नमः श्रीसर्वबुद्धबोधिसत्त्वेभ्यः १: बुद्धो भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजामात्यैर्धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैर्गन्धर्वैः किन्नरैर्महोरगैरिति देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपात्रशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघः श्रावस्त्यां विहरति स्म जेतवनेऽनाथपिण्डदस्यारामे । २: तेन खलु पुनः समयेन श्रावस्त्यामनाथपिण्डदो नाम गृहपतिः प्रतिवसत्याढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी । ३: तेन सदृशात्कुलात्कलत्रमानीतम् । स तया सार्धं क्रीडति रमते परिचारयति । तस्य क्रीडतो रममाणस्य परिचारयतः पत्नी आपन्नसत्त्वा संवृत्ता । साष्टानां नवानां वा मासानामत्ययात्प्रसूता । ४: दारिका जाता, अभिरूपा दर्शनीया प्रासादिका सर्वाङ्गप्रत्यङ्गोपेता सा उन्नीता वर्धिता महती संवृत्ता, ज्ञातिभिरस्याः सुमागधेति नाम व्यवस्थापितम् । ५: पुण्ड्रवर्धनेऽपि च नगरे मूषिलो नाम गृहपतिः प्रतिवसत्याढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी । ६: तस्य पुत्रो वृषभदत्तो नाम, सोऽप्यभिरूपो दर्शनीयः प्रासादिकः सर्वाङ्गप्रत्यङ्गोपेतः, स चान्यतीर्थ्यसंसर्गान्निर्ग्रन्थेष्वभिप्रसन्नोऽभूत् । ७: यदा भगवतानुत्तरे मनुष्यधर्मे ऋद्धिप्रातिहार्यं तदा सर्वेऽन्यतीर्थ्या भग्नाः पराजिताः प्रत्यन्तं समाश्रिताः, केचित्गौडिकं ग्रामं, केचित्पुण्ड्रवर्धनं नगरं, केचित्भद्रिकं नगरम् । ८: स च गृहपतिपुत्रो दैन्येनावतिष्ठते, स च निर्ग्रन्थैरुच्यते: किमर्थं त्वं नो विवाहयसीति । स प्रोवाच: पत्नी मे सदृशी न विद्यते । त ऊचुर्: अनाथपिण्डदस्य दुहिता सुमागधा नामास्ति, सापि अभिरूपा दर्शनीया प्रासादिका जनपदकल्याणीसदृशी, तां प्रार्थयेति । ९: ततोऽसौ सहश्रवणादेव तस्यां संरक्तचित्तो बभूव । यावदन्यतीर्थिकवेशं कृत्वानुपूर्वेण श्रावस्तीमनुप्राप्तः, पिण्डपात्रमनुविचरन्ननाथपिण्डदस्य गृहं प्रविष्टः । सुमागधा भिक्षां गृहीत्वा निर्गता । सा तेन दृष्टा । सहदर्शनादेवातीव संरक्तचित्तो बभूव । स भ्रान्तेन खोरकेन शक्तुं प्रतिगृह्नाति, मथितं च सिक्कायां । १०: ततः सुमागधा तमसंवृतेन्द्रियं दृष्ट्वा प्रहसिता, आह च: असंप्रजाना इमेऽन्यतीर्थ्या भिक्षां प्रतिगृह्णन्तीति । ततः सोऽपि तया सह प्रहसितो भिक्षां गृहीत्वा प्रक्रान्तः । ११: ततः पुण्ड्रवर्धनं गत्वा पितुर्निवेदितवान् । तेन सा दारिका श्रावस्तीं गत्वा याचिता । १२: अनाथपिण्डदेन गृहपतिना भगवान् पृस्टः । भगवानाह: गृहपते, प्रव्रजितामिदमकरणीयम् । अपि तु यदि सुमागधा पुण्ड्रवर्धनं यास्यति, तत्रापि बुद्धकार्यं करिष्यतीति । १३: ततोऽनाथपिण्डदेन गृहपतिना सुमागधा महता श्रिसमुदयेन वृषभदत्ताय दत्ता, तेनापि स्वगृहं नीता । १४: यावदपरेण समयेन तस्मिन् गृहे निर्ग्रन्था भुञ्जते, सा श्वश्रुणोच्यते: दारिके, आगच्छ दक्षिणीयान् पश्येति । १५: तस्या बुद्धिरभवत्: नूनं स्थविरार्यशारद्वतीपुत्रमहामौद्गल्यायनार्यानन्दप्रभृतयो महाश्रावका उपनिमन्त्रिता इति । सा हृष्टतुष्टा निर्गता । १६: तया ते निर्ग्रन्थाः काकपक्षमलिना मलपटलवस्त्रा दुर्गन्धशरीरा नग्नाः प्रेतसदृशा दृष्ट्वा च पुनर्दुर्मनाः संवृत्ता । १७: सा श्वश्रुणोच्यते: दारिके, किमर्थं परिखिन्नासीति । सा प्रोवाच: आर्ये, यद्येवंविधा दक्षिनीयाः । पापकारिनः पुनः कीदृशा भवन्तीति । १८: सा कथयति: दारिके,ऽस्ति कश्चिदेभ्योऽन्यः प्रतिविशिष्टतरः शास्ता लोके । १९: सा कथयति: अस्ति श्रावस्त्यां पितुर्मे विहारे स भगवानुपेतो मातृतः पितृतः संशुद्धः, क्षत्रियो जात्या, राजकुलात्प्रव्रजितश्चक्रवर्तिवंशात्; उच्चात्कुलात्प्रव्रजितोऽनूनात् । पुनरपरं, स भगवानाढ्यात्कुलात्प्रव्रजितोऽदीनात् । पुनरपरं, स भगवान् दहरस्तरुणः प्रत्यग्रयौवनसमन्वागतः । २०: यस्मिन् समये क्रीडाहर्षमण्डनविभूषणस्थानयोगमनुयुक्तेन विहर्तव्यम्, तस्मिन् समयेऽकामकानां ज्ञातीनां साश्रुकण्ठानां रुदन्मुखानां केशश्मश्रूण्यवतार्य काशायाणि वस्त्राण्याच्छाद्य सम्यगेव श्रद्धयागारादनगारिकां प्रव्रजितः । २१: पुनरपरं, भगवान् द्वात्रिंशता महापुरुषलक्षणैः समन्वागतोऽसीत्यनुव्यञ्जनैर्विराजितगात्रो व्यामप्रभालंकृतः, सूर्यसहस्रातिरेकप्रभः, जङ्गम इव रत्नपर्वतः समन्ततो भद्रकोऽभिरूपको दर्शनीयः प्रासादिकः । २२: ज्ञात्वा स भगवान् दृष्ट्वा, सनिदानं श्रावकानां धर्मं देशयति नानिदानं, सनिःसरणं नानिःसरणं, सपरिक्रमं नापरिक्रमं, सप्रतिसरणं नाप्रतिसरणं, सपराक्रमं नापराक्रमं, सप्रातिहार्यं नाप्रातिहार्यम् । २३: प्रज्ञावन् स भगवान्महाप्राज्ञः, अलमुत्पन्नानां परवादिनां सह धर्मेण निर्गृहीता, अलं स्वकस्य वादस्य प्रतिष्ठापयिता, कर्मवादी स भगवान् क्रियावादी । २४: पूर्वाभिलापी स भगवान् प्रियभाषी, उत्तानमुखवर्णो विगतभृकुटिः स्मितपूर्वंगमः । एहीति स्वागतवादी, कल्याणवाक्यः स भगवान् बाह्यकरणोपेतश्, चित्रकथः स भगवान्मधुरकथः, कल्याणप्रणिधानो बहुहितानुकम्पी बह्वनेकजनताविनीत । २५: आर्यधर्मतया न्यायधर्मतया विरजधर्मतया अतुलधर्मतया लब्धसहायः स भगवान्, बहवोऽस्य सहायकाः शीलसंपन्नाः समाधिसंपन्नाः प्रज्ञासंपन्ना विमुक्तिसंपन्ना विमुक्तिज्ञानसंपन्नाः । २६: पुनरपरं; स भगवान् यं ग्रामक्षेत्रमुपनिश्रित्य विहरति, न तत्र मनुष्या अमनुष्या वा विहेठयन्ति, कालेन कालं दिव्यानि रूपाणि दृश्यन्ते, दिव्याः शब्दाः श्रूयन्ते, उदाराश्चावभासाः प्रज्ञायन्ते, देवः कालेन कालं सम्यग्वारिधारामनुप्रयच्छतीति । २७: तस्याः सहश्रवणादेव भगवतोऽन्तिके चित्तमभिप्रसन्नं, सा प्रसन्नचित्ता कथयति: दारिके, शक्यसि त्वं तं भगवन्तमस्माकमुपदर्शयितुम् । २८: सा कथयति: आर्ये, तेन हि त्वं भक्तं सज्जीकुरु, श्वोऽहं भगवन्तमानयिस्यामीति । मूषिलपत्नी कथयति: साधु, सर्वं सज्जितमिति । २९: ततः सुमागधा भवनपृष्ठमभिरुह्य मण्डलकमुपलिप्य पुष्पाण्यवकीर्य भगवन्तमभिनमस्य यस्यां दिशि प्रतिवसति तस्यां दिशि पुष्पाणि क्षिपति, धूपं च ददाति, भृङ्गारोदकं च भगवतो निमन्त्रणकं प्रेषयति । एवमाह: ३०: सर्वज्ञ कारुणिक भो खलु सांप्रतं मे संदर्शनं स्वयमिहागमनं कुरुस्व । संघेन सागरसमेन समं जितारे आगामिनीं प्रतिवसस्व निशामतुल्यम् ॥ अनुग्रहार्थं भगवन्ममाद्य कर्तुं नराणां मनसः प्रसादम् । रूपस्य ते दर्शनमात्रकेन लोकैकनाथ क्रियतां प्रसादः ॥ ३१: ततस्तानि पुष्पाणि बुद्धानां बुद्धानुभावेन देवतानां च देवतानुभावेन हंसपङ्क्तिरिवाकाशे जेतवनाभिमुखानि संप्रस्थितानि, धूपोऽभ्रकूटवद्वैडूर्यशलाकोवेदकं भगवतोऽग्रतः स्थितम् । ३२: तं दृष्ट्वायुष्मानानन्दो भगवन्तं पप्रछ: कुतो भगवन्निदं निमन्त्रणकमायातम् । ३३: पुण्ड्रवर्धनाद्, आनन्द, षष्ट्युत्तराद्योजनशतात् । गच्छानन्द, भिक्षूणामारोचय: श्वो युष्माभिः पुण्ड्रवर्धनं नगरं गन्तव्यं, तिर्थ्यावष्टब्धं तं नगरमृद्धिविकुर्वणं कर्तव्यम्, अप्रसन्नानां प्रसादाय, प्रसन्नानां भूयोभावाय, दुर्मङ्कूनां निर्ग्रहाय, लज्जिनां स्पर्शविहारायेति । ३४: एवं भदन्तेत्यायुष्मानानन्दो भगवतः प्रतिश्रुत्य गण्डीमाकोट्य भिक्षुसंघं संनिपात्य वृद्धान्ते स्थित्वा शलाकां चारयन्नेवमाह: शृण्वन्तु भदन्ताह्, संघं भगवानाज्ञापयति । ३५: श्वो युष्माभिः पुण्ड्रवर्धनं नगरं गन्तव्यं, तीर्थ्यावष्टब्धं तं नगरम्, ऋद्धिविकुर्वणं कर्तव्यम्, अप्रसन्नानां प्रसादाय, प्रसन्नानां भूयोभावाय, दुर्मङ्कूनां निर्ग्रहाय, लज्जिनां स्पर्शविहारयेति । ३६: ततः स्थविरस्थविराः शलाकां ग्रहीतुमारब्धाः । तत्र पूर्णो नाम सुकुण्डोपधानीयः स्थविरः, सोऽपि शलाकां ग्रहीतुमारब्धः । आयुष्मतानन्देनोच्यते: स्थविर, नेदमनाथपिण्डदस्य गृहं गन्तव्यम्, अपि तु पुण्ड्रवर्धनं नगरं गन्तव्यं षष्ट्युत्तरयोजनशतं यावदृद्धिविकुर्वणं कर्तव्यम् । ३७: ततः ससंभ्रमं स्थविरः शलाकां छोरयित्वा, यावद्द्वितीयस्य भिक्षोः शलाका न दीयते, तावत्षडभिज्ञामुत्पाद्य गजभुजसदृशं दक्षिणं बाहुमभिप्रसार्य शलाकां गृहीत्वा कथयति: न हि रूपगुणैर्न हि सौष्ठवैर्न बलात्कारगुणैर्न गौरवात् । जरया हि निपीडितयौवनाः षडभिज्ञास्तु भवन्ति मद्विधाः ॥ ३८: ततः प्रभतायां रजन्यां स्थविरस्थविराः स्वकस्वकेन ऋद्ध्यनुभावेन संप्रस्थिताः । ३९: अथ मूषिलपत्नी भगवतोऽर्थे शुचिं प्रणीतं खादनीयं भोजनीयं समुदानीयासनकानि प्रज्ञप्य, उदकमणिं प्रतिष्ठाप्य, भवनपृष्ठमभिरुह्य, सुमागधापि स्वामिना सार्धं श्वशुरेण बहिः स्थिता चिन्तयति । ४०: किं भगवानागमिष्यति । अथ नागमिस्यतीति । अथवान्यत्रोपनिमन्त्रितो भविष्यति । ४१: ततो भगवन्तं नमस्कृत्य यस्यां दिशि प्रतिवसति तां दिशं प्रेक्षितुमारब्धा । ४२: अत्रान्तरेणायुष्मानाज्ञातकौण्डिन्य उरगरथमभिनिर्माय शनैर्मन्दं मन्दं देवे वृष्टायमाने विद्युत्सु निश्चरन्तीषु मेघध्वनिनिर्नादेन तत्रोपविष्ट उपरि विहायसा ऋद्ध्याकाशेनागच्छति । ४३: तं दृष्ट्वा सुमागधायाः स्वामी सुमागधां पप्रच्छ: सुमागधे,ऽयं ते स शास्ता, योऽयमुरगरथोपविष्टः शनैर्मन्दं मन्दं देवे वृष्टायमाने विद्युदुद्द्योतं दर्शयमानो मेघध्वनिनिर्नादेन ऋद्ध्याकाशेनागच्छति । ४४: सा प्रोवाच: नायमार्योऽज्ञातकौण्डिन्यः संघस्थविरः, अनेन भगवता बाराणस्यां धर्मे देश्यमाने तत्प्रथमतो वैराग्यमधिगतमयं भगवता निर्वाणाधिगमप्राप्तानामग्रो निर्दिष्टह्, स एषागच्छति । (१) ४५: अत्रान्तरेणायुष्माञ्छारिपुत्रः सिंहरथमभिनिर्माय तत्रोपविष्ट उपरि विहायसा र्द्ध्याकाशेनागच्छति । ४६: तं दृष्ट्वा सुमागधायाः स्वामी सुमागधां पप्रच्छ: सुमागधे,ऽयं ते स शास्ता योऽयं सिंहरथेनागच्छति । ४७: सा कथयति: नायमार्यः शारिपुत्रो, योऽयं भगवता प्रज्ञावतामग्रो निर्दिष्टः । ४८: अस्य च गर्भस्थस्य मात्रा जम्बूद्वीपे सर्ववादिनो निर्गृहीताः । ४९: जनन्याश्चानेन दौहदमुत्पादितम्: अप्येवाहं सुमेरुमूर्धारुह्य चतुर्णामपि रत्नाकराणां पयः पिबेयमिति । ५०: अथ तिष्येन द्विजप्रवरेणेन्द्रजालपारमिप्राप्तं हरिमिन्द्रजालाचार्यमाहूय नरसुरासुरगरुडकिन्नरमहोरगगन्धर्वयक्षसमवाये देव्या दौहदं विनीतम् । ५१: अस्य च मातुः कुक्षिनिष्क्रान्तस्य पित्रा सर्वनैमित्तिकाः समाहूयोक्ताः: पश्यन्तु भवन्तः, कुमारस्य किं प्रभावो भविष्यतीति । ५२: ते चावलोकयितुमारब्धाः । कुमारस्य लक्षणोदारतां रूपोदारतां च दृष्ट्वा परं विस्मयमापन्ना, न शक्नुवन्ति व्याकर्तुं कुमारस्येदं प्रभावमिति । ५३: अथाम्बरगतेन महाब्राह्मणा तेषां संशयमपनयनार्थं ब्राह्मणस्वरेणावघोषितम् । ५४: एष कुमारः शाक्यमुनेः सम्यक्संबुद्धस्य शासने प्रव्रज्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्करिष्यति, सर्वश्रावकानां चाग्रो भविष्यति, धर्मचक्रानुवर्तयिता । ५५: इदानीं वादिनश्चास्य मुखं निरीक्ष्य चिरकालाभिलषितां वाचमपि न निश्चारयन्ति, कः पुनर्वादो । वादकरणे अयं भगवता एवमुक्तः । ५६: महासमुद्रप्रमाणं पूर्णमसिभाजनस्य, सुमेरुप्रमाणं भूर्जपत्रभारस्य, चतुर्द्वीपेषु सर्वसत्त्वधातुप्रमाणं लेखकानाम्, अस्याः पृथिव्यास्तृणकास्ठशाखापर्णसदप्रमाणं कलमानां परिक्षयं पर्यायेन गच्छेत्, न त्वेवास्य शारिपुत्रस्य प्रज्ञायाः क्षयं वदामि । अतो महाप्रज्ञ इत्याख्यातः महासार्थवाहवत् । ५७: यावत्सर्वसत्त्वेषु प्रज्ञाऽस्य सर्वोत्कृष्टा यावत्त्रिभुववासिसकलनरामरसुरस्य सर्वलोकस्य या प्रज्ञा स्थापयित्वा तथागतम् । शारिपुत्रस्य प्रज्ञायाः कलां नार्हति षोडशाम् ॥ ५८: अन्यमप्युक्तम्: चतुरार्यसत्यसंक्षेपविस्तरविभागविधिकथावसरे नास्त्युत्पत्तिष्वस्य समो जगति प्रत्येकबुद्धोऽपि, स एषागच्छति । (२) ५९: अत्रान्तरेणायुष्मान्महाकाश्यपः सौवर्णं पर्वतमभिनिर्माय नानामृगगणोपेतं नानाप्रस्रवाकुलं नानापक्षिगणाकीर्णं नानावृक्षोपशोभितं तत्रोपविष्टः स उपरि विहायसा ऋद्ध्याकाशेनागच्छति । ६०: तं दृष्ट्वा सुमागधायाः स्वामी सुमागधां पप्रच्छ: सुमागधे, अयं ते स शास्ता योऽयं सुवर्णं पर्वतमभिरुह्यागच्छति । ६१: सा कथयति: नायमार्यो महाकाश्यपो,ऽयं भगवता अल्पेच्छानां संतुष्टानां धूतगुणधराणामग्रो निर्दिष्टः । ६२: अनेनैकोनं लाङ्गलसहस्रं लक्षाहतानां, षष्टिहिरण्यकोट्यः सौवर्णानां, यवानामशीतिभिः खार्यं, षोडश दासग्रामम्, अष्टादश महाभाक्तग्रामाः, अनेकशतसहस्राणि वस्तून्युपकरणं समुत्सृज्य प्रव्रजितः । ६३: पुनरपरं: सर्वश्रावकानां समक्षमयं भगवतार्धासनेनोपनिमन्त्रितः । एकप्रस्थोदनं श्रेयः, एकशय्या सुखावहा । एकदूष्ययुगं वार्यं, गेयो मोहपरिग्रहः ॥ इति कृत्वा, प्रतिगृहीताशेषा या अपरिग्रह इति न गृहीतः । यश्च भागिनेयामभिरूपां दर्शनीयां जनपदकल्याणीसदृशीं तामपहाय प्रव्रजितः, स एषागच्छति । (३) ६४: अत्रान्तरेणायुष्मान्महामौद्गल्यायन ऐरावणगजवरविलासगामिनं परमस्वभावलक्षणव्यञ्जनोपेतपुण्यदर्शनं हस्तिनमभिनिर्माय तत्रोपविष्ट उपरि विहायसा ऋद्ध्याकाशेनागच्छति । ६५: तं दृष्ट्वा सुमागधायाः स्वामी पप्रच्छ: सुमागधे,ऽयं ते स शास्ता योऽयं नागेन्द्ररथेनागच्छति । ६६: सा कथयति: नायमार्यो महामौद्गल्यायनो,ऽयं भगवता ऋद्धिमतामग्रो निर्दिष्टः । ६७: अनेन शक्रस्य देवानामिन्द्रस्य वैजयन्तः प्रासादः, योजनसहस्रं समन्तात्, परिक्षेपेण चतुरशीतिभिः स्तम्भसहस्रैः सुप्रतिष्ठितः, अर्धपञ्चेमानि योजनानि देवपुरादत्युद्गतः पादाङ्गुष्थेनाभिकम्पितः । ६८: नन्दोपनन्दौ नाम नागराजानौ सुमेरुभृगुणपरिवेष्टितं कृत्वावस्थितौ च विनीतौ । ६९: पुनरप्यनेन भगवानेवमुक्तः: एवं हि भदन्त वैजयन्ते दुर्भिक्षं कृच्छ्रं कान्तारं, दुर्लभः