सांख्यसूत्रविवरणम्‌ । श्रीकपिलाय नमः । प्रकृतिं पुरुषं नत्वा सांख्यसूत्रे विधीयते । संक्षेपतो विवरणमविवेकापनुत्तये ॥ इह खलु भगवान्‌ कपिलो मुनिरासुरयेऽनुकम्पया पञ्चविंशतितत्त्वान्युपदिश्य सूत्रयामास । अष्टौ प्रकृतय इत्यादि । काः पुनस्ता इत्युच्यन्ते । प्रधानं महानहंकारस्तन्मात्राणि च । प्रधानं प्रकृतिरव्यक्तमव्याकृतं चेत्यनर्थान्तरम्‌ । महान्‌ महत्तत्वं बुद्धिरध्यवसायलक्षणम्‌ । अहंकारोऽभिमानलक्षणो वैकृतिकस्तैजसो भूतादिश्चेति त्रिविधः । तन्मात्राणि तु पञ्च शब्दतन्मात्रमाकाशहेतुः । स्पर्शतन्मात्रं वायुयोनिः । रूपतन्मात्रं तेजोयोनिः । रसतन्मात्रमप्प्रकृतिः । गन्धतन्मात्रं पृथिवीहेतुः । इति पञ्चतन्मात्राणि इत्यष्टौ प्रकृतयः । के पुनर्विकाराः कति । षोडशविकाराः । एकादशेन्द्रियाणि पञ्च महाभूतानि च । तत्र श्रोत्रत्वक्चक्षूरसनघ्राणाख्यानि बुद्धीन्द्रियाणि शब्दस्पर्शरूपरसगन्धालोचनवृत्तीनि । वाक्पाणिपादपायूपस्थानि कर्मेन्द्रियाणि वचनादानविहरणोत्सर्गानन्दवृत्तीनि । ज्ञानक्रियाशक्तिद्वयात्मकं सङ्कल्पविकल्पलक्षणं मन इत्येकादशेन्द्रियाणि । भूतानि चाकाशवायुतेजःसलिलपृथिवीलक्षणानि पञ्चेति षोडशविकाराः ॥ अथ कः पुरुषः इत्युच्यते । पुरुषोऽनेकस्त्रिगुणरहितो विवेकी अविषयोऽसाधारणोऽप्रसवधर्मा चेतनः साक्षी केवलो मध्यस्थो द्रष्टाऽकर्ता च ॥ अथ के पुनस्त्रयो गुणा इत्युच्यन्ते । त्रैगुण्यं सत्त्वं रजस्तम इति । त्रय एव गुणास्त्रैगुण्यम्‌ । सत्त्वं नाम पाटवमार्दवलाघवप्रसन्नताभिसङ्गप्रीतितुष्ट्यनीहासन्तोषादिलक्षणमनन्तभेदं समासतः सुखावहम्‌ । रजो नाम शोकतापखेदस्तम्भोद्गमोद्वेगरोषमानादिलक्षणमनन्तभेदं समासतो दुःखावहम्‌ । तमो नामाच्छादनावरणबीभत्सदैन्यगौरवालस्यनिद्राप्रमादादिलक्षणमनन्तभेदं समासतो मोहात्मकं एतत्‌ त्रैगुण्यं व्याख्यातम्‌ ॥ सत्त्वं प्रकाशकं विन्द्याद्रजो विन्द्यात्‌ प्रवर्तकम्‌ । विनाशकं तमो विन्द्यात्‌ त्रैगुण्यं नाम सञ्ज्ञितम्‌ ॥ अत्राह कः सञ्चरः प्रतिसञ्चरश्चेति । उच्यते । उत्पत्तिः सञ्चरः । प्रलयः प्रतिसञ्चरः । तत्रोत्पत्तिर्नामाव्यक्तात्‌ समुपदिष्टात्‌ सर्वजगतः परेण रूपेणाधिष्ठानात्मकात्‌ महान्‌ महतोऽहंकारः । स च त्रिविधः । वैकृतिको भूतादिस्तैजसश्चेति । तत्र वैकृतादिन्द्रियाण्युत्पद्यन्ते भूतादेस्तन्मात्राणि तैजसादुभयम्‌ इन्द्रियाणि तन्मात्राणि चेति । तन्मात्रेभ्यो भूतानि । अयं सञ्चरः । प्रतिसञ्चरो नाम भूतानि तन्मात्रेषु लीयन्ते । तन्मात्राणीन्द्रियाणि चाहंकारे । अहंकारो बुद्धौ । बुद्धिरव्यक्ते । ततोऽव्यक्तं तु क्वचिन्न लीयते कस्मात्‌ अनुत्पन्नत्वात्‌ । इत्येवं प्रतिसञ्चरः । एवमेतौ सञ्चरप्रतिसञ्चरौ व्याख्यातौ ॥ अत्राह किंविधमध्यात्ममधिभूतमधिदैवतं च । अत्रोच्यते । बुद्धिरध्यात्मम्‌ । बोधयितव्यमधिभूतम्‌ । ब्रह्मा तत्रादिदैवतम्‌ । अहंकारोऽध्यात्मम्‌ । अभिमन्तव्यमधिभूतम्‌ । रुद्रस्तत्राधिदैवतम्‌ । मनोध्यात्मं संकल्पमधिभूतम्‌ । चन्द्रस्तत्रादिदैवतम्‌ । श्रोत्रमध्यात्मम्‌ । स्पर्शयितव्यमधिभूतम्‌ । वायुस्तत्राधिदैवतम्‌ । चक्षुरध्यात्मम्‌ । दर्शयितव्यमधिभूतम्‌ । सूर्यस्तत्रादिदैवतम्‌ । जिह्वाध्यात्म‌म्‌ । रसयितव्यमधिभूतम्‌ । वरुणस्तत्राधिदैवतम्‌ । नासाध्यात्मम्‌ । घ्रातव्यमधिभूतम्‌ । पृथिवी तत्राधिदैवतम्‌ । वागध्यात्मम्‌ । वक्तव्यमधिभूतम्‌ । अग्निस्तत्राधिदैवतम्‌ । पाणिरध्यात्मम्‌ । आदातव्यमधिभूतम्‌ । इन्द्रस्तत्राधिदैवतम्‌ । पादावध्यात्मम्‌ । गन्तव्यमधिभूतम्‌ । विष्णुस्तत्राधिदैवतम्‌ । पायुरध्यात्मम्‌ । उत्स्रष्टाव्यमधिभूतम्‌ । मित्रस्तत्राधिदैवतम्‌ । उपस्थमध्यात्मम्‌ । आनन्दयितव्यमधिभूतम्‌ । प्रजापतिस्तत्राधिदैवतम्‌ । एवमेव त्रयोदशकरणस्याध्यात्ममधिभूतमधिदैवं च व्याख्यातम्‌ । कानि चत्वारीत्यत आह चेति । त्रीणि गुणरूपाणि चतुर्थमधिदैवतमित्यर्थः ॥ चत्वारि यो वेदयते यथावद्‌ गुणस्वरूपाण्यधिदैवतं च । विमुक्तपाप्मा गतदोषसङ्गो गुणांस्तु भुङ्क्ते न गुणैः स भुज्यते ॥ अथ कास्ता अभिबुद्धय इत्युच्यन्ते । पञ्चाभिबुद्धयः । बुद्धिरभिमान इच्छा कर्तव्यं तत्क्रिया चेति । अभिमुखी बुद्धिरभिबुद्धिः । इदं करणीयमेत्येतदध्यवसायो बुद्धिः क्रियात्मपरामर्शस्वरूपप्रत्ययः । अभिमुखो मानोऽहं करोमीत्यहंकारोऽभिमानः । बुद्धिक्रिया इच्छा वाञ्छा । कर्तव्यं संकल्पो मनसो वृत्तिः । क्रिया एतद्वस्तुस्वरूपमिति कर्तव्यालोचनं यद्बुद्धीन्द्रियाणां सा क्रिया । इत्थमेतत्‌ कर्तव्यमिति यत्प्रवृत्तिः कर्मेन्द्रियाणां सा क्रियेति । एवमेताह पञ्चाभिबुद्धयो व्याख्याताः ॥ अथ काः पञ्चकर्मयोनयः उच्यन्ते । धृतिः श्रद्धा सुखा अविविदिषा विविदिषा चेति पञ्च कर्मयोनयः । वाचि कर्मणि काये च प्रतीतिर्याभिरज्यते । तन्निष्ठस्तत्प्रतिष्ठश्च धृतेरेतद्धि लक्षणम्‌ ॥ अनसूया ब्रह्मचर्यं यजनं याजनं तपः । प्रतिग्रहोऽत्रहोमश्च श्रद्धाया लक्षणं स्मृतम्‌ ॥ सुखार्थी यस्तु सेवेत विद्याकर्मतपांसि च । प्रायश्चित्तपरो नित्यं सुखेयं परिकीर्तिता ॥ विषधूममूर्छितवदविविदिषा । विविदिषा ध्यायिनां प्रज्ञायोनिः । एकत्वं च पृथक्त्वं च नित्यं चेदमचेतनम्‌ । सूक्ष्मं सत्कार्यमक्षोभ्यं ज्ञेया विविदिषा हि सा ॥ कार्यकारणक्षमकरा विविदिषा प्राकृतिका वृत्तिः । धृतिः श्रद्धा सुखा अविविदिषा चतस्रो बन्धाय विविदिषैका मोक्षाय इति पञ्च कर्मयोनयो व्याख्याताः ॥ अत्राह के ते पञ्चवायवः । उच्यन्ते । प्राणोऽपानः समानश्च उदानो व्यान एव च । इत्येते वायवः पञ्च शरीरेषु शरीरिणाम्‌ ॥ तत्र प्राणो नाम वायुर्योऽयं मुखनासिकाधिष्ठानप्राणनात्‌ क्रमेणाननात्‌ प्राण इत्यभिधीयते । अपानो नाम वायुर्नाभेरधिष्ठाता अपनयनादधोगमनाच्चापान इत्यभिधीयते । समानो नाम वायुर्हृदधिष्ठाता समनात्‌ समगमनाच्च समान इत्यभिधीयते । उदानो नाम वायुः कण्ठाधिष्ठाता ऊर्ध्वं गमनाच्च उदान इत्यभिधीयते । व्यानो नाम वायुः सन्ध्यधिष्ठाता प्राणादिजृम्भणाच्च व्यान इत्यभिधीयते । इति पञ्चवायवो व्याख्याताः ॥ आह के ते पञ्चकर्मात्मानः उच्यन्ते । वैकारिकस्तैजसो भूतादिश्च सानुमानो निरनुमानश्चेति । तत्र वैकारिकः शुभकर्मकर्ता । तैजसोऽशुभकर्मकर्ता । भूतादिर्मूढकर्मकर्ता । सानुमानः शुभमूढकर्मकर्ता । निरनुमानोऽशुभमूढकर्मकर्ता । इत्येते पञ्चकर्मकर्तारो व्याख्याताः ॥ आह का सा पञ्चपर्वाविद्येति । उच्यते । तमो मोहो महामोहस्तामिस्रोऽन्धतामिस्रश्चेति । तत्र तमोमोहावुभावेतावष्टात्माकौ । महामोहो दशात्मकः । तामिस्रान्धतामिस्रौ चाष्टादशात्माकौ । तत्र तमो नामाष्टासु प्रकृतिष्वव्यक्तबुद्ध्यहंकारपञ्चतन्मात्रसञ्ज्ञितासु अनात्मस्वात्मज्ञानाभिमानस्तम इत्यभिधीयते । मोहो नामाणिमाद्यष्टागुणैश्वर्यप्राप्तये