१ अनित्य.वर्ग १.० : सिद्धम् १.१ स्तीनम्.इद्धम्.विनोद्येह.सम्प्रहर्ष्य.च.मानसम् ।[.स्तीनमिद्धम्.] १.१ शृणुतेमम्.प्रवक्ष्यामि उदानम्.जिन.भाषितम् ॥ १.२ एवम्.उक्तम्.भगवता.सर्वाभिज्ञेन.तायिना । १.२ अनुकम्पकेनर्षिणा शरीरान्तिम.धारिणा ॥ १.३ अनित्या.बत.संस्कारोत्पाद.व्यय.धर्मिणः । १.३ उत्पद्य.हि.निरुध्यन्ते.तेषाम्.व्युपशमः.सुखम् ॥ १.४ को.नु.हर्षः.क;आनन्द;एवम्.प्रज्वलिते.सति । १.४ अन्ध.कारम्.प्रविष्टाः.स्थ.प्रदीपम्.न.गवेषथ ॥ १.५ यानीमान्य्.अपविद्धानि.विक्षिप्तानि.दिशो.दिशम् । १.५ कपोत.वर्णान्य्.अस्थीनि.तानि.द्र्ष्ट्वेह.का.रतिः ॥ १.६ याम्.एव.प्रथमाम्.रात्रिम्.गर्भे.वसति.मानवः । १.६ अविष्ठितः.स.व्रजति.गतश्.च.न.निवर्तते ॥ १.७ सायम्.एके.न.दृश्यन्ते.काल्यम्.दृष्टा.महा.जनाः । १.७ काल्यम्.चैके.न.दृष्यन्ते.सायम्.दृष्टा.महा.जनाः ॥ १.८ तत्र.को.विश्वसेन्.मर्त्यो.दहरो.अस्मीति.जीविते । १.८ दहरापि.ंरियन्ते.हि.नरा.नार्यश्.च.न्.एकशः ॥[.अनेकशः.] १.९ गर्भ;एके.विनश्यन्ते.तथैके.सूतिका.कुले । १.९ परिसृप्तास्.तथा.ह्य्.एके.तथैके.परिधाविनः ॥ १.१० ये.च.वृद्धा.ये.च.दह्रा.ये.च.मध्यम.पुरुषाः ।[.पूरुषाः.] १.१० अनुपूर्वम्.प्रव्रजन्ति.फलम्.पक्वम्.व.बन्धनात् ॥ १.११ यथा.फलानाम्.पक्वानाम्.नित्यम्.पतनतो.भयम् । १.११ एवम्.जातस्य.मर्त्यस्य.नित्यम्.मरणतो.भयम् ॥ १.१२ यथापि.कुम्भ.कारेण.मृत्तिका.भाजनम्.कृतम् । १.१२ सर्वम्.भेदन.पर्यन्तम्.एवम्.मर्त्यस्य.जीवितम् ॥ १.१३ यथापि.तन्त्रे.वितते.यद्.यद्.उक्तम्.समुप्यते । १.१३ अल्पम्.भवति.वातव्यम्.एवम्.मर्त्यस्य.जीवितम् ॥ १.१४ यथापि.व - - - - - - - - - - - - - - - - - । १.१४ - - - घतनो.भवति;एवम्.मर्त्यस्य.जीवितम् ॥ १.१५ यथा.नदी.पार्वतीया.गच्छते.न.निवर्तते । १.१५ एवम्.आयुर्.मनुष्याणाम्.गच्छते.न.निवर्तते ॥ १.१६ किसरम्.च.परित्तम्.च.तच्.च.दुह्खेन.सम्युतम् । १.१६ उदके.दण्ड.राजीव.क्षिप्रम्.एव.विनश्यति ॥ १.१७ यथा.दण्डेन.गोपालो.गाः.प्रापयति.गोचरम् । १.१७ एवम्.रोगैर्.जरा.मृत्युः.आयुः.प्रापयते.नृणाम् ॥ १.१८ अतियान्ति.ह्य्.अहो.रात्रा.जीवितम्.चोपरुध्यते । १.१८ आयुः.क्षीयति.मर्त्यानाम्.कुनदीषु.यथौदकम् ॥ १.१८ ........................ जीवितम्.चोपरुध्यते । १.१८ ................................................ ॥ १.१९ दीर्घा.जागरतो.रात्रिर्.दीर्घम्.श्रान्तस्य.योजनम् । १.१९ दीर्घो.बालस्य.संसारः.सद्धर्मम्.अविजानतः ॥ १.२० पुत्रो.मेऽस्ति.धनम्.मेऽस्तीत्य्.एवम्.बालो.विहन्यते । १.२० आत्मैव.ह्य्.आत्मनो.नास्ति.कस्य.पुत्रः.कुतो.धनम् ॥ १.२० मरणे ........................................... । १.२० ................................................. ॥ १.२१ अनेकानि.सहस्राणि.नर.नारी.शतानि.च । १.२१ भोगान्.वै.समुदानीय.वशम्.गच्छन्ति.मृत्युनः ॥ १.२२ सर्वे.क्षयान्ता.निचयाः.पतनान्ताः.समुच्छ्रयाः । १.२२ सम्योगा.विप्रयोगान्ता.मरणान्तम्.हि.जीवितम् ॥ १.२३ सर्वे.सत्त्वा.मरिष्यन्ति.मरणान्तम्.हि.जीवितम् ।[.सत्वा.] १.२३ यथा.कर्म.गमिष्यन्ति.पुण्य.पाप.फलोपगाः ॥ १.२४ नरकम्.पाप.कर्माणः.कृत.पुण्यास्.तु.सद्.गतिम् । १.२४ अन्ये.तु.मार्गम्.भाव्येह.निर्वास्यन्ति.निरास्रवाः ॥[.भाव्येह.] १.२५ नैवान्तरीक्.से.न.समुद्र.मध्ये.न.पर्वतानाम्.विवरम्.प्रविश्य । १.२५ न.विद्यतेऽसौ.पृथिवी.प्रदेशो.यत्र.स्थितम्.न.प्रसहेत.मृत्युह् ॥ १.२६ ये.चेह.भूता.भविष्यन्ति.वा.पुनः.सर्वे.गमिष्यन्ति.प्रहाय.देहम् । १.२६ ताम्.सर्व.हानिम्.कुशलो.विदित्वा.धर्मे.स्थितो.ब्रह्मचर्यम्.चरेत ॥ १.२७ जीर्णम्.च.दृष्ट्वेह.तथैव.रोगिणम्.मृतम्.च.दृष्ट्वा.व्यपयात.चेतसम् । १.२७ जहौ.स.धीरो.गृह.बन्धनानि.कामा.हि.लोकस्य.न.सुप्रहेयाः ॥ १.२८ जीर्यन्ति.वै.राज.रथाः.सुचित्रा.ह्य्.अथो.शरीरम्.अपि.जराम्.उपैति । १.२८ सताम्.तु.धर्मो.न.जराम्.उपैति.सन्तो.हि.तम्.सत्सु.निवेदयन्ति ॥ १.२९ धिक्.त्वाम्.अस्तु.जरे.ग्राम्ये.विरूप.करणी.ह्य्.असि । १.२९ तथा.मनो.रमम्.बिम्बम्.जरया.ह्य्.अभिमर्दितम् ॥ १.३० यो.अपि.वर्ष.शतम्.जीवेत्.सो.अपि.मृत्यु.परायणः । १.३० अनु.ह्य्.एनम्.जरा.हन्ति.व्याधिर्.वा.यदि.वान्तकः ॥ १.३१ सदा.व्रजन्ति.ह्य्.अनिवर्तमाना.दिवा.च.रात्रौ.च.विलुज्यमानाः । १.३१ मत्स्या;इवातीव.हि.तप्यमाना.दुह्खेन.जाति.मरणेन.युक्ताः ॥ १.३१ .......... । १.३१ .......... । १.३२ आयुर्.दिवा.च.रात्रौ.च.चरतस्.तिष्ठतस्.तथा । १.३२ नदीनाम्.वा.यथा.स्रोतो.गच्छते.न.निवर्तते ॥ १.३३ येषाम्.रात्रि.दिवापाये.ह्य्.आयुर्.अल्पतरम्.भवेत् । १.३३ अल्पोदके.व.मत्स्यानाम्.का.नु.तेषाम्.रतिर्.भवेत् ॥ १.३४ परिजीर्णम्.इदम्.रूपम्.रोग.नीडम्.प्रभङ्गुरम् । १.३४ भेत्स्यते.पूत्य्.असंदेहम्.मरणान्तम्.हि.जीवितम् ॥ १.३५ अचिरम्.बत.कायो.अयम्.पृथिवीम्.अधिशेष्यते । १.३५ शुन्यो.व्यपेत.विज्ञानो.निरस्तम्.वा.कडङ्गरम् ॥[.शून्यो.] १.३६ किम्.अनेन.शरीरेण.स्रवता.पूउतिना.सदा । १.३६ नित्यम्.रोगाभिभूतेन.जरा.मरण.भीरुणा ॥ १.३७ अनेन.पूति.कायेन.ह्य्.आतुरेण.प्रभङ्गुणा । १.३७ निगच्छथ.पराम्.शान्तिम्.योग.क्षेमम्.अनुत्तरम् ॥ १.३८ इह.वर्षम्.करिष्यामि.हेमन्तम्.ग्रीष्मम्.एव.च । १.३८ बालो.विचिन्तयत्य्.एवम्.अन्तरायम्.न.पश्यति ॥ १.३९ तम्.पुत्र.पशु.सम्मत्तम्.व्यासक्त.मनसम्.नरम् । १.३९ सुत्पम्.ग्रामम्.महौघैव.मृत्युर्.आदाय.गच्छति ॥[.महौघैव.] १.४० न.सन्ति.पुत्रास्.त्राणाय.न.पिता.नापि.बान्धवाः । १.४० अन्तकेनाभिभूतस्य.न.हि.त्राणा.भवन्ति.ते ॥ १.४१ इदम्.कृतम्.मे.कर्तव्यम्.इदम्.कृत्वा.भविष्यति । १.४१ इत्य्.एवम्.स्पन्दतो.मर्त्यान्.जरा.मृत्युश्.च.मर्दति ॥ १.४२ तस्मात्.सदा.ध्यान.रताः.समाहिता.ह्य्.आतापिनो.जाति.जरान्त.दर्शिनः । १.४२ मारम्.ससैन्यम्.ह्य्.अभिभूय.भिक्षवो.भवेत.जाती.मरणस्य.पारगाः ॥ २ कामवर्ग २.१ काम.जानामि.ते.मूलम्.संकल्पात्.काम.जायसे । २.१ न.त्वाम्.संकल्पयिष्यामि.ततो.मे.न.भविष्यसि ॥ २.२ कामेभ्यो.जायते.शोकः.कामेभ्यो.जायते.भयम् । २.२ कामेभ्यो.विप्रमुक्तानाम्.नास्ति.शोकः.कुतो.भयम् ॥ २.३ रतिभ्यो.जायते.शोको.रतिभ्यो.जायते.भयम् । २.३ रतिभ्ह्यो.विप्रमुक्तानाम्.नास्ति.शोकः.कुतो.भयम् ॥ २.४ मधुराग्रा.विपाके.तु.कटुका.ह्य्.अभिनन्दिताः । २.४ कामा.दहन्ति.वै.बालान्.उल्केवामुञ्चतः.करम् ॥ २.५ न.तद्.दृढम्.बन्धनम्.आहुर्.आर्या.यद्.आयसम्.दारवम्.बल्बजम्.वा । २.५ संरक्त.चित्तस्य.हि.मन्द.बुद्धेः.पुत्रेषु.दारेषु.च.या;अवेक्षा ॥ २.६ एतद्दृढम्.बन्धनम्.आहुर्.आर्याः.समन्ततः.सुस्थिरम्.दुष्प्रमोक्षम् । २.६ एतद्.अपि.छित्त्वा.तु.परिव्रजन्ति.ह्य्.अनपेक्षिणः.काम.सुखम्.प्रहाय ॥ २.७ न.ते.कामा.यानि.चित्राणि.लोके.संकल्प.रागः.पुरुषस्य.कामः । २.७ तिष्ठन्ति.चित्राणि.तथैव.लोके;अथात्र.धीरा.विनयन्ति.छन्दम् ॥[.च्छन्दम्.] २.८ न.सन्ति.नित्या.मनुजेषु.कामाः.सन्ति.त्व्.अनित्याः.कामिनो.यत्र.बद्धाः । २.८ तांस्.तु.प्रहाय.ह्य्.अपुनर्.भवाय.ह्य्.अनागतम्.मृत्यु.धेयम्.वदामि ॥ २.९ छन्द.जातो.ह्य्.अवस्रावी.मनसानाविलो.भवेत् । २.९ कामेषु.त्व्.अप्रतिबद्ध.चित्त;ऊर्ध्व.स्रोतो.निरुच्यते ॥ २.१० अनुपूर्वेण.मेधावी.स्तोकम्.स्तोकम्.क्षणे.क्षणे । २.१० कर्मारो.रजतस्यैव.निर्धमेन्.मलम्.आत्मनः ॥ २.११ रथ.कार;इव.चर्मणः.परिकर्तन्न्.उपानहम् । २.११ यद्.यज्.जहाति.कामानाम्.तत्.तत्.सम्पद्यते.सुखम् ॥ २.१२ सर्वम्.चेत्.सुखम्.इच्छेत.सर्व.कामान्.परित्यजेत् ।[.कामाम्.] २.१२ सर्व.काम.परित्यागी.ह्य्.अत्यन्तम्.सुखम्.एधते ॥ २.१३ यावत्.कामान्.अनुसरन्.न.तृप्तिम्.मनसो.अध्यगात् । २.१३ ततो.निवृत्तिम्.प्रतिपश्यमानास्.ते.वै.तृप्ताः.प्रज्ञया.ये.सुतृप्ताः ॥ २.१४ श्रेयसी.प्रज्ञया.तृप्तिर्.न.हि.कामैर्.वितृप्यते । २.१४ प्रज्ञया.पुरुषम्.तृप्तम्.तृष्णा.न.कुरुते.वशम् ॥ २.१५ गृद्धा.हि.कामेषु.नराः.प्रमत्ता.ह्य्.अधर्मे.बत.ते.रताः । २.१५ अन्तरायम्.न.ते.पश्यन्त्य्.अल्पके.जीविते.सति । २.१६ दुर्मेधसम्.हन्ति.भोगो.न.त्व्.इहात्म.गवेषिणम् । २.१६ दुर्मेधा.भोग.तृष्णाभिर्.हन्त्य्.आत्मानम्.अथो.परान् ॥ २.१७ न.कर्षापण.वर्षेण.तृप्तिः.कामैर्.हि.विद्यते । २.१७ अल्पास्वाद.सुखाः.कामा;इति.विज्ञाय.पण्डितः ॥ २.१८ अपि.दिव्येषु.कामेषु.स.रतिम्.नाधिगच्छति । २.१८ तृष्णा.क्षय.रतो.भवति.बुद्धानाम्.श्रावकः.सदा ॥ २.१९ पर्वतो.अपि.सुवर्णस्य.समो.हिमवता.भवेत् । २.१९ वित्तम्.तम्.नालम्.एकस्यैतज्.ज्ञात्वा.समम्.चरेत् ॥[.वित्तम्.तम्.नालम्.एकस्य.] २.२० दुह्खम्.हि.यो.वेद.यतो.निदानम्.कामेषु.जन्तु.स.कथम्.रमेत । २.२० उपधिम्.हि.लोके.शल्यम्.इति.मत्वा.तस्यैव.धीरो.विनयाय.शिक्षेत् ॥ ३ तृष्णावर्ग ३.१ वितर्क.प्रमथितस्य.जन्तुनस्.तीव्र.रागस्य.शुभानुदर्शिनः । ३.१ भूयस्.तृष्णा.प्रवर्धते.गाढम्.ह्य्.एष.करोति.बन्धनम् ॥ ३.२ वितर्क.व्युपशमे.तु.यो.रतो.ह्य्.अशुभम्.भावयते.सदा.स्मृतः । ३.२ तृष्णा.ह्य्.एष.प्रहास्यते.स.तु.खलु.पूति.करोति.बन्धनम् ॥[.एषा.]? ३.३ कामान्ध.जाल.प्रक्षिप्तास्.तृष्णयाच्छादिताः.प्रजाः । ३.३ प्रमत्ता.बन्धने.बद्धा.मत्स्यवत्.कुपिना.मुखे । ३.३ f: जरा.मरणम्.आयान्ति.वत्सः.क्षीरपक;इव.मातरम् ॥ ३.४ मनुजस्य.प्रमत्त.चारिणस्.तृष्णा.वर्धति.मालुतेव.हि ।[.मालुतेव.हि.] ३.४ स.हि.संसरते.पुनः.पुनः.फलम्.इच्छन्न्.इव.वानरो.वने ॥ ३.५ सरितानि.वै.स्नेहितानि.वै.सौमनस्यानि.भवन्ति.जन्तुनः । ३.५ ये.सातसिताः.सुखैषिणस्.ते.वै.जाति.जरोपगा.नराः ॥ ३.६ तृष्णाभिर्.उपस्कृताः.प्रजाः.परिधावन्ति.शशा.व.वागुराम् । ३.६ सम्योजनैः.सङ्ग.सक्ता.दुह्खम्.यान्ति.पुनः.पुनश्.चिर.रात्रम् ॥ ३.७ तृष्णया.ग्रथिताः.सत्त्वा.रक्त.चित्ता.भवा.भवे ।[.सत्वा.] ३.७ ते.योग.युक्त.मारेण.ह्य्.अयोग.क्षेमिणो.जनाः । ३.७ f: जरा.मरणम्.आयान्ति.योगा.हि.दुरतिक्रमाः ॥ ३.८ यस्.तु.तृष्णाम्.प्रहायेह.वीत.तृष्णो.भवा.भवे । ३.८ तृष्णया.विभवद्.भिक्षुर्.अनिच्छुः.परिनिर्वृतः ॥ ३.९ य;एताम्.सहते.ग्राम्याम्.तृष्णाम्.लोके.सुदुस्त्यजाम् । ३.९ शोकास्.तस्य.प्रवर्धन्ते.ह्य्.अववृष्टा.बीरणा.यथा ॥ ३.१० यस्.त्व्.एताम्.त्यजते.ग्राम्याम्.तृष्णाम्.लोके.सुदुस्त्यजाम् । ३.१० शोकास्.तस्य.निवर्तन्ते;उद.बिन्दुर्.इव.पुष्करात् ॥ ३.११ तद्.वै.वदामि.भद्रम्.वो.यावन्तः.स्थ.समागताः । ३.११ तृष्णाम्.समूलम्.खनतोशीरार्थीव.बीरणाम् । ३.११ f: तृष्णायाः.खात.मूलाया.नास्ति.शोकः.कुतो.भयम् ॥ ३.१२ तृष्णा.द्वितीयः.पुरुषो.दीर्घम्.अध्वानम्.आशया । ३.१२ पुनः.पुनः.संसरते.गर्भम्.एति.पुनः.पुनः । ३.१२ f: इत्थम्.भावान्यथी.भावः.संसारे.त्व्.आगतिम्.गतिम् ॥ ३.१३ ताम्.तु.तृष्णाम्.प्रहायेह.वीत.तृष्णो.भवा.भवे । ३.१३ नासौ.पुनः.संसरते.तृष्णा.ह्य्.अस्य.न.विद्यते ॥ ३.१४ यया.देवा.मनुष्याश्.च.सितास्.तिष्ठन्ति.हार्थिकाः । ३.१४ तरतैताम्.विषक्तिकाम्.क्षणो.वो.मा.ह्य्.उपत्यगात् । ३.१४ f: क्षणातीता.हि.शोचन्ते.नरकेषु.समर्पिताः ॥ ३.१५ तृष्णा.हि.हेतुः.सरिता.विषक्तिका.गण्डस्य.नित्यम्.विसृतेह.जालिनी । ३.१५ लताम्.पिपासाम्.अपनीय.सर्वशो.निवर्तते.दुह्खम्.इदम्.पुनः.पुनः ॥ ३.१६ यथापि.मूलैर्.अनुपद्रुतैः.सदा.छिन्नो.अपि.वृक्षः.पुनर्.एव.जायते । ३.१६ एवम्.हि.तृष्णानुशयैर्.अनुद्धृतैर्.निर्वर्तते.दुह्खम्.इदम्.पुनः.पुनः ॥ ३.१७ यथापि.शल्यो.दृढम्.आत्मना.कृतस्.तम्.एव.हन्याद्.बलसा.त्व्.अधिष्ठितः । ३.१७ तथा.त्व्.इहाध्यात्म.समुत्थिता.लतास्.तृष्णा.वधायोपनयन्ति.प्राणिनाम् ॥ ३.१८ एतद्.आदीनवम्.ज्ञात्वा.तृष्णा.दुह्खस्य.सम्भवम् । ३.१८ वीत.तृष्णो.ह्य्.अनादानः.स्मृतो.भिक्षुः.परिव्रजेत् ॥ ४ अप्रमादवर्ग ४.१ अप्रमादो.ह्य्.अमृत.पदम्.प्रमादो.मृत्युनः.पदम् । ४.१ अप्रमत्ता.न.ंरियन्ते.ये.प्रमत्ताः.सदा.मृताः ॥ ४.२ एताम्.विशेषताम्.ज्ञात्वा.ह्य्.अप्रमादस्य.पण्डितः । ४.२ अप्रमादम्.प्रमुद्येत.नित्यम्.आर्यः.स्व.गोचरम् ॥ ४.३ अप्रमत्ताः.साततिका.नित्यम्.दृढ.पराक्रमाः । ४.३ स्पृशन्ति.धीरा.निर्वाणम्.योग.क्षेमम्.अनुत्तरम् ॥ ४.४ प्रमादम्.अप्रमादेन.यदा.नुदति.पण्डितः । ४.४ प्रज्ञा.प्रसादम्.आरुह्य.त्व्.अशोकः.शोकिनीम्.प्रजाम् । ४.४ f: पर्वतस्थैव.भूमिस्थान्.धीरो.बालान्.अवेक्षते ॥ ४.५ उत्तानेनाप्रमादेन.सम्यमेन.दमेन.च । ४.५ द्वीपम्.करोति.मेधावी.तम्.ओघो.नाभिमर्दति ॥ ४.६ उत्थानवतः.स्मृतात्मनः.शुभ.चित्तस्य.निशाम्य.चारिणः । ४.६ सम्यतस्य.हि.धर्म.जीविनो.ह्य्.अप्रमत्तस्य.यशो.अभिवर्धते ॥ ४.७ अधिचेतसि.मा.प्रमद्यत.प्रततम्.मौन.पदेषु.शिक्षत । ४.७ शोका.न.भवन्ति.तायिनो.ह्य्.उपशान्तस्य.सदा.स्मृतात्मनः ॥ ४.८ हीनाम्.धर्माम्.न.सेवेत.प्रमादेन.न.संवसेत् । ४.८ मिथ्या.दृष्टिम्.न.रोचेत.न.भवेल्.लोक.वर्धनः ॥ ४.९ सम्यग्.दृष्टिर्.अधीमात्रा.लौकिकी.यस्य.विद्यते । ४.९ अपि.जाति.सहस्राणि.नासौ.गच्छति.दुर्गतिम् ॥ ४.१० प्रमादम्.अनुवर्तन्ते.बाला.दुर्मेधसो.जनाः । ४.१० अप्रमादम्.तु.मेधावी.धनम्.श्रेष्ठीव.रक्षति ॥ ४.११ प्रमादम्.अनुवर्तन्ते.बाला.दुर्मेधसो.जनाः । ४.११ अप्रमत्तः.सदा.ध्यायी.प्राप्नुते.ह्य्.आस्रव.क्षयम् ॥ ४.१२ प्रमादम्.नानुयुज्येत.न.काम.रति.संस्तवम् । ४.१२ अप्रमत्तः.सदा.ध्यायी.प्राप्नुते.ह्य्.अचलम्.सुखम् ॥ ४.१३ नायम्.प्रमाद.कालः.स्याद्.अप्राप्ते.ह्य्.आस्रव.क्षये । ४.१३ मारः.प्रमत्तम्.अन्वेति.सिंहम्.वा.मृग.मातृका ॥ ४.१४ स्थानानि.चत्वारि.नरः.प्रमत्त;आपद्यते.यः.पर.दार.सेवी । ४.१४ अपुण्य.लाभम्.ह्य्.अनिकाम.शय्याम्.निन्दाम्.तृतीयम्.नरकम्.चतुर्थम् ॥ ४.१५ अपुण्य.लाभम्.च.गतिम्.च.पापिकाम्.भीतस्य.भीताभिर्.अथाल्पिकाम्.रतिम्। ४.१५ निन्दाम्.च.पश्यन्.न्wपतेश्.च.दण्डम्.परस्य.दाराणि.विवर्जयेत ॥ ४.१५_ अपुण्य.लाभश्.च.गतिश्.च.पापिका.भीतस्य.भीताभिर्.अथाल्पिका.रतिः । ४.१५_ राजा.च.दण्डम्.गुरुकम्.ददाति.कायस्य.भेदाद्.नरकेषु.पश्यते ॥ ४.१६ प्रतियत्येव.तत्.कुर्याद्.यज्.जानेद्द्.हितम्.आत्मनः । ४.१६ न.शाकटिक.चिन्ताभिर्.मन्दम्.धीरः.पराक्रमेत् ॥ ४.१७ यथा.शाकटिको.मार्गम्.समम्.हित्वा.महा.पथम् । ४.१७ विषमम्.मार्गम्.आगम्य.छिन्नाक्षः.शोचते.भृशम् ॥ ४.१८ एवम्.धर्माद्.अपक्रम्य.ह्य्.अधर्मम्.अनुवर्त्य.च । ४.१८ बालो.मृत्यु.वशम्.प्राप्तश्.छिन्नाक्ष;इव.शोचते ॥ ४.१९ यत्.कृत्यम्.तद्.अपविद्धम्.अकृत्यम्.क्रियते.पुनः । ४.१९ उद्धतानाम्.प्रमत्तानाम्.तेषाम्.वर्धन्ति;आस्रवाः । ४.१९ f: आस्रवास्.तेषु.वर्धन्ते;आरात्.ते.ह्य्.आस्रव.क्षयात् ॥ ४.२० येषाम्.तु.सुसमारब्धा.नित्यम्.काय.गता.स्मृतिः । ४.२० अकृत्यम्.ते.न.कुर्वन्ति.कृत्ये.सातत्य.कारिणः । ४.२० f: स्मृतानाम्.सम्प्रजानानाम्.अस्तम्.गच्छन्त्यास्रवाः ॥ ४.२१ न.तावता.धर्म.धरो.यावता.बहु.भाषते । ४.२१ यस्.त्व्.इहाल्पम्.अपि.श्रुत्वा.धर्मम्.कायेन.वै.स्पृशेत् । ४.२१ f: स.वै.धर्म.धरो.भवति.यो.धर्मे.न.प्रमाद्यते ॥ ४.२२ सुबह्व्.अपीह.सहितम्.भाषमाणो.न.तत्.करो.भवति.नरः.प्रमत्तः । ४.२२ गोपैव.गाः.संगणयन्.परेषाम्.न.भागवान्.श्रामण्यार्थस्य.भवति ॥[भागवान्.श्रामण्यार्थस्य.] ४.२३ अल्पम्.अपि.चेत्.सहितम्.भाषमाणो.धर्मस्य.भवति.ह्य्.अनुधर्म.चारी । ४.२३ रागम्.च.दोषम्.च.तथैव.मोहम्.प्रहाय.भागी.श्रामण्यार्थस्य.भवति ॥ ४.२४ अप्रमादम्.प्रशंसन्ति.प्रमादो.गर्हितः.सदा । ४.२४ अप्रमादेन.मघवान्.देवानाम्.श्रेष्ठताम्.गतः ॥ ४.२५ अप्रमादम्.प्रशंसन्ति.सदा.कृत्येषु.पण्डिताः । ४.२५ अप्रमत्तो.ह्य्.उभाव्.अर्थाव्.अतिगृह्णाति.पण्डितः ॥ ४.२६ दृष्ट.धार्मिक;एको.अर्थस्.तथान्यः.साम्परायिकः । ४.२६ अर्थाभिसमयाद्.धीरः.पण्डितो.हि.निरुच्यते ॥ ४.२७ अप्रमाद.रतो.भिक्षुः.प्रमादे.भय.दर्शकः । ४.२७ दुर्गाद्.उद्धरते.त्मानम्.पङ्क.सन्नैव.कुञ्जरः ॥[.आत्मानम्.][.पङ्कसन्नैव.] ४.२८ अप्रमाद.रतो.भिक्षुः.प्रमादे.भय.दर्शकः । ४.२८ धुनाति.पापकाम्.धर्माम्.पत्त्राणीव.हि.मारुतः ॥ ४.२९ अप्रमाद.रतो.भिक्षुः.प्रमादे.भय.दर्शकः । ४.२९ सम्योजनम्.अणु.स्थूलम्.दहन्न्.अग्निर्.इव.गच्छति ॥ ४.३० अप्रमाद.रतो.भिक्षुः.प्रमादे.भय.दर्शकः । ४.३० स्पृशति.ह्य्.अनुपूर्वेण.सर्व.सम्योजन.क्षयम् ॥ ४.३१ अप्रमाद.रतो.भिक्षुः.प्रमादे.भय.दर्शकः । ४.३१ प्रतिविध्यते.पदम्.शान्तम्.संस्कारोपशमम्.सुखम् ॥ ४.३२ अप्रमाद.रतो.भिक्षुः.प्रमादे.भय.दर्शकः । ४.३२ अभव्यः.परिहाणाय.निर्वाणस्यैव.सो.अन्तिके ॥ ४.३३ उत्तिष्ठत.व्यायमत.दृढम्.शिक्षत शान्तये । ४.३३ अस्मृतिश्.च.प्रमादश्.चैवानुत्थानम्.असम्यमः ॥ ४.३४ निद्रा.तन्द्रीर्.अनायोग;एते.शिक्षान्तरायिकाः । ४.३४ तद्.अङ्गम्.परिबुध्यध्वम्.स्मृतिर्.मान्तर्.अधीयत ॥ ४.३५ उत्तिष्ठेन्.न.प्रमाद्येत.धर्मम्.सुचरितम्.चरेत् । ४.३५ धर्म.चारी.सुखम्.शेते.ह्य्.अस्मिंल्.लोके.परत्र.च ।[.अस्मिम्.लोके.] ४.३६ अप्रमाद.रता.भवत.सुशीला.भवत.भिक्षवः । ४.३६ सुसमाहित.संकल्पाः.स्व.चित्तम्.अनुरक्षत ॥ ४.३७ आरभध्वम्.निष्क्रमध्वम्.युज्यध्वम्.बुद्ध.शासने । ४.३७ धुनिध्वम्.मृत्युनः.सैन्यम्.नडागारम्.इव.कुञ्जरः ॥[.नडागारम्.] ४.३८ यो.ह्य्.अस्मिन्.धर्म.विनये.त्व्.अप्रमत्तो.भविष्यति । ४.३८ प्रहाय.जाति.संसारम्.दुह्खस्यान्तम्.स.यास्यति ॥ ५ प्रियवर्ग ५.१ प्रियेभ्यो.जायते.शोकः.प्रियेभ्यो.जायते.भयम् । ५.१ प्रियेभ्यो.विप्रमुक्तानाम्.नास्ति.शोकः.कुतो.भयम् ॥ ५.२ प्रियेभ्यो.जायते.शोकः.प्रियेभ्यो.जायते.भयम् । ५.२ प्रियाणाम्.अन्यथी.भावाद्.उन्मादम्.अपि.गच्छति ॥ ५.३ शोका.हि.ये.वै.परिदेवितम्.च.दुह्खम्.च.लोकस्य.हि.नैकरूपम् । ५.३ प्रियम्.प्रतीत्येह.तद्.अस्ति.सर्वम्.प्रियेऽसति.स्यान्.न.कथंचिद्.एतत् ॥ ५.४ तस्माद्द्.हि.ते.सुखिता.वीत.शोका.येषाम्.प्रियम्.नास्ति.कथंचिद्.एव । ५.४ तस्माद्.अशोकम्.पदम्.एषमाणः.प्रियम्.न.कुर्वीत.हि.जीव.लोके ॥ ५.५ मा.प्रियैः.संगमो.जातु.मा.च.स्याद्.अप्रियैः.सदा । ५.५ प्रियाणाम्.अदर्शनम्.दुह्खम्.अप्रियाणाम्.च.धर्शनम् ॥ ५.६ प्रियाणाम्.च.विना.भावाद्.अप्रियाणाम्.च.संगमात् । ५.६ तीव्र;उत्पद्यते.शोको.जीर्यन्ते.येन.मानवाः ॥ ५.७ प्रियम्.मृतम्.काल.गतम्.ज्ञातयः.सहिताः.स्थिताः । ५.७ शोचन्ति.दीर्घम्.अध्वानम्.दुह्खो.हि.प्रिय.संगमः ॥ ५.८ तस्मात्.प्रियम्.न.कुर्वीत.प्रिय.भावो.हि.पापकः । ५.८ ग्रन्थास्.तेषाम्.न.विद्यन्ते.येषाम्.नास्ति.प्रियाप्रियम् । ५.९ अयुगे.युज्य.चात्मानम्.युगे.चायुज्य.सर्वदा । ५.९ अर्थम्.हित्वा.प्रिय.ग्राही.स्पृहयत्य्.अर्थ.योगिने ॥ ५.१० प्रिय.रूप.सात.ग्रथिता.देव.कायाः.पृथक्.स्थिताः । ५.१० आघादिनः.परिद्यूना.मृत्यु.राज.वशम्.गताः ॥ ५.११ ये.वै.दिवा.च.रात्रौ.चैव;अप्रमत्ताः.प्रियम्.जहति.नित्यम् । ५.११ ते.वै.खनन्ति.त्व्.अघ.मूलम्.मृत्यु-र्-आमिषम्.दुरतिवर्त्यम् ॥ ५.१२ असाधु.साधु.रूपेण.प्रिय.रूपेण.चाप्रियम् । ५.१२ दुह्खम्.सुखस्य.रूपेण.प्रमत्तानभिमर्दति ॥ ५.१३ आत्मानम्.चेत्.प्रियम्.विद्यान्.नैनम्.पापेन.योजयेत् । ५.१३ न.ह्य्.एतत्.सुलभम्.भवति.सुखम्.दुष्कृत.कारिणा ॥ ५.१४ आत्मानम्.चेत्.प्रियम्.विद्यान्.नैनम्.पापेन.योजयेत् । ५.१४ एतद्द्.हि.सुलभम्.भवति.सुखम्.सुकृत.कारिणा ॥ ५.१५ आत्मानम्.चेत्.प्रियम्.विद्याद्.रक्षेद्.एनम्.सुरक्षितम् । ५.१५ यथा.प्रत्यन्त.नगरम्.गम्भीर.परिखम्.दृढम् । ५.१५ f: त्रयाणाम्.अन्यतमम्.यामम्.प्रतिजाग्रेत.पण्डितः ॥ ५.१६ आत्मानम्.चेत्.प्रियम्.विद्याद्.गोपयेत्.तम्.सुगोपितम् । ५.१६ यथा.प्रत्यन्त.नगरम्.