१ काण्ड अनादिनिधनं ब्रह्म शब्दतत्त्वं यदक्षरम् । विवर्ततेऽर्थभावेन प्रक्रिया जगतो यतः ॥ १.१ ॥ एकमेव यदाम्नातं भिन्नशक्तिव्यपाश्रयात् । अपृथक्त्वेऽपि शक्तिभ्यः पृथक्त्वेनेव वर्तते ॥ १.२ ॥ अध्याहितकलां यस्य कालशक्तिमुपाश्रिताः । जन्मादयो विकाराः षड्भावभेदस्य योनयः ॥ १.३ ॥ एकस्य सर्वबीजस्य यस्य चेयमनेकधा । भोक्तृभोक्तव्यरूपेण भोगरूपेण च स्थितिः ॥ १.४ ॥ प्राप्त्युपायोऽनुकारश्च तस्य वेदो महर्षिभिः । एकोऽप्यनेकवर्त्मेव समाम्नातः पृथक्पृथक् ॥ १.५ ॥ भेदानां बहुमार्गत्वं कर्मण्येकत्र चाण्गता । शब्दानां यतशक्तित्वं तस्य शाखासु दृष्यते ॥ १.६ ॥ स्मृतयो बहुरूपास्च दृष्टादृष्टप्रयोजनाः । तमेवाश्रित्य लिङ्गेभ्यो वेदविद्भिः प्रकल्पिताः ॥ १.७ ॥ तस्यार्थवादरूपाणि निश्रिताः स्वविकल्पजाः । एकत्विनां द्वैतिनां च प्रवादा बहुधागता ॥ १.८ ॥ सत्या विसुद्धिस्तत्रोक्ता विद्यैवेकपदागमा । युक्ता प्रणवरूपेण सर्ववादाविरोधिना ॥ १.९ ॥ विधातुस्तस्य लोकानामङ्गोपाङ्गनिबन्धनाः । विद्याभेदाः प्रतायन्ते ज्नानसंस्कारहेतवः ॥ १.१० ॥ आसन्नं ब्रह्मणस्तस्य तपसामुत्तमं तपः । प्रथमं छन्दसामङ्गमाहुर्व्याकरणं बुधाः ॥ १.११ ॥ प्राप्तरूपविभागाया यो वाचः परमो रसः । यत्तत्पुण्यतमं ज्योतिस्तस्य मार्गोऽयमान्जसस्ः ॥ १.१२ ॥ अर्थप्रवृत्तितत्त्वानां शब्दा एव निबन्धनम् । तत्त्वावबोद्जः शब्दानं नास्ति व्याकरणादृते ॥ १.१३ ॥ तद्द्वारमपवर्गस्य वाङ्मलानां चिकित्सितम् । पवित्रं सर्वविद्यानामधिविद्यं प्रकासते ॥ १.१४ ॥ यथार्थजातयः सर्वाः सबाकृतिनिबन्धनाः । तथैव लोके विद्यानामेसा विद्या परायनम् ॥ १.१५ ॥ इदमाद्यं पदस्थानं सिद्धिसोपानपर्वणाम् । इयं सा मोक्षमाणानामजिह्मा राजपद्धतिः ॥ १.१६ ॥ अत्रातीतविपर्यासः केवलामनुपस्यति । छन्दस्यस्छन्दसां योनिमात्मा छन्दोमयीं तनुम् ॥ १.१७ ॥ प्रत्यस्थमितभेदाया यद्वाचो रूपमुत्तमम् । यदस्मिन्नेव तमसि ज्योतिः सुद्धं विवर्तते ॥ १.१८ ॥ वैकृतं समति क्रान्ता मूर्तिव्यापारदर्शनम् । व्यतीत्यालोकतमसी प्रकाशं यमुपासते ॥ १.१९ ॥ यत्र वाचो निमेत्तानि चिह्नानीवाक्षरस्मृतेः । शब्दपूर्वेण योगेन भासन्ते प्रतिबिम्बवत् ॥ १.२० ॥ अथर्वणामङ्गिरसां सांनामृग्यजुषस्य च । यस्मिन्नुच्चावचा वर्णाः पृथक्स्थितपरिग्रहाः ॥ १.२१ ॥ यदेकं प्रक्रियाभेदैर्बहुधा प्रविभज्यते । तद्व्याकरणमागम्य परं ब्रह्माधिगम्यते ॥ १.२२ ॥ नित्याः शब्दार्थसंबन्धास्तत्राम्नाता महर्षिभिः । सूत्राणां सानुतन्त्राणां भाष्याणां च प्रणेतृभिः ॥ १.२३ ॥ अपोद्धारपदार्थाः ये ये चार्थाः स्थितलक्षणाः । अन्वाख्येयाश्च ये शब्दा ये चापि प्रतिपादकाः ॥ १.२४ ॥ कार्यकारणभावेन योग्यभावेन च स्थिताः । धर्मे ये प्रत्यये चाङ्गं संबन्धाः साध्वसाधुषु ॥ १.२५ ॥ ते लिङ्गैश्च स्वशब्दैश्च शास्त्रेऽस्मिन्नुपवर्णिताः । स्मृत्यर्थमनुगम्यन्ते के चिदेव यथागमम् ॥ १.२६ ॥ शिष्टेभ्य आगमात्सिद्धाः साधवो धर्मसाधनम् । अर्थप्रत्यायनाभेदे विपरीतास्त्वसाधवः ॥ १.२७ ॥ नित्यत्वे कृतकत्वे वा तेषामादिर्न विद्यते । प्राणिनामिव सा चैषा व्यवस्थानित्यतोच्यते ॥ १.२८ ॥ नानर्थिकामिमां कश्चिद्व्यवस्थां कर्तुमर्हति । तस्मान्निबध्यते शिष्टैः साधुत्वविषया स्मृतिः ॥ १.२९ ॥ न चागमादृते धर्मस्तर्केण व्यवतिष्ठते । ऋषीणामपि यज्ज्ञानं तदप्यागमपूर्वकम् ॥ १.३० ॥ धर्मस्य चाव्यवच्छिन्नाः पन्थानो ये व्यवस्थिताः । न तांल्लोकप्रसिद्धत्वात्कश्चित्तर्केण बाधते ॥ १.३१ ॥ अवस्थादेशकालानां भेदाद्भिन्नासु शक्तिषु । भावानामनुमानेन प्रसिद्धिरतिदुर्लभा ॥ १.३२ ॥ निर्ज्ञातशक्तेर्द्रव्यस्य तां तानर्थक्रियां प्रति । विशिष्टद्रव्यसंबन्धे सा शक्तिः प्रतिबध्यते ॥ १.३३ ॥ यत्नेनानुमितोऽप्यर्थः कुशलैरनुमातृभिः । अभियुक्ततरैरन्यैरन्यथैवोपपाद्यते ॥ १.३४ ॥ परेषामसमाख्येयमभ्यासादेव जायते । मणिरूप्यादिविज्ञानं तद्विदां नानुमानिकम् ॥ १.३५ ॥ प्रत्यक्षमनुमानं च व्यतिक्रम्य व्यवस्थिताः । पितृरक्षःपिशाचानां कर्मजा एव सिद्धयः ॥ १.३६ ॥ आविर्भूतप्रकाशानामनुपप्लुतचेतसाम् । अतीतानागतज्ञानं प्रत्यक्षान्न विशिष्यते ॥ १.३७ ॥ अतीन्द्रियानसंवेद्यान् पश्यन्त्यार्षेण चक्षुषा । ये भावान् वचनं तेषां नानुमानेन बाधते ॥ १.३८ ॥ यो यस्य स्वमिव ज्ञानं दर्शनं नातिशङ्कते । स्थितं प्रत्यक्षपक्षे तं कथमन्यो निवर्तयेत् ॥ १.३९ ॥ इदं पुण्यमिदं पापमित्येतस्मिन् पदद्वये । आचण्डालमनुष्याणामल्पं शास्त्रप्रयोजनम् ॥ १.४० ॥ चैतन्यमिव यश्चायमविच्छेदेन वर्तते । आगमस्तमुपासीनो हेतुवादैर्न बाध्यते ॥ १.४१ ॥ हस्तस्पर्शादिवान्धेन विषमे पथि धावता । अनुमानप्रधानेन विनिपातो न दुर्लभः ॥ १.४२ ॥ तस्मादकृतकं शास्त्रं स्मृतिं च सनिबन्धनाम् । आश्रित्यारभ्यते शिष्टैः साधुत्वविषया स्मृतिः ॥ १.४३ ॥ द्वावुपादानशब्देषु शब्दौ शब्दविदो विदुः । एको निमित्तं शब्दानामपरोऽर्थे प्रयुज्यते ॥ १.४४ ॥ अविभक्तो विभक्तेभ्यो जायतेऽर्थस्य वाचकः । शब्दस्तत्रार्थरूपात्मा संबन्धमुपगच्छति ॥ १.४५ ॥ आत्मभेदं तयोः के चिदस्तीत्याहुः पुराणगाः । बुद्धिभेदादभिन्नस्य भेदमेके प्रचक्षते ॥ १.४६ ॥ अरणिस्थं यथा ज्योतिः प्रकाशान्तरकारणम् । तद्वच्छब्दोऽपि बुद्धिस्थः श्रुतीनां कारणं पृथक् ॥ १.४७ ॥ वितर्कितः पुरा बुद्ध्या क्व चिदर्थे निवेशितः । करणेभ्यो विवृत्तेन ध्वनिना सोऽनुगृह्यते ॥ १.४८ ॥ नादस्य क्रमजातत्वान्न पूर्वो न परश्च सः । अक्रमः क्रमरूपेण भेदवानिव जायते ॥ १.४९ ॥ प्रतिबिम्बं यथान्यत्र स्थितं तोयक्रियावशात् । तत्प्रवृत्तिमिवान्वेति स धर्मः स्फोटनादयोः ॥ १.५० ॥ आत्मरूपं यथा ज्ञाने ज्ञेयरूपं च दृश्यते । अर्थरूपं तथा शब्दे स्वरूपं च प्रकाशते ॥ १.५१ ॥ आण्डभावमिवापन्नो यः क्रतुः शब्दसंज्ञकः । वृत्तिस्तस्य क्रियारूपा भागशो भजते क्रमम् ॥ १.५२ ॥ यथैकबुद्धिविषया मूर्तिराक्रियते पटे । मूर्त्यन्तरस्य त्रितयमेवं शब्देऽपि दृश्यते ॥ १.५३ ॥ यथा प्रयोक्तुः प्राग्बुद्धिः शब्देष्वेव प्रवर्तते । व्यवसायो ग्रहीतॄणामेवं तेष्वेव जायते ॥ १.५४ ॥ अर्थोपसर्जनीभूतानभिधेयेषु केषु चित् । चरितार्थान् परार्थत्वान्न लोकः प्रतिपद्यते ॥ १.५५ ॥ ग्राह्यत्वं ग्राहकत्वं च द्वे शक्ती तेजसो यथा । तथैव सर्वशब्दानामेते पृथगवस्थिते ॥ १.५६ ॥ विषयत्वमनापन्नैः शब्दैर्नार्थः प्रकाश्यते । न सत्तयैव तेऽर्थानामगृहीताः प्रकाशकाः ॥ १.५७ ॥ अतोऽनिर्ज्ञातरूपत्वात्किमाहेत्यभिधीयते । नेन्द्रियाणां प्रकाश्येऽर्थे स्वरूपं गृह्यते तथा ॥ १.५८ ॥ भेदेनावगृहीतौ द्वौ शब्दधर्मावपोद्धृतौ । भेदकारेषु हेतुत्वमविरोधेन गच्छतः ॥ १.५९ ॥ वृद्ध्यादयो यथा शब्दाः स्वरूपोपनिबन्धनाः । आदैच्प्रत्यायितैः शब्दैः संबन्धं यान्ति संज्ञिभिः ॥ १.६० ॥ अग्निशब्दस्तथैवायमग्निशब्दनिबन्धनः । अग्निश्रुत्यैति संबन्धमग्निशब्दाभिधेयया ॥ १.६१ ॥ यो य उच्चार्यते शब्दो नियतं न स कार्यभाक् । अन्यप्रत्यायने शक्तिर्न तस्य प्रतिबध्यते ॥ १.६२ ॥ उच्चरन् परतन्त्रत्वाद्गुणः कार्यैर्न युज्यते । तस्मात्तदर्थैः कार्याणां संबन्धः परिकल्प्यते ॥ १.६३ ॥ सामान्यमाश्रितं यद्यदुपमानोपमेययोः । तस्य तस्योपमानेषु धर्मोऽन्यो व्यतिरिच्यते ॥ १.६४ ॥ गुणः प्रकर्षहेतुर्यः स्वातन्त्र्येणोपदिश्यते । तस्याश्रिताद्गुणादेव प्रकृष्टत्वं प्रतीयते ॥ १.६५ ॥ तस्याभिधेयभावेन यः शब्दः समवस्थितः । तसाप्युच्चारणे रूपमन्यत्तस्माद्विविच्यते ॥ १.६६ ॥ प्राक्सम्ज्ञिनाभिसंबन्धात्संज्ञा रूपपदार्थिका । षष्ट्याश्च प्रथमायाश्च निमित्तत्वाय कल्पते ॥ १.६७ ॥ तत्रार्थवत्त्वात्प्रथमा संज्ञाशब्दाद्विधीयते । अस्येते व्यतिरेकश्च तदर्थादेव जायते ॥ १.६८ ॥ स्वं रूपमिति कैश्चित्तु व्यक्तिः संज्ञोपदिश्यते । जातेः कार्याणि संसृष्टा जातिस्तु प्रतिपद्यते ॥ १.६९ ॥ संज्ञिनीं व्यक्तिमिच्छन्ति सूत्रे ग्राह्यामथापरे । जातिप्रत्यायिता व्यक्तिः प्रदेशेषूपतिष्ठते ॥ १.७० ॥ कार्यत्वे नित्यतायां वा के चिदेकत्ववादिनः । कार्यत्वे नित्यतायां वा के चिन्नानात्ववादिनः ॥ १.७१ ॥ पदभेदेऽपि वर्णानामेकत्वं न निवर्तते । वाक्येषु पदमेकं च भिन्नेष्वप्युपलभ्यते ॥ १.७२ ॥ न वर्णव्यतिरेकेण पदमन्यच्च विद्यते । वाक्यं वर्णपदाभ्यां च प्रविभागो न कश्चन ॥ १.७३ ॥ पदे न वर्णा विद्यन्ते वर्णेष्ववयवा न च । वाक्यात्पदानामत्यन्तं प्रविभागो न कश्चन ॥ १.७४ ॥ भिन्नदर्शनमाश्रित्य व्यवहारोऽनुगम्यते । तत्र यन्मुख्यमेकेषां तत्रान्येषां विपर्ययः ॥ १.७५ ॥ स्फोतस्याभिन्नकालस्य ध्वनिकालानुपातिनः । ग्रहणोपाधिभेदेन वृत्तिभेदं प्रचक्षते ॥ १.७६ ॥ स्वभावभेदान्नित्यत्वे ह्रस्वदीर्घप्लुतादिषु । प्राकृतस्य ध्वनेः कालः शब्दस्येत्युपचर्यते ॥ १.७७ ॥ शब्दस्य ग्रहणे हेतुः प्राकृतो ध्वनिरिष्यते । स्थितिभेदनिमित्तत्वं वैकृतः प्रतिपद्यते ॥ १.७८ ॥ शब्दस्योर्ध्वमभिव्यक्तेर्वृत्तिभेदं तु वैकृतः । ध्वनयः समुपोहन्ते स्फोटात्मा तैर्न भिद्यते ॥ १.७९ ॥ इन्द्रियस्यैवसंस्कारः शब्दस्यैवोभवस्य वा । क्रियते ध्वनिभिर्वादास्त्रयोऽभिव्यक्तिवादिनाम् ॥ १.८० ॥ इन्द्रियस्यैव संस्कारः समाधानाञ्जनादिभिः । विषयस्य तु संस्कारः तद्गन्धप्रतिपत्तये ॥ १.८१ ॥ चक्षुषः प्राप्यकारित्वे तेजसा तु द्वयोरपि । विषयेन्द्रिययोरिष्टा संस्कारः स क्रमो ध्वनेः ॥ १.८२ ॥ स्फोटरूपाविभागेन ध्वनेर्ग्रहणमिष्यते । कैश्चित्ध्वनिरसंवेद्यः स्वतन्त्रोऽन्यैः प्रकल्पितः ॥ १.८३ ॥ यथानुवाकः श्लोको वा सोढत्वमुपगच्छते । आवृत्त्या न तु स ग्रन्थः प्रत्यावृत्ति निरूप्यते ॥ १.८४ ॥ प्रत्ययैरनुपाख्येयैर्ग्रहणानुगुणैस्तथा । ध्वनिप्रकाशिते शब्दे स्वरूपमवधार्यते ॥ १.८५ ॥ नादैराहितबीजायामन्त्येन ध्वनिना सह । आवृत्तपरिपाकायां बुद्धौ शब्दोऽवधार्यते ॥ १.८६ ॥ असतश्चान्तराले याञ्छब्दानस्तीति मन्यते । प्रतिपत्तुरशक्तिः सा ग्रहणोपाय एव सः ॥ १.८७ ॥ भेदानुकारो ज्ञानस्य वाचश्चोपप्लवो ध्रुवः । क्रमोपसृष्टरूपा वाग्ज्ञानं ज्ञेयव्यपाश्रयम् ॥ १.८८ ॥ *ज्ञेयेन न विना ज्ञानं व्यवहारेऽवतिष्ठते । नालब्धक्रमया वाचा कश्चिदर्थोऽभिधीयते ॥ १.८९ *॥ यथाद्यसंख्याग्रहणमुपायः प्रतिपत्तये । संख्यान्तराणां भेदेऽपि तथा शब्दान्तरश्रुतिः ॥ १.९० ॥ प्रत्येकं व्यञ्जका भिन्न वर्णवाक्यपदेषु ये । तेषामत्यन्तभेदेऽपि संकीर्णा इव शक्तयः ॥ १.९१ ॥ यथैव दर्शनैः पूर्वैर्दूरात्संतमसेऽपि वा । अन्यथाकृत्य विषयमन्यथैवाध्यवस्यति ॥ १.९२ ॥ व्यज्यमाने तथा वाक्ये वाक्याभिव्यक्तिहेतुभिः । भागावग्रहरूपेण पूर्वं बुद्धिः प्रवर्तते ॥ १.९३ ॥ यथानुपूर्वीनियमो विकारे क्षीरबीजयोः । तथैव प्रतिपत्तॄणां नियतो बुद्धिषु क्रमः ॥ १.९४ ॥ भागवत्स्वपि तेष्वेव रूपभेदो ध्वनेः क्रमात् । निर्भागेष्वभ्युपायो वा भागभेदप्रकल्पनम् ॥ १.९५ ॥ अनेकव्यक्त्यभिव्यङ्ग्या जातिः स्फोट इति स्मृता । कैश्चित्व्यक्तय एवास्य ध्वनित्वेन प्रकल्पिताः ॥ १.९६ ॥ अविकारस्य शब्दस्य निमित्तैर्विकृतो ध्वनिः । उपलब्धौ निमित्तत्वमुपयाति प्रकाशवत् ॥ १.९७ ॥ न चानित्येष्वभिव्यक्तिर्नियमेन व्यवस्थिता । आश्रयैरपि नित्यानां जातीनां व्यक्तिरिष्यते ॥ १.९८ ॥ देशादिभिश्च संबन्धो दृष्टः कायवतामपि । देशभेदविकल्पेऽपि न भेदो ध्वनिशब्दयोः ॥ १.९९ ॥ ग्रहणग्राह्ययोः सिद्धा योग्यता नियता यथा । व्यङ्ग्यव्यञ्जकभावेऽपि तथैव स्फोटनादयोः ॥ १.१०० ॥ सदृशग्रहणानां च गन्धादीनां प्रकाशकम् । निमित्तं नियतं लोके प्रतिद्रव्यमवस्थितम् ॥ १.१०१ ॥ प्रकाशकानां भेदांश्च प्रकाश्योऽर्थोऽनुवर्तते । तैलोदकादिभेदे तत्प्रत्यक्षं प्रतिबिम्बके ॥ १.१०२ ॥ विरुद्धपरिमाणेषु वज्रादर्शतलादिषु । पर्वतादिसरूपाणां भावानां नास्ति संभवः ॥ १.१०३ ॥ तस्मादभिन्नकालेषु वर्णवाक्यपदादिषु । वृत्तिकालः स्वकालश्च नादभेदाद्विभज्यते ॥ १.१०४ ॥ यः संयोगविभागाभ्यां करणैरुपजन्यते । स स्फोटः शब्दजाः शब्दा ध्वनयोऽन्यैरुदाहृताः ॥ १.१०५ ॥ अल्पे महति वा शब्दे स्फोटकालो न भिद्यते । परस्तु शब्दसंतानः प्रचयापचयात्मकः ॥ १.१०६ ॥ दूरात्प्रभेव दीपस्य ध्वनिमात्रं तु लक्ष्यते । घण्टादूनां च शब्देषु व्यक्तो भेदः स दृश्यते ॥ १.१०७ ॥ द्रव्याभिघातात्प्रचितौ भिन्नौ दीर्घप्लुतावपि । कम्पे तूपरते जाता नादा वृत्तेर्विशेषकाः ॥ १.१०८ ॥ अनवस्थितकम्पेऽपि करणे ध्वनयोऽपरे । स्फोटादेवोपजायन्ते ज्वाला ज्वालान्तरादिव ॥ १.१०९ ॥ वायोरणूनां ज्ञानस्य शब्दत्वापत्तिरिष्यते । कैश्चिद्दर्शनभेदो हि प्रवादेष्वनवस्थितः ॥ १.११० ॥ *लब्धक्रियाः प्रयत्नेन वक्तुरिच्च्चानुवर्तिना । स्थानेष्वभिहतो वायुः शब्दत्वं प्रतिपद्यते ॥ १.१११ *॥ *तस्य कारणसामर्थ्याद्वेगप्रचयधर्मणः । संनिपाताद्विभज्यन्ते सारवत्योऽपि मूर्तयः ॥ १.११२ *॥ *अणवः सर्वशक्तित्वाद्भेदसंसर्गवृत्तयः । छायातपतमःशब्द- भावेन परिणामिनः ॥ १.११३ *॥ *स्वशक्तौ व्यज्यमानायां प्रयत्नेन समीरिताः । अभ्राणीव प्रचीयन्ते शब्दाख्याः परमाणवः ॥ १.११४ *॥ *अथायमान्तरो ज्ञाता सूक्ष्मवागात्मनि स्थितः । व्यक्तये स्वस्य रूपस्य शब्दत्वेन विवर्तते ॥ १.११५ *॥ *स मनोभावमापद्य तेजसा पाकमागतः । वायुमाविशति प्राणमथासौ समुदीर्यते ॥ १.११६ *॥ *अन्तःकरणतत्त्वस्य वायुराश्रयतां गतः । तद्धर्मेण समाविष्टस्तेजसैव विवर्तते ॥ १.११७ *॥ *विभजन् स्वात्मनो ग्रन्थीञ्छ्रुतिरूपैः पृथग्विधैः । प्राणो वर्णानभिव्यज्य वर्णेष्वेवोपलीयते ॥ १.११८ *॥ *आत्मा बुद्ध्या समर्थ्यार्थान्मनो युङ्क्ते विवक्षया । मनः कायाग्निमाहन्ति स प्रेरयति मारुतम् ॥ १.११९ *॥ अजस्रवृत्तिर्यः शब्दः सूक्ष्मत्वान्नोपलभ्यते । व्यजनाद्वायुरिव स स्वनिमित्तात्प्रतीयते ॥ १.१२० ॥ तस्य प्राणे च या शक्तिर्या च बुद्धौ व्यवस्थिता । विवर्तमाना स्थानिषु सैषा भेदं प्रपद्यते ॥ १.१२१ ॥ शब्देष्वेवाश्रिता शक्तिर्विश्वस्यास्य निबन्धनी । यन्नेत्रः प्रतिभात्मायं भेदरूपः प्रतायते ॥ १.१२२ ॥ शब्दादिभेदः शब्देन व्याख्यातो रूप्यते यतः । तस्मादर्थविधाः सर्वाः शब्दमात्रासु निश्रिताः ॥ १.१२३ ॥ (षड्गादिभेदः अ) शब्दस्यपरिणामोऽयमित्याम्नायविदो विदुः । छन्दोभ्य एव प्रथममेतद्विश्वं प्रवर्तते ॥ १.१२४ ॥ विभज्य बहुधात्मानं स च्छन्दस्यः प्रजापतिः । छन्दोमयीभिर्मात्राभिर्बहुधैव विवेश तम् ॥ १.१२५ ॥ साध्वी वाग्भूयसी येषु पुरुषेषु व्यवस्थिता । अधिकं वर्तते तेषु पुण्यं रूपं प्रजापतेः ॥ १.१२६ ॥ प्राजापत्यं महत्तेजस्तत्पात्रैरिव संवृत्तम् । शरीरभेदे विदुषां स्वां योनिमुपधावति ॥ १.१२७ ॥ यदेतन्मण्डलं भास्वद्धाम चित्रस्य राधसः । तद्भावमभिसंभूय विद्यायां प्रविलीयते ॥ १.१२८ ॥ इतिकर्तव्यता लोके सर्वा शब्दव्यपाश्रया । यां पूर्वाहितसंस्कारो बालोऽपि प्रतिपद्यते ॥ १.१२९ ॥ आद्यः कारणविन्यासः प्राणस्योर्ध्वं समीरणम् । स्थानानामभिघातश्च न विना शब्दभावनाम् ॥ १.१३० ॥ न सोऽस्ति प्रत्ययो लोके यः शब्दानुगमादृते । अनुविद्धमिव ज्ञानं सर्वं शब्देन भासते ॥ १.१३१ ॥ वाग्रूपता चेतुत्क्रामेदवबोधस्य शाश्वती । न प्रकाशः प्रकाशेत सा हि प्रत्यवमर्शिनी ॥ १.१३२ ॥ सा सर्वविद्याशिल्पानां कलानां चोपबन्धनी । तद्वशादभिनिष्पन्नं सर्वं वस्तु विभज्यते ॥ १.१३३ ॥ सैषा संसारिणां संज्ञा बहिरन्तश्च वर्तते । तन्मात्रामव्यतिक्रान्तं चैतन्यं सर्वजातिषु ॥ १.१३४ ॥ अर्थक्रियासु वाक्सर्वान् समीहयति देहिनः । तदुत्क्रान्तौ विसंज्ञोऽयं दृश्यते काष्टकुड्यवत् ॥ १.१३५ ॥ *भेदोद्ग्राहविवर्तेन लब्धाकारपरिग्रहा । आम्नाता सर्वविद्यासु वागेव प्रकृतिः परा ॥ १.१३६ *॥ *एकत्वमनतिक्रान्ता वाङ्नेत्रा वाङ्निबन्धनाः । पृथक्प्रत्यवभासन्ते वाग्विभागा गवादयः ॥ १.१३७ *॥ *षड्द्वारं षडधिष्ठानां [षट्प्र]बोधां षडव्ययाम् । ते मृत्युमतिवर्तन्ते ये वै वाचमुपासते ॥ १.१३८ *॥ प्रविभागे यथा कर्ता तया कार्ये प्रवर्तते । अविभागे तथा सैव कार्यत्वेनावतिष्ठते ॥ १.१३९ ॥ *प्रविभज्यात्मनात्मानं सृष्ट्वा भावान् पृथग्विधान् । सर्वेश्वरः सर्वमयः स्वप्ने भोक्ता प्रवर्तते ॥ १.१४० *॥ स्वमात्रा परमात्रा वा श्रुत्या प्रक्रम्यते यथा । तथैव रूढतामेति तया ह्यर्थो विधीयते ॥ १.१४१ ॥ अत्यन्तमतथाभूते निमित्ते श्रुत्यपाश्रयात् । दृश्यतेऽलातचक्रादौ वस्त्वाकारनिरूपणा ॥ १.१४२ ॥ अपि प्रयोक्तुरात्मानं शब्दमन्तरवस्थितम् । प्राहुर्महान्तमृषभं येन सायुज्यमिष्यते ॥ १.१४३ ॥ तस्माद्यः शब्दसंस्कारः सा सिद्धिः परमात्मनः । तस्य प्रवृत्तितत्त्वज्ञस्तद्ब्रह्मामृतमश्नुते ॥ १.१४४ ॥ *प्राणवृत्तिमतिक्रान्ते वाचस्तत्त्वे व्यवस्थितः । क्रमसंहारयोगेन संहृत्यात्मानमात्मनि ॥ १.१४५ *॥ *वाचः संस्कारमाधाय वाचं ज्ञाने निवेश्य च । विभज्य बन्धनान्यस्याः कृत्वा तां छिन्नबन्धनाम् ॥ १.१४६ *॥ *ज्योतिरान्तरमासाद्य च्छिन्नग्रन्थिपरिग्रहः । कारणज्योतिषैकत्वं छित्त्वा ग्रन्थीन् प्रवर्तते ॥ १.१४७ *॥ न जात्वकर्तृकं कश्चिदागमं प्रतिपद्यते । बीजं सर्वागमापाये त्रय्येवातो व्यवस्थिता ॥ १.१४८ ॥ अस्तं यातेषु वादेषु कर्तृष्वन्येष्वसत्स्वपि । श्रुतिस्मृत्युदितं धर्मं लोको न व्यतिवर्तते ॥ १.१४९ ॥ ज्ञाने स्वाभाविके नार्थः शास्त्रैः कश्चन विद्यते । धर्मो ज्ञानस्य हेतुश्चेत्तस्याम्नायो निबन्धनम् ॥ १.१५० ॥ वेदशास्त्राविरोधी च तर्कश्चक्शुरपश्यताम् । रूपमात्राद्धि वाक्यार्थः केवलं नातितिष्ठति ॥ १.१५१ ॥ सतोऽविवक्षा पारार्थ्यं व्यक्तिरर्थस्य लैङ्गिकी । इति न्यायो बहुविधस्तर्केण प्रविभज्यते ॥ १.१५२ ॥ शब्दानामेव सा शक्तिस्तर्को यः पुरुषाश्रयः । स शब्दानुगतो न्यायोऽनागमेष्वनिबन्धनः ॥ १.१५३ ॥ *यदुदुम्बरवर्णानां घटीनां मण्डलं महत् । पीतं न गमयेत्स्वर्गं किं तत्क्रतुगतं नयेत् ॥ १.१५४ *॥ रूपादयो यथा दृष्टाः पर्यर्थं यतशक्तयः । शब्दास्तथैव दृश्यन्ते विषापहरणादिषु ॥ १.१५५ ॥ यथैषां तत्र सामर्थ्यं धर्मेऽप्येवं प्रतीयताम् । साधूनां साधुभिस्तस्माद्वाच्यमभ्युदयार्थिनाम् ॥ १.१५६ ॥ सर्वोऽदृष्टफलानर्थानागमात्प्रतिपद्यते । विपरीतं च सर्वत्र शक्यते वक्तुमागमे ॥ १.१५७ ॥ साधुत्वज्ञानविषया सेयं व्याकरणस्मृतिः । अविच्छेदेन शिष्टानामिदं स्मृतिनिबन्धनम् ॥ १.१५८ ॥ वैखर्या मध्यमायाश्च पश्यन्त्याश्चैतदद्भुतम् । अनेकतीर्थभेदायास्त्रय्या चाचः परं परम् ॥ १.१५९ ॥ *गौरिव प्रक्षरत्येका रसमुत्तमशालिनी । दिव्यादिव्येन रूपेण भारती गौः शुचिस्मिता ॥ १.१६० *॥ *एतयोरन्तरं पश्य सूक्ष्मयोः स्पन्दमानयोः । प्राणापानान्तरे नित्यमेका सर्वस्य तिष्ठति ॥ १.१६१ *॥ *अन्या त्वप्रेर्यमाणैव विना प्राणेन वर्तते । जायते हि ततः प्राणो वाचमाप्याययन् पुनः ॥ १.१६२ *॥ *प्राणेनाप्यायिता सैवं व्यवहारनिबन्धनी । सर्वस्योच्छ्वासमासाद्य न वाग्वदति कर्हि चित् ॥ १.१६३ *॥ *घोषिणी जातनिर्घोषा अघोषा च प्रवर्तते । तयोरपि च घोषिण्या निर्घोषैव गरीयसी ॥ १.१६४ *॥ *स्थानेषु विवृते वायौ कृतवर्णपरिग्रहा । वैखरी वाक्प्रयोक्तॄणां प्राणवृत्तिनिबन्धना ॥ १.१६५ *॥ *केवलं बुद्ध्युपादान- क्रमरूपानुपातिनी । प्राणवृत्तिमतिक्रम्य मध्यमा वाक्प्रवर्तते ॥ १.१६६ *॥ *अविभागा तु पश्यन्ती सर्वतः संहृतक्रमा । स्वरूपज्योतिरेवान्तः सूक्ष्मा वागनपायिनी ॥ १.१६७ *॥ *पीयूषापूर्यमाणापि नित्यमागन्तुभिर्मलैः । अन्त्या कलेव सोमस्य नात्यन्तमभिधीयते ॥ १.१६८ *॥ *यस्यां दृष्टस्वरूपायामधिकारो निवर्तते । पुरुषे षोडशकले तामाहुरमृतां कलाम् ॥ १.१६९ *॥ *प्राप्तोपरागरूपा सा विप्लवैरनुषङ्गिभिः । वैखरी सत्त्वमात्रेव गुणैर्न व्यवकीर्यते ॥ १.१७० *॥ तद्विभागाविभागाभ्यां क्रियमाणामवस्थितम् । स्वभावज्ञैस्तु भावानां दृश्यन्ते शब्दशक्तयः ॥ १.१७१ ॥ अनादिमव्यवच्छिन्नां श्रुतिमाहुरकर्तृकाम् । शिष्टैर्निबध्यमाना तु न व्यवच्छिद्यते स्मृतिः ॥ १.१७२ ॥ अविभागाद्विवृत्तानामभिख्या स्वप्नवच्छ्रुतौ । भावतत्त्वं तु विज्ञाय लिङ्गेभ्यो विहिता स्मृतिः ॥ १.१७३ ॥ कायवाग्बुद्धिविषया ये मलाः समवस्थिताः । चिकित्सालक्षणाध्यात्म- शास्त्रैस्तेषां विशुद्धयः ॥ १.१७४ ॥ शब्दः संस्कारहीनो यो गौरिति प्रयुयुक्ष्यते । तमपभ्रंशमिच्छन्ति विशिष्टार्थनिवेशिनम् ॥ १.१७५ ॥ अस्वगोण्यादयः शब्दाः साधवो विषयान्तरे । निमित्तभेदात्सर्वत्र साधुत्वं च व्यवस्थितम् ॥ १.१७६ ॥ ते साधुष्वनुमानेन प्रत्ययोत्पत्तिहेतवः । तादात्म्यमुपगम्येव शब्दार्थस्य प्रकाशकाः ॥ १.१७७ ॥ न शिष्टैरनुगम्यन्ते पर्याया इव साधवः । ते यतः स्मृतिशास्त्रेण तस्मात्साक्षादवाचकाः ॥ १.१७८ ॥ अंब्वंब्विति यथा बालः शिक्षमाणोऽपभाषते । अव्यक्तं तद्विदां तेन व्यक्तौ भवति निश्चयः ॥ १.१७९ ॥ एवं साधौ प्रयोक्तव्ये योऽपभ्रंशः प्रयुज्यते । तेन साधुव्यवहितः कश्चिदर्थोऽभिधीयते ॥ १.१८० ॥ पारंपर्यादपभ्रंशा विगुणेष्वभिधातृषु । प्रसिद्धिमागता येन तेषां साधुरवाचकः ॥ १.१८१ ॥ दैवी वाग्व्यतिकीर्णेयमशक्तैरभिधातृभिः । अनित्यदर्शिनां त्वस्मिन् वादे बुद्धिविपर्ययः ॥ १.१८२ ॥ उभयेषामविच्छेदादन्यशब्दविवक्षया । योऽन्यः प्रयुज्यते शब्दो न सोऽर्थस्याभिधायकः ॥ १.१८३ ॥ आख्यातं शब्दसंघातो जातिः संघातवर्तिनी । एकोऽनवयवः शब्दः क्रमो बुद्ध्यनुसंहृतिः ॥ २.१ ॥ पदमाद्यं पृथक्सर्वं पदं सापेक्षमित्यपि । वाक्यं प्रति मतिर्भिन्ना बहुधा न्यायदर्शिनाम् ॥ २.२ ॥ निघातादिव्यवस्थार्थं शास्त्रे यत्परिभाषितम् । साकाङ्क्षावयवं तेन न सर्वं तुल्यलक्षणं ॥ २.३ ॥ साकाङ्क्षावयवं भेदे परानाकाङ्क्षशब्दकम् । कर्मप्रधानं गुणवदेकार्थं वाक्यमुच्यते ॥ २.४ ॥ संबोधनपदं यच्च तत्क्रियाया विशेषकम् । तथा तिङन्तं तत्राहुस्तिङन्तस्य विशेषकम् ॥ २.५ ॥ यथानेकमपि क्त्वान्तं तिङन्तस्य विशेषकम् । तथा तिङन्तं तत्राहुस्तिङन्तस्य विशेषकम् ॥ २.६ ॥ यथैक एव सर्वार्थ- प्रकाशः प्रविभज्यते । दृश्यभेदानुकारेण वाक्यार्थावगमस्तथा ॥ २.७ ॥ चित्रस्यैकस्य रूपस्य यथा भेदनिदर्शनैः । नीलादिभिः समाख्यानं क्रियते भिन्नलक्षणैः ॥ २.८ ॥ तथैवैकस्य वाक्यस्य निराकाङ्क्षस्य सर्वतः । शब्दान्तरैः समाख्यानं साकाङ्क्षैरनुगम्यते ॥ २.९ ॥ यथा पदे विभज्यन्ते प्रकृतिप्रत्ययादयः । अपोद्धारस्तथा वाक्ये पदानामुपपद्यते ॥ २.१० ॥ वर्णान्तरसरूपत्वं वर्णभागेषु दृष्यते । पदान्तरसरूपाश्च पदभागा इव स्थिताः ॥ २.११ ॥ भागैरनर्थकैर्युक्ता वृषभोदकयावकाः । अन्वयव्यतिरेकौ तु व्यवहारनिबन्धनम् ॥ २.१२ ॥ शब्दस्य न विभागोऽस्ति कुतोऽर्थस्य भविष्यति । विभागैः प्रक्रियाभेदमविद्वान् प्रतिपद्यते ॥ २.१३ ॥ ब्राह्मणार्थो यथा नास्ति कश्चिद्ब्राह्मणकम्बले । देवदत्तादयो वाक्ये थतैव स्युरनर्थकाः ॥ २.१४ ॥ सामान्यार्थस्तिरोभूतो न विशेषेऽवतिष्ठते । उपात्तस्य कुतस्त्यागो निवृत्तः क्वावतिष्ठताम् ॥ २.१५ ॥ अशाब्दो यदि वाक्यार्थः पदार्थोऽपि तथा भवेत् । एवं सति च संबन्धः शब्दस्यार्थेन हीयते ॥ २.१६ ॥ विशेशशब्दाः केषां चित्सामान्यप्रतिरूपकाः । शब्दान्तराभिसंबन्धाद्व्यज्यन्ते प्रतिपत्तृषु ॥ २.१७ ॥ तेषां तु कृत्स्नो वाक्यार्थः प्रतिभेदं समाप्यते । व्यक्तोपव्यञ्जना सिद्धिरर्थस्य प्रतिपतृषु ॥ २.१८ ॥ स व्यक्तः क्रमवाञ्छब्द उपांशु यमधीयते । अक्रमस्तु वितत्येव बुद्धिर्यत्रावतिष्ठते ॥ २.१९ ॥ यथोत्क्षेपविशेषेऽपि कर्मभेदो न गृह्यते । आवृत्तौ व्यज्यते जातिः कर्मभिर्भ्रमणादिभिः ॥ २.२० ॥ वर्णवाक्यपदेष्वेवं तुल्योपव्यञ्जना श्रुतिः । अत्यन्तभेदे तत्त्वस्य सरूपेव प्रतीयते ॥ २.२१ ॥ नित्येषु च कुतः पूर्वं परं वा परमार्थतः । एकस्यैव तु सा शक्तिर्यदेवमवभासते ॥ २.२२ ॥ चिरं क्षिप्रमिति ज्ञाने कालभेदादृते यथा । भिन्नकाले प्रकाशेते स धर्मो ह्रस्वदीर्घयोः ॥ २.२३ ॥ न नित्यः क्रममात्राभिः कालो भेदमिहार्हति । व्यावर्तिनीनां मात्राणामभावे कीदृशः क्रमः ॥ २.२४ ॥ ताभ्यो या जायते बुद्धिरेका सा भागवर्जिता । सा हि स्वशक्त्या भिन्नेव क्रमप्रत्यवमर्शिनी ॥ २.२५ ॥ क्रमोल्लेखानुषङ्गेण तस्यां यद्बीजमाहितम् । तत्त्वनानात्वयोस्तस्य निरुक्तिर्नावतिष्ठते ॥ २.२६ ॥ भावनासमये त्वेतत्क्रमसामर्थ्यमक्रमम् । व्यावृत्तभेदो येनार्थो भेदवानुपलभ्यते ॥ २.२७ ॥ पदानि वाक्ये तान्येव वर्णास्ते च पदे यदि । वर्णेषु वर्णभागानां भेदः स्यात्परमाणुवत् ॥ २.२८ ॥ भागानामनुपश्लेषान्न वर्णो न पदं भवेत् । तेषामव्यपदेश्यत्वात्किमन्यद्व्यपदिश्यताम् ॥ २.२९ ॥ यदन्तःशब्दतत्त्वं तु भागैरेकं प्रकाशितम् । तमाहुरपरे शब्दं तस्य वाक्ये तथैकताम् ॥ २.३० ॥ अर्थभागैस्तथा तेषामन्तरोऽर्थः प्रकाश्यते । एकस्यैवात्मनो भेदौ शब्दार्थावपृथक्स्थितौ ॥ २.३१ ॥ प्रकाशकप्रकाश्यत्वं कार्यकारणरूपता । अन्तर्मात्रात्मनस्तस्य शब्दतत्त्वस्य सर्वदा ॥ २.३२ ॥ तस्यैवास्तित्वनास्तित्वे सामर्थ्ये समवस्थिते । अक्रमे क्रमनिर्भासे व्यवहारनिबन्धने ॥ २.३३ ॥ संप्रत्ययप्रमाणत्वात्पदार्थास्तित्वकल्पने । पदार्थाभ्युच्चये त्यागादानर्थक्यं प्रसज्यते ॥ २.३४ ॥ राजशब्देन राजार्थो भिन्नरूपेण गम्यते । वृत्तावाख्यातसदृशं पदमन्यत्प्रयुज्यते ॥ २.३५ ॥ यथाश्वकर्ण इत्युक्ते विनैवाश्वेन गम्यते । कश्चिदेव विशिष्टोऽर्थः सर्वेषु प्रत्ययस्तथा ॥ २.३६ ॥ वाक्येषु अर्थान्तरगतः सादृश्यपरिकल्पने । केषां चित्रूढिशब्दत्वं शास्त्र एवानुगम्यते ॥ २.३७ ॥ उपादायापि ये हेयास्तानुपायान् प्रचक्षते । उपायानां च नियमो नावश्यमवतिष्ठते ॥ २.३८ ॥ अर्थं कथं चित्पुरुषः कश्चित्संप्रतिपद्यते । संसृष्टा वा विभक्ता चा भेदा वाक्यनिबन्धनाः ॥ २.३९ ॥ सोऽयमित्यभिसंबन्धो बुद्ध्या प्रक्रम्यते यदा । वाक्यार्थस्य तदैकोऽपि वर्णः प्रत्यायकः क्व चित् ॥ २.४० ॥ केवलेन पदेनार्थो यावानेवाभिधीयते । वाक्यस्थं तावतोऽर्थस्य तदाहुरभिधायकम् ॥ २.४१ ॥ संबन्धे सति यत्त्वन्यदाधिक्यमुपजायते । वाक्यार्तमेव तं प्राहुरनेकपदसंश्रयम् ॥ २.४२ ॥ स त्वनेकपदस्थोऽपि प्रतिभेदं समाप्यते । जातिवत्समुदायेऽपि संख्यावत्कल्प्यतेऽपरैः ॥ २.४३ ॥ सर्वभेदानुगुण्यं तु सामान्यमपरे विदुः । तदर्थान्तरसंसर्गाद्भजते भेदरूपताम् ॥ २.४४ ॥ भेदानाकाङ्क्षतस्तस्य या परिप्लवमामता । अवच्छिनत्ति संबन्धस्तां विशेषे निवेशयन् ॥ २.४५ ॥ कार्यानुमेयः संबन्धो रूपं तस्य न विद्यते । असत्त्वभूतमत्यन्तमतस्तं प्रतिजानते ॥ २.४६ ॥ नियतं साधने साध्यं क्रिया नियतसाधना । स संनिधानमात्रेण नियमः संप्रकाशते ॥ २.४७ ॥ गुणभावेन साकाङ्क्षं तत्र नाम प्रवर्तते । साध्यत्वेन निमित्तानि क्रियापदमपेक्षते ॥ २.४८ ॥ सन्त एव विशेषा ये पदार्थेष्वविभाविताः । ते क्रमादनुगम्यन्ते न वाक्यमभिधायकम् ॥ २.४९ ॥ शब्दानां क्रममात्रे च नान्यः शब्दोऽस्ति वाचकः । क्रमो हि धर्मः कालस्य तेन वाक्यं न विद्यते ॥ २.५० ॥ ये च संभविनो भेदाः पदार्थेष्वविभाविताः । ते संनिधाने व्यज्यन्ते न तु वर्णेष्वयं क्रमः ॥ २.५१ ॥ वर्णानां च पदानां च क्रममात्रनिवेशिनी । पदाख्या वाक्यसंज्ञा च शब्दत्वं नेष्यते तयोः ॥ २.५२ ॥ समानेऽपि तु शब्दत्वे दृष्टः संप्रत्ययः पदात् । प्रतिवर्णं त्वसौ नास्ति पदस्यार्थमतो विदुः ॥ २.५३ ॥ यथा सावयवा वर्णा विना वाच्येन केन चित् । अर्थवन्तः समुदिता वाक्यमप्येवमिष्यते ॥ २.५४ ॥ अनर्थकान्यपायत्वात्पदार्थेनार्थवन्ति वा । क्रमेणोच्चरितान्याहुर्वाक्यार्थं भिन्नलक्षणम् ॥ २.५५ ॥ नित्यत्वे समुदायानां जातेर्वा परिकल्पने । एकस्यैकार्थतामाहुर्वाक्यस्याव्यभिचारिणीम् ॥ २.५६ ॥ अभेदपूर्वकाभेदाः कल्पिता वाक्यवादिभिः । भेदपूर्वानभेदांस्तु मन्यन्ते पददर्शिनः ॥ २.५७ ॥ पदप्रकृतिभावश्च वृत्तिभेदेन वर्ण्यते । पदानां संहिता योनिः संहिता वा पदाश्रया ॥ २.५८ ॥ पदाम्नायश्च यद्यन्यः संहिताया निदर्शकः । नित्यस्तत्र कथं कार्यं पदं लक्षणदर्शनात् ॥ २.५९ ॥ प्रतिवर्णमसंवेद्यः पदार्थप्रत्ययो यथा । पदेश्वेवमसंवेद्यं वाक्यार्थस्य निरूपणम् ॥ २.६० ॥ वाक्यार्थः संनिविशते पदेषु सहवृत्तिषु । यथा तथैव वर्णेषु पदार्थः सहवृत्तिषु ॥ २.६१ ॥ सूक्ष्मं ग्राह्यं यथान्येन संसृष्टं सह गृह्यते । वर्णोऽप्यन्येन वर्णेन संबद्धो वाचकस्तथा ॥ २.६२ ॥ पदस्योच्चारणादर्थो यथा कश्चिन्निरूप्यते । वर्णानामपि सांनिध्यात्तथा सोऽर्थः प्रतीयते ॥ २.६३ ॥ प्राप्तस्य यस्य सामर्थ्यान्नियमार्था पुनः श्रुतिः । तेनात्यन्तं विशेषेण सामान्यं यदि बाध्यते ॥ २.६४ ॥ यजेतेति ततो द्रव्यं प्राप्तं सामर्थ्यलक्षणम् । व्रीहिश्रुत्या निवर्तेत न स्यात्प्रतिनिधिस्तथा ॥ २.६५ ॥ तस्माद्व्रीहित्वमधिकं व्रीहिशब्दः प्रकल्पयेत् । द्रव्यत्वमविरुद्धत्वात्प्राप्त्यर्थः सन्न बाधते ॥ २.६६ ॥ तेन चापि व्यवच्छिन्ने द्रव्यत्वे सहचारिणि । असंभवाद्विशेषाणां तत्रान्येषामदर्शनम् ॥ २.६७ ॥ न च सामान्यवत्सर्वे क्रियाशब्देन लक्षिताः । विशेषा न हि सर्वेषां सतां शब्दोऽभिधायकः ॥ २.६८ ॥ शुक्लादयो गुणाः सन्तो यथा तत्राविवक्षिताः । तथाविवक्षा भेदानां द्रव्यत्वसहचारिणाम् ॥ २.६९ ॥ असंनिधौ प्रतिनिधिर्मा भून्नित्यस्य कर्मणः । काम्यस्य वा प्रवृत्तस्य लोप इत्युपपद्यते ॥ २.७० ॥ विशिष्टैव क्रिया येन वाक्यार्थः परिकल्प्यते । द्रव्याभावे प्रतिनिधौ तस्य तत्स्यात्क्रियान्तरम् ॥ २.७१ ॥ निर्ज्ञातार्थं पदं यच्च तदर्थे प्रतिपादिते । पिकादि यदविज्ञातं तत्किमित्यनुयुज्यते ॥ २.७२ ॥ सामर्थ्यप्रापितं यच्च व्यक्त्यर्थमनुषज्यते । श्रुतिरेवानुषङ्गेण बाधिका लिङ्गवाक्ययोः ॥ २.७३ ॥ अप्राप्तो यस्तु शुक्लादिः संनिधानेन गम्यते । स यत्नप्रापितो वाक्ये श्रुतिधर्मविलक्षणः ॥ २.७४ ॥ अभिन्नमेव वाक्यं तु यद्यभिन्नार्थमिष्यते । तत्सर्वं श्रुतिभूतत्वान्न श्रुत्यैव विरोत्स्यते ॥ २.७५ ॥ वाक्यानां समुदायश्च य एकार्थप्रसिद्धये । साकाङ्क्षावयवस्तत्र वाक्यार्थोऽपि न विद्यते ॥ २.७६ ॥ प्रासङ्गिकमिदं कार्यमिदं तन्त्रेण लभ्यते । इदमावृत्तिभेदाभ्यामत्र बाधसमुच्चयौ ॥ २.७७ ॥ ऊहोऽस्मिन् विषये न्याय्यः संबन्धोऽस्य न बाध्यते । सामान्यस्यातिदेशोऽयं विशेषोऽत्रातिदिश्यते ॥ २.७८ ॥ अर्थित्वमत्र सामर्थ्यमस्मिन्नर्थो न भिद्यते । शास्त्रात्प्राप्ताधिकारोऽयं व्युदासोऽस्य क्रियान्तरे ॥ २.७९ ॥ इयं श्रुत्या क्रमप्राप्तिरियमुच्चारणादिति । क्रमोऽयमत्र बलवानस्मिंस्तु न विवक्षितः ॥ २.८० ॥ इदं पराङ्गैः संबद्धमङ्गानामप्रयोजकम् । प्रयोजकमिदं तेषामत्रेदं नान्तरीयकम् ॥ २.८१ ॥ इदं प्रधानं शेषोऽयं विनियोगक्रमस्त्वयम् । साक्षादस्योपकारीदमिदमाराद्विशेषकम् ॥ २.८२ ॥ शक्तिव्यापारभेदोऽस्मिन् फलमत्र तु भिद्यते । संबन्धाज्जातभेदोऽयं भेदस्तत्राविवक्षितः ॥ २.८३ ॥ प्रसज्यप्रतिषेधोऽयं पर्युदासोऽयमत्र तु । इदं गौणमिदं मुख्यं व्यापीदं गुरु लघ्विदम् ॥ २.८४ ॥ भेदेनाङ्गाङ्गिभावोऽस्य बहुभेदं विकल्प्यते । इदं नियम्यतेऽस्यात्र योग्यत्वमुपजायते ॥ २.८५ ॥ अस्य वाक्यान्तरे दृष्टाल्लिङ्गाद्भेदोऽनुमीयते । अयं शब्दैरपोद्धृत्य पदार्थः प्रविभज्यते ॥ २.८६ ॥ इति वाक्येषु ये धर्माः पदार्थोपनिबन्धनाः । सर्वे तेन प्रकल्पेरन् पदं चेत्स्यदवाचकम् ॥ २.८७ ॥ अविभक्तेऽपि वाक्यार्थे शक्तिभेदादपोद्धृते । वाक्यान्तरविभागेन यथोक्तं न विरुध्यते ॥ २.८८ ॥ यथैवैकस्य गन्धस्य भेदेन परिकल्पना । पुष्पादिषु तथा वाक्येऽप्यर्थभेदोऽभिधीयते ॥ २.८९ ॥ गवये नरसिंहे वाप्येकज्ञानावृते यथा । भागं जात्यन्तरस्यैव सदृशं प्रतिपद्यते ॥ २.९० ॥ अप्रसिद्धं तु यं भागमदृष्टमनुपश्यति । तावत्यसंविदं मूढः सर्वत्र प्रतिपद्यते ॥ २.९१ ॥ तथा पिकादियोगेन वाक्येऽत्यन्तविलक्षणे । सदृशस्येव संज्ञानमसतोऽर्थस्य मन्यते ॥ २.९२ ॥ एकस्य भागे सादृश्यं भागे भेदश्च लक्ष्यते । निर्भागस्य प्रकाशस्य निर्भागेणैव चेतसा ॥ २.९३ ॥ तथैव भागे सादृश्यं भागे भेदोऽवसीयते । भागाभावेऽपि वाक्यानामत्यन्तं भिन्नधर्मणाम् ॥ २.९४ ॥ रूपनाशे पदानां स्यात्कथं चावधिकल्पना । अगृहीतावधौ शब्दे कथं चार्थो विविच्यते ॥ २.९५ ॥ संसर्ग इव रूपाणां शब्देऽन्यत्र व्यवस्थितः । नानारूपेषु तद्रूपं तन्त्रेणापरमिष्यते ॥ २.९६ ॥ तस्मिन्नभेदे भेदानां संसर्ग इव वर्तते । रूपं रूपान्तरात्तस्मादनन्यत्प्रविभज्यते ॥ २.९७ ॥ शास्त्रे प्रत्यायकस्यापि क्वचिदेकत्वमाश्रितम् । प्रत्याय्येन क्वचिद्भेदो ग्रहणग्राह्ययोः स्थितः ॥ २.९८ ॥ ऊ इत्यभेदमाश्रित्य यथासंख्यं प्रकल्पितम् । लृलुटोर्ग्रहणे भेदो ग्राह्याभ्यां परिकल्पितः ॥ २.९९ ॥ यस्येत्येतदणो रूपं संज्ञिनामभिधायकम् । न हि प्रतीयमानेन ग्रहणस्यास्ति संभवः ॥ २.१०० ॥ ऊ इत्येतदभिन्नं च भिन्नवाक्यनिबन्धनम् । भेदेन ग्रहणं यस्य पररूपमिव द्वयोः ॥ २.१०१ ॥ प्लुतस्याङ्गविवृद्धिं च समाहारमचोस्तथा । व्युदस्यता पुनर्भेदः शब्देष्वत्यन्तमाश्रितः ॥ २.१०२ ॥ अर्धर्चादिषु शब्देषु रूपभेदः क्रमाद्यथा । तन्त्रात्तथैकशब्दत्वे भिन्नानां श्रुतिरन्यथा ॥ २.१०३ ॥ संहिताविषये वर्णाः स्वरूपेणाविकारिणः । शब्दान्तरत्वं यान्तीव शक्त्यन्तरपरिग्रहात् ॥ २.१०४ ॥ इन्द्रियादिविकारेण दृष्टं ग्राह्येषु वस्तुषु । आत्मत्यागादृते भिन्नं ग्रहणं स क्रमः श्रुतौ ॥ २.१०५ ॥ अभिधानक्रियाभेदाच्छब्देष्वविकृतेष्वपि । रूपमत्यन्तभेदेन तदेवैकं प्रकाशते ॥ २.१०६ ॥ ऋचो वा गीतिमात्रं वा साम द्रव्यान्तरं न तु । गीतिभेदात्तु गृह्यन्ते ता एव विकृता ऋचः ॥ २.१०७ ॥ उपायाच्छ्रुतिसंहारे भिन्नानामेकशेषिणाम् । तन्त्रेणोच्चारणे तेषां शास्त्रे साधुत्वमुच्यते ॥ २.१०८ ॥ परिगृह्य श्रुतिं चैकां रूपभेदवतामपि । तन्त्रेणोच्चारणं कार्यमन्यथा ते न साधवः ॥ २.१०९ ॥ सरूपाणां च वाक्यानां शास्त्रेणाप्रतिपादितम् । तन्त्रेणोच्चारणादेकं रूपं साधूपलभ्यते ॥ २.११० ॥ एकस्यानेकरूपत्वं नालिकादिपरिग्रहात् । यथा तथैव तन्त्रात्स्याद्बहूनामेकरूपता ॥ २.१११ ॥ यथा पदसरूपाणां वाक्यानां संभवः पृथक् । तथा वाक्यान्तराभावे स्यादेषां पृथगर्थता ॥ २.११२ ॥ अभिधेयः पदस्यार्थो वाक्यस्यार्थः प्रयोजनम् । यस्य तस्य न संबन्धो वाक्यानामुपपद्यते ॥ २.११३ ॥ तत्र क्रियापदान्येव व्यपेक्षन्ते परस्परम् । क्रियापदानुषक्तस्तु संबन्धोऽथ प्रतीयते ॥ २.११४ ॥ आवृत्तिरनुवादो वा पदार्थव्यक्तिकल्पने । प्रत्येकं तु समाप्तोऽर्थः सहभूतेषु वर्तते ॥ २.११५ ॥ अविकल्पितवाक्यार्थे विकल्पा भावनाश्रयाः । अत्राधिकरणे वादाः पूर्वेषां बहुधा मताः ॥ २.११६ ॥ अभ्यासात्प्रतिभाहेतुः सर्वः शब्दोऽपरैः स्मृतः । बालानां च तिरश्चां च यथार्थप्रतिपादने ॥ २.११७ ॥ अनागमश्च सोऽभ्यासः समयः कैश्चिदिष्यते । अनन्तरमिदं कार्यमस्मादित्युपदर्शकः ॥ २.११८ ॥ अस्त्यर्थः सर्वशब्दानामिति प्रत्याय्यलक्षणम् । अपूर्वदेवतास्वर्गैः सममाहुर्गवादिषु ॥ २.११९ ॥ प्रयोगदर्शनाभ्यासादाकारावग्रहस्तु यः । न स शब्दस्य विषयः स हि यत्नान्तराश्रयः ॥ २.१२० ॥ के चिद्भेदाः प्रकाश्यन्ते शब्दैस्तदभिधायिभिः । अनुनिष्पादिनः कांश्चिच्छब्दार्थानिति मन्यते ॥ २.१२१ ॥ जातेः प्रत्यायके शब्दे या व्यक्तिरनुषङ्गिणी । न तद्व्यक्तिगतान् भेदाञ्जातिशब्दोऽवलम्बते ॥ २.१२२ ॥ घटादीनां न चाकारान् प्रत्याययति वाचकः । वस्तुमात्रनिवेशित्वात्तद्गतिर्नान्तरीयका ॥ २.१२३ ॥ क्रिया विना प्रयोगेण न दृष्टा शब्दचोदिता । प्रयोगस्त्वनुनिष्पादी शब्दार्थ इति गम्यते ॥ २.१२४ ॥ नियतास्तु प्रयोगा ये नियतं यच्च साधनम् । तेषां शब्दाभिधेयत्वमपरैरनुगम्यते ॥ २.१२५ ॥ समुदायोऽभिधेयो वाप्यविकल्पसमुच्चयः । असत्यो वापि संसर्गः शब्दार्थः कैश्चिदिष्यते ॥ २.१२६ ॥ असत्योपाधि यत्सत्यं तद्वा शब्दनिबन्धनाम् । शब्दो वाप्यभिजल्पत्वमागतो याति वाच्यताम् ॥ २.१२७ ॥ सोऽयमित्यभिसंबन्धाद्रूपमेकीकृतं यता । शब्दस्यार्थेन तं शब्दमभिजल्पं प्रचक्षते ॥ २.१२८ ॥ तयोरपृथगात्मत्वे रूढिरव्यभिचारिणी । किं चिदेव क्व चिद्रूपं प्राधान्येनावतिष्ठते ॥ २.१२९ ॥ लोकेऽर्थरूपतां शब्दः प्रतिपन्नः प्रवर्तते । शास्त्रे तूभयरूपत्वं प्रविभक्तं विवक्षया ॥ २.१३० ॥ अशक्तेः सर्वशक्तेर्वा शब्दैरेव प्रकल्पिता । एकस्यार्थस्य नियता क्रियादिपरिकल्पना ॥ २.१३१ ॥ यो वार्थो बुद्धिविषयो बाह्यवस्तुनिबन्धनः । स बाह्यं वस्त्विति ज्ञातः शब्दार्थ इति गम्यते ॥ २.१३२ ॥ आकारवन्तः संवेद्या व्यक्तिस्मृतिनिबन्धनाः । एते प्रत्यवभासन्ते संविन्ंात्रं त्वतोऽन्यथा ॥ २.१३३ ॥ यथेन्द्रियं संनिपतद्वैचित्रेणोपदर्शकं । तथैव शब्दादर्थस्य प्रतिपत्तिरनेकधा ॥ २.१३४ ॥ वक्त्रान्यथैव प्रक्रान्तो भिन्नेषु प्रतिपत्तृषु । स्वप्रत्ययानुकारेण शब्दार्थः प्रविभज्यते ॥ २.१३५ ॥ एकस्मिन्नपि दृश्येऽर्थे दर्शनं भिद्यते पृथक् । कालान्तरेण चैकोऽपि तं पश्यत्यन्यथा पुनः ॥ २.१३६ ॥ एकस्यापि च शब्दस्य निमित्तैरव्यवस्थितैः । एकेन बहुभिश्चार्थो बहुधा परिकल्प्यते ॥ २.१३७ ॥ तस्माददृष्टतत्त्वानां सापराधं बहुच्छलं । दर्शनं वचनं वापि नित्यमेवानवस्थितम् ॥ २.१३८ ॥ ऋषीणां दर्शनं यच्च तत्त्वे किं चिदवस्थितम् । न तेन व्यवहारोऽस्ति न तच्छब्दनिबन्धनं ॥ २.१३९ ॥ तलवद्दृश्यते व्योम खद्योतो हव्यवाडिव । नैव चास्ति तलं व्योम्नि न खद्योते हुताशनः ॥ २.१४० ॥ तस्मात्प्रत्यक्षमप्यर्थं विद्वानीक्षेत युक्तितः । न दर्शनस्य प्रामाण्याद्दृश्यमर्थं प्रकल्पयेत् ॥ २.१४१ ॥ असमाख्येयतत्त्वानामर्थानां लौकिकैर्यथा । व्यवहारे समाख्यानं तत्प्रज्ञो न विकल्पयेत् ॥ २.१४२ ॥ विच्छेदग्रहणेऽर्थानां प्रतिभान्यैव जायते । वाक्यार्थ इति तामाहुः पदार्थैरुपपादिताम् ॥ २.१४३ ॥ इदं तदिति सान्येषामनाक्येया कथं चन । प्रत्यात्मवृत्ति सिद्धा सा कर्त्रापि न निरूप्यते ॥ २.१४४ ॥ उपश्लेषमिवार्थानां सा करोत्यविचारिता । सार्वरूप्यमिवापन्ना विषयत्वेन वर्तते ॥ २.१४५ ॥ साक्शाच्छब्देन जनितां भावनानुगमेन वा । इतिकर्तव्यतायां तां न कश्चिदतिवर्तते ॥ २.१४६ ॥ प्रमाणत्वेन तां लोकः सर्वः समनुगच्छति । समारम्भाः प्रतायन्ते तिरश्चामपि तद्वशात् ॥ २.१४७ ॥ यथा द्रव्यविशेषाणां परिपाकैरयत्नजाः । मदादिशक्तयो दृष्टाः प्रतिभास्तद्वतां तथा ॥ २.१४८ ॥ स्वरवृत्तिं विकुरुते मधौ पुंस्कोकिलस्य कः । जन्त्वादयः कुलायादि- करणे शिक्षिताः कथम् ॥ २.१४९ ॥ आहारप्रीत्यपद्वेष- प्लवनादिक्रियासु कः । जात्यन्वयप्रसिद्धासु प्रयोक्ता मृगपक्षिणाम् ॥ २.१५० ॥ भावनानुगतादेतदागमादेव जायते । आसत्तिविप्रकर्षाभ्यामागमस्तु विशिष्यते ॥ २.१५१ ॥ स्वभाववरणाभास- योगादृष्टोपपादिताम् । विशिष्टोपहितां चेति प्रतिभां षड्विधां विदुः ॥ २.१५२ ॥ यथा संयोगिभिर्द्रव्यैर्लक्षितेऽर्थे प्रयुज्यते । गोशब्दो न त्वसौ तेषां विशेशाणां प्रकाशकः ॥ २.१५३ ॥ आकारवर्णावयवैः संसृष्टेषु गवादिषु । शब्दः प्रवर्तमानोऽपि न तानङ्गीकरोत्यसौ ॥ २.१५४ ॥ संस्थानवर्णावयवैर्विशिष्टेऽर्थे प्रयुज्यते । शब्दो न तस्यावयवे प्रवृत्तिरुपलभ्यते ॥ २.१५५ ॥ दुर्लभं कस्य चिल्लोके सर्वावयवदर्शनं । कैश्चित्त्ववयवैर्दृष्टैरर्थः कृत्सोऽनुमीयते ॥ २.१५६ ॥ तथा जात्युत्पलादीनां गन्धेन सहचारिणाम् । नित्यसंबन्धिनां दृष्टं गुणानामवधारणम् ॥ २.१५७ ॥ संख्याप्रमाणसंस्थान- निरपेक्षः प्रवर्तते । बिन्दौ च समुदाये च वाचकः सलिलादिषु ॥ २.१५८ ॥ संस्कारादिपरिच्छिन्ने तैलादौ यो व्यवस्थितः । आहैकदेशं तत्त्वेन तस्यावयववर्तिना ॥ २.१५९ ॥ येनार्थेनाभिसंबद्धमभिधानं प्रयुज्यते । तदर्थापगमे तस्य प्रयोगो विनिवर्तते ॥ २.१६० ॥ यांस्तु संभविनो धर्मानन्तर्णीय प्रयुज्यते । शब्दस्तेषां न सांनिध्यं नियमेन व्यपेक्षते ॥ २.१६१ ॥ यथा रोमशफादीनां व्यभिचारेऽपि दृश्यते । गोशब्दो न तथा जातेर्विप्रयोगे प्रवर्तते ॥ २.१६२ ॥ तस्मात्संभविनोऽर्थस्य शब्दात्संप्रत्यये सति । अदृष्टविप्रयोगार्थः संबन्धित्वेन गम्यते ॥ २.१६३ ॥ वाचिका द्योतिका व स्युर्द्वित्वादीनां विभक्तयः । स्याद्वा संख्यावतोऽर्थस्य समुदायोऽभिधायकः ॥ २.१६४ ॥ विना संख्याभिधानाद्वा संख्याभेदसमन्वितान् । अर्थान् स्वरूपभेदेन काम्श्चिदाहुर्गवादयः ॥ २.१६५ ॥ ये शब्दा नित्यसंबन्धा विवेके ज्ञातशक्तयः । अन्वयव्यतिरेकाभ्यां तेषामर्थो विभज्यते ॥ २.१६६ ॥ यावच्चाव्यभिचारेण तयोः शक्यं प्रकल्पनम् । नियमस्तत्र न त्वेवं नियमो नुट्शबादिषु ॥ २.१६७ ॥ संभवे नाभिधानस्य लक्षणत्वं प्रकल्पते । आपेक्षिक्यो हि संसर्गे नियताः शब्दशक्तयः ॥ २.१६८ ॥ न कूपसूपयूपानामन्वयोऽर्थस्य दृश्यते । अतोऽर्थान्तरवाचित्वं संघातस्यैव गम्यते ॥ २.१६९ ॥ अन्वाख्यानानि भिद्यन्ते शब्दव्युत्पत्तिकर्मसु । बहूनां संभवेऽर्थानां निमित्तं किं चिदिष्यते ॥ २.१७० ॥ वैरवासिष्ठगिरिशास्तथैकागारिकादयः । कैश्चित्कथं चिदाख्याता निमित्तावधिसंकरैः ॥ २.१७१ ॥ यथा पथः समाख्यानं वृक्षवल्मीकपर्वतैः । अविरुद्धं गवादीनां भिन्नैश्च सहचारिभिः ॥ २.१७२ ॥ अन्यथा च समाख्यानमवस्थाभेददर्शिभिः । क्रियते किंशुकादीनामेकदेशावधारणं ॥ २.१७३ ॥ कैश्चिन्निर्वचनं भिन्नं गिरतेर्गर्जतेर्गमेः । गवतेर्गदतेर्वापि गौरित्यत्रानुदर्शितम् ॥ २.१७४ ॥ गौरित्येव स्वरूपाद्वा गोशब्दो गोषु वर्तते । व्युत्पाद्यते न वा सर्वं कैश्चिच्चोभयथेष्यते ॥ २.१७५ ॥ सामान्येनोपदेशश्च शास्त्रे लघ्वर्थमाश्रितः । जात्यन्तरवदन्यस्य विशेषाः प्रतिपादकाः ॥ २.१७६ ॥ अर्थान्तरे च यद्वृत्तं तत्प्रकृत्यन्तरं विदुः । तुल्यरूपं न तद्रूढावन्यस्मिन्ननुषज्यते ॥ २.१७७ ॥ भिन्नाविजियजी धातू नियतौ विषयान्तरे । कैश्चित्कथं चिदुद्दिष्टौ चित्रं हि प्रतिपादनम् ॥ २.१७८ ॥ एवं च वालवायादि जित्वरीवदुपाचरेत् । भेदाभेदाभ्युपगमे न विरोधोऽस्ति कश्चन ॥ २.१७९ ॥ अडादीनां व्यवस्थार्थं पृथक्त्वेन प्रकल्पनम् । धातूपसर्गयोः शास्त्रे धातुरेव तु तादृशः ॥ २.१८० ॥ तथा हि संग्रामयतेः सोपसर्गाद्विधिः स्मृतः । क्रियाविशेषाः सम्घाते प्रक्रम्यन्ते तथाविधाः ॥ २.१८१ ॥ कार्याणामन्तरङ्गत्वमेवं धातूपसर्गयोः । साधनैर्याति संबन्धं तथाभूतैव सा क्रिया ॥ २.१८२ ॥ प्रयोगार्थेषु सिद्धः सन् भेत्तव्योऽर्थो विशिष्यते । प्राक्च साधनसंबन्धात्क्रिया नैवोपजायते ॥ २.१८३ ॥ धातोः साधनयोगस्य भाविनः प्रक्रमाद्यथा । धातुत्वं कर्मभावश्च तथान्यदपि दृश्यताम् ॥ २.१८४ ॥ बीजकालेषु संबन्धाद्यथा लाक्षारसादयः । वर्णादिपरिणामेन फलानामुपकुर्वते ॥ २.१८५ ॥ बुद्धिस्थादभिसंबन्धात्तथा धातूपसर्गयोः । अभ्यन्तरीकृताद्भेदः पदकाले प्रकाशते ॥ २.१८६ ॥ क्व चित्संभविनो भेदाः केवलैरनिदर्शिताः । उपसर्गेण संबन्धे व्यज्यन्ते प्रनिरादिना ॥ २.१८७ ॥ स वाचको विशेषाणां संभवाद्द्योतकोऽपि वा । शक्त्याधानाय वा धातोः सहकारी प्रयुज्यते ॥ २.१८८ ॥ स्थादिभिः केवलैर्यच्च गमनादि न गम्यते । तत्रानुमानाद्द्विविधात्तद्धर्मा प्रादिरुच्यते ॥ २.१८९ ॥ अप्रयोगेऽधिपर्योश्च यावद्दृष्टं क्रियान्तरम् । तस्याभिधायको धातुः सह ताभ्यामनर्थकः ॥ २.१९० ॥ तथैव स्वार्थिकाः के चित्संघातान्तरवृत्तयः । अनर्थकेन संसृष्टाः प्रकृत्यर्थानुवादिनः ॥ २.१९१ ॥ निपाता द्योतकाः के चित्पृथगर्थप्रकल्पने । आगमा इव के चित्तु संभूयार्थस्य साधकाः ॥ २.१९२ ॥ उपरिष्टात्पुरस्ताद्वा द्योतकत्वं न भिद्यते । तेषु प्रयुज्यमानेषु भिन्नार्थेष्वपि सर्वथा ॥ २.१९३ ॥ चादयो न प्रयुज्यन्ते पदत्वे सति केवलाः । प्रत्ययो वाचकत्वेऽपि केवलो न प्रयुज्यते ॥ २.१९४ ॥ समुच्चिताभिधाने तु व्यतिरेको न विद्यते । असत्त्वभूतो भावश्च तिङ्पदैरभिधीयते ॥ २.१९५ ॥ समुच्चिताभिधानेऽपि विशिष्टार्थाभिधायिनाम् । गुणैर्पदानां संबन्धः परतन्त्रास्तु चादयः ॥ २.१९६ ॥ जनयित्वा क्रिया का चित्संबन्धं विनिवर्तते । श्रूयमाणे क्रियाशब्दे संबन्धो जायते क्व चित् ॥ २.१९७ ॥ तत्र षष्ठी प्रतिपदं समासस्य निवृत्तये । विहिता दर्शनार्थं तु कारकं प्रत्युदाहृतम् ॥ २.१९८ ॥ स चोपजातः संबन्धो विनिवृत्ते क्रियापदे । कर्मप्रवचनीयेन तत्र तत्र नियम्यते ॥ २.१९९ ॥ येन क्रियापदाक्षेपः स कारकविभक्तिभिः । युज्यते विर्यथा तस्य लिखावनुपसर्गता ॥ २.२०० ॥ तिष्ठतेरप्रयोगश्च दृष्टोऽप्रत्यजयन्निति । सुन्वभीत्याभिमुख्ये च केवलोऽपि प्रयुज्यते ॥ २.२०१ ॥ कर्मप्रवचनीयत्वं क्रियायोगे विधीयते । षत्वादिविनिवृत्त्यर्थं स्वत्यादीनां विधर्मणाम् ॥ २.२०२ ॥ हेतुहेतुमतोर्योग- परिच्छेदेऽनुना कृते । आरम्भाद्बाध्यते प्राप्ता तृतीया हेतुलक्षणा ॥ २.२०३ ॥ क्रियाया द्योतको नायं न संबन्धस्य वाचकः । नापि क्रियापदाक्षेपि संबन्धस्य तु भेदकः ॥ २.२०४ ॥ अनर्थकानां संघातः सार्थकोऽनर्थकस्तथा । वर्णानां पदमर्थेन युक्तं नावयवाः पदे ॥ २.२०५ ॥ पदानामर्थयुक्तानां संघातो भिद्यते पुनः । अर्थान्तरावबोधेन संबन्धविगमेन च ॥ २.२०६ ॥ सार्थकानर्थकौ भेदे संबन्धं नाधिगच्छतः । अधिगच्छत इत्येके कुटीरादिनिदर्शनात् ॥ २.१०७ ॥ अर्थवद्भ्यो विशिष्टार्थः संघात उपजायते । नोपजायत इत्येके समासस्वार्थिकादिषु ॥ २.२०८ ॥ के चिद्धि युतसिद्धार्था भेदे निर्ज्ञातशक्तयः । अन्वयव्यतिरेकाभ्यां के चित्कल्पितशक्तयः ॥ २.२०९ ॥ शास्त्रार्थ एव वर्णानामर्थवत्त्वे प्रदर्शितः । धात्वादीनां हि शुद्धानां लौकिकोऽर्थो न विद्यते ॥ २.२१० ॥ कृत्तद्धितानामर्थश्च केवलानामलौकिकः । प्राग्विभक्तेस्तदन्तस्य तथैवार्थो न विद्यते ॥ २.२११ ॥ अभिव्यक्ततरो योऽर्थः प्रत्ययान्तेषु लक्ष्यते । अर्थवत्ताप्रकरणादाश्रितः स तथाविधः ॥ २.२१२ ॥ आत्मभेदो न चेत्कश्चिद्वर्णेभ्यः पदवाक्ययोः । अन्योन्यापेक्षया शक्त्या वर्णः स्यादभिधायकः ॥ २.२१३ ॥ वर्णेन केन चिन्न्यूनः संघातो योऽभिधायकः । न चेच्छब्दान्तरमसावन्यूनस्तेन गम्यते ॥ २.२१४ ॥ स तस्मिन् वाचके शब्दे निमित्तात्स्मृतिमादधत् । साक्षादिव व्यवहितं शब्देनार्थमुपोहते ॥ २.२१५ ॥ पदवाच्यो यथा नार्थः कश्चिद्गौरखरादिषु । सत्यपि प्रत्ययेऽत्यन्तं समुदाये न गम्यते ॥ २.२१६ ॥ समन्वित इवार्थात्मा पदार्थैर्यः प्रतीयते । पदार्थदर्शनं तत्र तथैवानुपकारकम् ॥ २.२१७ ॥ समुदायावयवयोर्भिन्नार्थत्वे च वृत्तिषु । युगपद्भेदसंसर्गौ विरुद्धावनुषङ्गिणौ ॥ २.२१८ ॥ कश्च साधनमात्रार्थानध्यादीन् परिकल्पयेत् । अप्रयुक्तपदश्चार्थो बहुव्रीहौ कथं भवेत् ॥ २.२१९ ॥ प्रज्ञुसंज्ञ्वाद्यवयवैर्न चास्त्यर्थावधारणम् । तस्मात्संघात एवैको विशिष्टार्थनिबन्धनम् ॥ २.२२० ॥ गर्गा इत्येक एवायं बहुष्वर्थेषु वर्तते । द्वन्द्वसंज्ञोऽपि संघातो बहूनामभिधायकः ॥ २.२२१ ॥ यथैकशेषे भुज्यादिः प्रत्येकमवतिष्ठते । क्रियैवं द्वन्द्ववाच्येऽर्थे प्रत्येकं प्रविभज्यते ॥ २.२२२ ॥ यच्च द्वन्द्वपदार्थस्य तच्छब्देन व्यपेक्षणम् । सापि व्यावृत्तरूपेऽर्थे सर्वनामसरूपता ॥ २.२२३ ॥ यथा च खदिरच्छेदे भागेषु क्रमवांस्छिदिः । तथा द्वन्द्वपदार्थस्य भागेषु क्रमदर्शनम् ॥ २.२२४ ॥ सङ्घैकदेशे प्रक्रान्तान् यथा सङ्घानुपातिनः । क्रियाविशेषान्मन्यन्ते स द्वन्द्वावयवे क्रमः ॥ २.२२५ ॥ प्रतिपादयता वृत्तिमबुद्धान् वाक्यपूर्विकाम् । वृत्तौ पदार्थभेदेन प्राधान्यमुपदर्शितम् ॥ २.२२६ ॥ अभेदादभिधेयस्य नञ्समासे विकल्पितम् । प्राधान्यं बहुधा भाष्ये दोषास्तु प्रक्रियागताः ॥ २.२२७ ॥ जहत्स्वार्थविकल्पे च सर्वार्थत्यागमिच्छता । बहुव्रीहिपदार्थस्य त्यागः सर्वस्य दर्शितः ॥ २.२२८ ॥ शास्त्रे क्व चित्प्रकृत्यर्थः प्रत्ययेनाभिधीयते । प्रकृतौ विनिवृत्तायां प्रत्ययार्थश्च धातुभिः ॥ २.२२९ ॥ यमर्थमाहतुर्भिन्नौ प्रत्ययावेक एव तम् । क्व चिदाह पचन्तीति धातुस्ताभ्यां विना क्व चित् ॥ २.२३० ॥ अन्वाख्यानस्मृतेर्ये च प्रत्ययार्था निबन्धनम् । निर्दिष्टास्ते प्रकृत्यर्थाः स्मृत्यन्तर उदाहृताः ॥ २.२३१ ॥ प्रसिद्धेरुद्वमिकरीत्येवं शास्त्रेऽभिधीयते । व्यवहाराय मन्यन्ते शास्त्रार्थप्रक्रिया यतः ॥ २.२३२ ॥ शास्त्रेषु प्रक्रियाभेदैरविद्यैवोपवर्ण्यते । अनागमविकल्पा तु स्वयं विद्योपवर्तते ॥ २.२३३ ॥ अनिबद्धं निमित्तेषु निरुपाख्यं फलं यथा । तथा विद्याप्यनाख्येया शास्त्रोपायेव लक्ष्यते ॥ २.२३४ ॥ यथाभ्यासं हि वागर्थे प्रतिपत्तिं समीहते । स्वभाव इव चानादिर्मिथ्याभ्यासो व्यवस्थितः ॥ २.२३५ ॥ उत्प्रेक्षते सावयवं परमाणुमपण्डितः । तथावयविनं युक्तमन्यैरवयवैः पुनः ॥ २.२३६ ॥ घटादिदर्शनाल्लोकः परिच्छिन्नोऽवसीयते । समारम्भाच्च भावानामादिमद्ब्रह्म शाश्वतम् ॥ २.२३७ ॥ उपायाः शिक्षमाणानां बालानामुपलापनाः । असत्ये वर्त्मनि स्थित्वा ततः सत्यं समीहते ॥ २.२३८ ॥ अन्यथा प्रतिपद्यार्थं पदग्रहणपूर्वकम् । पुनर्वाक्ये तमेवार्थमन्यथा प्रतिपद्यते ॥ २.२३९ ॥ उपात्ता बहवोऽप्यर्था येष्वन्ते प्रतिषेधनम् । क्रियते ते निवर्तन्ते तस्मात्तांस्तत्र नाश्रयेत् ॥ २.२४० ॥ वृक्षो नास्तीति वाक्यं च विशिष्टाभावलक्षणम् । नार्थे न बुद्धौ संबन्धो निवृत्तेरवतिष्ठते ॥ २.२४१ ॥ विच्छेदप्रतिपत्तौ च यद्यस्तीत्यवधार्यते । अशब्दवाच्या सा बुद्धिर्निवर्त्येत स्थिता कथम् ॥ २.२४२ ॥ अथ यज्ज्ञानमुत्पन्नं तन्मिथ्येति नञा कृतम् । नञो व्यापारभेदेऽस्मिन्नभावावगतिः कथम् ॥ २.२४३ ॥ निराधारप्रवृत्तौ च प्राक्प्रवृत्तिर्नञो भवेत् । अथाधारः स एवास्य नियमार्था श्रुतिर्भवेत् ॥ २.२४४ ॥ नियमद्योतनार्था वाप्यनुवादो यथा भवेत् । कश्चिदेवार्थवांस्तत्र शब्दः शेषास्त्वनर्थकाः ॥ २.२४५ ॥ विरुद्धं चाभिसंबन्धमुदाहार्यादिभिः कृतम् । वाक्ये समाप्ते वाक्यार्थमन्यथा प्रतिपद्यते ॥ २.२४६ ॥ स्तुतिनिन्दाप्रधानेषु वाक्येष्वर्थो न तादृशः । पदानां प्रविभागेन यादृशः परिकल्प्यते ॥ २.२४७ ॥ अथासंसृष्ट एवार्थः पदेषु समवस्थितः । वाक्यार्थस्याभ्युपायोऽसावेकस्य प्रतिपादने ॥ २.२४८ ॥ पूर्वं पदेष्वसंसृष्टो यः क्रमादुपचीयते । छिन्नग्रथितकल्पत्वात्तद्विशिष्टतरं विदुः ॥ २.२४९ ॥ एकमाहुरनेकार्थं शब्दमन्ये परीक्षकाः । निमित्तभेदादेकस्य सार्वार्थ्यं तस्य भिद्यते ॥ २.२५० ॥ यौगपद्यमतिक्रम्य पर्याये व्यवतिष्ठते । अर्थप्रकरणाभ्यां वा योगाच्छब्दान्तरेण वा ॥ २.२५१ ॥ यथा सास्नादिमान् पिण्डो गोशब्देनाभिधीयते । तथा स एव गोशब्दो वाहीकेऽपि व्यवस्थितः ॥ २.२५२ ॥ सर्वशक्तेस्तु तस्यैव शब्दस्यानेकधर्मणः । प्रसिद्धिभेदाद्गौणत्वं मुख्यत्वं चोपजायते ॥ २.२५३ ॥ एको मन्त्रस्तथाध्यात्ममधिदैवमधिक्रतु । असंकरेण सर्वार्थो भिन्नशक्तिरवस्थितः ॥ २.२५४ ॥ गोत्वानुषङ्गो वाहीके निमित्तात्कैश्चिदिष्यते । अर्थमात्रं विपर्यस्तं शब्दः स्वार्थे व्यवस्थितः ॥ २.२५५ ॥ तथा स्वरूपं शब्दानां सर्वार्थेष्वनुषज्यते । अर्थमात्रं विपर्यस्तं स्वरूपे तु श्रुतिः स्थिता ॥ २.२५६ ॥ एकत्वं तु सरूपत्वाच्छब्दयोर्गौणमुख्ययोः । प्राहुरत्यन्तभेदेऽपि भेदमार्गानुदर्शिनः ॥ २.२५७ ॥ सामिधेन्यन्तरं चैवमावृत्तावनुषज्यते । मन्त्रास्च विनियोगेन लभन्ते भेदमूहवत् ॥ २.२५८ ॥ तान्याम्नायान्तराण्येव पठ्यते किं चिदेव तु । अनर्थकानां पाठो वा शेषस्त्वन्यः प्रतीयते ॥ २.२५९ ॥ शब्दस्वरूपमर्थस्तु पाठेऽन्यैरुपवर्ण्यते । अत्यन्तभेदः सर्वेषां तत्संबन्धात्तु तद्वताम् ॥ २.२६० ॥ अन्या संस्कारसावित्री कर्मण्यन्या प्रयुज्यते । अन्या जपप्रबन्धेषु सा त्वेकैव प्रतीयते ॥ २.२६१ ॥ अर्थस्वरूपे शब्दानां स्वरूपाद्वृत्तिमिच्छतः । वाक्यरूपस्य वाक्यार्थे वृत्तिरन्यानपेक्षया ॥ २.२६२ ॥ अनेकार्थत्वमेकस्य यैः शब्दस्यानुगम्यते । सिद्ध्यसिद्धिकृता तेषां गौणमुख्यप्रकल्पना ॥ २.२६३ ॥ अर्थप्रकरणापेक्षो यो वा शब्दान्तरैः सह । युक्तः प्रत्याययत्यर्थं तं गौणमपरे विदुः ॥ २.२६४ ॥ शुद्धस्योच्चारणे स्वार्थः प्रसिद्धो यस्य गम्यते । स मुख्य इति विज्ञेयो रूपमात्रनिबन्धनः ॥ २.२६५ ॥ यस्त्वन्यस्य प्रयोगेण यत्नादिव नियुज्यते । तमप्रसिद्धं मन्यन्ते गौणार्थाभिनिवेशिनम् ॥ २.२६६ ॥ स्वार्थे प्रवर्तमानोऽपि यस्यार्थं योऽवलम्बते । निमित्तं तत्र मुख्यं स्यान्निमित्ती गौण इष्यते ॥ २.२६७ ॥ पुरारादिति भिन्नेऽर्थे यौ वर्तेते विरोधिनि । अर्थप्रकरणापेक्षं तयोरप्यवधारणम् ॥ २.२६८ ॥ वाक्यस्यार्थात्पदार्थानामपोद्धारे प्रकल्पिते । शब्दान्तरेण संबन्धः कस्यैकस्योपपद्यते ॥ २.२६९ ॥ यच्चाप्येकं पदं दृष्टं चरितास्तिक्रियं क्व चित् । तद्वाक्यान्तरमेवाहुर्न तदन्येन युज्यते ॥ २.२७० ॥ यच्च कोऽयमिति प्रश्ने गौरश्व इति चोच्यते । प्रश्न एव क्रिया तत्र प्रक्रान्ता दर्शनादिका ॥ २.२७१ ॥ नैवाधिकत्वं धर्माणां न्यूनता वा प्रयोजिका । आधिक्यमपि मन्यन्ते प्रसिद्धेर्न्यूनतां क्व चित् ॥ २.२७२ ॥ जातिशब्दोऽन्तरेणापि जातिं यत्र प्रयुज्यते । संबन्धिसदृशाद्धर्मात्तं गौणमपरे विदुः ॥ २.२७३ ॥ विपर्यासादिवार्थस्य यत्रार्थान्तरतामिव । मन्यन्ते स गवादिस्तु गौण इत्युच्यते क्व चित् ॥ २.२७४ ॥ नियताः साधनत्वेन रूपशक्तिसमन्विताः । यथा कर्मसु गम्यन्ते सीरासिमुसलादयः ॥ २.२७५ ॥ क्रियान्तरे न चैतेषां विभवन्ति न शक्तयः । रूपादेव तु तादर्थ्यं नियमेन प्रतीयते ॥ २.२७६ ॥ तथैव रूपशक्तिभ्यामुत्पत्त्या समवस्थितः । शब्दो नियततादर्थ्यः शक्त्यान्यत्र प्रयुज्यते ॥ २.२७७ ॥ श्रुतिमात्रेण यत्रास्य सामर्थ्यमवसीयते । तं मुख्यमर्थं मन्यन्ते गौणं यत्नोपपादितम् ॥ २.२७८ ॥ गोयुष्मन्महतां च्व्यर्थे स्वार्थादर्थान्तरे स्थितौ । अर्थान्तरस्य तद्भावस्तत्र मुख्योऽपि दृश्यते ॥ २.२७९ ॥ महत्त्वं शुक्लभावं च प्रकृतिः प्रतिपद्यते । भेदेनापेक्षिता सा तु गौणत्वस्य प्रसाधिका ॥ २.२८० ॥ अग्निसोमादयः शब्दा ये स्वरूपपदार्थकाः । संज्ञिभिः संप्रयुज्यन्तेऽप्रसिद्धेस्तेषु गौणता ॥ २.२८१ ॥ अग्निदत्तस्तु योऽग्निः स्यात्तत्र स्वार्थोपसर्जनः । शब्दो दत्तार्थवृत्तित्वाद्गौणत्वं प्रतिपद्यते ॥ २.२८२ ॥ निमित्तभेदात्प्रक्रान्ते शब्दव्युत्पत्तिकर्मणि । हरिश्चन्द्रादिषु सुटो भावाभावौ व्यवस्थितौ ॥ २.२८३ ॥ ऋष्यादौ प्राप्तसंस्कारो यः शब्दोऽन्येन युज्यते । तत्रान्तरङ्गसंस्कारो बाह्येऽर्थे न निवर्तते ॥ २.२८४ ॥ अत्यन्तविपरीतोऽपि यथा योऽर्थोऽवधार्यते । यथासंप्रत्ययं शब्दस्तत्र मुख्यः प्रयुज्यते ॥ २.२८५ ॥ यद्यपि प्रत्ययाधीनमर्थतत्त्वावधारणम् । न सर्वः प्रत्ययस्तस्मिन् प्रसिद्ध इव जायते ॥ २.२८६ ॥ दर्शनं सलिले तुल्यं मृगतृष्णादिदर्शनैः । भेदात्तु स्पर्शनादीनां न जलं मृगतृष्णिका ॥ २.२८७ ॥ यदसाधारणं कार्यं प्रसिद्धं रज्जुसर्पयोः । तेन भेदपरिच्छेदस्तयोस्तुल्येऽपि दर्शने ॥ २.२८८ ॥ प्रसिद्धार्थविपर्यास- निमित्तं यच्च दृश्यते । यस्तस्माल्लक्ष्यते भेदस्तमसत्यं प्रचक्षते ॥ २.२८९ ॥ यच्च निम्नोन्नतं चित्रे सरूपं पर्वतादिभिः । न तत्र प्रतिघातादि कार्यं तद्वत्प्रवर्तते ॥ २.२९० ॥ स्पर्शप्रबन्धो हस्तेन यथा चक्रस्य संततः । न तथालातचक्रस्य विच्छिन्नं स्पृश्यते हि तत् ॥ २.२९१ ॥ वप्रप्राकारकल्पैश्च स्पर्शनावरणे यथा । नगरेषु न ते तद्वद्गन्धर्वनगरेष्वपि ॥ २.२९२ ॥ मृगपश्वादिभिर्यावान्मुख्यैरर्थः प्रसाध्यते । तावान्न मृन्मयेष्वस्ति तस्मात्ते विषयः कनः ॥ २.२९३ ॥ महानाव्रियते देशः प्रसिद्धैः पर्वतादिभिः । अल्पदेशान्तरावस्थं प्रतिबिम्बं तु दृश्यते ॥ २.२९४ ॥ मरणादिनिमित्तं च यथा मुख्या विषादयः । न ते स्वप्नादिषु स्वस्य तद्वदर्थस्य साधकाः ॥ २.२९५ ॥ देशकालेन्द्रियगतैर्भेदैर्यद्दृश्यतेऽन्यथा । यथा प्रसिद्धिर्लोकस्य तथा तदवसीयते ॥ २.२९६ ॥ यच्चोपघातजं ज्ञानं यच्च ज्ञानमलौकिकम् । न ताभ्यां व्यवहारोऽस्ति शब्दा लोकनिबन्धनाः ॥ २.२९७ ॥ घटादिषु यथा दीपो येनार्थेन प्रयुज्यते । ततोऽन्यस्यापि सांनिध्यात्स करोति प्रकाशनम् ॥ २.२९८ ॥ संसर्गिषु तथार्थेषु शब्दो येन प्रयुज्यते । तस्मात्प्रयोजकादन्यानपि प्रत्याययत्यसौ ॥ २.२९९ ॥ निर्मन्थनं यथारण्योरग्न्यर्थमुपपादितम् । धूममप्यनभिप्रेतं जनयत्येकसाधनम् ॥ २.३०० ॥ तथा शब्दोऽपि कस्मिंश्चित्प्रत्याय्येऽर्थे विवक्षिते । अविवक्षितमप्यर्थं प्रकाशयते संनिधेः ॥ २.३०१ ॥ यथैवात्यन्तसंसृष्टस्त्यक्तुमर्थो न शक्यते । तथा शब्दोऽपि संबन्धी प्रविवक्तुं न शक्यते ॥ २.३०२ ॥ अर्थानां संनिधानेऽपि सति चैषां प्रकाशने । प्रयोजकोऽर्थः शब्दस्य रूपाभेदेऽपि गम्यते ॥ २.३०३ ॥ क्व चिद्गुणप्रधानत्वमर्थानामविवक्षितम् । क्व चित्सांनिध्यमप्येषां प्रतिपत्तावकारणम् ॥ २.३०४ ॥ *यच्चानुपात्तं शब्देन तत्कस्मिंश्चित्प्रतीयते । क्व चित्प्रधानमेवार्थो भवत्ययस्य लक्षणम् ॥ २.३०५ *॥ *आख्यातं तद्धितार्थस्य यत्किं चिदुपदर्शकम् । गुणप्रधानभावस्य तत्र दृष्टो विपर्ययः ॥ २.३०६ *॥ *निर्देशे लिङ्गसंख्यानां संनिधानमकारणम् । प्रमाणमर्धह्रसादावनुपात्तं प्रतीयते ॥ २.३०७ ॥ ह्रस्वस्यार्धं च यद्दृष्टं तत्तस्यासंनिधावपि । ह्रस्वस्य लक्षणार्थत्वात्तद्वदेवाभिधीयते ॥ २.३०८ ॥ दीर्घप्लुताभ्यां तस्य स्यान्मात्रया वा विशेषणम् । जातेर्वा लक्षणाय स्यात्सर्वथा सप्तपर्णवत् ॥ २.३०९ ॥ गन्तव्यं दृश्यतां सूर्य इति कालस्य लक्षणे । ज्ञायतां काल इत्येतत्सोपायमभिधीयते ॥ २.३१० ॥ विध्यत्यधनुषेत्यत्र विशेषेण निदर्श्यते । सामान्यमाश्रयः शक्तेर्यः कश्चित्प्रतिपादकः ॥ २.३११ ॥ काकेभ्यो रक्ष्यतां सर्पिरिति बालोऽपि चोदितः । उपघातपरे वाक्ये न श्वादिभ्यो न रक्षति ॥ २.३१२ ॥ प्रक्षालने शरावाणां स्थाननिर्मार्जनं तथा । अनुक्तमपि रूपेण भुज्यङ्गत्वात्प्रतीयते ॥ २.३१३ ॥ वाक्यात्प्रकरणादर्थादौचित्याद्देशकालतः । शब्दार्थाः प्रविभज्यन्ते न रूपादेव केवलात् ॥ २.३१४ ॥ संसर्गो विप्रयोगश्च साहचर्यं विरोधिता । अर्थः प्रकरणं लिङ्गं शब्दस्यान्यस्य संनिधिः ॥ २.३१५ ॥ सामर्थ्यमौचिती देशः कालो व्यक्तिः स्वरादयः । शब्दार्थस्यानवच्छेदे विशेषस्मृतिहेतवः ॥ २.३१६ ॥ भेदपक्षेऽपि सारूप्याद्भिन्नार्थाः प्रतिपत्तृषु । नियता यान्त्यभिव्यक्तिं शब्दाः प्रकरणादिभिः ॥ २.३१७ ॥ नामाख्यातसरूपा ये कार्यान्तरनिबन्धनाः । शब्दा वाक्यस्य तेष्वर्थो न रूपादधिगम्यते ॥ २.३१८ ॥ या प्रवृत्तिनिवृत्त्यर्था स्तुतिनिन्दाप्रकल्पना । कुशलः प्रतिपत्ता तामयथार्थां समीहते ॥ २.३१९ ॥ विधीयमानं यत्क्रर्म दृष्टादृष्टप्रयोजनम् । स्तूयते सा स्तुतिस्तस्य कर्तुरेव प्रयोजिका ॥ २.३२० ॥ व्याघ्रादिव्यपदेशेन यथा बालो निवर्त्यते । असत्योऽपि तथा कश्चित्प्रत्यवायोऽभिधीयते ॥ २.३२१ ॥ न संविधानां कृत्वापि प्रत्यवाये तथाविधे । शास्त्रेण प्रतिषिद्धेऽर्थे विद्वान् कश्चित्प्रवर्तते ॥ २.३२२ ॥ सर्पेषु संविधायापि सिद्धैर्मन्त्रौषधादिभिः । नान्यथा प्रतिपत्तव्यं न दतो गमयेदिति ॥ २.३२३ ॥ क्व चित्तत्त्वसमाख्यानं क्रियते स्तुतिनिन्दयोः । तत्रापि च प्रवृत्तिश्च निवृत्तिश्चोपदिश्यते ॥ २.३२४ ॥ रूपं सर्वपदार्थानां वाक्यार्थोपनिबन्धनम् । सापेक्षा ये तु वाक्यार्थाः पदार्थैरेव ते समाः ॥ २.३२५ ॥ वाक्यं तदपि मन्यन्ते यत्पदं चरितक्रियम् । अन्तरेण क्रियाशब्दं वाक्यादेर्द्वित्वदर्शनात् ॥ २.३२६ ॥ आख्यातशब्दे नियतं साधनं यत्र गम्यते । तदप्येकं समाप्तार्थं वाक्यमित्यभिधीयते ॥ २.३२७ ॥ शब्दव्यवहिता बुद्धिरप्रयुक्तपदाश्रया । अनुमानं तदर्थस्य प्रत्यये हेतुरुच्यते ॥ २.३२८ ॥ [थिस्वेर्से इसोन्ल्यिन् रौ] अपरे तु पदस्यैव तमर्थं प्रतिजानते । शब्दान्तराभिसंबन्धमन्तरेण व्यवस्थितम् ॥ २.३२९ ॥ यस्मिन्नुच्चरिते शब्दे यदा योऽर्थः प्रतीयते । तमाहुरर्थं तस्यैव नान्यदर्थस्य लक्षणम् ॥ २.३३० ॥ क्रियार्थोपपदेश्वेवं स्थानिनां गम्यते क्रिया । वृत्तौ निरादिभिश्चैवं क्रान्ताद्यर्थः प्रतीयते ॥ २.३३१ ॥ तानि शब्दान्तराण्येव पर्याया इव लौकिकाः । अर्थप्रकरणाभ्यां तु तेषां स्वार्थो नियम्यते ॥ २.३३२ ॥ प्रतिबोधाभ्युपायास्तु ये तं तं पुरुषं प्रति । नावश्यं तेऽभिसंबद्धाः शब्दा ज्ञेयेन वस्तुना ॥ २.३३३ ॥ असत्यां प्रतिपत्तौ वा मिथ्या वा प्रतिपादने । स्वैरर्थैर्नित्यसंबन्धास्ते ते शब्दा व्यवस्थिताः ॥ २.३३४ ॥ यथाप्रकरणं द्वारमित्यस्यां कर्मणः श्रुतौ । बधान देहि वेत्येतदुपायादवगम्यते ॥ २.३३५ ॥ तत्र साधनवृत्तिर्यः शब्दः सत्त्वनिबन्धनः । न स प्रधानभूतस्य साध्यस्यार्थस्य वाचकः ॥ २.३३६ ॥ स्वार्थमात्रं प्रकाश्यासौ सापेक्षो विनिवर्तते । अर्थस्तु तस्य संबन्धी प्रकल्पयति संनिधिम् ॥ २.३३७ ॥ पारार्थ्यस्याविशिष्टत्वान्न शब्दाच्छब्दसंनिधिः । नार्थाच्छब्दस्य सांनिध्यं न शब्दादर्थसंनिधिः ॥ २.३३८ ॥ नष्टरूपमिवाख्यातमाक्षिप्तं कर्मवाचिना । यदि प्राप्तं प्रधानत्वं युगपद्भावसत्त्वयोः ॥ २.३३९ ॥ तैस्तु नामसरूपत्वमाख्यातस्यास्य वर्ण्यते । अन्वयव्यतिरेकाभ्यां व्यवहारो विभज्यते ॥ २.३४० ॥ न चापि रूपात्संदेहे वाचकत्वं निवर्तते । अर्धं पशोरिति यथा सामर्थ्यात्तद्धि कल्पते ॥ २.३४१ ॥ सर्वं सत्त्वपदं शुद्धं यदि भावनिबन्धनम् । संसर्गे च विभक्तोऽस्य तस्यार्थो न पृथग्यदि ॥ २.३४२ ॥ क्रियाप्रधानमाख्यातं नाम्नां सत्त्वप्रधानता । चत्वारि पदजातानि सर्वमेतद्विरुध्यते ॥ २.३४३ ॥ वाक्यस्य बुद्धौ नित्यत्वमर्थयोगं च लौकिकम् । दृष्ट्वा चतुष्ट्वं नास्तीति वदत्यौदुम्बरायणः ॥ २.३४४ ॥ व्याप्तिमांश्च लघुश्चैव व्यवहारः पदाश्रयः । लोके शास्त्रे च कार्यार्थं विभागेनैव कल्पितः ॥ २.३४५ ॥ न लोके प्रतिपत्तॄणामर्थयोगात्प्रसिद्धयः । तस्मादलौकिको वाक्यादन्यः कश्चिन्न विद्यते ॥ २.३४६ ॥ अन्यत्र श्रूयमाणैश्च लिङ्गैर्वाक्यैश्च सूचिताः । स्वार्था एव प्रतीयन्ते रूपाभेदादलक्षिताः ॥ २.३४७ ॥ उत्सर्गवाक्ये यत्त्यक्तमशब्दमिव शब्दवत् । तद्बाधकेषु वाक्येषु श्रुतमन्यत्र गम्यते ॥ २.३४८ ॥ ब्राह्मणानां श्रुतिर्दध्नि प्रक्रान्ता माठराद्विना । माठरस्तक्रसंबन्धात्तत्राचष्टे यथार्थताम् ॥ २.३४९ ॥ अनेकाख्यातयोगेऽपि वाक्यं न्यायापवादयोः । एकमेवेष्यते कैश्चिद्भिन्नरूपमिव स्थितम् ॥ २.३५० ॥ नियमः प्रतिषेधश्च विधिशेषस्तथा सति । द्वितीये यो लुगाख्यातस्तच्छेषमलुकं विदुः ॥ २.३५१ ॥ निराकाङ्क्षाणि निर्वृत्तौ प्रधानानि परस्परम् । तेषामनुपकारित्वात्कथं स्यादेकवाक्यता ॥ २.३५२ ॥ विशेषविधिनार्थित्वाद्वाक्यशेषोऽनुमीयते । विधेयवन्निवर्त्येऽर्थे तस्मात्तुल्यं व्यपेक्षणम् ॥ २.३५३ ॥ संज्ञाशब्दैकदेशो यस्तस्य लोपो न विद्यते । विशिष्टरूपा सा संज्ञा कृता च न निवर्तते ॥ २.३५४ ॥ संज्ञान्तराच्च दत्तादेर्नान्या संज्ञा प्रतीयते । संज्ञिनं देवदत्ताख्यं दत्तशब्दः कथं वदेत् ॥ २.३५५ ॥ सर्वैरवयवैस्तुल्यं संबन्धं समुदायवत् । के चिच्छब्दस्वरूपाणां मन्यन्ते सर्वसंज्ञिभिः ॥ २.३५६ ॥ वर्णानामर्थवत्त्वं तु संज्ञानां संज्ञिभिर्भवेत् । संबद्धोऽवयवः संज्ञा- प्रविवेके न कल्पते ॥ २.३५७ ॥ सर्वस्वरूपैर्युगपत्संबन्धे सति संज्ञिनः । नैकदेशसरूपेभ्यस्तत्प्रत्यायनसंभवः ॥ २.३५८ ॥ एकदेशात्तु संघाते केषां चिज्जायते स्मृतिः । स्मृतेस्तु विषयाच्छब्दात्संघातार्थः प्रतीयते ॥ २.३५९ ॥ एकदेशात्स्मृतिर्भिन्ने संघाते नियता कथम् । कथं प्रतीयमानः स्याच्छब्दोऽर्थस्याभिधायकः ॥ २.३६० ॥ एकदेशसरूपास्तु तैस्तैर्भेदैः समन्विताः । अनुनिष्पादिनः शब्दाः संज्ञासु समवस्थिताः ॥ २.३६१ ॥ साधारणत्वात्संधिग्धाः सामर्थ्यान्नियताश्रयाः । तेषां ये साधवस्तेषु शास्त्रे लोपादि शिष्यते ॥ २.३६२ ॥ तुल्यायामनुनिष्पत्तौ ज्ये-द्रा-घा इत्यसाधवः । न ह्यन्वाख्यायके शास्त्रे तेषु दत्तादिवत्स्मृतिः ॥ २.३६३ ॥ कृतणत्वाश्च ये शब्दा नित्याः खरणसादयः । एकद्रव्योपदेशित्वात्तान् साधून् संप्रचक्षते ॥ २.३६४ ॥ गोत्राण्येव तु तान्याहुः संज्ञाशक्तिसमन्वयात् । निमित्तापेक्षणं तेषु स्वार्थे नावश्यमिष्यते ॥ २.३६५ ॥ व्यवहाराय नियमः संज्ञानां संज्ञिनि क्व चित् । नित्य एव तु संबन्धो डित्थादिषु गवादिवत् ॥ २.३६६ ॥ कृतकत्वादनित्यत्वं संबन्धस्योपपद्यते । संज्ञायां सा हि पुरुषैर्यथाकामं नियुज्यते ॥ २.३६७ ॥ यथा हि पांसुलेखानां बालकैर्मधुक्रादयः । संज्ञाः क्रियन्ते सर्वासु संज्ञास्वेषैव कल्पना ॥ २.३६८ ॥ वृद्ध्यादीनां च शास्त्रेऽस्मिञ्छक्त्यवच्छेदलक्षणः । अकृत्रिमो हि संबन्धो विशेषणविशेष्यवत् ॥ २.३६९ ॥ संज्ञा स्वरूपमाश्रित्य निमित्ते सति लौकिकी । का चित्प्रवर्तते का चिन्निमित्तासंनिधावपि ॥ २.३७० ॥ शास्त्रेऽपि महती संज्ञा स्वरूपोपनिबन्धना । अनुमानं निमित्तस्य संनिधाने प्रतीयते ॥ २.३७१ ॥ आवृत्तेरनुमानं वा सारूप्यात्तत्र गम्यते । शब्दभेदानुमानं वा शक्तिभेदस्य वा गतिः ॥ २.३७२ ॥ क्व चिद्विषयभेदेन कृत्रिमा व्यवतिष्ठते । संख्यायामेकविषयं व्यवस्थानं द्वयोरपि ॥ २.३७३ ॥ विषयं कृत्रिमस्यापि लौकिकः क्व चिदुच्चरन् । व्याप्नोति दूरात्संबुद्धौ तथा हि ग्रहणं द्वयोः ॥ २.३७४ ॥ सङ्घैकशेषद्वन्द्वेषु के चित्सामर्थ्यलक्षणम् । प्रत्याश्रयमवस्थानं क्रियाणां प्रतिजानते ॥ २.३७५ ॥ भोजनं फलरूपाभ्यामेकैकस्मिन् समाप्यते । अन्यथा हि व्यवस्थाने न तदर्थः प्रकल्प्यते ॥ २.३७६ ॥ अन्नादानादि रूपां च सर्वे तृप्तिफलां भुजिम् । प्रत्येकं प्रतिपद्यन्ते न तु नाट्यक्रियामिव ॥ २.३७७ ॥ पाद्यवत्सा विभागेन सामर्थ्यादवतिष्ठते । भुजिः करोति भुज्यर्थं न तन्त्रेण प्रदीपवत् ॥ २.३७८ ॥ दृश्यादिस्तु क्रियैकापि तथाभूतेषु कर्मसु । आवृत्तिमन्तरेणापि समुदायाश्रया भवेत् ॥ २.३७९ ॥ भिन्नव्यापाररूपाणां व्यवहारादिदर्शने । कर्तॄणां दर्शनं भिन्नं संभूयार्थस्य साधकम् ॥ २.३८० ॥ लक्ष्यस्य लोकसिद्धत्वाच्छास्त्रे लिङ्गस्य दर्शनात् । अर्थिष्वादैक्षु भेदेन वृद्धिसंज्ञा समाप्यते ॥ २.३८१ ॥ शतादानप्रधानत्वाद्दण्डने शतकर्मके । अर्थिनां गुणभेदेऽपि संख्येयोऽर्थो न भिद्यते ॥ २.३८२ ॥ सङ्घस्यैव विधेयत्वात्कार्यवत्प्रतिपादने । तत्र तन्त्रेण संबन्धः समासाभ्यस्तसंज्ञयोः ॥ २.३८३ ॥ लक्षणार्था श्रुतिर्येषां कां चिदेव क्रियां प्रति । तैर्व्यस्तैश्च समस्तैश्च स धर्म उपलक्ष्यते ॥ २.३८४ ॥ वृषलैर्न प्रवेष्टव्यमित्येतस्मिन् गृहे यथा । प्रत्येकं संहतानां च प्रवेशः प्रतिषिध्यते ॥ २.३८५ ॥ संभूय त्वर्थलिप्सादि- प्रतिषेधोपदेशने । पृथगप्रतिषिद्धत्वात्प्रवृत्तिर्न विरुध्यते ॥ २.३८६ ॥ व्यवायलक्षणार्थात्वादट्कुप्वाङादिभिस्तथा । प्रत्येकं वा समस्तैर्वा णत्वं न प्रतिषिध्यते ॥ २.३८७ ॥ अनुग्रहार्था भोक्तॄणां भुजिरारभ्यते यदा । देशकालाद्यभेदेन नानुगृह्णाति तानसौ ॥ २.३८८ ॥ पात्रादिभेदान्नानात्वं यस्यैकस्योपदिश्यते । विपर्यये वा भिन्नस्य तस्यैकत्वं प्रकल्प्यते ॥ २.३८९ ॥ संहत्यापि च कुर्वाणा भेदेन प्रतिपादिताः । स्वं स्वं भोज्यं विभागेन प्राप्तं संभूय भुञ्जते ॥ २.३९० ॥ वीप्साया विषयाभावाद्विरोधादन्यसंख्यया । द्विधा समाप्त्ययोगाच्च शतं सङ्घेऽवतिष्ठते ॥ २.३९१ ॥ भुजिर्द्वन्द्वैकशेषाभ्यां यत्रान्यैः सह शिष्यते । तत्रापि लक्षणार्थत्वाद्द्विधा वाक्यं समाप्यते ॥ २.३९२ ॥ वाक्यान्तराणां प्रत्येकं समाप्तिः कैश्चिदिष्यते । रूपान्तरेण युक्तानां वाक्यनां तेन संग्रहः ॥ २.३९३ ॥ न वाक्यस्याभिधेयानि भेदवाक्यानि कानि चित् । तस्मिंस्तूच्चरिते भेदांस्तथान्यान् प्रतिपद्यते ॥ २.३९४ ॥ येषां समस्तो वाक्यार्थः प्रतिभेदं समाप्यते । तेषां तदानीं भिन्नस्य किं पदार्थस्य सत्तया ॥ २.३९५ ॥ अथ तैरेव जनितः सोऽर्थो भिन्नेषु वर्तते । पूर्वस्यार्थस्य तेन स्याद्विरोधः सह वा स्थितिः ॥ २.३९६ ॥ सहस्थितौ विरोधित्वं स्याद्विशिष्टाविशिष्टयोः । व्यभिचारी तु संबन्धस्त्यागेऽर्थस्य प्रसज्यते ॥ २.३९७ ॥ एकः साधारणो वाच्यः प्रतिशब्दमवस्थितः । सङ्घे सङ्घिषु चार्थात्मा सन्निधाननिदेशकः ॥ २.३९८ ॥ यथा साधारणे स्वत्वं त्यागस्य च फलं धने । प्रीतिश्चाविकला तद्वत्संबन्धोऽर्थेन तद्वताम् ॥ २.३९९ ॥ वर्णानामर्थवत्तायां तेनैवार्थेन तद्वति । समुदाये न चैकत्वं भेदेन व्यवतिष्ठते ॥ २.४०० ॥ एकेनैव प्रदीपेन सर्वे साधारणं धनम् । पश्यन्ति तद्वदेकेन सुपा संख्याभिधीयते ॥ २.४०१ ॥ नार्थवत्ता पदे वर्णे वाक्ये चैवं विशिष्यते । अभ्यासात्प्रक्रमोऽन्यस्तु विरुद्ध इव दृश्यते ॥ २.४०२ ॥ विनियोगादृते शब्दो न स्वार्थस्य प्रकाशकः । अर्थाभिधानसंबन्धमुक्तिद्वारं प्रचक्षते ॥ २.४०३ ॥ यथा प्रणिहितं चक्षुर्दर्शनायोपकल्पते । तथाभिसंहितः शब्दो भवत्यर्थस्य वाचकः ॥ २.४०४ ॥ क्रियाव्यवेतः संबन्धो दृष्टः करणकर्मभिः । अभिधानियमस्तस्मादभिधानाभिधेययोः ॥ २.४०५ ॥ बहुष्वेकाभिधानेषु सर्वेष्वेकार्थकारिषु । यत्प्रयोक्ताभिसंधत्ते शब्दस्तत्रावतिष्ठते ॥ २.४०६ ॥ आम्नायशब्दानभ्यासे के चिदाहुरनर्थकान् । स्वरूपमात्रवृत्तींश्च परेषां प्रतिपादने ॥ २.४०७ ॥ अभिधानक्रियायोगादर्थस्य प्रतिपादकान् । नियोगभेदान्मन्यन्ते तानेवैकत्वदर्शिनः ॥ २.४०८ ॥ तेषामत्यन्तनानात्वं नानात्वव्यवहारिणः । अक्षादीनामिव प्राहुरेकजातिसमन्वयात् ॥ २.४०९ ॥ प्रयोगादभिसंधानमन्यदेषु न विद्यते । विषये यतशक्तित्वात्स तु तत्र व्यवस्थितः ॥ २.४१० ॥ नानात्वस्यैव संज्ञानमर्थप्रकरणादिभिः । न जात्वर्थान्तरे वृत्तिरन्यार्थानां कथं चन ॥ २.४११ ॥ पदरूपं च यद्वाक्यमस्तित्वोपनिबन्धनम् । कामं विमर्शस्तत्रायं न वाक्यावयवे पदे ॥ २.४१२ ॥ यथैवानर्थकैर्वर्णैर्विशिष्टोऽर्थोऽभिधीयते । पदैरनर्थकैरेवं विशिष्टोऽर्थोऽभिधीयते ॥ २.४१३ ॥ यदन्तराले ज्ञानं तु पदार्थेषूपजायते । प्रतिपत्तेरुपायोऽसौ प्रक्रमानवधारणात् ॥ २.४१४ ॥ पूर्वैरर्थैरनुगतो यथार्थात्मा परः परः । संसर्ग एव प्रक्रान्तस्तथान्येष्वर्थवस्तुषु ॥ २.४१५ ॥ अङ्गीकृते तु केषां चित्साध्येनार्थेन साधने । आराधनियमार्थैव साधनानां पुनः श्रुतिः ॥ २.४१६ ॥ आधारे नियमाभावात्तदाक्षेपो न विद्यते । सामर्थ्यात्संभवस्तस्य श्रुतिस्त्वन्यनिवृत्तये ॥ २.४१७ ॥ क्रिया क्रियान्तराद्भिन्ना नियताधारसाधना । प्रक्रान्ता प्रतिपत्तॄणां भेदाः संबोधहेतवः ॥ २.४१८ ॥ अविभागं तु शब्देभ्यः क्रमवद्भ्योऽपदक्रमम् । प्रकाशते तदन्येषां वाक्यं वाक्यार्थ एव च ॥ २.४१९ ॥ स्वरूपं विद्यते यस्य तस्यात्मा न निरूप्यते । नास्ति यस्य स्वरूपं तु तस्यैवात्मा निरूप्यते ॥ २.४२० ॥ अशब्दमपरेऽर्थस्य रूपनिर्धारणं विदुः । अर्थावभासरूपा च शब्देभ्यो जायते स्मृतिः ॥ २.४२१ ॥ अन्यथैवाग्निसंबन्धाद्दाहं दग्धोऽभिमन्यते । अन्यथा दाहशब्देन दाहार्थः संप्रतीयते ॥ २.४२२ ॥ पृथङ्निविष्टतत्त्वानां पृथगर्थानुपातिनाम् । इन्द्रियाणां यथा कार्यमृते देहान्न कल्पते ॥ २.४२३ ॥ तथा पदानां सर्वेषां पृथगर्थनिवेशिनाम् । वाक्येभ्यः प्रविभक्तानामर्थवत्ता न विद्यते ॥ २.४२४ ॥ संसर्गरूपं संसृष्टेष्वर्थवस्तुषु गृह्यते । नात्रोपाख्यायते तत्त्वमपदार्थस्य दर्शनात् ॥ २.४२५ ॥ दर्शनस्यापि यत्सत्यं न तथा दर्शनं स्थितम् । वस्तु संसर्गरूपेण तदरूपं निरूप्यते ॥ २.४२६ ॥ अस्तित्वेनानुषक्तो वा निवृत्त्यात्मनि वा स्थितः । अर्थोऽभिधीयते यस्मादतो वाक्यं प्रयुज्यते ॥ २.४२७ ॥ क्रियानुषङ्गेण विना न पदार्थः प्रतीयते । सत्यो वा विपरीतो वा व्यवहारे न सोऽस्त्यतः ॥ २.४२८ ॥ सदित्येतत्तु यद्वाक्यं तदभूदस्ति नेति वा । क्रियाभिधानसंबन्धमन्तरेण न गम्यते ॥ २.४२९ ॥ आख्यातपदवाच्येऽर्थे साधनोपनिबन्धने । विना सत्त्वाभिधानेन नाकाङ्क्षा विनिवर्तते ॥ २.४३० ॥ प्राधान्यात्तु क्रिया पूर्वमर्थस्य प्रविभज्यते । साध्यप्रयुक्तान्यङ्गानि फलं तस्य प्रयोजकम् ॥ २.४३१ ॥ प्रयोक्तैवाभिसंधत्ते साध्यसाधनरूपताम् । अर्थस्य चाभिसंबन्ध- कल्पनां प्रसमीहते ॥ २.४३२ ॥ पचिक्रियां करोतीति कर्मत्वेनाभिधीयते । पक्तिः करणरूपं तु साध्यत्वेन प्रतीयते ॥ २.४३३ ॥ योऽंशो येनोपकारेण प्रयोक्तॄणां विवक्षितः । अर्थस्य सर्वशक्तित्वात्स तथैव व्यवस्थितः ॥ २.४३४ ॥ आराद्वृत्तिषु संबन्धः कदा चिदभिधीयते । आश्लिष्टो योऽनुपश्लिष्टः स कदा चित्प्रतीयते ॥ २.४३५ ॥ संसृष्टानां विभक्तत्वं संसर्गश्च विवेकिनाम् । नानात्मकानामेकत्वं नानात्वं च विपर्यये ॥ २.४३६ ॥ सर्वात्मकत्वादर्थस्य नैरात्म्याद्वा व्यवस्थितम् । अत्यन्तयतशक्तित्वाच्छब्द एव निबन्धनम् ॥ २.४३७ ॥ वस्तूपलक्षणः शब्दो नोपकारस्य वाचकः । न स्वशक्तिः पदार्थानां संस्प्रष्टुं तेन शक्यते ॥ २.४३८ ॥ संबन्धिधर्मा संयोगः स्वशब्देनाभिधीयते । संबन्धः समवायस्तु संबन्धित्वेन गम्यते ॥ २.४३९ ॥ लक्षणाद्व्यवतिष्ठन्ते पदार्था न तु वस्तुतः । उपकारात्स एवार्थः कथं चिदनुगम्यते ॥ २.४४० ॥ वाक्यार्थो योऽभिसंबन्धो न तस्यात्मा क्व चित्स्थितः । व्यवहारे पदार्थानां तमात्मानं प्रचक्षते ॥ २.४४१ ॥ पदार्थे समुदाये वा समाप्तो नैव वा क्व चित् । पदार्थरूपभेदेन तस्यात्मा प्रविभज्यते ॥ २.४४२ ॥ अन्वाख्यानाय यो भेदः प्रतिपत्तिनिबन्धनम् । साकाङ्क्षावयवं भेदे तेनान्यदुपवर्ण्यते ॥ २.४४३ ॥ अनेकशक्तेरेकस्य प्रविभागोऽनुगम्यते । एकार्थत्वं हि वाक्यस्य मात्रयापि प्रतीयते ॥ २.४४४ ॥ संप्रत्ययार्थाद्बाह्योऽर्थः सन्नसन् वा विभज्यते । बाह्यीकृत्य विभागस्तु शक्त्यपोद्धारलक्षणः ॥ २.४४५ ॥ प्रत्ययार्थात्मनियताः शक्तयो न व्यवस्थिताः । अन्यत्र च ततो रूपं न तासामुपलभ्यते ॥ २.४४६ ॥ बहुश्वपि तिङन्तेषु साकाङ्क्षेष्वेकवाक्यता । तिङा तिङ्भ्यो निघातस्य पर्युदासस्तथार्थवान् ॥ २.४४७ ॥ एकतिङ्यस्य वाक्यं तु शास्त्रे नियतलक्षणम् । तस्यातिङ्ग्रहणेनार्थो वाक्यभेदान्न विद्यते ॥ २.४४८ ॥ तिङन्तान्तरयुक्तेषु युक्तयुक्तेषु वा पुनः । मृगः पश्यत यातीति भेदाभेदौ न तिष्ठतः ॥ २.४४९ ॥ इतिकर्तव्यतार्थस्य सामर्थ्याद्यत्र काङ्क्ष्यते । अशब्दलक्षणाकाङ्क्षं समाप्तार्थं तदुच्यते ॥ २.४५० ॥ तत्त्वान्वाख्यानमात्रे तु यावानर्थोऽनुषज्यते । विनापि तत्प्रयोगेण श्रुतेर्वाक्यं समाप्यते ॥ २.४५१ ॥ चिङ्क्रम्यमाणोऽधीष्वात्र जपंश्चङ्क्रमणं कुरु । तादर्थ्यस्याविशेषेऽपि शब्दाद्भेदः प्रतीयते ॥ २.४५२ ॥ फलवन्तः क्रियाभेदाः क्रियान्तरनिबन्धनाः । असंख्याताः क्रमोद्देशैरेकाख्यातनिदर्शिताः ॥ २.४५३ ॥ निवृतभेदा सर्वैव क्रियाख्यातेऽभिधीयते । श्रुतेरशक्या भेदानां प्रविभागप्रकल्पना ॥ २.४५४ ॥ अश्वमेधेन यक्ष्यन्ते राजानः सत्त्रमासते । ब्राह्मणा इति नाख्यात- रूपाद्भेदः प्रतीयते ॥ २.४५५ ॥ सकृच्छ्रुता सप्तदशस्वनावृत्तापि या क्रिया । प्रजापत्येषु सामर्थ्यात्सा भेदं प्रतिपद्यते ॥ २.४५६ ॥ देवदत्तादिषु भुजिः प्रत्येकमवतिष्ठते । प्रतिस्वतन्त्रं वाक्यं वा भेदेन प्रतिपद्यते ॥ २.४५७ ॥ उच्चारणे तु वाक्यानामन्यद्रूपं न गृह्यते । प्रतिपत्तौ तु भिन्नानामन्यद्रूपं प्रतीयते ॥ २.४५८ ॥ एकं ग्रहणवाक्यं च सामान्येनाभिधीयते । कर्तरीति यथा तच्च पश्वादिषु विभज्यते ॥ २.४५९ ॥ यदि आकाङ्क्षा निवर्तेत तद्भूतस्य सकृच्छ्रुतौ । नैवान्येनाभिसंबन्धं तदुपेयात्कथं चन ॥ २.४६० ॥ एकरूपमनेकार्थं तस्मादुपनिबन्धनम् । योनिर्विभागवाक्यानां तेभ्योऽनन्यदिव स्थितम् ॥ २.४६१ ॥ क्व चित्क्रिया व्यक्तिभागैरुपकारे प्रवर्तते । सामान्यभाग एवास्याः क्व चिदर्थस्य साधकः ॥ २.४६२ ॥ कालभिन्नाश्च ये भेदा ये चाप्युष्ट्रासिकादिषु । प्रक्रमे जातिभागस्य शब्दात्मा तैर्न भिद्यते ॥ २.४६३ ॥ एकसंख्येषु भेदेषु भिन्ना जात्यादिभिः क्रियाः । भेदेन विनियुज्यन्ते तच्छब्दस्य सकृच्छ्रुतौ ॥ २.४६४ ॥ अक्षादेषु यथा भिन्ना भक्षिभञ्जिदिविक्रियाः । प्रयोगकालाभेदेऽपि प्रतिभेदं पृथक्स्थिताः ॥ २.४६५ ॥ अक्षिणां तन्त्रिणां तन्त्रमुपायस्तुल्यरूपता । एषां क्रमो विभक्तानां तन्निबद्धा सकृच्छ्रुतिः ॥ २.४६६ ॥ द्वावप्युपायौ शब्दानां प्रयोगे समवस्थितौ । क्रमो वा यौगपद्यं वा यौ लोको नातिवर्तते ॥ २.४६७ ॥ क्रमे विभज्यते रूपं यौगपद्ये न भिद्यते । क्रिया तु यौगपद्येऽपि क्रमरूपानुपातिनी ॥ २.४६८ ॥ भेदसंसर्गशक्ती द्वे शब्दाद्भिन्ने इव स्थिते । यौगपद्येऽप्यनेकेन प्रयोगे भिद्यते श्रुतिः ॥ २.४६९ ॥ अभिन्नो रूपभेदेन य एकोऽर्थो विवक्षितः । तस्यावयवधर्मेण समुदायोऽनुगम्यते ॥ २.४७० ॥ भेदनिर्वचने त्वस्य प्रत्येदं वा समाप्यते । श्रुतिर्वचनभिन्ना वा वाक्यभेदेऽवतिष्ठते ॥ २.४७१ ॥ तत्रैकवचनान्तो वा सोऽक्षशब्दः प्रयुज्यते । प्रत्येकं वा बहुत्वेन प्रविभागो यथाश्रुति ॥ २.४७२ ॥ द्विष्ठानि यानि वाक्यानि तेष्वप्येकत्वदर्शिनाम् । अनेकशक्तेरेकस्य स्वशक्तिः प्रविभज्यते ॥ २.४७३ ॥ अत्यन्तभिन्नयोर्वा स्यात्प्रयोगे तन्त्रलक्षणः । उपायस्तत्र संसर्गः प्रतिपत्तृषु भिद्यते ॥ २.४७४ ॥ भेदेनाधिगतौ पूर्वं शब्दौ तुल्यश्रुती पुनः । तन्त्रेण प्रतिपत्तारः प्रयोक्त्रा प्रतिपादिताः ॥ २.४७५ ॥ एकस्यापि विवक्षायामनुनिष्पद्यते परः । विनाभिसंधिना शब्दः शक्तिरूपः प्रकाशते ॥ २.४७६ ॥ अनेका शक्तिरेकस्य युगपच्छ्रूयते क्व चित् । अग्निः प्रकाशदाहाभ्यामेकत्रापि नियुज्यते ॥ २.४७७ ॥ आवृत्तिशक्तिभिन्नार्थे वाक्ये सकृदपि श्रुते । लिङ्गाद्वा तन्त्रधर्माद्वा विभागो व्यवतिष्ठते ॥ २.४७८ ॥ संप्रसारणसंज्ञायां लिङ्गाभ्यां वर्णवाक्ययोः । प्रविभागस्तथा सूत्र एकस्मिन्नेव जायते ॥ २.४७९ ॥ तथा द्विर्वचनेऽचीति तन्त्रोपायादलक्षणः । एकशेषेण निर्देशो भाष्य एव प्रदर्शितः ॥ २.४८० ॥ प्रायेण संक्षेपरुचीनल्पविद्यापरिग्रहान् । संप्राप्य वैयाकरणान् संग्रहेऽस्तमुपागते ॥ २.४८१ ॥ कृतेऽथ पातञ्जलिना गुरुणा तीर्थदर्शिना । सर्वेसं न्यायबीजानां महाभाष्ये निबन्धने ॥ २.४८२ ॥ अलब्धगाधे गाम्भीर्यादुत्तान इव सौष्ठवात् । तस्मिन्नकृतबुद्धीनां नैवावास्थित निश्चयः ॥ २.४८३ ॥ वैजिसौभवहर्यक्षैः शुष्कतर्कानुसारिभिः । आर्षे विप्लाविते ग्रन्थे संग्रहप्रतिकञ्चुके ॥ २.४८४ ॥ यः पातञ्जलिशिष्येभ्यो भ्रष्टो व्याकरणागमः । कालेन दाक्षिणात्येषु ग्रन्थमात्रो व्यवस्थितः ॥ २.४८५ ॥ पर्वतादागमं लब्ध्वा भाष्यबीजानुसारिभिः । स नीतो बहुशाखत्वं चान्द्राचार्यादिभिः पुनः ॥ २.४८६ ॥ न्यायप्रस्थानमार्गांस्तानभ्यस्य स्वं च दर्शनम् । प्रणीतो गुरुणास्माकमयमागमसंग्रहः ॥ २.४८७ ॥ वर्त्मनामत्र केषां चिद्वस्तुमात्रमुदाहृतम् । काण्डे तृतीये न्यक्षेन भविष्यति विचारणा ॥ २.४८८ ॥ प्रज्ञा विवेकं लभते भिन्नैरागमदर्शनैः । कियद्वा शक्यमुन्नेतुं स्वतर्कमनुधावता ॥ २.४८९ ॥ तत्तदुत्प्रेक्षमाणानां पुराणैरागमैर्विना । अनुपासितवृद्धानां विद्या नातिप्रसीदति ॥ २.४९० ॥ ३,१: जातिसमुद्देश द्विधा कैश्चित्पदं भिन्नं चतुर्धा पञ्चधापि वा । अपोद्धृत्यैव वाक्येभ्यः प्रकृतिप्रत्ययादिवत् ॥ ३,१.१ ॥ पदार्थानामपोद्धारे जातिर्वा द्रव्यमेव वा । पदार्थौ सर्वशब्दानां नित्यावेवोपवर्णितौ ॥ ३,१.२ ॥ केषां चित्साहचर्येण जातिः शक्त्युपलक्षणम् । खदिरादिष्वशक्तेषु शक्तः प्रतिनिधीयते ॥ ३,१.३ ॥ अस्वातन्त्र्यफलो बन्धिः प्रमाणादीव शिष्यते । अतो जात्यभिधानेऽपि शक्तिहीनं न गृह्यते ॥ ३,१.४ ॥ संश्लेषमात्रं बध्नातिर्यदि स्यात्तु विवक्षितः । शक्त्याश्रये ततो लिङ्गं प्रमाणाद्यनुशासनम् ॥ ३,१.५ ॥ स्वा जातिः प्रथमं शब्दैः सर्वैरेवाभिधीयते । ततोऽर्थजातिरूपेषु तदध्यारोपकल्पना ॥ ३,१.६ ॥ यथा रक्ते गुणे तत्त्वं कषाये व्यपदिश्यते । संयोगिसन्निकर्षाच्च वस्त्रादिष्वपि गृह्यते ॥ ३,१.७ ॥ तथा शब्दार्थसंबन्धाच्छब्दे जातिरवस्थिता । व्यपदेशेऽर्थजातीनां जातिकार्याय कल्पते ॥ ३,१.८ ॥ जातिशब्दैकशेषे सा जातीनां जातिरिष्यते । शब्दजातय इत्यत्र तज्जातिः शब्दजातिषु ॥ ३,१.९ ॥ या शब्दजातिः शब्देषु शब्देभ्यो भिन्नलक्षणा । जातिः सा शब्दजातित्वमव्यतिक्रम्य वर्तते ॥ ३,१.१० ॥ अर्थजात्यभिधानेऽपि सर्वे जात्यभिधायिनः । व्यापारलक्षणा यस्मात्पदार्थाः समवस्थिताः ॥ ३,१.११ ॥ जातौ पदार्थे जातिर्वा विशेषो वापि जातिवत् । शब्दैरपेक्ष्यते यस्मादतस्ते जातिवाचिनः ॥ ३,१.१२ ॥ द्रव्यधर्मा पदार्थे तु द्रव्ये सर्वोऽर्थ उच्यते । द्रव्यधर्माश्रयाद्द्रव्यमतः सर्वोऽर्थ इष्यते ॥ ३,१.१३ ॥ अनुप्रवृत्तिधर्मो वा जातिः स्यात्सर्वजातिषु । व्यावृत्तिधर्मसामान्यं विशेषे जातिरिष्यते ॥ ३,१.१४ ॥ संयोगिधर्मभेदेन देशे च परिकल्पिते । तेषु देशेषु सामान्यमाकाशस्यापि विद्यते ॥ ३,१.१५ ॥ अदेशानां घटादीनां देशाः संबन्धिनो यथा । आकाशस्याप्यदेशस्य देशाः संबन्धिनस्तथा ॥ ३,१.१६ ॥ भिन्नवस्त्वाश्रया बुद्धिः संयोगिष्वनुवर्तते । समवायिषु भेदस्य ग्रहणं विनिवर्तते ॥ ३,१.१७ ॥ अतः संयोगिदेशानां गौणत्वं परिकल्प्यते । अविवेकात्प्रदेशेभ्यो मुख्यत्वं समवायिनाम् ॥ ३,१.१८ ॥ अनुप्रवृत्तिरूपा या प्रख्या तामाकृतिं विदुः । के चिद्व्यावृत्तिरूपां तु द्रव्यत्वेन प्रचक्षते ॥ ३,१.१९ ॥ भिन्ना इति परोपाधिरभिन्ना इति वा पुनः । भावात्मसु प्रपञ्चोऽयं संसृष्टेष्वेव जायते ॥ ३,१.२० ॥ नैकत्वं नापि नानात्वं न सत्त्वं न च नास्तिता । आत्मतत्त्वेषु भावानामसंसृष्टेषु विद्यते ॥ ३,१.२१ ॥ सर्वशक्त्यात्मभूतत्वमेकस्यैवेति निर्णये । भावानामात्मभेदस्य कल्पना स्यादनर्थिका ॥ ३,१.२२ ॥ तस्माद्द्रव्यादयः सर्वाः शक्तयो भिन्नलक्षणाः । संसृष्टाः पुरुषार्थस्य साधिका न तु केवलाः ॥ ३,१.२३ ॥ यथैव चेन्द्रियादीनामात्मभूता समग्रता । तथा संबन्धिसंबन्ध- संसर्गेऽपि प्रतीयते ॥ ३,१.२४ ॥ न तदुत्पद्यते किं चिद्यस्य जातिर्न विद्यते । आत्माभिव्यक्तये जातिः कारणानां प्रयोजिका ॥ ३,१.२५ ॥ कारणेषु पदं कृत्वा नित्यानित्येषु जातयः । क्व चित्कार्येष्वभिव्यक्तिमुपयान्ति पुनः पुनः ॥ ३,१.२६ ॥ निर्वर्त्त्यमानं यत्कर्म जातिस्तत्रापि साधनम् । स्वाश्रयस्याभिनिष्पत्त्यै सा क्रियाणां प्रयोजिका ॥ ३,१.२७ ॥ विधौ वा प्रतिषेधे वा ब्राह्मणत्वादि साधनम् । व्यक्त्याश्रितास्रिता जातेः संख्याजातिर्विशेषिका ॥ ३,१.२८ ॥ यथा जलादिभिर्व्यक्तं मुखमेवाभिधीयते । तथा द्रव्यैरभिव्यक्ता जातिरेवाभिधीयते ॥ ३,१.२९ ॥ यथेन्द्रियगतो भेद इन्द्रियग्रहणादृते । इन्द्रियार्थेष्वदृश्योऽपि ज्ञानभेदाय कल्पते ॥ ३,१.३० ॥ तथात्मरूपग्रहणात्केषां चिद्व्यक्तयो विना । सामान्यज्ञानभेदानामुपयान्ति निमित्तताम् ॥ ३,१.३१ ॥ सत्यासत्यौ तु यौ भागौ प्रतिभावं व्यवस्थितौ । सत्यं यत्तत्र सा जातिरसत्या व्यक्तयः स्मृताः ॥ ३,१.३२ ॥ संबन्धिभेदात्सत्तैव भिद्यमाना गवादिषु । जातिरित्युच्यते तस्यां सर्वे शब्दा व्यवस्थिताः ॥ ३,१.३३ ॥ तां प्रातिपदिकार्थं च धात्वर्थं च प्रचक्षते । सा नित्या सा महानात्मा तामाहुस्त्वतलादयः ॥ ३,१.३४ ॥ प्राप्तक्रमा विशेषेषु क्रिया सैवाभिधीयते । क्रमरूपस्य संहारे तत्सत्त्वमिति कथ्यते ॥ ३,१.३५ ॥ सैव भावविकारेषु षडवस्थाः प्रपद्यते । क्रमेण शक्तिभिः स्वाभिरेवं प्रत्यवभासते ॥ ३,१.३६ ॥ आत्मभूतः क्रमोऽप्यस्या यत्रेदं कालदर्शनम् । पौर्वापर्यादिरूपेण प्रविभक्तमिव स्थितम् ॥ ३,१.३७ ॥ तिरोभावाभ्युपगमे भावानां सैव नास्तिता । लब्धक्रमे तिरोभावे नश्यतीति प्रतीयते ॥ ३,१.३८ ॥ पूर्वस्मात्प्रच्युता धर्मादप्राप्ता चोत्तरं पदम् । तदन्तराले भेदानामाश्रयाज्जन्म कथ्यते ॥ ३,१.३९ ॥ आश्रयः स्वात्ममात्रा वा भावा वा व्यतिरेकिनः । स्वशक्तयो वा सत्ताया भेददर्शनहेतवः ॥ ३,१.४० ॥ पृथिव्यादिष्वभिव्यक्तौ न संस्थानमपेक्षते । अनुच्छिन्नाश्रयाज्जातिरनित्येऽप्याश्रये स्थिता ॥ ३,१.४१ ॥ अनुच्छेद्याश्रयामेके सर्वां जातिं प्रचक्षते । न यौगपद्यं प्रलये सर्वस्येति व्यवस्थिताः ॥ ३,१.४२ ॥ प्रकृतौ प्रविलीनेषु भेदेष्वेकत्वदर्शिनाम् । द्रव्यसत्त्वं प्रपद्यन्ते स्वाश्रया एव जातयः ॥ ३,१.४३ ॥ ब्राह्मणत्वादयो भावाः सर्वप्राणिष्ववस्थिताः । अभिव्यक्ताः स्वकार्याणां साधका इत्यपि स्मृतिः ॥ ३,१.४४ ॥ चित्रादिष्वप्यभिव्यक्तिर्जातीनां कैश्चिदिष्यते । प्राण्याश्रितास्तु ताः प्राप्तौ निमित्तं पुण्यपापयोः ॥ ३,१.४५ ॥ ज्ञानं त्वस्मद्विशिष्टानां तासु सर्वेन्द्रियं विदुः । आभ्यासान्मणिरूप्यादि- विशेषेष्विव तद्विदाम् ॥ ३,१.४६ ॥ जात्युत्पलादिगन्धादौ भेदतत्त्वं यदाश्रितम् । तद्भावप्रत्ययैर्लोकेऽनित्यत्वान्नाभिधीयते ॥ ३,१.४७ ॥ अस्वशब्दाभिधानास्तु नरसिंहादिजातयः । सरूपावयवेवान्या तासु श्रुतिरवस्थिता ॥ ३,१.४८ ॥ जात्यवस्थापरिच्छेदे संख्या संख्यात्वमेव वा । विप्रकर्षेऽपि संसर्गादुपकाराय कल्पते ॥ ३,१.४९ ॥ लक्षणा शब्दसंस्कारे व्यापारः कार्यसिद्धये । संख्याकर्मादिशक्तीनां श्रुतिसाम्येऽपि दृश्यते ॥ ३,१.५० ॥ न विना संख्यया कश्चित्सत्त्वभूतोऽर्थ उच्यते । अतः सर्वस्य निर्देशे संख्या स्यादविवक्षिता ॥ ३,१.५१ ॥ एकत्वं वा बहुत्वं वा केषां चिदविवक्षितम् । तद्धि जात्यभिधानाय द्वित्वं तु स्याद्विवक्षितम् ॥ ३,१.५२ ॥ यद्येतौ व्याधितौ स्यातां देयं स्यादिदमौषधम् । इत्येवं लक्षणेऽर्थस्य द्वित्वं स्यादविवक्षितम् ॥ ३,१.५३ ॥ एकादिशब्दवाच्यायाः कर्मस्वङ्गत्वमिष्यते । संख्यायाः खनति द्वाभ्यामिति रूपाद्धि साश्रिता ॥ ३,१.५४ ॥ यजेत पशुनेत्यत्र संस्कारस्यापि संभवे । यथा जातिस्तथैकत्वं साधनत्वेन गम्यते ॥ ३,१.५५ ॥ लिङ्गात्तु स्यात्द्वितीयादेस्तदेकत्वं विवक्षितम् । एकार्थविषयत्वे च तल्लिङ्गं जातिसंख्ययोः ॥ ३,१.५६ ॥ अन्यत्राविहितस्यैव स विधिः प्रथमं पशोः । क्रियायामङ्गभावश्च तत्त्वेतस्माद्विवक्षितम् ॥ ३,१.५७ ॥ ग्रहास्त्वन्यत्र विहिता भिन्नसंख्याः पृथक्पृथक् । प्राजापत्या नवेत्येवम्- आदिभेदसमन्विताः ॥ ३,१.५८ ॥ अङ्गत्वेन प्रतीतानां संमार्गे त्वङ्गिनां पुनः । निर्देशं प्रति या संख्या सा कथं स्याद्विवक्षिता ॥ ३,१.५९ ॥ नान्यत्र विधिरस्तीति संस्कारो नापि चाङ्गिता । हेतुः संख्याविवक्षाया यत्नात्सा हि विवक्षिता ॥ ३,१.६० ॥ संमार्जने विशेषश्च न ग्रहे क्व चिदाश्रितः । विहितास्ते च संस्कार्याः सर्वेषामाश्रयस्ततः ॥ ३,१.६१ ॥ प्रत्याश्रयं समाप्तायां जातावेकेन चेत्क्रिया । पशुना न प्रकल्पेत तत्स्यादेव प्रकल्पनम् ॥ ३,१.६२ ॥ एकेन च प्रसिद्धायां क्रियायां यदि संभवात् । पश्वन्तरमुपादेयमुपादानमनर्थकम् ॥ ३,१.६३ ॥ यथैवाहितगर्भायां गर्भाधानामनर्थकम् । तथैकेन प्रसिद्धायां पश्वन्तरमनर्थकम् ॥ ३,१.६४ ॥ तावतार्थस्य सिद्धत्वादेकत्वस्याव्यतिक्रमम् । के चिदिच्छन्ति न त्वत्र संख्याङ्गत्वेन गृह्यते ॥ ३,१.६५ ॥ द्वितीयादि तु यल्लिङ्गमुक्तन्यायानुवादि तत् । न संख्या साधनत्वेन जातिवत्तेन गम्यते ॥ ३,१.६६ ॥ अन्वयव्यतिरेकाभ्यां संख्याभ्युपगमे सति । युक्तं यत्साधनत्वं स्यान्न त्वन्यार्थोपलक्षणं ॥ ३,१.६७ ॥ साधनत्वे पदार्थस्य सामर्थ्यं न प्रहीयते । संख्याव्यापारधर्मोऽतस्तेन लिङ्गेन गम्यते ॥ ३,१.६८ ॥ अपूर्वस्य विधेयत्वात्प्राधान्यमवसीयते । विहितस्य परार्थत्वाच्छेशभावः प्रतीयते ॥ ३,१.६९ ॥ संमार्गस्य विधेयत्वातन्यत्र विहिते ग्रहे । विधिवाक्ये श्रुता संख्या लक्षणायां न बाध्यते ॥ ३,१.७० ॥ विधिवाक्यान्तरे संख्या पशोर्नास्ति विरोधिनी । तस्मात्सगुण एवासौ सहैकत्वेन गम्यते ॥ ३,१.७१ ॥ निर्ज्ञातद्रव्यसंबन्धे यः कर्मण्युपदिश्यते । गुनस्तेनार्थिता तस्य द्रव्येणेव प्रतीयते ॥ ३,१.७२ ॥ कश्चिदेव गुणो द्रव्ये यथा सामर्थ्यलक्षणः । आधारोऽपि गुणस्यैवं प्राप्तः सामर्थ्यलक्षणः ॥ ३,१.७३ ॥ तयोस्तु पृथगर्थित्वे संबन्धो यः प्रतीयते । न तस्मिन्नुपघातोऽस्ति कल्प्यमन्यन्न चाश्रुतम् ॥ ३,१.७४ ॥ क्रियया योऽभिसंबन्धः स श्रुतिप्रापितस्तयोः । आश्रयाश्रयिणोर्वाक्यान्नियमस्त्ववतिष्ठते ॥ ३,१.७५ ॥ तत्र द्रव्यगुणाभावे प्रत्येकं स्याद्विकल्पनम् । श्रुतिप्राप्तो हि संबन्धो बलवान् वाक्यलक्षणात् ॥ ३,१.७६ ॥ यदा तु जातिः शक्तिर्वा क्रियां प्रत्युपदिश्यते । सामर्थ्यात्संनिधीयेते तत्र द्रव्यगुणौ तदा ॥ ३,१.७७ ॥ जातीनां च गुणानां च तुल्येऽङ्गत्वे क्रियां प्रति । गुणाः प्रतिनिधीयन्ते छागादीनां न जातयः ॥ ३,१.७८ ॥ व्यक्तिशक्तेः समासन्ना जातयो न तथा गुणाः । साक्षाद्द्रव्यं क्रियायोगि गुणस्तस्माद्विकल्पते ॥ ३,१.७९ ॥ साम्येनान्यतराभावे विकल्पः कैश्चिदिष्यते । अतद्गुणोऽतश्छागः स्यान्मेषो वा तद्गुणो भवेत् ॥ ३,१.८० ॥ जातेराश्रितसंख्यायाः प्रवृत्तिरुपलभ्यते । संख्याविशेषमुत्सृज्य क्वचित्सैव प्रवर्तते ॥ ३,१.८१ ॥ पराङ्गभूतं सामान्यं युज्यते द्रव्यसंख्यया । स्वार्थं प्रवर्तमानं तु न संख्यामवलम्बते ॥ ३,१.८२ ॥ यजेत पशुनेत्यत्र यज्यर्थायां पशुश्रुतौ । कृतार्थैकेन पशुना प्रधानं भवति क्रिया ॥ ३,१.८३ ॥ यावतां संभवो यस्य स कुर्यात्तावतां यदि । आलम्भनं गुणैस्तेन प्रधानं स्यात्प्रयोजितम् ॥ ३,१.८४ ॥ संमृज्यमानतन्त्रे तु ग्रहे यत्र क्रियाश्रुतिः । संख्याविशेषग्रहणं नैव तत्राद्रियामहे ॥ ३,१.८५ ॥ शिष्यमाणपरे वाक्ये यदेकग्रहणं कृतम् । शेषे विशिष्टसंख्येऽपि व्यक्तं तल्लिङ्गदर्शनम् ॥ ३,१.८६ ॥ समासप्रत्ययविधौ यथा निपतिता श्रुतिः । गुणानां परतन्त्राणां न्यायेनैवोपपद्यते ॥ ३,१.८७ ॥ गुणेऽपि नाङ्गीक्रियते प्रधानान्तरसिद्धये । संख्या कर्ता तथा कर्मण्यविशिष्टः प्रतीयते ॥ ३,१.८८ ॥ यस्यान्यस्य प्रसक्तस्य नियमार्था पुनः श्रुतिः । निवृत्तौ चरितार्थत्वात्संख्या तत्राविवक्षिता ॥ ३,१.८९ ॥ सरूपसमुदायात्तु विभक्तिर्या विधीयते । एकस्तत्रार्थवान् सिद्धः समुदायस्य वाचकः ॥ ३,१.९० ॥ प्रत्ययस्य प्रधानस्य समासस्यापि वा विधौ । सिद्धः संख्याविवक्षायां सर्वथानुग्रहो गुणे ॥ ३,१.९१ ॥ अभेदरूपं सादृश्यमात्मभूताश्च शक्तयः । जातिपर्यायवाचित्वमेषामप्युपवर्ण्यते ॥ ३,१.९२ ॥ दण्डोपादित्सया दण्डं यद्यपि प्रतिपद्यते । न तस्मादेव सामर्थ्यात्स दण्डीति प्रतीयते ॥ ३,१.९३ ॥ नेच्छानिमित्तादिच्छावानिति ज्ञानं प्रवर्तते । तस्मात्सत्यपि सामर्थ्ये बुद्धिरर्थान्तराश्रया ॥ ३,१.९४ ॥ स्वभावो व्यपदेश्यो वा सामर्थ्यं वावतिष्ठते । सर्वस्यान्ते यतस्तस्माद्व्यवहारो न कल्पते ॥ ३,१.९५ ॥ यदा भेदान् परित्यज्य बुद्ध्यैक इव गृह्यते । व्यक्त्यात्मैव तदा तत्र बुद्धिरेका प्रवर्तते ॥ ३,१.९६ ॥ भेदरूपैरनुस्यूतं यदैकमिव मन्यते । समूहावग्रहा बुद्धिर्बहुभ्यो जायते तदा ॥ ३,१.९७ ॥ *यदा सहविवक्षायामेकबुद्धिनिबन्धनः । बद्धावयवविच्छेदः समुदायोऽभिधीयते ॥ ३,१.९८ *॥ *प्रतिक्रियं समाप्तत्वादेको भेदसमन्वितः । द्वन्द्वे द्वित्वादिभेदेन तदासावुपगम्यते ॥ ३,१.९९ *॥ सकृत्प्रवृत्तावेकत्वमावृत्तौ सदृशात्मताम् । भिन्नात्मकानां व्यक्तीनां भेदापोहात्प्रपद्यते ॥ ३,१.१०० ॥ अनुप्रवृत्तेति यथा- भिन्ना बुद्धिः प्रतीयते । अर्थो व्यावृत्तरूपोऽपि तथा तत्त्वेन गृह्यते ॥ ३,१.१०१ ॥ सरूपाणां च सर्वेषां न भेदोपनिपातिनः । विद्यन्ते वाचकाः शब्दा नापि भेदोऽवधार्यते ॥ ३,१.१०२ ॥ ज्ञानशब्दार्थविषया विशेषा ये व्यवस्थिताः । तेषां दुरवधारत्वाज्ज्ञानाद्येकत्वदर्शनम् ॥ ३,१.१०३ ॥ ज्ञानेष्वपि यथार्थेषु तथा सर्वेषु जातयः । संसर्गदर्शने सन्ति ताश्चार्थस्य प्रसाधिकाः ॥ ३,१.१०४ ॥ ज्ञेयस्थमेव सामान्यं ज्ञानानामुपकारकम् । न जातु ज्ञेयवज्ज्ञानं पररूपेण रूप्यते ॥ ३,१.१०५ ॥ यथा ज्योतिः प्रकाशेन नान्येनाभिप्रकाश्यते । ज्ञानाकारस्तथान्येन न ज्ञानेनोपगृह्यते ॥ ३,१.१०६ ॥ *न चात्मसमवेतस्य सामान्यस्यावधारणे । ज्ञानशक्तिः समर्था स्याज्ज्ञातस्यान्यस्य वस्तुनः ॥ ३,१.१०७ *॥ *अयौगपद्ये ज्ञानानामस्येत्यग्रहणं न च । यथोपलब्धि स्मरणमुपलब्धे च जायते ॥ ३,१.१०८ *॥ घटज्ञानमिति ज्ञानं घटज्ञानविलक्षणम् । घट इत्यपि यज्ज्ञानं विषयोपनिपाति तत् ॥ ३,१.१०९ ॥ यतो विषयरूपेण ज्ञानरूपं न गृह्यते । अर्थरूपविविक्तं च स्वरूपं नावधार्यते ॥ ३,१.११० ॥ ३,२: द्रव्यसमुद्देशः आत्मा वस्तु स्वभावश्च शरीरं तत्त्वमित्यपि । द्रव्यमित्यस्य पर्यायास्तच्च नित्यमिति स्मृतम् ॥ ३,२.१ ॥ सत्यं वस्तु तदाकारैरसत्यैरवधार्यते । असत्योपाधिभिः शब्दैः सत्यमेवाभिधीयते ॥ ३,२.२ ॥ अध्रुवेण निमित्तेन देवदत्तगृहं यथा । गृहीतं गृहशब्देन शुद्धमेवाभिधीयते ॥ ३,२.३ ॥ सुवर्णादि यथा युक्तं स्वैराकारैरपायिभिः । रुचकाद्यभिधानानां शुद्धमेवैति वाच्यताम् ॥ ३,२.४ ॥ आकारैश्च व्यवच्छेदात्सार्वार्थ्यमवरुध्यते । यथैव चक्षुरादीनां सामर्थ्यं नालिकादिभिः ॥ ३,२.५ ॥ तेष्वाकारेषु यः शब्दस्तथाभूतेषु वर्तते । तत्त्वात्मकत्वात्तेनापि नित्यमेवाभिधीयते ॥ ३,२.६ ॥ न तत्त्वातत्त्वयोर्भेद इति वृद्धेभ्य आगमः । अतत्त्वमिति मन्यन्ते तत्त्वमेवाविचारितम् ॥ ३,२.७ ॥ विकल्परूपं भजते तत्त्वमेवाविकल्पितम् । न चात्र कालभेदोऽस्ति कालभेदश्चगृह्यते ॥ ३,२.८ ॥ यथा विषयधर्माणां ज्ञानेऽत्यन्तमसंभवः । तदात्मेव च तत्सिद्धमत्यन्तमतदात्मकम् ॥ ३,२.९ ॥ तथा विकाररूपाणां तत्त्वेऽत्यन्तमसंभवः । तदात्मेव च तत्तत्त्वमत्यम्न्तमतदात्मकम् ॥ ३,२.१० ॥ सत्यमाकृतिसंहारे यदन्ते व्यवतिष्ठते । तन्नित्यं शब्दवाच्यं तच्छब्दात्तच्च न भिद्यते ॥ ३,२.११ ॥ न तदस्ति न तन्नास्ति न तदेकं न तत्पृथक् । न संसृष्टं विभक्तं वा विकृतं न च नान्यथा ॥ ३,२.१२ ॥ तन्नास्ति विद्यते तच्च तदेकं तत्पृथक्पृथक् । संसृष्टं च विभक्तं च विकृतं तत्तदन्यथा ॥ ३,२.१३ ॥ तस्य शब्दार्थसंबन्ध- रूपमेकस्य दृश्यते । तद्दृश्यं दर्शनं द्रष्टा दर्शने च प्रयोजनम् ॥ ३,२.१४ ॥ विकारापगमे सत्यं सुवर्णं कुण्डले यथा । विकारापगमे सत्यां तथाहुः प्रकृतिं पराम् ॥ ३,२.१५ ॥ वाच्या सा सर्वशब्दानां शब्दाश्च न पृथक्ततः । अपृथक्त्वे च संबन्धस्तयोर्नानात्मनोरिव ॥ ३,२.१६ ॥ आत्मा परः प्रियो द्वेष्यो वक्ता वाच्यं प्रयोजनम् । विरुद्धानि यथैकस्य स्वप्ने रूपाणि चेतसः ॥ ३,२.१७ ॥ अजन्मनि तथा नित्ये पौर्वापर्यविवर्जिते । तत्त्वे जन्मादिरूपत्वं विरुद्धमुपलभ्यते ॥ ३,२.१८ ॥ ३.३: संबन्धसमुद्देश ज्ञानं प्रयोक्तुर्बाह्योऽर्थः स्वरूपं च प्रतीयते । शब्दैरुच्चरितैस्तेषां संबन्धः समवस्थितः ॥ ३,३.१ ॥ प्रतिपत्तुर्भवत्यर्थे ज्ञाने वा संशयः क्वचित् । स्वरूपेषूपलभ्येषु व्यभिचारो न विद्यते ॥ ३,३.२ ॥ अस्यायं वाचको वाच्य इति षष्ठ्या प्रतीयते । योगः शब्दार्थयोस्तत्त्वमप्यतो व्यपदिश्यते ॥ ३,३.३ ॥ नाभिधानं स्वधर्मेण संबन्धस्यास्ति वाचकम् । अत्यन्तपरतन्त्रत्वाद्रूपं नास्यापदिश्यते ॥ ३,३.४ ॥ उपकारात्स यत्रास्ति धर्मस्तत्रानुगम्यते । शक्तीनामपि सा शक्तिर्गुणानामप्यसौ गुणः ॥ ३,३.५ ॥ तद्धर्मणोस्तु ताच्छब्द्यं संयोगसमवाययोः । तयोरप्युपकारार्था नियतास्तदुपाधयः ॥ ३,३.६ ॥ का चिदेव हि सावस्था कार्यप्रसवसूचिता । कस्य चित्केन चिद्यस्यां संयोग उपजायते ॥ ३,३.७ ॥ निरात्मकानामुत्पत्तौ नियमः क्वचिदेव यः । तेनैवाव्यपवर्गश्च प्राप्तभेदे स यत्कृतः ॥ ३,३.८ ॥ आत्मान्तरस्य येनात्मा तदात्मेवावधार्यते । यतश्चैकत्वनानात्वं तत्त्वं नाध्यवसीयते ॥ ३,३.९ ॥ तां शक्तिं समवायाख्यां शक्तीनामुपकारिणीम् । हेदाभेदावतिक्रान्तामन्यथैव व्यवस्थिताम् ॥ ३,३.१० ॥ धर्मं सर्वपदार्थानामतीतः सर्वलक्षणः । अनुगृह्णाति संबन्ध इति पूर्वेभ्य आगमः ॥ ३,३.११ ॥ पदार्थीकृत एवान्यैः सर्वत्राभ्युपगम्यते । संबन्धस्तेन शब्दार्थः प्रविभक्तुं न शक्यते ॥ ३,३.१२ ॥ समवायात्स्व आधारः स्वा च जातिः प्रतीयते । एकार्थसमवायात्तु गुणाः स्वाधार एव ये ॥ ३,३.१३ ॥ द्रव्यत्वसत्तासंयोगाः स्वान्याधारोपबन्धनाः । तत्प्रदेशविभागाश्च गुणा द्वित्वादयश्च ये ॥ ३,३.१४ ॥ के चित्स्वाश्रयसंयुक्ताः के चित्तत्समवायिनः । संयुक्तसमवेतेषु समवेतास्तथापरे ॥ ३,३.१५ ॥ स्वाश्रयेण तु संयुक्तैः संयुक्तं विभु गम्यते । समवायस्य संबन्धो नापरस्तत्र दृश्यते ॥ ३,३.१६ ॥ संबन्धस्याविशिष्टत्वान्न चात्र नियमो भवेत् । तस्माच्छब्दार्थयोर्नैवं संबन्धः परिकल्प्यते ॥ ३,३.१७ ॥ अदृष्टवृत्तिलाभेन यथा संयोग आत्मनः । क्व चित्स्वस्वामियोगाख्योऽभेदेऽन्यत्रापि स क्रमः ॥ ३,३.१८ ॥ प्राप्तिं तु समवायाख्यां वाच्यधर्मातिवर्तिनीम् । प्रयोक्ता प्रतिपत्ता वा न शब्दैरनुगच्छति ॥ ३,३.१९ ॥ अवाच्यमिति यद्वाच्यं तदवाच्यतया यदा । वाच्यमित्यवसीयेत वाच्यमेव तदा भवेत् ॥ ३,३.२० ॥ अथाप्यवाच्यमित्येवं, न तद्वाच्यं प्रतीयते । विवक्षितास्य यावस्था सैव नाध्यवसीयते ॥ ३,३.२१ ॥ तथान्यथा सर्वथा च यस्यावाच्यत्वमुच्यते । तत्रापि नैव सावस्था तैः शब्दैः प्रतिषिध्यते ॥ ३,३.२२ ॥ न हि संशयरूपेऽर्थे शेषत्वेन व्यवस्थिते । अव्युदासे स्वरूपस्य संशयोऽन्यः प्रवर्तते ॥ ३,३.२३ ॥ यदा च निर्णयज्ञाने निर्णयत्वेन निर्णयः । प्रक्रम्यते तदा ज्ञानं स्वधर्मे नावतिष्ठते ॥ ३,३.२४ ॥ सर्वं मिथ्या ब्रवीमीति नैतद्वाक्यं विवक्ष्यते । तस्य मिथ्याभिधाने हि प्रक्रान्तोऽर्थो न गम्यते ॥ ३,३.२५ ॥ न च वाचकरूपेण प्रवृत्तस्यास्ति वाच्यता । प्रतिपाद्यं न तत्तत्र येनान्यत्प्रतिपाद्यते ॥ ३,३.२६ ॥ असाधिका प्रतिज्ञेति नेयमेवाभिधीयते । यथा, तथास्य धर्मोऽपि नात्र कश्चित्प्रतीयते ॥ ३,३.२७ ॥ व्यापारस्यापरो यस्मान्न व्यापारोऽस्ति कश्चन । विरोधमनवस्थां वा तस्मात्सर्वत्र नाश्रयेत् ॥ ३,३.२८ ॥ इन्द्रियाणां स्वविषयेष्वनादिर्योग्यता यथा । अनादिरर्थैः शब्दानां संबन्धो योग्यता तथा ॥ ३,३.२९ ॥ असाधुरनुमानेन वाचकः कैश्चिदिष्यते । वाचकत्वाविशेषे वा नियमः पुण्यपापयोः ॥ ३,३.३० ॥ संबन्धशब्दे संबन्धो योग्यताञ्ं प्रति योग्यता । समयाद्योग्यतासंविन्मातापुत्रादियोगवत् ॥ ३,३.३१ ॥ शब्दः कारणमर्थस्य स हि तेनोपजन्यते । तथा च बुद्धिविषयादर्थाच्छब्दः प्रतीयते ॥ ३,३.३२ ॥ भोजनाद्यपि मन्यन्ते बुद्ध्यर्थे यदसंभवि । बुद्ध्यर्थादेव बुद्ध्यर्थे जाते तदपि दृश्यते ॥ ३,३.३३ ॥ अनित्येष्वपि नित्यत्वमभिधेयात्मना स्थितम् । अनित्यत्वं स्वशक्तिर्वा सा च नित्यान्न भिद्यते ॥ ३,३.३४ ॥ शब्देनार्थस्य संस्कारो दृष्टादृष्टप्रयोजनः । क्रियते सोऽभिसंबन्धमन्तरेण कथं भवेत् ॥ ३,३.३५ ॥ नावश्यमभिधेयेषु संस्कारः स तथाविधः । दृस्यते न च संबन्धस्तथाभूतो विवक्षितः ॥ ३,३.३६ ॥ सति प्रत्ययहेतुत्वं संबन्ध उपपद्यते । शब्दस्यार्थे यतस्तत्र संबन्धोऽस्तीति गम्यते ॥ ३,३.३७ ॥ नित्येऽनित्येऽपि वाप्यर्थे पुरुषेण कथंचन । संबन्धोऽकृतसंबन्धैः शब्दैः कर्तुं न शक्यते ॥ ३,३.३८ ॥ व्यपदेशे पदार्थानामन्या सत्तौपचारिकी । सर्वावस्थासु सर्वेषामात्मरूपस्य दर्शिका ॥ ३,३.३९ ॥ स्फटिकादि यथा द्रव्यं भिन्नरूपैरुपाश्रयैः । स्वशक्तियोगात्संबन्धं ताद्रूप्येणेव गच्छति ॥ ३,३.४० ॥ तद्वच्छब्दोऽपि सत्तायामस्यां पूर्वं व्यवस्थितः । धर्मैरुपैति संबन्धमविरोधिविरोधिभिः ॥ ३,३.४१ ॥ एवं च प्रतिषेध्येषु प्रतिषेधप्रकॢप्तये । आश्रितेषूपचारेण प्रतिषेधः प्रवर्तते ॥ ३,३.४२ ॥ आत्मलाभस्य जन्माख्या सता लभ्यं च लभ्यते । यदि सज्जायते कस्मादथासज्जायते कथम् ॥ ३,३.४३ ॥ सतो हि गन्तुर्गमनं, सति गम्ये प्रवर्तते । गन्तृवच्चेन्न जन्मार्थो, न चेत्तद्वन्न जायते ॥ ३,३.४४ ॥ उपचर्य तु कर्तारमभिधानप्रवृत्तये । पुनश्च कर्मभावेन तां क्रियां च तदाश्रयाम् ॥ ३,३.४५ ॥ अथोपचारसत्तैवं विधेयस्तत्र लादयः । जन्मना तु विरोधित्वान्मुख्या सत्ता न विद्यते ॥ ३,३.४६ ॥ आत्मानमात्मना बिभ्रदस्तीति व्यपदिश्यते । अन्तर्भावाच्च तेनासौ कर्मणा न सकर्मकः ॥ ३,३.४७ ॥ प्राक्च सत्ताभिसंबन्धान्मुख्या सत्ता कथं भवेत् । असंश्च नास्तेः कर्ता स्यादुपचारस्तु पूर्ववत् ॥ ३,३.४८ ॥ तस्माद्भिन्नेषु धर्मेषु विरोधिष्वविरोधिनीम् । विरोधिख्यापनायैव शब्दैस्तैस्तैरुपाश्रिताम् ॥ ३,३.४९ ॥ अभिन्नकालामर्थेषु भिन्नकालेष्ववस्थिताम् । प्रवृत्तिहेतुं सर्वेषां शब्दानामौपचारिकीम् ॥ ३,३.५० ॥ एतां सत्तां पदार्थो हि न कश्चिदतिवर्तते । सा च संप्रतिसत्तायाः पृथग्भाश्ये निदर्शिता ॥ ३,३.५१ ॥ प्रदेशस्यैकदेशं वा परतो वा निरूपणम् । विपर्ययमभावं वा व्यवहारोऽनुवर्तते ॥ ३,३.५२ ॥ यथेन्द्रियस्य वैगुण्यान्मात्राध्यारोपवानिव । जायते प्रत्ययोऽर्थेभ्यस्तथैवोद्देशजा मतिः ॥ ३,३.५३ ॥ अकृत्स्नविषयाभासं शब्दः प्रत्ययमाश्रितः । अर्थमाहान्यरूपेण स्वरूपेणानिरूपितम् ॥ ३,३.५४ ॥ रूपणव्यपदेशाभ्यां लौकिके वर्त्मनि स्थितौ । ज्ञानं प्रत्यभिलापं च सदृशौ बालपण्डितौ ॥ ३,३.५५ ॥ सर्वार्थरूपता शुद्धिर्ज्ञानस्य निरुपाश्रया । ततोऽप्यस्य परां शुद्धिमेके प्राहुररूपिकाम् ॥ ३,३.५६ ॥ उपप्लवो हि ज्ञानस्य बाह्याकारानुपातिता । कालुष्यमिव तत्तस्य संसर्गे व्यतिभेदजम् ॥ ३,३.५७ ॥ यथा च ज्ञानमालेखादशुद्धौ व्यवतिष्ठते । तथोपाश्रयवानर्थः स्वरूपाद्विप्रकृष्यते ॥ ३,३.५८ ॥ एवमर्थस्य शब्दस्य ज्ञानस्य च विपर्यये । भावाभावावभेदेन व्यवहारानुपातिनौ ॥ ३,३.५९ ॥ यथा भावमुपाश्रित्य तदभावोऽनुगम्यते । तथाभावमुपाश्रित्य तद्भावोऽप्यनुगम्यते ॥ ३,३.६० ॥ नाभावो जायते भावो नैति भावोऽनुपाख्यताम् । एकस्मादात्मनोऽनन्यौ भावाभावौ विकल्पितौ ॥ ३,३.६१ ॥ अभावस्यानुपाख्यत्वात्कारणं न प्रसाधकम् । सोपाख्यस्य तु भावस्य कारणं किं करिश्यति ॥ ३,३.६२ ॥ तस्मात्सर्वमभावो वा भावो वा सर्वमिष्यते । न त्ववस्थान्तरं किं चिदेकस्मात्सत्यतः स्थितम् ॥ ३,३.६३ ॥ तस्मान्नाभावमिच्छन्ति ये लोके भाववादिनः । अभाववादिनो वापि न भावं तत्त्वलक्षणम् ॥ ३,३.६४ ॥ अद्वये चैव सर्वस्मिन् स्वभावादेकलक्षणे । परिकल्पेषु मर्यादा विचित्रैवोपलभ्यते ॥ ३,३.६५ ॥ चतस्रो हि यथावस्था निरुपाख्ये प्रकल्पिताः । एवं द्वैविध्यमप्येतद्भावाभावव्यपाश्रयम् ॥ ३,३.६६ ॥ अविरोधी विरोधी वा सन्नसन् वापि युक्तितः । क्रमवानक्रमो वापि नाभाव उपपद्यते ॥ ३,३.६७ ॥ अविरोधी विरोधी वा सन्नसन् वापि तत्त्वतः । क्रमवानक्रमो वापि तेन भावो न विद्यते ॥ ३,३.६८ ॥ अभावे त्रिषु कालेषु न भेदस्यास्ति संभवः । तस्मिन्नसति भावेऽपि त्रैकाल्यं नावतिष्ठते ॥ ३,३.६९ ॥ आत्मतत्त्वपरित्यागः परतो नोपपद्यते । आत्मतत्त्वं तु परतः स्वतो वा नोपकल्पते ॥ ३,३.७० ॥ तत्त्वे विरोधो नानात्व उपकारो न कश्चन । तत्त्वान्यत्वपरित्यागे व्यवहारो निवर्तते ॥ ३,३.७१ ॥ यत्र द्रष्टा च दृश्यं च दर्शनं चाविकल्पितम् । तस्यैवार्थस्य सत्यत्वं श्रितास्त्रय्यन्तवेदिनः ॥ ३,३.७२ ॥ सामान्यं वा विशेषं वा यस्मादाहुर्विशेषवत् । शब्दास्तस्मादसत्येषु भेदेष्वेव व्यवस्थिताः ॥ ३,३.७३ ॥ न ह्यभावस्य सद्भावे भावस्यात्मा प्रहीयते । न चाभावस्य नास्तित्वे भावस्यात्मा प्रसूयते ॥ ३,३.७४ ॥ न शाबलेयस्यास्तित्वं बाहुलेयस्य बाधकम् । न शाबलेयो नास्तीति बाहुलेयः प्रकल्पते ॥ ३,३.७५ ॥ अभावो यदि वस्तु स्यात्तत्रेयं स्यात्विचारणा । ततश्च तदभावेऽपि स्याद्विचार्यमिदं पुनः ॥ ३,३.७६ ॥ अवस्तु स्यादतीतं यद्व्यवहारस्य गोचरम् । तत्र वस्तुगतो भेदो न निर्वचनमर्हति ॥ ३,३.७७ ॥ अपदेऽर्थे पदन्यासः कारणस्य न विद्यते । अथ च प्रागसद्भावः कारणे सति दृष्यते ॥ ३,३.७८ ॥ का तस्य प्रागवस्थेति वस्त्वाश्रितमिदं पुनः । प्रागवस्थेति न ह्येतद्द्वयमप्यस्त्यवस्तुनि ॥ ३,३.७९ ॥ न चोर्ध्वमस्ति नास्तीति वचनायानिबन्धनम् । अलं स्यादपदस्थानमेतद्वाचः प्रचक्षते ॥ ३,३.८० ॥ अत्यद्भुता त्वियं वृत्तिर्यदभागं यदक्रमम् । भावानां प्रागभूतानामात्मतत्त्वं प्रकाशते ॥ ३,३.८१ ॥ विकल्पोत्थापितेनैव सर्वो भावेन लौकिकः । मुख्येनेव पदार्थेन व्यवहारो विधीयते ॥ ३,३.८२ ॥ भावशक्तिमतश्चैनां मन्यन्ते नित्यवादिनः । भावमेव क्रमं प्राहुर्न भावादपरः क्रमः ॥ ३,३.८३ ॥ क्रमान्न यौगपद्यस्य कश्चिद्भेदोऽस्ति तत्त्वतः । यथैव भावान्नाभावः कश्चिदन्योऽवसीयते ॥ ३,३.८४ ॥ कालस्याप्यपरं कालं निर्दिशन्त्येव लौकिकाः । न च निर्देशमात्रेण व्यतिरेकोऽनुगम्यते ॥ ३,३.८५ ॥ आधारं कल्पयन् बुद्ध्या नाभावे व्यवतिष्ठते । अवस्तुष्वपि नोत्प्रेक्षा कस्य चित्प्रतिबध्यते ॥ ३,३.८६ ॥ तस्माच्छक्तिविभागेन नित्यः सदसदात्मकः । एकोऽर्थः शब्दवाच्यत्वे बहुरूपः प्रकाशते ॥ ३,३.८७ ॥ व्यवहारश्च लोकस्य पदार्थैः परिकल्पितैः । शास्त्रे पदार्थः कार्यार्थं लौकिकः प्रविभज्यते ॥ ३,३.८८ ॥ ३,४: भूयोद्रव्यसमुद्देशः संसर्गरूपात्संभूताः संविद्रूपादपोद्धृताः । शास्त्रे विभक्ता वाक्यार्थात्प्रकृतिप्रत्ययार्थवत् ॥ ३,४.१ ॥ निमित्तभूताः साधुत्वे शास्त्रादनुमितात्मकाः । के चित्पदार्था वक्ष्यन्ते संक्शेपेण यथागमम् ॥ ३,४.२ ॥ वस्तूपलक्षणं यत्र सर्वनाम प्रयुज्यते । द्रव्यमित्युच्यते सोऽर्तो भेद्यत्वेन विवक्शितः ॥ ३,४.३ ॥ ३,५: गुणसमुदेश संसर्गि भेदकं यद्यत्सव्यापारं प्रतीयते । गुणत्वं परतन्त्रत्वात्तस्य शास्त्र उदाहृतम् ॥ ३,५.१ ॥ द्रव्यस्याव्यपदेशस्य य उपादीयते गुणः । भेदको व्यपदेशाय तत्प्रकर्षोऽभिधीयते ॥ ३,५.२ ॥ सर्वस्यैव प्रधानस्य न विना भेदहेतुना । प्रकर्षो विद्यते नापिऽशब्दस्योपैति वाच्यताम् ॥ ३,५.३ ॥ विद्यमानाः प्रधानेषु न सर्वे भेदहेतवः । विशेषशब्दैरुच्यन्ते व्यावृत्तार्थाभिधायिभिः ॥ ३,५.४ ॥ वस्तूपलक्षणे तत्र विशेषो व्यापृतो यदि । प्रकर्षो नियमाभावात्स्यादविज्ञातहेतुकः ॥ ३,५.५ ॥ सर्वं च सर्वतोऽवश्यं नियमेन प्रकृष्यते । संसर्गिणा निमित्तेन निकृष्टेनाधिकेन वा ॥ ३,५.६ ॥ नापेक्षते निमित्तं च प्रकर्षे व्यापृतं यदि । द्रव्यस्य स्यादुपादानं प्रकर्षं प्रत्यनर्थकं ॥ ३,५.७ ॥ सव्यापारो गुणस्तस्मात्स्वप्रकर्षनिबन्धनः । द्रव्यात्मानं भिनत्त्येव स्वप्रकर्षं निवेशयन् ॥ ३,५.८ ॥ अरूपं पररूपेण द्रव्यमाख्यायते यथा । अप्रकर्षं प्रकर्षेण गुणस्याविश्यते तथा ॥ ३,५.९ ॥ ३,६: दिक्समुद्देश दिक्साधनं क्रिया काल इति वस्त्वभिधायिनः । शक्तिरूपे पदार्थानामत्यन्तमनवस्थिताः ॥ ३,६.१ ॥ व्यतिरेकस्य यो हेतुरवधिप्रतिपाद्ययोः । ऋज्वित्येवं यतोऽन्येन विना बुद्धिः प्रवर्तते ॥ ३,६.२ ॥ कर्मनो जातिभेदानामभिव्यक्तिर्यदाश्रया । सा स्वैरुपाधिभिर्भिन्ना शक्तिर्दिगिति कथ्यते ॥ ३,६.३ ॥ परापरत्वे मूर्तिनां देशभेदनिबन्धने । तत एव प्रकल्पेते क्रमरूपे तु कालतः ॥ ३,६.४ ॥ आकाशस्य प्रदेशेन भागैश्चान्यैः पृथक्पृथक् । सा संयोगविभागानामुपाधित्वाय कल्पते ॥ ३,६.५ ॥ दिशो व्यवस्था देशानां दिग्व्यवस्था न विद्यते । शक्तयः खलु भावानामुपकारप्रभाविताः ॥ ३,६.६ ॥ प्रत्यस्तरूपा भावेषु दिक्पूर्वेत्यभिधीयते । पूर्वबुद्धिर्यतो दिक्सा समाख्यामात्रमन्यथा ॥ ३,६.७ ॥ स्वाङ्गाद्व्यवस्था या लोके न तस्यां नियता दिशः । प्रत्यङ्मुखस्य यत्पश्चात्तत्पुरस्ताद्विपर्यये ॥ ३,६.८ ॥ देशव्यवस्थानियमो दिक्षु न व्यवतिष्ठते । रूढमप्यपरत्वेन पूर्वमित्यभिधीयते ॥ ३,६.९ ॥ अतो भाषितपुंस्कत्वात्पुंवद्भावो न सिध्यति । अस्मिन्नर्थे न शब्देन प्रसवः क्व चिदुच्यते ॥ ३,६.१० ॥ दिक्शक्तेरभिधाने तु नियतं दिशि दर्शनम् । पूर्वादिनां यथा षष्टेर्जीवितस्यावधारणे ॥ ३,६.११ ॥ छायाभाभ्यां नगादीनां भागभेदः प्रकल्पते । अतद्धर्मसु भावेषु भागभेदो न कल्पते ॥ ३,६.१२ ॥ परमाणोरभागस्य दिशा भागो विधीयते । भागप्रकल्पनाशक्तिं प्रथमां तां प्रचक्षते ॥ ३,६.१३ ॥ अदेशाश्चाप्यभागाश्च निष्क्रमा निरुपाश्रयाः । भावाः संसर्गिरूपात्तु शक्तिभेदः प्रकल्पते ॥ ३,६.१४ ॥ निर्भागात्मकता तुल्या परमाणोर्घटस्य च । भागः शक्त्यन्तरं तत्र परिमाणं च यत्तयोः ॥ ३,६.१५ ॥ यतः प्रकल्पते भेदो भेदस्तत्रापि दृश्यते । अदृष्टोपरतिं भेदमतोऽयुक्ततरं विदुः ॥ ३,६.१६ ॥ सर्वत्र तस्य कार्यस्य दर्शनाद्विभुरिष्यते । विभुत्वमेतदेवाहुरन्यः कायवतां विधिः ॥ ३,६.१७ ॥ चैतन्यवत्स्थिता लोके दिक्कालपरिकल्पना । प्रकृतिं प्राणिनां तां हि कोऽन्यथा स्थापयिष्यति ॥ ३,६.१८ ॥ संकरो व्यवहाराणां प्रकृतेः स्याद्विपर्यये । तस्मात्त्यजन्निमान् भावान् पुनरेवावलम्बते ॥ ३,६.१९ ॥ तस्यास्तु शक्तेः पूर्वादि- भेदो भावान्तराश्रयः । भिन्ना दिक्तेन भेदेन भेदायैवोपकल्पते ॥ ३,६.२० ॥ अवधित्वेन चापेक्षा- योगे दिग्लक्षणो विधिः । पूर्वमस्येति षष्ठ्येव दृष्टा धर्मान्तराश्रये ॥ ३,६.२१ ॥ पूर्वादिनां विपर्यासोऽदृष्टश्चावध्यसंकरे । ऋज्वेतदस्येत्येतच्च लिङ्गं न व्यतिकीर्यते ॥ ३,६.२२ ॥ अन्तःकरणधर्मो वा बहिरेवं प्रकाशते । अस्यां त्वन्तर्बहिर्भावः प्रक्रियायां न विद्यते ॥ ३,६.२३ ॥ एकत्वमासां शक्तीनां नानात्वं वेति कल्पने । अवस्तुपतिते ज्ञात्वा सत्यतो न परामृशेत् ॥ ३,६.२४ ॥ विकल्पातीततत्त्वेषु संकेतोपनिबन्धनाः । भावेषु व्यवहारा ये लोकस्तत्रानुगम्यते ॥ ३,६.२५ ॥ नैकत्वमस्त्यनानात्वं विनैकत्वेन नेतरत् । परमार्थे तयोरेष भेदोऽत्यन्तं न विद्यते ॥ ३,६.२६ ॥ न शक्तीनां तथा भेदो यथा शक्तिमतां स्थितिः । न च लौकिकमेकत्वं तासामात्मसु विद्यते ॥ ३,६.२७ ॥ नैकत्वं व्यवतिष्ठेत नानात्वं चेन्न कल्पयेत् । नानात्वं चावहीयेत यद्येकत्वं न कल्पयेत् ॥ ३,६.२८ ॥ ३,७: साधनसमुद्देश स्वाश्रये समवेतानां तद्वदेवाश्रयान्तरे । क्रियाणामभिनिष्पत्तौ सामर्थ्यं साधनं विदुः ॥ ३,७.१ ॥ शक्तिमात्रासमूहस्य विश्वस्यानेकधर्मणः । सर्वदा सर्वथा भावात्क्व चित्किं चिद्विवक्ष्यते ॥ ३,७.२ ॥ साधनव्यवहारश्च बुद्ध्यवस्थानिबन्धनः । सन्नसन् वार्थरूपेषु भेदो बुद्ध्या प्रकल्प्यते ॥ ३,७.३ ॥ बुद्ध्या समीहितैकत्वान् पञ्चालान् कुरुभिर्यदा । पुनर्विभजते वक्ता तदापायः प्रतीयते ॥ ३,७.४ ॥ शब्दोपहितरूपांश्च बुद्धेर्विषयतां गतान् । प्रत्यक्षमिव कंसादीन् साधनत्वेन मन्यते ॥ ३,७.५ ॥ बुद्धिप्रवृत्तिरूपं च समारोप्याभिधातृभिः । अर्थेषु शक्तिभेदानां क्रियते परिकल्पना ॥ ३,७.६ ॥ व्यक्तौ पदार्थे शब्दादेर्जन्यमानस्य कर्मणः । साधनत्वं तथा सिद्धं बुद्धिरूपप्रकल्पितम् ॥ ३,७.७ ॥ स्वतन्त्रपरतन्त्रत्वे क्रमरूपं च दर्शितम् । निरीहेष्वपि भावेषु कल्पनोपनिबन्धनम् ॥ ३,७.८ ॥ शक्तयः शक्तिमन्तश्च सर्वे संसर्गवादिनाम् । भावास्तेष्वस्वशब्देषु साधनत्वं निरूप्यते ॥ ३,७.९ ॥ घटस्य दृशिकर्मत्वे महत्त्वादीनि साधनम् । रूपस्य दृशिकर्मत्वे रूपत्वादीनि साधनम् ॥ ३,७.१० ॥ स्वैः सामान्यविशेषैश्च शक्तिमन्तो रसादयः । नियतग्रहणा लोके शक्तयस्तास्तथाश्रयैः ॥ ३,७.११ ॥ इन्द्रियार्थमनःकर्तृ- संबन्धः साधनं क्व चित् । यद्यदा यदनुग्राहि तत्तदा तत्र साधनम् ॥ ३,७.१२ ॥ स्वशब्दैरभिधाने तु स धर्मो नाभिधीयते । विभक्त्यादिभिरेवासावुपकारः प्रतीयते ॥ ३,७.१३ ॥ निमित्तभावो भावानामुपकारार्थमाश्रितः । नतिरावर्जनेत्येवं सिद्धः साधनमिष्यते ॥ ३,७.१४ ॥ स तेभ्यो व्यतिरिक्तो वा तेषामात्मैव वा तथा । व्यतिरेकमुपाश्रित्य साधनत्वेन कल्प्यते ॥ ३,७.१५ ॥ संदर्शनं प्रार्थनायां व्यवसाये त्वनन्तरा । व्यवसायस्तथारम्भे साधनत्वाय कल्पते ॥ ३,७.१६ ॥ पूर्वस्मिन् या क्रिया सैव परस्मिन् साधनं मता । संदर्शने तु चैतन्यं विशिष्टं साधनं विदुः ॥ ३,७.१७ ॥ निष्पत्तिमात्रे कर्तृत्वं सर्वत्रैवास्ति कारके । व्यापारभेदापेक्षायां करणत्वादिसंभवः ॥ ३,७.१८ ॥ पुत्रस्य जन्मनि यथा पित्रोः कर्तृत्वमुच्यते । अयमस्यामियं त्वस्मादिति भेदो विवक्षया ॥ ३,७.१९ ॥ गुणक्रियाणां कर्तारः कर्त्रा न्यक्कृतशक्तयः । न्यक्तायामपि संपूर्णैः स्वैर्व्यापारैः समन्विताः ॥ ३,७.२० ॥ करणत्वादिभिर्ज्ञाताः क्रियाभेदानुपातिभिः । स्वातन्त्र्यमुत्तरं लब्ध्वा प्रधाने यान्ति कर्तृताम् ॥ ३,७.२१ ॥ यथा राज्ञा नियुक्तेषु योद्धृत्वं योद्धृषु स्थितम् । तेषु वृत्तौ तु लभते राजा जयपराजयौ ॥ ३,७.२२ ॥ तथा कर्त्रा नियुक्तेषु सर्वेष्वेकार्थकारिषु । कर्तृत्वं करणत्वादेरुत्तरं न विरुध्यते ॥ ३,७.२३ ॥ अनाश्रिते तु व्यापारे निमित्तं हेतुरिष्यते । आश्रितावधिभावं तु लक्षणे लक्षणं विदुः ॥ ३,७.२४ ॥ द्रव्यादिविषयो हेतुः कारकं नियतक्रियम् । कर्ता कर्त्रन्तरापेक्षः क्रियायां हेतुरिष्यते ॥ ३,७.२५ ॥ क्रियायै करणं तस्य दृष्टः प्रतिनिधिस्तथा । हेत्वर्था तु क्रिया तस्मान्न स प्रतिनिधीयते ॥ ३,७.२६ ॥ प्रातिलोम्यानुलोम्याभ्यां हेतुरर्थस्य साधकः । तादर्थ्यमानुलोम्येन हेतुत्वानुगतं तु तत् ॥ ३,७.२७ ॥ सर्वत्र सहजा शक्तिर्यावद्द्रव्यमवस्थिता । क्रियाकाले त्वभिव्यक्तेराश्रयादुपकारिणी ॥ ३,७.२८ ॥ कुड्यस्यावरणे शक्तिरस्यादीनां विदारणे । सर्वदा स तु सन् धर्मः क्रियाकाले निरूप्यते ॥ ३,७.२९ ॥ स्वा"न्गसंयोगिनः पाशा दैत्यानां वारुणा यथा । व्यज्यन्ते विजिगीषूणां द्रव्याणां शक्तयस्तथा ॥ ३,७.३० ॥ तैक्ष्ण्यगौरवकाठिन्य- संस्थानैः स्वैरसिर्यदा । छेद्यं प्रति व्याप्रियते शक्तिमान् गृह्यते तदा ॥ ३,७.३१ ॥ प्रा"न्निमित्तान्तरोद्भूतं क्रियायाः कैश्चिदिष्यते । साधनं सहजं कैश्चित्क्रियान्यैः पूर्वमिष्यते ॥ ३,७.३२ ॥ प्रवृत्तिरेव प्रथमं क्व चिदप्यनपाश्रिता । शक्तीरेकाधिकरणे स्रोतोवदपकर्षति ॥ ३,७.३३ ॥ अपूर्वं कालशक्तिं वा क्रियां वा कालमेव वा । तमेवम्लक्सनं भावं के चिदाहुह्कथं च न ॥ ३,७.३४ ॥ नित्याः षट्शक्तयोऽअन्येषां भेदाभेदसमन्विताः । क्रियासंसिद्धयेऽर्थेषु जातिवत्समवस्थिताः ॥ ३,७.३५ ॥ द्रव्याकारादिभेदेन ताश्चापरिमिता इव । दृश्यन्ते तत्त्वमासां तु षट्शक्तीर्नातिवर्तते ॥ ३,७.३६ ॥ निमित्तभेदादेकैव भिन्ना शक्तिः प्रतीयते । षोढा कर्तृत्वमेवाहुस्तत्प्रवृत्तेर्निबन्धनम् ॥ ३,७.३७ ॥ तत्त्वे वा व्यतिरेके वा व्यतिरिक्तं तदुच्यते । शब्दप्रमाणको लोकः स शास्त्रेणानुगम्यते ॥ ३,७.३८ ॥ परमार्थे तु नैकत्वं पृथक्त्वाद्भिन्नलक्षणम् । पृथक्त्वैकत्वरूपेण तत्त्वमेव प्रकाशते ॥ ३,७.३९ ॥ यत्पृथक्त्वमसंदिग्धं तदेकत्वान्न भिद्यते । यदेकत्वमसंदिग्धं तत्पृथक्त्वान्न भिद्यते ॥ ३,७.४० ॥ द्यौः क्षमा वायुरादित्यः सागराः सरितो दिशः । अन्तःकरणतत्त्वस्य भागा बहिरवस्थिताः ॥ ३,७.४१ ॥ कालविच्छेदरूपेण तदेवैकमवस्थितम् । स ह्यपूर्वापरो भावः क्रमरूपेण लक्ष्यते ॥ ३,७.४२ ॥ दृष्टो ह्यव्यतिरेकेऽपि व्यतिरेकोऽन्वयेऽसति । वृक्षाद्यर्थान्वयस्तस्माद्विभक्त्यर्थोऽन्य इष्यते ॥ ३,७.४३ ॥ सामान्यं कारकं तस्य सप्ताद्या भेदयोनयः । षट्कर्माख्यादिभेदेन शेषभेदस्तु सप्तमी ॥ ३,७.४४ ॥ [अथ कर्माधिकारः] निर्वर्त्यं च विकार्यं च प्राप्यं चेति त्रिधा मतम् । तत्रेप्सिततमं कर्म चतुर्धान्यत्तु कल्पितम् ॥ ३,७.४५ ॥ औदासीन्येन यत्प्राप्यं यच्च कर्तुरनीप्सितम् । संज्ञान्तरैरनाख्यातं यद्यच्चाप्यन्यपूर्वकम् ॥ ३,७.४६ ॥ सती वाविद्यमाना वा प्रकृतिः परिणामिनी । यस्य नाश्रियते तस्य निर्वर्त्यत्वं प्रचक्षते ॥ ३,७.४७ ॥ प्रकृतेस्तु विवक्षायां विकार्यं कैश्चिदन्यथा । निर्वर्त्यं च विकार्यं च कर्म शास्त्रे प्रदर्शितम् ॥ ३,७.४८ ॥ यदसज्जायते सद्वा जन्मना यत्प्रकाश्यते । तन्निर्वर्त्यं विकार्यं च कर्म द्वेधा व्यवस्थितम् ॥ ३,७.४९ ॥ प्रकृत्युच्छेदसंभूतं किं चित्काष्ठादिभस्मवत् । किं चिद्गुणान्तरोत्पत्त्या सुवर्णादिविकारवत् ॥ ३,७.५० ॥ क्रियाकृता विशेषाणां सिद्धिर्यत्र न गम्यते । दर्शनादनुमानाद्वा तत्प्राप्यमिति कथ्यते ॥ ३,७.५१ ॥ विशेषलाभः सर्वत्र विद्यते दर्शनादिभिः । केषां चित्तदभिव्यक्ति- सिद्धिर्दृष्टिविषादिषु ॥ ३,७.५२ ॥ आभासोपगमो व्यक्तिः सोढत्वमिति कर्मणः । विशेषाः प्राप्यमाणस्य क्रियासिद्धौ व्यवस्थिताः ॥ ३,७.५३ ॥ निर्वर्त्यादिषु तत्पूर्वमनुभूय स्वतन्त्रताम् । कर्त्रन्तराणां व्यापारे कर्म संपद्यते ततः ॥ ३,७.५४ ॥ तद्व्यापारविवेकेऽपि स्वव्यापारे व्यवस्थितम् । कर्मापदिष्टांल्लभते क्व चिच्छास्त्राश्रयान् विधीन् ॥ ३,७.५५ ॥ निवृत्तप्रेषणं कर्म स्वक्रियावयवे स्थितम् । निवर्तमाने कर्मत्वे स्वे कर्तृत्वेऽवतिष्ठते ॥ ३,७.५६ ॥ तानि धात्वन्तराण्येव पचिसिध्यतिवद्विदुः । भेदेऽपि तुल्यरूपत्वादेकत्वपरिकल्पना ॥ ३,७.५७ ॥ एकदेशे समूहे च व्यापाराणां पचादयः । स्वभावतः प्रवर्तन्ते तुल्यरूपसमन्विताः ॥ ३,७.५८ ॥ न्यग्भावना न्यग्भवनं रुहौ शुद्धे प्रतीयते । न्यग्भावना न्यग्भवनं ण्यन्तेऽपि प्रतिपद्यते ॥ ३,७.५९ ॥ अवस्थां पञ्चमीमाहुर्ण्यन्ते तां कर्मकर्तरि । निवृत्तप्रेषणाद्धातोः प्राकृतेऽर्थे णिजुच्यते ॥ ३,७.६० ॥ ब्रवीति पचतेरर्थं सिध्यतिर्न विना णिचा । स ण्यन्तः पचतेरर्थे प्राकृते व्यवतिष्ठते ॥ ३,७.६१ ॥ केषां चिद्देवदत्तादेर्व्यापारो यः सकर्मके । स विना देवदत्तादेः कटादिषु विवक्ष्यते ॥ ३,७.६२ ॥ निवृत्तप्रेषणं कर्म स्वस्य कर्तुः प्रयोजकम् । प्रेषणान्तरसंबन्धे ण्यन्ते लेनाभिधीयते ॥ ३,७.६३ ॥ सदृशादिषु यत्कर्म- कर्तृत्वं प्रतिपद्यते । आपत्त्यापादने तत्र विषयत्वं प्रति क्रिये ॥ ३,७.६४ ॥ कुतश्चिदाहृत्य पदमेवं च परिकल्पने । कर्मस्थभावकत्वं स्याद्दर्शनाद्यभिधायिनाम् ॥ ३,७.६५ ॥ विशेषदर्शनं यत्र क्रिया तत्र व्यवस्थिता । क्रियाव्यवस्था त्वन्येषां शब्दैरेव प्रकाश्यते ॥ ३,७.६६ ॥ कालभावाध्वदेशानामन्तर्भूतक्रियान्तरैः । सर्वैरकर्मकैर्योगे कर्मत्वमुपजायते ॥ ३,७.६७ ॥ आधारत्वमिव प्राप्तास्ते पुनर्द्रव्यकर्मसु । कालादयो भिन्नकक्ष्यं यान्ति कर्मत्वमुत्तरम् ॥ ३,७.६८ ॥ अतस्तैः कर्मभिर्धातुर्युक्तोऽद्रव्यैरकर्मकः । लस्य कर्मणि भावे च निमित्तत्वाय कल्पते ॥ ३,७.६९ ॥ सर्वं चाकथितं कर्म भिन्नकक्ष्यं प्रतीयते । धात्वर्थोद्देशभेदेन तन्नेप्सिततमं किल ॥ ३,७.७० ॥ प्रधानकर्म कथितं यत्क्रियायाः प्रयोजकम् । तत्सिद्धये क्रियायुक्तमन्यत्त्वकथितं स्मृतम् ॥ ३,७.७१ ॥ दुह्यादिवन्नयत्यादौ कर्मत्वमकथाश्रयम् । आख्यातानुपयोगे तु नियमाच्छेष इष्यते ॥ ३,७.७२ ॥ अन्तर्भूतणिजर्थानां दुह्यादीनां णिजन्तवत् । सिद्धं पूर्वेण कर्मत्वं णिजन्तनियमस्तथा ॥ ३,७.७३ ॥ करणस्य स्वकक्ष्यायां न प्रकर्षाश्रयो यथा । कर्मणोऽपि स्वकक्ष्यायां न स्यादतिशयस्तथा ॥ ३,७.७४ ॥ कर्मणस्त्वाप्तुमिष्टत्व आश्रितेऽतिशयो यतः । आश्रीयते ततोऽत्यन्तं भेदः पूर्वेण कर्मणा ॥ ३,७.७५ ॥ णिजन्ते च यथा कर्ता सक्रियः सन् प्रयुज्यते । न दुह्यादौ तथा कर्ता निष्क्रियोऽपि प्रयुज्यते ॥ ३,७.७६ ॥ भेदवाक्यं तु यन् ण्यन्ते नीदुहिप्रकृतौ च यत् । शब्दान्तरत्वान्नैवास्ति संस्पर्शस्तस्य धातुना ॥ ३,७.७७ ॥ यथैवैकमपादानं शास्त्रे भेदेन दर्शितम् । तथैकमेव कर्मापि भेदेन प्रतिपादितम् ॥ ३,७.७८ ॥ निर्वर्त्यो वा विकार्यो वा प्राप्यो वा साधनाश्रयः । क्रियाणामेव साध्यत्वात्सिद्धरूपोऽभिधीयते ॥ ३,७.७९ ॥ अहितेषु यथा लौल्यात्कर्तुरिच्छोपजायते । विषादिषु भयादिभ्यस्तथैवासौ प्रवर्तते ॥ ३,७.८० ॥ प्रधानेतरयोर्यत्र द्रव्यस्य क्रिययोः पृथक् । शक्तिर्गुणाश्रया तत्र प्रधानमनुरुध्यते ॥ ३,७.८१ ॥ प्रधानविषया शक्तिः प्रत्ययेनाभिधीयते । यदा गुणे तदा तद्वदनुक्तापि प्रकाशते ॥ ३,७.८२ ॥ पचावनुक्तं यत्कर्म क्त्वान्ते भावाभिधायिनि । भुजौ शक्त्यन्तरेऽप्युक्ते तत्तद्धर्म प्रकाशते ॥ ३,७.८३ ॥ इषेश्च गमिसंस्पर्शाद्ग्रामे यो लो विधीयते । तत्रेषिणैव निर्भोगः क्रियते गमिकर्मणः ॥ ३,७.८४ ॥ पक्त्वा भुज्यत इत्यत्र केषां चिन्न व्यपेक्षते । ओदनं पचतिः सोऽसावनुमानात्प्रतीयते ॥ ३,७.८५ ॥ तथाभिनिविशौ कर्म यत्ति"नन्तेऽभिधीयते । क्त्वान्तेऽधिकरणत्वेऽपि न तत्रेच्छन्ति सप्तमीम् ॥ ३,७.८६ ॥ यन्निर्वृत्ताश्रयं कर्म प्राप्तेरप्रचितं पुनः । भक्ष्यादिविषयापत्त्या भिद्यमानं तदीप्सितम् ॥ ३,७.८७ ॥ धातोरर्थान्तरे वृत्तेर्धात्वर्थेनोपसंग्रहात् । प्रसिद्धेरविवक्षातः कर्मणोऽकर्मिका क्रिया ॥ ३,७.८८ ॥ भेदा य एते चत्वारः सामान्येन प्रदर्शिताः । ते निमित्तादिभेदेन भिद्यन्ते बहुधा पुनः ॥ ३,७.८९ ॥ [इति कर्माधिकारः] [अथ करणाधिकारः] क्रियायाः परिनिष्पत्तिर्यद्व्यापारादनन्तरम् । विवक्ष्यते यदा तत्र करणत्वं तदा स्मृतम् ॥ ३,७.९० ॥ वस्तुतस्तदनिर्देश्यं न हि वस्तु व्यवस्थितम् । स्थाल्या पच्यत इत्येषा विवक्षा दृश्यते यतः ॥ ३,७.९१ ॥ करणेषु तु संस्कारमारभन्ते पुनः पुनः । विनियोगविशेषांश्च प्रधानस्य प्रसिद्धये ॥ ३,७.९२ ॥ स्वकक्ष्यासु प्रकर्षश्च करणानां न विद्यते । आश्रितातिशयत्वं तु परतस्तत्र लक्षणम् ॥ ३,७.९३ ॥ स्वातन्त्र्येऽपि प्रयोक्तार आरादेवोपकुर्वते । करणेन हि सर्वेषां व्यापारो व्यवधीयते ॥ ३,७.९४ ॥ क्रियासिद्धौ प्रकर्षोऽयं न्यग्भावस्त्वेव कर्तरि । सिद्धौ सत्यां हि सामान्यं साधकत्वं प्रकृष्यते ॥ ३,७.९५ ॥ अस्यादीनां तु कर्तृत्वे तैक्ष्ण्यादि करणं विदुः । तैक्ष्ण्यादीनां स्वतन्त्रत्वे द्वेधात्मा व्यवतिष्ठते ॥ ३,७.९६ ॥ आत्मभेदेऽपि सत्येवमेकोऽर्थः स तथा स्थितः । तदाश्रयत्वाद्भेदेऽपि कर्तृत्वं बाधकं ततः ॥ ३,७.९७ ॥ यथा च संनिधानेन करणत्वं प्रतीयते । तथैवासंनिधानेऽपि क्रियासिद्धेः प्रतीयते ॥ ३,७.९८ ॥ स्तोकस्य वाभिनिर्वृत्तेरनिर्वृत्तेश्च तस्य वा । प्रसिद्धिं करणत्वस्य स्तोकादीनां प्रचक्षते ॥ ३,७.९९ ॥ धर्माणां तद्वता भेदादभेदाच्च विशिष्यते । क्रियावधेरवच्छेद- विशेषाद्भिद्यते यथा ॥ ३,७.१०० ॥ [इति करणाधिकारः] [अथ कर्त्रधिकारः] प्रागन्यतः शक्तिलाभान्न्यग्भावापादनादपि । तदधीनप्रवृत्तित्वात्प्रवृत्तानां निवर्तनात् ॥ ३,७.१०१ ॥ अदृष्टत्वात्प्रतिनिधेः प्रविवेके च दर्शनात् । आरादप्युपकारित्वे स्वातन्त्र्यं कर्तुरुच्यते ॥ ३,७.१०२ ॥ धर्मैरभ्युदितैः शब्दे नियमो न तु वस्तुनि । कर्तृधर्मविवक्षायां शब्दात्कर्ता प्रतीयते ॥ ३,७.१०३ ॥ एकस्य बुद्ध्यवस्थाभिर्भेदे च परिकल्पिते । कर्तृत्वं करणत्वं च कर्मत्वं चोपजायते ॥ ३,७.१०४ ॥ उत्पत्तेः प्रागसद्भावो बुद्ध्यवस्थानिबन्धनः । अविशिष्टः सतान्येन कर्ता भवति जन्मनः ॥ ३,७.१०॰ ॥ कारणं कार्यभावेन यदा वाव्यवतिष्ठते । कार्यशब्दं तदा लब्ध्वा कार्यत्वेनोपजायते ॥ ३,७.१०६ ॥ यथाहेः कुण्डलीभावो व्यग्राणां वा समग्रता । तथैव जन्मरूपत्वं सतामेके प्रचक्षते ॥ ३,७.१०७ ॥ विभक्तयोनि यत्कार्यं कारणेभ्यः प्रवर्तते । स्वा जातिर्व्यक्तिरूपेण तस्यापि व्यवतिष्ठते ॥ ३,७.१०८ ॥ भावेष्वेव पदन्यासः प्रज्ञाया वाच एव वा । नास्तीत्यप्यपदे नास्ति न च सद्भिद्यते ततः ॥ ३,७.१०९ ॥ बुद्धिशब्दौ प्रवर्तेते यथाभूतेषु वस्तुषु । तेषामन्येन तत्त्वेन व्यवहारो न विद्यते ॥ ३,७.११० ॥ आकाशस्य यथा भेदश्छायायाश्चलनं यथा । जन्मनाशावभेदेऽपि तथा कैश्चित्प्रकल्पितौ ॥ ३,७.१११ ॥ यथैवाकाशनास्तित्वमसन्मूर्तिनिरूपितम् । तथैव मूर्तिनास्तित्वमसदाकाशनिश्रयम् ॥ ३,७.११२ ॥ यथा तदर्थैर्व्यापारैः क्रियात्मा व्यपदिश्यते । अभेदग्रहणादेष कार्यकारणयोः क्रमः ॥ ३,७.११३ ॥ विकारो जन्मनः कर्ता प्रकृतिर्वेति संशये । भिद्यते प्रतिपत्तृणां दर्शनं लि"न्गदर्शनैः ॥ ३,७.११४ ॥ कॢपि संपद्यमाने या चतुर्थी सा विकारतः । सुवर्णपिण्डे प्रकृतौ वचनं कुण्डलाश्रयम् ॥ ३,७.११५ ॥ वाक्ये संपद्यतेः कर्ता स"न्घश्च्व्यन्तस्य कथ्यते । वृत्तौ सङ्घीभवन्तीति ब्राह्मणानां स्वतन्त्रता ॥ ३,७.११६ ॥ अत्वं संपद्यते यस्त्वं न तस्मिन् युष्मदाश्रया । प्रवृत्तिः पुरुषस्यास्ति प्राकृतः स विधीयते ॥ ३,७.११७ ॥ पूर्वावस्थामविजहत्संस्पृशन् धर्ममुत्तरम् । संमूर्छित इवार्थात्मा जायमानोऽभिधीयते ॥ ३,७.११८ ॥ सव्यापारतरः कश्चित्क्व चिद्धर्मः प्रतीयते । संसृज्यन्ते च भावानां भेदवत्योऽपि शक्तयः ॥ ३,७.११९ ॥ विपरीतार्थवृत्तित्वं पुरुषस्य विपर्यये । गम्येत साधनं ह्यत्र सव्यापारं प्रतीयते ॥ ३,७.१२० ॥ त्वमन्यो भवसीत्येषा तत्र स्यात्परिकल्पना । राज्ञि भृत्यत्वमापन्ने यथा तद्वद्गतिर्भवेत् ॥ ३,७.१२१ ॥ संभावनात्क्रियासिद्धौ कर्तृत्वेन समाश्रितः । क्रियायामात्मसाध्यायां साधनानां प्रयोजकः ॥ ३,७.१२२ ॥ प्रयोगमात्रे न्यग्भावं स्वातन्त्र्यादेव निश्रितः । अविशिष्टो भवत्यन्यैः स्वतन्त्रैर्मुक्तसंशयैः ॥ ३,७.१२३ ॥ निमित्तेभ्यः प्रवर्तन्ते सर्व एव स्वभूतये । अभिप्रायानुरोधोऽपि स्वार्थस्यैव प्रसिद्धये ॥ ३,७.१२४ ॥ [इति कर्त्रधिकारः][अथ हेत्वधिकारः] प्रेषणाध्येषणे कुर्वंस्तत्समर्थानि चाचरन् । कर्तैव विहितां शास्त्रे हेतुसंज्ञां प्रपद्यते ॥ ३,७.१२५ ॥ द्रव्यमात्रस्य तु प्रैषे पृच्छ्यादेर्लोड्विधीयते । सक्रियस्य प्रयोगस्तु यदा स विषयो णिचः ॥ ३,७.१२६ ॥ गुणक्रियायां स्वातन्त्र्यात्प्रेषणे कर्मतां गतः । नियमात्कर्मसंज्ञायाः स्वधर्मेणाभिधीयते ॥ ३,७.१२७ ॥ क्रियायाः प्रेरकं कर्म हेतुः कर्तुः प्रयोजकः । कर्मार्था च क्रियोत्पत्ति- संस्कारप्रतिपत्तिभिः ॥ ३,७.१२८ ॥ [इति हेत्वधिकारः] [अथ संप्रदानाधिकारः] अनिराकरणात्कर्तुस्त्यागा"न्गं कर्मणेप्सितम् । प्रेरणानुमतिभ्यां च लभते संप्रदानताम् ॥ ३,७.१२९ ॥ हेतुत्वे कर्मसंज्ञायां शेषत्वे वापि कारकम् । रुच्यर्थादिषु शास्त्रेण संप्रदानाख्यमुच्यते ॥ ३,७.१३० ॥ भेदस्य च विवक्षायां पूर्वां पूर्वां क्रियां प्रति । परस्या"न्गस्य कर्मत्वान्न क्रियाग्रहणं कृतम् ॥ ३,७.१३१ ॥ क्रियाणां समुदाये तु यदैकत्वं विवक्षितम् । तदा कर्म क्रियायोगात्स्वाख्ययैवोपचर्यते ॥ ३,७.१३२ ॥ भेदाभेदविवक्षा च स्वभावेन व्यवस्थिता । तस्माद्गत्यर्थकर्मत्वे व्यभिचारो न दृश्यते ॥ ३,७.१३३ ॥ विकल्पेनैव सर्वत्र संज्ञे स्यातामुभे यदि । आरम्भेण न योगस्य प्रत्याख्यानं समं भवेत् ॥ ३,७.१३४ ॥ त्यागरूपं प्रहातव्ये प्राप्ये संसर्गदर्शनम् । आस्थितं कर्म यत्तत्र द्वैरूप्यं भजते क्रिया ॥ ३,७.१३५ ॥ [इति संप्रदानाधिकारः] [अथापादानाधिकारः] निर्दिष्टविषयं किं चिदुपात्तविषयं तथा । अपेक्षितक्रियं चेति त्रिधापादानमुच्यते ॥ ३,७.१३६ ॥ संयोगभेदाद्भिन्नात्मा गमिरेव भ्रमिर्यथा । ध्रुवावधिरपायोऽपि समवेतस्तथाध्रुवे ॥ ३,७.१३७ ॥ द्रव्यस्वभावो न ध्रौव्यमिति सूत्रे प्रतीयते । अपायविषयं ध्रौव्यं यत्तु तावद्विवक्षितम् ॥ ३,७.१३८ ॥ सरणे देवदत्तस्य ध्रौव्यं पाते तु वाजिनः । आविष्टं यदपायेन तस्याध्रौव्यं प्रचक्षते ॥ ३,७.१३९ ॥ उभावप्यध्रुवौ मेषौ यद्यप्युभयकर्मजे । विभागे प्रविभक्ते तु क्रिये तत्र विवक्षिते ॥ ३,७.१४० ॥ मेषान्तरक्रियापेक्षमवधित्वं पृथक्पृथक् । मेषयोः स्वक्रियापेक्षं कर्तृत्वं च पृथक्पृथक् ॥ ३,७.१४१ ॥ अभेदेन क्रियैका तु द्विसाध्या चेद्विवक्षिता । मेषावपाये कर्तारौ यद्यन्यो विद्यतेऽवधिः ॥ ३,७.१४२ ॥ गतिर्विना त्ववधिना नापाय इति गम्यते । वृक्षस्य पर्णं पततीत्येवं भाष्ये निदर्शितम् ॥ ३,७.१४३ ॥ भेदाभेदौ पृथग्भावः स्थितिश्चेति विरोधिनः । युगपन्न विवक्ष्यन्ते सर्वे धर्मा बलाहके ॥ ३,७.१४४ ॥ धनुषा विध्यतीत्यत्र विनापायविवक्षया । करणत्वं यतो नास्ति तस्मात्तदुभयं सह ॥ ३,७.१४५ ॥ एकैव वा सती शक्तिर्द्विरूपा व्यवतिष्ठते । निमित्तं संज्ञयोस्तत्र परया बाध्यतेऽपरा ॥ ३,७.१४६ ॥ निर्धारणे विभक्ते यो भीत्रादीनां च यो विधिः । उपात्तापेक्षितापायः सोऽबुधप्रतिपत्तये ॥ ३,७.१४७ ॥ [इत्यपादानाधिकारः] [अथाधिकरणाधिकारः] कर्तृकर्मव्यवहितामसाक्षाद्धारयत्क्रियाम् । उपकुर्वत्क्रियासिद्धौ शास्त्रेऽधिकरणं स्मृतम् ॥ ३,७.१४८ ॥ उपश्लेषस्य चाभेदस्तिलाकाशकटादिषु । उपकारास्तु भिद्यन्ते संयोगिसमवायिनाम् ॥ ३,७.१४९ ॥ अविनाशो गुरुत्वस्य प्रतिबन्धे स्वतन्त्रता । दिग्विशेषादवच्छेद इत्याद्या भेदहेतवः ॥ ३,७.१५० ॥ आकाशमेव केषां चिद्देशभेदप्रकल्पनात् । आधारशक्तिः प्रथमा सर्वसंयोगिनां मता ॥ ३,७.१५१ ॥ इदमत्रेति भावानामभावान्न प्रकल्पते । व्यपदेशस्तमाकाश- निमित्तं संप्रचक्षते ॥ ३,७.१५२ ॥ कालात्क्रिया विभज्यन्त आकाशात्सर्वमूर्तयः । एतावांश्चैव भेदोऽयमभेदोपनिबन्धनः ॥ ३,७.१५३ ॥ यद्यप्युपवसिर्देश- विशेषमनुरुध्यते । शब्दप्रवृत्तिधर्मात्तु कालमेवावलम्बते ॥ ३,७.१५४ ॥ वसतावप्रयुक्तेऽपि देशोऽधिकरणं ततः । अप्रयुक्तं त्रिरात्रादि कर्म चोपवसौ स्मृतम् ॥ ३,७.१५५ ॥ [इत्यधिकरणाधिकारः] [अथ शेषाधिकारः] संबन्धः कारकेभ्योऽन्यः क्रियाकारकपूर्वकः । श्रुतायामश्रुतायां वा क्रियायां सोऽभिधीयते ॥ ३,७.१५६ ॥ द्विष्ठोऽप्यसौ परार्थत्वाद्गुणेषु व्यतिरिच्यते । तत्राभिधीयमानः सन् प्रधानेऽप्युपयुज्यते ॥ ३,७.१५७ ॥ निमित्तनियमः शब्दात्संबन्धस्य न गृह्यते । कर्मप्रवचनीयैस्तु स विशेषोऽवरुध्यते ॥ ३,७.१५८ ॥ साधनैर्व्यपदिष्टे च श्रूयमाणक्रिये पुनः । प्रोक्ता प्रतिपदं षष्ठी समासस्य निवृत्तये ॥ ३,७.१५९ ॥ निष्ठायां कर्मविषया षष्थी च प्रतिषिध्यते । शेषलक्षणया षष्ठ्या समासस्तत्र नेष्यते ॥ ३,७.१६० ॥ अन्येन व्यपदिष्टस्य यस्यान्यत्रोपजायते । व्यतिरेकः स धर्मौ द्वौ लभते विषयान्तरे ॥ ३,७.१६१ ॥ प्राधान्यं स्वगुणे लब्ध्वा प्रधाने याति शेषताम् । सहयोगे स्वयोगेऽतः प्रधानत्वं न हीयते ॥ ३,७.१६२ ॥ [इति शेषाधिकारः] सिद्धस्याभिमुखीभाव- मात्रं संबोधनं विदुः । प्राप्ताभिमुख्यो ह्यर्थात्मा क्रियासु विनियुज्यते ॥ ३,७.१६३ ॥ संबोधनं न वाक्यार्थ इति पूर्वेभ्य आगमः । उद्देशेन विभक्त्यर्था वाक्यार्थात्समपोद्धृताः ॥ ३,७.१६४ ॥ विभक्त्यर्थेऽव्ययीभाव- वचनादवसीयताम् । अन्यो द्रव्याद्विभक्त्यर्थः सोऽव्ययेनाभिधीयते ॥ ३,७.१६५ ॥ द्रव्यं तु यद्यथाभूतं तदत्यन्तं तथा भवेत् । क्रियायोगेऽपि तस्यासौ द्रव्यात्मा नापहीयते ॥ ३,७.१६६ ॥ तस्माद्यत्करणं द्रव्यं तत्कर्म न पुनर्भवेत् । सर्वस्य वान्यथाभावस्तस्य द्रव्यात्मनो भवेत् ॥ ३,७.१६७ ॥ ३,८: क्रियासमुद्देश यावत्सिद्धमसिद्धं वा साध्यत्वेनाभिधीयते । आश्रितक्रमरूपत्वात्तत्क्रियेति प्रतियते ॥ ३,८.१ ॥ कार्यकारणभावेन ध्वनतीत्याश्रितक्रमः । ध्वनिः क्रमनिवृत्तौ तु ध्वनिरित्येव कथ्यते ॥ ३,८.२ ॥ श्वेते श्वेतत इत्येतच्छ्वेतत्वेन प्रकाशते । आश्रितक्रमरूपत्वादभिधानं प्रवर्तते ॥ ३,८.३ ॥ गुणभूतैरवयवैः समूहः क्रमजन्मनाम् । बुद्ध्या प्रकल्पिताभेदः क्रियेति व्यपदिश्यते ॥ ३,८.४ ॥ समूहः स तत्बाभूतः प्रतिभेदं समूहिसु । समाप्यते ततो भेदे कालभेदस्य संभवः ॥ ३,८.५ ॥ क्रमात्सदसतां तेषामात्मानो न समूहिनाम् । सद्वस्तुविषयैर्यान्ति संबन्धं चक्षुरादिभिः ॥ ३,८.६ ॥ यथा गौरिति सम्घातः सर्वो नेन्द्रियगोचरः । भागशस्तूपलब्धस्य बुद्धौ रूपं निरूप्यते ॥ ३,८.७ ॥ इन्द्रियैरन्यथाप्राप्तौ भेदाम्शोपनिपातिभिः । अलातचक्रवद्रूपं क्रियाणां परिकल्प्यते ॥ ३,८.८ ॥ यथा च भागाः पचतेरुदकासेचनादयः । उदकासेचनादिनां ज्ञेया भागास्तथापरे ॥ ३,८.९ ॥ यश्चापकर्षपर्यन्तमनुप्राप्तः प्रतीयते । तत्रैकस्मिन् क्रियाशब्दः केवले न प्रयुज्यते ॥ ३,८.१० ॥ पूर्वोत्तरैस्तथा भागैः समवस्थापितक्रमः । एकः सोऽप्यसदध्यासादाख्यातैरभिधीयते ॥ ३,८.११ ॥ कालानुपाति यद्रूपं तदस्तीत्यनुगम्यते । परितस्तु परिच्छिन्नं भाव इत्येव कथ्यते ॥ ३,८.१२ ॥ व्यवहारस्य सिद्धत्वान्न चेयं गुणकल्पना । उपचारो हि मुख्यस्य संभवादवतिष्ठते ॥ ३,८.१३ ॥ आहितोत्तरशक्तित्वात्प्रत्येकं वा समूहिनः । अनेकरूपा लक्ष्यन्ते क्रमवन्त इवाक्रमाः ॥ ३,८.१४ ॥ अनन्तरं फलं यस्याः कल्पते तां क्रियां विदुः । प्रधानभूतां तादर्थ्यादन्यासां तु तदाख्यता ॥ ३,८.१५ ॥ *क्रियाप्रवृत्तौ यो हेतुस्तदर्थं यद्विचेष्टितम् । अनपेक्ष्य प्रयुञ्जीत गच्छतीत्यवधारयन् ॥ ३,८.१६ *॥ सत्सु प्रत्ययरूपोऽसौ भावो यावन्न जायते । तावत्परेषां रूपेण साध्यः सन्नभिधीयते ॥ ३,८.१७ ॥ सिद्धे तु साधनाकाङ्क्षा कृतार्थत्वान्निवर्तते । न क्रियावाचिनां तस्मात्प्रयोगस्तत्र विद्यते ॥ ३,८.१८ ॥ स चापूर्वापरिभूत एकत्वादक्रमात्मकः । पूर्वापराणां धर्मेण तदर्थेनानुगम्यते ॥ ३,८.१९ ॥ असन्निवर्तते तस्माद्यत्सत्तदुपलभ्यते । तयोः सदसतोश्चासावात्मैक इव गृह्यते ॥ ३,८.२० ॥ जातिमन्ये क्रियामाहुरनेकव्यक्तिवर्तिनीम् । असाध्या व्यक्तिरूपेण सा साध्येवोपलभ्यते ॥ ३,८.२१ ॥ अन्ते या वा क्रियाभागे जातिः सैव क्रिया स्मृता । सा व्यक्तेरनुनिष्पादे जायमानेव गम्यते ॥ ३,८.२२ ॥ स्वव्यापारविशिष्टानां सत्ता वा, कर्तृकर्मनाम् । क्रिया व्यापारभेदेषु सत्ता वा समवायिनी ॥ ३,८.२३ ॥ अन्त्ये वात्मनि या सत्ता सा क्रिया कैश्चिदिष्यते । भाव एव हि धात्वर्थ इत्यविच्छिन्न आगमः ॥ ३,८.२४ ॥ बुद्धिं तज्जातिमन्ये तु बुद्धिसत्तामथापरे । प्रत्यस्तरूपां भावेषु क्रियेति प्रतिजानते ॥ ३,८.२५ ॥ आविर्भावतिरोभावौ जन्मनाशौ तथापरैः । षट्सु भावविकारेषु कल्पितौ व्यावहारिकौ ॥ ३,८.२६ ॥ ताभ्यां सर्वप्रवृत्तीनामभेदेनोपसम्ग्रहः । जन्मैवाश्रितसारूप्यं स्थितिरित्यभिधीयते ॥ ३,८.२७ ॥ *जायमानान्न जन्र्नान्यद्विनाशेऽप्यपदार्थता । अतो भावविकारेषु सत्तैका व्यवतिष्ठते ॥ ३,८.२८ *॥ *पूर्वभागस्तु यज्जातात्तज्जन्मेत्यपदिश्यते । आश्रितक्रमरूपेण निमित्तत्वे विवक्षिते ॥ ३,८.२९ ॥ आख्यातशब्दैरर्थोऽसावेवंभूतोऽभिधीयते । नामशब्दाः प्रवर्तन्ते संहरन्त इव क्रमम् ॥ ३,८.३० ॥ फलं फलापदेशो वा वस्तु वा तद्विरोधि यत् । तदन्यदेव पूर्वेषां नाग इत्यपदिश्यते ॥ ३,८.३१ ॥ नैवास्ति नैव नास्तीति वस्तुनो ग्रहनाद्विना । कल्पते पररूपेण वस्त्वन्यदनुगम्यते ॥ ३,८.३२ ॥ भावाभावौ घटादिनामस्पृशन्नपि पाणिना । कश्चिद्वेदाप्रकाशेऽपि प्रकाशे तत एव वा ॥ ३,८.३३ ॥ व्यापि सौक्ष्म्यं क्व चिद्याति क्व चित्संहन्यते पुनः । अकुर्वाणोऽथ वा किं चित्स्वशक्त्यैवं प्रकाशते ॥ ३,८.३४ ॥ सर्वरूपस्य तत्त्वस्य यत्क्रमेणेव दर्शनम् । भागैरिव प्रकॢप्तिश्च तां क्रियामपरे विदुः ॥ ३,८.३५ ॥ सत्ता स्वशक्तियोगेन सर्वरूपा व्यवस्थिता । साध्या च साधनं चैव फलं भोक्ता फलस्य च ॥ ३,८.३६ ॥ क्रियामन्ये तु मन्यन्ते क्व चिदप्यनपाश्रिताम् । साधनैकार्थकारित्वे प्रवृत्तिमनपायिनीम् ॥ ३,८.३७ ॥ सामान्यभूता सा पूर्वं भागशः प्रविभज्यते । ततो व्यापाररूपेण साध्येव व्यवतिष्ठते ॥ ३,८.३८ ॥ प्रकृतिः साधनानां सा प्रथमं तच्च कारकम् । व्यापाराणां ततोऽन्यत्वमपरैरुपवर्ण्यते ॥ ३,८.३९ ॥ बहूनां संभवेऽर्थानां के चिदेवोपकारिनः । संसर्गे कश्चिदेसां तु प्राधान्येन प्रतीयते ॥ ३,८.४० ॥ साध्यत्वात्तत्र चाख्यातैर्व्यापाराः सिद्धसाधनाः । प्राधान्येनाभिधीयन्ते फलेनापि प्रवर्तिताः ॥ ३,८.४१ ॥ एकत्वावृत्तिभावाभ्यां भेदाभेदसमन्वये । संख्यास्तत्रोपलभ्यन्ते संख्येयावयवक्रियाः ॥ ३,८.४२ ॥ सिद्धस्यार्थस्य पाकादेः कथं साधनयोगिता । साध्यत्वे वा तिङन्तेन कृतां भेदो न कश्चन ॥ ३,८.४३ ॥ तत्र कारकयोगाया यद्याख्यातं निबन्धनम् । षष्ठ्वाः सा लेन संबन्धे व्युदस्ता कर्तृकर्मनोः ॥ ३,८.४४ ॥ एकाभिधान एकोऽर्थो युगपच्च द्विधर्मभाक् । न संभवति सिद्धत्वे स साध्यः स्यात्कथं पुनः ॥ ३,८.४५ ॥ एतावत्साधनं साध्यमेतावदिति कल्पना । शास्त्र एव न वाक्येऽस्ति विभागः परमार्थतः ॥ ३,८.४६ ॥ आख्यातशब्दे भागाभ्यां साध्यसाधनवर्तिता । प्रकल्पिता यथा शास्त्रे स घञादिस्वपि क्रमः ॥ ३,८.४७ ॥ साध्यत्वेन क्रिया तत्र धातुरूपनिबन्धना । सत्त्वभावस्तु यस्तस्याः स घञादिनिबन्धनः ॥ ३,८.४८ ॥ बन्धुताभेदरूपेण बन्धुशब्दे व्यवस्थिता । समूहो बन्ध्ववस्था तु प्रत्ययेनाभिधीयते ॥ ३,८.४९ ॥ तत्र यं प्रति साध्यत्वमसिद्धा तं प्रति क्रिया । सिद्धा तु यस्मिन् साध्यत्वं न तमेव पुनः प्रति ॥ ३,८.५० ॥ राज्ञः पुत्रस्य नप्तेति न राज्ञि व्यतिरिच्यते । पुत्रस्यार्थः प्रधानत्वं न चास्य विनिवर्तते ॥ ३,८.५१ ॥ मृगो धावति पश्येति साध्यसाधनरूपता । तथा विषयभेदेन सरणस्योपपद्यते ॥ ३,८.५२ ॥ लकृत्यक्तखलर्थानां तथाव्ययकृतामपि । रूढिनिष्ठाघञादिनां धातुः साध्यस्य वाचकः ॥ ३,८.५३ ॥ साध्यस्यापरिनिष्पत्तेः सोऽयमित्यनुपग्रहः । तिङन्तैरन्तरेणेवमुपमानं ततो न तैः ॥ ३,८.५४ ॥ साधनत्वं प्रसिद्धं च तिङ्क्षु संबन्धिनां यतः । तेनाध्यारोप एव स्यादुपमा तु न विद्यते ॥ ३,८.५५ ॥ न्यूनेषु च समाप्तार्थमुपमानं विधीयते । क्रिया चैवाश्रये सर्वा तत्र तत्र समाप्यते ॥ ३,८.५६ ॥ येनैव हेतुना हंसः पततीत्यभिधीयते । आतौ तस्य समाप्तत्वादुपमार्थो न विद्यते ॥ ३,८.५७ ॥ क्रियाणां जातिभिन्नानां सादृश्यं नावधार्यते । सिद्धेश्च प्रक्रमे साध्यमुपमातुं न शक्यते ॥ ३,८.५८ ॥ वनं वृक्षा इति यथा भेदाभेदव्यपाश्रयात् । अर्थात्मा भिद्यते भावे स बाह्याभ्यन्तरे क्रमः ॥ ३,८.५९ ॥ सामान्ये भाव इत्यत्र यल्लिङ्गमुपलभ्यते । भेदानामनुमेयत्वान्न तत्तेषु विवक्ष्यते ॥ ३,८.६० ॥ निर्देशे चरितार्थत्वाल्लिङ्गं भावेऽविवक्सितम् । उपमानविधित्वाच्च भावादन्यत्पचादिसु ॥ ३,८.६१ ॥ भवतौ यत्पचादिनां तावदत्रोपदिश्यते । न च लिङ्गं पचादिनां भवतौ समवस्थितम् ॥ ३,८.६२ ॥ एकश्च सोऽर्थः सत्ताख्यः कथं चित्कैश्चिदुच्यते । लिङ्गानि चास्य भिद्यन्ते पचिरूपादिभेदवत् ॥ ३,८.६३ ॥ आचार्यो मातुलश्चेति यथैको व्यपदिश्यते । सम्बन्धिभेदादर्थात्मा स विधिः पक्तिभावयोः ॥ ३,८.६४ ॥ ३,९: कालसमुद्देशः व्यापारव्यतिरेकेण कालमेके प्रचक्षते । नित्यमेकं विभु द्रव्यं परिमाणं क्रियावताम् ॥ ३,९.१ ॥ दिष्टिप्रस्थसुवर्णादि मूर्तिभेदाय कल्पते । क्रियाभेदाय कालस्तु संख्या सर्वस्य भेदिका ॥ ३,९.२ ॥ उत्पत्तौ च स्थितौ चैव विनाशे चापि तद्वताम् । निमित्तं कालमेवाहुर्विभक्तेनात्मना स्थितम् ॥ ३,९.३ ॥ तमस्य लोकयन्त्रस्य सूत्रधारं प्रचक्षते । प्रतिबन्धाभ्यनुज्ञाभ्यां तेन विश्वं विभज्यते ॥ ३,९.४ ॥ यदि न प्रतिबध्नीयात्प्रतिबन्धं च नोत्सृजेत् । अवस्था व्यतिकीर्येरन् पौर्वापर्यविनाकृताः ॥ ३,९.५ ॥ तस्यात्मा बहुधा भिन्नो भेदैर्धर्मान्तराश्रयैः । न हि भिन्नमभिन्नं वा वस्तु किं चन विद्यते ॥ ३,९.६ ॥ नैको न चाप्यनेकोऽस्ति न शुक्लो नापि चासितः । द्रव्यात्मा स तु संसर्गादेवंरूपः प्रकाशते ॥ ३,९.७ ॥ संसर्गिनां तु ये भेदा विशेषास्तस्य ते मताः । स भिन्नस्तैर्व्यवस्थानां कालो भेदाय कल्पते ॥ ३,९.८ ॥ विशिष्टकालसंबन्धाद्वृत्तिलाभः प्रकल्पते । शक्तीनां संप्रयोगस्य हेतुत्वेनावतिष्ठते ॥ ३,९.९ ॥ जन्माभिव्यक्तिनियमाः प्रयोगोपनिबन्धनाः । नित्याधीनस्थितित्वाच्च स्थितिर्नियमपूर्विका ॥ ३,९.१० ॥ स्थितस्यानुग्रहस्तैस्तैर्धर्मैः संसर्गिभिस्ततः । प्रतिबन्धस्तिरोभावः प्रहाणमिति चात्मनः ॥ ३,९.११ ॥ प्रत्यवस्थं तु कालस्य व्यापारोऽत्र व्यवस्थितः । काल एव हि विश्वात्मा व्यापार इति कथ्यते ॥ ३,९.१२ ॥ मूर्तीनां तेन भिन्नानामाचयापचयाः पृथक् । लक्ष्यन्ते परिणामेन सर्वासां भेदयोगिना ॥ ३,९.१३ ॥ जलयन्त्रभ्रमावेश- सदृशीभिः प्रवृत्तिभिः । स कलाः कलयन् सर्वाः कालाख्यां लभते विभुः ॥ ३,९.१४ ॥ प्रतिभद्धाश्च यास्तेन चित्रा विश्वस्य वृत्तयः । ताः स एवानुजानाति यथा तन्तुः शकुन्तिकाः ॥ ३,९.१५ ॥ विशिष्टकालसंबन्धाल्लब्धपाकासु शक्तिषु । क्रियाभिव्यज्यते नित्या प्रयोगाख्येन कर्मणा ॥ ३,९.१६ ॥ जातिप्रयुक्ता तस्यां तु फलव्यक्तिः प्रजायते । कुतोऽप्यद्भुतया वृत्त्या शक्तिभिः सा नियम्यते ॥ ३,९.१७ ॥ ततस्तु समवायाख्या शक्तिर्भेदस्य बाधिका । एकत्वमिव ता व्यक्तीरापादयति कारणैः ॥ ३,९.१८ ॥ अथास्मान्नियमादूर्ध्वं जातयो याः प्रयोजिकाः । ताः सर्वा व्यक्तिमायान्ति स्वच्छे छाया इवाम्भसि ॥ ३,९.१९ ॥ कारणानुविधायित्वादथ कारण पूर्वकाः । गुणास्तत्रोपजायन्ते स्वजातिव्यक्तिहेतवः ॥ ३,९.२० ॥ आश्रयाणां च नित्यत्वमाश्रितानां च नित्यता । ता व्यक्तीरनुगृह्णाति स्थितिस्तेन प्रकल्पते ॥ ३,९.२१ ॥ अनित्यस्य यथोत्पादे पारतन्त्र्यं तथा स्थितौ । विनाशायैव तत्शृष्टमस्वाधीनस्थितिं विदुः ॥ ३,९.२२ ॥ स्थितः संसर्गिभिर्भावैः स्वक्रियास्वनुगृह्यते । नैषां सत्तामनुद्गृह्य वृत्तिर्जन्मवतां स्मृता ॥ ३,९.२३ ॥ जराख्या कालशक्तिर्या शक्त्यन्तरविरोधिनी । सा शक्तीः प्रतिबध्नाति जायन्ते च विरोधिनः ॥ ३,९.२४ ॥ प्रयोजकास्तु ये भावाः स्थितिभागस्य हेतवः । तिरोभवन्ति ते सर्वे यत आत्मा प्रहीयते ॥ ३,९.२५ ॥ यथैवाद्बुतया वृत्त्या निष्क्रमं निर्निबन्धनम् । अपदं जायते सर्वं तथास्यात्मा प्रहीयते ॥ ३,९.२६ ॥ क्रिययोरपवर्गिण्योर्नानार्थसमवेतयोः । संबन्धिना विनैकेन परिच्छेदः कथं भवेत् ॥ ३,९.२७ ॥ यथा तुलायां हस्ते वा नानाद्रव्यव्यवस्थितम् । गुरुत्वं परिमीयेत कालादेवं क्रियागतिः ॥ ३,९.२८ ॥ जहाति सहवृत्ताश्च क्रियाः स समवस्थिताः । व्रीहिर्यथोदकं तेन हायनाख्यां प्रपद्यते ॥ ३,९.२९ ॥ प्रतिबन्धाभ्यनुज्ञाभ्यां वृत्तिर्या तस्य शास्वती । तया विभज्यमानोऽसौ भजते क्रमरूपतां ॥ ३,९.३० ॥ कर्तृभेदात्तदर्थेषु प्रचयापचयौ गतः । समत्वं विषमत्वं वा स एकः प्रतिपद्यते ॥ ३,९.३१ ॥ क्रियाभेदाद्यथैकस्मिंस्तक्षाद्याख्या प्रवर्तते । क्रियाभेदात्तथैकस्मिन्नृत्वाद्याख्योपजायते ॥ ३,९.३२ ॥ आरम्भश्च क्रिया चैव निष्ठा चेत्यभिधीयते । धर्मान्तराणामध्यास- भेदात्सदसदात्मनः ॥ ३,९.३३ ॥ यावांश्च द्व्यणुकादीनां तावान् हिमवतोऽप्यसौ । न ह्यात्मा कस्य चिद्भेत्तुं प्रचेतुं वापि शक्यते ॥ ३,९.३४ ॥ अन्यैस्तु भावैरन्येषां प्रचयः परिकल्प्यते । शनैरिदमिदं क्षिप्रमिति तेन प्रतीयते ॥ ३,९.३५ ॥ असतश्च क्रमो नास्ति स हि भेत्तुं न शक्यते । सतोऽपि चात्मतत्त्वं यत्तत्तथैवावतिष्ठते ॥ ३,९.३६ ॥ क्रियोपाधिश्च सन् भूत- भविष्यद्वर्तमानताः । एकादशाभिराकारैर्विभक्ताः प्रतिपद्यते ॥ ३,९.३७ ॥ भूतः पञ्चविधस्तत्र भविष्यंश्च चतुर्विधः । वर्तमानो द्विधाख्यात इत्येकादश कल्पनाः ॥ ३,९.३८ ॥ काले निधाय स्वं रूपं प्रज्ञया यन्निगृह्यते । भावास्ततो निवर्तन्ते तत्र संक्रान्तशक्तयः ॥ ३,९.३९ ॥ भाविनां चैव यद्रूपं तस्य च प्रतिबिम्बकम् । सुनिर्मृष्ट इवादर्शे काल एवोपपद्यते ॥ ३,९.४० ॥ तृणपर्णलतादीनि यथा स्रोतोऽनुकर्षति । प्रवर्तयति कालोऽपि मात्रा मात्रावतां तथा ॥ ३,९.४१ ॥ आविश्येवानुसंधत्ते यथा गतिमतां गतीः । वायुस्तत्रैव कालात्मा विधत्ते क्रमरूपताम् ॥ ३,९.४२ ॥ अयनप्रविभागश्च गतीश्च ज्योतिषां ध्रुवा । निवृत्तिप्रभवाश्चैव भूतानां तन्निबन्धनाः ॥ ३,९.४३ ॥ मात्राणां परिणामा ये कालवृत्त्यनुपातिनः । नक्षत्राख्या पृथक्तेषु चिह्नमात्रं तु तारकाः ॥ ३,९.४४ ॥ रुतैर्मृगशकुन्तानां स्थावराणां च वृत्तिभिः । छायादिपरिणामैश्च ऋतुधामा निरूप्यते ॥ ३,९.४५ ॥ निर्भासोपगमो योऽयं क्रमवानिव दृश्यते । अक्रमस्यापि विश्वस्य तत्कालस्य विचेष्टितम् ॥ ३,९.४६ ॥ दूरान्तिकव्यवस्थानमध्वाधिकरणं यथा । चिरक्षिप्रव्यवस्थानं कालाधिकरणं तथा ॥ ३,९.४७ ॥ तस्याभिन्नस्य कालस्य व्यवहारे क्रियाकृताः । भेदा इव त्रयः सिद्धा यांल्लोको नातिवर्तते ॥ ३,९.४८ ॥ एकस्य शक्तयस्तिस्रः कालस्य समवस्थिताः । यत्संबन्धेन भावानां दर्शनादर्शने सताम् ॥ ३,९.४९ ॥ द्वाभ्यां स किल शक्तिभ्यां भावानां वरणात्मकः । शक्तिस्तु वर्तमानाख्या भावरूपप्रकाशिनी ॥ ३,९.५० ॥ अनागता जन्मशक्तेः शक्तिरप्रतिबन्धिका । अतीताख्या तु या शक्तिस्तया जन्म विरुध्यते ॥ ३,९.५१ ॥ तमःप्रकाशवत्त्वेते त्रयोऽध्वानो व्यवस्थिताः । अक्रमास्तेषु भावानां क्रमः समुपलभ्यते ॥ ३,९.५२ ॥ द्वौ तु तत्र तमोरूपावेकस्यालोकवत्स्थितिः । अतीतमपि केषां चित्पुनर्विपरिवर्तते ॥ ३,९.५३ ॥ युगपद्वर्तमानत्वं तद्धर्मा प्रतिपद्यते । केषां चिद्वर्तमानत्वाच्चैति तद्वदतीतताम् ॥ ३,९.५४ ॥ हेतुपकारादाक्षिप्तो वर्तमानत्वमागतः । शान्तहेतूपकारः सन् पुनर्नोपैति दर्शनम् ॥ ३,९.५५ ॥ द्वे एव कालस्य विभोः केषां चिच्छक्तिवर्त्मनी । करोति याभ्यां भावानामुन्मीलननिमीलने ॥ ३,९.५६ ॥ कलाभिः पृथगर्थाभिः प्रविभक्तं स्वभावतः । के चिद्बुद्ध्यनुसंहार- लक्षणं तं प्रचक्षते ॥ ३,९.५७ ॥ ज्ञानानुगतशक्तिं वा बाह्यं वा सत्यतः स्थितम् । कालात्मानमनाश्रित्य व्यवहर्तुं न शक्यते ॥ ३,९.५८ ॥ तिस्रो भावस्य भावस्य केषां चिद्भावशक्तयः । ताभिः स्वशक्तिभिः सर्वं सदैवास्ति च नास्ति च ॥ ३,९.५९ ॥ सत्त्वादव्यतिरेकेण तास्तिस्रोऽपि व्यवस्थिताः । क्रमस्तास्तदभेदाच्च सदसत्त्वं न भिद्यते ॥ ३,९.६० ॥ दर्शनादर्शनेनैकं दृष्टादृष्टं तदेव तु । अध्वनामेकता नास्ति न च किं चिन्निवर्तते ॥ ३,९.६१ ॥ शक्त्यात्मदेवतापक्षैर्भिन्नं कालस्य दर्शनम् । प्रथमं तदविद्यायां यद्विद्यायां न विद्यते ॥ ३,९.६२ ॥ अभेदे यदि कालस्य ह्रस्वदीर्घप्लुतादिषु । दृश्यते भेदनिर्भासः स चिरक्षिप्रबुद्धिवत् ॥ ३,९.६३ ॥ ह्रस्वदीर्घप्लुतावृत्त्या नालिकासलिलादिषु । कथं प्रचययोगः स्यात्कल्पनामात्रहेतुकः ॥ ३,९.६४ ॥ अभिव्यक्तिनिमित्तस्य प्रचयेन प्रचीयते । अभिन्नमपि शब्दस्य तत्त्वमप्रचयात्मकम् ॥ ३,९.६५ ॥ एवं मात्रातुरीयस्य भेदो दाशतयस्य वा । परिमाणविकल्पेन शब्दात्मनि न विद्यते ॥ ३,९.६६ ॥ अनुनिष्पादिकल्पेन येऽन्तराल इव स्थिताः । शब्दास्ते प्रतिपत्तॄणामुपायाः प्रतिपत्तये ॥ ३,९.६७ ॥ विशिष्टमवधिं तं तमुपादाय प्रकल्पते । कालः कालवतामेकः क्षणमासर्तुभेदभाक् ॥ ३,९.६८ ॥ बुद्ध्यवग्रहभेदाच्च व्यवहारात्मनि स्थितः । तावानेव क्षणः कालो युगमन्वन्तराणि वा ॥ ३,९.६९ ॥ प्रतिबन्धाभ्यनुज्ञाभ्यां नालिकाविवराश्रिते । यदम्भसि प्रक्षरणं तत्कालस्यैव चेष्टितम् ॥ ३,९.७० ॥ अल्पे महति वा छिद्रे तत्संबन्धे न भिद्यते । कालस्य वृत्तिरात्मापि तमेवास्यानुवर्तते ॥ ३,९.७१ ॥ आक्रीड इव कालस्य दृश्यते यः स्वशक्तिभिः । बहुरूपस्य भावेषु बहुधा तेन भिद्यते ॥ ३,९.७२ ॥ त्वचिसारस्य वा वृद्धिं तृणराजस्य वा दधत् । तावत्तद्वृद्धियोगेन कालतत्त्वं विकल्पते ॥ ३,९.७३ ॥ व्यतिक्रमेऽपि मात्राणां तस्य नास्ति व्यतिक्रमः । न गन्तृगतिभेदेन मार्गभेदोऽस्ति कश्चन ॥ ३,९.७४ ॥ उदयास्तमयावृत्त्या ज्योतिषां लोकसिद्धया । कालस्याव्यतिपातेऽपि ताद्धर्म्यमिव लक्ष्यते ॥ ३,९.७५ ॥ आदित्यग्रहनक्षत्र- परिस्पन्दमथापरे । भिन्नमावृत्तिभेदेन कालं कालविदो विदुः ॥ ३,९.७६ ॥ क्रियान्तरपरिच्छेद- प्रवृत्ता या क्रियां प्रति । निर्ज्ञातपरिमाणा सा काल इत्यभिधीयते ॥ ३,९.७७ ॥ ज्ञाने रूपस्य संक्रान्तिर्ज्ञानेनैवानुसंहृतिः । अतः क्रियान्तराभावे सा क्रिया काल इष्यते ॥ ३,९.७८ ॥ भूतो घट इतीयं च सत्ताया एव भूतता । भूता सत्तेति सत्तायाः सत्ता भूताभिधीयते ॥ ३,९.७९ ॥ परतो भिद्यते सर्वमात्मा तु न विकल्प्यते । पर्वतादिस्थितिस्तस्मात्पररूपेण भिद्यते ॥ ३,९.८० ॥ प्रसिद्धभेदा व्यापारा विरूपावयवक्रियाः । साहचर्येण भिद्यन्ते सरूपावयवक्रियाः ॥ ३,९.८१ ॥ *व्यवधानमिवोपैति निवृत्त इव दृश्यते । क्रियासमूहो भुज्यादिरन्तरालप्रवृत्तिभिः ॥ ३,९.८२ *॥ *न च विच्छिन्नरूपोऽपि सोऽविरामान्निवर्तते । सर्वैव हि क्रियान्येन सम्कीर्णेवोपलभ्यते ॥ ३,९.८३ *॥ *तदन्तरालदृष्टा वा सर्वैवावयवक्रिया *। सादृश्यात्सति भेदे तु तदङ्गत्वेन गृह्यते ॥ ३,९.८४ ॥ सदसद्वापि वस्तु स्यात्तृतीयं नास्ति किं चन । तेन भूतभविष्यन्तौ मुक्त्वा मध्यं न विद्यते ॥ ३,९.८५ ॥ निर्वृत्तिरूपमेकस्य भेदाभावान्न कल्पते । सदसद्वापि तेनैकं क्रमरूपं कथं भवेत् ॥ ३,९.८६ ॥ बहूनां चानवस्थानादेकमेवोपलभ्यते । यथोपलब्धि स्मरणं तत्र चाप्युपपद्यते ॥ ३,९.८७ ॥ सदसद्रूपमेकं स्याद्सर्वस्यैकत्वकल्पने । निर्वृत्तिरूपं निर्वृत्तेः सामान्यमथ वा भवेत् ॥ ३,९.८८ ॥ कार्योत्पत्तौ समर्थं वा स्वेन धर्मेण तत्तथा । आत्मतत्त्वेन गृह्येत सा चास्मिन् वर्तमानता ॥ ३,९.८९ ॥ क्रियाप्रबन्धरूपं यदध्यात्मं विनिगृह्यते । संक्रान्तरूपमेकत्र तामाहुर्वर्तमानताम् ॥ ३,९.९० ॥ क्रियातिपत्तिरत्यन्तं क्रियानुत्पत्तिलक्षणा । न च भूतमनुत्पन्नं न भविष्यत्तथाविधम् ॥ ३,९.९१ ॥ प्राग्विरुद्धक्रियोत्पादान्निर्वृत्ते वा विरोधिनि । व्यापारेऽवधिभेदेन विषयस्तत्र भिद्यते ॥ ३,९.९२ ॥ व्यभिचारे निमित्तस्य साधुत्वं न प्रकल्पते । भाव्यासीदिति सूत्रेण तत्कालेऽन्यत्र शिष्यते ॥ ३,९.९३ ॥ स्वकाल एव साधुत्वे कालभेदे गतिः कथम् । वाक्यार्थादतदर्थेषु विशिष्टत्वं न सिध्यति ॥ ३,९.९४ ॥ तदर्थश्चेदवयवो भाविनो भूततागतिः । न स्यादत्यन्तभूतत्वमेवैकं तत्र संभवेत् ॥ ३,९.९५ ॥ विशिष्टकालता पूर्वं तथापि तु विशेषणे । आश्रयात्सोऽन्तरङ्गत्वात्तत्र साधुर्भविष्यति ॥ ३,९.९६ ॥ आमिश्र एव प्रक्रान्तः स पदार्थस्तथाविधः । केवलस्य विमिश्रत्वं नित्येऽर्थे नोपपद्यते ॥ ३,९.९७ ॥ शुद्धे च काले व्याख्यातमामिश्रे न प्रसिध्यति । साधुत्वमयथाकालं तत्सूत्रेणोपदिश्यते ॥ ३,९.९८ ॥ आख्यातपदवाच्येऽर्थे निर्वर्त्यत्वात्प्रधानता । विशेषणं तदाक्षेपात्तत्काले व्यवतिष्ठते ॥ ३,९.९९ ॥ संप्रत्ययानुकारो वा शब्दव्यापार एव वा । अध्यस्यते विरुद्धेऽर्थे न च तेन विरुध्यते ॥ ३,९.१०० ॥ भूतं भविष्यदित्येतौ प्रत्ययौ वर्तमानताम् । अत्यजन्तौ प्रपद्येते विरुद्धाश्रयरूपताम् ॥ ३,९.१०१ ॥ अध्वनो वर्तमानस्य विषयेण भविष्यता । भाष्ये भविष्यत्कालेति कार्यार्थं व्यपदिश्यते ॥ ३,९.१०३ ॥ इच्छा चिकीर्शतीत्यत्र स्वकालमनुरुध्यते । भविष्यति प्रकृत्यर्थे तत्कालं नानुरुध्यते ॥ ३,९.१०४ ॥ आशास्यमानतन्त्रत्वादाशंसायां विपर्ययः । प्रयोक्तृधर्मः शब्दार्थे शब्दैरेवानुशज्यते ॥ ३,९.१०५ ॥ अप्छालिबीजसंयोगे वर्तते निष्पदिर्यदा । तत्रावयववृत्तित्वाद्भविष्यत्प्रतिषेधनम् ॥ ३,९.१०६ ॥ फलप्रसवरूपे तु निष्पदौ भूतकालता । धर्मान्तरेषु तद्रूपमध्यस्य परिकल्प्यते ॥ ३,९.१०७ ॥ उपयुक्ते निमित्तानां व्यापारे फलसिद्धये । तत्र रूपं यदध्यस्तं तत्कालं तत्प्रतीयते ॥ ३,९.१०८ ॥ निष्पत्ताववधिः कश्चित्कश्चित्प्रतिविवक्षितः । हेतुजन्मव्यपेक्षातः फलजन्मेति चोच्यते ॥ ३,९.१०९ ॥ अबहिःसाधनाधीना सिद्धिर्यत्र विवक्षिता । तत्साधनान्तराभावात्सिद्धमित्यपदिश्यते ॥ ३,९.११० ॥ तस्मादवधिभेदेन सिद्धा मुख्यैव भूतता । अनागतत्वमस्तित्वं हेतुधर्मव्यपेक्षणे ॥ ३,९.१११ ॥ सतामिन्द्रियसंबन्धात्सैव सत्ता विशिष्यते । भेदेन व्यवहारो हि वस्त्वन्तरनिबन्धनः ॥ ३,९.११२ ॥ अस्तित्वं वस्तुमात्रस्य बुद्ध्या तु परिगृह्यते । यः समासादनाद्भेदः स तत्र न विवक्षितः ॥ ३,९.११३ ॥ योगाद्वा स्त्रीत्वपुंस्त्वाभ्यां न किं चिदवतिष्ठते । स्वस्मिन्नात्मनि तत्रान्यद्भूतं भावि च कथ्यते ॥ ३,९.११४ ॥ ३,१०: पुरुषसमुद्देश प्रत्यक्ता परभावश्चाप्युपाधी कर्तृकर्मनोः । तयोः श्रुतिविशेषेण वाचकौ मध्यमोत्तमौ ॥ ३,१०.१ ॥ सदसद्वापि चैतन्यमेताभ्यामवगम्यते । चैतन्यभागे प्रथमः पुरुषो न तु वर्तते ॥ ३,१०.२ ॥ बुधिजानातिचितिभिः प्रथमे पुरुषे सति । सम्ज्ञानार्थैर्न चैतन्य- स्योपयोगः प्रकाश्यते ॥ ३,१०.३ ॥ संबोधनार्थः सर्वत्र मध्यमे कैश्चिदिष्यते । तथा संबोधने सर्वां प्रथमां युष्मदो विदुः ॥ ३,१०.४ ॥ संबोधनं न लोकेऽस्ति विधातव्येन वस्तुना । स्वाहेन्द्रशत्रुर्वर्धस्व यथा राजा भवेति च ॥ ३,१०.५ ॥ युष्मदर्थस्य सिद्धत्वान्नियता चाद्युदात्तता । युष्मदः प्रथमान्तस्य परश्चेन्न पदादसौ ॥ ३,१०.६ ॥ गुणप्रधानताभेदः पुरुशादिविपर्ययः । निर्देशश्चान्यथा शास्त्रे नित्यत्वान्न विरुध्यते ॥ ३,१०.७ ॥ यथानिर्देशमर्थाः स्युर्येसां शास्त्रं विधायकम् । किं चित्सामान्यमाश्रित्य स्थिते तु प्रतिपादनम् ॥ ३,१०.८ ॥ योऽश्वे यः पीठ इत्यत्र भूतयोरश्वपीठयोः । यथोपलक्षणार्थत्वं तथार्थेष्वनुशासनम् ॥ ३,१०.९ ॥ ३,११: संख्यासमुद्देश संख्यावान् सत्त्वभूतोऽर्थः सर्व एवाभिधीयते । भेदाभेदविभागो हि लोके संख्यानिबन्धनः ॥ ३,११.१ ॥ स धर्मो व्यतिरिक्तो वा तेषामात्मैव वा तथा । भेदहेतुत्वमाश्रित्य संख्येति व्यपदिश्यते ॥ ३,११.२ ॥ समवेता परिच्छेद्ये क्व चिदन्यत्र सा स्थिता । प्रकल्पयति भावानां संख्या भेदं तथात्मनः ॥ ३,११.३ ॥ परत्वे चापरत्वे च भेदे तुल्या श्रुतिर्यथा । संख्याशब्दाभिधेयत्वं भेदहेतोस्तथा गुणे ॥ ३,११.४ ॥ अस्वतन्त्रे स्वतन्त्रत्वं परधर्मो यथा गुणे । अभेद्ये भेद्यभावोऽपि द्रव्यधर्मस्तथा गुणे ॥ ३,११.५ ॥ स्वबुद्ध्या तमपोद्धृत्य लोकोऽप्यागममाश्रितः । स्वधर्मादन्यधर्मेण व्याचष्टे प्रतिपत्तये ॥ ३,११.६ ॥ परोपकारतत्त्वानां स्वातन्त्र्येनाभिधायकः । शब्दः सर्वपदार्थाना स्वधर्मद्विप्रकृष्यते ॥ ३,११.७ ॥ यथैवाविषयं ज्ञानं न किं चिदवभासते । तथा भावोऽप्यसंसृष्टो न कश्चिदुपलभ्यते ॥ ३,११.८ ॥ भेदेन तु समाख्यातं यल्लोकोऽप्यनुवर्तते । आगमाच्छास्त्रसदृशो व्यवहारः स वर्ण्यते ॥ ३,११.९ ॥ बुद्धौ स्थितेषु तेष्वेवमध्यारोपो न दुर्लभः । परधर्मस्य न ह्यत्र सदसत्त्वं प्रयोजकम् ॥ ३,११.१० ॥ सामान्येष्वपि सामान्यं विशेषेषु विशिष्टता । संख्यासु संख्या लिङ्गेषु लिङ्गमेवं प्रकल्पते ॥ ३,११.११ ॥ अतो द्रव्याश्रितां संख्यामाहुः संसर्गवादिनः । भेदाभेदव्यतीतेषु भेदाभेदविधायिनीम् ॥ ३,११.१२ ॥ आत्मान्तरानां येनात्मा तद्रूप इव लक्ष्यते । अतद्रूपेण संसर्गात्सा निमित्तसरूपता ॥ ३,११.१३ ॥ संसृष्टेष्वपि निर्भागे भूतेष्वर्थक्रिया यथा । सत्त्वादिषु च मात्रासु सर्वास्वेवं प्रतीयते ॥ ३,११.१४ ॥ द्वित्वादियोनिरेकत्वं भेदास्तत्पूर्वका यतः । विना तेन न संख्यानामन्यासामस्ति संभवः ॥ ३,११.१५ ॥ एकत्वे बुद्धिसहिते निमित्तं द्वित्वजन्मनि । एकत्वाभ्यां समुत्पन्नमेवं वा तत्प्रतीयते ॥ ३,११.१६ ॥ एकत्वसमुदायो वा सापेक्षे वा पृथक्पृथक् । एकत्वे द्वित्वमित्येवं तयोर्द्विवचनं भवेत् ॥ ३,११.१७ ॥ एकोऽपि गुणभेदेन सङ्घो भेदं प्रकल्पयेत् । आश्रयाश्रयिभेदो हि तदाश्रयनिबन्धनः ॥ ३,११.१८ ॥ संख्येयसङ्घसंख्यान- सङ्घः संख्येति कथ्यते । विम्शत्यादिसु सान्यस्व द्रव्यसङ्घस्य भेदिका ॥ ३,११.१९ ॥ एकविंशतिसंख्वावां संख्यान्तरसरूपयोः । एकस्यां बुद्ध्यनावृत्त्या, भागयोरिव कल्पना ॥ ३,११.२० ॥ असंख्यासमुदायत्वात्संख्याकार्यं विधीयते । समूहत्वे तु तन्न स्यात्स्वाङ्गादिसमुदायवत् ॥ ३,११.२१ ॥ संख्येयान्तरतन्त्रासु या संख्यासु प्रवर्तते । आवृत्तिवर्गसंख्येया तां संख्यां तादृशीं विदुः ॥ ३,११.२२ ॥ न संख्यायां न संख्येये द्वौ दशेत्यस्ति संभवः । भेदाभावान्न संख्यायां विरोधान्न तदाश्रये ॥ ३,११.२३ ॥ संख्यायेते दशद्वर्गौ द्विदशा इति संख्यया । तद्रूपे वापि संख्येय आवृत्तिः परिगण्यते ॥ ३,११.२४ ॥ संख्या नाम न संख्यास्ति संज्ञैषेति यथोच्यते । रूपं न रूपमप्येवं सम्ज्ञा सा हि सितादिषु ॥ ३,११.२५ ॥ संख्यानजातियोगात्तु संख्या संख्येति कथ्यते । रूपत्वजातियोगाच्च रूपे रूपमिति स्मृतम् ॥ ३,११.२६ ॥ निमित्तमेकमित्यत्र विभक्त्या नाभिधीयते । तद्वतस्तु यदेकत्वं विभक्तिस्तत्र वर्तते ॥ ३,११.२७ ॥ एकस्य प्रचयो दृष्टः समूहश्च द्वयोस्तथा । निमित्तव्यतिरेकेण संख्यान्या भेदिका ततः ॥ ३,११.२८ ॥ तदेकमपि चैकत्वं विभक्तिश्रवणादृते । नोच्यते तेन शब्देन विभक्त्या तु सहोच्यते ॥ ३,११.२९ ॥ अन्वयव्यतिरेकौ च यदि स्याद्वचनान्तरम् । स्यातामसति तस्मिम्श्च प्रकृत्यर्थो न कल्प्यते ॥ ३,११.३० ॥ एकत्वमेक इत्यत्र शुद्धद्रव्यविशेषणम् । सगुणस्तु प्रकृत्यर्थो विभक्त्यर्थेन भिद्यते ॥ ३,११.३१ ॥ द्व्येकयोरिति निर्देशात्संख्यामात्रेऽपि संभवः । एकादीनां प्रसिद्ध्या तु संख्येयार्थत्वमुच्यते ॥ ३,११.३२ ॥ ३,१२: उपग्रहसमुद्देश य आत्मनेपदाद्भेदः क्व चिदर्थस्य गम्यते । अन्यतश्चापि लादेशान्मन्यन्ते तमुपग्रहम् ॥ ३,१२.१ ॥ क्व चित्साधनमेवासौ क्व चित्तस्य विशेषणम् । साधनं तत्र कर्मादि व्यक्तवाचो विशेषणम् ॥ ३,१२.२ ॥ क्रिया विषयभेदेन जीविकादिषु भिद्यते । लादेशैः स क्रियाभेदो वाक्येष्वपि नियम्यते ॥ ३,१२.३ ॥ धात्वर्थस्तद्विशेषश्चाप्युक्तः क्व चिदुपग्रहः । धात्वर्थो गन्धनादिः स्याद्व्यतिहारो विशेषणम् ॥ ३,१२.४ ॥ क्रियाप्रवृत्तावाख्याता कैश्चित्स्वार्थपरार्थता । असति वा सति वापि विवक्षितनिबन्धना ॥ ३,१२.५ ॥ केसां चित्कर्त्रभिप्राये णिचा सह विकल्पते । आत्मनेपदमन्येसां तदर्था प्रकृतिर्यथा ॥ ३,१२.६ ॥ क्रीणीष्व वपते धत्ते चिनोति चिनुतेऽपि च । आप्तप्रयोगा दृश्यन्ते येषु ण्यर्थोऽभिधीयते ॥ ३,१२.७ ॥ संविधानं पचादिनां क्व चिदर्थः प्रतीयते । तन्निमित्ता यथान्यापि क्रियाधिश्रयणादिका ॥ ३,१२.८ ॥ कर्त्रभिप्रायता सूत्रे क्रियाभेदोपलक्षणम् । तथाभूता क्रिया या हि तत्कर्ता फलभाग्यतः ॥ ३,१२.९ ॥ यथोपलक्ष्यते कालस्तारकादर्शनादिभिः । तथा फलविशेषेण क्रियाभेदो निदर्श्यते ॥ ३,१२.१० ॥ क्रियाविशेषवचने सामर्थ्यमुपरुध्यते । केसां चिदन्ये तु कृताः स्वरितेतो ञितस्तथा ॥ ३,१२.११ ॥ अनुबन्धश्च सिद्धेऽर्थे स्मृत्यर्थमनुषज्यते । तुल्यार्थेष्वपि चावश्यं न सर्वेष्वेकधर्मता ॥ ३,१२.१२ ॥ दृशीक्ष्योः सदृशेऽप्यर्थे नाभेदः प्रतिपूर्वयोः । ण्यर्थोपादायिनस्तस्मान्न तुल्यार्थाः पचादिभिः ॥ ३,१२.१३ ॥ उम्भ्यर्थे वर्तमानस्य करोतेर्भिन्नधर्मणः । ण्यर्थोपादायिता तस्मान्नियताः शब्दशक्तयः ॥ ३,१२.१४ ॥ तथा ह्यनुप्रयोगस्य करोतेरात्मनेपदे । पूर्ववद्ग्रहणं प्राप्ते स्वरितं समुपस्थितम् ॥ ३,१२.१५ ॥ एकत्वेऽपि क्रियाख्याते साधनाश्रयसंख्यया । भिद्यते न तु लिङ्गाख्यो भेदस्तत्र तदाश्रितः ॥ ३,१२.१६ ॥ तस्मादवस्थितेऽप्यर्थे कस्य चित्प्रतिबध्यते । शब्दस्य शक्तिः स त्वेष शास्त्रेऽन्वाख्यायते विधिः ॥ ३,१२.१७ ॥ यस्यार्थस्य प्रसिद्ध्यर्थमारभ्यन्ते पचादयः । तत्प्रधानं फलं तेषां न लाभादि प्रयोजनम् ॥ ३,१२.१८ ॥ यत्रोभौ स्वामिदासौ तु प्रारभेते सह क्रियाम् । युगपद्धर्मभेदेन धातुस्तत्र न वर्तते ॥ ३,१२.१९ ॥ यत्र प्रतिविधानार्थः पचिस्तत्रात्मनेपदम् । परस्मैपदमन्यत्र संस्काराद्यभिधायिनि ॥ ३,१२.२० ॥ संविधातुश्च सांनिध्याद्दासे धर्मोऽनुसज्यते । प्लक्षशब्दस्य सांनिध्यान्न्यग्रोधे प्लक्षता यथा ॥ ३,१२.२१ ॥ पुरोडाशाभिधानं च धानादिषु यथा स्थितम् । छत्त्रिणा चाभिसंबन्धाच्छत्त्रिशब्दाभिधेयता ॥ ३,१२.२२ ॥ अर्थात्प्रतीतमन्योन्यं पारार्थ्यमविवक्षितम् । इत्ययं शेषविषयः कैश्चिदत्रानुवर्ण्यते ॥ ३,१२.२३ ॥ अथ प्रतिविधाता यो हलैः कृषति पञ्चभिः । भाष्ये नोदाहृतं कस्मात्प्राप्तं तत्रात्मनेपदम् ॥ ३,१२.२४ ॥ प्रतीतत्वात्तदर्थस्य शेषत्वं यदि कल्प्यते । न स्यात्प्राप्तविभाषासौ स्वरितेतां निवर्तिका ॥ ३,१२.२५ ॥ शुद्धे तु संविधानार्थे कैश्चिदत्रेष्यते कृषिः । तद्धर्मा यजिरित्येवं न स्यात्तत्रात्मनेपदम् ॥ ३,१२.२६ ॥ अत्र तूपपदेनायमर्थभेदः प्रतीयते । प्राप्ते विभाषा क्रियते तस्मान्नात्रात्मनेपदम् ॥ ३,१२.२७ ॥ ३,१३: लिङ्गसमुद्देश स्तनकेशादिसंबन्धो विशिष्टा वा स्तनादयः । तदुपव्यञ्जना जातिर्गुणावस्था गुणास्तथा ॥ ३,१३.१ ॥ शब्दोपजनितोऽर्थात्मा शब्दसंस्कार इत्यपि । लिङ्गानां लिङ्गतत्त्वज्ञैर्विकल्पाः सप्त दर्शिताः ॥ ३,१३.२ ॥ उपादानविकल्पाश्च लिङ्गानां सप्त वर्णिताः । विकल्पसंनियोगाभ्यां ये शब्देषु व्यवस्थिताः ॥ ३,१३.३ ॥ तिस्रो जातय एवैताः केसां चित्समवस्थिताः । अविरुद्धा, विरुद्धाभिर्गोमहिष्यादिजातिभिः ॥ ३,१३.४ ॥ हस्तिन्यां वडवायां च स्त्रीति बुद्धेः समन्वयः । अतस्तां जातिमिच्छन्ति द्रव्यादिसमवायिनीम् ॥ ३,१३.५ ॥ परतन्त्रस्य यल्लिङ्गमपोद्धारे विवक्षिते । तत्रासौ शब्दसंस्कारः शब्दैरेव व्यपाश्रितः ॥ ३,१३.६ ॥ बुद्ध्या कल्पितरूपेषु लिङ्गेष्वपि च संभवः । स्त्रीत्वादीनां व्यवस्था हि सा लिङ्गैर्व्यपदिश्यते ॥ ३,१३.७ ॥ यथा सलिलनिर्भासा मृगतृष्णासु जायते । जलोपलब्ध्यनुगुणाद्बीजाद्बुद्धिर्जलेऽसति ॥ ३,१३.८ ॥ तथैवाव्यपदेश्येभ्यो हेतुभ्यस्तारकादिषु । मुख्येभ्य इव लिङ्गेभ्यो भेदा लोके व्यवस्थिताः ॥ ३,१३.९ ॥ व्यक्तेषु व्यक्तरूपाणां स्तनादीनां तु दर्शनात् । अव्यक्तव्यञ्जनाव्यक्तेर्जातिर्न परिकल्प्यते ॥ ३,१३.१० ॥ अस्तित्वं च प्रतिज्ञाय सदादर्शनमिच्छतः । अत्यन्तादर्शने न स्यादसत्त्वं प्रति निश्चयः ॥ ३,१३.११ ॥ न चालमनुमानाय शब्दोऽदर्शनपूर्वकः । सिद्धे हि दर्शने किं स्यादनुमानप्रयोजनम् ॥ ३,१३.१२ ॥ आविर्भावस्तिरोभावः स्थितिश्चेत्यनपायिनः । धर्मा मूर्तिषु सर्वासु लिङ्गत्वेनानुदर्शिताः ॥ ३,१३.१३ ॥ सर्वमूर्त्यात्मभूतानां शब्दादिनां गुणे गुणे । त्रयः सत्त्वादिधर्मास्ते सर्वत्र समवस्थिताः ॥ ३,१३.१४ ॥ रूपस्य चात्ममात्रानां शुक्लादिनां प्रतिक्षणम् । का चित्प्रलीयते का चित्कथं चिदभिवर्धते ॥ ३,१३.१५ ॥ क्वथितोदकवच्चैषामनवस्थितवृत्तिता । अजस्रं सर्वभावानां भाष्य एवोपवर्णिता ॥ ३,१३.१६ ॥ प्रवृत्तेरेकरूपत्वं साम्यं वा स्थितिरुच्यते । अविर्भावतिरोभाव- प्रवृत्त्या वावतिष्ठते ॥ ३,१३.१७ ॥ गुणा इत्येव बुद्धेर्वा निमित्तत्वं स्थितिर्मता । स्थितेश्च सर्वलिङ्गानां सर्वनामत्वमुच्यते ॥ ३,१३.१८ ॥ स्थितेषु सर्वलिङ्गेषु विवक्षानियमाश्रयः । कस्य चिच्छब्दसंस्कारे व्यापारः क्व चिदिष्यते ॥ ३,१३.१९ ॥ संनिधाने निमित्तानां किं चिदेव प्रवर्तकम् । यथा तक्षादिशब्दानां लिन्गेषु नियमस्तथा ॥ ३,१३.२० ॥ भावतत्त्वदृशः शिष्टाः शब्दार्थेषु व्यवस्थिताः । यद्यद्धर्मेऽङ्गतामेति लिङ्गं तत्तत्प्रचक्षते ॥ ३,१३.२१ ॥ स्वरभेदाद्यथा शब्दाः साधवो विषयान्तरे । लिङ्गभेदात्तथा सिद्धात्साधुत्वमनुगम्यते ॥ ३,१३.२२ ॥ प्रयोगो विप्रयोगश्च लोके यत्रोपलभ्यते । शास्त्रमारभ्यते तत्र न प्रयोगाविपर्यये ॥ ३,१३.२३ ॥ उपाधिभेदादर्थेषु गुणधर्मस्य कस्य चित् । निमित्तभावः साधुत्वे विवक्षा च व्यवस्थिता ॥ ३,१३.२४ ॥ हिमारण्ये महत्त्वेन युक्ते स्त्रीत्वमवस्थितम् । ह्रस्वोपाधिविशिष्टायाः कुट्याः प्रसवयोगिता ॥ ३,१३.२५ ॥ शब्दान्तरानां भिन्नेऽर्थ उपायाः प्रतिपत्तये । एकतामिव निश्चित्य लघ्वर्थमुपदर्शिताः ॥ ३,१३.२६ ॥ उत्पत्तिः प्रसवोऽन्येषां नाशः संस्त्यानमित्यपि । आत्मरूपं तु भावानां स्थितिरित्यपदिश्यते ॥ ३,१३.२७ ॥ दृष्टं निमित्तं केसां चिज्जात्यादिवदवस्थितम् । दृष्टवच्छब्दसंस्कार- मात्रं तु परिकल्पितम् ॥ ३,१३.२८ ॥ यथा प्रसिद्धेऽप्येकत्वे नानात्वाभिनिवेशिनः । नानात्वं जनयन्तीव शब्दा लिङ्गेऽपि स क्रमः ॥ ३,१३.२९ ॥ इदं वेयमयं वेति शब्दसंस्कारमात्रकम् । निमित्तदर्शनादर्थे कैश्चित्सर्वत्र वर्ण्यते ॥ ३,१३.३० ॥ नावश्यं विषयत्वेन निमित्तं व्यवतिष्ठते । इन्द्रियादि यथादृष्टं भेदहेतुस्तदिष्यते ॥ ३,१३.३१ ॥ ३,१४: वृत्तिसमुद्देश कुत्साप्रशंसातिशयैः समाप्तार्थं तु युज्यते । पदं स्वार्थादयः सर्वे यस्मात्कुत्सादिहेतवः ॥ ३,१४.१ ॥ देवदत्तादिकुत्सायां वर्तते कुत्सितश्रुतिः । कुत्सितस्था तु या कुत्सा तदर्थः को विधीयते ॥ ३,१४.२ ॥ प्रकृष्ट इति शुक्लादि- प्रकर्षस्याभिधायकः । प्रकृष्टस्य प्रकर्षे तु तरबादिर्विधीयते ॥ ३,१४.३ ॥ कुत्सितत्वेन कुत्स्यो वा न सम्यग्वापि कुत्सितः । स्वशब्दाभिहिते केन विशिष्टोऽर्थः प्रतीयते ॥ ३,१४.४ ॥ न च सांप्रतिकी कुत्सा भेदाभावात्प्रतीयते । पूज्यते कुत्सितत्वेन प्रशस्तत्वेन कुत्स्यते ॥ ३,१४.५ ॥ विशेषणविशेष्यत्वं पदयोरुपजायते । न प्रातिपदिकार्थश्च तत्रैव व्यतिरिच्यते ॥ ३,१४.६ ॥ विशेष्यं स्यादनिर्ज्ञातं निर्ज्ञातोऽर्थो विशेषणम् । परार्थत्वेन शेषत्वं सर्वेषामुपकारिणाम् ॥ ३,१४.७ ॥ विभक्तिभेदो नियमाद्गुणगुण्यभिधायिनोः । सामानाधिकरण्यस्य प्रसिद्धिर्द्रव्यशब्दयोः ॥ ३,१४.८ ॥ द्रव्येऽनिर्ज्ञातजातीये कृष्णशब्दः प्रयुज्यते । अनिर्ज्ञातगुणे चैवं तिलशब्दः प्रवर्तते ॥ ३,१४.९ ॥ सामान्यानामसंबन्धात्तौ विशेषे व्यवस्थितौ । रूपाभेदाद्विशेषं तमभिव्यङ्क्तुं न शक्नुतः ॥ ३,१४.१० ॥ तावेव संनिपतितौ भेदेन प्रतिपादने । अवच्छेदमिवाधाय संशयं व्यपकर्षतः ॥ ३,१४.११ ॥ द्रव्यात्मा गुणसंसर्ग- भेदादाश्रीयते पृथक् । जातिसंबन्धभेदाच्च द्वितीय इव गृह्यते ॥ ३,१४.१२ ॥ निमित्तैरभिसंबन्धाद्या निमित्तसरूपता । तयैकस्यापि नानात्वं रूपभेदात्प्रकल्पते ॥ ३,१४.१३ ॥ द्रव्यावस्था तृतीया तु यस्यां संसृज्यते द्वयम् । तयोरवस्थयोर्भेदादाश्रयत्वे नियुज्यते ॥ ३,१४.१४ ॥ बुद्ध्यैकं भिद्यते भिन्नमेकत्वं चोपगच्छति । बुद्ध्यावस्था विभज्यन्ते सा ह्यर्थस्य विधायिका ॥ ३,१४.१५ ॥ व्यपदेशिवदेकस्मिन् बुद्ध्या नानात्वकल्पना । तया कल्पितभेदः सन्नर्थात्मा व्यपदिश्यते ॥ ३,१४.१६ ॥ क्रियाभेदेन दृष्टानामश्मादीनां पुनः पुनः । किं चिद्दर्शनमन्येन दर्शनेनापदिश्यते ॥ ३,१४.१७ ॥ प्रयोगभेदाद्धातूनां प्रकल्प्य बहुरूपताम् । भेदाभेदावुपादाय क्व चिदेकाच्त्वमुच्यते ॥ ३,१४.१८ ॥ अन्वयव्यतिरेकाभ्यामर्थवान् परिकल्पितः । एको धात्वर्थविगमाद्वर्णत्वेनोपचर्यते ॥ ३,१४.१९ ॥ द्रव्यात्मानस्त्रयस्तस्माद्बुद्धौ नाना व्यवस्थिताः । आश्रयाश्रयिधर्मेणेत्ययं पूर्वेभ्य आगमः ॥ ३,१४.२० ॥ सामानाधिकरण्यं च शब्दयोः कैश्चिदिष्यते । विशेषणविशेष्यत्वं संज्ञासंज्ञित्वमेव च ॥ ३,१४.२१ ॥ केषां चिज्जातिगुणयोरेकार्थसमवेतयोः । वृत्तिः कृष्णतिलेष्विष्टा शब्दे द्रव्याभिधायिनि ॥ ३,१४.२२ ॥ संस्तु रूपरसादिनामाश्रयो नाभिधीयते । द्रव्याभिधानेन विना ततस्ते द्वन्द्वभाविनः ॥ ३,१४.२३ ॥ द्रव्याभिधायी कृष्णादिराकाङ्क्षावान् प्रवर्तते । निमित्तानुविधायित्वात्तत्तिलादौ न विद्यते ॥ ३,१४.२४ ॥ एवं जातिमति द्रव्ये प्रत्यासन्ने क्रियां प्रति । गुणधर्म गुणाविष्टं द्रव्यं भेदाय कल्पते ॥ ३,१४.२५ ॥ गुणमात्राभिधायित्वं के चिदिच्छन्ति वृत्तिषु । अजाश्वादिषु संबन्धाद्रूढीनामिव रूढिभिः ॥ ३,१४.२६ ॥ तिले पूर्वमुपात्ते वा तत्रैव मतुबिष्यते । स च धर्मः समासेषु गुणस्तस्माद्विशेषणम् ॥ ३,१४.२७ ॥ [पट्वीमृद्व्योः समासे तु यद्यप्येकार्थवृत्तिता । भिन्नमत्राधिकरणं प्राग्वृत्तेस्तच्च गृह्यते ॥ ३,१४.२८ *॥ अनुस्यूतेव भेदाभ्यामेका प्रख्योपजायते । यदा सहविवक्षां तामाहुर्द्वन्द्वैकशेषयोः ॥ ३,१४.२९ ॥ इतरेतरयोगस्तु भिन्नसङ्घाभिधायिनाम् । प्रत्येकं च समूहोऽसौ समूहिषु समाप्यते ॥ ३,१४.३० ॥ व्यापारसमुदायस्य यथाधिश्रयणादिषु । प्रत्येकं जातिवद्वृत्तिस्तथा द्वन्द्वपदेष्वपि ॥ ३,१४.३१ ॥ शौण्डार्धर्चपुरोडाश- च्छत्त्रिणोऽत्र निदर्शनम् । ते विष्णुमित्रा इति च भिन्नेषु सहचारिषु ॥ ३,१४.३२ ॥ अर्थान्तराभिधायित्वं तथार्थान्तरवर्तिनाम् । याभ्यां चैकमनेकार्थं ताभ्यामेवापरं पदम् ॥ ३,१४.३३ ॥ समुदायान्तरत्वाच्च तादृशोऽर्थो न लौकिकः । अन्वयव्यतिरेकाभ्यां शास्त्रार्थोऽपि न दृश्यते ॥ ३,१४.३४ ॥ दुःखा दुरुपपादा च तस्माद्भाष्येऽप्युदाहृता । युगपद्वाचिता सा तु व्यवहारार्थमाश्रिता ॥ ३,१४.३५ ॥ समुदायमुपक्रम्य पदं तस्यां प्रयुज्यते । विभागेन समाख्याने ततस्तद्द्व्यर्थमुच्यते ॥ ३,१४.३६ ॥ वाक्येऽपि नियता धर्माः के चिद्वृत्तौ द्वयोस्तथा । ते त्वभेदेन सामर्थ्य- मात्र एवोपवर्णिताः ॥ ३,१४.३७ ॥ वृत्तौ विशेषवृत्तित्वाद्भेदे सामान्यवाचिता । उपमानसमासादौ श्यामादीनामुदाहृता ॥ ३,१४.३८ ॥ वृत्तिरन्यपदार्थे या तस्या वाक्येष्वसंभवः । चार्थे द्वन्द्वपदानां च भेदे वृत्तिर्न विद्यते ॥ ३,१४.३९ ॥ भेदे सति निरादीनां क्रान्ताद्यर्थेष्वसंभवः । प्राग्वृत्तेर्जातिवाचित्वं न च गौरखरादिषु ॥ ३,१४.४० ॥ क्रीडाया, जीविकायाश्च वाक्येनावचनात्तथा । न नित्यग्रहणं युक्तं कौटिल्ये यङ्विधौ यथा ॥ ३,१४.४१ ॥ निर्धारणादिविषये व्यपेक्षैव यतः स्थिता । समासप्रतिषेधानां ततो नास्ति प्रयोजनम् ॥ ३,१४.४२ ॥ विधिभिः प्रतिषेधैश्च भेदाभेदनिदर्शनम् । कृतं द्वन्द्वैकवद्भावे सङ्घवृत्त्युपदेशवत् ॥ ३,१४.४३ ॥ सामर्थ्यमविशेषोक्तमपि लोकव्यवस्थया । वृत्त्यवृत्त्योः प्रयोगज्ञैर्विभक्तं प्रतिपत्तृभिः ॥ ३,१४.४४ ॥ अर्थस्य विनिवृत्तत्वाल्लुगादि न विरुध्यते । एकार्थीभाव एवातः समासाख्या विधीयते ॥ ३,१४.४५ ॥ व्यवस्थितविभाषा च सामान्ये कैश्चिदिष्यते । तथा वाक्यं व्यपेक्षायां समासोऽन्यत्र शिष्यते ॥ ३,१४.४६ ॥ तुल्यश्रुतित्वात्तत्त्वेऽपि राजादीनामुपाश्रिते । वृत्तौ विशेषणाकाङ्क्षा- गमकत्वान्निवर्तते ॥ ३,१४.४७ ॥ संबन्धिशब्दः सापेक्षो नित्यं सर्वः प्रयुज्यते । स्वार्थवत्सा व्यपेक्षास्य वृत्तावपि न हीयते ॥ ३,१४.४८ ॥ समुदायेन संबन्धो येसां गुरुकुलादिना । संस्पृश्यावयवांस्तेऽपि युज्यन्ते तद्वता सह ॥ ३,१४.४९ ॥ अबुधान् प्रत्युपायाश्च विचित्राः प्रतिपत्तये । शब्दान्तरत्वादत्यन्त- भेदो वाक्यसमासयोः ॥ ३,१४.५० ॥ असमासे समासे च गोरथादिष्वदर्शनात् । युक्तादिनां न शास्त्रेण निवृत्त्यनुगमः कृतः ॥ ३,१४.५१ ॥ शब्दान्तरत्वाद्युक्तादिः क्व चिद्वाक्ये प्रयुज्यते । प्रपर्णप्रपलाशादौ गतशब्दश्च वृत्तिषु ॥ ३,१४.५२ ॥ विशेषणविशेस्यत्वं कैश्चिदेकस्तथाश्रयः । उपाये तत्त्वदर्शित्वादिष्यते वृत्तिवाक्ययोः ॥ ३,१४.५३ ॥ पदं यथैव वृक्षादि विशिष्टेऽर्थे व्यवस्थितम् । नीलोत्पलाद्यपि तथा भागाभ्यां वर्तते विना ॥ ३,१४.५४ ॥ श्रोत्रियक्षेत्रियादिनां न च वासिष्ठगार्ग्यवत् । भेदेन प्रत्ययो लोके तुल्यरूपासमन्वयात् ॥ ३,१४.५५ ॥ सप्तपर्णादिवद्भेदो न वृत्तौ विद्यते क्व चित् । रूढ्यरूढिविभागोऽपि क्रियते प्रतिपत्तये ॥ ३,१४.५६ ॥ या सामान्याश्रया संज्ञा विशेषविषया च या । बहुलग्रहणान्नास्ति प्रवृत्तिरुभयोस्तयोः ॥ ३,१४.५७ ॥ सुसूक्ष्मजटकेशादौ समासोऽवयवे यदि । स्यात्स्यात्तत्रान्तरङ्गत्वाद्बाधकोऽवयवस्वरः ॥ ३,१४.५८ ॥ समुदायस्य वृत्तौ च नैकदेशो विभाष्यते । भेद एव विभाषाया नियतो विषयो यतः ॥ ३,१४.५९ ॥ यतश्चाविषयः सोऽस्यास्तस्मान्नास्त्यकृतार्थता । अभेदप्रक्रमेऽत्यन्तं भेदानामपसारणात् ॥ ३,१४.६० ॥ महाकष्टश्रितेत्येवं न स्याद्भेदः पदत्रये । वृत्ताववयवस्यात्त्वं यस्मान्न प्रतिषिध्यते ॥ ३,१४.६१ ॥ महारण्यमतीते तु त्रिपदाद्भिद्यते स्वरः । यस्मात्तत्रान्तरङ्गत्वाद्बाधकोऽवयवस्वरः ॥ ३,१४.६२ ॥ सतिशिष्टबलियस्त्वात्थाथादिस्वर एव तु । द्विपदे तेन यगपत्त्रितयं न समस्यते ॥ ३,१४.६३ ॥ येषामपूज्यमानत्वं परार्थानुगमात्मके । विशेषणविशेष्यत्वमपि तेषां न कल्पते ॥ ३,१४.६४ ॥ विशेषः श्रूयमाणोऽपि प्रधानेषु गुणेषु वा । शब्दान्तरत्वाद्वाक्ये तु वृत्तौ नित्यं न विद्यते ॥ ३,१४.६५ ॥ विशेषकर्मसंबन्धे निर्भुक्तेऽपि कृतादिभिः । विशेषनिरपेक्षोऽन्यः कृतशब्दः प्रवर्तते ॥ ३,१४.६६ ॥ अकर्मकत्वे सत्येवं क्तान्तं भावाभिधायि तत् । ततः क्रियावता कर्त्रा योगो भवति कर्मणाम् ॥ ३,१४.६७ ॥ अविग्रहा गतादिस्था यथा ग्रामादिकर्मभिः । संबध्यते क्रिया तद्वत्कृतपूर्व्यादिषु स्थिता ॥ ३,१४.६८ ॥ मुण्डिसूत्र्वादयोऽसद्भिर्भागैरनुगता इव । विभक्ताः कल्पितात्मानो धातवः कुट्टिचर्चिवत् ॥ ३,१४.६९ ॥ पुत्रीयतौ न पुत्रोऽस्ति विशेषेच्छा तु तादृशी । विनैव पुत्रानुगमाद्या पुत्रे व्यवतिष्ठते ॥ ३,१४.७० ॥ प्राणैर्विना यथा धारिर्जीवतौ प्राणकर्मकः । न चात्र धारिर्न प्राणा जीवतिस्तु क्रियान्तरम् ॥ ३,१४.७१ ॥ तथा विनेषिपुत्राभ्यां पुत्रीयायां क्रियान्तरम् । अन्वाख्यानाय भेदास्तु सदृशाः प्रतिपादकाः ॥ ३,१४.७२ ॥ आक्षेपाच्च प्रयोगे.न विषयान्तरवर्तिना । सदपीच्छाक्यचः कर्म वाक्य एव प्रयुज्यते ॥ ३,१४.७३ ॥ प्रसिद्धेन हृतः शब्दो भावगर्हाभिधायिना । अभ्यासे तुल्यरूपत्वान्न यङन्तः प्रयुज्यते ॥ ३,१४.७४ ॥ शब्दा यथा विभज्यन्ते भागैरिव विकल्पितैः । अन्वाख्येयास्तथा शास्त्रमतिदूरे व्यवस्थितम् ॥ ३,१४.७५ ॥ अर्थस्यानुगमं कं चिद्दृष्ट्वैव परिकल्पितम् । पदं वाक्ये पदे धातुर्धातौ भागश्च मुण्डिवत् ॥ ३,१४.७६ ॥ अविप्रयोगः साधुत्वे व्युत्पत्तिरनवस्थिता । उपायान् प्रतिपत्तीनां नाभिमन्येत सत्यतः ॥ ३,१४.७७ ॥ यथैव डित्थे दवतिः पाचके पचतिस्तथा । डयतिश्च पचिश्चैव द्वावप्येतावलौकिकौ ॥ ३,१४.७८ ॥ प्रकृतिप्रत्ययावूह्यौ पदात्ताभ्यां पदं तथा । अनुबन्धस्वरादिभ्यः शिष्टैः शास्त्रं न तान् प्रति ॥ ३,१४.७९ ॥ शास्त्रदृष्टिस्तु शास्त्रस्य प्राप्तिमात्रेऽप्यनिश्चिते । युज्यते प्रत्यवायेन शास्त्रं चक्षुरपश्यताम् ॥ ३,१४.८० ॥ अर्थान्तराभिधानाच्च पौर्वापर्यं न भिद्यते । राजदन्ताहिताग्न्यादि- राजाश्वादिषु सर्वथा ॥ ३,१४.८१ ॥ विनैव प्रत्ययैर्वृत्तौ ये भिन्नार्थाभिधायिनः । गर्गादयो लुका तेषां साधुत्वमनुगम्यते ॥ ३,१४.८२ ॥ [सोऽयमित्यभिसंबन्धात्प्रत्ययेन विना यदि । भृग्वादयः प्रयुज्येरन्नापत्ये नियमो भवेत् ॥ ३,१४.८३ *॥ सोऽयमित्यभिसंबन्धे लिङ्गोपव्यञ्जनादृते । प्रष्ठादिषु न जायैव नियमेन प्रतीयते ॥ ३,१४.८४ ॥ मानमेयाभिसंबन्ध- विशेषेऽङ्गीकृते तथा । प्रस्थादीनामसाधुत्वं तद्धितेन विना भवेत् ॥ ३,१४.८५ ॥ तद्धितो योगभेदेन वाक्यं वा स्याद्विभाषितम् । परिमाणाधिके तत्र प्रथमा शिष्यते पुनः ॥ ३,१४.८६ ॥ व्यतिरिक्तस्य साधुत्वे तदेव च निदर्शनम् । युज्यतेऽङ्गीकृताधिक्यं तत्सर्वाभिर्विभक्तिभिः ॥ ३,१४.८७ ॥ शुक्लादिषु मतुब्लोपो व्यतिरेकस्य दर्शनात् । असाधुत्वनिवृत्त्यर्थं साधवस्ते बिदादिवत् ॥ ३,१४.८८ ॥ विशेषणाद्विशेष्येऽर्थे तद्भावाभ्युच्चये सति । पुनश्च प्रतिसंहारे वृत्तिमेके प्रचक्षते ॥ ३,१४.८९ ॥ निमित्ते प्रत्ययः पूर्वो नानुप्राप्तो निमित्तिना । निमित्तवति बुद्धेश्च न निमित्तसरूपता ॥ ३,१४.९० ॥ संस्कारसहिताज्ज्ञानान्नोपश्लेसः स्मृतेरपि । व्यापारे तन्निमित्तानां न ग्राह्यं स्यात्तथा स्थितम् ॥ ३,१४.९१ ॥ अन्तःकरणवृत्तौ च व्यर्था बाह्यार्थकल्पना । तस्मादनुपकारे वा ग्राह्यं वा न तथा स्थितम् ॥ ३,१४.९२ ॥ अनुस्यूतेव संसृष्टैरर्थे बुद्धिः प्रवर्तते । व्याख्यातारो विभज्यार्थांस्तान् भेदेन प्रचक्षते ॥ ३,१४.९३ ॥ तदात्मन्यविभक्ते च बुद्ध्यन्तरमुपाश्रिताः । विभागमिव मन्यन्ते विशेषणविशेष्ययोः ॥ ३,१४.९४ ॥ अबुधान् प्रति वृत्तिं च वर्तयन्तः प्रकल्पिताम् । आहुः परार्थवचने त्यागाभ्युच्चयधर्मताम् ॥ ३,१४.९५ ॥ अन्वयाद्गम्यते सोऽर्थो विरोधी वा निवर्तते । द्व्यर्थमर्थान्तरे वापि तत्राहुरुपसर्जनम् ॥ ३,१४.९६ ॥ उपायमात्रं नानात्वं समूहस्त्वेक एव सः । विकल्पाभ्युच्चयाभ्यां वा भेदसंसर्गकल्पना ॥ ३,१४.९७ ॥ वृत्तिं वर्तयतामेवमबुधप्रतिपत्तये । भिन्नाः संबोधनोपायाः पुरुषेष्वनवस्थिताः ॥ ३,१४.९८ ॥ वाचिका द्योतिका वापि संख्यानां वा विभक्तयः । तद्रूपेऽवयवे वृत्तौ संख्याभेदो निवर्तते ॥ ३,१४.९९ ॥ अभेदैकत्वसंख्या वा तत्रान्यैवोपजायते । संसर्गरुपं सैंख्यानामविभक्तं तदुच्यते ॥ ३,१४.१०० ॥ यथौषधिरसाः सर्वे मधुन्याहितशक्तयः । अविभागेन वर्तन्ते तां संख्यां तादृशीं विदुः ॥ ३,१४.१०१ ॥ भेदानां वा परित्यागात्संख्यात्मा स तथाविधः । व्यापाराज्जातिभागस्य भेदापोहेन वर्तते ॥ ३,१४.१०२ ॥ अगृहीतविशेषेण यथा रूपेण रूपवान् । प्रख्यायते न शुक्लादि- भेदरूपस्तु गृह्यते ॥ ३,१४.१०३ ॥ भेदरूपसमावेशे तथा सत्यविवक्षिते । भागः प्रकाशितः कश्चिच्छास्त्रेऽङ्गत्वेन गृह्यते ॥ ३,१४.१०४ ॥ संक्ःयासामान्यरूपेण तदा सोऽम्शः प्रतीयते । अर्थस्यानेकशक्तित्वे शब्दैर्नियतशक्तिभिः ॥ ३,१४.१०५ ॥ अव्ययानां च यो धर्मो यश्च भेदवतां क्रमः । अभिन्नव्यपदेशार्हमन्तरालं तदेतयोः ॥ ३,१४.१०६ ॥ अलुकश्चैकवद्भावस्तस्मिन् सति न शिष्यते । स च गोषुचरादीनां धर्मोऽस्ति वचनान्तरे ॥ ३,१४.१०७ ॥ जातौ द्विवचनाभावात्तद्वृत्तिषु न विद्यते । प्रत्याख्याने तु योगस्य द्रव्ये गोषुचरादयः ॥ ३,१४.१०८ ॥ आश्रयाद्भेदवत्तायाः सर्वभेदसमन्वयः । द्रव्याभिधानपक्षोऽपि जात्याख्यायां न विद्यते ॥ ३,१४.१०९ ॥ सर्वद्रव्यगतिश्चैवमेकशेषश्च नोच्यते । प्रत्याख्यातेऽन्यथा सूत्रे भिन्नद्रव्यगतिर्भवेत् ॥ ३,१४.११० ॥ वृत्तौ यो युक्तवद्भावो वरणादिषु शिष्यते । अभेदैकत्वसंख्यायां गोदौ तत्र न सिध्यति ॥ ३,१४.१११ ॥ प्राग्वृत्तेर्युक्तवद्भावे षष्ठी भेदाश्रया भवेत् । वृत्तौ संख्याविशेषाणां त्यागाद्भेदो निवर्तते ॥ ३,१४.११२ ॥ विद्यमानासु संख्यासु के चित्संख्यान्तरं विदुः । अभेदाख्यमुपग्राहि वृत्तौ तच्चोपजायते ॥ ३,१४.११३ ॥ व्यापारं याति भेदाख्यैस्तत्स्वैरवयवैः क्व चित् । आत्मा भेदानपेक्षोऽस्य क्व चिदेति निमित्तताम् ॥ ३,१४.११४ ॥ दास्याः पतिरिति व्यक्तो गोदाविति च दृश्यते । व्यापारभेदः संख्यायास्तस्मादेव व्यवस्थितः ॥ ३,१४.११५ ॥ द्व्यादिनां च द्विपुत्रादौ बाह्यो भेदो निवर्तते । विभक्तिवाच्यः स्वार्थत्वान्निमित्तं त्ववतिष्ठते ॥ ३,१४.११६ ॥ द्वित्वोपसर्जने सङ्घे द्विशब्दस्तत्र वर्तते । सोऽयमित्यभिसंबन्धादुभशब्दे न तत्तथा ॥ ३,१४.११७ ॥ उभयस्तत्र तुल्यार्थो वृत्तौ नित्यं प्रयुज्यते । सूत्रेऽपि नित्यग्रहणं तदर्थमभिधीयते ॥ ३,१४.११८ ॥ आपि के चापरार्थत्वान्नाभेद उपजायते । उभे इति ततः स्वार्थे भेदे वृत्तिः प्रयुज्यते ॥ ३,१४.११९ ॥ स्त्रीत्वाभिधानपक्षेऽपि गुणभावविपर्ययः । स्वभावादपरार्थत्वात्तत्र भेदो न हीयते ॥ ३,१४.१२० ॥ तस्माद्द्विवचनाट्टापश्चोभयोऽन्यत्र दृश्यते । प्रत्ययं तयपं हित्वा नास्त्युत्तरपदे पुनः ॥ ३,१४.१२१ ॥ प्राप्तिः प्रगृह्यसंज्ञाया न स्यात्प्रत्ययलक्षणात् । कुमार्यगारे न ह्यस्ति समासो वचनान्तरे ॥ ३,१४.१२२ ॥ एकद्वयोर्यञादिनां विभाषा लुङ्न कल्पते । यौष्माकस्तावकश्चेति भेदाभावान्न सिध्यति ॥ ३,१४.१२३ ॥ दृष्टो गार्ग्यतरे भेदस्तथा गर्गतरा इति । युष्मत्पिता त्वत्पितेति तथादेशौ व्यवस्थितौ ॥ ३,१४.१२४ ॥ उपाधिभूता या संख्या प्रकृतौ समवस्थिता । आदेशैः सम्ज्नया वापि विभक्त्या व्यज्यते विना ॥ ३,१४.१२५ ॥ शौर्पिके मासजाते च परिमाणं स्वभावतः । उपाधिभूतामाश्रित्य संख्यां भेदेन वर्तते ॥ ३,१४.१.२६ ॥ वयस्विनि परिच्छेदः क्रीते चापि न गम्यते । इष्टोऽभेदादृते तत्र पतिमाणमनर्थकम् ॥ ३,१४.१२७ ॥ भिन्नस्याभेदवचनात्प्रस्थादिभ्यः शसो विधिः । तद्धर्मत्वादभेदात्तु घटादिभ्यो न दृश्यते ॥ ३,१४.१२८ ॥ श्रूयते वचनं यत्र भावस्तत्र विशिष्यते । निवर्तते यद्वचनं तस्य भावो न विद्यते ॥ ३,१४.१२९ ॥ कार्यं सत्ताश्रयं शास्त्रादप्रवृत्तिरदर्शनम् । वाक्ये दृष्टं यदत्यन्तमभावस्तस्य वृत्तिषु ॥ ३,१४.१३० ॥ सम्ज्ञाविषयभेदार्थं प्रसक्तादर्शनं स्मृतम् । श्रूयमानं तु वचनं विशिष्टमुपलभ्यते ॥ ३,१४.१३१ ॥ अभावो वा लुको यत्र रूपवान् वा विधीयते । व्यभिचारान्निमित्तस्य तत्रासाधुः प्रसज्यते ॥ ३,१४.१३२ ॥ भेदः संख्याविशेषो वा व्याख्यातो वृत्तिवाक्ययोः । सर्वत्रैव विशेषस्तु नावश्यं तादृशो भवेत् ॥ ३,१४.१३३ ॥ आतेश्च भेदहेतुत्वान्न लिङ्गेन विशेष्यते । प्रधानं मृगदुग्धादौ गार्गीपुत्रे न स क्रमः ॥ ३,१४.१३४ ॥ अभेदे लिङ्गसंख्याभ्यां योगाच्छुक्लं पटा इति । प्रसक्ते शास्त्रमारब्धं सिद्धये लिङ्गसंख्ययोः ॥ ३,१४.१३५ ॥ परार्थं शेषभावं यो वृत्तिषु प्रतिपद्यते । गुणो विशेषणत्वेन स सूत्रे व्यपदिश्यते ॥ ३,१४.१३६ ॥ शब्दान्तरत्वाद्वाक्येषु विशेषा यद्यपि श्रुताः । वृत्तेरभिन्नरूपत्वात्तेषु वृत्तिर्न विद्यते ॥ ३,१४.१३७ ॥ रूपाच्च शब्दसंस्कारः सामान्यविषयो यतः । तस्मात्तदाश्रयं लिङ्गं वचनं च प्रसज्यते ॥ ३,१४.१३८ ॥ सलिङ्गं च ससंख्यं च ततो द्रव्याभिधायिना । संबध्यते पदं तत्र तयोर्भिन्ना श्रुतिर्भवेत् ॥ ३,१४.१३९ ॥ भाविनो बहिरङ्गस्य वचनादाश्रयस्य ये । लिङ्गसंख्ये गुणानां ते सूत्रेण प्रतिपादिते ॥ ३,१४.१४० ॥ विशेषवृत्तेरपि च रूपाभेदादलक्षितः । यस्माद्विशेषस्तेनात्र भेदकार्यं न कल्पते ॥ ३,१४.१४१ ॥ विशेष एव सामान्यं विशेसाद्भिद्यते यतः । अभेदो हि विशेषाणामाश्रितो विनिवर्तकः ॥ ३,१४.१४२ ॥ यद्यदाश्रीयते तत्तदन्यस्य विनिवर्तकम् । भेदाभेदविभागस्तु सामान्ये न निरूप्यते ॥ ३,१४.१४३ ॥ अपोद्धारश्च सामान्यमिति तस्योपकारिनः । निमित्तावस्थमेवातस्तत्स्वधर्मेण गृह्यते ॥ ३,१४.१४४ ॥ अनिर्धारितधर्मत्वाद्भेदा एव विकल्पिताः । निमित्तैर्व्यपदिश्यन्ते सामान्याख्याविशेसिताः ॥ ३,१४.१४५ ॥ यदा तु व्यपदिश्येते लिङ्गसंख्ये स्वभावतः । प्रयोगेष्वेव साधुत्वं वाक्ये प्रक्रम्यते तदा ॥ ३,१४.१४६ ॥ तत्र प्रयोगोऽनियतो गुणानामाश्रयैः सह । सामान्यं यत्तदत्यन्तं तत्रैव समवस्थितम् ॥ ३,१४.१४७ ॥ न गोत्वं शाबलेयस्य गौरिति व्यपदिश्यते । शुक्लत्वं बाहुलेयस्य शुक्ल इत्यपदिश्यते ॥ ३,१४.१४८ ॥ व्यतिरेके च सत्येवं मतुपः श्रवनं भवेत् । लुगन्वाख्यायते तस्माद्रसादिभ्यश्च नास्ति सः ॥ ३,१४.१४९ ॥ यत्सोऽयमिति संबन्धाद्रूपाभेदेन वर्तते । शुक्लादिवत्ततो लोपस्तद्रसादौ न विद्यते ॥ ३,१४.१५० ॥ आवेशो लिङ्गसंख्याभ्यां क्व चिन्मञ्चादिवत्स्थितह् । सोऽयमित्यभिसंबन्धे स प्रस्थादौ न विद्यते ॥ ३,१४.१५१ ॥ लिङ्गं लिङ्गपरित्यागे सूत्रं प्रत्ययशासनम् । सोऽयमित्यभिसंबन्धात्पुंशब्दे स्त्र्यभिधायिनि ॥ ३,१४.१५२ ॥ आश्रये लिङ्गसंख्याभ्यामाश्रितं व्यपदिश्यते । विशेषणानां चाजातेरिति शास्त्रव्यवस्थया ॥ ३,१४.१५३ ॥ निमित्तानुविधायित्वाद्ये धर्मा भेदहेतुषु । त आश्रयेऽपि विद्यन्त इति बुद्धिर्निवर्त्यते ॥ ३,१४.१५४ ॥ आख्यायते च शास्त्रेण लोकरूढा स्वभावतः । निमित्ततुल्या गोदादौ प्रवृत्तिर्लिङ्गसंख्ययोः ॥ ३,१४.१५५ ॥ हरितक्यादिषु व्यक्तिः संख्या खलतिकादिषु । मनुष्यलुब्विशेषाणामभिधेयाश्रयं द्वयम् ॥ ३,१४.१५६ ॥ जातिप्रयोगे जात्या चेत्संबन्धमुपगच्छति । विशेषणं ततो धर्माञ्जातेस्तत्प्रतिपद्यते ॥ ३,१४.१५७ ॥ लुबन्ते संनिपतितं जातेरन्यद्विशेषणम् । लुबन्तस्य प्रधानत्वात्तद्धर्मैर्व्यपदिश्यते ॥ ३,१४.१५८ ॥ नञ्समासबहुव्रीहि- द्वन्द्वस्त्र्यतिशयेषु ये । भेदा भाष्यानुसारेण वाच्यास्ते लिङ्गसंख्ययोः ॥ ३,१४.१५९ ॥ यदि षष्ठीद्वितीयान्तान्निकृष्टात्तमबादयः । न्यक्कारिणि स्युरुत्कृष्टे प्रकृतेः स्याद्विलिङ्गता ॥ ३,१४.१६० ॥ काल्यां कालाद्द्वितीयान्तात्काले काल्यास्तरब्भवेत् । न्यक्कारिणि तथा गार्ग्ये गर्गेभ्यः प्रत्ययो भवेत् ॥ ३,१४.१६१ ॥ न्यक्कर्तृषु च गर्गेषु गार्ग्यात्स्यात्तच्च नेष्यते । कुमार्याः स्वार्थिके ङीप्स्यात्प्रकृत्यर्थो हि नाधिकः ॥ ३,१४.१६२ ॥ षष्ठ्यन्तादधिके तस्माद्गुणे स्वाश्रयवर्तिनि । उत्कृष्टसमवेतायां क्रियायां वा विधीयते ॥ ३,१४.१६३ ॥ उपात्तं च प्रकृत्यर्थो द्रव्यमेवाश्रयस्तयोः । सोऽयमित्यभिसंबन्धादभेदेन प्रतीयते ॥ ३,१४.१६४ ॥ रूपाभेदाच्च तद्द्रव्यमाकाङ्क्षावत्प्रतीयते । विशेषैर्भिन्नरूपैस्तदाश्रयैरिव युज्यते ॥ ३,१४.१६५ ॥ भिन्नरूपेसु यल्लिङ्गं विशेषेसु व्यवस्थितम् । संख्या च ताभ्यां द्रव्यात्मा सोऽभिन्नो व्यपदिश्यते ॥ ३,१४.१६६ ॥ आश्रयः समवायि च निमित्तं लिङ्गसंख्ययोः । कर्तृस्थभावकः शेतिरतो भाष्य उदाहृतः ॥ ३,१४.१६७ ॥ निमित्तमाश्रयत्वेन गृह्येत यदि साधनम् । कर्मापदिष्टयोः प्राप्तिस्तत्र स्याल्लिङ्गसंख्ययोः ॥ ३,१४.१६८ ॥ शास्त्रे निमित्तभावेन समुदायादपोद्धृतः । स्त्र्यर्थस्तस्येच्छया योगः प्रकृत्या प्रत्ययेन वा ॥ ३,१४.१६९ ॥ स्त्रीशब्दो गुणशब्दत्वात्तुल्यधर्मा सितादिभिः । गुणमात्रे प्रयुज्येत संस्त्यानवति वाश्रये ॥ ३,१४.१७० ॥ स्त्र्यर्थः संस्त्यानवद्द्रव्यं प्रकृत्यर्थश्च यद्यसौ । द्रव्योपलक्षणार्थत्वं संस्त्यानस्य तथा सति ॥ ३,१४.१७१ ॥ संस्त्यानेन क्व चिद्द्रव्यं दृष्टं यद्युपलक्षितम् । अनङ्गीकृतसंस्त्यानात्तद्वृत्तेः प्रत्ययो भवेत् ॥ ३,१४.१७२ ॥ भूतादयः षडाख्याश्च संस्त्यानेनोपलक्षिते । ब्राह्मण्यादौ यदा वृत्तास्तेभ्यः स्युः प्रत्ययास्तदा ॥ ३,१४.१७३ ॥ तद्वन्तो हि प्रधानत्वात्प्रत्ययाणां प्रयोजकाः । सामानाधिकरैण्येऽपि तस्माट्टाबादिसंभवः ॥ ३,१४.१७४ ॥ गुणमात्राभिधायित्वं स्त्रीशब्दे वर्ण्यते यदा । प्रकृत्यर्थश्च संस्त्यानं स्वार्थिकाः प्रत्ययास्तदा ॥ ३,१४.१७५ ॥ संस्त्याने केवले वृत्तिः प्रकृतीनां न विद्यते । तदाविष्टे ततो द्रव्ये गृह्यन्ते समवस्थिताः ॥ ३,१४.१७६ ॥ उपकारि च संस्त्यानं येषु शब्देष्वपेक्षितम् । तेभ्यष्टाबादयस्तच्च भूतादिष्वविवक्षितम् ॥ ३,१४.१७७ ॥ संस्त्यानं प्रत्ययस्यार्थः शुद्धमाश्रीयते यदा । तदा द्विवचनानेक- प्रत्ययत्वं न सिध्यति ॥ ३,१४.१७८ ॥ जातिश्चेत्स्त्रीत्वमेवासौ भेदोऽन्यत्राविवक्षितः । यस्माद्भिन्नैरपि द्रव्यैस्तदेकं सद्विशिष्यते ॥ ३,१४.१७९ ॥ मात्राणां हि तिरोभावे परिमाणं न विद्यते । कुमार्य इति तेन स्यात्कुमार्यां भेदसंभवात् ॥ ३,१४.१८० ॥ जातिसंख्यासमाहारैर्यथैव सहचारिणि । द्रव्ये क्रियाः प्रवर्तन्त एकात्मत्वे व्यपेक्षिते ॥ ३,१४.१८१ ॥ मूर्तिभ्यो मूर्तिधर्माणां तथाभेदस्य दर्शनात् । सामानाधिकरण्यं च क्रियायोगश्च कल्पते ॥ ३,१४.१८२ ॥ सामानाधिकरण्ये तु मतुब्लोपादपेक्षिते । लुक्तद्धितलुकीति स्याल्लुक्तत्राप्युपलक्षणम् ॥ ३,१४.१८३ ॥ केसां चित्त्यक्तभेदेषु द्रव्येष्वेव विधीयते । संस्त्यानवत्सु टाबादिरभेदेन समन्वयात् ॥ ३,१४.१८४ ॥ सामान्यभूतो द्रव्यात्मा परिच्छिन्नपरिग्रहः । क्रियाभिर्युज्यते भेदैर्भागशश्चावतिष्ठते ॥ ३,१४.१८५ ॥ शुक्लादिष्वाश्रयद्रव्यं प्राधान्येनाभिधीयते । स्त्रीत्वं तु प्रत्ययार्थत्वादभिधाविषयो यतः ॥ ३,१४.१८६ ॥ सोऽयमित्यभिसंबन्धादाश्रयं प्रतिपद्यते । स्त्रीत्वं स्वभावसिद्धो वा गुणभावविपर्ययः ॥ ३,१४.१८७ ॥ साकाङ्क्षत्वाद्गुणत्वेन सामान्यं वोपदिश्यते । व्यक्तीनामात्मधर्मोऽसावेकप्रख्यानिबन्धनः ॥ ३,१४.१८८ ॥ एवम्भूता च सावस्था भागभेदपरिग्रहे । कृते बुद्ध्यैव भेदानामाश्रयत्वे च कल्पिते ॥ ३,१४.१८९ ॥ निस्कृष्टेष्वपि भेदेषु व्यक्तिरूपाश्रये ततः । लिङ्गप्रत्यवमर्शेन लिङ्गसंख्ये प्रपद्यते ॥ ३,१४.१९० ॥ अन्तरेन चशब्दस्य प्रयोगं द्वन्द्वभाविनाम् । अविशिष्टार्थवृत्तित्वं रूपाभेदात्प्रतीयते ॥ ३,१४.१९१ ॥ विकल्पवति वा वृत्तिर्निवर्त्येऽथ समुच्चिते । तेषामज्ञातशक्तीनां द्योतकेन नियम्यते ॥ ३,१४.१९२ ॥ वृत्तौ विशिष्टरूपत्वाच्चशब्दो विनिवर्तते । अर्थभेदेऽपि सारूप्यात्तच्चार्थेनापदिश्यते ॥ ३,१४.१९३ ॥ चस्य चासत्त्वभूतोऽर्थः स एवाश्रियते यदि । तद्धर्मत्वं ततो द्वन्द्वे चादिष्वर्थकृतं हि तत् ॥ ३,१४.१९४ ॥ चार्थः शब्दे क्व चिद्भेदात्कथं चित्समवस्थितः । द्योतकाश्चादयस्तस्य वक्ता द्वन्द्वस्तु तद्वताम् ॥ ३,१४.१९५ ॥ विकल्पाद्यभिधेयस्य चार्थस्यान्यपदार्थता । द्योतकत्वान्न कल्पेत तस्मात्सदुपलक्ष्यते ॥ ३,१४.१९६ ॥ तत्र स्वाभाविकं लिङ्गं शब्दधर्मे व्यपेक्षिते । शब्दः कश्चित्तमेवार्थं कथं चित्प्रतिपद्यते ॥ ३,१४.१९७ ॥ शब्दादर्थाः प्रतायन्ते स भेदानां विधायकः । अनुमानं विवक्षायाः शब्दादन्यन्न विद्यते ॥ ३,१४.१९८ ॥ समुच्चितः स्याद्द्वन्द्वार्थो गुणभूतसमुच्चयः । समुच्चयो वापि भवेद्गुणभूतसमुच्चितः ॥ ३,१४.१९९ ॥ समुच्चितस्य प्राधान्ये लिङ्गसंख्ये स्वभावतः । समुच्चयस्य प्राधान्ये शास्त्रं स्यात्प्रतिपादकम् ॥ ३,१४.२०० ॥ समुच्चयवतोऽर्थस्य प्राधान्येऽप्यपरे विदुः । निमित्तानुविधायित्वादसिद्धिं लिङ्गसंख्ययोः ॥ ३,१४.२०१ ॥ समुच्चयो निमित्तं चेत्स्यान्निमित्तानुवर्तनम् । अन्वयव्यतिरेकाभ्यां चार्थो द्वन्द्वनिबन्धनः ॥ ३,१४.२०२ ॥ समुच्चितनिमित्तत्वे चार्थस्यापगमेऽपि वा । स्वभावसिद्धे द्वन्द्वस्य लिङ्गसंख्ये व्यवस्थिते ॥ ३,१४.२०३ ॥ पदान्तरस्थस्यार्थस्य द्योतकत्वान्न युज्यते । निपातो लिङ्गसंख्याभ्यां द्वन्द्वस्त्वर्थस्य वाचकः ॥ ३,१४.२०४ ॥ निमित्तानुविधाने च द्रव्यधर्मानपेक्षणात् । गुणप्रधानभावेन क्रियायोगो न कल्पते ॥ ३,१४.२०५ ॥ यस्य नास्ति क्रियायोगः स्वतन्त्रोऽसौ न विद्यते । अर्थो द्वन्द्वस्य तत्र स्यादुपादानमनर्थकम् ॥ ३,१४.२०६ ॥ समुच्चयवतोऽर्थस्य वाचको नानुवर्तते । निमित्तमपि चास्यार्थः स्वधर्मैर्युज्यते ततः ॥ ३,१४.२०७ ॥ बाह्यो नास्त्याश्रयो द्वन्द्वे विशेषौ तत्र हि श्रुतौ । समुच्चयस्तदाधारस्तद्धर्मैर्व्यपदिश्यते ॥ ३,१४.२०८ ॥ यो वावयवभेदाभ्यां भेदवद्भ्यामिवान्वितः । एकः समूहो धर्मान् स भागयोः प्रतिपद्यते ॥ ३,१४.२०९ ॥ एकश्च द्व्यात्मकोऽर्थोऽसौ भेदाभेदसमन्वितः । यौ भेदावाश्रितस्तत्स्थे लिङ्गसंख्ये प्रपद्यते ॥ ३,१४.२१० ॥ यथा स्वशब्दाभिहिते चैत्रार्थे न प्रयुज्यते । चैत्रशब्दो बहुव्रिहावप्रयोगस्तथा भवेत् ॥ ३,१४.२११ ॥ यथा गौरिति शुक्लादेरभिधानं न विद्यते । एवं यस्याभिसंबन्धो गोभिस्तावत्प्रतीयते ॥ ३,१४.२१२ ॥ संबन्धी नियतो रूढश्चित्राणां न च विद्यते । गवां यथा वज्रपाणिस्त्र्यक्षे वाऽपि व्यवस्थितः ॥ ३,१४.२१३ ॥ शब्दान्तरत्वाद्वाक्येषु विशेषा यद्यपि श्रुताः । वृत्तिशब्दोऽन्य एवायं सामान्यस्याभिधायकः ॥ ३,१४.२१४ ॥ अगोरचित्रगोश्चैव रूपभेदान्निवर्तकः । न चित्रगुर्विशेषाणां रूपाभेदात्तु वाचकः ॥ ३,१४.२१५ ॥ यथा चित्रगुरित्येतत्प्रयुक्ते न प्रयुज्यते । एवं यदि स्यात्सामान्यं तस्य न स्यात्प्रतिश्रुतिः ॥ ३,१४.२१६ ॥ सर्वादयो विशेषास्तु प्रदेशानां निवर्तकाः । यथा प्रदेशाः सामान्य- प्रदेशान्तरबाधकाः ॥ ३,१४.२१७ ॥ विभक्त्यर्थाभिधानाद्वा षष्ठी नानुप्रयुज्यते । द्रव्यस्यानभिधानात्तु तच्छब्दोऽनुप्रयुज्यते ॥ ३,१४.२१८ ॥ सामानाधिकरण्यं चेन्मतुब्लोपात्प्रकल्पते । मतुपोऽपि तदर्थत्वादनवस्था प्रसज्यते ॥ ३,१४.२१९ ॥ संबन्धस्य च संबन्दी संबन्धोऽन्यः प्रसज्यते । विभक्त्यर्थप्रधाने च क्रियायोगो न कल्पते ॥ ३,१४.२२० ॥ विभक्त्यर्थप्रधानत्वात्ततस्तत्रेति न क्रिया । दृश्यादिः कर्मकर्त्रादि- निमित्तत्वाय कल्पते ॥ ३,१४.२२१ ॥ अन्तर्भवेच्च संबन्धः प्राधान्याभिहितः कथम् । स प्रातिपदिकार्थश्च तथाभूतः कथं भत्वेत् ॥ ३,१४.२२२ ॥ असंभवात्तु संबन्धे संबन्धसहचारिणि । जातिसंख्यासमाहार- कार्याणामिव संभवः ॥ ३,१४.२२३ ॥ सोऽयमित्यभिसंबन्धाद्विशिष्टाश्रयवाचिनाम् । शुक्लादिवल्लिङ्गसंख्ये शास्त्रारम्भाद्भविष्यतः ॥ ३,१४.२२४ ॥ भेदेन तु विवक्षायां सामान्ये वा विवक्षिते । सलिङ्गस्य ससंख्यस्य पदार्थस्यागतिर्भवेत् ॥ ३,१४.२२५ ॥ साधुत्वं न विभक्त्यर्थ- मात्रे वृत्तस्य दृश्यते । कृत्स्नार्थवृत्तेः साधुत्वमित्यर्थग्रहणं कृतम् ॥ ३,१४.२२६ ॥ सोऽयमित्यभिसंबन्धाद्द्रव्यवृत्तिरयं यदा । सलिङ्गस्य ससंख्यस्य तदा साधुत्वमुच्यते ॥ ३,१४.२२७ ॥ अन्तर्भूतविभक्त्यर्थे षष्ठी न श्रूयते यथा । तथाश्रुतिः प्रसज्येत लिङ्गसंख्याभिधायिनाम् ॥ ३,१४.२२८ ॥ साधर्म्यमव्ययेन स्याद्बहुव्रीहेस्तथा सति । लिङ्गसंख्यानिमित्तस्य संस्कारस्यापवर्तनात् ॥ ३,१४.२२९ ॥ प्रयुक्तेन च संबन्धाच्चैत्रादिश्रवनं भवेत् । विना विभक्त्या संबन्धो विभक्त्या विद्यते विना ॥ ३,१४.२३० ॥ अभिधानेऽपि संख्यायाः संख्यात्वं न निवर्तते । षष्ठ्यर्थस्याभिधाने तु स्यात्प्रातिपदिकार्थता ॥ ३,१४.२३१ ॥ अनुप्रयोगसिद्ध्यर्थं न विभक्त्यर्थकल्पना । वस्त्वन्तरमुपक्षिप्तमिति के चित्प्रचक्षते ॥ ३,१४.२३२ ॥ संबन्दिभिर्विशिष्टानां संबन्धानां निमित्तता । संबन्धैर्वा विशिष्टानां तद्वतां स्यान्निमित्तता ॥ ३,१४.२३३ ॥ के चित्संयोगिनो दण्डाद्विषाणात्समवायिनः । तद्वति प्रत्ययानाहुर्बहुव्रीहिं तथैव च ॥ ३,१४.२३४ ॥ भिन्नं संबन्धिभेदेन संबन्धमपरे विदुः । निमित्तं स विभक्त्यर्थः समासेनाभिधीयते ॥ ३,१४.२३५ ॥ प्रधानमन्यार्थतया भिन्नं स्वैरुपसर्जनैः । निमित्तमब्बिधेयं वा सर्वपश्चादपेक्ष्यते ॥ ३,१४.२३६ ॥ स्वामिनि व्यतिरेकश्च वाक्ये यद्यपि दृश्यते । प्राधान्य एव तस्येष्टो बहुव्रीहिर्विवक्षिते ॥ ३,१४.२३७ ॥ गवां विशेषणत्वेन यदा तद्वान् प्रवर्तते । अस्यैता इति तत्रार्थे बहुव्रीहिर्न विद्यते ॥ ३,१४.२३८ ॥ यदा प्रत्यवमर्शस्तु तासां स्वामी गवामिति । गोभिस्तदाभिसंबन्धो निमित्तत्वाय कल्पते ॥ ३,१४.२३९ ॥ अपेक्षमानः संबन्धं रूढित्वस्य निवृत्तये । निमित्तानुविधायित्वात्तद्धर्मार्थः प्रसज्यते ॥ ३,१४.२४० ॥ नाना चित्रा इति यथा निमित्तमनुरुध्यते । नानाभूतेऽपि वृत्तः सन् बहुव्रीहिस्तथा भवेत् ॥ ३,१४.२४१ ॥ संबन्धिनि निमित्ते तु द्रव्यधर्मो न हीयते । लिङ्गाभावो हि लिङ्गस्य विरोधित्वेन वर्तते ॥ ३,१४.२४२ ॥ संख्वावांल्लिङ्गवाम्श्चार्थोऽभिन्नधर्मा, निमित्ततः । आसन्न एव द्रव्यत्वात्तद्धर्मैर्न विरुध्यते ॥ ३,१४.२४३ ॥ विभक्त्यर्थेन चाविष्टं शुद्धं चेति द्विधा स्थितम् । द्रव्यं शुद्धस्य यो धर्मः स न स्यादन्यधर्मणः ॥ ३,१४.२४४ ॥ द्रव्यमात्रस्य निर्देशे भेदोऽयमविवक्षितः । ग्रन्थे पूर्वत्र भेदस्तु द्वितीयेऽनुप्रदर्शितः ॥ ३,१४.२४५ ॥ द्रव्यस्य ग्रहणं चात्र लिङ्गसंख्याविशेषणम् । द्रव्याश्रितत्वं हि तयोस्ततोऽन्यस्य न सिध्यतः ॥ ३,१४.२४६ ॥ संबन्धिभिन्नसंबन्ध- परिछिन्ने प्रवर्तते । समासो द्रव्यसामान्ये विशिष्टार्थानुपातिनि ॥ ३,१४.२४७ ॥ द्रव्यधर्मानतिक्रान्तो भेदधर्मेष्ववस्थितः । भविष्यदाश्रयापेक्षे लिङ्गसंख्ये प्रपद्यते ॥ ३,१४.२४८ ॥ शास्त्रप्रवृत्तिभेदेऽपि लौकिकोऽर्थो न भिद्यते । नञ्समसे यतस्तत्र त्रयः पक्षा विचारिताः ॥ ३,१४.२४९ ॥ शब्दान्तरेऽपि चैकत्वमाश्रित्यैवं विचारणा । अब्रह्मणादिषु नञः प्रयोगो न हि विद्यते ॥ ३,१४.२५० ॥ प्राक्समासात्पदार्थानां निवृत्तिर्द्योत्यते नञा । स्वभावतो निवृत्तानां रूपाभेदादलक्षिता ॥ ३,१४.२५१ ॥ ब्राह्मणादिस्थया वाक्येष्वाख्यातपदवाच्यया । क्रियया यस्य संबन्धो वृत्तिस्तस्य न विद्यते ॥ ३,१४.२५२ ॥ पाचकादिपदस्था चेन्नञा संबध्यते क्रिया । तत्र सत्तानुपादानात्त्रिपक्षी नोपपद्यते ॥ ३,१४.२५३ ॥ सत्तयैवाभिसंबन्धो यदि सर्वत्र कल्प्यते । असन्निति समासेऽस्मिन् सत्तान्या परिकल्प्यताम् ॥ ३,१४.२५४ ॥ क्त्वान्ते च तुमुनन्ते च नञ्समासे न दृश्यते । विशेषणविशेष्यत्वं नञासत्ताभिधायिना ॥ ३,१४.२५५ ॥ क्रियायाः साधनाधार- सामान्ये नञ्व्यवस्थितः । ततो विशिष्टैराधारैर्युज्यते ब्राह्मणादिभिः ॥ ३,१४.२५६ ॥ वृत्तौ यथा गताद्यर्थमुपादाय निरादयः । युज्यन्ते साधनाधारैर्नञ्समासेऽपि स क्रमः ॥ ३,१४.२५७ ॥ तत्रासति नञो वृत्तेर्ब्राह्मणक्षत्रियादिभिः । विशेषणविशेष्यत्वं कल्प्यते कुब्जखञ्जवत् ॥ ३,१४.२५८ ॥ कामचारे च सत्येवमसतः स्यात्प्रधानता, । गुणत्वमितरेषां च तेषां वा स्यात्प्रधानता ॥ ३,१४.२५९ ॥ प्राधान्येनाश्रिताः पूर्वं श्रुतेः सामान्यवृत्तयः । विशेष एव प्रक्रान्ता ब्राह्मणक्षत्रिवादवः ॥ ३,१४.२६० ॥ यथा गौरादिभिस्तेषामवच्छेदो विधीयते । असताप्यनभिव्यक्तं तादात्म्यं व्यज्यते तथा ॥ ३,१४.२६१ ॥ यथा सत्ताभिधानाय सन्नर्थः परिकल्प्यते । तथासत्ताभिधानाय निरुपाख्योऽपि कल्पते ॥ ३,१४.२६२ ॥ क्षत्रियादौ पदं कृत्वा बुद्धिः सत्तान्तराश्रया । जात्या भिन्नां ततः सत्तां प्रसक्तामपकर्षति ॥ ३,१४.२६३ ॥ अभाव इति भावस्य प्रतिषेधे विवक्षिते । सोपाख्यत्वमनाश्रित्य प्रतिषेधो न कल्पते ॥ ३,१४.२६४ ॥ अनेकधर्मवचनाः शब्दाः सङ्घाभिधायिनः । एकदेशेषु वर्तन्ते तुल्यरूपाः स्वभावतः ॥ ३,१४.२६५ ॥ यथैकदेशकरणात्कृत इत्वभिधीयते । अकृतश्चेति संघातः स एवाब्राह्मणे क्रमः ॥ ३,१४.२६६ ॥ ब्राह्मणोऽब्राह्मणस्तस्मादुपन्यासात्प्रसज्यते । अकृते वा कृतासङ्गादविशिष्टं कृताकृतात् ॥ ३,१४.२६७ ॥ अमुख्यसंभवे तत्र मुख्यस्य विनिवृत्तये । शास्त्रान्वाख्यानसमये नञ्प्रयुक्तो विशेषकः ॥ ३,१४.२६८ ॥ पदार्थानुपघातेन दृश्यतेऽन्यविशेषणम् । अथ जातिमतोऽर्थस्य कश्चिद्धर्मो निवर्तितः ॥ ३,१४.२६९ ॥ अवश्यं ब्राह्मणे कश्चित्क्व चिद्धर्मो न विद्यते । विशेषावचनात्तत्र नञः श्रुतिरनर्थिका ॥ ३,१४.२७० ॥ अविशिष्टस्य पर्यायो नञ्विशिष्टः प्रसज्यते । अन्वाख्यानाद्धि साधुत्वमेवंभूते प्रतीयते ॥ ३,१४.२७१ ॥ पदार्थानुपघातेन यद्यप्यत्र विशेषणम् । उपचारसतोऽर्थस्य सावस्था द्योत्यते नञा ॥ ३,१४.२७२ ॥ विशेष्येषु यथाभूतः पदार्थः समवस्थितः । तथाभूते तथाभावो गम्यते भेदहेतुभिः ॥ ३,१४.२७३ ॥ निवृत्तेऽवयवस्तस्मिन् पदार्थे वर्तते कथम् । नानिमित्ता हि शब्दस्य प्रवृत्तिरुपपद्यते ॥ ३,१४.२७४ ॥ आराच्छब्दवदेकस्य विरुद्धेऽर्थे स्वभावतः । शब्दस्य वृत्तिर्यद्यस्ति नञः श्रुतिरनर्थिका ॥ ३,१४.२७५ ॥ अथ स्वभावो वचनादन्वाख्येयत्वमर्हति । तद्वाच्यमप्रसिद्धत्वान्नञार्थो विनिवर्त्यते ॥ ३,१४.२७६ ॥ यद्यप्युभयवृत्तित्वं प्रधानं तु प्रतीयते । प्रस्थानं गम्यते शुद्धे तदर्थेऽपि न तिष्ठतौ ॥ ३,१४.२७७ ॥ किमर्थमतथाभूतेऽसति मुख्यार्थसंभवे । भेदे ब्राह्मणशब्दस्य वृत्तिरभ्युपगम्यते ॥ ३,१४.२७८ ॥ अयं पदार्थ एतस्मिन् क्षत्रियादौ न विद्यते । इति तद्वचनः शब्दः प्रत्ययाय प्रयुज्यते ॥ ३,१४.२७९ ॥ बुद्धेर्विषयतां प्राप्ते शब्दादर्थे प्रतीयते । प्रवृत्तिर्वा निवृत्तिर्वा ग्रुत्या ह्यर्थोऽनुसज्यते ॥ ३,१४.२८० ॥ असम्यगुपदेशाद्वा निमित्तात्संशयस्य वा । शब्दप्रवृत्तिर्न त्वस्ति लोष्टादिषु विपर्ययात् ॥ ३,१४.२८१ ॥ अनेकस्मादस इति प्राधान्ये सति सिध्यति । सापेक्षत्वं प्रधानानामेवं युक्तं त्वतल्विधौ ॥ ३,१४.२८२ ॥ एकस्य च प्रधानत्वात्तद्विशेषणसंनिधौ । प्रधानधर्माव्यावृत्तिरतो न वचनान्तरम् ॥ ३,१४.२८३ ॥ प्रधानमत्र भेद्यत्वादेकार्थो विकृतो नञा । हित्वा स्वधर्मान् वर्तन्ते द्व्यादयोऽप्येकतां गताः ॥ ३,१४.२८४ ॥ ब्राह्मणत्वं यथापन्ना नञ्युक्ताः क्षत्रियादयः । द्वित्वादिषु तथैकत्वं नञ्योगादुपचर्यते ॥ ३,१४.२८५ ॥ एकत्वयोगमासाद्य स धर्मः प्रतिषिध्यते । द्व्यादिभ्यस्तेषु तच्छब्दो वर्तते ब्राह्मणादिवत् ॥ ३,१४.२८६ ॥ आविष्टसंख्यो वाक्येऽसौ यथा द्व्यादौ प्रयुज्यते । वृत्तौ तस्य प्रधानत्वात्सा संख्या न निवर्तते ॥ ३,१४.२८७ ॥ प्रतिषेध्यो यथाभूतस्तथाभूतोऽनुषज्यते । वचनान्तरयोगे हि न सोऽर्थः प्रतिषिध्यते ॥ ३,१४.२८८ ॥ अशुक्ल इति कृष्णादिर्यथार्थः संप्रतीयते । संख्यान्तरं तथानेक इत्यत्राप्यभिधीयते ॥ ३,१४.२८९ ॥ क्रियाप्रसङ्गात्सर्वेषु कर्मस्वङ्गीकृतेषु च । एकस्मिन् प्रतिषिद्धेऽपि प्राप्तमन्यत्प्रतीयते ॥ ३,१४.२९० ॥ क्रियाश्रुतिश्च प्रक्रान्ते प्रसज्यप्रतिषेधने । पर्युदासे तु नियतं संख्येयान्तरमुच्यते ॥ ३,१४.२९१ ॥ धात्वर्थः कर्मविषयो व्यपदिष्टः स्वसाधनैः । अर्थात्सर्वाणि कर्माणि प्रागाक्षिप्यावतिष्ठते ॥ ३,१४.२९२ ॥ निर्ज्ञातसाधनाधारे यत्राख्याते प्रयुज्यते । अनेक इति पश्चाच्च तिष्ठतीत्यनुषज्यते ॥ ३,१४.२९३ ॥ साध्यत्वात्तत्र सिद्धेन क्रिया द्रव्येण लक्ष्यते । प्रागेवाङ्गीकृतं द्रव्यमतः पूर्वेण भिद्यते ॥ ३,१४.२९४ ॥ संख्यैव प्रतिषेधेन संख्यान्तरमपेक्षते । वाक्येऽपि तेन नैकत्व- मात्रमेव निवर्त्यते ॥ ३,१४.२९५ ॥ स्नेहान्तरादवच्छेदस्तथासत्तेः प्रतीयते । तैलेन भोजनेऽप्राप्ते न त्वन्यदुपसेचनम् ॥ ३,१४.२९६ ॥ एकार्थे वर्तमानाभ्यामसता ब्राह्मणेन च । यदा जात्यन्तरं बाह्यं क्षत्रियाद्यपदिश्यते ॥ ३,१४.२९७ ॥ श्यामेव शस्त्री कन्येति यथान्यद्व्यपदिश्यते । असन् ब्राह्मण इत्याभ्यां तथान्ये क्षत्रियादयः ॥ ३,१४.२९८ ॥ असास्नो गौरिति यथा, गवयो व्यपदिश्यते । जात्यन्तरं न गोरेव सस्नाभावः प्रतीयते ॥ ३,१४.२९९ ॥ तुल्यरूपं यथाख्यातं कण्टकैर्भेदहेतुभिः । खदिरं जातिभेदेन खर्जूरात्प्रतिपद्यते ॥ ३,१४.३०० ॥ अविद्यमानब्राह्मण्यो यादृशो ब्राह्मणो भवेत् । अङ्गीकृतोपमानेन तथान्योऽर्थोऽभिधीयते ॥ ३,१४.३०१ ॥ अवृष्टयो यथा वर्सा नीहाराभ्रसमावृताः । तद्रूपत्वात्स हेमन्त इत्यभिन्नः प्रतीयते ॥ ३,१४.३०२ ॥ अपरे ब्राह्मणादीनां सर्वेषां जातिवाचिनाम् । द्रव्यस्यान्यपदार्थत्वे नञा योगं प्रचक्षते ॥ ३,१४.३०३ ॥ न चैवंविषयः कश्चिद्बहुव्रीहिः प्रकल्पते । अगुरश्व इति व्याप्तिर्नञ्समासेन यस्य न ॥ ३,१४.३०४ ॥ द्वन्द्वैकदेशिनोरुक्ता परवल्लिङ्गता यतः । अवर्षासु ततोऽसिद्धिरिष्टयोर्लिङ्गसंख्ययोः ॥ ३,१४.३०५ ॥ विशेषणं ब्राह्मणादि क्रियासंबन्धिनोऽसतः । यदा विषयभिन्नं तत्तदासत्त्वं प्रतीयते ॥ ३,१४.३०६ ॥ ब्राह्मणत्वेन चासत्त्वादुच्यते सत्तदन्यथा । असदित्यपि सत्त्वेन सतः सत्ता निवर्त्यते ॥ ३,१४.३०७ ॥ समन्यद्रव्यवृत्तित्वान्निमित्तानुविधायिनः । अयोगो लिङ्गसंख्याभ्यां स्याद्वा सामान्यधर्मता ॥ ३,१४.३०८ ॥ प्रागसत्त्वाभिधायित्वं समासे द्रव्यवाचिता । निमित्तानुविधानं च न सर्वत्र स्वभावतः ॥ ३,१४.३०९ ॥ निमित्तानुविधाने च क्रियायोगो न कल्पते । तथा चाव्यपदेश्यत्वादुपादानमनर्थकम् ॥ ३,१४.३१० ॥ असत्सामान्यवृत्तिर्वा विशेषैः क्षत्रियादिभिः । प्रयुक्तैराश्रयैर्भिन्नो याति तल्लिङ्गसंख्यताम् ॥ ३,१४.३११ ॥ प्रागाश्रयो हि भेदाय प्रधानेऽभ्यन्तरीकृतः । पुनः प्रत्यवमर्शेन विभक्त इव दृश्यते ॥ ३,१४.३१२ ॥ समासे श्रूयते स्वार्थो येन तद्वांस्तदाश्रयः । द्रव्यं तु लिङ्गसंख्यावदसताभ्यन्तरीकृतम् ॥ ३,१४.३१३ ॥ एकार्थविषयौ शब्दौ तस्मिन्नन्यार्थवर्तिनौ । असतैव तु भेदानां सर्वेषामुपसंग्रहः ॥ ३,१४.३१४ ॥ ते क्षत्रियादिभिर्वाच्या वाच्या वा सर्वनामभिः । यान्तीवान्यपदार्थत्वं नञो रूपाविकल्पनात् ॥ ३,१४.३१५ ॥ विशेषस्याप्रयोगे तु लिङ्गसंख्ये न सिध्यतः । अवर्षादिषु दोसश्च हेमन्तोऽन्याश्रयो यतः ॥ ३,१४.३१६ ॥ आकृतिः सर्वशब्दानां यदा वाच्या प्रतीयते । एकत्वादेकशब्दत्वं न्याय्यं तस्याश्च वर्ण्यते ॥ ३,१४.३१७ ॥ आविष्टलिङ्गता तस्यां स्याद्ग्राम्यपगुसङ्घवत् । द्रव्यभेदेऽपि चैकत्वात्तत्रैकवचनं भवेत् ॥ ३,१४.३१८ ॥ आश्रयाणां हि लिङ्गैः सा नियतैरेव युज्यते । तथा च युक्तवद्भावे प्रतिषेधो निरर्थकः ॥ ३,१४.३१९ ॥ सर्वत्राविष्टलिङ्गत्वं लोकलिङ्गपरिग्रहे । विरोधित्वात्प्रसज्येत नाश्रितं तच्च लौकिकम् ॥ ३,१४.३२० ॥ सामान्यमाकृतिर्भावो जातिरित्यत्र लौकिकम् । लिङ्गं न संभवत्येव तेनान्यत्परिगृह्यते ॥ ३,१४.३२१ ॥ प्रवृत्तिरिति सामान्यं लक्षणं तस्य कथ्यते । आविर्भावस्तिरोभावः स्थितिश्चेत्यथ भिद्यते ॥ ३,१४.३२२ ॥ प्रवृत्तिमन्तः सर्वेऽर्थास्तिसृभिश्च प्रवृत्तिभिः । सततं न वियुज्यन्ते वाचश्चैवात्र संभवः ॥ ३,१४.३२३ ॥ यश्चाप्रवृत्तिधर्मार्थश्चितिरूपेण गृह्यते । अनुयातीव सोऽन्येषां प्रवृत्तीर्विश्वगाश्रयाः ॥ ३,१४.३२४ ॥ तेनास्य चितिरूपं च चितिकालश्च भिद्यते । तस्य स्वरूपभेदस्तु न कश्चिदपि विद्यते ॥ ३,१४.३२५ ॥ अचेतनेषु चैतन्यं संक्रान्तमिव दृश्यते । प्रतिबिम्बकधर्मेण यत्तच्छब्दनिबन्धनम् ॥ ३,१४.३२६ ॥ अवस्था तादृशी नास्ति या लिङ्गेन न युज्यते । क्व चित्तु शब्दसंस्कारो लिङ्गस्यानाश्रये सति ॥ ३,१४.३२७ ॥ कृत्तद्धिताभिधेयानां भावानां न विरुध्यते । शास्त्रे लिङ्गं गुणावस्था तथा चाकृतिरिष्यते ॥ ३,१४.३२८ ॥ लिङ्गं प्रति न भेदोऽस्ति द्रव्यपक्षेऽपि कश्चन । तस्मात्सप्त विकल्पा ये सैवात्राविष्टलिङ्गता ॥ ३,१४.३२९ ॥ वचने नियमः शास्त्राद्द्रव्यस्याभ्युपगम्यते । यतस्तदाकृतौ शास्त्रमन्यथैव समर्थ्यते ॥ ३,१४.३३० ॥ वर्तते यो बहुष्वर्थोऽभेदे तस्य विवक्षिते । स्वाश्रयैर्व्यपदिष्टस्य शास्त्रे वचनमुच्यते ॥ ३,१४.३३१ ॥ यदा त्वाश्रयभेदेन भेद एव प्रतीयते । आकृतेर्द्रव्यपक्षेन तदा भेदो न विद्यते ॥ ३,१४.३३२ ॥ अभेदे त्वेकशब्दत्वाच्छास्त्राच्च वचने सति । एकशेषो न वक्तव्यो वचनानां च संभवः ॥ ३,१४.३३३ ॥ ननु चानभिधेयत्वे द्रव्यस्य तदपाश्रयः । आकृतेरुपकारोऽयं द्रव्याभावान्न कल्पते ॥ ३,१४.३३४ ॥ व्यपदेशोऽभिधेयेन न शास्त्रे कश्चिदाश्रितः । द्रव्यं नाम पदार्थो यो न च स प्रतिषिध्यते ॥ ३,१४.३३५ ॥ गुणभावोऽभिधेयत्वं प्रति द्रव्यस्य नाश्रितः । उपकारि गुणः शेषः परार्थ इति कल्पना ॥ ३,१४.३३६ ॥ द्रव्ये न गुणभावोऽस्ति विनाद्रव्याभिधायिताम् । आकृतौ वा प्रधानत्वमत एवं समर्थ्यते ॥ ३,१४.३३७ ॥ कैश्चिद्गुणप्रधानत्वं नामाख्यातवदिष्यते । न वृत्तिवत्परार्थस्य गुणभावस्तु वर्ण्यते ॥ ३,१४.३३८ ॥ गुणभूतस्य नानात्वादाकृतेरेकशब्दता । सिद्धो वचनभेदश्च द्रव्यभेदसमन्वयात् ॥ ३,१४.३३९ ॥ साधनं गुणभावेन क्रियाया भेदकं यथा । आख्यातेष्वेकशब्दाया जातेर्द्रव्यं तथोच्यते ॥ ३,१४.३४० ॥ एकत्वे तुल्यरूपत्वाच्छब्दानां प्रतिपादने । निमित्तात्तद्वतोऽर्थस्य विशिष्टग्रहणे सति ॥ ३,१४.३४१ ॥ सोऽयमित्यभिसंबन्धादाश्रयैराकृतेः सह । प्रवृत्तौ भिन्नशब्दायां लिङ्गसंख्ये प्रसिध्यतः ॥ ३,१४.३४२ ॥ प्राक्च जात्यभिसंबन्धात्सर्वनामाभिधेयता । वस्तूपलक्षणं सत्त्वे प्रयुज्यन्ते त्यदादयः ॥ ३,१४.३४३ ॥ पाकौ पाका इति यथा भेदकः कैश्चिदाश्रयः । इष्यते चानुपादानो धर्मोऽसौ गुणवाचिनाम् ॥ ३,१४.३४४ ॥ आश्रयस्यानुपादाने केवलं लभते यदि । आधारधर्मान् सामान्यं पुरस्तात्तद्विचारितम् ॥ ३,१४.३४५ ॥ जातौ पूर्वं प्रवृत्तानां शब्दानां जातिवाचिनाम् । अशब्दवाच्यात्संबन्धाद्व्यक्तिरप्युपजायते ॥ ३,१४.३४६ ॥ सोऽयमित्यभिसंबन्धाज्जातिधर्मोपचर्यते । द्रव्यं तदाश्रयो भेदो जातेश्चाभ्युपगम्यते ॥ ३,१४.३४७ ॥ मञ्चशब्दो यथाधेयं मञ्चेष्वेव व्यवस्थितः । तत्त्वेनाह तथा जाति- शब्दो द्रव्येषु वर्तते ॥ ३,१४.३४८ ॥ तत्र जातिपदार्थत्वं तथैवाभ्युपगम्यते । जातिरुत्सृष्टसंख्या तु द्रव्यात्मन्यनुषज्यते ॥ ३,१४.३४९ ॥ अस्येदमिति वा यत्र सोऽयमित्यपि वा श्रुतिः । वर्तते परधर्मेण तदन्यदभिधीयते ॥ ३,१४.३५० ॥ यत्प्रधानं न तस्यास्ति स्वरूपमनिरूपनात् । गुणस्य चात्मना द्रव्यं तद्भावेनोपलक्ष्यते ॥ ३,१४.३५१ ॥ गुणस्य भेदकाले तु प्राधान्यमुपजायते । संसर्गश्रुतिरर्थेषु साक्षादेव न वर्तते ॥ ३,१४.३५२ ॥ जातौ वृत्तो यदा द्रव्ये स शब्दो वर्तते पुनः । जातेरेव पदार्थत्वं न तदाभ्युपगम्यते ॥ ३,१४.३५३ ॥ प्रवृत्तानां पुनर्वृत्तिरेकत्वेनोपवर्ण्यते । प्रतिपत्तेरुपायेषु न तत्त्वमनुगम्यते ॥ ३,१४.३५४ ॥ अपृथक्शब्दवाच्यस्य जातिराश्रीयते यदा । द्रव्यस्य सति संस्पर्शे तदा जातिपदार्थता ॥ ३,१४.३५५ ॥ द्रव्यस्य सति संस्पर्शे द्रव्यमाश्रीयते यदा । वाच्यं तेनैव शब्देन तदा द्रव्यपदार्थता ॥ ३,१४.३५६ ॥ अपृथक्शब्दवाच्यापि भेदमात्रे प्रवर्तते । यदा संबन्धवज्जातिः सापि द्रव्यपदार्थता ॥ ३,१४.३५७ ॥ अत्यन्तभिन्नयोरेव जातिद्रव्याभिधायिनोः । अवाच्यस्योपकारित्व आश्रिते तूभयार्थता ॥ ३,१४.३५८ ॥ आश्रिते त्वाश्रयकृतं भेदमभ्युपगच्छता । पुनश्चाप्येकशब्दत्वं जातिशब्देऽनुवर्णितम् ॥ ३,१४.३५९ ॥ अनिर्जातस्य निर्ज्ञानं येन तन्मानमुच्यते । प्रस्थादि तेन मेयात्मा साकल्येनावधार्यते ॥ ३,१४.३६० ॥ अनिर्ज्ञातं प्रसिद्धेन येन तद्धर्म गम्यते । साकल्येनापरिज्ञानादुपमानं तदुच्यते ॥ ३,१४.३६१ ॥ द्वयोः समानयोर्धर्म उपमानोपमेययोः । समास उपमानानां शब्दैस्तदभिधायिभिः ॥ ३,१४.३६२ ॥ आधारभेदाद्भेदो यः श्यामत्वे सोऽविवक्षितः । गुणोऽसावाश्रितैकत्वो भिन्नाधारः प्रतीयते ॥ ३,१४.३६३ ॥ गुणयोर्नियतो भेदो गुणजातेस्तथैकता । एकत्वेऽत्यन्तभेदे वा, नोपमानस्य संभवः ॥ ३,१४.३६४ ॥ जातिमात्रव्यपेक्षायामुपमार्थो न कश्चन । श्यामत्वमेकं गुणयोरुभयोरपि वर्तते ॥ ३,१४.३६५ ॥ येनैव हेतुना श्यामा शस्त्री तत्र प्रतीयते । स हेतुर्देवदत्तायाः प्रत्यये न विशिष्यते ॥ ३,१४.३६६ ॥ आश्रयाद्यो गुणे भेदो जातेर्या चाविशिष्टता । ताभ्यामुभाभ्यां द्रव्यात्मा सव्यापारः प्रतीयते ॥ ३,१४.३६७ ॥ सोऽयमेकत्वनानात्वे व्यवहारः समाश्रितः । भेदाभेदविमर्शेन व्यतिकीर्णेन वर्तते ॥ ३,१४.३६८ ॥ श्यामेत्येवाभिधियेत जातिमात्रे विवक्षिते । शस्त्र्यादिनामुपादाने तत्र नास्ति प्रयोजनम् ॥ ३,१४.३६९ ॥ अशब्दवाच्यो यो भेदः श्याममात्रे न वर्तते । श्यामेषु केषु चिद्वृत्तिर्यस्य सोऽत्र व्यपेक्ष्यते ॥ ३,१४.३७० ॥ श्यामेषु केषु चित्किं चित्किं चित्सर्वत्र वर्तते । सामान्यं कश्चिदेकस्मिञ्छ्यामे भेदो व्यवस्थितः ॥ ३,१४.३७१ ॥ तथा हि सति सौरभ्ये भेदो जात्युत्पलादिषु । गन्धानां सति भेदे तु सादृश्यमुपलभ्यते ॥ ३,१४.३७२ ॥ गुणानामाश्रयाद्भेदः स्वतो वाप्यनुगम्यते । अनिर्देश्याद्विशेषाद्वा संकराद्वा गुणान्तरैः ॥ ३,१४.३७३ ॥ उपमानं प्रसिद्धत्वात्सर्वत्र व्यतिरिच्यते । उपमेयत्वमाधिक्ये साम्ये वा न निवर्तते ॥ ३,१४.३७४ ॥ अन्यैस्तु मानं जात्यादि भेद्यस्यार्थस्य वर्ण्यते । अनिर्ज्ञातस्वरूपो हि ज्ञेयोऽर्थस्तेन मीयते ॥ ३,१४.३७५ ॥ मितस्तु स्वेन मानेन प्रसिद्धो यो गुणाश्रयः । आश्रयान्तरमानाय स्वधर्मेण प्रवर्तते ॥ ३,१४.३७६ ॥ रूपान्तरेण संस्पर्शो रूपान्तरवतां सताम् । भिन्नेन यस्य भेद्यानामुपमानं तदुच्यते ॥ ३,१४.३७७ ॥ धर्मः समानः श्यामादिरुपमानोपमेययोः । आश्रियमानप्राधान्यो धर्मेणान्येन भिद्यते ॥ ३,१४.३७८ ॥ शस्त्रीकुमार्योः सदृशः श्याम इत्येवमाश्रिते । व्यपदेश्यमनेनेति निमित्तं गुणयोः स्थितम् ॥ ३,१४.३७९ ॥ यदा निमित्तैस्तद्वन्तो गच्छन्तीव तदात्मताम् । भेदाश्रयं तदाख्यानमुपमानोपमेययोः ॥ ३,१४.३८० ॥ तत्त्वासङ्गविवक्षायां येषु भेदो निवर्तते । लुप्तोपमानि तान्याहुस्तद्धर्मेण समाश्रयात् ॥ ३,१४.३८१ ॥ शस्त्र्यां प्रसिद्धं श्यामत्वं मानं सा तेन मीयते । अन्या श्यामा तु तद्रूपा तेनात्यन्तं न मीयते ॥ ३,१४.३८२ ॥ शस्त्रिं स्वेन गुणेनातो मिमानामाश्रयान्तरम् । असमाप्तगुणं सिद्धेरुपमानं प्रचक्षते ॥ ३,१४.३८३ ॥ उपमेये स्थितो धर्मः श्रुतोऽन्यत्रानुमीयते । श्रुतोऽथ वोपमानस्थ उपमेयेऽनुमियते ॥ ३,१४.३८४ ॥ अधीयते ब्राह्मणवत्क्षत्रिया इति दृश्यते । उपमेयस्य भिन्नत्वाद्वचनं क्षत्रियाश्रयम् ॥ ३,१४.३८५ ॥ साधारणं ब्रुवन् धर्म क्व चिदेव व्यवस्थितम् । सामान्यवचनः शब्द इति सूत्रेऽपदिश्यते ॥ ३,१४.३८६ ॥ नाभेदेन न भेदेन गुणो द्विष्ठोऽभिधीयते । भिन्नयोर्धर्मयोरेकः श्रूयतेऽन्यः प्रतीयते ॥ ३,१४.३८७ ॥ नात्यन्ताय मिमीते यत्सामान्ये समवस्थितम् । सादृश्यादुपमेयार्थ- समीपे परिकल्प्यते ॥ ३,१४.३८८ ॥ मानं प्रति समीपं वा सादृश्येन प्रतीयते । परिच्छेदाद्धि सादृश्यमिह मानोपमानयोः ॥ ३,१४.३८९ ॥ एकजातिव्यपेक्षायां तदेवेत्यवसीयते । भेदस्यैव व्यपेक्षायामन्यदेवेति गम्यते ॥ ३,१४.३९० ॥ कर्मत्वं करणत्वं च भेदेनैवाश्रितं यतः । अत्यन्तैकत्वविषयो न स्यात्तेनात्र सम्शयः ॥ ३,१४.३९१ ॥ भेदेऽपि तुल्यरूपत्वाच्छालीम्ं तानिति दृश्यते । जात्यभेदात्स एवायमिति भिन्नोऽभिधीयते ॥ ३,१४.३९२ ॥ कथं ह्यवयवोऽन्यस्य स्यादन्य इति चोच्यते । अत्यन्तभेदे नानात्वं यत्र तत्त्वं न विद्यते ॥ ३,१४.३९३ ॥ अभेदस्य विवक्षायामेकत्वं सङ्घसङ्घिनोः । सङ्घिनोर्न त्वभेदोऽस्ति तथान्यत्वमुदाहृतम् ॥ ३,१४.३९४ ॥ तत्राभिन्नव्यपेक्षायामुपमार्थो न विद्यते । यो हि गौरिति विज्ञाने हेतुः सोऽस्ति गवान्तरे ॥ ३,१४.३९५ ॥ व्यावृत्तानां विशेषाणां व्यापारे तु विवक्षिते । न कश्चिदुपकारोऽस्ति बुद्धेर्बुद्ध्यन्तरं प्रति ॥ ३,१४.३९६ ॥ किं चिद्यत्रास्ति सामान्यं यदि भेदाश्च के चन । गोत्वं गोष्वस्ति सामान्यं भेदाश्च शबलादयः ॥ ३,१४.३९७ ॥ सामान्यं श्यामतान्यैव तद्धि साधारणं द्वयोः । तदेव सिद्ध्यसिद्धिभ्यां भेद इत्यपदिश्यते ॥ ३,१४.३९८ ॥ श्यामत्वमेव सामान्यमन्येषामुभयोः स्थितम् । संपूर्नत्वात्तदन्यस्माद्विशेष इति गम्यते ॥ ३,१४.३९९ ॥ आकृतौ वापि सामान्ये क्व चिदेव व्यवस्थिताः । श्यामादौ येऽवसीयन्ते विशेषास्त इहाश्रिताः ॥ ३,१४.४०० ॥ जातेरभेदे भेदे वा सादृश्यं तत्प्रचक्षते । कश्चित्कदा चितर्थात्मा तथाभूतोऽपदिश्यते ॥ ३,१४.४०१ ॥ यत्रार्थे प्रत्ययाभेदो न कदा चिद्विकल्पते । अविद्यमानभेदत्वात्स एक इति गम्यते ॥ ३,१४.४०२ ॥ योऽर्थ आश्रितनानात्वः स एवेत्यपदिश्यते । व्यापारं जातिभागस्य तत्रापि प्रतिजानते ॥ ३,१४.४०३ ॥ जातिभागाश्रया प्रख्या तत्राभिन्ना प्रवर्तते । व्यक्तिभागाश्रया बुद्धिस्तत्र भेदेन जायते ॥ ३,१४.४०४ ॥ अन्यत्र वर्तमानं सद्भेदाभेदसमन्वितम् । निमित्तं पुनरन्यत्र नानात्वेनेव गृह्यते ॥ ३,१४.४०५ ॥ आधारेषु पदन्यासं कृत्वोपैति तदाश्रयम् । स सादृश्यस्य विषय इत्यन्यैरपदिश्यते ॥ ३,१४.४०६ ॥ परापेक्षे यथा भावे कारणाख्या प्रवर्तते । तथान्याधिगमापेक्षमुपमानं प्रचक्षते ॥ ३,१४.४०७ ॥ गुरुगिश्यपितापुत्र- क्रियाकालादयो यथा । व्यवहारास्तथौपम्यमप्यपेक्षानिबन्धनम् ॥ ३,१४.४०८ ॥ श्यामत्वमुपमाने चेद्वृत्तं वृत्तौ प्रयुज्यते । उपमेयं समासेन बाह्यं तत्राभिधीयते ॥ ३,१४.४०९ ॥ टाबन्त एव चैत्रादौ श्यामाशब्दस्तथा भवेत् । सूत्रे च प्रथमाभावान्न श्यामाद्युपसर्जनम् ॥ ३,१४.४१० ॥ अथ त्वेकविभक्तित्वाद्गुणत्वाद्वोपसर्जनम् । नैवं तित्तिरिकल्माष्यामिष्टः स्त्रीप्रत्ययो भवेत् ॥ ३,१४.४११ ॥ सतिशिष्टबलीयस्त्वाद्बाह्ये ङिषि च सत्यपि । उपमानस्वरो न स्यात्तस्मात्स्त्र्यन्तः समस्यते ॥ ३,१४.४१२ ॥ गुणे न चोपमानस्थे सापेक्षत्वं प्रकल्पते । प्रधानस्य तथा न स्याद्व्याघ्रादौ लिङ्गदर्शनम् ॥ ३,१४.४१३ ॥ तस्मात्सति गुणत्वेऽपि प्राधान्यं विग्रहान्तरे । नैवंजातीयकं शास्त्रे संभवत्युपसर्जनम् ॥ ३,१४.४१४ ॥ उपमेयात्मनि श्यामो वर्तमानोऽभिधीयते । उपमानेष्वनिर्दिष्टः सामर्थ्यात्स प्रतीयते ॥ ३,१४.४१५ ॥ द्रव्यमात्रेऽपि निर्दिष्टे चन्द्रवक्त्रेऽनुगम्यते । विशिष्ट एव चन्द्रस्थो गुणो नोपप्लवादयः ॥ ३,१४.४१६ ॥ भेदभावनयैतच्च समासेऽप्युपवर्ण्यते । विशिष्टगुणभिन्नेऽर्थे पदमन्यत्प्रयुज्यते ॥ ३,१४.४१७ ॥ यदि भिन्नाधिकरणो वचनादनुगम्यते । मृगीव चपलेत्यत्र पुंवद्भावो न सिध्यति ॥ ३,१४.४१८ ॥ अस्त्रीपूर्वपदत्वात्तु पुंवद्भावो भविष्यति । यथैव मृगदुग्धादौ न चेत्स्त्र्यर्थो विवक्ष्यते ॥ ३,१४.४१९ ॥ शस्त्रीव शस्त्रीश्यामेति देवदत्तैव कथ्यते । तस्यामेवोभयं तस्मादुच्यते शास्त्रविग्रहे ॥ ३,१४.४२० ॥ पुंवद्भावस्य सिद्ध्यर्थं पक्षे स्त्रीप्रत्ययस्य च । बह्वपेक्ष्यमतस्तस्यामुभयप्रतिपादनम् ॥ ३,१४.४२१ ॥ श्यामा शस्त्री यथा श्यामा शस्त्रीकल्पेति चोच्यते । तत्रोपमानेतरयोः श्यामेत्येतदपेक्ष्यते ॥ ३,१४.४२२ ॥ अथ श्यामेव शस्त्रीयं श्यामेत्येवं प्रयुज्यते । शस्त्री यथेयं श्यामेति तावदेव प्रतीयते ॥ ३,१४.४२३ ॥ उपलक्षणमात्रार्था गुणस्यास्य यदि श्रुतिः । पृथग्द्वयोः श्रुतोऽप्येष नेष्टस्वार्थस्य वाचकः ॥ ३,१४.४२४ ॥ उपमेयं तु यद्वाच्यं तस्य चेत्प्रतिपादने । सव्यापारा गुणास्तत्र सर्वस्योक्तिः सकृच्छ्रुतौ ॥ ३,१४.४२५ ॥ प्रकाराधारभेदेन विशेषे समवस्थितः । शब्दान्तराभिसंबन्धे सामान्यवचनः कथम् ॥ ३,१४.४२६ ॥ सादृश्यमात्रं सामान्यं द्विष्ठं कैश्चित्प्रतीयते । गुणो भेदेऽप्यभेदेन द्विवृत्तिर्वा विवक्षितः ॥ ३,१४.४२७ ॥ व्यापारो जातिभागस्य द्रव्ययोर्वाभिधित्सितः । रूपात्सामान्यवाचित्वं प्राग्वा वृत्तेरुदाहृतम् ॥ ३,१४.४२८ ॥ व्याघ्रशब्दो यदा शौर्यात्पुरुषार्थेऽवतिष्ठते । तदाधिकरणाभेदात्समासस्यास्ति संभवः ॥ ३,१४.४२९ ॥ शूरशब्दप्रयोगे तु व्याघ्रशब्दो मृगे स्थितः । भिन्नेऽधिकरणे वृत्तेस्तत्र नैवास्ति संभवः ॥ ३,१४.४३० ॥ सामानाधिकरण्येऽपि गुणभेदस्य संभवात् । प्रयोगः शूरशब्दस्य समासेऽप्यनुषज्यते ॥ ३,१४.४३१ ॥ पूजोपाधिश्च यो दृष्टः कुत्सनोपाधयश्च ये । तेषां भिन्ननिमित्तत्वान्नियमार्था पुनः श्रुतिः ॥ ३,१४.४३२ ॥ असंभवेऽपि वा वृत्तेः स्यादेतल्लिङ्गदर्शनम् । अच्वेरिति यथा लिङ्गमभावेऽपि भृशादिषु ॥ ३,१४.४३३ ॥ वत्यन्तावयवे वाक्ये यदौपम्यं प्रतीयते । तत्प्रत्ययविधौ सूत्रे निर्देशोऽयं विचार्यते ॥ ३,१४.४३४ ॥ क्रियेत्युपाधिः प्राथम्यात्प्रकृत्यर्थस्य यद्यपि । न प्रातिपदिकं तत्र क्रियावाच्युपपद्यते ॥ ३,१४.४३५ ॥ सत्त्ववृत्तस्य शेषे वा तृतीया साधनेऽपि वा । तिङामसत्त्ववाचित्वादुभयं तन्न विद्यते ॥ ३,१४.४३६ ॥ पाकादयस्तृतीयान्ताः सत्त्वधर्मसमन्वयात् । न क्रियेत्यपदिश्यन्ते कृत्वोऽर्थप्रत्यये यथा ॥ ३,१४.४३७ ॥ ये चाव्ययकृतः के चित्क्रियाधर्मसमन्विताः । तेषामसत्त्ववाचित्वं तिङन्तैर्न विशिष्यते ॥ ३,१४.४३८ ॥ कृत्वसुज्विषया यापि शयितव्यादिषु क्रिया । उपमानोपमेयत्वं तत्रात्यन्तमसंभवि ॥ ३,१४.४३९ ॥ न केवलौ द्रव्यगुणौ तद्वान् वाप्युपमीयते । शयितव्यादिभिस्तेषु नोपमार्थोऽस्ति कश्चन ॥ ३,१४.४४० ॥ उपमानोपमेयत्वे द्रव्ये चानुक्तधर्मिणि । निमित्तत्वेन गम्यन्ते रूढयोगाः क्रियागुणाः ॥ ३,१४.४४१ ॥ होतव्यसदृशो होतेत्यत्राप्यर्थो न विद्यते । विरोधात्क्रियया तस्मात्क्रियावान्नोपमीयते ॥ ३,१४.४४२ ॥ क्रिया समानजातिया तद्भावान्नोपमीयते । जातिभेदेऽपि पाकेन भिन्नाः पाकादयः क्रियाः ॥ ३,१४.४४३ ॥ आधारभेदाद्भिन्नायामुपमानस्य संभवः । अध्येतव्येन विप्राणां तुल्यमध्ययनं विशाम् ॥ ३,१४.४४४ ॥ अर्थात्प्रकरणाद्वापि यत्रापेक्ष्यं प्रतीयते । सामर्थ्यादनपेक्षस्य तस्य वृत्तिः प्रसज्यते ॥ ३,१४.४४५ ॥ तैलपाकेन तुल्ये च घृतपाके विवक्षिते । क्रियावदपि कार्याणां दर्शनात्प्रत्ययो भवेत् ॥ ३,१४.४४६ ॥ अतिङ्ग्रहणमेवं तु समासस्य निवर्तकम् । गमनं कारकस्येति ण्वुल्यन्यस्मिन्न संभवेत् ॥ ३,१४.४४७ ॥ सर्वस्य परिहारार्थं समुदायत्वमाश्रितम् । शुद्धायाः संभवान्न स्यात्क्रियाया ब्राह्मणादिषु ॥ ३,१४.४४८ ॥ उपमानविवक्षायां स्वधर्मश्च निवर्तते । क्रियाया न श्रुताद्यस्मादुपमानं समाप्यते ॥ ३,१४.४४९ ॥ तृतीयोऽप्याश्रितो भेदो धर्मः साधारणो द्वयोः । व्यापारवान्न कृत्स्नस्य साम्यं कृत्स्नेन विद्यते ॥ ३,१४.४५० ॥ द्रव्ये वापि क्रियायां वा निमित्तात्तत्प्रकल्पते । क्रियाणां विद्यमानत्वाद्वृत्तिर्न स्याद्गवादिषु ॥ ३,१४.४५१ ॥ अभावात्केवलायास्तु तद्वानर्थः प्रतीयते । प्रधानासंभवे युक्ता लक्षणार्था क्रियाश्रुतिः ॥ ३,१४.४५२ ॥ क्रियान्तरेषु सापेक्षाः क्रियाशब्दाः क्रियान्तरे । उपकाराय गृह्यन्ते यथैव ब्राह्मणादयः ॥ ३,१४.४५३ ॥ यथा प्रकर्षः सर्वत्र निमित्तान्तरहेतुकः । द्रव्यवद्गुणशब्देऽपि स निमित्तमपेक्षते ॥ ३,१४.४५४ ॥ यो य उच्चार्यते शब्दः स स्वरूपनिबन्धनः । यथा तथोपमानेषु व्यपेक्ष न निवर्तते ॥ ३,१४.४५५ ॥ क्रियावृत्तेस्तृतीयान्तस्य्- ऐवं चासंभवे सति । प्रसिद्धन्यायकरणो भाष्ये युजिरुदाहृतः ॥ ३,१४.४५६ ॥ अन्तर्भूते तु करणे प्रयोगो न पुनर्भवेत् । न्यायेनायुक्तमित्यत्र जीवतौ प्राणकर्मवत् ॥ ३,१४.४५७ ॥ शास्त्राभ्यासाच्च भेदोऽयमयुक्तमिति वर्ण्यते । अशोभनमसंबद्धमिति रूढिर्व्यवस्थिता ॥ ३,१४.४५८ ॥ विविभक्तिः प्रकृत्यर्थं प्रत्युपाधिः कथं भवेत् । विभक्तिपरिणामे च प्रकल्प्यं विषयान्तरम् ॥ ३,१४.४५९ ॥ विभक्त्यन्तरयोगो हि यस्य तद्विषयान्तरे । विभक्त्यन्तरसंबन्धः सामर्थ्यादनुमीयते ॥ ३,१४.४६० ॥ सारूप्यात्तु तदेवेदमिति तत्रोपचर्यते । शब्दान्तरं विभक्त्या तु युक्तं शास्त्रे तदश्रुतम् ॥ ३,१४.४६१ ॥ प्रकृतिश्चेत्तृतीयान्ता तेनेत्यस्मात्प्रतीयते । क्रियेति प्रथमान्ता सा कथं भवितुमर्हति ॥ ३,१४.४६२ ॥ क्रिययेति तृतीया च प्रयोगे कस्य कल्प्यताम् । तेनेत्यस्य हि संबन्धः सूत्रस्थेन न विद्यते ॥ ३,१४.४६३ ॥ सोपस्कारेषु सूत्रेषु वाक्यशेषः समर्थ्यते । तेन यत्तत्तृतीयान्तं क्रिया चेत्सेति गम्यते ॥ ३,१४.४६४ ॥ उपाधेः कस्य चिद्वाक्ये प्रयोग उपलभ्यते । प्रतीयमानधर्मान्यो न कदा चित्प्रयुज्यते ॥ ३,१४.४६५ ॥ नीलमुत्पलमित्यत्र न विशेष्ये न भेदके । कश्चित्तद्धर्मवचनो वाक्ये शब्दः प्रयुज्यते ॥ ३,१४.४६६ ॥ अत्यन्तानुगमात्तत्र न सूत्रे न च विग्रहे । विभक्तिपरिणामेन किं चिदस्ति प्रयोजनम् ॥ ३,१४.४६७ ॥ तृतीयान्तं क्रियेत्येतद्विग्रहे न प्रयुज्यते । यथा दण्डः प्रहरणं क्रीडायामिति दृश्यते ॥ ३,१४.४६८ ॥ घविधौ यच्च संज्ञायामिति सूत्र उदाहृतम् । उपादानं प्रयोगेषु तस्यात्यन्तं न विद्यते ॥ ३,१४.४६९ ॥ यैरप्रयुक्तैः संस्कारः प्रधानेषु प्रतीयते । ते भेदेऽपि विभक्तीनां निर्दिश्यन्त उपाधयः ॥ ३,१४.४७० ॥ समुदायेषु वर्तन्ते भावानां सहचारिणाम् । शब्दास्तत्त्वविवक्षायां समुच्चयविकल्पयोः ॥ ३,१४.४७१ ॥ समुच्चयस्तु क्रियते येषु प्रत्यर्थवृत्तिषु । भेदाधिष्ठानया योगस्तेसां भवति संख्यया ॥ ३,१४.४७२ ॥ सर्वैर्विशिष्टास्तैरर्थैर्जन्यन्ते सहचारिभिः । बुद्धयः प्रतिपत्तॄणां शब्दार्थांस्तानतो विदुः ॥ ३,१४.४७३ ॥ संसृष्टाः प्रत्ययेष्वर्थाः सर्व एवोपकारिनः । तेषां प्रत्ययरूपेण सर्वेषां शब्दवाच्यता ॥ ३,१४.४७४ ॥ केवलानां तु भावानां न रूपमवधार्यते । अनिरूपितरूपेषु तेषु शब्दो न वर्तते ॥ ३,१४.४७५ ॥ पूर्वशब्दप्रयोगाच्च समूहान्न निवर्तते । वर्ततेऽवयवे नापि नोपात्तं त्यजते क्व चित् ॥ ३,१४.४७६ ॥ समुदायाभिधायि च यदि भेदं विशेषयेत् । तत्रातुल्यविभक्तित्वं पूर्वकायादिवद्भवेत् ॥ ३,१४.४७७ ॥ समूहे च प्रदेशे च पञ्चाला इति दृश्यते । तथा विशेषणं सर्व इत्येतदुपपद्यते ॥ ३,१४.४७८ ॥ तथार्धपिप्पलीत्यत्र जात्यन्तरनिवृत्तये । अर्धं च पिप्पली चेति खन्दे शब्दः प्रतीयते ॥ ३,१४.४७९ ॥ पञ्चालानां प्रदेशोऽपि भिन्नो जनपदान्तरात् । तत्रान्यस्य निवृत्त्यर्थे शब्दे भेदो न गम्यते ॥ ३,१४.४८० ॥ प्रसिद्धास्तु विशेषेण समुदाये व्यवस्थिताः । प्रदेशे दर्शनं तेषामर्थप्रकरणादिभिः ॥ ३,१४.४८१ ॥ यदुपव्यञ्जनं जातेः सहचारि च कर्मसु । तत्र वा रूढसंबन्धं यत्प्रायेणोपलक्षितम् ॥ ३,१४.४८२ ॥ समुदायः प्रदेशो वेत्येवं तस्मिन्ननाश्रिते । अर्थात्मन्यविशेषेण वर्तन्ते ब्राह्मणादयः ॥ ३,१४.४८३ ॥ यश्च तुल्यश्रुतिर्दृष्टः समुदाये व्यवस्थितः । तेनोपचरितैकत्वं प्रदेशेऽप्युपलभ्यते ॥ ३,१४.४८४ ॥ संस्कारादुपघाताद्वा वृत्तोऽक्तपरिमाणके । तैलादौ जातिशब्दोऽत्र सामर्थ्यादवसीयते ॥ ३,१४.४८५ ॥ न जातिगुणशब्देषु मूर्तिभेदो विवक्षितः । ते जातिगुणसंबन्ध- भेदमात्रनिबन्धनाः ॥ ३,१४.४८६ ॥ कृष्णादिव्यपदेशश्च सर्वावयववृत्तिभिः । गुणैस्तेऽप्येकदेशस्थाः पटादीनां विशेषकाः ॥ ३,१४.४८७ ॥ पटावयववृत्तास्तु यदा तत्र पटादयः । तदा तैलादिवत्तेषां जातिशब्दत्वमुच्यते ॥ ३,१४.४८८ ॥ निवृत्त्यर्था श्रुतिर्येषां भेदस्तेष्वनपेक्षितः । प्रदेशे समुदाये वा गुणोऽन्येषां निवर्तकः ॥ ३,१४.४८९ ॥ ब्राह्मणाध्ययने तत्र वर्तते ब्राह्मणश्रुतिः । सादृश्यं तत्र दृष्टं हि क्षत्रियाध्ययनादिभिः ॥ ३,१४.४९० ॥ ब्राह्मणाध्ययने वृत्तिर्यदि स्याद्ब्राह्मणश्रुतेः । वक्तव्यं केन धर्मेण तुल्यत्वं क्रिययोरिति ॥ ३,१४.४९१ ॥ अध्येतरि यदा वृत्तिरुच्यते ब्राह्मणश्रुतेः । निमित्तत्वं तदोपैति क्रियैवाध्येतरि स्थिता ॥ ३,१४.४९२ ॥ सिम्हशब्देन संबन्धे गौर्यमात्राभिधायिना । चैत्रात्षष्ठी प्रसज्येत योगे शत्त्र्यादिभिर्यथा ॥ ३,१४.४९३ ॥ ब्राह्मणायेव दातव्यं वैश्यायेत्येवमादिषु । संप्रदानादियोगश्च क्रियामात्रे न कल्पते ॥ ३,१४.४९४ ॥ क्रियामात्राभिधायित्वादव्ययेषु वतेर्न च । पाठः कदा चित्कर्तव्यस्तुल्यौ पक्षावुभौ यतः ॥ ३,१४.४९५ ॥ जहाति जातिं द्रव्यं वा तस्मान्नावयवे स्थितः । क्रियायास्तु श्रुतिर्यस्मात्तद्वत्यर्थेऽवतिष्ठते ॥ ३,१४.४९६ ॥ अक्रियाणां निवृत्त्यर्था, यतश्चात्र क्रियाश्रुतिः । क्रियोपलक्षिते तस्मात्क्रियाशब्दः प्रतीयते ॥ ३,१४.४९७ ॥ होतव्यादिषु यस्माच्च क्रियान्या ब्राह्मणादिवत् । अपेक्षणीया शुद्धेऽर्थे तस्माद्वृत्तिर्न कस्य चित् ॥ ३,१४.४९८ ॥ सर्वं वाप्येकदेशो वा यस्मिन्नाश्रियते क्व चित् । विशेषवृत्तिं तं सर्वमाहुर्भेदे व्यवस्थितम् ॥ ३,१४.४९९ ॥ समुच्चयो विकल्पो वा प्रकाराः सर्व एव वा । विशेषा इति वर्ण्यन्ते सामान्यं वाविकल्पितम् ॥ ३,१४.५०० ॥ न हि ब्राह्मण इत्यत्र भेदः कश्चिदपाश्रितः । अपाकृतो वा तेनायं समुदाये व्यवस्थितः ॥ ३,१४.५०१ ॥ क्रिया त्वाश्रीयते यस्मिन् स भेदोऽध्यवसीयते । तथान्यथा सर्वथा चेत्यप्रयोगे न विद्यते ॥ ३,१४.५०२ ॥ उपमाने क्रियावृत्तिमुपमेये क्रियाश्रुतिः । प्रत्याययन्ती भेदस्य करोतीव पदार्थताम् ॥ ३,१४.५०३ ॥ व्यापारेणैव सादृश्ये व्यापारस्य विवक्षिते । क्रियावद्वचनाच्छब्दात्प्रत्ययः प्रतिपाद्यते ॥ ३,१४.५०४ ॥ क्रियावतोऽपि सादृश्ये वक्तुमिष्टे क्रियावता । अध्येता ब्राह्मण इव प्रत्ययो न निवर्तते ॥ ३,१४.५०५ ॥ अधीते तुल्य इत्येवं पुंल्लिङ्गेन विशेषणम् । क्रियावति क्रियायां तु तुल्यशब्दे नपुंसकम् ॥ ३,१४.५०६ ॥ प्रकृत्यर्थे विशिष्टेऽपि प्रत्ययार्थाविशेषणात् । पुत्रेण तुल्यः कपिल इति वृत्तिः प्रसज्यते ॥ ३,१४.५०७ ॥ याः पुत्रे रूढसंबन्धाः क्रिया लोके विवक्षिताः । ताभिः क्रियावतः पुत्राद्गुणतुल्ये वतिर्भवेत् ॥ ३,१४.५०८ ॥ अन्तर्भूतं निमित्तं च रूढिशब्देषु यद्यपि । क्रियास्तु सहचारिण्यो रूढाः सन्ति पदार्थवत् ॥ ३,१४.५०९ ॥ क्रमं तु यदि बाधित्वा प्रत्ययार्थविशेषणम् । प्रधानानुग्रहात्साम्याद्विभक्तेश्चावतिष्ठते ॥ ३,१४.५१० ॥ प्रकृतेरविशिष्टत्वात्क्रियातुल्ये प्रसज्यते । पुत्रादौ गुणशब्देभ्यः पूर्वोक्तस्य विपर्यये ॥ ३,१४.५११ ॥ स्थूलेन तुल्यो यातीति बहिरङ्गा क्रियाश्रुतिः । अनिमित्तं वतेस्तुल्यं यातीत्यत्रेष्यते वतिः ॥ ३,१४.५१२ ॥ द्वयं विशेष्यते तेन यदेकत्र विशेषणं । तुल्यशब्दो हि तं धर्ममुभयस्थमपेक्षते ॥ ३,१४.५१३ ॥ एकः समानो धर्मश्चेदुपमानोपमेययोः । तुलया संमितं तुल्यमिति तत्रोपपद्यते ॥ ३,१४.५१४ ॥ सूत्रे श्रुतश्च द्विष्ठोऽसावभेदेन प्रतीयते । न च सामान्यशब्दत्वादश्रुता गम्यते क्रिया ॥ ३,१४.५१५ ॥ अश्रुताश्च प्रतीयन्ते निदेशस्थायितादयः । ये धर्मा नियतास्तेषां पुत्रादिषु न विद्यते ॥ ३,१४.५१६ ॥ अनाश्रितक्रियस्तस्मान्न तुल्योऽस्ति क्रियावता । क्रियायाः श्रवणे सापि क्रियावत्ता प्रतीयते ॥ ३,१४.५१७ ॥ द्वयोः प्रतिविधानाच्च ज्यायस्त्वमभिधीयते । नित्यासत्त्वाभिधायित्वात्प्रत्ययार्थविशेषणे ॥ ३,१४.५१८ ॥ असत्त्वभूतो व्यापारः केवलः प्रत्यये यतः । विद्यते लक्षणार्थत्वं नास्ति तेन क्रियाश्रुतेः ॥ ३,१४.५१९ ॥ क्रियावतस्तु ग्रहणात्प्रकृत्यर्थविशेषणे । क्रियामात्रेन तुल्यत्वे सिद्धासत्त्वाभिधायिता ॥ ३,१४.५२० ॥ यदा क्रियानिमित्तं तु सादृश्यं स्यात्क्रियावतोः । क्रियावतोऽभिधेयत्वात्तदा द्रव्याभिधायिता ॥ ३,१४.५२१ ॥ अव्ययेषु वतेः पाठः कार्यस्तत्र स्वरादिवत् । ब्राह्मणेन समोऽध्येतेत्यत्र च प्रत्ययो भवेत् ॥ ३,१४.५२२ ॥ सामानाधिकरण्यं च वत्यर्थेनापदिश्यते । तुल्यमित्यन्यथा कल्प्यो वाक्यशेषोऽश्रुतो भवेत् ॥ ३,१४.५२३ ॥ क्रियावतोश्च सादृश्ये प्रत्ययार्थविशेषणे । अध्येत्रा सदृशोऽध्येतेत्यत्र नास्ति वतेर्विधिः ॥ ३,१४.५२४ ॥ तुल्यार्थैरिति या तस्यास्तृतीयाया न भिद्यते । अर्थो भेदेऽपि सर्वाभिरितराभिर्विभक्तिभिः ॥ ३,१४.५२५ ॥ भोज्यते ब्राह्मण इव तुल्यं भुक्तं द्विजातिना । पश्यति ब्राह्मणमिव तुल्यं विप्रेण पश्यति ॥ ३,१४.५२६ ॥ ब्राह्मणेनेव विज्ञातं तुल्यं ज्ञातं द्विजातिना । दीयतां ब्राह्मणायेव तुल्यं विप्रेण दीयताम् ॥ ३,१४.५२७ ॥ ब्राह्मणादिव वैश्यात्त्वमधीष्वाध्ययनं बहु । इत्येवमादिभिर्भेदस्तृतीयाया न कश्चन ॥ ३,१४.५२८ ॥ तुल्यं मधुरयाधीये मात्रा तुल्यं स्मरामि ताम् । मधुरायाश्च मातुश्च कथं सादृश्यकल्पना ॥ ३,१४.५२९ ॥ मधुराविषयः पाठः स्मरणं मातृकर्मकम् । मधुरामातृशब्दाभ्यामभेदेनाभिधीयते ॥ ३,१४.५३० ॥ उष्ट्रावयवतुल्येषु मुखेषूष्ट्रश्रुतिर्यथा । वर्तते गृहतुल्ये च प्रासादे मधुराश्रुतिः ॥ ३,१४.५३१ ॥ यथाध्ययनयोः साम्यमध्येत्रोरपदिश्यते । तथा क्रियागतैर्धर्मैरुच्यन्ते साधनाश्रयाः ॥ ३,१४.५३२ ॥ इवार्थे यच्च वचनं पूर्वसूत्रे च यो विधिः । क्रियाशब्दश्रुतौ भेदो न कश्चिद्विद्यते तयोः ॥ ३,१४.५३३ ॥ यद्यप्युपाधिरन्यत्र नियतो न प्रयुज्यते । रूपाभेदात्त्वनिर्ज्ञाता क्रियात्र श्रूयते पुनः ॥ ३,१४.५३४ ॥ यथा व्युत्परयः पुच्छौ क्यङन्ते सुदुरादयः । सत्यपि प्रत्ययार्थत्वे भेदाभावादुदाहृताः ॥ ३,१४.५३५ ॥ एवं च सति पूर्वेण सिद्धोऽत्रापि वतेर्विधिः । नियमे वाभिधाने वा भिद्यते न क्रियाश्रुतिः ॥ ३,१४.५३६ ॥ इवे द्रव्यादिविषयः प्रत्ययः पुनरुच्यते । क्रियाणामेव सदृश्वे पूर्वसूत्रे विधीयते ॥ ३,१४.५३७ ॥ मधुरायामिव गृहा ब्राह्मणस्येव पाण्डुराः । इत्यत्र द्रव्यगुणयोः पूर्वेण न वतिर्भवेत् ॥ ३,१४.५३८ ॥ आरम्भस्याक्रियार्थत्वे नार्थो योगेन विद्यते । ऋते क्रियाया ग्रहणात्पूर्वयोगेन सिध्यति ॥ ३,१४.५३९ ॥ मधुरावयवे वृत्तिर्व्वाख्याता मधुराश्रुतेः । ब्राह्मणावयवान् दन्तान् वक्ष्यति ब्राह्मणश्रुतिः ॥ ३,१४.५४० ॥ न का चिदिवयोगे तु बाह्यात्संबन्धिनो । षष्ठी विधीयते तत्र पूर्वेण प्रत्ययो भवेत् ॥ ३,१४.५४१ ॥ आधिक्यं तुल्यशब्देन संबन्ध उपजायते । षष्ठीतृतीये तत्र स्तस्तुल्यशब्दो हि वाचकः ॥ ३,१४.५४२ ॥ इवशब्दप्रयोगे तु बाह्यात्संबन्धिनो विना । नाधिक्यमुपमानेऽस्ति द्योतकः स प्रयुज्यते ॥ ३,१४.५४३ ॥ इवे यो व्यतिरेकोऽत्र स प्रासादादिहेतुकः । तुल्ये तद्विषयापेक्षमाधिक्यमुपजायते ॥ ३,१४.५४४ ॥ गवयेन समोऽनद्वानिति वृत्तिस्तथा भवेत् । न त्वस्ति गौरिवेत्यत्र व्यतिरेक इवाश्रयः ॥ ३,१४.५४५ ॥ उपमेयेन संबन्धात्प्राक्प्रासादादिहेतुके । व्यतिरेके वतेर्भावो न तुल्यार्थत्वहेतुके ॥ ३,१४.५४६ ॥ इवशब्देन संबन्धे न तृतीया विधीयते । प्रकृतां तामतस्त्यक्त्वा विभक्त्यन्तरमाश्रितम् ॥ ३,१४.५४७ ॥ सप्तम्यपि न तत्रास्ति ज्ञापकार्था तु सा कृता । इष्टा सा शेषविषये नियतासु विभक्तिषु ॥ ३,१४.५४८ ॥ यदि तु व्यतिरेकेण विषयेऽस्मिन् विभक्तयः । प्रवर्तेरंस्तृतीयैव व्यभिचारं प्रदर्शयेत् ॥ ३,१४.५४९ ॥ व्यभिचारे तथा सिद्धे सप्तमीग्रहणाद्विना । सप्तम्येवोच्यते सर्वा न सन्त्यन्या विभक्तयः ॥ ३,१४.५५० ॥ अत्यन्तमत्र विषये सप्तम्या ज्ञापकार्थया । बाधिता विनिवर्तेत षष्ठी सा गृह्यते पुनः ॥ ३,१४.५५१ ॥ पूर्वाभ्यामेव योगाभ्यां विग्रहान्तरकल्पनात् । अर्हार्थेऽपि वतिः सिद्धः स त्वेकेन निदर्श्यते ॥ ३,१४.५५२ ॥ तेन तुल्यमिति प्राप्ते क्रियोपाधिः प्रसिध्यति । राजवद्वर्तते राजेत्यत्र भेदे विवक्षिते ॥ ३,१४.५५३ ॥ राजत्वेन प्रसिद्धा ये पृथुप्रभृतयो नृपाः । युधिष्ठिरान्तास्तेऽन्येषामुपमानं महीक्षिताम् ॥ ३,१४.५५४ ॥ सिद्ध्यसिद्धिकृतो भेद उपमानोपमेययोः । सर्वत्रैव यतोऽसिद्धं प्रसिद्धेनोपमीयते ॥ ३,१४.५५५ ॥ राजवद्रूपमस्येति राजन्येव विवक्षिते । अक्रियार्थेन योगेन द्वितीयेन भविष्यति ॥ ३,१४.५५६ ॥ उपमानाविवक्षायां नियमार्थोऽयमुच्यते । धर्मोऽर्हतिक्रियाकर्ता तदर्थं वचनं पुनः ॥ ३,१४.५५७ ॥ कृतहस्तवदित्येतत्प्रसिद्धेष्वेव दृश्यते । राजत्वेन प्रसिद्धे च राज्ञि राजवदित्यपि ॥ ३,१४.५५८ ॥ अराज्ञि येषां धर्माणां दृष्टोऽत्यन्तमसंभवः । ते राजनि नियम्यन्ते त्यज्यन्ते व्यभिचारिणः ॥ ३,१४.५५९ ॥ अर्हतेश्च क्रिया कर्त्री या तस्यां वतिरिष्यते । राजानमर्हति च्छत्त्रमिति न त्वेवमादिषु ॥ ३,१४.५६० ॥ प्रयुक्तानां हि शब्दानां शास्त्रेणानुगमः सताम् । छत्त्राद्यर्थे तु वचने प्रत्याख्यानं न संभवेत् ॥ ३,१४.५६१ ॥ तदर्हमिति नारब्धं सूत्रं व्याकरणान्तरे । संभवत्युपमात्रापि भेदस्य परिकल्पनात् ॥ ३,१४.५६२ ॥ एकस्य कार्यनिर्ज्ञानात्सिद्धस्य विषयान्तरे । तद्धर्मत्वविवक्षायां बुद्ध्या भेदः प्रकल्प्यते ॥ ३,१४.५६३ ॥ सूत्रारम्भान्न चैतस्मादिवशब्दस्य विद्यते । प्रयोगः सोऽपि चैतस्य विषये विद्यते वतेः ॥ ३,१४.५६४ ॥ दस्युहेन्द्र इवेत्येतदैन्द्रमन्त्रे प्रयुज्यते । अन्यत्र दृष्टकर्मेन्द्रो यथेत्यस्मिन् विवक्षिते ॥ ३,१४.५६५ ॥ पूर्वामवस्थामाश्रित्य यावस्था व्यपदिश्यते । सदृशस्त्वं तवैवेति तत्रैवमभिधीयते ॥ ३,१४.५६६ ॥ प्रसिद्धभेदं यत्रान्यदुपमानं न विद्यते । उपमेयस्य तत्रात्मा स्वबुद्ध्या प्रविभज्यते ॥ ३,१४.५६७ ॥ योऽपि स्वाभाविको भेदः सोऽपि बुद्धिनिबन्धनः । तेनास्मिन् विषये भिन्नमभिन्नं वा न विद्यते ॥ ३,१४.५६८ ॥ अङ्गदी कुण्डली चेति दर्शयन् भेदहेतुभिः । चैत्रमीदृशमित्याह बुद्ध्यवस्थापरिग्रहात् ॥ ३,१४.५६९ ॥ एतैः शब्दैर्यथाभूतः प्रत्ययात्मोपजायते । तत्प्रत्ययानुकारेण विषयोऽप्युपपद्यते ॥ ३,१४.५७० ॥ बुद्ध्यवस्थाविभागेन भेदकार्यं प्रतीयते । जन्यन्त इव शब्दानामर्थाः सर्वे विवक्षया ॥ ३,१४.५७१ ॥ तथाविधेऽपि बाह्येऽर्थे भिद्यन्ते यत्र बुद्धयः । न तत्र कश्चित्सादृश्यं सदपि प्रतिपद्यते ॥ ३,१४.५७२ ॥ अत्यन्तं विषये भिन्ने यावत्प्रख्या न भिद्यते । न तावत्प्रत्यभिज्ञानं कस्य चिद्विनिवर्तते ॥ ३,१४.५७३ ॥ अयमेव तु सूत्रेण भेदो भेदेन दर्शितः । प्रसिद्धमपि दुर्ज्ञानमबुधः प्रतिपद्यते ॥ ३,१४.५७४ ॥ वैयाकरणवद्ब्रूते न वैयाकरणः सदा । वैयाकरणवद्ब्रूष्वेत्यतः सोऽप्यभिधीयते ॥ ३,१४.५७५ ॥ के चित्पुमांसो भाषन्ते स्त्रीवत्पुंवच्च योषितः । व्यभिचारे स्वधर्मोऽपि पुनस्तेनोपदिश्यते ॥ ३,१४.५७६ ॥ सदृशस्त्वं तवैवेति लोके यदभिधीयते । उपमानान्तरं तत्र प्रसक्तं विनिवर्तते ॥ ३,१४.५७७ ॥ युक्तमौपयिकं राज्ञ इत्यर्थस्य निदर्शने । उपमानाविवक्षायां तदर्हमिति पठ्यते ॥ ३,१४.५७८ ॥ प्रसक्तानुप्रसक्तस्तु वतिशेषोऽभिधीयते । उपमानाभिसंबन्धादस्मिन् वतिरुदाहृतः ॥ ३,१४.५७९ ॥ प्रधानकल्पनाभावे गुणशब्दस्य दर्शनात् । उपसर्गाद्वतौ सिद्धा धातौ धात्वर्थकल्पना ॥ ३,१४.५८० ॥ स्वं रूपमिति चैतस्मिन्नर्थस्यापि परिग्रहः । रूपवज्ज्ञापितस्तस्मादासन्नोऽर्थो ग्रहीष्यते ॥ ३,१४.५८१ ॥ धात्वर्थेनोपजनितं साधनत्वेन साधनम् । धातुना कृतमित्येवमस्मिन् सूत्रे प्रतीयते ॥ ३,१४.५८२ ॥ यः शब्दश्चरितार्थत्वादत्यन्तं न प्रयुज्यते । विषयेऽदर्शनात्तत्र लोपस्तस्याभिधीयते ॥ ३,१४.५८३ ॥ क्रियायां साधने द्रव्ये प्रादयो ये व्यवस्थिताः । तेभ्यः सत्त्वाभिधायिभ्यो वतिः स्वार्थे विधीयते ॥ ३,१४.५८४ ॥ प्रत्ययेन विना प्रादिस्तत्रार्थे न प्रयुज्यते । भेदेन तु समाख्याने विभागः परिकल्पितः ॥ ३,१४.५८५ ॥ अनङ्गीकृतसत्त्वं तु यदि गृह्येत साधनम् । विभक्तिभिर्नियोगः स्याद्यथैव तसिलादिषु ॥ ३,१४.५८६ ॥ पाठाद्यैरविभक्तित्वं वत्यन्तेष्वनुगम्यते । तेषामुद्वत इत्यत्र वक्तव्या सविभक्तिता ॥ ३,१४.५८७ ॥ वत्यर्थं नावगाहेते पुंवदित्यस्य दर्शनात् । नञ्स्नञावपवादस्य बाधकं तन्निपातनम् ॥ ३,१४.५८८ ॥ एतमुत्क्रामतो नूनं वत्यर्थं नञ्स्नञाविति । तयोः प्रवृत्तावुत्सर्गो बाधनान्नोपपद्यते ॥ ३,१४.५८९ ॥ नञ्स्नञौ विहितौ येन स योगो नावगाहते । वतिप्रकरणं तद्धि लिङ्गमेवं समर्थ्यते ॥ ३,१४.५९० ॥ अभेदेनोपमानस्य भिन्नार्थोपनिपातिता । ऊहस्तथोपमानानामङ्गवन्नोपलभ्यते ॥ ३,१४.५९१ ॥ गावेधुके चरौ दृष्टा गोविकर्ताक्षवापयोः । पशू रुद्र इव ह्येतावित्येकवचनश्रुतिः ॥ ३,१४.५९२ ॥ उपमानस्य भेदाच्च बहुषु स्यादञो विधिः । काश्यपा इति लोपः स्यात्तथा प्रतिकृतिष्वपि ॥ ३,१४.५९३ ॥ एवं तु युक्तवद्भावादत्रैकवचनं भवेत् । लुं मनुष्ये तथोक्तं स्याल्लिङ्गस्यैकस्य सिद्धये ॥ ३,१४.५९४ ॥ उपमेयेषु भिन्नेषु किं चिदेकं प्रवर्तते । प्रत्ययस्य विधौ तत्र नित्यं युक्तवदिष्यते ॥ ३,१४.५९५ ॥ यदा प्रत्युपमेयं तु तदेकैकमवस्थितम् । तदा बाह्यार्थभेदेन तद्धितान्तं प्रचीयते ॥ ३,१४.५९६ ॥ यथा समूहप्रचये द्विगूनां भिन्नसंख्यता । पञ्चपूल्यादिषु तथा लुबन्तप्रचयो भवेत् ॥ ३,१४.५९७ ॥ प्रचये भिद्यमाने तु संख्या पूलेषु भिद्यते । अर्थभेदो लुबन्तेषु नैवं कश्चन दृश्यते ॥ ३,१४.५९८ ॥ येषूपमेयवचनः शब्दोऽन्यो न प्रयुज्यते । उपमानस्य तत्रान्यैः संख्याया भेद इष्यते ॥ ३,१४.५९९ ॥ यथा गुडतिलादीनां प्रयोगादेकसंख्यता । पाकादेरप्रयोगे तु भिन्ना संख्याभिधीयते ॥ ३,१४.६०० ॥ यः संबन्धिगतो भेदः स प्रयोगे प्रतीयते । संबन्धिनामतो भेद उपमेये न गम्यते ॥ ३,१४.६०१ ॥ तस्मात्सामान्यशब्दत्व- प्रसङ्गविनिवृत्तये । उपमेयगतो भेद उपमानेषु दृश्यते ॥ ३,१४.६०२ ॥ उपमानं समस्तानामभिन्नं श्रूयते क्व चित् । भिन्नानामुपमेयनामेकैकं वोपमीयते ॥ ३,१४.६०३ ॥ यथा गरुड इत्येतद्व्यूहापेक्षं प्रयुज्यते । एकेन यत्र सादृश्यं वैनतेयेन हस्तिनाम् ॥ ३,१४.६०४ ॥ एकस्यापि प्रतीयेत भिन्ना प्रतिकृतिः सह । काश्यपस्येति तेनायं प्रत्येकमवतिष्ठते ॥ ३,१४.६०५ ॥ मेघाः शैल इवेत्युक्ते समस्तानां प्रतीयते । सादृश्यं गिरिणैकेन प्रत्येकं तेन भिद्यते ॥ ३,१४.६०६ ॥ छापेक्षा तद्विषयता विधेयत्वान्न गम्यते । काकतालीयमित्यत्र प्रसिद्धं ह्युपलक्षणम् ॥ ३,१४.६०७ ॥ राजाश्वादिश्च विषयः स्यादन्यो वेत्यनिश्चितम् । तेन च्छस्य विधानात्प्राग्व्यपदेशो न विद्यते ॥ ३,१४.६०८ ॥ द्वयोरिवार्थयोरत्र निमित्तत्वं प्रतीयते । एकेनावयवो युक्तः प्रत्ययोऽन्येन युज्यते ॥ ३,१४.६०९ ॥ चैत्रस्य तत्रागमनं काकस्यागमनं यथा । दस्योरभिनिपातस्तु तालस्य पतनं यथा ॥ ३,१४.६१० ॥ संनिपाते तयोर्यान्या क्रिया तत्रोपजायते । वधादिरुपमेयेऽर्थे तया छविधिरिष्यते ॥ ३,१४.६११ ॥ क्रियायां समवेतायां द्रव्यशब्दोऽवतिष्ठते । पातागमनयोः काक- तालशब्दौ तथा स्थितौ ॥ ३,१४.६१२ ॥ यदन्वाख्यायकं वाक्यं तदेवं परिकल्प्यते । प्रयोगवाक्वं यल्लोके तदेवं न प्रयुज्यते ॥ ३,१४.६१३ ॥ ययोरतर्किता प्राप्तिर्दृश्यते काकतालवत् । तयोः समासप्रकृतेर्वृत्तिरभ्युपगम्यते ॥ ३,१४.६१४ ॥ काकस्य तालेन यथा वधो यस्य तु दस्युना । तत्र चित्रीकृतेऽन्यस्मिन्नुपमेये छ इष्यते ॥ ३,१४.६१५ ॥ चञ्चत्प्रकारश्चञ्चत्को बृहत्क इति चापरे । मणिमड्डूकखद्योतान् सादृश्वेन प्रचक्षते ॥ ३,१४.६१६ ॥ तत्रोन्मेषनिमेषाभ्यां खद्योत उपमीयते । श्वासप्रबन्धैर्मण्डूकः स्पन्दमानप्रभो मणिः ॥ ३,१४.६१७ ॥ प्रविकासिप्रभोऽल्पोऽपि महान् य उपलभ्यते । बृहत्क इति तत्रैष मणौ शब्दः प्रयुज्यते ॥ ३,१४.६१८ ॥ सादृश्यमेव सर्वत्र प्रकारः कैश्चिदिष्यते । भेदेऽपि तु प्रकाराख्या कैश्चिदभ्युपगम्यते ॥ ३,१४.६१९ ॥ प्रकारवचनः कश्चित्प्रकारवति संस्थितः । प्रकारमात्रे वर्तित्वा कश्चित्तद्वति वर्तते ॥ ३,१४.६२० ॥ सादृश्यग्रहणं सूत्रे सदृशस्योपलक्षणम् । तुल्ययोरव्ययीभावे सहशब्दोऽभिधायकः ॥ ३,१४.६२१ ॥ विप्सासादृश्ययोर्वृत्तिर्या यथार्थाभिधायिनः । स चायमव्ययीभावे भेदो भेदेन दर्शितः ॥ ३,१४.६२२ ॥ सादृश्यं योग्यता कैश्चिदनावभ्युपगम्यते । यत्तु मूर्तिगतं साम्यं तत्सहेनाभिधीयते ॥ ३,१४.६२३ ॥ इत्थंभावेऽपि सादृश्यं बुद्ध्यवस्थानिबन्धनम् । ग्रहणे भेदमात्रस्य तत्रान्यैवाभिधीयते ॥ ३,१४.६२४ ॥ गौर्वाहीक इति द्वित्वे सादृश्यं प्रत्युदाहृतम् । शुक्लादौ सति निष्पन्ने वाहीको न द्विरुच्यते ॥ ३,१४.६२५ ॥ इति भर्तृहरिकृतं वाक्यपदीयं समाप्तम्