स्वयम्भूधर्मधातुसमुत्पत्ति निदानकथा ओं नमः श्री धर्मधातुवागीश्वराय सर्व बुद्धधर्मबोधिसत्त्वेभ्यः । श्रीमता येन सद्धर्मस्त्रैलोके संप्रकाशितः । श्रीघनं तं महाबुद्धं वन्देकऽहं शरणाश्रितः ॥ १.१ ॥ नत्वा त्रिजगदीशानं धर्मधातुजिनालयम् । तत्स्वयम्भूसमुद्देशं वक्षामि शृणुतादरात् ॥ १.२ ॥ श्रद्धया यः शृणोतीमां स्वयम्भूत्पत्तिसत्कथाम् । परिशुद्धत्रिकायाः स बोधिसत्त्वो भवेद्ध्रुवम् ॥ १.३ ॥ तद्यथा भूत्पुराभिज्ञः जयश्री सुगतात्मजः । बोधिमण्डविहारे स बिजहार ससांधिकः ॥ १.४ ॥ तत्र जिनेश्वरो नाम बोधिसत्त्व महामतिः । श्रद्धया शरणं गत्वा जयश्रीयमुपाश्रयेत् ॥ १.५ ॥ तदा धीमान्जयश्रीः स सर्वसत्त्व हितार्थवित् । सद्धर्मसमुपादेष्टुं सभासने समाश्रयेत् ॥ १.६ ॥ तत्र सर्वे महासत्त्वा बोधिसत्त्वा जिनात्मजाः । अर्हन्तो भिक्षवश्चापि ब्रह्मचारिणः श्रावकाः ॥ १.७ ॥ भिक्षुण्यो ब्रह्मचारिण्यो ब्रतिनश्चाप्युपासकाः । उपासिकास्तथान्येऽपि गृहस्थश्च महाजनाः ॥ १.८ ॥ ब्राह्मणास्तिर्थीकाश्चापि यतयश्च तपस्विनः । राजानो मन्त्रिणोमात्याः सैन्याधिपतिश्च पौरिकाः ॥ १.९ ॥ ग्राम्या जनपदाश्चापि तथान्यवासिनो जनाः । तत्सद्धर्मामृतं पातुं श्रद्धया समुपागताः ॥ १.१० ॥ तत्र सभासनासीनं तमर्हतं जयश्रीयम् । अभ्यर्च्य सादरं नत्वा तत्सभायां यथाक्रमम् ॥ १.११ ॥ कृतांजलिपुटाः सर्वे परिवृत्य समन्ततः । पुरस्कृत्य समुद्विक्ष्य समाश्रयन् समाहिताः ॥ १.१२ ॥ तान् सर्वान् समुपासीनान् सद्धर्म श्रवणोत्सुकान् । दृष्ट्वा जिनश्री बोधिसत्त्वः समुत्थितः ॥ १.१३ ॥ उद्वहन्नुत्तरासंगं सांजलि समुपाश्रितः । जानुभ्यां भूतले धृत्वा सम्पश्यन्नेवमव्रवीत् ॥ १.१४ ॥ भदन्तोहर्षमिच्छामि चरितुं बोधिसंवरम् । तदादौ किं व्रतं धृत्वा संचरेय समाहितः ॥ १.१५ ॥ तद्भवान् समुपादिस्य सर्वानस्मान् प्रबोधयन् । बोधिमार्गे समायुज्य चारयितुं शुभेर्हति ॥ १.१६ ॥ इति संप्रार्थितं तेन श्रुत्वा च सुगतात्मजः । जयश्रीस्तं महासत्त्वं सभामन्त्रैवमादिशत् ॥ १.१७ ॥ शृणु वत्सास्ति ते वांछा सम्बोधिसंवरे यदि । यथाक्रमं प्रवक्षामि संबोधिव्रतसाधनम् ॥ १.१८ ॥ यो वांछा तत्र संसारे चरितुं बोधिसंवरम् । स आदौ शरणं गत्वा सद्गुरुं समुपाश्रयेत ॥ १.१९ ॥ तदुपदेशमासाद्य यथाविद्यि समाहितः ॥ १.२० ॥ तीर्थे स्नात्वा विशुद्धात्मा त्रिरत्नशरणं गताः । यथाविधि समभ्यर्च्य संबोधि निहिताशयः ॥ १.२१ ॥ उपोषधंव्रतमाधाय समाचरेज्जगद्धिते । एवं यश्चरते नित्यं संबोधिमानसः सुधीः ॥ १.२२ ॥ परिशुद्ध त्रिकायः स बोधिसत्त्वे भवेद् । बोधिसत्त्वो महासत्त्वः सर्व्वसत्त्व हितार्थभृत् ॥ १.२३ ॥ क्रमात्संबोधि संभारं संपूरयेत्समाहितः । एतत्पुण्याभियुक्तात्माचतुर्ब्रह्म विहारधृक् ॥ १.२४ ॥ निःक्लेशो निर्ज्जयन्मारोन संबोधिः समवाप्नुयात् ॥ १.२५ ॥ एवं सर्वत्र लोकेषु सद्धर्म संप्रकाशयन् । समाप्य सौगतंकार्य सुनिर्वृतिमवाप्नुयात् ॥ १.२६ ॥ ततोऽर्हं सुगतो भूत्वा सर्व्वान्सत्त्वान्प्रवोधयन् । बोधिमार्गे प्रतिष्ठाप्य संवृत्तौ संप्रचारयेत् ॥ १.२७ ॥ एवं सर्वेऽपि संबुद्धाः येतीता अप्यनागताः । वर्त्तमानाश्च ते हयेतद्व्रतपुण्य विपाकतः ॥ १.२८ ॥ बोधिप्राप्य जिना आसन्भविष्यन्ति भवन्त्यपि । एवं सर्वे महासत्त्वा बोधिसत्त्वा जिनात्मजाः ॥ १.२९ ॥ अर्हन्तोऽपि था सर्वे परिशुद्धत्रिमण्डलाः । बोधिं प्राप्य सुनिर्वाणं याता यास्यन्ति यान्त्यतः ॥ १.३० ॥ एवं यूयं परिज्ञाय यदेच्छथ सुनिवृतिम् । त्रिरत्नशरणं गत्वा संचरध्वमिदं व्रतम् ॥ १.३१ ॥ इति तेन समादिष्टं श्रुत्वा स सुगतात्मजः । जिनेश्वरं तमर्हन्तं सम्पश्यन्नेवमव्रवीत् ॥ १.३२ ॥ भदन्त श्रोतुमिछामि तद्व्रतस्थानमुत्तमम् । एतद्व्रतं चरेत्कुत्र तद्देशं समुपादिशत् ॥ १.३३ ॥ इति संप्रार्थिते तेन जयश्रीः स महामतिः । जिनेश्वरं महासत्त्वं तं पश्यन्नेवमादिशत् ॥ १.३४ ॥ शृणु वत्स समाधायं व्रतस्थानसमुत्तमम् । मुनीश्वरैर्यथाख्यातं तथा वक्षामि तेऽधुना ॥ १.३५ ॥ पुण्यक्षेत्रेषु तीर्थेषु विहारे सुगताश्रमे ॥ बुद्धानां निवृतानांच चैत्येषु प्रतिमासु च ॥ १.३६ ॥ बुद्धक्षेत्रेषु सर्वत्र व्रतस्थानं समुत्तमम् । एतेष्वमि समाख्यातं स्वयम्भूचैत्यमुत्तमम् ॥ १.३७ ॥ एवं विज्ञाय यो धीमान्व्रतं चरितुमिच्छति । स स्वयम्भू जिनक्षेत्रमाश्रित्य चरतां व्रतम् ॥ १.३८ ॥ स्वयम्भूक्षेत्रमाश्रित्य यश्चरति व्रतं मुदा । स लभेत्तन्महत्पुण्यमक्षयं बोधिसाधनम् ॥ १.३९ ॥ एतत्पुण्यं विशुद्धात्मा भद्रश्री सद्गुणाश्रयः । बोधिसत्त्वो महाभिज्ञा भवज्जिनात्मजो ध्रुवम् ॥ १.४० ॥ दुर्गतिं न ब्रजेत्क्वापि संसारे स कदाचन । सदा सद्गतिसंजातो बोधिचर्याव्रतं चरेत् ॥ १.४१ ॥ एवं स संसरल्लोके कृत्वा सर्वत्र भद्रता । संबोधि प्रणिधिं धृत्वा संचरे तद्जगद्धिते ॥ १.४२ ॥ एवं च बोधि संभारं पूरयित्वा यथाक्रमम् । त्रिविधां बोधिमासाद्यः निर्वृतिपदमाप्नुयात् ॥ १.४३ ॥ एवं यूयं परिज्ञात्वाः स्वयम्भूस्थान आश्रिता । त्रिरत्नशरणं गत्वा संचरथ व्रतोत्तमम् ॥ १.४४ ॥ एतत्तेनार्हतादिष्टं श्रुत्वा स सुगतात्मजः । जयश्रियं तमर्हन्तं सम्पश्यन्नेवमब्रवीत् ॥ १.४५ ॥ भदन्त भवता दिष्टं श्रुत्वा मे रोचते मनः । स्वयम्भूचैत्यमाराध्य चरितुं व्रतमाभवम् ॥ १.४६ ॥ स्वयम्भू चैत्यराजः श्रीधर्मधातु जिनालयः । कुत्रास्त्यत्र महीलोके तत्समादेष्टुमर्हति ॥ १.४७ ॥ इति सप्रार्थितं तेन श्रुत्वां सोऽर्हन् यतिः सुधीः । जयश्री स्तं महासत्त्व समालोक्यैवमादिशत ॥ १.४८ ॥ विद्यतेऽत्र महीलोके उत्तरस्यां हिमालये । नेपाल इति विख्यातेः गोपुच्छाख्येर्नगोत्तमः ॥ १.४९ ॥ तद्गिरेर्नाम चातुर्ध्य चतुर्युगेषु वर्तते । तद्यथाभूद्युगे सत्ये पद्मगिरिरिति स्मृतः ॥ १.५० ॥ त्रेतायां वज्रकूटाख्यो गोशृंगो द्वापरे स्मृतः । इदानीं तु कलौऽसौ गोपुच्छ इति विश्रुतः ॥ १.५१ ॥ सोऽपिशैलो इदानीतु लोकै नेपाल देशकैः । साम्हेगुरिति विख्यात स्तथासंप्रस्थितो भुवि ॥ १.५२ ॥ स सर्वधातुरलादि सर्वद्रव्यमयोक्तमः । अश्वत्थ प्रमुखैर्सवैर्पादपैः संप्रशोभितः ॥ १.५३ ॥ सर्वत्र कुसुमैर्कान्तः संर्वोषधिफलद्रुमैः । सर्वपक्षिविरावैश्चः भ्रमद्भ्रमरनिस्वनैः ॥ १.५४ ॥ जन्तुभिः सकलः स्नेह निवद्धमैत्रमानसैः । तपस्विवद्धया भद्रचारिभिः सनिषेवितः ॥ १.५५ ॥ अष्टांग गुणसंपन्न संशुद्धामृतनिर्झरैः । शोभितः पुष्पगंधाधि संवासितैः समीरणैः ॥ १.५६ ॥ संसेवितः सदा दिव्य महोत्साहैर्विवाजितः । सर्वलोकाधिपैर्नित्यं संसेवितः समादरैः ॥ १.५७ ॥ तत्र रत्नमय पद्मः कर्ण्णिकायां समाश्रितः । दिव्य स्फटिकरत्नाभज्योतिरूपो निरञ्जनः ॥ १.५८ ॥ एकहस्तः प्रमानोच्चश्चैत्यरूपो जिनाश्रयः । स्वयम्भूः सर्वलोकानां भद्रार्थ समवस्थितः ॥ १.५९ ॥ ब्रह्म शक्रादिभिर्देवैः सर्वैल्लोकाधिपैरपि । सर्वैर्दैत्याधिपैश्चापि नागेन्द्रैः गरुडैरपि ॥ १.६० ॥ सिद्धै विद्याधरैः साध्यैरूर्यक्षगन्धर्वकिन्नरैः । राक्षसेन्द्रैश्च रुद्रैश्च ग्रहैस्तारागणैरपि ॥ १.६१ ॥ वसुभिश्चाप्सरोभिश्चः सर्वैश्व त्रिदशाधिपैः । ऋषिभिर्यतिभिः सर्वै योगिभि ब्रह्मचारिभिः ॥ १.६२ ॥ सर्वैश्च तीर्थिकै विज्ञैस्तापसैश्चापिसज्जनैः । दिवानिशं चतुः संध्यं दृष्ट्वा स्मृत्वा प्रवन्दितः ॥ १.६३ ॥ नित्यकालं समागते समभ्यर्च्य समादरात् । संस्तुतिभिः महोत्साहैः संमानिताभिवन्दितः ॥ १.६४ ॥ एवं स त्रिजगन्नाथः स्वयम्भू धर्मधातुकः । सर्वलोक हितार्थेन संभाषयन्समास्थितः ॥ १.६५ ॥ इदानीन्तु कलौ लोका दुष्टाः क्रूराशया शठाः । दृष्टवेदं धर्मधातुं हि हरिष्यन्ति न संशयः ॥ १.६६ ॥ इत्यसौ शिलयाछाद्य गुप्ति कृत्वा प्रकाशितः । तदुपरिष्टीकाभिश्च विधाय चैत्यमुत्तम ॥ १.६७ ॥ छात्रध्वजपताकाभिरलंकृत्याध्यतिष्ठतम् । तत्रापि सर्वलोकैश्च सर्वलोकाधिपैरपि ॥ १.६८ ॥ समागत्य समाराध्य समभ्यर्च्याभिवन्दितः । सत्कारैश्च महोत्साहैः स्तुतिप्रदक्षिणादिभिः ॥ १.६९ ॥ प्रणामैश्च समाराध्य सेवितो मानितोऽर्चितः । एवं स त्रिजगन्नाथो धर्मधातु जिनालयः ॥ १.७० ॥ सर्वसत्त्व शुभार्थेन संशोभिता व्यवस्थितः । तत्र ये शरणं गत्वा यान्ति शुद्धया मुदा ॥ १.७१ ॥ दुर्ग्गतिं ते न गछन्ति संसारेऽत्र कदाचन । सद्गतावेव संजाता धर्म्मश्री संघशोभिता ॥ १.७२ ॥ बोधिसत्त्वा महासत्त्वाः परिशुद्धत्रिमण्डलाः । भद्रश्री सद्गुणधारा सर्वसत्त्व हितंकराः ॥ १.७३ ॥ बोधिचर्याव्रतं धृत्वा संचरे जगद्धिते । एवं यूयमपि ज्ञात्वा श्रद्धया शरण गताः ॥ १.७४ ॥ स्वयम्भूचैत्यमाराध्य संचरध्वं व्रतं सदा । एवं कृत्वात्र संसारे भद्रश्री सद्गुणाश्रया ॥ १.७५ ॥ बोधिसत्त्वा महासत्त्वा जिनात्मजा भविष्यथः । ततः संबोधिसंभारं पूरयित्वा यथाक्रमम् ॥ १.७६ ॥ त्रिविधां बोधिमासाद्य संबुद्धपदमाप्स्यथः । इति तेन समादिष्टं निशंम्य स महामतिः ॥ १.७७ ॥ शास्तारं तं समालोक्य पुनरेवमवोचत । भदन्त श्रोतुमिच्छामि यत्स्वयम्भू जिनालयः ॥ १.७८ ॥ कदा स्वयं समुत्पन्नः कथं च तदुपादिश । इति संप्रार्थित तेन श्रुत्वा सोऽर्हन् यतिः सुधीः ॥ १.७९ ॥ जयश्रीस्तं महासत्त्वं संपश्यन्नेवमादिशत् । साधु शृणु महाभाग यथा मया श्रुतं गुरोः ॥ १.८० ॥ तथाहं ते प्रवक्षामि स्वयम्भूत्पत्तिसत्कथाम् । तद्यथा पाटलीपुत्रे पुरेऽशोको नराधिपः ॥ १.८१ ॥ सद्धर्म साधनोत्साही त्रिरत्नसेवकोऽभवत् । स तत्र कुक्कुटारामे विहारे सुगताश्रमे ॥ १.८२ ॥ उपगुप्तं महाभिज्ञं वन्दितुं समुपाचरेत् । तदा सोऽर्हन्महाभिज्ञः सर्वसंघपुरस्कृतः ॥ १.८३ ॥ सभामध्यासनासीनस्तस्थौ ध्यात्वा समाहितः । तमर्हतं सभासीनं सर्वसंघपुरस्कृतः ॥ १.८४ ॥ दृष्ट्वाशोकः स भूमीन्द्रो मुदितः समुपाचरत् । तत्र स सहसोपेत्य साञ्जलिरर्हतो यतीन् ॥ १.८५ ॥ सर्वान्नत्वोपगुप्तं तमष्टांगैः प्राणमन्मुदा । ततस्तं गुरुमर्हन्तं महोत्साहैः यथाविधिम् ॥ १.८६ ॥ समभ्यर्च्य प्रणत्वा च धर्मं श्रोतुमुपाश्रयत् । तथा तत्मन्त्रिणः सर्वे सामात्यसचिवो जनाः ॥ १.८७ ॥ तमर्हन्तं यतिन्नत्वा तत्रैकान्तमुपाश्रयत् । ततः सोऽर्हन्महाभिज्ञो दृष्ट्वा सर्वा समाश्रितान् ॥ १.८८ ॥ आदिमध्यान्तकल्याणं सद्धर्मसमुपादिशत् । तत्सद्धर्मामृतं पीत्वा सर्वे लोकाः प्रवोधिताः ॥ १.८९ ॥ धर्मविशेषमाज्ञाय संबोधिव्रतमीच्छिरे । ततः सोऽपि महाराजः श्रुत्वा तद्धर्ममुत्तमम् ॥ १.९० ॥ संबोधिसाधनोचर्या संचरितुं समैच्छत । ततः स नृपती राजा साञ्जलिः समुपाश्रितः ॥ १.९१ ॥ तमर्हन्तं महासत्त्वं नत्वा पश्यं मुदावदत् । भदन्त श्रोतुमिच्छामि संबोधिसाधनं व्रतम् ॥ १.९२ ॥ कुत्र पुण्यतमं क्षत्रं यत्राशु सिध्यते व्रतम् । तद्भवान् समुपादिश्य सर्वांल्लोकान् प्रबोधयन् ॥ १.९३ ॥ बोधिमार्गे समायुज्य संचारयितुमर्हति ॥ इति संप्रार्थिते राज्ञा श्रुत्वा सोऽर्हन्महामतिः ॥ १.९४ ॥ तमशोकं महीपालं सम्पश्यन्नेवमब्रवीत् । साधु शृणु महाराज यथा मे गुरुणोदितम् ॥ १.९५ ॥ तथाहं ते प्रवक्षामि बोधिव्रतं यदीच्छसि । सर्वक्षत्रोत्तमो राजन्नुत्तरस्यां हिमालये ॥ १.९६ ॥ नेपाले इति विख्यातो यत्राशु सिध्यते व्रतम् । तत्राप्यति महत्पुण्यक्षत्रं बुद्धैः प्रशंसितम् ॥ १.९७ ॥ स्वयम्भूचैत्यराजस्य धर्मधातोः समाश्रयम् । तत्र यद्यत्कृतं कर्म तत्तत्संसिध्यते दुतम् ॥ १.९८ ॥ इति सर्वै महासत्त्वैः संसेवितं जिनैरपि । इति विज्ञाय राजेन्द्र सम्बोधिं यदि वाञ्छसि ॥ १.९९ ॥ तच्चैत्यशरणं गत्वा संचरस्व सुसंवरम् । एतत्पुण्यविशुद्धात्मा भद्रश्री सद्गुणर्द्धिमान् ॥ १.१०० ॥ बोधिसत्त्वो महाभिज्ञो भवेः सर्वहितार्थभृत् । ततः क्रमेन सम्बोधिं संभारं परिपूरयन् ॥ १.१०१ ॥ निःक्लेशोऽर्हञ्जगन्नाथाः सम्बुद्धपदमाप्स्यसि । इति तेनार्हतादिष्टं निशम्य स नृपो मुदा ॥ १.१०२ ॥ उपगुप्तं गुरुं नत्वा पप्रच्छैवं समादरात् । भदन्त श्रोतुमिछामि स्वयम्भूत्पत्ति सत्कथाम् ॥ १.१०३ ॥ कदा स्वयं समुत्पन्नं स्तत्समादेष्टुमर्हति । इति संप्रार्थितं राज्ञा श्रुत्वा सोऽर्हन् यतिः सुर्धीः ॥ १.१०४ ॥ अशोकं तं महीपालं सम्पश्यन्नेवमादिशत् । साधु राजन् यथादिष्टं गुरुणा मे श्रुतं मया ॥ १.१०५ ॥ तथाहं संप्रवक्षामि शृणुष्व तत्समाहितः । तदा चासौ जगच्छास्ता शाक्यमुनिस्तथागतः ॥ १.१०६ ॥ सर्वज्ञो धर्मराजोऽर्हन्मुनीश्वरो विनायकः । स सर्वः सांधिकैः सार्द्धं जनपदेषु संचरन् ॥ १.१०७ ॥ एकस्मिन् समये तत्र नेपाले समुपाचरत् । गोपुच्छपर्व्वतपार्श्वे पश्चिमे श्रीस्वयम्भूवः ॥ १.१०८ ॥ पुच्छाग्रोऽभिध चैत्यस्यसंन्निधौ सुगताश्रमे । सर्वसत्त्वहितार्थेन पूर्णन्दुरिव भासयन् ॥ १.१०९ ॥ सद्धर्म्म समुपार्देष्टुं विजहार ससांधिकः । यदा स भगवाञ्छास्तान् सत्त्वानां धर्म्म वृद्धये ॥ १.११० ॥ सद्धर्म्म समुपादेष्टुं सभासने समाश्रयत् । तं दृष्ट्वा तदा तत्र मञ्जुश्रियः ममाश्रमे ॥ १.१११ ॥ विहारे वासिनी चूडाभिधानी ब्रह्मचारिणी । अर्हन्ती भिक्षुणी भद्रा सद्धर्म्मगुणवाञ्छिनी ॥ १.११२ ॥ सुप्रसन्नाश्रया शुद्धा काषाय चीवरावृता । दिव्यपूजोपचाराणि समादाय प्रमोदिता ॥ १.११३ ॥ तत्सद्धर्मामृतं पातुं तत्राशु समुपाचरत् । तदा तत्र महासत्त्वा बोधिसत्त्वा जिनात्मजाः ॥ १.११४ ॥ मैत्रेयप्रमुखाः सर्वे तद्धर्म श्रोतुमागताः । अर्हन्तो भिक्षवश्चापि श्रावका ब्रह्मचारिणः ॥ १.११५ ॥ भिक्षुण्यो ब्रह्मचारिण्यः चैलका व्रतिनोऽपि च । त्रिरत्नशरणासीनाश्चोपासका उपासिकाः ॥ १.११६ ॥ बौद्धभक्तिरताः सर्वे तद्धर्मश्रोतुमागताः । सर्वे ते समुपायातास्तत्र सभासनाश्रितम् ॥ १.११७ ॥ संबुद्धं तं समालोक्य मुदिताः समुपाचरन् । ते सर्वेऽभ्यर्च्य तं नाथं नत्वा साञ्जलयोर्मुदा ॥ १.११८ ॥ तत्सद्धर्मामृत पातुं तत्सभायां समाश्रयन् । ब्रह्मशक्रादया देवाः सर्वे लोकाधिपा अपि ॥ १.११९ ॥ ग्रहास्तारागणाश्चापि सिद्धा विद्याधरा अपि । साध्या रुद्राश्च गन्धर्वा यक्षगुह्यककिन्नराः ॥ १.१२० ॥ दैत्येन्द्रा राक्षसेन्द्राच नागेन्द्रा गरुडा अपि । एवमन्येपि लोकेन्द्राः सर्वे तत्र मुदागताः ॥ १.१२१ ॥ तं मुनीन्द्रं समभ्यर्च्य नत्वा तत्र समाश्रयन् । हारिती यक्षिणी चापि बोधिसत्त्वानुपालिनी ॥ १.१२२ ॥ सा भवन्तं तमानस्य तत्सभायां समाश्रित । अथ स भगवानञ्छास्ता दृष्ट्वा सर्वान् समाश्रितान् ॥ १.१२३ ॥ मैत्रेयं समुपामन्त्र्य सम्पश्यन्नेवमादिशत् । मैत्रेयेमं जगन्नाथं स्वयम्भूवं जिनालयम् ॥ १.१२४ ॥ धर्मधातुं त्रिरत्नायं पश्यध्वं यूयमादरात् । भजध्वं श्रद्धया नित्यं गत्वात्र शरणं मुदा ॥ १.१२५ ॥ बोधिचर्याव्रतं धृत्वा संचरन्ते जगद्धिते । श्रद्धया ये भजन्त्यत्र शरणं समुपाश्रिताः ॥ १.१२६ ॥ बोधिचर्याव्रतं धृत्वा संचरन्ते जगद्धिते । सर्वे विमुक्तपापास्ते परिशुद्ध त्रिमण्डलाः ॥ १.१२७ ॥ बोधिसत्त्वा महाभिज्ञाः भवेयुः सद्गुणाश्रयाः । भद्रश्रीसुखसम्पन्नश्चतुर्ब्रह्मविहारिकाः ॥ १.१२८ ॥ सर्वसत्त्व हितोद्युक्ताः संबोधिव्रतचारिणः । न क्वापि दुर्गतिंयायुः सदा सद्गतिसंभवाः ॥ १.१२९ ॥ त्रिरत्नभजनोत्साहाः सद्धर्म्मसाधनोद्यमाः । ततः प्रव्रज्या संबुद्धशासने शरणं गताः ॥ १.१३० ॥ ब्रह्मचर्यां व्रतं धृत्वा संचरेरन् समाहिताः । ततस्ते निर्मलात्मानो निःक्लेशाः विजितेन्द्रियाः ॥ १.१३१ ॥ त्रिविधां बोधिमासाध सम्बुद्धपद्माप्नुयुः । एवं विज्ञाय ये मर्त्या वाञ्छन्ति सौगतं पदम् ॥ १.१३२ ॥ ते भजन्तु सदात्रैव श्रद्धया शरणाश्रिताः । इत्यादिष्टं मुनीन्द्रेण निशम्य ते सभाश्रिताः ॥ १.१३३ ॥ सर्वे लोकाः प्रमोदन्तस्तथा भजितुमीच्छीरे । मैत्रेयः स ततो धीमान् बोधिसत्त्व हि मोदितः ॥ १.१३४ ॥ समुत्थाय मुनीन्द्रस्य पुरतः समुपाचरन् । उद्वहन्नुक्तरासंगं प्रणत्वा तं मुनीश्वरम् ॥ १.१३५ ॥ जानुभ्यां भुवि संघाय साञ्जलिरेतमव्रवीत । भगवान्नाथः सर्वज्ञ धर्मधातुजिनालयः ॥ १.१३६ ॥ कदायं स्वयंमुत्पन्न स्तन्समादेष्टुमर्हति । इति संप्रार्थिते तेन मैत्रेयेण महात्मना ॥ १.१३७ ॥ भगवन्तं महाविज्ञं संपश्यन्नेवमादिशत । साधु शृणु समाधाय मैत्रेयोऽस्य स्वयम्भूवः ॥ १.१३८ ॥ समुत्पत्तिकथां वक्षे सर्वलोकाभिबोधने । पुरास्मिन् भद्रकल्पेऽभूद्विपश्वी नाम सर्ववित् ॥ १.१३९ ॥ जगछास्ता मुनीन्द्रोऽर्हन् धर्म्मराजस्तथागतः । अशीति वर्ष साहस्र परमायूंषि यदा नृणाम् ॥ १.१४० ॥ तदाहं सत्य धर्म्माख्या बोधिसत्त्वाभवंत्किल । यदा स भगवाञ्छास्ता वन्धुमत्याः पुरोऽन्तिके ॥ १.१४१ ॥ विहारे धर्म्ममादिश्च विजहार ससांधिकः । तदाहं तं जगन्नाथमाराध्य समुपस्थितः ॥ १.१४२ ॥ तदात्रा भूत्सप्तकोश व्यायामविस्तरो ह्रदः । तदनुशासनां धृत्वा प्राचरं बोधि सम्वरम् ॥ १.१४३ ॥ अष्टांग गुण सम्पन्नः जलाश्रयो नगावृतः । पद्मोत्पलादि सौगन्धि नाना पुष्प प्रशोभितः ॥ १.१४४ ॥ हंस सारस काडम्ब प्रमुख पक्षिमण्डितः । तीरोपान्तनगारुह सर्वर्त्तु पुष्पितैर्द्रुमैः ॥ १.१४५ ॥ फलौषधादि बृक्षैश्च समन्तात्परिमण्डितः । मीनकच्छपमण्डूकप्रमुख जलवासिनाम् ॥ १.१४६ ॥ जन्तूनां निलयोऽगाधः सर्वनागाधिपालयः । तत्र सर्वाहिराजेन्द्रः कर्क्कोटकाभिधो महान् ॥ १.१४७ ॥ एवं तदा महा तीर्थः पुण्यामृताश्रयो वभौ । सदा त्रत्रिदशाः सद्धर्मप्सरोभिः प्रमोदिताः ॥ १.१४८ ॥ स्नात्वा संक्रीडमानाः सत्सौख्यं भुक्त्वा दिवं ययुः । तथा ब्रह्मादयः सर्वे महर्षयस्तपश्विनः ॥ १.१४९ ॥ स्नान संध्यादिकं कर्म्म कृत्वा संसेविरे सदा । एवं लोकाधिपाश्चापि स्नात्वात्र सर्वदा मुदा ॥ १.१५० ॥ स्वस्व कुले समभ्यर्च्य महोत्साहैर्निसेविरे । एवंमन्येपि लोकाश्च व्रतिनो ब्रह्मचारिणः ॥ १.१५१ ॥ स्नात्वात्र संवरं धृत्वाः पूतात्मानो दिवं ययुः । बोधिसत्त्वा तथानैके स्नानदानव्रतं मुदा ॥ १.१५२ ॥ कृत्वात्र विमलात्मानः समाचारञ्जगद्धिते । एवं सर्वे मुनीन्द्रैश्च स्नान व्रतादि बीजंफलम् ॥ १.१५३ ॥ महत्पुण्यतरं श्रेष्ठमाख्यातं बोधिसाधनम् । यत्र स्नात्वा त्रिरत्नानां शरणे समुपाश्रिताः ॥ १.१५४ ॥ बोधिचर्या व्रतं धृत्वा प्राचरन्त जगद्धिते । ते आशु विमलात्मानो भद्रश्रीसत्गुणान्विताः ॥ १.१५५ ॥ बोधिसत्त्वाः महासत्त्वा वभूवुः सुगतात्मजाः । केचिन्निः क्लेशितात्मानो भवसंचारे निस्पृहाः ॥ १.१५६ ॥ श्रावकबोधिसत्त्वमासाद्य बभूवु ब्रह्मचारिणः । केचिच्च निर्मलात्मानो संसारे विरताश्रयाः ॥ १.१५७ ॥ प्रत्येकबोधिमासाद्य सुनिर्वृतिं समाययुः । केचित्संबोधिचित्तं च प्राप्य सद्धर्मलालसाः ॥ १.१५८ ॥ बोधिचर्याव्रतं धृत्वा समाचरञ्जगद्धिते । केचित्सर्वे भुक्त्वा दिव्यकामसुखान्यपि ॥ १.१५९ ॥ सद्धर्मगुणसंरक्ताः प्राचरन् सर्वदा शुभे । केचित्सर्वे महीपालाः सुनीति धर्मचारिणः ॥ १.१६० ॥ कृत्वा सत्त्वहितार्थानि ययुरन्ते जिनालयम् । अहमपि तदा तत्र स्नात्वाचरं व्रतं सदा ॥ १.१७१ ॥ एतत्पुण्यविशुद्धात्मा द्रुतं सम्बोधिमाप्तवान् । यैश्चाप्यस्य जलं पीतं तेऽपि निर्मुक्तपातकाः ॥ १.१६२ ॥ परिशुद्धाशया भद्रा बभूवु बोधिभागिनः । एवमसौ महातीर्थः सर्वैरपि मुनीश्वरैः ॥ १.१६३ ॥ समधिष्ठापितोऽद्यापि प्रशंसितो महीतले । तत्र पश्चात्स्वयं धर्मधातुरुत्पत्स्यते ध्रुवम् ॥ १.१६४ ॥ इत्यादिश्य मुनीन्द्रौऽसौ भूया एरेवं समादिशत् । तदा तत्र समुपन्ने धर्मधातौ जिनालये ॥ १.१६५ ॥ निरुत्पातं शुभोत्साहं प्रवर्तिष्यति सर्वदा । सर्वे लोकाश्च तं दृष्ट्वा धर्मधातुं स्वयम्भूवम् ॥ १.१६६ ॥ श्रद्धया शरणं गत्वा प्रभजिष्यन्ति सर्वदा । तदेतत्पुण्यलिप्तास्ते सर्वे लोकाः शुभेन्द्रियाः ॥ १.१६७ ॥ भद्रश्री सत्सुखं भुक्त्वा यास्यन्त्यन्ते जिनालयम् । इत्यादिष्टं मुनीन्द्रेण विपश्विना निशम्यते ॥ १.१६८ ॥ सर्वे सभाश्रिता लोकाः प्राभ्यनन्दन् प्रवोधिताः । इति विपश्विना शास्ता समादिष्टं श्रुतं मया ॥ १.१६९ ॥ तथा युष्मत्प्रोधार्थ समाख्यातं प्रवुद्ध्यताम् । इत्यादिष्टं मुनीन्द्रेण श्रीघनेन निशम्यते ॥ १.१७० ॥ मैत्रेयादि समालोकाः सर्वेऽपि संप्रसेदिरे । इति स्वयम्भूधर्मधातु समुत्पत्ति निदानकथा प्रथमोऽध्यायः समाप्तः । द्वितीय अध्याय पूजाफलवर्णनो नाम अथ धीमान्महासत्त्वो मैत्रेयः स जिनात्मजः । भगवन्तं पुनर्नत्वा साञ्जलिरेवमब्रवीत् ॥ २.१ ॥ भगवच्छ्रोतुमिच्छामि स्वयम्भूत्पत्ति सत्कथाम् । तद्भवान्समुपाख्यातुं लोकानां संप्रवोधने ॥ २.२ ॥ इति संप्रार्थितं तेन मैत्रेयेण सुधीमता । भगवान्स्तान् सभालोकान् सम्पश्यन्नेवमादिशत् ॥ २.३ ॥ साधु मैत्रेय सर्वेऽपि सभालोकाः समादरात् । शृणुध्वं संप्रवक्षामि स्वयम्भूत्पत्तिसत्कथाम् ॥ २.४ ॥ तद्यथा निर्वृतिं याते विपश्विनि मुनीश्वरे । चिरकालान्तरेणात्र जगच्छास्ताभवत्पुनः ॥ २.५ ॥ शिखि नाम मुनीन्द्रोऽर्हन् धर्मराजस्तथागतः । सर्वज्ञः सुगतः सर्वविद्याधिपो विनायकः ॥ २.६ ॥ तदा सप्ततिवर्षाणां सहस्रार्युनृणामभूत् । अहं क्षेमंकरो नाम बोधिसत्त्वो भवं किल ॥ २.७ ॥ यदा स भगवाञ्छास्ता शिखिधर्माधिपो जिनः । अरुणाख्यपुरोपान्ते व्यहरत्सौगताश्रमे ॥ २.८ ॥ तदा सर्वे महासत्त्वा बोधिसत्त्वा जिनात्मजाः । शिखिनस्तस्य शास्तुः संप्राभजन् समुपस्थिताः । अहमपि तथा तस्य शिखिनस्त्रिजगद्गुरोः ॥ २.९ ॥ शरणे समुपस्थाय प्राभजं सर्वदा मुदा । तत्रैक समये सोऽर्हन् भगवान् सर्वविच्छिखी ॥ २.१० ॥ सद्धर्म समुपादेष्टुं सभासने समाश्रयेत् । तद्वीक्ष्य भिक्षवः सर्वे श्रावका ब्रह्मचारिणः ॥ २.११ ॥ भिक्षुण्यो व्रतिनः सर्वे उपासका उपासिकाः । तत्सद्धर्मामृतं पातुं समुपागत्य तं मुनिम् ॥ २.१२ ॥ नत्वा साञ्जलयस्तत्र परिवृत्य समाश्रयेत् । तदा ब्रह्मामरेन्द्रादि त्रिदशाः सर्वे आगताः ॥ २.१३ ॥ सर्वे लोकाधिपाश्चापि धर्म श्रोतुं समागताः । सिद्धा विद्याधरा साध्या यक्षगन्धर्वकिन्नराः ॥ २.१४ ॥ गरुडा राक्षसेन्द्राश्च दैत्या नागाधिपा अपि । ऋषयो ब्राह्मणाश्चापि तीर्थिकाश्चापि तपस्विनः ॥ २.१५ ॥ यतयो योगिनश्चापि निर्ग्रन्थाश्च दिगम्बराः । राजानो क्षत्रिया वैश्या अमात्या मन्त्रिणो जनाः ॥ २.१६ ॥ शिल्पिनो वणिजः सार्थवाहादयो महाजनाः । पौरा जानपदा ग्राम्यास्तथान्यदेशवासिनः ॥ २.१७ ॥ तत्सद्धर्मामृतं पातुं संहर्षिताः समागताः । तत्र ते समुपागत्य समीक्ष्य तं मुनीश्वरम् ॥ २.१८ ॥ यथाक्रमं समभ्यर्च्य कृत्वा चापि प्रदक्षिणाम् । कृत्वाञ्जलि पुटो नत्वा परिवृत्य समन्ततः ॥ २.१९ ॥ पुरस्कृत्य समुद्वीक्ष्य समादरादुपाश्रयन् । तान् सर्वान् समुपासीनां दृष्ट्वा स भगवाञ्छिखी ॥ २.२० ॥ आदिमध्यान्तकल्याणं सद्धर्म समुपादिशत् । तत्सद्धर्मामृतं पीत्वा सर्वे लोकाः प्रवोधिताः ॥ २.२१ ॥ सद्धर्मसाधनोद्युक्ता वभूवु बोधिभागिनः । तस्मिन्नेव समये तत्र पुण्यजलाश्रये ह्रदे ॥ २.२२ ॥ मणिनालं महद्दीप्तिहीरकेशरमुत्तम । पञ्चरत्नमयं दिव्यसरोजराजकर्ण्णिकम् ॥ २.२३ ॥ प्रादुर्भूतं महापद्मं सहस्रदलकाशितम् । तस्य रत्नसरोजस्य कर्ण्णिकामध्यमण्डले ॥ २.२४ ॥ स्वयम्भूत्समुत्पन्नो धर्म्मधातुर्जिनालयः । एकहस्तप्रमाणांशुः शुभ्ररत्नमयोज्ज्वलः ॥ २.२५ ॥ सम्बोधिश्रीगुणाधारः सर्वलक्षणमण्डितः । ज्योतिरूपो जगज्जेष्ठ पञ्चतथागताश्रयः ॥ २.२६ ॥ जगदीशो जगत्वन्द्यो जगत्पूज्यो जगत्प्रभुः । अनादिनिधनोऽजीर्ण्णो मान्यः सर्वशुभार्थभृत् ॥ २.२७ ॥ समन्तभद्ररूपोऽग्रः श्रेष्ठः सद्धर्मरत्नभृत् । त्रैलोक्यसद्गुणाधीशश्चतुर्वर्ग्गफलप्रदः ॥ २.२८ ॥ तस्मिंश्चैत्ये समुत्पन्ने साव्धिनगा रसाचलत् ॥ २.२९ ॥ दिव्यसुगन्धिपुष्पाणि संनिपेतुः सुरालयात् । सुरदुन्दुभयो नेदुः दिशः सर्वाः प्रसेदिरे ॥ २.३० ॥ वह्नयो दक्षिणावर्त्ता भद्राभाः संप्रजह्वलः । सुशीतलाः सुगन्ध्याद्या धीरं ववुः समीरणाः ॥ २.३१ ॥ ववर्षुः सुरसाम्बूनि मेघा गम्भीरनिस्वनाः । ग्रह तारेन्दुचन्द्राभाः सभासिता विरेजिरे ॥ २.३२ ॥ स्तुतिमङ्गलसंगीतिशब्दा व्योम्नि प्रचेरिरे । सर्वत्रापि सुमाङ्गल्यमहोत्साहं निरन्तरम् ॥ २.३३ ॥ सुभिक्षं श्रीगुणोर्भावं सद्धर्म भद्रसाधनम् । निरुत्पातं शुभाचारं प्रावर्त्तत समन्ततः ॥ २.३४ ॥ तमेवं स्वयम्भूत्पन्नं धर्म्मधातुं जिनालयम् । समीक्ष्येशादयः सर्वे आरुप्य भुवनाश्रिताः ॥ २.३५ ॥ योगध्यान महानन्द सौख्येऽपि विरतोत्सवाः । स्वयम्भुवं तमीशानं वन्दितुं समुपाचरन् ॥ २.३६ ॥ तथा ब्रह्मादयः सर्वे मुनयो ब्रह्मचारिणः । एवं स्वयम्भुवं द्रष्टुं मुदिता समुपाचरन् ॥ २.३७ ॥ एवं शक्रादयः सर्वे त्रिदशाः साप्सरो गणाः । पूजाङ्गानि समादाय द्रष्टुमेनं मुदा ययुः ॥ २.३८ ॥ तथाग्निधर्मराजोऽपि नैऋतो वरुणो मरुत् । श्रीदो भूताधिपश्चैवं सर्वे लोकाधिपा अपि ॥ २.३९ ॥ स्वस्वपरिजनैः सार्द्ध महोत्साहैः प्रमोदिताः । एवं स्वयम्भुवं चैत्यं संद्रष्टुं समुपाययुः ॥ २.४० ॥ धृतराष्ट्रो महाराजो गन्धर्वैः सह मोदितः । संगीतिवादनोत्साहैः सहैनं द्रष्टुमाययुः ॥ २.४१ ॥ विरुढको महाराजः कुम्भाण्डसहिता मुदा । स्वयम्भुवं तमालोक्य मुदा वन्दितुमाययुः ॥ २.४२ ॥ विरुपाक्षोऽपि नागेन्द्रैः सर्वै नागाधिपैः सह । रत्नपूजोपहाराणि धृत्वैनं द्रष्टुमाययुः ॥ २.४३ ॥ कुवेरो यक्षराजोऽपि यक्षणीभिः समन्वितः । नानाद्रव्योपहाराणि धृत्वैनं द्रष्टुमाययुः ॥ २.४४ ॥ वज्रपाणिश्च गुह्येन्द्रसर्वगुह्यकसंयुतः । दिव्यभोग्यापहाराणि धृत्वैनं द्रष्टुमाययुः ॥ २.४५ ॥ द्रुमः किन्नरराजोऽपि सर्वैः सह ह्याननैः । तूर्यसंघोषणोत्साहैः सहिनं द्रष्टुमाययुः ॥ २.४६ ॥ तथा सर्वार्थसिद्धाख्यः सर्वविद्याधराधिपः । दिव्यपूजोपहाराणि धृत्वैनं द्रष्टुमाययुः ॥ २.४७ ॥ गरुडः पक्षिराजोऽपि सर्वैः पक्षिगणैः सह । स्वस्वर्द्धिश्रीमहोत्साहैरेनं संद्रष्टुमाययुः ॥ २.४८ ॥ एवं सिद्धाश्च साध्याश्च वसवश्च ग्रहा अपि । सर्वास्तारागनाश्चापि सर्वाश्चाप्यप्सरोगणाः ॥ २.४९ ॥ एवं दैत्याधिपाः सर्वे स्वस्वपरिजनैः सह । महासमृद्धिप्रात्साहैः सहसा समुपाचरन् ॥ २.५० ॥ एवं लोकाधिपाः सर्वे दशदिक्षु व्यवस्थिताः । दृष्ट्वा तं स्वयम्भूत्पन्नं वन्दितुं सहसाचरन् ॥ २.५१ ॥ सर्वेऽपि ते समागत्य दृष्ट्वा तं जगदीश्वरम् । संहर्षिताशया दूरात्प्रणत्वा समुपाचरन् ॥ २.५२ ॥ ततस्ते जगन्नाथ सर्वेऽभ्यर्च्य यथाक्रमम् । अष्टांगैः प्रणतिं कृत्वा प्राभजन्त समादरात् ॥ २.५३ ॥ केचिद्दव्यसुगन्धैस्तं प्राभिलिप्याभजन्मुदा । केचिन्नानाविधैः पुष्पैः केचिद्धूपैर्मनोहरैः ॥ २.५४ ॥ केचिच्च पुष्पमालाभिः केचिच्च दिव्यचीवरैः । केचिच्च दीपमालाभिः केचिदारतिदीपनैः ॥ २.५५ ॥ केचिद्दिव्यामृतैः भोग्यैः केचिद्दिव्यौषधैरपि । केचिन्नानाविधैर्दिव्यरत्नालंकाराभूषणैः ॥ २.५६ ॥ केचिच्छत्रध्वजैवलिव्यजनैश्च वितानकैः । केचित्संगीतिसंवाद्यैर्मृदङ्गमुरजादिभिः ॥ २.५७ ॥ केचित्तौर्यत्रिकै वंशैः शंखैः शृगैश्च केचन । काहारैश्च तथा केचित्वीणादीततवादनैः ॥ २.५८ ॥ तालादिघनवाद्यैश्च भेर्यानकमर्दलैः । तथा नानाविधैर्मड्डुर्डिण्डिमझर्झरादिभिः ॥ २.५९ ॥ केचित्नृत्यैश्च गीतैश्च हाहाकारैश्च केचन । एवं नानाविधोत्साहैः प्राभजन्स्तं जिनालयम् ॥ २.६० ॥ केचित्प्रदक्षिणान्येव कृत्वा भजन् सहस्रशः । केचिच्च धारणीविद्याजपस्तोत्रादिभिर्मुदा ॥ २.६१ ॥ एवं नानाप्रकारैस्ते सर्वे लोका द्विजादयः । श्रद्धया समुपाश्रित्य प्राभजन्स्तं स्वयम्भुवम् ॥ २.६२ ॥ एतद्दिव्यमहोत्साहैः संप्रवृत्तिं प्रसारिताम् । श्रुत्वा सर्वे सभालोका विस्मयं समुपाययुः ॥ २.६३ ॥ तत्समीक्ष्य महासत्त्वा रत्नपाणिः पुरोगतः । शिखिनं तं मुनिं नत्वा साञ्जलिरेवमब्रवीत् ॥ २.६४ ॥ भगवन् यत्मही सर्वा कम्पिता दिव्यमुत्सवम् । प्रसारितं च कस्येदं हेतु तत्समुपादिश ॥ २.६५ ॥ इति संप्रार्थितं तेन सुधिया रत्नपाणिना । स शिखि भगवान् पश्यन् रत्नपाणिं तमब्रवीत् ॥ २.६६ ॥ साधु शृणु महासत्त्व यत्सर्वा चलिता मही । दिव्योत्साहैः प्रवृत्तं च तद्धेतुं संनिगद्यते ॥ २.६७ ॥ तद्यथात्रास्ति भूलोक उत्तरस्यां हिमालये । अष्टाङ्गगुणसम्पन्नपुण्यजलाश्रयो ह्रदः ॥ २.६८ ॥ तत्र रत्नमये पद्मे सरोजराजकर्ण्णिके । स्वयमेव समुत्पन्नो धर्मधातुजिनालयः ॥ २.६९ ॥ तदुत्पन्ने मही सर्वा रचिता संप्रमोदिताः । सर्वत्रापि शुभोत्साहं प्राव्रर्त्तते भवालय ॥ २.७० ॥ तं समीक्ष्य महेशानब्रह्माशक्रादयोऽमराः । ग्रहास्ताराश्च सिद्धाश्च साध्या विद्याधरा अपि ॥ २.७१ ॥ महर्षश्च सर्वेऽपि सविस्मयप्रमोदिताः । सर्वे लोकाधिपाश्चापि दैत्या नागाः खगेश्वराः ॥ २.७२ ॥ यक्षकिन्नरगन्धर्व्वगुह्यकराक्षसा अपिः । एतत्प्रभृतयः सर्वे समीक्ष्य तं स्वयंभुवम् ॥ २.७३ ॥ संहर्षिताः समागत्य प्रभजन्ते महोत्सवैः । एतत्पूजामहोत्साहसंप्रवृत्तिः प्रसारित ॥ २.७४ ॥ एतस्येदं महद्भनिमित्तं संप्रजायते । इत्यादिष्टं मुनीन्द्रेण शिखिना संनिसंम्य सः ॥ २.७५ ॥ रत्नपाणिमहासत्त्वाः सविस्मयप्रमोदितः । सुप्रबुद्धमुखाम्भोजा महासंहर्षिताशयः ॥ २.७६ ॥ भूयस्तं शिखिनं नत्वा साञ्जलिरेवब्रवीत् । भगवन् तद्धिजानीयाद्यन्मनो मे समीच्छते ॥ २.७७ ॥ तदनुज्ञां प्रदत्वात्र संप्रसादयतुमर्हति ॥ अहमपि जगच्छास्तः स्वयम्भुवं तमीश्वरम् ॥ २.७८ ॥ श्रद्धया समुपाश्रित्य प्रभजामि महोत्सवैः ॥ इति संप्रार्थिते तेन श्रुत्वा स भगवाञ्छिखि ॥ २.७९ ॥ रत्नपाणिं महासत्त्वं संपश्यन्नेवमादिशत् ॥ कुलपुत्र प्रयाहि त्वं यद्याशु बोधिमिच्छसि ॥ २.८० ॥ श्रद्धया समुपाश्रित्य प्रभज तं जिनालयम् । ये तत्र समुपाश्रित्य भजेयुः श्रद्धया मुदा ॥ २.८१ ॥ तेआशु प्राप्य संबोधिं सम्बुद्धपदमाप्नुयुः । इत्यादिष्टं मुनीन्द्रेण रत्नपाणि निशम्य सः ॥ २.८२ ॥ साञ्जलिस्तं मुनिं नत्वा मुदितः प्राचरत्ततः । ततस्तेन सहानेके बोधिसत्त्वा जिनात्मजाः ॥ २.८३ ॥ श्रावका भिक्षवश्चापि भिक्षुण्यश्चाप्युपासिकाः । उपासका भक्तिमन्तो व्रतिनः पुण्यलालसाः ॥ २.८४ ॥ ऋषयो ब्राह्मणाश्चापि यतयो योगिनोऽपि च । तीर्थिकास्तापसाश्चापि निर्ग्रन्था ब्रह्मचारिणः ॥ २.८५ ॥ राजानः क्षत्रिया वैश्या अमात्या मन्त्रिणो जनाः । शिल्पिनो वणिजः सार्थवाहाश्चापि महाजनाः ॥ २.८६ ॥ पौरा जानपदा ग्राम्यस्तथान्यदेशवासिनः । एवमन्येपि लोकाश्च सद्धर्मगुणवाञ्छिनः ॥ २.८७ ॥ सर्वे तत्र महोत्साहैस्तेन सार्द्ध मुदा चरत् । एवं स रत्नपाणिस्तैः सर्वैः लोकै समन्वितः ॥ २.८८ ॥ पूजाङ्गानि समादाय महोत्साहै मुदाचरत् । एवं स प्रवरञ्छ्रीमान् सर्वांल्लोकान् विनोदयन् ॥ २.८९ ॥ सहसा तत्र प्रागत्य ददर्शेमं जिनालयम् । दृष्ट्वैनं स महासत्त्वः मुदितः समुपासरन् ॥ २.९० ॥ यथाविधि समभ्यर्च्य प्रणत्वा प्राभजन्मुदा । एवं सर्वेऽपि ते लोकाः सहायास्तस्यमहर्षयः ॥ २.९१ ॥ यथाविधि समभ्यर्च्य महोत्साहै मुदाभजन् । एवं ते सकला लोका स्तुत्वा जप्त्वा च धारणी ॥ २.९२ ॥ प्रदक्षिणानि कृत्वोष्ट प्रणत्वा प्राभजन्मुदाः । एवमन्ये महासत्त्वा बोधिसत्त्वा जिनात्मजाः ॥ २.९३ ॥ दशदिग्भ्यः समागत्य प्राभजन्निममीश्वरम् । अहमपि तदा तेन सहेत्य रत्नपाणिना ॥ २.९४ ॥ श्रद्धया समुपाश्रित्य प्राभजनिममीश्वरम् । एतत्पुण्यानुभावेन बोधिं प्राप्य कलावपि ॥ २.९५ ॥ जित्वा मारगणान् सर्वान् धर्माधिपो भवाम्यहम् ॥ ये येस्य समुपाश्रित्य भजेयुः श्रद्धया मुदा ॥ २.९६ ॥ ते ते सर्वेऽपि संबोधिं प्राप्य स्युः सुगता द्रुतम् ॥ एवं महत्तरं पुण्यस्य सेवासमुद्भवम् ॥ २.९७ ॥ भद्रश्रीसद्गुणापन्नं सम्बोधिज्ञानसाधनम् । इति सर्वै मुनीन्द्रैश्च समाख्यातं समन्ततः ॥ २.९८ ॥ यूयमपि परिज्ञाय भजतास्य समादरात् । मुनीन्द्रा अपि सर्वेऽस्य चतुःसन्ध्यं दिवानिशम् ॥ २.९९ ॥ दृष्ट्वा ध्यात्वा स्मृतिं धृत्वा प्राभजन्तं समादरात् । भजन्ति साम्प्रतं सर्वे बुद्धाः सर्वे दिगाश्रिताः ॥ २.१०० ॥ अनागताश्च सर्वेऽपि भजिष्यन्ति तथा सदा । अस्य दर्शनमात्रेण प्रदुष्टा अपि पापिनः ॥ २.१०१ ॥ निर्मुक्त पातका ह्याशु भवेयु निर्मलेन्द्रियाः । ततस्ते निर्मलात्मानो निःक्लेशो ब्रह्मचारिणः ॥ २.१०२ ॥ दुर्गति नैव गच्छेयुः कुत्रापि हि कदाचन ॥ सङ्गतावेव संजाता भद्रश्रीसद्गुणाश्रयाः ॥ २.१०३ ॥ बोधिसत्त्वा महासत्त्वा भवेयुः सुगतात्मजाः । ततस्ते बोधिसम्भारं पूरयित्वा यथाक्रमम् ॥ २.१०४ ॥ त्रिविधां बोधिमासाद्य निर्वृतिं पदमाप्नुयुः । इति नत्वा सदाप्यस्य कृत्वा दर्शनमादरात् ॥ २.१०५ ॥ अनुमोद्याभ्यनुस्मृत्वा ध्यात्वानुभाव्य सर्वदा । नामापि च समुच्चार्य श्रद्धया बोधिवाछिभिः ॥ २.१०६ ॥ यथाशक्ति प्रकर्त्तव्या भक्तिसेवा सदादरात् । इत्यादिष्टं मुनीन्द्रेण श्रीघनेन निशम्यते ॥ २.१०७ ॥ मैत्रेयप्रमुखाः सर्वे सभालोकाः प्रबोधिताः । तथेत्यभ्यनुमोदन्तो धर्म्मधातो स्वयम्भुवः ॥ २.१०८ ॥ श्रद्धया समुपाश्रित्य संभजितुं समीच्छिरे । अथ सर्व्वे सभालोका धर्म्मधातोः स्वयम्भुवः ॥ २.१०९ ॥ पूजाफलविशेषाणि संश्रोतुं पुनरीच्छिरेः । तन्मत्वा स महासत्त्वो मैत्रेयः सुगतात्मज ॥ २.११० ॥ भगवन्तं मुनीन्द्रन्तं प्रार्थयदेवमानतः । भगवन्नस्य पूजाया विशेषफलविस्तरम् ॥ २.१११ ॥ सर्व्वे इमे सभालोकाः श्रोतुमिच्छन्ति साम्प्रतम् । तद्भगवान् समुपादिश्य पूजाफलविशेषताम् ॥ २.११२ ॥ इमां सर्वान् सभासीनां संबोधयितुमर्हति । इति संप्रार्थितं तेन मैत्रेयेण निशम्य सः ॥ २.११३ ॥ भगवान्स्तान् सभालोकान् सम्पश्यनैवमादिशत् । शृणुध्वं सकला लोका अस्य पूजाफलं महत् ॥ २.११४ ॥ विशेषेण प्रवक्ष्यामि सर्वे लोकाभिबोधने । पञ्चामृतैः सहाम्भोभिः संशोभितसुनिर्म्मलैः ॥ २.११५ ॥ ये मुदा स्नापयन्तिमं धर्म्मधातुं जिनालयम् । मन्दाकिन्यां सदा स्नात्वा ते विशुद्धत्रिमण्डलाः ॥ २.११६ ॥ दिव्यसुखानि भुंजानो प्रान्ते यानि जिनालयम् । सौरभ्य द्रव्यसंयुक्ति यत्र चैत्यै स्वयम्भुवि ॥ २.११७ ॥ मोदयन्तो जगच्चित्तं धूपयन्ति मुदा सदाः । ते सुगंधितसौम्याङ्गा मान्या देवा सुरैरपि ॥ २.११८ ॥ श्रीमन्तः सुस्वसंपन्ना भवन्ति रत्नसन्निभाः । पञ्चगन्धैर्मुदा यत्र धर्म्मधातो जिनालये ॥ २.११९ ॥ लिप्ताराध्य समाश्रित्य प्रभजन्ति सदादरात् । सप्तरत्नसमेतास्ते भद्रश्रीसद्गुणाश्रयाः ॥ २.१२० ॥ सर्व्वे लोका हितोद्युक्ता भवन्ति क्षितिपाधिपाः । ये चात्र मुनिराजेन्द्रा विचित्र चीवराम्बरैः ॥ २.१२१ ॥ प्रवार्य श्रद्धया भक्त्या संभजन्ते समादरात् ॥ ते दिव्यदृष्य कौशेय रत्नाभरणभूषिताः ॥ २.१२२ ॥ सुज्ञा धर्माधिपाः सन्तो भवन्ति भद्रचारिणः । ये चैमं कुसुमैः सर्व्वै जलजै स्थलजैरपि ॥ २.१२३ ॥ अर्च्चयित्वा समाश्रित्य संभजन्ते प्रमोदिताः । महीन्द्रश्रीसमृद्धास्ते शक्राधिकप्रभान्विताः ॥ २.१२४ ॥ भद्रश्रीसुखसंपन्ना भवन्ति बोधिभागिनः । यचैनं पुष्पमालाभि रचिताभिर्मनोहरैः ॥ २.१२५ ॥ सर्व्वपुष्पैः प्रलम्बाभिः शोभयित्वा भजन्ति च । भवन्ति श्रीसमृद्धास्ते धर्म्मकामाः सुरधिपाः ॥ २.१२६ ॥ सत्कीर्त्तिर्गुणसंरक्ताः शुभगा बोधिचारिणः । ये च पुष्पाणि सर्वाणि मुदात्र सुगतालये ॥ २.१२७ ॥ अवकीर्य समाराध्य भजन्ति शरणाश्रिताः । तेऽपि देवाधिपा स्वर्गे गता मह्यां नृपाधिपाः ॥ २.१२८ ॥ महच्छ्रीगुणसम्पन्ना भवन्ति बोधिभागिनः । धृतसुगन्धितैलादिसंप्रदीप्तां तमोपहाम् ॥ २.१२९ ॥ ज्वालयन्ति मुदा येऽस्मिं धर्म्मधातौ जिनालये । सुदुष्टयः सुरुपास्ते ज्ञानदीपतमोपहाः ॥ २.१३० ॥ भूपार्चितपदाम्भोजा भवन्ति बोधिभागिनः । प्रणीतं सुरसंभोज्यं वल्भगन्धसमन्वितम् ॥ २.१३१ ॥ ये चास्मिन्नुपढौकित्वा प्रभजन्ति समादरात् । ऋद्धिमन्तो नृपेंद्रास्ते सप्तरत्नसमन्विता ॥ २.१३२ ॥ स्वर्ग्गे देवाधिपाश्चापि भवन्ति बोधिभागिनः । ये चास्मिं सुरसंपानं सुवर्ण्णगन्धसंयुतम् ॥ २.१३३ ॥ उपढौक्य समाराध्य प्रभजन्ते समाहिताः । ते वलिष्ठा महीपेन्द्राः श्रीसमृद्धा निरोगिणः ॥ २.१३४ ॥ स्वर्गे गताश्च देवेन्द्रा भवन्ति बोधिभागिनः । ये चास्मिं स्कन्दमूलानि बीजपत्रफलानि च ॥ २.१३५ ॥ श्रद्धया समुपस्थाप्य संभजन्ते समाश्रिताः । ते प्रभुक्त्वा यथाकामं भोग्यानि विविधान्यपि ॥ २.१३६ ॥ सद्धर्म्मसाधना रक्ताः संयान्त्यन्ते जिनालयम् । ये चास्मिं सुगताधारे पथ्यौषधगणान्यपि ॥ २.१३७ ॥ समर्प्य श्रद्धया नित्यं प्रसेव्यन्ते समादरात् । ते वलिष्ठा सुपुष्टाङ्गाः सौम्येन्द्रिया निरामयाः ॥ २.१३८ ॥ राज्यश्रीसुखमाभुज्य संयात्यन्ते सुखावती । ये चाप्यत्र जिनाधारे धर्म्मधातौ स्वयम्भुवि ॥ २.१३९ ॥ वितत्योच्चै वितानं च ससेव्यन्ते समादरात् ॥ धन्यास्ते गुणिनो वंद्याः शुद्धवंशा विचक्षणाः ॥ २.१४० ॥ सर्व्वार्थसिद्धिसम्पन्नाः प्रयान्त्यन्ते जिनालयम् । ये चास्मिन् सुगतावासे विचित्रानुच्छ्रितान्ध्वजान् ॥ २.१४१ ॥ अवरोप्य महोत्साहैः संभजन्तेऽभिनन्दिता । श्रीसद्गुणसुखधारा भूत्वा भूपाधिपा भुवि ॥ २.१४२ ॥ स्वर्गे देवाधिपाश्चान्ते संप्रयान्ति जिनालयम् । सौवर्ण्णरत्नपुष्पादि छत्राणि विविधानि ये ॥ २.१४३ ॥ आरोप्यत्र महोत्साहैः संभजन्ते प्रमोदिताः । ते नरेन्द्राः सुरेन्द्राश्च छत्रोपमाः सदा भवे ॥ २.१४४ ॥ महत्सुखानि भुक्त्वान्ते संप्रयान्ति जिनालयम् । ये चास्मिं सुगतावासे पताकाः पञ्चरङ्गिकाः ॥ २.१४५ ॥ समावलंवयित्वापि संभद्रन्ते महोत्सवैः । ते भूत्वात्र महीपालाः सदा देवाधिपा अपि ॥ २.१४६ ॥ भद्रश्रीसत्सुखं भुक्त्वा संयात्यन्ते जिनालयम् । ये चास्मिन् विविधैर्वाद्यैः संगीतिमुरुजादिभिः ॥ २.१४७ ॥ तौर्यै वंशादिभिश्चापि संसेव्यन्ते महोत्सवैः । ते मनोज्ञस्वनादिव्यश्रीश्रीश्रीसद्गुणाश्रयाः ॥ २.१४८ ॥ सद्धर्म्मसाधनं कृत्वा व्रजन्ति सुगतालयम् । सलाजाक्षतपुष्पाणि ये चास्मिं सुगतालये ॥ २.१४९ ॥ प्रक्षिप्य श्रद्धया भक्त्या संभजन्ते समादरात् । दुर्गतिन्ते न गच्छन्ति संजाताः सङ्गतौ सदा ॥ २.१५० ॥ सर्वसत्त्वहितं कृत्वा संप्रयान्ति जिनालयम् । सधातुद्रव्यरत्नादि दक्षिणान्यत्र ये मुदा ॥ २.१५१ ॥ श्रद्धया परिढौकित्वा संभजन्ते सदादरम् । दिव्यश्रीसुखभुंजाना भद्रश्री सद्गुणाश्रयाः ॥ २.१५२ ॥ सर्वसत्त्वहितं कृत्वा संप्रयान्ति जिनालये । ये चापि स्तुतिभिस्तथ्यैरेनं बुद्धालयं मुदा ॥ २.१५३ ॥ पद्यैर्गद्यमयैश्चापि स्तुत्वा भजन्ति सादरम् । बहुरत्नसमृद्धास्ते सर्व्वविद्याविचक्षणाः ॥ २.१५४ ॥ भूपाः स्वर्गाधिपाश्चापि भूत्वान्ते यान्ति सौगतम् । श्रद्धयैनं जगन्नाथं समाश्रयं स्वयम्भूवम् ॥ २.१५५ ॥ नत्वाष्टांगैः प्रसन्ना ये संभजन्ते समादरम् । सप्तरत्नसमेतास्ते नृपाधिपा महर्धिकाः ॥ २.१५६ ॥ सद्धर्म्मसाधनारक्ता भवन्ति बोधिचारिणः । ये चैनं चैत्यराजेन्द्रमनेकशः प्रदक्षिणाम् ॥ २.१५७ ॥ कृत्वा ध्यात्वाप्यनुस्मृत्वा नामोच्चार्य भजन्त्यपि । जातिस्मराश्चिरायुष्का मतिमन्तः सुवर्ण्णिनः ॥ २.१५८ ॥ वन्द्याः पूज्याश्च मान्यास्ते भवेयुर्बोधिचारिणः । शुद्धाश्च भस्मसंक्षालैः समालिप्य समन्ततः ॥ २.१५९ ॥ समभ्यर्च्यमहोत्साहै ये भजन्त्येनमीश्वरम् । शोकक्लेशाग्निसंतापविवर्जिताश्चिरायुषः ॥ २.१६० ॥ नीरोगाः सुखिनो देवा भवेयु भूमिपाश्च ते । ये च निर्माल्यमाकृष्य शोधयित्वात्र सर्वतः ॥ २.१६१ ॥ श्रमुपाश्रित्य सेव्यन्ते सम्बुद्धभक्तिमानसाः । निर्मुक्तिक्लेशशोकास्ते दर्शनीयाः शुभेन्द्रियाः ॥ २.१६२ ॥ श्रीमन्तः पुण्डरीकास्या भवेयुर्बोधिचारिणः । जीर्णे शीर्णे विभग्नेऽस्मिन् प्रतिसंस्कृत्य ये मुदा ॥ २.१६३ ॥ प्रतिष्ठाप्य महोत्साहैः संभजन्ते समादरात् । सर्वसम्पत्समृद्धास्ते पुष्टेन्द्रिया निरामयाः ॥ २.१६४ ॥ धर्मकामाः शुभाचारा भवेयुर्बोधिचारिणः । जल्पित्वा यस्य मन्त्राणि धारणीश्च समाहिताः ॥ २.१६५ ॥ ध्यात्वा स्मृत्वा समुच्चार्य नामापि प्रभजन्ति च । तेऽपि सर्वे महासत्त्वाः परिशुद्धत्रिमण्डलाः ॥ २.१६६ ॥ भद्रश्रीसद्गुणाधारा भवेयुर्बोधिचारिणः । एवं महत्तरं पुण्यमस्मिं धर्म्माधिपालये ॥ २.१६७ ॥ श्रद्धाभजनसंभूतमित्यादिष्टं मुनीश्वरैः । मयैतत्पुण्यसंक्षिप्तमात्रं तु कथ्यतेऽधुना ॥ २.१६८ ॥ समग्रं विस्तरेनात्र समाख्यातुं न शक्यते । एवं मत्वास्य सत्कारपूजाफलं महत्तरम् ॥ २.१६९ ॥ श्रद्धया शरणं गत्वा कर्तव्यं भजनं सदा । येप्यस्मिंञ्छरणं गत्वा श्रद्धया समुपाश्रिताः ॥ २.१७० ॥ सुप्रसन्नाशया भक्त्या भजन्ति बोधिमानसाः । न ते गच्छन्ति कुत्रापि दुर्गतिं च कदाचन ॥ २.१७१ ॥ संजाताः सद्गतिष्वेव भवेयुर्बोधिचारिणः । सदा ते सुकुले जाता बोधिसत्त्वा विचक्षणाः ॥ २.१७२ ॥ सर्वसत्त्व हिता धानं चरेयुर्व्रतमाभवम् । ततस्ते बोधिसंभारं पूरयित्वा यथाक्रमम् ॥ २.१७३ ॥ त्रिविधां बोधिमासाद्य निर्वृतिपदमाप्नुयुः । न हिचित्त प्रसादस्प स्वल्पाभवति दक्षिणा ॥ २.१७४ ॥ तथागतेषु सद्धर्म्म संबुद्ध श्रावकेष्वपि ॥ एवं ह्यचिन्त्याः संबुद्धाः बुद्ध धर्माश्च निर्मलाः ॥ २.१७५ ॥ अचिन्त्योहि प्रसन्नानां विपाकश्च महाफल । एवं मत्वा त्रिरत्नेषु भक्तिपूजा फलं महत् ॥ २.१७६ ॥ कार्याभक्तिषु सदात्रैव धर्म्मधातौ जिनालये । इत्यादिष्टं मुनीन्द्रेन श्रुत्वा सर्वे समाश्रिताः ॥ २.१७७ ॥ लोकास्तथेति विज्ञप्य प्रात्यनन्द प्रवोधिताः । इति मे गुरुणादिष्टं श्रुतमया तथोच्यते ॥ २.१७८ ॥ त्वमप्येवं सदा राजन् भज तत्र जिनालये । तत्पुण्येन ते भद्रं निरुत्पातं सदाभवेत् ॥ २.१७९ ॥ बोधिचित्त रसं च संप्राप्य बोधिसत्त्वो भवेरपि । ततः सम्बोधि संभारं पूरयित्वा तथाक्रमम् ॥ २.१८० ॥ मारान्निर्ज्जित्य संबोधि प्राप्य बुद्धपदं लभेः । इति शास्तार्हता दिष्टं सम्यकनराधिपः ॥ २.१८१ ॥ अशोकः ससभालोकः प्राभ्यनन्दं प्रबोधितः । इति श्री स्वयम्भूत्पत्ति कथाया श्री स्वयम्भू भट्टारकोद्देश पूजावर्णना नाम द्वीतीयोऽध्याय समाप्त । तृतीय अध्याय महाह्रदशोषणधर्मधातुपद्मगिरि सम्प्रतिष्ठापन्नो नाम अथाशोको महीपालः साञ्जलिःपुर आश्रितः । तमर्हन्तं यतिं नत्वा प्रार्थयेदेवमादरात् ॥ ३.१ ॥ भदन्त श्रोतुमिच्छामि तद्भूमि सत्कथाम् । तत्सम्यक्समुपादिश्य संबोधयितुं नो भवान् ॥ ३.२ ॥ इति संप्रार्थिते राज्ञा सोऽर्हन्यतिर्महामतिः । उपगुप्तो नरेन्द्रं तं सम्पश्यन्नेवमादिशत् ॥ ३.३ ॥ साधु शृणु महाराज यथा मे गुरुणोदितम् । तथाहं ते प्रवक्ष्यामि सर्वलोकाभिवोधने ॥ ३.४ ॥ तद्यथाथ महासत्त्वो मैत्रेयः स जिनात्मजः । भगवन्तं पुनर्नत्वा सांजलिरेवमब्रवीत् ॥ ३.५ ॥ भगवन्नावासोसौमहा जलाश्रयो ह्रदः । कदा भूमि प्रदेशोऽत्र कथं जलाश्रयो भवेत् ॥ ३.६ ॥ कस्य च समये देशाग्रामादयः प्रवर्त्तिताः । तत्सर्वं समुपादिश्यन्सर्वानस्मान्प्रवोधयन् ॥ ३.७ ॥ इति संप्रार्थिते तेन मैत्रेयेन सः सर्ववित् । भगवान्स्तं महासत्त्वं सम्पश्यन्नैवमादिशत् ॥ ३.८ ॥ साधु शृणु महासत्त्वं यदत्राभूत्महीतले । तत्प्रवृत्तिं समाख्यामि सर्वलोकाभिबोधने ॥ ३.९ ॥ तद्यथा भूविलोकानां वर्ष षष्टी सहस्रका । पुराभूत्भगवाञ्छास्ता विश्वभूर्न्नामसर्ववित् ॥ ३.१० ॥ धर्मराजो मुनीन्द्रोऽर्हस्तथागतो विनायकः । सर्व विद्याधिपस्तापी संबुद्ध सुगतो जिनः ॥ ३.११ ॥ सोऽनुपमानाम पूर्यामुपकण्ठे जिनाश्रमे । सर्वसत्त्व हितार्थेन विजहार ससांधिकः ॥ ३.१२ ॥ मैत्रेयोऽहं तदा भूवं विश्वभू उपासकः । पर्वताख्यो महासत्त्वो बोधिसत्त्वो हितार्थभृत् ॥ ३.१३ ॥ तत्र स भगवाञ्छास्ता संभासयं सुधाशुवत । सद्धर्म्म समुपादेष्टुं सभासने सभाश्रयत् ॥ ३.१४ ॥ तं दृष्टा भिक्षवो सर्वे श्रावकाः ब्रह्मचारिणः । प्रत्येक सुगताश्चापि बोधिसत्त्वाश्चचैलकाः ॥ ३.१५ ॥ भिक्षुण्या ब्रह्मचारिण्योयतयोऽयोगिनो पिच । त्रिरत्न भजनारक्ता उपासक उपासिकाः ॥ ३.१६ ॥ एवं मन्येपि लोकाश्च सद्धर्म्म गुणलालसाः । भद्रश्री सभाणारक्ता संबुद्ध दर्शणोत्सुका ॥ ३.१७ ॥ तत्सुधर्म्मामृतं पातुं समत्येन मुनीश्वरम् । यथाक्रमं समभ्यर्च्य नत्वा साञ्जलाय मुदा ॥ ३.१८ ॥ परिवृत्य पुरस्कृत्य समुद्विक्ष्य समादरात् । तत्सभायां समाश्रित्य संनिषेदु समाहिताः ॥ ३.१९ ॥ एवं ब्रह्मादयः सर्वे ऋषयो ब्रह्मचारिणः । तीर्थिका अपि सर्वे तत्सद्धर्मं श्रोतुमागताः ॥ ३.२० ॥ शक्रादयोयिदावाश्च सर्वलोकाधिपा अपि । ग्रहास्तारागणाः सिद्धाः साध्या विद्याधरा अपि ॥ ३.२१ ॥ सर्वेऽपि ते ससागत्य भगवन्तं यथाक्रमम् । समभ्यर्च्य प्रणत्वा तत सभायां समुपाश्रयत् ॥ ३.२२ ॥ एवं च ब्राह्मणा विज्ञा राजान क्षत्रिया अपि । वैश्याश्च मन्त्रिणोऽमात्या गृहस्थाश्च महाजनाः ॥ ३.२३ ॥ शिल्पिनो वणिजश्चापि सार्थवाहाश्च पौरिकाः । ग्राम्या जानपदाश्चापि तथा न्ये देशवासिनः ॥ ३.२४ ॥ सर्वे ते समुपागत्य भगवन्त यथाक्रमम् । समभ्यर्च्य प्रणत्वा च कृत्वा प्रदक्षिणान्यपि ॥ ३.२५ ॥ गुरु कृत्य पुरस्कृत्य परिवृत्य समन्ततः । तत्सधर्म्मामृतं पातुमुपतस्थुः समाहिताः ॥ ३.२६ ॥ तान्दृष्ट्वा समुपासीनान् विश्वभूर्भगवांजिनः । आदि मध्यान्त कल्याणं सद्धर्म समुपादिशत् ॥ ३.२७ ॥ तत्सद्धर्म्मामृतं पीत्वा सर्वे लोकाः सभाश्रिताः । धर्म्मविशेषमाज्ञाय प्राप्यनन्द प्रवोधिताः ॥ ३.२८ ॥ तस्मिन्क्षणे मही सर्वा च चारद्धि सपर्वताः । सुप्रसन्ना दिशः सर्वा रेजुरवीन्द्र वह्न्यः ॥ ३.२९ ॥ सुरदुन्दुभयो नेन्दुर्निपेतुः पुष्पवृष्टयः । निरुत्पातं महोत्साहं प्रावर्त्तत समन्ततः ॥ ३.३० ॥ तद्विलोक्य सभालोकाः सर्वे ते विस्मयान्विताः । श्रोतुं तद्धेतु सर्वज्ञमुद्वीक्ष्य तस्थुरादिताः ॥ ३.३१ ॥ तदा गगनगञ्जाख्यो बोधिसत्त्वः समुत्थितः । उद्धहन्नुत्तरासंग पुरतः समुपाश्रित ॥ ३.३२ ॥ सर्वज्ञं तं महाभिज्ञं धर्म्मराजं विनायकम् । विश्वभुवं मुनिन्नत्वा सांजलिरेवमब्रवीत् ॥ ३.३३ ॥ भगवन्तद्रनैमित्यं कस्येदं जायतेऽधुना । तद्भवान्समुपादिश्य संबोधयतु नो गुरोः ॥ ३.३४ ॥ इति संप्रार्थिते तेन भगवान्स मुनीश्वरः । गगनगंजमालोक्य तं सभाचैवमब्रवीत् ॥ ३.३५ ॥ कुलपुत्र महद्भद्र निमित्तमिदमाचरत् । तदहं सप्रवक्षामि शृणुध्वं यूयमादरात् ॥ ३.३६ ॥ तद्यथा त्रिगुणाभिज्ञा मञ्जुश्रीः सुगतात्मजः । उत्तरस्यां महाचीने विहरति नगाश्रमे ॥ ३.३७ ॥ तस्य भार्या उभेज्येष्टाकेशिनी श्रीवरप्रदा । विद्या सद्गुण संभर्त्री द्वितीयाः चोपकेशिनी ॥ ३.३८ ॥ एकस्मिन् समये तत्र मंजुश्रीः सद्गुणोदधिः । लोकं संदर्शन नाम समाधिं विदधे मुदा ॥ ३.३९ ॥ ध्यान दृष्टा ददर्शात्र महाह्रदसरोरुहे । रत्नमयं समुत्पन्नं धर्म्मधातुं जिनालयम् ॥ ३.४० ॥ स्वयंभुवं तमालोक्य मंजुदेवं सुसन्मतिः । संहर्षितः पुर्नध्यात्वा मनसैवं व्यचिन्तयेत् ॥ ३.४१ ॥ अहो स्वयं समुद्भूतो धर्म्मधातु जिनालयः । निर्जने जलमये ज्योतिरूपः संभाषयन् स्थितः ॥ ३.४२ ॥ तत्तथाहं करिष्यामि गत्वा तत्र महाह्रदे । शोषयित्वा तदम्भान्सि यथा पृथ्वीतलोऽभवत् ॥ ३.४३ ॥ तदा तत्र महीभूत्रे निर्जले सुप्रतिष्ठिते । शिलोच्चये प्रतिष्ठाप्य भजिष्यामि तमीश्वरम् ॥ ३.४४ ॥ तथा तत्र महीभूते ग्रामादि वसतिर्भवेत । तदा सर्वेऽपि लोकाश्यः भजेयुस्तं जिनालयम् ॥ ३.४५ ॥ तथा तत्पुण्य भावेन सर्वदा तत्र मंगलम् । निरुत्पातं भवेन्नूनं लोकाश्च स्यूः सुभाविनः ॥ ३.४६ ॥ ततस्ते मानवाः सर्वे तस्यैव शरणाश्रिताः । यथाशक्ति महोत्साहैः प्रभजेयुः सदा मुदा ॥ ३.४७ ॥ ततस्तत्पुण्यशुद्धास्ते सद्धर्म गुणलालसाः । बोधिसत्त्वा महासत्त्वाश्चरेयुर्बोधिसंवरम् ॥ ३.४८ ॥ ततस्ते बोधिसंभारं पुरयित्वा यथाक्रमम् । त्रिविधां विधिमासाद्य निवृतिपदमाप्नुयुः ॥ ३.४९ ॥ एवं कृत्वा महत्पुण्यं प्राप्याहं त्रिजगत्स्वपि । कृत्वा धर्म्ममयं बोधिप्राप्य निवृत्तिपदमाप्नुयाम् ॥ ३.५० ॥ इति ध्यात्वा विनिश्चित्य मञ्जुश्रीः सजिनात्मजः । मञ्जुदेवाभिधाचार्यरूपं धृत्वा महर्द्धिमान् ॥ ३.५१ ॥ केशिनी वरदा नाम मोक्षदाख्योऽपकेशिनी । भूत्वानेकैः महासत्त्वैः सहसर्वेऽपिनेचरत् ॥ ३.५२ ॥ ततश्चरन् सभार्यासौ मञ्जुदेवः ससांधिकः । सर्वत्र भद्रतां कृत्वा महोत्सार्हैः समाचरत् ॥ ३.५३ ॥ तत्र ते समुपागत्य दूरतः संप्रभास्वरम् । महाह्रदाव्जमध्यस्थं ददृशुस्तं जिनालयम् ॥ ३.५४ ॥ तत्र ते तं समालोक्य ज्योतिरूपं समुज्वलम् । प्रणत्वा सहसोपेत्यः कृत्वा प्रदक्षिणानि च ॥ ३.५५ ॥ तत्तीरे पर्वते रम्ये सर्वेऽपि ते समाश्रिताः । तं चैत्यमेव संवीक्ष्य न्यवसन्त प्रमोदिताः ॥ ३.५६ ॥ ततः प्रातः समुत्थाय मञ्जुदेवः स ऋद्धिमान् । भक्तया परमयास्तौषिज्जिनालयं स्वयंभुवम् ॥ ३.५७ ॥ ज्योतिरूपाय चैतन्यरूपाय भवते नमः । अनादि निधनाय श्रीदात्रे प्रणवरूपिणे ॥ ३.५८ ॥ विश्वतोमुख रूपाय स्वाहास्वधारूपिणे । पृथ्व्यादिभूतनिर्मात्रे महामहस्वरूपिणे ॥ ३.५९ ॥ जगत्स्रष्टे जगत्पात्रे जगद्धर्त्रे नमो नमः । जगत्वंद्याय जगतमाराधाय च ते नमः ॥ ३.६० ॥ अतिस्थूलाय सूक्ष्माय विकाराय विकारिणे । निराकृतिकृते तुभ्यं सच्चिदानंदमूर्त्तयै ॥ ३.६१ ॥ वषट्कार स्वरूपाय हुतभुजे स्वयं नमः । होत्रे हवन रूपाय होमद्रव्याय ते नमः ॥ ३.६२ ॥ भक्तिलभ्याय सोम्याय भक्तवत्सलाय ते नमः । ध्यानगम्याय ध्येयाय चतुवर्गप्रदायिने ॥ ३.६३ ॥ अग्ररत्नाय निःसीममहिम्ने सर्वदा नमः । गुणातीताय योगाय योगिने च सदा नमः ॥ ३.६४ ॥ एवं स्तुत्वा मञ्जुदेवः पुनः क्षमार्थतां व्यधात् । प्रसीद भगवन् यदहं हदं संशोषितुं यते ॥ ३.६५ ॥ इत्युक्त्वा चन्द्रहासं स सज्जीकृत्य समं ततः । त्रिधा प्रदक्षिणीकृत्य समन्ततो व्यलोकयत् ॥ ३.६६ ॥ विलोक्य स महासत्त्वो याम्य दिशावृतं नगम् । चन्द्रहासेन खड्गेन छित्वा जलाश्रयं व्यधात् ॥ ३.६७ ॥ तच्छिन्नशैलमार्गेण तज्जलानि समन्ततः । प्रनिर्गत्याशु सर्वाणि गंगासंगममाययुः ॥ ३.६८ ॥ तदारभ्य नदा नद्यो बभूवुर्भूतले ह्रदाः । दिग्विदिक्षु मलांभोभिस्तद्द्वीपैः परिपूरिताः ॥ ३.६९ ॥ तत्र निरुध्य येऽम्वुनि यत्र ये शिलाः स्थिताः । तत्र तत्र सतान्सर्वाश्छित्वा स्वूनिच चारयेत् ॥ ३.७० ॥ एवं स सर्वतः छित्वा कृत्वा तज्जलनिर्गमम् । त्रिरात्रेणापि न जलानि सर्वाणि निरचारयेत् ॥ ३.७१ ॥ तज्जला धानमेकन्तु ह्रदं धनादहाभिधम् । कर्क्कोटकनागस्य समस्थाप यदाश्रमम् ॥ ३.७२ ॥ सिंहेनोपद्रुता यद्वद गजेन्द्रोभय विह्वलाः । महारावै रुदन्तो वै विद्रवन्तो दिशो दशः ॥ ३.७३ ॥ एवं तज्जलसंघातश्चन्द्रहासासिछेदनात् । मार्गान्तरान्निरगमत पंकशेषं यथाभवत् ॥ ३.७४ ॥ तज्जलाधानमेकेन्तु ह्रदं धराद्रहाभिधम् । कर्क्कोतकस्य नागस्य समस्थापयदाश्रयम् ॥ ३.७५ ॥ ततस्तस्मिन् जले शुष्केयदाधारसरोरुहम् । तदेव पर्वताभूय धर्मधातोर्व्यवस्थितः ॥ ३.७६ ॥ मञ्जुदेवानुभावेन स सर्वपर्वतोक्तमः । अभेद्या वज्रवक्तेन वज्रकूट इति स्मृतः ॥ ३.७७ ॥ तदासौ भूतलोरम्यः समन्ततो नगावृतः । उपछन्दोह इत्याख्या हिमाल योऽपिचोच्यते ॥ ३.७८ ॥ सुदुर्जया स्वरूपाभूः प्रज्ञा ज्ञानानुभाविनी । हेरुकमण्डलाकारा भूत्वा समवतिष्ठते ॥ ३.७९ ॥ तत्रापि च प्रधाना श्री महादेवी खगानना । धर्म्मोदया समुहुता संतिष्ठते जगद्धिते ॥ ३.८० ॥ तं दृष्ट्वा स महाचर्या मञ्जुदेवो महर्द्धिमान । बोधिसत्त्वो महासत्त्वः प्रत्यत्यानन्दितोऽभवत् ॥ ३.८१ ॥ ततः स तां महादेवी समालोक्य प्रमोदितः । उरसा शिरसा दृष्टया वचसा मनसा तथा ॥ ३.८२ ॥ पद्भ्यां कराभ्यां जानुभ्यामष्टांगोऽपि इति स्मृतः । अष्टांगै प्रणीता कृत्वा सांजलिः समुपाश्रयन् ॥ ३.८३ ॥ सुप्रसन्न मुखाम्भोजः सुप्रबुद्धो शयाम्बुजः । संपश्यस्तां महादेवीं स्तोत्रैरेवं मुदाभजम् ॥ ३.८४ ॥ भगवति महादेवी भवत्याः शरणं व्रजे । वन्दे पादाम्वुजे नित्यं भजामि तन्प्रसीदतु ॥ ३.८५ ॥ जननी सर्वबुद्धानां त्वमेव बोधिदायिनी । सर्वेषां बोधिसत्त्वानां माताहितानुपालिनी ॥ ३.८६ ॥ सर्वहितार्थ संभक्ति सर्वपापविशोधनी । दुष्ट मारगणाक्षोभ महानन्द सुखप्रदा ॥ ३.८७ ॥ सद्धर्म्मसाधनोत्साहवलवीर्य गुणप्रदा । निःक्लेशस्तिमितेध्यान समाधि सुखदायिनी ॥ ३.८८ ॥ प्रज्ञागुण महारत्न श्री समृद्धि प्रदायिनी । तद्भक्त्याः पदाम्भोज शरणस्थो भजाम्यहम् ॥ ३.८९ ॥ इति संप्रार्थ्य स प्राज्ञो मञ्जुदेव स सम्वरी । तस्या भक्ती प्रसन्नात्मा समाराधितुमैच्छत् ॥ ३.९० ॥ अथ तत्र स आचार्यः सगणः संप्रमोदितः । मार्ग शीर्षैशितैः पक्षै नवम्यां रविवासरे ॥ ३.९१ ॥ प्रातः स्नात्वा विशुद्धात्मा शुचिवस्त्रावृतः सुधीः । पोषधसम्वरं धृत्वा देवीमाराधयं स्थितः ॥ ३.९२ ॥ रात्रौ जागरणं कृत्वा धारणी मन्त्रजल्पनैः । स्तुतिभिश्च समाराध्यं प्राभजतां जिनेश्वरीम् ॥ ३.९३ ॥ ततः प्रातः दशम्यां स स्नात्वा गन्धोदकैर्मुदा । दत्वा दानं यथाकामं परिशुद्धत्रिमण्डलः ॥ ३.९४ ॥ यथाविधिसमभ्यर्च्य तां देवीं परमेश्वरीम् । महोत्साहैः स्तुतिं कृत्वा त्रिधा प्रदक्षिणानि च ॥ ३.९५ ॥ सुप्रसन्न मुखाम्भोजः सद्धर्मगुणमानसः । भूयोऽष्टांगैः प्रणत्वैवं प्रार्थयात्सांजलिमुद्रा ॥ ३.९६ ॥ प्रसीदतु जगन्मातर्भवत्याः समुपाश्रितः । संबोधि साधनोत्सौ भजामि सर्वदा मुदाम् ॥ ३.९७ ॥ इति संप्रार्थ्य संप्राज्ञौ नत्वाष्टांगैर्मुदा च ताम् । तत्पद्मामृतमादाय त्रिध्यमञ्जुलिना पिवेत् ॥ ३.९८ ॥ तदमृतं निपीयासौ संविशुद्धत्रिमण्डलम् । अष्टाक्षणविनिर्मुक्तः संबुद्धक्षणमाप्नुवान् ॥ ३.९९ ॥ एवं कृत्वा स आचार्य देव्या भक्तिपरायणः । संबुद्धक्षणमासाद्य सर्व धर्म्माधिपोऽभवत् ॥ ३.१०० ॥ ततः श्रीमान् स आचार्यो बोधिसत्त्व जगद्धिते । स संघान्यवसत्तत्र धर्मधातौरूपाश्रमैः ॥ ३.१०१ ॥ तत्समभ्यषितत्वात्संप्रदेशः श्री मनोहरः । स्यात्सर्वत्रापि मञ्जुश्रीपर्वत इति विश्रुतः ॥ ३.१०२ ॥ तत्र श्रितः सदाप्यस्प धर्म्मधातोरूपासकः । सर्वसत्त्व हितार्थेन प्राभजन्स जिनात्मजः ॥ ३.१०३ ॥ तत्समीक्षामला सर्वेब्रह्मेन्द्रप्रमुखाअपि । सर्वेलोकाधिपाश्चापि मुदा तत्र समागताः ॥ ३.१०४ ॥ तत्रैवो पोषढं धृत्वा कृत्वा जागरणं निशि । उषित्वा धारणी मन्त्रः ध्यात्वा तां श्री जिनेश्वरीम् ॥ ३.१०५ ॥ यथाविधि समभ्यर्च्य कृत्वा प्रदक्षिणानि च । कृत्वाष्टांग प्रणामानि स्तुतिभिश्चा भजं मुदा ॥ ३.१०६ ॥ एवं तस्यामहादेव्याः सर्वे तै शरणाश्रिताः । धर्मश्रीगुणसंपत्ति महर्द्धिसिद्धिमाप्नुवन् ॥ ३.१०७ ॥ ततस्ते चामराः सर्वे सेन्द्र ब्रह्मादयाधिपाः । वज्रकूटं नगाव्जं तं समीक्ष्यन्ते जिनालयम् ॥ ३.१०८ ॥ अनुमोद्याभिनन्दन्ते स्तस्यापि शरणे गताः । महोत्साहैः समभ्यर्च्य प्रभजन्त समादरम् ॥ ३.१०९ ॥ ततः सर्वेऽमरास्तैच सर्वैलोकाधिपाश्च ते । अस्यापि मञ्जुएदेवस्य वज्राचार्यस्य सद्गुरोः ॥ ३.११० ॥ शरणे समुपासृत्य दिव्य पूजोपहारकैः । समभ्यर्च्य महोत्साहैः प्राभजन्त प्रमोदिताः ॥ ३.१११ ॥ एवं मन्वादयः सर्वे मनुयोपियःमहर्षयः । यतयोगिनश्चापि भिक्षवो ब्रह्मचारिणः ॥ ३.११२ ॥ चैलका बोधिसत्त्वाश्च महासत्त्वा जिनात्मजाः । ते सर्वे समुपागत्य तस्या देव्या उपासकाः ॥ ३.११३ ॥ यथाविधि समभ्यर्च्य प्राभजन्त प्रमोदिताः । ततस्ते धर्म्मधातौश्च सर्वेऽपि शरणाश्रिताः ॥ ३.११४ ॥ समभ्यर्च्य महोत्साहैः नत्वा कृत्वा प्रदक्षिणाम् । सुप्रसन्न मुखाम्भोजान्त प्रमोदितनः ॥ ३.११५ ॥ ततस्ते च महासत्त्व मञ्जुदेवं महद्धिंकिम् । आचार्य समुत्साहैः समर्चयं प्रमोदिताः ॥ ३.११६ ॥ प्रत्येक सुगताश्चापि सर्वे तत्र समागताः । तां देवी धर्म्मधातुं तमाचार्यं च समार्चयम् ॥ ३.११७ ॥ सर्वे तथागताश्चापि पूजामेघसर्जनैः । तां देवीं धर्मधातुं तमाचार्यं च समाचर्यम् ॥ ३.११८ ॥ एवंमन्येपि लोकाश्च प्रदुष्ट्वा समुपागताः । तां देवीं धर्मधातुं च तमाचार्यं च प्राभजन् ॥ ३.११९ ॥ एतत्पुण्यानुभावेन चलिता साव्धिनगा मही । पुष्पवृष्टिः शुभोत्साहं प्रवर्त्तते समन्ततः ॥ ३.१२० ॥ इत्यादिष्ट मुनीन्द्रेण विश्वभूवा निशम्यते । सर्वे समाश्रिता लोका विस्मयं समुपाययुः ॥ ३.१२१ ॥ ततः सर्वेऽपि ते लोकास्तां देवीं श्रीमहेश्वरी । धर्म्मधातुतमाचार्यं द्रष्टुमभिव वाञ्छिरे ॥ ३.१२२ ॥ तदाशयं परिज्ञायः गगणगञ्ज उत्थितः । भगवन्तन्तमानस्पश्यन्नेवमव्रवीत् ॥ ३.१२३ ॥ भगवन् सर्वमिच्छन्ति द्रष्टुं तां सुगेश्वरीम् । धर्म्मधातुं तमाचार्यं तदनुज्ञां ददातु नः ॥ ३.१२४ ॥ इति संप्रार्थितं तेन भगवान्स मुनीश्वरः । गगणगञ्जमात्मज्ञ तं पश्यन्नेवमादिशत् ॥ ३.१२५ ॥ साधु साध्यामहादेवीं खगाननाजिनेश्वरीम् । धर्मधातुं तमाचार्यमपिर्दष्टुं यदीच्छथ ॥ ३.१२६ ॥ तत्र हिमालये गत्वा तां श्री देवीं खगाननाम् । धर्मधातुं तमाचार्यं संभजध्वं यथा विधि ॥ ३.१२७ ॥ इत्यादिष्टं मुनीन्द्रेण विश्वभुवा निशम्यते । सर्वे लोका महोत्साहै रत्राययुः प्रमोदिताः ॥ ३.१२८ ॥ अहमपि मुनीन्द्रस्य प्राप्यानुज्ञां प्रमोदितः । तैःसार्द्धं प्रस्थितौ दूरात्पश्यन्निमंमाययौ ॥ ३.१२९ ॥ अत्र प्राप्नोऽहं समालोक्य धर्म्मधातुन्निमं मुदा । समभ्यर्च्य महोत्साहैस्तै लोकैः प्राभजं सह ॥ ३.१३० ॥ श्रद्धया शरणं गत्वा कृत्वा चैनं प्रदक्षिणाम् । स्तुत्वाष्टांगैः प्रणत्वा च प्रार्थयं बोधिसम्वरम् ॥ ३.१३१ ॥ ततोऽहं मञ्जुदेवाख्यं तमाचार्य समीक्ष्य च । समभ्यर्च्य महोत्साहैः प्राभजध्वं सहानुजैः ॥ ३.१३२ ॥ ततस्तस्योपदेश तां श्रीदेवीं खगाननाम् । यथाविधि समाराध्य महोत्साहैः समर्चयम् ॥ ३.१३३ ॥ कृत्वा प्रदक्षिणां चापि नत्वाष्टाङ्गैः प्रमोदितः । स्तुत्वा ध्यात्वा च संबोधिं संप्रार्थय जगद्धिते ॥ ३.१३४ ॥ एतत्पुण्यानुभावेन परिशुद्ध त्रिमण्डलाः । अष्टाक्षण विनिर्मुक्तो बोधिसत्त्वो भवं कृती ॥ ३.१३५ ॥ ततः सम्बोधिसंभारं पूरयित्वा यथाक्रमम् । जित्वा मारगणानर्हन् कलावपि जिनोभवे ॥ ३.१३६ ॥ एवमस्या महादेव्याः ये ये शरण आश्रिताः । यथाविधि समाराध्य भजेयु बोधिमानसाः ॥ ३.१३७ ॥ ते ते सर्वे महासत्त्वाः परिशुद्ध त्रिमण्डलाः । बोधिसत्त्वा महाभिज्ञा भवेयु स्त्रिगुणाधिपाः ॥ ३.१३८ ॥ कुत्रापि ते नगच्छेत्दुर्ग्गतिञ्च कदाचन । सदासङ्गतिसंजात भवेयुः श्री गुणाश्रयाः ॥ ३.१३९ ॥ यथाभिवाच्छितं द्रव्यं दत्वार्थिभ्यो समादरात् । यथाकामं सुखं भुक्त्वा सञ्चरेरञ्जगद्धिते ॥ ३.१४० ॥ ततो विशुद्धशीलास्ते चतुर्ब्रह्म विहारिणः । बोधिसत्त्वसम्वरमाधाय संचरेरन् सदा शुभे ॥ ३.१४१ ॥ ततस्ते स्यु र्महासत्त्वाः सद्धर्म्म सुखलालसाः । स्वपरात्महिताधारक्षान्तिव्रतसमारताः ॥ ३.१४२ ॥ ततस्ते सद्गुणाधारा वीर्यवन्तो विचक्षणाः । सद्धर्म्म साधनोद्युक्ता भवेयु स्त्रिगुणाधिपाः ॥ ३.१४३ ॥ ततस्ते सुधियो धीरा निःक्लेशा विजितेन्द्रियाः । समाधि गुणसम्पन्ना भवेयुबोधियोगिनः ॥ ३.१४४ ॥ ततस्ते विमलात्मानः सर्वविद्या गुणाधिपाः । प्रज्ञाश्री रत्न संप्राप्तो भवेयुः सुगतात्मजाः ॥ ३.१४५ ॥ ततश्च ते सहासत्त्वाः सर्वे सत्त्वा हितोत्सुकाः । सर्वापाय विधि प्राज्ञा भवेयुश्त्रिगुणाधिपाः ॥ ३.१४६ ॥ ततस्ते बोधिसंभार प्रणिधिरत्नसागराः । सर्वसत्त्वहितं कृत्वा संचरेरं सदाशुभे ॥ ३.१४७ ॥ ततश्च ते महाभिज्ञाः भद्रश्री सत्गुणान्विताः । वलिष्ठा दुष्ट जेतारो भवेयु स्त्रिभवेश्वराः ॥ ३.१४८ ॥ ततस्ते त्रिविधां बोधिमासाद्य भद्रचारिणः । सम्बोधिज्ञानसद्रन्तसमृद्धाः स्यु र्मुनीश्वराः ॥ ३.१४९ ॥ ततस्ते सुगताः बुद्धाः दशभूमीश्वराजिनाः । बोधिमार्गे प्रतिष्ठाप्य कूर्युः सर्वान्सुधर्म्मिणः ॥ ३.१५० ॥ एवं धर्ममयं कृत्वा सर्वत्र भुवनेष्वपि । सुनिवृर्तिपदं प्राप्य संप्रयायुर्जिनालयम् ॥ ३.१५१ ॥ एवमस्या महादेव्या भजनो हूतमुक्तमम् । पुण्यं महत्तरं सिद्धं सम्बुद्धपदसाधनम् ॥ ३.१५२ ॥ इति सत्यं समाख्यातं सर्वै रपि मुनीश्वरैः । विज्ञायास्या महादेव्या भजध्वं शरणे स्थिता ॥ ३.१५३ ॥ अस्यापि धर्म धातौश्च भजनोद्भूतमुक्तमम् । पुण्यं महत्तरं सिद्धं सम्बुद्धपदसाधनम् ॥ ३.१५४ ॥ अस्यापि मञ्जुदेवस्यः भजनोद्भूतमुक्तमम् । पुण्यं महत्तरं सिद्धं सम्बुद्धपदसाधनम् ॥ ३.१५५ ॥ मत्वेति यदि वो वांच्छा विद्यते सौगते पदे । सर्वे यूयं समाधाय भजतान्त्र जिनालये ॥ ३.१५६ ॥ खगाननास्याया महादेव्याः शरणे च समाश्रिताः । ध्यात्वा स्मृत्वा समुच्चार्य नामापि भजताभवम् ॥ ३.१५७ ॥ य एषां शरणे स्थित्वा ध्यात्वा स्मृत्वा समाहिताः । नामापि समुदाहृत्य भजन्ति सर्वदाभवे ॥ ३.१५८ ॥ ते सभद्रा नगच्छन्ति दुर्ग्गतिं च कदाचन । सदा सद्गति संजाता भवेयुः श्री गुणाश्रयाः ॥ ३.१५९ ॥ बोधिसत्त्वा महासत्त्वा सद्धर्म बोधि चारिणः । सर्वसत्त्व हितोद्युक्ता भवेयुः सुगतात्मजाः ॥ ३.१६० ॥ एवन्तेषां महत्सौख्यं भद्रश्री सद्गुणान्वितम् । सर्वदापि निरुत्पातं प्रवर्क्तते समाहितः ॥ ३.१६१ ॥ दैवोत्पातभयन्तेषांत विद्यते समन्ततः । यक्तान्दृष्ट्वा सुराः सर्वे रक्षन्तीन्द्रादयोमुदा ॥ ३.१६२ ॥ अग्न्युत्पातंभयं तेषां विद्यते न कदाचन । यत्तान्दृष्ट्वा प्रसीदन्तो रक्षेयुर्वह्नयः सदा ॥ ३.१६३ ॥ अकाल मरणाद्भीतिस्तेषान्नविद्यते क्वचित् । यद्यमोपि समलोक्य रक्षति तां प्रसादितः ॥ ३.१६४ ॥ राक्षसस्याभयं तेषां विद्यते न समन्ततः । यद्वायवोऽपि ता वीज्य रक्षेयुः सर्वदानुगाः ॥ ३.१६५ ॥ यक्षस्यापि भयं तेषां विद्यते न सदा क्वचित् । यक्षा समीक्ष्य रक्षेयुः सर्वे यक्षाधिपा अपि ॥ ३.१६६ ॥ भूतेभ्योऽपि भयन्तेषां विद्यते न समन्ततः । यदीशानोपि तान्पश्य संरक्षेत्संप्रमोदिताः ॥ ३.१६७ ॥ गन्धर्वोत्पति तो भीतिस्तेषान्नविद्यते क्वचित् । धृतराष्टोऽपि तान्पश्यत्संरक्षेत्सं प्रसादितः ॥ ३.१६८ ॥ कुम्भाण्डेभ्योऽपि नास्त्येवं भयन्तेषां कदाचन । विरुढकोहितान् पश्यनभिरक्षन् प्रसादतः ॥ ३.१६९ ॥ नागेभ्योऽपि भयन्तेषां विद्यते न सदा क्वचित । विरुपाक्षो हि सम्यश्यन्तान्रक्षन्सम्प्रसादितः ॥ ३.१७० ॥ यक्षेभ्योऽपि सदा तेषां विद्यते न भयं क्वचित । कुवेरो हि समालोक्य संरक्षस्तान् प्रसादितः ॥ ३.१७१ ॥ भयं न किन्नरेभ्योपि तेषामस्ति कदाचन । द्रुमो हितान्महासत्त्वा संवीक्षवत्प्रसादितः ॥ ३.१७२ ॥ गुह्यकेभ्योपि नास्त्येव भयन्तेषां सुधर्म्मणाम् । वज्रपाणिर्हितान्वीक्ष्य प्रसादिता भवेत्सदा ॥ ३.१७३ ॥ तथा विद्याधरेभ्योऽपि भयन्तेषान्न विद्यते । यतः सर्वार्थसिद्धोऽपि सम्यश्यन्स्तान् वेत्सदा ॥ ३.१७४ ॥ ग्रहोत्पात भयन्तेषां विद्यते न कदाचन । ग्रहाधिपाहि सर्वेऽपि समीक्ष्य तानवेत्सदा ॥ ३.१७५ ॥ तथा तारागणोत्पातभयं तेषान्नविद्यते । सर्वास्ता राहि तान्वीक्ष्य सर्वत्रा वेयुराभवम् ॥ ३.१७६ ॥ सिद्धाः साध्याश्चरुद्राश्च वीक्ष्यावेयुः सदापि तान् । तत्तेभ्योपि भयं क्वापि तेषां नास्ति कदाचन ॥ ३.१७७ ॥ तथा च मातृकोत्पातं भयं नास्ति कदाचन । सर्वाहि मातृकान् दृष्ट्वा रक्षेयु स्तां प्रसादिताः ॥ ३.१७८ ॥ महाकालो गणेश स्कन्दश्च भैरवा अपि । सर्वदा तान्समालोक्य रक्षेयुः संप्रसादिताः ॥ ३.१७९ ॥ प्रेता भूताः पिशाश्चाश्च वेताडा डाकिनीगणाः । अपि तान्सर्वदालोक्य संरक्षेयुः प्रसादिताः ॥ ३.१८० ॥ तेभ्योऽपि भयन्तेषां विद्यते न कदाचन । सर्वेऽपि र्तेसहायाः स्यु संवोधि धर्म्मसाधने ॥ ३.१८१ ॥ सिंहादि सर्वजन्तुभ्योः पक्षिभ्योऽपि समन्ततः । सर्पादि कृमिकीटेभ्यो भयन्तेषां सदापि न ॥ ३.१८२ ॥ दुष्ट प्रत्यर्थिकेभ्योऽपि तस्करेभ्योपि सर्वतः । शत्रुभ्योऽपि भयन्तेषां विद्यते न समन्ततः ॥ ३.१८३ ॥ यदेतत्पुण्यलिप्तास्तां समीक्ष्य ते प्रसादिताः । सर्वे मैत्री कृपा स्नेह निवद्धाः स्युहितार्थिनः ॥ ३.१८४ ॥ एवं सर्वेऽपि सत्वास्तान्दृष्ट्वा संप्रसादिताः । स्निग्धचिक्ताप्रसन्नास्याः पश्येयु मैत्रीभावतः ॥ ३.१८५ ॥ राजानोऽपि च तान्दृष्ट्वा मैत्री स्नेहसभाविताः । सुप्रसन्नाशयाः प्रीता मानयेयुः सदा मुदा ॥ ३.१८६ ॥ मन्त्रीणोऽपि सदा तेषां मैत्रीस्नेह सभाषिताः । मानयेयुःयथाकामं सद्धर्म्म व्रतसाधनम् ॥ ३.१८७ ॥ ब्राम्हणा अपि सर्वे च तेषां सद्धर्म्म साधनम् । दृष्ट्वानुमोदितात्मानो दधु भद्राशिवं सदा ॥ ३.१८८ ॥ ऋषयोऽपि तथा सर्वे तां दृष्ट्वा संप्रसादिताः । पश्यन्तः कृपया दृष्ट्वा मोदयेयुः सुभाशिषा ॥ ३.१८९ ॥ एवं च योगिनः सिद्धा यतयो ब्रम्हचारिणः । तीर्थिकास्तापसाश्चापि व्रतिनश्चाप्युपासकाः ॥ ३.१९० ॥ चैरका भिक्षवोश्चापि भिक्षुण्यश्चाप्युपासिकाः । अपि तां सुदृशालोक्य नन्दयेयुः शुभाशिषाः ॥ ३.१९१ ॥ एवं च श्रावकाः सर्वे प्रत्येक सुगता अपि । बोधिसत्वाश्च सर्वेऽपि तान् दृष्ट्वा संप्रसादिताः ॥ ३.१९२ ॥ कृपया दृष्टवानुपश्यन्तो मैत्री स्नेहसुभाविनः । रक्षित्वा बोधिमार्गेषु नियाजेयुः सदा भवम् ॥ ३.१९३ ॥ एवं सर्वेऽपि संबुद्धा दृष्ट्वा तां संप्रसादिताः । सर्वदा कृपया रक्ष्युचारयेयुर्ज्जगद्धिते ॥ ३.१९४ ॥ एवं तेषां महत्पुण्यं सम्बुद्ध पदसाधनम् । भद्रश्रीगुणसंपत्ति समृद्धि सिद्धिसंप्रदम् ॥ ३.१९५ ॥ एवं यूयमपि ज्ञात्वा सर्वदा शरणाश्रिताः । यथाशक्ति समभ्यर्च्य भजतैतांस्त्रिरत्निकान् ॥ ३.१९६ ॥ स्मृत्वा ध्यात्वापि नामापि समुच्चार्य सदा मुदा । एषामेव त्रिरत्नानां भजध्वं शरणे स्थिता ॥ ३.१९७ ॥ एतत्पुण्यविलिप्ता ये परिशुद्धत्रिमण्डलाः । भद्रश्रीगुणसंपन्ना भवेस्ते शुभाशया ॥ ३.१९८ ॥ दुर्गतिं ते न गच्छेयुः सदा सद्गतिसंभवाः । बोधिसत्वा महासत्वा भवेर्युभद्रचारिणः ॥ ३.१९९ ॥ ततस्ते सर्वसत्वानां हितार्थ साधनोद्यताः । सुधीरा बोधिसम्भारं पूरयित्वा यथाक्रमम् ॥ ३.२०० ॥ ततो मारगणाञ्जित्वा निःक्लेशा विजितेन्द्रियाः । अर्हन्त त्रिविधां बोधिंप्राप्य यायु जिनालयम् ॥ ३.२०१ ॥ एत्सर्व मया ख्यातं सर्वैरपि मुनीश्वरैः । श्रुत्वानुमोदनां कृत्वा प्रचरध्वं सदाशुभे ॥ ३.२०२ ॥ इत्यादिष्टं मुनीन्द्रेण निशम्यते सभाश्रिताः । सर्वे तथानुमोदन्तः प्राप्यानन्दत्प्रवोधिताः ॥ ३.२०३ ॥ इति श्री स्वयम्भूत्पत्तिसमुद्देश महाह्रद शोषण धर्म्मधातु पद्मगिरिसंप्रस्थापनो नाम तृतीयोऽध्यायः । चतुर्थ अध्यायः श्रीस्वयम्भूचैत्यसमुत्पत्तिकथा वीतरागतीर्थराष्ट्रप्रवर्तनो नाम अथासौथ महासत्त्व मैत्रेय सुगतात्मजः । भगवन्तन्तमानंम्य प्राहैवं साञ्जलिमुद्रा ॥ ४.१ ॥ कदात्र भगवान् ग्राम नगरपङक्तादयः । प्रवर्त्तिता महाराष्ट्राः तत्समादेष्टुमर्हति ॥ ४.२ ॥ इति संप्रार्थिते तेन मैत्रेयेन निशस्य स । भगवान्तं महाभिज्ञं समालोक्यैवमादिशत् ॥ ४.३ ॥ साधु शृणु महासत्त्व मैत्रेय त्वं समाहितः । तत्कालं संप्रवक्ष्यामि यदात्र वसतिरभूत् ॥ ४.४ ॥ यदायुष्नृणां वर्षचत्वारिशत्सहस्रके । धर्म्मराजो जगन्नाथः क्रकुछन्दो मुनीश्वरः ॥ ४.५ ॥ सर्व विद्याधिपः शास्ता त्रैधातुक विनायकः । सर्वज्ञोऽह माभिज्ञेस्तथागतो जिनोऽभवत् ॥ ४.६ ॥ म संबुद्धा जगल्लोकहितार्थेन ससांधिकः । क्षेमावत्या महापुर्य्यादुपारामे मनोरमे ॥ ४.७ ॥ विहारे सौगतावासे सद्धर्म्मसमुपादिशत् । आदिमध्यान्तकल्याणं विजहार प्रभासयन् ॥ ४.८ ॥ तदा संबोधिसत्त्वोऽहं ज्योतिपालाभिधः सुधीः । शास्तारन्तं क्रकुच्छन्दं समाराध्य सदाभजम् ॥ ४.९ ॥ तदा स भगवाञ्छास्ता क्रकुच्छन्दो जगद्धिते । जनपदेषु सद्धर्म्मं समुपादेष्टुमैच्छतः ॥ ४.१० ॥ ततः स भगवान् शास्ता सर्वसंघैः समन्वितः । सर्वत्र भद्रतां कृत्वा संभाषयन्समाचरत् ॥ ४.११ ॥ एवं स सञ्चरञ्छास्ता सर्वत्र धर्म्ममादिशत् । क्रमेणेहसमातः सन्ददर्श समन्ततः ॥ ४.१२ ॥ दृष्ट्वेमं धर्म्मधातुं संप्रज्वलित जिनालयम् । ससंघ समुपाश्रित्य प्राभजद्विधिना मुदा ॥ ४.१३ ॥ ततः स प्रस्थितोत्रैव शंखभिधे शिलाच्चयम् । महछुद्धशिलायां च विजहार स सांधिकः ॥ ४.१४ ॥ तत्र तंत्रि जगन्नाथं क्रकुछन्दो मुनीश्वरम् । सभामध्यासनासीनं भिक्षुसंघैः पुरस्कृतम् ॥ ४.१५ ॥ समालोक्य महासत्त्वा जिनात्मजाः । तत्सद्धर्म्मामृतं पातुं संहर्षिताः समागताः ॥ ४.१६ ॥ भिक्षुण्यापि शुशीलाद्या श्चैलकाश्चाप्युपासकाः । चैलका व्रतिनश्चापि सर्वे उपासिका अपि ॥ ४.१७ ॥ बोधिसत्त्वा महासत्त्वा सद्धर्म्म गुणलालसाः । तत्सद्धर्म्मामृतं पातुं सर्वे ते समुपागताः ॥ ४.१८ ॥ भगवन्तन्तं समभ्यर्च्य कृत्वा प्रदक्षिणान्यपि । नत्वा सांजलयस्तत्र पश्यन्तः समुपाश्रयन् ॥ ४.१९ ॥ तथा ब्रह्मादयश्चापि महर्षयस्तपस्विनः । यतयो योगिनश्चापि मुनयो ब्रह्मचारिणः ॥ ४.२० ॥ एवं शक्रादयो दवाः सर्वे लोकाधिपा अपि । ग्रहास्तारागणाः सिद्धासाध्या विद्याधरा अपि ॥ ४.२१ ॥ गन्धर्वा किन्नरा यक्षा गुह्यका राक्षसा अपि । दानवा गरुडा नागास्तथान्येह समागताः ॥ ४.२२ ॥ भगवन्तं ससंघन्तं समभ्यर्च्य प्रमोदिताः । नत्वा धर्म्मामृतं पातुमुपतस्थुः समाहिताः ॥ ४.२३ ॥ एवं च ब्राह्मणा विज्ञा राजानः क्षत्रिया अपि । वैश्याश्च मन्त्रिणोऽमात्याः सैन्या भृत्या जनान्यपि ॥ ४.२४ ॥ गृहस्थे धनिनः श्रेष्ठाः साधवश्च महाजनाः । शिल्पिनो वनिजश्चापि सार्थवाहश्च पौरिकाः ॥ ४.२५ ॥ प्रजा जानपदाश्राम्याः कार्पटिकाश्च शैलिकाः । एवंमन्येऽपि लोकाश्चसर्वदिग्भ्यः समागताः ॥ ४.२६ ॥ भगवन्तन्तमालोक्य प्रणत्वा समुपागताः । यथाक्रमं समभ्यर्च्य कृत्वा प्रदक्षिणान्यपि ॥ ४.२७ ॥ कृत्वाष्टांग प्रणामञ्च कृतांजलि पुटो मुदा । तत्सद्धर्म्मामृतं पातुं तत्सभायां समन्ततः ॥ ४.२८ ॥ परिवृत्य पुरस्कृत्य समाश्रित्य समाहिताः । गुरुकृत्य मुनीन्द्रन्तं समुद्वीक्ष्य निषेदिरे ॥ ४.२९ ॥ ततः स भगवान्दृष्ट्वा सर्वास्तान्समुपस्थितान् । आर्यसत्यं समालक्ष्य सद्धर्म्मं समुपादिशत् ॥ ४.३० ॥ तत्सद्धर्म्मामृतं पीत्वा सर्वेऽपि ते प्रवोधिताः । बोधिचर्या व्रतं धर्तुं समेच्छन्त प्रसादिताः ॥ ४.३१ ॥ तदाशयं परिज्ञाय भगवान् स मुनीश्वरः । बोधिसत्त्वात्म मार्मेत्यः सम्पश्यन्नेवमादिशत् ॥ ४.३२ ॥ कुलपुत्र मुदायेपि श्रद्धया सौगतेवृषे । प्रव्रजितुं समीच्छन्ति तत्र प्रव्रजिताद्रिताः ॥ ४.३२ ॥ अत्र ये ह्युपछन्दोऽह सर्व धर्म्मार्थसिद्धिदे । प्रव्रज्या शासने बौद्धे चरन्ति बोधिसंवरम् ॥ ४.३४ ॥ ते सर्वे पातका मुक्ताः परिशुद्ध त्रिमण्डलाः । निःक्लेशा विमलात्मानो बोधिसत्त्वा जितेन्द्रियाः ॥ ४.३५ ॥ जित्वा मारगणान्दुष्टान् हन्ता ब्रह्मचारिणः । त्रिविधाम्बोधिमासाद्य सम्बुद्धपदमाप्नुयुः ॥ ४.३६ ॥ इति मत्वात्र संसारे ये वांछन्ति सुनिर्वृतिम् । तत्र प्रव्रज्या सान्बौद्धं चरन्तु श्रद्धया व्रतम् ॥ ४.३७ ॥ इत्यादिष्टं मुनीन्द्रेण निशम्य ते प्रवोधिताः । सभासीना महासत्त्वाः प्रव्रजिन्तु समीछिरे ॥ ४.३८ ॥ ततो गुणध्वजादीनां ब्राह्मणानां चतुःशतम् । तथा भयं ददानाम क्षत्रियाणांशतत्रयम् ॥ ४.३९ ॥ तथानेक महासत्त्वा वैश्याशूद्राश्च सज्जनाः । सर्वेऽपि सुप्रसन्नास्ते प्रव्रजितुं समीच्छिरे ॥ ४.४० ॥ ततस्ते सर्व उत्थाय साञ्जलयः पुरागताः । भगवन्तं तमानम्य प्रार्थयन्नेवमादरात् ॥ ४.४१ ॥ भगवन्नाथ सर्वज्ञ धृत्वाज्ञा भवतां वयम् । प्रव्रज्यशासन बौद्धेचर्तुमिछामहे व्रतम् ॥ ४.४२ ॥ भगवन्स्त भवानस्मान् सर्वान् पश्यन् कृपा दृशा । समन्वागत्य सद्धर्म्म नियोजयितुमर्हति ॥ ४.४३ ॥ इति तैः प्रार्थिते सर्वैर्भगवान्स मुनीश्वरः । सर्वान्स्तान् सन्मतिन् पश्यन् समामन्भ्यैवमादिशत् ॥ ४.४४ ॥ यद्यत्र सौगते धर्म्म प्रव्रजितुं समीच्छथ । एतत्प्रव्रज्य सर्वत्र चरध्वं सौगतं व्रतम् ॥ ४.४५ ॥ इत्यादिश्य स संबुद्धः पाणिना तच्छिरःस्पृशन् । तान्सर्वान्सौगते धर्मे समन्वाहरदादरात् ॥ ४.४६ ॥ ततोऽवतार्य ते केशान् रक्त चीवर प्रावृताः । खिखिरी पात्रमाधाय सर्वेऽपि भिक्षुवो भवन् ॥ ४.४७ ॥ ततः स भगवान्तेभ्योः यतिभ्यो संम्यक्संबोधिपाक्षिकान् । सद्धर्म्मान्समुपादिश्य प्रददौ बोधिसम्वरम् ॥ ४.४८ ॥ ततस्ते विमलात्मानो निःक्लेशा विमलेन्द्रियाः । सत्कारं लाभ निःकांक्षा वीतसंगा निरंजनाः ॥ ४.४९ ॥ स्वपरात्म समाचाराः संसारगतिनिःस्पृहाः । मारचर्या निरासक्ताः समलोष्ट सुवर्ण्णिकाः ॥ ४.५० ॥ क्लेशा निर्मलात्मानो परिशुद्ध त्रिमण्डलाः । अर्हन्त भद्रका चारा बभुबु ब्रह्मचारिणः ॥ ४.५१ ॥ ततस्सर्वेऽपि ते बौद्धा यतयो बोधिचारिणः । सर्वसत्त्व हितं कृत्वा संप्रचारन्सदाशुभे ॥ ४.५२ ॥ ततस्ते ति विशुद्धात्माः पञ्चाभिज्ञा महर्द्धिकाः । वन्द्याः पूज्याः सदेवानां लोकानां गुरवो भवन् ॥ ४.५३ ॥ तस्मिंश्च समये तत्र गिरेः शंखस्य मूर्द्धनि । वज्रसत्त्व कराङ्गुष्ठान्निश्चचाराम्बु निर्म्मलम् ॥ ४.५४ ॥ तदेमान्वद्भुति स्पन्दं पुण्यतीर्थमहत्सरित् । यदभूत्सर्वलोकानां चतुवर्गफलप्रदा ॥ ४.५५ ॥ भूयोऽपि साददी तस्यः क्रकुछन्द स्पतायिनः । सद्धर्म्म देशना वाक्यावभूवा ति पवित्रता ॥ ४.५६ ॥ तेनासौ सर्वतीर्थाग्रा वाग्मतीतिप्रसिद्धिता । भद्रश्री गुण संभर्त्री सर्वपाप विशोधनी ॥ ४.५७ ॥ ये तत्र विधिना स्नात्वा पितृ देवादितर्पणम् । कृत्वा दानादिकं दत्वा व्रतं चापि प्रकुर्वते ॥ ४.५८ ॥ ते संघविमलात्मानो भद्रश्रीसद्गुणान्विताः । यथाकामं सुखं भुत्वा संप्रयान्ति जिनालयम् ॥ ४.५९ ॥ इति मत्वा सदा तत्र स्नात्वा पित्रादितर्प्पणम् । दानादि संवरं कृत्वा सचरन्तां जगद्धिते ॥ ४.६० ॥ तस्या दर्शनमात्रेण पीताम्वु विमात्रके । स्पर्शनादपि नश्यन्ते सर्वाणि पातकान्यपि ॥ ४.६१ ॥ प्रक्षाल्यापि च तत्रास्यं गंगा स्नान फलं लभेत । शिलसिं च मात्रेण शुद्धान्ते इन्द्रियानि षट् ॥ ४.६२ ॥ एवं महत्तरं पुण्यं वाग्मती भजनोद्भवम् । सर्वे तीर्थोत्तमाख्यातं ते नासौ वाग्मती जिनैः ॥ ४.६३ ॥ इति मत्वात्र संसारे इच्छन्ति ये सदाशुभम् । वाग्मती श्री सुखाधारां भजन्तु सर्वदापि ते ॥ ४.६४ ॥ भूयोप्यन्या सरिज्जाता तस्यैव करसंभवा । सापि पवित्रिता भूता क्रकुछन्दस्य वाक्यतः ॥ ४.६५ ॥ तत्र प्रव्रजितानां यत्श्मश्रुकेशनखानि च । कृत्वा भागद्वयं तत्र भागमेकं प्रचिक्षिपुः ॥ ४.६६ ॥ तदा केशावतीत्यासीत्प्रसिद्धा सा महानदी । एक भागन्तु तत्रैव संस्थापितं शिलातले ॥ ४.६७ ॥ यावन्ति श्मश्रु केशानि तावन्त्यपि शिलातले । प्रादुर्भूतानि चैत्यानि तांन्यद्यापि वसंति हि ॥ ४.६८ ॥ सापि नदी महातीर्थ वाग्मती व प्रसीद्धता । तेषां प्रव्रजितानां हि महत्पुण्यानुभावतः ॥ ४.६९ ॥ तेषां प्रव्रजितानांच भिक्षुणां ब्रह्मचारिणाम् । तदापुण्य महाकीर्ति शब्द सर्वत्र प्रासरत् ॥ ४.७० ॥ तदनन्तरमष्टौ च वीतरागा निराश्रयाः । ज्योतिरूपा निराकाराः प्रादुर्भूता जगद्धिते ॥ ४.७१ ॥ एकः शंखगिरेः पार्श्वे मणिचूडाश्रमान्तिके । मणिलिंग इति ख्यातः सोऽद्यापि संप्रतिष्ठितः ॥ ४.७२ ॥ द्वितीयो भुच्च गोकर्ण स्थले ज्योतिर्षयाकृतिः । चारुगिरौ तृतीयश्च कुम्भतीर्थे चतुर्थकः ॥ ४.७३ ॥ पंचमः फणिशैलश्च षष्ठश्च गर्तकस्थले । सप्तमो गन्धवत्यां च अष्टमो विक्रमस्थले ॥ ४.७४ ॥ एतेऽष्टौ महादेवाः वीतरागा निरंजनाः । ज्योतिरूपा निरांकाराः प्रादुर्भूता जगद्धिते ॥ ४.७५ ॥ अत्रैषां वीतरागान्यनुभावात्समन्ततः । मनोरमामही जाता सर्व पीठोक्तमावनौ ॥ ४.७६ ॥ तदायोभू महास्वो महासंमत वंशजः । कृपाकारुण्य भद्रात्मा बोधिसत्त्वो नृपोऽभवत् ॥ ४.७७ ॥ तत्र स नृप राजेन्द्रः क्रकुछन्देन तायिना । सहात्र द्रष्टुमायातः स्वयंभुवं खगाननाम् ॥ ४.७८ ॥ दूरात्स येनमालोक्य स्वयंभुवं जिनालयम् । प्रणत्वा समुपागत्य चक्रे प्रदक्षिणात्रयम् ॥ ४.७९ ॥ ततोऽभ्यर्च्ये महोत्साहैरेणं पञ्चजिनात्मकम् ॥ ४.८० ॥ अष्टांगैश्च प्रणत्वा च प्राभजच्छरणाश्रितः । ततस्तथा च राजेन्द्रो मञ्जुदेवं च सङ्गुरुम् ॥ ४.८१ ॥ यथाविधि समभ्यर्च्य प्राभजत्संप्रमोदितः । ततस्तथा स राजेन्द्रः खगाननां जिनेश्वरीम् ॥ ४.८२ ॥ यथाविधि समभ्यर्च्य महोत्साहैर्मुदाभजत् । ततोऽष्टौ वीतरागाश्च सर्वानता त्स्वयंभुवः ॥ ४.८३ ॥ दृष्ट्वा समुदितो राजा महोत्साहैस्तथा भजत् । एतत्पुण्यानुभावैः स महत्पुण्याशयः कृती ॥ ४.८४ ॥ सर्वधर्म्माधि राजेन्द्रः सर्वलोकाधिपो वभौ । सर्व विद्याधिपो राजा भद्रश्री सद्गुणाश्रयः ॥ ४.८५ ॥ तेन धर्माकरो नाम्नो प्रसिद्धौऽभूद्विराजितेः । ततः सोऽत्र महाराजः संस्थास्तुं काम आत्मना ॥ ४.८६ ॥ क्रकुछन्दं मुनीन्द्रन्तं प्रणत्वैवं न्यवेदयत् । भगवन्यह वांछास्ता विजानीयात्ममेच्छितम् ॥ ४.८७ ॥ तदनुज्ञां पदत्वामेनुग्रहं कर्तुमर्हति । इति संप्रार्थिते तेन भगवान्स मुनीश्वरः ॥ ४.८८ ॥ धर्म्माकरं नरेन्द्रंन्तं सम्पश्यन्नेवमादिशत् । साधु राजन्महासत्त्व यदेवं त्वं समीच्छसि ॥ ४.८९ ॥ तथात्वमिह सन् स्थित्वा पालयं बोधयन् प्रजाः । तथात्रसकरलाल्लोकान् संस्थाप्य संप्रबोधयन् ॥ ४.९० ॥ बोधिमार्गे प्रतिष्ठाप्य चारयस्व सदा शुभे । धर्म्मेण पालयन् सर्वाल्लोकान् स्वयं समाचरन् ॥ ४.९१ ॥ यथाकाम सुखं तु प्रासचरस्व जगद्धिते । धर्म्मनीत्या समाधाय कृत्वा लोकहितं सदा ॥ ४.९२ ॥ साधयन्वोधि सम्भारं सदेह निवसाश्रिताः । सदास्य शरणे स्थित्वा धर्म्मधातोः स्वयम्भुवः ॥ ४.९३ ॥ श्रद्धया भजनं कृत्वा संचरस्व जगद्धिते । अस्याः खगाननायाश्च देव्याः शरण आश्रितः ॥ ४.९४ ॥ सर्वदा भजनं कृत्वा चरस्व बोधिसंवरम् । अस्यापि मञ्जुदेवस्य सद्गुरोः समुपाश्रितः ॥ ४.९५ ॥ बुद्धानुशासनं धृत्वा सद्धर्म्मे संचरंस्व स । एषां च वीतरागानामष्टानामपि सर्वदा ॥ ४.९६ ॥ श्रद्धया भजनं कृत्वाः साधय धर्म्ममुक्तमम् । वाग्मती प्रमुखानाञ्च तीर्थानां समुपाश्रयेन ॥ ४.९७ ॥ स्नान दानादिकं कृत्वा पित्तृन्देवाञ्च तोषयन् । लब्धा त्रिकाय संशुद्धिं धृत्वा संबोधिमानसम् ॥ ४.९८ ॥ सर्वसत्त्वा हितं कृत्वा निवसस्व यथासुखम् । एवं राजेन्द्र लोकांश्च सर्वानपि प्रवोधयम् ॥ ४.९९ ॥ एतेषामपि सर्वेषां संस्थाप्य शरणे सदा । पूजा भक्ति महोत्साहैः चारयित्वा समादरात् ॥ ४.१०० ॥ बोधिमार्गे प्रतिष्ठाप्य चारयस्व सदा शुभे । एवं कृत्वा महाराज संबोधि निहिताश्रयः ॥ ४.१०१ ॥ बोधिचर्याव्रतं धृत्वा संचरस्व जगद्धिते । एतत्पुण्याभिलिप्तात्मा भविष्यसि जिनात्मजः ॥ ४.१०२ ॥ बोधिसत्त्व महाभिज्ञा भद्रश्री सद्गुणाश्रयः । कदाचिदपि नैवत्वं दुर्गतौ च क्वचित्सरेः ॥ ४.१०३ ॥ सदासद्गति संजातोः समृद्धि सिद्धिमान्सुधीः । श्रीमान्सर्वगुणाधीशः सर्वलोकाधिपः कृति ॥ ४.१०४ ॥ क्रमेण बोधिसंभारं पूरयित्वा समाहितम् । त्रिरत्न भजनोत्साह महानन्दसुखं सदा ॥ ४.१०५ ॥ भुंजाना निर्म्मलाचारश्चतुर्ब्रह्म विहारिणः । निःक्लेशो निर्जयन्मारान् सर्वानर्हन्त्वमाप्तवान् ॥ ४.१०६ ॥ त्रिविधां बोधिमासाद्य संबुद्धपदमाप्नुयाः । लोकाः सर्वेऽपि चैवंहि परिशुद्धत्रिमण्डलाः ॥ ४.१०७ ॥ बोधिसत्त्वा महासत्त्वाः सदा सद्गति संभवाः । बोधिचर्या व्रतं धृत्वा संचरन्तो जगद्धिते ॥ ४.१०८ ॥ जित्वा मारगणान्सर्वाश्वतुर्ब्रह्म विहारिणः । निःक्लेशा निर्म्मलात्मानः संसारगति निःस्पृहा ॥ ४.१०९ ॥ अर्हन्त त्रिविधासम्बोधिं प्राप्य बुद्धत्वमाप्नुयुः । एषां च वीतरागानामष्टानामपि साम्प्रतम् ॥ ४.११० ॥ पूजाफल विशेषत्वं व क्ष्यामि शृणु तन्नृपः । वाग्मतिसलिले यस्तु स्नात्वा नित्यं समाहितः ॥ ४.१११ ॥ अष्टावेतान्महेशान् वीतरागान् सदा भजेत् । यतत्पुण्य विशुद्धात्मा श्री समृद्धि सुखान्वितः ॥ ४.११२ ॥ संसारे सर्वदा सौख्यं भुक्त्वा यायाच्छिवालयम् । घृतेन स्नापयेत्यस्तु वीतरागान् स्वयंभूवः ॥ ४.११३ ॥ शिवालयं व्रजेत्सोऽपि मधुरा ब्रह्ममन्दिरम् । दध्ना यः स्नापयेद्देवान् वीतरागान् स्वयंभुवः ॥ ४.११४ ॥ स यायाद्वैष्णवं लोकं श्री समृद्धि सुखाश्रयम् । स्नानादिक्षुरसेनापि विद्याधरं पदं व्रजेत् ॥ ४.११५ ॥ गन्धोदकेन गान्धर्व क्षीरेण शशिनः पदम् । शीतोदकेन शुद्धात्मा निष्पापा निर्मलेन्द्रियम् ॥ ४.११६ ॥ एषां पूजां च यः कुर्यान्नानापुष्पैः सुगन्धितैः । सर्व काम सुखं भुक्त्वा मोदते मनुजाधिपः ॥ ४.११७ ॥ विल्वपत्राणि श्रेष्ठानि रोहणर्च्चमतन्द्रितः । शिवं सर्वत्र प्राप्नोति यज्ञानां च सहस्रकम् ॥ ४.११८ ॥ नैवेद्यं ढोकयेद्यः स दीर्धायुः स्याद्वलि नृपः । दीपमालां च यो दद्यात्तेजस्वी स्यात्सुदृष्टिमान् ॥ ४.११९ ॥ गुग्गुरुं यो दहेत्तस्य नश्यते सर्वपातकम् । तिलपात्रं च योदद्यादुर्ग्गति स व्रजेन्नहि ॥ ४.१२० ॥ सुवर्णं ये प्रदद्याच्च स यायात्सङ्गतौ सदा । तिलधेनुं प्रदद्याद्योः स सं यायाच्छिवालयम् ॥ ४.१२१ ॥ रौप्यखुरां हेम शृंगी रणद्घण्ठावलं विना । सवत्सां कपिलां दद्याद्यः स यज्ञफलं लभेत् ॥ ४.१२२ ॥ यो रत्नकंचुकं दद्यात्स भवेद्बहुरत्नवान् । वस्त्रवान् वस्त्रदानेन भूमिदानेन भूमिवान् ॥ ४.१२३ ॥ तूर्यसंगीति नृत्यादि महोत्साहं प्रचारयेत् । यः सदिव्य श्रुतिप्राप्तः शिवपार्श्वचरो भवेत् ॥ ४.१२४ ॥ नीलोत्पलार्कपद्मानि यो दद्यात्स श्रियं लभेत् । योऽर्चयेद्विल्वपत्रेण स बलिष्ठो भवेत्कृती ॥ ४.१२५ ॥ धत्तुरकेन निर्वार्य केन वीरेण सद्वनो । सुगन्धिकुसुमैः सर्वै योष्टावपि समर्चयत् ॥ ४.१२६ ॥ स श्रीमान् सुभगो धीमान् भवेत्सौगन्धिताश्रये । दिव्यातिसुन्दरः कान्ता भद्रश्री सद्गुणाद्धिमान् ॥ ४.१२७ ॥ पुष्पैः पत्रैः फलमूलैस्तोत्रै र्वा योऽर्चयेच्छिवान् । स देवालयमासाद्य भुक्त्वा दिव्यसुखं चरेत् ॥ ४.१२८ ॥ यश्च प्रदक्षिणां कृत्वा भजेन्नित्यं समादरात् । रूपवान्स भवेदन्ते संप्रयायाच्छिवालयम् ॥ ४.१२९ ॥ यश्च स्तोत्रैः प्रसन्नात्मा भजेतेतान्महेश्वरान् । स तु पित्रालयं गत्वा महानन्द सुखं लभेत् ॥ ४.१३० ॥ यश्चनाम समुच्चार्य जपित्वा च समाहितः । सोऽपि श्रीमान्महाभिज्ञः प्रान्ते यायाच्छिवालयम् ॥ ४.१३१ ॥ अष्टांगैः प्रणतिं कृत्वा यो भजेत्तान्महेश्वरान् । स यायात्सङ्गतावेव दुर्गतिं न कदाचन् ॥ ४.१३२ ॥ स्मृत्वा ध्यात्वा समुच्चार्य नामपि यो भजत्सदा । स दिव्यामृतभुंजानो रमेद्दिवि यथासुखम् ॥ ४.१३३ ॥ यश्च दृष्टा प्रसन्नात्मा प्रणमेत्सांजलिर्मुदा । सोऽपि दिव्यामृतं भुक्त्वा रमेत्स्वर्गे सुरैः सह ॥ ४.१३४ ॥ इत्येषां वीतरागाणामष्टानां भजनाद्ध्रुवम् । विशेषफलमाज्ञाय भजस्वैनां यथेच्छया ॥ ४.१३५ ॥ तदत्र भूतले शुद्ध विधाय पुरमाश्रयन् । सर्वाल्लोकान् प्रतिष्ठाप्य पालयन्सर्वदा वस ॥ ४.१३६ ॥ तदात्र सर्वदिग्भ्योऽपि सर्वलोकाः प्रमोदिताः । आगत्य संस्थिति कृत्वानि वसेयुः सदा मुदा ॥ ४.१३७ ॥ तदा जानपदाश्चात्र ग्रामाश्चनगराण्यपि । निर्गम पक्तनं चापि प्रवर्क्तेयुः समन्ततः ॥ ४.१३८ ॥ तथा देवा सुरेन्द्राश्चं सर्वे लोकाधिपा अपि । आगत्यात्र समालोक्य धर्मधातोः स्वयंभुवः ॥ ४.१३९ ॥ गन्धर्वा गुह्यका यक्षाः किन्नरा राक्षसा अपि । कुम्भाण्डा गरुडा नागाः सिद्धा विद्याधरा अपि ॥ ४.१४० ॥ साध्याश्च मातृका श्चापि स भैरवगणा अपि । ऋषयो योगिनश्चापि यतय स्तीर्थिका अपि ॥ ४.१४१ ॥ श्रावका भिक्षवोऽर्हन्त श्चैलकाश्चाप्युपासकाः । बोधिसत्त्वा महासत्त्वाः शैव कौलाश्च वैष्णवाः ॥ ४.१४२ ॥ आगत्यात्र समालोक्य धर्म्मधातोः स्वयंभुवः । देव्याः खगाननायाश्च मञ्जुदेवस्य सङ्गुरोः ॥ ४.१४३ ॥ एषां च वीतरागानां तीर्थानां चानुभावताम् । प्रसादिताः समाश्रित्य भजेयुः सर्वदा मुदा ॥ ४.१४४ ॥ तदात्र सर्वदैतेषां सर्वा पुण्यानुभावतः । सुभिक्षं मंगलोत्साहं निरुत्पातं भवेद्ध्रुव्रम् ॥ ४.१४५ ॥ इत्यादिष्टं मुनीन्द्रेण क्रकुछन्देन सप्रतुः । धर्म्माकर समाकर्ण्य तथेति प्रतिबुध्यत ॥ ४.१४६ ॥ ततः सःनृप उत्थाय साञ्जलिस्तं मुनीश्वरम् । क्रकुच्छन्द स संघं य प्रणत्वेवं न्यवेदयत ॥ ४.१४७ ॥ भगवन् भवतामाज्ञां धृत्वाहमत्र सर्वदा । पुरं विधाय लोकानां हितार्थे निवसे खलु ॥ ४.१४८ ॥ तद्भवान् कृपयालोक्य सर्वदात्र हिमालये । ससंघो धर्म्ममादिश्य विहरंतु जगद्धिते ॥ ४.१४९ ॥ इति संप्रार्थिते तेन भगवान् स मुनीश्वरः । धर्म्माकरं महासत्त्वं तं पश्यन्नेवमव्रवीत् ॥ ४.१५० ॥ नाहं सदात्र तिष्ठेयं चरेयं सर्व भूतले । सर्वसत्त्व हितार्थ हि भवामि धर्म्मदिक्षिणः ॥ ४.१५१ ॥ इत्यादिश्य मुनीन्द्रेण क्रकुछन्दः स सांधिकः । ततः संप्रस्थितोऽन्यत्र देशें संभाषयन् ययौ ॥ ४.१५२ ॥ ततो धर्माकरः सोऽत्र विधाय नगरं तथा । राज्यांगानि प्रतिस्थाप्य राज्यं कृत्वाध्यतिष्ठत ॥ ४.१५३ ॥ तदात्र सर्वे आगत्य मन्दिरेषु समन्ततः । आश्रित्य संस्थितिं कृत्वा निवसन्तो मुदा चरन् ॥ ४.१५४ ॥ ततोऽन्येपि समायाताः सर्वदिग्भ्योऽत्र सर्वतः ॥ जानपदे पुरेनेकं ग्रामेषु न्यवसन्मुदा ॥ ४.१५५ ॥ तथा देवा सुराद्याश्च सर्वे लोकाधिपा अपि । स्वस्वपरिजनैः सार्द्धमागत्यात्र मुदा वसन् ॥ ४.१५६ ॥ तथा महर्षयश्चापि यतयो ब्रह्मचारिणः । योगिनो भिक्षवोऽर्हन्तो व्रतिनश्चाप्युपासकाः ॥ ४.१५७ ॥ बोधिसत्त्वा महासत्त्वा श्चैलकाः श्रावका अपि । यथाभिलषिते देशे कृत्वा श्रमं समाश्रयन् ॥ ४.१५८ ॥ तथान्य तीर्थिकाः शैवा वैष्णवाः कौलिका अपि । यथाभिलषिते स्थाने कृत्वाश्रमं समाश्रयन् ॥ ४.१५९ ॥ प्रत्येक सुगताश्चापि समागत्य समन्ततः । विविक्ते आश्रमे रम्ये समाश्रित्य मुदा वसन् ॥ ४.१६० ॥ मुनीन्द्रा अपि चागत्य विहृत्यात्र ससांधिकाः । प्रार्य सम्बोधि सद्धर्म्मं समादेश्यन् त्वरागताः ॥ ४.१६१ ॥ एवं पुण्यतमा भूमीरियं हिमालयाहवया । सुखावतिनिभारम्या बोधिसत्त्व समाश्रय ॥ ४.१६२ ॥ वहूनि चात्र तीर्थानि सर्वपापहराण्यपि । जातानि सन्ति सर्वार्थ समृद्धि सिद्धिदाण्यपि ॥ ४.१६३ ॥ तदेतेषु च तीर्थेषु स्नात्वा चरत सद्व्रतम् । पापं हन्तुं शुभं प्राप्तुं समीछन्त्यत्र ये नराः ॥ ४.१६४ ॥ येऽत्र तीर्थेषु सर्वेषु स्नात्वा नित्यं समाहित । जप यज्ञादि कर्म्माणि कृत्वा चरन्ति सम्वरम् ॥ ४.१६५ ॥ पितृञ्चापि समभ्यर्च्य देवाञ्च श्रद्धयादरात् । दत्वा दानं समाधाय ध्यात्वापीशं भजन्ति च ॥ ४.१६६ ॥ तेऽपि सर्वे विकल्माषाः परिशुद्ध त्रिमण्डलाः । श्रीमन्तः सिद्धि मन्तश्च भवेयुः सद्गुणाश्रयाः ॥ ४.१६७ ॥ ततस्ते सर्व सत्त्वानां हितार्थे धर्म साधकाः । बोधिसत्त्वा महासत्त्वाः भवेयुः सुगतात्मजाः ॥ ४.१६८ ॥ ततस्ते बोधिसम्भारं पूरयित्वा यथाक्रमम् । त्रिरत्न भजनं कृत्वा संचरेरञ्जगद्धिते ॥ ४.१६९ ॥ ततस्ते विमलात्मानो निःक्लेशा विजितेन्द्रियाः । अर्हन्त स्त्रिविधां बोधिं प्राप्येयुः सौगतं पदम् ॥ ४.१७० ॥ एवं मत्वात्र तीर्थेषु सर्वेषु बोधिवांछिभिः । नात्वा दानादि कर्म कर्त्तव्य सर्वदा भवे ॥ ४.१७१ ॥ इत्यादिष्टं मुनीन्द्रेण समादिष्टं निसम्य ते । सर्व सभाश्रिता लोकाः प्राभ्यनन्दन् प्रवोधिताः ॥ ४.१७२ ॥ इति श्री स्वयंभू चैत्य समुत्पत्ति कथा वीतरागतीर्थ राष्ट्र प्रवर्त्तनो नाम चतुर्थोऽध्यायः समाप्तः । पञ्चम अध्यायः स्वयम्भूत्पत्यनेक तीर्थसंजातपुण्यमहात्म्यवर्णनो नाम अथासौ च महासत्त्व मैत्रेय साञ्जलिर्मुदा । भगवन्तं तमानस्य प्रार्थयेदेवमादरात् ॥ ५.१ ॥ भगवन् तत्र तीर्थानां स्नात्वा दानादि कर्म्मजम् । पुण्यफल विशेषत्वं समादिशतु साम्प्रतम् ॥ ५.२ ॥ इति संप्रार्थिते तेन भगवान्स मुनीश्वरः । मैत्रेयं तं महासत्त्वं सम्पश्यन्नेवमादिशत् ॥ ५.३ ॥ साधु शृणु महासत्त्व तीर्थ सेवा फलोद्भवम् । पुण्यं तद्विशेषत्वं वक्षामि सर्व बोधने ॥ ५.४ ॥ तद्यथा मूलतीर्थानि कथ्यन्ते द्वादशात्र हि । महापुण्यानि सर्वेषां तीर्थानां यानि भूतले ॥ ५.५ ॥ अमोघ फलदायिन्यां वाग्मत्यां यत्र संगमे । तत्तीर्थ शोधनं ख्यातं दशपापविशोधनात् ॥ ५.६ ॥ तत्र नागाधिपा रक्तस्तक्षकाख्यः सुकान्तिमान् । समुज्वलन्महारत्नंश्रीमत्फणा विभूषितः ॥ ५.७ ॥ येनरा श्रद्धया तत्र पुण्यतीर्थे यथाविधिः । स्नानं कुर्युमुदा यावदेक विंशति वासरम् ॥ ५.८ ॥ जप यज्ञादि कर्म्माणि कुर्युः सप्तदिनान्यपि । पितृन् देवाञ्च संपूज्य कुर्युः संतृप्तमोदितान् ॥ ५.९ ॥ दद्युर्दानानिचार्थिभ्यो यथेप्सितं समादरात् । शुद्धशीलाः समाधायैश्चरेयुश्च व्रतं तथा ॥ ५.१० ॥ एतत्पुण्यविशुद्धास्ते निःक्लेशा निर्म्मलेन्द्रियाः । बोधिसत्त्वा महासत्त्वा भवेयुः श्री गुणाश्रयाः ॥ ५.११ ॥ ततस्ते बोधिसम्भारं पूरयित्वायथाक्रमम् । त्रिविधां बोधिमासाद्य संवुद्ध पदमाप्नुयुः ॥ ५.१२ ॥ ततश्च मारदायिण्यो वाग्मत्या यत्र संगमः । तच्छान्ततीर्थमाख्यातं क्लेश दोष विशोधनम् ॥ ५.१३ ॥ तत्रनागाधिपः शुक्लः सोम शिखीतिविश्रुतः । विलसन्मणिरत्नश्रीफणामण्डल भूषितः ॥ ५.१४ ॥ तत्रापि शान्त तीर्थ च ये क्लेश दुःषिता नराः । कुर्यु स्नानं सदा यावदेकविंशति वासरम् ॥ ५.१५ ॥ जप यज्ञादिक कुर्युश्चरेयुश्चाधि पोषधम् । पितृन् देवाञ्च संपूज्य कुर्युः संतुष्टनन्दितान् ॥ ५.१६ ॥ दद्युर्दानांनि चार्थि भ्यो यथाभिलषितं मुदा । शुद्धशीला समाचाराः ध्यात्वा भजेयुरीश्वरम् ॥ ५.१७ ॥ एतत्पुण्याभिलिप्तास्ते परिशुद्ध त्रिमण्डलाः । बोधिसत्त्वा महासत्त्वा भवेयुः श्रीगुणालयाः ॥ ५.१८ ॥ ततस्ते बोधि सम्भारं पूरयित्वा यथाक्रमम् । अर्हन्त स्त्रिविधाम्बोधि प्राप्येयुः सौगतं पदम् ॥ ५.१९ ॥ ततश्च मणिरोहिण्या वाग्मत्या यत्रसंगमे । तत्रोर्द्धनिःसृता शुद्ध स्फटिकादारसंन्निभाम् ॥ ५.२० ॥ रुद्रधारा मृताख्याता तया च तत्र संगमे । त्रिवेणी संगमे तेन शंकर तीर्थ मुच्यते ॥ ५.२१ ॥ तत्र नागाधिप शंखपालो गौराति सुन्दरः । मणिरस्मि समुद्दिप्त श्रीमत्फणा विभूषितः ॥ ५.२२ ॥ तत्र शंकर तीर्थे ये मानवाश्च यथाविधिः । स्नानं कुर्युर्मुदा यावदेकविंशतिवासरम् ॥ ५.२३ ॥ जप यज्ञादिकर्म्माणिः कुर्युश्च सप्तवासरम् । पितृन्देवाञ्च संपूज्य तर्प्पयेयुर्यथाविधि ॥ ५.२४ ॥ दद्युर्दानानि चार्थिभ्य श्रद्धया बोधिमानसाः । ध्यात्वा भजेयुरीशं चसंचरेञ्चपोषढम् ॥ ५.२५ ॥ एतत्पुण्य विशुद्धात्मा निःक्लेशाः निर्म्मलेन्द्रियाः । लभेयुः श्री महापुष्टिशान्ति गुणा च शान्त्यपि ॥ ५.२६ ॥ दुर्ग्गति तेन यायुश्च संजाताः सङ्गतौ सदा । बोधिसत्त्वा महासत्त्वा भवेयु भद्रचारिणः ॥ ५.२७ ॥ ततस्ते बोधिसंभारं पूरयित्वा यथाक्रमम् । अर्हन्त स्त्रिविधां बोधि प्राप्येयुः सौगतं पदम् ॥ ५.२८ ॥ ततश्च राजमञ्चर्या वाग्मत्या यत्र संगमम् । तद्राजतीर्थमाख्यातं राज्यारोग्यसुखपदम् ॥ ५.२९ ॥ तत्र नागाधिपः शुक्लः सुरुपाख्यातिसुन्दरः । मणिरत्न महादीप्ति श्रीप्रभा मण्डिताश्रयः ॥ ५.३० ॥ तत्र ये मानवाया वदेक विंशतिवासरम् । स्नान दान जप ध्यानं कुर्यु दद्युश्च संवरम् ॥ ५.३१ ॥ एतत्पुण्य विशुद्धास्ते निर्दोषा विमलेन्द्रियाः । राज्यश्वर्य सदारोग्य भद्र सौख्यम वाप्नुयुः ॥ ५.३२ ॥ तेऽपि न दुर्ग्गति यायुः सदासद्गति संभवाः । बोधिसत्त्वा महासत्त्वा भवेयुः श्रीगुणाश्रयाः ॥ ५.३३ ॥ ततस्ते बोधिसम्भारं पूरयित्वा यथाक्रमम् । अर्हन्त स्त्रिविधां बोधि प्राप्ययायु जिनालयम् ॥ ५.३४ ॥ तथात्र विमलावत्या केशावत्या च संगमेः । मनोरथं तदाख्यातं स्वेच्छालंकार संप्रदम् ॥ ५.३५ ॥ तत्र नागाधिपो भीमः कुलिकाख्योऽतिकर्वुरः । फणामणि समुद्दीप्त श्रीप्रभामण्डिताश्रयः ॥ ५.३६ ॥ तत्र मनोरथे तीर्थे मनुजा ये यथाविधिः । स्नान दानादिकं कुर्युरेकविशति वासरम् ॥ ५.३७ ॥ तेऽपि न दुर्गतिं यायुः सदा सद्गतिसंभवाः । बोधिसत्त्वा महासत्त्वा भद्रश्री सद्गुणाश्रयाः ॥ ५.३८ ॥ पट्टसुवस्त्ररत्नादि स्वेच्छालंकारभूषिताः । सर्वसत्त्व हिताधान चरेर्युर्बोधिसवरम् ॥ ५.३९ ॥ ततस्ते बोधिसंभारं पूरयित्वा यथाक्रमम् । त्रिविधां बोधिमासाद्य संबुद्ध पदमाप्नुयुः ॥ ५.४० ॥ ततश्च कुसुमावत्या केशावत्यापि संगमे । निर्म्मलतीर्थमाख्यातं कल्पनाविघ्ननाशनम् ॥ ५.४१ ॥ तत्र नागो पलालाख्यः पीतवर्ण्णो महाकृतिः । दिव्यरत्न प्रभोज्ज्वाल श्रीमत्फणा विभूषितः ॥ ५.४२ ॥ तत्र ये मानवा यावदेकविंशतिवासरम् । स्नानदानादिकं कुर्युस्तथासर्वे च पूर्ववत् ॥ ५.४३ ॥ तेऽपि न दुर्गतिं यायुः सदा सङ्गतिसंभवाः । बोधिसत्त्वा महासत्त्वा भद्रश्रीसद्गुणायाः ॥ ५.४४ ॥ कलि विघ्न मल क्लेश निर्मुक्त भद्रचारिणः । सर्वसत्त्व हितारक्ता भवेयु ब्रह्मचारिणः ॥ ५.४५ ॥ ततस्ते बोधिसंभार पुरयित्वा यथाक्रमम् । अर्हन्तो बोधिमासाद्य सम्बुद्धपदमाप्नुयुः ॥ ५.४६ ॥ ततः सुवर्ण्णवत्या च बागमत्या यत्र संगमे । निधानतीर्थमाख्यातं सर्व सम्पतिदायकम् ॥ ५.४७ ॥ तत्र नागौ हरितवर्णौ नन्दौपनन्दनावुभौ । नाना रत्न प्रभाद्दीप्तिः श्री मत्फणाविभूषितौ ॥ ५.४८ ॥ तत्र ये मनुजा यावदेक विंशतिवासरम् । स्नानादि पूर्ववत्सर्व कर्म्मं कुर्युर्यथाविधिः ॥ ५.४९ ॥ तेऽपि न दुर्ग्गतिं यायुः सदा सङ्गतिसंभवाः । बोधिसत्त्वा महासत्त्वा भद्रश्री सद्गुणाश्रयाः ॥ ५.५० ॥ सर्वसत्त्वार्थ सम्पन्ना भवेयुः धर्म्मचारिणः । तेप्यैवं बोधिसंभारं पूरयित्वा यथाक्रमम् ॥ ५.५१ ॥ अर्हन्तो बोधिमासाद्य सौगतं पदमाप्नुयुः । ततश्च पाप नाशिन्या केशवत्याभिसंगमे ॥ ५.५२ ॥ ज्ञानतीर्थं तदाख्यातं दिव्यभोग सुखप्रदम् । तत्र नागाधिपः शुक्ल वाशुकिर्नाम भीषणः ॥ ५.५३ ॥ दिव्य रत्न प्रभाश्री मत्फणालंकारमण्डितः । तत्र येमानवा या वदेकविंशतिवासरम् ॥ ५.५४ ॥ स्नान दानादि कर्म्माणि कुर्युः सर्वाणि पुर्ववत् । तेऽपि न दुर्ग्गति यायुर्जाताः सदापि सङ्गतौ ॥ ५.५५ ॥ सर्व भोग महासम्पत्सुखवन्तो निरामयाः । बोधिसत्त्वा महसत्त्वाश्चतुर्ब्रह्म विहारिणः ॥ ५.५६ ॥ भद्रश्रीसद्गुणाधारा भवेयु बोधिचारिणः । तथा ते बोधिसंभारं पूरयित्वा यथाक्रमम् ॥ ५.५७ ॥ अर्हन्तो बोधिमासाद्य सर्वज्ञ पद्माप्नुयुः । भद्श्री सद्गुणाधाराः सम्बुद्धगुणसाधिनः ॥ ५.५८ ॥ ततश्च यत्र वाग्मत्याः केशावत्या च संगमेः । तच्चिन्तामणिमाख्यातं सर्वकामार्थ संपदम् ॥ ५.५९ ॥ गंगा च यमुनाचापि तथा देवी सरस्वती । पर्व प्रत्यागता तत्र तेन पञ्च समागमा ॥ ५.६० ॥ तत्र नागाधिपः शुक्लो वरुणा सर्व नागरात् । दिव्यरत्न प्रभाश्रीमत्फणामण्डल भूषितः ॥ ५.६१ ॥ तत्र ये मानवा यावदेकविंशति वासरम् । स्नानदानादिकं सर्वे कुर्युः पूर्ववदादरात् ॥ ५.६२ ॥ तेऽपि न दुर्ग्गतिं यायुः सदा सद्गतिसंभवाः । संपूर्ण्ण परमायुष्काः विद्याधिपा विचक्षणाः ॥ ५.६३ ॥ सुसन्ताना महाभोगा धम्मार्थ कामभोगिनः । बोधिसत्त्वा महासत्त्वा श्चतुर्ब्रह्मविहारिणः ॥ ५.६४ ॥ भद्रश्री सद्गुणाधारा भवेयुः बोधिचारिणः । ततस्ते बोधिसंभारं पूरयित्वा यथाक्रमम् ॥ ५.६५ ॥ अर्हन्तो बोधिमासाद्य संबुद्ध पदमाप्नुयुः । ततश्च यत्र वाग्मत्या रत्नावत्याः समागमे ॥ ५.६६ ॥ प्रमोदतीर्थमाख्यातं रतिप्रीतिवशार्थदः । तत्र नागाधिपः पद्मो धवलदिव्य सुन्दरः ॥ ५.६७ ॥ दिव्यरत्न महाकान्ति फणामण्डल भूषितः । तत्र ये मानवा यावदेकविंशतिवासरम् ॥ ५.६८ ॥ स्नान दानानि सर्वाणि कुर्युः कर्म्माणि पूर्ववत् । तेऽपि नदुर्गतीं यायुः सदा सद्गति संभवाः ॥ ५.६९ ॥ रति प्रीति वशानन्द महासौख्य समन्विता । बोधिसत्त्वो महासत्त्वोः परिशुद्ध त्रिमण्डलाः ॥ ५.७० ॥ भद्रश्री सद्गुणाधारा भवेयुः बोधिसाधिनः । ततस्ते बोधिसंभारं पूरयित्वा यथाक्रमम् ॥ ५.७१ ॥ अर्हन्त श्त्रिविधां बोधिंप्राप्य यायु र्जिनालयम् । तत्रश्चयत्र वाग्मत्या चारुमत्या समागमे ॥ ५.७२ ॥ तत्सुलक्षणमाख्यातं श्री तेजो भाग्यसम्पदम् । तत्र नागो महापद्मोऽति धवलोऽति सुन्दरः ॥ ५.७३ ॥ दिव्यरत्न प्रभाश्री मत्फणामण्डलमण्डितः । तत्र ये मानवा यावदेकविंसतिवासरम् ॥ ५.७४ ॥ स्नान दानं जप ध्यानं कुर्युर्यज्ञं च पूर्ववत् । तेऽपिन दुर्गतिं यायुः सदा सद्गति संभवाः ॥ ५.७५ ॥ श्रीतेजो भोग्यसंपन्ना सुरुपालक्षणान्विता । बोधिसत्त्वा महासत्त्वाः भद्रश्रीसद्गुणाश्रयाः ॥ ५.७६ ॥ सर्वसत्त्व हितोद्युक्ताः भवेयुः बोधिचारिणः । ततस्ते बोधिसंभारं पूरयित्वा यथाक्रमम् ॥ ५.७७ ॥ अर्हन्त त्रिविधां बोधि प्राप्येयुः सौगतं पदम् । ततश्च यत्र वाग्मत्या प्रभामत्या समागमेः ॥ ५.७८ ॥ जयतीर्थ समाख्यातं सर्वशत्रुभयान्तकृत् । तत्र नागाधिपः शुक्रः श्रीकान्ति दिव्य सुन्दरः ॥ ५.७९ ॥ दिव्यरत्न प्रभाश्री मत्फणामण्डलमण्डितः । तत्र ये मानवा यावदेक विंशतिवासरम् ॥ ५.८० ॥ स्नात्वा यज्ञादि कर्म्माणि कुर्युः सर्वाणि पूर्ववत् । तेऽपि न दुर्ग्गतीं यायुः सदा सद्गति संभवाः ॥ ५.८१ ॥ निर्भया स्त्रिगुणोत्साहाजयिनो निर्जितारयः । बोधिसत्त्वा महासत्त्वाश्चतुर्ब्रह्म विहारिणः ॥ ५.८२ ॥ भद्रश्री सद्गुणाचारा भवेयु बोधिचारिणः । ततस्ते बोधिसंभारं पूरयित्वा यथाक्रमम् ॥ ५.८३ ॥ अर्हन्तस्त्रिविधां बोधिप्राप्येयुः सौगतपदम् । द्वादशैतानि नामानि तीर्थानि महान्त्यत्र हिमालये ॥ ५.८४ ॥ अन्यान्यपि च संत्यत्र तानि वक्ष्याम्यहं शृणु । तद्यथो परि वाग्मत्याः श्रोतसिद्धारसंनिधौ ॥ ५.८५ ॥ सौन्दर्य तीर्थमाख्यातं सौन्दर्य गुणसंपदम् । तत्र येमानवा यावदेकविंशतिवासरम् ॥ ५.८६ ॥ स्नान दानानि कर्म्माणि कुर्युः सर्वाणि पूर्ववत् । तेऽपिन दुर्ग्गतिं यायुः सदा सद्गतिसंभवाः ॥ ५.८७ ॥ सुरूपा लक्षणोपेताः श्रीमन्त सद्गुणान्विताः । बोधिसत्त्वा महासत्त्वा चतुर्ब्रह्म विहारिणः ॥ ५.८८ ॥ सर्वसत्त्व हिताधानं चरेयु र्बोधिसंम्वरम् । ततस्ते बोधिसंभारं पूरयित्वा यथाक्रमम् ॥ ५.८९ ॥ अर्हन्त स्त्रिविधां बोधिसंप्राप्येयुः जिनालयम् । तदुपरिचयत्तीर्थ अगस्त्यो न महर्षिणा ॥ ५.९० ॥ नित्यस्नानं जप ध्यानं कृत्वा यज्ञं च सेवितम् । तेनागस्त्यं महत्तीर्थ तदा ख्यान्तं मुनीश्वरैः ॥ ५.९१ ॥ तत्र ये मनुजा स्नायूस्ते यायुः परमां गतिम् । दान यज्ञ जपादिश्च कुर्यु ध्यात्वायि चेश्वरम् ॥ ५.९२ ॥ तोषययुस्तथापित्तृन्दद्युर्दानं यथेप्सितम् । ते सर्वे विमलात्मानश्च चतुर्ब्रह्मविहारिणः ॥ ५.९३ ॥ बोधिसत्त्वा महासत्त्वा भवेयुः श्रीगुणाश्रयाः । तथा ते बोधिसंभारं पूरयित्वा यथाक्रमम् ॥ ५.९४ ॥ अर्हन्त स्त्रिविधाम्बोधिं प्राप्य बुद्धत्वमाप्नुयुः । तत्रैवानन्तनागेन यदाश्रितं महाह्रदम् ॥ ५.९५ ॥ तेन तदह्रदमाख्यातमनन्ततीर्थमर्थदम् । तत्र ये मनुजायावदेकंविंशति वासरम् ॥ ५.९६ ॥ स्नान दान जप ध्यानं कुर्युर्यज्ञंच पूर्ववत् । तेऽपि न दुर्गतिं यायुःसदा सद्गतिसम्भवाः ॥ ५.९७ ॥ बोधिसत्त्वा महासत्त्वा र्भवेयुः श्रीगुणाश्रयाः । तथा ते बोधिसम्भारं पूरयित्वा यथाक्रमम् ॥ ५.९८ ॥ अर्हन्तो बोधिमासाद्य सर्वज्ञपदमाप्नुयुः । तत्रैव च महत्तीर्थ आर्यतारानिषेवितम् ॥ ५.९९ ॥ तेनेदं प्राथितं प्रार्यतारा तीर्थ सुभाग्यदम् । तत्रापि ये नरा र्यावदेकविंशतिवासरम् ॥ ५.१०० ॥ स्नानदानजप ध्यानं यज्ञं कुर्यु र्यथाविधि । तेऽपि न दुर्गतिं यायुः संजाताः सद्गतौ सदा ॥ ५.१०१ ॥ बोधिसत्त्वा महासत्त्वाः परिशुद्धत्रिमण्डलाः । सौभाग्यशालिनो धीरा भद्रश्रीसद्गुणाश्रयाः ॥ ५.१०२ ॥ सर्वसत्त्वहितोत्साहा भवेयु र्बोधिचारिणः । तथा ते बोधिसंभारं पूरयित्वा यथाक्रमम् ॥ ५.१०३ ॥ अर्हन्त स्त्रिविधां बोधिं प्राप्येयुः सौगतंपदम् । अर्द्धौर्द्धञ्च वाग्मन्त्याः प्रभवतीर्थमुक्तमम् ॥ ५.१०४ ॥ सर्वेषामपि तीर्थानां प्रधानमग्रमुच्यते । तत्रैकस्नान मात्रेण गंगा स्नान शताधिकम् ॥ ५.१०५ ॥ पुण्यं महत्तरं सिद्धं वाञ्छितार्थ सुखप्रदम् । तत्र ये मानवा यावदेकविंसतिवासरम् ॥ ५.१०६ ॥ स्नान दान जप ध्यानं यज्ञं कुर्युर्युयथाविधिः । शुविशुद्ध त्रिकायास्ते यथाकाम सुखाशिन च ॥ ५.१०७ ॥ धमार्थं श्रीसमृद्धाः स्युश्चतुर्ब्रह्मविहारिणः । क्वचिन्न दुर्ग्गतिं यायुः संजाता सद्गतो सदा ॥ ५.१०८ ॥ स्वपरात्महितं कृत्वा संचरेन्सदा शुभे । ततस्ते विमलात्मानो सुविशुद्धेन्द्रियाशयाः ॥ ५.१०९ ॥ बोधिसत्त्वा महासत्त्वाः भवेयुः सद्गुणाकराः । तथा ते बोधिसंभारं पूरयित्वा यथाविधिः ॥ ५.११० ॥ अर्हन्तस्त्रिविधां बोधि प्राप्येयुः सौगतंपदम् । तं शंखपर्वत नाम सर्व शिलोच्चयोत्तमम् ॥ ५.१११ ॥ समारोहण मात्रेण निष्णा येः सिद्धिमान् भवेत् । तत्रापि ये समाश्रित्य स्नात्वा ध्यात्वा समाहितः ॥ ५.११२ ॥ जप यज्ञादि दानं च कुर्युः संबोधिमानसाः । तेऽपि न दुर्गतिं यायुः सदासद्गति संभवाः ॥ ५.११३ ॥ बोधिसत्त्वा महासत्त्वाः परिशुद्ध त्रिमण्डलाः । निःक्लेशा विमलात्मानः सर्व सत्त्व हिताशयाः ॥ ५.११४ ॥ भद्रश्री सद्गुणाधारा भवेयु र्ब्रह्मचारिणः । ततस्ते बोधिसंभारं पूरयित्वा यथाक्रमम् ॥ ५.११५ ॥ अर्हन्तो बोधिमासाद्य संबुद्धपदमाप्नुयुः । वहूनि चोप तीर्थानि विद्यन्तेऽत्र हिमालये ॥ ५.११६ ॥ तानि तीर्थानि सर्वाणि भुक्ति मुक्ति प्रदान्यपि । यत्र यत्र श्रवन्तीनाम न्येषां च समागमे ॥ ५.११७ ॥ तत्र तत्रापि तीर्थानि पुण्य फल प्रदानि हि । तेषां चाप्युप तीर्थानां पृथक्पृथत्फलं महत् ॥ ५.११८ ॥ पाप संशोधनं पुण्यं सद्धर्म्मसुखसाधनम् ॥ तेष्वपि ये नराः स्नात्वा चरेयु पोषढं व्रतम् ॥ ५.११९ ॥ दद्युर्दानानि चार्थिभ्यं कुर्युर्यज्ञानि च ये मुदा । पितृसंतर्प्य येयुश्च पूजयेयुः सुरानपि ॥ ५.१२० ॥ स्मृत्वा ध्यात्वा त्रिरत्नानां भजेयुनेमिजल्यनैः । एवं लोकाधिपानां च स्मृत्वा ध्यात्वा समाहिताः ॥ ५.१२१ ॥ जपित्वा नाम मन्त्राणि साधयेयु र्यथाविधिः । तानि सर्वानि सिध्येयुः साधितानि जगद्धिते ॥ ५.१२२ ॥ दद्युश्चेह शुभोत्साहं परत्र निर्वृतं पदम् । तेऽपि न दुर्गतिं यायुः सदा सद्गतिसंभवाः ॥ ५.१२३ ॥ निःक्लेशा विमलात्मानः परिशुद्धा त्रिमण्डलाः । बोधिसत्त्वा महासत्त्वाश्चतुर्ब्रह्म विहारिणः ॥ ५.१२४ ॥ भद्रश्री सद्गुणाधारा भवेयुः बोधिचारिणः । ततस्ते बोधिसम्भारं पूरयित्वा यथाक्रमम् ॥ ५.१२५ ॥ अर्हन्त बोधिं प्राप्ययायु र्जिनालयम् । एकं विज्ञाय सर्वेषां तीर्थानामपिसत्फलम् ॥ ५.१२६ ॥ भद्रश्री सद्गुणात्साहं सौख्यसंबोधि साधनम् । सर्वेष्वेतेषु तीर्थेषुभद्रश्री गुण वांछाभिः ॥ ५.१२७ ॥ स्नान दानादिकं कर्म कर्त्तव्यं बोधि प्राप्तये । ये ये एतेषु तीर्थेषु स्नात्वा नित्यं यथाविधिः ॥ ५.१२८ ॥ दत्वा दान व्रतं धृत्वा ध्यात्वा भजेयुरीश्वरम् । ते ते सर्वे विकल्माषाः परिशुद्ध त्रिमण्डलाः ॥ ५.१२९ ॥ निःक्लेशा विमलात्मानो भवेयुर्बोधिभागिनः । इति लोकाधिपैः सर्वे र्ब्रह्मेन्द्र प्रमुखैरपि ॥ ५.१३० ॥ सर्वान्येतानि तीर्थानि संसेवितानि सर्वदा । तथा च मुनिभिः सर्वेस्ताप सैर्ब्रह्मचारिभिः ॥ ५.१३१ ॥ यतिभिर्योगिभिश्चापि तीर्थिकैः श्रावकै रपि । ब्राह्मणै वैष्णवैः शैवैः कौलिकैरपि शक्तिकैरपि ॥ ५.१३२ ॥ देवैश्च दानवैश्चापि यक्षगन्धर्वकिन्नरैः । गुह्यक सिद्धसाध्यै श्च ग्रहैः विद्याधरैरपि ॥ ५.१३३ ॥ अप्सरोभिश्च सर्वाभिः सदा संसेवितानि हि । नागेन्द्रै र्गरुडैश्चापि कुम्भाण्डै राक्षसैरपि ॥ ५.१३४ ॥ एवमन्यैरप्रिप्रेत्य सेवितानि शुभार्थिभिः । ग्रहैश्चः सांधिकैश्चापि व्रतिश्चाप्युपासकैः ॥ ५.१३५ ॥ बोधिसत्त्वै र्मुनीन्द्रैश्च सेवितानि जगद्धिते । अहमपितथैतेषु तीर्थेषु समुपाश्रयन् ॥ ५.१३६ ॥ स्नात्वा दानानि दत्वा च कृत्वा यज्ञं यथाविधि । पितृन्सतर्पयित्वापि समभ्यर्च्य सुरानपि ॥ ५.१३७ ॥ त्रिरत्नभजनं कृत्वा प्राचरं पोषध व्रंतम् । धर्म्मधातुं समाराध्य स्मृत्वा ध्यात्वा समाहितः ॥ ५.१३८ ॥ जपित्वा धारणी मन्त्रं प्रचरन्बोधिसम्वरम् । एतत्पुण्यानुभावेन परिशुद्ध त्रिमण्डलाः ॥ ५.१३९ ॥ निःक्लेशो निर्म्मलात्मोहं चतुर्ब्रह्मविहारिणः । बोधिसत्त्वा महासत्त्वाः भद्रश्री सद्गुणाद्धिर्मान् ॥ ५.१४० ॥ आशु संबोधिं संभार पूरयित्वा यथाक्रमम् । जित्वा मारगणान्सर्वान् कलावपि जगद्धिते ॥ ५.१४१ ॥ त्रविधबोधिमासाद्य संबुद्धो धर्म्मरात्भुवे । थुयमपिज्ञात्वानि विघ्न बोधि प्राप्तये ॥ ५.१४२ ॥ सर्वेषु तेषु तीर्थेषु प्रवध्वं यथाविधिः । धर्म्मधातुं सदाभ्यर्च्य स्मृत्वा ध्यात्वा समाहिताः ॥ ५.१४३ ॥ जपित्वा धारणीमन्त्रं संभजध्वं जगद्धिते । एत्पुण्यु प्रभोवण परिशुद्धत्रिमण्डलाः ॥ ५.१४४ ॥ दुर्ग्गतिन्नैवगछेत जायध्वं संद्गतौ सदाम् । तत्र सदा त्रिरत्नानो शरणे समुपस्थिताः ॥ ५.१४५ ॥ सत्कारै र्भजन कृत्वा संचरध्वं जगद्धिते । तेषां हि विमलात्मानश्चतुर्ब्रह्म विहारिणः ॥ ५.१४६ ॥ बोधिसत्त्वा महासत्त्वा भवेयु भद्रचारिणः । ततः श्री सद्गुणाधाराः सर्वविद्याविचक्षणाः ॥ ५.१४७ ॥ सर्व सत्त्वाहिताधानं संचरध्व जगद्धिते । ततः संबोधिं संभारं पूरयित्वा यथाक्रमम् ॥ ५.१४८ ॥ आशु त्रिबोधिमासाद्य प्राप्स्यथ सौगतं पदम् । इत्यादिष्टं मुनीन्द्रेण श्रुत्वा सर्वे प्रवोधिताः ॥ ५.१४९ ॥ मैत्रेयादि सभालोकाः प्राप्यनन्द प्रवोधिताः । इति श्री स्वयंभू समुत्पत्ति कथायामनेक तीर्थ संजात पुण्य महात्म्य वर्णनो नाम पञ्चमोऽध्याय । षष्ठम अध्यायः स्वयम्भूधर्मधातुवागीश्वराभिधानप्रसिद्धप्रवर्तनो नाम अथासौ च महासत्त्वो मैत्रेयः सुगतात्मजः । मुनीन्द्रं श्रीघनं नत्वा साञ्जलिरेवमब्रवीत् ॥ ६.१ ॥ यदस्य भगवन् धर्म्मधातु वागीश्वराभिधम् । प्रसिद्ध हेतुना केन तत्समादेष्टुमर्हति ॥ ६.२ ॥ इति संप्रार्थिते तेनः मैत्रेयेण स सर्ववित् । भगवान्स्तं महासत्त्वं संपश्यन्निदमादिशत् ॥ ६.३ ॥ येनास्य हेतुना धर्म्मधातु वागीश्वराभिधम् । प्रसिद्धिं तत्प्रवक्षामि शृणु मैत्रेय सादरम् ॥ ६.४ ॥ तद्यथायुर्यदा नृणां त्रिंशद्वर्ष सहस्रिके । शोभावत्यां महापूर्यामुदपादि तदा जिनः ॥ ६.५ ॥ संबुद्धोऽर्हञ्जगच्छास्ता धर्म्मराजो मुनीश्वरः । कनक मुनीरित्याख्यास्तथागतो विनायकः ॥ ६.६ ॥ तदाहं कुलपुत्रो स सुधर्म्माख्य आत्मवित् । बोधिसत्त्वो महासत्त्वो धर्म्मश्री सद्गुणार्थभृत् ॥ ६.७ ॥ स कनकमुनेः शास्तुः शासने समुपाश्रितः । त्रिरत्नभजनं कृत्वाः प्राचरं बोधिसंवरम् ॥ ६.८ ॥ यदा च भगवाञ्छास्ता शोभावत्या उपाश्रमे । विहारे शोभितारामे विजहार स सांघिकः ॥ ६.९ ॥ तदा तत्र सभालोके ब्रह्मेन्द्र प्रमुखाः सुराः । सर्वलोकाधिपाश्चापि धर्म्मं श्रोतुमुदागताः ॥ ६.१० ॥ सर्वे ग्रहाश्च ताराश्च सर्वा विद्याधरा अपि । सिद्धाः साध्याश्च रुद्राश्च मुनयोऽपि महर्षयः ॥ ६.११ ॥ गन्धर्वाः किन्नरा यक्षा गुह्यका राक्षसा अपि । कुम्भाण्डा गरुडा नागा दैत्याश्चापि समागताः ॥ ६.१२ ॥ यतयो योगिनश्चापि तीर्थिकाश्च तपस्विनः । पाखण्डाश्च परिव्राजको निर्ग्रन्था ब्रह्मचारिणः ॥ ६.१३ ॥ श्रमणाः श्रावकाश्चापि व्रतिनश्चाप्युपासकाः । तत्सद्धर्म्मामृतं पातुं सादरं समुपागताः ॥ ६.१४ ॥ ब्राह्मणा क्षत्रिया श्चापि वैश्याश्च मन्त्रिणोजनाः । गृहाधिपाश्च श्रेष्टाश्चः भृत्याः सैन्याधिपा अपि ॥ ६.१५ ॥ शिल्पिनो वणिजश्चापि सार्थवाहा महाजनाः । पौरा जानपदा ग्राम्याः कार्पटिकाश्च शैरिकाः ॥ ६.१६ ॥ तथान्य वासिनश्चापि सर्वलोकाः प्रसादिताः । तत्सद्धर्म्मामृतं पातुं सादरं समुपागताः ॥ ६.१७ ॥ तान्सर्वान्समुपायातान् दृष्ट्वा स भगवान्मुदा । सभा मध्यासनासीनस्तस्थौ ध्यात्वा प्रभासयन् ॥ ६.१८ ॥ तं मुनीन्द्रं प्रभाकान्तं दृष्ट्वा सर्वेऽपि सांधिकाः । श्रवणाः श्रावकाः सर्वे भिक्षवो ब्रह्मचारिणः ॥ ६.१९ ॥ भिक्षुण्यो ब्रह्मचारिण्यो उपासिकाश्च चैलिकाः । चैलका व्रतिनश्चापि धर्मकामा उपासकाः ॥ ६.२० ॥ सर्वेऽपि ते समागत्य प्रणत्वा तं मुनीश्वरम् । परिवृत्य परिस्कृत्य धर्म्म श्रोतुमुपाश्रयन् ॥ ६.२१ ॥ ततो ब्रह्मदयो देवाः सर्वे लोकाधिपा अपि । तं मुनीन्द्रं समभ्यर्च्य प्रणत्वा च यथाक्रमम् ॥ ६.२२ ॥ परिवृत्य पुरस्कृत्य तत्सभायां समन्ततः । संपश्यन्तं मुनीन्द्रं तमुपतस्थुः समाहिताः ॥ ६.२३ ॥ ततस्ते मानवाः सर्वे ऋषि विप्रनृपादयः । तं मुनीन्द्रं समभ्यर्च्य संप्रणत्वा यथाक्रमम् ॥ ६.२४ ॥ तत्सभां समुपाश्रित्य परिवृत्य समन्ततः । पुरस्कृत्य समुद्वीक्ष्य संतस्थिरे समाहिताः ॥ ६.२५ ॥ ततस्तान् समुपासीनान् दृष्ट्वा स भगवान्मुदा । आर्यसत्यं समारभ्य सद्धर्म्म समुपासदित् ॥ ६.२६ ॥ क्रमेन बोधिचर्यागमार्याष्टांङ्ग च सत्पथम् । आदिश्य बोधिमार्गे तान् सर्वाल्लोकान् योजयेत् ॥ ६.२७ ॥ तत्सद्धर्म्मामृतं पीत्वा सर्वे लोकाः प्रवोधिताः । सद्धर्म्म साधना युक्ता बभूवु र्बोधिमानसाः ॥ ६.२८ ॥ तदा विक्रमशीलाख्ये विहारे भिक्षुरात्मवित् । ससंघा व्यहरद्धर्म्मश्रीमित्राख्यः सुधीर्यतिः ॥ ६.२९ ॥ स तत्र सर्वलोकानां हितार्थेन समाश्रितः । स संघा नामसंगीतिं व्याख्यातुमभ्यवाञ्छत ॥ ६.३० ॥ ततः स सत्मतिः सर्वान् संघा नाम प्रसादरम् । सभामध्यासनासीनस्तस्थौ ध्यानसमाहितः ॥ ६.३१ ॥ तं सभासन आसीनं दृष्ट्वा सर्वेऽपि सांघिकाः । तत्सद्धर्म्मामृतं पातुमिच्छतः समुपागताः ॥ ६.३२ ॥ तत्र ये यतिं नत्वा परिवृत्य समन्ततः । पुरस्कृत्य समीक्षन्त उपतस्थुः समाहिताः ॥ ६.३३ ॥ तत्रान्येऽपि समायाता लोकद्विजनृपादयः । वैश्याश्च मन्त्रिनोऽमात्याः भृत्या सैन्याधिपा अपि ॥ ६.३४ ॥ शिल्पिनो वनिजश्चापि सार्थवाहा महाजनाः । पौरा जानपदाग्राम्यास्तथान्यदेशवासिनः ॥ ६.३५ ॥ सर्वे ते समुपागत्य प्रणत्वा तं यतिं मुदा । परिवृत्य पुरस्कृत्य सपश्यन्तमुपाश्रयन् ॥ ६.३६ ॥ ततः स यतिरालोक्य सर्वान्स्तान्समुपाश्रितान् । मञ्जुश्रीनाम संगीतिं समाख्यातं यथात्क्रमात् ॥ ६.३७ ॥ तत्समादिष्टमाकर्ण्यं सर्वे लोकाः सभाश्रिताः । संबुद्ध गुणमहात्म्यं मत्वानन्दप्रवोधिताः ॥ ६.३८ ॥ ततः सर्वेऽपि लोकास्ते ब्राह्मण भूमिपादयः । नत्वा तं यतिमामन्त्र्य स्वस्वालयं मुदाययुः ॥ ६.३९ ॥ ततस्ते श्रावका विज्ञा यतयो ब्रह्मचारिणः । द्वादशाक्षर गुह्यार्थं सम्यक्श्रोतुंममीच्छिरे ॥ ६.४० ॥ ततस्ते योगिनः सर्वे कृताञ्जलि पुटा मुदा । शास्तारं तं यतिं नत्वा समामत्र्यैवमव्रुवन् ॥ ६.४१ ॥ भदन्त द्वादशानां यदक्षराणां विशेषतः । विशुद्धिं श्रोतुमिच्छामस्तत्समादेष्टुमर्हति ॥ ६.४२ ॥ इति तै र्प्रार्थितं धर्म्मश्री मित्रः ससुधीरपि । द्वादशाक्षर गुह्यार्थं विशुद्धिं न समादिशत् ॥ ६.४३ ॥ तं विशुद्धा नभिज्ञाता विषण्णात्मा स उत्थितः । ध्यानागारं समासीनो ध्यात्वैवं समचिन्तयन् ॥ ६.४४ ॥ नैतदक्षरं गुह्यार्थं विशुद्धिर्ज्ञायते मया । तत्कथमुपदेक्ष्यामि हाहा कुत्र भ्रमेयहि ॥ ६.४५ ॥ इति चिन्ता विषर्ण्णोऽत्मा लज्जा संमोहिताशयः । स्मृत्वा रत्नत्रयं ध्यात्वा तस्थौ धैर्यसमाहितः ॥ ६.४६ ॥ तत्क्षणे स त्रिरत्नानां स्मृति पुण्यानुभावतः । एवं मतिं महावीर्य महोत्साहिनिमाप्तवान् ॥ ६.४७ ॥ ततस्तत्मति शौण्डौऽसौः पुन ध्यात्वा समाहितः । मनसा सर्व लोकेषु विचारयन् व्यलोकयन् ॥ ६.४८ ॥ तदापश्यन्महाचीने उत्तरस्यां नगोत्तमे । मञ्जुश्रीयं महाभिज्ञं सर्व विद्याधिपेश्वरम् ॥ ६.४९ ॥ बोधिसत्त्वं महासत्त्वं सर्व धर्म्माधिपप्रभुम् । सर्व गुह्य विशुद्धार्थ विज्ञानज्ञानदायकम् ॥ ६.५० ॥ तं पश्यन्मनसा धर्म्मश्री मित्रः समुत्सुकः । सहसोत्थाय तान्संघान् सभामन्त्र्यैवमव्रवीत् ॥ ६.५१ ॥ भो भदन्तो गमिष्यामि महाचीने नगोत्तमे । मञ्जुश्रीयं महासत्त्वं द्रष्टुमिच्छामि सांप्रतम् ॥ ६.५२ ॥ एतस्या नामसंगीत्या गुह्य विशुद्धि विस्तरम् । पृष्टा सम्यक्विज्ञाय आगमिष्याम्यहं द्रुतम् ॥ ६.५३ ॥ यावन्नाहमिहायात स्तावत्सर्वे समाहिताः । त्रिरत्न भजनं कृत्वा तिष्ठत मा विषीदत ॥ ६.५४ ॥ इत्युक्त्वा स महाभिज्ञस्ततः संप्रस्थितो द्रुतम् । सञ्चरन्नत्र नेपालविषये समुपाययौ ॥ ६.५५ ॥ तमायातं यतिं नत्वा मञ्जुदेवः स सर्ववित् । स्वान्तिके समुपाद्रष्टुमेच्छतृद्धिं प्रदर्शयन् ॥ ६.५६ ॥ ततः मंजुदेवोऽपि भूत्वा कृषिकरः स्वयम् । शार्दूल मृगराजाभ्यां हलेनाकर्षयन्महीम् ॥ ६.५७ ॥ तं दृष्ट्वा दूरतो धर्म्मश्रीमित्रो अतिविस्मितः । किमेतत्महदाश्चर्यमितिद्रष्टुमुयाचरत् ॥ ६.५८ ॥ ततः समुपाश्रित्य दृष्ट्वा तन्महदद्भुतम् । कृषिकरं तमामन्त्र्यपप्रच्छैव व्यवलोकयन् ॥ ६.५९ ॥ भो साधो इतो देशान्महाचीन नगोक्तमः । पञ्चशीर्षः कियद्दूरे तदुपदेष्टुमर्हति ॥ ६.६० ॥ इति संप्रार्थितं तेन श्रुत्वा स हलवाहकः । सुचिरं तं यतिं पश्यन्सादरमेवमव्रवीत् ॥ ६.६१ ॥ यत्त्वं कुत इहायासि किमर्थमुक्तरापथे । महाचीनस्य दूरतो गन्तुं त्वं परिपृच्छ से ॥ ६.६२ ॥ अद्य प्रवर्तते सायं तद्विहारे ममाश्रमे । उषित्वा प्रात रुत्थाय गच्छ मद्देशितात्पथः ॥ ६.६३ ॥ इति तेनोदितं धर्मश्री मित्रो निशंम्य सः । तथेत्यनुमतं धृत्वा तूष्णीं भूत्वा व्यतिष्ठतः ॥ ६.६४ ॥ ततः संबोधितं भिक्षु मत्वा स हलवाहकः । तौ शार्दुल मृगेन्द्रो द्वौतत्रैवान्तव्यर्धापयेत् ॥ ६.६५ ॥ हलं तु सर्वलोकानां संप्रवोधन हेतुना । तत्रैवोच्च स्थल क्षेत्रे यूप वदवरोपयत् ॥ ६.६६ ॥ अद्यापि तत्महीस्थानं मञ्जुश्रीभूः प्रसिध्यते । सावाचेति प्रसिद्धा च यत्रावरोपितं हलम् ॥ ६.६७ ॥ ततस्तं यतिमाहुय सायं स हलवाहकः । तत्र प्रविश्य धर्मश्रीमित्र संप्रति विस्मितः ॥ ६.६८ ॥ ततो मूलफल स्कन्ध पत्रादि भोगमादरात् । दत्वा तस्मै स्वयं भुक्त्वा तस्थौ स हलवाहकः ॥ ६.६९ ॥ ततः स विविधां धर्म्मश्रीमित्रोरजनी कथाम् । भाषित्वा तं महाभिज्ञं कृषिकरं व्यनोदयन् ॥ ६.७० ॥ ततः स मञ्जुदेवस्तं यति छात्रालये निशि । प्रेषयित्वा स्वयं गह्वागारे शय्यां समाश्रयत् ॥ ६.७१ ॥ तत्र प्रविश्य धर्म्मश्री मित्र संप्रति विस्मितः । सुप्त्वाक्षणं समुत्थाय मनसैवं व्यचिन्तयत् ॥ ६.७२ ॥ नाद्यात्र शयनीयं यदयंपुमान्महर्द्धिकः । भार्याया सहसाकथ्यं किंकिं कुर्याद्विनोदयम् ॥ ६.७३ ॥ इति ध्यात्वा सधर्म्मश्रीमित्र यतिरुत्थितः । संवर निभृतं तस्य द्वारमूलमुपाश्रयेत् ॥ ६.७४ ॥ तत्क्षणे मञ्जुदेवं तं केशिनी सुप्रिया सती । शयासनसमासीना भर्क्तारमेवमव्रवीत् ॥ ६.७५ ॥ स्वामिन्कोऽयं यति र्धीमान्किमर्थमस्मदाश्रमे । इह कुतः समायात स्तत्समादेष्दुमर्हति ॥ ६.७६ ॥ इति संप्रार्थितं देव्या मञ्जुदेवो निशम्य सः । केशिनीं तां प्रियां भार्यां सम्पश्यन्नेवमव्रवीत् ॥ ६.७७ ॥ साधु शृणु प्रिये देवी यदर्थ यमिमिहागतः । तदर्थ हि महद्धेतुं वक्ष्यामि ते विचारयत् ॥ ६.७८ ॥ अयं भिक्षु महाभिज्ञो बोधिसत्त्वो महामतिः । विख्यातो यो महाधर्म्मश्रीमित्रोभिधो यति ॥ ६.७९ ॥ विक्रमशील आख्याते विहारे स निवासकः । नामसंगीति व्याख्यानं शिक्षेभ्यो विस्तरं व्यधात् ॥ ६.८० ॥ द्वादशाक्षर गुह्यार्थ विशुद्धि ज्ञान विस्तरम् । नाम सम्यगुपाख्यातुं शक्नोति न सुधीरपि ॥ ६.८१ ॥ तदायं च विषण्णात्माः ध्यानागारे समाश्रितः । ध्यात्वा लोकेषु सर्वत्र विलोक्यैवं व्यचिन्तयन् ॥ ६.८२ ॥ मञ्जुश्री रेव जानीयात्सर्व गुह्य विशुद्धिवित् । द्वादशाक्षर गुह्यार्थ विशुद्धिं समुपादिशत् ॥ ६.८३ ॥ इति ध्यात्वा समुत्थाय सर्वान् शिष्यान्स सांघिकान् । बोधयित्वा महोत्साहः वीर्येण प्रचारक्ततः ॥ ६.८४ ॥ उक्तरस्यां महाचीने पञ्चशीर्षेस्मदाश्रमे । गन्तुमनेन मार्ग्गेण चरन्नीह समागतः ॥ ६.८५ ॥ तमिह समयायातं दृष्ट्वा समृद्धिभावतः । बोधयित्वैवमाहुयोः नयामि स्वाश्रमेऽधुना ॥ ६.८६ ॥ इति भक्ता समादिष्टं श्रुत्वा सा केशिनी प्रिया । स्वामिनं तं समालोक्य पप्रच्छैवं समादरात् ॥ ६.८७ ॥ स्वामिनहं न जानामि शृणोमि न कदाचन । कथमेतद्विशुद्ध्यर्थं समुपादिश मेऽधुना ॥ ६.८८ ॥ इति संप्राथितं देव्या मञ्जुदेवो निशम्य सः । केशिनीं तां प्रियां भार्या सम्पश्यन्नेवमव्रवीत् ॥ ६.८९ ॥ साधु देवी तव प्रीत्या साम्प्रतमुपदिश्यते । एतदर्थ महागुह्यं गोपनीयं प्रयत्नतः ॥ ६.९० ॥ इत्युक्त्वा मञ्जुदेवोऽसौ तस्यै देव्यै यथाविधिः । द्वादशाक्षर गुह्यार्थं विशुद्धि समुपादिशत् ॥ ६.९१ ॥ एतत्सर्व समाख्यातं विस्तरं स महामतिः । धर्मश्रीमित्र आकर्ण्य प्रात्यनन्द प्रवोधितः ॥ ६.९२ ॥ तत समुदितो धर्म्मश्री मित्र उत्थिते मुदा । मञ्जुश्रीरयमेवेति निश्चयं समुपाययौ ॥ ६.९३ ॥ ततः ससुप्रसन्नात्मा द्वारमूले कृताञ्जलिः । अष्टांग प्रणतिं कृत्वा तस्थौ तद्गत मानसः ॥ ६.९४ ॥ ततः प्रातः समुत्थाय केशिनी मोक्षदायनी । द्वारकपारमुदधाटयः वहिर्गन्तुमुपाक्रमत् ॥ ६.९५ ॥ तत्र तं यतिमालोक्य द्वारमूले व्यवस्थितम् । भीता सा केशिनी देवी द्रुतमुपाचरत्प्रभोः ॥ ६.९६ ॥ तां प्रत्यागतां दृष्ट्वा मञ्जुदेवः स सर्ववित् । विभिन्नास्यां समालोक्य पप्रच्छैवमधीरवत् ॥ ६.९७ ॥ देवी किंद्वारमुध्याट्य सत्त्वरं त्वमुपागताः । दृष्ट्वा किं तत्र भीतासि तत्सत्यं वद मे पुरः ॥ ६.९८ ॥ इति पृष्टे जगच्छास्ता भर्क्ता सा केशिनी विरात् । स्वामिनं तं समालोक्य शनैरेवंन्यवेदयेत् ॥ ६.९९ ॥ स्वामिन्यति नमस्कृत्वा द्वारमूले निपातितः । जीवितो वा मृतौ वासौ मया न ज्ञायते खलु ॥ ६.१०० ॥ इत्युक्तं भार्यया श्रुत्वा मञ्जुदेवः स उत्थितः । उपेत्य द्वारमूले तं संददर्श निपातितम् ॥ ६.१०१ ॥ दृष्ट्वा स मञ्जुदेवस्तं यतिं ध्यात्वा जितेन्द्रियम् । हस्तं धृत्वा समुत्थाय संपश्यन्नेवव्रवीत् ॥ ६.१०२ ॥ यते किमर्थमत्रैवं द्वारं ध्यात्वावतिष्ठसि । तत्ममपुरतः सभ्यं वदय ते समाहितम् ॥ ६.१०३ ॥ इत्युक्त्वा मञ्जुदेवेंन धर्मश्रीमित्र उन्मनाः । मञ्जुश्रियन्तमष्टांगैनत्वैवं प्रार्थयन्मुदा ॥ ६.१०४ ॥ भगवन्नाथ सर्वज्ञ सर्वविद्याधिप प्रभो । भवत्पादाम्बुजे भक्त्या शरणे समुपाश्रये ॥ ६.१०५ ॥ भवानेव जगच्छास्ता मञ्जुश्रीर्भगवानपि । ज्ञायते दृश्यते ह्यत्र ज्ञानरत्ननिधि र्मया ॥ ६.१०६ ॥ तद्भवाह्नि विजानीते यदर्थेहमिहा व्रज । तत्मेभिवांच्छितं शास्ताः संपूरयितुमर्हति ॥ ६.१०७ ॥ इति संप्रार्थितं तेन मञ्जुदेव निशम्य स । विज्ञाय तं महाभिज्ञं संपश्यन्नेवमव्रवीत् ॥ ६.१०८ ॥ कथं विना अभिषेकं ते मन्त्रार्थमुपदेश्यते ॥ ६.१०९ ॥ तावदत्रभिषेक त्वं गृह्वाण्हेदं यदीच्छसि । इत्युक्तं मञ्जुदेवेन निशम्य स यतिः सुधीः ॥ ६.११० ॥ मञ्जुदेवं नमोस्तस्य साञ्जलिरेवमव्रवीत् । सर्वज्ञ भगवाञ्छास्ता निर्धनोऽहमकिंचनः ॥ ६.१११ ॥ किं दास्ये भवतं शास्त्रे दक्षिणां गुरु भक्तिमान् । इति तेनोदितं श्रुत्वाः मञ्जुदेवः ससन्मतिः ॥ ६.११२ ॥ संपश्यन्स्तेयती धर्मश्रीमित्रमेवमव्रवीत् । यतः किं धनसंपत्या श्रद्धा ते यदि विद्यते ॥ ६.११३ ॥ तुष्यन्ते गुरुवो भक्तिमात्रेणात्र धनेनतु । इत्युक्त्वा मञ्जुदेवेन धर्मश्रीमित्र उन्मताः ॥ ६.११४ ॥ अष्टांगेस्तं गुरुं नत्वा प्रार्थयदेवमादरात् । भगवन्यदि भक्त्यैव तुष्यतेऽत्र भवान्मम ॥ ६.११५ ॥ भवतां सुश्रूषामेष करोमि भक्तिमानहम् । इति मे कृपया शास्त अभिषेक यथाविधिः ॥ ६.११६ ॥ दत्वा द्वादश मन्त्रार्थं विशुद्धि दातुमर्हसि । इति संप्रार्थितं तेन मञ्जुदेवं स सर्ववित् ॥ ६.११७ ॥ भक्तिमन्त तमालोक्य पण्यमेवमभाषत । दास्यामि ते महाभाग भक्ति श्रद्धास्ति ते यदि ॥ ६.११८ ॥ अभिषेक प्रसन्नात्मा समादत्स्व समाहितः । ततःस मञ्जुदेवः श्री वज्राचार्य यथाविधि ॥ ६.११९ ॥ संस्थाप्य मण्डलं धर्मधातुवागीश्वराभिधम् । तन्मण्डलं समाराध्य समभ्यर्च्य यथाविधिम् ॥ ६.१२० ॥ अभिषेकं प्रसन्नाय तस्मै ददौ स वज्रधृक् । ततस्तान्मण्डले देवान् संदर्शयं यथाक्रमात् ॥ ६.१२१ ॥ पूजयित्वा यथाशक्ति शरणे समयोजयेत् । ततस्तस्मै प्रसन्नाय मञ्जुदेवो यथाविधि ॥ ६.१२२ ॥ द्वादशाक्षर गुह्यार्थ विशुद्धिसमुपादिशत् । ततो लब्धाभिषेकोऽसौ धर्मश्रीमित्र उत्मना ॥ ६.१२३ ॥ द्वादशभूमि गुह्यार्थ विशुद्धिज्ञानमाप्तवान् । तस्मै शास्त्रे सभार्याय स्वमात्मानं स दक्षिणाम् ॥ ६.१२४ ॥ संकल्प्य श्रद्धया भक्त्या नत्वैवं प्रार्थयन्मुदा । भगवन्नाथ सर्वज्ञ भवत्कृपा प्रसादतः ॥ ६.१२५ ॥ संप्राप्तपूर्ण संकल्पो भवामि श्रीगुणार्थभृत् । तत्सदाहं भवत्पादशरणे समुपाश्रितः ॥ ६.१२६ ॥ यथात्र भवादिष्टं तथैव संचरे भवे । तत्मेऽनुज्ञादि दत्वात्र संबोधिज्ञानसाधनम् ॥ ६.१२७ ॥ सर्वसत्त्व हितार्थेन चरेयं बोधिसंवरम् । इति संप्रार्थ्य धर्मश्री मित्र स समुपाश्रितः ॥ ६.१२८ ॥ श्रद्धाभक्ति प्रसन्नात्मा गुरुसेवा परोऽभवत् । ततः स मञ्जुदेवस्तं महासत्त्वं विचक्षणम् ॥ ६.१२९ ॥ मत्वा संबोधि चर्यायां नियोक्तुं संव्यनोदयन् । साधु साधु महाभागः संचरत्वं जगद्धिते ॥ ६.१३० ॥ संबोधि साधनं बोधिचर्या व्रत सदा भव । एतत्पुण्याभि लिप्तात्मा परिशुद्ध त्रिमण्डलाः ॥ ६.१३१ ॥ बोधिसत्त्वा महाभिज्ञा भवेः श्री सद्गुणाश्रयाः । ततस्त्वं बोधिसंभारं पूरयित्वा यथाक्रमम् ॥ ६.१३२ ॥ निःक्लेशो बोधिप्राप्तोऽहं सम्बुद्धपदमाप्नुयाः । इति मे शासनं धृत्वा स्मृत्वा ध्यात्वा समाहितः ॥ ६.१३३ ॥ त्रिरत्नं समुपाश्रित्य संचरस्व जगद्धिते । यदि जगद्धितं कर्तुं संबोधिं प्राप्नुमिच्छसि ॥ ६.१३४ ॥ सद्धर्मं समुपादिश्य सर्वान् लोकान् प्रवोधय ॥ ततस्तान् बोधितान् सर्वान् कमेन बोधिसाधनम् ॥ ६.१३५ ॥ बोधिमार्गे प्रतिष्ठाप्य चारयस्व जगद्धिते । ततस्तेषां समालोक्य चित्तं संबोधि निश्चितम् ॥ ६.१३६ ॥ त्रियानं समुपादिश्य परमार्थे नियोजये । एवं कृत्वा महद्धर्ममाशु सम्बोधिसाधनम् ॥ ६.१३७ ॥ भद्रश्री सद्गुणापन्नां समाप्नुया जगच्छुभे । तेनाशुः परिशुद्धात्मा सम्बुद्धपदमाप्तवान् ॥ ६.१३८ ॥ जगद्धर्म्ममयं कृत्वा जिनालयं समाप्नुयाः । इति भद्रव्रतं धृत्वा गत्वा त्वं स्वाश्रमे पुनः ॥ ६.१३९ ॥ व्याख्याय नाम संगीतिं सद्धर्म्मं संप्रचारये । अहमपि महासत्त्व श्रोतुं त्वद्धर्म्मदेशनाम् ॥ ६.१४० ॥ सांघिकांश्चापि तान्द्रुष्टुमायास्यामि तवाश्रमे । इति शास्ता समादिष्टं निशंम्य स महामतिः ॥ ६.१४१ ॥ धर्मश्री मित्र आलोक्यः तं गुरुमेवमव्रवीत् । महर्द्धिको भगवाञ्छास्त विज्ञास्य ते कथं मया ॥ ६.१४२ ॥ इति चिह्नं समाधाय तत्रागन्तुं समर्हति । इति तेनोदितं श्रुत्वा मञ्जुदेवः स सन्मति ॥ ६.१४३ ॥ धर्मश्री मित्रमालोक्यः पुनरेवमभाषत । वत्साहमुत्पलं धृत्वा समायास्यामि ते सभाम् ॥ ६.१४४ ॥ तेन चिह्नेन मां यात संजानीष्व समागतम् । इति सत्यं समाधाय धृत्वानुशासनं मम ॥ ६.१४५ ॥ सद्धर्म्म समुपादेष्टुं प्रवाहि तेस्तु मंगलम् । इति शास्ता समादिष्टं श्रुत्वा स यतिरुत्सुकः ॥ ६.१४६ ॥ शास्तारं तं समालोक्य प्रणत्वैवमभाषतः । प्रसीदतु भगवाञ्छास्ताः क्षन्तुमर्हति चागसम् ॥ ६.१४७ ॥ भवत्प्रसादतः सर्वे सिध्यते मे समीहितम् । तदनुशासनं धृत्वा भवतां तत्र जगद्धिते ॥ ६.१४८ ॥ व्याख्यातुं नामसंगीति संचरे साम्प्रतं गुरोः । इति संप्रार्थ्य धर्म्मश्री मित्र सः संप्रासादितः ॥ ६.१४९ ॥ शास्तुस्तस्य पदाम्भोजं नत्वा संप्रस्थितो ततः । मात्रोराचार्य याश्चापि मोक्षदा वरदाख्ययोः ॥ ६.१५० ॥ पादाम्वुजेषु संनत्वा संप्रस्थितः प्रमोदितः । ततः स सन्मति धर्म्मश्रीमित्रः सहसाव्रजन् ॥ ६.१५१ ॥ आशु स्वाश्रममासाद्य विहारं समुपाविशत् । तत्र तं यतिमायातं दृष्ट्वा सर्वेऽपि सांघिकाः ॥ ६.१५२ ॥ प्रणत्वा कुशलं पृष्टवा प्रवेशयन्निजालये । ततः परेद्युरामन्त्रय सर्वान्संघान्स सन्मतिः ॥ ६.१५३ ॥ व्याख्यातुं नामसंगीति सभासनं समाश्रयत् । तं सभासनमासीनं दृष्ट्वा सर्वेऽपि सांधिकाः ॥ ६.१५४ ॥ दिव्ज भूपादयश्चापि सर्वे लोकाः समागताः । तत्र सर्वेऽपि ते लोकाः प्रणत्वा तं यति क्रमात् ॥ ६.१५५ ॥ परिवृत्य पुरस्कृत्य समन्तत उपाश्रयत् । तान् सर्वान्समुपासीनान् दृष्ट्वा स यतिरात्मवित् ॥ ६.१५६ ॥ व्याख्याय नामसंगीतिं स विशुद्धि समादिशत् । तदा तत्र मनस्तस्य जिज्ञासितुं स मञ्जुवाक् ॥ ६.१५७ ॥ धृत्वोत्पलं विनिद्यांगः कुचीवरमुपाचरत् । तत्र स मक्षिकान् काये उत्पलेन निवारयन् ॥ ६.१५८ ॥ समागत्य सभैकान्ते पश्यल्लोकानुपाश्रयेत् । समाश्रितं स धर्म्मश्रीमित्रो दृष्ट्वात्मना गुरुम् ॥ ६.१५९ ॥ उत्पलेन परिज्ञाय मनसैवं व्यचिन्तयत् । अहो नूनमयं शास्ता मनो जिज्ञासितुं मम ॥ ६.१६० ॥ कुचरा दुर्भगाकारो धृत्वोत्पलमिहागतः । तत्कथमहमुत्थाय प्रत्युङ्गम्य न मेय हि ॥ ६.१६१ ॥ अथ पश्यन्नमस्कारं नकुर्याः गुरवे कथम् । यद्यत्राहं समुत्थाय न मेयमेनमादरात् ॥ ६.१६२ ॥ दृष्ट्वा लोका इमे मां धिक्कुर्युः सर्वे विचारतः । एते न ज्ञायते यं हि मञ्जुश्री ऋद्धिमानपि ॥ ६.१६३ ॥ ईदृगेवास्य शास्ता यं मिति मे स्याद्विहास्यताम् । इति ध्यात्वा स धर्म्मश्रीमित्रो लज्जाभिमोहितः ॥ ६.१६४ ॥ मनसैवं नमस्कृत्वा शास्तारन्तममानयेत् । ततः स विमुखी भूय पश्यन्नप्य विभावितः ॥ ६.१६५ ॥ अज्ञात वान्निवापश्यन् पदमात्रमुपादिशत् । ततः सर्वेऽपि ते लोकाः श्रुत्वा तत्सद्धर्म्मदेशनाम् ॥ ६.१६६ ॥ उत्थाय तं यतिं नत्वा स्वस्वालयमुपाचरन् । तत लोके गते धर्म्मश्री मित्रः स समुत्थितः ॥ ६.१६७ ॥ शास्तारं तं समालोक्य वन्दितुं समुपाचरत् । तं दृष्ट्वा मञ्जुदेवोऽसौ वन्दितुं समुपागतम् ॥ ६.१६८ ॥ अपश्यन् विमुखी भूय ततः संप्रस्थितोऽचरत् । तं दृष्ट्वा विमुखी भूत धर्म्मश्री मित्र आत्मनः ॥ ६.१६९ ॥ अपराध महत्पापमनुस्मृत्वापतद्भुवि । निपतन्तं तमालोक्य मञ्जुश्रीः स कृपानिधिः ॥ ६.१७० ॥ सहसा पाणिना धृत्वा समुत्थाय तथाचरत् । तत्र स उत्थितो धर्म्मश्री मित्रस्तं महामतिम् ॥ ६.१७१ ॥ प्रचरन्तं समालोक्य नत्वाहैवं मृषा पुनः । भगवन्न मया दृष्टो भवानत्र समागतः ॥ ६.१७२ ॥ पश्चादुत्पलचिह्नेन ज्ञायतेऽत्र समाश्रितः । इत्युक्त्वा स मृषावादं साञ्जलिस्तस्य सङ्गुरोः ॥ ६.१७३ ॥ मञ्जुदेवस्य पादाब्जे प्रणनाम रुदन् पुनः । तत्र तस्य मृषा वक्तुं रुभेऽपि नयने मुखात् ॥ ६.१७४ ॥ शास्तुः पादाब्जयो रग्रे निपेतंतु महीतले । तत्पतित स धर्म्मश्रीमित्रो विहतमानसः ॥ ६.१७५ ॥ चिराद्रुदं समुत्थायः शास्तारमेवमव्रवीत् । भगवन् यत्मयाज्ञानादपराधं कृतं गुरौ ॥ ६.१७६ ॥ भवति तद्भवाञ्छास्ता क्षन्तुंमर्हति दुर्मतेः । इति संप्रार्थितं तेन मञ्जुश्रीः स कृपानिधिः ॥ ६.१७७ ॥ विचक्षुष्कं तमालोक्यः कृपादृशैवमव्रवीत् । यदभिलज्जया कर्म्म ज्ञात्वापि दुष्कृतं त्वया ॥ ६.१७८ ॥ तस्येदं फलमासाद्य भोक्त अन्यंमेव भुज्यते । तथापि ज्ञान दृष्ट्वा त्वं सम्पश्य द्दृष्टिमान् यथा ॥ ६.१७९ ॥ ज्ञानं हि तेऽस्ति यत्तेन ज्ञानश्री मित्र उच्यसे । इत्युक्त्यैव स मञ्जुश्रीः क्षणादन्तर्हित स्ततः ॥ ६.१८० ॥ आकाशात्पक्षिवद्गत्वा स्वाश्रमे समुपाययौ । अत्रैतत्सर्ववृत्तान्तं भार्ययोः पुरतोर्मुदा ॥ ६.१८१ ॥ समाख्याय स मञ्जुश्री स्तस्थौ लोकहितार्थभृत् । ततः प्रभृतिस ज्ञानश्रीमित्रो ज्ञानचक्षुषा ॥ ६.१८२ ॥ पश्यन् सद्धर्म्ममाख्याय प्राचरच्च जगद्धिते । तदा मैत्रेय तेनास्य धर्मधातोः स्वयंभुवः ॥ ६.१८३ ॥ अभुत्प्रसिद्धितं धर्मधातुं वागीश्वराभिधम् । इति मत्वात्र ये धर्मधातु वागीश्वर नराः ॥ ६.१८४ ॥ श्रद्धया विधिनाभ्यर्च्य भजन्ति शरणाश्रिताः । अभिषेकं च संप्राप्य बोधिचित्ता समाहिताः ॥ ६.१८५ ॥ सद्धर्म्म धारणी विद्यामन्त्राणि धारयन्ति ये । ते सर्वे विमलात्मानः परिशुद्ध त्रिमण्डलाः ॥ ६.१८६ ॥ बोधिसत्त्वा महासत्त्वाश्चतुर्ब्रह्म विहारिणः । भद्रश्री सद्गुणाधाराः सर्व विद्या विचक्षणाः ॥ ६.१८७ ॥ ऋद्धि सिद्धि महाभिज्ञा भवेयुर्भद्रचारिणः । आशुः सम्बोधि संभारं पूरयित्वा यथाक्रमम् ॥ ६.१८८ ॥ अर्हन्तस्त्रिविधां बोधिं प्राप्य यायु जिंनालयम् ॥ ६.१८९ ॥ इति मत्वाभिवाछन्ति प्राप्तुं ये सौगतं पदम् । तेऽत्र बौद्धालये धर्म्मधातु वागीश्वरे सदा ॥ ६.१९० ॥ श्रद्धया भजनं कृत्वा प्राप्याभिषेकमादरात् । सधर्म्मधारणी विद्यामन्त्र साधारतत्पराः ॥ ६.१९१ ॥ यथाविधि समभ्यर्च्य संबोधि निहिताश्रयाः । बोधिचर्या व्रतं धृत्वा संचरते जगद्धिते ॥ ६.१९२ ॥ आशु ते विमलात्मानः परिशुद्ध त्रिमण्डलाः । बोधिसत्त्व महासत्त्वश्चतुर्ब्रह्म विहारिणः ॥ ६.१९३ ॥ भद्रश्री सद्गुणाधाराः सर्वविद्या विचक्षणाः । ऋद्धिसिद्धि महाभिज्ञा भवेयु भर्द्रचारिणः ॥ ६.१९४ ॥ ततः संबोधिसंभारं पूरयित्वा द्रुतं क्रमात् । अर्हन्तम्त्रिविधां बोधिं प्राप्य यास्यथ निवृतिम् ॥ ६.१९५ ॥ इत्यादिष्टं मुनीन्द्रेण निशम्य ते सभाश्रिताः । सर्वे तथेति विज्ञाय प्राभ्यनन्दन् प्रवोधिताः ॥ ६.१९६ ॥ इतिश्री स्वयंभू धर्म्मधातु वागीश्वराभिधान प्रसिद्ध प्रवर्तनो नाम षष्ठोऽध्यायः । सप्तम अध्यायः स्वयम्भूधर्मधातुवागीश्वरगुतिकृतप्रवर्तनो नाम अथ भूयः स मैत्रेयो बोधिसत्त्वो महामतिः । भगवन्त त मानस्य साञ्जलिरेवमव्रवीत् ॥ ७.१ ॥ भगवच्छिलयाछाद्य धर्म्मधातुमिमं कदा । केनैव हेतुना स्तूपं को व्यधादीष्टिकामयम् ॥ ७.२ ॥ भगवन्तत्समालोक्य सर्व्वाल्लोकान्सकौतुकान् । एतद्धेतु समादिश्य विनोदयितुमर्हति ॥ ७.३ ॥ इति संप्रार्थितं तेन मैत्रेयेन मुनीश्वरः । भगवान्स महासत्त्वं सम्पश्यन्नेवमादिशत् ॥ ७.४ ॥ शृणु मैत्रेय येनायं गुप्तिकृतो प्रकाशने । एतद्धेतुं समाख्यासि सर्वे लोकाभिबोधने ॥ ७.५ ॥ तद्यथा निवृतिं याते संबुद्धे कनकमुनौ । विंशति वर्ष साहस्र नृर्णामायु यदा भवेत् ॥ ७.६ ॥ तदाभू भगवांञ्छास्ता धर्म्मराजो मुनीश्वरः । सर्वज्ञोऽर्हमहाभिज्ञः काश्यपाख्यस्तथागतः ॥ ७.७ ॥ स संबुद्धो महापुर्या वाराणस्यामुपाश्रमे । मृगदावे जिनावासे विजहार ससांधिकः ॥ ७.८ ॥ तदा संबोधिसत्त्वोऽहं ज्योतिराजा भिधःकिल । काश्यपस्य जगच्छाम्तुः शरणस्थ उपासकः ॥ ७.९ ॥ यदा स काश्यपः शास्ता सर्वत्रैधातुकाधिपः । सद्धर्म्मं समुपादेष्टुं सभासने समाश्रयेत् ॥ ७.१० ॥ तत्सद्धर्म्मामृतं पातुं सर्वे लोकाः समागताः । ब्रह्मशक्रादयो देवाः सर्वे लोकाधिपा अपि ॥ ७.११ ॥ ग्रहास्तारागणश्चापि विद्याधराश्चसाप्सराः । सिद्धासाध्याश्च रुद्राश्च यक्ष गुह्यक किन्नराः ॥ ७.१२ ॥ कुम्भाण्डा राक्षसाश्चापि नागाश्च गरुडा अपि । ऋषयस्तापसाश्चापि तीर्थिका ब्रह्मचारिणः ॥ ७.१३ ॥ यतयो योगिनश्चापि तथान्येचाप्युपासकाः । ब्राह्मणा क्षत्रियाश्चापि राजानोपि महीभृतः ॥ ७.१४ ॥ वैश्याश्च मन्त्रिणोऽमात्या भृत्या सैन्याधिपागणा अपिः । शिल्पिनो वणिजश्चापि सार्थवाहो महाजनाः ॥ ७.१५ ॥ पौरा जानपदा ग्राम्यानैगमाः पार्वता अपि । तथोन्य देशिका लोका अपि सर्व्वे समागताः ॥ ७.१६ ॥ तत्र सभासनासीनं संबुद्ध स्तं मुनीश्वरम् । भगवन्तं समालोक्य सर्वे संघाः समाययुः ॥ ७.१७ ॥ भिक्षवः श्रावकाः सर्वे यतयो योगिनोऽपिः । चैलकाव्रतिनश्चापि सर्वे उपासका अपि ॥ ७.१८ ॥ भिक्षुण्योपि तथा सर्वाश्चैलिकाः व्रतिण्यः । श्राविकाश्चापिः तथान्याः समुपागताः ॥ ७.१९ ॥ बोधिसत्त्वा महासत्त्वा ऋषयो ब्रह्मचारिणः । तीर्थिका वैष्णवाः शैवार्निर्गन्थाश्च तपस्विनः ॥ ७.२० ॥ तथान्येऽपि समायाताः सद्धर्मगुणलालसाः । सर्वेऽपि ते मुनीन्द्र स्तं दृष्ट्वा ययौ प्रमोदिताः ॥ ७.२१ ॥ तत्र सर्वेऽपि ते लोकास्तं मुनीन्द्रं यथाक्रमम् । अभ्यर्च्य विधिना नत्वा तत्सभायामुपाश्रयन् ॥ ७.२२ ॥ तत्र सर्वेऽपि ते लोकाः परिवृत्य समन्ततः । पुरस्कृत्य मुनीन्द्रन्तं संपश्यन्तः समाहिताः ॥ ७.२३ ॥ तत्सद्धर्म्मामृतं पातुं तृषार्त्ता इव सागरम् । साञ्जलयः प्रसन्नास्याः समातस्थु यथाक्रमम् ॥ ७.२४ ॥ तांलोकान्समुपासीनान्सर्वान्सघान्सुरानपि । सर्वाल्लोकाधिपांश्चापि दृष्ट्वा स भगवाञ्जिनः ॥ ७.२५ ॥ आर्यसत्यं समारभ्य संबोधि ज्ञानसाधनम् । आदि मध्यान्त कल्याणं सद्धर्म्म समुपादिशत् ॥ ७.२६ ॥ तत्सद्धर्म्मामृतं पीत्वा सर्वेऽलोकाः प्रवोधिताः । सदा भद्रसुखं प्राप्नु समीच्छिरे सुसंवरम् ॥ ७.२७ ॥ ततः सर्वेऽपि ते लोकाः संबुद्ध गुणवाञ्छिनः । बोधिचर्या व्रतं धृत्वा संचरिरे सदा शुभे ॥ ७.२८ ॥ तदा सर्वाणि कार्याणि कृत्वा वज्री स योगवित् । मञ्जुदेवः स भार्यान्ते स्वयं निर्वृतिमाययौ ॥ ७.२९ ॥ ततो गत्वा महाचीने स मञ्जुश्री जिनाश्रमेम् । स्वदिव्यवपुराधाय तंस्थौ भार्या समन्वितः ॥ ७.३० ॥ अत्र तेषां शरीराणि शिष्याः सर्वेऽपि पावके । संस्कृत्य विधिनास्थीनि गृहित्वा समशोधयन् ॥ ७.३१ ॥ ततस्तेऽत्र तदस्थीनिगर्व्यस्थाप्य यथाविधि । चैत्यं कृत्वा प्रतिस्थाप्य समभ्यर्च्य सदाभजन ॥ ७.३२ ॥ येयीदं चैत्यमभ्यर्च्य भजन्ति श्रद्धया सदा । ते तस्य मञ्जुदेवस्य सद्धर्म्मगुणमाप्नुयुः ॥ ७.३३ ॥ मत्वैवं येभिवाञ्छन्ति मञ्जुश्री धर्म्मसद्गुणम् । अत्र मञ्जुश्री यश्चैत्य सर्वदा प्रभजन्तु ते ॥ ७.३४ ॥ इत्यादिष्टं मुनीन्द्रेण निशम्य ते सभाजनाः । सर्वे तथेति श्रुत्व प्रात्यनन्दत्प्रवोधिताः ॥ ७.३५ ॥ अथासौ भगवान् भूयः शाक्यसिंहो मुनीश्वरः । मैत्रेय स्तं सभांचापि समालोक्यैवमादिशत् ॥ ७.३६ ॥ तत श्चिराङ्गते काले गौडराष्ट्रे नराधिपः । अभूत्प्रचण्ड देवाख्यः श्रीमान् वज्रधरांशजः ॥ ७.३७ ॥ स राजा सुचिरं राज्यं नीतिधर्म्मेण पालयन् । सर्वाल्लोकाञ्छुभे धर्मे नियुज्य समचारयत् ॥ ७.३८ ॥ एतद्धर्म्मानुभावेन सदा तत्र समन्ततः । सुभिक्षं मंगलोत्साहं निरुत्पातनवर्क्तत ॥ ७.३९ ॥ तदा सर्वेऽपि ते लोकाः सद्धर्मगुणलालसाः । कुलधर्म समाचारा दानशीलव्रतारताः ॥ ७.४० ॥ सत्यसंघा निकाधीराश्चतुर्ब्रह्मविहारिणः । कुलेशभजनं कृत्वा प्राचरन्त मिथो हिते ॥ ७.४१ ॥ दृष्ट्वा स नृपती राजा सर्वाल्लोकाञ्छुभार्थिनः । मुदितस्तान्समामन्त्रय सम्पश्यन्नेवमादिशत् ॥ ७.४२ ॥ भो लोकाः पौरिकाः सर्वे सद्धर्म यदि वाञ्छथ । त्रिरत्न भजनं कृत्वा चरत बोधिसम्वरम् ॥ ७.४३ ॥ तेन यूयं शुभात्मानः परिशुद्धत्रिमण्डलाः । बोधिसत्त्वा महासत्त्वा भवत बोधिचारिणः ॥ ७.४४ ॥ ततस्ते निर्मलात्मानो निःक्लेशो विमलेन्द्रियाः । अर्हन्ता बोधिमासाद्य सम्बुद्धपदमाप्स्यथः ॥ ७.४५ ॥ इत्यादिष्टं नरेन्द्रेण सर्वे लोका निशंम्यते । तथेति प्रतिविज्ञप्य प्राभ्यनन्दत्प्रवोधिताः ॥ ७.४६ ॥ ततः सर्वेऽपि ते लोका धृत्वा राज्ञानुशासनम् । त्रिरत्नभजनं कृत्वा प्राचरन्त शुभाचरिम् ॥ ७.४७ ॥ दृष्ट्वा तान्सकलाल्लोकान् बोधिचर्या व्रतारतान् । महानन्द प्रसन्नात्मा पुनरेव व्यचिन्तयन् ॥ ७.४८ ॥ सफलं जीवितं जन्म ममयेच्छासनारताः । सर्वेऽलोकाः समाधाय प्रचरन्ति सदा शुभे ॥ ७.४९ ॥ अथ प्रचण्डदेवौऽसौ दृष्ट्वा राज्यं महोत्सवम् । संसारेऽनर्थ संदृष्ट्वा चिन्तयामास सात्मवत् ॥ ७.५० ॥ अत्राहं जलसांक्रान्तोऽनु नस्यां जिर्ण्णितेन्द्रियः । तदारोगाभिभूतोऽपि व्रजेयंमणं ध्रुवम् ॥ ७.५१ ॥ तदत्रैव कियत्कालं तिष्ठेयं सन्सुखान्वितः । अवश्यं भाविनो भावा भवन्ति भवचारिणाम् ॥ ७.५२ ॥ सदा भवे भवेद्भद्रमेव सद्धर्म्मचारिणाम् । दुःखमेव सदा कामचारिणां भवचारणे ॥ ७.५३ ॥ तस्मादहं परित्यज्य कामाश्रय गृहाश्रमम् । निर्जने वन एकाकी विहरेयं समाहितः ॥ ७.५४ ॥ स्मृत्वा रत्नत्रयं ध्यात्वा संबोधिनिहिताशयः । बोधिचर्याव्रतं धृत्वा संचरेयं जगद्धिते ॥ ७.५५ ॥ इति निश्चित्य स प्राज्ञः प्रचण्डदेव आत्मवित् । नृपतिमन्त्रिणः सर्वान्समामन्त्र्यैवमादिशत् ॥ ७.५६ ॥ भो सर्व मन्त्रिणो यूयं शृणुध्वं मे वचो हितम् । अथ मयाख्यातं तथा चरितुमर्हथ ॥ ७.५७ ॥ तद्यथा जरासाक्रान्तो वृद्धोस्यां जीर्णितेन्द्रियः । तथा रोगाभिभूतोऽपि ग्रसिष्ये मृत्युना ध्रुवम् ॥ ७.५८ ॥ इति मे त्रस्यते चित्तं दुर्गति भयशंकितम् । अवश्यं भाविनो भावा भवचारिणाम् ॥ ७.५९ ॥ भवे भवेत्सदा भद्रमेव सद्धर्मचारिणाम् । दुःखमेव सदाकामचारिणां भवचारिणे ॥ ७.६० ॥ अनर्थराज्यं विषयोपभोग्यं भयंकरं सर्पभयाकुलं यत् । अनित्यमसारेति विचिन्त्य तत्र आगारमध्यावसितुं न रोचते ॥ ७.६१ ॥ इति मत्वाहमुत्सृज्य कामाश्रयं गृहाश्रमम् । वनाश्रमे शुभारामे विहर्तुमुत्सहेऽधुना ॥ ७.६२ ॥ तदहं स्वात्मजं पुत्रं शक्तिदेवं नृपासने । प्रतिष्ठाप्य नृपं कर्तुमिच्छामि सांप्रतं खलु ॥ ७.६३ ॥ तद्भवन्तो निशम्यात्र सर्वेऽपि मम शासनम् । अभिषिंच्य नृपं कृत्वा भजतैनं ममात्मजम् ॥ ७.६४ ॥ इत्यादिष्टं नरेन्द्रेण श्रुत्वा ते मन्त्रिणो जनाः । प्रमाणं शासनं भर्तुरित्येवं प्रतिशुश्रुवः ॥ ७.६५ ॥ तदा स राजा पुत्रं शक्तिदेवमामन्त्रयैवमाह । भेदो दण्डः सामदानमित्यत्युपायचतुष्टयम् ॥ ७.६६ ॥ अत्राहं जरसाभिक्रान्तं नूनं स्याद्निर्जितेन्द्रियम् । तदा रोगाभिभूतेऽपि वज्रेयं मरणं धुवम् ॥ ७.६७ ॥ तद्वनाश्रयमिच्छामि श्रेयः श्लाघेन यत्मना । पुरो मृत्यु रिपुं हन्ति गृहसंरक्तमेव वा ॥ ७.६८ ॥ तस्मात्संसारभीतो मे वहुधा भयशंकया । नात्र स्थातुं मनोरेमे गच्छामि निर्जनं वनम् ॥ ७.६९ ॥ तस्मात्मया यथा प्रोक्तं तथा चरितुमर्हसि । प्रजानां पालनं कृत्वा धर्मनीत्या समाचर ॥ ७.७० ॥ लोकान्मा खेख यत्तापैः कुलधर्म्म समाचर । परेष्वपि दयायुक्तैर्दानं हि श्रद्धया कुरु ॥ ७.७१ ॥ प्राणातिपातादत्तादान काममिथ्यादिं मा कुरु । मा मृषावाद पैशून्यं पारुष्यं संभिन्नमेव च ॥ ७.७२ ॥ माभिध्या व्यापाददोषैर्मिथ्यादृष्ट्यादि संत्यज । एतानि तानि सर्वाणि धारय दृढचेतसा ॥ ७.७३ ॥ पापानां मूल एषो हि सुगतेनेति देशितः । इत्थं कृतेऽपि नृपतेरितयो न भविष्यति ॥ ७.७४ ॥ तत्कस्मात्धर्म्मेण प्राप्यते राज्यं धर्म्मेण धनवर्द्धनम् । धर्म्मेण धनसाध्यन्ते धर्म्मेण काम सिध्यते ॥ ७.७५ ॥ कामसिध्येन मोक्षं च प्राप्यते नात्र संशयः । अनेन ज्ञानमार्गेण सशास नृपतिः सुतम् ॥ ७.७६ ॥ ततःस जनको राजा शक्तिदेवं ममात्मजम् । अभिषिंच्य प्रतिस्थाप्य नृपासने नृपं व्यधात् ॥ ७.७७ ॥ ज्ञानांकुशभयेनैव कुंचितः सगजो यथानिव । तत्र स जनकः सर्व पुत्राय सर्वमर्प्पयेत् ॥ ७.७८ ॥ त्यक्त्वा परिग्रहान् सर्वान् पुनरेवमभाषत । अद्यारभ्यासि सर्वेषां लोकानामधिपः प्रभुम् ॥ ७.७९ ॥ सर्वधर्मानुशास्ता च सर्वसत्त्वहितार्थभृत् । नमाम पितरं तेन श्रुत्वा वाक्यं रसानिव ॥ ७.८० ॥ धृत्वाज्ञां ते यथा तात प्रजानां प्रतिपालने । इति प्रशाश्य ततो भूपः प्रचण्डदेव सन्मतिः ॥ ७.८१ ॥ प्रबोध्य पुत्रपत्न्यादिमेको ययौ वनाश्रमे । तृणासनस तत्र स निर्जनेरण्ये विविक्ते उतजाश्रये ॥ ७.८२ ॥ तृणासनसमासीन तस्थौ ध्यान समाहितः । तत्रैकं विहरन् कंचित्कालं स ऋषिधर्म्मभृत् ॥ ७.८३ ॥ सर्वसत्त्वहितोत्साही मनसैवं व्यचिन्तयत् । किमेवं निर्ज्जनेऽरण्ये ध्यात्वैको विहरन्निह ॥ ७.८४ ॥ कस्मै समुपदेक्ष्यामि सद्धर्म्म बोधिसाधनम् । दानशीलक्षमावीर्यध्यानप्रज्ञासमुद्भवम् ॥ ७.८५ ॥ पुण्यं सत्त्वहितार्थाय समाख्यातं मुनीश्वरैः । तदेवं निर्ज्जने स्थित्वा किं मे धर्मार्थसाधनम् ॥ ७.८६ ॥ विना सत्त्वहितार्थेन निरर्थ तपसापि हि । किमत्र दुष्करेणापि तपसा सिद्धिसाधनम् ॥ ७.८७ ॥ केवलं सद्गतौ श्रीमत्सौख्यलाभार्थमेव यत् । विना सत्त्वहितार्थेन निष्फलं सिद्धिसाधनम् ॥ ७.८८ ॥ तदत्र निर्ज्जने स्थित्वा तपसा निष्फलं मम । यत्सत्त्वानां हितार्थाय धर्म्मश्रीगुणसाधनम् ॥ ७.८९ ॥ विद्यासिद्धिः समृद्धिश्च क्षणं वीर्यबलं शुभम् । तत्ममैतानि सर्वाणि संसिद्धि संमितान्यपि ॥ ७.९० ॥ विना सत्त्वहितार्थेन निरर्थानि पशोरिव । तदिदं व्रतमृसृज्य दुष्करं बोधिमानसः ॥ ७.९१ ॥ बोधिचर्याव्रतं धृत्वा चरेऽहं जगद्धिते । तस्मात्तीर्थेषु तीर्थेषु पीठेषु पुण्यभूमिषु ॥ ७.९२ ॥ सद्धर्म्मदेशनां कुर्वन् सत्त्वेभ्यः प्रचराण्यहम् । एतत्पुण्यविशुद्धात्मा परिशुद्धत्रिमण्डलः ॥ ७.९३ ॥ आशु बोधिं समासाद्य संबुद्धपद माप्नुयाम् । इति निश्चित्य स प्राज्ञः प्रचण्डदेव उत्थितः ॥ ७.९४ ॥ ततः सत्त्वहितार्थेन प्रचचार समाहितः । एवं सः प्रचरन् धर्म्ममुपदेश्य समन्ततः ॥ ७.९५ ॥ पुण्यक्षेत्रेषु तीर्थेषु पीठेषु प्राग्रमन्मुदा । एवं भ्रमन् स सर्वत्र भूतलेषु यथाक्रमम् ॥ ७.९६ ॥ क्रमेण संचरन्नत्र हिमालये समाययौ । अत्रायातः स संविक्ष्य सर्वत्र संप्रमोदितः ॥ ७.९७ ॥ अहो हीदं महापीठमितिप्रोक्ताभ्यनन्दत । ततः स इदमालोक्य धर्म्मधातुं जिनालयम् ॥ ७.९८ ॥ ज्योतिरूप्यं प्रसन्नात्मा प्रणत्वैह समाययौ । अत्र स समुपागत्य संमिक्ष्येनं जिनालयम् ॥ ७.९९ ॥ यथाविधि समभ्यर्च्य श्रद्धाभक्ति प्रसन्नधीः । नैकप्रदक्षिणीकृत्य स्तुत्वा गीतैर्मनोहरैः ॥ ७.१०० ॥ अष्टांगै प्रणतिं कृत्वा ध्यात्वा जप्त्वा भजन्मुदा । ततश्चेदं स संवीक्ष्य मञ्जुदेवस्य निर्म्मितम् ॥ ७.१०१ ॥ चैत्यमभ्यर्च्य संस्तुत्वा गीतैर्नत्वा भजन्मुदा । ततोऽसौ च महादेवी योनिरूपां खगाननाम् ॥ ७.१०२ ॥ समालोक्य प्रसन्नात्मा यथाविधि समर्च्चयेत् । तत्रापि स महासत्त्व स्तुत्वा गीतैर्मनोहरैः ॥ ७.१०३ ॥ अष्टाङ्गैः प्रणतिं कृत्वा प्रदक्षिणात्यनेकशः । श्रद्धया शरणं गत्वा स्मृत्वा ध्यात्वा समाहितः ॥ ७.१०४ ॥ तद्विद्या धारणीमन्त्रं जपित्वा प्राभ्यनन्दत । ततोऽसौ च महासत्त्वो वाग्मतीप्रमुखान्यपि ॥ ७.१०५ ॥ तीर्थान्येतानि सर्वाणि स समीक्ष्य प्राभ्यनन्दत । तत स तेषु तीर्थेषु सर्वेष्वपि यथाक्रमम् ॥ ७.१०६ ॥ स्नात्वा दानव्रतादीनि कृत्वा भजन् प्रमोदितः । ततोऽष्टौ वीतरागांश्च दृष्ट्वा स संप्रहर्षितः ॥ ७.१०७ ॥ यथाविधि समभ्यर्च्य स्तुत्वा नत्वा भजन् क्रमात् । ततः प्रचण्डदेवः स बोधिसत्त्वः प्रसादितः ॥ ७.१०८ ॥ अत्रैव सर्वदाश्रित्य व्रतं चरितुमैच्छत । ततः स विमलालोक्य हिमालये समन्ततः ॥ ७.१०९ ॥ सद्धर्म परमानन्दं भुक्त्वोत्सहे सुनिवृत्तौ । ततः स मञ्जुदेवस्य शिष्यं शासन सम्भृतम् ॥ ७.११० ॥ सद्गुरुं समुपाश्रित्य प्रार्थयदेवमानतः । भदन्तात्र पुण्यक्षेत्रे महापीठे हिमालये ॥ ७.१११ ॥ प्रब्रज्यासम्बरं धृत्वा संस्थातुमुत्सहे सदाः । तद्भवान् कृपया महयं संबोधिज्ञानसाधनम् ॥ ७.११२ ॥ प्रब्रज्यासम्वरं दातुं समर्हति जगद्धिते । इति संप्रार्थितं तेन निशम्य स गुणाकरः ॥ ७.११३ ॥ बोधिसत्त्वं सुविज्ञं तं सम्पश्यन्नेवमब्रवीत् । एहि भद्र समीच्छा ते यद्यस्ति बौद्धसम्बरे ॥ ७.११४ ॥ प्रवज्या व्रतमाधाय संचरस्व समाहितः । इत्युक्त्वा स महाभिज्ञः प्रव्रजितं विधाय तम् ॥ ७.११५ ॥ बोधिचर्याव्रतं दत्वा प्रचारयेज्जगद्धिते । तत्र स मुण्डितपात्री सुरक्त चीवरावृतः ॥ ७.११६ ॥ ब्रह्मचारी यतिर्भिक्षुनिः क्लेशोर्हन् सुधीरभूत् ॥ शान्तश्रीभिक्षुरिति नामोऽभूत् । ततः स सर्वविच्छास्ता बोधिसत्त्वा हितार्थदिक् ॥ ७.११७ ॥ स देवासुरलोकानामपि वन्द्यार्चितोऽभवत् । तदारभ्य स शान्तश्रीधर्मधातो जिनालये ॥ ७.११८ ॥ त्रिरत्नभजनं कृत्वा तस्थौ बोधिव्रतं चरन् । स एकस्मिन् दिने चेमं ज्योतीरूपं प्रभास्वरम् ॥ ७.११९ ॥ रत्नपद्मासनासीनं पश्यन्नेवं व्यचिन्तयेत् । अहो ह्ययं स्वयं जातो ज्योतिरूपो प्रभास्वरः ॥ ७.१२० ॥ रत्नपद्मासनासीनः संतिष्ठते जगद्धिते । कियत्कालमयं श्रीमान् धर्म्मधातुर्जिनालयः ॥ ७.१२१ ॥ एवं संभाषयन् लोकान् संस्थास्यते जगद्धिते । यतः कलौ समया ते लोक पञ्चकषायिते ॥ ७.१२२ ॥ सर्वे लोका दुराचारा भविष्यन्ति दुराशयाः । मदाभिमानिनो दुष्टा लोभिनः कामचारिणः ॥ ७.१२३ ॥ ईर्ष्यालवः प्रमत्ताश्च मात्सर्यव्याकुलाशयाः । क्लेशाहंकारगर्वान्धा निर्विवेकाः प्रमादिनः ॥ ७.१२४ ॥ कामभोगातिसंरक्ता दशाकुशलचारिणः । तदा कथमयं श्रीमान् ज्योतीरूपः प्रभास्वरः ॥ ७.१२५ ॥ रत्नपद्मासनासीन एवं तिष्ठेज्जगद्धिते । नूनं ये लोभिनो दुष्टाः क्लेशव्याकुलमानसाः ॥ ७.१२६ ॥ इमं चैत्यं प्रतिक्षिप्य रत्नानि संहरेत्तदा । दुष्टा च तथान्येऽपि दुष्टाः क्लेशाभिमानिनः ॥ ७.१२७ ॥ ज्योतीरूपमिमं चैत्यं ध्वंसयिष्यन्ति सर्वथा । एवं तदा कलौ काले ध्वंसितेऽस्मिन् जिनालये ॥ ७.१२८ ॥ महापातकसंभूतं महोत्पातं भवेद्ध्रुवम् । इति हेतोरहं धर्मधातोरस्य सुरक्षणे ॥ ७.१२९ ॥ गुप्तिकर्त्तु शिलाछाद्य चैत्यं कुर्या महोछ्रयम् । तदा सर्वेऽपि लोकास्ते इमं स्तूपं महोछ्रितम् ॥ ७.१३० ॥ समीक्ष्य श्रद्धया भक्त्या भजिष्यन्ति प्रसादिताः । तदैतत्पुण्यभावेन सर्वदात्र समन्ततः ॥ ७.१३१ ॥ सुभिक्षं मङ्गलोत्साहं निरुत्पातं भवेद्ध्रुवम् । इति ध्यात्वा स शान्तश्रीः शास्तारं तं पुनर्मुदा ॥ ७.१३२ ॥ उपेत्य साञ्जलिर्नत्वा प्रार्थयदेवमादरात् । भदन्त सद्गुरोशास्तर्यदिच्छामिह साम्प्रतम् ॥ ७.१३३ ॥ धर्म्माधातुमिमं चैत्यं गुप्ति कर्त्तुं सुरक्षणे । तदूर्द्ध शिलयाछाद्य स्वीष्टिकाभिः समुछ्रितम् ॥ ७.१३४ ॥ स्तूपं कृत्वा प्रतिष्ठाप्य स्थिरीकर्त्तुं समुत्सहे । इत्यत्र मे भवाञ्छास्ता गुप्ति कृत्वाभिरक्षणे ॥ ७.१३५ ॥ धर्म्मधातोः जगद्भर्त्तुरनुज्ञां दातुमर्हति । इति संप्रार्थिते तेन शान्तश्रिया निशम्य सः ॥ ७.१३६ ॥ महामतिर्महासत्त्वं तं पश्यन्नेवमब्रवीत् । भद्रस्वंयम्भूवांस्तस्य गुप्तिकर्त्तुं यदीच्छसि ॥ ७.१३७ ॥ प्रत्येकं श्रावकं यानं मुक्त्वा महति संश्रितः । वज्राभिषेकमादाय चर वज्रव्रतं पुनः ॥ ७.१३८ ॥ ततो मारान् विनिर्ज्जित्य समाराध्य जिनेश्वरम् । संप्रार्थ्य शिलयाच्छाद्य कुरु स्तूपं समुछ्रितम् ॥ ७.१३९ ॥ इति शास्ता समादिष्टं निशम्य स प्रमोदितः । शास्तारं तं प्रणत्वा च प्रार्थयदेवमादरात् ॥ ७.१४० ॥ सद्गुरुर्मे भवाञ्छास्ता धर्म्मधातुसुरक्षणे । वज्रचर्याव्रतं दत्वा चारय मां जगद्धिते ॥ ७.१४१ ॥ इति संप्रार्थिते तेन शान्तश्रिया निशम्य सः । महामतिर्महासत्त्वं तं समीक्ष्यैवमब्रवीत् ॥ ७.१४२ ॥ यदि श्रद्धास्ति ते भद्र वज्रचर्या महाव्रतम् । यथाविधि प्रदास्यामि तद्गृहाण जगद्धिते ॥ ७.१४३ ॥ इत्युक्त्वा स महाचार्यस्तस्मै शान्तश्रिये क्रमात् । साभिषेकं महायाने वज्रचर्याव्रतं ददौ ॥ ७.१४४ ॥ शान्तश्रीवज्राचार्य इति स्थापितः तत्क्षणेऽर्ये चाधिज्ञप्राप्तोऽभूत् । ततः प्राप्ताभिषेकः स शान्तश्री वज्रयोगवित् ॥ ७.१४५ ॥ स स्वात्मा दक्षिणां तस्मै गुरवे प्रददौ मुदा । ततः स वज्रधृग्योगी महाभिज्ञः सुसिद्धिमान् ॥ ७.१४६ ॥ स्वकुलेशं समाराध्य सगणं प्राभजन्मुदा । ततः स वज्रधृग्योगी महाभिज्ञः सुसिद्धिमान् ॥ ७.१४७ ॥ सद्धर्म्मसाधनोत्साही सर्वविद्याधिपोप्यभूत् । ततः सास्तुरनुज्ञां स समासाद्य प्रसादितः ॥ ७.१४८ ॥ धर्मधातुं समाराध्य प्रार्थयदेवमानतः । भगवन्नाथ सर्वज्ञ भवतां रक्षणाय यत् ॥ ७.१४९ ॥ ज्योतीरूपं समाच्छाद्य चैत्यं कर्त्तुमिहोत्सहे । तद्भवान् त्रिजगन्नाथ कृपया मे प्रसीदतु ॥ ७.१५० ॥ यद त्राप्यपरार्ध मे तत्सर्व क्षन्तुमर्हति । इति संप्रार्थ्य स प्राज्ञ ज्योतीरूपं जिनालयम् ॥ ७.१५१ ॥ स रत्नपद्माछाद्य शिलया समगोपयत् । तदुपरीष्टिकाभिश्च विधाय चैत्यमुच्छ्रितम् ॥ ७.१५२ ॥ यथाविधि प्रतिष्ठाप्य महोत्साहैः सदाभजत् । तत इदञ्च पुच्छाग्रं मञ्जुदेवस्य निर्म्मितम् ॥ ७.१५३ ॥ चैत्यं स शिलयाछाद्य स्तूपं व्यधात्तथोत्तमम् । इदं स्तूपं च स शान्तश्रीः प्रतिष्ठाप्य यथाविधि ॥ ७.१५४ ॥ सर्वदा श्रद्धया भक्त्या महोत्साहैर्मुदाभजत् । ततश्चासौ महाचार्यमाराध्य पञ्चदेवताः ॥ ७.१५५ ॥ पञ्च सुताः पुरेष्वेवं प्रतिष्ठाप्य सदाभजत् । तद्यथा देवता पञ्च प्रथमं वायुदेवता ॥ ७.१५६ ॥ वायुपुरे प्रतिष्ठाप्य वह्निपुरोऽग्निदेवता । नागपुरे च नागेन्द्रो वसुपुरे वसुन्धराम् ॥ ७.१५७ ॥ शान्तिपुरे महाश्रीमत्सम्बरं सुगणं तथा । एतान् सर्वान् समाराध्य स आचार्य यथाविधि ॥ ७.१५८ ॥ महोत्साहैः समभ्यर्च्य प्राभजन् सर्वदा मुदा । एवं कृत्वा स आचार्य शान्तश्रीः कृतकृत्यौ महर्द्धिकः ॥ ७.१५९ ॥ भद्रश्रीमन्त्रसंसिद्धः सर्वविद्याधिपोऽभवत् । ततो भूयः स आचार्यो बोधिसत्त्वा महामतिः ॥ ७.१६० ॥ सर्वसत्त्वहितोत्साही ध्यात्वैवं समचिन्तयत् । अत्रैवमहमाराध्य सर्वान् देवान् यथाविधि ॥ ७.१६१ ॥ प्रतिष्ठाप्य समभ्यर्च्य महोत्साहैर्भजे मुदा । तथात्र सर्वदा धर्म्मधातुवागीश्वरं सदा ॥ ७.१६२ ॥ स्मृत्वा ध्यात्वा समाराध्य संतिष्ठेयं जगद्धिते । इति ध्यात्वा स शान्तश्रीराचार्यस्त्रिगुणार्थभृत् ॥ ७.१६३ ॥ सर्वसत्त्वहितार्थेन तथावत्रैव नन्दितः । एवं ता देवता भक्त्या भजन्ति ये यथाविधि ॥ ७.१६४ ॥ ते भद्रश्रीगुणापन्ना भवेयुर्बोधिचारिणः । तद्विशेषफलं चापि शृणु मैत्रेय सांप्रतम् ॥ ७.१६५ ॥ सर्व सत्त्वानुबोधार्थ वक्ष्याम्यत्र समासतः । तद्यथा ये समाराध्य सगणां वायुदेवताम् ॥ ७.१६६ ॥ यथाविधि समभ्यर्च्य संभजन्ते समादरात् । तेषां वातमहोत्पातभयं क्वापि न विद्यते ॥ ७.१६७ ॥ नीरोग्यं श्रीसमापन्नं कामभोज्यं सदा भवे । ये चाप्येवं समाराध्य सगणां वह्निदेवताम् ॥ ७.१६८ ॥ यथाविधि समभ्यर्च्य सम्भजन्ते समादरात् । तेषां वह्निमहोत्पातं भयं क्वापि न विद्यते ॥ ७.१६९ ॥ परिपुष्टेन्द्रियारोग्य महासौख्यं सदा भवे । ये चाप्येवं समाराध्य सगणां नागदेवताम् ॥ ७.१७० ॥ यथाविधि समभ्यर्च्य प्रभजन्ते सदा मुदा । तेषां न विद्यते क्वापि दुर्भिक्षोत्पातजं भयम् ॥ ७.१७१ ॥ भद्रश्रीरत्नसंपत्तिकामभोज्यं सदा भवे । ये चाप्येवं समाराध्य सगणां श्रीबसुन्धराम् ॥ ७.१७२ ॥ यथाविधि समभ्यर्च्य संभजन्ते समादरात् । तेषां दारिद्रयदुःखादि भयं नास्ति कदाचन ॥ ७.१७३ ॥ भद्रश्रीसद्गुणापन्नमहासंपत्सुखं सदा । ये चाप्येवं समाराध्य सगणं सम्बरं जिनम् ॥ ७.१७४ ॥ यथाविधि समभ्यर्च्य संभजन्ते सदादरात् । तेषां मारापसर्ग्ग च भयं क्वापि न विद्यते ॥ ७.१७५ ॥ सद्धर्म्मरत्नसंपत्तिमहैश्वर्यसुखं सदा । ये चेदं चैत्यमाराध्य मञ्जुदेवस्य निर्म्मितम् ॥ ७.१७६ ॥ यथाविधि समभ्यर्च्य संभजन्ते समादरात् । तद्दुर्भ्भगा दुराचारा दुष्टा स्युर्न कदाचन ॥ ७.१७७ ॥ सर्वे धर्माधिपा नाथा भवेयुः श्रीगुणाकराः । ये चापीदं समाराध्य धर्म्मधातुं जिनालयम् ॥ ७.१७८ ॥ यथाविधि समभ्यर्च्य सम्भजन्ते समादरात् । ते सर्व्वे विमलत्मानो भद्रश्रीसद्गुणाश्रयाः ॥ ७.१७९ ॥ बोधिसत्त्वा महाभिज्ञा भवेयु बोधिचारिणः । य एता देवताः सर्वाः स्मृत्वा ध्यात्वापि सर्वदा ॥ ७.१८० ॥ नामापि च समुच्चार्य संभजन्ते समाद्रिताः । तेऽपि सर्वे न यास्यन्ति दुर्ग्गतिं च कदाचन ॥ ७.१८१ ॥ सदा सद्गतिसंजाता भवेयुः श्रीगुणाश्रयाः । ततस्ते सुकृतारक्ताः सधर्म्मगुणलालसाः ॥ ७.१८२ ॥ त्रिरत्नशरणं कृत्वा संचरेरन् सदा शुभे । ततस्ते विमलात्मानः परिशुद्धेन्द्रियाशयाः ॥ ७.१८३ ॥ बोधिसत्त्वा महासत्त्वाश्चतुर्ब्रह्मविहारिणः । सर्वसत्त्वहिताधानं चरेयुर्बोधिसम्बरम् ॥ ७.१८४ ॥ ततस्ते बोधिसंभारं पुरयित्वा यथाक्रमम् । दशभूमीश्वरा नाथा भवेयुः सुगतात्मजाः ॥ ७.१८५ ॥ ततस्ते निर्म्मलात्मानः संसारगति निःस्पृहाः । अर्हन्तः सवल मारं निर्जित्य स्युर्निरंजनाः ॥ ७.१८६ ॥ त्रिविधां बोधिमासाद्य सद्धर्म्मगुणभास्कराः । सर्वसत्त्वहितार्थेन संबुद्धपदमाप्नुयु ॥ ७.१८७ ॥ येप्येतद्गुणमाहात्म्यं श्रुत्वाप्यत्यनुमोदिताः । तथा तत्पुण्यमाहात्म्यं प्रशसन्ति समादरात् ॥ ७.१८८ ॥ तेऽपि सर्वे विकल्माषाः परिशुद्धित्रिमण्डलाः । श्रीमन्तः सद्गुणाधारा भवेयु बोधिमानसाः ॥ ७.१८९ ॥ न यायुर्दुगतिं क्वापि सदा सद्गतिसम्भवाः । सर्वसत्त्वहितं कृत्वा संचरेरञ्जगद्धिते ॥ ७.१९० ॥ ततः सर्वाधिपास्ते स्यु र्धम्मार्थि संप्रपूरकाः । बोधिसंभारं संपूर्य संबुद्धपदमाप्नुयुः ॥ ७.१९१ ॥ इति सत्यं परिज्ञाय बौद्धं पदं यदीच्छथ । एतान् देवान् समाराध्य भजध्वं सर्वदा भवे ॥ ७.१९२ ॥ एतत्पुण्यानुभावेन यूयमप्येवमाभवम् । दुर्ग्गतिं नैव यायात कदाचिन् कुत्रचिद्ध्रुवम् ॥ ७.१९३ ॥ सदा सद्गतिसंजाता भद्रश्रीसद्गुणाश्रयाः । बोधिसत्त्वा महासत्त्वा भवत बोधिचारिणः ॥ ७.१९४ ॥ ततः संबोधिसंभारं पूरयित्वा यथाक्रमम् । त्रिविधां बोधिमासाद्य संबुद्धपदमाप्स्यथ ॥ ७.१९५ ॥ इति मत्वात्र ये लोका र्वाञ्छन्ति सौगतं पदम् । स देवान् सगणां सर्वान् समाराध्य भजन्तु ते ॥ ७.१९६ ॥ इत्यादिष्टं मुनीन्द्रेण निशम्य ते सभाश्रिताः । सर्वे तथेति विज्ञप्य प्राभ्यनन्दन् प्रबोधिताः ॥ ७.१९७ ॥ तदा शान्तश्रिया यंस्सं गुप्तिकृतो जिनालयः । इत्यादिश्य मुनीन्द्रोऽपि समाधिं विद्धेक्षणम् ॥ ७.१९८ ॥ इति श्रीस्वयंभूधर्म्मधातुवागीश्वर गुप्तिकृत प्रवर्त्तनो नाम सप्तमोऽध्यायः समाप्तः । अष्टम अध्यायः स्वयम्भूचैत्याश्रमनाम साधनासुवृष्टिचरणो नाम अथ स भगवाञ्छास्ता स समाधेरुत्थितः पुनः । मैत्रेयं तं सभां चापि समालोक्यैवमादिशत् ॥ ८.१ ॥ शृणु मैत्रेय भूयो स्या एतद्देवानुभावतः । सिद्धभूमेः प्रवक्षापि महत्सिद्धि प्रभावताम् ॥ ८.२ ॥ तद्यथात्रोपछन्दोहे सिद्धलोक हिमालय । नेपाल इति विख्याते एतद्देवानुभावतः ॥ ८.३ ॥ सदा भद्रमहोत्साहं सुभिक्षं निरुपद्रवम् । सर्वद्रव्यसमापन्न समृद्धाधमवर्त्तत ॥ ८.४ ॥ तदा सर्वत्र लोकाश्च दशकुशलचारिणः । त्रिरत्नभजनारक्ताः प्राचरन्तः सहाशुभ ॥ ८.५ ॥ एतत्पुण्यानुलिप्तास्ते चतुर्ब्रह्मविहारिणः । भद्रश्रीसद्गुणाधीरा बभूवुर्बोधिचारिणः ॥ ८.६ ॥ एवमेषां प्रसिद्धाभूदृद्धिसिद्धिगुणार्थदा । ऋद्धास्फीता सुभिक्षा श्रीसमाश्रयाभिशोभिताः ॥ ८.७ ॥ तेनात्र योगिनो विज्ञा यतयो ब्रह्मचारिणः । स्मृत्वा ध्यात्वा कुलेशानं समाराध्य समाश्रयन् ॥ ८.८ ॥ तथान्येऽपि सुलोकाश्च समागत्य प्रसादिताः । धर्मधातुमिमं भक्त्या भजमानाः समाश्रयन् ॥ ८.९ ॥ सर्वष्वपि च तीर्थेषु स्नानदानादि संबरम् । कृत्वाष्टौ वीतरागांश्च भजन्त समुपाश्रयन् ॥ ८.१० ॥ एताश्च देवताः पञ्च समाराध्य यथाविधि । भजमाना सदोत्साहैः प्राचरन्त समाहिताः ॥ ८.११ ॥ तदा खगाननादेवीं समाराध्य यथाविधि । भजमाना महोत्साहैः प्राचरन्त सदा शुभम् ॥ ८.१२ ॥ एवमिमं च पुच्छाग्रं चैत्यं मञ्जुश्रियापि ते । सर्वे लोकाः समाराध्य प्राभजन्त प्रसादिताः ॥ ८.१३ ॥ एवं सर्वेऽपि लोकाश्च सद्धर्म्माभिरता मुदा । सदा भद्राणि कर्म्माणि कृत्वात्र सर्व्वदाश्रयन् ॥ ८.१४ ॥ एवमेषां महासिद्धि भूमिः श्रीसंप्रशोभिताः । महाजन समाकीर्ण्णा सर्वभूम्युत्तमा वभौ ॥ ८.१५ ॥ ततः कालान्तरेणात्र राजा भूमि यतिर्नृपः । श्रीगुणकामदेवाख्य शास्ता लोकाधिपाभवत् ॥ ८.१६ ॥ तदा स नृपतिः प्रौढा युवा कामातिलालसः । यथा कामरसं भुक्त्वा प्राचरन् स्वेच्छयारमन् ॥ ८.१७ ॥ ततः स क्षत्रियाप्येवं कामभागाभिमोहिताः । प्रमदा गुणसंरक्ता नीतिधर्मे निरादरः ॥ ८.१८ ॥ दृष्ट्वा स सुन्दरीं कान्तामगम्यामपि मोहितः । बलेनापि समाकृष्य वुभुजे स्वेच्छया मुदा ॥ ८.१९ ॥ एवं स नृपराजापि कामधर्म्मातिलालसः । मन्त्रिषु सर्व राज्याङ्ग निवेश्य स्वेच्छया रमेत् ॥ ८.२० ॥ ततः स्ते मन्त्रिणः सर्वे नृपं तं प्रमदा वशे । प्रतिष्ठाप्य यथाकामं भुक्त्वा चरन् यथेच्छया ॥ ८.२१ ॥ तथा भृत्या जनाश्चापि सर्वेऽपि क्लेशिताशयाः । सद्धर्म्माणि प्रतिक्षिप्य प्राचरन् कामभागिनः ॥ ८.२२ ॥ ब्राह्मणाश्च तथा सर्वे दशाकुशल चारिणः । स्वकुलधर्म्ममर्यादं त्यक्त्वा चरन् यथेच्छया ॥ ८.२३ ॥ वैश्याश्चापि तथा धर्म्मद्रव्यसंग्रहलालसाः । स्वकुलवृत्तिमुत्सृज्य भुक्त्वा चरन् यथेप्सितम् ॥ ८.२४ ॥ महाजनास्तथा सर्वेप्यन्यायद्रव्यसाधिनः । स्वकुलधर्ममुत्सृज्य भुक्त्वैव प्राचरन् सुखम् ॥ ८.२५ ॥ वणिजोऽपि तथा सर्वे मिथ्यार्थसाधनोद्यताः । सत्यधर्म प्रतिक्षिप्य चेरुः क्लेशाभिमानिताः ॥ ८.२६ ॥ शिल्पिनोऽपि तथा सर्वे कवलभृतिलालसाः । अविधिज्ञाः प्रमादान्धाश्चक्रुः कर्म्म यंथेच्छया ॥ ८.२७ ॥ तथा नारीजनाश्चापि कामक्लेशाः कुलाशयाः । स्वकुलधर्ममृत्सृज्य प्राचरन्त यथेप्सितम् ॥ ८.२८ ॥ एवं सर्वेऽपि लोकाश्च दशाकुशलसंरताः । स्वकुलाचारमुत्सृज्य प्राचरन्त यथेच्छया ॥ ८.२९ ॥ तीर्थिकाश्चापि ये दुष्टास्ते दृष्ट्वैवं जिनालयम् । निन्दित्वा परिभाषन्तः प्राचरन्त यथेच्छया ॥ ८.३० ॥ तदात्र वहवो दुष्टा चौरा धूर्त्ताः प्रगल्भिकाः । साधुजनाः प्रतिक्षिप्य चेरु मत्तद्वीपा इव ॥ ८.३१ ॥ साधवः सज्जनाश्चापि नीचकर्मानुचारिणः । सद्धर्म्मविरतोत्साहाश्चेरु भुक्त्वैव नीचवत् ॥ ८.३२ ॥ तदैवं पापसंचारात्सर्वत्राप्यचरत्कलिः । सद्धर्म्मो दुर्वली भूतो नीचवद्विलयं ययौ ॥ ८.३३ ॥ तदात्र प्रवरीभूते कलिसंचार वर्त्तते । दृष्ट्वा लोकाधिपाः सर्वे भवन्रुष्टपरान्मुखाः ॥ ८.३४ ॥ ततोऽत्र विमुखीभूय सर्वलोकाधिपा अपि । धिग्नृपमिति बा दन्तो द्रष्टुमपि न चेच्छिरे ॥ ८.३५ ॥ तदात्र लोकपालानां सुदृष्टिविरतोत्सवे । ईतयः समुपाक्रम्य प्रावर्त्तितुमुपाचरत् ॥ ८.३६ ॥ ततो देवा अपि क्रूरा ये दुष्टा मारपाक्षिकाः । सर्वे तत्र रूपालोक्य महोत्पातं प्रचक्रिरे ॥ ८.३७ ॥ वह्निरपि तथालोक्य दुष्टवत्कोपिताशयः । धूमाकुलार्चिषा दग्धा महोत्पातं व्यधादिह ॥ ८.३८ ॥ धर्मराजापि रुष्टाभून्निर्दयां निरुजानपि । निहन्तुं प्राणिनः सर्वान्महामारीमचारयत् ॥ ८.३९ ॥ नैऋत्या राक्षसेन्द्रोऽपि प्रकोपितातिनिर्दयः । सर्वत्रापि प्रविष्टोऽत्र महोत्पातं व्यधात्सदा ॥ ८.४० ॥ वरुणो नागराजापि प्रदुष्टः क्रूरचक्षुषा ॥ दृष्ट्वा वारिवहान्मेघान् सर्वान् वृष्टिं न्यवारयेत् ॥ ८.४१ ॥ मरुतोऽपि तथालोक्य प्ररुष्टा निर्दया स्थिताः । असाध्यं प्रचरन्तात्र महोत्पातं प्रचक्रिरे ॥ ८.४२ ॥ तथा यक्षाश्च ये दुष्टाः किन्नरा गुह्यका अपि । गृहे गृहे प्रविश्यापि रोगोत्पातं प्रचक्रिरे ॥ ८.४३ ॥ तथा भूताः पिशाचाश्च वेतालाः कटपूटिनाः । डाकिण्यः प्रमथाश्चापि शाकिन्यः सगणा अपि ॥ ८.४४ ॥ रुद्रा अपि सगन्धर्वा कुम्भाण्डा गरुडा अपि । सर्वत्र प्रचरन्तोऽत्र महोत्पातं प्रचक्रिरे ॥ ८.४५ ॥ मातृका अपि सर्वाश्च सगणा अप्रसादिताः । सुदुष्टवालोक्य सर्वान् स्तान् द्रक्षितुं न समाहिरे ॥ ८.४६ ॥ ग्रहास्तारागणाः सर्वे विरुद्धा अप्रसादिताः । अनुसंदर्शनं वापि कर्तु नैवाववांञ्छिरे ॥ ८.४७ ॥ कुलेशा अपि सर्वाश्च देवता अप्रसादिताः । संत्रात समर्थास्तान् पश्यंत्य एव तस्थिरे ॥ ८.४८ ॥ एवमन्येपि देवाश्च सर्वत्राणपराङ्मुखाः । तेषां संदर्शनं कर्तुमपि नैव वांछिरे ॥ ८.४९ ॥ तेषां त्रातुं तदेकापि न शशाक कथंचन । एवमत्र महोत्पातं प्रावर्त्तत समन्ततः ॥ ८.५० ॥ एवमत्र महोत्पातं प्रर्वर्त्ततेऽपि सर्वतः । सर्वक्लेशा हतात्मानः प्रचक्रु विग्रहं मिथः ॥ ८.५१ ॥ तदेवं कलिसंरक्तान् सर्वान् लोकान् विलोक्य सः । नृपतिः सुचिरं ध्यात्वा मनसैवं व्यचिन्तयत् ॥ ८.५२ ॥ हा कष्टं पापजं धोरं जायतेऽत्राधुना मम । तत्पापशमनायायं को दधान्महिताशयः ॥ ८.५३ ॥ कथमिह महद्दुःखं शमीकर्त्तुं विधास्यते । पश्यन्नेवमुपेक्ष्यैव रमेयं साम्प्रतं च किम् ॥ ८.५४ ॥ यो हि राजा प्रजादुःखमुपेक्ष्य रमते सुखम् । स किं राजा प्रभुर्भत्तां दुष्टाहिवद्विगर्ह्यते ॥ ८.५५ ॥ यत्र राजा प्रजादुःखमुपेक्ष्य न विचारयेत् । स्वयमेव सुखं भुक्त्वारमंश्चरेयथेच्छया ॥ ८.५६ ॥ तत्र सर्वप्रजा लोकाः क्लेशव्याकुलमानसाः । सत्यधर्मकुलाचारं हित्वा चरेयुरौद्धटाः ॥ ८.५७ ॥ ततस्ते दुरितारक्ता दशकुशलचारिणः । महापापेऽपि निर्लज्जाः संचरेरन् यथेच्छया ॥ ८.५८ ॥ एतत्सर्व महत्पातं र्भुजीयान्नृपतिर्ध्रुवम् । इति सत्यं समाख्यातं नीतिविज्ञैर्महर्षिभिः ॥ ८.५९ ॥ इत्येतत्पापवैपाक्यं भोक्तव्यं हि मया भव । तदत्र किं करिष्यामि यदुपायं न मन्यते ॥ ८.६० ॥ धिग्जन्म मेऽत्र संसारे यस्य राज्ये सदा कलिः । दुर्भिक्षादि महात्पातं प्रवर्त्तते दिवानिशम् ॥ ८.६१ ॥ धन्यास्ते पुरुषा ये हि निःक्लेशा विमलाशया । विमुक्त भव संचारा भिक्षवो ब्रह्मचारिणः ॥ ८.६२ ॥ किं मेऽत्र जन्म संसारे सुकुलमपि प्रभोर्नृणाम् । यदहं पशुवद्भुक्त्वा काममेव रमे गृहे ॥ ८.६३ ॥ तदेततपापलिप्तोऽहं क्लेशव्याकुलमानसः । नरकेषु भ्रमन् दुःखं भुंजीयां विविधं सदा ॥ ८.६४ ॥ तदा को मे सुहृत्मित्रं संरक्षितुमुपाचरत् । धर्ममेव तदा त्राणं सर्वदुःखापहं भवे ॥ ८.६५ ॥ धर्माणां प्रवरं बौद्धं धर्मं सर्वभयापहम् । सर्वार्थसाधनं सिद्धमित्याख्यातं जगद्धितम् ॥ ८.६६ ॥ इत्यहं साम्प्रतं गत्वा गोशृङ्गे पर्वते स्थितम् । शान्तश्रियं महाचार्यं प्रार्थयेयं समादरात् ॥ ८.६७ ॥ स एव हि महाचार्य एतदुत्पातशान्तये । विधानं समुपादिश्य कुर्यान्मेऽत्र हितं सदा ॥ ८.६८ ॥ इति निश्चित्य भूपालः पुरोहितं समन्त्रिणः । महाजनान सपौरांश्च समामन्त्रयैवमादिशत् ॥ ८.६९ ॥ भो भवन्तो यदत्रैवं महोत्पातं प्रवर्त्तते । तच्छान्तिकरणं धर्मं कर्त्तुमिच्छामि सांप्रतम् ॥ ८.७० ॥ तदाचार्य महाभिज्ञं शान्तिश्रियं समादरात् । प्रार्थयित्वा तदा देशाद्धर्त्तुमिच्छामि सदृशम् ॥ ८.७१ ॥ इति सर्वे वयं तत्र गोशृङ्गेऽग्रे समादरात् । शान्तश्रियं महाचार्य संप्रार्थितुं वज्रावहै ॥ ८.७२ ॥ इत्यादिष्टं नरेन्द्रण श्रुत्वा पुरोहितादयः । सर्वे तथेति विज्ञप्य प्राभ्यनन्दन् प्रबोधिताः ॥ ८.७३ ॥ ततः स नृपती राजा समन्त्रिजनपौरिकाः । पुरोहितं पुरोधाय गोशृङ्गेऽग्रे मुदाचरत् ॥ ८.७४ ॥ तत्र दृष्ट्वा तमाचार्य नृपतिः संप्रमोदितः । समेत्य साञ्जलिर्नत्वा पादाब्जे समुपाश्रयत् ॥ ८.७५ ॥ तथा सर्वेऽपि लोकाश्च समीक्ष्येनं प्रसादिताः । समेत्य पादयोर्नत्वा समुपतस्थिरे मुदा ॥ ८.७६ ॥ तान् सर्वान् समुपासीनान् समीक्ष्य स महामतिः । शान्तश्रीस्तं महीपालं सम्पश्यन्नेवमादिशत् ॥ ८.७७ ॥ राजन् सदास्तु वो भद्रं सर्वत्रापि निरन्तरम् । किमर्थमिह प्रायासि तत्मेऽग्रे वक्तुंमर्हसि ॥ ८.७८ ॥ इति शान्तश्रिया प्रोक्ते नृपतिः स कृताञ्जलिः । प्रणत्वा तं महाचार्य पश्यन्नेवं न्यवेदयेत् ॥ ८.७९ ॥ भो श्रीशास्तयदर्थेऽहं भवच्छरणमाव्रजे । तदर्थ प्रार्थयाम्यत्र मे समुपादेष्टुमर्हति ॥ ८.८० ॥ यत्मेऽत्र पापतो राज्ये महोत्पातं प्रवर्त्तते । तच्छान्तिकरणोपायं समुपादेष्टुमर्हति ॥ ८.८१ ॥ इति संप्रार्थिते राज्ञा शान्तश्री मन्त्रवित्सुधीः । नृपते तं महासत्त्वं समालोक्यैवमादिशत् ॥ ८.८२ ॥ नृपते पापतोऽत्रैवं महोत्पातं प्रवर्त्तते । तत्पापशमनोपायं वक्षामि ते शृणुष्व तत् ॥ ८.८३ ॥ यत्वमत्र नृपा राजा सर्वधर्मानुपालकः । नीतिधर्म्मानुसारेण संपालयसि न प्रजाः ॥ ८.८४ ॥ मन्त्रिणोऽपि तथा सर्वनीतिधर्मपराङ्मुखाः । भुक्त्वा कामसुखान्येव प्रचरन्ति यथेच्छया ॥ ८.८५ ॥ तथा भृत्या जनाश्चापि पौराश्चापि महाजनाः । स्वकुलधर्ममुत्सृज्य प्रचरन्ति यथेच्छया ॥ ८.८६ ॥ एवं सर्वेऽपि लोकाश्च दशाकुशलचारिणः । सद्धर्माणि प्रतिक्षिप्य प्रचरन्ति प्रमादतः ॥ ८.८७ ॥ तदैतत्पापवैपाक्यं भोक्तव्यंमेव हि भव । येनैव यत्कृतं कर्म्म भोक्तव्यं तेन तत्फलम् ॥ ८.८८ ॥ एवं मत्वा नृपः स्वामी स्वयं नीत्या विचारयन् । बोधयित्वा प्रयत्नेन लोकान् संपालयत्सदा ॥ ८.८९ ॥ यद्यत्र नृपतिः सम्यग विचार्य प्रमादतः ॥ स्वयं कामसुखान्येव भुक्त्वा चरद्यथेच्छया ॥ ८.९० ॥ तथा सर्वेऽपि लोकाश्च नृपचर्यानुचारिणः । भुक्त्वा कामसुखान्येव प्रचरेयुर्यथेच्छया ॥ ८.९१ ॥ तदा तत्र महोत्पातं प्रवर्त्तत्पापतो ध्रुवम् । प्रवर्त्तिते महोत्पात लोका स्युः पापदुःखिताः ॥ ८.९२ ॥ तत्र तान्नृपतिः पश्यन्नुपेक्ष्यं निर्दयश्चरत् । लोकसंरक्षणे असक्तः स सर्वपापभाग्भवेत् ॥ ८.९३ ॥ सर्वाण्यपि हि पापानि सर्वलोकैः कृतान्यपि । पतित्वा नृपतेरग्रे प्रदद्युस्तत्फलानि हि ॥ ८.९४ ॥ इति सत्यं समाख्यातं सर्वैरपि मुनीश्वरैः । नत्वा राजा स्वयं नीत्या विचारयन् समाचरेत् ॥ ८.९५ ॥ इति तेन समादिष्टं शान्तश्रिया सुमन्त्रिणा । श्रुत्वा स नृपतीर्भीत्या संतापतापिताशयः ॥ ८.९६ ॥ शान्तश्रियं तमाचार्य समीक्ष्य शरणं गतः । नत्वा पादाम्बुजे भूयः प्रार्थयदेवमादरात् ॥ ८.९७ ॥ शास्तः सदा चरिष्यामि भवदाज्ञां शिरावहन् । तत्मे यदुचितं धर्म्म तत्समादेष्टुमर्हति ॥ ८.९८ ॥ इति संप्रार्थितं राज्ञा श्रुत्वाचार्यः स सत्मतिः । नृपतिं तं महासत्त्वं सम्पश्यन्नेवमादिशत् ॥ ८.९९ ॥ राजञ्छृणु समाधाय वक्ष्यामि शुभकारणम् । यद्यस्ति ते कृपा लोक तत्कुरु यन्मयोदितम् ॥ ८.१०० ॥ तद्यथैतेषु तीर्थेषु स्नात्वा नित्यं यथाविधि । शुचिशीलसमाचारः समाहितः त्रिमण्डलः ॥ ८.१०१ ॥ सम्बोधिं प्रणिधानेन सर्वसत्त्वहितार्थभृत् । त्रिरत्नभजनं कृत्वा चरस्व पोषधं व्रतम् ॥ ८.१०२ ॥ तत इमं जगन्नाथं धर्मधातुं जिनालयम् । यथाविधि समाराध्य संभजस्व सदादरात् ॥ ८.१०३ ॥ तथा सर्वा इमा पञ्च देवताश्च यथाविधि । समाराध्य समभ्यर्च्य संभजस्व सदादरात् ॥ ८.१०४ ॥ इमं मञ्जुश्रीयंश्चापि चैत्यमाराध्य सर्वदा । यथाविधि समभ्यर्च्य संभजस्व महोत्सवैः ॥ ८.१०५ ॥ तथाष्टौ वीतरागांश्च समाराध्य यथाविधि । समभ्यर्च्य महोत्साहैः संभजस्व सदादरात् ॥ ८.१०६ ॥ तथा माहेश्वरीं देवी खगाननां समादराम् । समाराध्य समभ्यर्च्य संभजस्व यथाविधिम् ॥ ८.१०७ ॥ एते सर्वेऽपि देवा हि सर्वलोकाधिपेश्वराः । सर्वसत्त्वहितार्थेन प्रादुर्भूताः स्वयं खलु ॥ ८.१०८ ॥ तदत्रैतेषु देवेषु सर्वेषु श्रद्धया सदा । विधिना भजनं कृत्वा संचरस्व जगद्धिते ॥ ८.१०९ ॥ लोकांश्चापि तथा सर्वान् बोधयित्वा प्रयत्नतः । सर्वेष्वेतेषु तीर्थेषु स्नानदानादिकं सदा ॥ ८.११० ॥ कारयित्वा महत्पुण्यं जगद्भद्रसुखार्थदम् । संबुद्धगुणसत्सौख्यं चारय पोषधं व्रतम् ॥ ८.१११ ॥ एतेषां च त्रिरत्नादिदेवानां भजनं सदा । कारयित्वा महोत्साहैर्बोधिमार्गे प्रचारय ॥ ८.११२ ॥ तदैतत्पुण्यभावेन सर्वत्रापि चरच्छुभम् । तदा सर्वमहोत्पातं सर्वत्र विलयं व्रजेत् ॥ ८.११३ ॥ तदा ब्रह्ममरेन्द्राद्याः सर्वे लोकाधिपा अपि । सुदृशात्र समालोक्य पालयेयुः सदा मुदा ॥ ८.११४ ॥ तदा संपालितेऽस्मिंन तैः सवैर्लोकाधिपैः पुनः । सुभिक्षं श्रीशुभोत्साहं प्रवर्त्तयेद्धि सर्वदा ॥ ८.११५ ॥ तदा सर्बेऽपि लोकाश्च नीरोगाः श्रीगुणाश्रयाः । विरम्य पापमार्गेभ्यः संचरेरन् सदा शुभे ॥ ८.११६ ॥ एवं धृत्वा सदा राजन्महापुण्य प्रभावतः । अन्ते बोधिं समासाद्य संबुद्धपदमाप्नुयुः ॥ ८.११७ ॥ एवं महत्तरं पुण्यं त्रिरत्नभजनाद्भवम् । विज्ञायादौ त्रिरत्नानां भजस्व श्रद्धया स्मरन् ॥ ८.११८ ॥ ततः सर्वेषु तीर्थेषु स्नात्वा शुद्धेन्द्रियाशयः । त्रिरत्नं शरणं गत्वा भजस्व पोषधं व्रतम् ॥ ८.११९ ॥ ततः सर्वानिमान् देवान् धर्म्मधातुमुखान् सदा । यथाविधि समाराध्य संभजस्व समर्चयन् ॥ ८.१२० ॥ लोकानपि तथा सर्वान् बोधयित्वा प्रयत्नतः । सर्वेष्वेतेषु तीर्थेषु स्नापयित्वा यथाविधिम् ॥ ८.१२१ ॥ त्रिरत्नशरणे स्थाप्य संबोधिज्ञानसाधनम् । भद्श्रीसत्गुणाधारं चारय पोषधं व्रतम् ॥ ८.१२२ ॥ एतेषामपि देवानां कारयित्वा सदार्चनम् । बोधिमार्गे प्रतिष्ठाप्य चारय पालयञ्छुभे ॥ ८.१२३ ॥ एवं कृत्वा महत्पुण्यं प्राप्य श्रीसद्गुणाश्रयः । बोधिसत्त्व महासत्त्व महाभिज्ञा भवेद्ध्रुवम् ॥ ८.१२४ ॥ ततः संबोधिसंभारं पूरयित्वा यथाक्रमम् । अर्हन् बोधिं समासाद्य संबुद्धपदमाप्नुयाः ॥ ८.१२५ ॥ इति शान्तश्रिया शास्ता समादिष्टं निशम्य सः । नृपस्तथेति विज्ञप्य कर्तुमेवं समैच्छत ॥ ८.१२६ ॥ ततः स नृपतिः सर्वान्मन्त्रिणस्सचिवाञ्जनान् । पौरान्महाजनाश्चापि समामन्त्रयैवमादिशत् ॥ ८.१२७ ॥ भो मन्त्रिणो जनाः सर्वेऽमात्याः पौरा महाजनाः । आचार्येन यथादिष्टं तथा चरितुमर्हथ ॥ ८.१२८ ॥ अहमपि तथा धृत्वा सर्वदा भद्रकारणम् । त्रिरत्नशरणं कृत्वा व्रतं चरितुमुत्सहे ॥ ८.१२९ ॥ इत्यादिष्टं नरेन्द्रेण श्रुत्वा ते मन्त्रिणो जनाः । पौरा महाजनाः सर्व तथेति प्रतिशुश्रुवुः ॥ ८.१३० ॥ ततः स नृपतिः सर्वेः सपुरोहितमन्त्रिभिः । अमात्यैःसचिवैः पौरैर्महाजनैः समन्वितः ॥ ८.१३१ ॥ सर्वेष्वेतेषु तीर्थेषु स्नात्वा यथाविधि क्रमात् । शुद्धशीलः समाधाय प्राचरत्पोषधं व्रतम् ॥ ८.१३२ ॥ ततस्स विमलात्मान त्रिरत्नशरणं गताः । धर्मधातुं समाराध्य समभ्यर्च्यभिजन्मुदा ॥ ८.१३३ ॥ तथा वायुपुरे वायुदेवतांश्च यथाविधि । अग्निपुरेऽग्निदेवं च नागपुरे फणेश्वरान् ॥ ८.१३४ ॥ वसुपुरे वसुन्धारां सद्धर्म्मश्रीगुणप्रदाम् । शान्तपुरे महेशानं सम्बरं सगणं क्रमात् ॥ ८.१३५ ॥ यथाविधि समभ्यर्च्य श्रद्धया समुपाश्रितः । तथा मञ्जुश्री यश्चैत्यं समभ्यर्च्याभजन् सदा ॥ ८.१३६ ॥ तथाष्टौ वीतरागांश्च श्रीदेवींश्च खगाननाम् । यथाविधि समाराध्य समभ्यर्च्याभजत्सदा ॥ ८.१३७ ॥ तथा सर्वेऽपि लोकास्ते नृपवृत्तानुचारिणः । स्नात्वा सर्वेषु तीर्थेषु शुद्धशीला समादरात् ॥ ८.१३८ ॥ त्रिरत्नशरणं कृत्वा चरन्तः पोषधं व्रतम् । धर्म्मधातुमुखान् सर्वान् देवांश्चाभ्यर्च्य प्राभजन् ॥ ८.१३९ ॥ तदैतत्पुण्यभावेन सर्वत्र शुभमाचरत् । ततः सर्व महोत्पातं क्रमेण प्रशमं ययौ ॥ ८.१४० ॥ तदा सर्वेऽपि ते लोका नीरोगाः पुष्टितेन्द्रियाः । महानन्दं सुखं प्राप्य बभूवु धर्म्मलालसाः ॥ ८.१४१ ॥ तद्दृष्ट्वा न नृपो राजा प्रत्यक्षं धर्मसत्फलम् । अहो सद्धर्ममाहात्म्यमित्युक्त्वा नन्दिताचरत् ॥ ८.१४२ ॥ तदा सुवृष्टिरेवात्र न बभूव कथंचन । तद्दृष्ट्वा न नृपश्चासीद्दुर्भिक्षशंकिताशयः ॥ ८.१४३ ॥ ततः स करुणाविष्टहृदयः स नृपः पुनः । शान्तश्रियं तमाचार्य नत्वैव प्राह साञ्जलिः ॥ ८.१४४ ॥ आचार्य कृपया तेऽत्र चरते शुभताधुना । सर्वदापि महोत्पातं संशाम्यत समन्ततः ॥ ८.१४५ ॥ सुवृष्टिरेव नाद्यापि प्रवर्त्तते कथंचन । सुवृष्टिकरणोपायं तत्समादेष्टुमर्हति ॥ ८.१४६ ॥ इति संप्रार्थितं राज्ञा श्रुत्वाचार्यः स सत्मतिः । नृपतिं तं महासत्त्वं संपश्यन्नेवमब्रवीत् ॥ ८.१४७ ॥ साधु राजञ्छृणुष्वात्र सदा सुभिक्षकारणम् । सुवृष्टिकरणोपायमुपदेक्ष्यामि सांप्रतम् ॥ ८.१४८ ॥ लिखित्वा मण्डलं नागराजानां यद्यथाविधि । तत्र नागाधिपान् सर्वानावाह्याराधयेवहि ॥ ८.१४९ ॥ तदत्र त्वं महावीरा भवस्वात्तरः साधकः । यथा मायोपदिष्टानि तथा सर्वाणि साधय ॥ ८.१५० ॥ इत्याचार्य समादिष्टं श्रुत्वा स नृपतिर्मुदा । तथेति प्रतिविज्ञप्य तथा भवितुमैच्छत ॥ ८.१५१ ॥ ततः स वज्रधृग्वारा नागपुरं यथाविधि । लिखित्वा मण्डलं रम्यं प्रतिष्ठाप्य समार्च्चयत् ॥ ८.१५२ ॥ तत्र नागाधिपान् सर्वानाचार्यः स यथाक्रमम् । समाराध्य समावाह्य पूजयितुं समालभत् ॥ ८.१५३ ॥ तत्र नागाधिपाः सर्वे समागत्य यथाक्रमम् । स्वस्वासनं समाश्रित्य संतस्थिरे प्रसादिताः ॥ ८.१५४ ॥ कर्कोटकोऽहिराडेक एव न लज्जयागतः । तत्समीक्ष्य स शान्तश्रीर्महाचार्या महर्द्धिमान् ॥ ८.१५५ ॥ नृपतिं तं महावीरं महासत्त्वं महर्द्धिकम् । महाभिज्ञं समालोक्य समामन्त्रयैवमादिशत् ॥ ८.१५६ ॥ राजन्नागाधिपाः सर्वे समागता इहाधुना । एक कर्क्कोटको नागराज एवेह नागतः ॥ ८.१५७ ॥ विरूपोऽहं कथं नागराज महासभासने । गत्वा तिष्ठेयमित्येवं ध्यात्वा नायाति लज्जया ॥ ८.१५८ ॥ अतस्तं सहसा राजन् गत्वा तत्र महाह्रदे । कर्क्कोटकं तमामन्त्रय संप्रार्थ्येह समानय ॥ ८.१५९ ॥ यदि संप्रार्थ्यमानापि नागछेदिह सोऽहिराट् । तदा बलेन धृत्वापि सर्वथा तं समानय ॥ ८.१६० ॥ इत्याचार्य समादिष्टं शृत्वा स नृपतिः सुधीः । शान्तश्रियं तमाचार्य पश्यन्नेवं न्यवेदयत् ॥ ८.१६१ ॥ आचार्य कथमकोऽहं तत्रागाढमहाह्रदे । गत्वा बलेन नागेन्द्रं धृत्वा नेतुं प्रशक्नुयाम् ॥ ८.१६२ ॥ इति निवेद्य तं राज्ञा श्रुत्वाचार्यः स मन्त्रवित् । नृपतिं तं महावीरं सम्पश्यन्नेवमब्रवीत् ॥ ८.१६३ ॥ हरिदश्वं समारुह्य पुष्पमत्मन्त्रशोधितम् । धृत्वा ब्रज प्रशक्नोषि मम मन्त्रानुभावतः ॥ ८.१६४ ॥ दुर्वाकुण्डमिदं पुष्पं तत्रादौ क्षिप मां स्मरन् । भ्रमन् यत्र चरेन् पुष्पं तत्यथानुसरन् बज ॥ ८.१६५ ॥ इत्युपदेश्य दुवीकं कुण्डं मन्त्राभिशोधितम् । पुष्पं दत्वा नरेन्द्राय पुनरेवमुपादिशत् ॥ ८.१६६ ॥ गत्वैवं नृपते तत्र नागपुरे समेत्य तम् । कर्कोटकं समामन्त्रय मद्गिरैवं निवेदय ॥ ८.१६७ ॥ भो कर्क्कोटक नागेन्द्र यदर्थेदमिहाव्रज । तद्भवानपि जानीयात्तथापि वक्ष्यते मया ॥ ८.१६८ ॥ गोशृङ्गे महाचार्यः शान्तश्री र्वज्रभृत्कृती । दुर्भिक्षशमनं कर्त्तुं सुवृष्टिचारणे सदा ॥ ८.१६९ ॥ तत्र नागपुरे सर्वान्नागाधिपान् यथाविधि । समाराध्य समावाह्य पूजयितुं समारभत् ॥ ८.१७० ॥ सर्वे नागाधिपास्तत्र वरुणाद्याः समागताः । त्वमेव नागतः कस्मात्सहसा गन्तुमर्हति ॥ ८.१७१ ॥ एवं संप्रार्थ्यमानोऽपि नागछेत्सोऽहिराड्यदि । वलेनापि समाकृष्य सहसा नीयतां त्वया ॥ ८.१७२ ॥ इति शान्तश्रिया शास्ता समादिश्य समादरात् । प्रेषितोऽहं तदर्थेत्र तत्समगन्तुमर्हति ॥ ८.१७३ ॥ इत्यादिश्य स आचार्यः पुष्पं मन्त्राभिशोधितम् । दत्वा तं नृपतिं वीरं प्रेषयत्तत्र सत्वरम् ॥ ८.१७४ ॥ इत्याचार्य समादिष्टं निशम्य स महामतिः । दुर्वामुण्डं समादाय तथेत्युक्त्वा ततोऽचरत् ॥ ८.१७५ ॥ ततः स नृपतिर्वीरः शास्तु राज्ञां शिरावहन् । हरिदश्वं समारुह्य संचरन्स्तधदं ययौ ॥ ८.१७६ ॥ तत्र तीरं समासाद्य पश्यं नृपः स तं हदम् । नत्वाचार्यमनुस्मृत्वा दुर्व्वाकुण्डं जलेऽक्षिपत् ॥ ८.१७७ ॥ तन्प्रक्षिप्तं जलेऽगाढे भ्रमन्नागपुरेऽचरत् । राजाप्यश्वं समारुह्य तत्पुष्पानुसरन् ययौ ॥ ८.१७८ ॥ एवं नागपुरे गत्वा नृपतिः स विलोकयन् । कर्कोटक महीन्द्रं तं सहसा समुपाचरत् ॥ ८.१७९ ॥ तत्र समेत्य स वीरस्तं कर्कोटकमहीश्वरम् । यथाचार्याय संदिप्टं तथा सर्वं न्यवेदयत् ॥ ८.१८० ॥ तत्सन्निवेदितं सर्व श्रुत्वा नागाधिपापि सः । किञ्चिदप्युत्तरं नैव ददौ तस्मै महीभुजे ॥ ८.१८१ ॥ ततः स नृपतिश्चैवं निवेद्य तं महीश्वरम् । संपश्यन् समुपामन्त्रय प्रार्थयदमादरात् ॥ ८.१८२ ॥ नागेन्द्रोऽत्र प्रसीद त्वं शास्तुराज्ञां शिरोवहम् । त्वदामन्त्र न एवाहं प्रागतस्तत्समाव्रज ॥ ८.१८३ ॥ इति संप्रार्थ्यमानोऽपि राजा स भुजगाधिपः । किञ्चित्प्राप्युत्तरं नैव ददौ तस्मै महीभुजे ॥ ८.१८४ ॥ ततोऽसौ नृपतिवीरः शास्त्रादिष्टं यथा तथा । सर्व निवेद्य तस्याग्रे पुनरेवमभाषत ॥ ८.१८५ ॥ नागेन्द्र नापराधं मे यत्त्वया न श्रुतं वचः । तन्मे शास्त्रा यथादिष्टं तथा नूनं चरेय हि ॥ ८.१८६ ॥ इत्युक्तेपि नरेन्द्रेण कर्कोटको हि योऽपि सः । किञ्चिदप्युत्तरं नैव ददौ राज्ञे महीभृते ॥ ८.१८७ ॥ ततः स नृपतिवीरः शास्तुराज्ञां शिरोवहन् । धृत्वा तमहिमाकृष्य गुरुत्मानिव प्राचरत् ॥ ८.१८८ ॥ ततो हयात्समानीताः गुणकामदेवेन सः । आनीते तेन मार्गेण वशिकाचल उच्यते ॥ ८.१८९ ॥ एवं धृत्वा समाकृष्य स वीरस्तं महीश्वरम् । सहसा नागपुरे नीत्वा शास्तुरग्रे समाचरत् ॥ ८.१९० ॥ आचार्य भवदादेशात्तथा कर्क्कोटकोऽहिराट् । धृत्वाकृष्य मयानीतस्तं समीक्ष्य प्रसीदतु ॥ ८.१९१ ॥ इति निवेदितं राज्ञा श्रुत्वाचार्यः समादितः । नृपतिं तं महावीरं सम्पश्यन्नेवमादिशत् ॥ ८.१९२ ॥ साधु राजन्महावीर यदानीतस्त्वयाहिरात् । तदेनमासने नीत्वा संस्थापय यथाक्रमम् ॥ ८.१९३ ॥ इत्याचार्य समादिष्टं श्रुत्वा स नृपतिस्तथा । नागराजं तमामन्त्रय स्वासने संन्यवेशयत् ॥ ८.१९४ ॥ तं दृष्ट्वा स्वासनासीनांमाचार्यः स यथाविधिम् । नागेन्द्रान् स्तान् समावाह्य समाराध्य समार्चयत् ॥ ८.१९५ ॥ ततः स व्रजधृकाज्ञ आचार्यः स महीपतिः । सर्वान्नागाधिपान् स्तुत्वा प्रार्थयुच्चैवमादरात् ॥ ८.१९६ ॥ भो भवन्तो महानागराजाः सर्वे मयाग्रतः । समाराध्य समावाह्य यथाविधि समर्चिताः ॥ ८.१९७ ॥ तन्मे सदा प्रसीदन्तु दातुमर्हन्ति वाञ्छितम् । सर्वलोक हितार्थेव आराध्ययामि नान्यथा ॥ ८.१९८ ॥ यदत्र पापसंचाराद्दुर्भिक्षं वर्त्ततेऽधुना । तेन सर्वेऽपि दुःखार्त्ता लोकश्चरन्ति पातकम् ॥ ८.१९९ ॥ तद्दुर्भिक्षाभिशान्त्यर्थ सुभिक्षकारणं सदा । सुवृष्टिचरणोपायं करोमीदं जगद्धिते ॥ ८.२०० ॥ ते भवन्तोऽत्र सर्वेऽपि सर्वसत्त्वाभिरक्षणे । चारयितुं समर्हन्ति सुवृष्टिमत्र सर्वदा ॥ ८.२०१ ॥ इति संप्रार्थितं तेन शान्तश्रिया निशम्यत । सर्वे नागाधिपास्तस्य तथेति प्रतिशुश्रुवुः ॥ ८.२०२ ॥ तैस्तथेति प्रतिज्ञातं नागराजैर्निशम्य सः । शान्तश्री नागराजान् स्तान् प्रार्थयदेवमादरात् ॥ ८.२०३ ॥ भवन्तो मे प्रसीदन्तु यदहं प्रार्थये पुनः । सर्वसत्त्वहिते दातुं तदप्यर्हन्ति वाञ्छितम् ॥ ८.२०४ ॥ इति संप्रार्थिते तेन शान्तश्रिया निशम्यते । सर्व्वनागाधिपा तस्मै तथेति प्रतिशुश्रुवुः ॥ ८.२०५ ॥ सर्वे नागाधिपैस्तैः सम्प्रतिज्ञातं निश्म्य सः । आचार्यस्तानहीन्द्रांश्च प्रार्थयेदेवमादरात् ॥ ८.२०६ ॥ भवन्तः श्रूयतां वाक्यं यत्मया प्रार्थ्यते पुनः । तद्भवद्भिः प्रतिज्ञातं संधातव्यं तथा सदा ॥ ८.२०७ ॥ यदात्र पापसंचाराद्दुर्वष्टिश्च भवेद्ध्रुवम् । तदा सुवृष्टिसंसिद्धिर्साधनं तत्प्रनीयताम् ॥ ८.२०८ ॥ तद्यथा भवतां पट्टे लिखित्वा मण्डलं शुभम् । यथाविधि प्रतिष्ठाप्य संस्थापितुं समुत्सहे ॥ ८.२०९ ॥ दुर्वृष्टिः स्याद्यदाप्यत्र तदेवं पट्टमण्डलम् । प्रसार्य विधिनाराध्य समावाह्य समर्चयत् ॥ ८.२१० ॥ एवं प्रसार्य पट्टेस्मिन् संपूजिते यथाविधि । सुवृष्टिरत्र युष्माभिः संभर्त्तव्या जगद्धिते ॥ ८.२११ ॥ इति संप्रार्थिते तेन शान्तश्रिया निशम्यते । सर्वनागाधिपास्तस्मै तथेति प्रतिशुश्रुवुः ॥ ८.२१२ ॥ ततः स मन्त्रवित्प्राज्ञः सर्वनागाधिपाज्ञया । लिखित्वा मण्डलं पट्टे प्रतिष्ठाप्य यथाविधि ॥ ८.२१३ ॥ पश्चात्कालेऽत्र दुर्वृष्टिवृत्ते सुवृष्टिसाधने । नागपुरेऽत्र संस्थाप्य निर्दग्ध संप्रगोपितम् ॥ ८.२१४ ॥ ततो वज्री स आचार्यः सर्वान् स्तान् भुजगाधिपान् । संप्रार्थ्य विनयं कृत्वा विससर्ज्ज विनोदयन् ॥ ८.२१५ ॥ ततः सर्वेऽपि ते नागराजाः स्वस्वालयं गताः । मेघमालां समुत्थाप्य सर्वत्र समवर्षयन् ॥ ८.२१६ ॥ तदा सुवृष्टिसंचाराद्दुर्भिक्षं विलयं ययौ । सुभिक्षमंगलोत्साहं प्रावर्त्तत समन्ततः ॥ ८.२१७ ॥ तदा सर्वेऽपि लोकास्ते महानन्दप्रमोदितः । त्रिरत्नभजनं कृत्वा प्राचरन्त सदा शुभे ॥ ८.२१८ ॥ ततः स नृपति राजा दृष्टसत्यः प्रसादितः । शान्तिश्रियं तमाचार्यं समभ्यर्च्य यथाविधि ॥ ८.२१९ ॥ नत्वाष्टाङ्गैः प्रसन्नात्मा कृत्वा प्रदक्षिणानि च । कृताञ्जलिपुटः पश्यन् प्रार्थयच्चैवमादरात् ॥ ८.२२० ॥ भो भगवन्महाचार्य भवद्धर्म्मानुभावतः । सर्वोत्पातं शमीभूत सुवृष्टिः संप्रवर्त्तते ॥ ८.२२१ ॥ तदत्र सर्वदा नूनं निरुत्पातं समन्ततः । धर्मश्रीमंगलोत्साहं भवदेव निरन्तरम् ॥ ८.२२२ ॥ एवं सदा कृपा दृष्टया संपश्यन् विषये मम । निरुत्पातं शुभोत्साहं कर्तुमर्हति सर्वथा ॥ ८.२२३ ॥ साम्प्रतं सफलं जन्म संसारजीवितं च मे । यल्लोकाश्च सुखीभूताः संचरन्त सदा शुभे ॥ ८.२२४ ॥ तदहं साम्प्रतं शास्तर्भवदाज्ञां शिरावहन् । स्वराज्याश्रममाश्रित्य चरेयं पालयञ्जगत् ॥ ८.२२५ ॥ तन्मेनुग्रहमाधाय कृपया संप्रसादितः । संबोधिसाधने चित्तं स स्थितिं कर्त्तुमर्हति ॥ ८.२२६ ॥ इति विज्ञप्य भूपालस्त स्य शास्तुः पदाम्बुजे । नत्वानुज्ञां समासाद्य महोत्साहैः पुरं ययौ ॥ ८.२२७ ॥ तत्र स नृप आश्रित्य समन्त्रि सचिवो मुदा । बोधिचर्याव्रतं धृत्वा तस्थौ कुर्वन् सदा शुभम् ॥ ८.२२८ ॥ इति स्वयम्भू चैत्याश्रमनामसाधनसुवृष्टिचारणो नामाष्टमोऽध्यायः । नवम अध्यायः श्रीमहाचार्य शान्तिकरगुणसंसिद्धिमहात्म्यानुभाव प्रकथनप्रवर्तनो नाम अथ मैत्रेय आलोक्य समुत्थाय कृताञ्जलिः । भगवन्तं तमानम्य प्रार्थयच्चैवमादरात् ॥ ९.१ ॥ कदा शान्तिकरं नाम तस्याभवत्कथं पुनः । तद्धेतुं श्रोतुमिच्छामि समुपादेष्टुमर्हति ॥ ९.२ ॥ इति संप्रार्थिते तेन मैत्रेयेण स सर्ववित् । भगवास्तं महासत्त्वं सम्पश्यन्नेवमादिशत् ॥ ९.३ ॥ शृणु मैत्रेय वक्ष्यामि शान्तश्रियां महद्गुणम् । सद्धर्म्मसाधनोत्साहं भद्रश्रीसद्गुर्णार्थदम् ॥ ९.४ ॥ योऽसौ राजा महासत्त्वः सधर्म्मगुणलालसः । त्यक्त्वा कामसुखं राज्यं तीर्थयात्रामुपाचरत् ॥ ९.५ ॥ स सर्वेष्वपि तीर्थेषु स्नात्वा दानं विधाय च । त्रिसमाधिसमाचारः संचर पोषधं व्रतम् ॥ ९.६ ॥ एवं सर्वेषु पीठेषु भ्रमन् सद्धर्म्ममानसः । योगचर्याव्रतं धृत्वा प्रचचार समाहितः ॥ ९.७ ॥ पुण्यक्षेत्रेषु सर्वेषु भ्रमन्नैवमिहागताः । दृष्ट्वैमं मण्डलं रम्ये विस्मितं समुपाययौ ॥ ९.८ ॥ अत्रैमं दूरतो दृष्ट्वा धर्म्मधातुं जिनालयम् । मुदाष्टाङ्गैः प्रणत्वाशुः संद्रष्टुं समुपाययौ ॥ ९.९ ॥ समेत्य संमहासत्त्वा ज्योतीरूपं जिनालयम् । धर्म्मधातुमिमं दृष्ट्वा प्रणत्वा समुपाश्रयत् ॥ ९.१० ॥ ततः समुदितो राजा नेपालेऽत्र मनोरमे । सर्वत्रापि च संद्रष्टुं प्रचचार विलोकयन् ॥ ९.११ ॥ तेषु सर्वेषु तीर्थेषु स्नात्वा दत्वा यथेप्सितम् । यथाविधि समाधाय व्रतं चर समाहितः ॥ ९.१२ ॥ ततोष्टौ वीतरागांश्च दृष्ट्वा स संप्रमोदितः । यथाविधि समाराध्य समभ्यर्च्य सदाभजन् ॥ ९.१३ ॥ ततश्चासौ महादेवी खगाननां महेश्वरीम् । यथाविधि समाराध्य समभ्यर्च्याभजन्मुदा ॥ ९.१४ ॥ ततो मञ्जुश्रियश्चैत्यं समीक्ष्य स प्रमोदितः । यथाविधि समभ्यर्च्य प्राभजत्समुपस्थितः ॥ ९.१५ ॥ ततः श्चैतत्महत्पुण्यैः शान्तिश्रीशुभितेन्द्रियः । प्रवज्या संवरं धृत्वा ब्रह्मचारी बभूव सः ॥ ९.१६ ॥ यत्तस्य सुप्रशान्तश्रीशोभितानीन्द्रियानि षट् । तं ननाम प्रसिद्धं च शान्तश्रीरित्यभूद्यतः ॥ ९.१७ ॥ ततोऽसौ सत्मतिर्विज्ञो बोधिसत्त्वो जगद्धिते । वज्रचर्याव्रतं गृहय प्रचचार समाहितः ॥ ९.१८ ॥ ततश्च शिलयाछाद्य धर्म्मधातुंमिमं जिनम् । इष्टिकाभिर्महत्स्तूपं विधाय समगोपयत् ॥ ९.१९ ॥ ततः पञ्चपुरेष्वत्र स्थापिता पञ्च देवताः । मञ्जुश्रीयामिदं चैत्यमनेन च महत्कृतम् ॥ ९.२० ॥ एवं कृत्वात्र कार्याणि सर्वाणि स महामतिः । बोधिसत्त्वा महाभिज्ञः प्रचचार जगद्धिते ॥ ९.२१ ॥ ततश्चात्र महत्पातं शमीकृत्य समंततः । भद्रश्रीमङ्गलोत्साहं न शान्तश्रीःस्सदा व्यधात् ॥ ९.२२ ॥ ततश्चासौ महाभिज्ञो दुर्वृष्टि परिवर्त्तते । नागराजान् समाराध्य सुवृष्टि समचारयत् ॥ ९.२३ ॥ एवं स त्रिगुणाभिज्ञां महोत्पात प्रशान्तिकृत् । शुभंकर सदा तेन शान्तिकरे इति स्मृतः ॥ ९.२४ ॥ ईदृग्मन्त्री महाभिज्ञो वज्राचार्या महामतिः । समृद्धिसिद्धिसंपन्ना न भूता न भविष्यति ॥ ९.२५ ॥ एवं विधाय सर्वत्र निरुत्पातं शुभोत्सवम् । बोधिसत्त्व स शान्तश्रीस्त्रैलोक्यमहितोभवत् ॥ ९.२६ ॥ एवमस्य महत्पुण्यं भद्रश्रीगुणसाधनम् । विज्ञाय शरणं गत्वा सवितव्यं शुभार्थिभिः ॥ ९.२७ ॥ यद्यस्य शरणं गत्वा श्रद्धया समुपाश्रिताः । यथाविधि समाराध्य भजेयुः सर्वदा मुदा ॥ ९.२८ ॥ ते सर्वे विमलत्मानो निःक्लेशा विजितेन्द्रियाः । भद्रश्रीगुणसंपत्तिं सर्द्धिसिद्धिं समाययुः ॥ ९.२९ ॥ ये च तस्य सदा स्मृत्वा ध्यात्वापि च समाहिताः । नामापि च समुच्चार्य भजेयुः श्रद्धया सदा ॥ ९.३० ॥ तेऽपि सर्वे विकल्माषाः परिशुद्धत्रिमण्डलाः । तद्गुणश्रीसमापन्ना भवेयु बोधिचारिणः ॥ ९.३१ ॥ इत्येवं तत्महत्पुण्यं विज्ञाय तद्गुणार्थिनः । तस्यैव शरणं गत्वा भजन्तु ते सदा मुदा ॥ ९.३२ ॥ इत्यादिष्टं मुनीन्द्रेण सर्वेऽपि ते सभाश्रिताः । लोकास्तथेति विज्ञप्य प्राभ्यनन्दन् प्रबोधिताः ॥ ९.३३ ॥ एवमसौ महासत्त्वो भद्रश्रीसद्गुणार्थभृत् ॥ सर्वसत्त्वहितं कृत्वा संतस्थे सुचिरं तथा ॥ ९.३४ ॥ ततः काले गते राजा वृद्धोभिजीर्ण्णितेन्द्रियः । निःक्लेशो विरताभागो ध्यात्वैव समचिन्तयत् ॥ ९.३५ ॥ अहं वृद्धोतिजीर्ण्णाङ्गः स्थास्याम्येवं कियाच्चरम् । अवश्यं दैवयोगेण यास्यामि मरणं ध्रुवम् ॥ ९.३६ ॥ तदत्राहं स्वपुत्राय यूने लोकानुपालने । साभिषेकमिदं राज्यं दातुमर्हामि साम्प्रतम् ॥ ९.३७ ॥ इति ध्यात्वा स भूपालो नरेन्द्रदेवमात्मजम् । अभिषिंच्य नृपं कृत्वा बोधयन्नेवमंन्वशात् ॥ ९.३८ ॥ राजन् पुत्र समाधाय धर्मनीत्या समाचरन् । त्रिरत्नभजनं कृत्वा संचरस्व सदा शुभे ॥ ९.३९ ॥ अद्यारभ्यासि सर्वेषां लोकानामधिपः प्रभुः । सर्वधर्मानुशास्ता च सर्वसत्त्वहितार्थभृत् ॥ ९.४० ॥ तदत्र सकलान् लोकान् धर्मनीत्यानुपालयन् । त्रिरत्नभजनं कृत्वा संचरंस्व सदा शुभे ॥ ९.४१ ॥ इत्यनुशास्य तन्पुत्रं पिता स भवनिस्पृहः । सर्वपरिग्रहान्स्त्यक्त्वा वनप्रस्थसमाश्रयन् ॥ ९.४२ ॥ तत्रस्थासौ महाभिज्ञः परिशुद्धित्रिमण्डलः । समाधिनिहितः स्वान्तः ससंचरे बह्मसंबरम् ॥ ९.४३ ॥ ततः काले गते मृत्युसमये स समाहितः । त्रिरत्नं स स्मरंस्त्यक्त्वा देहं ययौ सुखावतीम् ॥ ९.४४ ॥ ततः स नृपती राजा नरेन्द्रदेव इन्द्रवत् । संबोधयन् प्रयत्नेन सर्वान् लोकानपालयत् ॥ ९.४५ ॥ सोऽपि राजा विशुद्धात्मा सद्धर्म्मगुणलालसः । शान्तिकरं तमाचार्य समेत्य शरणं ययौ ॥ ९.४६ ॥ तत्र स समुपाश्रित्य शास्तुराज्ञां शिरोवहन् । त्रिरत्नभजनं कृत्वा प्राचरत्सर्वदा शुभे ॥ ९.४७ ॥ सदा सर्वेषु तीर्थेषु स्नानं कृत्वा यथाविधि । पित्रेभ्यः प्रददौ पिण्डंमर्थिभ्योऽपि यथेप्सितम् ॥ ९.४८ ॥ तथाष्टौ वीतरागांश्च क्षत्रलोकाधिपामपि । यथाविधि समाराध्य समार्चयत्स पर्वसुः ॥ ९.४९ ॥ तथा च श्रीमहादेवीं खगाननां यथाविधि । समाराध्य समभ्यर्च्य महोत्साहैर्मुदाभजत् ॥ ९.५० ॥ तथा मञ्जुश्रीयश्चैत्ये पृच्छाग्रेस्मिन्नुपाश्रयत् । यथाविधि समाराध्य समभ्यर्च्याभजत्सदा ॥ ९.५१ ॥ तथा वायुपुरे वायुदेवताः सगणा अपि । यथाविधि समाराध्य समभ्यर्च्याभजत्सदा ॥ ९.५२ ॥ तथा वह्निपुरे वह्निदेवताः सगणा अपि । यथाविधि समाराध्य समभ्यर्च्याभजत्सदा ॥ ९.५३ ॥ तथा नागपुरे नागदेवताः सगणा अपि । यथाविधि समाराध्य समभ्यर्च्याभजत्सदा ॥ ९.५४ ॥ तथा वसुपुरे देवीं वसुधारां समण्डलाम् । यथाविधि समाराध्य समभ्यर्च्या सदाभजत् ॥ ९.५५ ॥ तथा शान्तिपुरे श्रीमत्सम्बरं सगणं जिनम् । यथाविधि समाराध्य समभ्यर्च्या सदाभजत् ॥ ९.५६ ॥ तथा तस्य धर्मधातोः स नरेन्द्रः समुपाश्रितः । यथाविधि समाराध्य प्राभजन् सर्वदार्चयन् ॥ ९.५७ ॥ एवं स नृपती राजा सद्धर्मगुणलालसः । त्रिरत्नभजनं कृत्वा संप्राचरत्सदा शुभे ॥ ९.५८ ॥ एवं स नृप एतेषु तीर्थयात्रादिकर्मसु । बोधयित्वा प्रयत्नेन सर्वान् लोकान् यया जयत् ॥ ९.५९ ॥ तथा सर्वेऽपि ते लोका धृत्वा नृपानुशासनम् । एतेषु तीर्थयात्रादिकर्मसु संप्रचेरिरे ॥ ९.६० ॥ तथाष्टौ वीतरागांश्च देवीं खगाननामपि । पञ्चैता देवताश्चापि चैत्यं मञ्जुश्रियोऽपि च ॥ ९.६१ ॥ जगदीशं जगन्नाथं धर्मधातुं जिनालयम् । यथाविधि समभ्यर्च्य प्राभजन्त सदा मुदा ॥ ९.६२ ॥ एतद्धर्मानुभावेन सर्वदात्र सुमङ्गलम् । निरुत्पातं महोत्साहं प्रावर्त्तत समन्ततः ॥ ९.६३ ॥ एवं स नृपती राजा नरेन्द्र देव आत्मनः । बोधिचर्याः व्रतं धृत्वा संप्रचर जगद्धिते ॥ ९.६४ ॥ परानपि तथा सर्वान् लोकान् यत्नेन बोधयन् । बोधिमार्गे समायुज्य प्राचारयज्जगद्धिते ॥ ९.६५ ॥ एवं स इन्द्रवद्राज बोधिसत्त्वा जगत्प्रभुः । सर्वसत्त्वहितं कृत्वा तस्थौ चिरं शुभे रमन् ॥ ९.६६ ॥ ततः श्रीमान् स आचार्यः शान्तिकरो महर्द्धिकः । कृतकृत्यः प्रवृद्धोऽपि निर्वातुं नाभिवांछति ॥ ९.६७ ॥ सर्वसत्त्वहिताकांक्षी शान्तिपुराग्रताधसि । ध्यानागारे महोद्दारे याजनैक प्रमाणिके ॥ ९.६८ ॥ आरोप्य श्रीमहोज्वाले चिन्तामणि महाध्वजम् । स प्राज्ञः स महासत्त्वो बोधिसत्त्वा जिनात्मजः ॥ ९.६९ ॥ समाधिधारणीविद्यायोगध्यानसमाहितः । सम्बोधिप्रणिधिं धृत्वा तस्थौ निश्चरमानसः ॥ ९.७० ॥ यदा सद्धर्म्महीणेऽत्र लोकपंच कषायिते । तदोत्थाय समाधेः स सद्धर्म्म देशयिष्यति ॥ ९.७१ ॥ यदा यदात्र सत्मित्रः शास्त्रा विद्याधिपा न हि । तदा तदा न सन्मित्रः शास्त्राविद्याधिपोभवन् ॥ ९.७२ ॥ सर्वान्लोकान् प्रयत्नेन निवार्य पापमार्गतः । बोधिमार्गे प्रतिष्ठाप्य चारयिष्यति सद्धर्मे ॥ ९.७३ ॥ एवं ध्यात्वा स आचार्यः शान्तिकरः समाधिभृत् । सर्वसत्त्वहितार्थेन तस्थौ योगसमाहितः ॥ ९.७४ ॥ एवं स त्रिगुणाचार्यः सर्वसत्त्वहितार्थभृत् । बोधिसत्त्वमहाभिज्ञ तिष्ठ तत्र जगद्धित ॥ ९.७५ ॥ ये तस्य शरणं गत्वा स्मृत्वा ध्यात्वा समादरात् । नामापि च समुच्चार्यं भजन्ति श्रद्धया सदा ॥ ९.७६ ॥ तेऽपि सर्वे महाभिज्ञा बोधिसत्त्वा विचक्षणाः । भद्रश्रीगुणसंपन्ना भविष्यन्ति सदा भवे ॥ ९.७७ ॥ ततस्ते विमलात्मानश्चतुर्ब्रह्मविहारिणः । बोधिचर्याव्रतं धृत्वा चरिष्यन्ति जगद्धिते ॥ ९.७८ ॥ ततस्ते बोधिसंभारं पूरयित्वा यथाक्रमम् । अर्हन्तो बोधिमासाद्य प्राप्स्यन्ति सौगतं पदम् ॥ ९.७९ ॥ ये च तद्गुणमाहात्म्यं शृण्वन्ति श्रद्धया मुदा । तेऽपि तद्गुण संपत्ति संसिद्धिं समवाप्नुयुः ॥ ९.८० ॥ इति विज्ञाय वाञ्छन्ति यस्तस्य गुणसंपद । ते सद्गुणमाहात्म्यं श्रोतुमर्हति सादरम् ॥ ९.८१ ॥ इत्यादिष्टं मुणीन्द्रेन श्रुत्वा सर्वसभाश्रिताः । लोकास्तथेति संश्रुत्य प्राभ्यनन्दन् प्रबोधिताः ॥ ९.८२ ॥ इति श्रीमहाचार्यशान्तिकरगुणसंसिद्धिमाहात्म्यानुभावप्रकथनप्रवृत्तो नामाध्याय नवमः । दशम अध्यायः श्री धर्म्मधातुस्वयम्भूत्पत्तिधर्म्ममाहात्म्यसुभाषितसूत्रं नाम अथासौ भगवान् भूयो मैत्रेयं तं महामतिम् । समालोक्य सभां चापि समामन्त्र्यैवमादिशत् ॥ १०.१ ॥ शृणु मैत्रेय वक्ष्यामि मञ्जुश्रियो जगद्गुरोः । सद्धर्मगुणमाहात्म्यं संबोधिज्ञानदायकम् ॥ १०.२ ॥ यदियं भिक्षुणी चूडा सुशीला ब्रह्मचारिणी । इदं मञ्जुश्रियं श्चैत्यं श्रद्धया समुपाश्रिता ॥ १०.३ ॥ शुद्धोत्पलस्रजो नित्यं समभ्यर्च्य यथाविधि । स्मृत्वा ध्यात्वा समाराध्य सभक्त्या श्रद्धया सदा ॥ १०.४ ॥ आद्यां चले चुले वन्दे स्वाहेति नवमाक्षरम् । धारणी परमाविद्यां पठन्ती भजने सदा ॥ १०.५ ॥ एतन्पुण्यानुभावेन चूण्डेयं भिक्षुणी सती । पञ्चाभिज्ञावती वर्षैर्द्वादशभिर्भवेद्ध्रुवम् ॥ १०.६ ॥ ततश्चेयं महाभिज्ञा श्रीसमृद्धिगुणाश्रया । सर्वसत्त्वहितं कृत्वा प्रचरेद्बोधिसंवरम् ॥ १०.७ ॥ ततोऽर्हन्ती महाप्राज्ञा परिशुद्धत्रिमण्डला । त्रिविधां बोधिमासाद्य संबुद्धपदमाप्स्यति ॥ १०.८ ॥ एवमन्येपि लोकाश्च चैत्यमञ्जुश्रियो त्रये । पठन्ती धारणीमेनां भजन्ति श्रद्धया सदा ॥ १०.९ ॥ तेऽपि सर्वे विकल्माषाः परिशुद्धत्रिमण्डलाः । भद्रश्रीसद्गुणाधारा बोधिसत्त्वा जितेन्द्रियाः ॥ १०.१० ॥ पञ्चाभिज्ञपदप्राप्ताश्चतुर्ब्रह्मविहारिणः । सर्वसत्त्वहिताधारा चरेयुर्बोधिसम्बरम् ॥ १०.११ ॥ ततस्ते बोधिसंभारं पूरयित्वा यथाक्रमम् । जित्वा मारगणान् सर्वान्निःक्लेशा विमलेन्द्रियाः ॥ १०.१२ ॥ अर्हन्तोऽपि महाभिज्ञाः संबोधिसाधनारताः । त्रिविधां बोधिमासाद्य संबुद्धपदमाप्नुयुः ॥ १०.१३ ॥ यूयमपिति मत्वात्र चैत्यमञ्जुश्रियस्तथा । पठन्तो धारणीमेनां भजध्वं बोधिमानसाः ॥ १०.१४ ॥ एतत्पुण्याभिलिप्ता हि परिशुद्धत्रिमण्डलाः । यूयमपि तथा सर्वे भवेत सुगतात्मजाः ॥ १०.१५ ॥ बोधिसत्त्वा भद्रश्रीसद्गुणाश्रयाः । महाभिज्ञा जगन्नाथा भवेत भद्रचारिणः ॥ १०.१६ ॥ ततः संबोधिसंभारं पूरयित्वा यथाक्रमम् । जित्वा मारगणान् सर्वाश्चतुर्ब्रह्मविहारिणः ॥ १०.१७ ॥ अर्हन्तस्त्रिविधां बोधिं प्राप्य बुद्धा भविष्यथ । इति सत्यं परिज्ञाय यदि संबोधिमिच्छथ ॥ १०.१८ ॥ अस्मिन्मञ्जुश्रियश्चैत्यं भजध्वं सर्वदा मुदा । इत्यादिष्टं मुनीन्द्रेण निशम्य ते ससांधिकाः ॥ १०.१९ ॥ सर्वलोकास्तथेत्युक्त्वा प्राभ्यनन्दत्प्रबोधिताः । ततः सर्वेऽपि ते लोका ब्रह्माशक्रादयोऽमराः ॥ १०.२० ॥ सर्वे लोकाधिपाश्चापि सार्द्धं परिजनैर्मुदा । भगवन्तं मुनीन्द्रं तं ससंघ संप्रसादिताः ॥ १०.२१ ॥ नत्वा प्रदक्षिणी कृत्वा स्वस्वालयं मुदा ययुः । सर्वे मर्त्या नृपाद्याश्च समन्त्रिजनपौरिकाः ॥ १०.२२ ॥ ससांधिकं मुनीन्द्रं तं नत्वा स्वस्वालयं ययुः । हारीति यक्षिणीशापि सात्मजा बौद्धरक्षणी ॥ १०.२३ ॥ त्रिरत्नभजनं कृत्वा धर्मधातोरूपाश्रयत् । ततः स भगवांश्चापि समुत्थाय ससांधिकः ॥ १०.२४ ॥ प्रभासयञ्जगद्भासा जटोद्यानाश्रमे ययौ । तत्र स त्रिजगन्नाथो विहारे सहसांधिकैः ॥ १०.२५ ॥ सद्धर्म्मसमुपादिश्य विजहार जगद्धिते । इति ते गुरुणादिष्टं श्रुतं मया तथोच्यते ॥ १०.२६ ॥ श्रुत्वाप्येतन्महाराजा श्रद्धयाभ्यनुमोदय । इति शास्त्रार्हतादिष्टं निशम्य स नराधिपः ॥ १०.२७ ॥ प्रसादितस्तमर्हन्त नत्वा प्राहैवमादरात् । भदन्तोहं समिच्छामि संद्रष्टुं तं स्वयंभुवम् ॥ १०.२८ ॥ तन्नैपाले प्रगच्छामि तदनुज्ञां प्रदेहि मे । इति संप्रार्थितं राज्ञा श्रुत्वा सोर्हन्यतिर्मुदा ॥ १०.२९ ॥ नृपतिं तं महासत्त्वं संपश्यन्नेवमादिश्यत् । साधु राजन् समिच्छा ते यद्यस्ति तं स्वयम्भुवम् ॥ १०.३० ॥ द्रष्टुं गच्छ समाराध्य भज श्रद्धासमन्वितः । सर्वतीर्थेषु च स्नात्वा दत्वा दानं यथेप्सितम् ॥ १०.३१ ॥ वीतरागां समाराध्य समभ्यर्च्यभिजादरात् । धर्मोदयां महादेवीं खगाननां जिनेश्वरीम् ॥ १०.३२ ॥ श्रद्धया समुपाश्रित्य समभ्यर्च्य भजादरात् । पञ्चपुरास्थिताः पञ्च देवताश्च यथाविधि ॥ १०.३३ ॥ समाराध्य समभ्यर्च्य भज भक्त्या समादरात् । मञ्जुदेवस्य चैत्यं च समालोक्य यथाविधि ॥ १०.३४ ॥ समाराध्य समभ्यर्च्य भजेनां धारणीं पठन् । आचार्य च गुहासीनं समाधिध्यानसंस्थितम् ॥ १०.३५ ॥ ध्यात्वाराध्य समभ्यर्च्य नत्वा भज समादरात् । एवमन्यान्महासत्त्वान् धर्म्मधातोरूपासकान् ॥ १०.३६ ॥ सर्वानपि समाराध्य समभ्यर्च्य प्रणामय । एतत्पुण्यविशुद्धात्मा भद्रश्री सद्गुणाश्रयः ॥ १०.३७ ॥ बोधिसत्त्वा महासत्त्वा जगद्भर्त्ता भवेदपि । ततः संबोधिसंभारं पूरयित्वा यथाक्रमम् ॥ १०.३८ ॥ अर्हन्संबोधिमासाद्य संबुद्धपदमाप्स्यसि । इति सत्यं परिज्ञाय संबोधि यदि वाञ्छसि ॥ १०.३९ ॥ गत्वा तत्र महोत्साहैर्धर्म्मधातुं विलोक्य तम् । यथाविधि समाराध्य भजस्व समुपाश्रितः ॥ १०.४० ॥ गच्छ ते मङ्गलं भुयात्सिध्यतु ते समीहितम् । यथेच्छया समालोक्य समायाहि प्रमोदितः ॥ १०.४१ ॥ इति शास्त्रा समादिष्टं श्रुत्वा स नृपतिर्मुदा । तं गुरुं साञ्जलिर्नत्वा प्राप्यानुज्ञामनन्दतः ॥ १०.४२ ॥ ततः स नृपती राजा समन्त्रिजनपौरिकाः । राजर्द्धि मंगलोत्साहैः संप्रस्थितो मुदाचरत् ॥ १०.४३ ॥ तत्र मार्गे स राजेन्द्रः सर्वान् लोकान् प्रसादयन् । महोत्साहैश्चरन्नाशु नैपालं समुपाययौ ॥ १०.४४ ॥ तत्र प्राप्तः समालोक्य दूरात्तं श्रीस्वयंम्भुवम् । साञ्जलि प्रणतिं कृत्वा प्रमनाः सहसा चरेत् ॥ १०.४५ ॥ तत्र सर्वत्र संवीक्ष्य शुभोत्साहप्रवर्त्तितम् । विस्मयानन्दितान्सा स नृपतिः समुपासरेत् ॥ १०.४६ ॥ तत्र सर्वेषु तीर्थेषु क्रमेण स नराधिपः । स्नात्वार्थिभ्यो यथाकामं ददौ दानं चरन् व्रतम् ॥ १०.४७ ॥ ततोऽष्टौ वीतरागान् स नृपतिर्वीक्ष्य हर्षितः । यथाविधि समाराध्य भजत्यर्च्य यथाविधि ॥ १०.४८ ॥ ततो मुदाचरन् वीक्ष्य धर्म्मधातुं जिनालयम् । यथाविधि समाराध्य समभ्यर्च्याभजन् क्रमात् ॥ १०.४९ ॥ ततो वायुपुरे वायुदेवतां सगणां मुदा । यथाविधि समाराध्य समभ्यच्यनितोभजत ॥ १०.५० ॥ ततश्चाग्निपुरे वह्निदेवताः सगणामपि । यथाविधि समाराध्य संपूज्याभजदादरात् ॥ १०.५१ ॥ ततो नागपुरे नागदेवताःसगणा अपि । यथाविधि समाराध्य समभ्यर्च्या मुदाभजत् ॥ १०.५२ ॥ ततो वसुपुरे देवीं सगणां श्रीवसुन्धराम् । यथाविधि समाराध्य भजत्यर्च्य समादरात् ॥ १०.५३ ॥ ततः शान्तिपुरे श्रीमत्सम्बरं सगणं तथा । यथाविधि समाराध्य समभ्यर्च्य मुदाभजत् ॥ १०.५४ ॥ ततः शान्तिकराचार्य समाधिध्यानसंस्थितम् । ध्यात्वाराध्य समभ्यर्च्य प्राभजन् संप्रमोदितः ॥ १०.५५ ॥ ततो धर्म्मोदया देवी खगाननां महेश्वरीम् । यथाविधि समाराध्य समभ्यर्च्य मुदाभजत् ॥ १०.५६ ॥ सम्बुद्धं पुण्डरीकाक्षं सर्वज्ञ करुणास्पदम् । समन्तभद्रशास्तारं शाक्यसिंहं नमाम्यहम् ॥ १०.५७ ॥ श्रीघनं श्रीमतिं श्रेष्ठं शीलराशिं शिवकरम् । श्रीमन्तं श्रीकरं शान्तं शान्तिमूर्ति नमाम्यहम् ॥ १०.५८ ॥ नैरात्मवादिनं सिंहं निरवद्यं निराश्रवम् । नीतिज्ञं निर्मलात्मानं निष्कलंकं नमाम्यहम् ॥ १०.५९ ॥ निर्द्वन्द्वं निरहंकारं निर्विकल्पं तथागतम् । निर्द्धूतनिखिलक्लेशं निष्प्रपंचं नमाम्यहम् ॥ १०.६० ॥ विश्वेश्वरं विशेषोऽहं विश्वरूपं विनायकम् । विश्वलक्षणसंपूर्ण्ण वीतरागं नमाम्यहम् ॥ १०.६१ ॥ विधावरेण संपन्नं विश्वेशम्विमलप्रभम् । विनीतवेगं विमलं वीतमोहं नमाम्यहम् ॥ १०.६२ ॥ दुदन्तिदमकं शान्तं शुद्धं पञ्चजिनालयम् । सुगतिं सुश्रुतं सौम्यं शुभ्रकीर्त्ति नमाम्यहम् ॥ १०.६३ ॥ योगीश्वरं दशबलं लोकज्ञं लोकपूजितम् । लोकाचार्य लोकमूर्तिं लोकानाथं नमाम्यहम् ॥ १०.६४ ॥ कलंकमुक्तिं कामारिं सकलैकं कलाधरम् । कान्तमूर्ति दयापात्रं कनकाभं नमाम्यहम् ॥ १०.६५ ॥ ततो मञ्जुश्रियश्चैत्यं धर्मधातुमुपाश्रयन् । यथाविधि समाराध्य समभ्यर्च्यानतोभजत् ॥ १०.६६ ॥ ततो मुदा चरन् वीक्ष्य धर्मधातुं जिनालयम् । यथाविधि समाराध्य समभ्यर्च्याभजन्मुदा ॥ १०.६७ ॥ भक्त्या परमयास्तौषीजिनालयं स्वयंभुवम् । ज्योतीरूपाय चैतन्यं रूपाय भवते नमः ॥ १०.६८ ॥ मुरादिनिधनाय श्रीदात्रे प्रणवरुपिणे । विश्वतोमुखरुपाय भक्तवत्सल ते नमः ॥ १०.६९ ॥ पृथ्व्यादिभूतनिर्मात्रे जगद्वंद्यायते नमः । जगत्स्रष्टे जगत्पात्रे जगद्धर्त्रे नमो नमः ॥ १०.७० ॥ ध्यानगम्याय ध्येयाय चर्तुवर्गप्रदायिने । एवं स्तुत्वा अशोकः स पुनः क्षमापनं व्यधात् ॥ १०.७१ ॥ एवं स नृपतिः सर्वान् धर्मधातोरुपासकान् । महासत्त्वान् समभ्यर्च्य सत्कृत्य समतोषयत् ॥ १०.७२ ॥ एवं स नृपराजः श्री धर्मधतोरूपाश्रितः । त्रिरत्नभजनं कृत्वा प्राचरद्बोधिसम्बरम् ॥ १०.७३ ॥ ततः स नन्दितो राजा समन्त्रिजनपौरिकः । नत्वा प्रदक्षिणीकृत्य धर्म्मधातुं मुदाचरत् ॥ १०.७४ ॥ ततश्चरन् स भूमीन्द्रो महोत्साहैः प्रमोदितः । सहसा पुरमासाद्य विहार समुपाचरत् ॥ १०.७५ ॥ तत्रोपेत्य तमर्हन्तमुपगुप्तससांधिकम् । समीक्ष्य सञ्जलिर्नत्वा सभैकान्तं समाश्रयत् ॥ १०.७६ ॥ तं समायातमालोक्य सोऽर्हे शास्ता प्रसन्नदृक् । स्वागतं कुशलं कच्चिन्नृपतिं पर्यपृच्छत ॥ १०.७७ ॥ तच्छुत्वा स महीपालः शास्तारं तं कृताञ्जलिः । प्रणत्वा सुप्रसन्नास्यः संपश्यन्नेवमब्रवीत् ॥ १०.७८ ॥ समागतोस्म्यहं शास्तर्भवत्कृपानुभावतः । कुशलं मे कथं न स्यात्सर्वत्रापि सदापि हि ॥ १०.७९ ॥ भवत्कृपानुभावेन नेपालेऽहं मुदाचरन् । दृष्ट्वा सर्वेषु तीर्थेषु स्नात्वा दानं यथेप्सितम् ॥ १०.८० ॥ तथाष्टौ वीतरागाश्च समालोक्य प्रमादितः । यथाविधि समाराध्य समभ्यर्च्यभिजं क्रमात् ॥ १०.८१ ॥ ततः समीक्ष्य तं श्रीमद्धर्म्मधातुं स्वयंभुवम् । यथाविधि समाराध्य समभ्यर्च्याभजन्मुदा ॥ १०.८२ ॥ ततो वायुपुरे वायुदेवताभ्यर्च्चिता मया । ततश्चाग्निपुरे वह्निर्देवतापि मयार्च्चिता ॥ १०.८३ ॥ तथा नागपुरे नागराजांश्चापि मयार्च्चिता । तथा तथा वसुपुरे देवी वसुन्धरां समर्च्चिता ॥ १०.८४ ॥ ततः शान्तिपुरे श्रीमत्सम्बरश्च समर्च्चितः । ततः शान्तिकराचार्यः समालोक्य मयार्चितः ॥ १०.८५ ॥ देवीं खगाननां चापि समाराध्य समर्चिता । मञ्जुदेवस्य चैत्यं च यथाविधि समर्चितम् ॥ १०.८६ ॥ एवं भदन्त तत्रोपच्छन्दोहे पुण्यभूतले । यथाविधि समाराध्य सर्वदेवा मयार्चिताः ॥ १०.८७ ॥ एतत्पुण्यं मया लब्धं भवत्कृपानुभावतः । तदत्र जन्मसाफल्यं जीवितं चापि मेऽधुना ॥ १०.८८ ॥ तथात्र सर्वदा शास्त धर्मधातुं जिनालयम् । स्मृत्वा नाम समुच्चार्य ध्यात्वा भजेय मा भवम् ॥ १०.८९ ॥ इति राज्ञा समाख्यातं श्रुत्वा सोऽर्ह प्रसादितः । नृपति तं समालोक्य पुनरेवं समादिशत् ॥ १०.९० ॥ धन्योऽसि यत्महाराजधर्मधातुं जिनालयम् । स्मृत्वा ध्यात्वापि संभक्तुंमिच्छसेऽत्र सदा भज ॥ १०.९१ ॥ एतत्पुण्यविशुद्धात्मा भद्रश्रीसद्गुणाश्रयः । बोधिसत्त्वो महासत्त्वः सर्वधर्माधिपो भवेः ॥ १०.९२ ॥ ततः संबोधिसंभारं पूरयित्वा यथाक्रमम् । अर्हन्स्त्रिबोधिमासाद्य ध्रुवं बुद्धपदं लभेः ॥ १०.९३ ॥ समुत्पत्तिकथां तस्य धर्मधातोः स्वयंभुवः । श्रुत्वापि यत्महत्पुण्यं संबोधिसाधनं लभेत् ॥ १०.९४ ॥ इति मत्वा समुत्पत्तिकथां तस्य स्वयंभुवः । सत्कृत्य श्रद्धया मर्त्याः श्रोतुमर्हन्ति सर्वथा ॥ १०.९५ ॥ समुत्पत्तिकथां तस्य धर्मधातोः स्वयंभुवः । शृण्वन्ति ये नरा भक्त्या सत्कृत्य श्रद्धया मुदा ॥ १०.९६ ॥ दुर्गतिं ते न गच्छन्ति कुत्रापि हि कदाचन् । सदा सद्गतिसंजाता भद्रश्रीसद्गुणाश्रयाः ॥ १०.९७ ॥ सर्वसत्त्वहिताधानबोधिचर्याव्रतारताः । महाभिज्ञा जगन्नाथा भवेयुः सुगतात्मजाः ॥ १०.९८ ॥ क्रमेण बोधिसम्भारं पूरयित्वा जगद्धिते । अर्हन्तत्रिविधां बोधिं प्राप्येयुः सौगतं पदम् ॥ १०.९९ ॥ इति मत्वा महाराज श्रोतव्यं श्रद्धयादरात् । स्वयम्भूगुणमाहात्म्यं दुर्ल्लभं बोधिवाञ्छिभिः ॥ १०.१०० ॥ शृण्वन्ति ये नरा भक्त्या सत्कृत्य श्रद्धया मुदा । स्वयंभूगुणमाहात्म्यसद्धर्मश्रीगुणार्थदम् ॥ १०.१०१ ॥ तेऽपि न दुर्गतिं यायुः सदासद्गतिसंगताः । भद्रश्रीसद्गुणाधारा भवेयुर्बोधिलाभिनः ॥ १०.१०२ ॥ तस्मादेतत्महत्पुण्यं श्रुत्वा ध्यात्वा सदादरात् । स्मृत्वा नाम समुच्चार्य संभक्तव्यं स्वयंभुवम् ॥ १०.१०३ ॥ अहमपि पुरा राजन् धर्म्मधातोः स्वयंभुवः । श्रुत्वा सद्गुणसांकथ्यं बभूव संप्रमोदितः ॥ १०.१०४ ॥ ततोऽहं सहसा तत्र नेपाले समुपाचरंत् । स्नात्वा सर्वेषु तीर्थेषु ददौ दानं यथेप्सितम् ॥ १०.१०५ ॥ अष्टौ तान् वीतरागांश्च समाराध्य मयार्चिताः । देवीं खगाननां चापि समाराध्य समर्चिता ॥ १०.१०६ ॥ मञ्जुदेवस्य चैत्यं च समाराध्य समर्चितम् । पञ्च पुरा स्थिता पञ्च देवताश्च समर्चिताः ॥ १०.१०७ ॥ तथा शान्तिकराचार्यः समालोक्य समर्चितः । ततःशरणमाश्रित्य धर्मधातो स्वयंभुवः ॥ १०.१०८ ॥ सत्कृत्य श्रद्धया नित्यं समाराध्य मुदा भजम् । एवं तत्र सदाश्रित्य धर्मधातोरूपासकः ॥ १०.१०९ ॥ त्रिरत्नभजनं कृत्वा प्राचरन् बोधिसंबरम् । एतत्पुण्यविशुद्धात्मा परिशुद्धत्रिमण्डलः ॥ १०.११० ॥ अहं बोधिं समासाद्य जिनात्मजा भवेऽधुना । इति विज्ञाय मानुष्या वाञ्छन्ति ये सुनिर्वृतिम् ॥ १०.१११ ॥ धर्मधातुं समाराध्य भजन्तु ते सदा मुदा । स्मृत्वा ध्यात्वा च नामापि समुच्चार्य समादरात् ॥ १०.११२ ॥ समालोक्य प्रणत्वापि भजन्तु तं जिनालयम् । ये भजन्ति सदा स्मृत्वा ध्यात्वा नत्वा जिनालयम् ॥ १०.११३ ॥ द्रुतं संबोधिमासाद्य संबुद्धपदमाप्नुयुः । इति सत्यं समाख्यातं सर्वैरपि मुनीश्वरैः ॥ १०.११४ ॥ श्रुत्वानुमोद्य तं धर्मधातुं स्मृत्वा भजन्त्वलम् । सुभाषितमिदं येपि श्रुत्वानुमोदिताशयाः ॥ १०.११५ ॥ धर्मधातुमनुस्मृत्वा ध्यात्वा भजन्ति सर्वदा । तेऽपि चैतत्महत्पुण्यपरिशुद्धत्रिमण्डलाः ॥ १०.११६ ॥ भद्रश्रीसद्गुणाधाराश्चतुर्ब्रह्मविहारिणः । बोधिसत्त्वा महासत्त्वा महाभिज्ञाः शुभेन्द्रियाः ॥ १०.११७ ॥ द्रुतं संबोधिमासाद्य संबुद्धपदमाप्नुयुः । इति मे गुरुणादिष्टं श्रुतं मया तथोच्यते ॥ १०.११८ ॥ त्वमपीदं सदा लोका श्रावयित्वानुमोदय । एतत्पुण्यानुभावेन सर्वत्र सर्वदापि ते ॥ १०.११९ ॥ निरुत्पातं शुभोत्साहं भवेन्नूनं नराधिपः । इति तेनार्हतादिष्टं श्रुत्वाशोको नृपो मुदा ॥ १०.१२० ॥ तथेति प्रतिविज्ञप्य प्राभ्यनन्दत्सपार्षदः । ततः सर्वेऽपि ते लोका निशम्यैतत्सुभाषितम् ॥ १०.१२१ ॥ अनुमोद्य महोत्साहैः संचेरिरे शुभे सदा । तदैतत्पुण्यभावेन सर्वत्र तत्र सर्वदा ॥ १०.१२२ ॥ निरुत्पातं शुभोत्साहं प्रावर्त्तत निरन्तरम् । इत्यादिश्य महाभिज्ञो जयश्रीः स महामतिः ॥ १०.१२३ ॥ सर्वान्स्तान् सांधिकान् पश्यन् पुनरेवं समादिशत् । यत्रेदं धर्म्मसांकथ्यं प्रावर्त्तयेत्कलावपि ॥ १०.१२४ ॥ भाषेत्य शृणुयाद्यश्च श्रावयेद्यः प्रचारयेत् । एतेषां तत्र सर्वेषां संबुद्धाः सकलाः सदा ॥ १०.१२५ ॥ कृपा दृष्ट्या समालोक्य प्रकुर्युर्भद्रमाभवम् । सर्वा पारमिता देव्यस्तेषां तत्र सदा शिवम् ॥ १०.१२६ ॥ कृत्वा संबोधिसंभारं पूरयेयुर्यथाक्रमम् । सर्वेऽपि बोधिसत्त्वाश्च प्रत्येकसुगता अपि ॥ १०.१२७ ॥ अर्हन्तो योगिनस्तेषां प्रकुर्युर्मङ्गलं सदा । सर्वे लोकाधिपाश्चापि सर्वे चापि महर्षयः ॥ १०.१२८ ॥ तत्र तेषां हि सर्वेषां कुर्युः समीक्ष्य मङ्गलम् । सर्वे देवाधिपाश्चापि सर्वदैत्याधिपा अपि ॥ १०.१२९ ॥ तथा सर्वेऽपि गन्धर्वाः सर्वयक्षाधिपा अपि । गरुडा नागराजाश्च कुम्भाण्डाधीश्वरा अपि ॥ १०.१३० ॥ समीक्ष्य सर्वदा तेषां रक्षां कुर्युः समन्ततः । सर्वाश्च मातृका देव्यः सभैरवगणा अपि ॥ १०.१३१ ॥ कृत्वा रक्षां सदा तेषां कुर्युर्भद्रं समन्ततः । सर्वे ग्रहाश्च ताराश्च सिद्धा विद्याधरा अपि ॥ १०.१३२ ॥ साध्याश्चापि सदालोक्य तेषां कुर्युः सुमङ्गलम् । भूतप्रेतपिशाचाश्च दुष्टा मारगणा अपि ॥ १०.१३३ ॥ वीक्ष्य तेषां प्रसन्नास्ते रक्षां कुर्युः सदा मुदा । स्वयम्भूगुणमाहात्म्य सांकथ्यं योऽलिखेत्मुदा ॥ १०.१३४ ॥ तेनापि लिखितं सर्व महायानसुभाषितम् । लेखापितं च येनेदं धर्मधातुसुभाषितम् ॥ १०.१३५ ॥ तेनापि सकलं सूत्रं लेखापितं भवेद्ध्रुवम् । लिखितं चापि येचेदं प्रतिष्ठाप्य यथाविधि ॥ १०.१३६ ॥ शुद्धस्थाने गृहे स्थाप्य पूजाङ्गैः सर्वदार्चितम् । तेनार्हन्तो जिनाः सर्वे प्रत्येकसुगता अपि ॥ १०.१३७ ॥ ससंघा बोधिसत्त्वाश्च भवन्ति पूजिताः खलु । यश्चापीदं स्वयं धृत्वा परेभ्योऽपि समादिशत् ॥ १०.१३८ ॥ भावयेत्सततं स्मृत्वा ध्यात्वापि प्रणमेन्मुदा । तस्य सर्वमुनीन्द्रो हि प्रत्येकसुगता अपि ॥ १०.१३९ ॥ अर्हन्तो बोधिसत्त्वाश्च तुष्टा दद्युः समीहितम् । यश्चैतदुपदेष्टारं सर्वाश्च श्रावकानपि ॥ १०.१४० ॥ यथाविधि स समभ्यर्च्य भाजनैः समतोषयेत् । तेन सर्वेऽपि संबुद्धाः प्रत्येकसुगता अपि ॥ १०.१४१ ॥ अर्हन्तो भिक्षवः सर्वे योगिनो ब्रह्मचारिणः । बोधिसत्त्वाश्च सर्वेऽपि व्रतिनो यतयोऽपि च ॥ १०.१४२ ॥ अर्चिता भोजितास्तुष्टा भवेयुरनुमोदिताः । किमेवं वहुनोक्तेन सर्वे बुद्धा मुनीश्वराः ॥ १०.१४३ ॥ सर्वास्ताराश्च देव्योऽपि सर्वसंघा जिनात्मजाः । नित्यं तेषां कृपा दृष्टया समालोक्यानुमोदिताः ॥ १०.१४४ ॥ रक्षां विधाय सर्वत्र वरं दद्युः समीहितम् ॥ १०.१४५ ॥ सर्वे लोकाधिपाश्चापि सर्वे देवा सुराधिपाः । रक्षां कृत्वा वरं दद्युस्तेषां सद्धर्मसाधने ॥ १०.१४६ ॥ राजानोऽपि सदा तेषां रक्षा कृत्वानुमोदिताः । यथाभिवाञ्छितं दत्वा पालयेयुः सदादरात् ॥ १०.१४७ ॥ मन्त्रिणोऽपि सदा तेषां सामात्यसचिवानुगाः । सभृत्यसैन्यभट्टाश्च भवेयुर्हितकारिणः ॥ १०.१४८ ॥ सर्वे वैश्याश्च सर्वार्थभर्त्तारःस्यु सुहृन्प्रियाः । श्रेष्टिमहाजनाः सर्वे भवेयुर्हितकारिणः ॥ १०.१४९ ॥ द्विषोपि दासतां यायुर्दृष्टाश्च स्युर्हिताशयाः । एवमन्येपि लोकाश्च सेर्व्व स्युर्मैत्रमानसाः ॥ १०.१५० ॥ पशवः पक्षिणश्चापि सर्वकीटाश्च जन्तवः । नैव तेषां विरुद्धा स्युः भवेयुर्हितशंसिन ॥ १०.१५१ ॥ एवं सर्वत्र लोकेषु तेषां सद्धर्मसाधिनाम् । निरुत्पातं शुभोत्साहं सौमाङ्गल्यं सदा भवेत् ॥ १०.१५२ ॥ एवं भद्रतरं पुण्यं स्वयभूंभवनोद्भवम् । नत्वा तं त्रिजगन्नाथं भजध्वं सर्वदा मुदा ॥ १०.१५३ ॥ ये तस्य शरणे स्थित्वा स्मृत्वा ध्यात्वा समाहिताः । नामापि च समुच्चार्य भजन्ति श्रद्धया सदा ॥ १०.१५४ ॥ तेषां त्रिन्यपि रत्नानि सुप्रसन्नानि सर्वदा । कृपा दृष्टया समालोक्य कृत्वा देयुः सदा शुभम् ॥ १०.१५५ ॥ इति शास्त्रासमादिष्टं जयश्रिया निशम्यते । जिनेश्वरी प्रमुखाः संघा सर्वे नन्दन्प्रबोधिताः ॥ १०.१५६ ॥ सर्वावती सभा सापि श्रुत्वैतत्संप्रसादिताः । तथेति प्रतिविज्ञप्य प्राभ्यनन्दन् प्रबोधिताः ॥ १०.१५७ ॥ ततस्ते सकला लोकाः समुत्थाय प्रसादिताः । जयश्रिय ससंघं तं नत्वा स्वस्वाश्रमं ययुः ॥ १०.१५८ ॥ तत्र नित्यमुपेत्यत्यर्द्ध्या ससंघः सजिनात्मजा । स्नात्वा सर्वेषु तीर्थेषु धृत्वा व्रतं यथाविधि ॥ १०.१५९ ॥ ततोऽष्टौ वीतरागांश्च देवीं चापि खगाननाम् । पञ्चमा देवताश्चापि यथाविधि समर्च्चयन् ॥ १०.१६० ॥ तथा शान्तिकराचार्य चैत्य मञ्जुश्रियोऽपि च । धर्माधातुं समाराध्य ध्यात्वाभ्यर्च्य सदाभजत् ॥ १०.१६१ ॥ तदैतत्पुण्यभावेन विषये तत्र सर्वदा । निरुत्पातं शुभोत्साहं प्रावर्त्तत समंततः ॥ १०.१६२ ॥ ततश्चासौ महाभिज्ञा जयश्रीः सुगतात्मजः । सर्वान्स्तान् सांधिकान् पश्यन् पुनरेवं समादिशत् ॥ १०.१६३ ॥ यत्रेदं धर्मसांकथ्यं प्रचारितं स्वयंभुवः । तत्रैत्त्पुण्यभावेन भवतु सर्वदा शुभम् ॥ १०.१६४ ॥ संबुद्धास्तत्र सर्वेऽपि प्रत्येकसुगता अपि । अर्हन्तो बोधिसत्त्वाश्च कुर्वन्तु मंङ्गलं सदा ॥ १०.१६५ ॥ सर्वे लोकाधिपाश्चापि सर्वे चापि महर्षयः । समालोक्य सदा तत्र प्रकुर्वन्तु सुमङ्गलम् ॥ १०.१६६ ॥ काले वर्षन्तु मेघाश्च भूयाच्छश्यवती मही । निरुत्पातं सुभिक्ष्यं च भवन्तु तत्र सर्वदा ॥ १०.१६७ ॥ राजा भवतु धार्म्मिष्ठो मन्त्रिणो नीतिचारिणः । सर्वे लोकाःसुवृत्तिष्ठा भवन्तु धर्मसाधिनः ॥ १०.१६८ ॥ सर्वे सत्त्वाः समाचाराः संबोधिविहिताशयाः । त्रिरत्नभजनं कृत्वा संचरन्तां सदा शुभे ॥ १०.१६९ ॥ इति जयश्रियादिष्टं श्रुत्वा सर्वेऽपि सांधिकाः । एवमस्त्विति प्राभाष्य प्राभ्यनन्दन्प्रसादिताः ॥ १०.१७० ॥ इति श्री धर्म्मधातुस्वयम्भूत्पत्तिधर्म्ममाहात्म्यसुभाषितसूत्रं दशम अध्यायः समाप्तः ॥ ये धर्म्मा हेतुप्रभावा हेतु स्तेषां तथागतः ह्यवदत् । तेषां च यो निरोध एवं वादी महाश्रमणः ॥ शुभमस्तु ॥ देयधर्मोऽयं प्रवरमहायायिनः श्रीमत्रुद्रवर्ण्णमहाविहारावस्थितः परमोपासकश्रीशाक्यवंशोद्भवः श्रीरामानन्देन लिखितोऽगमत्संपूर्ण्ण ॥ शुभमस्तु सर्वदाः ॥ नेपाले हायने यातः नागमुनीरसान्वितेः । चाषाढे क्षीनचन्द्रे तु पञ्चम्याञ्च तिथौ शुभे ॥ १ ॥ संपूर्ण्णमगमत्तस्मिं श्रीरामानन्देन लेखितः । यदि शुद्धमशुद्धं वा शोधनीयं दहद्वुधैः ॥ २ ॥ यत्पुण्यलिखिते प्रोक्तं यत्पुण्यपातने तथा । तत्पुण्येन जगत्सर्व प्राप्नुयाद्बोधिमुत्तमाम् ॥ ३ ॥ श्रीरामानन्दया पुस्तक जुरो । शुभम् । उपसर्ग्ग । महरादहराश्चैव शीतरापूटलोक वा । उपसर्ग्गी महामारी सप्तैते लोकहारकः ॥ संवत्९३४ श्रावण शुक्ल ॥ समाप्तम् ॥