प्१ ओं नमो दशदिगनन्तापर्यन्तलोकधातुप्रतिष्ठितेभ्यः सर्वबुद्धबोधिसत्त्वार्यश्रावकप्रत्येकबुद्धेभ्योऽतीतानागत- प्रत्युत्पन्नेभ्यः । नमोऽमिताभाय । नमोऽमितायुषे । नमोऽचिन्त्यगुणाक- रात्मने । नमोऽमिताभाय जिनाय, ते मुने । सुखावतीं यामि ते चानुकम्पया । सुखावतीं कनकविचित्रकाननां मनोरमां सुगतसुतैरलंकृतां । तथाश्रयां प्रथितयशस्य धीमतः, प्रयामि तां बहुगुणरत्नसंचयाम् । एवं मया श्रुतम् : एकस्मिन् समये भगवान् राजगृहे विहरति स्म, गृध्रकूटे पर्वते महता भिक्षुसंघेन सार्धं द्वात्रिंशता भिक्षुसहस्रैः, सर्वैरर्हद्भिः क्षीणास्रवैर्निःक्लेशैरुषितवद्भिः सम्यगाज्ञासुविमुक्तचित्तैः परिक्षीणभवसंयोजनसहस्रैरनुप्राप्तस्वकार्थैर् विजितवद्भिर्, उत्तमदमने शमथप्राप्तैः, सुविमुक्तचित्तैः सुविमुक्तप्रज्ञैर्महानागैः, षडभिज्ञैर् वशीभूतैरष्टविमोक्षध्यायिभिर्बलप्राप्तैरभिज्ञानाभिज्ञातैः, स्थविरैर्, महाश्रावकैः । तद्यथा : आज्ञातकौण्डिन्येन च, अश्वजिता च, बाष्पेण च, महानाम्ना च, भद्रजिता प्२ च, यशोदेवेन च, विमलेन च, सुबाहुना च, पूर्णेन च मैत्रायणीपुत्रेण, गवांपतिना च, उरुविल्वाकाश्यपेन च, नदीकाश्यपेन च, भद्रकाश्यपेन च, कुमारकाश्यपेन च, महाकाश्यपेन च, शारिपुत्रेण च, महामौद्गल्यायनेन च, महाकप्फिनेन च, महाचुन्देन च, अनिरुद्धेन च, राधेन च, नन्दिकेन च, किम्पिलेन च, सुभूतिना च, रेवतेन च, खदिरवनिकेन च, वक्कुलेन च, स्वागतेन च, अमोघराजेन च, पारायणिकेन च, पन्थेन च, चूलपन्थेन च, नन्देन च, राहुलेन च, आयुष्मता चानन्देन । एभिश्चान्यैश्चाभिज्ञानाभिज्ञातैः स्थविरैर् महाश्रावकैर्, एकपुद्गलं स्थापयित्वा शैक्षप्रतिपद्युत्तरिकरणीयं, यदिदम् : आयुष्मन्तमानन्दं, मैत्रेयपूर्वंगमैश् च संबहुलैश्च बोधिसत्त्वैर्महासत्त्वैः । अथ खल्वायुष्मानानन्द उत्थायासनादेकांशम् उत्तरासङ्गं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तम् एतदवोचत्: विप्रसन्नानि च तव भगवत इन्द्रियाणि, परिशुद्धश्छविवर्णः, पर्यवदातो मुखवर्णः पीतनिर्भासः, तद्यथा शारदं वनदं पाण्डु परिशुद्धं पर्यवदातं पीतनिर्भासं । एवमेव भगवतो विप्रसन्नानीन्द्रियाणि, परिशुद्धो मुखवर्णः, पर्यवदातश् छविवर्णः पीतनिर्भासः । तद्यथापि नाम भगवञ् जांबूनदसुवर्णनिष्को, दक्षेण कर्मारेण कर्मारपुत्रेण वोल्कामुखे संप्रवेश्य सुपरिनिष्ठितः पाण्डुकम्बलैर् प्३ उपरि क्षिप्तो,ऽतीवपरिशुद्धो भवति ; पर्यवदातः पीतनिर्भासः । एवमेव भगवतो विप्रसन्नानीन्द्रियाणि, परिशुद्धो मुखवर्णः, पर्यवदातश्छविवर्णः पीतनिर्भासः । न खलु पुनरहं भगवन्नभिजानामि : इति पूर्वं पुर्वतरम्, एवं विप्रसन्नानि तथागतस्येन्द्रियाण्य्, एवं परिशुद्धं मुखवर्णं, पर्यवदातं छविवर्णं पीतनिर्भासम् । तस्य मे भगवन्नेवं भवति : बुद्धविहारेण वताद्य तथागतो विहरति ; जिनविहारेण, सर्वज्ञताविहारेण, महानागविहारेण वताद्य तथागतो विहरति । अतीतानागतप्रत्युत्पन्नान् तथागतानर्हतः सम्यक्संबुद्धान् समनुपश्यतीति । एवमुक्ते, भगवानायुष्मन्तमानन्दमेतदवोचत्: साधु साध्वानन्द, किं पुनस्ते देवता एतमर्थमारोचयन्त्य्, उताहो बुद्धा भगवन्तः । अथ स्वेन प्रत्युत्पन्न- मीमांसाज्ञानेनैवं प्रजानासीति । एवमुक्ते, आयुष्मान् आनन्दो भगवन्तमेतदवोचत्: न मे भगवन् देवता एतमर्थमारोचयन्ति, नापि बुद्धा भगवन्तः । अथ तर्हि मे भगवन् स्वेनैव प्रत्यात्ममीमांसाज्ञानेनैवं भवति : बुद्धविहारेणाद्य तथागतो विहरति ; जिनविहारेण, सर्वज्ञताविहारेण, महानागविहारेण वताद्य तथागतो विहरति ; अतीतानागतप्रत्युत्पन्नान् सर्वान् बुद्धान् भगवतः प्४ समनुपश्यतीति । एवमुक्ते, भगवानायुष्मन्तमानन्दमेतदवोचत्: साधु साध्वानन्द ; उदारः खलु त उन्मिञ्जिः, भद्रिका मीमांसा, कल्यानं प्रतिभानं, बहुजनहिताय यस् त्वमानन्द प्रतिपन्नो, बहुजनसुखाय, लोकानुकम्पायै, महतो जनकायस्यार्थाय, हिताय सुखाय देवानां च मनुष्यानां च, यस्त्वं तथागतमेतमर्थं परिप्रष्टव्यं मन्यसे । एवमेतद्भवत्यानन्द, तथागतेष्वर्हत्सु सम्यक्संबुद्धेष्वप्रमेयेष्वसंख्येयेषु ज्ञानदर्शनम् उपसंहरतः, न च तथागतस्य ज्ञानमुपहन्यते । तत्कस्य हेतोः । अप्रतिहतहेतुज्ञानदर्शनो ह्यानन्द तथागतः । आकाङ्क्षनानन्द तथागत एकपिण्डपातेन कल्पं वा तिष्ठेत्, कल्पशतं वा, कल्पसहस्रं वा, कल्पशतसहस्रं वा, यावत्कल्पकोटीनयुतशतसहस्रं वा, ततो वोत्तरि, न च तथागतस्येन्द्रियाण्युपनश्येयुः ; न मुख- वर्णस्यान्यथात्वं भवेत्; नापि छविवर्ण उपहन्यते । तत् कस्य हेतोः । तथा ह्यानन्द तथागतः समाधिमुख- पारमिताप्राप्तः । सम्यक्संबुद्धानामानन्द लोके सुदुर्लभः प्रादुर्भावः ; तद्यथोदुम्बरपुष्पाणां लोके प्रादुर्भावः सुदुर्लभो भवति, एवमेव तथागतानामर्थकामानां हितैषिणामनुकम्पकानां महाकरुणाप्रतिपन्नानां सुदुर्लभः प्रादुर्भावः । अपि तु खल्वार्यानन्द प्५ तथागतस्यैवैषोऽनुभावो, यस्त्वं सर्वलोकाचार्याणाम् सत्त्वानां लोके प्रादुर्भावाय बोधिसत्त्वानां महासत्त्वानाम् अर्थाय तथागतमेतमर्थं परिप्रष्टव्यं मन्यसे । तेन ह्यानन्द शृणु साधु च सुष्ट्ःु च, मनसि कुरु, भाषिष्येऽहं ते । एवं भगवन्नित्यायुष्मानानन्दो भगवतः प्रत्यश्रौषीत् । भगवांस्तस्यैतदवोचत्: भूतपूर्वमानन्दातीते ऽध्वनीतोऽसंख्येये कल्पेऽसंख्येयतरे विपुलेऽप्रमेये ऽचिन्त्ये, यदासीत्तेन कालेन तेन समयेन दीपंकरो नाम तथागतोऽर्हन् सम्यक्संबुद्धो लोक उदपादि । दीपंकरस्यानन्द परेण परतरं प्रतापवान्नाम तथागतो ऽभूत् । तस्य परेण परतरं प्रभाकरो नाम तथागतो ऽभूत् । तस्य परेण परतरं चन्दनगन्धो नाम तथागतो ऽभूत् । तस्य परेण परतरं सुमेरुकल्पो नाम तथागतो ऽभूत् । एवं चन्द्राननो नाम, विमलाननो नाम, अनुपलिप्तो नाम, विमलप्रभो नाम, नागाभिभूर्नाम, सूर्याननो नाम, गिरिराजघोषो नाम, सुमेरुकूटो नाम, सुवर्णप्रभासो नाम, ज्योतिष्प्रभो नाम, वैडूर्यनिर्भासो नाम, ब्रह्मघोषो नाम, चन्द्राभिभूर्नाम, सूर्यघोषो नाम, मुक्तकुसुमप्रतिमण्डितप्रभो नाम, श्रीकूतो नाम, सागरवरबुद्धिविक्रीडिताभिज्ञो नाम, वरप्रभो नाम, महागन्धराजनिर्भासो नाम, व्यपगतखिलमलप्रतिघो नाम, शूरकूटो नाम, रत्नजहो नाम, महागुणधरबुद्धिप्राप्ताभिज्ञो नाम, चन्द्रसूर्यजिह्मीकरणो नाम, उत्तप्तवैडूर्यनिर्भासो नाम, चित्तधाराबुद्धिसंकुसुमिताभ्युद्गतो प्६ नाम पुष्पावतीवनराजसंकुसुमिताभिज्ञो नाम, पुष्पाकरो नाम, उदकचन्द्रोपमो नाम, अविद्यान्धकारविध्वंसनकरो नाम, लोकेन्द्रो नाम, मुक्तच्छत्राप्रवाडसदृशो नाम, तिष्यो नाम, धर्ममतिविनन्दितराजो नाम, सिंह- सागरकूटविनन्दितराजो नाम, सागरमेरुचन्द्रो नाम, ब्रह्म- स्वरनादाभिनन्दिनो नाम, कुसुमसंभवो नाम, प्राप्तसेनो नाम, चन्द्रभानुर्नाम, मेरुकूटो नाम, चन्द्रप्रभो नाम, विमलनेत्रो नाम, गिरिराजघोषेश्वरो नाम, कुसुमप्रभो नाम, कुसुमवृष्ट्याभिप्रकीर्णो नाम, रत्नच्छत्रो नाम, पद्मवीथ्युपशोभितो नाम, तगरगन्धो नाम, रत्ननिर्भासो नाम, निर्मितो नाम, महाव्यूहो नाम, व्यपगतखिलदोषो नाम, ब्रह्मघोषो नाम, सप्तरत्नाभिवृष्टो नाम, महागुणधरो नाम, तमालपत्रचन्दनकर्दमो नाम, कुसुमाभिज्ञो नाम, अज्ञानविध्वंसनो नाम, केशरी नाम, मुक्तच्छत्रो नाम, सुवर्णगर्भो नाम, वैडूर्यगर्भो नाम, महाकेतुर्नाम, धर्मकेतुर् नाम, रत्नश्रीर्नाम, नरेन्द्रो नाम, लोकेन्द्रो नाम, कारुणिको नाम, लोकसुन्दरो नाम, ब्रह्मकेतुर्नाम, धर्ममतिर्नाम, सिंहो नाम, सिंहमतिर्नाम, सिंहमतेर् आनन्द परेण परतरं लोकेश्वरराजो नाम तथागतो ऽर्हन् सम्यक्संबुद्धो लोक उदपादि, विद्याचरण- संपन्नः, सुगतो, लोकविदनुत्तरः, पुरुषदम्यसारथिः, शास्ता देवानां च मनुष्याणां च, बुद्धो, भगवान् । तस्य खलु पुनरानन्द लोकेश्वरराजस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य प्रवचने धर्माकरो नाम भिक्षुरभूद्, अधिमात्रं स्मृतिमान्, गतिवान्, प्रज्ञावान्, अधिमात्रं वीर्यवान्, उदाराधिमुक्तिः । अथ खलु आनन्द स धर्माकरो भिक्षुरुत्थायासनाद् प्७ एकांसमुत्तरासङ्गं कृत्वा, दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य, येनासौ भगवान् लोकेश्वरराजस्तथागतस् तेनाञ्जलिं प्रणम्य, भगवन्तं नमस्कृत्य, तस्मिन् समये संमुखमाभिर्गाथाभिरभ्यष्टावीत्: अमितप्रभ, अनन्ततुल्यबुद्धे, न च इह अन्यप्रभा विभाति काचित् । सूर्यमणिसिरीण चन्द्राभा, न तपि न भासिषु एभि सर्वलोके । (१) रूपमपि अनन्तु सत्त्वसारे, तथ अपि बुद्धस्वरो अनन्तघोषः । शीलमपि समाधिप्रज्ञवीर्यैः सदृशु न तेऽस्तिह लोकि कश्चिदन्यः । (२) गभिरु विपुलु सूक्ष्म प्राप्तु धर्मो, अचिन्ततु बुद्धवरो यथा समुद्रः । तेनोन्नमना न चास्ति शास्तुः, खिलदोषं जहिया अतार्षि पारम् । (३) यथ बुद्धवरो अनन्ततेजा प्रतपति सर्वदिशा नरेन्द्रराजा, तथ अहु बुद्ध भवित्व धर्मस्वामी, जरमरणान् प्रजां प्रमोचयेयम् । (४) दानदमथशीलक्षान्तिवीर्य- ध्यानसमाधि तथैव अग्रश्रेष्ठां, एभि अहु व्रतां समाददामि, बुद्ध भविष्यामि सर्वसत्त्वत्राता । (५) बुद्धशतसहस्रकोट्यनेका प्८ यथरिव वालिक गङ्गया अनन्ता, सर्व त अहु पूजयिष्य नाथान् शिववरबोधिगवेषको अतुल्यां । (६) गङ्गरजसमान लोकधातूं तत्र भूयोत्तरि ये अनन्त क्षेत्रा, सर्वत प्रभ मुञ्चयिष्ये तत्रा इति एतादृशि वीर्यमारभिष्ये । (७) क्षेत्र मम उदारु अग्रश्रेष्ठो, वरमिह मण्ड पि संस्कृतेस्मिन् । असदृश निर्वाणलोकधातुसौख्यं, तच्च असत्त्वतया विशोधयिष्ये । (८) दशदिशत समागतानि सत्त्वा तत्र गताः सुखमेधिष्यन्ति क्षिप्रम् । बुद्ध मम प्रमाण अत्र साक्षी, अवितथवीर्यबलं जनेमि च्छन्दं । (९) दशदिशे लोकविदू असङ्गज्ञानी सद मम चित्तु प्रजानयन्तु ते पि । अविचिगतु अहं सदा वसेयं, प्रणिधिबलं न पुनर्निवर्तयिष्ये । (१०) अथ खलु आनन्द स धर्माकरो भिक्षुस्तं भगवन्तं लोकेश्वरराजं तथागतं संमुखमाभिर्गाताभिर् अभिष्टुत्यैतदवोचत्: अहमस्मि भगवन्ननुत्तरां सम्यक्संबोधिमभिसंबोधुकामः, पुनः पुनर् अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादयामि, परिणामयामि । तस्य मे भगवान् साधु तथा धर्मं देशयतु, यथाहं क्षिप्रमनुत्तरां सम्यक्संबोधिमभिसंबुधेयं ; प्९ असमसमस्तथागतो लोके भवेयं ; तांश्च मे भगवानाकारान् परिकीर्तयतु, यैरहं बुद्धक्षेत्रस्य गुणव्यूहसंपदं परिगृह्नीयाम् । एवमुक्तश्चानन्द स भगवांल्लोकेष्वरराजस्तथागतस्तं भिक्षुमेतद् अवोचत्: तेन हि त्वं भिक्षो स्वयमेव बुद्धक्षेत्र- गुणालंकारव्यूहसंपदं परिगृह्णीषे । सोऽवोचत्: नाहं भगवन्नुत्सहे । अपि तु भगवानेव भाषत्वन्येषां तथागतानां बुद्धक्षेत्रगुणव्यूहालंकारसंपदं, यां श्रुत्वा वयं सर्वाकारां परिपूरयिष्याम इति । अथानन्द स लोकेश्वरराजस्तथागतोऽर्हन् सम्यक्संबुद्धस् तस्य भिक्षोराशयं ज्ञात्वा, परिपूर्णां वर्षकोटीम् एकाशीतिबुद्धकोटीनयुतशतसहस्राणां बुद्धक्षेत्रगुणालंकार- व्यूहसंपदं साकारां सोद्देशां सनिर्देशां संप्रकाशितवान् ; अर्थकामो, हितैष्य्, अनुकम्पको,ऽनुकम्पाम् उपादाय, बुद्धनेत्र्यानुपच्छेदाय, सत्त्वेषु महाकरुणां संजनयित्वा । परिपूर्णांश्च द्वाचत्वारिम्शत्कल्पांस्तस्य भगवत आयुष्प्रमाणमभूत् । अथ खल्वानन्द स धर्माकरो भिक्षुर्यास्तेषामेकाशीति- बुद्धकोटीनयुतशतसहस्राणां बुद्धक्षेत्रगुणालंकार- व्यूहसंपदस्ताश्च सर्वा एकबुद्धक्षेत्रे परिगृह्य, भगवतो लोकेश्वरस्य तथागतस्य पादौ शिरसा वन्दित्वा, प्रदक्षिणीकृत्य, तस्य भगवतोऽन्तिकात्प्राक्रामत् । उत्तरि