===पहला स्तबक=== ग्रंथ प्रस्तावना १.१ मोक्षसाधनरूप से धर्म की उपादेयता (१-२९) १.२ भूतचैतन्यवादखंडन (३०-७८) १.३ मैं विषयक प्रत्यक्ष अनुभव से आत्मा की सिद्धि (७९-८७) १.४ आत्मा तथा कर्म के संबंध में मतमतान्तर (८८-१०९) १.५ भूतचैतन्यवादखंडन का उपसंहार (११०-११२) ===दूसरा स्तबक=== २.१ पुण्य, पाप तथा मोक्ष से संबंधित कुच्छ प्रश्न (११३-१६३) २.२ कालवाद, स्वभाववाद, नियतिवाद, कर्मवाद, कालादिसामग्रीवाद (१६४-१९३) ===तीसरा स्तबक=== ३.१ ईश्वरवादखंडन (१९४-२१०) ३.२ प्रकृतिपुरुषवादखंडन (२११-२३७) ===छौथा स्तबक=== ४.१ क्षणिकवादखंडन की प्रस्तावना (२३८-२४७) ४.२ भाव अभाव बन जाता है इस मत का खंडन (२४८-२७५) ४.३ अभाव भाव बन जाता है इस मत का खंडन (२७६-३०२) ४.४ क्षणिकवाद में सामग्रीकारणतावाद की अनुपपत्ति (३०३-३२३) ४.५ क्षणिकवाद में वास्यवासकभाव की अनुपपत्ति (३२४-३२९) ४.६ क्षणिकवाद में कार्यकारणज्ञान की अनुपपत्ति (३३०-३५९) ४.७ बुद्धवचनों की सहायता से क्षणिकवाद का खंडन (३६०-३७४) ===पांचवां स्तबक=== ५.१ बाह्यार्थखंडन (३७५-४०२) ५.२ विज्ञानद्वैतवाद में मोक्ष की अनुपपत्ति (४०३-४१३) ===छट्ठा स्तबक=== ६.१ निर्हेतुक विनाश से क्षणिकवाद की सिद्धि नहीं (४१४-४३६) ६.२ अर्थक्रियाकारित्व से क्षणिकवाद की सिद्धि नहीं (४३७-४४३) ६.३ रूपरूपान्तरण से क्षणिकवाद की सिद्धि नार्थीं (४४४-४५०) ६.४ अन्ततोगामी नाश से क्षणिकवाद की सिद्धि नहीं (४५१-४६३) ६.५ क्षणिकवाद तथा विज्ञानद्वैतवाद के प्रतिपादन का एक आशयविशेष (४६४-४६६) ६.६ शून्यवादखंडन (४६७-४७६) ===सातवां स्तबक=== ७.१ जैनसम्मत नित्यानित्यत्ववाद का समर्थन (४७७-५४२) ===आठवां स्तबक ८.१ ब्रह्मद्वैतवादखंडन (५४३-५५२) ===नवां स्तबक=== ९.१ मोक्ष की संभावना तथा मोक्ष के साधन (५५३-५७९) ===दशवां स्तबक=== १०.१ मीमांसक के सर्वज्ञताखंडन का खंडन (५८०-६२६) १०.२ बौद्ध के सर्वज्ञताखंडन का खंडन (६२७-६४३) ===ग्यारहवां स्तबक=== ११.१ शब्दार्थसंबंधखंडन का खंडन (६४४-६७२) ११.२ ज्ञान तथा किर्या के बीच प्राधान्याप्राधान्य का प्रश्न (६७३-६९१) ११.३ मोक्ष का स्वरूप (६९२-६९७) ११.४ ग्रंथोपसंहार (६९८-७०१) ======================== ग्रन्थप्रस्तावना: मोक्ष-साधनरूप से धर्म की उपादेयता प्रणम्य परमात्मानं वक्ष्यामि हितकाम्यया । सत्त्वानामल्पबुद्धीनां शास्त्रवार्त्तासमुच्चयम् ॥ [१.१]१ ॥ यं श्रुत्वा सर्वशास्त्रेषु प्रायस्तत्त्वविनिश्चयः । जायते द्वेषशमनः स्वर्गसिद्धिसुखावहः ॥ [१.१]२ ॥ दुःखं पापात्सुखं धर्मात्सर्वशास्त्रेषु संस्थितिः । न कर्तव्यमतः पापं कर्तव्यो धर्मसंचयः ॥ [१.१]३ ॥ हिंसानृतादयः पञ्च तत्त्वाश्रद्धानमेव च । क्रोधादयश्च चत्वार इति पापस्य हेतवः ॥ [१.१]४ ॥ विपरीतास्तु धर्मस्य एत एवोदिता बुद्धैः । एतेषु सततं यत्नः सम्यक्कार्यः सुखैषिणा ॥ [१.१]५ ॥ साधुसेवा सदा भक्त्या मैत्री सत्त्वेषु भावतः । आत्मीयग्रहमोक्षश्च धर्महेतुप्रसाधनम् ॥ [१.१]६ ॥ उपदेशः शुभो नित्यं दर्शनं धर्मचारिणाम् । स्थाने विनय इत्येतत्साधुसेवाफलं महत् ॥ [१.१]७ ॥ मैत्रीं भावयतो नित्यं शुभो भावः प्रजायते । ततो भावोदयाज्जन्तोर्द्वेषाग्निरुपशाम्यति ॥ [१.१]८ ॥ अशेषदोषजननी निःशेषगुणघातिनी । आत्मीयग्रहमोक्षेण तृष्णापि विनिवर्त्तते ॥ [१.१]९ ॥ एवं गुणगणोपेतो विशुद्धात्मा स्थिराशयः । तत्त्वविद्धिः समाख्यातः सम्यग्धर्मस्य साधकः ॥ [१.१]१० ॥ उपादेयश्च संसारे धर्म एव बुद्धैः सदा । विशुद्धो मुक्तये सर्वं यतोऽन्यद्दुःखकारणम् ॥ [१.१]११ ॥ अनित्यः प्रियसंयोग इहेर्ष्याशोकवत्सलः । अनित्यं यौवनं चापि कुत्सिताचरणास्पदम् ॥ [१.१]१२ ॥ अनित्याः सम्पदस्तीव्र-क्लेशवर्गसमुद्भवाः । अनित्यं जीवितं चेह सर्वभावनिबन्धनम् ॥ [१.१]१३ ॥ पुनर्जन्म पुनर्मृत्युर्हीनादिस्थानसंश्रयः । पुनः पुनश्च यदतः सुखमत्र न विद्यते ॥ [१.१]१४ ॥ प्रकृत्यसुन्दरं ह्येवं संसारे सर्वमेव यत् । अतोऽत्र वद किं युक्ता क्वचिदास्था विवेकिनाम् ॥ [१.१]१५ ॥ मुक्त्वा धर्मं जगद्वन्द्यमकलङ्कं सनातनम् । परार्थसाधकं धीरैः सेवितं शीलशालिभिः ॥ [१.१]१६ ॥ आह तत्रापि नो युक्ता यदि सम्यग्निरूप्यते । धर्मस्यापि शुभो यस्माद्बन्ध एव फलं मतम् ॥ [१.१]१७ ॥ न चायसस्य बन्धस्य तदा हेममयस्य च । फले कश्चिद्विशेषोऽस्ति पारतन्त्र्याविशेषतः ॥ [१.१]१८ ॥ तस्मादधर्मवत्त्वाज्यो धर्मोऽप्येवं मुमुक्षुभिः । धर्माधर्मक्षयान्मुक्तिर्मुनिभिर्वर्णिता यतः ॥ [१.१]१९ ॥ उच्यते एवमेवैतत्किन्तु धर्मो द्विधा मतः । संज्ञानयोग एवैकस्तथान्यः पुण्यलक्षणः ॥ [१.१]२० ॥ ज्ञानयोगस्तपः शुद्धमाशंसादोषवर्जितम् । अभ्यासातिशयादुक्तं तद्विमुक्तेः प्रसाधनम् ॥ [१.१]२१ ॥ धर्मस्तदपि चेत्सत्यं किं न बन्धफलः स यत् । आशंसा वर्जितोऽन्योऽपि किं नैवं चेद्न यत्तथा ॥ [१.१]२२ ॥ भोगमुक्तिफलो धर्मः स प्रवृत्तीतरात्मकः । सम्यग्मिथ्यादिरूपश्च गतिस्तन्त्रान्तरेष्वपि ॥ [१.१]२३ ॥ तमन्तरेण तु तयोः क्षयः केन प्रसाध्यते । सदा स्यान्न कदाचिद्वा यद्यहेतुक एव सः ॥ [१.१]२४ ॥ तस्मादवश्यमेष्टव्यः कश्चिधेतुस्तयोः क्षयें । स एव धर्मो विज्ञेयः शुद्धो मुक्तिफलप्रदः ॥ [१.१]२५ ॥ धर्माधर्मक्षयान्मुक्तिर्यच्चोक्तं पुण्यलक्षणम् । हेयं धर्मं तदाश्रित्य न तु संज्ञानयोगकम् ॥ [१.१]२६ ॥ अतस्तत्रैव युक्तास्था यदि सम्यग्निरूप्यते । संसारे सर्वमेवान्यत्दर्शितं दुःखकारणम् ॥ [१.१]२७ ॥ तस्माच्च जायते मुक्तिर्यथा मृत्यादिवर्जिता । तथोपरिष्टाद्वक्ष्यामः सम्यक्शास्त्रानुसारतः ॥ [१.१]२८ ॥ इदानीं तु समासेन शास्त्रसम्यक्त्वमुच्यते । कुवादियुक्त्यपव्याख्या-निरासेनाविरोधतः ॥ [१.१]२९ ॥ (२) भूतचैतन्यवाद-खण्डन पृथिव्यादिमहाभूत-कार्यमात्रमिदं जगत् । न चात्मदृष्टसद्भावं मन्यन्ते भूतवादिनः ॥ [१.२]३० ॥ अचेतनानि भूतानि न तद्धर्मो न तत्फलम् । चेतनास्ति च यस्येयं स एवात्मेति चापरे ॥ [१.२]३१ ॥ यदीयं भूतधर्मः स्यात्प्रत्येकं तेषु सर्वदा । उपलम्भ्येत सत्त्वादि-काठिनत्वादयो यथा ॥ [१.२]३२ ॥ शक्तिरूपेणा सा तेषु सदातो नोपलभ्यते । न च तेनापि रूपेण सत्यसत्येव चेन्न तत् ॥ [१.२]३३ ॥ शक्तिवेतनयोरैव्यं नानात्वं वाथ सर्वथा । ऐक्ये सा चेतनेवेति नानात्वेऽन्यस्य सा यतः ॥ [१.२]३४ ॥ अनभिव्यक्तिरप्यस्या न्यायतो नोपपद्यते । आवृतिर्न यदन्येन तत्त्वसंख्याविरोधतः ॥ [१.२]३५ ॥ न चासौ तत्स्वरूपेण तेषामन्यतरेण वा । व्यञ्जकत्वप्रतिज्ञानात्नावृतिर्व्यञ्जकं यतः ॥ [१.२]३६ ॥ विशिष्टपरिणामभा- -वेऽपि ह्यत्रावृतिर्न वै । भावताप्तेस्तथा नाम-व्यञ्जकत्वप्रसङ्गतः ॥ [१.२]३७ ॥ न चासौ भूतभिन्नो यत्ततो व्यक्तिः सदा भवेत् । भेदे त्वधिकभावेन तत्त्वसंख्या न युज्यते ॥ [१.२]३८ ॥ स्वकालेऽभिन्न इत्येवं कालाभावे न सङ्गतम् । लोकसिद्धाश्रये त्वात्मा हन्त ! नाश्रीयते कथम् ॥ [१.२]३९ ॥ नात्मापि लोके नो सिद्धो जातिस्मरणसंश्रयात् । सर्वेषां तदभावश्च चित्रकर्मविपाकतः ॥ [१.२]४० ॥ लोकेऽपि नैकतः स्थानादागतानां तथेक्ष्यते । अविशेषेण सर्वेषामनुभूतार्थसंस्मृतिः ॥ [१.२]४१ ॥ दिव्यदर्शनतश्चैव तच्छिष्टाव्यभिचारतः । पितृकर्मादिसिद्धेश्च हन्त ! नात्माप्यलौकिकः ॥ [१.२]४२ ॥ काठिन्याबोधरूपाणि भूतान्यध्यक्षसिद्धितः । चेतना तु न तद्रूपा सा कथं तत्फलं भवेत्? ॥ [१.२]४३ ॥ प्रत्येकमसती तेषु न च स्याद्रेणुतैलवत् । सती चेदुपलभ्येत भिन्नरूपेषु सर्वदा ॥ [१.२]४४ ॥ असत्स्थूलत्वमण्वादौ घटादौ दृश्यते यथा । तथासत्येव भूतेषु चेतनापीति चेन्मतिः ॥ [१.२]४५ ॥ नासत्स्थूलत्वमण्वादौ तेभ्य एव तदुद्भवात् । असतस्तत्समुत्पादो न युक्तोऽतिप्रसङ्गतः ॥ [१.२]४६ ॥ पञ्चमस्यापि भूतस्य तेभ्योऽसत्त्वाविशेषतः । भवेदुत्पत्तिरेवं च तत्त्वसंख्या न युज्यते ॥ [१.२]४७ ॥ न तज्जननस्वभावाश्चेत्तेऽत्र मानं न विद्यते । स्थूलत्वोत्पाद इष्टश्चेत्तत्सद्भावेऽप्यसौ समः ॥ [१.२]४८ ॥ न च मूर्त्ताणुसङ्घात-भिन्नं स्थूलत्वमित्यदः । तेषामेव तथाभावो न्याय्यं मानाविरोधतः ॥ [१.२]४९ ॥ भेदे तददलं यस्मात्कथं सद्भावमश्नुते । तदभावेऽपि तद्भावे सदा सर्वत्र वा भवेत् ॥ [१.२]५० ॥ न चैवं भूतसङ्घात-मात्रं चैतन्यमिष्यते । अविशेषेण सर्वत्र तद्वत्तद्भावसङ्गतेः ॥ [१.२]५१ ॥ एवं सति घटादीनां व्यक्तचैतन्यभावतः । पुरुषान्न विशेषः स्यात्स च प्रत्यक्षबाधितः ॥ [१.२]५२ ॥ अथ भिन्नस्वभावानि भूतान्येव यतस्ततः । तत्संघातेषु चैतन्यं न सर्वेष्वेतदप्यसत् ॥ [१.२]५३ ॥ स्वभावो भूतमात्रत्वे सति न्यायान्न भिद्यते । विशेषणं विना यस्मान्न तुल्यानां विशिष्टता ॥ [१.२]५४ ॥ स्वरूपमात्रभेदे च भेदो भूतेतरात्मकः । अन्यभेदकभावे तु स एवात्मा प्रसज्यते ॥ [१.२]५५ ॥ हविर्गुडकणिक्कादि-द्रव्यसङ्घातजान्यपि । यथा भिन्नस्वभावानि खाद्यकानि तथेति चेत् ॥ [१.२]५६ ॥ व्यक्तिमात्रत एवैषां ननु भिन्नस्वभावता । रसवीर्यविपाकादि-कार्यभेदो न विद्यते ॥ [१.२]५७ ॥ तदात्मकत्वमात्रत्वे संस्थानादिविलक्षणा । यथेयमस्ति भूतानां तथा सापि कथं न चेत् ॥ [१.२]५८ ॥ कर्त्रभावात्तथा देश-कालभेदाद्ययोगतः । न चासिद्धमदो भूत-मात्रत्वे तदसंभवात् ॥ [१.२]५९ ॥ तथा च भूतमात्रत्वे न तत्सङ्घातभेदयोः । भेदकाभावतो भेदो युक्तः सम्यग्विचिन्त्यताम् ॥ [१.२]६० ॥ एकस्तथापरो नेति तन्मात्रत्वे तथाविधः । यतस्तदपि नो भिन्नं ततस्तुल्यं च तत्तयोः ॥ [१.२]६१ ॥ स्यादेतद्भूतजत्वेऽपि ग्रावादीनां विचित्रता । लोकसिद्धेति सिद्धैव न सा तन्मात्रजा ननु ॥ [१.२]६२ ॥ अदृष्टाकाशकालादि-सामग्रीतः समुद्भवात् । तथैव लोकसंवित्तेरन्यथा तदभावतः ॥ [१.२]६३ ॥ न चेह लौकिको मार्गः स्थितोऽस्माभिर्विचार्यते । किं त्वयं युज्यते क्वेति त्वन्नीतौ चोक्तवन्न सः ॥ [१.२]६४ ॥ मृतदेहे च चैतन्यमुपलभ्येत सर्वथा । देहधर्मादिभावेन तत्तद्धर्मादि नान्यथा ॥ [१.२]६५ ॥ न च लावण्यकार्कश्य-श्यामत्वैर्व्यभिचारिता । मृतदेहेऽपि सद्भावादध्यक्षेणैव संगतेः ॥ [१.२]६६ ॥ न चेल्लावण्यसद्भावो न स तन्मात्रहेतुकः । अत एवान्यसद्भावादस्त्यात्मेति व्यवस्थितम् ॥ [१.२]६७ ॥ न प्राणादिरसौ मानं किं तद्भावेऽपि तुल्यता । तदभावादभावश्चेदात्माभावे न का प्रमा ॥ [१.२]६८ ॥ तेन तद्भावभावित्वं न भूयो नलिकादिना । संपादितेऽप्येतत्सिद्धेः सोऽन्य एवेति चेद्न तत् ॥ [१.२]६९ ॥ वायुसामान्यसंसिद्धेस्तत्स्वभावः स नेति चेत् । अत्रापि न प्रमाणं वश्चैतन्योत्पत्तिरेव चेत् ॥ [१.२]७० ॥ न तस्यामेव संदेहात्तवायं केन नेति चेत् । तत्तत्स्वरूपभावेन तदभावः कथं नु चेत् ॥ [१.२]७१ ॥ तद्वैलक्षण्यसंवित्तेः मातृचैतन्यजे ह्ययम् । सुते तस्मिन्न दोषः स्यान्न न भावेऽस्य मातरि ॥ [१.२]७२ ॥ न च संस्वेदजाद्येषु मात्रभावेन तद्भवेत् । प्रदीपज्ञातमप्यत्र निमित्तत्वान्न बाधकम् ॥ [१.२]७३ ॥ इत्थं न तदुपादानं युज्यते तत्कथंचन । अन्योपादानभावे च तदेवात्मा प्रसज्यते ॥ [१.२]७४ ॥ न तथाभाविनं हेतुमन्तरेणोपजायते । किञ्चिन्नश्यति नैकान्ताद्यथाह व्यासमहर्षिः ॥ [१.२]७५ ॥ नासतो विद्यते भावो नाभावो विद्यते सतः । अभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः ॥ [१.२]७६ ॥ नाभावो भावमाप्नोति शशशृङ्गे तथागतेः । भावो नाभावमेतीह दीपश्चेन्न स सर्वथा ॥ [१.२]७७ ॥ एवं चैतन्यवानात्मा सिद्धः सततभावतः । परलोक्यपि विज्ञेयो युक्तिमार्गानुसारिभिः ॥ [१.२]७८ ॥ (३)मैं विषयक प्रत्यक्ष अनुभव से आत्मा की सिद्धि सतोऽस्य किं घटस्येव प्रत्यक्षेण न दर्शनम् । अस्त्येव दर्शनं स्पष्टमहंप्रत्ययवेदनात् ॥ [१.३]७९ ॥ भ्रान्तोऽहं गुरुरित्येषः सत्यमन्यस्त्वसौ मतः । व्यभिचारित्वतो नास्य गमकत्वमथोच्यते ॥ [१.३]८० ॥ प्रत्यक्षस्यापि तत्त्याज्यं तत्सद्भावाविशेषतः । प्रत्यक्षाभासमन्यच्चेद्व्यभिचारि न साधु तत् ॥ [१.३]८१ ॥ अहंप्रत्ययपक्षेऽपि ननु सर्वमिदं समम् । अतस्तद्वदसौ मुख्यः सम्यक्प्रत्यक्षमिष्यताम् ॥ [१.३]८२ ॥ गुर्वी मे तनुरित्यादौ भेदप्रत्ययदर्शनात् । भ्रान्तताभिमतस्यैव सा युक्ता नेतरस्य तु ॥ [१.३]८३ ॥ आत्मनात्मग्रहोऽप्यस्य तथानुभवसिद्धितः । तस्यैव तत्स्वभावत्वात्न तु युक्त्या न युज्यते ॥ [१.३]८४ ॥ न च बुद्धिविशेषोऽयमहंकारः प्रकल्प्यते । दानादिबुद्धिकालेऽपि तथाहंकारवेदनात् ॥ [१.३]८५ ॥ आत्मनात्मग्रहे तस्य तत्स्वभावत्वयोगतः । सदैवाग्रहणं ह्येवं विज्ञेयं कर्मदोषतः ॥ [१.३]८६ ॥ अतः प्रत्यक्षसंसिद्धः सर्वप्राणभृतामयम् । स्वयंज्योतिः सदैवात्मा तथा वेदेऽपि पठ्यते ॥ [१.३]८७ ॥ (४) आत्मा तथा कर्म के सम्बन्ध में मतमतान्तर अत्रापि वर्णयन्त्येके सौगताः कृतबुद्धयः । क्लिष्टं मनोऽस्ति यन्नित्यं तद्यथोक्तात्मलक्षणम् ॥ [१.४]८८ ॥ यदि नित्यं तदात्मैव संज्ञाभेदोऽत्र केवलम् । अथानित्यं ततश्चेदं न यथोक्तात्मलक्षणम् ॥ [१.४]८९ ॥ यः कर्ता कर्मभेदानां भोक्ता कर्मफलस्य च । संसर्त्ता परिनिर्वाता स ह्यात्मा नान्यलक्षणः ॥ [१.४]९० ॥ आत्मत्वेनाविशिष्टस्य वैचित्र्यं तस्य यद्वशात् । नरादिरूपं तच्चित्रमदृष्टं कर्मसंज्ञितम् ॥ [१.४]९१ ॥ तथा तुल्येऽपि चारम्भे सदुपायेऽपि यो नृणाम् । फलभेदः स नो युक्तो युक्त्या हेत्वन्तरं विना ॥ [१.४]९२ ॥ तस्मादवश्यमेष्टव्यं तत्र हेत्वन्तरं परैः । तदेवादृष्टमित्याहुरन्ये शास्त्रकृतश्रमाः ॥ [१.४]९३ ॥ भूतानां तत्स्वभावत्वादयमित्यप्यनुत्तरम् । न भूतात्मक एवात्मेत्येतदत्र निदर्शितम् ॥ [१.४]९४ ॥ कर्मणो भौतिकत्वेन यद्वैतदपि साम्प्रतम् । आत्मनो व्यतिरिक्तं तत्चित्रभावं यतो मतम् ॥ [१.४]९५ ॥ शक्तिरूपं तदन्ये तु सूरयः संप्रचक्षते । अन्ये तु वासनारूपं विचित्रफलदं मतम् ॥ [१.४]९६ ॥ अन्ये त्वभिदधत्यत्र स्वरूपनियतस्य वै । कर्तुर्विनान्यसंबन्धं शक्तिराकस्मिकी कुतः ॥ [१.४]९७ ॥ तत्क्रियायोगतः सा चेत्तदपुष्टौ न युज्यते । तदन्ययोगाभावे च पुष्टिरस्य कथं भवेत् ॥ [१.४]९८ ॥ अस्त्येव सा सदा कन्तु क्रियया व्यज्यते परम् । आत्ममात्रस्थिताया न तस्या व्यक्तिः कदाचन ॥ [१.४]९९ ॥ तदन्यावरणाभावाद्भावे वास्यैव कर्मता । तन्निराकरणाद्व्यक्तिरिति तद्भेदसंस्थितिः ॥ [१.४]१०० ॥ पापं तद्भिन्नमेवास्तु क्रियान्तरनिबन्धनम् । एवमिष्टक्रियाजन्यं पुण्यं किमिति नेक्ष्यते ॥ [१.४]१०१ ॥ वासनाप्यन्यसंबन्धं विना नैवोपपद्यते । पुष्पादिगन्धवैकल्ये तिलादौ नेक्ष्यते यतः ॥ [१.४]१०२ ॥ बोधमात्रातिरिक्तं तद्वासकं किञ्चिदिष्यताम् । मुख्यं तदेव वः कर्म न युक्ता वासनान्यथा ॥ [१.४]१०३ ॥ बोधमात्रस्य तद्भावे नास्ति ज्ञानमवासितम् । ततोऽमुक्तिः सदैव स्याद्वैशिष्ट्यं केवलस्य न ॥ [१.४]१०४ ॥ एवं शक्त्यादिपक्षोऽयं घटते नापपत्तितः । बन्धान्न्यूनातिरिक्तत्वे तद्भावानुपपत्तितः ॥ [१.४]१०५ ॥ तस्मात्तदात्मनो भिन्नं सच्चित्रं चात्मयोगि च । अदृष्टमवगन्तव्यं तस्य शक्त्यादिसाधकम् ॥ [१.४]१०६ ॥ अदृष्टं कर्म संस्काराः पुण्यापुण्ये शुभाशुभे । धर्माधर्मौ तथा पाशः पर्यायास्तस्य कीर्त्तिताः ॥ [१.४]१०७ ॥ हेतवोऽस्य समाख्याताः पूर्वं हिंसानृतादयः । तद्वान् संयुज्यते तेन विचित्रफलदायिना ॥ [१.४]१०८ ॥ नैवं दृष्टेष्टबाधा यत्सिद्धिश्चास्यानिवारिता । तदेनमेव विद्वांसस्तत्त्ववादं प्रचक्षते ॥ [१.४]१०९ ॥ (५) भूतचैतन्यवादखंडन का उपसंहार लोकायतमतं प्राज्ञैर्ज्ञेयं पापौघकारणम् । इत्थं तत्त्वविलोमं यत्तन्न ज्ञानविवर्धनम् ॥ [१.५]११० ॥ इन्द्रप्रतारणायेदं चक्रे किल बृहस्पतिः । अदोऽपि युक्तिशून्यं यन्नेत्थमिन्द्रः प्रतार्यते ॥ [१.५]१११ ॥ तस्माद्दुष्टाशयकरं क्लिष्टसत्त्वविचिन्तितम् । पापश्रुतं सदा धीरैर्वर्ज्यं नास्तिकदर्शनम् ॥ [१.५]११२ ॥ दूसरा स्तबक (२)पुण्य, पाप तथा मोक्ष से संबंधित कुच्छ प्रश्न हिंसादिभ्योऽशुभं कर्म तदन्येभ्यश्च तच्छुभम् । जायते नियमो मानात्कुतोऽयमिति नापरे ॥ [२.१]११३ ॥ आगमाख्यात्तदन्ये तु तच्च दृष्टाद्यबाधितम् । सर्वार्थविषयं नित्यं व्यक्तार्थं परमात्मना ॥ [२.१]११४ ॥ चन्द्रसूर्योपरागादेस्ततः संवाददर्शनात् । तस्याप्रत्यक्षेऽपि पापादौ न प्रामाण्यं न युज्यते ॥ [२.१]११५ ॥ यदि नाम क्वचिद्दृष्टः संवादोऽन्यत्र वस्तुनि । तद्भावस्तस्य तत्त्वं वा कथं समवसीयते ? ॥ [२.१]११६ ॥ आगमैकत्वतस्तच्च वाक्यादेस्तुल्यतादिना । सुवृद्धसंप्रदायेन तथा पापक्षयेण च ॥ [२.१]११७ ॥ अन्यथा वस्तुतत्त्वस्य परीक्षैव न युज्यते । आशङ्का सर्वगा यस्मात्छद्मस्थस्योपजायते ॥ [२.१]११८ ॥ अपरीक्षापि नो युक्ता गुणदोषाविवेकतः । महत्संकटमायातमाशङ्के न्यायवादिनः ॥ [२.१]११९ ॥ तस्माद्यथोदितात्सम्यगागमख्यात्प्रमाणतः । हिंसादिभ्योऽशुभादीनि नियमोऽयं व्यवस्थितः ॥ [२.१]१२० ॥ क्लिष्टाधिंसाद्यनुष्ठानात्प्राप्तिः क्लिष्टस्य कर्मणः । यथापथ्यभुजो व्याधेरक्लिष्टस्य विपर्ययात् ॥ [२.१]१२१ ॥ स्वभाव एष जीवस्य यत्तथापरिणामभाक् । बध्यते पुण्यपापाभ्यां माध्यस्थ्यात्तु विमुच्यते ॥ [२.१]१२२ ॥ सुदूरमपि गत्वेह विहितासूपपत्तिषु । कः स्वभावागमावन्ते शरणं न प्रपद्यते ॥ [२.१]१२३ ॥ प्रतिपक्षस्वभावेन प्रतिपक्षागमेन च । बाधित्वात्कथं ह्येतौ शरणं युक्तिवादिनाम् ॥ [२.१]१२४ ॥ प्रतीत्या बाध्यते यो यत्स्वभावो न स युज्यते । वस्तुनः कल्प्यमानोऽपि वह्न्यादेः शीततादिवत् ॥ [२.१]१२५ ॥ वह्नेः शीतत्वमस्त्येव तत्कार्यं किं न दृश्यते । दृश्यते हि हिमासन्ने कथमित्थं स्वभावतः ॥ [२.१]१२६ ॥ हिमस्यापि स्वभावोऽयं नियमाद्वह्निसंनिधौ । करोति दाहमित्येवं वह्न्यादेः शीतता न किम् ॥ [२.१]१२७ ॥ व्यवस्थाभावतो ह्येवं या त्वद्बुद्धिरिहेदृशी । सा लोष्टादस्य यत्कार्यं तत्त्वत्तस्तत्स्वभावतः ॥ [२.१]१२८ ॥ एवं सुबुद्धिशून्यत्वं भवतोऽपि प्रसज्यते । अस्तु चेत्को विवादो नो बुद्धिशून्येन सर्वथा ॥ [२.१]१२९ ॥ अन्यस्त्वाहेह सिद्धेऽपि हिंसादिभ्योऽशुभादिके । शुभादेरेव सौख्यादि केन मानेन गम्यते ॥ [२.१]१३० ॥ अत्रापि ब्रुवते केचित्सर्वथा युक्तिवादिनः । प्रतीतिगर्भया युक्त्या किलैतदवसीयते ॥ [२.१]१३१ ॥ तयाहुर्नाशुभात्सौख्यं तद्बाहुल्यप्रसंगतः । बहवः पापकर्माणो विरलाः शुभकारिणः ॥ [२.१]१३२ ॥ न चैतद्दृश्यते लोके दुःखबाहुल्यदर्शनात् । शुभात्सौख्यं ततः सिद्धमतोऽन्यच्चाप्यतोऽन्यतः ॥ [२.१]१३३ ॥ अन्ये पुनरिदं श्राद्धा ब्रुवते आगमेन वै । शुभादेरेव सौख्यादि गम्यते नान्यतः क्वचित् ॥ [२.१]१३४ ॥ अतीन्द्रियेषु भावेषु प्रायः एवंविधेषु यत् । छद्मस्थस्याविसंवादि मानमत्र न विद्यते ॥ [२.१]१३५ ॥ यच्चोक्तं दुःखबाहुल्य-दर्शनं तन्न साधकम् । क्वचित्तथोपलम्भेऽपि सर्वत्रादर्शनादिति ॥ [२.१]१३६ ॥ सर्वत्र दर्शनं यस्य तद्वाक्यात्किं न साधनम् । साधनं तद्भवत्येवमागमात्तु न भिद्यते ॥ [२.१]१३७ ॥ अशुभादप्यनुष्ठानात्सौख्यप्राप्तिश्च या क्वचित् । फलं विपाकविरसा सा तथाविधकर्मणः ॥ [२.१]१३८ ॥ ब्रह्महत्यानिदेशानुष्ठानाद्ग्रामादिलाभवत् । न पुनस्तत एवैतदागमादेव गम्यते ॥ [२.१]१३९ ॥ प्रतिपक्षागमानां च दृष्टेष्टाभ्यां विरोधतः । तथानाप्तप्रणीतत्वादागमत्वं न युज्यते ॥ [२.१]१४० ॥ दृष्टेष्टाभ्यां विरोधाच्च तेषां नाप्तप्रणीतता । नियमाद्गम्यते यस्मात्तदसावेव दर्श्यते ॥ [२.१]१४१ ॥ अगम्यगमनादीनां धर्मसाधनता क्वचित् । उक्ता लोकप्रसिद्धेन प्रत्यक्षेण विरुद्ध्यते ॥ [२.१]१४२ ॥ स्वधर्मोत्कर्षादेव तथा मुक्तिरपीष्यते । हेत्वभावेन तद्भावो नित्य इष्टेन बाध्यते ॥ [२.१]१४३ ॥ माध्यस्थ्यमेव तद्धेतुरगम्यगमनादिना । साध्यते तत्परं येन तेन दोषो न कश्चन ॥ [२.१]१४४ ॥ एतदप्युक्तिमात्रं यदगम्यगमनादिषु । तथाप्रवृत्तितो युक्त्या माध्यस्थ्यं नोपपद्यते ॥ [२.१]१४५ ॥ अप्रवृत्त्यैव सर्वत्र यथासामर्थ्यभावतः । विशुद्धभावनाभ्यासात्तन्माध्यस्थ्यं परं यतः ॥ [२.१]१४६ ॥ यावदेवंविधं नैवं प्रवृत्तिस्तावदेव या । साविशेषेण साध्वीति तस्योत्कर्षप्रसाधनात् ॥ [२.१]१४७ ॥ नाप्रवृत्तेरियं हेतुः कुतश्चिदनिवर्त्तनात् । सर्वत्र भावाविच्छेदादन्यथागम्यसंस्थितिः ॥ [२.१]१४८ ॥ तच्चास्तु लोकशास्त्रोक्तं तत्रौदासीन्ययोगतः । संभाव्यते परं ह्येतद्भावशुद्धेर्महात्मनाम् ॥ [२.१]१४९ ॥ संसारमोचकस्यापि हिंसा यद्धर्मसाधनम् । मुक्तिश्चास्ति ततस्तस्याप्येष दोषोऽनिवारितः ॥ [२.१]१५० ॥ मुक्तिकर्मक्षयादेव जायते नान्यतः क्वचित् । जन्मादिरहिता यत्तत्स एवात्र निरूप्यते ॥ [२.१]१५१ ॥ हिंसाद्युत्कर्षसाध्यो वा तद्विपर्ययजोऽपि वा । अन्यहेतुरहेतुर्वा स वै कर्मक्षयो ननु ॥ [२.१]१५२ ॥ हिंसाद्युत्कर्षसाध्यत्वे तदभावे न तत्स्थितिः । कर्मक्षयास्थितौ च स्यान्मुक्तानां मुक्तताक्षितिः ॥ [२.१]१५३ ॥ तद्विपर्ययसाध्यत्वे परसिद्धान्तसंस्थितिः । कर्मक्षयः सतां यस्मादहिंसादिप्रसाधनः ॥ [२.१]१५४ ॥ तदन्यहेतुसाध्यत्वे तत्स्वरूपमसंस्थितम् । अहेतुत्वे सदा भावोऽभावो वा स्यात्सदैव हि ॥ [२.१]१५५ ॥ मुक्तिः कर्मक्षयादिष्टा ज्ञानयोगफलं च सः । अहिंसादि च तद्धेतुरिति न्यायः सतां मतः ॥ [२.१]१५६ ॥ एवं वेदविहितापि हिंसापायाय तत्त्वतः । शास्त्रचोदितभावेऽपि वचनान्तरबाधनात् ॥ [२.१]१५७ ॥ न हिंस्यादिह भूतानि हिंसनं दोषकृन्मतम् । दाहवद्वैद्यके स्पष्टमुत्सर्गप्रतिषेधतः ॥ [२.१]१५८ ॥ ततो व्याधिनिवृत्त्यर्थं दाहः कार्यस्तु चोदिते । न ततोऽपि न दोषः स्यात्फलोद्देशेन चोदनात् ॥ [२.१]१५९ ॥ एवं तत्फलभावेऽपि चोदनातोऽपि सर्वथा । ध्रुवमौत्सर्गिको दोषो जायते फलचोदनात् ॥ [२.१]१६० ॥ अन्येषामपि बुद्ध्यैवं दृष्टेष्टाभ्यां विरुद्धता । दर्शनीया कुशास्त्राणां ततश्च स्थितमित्यदः ॥ [२.१]१६१ ॥ क्लिष्टं हिंसाद्यनुष्ठानं न यत्तस्यान्यतो भवेत् । ततः कर्ता स एव स्यात्सर्वस्यैव हि कर्मणः ॥ [२.१]१६२ ॥ अनादिकर्मयुक्तत्वात्तन्मोहात्संप्रवर्तते । अहितेऽप्यात्मनः प्रायो व्याधिपीडितचित्तवत् ॥ [२.१]१६३ ॥ (१)कालवाद, स्वभाववाद, नियतिवाद, कर्मवाद, कालादिसामग्रीवाद कालादीनां च कर्तृत्वं मन्यन्तेऽन्ये प्रवादिनः । केवलानां तदन्ये तु मिथः सामग्र्यपेक्षया ॥ [२.२]१६४ ॥ न कालव्यतिरेकेण गर्भबालशुभादिकम् । यत्किञ्चिज्जायते लोके तदसौ कारणं किल ॥ [२.२]१६५ ॥ कालः पचति भूतानि कालः संहरति प्रजाः । कालः सुप्तेषु जागर्त्ति कालो हि दुरतिक्रमः ॥ [२.२]१६६ ॥ किञ्च कालादृते नैव मुद्गपक्तिरपीष्यते । स्थाल्यादिसंनिधानेऽपि ततः कालादसौ मता ॥ [२.२]१६७ ॥ कालाभावे च गर्भादि सर्वं स्यादव्यवस्थया । परेष्टहेतुसद्भाव-मात्रादेव तदुद्भवात् ॥ [२.२]१६८ ॥ न स्वभावातिरेकेण गर्भबालशुभादिकम् । यत्किञ्चिज्जायते लोके तदसौ कारणं किल ॥ [२.२]१६९ ॥ सर्वभावाः स्वभावेन स्वस्वभावे तथा तथा । वर्त्तन्तेऽथ निवर्त्तन्ते कामचारपराङ्मुखाः ॥ [२.२]१७० ॥ न विनेह स्वभावेन मुद्गपक्तिरपीष्यते । तथाकालादिभावेऽपि नाश्वमाषस्य सा यतः ॥ [२.२]१७१ ॥ अतत्स्वभावात्तद्भावे-ऽतिप्रसंगोऽनिवारितः । तुल्ये तत्र मृदः कुम्भो न पटादीत्ययुक्तिमत् ॥ [२.२]१७२ ॥ नियतेनैव रूपेण सर्वे भावा भवन्ति यत् । ततो नियतिजा ह्येते तत्स्वरूपानुवेधतः ॥ [२.२]१७३ ॥ यद्यदैव यतो यावत्तत्तदैव ततस्तथा । नियतं जायते न्यायात्क एतां बाधितुं क्षमः ॥ [२.२]१७४ ॥ न चर्ते नियतिं लोके मुद्गपक्तिरपीक्ष्यते । तत्स्वभावादिभावेऽपि नासावनियता यतः ॥ [२.२]१७५ ॥ अन्यथानियतत्वेन सर्वभावः प्रसज्यते । अन्योन्यात्मकतापत्तेः क्रियावैफल्यमेव च ॥ [२.२]१७६ ॥ न भोक्तृव्यतिरेकेण भोग्यं जगति विद्यते । न चाकृतस्य भोगः स्यान्मुक्तानां भोगभावतः ॥ [२.२]१७७ ॥ भोग्यं च विश्वं सत्त्वानां विधिना तेन तेन यत् । दृश्यतेऽध्यक्षमेवेदं तस्मात्तत्कर्मजं हि तत् ॥ [२.२]१७८ ॥ न च तत्कर्मवैधुर्ये मुद्गपक्तिरपीक्ष्यते । स्थाल्यादिभङ्गभावेन यत्क्वचिन्नोपपद्यते ॥ [२.२]१७९ ॥ चित्रं भोग्यं तथा चित्रात्कर्मणोऽहेतुतान्यथा । तस्य यस्माद्विचित्रत्वं नियत्यादेर्न युज्यते ॥ [२.२]१८० ॥ नियतेर्नियतात्मत्वान्नियतानां समानता । तथानियतभावे च बलात्स्यात्तद्विचित्रता ॥ [२.२]१८१ ॥ न च तन्मात्रभावादेर्युज्यतेऽस्या विचित्रता । तदन्यभेदकं मुक्त्वा सम्यग्न्यायाविरोधतः ॥ [२.२]१८२ ॥ न जलस्यैकरूपस्य वियत्पाताद्विचित्रता । ऊषरादिधराभेदमन्तरेणोपजायते ॥ [२.२]१८३ ॥ तद्भिन्नभेदकत्वे च तत्र तस्या न कर्तृता । तत्कर्तृत्वे च चित्रत्वं तद्वत्तस्याप्यसंगतम् ॥ [२.२]१८४ ॥ तस्या एव तथाभूतः स्वभावो यदि चेष्यते । त्यक्तः नियतिवादः स्यात्स्वभावाश्रयणान्ननु ॥ [२.२]१८५ ॥ स्वो भावश्च स्वभावोऽपि स्वसत्तैव हि भावतः । तस्यापि भेदकाभावे वैचित्र्यं नोपपद्यते ॥ [२.२]१८६ ॥ ततस्तस्याविशिष्टत्वाद्युगपद्विश्वसंभवः । न चासाविति सद्युक्त्या तद्वादोऽइप्न संगतः ॥ [२.२]१८७ ॥ तत्तत्कालादिसापेक्षो विश्वहेतुः स चेन्ननु । मुक्तः स्वभाववादः स्यात्कालवादपरिग्रहात् ॥ [२.२]१८८ ॥ कालोऽपि समयादिर्यत्केवलं सोऽपि कारणम् । तत एव ह्यसंभूतेः कस्यचिन्नोपपद्यते ॥ [२.२]१८९ ॥ अतश्च काले तुल्येऽपि सर्वत्रैव न तत्फलम् । अतो हेत्वन्तरापेक्षं विज्ञेयं तद्विचक्षणैः ॥ [२.२]१९० ॥ अतः कालादयः सर्वे समुदायेन कारणम् । गर्भादेः कार्यजातस्य विज्ञेया न्यायवादिभिः ॥ [२.२]१९१ ॥ न चैकैकत एवेह क्वचित्किञ्चिदपीक्ष्यते । तस्मात्सर्वस्य कार्यस्य सामग्री जनिका मता ॥ [२.२]१९२ ॥ स्वभावो नियतिश्चैव कर्मणोऽन्ये प्रचक्षते । धर्मावन्ये तु सर्वस्य सामान्येनैव वस्तुनः ॥ [२.२]१९३ ॥ तीसरा स्तबक (१) ईश्वरवादखंडन ईश्वरः प्रेरकत्वेन कर्ता कैश्चिदिहेष्यते । अचिन्त्यचिच्छक्तियुक्तोऽनादिशुद्धश्च सूरिभिः ॥ [३.१]१९४ ॥ ज्ञानमप्रतिघं यस्य वैराग्यं च जगत्पतेः । ऐश्वर्यं चैव धर्मश्च सहसिद्धं चतुष्टयम् ॥ [३.१]१९५ ॥ अज्ञो जन्तुरनीशोऽयमात्मनः सुखदुःखयोः । ईश्वरप्रेरितो गच्छेत्स्वर्गं वा श्वभ्रमेव वा ॥ [३.१]१९६ ॥ अन्ये त्वभिदधत्यत्र वीतरागस्य भावतः । इत्थं प्रयोजनाभावात्कर्तृत्वं युज्यते कथम् ? ॥ [३.१]१९७ ॥ नरकादिफले कांश्चित्कांश्चित्स्वर्गादिसाधने । कर्मणि प्रेरयत्याशु स जन्तून् केन हेतुना ? ॥ [३.१]१९८ ॥ स्वयमेव प्रवर्तन्ते सत्त्वाश्चेत्चित्रकर्मणि । निरर्थकमिहेशस्य कर्तृत्वं गीयते कथम् ? ॥ [३.१]१९९ ॥ फलं ददाति चेत्सर्वं तत्तेनेह प्रचोदितम् । अफले पूर्वदोषः स्यात्सफले भक्तिमात्रता ॥ [३.१]२०० ॥ आदिसर्गेऽपि न हेतुः कृतकृत्यस्य विद्यते । प्रतिज्ञातविरोधित्वात्स्वभावोऽप्यप्रमाणकः ॥ [३.१]२०१ ॥ कर्मादेस्तत्स्वभावत्वे न किञ्चिद्बाध्यते विभोः । विभोस्तु तत्स्वभावत्वे कृतकृत्यत्वबाधनम् ॥ [३.१]२०२ ॥ ततश्चेश्वरकर्तृत्व-वादोऽयं युज्यते परम् । सम्यग्न्यायाविरोधेन यथाहुः शुद्धबुद्धयः ॥ [३.१]२०३ ॥ ईश्वरः परमात्मैव तदुक्तव्रतसेवनात् । यतो मुक्तिस्ततस्तस्याः कर्ता स्याद्गुणभावतः ॥ [३.१]२०४ ॥ तदनासेवनादेव यत्संसारोऽपि तत्त्वतः । तेन तस्यापि कर्तृत्वं कल्प्यमानं न दुष्यति ॥ [३.१]२०५ ॥ कर्तायमिति तद्वाक्ये यतः केषांचिदादरः । अतस्तदानुगुण्येन तस्य कर्तृत्वदेशना ॥ [३.१]२०६ ॥ परमैश्वर्ययुक्तत्वान्मत आत्मैव चेश्वरः । स च कर्तेति निर्दोषः कर्तृवादो व्यवस्थितः ॥ [३.१]२०७ ॥ शास्त्रकारा महात्मानः प्रायो वीतस्पृहा भवे । सत्त्वार्थसंप्रवृत्ताश्च कथं तेऽयुक्तभाषिणः ॥ [३.१]२०८ ॥ अभिप्रायस्ततस्तेषां सम्यग्मृग्यो हितैषिणा । न्यायशास्त्राविरोधेन यथाह मनुरप्यदः ॥ [३.१]२०९ ॥ आर्षं च धर्मशास्त्रं च वेदशास्त्राविरोधिना । यस्तर्केणानुसंधत्ते स धर्मं वेद नेतरः ॥ [३.१]२१० ॥ (२) प्रकृतिपुरुषवाद खण्डन प्रधानोद्भवमन्ये तु मन्यन्ते सर्वमेव हि । महदादिक्रमेणेह कार्यजातं विपश्चितः ॥ [३.२]२११ ॥ प्रधानाद्महतो भावोऽहंकारस्य ततोऽपि च । अक्षतन्मात्रवर्गस्य तन्मात्राद्भूतसंहतेः ॥ [३.२]२१२ ॥ घटाद्यपि पृथिव्यादि-परिणामसमुद्भवम् । नात्मव्यापारजं किञ्चित्तेषां लोकेऽपि विद्यते ॥ [३.२]२१३ ॥ अन्ये तु ब्रुवते ह्येतत्प्रक्रियामात्रवर्णनम् । अविचार्यैव तद्युक्त्या श्रद्धया गम्यते परम् ॥ [३.२]२१४ ॥ युक्त्या तु बाध्यते यस्मात्प्रधानं नित्यमिष्यते । तथात्वाप्रच्युतौ चास्य महदादि कथं भवेत्? ॥ [३.२]२१५ ॥ तस्यैव तत्स्वभावत्वादिति चेत्किं न सर्वदा । अत एवेति चेत्तस्य तथात्वे ननु तत्कुतः ? ॥ [३.२]२१६ ॥ नानुपादानमन्यस्य भावेऽन्यज्जातुचिद्भवेत् । तदुपादानतायां च न तस्यैकान्तनित्यता ॥ [३.२]२१७ ॥ घटाद्यपि कुलालादि-सापेक्षं दृश्यते भवत् । अतो न तत्पृथिव्यादि-परिणामसमुद्भवम् ॥ [३.२]२१८ ॥ तत्रापि देहः कर्ता चेन्नैवासावात्मनः पृथक् । पृथगेवेति चेद्भोग आत्मनो युज्यते कथम् ? ॥ [३.२]२१९ ॥ देहभोगेन नैवास्य भावतो भोग इष्यते । प्रतिबिम्बोदयात्किन्तु यथोक्तं पूर्वसूरिभिः ॥ [३.२]२२० ॥ "पुरुषोऽविकृतात्मैव स्वनिर्भासमचेतनम् । मनः करोति सान्निध्यादुपाधिः स्फटिकं यथा ॥ [३.२]२२१ ॥ विभक्तेदृक्परिणतौ बुद्धौ भोगोऽस्य कथ्यते । प्रतिबिम्बोदयः स्वच्छे यथा चन्द्रमसोऽम्भसि" ॥ [३.२]२२२ ॥ प्रतिबिम्बोदयोऽप्यस्य नामूर्तत्वेन युज्यते । मुक्तैरतिप्रसंगाच्च न वै भोगः कदाचन ॥ [३.२]२२३ ॥ न च पूर्वस्वभावत्वात्स मुक्तानामसंगतः । स्वभावान्तरभावे च परिणामोऽनिवारितः ॥ [३.२]२२४ ॥ देहात्पृथक्त्व एवास्य न च हिंसादयः क्वचित् । तदभावेऽनिमित्तत्वात्कथं बन्धः शुभाशुभः ॥ [३.२]२२५ ॥ बन्धादृते न संसारो मुक्तिर्वास्योपपद्यते । यमादि तदभावे च सर्वमेव ह्यपार्थकम् ॥ [३.२]२२६ ॥ आत्मा न बध्यते नापि मुच्यतेऽसौ कदाचन । बध्यते मुच्यते चापि प्रकृतिः स्वात्मनेति चेत् ॥ [३.२]२२७ ॥ एकान्तेनैकरूपाया नित्यायाश्च न सर्वथा । तस्याः क्रियान्तराभावाद्बन्धमोक्षौ तु युज्तितः ॥ [३.२]२२८ ॥ मोक्षः प्रकृत्ययोगो यदतोऽस्यः स कथं भवेत् । स्वरूपविगमापत्तेस्तथा तन्त्रविरोधतः ॥ [३.२]२२९ ॥ पञ्चविंशतितत्त्वज्ञो यत्र तत्राश्रमे रतः । जटी मुण्डी शिखी वापि मुच्यते नात्र संशयः ॥ [३.२]२३० ॥ पुरुषस्योदिता मुक्तिरिति तन्त्रे चिरन्तनैः । इत्थं न घटते चेयमिति सर्वमयुक्तिमत् ॥ [३.२]२३१ ॥ अत्रापि पुरुषस्यान्ये मुक्तिमिच्छन्ति वादिनः । प्रकृतिं चापि सन्न्यायात्कर्मप्रकृतिमेव च ॥ [३.२]२३२ ॥ तस्याश्चानेकरूपत्वात्परिणामित्वयोगतः । आत्मनो बन्धनत्वाच्च नोक्तदोषसमुद्भवः ॥ [३.२]२३३ ॥ नामूर्तं मूर्ततां याति मूर्तं न यात्यमूर्तताम् । यतो बन्धाद्यतो न्यायादात्मनोऽसंगतं तया ॥ [३.२]२३४ ॥ देहस्पर्शादिसंवित्त्या न यात्येवेत्यत्युक्तिमत् । अन्योन्यव्याप्तिजा चेयमिति बन्धादि संगतम् ॥ [३.२]२३५ ॥ मूर्तयाप्यात्मनो योगो घटते नभसो यथा । उपघातादिभावश्च ज्ञानस्येव सुरादिना ॥ [३.२]२३६ ॥ एवं प्रकृतिवादोऽपि विज्ञेयः सत्य एव हि । कपिलोक्तत्वतश्चैव दिव्यो हि स महामुनिः ॥ [३.२]२३७ ॥ चैथा स्तबक (१) क्षणिकवाद खंडन की प्रस्तावना मन्यन्तेऽन्ये जगत्सर्वं क्लेशकर्मनिबन्धनम् । क्षणक्षयि महाप्रज्ञा ज्ञानमात्रं तथापरे ॥ [४.१]२३८ ॥ त आहुः क्षणिकं सर्वं नाशहेतोरयोगतः । अर्थक्रियासमर्थत्वात्परिणामात्क्षयेक्षणात् ॥ [४.१]२३९ ॥ ज्ञानमात्रं च यल्लोके ज्ञानमेवानुभूयते । नार्थस्तद्व्यतिरेकेण ततोऽसौ नैव विद्यते ॥ [४.१]२४० ॥ अत्राप्यभिदधत्यन्ये स्मरणादेरसंभवात् । बाह्यार्थवेदनाच्चैव सर्वमेतदपार्थकम् ॥ [४.१]२४१ ॥ अनुभूतार्थविषयं स्मरणं लौकिकं यतः । कालान्तरे तथानित्ये मुख्यमेतन्न युज्यते ॥ [४.१]२४२ ॥ सोऽन्तेवासी गुरुः सोऽयं प्रत्यभिज्ञाप्यसंगता । दृष्टकौतुकमुद्वेगः प्रवृत्तिः प्राप्तिरेव च ॥ [४.१]२४३ ॥ स्वकृतस्योपभोगस्तु दूरोत्सारित एव हि । शीलानुष्ठानहेतुर्यः स नश्यति तदैव यत् ॥ [४.१]२४४ ॥ संतानापेक्षयास्माकं व्यवहारोऽखिलो मतः । स चैक एव तस्मिंश्च सति कस्मान्न युज्यते ॥ [४.१]२४५ ॥ यस्मिन्नेव तु संताने आहिता कर्मवासना । फलं तत्रैव संधत्ते कर्पासे रक्तता यथा ॥ [४.१]२४६ ॥ एतदप्युक्तिमात्रं यन्न हेतुफलभावतः । सन्तानोऽन्यः स चायुक्त एवासत्कार्यवादिनः ॥ [४.१]२४७ ॥ (२) भाव अभाव बन जाता है इस मत का खंडन नाभावो भावतां याति शशशृङ्गे तथागतेः । भावो नाभावमेतीह तदुत्पत्त्यादिदोषतः ॥ [४.२]२४८ ॥ सतोऽसत्त्वे तदुत्पादस्ततो नाशोऽपि तस्य यत् । तन्नष्टस्य पुनर्भावः सदा नाशो न तत्स्थितिः ॥ [४.२]२४९ ॥ स क्षणस्थितिधर्मा चेद्द्वितीयादिक्षणस्थितौ । युज्यते ह्येतदप्यस्य तथा चोक्तानतिक्रमः ॥ [४.२]२५० ॥ क्षणस्थितौ तदैवास्य नास्थितिर्युक्त्यसंगतेः । न पश्चादपि सा नेति सतोऽसत्त्वं व्यवस्थितम् ॥ [४.२]२५१ ॥ न तद्भवति चेत्किं न सदा सत्त्व तदेव यत् । न भवत्येतदेवास्य भवनं सूरयो विदुः ॥ [४.२]२५२ ॥ कादाचित्कमदो यस्मादुत्पाद्यस्य तद्ध्रुवम् । तुच्छत्वान्नेत्यतुच्छस्याप्यतुच्छत्वात्कथं ननु ? ॥ [४.२]२५३ ॥ तदा भूतेरियं तुल्या तन्निवृत्तेर्न तस्य किम् । तुच्छताप्तेर्न भावोऽस्तु नासत्सत्सदसत्कथम् ? ॥ [४.२]२५४ ॥ स्वहेतोरेव तज्जातं तत्स्वभावं यतो ननु । तदनन्तरभावित्वादितरत्राप्यदः समम् ॥ [४.२]२५५ ॥ नाहेतोरस्य भवनं न तुच्छे तत्स्वभावता । ततः कथं नु तद्भाव इति युक्त्या कथं समम् ? ॥ [४.२]२५६ ॥ स एव भावस्तद्धेतुस्तस्यैव तथास्थितेः । स्वनिवृत्तिः स्वभावोऽस्य भावस्येव ततो न किम् ? ॥ [४.२]२५७ ॥ ज्ञेयत्ववत्स्वभावोऽपि न चायुक्तोऽस्य तद्विधः । तदभावे न तज्ज्ञानं तन्निवृत्तेर्गतिः कथम् ? ॥ [४.२]२५८ ॥ तत्तद्विधस्वभावं यत्प्रत्यक्षेण तथैव हि । गृह्यते तद्गतिस्तेन नैतत्क्वचिदनिश्चयात् ॥ [४.२]२५९ ॥ समारोपादसौ नेति गृहीतं तत्त्वतस्तु तत् । यथाभावग्रहात्तस्या-तिप्रसंगाददोऽप्यसत् ॥ [४.२]२६० ॥ गृहीतं सर्वमेतेन तत्त्वतो निश्चयः पुनः । मितग्रहसमारोपादिति तत्त्वव्यवस्थितेः ॥ [४.२]२६१ ॥ एकत्र निश्चयोऽन्यत्र निरंशानुभवादपि । न तथा पाटवाभावादित्यपूर्वमिदं तमः ॥ [४.२]२६२ ॥ स्वभावक्षणतो ह्यूर्ध्वं तुच्छता तन्निवृत्तितः । नासावेकक्षणग्राहि-ज्ञानात्सम्यग्विभाव्यते ॥ [४.२]२६३ ॥ तस्यां च नागृहीतायां तत्तथेति विनिश्चयः । न हीन्द्रियमतीतादि-ग्राहकं सद्भिरिष्यते ॥ [४.२]२६४ ॥ अन्तेऽपि दर्शनं नास्य कपालादिगतेः क्वचित् । न तदेव घटाभावो भावत्वेन प्रतीतितः ॥ [४.२]२६५ ॥ न तद्गतेर्गतिस्तस्य प्रतिबन्धविवेकतः । तस्यैवाभवनत्वे तु भावाविच्छेदतोऽन्वयः ॥ [४.२]२६६ ॥ तस्मादवश्यमेष्टव्यं तदूर्ध्वं तुच्छमेव तत् । ज्ञेयं सद्ज्ञायते ह्येतदपरेणापि युक्तिमत् ॥ [४.२]२६७ ॥ नोत्पत्त्यादेस्तयोरैक्यं तुच्छेतरविशेषतः । निवृत्तिभेदतश्चैव बुद्धिभेदाच्च भाव्यताम् ॥ [४.२]२६८ ॥ एतेनैतत्प्रतिक्षिप्तं यदुक्तं न्यायमानिना । न तत्र किञ्चिद्भवति न भवत्येव केवलम् ॥ [४.२]२६९ ॥ भावे ह्येष विकल्पः स्याद्विधेर्वस्त्वनुरोधतः । न भावो भवतीत्युक्तमभावो भवतीत्यपि ॥ [४.२]२७० ॥ एतेनाहेतुकत्वेऽपि ह्यभूत्वा नाशभावतः । सत्तानाशित्वदोषस्य प्रत्याख्यातं प्रसञ्जनम् ॥ [४.२]२७१ ॥ प्रतिक्षिप्तं च यत्सत्ता-ऽनाशित्वागोऽनिवारितम् । तुच्छरूपा तदासत्ता भावाप्तेर्नाशितोदिता ॥ [४.२]२७२ ॥ भावस्याभवनं यत्तदभावभवनं तु यत् । तत्तथाधर्मके ह्युक्त-विकल्पो न विरुध्यते ॥ [४.२]२७३ ॥ तदेव न भवत्येतद्विरुद्धमिव लक्ष्यते । तदेव वस्तुसंस्पर्शाद्भवनप्रतिषेधतः ॥ [४.२]२७४ ॥ सतोऽसत्त्वं यतश्चैवं सर्वथा नोपपद्यते । भावो नाभावमेतीह ततश्चैतद्व्यवस्थितम् ॥ [४.२]२७५ ॥ (३) अभाव भाव बन जाता है इस मत का खंडन असतः सत्त्वयोगे तु तत्तथाशक्तियोगतः । नासत्त्वं तदभावे तु न तत्सत्त्वं तदन्यवत् ॥ [४.३]२७६ ॥ असदुत्पद्यते तद्धि विद्यते यस्य कारणम् । विशिष्टशक्तिमत्तच्च ततस्तत्सत्त्वसंस्थितिः ॥ [४.३]२७७ ॥ अत्यन्तासति सर्वस्मिन् कारणस्य न युक्तितः । विशिष्टशक्तिमत्त्वं हि कल्प्यमानं विराजते ॥ [४.३]२७८ ॥ तत्सत्त्वसाधकं तन्न तदेव हि तदा न यत् । अत एवेदमिच्छन्तु न वै तस्येत्ययोगतः ॥ [४.३]२७९ ॥ वस्तुस्थित्या तथा तद्यत्तदनन्तरभावि तत् । नान्यत्ततश्च नाम्नेह न तथास्ति प्रयोजनम् ॥ [४.३]२८० ॥ नाम्ना विनापि तत्त्वेन विशिष्टाविधिना विना । चिन्त्यतां यदि सन्न्यायाद्वस्तुस्थित्यापि तत्तथा ॥ [४.३]२८१ ॥ साधकत्वे तु सर्वस्य ततो भावः प्रसज्यते । कारणाश्रयणोऽप्येवं न तत्सत्त्वं तदन्यवत् ॥ [४.३]२८२ ॥ किञ्च तत्कारणं कार्य-भूतिकाले न विद्यते । ततो न जनकं तस्य तदासत्त्वात्परं यथा ॥ [४.३]२८३ ॥ अनन्तरं च तद्भावस्तत्त्वादेव निरर्थकः । समं च हेतुफलयोर्नाशोत्पादवसङ्गतौ ॥ [४.३]२८४ ॥ स्तस्तौ भिन्नावभिन्नौ वा ताभ्यां बेदे तयोः कुतः । नाशोत्पादावभेदे तु तयोर्वै तुल्यकालता ॥ [४.३]२८५ ॥ न हेतुफलभावश्च तस्यां सत्यां हि युज्यते । तन्निबन्धनभावस्य द्वयोरपि वियोगतः ॥ [४.३]२८६ ॥ कल्पितश्चेदयं धर्म-धर्मिभावो हि भावतः । न हेतुफलभावः स्यात्सर्वथा तदभावतः ॥ [४.३]२८७ ॥ न धर्मी कल्पितो धर्म-धर्मिभावस्तु कल्पितः । पूर्वो हेतुर्निरंशः स उत्तरः फलमुच्यते ॥ [४.३]२८८ ॥ पूर्वस्यैव तथाभावा-भावे हन्तोत्तरं कुतः । तस्यैव तु तथाभावेऽसतः सत्त्वमदो न सत् ॥ [४.३]२८९ ॥ तं प्रतीत्य तदुत्पाद इति तुच्छमिदं वचः । अतिप्रसंगतश्चैव तथा चाह महामतिः ॥ [४.३]२९० ॥ सर्वथैव तथाभावि-वस्तुभावादृते न यत् । कारणानन्तरं कार्यं द्राग्नभस्तस्ततो न तत् ॥ [४.३]२९१ ॥ तस्यैव तत्स्वभावत्व-कल्पनासम्पदप्यलम् । न युक्ता युक्तिवैकल्य-राहुणा जन्मपीडनात् ॥ [४.३]२९२ ॥ तदनन्तरभावित्व-मात्रतस्तद्व्यवस्थितेः । विश्वस्य विश्वकार्यत्वं स्यात्तद्भावाविशेषतः ॥ [४.३]२९३ ॥ अभिन्नदेशतादीनामसिद्धत्वादनन्वयात् । सर्वेषामविशिष्टत्वान्न तन्नियमहेतुता ॥ [४.३]२९४ ॥ योऽप्येकस्यान्यतो भावः सन्ताने दृश्यतेऽन्यदा । तत एव विदेशस्थात्सोऽपि यत्तन्न बाधकम् ॥ [४.३]२९५ ॥ एतेनैतत्प्रतिक्षिप्तं यदुक्तं सूक्ष्मबुद्धिना । नासतो भावकर्तृत्वं तदवस्थान्तरं न सः ॥ [४.३]२९६ ॥ वस्तुनोऽनन्तरं सत्ता कस्यचिद्या नियोगतः । सा तत्फलं मता सैव भावोत्पत्तिस्तदात्मिका ॥ [४.३]२९७ ॥ असदुत्पत्तिरप्यस्य प्रागसत्त्वात्प्रकीर्तिता । नासतः सत्त्वयोगेन कारणात्कार्यभावतः ॥ [४.३]२९८ ॥ प्रतिक्षिप्तं च तधेतोः प्राप्नोति फलतां विना । असतो भावकर्तृत्वं तदवस्थान्तरं च सः ॥ [४.३]२९९ ॥ वस्तुनोऽनन्तरं सत्ता तत्तथातां विना भवेत् । नभःपातादसत्सत्त्व-योगाद्वेति न तत्फलम् ॥ [४.३]३०० ॥ असदुत्पत्तिरप्येव नास्यैव प्रागसत्त्वतः । किं त्वसत्सद्भवत्येवमिति सम्यग्विचार्यताम् ॥ [४.३]३०१ ॥ एतच्च नोक्तवद्युक्त्या सर्वथा युज्यते यतः । नाभावो भावतां याति व्यवस्थितमिदं ततः ॥ [४.३]३०२ ॥ (४) क्षणिकवाद में सामग्रीकारणतावाद की अनुपपत्ति यापि रूपादिसामग्री विशिष्टप्रत्ययोद्भवा । जनकत्वेन बुद्ध्यादेः कल्प्यते साप्यनर्थिका ॥ [४.४]३०३ ॥ सर्वेषां बुद्धिजनने यदि सामर्थ्यमिष्यते । रूपादीनां ततः कार्य-भेदस्तेभ्यो न युज्यते ॥ [४.४]३०४ ॥ रूपालोकादिकं कार्यमनेकं चोपजायते । तेभ्यस्तावद्भ्य एवेति तदेतच्चिन्त्यतां कथम् ॥ [४.४]३०५ ॥ प्रभूतानां च नैकत्र साध्वी सामर्थ्यकल्पना । तेषां प्रभूतभावेन तदेकत्वविरोधतः ॥ [४.४]३०६ ॥ तानशेषान् प्रतीत्येह भवदेकं कथं भवेत् । एकस्वभावमेकं यत्तत्तु नानेकभावतः ॥ [४.४]३०७ ॥ यतो भिन्नस्वभावत्वे सति तेषामनेकता । तावत्सामर्थ्यजत्वे च कुतस्तस्यैकरूपता ॥ [४.४]३०८ ॥ यज्जायते प्रतीत्यैक-सामर्थ्यं नान्यतो हि तत् । तयोरभिन्नतापत्तेर्भेदे भेदस्तयोरपि ॥ [४.४]३०९ ॥ न प्रतीत्यैकसामर्थ्यं जायते तत्र किञ्चन । सर्वसामर्थ्यभूतिस्व-भावत्वात्तस्य चेन्न तत् ॥ [४.४]३१० ॥ प्रत्येकं तस्य तद्भावे युक्ता ह्युक्तस्वभावता । न हि तत्सर्वसामर्थ्यं तत्प्रत्येकत्ववर्जितम् ॥ [४.४]३११ ॥ अत्र चोक्तं न चाप्येषां तत्स्वभावत्वकल्पना । साध्वीत्यतिप्रसंगादेरन्यथाप्युक्तिसंभवात् ॥ [४.४]३१२ ॥ अथान्यत्रापि सामर्थ्यं रूपादीनां प्रकल्प्यते । न तदेव तदित्येवं नाना चैकत्र तत्कुतः ॥ [४.४]३१३ ॥ सामग्रीभेदतो यश्च कार्यभेदः प्रगीयते । नानाकार्यसमुत्पादादेकस्याः सोऽपि बाध्यते ॥ [४.४]३१४ ॥ उपादानादिभावेन न चैकस्यास्तु संगता । युक्त्या विचार्यमाणेह तदेनकत्वकल्पना ॥ [४.४]३१५ ॥ रूपं येन स्वभावेन रूपोपादानकारणम् । निमित्तकारणं ज्ञाने तत्तेनान्येन वा भवेत् ॥ [४.४]३१६ ॥ यदि तेनैव विज्ञानं बोधरूपं न युज्यते । अथान्येन बलाद्रूपं द्विस्वभावं प्रसज्यते ॥ [४.४]३१७ ॥ अबुद्धिजनकव्यावृत्त्या चेद्बुद्धिप्रसाधकः । रूपक्षणो ह्यबुद्धित्वात्कथं रूपस्य साधकः ॥ [४.४]३१८ ॥ स हि व्यावृत्तिभेदेन रूपादिजनको ननु । उच्यते व्यवहारार्थमेकरूपोऽपि तत्त्वतः ॥ [४.४]३१९ ॥ अगन्धजननव्यावृत्त्यायं कस्मान्न गन्धकृत् । उच्यते तदभावाच्चेद्भावोऽन्यस्याः प्रसज्यते ॥ [४.४]३२० ॥ एवं व्यावृत्तिभेदेऽपि तस्यानेकस्वभावता । बलादापद्यते सा चायुक्ताभ्युपगमक्षतेः ॥ [४.४]३२१ ॥ विभिन्नकार्यजननस्वभावाश्चक्षुरादयः । यदि ज्ञानेऽपि भेदः स्यात्न चेद्भेदो न युज्यते ॥ [४.४]३२२ ॥ सामग्र्यपेक्षयाप्येवं सर्वथा नोपपद्यते । यधेतुहेतुमद्भावस्तदेषाप्युक्तिमात्रकम् ॥ [४.४]३२३ ॥ (५) क्षणिकवाद में वास्यवासकभाव की अनुपपत्ति नानात्वाबाधानाच्चेह कुतः स्वकृतवेदनम् । सत्यप्यस्मिन्मिथोऽत्यन्तं तद्भेदादिति चिन्त्यताम् ॥ [४.५]३२४ ॥ वास्यवासकभावाच्चेन्नैतत्तस्याप्यसंभवात् । असंभवः कथं न्वस्य विकल्पानुपपत्तितः ॥ [४.५]३२५ ॥ वासकाद्वासना भिन्ना अभिन्ना वा भवेद्यदि । भिन्ना स्वयं तया शून्यो नैवान्यं वासयत्यसौ ॥ [४.५]३२६ ॥ अथाभिन्ना न संक्रान्तिस्तस्या वासकरूपवत् । वास्ये सत्यां च संसिद्धिर्द्रव्यांशस्य प्रजायते ॥ [४.५]३२७ ॥ असत्यामपि संक्रान्तौ वासयत्येव चेदसौ । अतिप्रसंगः स्यादेवं स च न्यायबहिष्कृतः ॥ [४.५]३२८ ॥ वास्यवासकभावश्च न हेतुफलभावतः । तत्त्वतोऽन्य इति न्यायात्स चायुक्तो निदर्शितः ॥ [४.५]३२९ ॥ (६) क्षणिकवाद में कार्यकारण ज्ञान की अनुपपत्ति तत्तज्जननस्वभावं जन्यभावं तथापरम् । अतः स्वभावनियमान्नायुक्तः स कदाचन ॥ [४.६]३३० ॥ उभयोर्ग्रहणाभावे न तथाभावकल्पनम् । तयोर्न्याय्यं न चैकेन द्वयोर्गहणमस्ति वः ॥ [४.६]३३१ ॥ एकमर्थं विजानाति न विज्ञानद्वयं यथा । विजानाति न विज्ञानमेकमर्थद्वयं तथा ॥ [४.६]३३२ ॥ वस्तुस्थित्या तयोस्तत्त्वे एकेनापि तथाग्रहात् । नो बाधकं न चैकेन द्वयोर्गहणमस्त्यदः ॥ [४.६]३३३ ॥ तथाग्रहस्तयोर्नेतरेतरग्रहणात्मकः । कदाचिदपि युक्तो यदतः कथमबाधकम् ॥ [४.६]३३४ ॥ तथाग्रहे च सर्वत्रा-विनाभावग्रहं विना । न धूमादिग्रहादेव ह्यनलादिगतिः कथम् ॥ [४.६]३३५ ॥ समनन्तरवैकल्यं तत्रेत्यनुपपत्तिकम् । तुल्ययोरपि तद्भावे हन्त क्वचिददर्शनात् ॥ [४.६]३३६ ॥ न तयोस्तुल्यतैकस्य यस्मात्कारणकारणम् । औघात्तद्धेतुविषयं न त्वेवमितरस्य च ॥ [४.६]३३७ ॥ यः केवलानलग्राहि-ज्ञानकारणकारणः । सोऽप्येवं न च तद्धेतोस्तज्ज्ञानादपि तद्गतिः ॥ [४.६]३३८ ॥ तज्ज्ञानं यन्न वै धूम-ज्ञानस्य समनन्तरः । तथाभूदित्यतो नेह तज्ज्ञानादपि तद्गतिः ॥ [४.६]३३९ ॥ तथेति हन्त को न्वर्थः तत्तथाभावतो यदि । इतरत्रैकमेवेत्थं ज्ञानं तद्ग्राहि भाव्यताम् ॥ [४.६]३४० ॥ तदभावेऽन्यथा भावस्तस्य सोऽस्यापि विद्यते । अनन्तरचिरातीतं तत्पुनर्वस्तुतः समम् ॥ [४.६]३४१ ॥ अग्निज्ञानजमेतेन धूमज्ञानं स्वभावतः । तथा विकल्पकृन्नान्यदिति प्रत्युक्तमिष्यताम् ॥ [४.६]३४२ ॥ अतः कथंचिदेकेन तयोरग्रहणे सति । तथाप्रतीतितो न्याय्यं न तथाभावकल्पनम् ॥ [४.६]३४३ ॥ प्रत्यक्षानुपलम्भाभ्यां हन्तैवं साध्यते कथम् । कार्यकारणता तस्मात्तद्भावादेरनिश्चयात् ॥ [४.६]३४४ ॥ न पूर्वमुत्तरं चेह तदन्याग्रहणाद्ध्रुवम् । गृह्यतेऽत इदं नातो न त्वतीन्द्रियदर्शनम् ॥ [४.