां चेन्द्रियाणाम प्रधानाप्रधानभावोऽप्यस्ति । यथाहि ग्रामाध्यक्षा कर्षकादिभ्यः करमादाय विषयाध्यक्षाय प्रयच्छन्ति विषयाध्यक्षश्च सर्वाध्यक्षाय स च भूपतये एवं बाह्येन्द्रियाण्यालोच्य मनसे समर्पयन्ति मनश्च सङ्कल्प्याहङ्काराय अहङ्कारश्चाभिमत्य बुद्धौ सर्वाध्यक्षायामिति । एते च बुद्धीन्द्रियमनोहङ्कारा गुणविशेषा गुणानां सत्त्वरजस्तमसां विकाराः परस्परं विरुद्धां अपि पुरुषार्थेनैकवाक्यतापन्नाः यथा सन्तमसापनयनेन प्रकाशाय मिलिता वर्तितैलवह्नयः प्रदीपो भवति । ननु कस्माद्बुद्धौ प्रयच्छन्ति न पुनरहङ्काराय मनसे वेति चेन्न पुरुषार्थस्य प्रयोजकतया साक्षात्साधनं प्रधानं बुद्धिरेव अहङ्कारादयस्तु तं प्रति गौणाः । अस्मदादिभिः परस्परव्यावृत्तानि नानुभूयन्ते इति शब्दादितन्मात्राणि अविशेषाः सूक्ष्माणि च । आकाशादिषु तु स्थूलेषु क्वचित्सत्त्वप्रधानतया शान्ताः सुखाः प्रसन्ना लघवः केचिद्रजस्तमःप्रधानतया घोरा मूढाश्च । ते विशेषाः पुनः त्रिधा सूक्ष्मं शरीरं मातापितृजं महाभूतानि च । प्रधानेनादिसर्गे प्रतिपुरुषमेकैकमुत्पादितं तथाऽव्याहतं शिलामप्यनुप्रविशति । सर्गादामहाप्रलयमवतिष्ठते सूक्ष्मं शरीरं तच्च महदहङ्कारैकादशेन्द्रियपञ्चतन्मात्रसमुदायः । एतच्च शरीरं भोगानर्ह इति स्थूलं शरीरं षाट्कौशिकमाश्रयति । लोमलोहितमांसानि मातृतः स्नाय्वस्थिमज्जानः पितृत इति षट्‌ कोशाः । ननु धर्माधर्मनिमित्तः संसारः तस्य च सूक्ष्मशरीरेऽभावात्कथं स्थूलशरीराश्रयणमिति चेत्‌ न धर्माद्यन्वितबुद्ध्या संयोगेन तस्यापि धर्माद्यभिवासितत्वात्‌ यथाहि सुरभिपुष्पादिसम्बन्धाद्वस्त्रमपि तदामोदवासितं भवति । धर्माधर्मादिनिमित्तकं च स्थूलशरीरग्रहणं तयोः संसर्गेण सूक्ष्मशरीरं स्थूलशरीरमाश्रित्य देवो वा मनुष्यो वा पशुर्वा भवति । यथाहि नटस्तां भूमिकाम विधाय धर्मराजो वा भवति वत्सराजो वा भवति इति । हेतुस्त्वत्र पुरुषार्थ एव । तत्रोर्ध्वगमनस्य निमित्तं धर्मः । एवमधर्मेणाधोगतिः । ज्ञानेन मोक्षोऽज्ञानेन बन्धः । तत्त्वानभिज्ञस्य पुरुषस्य वैराग्यमात्रात्प्रकृत्यादिष्वात्मबुध्योपास्यमानेषु तत्रैव लयः रागात्संसारः ऐश्वर्यादिच्छाया अविघातः विघातश्चानैश्वर्यात्‌ । अयं बुद्धिसर्गः चतुर्धा विपर्ययाशक्तितुष्टिसिद्धिभेदात्‌ । तत्र विपर्ययोऽज्ञानमविद्या । विपर्ययः पञ्चधा अविद्यास्मितारागद्वेषाभिनिवेशा यथासंख्यं तमोमोहमहामोहतामिस्रान्धतामिस्रसंज्ञाभेदात्‌ । प्रकृत्यादिष्वनात्मस्वात्मबुद्धिरविद्या तमः । देवादीनामणिदाद्यैश्वर्येषु शाश्वतिकत्वाभिमानोऽस्मिता मोहः । शब्दादिषु विषयेषु राग आसक्तिर्महामोहः । देवादीनामसुरादिभ्यः स्वैश्वर्याणिमाभिघातभयमभिनिवेशोऽन्धतामिस्रः । अशक्तिस्तु अन्धत्वपङ्गुत्वादिरूपा करणवैकल्यहेतुका । तुष्टयो द्वेधा आध्यात्मिका बाह्याश्च प्रकृतिव्यतिरिक्त आत्मास्तीति निश्चित्य संन्यासादेव तवापवर्तो भविष्यतीति उपदेशादौ या तुष्टयस्ता आध्यात्मिक्यः पञ्चविषयोपरमात्‌ या तुष्टयस्ता बाह्याः । आत्मविद्यानामध्ययनमननादयः सिद्धिभेदाः । एवं निरूपितो बुद्धिसर्गः । तन्मात्रसर्गोऽपि देवमनुष्यपश्वादिभेदाद्बहुधा । तत्रोर्धाधोमध्यलोकाः सत्त्वरजोतमोबहुलाः । ननु सुखदुःखादयः प्राकृता बुद्धिगुणाः कथं चेतने भवन्तीति चेत्सत्यम्‌ पुरि लिङ्गे शेरते स पुरुषः । एवं च लिङ्गपुरुषयोः