च पञ्चकल्पान् बुद्धक्षेत्रगुणालंकारव्यूहसंपदम्, प्१० उदारतरांश्च प्रणीततरांश्च, सर्वलोके दशसु दिक्ष्व् अप्रचरितपूर्वां परिगृहीतवान् ; उदारं च प्रणिधानम् अकार्षीत् । इति ह्यानन्द या तेन भगवता लोकेश्वरराजेन तथागतेन तेषामेकाशीतिबुद्धक्षेत्रकोटीनयुतशतसहस्राणां संपत्तिः कथिता, ततोऽतिरेकान्युदारप्रणीताप्रमेयतरां बुद्धक्षेत्रसंपत्तिं परिगृह्य, येन स तथागतस् तेनोपसंक्रम्य, तस्य भगवतः पादौ शिरसा वन्दित्वैतद् अवोचत्: परिगृहीता मे भगवन् बुद्धक्षेत्रगुणालंकार- व्यूहसंपदिति । एवमुक्ते, आनन्द, स लोकेश्वरराजस् तथागतस्तं भिक्षुमेतदवोचत्: तेन हि भिक्षो भाषस्व । अनुमोदते तथागतः । अयं कालो भिक्षो, प्रमोदय पर्षदं, हर्षं जनय, सिंहनादं नद, यं श्रुत्वा बोधिसत्त्वा महासत्त्वा एतर्ह्यनागते चाध्वन्येवंरूपाणि बुद्धक्षेत्रसंपत्तिप्रणिधानानि परिगृहीष्यन्ति । अथानन्द स धर्माकरो भिक्षुस्तस्यां वेलायां तं भगवन्तमेतदवोचत्: तेन हि शृणोतु मे भगवान्, ये मम प्रणिधानविशेषाः, यथा मेऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्ये । अचिन्त्यगुणालंकारव्यूहसमन्वागतं तद्बुद्धक्षेत्रं भविष्यति : १ । सचेन्मे भगवंस्तस्मिन् बुद्धक्षेत्रे निरयो वा, तिर्यग्योनिर्वा, प्रेतविषयो वासुरो वा कायो भवेत्, मा तावद् अहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयम् । २ । सचेन्मे भगवंस्तत्र बुद्धक्षेत्रे ये सत्त्वाः प्११ प्रत्याजाता भवेयुस्, ते पुनस्ततश्च्युत्वा, निरयं वा, तिर्यग्योनिं वा, प्रेतविषयं वासुरं वा कायं प्रपतेयुर्, मा तावदहमनुत्तरां सम्यक्संबोधिमभिसंबुध्ये- यम् । ३ । सचेन्मे भगवंस्तत्र बुद्धक्षेत्रे ये सत्त्वाः प्रत्याजातास्, ते च सर्वे नैकवर्णाः स्युर्, यदिदं : सुवर्णवर्णाः, मा तावदहमनुत्तरां सम्यक्संबोधिम् अभिसम्बुध्येयम् । ४ । सचेन्मे भगवंस्तस्मिन् बुद्धक्षेत्रे देवानां च मनुष्यानां च नानात्वं प्रज्ञयेतान्यत्र नामसंकेत- संवृतिव्यवहारमात्रा देवा मनुष्या इति संख्यागणनातो, मा तावदहमनुत्तरां सम्यक्संबोधिमभिसंबुध्ये- यम् । ५ । सचेन्मे भगवंस्तस्मिन् बुद्धक्षेत्रे ये सत्त्वाः प्रत्याजातास्ते चेत्सर्वे न र्द्धिवशिता परमपारमिताप्राप्ता भवेयुर्, अन्तश एकचित्तक्षणलवेन बुद्धक्षेत्रकोटीनियुत- शतसहस्रातिक्रमणतयापि, मा तावदहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयम् । ६ । सचेन्मे भगवंस्तस्मिन् बुद्धक्षेत्रे ये सत्त्वाः प्रत्याजाता भवेयुस्, ते चेत्सर्वे न जातिस्मरा स्युर्, अन्तशः कल्पकोटीनियुतशतसहस्रानुस्मरणतयापि, मा तावदहम् अनुत्तरां सम्यक्संबोधिमभिसंबुध्येयम् । ७ । सचेन्मे भगवंस्तस्मिन् बुद्धक्षेत्रे ये सत्त्वाः प्रत्याजायेरंस्, ते सर्वे न दिव्यस्य चक्षुषो लाभिनो भवेयुर्, अन्तशो लोकधातुकोटीनयुतशतसहस्रादर्शनतयापि, मा प्१२ तावदहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयम् । ८ । सचेन्मे भगवंस्तस्मिन् बुद्धक्षेत्रे ये सत्त्वाः प्रत्याजायेरंस्, ते सर्वे न दिव्यस्य श्रोत्रस्य लाभिनो भवेयुर्, अन्तशो बुद्धक्षेत्रकोटीनयुतशतसहस्रादपि युगपत् सद्धर्मश्रवणतया, मा तावदहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयम् । ९ । सचेन्मे भगवंस्तस्मिन् बुद्धक्षेत्रे ये सत्त्वाः प्रत्याजायेरंस्, ते सर्वे न परचित्तज्ञानकोविदा भवेयुर्, अन्तशो बुद्धक्षेत्रकोटीनयुतशतसहस्रपर्यापन्नानां सत्त्वानां चित्तचरित्रपरिज्ञानतया, मा तावदहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयम् । १० । सचेन्मे भगवंस्तस्मिन् बुद्धक्षेत्रे ये सत्त्वाः प्रत्याजायेरंस्, तेषां काचित्परिग्रहसंज्ञोत्पद्येतान्तशः स्वशरीरेऽपि, मा तावदहमनुत्तरां सम्यक्संबोधिम् अभिसंबुध्येयम् । ११ । सचेन्मे भगवंस्तस्मिन् बुद्धक्षेत्रे ये सत्त्वाः प्रत्याजायेरंस्, ते सर्वे न नियताः स्युर्, यदिदं : सम्यक्त्वे यावन्महापरिनिर्वाणाद्, मा तावदनुत्तरां सम्यक्संबोधिम् अभिसंबुध्येयम् । १२ । सचेन्मे भगवंस्तस्मिन् बुद्धक्षेत्रेऽनुत्तरां सम्यक्संबोधिमभिसंबुद्धस्य, कश्चिदेव सत्त्वः श्रावकानां गणानामधिगच्छेद्, अन्तशस्त्रिसाहस्र- महासाहस्रपर्यापन्ना अपि सर्वसत्त्वाः प्रत्येकबुद्धभूताः कल्पकोटीनियुतशतसहस्रमपि गणयन्तो, मा तावद् अहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयम् । १३ । सचेन्मे भगवन्ननुत्तरां सम्यक्संबोधिम् प्१३ अभिसंबुद्धस्य, तस्मिन् बुद्धक्षेत्रे प्रामाणिकी मे प्रभा भवेद्, अन्तशो बुद्धक्षेत्रकोटीनयुतशतसहस्रप्रमाणेनापि, मा तावदहमनुत्तरां सम्यक्संबोधिमभि- संबुध्येयम् । १४ । सचेन्मे भगवंस्तस्मिन् बुद्धक्षेत्रेऽनुत्तरां सम्यक्सम्बोधिमभिसंबुद्धस्य बोधिप्राप्तस्य, सत्त्वानां प्रमाणीकृत्यमायुष्प्रमानं भवेद्, अन्यत्र प्रणिधानवशेन, मा तावदहमनुत्तरां सम्यक्संबोधिम् अभिसंबुध्येयम् । १५ । सचेन्मे भगवन् बोधिप्राप्तस्यायुष्प्रमाणं पर्यन्तीकृत्यं भवेद्, अन्तशः कल्पकोटीनयुतशतसहस्रगणनयापि, मा तावदहमनुत्तरां सम्यक्संबोधिमभि- संबुध्येयम् । १६ । सचेन्मे भगवन् बोधिप्राप्तस्य तस्मिन् बुद्धक्षेत्रे सत्त्वानामकुशलस्य नामधेयमपि भवेन्, मा तावदहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयम् । १७ । सचेन्मे भगवन् बोधिप्राप्तस्य, नाप्रमेयेषु बुद्धक्षेत्रेष्वप्रमेयासंख्येया बुद्धा भगवतो नामधेयं परिकीर्तयेयुर्, न वर्णं भाषेरन्, न प्रशंसाम् अभ्युदीरयेयुर्, न समुदीरयेयुर्, मा तावदहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयम् । १८ । सचेन्मे भगवन् बोधिप्राप्तस्य, ये सत्त्वा अन्येषु लोकधातुष्वनुत्तरायाः सम्यक्संबोधेश्चित्तमुत्पाद्य, मम नामधेयं श्रुत्वा, प्रसन्नचित्ता मामनुस्मरेयुस्, तेषां चेदहं मरणकालसमये प्रत्युपस्थिते भिक्षुसंघ- परिवृतः पुरस्कृतो न पुरतस्तिष्ठेयम्, यद् इदं : चित्ताविक्षेपतायै, मा तावदहमनुत्तरां सम्यक्संबोधिम् प्१४ अभिसंबुध्येयम् । १९ । सचेन्मे भगवन् बोधिप्राप्तस्याप्रमेयासंख्येयेषु बुद्धक्षेत्रेषु ये सत्त्वाः मम नामधेयं श्रुत्वा, तत्र बुद्धक्षेत्रे चित्तं प्रेषयेयुर्, उपपत्तये कुशलमूलानि च परिणामयेयुस्, ते च तत्र बुद्धक्षेत्रे नोपपद्येरन्, अन्तशो दशभिश्चित्तोत्पादपरिवर्तैः, स्थापयित्वानन्तर्यकारिणः सद्धर्मप्रतिक्षेपावरणावृतांश्च सत्त्वान्, मा तावदहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयम् । २० । सचेन्मे भगवन् बोधिप्राप्तस्य, तत्र बुद्धक्षेत्रे बोधिसत्त्वाः प्रत्याजायेरन्, ते सर्वे न द्वात्रिंशता महापुरुषलक्षणैः समन्वागता भवेयुर्, मा तावद् अहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयम् । २१ । सचेन्मे भगवन् बोधिप्राप्तस्य, तत्र बुद्धक्षेत्रे ये सत्त्वाः प्रत्याजाता भवेयुस्, ते सर्वे नैकजातिबद्धाः स्युरनुत्तरायां सम्यक्संबोधौ, स्थापयित्वा प्रणिधानविशेषांस् तेषामेव बोधिसत्त्वानां महासत्त्वानां, महा- संनाहसंनद्धानां, सर्वलोकार्थसंनद्धानां, सर्व- लोकार्थाभियुक्तानां, सर्वलोकपरिनिर्वापिताभियुक्तानां, सर्वलोकधातुषु बोधिसत्त्वचर्यां चरितुकामानां, सर्व- बुद्धान् सत्कर्तुकामानां, गङ्गानदीवालुकसमान् सत्त्वान् अनुत्तरायां सम्यक्संबोधौ प्रतिष्ठापकानां, भूयश्चोत्तरि- चर्याभिमुखानां समन्तभद्रचर्यानियतानां, मा तावदहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयम् । २२ । सचेन्मे भगवन् बोधिप्राप्तस्य, तद्-बुद्धक्षेत्रे प्१५ ये बोधिसत्त्वाः प्रत्याजाता भवेयुस्, ते सर्व एकपुरोभक्तेनान्यानि बुद्धक्षेत्राणि गत्वा, बहूनि बुद्धशतानि, बहूनि बुद्धसहस्राणि, बहूनि बुद्धशतसहस्राणि, बह्वीर् बुद्धकोटीर्, यावद्बहूनि बुद्धकोटीनियुतशतसहस्राणि, नोपतिष्ठेरन् सर्वसुखोपधानैर्, यदिदं : बुद्धानुभावेन, मा तावदहमनुत्तरां सम्यक्संबोधिमभिसं- बुध्येयम् । २३ । सचेन्मे भगवन् बोधिप्राप्तस्य, तत्र बुद्धक्षेत्रे ये बोधिसत्त्वा यथारूपैराकारैराकांक्षेयुः कुषलमूलान्य् अवलोपितुं, यदिदं : सुवर्णेन वा, रजतेन वा, मणिमुक्तावैडूर्यशङ्खशिलाप्रवाडस्फटिकमुसालगल्वालोहित- मुक्ताश्मगर्भादिभिर्वान्यतमान्यतमैः सर्वरत्नैर् वा, सर्वपुष्पगन्धमाल्यविलेपनचूर्णचीवरच्छत्र- ध्वजपताकाप्रदीपैर्वा, सर्वनृत्यगीतवाद्यैर्वा, तेषां चेत्तथारूपा आकाराः सहचित्तोत्पादान्न प्रादुर्भवेयुर्, मा तावदहमनुत्तरां सम्यक्संबोधिमभिसंबुध्ये- यम् । २४ । सचेन्मे भगवन् बोधिप्राप्तस्य, तत्र बुद्धक्षेत्रे ये सत्त्वाः प्रत्याजाता भवेयुस्, ते सर्वे न सर्वज्ञतासहगतां धर्मां कथां कथयेयुर्, मा तावदहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयम् । २५ । सचेन्मे भगवन् बोधिप्राप्तस्य, तत्र बुद्धक्षेत्रे बोधिसत्त्वानामेवं चित्तमुत्पाद्येत, यन्न्विहैव वयं लोकधातौ स्थित्वाप्रमेयासंख्येयेषु बुद्धक्षेत्रेषु बुद्धान् भगवतः सत्कुर्यामो गुरुकुर्यामो मानयेमः प्१६ पूजयेमः, यदिदं : चीवरपिण्डपातशयनासनग्लान- प्रत्ययभैषज्यपरिष्कारैः पुष्पधूपगन्धमाल्यविलेपन- चूर्णचीवरच्छत्रध्वजपताकाभिर्नानाविधनृत्तगीतवादित- रत्नवर्षैरिति, तेषां चेत्ते बुद्धा भगवन्तः सहचित्तोत्पादान् तन्न प्रतिगृह्णीयुर्, यदिदम् : अनुकम्पामुपादाय, मा तावदहमनुत्तरां सम्यक्संबोधिमभिसं- बुध्येयम् । २६ । सचेन्मे भगवन् बोधिप्राप्तस्य, तद्-बुद्धक्षेत्रे ये बोधिसत्त्वाः प्रत्याजाता भवेयुस्, ते सर्वे न नारायण- वज्रसंहननात्मभावस्थामप्रतिलब्धा भवेयुर्, मा तावदहमनुत्तरां सम्यक्संबोधिमभिसंबुध्ये- यम् । २७ । सचेन्मे भगवन् बोधिप्राप्तस्य, तत्र बुद्धक्षेत्रे कश्चित्सत्त्वोऽलंकारस्य वर्णपर्यन्तमनुगृह्णीयाद्, अन्तशो न दिव्येनापि चक्षुषैवंवर्णमेवंविभूतिरिति बुद्धक्षेत्रमिति नानावर्णतां संजानीयान्, मा तावदहम् अनुत्तरां सम्यक्संबोधिमभिसंबुध्येयम् । २८ । सचेन्मे भगवन् बोधिप्राप्तस्य, तत्र बुद्धक्षेत्रे यः सर्वपरीत्तकुशलमूलो बोधिसत्त्वः स षोडशयोजन- शतोच्छ्रितमुदारवर्णबोधिवृक्षं न संजानीयान्, मा तावदहमनुत्तरां सम्यक्संबोधिमभिसंबुध्ये- यम् । २९ । सचेन्मे भगवन् बोधिप्राप्तस्य, तत्र बुद्धक्षेत्रे प्१७ कस्यचित्सत्त्वस्योद्देशो वा स्वाध्यायो वा कर्तव्यः स्यान्, न ते सर्वे प्रतिसंवित्प्राप्ता भवेयुर्, मा तावदहम् अनुत्तरां सम्यक्संबोधिमभिसंबुध्येयम् । ३० । सचेन्मे भगवन् बोधिप्राप्तस्य, नैवंप्रभास्वरं तद्बुद्धक्षेत्रं भवेद्, यत्र समन्तादप्रमे- यासंख्येयाचिन्त्यातुल्यापरिमाणानि बुद्धक्षेत्राणि संदृश्येरन्, तद्यथापि नाम सुपरिमृष्ट आदर्शमण्डले मुखमण्डलं, मा तावदहमनुत्तरां सम्यक्संबोधिम् अभिसंबुध्येयम् । ३१ । सचेन्मे भगवन् बोधिप्राप्तस्य, तत्र बुद्धक्षेत्रे धरणितलमुपादाय, यावदन्तरीक्षाद्, देवमन्ष्यवि- षयातिक्रान्तस्याभिजातस्य धूपस्य तथागतस्य बोधिसत्त्वस्य पूजा प्रत्यहं सर्वरत्नमयानि नानासुरभिगन्धघटिकाशत- सहस्राणि सदा निर्धूपितान्येव न स्युर्, मा तावद् अहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयम् । ३२ । सचेन्मे भगवन् बोधिप्राप्तस्य, तत्र बुद्धक्षेत्रे न सदाभिप्रविष्टान्येव सुगन्धिनानारत्नपुष्पवर्षाणि, सदा प्रवादिताश्च मनोज्ञस्वरा वाद्यमेघा न स्युर्, मा तावदहमनुत्तरां सम्यक्संबोधिमभिसंबुध्ये- यम् । ३३ । सचेन्मे भगवन् बोधिप्राप्तस्य, ये सत्त्वा अप्र- मेयासंख्येयाचिन्त्यातुल्येषु