गुप्तम्.अन्तर्.बहिस्थिरम् ।[.अन्तर्.बहिः.स्थिरम्.] ५.१७ एवम्.गोपयतात्मानम्.क्षणो.वो.मा.ह्य्.उपत्यगात् । ५.१७ क्षणातीता.हि.शोचन्ते.नरकेषु.समर्पिताः ॥ ५.१८ सर्वा.दिशस्.त्व्.अनुपरिगम्य.चेतसा.नैवाध्यगात्.प्रियतरम्.आत्मनः.क्वचित् । ५.१८ एवम्.प्रियः.पृथग्.आत्मा.परेषाम्.तस्मान्.न.हिंस्यात्.परम्.आत्म.कारणम् ॥ ५.१९ सर्वे.दण्डस्य.बिभ्यन्ति.सर्वेषाम्.जीवितम्.प्रियम् । ५.१९ आत्मानम्.उपमाम्.कृत्वा.नैव.हन्यान्.न.घातयेत् ॥ ५.२० चिर.प्रवासिनम्.यद्वद्.दूरतः.स्वस्तिनागतम् । ५.२० ज्ञातयः.सुहृदो.मित्राश्.चाभिनन्दन्त्यागतम् ॥ ५.२१ कृत.पुण्यम्.तथा.मर्त्यम्.अस्मांल्.लोकात्.परम्.गतम् ।[.अस्माल्.लोकात्.] ५.२१ पुण्यान्य्.एवाभिनन्दन्ति.प्रियम्.ज्ञातिम्.इवागतम् ॥ ५.२२ तस्मात्.कुरुत.पुण्यानाम्.निचयम्.साम्परायिकम् । ५.२२ पुण्यानि.पर.लोके.हि.प्रतिष्ठा.प्राणिनाम्.हि.सा ॥ ५.२३ पुण्यम्.देवाः.प्रशंसन्ति.सम.चर्याम्.च.यश्.चरेत् । ५.२३ इह.चानिन्दितो.भवति.प्रेत्य.स्वर्गे.च.मोदते ॥ ५.२४ धर्मस्थम्.शील.सम्पन्नम्.ह्रीमन्तम्.सत्य.वादिनम् । ५.२४ आत्मनः.कारकम्.सन्तम्.तम्.जनः.कुरुते.प्रियम् ॥ ५.२५ परेषाम्.च.प्रियो.भवति.ह्य्.आत्मार्थम्.क्रियतेऽपि.च । ५.२५ दृष्टे.च.धर्मे.प्राशंस्यः.साम्पराये.च.सद्.गतिः ॥ ५.२६ अववदेतानुशासीत.चासभ्याच्.च.निवारयेत् । ५.२६ असताम्.न.प्रियो.भवति.सताम्.भवति.तु.प्रियः ॥ ५.२७ असन्तश्.चैव.सन्तश्.च.नाना.यान्ति.त्व्.इतश्.च्युताः । ५.२७ असन्तो.नरकम्.यान्ति.सन्तः.स्वर्ग.परायणाः ॥ ६ शीलवर्ग ६.१ शीलम्.रक्षेत.मेधावी.प्रार्थयन्.वै.सुख.त्रयम् ।[.प्रार्थयं.] ६.१ प्रशंसा.वित्त.लाभम्.च.प्रेत्य.स्वर्गे.च.मोदनम् ॥ ६.२ स्थानान्य्.एतानि.सम्पश्यन्.शीलम्.रक्षेत.पण्डितः । ६.२ आर्यो.दर्शन.सम्पन्नः.स.लोके.लभते.शिवम् ॥ ६.३ सुखम्.शील.समादानम्.कायो.न.परिदह्यते । ६.३ सुखम्.च.रात्रौ.स्वपति.प्रतिभुद्धश्.च.नन्दति ॥ ६.४ शीलम्.यावज्.जरा.साधु.श्रद्धा.साधु.प्रतिष्ठिता । ६.४ प्रज्ञा.नराणाम्.रत्नम्.वै.पुण्यम्.चोरैः.सुदुर्हरम् ॥ ६.५ कृत्वा.पुण्यानि.सप्रज्ञो.दत्त्वा.दानानि.शीलवान् ।[.दत्वा.] ६.५ इह.चाथ.परत्रासौ.सुखम्.समधिगच्छति ॥ ६.६ शीले.प्रतिष्ठितो.भिक्षुर्.इन्द्रियैश्.च.सुसंवृतः । ६.६ भोजने.चापि.मात्रज्ञो.युक्तो.जागरिकासु.च ॥ ६.७ विहरन्न्.एवम्.आतापी.ह्य्.अहो.रात्रम्.अतन्द्रितः । ६.७ अभव्यः.परिहाणाय.निर्वाणस्यैव.सो.अन्तिके ॥ ६.८ शीले.प्रतिष्ठितो.भिक्षुश्.चित्तम्.प्रज्ञाम्.च.भावयेत् । ६.८ आतापी.निपको.नित्यम्.प्राप्नुयाद्.दुह्ख.संक्षयम् ॥ ६.९ तस्मात्.सतत.शीली.स्यात्.समाधेर्.अनुरक्षकः । ६.९ विपश्यनायाम्.शिक्षेच्.च.सम्प्रजान.प्रतिस्मृतः ॥ ६.१० स.तु.विक्षीण.सम्योगः.क्षीण.मानो.निरौपधिः । ६.१० कायस्य.भेदत्.सप्रज्ञः.संख्यान्.नोपैति.निर्वृतः ॥ ६.१११ शीलम्.समाधिः.प्रज्ञा.च.यस्य.ह्य्.एते.सुभाविताः । ६.११ सो.अत्यन्त.निष्ठो.विमलस्.त्व्.अशोकः.क्षीण.सम्भवः ॥ ६.१२ सङ्गात्.प्रमुक्तो.ह्य्.असित;आज्ञातावी.निरौपधिः । ६.१२ अतिक्रम्य.मार.विषयम्.आदित्यो.वा.विरोचते ॥ ६.१३ उद्धतस्य.प्रमत्तस्य.भिक्षुणो.बहिर्.आत्मनः । ६.१३ शीलम्.समाधिः.प्रज्ञा.च.पारिपूरिम्.न.गच्छति ॥ ६.१४ छन्नम्.एवाभिवर्षति.विवृतम्.नाभिवर्षति । ६.१४ तस्माद्द्.हि.छन्नम्.विवरेद्.एवम्.तम्.नाभिवर्षति ॥[.च्छन्नम्.] ६.१५ एतद्द्.हि.दृष्ट्वा.शिक्षेत.सदा.शीलेषु.पण्डितः । ६.१५ निर्वाण.गमनम्.मार्गम्.क्षिप्रम्.एव.विशोधयेत् ॥ ६.१६ न.पुष्प.गन्धः.प्रतिवातम्.एति.न.वाह्निजात्.तगराच्.चन्दनाद्.वा । ६.१६ सताम्.तु.गन्धः.प्रतिवातम्.एति.सर्वा.दिशः.सत्.पुरुषः.प्रवाति ॥ ६.१७ तगराच्.चन्दनाच्.चापि.वार्षिकायास्.तथोत्पलात् । ६.१७ एतेभ्यो.गन्ध.जातेभ्यः.शील.गन्धस्.त्व्.अनुत्तरः ॥ ६.१८ अल्प.मात्रो.ह्य्.अयम्.गन्धो.यो.अयम्.तगर.चन्दनात् । ६.१८ यस्.तु.शीलवताम्.गन्धो.वाति.देवेष्व्.अपीह.सः । ६.१९ तेषाम्.विशुद्ध.शीलानाम्.अप्रमाद.विहारिणाम् । ६.१९ सम्यग्.आज्ञा.विमुक्तानाम्.मारो.मार्गम्.न.विन्दति ॥ ६.२० एष.क्षेम.गमो.मार्ग;एष.मार्गो.विशुद्धये । ६.२० प्रतिपन्नकाः.प्रहास्यन्ति.ध्यायिनो.मार.बन्धनम् ॥ ७ सुचरितवर्ग ७.१ काय.प्रदोषम्.रक्षेत.स्यात्.कायेन.सुसंवृतः । ७.१ काय.दुश्चरितम्.हित्वा.कायेन.सुकृतम्.चरेत् ॥ ७.२ वाचः.प्रदोषम्.रक्षेत.वचसा.संवृतो.भवेत् । ७.२ वाचो.दुश्चरितम्.हित्वा.वाचा.सुचरितम्.चरेत् ॥ ७.३ मनः.प्रदोषम्.रक्षेत.मनसा.संवृतो.भवेत् । ७.३ मनो.दुश्चरितम्.हित्वा.मनः.सुचरितम्.चरेत् ॥ ७.४ काय.दुश्चरितम्.हित्वा.वचो.दुश्चरितानि.च । ७.४ मनो.दुश्चरितम्.हित्वा.यच्.चान्यद्.दोष.संहितम् ॥ ७.५ कायेन.कुशलम्.कुर्याद्.वचसा.कुशलम्.बहु । ७.५ मनसा.कुशलम्.कुर्याद्.अप्रमाणम्.निरौपधिम् ॥ ७.६ कायेन.कुशलम्.कृत्वा.वचसा.चेतसापि.च । ७.६ इह.चाथ.परत्रासौ.सुखम्.समधिगच्छति ॥ ७.७ अहिंसका.वै.मुनयो.नित्यम्.कायेन.संवृताः । ७.७ ते.यान्ति.ह्य्.अच्युतम्.स्थानम्.यत्र.गत्वा.न.शोचति ॥ ७.८ अहिंसका.वै.मुनयो.नित्यम्.वाचा.सुसंवृताः । ७.८ ते.यान्ति.ह्य्.अच्युतम्.स्थानम्.यत्र.गत्वा.न.शोचति ॥ ७.९ अहिंसका.वै.मुनयो.मनसा.नित्य.संवृताः । ७.९ ते.यान्ति.ह्य्.अच्युतम्.स्थानम्.यत्र.गत्वा.न.शोचति ॥ ७.१० कायेन.संवृता.धीरा.धीरा.वाचा.सुसंवृताः । ७.१० मनसा.संवृता.धीरा.धीराः.सर्वत्र.संवृताः । ७.१० f: ते.यान्ति.ह्य्.अच्युतम्.स्थानम्.यत्र.गत्वा.न.शोचति ॥ ७.११ कायेन.संवरः.साधु.साधु.वाचा.च.संवरः । ७.११ मनसा.संवरः.साधु.साधु.सर्वत्र.संवरः । ७.११ f: सर्वत्र.संवृतो.भिक्षुः.सर्व.दुह्खात्.प्रमुच्यते ॥ ७.१२ वाचानुरक्षी.मनसा.सुसंवृतः.कायेन.चैवाकुशलम्.न.कुर्यात् । ७.१२ एताम्.शुभाम्.कर्म.पथाम्.विशोधयन्न्.आराधयेन्.मार्गम्.ऋषि.प्रवेदितम् ॥ ८ वाचवर्ग ८.१ अभूत.वादी.नरकान्.उपैति.यश्.चान्यद्.अप्य्.आचरतीह.कर्म । ८.१ उभौ.हि.तौ.प्रेत्य.समौ.निरुक्तौ.निहीन.धर्मौ.मनुजौ.परत्र ॥ ८.२ पुरुषस्य.हि.जातस्य.कुठारी.जायते.मुखे । ८.२ यया.छिनत्ति.हात्मानम्.वाचा.दुर्भाषितम्.वदन् ॥ ८.३ यो.निन्दियाम्.प्रशंसति.तान्.अपि.निन्दति.ये.प्रशंसियाः । ८.३ स.चिनोति.मुखेन.तम्.कलिम्.कलिना.तेन.सुखम्.न.विन्दति ॥ ८.४ अल्प.मात्रो.ह्य्.अयम्.कलिर्.य;इह्हाक्षेण.धनम्.पराजयेत् । ८.४ अयम्.अत्र.महत्तरः.कलिर्.यः.सुगतेषु.मनः.प्रदूषयेत् ॥ ८.५ शतम्.सहस्राणि.निरर्बुदानि.षट्.त्रिंशतिम्.पञ्च.तथार्बुदानि । ८.५ यान्.आर्य.गर्ही.नरकान्.उपैति.वाचम्.मनश्.च.प्रणिधाय.पापकम् ॥ ८.६ असतम्.हि.वदन्ति.पाप.चित्ता.नरकम्.वर्धयते.वधाय.नित्यम् । ८.६ अनवद्य.बलस्.तितीक्षते.ताम्.मनसो.ह्य्.आविलताम्.विवर्जयित्वा ॥[.तितिक्षते.] ८.७ यः.शासनम्.ह्य्.अर्हताम्.आर्याणाम्.धर्म.जीविनाम् । ८.७ प्रतिक्रोशति.दुर्मेधा.दृष्टिम्.निह्श्रित्य.पापिकाम् । ८.८ कल्याणिकाम्.विमुञ्चेत.नैव.मुञ्चेत.पापिकाम् । ८.८ मुक्ता.कल्याणिकी.श्रेयो.मुक्ता.तपति.पापिका ॥ ८.९ न.च.मुक्ते.प्रमुञ्चेत्.ताम्.मुञ्चमानो.हि.बाध्यते । ८.९ नैवम्.आर्याः.प्रमुञ्चन्ति.मुक्ता.बालैर्.हि.पापिका ॥ ८.१० मुखेन.सम्यतो.भिक्षुर्.मन्द.भाषी.ह्य्.अनुद्धतः । ८.१० अर्थम्.धर्मम्.च.देशयति.मधुरम्.तस्य.भाषितम् ॥ ८.११ सुभाषितम्.ह्य्.उत्तमम्.आहुर्.आर्या.धर्मम्.वदेन्.नाधर्मम्.तद्.द्वितीयम् । ८.११ प्रियम्.वदेन्.नाप्रियम्.तत्.तृतीयम्.सत्यम्.वदेन्.नासत्यम्.तच्.चतुर्थम् ॥ ८.१२ ताम्.एव.वाचम्.भाषेत.ययात्मानम्.न.तापयेत् । ८.१२ परांश्.च.न.विहिंसेत.सा.हि.वाक्.साधु.भाषिता ॥ ८.१३ प्रियोद्यम्.एव.भाषेत.या.हि.वाचाभिनन्दिता । ८.१३ नाददाति.यया.पापम्.भाषमाणः.सदा.प्रियम् ॥ ८.१४ सत्या.स्याद्.अमृता.वाचा.सत्य.वाचा.ह्य्.अनुत्तरा । ८.१४ सत्यम्.अर्थे.च.धर्मे.च.वाचम्.आहुः.प्रतिष्ठिताम् ॥ ८.१५ याम्.बुद्धो.भाषते.वाचम्.क्षेमाम्.निर्वाण.प्राप्तये । ८.१५ दुह्खस्यान्त.क्रिया.युक्ताम्.सा.हि.वाक्.साधु.भाषिता ॥ ९ कर्मवर्ग ९.१ एक.धर्मम्.अतीतस्य.मृषा.वादस्य.जन्तुनः । ९.१ वितीर्ण.पर.लोकस्य.नाकार्यम्.पापम्.अस्ति.यत् ॥ ९.२ श्रेयो.ह्य्.अयोगुडा.भुक्तास्.तप्ता.ह्य्.अग्नि.शिखोपमाः । ९.२ न.तु.भुञ्जीइत.दुह्शीलो.राष्ट्र.पिण्डम्.असम्यतः ॥ ९.३ स.चेद्.बिभेषि.दुह्खस्य.स.चेत्.ते.दुह्खम्.अप्रियम् । ९.३ मा.कार्षीः.पापकम्.कर्म.त्व्.आविर्.वा.यदि.वा.रहः ॥ ९.४ स.चेत्.पापानि.कर्माणि.करिष्यसि.करोषि.वा । ९.४ न.ते.दुह्खात्.प्रमोक्षो.अस्ति.ह्य्.उत्प्लुत्यापि.पलायतः ॥ ९.५ नैवान्तरीक्षे.न.समुद्र.मध्ये.न.पर्वतानाम्.विवरम्.प्रविश्य । ९.५ न.विद्यतेऽसौ.पृथिवी.प्रदेशो.यत्र.स्थितम्.न.प्रसहेत.कर्म ॥ ९.५ कृष्ण.शुक्लानि.कर्माणि.न.प्रणश्यन्ति.देहिनः । ९.५ कालम्.प्रा - - - इष्यन्ते.कृतान्य्.उप---नानि.च ॥ ९.६ यत्.परेषाम्.विगर्हेत.कर्म.दृष्ट्वेह.पापकम् । ९.६ आत्मना.तन्.न.कुर्वीत.कर्म.बद्धो.हि.पापकः । ९.७ ये.कूट.मान.योगेन.विषमेण.च.कर्मणा । ९.७ मनुष्यान्.उपहिंसन्ति.परतो.उपक्रमेण.वा ।[.परतोपक्रमेण.वा.] ९.७ ते.वै.प्रपातम्.प्रपतन्ति.कर्म.बद्धा.हि.ते.जनाः ॥ ९.८ यत्.करोति.नरः.कर्म.कल्याणम्.अथ.पापकम् । ९.८ तस्य.तस्यैव.दायादो.न.हि.कर्म.प्रणश्यति ॥ ९.९ विलुम्पते.हि.पुरुषो.यावद्.अस्योपकल्पते । ९.९ ततो.अन्ये.तम्.विलुम्पन्ति.स.विलोप्ता.विलुप्यते ॥ ९.१० कुर्वन्.हि.मन्यते.बालो.नैतम्.माम्.आगमिष्यति । ९.१० साम्पराये.तु.जानाति.या.गतिः.पाप.कर्मणाम् ॥ ९.११ कुर्वन्.हि.मन्यते.बालो.नैतम्.माम्.आगमिष्यति । ९.११ पश्चात्.तु.कटुकम्.भवति.विपाकम्.प्रतिषेवतः ॥ ९.१२ स.चेत्.पापानि.कर्माणि.कुर्वन्.बालो.न.बुध्यते । ९.१२ कर्मभिः.स्वैस्.तु.दुर्मेधा.ह्य्.अग्नि.दग्धैव.तप्यते ॥[.अग्नि.दग्धैव.तप्यते.] ९.१३ चरन्ति.बाला.दुष्प्रज्ञा.ह्य्.अमित्रैर्.इव.चात्मभिः । ९.१३ कुर्वन्तः.पापकम्.कर्म.यद्.भवति.कटुकम्.फलम् ॥ ९.१४ न.तत्.कर्म.कृतम्.साधु.यत्.कृत्वा.ह्य्.अनुतप्यते । ९.१४ रुदन्न्.अश्रु.मुखो.यस्य.विपाकम्.प्रतिषेवते ॥ ९.१५ तत्.तु.कर्म.कृतम्.साधु.यत्.कृत्वा.नानुतप्यते । ९.१५ यस्य.प्रतीतः.सुमना.विपाकम्.प्रतिषेवते ॥ ९.१६ हसन्तः.पापकम्.कर्म.कुर्वन्त्य्.आत्म.सुखैषिणः । ९.१६ रुदन्तस्.तस्य.वीपाकम्.प्रतिविन्दन्ति.दुह्खिताः ॥[.विपाकम्.] ९.१७ न.हि.पाप.कृतम्.कर्म.सद्यः.क्षीरम्.इव.मूर्छति ।[.मूर्च्छति.] ९.१७ दहन्.तद्.बालम्.अन्वेति.भस्माच्छन्न;इवानलः ॥ ९.१८ न.हि.पाप.कृतम्.कर्म.सद्यः.शस्त्रम्.इव.कृन्तति । ९.१८ साम्पराये.तु.जानाति.या.गतिः.पाप.कर्मणाम् । ९.१८ f: पश्चात्.तु.कटुकम्.भवति.विपाकम्.प्रतिषेवतः ॥ ९.१९ अयसो.हि.मलः.समुत्थितः.स.तद्.उत्थाय.तम्.एव.खादति । ९.१९ एवम्.ह्य्.अनिशाम्य.चारिणम्.स्वानि.कर्माणि.नयन्ति.दुर्गतिम् ॥ १० श्रद्धावर्ग १०.१ श्रद्धाथ.ह्री.शीलम्.अथापि.दानम्.धर्मा;इमे.सत्.पुरुष.प्रशस्ताः । १०.१ एतम्.हि.मार्गम्.दिव्यम्.वदन्ति;एतेनासौ.गच्छति.देव.लोकम् ॥ १०.२ न.वै.कदर्या.देव.लोकम्.व्रजन्ति.बाला.हि.ते.न.प्रशंसन्ति.दानम् । १०.२ श्राधस्.तु.दानम्.ह्य्.अनुमोदमानो.अप्य्.एवम्.ह्य्.असौ.भवति.सुखी.परत्र ॥ १०.३ श्रद्धा.हि.वित्तम्.पुरुषस्य.श्रेष्ठम्.धर्मः.सुचीर्णः.सुखम्.आदधाति । १०.३ सत्यम्.हि.वै.स्वादुतमम्.रसानाम्.प्रज्ञाजीवी.जीविनाम्.श्रेष्ठ;उक्तः ॥ १०.४ श्रद्धा.धनो.ह्य्.अर्हताम्.धर्मम्.निर्वाण.प्राप्तये । १०.४ शुश्रूषुर्.लभते.प्रज्ञाम्.तत्र.तत्र.विचक्षणः ।[.शुश्रुशुर्.] १०.५ श्रद्धया.तरति.ह्य्.ओघम्.अप्रमादेन.चार्णवम् । १०.५ वीर्येण.त्यजते.दुह्खम्.प्रज्ञया.परिशुध्यते ॥ १०.६ श्रद्धा.द्वितीया.पुरुषस्य.भवति.प्रज्ञा.चैनम्.प्रशासति । १०.६ निर्वाणाभिरतो.भिक्षुश्.छिनत्ति.भव.बन्धनम् ॥ १०.७ यस्य.श्रद्धा.च.शीलम्.चैवाहिंसा.सम्यमो.दमः । १०.७ स.वान्त.दोषो.मेधावी.साधु.रूपो.निरुच्यते ॥ १०.८ श्राद्धः.शीलेन.सम्पन्नस्.त्यागवान्.वीत.मत्सरः । १०.८ व्रजते.यत्र.यत्रैव.तत्र.तत्रैव.पूज्यते ॥ १०.९ यो.जीव.लोके.लभते.श्रद्धाम्.प्रज्ञाम्.च.पण्डितः । १०.९ तद्द्.हि.तस्य.धनम्.श्रेष्ठम्.हीनम्.अस्येतरद्.धनम् ॥ १०.१० आर्याणाम्.दर्शनः.कामः.सद्.धर्म.श्रवणे.रतः । १०.१० विनीत.मात्सर्य.मलः.स.वै.श्राद्धो.निरुच्यते ॥ १०.११ श्राद्धो.गृह्णाति.पाथेयम्.पुण्यम्.चोरैः.सुदुर्हरम् । १०.११ चोरम्.हरन्तम्.वारयति.हरन्तः.श्रमणाः.प्रियाः । १०.११ f: श्रमणान्.आगतान्.दृष्ट्वा;अभिनन्दन्ति.पण्डिताः ॥ १०.१२ ददन्त्य्.एके.यथा.श्रद्धा.यथा.विभवतो.जनाः । १०.१२ तत्र.यो.दुर्मना.भवति.परेषाम्.पान.भोजने । १०.१२ f: नासौ.दिवा.च.रात्रौ.च.समाधिम्.अधिगच्छति ॥ १०.१३ यस्य.त्व्.एते.समुच्छिन्नास्.ताल.मस्तकवद्द्.हताः ।[.मस्तकवद्.धताः.] १०.१३ स.वै.दिवा.च.रात्रौ.च.समाधिम्.अधिगच्छति ॥ १०.१४ वीत.श्रद्धम्.न.सेवेत.ह्रदम्.यद्वद्द्.हि.निर्जलम् । १०.१४ स.चेत्.खनेल्.लभेत्.तत्र.वारि.कर्दम.गन्धिकम् ॥ १०.१५ श्राद्धम्.प्राज्ञम्.तु.सेवेत.ह्रदम्.यद्वज्.जलार्थिकः । १०.१५ अच्छोदकम्.विप्रसन्नम्.शीत.तोयम्.अनाविलम् ।[.अच्छोदकम्.] १०.१६ नानुरक्ता;इति.रज्येत.ह्य्.अत्र.वै.दीर्यते.जनः । १०.१६ अप्रसन्नाम्.वर्जयित्वा.प्रसन्नान्.उपसेवते ॥[१० श्रद्धावर्गह्] १०_उद्दानम्_ अनित्य.काम.तृष्णा.च;अप्रमादस्.तथा.प्रियः ।[प्.१८४] १०_उद्दानम्_ शीलम्.सुचरितम्.वाच.कर्म.श्रद्धा.च.ते.दशः ॥[प्.१८४] ११ श्रमणवर्ग ११.१ छिन्धि.स्रोतः.पराक्रम्य.कामान्.प्रणुद.सर्वशः । ११.१ नाप्रहाय.मुनिः.कामान्.एकत्वम्.अधिगच्छति ॥ ११.२ कुर्वाणो.हि.सदा.प्राज्ञो.दृढम्.एव.पराक्रमेत् । ११.२ शिथिला.खलु.प्रव्रज्या.ह्य्.आददाति.पुनो.रजः ॥ ११.३ यत्.किंचित्.शिथिलम्.कर्म.संक्लिष्टम्.वापि.यत्.तपः । ११.३ अपरिशुद्धम्.ब्रह्मचर्यम्.न.तद्.भवति.महा.फलम् ॥ ११.४ शरो.यथा.दुर्गृहीतो.हस्तम्.एवापकृन्तति । ११.४ श्रामण्यम्.दुष्परामृष्टम्.नरकान्.उपकर्षति ॥ ११.५ शरो.यथा.सुगृहीतो.न.हस्तम्.अपकृन्तति । ११.५ श्रामण्यम्.सुपरामृष्टम्.निर्वाणस्यैव.सो.अन्तिके ॥ ११.६ दुष्करम्.दुस्तितीक्षम्.च.श्रामण्यम्.मन्द.बुद्धिना ।[.दुस्तितिक्षम्.] ११.६ बहवस्.तत्र.सम्बाधा.यत्र.मन्दो.विषीदति ॥ ११.७ श्रामण्ये.चरते.यस्.तु.स्व.चित्तम्.अनिवारयेत् । ११.७ पुनः.पुनर्.विषीदेत्.स.संकल्पानाम्.वशम्.गतः ॥ ११.८ दुष्प्रव्रज्यम्.दुरभिरमम्.दुरध्यावसिता.गृहाः । ११.८ दुह्खासमान.संवासा.दुह्खाश्.चोपचिता.भवाः ॥[.दुह्खासमान.संवासा.] ११.९ काषाय.कण्ठा.बहवः.पाप.धर्मा.ह्य्.असम्यताः । ११.९ पापा.हि.कर्मभिः.पापैर्.इतो.गच्छन्ति.दुर्गतिम् । ११.१० यो.असाव्.अत्यन्त.दुह्शीलः.सालवान्.मालुता.यथा । ११.१० करोत्य्.असौ.तथात्मानम्.यथैनम्.द्विषद्.इच्छति ॥ ११.११ स्थविरो.न.तावता.भवति.यावता.पलितम्.शिरः । ११.११ परिपक्वम्.वयस्.तस्य.मोह.जीर्णः.स;उच्यते ॥ ११.१२ यस्.तु.पुण्यम्.च.पापम्.च.प्रहाय.ब्रह्मचर्यवान् । ११.१२ विश्रेणयित्वा.चरति.स.वै.स्थविर;उच्यते ॥ ११.१३ न.मुण्ड.भावात्.श्रमणो.ह्य्.अवृतस्.त्व्.अनृतम्.वदन् । ११.१३ इच्छा.लोभ.समापन्नः.श्रमणः.किम्.भविष्यति ॥ ११.१४ न.मुण्ड.भावात्.श्रमणो.ह्य्.अवृतस्.त्व्.अनृतम्.वदन् । ११.१४ शमितम्.येन.पापम्.स्याद्.अणु.स्थूलम्.हि.सर्वशः । ११.१४ f: शमितत्वात्.तु.पापानाम्.श्रमणो.हि.निरुच्यते ॥ ११.१५ ब्राह्मणो.वाहितैः.पापैः.श्रमणः.शमिताशुभः । ११.१५ प्रव्राजयित्वा.तु.मलान्.उक्तः.प्रव्रजितस्.त्व्.इह ॥ १२ मार्गवर्ग १२.१ आर्य.सत्यानि.चत्वारि.प्रज्ञया.पश्यते.यदा । १२.१ एष.मार्गम्.प्रजानाति.भव.तृष्णा.प्रदालनम् ॥ १२.२ उद्धतम्.हि.रजो.वातैर्.यथा.वृष्टेन.शाम्यति । १२.२ एवम्.शाम्यन्ति.संकल्पाः.प्रज्ञया.पश्यते.यदा ॥ १२.३ श्रेष्ठा.हि.प्रज्ञा.लोकेऽस्मिन्.येयम्.निर्वेद.गामिनी । १२.३ यया.सम्यक्.प्रजानाति.जाति.मरण.संक्षयम् ॥ १२.४ मार्गेष्व्.अष्टाङ्गिकः.श्रेष्ठश्.चत्वार्य्.आर्याणि.सत्यतः । १२.४ श्रेष्ठो.विरागो.धर्माणाम्.चक्षुष्मान्.द्विपदेषु.च ॥ १२.५ अनित्यान्.सर्व.संस्कारान्.प्रज्ञया.पश्यते.यदा । १२.५ अथ.निर्विद्यते.दुह्खाद्.एष.मार्गो.विशुद्धये ॥ १२.६ दुह्खम्.हि.सर्व.संस्कारान्.प्रज्ञया.पश्यते.यदा । १२.६ अथ.निर्विद्यते.दुह्खाद्.एष.मार्गो.विशुद्धये ॥ १२.७ शुन्यतः.सर्व.संस्कारान्.प्रज्ञया.पश्यते.यदा ।[.शून्यतः.] १२.७ अथ.निर्विद्यते.दुह्खाद्.एष.मार्गो.विशुद्धये ॥ १२.८ सर्व.धर्मा;अनात्मानः.प्रज्ञया.पश्यते.यदा । १२.८ अथ.निर्विद्यते.दुह्खाद्.एष.मार्गो.विशुद्धये ॥ १२.९ आख्यातो.वो.मया.मार्गस्.त्व्.अज्ञायै.शल्य.कृन्तनः । १२.९ युष्माभिर्.एव.करणीयम्.आख्यातारस्.तथा.गताः ॥ १२.१० देशितो.वो.मया.मार्गस्.तृष्णा.शल्य.निकृन्तनः । १२.१० युष्माभिर्.एव.करणीयम्.देष्टारो.हि.तथा.गताः ॥ १२.११ एषो.हि.मार्गो.नास्त्य्.अन्यो.दर्शनस्य.विशुद्धये । १२.११ प्रतिपन्नकाः.प्रहास्यन्ति.ध्यायिनो.मार.बन्धनम् ॥ १२.१२ एषो.अञ्जसो.ह्य्.एष.च.वै.पराक्रमे.त्व्.एकायनो.हंस.पथो.यथा.ह्रदे । १२.१२ यम्.अध्यगात्.शाक्य.मुनिः.समाहितस्.तम्.एव.चाख्याति.गणेष्व्.अभीक्ष्णशः ॥ १२.१३ एकायनम्.जाति.जरान्त.दर्शी.मार्गम्.वदत्य्.एष.हितानुकम्पी । १२.१३ एतेन.मार्गेण.हि.तीर्णवन्तस्.तरिष्यते.ये.प्रतरन्ति.चौघम् ॥ १२.१४ अत्यन्त.निष्ठाय.दमाय.शुद्धये.संसार.जाती.मरण.क्षयाय । १२.१४ अनेक.धातु.प्रतिषंविधाय.मार्गो.ह्य्.अयम्.लोकविदा.प्रकाशितः ॥ १२.१५ गङ्गा.गतम्.यद्वद्.अपेत.दोषम्.संस्यन्दते.वारि.तु.सागरेण । १२.१५ तथैव.मार्गः.सुगत.प्रदेशितः.संस्यन्दतेऽयम्.ह्य्.अमृतस्य.प्राप्तये ॥ १२.१६ यो.धर्म.चक्रम्.ह्य्.अननुश्रुतम्.पुरा.प्रावर्तयत्.सर्व.भूतानुकम्पी । १२.१६ तम्.तादृशम्.देव.नराग्र.सत्त्वम्.नित्यम्.नमस्येत.भवस्य.पारगम् ॥[.देवनराग्रसत्वम्.] १२.१७ सदा.वितर्कान्.कुशलान्.वितर्कयेत्.सदा.पुनश्.चाकुशलान्.विवर्जयेत् । १२.१७ ततो.वितर्कांश्.च.विचारितानि.च.प्रहास्यते.वृष्टिर्.इवोद्धतम्.रजः ॥ १२.१८ स.वै.वितर्कोपशमेन.चेतसा.स्पृशेत.सम्बोधि.सुखम्.ह्य्.अनुत्तरम् । १२.१८ शुभम्.समाधिम्.मनसा.निबन्धयेद्.विवेकजम्.भावयित्वाप्रमाणम् । १२.१८ f: प्रदालयित्वा.त्रिभिर्.आलयांस्.त्रीन्.जहाति.बन्धान्.निपकः.प्रतिस्मृतः ॥ १२.१९ प्रज्ञायुधो.ध्यान.बलोपपेतः.समाहितो.ध्यान.रतः.स्मृतात्मा । १२.१९ लोकस्य.बुद्ध्वा.ह्य्.उदय.व्ययम्.च.विमुच्यते.वेदकः.सर्वतो.असौ ॥ १२.२० सुखम्.सुखार्थी.लभते.समाचरन्.कीर्तिम्.समाप्नोति.यशश्.च.सर्वतः । १२.२० य;आर्यम्.अष्टाङ्गिकम्.आञ्जसम्.शिवम्.भावयति.मार्गम्.ह्य्.अमृतस्य.प्राप्तये ॥ १३ सत्कारवर्ग १३.१ फलम्.वै.कदलिम्.हन्ति.फलम्.वेणुम्.फलम्.नडम् । १३.१ सत्कारः.कापुरुषम्.हन्ति.स्व.गर्भो.अश्वतरीम्.यथा ॥ १३.२ यावद्.एव.ह्य्.अनर्थाय.ज्ञातो.भवति.बालिशः । १३.२ हन्ति.बालस्य.शुक्लांशम्.मूर्धानम्.चास्य.पातयेत् ॥ १३.३ असन्तो.लाभम्.इच्छन्ति.सत्कारम्.चैव.भिक्षुषु । १३.३ आवासेषु.च.मात्सर्यम्.पूजाम्.पर.कुलेषु.च ॥ १३.४ माम्.एव.नित्यम्.जानीयुर्.गृही.प्रव्रजितस्.तथा । १३.४ मम.प्रतिवशाश्.च.स्युः.कृत्याकृत्येषु.केषुचित् ॥ १३.५ इति.बालस्य.संकल्पा;इच्छा.मानाभिवर्धकाः । १३.५ अन्या.हि.लाभोपनिषद्.अन्या.निर्वाण.गामिनी ॥ १३.६ एतज्.ज्ञात्वा.यथा.भूतम्.बुद्धानाम्.श्रावकः.सदा । १३.६ सत्कारम्.नाभिनन्देत.विवेकम्.अनुबृंहयेत् ॥ १३.७ न.व्यायमेत.सर्वत्र.नान्येषाम्.पुरुषो.भवेत् । १३.७ नान्याम्.निह्श्रित्य.जीवेत.धर्मेण.न.वणिक्.चरेत् ॥ १३.८ स्व.लाभम्.नावमन्येत.नान्येषाम्.स्पृहको.भवेत् । १३.८ अन्येषाम्.स्पृहको.भिक्षुः.समाधिम्.नाधिगच्छति ॥ १३.९ सुखम्.जीवितुम्.इच्छेत्.चेत्.श्रामण्यार्थेष्व्.अवेक्षवान् । १३.९ अहिर्.मूषक.दुर्गम्.वा.सेवेत.शयनासनम् ॥ १३.१० सुखम्.जीवितुम्.इच्छेत्.चेत्.श्रामण्यार्थेष्व्.अवेक्षवान् । १३.१० इतरेतरेण.संतुष्येद्.एक.धर्मम्.च.भावयेत् ॥ १३.११ सुखम्.जीवितुम्.इच्छेत्.चेत्.श्रामण्यार्थेष्व्.अवेक्षवान् । १३.११ सांघिकम्.नावमन्येत.चीवरम्.पान.भोजनम् ॥ १३.१२ अल्प.ज्ञातो.अपि.चेद्.भवति.शीलेषु.सुसमाहितः । १३.१२ विद्वांसस्.तम्.प्रशंसन्ति.शुद्धाजीवम्.अतन्द्रितम् ॥[.शुद्धाजीवम्.] १३.१३ त्रैविद्यः.स्यात्.स.चेद्.भिक्षुर्.मृत्यु.हन्ता.निरास्रवः । १३.१३ अल्प.ज्ञातम्.इति.ज्ञात्वा.ह्य्.अवजानन्त्य्.अजानकाः ॥ १३.१३ स.चेद्.भवति.त्रैविद्यो.मृत्यु.हायी.निरास्रवः । १३.१३ ज्ञात्वाल्प.ज्ञात;इति.तम्.अवजानन्त्य्.अजानकाः ॥ १३.१४ स.चेत्.त्व्.इहान्न.पानस्य.लाभी.भवति.पुद्गलाः । १३.१४ पाप.धर्मापि.चेद्.भवति.स.तेषाम्.भवति.पूजितः ॥ १३.१५ बहून्.अमित्रान्.लभते.संघाटी.प्रावृतः.सदा । १३.१५ लाभी.यो.ह्य्.अन्न.पानस्य.वस्त्र.शय्यासनस्य.च ॥ १३.१६ एतद्.आदी.नवम्.ज्ञात्वा.सत्कारेषु.महा.भयम् ।[.आदीनवम्.] १३.१६ अल्प.ज्ञातो.ह्य्.अनुत्सुकः.स्मृतो.भिक्षुः.परिव्रजेत् ॥ १३.१७ नायम्.अनशनेन.जीवते.नाहारो.हृदयस्य.शान्तये । १३.१७ आहारः.स्थितये.तु.विद्यते.तज्.ज्ञात्वा.हि.चरेत;एषणाम् ॥ १३.१८ पङ्कस्.त्व्.इति.यो.हि.विन्दते.नित्यम्.वन्दन.मानना.कुले । १३.१८ सूक्ष्मः.शल्यो.दुरुद्धरः.सत्कारः.कापुरुषेण.दुस्त्यजः ॥ १४ द्रोहवर्ग १४.१ अक्रुद्धस्य.हि.यः.क्रुध्येत्.कर्म.पापम्.अकुर्वतः । १४.१ दुह्खम्.तम्.एव.स्पृशति.लोकेऽस्मिंश्.च.परत्र.च ॥ १४.२ पूर्वम्.क्षिणोति.हात्मानम्.पश्चाद्.बाह्यम्.विहिंसति । १४.२ स.हतस्.त्व्.इतरम्.हन्ति.वीतंसेनेव.पक्षिणः ॥ १४.३ हन्तारम्.लभते.हन्ता.वैरी.वैराणि.पश्यति । १४.३ अक्रोष्टारम्.तथाक्रोष्टा.रोषितारम्.च.रोषकः ॥[.आक्रोष्टारम्.] १४.४ अन्यत्राश्रवणाद्.अस्य.सद्धर्मस्याविजानकाः । १४.४ आयुष्य्.एवम्.परित्ते.हि.वैरम्.कुर्वन्ति.केनचित् ॥ १४.५ पृथक्.शब्दाः.समुत्पन्नास्.तम्.च.श्रेष्ठम्.इति.मन्यथा ।[.पृथक्.छब्दाः.] १४.५ संघे.हि.भिद्यमानेऽस्मिन्.श्रेष्ठम्.इत्य्.अभिमन्यथा ॥ १४.६ अस्थि.छिदाम्.प्राण.हृताम्.गवाश्व.धन.हारिणाम् ।[.अस्थिच्छिदाम्.] १४.६ राष्ट्रम्.विलुम्पताम्.चैव.पुनर्.भवति.संगतम् । १४.६ f: युष्माकम्.नु.कथम्.न.स्याद्.इमम्.धर्मम्.विजानताम् ॥ १४.६ अस्थि.छिन्नाः.प्राण.हरा.गवाश्व.धन.हारकाः ।[.अस्थिच्छिनाः.] १४.६ राष्ट्राणाम्.च.विलोप्तारस्.तेषाम्.भवति.संगतम् । १४.६ f: युष्माकम्.नु.कथम्.न.स्याद्.इमम्.धर्मम्.विजानताम् ॥ १४.७ पण्डिताभा.परामृष्टा.वाग्.या.गोचर.भाषिणी । १४.७ व्यायच्छन्ति.मुखम्.वामा.यया.नीता.न.ते.बुधाः ॥ १४.८ परे.हि.न.विजानन्ति.वयम्.अत्रोद्यमामहे । १४.८ अत्र.ये.तु.विजानन्ति.तेषाम्.शाम्यन्ति.मेधकाः ॥ १४.९ आक्रोशन्.माम्.अवोचन्.माम्.अयोजन्.माम्.अजापयेत् । १४.९ अत्र.ये.ह्य्.उपनह्यन्ति.वैरम्.तेषाम्.न.शाम्यति ॥ १४.१० आक्रोशन्.माम्.अवोचन्.माम्.अजयन्.माम्.अजापयेत् । १४.१० अत्र.ये.नोपनह्यन्ति.वैरम्.तेषाम्.प्रशाम्यति ॥ १४.११ न.हि.वैरेण.वैराणि.शाम्यन्तीह.कदाचन । १४.११ क्षान्त्या.वैराणि.शाम्यन्त्येष.धर्मः.सनातनः ॥ १४.१२ वैरम्.न.वैरेण.हि.जातु.शाम्येत्.शाम्येद्.अवैरेण.तु.वैर.भावः । १४.१२ वैर.प्रसङ्गो.ह्य्.अहिताय.दृष्टस्.तस्माद्द्.हि.वैरम्.न.करोति.विद्वान् ॥ १४.१३ स.चेल्.लभेद्.वै.निपकम्.सहायम्.लोके.चरन्.साधु.हि.नित्यम्.एव । १४.१३ अभिभूय.सर्वाणि.परिस्रवाणि.चरेत.तेनाप्त.मना.स्मृतात्मा ॥ १४.१४ नो.चेल्.लभेद्.वै.निपकम्.सहायम्.लोके.चरन्.साधु.हि.नित्यम्.एव । १४.१४ राजेव.राष्ट्रम्.विप्लुअम्.प्रहायैकश्.चरेन्.न.च.पापानि.कुर्यात् ॥ १४.१५ चरंश्.च.नाधिगच्छेत.सहायम्.तुल्यम्.आत्मनः । १४.१५ एक.चर्याम्.दृढम्.कुर्यान्.नास्ति.बाले.सहायता ॥ १४.१६ एकस्य.चरितम्.श्रेयो.न.तु.बालः.सहायकः । १४.१६ एकश्.चरेन्.न.च.पापानि.कुर्याद्.अल्पोत्सुको.अरण्य.गतैव.नागः ॥ १४.१६_ एकस्य.चरितम्.श्रेयो.न.तु.बाल.सहायता । १४.१६_ अल्पोत्सुकश्.चरेद्.एको.मातङ्गारण्ये.नागवत् ॥ १५ स्मृतिवर्ग १५.१ आनापान.स्मृतिर्.यस्य.परिपूर्णा.सुभाविता । १५.१ अनुपूर्वम्.परिजिता.यथा.बुद्धेन.देशिता । १५.१ f: स;इमम्.भासते.लोकम्.अभ्र.मुक्तैव.चन्द्रमाः ॥ १५.२ स्थितेन.कायेन.तथैव.चेतसा.स्थितो.निषण्णो.अप्य्.अथवा.शयानः । १५.२ नित्यम्.स्मृतो.भिक्षुर्.अधिष्ठमानो.लभेत.पूर्वापरतो.विशेषम् । १५.२ f: लब्ध्वा.च.पूर्वापरतो.विशेषम्.अदर्शनम्.मृत्यु.राजस्य.गच्छेत् ॥ १५.३ स्मृतिः.काय.गता.नित्यम्.संवरश्.चेन्द्रियैः.सदा । १५.३ समाहितः.स.जानीयात्.तेन.निर्वाणम्.आत्मनः ॥ १५.४ यस्य.स्यात्.सर्वतः.स्मृतिः.सततम्.काय.गता.ह्य्.उपस्थिता । १५.४ नो.च.स्यान्.नो.च.मे.स्यान्.न.भविष्यति.न.च.मे.भविष्यति । १५.४ f: अनुपूर्व.विहारवान्.असौ.कालेनोत्तरते.विषक्तिकाम् ॥ १५.५ यो.जागरेत्.स्मृतिमान्.सम्प्रजानः.समाहितो.मुदितो.विप्रसन्नः । १५.५ कालेन.धर्मान्.मीमांसमानः.सो.अतिक्रमेज्.जाति.जराम्.सशोकाम् ॥ १५.६ तस्मात्.सदा.जागरिकाम्.भजेत.यो.वीर्यवान्.स्मृतिमान्.अप्रमत्तः । १५.६ सम्योजनम्.जाति.जराम्.च.हित्वेहैव.दुह्खस्य.करोति.सो.अन्तम् ॥ १५.७ जागरन्तः.शृणुध्वम्.मे.सुप्ताश्.च.प्रतिबुध्यत । १५.७ सुप्तेषु.जागरम्.श्रेया.न.हि.जागरतो.भयम् ॥ १५.८ जागर्यम्.अनुयुक्तानाम्.अहो.रात्रानुशिक्षिणाम् । १५.८ अमृतम्.चाधिमुक्तानाम्.अस्तम्.गच्छन्त्यास्रवाः ॥ १५.९ लाभस्.तेषाम्.मनुष्याणाम्.ये.बुद्धम्.शरणम्.गताः । १५.९ येषाम्.दिवा.च.रात्रौ.च.नित्यम्.बुद्ध.गता.स्मृतिः ॥ १५.१० लाभस्.तेषाम्.मनुष्याणाम्.ये.धर्मम्.शरणम्.गताः । १५.१० येषाम्.दिवा.च.रात्रौ.च.नित्यम्.धर्म.गता.स्मृतिः ॥ १५.११ लाभस्.तेषाम्.मनुष्याणाम्.ये.संघम्.शरणम्.गताः । १५.११ येषाम्.दिवा.च.रात्रौ.च.नित्यम्.संघ.गता.स्मृतिः ॥ १५.१२ सुप्रबुद्धम्.प्रबुध्यन्ते;इमे.गौतम.श्रावकाः । १५.१२ येषाम्.दिवा.च.रात्रौ.च.नित्यम्.बुद्ध.गता.स्मृतिः ॥ १५.१३ सुप्रबुद्धम्.प्रबुध्यन्ते;इमे.गौतम.श्रावकाः । १५.१३ येषाम्.दिवा.च.रात्रौ.च.नित्यम्.धर्म.गता.स्मृतिः ॥ १५.१४ सुप्रबुद्धम्.प्रबुध्यन्ते;इमे.गौतम.श्रावकाः । १५.१४ येषाम्.दिवा.च.रात्रौ.च.नित्यम्.संघ.गता.स्मृतिः ॥ १५.१५ सुप्रबुद्धम्.प्रबुध्यन्ते;इमे.गौतम.श्रावकाः । १५.१५ येषाम्.दिवा.च.रात्रौ.च.नित्यम्.काय.गता.स्मृतिः ॥ १५.१५ सुप्रबुद्धम्.प्रबुध्यन्ते;इमे.गौतम.श्रावकाः । १५.१५ येषाम्.दिवा.च.रात्रौ.च.नित्यम्.समाधयः.स्मृताः ॥ १५.१६ सुप्रबुद्धम्.प्रबुध्यन्ते;इमे.गौतम.श्रावकाः । १५.१६ येषाम्.दिवा.च.रात्रौ.च.नित्यम्.शील.गता.स्मृतिः ॥ १५.१६ सुप्रबुद्धम्.प्रबुध्यन्ते;इमे.गौतम.श्रावकाः । १५.१६ येषाम्.दिवा.च.रात्रौ.च.नित्यम्.त्याग.गता.स्मृतिः ॥ १५.१६ सुप्रबुद्धम्.प्रबुध्यन्ते;इमे.गौतम.श्रावकाः । १५.१६ येषाम्.दिवा.च.रात्रौ.च.नित्यम्.देव.गता.स्मृतिः ॥ १५.१७ सुप्रबुद्धम्.प्रबुध्यन्ते;इमे.गौतम.श्रावकाः । १५.१७ येषाम्.दिवा.च.रात्रौ.चैवाहिंसायाम्.रतम्.मनः ॥ १५.१८ सुप्रबुद्धम्.प्रबुध्यन्ते;इमे.गौतम.श्रावकाः । १५.१८ येषाम्.दिवा.च.रात्रौ.चैवाव्यापादे.रतम्.मनः ॥ १५.१९ सुप्रबुद्धम्.प्रबुध्यन्ते;इमे.गौतम.श्रावकाः । १५.१९ येषाम्.दिवा.च.रात्रौ.च.नैष्क्रम्येऽभिरतम्.मनः ॥[.नैष्कर्म्ये.?] १५.२० सुप्रबुद्धम्.प्रबुध्यन्ते;इमे.गौतम.श्रावकाः । १५.२० येषाम्.दिवा.च.रात्रौ.च.नित्यम्.ध्यान.रतम्.मनः ॥ १५.२१ सुप्रबुद्धम्.प्रबुध्यन्ते;इमे.गौतम.श्रावकाः । १५.२१ येषाम्.दिवा.च.रात्रौ.च.विवेकेऽभिरतम्.मनः ॥ १५.२२ सुप्रबुद्धम्.प्रबुध्यन्ते;इमे.गौतम.श्रावकाः । १५.२२ येषाम्.दिवा.च.रात्रौ.च.शुन्यतायाम्.रतम्.मनः ॥[.शून्यतायाम्.] १५.२३ सुप्रबुद्धम्.प्रबुध्यन्ते;इमे.गौतम.श्रावकाः । १५.२३ येषाम्.दिवा.च.रात्रौ.चैवानिमित्ते.रतम्.मनः ॥ १५.२४ सुप्रबुद्धम्.प्रबुध्यन्ते;इमे.गौतम.श्रावकाः । १५.२४ येषाम्.दिवा.च.रात्रौ.च;आकिंचन्ये.रतम्.मनः ॥ १५.२५ सुप्रबुद्धम्.प्रबुध्यन्ते;इमे.गौतम.श्रावकाः । १५.२५ येषाम्.दिवा.च.रात्रौ.च.भावनायाम्.रतम्.मनः ॥ १५.२६ सुप्रबुद्धम्.प्रबुध्यन्ते;इमे.गौतम.श्रावकाः । १५.२६ येषाम्.दिवा.च.रात्रौ.च.निर्वाणेऽभिरतम्.मनः ॥ १६ प्रकीर्णकवर्ग १६.१ पूर्वम्.हि.कृत्यम्.प्रतिजागरेत.मा.मे.कृत्यम्.कृत्य.काले.विहन्यात् । १६.१ तम्.नित्य.काले.प्रतियत्य.कारिणम्.नैव.कृत्यम्.कृत्य.काले.विहन्ति ॥ १६.२ व्यायमेतैव.पुरुषो.यावद्.अर्थस्य.निष्पदः । १६.२ पश्येद्.असौ.तथात्मार्थम्.यथैवेच्छेत्.तथा.भवेत् ॥ १६.३ उत्तिष्ठत.व्यायमत.कुरुध्वम्.द्वीपम्.आत्मनः । १६.३ कर्मारो.रजतस्यैव.हरध्वम्.मलम्.आत्मनः ॥ १६.३ f: निर्धान्त.मला.ह्य्.अनङ्गणा.न.पुनर्.जाति.जराम्.उपेष्यथ ॥ १६.४ अलज्जितव्ये.लज्जन्ते.लज्जितव्ये.त्व्.अलज्जिनः । १६.४ अभये.भय.दर्शीनो.भये.चाभय.दर्शिनः ।[.भय.दर्शिनो.] १६.४ f: मिथ्या.दृष्टि.समादानात्.सत्त्वा.गच्छन्ति.दुर्गतिम् ॥ १६.५ यस्.तु.पूर्वम्.प्रमाद्येह.पश्चाद्.वै.न.प्रमाद्यते । १६.५ स;इमम्.भासते.लोकम्.अभ्र.मुक्तैव.चन्द्रमाः ॥ १६.६ यस्.तु.पूर्वम्.प्रमाद्येह.पश्चाद्.वै.न.प्रमाद्यते । १६.६ स;इमाम्.विषक्तिकाम्.लोके.स्मृतः.समतिवर्तते ॥ १६.७ दहरो.अपि.चेत्.प्रव्रजते.युज्यते.बुद्ध.शासने । १६.७ स;इमम्.भासते.लोकम्.अभ्र.मुक्तैव.चन्द्रमाः ॥ १६.८ दहरो.अपि.चेत्.प्रव्रजते.युज्यते.बुद्ध.शासने । १६.८ स;इमाम्.विषक्तिकाम्.लोके.स्मृतः.समतिवर्तते ॥ १६.९ यस्य.पाप.कृतम्.कर्म.कुशलेन.पिथीयते ।[.पिधीयते.] १६.९ स;इमम्.भासते.लोकम्.अभ्र.मुक्तैव.चन्द्रमाः ॥ १६.१० यस्य.पाप.कृतम्.कर्म.कुशलेन.पिथीयते ।[.पिधीयते.] १६.१० स;इमाम्.विषक्तिकाम्.लोके.स्मृतः.समतिवर्तते ॥ १६.११ यो.जीविते.न.तपते.मरणान्ते.च.सर्वशः । १६.११ स.वै.दृष्ट.पदो.धीरो.मरणान्ते.न.शोचति ॥ १६.१२ यो.जीविते.न.तपते.मरणान्ते.च.सर्वशः । १६.१२ स.वै.दृष्ट.पदो.धीरः.शोक.मध्ये.न.शोचति ॥ १६.१३ यो.जीविते.न.तपते.मरणान्ते.च.सर्वशः । १६.१३ स.वै.दृष्ट.पदो.धीरो.ज्ञाति.मध्ये.विरोचते ॥ १६.१४ कृष्णान्.धर्मान्.विप्रहाय.शुक्लान्.भावयत.भिक्षवः । १६.१४ ओकाद्.अनोकम्.आगम्य.विवेकम्.अनुबृंहयेत् । १६.१४ f: तत्र.चाभिरमेतार्यो.हित्वा.कामान्.अकिंचनः ॥ १६.१५ शुद्धस्य.हि.सदा.फल्गुः.शुद्धस्य.पोषथः.सदा । १६.१५ शुद्धस्य.शुचि.कर्मणः.सदा.सम्पद्यते.व्रतम् ॥ १६.१६ क्षेत्राणि.तृण.दोषाणि.राग.दोषा.त्व्.इयम्.प्रजा । १६.१६ तस्माद्.विगत.रागेभ्यो.दत्तम्.भवति.महा.फलम् ॥ १६.१७ क्षेत्राणि.तृण.दोषाणि.द्वेष.दोषा.त्व्.इयम्.प्रजा । १६.१७ तस्माद्.विगत.द्वेषेभ्यो.दत्तम्.भवति.महा.फलम् ॥ १६.१८ क्षेत्राणि.तृण.दोषाणि.मोह.दोषा.त्व्.इयम्.प्रजा । १६.१८ तस्माद्.विगत.मोहेभ्यो.दत्तम्.भवति.महा.फलम् ॥ १६.१९ क्षेत्राणि.तृण.दोषाणि.मान.दोषा.त्व्.इयम्.प्रजा । १६.१९ तस्माद्.विगत.मानेभ्यो.दत्तम्.भवति.महा.फलम् ॥ १६.२० क्षेत्राणि.तृण.दोषाणि.लोभ.दोषा.त्व्.इयम्.प्रजा । १६.२० तस्माद्.विगत.लोभेभ्यो.दत्तम्.भवति.महा.फलम् ॥ १६.२१ क्षेत्राणि.तृण.दोषाणि.तृष्णा.दोषा.त्व्.इयम्.प्रजा । १६.२१ तस्माद्.विगत.तृष्णेभ्यो.दत्तम्.भवति.महा.फलम् ॥ १६.२२ षष्ठ;अधिपती.राजा.रज्यमाने.रजस्वलः । १६.२२ अरक्ते.विरजा.भवति.रक्ते.बालो.निरुच्यते ॥ १६.२३ नगरम्.ह्य्.अस्थि.प्राकारम्.मांस.शोणित.लेपनम् । १६.२३ यत्र.रागश्.च.द्वेषश्.च.मानो.ंरक्षश्.च.बाध्यते ॥ १६.२४ हेतु.प्रभवम्.सदा.हि.दुह्खम्.तद्.अपश्यन्.स.हि.तेन.तत्र.बद्धः । १६.२४ तस्य.तु.समयाज्.जहाति.सङ्गम्.न.हि.बाह्या.प्रजहन्ति.तम्.महौघम् ॥[.महौघम्.] १७ उदकवर्ग १७.१ स्मृतिमन्तः.प्रयुज्यन्ते.न.निकेते.रमन्ति.ते । १७.१ हंसवत्.पल्वलम्.हित्वा.ह्य्.ओकम्.ओघम्.जहन्ते.ते ॥[.जहन्ति.ते.] १७.२ हंसादित्य.पथे.यान्त्याकाशे.जीवितेन्द्रियाः । १७.२ निर्यान्ति.धीरा.लोकान्.मार.सैन्यम्.प्रमथ्य.ते ॥ १७.३ अचरित्वा.ब्रह्मचर्यम्.अलब्ध्वा.यौवने.धनम् । १७.३ जीर्ण.क्रौञ्चैव.ध्यायन्तेऽल्प.मत्स्य;इव.पल्वले ॥ १७.४ अचरित्वा.ब्रह्मचर्यम्.अलब्ध्वा.यौवने.धनम् । १७.४ शेन्ति.चापाति.कीर्णा.वा.पौराणान्य्.अनुचिन्तिताः ॥ १७.५ नाल्पम्.मन्येत.पापस्य.नैतम्.माम्.आगमिष्यति । १७.५ उद.बिन्दु.निपातेन.महा.कुम्भो.अपि.पूर्यते । १७.५ f: पूर्यन्ति.बालाः.पापैर्.हि.स्तोक.स्तोकम्.कृतैर्.अपि ॥ १७.६ नाल्पम्.मन्येत.पुण्यस्य.नैतम्.माम्.आगमिष्यति । १७.६ उद.बिन्दु.निपातेन.महा.कुम्भो.अपि.पूर्यते । १७.६ f: पूर्यन्ति.धीराः.पुण्यैर्.हि.स्तोक.स्तोकम्.कृतैर्.अपि ॥ १७.७ ये.तरन्त्य्.आर्णवम्.नित्यम्.कोलम्.बद्ध्वा.जनाः.शुभम् । १७.७ न.ते.तरन्ति.सरिताम्.तीर्णा.मेधाविनो.जनाः ॥ १७.८ उत्तीर्णो.भगवान्.बुद्धः.स्थले.तिष्ठति.ब्राह्मणः । १७.८ भिक्षवः.स्नान्ति.चैवात्र.कोलम्.बध्नन्ति.चापरे ॥ १७.९ किम्.कुर्याद्.उद.पानेन.यत्रापः.सर्वतो.भवेत् । १७.९ तृष्णाया.मूलम्.उद्धृत्य.कस्य.पर्येषणाम्.चरेत् ॥ १७.१० उदकेन.निजन्ति.नेजका;इषु.कारा.नमयन्ति.तेजसा । १७.१० दारुम्.नमयन्ति.तक्षका.ह्य्.आत्मानम्.दमयन्ति.पण्डिताः ॥ १७.११ यथा.ह्रदः.सुगम्भीरो.विप्रसन्नो.ह्य्.अनाविलः । १७.११ एवम्.श्रुत्वा.हि.सद्धर्मम्.विप्रसीदन्ति.पण्डिताः ॥ १७.१२ पृथिवी.सदृशो.न.लिप्यते.तायी.कीलवद्.अप्रकम्पयः । १७.१२ ह्रद;इव.हि.विनीत.कर्दमो.निष्कलुषा.हि.भवन्ति.पण्डिताः ॥ १८ पुष्पवर्ग १८.१ क;इमाम्.पृथिवीम्.विजेष्यते.यम.लोकम्.च.तथा.सदेवकम् । १८.१ को.धर्म.पदम्.सुदेशितम्.कुशलः.पुष्पम्.इव.प्रचेष्यते ॥ १८.२ शैक्षः.पृथिवीम्.विजेष्यते.यम.लोकम्.च.तथा.सदेवकम् । १८.२ स.हि.धर्म.पदम्.सुदेशितम्.कुशलः.पुष्पम्.इव.प्रचेष्यते ॥ १८.३ वनम्.छिन्दत.मा.वृक्षम्.वनाद्.वै.जायते.भयम् । १८.३ छित्त्वा.वनम्.समूलम्.तु.निर्वणा.भवत.भिक्षवः ॥ १८.४ न.छिद्यते.यावता.वनम्.ह्य्.अनुमात्रम्.अपि.नरस्य.बन्धुषु ।[.अणु.मात्रम्.]? १८.४ प्रतिबद्ध.मनाः.स.तत्र.वै.वत्सः.क्षीरपक;इव.मातरम् ॥ १८.५ उच्छिन्द्धि.हि.स्नेहम्.आत्मनः.पद्मम्.शारदकम्.यथोदकात् । १८.५ शान्ति.मार्गम्.एव.बृंहयेन्.निर्वाणम्.सुगतेन.देशितम् ॥ १८.६ यथापि.रुचिरम्.पुष्पम्.वर्णवत्.स्याद्.अगन्धवत् । १८.६ एवम्.सुभाषिता.वाचा.निष्फलासाव्.अकुर्वातः ॥ १८.७ यथापि.रुचिरम्.पुष्पम्.वर्णवत्.स्यात्.सुगन्धवत् । १८.७ एवम्.सुभाषिता.वाचा.सफला.भवति.कुर्वतः ॥ १८.८ यथापि.भ्रमरः.पुष्पाद्.वर्ण.गन्धाव्.अहेठयन् । १८.८ परैति.रसम्.आदाय.तथा.ग्रामान्.मुनिश्.चरेत् ॥ १८.९ न.परेषाम्.विलोमानि.न.परेषाम्.कृताकृतम् । १८.९ आत्मनस्.तु.समीक्षेत.समानि.विषमानि.च ॥ १८.१० यथापि.पुष्प.राशिभ्यः.कुर्यान्.माला.गुणान्.बहून् । १८.१० एवम्.जातेन.मर्त्येन.कर्तव्यम्.कुशलम्.बहु ॥ १८.११ वर्षासु.हि.यथा.पुष्पम्.वगुरो.विप्रमुञ्चति ।[.वागुरो.]? १८.११ एवम्.रागम्.च.दोषम्.च.विप्रमुञ्चत.भिक्षवः ॥ १८.१२ यथा.संकार.कूटे.तु.व्युज्झिते.हि.महा.पथे । १८.१२ पद्मम्.तत्र.तु.जायेत.शुचि.गन्धि.मनो.रमम् ॥ १८.१३ एवम्.संकार.भूतेऽस्मिन्न्.अन्ध.भूते.पृथग्.जने । १८.१३ प्रज्ञया.व्यतिरोचन्ते.सम्यक्.सम्बुद्ध.श्रावकाः ॥ १८.१४ पुष्पाण्य्.एव.प्रचिन्वन्तम्.व्यासक्त.मनसम्.नरम् । १८.१४ सुप्तम्.ग्रामम्.महौघैव.मृत्युर्.आदाय.गच्छति ॥ १८.१४ ...............................................नरम् । १८.१४ सुप्तम्.ग्रामम्.महौघैव.मृत्युर्.आदाय.गच्छति ॥ १८.१५ पुष्पाण्य्.एव.प्रचिन्वन्तम्.व्यासक्त.मनसम्.नरम् । १८.१५ अतृप्तम्.एव.कामेषु.त्व्.अन्तकः.कुरुते.वशम् ॥ १८.१६ पुष्पाण्य्.एव.प्रचिन्वन्तम्.व्यासक्त.मनसम्.नरम् । १८.१६ अनुत्पन्नेषु.भोगेषु.त्व्.अन्तकः.कुरुते.वशम् ॥ १८.१७ कुम्भोपमम्.कायम्.इमम्.विदित्वा.मरीचि.धर्मम्.परिबुध्य.चैव । १८.१७ छित्त्वेह.मारस्य.तु.पुष्पकाणि.त्व्.अदर्शनम्.मृत्यु.राजस्य.गच्छेत् ॥ १८.१८ फेनोपमम्.कायम्.इमम्.विदित्वा.मरीचि.धर्मम्.परिबुध्य.चैव । १८.१८ छित्त्वेह.मारस्य.तु.पुष्पकाणि.त्व्.अदर्शनम्.मृत्यु.राजस्य.गच्छेत् ॥ १८.१९ कुम्भोपमम्.लोकम्.इमम्.विदित्वा.मरीचि.धर्मम्.परिबुध्य.चैव । १८.१९ छित्त्वेह.मारस्य.तु.पुष्पकाणि.त्व्.अदर्शनम्.मृत्यु.राजस्य.गच्छेत् ॥ १८.२० फेनोपमम्.लोकम्.इमम्.विदित्वा.मरीचि.धर्मम्.परिबुध्य.चैव । १८.२० छित्त्त्वेह.मारस्य.तु.पुष्पकाणि.त्व्.अदर्शनम्.मृत्यु.राजस्य.गच्छेत् ॥ १८.२१ यो.नाध्यगमद्.भवेषु.सारम्.बुद्ध्वा.पुष्पम्.उदुम्बरस्य.यद्वत् । १८.२१ स.तु.भिक्षुर्.इदम्.जहात्य्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् ॥ १८.२१ यो.रागम्.उदाच्छिनत्त्य्.अशेषम्.बिस.पुष्पम्.इव.जलेरुहम्.विगाह्य । १८.२१ स.तु.भिक्षुर्.इदम्.जहात्य्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् ॥ १८.२१ यो.द्वेषम्.उदाछिनत्त्य्.अशेषम्.बिस.पुष्पम्.इव.जलेरुहम्.विगाह्य । १८.२१ स.तु.भिक्षुर्.इदम्.जहात्य्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् ॥ १८.२१ यो.मोहम्.उदाछिनत्त्य्.अशेषम्.बिस.पुष्पम्.इव.जलेरुहम्.विगाह्य । १८.२१ स.तु.भिक्षुर्.इदम्.जहात्य्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् ॥ १८.२१ड् यो.मानम्.उदाछिनत्त्य्.अशेषम्.बिस.पुष्पम्.इव.जलेरुहम्.विगाह्य । १८.२१ड् स.तु.भिक्षुर्.इदम्.जहात्य्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् ॥ १८.२१ यो.लोभम्.उदाछिनत्त्य्.अशेषम्.बिस.पुष्पम्.इव.जलेरुहम्.विगाह्य । १८.२१ स.तु.भिक्षुर्.इदम्.जहात्य्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् ॥ १८.२१ तृष्णाम्.य;उदाछिनत्त्य्.अशेषम्.बिस.पुष्पम्.इव.जलेरुहम्.विगाह्य । १८.२१ स.तु.भिक्षुर्.इदम्.जहात्य्.अपारम्.ह्य्.उरगो.जीर्णम्.त्व.त्वचम्.पुराणम् ॥ १९ अश्ववर्ग १९.१ भद्रो.यथाश्वः.कशयाभिस्पृष्ट.ह्य्.आतापिनः.संविजिताश्.चरेत ।[.अभिस्पृष्टो.]? १९.१ श्राद्धस्.तथा.शील.गुणैर्.उपेतः.समाहितो.धर्म.विनिश्चयज्ञः । १९.१ f: जितेन्द्रियः.क्षान्ति.बलैर्.उपेतो.जहाति.सर्वान्.स.भवान्.अशेषान् ॥ १९.२ भद्रो.यथाश्वः.कशयाभिताडित.ह्य्.आतापिनः.संविजिताश्.चरेत ।[.अभिताडितो.]? १९.२ श्राद्धस्.तथा.शील.गुणैर्.उपेतः.समाहितो.धर्म.विनिश्चयज्ञः । १९.२ f: सम्पन्न.विद्या.चरणः.प्रतिस्मृतस्.तायी.स.सर्वम्.प्रजहाति.दुह्खम् ॥ १९.३ यस्येन्द्रियाणि.समताम्.गतान्यश्वो.यथा.सारथिना.सुदान्तः । १९.३ प्रहीण.दोषाय.निरास्रवाय.देवापि.तस्मै.स्पृहयन्ति.नित्यम् ॥ १९.४ अप्रमत्तः.प्रमत्तेषु.सुप्तेषु.बहु.जागरः । १९.४ अबलाश्व;इव.भद्राश्वम्.हित्वा.याति.सुमेधसम् । १९.५ ह्री.निषेवी.हि.पुरुषः.प्राज्ञो.यः.सुसमाहितः । १९.५ सर्व.पापम्.जहात्य्.एष.भद्राश्वो.हि.कशाम्.इव ॥ १९.६ दान्तो.वै.समितिम्.याति.दान्तम्.राजाधिरोहति । १९.६ दान्तः.श्रेष्ठो.मनुष्याणाम्.यो.अतिवाक्यम्.तितीक्षति ॥[.तितिक्षति.] १९.७ यो.ह्य्.अश्वम्.दमयेज्.जान्यम्.आजानेयम्.च.सैन्धवम् । १९.७ कुञ्जरम्.वा.महा.नागम्.आत्मा.दान्तस्.ततो.वरम् ॥ १९.७_ यच्.चेहाश्वतरम्.दमयेद्.आजन्यम्.वापि.सैन्धवम् । १९.७_ कुञ्जरम्.वा.महा.नागम्.आत्म.दान्तस्.ततो.वरम् ॥ १९.८ न.ह्यसौ.तेन.यानेन.