योभिमान उत्पद्यते स मोह इत्यभिधीयते । महामोहो नाम दृष्टानुश्रविकेषु विषयेषु दशसु निवृत्तेषु मुक्तोऽहमिति मन्यते स महामोह इत्यभिधीयते । तामिस्रो नाम अष्टगुणैश्वर्येऽणिमाद्ये दशविधे च विषये प्रतिहतस्य दुःखमुत्पद्यतेऽसौ तामिस्र इत्यभिधीयते । अन्धतामिस्रो नाम अणिमाद्यष्टगुणैश्वर्ये दशविधे च विषये सिद्धे मरणकाले च यो विषादः प्रत्यपद्यते सोऽन्धतामिस्र इत्यभिधीयते । एवमेषा पञ्चपर्वाऽविद्या द्विषष्टिभेदा व्याख्याता ॥ अत्राह काष्टाविंशतिधाशक्तिः । अत्रोच्यते । एकादशेन्द्रियवधाः सप्तदशबुद्धिवधाः । एषाष्टाविंशतिधाशक्तिः । तत्रेन्द्रियवधास्तावत्‌ । बधिरस्त्वक्बधिरः अन्धः जडजिह्वः अजिघ्रः मूकः कुणिः पङ्गुः नपुंसकः ऊर्ध्ववायुयुक्तः अमनाः । तदुक्तम्‌ । बाधिर्यं कुष्ठितान्धस्त्वं जडताऽजिघ्रता तथा । मूकता कौण्यपङ्गुत्वं क्लैब्योदावर्तमत्तताः ॥ एतेदिन्द्रियद्वारा बुद्धेरेव वधाः । साक्षाद्बुद्धिवधा यथा । नवविधतुष्टिवैकल्यात्‌ अष्टविधासिद्धवैकल्याच्च सप्तदशबुद्धिवधा इत्यष्टाविंशतिधाशक्तिः ॥ का पुनर्नवधा तुष्टिः उच्यते । चतस्र आद्यात्मिक्यस्तुष्टयः बाह्याः पञ्च । आद्याः प्रकृत्युपादानकालभाग्याख्याः । प्रकृत्यैव मुक्तिः किं पुनः साधनैरिति तुष्टिः प्रकृत्याख्या अम्भो नाम । साधनैः संन्यासादिभिरुपात्तैस्तुष्टिः साधानाख्या सलिलं नाम । कालेनैव मुक्त्यादिकं सेत्स्यति किं दुःखैः संन्यासादिसाधनैरिति तुष्टिः कालाख्याऽघो नाम । या तु भाग्यादेव सर्वं सेत्स्यति किं साधनादिध्यानादिक्लेशैरिति सा भाग्याख्या तुष्टिर्नाम । बाह्याः शब्दादिविषयवैराग्यास्तुष्टयः अर्जनरक्षणक्षयभोगहिंसादोषदर्शनं वैराग्यहेतुः पञ्चविधस्तद्भेदेन पञ्चतुष्टयः ॥ अथ काः सिद्धयः उच्यन्ते । अष्टौ सिद्धयः । उच्यन्ते । अध्ययनं तारं नाम सिद्धिः । ततोऽर्थज्ञानं सुतारं नाम । ततस्तर्केणार्थपरीक्षणं तारतारं नाम सिद्धिः । ततः परीक्षकसंवादनं रम्यकं नाम । ततो विवेकख्यातिः सदामुदितं नाम । एताः पञ्च गौण्यः सिद्धयः । दुःखत्रयविघातास्तास्त्रयो मुख्याः सिद्धयः । प्रमोदमुदितमोदनामाख्याः फलमित्यष्टौ सिद्धयः । तुष्टिसिद्धीनां विपर्ययात्‌ सप्तदशधा वुद्धिवधाः ॥ के पुनर्मौलिकार्थाः कतिधा उच्यन्ते । दशधा मौलिकार्थाह । एकत्वमर्थवत्त्वं पारार्थ्यं प्रधानस्य । अन्यत्वमकर्तृत्वं बहुत्वं पुरुषस्य । अस्तित्वं योगो वियोगश्चेत्युभययोः । शेषवृत्तिः परिशिष्टत्वं प्रलये तदुभययोः । तदुक्तम्‌ प्रधानास्तित्वमेकत्वमर्थवत्त्वं यथार्थता । पारार्थ्यं च तथा नैक्यं वियोगो योग एव च ॥ शेषवृत्तिरकर्तृत्वं मौलिकार्थाः स्मृता दश ॥ इति । अत्राह कोऽनुग्रहसर्गः । अनुगृह्णाति प्रत्ययभूतादिसर्गं यः सर्गः सोऽनुग्रहसर्गः । तन्मात्रसर्ग एवासौ विशेषापरनामा । के विशेषाः कियन्तश्च । उच्यन्ते । लिङ्गदेहाह स्थूलदेहाः स्थूलभूतानि च । तत्र लिङ्गं स्थूलदेहात्‌ पूर्वमुत्पन्नमव्याहतं स्थूलनाशेऽप्यनश्वरम्‌ । महदहंकारेन्द्रियतन्मात्रात्मकम्‌ । धर्माधर्मज्ञानाज्ञानवैराग्यावैराग्यैश्वर्यानैश्वर्याख्यभाववासितं संसरति । स्थूलभूतानि तु भूगोलसमुद्रवह्निशिशुमारब्रह्माण्डविराटादीनि । स्थूलदेहाः के कतिविधाश्चेति उच्यते ॥ चतुर्दशविधो भूतसर्गः । तत्राष्टाविकल्पो दैवस्तैर्यग्योनः पञ्चधा मानुष्य एकविधः ब्राह्मः प्राजापत्यः पैत्रे गान्धर्वो याक्षो राक्षसः पैशाचाश्च दैवसर्गः पशुमृगसरीसृपस्थावराः तिरश्चां सर्गः । ब्राह्मणादिजातिभेदेऽपि संस्थाने विशेषाभावात्‌ एकविधो मानुष्य इति चतुर्दशविधाः स्थूलदेहाः । कह पुनर्बन्धः कतिधा च । त्रिविधो बन्धः । काः पुनस्ता विधा उच्यन्ते । प्राकृतिको वैकृतिको दाक्षणिकश्च बन्धः । प्रकृतिमात्मानं ज्ञात्वा तच्चिन्तनात्‌ प्राकृतिकः अत्रोच्यते पूर्णवर्षसहस्रं तु तिष्ठन्त्यव्यक्तचिन्तका इति । महदादीनात्मत्वेन ज्ञात्वा तच्चिन्तनाद्वैकारिकः । अत्रोच्यते । दशमन्वन्तराणीह तिष्ठन्तीन्द्रियचिन्तकाः । भौतिकास्तु शतं पूर्णं सहस्रं चाभिमानिकाः ॥ बौद्धा दशसहस्राणि तिष्ठन्ति विगतज्वराः । अमी विदेहाः । इष्टापूर्त्ती दक्षिणा तन्निमित्तो दाक्षणिकः अत्रोच्यते । स्वर्गस्था नरकं यान्ति नारकाश्च त्रिविष्टपमिति । गतागतं कामकामा लभन्त इति च । अत एव हि त्रिष्वपि बन्धेषु एकैकापाये ततस्ततो मोक्ष इति । त्रिविधो मोक्षः । कर्मणो विकारात्‌ प्राकृतश्च मोक्षः । यदुक्तम्‌ । प्राकृतेन च बन्धेन तथा वैकारिकेण च । दक्षिणाभिस्तृतीयेन वृद्धो नान्येन मुच्यते ॥ इति । अथ कुतस्त्यानां तत्त्वानां सिद्धिः । प्रमाणादिति ब्रूमः । तत्र प्रमाणं किं कतिविधम वा उच्यते त्रिविधं प्रमाणम्‌ । तिस्रो विधा यस्येति त्रिविधम्‌ । कास्ता विधाः । उच्यते । दृष्टमनुमानमाप्तवचनं च । अर्थसन्निकृष्टेन्द्रियजो निश्चयो दृष्टम्‌ । इन्द्रियाणि पञ्च चक्षुरादीनि मनश्च । व्याप्तिपक्षधर्मताज्ञानपूर्वकमनुमानम्‌ । तच्च त्रिविधम्‌ । पूर्ववत्‌ शेषवत्‌ सामान्यतो दृष्टं च । पूर्ववद्यथा कर्दमेन पूर्ववृत्तवृष्ट्यनुमानम्‌ । शेषवद्यथा । समुद्रातपलमुदकं(?) क्षारमुपलभ्य शेषस्यापि क्षारत्वानुमानम् । सामान्यतो दृष्टां च यथा । रूपाद्युपलभ्य तदुपलब्धेः कारणस्यानुमानम्‌ । रूपाद्युपलब्धयः करणसाध्याः क्रियत्वात्‌ छिदिक्रियावत्‌ । आप्तश्रुतिराप्तवचनं च । यथार्थवाक्यजार्थविषयोध्यवसाय इति यावत्‌ । प्रावादुकोद्भावितानां तु उपमानार्थापत्तिसम्भवाभावैतिह्यप्रतिभानामित्युक्तेष्वेवान्तर्भावः । यत्‌ तद्यथा गौर्गवयस्तथेति वाक्यम्‌ । तद्ज्ञाननिधीरागम एव । गवयेपि गोसदृशस्य गवयशब्दो वाचक इति प्रत्ययः सोयमनुमानमेतत्सङ्केतग्रहरूपत्वात्‌ । यद्‍ गवयस्य चक्षुःसन्निकृष्टगोसादृश्यज्ञानं तत्प्रत्यक्षमेव । अत एव स्मर्यमाणायां गवि सादृश्यज्ञानं प्रत्यक्षम्‌ । गोगवययोः सादृश्यस्य गवयान्तरवर्त्तिभूयोवयवसामान्यरूपस्य योगरूपस्यैकत्वादित्युपमानं न मानान्तरम्‌ । जीवतो गृहाभावदर्शनेन बहिर्भावकल्पनादित्यर्थापत्तिरनुमानमेव । सम्भवोपि खार्यादौ द्रोणाढकप्रस्थाद्यवगमरूपोऽनुमानमेव । इह भूतले घटो नास्तीत्यादिरभावावगमोऽपि प्रत्यक्षमेवेति नाभावः पृथक्‌ प्रमाणम्‌ । अनिर्दिष्टप्रवक्तृकं प्रवादमात्रमैतिह्यमपीह वटे यक्षः प्रतिवसतीत्यप्रमाणमेव । आप्तमूलत्वे त्वागम एव । द्वारवती पुण्यभूमिरिति श्रुतेः तत्र वसतः श्रेयांसस्तत्र गमने पुण्यं भवतीत्यादिबुद्धिर्जायमाना प्रतिभा । यत्रोच्यते । अनुक्तमप्यूहति पण्डितो जन इति । सा तु प्रायेण प्रमाणमेव । आर्षं तु दर्शनं प्रत्यक्षमेव । या प्रतिभा साप्यनुमानमेव ॥ त्रयोविंशतिसूत्रैर्हि सर्वशास्त्रार्थसंग्रहः । कृतो मुनिवरेणात्र यथामति सचीवृतः(?) ॥ इति सांख्यसूत्रविवरणाख्या कापिलसूत्रवृत्तिः समाप्ता ॥