लोकधातुष्वाभया स्फुटा भवेयुस्, ते सर्वे न देवमनुष्यसमतिक्रान्तेन सुखेन समन्वागता प्१८ भवेयुर्, मा तावदहमनुत्तरां सम्यक्संबोधिम् अभिसंबुध्येयम् । ३४ । सचेन्मे भगवन् बोधिप्राप्तस्य, समन्ताच्चाप्र- मेयासंख्येयाचिन्त्यातुल्यापरिमाणेषु बुद्धक्षेत्रेषु बोधिसत्त्वा मम नामाधेयं श्रुत्वा, तच्-छ्रवणसहगतेन कुशलमूलेन जातिव्यवृत्ताः सन्तो, न धारणीप्रतिलब्धा भवेयुर्, यावद्बोधिमण्डपर्यन्तमिति, मा तावदहम् अनुत्तरां सम्यक्संबोधिमभिसंबुध्येयम् । ३५ । सचेन्मे भगवन् बोधिप्राप्तस्य, समन्तादप्रमे- यासंख्येयाचिन्त्यातुल्यापरिमानेषु बुद्धक्षेत्रेषु याः स्त्रियो मम नामधेयं श्रुत्वा, प्रसादं संजनयेयुर्, बोधिचित्तं चोत्पादयेयुः, स्त्रीभावं च विजुगुप्स्येरन्, जातिव्यतिवृत्ताः समानाः सचेद्द्वितीयं स्त्रीभावं प्रतिलभेरन्, मा तावदहमनुत्तरां सम्यक्संबोधिमभिसं- बुध्येयम् । ३६ । सचेन्मे भगवन् बोधिप्राप्तस्य, समन्ताद्दशसु दिक्ष्वप्रमेयासंख्येयाचिन्त्यातुल्यापरिमाणेषु बुद्धक्षेत्रेषु ये बोधिसत्त्वा मम नामधेयं श्रुत्वा, प्रणिपत्य पञ्चमण्डलनमस्कारेण वन्दिष्यन्ते, ते बोधिसत्त्वचर्यां चरन्तो, न सदेवकेन लोकेन नमसा सत्कृत्येरन्, मा तावद् अहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयम् । ३७ । सचेन्मे भगवन् बोधिप्राप्तस्य, कस्यचिद्बोधिसत्त्वस्य चीवरधावनशोषणसीवनरजनकर्म कर्तव्यं भवेन्, प्१९ न नवनवाभिजातचीवररत्नैः प्रावृतमेवात्मानं संजानीयुः, सहचित्तोत्पादात्तथागतस्याज्ञानुज्ञातैर्, मा तावदहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयम् । ३८ । सचेन्मे भगवन् बोधिप्राप्तस्य, तत्र बुद्धक्षेत्रे सहोत्पन्नाः सत्त्वा नैवंविधं सुखं प्रतिलभेरंस्, तद्यथापि नाम निष्परिदाहस्यार्हतो भिक्षोस्तृतीयध्यान- समापन्नस्य, मा तावदहमनुत्तरां सम्यक्संबोधिम् अभिसंबुध्येयम् । ३९ । सचेन्मे भगवन् बोधिप्राप्तस्य, तत्र बुद्धक्षेत्रे ये बोधिसत्त्वाः प्रत्यजातास्, ते यथारूपं बुद्धक्षेत्र- गुणालंकारव्यूहमाकांक्षेयुस्, तथारूपं नाना- रत्नवृक्षेभ्यो न संजानीयुर्, मा तावदहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयम् । ४० । सचेन्मे भगवन् बोधिप्राप्तस्य, तं मम नामधेयं श्रुत्वान्यबुद्धक्षेत्रोपपन्ना बोधिसत्त्वा इन्द्रियबलवैकल्पं निर्गच्छेयुर्, मा तावदहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयम् । ४१ । सचेन्मे भगवन् बोधिप्राप्तस्य, तद्-अन्यबुद्धक्षेत्र- स्था बोधिसत्त्वा मम नामधेयं श्रुत्वा, सहश्रवणान् न सुविभक्तवतीं नाम समाधिं प्रतिलभेरन्, यत्र समाधौ स्थित्वा बोधिसत्त्वा एकक्षणव्यतिहारेणाप्रमेया- संख्येयाचिन्त्यातुल्यापरिमाणान् बुद्धान् भगवतः पश्यन्ति, स चैषां समाधिरन्तरा विप्रनश्येन्, मा तावद् अहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयम् । प्२० ४२ । सचेन्मे भगवन् बोधिप्राप्तस्य, मम नामधेयं श्रुत्वा, तच्-छ्रवणसहगतेन कुशलमूलेन सत्त्वा नाभिजातकुलोपपत्तिं प्रतिलभेरन्, यावद्बोधिमण्ड- पर्यन्तं, मा तावदहमनुत्तरां सम्यक्संबोधिम् अभिसंबुध्येयम् । ४३ । सचेन्मे भगवन् बोधिप्राप्तस्य, तद्-अन्येषु बुद्धक्षेत्रेषु ये सत्त्वा मम नामधेयं श्रुत्वा, तच्-छ्रवण- सहगतेन कुशलमूलेन यावद्बोधिपर्यन्तं न सर्वे बोधिसत्त्वचर्यायां प्रीतिप्रामोद्यकुशलमूलसमवधान- गता भवेयुर्, मा तावदहमनुत्तरां सम्यक्संबोधिम् अभिसंबुध्येयम् । ४४ । सचेन्मे भगवन् बोधिप्राप्तस्य, सहनामधेय- श्रवणात्तद्-अन्येषु लोकधातुषु बोधिसत्त्वा न समन्तानुगतं नाम समाधिं प्रतिलभेरन्, यत्र स्थित्वा बोधिसत्त्वा एकक्षणव्यतिहारेणाप्रमेयासंख्येयाचिन्त्यापरिमाणान् बुद्धान् भगवतः सत्कुर्वन्ति, स चैषां समाधिरन्तराद् विप्रनश्येद्, यावद्बोधिमण्डपर्यन्तं, मा तावदहम् अनुत्तरां सम्यक्संबोधिमभिसंबुध्येयम् । ४५ । सचेन्मे भगवन् बोधिप्राप्तस्य, तत्र बुद्धक्षेत्रे ये बोधिसत्त्वाः प्रत्याजाता भवेयुस्, ते यथारूपां धर्मदेशनाम् आकांक्षेयुः, श्रोतुं तथारुपां सहचित्तोत्पादान् प्२१ न शृणुयुर्, मा तावदहमनुत्तरां सम्यक्संबोधिम् अभिसंबुध्येयम् ४६ । सचेन्मे भगवन् बोधिप्राप्तस्य, तत्र बुद्धक्षेत्रे तद्-अन्येषु बुद्धक्षेत्रेषु ये बोधिसत्त्वा मम नामधेयं शृणुयुर्, यस्ते सहनामधेयश्रवणान्नावैवर्त्तिका भवेयुरनुत्तरायाः सम्यक्संबोधेर्, मा तावदहम् अनुत्तरां सम्यक्संबोधिमभिसंबुध्येयम् । ४७ । सचेन्मे भगवन् बोधिप्राप्तस्य, तत्र बुद्धक्षेत्रे ये बोधिसत्त्वा मम नामधेयं शृणुयुस्, ते सहनामधेय- श्रवणान्न प्रथमद्वितीयतृतीयाः क्षान्तीः प्रतिलभेरन्, नावैवर्त्तिको भवेद्बुद्धधर्मेभ्यो, मा तावद् अहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयम् । अथ खल्वानन्द स धर्माकरो भिक्षुरिमानेवंरूपान् प्रणिधानविशेषान्निर्दिश्य, तस्यां वेलायां बुद्धानुभावेनेमा गाथा अभाषत : सचि मि इमि विशिष्ट नैकरूपा वरप्रणिधान सिया खु बोधिप्राप्ते, म अहु सिय नरेन्द्र सत्त्वसारो, दशबलधारि अतुल्यदक्षिणीयः (१) सचि मि सिय न क्षेत्र एवरूपं बहु अधनान प्रभूत दिव्यचित्रं, सुखि न नरकमय दुःखप्राप्तो, म अहु सिया रतनो नराण राजा । (२) सचि मि उपगतस्य बोधिमण्डं, दशदिशि प्रव्रजि नामधेयु क्षिप्रं प्२२ पृथु बहव अनन्तबुद्धक्षेत्रां, म अहु सिया बलप्राप्तु लोकनाथ । (३) सचि खु अहु रमेय कामभोगां, स्मृतिमतिगतिया विहीनु सन्तः, अतुलशिव समेयमाण बोधि, म अहु सिया बलप्राप्तु शास्तु लोके । (४) विपुलप्रभ अतुल्यनन्त नाथा दिशि विदिशि स्फुरि सर्वबुद्धक्षेत्रां, राग प्रशमि प्रशमिय सर्वदोषमोहां, नरकगतिस्मि प्रशामि धूमकेतुं । (५) जानिय सुरुचिरं विशालनेत्रं, विधुनिय सर्वनराण अन्धकारम्, अपनिय सुन अक्षणानशेषान्, उपनिय स्वर्गपथाननन्ततेजा । (६) न तपति नभ चन्द्रसूर्याभा मणिगण अग्निप्रभा व देवतानां, अभिभवति नरेन्द्राभ सर्वान् पुरिमचरिं परिशुद्ध आचरित्वा । (७) पुरुषवरु निधान दुःखितानां, दिशि विदिशासु न अस्ति एवरूपा । कुशलशतसहस्र सर्व पूर्णा, पर्षगतो नदि बुद्धसिंहनदं । (८) पुरिमजिन स्वयंभु सत्करित्वा, व्रततपकोटि चरित्व अप्रमेयां, प्रवर वर समेस्ति ज्ञानस्कन्धं, प्रणिधिबलं परिपूर्ण सत्त्वसारो । (९) प्२३ यथा भगवनसङ्गज्ञानदर्शी, त्रिविध प्रजानति संस्कृतं नरेन्द्रः । अहमपि सिय तुल्यदक्षिणीयो, विदुः प्रवरो नरनायको नराणां । (१०) सचि मि अयु नरेन्द्र एवरूपा प्रणिधि समृध्यति बोधि प्रापुणित्वा, चलतु अयु सहस्रलोकधातूं कुसुमु प्रवर्ष नभातु देवसंघान् । (११) प्रचलित वसुधा प्रवर्षि पुष्पाः, तूर्यशता गगने थ संप्रणेदुः । दिव्यरुचिरचन्दनस्य चूर्णा, अभिकिरि चैव भविष्यि लोकि बुद्ध, इति । (१२) एवंरूपयानन्द प्रणिधिसंपदा स धर्माकरो भिक्षुर् बोधिसत्त्वो महासत्त्वः समन्वागतोऽभूत् । एवंरूपया चानन्द प्रणिधिसंपदा अल्पका बोधिसत्त्वाः समन्वागताः । अल्पकानां चैवंरूपाणां प्रणिधीनां लोके प्रादुर्भावो भवति, परीत्तानां न पुनः सर्वशो नास्ति । स खलु पुनरानन्द धर्माकरो भिक्षुस्तस्य भगवतो लोकेश्वरराजस्य तथागतस्य पुरतः, सदेवकस्य लोकस्य समारकस्य सब्रह्मकस्य सश्रमणब्राह्मणिकायाः प्रजायाः सदेवमानुषासुरायाः पुरत, इमानेवंरूपान् प्रणिधिविशेषान् निर्दिश्य, यथाभूतं प्रतिज्ञाप्रतिपत्तिस्थितो ऽभूत् । स इमामेवंरूपां बुद्धक्षेत्रपरिशुद्धिं बुद्धक्षेत्र- माहात्म्यं बुद्धक्षेत्रोदारतां समुदानयन्, बोधिसत्त्वचर्यां चरन्, अप्रमेयासंख्येयाचिन्त्यातुल्यामाप्यापरिमाणानभिलाप्यानि प्२४ वर्षकोटीनयुताशतसहस्राणि न जातु कामव्यापादविहिंसावितर्का वितर्कितवान्, न जातु कामव्यापाद- विहिंसासंज्ञा उत्पादितवान्, न जातु रूपशब्दगन्धरस- स्प्रष्टव्यसंज्ञा उत्पादितवान् । स दहरो मनोहर एव सुरतोऽभूत्; सुखसंवासो,ऽधिवासनजातीयः, सुभरः, सुपोषो, ऽल्पेच्छसंतुष्टः, प्रविविक्तो,ऽदुष्टो,ऽमूढो,ऽवङ्को, ऽजिह्मो,ऽशथो,ऽमायावी, सुखिलो, मधुरः, प्रियालापो, नित्याभियुक्तः शुक्लधर्मपर्येष्टौ ; अनिक्षिप्तधुरः, सर्वसत्त्वानाम् अर्थाय महाप्रणिधानं समुदानीतवान् ; बुद्धधर्म- संघाचार्योपाध्यायकल्याणमित्रसगौरवो ; नित्यसंनद्धो बोधिसत्त्वचर्यायाम् ; आर्जवो, मार्दवो,ऽकुहको, निलपको, गुणवान्, पूर्वंगमः सर्वसत्त्वकुशलधर्मसमादापनतायै ; शून्यतानिमित्ताप्रणिहितानभिसंस्कारानुत्पादविहारविहारी ; निर्माणः स्वारक्षितवाक्यश्चाभूत् । बोधिसत्त्वचर्यां चरन्, स यद्वाक्कर्मोत्सृष्टम्, आत्मपरोभयं व्यावाधाय संवर्तते ; तथाविधं त्यक्त्वा यद्वाक्कर्म स्वपरोभये हितसुखसंवर्तकं, तदेवाभिप्रयुक्तवान् । एवं च संप्रजानोऽभूत् । यद्ग्रामनगर- निगमजनपदराष्ट्रराजधानीष्ववतरन्, न जातु रूपशब्द- गन्धरसस्प्रष्टव्यधर्मेण नीतोऽभूत् । अप्रतिहतः स बोधिसत्त्वचर्यां चरन्, स्वयं च दानपारमितायामचरत्; परांश्च तत्रैव समादापितवान् । स्वयं च शीलक्षान्तिवीर्य- ध्यानप्रज्ञापारमितास्वचरत्; परांश्च तत्रैव समादापितवान् । तथारूपाणि च कुशलमूलानि समुदानीतवान् । यैः समन्वागतो यत्र यत्रोपपद्यते, तत्र तत्रास्यानेकानि निधन- प्२५ कोटीनयुतशतसहस्राणि धरण्याः प्रादुर्भवन्ति । तेन बोधिसत्त्वचर्यां चरता, तावदप्रमेयासंख्येयानि सत्त्वकोटीनियुतशतसहस्राण्यनुत्तरायां सम्यक्संबोधौ प्रतिष्ठापितानि, येषां न सुकरो वाक्कर्मणा पर्यन्तोऽधिगन्तुम् ; तावदप्रमेयासंख्येया बुद्धा भगवन्तः सत्कृता गुरुकृता मानिताः पूजिताश्, चीवरपिण्डपात- शयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः सर्वसुखोपधानैः स्पर्शविहारैश्च प्रतिपादिताः ; यावन्तः सत्त्वाः श्रेष्ठिगृहपत्यामात्यक्षत्रियब्राह्मणमहाशालकुलेषु प्रतिष्ठापितास्, तेषां न सुकरो वाक्कर्मनिर्देशेन पर्यन्तो ऽधिगन्तुम् ; एवं जाम्बूद्वीपेश्वरत्वे प्रतिष्ठापिताश्, चक्रवर्तित्वे लोकपालत्वे शक्रत्वे सुयामत्वे संतुषितत्वे सुनिर्मितत्वे वशवर्तित्वे देवराजत्वे महाब्राह्मत्वे च प्रतिष्ठापिताः ; तावदप्रमेयासंख्येया बुद्धा भगवन्तः सत्कृता गुरुकृता मानिताः पूजिता, धर्मचक्रप्रवर्तनार्थं चाधिष्ठास्, तेषां न सुकरो वाक्कर्मनिर्देशेन पर्यन्तोऽधि- गन्तुम् । स एवंरूपं कुशलं समुदानीयं, यदस्य बोधिसत्त्वचर्याश् चरतो,ऽप्रमेयासंख्येयाचिन्त्यातुल्यामाप्यापरिमाणानभिलाप्यानि कल्पकोटीनयुतशतसहस्राणि सुरभिदिव्यातिक्रान्त- चन्दनगन्धो मुखात्प्रवाति स्म ; सर्वरोमकूपेभ्य उत्पलगन्धो वाति स्म ; सर्वलोकाभिरूपश्चाभूत्, प्रासादिको, दर्शनीयः, परमशुभवर्णपुष्कलतया समन्वागतः । लक्षणानुव्यञ्जनसमलंकृतेनात्मभावेन तस्य सर्वरत्नालंकाराः, सर्ववस्त्रचीवराभिनिर्हाराः, सर्वपुष्प- धूपगन्धमाल्यविलेपनच्छत्रध्वजपताकाभिनिर्हाराः, प्२६ सर्ववाद्यसंगीत्यभिनिर्हाराश्च सर्वरोमकूपेभ्यः पाणितलाभ्यां च निश्चरन्ति स्म । सर्वान्नपानखाद्यभोज्यलेह्य- रसाभिनिर्हाराः सर्वोपभोगपरिभोगाभिनिर्हाराश्च पाणितलाभ्यां प्रस्यन्दन्तः प्रादुर्भवन्ति । इति हि सर्व- परिष्कारवशितापारमिप्राप्तः स आनन्द धर्माकरो भिक्षुर् अभूत्, पूर्वं बोधिचर्याश्चरन् । एवमुक्ते, आयुष्मानानन्दो भगवन्तमेतदवोचत्: किं पुनर्भगवन् स धर्माकरो बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिमभिसंबुध्यातीतः परिनिर्वृत, उताहोऽनभिसंबुद्धो,ऽथ प्रत्युत्पन्नोऽभिसंबुद्ध, एतर्हि तिष्ठति ध्रियते यापयति, धर्मं च देशयति । भगवान् आह : न खलु