ताम्.भूमिम्.अधिगच्छति । १९.८ आत्मना.हि.सुदान्तेन.क्षिप्रम्.शान्तिम्.निगच्छति ॥ १९.८_ न.हि.तेन.स.यानेन.ताम्.भूमिम्.अभिसम्भवेत् । १९.८_ याम्.आत्मना.सुदान्तेन.दान्तो.दान्तेन.गच्छति ॥ १९.८ यच्.चेहाश्वतरम्.दमयेद्.आजन्यम्.वापि.सैन्दवम् । १९.८ कुञ्जरम्.वा.महा.नागम्.आत्म.दान्तस्.ततो.वरम् ॥ १९.९ न.ह्य्.असौ.तेन.यानेन.ताम्.भूमिम्.अधिगच्छति । १९.९ आत्मना.हि.सुदान्तेन.सर्वास्.त्यजति.दुर्गतीः ॥ १९.९_ न.हि.तेन.स.यानेन.ताम्.भूमिम्.अभिसम्भवेत् । १९.९_ याम्.आत्मना.सुदान्तेन.सर्वान्.त्यजत्य्.दुर्गतिः ॥ १९.९ यच्.चेहाश्वतरम्.दमयेद्.आजन्यम्.वापि.सैन्धवम् । १९.९ कुञ्जरम्.वा.महा.नागम्.आत्म.दान्तस्.ततो.वरम् ॥ १९.१० न.ह्य्.असौ.तेन.यानेन.ताम्.भूमिम्.अधिगच्छति । १९.१० आत्मना.हि.सुदान्तेन.सर्वम्.छिनत्ति.बन्धनम् ॥ १९.१०_ न.हि.तेन.स.यानेन.ताम्.भूमिम्.अभिसम्भवेत् । १९.१०_ याम्.आत्मना.सुदान्तेन.सर्वम्.छिन्दति.बन्धनम् ॥ १९.१० यच्.चेहाश्वतरम्.दमयेद्.आजन्यम्.वापि.सैन्धवम् । १९.१० कुञ्जरम्.वा.महा.नागम्.आत्म.दान्तस्.ततो.वरम् ॥ १९.११ न.ह्य्.असौ.तेन.यानेन.ताम्.भूमिम्.अधिगच्छति । १९.११ आत्मना.हि.सुदान्तेन.सर्व.दुह्खात्.प्रमुच्यते ॥ १९.११_ न.हि.तेन.स.यानेन.ताम्.भूमिम्.अभिसम्भवेत् । १९.११_ याम्.आत्मना.सुदान्तेन.सर्व.दुह्खात्.प्रमुच्यते ॥ १९.११ यच्.चेहाश्वतरम्.दमयेद्.आजन्यम्.वापि.सैन्धवम् । १९.११ कुञ्जरम्.वा.महा.नागम्.आत्म.दान्तस्.ततो.वरम् ॥ १९.११ न.हि.तेन.स.यानेन.ताम्.भूमिम्.अभिसम्भवेत् । १९.११ याम्.आत्मना.सुदान्तेन.सर्वाम्.जहाति.सम्पदम् ॥ १९.११ यच्.चेहाश्वतरम्.दमयेद्.आजन्यम्.वापि.सैन्धवम् । १९.११ कुञ्जरम्.वा.महा.नागम्.आत्म.दान्तस्.ततो.वरम् ॥ १९.१२ न.ह्य्.असौ.तेन.यानेन.ताम्.भूमिम्.अधिगच्छति । १९.१२ आत्मना.हि.सुदान्तेन.निर्वाणस्यैव.सो.अन्तिके ॥ १९.१२_ न.हि.तेन.स.यानेन.ताम्.भूमिम्.अभिसम्भवेत् । १९.१२_ याम्.आत्मना.सुदान्तेन.निर्वाणस्यैव.सो.अन्तिके ॥ १९.१३ आत्मानम्.एव.दमयेद्.भद्राश्वम्.इव.सारथिः । १९.१३ आत्मा.हि.सुदान्तेन.स्मृतिमान्.दुह्ख.पारगः ॥ १९.१४ आत्मैव.ह्य्.आत्मनो.नाथः.आत्मा.शरणम्.आत्मनः । १९.१४ तस्मात्.सम्यमयात्मानम्.भद्राश्वम्.इव.सारथिः ॥ २० क्रोधवर्ग २०.१ क्रोधम्.जहेद्.विप्रजहेच्.च.मानम्.सम्योजनम्.सर्वम्.अतिक्रमेत । २०.१ तम्.नाम्ने.रूपे.च;असज्यमानम्.अकिंचनम्.नानुपतन्ति.संगाः ॥ २०.२ क्रोधम्.जहेद्.उत्पतितम्.रागम्.जातम्.निवारयेत् । २०.२ अविद्याम्.प्रजहेद्.धीरः.सत्याभिसमयात्.सुखम् ॥ २०.३ क्रोधम्.हत्वा.सुखम्.शेते.क्रोधम्.हत्वा.न.शोचति । २०.३ क्रोधस्य.विष.मूलस्य.मधुर.घ्नस्य.भिक्षवः । २०.३ f: वधम्.आर्याः.प्रशंसन्ति.तम्.च.हत्वा.न.शोचति ॥ २०.४ यत्.तु.रोचयति.क्रुद्धो.दुष्कृतम्.सुकृतम्.त्व्.इति । २०.४ पश्चात्.स.विगते.क्रोधे.स्पृष्ट्वाग्निम्.इव.तप्यते ॥ २०.५ अह्रीकश्.चानवत्रापी.चाव्रतश्.चैव.रोषणः । २०.५ क्रोधेन.ह्य्.अभिभूतस्य.द्वीपम्.नास्तीह.किंचन ॥ २०.५_ अह्रीक्यो.अप्य्.अनवत्रापी.भवति.क्रोधनो.अव्रतः । २०.५_ क्रोधेन.चाभिभूतस्य.न.द्वीपो.भवति.कश्चन ॥ २०.६ अबलम्.हि.बलम्.तस्य.यस्य.क्रोधे.बलम्.बलम् । २०.६ क्रुद्धस्य.धर्म.हीनस्य.प्रतिपत्तिर्.न.विद्यते ॥ २०.७ यस्.त्व्.अयम्.बलवान्.भूत्वा.दुर्बलस्य.तितीक्षति ।[.तितिक्षति.] २०.७ ताम्.आहुः.परमाम्.क्षान्तिम्.नित्यम्.क्षमति.दुर्बलः ॥ २०.८ यः.परेषाम्.प्रभूः.संस्.तु.दुर्बलान्.संतितीक्षति ।[.तितिक्षति.] २०.८ ताम्.आहुः.परमाम्.क्षान्तिम्.नित्यम्.क्षमति.दुर्बलः ॥ २०.९ अत्युक्तो.हि.परैर्.यो.वै.बलवान्.संतितीक्षति ।[.तितिक्षति.] २०.९ ताम्.आहुः.परमाम्.क्षान्तिम्.नित्यम्.क्षमति.दुर्बलः ॥ २०.१० आत्मानम्.च.परम्.चैव.महतो.रक्षते.भयात् । २०.१० यः.परम्.कुपितम्.ज्ञात्वा.स्वयम्.तत्रोपशाम्यति ॥ २०.११ उभयोश्.चरते.सो.अर्थम्.आत्मनस्य.परस्य.च । २०.११ यः.परम्.कुपितम्.ज्ञात्वा.स्वयम्.तत्रोपशाम्यति ॥ २०.१२ उभार्थे.चरमाणम्.तम्.ह्य्.आत्मनस्य.परस्य.च । २०.१२ अबलम्.मन्यते.बालो.धर्मेष्व्.अवविचक्षणः ॥ २०.१३ जयम्.हि.मन्यते.बालो.वचोभिः.परुषैर्.वदन् । २०.१३ नित्यम्.इव.जयस्.तस्य.यो.अतिवाक्यम्.तितीक्षति ॥[.तितिक्षति.] २०.१४ श्रेष्ठस्य.वाक्यम्.क्षमते.भयेन.संरम्भ.हेतोः.सदृशस्य.चैव । २०.१४ यो.वै.निहीनस्य.वचः.क्षमेत.ताम्.उत्तमाम्.क्षान्तिम्.इहाहुर्.आर्याः ॥ २०.१५ क्रुद्धो.वाचम्.न.भाषेत.परिषत्स्व्.अथ.वा.मिथः । २०.१५ क्रोधाभिभूतः.पुरुषः.स्वम्.अर्थम्.हि.न.बुध्यते ॥ २०.१६ सत्यम्.वदेन्.न.च.क्रुध्येद्.दद्याद्.अल्पाद्.अपि.स्वयम् । २०.१६ स्थानैर्.एभिस्.त्रिभिर्.युक्तो.देवानाम्.अन्तिकम्.व्रजेत् ॥ २०.१७ शान्तस्य.हि.कुतः.क्रोधो.दान्तस्य.सम.जीविनः । २०.१७ सम्यग्.आज्ञा.विमुक्तस्य.क्रोधो.नास्ति.प्रजानतः ॥ २०.१८ तस्यैव.पापम्.भवति.यः.क्रुद्धे.क्रुध्यते.पुनः । २०.१८ क्रुद्धेष्व्.अक्रुद्धमानस्.तु.संग्रामम्.दुर्जयम्.जयेत् ॥[.अक्रुधमानस्.]? २०.१९ अक्रोधेन.जयेत्.क्रोधम्.असाधुम्.साधुना.जयेत् । २०.१९ जयेत्.कदर्यम्.दानेन.सत्येन.त्व्.अनृतम्.जयेत् ॥ २०.२० अक्रुद्धस्य.कुतः.क्रोधो.दान्तस्य.सम.जीविनः । २०.२० सम्यग्.आज्ञा.विमुक्तस्य.क्रोधस्.तस्य.न.विद्यते ॥ २०.२१ अक्रोधश्.चाविहिंसा.च.वसत्य्.आर्येषु.सर्वदा । २०.२१ सदा.पाप.जने.क्रोधस्.तिष्ठति.पर्वतो.यथा ॥ २०.२२ यस्.त्व्.इहोत्पतितम्.क्रोधम्.रथम्.भ्रान्तम्.इव.धारयेत् । २०.२२ वदामि.सारथिम्.तम्.तु.रश्मि.ग्राहो.अयम्.अन्यथा ॥ २० उद्दानम् २०: श्रमणो.मार्ग.सत्कारो.द्रोह.स्मृति.प्रकीर्णकः । २०: उदकम्.पुष्पम्.अश्वश्.च.सह.क्रोधेन.ते.दशः ॥ २१ तथागत.वर्ग २१.१ सर्वाभिभूः.सर्वविद्.एव.चास्मि.सर्वैश्.च.धर्मैः.सततम्.न.लिप्तः । २१.१ सर्वम्.जहः.सर्व.भयाद्.विमुक्तः.स्वयम्.ह्य्.अभिज्ञाय.कम्.उद्दिशेयम् ॥ २१.२ कम्.उद्दिशेयम्.त्व्.असमो.ह्य्.अतुल्यः.स्वयम्.प्रवक्ता.ह्य्.अधिगम्य.बोधिम् । २१.२ तथागतो.देव.मनुष्य.शास्ता.सर्वज्ञताम्.प्राप्य.बलैर्.उपेतः ॥ २१.३ अहम्.हि.लोकेष्व्.अरहन्न्.अहम्.लोकेष्व्.अनुत्तरः.सदेवकेषु.लोकेषु.चाहम्.माराभिभूर्.जिनः ॥ २१.४ आचार्यो.मे.न.वै.कश्चित्.सदृशस्.च.न.विद्यते । २१.४ एको.अस्मिन्.लोके.सम्बुद्धः.प्राप्तः.सम्बोधिम्.उत्तमाम् ॥ २१.५ जिना.हि.मादृशा.ज्ञेया.ये.प्राप्ता.ह्य्.आस्रव.क्षयम् । २१.५ जिता.मे.पापका.धर्मास्.ततो.अहम्.उपगा.जिनः ॥ २१.६ बाराणसीम्.गमिष्यामि.हनिष्येऽमृत.दुन्दुभिम् । २१.६ धर्म.चक्रम्.प्रवर्तयिष्ये.लोकेष्व्.अप्रतिवर्तितम् ॥ २१.७ न.हि.सन्तः.प्रकाश्यन्ते.विदित्वा.लोक.पर्यायम् । २१.७ आदेशयन्तो.विरजः.पदम्.शान्त.मनीषिणः ॥ २१.८ नदन्तीह.महा.वीरः.सद्.धर्मेण.तथागताः । २१.८ धर्मेण.नदमानानाम्.के.त्व्.असूयेद्.विजानकाः ॥ २१.९ ये.ध्यान.प्रसृता.धीरा.नैष्क्रम्योपशमे.रताः । २१.९ देवापि.स्पृहयन्त्य्.एषाम्.बुद्धानाम्.श्रीमताम्.सदा ॥ २१.१० तेषाम्.देवा.मनुष्याश्.च.सम्बुद्धानाम्.यशस्विनाम् । २१.१० स्पृहयन्त्य्.आशु.बुद्धीनाम्.शरीरान्तिम.धारिणाम् ॥ २१.११ ये.चाभ्यतीताः.सम्बुद्धा.ये.च.बुद्धा.ह्य्.अनागताः । २१.११ यश्.चाप्य्.एतर्हि.सम्बुद्धो.बहूनाम्.शोक.नाशकः ॥ २१.१२ सर्वे.सद्.धर्म.गुरवो.व्याहार्षु.विहरन्ति.च । २१.१२ अथापि.विहरिष्यन्ति;एषा.बुद्धेषु.धर्मता ॥ २१.१३ तस्माद्.इहात्म.कामेन.माहात्म्यम्.अभिकाङ्क्षता । २१.१३ सद्.धर्मो.गुरु.कर्तव्यः.स्मरता.बुद्ध.शासनम् ॥ २१.१४ न.श्रद्धास्यन्ति.वै.ये.तु.नरा.बुद्धस्य.शासनम् । २१.१४ व्यसनम्.ते.गमिष्यन्ति.वणिजो.राक्षसीष्व्.इव ॥ २१.१५ श्रद्धास्यन्ति.तु.ये.नित्यम्.नरा.बुद्धस्य.शासनम् । २१.१५ स्वस्तिना.ते.गमिष्यन्ति.वालाहेनैव.वाणिजाः ॥ २१.१६ तथागतम्.बुद्धम्.इह.स्वयम्भुवम्.द्वौ.वै.वितर्कौ.बहुलम्.समुदाचरेते । २१.१६ क्षेमस्.तथैव.प्रविवेक.युक्तस्.तमो.नुदम्.पार.गतम्.महर्षिम् ॥ २१.१७ प्राप्तः.स.चार्यो.वशिताम्.अशेषाम्.विश्वोत्तरः.सर्व.भयाद्.विमुक्तः । २१.१७ तृष्णा.प्रहीणो.विमलो.निराशश्.चालोकयन्.लोक.हिताय.सत्त्वान् ॥ २१.१८ शैले.यथा.पर्वत.मूर्धनि.स्थितो.यथैव.पश्येज्.जनताम्.समन्तात् । २१.१८ तथा.ह्य्.असौ.धर्म.मयम्.सुमेधाः.प्रासादम्.आरुह्य.समन्त.चक्षुः । २१.१८ f: शोकाभिभूताम्.जनताम्.अशोको.अद्राक्षीद्.इमाम्.जाति.जराभिभूताम् ॥ २२ श्रुतवर्ग २२.१ साधु.श्रुतम्.सुचरितम्.साधु.चाप्य्.अनिकेतता । २२.१ प्रदक्षिणम्.प्रव्रज्या.च.श्रामण्यस्यानुलोमिकम् ॥ २२.२ बाला;इहाविजानन्तश्.चरन्ति.ह्य्.अमरा;इव । २२.२ विजानताम्.तु.सद्.धर्मम्.आतुरस्यैव.शर्वरी ॥ २२.३ यथा.ह्य्.अगारम्.सुच्छन्नम्.प्रविश्य.तमसा.स्फुटम् ।[.सु.छ्हन्नम्.] २२.३ विद्यमानानि.रूपाणि.चक्षुष्मान्.हि.न.पश्यति ॥ २२.४ तथैवेह.नरो.नित्यम्.ज्ञानवान्.अपि.यो.भवेत् । २२.४ अश्रुत्वा.न.विजानाति.धर्मान्.कल्याण.पापकान् ॥ २२.५ प्रदीपेन.तु.रूपाणि.चक्षुष्मान्.पश्यते.यथा । २२.५ एवम्.श्रुत्वा.विजानाति.धर्मान्.कल्याण.पापकान् ॥ २२.६ श्रुत्वा.धर्मान्.विजानाति.श्रुत्वा.पापम्.न.सेवते । २२.६ श्रुत्वा.ह्य्.अनर्थम्.वर्जयते.श्रुत्वा.प्राप्नोति.निर्वृतिम् ॥ २२.७ बहु.श्रुतो.अपि.चेद्.भवति.शीलेषु.त्व्.असमाहितः । २२.७ शीलतस्.तम्.विगर्हन्ति.नास्य.सम्पद्यते.श्रुतम् ॥ २२.८ अल्प.श्रुतो.अपि.चेद्.भवति.शीलेषु.सुसमाहितः । २२.८ शीलतस्.तम्.प्रशंसन्ति.तस्य.सम्पद्यते.श्रुतम् ॥ २२.९ अल्प.श्रुतो.अपि.चेद्.भवति.शीलेषु.त्व्.असमाहितः । २२.९ उभयतस्.तम्.विगर्हन्ति.नास्य.सम्पद्यते.व्रतम् ॥ २२.१० बहु.श्रुतो.अपि.चेद्.भवति.शीलेषु.सुसमाहितः । २२.१० उभयतस्.तम्.प्रशंसन्ति.तस्य.सम्पद्यते.व्रतम् ॥ २२.११ बहु.श्रुतम्.धर्म.धरम्.प्राज्ञम्.नित्यम्.समाहितम् । २२.११ निष्कम्.जाम्बुनदस्यैव.कस्.तम्.निन्दितुम्.अर्हति ॥ २२.१२ ये.मे.रूपेण.मिन्वन्ति.ये.मे.घोषेण.चान्वगाः । २२.१२ छन्द.राग.वशोपेता.न.माम्.जानन्ति.ते.जनाः ॥ २२.१२_ ये.रूपेण.प्रमिण्वन्ति.माम्.घोषेणानुयान्ति.च । २२.१२_ छन्द.राग.वशोपेता.न.माम्.जानन्ति.ते.जनाः ॥ २२.१३ आध्यात्मम्.च.न.जानाति.बहिर्धा.तु.विपश्यति । २२.१३ बहिर्धा.फल.दर्शी.तु.स.वै.घोषेण.नीयते ॥ २२.१४ आध्यात्मम्.तु.प्रजानाति.बहिर्धा.च.न.पश्यति । २२.१४ आध्यात्म.फल.दर्शी.तु.स.वै.घोषेण.नीयते ॥ २२.१५ आध्यात्मम्.च.न.जानान्ति.बहिर्धा.च.न.पश्यति । २२.१५ उभयेऽफल.दर्शी.तु.स.वै.घोषेण.नीयते ॥ २२.१६ आध्यात्मम्.च.प्रजानाति.बहिर्धा.च.विपश्यति । २२.१६ स.तु.निह्सरण.प्रज्ञो.न.वै.घोषेण.नीयते ॥ २२.१७ बहु.शृणोति.श्रोत्रेण.बहू.पश्यति.चक्षुषा । २२.१७ न.तद्.दृष्टम्.श्रुतम्.धीरः.सर्वम्.श्रद्धातुम्.अर्हति ॥ २२.१७_ श्रोत्रेण.श्रूयते.बहु.दृश्यते.बहु.चक्षुषा । २२.१७_ न.तद्.दृष्टम्.श्रुतम्.धीरः.सर्वम्.श्रद्धातुम्.अर्हति ॥ २२.१८ विज्ञान.साराणि.सुभाषितानि.ज्ञातम्.श्रुतम्.चैव.समाधि.सारम् । २२.१८ न.तस्य.विज्ञान.श्रुतम्.महार्थम्.यः.साहसो.भवति.नरः.प्रमत्तः ॥ २२.१९ धर्मे.तु.ये.ह्य्.आर्य.निवेदिते.रतास्.तदा.चरन्ते.वचसा.यदाहुः । २२.१९ ते.क्षान्ति.सौरत्य.समाधि.गोचराः.श्रुतस्य.बुद्धेर्.अपि.सारम्.अध्यगुः ॥ २३ आत्मवर्ग २३.१ सुभाषितस्य.शिक्षेत.श्रमणोपासनस्य.च । २३.१ एकासनस्य.च.रहश्.चित्त.व्युपशमस्य.च ॥[.एकासनस्य.] २३.२ एकासनम्.त्व्.एक.शय्याम्.एक.चर्याम्.अतन्द्रितः । २३.२ रमयेच्.चैकम्.आत्मानम्.वनेष्व्.एकः.सदा.वसेत् ॥ २३.३ यः.सहस्रम्.सहस्राणाम्.संग्रामे.द्विषताम्.जयेत् । २३.३ यश्.चात्मानम्.जयेद्.एकम्.संग्रामो.दुजयः.स.वै ॥ २३.४ आत्मा.ह्य्.अस्य.जितः.श्रेयान्.यच्.चेयम्.इतराः.प्रजाः ।[यच्.चेयम्.] २३.४ आत्म.दान्तस्य.पुरुषस्य.नित्यम्.संवृत.चारिणः ॥ २३.५ न.देवा.नापि.गन्धर्वा.न.मारो.ब्राह्मणा.सह । २३.५ जितस्यापजितम्.कुर्युस्.तथा.प्राज्ञस्य.भिक्षुणः ॥ २३.६ आत्मानम्.एव.प्रथमम्.प्रतिरूपे.निवेशयेत् । २३.६ ततो.अन्यम्.अनुशासीत.............यथा.ह्य्.अः. ॥ २३.७ आत्मानम्.एव.प्रथमम्.प्रतिरूपे.निवेशयेत् । २३.७ ततो.अन्यम्.अनुशासीत.न.क्लिश्येत.हि.पण्डितः ॥ २३.८ आत्मानम्.हि.तथा.कुर्यात्.शासीतान्यम्.यथा.स्वयम् । २३.८ सुदान्तो.बत.मे.नित्यम्.आत्मा.स.हि.सुदुर्दमः ॥ २३.९ आत्मानम्.हि.तथा.कुर्यात्.शासीतान्यम्.यथा.स्वयम् । २३.९ आत्मा.दान्तो.मया.नित्यम्.आत्म.दान्तो.हि.पण्डितः ॥ २३.१० आत्मनो.अर्थम्.परार्थेन.बहुनापि.न.हापयेत् । २३.१० आत्मार्थम्.परमम्.ज्ञात्वा.स्वकार्थ.परमो.भवेत् ॥ २३.११ आत्मा.त्व्.इहात्मनो.नाथः.को.नु.नाथः.परो.भवेत् । २३.११ आत्मना.हि.सुदान्तेन.नाथम्.लभति.पण्डितः ॥ २३.१२ आत्मा.त्व्.इहात्मनो.नाथः.को.नु.नाथः.परो.भवेत् । २३.१२ आत्मना.हि.सुदान्तेनार्थम्.लभति.पण्डितः ॥ २३.१३ आत्मा.त्व्.इहात्मनो.नाथः.को.नु.नाथः.परो.भवेत् । २३.१३ आत्मना.हि.सुदान्तेन.धर्मम्.लभति.पण्डितः ॥ २३.१४ आत्मा.त्व्.इहात्मनो.नाथः.को.नु.नाथः.परो.भवेत् । २३.१४ आत्मना.हि.सुदान्तेन.यशो.लभति.पण्डितः ॥ २३.१५ आत्मा.त्व्.इहात्मनो.नाथः.को.नु.नाथः.परो.भवेत् । २३.१५ आत्मना.हि.सुदान्तेन.कीर्तिम्.लभति.पण्डितः ॥ २३.१६ आत्मा.त्व्.इहात्मनो.नाथः.को.नु.नाथः.परो.भवेत् । २३.१६ आत्मना.हि.सुदान्तेन.सुखाम्.लभति.पण्डितः ॥ २३.१७ आत्मा.त्व्.इहात्मनो.नाथः.को.नु.नाथः.परो.भवेत् । २३.१७ आत्मना.हि.सुदान्तेन.स्वर्गम्.लभति.पण्डितः ॥ २३.१८ आत्मा.त्व्.इहात्मनो.नाथः.को.नु.नाथः.परो.भवेत् । २३.१८ आत्मना.हि.सुदान्तेन.चिरम्.स्वर्गे.प्रतिष्ठति ॥ २३.१९ आत्मा.त्व्.इहात्मनो.नाथः.को.नु.नाथः.परो.भवेत् । २३.१९ आत्मना.हि.सुदान्तेन.प्रज्ञाम्.लभति.पण्डितः ॥ २३.२० आत्मा.त्व्.इहात्मनो.नाथः.को.नु.नाथः.परो.भवेत् । २३.२० आत्मना.हि.सुदान्तेन.ज्ञाति.मध्ये.विरोचते ॥ २३.२१ आत्मा.त्व्.इहात्मनो.नाथः.को.नु.नाथः.परो.भवेत् । २३.२१ आत्मना.हि.सुदान्तेन.शोक.मध्ये.न.शोचति ॥ २३.२२ आत्मा.त्व्.इहात्मनो.नाथः.को.नु.नाथः.परो.भवेत् । २३.२२ आत्मना.हि.सुदान्तेन.सर्वम्.छिन्दति.बन्धनम् ॥ २३.२३ आत्मा.त्व्.इहात्मनो.नाथः.को.नु.नाथः.परो.भवेत् । २३.२३ आत्मना.हि.सुदान्तेन.सर्वास्.त्यजति.दुर्गतीः ॥ २३.२४ आत्मा.त्व्.इहात्मनो.नाथः.को.नु.नाथः.परो.भवेत् । २३.२४ आत्मना.हि.सुदान्तेन.सर्व.दुह्खात्.प्रमुच्यते ॥ २३.२५ आत्मा.त्व्.इहात्मनो.नाथः.को.नु.नाथः.परो.भवेत् । २३.२५ आत्मना.हि.सुदान्तेन.निर्वाणस्यैव.सो.अन्तिके ॥ २४ पेयालवर्ग २४.१ यच्.च.गाथा.शतम्.भाषेद्.अनर्थ.पद.संहितम् । २४.१ एकम्.अर्थ.पदम्.श्रेयो.यत्.श्रुत्वा.ह्य्.उपशाम्यति ॥ २४.२ यच्.च.गाथा.शतम्.भाषेद्.अधर्म.पद.संहितम् । २४.२ एकम्.धर्म.पदम्.श्रेयो.यत्.श्रुत्वा.ह्य्.उपशाम्यति ॥ २४.३ यच्.च.वर्ष.शतम्.जीवेद्.दुह्शीलो.ह्य्.असमाहितः । २४.३ एकाहम्.जीवितम्.श्रेयः.सदा.शीलवतः.शुचेः ॥ २४.४ यच्.च.वर्ष.शतम्.जीवेद्.दुष्प्रज्ञो.ह्य्.असमाहितः । २४.४ एकाहम्.जीवितम्.श्रेयः.प्राज्ञस्य.ध्यायिनः.सदा ॥ २४.५ यच्.च.वर्ष.शतम्.जीवेत्.कुसीदो.हीन.वीर्यवान् । २४.५ एकाहम्.जीवितम्.श्रेयो.वीर्यम्.आरभतो.दृढम् ॥ २४.६ यच्.च.वर्ष.शतम्.जीवेद्.अपश्यन्न्.उदय.व्ययम् । २४.६ एकाहम्.जीवितम्.श्रेयः.पश्यतो.ह्य्.उदय.व्ययम् ॥ २४.७ यच्.च.वर्ष.शतम्.जीवेद्.अपश्यन्.वेदना.क्षयम् । २४.७ एकाहम्.जीवितम्.श्रेयः.पश्यतो.वेदना.क्षयम् ॥ २४.८ यच्.च.वर्ष.शतम्.जीवेद्.अपश्यन्न्.आस्रव.क्षयम् । २४.८ एकाहम्.जीवितम्.श्रेयः.पश्यतो.ह्य्.आस्रव.क्षयम् ॥ २४.९ यच्.च.वर्ष.शतम्.जीवेद्.अपश्यन्न्.अचलम्.पदम् । २४.९ एकाहम्.जीवितम्.श्रेयः.पश्यतो.ह्य्.अचलम्.पदम् ॥ २४.१० यच्.च.वर्ष.शतम्.जीवेद्.अपश्यन्न्.अच्युतम्.पदम् । २४.१० एकाहम्.जीवितम्.श्रेयः.पश्यतो.ह्य्.अच्युतम्.पदम् ॥ २४.११ यच्.च.वर्ष.शतम्.जीवेद्.अपश्यन्न्.अरजः.पदम् । २४.११ एकाहम्.जीवितम्.श्रेयः.पश्यतो.ह्य्.अरजः.पदम् ॥ २४.१२ यच्.च.वर्ष.शतम्.जीवेद्.अपश्यन्.विरजः.पदम् । २४.१२ एकाहम्.जीवितम्.श्रेयः.पश्यतो.विरजः.पदम् ॥ २४.१३ यच्.च.वर्ष.शतम्.जीवेद्.अपश्यन्.दुर्दृशम्.पदम् । २४.१३ एकाहम्.जीवितम्.श्रेयः.पश्यतो.दुर्दृशम्.पदम् ॥ २४.१४ यच्.च.वर्ष.शतम्.जीवेद्.अपश्यन्न्.उत्तमम्.पदम् । २४.१४ एकाहम्.जीवितम्.श्रेयः.पश्यतो.ह्य्.उत्तमम्.पदम् ॥ २४.१५ यच्.च.वर्ष.शतम्.जीवेद्.अपश्यन्न्.अमृतम्.पदम् । २४.१५ एकाहम्.जीवितम्.श्रेयः.पश्यतो.ह्य्.अमृतम्.पदम् ॥ २४.१६ यच्.च.वर्ष.शतम्.पूर्णम्.अग्निम्.परिचरेद्.वने । २४.१६ यच्.चैकम्.भावितात्मानम्.मुहूर्तम्.अपि.पूजयेत् । २४.१६ f: सा.तस्य.पूजना.श्रेष्ठा.न.तद्.वर्ष.शतम्.हुतम् ॥ २४.१७ मासे.मासे.कुशाग्रेण.यो.हि.भुञ्जीत.भोजनम् । २४.१७ न.तद्.बुद्धे.प्रसादस्य.कलाम्.अर्घति.षोडशीम् ॥ २४.१८ मासे.मासे.कुशाग्रेण.यो.हि.भुञ्जीत.भोजनम् । २४.१८ न.तद्.धर्मे.प्रसादस्य.कलाम्.अर्घति.षोडशीम् ॥ २४.१९ मासे.मासे.कुशाग्रेण.यो.हि.भुञ्जीत.भोजनम् । २४.१९ न.तद्.संघे.प्रसादस्य.कलाम्.अर्घति.षोडशीम् ॥ २४.२० मासे.मासे.कुशाग्रेण.यो.हि.भुञ्जीत.भोजनम् । २४.२० न.तत्.शीले.प्रसादस्य.कलाम्.अर्घति.षोडशीम् ॥ २४.२० मासे.मासे.कुशाग्रेण.यो.हि.भुञ्जीत.भोजनम् । २४.२० न.तम्.मैत्रस्य.चित्तस्य.कलाम्.अर्घति.षोडशीम् ॥ २४.२० मासे.मासे.कुशाग्रेण.यो.हि.भुञ्जीत.भोजनम् । २४.२० न.तत्.सत्त्वानुकम्पायाः.कलाम्.अर्घति.षोडशीम् ॥ २४.२० मासे.मासे.कुशाग्रेण.यो.हि.भुञ्जीत.भोजनम् । २४.२० न.तत्.प्राणानुकम्पायाः.कलाम्.अर्घति.षोडशीम् ॥ २४.२०ड् मासे.मासे.कुशाग्रेण.यो.हि.भुञ्जीत.भोजनम् । २४.२०ड् न.तद्.भूतानुकम्पायाः.कलाम्.अर्घति.षोडशीम् ॥ २४.२० मासे.मासे.कुशाग्रेण.यो.हि.भुञ्जीत.भोजनम् । २४.२० न.तत्.स्वाख्यात.धर्मस्य.कलाम्.अर्घति.षोडशीम् ॥ २४.२१ मासे.मासे.सहस्रेण.यो.यजेत.समा.शतम् । २४.२१ न.तद्.बुद्धे.प्रसादस्य.कलाम्.अर्घति.षोडशीम् ॥ २४.२२ मासे.मासे.सहस्रेण.यो.जयेत.समा.शतम् । २४.२२ न.तद्.धर्मे.प्रसादस्य.कलाम्.अर्घति.षोडशीम् ॥ २४.२३ मासे.मासे.सहस्रेण.यो.यजेत.समा.शतम् । २४.२३ न.तद्.संघे.प्रसादस्य.कलाम्.अर्घति.षोडशीम् ॥ २४.२४ मासे.मासे.सहस्रेण.यो.यजेत.समा.शतम् । २४.२४ न.तत्.शीले.प्रसादस्य.कलाम्.अर्घति.षोडशीम् ॥ २४.२५ मासे.मासे.सहस्रेण.यो.यजेत.समा.शतम् । २४.२५ न.तम्.मैत्रस्य.चित्तस्य.कलाम्.अर्घति.षोडशीम् ॥ २४.२६ मासे.मासे.सहस्रेण.यो.यजेत.समा.शतम् । २४.२६ न.तद्.सत्त्वानुकम्पायाः.कलाम्.अर्घति.षोडशीम् ॥ २४.२७ मासे.मासे.सहस्रेण.यो.यजेत.समा.शतम् । २४.२७ न.तत्.प्राणानुकम्पायाः.कलाम्.अर्घति.षोडशीम् ॥ २४.२८ मासे.मासे.सहस्रेण.यो.यजेत.समा.शतम् । २४.२८ न.तद्.भूतानुकम्पायाः.कलाम्.अर्घति.षोडशीम् ॥ २४.२९ मासे.मासे.सहस्रेण.यो.यजेत.समा.शतम् । २४.२९ न.तत्.स्वाख्यात.धर्मस्य.कलाम्.अर्घति.षोडशीम् ॥ २४.३० यत्.किंचिद्.इष्टम्.च.हुतम्.च.लोके.संवत्सरम्.यजति.पुण्य.प्रेक्षी । २४.३० सर्वम्.पि.तम्.न.चतुर्.भागम्.एत्यभिवादनम्.त्व्.ऋज्जु.गतेषु.श्रेयः ॥ २५ मित्रवर्ग २५.१ अश्राद्धेभिः.कदर्येभिः.पिषुनैर्.विभूति.नन्दिभिः । २५.१ साख्यम्.कुर्वीत.न.प्राज्ञः.संगतिः.पापैर्.हि.पापिका ॥ २५.२ श्राद्धेभिः.पेशलेभिश्.च.शीलवद्भिर्.बहु.श्रुतैः । २५.२ साख्यम्.कुर्वीत.सप्रज्ञः.संगतिर्.भद्रैर्.हि.भद्रिका ॥? २५.३ न.भजेत्.पापकम्.मित्रम्.न.भजेत्.पुरुषाधमम् । २५.३ भजेत.मित्रम्.कल्याणम्.भजेद्.उत्तम.पूरुषम् ॥ २५.४ अद्धा.नराः.सेवितव्याः.श्रुताढ्याः.स्थान.चिन्तकाः । २५.