सम्बन्धाल्लिङ्गधर्मानात्मन्यध्यवस्यति । अयं च महदादि पृथिव्यादिमहाभूतान्तः सर्गः प्रकृत्यैव कृतः । निष्कारणत्वे तु सदैव स्यान्नैव वा स्यात्‌ । ईश्वरस्तु न तत्रोपादानं चितिशक्तेरपरिणामात्‌ । नापि ईश्वराधिष्ठिताया प्रकृतेः कर्तृत्वं निर्व्यापारस्याध्ष्ठातृत्वासम्भवात्‌ । नहि निर्व्यापारस्तक्षावास्याद्यधितिष्ठति । ननु प्रकृतेः कर्तृत्वे तस्या नित्यत्वेनानुपरमात्कदापि मोक्षो न स्यादिति चेन्न । यथा हि ओदनकामः पक्वौदनो न प्रवर्तते पुनस्तत्र एवं यं यं पुरुषं प्रकृतिर्मोचितवती न तं प्रति पुनः प्रवर्तते । नन्वचेतनायां प्रकृतौ कथं चेतनधर्मः प्रवृत्तिः तस्मादस्ति प्रकृतेरधिष्ठाता चेतनः आत्मानस्तु प्रकृतिस्वरूपानभिज्ञत्वान्नाधिष्ठातुमर्हन्ति तस्मादस्ति सर्वार्थदर्शी प्रकृतेरधिष्ठाता स चेश्वर एवेति चेत्सत्यम्‌ यथाहि वत्वविवृद्ध्यर्थमचेतनमपि क्षीरं प्रवर्तते तथा प्रकृतिरपि पुरुषमोक्षाय प्रवर्तिष्यते । न चेश्वराधिष्ठानत्वेन क्षीरे प्रवृत्तिः शङ्कया । द्विधा हि प्रवृत्तिर्भवति स्वार्थाय कारुण्याय वा । न चाप्तसकलकामस्येश्वरस्य किमपि प्रार्थनीयमस्ति सर्गात्प्राक्‌ दुःखाभावेन करुणाया असंभवात्‌ । किञ्च करुणया प्रेरित ईश्वरः सुखिन एव सर्वान्‌ प्राणिनः सृजेत्‌ न विचित्रान्‌ । प्रकृतेस्त्वचेतनतया नेदं द्वयं किन्तु परार्थैव प्रवृत्तिः यथा पारिषदान्प्रदर्शयन्निवर्तते नटः एवं प्रकृतिः आत्मानं शब्दाद्यात्मना पुरुषाद्भेदेन प्रकाश्य निवर्तते । फलाभावेऽपि निर्गुणे उपकारिण्यपि पुरुषे प्रकृतिस्तपस्विनी प्रवर्तते एव यथाहि गुणवानुपकार्यपि भृत्यो निर्गुणे उपकारिण्यपि स्वामिनि निष्फलाराधनः । यद्यपि नाट्यान्निवृत्तोऽपि नटः कालान्तरे पुनरपि प्रवर्तते एवं मुक्तं प्रति प्रकृतिस्तु न पुनः प्रवर्तते यथाहि विगलितवसना कुलवधूः कदाचित्केनचिद्दृष्टा चेत्तदासौ तथा यतते यथा न पुरुषान्तराणि पश्यन्ति एवं प्रकृतिरपि विवेकेन साक्षात्कृताऽतिलज्जावशात्पुनः स्वात्मानं न प्रदर्शयति । ननु सवासनक्लेशकर्माशयानां बन्धनसंज्ञितानामप्यपरिणामिनि पुरुषेऽसम्भवात्कथं मोक्षः मुचेर्बन्धनविश्लेषार्थत्वात्‌ । अत एव न संसारोऽपि सम्भवति निष्क्रियत्वात्‌ । मैवम्‌ । यथाहि भृत्यगतौ जयपराजयौ स्वामिन्युपचर्येते एवं प्रकृतिगतयोरपि भोगापवर्गयोर्विवेकाग्रहात्पुरुषे उपचारः । तत्र धर्माधर्माज्ञानवैराग्यावैराग्यैश्वर्यानैश्वर्यरूपैः सप्तभिर्भावैर्बध्नाति तत्त्वज्ञानेन तु मोचयति । एवं च कृतादस्मात्तत्त्वाभ्यासान्नास्मि न मे नाहमिति शुद्धमुत्पद्यते ज्ञानं यद्विषयो अभ्यासस्तं साक्षात्कारयतीति । नास्मीत्यनेन क्रियामात्रन्निषिध्यते अस्तेः क्रियार्थत्वात्‌ । नाहमित्यनेन कर्तृत्वं न मे इत्यनेन स्वामित्वं निषिध्यते । भोगविवेकसाक्षात्कारौ प्रकृतेः प्रसोतव्यौ तौ च प्रसूताविति निवृत्ता प्रकृतिस्तां निष्क्रियः स्वच्छपुरुषः पश्यति प्रकृतिपुरुषयोरसंसर्गेऽप्यविवेकख्यातिनिबन्धनः संसारः पुनर्न भवति इति । अन्ते तत्त्वज्ञानस्य तदानीमेव शरीरपातस्तु न भवति । यथाहि निवृत्ते कुलालव्यापारे संस्कारवशात्‌ चक्रं भ्रमत्तिष्ठति एवं संस्कारवशात्‌ शरीरमपि शरीरपातानन्तरं तु प्रधानस्य निवृत्तत्वादात्यन्तिकमपि दुःखं नश्यति दुःखाभावरूपं कैवल्यमाप्नोति ॥ इति श्रीमद्देवीदत्तात्मजगमसेवकसून्वाचार्यकृष्णमित्रकृता तत्त्वमीमांसा समाप्ता ॥