तत्त्वयाथार्थ्यदीपनम्‌ । श्रीभावागणेशविरचितम्‌ । श्रीकृष्णचन्द्राय नमः ॥ पुरुषः स जयत्याद्यः सा च प्रकृतिरीश्वरी । याभ्यां संसृज्य सृज्यन्तेऽनन्तब्रह्माण्डकोटयः ॥ १ ॥ कपिलासुरिपञ्चशिखान्‌ गुरून्‌ विज्ञानाचार्यवर्यांश्च । प्रणमामि बुद्धिवृद्ध्यै सिद्ध्यै वा सर्वकार्याणाम्‌ ॥ २ ॥ समाससूत्राण्यालम्ब्य व्याख्यां पञ्चशिखस्य च । भावागणेशः कुरुते तत्त्वयाथार्थ्यदीपनम्‌ ॥ ३ ॥ तत्र तावद्विविक्तपुरुषज्ञानं मोक्षसाधनमिति । येभ्यो विवेक्तव्यो यश्च विवेचनीयः तदुभयं सूत्रत्रयेणोद्दिशति । अष्टौ प्रकृतयः । प्रकर्षेण कुर्वन्तीति प्रकृतयः । तत्त्वान्तरारम्भकत्वं प्रकृतित्वमिति सामान्यलक्षणम् । ताश्च अव्यक्तबुद्ध्यहंकारपञ्चतन्मात्ररूपाः । तत्राव्यक्तं नित्यं शब्दादिगुणशून्यं सत्त्वादिगुणत्रयं च । साम्यावस्थोपलक्षिता गुणाः प्रकृतिरित्येकं लक्षणं च । अकार्या गुणा इत्यपरम्‌ । तथा प्रकृतिपर्याया अव्यक्तं प्रधानं ब्रह्म अक्षरं क्षेत्रं तमः माया ब्राह्मी विद्या अविद्या प्रकृतिः शक्तिः अजा इत्यादयः । सत्त्वादिगुणवती सत्त्वाद्यतिरिक्ता प्रकृतिरिति तु न शङ्कनीयम्‌ । किन्तु गुण एव प्रकृतिः । सत्त्वादीनामतद्धर्मत्वं तद्रूपत्वादिति सांख्यप्रवचनसूत्रेण सत्त्वादीनां प्रकृतिस्वरूपत्वहेतुना प्रकृतिधर्मत्वप्रतिषेधात्‌ । प्रकृतेर्गुण इत्यादिवाक्यं तु वनस्य वृक्षा इतिवद्‌ बोद्धव्यम्‌ । "सत्त्वं रजस्तम इति प्रकृतेरभवन्‌ गुणा" इति प्रकृतिकार्यत्ववचनं तु गुणनित्यतावाक्यविरोधेन महत्तत्त्वकारणीभूतकार्यसत्त्वादिपरमेव । महदादिसृष्टिर्हि गुणवैषम्याच्छ्रूयते तच्च वैषम्यं सजातीयसंवलनेन प्रकाशादिफलोपहितः सत्त्वादिव्यवहारयोग्यः कारणगुणानां परिणाम इति । एतेनाष्टाविंशतितत्त्वपक्षोऽप्युपपादितो मन्तव्यः । सत्त्वादित्रयं अह द्रव्यत्वेऽपि पुरुषोपकरणत्वाद्‌ गुणा इत्युच्यन्ते । द्रव्यत्वं चैषां संयोगविभागादिमत्तया उपादानकारणत्वेन सिद्धम्‌ । एषां सुखदुःखमोहात्मकत्वप्रवादस्तु धर्मधर्म्यभेदात्‌ । मनसः संकल्पात्मकत्ववत्‌ । तानि च सत्त्वादीनि प्रत्येकं संख्याव्यक्तिकानि लघुत्वादिधर्मैरन्योन्यं साधर्म्यं वैधर्म्यं च गुणानामिति सांख्यप्रवचनसूत्रात्‌ । अत्र हि सूत्रं लघुत्वादिना बहूनां सत्त्वानां साधर्म्यं तेनैव रजस्तमोभ्यां वैधर्म्यम्‌ । एवं च लघुत्वादिना बहूनां रजसां गुरुत्वादिना बहूनां तमसां साधर्म्यवैधर्म्ये उक्ते इति । तेषु त्रित्ववचनं तु सत्त्वत्वादिविभाजकोपाधित्रयेणैव वैशेषिकाणां नवद्रव्यवचनवदिति । तानि च सत्त्वादीनि यथोपयोगमणुविभुपरिमाणकानि । मध्यमपरिमाणत्वेऽनित्यत्वापत्तिः । सर्वेषां विभुत्वे कार्याणां परिच्छिन्नत्वानुपपत्तिः । आकाशप्रकृतेर्विभुत्वस्यैवौचित्यात्‌ । ननु प्रकृतेश्चापरिच्छिन्नत्वैकत्वाक्रियत्वमिति सांख्यसिद्धान्तः । स च विरुध्यत इति चेत्‌ मैवम्‌ गन्धस्य पृथिवीव्यापकत्ववत्प्रकृतेर्व्यापकत्वम्‌ । तच्च प्रकृतित्वस्य दैशिकाभावप्रतियोगितानवच्छेदकत्वम्‌ । एकत्वं च सर्गभेदेन नानात्वाभावः । अक्रियत्वं चाध्यवसायाभिमानादिप्रतिनियतक्रियाराहित्यम्‌ । अन्यथा श्रुतिस्मृतिसिद्धप्रकृतिक्षोभस्यानुपपत्तेरिति । प्रकृत्यनुमानं चेत्थं महदादिकार्यं पक्षः सुखदुःखमोहात्मकद्रव्यकार्यमिति साध्यं कार्यत्वे सति सुखदुःखमोहात्मकत्वादिति हेतुः वस्त्रादिकार्यशय्यासनवदिति दृष्टान्तः । श्रुतिस्मृती चात्रानुग्राहकस्तर्कः ॥ ननु सुखस्यान्तरेवानुभवात्‌ शय्यासनादौ सुखे किं प्रमाणं येन दृष्टान्तता स्यादिति चेन्न कारणगुणा हि कार्यगुणानारभन्ते इति न्यायेन विषयेषु त्रिगुणकार्येषु सुखदुःखमोहसिद्धेः घटरूपमिति प्रत्ययवत्‌ चन्दनसुखं स्त्रीसुखमित्यादिसुखप्रत्ययादपि विषये सुखाद्युचितं सुखदुःखोत्पादकत्वाच्च तद्गतमेव सुखदुःखादिकं सिध्यति अन्तःकरणसुखादिहेतुतयाऽपि विषये सुखादिकं सिद्ध्यति । कालादिभेदैरेकस्या एव त्र्यादिव्यक्तेः सुखदुःखोत्पादकत्वाच्च तद्गतमेव सुखदुःखादिकं सिद्ध्यति ॥ इति मूलप्रकृतिनिरूपणम्‌ ॥ अथ बुद्धिर्निरूप्यते । त्रिगुणात्मकमाद्यं कार्यं बुद्धिरित्येकं लक्षणम्‌ । निश्चयवृत्तिकमन्तःकरणं बुद्धिरिति द्वितीयं लक्षणम्‌ । तस्या धर्मज्ञानवैराग्यैश्वर्याख्यप्रकृष्टगुणयोगात्‌ महत्सञ्ज्ञा तदपि तृतीयं लक्षणम्‌ । तस्याः पर्यायाः । मनो मतिर्महान्‌ ब्रह्मा पूर्वं बुद्धिर्वृत्तिः ख्यातिः प्रज्ञा सन्ततिः स्मृतिरिति । अनुस्मृतौ च । महानात्मा मतिर्विष्णुर्जिष्णुः शम्भुश्च वीर्यवान्‌ । बुद्धिः प्रज्ञोपलब्धिश्च तथा ब्रह्मा वृत्तिः स्मृतिः ॥ पर्यायवाचकैरेतैर्महानात्मा निगद्यते । सर्वतः पाणिपादश्च सर्वतोऽक्षिशिरोमुखः ॥ सर्वतः श्रुतिमांल्लोके सर्वं व्याप्य स तिष्ठति । ज्ञानवन्तश्च ये केचितदलुब्धा जितमन्यवः ॥ विमुक्ताः सर्व एवैते महत्त्वमुपयान्त्युत । विष्णुरेवादिसर्गेषु स्वयम्भूर्भवति प्रभुः ॥ इति । इदमेव महत्तत्त्वमंशतो रजस्तमःसम्भेदेन परिणतं सत्‌ व्यष्टिजीवानामुपाधिरधर्मादियुतं क्षुद्रमपि भवति । महदुपरागाद्विपरीतमिति सांख्यप्रवचनसूत्रात्‌ । महदहंकारमनस्त्रितयात्मकस्यान्तःकरणवृक्षस्य महत्तत्त्वमङ्कुरावस्थेति । अत्र प्रकृतेर्महानित्यादिसृष्टिक्रमे शास्त्रमेव प्रमाणम्‌ । इदमेव महत्तत्त्वं कार्येश्वरस्य स्वयम्भुव उपाधिस्तेनैवोपाधिना स सर्वज्ञः सर्वेश्वरः सर्वकर्त्ता सर्वपालकः सर्वसंहर्त्ता च । मात्स्ये । सविकारात्‌ प्रधानात्‌ तु महत्तत्त्वमजायत । महानिति यतः ख्यातिर्लोकानां जायते सदा ॥ गुणेभ्यः क्षोभमाणेभ्यस्त्रयो देवा विजज्ञिरे । एका मूर्त्तिस्त्रयो देवा ब्रह्मविष्णुमहेश्वराः ॥ इति । स च स्वयम्भूः क्रियाशक्तिमत्‌ केवलमहत्तत्त्वोपाधिकः सूत्रात्मेत्युच्यते । स एवार्द्धसुषुप्तावर्द्धलयात्‌ प्राज्ञ इत्युच्यते । समग्रसुषुप्तौ तु समग्रलयेन निर्विशेषचिन्मात्रस्वरूपेणावस्थानादीश्वर इत्युच्यते श्रुतिस्मृतिपुराणेषु महांस्त्रिधा तदुक्तं वैष्णवे । सात्त्विको राजसश्चैव तामसश्च त्रिधा महानिति । ब्रह्मशङ्करोपक्षयाप्यादौ विष्णुरेवाविर्भवतीत्यर्धेनोक्तम्‌ । पूर्वोक्तधर्मादिषु धर्मेणोर्ध्वगमनमूर्ध्वगमनेन भोगस्थानान्युपलक्ष्यन्ते । तेन पातालभूस्वर्गादीनामपि संग्रहः । ज्ञानेन मोक्षः वैराग्येण प्रकृतिलयः पुरुषतत्त्वानभिज्ञस्य वैराग्यात्‌ प्रकृतिलयो भवति । तथा चोक्तं पुराणे । प्रकृतिचिन्तकानधिकृत्य "पूर्णं शतसहस्रं तु तिष्ठन्ति विगतज्वरा" इति । अत्र प्रकृतिग्रहणेन महदहंकारभूतेन्द्रियाण्यपि गृह्यन्ते । तत्र वैराग्यपूर्वकं तेषु तेष्वात्मभावेनोपास्यमानेषु लयो हि प्रकृताविति च श्रूयते । पूर्ववाक्यानन्तरमेव । दश मन्वन्तराणीह तिष्ठन्तीन्द्रियचिन्तकाः । भौतिकास्तु शतं पूर्णं सहस्रं त्वाभिमानिकाः ॥ बौद्धा दश सहस्राणि तिष्ठन्ति विगतज्वराः ॥ इति च । अयं च प्राकृतिको बन्ध इत्युच्यते योगिभिः महदादिभावश्च वैकृतिको बन्ध इति । ऐश्वर्येणाप्रतिघातः ऐश्वर्यं चाणिमादिसिद्धयः । इति बुद्धिर्व्याख्याता ॥ अहङ्कारो व्याख्यायते । महत्तत्त्वादहङ्कार उत्पद्यते अङ्कुराच्छाखावत्‌ । तस्य चाहमाकारवृत्तिमत्त्वादहङ्कार इति संज्ञा । अहंवृत्तिमदन्तःकरणमहङ्कार इत्येकं लक्षणम्‌ । एकादशेन्द्रियोपादानत्वं द्वितीयं लक्षणम्‌ । तन्मात्रोपादानत्वं तृतीयं लक्षणम्‌ । तस्य च पर्यायाः । अहङ्कारोऽभिमानश्च कर्त्ता मन्ता च स स्मृतः । आत्मा च प्रकुलो जीवो यतः सर्वाः प्रवृत्तयः ॥ इति । कौर्मप्रोक्ता अविशेषा इति च । स चाहङ्कारस्त्रिविधः । तदुक्तं कौर्मे । वैकारिकस्तैजसश्च भूतादिश्चैव तामसः । त्रिविधोऽयमहङ्कारो महतः सम्बभूव ह ॥ तैजसानीन्द्रियाणि स्युर्देवा वैकारिका दश । एकादशं मनश्चात्र स्वगुणेनोभयात्मकम्‌ ॥ भूततन्मात्रसर्गस्तु भूतादेरभवत्‌ प्रजा ॥ इति । वैकारिकः सात्त्विकस्तैजसो राजसः । स्वगुणेन सर्वेन्द्रियेषु साहाय्यरूपेणोत्कर्षेणोभयात्मकं ज्ञानकर्मेन्द्रियोभयात्मकमित्यर्थः । इन्द्रियदेवताश्च दिग्वातार्कप्रचेतोश्विवह्नीन्द्रोपेन्द्रमित्रकामचन्द्रश्चेति एकादश । इत्यहंकारनिरूपणम्‌ ॥ अथ तन्मात्रा उच्यन्ते । शब्दस्पर्शरूपरसगन्धा निर्विशेषास्तद्वन्ति सूक्ष्मभूतानि तन्मात्राः । निर्विशेषशब्दादिगुणवद्‌ द्रव्यं तन्मात्रा इति सामान्यलक्षणम्‌ । अहंकारोपादानत्वे सति तत्त्वान्तरारम्भकत्वं द्वितीयं लक्षणम्‌ । तत्तन्निर्विशेषगुणवत्त्वं तत्तन्मात्रलक्षणम्‌ । तानि च पञ्च शब्दतन्मात्रं स्पर्शतन्मात्रं रूपतन्मात्रं रसतन्मात्रं गन्धतन्मात्रं चेति । शान्तघोरमूढाः पञ्चस्वपि विशेषाः शब्दत्वस्पर्शत्वादिव्याप्या जातिविशेषा एव । शब्दे तु उदात्तानुदात्तस्वरिताः निषादर्षभगान्धारषड्जमध्यमधैवताः पञ्चमश्चेति स्वराः । स्पर्शे शीतोष्णत्वे । रूपे शुक्लत्वादयो विशेषाः । ते च श्वेतपीतरक्तश्यामहरितकपिशाः । रसे मधुरत्वादयो विशेषास्ते च मधुरतिक्तकषायकट्वम्लक्षाराः षड्रसाः । गन्धे सुरभित्वासुरभित्वे । एतैर्विशेषै रहिता अविशेषास्तद्वन्ति द्रव्याणि तन्मात्राः । तेषां पर्यायाः तन्मात्राणि तमोविग्रहाः सूक्ष्मविग्रहाः सूक्ष्मभूतानि अविशेषा इति ॥ इति पञ्च तन्मात्राः ॥ एवमष्टौ प्रकृतयो व्याख्याताः ॥ षोडशविकारा इति द्वितीयं सूत्रम्‌ । एकादशेन्द्रियाणि पञ्चमहाभूतानि च एते षोडश विकाराः । तत्र श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणानि स्वस्वविषयकबुद्धिजनकत्वात्‌ पञ्च बुद्धीन्द्रियाणि । वाक्पाणिपादपायूपस्थानि स्वस्वकर्मकरणात्‌ पञ्च कर्मेन्द्रियाणि । तत्र उच्चारणं वाचः हस्तयोरादानं पादयोर्गतिः पायोरुत्सर्गः उपस्थस्यानन्दः । सर्वसहायत्वादुभयात्मकं मनः । एतान्येकादशेन्द्रियाणि । तत्त्वान्तरानारम्भकत्वे सति अहंकारोपादानत्वमित्येकं लक्षणम्‌ । अहंकारोपादानकत्वे सति शरीरसंयुक्तं क्रियाकरणमतीन्द्रियमिन्द्रियमिति द्वितीयम्‌ । अथ पर्यायाः इन्द्रियाणि करणानि निपातनानि वैकारिकाणि तैजसानि । इतीन्द्रियनिरूपणम्‌ ॥ अथ महाभूतानि । पृथिव्यप्तेजोवाय्वाकाशमिति । सविशेषशब्दादिमत्त्वं महाभूतत्वमित्येकं लक्षणम्‌ । तत्त्वान्तरानारम्भकत्वे सत्यारम्भकत्वं द्वितीयं लक्षणम्‌ । सविशेषशब्दगुणवत्त्वमाकाशस्य लक्षणम्‌ । सविशेषशब्दस्पर्शवत्त्वं वायोर्लक्षणम्‌ । सविशेषशब्दस्पर्शरूपवत्त्वं तेजसः । सविशेषशब्दस्पर्शरूपरसवत्त्वमपाम्‌ । सविशेषशब्दस्पर्शरूपरसगन्धवत्त्वं पृथिव्याः । एतानि विशेषलक्षणानि । एतानि पञ्च महाभूतानि परस्परोपकारीणि । अथामीषां पर्यायाः । भूतानि विकारा विशेषा आकृतयः तमोविग्रहाः शान्ता घोरा मूढा इति । इति षोडशविकारा व्याख्याताः । पुरुष इति तृतीयं सूत्रम्‌ । अनादिः सूक्ष्मश्चेतनः सर्वगतः निर्गुणः कूटस्थो नित्यो द्रष्टा भोक्ता क्षेत्रवित्‌ अमनः प्रसवधर्मा चेति स्वरूपम्‌ । कूटस्थनित्य इत्येकं लक्षणम्‌ । मुख्यभोक्तृत्वमित्यपरं लक्षणम्‌ । वृत्तिसाक्षित्वमिति तृतीयं लक्षणम्‌ । अथ पर्यायाः पुरुष आत्मा पुमान्‌ पुद्गलजन्तुः जीवः क्षेत्रज्ञः नरः कविः ब्रह्म अक्षरः प्राणः ज्ञः यः कः स एक इति । एवमेतानि पञ्चविंशतितत्त्वानि एतज्ज्ञानात्‌ कृतकृत्यो भवति । तथा चोक्तं पञ्चशिखेन प्रमाणवाक्यम्‌ । पञ्चविंशतितत्त्वज्ञो यत्र कुत्राश्रमे स्थितः । जटी मुण्डी शिखी वाऽपि मुच्यते नात्र संशयः ॥ स च पुरुषो नाना सुखदुःखमोहजन्ममरणबन्धमोक्षव्यवस्थातः जन्मादिव्यवस्थातः पुरुषबहुत्वमिति सांख्यप्रवचनसूत्रात्‌ । यद्येकः पुरुषः स्यादेकस्मिन्‌ सुखिते सर्वे सुखिताः स्युः एवं सर्वत्र एवं पुरुषबहुत्वं सिद्धम्‌ । एवं तावत्‌ सांख्याचार्याः कपिलासुरिपञ्चशिखपतञ्जलिप्रभृतयो यस्मात्‌ परं नापरमस्ति किञ्चिदिति न्यायवैशेषिकाश्च बहून्‌ पुरुषानात्मत्वेन वदन्ति । औपनिषदाश्चाचार्या हरिहरहिरण्यगर्भव्यासादयः एभ्योऽतिरिक्तमेकमेव नित्येश्वरं सर्वेषामात्मानं वदन्ति । कस्मादेवं पुरुष एवेदं सर्वमिति । तदेवाग्निस्तदादित्य इति । तदक्षरं तद्विभुर्वरेण्यं यस्मात्‌ परं नापरमस्ति किञ्चित्‌ स हि सर्वेषु भूतेषु स्थावरेषु चरेषु च वसत्येको महानात्मा येन सर्वमिदं ततम्‌ । ब्राह्मणे कृमिकीटेषु श्वपाके गवि हस्तिनि । पशुगोदंशमशके रूपं पश्यन्ति सूरयः ॥ एकमेव यथा सूत्रं सुवर्णे वर्त्तते पुनः । मुक्तामणिप्रवालेषु मृण्मये रजते तथा ॥ तद्वत् पशुमनुष्येषु तद्वद्धस्तिमृगादिषु । एकोऽयमात्मा विज्ञेयः सर्वत्रैव व्यवस्थितः ॥ इत्यादि प्रमाणेभ्यः । सांख्यास्तु आदिपुरुषविषयतया लयावशिष्टनिर्विशेषचिन्मात्रविषयतया वा एतानि श्रुतिवाक्यानि योजयन्ति । इति पुरुषनिरूपणम्‌ । एवं पञ्चविंशतितत्त्वानि व्याखातानि । सांख्यकारिका च । मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त । षोडशकस्तु विकारो न प्रकृतिर्न विकृतिः पुरुषः ॥ इति । इदानीं प्रथमसूत्रेणैव गुणात्मकप्रकृतेरुद्दिष्टत्वेऽपि गुणानामवान्तरविभागं तद्धर्मांश्च विवेचयितुं वक्ष्यमाणसञ्चरप्रतिसञ्चरोपोद्घातसङ्गत्या च सूत्रं प्रवर्त्तते । त्रैगुण्यमिति चतुर्थं सूत्रम्‌ । सत्त्वरजस्तमांसि त्रयो गुणाः तेषां समाहारस्त्रिगुणं त्रिगुणमेव त्रैगुण्यम्‌ । तत्र सत्त्वं नाम प्रकाशलाघवप्रसन्नताभिष्वङ्गप्रीतितितिक्षादिलक्षणमनन्तभेदं समासतः सुखात्मकम्‌ । रजो नाम शोकतापस्वेदस्तम्भोद्वेगोन्मादादिलक्षणमनन्तभेदं समासतो दुःखात्मकम्‌ । तमो नाम अदानापुण्यदैन्यगौरवालस्यनिद्राप्रमादादिलक्षणमनन्तभेदं समासतो मोहात्मकम्‌ । एतेषां लक्षणानि । सत्त्वं प्रकाशकं विद्याद्रजो विद्यात्‌ प्रवर्त्तकम्‌ । तमो लयात्मकं विद्यात्त्रैगुण्यं नाम संज्ञितम्‌ ॥ एते त्रयो गुणाः सर्वे उत्पत्तिस्थितिलयहेतवः ॥ इति त्रैगुण्यं व्याख्यातम्‌ । इदानीं सगुणनिर्गुणश्रुतिविषयोपपत्त्यर्थं सर्गादावुत्पन्नं स्वयम्भुवं प्रलयावशिष्टनिर्विशेषचित्सामान्यं च दर्शयितुं सृष्टिप्रलययोः सूत्रद्वयं प्रवर्तते । सञ्चरः प्रतिसञ्चरः । सञ्चरः सृष्टिः प्रतिसञ्चरः प्रलयः । तत्र सृष्टिर्यथा । अव्यक्ताख्या प्रकृतिः प्रवृत्तिस्वभावा स्वतन्त्रा च । सर्गादौ स्वयमेव क्षुब्धा सती भाविनारायणबीजभूता पूर्वकल्पे स्वयम्भूपालकेन नामकेन व्यक्तेन नारायणपुरुषेण संयुज्यते ततश्च सजातीयैरन्यैः प्रकृत्यंशैर्न्यूनाधिकभावेन मिलिता सती चेतनाचेतनात्मकं महत्तत्त्वमारभते । ननु पुरुषस्य प्रकृतिसंयोगित्वे असंयोगो ह्ययं पुरुष इति श्रुतिविरोध इति चेन्न विकारहेतुसंयोगस्यैव सङ्गशब्दार्थत्वात्‌ अन्यथा श्रुतिस्मृतिषु जलसंयोगिनोऽपि पद्मपत्त्रस्यासङ्गतादृष्टान्तता न स्यात्‌ । तत्र महत्तत्त्वस्य स्वरूपेण मुख्योत्पत्तिः चेतनस्य तु अभिव्यक्तिरूपा कार्यता । योगभाष्ये व्यासधृतवाक्यान्नवधा कार्यता । उत्पत्तिस्थित्यभिव्यक्तिविकारप्रत्ययाप्तयः । वियोगान्यत्वधृतयः कारणं नवधा स्मृतम्‌ ॥ इति । एवमादिशक्तिरपि चेतनविशेषो महत्तत्त्वकारणीभूतगुणत्रयसम्बन्धात्‌ स्वयम्भवाप्यादावुत्पद्यते । उत्पत्तौ च प्रमाणं प्रयोगसारे । तस्माद्विनिर्गता नित्या सर्वगा विष्णुसम्भवा ॥ इति । वायवीयसंहितायां च । शिवेच्छया परा शक्तिः शिवतत्त्वैकतां गता । ततः परिस्फुरत्यादौ सर्गे तैलं तिलादिव ॥ इति । पञ्चरात्रेऽपि । एवमालोक्य तां शक्तिं सच्चिदानन्दरूपिणीम्‌ । समस्ततत्त्वसन्धामस्फूर्त्यधिष्ठानरूपिणीम्‌ ॥ व्यक्तां करोति नित्यां तां प्रकृतिं परमः पुमान्‌ ॥ इति । प्रादुरासीज्जगन्माता वेदमाता सरस्वती । गुणत्रयमयी शक्तिर्मूलप्रकृतिसञ्ज्ञिता ॥ तस्यामहं समुत्पन्नस्तत्त्वैस्तैर्महदादिभिरित्यादिशिववाक्याच्च । सैव प्रकृत्यधिष्ठात्री देवता महालक्ष्मी अम्बा भवानी हैमवती दुर्गा इत्यादिपदैरभिलप्यते पुराणादिषु । सैव च लीलाविग्रहैरादिपुरुषेण मिलिता सती सृष्टिं पालयति । तदुक्तं शङ्कराचार्यैः । शिवः शक्त्या युक्तो यदि भवति शक्तः प्रभवितुं न चेदेवं देवो न खलु कुशलः स्पन्दितुमपि । इति । एवं सर्वतत्त्वानां तत्तद्देवतानां च सहैवोत्पत्तिर्ज्ञेया । उत्पत्तिक्रमस्तु निरूपणक्रमेणैव । एतस्मान्महतो गुणान्तरसंवलितात्‌ त्रिविधोऽहङ्कार उत्पद्यते चेतनाचेतनात्मकः वैकारिको राजसस्तामसश्चेति । ततश्चाहङ्कारात्‌ सङ्कल्पपूर्वकं देहेन्द्रियाणि पञ्च तन्मात्राणि चोत्पद्यन्ते । स्वयभुव इन्द्रियाणि देवतारूपाणि वैकारिकात्‌ व्यष्टीन्द्रियाणि च तैजसात्‌ तेष्विन्द्रियेष्वादौ मन उत्पद्यते । शब्दरागाच्छ्रोत्रमस्य जायते भावितात्मनः । रूपरागात्‌ तथा चक्षुर्घ्राणं गन्धजिधृक्षया ॥ इत्यादिना मोक्षधर्मादौ श्रोत्रादीनां मनोवृत्तिरागादिकार्यत्वश्रवणात्‌ । इन्द्रियतन्मात्रयोश्च कार्यकरणभावस्याभावात् क्रमनियमो नास्ति । तत्रेन्द्रियेषु नास्त्यवान्तरकार्यकारणभावः प्रमाणाभावात्‌ । तन्मात्रेषु त्वस्ति स यथा अहंकाराच्छब्दतन्मात्रं तस्मादहंकारोत्पन्नाच्छब्दतन्मात्रादहंकारसहितात्‌ स्पर्शतन्मात्रं शब्दस्पर्शोभयगुणकम्‌ । एवं क्रमेणैकैकगुणवृद्ध्या तन्मात्रत्रयमुत्पद्यते । ततश्च तन्मात्रेभ्यः पञ्च महाभूतानि जायन्ते । तत्राहङ्कारात्‌ पञ्चतन्मात्राणां तद्द्वारा पञ्चमहाभूतानां चोत्पत्तौ पुराणे क्रम उक्तः स यथा भूतादिस्तु विकुर्वाणः शब्दमात्रं ससर्ज हि । आकाशं सुषिरं तस्मादुत्पन्नं शब्दलक्षणम्‌ ॥ आकाशस्तु विकुर्वाणः स्पर्शमात्रं ससर्ज हि । वायुरुत्पद्यते तस्मात्‌ तस्य स्पर्शो गुणो मतः ॥ इत्यादिक्रमेणेति । नन्वेवमाकाशादिभूतचतुष्टयस्यापि तत्त्वान्तरप्रकृत्यापत्त्या केवलविकृतित्वाष्टप्रकृतित्वसिद्धान्तक्षतिरिति चेन्न आकाशादीनां स्पर्शादितन्मात्रेष्वहंकारोपष्टम्भमात्रेण कारणत्वस्य पुराणेषूक्तत्वादिति । एवं त्रयोविंशतितत्त्वानां सृष्टिः । तेषु पञ्चमहाभूतानि वर्ज्जयित्वाऽहंकारं च बुद्धौ प्रवेश्य सप्तदशकं लिङ्गशरीरसञ्ज्ञं भवति । वह्नेरिन्धनवदात्मनोऽभिव्यक्तिस्थानत्वात्‌ । तच्च सर्वपुरुषाणां स्वस्वबीजभूतप्रकृतिसंयोगात्‌ सर्गादावुत्पद्य प्राकृतप्रलयपर्यन्तं तिष्ठति । तेनैव चेहलोकपरलोकयोर्जीवानां संसरणं भवति । प्राणश्च बुद्धेरेव वृत्तिभेद इत्यतो लिङशरीरे पृथक्‌ न निर्दिश्यते बुद्धावेवान्तर्भावात्‌ । तस्य च लिङ्गशरीरस्य परमसूक्ष्माणि पञ्च महाभूतानि तेजःप्रधानान्याश्रयः चित्रादिवत्‌ आश्रयं विना लोकान्तरगमनासम्भवात्‌ । तदुक्तं सप्तत्याम्‌ । चित्रं यथाश्रयमृते स्थाण्वादिभ्यो विना यथा छाया । तद्वद्विना विशेषैर्न तिष्ठति निराश्रयं लिङ्गम्‌ ॥ इति इदं च लिङ्गशरीरमादौ स्वयम्भुवः समष्टिचेतनस्य उपाधिभूतमेकमेव समष्टिरूपं जायते ततश्च व्यष्टिजीवानामप्युपाधिभूतानि व्यष्टिलिङ्गशरीराणि तदंशभूतानि ततो विभज्यन्ते पितुर्लिङ्गशरीरात्‌ पुत्त्रलिङ्गशरीरवत्‌ । तदुक्तं सांख्यप्रवचनसूत्रेण । व्यक्तिभेदः कर्मविशेषादिति । मनुनाऽप्युक्तम्‌ । तेषां त्ववयवान्‌ सूक्ष्मान्‌ षण्णामप्यमितौजसाम्‌ । सन्निवेश्यात्ममात्रासु सर्वभूतानि निर्ममे ॥ इति । षण्णामिति षडिन्द्रियं समस्तलिङ्गशरीरोपलक्षकम्‌ । तथा चायमर्थः । स्वयम्भूः स्वलिङ्गशरीरावयवान्‌ सूक्ष्मानल्पान्‌ आत्ममात्रासु स्वांशचेतनेषु संयोज्य सर्वप्राणिनः ससर्जेति । इति लिङ्गशरीरनिरूपणम्‌ । अथ स्थूलशरीरोत्पत्तिः । दशगुणितमहत्तत्त्वमध्येऽहंकारस्तस्मिन्नपि दशगुणे व्योम तथैव व्योम्न्यपि वायुः वायावपि तेजः तेजसि दशगुणे जलं तथैव जलस्यापि दशगुणस्य मध्ये पृथ्वी समुत्पद्यते सैव स्थूलशरीरस्य बीजमण्डरूपेण परिणमते । तस्यापि दशगुणितस्याण्डस्य पृथिव्यावरणस्य मध्ये चतुर्दशभुवनात्मकं स्वयम्भुवः स्थूलशरीरं तत्सङ्कल्पादेवोत्पद्यते । तेनैव शरीरेण स्वयम्भूर्नारायण इत्युच्यते । स्वयम्भुवं प्रकृत्य मनुनाऽप्युक्तम्‌ । सोऽभिध्याय शरीरात्‌ स्वात्‌ सिसृक्षुर्विविधाः प्रजाः । अप एव ससर्जादौ तासु बीजमवासृजत्‌ ॥ तदण्डमभवद्धैमं सहस्रांशुसमप्रभम्‌ । तस्मिन्‌ जज्ञे स्वयं ब्रह्मा सर्वलोकपितामहः ॥ स वै शरीरी प्रथमः स वै पुरुष उच्यते । आदिकर्ता स भूतानां ब्रह्माग्रे समवर्तत ॥ आपो नारा इति प्रोक्ता आपो वै नरसूनवः । ता यदस्यायनं पूर्वं तेन नारायणः स्मृतः ॥ इत्यादिनेति । तत एवादिपुरुषाद्व्यष्टिपुरुषाणां विभागात्‌ अन्ते च तत्रैव लयात्‌ स एवैक आत्मेति श्रुतिस्मृत्योर्व्यवह्रियते । ततश्च स नारायणो विराट्‌शरीरी पृथिवीरूपस्वनाभिकमलकर्णिकास्थानीयस्य सुमेरोरुपरि चतुर्मुखमवान्तरब्रह्माणं सृष्ट्वा तद्द्वारान्यानपि व्यष्टिशरीरिणः स्थावरान्तान्‌ ससर्ज । तथा च स्मर्यते । तच्छरीरसमुत्पन्नैः कार्यैस्तैः करणैः सह । क्षेत्रज्ञाः समजायन्त गात्रेभ्यस्तस्य धीमतः ॥ इति । यत्तु शेषशायिनो नारायणस्य नाभिकमलश्रोत्रचक्षुरादिभ्यश्चतुर्मुखस्याविर्भावः श्रूयते । तद्दैनन्दिनसर्गेष्वेव हि कल्पभेदेन मन्तव्यम्‌ । दैनन्दिनप्रलयेष्वेव हि नारायणशरीरे प्रविश्यैकीभूय सुप्तानां देवानां चतुर्मुखादिक्रमेणाविर्भावः शेषशायिनः सकाशाद्‌ घटते न त्वादिसर्गेषु । दैनन्दिनप्रलय एव नारायणस्य लीलाविग्रहेण शयनादिति । अस्यां सृष्टौ महत्तत्त्वस्य बुद्धिपूर्वकः त्रिगुणात्मकः प्रथमः सर्गः । तदनन्तरं तदुपाधिकस्वयम्भुवः सकाशाद्‌ बुद्धिपूर्वकः सर्गः । स्वयम्भुवोऽङ्गदेवताः स्वयभूश्च स्थूलदेहनैरपेक्ष्येण ज्ञानवत्त्वात्‌ विदेहा देवा इत्युच्यन्ते । तासु स्वयम्भूरेवेश्वरः नित्येश्वरानङ्गीकारात्‌ । देवताश्चेश्वरकोटयः अविद्यानावृतोपाधिकत्वात्‌ । अविद्यावृतोपाधिकाश्च जीवकोटय एव । अविद्यावृतानावृतोपाधिकत्वे एव जीवेश्वरविभाजके । तदुक्तं स ईशो यद्वशे माया स जीवो यस्तयार्दित इति । तदेवं सञ्चरो निरूपितः । तत्र यद्यस्माज्जायते तस्येतरापूरणेनैव स्थितिः । तद्व्यतिरेकेणैव तत्संहारोऽपि तत्रैव भवति । तथा चोक्तं महाभारते । यद्यस्माज्जायते तत्त्वं तत्तत्र प्रविलीयते । लीयन्ते प्रतिलोमानि जायन्ते चोत्तरोत्तरम्‌ ॥ इति । एते च सृष्टिस्थितिसंहाररूपाः स्थूला एव परिणामाः कूटस्थपुरुषविवेकाय प्रदर्शिताः । सूक्ष्मा अप्येषां परिणामाः स्मर्यन्ते । यथा नित्यदाह्यङ्गभूतानि भवन्ति न भवन्ति च । कालेनालक्ष्यवेगेन सूक्ष्मत्वात्तन्न दृश्यते ॥ इति । अत एव सर्वं जडवस्तु परमार्थतः सर्वदैव असदुच्यते । ततश्च तस्माज्जडवर्गाद्विरज्यात्मैव परमार्थसत्यो दुःखभीरुभिर्द्रष्टव्यः । परमार्थसत्यं च कूटस्थनित्यत्वम्‌ । तत्र कूटस्थनित्यत्वासंहतत्वापरार्थत्वचिन्मात्रत्वाद्यसाधारणाधर्मैरुत्कृष्टैः प्रकृत्यादिभ्यो विवेक्तव्यः । इदानीं सदेवेत्यादिश्रुत्यर्थ उपपाद्यते । प्रतिसञ्चरान्ते यन्निर्विशेषं चित्सामान्यमवशिष्यते । तदेव सदेव सौम्येदमग्र आसीत्‌ एकमेवाद्वितीयं ब्रह्मेत्यादिश्रुतिषु सद्ब्रह्मादिपदवाच्यम्‌ । अद्वितियत्वं तु अवैधर्म्याविभागाख्याभेदेनेति । इदानीमन्तकालीनभगवत्स्मरणस्य परमगतिहेतुत्वश्रवणात्‌ तत्स्मरणस्य च साध्यात्मसाधिभूतसाधिदैवभगवदनुचिन्तनजन्यत्वादध्यात्मादिविभागः प्रदर्श्यते सूत्रत्रयेण । तत्र च प्रमाणम्‌ । अन्तकाले च मामेव स्मरन्मुक्त्वा कलेवरम्‌ । यः प्रयाति स मद्भावं याति नास्त्यत्र संशयः ॥ इति साधिभूताधिदैवं मां साधियज्ञं च ये विदुः । प्रयाणकालेऽपि च मां ते विदुर्युक्तचेतसः ॥ इति । अध्यात्मम्‌ ॥ ७ ॥ अधिभूतम्‌ ॥ ८ ॥ अधिदैवम्‌ ॥ ९ ॥ सूत्रत्रयस्यापि क्रमेणैव व्याख्या । बुद्धिरध्यात्मम्‌ । बोद्धव्यमधिभूतम्‌ । ब्रह्मा तत्राधिदैवम्‌ । अहङ्कारोऽध्यात्मम्‌ । अधिमन्तव्यमधिभूतम्‌ । रुद्रस्तत्राधिदैवतम्‌ । मनोऽध्यात्मम्‌ । सङ्कल्पयितव्यमधिभूतम्‌ । चन्द्रस्तत्राधिदैवतम्‌ । श्रोत्रमध्यात्मम्‌ । श्रोतव्यमधिभूतम्‌ । दिशस्तत्राधिदैवम्‌ । त्वगध्यात्मम्‌ । स्पर्शयितव्यमधिभूतम्‌ । वायुस्तत्राधिदैवतम्‌ । चक्षुरध्यात्मम्‌ । द्रष्टव्यमधिभूतम्‌ । सूर्यस्तत्राधिदैवतम्‌ । रसनमध्यात्मम्‌ । रसोऽधिभूतम्‌ । वरुणस्त्वधिदैवतम्‌ । घ्राणमध्यात्मम्‌ । गन्धोऽधिभूतम्‌ । पृथिवी तत्राधिदैवतम्‌ । वागध्यात्मम्‌ । वचनमधिभूतम्‌ । वह्निस्तत्राधिदैवतम्‌ । पाणिरध्यात्मम्‌ । आदेयमधिभूतम्‌ । इन्द्रस्तत्राधिदैवतम्‌ । पादावध्यात्मम्‌ । गन्तव्यमधिभूतम्‌ । विष्णुस्तत्राधिदैवतम्‌ । पायुरध्यात्मम्‌ । उत्स्रष्टव्यमधिभूतम्‌ । मित्रस्तत्राधिदैवतम्‌ । उपस्थमध्यात्मम्‌ । आनन्दयितव्यमधिभूतम्‌ । प्रजापतिस्तत्राधिदैवतमिति त्रयोदशविधं त्रितयमपि । तत्रात्मानं सङ्घातमधिकृत्य वर्तते तदध्यात्मं त्रयोदशकरणवर्गः । भूतानि अधिकृत्य वर्तते तदधिभूतं विषयवर्गः । देवतामधिकृत्य वर्तत इत्यधिदैवतम्‌ करणाभिमानिदेवतावर्गः एतत्सहितेश्वरानुचिन्तितस्यान्तकालीनभगवत्स्मृत्या परमगतिः फलम्‌ । तस्मादेतत्त्रिकमवश्यं ज्ञातव्यमिति भावः । सर्वतत्त्वानां ज्ञानफलं चोक्तं पञ्चशिखधृतवाक्येन । तत्त्वानि यो वेदयते यथावद्‌ गुणस्वरूपाण्यधिदैवतं च । विमुक्तपाप्मा गतदोषसङ्घो गुणांस्तु भुङ्क्ते न गुणैः स भुज्यते ॥ तत्त्वानीति तान्त्रिकी संज्ञा । तदर्थश्चात्मानात्मविवेकप्रतियोग्यनुयोगिनस्तत्पदार्थाः तेषां भावस्तत्तत्पदप्रवृत्तिनिमित्तानि पुरुषत्वप्रकृतित्वादीनि पञ्चविंशतिजातयः धर्मधर्म्यभेदात्‌ व्यक्तयोऽपि तत्त्वानीत्युच्यन्ते । वेदयते वेत्तीत्यर्थः । गुणाः सत्त्वरजस्तमांसि तान्येव स्वरूपाणि तात्त्विकरूपाणि येषां तानि गुणस्वरूपाणि अधिदैवतञ्च अध्यात्माधिभूतयोरुपलक्षणम्‌ । गुणांस्तु भुङ्क्ते गुणास्तस्य वशे भवन्तीति । न गुणैः स भुज्यते गुणवशो न भवतीत्यर्थः ॥ इति तत्त्वपादः प्रथमः ॥ इदानीं द्वितीयः प्रकीर्णकपाद आरभ्यते । तत्र पञ्चस्रोतोऽम्बुं पञ्चयोन्युग्रचक्रां पञ्चप्राणोर्मिं पञ्चबुद्ध्यादिमूलाम्‌ पञ्चावर्त्तां पञ्चदुःखौघवेगां पञ्चाशद्भेदां पञ्चपर्वामधीम इत्यादिश्रुत्यर्थोपपत्तये पञ्चकानि निरूपयति सूत्रजातेन ॥ पञ्चाभिबुद्धयः ॥ १० ॥ अभिबुद्धिरभिमान इच्छा कर्त्तव्यता क्रियेति पञ्चाभिबुद्धिसङ्गिताः । तत्राभिबुद्धिर्नाम अभिमुखी बुद्धिः इदमवश्यं करणीयमितिरूपा बुद्धिवृत्तिः । अभिमानश्चाहं करोमीतिवृत्तिः । इच्छा वाञ्छा सङ्कल्पो मानसी वृत्तिः । कर्त्तव्यता ज्ञानेन्द्रियाणां शब्दादिविषया वृत्तिः । क्रिया वचनादिलक्षणा कर्मेन्द्रियाणां वृत्तिरिति ॥ अभिबुद्धयो व्याख्याताः ॥ पञ्च कर्मयोनयः ॥ ११ ॥ कर्मजन्याः कर्मजनकाश्च धृतिः श्रद्धा सुखाऽविविदिषा विविदिषा चेति पञ्च ॥ वाचि कर्मणि सङ्कल्पे प्रतिष्ठां योऽभिरक्षति । तन्निष्ठस्तत्प्रतिष्ठश्च धृतेरेतद्धि लक्षणम्‌ ॥ अनसूया ब्रह्मचर्यं यजनं याजनं तपः । दानं प्रतिग्रहो होमः श्रद्धाया लक्षणं स्मृतम्‌ ॥ अर्थार्थी यस्तु सेवेत विद्याकर्मतपांसि च । प्रायश्चित्तपरो नित्यं सुखेयं परिकीर्त्तिता ॥ अविविदिषा वेदवेदनेच्छाप्रतिबन्धकक्रिया ॥ विविदिषा यथा । एकत्वं च पृथक्त्वं च नित्यं चेदमचेतनम्‌ । सूक्ष्मं सत्कार्यमक्षोभ्यं ज्ञेया विविदिषा हि सा ॥ आत्मनि एकत्वपृथक्त्वादिविषयिणी जिज्ञासा विविदिषा । एतासु चतस्रो बन्धाय विविदिषैका मोक्षाय ज्ञानमोक्षप्रतिबन्धनाशककर्मजन्यत्वाज्जनकत्वाच्च ॥ पञ्च वायवः ॥ १२ ॥ हृदि प्राणो गुदेऽपानो व्यानः सर्वशरीरगः । उदानः कण्ठदेशे च समानो नाभिसंस्थितः ॥ एते पञ्च क्रियाशक्तिमदन्तःकरणवृत्तिभेदा अपि वायुसमानगतिकत्वाद्वायुदेवताकत्वाच्च वायव इत्युक्तम्‌ । प्रकर्षेण अननाद्गमनात्‌ प्राण इत्युच्यते । अधो गमनादपानः । भुक्तस्यान्नस्य रसादेर्विक्षेपणात्‌ विजृम्भणाच्च व्यान इत्युच्यते । उद्गारवमनादिकं करोतीति उदानस्तेन गीयते । भुक्तस्य समाशं रसं नयतीति समानः । तन्त्रान्तरोक्ता अप्यन्ये नागकूर्मकृकलदेवदत्तधनञ्जयाख्यास्तत्रैवान्तर्भाव्याः ॥ इत्येते पञ्चप्राणाः व्याख्याताः ॥ पञ्च कर्मात्मानः ॥ १३ ॥ वैकारिकस्तैजसो भूतादिः सानुमानो निरनुमानश्चेति कर्मात्मानः कर्मिण इत्यर्थः । तत्र वैकारिकः शुभकर्मकर्त्ता । तैजसोऽशुभकर्मकर्त्ता । भूतादिर्मूढकर्मकर्त्ता । सानुमानः शुभमूढकर्मकर्त्ता । निरनुमानोऽशुभमूढकर्मकर्त्ता ॥ इति पञ्च कर्मात्मानो व्याख्याताः ॥ इदानीं पञ्चाशद्भेदां पञ्चपर्वामधीम इति श्रुत्यर्थोपपत्तये बुद्धेः पञ्चाशत्सर्गान्‌ बहुभिः सूत्रैरुद्दिशति । पञ्चपर्वाऽविद्या ॥ १४ ॥ अनित्याशुचिदुःखानात्मसु नित्यशुचिसुखात्मख्यातिरविद्या पतञ्जल्युक्ता सर्वदर्शनसम्प्रतिपन्ना । सा च पञ्चधा अविद्यास्मितारागद्वेषाभिनिवेशाः क्लेशजनकत्वात्‌ क्लेशा इति योगे परिभाषिताः । अस्मितादीनां चतुर्णामविद्याकार्यत्वादविद्यात्वम्‌ । अस्मिता अनात्मन्यहंवृत्तिः अविद्यास्मितयोरयं भेदः अविद्यायामधिकरणमपि पृथग्‌ भासतेऽस्मितायां त्वारोपरूपत्वेऽपि नाधिकरणं भासते । विषयेषूत्कटेच्छा रागः । द्वेषः वैरबुद्धिः । अभिनिवेशो मरणत्रासः । विदुषामपि स्वरसवाही अनादिमरणदुःखानुभवजनितवासनाजन्यः श्रुतिस्मृतिपुराणेषु एते अविद्याभेदास्तमआदिशब्दैः परिभाषिताः । तमो मोहो महामोहस्तामिस्रोऽन्धतामिश्रश्चेति तत्तन्नामकनरकप्रदत्वात्तत्तन्नामकाः । ते च विषयभेदात्‌ द्विषष्टिभेदाः ते यथा । अष्टप्रकृतिषु आत्मत्वारोपात्‌ अष्टभेदं तमः । देवा अणिमाद्यष्टविधमैश्वर्यमासाद्य वयममृता इत्यभिमानिनो भवन्ति सोऽयमभिमानो मोहोऽष्टाविधः । दृष्टानुश्रविकेषु द्वादशसु विषयेषु प्राप्तेषु मुक्तोऽहमिति मन्यते सोऽभिमानो रागातिशयनिमित्तत्वात्‌ महामोहो दशविधः । अणिमाद्यष्टगुणैश्वर्ये दशविधविषये च प्रतिहतस्य क्रोधाद्‌ यद्दुःखमुत्पद्यते स तामिस्रोऽष्टादशविधः । देवा अणिमाद्यष्टकमैश्वर्यं शब्दादींश्च दश विषयान्‌ भुञ्जानाः क्षयशङ्कयाऽत्र सन्ति सतास एवाष्टादशविधोऽन्धतामिश्र इति द्विषष्टिभेदा पञ्चपर्वा अविद्या ॥ अष्टविंशतिधाऽशक्तिः ॥ १५ ॥ नवधा तुष्टिः ॥ १६ ॥ अष्टधा सिद्धिः ॥ १७ ॥ तत्राशक्तयः एकादशेन्द्रियवधाः सप्तदश बुद्धिवधाः । तत्रेन्द्रियवधाः । स्वस्वार्थक्रियाऽक्षमतारूपाः फलतो बुद्धेरेव ते । बाधिर्यं कुष्ठितान्धत्वं जडताऽजिघ्रता तथा । मूकता कौण्यपङ्गुत्वं क्लैब्योदावर्त्तमुग्धताः ॥ सप्तदश बुद्धेरेव वधाः तुष्टिसिद्धीनां विपर्ययरूपाः । तत्र तुष्टिविपर्ययाः । नास्ति प्रधानमिति ज्ञानमस्तीत्यभिधीयते । महत्तत्त्वं नास्तीति ज्ञानमज्ञानसलिलाः । अहङ्कारो नास्तीति मोहा । नैव सन्ति पञ्चतन्मात्राणीति दृष्टिरदृष्टिः । विषयाणामर्ज्जने प्रवृत्तिः असुतारा । रक्षणे प्रवृत्तिरसुपारा । क्षयदोषमपश्यतः प्रवृत्तिः असुनेत्रा । भोगे शक्तिः असुमात्रिका । हिंसादोषमपश्यतो भोगे प्रवृत्तिः अनुत्तमाम्भसिका । इति तुष्टिविपर्यया नवधा । सिद्धिविपर्यासाद्‌ अष्टौ बुद्धिवधा उच्यन्ते । नानात्वमूहमानस्यैकत्वानुसन्धानं सुतारमुच्यते । शब्दमात्रश्रवणाद्विपरीतग्रहणमसुतारा । यथा नानात्मज्ञो मुक्त इति श्रुत्वा विपरीतं प्रतिपन्नो नानात्मज्ञोऽहममुक्त इति । अध्ययनश्रवणनिविष्टस्यापि जडत्वादसच्छास्त्रोपहतबुद्धित्वाद्वा पञ्चविंशतितत्त्वज्ञानसिद्धिर्न भवति तदज्ञानम्‌ । यदा आध्यात्मिकेन दुःखेन चाभिभूयते तदज्ञानप्रमादम्‌ । एवमाधिभौतिकदुःखेनाभिभूयते तत्प्रमोदमानम्‌ । एवमाधिदैविकदुःखेनाभिभवः प्रमुदितमिति । सुहृदुपदिष्टेऽप्यात्मनि अनिश्चयबुद्धिरनर्थकम्‌ । स्वदानमनर्थकं ज्ञात्वा दानपात्रस्य गुरुणि दुःखे जाते प्रमोदः प्रमुदिता । एवमष्टौ सिद्धिविपर्यया व्याख्याता । एवं सप्तदश बुद्धिवधाः ॥ नवधा तुष्टिरुच्यते । तत्र कारिका । आध्यात्मिक्यश्चतस्रः प्रकृत्युपादानकालभाग्याख्याः । बाह्याः विषयोपरमात्‌ पञ्च नव तुष्टयोऽभिहिताः ॥ कुतश्चित्‌ सर्वाकारेण परिणममाना प्रकृतिरेव ज्ञानं करिष्यतीति श्रुत्वा या तुष्टिः सा प्रकृत्याख्या तस्या अस्तेति संज्ञा । प्रव्रज्ययैव ज्ञानं भविष्यतीति श्रुत्वा प्रव्रज्योपादानेन या तुष्टिः सा सलिलसंज्ञा । कालेनैव ज्ञानं भविष्यतीति श्रुत्वा प्रव्रज्यया बहुकालेन या तुष्टिः सा आद्येत्युच्यते । भाग्येनैव ज्ञानं भविष्यति मदालसा बालकानामिवेति कुतश्चिच्छ्रुत्वा या तुष्टिः सा वृष्टिरितिसंज्ञा । एताश्चतस्र आध्यात्मिक्यः । अथ बाह्याः पञ्च शब्दादिविषयेष्वर्जनरक्षणक्षयभोगहिंसादिदोषदर्शनाद्या निवृत्तितुष्टयस्तास्वेका तुष्टिः अपारमुच्यते द्वितीया सुपारं तृतीया पारम्‌ अनुत्तमाम्भसिका चतुर्थी उत्तमाम्भः पञ्चमी इति नव तुष्टयो व्याख्याताः ॥ अथाष्टौ सिद्धयः । तत्र कारिका । ऊहः शब्दोऽध्ययनं दुःखविघातास्त्रयः सुहृत्प्राप्तिः । दानं च सिद्धयोऽष्टौ सिद्धेः पूर्वोऽङ्कुशस्त्रिविधः ॥ अस्यार्थः । भगवत्कृपावशादूहनेन तर्केणैव ज्ञानमुत्पद्यते सा प्रथमा सिद्धिस्तारेत्युच्यते । शब्दश्रवणमात्रादेव यद्‌ ज्ञानं सा द्वितीया सुतारा । शिष्यभावेनाध्ययनेन यद्‌ ज्ञानं सा तृतीया तारतारेति । यदाध्यात्मिकदुःखस्यापनोदकं ज्ञानं सा चतुर्थी प्रमोदेति । यदाधिभौतिकदुःखापनोदकं ज्ञानं सा पञ्चमी प्रमुतितेति । यदाधिदैविकदुःखनाशकं ज्ञानं सा षष्ठी प्रमोदमाना । यत्‌ सुहृत्संसर्गितया ज्ञानं सा सप्तमी रम्यकेति । यद्दानेन परितोषिताद्‌ गुरोर्ज्ञानं साष्टमी सदामुदितेति । आसु प्रथमास्तिस्रो दुःखविघातात्मकानां मुख्यानां तिसॄणां सिद्धीनामङ्कुश आकर्षकः साधक इति यावत्‌ सिद्धयस्त्वेता एव । अणिमाद्यास्तु ज्ञानप्रतिबन्धकत्वादसिद्धय एवेत्याचार्याशयः । एवमष्टौ सिद्धयो व्याख्याताः ॥ इदानीं सांख्यशास्त्रस्य षष्टितन्त्रत्वप्रतिपादनाय पञ्चाशत्सु सिद्धिसर्गेषु दशान्यान् पूरयति सूत्रेण । दश मूलिकार्थाः ॥ १८ ॥ अस्तित्वमेकत्वमयथार्थवत्त्वं परार्थमन्यत्वमकर्तृता च । योगो वियोगो बहवः पुमांसः स्थितिः शरीरस्य च शेषवृत्तिः ॥ मूलयोः प्रकृतिपुरुषयोरर्था धर्मा मूलिकार्थाः । तत्रास्तित्वं द्वयोर्धर्मः एकत्वं सर्गभेदेन नानात्वाभावरूपं प्रकृतेः । अर्थवत्त्वं पुरुषार्थत्वं पुरुषस्यैव । पारार्थ्यं च प्रकृतेरेव । अन्यत्वं जडवर्गाद्‌ भिन्नत्वं पुरुषस्यैव । अकर्तृता च पुरुषस्यैव । योगो वियोगश्च द्वयोः । बहुत्वं पुरुषस्यैव । जीवन्मुक्तस्य संस्कारमात्रेण चक्रभ्रमिवच्छरीरस्य या स्थितिः सा शेषवृत्तिः पुरुषस्य । इति दशपदार्थाः प्रत्ययसर्गाख्याः पञ्चाशत्‌ पूर्वोक्ताः एते च दश मूलिकाः । एवं षष्टिपदार्था षष्टितन्त्रे उक्ताः ॥ इदानीं पञ्चतन्मात्रसर्गं सूत्रयति । अनुग्रहसर्गः ॥ १९ ॥ पञ्चतन्मात्रा अनुगृह्योपादानकारणत्वेन स्वीकृत्य यः सर्गः सोऽनुग्रहसर्गः । पञ्चानां ब्राह्मणानां सचतुर्मुखसनकादीनां स्वस्य लीलाविग्रहे सर्गो भक्तानमनुग्रहार्थं सोऽप्यनुग्रहसर्गः पञ्चतन्मात्रेभ्य एव ॥ इदानीं भूतसर्गमाह । चतुर्दशविधो भूतसर्गः ॥ २० ॥ ब्राह्मप्राजापत्यसौम्यैन्द्रगान्धर्वयक्षराक्षसपैशाचा इत्यष्टौ देवसर्गाः । पशुपक्षिमृगसरीसृपस्थावरा इति पञ्चविधास्तैर्यग्योनयः । मानुषश्चैकविधो ब्राह्मणादिश्चण्डालान्त इति । गवादिमूषकान्ताः पशवः । गरुडादिमशकान्ताः पक्षिणः । सिंहादिशृगालान्ता मृगाः । शेषादिदुन्दुभान्ताः सरीसृपाः । पर्वतादितृणान्ताः स्थावरा इति । अत्र कारिका । अष्टविधो दैवस्तैर्यग्योन(य)श्च पञ्चधा भवति । मानुषश्चैकविधः समसतो भौतिकः सर्गः ॥ इति । एतत्संसारमण्डलम्‌ अन्यानप्यनुक्तान्‌ सर्गानुद्दिशति सूत्रत्रयेण । त्रिविधो बन्धः ॥ २१ ॥ त्रिविधो मोक्षः ॥ २२ ॥ त्रिविधं प्रमाणम्‌ ॥ २३ ॥ प्राकृतिको वैकृतिको दाक्षिण इति त्रयो बन्धाः । प्राकृतोऽष्टप्रकृतिष्वभिमानरूपः । द्वितीयस्तु प्रव्रजितानामपि शब्दादिषु मनसः सङ्गः । तृतीयस्तु गृहस्थादीनां कामोपहतचेतसां दक्षिणां ददतां दक्षिणाबन्धः । उक्तं च पञ्चशिखाचार्यैः ॥ प्राकृतेन तु बन्धेन तथा वैकारिकेण च । दक्षिणाभिस्तृतीयेन बद्धो जन्तुर्विवर्तते ॥ इति मोक्षत्रैविध्यं चोक्तम्‌ । आदौ तु मोक्षो ज्ञानेन द्वितीयो रागसंक्षयात्‌ । कृच्छ्रक्षयात्‌ तृतीयस्तु व्याख्यातं मोक्षलक्षणम्‌ ॥ ज्ञानोद्रेकादविद्यानिवृत्तिरूप एकः रागसंक्षयादिन्द्रियोपशमरूपो द्वितीयः कृच्छ्रक्षयाद्धर्माधर्मकरणरूपाद्धर्माधर्मानुत्पादरूपस्तृतीयः । एतत्त्रयं ज्ञानद्वारभूतत्वाद्‌ गौणं मोक्षत्रयम्‌ । आत्यन्तिकत्रिविधदुःखनिवृत्तिरेव मुख्यो मोक्षः । तदुक्तं गोतमेन सूत्रेण दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तराभावादपवर्ग इति । उक्तानां पदार्थानां सिद्ध्यर्थं प्रमाणान्याह मानाधीनत्वान्मेयसिद्धेः । त्रिविधं प्रमाणमिति । प्रत्यक्षानुमानशब्दा इति । तत्रानधिगतयथार्थज्ञानं प्रमा तत्करणं प्रमाणमिति सामान्यलक्षणमेकम्‌ । अर्थाकारानधिगतयथार्थान्तःकरणवृत्तिरिति द्वितीयम्‌ । तत्र प्रत्यक्षमिन्द्रियजन्यमनधिगतयथार्थज्ञानं प्रत्यक्षप्रमा । तत्करणं प्रत्यक्षप्रमाणम्‌ । इन्द्रियजन्यानधिगतयथार्थान्तःकरणवृत्तिरिति द्वितीयम्‌ । यथार्थलिङ्गज्ञानाज्जायमानं ज्ञानमनुमितिस्तत्करणमनुमानमित्येकम्‌ । लिङ्गज्ञानाज्जायमाना साध्यविशिष्टपक्षाकारान्तःकरणवृत्तिरिति द्वितीयम्‌ । आप्तवचनजन्यज्ञानं शब्दप्रमा तत्करणं शब्दप्रमाणमित्येकं लक्षणम्‌ । आप्तवचनजन्या पदार्थासंसर्गाकारान्तःकरणवृत्तिरिति द्वितीयं शब्दप्रमाणलक्षणम्‌ । आप्तस्तु स्वकर्मण्यभियुक्तो रागद्वेषरहितो ज्ञानवान्‌ शीलसम्पन्नः । इदं तु ज्ञानोपदेष्टुरेवाप्तलक्षणम्‌ वस्तुतो यथाभूतार्थस्योपदेष्टा पुरुष इत्येव ॥ उक्तपदार्थेषु केचित्प्रत्यक्षसिद्धाः केचितनुमानसिद्धाः । उभाभ्यां यन्न सिद्धं तच्छब्दप्रमाणेन सिध्यति यथेन्द्रो देवानां राजा उत्तराः कुरवः सौवर्णो मेरुः स्वर्गेऽप्सरसः एते पदार्था न प्रत्यक्षानुमानगम्याः किन्तु शब्दैकगम्याः । अत्र चैषा ज्ञानप्रक्रिया । अन्तःकरणस्येन्द्रियाणां चाविभक्तः सङ्कोचविकासशाल्यग्रभागो वृत्तिरभ्युपेयते भागगुणाभ्यां तत्त्वान्तरं वृत्तिः सम्बन्धार्थं सर्पतीति सांख्यप्रवचनसूत्रात् । भागो विभक्तोऽवयवस्तस्माद्गुणाच्च तत्त्वान्तरं पदार्थान्तरमविभक्तोऽवयव इत्यर्थः । तथा चान्तःकरणवृत्तिरिन्द्रियवृत्तिद्वारार्थसन्निकृष्टा भवति तत इन्द्रियवृत्त्या सहार्थाकारा परिणमते सा चार्थाकारा वृत्तिर्गुणरूपा सर्वात्मनां विभुत्वेऽपि स्वस्वामिन्येवात्मनि प्रतिबिम्बते नान्यत्र अबादिस्वस्वामिभावस्य प्रतिबिम्बनियामकत्वात्‌ अन्यथाऽतिप्रसङ्गात्‌ प्रतिबिम्बश्चाधिष्ठानगताया बुद्धेर्विकारः परिणामः स्वत्त्वं च स्वामिप्रकाशितवृत्तिजन्यसंस्कारवत्त्वम्‌ । स्वामित्वं च स्वनिष्ठसंस्कारजनकवृत्तिप्रकाशकत्वं सा च वृत्तिरात्मनि स्थिता सती अर्थाकारा आत्माकारा च स्वसमानाकारं परिणामान्तरं धत्ते स एवात्मनि वृत्तिप्रतिबिम्बो विषयताख्यः सम्बन्ध इति तदवच्छिन्नं चैतन्यं प्रत्यक्षप्रमा घटमहं जानामीत्याकारार्थात्मविषयिणी तदुक्तम्‌ ॥ अदृश्यो दृश्यते राहुर्गृहीतेन यथेन्दुना । तथाऽनुभवमात्रात्मा दृश्येनात्माऽवलोक्यते ॥ दृश्येन वृत्त्या । इयं च प्रत्यक्षा वृत्तिर्विषयदेशे जायमाना तत्रैवात्मनि प्रतिबिम्बते आत्मनो विभुत्वात्‌ यत्र चेन्द्रियद्वारं विना मनः स्ववासनावशाद्यत्रार्थेन सम्बद्ध्यते तत्र तदाकारा वृत्तिर्मानसं प्रत्यक्षम्‌ । उक्तं च । शरीरलयमुत्सृज्य यत्र चित्तविहङ्गमः । स्ववासनावशाद्याति तत्रैवात्माऽनुभूयते ॥ इति वासिष्ठे । इति प्रत्यक्षप्रक्रिया ॥ एवं व्याप्तिप्रमाजन्यसाध्यविशिष्टपक्षाकारा वुत्तिरनुमानम्‌ तत्प्रतिबिम्बावच्छिन्नचैतन्यमनुमितिः । इत्यनुमानप्रक्रिया ॥ यथार्थपदस्मृतिजन्या पदार्थसंसर्गाकारा वृत्तिः शब्दप्रमाणम्‌ तत्प्रतिबिम्बावच्छिन्नचैतन्यं शाब्दी प्रमा इदं प्रमाणद्वयमान्तरमेव । अपरोक्षत्वं परोक्षत्वं स्मृतित्वं संशयत्वं विपर्ययत्वं प्रमात्वमप्रमात्वं च सर्वे वृत्तिधर्मा एव तत्प्रतिबिम्बवशाच्चैतन्येऽप्युपचर्यन्ते तत्रापरोक्षत्वपरोक्षत्वस्मृतित्वानि जातयः संशयश्च भासमानविरोधोभयकोटिस्पृग्वृत्तिः । यत्र यन्नास्ति तत्र तन्निश्चयो विपर्ययः यथार्थवृत्तिः प्रमा अयथार्थवृतिरप्रमा अत्र प्रमात्रादिविभागविषये विज्ञानाचार्याणां कारिका । प्रमाता चेतनः शुद्धः प्रमाणं वृत्तिरेव च । प्रमार्थाकारवृत्तीनां चेतने प्रतिबिम्बनम्‌ ॥ प्रतिबिम्बितवृत्तीनां विषयो मेय उच्यते । वृत्तयः साक्षिभास्याः स्युः करणस्यानपेक्षणात्‌ ॥ साक्षाद्दर्शनरूपं च साक्षित्वं सांख्यसूत्रितम्‌ ॥ इति । ज्ञानस्य च जन्यत्वं विनाशित्वमात्मधर्मत्वं च प्रतिबिम्बावच्छिन्नत्वेनोपपादनीयम्‌ आत्मरूपस्य ज्ञानस्य नित्यत्वात्‌ । विशिष्टे हि विधिनिषेधौ विशेषणमुपसंक्रामतः सति विशेष्ये बाध इति न्यायात्‌ । आधाराधेयभावोऽपि खे खगोदय इतिवदुपपादनीयः वृत्तीनामात्मनि प्रतिबिम्बे प्रमाणम्‌ । तस्मिंश्च दर्पणे स्फारे समस्तां वस्तुदृष्टयः । इमास्ताः प्रतिबिम्बन्ति सरसीव तटद्रुमाः ॥ इति वासिष्ठम्‌ । इति समासतो ज्ञानप्रक्रिया ॥ अत्र शास्त्रेऽनुक्ताः स्वाविरोधिनः शास्त्रान्तरीया अपि पदार्थाः ग्राह्याः सारादानं षट्पदवदिति सांख्यप्रवचनसूत्रात्‌ । सर्वतः सारमादद्यात्‌ पुष्पेभ्य इव षट्पद इति स्मृतेश्च । एते च प्रकृत्यादयः पदार्थाः संहतत्वपदार्थत्वजडत्वप्रतिक्षणपरिणामित्वादिदोषैर्दुष्टत्वाद्धेयास्तेभ्योऽप्यधिकं हेयमाह । त्रिविधं दुःखमिति ॥ २४ ॥ आध्यात्मिकामधिभौतिकमाधिदैविकं चेति । तत्राध्यात्मिकं द्विविधं शारीरं मानसं च । तत्र शारीरं वातपित्तश्लेष्मणां वैषम्येणोत्पन्नं ज्वरातिसारादि । कामक्रोधलोभादिजन्यं मानसं मानुषमृगसर्पादिजन्यमाधिभौतिकं शीतोष्णवातवृष्टिजन्यमाधिदैविकम्‌ । अनेन त्रिविधदुःखेनाभिभूतस्य तरति शोकमात्मविदिति श्रुत्वा आत्मनि जिज्ञासा जायते । यथा तृषितस्य पानीयपिपासा । कृतस्य तत्त्वनिरूपणस्य पुरुषार्थसम्बन्धं दर्शयति । एतत्परं याथार्थ्यं एतज्ज्ञात्वा कृतकृत्यः स्यान्न पुनस्त्रिविधदुःखेनाभिभूयते ॥ २५ ॥ एतद्याथार्थ्यं परं शास्त्रान्तरोक्ताद्याथार्थ्यादुत्कृष्टं न्यायवैशेषिकोक्तयाथार्थ्यस्याष्टप्रकृत्यकथनादपूर्णत्वम्‌ इदं तु तत्कथनेन पूर्णं श्रुतिसम्मतत्वाच्च परं सर्वोत्कृष्टमित्यर्थः । श्रुतिश्च गोपालतापनीये एकमेवाद्वितीयं ब्रह्मासीत्‌ तस्मादव्यक्तादव्यक्तमेवाक्षरं तस्मान्महन्महतोऽहङ्कारस्ततः पञ्चतन्मात्राणि तेभ्यो भूतानि इति स्पष्टमेव सांख्ययोगोक्तमहदादिक्रमेण सृष्टिः श्रूयत इति । एतज्ज्ञात्वा आत्मानात्मविवेकसाक्षात्कारद्वारा कृतकृत्यः स्यान्निष्प्रयोजनः स्यादित्यर्थः । किं पुनस्तत्प्रयोजनं तत्राह । न पुनस्त्रिविधदुःखेनाभिभूयत इति । पूर्वोक्तत्रिविधदुःखेन न युज्यते दुःखात्यन्तनिवृत्तिरूपो मोक्षो भवतीत्यर्थः । ननु दुःखं तावत्‌ त्रिविधम्‌ अनागतं वर्तमानमतीतं चेति । सांख्ययोगवेदान्तानां सत्कार्यवादाश्रयणात्‌ सर्वमेव कार्यमवस्थात्रयेण नित्यम्‌ । अनागतो घटो वर्त्तमानो घटोऽतीतो घट इत्यवस्थात्रयेऽपि घटस्यावस्थाधर्मिणोऽनुगतप्रत्ययात्‌ । प्रागभावप्रध्वंसयोश्चानङ्गीकारात्‌ । न च तत्काले कथमभावप्रत्यय इति वाच्यम्‌ वर्त्तमानप्रतियोगिकसामयिकात्यन्ताभावेनैव तदुपपत्तेरिति । एवं चानगतातीतदुःखयोरभावेऽपि न पुरुषार्थः भोग्यदुःखाभावस्यैव पुरुषार्थत्वात्‌ । वर्तमानदुःखं च भोग्यमपि भोगेनैव नङ्क्ष्यतीति तदभावो न पुरुषार्थः पुरुषप्रयत्ननिरपेक्षत्वात्‌ पुरुषप्रयत्नसापेक्षस्यैव पुरुषार्थत्वात्‌ तथा च कथं दुःखाभावस्य भोग्यहेतुतया तदभावस्य च पुरुषकृतिसाध्यतया पुरुषार्थत्वं दुःखहेतूच्छेदे पुरुषव्यापरात्‌ प्रायश्चित्तवदिति । तदुक्तं पतञ्जलिना । हेयं दुःखमनागतं विवेकख्यातिरवित्प्रवा हानोपाय इति सूत्रद्वयेन । सांख्यानां च सर्वात्मनामवैधर्म्याभेद एव तत्त्वमसिवाक्यार्थो नाविभागादिः तज्ज्ञानस्यैवाभिमाननिवर्त्तकत्वात्‌ । तद्वाक्यस्य च श्वेतकेतोरनूचानत्वाद्यभिमाननिवृत्त्यर्थमेव प्रवृत्तेः तथा च लयावशिष्टचित्सामान्यं तत्पदार्थः तदुक्तं विज्ञानाचार्यवर्यैरस्मद्गुरुभिर्भाष्याद्यश्लोकेन । एकोऽद्वितीय इति वेदवचांसि पुंसि सर्वाभिमानविनिवर्तनतोऽस्य मुक्त्यै । वैधर्म्यलक्षणभिदा विरहं वदन्ति नाखण्डतां ख इव धर्मशताविरोधात्‌ ॥ इति । तथा चप्रकृत्यादिविविक्तसर्वात्मनामवैधर्म्यभेदसाक्षात्कारात्‌ कर्तृत्वाद्यभिमाननिवृत्तौ तत्कार्यरागद्वेषधर्माद्यनुत्पादात्‌ पूर्वोत्पन्नकर्मणां चाविद्यारागादिसहकार्युच्छेदेन जन्माद्यनारम्भकत्वाद्भोगेन प्रारब्धसमाप्त्यनन्तरं पुनर्जन्माभावेन भोगापवर्गसमाप्त्या चान्तःकरणस्य नाशेनैव त्रिविधदुःखात्यन्तनिवृत्तिरूपो मोक्षो भवतीति परमकृतकृत्यता । इदं चात्रावधेयम्‌ । गुरूपदेशशास्त्राभ्यामुत्पन्नमपि ज्ञानमपरोक्षत्वायाभ्यसनीयमेव । तेन विनाऽपरोक्षाविद्यानिवृत्त्यसम्भवात्‌ । अपरोक्ष्यभ्रमे हि समानविशेष्यकाऽपरोक्ष्यविपरीतनिश्चयस्यैव निवर्तकत्वावधारणात्‌ तदुक्तं वासिष्ठे । अपि विज्ञाततत्त्वेन नेत्यभ्यस्यमिदं सदा । न नाममात्रात्‌ कतकफलमम्बुप्रसाधकम्‌ ॥ अन्तर्ध्वान्तविनाशाय शाब्दबोधो न हि क्षमः । न नश्यति तमो राम कृतया दीपवार्तया ॥ इति । एवमभ्यासात्‌ कोमलकण्टकन्यायेन ज्ञाने जाते योगरूढ इत्युच्यते योगी अस्मात्‌ पूर्वस्तु युञ्जानः ततः परमहंसाश्रमेण विक्षेपकाणि कर्माणि त्यक्त्वा ज्ञाननिष्ठापर्यन्तमभ्यसेत्‌ । सवासनाविद्योच्छेदो ज्ञाननिष्ठा । ततः स युक्तो जीवन्मुक्तो गुणातीत इति चोच्यते । गुणाभिमानशून्यत्वमेव गुणातीतत्वं जीवन्मुक्तस्य च लक्षणम्‌ । नोदेति नास्तमायाति सुखदुःखे मुखप्रभा । यथापूर्वस्थितिर्यस्य स जीवन्मुक्त उच्यते ॥ रागद्वेषभयादीनामनुरूपं चरन्नपि । योऽन्तर्व्योमवदस्वच्छः स जीवन्मुक्त उच्यते ॥ एतावदेव खलु लिङ्गमलिङ्गमूर्त्तेः संशान्तसंसृतिचिरभ्रमनिर्वृतस्य । तज्ज्ञस्य यन्मदनकोपविषादमोह- लोभापदामनुदिनं निपुणं तनुत्वम्‌ ॥ इति अन्यच्चात्र सांख्यविद्यायां भगवद्भक्तेरेवासाधारणकारणत्वं ज्ञेयम्‌ अन्यथा देवकृतविघ्नैर्योगध्वंसो भवत्येव यथोक्तं भागवते । येऽन्येऽरविन्दाक्ष विमुक्तमानिन- स्त्वय्यस्तभावादविशुद्धबुद्धयः । आरुह्य कृच्छ्रेण परं पदं ततः पतन्त्यधोऽनादृतयुष्मदङ्ध्रयः ॥ श्रेयःश्रुतिं भक्तिमुदस्य ते विभो क्लिश्यन्ति ये केवलबोधलब्धये । तेषामसौ क्लेशल एव शिष्यते नान्यद्यथा स्थूलतुषावघातिनाम्‌ ॥ इति । इदानींतनाः केचन वैष्णवा एतादृशवाक्यैर्भगवद्भक्तिं पुरस्कृत्य सामान्यतो ज्ञानमार्गं खण्डयति ते तु विद्याविवेकानभिज्ञाः स्थूलमतय एव । नारदीये च सांख्यविद्याधिकारे । मायाप्रवर्तके विष्णौ कृता भक्तिर्दृढा नृणाम्‌ । सुखेन प्रकृतेरन्यं स्वं दर्शयति दीपवत्‌ ॥ चित्ते हि स्ववशे योगः सिद्ध्येत्‌ तत्तु जगत्पतिम्‌ । कोऽनाश्रित्य निगृह्णीयादव्यक्तमतिचञ्चलम्‌ ॥ तस्मान्मुमुक्षोः सुसुखो मार्गः श्रीविष्णुसंश्रयः । चित्तेन चिन्तयानेन वञ्च्यते ध्रुवमन्यथा ॥ इति । गीतायां चतुर्दशाध्याये । मां च योऽव्यभिचारेण भक्तियोगेन सेवते । स गुणान्‌ समतीत्यैव ब्रह्मभूयाय कल्प्यते ॥ इति । ब्रह्मभूयाय पूर्णत्वेनाभिव्यक्तये गुणाभिधानं तत्तदवच्छिन्नत्वेनैवाभिव्यज्यते तस्माद्‍ भगवद्भक्तिरेव मुख्यं साधनं सांख्ययोगविद्यायामिति सिद्धम्‌ । कृतं परोपकाराय तत्त्वयाथार्थ्यदीपनम्‌ । तेन मे प्रीयतां कृष्णः परमात्मा जगद्गुरुः ॥ स्वतन्त्रत्वात्‌ स एवैकः कर्ता गोपालबालकः । श्रीकृष्णाख्यो महेशानो दारुयन्त्रसमस्त्वहम्‌ ॥ पुराणार्थं बुभुत्सूनां *** च मयेरितम्‌ । तेभ्यं समर्पितं चैतत्‌ तेनापि प्रीयतां हरिः ॥ इति श्रीभावाविश्वनाथदीक्षितसूनुभावागणेशविरचितं तत्त्वयाथार्थ्यदीपनं समाप्तम्‌ ॥