४ तेषाम्.हि.श्रुत्वा.तु.सुभाषितानि.विनापि.तेभ्यो.लभते.विशेषम् ॥ २५.५ हीयति.पुरुषो.निहीन.सेवी.न.तु.खलु.हायेत.तुल्य.सेवी । २५.५ श्रेष्ठम्.उपगतो.ह्य्.उपैति.श्रैष्ठ्यम्.तस्मात्.श्रेष्ठम्.इहात्मनो.भजेत ॥ २५.६ श्रेयो.हि.लभते.नित्यम्.यः.श्रेष्ठान्.उपसेवते । २५.६ प्रज्ञया.चोत्तमतमान्.शीलेनोपशमेन.च ॥ २५.७ पूति.मत्स्यान्.कुशाग्रेण.यो.नरो.ह्य्.उपनह्यते । २५.७ कुशापि.पूतिका.वान्ति.ह्य्.एवम्.पापोपसेवनाः ॥ २५.८ तगरम्.पलाश.पत्त्रेण.यो.नरो.ह्य्.उपनह्यति । २५.८ पत्त्राण्य्.अपि.सुगन्धीनि.सद्.एवम्.संगमात्.सताम् ॥ २५.९ अकुर्वन्न्.अपि.पापानि.कुर्वाणम्.उपसेवते । २५.९ शङ्कितो.भवति.पापस्यावर्णश्.चास्य.वर्धते ॥ २५.१० संसेवमानः.पापो.हि.संस्पृष्टः.संस्पृशेत्.परान् । २५.१० शरो.लिप्तः.कलापस्थान्.अलिप्तान्.उपलिम्पति । २५.१० f: उपलेप.भयाद्.धीरो.नैव.पाप.सखा.भवेत् ॥ २५.११ यादृशम्.कुरुते.मित्रम्.यादृशम्.चोपसेवते । २५.११ न.चिरात्.तादृशो.भवति.संसेवा.ह्य्.अस्य.तादृशी ॥ २५.१२ तस्मात्.फल.पुटस्यैव.दृष्ट्वा.सम्पाकम्.आत्मनः । २५.१२ असन्तो.नोपसेवेत.सन्तः.सेवेत.पण्डितः ॥ २५.१३ यावज्.जीवम्.पि.चेद्.बालः.पण्डितान्.पर्युपासते । २५.१३ न.स.धर्मम्.विजानाति.दर्वी.सूप.रसान्.इव ॥ २५.१४ मुहूर्तम्.अपि.सप्रज्ञः.पण्डितान्.पर्युपासते । २५.१४ स.वै.धर्मम्.विजानाति.जिह्वा.सूप.रसान्.इव ॥ २५.१५ यावज्.जीवम्.पि.चेद्.बालः.पण्डितान्.पर्युपासते । २५.१५ न.स.धर्मम्.विजानाति.प्रज्ञा.ह्य्.अस्य.न.विद्यते ॥ २५.१६ मुहूर्तम्.अपि.सप्रज्ञः.पण्डितान्.पर्युपासते । २५.१६ स.वै.धर्मम्.विजानाति.प्रज्ञा.तस्य.हि.विद्यते ॥ २५.१७ यावज्.जीवम्.पि.चेत्.बालः.पण्डितान्.पर्युपासते । २५.१७ न.स.धर्मम्.विजानाति.सम्यक्.सम्बुद्ध.देशितम् ॥ २५.१८ मुहूर्तम्.अपि.सप्रज्ञः.पण्डितान्.पर्युपासते । २५.१८ स.वै.धर्मम्.विजानाति.सम्यक्.सम्बुद्ध.देशितम् ॥ २५.१९ एकम्.अर्थ.पदम्.प्रोक्तम्.पण्डितस्यार्थ.कारकम् । २५.१९ बालस्य.तु.न.कृत्याय.स्यात्.सर्वम्.बुद्ध.भाषितम् ॥ २५.२० बालः.पद.सहस्रेण.पदम्.एकम्.न.बुध्यते । २५.२० पदेनैकेन.मेधावी.पदानाम्.विन्दते.शतम् ॥ २५.२१ अमित्रः.पण्डितः.श्रेयान्.न.तु.बालो.अनुकम्पकः । २५.२१ बालो.अनुकम्पमानो.हि.नरकान्.उपकर्षति ॥ २५.२२ यो.जानीयाद्.अहम्.बाल;इति.बालः.स.पण्डितः । २५.२२ बालः.पण्डित.मानी.तु.बाल;एव.निरुच्यते ॥ २५.२३ यच्.च.बालः.प्रशंसेत.यच्.च.निन्देत.पण्डितः । २५.२३ निन्दा.तु.पण्डितात्.श्रेष्ठा.न.तु.बालात्.प्रशंसना ॥ २५.२४ बालम्.न.पश्येत्.शृणुयान्.न.च.नो.तेन.संवसेत् । २५.२४ दुह्खो.बालैर्.हि.संवासो.ह्य्.अमित्रेणैव.सर्वशः । २५.२४ f: धीरैस्.तु.सुख.संवासो.ज्ञातीनाम्.इव.संगमः ॥ २५.२५ धीरम्.प्राज्ञम्.निषेवेत.शीलवन्तम्.बहु.श्रुतम् । २५.२५ धौरेयम्.जव.सम्पन्नम्.चन्द्रम्.तारा.गणा;इव ॥[.धैरेयम्.]? २६ निर्वाणवर्ग २६.१ कूर्मो.यथाङ्गानि.स्वके.कपाले.समादधीतात्म.वितर्कितानि । २६.१ अनिह्श्रितो.ह्य्.अन्यम्.अहेठयानः.परिनिर्वृतो.नापवदेत.कंचित् ॥ २६.२ क्षान्तिः.परमम्.तपस्.तितीक्षा.निर्वाणम्.परमम्.वदन्ति.बुद्धाः ।[.तितिक्षा.] २६.२ न.हि.प्रव्रजितः.परोपतापी.श्रमणो.भवति.परम्.विहेठयन्.वै ॥ २६.३ मा.कंचित्.परुषम्.ब्रूथः.प्रोक्ताः.प्रतिवदन्ति.तम् । २६.३ दुह्खा.हि.संरम्भ.कथाः.प्रतिदण्डम्.स्पृशन्ति.हि ॥ २६.४ यद्.ईरयसि.हात्मानम्.कंसीवोपहता.सदा । २६.४ जाति.मरण.संसारम्.चिरम्.ह्य्.अनुभविष्यसि ॥ २६.५ न.त्व्.ईरयसि.हात्मानम्.कंसिर्.नोपहता.यथा । २६.५ एष.प्राप्तो.असि.निर्वाणम्.संरम्भस्.ते.न.विद्यते ॥ २६.६ आरोग्य.परमा.लाभा.संतुष्टि.परमम्.धनम् । २६.६ विश्वास.परमम्.मित्रम्.निर्वाण.परमम्.सुखम् ॥ २६.७ क्षुधा.परम.रोगाणाम्.संस्कारा.दुह्खम्.एव.तु ।[.परमा.]? २६.७ एतज्.ज्ञात्वा.यथा.भूतम्.निर्वाण.परमो.भवेत् ॥ २६.८ अल्पकाः.सुगतिम्.यान्ति.बहवो.यान्ति.दुर्गतिम् ॥ २६.८ एतज्.ज्ञात्वा.यथा.भूतम्.निर्वाण.परमो.भवेत् ॥ २६.९ सहेतुम्.सुगतिम्.यान्ति.सहेतुम्.यान्ति.दुर्गतिम् । २६.९ सहेतुम्.परिनिर्वान्ति.ह्य्.एवम्.एतत्.सहेतुकम् ॥ २६.१० गतिर्.मृगाणाम्.प्रवणम्.आकाशम्.पक्षिणाम्.गतिः । २६.१० धर्मो.गतिर्.विभागीनाम्.निर्वाणम्.त्व्.अर्हताम्.गतिः ॥ २६.१० ....... । २६.१० ....... । २६.१० ..........न.संवसेत् । २६.१० ................... । २६.११ न.हीदम्.हीन.वीर्येण.मन्देनाप्य्.अविजानता । २६.११ निर्वाणम्.शक्यम्.अधिगन्तुम्.सर्व.ग्रन्थ.प्रदालनम् ॥ २६.११ ..तः.कामेषु.नि............ । २६.११ ........................... । २६.१२ सिञ्च.भिक्षोर्.इमाम्.नावम्.सिक्ता.लघ्वी.भविष्यति । २६.१२ हित्वा.रागम्.च.दोषम्.च.ततो.निर्वाणम्.एष्यसि ॥ २६.१३ अभूत्.पूर्वे.ततो.नाभून्.नाभूत्.पूर्वे.ततो.ह्य्.अभूत् । २६.१३ न.चाभून्.न.भविष्यति.न.वाप्य्.एतर्हि.विद्यते ॥ २६.१४ दुर्दृशम्.सत्यम्.अचलम्.सुदृशम्.प्रतिविध्यतः । २६.१४ तृष्णा.क्षयम्.पश्यतो.हि.दुह्खस्यान्तो.निरुच्यते ॥ २६.१५ छित्त्वा.तृष्णाम्.प्रशाम्येह.रजः.सर्वम्.समाहितः । २६.१५ विशोषयित्वा.सरिताम्.दुह्खस्यान्तो.निरुच्यते ॥ २६.१६ भित्त्वा.कायम्.च.संज्ञाम्.च.वेदनाम्.व्युपशाम्य.च । २६.१६ विज्ञानास्त.गमम्.लब्ध्वा.दुह्खस्यान्तो.निरुच्यते ॥ २६.१७ दृष्टे.तु.दृष्ट.मात्रेण.श्रुते.च.श्रुत.मात्रता । २६.१७ मते.तथैव.विज्ञाते.दुह्खस्यान्तो.निरुच्यते ॥ २६.१८ एने.मेमे.तथा.दप्फे.दडप्फे.चेति.बुध्यतः । २६.१८ सर्वस्माद्.विरतिः.पापाद्.दुह्खस्यान्तो.निरुच्यते ॥ २६.१९ माशा.तुषा.संशमा.च.सर्वत्र.विरडी.तथा । २६.१९ सर्वस्माद्.विरतिः.पापाद्.दुह्खस्यान्तो.निरुच्यते ॥ २६.२० अनिह्श्रितस्याचलितम्.प्रस्रब्धिश्.चेह.विद्यते । २६.२० न.गतिर्.न.च्युतिश्.चैव.दुह्खस्यान्तो.निरुच्यते ॥ २६.२१ अजाते.सति.जातस्य.वदेन्.निह्सरणम्.सदा । २६.२१ असंस्कृतम्.च.सम्पश्यन्.संस्कृतात्.परिमुच्यते ॥ २६.२२ जातम्.भूतम्.समुत्पन्नम्.कृतम्.संस्कृतम्.अध्रुवम् । २६.२२ जरा.मरण.संघातम्.मोष.धर्म.प्रलोपनम् । २६.२२ f: आहार.नेत्री.प्रभवम्.नालम्.तद्.अभिनन्दितुम् ॥ २६.२३ तस्य.निह्ह्सरणम्.शान्तम्.अतर्कावचरम्.पदम् ।[.अतर्कावचरम्.] २६.२३ निरोधो.दुह्ख.धर्माणाम्.संस्कारोपशमम्.सुखम् ॥ २६.२४ अभिजानाम्य्.अहम्.स्थानम्.यत्र.भूतम्.न.विद्यते । २६.२४ नाकाशम्.न.च.विज्ञानम्.न.सूर्यश्.चन्द्रमा.न.च ॥ २६.२५ नैवागतिर्.न.च.गतिर्.नोपपत्तिश्.च्युतिर्.न.च । २६.२५ अप्रतिष्ठम्.अनालम्बम्.दुह्खान्तः.स.निरुच्यते ॥ २६.२६ यत्र.नापो.न.पृथिवी.तेजो.वायुर्.न.गाहते । २६.२६ न.तत्र.शुक्ला.द्योतन्ति.तमस्.तत्र.न.विद्यते ॥ २६.२७ न.तत्र.चन्द्रमा.भाति.नादित्यो.वै.प्रकाश्यते । २६.२७ यथा.त्व्.इहात्मना.वेत्ति.मुनिर्.मौनेयम्.आत्मनः । २६.२७ f: अथ.रूपाद्.अरूपाच्.च.सर्व.दुह्खात्.प्रमुच्यते ॥ २६.२८ निष्ठा.गतो.ह्य्.असंत्रासी.न.विकन्थी.न.कौकृतिः ।[.विकण्ठी.]? २६.२८ अच्छेत्ता.भव.शल्यानाम्.अन्तिमो.अस्य.समुच्छ्रयः ॥ २६.२९ एषा.हि.परमा.निष्ठा.शान्तम्.पदम्.अनुत्तरम् । २६.२९ क्षयः.सर्व.निमित्तानाम्.प्रदान.पदम्.अच्युतम् ॥ २६.३० तुल्यम्.अतुल्यम्.च.सम्भवम्.भव.संस्कारम्.अवासृजन्.मुनिः । २६.३० आध्यात्म.रतः.समाहितो.ह्य्.अभिनत्.कोशम्.इवाण्ड.सम्भवम् ॥ २६.३१ जयते.दानम्.धर्म.दानम्.च.सर्वम्.जयते.रतिम्.धर्म.रतिंश्.च.सर्वाम् । २६.३१ जयते.बलम्.क्षान्ति.बलम्.च.सर्वम्.जयते.सुखम्.सर्व.तृष्णा.निरोधः ॥ २६.३१_ सर्वम्.दानम्.धर्म.दानम्.जिनाति.सर्वाम्.रतिम्.धर्म.रतिम्.जिनाति । २६.३१_ सर्वम्.बलम्.क्षान्ति.बलम्.जिनाति.तृष्णा.क्षयः.सर्व.सुखम्.जिनाति ॥ २७ पश्यवर्ग .२७.१ सुपश्यम्.पर.वद्यम्.स्याद्.आत्म.वद्यम्.तु.दुर्दृशम् । .२७.१ परः.परस्य.वद्यानि.तूत्पुनाति.बुसम्.यथा ॥ .२७.२ पर.वद्यानुदर्शिनो.नित्यावध्यान.संज्ञिनः । .२७.२ वामा.धर्माः.प्रवर्धन्ते.स.ह्य्.आराद्.धर्म.दर्शनात् ॥ .२७.३ अह्रीकेन.सुजीवम्.स्यात्.काक.शूरेण.ध्वाङ्क्षिणा । .२७.३ प्रस्कन्दिना.प्रगल्भेन.संक्लिष्टम्.त्व्.इह.जीवते ॥ .२७.४ ह्रीमता.त्व्.इह.दुर्जीवम्.नित्यम्.शुचि.गवेषिणा । .२७.४ सुलीनेनाप्रगल्भेन.शुद्धाजीवेन.पश्यता ॥ .२७.५ अन्ध.भूतो.ह्य्.अयम्.लोकस्.तनुको.अत्र.विपश्यतः । .२७.५ शकुन्तो.जाल.मुक्तैव.ह्य्.अल्पम्.स्वर्गेषु.मोदते ॥ .२७.६ मोष.सम्बन्धनो.लोको.भव्य.रूप;इव.दृश्यते । .२७.६ उपधी.बन्धना.बालास्.तमसा.परिवारिताः । .२७.६ f: असत्.सद्.इव.दृश्यते.पश्यतो.नास्ति.किंचनम् ॥ .२७.७ अहम्.कार.सृता.मर्त्याः.पर.कारोपसंहिताः । .२७.७ एतद्.एके.न.जानन्ति.पश्यन्ति.न.हि.शल्यतः ॥ .२७.८ एतत्.तु.शल्यम्.प्रतियत्य.पश्यतो.ह्य्.अध्यवसिता.यत्र.प्रजाः.प्रसक्ताः । .२७.८ अहम्.करोमीति.न.तस्य.हिंस्यात्.परः.करोतीति.न.तस्य.हिंस्यात् ॥ .२७.९ मानोपेतो.ह्य्.अयम्.लोको.मान.सक्तः.सदा.स्थितः । .२७.९ दृष्टिभिश्.चैव.संरब्धः.संसारम्.नातिवर्तते ॥ .२७.१० यत्.प्राप्तम्.यच्.च.प्राप्तव्यम्.रजः.कीर्णम्.इदम्.द्वयम् । .२७.१० आतुर्यम्.इति.तम्.ज्ञात्वा.जह्याद्.विद्वान्.समाहितः ॥ .२७.११ शिक्षा.साराश्.च.ये.सत्त्वा.जीविनो.ब्रह्म.जीविनः । .२७.११ उपस्थान.रतये.च.स;एको.अन्तः.प्रकीर्तितः ॥ .२७.१२ भोक्तव्याः.शुचयः.कामा.न.दोषस्.तेषु.विद्यते । .२७.१२ य;एवम्.दर्शिनो.बाला.द्वितीयो.अन्तः.प्रकीर्तितः ॥ .२७.१३ एताव्.अन्ताव्.अनज्ञाय.त्व्.अतिलीयन्ति.बालिशः । [.अनज्ञाय.]? .२७.१३ अपरे.त्व्.अतिधावन्ति.चक्षुष्मांस्.ताम्.प्रपश्यति ॥ .२७.१४ एताव्.अन्तौ.विदित्वा.तु.नाभवंस्.तत्र.ये.बुधाः । .२७.१४ न.चैव.तेन.मन्यन्ते.वर्त्मस्.तेषाम्.न.विद्यते ॥ .२७.१५ यथा.बुद्बुदिकाम्.पश्येद्.यथा.पश्येन्.मरीचिकाम् । .२७.१५ एवम्.लोकम्.अवेक्षम्.वै.मृत्यु.राजम्.न.पश्यति ॥ .२७.१६ यथा.बुद्बुदिकाम्.पश्येद्.यथा.पश्येन्.मरीचिकाम् । .२७.१६ एवम्.कायम्.अवेक्षम्.वै.मृत्यु.राजम्.न.पश्यति ॥ .२७.१७ पश्यतेमम्.सदा.कायम्.चित्रम्.राज.रथोपमम् । .२७.१७ यत्र.बालाः.प्रमुह्यन्ते.सङ्गो.नास्ति.प्रजानताम् ॥ .२७.१७ पश्यतेमम्.सदा.कायम्.चित्रम्.राज.रथोपमम् । .२७.१७ यत्र.बाला.विषीदन्ति.पण्डितो.अत्र.विरज्यते ॥ .२७.१८ पश्यतेमम्.सदा.कायम्.चित्रम्.राज.रथोपमम् । .२७.१८ यत्र.बाला.विषीदन्ति.यथा.पङ्के.जरद्गवः ॥ .२७.१९ पश्यतेमम्.सदा.कायम्.चित्रम्.राज.रथोपमम् । .२७.१९ यत्र.बालाः.प्रमुह्यन्ते.पण्डितो.अत्र.विरज्यते । .२७.२० पश्य.चित्र.कृतम्.बिम्बम्.अरुकम्.काय.संज्ञितम् । .२७.२० आतुरम्.मोष.संकल्पम्.यस्य.नास्ति.ध्रुव.स्थितिः ॥ .२७.२० ................ । .२७.२० ..........सङ्गो.नास्ति.प्रजानताम् ॥ .२७.२० ................. । .२७.२० ................. । .२७.२१ पश्य.चित्र.कृतम्.बिम्बम्.मणिभिः.कुण्डलैस्.तथा । .२७.२१ अलम्.बालस्य.मोहाय.न.तु.पार.गवेषिणाम् ॥ .२७.२२ पश्य.चित्र.कृतम्.बिम्बम्.मणिभिः.कुण्डलैस्.तथा । .२७.२२ अलम्.बालस्य.मोहाय.पण्डितो.अत्र.विरज्यते ॥ .२७.२२ गन्धेन.गात्राम्.अनुलिप्तः.पादौ.गैरिक.रञ्जितौ । .२७.२२ अलम्.बालस्य.मोहाय.न.तु.पार.गवेषिणाम् ॥ .२७.२२ गन्धेन.गात्राम्.अनुलिप्तः.पादौ.गैरिक.रञ्जितौ । .२७.२२ अलम्.बालस्य.मोहाय.पण्डितो.अत्र.विरज्यते ॥ .२७.२२ पश्य.चित्र.कृतम्.बिम्बम्.मणिभिः.कुण्डलैस्.तथा । .२७.२२ अलम्.बालस्य.मोहाय................ । .२७.२२ड् पश्य.चित्र.कृतम्.बिम्बम्.मणिभिः.कुण्डलैस्.तथा । .२७.२२ड् अलम्.बालस्य.मोहाय................ । .२७.२३ अष्टापदी.कृताः.केशा.नेत्रे.चाञ्जन.रञ्जिते । .२७.२३ अलम्.बालस्य.मोहाय.न.तु.पार.गवेषिणाम् ॥ .२७.२४ अष्टापदी.कृताः.केशा.नेत्रे.चाञ्जन.रञ्जिते । .२७.२४ अलम्.बालस्य.मोहाय.पण्डितो.अत्र.विरज्यते ॥ .२७.२४ ................................ । .२७.२४ अलम्.बालस्य.मोहाय.यस्य.नास्ति.ध्रुव.स्थितिः ॥ .२७.२४ ............................... । .२७.२४ अलम्.बालस्य.मोहाय.सङ्गो.नास्ति.प्रजानताम् ॥ .२७.२५ अञ्जनीव.नवा.चित्रा.पूति.कायो.ह्य्.अलंकृतः । .२७.२५ अलम्.बालस्य.मोहाय.न.तु.पार.गवेषिणाम् ॥ .२७.२६ अञ्जनीव.नवा.चित्रा.पूति.कायो.ह्य्.अलंकृतः । .२७.२६ अलम्.बालस्य.मोहाय.पण्डितो.अत्र.विरज्यते ॥ .२७.२६ गन्धेन.गात्राम्.अनुलिप्तः.पादौ.गैरिक.रञ्जितौ । .२७.२६ अलम्.बालस्य.मोहाय.यस्य.नास्ति.ध्रुव.स्थितिः ॥ .२७.२६ गन्धेन.गात्राम्.अनुलिप्तः.पादौ.गैरिक.रञ्जितौ । .२७.२६ अलम्.बालस्य.मोहाय.सङ्गो.नास्ति.प्रजानताम् ॥ .२७.२६ अञ्जनीव.नवा.चित्रा.पूति.कायो.ह्य्.अलंकृतः । .२७.२६ अलम्.बालस्य.मोहाय.यस्य.नास्ति.ध्रुव.स्थितिः ॥ .२७.२६ड् अञ्जनीव.नवा.चित्रा.पूति.कायो.ह्य्.अलंकृतः । .२७.२६ड् अलम्.बालस्य.मोहाय.सङ्गो.नास्ति.प्रजानताम् ॥ .२७.२७ कामेषु.सक्ताः.सततम्.हि.मूढाः.सम्योजने.वद्यम्.अपश्यमानाः । .२७.२७ न.जातु.सम्योजन.सङ्ग.सक्ता.ह्य्.ओघम्.तरेयुर्.विपुलम्.महान्तम् ॥ .२७.२८ ऊर्ध्वम्.चाधः.सर्वतो.वीत.रागो.ह्य्.अयम्.अहम्.अस्मीति.च.नानुपश्यन् । .२७.२८ एवम्.विमुक्तो.हि.तरेद्.इहौघम्.अतीर्ण.पूर्वम्.ह्य्.अपुनर्.भवाय ॥ .२७.२९ यो.निर्वनगैर्.विमोक्षितः.संवन.मुक्तो.वनम्.एव.धावति । [.निर्वनगैर्.]? .२७.२९ तम्.पश्यथ.पुद्गलम्.त्व्.इमम्.मुक्तो.बन्धनम्.एव.धावति ॥ .२७.३० नेलाङ्गः.श्वेत.संछन्न;एकारो.वर्तते.रथः ।[.नीलाङ्गः.]? .२७.३० अनिघम्.पश्यतायान्तम्.छिन्न.योक्त्रम्.अबन्धनम् ॥ .२७.३१ बहवः.शरणम्.यान्ति.पर्वतांश्.च.वनानि.च । .२७.३१ आरामाम्.वृक्ष.चैत्यांश्.च.मनुष्या.भय.तर्जिताः ॥ .२७.३२ नैतद्द्.हि.शरणम्.क्षेमम्.नैतत्.शरणम्.उत्तमम् । .२७.३२ नैतत्.शरणम्.आगम्य.सर्व.दुह्खात्.प्रमुच्यते ॥ .२७.३३ यस्.तु.बुद्धम्.च.धर्मम्.च.संघम्.च.शरणम्.गतः । .२७.३३ चत्वारि.चार्य.सत्यानि.प्रज्ञया.पश्यते.यदा ॥ .२७.३४ दुह्खम्.दुह्ख.समुत्पादम्.दुह्खस्य.समतिक्रमम् । .२७.३४ आर्यम्.चाष्टाङ्गिकम्.मार्गम्.दुह्खोपशम.गामिनम् ॥ .२७.३५ एतद्द्.हि.शरणम्.क्षेमम्.एतत्.शरणम्.उत्तमम् । .२७.३५ एतत्.शरणम्.आगम्य.सर्व.दुह्खात्.प्रमुच्यते ॥ .२७.३६ पश्यतः.पश्यते.पश्यम्.पश्यते.चाप्य्.अपश्यतः । .२७.३६ अपश्यन्.पश्यते.नैव.पश्यतो.नाप्य्.अपश्यतः ॥ .२७.३७ अनुपश्यनया.च.पश्यना.नानात्वम्.हि.तयोर्.इहोच्यते । .२७.३७ दिवसस्य.यथैव.रात्रिभिः.संधानम्.च.तयोर्.न.विद्यते ॥ .२७.३८ अनुपश्यति.चेन्.न.पश्यति.त्व्.अथ.चेत्.पश्यति.नानुपश्यति । .२७.३८ पश्यन्न्.अयम्.नानुपश्यति.त्व्.अनुपश्यंस्.तु.सदा.न.पश्यति ॥ .२७.३९ पश्यन्.नु.किम्.नानुपश्यते.किम्.अपश्यन्.नानुपश्यते.सदा । .२७.३९ कस्मिन्.सति.हानुपश्यना.कस्मिन्.न.सति.नानुपश्यना ॥ .२७.४० दुह्खम्.यद्.अयम्.न.पश्यति.तद्.अपश्यन्न्.आत्मेति.पश्यति । .२७.४० दुह्खम्.तु.यथा.तथा.प्रपश्यन्न्.अयम्.आत्मेति.सदानुपश्यति ॥ .२७.४१ येनावृतः.पृथग्.जनः.संस्कारान्.दुह्खम्.न.पश्यति । .२७.४१ तस्मिन्.सति.हानुपश्यना.विगतेऽस्मिन्.विगतानुपश्यना ॥ २८ पापवर्ग २८.१ सर्व.पापस्याकरणम्.कुशलस्योपसम्पदः । २८.१ स्व.चित्त.पर्यवदनम्.एतद्.बुद्धस्य.शासनम् ॥ २८.२ ददतः.पुण्यम्.प्रवर्धते.वैरम्.न.क्रियते.च.सम्यमात् । २८.२ कुशली.प्रजहाति.पापकम्.राग.दोष.मोह.क्षयात्.तु.निर्वृतिः ॥ २८.३ सार्धम्.चरन्न्.एककः.सदा.मिश्रो.ह्य्.अन्य.जनेन.वेदकः । २८.३ कुशली.प्रजहाति.पापकम्.क्रौञ्चः.क्षीरपको.यथोदकम् ॥ २८.४ दृष्ट्वा.ह्य्.आदीनवम्.लोके.ज्ञात्वा.धर्म.निरौपधिम् । २८.४ आर्यो.न.रमते.पापे.पापो.न.रमते.शुभे ॥ २८.५ प्रविवेक.रसम्.ज्ञात्वा.रसम्.चोपशमस्य.वै । २८.५ निर्ज्वरो.भवति.निष्पापो.धर्म.प्रीति.रसम्.पिबन् ॥ २८.६ अनवस्रुत.चित्तस्य.त्व्.अनुनहन.चेतसः । २८.६ पुण्य.पाप.प्रहीणस्य.नास्ति.दुर्गतितो.भयम् ॥ २८.७ निषेद्धारम्.प्रवक्तारम्.यज्.जानेद्.वद्य.दर्शिनम् । २८.७ निगृह्य.वादिनम्.धीरम्.तादृशम्.सततम्.भजेत् । २८.७ f: तादृशम्.भजमानस्य.श्रेयो.भवति.न.पापकम् ॥ २८.८ उपशान्तो.ह्य्.उपरतो.मन्द.भाषी.ह्य्.अनुद्धतः । २८.८ धुनाति.पापकान्.धरमान्.द्रुम.पत्त्रम्.यथानिलः ॥ २८.९ यो.ह्य्.अप्रदुष्टस्य.नरस्य.दुष्यते.शुद्धस्य.नित्यम्.विगताङ्गणस्य । २८.९ तम्.एव.बालम्.प्रतियाति.पापम्.क्षिप्तम्.रजः.प्रतिवातम्.यथैव ॥ २८.१० यद्.यत्.करोति.पुरुषस्.तत्.तत्.पश्यति.हात्मनः । २८.१० कल्याण.कारी.कल्याणम्.पाप.कारी.च.पापकम् ॥ २८.११ आत्मना.हि.कृते.पापे.त्व्.आत्मना.क्लिश्यते.सदा । २८.११ आत्मना.त्व्.अकृते.पापे.ह्य्.आत्मनैव.विशुध्यते ॥ २८.१२ अशुद्ध.बुद्धिम्.प्रत्यात्मम्.नान्यो.ह्य्.अन्यम्.विशोधयेत् । २८.१२ अभिमथ्नाति.तम्.पापम्.वज्रम्.अश्म.मणिम्.यथा ॥ २८.१३ चक्षुष्मान्.विषमानीव.विद्यमाने.पराक्रमेत् । २८.१३ पण्डितो.जीव.लोकेऽस्मिन्.पापानि.परिवर्जयेत् ॥ २८.१४ वणिग्.वा.सभयम्.मार्गम्.अल्प.शास्त्रो.महा.धनो । २८.१४ विषम्.जीवित.कामो.वा.पापानि.परिवर्जयेत् ॥ २८.१५ पणौ.चास्य.व्रणो.न.स्याद्.धारयेत्.पाणिना.विषम् । २८.१५ नाव्रणे.क्रामति.विषम्.नास्ति.पापम्.अकुर्वतः ॥ २८.१६ सुकराणि.ह्य्.असाधूनि.स्वात्मनो.ह्य्.अहितानि.च । २८.१६ यद्.वै.हितम्.च.पथ्यम्.च.तद्.वै.परम.दुष्करम् ॥ २८.१७ सुकरम्.साधुना.साधु.साधु.पापेन.दुष्करम् । २८.१७ पापम्.पापेन.सुकरम्.पापम्.आर्येण.दुष्करम् ॥ २८.१८ मधुवद्.मन्यते.बालो.यावत्.पापम्.न.पच्यते । २८.१८ यदा.तु.पच्यते.पापम्.अथ.दुह्खम्.निगच्छति ॥ २८.१९ पापो.अपि.पश्यते.भद्रम्.यावत्.पापम्.न.पच्यते । २८.१९ यदा.तु.पच्यते.पापम्.अथ.पापानि.पश्यति ॥ २८.२० भद्रो.अपि.पश्यते.पापम्.यावद्.भद्रम्.न.पच्यते । २८.२० यदा.तु.पच्यते.भद्रम्.अथ.भद्राणि.पश्यति ॥ २८.२१ कुर्याच्.चेत्.पुरुषः.पापम्.नैनम्.कुर्यात्.पुनः.पुनः । २८.२१ न.तत्र.छन्दम्.कुर्वीत.दुह्खम्.पापस्य.संचयः ॥[.च्छन्दम्.] २८.२२ कुर्यात्.तु.पुरुषः.पुण्यम्.कुर्याच्.चैनम्.पुनः.पुनः । २८.२२ तत्र.छन्दम्.च.कुर्वीत.सुखम्.पुण्यस्य.संचयः ।[.च्छन्दम्.] २८.२३ अभित्वरेत.कल्याणे.पापाच्.चित्तम्.निवारयेत् । २८.२३ धन्धम्.हि.कुर्वतः.पुण्यम्.पापेषु.रमते.मनः ॥[.द्वन्द्वम्.]? २८.२४ अल्पकम्.पि.कृतम्.पापम्.दुह्खाय.परतः.सदा । २८.२४ महते.भवत्य्.अनर्थाय.विषम्.कोष्ठ.गतम्.यथा ॥ २८.२५ अल्पकम्.पि.कृतम्.पुण्यम्.पर.लोके.सुखावहम् । २८.२५ अर्थाय.महते.नित्यम्.सस्यानाम्.इव.संचयः ॥ २८.२६ अदण्डेषु.हि.दण्डेन.यो.अप्रदुष्टेषु.दुष्यते । २८.२६ दशानाम्.अन्यतमम्.स्थानम्.क्षिप्रम्.एव.निगच्छति ॥ २८.२७ ज्ञातीनाम्.वा.विना.भावम्.भोगानाम्.वा.परिक्षयम् । २८.२७ राजतो.ह्य्.उपसर्गम्.वाप्य्.अभ्याख्यानम्.च.दारुणम् ॥ २८.२८ वेदनाम्.कटुकाम्.वापि.शरीरस्य.च.भेदनम्। २८.२८ आबाधम्.वापि.परुषम्.चित्त.क्षेपम्.अथापि.वा ॥ २८.२९ अथ.वास्याप्य्.अगाराणि.ह्य्.अग्निर्.दहति.सर्वथा । २८.२९ भेदात्.कायस्य.चाप्राज्ञो.दशमाम्.दुर्गतिम्.व्रजेत् ॥ २८.३० पापे.तु.कृते.हि.नाश्वसेच्.चिर.कृते.दूर.कृतेऽपि.नाश्वसेत् । २८.३० रहसि.च.कृतेऽपि.नाश्वसेद्.अस्ति.तस्य.विपाक;इति.नाश्वसेत् ॥ २८.३१ पुण्ये.तु.कृते.त्व्.इहाश्वसेच्.चिर.कृते.दूर.कृतेऽपि.चाश्वसेत् । २८.३१ रहसि.च.कृतेऽपि.चाश्वसेद्.अस्ति.तस्य.विपाक;इति.चाश्वसेत् ॥ २८.३२ पापे.तु.कृते.हि.शोचते.चिर.कृते.दूर.कृतेऽपि.शोचते । २८.३२ रहसि.च.कृतेऽपि.शोचतेऽस्ति.तस्य.विपाक;इति.शोचते ॥ २८.३३ पुण्ये.तु.कृते.हि.नन्दते.चिर.कृते.दूर.कृतेऽपि.नन्दते । २८.३३ रहसि.च.कृतेऽपि.नन्दतेऽस्ति.तस्य.विपाक;इति.नन्दते ॥ २८.३४ इह.