पुनरानन्द स तथागतोऽतीतो, नानागतः । अपि त्वेष स तथागतोऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्ध, एतर्हि तिष्ठति ध्रियते यापयति, धर्मं च देशयति । पश्चिमायां दिशीतः कोटीनयुतशतसहस्रतमे बुद्धक्षेत्रे सुखावत्यां लोकधातावमिताभो नाम तथागतोऽर्हन् सम्यक्संबुद्धो,ऽपरिमाणैर्बोधिसत्त्वैः परिवृतः पुरस्कृतो,ऽनन्तैः श्रावकैरनन्त्या बुद्धक्षेत्र- संपदा समन्वागतः । अमिता चास्य प्रभा, यस्या न सुकरं प्रामाणं पर्यन्तो वाधिगन्तुम् ; इयन्ति बुद्धक्षेत्राणि, इयन्ति बुद्धक्षेत्रशतानि, इयन्ति बुद्धक्षेत्रसहस्राणि, इयन्ति बुद्धक्षेत्रशतसहस्राणि, इयन्ति बुद्धक्षेत्रकोटी, इयन्ति बुद्धक्षेत्रकोटीशतानि, इयन्ति बुद्धक्षेत्र- कोटीसहस्राणि, इयन्ति बुद्धक्षेत्रकोटीशतसहस्राणि, इयन्ति बुद्धक्षेत्र- कोटीनयुतशतसहस्रानि स्फुरित्वा तिष्ठन्तीति । अपि त्व् प्२७ खल्वानन्द संक्षिप्तेन पूर्वस्यां दिशि गङ्गानदीवालिकासमानि बुद्धक्षेत्रकोटीनयुतशतसहस्राणि तया तस्य भगवतोऽमिताभस्य तथागतस्य प्रभया सदा स्फुटानि । एवं दक्षिणपश्चिमोत्तरासु दिक्ष्वध ऊर्ध्वमनुविदिक्ष्व् एकैकस्यां दिशि समन्ताद्गङ्गानदीवालिकासमानि बुद्धक्षेत्र- कोटीनयुतशतसहस्राणि तस्य भगवतोऽमिताभस्य तथागतस्य तया प्रभया सदा स्फुटानि, स्थापयित्वा बुद्धान् भगवतः पूर्वप्रणिधानाधिष्ठानेन ये व्योम- प्रभयैकद्वित्रिचतुःपञ्चदशविंशतित्रिंशच्चत्वारिंशद्योजन- प्रभया, योजनशतप्रभया, योजनसहस्रप्रभया, योजन- शतसहस्रप्रभया, यावदनेकयोजनकोटीनयुतशतसहस्र- प्रभया, यावल्लोकं स्फरित्वा तिष्ठन्ति । नास्त्यानन्दोपमोपन्यासो, येन शक्यं तस्यामिताभस्य तथागतस्य प्रभयाः प्रमाणमुद्गृहितुम् । तदनेनानन्द पर्यायेण स तथागतोऽमिताभ इत्युच्यते ; अमितप्रभो, ऽमितप्रभासो,ऽसमाप्तप्रभो,ऽसण्गप्रभो,ऽप्रतिहतप्रभो, नित्योत्सृष्टप्रभो, दिव्यमणिप्रभो,ऽप्रतिहत- रश्मिराजप्रभो, रञ्जनीयप्रभः, प्रेमणीयप्रभः, प्रामोदनीय- प्रभः, प्रह्लादनीयप्रभ, उल्लोकनीयप्रभो, निबन्धनीय- प्रभो,ऽचिन्त्यप्रभो,ऽतुल्यप्रभो,ऽभिभूयनरेन्द्रासुरेन्द्र- प्रभो,ऽभिभूयचन्द्रसूर्यजिह्मीकरणप्रभो, ऽभिभूयलोकपालशक्रब्रह्मशुद्धावासमहेश्वरसर्वदेव- जिह्मीकरणप्रभः, सर्वप्रभापारगत इत्युच्यते । सा चास्य प्रभा विमला, विपुला, कायसुखसंजननी, चित्तौद्बिल्यकरणी, देवासुरनागयक्षगन्धर्वगरुडमहोरग- किन्नरमनुष्यामनुष्याणां प्रीतिप्रामोद्यसुखकरणी, कुशलाशयानां कल्यलघुगतिविचक्षणबुद्धिप्रामोद्यकरण्य् प्२८ अन्येष्वपि अनन्तापर्यन्तेषु बुद्धक्षेत्रेषु । अनेन चानन्द पर्यायेण तथागतः परिपूर्णं कल्पं भाषेत, तस्यामिताभस्य तथागतस्य नामकर्मोपादाय प्रभाम् आरभ्य, न च शक्तो गुणपर्यन्तोऽधिगन्तुं तस्याः प्रभायाः । न च तथागतस्य वैशारद्योपच्छेदो भवेत् । तत् कस्य हेतोः । उभयमप्येतदानन्दाप्रमेयमसंख्येयम् अचिन्त्यापर्यन्तम्, यदिदं तस्य भगवतो प्रभागुणविभूतिस् तथागतस्य चानुत्तरं प्रज्ञाप्रतिभानम् । तस्य खलु पुनरानन्दामिताभस्य तथागतस्याप्रमेयः श्रावकसंघो, यस्य न सुकरं प्रमाणमुद्गृहीतुम् ; इयत्यः श्रावककोट्य, इयन्ति श्रावककोटीशतानि, इयन्ति श्रावक- कोटीसहस्राणि, इयन्ति श्रावककोटीशतसहस्राणि, इयन्ति कङ्कराणि, इयन्ति बिंबराणि, इयन्ति नयुतानि, इयन्त्ययुतानि, इयन्ति अक्षोभ्याणि, इयन्त्यो विवाहा, इयन्ति श्रोतांसि, इयन्त्यो जाया, इयन्त्यप्रमेणेयाणि, इयन्त्यसंख्येयानि, इयन्त्य् अगण्यानि, इयन्त्यतुल्याणि, इयन्त्यचिन्त्यानीति । तद्यथानन्द मौद्गल्यायनो भिक्षुरृद्धिवशिताप्राप्तः स आकांक्षन् त्रिसाहस्रमहासाहस्रलोकधातौ यावन्ति तारारूपाणि तानि सर्वाण्येकरात्रिं दिवेन गणयेद्, एवंरूपानां च र्द्धिमतां कोटीनयुतशतसहस्रं भवेत्, ते वर्षकोटी- नयुतशतसहस्रमनन्यकर्मणोऽमिताभस्य तथागतस्य प्रथमं श्रावकसन्निपातं गणयेयुस्, तैर्गणयद्भिः शततमोऽपि भागो न गणितो भवेत्; सहस्रतमो ऽपि, शतसहस्रतमोऽपि, यावत्कलामप्य्, उपमामप्य्, उपनिशाम् अपि, न गणितो भवेत् । तद्यथानन्द महासमुद्राच्चतुरशीतियोजनसहस्राण्य् आवेधेन तिर्यगप्रमेयात्, कश्चिदेव पुरुषः शतधाभिन्नया प्२९ वालाग्रकोट्यैकमुदकबिन्दुमभ्युत्क्षिपेत्, तत्किं मन्यसे, आनन्द, कतमो बहुतरो, यो वा शतधाभिन्नया वालाग्रकोट्याभ्युत्क्षिप्त एक उदकबिन्दुर्, यो वा महासमुद्रे ऽप्स्कन्धोऽवशिष्ट इति । आह : योजनसहस्रमपि तावद् भगवन्महासमुद्रस्य परीत्तं भवेत् । किमङ्ग पुनर्, यः शतधाभिन्नया वालाग्रकोट्याभ्युत्क्षिप्त एक उदकबिन्दुः । भगवानाह : तद्यथा स एक उदकबिन्दुर्; इयन्तः स प्रथमसन्निपातोऽभूत्, तैर्मौद्गल्यायनसदृशैर् भिक्षुभिर्गणयद्भिस्तेन वर्षकोटीनयुतशतसहस्रेण गणितं भवेद्, यथा महासमुद्रेऽप्स्कन्धोऽवशिष्ट, एवमगणितं द्रष्टव्यम् । कः पुनर्वादो द्वितीयतृतीयादीनां श्रावकसन्निपातादीनाम् । एवमनन्तापर्यन्तस् तस्य भगवतः श्रावकसंघो, योऽप्रमेयासंख्येय इत्य् एव संख्यां गच्छन्ति । अपरिमितं चानन्द तस्य भगवतोऽमिताभस्य तथागतस्यायुष्प्रमाणं, यस्य न सुकरं प्रमाणमधिगन्तुम् ; इयन्ति वा कल्पा, इयन्ति वा कल्पशतानि, इयन्ति वा कल्पसहस्राणि, इयन्ति वा कल्पशतसहस्राणि, इयत्यो वा कल्पकोट्य, इयन्ति वा कल्पकोटीशतानि, इयन्ति वा कल्पकोटीसहस्राणि, इयन्ति वा कल्पकोटी- शतसहस्राणि, इयन्ति वा कल्पकोटीनयुतशतसहस्राणीति । अथ तर्ह्यानन्दापरिमितमेव तस्य भगवत आयुष्प्रमाणम् अपर्यन्तम् । तेन स तथागतोऽमितायुरित्युच्यते । यथा चानन्देह लोकधातौ कल्पसंख्या कल्पगणना प्रज्ञप्तिकसंकेतस्, तथा सांप्रतं दशकल्पास्तस्य भगवतो ऽमितायुषस्तथागतस्योत्पन्नस्यानुत्तरां सम्यक्संबोधिम् प्३० अभिसंबुद्धस्य । तस्य खलु पुनरानन्द भगवतोऽमिताभस्य सुखावती नाम लोकधातुर्, ऋद्धा च, स्फीता च, क्षेमा च, सुभिक्षा च, रमणीया च, बहुदेवमनुष्याकीर्णा च । तत्र खल्व् अप्यानन्द लोकधातौ न निरयाः सन्ति, न तिर्यग्योनिर्, न प्रेतविषयो, नासुराः काया, नाक्षणोपपत्तयः ; न च तानि रत्नानि लोके प्रचरन्ति, यानि सुखावत्यां लोकधातौ संविद्यन्ते । सा खल्वानन्द सुखावती लोकधातुः सुरभिनानागन्धसमीरिता, नानापुष्पफलसमृद्धा, रत्नवृक्षसमलंकृता, तथागताभिनिर्मितमनोज्ञस्वरनानाद्विजसंघनिषेविता । ते चानन्द रत्नवृक्षा नानावर्णा, अनेकवर्णा, अनेकशत- सहस्रवर्णाः : सन्ति तत्र रत्नवृक्षाः सुवर्णवर्णाः सुवर्ण- मयाः ; सन्ति रूप्यवर्णा रूप्यमयाः ; सन्ति वैडूर्यवर्णा वैडूर्यमयाः ; सन्ति स्फटिकवर्णाः स्फटिकमयाः ; सन्ति मुसारगल्ववर्णा मुसारगल्वमयाः ; सन्ति लोहितमुक्तावर्णा लोहितमुक्तामयाः ; सन्त्यश्मगर्भवर्णा अश्मगर्भमयाः । सन्ति केचिद्द्वयो रत्नवृक्षयोः सुवर्णस्य रूप्यस्य च । सन्ति त्रयाणां रत्नानां सुवर्णस्य रूप्यस्य वैडूर्यस्य च । सन्ति चतुर्णां सुवर्णस्य रूप्यस्य वैडूर्यस्य स्फटिकस्य च । सन्ति पञ्चानां सुवर्णस्य रूप्यस्य वैडूर्यस्य स्फटिकस्य मुसारगल्वस्य च । सन्ति षण्णां सुवर्णस्य रूप्यस्य वैडूर्यस्य स्फटिकस्य मुसारगल्वस्य लोहितमुक्तायाश्च । सन्ति सप्तानां रत्नानां सुवर्णस्य रूप्यस्य वैडूर्यस्य स्फटिकस्य मुसालगल्वस्य लोहितमुक्ताया, अश्मगर्भस्य च सप्तमस्य । प्३१ तत्रानन्द सौवर्णाणां वृक्षाणां सुवर्णमयानि मूल- स्कन्धविटपशाखापत्त्रपुष्पानि फलानि रौप्यमयानि ; रौप्यमयानां वृक्षाणां रूप्यमयान्येव मूलस्कन्धविटप- शाखापत्त्रपुष्पानि फलानि वैडूर्यमयानि ; वैडूर्यमयानां वृक्षानां वैडूर्यमयानि मूलस्कन्धविटपशाखापत्त्र- पुष्पाणि फलानि स्फटिकमयानि ; स्फटिकमयानां वृक्षाणां स्फटिकमयान्येव मूलस्कन्धविटपशाखापत्त्र- पुष्पाणि फलानि मुसारगल्वमयानि ; मुसारगल्वमयानां वृक्षाणां मुसारगल्वमयान्येव मूलस्कन्धविटपशाखा- पत्त्रपुष्पाणि फलानि लोहितमुक्तामयानि ; लोहितमुक्तामयानां वृक्षाणां लोहितमुक्तामयान्येव मूलस्कन्धविटपशाखा- पत्त्रपुष्पाणि फलान्यश्मगर्भमयाणि ; अश्मगर्भ- मयाणां वृक्षानामश्मगर्भमयाण्येव मूलस्कन्धविटप- शाखापत्त्रपुष्पाणि फलानि सुवर्णमयानि । केषांचिदानन्द वृक्षाणां सुवर्णमयानि मूलानि, रौप्यमयाः स्कन्धा, वैडूर्यमया विटपाः, स्फटिकमयाः शाखा, मुसारगल्वमयानि पत्त्राणि, लोहितमुक्तामयानि पुष्पाण्य्, अश्मगर्भमयाणि फलानि ; केषांचिदानन्द वृक्षाणां रूप्यमयानि मूलानि, वैडूर्यमयाः स्कन्धाः, स्फटिकमया विटपा, मुसारगल्वमयाः शाखा, लोहितमुक्तामयानि पत्त्राण्य्, अश्मगर्भमयाणि पुष्पाणि, सुवर्णमयानि फलानि ; केषांचिद् आनन्द वृक्षाणां वैडूर्यमयानि मूलानि, स्फटिकमयाः स्कन्धा, मुसारगल्वमया विटपा, लोहितमुक्तामयाः शाखा, अश्मगर्भमयाणि पत्त्राणि, सुवर्णमयानि पुष्पाणि, रौप्यमयानि फलानि ; केषांचिदानन्द वृक्षाणां प्३२ स्फटिकमयानि मूलानि, मुसारगल्वमयाः स्कन्धा, लोहितमुक्तामया विटपा, अश्मगर्भमयाः शाखाः, सुवर्णमयानि पत्त्राणि, रौप्यमयानि पुष्पाणि, वैडूर्यमयानि फलानि ; केषांचिद् आनन्द वृक्षानां मुसारगल्वमयानि मूलानि, लोहित- मुक्तामयाः स्कन्धा, अश्मगर्भमया विटपाः, सुवर्ण- मयाः शाखा, रौप्यमयानि पत्त्राणि, वैडूर्यमयानि पुष्पाणि, स्फटिकमयानि फलानि ; केषांचिदानन्द वृक्षाणां लोहितमुक्तामयानि मूलान्य्, अश्मगर्भमयाः स्कन्धाः, सुवर्णमया विटपा, रौप्यमया शाखा, वैडूर्यमयाणि पत्त्राणि, स्फटिकमयानि पुष्पाणि, मुसारगल्वमयानि फलानि ; केषांचिद् आनन्द वृक्षाणामश्मगर्भमयानि मूलानि, सुवर्णमयाः स्कन्धा, रौप्यमया विटपा, वैडूर्यमयाः शाखाः, स्फटिकमयानि पत्त्रानि, मुसारगल्वमयानि पुष्पाणि, लोहितमुक्तामयानि फलानि ; केषांचिदानन्द वृक्षाणां सप्तरत्नमयानि मूलानि, सप्तरत्नमयाः स्कन्धाः, सप्तरत्नमया विटपाः, सप्तरत्नमयाः शाखाः, सप्तरत्नमयानि पत्त्राणि, सप्तरत्नमयानि पुष्पानि, सप्तरत्नमयानि फलानि । सर्वेषां चानन्द तेषां वृक्षाणां मूलस्कन्धविटपशाखा- पत्त्रपुष्पफलानि मृदूनि सुखसंस्पर्शानि सुगन्धीनि ; वातेन प्रेरितानां च तेषां वल्गुमनोज्ञनिर्घोषो निश्चरत्य्, असेचनकोऽप्रतिकूलः श्रवणाय । एवंरूपैरानन्द सप्तरत्नमयैर्वृक्षैः संततं तद् बुद्धक्षेत्रं समन्ताच्च कदलीस्तम्भैः सप्तरत्नमयै रत्नतालपण्क्तिभिश्चानुपरिक्षिप्तं, सर्वतश्च हेमजालप्रतिच्छन्नं, प्३३ समन्ततश्च सप्तरत्नमयैः पद्मैः संच्छन्नं । सन्ति तत्र पद्मान्यर्धयोजनप्रमाणानि, सन्ति योजनप्रमाणानि, सन्ति द्वित्रिचतुःपञ्चयोजनप्रमाणानि, सन्ति यावद्दशयोजनप्रमाणानि । सर्वतश्च रत्नपद्मात् षट्त्रिंशद्रश्मिकोटीसहस्राणि निश्चरन्ति । सर्वतश्च रश्मिमुखात्षट्त्रिंशद्बुद्धकोटीसहस्राणि निश्चरन्ति ; सुवर्ण- वर्णैः कायैर्द्वात्रिंशन्महापुरुषलक्षणधरैर्, यानि पूर्वस्यां दिश्यप्रमेयासंख्येयासु लोकधातुषु गत्वा, सत्त्वेभ्यो धर्मं देशयन्ति । एवं दक्षिणपश्चिमोत्तरासु दिक्ष्वध ऊर्ध्वमनुविदिक्षु चानावरणे लोके ऽप्रमेयासंख्येयांल्लोकधातून् गत्वा, सत्त्वेभ्यो धर्मं देशयन्ति । तस्मिन् खलु पुनरानन्द बुद्धक्षेत्रे सर्वशः कालपर्वता न सन्ति, सर्वतो रत्नपर्वताः । सर्वशः सुमेरवः पर्वतराजानः, सर्वशश्चक्रवाडमहाचक्रवाडाः पर्वत- राजानो, महासमुद्राश्च न सन्ति । समन्ताच्च तद् बुद्धक्षेत्रं समं रमणीयं पाणितलजातं नानाविध- रत्नसंनिचितभूमिभागम् । एवमुक्त आयुष्मानानन्दो भगवन्तमेतदवोचत्: ये पुनस्ते भगवंश्चातुर्महाराजकायिका देवाः सुमेरुपार्श्व- निवासिनस्त्रायस्त्रिंशा वा सुमेरुमूर्ध्नि निवासिनस्, ते कुत्र प्रतिष्ठिताः । भगवानाह : तत्किं मन्यसे, आनन्द, ये त इह सुमेरोः पर्वतराजस्योपरि यामा देवास्, तुषिता देवा, निर्माणरतयो देवाः, परनिर्मितवशवर्तिनो देवा, ब्रह्मकायिका देवा, ब्रह्मपुरोहिता देवा, महाब्रह्मणो प्३४ देवा, यावदकनिष्ठा देवाः, कुत्र ते प्रतिष्ठिता इति । आह : अचिन्त्यो भगवन् कर्माणां विपाकः, कर्माभिसंस्कारः । भगवानाह : लब्धस्त्वयानन्देहाचिन्त्यः कर्माणां विपाकः, कर्माभिसंस्कारो ; न पुनर्बुद्धानां भगवताम् अचिन्त्यं बुद्धाधिष्ठानम् । कृतपुण्यानां च सत्त्वानाम् अवरोपितकुशलमूलानां तत्राचिन्त्या पुण्या विभूतिः । आह : न मेऽत्र भगवन् काचित्कांक्षा वा, विमतिर्वा, विचिकित्सा वा । अपि तु खल्वहमनागतानां सत्त्वानां कांक्षाविमतिविचिकित्सां निर्घाताय तथागतमेतमर्थं परिपृच्छामि । भगवानाह : साधु साध्वानन्दैवं ते करणीयम् । तस्यां खल्वानन्द सुखावत्यां लोकधातौ नानाप्रकारा नद्यः प्रवहन्ति । सन्ति तत्र महानद्यो योजनविस्ताराः । सन्ति यावद्विंशतित्रिंशतिचत्वारिंशत्पञ्चाशद्, यावद्योजन- शतसहस्रविस्ताराः, द्वादशयोजनावेधाः ; सर्वाश्च नद्यः सुखवाहिन्यो, नानासुरभिगन्धवारिवाहिन्यो, नानारत्नलुडितपुष्पसंघातवाहिन्यो, नानामधुरस्वरनिर्घोषाः । तासां चानन्द कोटीशतसहस्राङ्गसंप्रयुक्तस्य दिव्यसङ्गीतिसंमूर्च्छितस्य तूर्यस्य कुशलैः संप्रवादितस्य, तावन्मनोज्ञनिर्घोषो निश्चरति । यथारूपस्तासां महा- नदीनां निर्घोषो निश्चरति, गम्भीर, आज्ञेयो, विज्ञेयो,ऽनेलः कर्णसुखो हृदयंगमः, प्रेमणीयो, वल्गुमनोज्ञो, ऽसेचनकोऽप्रतिकूलः, श्रवणीयो,ऽचिन्त्यशान्तमनात्मेति सुखश्रवणीयो, प्३५ यस्तेषां सत्त्वानां श्रोत्रेन्द्रियानां भासम् आगच्छन्ति । तासां खलु पुनरानन्द महानदीनामुभयतस् तीराणि नानागन्धवृक्षैः संततानि, येभ्यो नानाशाखापत्त्र- पुष्पमञ्जर्योऽवलंबन्ते । तत्र ये सत्त्वास्तेसु नदीतीरेष्व् आकांक्षन्ति, दिव्यां निरामिषां रतिक्रीडां चानुभवितुं, तेषां तत्र नदीष्ववतीर्णानामाकांक्षतां गुल्फमात्रं वारि संतिष्ठन्ते ; आकांक्षतां जानुमात्रं कटीमात्रं कक्षमात्रम्, आकांक्षतां कण्ठमात्रं वारि संतिष्ठन्ते ; दिव्याश्च रतयः प्रादुर्भवन्ति । तत्र ये सत्त्वा आकांक्षन्ति : शीतं वारि भवत्विति, तेषां शीतं भवति ; ये आकांक्षन्त्य्: उष्णं भवत्विति, तेषामुष्णं भवति ; ये आकांक्षन्ति : शीतोष्णं भवत्विति, तेषां शीतोष्णमेव तद्वारि भवत्यनुसुखम् । ताश्च महानद्यो दिव्यतमालपत्त्रागरुकालानुसारितगरोरग- सारचन्दनवरगन्धवासितवारिपरिपूर्णाः प्रवहन्ति ; दिव्योत्पलपद्मकुमुदपुण्डरीकसौगन्धिकादिपुष्पसंच्छन्ना, हंससारसचक्रवाककारण्डवशुकसारिकाकोकिलकुणाल- कलविङ्कमयूरादिमनोज्ञस्वरतथागताभिनिर्मितपक्षि- संघनिषेवितपुलिना, धातुराष्ट्रोपशोभिताः, सूपतीर्था, विकर्दमाः, सुवर्णवालिकासंस्तीर्णाः । तत्र यदा ते सत्त्वा आकांक्षन्ति : ईदृशा अस्माकमभिप्रायाः परिपूर्यन्तामिति, तदा तेषां तादृशा एवाभिप्राया धर्म्याः परिपूर्यन्ते । यश् प्३६ चासावानन्द तस्य वारिणो निर्घोषस्तावद्मनोज्ञो निश्चरति, येन सर्वावत्तद्बुद्धक्षेत्रमभिज्ञाप्यते । तत्र ये सत्त्वा नदीतीरेषु स्थिता आकांक्षन्ति : मास्माकमयं शब्दः श्रोत्रेन्द्रियाभासमागच्छन्निति, तेषां स दिव्यस्यापि श्रोत्रेन्द्रियस्याभासं नागच्छति । यश्च यश्च यथारूपं शब्दमाकांक्षन्ति श्रोतुं, स तथारूपमेवं मनोज्ञं शब्दं शृणोति ; तद्यथा ; बुद्धशब्दं, धर्मशब्दम्, संघशब्दं, पारमिताशब्दं, भूमिशब्दं, बलशब्दं, वैशारद्यशब्दम्, आवेणिकबुद्धधर्मशब्दम्, अभिज्ञाशब्दम्, प्रतिसंविच्छब्दं शून्यतानिमित्ताप्रणिहितानभिसंस्कार- अजातानुत्पादाभावनिरोधशब्दं, शान्तप्रशान्तोपशान्त- शब्दं, महामैत्रीमहाकरुणामहामुदितामहोपेक्षाशब्दम्, अनुत्पत्तिकधर्मक्षान्त्यभिषेकभूमिप्रतिलम्भशब्दं च शृणोति । त एवंरूपांश्छब्दांश्छ्रुत्वोदारप्रीतिप्रामोद्यं प्रतिलभन्ते, विवेकसहगतं, विरागसहगतं, शान्तसहगतं, निरोधसहगतं, धर्मसहगतं, बोधि- परिनिष्पत्तिकुशलमूलसहगतं च । सर्वशश्चानन्द सुखावत्यां लोकधातावकुशलशब्दो नास्ति ; सर्वशो नीवरणशब्दो नास्ति ; सर्वशोऽपायदुर्गतिविनिपात- शब्दो नास्ति ; सर्वशो दुःखशब्दो नास्ति ; अदुःखासुख- वेदनाशब्दोऽपि तावदानन्द तत्र नास्ति ; कुतः पुनर् दुःखं दुःखशब्दो वा भविष्यति । प्३७ तदनेनानन्द पर्यायेण सा लोकधातुः सुखावत्य् उच्यते संक्षिप्तेन, न पुनर्विस्तरेण । कल्पोऽपि परिक्षयं गच्छेत्, सुखावत्यां लोकधातौ सुखकारणेषु परिकीर्तयमानेषु ; न त्वेव शक्यं तेषां सुखकारणानां पर्यन्तोऽधिगन्तुम् । तस्यां खलु पुनरानन्द सुखावत्यां लोकधातौ ये सत्त्वाः प्रत्याजाताः प्रत्याजनिष्यन्ते वा, सर्वे त एवंरूपेण वर्णेन, बलेन, स्थाम्नारोहपरिणाहेनाधिपत्येन, पुण्य- संचयेनाभिज्ञाभिर्वस्त्राभरणोद्यानविमानकूटागार- परिभोगैर्, एवंरूपशब्दगन्धरसस्पर्शापरिभोगैर्, एवंरूपैश्च सर्वोपभोगपरिभोगैः समन्वागताः ; तद् यथापि नाम देवाः परनिर्मितवशवर्तिनः । न खलु पुनरानन्द सुखावत्यां लोकधातौ सत्त्वा औदारिकं कवडीकाराहारमाहरन्ति । अपि तु खलु पुनर् यथारूपमेवाहारमाकांक्षन्ति, तथारूपमाहृतमेव संजानन्ति । प्रीणितकायाश्च भवन्ति, प्रीणितगात्राः । न तेषां भूयः काये प्रक्षेपः करणीयः । ते प्रीणितकायास् तथारूपानि गन्धजातान्याकांक्षन्ति, तादृशैरेव गन्धजातैर्दिव्यैस्तद्-बुद्धक्षेत्रं सर्वमेव निर्धूपितं भवति । तत्र यस्तं गन्धं नाघ्रातुकामो भवति, तस्य सर्वशो गन्धसंज्ञावासनापि न समुदाचरति । एवं ये यथारूपाणि गन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वज- पताकातूर्याण्याकांक्षन्ति, तेषां तथारूपैरेवं तैः सर्वं तद्-बुद्धक्षेत्रं परिस्फुटं भवति । ते यादृशानि चीवराण्याकांक्षन्ति नानावर्णान्यनेकशत- प्३८ सहस्रवर्णानि, तेषां तादृशैरेव चीवररत्नैः समं तद्- बुद्धक्षेत्रं परिस्फुटं भवति ; प्रावृतमेव चात्मानं संजानन्ति । ते यथारूपाण्याभरणान्याकांक्षन्ति, तद्यथा : शीर्षाभरणानि वा, कर्णाभरणानि वा, ग्रीवहस्तपादाभरणानि वा, यदिदं : मकुटानि, कुण्डलानि, कटकां, केयूरां, वत्सहारां, रूचकहारां, कर्णिका, मुद्रिकाः, सुवर्णसूत्राणि मेखलाः, सुवर्णजालानि, सर्वरत्नकंकणीजालानि, ते तथारूपैर् आभरणैरनेकरत्नशतसहस्रप्रत्युप्तैः स्फुटं तद्-बुद्धक्षेत्रं पश्यन्ति स्म । यदिदम् : आभरणवृक्ष- वस्त्रैस्तैश्चाभरणैरलंकृतमात्मानं संजानन्ति । ते यादृशं विमानमाकांक्षन्ति, यद्वर्णलिङ्गसंस्थानं, यावदारोहपरिणाहो, नानारत्नमयनिर्यूहशत- सहस्रसमलंकृतं, नानादिव्यदूष्यसंस्तीर्णं, विचित्रोपधान- विन्यस्तरत्नपर्यङ्कं, तादृशमेव विमानं तेषां पुरतः प्रादुर्भवति । ते तेषु मनोभिनिर्वृतेषु विमानेषु सप्ताप्सरःसहस्रपरिवृताः पुरस्कृता विहरन्ति, क्रीडन्ति रमन्ते परिचारयन्ति । न च तत्र लोकधातौ देवानां मनुष्याणां वा नानात्वम् अस्ति, अन्यत्र संवृतिव्यवहारेण देवा मनुष्या वेति संख्यां गच्छति । तद्यथानन्द, राज्ञश्चक्रवर्तिनः पुरतो मनुष्यहीनो मनुष्यषण्डको न भासते, न तपति, न विरोचते, न भवति विशारदो, न प्रभास्वर, एवमेव देवानां परनिर्मितवशवर्तिनां पुरतः शक्रो देवेन्द्रो न भासते, प्३९ न तपति, न विरोचते, यदिदम् : उद्यानविमानवस्त्राभरणैर्, आधिपत्येन वा, र्द्ध्या वा, प्रातिहार्येण वैश्वर्येण वा ; न तु खलु पुनर्धर्माभिसमयेन धर्मपरिभोगेन वा । तत्रानन्द यथा देवाः परनिर्मितवशवर्तिन एवं सुखावत्यां लोकधातौ मनुष्या द्रष्टव्याः । तस्यां खलु पुनरानन्द सुखावत्यां लोकधातौ पूर्वाह्न- कालसमये प्रत्युपस्थिते, समन्ताच्चतुर्दिशमाकुल- समाकुला वायवो वान्ति, येनात्र रत्नवृक्षांश्चित्रान्, दर्शनीयान्, नानावर्णान्, अनेकवर्णान्, नानासुरभिदिव्यगन्धपरिवासितान् क्षोभयन्ति, संक्षोभयन्ति, ईरयन्ति, समीरयन्ति ; यतो बहूनि पुष्पशतानि तस्यां रत्नमय्यां पृथिव्यां प्रपतन्ति मनोज्ञगन्धानि दर्शनीयानि । तैश्च पुष्पैस् तद्बुद्धक्षेत्रं समन्तात्सप्तपौरुषं संस्कृतं रूपं भवति । तद्यथापि नाम कश्चिदेव पुरुषः कुशलः पृथिव्यां पुष्पसंस्तरं संस्तृणुयाद्, उभाभ्यां पाणिभां समं रचयेत्सुचित्रं दर्शनीयम्, एवमेतद् बुद्धक्षेत्रं तैः पुष्पैर्नानागन्धवर्णैः समन्तात् सप्तपौरुषं स्फुटं भवति । तानि च पुष्पजातानि मृदूनि काचलिन्दिकसुखसंस्पर्शान्य्; औपम्यमात्रेण यानि निक्षिप्ते पादे चतुरङ्गुलमेव नमन्त्य्, उत्क्षिप्ते पादे चतुरङ्गुलम् एवानमन्ति । निर्गते पुनः पूर्वाह्नकालसमये, तानि पुष्पानि निरवसेषमन्तर्धीयन्ते । अथ तद्-बुद्धक्षेत्रं विविक्तं, रम्यं, शुभं भवत्य्, अपरिक्लिष्टैस्तैः पूर्वपुष्पैः । ततः पुनर् अपि समन्ताच्चतुर्दिशं वायवो वान्ति, ये पूर्ववदभिनवानि पुष्पाण्यभिप्रकिरन्ति । यथा पूर्वाह्न एव मध्याह्ने, प्४० ऽपराह्ने कालसमये, संध्यायां, रात्र्याः प्रथमे यामे, मध्यमे पश्चिमे च यामे । तैश्च वातैर्वायद्भिर् नानागन्धपरिवासितैस्ते सत्त्वाः स्पृष्टाः सन्त, एवं सुखसमर्पिता भवन्ति स्म, तद्यथापि नाम निरोधसमापन्नो भिक्षुः । तस्मिंश्चानन्द बुद्धक्षेत्रे सर्वशोऽग्निचन्द्रसूर्य- ग्रहनक्षत्रतारारूपानां तमोऽन्धकारस्य च नामधेय- प्रज्ञप्तिरपि नास्ति । सर्वशो रात्रिदिवप्रज्ञप्तिरपि नास्त्य्, अन्यत्र तथागतव्यवहारात् । सर्वशश्चागारपरिग्रह- संज्ञा नास्ति । तस्यां खलु पुनरानन्द सुखावत्यां लोकधातौ काले दिव्यगन्धोदकमेघा अभिप्रवर्षन्ति । दिव्यानि सर्व- वर्णिकानि कुसुमानि, दिव्यानि सप्तरत्नानि, दिव्यं चन्दन- चूर्णं, दिव्याश्च्छत्रध्वजपताका अभिप्रवर्षन्ति । दिव्यानि विमानानि, दिव्यानि वितानानि ध्रियन्ते, दिव्यानि रत्नच्छत्राणि सचामराण्याकाशे ध्रियन्ते । दिव्यानि वाद्यानि प्रवाद्यन्ते । दिव्याश्चाप्सरसो नृत्यन्ति स्म । तस्मिन् खलु पुनरानन्द बुद्धक्षेत्रे ये सत्त्वा उपपन्ना उत्पद्यन्त उपपत्स्यन्ते, सर्वे ते नियताः सम्यक्त्वे यावन्निर्वाणात् । तत्कस्य हेतोः । नास्ति तत्र द्वयो राश्योर्व्यवस्थानं प्रज्ञप्तिर्वा, यदिदम् : अनियत्यस्य वा मिथ्यात्वनियतस्य वा । तदनेनाप्यानन्द पर्यायेण सा लोकधातुः सुखावतीत्युच्यते संक्षिप्तेन, न विस्तरेण । कल्पोऽप्यानन्द परिक्षयेत्, सुखावत्यां लोकधातौ सुखकारणेषु परिकीर्तयमानेषु ; न च तेषां सुखकारणानां प्४१ शक्यं पर्यन्तोऽधिगन्तुम् । अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत : सर्वे पि सत्त्वाः सुगता भवेयुः, विशुद्धज्ञानाः परमार्थकोविदा । ते कल्पकोटीमथ वापि उत्तरिम्, सुखावतीवर्ण प्रकाशयेयुः ।(१) क्षये कल्पकोटीय व्रजेयु ताश्च, सुखावतीये न च वर्ण अन्तः । क्षयं न गच्छेत्प्रतिभा तेषां प्रकाशयन्तान थ वर्णमाला ।(२) ये लोकधातूं परमाणुसदृशां च्छिन्देय भिन्देय रजांश्च कुर्यात्, अतो बहू उत्तरि लोकधातू पूरेत्व दानं रतनेहि दद्यात् ।(३) न ता कलां पि उपमा पि तस्य पुण्यस्य भोन्ती पृथुलोकधातवः, यल्लोकधातूय सुखावतीये श्रुत्वैव नाम भवतीह पुण्यं (४) ततो बहू पुण्य भवेत तेषां, ये श्रद्धणेय जिनवचनसंज्ञा । श्रद्धा हि मूलं जगतस्य प्राप्तये, तस्माद्धि श्रुत्वा विमतिं विनोदयेद्, इति ।