६]३४५ ॥ विकल्पोऽपि तथा न्यायाद्युज्यते न ह्यनीदृशः । तत्संस्कारप्रसूतत्वात्क्षणिकत्वाच्च सर्वथा ॥ [४.६]३४६ ॥ नेत्थं बोधान्वयाभावे घटते तद्विनिश्चयः । माध्यस्थ्यमवलम्ब्यैतत्चिन्त्यतां स्वयमेव तु ॥ [४.६]३४७ ॥ अग्न्यादिज्ञानमेवेह न धूमज्ञानतां यतः । व्रजत्याकारभेदेन कुतो बोधान्वयस्ततः ॥ [४.६]३४८ ॥ तदाकारपरित्यागात्तस्याकारान्तरस्थितिः । बोधान्वयः प्रदीर्घैकाध्यवसायप्रवर्तकः ॥ [४.६]३४९ ॥ स्वसंवेदनसिद्धत्वात्न च भ्रान्तोऽयमित्यपि । कल्पना युज्यते युक्त्या सर्वभ्रान्तिप्रसंगतः ॥ [४.६]३५० ॥ प्रदीर्घाध्यवसायेन नश्वरादिविनिश्चयः । अस्य च भ्रान्ततायां यत्तत्तथेति न युक्तिमत् ॥ [४.६]३५१ ॥ तस्मादवश्यमेष्टव्यं विकल्पस्यापि कस्यचित् । येन केन प्रकारेण सर्वथाभ्रान्तरूपता ॥ [४.६]३५२ ॥ सत्यामस्यां स्थितोऽस्माकमुक्तवन्न्याययोगतः । बोधान्वयोऽदलोत्पत्त्य-भावाच्चातिप्रसंगतः ॥ [४.६]३५३ ॥ अन्यादृशपदार्थेभ्यः स्वयमन्यादृशोऽप्ययम् । यतश्चेष्टस्ततो नास्मात्तत्रासंदिग्धनिश्चयः ॥ [४.६]३५४ ॥ तत्तज्जननभावत्वे ध्रुवं तद्भावसंगतिः । तस्यैव भावो नान्यो यज्जन्याच्च जननं तथा ॥ [४.६]३५५ ॥ एवं तज्जन्यभावत्वेऽप्येषा भाव्या विचक्षणैः । तदेव हि यतो भावः स चेतरसमाश्रयः ॥ [४.६]३५६ ॥ इत्येवमन्वयापत्तिः शब्दार्थादेव जायते । अन्यथा कल्पनं चास्य सर्वथा न्यायबाधितम् ॥ [४.६]३५७ ॥ तद्रूपशक्तिशून्यं तत्कार्यं कार्यान्तरं यथा । व्यापारोऽपि न तस्यापि नापेक्षासत्त्वतः क्वचित् ॥ [४.६]३५८ ॥ तथापि तु तयोरेव तत्स्वभावत्वकल्पनम् । अन्यत्रापि समानत्वात्केवलं ध्यान्ध्यसूचकम् ॥ [४.६]३५९ ॥ (७) बुद्धवचनों की सहायता से क्षणिकवाद का खंडन किञ्चन्यात्क्षणिकत्वे व आर्षोऽर्थोऽपि विरुध्यते । विरोधापादनं चास्य नाल्पस्य तमसः फलम् ॥ [४.७]३६० ॥ इत एकनवते कल्पे शक्त्या मे पुरुषो हतः । तेन कर्मविपाकेन पादे विद्धोऽस्मि भिक्षवः ॥ [४.७]३६१ ॥ मे मयेत्यात्मनिर्देशस्तद्गतोक्ता वधक्रिया । स्वयमाप्तेन यत्तद्वः कोऽयं क्षणिकताग्रहः ॥ [४.७]३६२ ॥ सन्तानापेक्षयैतच्चेदुक्तं भगवता ननु । स हेतुफलभावो यत्तन्मे इति न संगतम् ॥ [४.७]३६३ ॥ ममेति हेतुशक्त्या चेत्तस्यार्थोऽयं विवक्षितः । नात्र प्रमाणमत्यक्षा तद्विवक्षा यतो मता ॥ [४.७]३६४ ॥ तद्देशना प्रमाणं चेत्न सान्यार्था भविष्यति । तत्रापि किं प्रमाणं चेदिदं पूर्वोक्तमार्षकम् ॥ [४.७]३६५ ॥ तथान्यदपि यत्कल्प-स्थायिनी पृथिवी क्वचित् । उक्ता भगवता भिक्षूनामन्त्र्य स्वयमेव तु ॥ [४.७]३६६ ॥ पञ्च बाह्या द्विविज्ञेया इत्यन्यदपि चार्षकम् । प्रमाणमवगन्तव्यं प्रक्रान्तार्थप्रसाधकम् ॥ [४.७]३६७ ॥ क्षणिकत्वे यतोऽमीषां न द्विविज्ञेयता भवेत् । भिन्नकालग्रहे ह्याभ्यां तच्छब्दार्थोपपत्तितः ॥ [४.७]३६८ ॥ एककालग्रहे तु स्यात्तस्यैकस्याप्रमाणता । गृहीतग्रहणादेवं मिथ्या तथागतं वचः ॥ [४.७]३६९ ॥ इन्द्रियेण परिच्छिन्ने रूपादौ तदनन्तरम् । यद्रूपादि ततस्तत्र मनोज्ञानं प्रवर्तते ॥ [४.७]३७० ॥ एवं च न विरोधोऽस्ति द्विविज्ञेयत्वभावतः । पञ्चानामपि चेन्न्यायादेतदप्यसमञ्जसम् ॥ [४.७]३७१ ॥ नैकोऽपि यद्द्विविज्ञेय एकैकेनैव वेदनात् । सामान्यापेक्षयैतच्चेन्न तत्सत्त्वप्रसंगतः ॥ [४.७]३७२ ॥ सत्त्वेऽपि नेन्द्रियज्ञानं हन्त तद्गोचरं मतम् । द्विविज्ञेयत्वमित्येवं क्षणभेदे न तत्त्वतः ॥ [४.७]३७३ ॥ सर्वमेतेन विक्षिप्तं क्षणिकत्वप्रसाधनम् । तथाप्यूर्ध्वं विशेषेण किञ्चित्तत्रापि वक्ष्यते ॥ [४.७]३७४ ॥ पांचवां स्तबक (१)बाह्यार्थखंडन खंडन विज्ञानमात्रवादोऽपि न सम्यगुपपद्यते । मानं यत्तत्त्वतः किञ्चिदर्थाभावे न विद्यते ॥ [५.१]३७५ ॥ न प्रत्यक्षं यतोऽभावा-लम्बनं न तदिष्यते । नानुमानं तथाभूत-सल्लिङ्गानुपपत्तितः ॥ [५.१]३७६ ॥ उपलब्धिलक्षणप्राप्तोऽर्थो यन्नोपलभ्यते । ततश्चानुपलब्ध्यैव तदभावोऽवसीयते ॥ [५.१]३७७ ॥ उपलब्धिलक्षणप्राप्तिस्तद्धत्वन्तरसंहतिः । एषां च तत्स्वभावत्वे तस्यासिद्धिः कथं भवेत् ॥ [५.१]३७८ ॥ सहार्थेन तज्जनन-स्वभावानीति चेन्ननु । जनयत्येव सत्येवमन्यथातत्स्वभावता ॥ [५.१]३७९ ॥ योग्यतामधिकृत्याथ तत्स्वभावत्वकल्पना । हन्तैवमपि सिद्धो वः कदाचिदुपलब्धितः ॥ [५.१]३८० ॥ अन्यथा योग्यता तेषां कथं युक्त्योपपद्यते । न हि लोकेऽश्वमाषादेः सिद्धा पक्त्यादियोग्यता ॥ [५.१]३८१ ॥ पराभिप्रायतो ह्येतदेवं चेदुच्यते न यत् । उपलब्धिलक्षणप्राप्तोऽर्थस्तस्योपलभ्यते ॥ [५.१]३८२ ॥ अतद्ग्रहणभावैश्च यदि नाम न गृह्यते । तत एतावतासत्त्वं न तस्यातिप्रसंगतः ॥ [५.१]३८३ ॥ विज्ञानं यत्स्वसंवेद्यं न त्वर्थो युक्त्ययोगतः । अतस्तद्वेदने तस्य ग्रहणं नोपपद्यते ॥ [५.१]३८४ ॥ एवं चाग्रहणादेव तदभावोऽवसीयते । अतः किमुच्यते मानमर्थाभावे न विद्यते ॥ [५.१]३८५ ॥ अर्थग्रहणरूपं यत्तत्स्वसंवेद्यमिष्यते । तद्वेदने ग्रहस्तस्य ततः किं नोपपद्यते ॥ [५.१]३८६ ॥ घटादिज्ञानमित्यादि-संवित्तेस्तत्प्रवृत्तितः । प्राप्तेरर्थक्रियायोगात्स्मृतेः कौतुकभावतः ॥ [५.१]३८७ ॥ ज्ञानमात्रे तु विज्ञानं ज्ञानमेवेत्यदो भवेत् । प्रवृत्त्यादि ततो न स्यात्प्रसिद्धं लोकशास्त्रयोः ॥ [५.१]३८८ ॥ तदन्यग्रहणे चास्य प्रद्वेषोऽर्थेऽनिबन्धनः । ज्ञानान्तरेऽपि सदृशं तदसंवेदनादि यत् ॥ [५.१]३८९ ॥ युक्त्ययोगाश्च योऽर्थस्य गीयते जातिवादतः । ग्राह्यादिभावद्वारेण ज्ञानवादेऽप्यसौ समः ॥ [५.१]३९० ॥ नैकान्तग्राह्यभावं तद्ग्राहकाभावतो भुवि । ग्राहकैकान्तभावं तु ग्राह्याभावादसंगतम् ॥ [५.१]३९१ ॥ विरोधान्नोभयाकारमन्यथा तदसद्भवेत् । निःस्वभावत्वतस्तस्य सत्तैवं युज्यते कथम् ॥ [५.१]३९२ ॥ प्रकाशैकस्वभावं हि विज्ञानं तत्त्वतो मतम् । अकर्मकं तथा चैतत्स्वयमेव प्रकाशते ॥ [५.१]३९३ ॥ यथास्ते शेत इत्यादौ विना कर्म स एव हि । तथोच्यते जगत्यस्मिंस्तथा ज्ञानमपीष्यताम् ॥ [५.१]३९४ ॥ उच्यते सांप्रतमदः स्वयमेव विचिन्त्यताम् । प्रमाणाभावतस्तत्र यद्येतदुपपद्यते ॥ [५.१]३९५ ॥ एवं न यत्तदात्मानमपि हन्त प्रकाशयेत् । अतस्तदित्थं नो युक्तमन्यथा न व्यवस्थितिः ॥ [५.१]३९६ ॥ व्यवस्थितौ च तत्त्वस्य तथाभावप्रकाशकम् । ध्रुवं यतस्ततोऽकर्मकत्वमस्य कथं भवेत् ॥ [५.१]३९७ ॥ व्यवस्थापकमस्यैवं भ्रान्तं चैतत्तु भावतः । तथेत्यभ्रान्तमत्रापि ननु मानं न विद्यते ॥ [५.१]३९८ ॥ भ्रान्ताच्चाभ्रान्तरूपा न युक्तियुक्ता व्यवस्थितिः । दृष्टा तैमिरिकादीनामक्षादाविति चेन्न तत् ॥ [५.१]३९९ ॥ नाक्षादिदोषविज्ञानं तदन्यभ्रान्तिवद्यतः । भ्रान्तं तस्य तथाभावे भ्रान्तस्याभ्रान्तता भवेत् ॥ [५.१]४०० ॥ न च प्रकाशमात्रं तु लोके क्वचिदकर्मकम् । दीपादौ युज्यते न्यायादतश्चैतदपार्थकम् ॥ [५.१]४०१ ॥ दृष्टान्तमात्रतः सिद्धिस्तदत्यन्तविधर्मिणः । न च साध्यस्य यत्तेन शब्दमात्रमसावपि ॥ [५.१]४०२ ॥ (२) विज्ञानाद्वैतवाद में मोक्ष की अनुपपत्ति किं च विज्ञानामात्रत्वे न संसारापवर्गयोः । विशेषो विद्यते कश्चित्तथा चैतद्वृथोदितम् ॥ [५.२]४०३ ॥ चित्तमेव हि संसारो रागादिक्लेशवासितम् । तदेव तैर्विनिर्मुक्तं भवान्त इति कथ्यते ॥ [५.२]४०४ ॥ रागादिक्लेशवर्गो यन्न विज्ञानात्पृथग्मतः । एकान्तैकस्वभावे च तस्मिन् किं केन वासितम् ॥ [५.२]४०५ ॥ क्लिष्टं विज्ञानमेवासौ क्लिष्टता तस्य यद्वशात् । नील्यादिवदसौ वस्तु तद्वदेव प्रसज्यते ॥ [५.२]४०६ ॥ मुक्तौ च तस्य भेदेन भावः स्यात्पटशुद्धिवत् । ततो बाह्यार्थतासिद्धिरनिष्टा संप्रसज्यते ॥ [५.२]४०७ ॥ प्रकृत्यैव तथाभूतं तदेव क्लिष्टतेति चेत् । तदन्यूनातिरिक्तत्वे केन मुक्तिर्विचिन्त्यताम् ॥ [५.२]४०८ ॥ असत्यपि च या बाह्ये ग्राह्यग्राहकलक्षणा । द्विचन्द्रभ्रान्तिवद्भ्रान्तिरियं नः क्लिष्टतेति चेत् ॥ [५.२]४०९ ॥ अस्त्वेतत्किन्तु तद्धेतु-भिन्नहेत्वन्तरोद्भवा । इयं स्यात्तिमिराभावे न हीन्दुद्वयदर्शनम् ॥ [५.२]४१० ॥ न चासदेव तद्धेतुर्बोधमात्रं न चापि तत् । सदैव क्लिष्टतापत्तेरिति मुक्तिर्न युज्यते ॥ [५.२]४११ ॥ मुक्त्यभावे च सर्वैव ननु चिन्ता निरर्थिका । भावेऽपि सर्वदा तस्याः सम्यगेतत्विचिन्त्यताम् ॥ [५.२]४१२ ॥ विज्ञानमात्रवादो यत्नेत्थं युक्त्योपपद्यते । प्राज्ञस्याभिनेवेशो न तस्मादत्रापि युज्यते ॥ [५.२]४१३ ॥ छठा स्तबक (१) निर्हेतुक विनाश से क्षणिकवाद की सिद्धि नहीं यच्चोक्तं पूर्वमत्रैव क्षणिकत्वप्रसाधकम् । नाशहेतोरयोगादि तदिदानीं परीक्ष्यते ॥ [६.१]४१४ ॥ हेतोः स्यान्नश्वरो भावोऽनश्वरो वा विकल्प्य यत् । नाशहेतोरयोगित्वमुच्यते तन्न युक्तिमत् ॥ [६.१]४१५ ॥ हेतुं प्रतीत्य यदसौ तथा नश्वर इष्यते । यथैव भवतो हेतुर्विशिष्टफलसाधकः ॥ [६.१]४१६ ॥ तथास्वभाव एवासौ स्वहेतोरेव जायते । सहकारिणमासाद्य यस्तथाविधकार्यकृत् ॥ [६.१]४१७ ॥ न पुनः क्रियते किञ्चित्तेनास्य सहकारिणा । समानकालभावित्वात्तथा चोक्तमिदं तव ॥ [६.१]४१८ ॥ उपकारी विरोधी च सहकारी च यो मतः । प्रबन्धापेक्षया सर्वो नैककाले कदाचन ॥ [६.१]४१९ ॥ सहकारिकृतो हेतोर्विशेषो नास्ति यद्यपि । फलस्य तु विशेषोऽस्ति तत्कृतातिशयाप्तितः ॥ [६.१]४२० ॥ न चास्यातत्स्वभावत्वे स फलस्यापि युज्यते । सभागक्षणजन्माप्तेस्तथाविधतदन्यवत् ॥ [६.१]४२१ ॥ अस्थानपक्षपातश्च हेतोरनुपकारिणी । अपेक्षायां नियुङ्क्ते यत्कार्यमेतद्वृथोदितम् ॥ [६.१]४२२ ॥ यस्मात्तस्याप्यदस्तुल्यं विशिष्टफलसाधकम् । भावहेतुं समाश्रित्य ननु न्यायान्निदर्शितम् ॥ [६.१]४२३ ॥ एवं च व्यर्थमेवेह व्यतिरिक्तादिचिन्तनम् । नाश्यमाश्रित्य नाशस्य क्रियते यद्विचक्षणैः ॥ [६.१]४२४ ॥ किञ्च निर्हेतुके नाशे हिंसकत्वं न युज्यते । व्यापाद्यते सदा यस्मान्न कश्चित्केनचित्क्वचित् ॥ [६.१]४२५ ॥ कारणत्वात्स सन्तान-विशेषप्रभवस्य चेत् । हिंसकस्तन्न सन्तान-समुत्पत्तेरसंभवात् ॥ [६.१]४२६ ॥ सांवृतत्वात्व्ययोत्पादौ सन्तानस्य खपुष्पवत् । न स्तस्तदधर्मत्वाच्च हेतुस्तत्प्रभवे कुतः ॥ [६.१]४२७ ॥ विसभागक्षणस्याथ जनको हिंसको न तत् । स्वतोऽपि तस्य तत्प्राप्तेर्जनकत्वाविशेषतः ॥ [६.१]४२८ ॥ हन्म्येनमिति संक्लेशाधिंसकश्चेत्प्रकल्प्यते । नैवं त्वन्नीतितो यस्मादयमेव न युज्यते ॥ [६.१]४२९ ॥ संक्लेशो यद्गुणोत्पादः स चाक्लिष्टान्न केवलात् । न चान्यसचिवस्यापि तस्यानतिशयात्ततः ॥ [६.१]४३० ॥ तं प्राप्य तत्स्वभावत्वात्ततः स इति चेन्ननु । नाशहेतुमवाप्यैवं नाशपक्षेऽपि न क्षतिः ॥ [६.१]४३१ ॥ अन्ये तु जन्यमाश्रित्य सत्स्वह्बावाद्यपेक्षया । एवमाहुरहेतुत्वं जनकस्यापि सर्वथा ॥ [६.१]४३२ ॥ न सत्स्वभावजनकस्तद्वैफल्यप्रसंगतः । जन्मायोगादिदोषाच्च नेतरस्यापि युज्यते ॥ [६.१]४३३ ॥ न चोभयादिभावस्य विरोधासंभवादितः । स्वनिवृत्त्यादिभावादौ कार्याभावादितोऽपरे ॥ [६.१]४३४ ॥ न चाध्यक्षविरुद्धत्वं जनकत्वस्य मानतः । असिद्धेस्तत्र नीत्या तद्व्यवहारनिषेधतः ॥ [६.१]४३५ ॥ मानाभावे परेणापि व्यवहारो निषिध्यते । सज्ज्ञानशब्दविषयस्तद्वदत्रापि दृश्यताम् ॥ [६.१]४३६ ॥ (२) अर्थक्रियाकारित्व से क्षणिकवाद की सिद्धि नहीं अर्थक्रियासमर्थत्वं क्षणिके यच्च गीयते । उत्पत्त्यनन्तरं नाशाद्विज्ञेयं तदयुक्तिमत् ॥ [६.२]४३७ ॥ अर्थक्रिया यतोऽसौ वा तदन्या वा द्वयी गतिः । तत्त्वे न तत्र सामर्थ्यमन्यतस्तत्समुद्भवात् ॥ [६.२]४३८ ॥ न स्वसंधारणे न्यायात्जन्मानन्तरनाशतः । न च नाशेऽपि सद्युक्त्या तद्धेतोस्तत्समुद्भवात् ॥ [६.२]४३९ ॥ अन्यत्वेऽन्यस्य सामर्थ्यमन्यत्रेति न संगतम् । ततोऽन्यभाव एवैतन्नासौ न्याय्यो दलं विना ॥ [६.२]४४० ॥ नासत्सत्जायते यस्मादन्यसत्त्वस्थितावपि । तस्यैव तु तथाभावे नन्वसिद्धोऽन्वयः कथम् ॥ [६.२]४४१ ॥ भूतिर्यैषां क्रिया सोक्ता न चासौ युज्यते क्वचित् । कर्तृभोक्तृस्वभावत्व-विरोधादिति चिन्त्यताम् ॥ [६.२]४४२ ॥ न चातीतस्य सामर्थ्यं तस्यामिति निदर्शितम् । न चान्यो लौकिकः कश्चिच्छब्दार्थोऽत्रेत्ययुक्तिमत् ॥ [६.२]४४३ ॥ (३) रूपरूपान्तरण से क्षणिकवाद की सिद्धि नहीं परिणामोऽपि नो हेतुः क्षणिकत्वप्रसाधने । सर्वदैवान्यथात्वेऽपि तथाभावोपलब्धितः ॥ [६.३]४४४ ॥ नार्थान्तरगमो यस्मात्सर्वथैव न चागमः । परिणामः प्रमासिद्धः इष्टश्च खलु पण्डितैः ॥ [६.३]४४५ ॥ यच्चेदमुच्यते ब्रूमो-ऽतादवस्थ्यमनित्यताम् । एतत्तदेव न भवत्यतोऽन्यत्वे ध्रुवोऽन्वयः ॥ [६.३]४४६ ॥ तदेव न भवत्येतत्तच्च न भवतीति च । विरुद्धं हन्त किंचान्यदादिमत्तत्प्रसज्यते ॥ [६.३]४४७ ॥ क्षीरनाशश्च दध्येव यद्दृष्टं गोरसान्वितम् । न तु तैलाद्यतः सिद्ध परिणमोऽन्वयावहः ॥ [६.३]४४८ ॥ नासत्सज्जायते जातु सच्चासत्सर्वथैव हि । शक्त्यभावादतिव्याप्तेः सत्स्वभावत्वहानितः ॥ [६.३]४४९ ॥ नित्येतरदतो न्यायात्तत्तथाभावतो हि तत् । प्रतीतिसचिवात्सम्यक्परिणामेन गम्यते ॥ [६.३]४५० ॥ (४)अन्ततोगामी नाश से क्षणिकवाद की सिद्धि नहीं अन्ते क्षयेक्षणं चाद्य-क्षणक्षयप्रसाधनम् । तस्यैव तत्स्वभावत्वात्युज्यते न कदाचन ॥ [६.४]४५१ ॥ आदौ क्षयस्वभावत्वे तत्रान्ते दर्शनं कथम् । तुल्यापरापरोत्पत्ति-विप्रलम्भाद्यथोदितम् ॥ [६.४]४५२ ॥ अन्ते क्षयेक्षणादादौ क्षयोऽदृष्टोऽनुमीयते । सदृशेनावरुद्धत्वात्तद्ग्रहाधि तदग्रहः ॥ [६.४]४५३ ॥ एतदप्यसदेवेति सदृशो भिन्न एव यत् । भेदाग्रहे कथं तस्य तत्स्वभावत्वतो ग्रहः ॥ [६.४]४५४ ॥ तदर्थनियतोऽसौ यद्भेदमन्याग्रहाधि तत् । न गृह्णातीति चेत्तुल्यः सोऽपरेण कुतो गतिः ॥ [६.४]४५५ ॥ तथागतेरभावे च वचस्तुच्छमिदं ननु । सदृशेनावरुद्धत्वात्तद्ग्रहाधि तदग्रहः ॥ [६.४]४५६ ॥ भावे चास्या बलादेकमनेकग्रहणात्मकम् । अन्वयि ज्ञानमेष्टव्यं सर्वं तत्क्षणिकं कुतः ॥ [६.४]४५७ ॥ ज्ञानेन गृह्यते चार्थो न चापि परदर्शने । तदभावे तु तद्भावात्कदाचिदपि तत्त्वतः ॥ [६.४]४५८ ॥ ग्रहणेऽपि यदा ज्ञानमपैत्युत्पत्त्यनन्तरम् । तदा तत्तस्य जानाति क्षणिकत्वं कथं ननु ॥ [६.४]४५९ ॥ तस्यैव तत्स्वभावत्वात्स्वात्मनैव तदुद्भवात् । यथा नीलादि ताद्रूप्यान्नैतन्मिथ्यात्वसंशयात् ॥ [६.४]४६० ॥ न चापि स्वानुमानेन धर्मभेदस्य संभवात् । लिङ्गधर्मातिपाताच्च तत्स्वभावाद्ययोगतः ॥ [६.४]४६१ ॥ नित्यस्यार्थक्रियायोगोऽप्येवं युक्त्या न गम्यते । सर्वमेवाविशेषेण विज्ञानं क्षणिकं यतः ॥ [६.४]४६२ ॥ तथा चित्रस्वभावत्वान्न चार्थस्य न युज्यते । अर्थक्रिया ननु न्यायात्क्रमाक्रमविभाविनी ॥ [६.४]४६३ ॥ (५) क्षणिकवाद तथा विज्ञानवाद के प्रतिपादन का एक संभव आशयविशेष अन्ये त्वभिदधत्येवमेतदास्थानिवृत्तये । क्षणिकं सर्वमेवेति बुद्धेनोक्तं न तत्त्वतः ॥ [६.५]४६४ ॥ विज्ञानमात्रमप्येवं बाह्यासंगनिवृत्तये । विनेयान् कांश्चिदाश्रित्य यद्वा तद्देशनार्हतः ॥ [६.५]४६५ ॥ न चैतदपि न न्याय्यं यतो बुद्धो महामुनिः । सुवैद्यवद्विना कार्यं द्रव्यासत्यं न भाषते ॥ [६.५]४६६ ॥ (६) शून्यवाद खंडन ब्रुवते शून्यमन्ये तु सर्वमेव विचक्षणाः । न नित्यं नाप्यनित्यं यद्वस्तु युक्त्योपपद्यते ॥ [६.६]४६७ ॥ नित्यमर्थक्रियाभावात्क्रमाक्रमविरोधतः । अनित्यमपि चोत्पाद-व्ययाभावान्न जातुचित् ॥ [६.६]४६८ ॥ उत्पादव्ययबुद्धिश्च भ्रान्तानन्दादिकारणम् । कुमार्याः स्वप्नवज्ज्ञेया पुत्रजन्मादिबुद्धिवत् ॥ [६.६]४६९ ॥ अत्राप्यभिदधत्यन्ये किमित्थं तत्त्वसाधनम् । प्रमाणं विद्यते किञ्चिदाहोस्विच्छून्यमेव हि ॥ [६.६]४७० ॥ शून्यं चेत्सुस्थितं तत्त्वमस्ति चेच्छून्यता कथम् । तस्यैव ननु सद्भावादिति सम्यग्विचिन्त्यताम् ॥ [६.६]४७१ ॥ प्रमाणमन्तरेणापि स्यादेवं तत्त्वसंस्थितिः । अन्यथा नेति सुव्यक्तमिदमीश्वरचेष्टितम् ॥ [६.६]४७२ ॥ उक्तं विहाय मानं चेच्छून्यतान्यस्य वस्तुनः । शून्यत्वे प्रतिपाद्यस्य ननु व्यर्थः परिश्रमः ॥ [६.६]४७३ ॥ तस्याप्यशून्यतायां च प्राश्निकानां बहुत्वतः । प्रभूताशून्यतापत्तिरनिष्टा संप्रसज्यते ॥ [६.६]४७४ ॥ यावतामस्ति तन्मानं प्रतिपाद्यास्तथा च ये । सन्ति ते सर्व एवेति प्रभूतानामशून्यता ॥ [६.६]४७५ ॥ एवं च शून्यवादोऽपि तद्विनेयानुगुण्यतः । अभिप्रायत इत्युक्तो लक्ष्यते तत्त्ववेदिना ॥ [६.६]४७६ ॥ सातवां स्तबक (१) जैनसम्मत नित्यानित्यत्ववाद का समर्थन अन्ये त्वाहुरनाद्येव जीवाजीवात्मकं जगत् । सदुत्पादव्ययध्रौव्य-युक्तं शास्त्रकृतश्रमाः ॥ [७.१]४७७ ॥ घटमौलिसुवर्णार्थी नाशोत्पादस्थितिष्वयम् । शोकप्रमोदमाध्यस्थ्यं जनो याति सहेतुकम् ॥ [७.१]४७८ ॥ पयोवतो न दध्यत्ति न पयोऽत्ति दधिव्रतः । अगोरसव्रतो नोभे तस्मात्तत्त्वं त्रयात्मकम् ॥ [७.१]४७९ ॥ अत्राप्यभिदधत्यन्ये विरुद्धं हि मिथस्त्रयम् । एकत्रैवैकदा नैतद्घटां प्राञ्चति जातुचिद् ॥ [७.१]४८० ॥ उत्पादोऽभूतभवनं विनाशस्तद्विपर्ययः । ध्रौव्यं चोभयशून्यं यदेकदैकत्र तत्कथम् ॥ [७.१]४८१ ॥ शोकप्रमोदमाध्यस्थ्यमुक्तं यच्चात्र साधनम् । तदप्यसाम्प्रतं यत्तद्वासनाहेतुकं मतम् ॥ [७.१]४८२ ॥ किञ्च स्याद्वादिनो नैव युज्यते निश्चयः क्वचित् । स्वतन्त्रापेक्षया तस्य न मानं मानमेव यत् ॥ [७.१]४८३ ॥ संसार्यपि न संसारी मुक्तोऽपि न स एव हि । तदतद्रूपभावेन सर्वमेवाव्यवस्थितम् ॥ [७.१]४८४ ॥ त आहुर्मुकुटोत्पादो न घटानाशधर्मकः । स्वर्णान्न वान्य एवेति न विरुद्धं मिथस्त्रयम् ॥ [७.१]४८५ ॥ न चोत्पादव्ययौ न स्तो ध्रौव्यवत्तद्धिया गतेः । नास्तित्वे तु तयोर्ध्रौव्यं तत्त्वतोऽस्तीति न प्रमा ॥ [७.१]४८६ ॥ न नास्ति ध्रौव्यमप्येवमविगानेन तद्गतेः । अस्याश्च भ्रान्ततायां न जगत्यभ्रान्ततागतिः ॥ [७.१]४८७ ॥ उत्पादोऽभूतभवनं स्वहेत्वन्तरधर्मकम् । तथाप्रतीतियोगेन विनाशस्तद्विपर्ययः ॥ [७.१]४८८ ॥ तथैतदुभयाधार-स्वभावं ध्रौव्यमित्यपि । अन्यथा त्रितयाभाव एकदैकत्र किं न तत् ॥ [७.१]४८९ ॥ एकत्रैवैकदैवैतदित्थं त्रयमपि स्थितम् । न्याय्यं भिन्ननिमित्तत्वात्तदभेदे न युज्यते ॥ [७.१]४९० ॥ इष्यते च परैर्मोहात्तत्क्षणस्थितिधर्मिणि । अभावेऽन्यतमस्यापि तत्र तत्त्वं न यद्भवेत् ॥ [७.१]४९१ ॥ भावमात्रं तदिष्टं चेत्तदित्थं निर्विशेषणम् । क्षणस्थितिस्वभावत्वं न ह्युत्पादव्ययौ विना ॥ [७.१]४९२ ॥ तदित्थं भूतमेवेति द्राग्नभस्तो न जातुचित् । भूत्वाभावश्च नाशोऽपि तदेवेति न लौकिकम् ॥ [७.१]४९३ ॥ वासनाहेतुकं यच्च शोकादि परिकीर्तितम् । तदयुक्तं यतश्चित्रा सा न जात्वनिबन्धना ॥ [७.१]४९४ ॥ सदाभावेतरापत्तेरेकभावाच्च वस्तुनः । तद्भावेऽतिप्रसंगादि नियमात्संप्रसज्यते ॥ [७.१]४९५ ॥ न मानं मानमेवेति सर्वथानिश्चयश्च यः । उक्तो न युज्यते सोऽपि यदेकान्तनिबन्धनः ॥ [७.१]४९६ ॥ मानं तन्मानमेवेति प्रत्यक्षं लैङ्गिकं न तु । तत्तच्चेन्मानमेवेति स्यात्तद्भावादृते कथम् ॥ [७.१]४९७ ॥ न स्वसत्त्वं परासत्त्वं सदसत्त्वविरोधतः । स्वसत्त्वासत्त्ववन्न्यायान्न च नास्त्येव तत्र तत् ॥ [७.१]४९८ ॥ परिकल्पितमेतच्चेन्न त्वित्थं तत्त्वतो न तत् । ततः क इह दोषश्चेन्न तु तद्भावसंगतिः ॥ [७.१]४९९ ॥ अनेकान्तत एवातः सम्यग्मानव्यवस्थितेः । स्याद्वादिनो नियोगेन युज्यते निश्चयः परः ॥ [७.१]५०० ॥ एतेन सर्वमेवेति यदुक्तं तन्निराकृतम् । शिष्यव्युत्पत्तये किञ्चित्तथाप्यपरमुच्यते ॥ [७.१]५०१ ॥ संसारी चेत्स एवेति कथं मुक्तस्य संभवः । मुक्तोऽपि चेत्स एवेति व्यपदेशोऽनिबन्धनः ॥ [७.१]५०२ ॥ संसाराद्विप्रमुक्तो यन्मुक्त इत्यभिधीयते । नैतत्तस्यैव तद्भावमन्तरेणोपपद्यते ॥ [७.१]५०३ ॥ तस्यैव च तथाभावे तन्निवृत्तीतरात्मकम् । द्रव्यपर्यायवद्वस्तु बलादेव प्रसिद्ध्यति ॥ [७.१]५०४ ॥ लज्जते बाल्यचरितैर्बाल एव न चापि यत् । युवा न लज्जते चान्यस्तैरायत्यैव चेष्टते ॥ [७.१]५०५ ॥ युवैव न च वृद्धोऽपि नान्यार्थं चेष्टनं च तत् । अन्वयादिमयं वस्तु तदभावोऽन्यथा भवेत् ॥ [७.१]५०६ ॥ अन्वयो व्यतिरेकश्च द्रव्यपर्यायसंज्ञितौ । अन्योन्यव्याप्तितो भेदा-भेदवृत्त्यैव वस्तु तौ ॥ [७.१]५०७ ॥ नान्योन्यव्याप्तिरेकान्त-भेदेऽभेदे च युज्यते । अतिप्रसंगादैक्याच्च शब्दार्थानुपपत्तितः ॥ [७.१]५०८ ॥ अन्योन्यमिति यद्भेदं व्याप्तिश्चाह विपर्ययम् । भेदाभेदे द्वयोस्तस्मादन्योन्यव्याप्तिसंभवः ॥ [७.१]५०९ ॥ एवं न्यायाविरुद्धेऽस्मिन् विरोधोद्भावनं नृणाम् । व्यसनं धीजडत्वं वा प्रकाशयति केवलम् ॥ [७.१]५१० ॥ न्यायात्खलु विरोधो यः स विरोध इहोच्यते । यद्वदेकान्तभेदादौ तयोरेवाप्रसिद्धितः ॥ [७.१]५११ ॥ मृद्द्रव्यं यन्न पिण्डादि-धर्मान्तरविवर्जितम् । तद्वा तेन विनिर्मुक्तं केवलं गम्यते क्वचित् ॥ [७.१]५१२ ॥ ततोऽसत्तत्तथा न्यायादेकं चोभयसिद्धितः । अन्यत्रातो विरोधस्तद्-अभावापत्तिलक्षणः ॥ [७.१]५१३ ॥ जात्यन्तरात्मके चास्मिन्नानवस्थादिदूषणम् । नियतत्वाद्विविक्तस्य भेदादेश्चाप्यसंभवात् ॥ [७.१]५१४ ॥ नाभेदो भेदरहितो भेदो वाभेदवर्जितः । केवलोऽस्ति यतस्तेन कुतस्तत्र विकल्पनम् ॥ [७.१]५१५ ॥ येनाकारेण भेदः किं तेनासावेव वा द्वयम् । असत्त्वात्केवलस्येह सतश्च कथितत्वतः ॥ [७.१]५१६ ॥ यतश्च तत्प्रमाणेन गम्यते ह्युभयात्मकम् । अतोऽपि जातिमात्रं तदनवस्थादिकल्पनम् ॥ [७.१]५१७ ॥ एवं ह्युभयदोषादि-दोषा अपि न दूषणम् । सम्यग्जात्यन्तरत्वेन भेदाभेदप्रसिद्धितः ॥ [७.१]५१८ ॥ एतेनैतत्प्रतिक्षिप्तं यदुक्तं पूर्वसूरिभिः । विहायानुभवं मोहाज्जातियुक्त्यनुसारिभिः ॥ [७.१]५१९ ॥ द्रव्यपर्याययोर्भेदे नैकस्योभयरूपता । अभेदेऽन्यतरस्थान-निवृत्ती चिन्त्यतां कथम् ॥ [७.१]५२० ॥ यन्निवृत्तौ न यस्येह निवृत्तिस्तत्ततो यतः । भिन्नं नियमतो दृष्टं यथा कर्कः क्रमेलकात् ॥ [७.१]५२१ ॥ निवर्तते च पर्यायो न तु द्रव्यं ततो न सः । अभिन्नो द्रव्यतोऽभेदे-ऽनिवृत्तिस्तत्स्वरूपवत् ॥ [७.१]५२२ ॥ प्रतिक्षिप्तं च यद्भेदा-भेदपक्षोऽन्य एव हि । भेदाभेदविकल्पाभ्यां हन्त जात्यन्तरात्मकः ॥ [७.१]५२३ ॥ जात्यन्तरात्मकं चैनं दोषास्ते समियुः कथम् । भेदाभेदे च येऽत्यन्तं जातिभिन्ने व्यवस्थिताः ॥ [७.१]५२४ ॥ किञ्चिन्निवर्ततेऽवश्यं तस्याप्यन्यत्तथा न यत् । अतस्तद्भेद एवात्र निवृत्त्याद्यन्यथा कथम् ॥ [७.१]५२५ ॥ तस्येति योगसामर्थ्याद्भेद एवेति बाधितम् । अभिन्नदेशस्तस्येति यत्तद्व्याप्त्या तथोच्यते ॥ [७.१]५२६ ॥ अतस्तद्भेद एवेति प्रतीतिविमुखं वचः । तस्यैव च तथाभावात्तन्निवृत्तीतरात्मकम् ॥ [७.१]५२७ ॥ नानुवृत्तिनिवृत्तिभ्यां विना यदुपपद्यते । तस्यैव हि तथाभावः सूक्ष्मबुद्ध्या विचिन्त्यताम् ॥ [७.१]५२८ ॥ तस्यैव तु तथाभावे तदेव हि यतस्तथा । भवत्यतो न दोषो नः कश्चिदप्युपपद्यते ॥ [७.१]५२९ ॥ इत्थमालोचनं चेदमन्वयव्यतिरेकवत् । वस्तुनस्तत्स्वभावत्वात्तथाभावप्रसाधकम् ॥ [७.१]५३० ॥ न च भेदोऽपि बाधायै तस्यानेकान्तवादिनः । जात्यन्तरात्मकं वस्तु नित्यानित्यं यतो मतम् ॥ [७.१]५३१ ॥ प्रत्यभिज्ञाबलाच्चैतदित्थं समवसीयते । इयं च लोकसिद्धैव तदेवेदमिति क्षितौ ॥ [७.१]५३२ ॥ न युज्यते च सन्न्यायादृते तत्परिणामिताम् । कालादिभेदतो वस्त्व-भेदतश्च तथागतेः ॥ [७.१]५३३ ॥ एकान्तैक्ये न नाना यन्नानात्वे चैकमप्यदः । अतः कथं नु तद्भावः तदेतदुभयात्मकम् ॥ [७.१]५३४ ॥ तस्यैव तु तथाभावे कथञ्चिद्भेदयोगतः । प्रमातुरपि तद्भावात्युज्यते मुख्यवृत्तितः ॥ [७.१]५३५ ॥ नित्यैकयोगतो व्यक्ति-भेदेऽप्येषा न संगता । तदिहेति प्रसंगेन तदेवेदमयोगतः ॥ [७.१]५३६ ॥ सादृश्याज्ञानतो न्याय्या न विभ्रमबलादपि । एतद्द्वयाग्रहे युक्तं न च सादृश्यकल्पनम् ॥ [७.१]५३७ ॥ न च भ्रान्तापि सद्बाधा-ऽभावादेव कदाचन । योगिप्रत्ययतद्भावे प्रमाणं नास्ति किञ्चन ॥ [७.१]५३८ ॥ नाना योगी विजानात्य-नाना नेत्यत्र न प्रमा । देशनाया विनेयानु-गुण्येनापि प्रवृत्तितः ॥ [७.१]५३९ ॥ या च लूनपुनर्जात-नखकेशतृणादिषु । इयं संलक्ष्यते सापि तदाभासा न सैव हि ॥ [७.१]५४० ॥ प्रत्यक्षाभासभावेऽपि नाप्रमाणं यथैव हि । प्रत्यक्षं तद्वदेवेयं प्रमाणमवगम्यताम् ॥ [७.१]५४१ ॥ मतिज्ञानविकल्पत्वान्न चानिष्टिरियं यतः । एतद्बलात्ततः सिद्धं नित्यानित्यादि वस्तुनः ॥ [७.१]५४२ ॥ आठवां स्तबक (१) ब्रह्माद्वैतवादखंडन अन्ये त्वद्वैतमिच्छन्ति सद्ब्रह्मादिव्यपेषया । सतो यद्भेदकं नान्यत्तच्च तन्मात्रमेव हि ॥ [८.१]५४३ ॥ यथा विशुद्धमाकाशं तिमिरोपप्लुतो जनः । संकीर्णमिव मात्राभिर्भिन्नाभिरभिमन्यते ॥ [८.१]५४४ ॥ तथेदममलं ब्रह्म निर्विकल्पमविद्यया । कलुषत्वमिवापन्नं भेदरूपं प्रकाशते ॥ [८.१]५४५ ॥ अत्राप्येवं वदन्त्यन्ये अविद्या न सतः पृथक् । तच्च तन्मात्रमेवेति भेदाभासोऽनिबन्धनः ॥ [८.१]५४६ ॥ सैवाथाभेदरूपापि भेदाभासनिबन्धनम् । प्रमाणमन्तरेणैतदवगन्तुं न शक्यते ॥ [८.१]५४७ ॥ भावेऽपि च प्रमाणस्य प्रमेयव्यतिरेकतः । ननु नाद्वैतमेवेति तदभावेऽप्रमाणकम् ॥ [८.१]५४८ ॥ विद्याविद्यादिभेदाच्च स्वतन्त्रेणैव बाध्यते । तत्संशयादियोगाच्च प्रतीत्या च विचिन्त्यताम् ॥ [८.१]५४९ ॥ अन्ये व्याख्यानयन्त्येवं समभावप्रसिद्धये । अद्वैतदेशना शास्त्रे निर्दिष्टा न तु तत्त्वतः ॥ [८.१]५५० ॥ न चैतत्बाध्यते युक्त्या सच्छास्त्रादिव्यवस्थितेः । संसारमोक्षभावाच्च तदर्थं यत्नसिद्धितः ॥ [८.१]५५१ ॥ अन्यथा तत्त्वतोऽद्वैते हन्त संसारमोक्षयोः । सर्वानुष्ठानवैयर्थ्यमनिष्टं सम्प्रसज्यते ॥ [८.१]५५२ ॥ नवां स्तबक (१)मोक्ष की संभावना तथा मोक्ष के साधन अन्ये पुनर्वदन्त्येवं मोक्ष एव न विद्यते । उपायाभावतः किं वा न सदा सर्वदेहिनाम् ॥ [९.१]५५३ ॥ कर्मादिपरिणत्यादि-सापेक्षो यद्यसौ ततः । अनादिमत्त्वात्कर्मादि-परिणत्यादि किं तथा ॥ [९.१]५५४ ॥ तस्यैव चित्ररूपत्वात्तत्तथेति न युज्यते । उत्कृष्टा या स्थितिस्तस्य यज्जातानेकशः किल ॥ [९.१]५५५ ॥ अत्रापि वर्णयन्त्यन्ये विद्यते दर्शनादिकः । उपायो मोक्षतत्त्वस्य परः सर्वज्ञभाषितः ॥ [९.१]५५६ ॥ दर्शनं मुक्तिबीजं च सम्यक्त्वं तत्त्ववेदनम् । दुःखान्तकृत्सुखारम्भः पर्यायास्तस्य कीर्तिताः ॥ [९.१]५५७ ॥ अनादिभव्यभावस्य तत्स्वभावत्वयोगतः । उत्कृष्टाद्यास्वतीतासु तथा कर्मस्थितिष्वलम् ॥ [९.१]५५८ ॥ तद्दर्शनमवाप्नोति कर्मग्रन्थिं सुदारुणम् । निर्भिद्य शुभभावेन कदाचित्कश्चिदेव हि ॥ [९.१]५५९ ॥ सति चास्मिन्नसौ धन्यः सम्यग्दर्शनसंयुतः । तत्त्वश्रद्धानपूतात्मा रमते न भवोदधौ ॥ [९.१]५६० ॥ स पश्यत्यस्य यद्रूपं भावतो बुद्धिचक्षुषा । सम्यक्शास्त्रानुसारेण रूपं नष्टाक्षिरोगवत् ॥ [९.१]५६१ ॥ तद्दृष्ट्वा चिन्तयत्येवं प्रशान्तेनान्तरात्मना । भावगर्भं यथाभावं परं संवेगमाश्रितः ॥ [९.१]५६२ ॥ जन्ममृत्युजराव्याधि-रोगशोकाद्युपद्रुतः । क्लेशाय केवलं पुंसामहो भीमो महोदधिः ॥ [९.१]५६३ ॥ सुखाय तु परं मोक्षो जन्मादिक्लेशवर्जितः । भयशक्त्या विनिर्मुक्तो व्याबाधावर्जितः सदा ॥ [९.१]५६४ ॥ हेतुर्भवस्य हिंसादिर्दुःखाद्यन्वयदर्शनात् । मुक्तेः पुनरहिंसादिर्व्याबाधाविनिवृत्तितः ॥ [९.१]५६५ ॥ बुद्ध्वैवं भवनैर्गुण्यं मुक्तेश्च गुणरूपताम् । तदर्थं चेष्टते नित्यं विशुद्धात्मा यथागमम् ॥ [९.१]५६६ ॥ दुष्करं क्षुद्रसत्त्वानामनुष्ठानं करोत्यसौ । मुक्तौ दृढानुरागत्वात्कामीव विनितान्तरे ॥ [९.१]५६७ ॥ उपादेयविशेषस्य न यत्सम्यक्प्रसाधनम् । दुनोति चेतोऽनुष्ठानं तद्भावप्रतिबन्धतः ॥ [९.१]५६८ ॥ ततश्च दुष्करं तन्न सम्यगालोच्यते यदा । अतोऽन्यद्दुष्करं न्यायाधेयवस्तुप्रसाधकम् ॥ [९.१]५६९ ॥ व्याधिग्रस्तो यथारोग्य-लेशमास्वादयन् बुद्धः । कष्टेऽप्युपक्रमे धीरः सम्यक्प्रीत्या प्रवर्तते ॥ [९.१]५७० ॥ संसारव्याधिना ग्रस्तस्तद्वज्ज्ञेयो नरोत्तमः । शमारोग्यलवं प्राप्य भावतस्तदुपक्रमे ॥ [९.१]५७१ ॥ प्रवर्तमान एवं च यथाशक्ति स्थिराशयः । शुद्धं चारित्रमासाद्य केवलं लभते क्रमात् ॥ [९.१]५७२ ॥ ततः स सर्वविद्भूत्वा भवोपग्राहिकर्मणः । ज्ञानयोगात्क्षयं कृत्वा मोक्षमाप्नोति शाश्वतम् ॥ [९.१]५७३ ॥ ज्ञानयोगस्तपः शुद्धमित्यादि यदुदीरितम् । ऐदम्पर्येण भावार्थस्तस्यायमभिधीयते ॥ [९.१]५७४ ॥ ज्ञानयोगस्य योगीन्द्रैः परा काष्ठा प्रकीर्तिता । शैलेशीसंज्ञितं स्थैर्यं ततो मुक्तिरसंशयम् ॥ [९.१]५७५ ॥ धर्मस्तच्चात्मधर्मत्वान्मुक्तिदः शुद्धिसाधनात् । अक्षयोऽप्रतिपातित्वात्सदा मुक्तौ तथा स्थितेः ॥ [९.१]५७६ ॥ चारित्रपरिणामस्य निवृत्तिर्न च सर्वथा । सिद्ध उक्तो यतः शास्त्रे न चारित्री न चेतरः ॥ [९.१]५७७ ॥ न चावस्थानिवृत्त्येह निवृत्तिस्तस्य युज्यते । समयातिक्रमे यद्वत्सिद्धभावश्च तत्र वै ॥ [९.१]५७८ ॥ ज्ञानयोगादतो मुक्तिरिति सम्यग्व्यवस्थितम् । तन्त्रान्तरानुरोधेन गीतं चेत्थं न दोषकृत् ॥ [९.१]५७९ ॥ दसवां स्तबक (१) मीमांसक के सर्वज्ञताखंडन का खंडन अत्राप्यभिदधत्यन्ये सर्वज्ञो नैव विद्यते । तद्ग्राहकप्रमाभावादिति न्यायानुसारिणः ॥ [१०.१]५८० ॥ प्रत्यक्षेण प्रमाणेन सर्वज्ञो नैव गृह्यते । लिङ्गमप्यविनाभावि तेन किञ्चिन्न विद्यते ॥ [१०.१]५८१ ॥ न चागमेन यदसौ विध्यादिप्रतिपादकः । अप्रत्यक्षत्वतो नैवो-पमानेनापि गम्यते ॥ [१०.१]५८२ ॥ नार्थापत्त्यापि सर्वोऽर्थस्तं विनाप्युपपद्यते । प्रमाणपञ्चकावृत्तेस्तत्राभावप्रमाणता ॥ [१०.१]५८३ ॥ धर्माधर्मव्यवस्था तु वेदाख्यादागमात्किल । अपौरुषेयोऽसौ यस्माधेतुदोषविवर्जितः ॥ [१०.१]५८४ ॥ आह चालोकवद्वेदे सर्वसाधारणे सति । धर्माधर्मपरिज्ञाता किमर्थं कल्प्यते नरः ॥ [१०.१]५८५ ॥ ईष्टापूर्तादिभेदोऽस्मात्सर्वलोकप्रतिष्ठितः । व्यवहारप्रसिद्धयैव यथैव दिवसादयः ॥ [१०.१]५८६ ॥ ऋत्विग्भिर्मन्त्रसंस्कारैर्ब्राह्मणानां समक्षतः । अन्तर्वेद्यां तु यद्दत्तमिष्टं तदभिधीयते ॥ [१०.१]५८७ ॥ वापीकूपतङागानि देवतायतनानि च । अन्नप्रदानमित्येतत्पूर्त्तमित्यभिधीयते ॥ [१०.१]५८८ ॥ अतोऽपि शुक्लं यद्वृत्तं निरीहस्य महात्मनः । ध्यानादि मोक्षफलदं श्रेयस्तदभिधीयते ॥ [१०.१]५८९ ॥ वर्णाश्रमव्यवस्थापि सर्वा तत्प्रभवैव हि । अतीन्द्रियार्थद्रष्टा तन्नास्ति किञ्चित्प्रयोजनम् ॥ [१०.१]५९० ॥ अत्रापि ब्रुवते केचिदित्थं सर्वज्ञवादिनः । प्रमाणपञ्चकावृत्तिः कथं तत्रोपपद्यते ॥ [१०.१]५९१ ॥ सर्वार्थविषयं तच्चेत्प्रत्यक्षं तन्निषेधकृत् । अभावः कथमेतस्य न चेदत्राप्यदः समम् ॥ [१०.१]५९२ ॥ धर्मादयोऽपि चाध्यक्षाः ज्ञेयभावाद्घटादिवत् । कस्यचित्सर्व एवेति नानुमानं न विद्यते ॥ [१०.१]५९३ ॥ आगमादपि तत्सिद्धिर्यदसौ चोदनाफलम् । प्रामाण्यं च स्वतस्तस्य नित्यत्वं च श्रुतेरिव ॥ [१०.१]५९४ ॥ हृद्गताशेषसंशीति-निर्णयात्तद्ग्रहे पुनः । उपमान्यग्रहे तत्र न चान्यत्रापि चान्यथा ॥ [१०.१]५९५ ॥ शास्त्रादतीन्द्रियगतेरर्थापत्त्यापि गम्यते । अन्यथा तत्र नाश्वासश्छद्मस्थस्योपजायते ॥ [१०.१]५९६ ॥ प्रमाणपञ्चकावृत्तिरेवं तत्र न युज्यते । तथाप्यभावप्रामाण्यमिति ध्यान्ध्यविजृम्भितम् ॥ [१०.१]५९७ ॥ वेदाद्धर्मादिसंस्थापि हन्तातीन्द्रियदर्शिनम् । विहाय गम्यते सम्यक्कुत एतद्विचिन्त्यताम् ॥ [१०.१]५९८ ॥ न वृद्धसम्प्रदायेन छिन्नमूलत्वयोगतः । न चार्वाग्दर्शिना तस्यातीन्द्रियार्थोऽवसीयते ॥ [१०.१]५९९ ॥ प्रामाण्यं रूपविषये संप्रदाये न युक्तिमत् । यथानादिमदन्धानां तथात्रापि निरूप्यताम् ॥ [१०.१]६०० ॥ न लौकिकपदार्थेन तत्पदार्थस्य तुल्यता । निश्चेतुं पार्यतेऽन्यत्र तद्विपर्ययदर्शनात् ॥ [१०.१]६०१ ॥ नित्यत्वापौरुषेयत्वाद्यस्ति किञ्चिदलौकिकम् । तत्रान्यत्राप्यतः शङ्का विदुषो न निवर्तते ॥ [१०.१]६०२ ॥ तन्निवृत्तौ च नोपायो विनातीन्द्रियवेदिनम् । एवं च कृत्वा साध्वेतत्कीर्तितं धर्मकीर्तिना ॥ [१०.१]६०३ ॥ स्वयं रागादिमान्नार्थं वेत्ति वेदस्य नान्यतः । न वेदयति वेदोऽपि वेदार्थस्य गतिः कुतः ॥ [१०.१]६०४ ॥ तेनाग्निहोत्रं जुहुयात्स्वर्गकाम इति श्रुतौ । खादेत्श्वमांसमित्येष नार्थ इत्यत्र का प्रमा ॥ [१०.१]६०५ ॥ प्रदीपादिवदिष्टश्चेत्तच्छब्दोऽर्थप्रकाशकः । स्वत एव प्रमाणं न किञ्चिदत्रापि विद्यते ॥ [१०.१]६०६ ॥ विपरीतप्रकाशश्च ध्रुवमापद्यते क्वचित् । तथा हीन्दीवरे दीपः प्रकाशयति रक्तताम् ॥ [१०.१]६०७ ॥ तस्मान्न चाविशेषेण प्रतीतिरुपजायते । सङ्केतसव्यपेक्षत्वे स्वत एवेत्ययुक्तिमत् ॥ [१०.१]६०८ ॥ साधुर्न वेति सङ्केतो न चाशङ्का निवर्तते । तद्वैचित्र्योपलब्धेश्च स्वाशयाभिनिवेशतः ॥ [१०.१]६०९ ॥ व्याख्याप्यपौरुषेय्यस्य मानाभावान्न सङ्गता । मिथो विरुद्धभावाच्च तत्साधुत्वाद्यनिश्चितेः ॥ [१०.१]६१० ॥ नान्यप्रमाणसंवादात्तत्साधुत्वविनिश्चयः । सोऽतीन्द्रिये न यन्न्याय्यस्तत्तद्भावविरोधतः ॥ [१०.१]६११ ॥ तस्माद्व्याख्यानमस्येदं स्वाभिप्रायनिवेदनम् । जैमिन्यादेर्न तुल्यं किं वचनेनापरेण वः ॥ [१०.१]६१२ ॥ एष स्थाणुरयं मार्ग इति वक्तीह कश्चन । अन्यः स्वयं ब्रवीमीति तयोर्भेदः परीक्ष्यताम् ॥ [१०.१]६१३ ॥ न चाप्यपौरुषेयोऽसौ घटते सूपपत्तितः । वक्तृव्यापारवैकल्ये तच्छब्दानुपलब्धितः ॥ [१०.