शोचति.प्रेत्य.शोचति.पाप.कर्मा.ह्य्.उभयत्र.शोचति । २८.३४ स.हि.शोचति.स.प्रशोचति.दृष्ट्वा.कर्म.हि.क्लिष्टम्.आत्मनः ॥ २८.३५ इह.नन्दति.प्रेत्य.नन्दति.कृत.पुण्यो.ह्य्.उभयत्र.नन्दति । २८.३५ स.हि.नन्दति.स.प्रमोदते.दृष्ट्वा.कर्म.विशुद्धम्.आत्मनः ॥ २८.३६ पापे.तु.कृते.हि.शोचते.चिर.कृते.दूर.कृतेऽपि.शोचते । २८.३६ रहसि.च.कृतेऽपि.शोचते.भूयः.शोचति.दुर्गतिम्.गतः ॥ २८.३७ पुण्ये.तु.कृते.हि.नन्दते.चिर.कृते.दूर.कृतेऽपि.नन्दते । २८.३७ रहसि.च.कृतेऽपि.नन्दते.भूयो.नन्दति.सद्गतिम्.गतः ॥ २८.३८ पुण्ये.तु.कृते.हि.मोदते.चिर.कृते.दूर.कृतेऽपि.मोदते । २८.३८ रहसि.च.कृतेऽपि.मोदते.भूयो.मोदति.सद्गतिम्.गतः ॥ २८.३९ कृते.च.पापेऽप्य्.अकृते.च.पुण्ये.धर्मम्.समादाय.विहाय.धर्मम् । २८.३९ बिभेति.मृत्योर्.इह.पाप.कर्मा.भिन्न.प्लवो.मध्य;इवोदकस्य ॥ २८.४० कृतम्.च.पुण्यम्.ह्य्.अकृतम्.च.पापम्.सताम्.च.धर्मश्.चरितः.पुराणः । २८.४० बिभेति.मृत्योर्.न.कदंचिद्.एव.यथैव.नावा.दृढया.तरन्तः ॥ २९ युगवर्ग २९.१ अवभासति.तावत्.स.कृमिर्.यावन्.नोदयते.दिवा.करः । २९.१ वैरोचने.तूद्गते.भृशम्.श्यावो.भवति.न.चावभासते ॥ २९.२ एवम्.भाषितम्.आसि.तार्किकैर्.यावन्.नोदयते.तथा.गतः ।[.आसि.]? २९.२ बुद्ध.प्रतिभासिते.तु.लोके.न.तार्किको.भासति.नास्य.श्रावकः ॥ २९.३ असारे.सार.मतयः.सारे.चासार.संज्ञिनः । २९.३ ते.सारम्.नाधिगच्छन्ति.मिथ्या.संकल्प.गोचराः ॥ २९.४ सारम्.तु.सारतो.ज्ञात्वा.ह्य्.असारम्.चाप्य्.असारतः । २९.४ ते.सारम्.अधिगच्छन्ति.सम्यक्.संकल्प.गोचराः ॥ २९.५ उपातिधावन्ति.हि.सार.बुद्ध्या.नवम्.नवम्.बन्धनम्.आददन्तः । २९.५ पतन्ति.हि.द्योतम्.इवान्ध.काराद्.दृष्ट्ते.श्रुते.चैव.निविष्ट.चित्ताः ॥ २९.६ काङ्क्षा.हि.या.स्याद्.इह.वा.पृथग्.वेह.वेदिका.वा.पर.वेदिका.वा । २९.६ ताम्.ध्यायिनो.विप्रजहन्ति.सर्वा.ह्य्.आतापिनो.ब्रह्मचर्यम्.चरन्तः ॥ २९.७ अनिष्कषायः.काषायम्.यो.वस्त्रम्.परिधास्यति । २९.७ अपेत.दम.सौरत्यो.नासौ.काषायम्.अर्हति ॥ २९.८ यस्.तु.वान्त.कषायः.स्यात्.शीलेषु.सुसमाहितः । २९.८ उपेत.दम.सौरत्यः.स.वै.काषायम्.अर्हति ॥ २९.९ यस्य.दोषाः.समुच्छिन्नास्.ताल.मस्तकवद्.धताः ।[.हताः.] २९.९ स.वान्त.दोषो.मेधावी.साधु.रूपो.निरुच्यते ॥ २९.१० न.नाम.रूप.मात्रेण.वर्ण.पुष्कलया.न.च । २९.१० साधु.रूपो.नरो.भवति.मायावी.मत्सरी.शठः ॥ २९.११ न.वर्ण.रूपेण.नरो.हि.सर्वो.विज्ञायते.नेत्वर.दर्शनेन ।? २९.११ सुसंवृतानाम्.इह.व्यञ्जनेन.त्व्.असंवृता.लोकम्.इमम्.चरन्ति ॥ २९.१२ प्रतिरूपकम्.धूपित.कर्णिका.वा.लोहार्ध.माष;इव.हिरण्यच्.छन्नः । २९.१२ चरन्ति.हैके.परिवारवन्तस्.त्व्.अन्तर्.ह्य्.अशुद्धा.बहि.शोभमानाः ।[.बहिः.शोभमानाः.] २९.१३ मिद्धी.च.यो.भवति.महा.ग्रसश्.च.रात्रिम्.दिवम्.सम्परिवर्त.शायी । २९.१३ महा.वराहैव.निवाप.पुष्टः.पुनः.पुनर्.मन्दम्.उपैति.गर्भम् ॥ २९.१४ मनुजस्य.सदा.स्मृतीमतो.लब्ध्वा.भोजन.मात्र.जानतः ।[.स्मृतिमतो.] २९.१४ तनुकास्य.भवन्ति.वेदनाः.शनकैर्.जीर्यत्यायुः.पालयम् ॥ २९.१५ शुभानुदर्शिनम्.नित्यम्.इन्द्रियैश्.चाप्य्.असंवृतम् । २९.१५ भोजने.चाप्य्.अमात्रज्ञम्.हीनम्.जागरिकासु.च । २९.१५ f: तम्.वै.प्रसहते.रागो.वातो.वृक्षम्.इवाबलम् ॥ २९.१५_ शुभानुपश्यी.विहरन्न्.इन्द्रियैर्.हि;असंवृतः । २९.१५_ भोजने.चाप्य्.अमात्रज्ञः.कुसीदो.हीन.वीर्यवान् । २९.१५ f: तम्.वै.प्रसहते.रागो.वातो.वृक्षम्.इवाबलम् ॥ २९.१५ शुभानुदर्शिनम्.नित्यम्.इन्द्रियैश्.चाप्य्.असंवृतम् । २९.१५ भोजने.चाप्य्.अमात्रज्ञम्.हीनम्.जागरिकासु.च । २९.१५ एf: तम्.वै.प्रसहते.द्वेषो.वातो.वृक्षम्.इवाबलम् ॥ २९.१५ शुभानुदर्शिनम्.नित्यम्.इन्द्रियैश्.चाप्य्.असंवृतम् । २९.१५ भोजने.चाप्य्.अमात्रज्ञम्.हीनम्.जागरिकासु.च । २९.१५ एf: तम्.वै.प्रसहते.मोहो.वातो.वृक्षम्.इवाबलम् ॥ २९.१५ शुभानुदर्शिनम्.नित्यम्.इन्द्रियैश्.चाप्य्.असंवृतम् । २९.१५ भोजने.चाप्य्.अमात्रज्ञम्.हीनम्.जागरिकासु.च । २९.१५ एf: तम्.वै.प्रसहते.मानो.वातो.वृक्षम्.इवाबलम् ॥ २९.१५ शुभानुदर्शिनम्.नित्यम्.इन्द्रियैश्.चाप्य्.असंवृतम् । २९.१५ भोजने.चाप्य्.अमात्रज्ञम्.हीनम्.जागरिकासु.च । २९.१५ एf: तम्.वै.प्रसहते.लोभो.वातो.वृक्षम्.इवाबलम् ॥ २९.१५ शुभानुदर्शिनम्.नित्यम्.इन्द्रियैश्.चाप्य्.असंवृतम् । २९.१५ भोजने.चाप्य्.अमात्रज्ञम्.हीनम्.जागरिकासु.च । २९.१५ एf: तम्.वै.प्रसहते.तृष्णा.वातो.वृक्षम्.इवाबलम् ॥ २९.१६ अशुभानुदर्शिनम्.नित्यम्.इन्द्रियैश्.च.सुसंवृतम् । २९.१६ भोजने.चापि.मात्रज्ञम्.युक्तम्.जागरिकासु.च । २९.१६ f: तम्.न.प्रसहते.रागो.वातः.शैलम्.इव.स्थिरम् ॥ २९.१६_ अशुभानुपश्यी.विरहन्न्.इन्द्रियैर्.हि.सुसंवृतः । २९.१६_ भोजने.चापि.मात्रज्ञः.श्राद्ध;आरब्ध.वीर्यवान् । २९.१६_एf: तम्.न.प्रसहते.रागो.वातः.शैलम्.इव.पर्वतम् ॥ २९.१६ अशुभानुदर्शिनम्.नित्यम्.इन्द्रियैश्.च.सुसंवृतम् । २९.१६ भोजने.चापि.मात्रज्ञम्.युक्तम्.जागरिकासु.च । २९.१६ एf: तम्.न.प्रसहते.द्वेषो.वातः.शैलम्.इव.स्थिरम् ॥ २९.१६ अशुभानुदर्शिनम्.नित्यम्.इन्द्रियैश्.च.सुसंवृतम् । २९.१६ भोजने.चापि.मात्रज्ञम्.युक्तम्.जागरिकासु.च । २९.१६ एf: तम्.न.प्रसहते.मोहो.वातः.शैलम्.इव.स्थिरम् ॥ २९.१६ अशुभानुदर्शिनम्.नित्यम्.इन्द्रियैश्.च.सुसंवृतम् । २९.१६ भोजने.चापि.मात्रज्ञम्.युक्तम्.जागरिकासु.च । २९.१६ एf: तम्.न.प्रसहते.मानो.वातः.शैलम्.इव.स्थिरम् ॥ २९.१६ अशुभानुदर्शिनम्.नित्यम्.इन्द्रियैश्.च.सुसंवृतम् । २९.१६ भोजने.चापि.मात्रज्ञम्.युक्तम्.जागरिकासु.च । २९.१६ एf: तम्.न.प्रसहते.लोभो.वातः.शैलम्.इव.स्थिरम् ॥ २९.१६ अशुभानुदर्शिनम्.नित्यम्.इन्द्रियैश्.च.सुसंवृतम् । २९.१६ भोजने.चापि.मात्रज्ञम्.युक्तम्.जागरिकासु.च । २९.१६ एf: तम्.न.प्रसहते.तृष्णा.वातः.शैलम्.इव.स्थिरम् ॥ २९.१७ रमणीयान्य्.अरण्यानि.न.चात्र.रमते.जनः । २९.१७ वीत.रागात्र.रंस्यन्ते.न.तु.काम.गवेषिणः ॥ २९.१८ ग्रामे.वा.यदि.वारण्ये.निम्ने.वा.यदि.वा.स्थले । २९.१८ यत्रार्हन्तो.विहरन्ति.ते.देशा.रमणीयकाः ॥ २९.१९ दूरात्.सन्तः.प्रकाश्यन्ते.हिमवान्.इव.पर्वतः । २९.१९ असन्तो.न.प्रकाश्यन्ते.रात्रि.क्षिप्ताः.शरा.यथा ॥ २९.२० सद्भिर्.एव.सहासीत.पण्डितैर्.अर्थ.चिन्तकैः । २९.२० अर्थम्.महान्तम्.गम्भीरम्.प्रज्ञया.प्रतिविध्यते ॥ २९.२१ अहम्.नाग;इव.संग्रामे.चापाद्.उत्पतितान्.शरान् । २९.२१ अतिवाक्यम्.तितीक्षामि.दुह्शीलो.हि.महा.जनः ॥[.तितिक्षामि.] २९.२२ भवे.चाहम्.भयम्.दृष्ट्वा.भूयश्.च.विभवम्.भवे । २९.२२ तस्माद्.भवम्.नाभिनन्दे.नन्दी.च.विभवेन.मे ॥ २९.२३ अश्राद्धश्.चाकृतज्ञश्.च.संधिच्.छेत्ता.च.यो.नरः ।[.अश्रद्धश्.च.] २९.२३ हतावकाशो.वान्ताशः.स.वै.तूत्तम.पूरुषः ॥ २९.२४ मातरम्.पितरम्.हत्वा.राजानम्.द्वौ.च.श्रोत्रियौ । २९.२४ राष्ट्रम्.सानुचरम्.हत्वानिघो.याति.ब्राह्मणः ॥ २९.२५ येषाम्.सन्निचयो.नास्ति.ये.परिज्ञात.भोजनाः । २९.२५ शुन्यता.चानिमित्तम्.च.विवेकश्.चैव.गोचरः ।[.शून्यता.] २९.२५ f: आकाशैव.शकुन्तानाम्.पदम्.तेषाम्.दुरन्वयम् ॥ २९.२६ येषाम्.सन्निचयो.नास्ति.ये.परिज्ञात.भोजनाः । २९.२६ शुन्यता.चानिमित्तम्.च.विवेकश्.चैव.गोचरः ।[.शून्यता.] २९.२६ f: आकाशैव.शकुन्तानाम्.गतिस्.तेषाम्.दुरन्वया ॥ २९.२७ येषाम्.सन्निचयो.नास्ति.ये.परिज्ञात.भोजनाः । २९.२७ शुन्यता.चानिमित्तम्.च.समाधिश्.चैव.गोचरः ।[.शून्यता.] २९.२७ f: आकाशैव.शकुन्तानाम्.पदम्.तेषाम्.दुरन्वयम् ॥ २९.२८ येषाम्.सन्निचयो.नास्ति.ये.परिज्ञात.भोजनाः । २९.२८ शुन्यता.चानिमित्तम्.च.समाधिश्.चैव.गोचरः ।[.शून्यता.] २९.२८ f: आकाशैव.शकुन्तानाम्.गतिस्.तेषाम्.दुरन्वया ॥ २९.२९ येषाम्.भवः.परिक्षीणो.ह्य्.अपरान्तम्.च.नाश्रिताः । २९.२९ शुन्यता.चानिमित्तम्.च.विवेकश्.चैव.गोचरः ।[.शून्यता.] २९.२९ f: आकाशैव.शकुन्तानाम्.पदम्.तेषाम्.दुरन्वयम् ॥ २९.३० येषाम्.भवः.परिक्षीणो.ह्य्.अपरान्तम्.च.नाश्रिताः । २९.३० शुन्यता.चानिमित्तम्.च.विवेकश्.चैव.गोचरः ।[.शून्यता.] २९.३० f: आकाशैव.शकुन्तानाम्.गतिस्.तेषाम्.दुरन्वया ॥ २९.३१ येषाम्.भवः.परिक्षीणो.ह्य्.अपरान्तम्.च.नाश्रिताः । २९.३१ शुन्यता.चानिमित्तम्.च.समाधिश्.चैव.गोचरः ।[.शून्यता.] २९.३१ f: आकाशैव.शकुन्तानाम्.पदम्.तेषाम्.दुरन्वयम् ॥ २९.३२ येषाम्.भवः.परिक्षीणो.ह्य्.अपरान्तम्.च.नाश्रिताः । २९.३२ शुन्यता.चानिमित्तम्.च.समाधिश्.चैव.गोचरः ।[.शून्यता.] २९.३२ f: आकाशैव.शकुन्तानाम्.गतिस्.तेषाम्.दुरन्वया ॥ २९.३३ अल्पकास्.ते.मौष्येषु.ये.जनाः.पारगामिनः । २९.३३ अथेयम्.इतराः.प्रजास्.तीरम्.एवानुधावति ॥ २९.३४ ये.तर्हि.सम्यग्.आख्याते.धर्मे.धर्मानुदर्शिनः । २९.३४ ते.जनाः.पारम्.एष्यन्ति.मृत्यु.धेयस्य.सर्वशः ॥ २९.३५ गताध्वानो.विशोकस्य.विप्रमुक्तस्य.तायिनः । २९.३५ सर्व.ग्रन्थ.प्रहीणस्य.परिदाघो.न.विद्यते ॥ २९.३६ उत्तीर्णः.सभयो.मार्गः.पातालः.परिवर्जितः । २९.३६ मुक्तो.योगैस्.तथा.ग्रन्थैः.सर्वम्.राग.विषम्.हतम् ॥ २९.३७ नास्ति.काम.समो.ह्य्.ओघो.नास्ति.दोष.समो.ग्रहः । २९.३७ नास्ति.मोह.समम्.जालम्.नास्ति.तृष्टा.समा.नदी ॥ २९.३८ आकाशे.तु.पदम्.नास्ति.श्रमणो.नास्ति.बाह्यकः । २९.३८ प्रपञ्चाभिरता.बाला.निष्प्रपञ्चास्.तथागताः ॥ २९.३९ योगैः.समुह्यते.बालो.योगान्.नुदति.पण्डितः । २९.३९ योगान्.प्रणुद्य.मेधावी.ये.दिव्या.ये.च.मानुषाः ॥ २९.४० योगाद्.भवः.प्रभवति.वियोगाद्.भव.संक्षयः । २९.४० एतद्.द्वैधा.पथम्.ज्ञात्वा.भवाय.विभवाय.च । २९.४० f: तत्र.शिक्षेत.मेधावी.यत्र.योगान्.अतिक्रमेत् ॥ २९.४१ अकृतम्.कुकृतात्.श्रेयः.पश्चात्.तपति.दुष्कृतम् । २९.४१ शोचते.दुष्कृतम्.कृत्वा.शोचते.दुर्गतिम्.गतः ॥ २९.४२ कृतम्.तु.सुकृतम्.श्रेयो.यत्.कृत्वा.नानुतप्यते । २९.४२ नन्दते.सुकृतम्.कृत्वा.नन्दते.सुगतिम्.गतः ॥ २९.४३ नाभाषमाना.ज्ञायन्ते.मिश्रा.बालैर्.हि.पण्डिताः । २९.४३ ज्ञायन्ते.भाषमानास्.तु.देषयन्तो.अरजः.पदम् ॥ २९.४४ भाषयेद्.द्योतयेद्.धर्मम्.उच्छ्रयेद्.ऋषिणाम्.ध्वजम् । २९.४४ सुभाषित.ध्वजा.नित्यम्.ऋषयोर्.धर्म.गौरवाः ॥ २९.४५ निन्दन्ति.तुष्णिम्.आसीनम्.निन्दन्ति.बहु.भाषिणम् ।[.तूष्णीम्.आसीनम्.] २९.४५ अल्प.भाणिम्.च.निन्दन्ति.नास्ति.लोकेष्व्.अनिन्दितः ॥ २९.४६ एकान्त.निन्दितः.पुरुषः.एकान्तम्.वा.प्रशंसितः । २९.४६ नाभूद्.भविष्यति.च.नो.न.चाप्य्.एतर्हि.विद्यते ॥ २९.४७ यम्.तु.विज्ञाः.प्रशंसन्ति.ह्य्.अनुयुज्य.शुभाशुभम् । २९.४७ प्रशंसा.सा.समाख्याता.न.त्व्.अज्ञैर्.यः.प्रशंसितः ॥ २९.४८ मेधाविनम्.वृत्त.युक्तम्.प्राज्ञम्.शीलेषु.संवृतम् । २९.४८ निष्कम्.जाम्बुनदस्यैव.कस्.तम्.निन्दितुम्.अर्हति ॥ २९.४९ शैलो.यथाप्य्.एक.घनो.वायुना.न.प्रकम्प्यते । २९.४९ एवम्.निन्दा.प्रशंसाभिर्.न.कम्प्यन्ते.हि.पण्डिताः ॥ २९.५० यस्य.मूले.त्वचा.नास्ति.पर्णा.नास्ति.तथा.लताः । २९.५० तम्.धीरम्.बन्धनान्.मुक्तम्.कस्.तम्.निन्दितुम्.अर्हति ॥ २९.५१ यस्य.ह.प्रपञ्चितम्.हि.नो.सत्.संतानम्.परिखम्.च.यो.निवृत्तः । २९.५१ तृष्णा.विगतम्.मुनिम्.चरन्तम्.न.विजानाति.सदेवको.अपि.लोकः ॥ २९.५२ यस्य.जितम्.नोपजीयते.जितम्.अन्वेति.न.कंचिद्.एव.लोके । २९.५२ तम्.बुद्धम्.अनन्त.गोचरम्.ह्य्.अपदम्.केन.पदेन.नेष्यसि ॥ २९.५३ यस्य.जालिनी.विषक्तिका.तृष्णा.नास्ति.हि.लोक.नायिनी । २९.५३ तम्.बुद्धम्.अनन्त.गोचरम्.ह्य्.अपदम्.केन.पदेन.नेष्यसि ॥ २९.५४ यस्य.मूलम्.क्षितौ.नास्ति.पर्णा.नास्ति.तथा.लताः । २९.५४ तम्.धीरम्.बन्धनान्.मुक्तम्.को.नु.निन्दितुम्.अर्हति ॥ २९.५५ यस्य.जालिनी.विषक्तिका.तृष्णा.नास्ति.हि.लोक.नायिनी । २९.५५ तम्.बुद्धम्.अनन्त.विक्रमम्.ह्य्.अपदम्.केन.पदेन.नेष्यसि ॥ २९.५६ यस्य.वितर्का.विधूपितास्.त्व्.आध्यात्मम्.विनिवर्तिता.ह्य्.अशेषम् । २९.५६ स.हि.सङ्गम्.अतीत्य.सर्व.संज्ञाम्.योगापेतम्.अतीर्ण.सङ्गम्.एति ॥ २९.५७ मुञ्च.पुरतो.मुञ्च.पश्चतो.मध्ये.मुञ्च.भवस्य.पारगः.[.पश्चातो.] २९.५७ सर्वत्र.विंकुत.मानसो.न.पुनर्.जाति.जराम्.उपेष्यसि ॥ ३० सुखवर्ग ३०.१ जयाद्.वैरम्.प्रसवते.दुह्खम्.शेते.पराजितः । ३०.१ उपशान्तः.सुखम्.शेते.हित्वा.जय.पराजयौ ॥ ३०.२ पर.दुह्खोपधानेन.य;इच्छेत्.सुखम्.आत्मनः । ३०.२ वैर.संसर्ग.संसक्तो.दुह्खान्.न.परिमुच्यते ॥ ३०.३ सुख.कामानि.भूतानि.यो.दण्डेन.विहिंषति । ३०.३ आत्मनः.सुखम्.एषाणः.स.वै.न.लभते.सुखम् ॥ ३०.४ सुख.कामानि.भूतानि.यो.दण्डेन.न.हिंसति । ३०.४ आत्मनः.सुखम्.एषाणः.स.प्रेत्य.लभते.सुखम् ॥ ३०.५ धर्मम्.चरेत्.सुचरितम्.नैनम्.दुश्चरितम्.चरेत् । ३०.५ धर्म.चारी.सुखम्.शेते.ह्य्.अस्मिन्.लोके.परत्र.च ॥ ३०.६ धर्मः.सदा.रक्षति.धर्म.चारिणम्.छत्रम्.महद्.वर्ष.काले.यथैव । ३०.६ एषानुशंसो.धर्मे.सुचीर्णे.न.दुर्गतिम्.गच्छति.धर्म.चारी ॥ ३०.७ धर्मः.सदा.रक्षति.धर्म.चारिणम्.धर्मः.सुचीर्णः.सुखम्.आदधाति । ३०.७ एषानुशंसो.धर्मे.सुचीर्णे.न.दुर्गतिम्.गच्छति.धर्म.चारी ॥ ३०.८ अल्पापि.सन्तो.बहवो.जयन्ति.सुसंविधाने.न.संविधानम् । ३०.८ अल्पम्.अपि.चेत्.श्रद्दधानो.ददाति.तेनैवासौ.भवति.सुखी.परत्र ॥ ३०.९ दानम्.च.युद्धम्.च.समानम्.आहुर्.नैते.गुणाः.कापुरुषेव.सन्ति । ३०.९ संग्राम.वेलेव.हि.दान.वेला.तुल्यम्.भवेत्.कारण.संग्रहेण ॥ ३०.१० अयम्.हि.प्रत्यूह.शतानि.जित्वा.मात्सर्यम्.आक्रम्य.च.शत्रु.भूतम् । ३०.१० शुराद्द्.हि.तम्.शूरतरम्.वदामि.ददाति.यो.दानम्.असक्त.चित्तः ।[.शूराद्.] ३०.११ सुखो.विपाकः.पुण्यानाम्.अभिप्रायः.समृध्यते । ३०.११ क्षिप्रम्.च.परमाम्.शान्तिम्.निर्वृतिम्.सो.अधिगच्छति ॥ ३०.१२ परतो.ह्य्.उपसर्गांश्.च.देवता.मार.कायिकाः । ३०.१२ अन्तरायम्.न.शक्तिष्ठाः.कृत.पुण्यस्य.कर्तु.वै ॥ ३०.१३ धर्म.प्रीतिः.सुखम्.शेते.विप्रसन्नेन.चेतसा । ३०.१३ आर्य.प्रवेदिते.धर्मे.रमते.पण्डितः.स्मृतः ॥ ३०.१४ येषाम्.धर्म.रतम्.चित्तम्.अनुपादाय.निर्वृतिम् । ३०.१४ स्मृत्य्.उपस्थान.निरतम्.बोध्य्.अङ्गेषु.च.सप्तसु ॥ ३०.१५ येषाम्.धर्म.रत्म्.चित्तम्.अनुपादाय.निर्वृतिम् । ३०.१५ ऋद्धि.पाद.रतम्.चैव.मार्गे.चाष्टाङ्गिके.रतम् ॥ ३०.१६ सुखम्.ते.भुञ्जते.पिण्डम्.धारयन्ति.च.चीवरम् । ३०.१६ सुखम्.चङ्क्रमणम्.तेषाम्.पर्वतेषु.गुहासु.च ॥ ३०.१७ क्षेम.प्राप्ता.हि.सुखिता.दृष्ट.धर्माभिनिर्वृताः । ३०.१७ सर्व.वैर.भयातीतास्.तीर्णा.लोके.विषक्तिकाम् ॥ ३०.१८ सुखो.विवेकस्.तुष्टस्य.श्रुत.धर्मस्य.पश्यतः । ३०.१८ अव्यावध्यः.सुखम्.लोके.प्राण.भूतेषु.सम्यमः ॥ ३०.१९ सुखम्.विरागता.लोके.कामानाम्.समतिक्रमः । ३०.१९ अस्मि.मानस्य.विनय;एतद्.वै.परमम्.सुखम् ॥ ३०.२० सुखम्.यावज्.जरा.शीलम्.सुखम्.श्रद्धा.प्रतिष्ठिता । ३०.२० सुखम्.चार्थ.रता.वाचा.पापस्याकरणम्.सुखम् ॥ ३०.२१ सुखम्.मातृव्यता.लोके.सुखम्.चैव.पितृव्यता । ३०.२१ सुखम्.श्रामण्यता.लोके.तथा.ब्राह्मण्यता.सुखम् ॥ ३०.२२ सुखम्.बुद्धस्य.चोत्पादः.सुखम्.धर्मस्य.देशना । ३०.२२ सुखम्.संघस्य.सामग्री.समग्राणाम्.तपः.सुखम् ॥ ३०.२३ शीलवन्तः.सुखम्.दृष्टुम्.सुखम्.दृष्टुम्.बहु.श्रुताः ।[.द्रष्टुम्.] ३०.२३ अर्हन्तश्.च.सुखम्.दृष्टुम्.विप्रमुक्त.पुनर्.भवाः ॥ ३०.२४ सुखा.नदी.सूपतीर्था.सुखम्.धर्मजिनो.जिनः । ३०.२४ प्रज्ञा.लाभः.सुखो.नित्यम्.अस्मि.मान.क्षयः.सुखम् ॥ ३०.२५ सुखम्.दर्शनम्.आर्याणाम्.संवासो.अपि.सदा.सुखम् । ३०.२५ अदर्शनेन.बालानाम्.नित्यम्.एव.सुखी.भवेत् ॥ ३०.२६ बाल.संसर्ग.चारी.हि.दीर्घाध्वानम्.प्रशोचति । ३०.२६ दुह्खो.बालैर्.हि.संवासो.ह्य्.अमित्रैर्.इव.सर्वशः । ३०.२६ f: धीरैस्.तु.सुख.संवासो.ज्ञातीनाम्.इव.संगमः ॥ ३०.२७ दुर्लभः.पुरुषो.जात्यो.नासौ.सर्वत्र.जायते । ३०.२७ यत्रासौ.जायते.वीरस्.तु.कुलम्.सुखम्.एधते ॥ ३०.२८ सर्वथा.वै.सुखम्.शेते.ब्राह्मणः.परिनिर्वृतः । ३०.२८ यो.न.लिप्यते.कामेभिर्.विप्रमुक्तो.निरास्रवः ॥ ३०.२९ सर्वा.ह्य्.आशास्तयश्.छित्त्वा.विनीय.हृदय.ज्वरम् । ३०.२९ उपशान्तः.सुखम्.शेते.शान्तिम्.प्राप्येह.चेतसः ॥ ३०.३० मात्रा.सुख.परित्यागाद्.यः.पश्येद्.विपुलम्.सुखम् । ३०.३० त्यजेन्.मात्रा.सुखम्.धीरः.सम्पश्यन्.विपुलम्.सुखम् ॥ ३०.३१ यच्.च.काम.सुखम्.लोके.यच्.चापि.दिविजम्.सुखम् । ३०.३१ तृष्णा.क्षय.सुखस्यैतत्.कलाम्.नार्घति.षोडशीम् ॥ ३०.३२ निक्षिप्य.हि.गुरुम्.भारम्.नादद्याद्.भारम्.एव.तु । ३०.३२ भारादानम्.परम्.दुह्खम्.भार.निक्षेपणम्.सुखम् ॥ ३०.३३ सर्व.तृष्णाम्.विप्रहाय.सर्व.सम्योजन.क्षयात् । ३०.३३ सर्वोपधिम्.परिज्ञाय.नागच्छन्ति.पुनर्.भवम् ॥ ३०.३४ अर्थेषु.जातेषु.सुखम्.सहायाः.पुण्यम्.सुखम्.जीवित.संक्षयेषु । ३०.३४ तुष्टिः.सुखा.या.त्व्.इतरेतरेण.सर्वस्य.दुह्खस्य.सुखो.निरोधः ॥ ३०.३५ अयोघन.हतस्यैव.ज्वलतो.जात.वेदसः । ३०.३५ अनुपूर्वोपशान्तस्य.यथा.न.ज्ञायते.गतिः ॥ ३०.३६ एवम्.सम्यग्.विमुक्तानाम्.काम.पङ्कौघ.तारिणाम् । ३०.३६ प्रज्ञापयितुम्.गतिर्.नास्ति.प्राप्तानाम्.अचलम्.सुखम् ॥ ३०.३७ यस्यान्तरतो.न.सन्ति.कोपा;इत्थम्.भाव.गतम्.च.यो.निवृत्तः । ३०.३७ अखिलम्.तम्.सुखिनम्.सदा.विशोकम्.देवा.नानुभवन्ति.दर्शनेन ॥ ३०.३८ सुखम्.हि.यस्येह.न.किंचनम्.स्यात्.स्वाख्यात.धर्मस्य.बहु.श्रुतस्य ।[.किंचन.] ३०.३८ सकिंचनम्.पश्य.विहन्यमानम्.जनम्.जनेषु.प्रतिबद्ध.चित्तम् ॥ ३०.३९ सुखम्.हि.यस्येह.न.किंचनम्.स्यात्.स्वाख्यात.धर्मस्य.बहु.श्रुतस्य ।[.किंचन.] ३०.३९ सकिंचनम्.पश्य.विहन्यमानम्.जनम्.जनेषु.प्रतिबद्ध.रूपम् ॥[इदेन्तिचलृइह्३८] ३०.४० सुखिनो.हि.जना.ह्य्.अकिंचना.वेद.गुणा.हि.जना.ह्य्.अकिंचनाः । ३०.४० सकिंचनम्.पश्य.विहन्यमानम्.जनम्.जनेषु.बद्ध.चित्तम् ॥ ३०.४१ सुखिनो.हि.जना;अकिंचना.वेद.गुणा.हि.जना.ह्य्.अकिंचनाः । ३०.४१ सकिंचनम्.पश्य.विहन्यमानम्.जनम्.जनेषु.प्रतिबद्ध.रूपम् ॥ ३०.४२ सर्वम्.पर.वशम्.दुह्खम्.सर्वम्.आत्म.वशम्.सुखम् । ३०.४२ साधारणे.विहन्यन्ते.योगा.हि.दुरतिक्रमाः ॥ ३०.४३ सुसुखम्.बत.जीवामो.ह्य्.उत्सुकेषु.त्व्.अनुत्सुकाः । ३०.४३ उत्सुकेषु.मनुष्येषु.विहरामो.ह्य्.अनुत्सुकाः ॥ ३०.४४ सुसुखम्.बत.जीवामो.येषाम्.नो.नास्ति.किंचनम् ।[.किंचन.] ३०.४४ मिथिलायाम्.दह्यमानायाम्.न.नो.दह्यति.किंचनम् ॥ ३०.४५ सुसुखम्.बत.जीवामो.ह्य्.आतुरेषु.त्व्.अनातुराः । ३०.४५ आतुरेषु.मनुष्येषु.विहरामो.ह्य्.अनातुराः ॥ ३०.४६ सुसुखम्.बत.जीवामो.हिंसकेषु.त्व्.अहिंसकाः । ३०.४६ हिंसकेषु.मनुष्येषु.विहरामो.ह्य्.अहिंसकाः ॥ ३०.४७ सुसुखम्.बत.जीवामो.वैरिकेषु.त्व्.अवैरिकाः । ३०.४७ वैरिकेषु.मनुष्येषु.विहरामो.ह्य्.अवैरिकाः ॥ ३०.४८ सुसुखम्.बत.जीवामो.हेठकेषु.त्व्.अहेठकाः । ३०.४८ हेठकेषु.मनुष्येषु.विहरामो.ह्य्.अहेठकः ॥ ३०.४९ सुसुखम्.बत.जीवामो.येषाम्.नो.नास्ति.किंचनम् ।[.किंचन.] ३०.४९ प्रीति.भक्षा.भविष्यामो.देवा.ह्य्.आभस्वरा.यथा ॥[.आभास्वरा.] ३०.५० सुसुखम्.बत.जीवामो.येषाम्.नो.नास्ति.किंचनम् ।[.किंचन.] ३०.५० प्रीति.भक्षा.भविष्यामो.सत्कायेनोपनिह्श्रिताः ॥ ३०.५१ ग्रामे;अरण्ये.सुख.दुह्ख.स्पृष्टो.नैवात्मनो.न.परतो.दधाति । ३०.५१ स्पर्शाः.स्पृशन्ति.ह्य्.उपधिम्.प्रतीत्य.निरौपधिम्.किम्.स्पर्शाः.स्पृशेयुः ॥ ३०.५२ सापत्रपाः.सत्.पुरुषा.भवन्ति.न.काम.हेतोर्.लपयन्ति.सन्तः । ३०.५२ स्पृष्टा.हि.दुह्खेन.तथा.सुखेन.नोच्चावचाः.सत्.पुरुषा.भवन्ति ॥ ३१ चित्तवर्ग ३१.१ दुर्निग्रहस्य.लघुनो.यत्र.काम.निपातिनः । ३१.१ चित्तस्य.दमनम्.साधु.चित्तम्.दान्तम्.