(५) एवमप्रमेयगुणवर्णा आनन्द सुखावती लोकधातुः । तस्य खलु पुनरानन्द भगवतोऽमिताभस्य तथागतस्य प्४२ दशसु दिक्ष्वेकैकस्यां दिशि गङ्गानदीवालुकासमेषु बुद्धक्षेत्रेषु गङ्गानदीवालुकासमा बुद्धा भगवन्तो नामधेयं परिकीर्तयन्ते, वर्णं भाषन्ते, यशः प्रकाशयन्ति, गुणमुदीरयन्ति । तत्कस्य हेतोः । ये केचित्सत्त्वास्तस्यऽमिताभस्य तथागतस्य नामधेयं शृण्वन्ति, श्रुत्वा चान्तश एकचित्तोत्पादमप्यध्याशयेन प्रसादसहगतमुत्पादयन्ति, सर्वे तेऽवैवर्त्तिकतायां संतिष्ठन्तेऽनुत्तरायाः सम्यक्संबोधेः । ये चानन्द केचित्सत्त्वास्तं तथागतं पुनः पुनर् आकारतो मनसीकरिष्यन्ति, बहुपरिमितं च कुशलमूलम् अवरोपयिष्यन्ति, बोधाय चित्तं परिणाम्य तत्र च लोकधाताव् उपपत्तये प्रणिधास्यन्ति, तेषां सोऽमिताभस् तथागतोऽर्हन् सम्यक्संबुद्धो मरणकालसमये प्रत्युपस्थिते ऽनेकभिक्षुगणपरिवृतः पुरस्कृतः स्थास्यति । ततस् ते तं भगवन्तं दृष्ट्वा प्रसन्नचित्ताः सन्ति, तत्रैव सुखावत्यां लोकधातावुपपद्यते । य आनन्दाकांक्षत, कुलपुत्रो वा कुलदुहिता वा, किमित्यहं दृष्ट एव धर्मे तममिताभं तथागतं पश्येयमिति, तेनानुत्तरायां सम्यक्संबोधौ चित्तमुत्पाद्याध्याशयपतितया संतत्या तस्मिन् बुद्धक्षेत्रे चित्तं संप्रेष्योपपत्तये कुशलमूलानि च परिणामयितव्यानि । ये पुनस्तं तथागतं न भूयो मनसीकरिष्यन्ति, न च बहुपरिमितं कुशलमूलमभीक्ष्णमवरोपयिष्यन्ति, तत्र च बुद्धक्षेत्रे चित्तं संप्रेषयिष्यन्ति, तेषां तादृशेनैव सोऽमिताभस्तथागतोऽर्हन् सम्यक्संबुद्धो प्४३ वर्णसंस्थानारोहपरिणाहेन भिक्षुसंघपरिवारेण, तादृश एव बुद्धनिर्मितो मरणकाले पुरतः स्थास्यति, ते तेनैव तथगतदर्शनप्रसादालम्बनेन समाधिनाप्रमुषितया स्मृत्या च्युतास्, तत्रैव बुद्धक्षेत्रे प्रत्याजनिष्यन्ति । ये पुनरानन्द सत्त्वास्तं तथागतं दशचित्तोत्पादां समनुस्मरिष्यन्ति ; स्पृहांश्च तस्मिन् बुद्धक्षेत्रे उत्पादयिष्यन्ति ; गम्भीरेषु च धर्मेषु भाष्यमाणेषु तुष्टिं प्रतिलप्स्यन्ते, न विपत्स्यन्ते, न विषादमापत्स्यन्ते, न संसीदमापत्स्यन्ते ;ऽन्तश एकचित्तोत्पादेनापि तं तथागतं मनसिकरिष्यन्ति, स्पृहां चोत्पादयिष्यन्ति तस्मिन् बुद्धक्षेत्रे, तेऽपि स्वप्नान्तरगतास्तममिताभं तथागतं द्रक्ष्यन्ति ; सुखावत्यां लोकधातावुपपत्स्यन्ते ;ऽवैवर्त्तिकाश् च भविष्यन्त्यनुत्तरायाः सम्यक्संबोधेः । इमं खल्वानन्दार्थवसं संपश्यन्तस्, ते तथागता दशसु दिक्ष्वप्रमेयासंख्येयासु लोकधातुसु तस्यामिताभस्य तथागतस्य नामधेयं परिकीर्तयन्तो, वर्णान् घोषयन्तः, प्रशंसामभ्युदीरयन्ति । तस्मिन् खलु पुनरानन्द बुद्धक्षेत्रे दशभ्यो दिग्भ्य एकैकस्यां दिशि गङ्गानदीवालुकोपमा बोधिसत्त्वास्तममिताभं तथागतमुपसंक्रामन्ति दर्शनाय, वन्दनाय, पर्युपासनाय, परिप्रश्नीकरणाय ; तं च बोधिसत्त्वगणं तांश् च बुद्धक्षेत्रगुणालंकारव्यूहसंपदविशेषान् द्रष्टुम् । अथ खलु भगवांस्तस्यां वेलायामिममेवार्थं भूयस्या मात्रया परिदीपयन्निमा गाथा अभाषत : प्४४ यथैव गङ्गाय नदीय वालिका, बुद्धान क्षेत्रा पुरिमेन तात्तकाः । यतो हि ते आगमि बुद्ध वन्दितुम् संबोधिसत्त्वा अमितायु नायकं ।(१) बहुपुष्पपुटान् गृहीत्वा नानावर्ण सुरभी मनोरमान्, ओकिरन्ति नरनायकोत्तमम् अमितायु नरदेवपूजितम् ।(२) तथ दक्षिणपश्चिमोत्तरासु बुद्धान क्षेत्रा दिशतासु तत्तकाः, यतो यतो आगमि बुद्ध वन्दितुम् संबोधिसत्त्वा अमितायु नायकं ।(३) बहुगन्धपुटान् गृहीत्वा नानावर्ण सुरभी मनोरमान्, ओकिरन्ति नरनायकोत्तमं अमितायु नरदेवपूजितम् ।(४) पूजित्व च ते बहुबोधिसत्त्वान्, वन्दित्व पादाममितप्रभस्य, प्रदक्षिणीकृत्य वदन्ति चैवं : अहोऽद्भुतं शोभति बुद्धक्षेत्रं ।(५) ते पुष्पपुटाहि समोकिरन्ति उदग्रचित्ता अतुलाय प्रीतये, वाचं प्रभाषन्ति पुनस्तु : नायके, अस्मापि क्षेत्रं सिय एवरूपं ।(६) प्४५ तैः पुष्पपुटा इति क्षिप्त तत्र च्छत्रं तदा संस्थिहि योजनाशतां, स्वलंकृतं शोभति चित्रदण्डं, च्छादेति बुद्धस्य समन्तकायं ।(७) ते बोधिसत्त्वास्तथ सत्करित्वा, कथा कथेन्ती इति तत्र तुष्टः : सुलब्ध लाभाः खलु तेहि सत्त्वैः, येही श्रुतं नाम नरोत्तमस्य ।(८) अस्मेहि पी लाभ सुलब्ध पूर्वा यदागतस्य इम बुद्धक्षेत्रं । पश्याथ स्वप्नोपम क्षेत्र कीदृशं, यत्कल्पितं कल्पसहस्र शास्तुना ।(९) पश्यथ, बुद्धो वरपुण्यराशिः, परीवृतु शोभति बोधिसत्त्वैः । अमिताभस्य आभा अमितं च तेजः, अमिता च आयुर्, अमितश्च संघः ।(१०) स्मितं करोन्ती अमितायु नाथः षट्त्रिंशत्कोटीनयुतानि अर्चिषां, ये निश्चरित्वा मुखमण्डलाभः स्फुरन्ति क्षेत्राणि सहस्रकोटीः ।(११) ताः सर्व अर्चीः पुनरेत्य तत्र, मूर्ध्ने च अस्तंगमि नायकस्य । देवमनुष्या जनयन्ति प्रीतिम्, प्४६ अर्चिस्तदा अस्तमिता विदित्वा ।(१२) उत्तिष्ठते बुद्धसुतो महायशा नाम्नाथ सो हि अवलोकितेश्वरः : को हेतुरत्र भगवन्, को प्रत्ययः, येन स्मितं कुर्वसि लोकनाथ ।(१३) तं व्याकरोही परमार्थकोविदा हितानुकम्पी बहुसत्त्वमोचकः । श्रुत्वा ति वाचं परमां मनोरमां, उदग्रचित्ता भविष्यन्ति सत्त्वाः ।(१४) ये बोधिसत्त्वा बहुलोकधातुषु सुखावतीं प्रस्थित बुद्धपश्यना, ते श्रुत्व प्रीतिं विपुलां जनेत्वा, क्षिप्रमिमं क्षेत्र विलोकयेयुः ।(१५) आगत्य च क्षेत्रमिदमुदारं, ऋद्धीबलं प्रापुणि क्षिप्रमेव, दिव्यं च चक्षुस्, तथ श्रोत्र दिव्यं, जातिस्मरः परमतकोविदाश्च ।(१६) अमितायु बुद्धस्तद व्याकरोति : मम ह्ययं प्रणिधिरभूषि पूर्व । कथं पि सत्त्वाः श्रुणियान नामं, व्रजेयु क्षेत्रं मम नित्यमेव ।(१७) स मे अय प्रणिधि प्रपूर्ण शोभना, सत्त्वाश्च एन्ति बहुलोकधातुतः । आगत्य क्षिप्रं मम तेऽन्तिकस्मिन् अविवर्त्तिका भोन्तिह एकजातिया ।(१८) तस्माद्य इच्छतिह बोधिसत्त्वः : ममापि क्षेत्रं सिय एवरूपं । अहं पि सत्त्वा बहु मोचयेयं, प्४७ नामेन घोषेन थ दर्शनेन ।(१९) स शीघ्रशीघ्रं त्वरमाणरूपः, सुखावतीं गच्छतु लोकधातुं । गत्वा च पूर्वममितप्रभस्य, पूजेतु बुद्धान सहस्रकोटी ।(२०) बुद्धान कोटीं बहु पूजयित्वा, ऋद्धीबलेन बहु क्षेत्र गत्वा, कृत्वान पूजां सुगतान सन्तिके, भक्ताग्रमेष्यन्ति सुखावती त, इति ।(२१) तस्य खलु पुनरानन्द भगवतोऽमितायुषस्तथागतस्यार्हतः सम्यक्संबुद्धस्य बोधिवृक्षः षोडसयोजनशतान्य् उच्चैत्वेनाष्टौ योजनशतान्यभिप्रलम्बितशाखापत्त्रपलाशः पञ्चयोजनशतमूलारोहपरिणाहः, सदापत्त्रः सदापुष्पः सदाफलो, नानावर्णोऽनेकशतसहस्रवर्णो, नानापत्त्रो नानापुष्पो नानाफलो, नानाविचित्ररूपेन समलंकृतश्, चन्द्रभासमणिरत्नपरिस्फुटः, शक्राभिलग्नमणिरत्नविचित्रितश्, चिन्तामणिरत्नकीर्णः, सागरवरमणिरत्नसुविचित्रितो, दिव्यसमतिक्रान्तः, सुवर्णसूत्राभिप्रलम्बितो, रूचकहारो रत्नहारो वज्राहारः कटकहारो लोहितमुक्ताहारो नीलमुक्ताहारः, सिंहलतामेखलाकलापरत्नसूत्रसर्व- रत्नकञ्चुकशताभिविचित्रितः, सुवर्णजालमुक्ताजालसर्वरत्न- जालकङ्कणीजालावनतो, मकरस्वस्तिकनन्द्यावर्त्यर्धचन्द्र- समलंकृतः, किङ्किणीमणिसौवर्णसर्वरत्नालंकारविभूषितो, यथाशयसत्त्वविज्ञप्तिसमलंकृतश्च । तस्य खलु पुनरानन्द बोधिवृक्षस्य वातसमीरितस्य यः शब्दघोषो निश्चरति, सोऽपरिमाणान् लोकधातूनभिविज्ञापयति । तत्रानन्द येषां सत्त्वानां बोधिवृक्षशब्दः प्४८ श्रोत्रावभासमागच्छति, तेषां श्रोत्ररोगो न प्रतिकांक्षितव्यो, यावद्बोधिपर्यन्तम् । येषां चाप्रमेयासंख्येया- चिन्त्यामाप्यापरिमाणानभिलाप्यानां सत्त्वानां बोधिवृक्षश् चक्षुषाभासमागच्छति, तेषां चक्षूरोगो न प्रतिकांक्षितव्यो, यावद्बोधिपर्यन्तम् । ये खलु पुनरानन्द सत्त्वास्ततो बोधिवृक्षाद्गन्धं जिघ्रन्ति, तेषां यावद् बोधिपर्यन्तं न जातु घ्राणरोगः प्रतिकांक्षितव्यः । ये सत्त्वास्ततो बोधिवृक्षात्फलान्यास्वादयन्ति, तेषां यावद् बोधिपर्यन्तं न जातु जिह्वारोगः प्रतिकांक्षितव्यः । ये सत्त्वास्तस्य बोधिवृक्षस्याभया स्फुटा भवन्ति, तेषां यावद्बोधिमण्डपर्यन्तं न जातु कायरोगः प्रतिकांक्षितव्यः । ये खलु पुनरानन्द सत्त्वास्तं बोधिवृक्षं धर्मतो निध्यायन्ति, तेषां तत्रोपादाय यावद् बोधिपर्यन्तं न जातु चित्तविक्षेपः प्रतिकांक्षितव्यः । सर्वे च ते सत्त्वाः सहदर्शनात्तस्य बोधिवृक्षस्यावैवर्त्तिकाः संतिष्ठन्ते ; यदुतानुत्तरायाः सम्यक्संबोधेस्तिस्रश्च क्षान्तीः प्रतिलभन्ते, यदिदं : घोषानुगामनुलोमिकां अनुत्पत्तिकधर्मक्षान्तिं च ; तस्यैवामितायुषस्तथागतस्य पूर्वप्रणिधानाधिष्ठानेन, पूर्वजिनकृताधिकारतया, पूर्वप्रणिधानपरिचर्ययोश्च सुसमाप्तया, सुभावितयानू- नाविकलतया । तत्र खलु पुनरानन्द ये बोधिसत्त्वाः प्रत्याजाताः प्रत्याजायन्ते प्रत्याजनिष्यन्ते वा, सर्वे त एकजातिप्रतिबद्धास् तत एवानुत्तरां सम्यक्संबोधिमभिसंभोत्स्यन्ते ; स्थापयित्वा प्रणिधानवशेन ये ते बोधिसत्त्वा महासिंहनादनादिता, प्४९ उदारसंनाहसन्नद्धाः, सर्वसत्त्वपरिनिर्वाणाभियुक्ताश् च । तस्मिन् खलु पुनरानन्द बुद्धक्षेत्रे ये श्रावकास् ते व्योमप्रभा, ये बोधिसत्त्वास्ते योजनकोटीशतसहस्रप्रभाः ; स्थापयित्वा द्वौ बोधिसत्त्वौ, ययोः प्रभया सा लोकधातुः सततसमितं नित्यावभासस्फुटा । अथ खल्वायुष्मानानन्दो भगवन्तमेतदवोचत्: किं नामधेयौ भगवन् तौ सत्पुरुषौ बोधिसत्त्वौ महासत्त्वौ । भगवानाह : एकस्तयोरानन्दावलोकितेश्वर बोधिसत्त्वो महासत्त्वो, द्वितीयः स्थामप्राप्तो नाम । इत एवानन्द बुद्धक्षेत्राच्च्युत्वा तत्रोपपन्नौ । तत्र चानन्द बुद्धक्षेत्रे ये बोधिसत्त्वाः प्रत्याजाताः, सर्वे ते द्वात्रिंशता महापुरुषलक्षणैः समन्वागताः, परिपूर्णगात्रा, ध्यानाभिज्ञाकोविदाः, प्रज्ञाप्रभेदकोविदाः, कुशलास्, तीक्ष्णेन्द्रियाः, सुसंवृतेन्द्रिया, आज्ञातेन्द्रिया, अदीनाचलेन्द्रियाः, प्रतिलब्धक्षान्तिका अनन्तापर्यन्तगुणाः । तस्मिन् खलु पुनरानन्द बुद्धक्षेत्रे ये बोधिसत्त्वाः प्रत्याजाताः, सर्वे तेऽविरहिता बुद्धदर्शनेन धर्मश्रवणेनाविनिपात- धर्माणो, यावद्बोधिपर्यन्तं । सर्वे च ते तत्रोपादाय न जात्वजातिस्मरा भविष्यन्ति, स्थापयित्वा तथारूपेषु कल्पसंक्षोभेषु ये पूर्वस्थानप्रणिहिताः पञ्चसु कषायेषु वर्तमानेषु, यदा बुद्धानां भगवतां प्५० लोके प्रादुर्भावो भवति, तद्यथापि नाम ममैतर्हि । तस्मिन् खलु पुनरानन्द बुद्धक्षेत्रे ये बोधिसत्त्वाः प्रत्याजाताः, सर्वे त एकपुरोभक्तेनान्यलोकधातूं गत्वानेकनि बुद्धकोटीनयुतशतसहस्राण्युपतिष्ठन्ति, यावच् चाकांक्षन्ति बुद्धानुभावेन ते यथा चित्तमुत्पादयन्त्य्: एवंरूपैः पुष्पदीपधूपगन्धमाल्यविलेपनचूर्ण- चीवरच्छत्रध्वजपताकावैजयन्तीतूर्यसंगीतिवाद्यैः पूजां कुर्याम इति, तेषां सहचित्तोत्पादात्तथारूपाण्येव सर्वपूजाविधानानि पाणौ प्रादुर्भवन्ति । ते तैः पुष्पैर्यावद् वाद्यैस्तेषु बुद्धेषु भगवत्सु पूजां कुर्वन्तो बह्वप- रिमाणासंख्येयं कुशलमूलमुपचिन्वन्ति । सचेत्पुनर् आकांक्षन्त्य्: एवंरूपाः पुष्पपुटाः पाणौ प्रादुर्भवन्ति, तेषां सहचित्तोत्पादान्नानावर्णा अनेकवर्णा नानागन्धा दिव्याः पुष्पपुटाः पाणौ प्रादुर्भवन्ति । ते तैस्तथारूपैः पुष्पपुटैः तान् बुद्धान् भगवतोऽवकिरन्ति स्म, अभ्यवकिरन्त्य्, अभिप्रकिरन्ति । तेषां च यः सर्वपरीत्तः पुष्पपुट उत्सृष्टो, दशयोजनविस्तारं पुष्पच्छत्रं प्रादुर्भवन्ति । उपर्यन्तरीक्षे द्वितीये चानुत्सृष्टे, न प्रथमो धरण्यां प्रपतति । सन्ति तत्र पुष्पपुटा य उत्सृष्टाः सन्तो विंशतियोजनविस्ताराणि पुष्पच्छत्राण्युपर्यन्तरीक्षे प्रादुर्भवन्ति । सन्ति त्रिंशत्चत्वारिंशत्पञ्चाशत्, सन्ति योजन- शतसहस्रविस्ताराणि पुष्पच्छत्राण्युपर्यन्तरीक्षे प्रादुर्भवन्ति । तत्र य उदारं प्रीतिप्रामोद्यं संजनयन्त्य्; उदारं च चित्तौद्बिल्यं प्रतिलभ्यन्ते ; ते