पिण्डको याचनकेन, भिक्षवोऽपि लूहभोजनेन परिक्लाम्यन्ते । ७०: संमुखं मे भदन्त भगवतोऽन्तिकाच्छ्रुतं संमुखमुद्गृहीतम्: अस्यां महापृथिव्यां पार्थिवः प्रणीतो रसधातुः: सोऽधस्तादवस्थित इति । ७१: तदिच्छाम्यस्या महापृथिव्याः पार्थिवः प्रणीतो रसधातुः तमूर्ध्वं कर्तुं, यमूर्ध्वं तमधः कर्तुम् । ७२: भगवानाह: कस्मिन् स्थाने स्थित्वा महापृथिवीं परिवर्तयसीति । ७३: एष एवमाह: चक्रवाडमहाचक्रवाडाभ्यां स्ताने महापृथिविं परिवर्तयिष्यामि । ७४: भगवानाह: ये पृथिवीसंनिश्रिताः प्राणिनस्तान् कथं करिष्यसीति । एष एवमाह: ये पृथिवीसंनिश्रिताः प्राणिनस्तान् वामेन पाणिनोद्धृत्य धारयिष्यामि, दक्षिणेन प्राणिना महापृथिवीं परिवर्तयिष्यामि । भगवानाह: का तव संज्ना भविष्यति । ७५: तद्यथा, भदन्त, बलवान् पुरुषः कदलीपत्रं परिवर्तयन् परमलघुसंज्ञी भवति, एवमेवाहं भदन्त, महापृथिवीं परिवर्तयन् परमलघुसंज्ञी भविष्यामीति । ७६: साधु साधु, मौद्गल्यायन, शक्यसि त्वमनया ऋद्ध्यानेनोपायेन महापृथिवीं परिवर्तयितुमिति । स एषागच्छति । (४) ७७: अत्रान्तरेणायुष्मान्महाकात्यायनः स्फटिकमयं कूटागारमभिनिर्माय मरकतेनाच्छादितं नानारत्नस्तम्भोपनिबद्धं प्रवालवेदिकोपशोभितं, तत्र पर्यण्कः प्रज्ञप्तः पटिकास्तृतो गोणिकास्तृतश्चित्रिकास्तृतश्तूलिकास्तृतः, यावल्लोहितोपधानस्, तत्रोपविष्ट उपरि विहायसा ऋद्ध्याकाशेनागच्छति । ७८: तं दृष्ट्वा सुमागधायाः स्वामी सुमागधां पप्रच्छ: सुमागधे,ऽयं ते स शास्ता योऽयं स्फटिकमयं कूटागारमभिनिर्माय तत्रोपविष्ट उपरि विहायसा ऋद्ध्याकाशेनागच्छति । ७९: सा कथयति: नायमार्यो महाकात्यायनः, अयं भगवता सूत्रान्तवैभङ्गकानां पुण्यमहेशाख्यानामग्रो निर्दिष्टः, स एषागच्छति । (५) ८०: अत्रान्तरेणायुष्मान्महाकौस्ठिलो व्र्षभरथमभिनिर्माय तत्रोपविष्ट उपरि विहायसा ऋद्ध्याकाशेनागच्छति । ८१: तं दृष्ट्वा सुमागधायाः स्वामी सुमागधां पप्रच्छ: सुमागधे,ऽयं ते स शास्ता योऽयं वृसभरथेनागच्छति । ८२: सा कथयति: नायमार्यो महाकौष्ठिलो,ऽयं भगवताल्पेच्छानामग्रो निर्दिष्टः । ८३: अयं भिक्षूनेवमाह: सातिरेकाणि मे, आयुष्मन्तो,ऽशीतिवर्षानि प्रव्रजितस्य, नाभिजानामि सब्रह्मचारिणामन्तिकात्परिकर्म स्वीकर्तुमन्तशः पृष्ठोद्घर्षणमात्रमपि, स एषागच्छति । (६) ८४: अत्रान्तरेणायुष्मानुपाली हैमं तालवनमभिनिर्माय सुवर्णपुष्पफलोपेतं विविधमनोज्ञस्वरसंयुक्तं, तत्रासज्जमानशरीर ऋद्ध्याकाशेनागच्छति । ८५: तं दृष्ट्वा सुमागधायाः स्वामी सुमागधां पप्रच्छ: सुमागधे,ऽयं ते स शास्ता योऽयं हैमं तालवनमाश्रित्य ऋद्ध्याकाशेनागच्छति । ८६: सा कथयति: नायमार्य उपाली, अयं भगवता विनयधराणामग्रो निर्दिष्टः । ८७: अस्य च पञ्चमात्रात्रैः शाक्यकुमारशतैर्नानालंकारविभूषितैः प्रव्रज्यमानैः पुरस्ताद्वस्त्राणामाभरणानां च महान् राशिः कृतः । ८८: अयमार्यः संलक्षयति: इमे तावत्कुमाराः कुलविभवयौवनोपेताः स्फीतान्यन्तःपुराणि स्फीताणि च कोशकोष्ठागाराण्यपास्य प्रव्रजितुमारब्धाः, अहमस्मिमलंकारमात्रेण सक्तो । ८९:ऽनेन व्यसनमापत्स्यते इति तां विभूतिं खेटपिण्डमिवापहाय प्रव्रज्य तत्प्रथमतरमर्हत्त्वमधिगतं, स एषागच्छति । (७) ९०: अत्रान्तरेणायुष्मानश्वजिच्छान्तेनेर्यापथेन मत्तहस्तिनं दमयति, पात्रकरव्यग्रहस्त उपरि विहायसा ऋद्ध्याकाशेनागच्छति । ९१: तं दृस्ट्वा सुमागधायाः स्वामी सुमागधां पप्रच्छ: सुमागधे,ऽयं ते स शास्ता योऽयं शान्तेनेर्यापथेन पात्रकरव्यग्रहस्त उपरि विहायसा ऋद्ध्याकाशेनागच्छति । ९२: सा प्राह: नायमार्योऽश्वजिच्, छान्तेनेर्यापथेन मत्तहस्तिनं दमयति । अस्य सकाशादनया गाथया: कर्मक्लेशहेतुकारणवती लोकस्य निवृत्तिर्यथा कर्मक्लेशनिवृत्तिकारणमपि प्रोवाच तन्नायकः । यस्मिन् जन्मजराविपत्तिनियतं दुःखं न संतिष्ठते तत्मोक्षप्रवरं स चादिवृषभो ज्ञात्वा स्वयं भाषते ॥ श्रुत्वा पूर्वं तीर्थिकस्यार्येण शारिपुत्रेण श्रोतआपत्तिफलमधिगतमयं भगवता स्मृतिमतामग्रो निर्दिष्टः, स एसागच्छति । (८) ९३: अत्रान्तरेणायुष्मान् पूर्णो मैत्रायणीपुत्रः सौवर्णं पद्ममभिनिर्माय सहस्रपत्रं शकटचक्रमात्रं वैडूर्यदण्डं वज्राङ्कुरकेशरं तत्रोपविष्ट उपरि विहायसा ऋद्ध्याकाशेनागच्छति । ९४: तं दृष्ट्वा सुमागधायाः स्वामी सुमागधां पप्रच्छ: सुमागधे, अयं ते स शास्ता योऽयं सौवर्नं पद्ममभिनिर्माय सहस्रपत्रं शकटचक्रमात्रं वैडूर्यदण्डं वज्राङ्कुरकेशरं तत्रोपविष्ट उपरि विहायसा ऋद्ध्याकाशेनागच्छति । ९५: सा कथयति: नयामार्यो पूर्णो मैत्रायणीपुत्रः, अयं भगवता मैत्राणिकानामग्रो निर्दिष्टः, स एषागच्छति । (९) ९६: अत्रान्तरेणायुष्मान् द्रव्यो मल्लपुत्रश्चतूरत्नमयं पर्वतशिखरमभिनिर्माय नानाघण्टारवाकीर्णं नानाध्वजपताकोपशोहितं तत्रोपविष्ट उपरि विहायसा ऋद्ध्याकाशेनागच्छति । ९७: तं दृष्ट्वा सुमागधायाः स्वामी सुमागधां: पप्रच्छ सुमागधे,ऽयं ते स शास्ता योऽयं चतूरत्नमयं पर्वतशिखरमभिनिर्माय नानाघण्टारावकीर्णं नानाध्वजपताकोपशोभितं तत्रोपविष्ट उपरि विहायसा ऋद्ध्याकाशेनागच्छति । ९८: सा कथयति: नायमार्यो द्रव्यो मल्लपुत्रो,ऽयं भगवता प्रतिलयकानामग्रो निर्दिष्टः, योऽयं संलयान् भिक्षून् तथा प्रतिसंलयनेषु नियोजयति, स एषागच्छति । (१०) ९९: अत्रान्तरेणायुष्माननिरुद्धः सर्वसौवर्णं प्रासादमभिनिर्माय वैडूर्यप्रवालस्तम्भोपशोभितं नानारत्नविचित्रं वितानमालाविरचितं शतपताकोपशोभितं तन्मध्ये, तत्र चाभ्यन्तरे निषण्ण, उपरि विहायसा ऋद्ध्याकाशेनागच्छति । १००: तं दृष्ट्वा सुमागधायाः स्वामी सुमागधां पप्रच्छ: सुमागधे,ऽयं ते स शास्ता योऽयं सौवर्णं प्रासादमभिनिर्माय, तत्र चाभ्यन्तरे सिंहासने निषण्ण उपरि विहायसा ऋद्ध्याकाशेनागच्छति । १०१: सा कथयति: नायमार्योऽनिरुद्धो,ऽयं भगवता दिव्यचक्षुषामग्रो निर्दिष्टः । १०२: अनेन बाराणस्यामुपविष्टस्य प्रत्येकबुद्धस्यैकपिण्डप्रतिपादनेन सप्तकृत्वश्चक्रवर्तिराज्यानि कारितानि, सप्तकृत्वो देवेषु त्रयस्त्रिंशेषु देवानां राज्यं कारितम् । १०३: तेनैव कर्मावशेषेणाढ्ये शाक्यकुले जातः, अनेकानि च शतसहस्रानि लक्षाहतस्य हिरण्यसुवर्णस्य रूप्यस्य चापहाय प्रव्रजितः, प्रव्रजितोऽपि चायं लाभी चीवरपिण्डपात्रशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणाम् । १०४: पुनरस्य माहात्म्यं शृणु: माहानाम मात्राभिहितः । पुत्र, राज्ञा घण्टावघोषनं कारितं, शाक्यैः कुलैकया प्रव्रजितव्यमिति, स त्वं प्रव्रज । १०५: स कथयति: नाहं प्रव्रजामि । यस्ते प्रियः पुत्रः सुखासने उपरि प्रासादतले तिष्ठति, तं प्रव्राजयस्वेति । १०६: माता प्राह: पुत्र, पुण्यमहेशाख्योऽसौ, मा तेन सह स्पर्धां कुरु । १०७: अम्बे, त्वं तस्याभिप्रसन्ना येनासौ पुण्यमहेशाख्यः । अद्य तस्य मा