सुखावहम् ॥ ३१.२ वारिजो.वा.स्थले.क्षिप्त;ओकाद्.ओघात्.समुद्धृतः । ३१.२ परिस्पन्दति.वै.चित्तम्.मार.धेयम्.प्रहातवै ॥ ३१.३ पृथग्.विधावते.चित्तम्.सूर्यस्येव.हि.रश्मयः । ३१.३ तत्.पण्डितो.वारयति.ह्य्.अङ्कुशेनैव.कुञ्जरम् ॥ ३१.४ भ्रूण.धेयम्.इदम्.चित्तम्.निह्सारम्.अनिदर्शनम् । ३१.४ सदैनम्.अनुशासामि.मा.मेऽनर्थाय.निश्चरेत् ॥ ३१.५ इदम्.पुरा.चित्तम्.अचारि.चारिकाम्.येनेच्छकम्.येन.कामम्.यथेष्टम् । ३१.५ तत्.सन्निगृह्णामि.हि.योनिशस्.त्व्.इदम्.नागम्.प्रभिन्नम्.हि.यथाङ्कुशेन ॥ ३१.६ अनेकम्.जाति.संसारम्.संधावित्वा.पुनः.पुनः । ३१.६ गृह.कारकैषमाणस्.त्वम्.दुह्खा.जातिः.पुनः.पुनः ॥ ३१.७ गृह.कारक.दृष्टो.असि.न.पुनर्.गेहम्.करिष्यसि । ३१.७ सर्वे.ते.पार्शुका.भग्ना.गृह.कूटम्.विसंस्कृतम् । ३१.७ विसंस्कार.गते.चित्ते;इहैव.क्षयम्.अध्यगाः ॥ ३१.८ स्पन्दनम्.चपलम्.चित्तम्.दुरक्ष्यम्.दुर्निवारणम् ।[.दूरक्ष्यम्.] ३१.८ ऋजुम्.करोति.मेधावी;इषु.कार;इव.तेजसा ॥ ३१.८ दूरम्.गमम्.एक.चरम्.अशरीरम्.गुहाशयम् । ३१.८ ये.चित्तम्.दमयिष्यन्ति.विमोक्ष्यन्ते.महा.भयात् । ३१.९ न.द्वेषी.द्वेषिणः.कुर्याद्.वैरी.वा.वैरिणो.हितम् । ३१.९ मिथ्या.प्रणिहितम्.चित्तम्.यत्.कुर्याद्.आत्मनात्मनः ॥ ३१.१० न.तम्.माता.पिता.वापि.कुर्याज्.ज्ञातिस्.तथापरः । ३१.१० सम्यक्.प्रणिहितम्.चित्तम्.यत्.कुर्याद्द्.हितम्.आत्मनः ॥ ३१.११ यथा.ह्य्.अगारम्.दुच्छन्नम्.वृष्टिः.समतिभिन्दति । ३१.११ एवम्.ह्य्.अभावितम्.चित्तम्.रागः.समतिभिन्दति ॥ ३१.१२ यथा.ह्य्.अगारम्.दुच्छन्नम्.वृष्टिः.समतिभिन्दति । ३१.१२ एवम्.ह्य्.अभावितम्.चित्तम्.द्वेषः.समतिभिन्दति ॥ ३१.१३ यथा.ह्य्.अगारम्.दुच्छन्नम्.वृष्टिः.समतिभिन्दति । ३१.१३ एवम्.ह्य्.अभावितम्.चित्तम्.मोहः.समतिभिन्दति ॥ ३१.१४ यथा.ह्य्.अगारम्.दुच्छन्नम्.वृष्टिः.समतिभिन्दति । ३१.१४ एवम्.ह्य्.अभावितम्.चित्तम्.मानः.समतिभिन्दति ॥ ३१.१५ यथा.ह्य्.अगारम्.दुच्छन्नम्.वृष्टिः.समतिभिन्दति । ३१.१५ एवम्.ह्य्.अभावितम्.चित्तम्.लोभः.समतिभिन्दति ॥ ३१.१६ यथा.ह्य्.अगारम्.दुच्छन्नम्.वृष्टिः.समतिभिन्दति । ३१.१६ एवम्.ह्य्.अभावितम्.चित्तम्.तृष्णा.समतिभिन्दति ॥ ३१.१७ यथागारम्.सुच्छन्नम्.वृष्टिर्.न.व्यतिभिन्दति । ३१.१७ एवम्.सुभावितम्.चित्तम्.रागो.न.व्यतिभिन्दति ॥ ३१.१८ यथागारम्.सुच्छन्नम्.वृष्टिर्.न.व्यतिभिन्दति । ३१.१८ एवम्.सुभावितम्.चित्तम्.द्वेषो.न.व्यतिभिन्दति ॥ ३१.१९ यथागारम्.सुच्छन्नम्.वृष्टिर्.न.व्यतिभिन्दति । ३१.१९ एवम्.सुभावितम्.चित्तम्.मोहो.न.व्यतिभिन्दति ॥ ३१.२० यथागारम्.सुच्छन्नम्.वृष्टिर्.न.व्यतिभिन्दति । ३१.२० एवम्.सुभावितम्.चित्तम्.मानो.न.व्यतिभिन्दति ॥ ३१.२१ यथागारम्.सुच्छन्नम्.वृष्टिर्.न.व्यतिभिन्दति । ३१.२१ एवम्.सुभावितम्.चित्तम्.लोभो.न.व्यतिभिन्दति ॥ ३१.२२ यथागारम्.सुच्छन्नम्.वृष्टिर्.न.व्यतिभिन्दति । ३१.२२ एवम्.सुभावितम्.चित्तम्.तृष्णा.न.व्यतिभिन्दति ॥ ३१.२३ मनः.पूर्वम्.गमा.धर्मा.मनः.श्रेष्ठा.मनो.जवाः । ३१.२३ मनसा.हि.प्रदुष्टेन.भाषते.वा.करोति.वा । ३१.२४ मनः.पूर्वम्.गमा.धर्मा.मनः.श्रेष्ठा.मनो.जवाः । ३१.२४ मनसा.हि.प्रसन्नेन.भाषते.वा.करोति.वा । ३१.२४ f: ततस्.तम्.सुखम्.अन्वेति.छाया.वा.ह्य्.अनुगामिनी ॥ ३१.२५ नाप्रसन्नेन.चित्तेन.दुष्टेन.क्षुभितेन.वा । ३१.२५ धर्मो.हि.शक्यम्.आज्ञातुम्.संरम्भ.बहुलेन.वा ॥ ३१.२६ विनीय.यस्.तु.संरम्भम्.अप्रसादम्.च.चेतसा । ३१.२६ आघातम्.चैव.निह्सृज्य.प्रजानीयात्.सुभाषितम् ॥ ३१.२७ न.प्रत्यनीक.सारेण.सुविज्ञेयम्.सुभाषितम् । ३१.२७ उपक्लिष्टेन.चित्तेन.संरम्भ.बहुलेन.वा ॥ ३१.२८ अनवस्थित.चित्तस्य.सद्धर्मम्.अविजानतः । ३१.२८ पारिप्लव.प्रसादस्य.प्रज्ञा.न.परिपूर्यते ॥ ३१.२९ स्रोतांसि.यस्य.षट्.त्रिंशन्.मनः.प्रस्रवणानि.हि । ३१.२९ वहन्ति.नित्यम्.दुर्दृष्टेः.संकल्पैर्.ग्रेध.निह्श्रितैः ॥ ३१.३० रतिम्.अनुसृतम्.इन्द्रियानुगम्.पुरुषम्.चित्त.वशानुवर्तकम् । ३१.३० यश;इह.हि.जहाति.सर्वदा.द्रुमम्.इव.शीर्ण.फलम्.यथाण्डजः ॥ ३१.३१ आतापी.विहर.त्वम्.अप्रमत्तो.मा.ते.काम.गुणो.मथेत.चित्तम् । ३१.३१ मा.लोह.गुडाम्.गिलेः.प्रमत्तः.क्रन्दन्.वै.नरकेषु.पच्यमानः ॥ ३१.३२ उत्थान.कालेषु.निहीन.वीर्यो.वाचा.बली.त्व्.आलसिको.निराशः । ३१.३२ सदैव.संकल्प.हतः.कुसीदो.ज्ञानस्य.मार्गम्.सततम्.न.वेत्ति ॥ ३१.३३ स्थूलान्.वितर्कान्.अथ.वापि.सूक्ष्मान्.समुद्गतान्.मान.सम्प्लवार्थम् । ३१.३३ वितर्कयन्.वै.सततम्.वितर्कान्.एताम्.सदा.धावति.भ्रान्त.चित्तः ॥ ३१.३४ एतांस्.तु.विद्यान्.मनसो.वितर्कान्.आतापवान्.संवरवान्.स्मृतात्मा । ३१.३४ जहात्य्.अशेषान्.अपुनर्.भवाय.समाहितो.ध्यान.रतः.सुमेधाः ॥ ३१.३५ कुम्भोपमम्.कायम्.इमम्.विदित्वा.नगरोपमम्.चित्तम्.अधिष्ठितम्.च । ३१.३५ युध्येत.मारम्.प्रज्ञा.युद्धेन.जितम्.च.रक्षेद्.अनिवेशनः.स्यात् ॥ ३१.३६ फेनोपमम्.कायम्.इमम्.विदित्वा.नगरोपमम्.चित्तम्.अधिष्ठितम्.च । ३१.३६ युध्येत.मारम्.प्रज्ञा.युद्धेन.जितम्.च.रक्षेद्.अनिवेशनः.स्यात् ॥ ३१.३७ कुम्भोपमम्.लोकम्.इमम्.विदित्वा.नगरोपमम्.चित्तम्.अधिष्ठितम्.च । ३१.३७ युध्येत.मारम्.प्रज्ञा.युद्धेन.जितम्.च.रक्षेद्.अनिवेशनः.स्यात् ॥ ३१.३८ फेनोपमम्.लोकम्.इमम्.विदित्वा.नगरोपमम्.चित्तम्.अधिष्ठितम्.च । ३१.३८ युध्येत.मारम्.प्रज्ञा.युद्धेन.जितम्.च.रक्षेद्.अनिवेशनः.स्यात् ॥ ३१.३९ सम्भोध्य्.अङ्गेषु.येषांस्.तु.सम्यक्.चित्तम्.सुभावितम् । ३१.३९ आदानम्.प्रतिनिह्सृज्य.चानुपादायम्.आश्रिताः । ३१.३९ क्षीणास्रवा.वान्त.दोषास्.ते.लोके.परिनिर्वृताः ॥ ३१.४० स्व.चित्तम्.अनुरक्षम्.वै.स्व.वालम्.चमरी.यथा । ३१.४० भूतेषु.च.दयापन्नः.सुखान्.न.परिहीयते ॥ ३१.४१ एतम्.नागस्य.नागेन.त्व्.ईषा.दन्तस्य.हस्तिनः । ३१.४१ समेति.चित्तम्.चित्तेन.यद्.एको.रमते.वने ॥ ३१.४२ अव्यापन्नेन.चित्तेन.यो.भूतान्य्.अनुकम्पते । ३१.४२ मैत्रः.स.सर्व.सत्त्वेषु.वैरम्.तस्य.न.केनचित् ॥ ३१.४२ अव्यापन्नेन.चित्तेन.यो.भूतान्य्.अनुकम्पते । ३१.४२ मैत्रः.स.सर्व.प्राणेषु.वैरम्.तस्य.न.केनचित् ॥ ३१.४२ अव्यापन्नेन.चित्तेन.यो.भूतान्य्.अनुकम्पते । ३१.४२ मैत्रः.स.सर्व.भूतेषु.वैरम्.तस्य.न.केनचित् ॥ ३१.४३ एकम्.अपि.चेत्.प्राणम्.अदुष्ट.चित्तो.मैत्रायते.कुशलम्.तेन.हि.स्यात् । ३१.४३ सर्वांस्.तु.सत्त्वान्.मनसानुकम्पयन्.प्रभूतम्.आर्यः.प्रकरोति.पुण्यम् ।[.सत्त्वाम्.]* ३१.४४ यो.ह्य्.उदग्रेण.चित्तेन.त्व्.अदीनेन.सदा.नरः । ३१.४४ भावयेत्.कुशलान्.धर्मान्.योग.क्षेमस्य.प्राप्तये ॥ ३१.४५ शान्तम्.अस्य.मनो.भवति.शान्ता.वाक्.काय.कर्म.च । ३१.४५ सम्यग्.आज्ञा.विमुक्तस्य.ह्य्.उपशान्तस्य.भिक्षुणः ॥ ३१.४६ पञ्चाङ्गिकेन.तूर्येण.न.रतिर्.भवति.तादृशी । ३१.४६ यादृश्य्.एकाग्र.चित्तस्य.सम्यग्.धर्मान्.विपश्यतः ॥ ३१.४७ सुखम्.स्वपन्ति.मुनयो.न.ते.शोचन्ति.मामिकाम् । ३१.४७ येषाम्.ध्यान.रतम्.चित्तम्.कामस्.तेषाम्.न.विद्यते ॥ ३१.४८ सुखम्.मोदन्ति.मुनयो.न.ते.शोचन्ति.मामिकाम् । ३१.४८ येषाम्.ध्यान.रतम्.चित्तम्.वर्त्मस्.तेषाम्.न.विद्यते ॥ ३१.४९ यस्य.शैलोपमम्.चित्तम्.स्थितम्.नानुप्रकम्पते । ३१.४९ विरक्तम्.रजनीयेभ्यः.कोपनीये.न.कुप्यते । ३१.४९ f: यस्यैवम्.भावितम्.चित्तम्.कुतस्.तम्.दुह्खम्.एष्यति ॥ ३१.५० नोपवादी.नोपघाती.प्रीति.मोक्षे.च.संवरः । ३१.५० मात्रज्ञता.च.भक्तेषु.प्रान्तम्.च.शयनासनम् । ३१.५० f: अधिचित्ते.समायोग;एतद्.बुद्धस्य.शासनम् ॥ ३१.५१ चित्त.निमित्तस्य.कोविदः.प्रविवेकस्य.रसम्.प्रजानकः । ३१.५१ ध्यायी.निपकः.प्रतिस्मृतो.वेत्ति.प्रीति.सुखम्.निरामिषम् ॥ ३१.५२ मनश्.च.यो.रक्षति.भाषितम्.च.चेष्टे.च.कायस्य.सदैव.युक्तः । ३१.५२ स.प्राप्य.शोकम्.हि.न.दुह्खितः.स्यात्.सत्य.स्थितः.सत्यविदः.सुमेधाः ॥ ३१.५३ अरक्षितेन.चित्तेन.मिथ्या.दृष्टि.हतेन.च । ३१.५३ स्तीन.मिद्धाभिभूतेन.वशम्.मृत्योर्.निगच्छति ।[.स्तीनमिद्धाभिभूतेन.] ३१.५४ तस्माद्.रक्षित.चित्तः.स्यात्.सम्यक्.संकल्प.गोचरः । ३१.५४ सम्यग्.दृष्टि.पुरस्कारो.ज्ञात्वा.चैवोदय.व्ययम् । ३१.५४ f: स्तीन.मिद्धाभिभूर्.भिक्षुः.सर्व.दुर्गतयो.जहेत् ॥ ३१.५५ चित्तस्य.हि.सम्यमः.सुखम्.चित्तम्.रक्षत.मा.प्रमद्यत । ३१.५५ चित्तेन.हि.वञ्चिता.प्रजा.ह्य्.एकत्या.नरकेषु.पच्यते ॥ ३१.५६ चित्तस्य.हि.सम्यमः.सुखम्.चित्तम्.रक्षत.मा.प्रमद्यत । ३१.५६ चित्तेन.हि.वञ्चिता.प्रजा.ह्य्.एकत्या.तीर्यक्षु.पच्यते ॥[.तिर्यक्षु.] ३१.५७ चित्तस्य.हि.सम्यमः.सुखम्.चित्तम्.रक्षत.मा.प्रमद्यत । ३१.५७ चित्तेन.हि.वञ्चिता.प्रजा.ह्य्.एकत्या.प्रेतेषु.पच्यते ॥ ३१.५८ चित्तस्य.हि.सम्यमः.सुखम्.चित्तम्.रक्षत.मा.प्रमद्यत । ३१.५८ चित्ते.तु.सुरक्षिते.प्रजा.ह्य्.एकत्या.मनुजेषु.मोदते ॥ ३१.५९ चित्तस्य.हि.सम्यमः.सुखम्.चित्तम्.रक्षत.मा.प्रमद्यत । ३१.५९ चित्ते.तु.सुरक्षिते.प्रजा.ह्य्.एकत्या.स्वर्गेषु.मोदते ॥ ३१.६० चित्तस्य.हि.सम्यमः.सुखम्.चित्तम्.रक्षत.मा.प्रमद्यत । ३१.६० चित्ते.तु.सुरक्षिते.प्रजा.ह्य्.एकत्या.निर्वाणम्.आप्नुते ॥ ३२ भिक्षुवर्ग ३२.१ पिण्ड.चारिकाय.भिक्षवे.ह्य्.आत्म.भराय.हि.नान्य.पोषिणे । ३२.१ देवाः.स्पृहयन्ति.तायिने.ह्य्.उपशान्ताय.सदा.स्मृतात्मने ॥ ३२.२ पिण्ड.पातिकाय.भिक्षवे.ह्य्.आत्म.भराय.हि.नान्य.पोषिणे । ३२.२ देवाः.स्पृहयन्ति.तायिने.न.तु.सत्कार.यशो.अभिकाङ्क्षिने ॥ ३२.३ सर्व.कर्म.जहस्य.भिक्षुणे.धुन्वानस्य.पुरस्कृतम्.रजः । ३२.३ अममस्य.सदा.स्थितात्मनो.ह्य्.अर्थो.नास्ति.जनस्य.लापनम् ॥ ३२.४ तुदन्ति.वाचाभिर्.असम्यता.जनाः.शरैर्.हि.संग्राम.गतम्.यथा.गजम् । ३२.४ श्रुत्वा.तु.वाचाम्.परुषाम्.उदीरिताम्.अधिवासयेद्.भिक्षुर्.अदुष्ट.चित्तः ॥ ३२.५ यस्.त्व्.अल्प.जीवी.लघुर्.आत्म.कामो.यतेन्द्रियः.सर्व.गतिः.प्रमुक्तः । ३२.५ अनोकसारी.ह्य्.अममो.निराशः.कामम्.जहश्.चैक.चरः.स.भिक्षुः ॥ ३२.६ मात्रम्.भजेत.प्रतिरूपम्.शुद्धाजीवो.भवेत्.सदा । ३२.६ प्रतिसंस्तार.वृत्तिः.स्याद्.आचार.कुशलो.भवेत् । ३२.६ f: ततः.प्रमोद्य.बहुलः.स्मृतो.भिक्षुः.परिव्रजेत् ॥ ३२.७ हस्त.सम्यतः.पाद.सम्यतो.वाचा.सम्यतः.सर्व.सम्यतः । ३२.७ आध्यात्म.रतः.समाहितो.ह्य्.एकः.संतुषितो.हि.यः.स.भिक्षुः ॥ ३२.८ धर्मारामो.धर्म.रतो.धर्मम्.एवानुचिन्तयन् । ३२.८ धर्मम्.चानुस्मरन्.भिक्षुर्.धर्मान्.न.परिहीयते ॥ ३२.९ शुन्यागारम्.प्रविष्टस्य.प्रहितात्मस्य.भिक्षुणः ।[.शून्यागारम्.] ३२.९ अमानुषा.रतिर्.भवति.सम्यग्.धर्मान्.विपश्यतः ॥ ३२.१० यतो.यतः.संस्पृशति.स्कन्धानाम्.उदय.व्ययम् । ३२.१० प्रामोद्यम्.लभते.तत्र.प्रीत्या.सुखम्.अनल्पकम् । ३२.१० f: ततः.प्रामोद्य.बहुलः.स्मृतो.भिक्षुः.परिव्रजेत् ॥ ३२.११ यथापि.पर्वतः.शैलो.वायुना.न.प्रकम्पते । ३२.११ एवम्.राग.क्षयाद्.भिक्षुः.शैलवन्.न.प्रकम्पते ॥ ३२.१२ यथापि.पर्वतः.शैलो.वायुना.न.प्रकम्पते । ३२.१२ एवम्.द्वेष.क्षयाद्.भिक्षुः.शैलवन्.न.प्रकम्पते ॥ ३२.१३ यथापि.पर्वतः.शैलो.वायुना.न.प्रकम्पते । ३२.१३ एवम्.मोह.क्षयाद्.भिक्षुः.शैलवन्.न.प्रकम्पते ॥ ३२.१४ यथापि.पर्वतः.शैलो.वायुना.न.प्रकम्पते । ३२.१४ एवम्.मान.क्षयाद्.भिक्षुः.शैलवन्.न.प्रकम्पते ॥ ३२.१५ यथापि.पर्वतः.शैलो.वायुना.न.प्रकम्पते । ३२.१५ एवम्.लोभ.क्षयाद्.भिक्षुः.शैलवन्.न.प्रकम्पते ॥ ३२.१६ यथापि.पर्वतः.शैलो.वायुना.न.प्रकम्पते । ३२.१६ एवम्.तृष्णा.क्षयाद्.भिक्षुः.शैलवन्.न.प्रकम्पते ॥ ३२.१७ यस्य.सन्निचयो.नास्ति.यस्य.नास्ति.ममायितम् । ३२.१७ असन्तम्.शोचते.नैव.स.वै.भिक्षुर्.निरुच्यते । ३२.१८ भिक्षुर्.न.तावता.भवति.यावता.भिक्षते.परान् । ३२.१८ वेष्मान्.धर्मान्.समादाय.भिक्षुर्.भवति.न.तावता ॥ ३२.१९ यस्.तु.पुण्यम्.च.पापम्.च.प्रहाय.ब्रह्मचर्यवान् । ३२.१९ विश्रेणयित्वा.चरति.स.वै.भिक्षुर्.निरुच्यते ॥ ३२.२० मैत्रा.विहारी.यो.भिक्षुः.प्रसन्नो.बुद्ध.शासने । ३२.२० अधिगच्छेत्.पदम्.शान्तम्.असेचनक.दर्शनम् ॥ ३२.२१ मैत्रा.विहारी.यो.भिक्षुः.प्रसन्नो.बुद्ध.शासने । ३२.२१ अधिगच्छेत्.पदम्.शान्तम्.संस्कारोपशमम्.सुखम् ॥ ३२.२२ मैत्रा.विहारी.यो.भिक्षुः.प्रसन्नो.बुद्ध.शासने । ३२.२२ अभव्यः.परिहाणाय.निर्वाणस्यैव.सो.अन्तिके ॥ ३२.२३ उदग्र.चित्तः.सुमना.ह्य्.अभिभूय.प्रियाप्रियम् ।[.प्रिया.प्रियम्.] ३२.२३ प्रामोद्य.बहुलो.भिक्षुर्.दुह्ख.क्षयम्.अवाप्नुयात् ॥ ३२.२४ शान्त.कायः..............शान्त.वाक्.सुसमाहितः । ३२.२४ वान्त.लोकामिषो.भिक्षुर्.उपशान्तो.निरुच्यते ॥ ३२.२५ नास्त्य्.अप्रज्ञस्य.वै.ध्यानम्.प्रज्ञा.न.ध्यायतो.अस्ति.च । ३२.२५ यस्य.ध्यानम्.तथा.प्रज्ञा.स.वै.निर्वाण.सान्तिके ॥ ३२.२६ तस्माद्.ध्यानम्.तथा.प्रज्ञाम्.अनुयुज्येत.पण्डितः । ३२.२६ तस्याहम्.आदिर्.भवति.तथा.प्राज्ञस्य.भिक्षुणः ॥ ३२.२७ संतुष्टिर्.इन्द्रियैर्.गुप्तिः.प्रातिमोक्षे.च.संवरः । ३२.२७ मात्रज्ञता.च.भक्तेषु.प्रान्तम्.च.शयनासनम् ॥ ३२.२७ f: अधिचित्ते.समायोगम्.यस्यासौ.भिक्षुर्.उच्यते ॥ ३२.२८ यस्य.कायेन.वाचा.च.मनसा.च.न.दुष्कृतम् । ३२.२८ कल्याण.शीलम्.आहुस्.तम्.ह्रीमन्तम्.भिक्षुम्.उत्तमम् ॥ ३२.२९ धर्माः.सुभाविता.यस्य.सप्त.सम्भोध.पक्षिकाः । ३२.२९ कल्याण.धर्मम्.आहुस्.तम्.सदा.भिक्षुम्.समाहितम् ॥ ३२.३० इहैव.यः.प्रजानाति.दुह्खस्य.क्षयम्.आत्मनः । ३२.३० कल्याण.प्रज्ञम्.आहुस्.तम्.सदा.शीलम्.अनास्रवम् ॥ ३२.३१ न.शील.व्रत.मात्रेण.बहुश्रुत्येन.वा.पुनः । [.बाहुश्रुत्येन.] ३२.३१ तथा.समाधि.लाभेन.विविक्त.शयनेन.वा ॥ ३२.३२ भिक्षुर्.विश्वासम्.आपद्येद्.अप्राप्ते.ह्य्.आस्रव.क्षये । ३२.३२ स्पृशेत्.तु.सम्बोधि.सुखम्.अकापुरुष.सेवितम् ॥ ३२.३३ ताप.जातो.ह्य्.अयम्.लोकः.स्कन्धा.नात्मेति.मन्यते । ३२.३३ मन्यते.येन.येनाहम्.तत्.तद्.भवति.चान्यथा ॥ ३२.३४ लोको.अयम्.अन्यथा.भूतो.भव.सक्तो.भवे.रतः । ३२.३४ भवाभिनन्दी.सततम्.भवान्.न.परिमुच्यते ॥ ३२.३५ यन्.नन्दते.स.हि.भवो.दुह्खस्य.स.बिभेति.च । ३२.३५ उष्यते.भव.हानाय.ब्रह्मचर्यम्.ममान्तिके ॥ ३२.३६ ये.भवेन.भवस्यैव.प्राहुर्.निह्सरणम्.सदा । ३२.३६ अनिह्सृतान्.भवा.सर्वांस्.तान्.वदामि.सदा.व्.अहम् ॥? ३२.३७ प्रतीत्य.दुह्खम्.उपधिम्.भवत्य्.उपधि.सम्भवम् । ३२.३७ क्षयात्.सर्वोपधीनाम्.तु.नास्ति.दुह्खस्य.सम्भवः ॥ ३२.३८ अनित्या.हि.भवाः.सर्वे.दुह्खा.विपरिणामिनः । ३२.३८ पश्यतः.प्रज्ञया.सर्वे.क्षीयन्ते.नाभिनन्दिताः ॥ ३२.३९ निर्वृतस्य.सदा.भिक्षोर्.आयत्याम्.उपशाम्यते । ३२.३९ अभिभूतो.भवः.सर्वो.दुह्खान्तः.स.निरुच्यते ॥ ३२.४० सदोपशान्त.चित्तस्य.वस्तुच्.छिन्नस्य.भिक्षुणः । ३२.४० विक्षीणो.जाति.संसारो.मुक्तो.असौ.मार.बन्धनात् ॥ ३२.४१ सदोपशान्त.चित्तस्य.वस्तुच्.छिन्नस्य.भिक्षुणः । ३२.४१ विक्षीणो.जाति.संसारो.नास्तीदानीम्.पुनर्.भवः ॥ ३२.४२ अनवस्रुत.चित्तस्य.वस्तुच्.छिन्नस्य.भिक्षुणः । ३२.४२ विक्षीणो.जाति.संसारो.मुक्तो.असौ.मार.बन्धनात् ॥ ३२.४३ अनवस्रुत.चित्तस्य.वस्तुच्.छिन्नस्य.भिक्षुणः । ३२.४३ विक्षीणो.जाति.संसारो.नास्तीदानीम्.पुनर्.भवः ॥ ३२.४४ विक्षीण.भव.तृष्णस्य.वस्तुच्.छिन्नस्य.भिक्षुणः । ३२.४४ विक्षीणो.जाति.संसारो.मुक्तो.असौ.मार.बन्धनात् ॥ ३२.४५ विक्षीण.भव.तृष्णस्य.वस्तुच्.छिन्नस्य.भिक्षुणः । ३२.४५ विक्षीणो.जाति.संसारो.नास्तीदानीम्.पुनर्.भवः ॥ ३२.४६ उच्छिन्न.भव.तृष्णस्य.वस्तुच्.छिन्नस्य.भिक्षुणः । ३२.४६ विक्षीणो.जाति.संसारो.मुक्तो.असौ.मार.बन्धनात् ॥ ३२.४७ उच्छिन्न.भव.तृष्णस्य.वस्तुच्.छिन्नस्य.भिक्षुणः । ३२.४७ विक्षीणो.जाति.संसारो.नास्तीदानीम्.पुनर्.भवः ॥ ३२.४८ उत्तीर्णो.येन.वै.पङ्को.मर्दिता.ग्राम.कण्टकाः । ३२.४८ यश्.च.राग.क्षयम्.प्राप्तः.स.वै.भिक्षुर्.निरुच्यते ॥ ३२.४९ उत्तीर्णो.येन.वै.पङ्को.मर्दिता.ग्राम.कण्टकाः । ३२.४९ यश्.च.द्वेष.क्षयम्.प्राप्तः.स.वै.भिक्षुर्.निरुच्यते ॥ ३२.५० उत्तीर्णो.येन.वै.पङ्को.मर्दिता.ग्राम.कण्टकाः । ३२.५० यश्.च.मोह.क्षयम्.प्राप्तः.स.वै.भिक्षुर्.निरुच्यते ॥ ३२.५१ उत्तीर्णो.येन.वै.पङ्को.मर्दिता.ग्राम.कण्टकाः । ३२.५१ यश्.च.मान.क्षयम्.प्राप्तः.स.वै.भिक्षुर्.निरुच्यते ॥ ३२.५२ उत्तीर्णो.येन.वै.पङ्को.मर्दिता.ग्राम.कण्टकाः । ३२.५२ यश्.च.लोभ.क्षयम्.प्राप्तः.स.वै.भिक्षुर्.निरुच्यते ॥ ३२.५३ उत्तीर्णो.येन.वै.पङ्को.मर्दिता.ग्राम.कण्टकाः । ३२.५३ यश्.च.तृष्णा.क्षयम्.प्राप्तः.स.वै.भिक्षुर्.निरुच्यते ॥ ३२.५४ येन.जिता.ग्राम.कण्टका.ह्य्.आक्रोशाश्.च.वधाश्.च.बन्धनम्.च । ३२.५४ यः.पर्वतवत्.स्थितो.ह्य्.अनेयः.सुख.दुह्खेन.न.वेथते.स.भिक्षुः ॥ ३२.५५ यो.नात्यसरम्.न.चात्यलीयम्.ज्ञात्वा.वितथम्.इमम्.हि.सर्व.लोकम् । ३२.५५ स.तु.भिक्षुर्.इदम्.जहात्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् ॥ ३२.५६ यो.रागम्.उदाच्छिनत्त्य्.अशेषम्.बिस.पुष्पम्.इव.जले.रुहम्.विगाह्य । ३२.५६ स.तु.भिक्षुर्.इदम्.जहात्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् ॥ ३२.५७ यो.द्वेषम्.उदाच्छिनत्त्य्.अशेषम्.बिस.पुष्पम्.इव.जले.रुहम्.विगाह्य । ३२.५७ स.तु.भिक्षुर्.इदम्.जहात्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् ॥ ३२.५८ यो.मोहम्.उदाच्छिनत्त्य्.अशेषम्.बिस.पुष्पम्.इव.जले.रुहम्.विगाह्य । ३२.५८ स.तु.भिक्षुर्.इदम्.जहात्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् ॥ ३२.५९ यो.मानम्.उदाच्छिनत्त्य्.अशेषम्.बिस.पुष्पम्.इव.जले.रुहम्.विगाह्य । ३२.५९ स.तु.भिक्षुर्.इदम्.जहात्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् ॥ ३२.६० यो.लोभम्.उदाच्छिनत्त्य्.अशेषम्.बिस.पुष्पम्.इव.जले.रुहम्.विगाह्य । ३२.६० स.तु.भिक्षुर्.इदम्.जहात्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् ॥ ३२.६१ तृष्णाम्.य;उदाच्छिनत्त्य्.अशेषम्.बिस.पुष्पम्.इव.जले.रुहम्.विगाह्य । ३२.६१ स.तु.भिक्षुर्.इदम्.जहात्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् ॥ ३२.६२ यस्.तूत्पलितम्.निहन्ति.रागम्.विसृतम्.सर्प.विषम्.यथाउषधेन । ३२.६२ स.तु.भिक्षुर्.इदम्.जहात्य्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् ॥ ३२.६३ यस्.तूत्पलितम्.निहन्ति.द्वेषम्.विसृतम्.सर्प.विषम्.यथाउषधेन । ३२.६३ स.तु.भिक्षुर्.इदम्.जहात्य्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् ॥ ३२.६४ यस्.तूत्पलितम्.निहन्ति.मोहम्.विसृतम्.सर्प.विषम्.यथाउषधेन । ३२.६४ स.तु.भिक्षुर्.इदम्.जहात्य्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् ॥ ३२.६५ यस्.तूत्पलितम्.निहन्ति.मानम्.विसृतम्.सर्प.विषम्.यथाउषधेन । ३२.६५ स.तु.भिक्षुर्.इदम्.जहात्य्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् ॥ ३२.६६ यस्.तूत्पलितम्.निहन्ति.लोभम्.विसृतम्.सर्प.विषम्.यथाउषधेन । ३२.६६ स.तु.भिक्षुर्.इदम्.जहात्य्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् ॥ ३२.६७ यस्.तूत्पलितम्.निहन्ति.तृष्णाम्.विसृतम्.सर्प.विषम्.यथाउषधेन । ३२.६७ स.तु.भिक्षुर्.इदम्.जहात्य्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् ॥ ३२.६८ यो.रागम्.उदाच्छिनत्त्य्.अशेषम्.नड.सेतुम्.इव.सुदुर्बलम्.महौघः । ३२.६८ स.तु.भिक्षुर्.इदम्.जहात्य्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् ॥ ३२.६९ यो.द्वेषम्.उदाच्छिनत्त्य्.अशेषम्.नड.सेतुम्.इव.सुदुर्बलम्.महौघः । ३२.