बह्वपरिमितम् असंख्येयं च कुशलमूलमवरोप्य, बहूनि बुद्धकोटीनयुतशतसहस्राण्युपस्थायैकपूर्वाह्नेन पुनर् अपि सुखावत्यां लोकधातौ प्रतिष्ठन्ते, तस्यैवामितायुषस् प्५१ तथागतस्य पूर्वप्रणिधानाधिष्ठानपरिग्रहेण, पूर्वप्रणिधान- समृद्धिपरिपूर्यानूनया सुविभक्ताभावितया । तस्मिन् खलु पुनरानन्द बुद्धक्षेत्रे ये बोधिसत्त्वाः प्रत्याजाताः, सर्वे ते सर्वज्ञतासहगतामेव धर्मकथां कथ्यन्ति । न च तत्र बुद्धक्षेत्रे सत्त्वानां काचित् परिग्रहसंज्ञास्ति, सर्वं तद्-बुद्धक्षेत्रं समनुचंक्रममाणा, अनुविचरन्तो न रतिं नारतिमुत्पादयन्ति । प्रक्रामन्तस्ताश्चानुपेक्षा एवं प्रक्रामन्ति, न सापेक्षाः सर्वशस्चैषामेवं चित्तं नास्ति । तत्र खलु पुनरानन्द सुखावत्यां लोकधातौ ये सत्त्वाः प्रत्याजाता, नास्ति तेषामन्यातकसंज्ञा, नास्ति स्वकसंज्ञा, नास्ति ममसंज्ञा, नास्ति विग्रहो, नास्ति विवादो, नास्ति विरोधो, नास्ति असमचित्तः ; समचित्तास्ते, हितचित्ता, मैत्रचित्ता, मृदुचित्ताः, स्निग्धचित्ताः, कर्मण्यचित्ताः, प्रसन्नचित्ताः, स्थिरचित्ता, विनीवरणचित्ता, अक्षुभितचित्ता, अलुडितचित्ताः, प्रज्ञापारमिताचर्याचरणचित्ताश्, चित्ताधारबुद्धिप्रविष्टाः, सागरसमाः प्रज्ञया, मेरुसमा बुद्ध्यानेकगुणसंनिचया, बोध्यङ्गसंगीत्या विक्रीडिता, बुद्धसंगीत्याभियुक्ता ; मांसचक्षुः प्रतिचिन्वन्ति । दिव्यं चक्षुरभिनिर्हरन्ति । प्रज्ञाचक्षुर्गतिंगताः, धर्मचक्षुःपारंगताः ; बुद्धचक्षुर्निष्पादयन्तो, देशयन्तो, द्योतयन्तो, विस्तारेण प्रकाशयन्तो ;ऽसङ्गज्ञानमभिनिर्हरन्तस्, त्रैधातुकसमतयाभियुक्ता, दान्तचित्ताः, शान्तचित्ताः, सर्वधर्मानुपलब्धि- प्५२ समन्वागताः, समुदयनिरुक्तिकुशला, धर्मनिरुक्तिसमन्वागता, हाराहारकुशला, नयानयस्थानकुशला ; लोकिकीषु कथास्वनपेक्षा विहरन्ति । लोकोत्तराभिः कथाभिः सारं प्रत्ययन्ति । सर्वधर्मपर्येष्टिकुसलाः, सर्वधर्मप्रकृतिव्युपसमज्ञान- विहारिनो,ऽनुपलम्भगोचरा, निष्किञ्चना, निरुपादाना, निश्चिन्ता, निरुपायासा, अनुपादाय सुविमुक्ता, अनङ्गणा, अपर्यन्तस्थायिनो,ऽभिज्ञास्वमूलस्थायिनो, ऽसङ्गचित्ता, अनवलीना, गम्भीरेषु धर्मेष्वभियुक्ता न संसीदन्ति । दुरनुबोधबुद्धज्ञानप्रवेशोद्गता, एकायतनमार्गानुप्राप्ता, निर्विचिकित्सास्, तीर्णकथंकथा, अपरप्रत्ययज्ञाना, अनधिमानिनः ; सुमेरुसमा ज्ञानेऽभ्युद्गताः ; सागरसमा बुद्ध्याक्षोभ्या ; चन्द्रसूर्यप्रभातिक्रान्ताः प्रज्ञया, पाण्डरसुशुक्लशुभचित्तया च ; उत्तप्तहेमव्र्णसदृअशावभास- निर्भासगुणप्रधानतया च ; वसुंधरासदृशाः सर्वसत्त्व- शुभाशुभक्षपनतया ; अप्सदृशाः सर्वक्लेशमलनिधावन- प्रवाहनतया ; अग्निराजसदृशाः सर्वधर्ममन्यनाक्लेशनिर्दहनतया ; वायुसदृशाः सर्वलोकासंजनतया ; आकाशसदृशाः सर्वधर्मनैर्वेधिकतया, सर्वशो निष्किंचनतया च । पद्मसदृशाः सर्वलोकानुपलिप्तया ; कालानुसारिमहामेघसदृशा धर्माभिगर्जनतया ; महावृष्टिसदृशा धर्मसलिलाभिवर्षणतया ; ऋषभसदृशा महागणाभिभवनतया ; महानागसदृशाः परमसुदान्तचित्ततया ; भद्राश्वाजानेयसदृशाः सुविनीततया ; सिंहमृगराजसदृशा विक्रमवैशारद्यासंत्रस्ततया ; प्५३ न्यग्रोधद्रुमराजसदृशाः सर्वसत्त्वपरित्राणतया ; सुमेरुपर्वतराजसदृशाः सर्वपरवाद्यकम्पनतया ; गगनसदृशा अपरिमाणमैत्रीभावनतया ; महाब्रह्मसमाः सर्वकुशलमूलधर्माधिपत्यपूर्वंगमनतया ; पक्षिसदृशाः संनिचयस्थानतया ; गरुडद्विजराजसदृशाः परप्रवादिविध्वंसनतया ; उदुम्बरपुष्पसदृशा दुर्लभोत्पत्त्यर्थितया ; नागवत्सुसमाहिता, अविक्षिप्ता, अजिह्मेन्द्रिया ; विनिश्चयकुशलाः, क्षान्तिसौरभ्यबहुला ; अनीर्ष्यकाः परसंपत्त्यप्रार्थतया । विशारदा धर्मकथास्व्; अतृप्ता धर्मपर्येष्टौ ; वैडूर्यसदृशाः शीलेन ; रत्नाकराः श्रुतेन ; मञ्जुस्वरा महाधर्मदुन्दुभिघोषेन ; महाधर्मभेरीं पराघ्नन्तो ; महाधर्मशङ्खमापूरयन्तो ; महाधर्मध्वजामुच्छ्रापयनतो ; महाधर्मोल्कां प्रज्वालयन्तः ; प्रज्ञाविलोकिनो,ऽसंमूढा, निर्दोषाः, शान्ताखिलाः, शुद्धा, निरामगन्धा, अलुब्धाः, संविभागरता, मुक्तत्यागाः, प्रसृतपाणयो, दानसंविभागरता धर्मामिषाभ्याम्, दानेऽमत्सरिणो,ऽसंसृष्टा, अनुत्त्रस्तमानसा, विरक्ता, धीरा, वीरा, धौरेया, धृतिमन्तो, ह्रीमन्तो,ऽसादृश्या, निरर्गडा, प्राप्ताभिज्ञाः, सुरताः सुखसंवासा, अर्थकरा, प्५४ लोकप्रद्योता, नायका, नन्दीरागानुनयप्रतिघाः, प्रहीणाः, शुद्धाः, शोकापगता, निर्मलास्, त्रिमलप्रहीणा, विक्रीडिताभिज्ञा, हेतुबलिकाः, प्रणिधानबलिका, अजिह्मा, अकुटिलाः । ये ते बहुबुद्धकोटीनयुतशतसहस्रावरोपितकुशलमूला, उत्पाटितमानशल्या, अपगतरागद्वेषमोहाः, शुद्धाः, शुद्धाधिमुक्ता, जिनवरप्रशस्ता, लोकपण्डिता, उत्तप्तज्ञानसमुद्गता, जिनस्तुतास्, चित्तौद्बिल्यसमन्वागताः, शूरा, दृढा, असमा, अखिला, अतुला, अरजसः, सहिता, उदारा, ऋषभा, ह्रीमन्तो, धृतिमन्तः, स्मृतिमन्तो, मतिमन्तो, गतिमन्तः, प्रज्ञाशस्त्रप्रहरणाः, पुण्यवन्तो, द्युतिमन्तो, व्यपगतखिलमलप्रहीणा, अभियुक्ताः सातत्येषु धर्मेषु । ईदृशा आनन्द तस्मिन् बुद्धक्षेत्रे बोधिसत्त्वा महासत्त्वाः संक्षिप्तेन । विस्तरेण पुनः सचेत्कल्पकोटीनयुतशतसहस्रस्थितिकेनाप्य् आयुष्प्रमाणेन तथागतो निर्दिशेद्, न त्वेव शक्यं तेषां सत्पुरुषाणां गुणपर्यन्तोऽधिगन्तुम् । न च तथागतस्य वैशारद्योपच्छेदो भवेत् । तत्कस्य हेतोः । उभयम् अप्येतदानन्दाचिन्त्यमतुल्यम्, यदिदम् : तेषां च बोधिसत्त्वानां गुणास्तथागतस्य चानुत्तरं प्रज्ञाप्रतिभानम् । अपि चानन्द उत्तिष्ठ पश्चान्मुखो भूत्वा, पुष्पाण्यवकीर्याञ्जलिं प्रगृह्य, प्रणिपत । एषासौ दिग्, यत्र स भगवान् अमिताभस्तथागतोऽर्हन् सम्यक्संबुद्धस्तिष्ठति ध्रियते प्५५ यापयति, धर्मं च देशयति ; विरजो विशुद्धो, यस्य तं नामधेयमनावरणं दशदिशि लोके विघुष्टमेकैकस्यां दिशि गङ्गानदीवालिकासमा बुद्धा भगवन्तो वर्णयन्ति, स्तुवन्ति, प्रशंसन्त्य्, असकृदसकृदसङ्गवाचाप्रतिवाक्याः । एवमुक्त, आयुस्मानानन्दो भगवन्तम् एतदवोचत्: इच्छाम्यहं भगवन्तं तममिताभम् अमितप्रभममितायुषं तथागतमर्हन्तं सम्यक्संबुद्धं द्रष्टुम्, तांश्च बोधिसत्त्वान्महासत्त्वान् बहुबुद्धकोटीनयुतशतसहस्रावरोपितकुशलमूलान् । समनन्तराभाषिता चायुष्मतानन्देनेयं वाक्, अथ तावदेव सोऽमिताभस्तथागतोऽर्हन् सम्यक्संबुद्धः स्वपाणितलात् तथारूपां प्रभां प्रामुञ्चत्, ययेदं कोटीशतसहस्रतमं बुद्धक्षेत्रं महतावभासेन स्फुटमभूत् । तेन खल्वपि समयेन सर्वत्र कोटीशतसहस्रबुद्धक्षेत्राणां, ये केचित्कालपर्वता वा, रत्नपर्वता वा, मेरुमहामेरुमुचिलिन्दमहामुचिलिन्दचक्रवाडमहाचक्रवाडा वा, भित्तयो वा, स्तम्भा वा, वृक्षगहनोद्यानविमानानि वा दिव्यमानुष्यकानि, तानि सर्वाणि तस्य तथागतस्य तया प्रभयाभिनिर्भिन्नान्यभूवन्, समभिभूतानि । तद्यथापि नाम पुरुषो व्याममात्रके स्थितो द्वितीयं पुरुषं प्रत्यवेक्षत आदित्येऽभ्युद्गत ; एवमेवास्मिन् बुद्धक्षेत्रे भिक्षुभिक्षुण्युपासकोपासिका देवनागयक्ष- गन्धर्वासुरगरुडकिन्नरमहोरगाश्च तस्यां वेलायाम् अद्राक्षुस्तममिताभं तथागतमर्हन्तं सम्यक्संबुद्धं, सुमेरुमिव पर्वतराजानं सर्वक्षेत्राभ्युद्गतम्, सर्वदिसोऽभिभूय, भासमानं तपन्तं विरोचमानं प्५६ बिभ्राजमानं, तं च महान्तं बोधिसत्त्वगणं, तं च भिक्षुसंघं, यदिदं बुद्धानुभावेन तस्याः प्रभयाः परिशुद्धत्वात् । तद्यथेयं महापृथिव्येकोदकजाता भवेत्, तत्र न वृक्षा, न पर्वता, न द्वीपा, न तृणगुल्मौषधिवनस्पतयो, न नदीश्वभ्रप्रपाताः प्रज्ञायेरन्, अन्यत्रैकार्णवीभूतमहापृथिव्य् ऐका स्यात्; एवमेव तस्मिन् बुद्धक्षेत्रे नास्त्य् अन्यत्किंचिल्लिङ्गं वा, निमित्तं वान्यत्रैव व्यामप्रभाः श्रावकास्, ते च योजनकोटीशतसहस्रप्रभा बोधिसत्त्वाः, स च भगवानमिताभस्तथागतोऽर्हन् सम्यक्संबुद्धस्, तं च श्रावकगणं तं च बोधिसत्त्वगणमभिभूय, सर्वा दिशः प्रभासयन् संदृश्यते । तेन खल्वपि समयेन तस्यां सुखावत्यां लोकधातौ बोधिसत्त्वाः श्रावाकदेवमनुष्याश्च सर्वे त इमां लोकधातुं, शाक्यमुनिं च तथागतं महता भिक्षुसंघेन परिवृतं पश्यन्ति स्म, धर्मं च देशयन्तम् । तत्र खलु भगवानजितं बोधिसत्त्वं महासत्त्वम् आमन्त्रयते स्म : पश्यसि त्वमजितामुष्मिन् बुद्धक्षेत्रे गुणालंकारव्यूहसंपदम् ; उपरिष्टाश्चान्तरीक्ष आरामरमणीयानि, वनरमणीयान्य्, उद्यानरमणीयानि, नदीपुष्किरिणीरमणीयानि, नानारत्नमयोत्पलपद्मकुमुदपुण्डऋईकाकीर्णानि ; अधस्ताच्च धरणितलमुपादाय, यावदकनिष्ठभवनाद्, गगनतलं पुष्पाभिकीर्णं, पुष्पावलिसमुपशोभितं, नानास्तम्भपङ्क्तिपरिस्फुटं तथागताभिनिर्मित- नानाद्विजसंघनिषेवितम् । आह : पश्यामि भगवन्, भगवान् आह : पश्यसि पुनस्त्वमजितैतानपरान् द्विजसंघान् प्५७ सर्वबुद्धक्षेत्रान् बुद्दस्वरेणाभिजिज्ञापयन्ति, येनैते बोधिसत्त्वा नित्यमविरहिता बुद्धानुस्मृत्या । आह : पश्यामि भगवन् । भगवानाह : पश्यसि त्वमजितात्र बुद्धक्षेत्रे अमून् सत्त्वान् योजनशतसहस्रकेषु विमानेष्वभिरूढान्, अन्तरीक्षेऽसक्तान् क्रामतः । आह : पश्यामि भगवन् । भगवानाह : तत्किं मन्यसेऽजित ; अस्ति किंचिन् नानात्वं देवानां वा परनिर्मितवशवर्तिनां सुखावत्याम् लोकधातौ मनुष्यणां वा । आह : एकमप्यहं भगवन् नानात्वं न समनुपश्यामि । यावद्महर्द्धिका अत्र सुखावत्यां लोकधातौ मनुष्याः । भगवानाह : पश्यसि पुनस्त्वमजित तत्र सुखावत्यां लोकधातावेकेषां मनुष्याणामुदारेषु पद्मेषु गर्भावासम् । आह ; तद्यथापि नाम भगवन् त्रयश्त्रिंशा देवा यामा देवा वा, पञ्चाशद्योजनकेषु वा, योजनशतिकेषु वा, पञ्चयोजनशतिकेषु विमानेषु प्रविष्टाः क्रीडन्ति, रमन्ति, परिचारयन्ति ; एवम् एवाहं भगवनत्र सुखावत्यां लोकधातावेकेषां मनुष्याणामुदारपद्मेषु गर्भावासं पश्यामि । सन्ति खलु पुनरत्र भगवन् सत्त्वा य उपपादुकाः पद्मेषु पर्यङ्कैः प्रादुर्भवन्ति । तत्कोऽत्र भगवन् हेतुः, कः प्रत्ययो, यदन्ये पुनर्गर्भावासे प्रतिवसन्ति ; अन्ये पुनरुपपादुकाः पर्यङ्कैः पद्मेषु प्रादुर्भवन्ति । भगवानाह : ये तेऽजित बोधिसत्त्वा अन्येषु बुद्धक्षेत्रेषु स्थिताः सुखावत्यां लोकधातावुपपत्तये विचिकित्साम् प्५८ उत्पादयन्ति, तेन चित्तेन कुशलमूलान्यवरोपयन्ति, तेषामत्र गर्भावासो भवति । ये पुनर्निर्विचिकित्साश्च्छिन्नकांक्षाः सुखावत्यां लोकधातावुपपत्तये कुशलमूलान्य् अवरोपयन्ति, बुद्धानां भगवतामसङ्गज्ञानमवकल्पयन्त्य् अभिश्रद्धधत्यधिमुच्यन्ते ; तत्रोपपादुकाः पद्मेषु पर्यङ्कैः प्रादुर्भवन्ति । ये तेऽजित बोधिसत्त्वा महासत्त्वा अन्यत्रबुद्धक्षेत्रस्थाश्चित्तमुत्पादयन्त्य् अमिताभस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य दर्शनाय, न विचिकित्सामुत्पादयन्ति, न कांक्षन्त्यसङ्गबुद्धज्ञानं, स्वकुचलमूलं चाभिश्रद्धधति, तेषाम् औपपादुकानां पर्यङ्कैः पद्मेषु प्रादुर्भूतानां मुहूर्तमात्रेणैवैवंरूपः कायो भवति, तद्यथान्येषां चिरोपपन्नानां सत्त्वानाम् । पश्याजित प्रज्ञादौर्बल्यं प्रज्ञावैमात्रं प्रज्ञापरिहाणिं प्रज्ञापरीत्ततां, यत्र हि नाम पञ्चवर्षशतानि परिहीणा भवन्ति बुद्धदर्शनाद्, बोधिसत्त्वदर्शनात्, सद्धर्मदर्शनाद्, धार्मसंकथ्यात्; कुशलमूलचर्यायाः परिहीणा भवन्ति सर्वकुशलमूलसंपत्तेर्, यदिदं विचिकित्सापतितैः संज्ञामनसिकारैः । तद्यथाजित राज्ञः क्षत्रियस्य मूर्धानाभिषिक्तस्य बन्धनागारं