१]६१४ ॥ वक्तृव्यापारभावेति तद्भावे लौकिकं न किम् । अपौरुषेयमिष्टं वो वचो द्रव्यव्यपेक्षया ॥ [१०.१]६१५ ॥ दृश्यमानेऽपि चाशङ्कादृश्यकर्तृसमुद्भवा । नातीन्द्रियार्थद्रषारमन्तरेण निवर्तते ॥ [१०.१]६१६ ॥ पापादत्रेदृशी बुद्धिर्न पुण्यादिति न प्रमा । न लोको हि विगानत्वात्तद्बहुत्वाद्यनिश्चितेः ॥ [१०.१]६१७ ॥ बहूनामपि संमोह-भावान्मिथ्याप्रवर्तनात् । मानसंख्याविरोधाच्च कथमित्थमिदं ननु ॥ [१०.१]६१८ ॥ अतीन्द्रियार्थद्रष्टा तु पुमान् कश्चिद्यदीष्यते । संभवद्विषयापि स्यादेवंभूतार्थकल्पना ॥ [१०.१]६१९ ॥ अपौरुषेयताप्यस्य नान्यतो ह्यवगम्यते । कर्तुरस्मरणादीनां व्यभिचारादिदोषतः ॥ [१०.१]६२० ॥ नाभ्यास एवमादीनामपि कर्ताविगानतः । स्मर्यते च विगानेन हन्तेहाप्यष्टकादयः ॥ [१०.१]६२१ ॥ अभ्यासः कर्मणां सत्यमुत्पादयति कौशलम् । स्वकृताध्ययनस्यापि तद्भावो न विरुध्यते । गौरवापादनार्थं च तथा स्यादनिवेदनम् ॥ [१०.१]६२२ ॥ मन्त्रादीनां च सामर्थ्यं शाबराणामपि स्फुटम् । प्रतीतं सर्वलोकेऽपि न चाप्यव्यभिचारि तत् ॥ [१०.१]६२३ ॥ वेदेऽपि पठ्यते ह्येष महात्मा तत्र तत्र यत् । स च मानमतोऽप्यस्यासत्त्वं वक्तुं न युज्यते ॥ [१०.१]६२४ ॥ न चाप्यतीन्द्रियार्थत्वाज्ज्यायो विषयकल्पनम् । असाक्षाद्दर्शिनस्तत्र रूपेऽन्धस्येव सर्वथा ॥ [१०.१]६२५ ॥ सर्वज्ञेन ह्यभिव्यक्तात्सर्वार्थादागमात्परा । धर्माधर्मव्यवस्थेयं युज्यते नान्यतः क्वचित् ॥ [१०.१]६२६ ॥ २. बौद्ध के सर्वज्ञताखंडन का खंडन अत्रापि प्राज्ञ इत्यन्य इत्थमाह सुभाषितम् । इष्टोऽयमर्थः शक्येत ज्ञातुं सोऽतिशयो यदि ॥ [१०.२]६२७ ॥ अयमेवं न वेत्यन्य-दोषो निर्दोषतापि वा । दुर्लभत्वात्प्रमाणानां दुर्बोधेत्यपरे विदुः ॥ [१०.२]६२८ ॥ अत्रापि ब्रुवते वृद्धाः सिद्धमव्यभिचार्यपि । लोके गुणादिविज्ञानं सामान्येन महात्मनाम् ॥ [१०.२]६२९ ॥ तन्नीतिप्रतिपत्त्यादेरन्यथा तन्न युक्तिमत् । विशेषज्ञानमप्येवं तद्वदभ्यासतो न किम् ॥ [१०.२]६३० ॥ दोषाणां ह्रासदृष्ट्येह तत्सर्वक्षयसंभवात् । तत्सिद्धौ ज्ञायते प्राज्ञैस्तस्यातिशय इत्यपि ॥ [१०.२]६३१ ॥ हृद्गताशेषसंशीति-निर्णयादिप्रभावतः । तदात्वे वर्तमाने तु तद्व्यक्तार्थाविरोधतः ॥ [१०.२]६३२ ॥ न चास्यादर्शनेऽप्यद्य साम्राज्यस्येव नास्तिता । संभवो न्याययुक्तस्तु पूर्वमेव निदर्शितः ॥ [१०.२]६३३ ॥ प्रतिभालोचनं तावदिदानीमप्यतीन्द्रिये । सुवैद्यसंयतादीनामविसंवादि दृश्यते ॥ [१०.२]६३४ ॥ एवं तत्रापि तद्भावे न विरोधोऽस्ति कश्चन । तद्व्यक्तार्थाविरोधादौ ज्ञानभावाच्च साम्प्रतम् ॥ [१०.२]६३५ ॥ सर्वत्र दृष्टे संवादाददृष्टे नोपजायते । ज्ञातुर्विसंवादाशङ्का तद्वैशिष्ट्योपलब्धितः ॥ [१०.२]६३६ ॥ वस्तुस्थित्यापि तत्तादृग्न विसंवादकं भवेत् । यथोत्तरं तथा दृष्टेरिति चैतन्न सांप्रतम् ॥ [१०.२]६३७ ॥ सिद्ध्येत्प्रमाणं यद्येवमप्रमाणमथेह किम् । न ह्येकं नास्ति सत्यार्थं पुरुषे बहुभाषिणि ॥ [१०.२]६३८ ॥ यत एकं न सत्यार्थं किन्तु सर्वं यथाश्रुतम् । यत्रागमे प्रमाणं स इष्यते पण्डितैर्जनैः ॥ [१०.२]६३९ ॥ आत्मा नामी पृथक्कर्म तत्संयोगाद्भवोऽन्यथा । मुक्तिर्हिंसादयो मुख्यास्तन्निवृत्तिः ससाधना ॥ [१०.२]६४० ॥ अतीन्द्रियार्थसंवादो विशुद्धो भावनाविधिः । यत्रेदं युज्यते सर्वं योगिव्यक्तं स आगमः ॥ [१०.२]६४१ ॥ अधिकार्यपि चास्येह स्वयमज्ञोऽपि यः पुमान् । कथितज्ञः पुनर्धीमांस्तद्वैयर्थ्यमतोऽन्यथा ॥ [१०.२]६४२ ॥ परिचित्तादिधर्माणां गत्युपायाभिधानतः । सर्वार्थविषयोऽप्येष इति तद्भावसंस्थितिः ॥ [१०.२]६४३ ॥ ग्यारहवां स्तबक १. शब्दार्थसंबंधखंडन का खंडन अन्ये त्वभिदधत्यत्र युक्तिमार्गकृतश्रमाः । शब्दार्थयोर्न संबन्धो वस्तुस्थित्येह विद्यते ॥ [११.१]६४४ ॥ न तादात्म्यं द्वयाभाव-प्रसंगाद्बुद्धिभेदतः । शस्त्राद्युक्तौ मुखच्छेदादिसंगात्समयस्थितेः ॥ [११.१]६४५ ॥ अर्थासंनिधिभावेन तद्दृष्टावन्यथोक्तितः । अन्याभावनियोगाच्च न तदुत्पत्तिरप्यलम् ॥ [११.१]६४६ ॥ परमार्थैकतानत्वे शब्दानामनिबन्धना । न स्यात्प्रवृत्तिरर्थेषु दर्शनान्तरभेदिषु ॥ [११.१]६४७ ॥ अतीताजातयोर्वापि न च स्यादनृतार्थता । वाचः कस्याश्चिदित्येषा बौद्धार्थविषया मता ॥ [११.१]६४८ ॥ वाच्य इत्थमपोहस्तु न जातिः पारमार्थिकी । तदयोगाद्विना भेदं तदन्येभ्यस्तथास्थितेः ॥ [११.१]६४९ ॥ सति चास्मिन् किमन्येन शब्दात्तद्वत्प्रतीतितः । तदभावे न तद्वत्त्वं तद्भ्रान्तत्वात्तथा न किम् ॥ [११.१]६५० ॥ अभ्रान्तजातिवादे तु न दण्डाद्दण्डिवद्गतिः । तद्वत्युभयसाङ्कर्ये न भेदाद्वोऽपि तादृशम् ॥ [११.१]६५१ ॥ अन्ये त्वभिदधत्येवं वाच्यवाचकलक्षणः । अस्ति शब्दार्थयोर्योगस्तत्प्रतीत्यादितस्ततः ॥ [११.१]६५२ ॥ नैतद्दृश्यविकल्प्यर्थैकीकरणेन भेदतः । एकप्रमात्रभावाच्च तयोस्तत्त्वाप्रसिद्धितः ॥ [११.१]६५३ ॥ शब्दात्तद्वासनाबोधो विकल्पस्य ततो हि यत् । तदित्थमुच्यतेऽस्माभिर्न ततस्तदसिद्धितः ॥ [११.१]६५४ ॥ विशिष्टं वासनाजन्म बोधस्तच्च न जातुचित् । अन्यतस्तुल्यकालादेर्विशेषोऽन्यस्य नो यतः ॥ [११.१]६५५ ॥ निष्पन्नत्वादसत्त्वाच्च द्वाभ्यामन्योदयो न सः । उपादानाविशेषेण तत्स्वभावं तु तत्कुतः ॥ [११.१]६५६ ॥ न ह्युक्तवत्स्वहेतोस्तु स्याच्च नाशः सहेतुकः । इत्थं प्रकल्पने न्यायादत एव न युक्तिमत् ॥ [११.१]६५७ ॥ अनभ्युपगमाच्चेह तादात्म्यादिसमुद्भवाः । न दोषा नो न चान्येऽपि तद्भेदाधेतुभेदतः ॥ [११.१]६५८ ॥ वन्ध्येतरादिको भेदो रामादीनां यथैव हि । मृषासत्यादिशब्दानां तद्वत्तद्धेतुभेदतः ॥ [११.१]६५९ ॥ परमार्थैकतानत्वेऽप्यन्यदोषोपवर्णनम् । प्रत्याख्यातं हि शब्दानामिति सम्यग्विचिन्त्यताम् ॥ [११.१]६६० ॥ अन्यदोषो यदन्यस्य युक्त्या युक्तो न जातुचित् । वक्त्यवर्णं न बुद्धानां भिक्ष्वादिः शबरादिवत् ॥ [११.१]६६१ ॥ ज्ञायते तद्विशेषस्तु प्रमाणेतरयोरिव । स्वरूपालोचनादिभ्यस्तथा दर्शनतो भुवि ॥ [११.१]६६२ ॥ समयोपेक्षणं चेह तत्क्षयोपशमं विना । तत्कर्तृत्वेन सफलं योगिनां तु न विद्यते ॥ [११.१]६६३ ॥ सर्ववाचकभावत्वाच्छब्दानां चित्रशक्तितः । वाच्यस्य च तथान्यत्र नागोऽस्य समयेऽपि हि ॥ [११.१]६६४ ॥ अनन्तधर्मकं वस्तु तद्धर्मः कश्चिदेव च । वाच्यो न सर्व एवेति ततश्चैतन्न बाधकम् ॥ [११.१]६६५ ॥ अन्यदेवेन्द्रियग्राह्यमन्यच्छब्दस्य गोचरः । शब्दात्प्रत्येति भिन्नाक्षः न तु प्रत्यक्षमीक्षते ॥ [११.१]६६६ ॥ अन्यथा दाहसम्बन्धाद्दाहं दग्धोऽभिमन्यते । अन्यथा दाहशब्देन दाहार्थः संप्रतीयते ॥ [११.१]६६७ ॥ इन्द्रियग्राह्यतोऽन्योऽपि वाच्योऽसौ न च दाहकृत् । तथाप्रतीतितो भेदाभेदसिद्ध्यैव वस्तु नः ॥ [११.१]६६८ ॥ अपोहस्यापि वाच्यत्वमुपपत्त्या न युज्यते । असत्त्वाद्वस्तुभेदेन बुद्ध्या तस्यापि बोधतः ॥ [११.१]६६९ ॥ क्षणिकाः सर्वसंस्कारा अन्यथैतद्विरुध्यते । अपोहो यन्न संस्कारो न च क्षणिक इष्यते ॥ [११.१]६७० ॥ एवं च वस्तुनस्तत्त्वं हन्त शास्त्रादनिश्चितम् । तदभावे च सुव्यक्तं तदेतत्तुषखण्डनम् ॥ [११.१]६७१ ॥ बुद्धावर्णेऽपि चादोषः संस्तवेऽप्यगुणस्तथा । आह्वानाप्रतिपत्त्यादि शब्दार्थायोगतो ध्रुवम् ॥ [११.१]६७२ ॥ (२) ज्ञान तथा किर्या के बीच प्राधान्याप्राधान्य का प्रश्न ज्ञानादेव नियोगेन सिद्धिमिच्छन्ति केचन । अन्ये क्रियात एवेति द्वाभ्यामन्ये विचक्षणाः ॥ [११.२]६७३ ॥ ज्ञानं हि फलदं पुंसां न किर्या फलदा मता । मिथ्याज्ञानात्प्रवृत्तस्य फलप्राप्तेरसंभवात् ॥ [११.२]६७४ ॥ ज्ञानहीनाश्च यल्लोके दृश्यन्ते हि महाक्रियाः । ताम्यन्तेऽतिचिरं कालं क्लेशायासपरायणाः ॥ [११.२]६७५ ॥ ज्ञानवन्तश्च तद्वीर्यात्तत्र तत्र स्वकर्मणि । विशिष्टफलयोगेन सुखिनोऽल्पक्रिया अपि ॥ [११.२]६७६ ॥ केवलज्ञानभावे च मुक्तिरप्यन्यथा न यत् । क्रिययावतोऽपि यत्नेन तस्मात्ज्ञानादसौ मता ॥ [११.२]६७७ ॥ क्रियैव फलदा पुंसां न ज्ञानं फलदं मतम् । यतः स्त्रीभक्ष्यभोगज्ञो न ज्ञानात्सुखिनो भवेत् ॥ [११.२]६७८ ॥ क्रियाहीनाश्च यल्लोके दृश्यन्ते ज्ञानिनोऽपि हि । कृपायतनमन्येषां सुखसम्पद्विवर्जिताः ॥ [११.२]६७९ ॥ क्रियोपेताश्च तद्योगादुदग्रफलभावतः । मूर्खा अपि हि भूयांसो विपश्चित्स्वामिनोऽनघाः ॥ [११.२]६८० ॥ क्रियातिशययोगाच्च मुक्तिः केवलिनोऽपि हि । नान्यथा केवलित्वेऽपि तदसौ तन्निबन्धना ॥ [११.२]६८१ ॥ फलं ज्ञानक्रियायोगे सर्वमेवोपपद्यते । तयोरपि च तद्भावः परमार्थेन नान्यथा ॥ [११.२]६८२ ॥ साध्यमर्थं परिज्ञाय यदि सम्यक्प्रवर्तते । ततस्तत्साधयत्वेव तथा चाह बृहस्पतिः ॥ [११.२]६८३ ॥ सम्यक्प्रवृत्तिः साध्यस्य प्राप्त्युपायोऽभिधीयते । तदप्राप्तावुपायत्वं न तस्या उपपद्यते ॥ [११.२]६८४ ॥ असाध्यारम्भिणस्तेन सम्यग्ज्ञानं न जातुचित् । साध्यानारम्भिणश्चेति द्वयमन्योऽन्य्संगतम् ॥ [११.२]६८५ ॥ अत एवागमज्ञस्य या क्रिया सा क्रियोच्यते । आगमज्ञोऽपि यस्तस्यां यथाशक्ति प्रवर्तते ॥ [११.२]६८६ ॥ चिन्तामणिस्वरूपज्ञो दौर्गत्योपहतो न हि । तत्प्राप्त्युपायवैचित्र्ये मुक्त्वान्यत्र प्रवर्तते ॥ [११.२]६८७ ॥ न चासौ तत्स्वरूपज्ञो योऽन्यत्रापि प्रवर्तते । मालतीगन्धगणविद्दर्भे न रमते ह्यलिः ॥ [११.२]६८८ ॥ मुक्तिश्च केवलज्ञान-क्रियातिशयजैव हि । तद्भाव एव तद्भावात्तदभावेऽप्यभावतः ॥ [११.२]६८९ ॥ न विविक्तं द्वयं सम्यगेतदन्यैरपीष्यते । स्वकार्यसाधनाभावाद्यथाह व्यासमहर्षिः ॥ [११.२]६९० ॥ बठरश्च तपस्वी च शूरश्चाप्यकृतव्रणः । मद्यपा स्त्री सतीत्वं च राजन्न श्रद्दधाम्यहम् ॥ [११.२]६९१ ॥ (३) मोक्ष का स्वरूप मृत्यादिवर्जिता चेह मुक्तिः कर्मपरिक्षयात् । नाकर्मणः क्वचिज्जन्म यथोक्तं पूर्वसूरिभिः ॥ [११.३]६९२ ॥ दग्धे बीजे यथात्यन्तं प्रादुर्भवति नाङ्कुरः । कर्मबीजे तथा दग्धे न रोहति भवाङ्कुरः ॥ [११.३]६९३ ॥ जन्माभावे जरामृत्योरभावो हेत्वभावतः । तदभावे च निःशेष-दुःखाभावः सदैव हि ॥ [११.३]६९४ ॥ परमानन्दभावश्च तदभावे हि शाश्वतः । व्याबाधाभावसंसिद्धः सिधानां सुखमिष्यते ॥ [११.३]६९५ ॥ सर्वद्वन्द्वविनिर्मुक्ताः सर्वाबाधाविवर्जिताः । सर्वसंसिद्धसत्कार्याः सुखं तेषां किमुच्यते ॥ [११.३]६९६ ॥ अमूर्ताः सर्वभावज्ञास्त्रैलोक्योपरिवर्तिनः । क्षीणसङ्गा महात्मानस्ते सदा सुखमासते ॥ [११.३]६९७ ॥ एता वार्ता उपश्रुत्य भावयन् बुद्धिमान्नरः । इहोपन्यस्तशास्त्राणां भावार्थमधिगच्छति ॥ [११.४]६९८ ॥ शतानि सप्त श्लोकानामनुष्टुप्छन्दसां कृतम् । आचार्यहरिभद्रेण शास्त्रवार्तासमुच्चयम् ॥ [११.४]६९९ ॥ कृत्वा प्रकरणमेतद्यदवाप्तं किञ्चिदिह मया कुशलम् । भवविरहबीजमनघं लभतां भव्यो जनस्तेन ॥ [११.४]७०० ॥ यं बुद्धं बोधयन्तः शिखिजलमरुतस्तुष्टुवुर्लोकवृत्त्यै ज्ञानं यत्रोदपादि प्रतिहतभुवनालोकवन्ध्यत्वहेतु । सर्वप्राणिस्वभाषापरिणतिसुभगं कौशलं यस्य वाचां तस्मिन् देवाधिदेवे भगवति भवताधीयतां भक्तिरागः ॥ [११.४]७०१ ॥