६९ स.तु.भिक्षुर्.इदम्.जहात्य्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् ॥ ३२.७० यो.मोहम्.उदाच्छिनत्त्य्.अशेषम्.नड.सेतुम्.इव.सुदुर्बलम्.महौघः । ३२.७० स.तु.भिक्षुर्.इदम्.जहात्य्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् ॥ ३२.७१ यो.मानम्.उदाच्छिनत्त्य्.अशेषम्.नड.सेतुम्.इव.सुदुर्बलम्.महौघः । ३२.७१ स.तु.भिक्षुर्.इदम्.जहात्य्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् ॥ ३२.७२ यो.लोभम्.उदाच्छिनत्त्य्.अशेषम्.नड.सेतुम्.इव.सुदुर्बलम्.महौघः । ३२.७२ स.तु.भिक्षुर्.इदम्.जहात्य्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् ॥ ३२.७३ तृष्णाम्.य;उदाच्छिनत्त्य्.अशेषम्.नड.सेतुम्.इव.सुदुर्बलम्.महौघः । ३२.७३ स.तु.भिक्षुर्.इदम्.जहात्य्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् ॥ ३२.७४ तृष्णाम्.य;उदाच्छिनत्त्य्.अशेषम्.सरिताम्.शीघ्र.जवाम्.अशोषयज्ञः । ३२.७४ स.तु.भिक्षुर्.इदम्.जहात्य्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् ॥ ३२.७५ यः.काम.गुणान्.प्रहाय.सर्वान्.छित्त्वा.काम.गतानि.बन्धनानि । ३२.७५ स.तु.भिक्षुर्.इदम्.जहात्य्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् ॥ ३२.७६ यो.नीवरणाम्.प्रहाय.पञ्च.त्व्.अनिघश्.छिन्न.कथम्.कथो.विशल्यः । ३२.७६ स.तु.भिक्षुर्.इदम्.जहात्य्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् ॥ ३२.७७ यस्य.वितर्का.विधूपितास्.त्व्.आध्यात्मम्.विनिवर्तिता.ह्य्.अशेषम् । ३२.७७ स.तु.भिक्षुर्.इदम्.जहात्य्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् ॥ ३२.७८ यस्य.हि.वनसा.न.सन्ति.केचिन्.मूलम्.चाकुशलस्य.यस्य.नष्टम् । ३२.७८ स.तु.भिक्षुर्.इदम्.जहात्य्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् ॥ ३२.७९ यस्य.ज्वरथा.न.सन्ति.केचिन्.मूलम्.चाकुशलस्य.यस्य.नष्टम् । ३२.७९ स.तु.भिक्षुर्.इदम्.जहात्य्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् ॥ ३२.८० यस्यानुशया.न.सन्ति.केचिन्.मूलम्.चाकुशलस्य.यस्य.नष्टम् । ३२.८० स.तु.भिक्षुर्.इदम्.जहात्य्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् ॥ ३२.८१ स.भिक्षुर्.यस्य.शीलानि.स.ध्यायी.यत्र.शुन्यता ।[.शून्यता.] ३२.८१ स.तु.भिक्षुर्.इदम्.जहात्य्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् ॥ ३२.८२ अरति.रति.सहो.हि.भिक्षुर्.एवम्.................. । ३२.८२ ..................रागानुशयम्.समुद्धरम्.हि ॥ ३३.१ न.नग्न.चर्या.न.जटा.न.पङ्का.नो.अनाशनम्.स्थण्डिल.शायिका.वा । ३३.१ न.रजो.मलम्.नोत्कुटुक.प्रहाणम्.शोधेत.मर्त्यम्.ह्य्.अवितीर्ण.काङ्क्षम् ॥ ३३.२ अलंकृतश्.चापि.चरेत.धर्मम्.क्षान्तो.दान्तो.नियतो.ब्रह्म.चारी । ३३.२ सर्वेषु.भूतेषु.निधाय.दण्डम्.स.ब्राह्मणः.स.श्रमणः.स.भिक्षुः ॥ ३३.३ भवेष्व्.एव.हि.सज्यन्त;एके.श्रमण.ब्राह्मणाः । ३३.३ अन्तरेण.विषीदन्ति.ह्य्.अप्राप्यैवास्रव.क्षयम् ॥ ३३.४ भवेष्व्.एव.हि.सज्यन्त;एके.श्रमण.ब्राह्मणाः । ३३.४ विगृह्य.विवदन्तीमे.बाला.ह्य्.एकान्त.दर्शिनः ॥ ३३.५ भवेष्व्.एव.हि.सज्यन्त;एके.श्रमण.ब्राह्मणाः । ३३.५ अन्तरेण.विषीदन्त्यप्राप्यैवोत्तमम्.पदम् ॥ ३३.६ किम्.ते.जटाभिर्.दुर्बुद्धे.किम्.चाप्य्.अजिन.शाटिभिः । ३३.६ अभ्यन्तरम्.ते.गहनम्.बाह्यकम्.परिमार्जसि ॥ ३३.६ किम्.ते.जटाभिर्.दुर्बुद्धे.किम्.चाप्य्.अजिन.शाटिभिः । ३३.६ अभ्यन्तरम्.ते.कलुषम्.बाह्यकम्.परिमार्जसि ॥ ३३.७ न.जटाभिर्.न.गोत्रेण.न.जात्या.ब्राह्मणः.स्मृतः । ३३.७ यस्य.सत्यम्.च.धर्मम्.च.स.शुचिर्.ब्राह्मणः.स.च ॥ ३३.८ न.जटाभिर्.न.गोत्रेण.न.जात्या.ब्राह्मणः.स्मृतः । ३३.८ यस्.तु.वाहयते.पापान्य्.अणु.स्थूलानि.सर्वशः ॥ ३३.८ f: वाहितत्वात्.तु.पापानाम्.ब्राह्मणो.वै.निरुच्यते ॥ ३३.९ न.मुण्डितेन.श्रमणो.न.भोः.कारेण.ब्राह्मणः । ३३.९ यस्य.सत्यम्.च.धर्मम्.च.ब्राह्मणः.श्रमणः.स.च ॥ ३३.१० न.मुण्डितेन.श्रमणो.न.भोः.कारेण.ब्राह्मणः । ३३.१० यस्.तु.वाहयते.पापान्य्.अणु.स्थूलानि.सर्वशः । ३३.१० f: वाहितत्वात्.तु.पापानाम्.ब्राह्मणः.श्रमणः.स.च ॥ ३३.११ नोदकेन.शुचिर्.भवति.बह्व्.अत्र.स्नाति.वै.जनः । ३३.११ यस्य.सत्यम्.च.धर्मम्.च.स.शुचिर्.ब्राह्मणः.स.च ॥ ३३.१२ प्रवाह्य.पापकान्.धर्मान्.ये.चरन्ति.सदा.स्मृताः । ३३.१२ क्षीण.सम्योजना.बुद्धा.ब्राह्मणास्.ते.प्रकीर्तिताः ॥ ३३.१३ यो.ब्राह्मणो.वाहित.पाप.धर्मो.निष्कौटिल्यो.निष्कषायः.स्थितात्मा । ३३.१३ वेदान्तगश्.चोषित.ब्रह्म.चर्यः.कालेनासौ.ब्रह्म.वादम्.वदेत ॥ ३३.१४ यस्मिन्.न.माया.वसते.न.मानो.यो.वीत.लोभो.ह्य्.अममो.निराशः । ३३.१४ प्रणुन्न.दोषो.ह्य्.अभिनिर्वृतात्मा.स.ब्राह्मणः.स.श्रमणः.स.भिक्षुः ॥ ३३.१५ ब्रवीमि.ब्राह्मणम्.नाहम्.योनिजम्.मातृ.सम्भवम् । ३३.१५ भो.वादी.नाम.स.भवति.स.चेद्.भवति.सकिंचनः । ३३.१५ f: अकिंचनम्.अनादानम्.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥ ३३.१६ यस्य.कायेन.वाचा.च.मनसा.च.न.दुष्कृतम् । ३३.१६ सुसंवृतम्.तृभिः.स्थानैर्.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥ ३३.१७ यो.अकर्कशाम्.विज्ञपनीम्.गिरम्.नित्यम्.प्रभाषते । ३३.१७ यया.नाभिषजेत्.कश्चिद्.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥ ३३.१८ आक्रोशान्.वध.बन्धांश्.च.यो.अप्रदुष्टस्.तितीक्षते ।[.तितिक्षते.] ३३.१८ क्षान्ति.व्रत.बलोपेतम्.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥ ३३.१९ अक्रोधनम्.व्रतवन्तम्.शीलवन्तम्.बहु.श्रुतम् । ३३.१९ दान्तम्.अन्तिम.शारीरम्.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥ ३३.२० असंसृष्टम्.गृहस्थेभिर्.अनगारैस्.तथोभयम् । ३३.२० अनोकसारिणम्.तुष्टम्.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥ ३३.२१ आगतम्.नाभिनन्दन्ति.प्रक्रमन्तम्.न.शोचति । ३३.२१ सङ्गात्.संग्रामजिन्.मुक्तो.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥ ३३.२२ आगतम्.नाभिनन्दन्ति.प्रक्रमन्तम्.न.शोचति । ३३.२२ अशोकम्.विरजम्.शान्तम्.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥ ३३.२३ अनन्य.पोषी.ह्य्.आज्ञाता.दान्तः.सारे.प्रतिष्ठितः । ३३.२३ क्षीणास्रवो.वान्त.दोषो.यः.स.वै.ब्राह्मणः.स्मृतः ॥ ३३.२४ यस्य.पारम्.अपारम्.च.पारापारम्.न.विद्यते । ३३.२४ पारगम्.सर्व.धर्माणाम्.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥ ३३.२५ यस्.तु.दीर्घम्.तथा.ह्रस्वम्.अणु.स्थूलम्.शुभाशुभम् । ३३.२५ लोके.न.किंचिद्.आदत्ते.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥ ३३.२६ यस्य.पारम्.अपारम्.च.पारापारम्.न.विद्यते । ३३.२६ असक्तम्.त्रिषु.लोकेषु.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥ ३३.२७ इहैव.यः.प्रजानाति.दुह्खस्य.क्षयम्.आत्मनः । ३३.२७ वीत.रागम्.विसम्युक्तम्.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥ ३३.२८ यस्.तु.पुण्यैस्.तथा.पापैर्.उभयेन.न.लिप्यते । ३३.२८ अशोकम्.निर्ज्वरम्.शान्तम्.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥ ३३.२९ यस्.तु.पुण्यम्.च.पापम्.चाप्य्.उभौ.सङ्गाव्.उपत्यगात् । ३३.२९ सङ्गातिगम्.विसम्युक्तम्.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥ ३३.२९ यस्य.पश्चात्.पुरे.चापि.मध्ये.चापि.न.विद्यते । ३३.२९ विरजम्.बन्धनम्.मुक्तम्.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥ ३३.३० वारि.पुष्कर.पत्त्रेणेवाराग्रेणेव.सर्षपः ।? ३३.३० न.लिप्यते.यो.हि.कामैर्.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥ ३३.३१ वारि.पुष्कर.पत्त्रेणेवाराग्रेणेव.सर्षपः ।? ३३.३१ न.लिप्यते.यो.हि.पापैर्.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥ ३३.३१ चन्द्रो.वा.विमलः.शुद्धो.विप्रसन्नो.ह्य्.अनाविलः । ३३.३१ न.लिप्यते.यो.हि.कामैर्.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥ ३३.३१ चन्द्रो.वा.विमलः.शुद्धो.विप्रसन्नो.ह्य्.अनाविलः । ३३.३१ न.लिप्यते.यो.हि.पापैर्.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥ ३३.३१ चन्द्रो.वा.विमलः.शुद्धो.विप्रसन्नो.ह्य्.अनाविलः । ३३.३१ नन्दी.भव.परिक्षीणम्.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥ ३३.३२ ध्यायिनम्.वीत.रजसम्.कृत.कृत्यम्.अनास्रवम् । ३३.३२ क्षीणास्रवम्.विसम्युक्तम्.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥ ३३.३३ गम्भीर.बुद्धिम्.मेधाढ्यम्.मार्गामार्गेषु.कोविदम् । ३३.३३ उत्तमार्थम्.अनुप्राप्तम्.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥ ३३.३४ यस्.तु.कश्चिन्.मनुष्येषु.भैक्षाचर्येण.जीवति । ३३.३४ अममो.अहिंसको.नित्यम्.धृतिमान्.ब्रह्मचर्यवान् । ३३.३४ f: आज्ञाय.धर्मम्.देशयति.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥ ३३.३५ सर्व.कामान्.विप्रहाय.यो.अनगारः.परिव्रजेत् । ३३.३५ कामास्रव.विसम्युक्तम्.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥ ३३.३६ निक्षिप्त.दण्डम्.भूतेषु.त्रसेषु.थावरेषु.च । ३३.३६ यो.न.हन्ति.हि.भूतानि.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥ ३३.३७ आकाशम्.इव.पङ्केन.रजसा.चन्द्रमा;इव । ३३.३७ न.लिप्यते.यो.हि.कामैर्.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥ ३३.३८ आकाशम्.इव.पङ्केन.रजसा.चन्द्रमा;इव । ३३.३८ न.लिप्यते.यो.हि.पापैर्.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥ ३३.३८ आकाशम्.इव.पङ्केन.रजसा.चन्द्रमा;इव । ३३.३८ नन्दी.भाव.परिक्षीणम्.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥ ३३.३९ अविरुद्धो.विरुद्धेषु.त्व्.आत्त.दण्डेषु.निर्वृतः । ३३.३९ हितानुकम्पी.भूतेषु.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥ ३३.४० यस्य.रागश्.च.दोषश्.च.मानो.ंरक्षश्.च.शातितः । ३३.४० न.लिप्यते.यश्.च.दोषैर्.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥ ३३.४१ य;इमाम्.परिखाम्.दुर्गाम्.संसारौघम्.उपत्यगात् । ३३.४१ तीर्णः.पार.गतो.ध्यायी.ह्य्.अनेयो.निष्कथम्.कथः । ३३.४१ f: निर्वृतश्.चानुपादाय.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥ ३३.४१ ......................... । ३३.४१ ......................... । ३३.४१ एf: ............ब्रवीमि.ब्राह्मणम्.हि.तम् ॥ ३३.४२ न.विद्यते.यस्य.तृष्णा.चास्मिन्.लोके.परेऽपि.च । ३३.४२ तृष्णा.भव.परिक्षीणम्.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥ ३३.४३ न.विद्यते.यस्य.चाशा.ह्य्.अस्मिन्.लोके.परेऽपि.च । ३३.४३ निराशिषम्.विसम्युक्तम्.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥ ३३.४४ हित्वा.रतिम्.चारतिम्.च.शीती.भूतो.निरौपधिः । ३३.४४ सर्व.लोकाभिभूर्.धीरो.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥ ३३.४५ हित्वा.मनुष्यकान्.कामान्.दिव्यान्.कामान्.उपत्यगात् । ३३.४५ सर्व.लोक.विसम्युक्तम्.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥ ३३.४६ गतिम्.यस्य.न.जानन्ति.देव.गन्धर्व.मानुषाः । ३३.४६ अनन्त.ज्ञान.सम्युक्तम्.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥ ३३.४७ पूर्वे.निवासम्.यो.वेत्ति.स्वर्गापायांश्.च.पश्यति ।[.स्वर्गापायांश्.च.] ३३.४७ अथ.जाति.क्षयम्.प्राप्तो.ह्य्.अभिज्ञा.व्यवसितो.मुनिः । ३३.४७ f: दुह्खस्यान्तम्.प्रजानाति.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥ ३३.४७ ........................ । ३३.४७ ..............ब्रवीमि.ब्राह्मणम्.हि.तम् ॥ ३३.४८ च्युतिम्.यो.वेत्ति.सत्त्वानाम्.उपपत्तिम्.च.सर्वशः । ३३.४८ असक्तः.सुगतो.बुद्धो.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥ ३३.४९ सर्व.सम्योजनातीतो.यो.वै.न.परितस्यते ।[.परितप्यते.]? ३३.४९ असक्तः.सुगतो.बुद्धो.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥ ३३.५० ऋषभम्.प्रवरम्.नागम्.महर्षिम्.विजिताविनम् । ३३.५० अनेयम्.स्नातकम्.बुद्धम्.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥ ३३.५०_ ऋषभः.प्रवरो.नागो.महर्षिर्.विजिताविनः । ३३.५०_ यो.अनेयः.स्नातको.बुद्धो.ब्राह्मणम्.तम्.ब्रवीम्य्.अहम् ॥ ३३.५१ सर्वाभिभूम्.भवातीतम्.ओघ.तीर्णम्.अनास्रवम् । ३३.५१ पारम्.गतम्.विसम्युक्तम्.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥ ३३.५१_ सर्वाभिभूर्.भवातीत;ओघ.तीर्णो.विनायकः । ३३.५१_ पारगो.ह्य्.विसम्युक्तः.ब्राह्मणम्.तम्.ब्रवीम्य्.अहम् ॥ ३३.५२ गताभिध्यम्.वीत.जल्पम्.पाप.चित्त.विवर्जितम् । [.गताभिध्यम्.] ३३.५२ ध्यायिनम्.वीत.रजसम्.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥ ३३.५२_ नाभिध्यायेन्.नाभिजल्पेत्.पापकानाम्.विवर्जयेत् । ३३.५२_ आसीनो.विरजा.ध्यायी.ब्राह्मणम्.तम्.ब्रवीम्य्.अहम् ॥ ३३.५३ पांसु.कूल.धरम्.भिक्षुम्.कामेषु.निरवेक्षिणम् । ३३.५३ ध्यायन्तम्.वृक्ष.मूलस्थम्.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥ ३३.५३_ पांसु.कूल.धरो.ह्रीमान्.कामेषु.निरवेक्षकः । ३३.५३_ निषण्णो.वृक्ष.मूले.यो.ब्राह्मणम्.तम्.ब्रवीम्य्.अहम् ॥ ३३.५४ यस्यालयो.नास्ति.सदा.यो.ज्ञाता.निष्कथम्.कथः । ३३.५४ अमृतम्.चैव.यः.प्राप्तो.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥ ३३.५५ यस्यालयो.नास्ति.सदा.यो.ज्ञाता.निष्कथम्.कथः । ३३.५५ दूरम्.गमश्.चैक.चरो.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥ ३३.५५_ दूरम्.गमम्.एक.चरम्.अशरीरम्.गुहाशयम् । ३३.५५_ तेनै.............कस्य.ब्राह्मणम् । ३३.५५ f: ......... उ..................ब्राह्मणम्.तम्.ब्रवीम्य्.अहम् ॥ ३३.५६ येषाम्.च.भावितो.मार्गः.आर्यो.ह्य्.अष्टाङ्गिकः.शिवः । ३३.५६ सर्व.दुह्ख.प्रहाणाय.लोकेषु.ब्राह्मणा.हि.ते ॥ ३३.५७ अरूपिणम्.सदा.चित्तम्.असारम्.अनिदर्शनम् । ३३.५७ दमयित्वा.ह्य्.अभिज्ञाय.ये.चरन्ति.सदा.स्मृताः । ३३.५७ f: क्षीण.सम्योजना.बुद्धा.लोकेषु.ब्राह्मणा.हि.ते ॥ ३३.५७_ अरूपम्.अनिदर्शनम्.अनन्तम्.असुदर्शनम् । ३३.५७_ सूक्ष्मम्.पदम्.अभिज्ञाय.ये.चरन्ति.सदा.स्मृताः । ३३.५७_एf: क्षीण.सम्योजना.बुद्धास्.ते.लोके.ब्राह्मणा;इह ॥ ३३.५७ ............................. । ३३.५७ ............................. । ३३.५८ छित्त्वा.नद्ध्रीन्.वरत्रान्.च.संतानम्.दुरतिक्रमम् । ३३.५८ उत्क्षिप्त.परिखम्.बुद्धम्.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥ ३३.५८_ छित्त्वा.नद्ध्रीन्.वरत्रान्.ये.संतानम्.दुरतिक्रमम् । ३३.५८_ उत्क्षिप्त.परिखा.बुद्धास्.ते.लोके.ब्राह्मणा;इह ॥ ३३.५९ छित्त्वा.नद्ध्रीन्.वरत्रान्.चेच्छा.लोभम्.च.पापकम् । ३३.५९ तृष्णाम्.समूलाम्.आवृह्य.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥ ३३.५९_ छित्त्वा.नद्ध्रीन्.वरत्रान्.ये इच्छा.लोभम्.च.पापकम् । ३३.५९_ समूलाम्.चोद्धृतास्.तृष्णाम्.ते.लोके.ब्राह्मणा;इह ॥ ३३.६० छिन्द्धि.स्रोतः.पराक्रम्य.कामान्.प्रणुद.ब्राह्मण । ३३.६० संस्काराणाम्.क्षयम्.ज्ञात्वा.ह्य्.अकृतज्ञो.भविष्यति ॥ ३३.६०_ छिन्द्धि.स्रोतः.पराक्रम्य.कामान्.सर्वान्.प्रणुद.च । ३३.६०_ संस्काराणाम्.क्षयम्.ज्ञात्वा.ब्राह्मणो.याति.हानिघः ॥ ३३.६१ मातरम्.पितरम्.हत्वा.राजानम्.द्वौ.च.स्श्रोत्रियौ । ३३.६१ राष्ट्रम्.सानुचरम्.हत्वानिघो.याति.ब्राह्मणः ॥ ३३.६२ मातरम्.पितरम्.हत्वा.राजानम्.द्वौ.च.श्रोत्रियौ । ३३.६२ व्याघ्रम्.च.पञ्चमम्.हत्वा.शुद्ध;इत्य्.उच्यते.नरः ॥ ३३.६३ न.ब्राह्मणस्य.प्रहरेन्.न.च.मुञ्चेत.ब्राह्मणः । ३३.६३ धिग्.ब्राह्मणस्य.हन्तारम्.धिक्.तम्.यश्.च.प्रमुञ्चति ॥ ३३.६३ .............................. । ३३.६३ .............................. । ३३.६४ यस्य.धर्मम्.विजानीयाद्.वृद्धस्य.दहरस्य.वा । ३३.६४ सत्कृत्यैनम्.नमस्येत.ह्य्.अग्नि.होत्रम्.इव.द्विजः ॥ ३३.६५ यस्य.धर्मम्.विजानीयाद्.वृद्धस्य.दहरस्य.वा । ३३.६५ सत्कृत्यैनम्.परिचरेद्.अग्नि.होत्रम्.इव.द्विजः ॥ ३३.६६ यस्य.धर्मम्.विजानीयाद्त्.सम्यक्.सम्बुद्ध.देशितम् । ३३.६६ सत्कृत्यैनम्.नमस्येत.ह्य्.अग्नि.होत्रम्.इव.द्विजः ॥ ३३.६७ यस्य.धर्मम्.विजानीयात्.सम्यक्.सम्बुद्ध.देशितम् । ३३.६७ सत्कृत्यैनम्.परिचरेद्.अग्नि.होत्रम्.इव.द्विजः ॥ ३३.६८ यदा.हि.स्वेषु.धर्मेषु.ब्राह्मणः.पारगो.भवेत् । ३३.६८ अथ.चैकः.पिशाचीम्.च.बक्कुलम्.चातिवर्तते ॥ ३३.६९ यदा.हि.स्वेषु.धर्मेषु.ब्राह्मणः.पारगो.भवेत् । ३३.६९ अथास्य.वेदनाः.सर्वे;अस्तम्.गच्छन्ति.पश्यतः ॥ ३३.७० यदा.हि.स्वेषु.धर्मेषु.ब्राह्मणः.पारगो.भवेत् । ३३.७० अथास्य.प्रत्ययाः.सर्वे;अस्तम्.गच्छन्ति.पश्यतः ॥ ३३.७१ यदा.हि.स्वेषु.धर्मेषु.ब्राह्मणः.पारगो.भवेत् । ३३.७१ अथास्य.चास्रवाः.सर्वे;अस्तम्.गच्छन्ति.पश्यतः ॥ ३३.७२ यदा.हि.स्वेषु.धर्मेषु.ब्राह्मणः.पारगो.भवेत् । ३३.७२ अथास्य.सर्व.सम्योगा;अस्तम्.गच्छन्ति.पश्यतः ॥ ३३.७३ यदा.हि.स्वेषु.धर्मेषु.ब्राह्मणः.पारगो.भवेत् । ३३.७३ अथ.जाति.जराम्.चैव.मरणम्.चातिवर्तते ॥ ३३.७४ दिवा.तपति.हादित्यो.रात्राव्.आभाति.चन्द्रमाः । ३३.७४ सन्नद्धः.क्षत्रियस्.तपति.ध्यायी.तपति.ब्राह्मणः । ३३.७४ f: अथ.नित्यम्.अहो.रात्रम्.बुद्धस्.तपति.तेजसा ॥ ३३.७५ न.ब्राह्मणस्येदृशम्.अस्ति.किंचिद्.यथा.प्रियेभ्यो.मनसो.निषेधः । ३३.७५ यथा.यथा.ह्य्.अस्य.मनो.निवर्तते.तथा.तथा.संवृतम्.एति.दुह्खम् ॥ ३३.७६ यदा.त्व्.इमे.तु.प्रभवन्ति.धर्मा;आतापिनो.ध्यायतो.ब्राह्मणस्य । ३३.७६ अथास्य.काङ्क्षा.व्यपयान्ति.सर्वा.यदा.प्रजानाति.सहेतु.दुह्खम् ॥ ३३.७७ यदा.त्व्.इमे.तु.प्रभवन्ति.धर्मा;आतापिनो.ध्यायतो.ब्राह्मणस्य । ३३.७७ अथास्य.काङ्क्षा.व्यपयान्ति.सर्वा.यदा.प्रजानाति.सहेतु.धर्मम् ॥ ३३.७८ यदा.त्व्.इमे.तु.प्रभवन्ति.धर्मा;आतापिनो.ध्यायतो.ब्राह्मणस्य । ३३.७८ अथास्य.काङ्क्षा.व्यपयान्ति.सर्वा.यदा.क्षयम्.प्रत्ययानाम्.उपैति ॥ ३३.७९ यदा.त्व्.इमे.तु.प्रभवन्ति.धर्मा;आतापिनो.ध्यायतो.ब्राह्मणस्य । ३३.७९ अथास्य.काङ्क्षा.व्यपयान्ति.सर्वा.यदा.क्षयम्.वेदनानाम्.उपैति ॥ ३३.८० यदा.त्व्.इमे.तु.प्रभवन्ति.धर्मा;आतापिनो.ध्यायतो.ब्राह्मणस्य । ३३.८० अथास्य.काङ्क्षा.व्यपयान्ति.सर्वा.यदा.क्षयम्.ह्य्.आस्रवाणाम्.उपैति ॥ ३३.८१ यदा.त्व्.इमे.तु.प्रभवन्ति.धर्मा;आतापिनो.ध्यायतो.ब्राह्मणस्य । ३३.८१ अवभासयंस्.तिष्ठति.सर्व.लोकम्.सूर्यो.यथैवाभ्युदितो.अन्तरीक्षम् ॥ ३३.८२ यदा.त्व्.इमे.तु.प्रभवन्ति.धर्मा;आतापिनो.ध्यायतो.ब्राह्मणस्य । ३३.८२ अवभासयंस्.तिष्ठति.सर्व.लोकम्.बुद्धो.हि.सम्योजन.विप्रमुक्तः ॥ ३३.८३ यदा.त्व्.इमे.तु.प्रभवन्ति.धर्मा;आतापिनो.ध्यायतो.ब्राह्मणस्य । ३३.८३ विधूपयंस्.तिष्ठति.मार.सैन्यम्.बुद्धो.हि.सम्योजन.विप्रमुक्त;इति ॥ : उद्दानम्॥ : अनित्य.काम.तृष्णा.चाप्रमादस्.तथा.प्रियः । : शीलम्.सुचरितम्.वाच.कर्म.श्रद्धा.च.ते.दशः ॥ : श्रमणो.मार्ग.सत्कारो.द्रोह.स्मृति.प्रकीर्णकः । : उदकम्.पुष्पम्.अश्वश्.च.सह.क्रोधेन.ते.दशः ॥ : तथा.गतः.श्रुतम्.चात्मा.पेयालम्.मित्र.पञ्चमम् । : निर्वाणम्.पश्य.पापम्.च.युग.वर्गः.सुखेन.च । : चित्तम्.भिक्षुर्.ब्राह्मणश्.च.त्रयस्.त्रिंशतिमे.स्मृताः । : वर्गाः.समाप्ताश्.चोद्दानम्.सम्यक्.सम्बुद्ध.भाषिताः ॥