किंचित्प्रेषयाज्ञास्यामि पुण्यमहेशाख्यो न वेति । १०८: पुत्र, एवं प्रत्यक्षीकुरु । १०९: तया रिक्तपिठरिकाभिः पिटकं पूरयित्वा शुक्लेन वस्त्रेणाच्छाद्य मुद्राभिलक्षितं कृत्वा प्रेष्यदारिकाहस्ते प्रेषितम्, संदिष्टं च: दारिके, यदि त्वां पृच्छेत्किमत्रेति, वक्तव्य्ं न किंचिदिति । सा तमादाय संप्रस्थिता । ११०: शक्रस्य च देवानामिन्द्रस्याधस्तात्ज्ञानदर्शनं प्रवर्तते । स संलक्षयति: येन नाम उपरि प्रत्येकबुद्धः पिण्डकेन प्रतिपादितः, तस्याद्य कथं भोजनेन विघातो भविष्यति । भोजनोपसंहारोऽस्य कर्तव्य इति । तेनासौ पिटको नानासूपिकरभोजनोपेतस्याहारस्य पूरितः । १११: यावदसौ दारिका तमादायानिरुद्धसकाशं गता, तेनोक्ता: दारिके, किमत्रेति । सा कथयति: कुमार, न किंचिदिति । अनिरुद्धः संलक्षयति: प्रियोऽहं मातुः, किमसौ रिक्तं प्रेषयिष्यति । नूनमत्र किं नाम भोज्यभोजनं प्रक्षिप्तं पश्यामस्तावदिति । ११२: यावदुद्घाटितं सर्वं तदुद्यानमनेकोपकरणसुरभिगन्धसंपूर्णं व्यवस्थितम् । यं घ्रात्वानिरुद्धः परं विस्मयमुपगतः: मातृभक्तोऽयम्, अनेन मातुरग्रपिण्डः प्रेषितः । संदिष्टं चाम्ब, प्रतिदिनमीदृशं भोजनं प्रेषितुमर्हसीति । ११३: सा दृष्ट्वा परमविस्मयमुपगता । तया महानामोपदर्शितः: पुत्र, दृष्टं ते । अम्ब, दृष्टम् । ननु त्वं मया पूर्वमेवोक्तः: पुन्यमहेशाख्यः सत्त्वो मनुष्य सुभगो, मा तेन सह स्पर्धां कुर्ष्वेति । स एषागच्छति । ११४: आह च: सौवर्णे सुविमानमालरचिते रत्नप्रभालंकृते ध्यायी ध्यानरतो निषद्य विरजोभद्रासने संयतः । आयात्येष चलध्वजोपरचितो आर्यानिरुद्धो मुनिः मुक्तो मोचयिता निमग्नमवशं लोकं भवाम्भो निधौ ॥ (११) ११५: अत्रान्तरेणायुष्मान् श्रोणः कोटीकर्णः पुष्पमण्डपमभिनिर्माय तत्रोपविष्ट उपरि विहायसा ऋद्ध्याकाशेनागच्छति । ११६: तं दृष्ट्वा सुमागधायाः स्वामी सुमागधां पप्रच्छ: सुमागधे,ऽयं ते स शास्ता योऽयं पुष्पमण्डपमभिनिर्माय तत्रोपविष्ट उपरि विहायसा ऋद्ध्याकाशेनागच्छति । ११७: सा कथयति: नायमार्यः श्रोणः कोटीकर्णो,ऽयं भगवता अल्परजस्कजातीयानामग्रो निर्दिष्टः । ११८: अयं रत्नप्रयुक्तिकया कर्णिकया कर्णे आमुक्तिकया जातः । मातापितरौ परं विस्मयमापन्नौ । ११९: अस्य पित्रा बलसेनेन सर्वरत्नपरिक्षकानाहूयोक्तः: रत्नानां मूल्यं कुरुत इति । ते रत्नानां मूल्यं कर्तुमारब्धा, न शक्नुवन्ति रत्नानां मूल्यं कर्तुम् । १२०: धर्मता खलु यस्य रत्नस्य न शक्यते मूल्यं कर्तुं, तस्य कोटिमूल्यं क्रियते । ते कथयति: गृहपते, एकैकस्य रत्नस्य कोटिमूल्यमिति । १२१: ज्ञातयः कथयन्ति: किं भवतु दारकस्य नामेति । अयं दारकः कोटिमूल्यकरत्निकया कर्णिकया कर्णे आमुक्तिकया जातह्, श्रवणे नक्षत्रे जातस्, तस्माद्भवतु दारकस्य श्रोणः कोटीकर्ण इति नाम । स एषागच्छति । (१२) १२२: अत्रान्तरेणायुष्मान् श्रोनः कोटिविंशः नानापुष्पफलसंपन्नवनगहनमभिनिर्माय रजोध्वस्तायां पृथिव्यामाकाशचङ्क्रमे चङ्क्रम्यमान उपरि विहायसा ऋद्ध्याकाशेनागच्छति । १२३: तं द्षृट्वा सुमागधायाः स्वामी सुमागधां पप्रच्छ: सुमागधे,ऽयं ते स शास्ता योऽयं नानापुष्पफलोपेतं वनगहनं संश्रित्याकाशचङ्क्रमे चङ्क्रम्यमाणोऽभ्यागच्छति । १२४: सा कथयति: नायं शास्ता, आर्योऽयं श्रोणः कोटीविंशह् । अस्य जातमात्रस्य पित्रा विंशतिहिरण्यकोट्यः अवलेहिकामूल्येऽनुप्रदत्ता, अस्य दिने दिने पञ्चकार्षापणशतानि स्थालीपाकार्थे व्ययमुपगच्छति । १२५: आयुष्मता महामौद्गल्यायनेन चास्य सकाशात्पिण्डपात्रमादाय भगवते दत्तम् । यस्य गन्धेन सर्वं राजगृहं नगरमापूरितं पात्रावशेषं च राज्ञ बिम्बिसारेणास्वादितम्, आस्वाद्य च परं विस्मयमापन्नः कथयत्य्: १२६: अहं भदन्त राजकुले जातः, राजा संवृत्तो, नाभिजानामि कदाचिदेवंविधमन्नमास्वादितं पूर्वम् । १२७: अस्य पादतले चतुरङ्गुलमात्राणि सुवर्णानि रोमानि जातानि । १२८: अयं भगवतः सकाशं गन्तुकामः पृच्छति: किं भगवान् यानेन गच्छत्याहोस्वित्पद्भ्यामिति । अपरे कथयन्ति: पद्भ्यामिति । स एष कथयति: अहमपि पद्भ्यां गच्छामीति । १२९: तस्य पौरुषेयैर्वस्त्राणि पृथिव्यामास्तीर्णानि । एष पृच्छति: किं भगवानास्तीर्णेन गच्छत्याहोस्विदनास्तीर्णेनेति । ते कथयति: नास्तीर्णेनेति । एष कथयति: अपनयत वस्त्राणि, अहमप्यनास्तीर्णेन गच्छामीति । तैरपनीतानि । १३०: पुनरपराणि दूष्यवस्त्राणि पृथिव्यामास्तीर्णानि । एष पृच्छति: किं भगवान् दूष्यास्तीर्णेन गच्छत्याहोस्विदनास्तीर्णेन । ते प्राहुः: नास्तीर्णेनेति । एष आह: अपनयत दूष्याणि । तैरपनीतानि । १३१: कुमार, पुण्यमहेशाख्यः । ततोऽपराण्यमनुष्यानि दिव्यवस्त्राणि प्रादुर्भूतानि । एष दृष्ट्वाह: अपनयन्तु अमनुष्यवस्त्राणीति । तैरपनीतानी । अनेन पृथिव्यां पादो न्यस्तः । षड्विकारः पृथिवीकम्पो जातः । १३२: भगवानाह: इतो, भिक्षव, एकनवतिं कल्पमुपादाय न कदाचिच्छ्रोणेण कोटीविंशेनानस्तीर्णे पृथिवीप्रदेशे पादो न्यस्तः । एतर्हि न्यस्तो धर्मगौरवात्, न तु पुण्यक्षयात् । १३३: येनायं षड्विकारः पृथिवीकम्पो जातः । अयं भगवता आरब्धवीर्याणामग्रो निर्दिष्टः । स एषागच्छति । (१३) १३४: अत्रान्तरेणायुष्मान् पिलिन्दवत्सो हंसरथमभिनिर्माय तत्रोपविष्ट उपरि विहायसा ऋद्ध्याकाशेनागच्छति । १३५: तं दृष्ट्वा सुमागधायाः स्वामी सुमागधां पप्रच्छ: सुमागधेऽयं ते स शास्ता योऽयं हंसरथेनागच्छति । १३६: सा कथयति: नायमार्यो पिलिन्दवत्सो,ऽयं भगवता करुणाविहाराणामग्रो निर्दिष्टः । १३७: अनेन गङ्गाभिहिता: कुशलीतिष्ठेत्य् । अस्य वचनसमनन्तरमेव गङ्गा स्थिता, अङ्कुशसंताडितेव द्विरदवधूर्न प्रहसति । सोऽयमागच्छति । (१४) १३८: अत्रान्तरेणायुष्मानुदायी अश्वरथमभिनिर्माय चतूरत्नोपशोभितं तत्रोपविष्ट, उपरि विहयसा ऋद्ध्याकाशेनागच्छति । १३९: तं दृष्ट्वा सुमागधायाः स्वामी सुमागधां पप्रच्छ: सुमागधे,ऽयं ते स शास्ता योऽयमश्वरथमभिनिर्माय चतूरत्नोपशोभितं तत्रोपविष्ट उपरि विहायसा ऋद्ध्याकाशेनागच्छति । १४०: सा कथायति: नायमार्य उदायी अयं भगवता कुलप्रसादकानामग्रो निर्दिष्टः । १४१: अनेन राजा शुद्धोदनः शुक्लोदनो द्रोणोदनोऽमृतोदनो धौतोदनश्च, गोपिकामृगजायशोधराप्रमुखानि षष्टिस्त्रीसहस्राणि बोधिसत्त्वविरहाच्छोकसागरनिमग्नास्ताभिस्ताभिः श्रुतिभिश्चित्तप्रह्लादनीभिर्विविधाभिर्वाग्भिः शोकं परित्याजितानि । सोऽयमागच्छति । (१५) १४२: अत्रान्तरेणायुष्मान् ज्योतिःपालो मयूररथमभिनिर्माय तत्रोपविष्ट उपरि विहायसा ऋद्ध्य्काशेनागच्छति । १४३: तं दृष्ट्वा सुमागधायाः स्वामी सुमागधां पप्रच्छ: सुमागधे,ऽयं ते स शास्ता योऽयं मयूररथमभिनिर्माय तत्रोपविष्ट उपरि विहायसा ऋद्ध्याकाशेनागच्छति । १४४: सा कथयति: नायमार्यो ज्योतिःपालो,ऽयं भगवता दिव्यमानुषीश्रियं त्याजयित्वा प्रव्राजितः । १४५: अस्य स्नानशाटकोऽभ्यवकाशे शोषितो वायुनोह्यमानो राज्ञो बिम्बिसारस्योपरि पतितः । राजा कथयति: भवन्तो, राजार्हमिदं वस्त्रं, कुत्र एतत् । ते कथयन्ति: देव, श्रूयते राज्ञो मान्धातस्य सप्ताहं हिरण्यवर्षः पतित इति, देवस्यापि वस्त्रवर्षः पतितुमारब्धो, नचिराधिरण्यवर्षः पतिष्यतीति । १४६: राजा कथयति: भवन्तो ज्योतिष्को गृहपतिर्भगवता व्याकृतो दिव्यमानुषीश्रियं प्रत्यनुभविष्यतीति, इदं च दिव्यं वस्त्रमाकाशात्पतितम्, स्थापयत, तस्यैवागतस्य दास्याम इति । १४७: ते चैवमालापं कुर्वन्ति, अयं च राज्ञः सकाशमागतह् । १४८: राजा कथयति: कुमार, त्वं भगवता व्याकृतो दिव्यमानुषीश्रियं प्रत्यनुभविष्यसीति, इदं च दिव्यमाकाशात्पतितम्, गृहाणेति । १४९: तेन हस्तः प्रसारितः । देवानय पश्यामीति । स निरीक्षितुमारब्धो यावत्पश्यत्यात्मीयं स्नानशाटकम् । १५०: स विपुष्प्य कथयति: देव, मदीयः स्नानशाटकोऽयं वायुनोपक्षिप्येहानीत इति । १५१: राजा कथयति: कुमार, किं तव दिव्यमानुषी श्रीः प्रादुर्भूता । देव, प्रादुर्भूता । कुमार, यद्येवं किमर्थं मां न निमन्त्रयसे । देव, निमन्त्रितो भव । गच्छ, भक्तं सज्जीकुरु । देव, यस्य दिव्यमानुषी श्रीः प्रादुर्भूता, किं तेन सज्जीकर्तव्यम् । ननु सज्जीकृतमेवागच्छेति । १५२: स ज्योतिष्कस्य गृहं गत्वा बाह्यं परिजनं दृष्ट्वा इन्द्रियाण्युत्क्षिपति । ज्योतिष्कः कथयति: देव, किमर्थमिन्द्रियाण्युत्क्षिपसीति । स कथयति: कुमार, वधूजनोऽयमिति कृत्वा । नायं वधूजनो, बाह्योऽयं परिजनः । स परं विस्मयमापन्नः । १५३: पुनर्मध्यमं परिजनं दृष्ट्वा इन्द्रियाण्युत्क्षेप्तुमारब्धः । ज्योतिष्कः कथयति: देव, किमर्थमिन्द्रियाण्युत्क्षिपसीति । राजा कथयति: कुमार, वधूजनोऽयमिति कृत्वा । देव, नायमपि वधूजनः, किंतु मध्यमोऽयं परिजनह् । स भूयस्या मात्रया परं विस्मयमापन्नह् । १५४: तत्र मध्यमायां द्वारशालायां मणिभिरुपचिता भूमिः । तस्यां मत्स्या उदकपूर्णायामिव यन्त्रप्रयोगेनोपरिभ्रमन्तो दृश्यन्ते । राजा प्रवेष्टुकमो जलमिति कृत्वा उपानहौ मोक्तुमारब्धः । १५५: ज्योतिष्कः कथयति: देव, कस्यार्थे उपानहावपनयसीति । कुमार, पानीयमुत्तरितव्यम् । देव, नेदं पानीयम्, अपि तु मणिभूमिरेषा । कुमार, इमे मत्स्या उपरिभ्रमन्तो दृश्यन्ते । देव, यन्त्रप्रयोगेनैते परिभ्रमन्ति । राजा न श्रद्दधाते तेनाङ्गुलिमुद्रा क्षिप्ता सा रणरणाशब्देन भूमौ पतिता । ततो राजा विस्मयमापन्नः । १५६: प्रविश्य सिंहासने निषण्णः । ततो वधूजनः पादाभिवन्दक उपसंक्रान्तः । तासामश्रुपातो जातः । राजा कथयति: कुमार, कस्मादयं वधूजनो रोदिति । देव, नायं रोदिति, किंतु देवस्य काष्ठधूपेन वस्त्राणि धूपितानि, तेनासामश्रुपातो जात इति । १५७: राजा तत्र तया दिव्यमानुषिकया श्रिया उपचर्यमाणो न निष्क्रामति; राजकृत्यानि राजकरणीयानि परिहातुमारब्धानि । १५८: अमात्यैरजातशत्रुः कुमारोऽभिहितः: कुमार, देवो ज्योतिष्कस्य गृहं प्रविश्य प्रमत्तः, गच्छ, निवेदयेति । १५९: तेन गत्वा उक्तो: देव, किं त्वमत्र परिविश्यावस्थितो, राजकृत्यानि राजकरणीयानि परिहीयन्त इति । १६०: राजा कथयति: कुमार, न शक्तोऽसि त्वमेकं दिवसं राज्यं कारयितुम् । देवो जानीते, ममैको दिवसः प्रविष्टस्यति । अद्य देवस्य सप्तमो दिवसो वर्तते । १६१: राजा ज्योतिष्कस्य मुखं निरीक्ष्य कथयति: कुमार, सत्यम् । देव, सत्यम् । सप्तमो दिवसो वर्तते । १६२: कुमार, कथं रात्रिः प्रज्ञायते दिवसो वा । देव, पुष्पाणां संविकोचविकासान्, मणीनां ज्वलनाज्वलनात्, शकुनीनां कूजनाकूजनात्; सन्ति तानि कुसुमानि यानि रात्रौ विकसन्ति न दिवा, सन्ति यानि दिवा विकसन्ति न रात्रौ; सन्ति ते मणयो ये रात्रौ ज्वलन्ति न दिवा, सन्ति ये दिवा ज्वलन्ति न रात्रौ; सन्ति ते शकुनयो ये रात्रौ कूजन्ति न दिवा, सन्ति ये दिवा कूजन्ति न रात्रौ । राजा परं विस्मयमापन्नः कथयति: १६३: कुमार, अवितथवादी भगवान्, यथा त्वं भगवता व्याकृतः तथैव नान्यथेत्युक्त्वा ज्योतिष्कस्य गृहान्निष्क्रान्तः । १६४: अजातशत्रुकुमारेण ज्योतिष्कसन्तको मणिरपहृत्य दारकस्य हस्ते दत्तः । तेन यत एव गृहीतस्तत्रैव गत्वावस्थितः । १६५: अजातशत्रुः कथयति: दारकानय तं मणिम्, पश्यामीति । स मुष्टिं विघाट्य कथयति: कुमार, कुत्र, न जाने कुत्र गत इति । १६६: स ताडयितुमारब्धः । ज्योतिष्कः कथयति: कुमार, किमर्थमेनं ताडयसि । गृहपते,ऽहं चौर, एष महाचौरो, मया त्वदीयो मणिरपहृतः, सोऽप्यनेनापहृत इति । १६७: स आह: कुमार, न त्वयापहृतो, नाप्यनेनापि तु यत एव त्वया गृहीतस्तत्रैव गत्वावस्थितो;ऽपि तु, कुमार, स्वकं ते गृहं यावद्भिर्मणिभिरन्येन वा प्रयोजनं तावद्गृहाण यथासुखमिति । १६८: स प्रतिभिन्नकः संलक्षयते: यदा पितुरत्ययाद्राजा भविष्यामि, तदा ग्रहीष्यामीति । १६९: यदाजातशत्रुणा देवदत्तविग्राहितेन पिता धार्मिको धर्मराजो जीविताद्व्यपरोपितः, स्वयमेव च पट्टं बद्ध्वा राज्ये प्रतिष्ठितः, तदा तेन ज्योतिष्कोऽभिहितो: गृहपते, त्वं मम भ्राता भवति, गृहं भाजयाम इति । १७०: एष सम्लक्षयति: येन पिता धार्मिको धर्मराजः प्रघातितः, स मां मर्षयतीति । कुत एतन् । नूनमयं मद्गृहमागच्छतु, कामं प्रयच्छामीति विदित्वा कथयति: देव, बिभक्तमेव । किमत्र विभक्तव्यम् । मदीयं गृहमागच्छ । अहं त्वदीयं गृहमागच्छामीति । १७१: अजातशत्रुः कथयति: शोभनम्, एवं कुरु । स तस्य गृहं गतः । एषोऽपि अजातशत्रोर्गृहं गतह् । सा श्रीस्तस्माद्गृहादन्तर्हिता यत्रैष ज्योतिष्कस्तत्रैव गता । एवं यावत्सप्त वारानन्तर्हिता प्रादुर्भूता च । १७२: अजातशत्रुः संलक्षयते: एवमपि मया न शकितं ज्योतिष्कस्य मणीनपहर्तुम्, अन्यदुपायं करोमि । १७३: तेन धूर्तपुरुषाः प्रयुक्ता: गच्छत, ज्योतिष्कस्य गृहान्मणीनपहरतेति । १७४: ते हि शिटाकर्कटकप्रयोगेनाभिरोढुमारब्धाः । तेऽन्तःपुरिकया उपरिप्रासादतलगतया दृष्टाः, तया धूर्तधूर्तका इति नादो मुक्तः । १७५: अनेन ज्योतिष्केन श्रुतम्, अनेनाशयतो वाग्निश्चरित: तिष्ठन्तु धूर्तका इति । तेषां यो यत्राभिरूढः, स तत्रैवास्थितः, यावत्प्रभाता रजनी संवृत्ता । १७६: महाजनकायेन दृष्टास्, ते कथयन्ति: भवन्तोऽनेन कलिराजेन पिता धार्मिको धर्मराजो जीविताद्व्यपरोपित, इदानीं गृहाण्यपि मोषयति, तत्किं न मे मुषिष्यत इति । पुरक्षोभो जातः । १७७: अजातशत्रुणास्य ज्योतिष्कस्य दूतोऽनुप्रेषितो: मुञ्चत, ममायं खलीकार इति । १७८: अनेन ज्योतिष्केनाशयतो वाग्निश्चारिता: गच्छन्तु धूर्तका इति । ते गताः । १७९: अथैष ज्योतिस्कः संलक्षयते: येन नाम पिता जीविताद्व्यपरोपितः, स मां न प्रघातयिस्यतीति । कुत एतत् । सर्वथाहं भगवता व्याकृतो: मम शासने प्रव्रज्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्करिष्यतीति । गच्छामि, प्रव्रजामीति । १८०: अनेन सर्वं धनजातं दीनानथकृपणेभ्यो दत्तम्, अधनाः सधना व्यवस्थापिताः । स एषागच्छति । (१६) १८१: अत्रान्तरेणायुष्मान् कप्फिणो विचित्ररत्नाचलमभिनिर्माय तत्रोपविष्ट उपरि विहायसा ऋद्ध्याकाशेनागच्छति । १८२: तं दृष्ट्वा सुमागधायाः स्वामी सुमागधां पप्रच्छ: सुमागधे,ऽयं ते स शास्ता योऽयं विचित्ररत्नाचलमभिनिर्माय तत्रोपविष्ट उपरि विहायसा ऋद्ध्याकाशेनागच्छति । १८३: सा कथयति: नायमार्यः कप्फिणो, योऽयं भगवता विगतमददर्पाणामग्रो निर्दिष्टः । १८४: योऽयं राजा महाकप्फिण एकस्मिन् समये अष्टादशामात्यसहस्रपरिवृतो मृगवधाय निर्गतः । १८५: पुरस्तात्पृष्ठतश्च सर्वबलौघमवलोक्यामात्यानामन्त्रयते: अस्ति, भवन्तः, कस्यचिदेवंरूपो बलौघस्तद्यथा ममैतर्हीति । ते कथयन्ति: देव, नान्यस्य कस्यचित् । १८६: यावदनेन महाकप्फिणेन राज्ञा श्रावस्त्यादिषु षट्सु महानगरेषु दूतं प्रेषितम्: यद्व्युत्थिता भवथ नोपवेष्टव्यं, शीघ्रमागन्तव्यम्; अन्यथा चेदुत्तमेन दण्डेन समनुशासिष्यामीति । १८७: एतद्वचनमुपश्रुत्य षण्महानगरवासिनो राजानो भीतास्त्रस्ताः संविग्नाः समागम्य श्रावस्तीं गत्वा भगवते एतद्वृत्तान्तं निवेदयन्ति । १८८: भगवता ते समाश्वासिता, उक्ताश्च: स दूतो मत्सकाशमानेतव्य इति । तैर्दूतस्य निवेदितम्: अस्त्यस्माकं राजाधिराजस्, तं तावत्पश्येति । १८९: भगवता जेतवनं चतूरत्नमयं निर्मितं देवानामिव सुदर्शनं नगरं चत्वारो महाराजा दौवारिकाः स्थापिताः, ऐरावतसदृशा हस्तिनो, बालाहकसदृशा, नन्दीघोषसदृशा रथा, व्याडयक्षसदृशा मनुष्याः, स्वयं च भगवांश्चक्रवर्तिवेशमात्मानमभिनिर्माय सप्ततालोद्गते महारत्नसिंहासने निषण्नाः । १९०: दूतस्तथाविधां शोभां दृष्ट्वा परं विस्मयमापन्नः । १९१: भगवता लेखं लिखयित्वाभिहितः: कप्फिणो मद्वचनाद्वक्तव्यो लेखवाचसमकलमेव: यत्व्युत्थितो भवसि नोपवेष्टव्यं, शीघ्रमागन्तव्यम्, अथ नागच्छसि, अहमेव महता बलौघेन सार्धमागमिष्यमीति । १९२: दूतेन महाकप्फिणस्य तत्सर्वं संदिष्टं निवेदितम् । १९३: अयं कप्फिणो राजाष्टादशामात्यसहस्रपरिवृतः श्रावस्तीमनुप्रवेश्य जेतवनं प्रविष्टः, सहदर्शनादस्य यो रूपे रूपमद ऐश्वर्ये ऐश्वर्यमदः स प्रतिविगतः, बलदर्पोऽद्यापि वध्यत एव । १९४: ततो भगवता लौकिकं चित्तमुत्पादितम्: अहो बत, शक्रो देवानामिन्द्र ऐन्द्रं धनुरादायागच्छेदिति । १९५: सहचित्तोत्पादाद्भगवतः शक्रो देवानामिन्द्रः सारथिवेशेनैन्द्रं धनुरुपनामितवान् । ततो भगवता तद्धनुरुपनामितम् । तदुत्क्षेप्तुमपि न शक्नोति, कुतः पुनरारोपयितुम् । १९६: ततो भगवता सप्तायोमय्यो भेर्यो निर्मिताः, स्वयमेव तद्धनुरर्धचन्द्राकारेणारोप्य शरः क्षिप्तो येन सप्तायोमय्यो भेर्यश्छिद्रीकृतास्, ततः शब्दो निर्गतः । १९७: आरभध्वम्, निष्क्रामत, युज्यध्वं बुद्धशासने । धूनीत मृत्युनः सैन्यं नडागारमिव कुञ्जरः ॥ १९८: यो ह्यस्मिन् धर्मविनये अप्रमत्तश्चरिष्यति । प्रहाय जातिसंसारं दुःखस्यान्तं करिष्यतीति ॥ १९९: स च शब्दो यावदकनिष्ठान् देवान् गतः, ततोऽस्य योऽभूद्बलदर्पः स प्रतिविगतः । २००: ततो भगवतास्य चित्तमाज्ञाय राजवेशमन्तर्धाप्य धर्मो देशितह् । येनाष्टादशामात्यसहस्रपरिवारेण यावच्छ्रोतआपत्तिफलं साक्षात्कृतवान्, ततो दृष्टसत्यश्च भगवतः शासने प्रव्रजितः । सोऽयमागच्चति । (१७) २०१: अत्रान्तरेणायुष्मानानन्दः हंसक्रौञ्चमयूरशुकसारिकाकोकिलजीवंजीवकनादोपकूजितमाराममभिनिर्माय तत्रोपविष्ट उपरि विहायसा ऋद्ध्याकाशेनागच्छति । २०२: तं दृष्ट्वा सुमागधायाः स्वामी सुमागधां पप्रच्छ: सुमागधे,ऽयं ते स शास्ता योऽयं हंसक्रौञ्चमयूरशुकसारिकाकोकिलजीवंजीवकनादोपकूजितमाराममभिनिर्माय तत्रोपविष्ट उपरि विहायसा ऋद्ध्याकाशेनागच्छति । २०३: सा कथयति: नायमार्य आनन्दः, अयं च भगवता इन्द्रियगुप्तद्वाराणामग्रो निर्दिष्टः । २०४: अयं च भगवतश्चतुर्भिरङ्गुलैरूनः सुवर्णवर्णो द्वात्रिंशन्महापुरुषलक्षणैः समलंकृतः । २०५: अनेन काश्यपस्य सम्यक्संबुद्धस्य स्तूपे मध्यमं छत्त्रमारोपितम् । तस्य कर्मणो विपाकेनार्धतृतीयानि चक्रवर्तिराज्यसहस्राणि; यद्येतर्हि न प्रव्रजितोऽभविष्यदेतर्हि अप्यनेन बलचक्रवर्तिराज्यमकरिष्यत् । २०६: अयं च भगवता बलात्प्रव्रजितः । अयं च भगवतो मातृस्वसापुत्रो भ्राता भवति । स एषागच्छति । (१८) २०७: अत्रान्तरेनायुष्मान् राहुलश्चक्रवर्तिवेशमभिनिर्माय सप्तरत्नसमन्वागतश्चतुरशीत्या भटबलाग्रकोटिभिः समनुगम्यमानश्चतुरशीत्या नागसहस्रैरुपोषधनागराजप्रमुखैश्चतुरशीत्याश्वसहस्रैर्बालाहकाश्वराजप्रमुखैर्चतुरशीत्या रथसहस्रैर्नन्दीघोषरथप्रमुखैरनेकैश्च पौरजानपदसहस्रैर्नानापटहशङ्खभेरीनिनादैरुच्छ्रितध्वजपताकोपशोभितमभिनिर्माय तत्रोपविष्ट उपरि विहायसा ऋद्ध्याकाशेनागच्छति । २०८: तं दृस्ट्वा सुमागधायाः स्वामी सुमागधां पप्रच्छ: सुमागधे,ऽयं ते स शास्ता, योऽयं चक्रवर्तिवेशेनागच्छति । २०९: सा कथयति: नायमार्यो राहुलो,ऽयं भगवता शिक्षकामानामग्रो निर्दिष्टः । २१०: भगवतः पुत्रोऽयं पितुरुज्झितां श्रियमुद्द्योतमानः, सर्वचक्रवर्तिप्रतिविशिष्टतरामृद्धिमुपदर्शयन्नुपरि विहायसा ऋद्ध्याकाशेनागच्छति । २११: आह च: लक्ष्मीं लक्षणमालिनीं सुरुचिरां शक्रर्द्धिविस्पर्धनीं नागानीकबलान्वितां सुमहतीं रत्नैर्वृतां सप्तभिः । कृत्वा बुद्धसुतोऽभ्युपैति नभसा वेशं च राज्ञामयं नाम्ना राहुल इत्यवेति सुमहते सम्पूज्यमानः सुरैः ॥ २१२: भित्त्वोर्वीं जलवत्प्रयान्ति मुनयः केचित्सृजन्तोऽनलं रम्यतोयधरा इवाशु जगति स्पष्टं क्षरन्तो जलम् । शक्रब्रह्मकुबेरविग्रहधराश्चन्द्रार्कदैत्यत्विषो लोकस्योदयकाङ्क्षिणो हि नभसा संप्रस्थिताः सूरताः ॥ स एषागच्छति । (१९) २१३: संप्रस्थितेसु भिक्षुसंघेसु अत्रान्तरेण तथागतप्रवेशः । भगवांस्तथारूपं समाधिं समापन्नो, यथासमाहिते चित्ते भगवतः कायाद्रश्मयो निश्चरन्ति, तद्यथा नीलपीतलोहितावदातमञ्जिष्ठस्फटिकवर्णः, यैरयं लोके उदारेणावभासेनावभासितो यावच्च श्रावस्तीं यावच्च पुण्ड्रवर्धनं नगरम् । २१४: अत्रान्तरेण सर्वे लोका भगवन्तमभिनिष्क्रमन्तं पश्यन्ति, महांश्च पृथिवीचालो बभूव । २१५: अथ ब्रह्मा सहांपतिर्भगवतश्चेतसा चित्तमाज्ञाय सार्धं रूपावचरैर्देवैरागत्य भगवतो दक्षिणे पार्श्वे व्यवस्थितः । २१६: शक्रोऽपि देवानामिन्द्रः सार्धं कामावचरैर्देवैरागत्य वामे पार्श्वे व्यवस्थितः । २१७: तुम्बुरुसुप्रियप्रमुखानि पञ्चमात्राणि गन्धर्वशतान्यागत्य भगवतोऽग्रतो विविधैर्वाद्यगीतनृत्तविशेषैरुपस्थानं कुर्वन्तो गच्छन्ति । २१८: अनेकानि च देवताशतसहस्राणि पृष्ठतः पृष्ठतः समनुगच्छन्ति । २१९: उपरिष्टाच्च भगवतोऽप्सरसो दिव्यान्युत्पलपद्मकुमुदपुण्डरीकमान्दारवाणि पुष्पाणि, दिव्यान्यगरुचूर्णानि तगरचूर्णानि चन्दनचूर्णानि