भवेत्, सर्वसौवर्णवैडूर्यप्रत्युप्तम्, अवसक्तपट्टमाल्यदामकलापं, नानारङ्गविततवितानं, दूष्यपट्टसंच्छन्नं, नानामुक्तकुसुमाभिकीर्णम्, उदारं, धूपनिर्धूपितं, प्रासादहर्म्यगवाक्षवेदिकातोरणविचित्र- सर्वरत्नप्रतिमण्डितं, हेमरत्नकंकणीजालसंच्छन्नं, चतुरस्रं, चतुःस्थूणं चतुर्द्वारं, चतुःसोपानकम् । तत्र तस्य राज्ञः पुत्रः केनचिदेव कृत्येन प्रक्षिप्तो प्५९ जाम्बूनदसुवर्णमयैर्निगडैर्बद्धो भवति । तस्य च तत्र पर्यङ्कः प्रज्ञप्तः स्याद्, अनेकगोणिकास्तीर्णस्, तूलिकापलालिकास्तीर्णः, काचिलिन्दिकसुखसंस्पर्शः, कालिङ्ग- प्रावरणसोत्तरपटच्छदन, उभयान्तलोहितोपधानश्, चित्रो, दर्शनीयः । स तत्राभिनिषण्णो वाभिनिपन्नो वा भवेत् । बहु चास्यानेकविधं शुचिप्रणीतं पानभोजनं तत्रोपनाम्येत् । तत्किं मन्यसेऽजित ; उदारस्तस्य राजपुत्रस्य स परिभोगो भवेत् । आह : उदारो भगवन् । भगवानाह : तत्किं मन्यसेऽजित ; अपि त्वास्वादयेत्, स तन्निगमयेद्वा, तेन वा तुष्टिं विद्यात् । आह : नो हीदं भगवन् । अपि तु खलु पुनर्येन व्यपनीतेन राज्ञा तत्र बन्धनागारे प्रक्षिप्तो भवेत्, स ततो मोक्षमेवाकांक्षयेत् । अभिजातान् कुमारानमात्यान् स्त्र्यागारान् श्रेष्ठिनो गृहपतीन् कोट्टराज्ञो वा पर्येषेद्, य एनं ततो बन्धनागारात्परिमोचयेयुः । किं चापि भगवंस्तस्य कुमारस्य तत्र बन्धनागारे नाभिरतिः । नात्र परिमुच्यते, यावन्न राजा प्रसादमुपदर्शयति । भगवानाह : एवमेवाजित, ये ते बोधिसत्त्वाः विचिकित्सापतिताः कुशलमूलान्यवरोपयन्ति, कांक्षन्ति बुद्धज्ञानमसमसमज्ञानं, किं चापि ते बुद्धनामश्रवणेन, तेन च चित्तप्रसादमात्रेणात्र सुखावत्यां लोकधातावुपपद्यन्ते । न तु खल्वौपपादुकाः पद्मेषु पर्यङ्कैः प्रादुर्भवन्ति । अपि तु पद्मेषु गर्भावासे प्६० प्रतिवसन्ति । किं चापि तेषां तत्रोद्यानविमानसंज्ञाः संतिष्ठन्ते । नास्त्युच्चारप्रस्रावं, नास्ति खेटसिंहानकं, न प्रतिकूलं मनसः प्रवर्तते । अपि तु खलु पुनः पञ्च वर्षशतानि विरहिता भवन्ति बुद्धदर्शनेन, धर्मश्रवणेन, बोधिसत्त्वदर्शनेन, धर्मसांकथ्यविनिश्चयेन, सर्वकुशलधर्मचर्याभिश्च । किं चापि ते तत्र नाभिरमन्ते, न तुष्टिं विदन्ति । अपि तु खलु पुनः पूर्वापराधं क्षपयित्वा, ते भूयस्ततः पश्चान्निष्क्रामन्ति । न चैषां ततो निष्क्रामतां निष्क्रमः प्रज्ञायत, ऊर्ध्वम् अधस्तिर्यग्वा । पश्याजित ; यत्र हि नाम पञ्चभिर्वर्षशतैर्बहूनि बुद्धकोटीनयुतशतसहस्राण्युपस्थातव्यानि, बह्वसंख्येयाप्रमेयानि च कुशलमूलान्यवरोपयितव्यानि च स्युः । बुद्धधर्माश्च परिगृहीतव्याः । तत्सर्वं विचिकित्सादोषेण विरागयन्ति । पश्याजित कियन्महतेऽनर्थाय बोधिसत्त्वानां विचिकित्सा संवर्तत इति । तस्मात्तर्ह्यजित ; बोधिसत्त्वैर्निर्विचिकित्सैर्बोधाय चित्तमुत्पाद्य, क्षिप्रं सर्वसत्त्वहितसुखाधानाय सामर्थाप्रतिलम्भार्थं, सुखावत्यां लोकधाताव् उपपत्तये कुशलमूलानि परिणामयितव्यानि, यत्र भगवान् अमितायुस्तथागतोऽर्हन् सम्यक्संबुद्धः । एवमुक्ते,ऽजितो बोधिसत्त्वो भगवन्तमेतदवोचत्: कियन्तः पुनर्भगवन् बोधिसत्त्वा इतो बुद्धक्षेत्रात् परिनिष्पन्ना, अन्येषां वा बुद्धानां भगवतामन्तिकाद् ये सुखावत्यां लोकधातावुपपत्स्यन्ते । भगवानाह : प्६१ इतो ह्यजित बुद्धक्षेत्राद्द्वासप्ततिकोटीनयुतानि बोधिसत्त्वानां परिनिष्पन्नानि, यानि सुखावत्यां लोकधातावुपपत्स्यन्ते, परिनिष्पन्नानामवैवर्त्तिकानां बहुबुद्धकोटी- शतसहस्रावरोपितैः कुशलमूलैः । कः पुनर्वादस्, ततः परीत्ततरैः कुशलमूलैः । दुष्प्रसहस्य तथागतस्यान्तिकादष्टादशकोटीनयुतानि बोधिसत्त्वानां सुखावत्यां लोकधातावुपपत्स्यन्ते ; पूर्वान्तरे दिग्भागे रत्नाकरो नाम तथागतो विहरति । तस्यान्तिकान्नवतिबोधिसत्त्वकोट्यः सुखावत्यां लोकधाताव् उपपत्स्यन्ते ; ज्योतिष्प्रभस्य तथागतस्यान्तिकाद्द्वाविंशतिबोधिसत्त्वकोट्यः सुखावत्यां लोकधातावुपपत्स्यन्ते ; अमितप्रभस्य तथागतस्यान्तिकात्पञ्चविंशतिबोधिसत्त्वकोट्यः सुखावत्यां लोकधातावुपपत्स्यन्ते ; लोकप्रदीपस्य तथागतस्यान्तिकात्षष्टिबोधिसत्त्वकोट्यः सुखावत्यां लोकधातावुपपत्स्यन्ते ; नागाभिभुवस्तथागतस्यान्तिकात्चतुःषष्तिबोधिसत्त्वकोट्यः सुखावत्यां लोकधातावुपपत्स्यन्ते ; विरजप्रभस्य तथागतस्यान्तिकात्पञ्चविंशतिबोधिसत्त्वकोट्यः सुखावत्यां लोकधातावुपपत्स्यन्ते ; सिंहस्य तथागतस्यान्तिकादष्टादशबोधिसत्त्वसहस्राणि सुखावत्यां लोकधातावुपपत्स्यन्ते ; श्रीकूटस्य तथागतस्यान्तिकादेकाशीतिबोधिसत्त्वकोटीनयुतानि सुखावत्यां लोकधातावुपपत्स्यन्ते ; नरेन्द्रराजस्य तथागतस्यान्तिकाद्दशबोधिसत्त्वकोटीनयुतानि सुखावत्यां लोकधातावुपपत्स्यन्ते ; प्६२ बलाभिज्ञस्य तथागतस्यान्तिकाद्द्वादशबोधिसत्त्वसहस्राणि सुखावत्यां लोकधातावुपपत्स्यन्ते ; पुष्पध्वजस्य तथागतस्यान्तिकात्पञ्चविंशतिर्वीर्यप्राप्ता बोधिसत्त्वकोट्य एकप्रस्थानसंस्थिता एकेनाष्टाहेन नवनवतिकल्पकोटीनयुतशतसहस्राणि पश्चान्मुखीकृत्य याः सुखावत्यां लोकधातावुपपत्स्यन्ते ; ज्वलनाधिपतेस्तथागतस्यान्तिकाद्द्वादशबोधिसत्त्वकोट्यः सुखावत्यां लोकधातावुपपत्स्यन्ते ; वैशारद्यप्राप्तस्य तथागतस्यान्तिकादेकोनसप्ततिर् बोधिसत्त्वकोट्यो याः सुखावत्यां लोकधातावुपपत्स्यन्ते ; अमिताभस्य तथागतस्य दर्शनाय, वन्दनाय, पर्युपासनाय परिपृच्छनायै परिप्रश्नीकरणाय । एतेनाजित पर्यायेण परिपूऋणकल्पकोटीनयुतं नामधेयानि परिकीर्तयेयं तेषां तथागतानाम्, येभ्यस्ते बोधिसत्त्वा उपसंक्रामन्ति सुखावतीं लोकधातुं तममिताभं तथागतं द्रष्टुं वन्दितुं पर्युपासितुं, न च शक्यः पर्यन्तोऽधिगन्तुम् । पश्याजित कियत्सुलब्धलाभास्ते सत्त्वा येऽमिताभस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य नामधेयं श्रोष्यन्ति, नपि ते सत्त्वा हीनाधिमुक्तिका भविष्यन्ति, येऽन्तश एकचित्तप्रसादमपि तस्मिन् तथागते प्रतिलप्स्यन्ते, ऽस्मिंश्च धर्मपर्याये । तस्मात्तर्ह्यजित ; आरोचयामि वः, प्रतिवेदयामि वः, सदेवकस्य लोकस्य पुरतोऽस्य धर्मपर्यायस्य स्रवणाय, प्६३ त्रिसाहस्रमहासाहस्रमपि लोकधातुमग्निपरिपूऋणाम् अवगाह्यातिक्रम्यैकचित्तोत्पादमपि विप्रतिसारो न कर्तव्यः । तत्कस्य हेतोः । बोधिसत्त्वकोट्यो ह्यजिताश्रवणादेषाम् एवंरूपाणां धर्मपर्यायाणां विवर्तन्तेऽनुत्तरायाः सम्यक्संबोधेः । तस्मादस्य धर्मपर्यायस्याध्याशयेन श्रवणोद्ग्रहणधारणार्थां, पर्यवाप्तये, विस्तरेण संप्रकाशनार्थाय, भावनार्थं च, सुमहद्वीर्यम् आरब्धव्यम् । अन्तश एकरात्रिं दिवसमप्य्, एक- गोदोहमात्रमप्यन्तशः, पुस्तकगतावरोपितमपि कृत्वा सुलिखितो धारयितव्यः, शस्तृसंज्ञा च तत्रोत्पादाय कर्तव्या, इच्छद्भिः क्षिप्रमपरिमितान् सत्त्वानवैवर्त्तिकांश् चानुत्तरायां सम्यक्संबोधौ प्रतिष्ठापयितुं, तं च तस्य भगवतोऽमिताभस्य तथागतस्य बुद्धक्षेत्रं द्रष्टुम् । आत्मनश्च विसिष्टां बुद्धक्षेत्रगुणालंकारव्यूहसंपदं परिगृहीतुमिति । अपि तु खल्वजित ; अत्यर्थं सुलब्धलाभास्ते सत्त्वा अवरोपितकुशलमूलाः, पूर्वजिनकृताधिकारा, बुद्धाधिष्ठानाधिष्ठिताश् च भविष्यन्ति, येषामनागतेऽध्वनि, यावत् सद्धर्मप्रलोपे वर्तमान इम एवंरूपा उदारा धर्मपर्यायाः सर्वबुद्धसंवर्णिताः, सर्वबुद्धप्रशस्ताः सर्वबुद्धानुज्ञाता, महतः, सर्वज्ञज्ञानस्य क्षिप्रमाहारकाः श्रोतावभासमागच्छन्ति । श्रुत्वा चोदारं प्रीतिप्रामोद्यं प्६४ प्रतिलप्स्यन्त, उद्ग्रहीष्यन्ति, धारयिष्यन्ति, वाचयिष्यन्ति, पर्यवाप्स्यन्ति, परेभ्यश्च विस्तरेण संप्रकाशयिष्यन्ति, भावनाभिरताश्च भविष्यन्त्य्, अन्तशो लिखित्वा पूजयिष्यन्ति, बहु च ते पुण्यं प्रसविष्यन्ति, यस्य न सुकरा संख्या कर्तुम् । इति ह्यजित यत्तथागतेन कृत्यं कृतं तन्मया । यूष्माभिरिदानीं निर्विचिकित्सैर्योगः करणीयः । मा संशय तमसङ्गमनावरणं बुद्धज्ञानम् । मा भूत्सर्वाकारावरोपेत- रत्नमयपद्मबन्धनागारप्रवेशः । दुर्लभो ह्यजित बुद्धोत्पादः, दुर्लभा धर्मदेशना, दुर्लभा क्षणसंपत् । आख्याताजित मया पूर्वकुशलमूलपारमिप्राप्तिः । यूयमिदानीमभियुज्यत प्रतिपद्य वै । अस्य खलु पुनरजित धर्मपर्यायस्य महतीं परीन्दनां करोम्यविप्रनाशाय । मा बुद्धधर्माणाम् अन्तर्धानाय पराक्रमिष्यथ । मा तथागताज्ञां क्सोभ- यिष्यथ । अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभा- षत : नेमे अकृतपुण्यानां श्रवा भेष्यन्ति ईदृशाः, ये तु ते शूर सिद्धार्थाः ते श्रोष्यन्ति इमां गिरां ।(१) दृष्टो यैश्च हि संबुद्धो लोकनाथ प्रभंकरः, स गौरवैः श्रुतो धर्मः प्रीतिं प्राप्स्यन्ति ते परां ।(२) न शक्त हीनेभि कुशीददृष्तिभिः बुद्धान धर्मेषु प्रसाद विन्दितुम् । ये पूर्वबुद्धेषु अकार्षु पूजां, प्६५ ते लोकनाथान् चर्यासु शिक्षिषु ।(३) यथान्धकारे पुरुषो ह्यचक्षुः मार्गं न जाने कुतु संप्रकाशयेत् । सर्वे तथा श्रावक बुद्धज्ञाने अजानकाः किं पुनरन्यसत्त्वाः ।(४) बुद्धो हि बुद्धस्य गुणा प्रजानते । न देवनागासुरयक्षश्रावकाः । प्रत्येकबुद्धान पि को गती यथो, बुद्धस्य ज्ञाने हि प्रकाश्यमाने ।(५) यदि सर्वसत्त्वाः सुगता भवेयुः विशुद्धज्ञाना परमकोविदा, ते कल्पकोटीरथ वापि उत्तरे एकस्य बुद्धस्य गुणान् कथेयुः ।(६) अत्रान्तरे निर्वृत ते भवेयुः प्रकाश्यमाना बहुकल्पकोटीः, न च बुद्धज्ञानस्य प्रमाणु लभ्यते, तथा हि ज्ञानाश्चरियं जिनानां ।(७) तस्मान्नरः पण्डित विज्ञजातियः, यो मह्य वाक्यमभिश्रद्धधेयुः, कृत्स्नां स साक्षी जिनज्ञानराशिं । बुद्ध प्रजानाति गिरामुदीरयेत् ।(८) कदाचि लभ्याति मनुष्यलाभः, कदाचि बुद्धान पि प्रादुर्भावः । श्रद्धा थ प्रज्ञा सुचिरेण लप्स्यते, तस्यार्थप्रज्ञैर्जनयाथ वीर्यं ।(९) य ईदृशां धर्म श्रुणित्वा श्रेष्ठां लभ्यन्ति प्रीतिं सुगतं स्मरन्तः, ते मित्रमस्माकमतीतमध्वनि, ये बुद्धा बोधाय जनेन्ति च्छन्दम्, इति ।(१०) प्६६ अस्मिन् खलु पुनर्धर्मपर्याये भगवता भाष्यमाने द्वादशानां सत्त्वनयुतकोटीनां विरजो विगतमलं धर्मेषु धर्मचक्षुर्विशुद्धं, चतुर्विंशत्या कोटीभिरनागामिफलं प्राप्तम् । अष्टानां भिक्षुशतानामनुत्पादायास्रवेभ्यश् चित्तानि विमुक्तानि । पञ्चविंशत्या बोधिसत्त्वकोटीभिर् अनुत्पत्तिकधर्मक्षान्तिप्रतिलब्धाः । देवमानुषिकायाश् च प्रजायाश्चत्वारिंशत्कोटीनयुतशतसहस्राणामनुत्पत्तिपूर्वाण्य् अनुत्तरायां सम्यक्संबोधौ चित्तान्युत्पन्नानि सुखावत्युपपत्तये च कुशलमूलान्यवरोपितानि, भगवतो ऽमिताभस्य दर्शनकामतया । सर्वे ते तत्रोत्पाद्यानुपूर्वेण मञ्जुस्वरा नाम तथागता अन्येषु लोकधातुषूपपत्स्यन्ते । अशीतिश्च नयुतकोट्यो दीपङ्करेण तथागतेन लब्धक्षान्तिका अवैवर्त्या अनुत्तरायाः सम्यक्संबोधेर्, अमितायुषैव तथागतेन परिपाचिताः पूर्वबोधिसत्त्वचर्याश्चरन्तास्, ताश्च सुखावत्यां लोकधातावुपपद्य पूर्वप्रणिधानचर्याः परिपूरयिष्यन्ति । तस्यां च वेलायामयं त्रिसाहस्रमहासाहस्रो लोकधातुः षड्विकारं प्रकम्पितः । विविधानि च प्रातिहार्याणि संदृश्यन्ति, जानुमात्रं च मन्दरवपुष्पैः पृथिव्यां संस्तृतमभूत् । दिव्यमानुषिकानि च तूर्याणि संवादितान्य् अभूवन् । अनुमोदकाशब्देन च यावदकनिष्ठभवनं विज्ञप्तमभूत् । इदमवोचद्भगवानात्तमना, अजितो बोधिसत्त्वो महासत्त्व आयुष्मांश्चानन्दः, सा च सर्वावती पर्षत् सदेवमानुष्यासुरगन्धर्वश्च लोको भगवतो भाषितम् प्६७ अभ्यनन्दन्निति । भगवतोऽमिताभस्य गुणपरिकीर्तनं बोधिसत्त्वानाम् अवैवर्त्तिकभूमिप्रवेशः । अमिताभस्य सुखावती-व्यूह- परिवर्तः समाप्तः ।