॥ ओं नमः सर्वज्ञाय ॥ अधिगतपरमार्थः श्रीघनव्यूह एव प्रति तुषितजनार्थं योऽभवच्छ्वेतकेतुः । तत इह जगदर्थं चाभवच्छाक्यकेतुः स जयतु जितमृत्युर्दर्शितानन्तमायः ॥ १.१ ॥ अजरामरतां प्राप्तमजरामरकारकम् । अजरामरताप्राप्त्यै नत्वा संबुद्धमादरात् ॥ १.२ ॥ दुर्बोधं मन्दबुद्धीनां दुष्करं चलचेतसाम् । सारिष्टं वञ्चनं मृत्योरुच्यते शास्त्रसंगतम् ॥ १.३ ॥ सर्वथा वञ्चनं मृत्योर्मुक्तानामेव युज्यते । अमुक्तानां च सर्वेषां कियत्कालविलम्बनम् ॥ १.४ ॥ आयुरिन्द्रियचित्तानां निरोधो मृत्युलक्षणम् । उपायैर्जीवितं दीर्घं मृत्युवञ्चनमुच्यते ॥ १.५ ॥ यावज्जीवति संसारे धर्माचारी जितेन्द्रियः । तावत्पुण्यादिसंभारं प्रसूते बोधिसाधकम् ॥ १.६ ॥ न विना जीवितात्सारं संसारे किं चिदीक्ष्यते । नानोपायैरतस्तूर्णं मृत्युवञ्चनमारभेत् ॥ १.७ ॥ न दुष्करं यतः किं चिदुपायैर्युक्तियोजितैः । मणिमन्त्रौषधीनां च प्रभावः सर्वसंमतः ॥ १.८ ॥ लक्षणाद्दूरतो मृत्युं ज्ञात्वा युक्ता प्रतिक्रिया । मस्ते पतति वज्राग्नौ सुप्रज्ञोऽपि करोति किम् ॥ १.९ ॥ बाह्याध्यात्मिकभेदेन द्विधा मरणलक्षणम् । कथ्यते ज्ञायते येन मरणं भावि तत्परैः ॥ १.१० ॥ मृत्योर्लक्षणमाज्ञातुं वाञ्छा चेत्कस्य चिद्भवेत् । तेन स्वस्थशरीरेण ज्ञातव्यं संशयोऽन्यथा ॥ १.११ ॥ धातुवैषम्यतो रोगात्तिमिरादिप्रभावतः । भयशोकादिसामर्थ्यात्प्रतिभाति यतोऽन्यथा ॥ १.१२ ॥ दैवभूतोभयक्षोभान्मृत्युं त्रिविधलक्षणम् । प्राप्यारिष्टसमुद्भूतिरतो भेदेन लक्षयेत् ॥ १.१३ ॥ बाह्याभ्यन्तरभेदेन दैवक्षोभो द्विधेष्यते । भूतक्षोभोऽपि द्विविधस्तथैवेति निरूपयेत् ॥ १.१४ ॥ दैवसंक्षोभतो मृत्युराधिदैविक उच्यते । दैवक्षोभोऽनशनादिवज्रपातादिलक्षणः ॥ १.१५ ॥ भूतसंक्षोभतो मृत्युराधिभौतिक उच्यते । भूतक्षोभस्तु पित्तादिवह्नितोयाद्युपद्रवः ॥ १.१६ ॥ उभयक्षोभतो मृत्युरुभयाज्जो निगद्यते । उभयक्षोभो वज्रादिपित्तश्लेष्माद्युपद्रवः ॥ १.१७ ॥ अरिष्टानामनन्तत्वान्नोत्पत्तिर्युगपन्मता । क्रमशोऽपि न सर्वेषामपि त्वेकादिसंख्यया ॥ १.१८ ॥ अदृष्ट्वा लक्षणं यत्र मृत्युर्दृष्टः क्व चिद्भवेत् । निश्चेतुर्दूषणं तत्र न तु लक्षणनास्तिता ॥ १.१९ ॥ दृष्ट्वापि लक्षणं यत्र न मृत्युर्दृश्यते क्व चित् । अभ्रान्तौ तत्र धर्मादिबाधकान्तरकल्पनम् ॥ १.२० ॥ निश्चिते दूरतो मृत्यौ प्रसिद्धिर्महती भवेत् । यथाशक्ति परित्यागे प्रतीकारे च वर्तनम् ॥ १.२१ ॥ सदा समाहितो भूत्वा तद्गतैकाग्रमानसः । बाह्यानि प्रथमं तावल्लक्षणान्युपलक्षयेत् ॥ १.२२ ॥ लक्षणानां परिच्छेदकालो द्विविध इष्यते । नियतोऽनियतश्चेति विज्ञेयः स तु यत्नतः ॥ १.२३ ॥ संक्रान्तिपूर्णमास्यादौ प्रभातादिक्षणात्मकः । कालो नियत इत्युक्तोऽनियतस्तु विपर्ययात् ॥ १.२४ ॥ स्फुरत्संधि कपोलं स्यादत्यर्थं मृत्युदर्शनात् । वातशीतादिसङ्गाच्च लक्षणीयमतः पृथक् ॥ १.२५ ॥ कर्कटो राशिराषाढः पुष्यस्तु मकरो मतः । कर्कटे मकरे चापि जायते मृत्युलक्षणम् ॥ १.२६ ॥ आषाढसंक्रान्तिदिने मध्याह्ने पदमात्रिका । उत्तराभिमुखस्थस्य च्छाया स्वाभाविकी भवेत् ॥ १.२७ ॥ पुष्यसंक्रान्तिदिवसे सैव सप्तपदीभवेत् । व्यभ्रे नभसि मध्याह्ने च्छायायाश्च निरीक्षणम् ॥ १.२८ ॥ प्रतिमासं पदवृद्धिः प्रतिमासं पदक्षयः । अमुष्मादन्यथाभावे मृत्युशङ्का प्रजायते ॥ १.२९ ॥ एकैकपदवृद्धिः स्यादाषाढान्मकरावधेः । एकैकपाद्यह्रासः स्यान्मकरात्कर्कटावधेः ॥ १.३० ॥ आषाढात्क्रमशो वृद्धिः पुष्याद्ध्रासः क्रमात्तथा । छायाविकारमालोच्य मासान्मरणमादिशेत् ॥ १.३१ ॥ क्षयकाले भवेद्वृद्धिर्वृद्धिकाले क्षयो यदि । तमेव कालमारभ्य मृत्युर्मासाद्विनिश्चितः ॥ १.३२ ॥ वृद्धिकालेऽप्यतिवृद्धौ नानारोगादुपद्रवः । क्षयकालेऽप्यतिक्षये मृत्युरेव न संशयः ॥ १.३३ ॥ आषाढपुष्ययोरन्ते पूर्वं कर्कटमत्स्ययोः । यानि षट्षड्दिनान्यत्र कालाकालनिरूपणम् ॥ १.३४ ॥ आषाढान्तदिनैरेभिः श्रावणादौ शुभाशुभम् । पुष्यशेषदिनैश्चापि माघादिषु शुभाशुभम् ॥ १.३५ ॥ पादयोस्तालुकां विद्ध्वा नाभौ वेधो यदा भवेत् । अहोरात्रत्रयादूर्ध्वं पञ्चत्वं जायते तदा ॥ १.३६ ॥ पादयोस्तालुकां विद्ध्वा यदि चक्षुश्च विध्यति । तदा मासत्रयादूर्ध्वं गमनं यमसद्मनि ॥ १.३७ ॥ पादयोस्तालुकां विद्ध्वा नासिकां यदि विध्यति । त्रिभिर्दिनैस्तदा नूनमेकाकी याति पञ्चताम् ॥ १.३८ ॥ कुटिप्रस्रावयोः काले तुल्यं स्याद्यदि हञ्छिका । तस्यामेव हि वेलायां मृत्युर्वर्षेण तस्य हि ॥ १.३९ ॥ नासिकागद्द्रिकावेधे मरणं पञ्चवत्सरैः । जिह्वाग्रादर्शने मृत्युर्वासरैः स्यात्त्रिभिर्नृणाम् ॥ १.४० ॥ मासैश्चतुर्भिर्मृत्युः स्यात्कर्णाग्रे तीक्ष्णवेधनात् । सद्यो मृत्युर्भवेन्नूनमूर्णास्थाने प्रवेधनात् ॥ १.४१ ॥ तुल्यकालं यदा वेधश्चन्द्रसूर्यगतो भवेत् । तदा मासाद्भवेन्मृत्युः पुण्यमेवार्जयेत्ततः ॥ १.४२ ॥ भगलिङ्गसमायोगे मध्ये शेषे च हञ्छिका । स्याच्चेत्तुल्यं तदा मासैः पञ्चत्वं याति पञ्चभिः ॥ १.४३ ॥ हस्तयोः पादयोश्चैव कनिष्ठानां च संधयः । चत्वारो यस्य विध्यन्ति तुल्यं मासात्स मृत्युभाक् ॥ १.४४ ॥ हृत्कण्ठमध्ययोर्वेधस्तुल्यकालं यदा भवेत् । पक्षत्रयेण मृत्युः स्याद्यदि धर्मं न सेवते ॥ १.४५ ॥ तुल्यकालं यदा विध्येत्तालुकानां त्रयं मुहुः । त्रिभिर्दिनैस्तदा मृत्युर्यदि शक्रसमो भवेत् ॥ १.४६ ॥ वामाक्षिपुत्तलीच्छायां यो न पश्यति दर्पणे । सप्ताहान्म्रियते नूनं यदि न स्यात्प्रतिक्रिया ॥ १.४७ ॥ मैथुने सति घण्टाया नादश्चेत्कर्णयोर्भवेत् । त्रिभिर्मासैस्तदा मृत्युर्यदि ब्रह्मसमो भवेत् ॥ १.४८ ॥ कृष्णं यदि भवेच्छुक्रं शुक्लायां प्रतिपत्तिथौ । षड्भिर्मासैस्तदा मृत्युर्लोहितं व्याधिसूचकम् ॥ १.४९ ॥ कर्णमूले भ्रुवोर्मध्ये मस्तकाग्रे पृथक्पृथक् । यदि वेधोऽप्रतीकारो मृत्युः सद्यस्तदा भवेत् ॥ १.५० ॥ पादाङ्गुष्ठं समारभ्य नाभिपर्यन्तगो भवेत् । वेधः सदाहो यस्यासौ षड्मासान्म्रियते ध्रुवम् ॥ १.५१ ॥ पादाङ्गुष्ठाद्धृदयान्तं यावत्कण्ठं शिरोऽथवा । मासत्रयात्पक्षत्रयान्मृत्युरेकदिनात्क्रमात् ॥ १.५२ ॥ नासाग्रमांसशैथिल्यान्मृत्युः स्यात्सप्तरात्रतः । कपोलमांसविच्छेदान्मृत्युः स्यात्पञ्चमासतः ॥ १.५३ ॥ चक्षुर्नासिकयोर्मध्ये स्पन्दनं चेन्न दृश्यते । ज्ञात्वा पञ्चदिनान्मृत्युमादद्याद्धर्मसंवलम् ॥ १.५४ ॥ नेत्रयोस्तारके म्लिष्टे सहसा भवतो यदि । षड्मासाभ्यन्तरे मृत्युः प्रतिकारक्रिया न चेत् ॥ १.५५ ॥ अकस्मान्नासिका वक्रा कर्णौ भ्रष्टौ स्वदेशतः । नेत्रे च वर्तुलीभूते सप्ताहान्मृत्युदर्शनात् ॥ १.५६ ॥ अकस्माद्धृदयं निम्नं स्याच्चेत्पक्षात्तदा मृतिः । ग्रीवापार्श्वस्थयोर्नाड्योर्विच्छेदादपि पक्षतः ॥ १.५७ ॥ अकस्मात्कृष्णरेखा स्याज्जिह्वाया यदि मध्यतः । दृढो वा दन्तसंदंशस्तदा मृत्युर्द्विरात्रतः ॥ १.५८ ॥ कर्णशष्कुलिकापृष्ठनाडीविच्छेददर्शनात् । तस्मिन्नेव दिने मृत्युरथवा पञ्चवासरैः ॥ १.५९ ॥ नखेषु रक्तवर्णेषु सहसा यद्यरक्तता । षड्भिर्मासैस्तदा मृत्युर्यदि मन्त्रादि नाचरेत् ॥ १.६० ॥ अकस्माज्जायते स्थूलः कृशः क्रुद्धो भयाकुलः । यस्तस्य मृत्युर्वर्षेण यदि धर्मं न सेवते ॥ १.६१ ॥ इन्द्रियाणि न गृह्णन्ति यथास्वं यस्य गोचरान् । मुहुः स्खलति वाणी च मुहुश्च मतिविभ्रमः ॥ १.६२ ॥ चक्षुषी स्रवतो नित्यं दृष्टरूपेऽपि विभ्रमः । दर्पणे सलिले वापि स्वच्छायां यो न पश्यति ॥ १.६३ ॥ रात्राविन्द्रधनुः पश्येद्दिवा नक्षत्रमण्डलम् । अमेघे विद्युतं पश्येत्स्फुरन्तीं दक्षिणाश्रिताम् ॥ १.६४ ॥ दिवा छायापथं पश्येदुल्कायाः पतनं तथा । हंसकाकमयूराणां पश्येदेकत्र मेलकम् ॥ १.६५ ॥ चन्द्रद्वयं द्विसूर्यं वा स्वशिरोज्वलनं तथा । गन्धर्वनगरं पश्येद्वृक्षाग्रे शिखरे गिरेः ॥ १.६६ ॥ पश्येत्प्रेतपिशाचानदृश्यानन्यांश्च भीषणान् । प्रकम्पते भृशं चैव मूर्छितो वा भवेन्मुहुः ॥ १.६७ ॥ छर्दिं मूत्रं पुरीषं च सुवर्णरजतप्रभम् । पश्येदेकैकशस्तस्य मृत्युर्मासावधेर्भवेत् ॥ १.६८ ॥ कण्ट्ःोष्ठतालुजिह्वानां छेदं छिद्रं तनौ तथा । यः पश्येत्तस्य मृत्युः स्यात्षड्मासाभ्यन्तरे ध्रुवम् ॥ १.६९ ॥ कण्ठोष्ठतालुरसनादन्ता यस्य पृथक्पृथक् । शुष्यन्त्यभीक्ष्णं षड्मासान्मरणं तस्य निर्दिशेत् ॥ १.७० ॥ नक्षत्रचक्रसप्तर्षिदिशां रात्रावदर्शनम् । सप्ताहमृत्योर्जायेत ज्वाला वाकस्मिकी तनौ ॥ १.७१ ॥ अरुन्धतीं रोहिणीं च ध्रुवं छायापथं तथा । रात्रावपश्यतोऽकस्मात्षड्मासान्मृत्युमादिशेत् ॥ १.७२ ॥ कलङ्करहितं चन्द्रं सूर्यं रश्मिविवर्जितम् । सरश्मिकं चित्रभानुं चन्द्रं चापि सरश्मिकम् ॥ १.७३ ॥ रात्रौ सूर्यं दिवा चन्द्रं स्वनेत्रे ज्वलनं तथा । तारां मेरुप्रमाणां च समुद्रं च नदीमिव ॥ १.७४ ॥ नाभौ हिक्कां गुदे हञ्छां वर्णं पद्मोपमं मुखे । गलके पिटकान् रक्तान् गात्रे वर्णविचित्रताम् ॥ १.७५ ॥ हृदये क्रन्दनं साश्रु प्रकम्पमथ तालुनि । चन्द्रांशुं वह्निसंस्पर्शं सूर्यांशुं हिमशीतलम् ॥ १.७६ ॥ चन्द्रच्छिद्रं रविच्छिद्रं छिद्रं भूमौ तथाम्बरे । आत्मनैव हि यः पश्येत्पश्येन्मृत्युं स पक्षतः ॥ १.७७ ॥ मूत्रशुक्रपुरीषाणि तुल्यकालं पतन्ति चेत् । वर्षान्मृत्युर्भवेत्तत्र भैषज्यादि प्रतिक्रिया ॥ १.७८ ॥ अर्धं शीतं तथा चोष्णमर्धं यस्य कलेवरम् । सप्तरात्राद्भवेन्मृत्युः परलोकं विचिन्तयेत् ॥ १.७९ ॥ हकारः शीतसंस्पर्शः फुकारो वह्निसंनिभः । यस्यानुभूयते तस्य दशाहाद्यमदर्शनम् ॥ १.८० ॥ अनामिकानां मूलेषु दृष्टया कृष्णरेखया । अष्टादशदिनादूर्ध्वं मृत्युः प्राक्कर्मदोषतः ॥ १.८१ ॥ यस्य मस्तकमारुह्य त्रिवर्णो याति वेगतः । कृकलासो मृतिस्तस्य पञ्चमासाद्विनिश्चिता ॥ १.८२ ॥ शब्दो न श्रूयते देहाद्धस्ताभ्यामपमार्जितात् । सर्वाङ्गशीतलत्वेन दशाहान्मरणं ध्रुवम् ॥ १.८३ ॥ युगपन्निर्गमो बाहुजङ्घयोर्यस्य गच्छतः । विनाशो ब्रह्मसूत्रस्य मृत्युस्तस्यैकवर्षतः ॥ १.८४ ॥ कर्दमे पांशुदेशे वा पुरतः पृष्ठतोऽपि वा । खण्डं पादोदये न्यूनं मृत्युर्मासचतुष्टयात् ॥ १.८५ ॥ अकस्मात्पुरुषं पश्येत्कृष्णपिङ्गलवर्णकम् । वर्षत्रयात्ययान्मृत्युर्यदि भ्रान्त्या न कल्पितः ॥ १.८६ ॥ द्विमासमृत्युर्हृत्पादौ स्नातमात्रस्य शुष्यतः । त्रिरात्रमृत्युर्दुर्गन्धो जायते विकृताकृतिः ॥ १.८७ ॥ खरार्कदिवसे तोयैरापूर्य मुखकोटरम् । प्रत्यहं फूत्कृतं कुर्वन् क्रमात्तन्मध्यसंस्थितम् ॥ १.८८ ॥ पश्येदिन्द्रधनुश्चित्रं दीर्घायुः पुरुषः सदा । षड्मासायुर्न तत्पश्येदिति कर्मविचित्रता ॥ १.८९ ॥ खरार्कदिवसे पश्येत्पुरो गगनमध्यतः । मुक्ताहारानिवालूनान्मुक्ताफलविभूषणान् ॥ १.९० ॥ इन्द्रनीलमणिच्छायान् केशोण्डुकसमाकृतीन् । दृश्यदेशं परित्यज्य देशान्तरविसर्पिणः ॥ १.९१ ॥ नागाननेकशः पश्येत्संयतानिव संततम् । तेषामदृष्टौ षड्मासान्मरणं परिकीर्तितम् ॥ १.९२ ॥ प्रभाते वाथ सायाह्ने ज्योत्स्नायां वा चिरं पुरः । वितत्य बाहू स्वच्छायां दृष्ट्वा पश्येच्छनैर्नभः ॥ १.९३ ॥ तत्रापि दृश्यते छाया धवला नररूपिणी । शिरसोऽदर्शनात्तस्य मृत्युः स्याद्वर्षमध्यतः ॥ १.९४ ॥ पुत्रभार्याविनाशः स्याद्वामपाणेरदर्शनात् । दक्षिणादर्शनात्पितृभ्रात्रादीनां महीयसाम् ॥ १.९५ ॥ जानूपरि स्थितौ बाहू कृत्वा मूर्ध्नि तथाञ्जलिम् । रम्भाफलनिभां छायां लक्षयेन्मध्यतस्तयोः ॥ १.९६ ॥ यदा त्वेकं दलं तत्र विकासि परिलक्ष्यते । तस्यामेव तिथौ नूनं षड्मासान्मरणं भवेत् ॥ १.९७ ॥ सूर्यमार्गगते वायौ लक्षणीयमिदं त्रयम् । श्रोत्रे शिरसि नेत्रे च शब्दो धूमो द्युतिस्तथा ॥ १.९८ ॥ कर्णौ पिधाय सुदृढं गम्भीरो गुल्गुलो ध्वनिः । न श्रूयते पञ्चदिनं दश पञ्चदशाथवा ॥ १.९९ ॥ विंशतिं दिवसान् यावत्पञ्चविंशतिमेव वा । बाणाब्धिगुणनेत्रेन्दुवर्षैर्मृत्युर्यथाक्रमम् ॥ १.१०० ॥ एषामप्यन्तरालेषु शोध्याः षोडश वासराः । वर्षस्यैव चतुर्थांशैः क्रमशश्चाभिवर्धितैः ॥ १.१०१ ॥ मस्तकोपरि निर्यान्तीं सप्ताहं धूममालिकाम् । यो न पश्यति तस्य स्यान्मृत्युर्वर्षत्रयावधेः ॥ १.१०२ ॥ स्वनेत्रयोश्चतुर्दिक्षु दृश्यन्तेऽङ्गुलिपीडनात् । मार्जारनेत्रतुल्यानि ज्योतींषि झटितिक्रमात् ॥ १.१०३ ॥ अपीडनेऽपि तद्दृष्टौ मृत्युः स्याच्छतवासरैः । एतत्सामान्यतो ज्ञेयं विशेषस्त्वयमुच्यते ॥ १.१०४ ॥ चन्द्रस्याधस्तथोर्ध्वं च कर्णनासोपकण्ठयोः । नष्टे ज्योतिषि मृत्युः स्यात्षट्त्रिनेत्रेन्दुमासतः ॥ १.१०५ ॥ सूर्येऽपि यदि चन्द्रस्य क्रमः स्यात्पूर्ववत्तदा । दिग्बाणगुणनेत्रेषु दिनेषु मरणं भवेत् ॥ १.१०६ ॥ स्वरूपस्य विपर्यासात्षड्मासान्मरणं भवेत् । पञ्चमासाद्भवेन्मृत्युर्नासाग्रस्य विनाशतः ॥ १.१०७ ॥ बाधिर्ये श्रोत्रयोर्मृत्युश्चतुर्मासात्ययाद्भवेत् । स्वस्थेन्द्रियस्य पतने मृत्युर्मासत्रयाद्भवेत् ॥ १.१०८ ॥ भ्रूमध्ये ज्योतिषोऽदृष्टौ द्विमासाद्यमदर्शनम् । एकमासात्ययान्मृत्युर्वृषणे गोलकक्षयात् ॥ १.१०९ ॥ पराक्ष्णोः प्रतिबिम्बस्यादृष्टौ पक्षाद्विनाशनम् । जिह्वाया अपरावृत्तौ दशाहान्मृत्युसंगमः ॥ १.११० ॥ नाभेर्विपर्ययान्मृत्युः पञ्चाहादुपश्लिष्यति । पार्श्वद्वयस्याकृष्टौ तु मृत्युः स्याद्वासरत्रयात् ॥ १.१११ ॥ समस्तगात्रस्तब्धत्वे मृत्युरेकाहिको भवेत् । ललाटस्थत्रिरेखाणां नाशान्मृत्युरहस्त्रयात् ॥ १.११२ ॥ स्वस्थस्य लालाजिह्वा चेन्निःस्पर्शा द्रववर्जिता । यावत्पञ्चदिनं मृत्युः पञ्चाशद्दिवसैस्तथा ॥ १.११३ ॥ अम्लादित्वं च रसतो नीलादित्वं च वर्णतः । विकारः शुक्रमूत्राणां षड्मासान्मृत्युदर्शनात् ॥ १.११४ ॥ युगपत्पञ्चधारं वा वामावर्तं विगन्धि च । मूत्रं यस्य भवेन्मृत्युस्तस्य षड्मासमध्यतः ॥ १.११५ ॥ कृष्णे वा यदि वा शुक्ले पक्षे रेतोऽतिकृष्णकम् । मृत्युः षड्मासतो नो चेत्तेनैव स्यात्प्रतिक्रिया ॥ १.११६ ॥ कृष्णभागं परित्यज्य गृहीत्वा शुक्लभागकम् । चन्द्रे प्रभञ्जने वाति प्रवेशात्स्यात्प्रतिक्रिया ॥ १.११७ ॥ स्थिरत्वेऽपि स्वदेहस्य तच्छाया चञ्चला यदि । चतुर्मासाद्भवेन्मृत्युरित्यागमविचक्षणाः ॥ १.११८ ॥ दक्षिणाशागतां छायामात्मनो यदि पश्यति । अद्यैव मृत्युरस्माकमिति पश्येदनित्यताम् ॥ १.११९ ॥ निरर्थको विसंवादी मिथ्येत्यादि प्रकाशनात् । स्वप्नोऽप्यसत्यः सर्वेषां नातः श्रद्धा न युज्यते ॥ १.१२० ॥ देवतादर्शितः स्वप्नः सत्यस्वप्नोऽथ यो नरः । स स्वप्ने प्रत्ययं कृत्वा मृत्युलिङ्गानि पश्यतु ॥ १.१२१ ॥ किंशुकं कोविदारं च पुष्पितं करवीरकम् । योऽभिरोहति स्वप्नान्ते स स्यात्षड्मासमृत्युकः ॥ १.१२२ ॥ विहारयष्टिं स्वप्नान्ते योऽभिरोहति मानवः । वालुकाभस्मराशिं वा मरणं तस्य पूर्ववत् ॥ १.१२३ ॥ गर्दभं यः समारूढः प्रयायाद्दक्षिणां दिशम् । भूयश्च न निवर्तेत तद्वत्तस्यापि जीवितम् ॥ १.१२४ ॥ यश्चापि वानरारूढः प्रयायाद्दक्षिणां दिशम् । तत्रस्थश्च विबुध्येत मृत्युः स्यात्तस्य पूर्ववत् ॥ १.१२५ ॥ दण्डं वा चैत्ययूपं वा नरो यस्त्वभिरोहति । वाल्मीकं पांशुराशिं वा षड्मासान्न स जीवति ॥ १.१२६ ॥ काली कुमारी संक्रुद्धा या तु बध्नाति बन्धनैः । कालरात्री तु सा ज्ञेया सप्ताहान्मृत्युकारिका ॥ १.१२७ ॥ कृष्णवस्त्रा तु या नारी काली कामयते नरं । करवीरमाला स्वप्ने यात्यसौ यममण्डलम् ॥ १.१२८ ॥ तमो वा प्रविशेत्स्वप्ने श्वभ्रं वा चारकं तथा । वृक्षाद्वा प्रपतेत्स्वप्ने स मृत्योरन्तिके स्थितः ॥ १.१२९ ॥ वृक्षं तृणं वा काष्ठं वा विफलं यस्तु पश्यति । सुप्तः शीर्षे शरीरे वा षड्मासान्न स जीवति ॥ १.१३० ॥ यो वानररथारूढो गच्छेत्पूर्वां दिशं नरः । प्रतिबुद्धो विजानीयाद्रात्रिरेषा ममान्तिमा ॥ १.१३१ ॥ श्वकाकगृध्रगोमायुरक्षःप्रेतपिशाचकैः । भक्ष्यते प्रोह्यते चापि खरपोत्र्युष्ट्रसौरभैः ॥ १.१३२ ॥ एकाब्दविगमे नूनं मरणं तस्य निर्दिशेत् । स्वप्नदृष्टनिमित्तानां शान्तिर्मायोपमा मतिः ॥ १.१३३ ॥ लोहदण्डधरं कृष्णं नरं कृष्णपरिच्छदम् । प्रसुप्तेनाग्रतो दृष्ट्वा त्रिमासान्मृत्युराप्यते ॥ १.१३४ ॥ रक्तगन्धप्रलिप्ताङ्गं रक्तमाल्यविभूषितम् । तैलाभ्यक्तमतिभीतं मुण्डितं रक्तवाससम् ॥ १.१३५ ॥ खरमारुह्य वेगेन व्रजन्तं दक्षिणां दिशम् । आत्मानमीदृशं स्वप्ने पश्येत्षड्मासमृत्युकः ॥ १.१३६ ॥ रक्तमाल्यानि गन्धांश्च रक्ताम्बरमथापि वा । यः स्वप्ने लभते तस्य मृत्युः स्यादष्टमासतः ॥ १.१३७ ॥ संख्यातीतानि बाह्यानि मृत्युलिङ्गानि तानि कः । एकवक्त्रेण शक्नोति वक्तुं वर्षशतैरपि ॥ १.१३८ ॥ एतानि मृत्योः प्रतिपादकानि लिङ्गानि बाह्यानि यथोदितानि । विज्ञाय तानि त्वरितं विधेयो मन्त्रादिभिर्वञ्चन एव यत्नः ॥ १.१३९ ॥ ॥ इति श्रीपण्डितवागीश्वरकीर्तिविरचिते मृत्युवञ्चनोपदेशे प्रथमः परिच्छेदः ॥ इदानीमान्तरं मृत्योर्लक्षणं कथ्यते स्फुटम् । तच्च वायूदयाज्ज्ञेयं वायुर्घ्राणास्यगोचरः ॥ २.१ ॥ बाह्यलक्षणमात्रान्न मृत्योः सम्यग्विनिश्चयः । यावदाध्यात्मिकं सम्यग्लक्षणं नैव निश्चितम् ॥ २.२ ॥ उभयोर्निश्चयान्मृत्युर्निश्चितः स्यात्परिस्फुटम् । बाह्ये बुद्धिविपर्यासो रोगादेरपि संस्कृतेः ॥ २.३ ॥ पुष्यादिमाससंक्रान्तौ पूर्णमास्यादिपर्वसु । सामान्यलक्षणं मृत्योर्लक्षयेत्प्रातरादितः ॥ २.४ ॥ निरूपकनरो यत्र दिने कालं निरूपयेत् । तदारभ्य दिनं मृत्युर्मितकालात्ययाद्भवेत् ॥ २.५ ॥ समप्रकृतियुक्तानां सर्वप्राणभृतां सदा । नासिकादक्षिणेतरे पुटे प्रत्येकमाश्रितः ॥ २.६ ॥ वायुर्वहति यामार्धं सूर्यशीतांशुसंज्ञके । अतो विपर्ययात्कल्प्यं मरणादि मनीषिभिः ॥ २.७ ॥ प्रतिपदं समारभ्य शुक्लां वहति चन्द्रगः । दिनानि त्रीणि पवनः ततः सूर्ये दिनत्रयम् ॥ २.८ ॥ दिनत्रयं पुनश्चन्द्रे ततः सूर्ये दिनत्रयम् । क्रमेणानेन नियमाद्यावत्पञ्चदशी सिता ॥ २.९ ॥ एवं कृष्णं समारभ्य सूर्ये वहति मारुतः । दिनानि त्रीणि पूर्ववद्यावत्पञ्चदशीतरा ॥ २.१० ॥ क्रमस्यास्य विपर्यासात्त्रिभिः पक्षैः सुनिश्चितात् । षड्भिर्मासैर्भवेन्मृत्युर्धर्ममेव स्मरेत्ततः ॥ २.११ ॥ पक्षद्वयविपर्यासात्सुहृद्बन्धुविपद्भवेत् । एकपक्षविपर्यासाद्दारुणव्याधिसंभवः ॥ २.१२ ॥ एकद्वित्रिचतुःपञ्चषड्दिनानि विपर्ययात् । वहेद्वायुर्यदि तदा कल्युद्वेगादि जायते ॥ २.१३ ॥ त्रिमार्गगो भवेद्वायुः प्रकृतेः परिवर्जनात् । मध्याह्नात्परतो मृत्युः प्रतीकारविवर्जितः ॥ २.१४ ॥ संक्रान्तिरहितो वायुरुभयोरपि मार्गयोः । वहेद्यस्य दशाहानि संक्रान्तौ म्रियते हि सः ॥ २.१५ ॥ विषुवत्क्षणसंप्राप्तौ स्पन्देते यस्य लोचने । तस्य नाशं विजानीयादहोरात्रान्न संशयः ॥ २.१६ ॥ इतश्चेतश्च बहुधा यस्यार्धप्रहरं वहेत् । वायुस्तस्य विजानीयात्पूजनं लाभमेव च ॥ २.१७ ॥ संक्रान्तिपञ्चकं यस्य समतीत्य मुखे वहेत् । वायुस्तस्यार्थनाशः स्यादुद्वेगो वा भयादि वा ॥ २.१८ ॥ वामनासापुटे वायुः संक्रान्तीश्च त्रयोदश । समतीत्य वहेद्यस्य तस्य रोगादि जायते ॥ २.१९ ॥ पुटद्वयं परित्यज्य यदा वक्त्रेण गच्छति । तदहर्जीवितं तस्य यदि वज्रसमोऽप्यसौ ॥ २.२० ॥ मार्गशीर्षस्य संक्रान्तिकालमारभ्य मारुतः । पञ्चाहं चेद्वहेत्सूर्ये मृत्युरष्टादशाब्दतः ॥ २.२१ ॥ अश्वयुङ्माससंक्रान्तिकालमारभ्य मारुतः । पञ्चाहं चेद्वहेन्मृत्युर्भवेत्पञ्चदशाब्दतः ॥ २.२२ ॥ श्रावणस्यापि चेदेवं मृत्युर्द्वादशवर्षतः । ज्येष्ठेऽपि चेद्भवेदेवं मृत्युः स्यान्नववर्षतः ॥ २.२३ ॥ चैत्रमासस्य संक्रान्तिकालमारभ्य चेद्वहेत् । पञ्चाहं मारुतो मृत्युः षड्भिर्वर्षैस्तदा भवेत् ॥ २.२४ ॥ माघमासस्य संक्रान्तेः पञ्चाहं चेद्वहेन्मरुत् । वर्षत्रयात्ययान्मृत्युरिति कालविचक्षणाः ॥ २.२५ ॥ सर्वत्र द्वित्रिचतुरो वायुश्चेद्दिवसान् वहेत् । अब्दभागैस्तु ते शोध्या यथावदनुपूर्वशः ॥ २.२६ ॥ एवमेव वहेच्चन्द्रे वायुश्चेन्मृत्युवर्जिताः । व्याधिदुर्भिक्षकान्तारशोकराजाद्युपद्रवाः ॥ २.२७ ॥ सामान्यकालसंबोधः स्फुटोऽयमुपदर्शितः । विशेषकालबोधाय गतिरन्या प्रदर्श्यते ॥ २.२८ ॥ समसप्तगते सूर्ये जन्मर्क्षे चन्द्रमा यदि । कालोऽसौ पौष्णनामेति मृत्युनिर्णयकारकः ॥ २.२९ ॥ यत्र राशौ नरो जातस्तस्माद्यः सप्तमोऽपरः । समसप्त इति ख्यातस्तत्रार्कः समसप्तगः ॥ २.३० ॥ राशौ तत्रैव चन्द्रश्चेज्जन्मनक्षत्रगो भवेत् । पौष्णः कालः स विज्ञेयस्तत्र मृत्योर्निरूपणम् ॥ २.३१ ॥ सर्वत्र सूर्यमार्गान्तर्गते सततगामिनि । कालं निरूपयेद्विद्वानितरत्र विकालकम् ॥ २.३२ ॥ यत्र वेलाक्षणे वायोर्गतिरन्या प्रवर्तते । तत्र वेलाक्षणे पूर्णे मृत्युर्नास्त्यत्र संशयः ॥ २.३३ ॥ पौष्णे काले वहेद्वायुर्दिनार्धं यदि सूर्यगः । वत्सरैर्मनुसंख्यातैर्लक्षयेन्मरणं तदा ॥ २.३४ ॥ दिनमेकमहोरात्रं दिनद्वित्रिचतुष्टयम् । वहेच्चेदर्कदिक्शैलषड्वेदाब्दैः क्रमान्मृतिः ॥ २.३५ ॥ पञ्चाहं च दशाहं च तथा पञ्चदशाहकम् । वहेच्चेत्त्रिद्व्येकवर्षैर्भवेन्मृत्युर्यथाक्रमम् ॥ २.३६ ॥ तथैव चेद्वहेद्वायुर्विंशतिं पञ्चविंशतिम् । षड्भिर्मासैस्त्रिभिश्चैव यथासंख्यं भवेन्मृतिः ॥ २.३७ ॥ षट्सप्ताष्टाविंशतिं चेदूनत्रिंशद्दिनं वहेत् । स्याद्द्व्येकमासैः पक्षेण दिग्दिनैश्च क्रमान्मृतिः ॥ २.३८ ॥ त्रिंशत्तु चैकत्रिंशच्च द्वात्रिंशद्दिवसान् यदि । पञ्चत्रिद्विदिनैर्मृत्युर्यथासंख्यं भवेत्तदा ॥ २.३९ ॥ त्रयस्त्रिंशद्दिनं यावत्सूर्ये चेद्वाति मारुतः । तस्मिन्नेव दिने मृत्युर्विष्णोरपि न संशयः ॥ २.४० ॥ पञ्चाहपञ्चविंशत्योरन्तरालेषु वासराः । नोक्ताः षोडशसंख्या ये तेषां शोधनमुच्यते ॥ २.४१ ॥ षड्दिनं चेत्त्रिभिर्वर्षैश्चतुर्विंशतिवर्जितैः । सप्ताहं चेत्त्रिभिर्वर्षैः पूर्वोक्तद्विगुणोनितैः ॥ २.४२ ॥ अष्टाहं चेत्त्रिभिर्वर्षैर्द्वासप्ततिदिनोनितैः । नवाहं चेत्त्रिभिर्वर्षैः षण्णवतिदिनोनितैः ॥ २.४३ ॥ वहेदेकादशाहं चेन्मारुतः सूर्यगोचरः । चतुर्विंशतिरात्रोनान्मृत्युर्वर्षद्वयाद्भवेत् ॥ २.४४ ॥ द्वादशाहं वर्षद्वयात्पूर्वोक्तद्विगुणोनितात् । त्रयोदशाहं द्विवर्षाद्द्वासप्ततिदिनोनितात् ॥ २.४५ ॥ चतुर्दशाहं द्विवर्षात्षण्णवतिदिनोनितात् । षोडशदिनवाहेन द्वादशोनैकवर्षतः ॥ २.४६ ॥ वहेत्सप्तदशाहं चेद्वायुः सूर्यैकगोचरः । चतुर्विंशत्यहन्यूनाद्वर्षान्मृत्युरुदीरितः ॥ २.४७ ॥ अष्टादशाहं षट्त्रिंशद्दिनन्यूनैकवर्षतः । ऊनविंशति चेदष्टचत्वारिंशद्दिनोनितात् ॥ २.४८ ॥ एकविंशति षड्मासात्षड्वासरवियोजितात् । द्वाविंशतिं चेत्षड्मासैर्द्वादशाहविवर्जितैः ॥ २.४९ ॥ त्रयोविंशत्यहर्वाहेऽष्टादशाहविवर्जितात् । चतुर्विंशत्यहर्वाहे चतुःषट्कदिनोनितात् ॥ २.५० ॥ त्रयस्त्रिंशद्दिनेष्वेवं मृत्युलक्षणसंभवः । वायूदयवशाज्ज्ञेयो नात ऊर्ध्वमसंभवात् ॥ २.५१ ॥ आह चात्र । आदौ कृत्वा दिनार्धं सकलदिनमथा-हर्निशं यावदेव तस्मादह्नोर्द्वयं च त्रिदिनमथ चतुर्-वासरान् व्याप्य यावत् । प्राणो नाड्याश्रितो यो वहति दिनपतेरुद्गमे सव्यहीने तस्मिन् विज्ञेयमेतद्भुवनरविदिशो मङ्गलं षट्चतुष्कम् ॥ २.५२ ॥ पञ्चभ्यः पञ्चविंशद्दिवसगतिरिहा-रोहते पञ्चवृद्ध्या तस्मादेकोत्तरेण त्रिगुणितदशकं त्र्युत्तरं यावदेव । काले पौष्णे समास्तास्त्रिनयनशशिनः षट्त्रियुग्मेन्दवो ये मासास्तेऽहानि शेषास्तिथिदिगिषुगुण-द्वीन्दवो जीवितस्य ॥ २.५३ ॥ त्रिपुटं चक्रमालिख्य सप्तत्रिंशद्गृहान्वितम् । आयुषः प्राणवायोश्च दिनान्यङ्कक्रमाल्लिखेत् ॥ २.५४ ॥ इत्यान्तराण्यपि मया कथितानि मृत्योर्लिङ्गान्यरिष्टमिति चापरनामकानि । विज्ञाय तानि सपदि त्वरितैर्विधेयो ध्यानादिभिर्मरण-वञ्चन एव यत्नः ॥ २.५५ ॥ ॥ इति श्रीपण्डितवागीश्वरकीर्तिविरचिते मृत्युवञ्चनो"पदेशे द्वितीयः परिच्छेदः ॥ बाह्यमाध्यात्मिकं चैव ज्ञात्वारिष्टकदम्बकम् । बाह्यश्चाध्यात्मिकश्चापि ज्ञेयो वञ्चनसंचयः ॥ ३.१ ॥ कायवाक्कर्मभिर्बाह्यमान्तरं ध्यानकर्मभिः । मणिमन्त्रौषधैर्बाह्यमान्तरं योगशक्तिभिः ॥ ३.२ ॥ श्रद्धया शक्यते कर्तुं मृत्युवञ्चनमुद्यतैः । श्रद्धामतो दृढीकुर्यादन्यथा स्याच्छ्रमः परः ॥ ३.३ ॥ कायक्लेशैर्बहुविधैर्न चाप्यर्थस्य राशिभिः । धर्मः संप्राप्यते सूक्ष्मः श्रद्धाहीनैः सुरैरपि ॥ ३.४ ॥ श्रद्धा धर्मः परं सूक्ष्मः श्रद्धा ज्ञानं तपो हुतम् । श्रद्धा स्वर्गश्च मोक्षश्च श्रद्धा सर्वमिदं जगत् ॥ ३.५ ॥ सर्वस्वं जीवितं चापि दद्यादश्रद्धया यदि । नैवाप्नुयात्फलं किं चिच्छ्रद्दधानस्ततो भवेत् ॥ ३.६ ॥ आदौ धर्मपरो भूयान्मृत्युवञ्चनवाञ्छया । धर्मो हि त्रायते मृत्योर्मृत्युर्धर्मेण वञ्च्यते ॥ ३.७ ॥ न धर्मरहितस्तिष्ठेत्प्रमादात्क्षणमात्रकम् । ब्रह्मापि हि विना धर्मं न प्रभुर्मृत्युवञ्चने ॥ ३.८ ॥ विदुषां संमतो धर्मः सत्यं दानं तपः क्षमा । विशेषेण कृपा येषां किं तेषां धर्मविस्तरैः ॥ ३.९ ॥ कारुण्यस्यन्दि हृदयं येषां सत्त्वेषु संततम् । तेषां ज्ञानं च मोक्षश्च किमन्यैर्धर्मविस्तरैः ॥ ३.१० ॥ अहिंसा परमो धर्मः सर्वसिद्धान्तसंमतः । तामेवाभ्यस्यतो नित्यं मृत्युर्दूरायते क्रमात् ॥ ३.११ ॥ अल्पायुरपि दीर्घायुः सद्यः स्याज्जीवयन्निमान् । पक्षिमत्स्यमृगव्याडचौरादीन् वध्यदेशगान् ॥ ३.१२ ॥ दीर्घायुरपि मन्दायुः सद्यः स्यान्मारयन्निमान् । चौरमत्स्यमृगव्याडपक्षिणो जीवकाङ्क्षिणः ॥ ३.१३ ॥ दशाकुशलसंत्यागात्त्रिरत्नशरणात्तथा । पञ्चाष्टशिक्षाकरणान्मृत्युर्दूरगतो भवेत् ॥ ३.१४ ॥ बन्धनस्थानुरुव्याधिपीडितान् भयकातरान् । त्रायमाणो भवेन्नूनं दीर्घायुर्मृत्युवञ्चकः ॥ ३.१५ ॥ दीनानाथसलज्जेभ्यः शीलवद्भ्योऽपि चादरात् । ईप्सितार्थप्रदानेन ध्रुवमायुर्विवर्धते ॥ ३.१६ ॥ मातापितृगुरुज्येष्ठज्ञानवृद्धादिगौरवात् । मानसत्कारदानाच्च मृत्युर्नैवोपसर्पति ॥ ३.१७ ॥ स्वेष्टदैवततद्भक्तलिङ्गिनां प्रातरादरात् । दर्शनाद्वन्दनान्नित्यमायुषो वृद्धिराप्यते ॥ ३.१८ ॥ भग्नस्फुटितचैत्यादाविष्टकादिप्रदानतः । स्यादल्पायुः सुदीर्घायुः पैण्डपातिकभिक्षुवत् ॥ ३.१९ ॥ विहारस्तूपबिम्बादेः क्रिययारामरोपणात् । महाष्टस्थानपूजाभिरायुर्नित्यं विवर्धते ॥ ३.२० ॥ छन्दकभिक्षयोपात्तैर्द्रव्यैः संघस्य भोजनात् । सप्ताहायुश्चिरायुः स्याद्धर्माशोकनरेन्द्रवत् ॥ ३.२१ ॥ वालुकाचैत्यकरणात्तथा सञ्चकताडनात् । चैत्यादिवन्दनाच्चैव ध्रुवमायुर्विवर्धते ॥ ३.२२ ॥ महासमाजकं सूत्रमाटानाटीयकं तथा । सक्षुद्रकं महामेघं गाथाः सुस्वस्तिसंज्ञिताः ॥ ३.२३ ॥ सत्कृत्य वाचयेद्भिक्षून् स्वयं वा संप्रवर्तयेत् । दीर्घमायुस्तथा प्राप्य मृत्योर्भवति वञ्चकः ॥ ३.२४ ॥ गण्डव्यूहादिसूत्रान्तान्महायानप्रकाशकान् । एकाग्रो वाचयेन्नित्यं मृत्युवञ्चनमश्नुते ॥ ३.२५ ॥ बुद्धभाषितनिःशेषयोगतन्त्रादिवाचनात् । पञ्चरक्षाविधानाद्वा मृत्युवञ्चनमाप्यते ॥ ३.२६ ॥ उष्णीषगर्भचैत्यादिप्रदक्षिणविधानतः । धारणीजपतश्चापि वञ्च्यते मृत्युरुद्यतैः ॥ ३.२७ ॥ ग्रहादिमातृकापाठात्तद्विधानपुरःसरात् । सहस्रावर्तधारण्या रत्नोल्कायाश्च जापतः ॥ ३.२८ ॥ धारणीसंचयाद्युक्तधारणीजापतत्पराः । आसन्नमपि दूरस्थं मृत्युं कुर्वन्ति पण्डिताः ॥ ३.२९ ॥ मण्डलालेखनाद्धोमान्मुद्राणां बन्धनादपि । बलीनां गणचक्राणां प्रदानान्मृत्युवञ्चनम् ॥ ३.३० ॥ चातुर्दिशार्यसंघाय भोज्यशय्यादिदानतः । काषायमात्रकण्ठेभ्योऽपि वा स्यान्मृत्युवञ्चनम् ॥ ३.३१ ॥ एवमादिक्रियारम्भाद्धर्मः स्यात्पुण्यलक्षणः । पुण्यात्स्यादायुषो वृद्धिस्तद्वृद्धेर्मृत्युवञ्चनम् ॥ ३.३२ ॥ इत्यादि लेशतो धर्मः सूचितस्तस्य विस्तरः । स्वयमुन्नीय कर्तव्यस्तज्ज्ञात्वा मृत्युवञ्चकैः ॥ ३.३३ ॥ एवं धर्मपरो भूत्वा सिद्धमन्त्रौषधादिभिः । मृत्योर्विष्कम्भणं कुर्यात्सद्यःप्रत्ययकारिभिः ॥ ३.३४ ॥ मणिमन्त्रौषधीसिद्धरसायनबलात्स्वयम् । मृत्योः पराजयो दृष्टः सिद्धविद्याधरैर्यथा ॥ ३.३५ ॥ रत्नलक्षणशास्त्रोक्तपरीक्षोत्तीर्णवज्रधृक् । आयुर्मणिधरो वापि विश्वरूपधरस्तथा ॥ ३.३६ ॥ अनर्घस्येन्द्रनीलादेरन्यस्यापि महामणेः । धारकः सर्वमृत्यूनां वञ्चकः स्यान्न संशयः ॥ ३.३७ ॥ न चात्र मणिसामर्थ्ये संशयो युक्तिभाग्यतः । अचिन्त्यशक्तियुक्तत्वं मणीनां सर्वसंमतम् ॥ ३.३८ ॥ पटादेरग्रतः पूजां कृत्वा विजनदेशगः । जापमात्रेण मन्त्राणां जायते मृत्युवञ्चनम् ॥ ३.३९ ॥ आकारमुच्चरेत्पूर्वं ततो रो लिगिति स्फुटम् । त्रैलोक्यविजयाख्योऽयं विद्याधरपिटोदितः ॥ ३.४० ॥ मन्त्रं लोकेश्वरस्यास्य जपेदक्षरलक्षकम् । श्राद्धस्तदग्रतोऽवश्यं मृत्युवञ्चनमश्नुते ॥ ३.४१ ॥ उक्त्वा वैरोचनं पूर्वं पश्चात्तारे द्विरुच्चरेत् । तुत्तारे द्विस्तुरे द्विश्च स्वाहान्तं मृत्युवञ्चनम् ॥ ३.४२ ॥ ताराभ्युदयतन्त्रोक्तं मन्त्रमक्षरलक्षकम् । जप्त्वार्यतारापुरतो दधिमध्वक्तिपूर्वकम् ॥ ३.४३ ॥ पूर्वोत्तरशिखादूर्वाप्रवालायुतहोमतः । पूर्वकर्मप्रभावोत्थमपि मृत्युं निवारयेत् ॥ ३.४४ ॥ ओमादौ रुरु ततोऽतः स्फुरुपदमतः परम् । ज्वल तिष्ठ तथा सिद्धलोचनेति पदत्रयम् ॥ ३.४५ ॥ सर्वार्थसाधनि स्वाहा मन्त्रोऽशोकदलेऽमले । प्रदत्तदक्षिणाचार्यैर्लिखितश्चन्दनद्रवैः ॥ ३.४६ ॥ लक्षशः कोटिशो वापि शुद्धः श्रद्धाविधानतः । धौतश्च निर्जलैः क्षीरैर्हुतो दूर्वादिनाथवा ॥ ३.४७ ॥ भवत्यवश्यं निःशेषमृत्युवञ्चनकारकः । निःशेषरोगसंदोहशान्तिकृच्चापि जायते ॥ ३.४८ ॥ महामण्डलकल्पोक्तार्यशताक्षरसंज्ञिनः । अचिन्त्यशक्तेर्मन्त्रस्य दृष्टशक्तेरनेकशः ॥ ३.४९ ॥ भद्रचर्यासमादानविधिना लक्षजापतः । मोक्षोऽपि जायते नूनं किं पुनर्मृत्युवञ्चनम् ॥ ३.५० ॥ नमस्त्रैयध्विकानां प्राक्तथागतानां स्यात्ततः । सर्वत्राप्रतिहतावाप्तिधर्मतेति पदं ततः ॥ ३.५१ ॥ बलिनामिति पदादों ततोऽसमसमपदम् । समन्ततोऽनन्ततावाप्तिशासनीति पदं ततः ॥ ३.५२ ॥ हर हर स्मर स्मरण विगतरागपदात् । बुद्धधर्मते ततः स्यात्सर सर समबला ॥ ३.५३ ॥ हसद्वयं त्रयद्वयं स्याद्गगनमहावर । लक्षणे ज्वल ज्वलनसागरे स्यात्पदं ततः ॥ ३.५४ ॥ दत्त्वा स्वाहापदं चान्ते भवेन्मन्त्रः शताक्षरः । तथागतानां सर्वेषां हृदयं परिकीर्तितः ॥ ३.५५ ॥ आर्यमहाप्रतिसरामन्त्रैकलक्षजापतः । दूर्वादशांशहोमेन ध्रुवं स्यान्मृत्युवञ्चनम् ॥ ३.५६ ॥ ओमुक्त्वा पदं विमले जय वरेऽनु चामृते । हूं हूं फट्फट्ततः स्वाहापदं ब्रूयादनन्तरम् ॥ ३.५७ ॥ वैरोचनाद्भरद्वयं संभरद्वयमुच्चरेत् । उक्त्वेन्द्रियबलशब्दं विशोधनिपदं वदेत् ॥ ३.५८ ॥ हूं हूं रुरु चले स्वाहा मन्त्रोऽयं मृत्युवञ्चकः । आर्यमहाप्रतिसराहृदयं सर्वसिद्धिदम् ॥ ३.५९ ॥ जप्त्वा दशाक्षरं मन्त्रं तं मृत्युञ्जयसंज्ञिनम् । दशलक्षं ततो होमं कुर्वीत कुसुमैः सितैः ॥ ३.६० ॥ घृताक्तैर्लक्षसंख्यातैर्लोकेश्वरगुरोः पुरः । मन्त्रशक्तेस्ततोऽवश्यं जायते मृत्युवञ्चनम् ॥ ३.६१ ॥ ओमादौ तत आङ्कारः स्यादीङ्कारस्ततः परम् । ऊमों मृत्युञ्जय ओं स्यादयं मन्त्रो दशाक्षरः ॥ ३.६२ ॥ कल्पादिजीवनार्थं ये प्रोक्ता मन्त्रास्तथागतैः । तैरायुः साधितं दीर्घं तद्दीर्घं मृत्युवञ्चनम् ॥ ३.६३ ॥ मन्त्रैर्यैः शान्तिकर्म तैः स्याद्वृद्धिरायुषः । यैः स्यादायुषो वृद्धिस्तैः स्यान्मृत्युवञ्चनम् ॥ ३.६४ ॥ मन्त्राणामपि सामर्थ्ये संशयो नैव युक्तिभाक् । अचिन्त्यं मन्त्रसामर्थ्यं यतः सर्वेषु संमतम् ॥ ३.६५ ॥ आह च । न तद्वस्त्वन्तरं लोके यन्न मन्त्रैः प्रसिध्यति । चिन्तामणिसमा मन्त्राः सम्यक्श्रद्धाभियोगतः ॥ ३.६६ ॥ कल्पोक्तविधिभिर्यद्वा यथाकामप्रयोगतः । बुभुक्षाबहुले देशेऽमृतामत्यन्तमाचरेत् ॥ ३.६७ ॥ एकाकिनीमथान्यैर्वा भेषजैः सहितां सदा । ततः स्थिरवपुर्भूत्वा मृत्युद्वारं न पश्यति ॥ ३.६८ ॥ अन्येषामपि दिव्यानां भेषजानां निषेवणात् । आयुर्वृद्धिर्जरारोगक्षयान्मृत्युं न पश्यति ॥ ३.६९ ॥ व्योमहेमादिभिर्बद्धान्मृतकाद्विधिभक्षितात् । स्यान्मृत्युवञ्चनं सिद्धरसायनस्वभावकात् ॥ ३.७० ॥ प्रतिपच्चन्द्रयोगादिप्राप्तेनान्तरधातुना । नस्यप्रदानाद्विधिना जायते मृत्युवञ्चनम् ॥ ३.७१ ॥ संपुटादिकतन्त्रोक्तपञ्चामृतप्रयुक्तिभिः । यथोपदेशयुक्ताभिर्जायते मृत्युवञ्चनम् ॥ ३.७२ ॥ ऊर्ध्वाधोभ्यां संपुटयोगं यः सततं कुरुते हितयोगम् । तस्य सुरुष्टोऽप्यविहततेजाः किञ्चित्कारी नो यमराजा ॥ ३.७३ ॥ मृतसंजीवनमपि क्व चिद्दृष्टमुपायतः । ऋतुमत्कन्यानरयोः शृङ्खलायाः समुत्थितैः ॥ ३.७४ ॥ शोणितोन्मिश्रशुक्राख्यधातुभिर्नातिशीतलैः । सद्यो यद्वा मृतस्यैव पतितैर्धातुबिन्दुभिः ॥ ३.७५ ॥ घृताक्तनलिकारन्ध्रनिर्गमेन प्रवेशितैः । वहेदात्मीयनासाग्रपुटोन्नीतपुटे क्रमात् ॥ ३.७६ ॥ पुनरुज्जीवनं दृष्टं निरोधश्चात्र शस्यते । प्रत्यक्षदृष्टसामर्थ्यो योगोऽयं बहुसंमतः ॥ ३.७७ ॥ समस्तमथवा व्यस्तं त्रिफलामार्कवान्वितम् । आचरेत्सततं योगी पञ्चामृतरसायनम् ॥ ३.७८ ॥ वलीपलितनिर्मुक्तो वज्रकायः स्वरूपवान् । ध्रुवं निवारयेन्मृत्युमपि कल्पादिसंख्यया ॥ ३.७९ ॥ आगमोक्तमिदं सिद्धं बहूनां वारिगन्धयोः । भक्षणालेपनात्सद्यो भवेन्मृत्युनिवारणम् ॥ ३.८० ॥ अनयोश्च सदाभ्यासान्मधुसर्पिःसमन्वितात् । कालाकालसमुद्भूतमपि मृत्युं निवारयेत् ॥ ३.८१ ॥ भेषजस्यापि सामर्थ्ये संशयो नैव युज्यते । अचिन्त्यौषधिसामर्थ्यं यतः सर्वत्र दृश्यते ॥ ३.८२ ॥ इति विधाय बहिष्क्रियमादरान्मरणवञ्चनमत्र यथाबलम् । प्रबलमृत्युमहाभयशङ्कया कुरुत संप्रति तत्पुनरान्तरम् ॥ ३.८३ ॥ ॥ इति श्रीपण्डिताचार्यवागीश्वरकीर्तिविरचिते मृत्युवञ्चनोपदेशे तृतीयः परिच्छेदः ॥ आध्यात्मिकमिदानीं तु मृत्युवञ्चनकौशलम् । कथ्यते येन नियतं वञ्च्यते मृत्युरुद्यतैः ॥ ४.१ ॥ राजचौरमहामारव्याघ्रादिभयवर्जिते । संसर्गरहिते रम्ये पर्वतादौ क्व चित्स्थितः ॥ ४.२ ॥ मात्राभोजी मितालापी नातिचङ्क्रमणे प्रियः । अल्पनिद्रो बहुध्यानो मन्त्रजापपरायणः ॥ ४.३ ॥ स्वेष्टदैवतपूजादिसद्धर्मपठनक्रियः । त्रिसंध्यबलिदानादिमैत्र्यचित्तादितत्परः ॥ ४.४ ॥ पुण्यादेवेष्टसंसिद्धिरिति पुण्यक्रियापरः । श्रद्धया सर्वसंसिद्धिरिति श्रद्धाविवर्धकः ॥ ४.५ ॥ वीर्यात्प्रारब्धनिष्पत्तिरिति वीर्यपुरःसरः । ध्यानादिष्टफलस्थैर्यमिति ध्यानैकचेतनः ॥ ४.६ ॥ सङ्गत्यागादनुष्ठानमिति सङ्गविवर्जितः । सम्यग्ज्ञानवतः सर्वमिति ज्ञानसमन्वितः ॥ ४.७ ॥ मरणे दुःखसंदर्शी धर्मदर्शी च जीविते । विगताशेषसंदेहो मृत्युवञ्चनमारभेत् ॥ ४.८ ॥ तत्रादौ ध्यानसहितं विघ्नारेर्मन्त्रलक्षकम् । संजप्यायुतहोमेन सर्वविघ्नान्निवारयेत् ॥ ४.९ ॥ नमः समन्तकायेति प्राग्वाक्चित्तपदं ततः । वज्राणां च नमो वज्रक्रोधायेति पदं वदेत् ॥ ४.१० ॥ महादंष्ट्रोत्कटपदाद्भैरवायपदं वदेत् । असिमुसलपरशुपाशगृहीतहस्ताय ॥ ४.११ ॥ ओं ततोऽमृतकुण्डलि खखखाहिखाहिपदात् । तिष्ठतिष्ठपदं तस्माद्बन्धद्वयं हनद्वयम् ॥ ४.१२ ॥ ततः । दहद्वयं गर्जद्वयं विस्फोटयद्वयं ततः । सर्ववज्रपदाद्विघ्नविनायकान्पदं वदेत् ॥ ४.१३ ॥ महागणपतिपदाज्जीवितान्तकराय च । हूं हूं फट्फट्स्वाहा मन्त्रो विघ्ननिवारणः ॥ ४.१४ ॥ हृदयेनाथवास्यैव सर्वविघ्नान्निवारयेत् । पूर्ववज्जपहोमाभ्यां शक्तिरस्यापि तादृशी ॥ ४.१५ ॥ ओं प्रागुक्त्वा हुलुहुलुतिष्ठतिष्ठपदं ततः । हनद्वयं दहद्वयं गर्जगर्ज तथा पुनः ॥ ४.१६ ॥ विस्फोटयद्वयाद्ब्रूयात्सर्वविघ्नविनायकान् । ओममृत हूं हूं फट्फट्मम रक्षां कुरु स्वाहा ॥ ४.१७ ॥ एवं विनाशिताशेषमारविघ्नो निराकुलः । यथाभिवाञ्छितं योगं ध्यायादेकमहर्निशम् ॥ ४.१८ ॥ बुद्धकृत्यकरं शान्तं घनव्यूहनिवासिनम् । आबद्धवज्रपर्यङ्कं पद्मचन्द्रासनोपरि ॥ ४.१९ ॥ बोध्यग्रीमुद्रया युक्तं स्फुरच्छ्वेतांशुमण्डलम् । ध्यात्वा वैरोचनं शुक्लमासंसारं न मृत्युभाक् ॥ ४.२० ॥ स्ववर्णमुद्रावेषाढ्यानक्षोभ्यादितथागतान् । दृढाहङ्कारतो ध्यात्वा वज्रकायो भवेद्ध्रुवम् ॥ ४.२१ ॥ हृच्चन्द्रसंपुटान्तस्थं लोकेश्वरमनश्वरम् । शान्तं शशाङ्कसंकाशं सर्वालङ्कारभूषितम् ॥ ४.२२ ॥ रक्तवर्णामिताभाख्यसंबुद्धाङ्कजटाधरम् । वज्रपर्यङ्कसंश्लिष्टं पादाम्बूजद्वयोपरि ॥ ४.२३ ॥ समाधिमुद्रासंसक्तकरद्वयमनाकुलम् । सर्वसत्त्वार्थसंपादिकारुण्यस्यन्दिविग्रहम् ॥ ४.२४ ॥ ध्यात्वा तस्यापि हृदये लोकेशमपरं तथा । पुनस्तस्यापि हृदये तथैवैकाग्रमानसः ॥ ४.२५ ॥ कोटिसंख्या भवेद्यावत्तावद्ध्यानमिदं स्मरेत् । ततः सूक्ष्मातिसूक्ष्मान्त्यलोकेशगतचेतसं ॥ ४.२६ ॥ दृष्ट्वा योगेश्वरं मृत्युर्म्रियते स्वयमेव हि । अन्येऽपि स्कन्धजा दोषाः स्वयमायन्ति नाशिताम् ॥ ४.२७ ॥ सितारविन्दमध्यस्थचन्द्रबिम्बासनोपरि । आबद्धवज्रपर्यङ्कां वरदोत्पलधारिणीम् ॥ ४.२८ ॥ शरच्चन्द्रकराकारां पृष्ठचन्द्रसमाश्रिताम् । सर्वालङ्कारसंपूर्णां षोडशाब्दवपुष्मतीम् ॥ ४.२९ ॥ सर्वसंबुद्धतत्पुत्रमातरं कामरूपधाम् । ध्यात्वार्यतारां हृदये तस्याश्चक्रं सितद्युति ॥ ४.३० ॥ अष्टकोष्ठकमष्टाभिरक्षरैः परिपूरितम् । ओंहाव्यञ्जनमध्यस्थसाध्यनामाद्यनाभिकम् ॥ ४.३१ ॥ ध्यायादेकाग्रचित्तः सन् षड्मासान् दृढनिश्चयः । जपेच्चाखिन्नचित्तः सन्मन्त्रमेनं दशाक्षरम् ॥ ४.३२ ॥ ओङ्कारमादितो दत्त्वा पश्चात्तारे प्रयोजयेत् । तुत्तारे स्यात्तुरे पश्चात्स्वाहान्तः सार्वकर्मिकः ॥ ४.३३ ॥ ब्रह्मेन्द्रविष्णुचन्द्रार्करुद्रदिक्पालमन्मथैः । अप्यखण्डितरोमाग्रं मृत्युं जयति मृत्युवत् ॥ ४.३४ ॥ वलीपलितदौर्भाग्यव्याधिदारिद्र्यसंक्षयः । सिंहाद्यष्टमहाभीतिदुःखसंदोहनाशनम् ॥ ४.३५ ॥ अयाचितान्नपानादिहर्म्यवस्त्रादिसंगमः । खड्गाञ्जनपादलेपभद्रकुम्भादिसिद्धयः ॥ ४.३६ ॥ कविता वक्तृता मेधा प्रज्ञा चैकान्तनिर्मला । अन्या च वाञ्छिता सिद्धिश्चक्रादस्मात्प्रजायते ॥ ४.३७ ॥ लोचनां मामकीं चुन्दां महाश्वेतादिदेवताम् । स्ववर्णवेषमुद्राभिर्ध्यात्वा मृत्युं न पश्यति ॥ ४.३८ ॥ स्वेष्टदैवतयोगाद्वै दृढाहङ्कारसंगतात् । चिन्तामणेरिवाशेषवाञ्छितार्थप्रसाधकात् ॥ ४.३९ ॥ शङ्खकुन्देन्दुसंकाशात्संहारक्रमसंस्थितात् । अनारतक्रियाभ्यासान्मृत्युरायाति वञ्चनाम् ॥ ४.४० ॥ चक्रसंवरतन्त्रोक्तहेरुकाकारभावनाम् । कृत्वा तत्परिणामेन कपालाकारभावकम् ॥ ४.४१ ॥ कङ्कालरूपनिध्यानं यद्वा खट्वाङ्गभावकम् । मारयितुमयोग्यत्वान्मृत्युर्नैवोपसर्पति ॥ ४.४२ ॥ मूर्ध्नि चन्द्रमसो बिम्बात्क्षरत्पीयूषशीकरान् । ह्लादयतः समस्ताङ्गं रोमकूपैः समन्ततः ॥ ४.४३ ॥ षड्मासान् भावयेद्योगी सर्वसङ्गविवर्जितः । सर्वरोगान् विनिर्जित्य मृत्युं जयति मृत्युवत् ॥ ४.४४ ॥ शिरस्यधोमुखं शुक्लं सहस्रदलपङ्कजम् । ध्यात्वा चन्द्रक्रमान्मृत्युं कल्पादींश्च विनाशयेत् ॥ ४.४५ ॥ अस्यैव कृष्णरूपस्य कृष्णरूपैर्गभस्तिभिः । संप्लावयतो निध्यानात्पलितादिविनाशनम् ॥ ४.४६ ॥ जिह्वां तालुगतां कृत्वा दन्तैर्दन्तानसंस्पृशन् । अचिन्त्यहेतुसामर्थ्याच्छ्रद्धेयमिदमारभेत् ॥ ४.४७ ॥ कण्ठरन्ध्रोर्ध्वसंलग्नां लालाजिह्वामधोमुखीम् । जिह्वाग्रेणालिहेद्यावत्पीयूषरसवेदनम् ॥ ४.४८ ॥ ततो मृत्युं जयेत्सद्यः पलितादींश्च नाशयेत् । सर्वापद्भयरक्षा च तत्कार्यकरणाद्भवेत् ॥ ४.४९ ॥ आनापानस्मृतेर्वाथ प्रकारान्तरमारभेत् । संख्यावृद्ध्या ततोऽवश्यमजरामरतां व्रजेत् ॥ ४.५० ॥ अधिकानि शतैः षड्भिः सहस्राण्येकविंशतिः । अहोरात्रेण सत्त्वानां प्राणसंख्या प्रकीर्तिता ॥ ४.५१ ॥ प्रवेशः शस्यते वायोर्यतः सोऽमृतसंचयः । अमृतं जीवनोपायस्तेन मृत्युर्न बाधते ॥ ४.५२ ॥ प्रवेशं गणयेद्वायोः शनैर्लक्षादिसंख्यया । एकाग्रचित्तो विधिवदशब्दो जप उच्यते ॥ ४.५३ ॥ अशब्दजपलक्षेण विधिना पूरितेन तु । भ्रष्टायुः सन्नरोऽवश्यं पञ्च वर्षाणि जीवति ॥ ४.५४ ॥ द्विलक्षादिजपादेवमुन्नेया वृद्धिरायुषः । उपायकुशलो भूत्वा वायुजापपरो भवेत् ॥ ४.५५ ॥ सहस्रमेकं सततं गणयेत्प्रातरुत्थितः । सर्वरोगविनिर्मुक्तो जीवेच्चन्द्रार्कजीवितम् ॥ ४.५६ ॥ नाभ्यासरहितस्तिष्ठेन्मुहूर्तमपि न स्वपेत् । जित्वा निद्रां प्रयत्नेन भक्षपानासनादिकम् ॥ ४.५७ ॥ वाहयेदनुलोमेन वायुसंचारतत्परः । अनुलोमपरो योगी मृत्युं जयति निश्चितम् ॥ ४.५८ ॥ म्रियन्ते तु विलोमेन मूढा भोगैकतत्पराः । स्वभावस्त्वनुलोमः स्याद्विलोमस्तद्विपर्ययात् ॥ ४.५९ ॥ सिंहविक्रीडितामुद्राबन्धनाद्वायुरोधतः । जितकुम्भकयोगाद्वा निरोधो मृत्युवञ्चकः ॥ ४.६० ॥ आपादतलपर्यन्तं शनैरापूर्य वायुना । निरोधनात्कुम्भकः स्यात्तज्जपक्रम उच्यते ॥ ४.६१ ॥ त्रिविधोद्घातयोगेन जितो भवति कुम्भकः । हीनमध्यादिभेदेन उद्घातस्त्रिविधो मतः ॥ ४.६२ ॥ उद्घात इति संज्ञैषा वक्ष्यमाणार्थदर्शिका । षट्त्रिंशन्मात्रिको हीनो मध्यः स्याद्द्विगुणस्तथा ॥ ४.६३ ॥ ज्येष्ठस्तु त्रिगुणो ज्ञेयः कुम्भकस्तेन जीयते । प्रथमं कुम्भकं कृत्वा पश्चात्स्वं जानुमण्डलम् ॥ ४.६४ ॥ पाणिना त्रिः परामृश्य षड्दद्याच्छोटिकास्ततः । एषा मात्रोच्यते कालपरिच्छेदाय पण्डितैः ॥ ४.६५ ॥ षट्त्रिंशन्मात्रा यावत्स्युस्तावद्या कुम्भकक्रिया । उद्घातोऽसौ मतो हीनो मध्यमो द्विगुणस्ततः ॥ ४.६६ ॥ त्रिगुणो ज्येष्ठ उद्घातोऽष्टोत्तरशतमात्रिकः । स एव जेयो यत्नेन मृत्युवञ्चनवाञ्छया ॥ ४.६७ ॥ ज्येष्ठोद्घातावधिं यावत्कुम्भकश्चेत्प्रवर्तते । निरन्तरनिरोधोऽपि तदा भवति सुस्थिरः ॥ ४.६८ ॥ मर्तव्यदिवसं ज्ञात्वा यो निरोधेन तिष्ठति । तस्य कल्पसहस्राणि मृत्युर्नायाति संनिधिम् ॥ ४.६९ ॥ आकाशधेनोरादोहात्पीयूषद्रवसंचयम् । घटाङ्कवारुणाख्येन मण्डलेन स्फुरत्त्विषा ॥ ४.७० ॥ नासाग्रनिर्गतो वायुरादायासेचयेन्मुहुः । शुष्यद्धृत्पद्मसंलीनं चित्तभ्रमरशावकम् ॥ ४.७१ ॥ आकाशदोहनध्यानमिदं नित्यं समाचरेत् । आकाशमिव तं मृत्युः पश्यन्नपि न पश्यति ॥ ४.७२ ॥ संत्यज्य वायुमथवा तत्त्वमेव सदाचरेत् । तत्त्वेन जीयते मृत्युस्तथान्ये मारशत्रवः ॥ ४.७३ ॥ निःशेषदोषप्रशमो निःशेषगुणसंभवः । तत्त्वेन जीयते पुंसां सिद्धयश्चाभिवाञ्छिताः ॥ ४.७४ ॥ तत्त्वं च शून्यता प्रोक्ता सर्वाकारवरात्मिका । तामेवाभ्यस्यतो नित्यं मृत्युरायाति वञ्चनाम् ॥ ४.७५ ॥ धर्मसंभोगकायादिदानशीलाद्यभेदिनी । सर्वालम्बनसंयोगात्सर्वालम्बनवर्जिता । सर्वाकारवरोपेता शून्यता कथिता जिनैः ॥ ४.७६ ॥ न चिन्तां चिन्तयेच्चिन्त्यामचिन्त्यां नैव चिन्तयेत् । चिन्त्याचिन्त्यां न चिन्तयेत्ततः प्राप्स्यति शून्यताम् ॥ ४.७७ ॥ न भावं भावयेद्विद्वान्नाप्यभावं विभावयेत् । भावाभावविनिर्मुक्तं भावयेत्तद्विवर्जितः ॥ ४.७८ ॥ सर्वाकारवरोपेतां शून्यताग्रहवर्जिताम् । शून्यतां भावयेन्नित्यं मृत्युना नैव दृश्यते ॥ ४.७९ ॥ विकल्पमात्रसंभूतं मृत्युं सोऽपि न पश्यति । अन्यांश्च बहुलान्मारान् संसारं च न पश्यति ॥ ४.८० ॥ तदाह । मृत्युर्नाम विकल्पोऽयमभावे सर्ववस्तुनः । हन्यते स्वविकल्पेन पृथग्जनविजृम्भितैरिति ॥ ४.८१ ॥ विकल्पः सर्वदुःखानि विकल्पो मृत्युरुच्यते । विकल्पं हानयेत्तस्मान्निर्विकल्पमना भवेत् ॥ ४.८२ ॥ यद्यद्विभाव्यतेऽभीक्ष्णमादरादिविशेषितम् । तत्तत्तु स्फुटतां याति कामशोकादिबुद्धिवत् ॥ ४.८३ ॥ सुलभानि हि शास्त्राणि प्रयोगास्ते सुदुर्लभाः । प्रयोगज्ञेषु लोकेषु प्रयोगा नैव दुर्लभाः ॥ ४.८४ ॥ प्रयोगकुशलः श्राद्धः क्षमावीर्यप्रतिष्ठितः । अनुष्ठानपरः प्राज्ञो मृत्युवञ्चनभाजनम् ॥ ४.८५ ॥ श्रमात्पाचनपानादेर्जठरानलदीपनम् । प्रदीप्तवह्नेराहारः परिणामोऽपि शक्तितः ॥ ४.८६ ॥ परिणामात्तनोः पुष्टिः पुष्टेर्बलविवर्धनम् । बलात्स्यादायुषो वृद्धिस्तद्वृद्धेश्चिरजीवितम् ॥ ४.८७ ॥ प्रत्यक्षसिद्धं सर्वेषां यथा नास्त्यत्र संशयः । तथोपदेशात्कल्पादिजीवनेऽपि न संशयः ॥ ४.८८ ॥ नाशोन्मुखोऽपि दीपादिस्तैलवर्तिक्षयादिभिः । पुनस्तैलादिसंप्राप्तेः कल्पान्तमपि तिष्ठति ॥ ४.८९ ॥ यथा तथायं देहोऽपि म्रियमाणो जरादिभिः । सिद्धोपदेशसंप्राप्तेः कल्पान्तं किं न तिष्ठति ॥ ४.९० ॥ यथा जीर्णस्य गेहस्य संस्कारेण चिरस्थितिः । तथा जीर्णस्य देहस्य संस्कारेण न किं भवेत् ॥ ४.९१ ॥ न दुष्करं किं चन विक्रमेण तस्मादनिक्षिप्तधुरा यतध्वम् । नित्यप्रवृत्ता विभिनत्ति काले शिलातलं मृद्वपि वारिधारा ॥ ४.९२ ॥ काष्ठादग्निर्जायते मथ्यमानाद्भूमिस्तोयं खन्यमाना ददाति । सोत्साहानां नास्त्यसाध्यं नराणां न्यायारब्धाः सर्वयत्नाः फलन्ति ॥ ४.९३ ॥ सुबहून्यपि विज्ञाय वञ्चनानि मृतेरिह । अननुष्ठानाद्विष्ठाभिर्लिप्त्वा शय्यां मृता वयम् ॥ ४.९४ ॥ प्रयोगकुशला ये च पण्डिताः शास्त्रपारगाः । अननुष्ठानदोषेण दन्तान्निष्काश्य ते मृताः ॥ ४.९५ ॥ ज्ञात्वापि योगशास्त्राणि प्रयोगांश्चाप्यनेकशः । अद्य श्वो वा करिष्याम इति चिन्तापरा मृताः ॥ ४.९६ ॥ इदं कर्तास्मि श्वः पुनरिदमिदं चास्य परतो वृथा प्राप्ताश्वासो विमृशति न लोलां भवगतिम् । अगत्वा कार्यान्तं विषय-सलिलावर्तपतिता प्रजा मृत्योर्वक्त्रं मकर-मुखवन्नौः प्रविशति ॥ ४.९७ ॥ इति निगदितमेतद्वञ्चनं मृत्युशत्रोः स्वपरसमयसिद्धध्यानकर्मप्रसाध्यम् । अघृणमरणभीतेर्यत्नतः संविधेयं यत इह कमनीयं जीवितान्नान्यदस्ति ॥ ४.९८ ॥ वज्रडाकं चतुष्पीठं बुद्धपञ्जरकादि च । कालोत्तरं कालावलीं कालपञ्चाशिकामपि ॥ ४.९९ ॥ जीवपञ्चाशिकादीनि शास्त्राण्यालोक्य यत्नतः । सत्त्वानुकम्पया प्रोक्तमिदं मरणवञ्चनम् ॥ ४.१०० ॥ शारदचन्द्रनभः परिशुद्धं शुद्धवियच्छशिनाप्यसमाप्तम् । आप्तमतः कुशलं यदमृत्युस्तेन जनोऽस्तु स मृत्युविमुक्तः ॥ ४.१०१ ॥ गणनाश्रमहानाय लेखकानां तपस्विनाम् । ग्रन्थप्रमाणमाख्यातं साशीतिकशतत्रयम् ॥ ४.१०२ ॥ ॥ इति श्रीपण्डिताचार्यवागीश्वरकीर्तिविरचिते मृत्युवञ्चनोपदेशे चतुर्थः परिच्छेदः समाप्तः ॥