तमालपत्त्रचूर्णनि, दिव्यानि च वाद्यानि संप्रवादयन्ति, चैलविक्षेपांश्चाकार्षुह् । २२०: तेन खलु पुनः समयेनान्यतरस्मिनरण्यायतने सप्त ऋषिसहस्राणि प्रतिवसन्ति । २२१: अद्राक्षुस्ते ऋषयो बुद्धं भगवन्तं द्वात्रिम्शता महापुरुषलक्षणैः समलंकृतम्, अशीत्या चानुव्यञ्जनैर्विराजितगात्रं व्यामप्रभालंकृतं, सूर्यप्रभातिरेकप्रभं, जङ्गममिव रत्नपर्वतम्, समन्ततो भद्रकं, हव्यावसिक्तमिव हुतवहम्, काञ्चनभाजनस्थमिव प्रदीपं, सुवर्णयूपमिव श्रिया ज्वलन्तम् । २२२: न तथा द्वादशवर्षाभ्यस्तः शमथचित्तस्य कल्यतां जनयति, राज्याभिनन्दिनो वा तत्प्रथमतो राज्याभिषेकः, अपुत्रस्य वा पुत्रप्रतिलम्भः, दरिद्रस्य वा निधिदर्शनं, यथावारोपितं कुशलमूलानां तत्प्रथमतो बुद्धदर्शनम् । २२३: अथ ते ऋषयो येन भगवांस्तेनोपसंक्रान्ता, उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वैकान्ते तस्थुः । २२४: ततो भगवता तेषामृषीणामाशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशी चतुरार्यसत्यसंप्रतिवेधिका धर्मदेशना कृता, यां श्रुत्वा तैरृषिभिर्विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्त्वा श्रोतआपत्तिफलं साक्षात्कृतम् । २२५: अथ ते ऋषयो बुद्धं भगवन्तं परिचार्य संप्रस्थिताः । २२६: तेन खलु समयेन पुण्ड्रवर्धने नगरेऽष्टादश द्वाराण्यबभूवन् । २२७: अथ भगवत एतदभवत्: यदहं पश्चिमेन द्वारेण प्रवेक्ष्यामि, अन्यद्वारनिवासिनां नागराणामन्यथात्वं भविष्यति, यन्न्वहमष्टादश बुद्धानभिनिर्माय स्वयं पश्चिमेन द्वारेण प्रवेशयमिति । २२८: अथ भगवानष्टादश बुद्धानभिनिर्माया स्वयं पश्चिमेन द्वारेण प्रविष्टः । २२९: भगवतः पुरप्रवेशे एवंरूपाण्याश्चर्याण्यत्यद्भुतानि भवन्त्यन्यानि च: तद्यथोन्नतोन्नताः पृथिवीप्रदेशाः अवनमन्त्यवनताश्चोन्नमन्ति, अपगतपाषानशर्करकठल्या भवन्ति, नीचानि द्वाराण्युच्चीभवन्ति, संक्षिप्तानि विशालीभवन्ति, हस्तिनः कूजन्ति, अश्वा हेषन्ते, उष्ट्राः क्रोशन्ते, गावो रम्भन्ते, वृषभा नन्दन्ते, मयूराः केकायन्ते, गृहगतानि च विविधानि वाद्यभाण्डानि स्वयं नदन्ति, अन्धाश्चक्षूंसि प्रतिलभन्ते, बधिराः शृण्वन्ति, मूकाः प्रव्याहारसमर्था भवन्ति, परिभ्रष्टेन्द्रियविकला इन्द्रियाणि परिपूर्नाणि प्रतिलभन्ते, मद्यमदनाक्षिप्ता विमदी भवन्ति, विषपीता निर्विषा भवन्ति, अन्योन्यवैरिणो मैत्रीं प्रतिलभन्ते, गर्भिण्यः स्वस्तिना प्रसूयन्ते, बन्धनबद्धाः प्रमुच्यन्ते, अधना धनानि प्रतिलभन्ते । २३०: एवंविधया विभूत्या प्रविश्य येन सुमागधाया निवेशनं तेनोपसंक्रान्तः । २३१: अथ सुमागधा स्वयमेव गोशीर्षचन्दनोदकेन भृङ्गारं पूरयित्वा भगवतः पादोदकमनुप्रयच्छति भिक्षुसंघस्य च । २३२: ततः सुमागधा भगवतः पादयोर्निपत्यैवमाह: धन्यास्ते परवादिवादमथनं पश्यन्ति ये ते मुखं विस्तीर्णे सदसि स्थितस्य वचनं शृण्वन्ति ये वा मुदा । लाभस्तस्य महान् भविष्यति च यः पादौ तव श्रीनिधेर् मूर्ध्ना चैव करद्वयेन विनयात्संपीड्य वन्दिष्यते ॥ २३३: अथ भगवान् पुरस्ताद्भिक्षुसंघस्य प्रज्ञप्त एवासने निषण्णः, सुखोपविष्टं बुद्धप्रमुखं भिक्षुसंघं विदित्वा शुचिना प्रणीतेन खादनीयेन भोजनीयेन स्वहस्तेन संतर्पयति संप्रवारयति । २३४: अथ पुण्ड्रवर्धननिवासी जनकायो भगवन्तमपश्यंस्तद्गृहं भेत्तुमारब्धः । ततो भगवता तद्गृहं स्फटिकमयमभिनिर्मितं, यतः सर्वो महाजनकाय आदर्शनगतमिव भगवन्तं भुञ्जमानं पश्यति भिक्षुसंघं च । २३५: आह च । स्फटिकमयमभूत्तदेव रम्यं मणिकनकाक्षरत्नभक्तिचित्रम् । स्थितमिव पुरतो मुनीन्द्रचन्द्रं नगरजनोऽपि निरीक्षते समग्रः ॥ २३६: प्रसादारोमाञ्चितसर्वगात्राः कृताञ्जलिं मूर्ध्नि निपात्य हस्तम् । नरा नमन्ति स्म मुनीन्द्रचन्द्रं सुरा इवेन्द्रं भवनोदरस्थम् ॥ २३७: अथ भगवान् कृतभक्तकृत्यः पुरस्ताद्भिक्षुसंघस्य प्रज्ञप्त एवासने निषण्णः । २३८: ततः सुमागधाप्रमुखोऽन्तर्जनकायस्ते च नागरास्ते च ऋषयस्ते च देवासुरगरुडयक्षगन्धर्वकिन्नरमहोरगा भगवन्तं परिवार्यावस्थिताः । २३९: ततो भगवता तेषां च तादृशी चतुरार्यसत्यसंप्रवेधिकी धर्मदेशना कृता, यां श्रुत्वा कैश्चिच्छ्रोतआपत्तिफलं साक्षात्कृतं, कैश्चित्सकृदागामिफलं, कैश्चिदनागामिफलम्, कैश्चित्प्रव्रज्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतं, कैश्चिदूष्मगतानि कुशलमूलानि उत्पादितानि, कैश्चिन्मूर्धानः, कैश्चिन्मृदुमध्याधिमात्रक्षान्तयः, कैश्चिच्छ्रावकबोधौ चित्तान्युत्पादितानि, कैश्चित्प्रत्येकायां बोधौ, कैश्चिदनुत्तरायां सम्यक्संबोधौ, कैश्चिच्छरणगमनानि गृहीतानि, कैश्चिच्छिक्षापदानि गृहीतानि । २४०: यद्भूयसा सा पर्षद्बुद्धनिम्ना धर्मप्रवणा संघप्राग्भारा व्यवस्थिता । २४१: यदा भगवतैतत्सूत्रं भाषितं, तदा भिक्षवो भगवन्तमेवमाहुः: आश्चर्यं भगवन्न्, आश्चर्यं सुगत, यत्सुमागधया भगवन्तं कल्याणमित्रमागम्य बुद्धकार्यं कृतमिति । २४२: भगवानाह: न भिक्षव एतर्ह्येव यथातीतेऽप्यध्वनि बुद्धं भगवन्तं कल्याणमित्रमागम्य काञ्चनमालया यद्बुद्धकार्यं कृतं, तच्छृणुत, साधु च सुष्ठु च मनसि कुरुते, भाषिष्ये । २४३: भूतपूर्वं, भिक्षवो,ऽतीतेऽध्वनि विंशतिवर्षसहस्रायुषि प्रजायां काश्यपो नाम शास्ता लोक उदपादि, तथागतोऽर्हन् सम्यक्संबुद्धो विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान्, स बाराणसीं नगरीमुपनिश्रित्य विहरति ऋषिवदने मृगदावे । २४४: तेन खलु पुनः समयेन कृकी नाम राजा बभूव । २४५: तस्य दुहिता काञ्चनमालया शिरसि बद्धया जाता, तस्या मातापितृभ्यां काञ्चनमालेति नाम कृतम् । २४६: सा उन्नीता वर्धिता महती संवृत्ता, राज्ञः कृकिन इष्टा कान्ता प्रिया मनापा संवृत्ता । २४७: सा पञ्चशतपरिवारा भगवतो दर्शनायोपसंक्रान्ता, तस्या भगवता धर्मो देशितः । २४८: तया तं धर्मं श्रुत्वा भगवतोऽनितिके महान् चित्तप्रसाद उत्पन्नो, भगवांश्च तया यावज्जीवं चीवरपिण्डपात्रशयनासनग्लानप्रत्ययभैषज्यपरिष्कारः प्रचारितह् । २४९: तेन खलु पुनः समयेन राज्ञा कृकिना दश स्वप्ना दृष्टाः: (१) वातायनेन हस्ती निर्गतस्, पुच्छो लग्नः । (२) तृषितय पृष्ठतः कूपो धावति । (३) मुक्ताप्रस्थं शक्तुप्रस्थेन विक्रीयमाणं । (४) चन्दनं काष्ठार्घेण समीक्रियमाणं । (५) गन्धहस्तिनं कलभैर्वित्रास्यमानं । (६) आरमं पुष्पफलसंपन्नमदत्तदायिभिरपह्रियमाणम् । (७) अशुचिना म्रक्षितो मर्कटः परानुपलिंप्यमानः । (८) मर्कटस्य राज्याभिषेकः । (९) पटोऽष्टादशभिर्जनैराकृष्यते, न शीर्यते । (१०) महाजनकायश्चैकत्र संनिपत्य कलहभण्डनविग्रहविवादे नातिनामयति । २५०: तं दृष्ट्वा च पुनर्भीतश्त्रस्तश्चिन्तयति: मा मे इतोनिदानं राज्याच्च्युतिर्भविष्यति जीवितस्य चान्तराय इति । २५१: ततो राज्ञा स्वप्नाध्यायविदो ब्राह्मणानाहूय स्वप्नान्निवेदितवान् । २५२: ते काञ्चनमालां दृष्ट्वा कथयन्ति: राजन्, या ते सर्वजनप्रिया तस्या रुधिरेण यज्ञो यष्टव्यः, अन्त्रैर्नगरं वेष्टव्यम्, एवं देवस्य श्रेयो भविष्यति, स्वप्नान् दारुणान् दृष्ट्वा राज्यजीवितहारिणोऽनेनोपायेन स्वस्तिर्देवस्य भविष्यति । २५३: राजा संलक्षयति: सर्वजनप्रिया मे काञ्चनमाला, तां व्यापादयितुकामा ब्राह्मणा एवमाहुः । वरं ममैव मरणं, न तु काञ्चनमालां व्यापादयिष्यामीति । २५४: करे कपोलं दत्त्वा चिन्तापरो व्यवस्थितः, काञ्चनमालया दृष्टः । सा कथयति: किमेवं चिन्तापरो, देव, इति । तेन स वृत्तान्तो विस्तरेण निवेदितः । सा कथयति: एष भगवान् काश्यपः सम्यक्संबुद्धो बाराणसीमुपनिश्रित्य विहरति ऋषिवदने मृगदावे, तं भगवन्तं गत्वा पृच्छथ । यथा ते भगवान् व्याकरोति तथैवं धारय । २५५: ततो राजा महता श्रीसमुदायेन काञ्चनमालया सार्धं बराणस्या निर्गत्य येन भगवांस्तेनोपसंक्रान्तः, उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वैकान्ते निषण्णः, काञ्चनमालापि, अन्यानि च ब्राह्मणगृहपतिशतसहस्राणि । २५६: अथ भगवान् कृकिनं राजानं धर्मया कथया संदर्शयति समादापयति समुत्तेजयति संप्रहर्षयति । अनेकपर्यायेण धर्मया कथया संदर्श्य समादाप्य समुत्तेज्य संप्रहर्ष्य तूष्णीं बभूव । २५७: अथ कृकी राजा दश स्वप्नान्निवेद्यैवमाह: मा मे, भगवंस्, ततोनिदानं राज्याच्च्युतिर्भविष्यति जीवितस्य चान्तराय इति । २५८: भगवानाह: मा भैषीस्त्वं, महारज, न तवेतोनिदानं राज्याच्च्युतिर्भविष्यतीति जीवितस्य चान्तरायः । (१) यत्त्वं, महाराज, स्वप्नमद्राक्षीर्, वातायनेन हस्ती निर्गच्छन् पुच्छो लग्न इति, भविष्यत्यनागतेऽध्वनि वर्षशतायुषि प्रजायां शाक्यमुनिर्नाम तथागतोऽर्हन् सम्यक्संबुद्धः, स सकलं बुद्धकार्यं कृत्वेन्धनक्षयादिवाग्निरनुपधिशेषे निर्वाणधातौ परिनिर्वास्यतीति । तस्य परिनिर्वृतस्य पश्चिमे काले अश्राद्धा ब्राह्मणगृहपतयस्, ते रुदन्तोऽश्रुमुखान् बन्धूनुत्सृज्य प्रव्रज्य विहारेषु गृहसंज्ञामुत्पादयिष्यन्ति, तस्यैतत्पूर्वनिमित्तम् । (२) यत्त्वं पुनः स्वप्नमद्राक्षीस्, तृषितस्य पृष्ठतः कूपो धावति, तस्यैव श्रवका धर्मं देशयिष्यन्ति श्रद्धानां गृहपतीनां, ते सतृष्णा एव प्रक्रमिष्यन्ति, तस्यैतत्पूर्वनिमित्तम् । (३) यत्त्वं स्वप्नमद्राक्षीर्, मुक्ताप्रस्थेन शक्तुप्रस्थं क्रीयमाणमिति, तस्यैव श्रावकाः शक्तुप्रस्थस्य हेतोरिन्द्रियबलबोध्यङ्गानि संप्रकाशयिष्यन्ति, तस्यैतत्पूर्वनिमित्तम् । (४) यत्त्वं स्वप्नमद्राक्षीश्, चन्दनं काष्ठार्घेण समीक्रियमाणं, तस्यैव श्रावकास्तं तीर्थिकवाक्यमनुगृह्य सद्धर्मेण समीकरिष्यन्ति, तस्यैतत्पूर्वनिमित्तम् । (५) यत्त्वं स्वप्नमद्राक्षीर्, गन्धहस्ती कलभैर्वित्रास्यत इति, तस्यैव श्रावका असंयतास्ते शीलवन्तो भिक्षून्निष्काशयिष्यन्ति, तस्यैतत्पूर्वनिमित्तम् । (६) यत्त्वं स्वप्नमद्राक्षीर्, आरामां पुष्पफलसंपन्नमदत्तादायिभिरपह्रियमाणं, तस्यैव श्रावका आर्यसंघस्य प्रतिपादितमारामं संघमालंबीकृत्य केचिदभावितकाया अभावितचित्ता अभावितप्रज्ञाः संघादाच्छिद्य पुष्पफलं स्वजनेभ्यो दास्यन्ति, तस्यैतत्पूर्वनिमित्तम् । (७) यत्त्वं स्वप्नमद्राक्षीर्, अशुचिम्रक्षितो मर्कटः परानुपलिंप्यतीति, तस्यैव श्रावका अभावितकाया अभावितचित्ता अभावितप्रज्ञा आत्मनापत्तिमापन्नाः श्राद्धानामपि भिक्षूणामापत्तिं व्यवस्थापयिष्यन्ति, तस्यैतत्पूर्वनिमित्तम् । (८) यत्त्वं स्वप्नमद्राक्षीर्, मर्कटस्य राज्याभिषेकः, तस्मिन् समये विकलेन्द्रिया अपि राजानो भविष्यन्ति, तस्यैतत्पूर्वनिमित्तम् । (९) यत्त्वं स्वप्नमद्राक्षीः, पटोऽष्टादशभिर्जनैराकृष्यते न च शीर्यत इति, तस्य परिनिर्वृतस्य शासनमष्टादशभेदभिन्नं भविष्यति, न च शक्यति विमुक्तिपटं पाटयितुं, तस्यैतत्पूर्वनिमित्तम् । (१०) यत्त्वं स्वप्नमद्राक्षीर्, महाजनकायश्चैकत्र संनिपत्य कलहभण्डेन विवादविग्रहेनातिनामयन्ति, तस्य शासने असंयता भिक्षवः कलहभण्डनविग्रहविवादेनान्तर्धापयिष्यन्ति, तस्यैतत्पूर्वनिमित्तम् । मा भैषीस्त्वं, महाराज, न तवेतोनिदानं राज्याच्च्युतिर्भविष्यति जीवितान्तरायो वा । २५९: ततो भगवता तस्य राज्ञस्तस्य च महाजनकायस्य तादृशी चतुरार्यसत्यसंप्रतिवेधिकी धर्मदेशना कृता, यां श्रुत्वा चतुरशीत्या प्राणिशतसहस्रैः सत्यदर्शनं कृतम् । २६०: काञ्चनमालया भगवन्तं कल्याणमित्रमागम्य बुद्धकार्यं कृतम् । २६१: किं मन्यध्वे, भिक्षवः यासौ काञ्चनमाला इयमेव सा सुमागधेति । २६२: भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: किं भदन्त, काञ्चनमालया कर्म कृतं येनाढ्ये कुले प्रत्यजाता येन काञ्चनमालया शिरसि बद्धया जाता इति । २६३: भगवानाह: काञ्चनमालयैव, भिक्षवः, पूर्वमन्यासु जातिषु कर्माणि कृतानि उपचितानि लब्धसंभाराणि परिणतप्रत्ययान्योघवत्प्रत्युपस्थितान्यवश्यंभावीनि । काञ्चनमालयैव, भिक्षवः, कर्माणि कृतानि उपचितानि । कोऽन्यः प्रत्यनुभविष्यति । न, भिक्षवः, कर्माणि कृतान्युपचितानि बाह्यपृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधाताव्, अपि तूपात्तेषु एव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्यशुभानि च । २६४: न प्रनश्यन्ति कर्माणि कल्पकोटिशतैरपि । सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम् ॥ २६५: भूतपूर्वम्, भिक्षवो,ऽतीतेऽध्वनि बाराणस्यां महानगर्यामन्यतमा दरिद्रा स्त्री, तया प्रत्येकबुद्धस्य चैत्ये नानाविचित्रां पलालमालां ग्रन्थयित्वा समारोप्य प्रसन्नचित्तया प्रणिधानं कृतम् । २६६: अनेनाहं कुशलमूलेन चित्तोत्पादेन देयधर्मपरित्यागेन च यत्रयत्रोपपद्येऽहं तत्रतत्र काञ्चनमालया शिरसि बद्धया जायेयमिति । किं मन्यध्वे, भिक्षवः । यासौ दरिद्रा स्त्री, इयमसौ काञ्चनमाला । यदनया प्रसन्नचित्तया प्रणिधानं कृतं, तेन पञ्चजन्मशतानि काञ्चनमालया शिरसि बद्धया जाता । २६७: पणद्वयं च तया पटान्तावबद्धं विमुच्यार्यसंघाय दत्तं; तेनाढ्येसु कुलेसु जाता प्रणिधानवशाच्चेति । २६८: अथ भगवान् सुमागधाप्रमुखं पुण्ड्रवर्धननिवासिनं महाजनकायमभिप्रसाद्य प्रक्रान्तः, तथैव र्द्ध्या सार्धं भिक्षुसंघेन श्रावस्तीमागतः । २६९: इति हि, भिक्षव, एकान्तकृष्णानां कर्मणामेकान्तकृष्णो विपाकः, एकान्तशुक्लानामेकान्तशुक्लो, व्यतिमिश्राणां व्यतिमिश्रः । तस्मात्तर्हि, भिक्षव, एकान्तकृष्णानि कर्माण्यपास्य व्यतिमिश्राणि च, एकान्तशुक्लेष्वेव कर्मस्वाभोगः करणीय इति । तस्मात्तर्हि, भिक्षव, एवं शिक्षितव्यम्, यच्छास्तारं सत्करिष्यामो गुरुकरिष्यामो मानयिष्यामः पूजयिष्याम इत्येवं वो, भिक्षवः, शिक्षितव्यम् । २७०: इदमवोचद्भगवानात्तमनास्, ते च भिक्षवो भगवतो भाषितमभ्यनन्दन्निति । सुमागधावदानं समाप्तम् ।