इ. पुण्यप्रोत्साहनकथा मानुष्यं समवाप्य दुष्करशतैर्लब्ध्वा दुरापं क्षणं मृत्यौ निष्प्रतिकारदारुणतरे नित्यं पुरःस्थायिनि । पाथेयं दमदानसंयममयं यैर्न प्रभूतं कृतं संसारोग्रमरुप्रपातपतिताः प्राप्स्यन्ति दुःखानि ते ॥ १ ॥ मानुष्यं दुर्लभं प्राप्य विद्युत्संपातचञ्चलम् । भवक्षये मतिः कार्या भवोपकरणेषु वा ॥ २ ॥ मनुष्यत्वं समासाद्य विद्युज्ज्वालोर्मिचञ्चलम् । पुण्यमेवात्र कुर्वीत यतश्चिन्तामणिर्नृणाम् ॥ ३ ॥ यस्यानुभावान्मानुष्यं प्राप्तं भूयोऽपि सांप्रतम् । पुण्यं तद्वर्ध्यस्वेह यस्माद्धेतुः सुखस्य ते ॥ ४ ॥ मानुष्यं यदुपाश्रयेण भवता लब्धं पुनः सांप्रतं रूपौदार्यकुलोन्नतिप्रभृतिभिर्युक्तं विचित्रैर्गुणैः । तत्पुण्यं सुहृदेक एव जगतां बन्धुश्च जन्मान्तरे तस्मात्तूर्णमिदं कुरु त्वमसकृत्सर्वार्थसंपत्करम् ॥ ५ ॥ लक्ष्मीनिकेतं यदुपाश्रयेण प्राप्तोऽसि लोकाभिमतं प्रभुत्वम् । तान्येव पुण्यानि विवर्धयेथा न कर्षणीयो ह्युपकारिपक्षः ॥ ६ ॥ विरमत पापतः कुरुत पुण्यमुदारतरं दमयत दुर्दमं विषयलोलमनस्तुरगम् । भवत मुनीन्द्रवत्परहिताभिरताः सततं दशति न यावदेव मरणाहिरसह्यविषः ॥ ७ ॥ ॥ इति पुण्यप्रोत्साहनकथा ॥ इइ. धर्मश्रवणप्रोत्साहनकथा जलनिधिकूर्मकन्ठयुगरन्ध्रसमागमवत् क्षणमनवाप्यमद्भुतमिमं समवेत्य चलम् । प्रशमपुरैकवर्त्म विनिपातभयापहरं शृणुत सुदुर्लभं क्षणमपीह मुनेर्वचनम् ॥ ८ ॥ यद्दुर्लभं कल्पशतैरनेकैर्मानुष्यमष्टाक्षणदोषमुक्तम् । तत्सांप्रतं प्राप्तमतो भवद्भिः कार्यो हि धर्मश्रवणाय यत्नः ॥ ९ ॥ पल्लवाग्रजलबिन्दुचञ्चले क्लेशजालपरिवेष्टिते भवे । यो न चिन्तयति कर्मसत्पथं तस्य जन्म भवतीह निष्फलम् ॥ १० ॥ न नरकगतैः प्रेतैस्तिर्यग्गतैर्विकलेन्द्रियैर् अमरगुरुभिः प्रत्यन्तस्थैः कुदृक्करविक्षतैः । मुनिसवितरि प्रज्ञालोकेन चानुदिते जिने सनरविबुधैः शक्यं पातुं मुनीन्द्रवचोमृतम् ॥ ११ ॥ तस्मात्कुकार्यं व्यपहाय सर्वं मत्वा स्वकार्यं परमार्यधर्मम् । श्रोतव्य एव प्रयतेन धर्मो यस्मादतः सर्वगुणा भवन्ति ॥ १२ ॥ मौनीन्द्रं वाक्यरत्नं जनयति सुधियामेतदादौ प्रमोदं श्रोत्रापाते ततश्च प्रबलगुरुघनध्वान्तवृन्दं निहन्ति । चिन्ताध्यानावसाने स्फुटयति सकलं जन्मचक्रप्रबन्धं निःशेषातङ्कपङ्क्तिं विघटयति सदा सर्वसंपन्निधानम् ॥ १३ ॥ हरति तीव्रभवप्रभवापदं दिशति निर्वृतिसौख्यमनुत्तरम् । तदिदमेवमवेत्य मुनेर्वचः शृणुत संप्रति निर्मलमानसाः ॥ १४ ॥ ॥ इति धर्मश्रवनप्रोत्साहनकथा ॥ इइइ. दुर्लभमनुष्यकथ यत्प्राप्य जन्मजलधेरपि यान्ति पारमारोपयन्ति शिवमुत्तमबोधिबीजम् । चिन्तामणेरपि समभ्यधिकं गुणौघैर्मानुष्यकं क इह तद्विफली करोति ॥ १५ ॥ यो मनुष्यं कुशलविभवैः प्राप्य कल्पैरनल्पैर् मोहात्पुण्यद्रविणमिह न स्वल्पमप्याचिनोति । सोऽस्माल्लोकात्परमुपगतस्तीव्रमभ्येति शोकं रत्नद्वीपाद्वणिगिव गतः स्वं गृहं शून्यहस्तः ॥ १६ ॥ नाकुशलैः कर्मपथैर्मानुष्यं लभ्यते पुनः । अलभ्यमाने मानुष्ये दुःखमेव कुतः सुखम् ॥ १७ ॥ नातः परं वञ्चनास्ति न च मोहोऽस्त्यतः परम् । यदीदृशं क्षणं प्राप्य न कुर्यात्कुशलं बहु ॥ १८ ॥ एकक्षणकृतात्पापादवीचौ कल्पमास्यते । नैकजन्मकृतात्पापात्का पुनः सुगतौ कथा ॥ १९ ॥ अत एवाह भगवान्मानुष्यमतिदुर्लभम् । महार्णवयुगच्छिद्रकूर्मग्रीवार्पनोपमम् ॥ २० ॥ ॥ इति दुर्लभमानुष्यकथा ॥ इव्. दानकथा अन्नपानशयनासनसंपद्रत्नमाल्यवसनाभरणानि । कीर्तिरुत्तमगुणाश्च युवत्यो दानतः कथितमेतदशेसम् ॥ २१ ॥ आज्ञादीप्तिर्भोगसंपत्प्रकृष्टा रूपौदार्यं वर्णमाधुर्यमोजः । वाक्सौभाग्यं कान्तिरारोग्यमायुस्तत्तद्दानादिष्टमिष्टं फलं च ॥ २२ ॥ अश्वाः क्षौमाणि नागा बहुकुसुमसितं चामरं चातपत्रं सौधं संगीतिगर्भं मधुपटहरवाः पुष्पमाला युवत्यः । भोज्यं रत्नानि हाराः पुरनगरमहीं कुङ्कुमं देवलोकः संबुद्धत्वं च बुद्धैः कथितमिह फलं दानकल्पद्रुमस्य ॥ २३ ॥ यन्नीलोत्पलकोमलामलदलप्रस्पर्धिनेत्राः स्त्रियश् चञ्चन्मेखलचुम्बितोरुजघना विस्रस्तरक्तांशुकाः । दास्यं यान्ति विकम्पितस्तनतटा व्यावल्गितभ्रूलतास् तन्मात्सर्यकपाटपाटनपटोर्दानस्य विस्फूर्जितम् ॥ २४ ॥ अश्वैश्चामरभारनामितशिरोरूपैः खलीनोन्मुखैर् नागैर्भिन्नमदैश्च यन्नरवरा गच्छन्ति छत्त्रोच्छ्रयैः । भृत्यैः साभरणैः कृताञ्जलिपुटैरभ्यर्च्यमानाः सदा तद्दानस्य फलं वदन्ति मुनयः पूर्वार्जितस्येदृशम् ॥ २५ ॥ हारैर्वज्रविचित्रहेमवलयैर्यत्पार्थिवा भूषिताः केयूरैर्मुकुटैश्च रत्नखचितैः सिंहासनस्थाः सदा । मध्येऽन्तःपुरिकाजनस्य विविधैः क्रीडन्ति विक्रीडितैस् तद्दानस्य फलं वदन्ति मुनयः शार्दूलविक्रीडितम् ॥ २६ ॥ प्रासादे मणिरत्नहेमखचिते छत्त्रध्वजालंकृते वीणावल्लरिवेणुगीतमुदिते रत्नप्रभोद्भासिते । यच्छक्रो रमते शचीसहचरो योषित्सहस्राकुले तद्दानस्य फलं वदन्ति मुनयः पूर्वार्जितस्येदृशम् ॥ २७ ॥ दाता प्रियत्वमुपयाति जनस्य शश्वत्संसेव्यते च बःुभिः समुपेत्य सद्भिः । कीर्तिश्च दिक्षु विसरत्यमलं यशोऽस्य तत्तत्पदं समुपयाति विशारदोऽसौ ॥ २८ ॥ भेदात्कायस्य देवेष्वविकलविविधोत्तप्तभोगास्पदेषु प्राप्योत्पत्तिं विचित्रस्तबककुसुमितस्फीतकल्पद्रुमेषु । उद्यानेषु प्रकामं सुचिरमतिसुखं नन्दनादिष्वखिन्नः प्राप्नोत्युत्कृष्टरूपामरयुवतिजनैः सेव्यमानः प्रदानात् ॥ २९ ॥ दानं नाम महानिधानमनुगं चौराद्यसाधारणं दानं मत्सरलोभदोषरजसः प्रक्षालणं चेतसः । संसाराध्वपरिश्रमापनयनं दानं सुखं वाहनं दानं नैकसुखोपधानसुमुखं सन्मित्रमात्यन्तिकम् ॥ ३० ॥ श्रोणीसंगतमेखलाः कलगिरो लीलाचलैकभ्रुवः कर्णासन्नविशालचारुनयनाः केशान्तसक्तस्रजः । यद्दास्यं स्वयमङ्गनाः सुकृतिनामायान्ति पीनोरवस् तन्माहात्म्यमुवाच संभृतफलं दानस्य शौद्धोदनिः ॥ ३१ ॥ पर्यस्यत्सहकारभङ्गसुरभि प्रेङ्खन्निमग्नोत्पलं श्रीमत्काञ्चनभाजने विनिहुतं बन्धूकताम्रं मधु । कामिन्या शपथोपनीतमसकृद्यत्पीयते कामिना हेतुं तत्र वदन्ति शुद्धमतयो दानं परं श्रेयसः ॥ ३२ ॥ इति दानगुणान्निशम्य सौम्य प्रयतात्मा कुरु दान एव यत्नम् । त्रिभवोग्रमहाभये नराणां न हि दानात्परमस्ति बन्धुरन्यः ॥ ३३ ॥ ॥ इति दानकथा ॥ व्. पुण्यकथा यद्दृश्यते जगति चारुतरं प्रियं वा रूपं कुलं प्रियजनो विभवाः सुखं वा । तत्पुण्यशिल्पिकृतमेव वदन्ति सन्तः कल्याणकारिपुरुषस्य न पुण्यतुल्यम् ॥ ३४ ॥ अत्युच्छ्रितोन्नतसितध्वजपङ्क्तिचित्रैर्नागाश्वपत्तिरथसंक्षुभितैर्बलौघैः । उद्धूतचामरविराजितगात्रशोभाः पुण्याधिकाः क्षितिभुजो भुवि संचरन्ति ॥ ३५ ॥ कौशेयकाशिकदुकूलविचित्रवस्त्रा मुक्तावलीकनकरत्नविभूषिताङ्गाः । यत्के चिदेव पुरुषाः श्रियमुद्वहन्ति पुण्यस्य पूर्वचरितस्य कृतज्ञता सा ॥ ३६ ॥ आयुः सुदीर्घं सुकुले च जन्म कान्तं वपुर्व्याधिभयं न चास्ति । धनं प्रभूतं परिवारसंपद्भवन्ति पुण्यस्य महाविपाकाः ॥ ३७ ॥ यच्चक्रवर्ती प्रवरैस्तु रत्नैः सहस्रपुत्रैश्च समन्वितोऽपि समुद्रसीमां बुभुजे धरित्रीं तत्पुण्यरत्नस्य फलं विशालम् ॥ ३८ ॥ विचित्रपद्मासनमध्यसंस्थितः सुरासुरेन्द्रादिनमस्कृतः सदा । यद्ब्रह्मलोकं त्वभिभूय तेजसा ब्रह्मा सदा भाति तदेव पुण्यतः ॥ ३९ ॥ यद्देवनागासुरसिद्धसंघैर्गन्धर्वयक्षोत्तमकिन्नरैश्च । संपूज्यते देवगुरुः सदैव तत्पुण्यरत्नस्य फलं विशालम् ॥ ४० ॥ रूपं वीर्यं च शिल्पं च विहाय विवशा नराः । परलोकमितो यान्ति कर्मवायुभिरीरिताः ॥ ४१ ॥ पुण्यं त्वेकमिहात्यन्तमनुगामि सुखोदयम् । पुण्यमन्यैरहार्यत्वाद्धनानां प्रवरं धनम् ॥ ४२ ॥ ये मेरुमपि वेगेन विकिरन्ति दिशो दश । तेऽपि पुण्यस्य भङ्गाय नालं प्रलयवायवः ॥ ४३ ॥ संवर्तसलिलोद्वृत्तनिरङ्कुशविसर्पिणा। पुण्यं न क्लेदमायाति चतुःसागरवारिणा ॥ ४४ ॥ प्रदीप्तकिरणाङ्गारैः सप्तभिर्भास्करानलैः । क्षितौ वा दह्यमानायां पुण्यमेकं न दह्यते ॥ ४५ ॥ ॥ इति पुण्यकथा ॥ वि. बिम्बकथा आढ्यो निर्नष्टशोकः क्षतसकलकलिर्लोचनानन्दपात्रं सौभाग्यश्रीनिधानं समुपचितबलाक्रान्तगात्रो यशस्वी। तेजस्वी कान्तरूपः प्रवचनचतुरो दान्तसर्वेन्द्रियाश्वो व्यक्तो धीमान् प्रदाता भवति भगवतो बुद्धबिम्बं विधाय ॥ ४६ ॥ यावन्तः परमाणवो भगवतः स्तूपेषु बिम्बेषु वा तत्कर्तुर्दिवि भूतले च नियतं तावन्ति राज्यान्यपि । रूपारूप्यसमाधिसंपदखिलं भुक्त्वा च सर्वं सुखम् अन्ते जन्मजराविपत्तिरहितं प्राप्नोति बौद्धं पदम् ॥ ४७ ॥ द्वात्रिंशता भूषितचारुगात्रः सल्लक्षणैर्लक्षितचक्रवर्ती । भवेज्जिनोऽन्ते जितदोषशत्रुः ताथागतीं यः प्रतिमां विधत्ते ॥ ४८ ॥ इन्द्रियाणामवैकल्यं स्त्रीत्वदुर्गतिदूरता । जन्म मानुष्यकं वंश उच्चैरादेयवाक्यता ॥ ४९ ॥ जातिः श्रुतिः स्मृतिर्धैर्यमभिवाञ्छितसंपदः । स्थानेष्वभिनिवेशश्च रागादिभिरबाधना ॥ ५० ॥ संबोधिरिति जायन्ते विशेषाः साधुसंमताः । विधाय बुद्धप्रतिमां स्तूपं वा प्राणिनां सदा ॥ ५१ ॥ न याति दास्यं न दरिद्रभावं न प्रेष्यतां नापि च हीनजन्म । न चापि वैकल्यमिहेन्द्रियाणां यो लोकनाथप्रतिमां करोति ॥ ५२ ॥ ॥ इति बिम्बकथा ॥ विइ. स्नानकथा नानागन्धैः सुगन्धैः स्नपयति सुगतं पुष्पधूपाङ्गरागैर् यो वा पूजां करोति प्रमुदितमनसा श्रव्यवादित्रशब्दैः । मन्दाकिन्यां विजृम्भत्कनकमयसरोजस्य किञ्जल्करेणु- व्याप्तायां स्नाति सोऽन्ते सकलकलिमलक्षालितो याति मोक्षम् ॥ ५३ ॥ दिव्यस्त्रीपीनतुङ्गस्तनजघनघनाघातविक्षोभितायां जृम्भज्जाम्बूनदाब्जच्युतसुरभिरसोद्गारगन्धं क्षिपत्याम् । मन्दाकिन्यां सुरौघाः प्रतिदिनमुदकक्रीडया यद्रमन्ते नानागन्धोदकेन स्नपनफलमिदं बुद्धभट्टारकस्य ॥ ५४ ॥ मृगमदचन्दनं विधुसुकुङ्कुमसेव्यरसं सुरभिमनोरमासितसितारुणपीतरुचि । स्नपनमिदं य एव विदधाति मुनेर्मनुजः स भवति वीतमानसमलो जगुरस्तमलाः ॥ ५५ ॥ ॥ इति स्नानकथा ॥ विइइ. कुङ्कुमादिकथा मज्जद्वारविलासिनीकरकुचश्रोण्यूरुविस्फारितां यत्स्फीतस्फुटपङ्कजां सुरपतिर्मन्दाकिनीं गाहते । कान्ताभिः स्मरविह्वलाभिरसकृल्लोकोत्तमायादरात् तद्गन्धोदकपाद्यधूपकुसुमस्रग्गन्धदानात्फलम् ॥ ५६ ॥ यद्राजा चक्रवर्ती वियति गतघनैः कुङ्कुमाम्भःप्रवाहैः कर्पूरामोदवद्भिर्मलयजसुरभिश्लेषशीतैर्युतायाम् । गङ्गायामङ्गसौख्यं परममनुभवन्मोदते सुन्दरीभिस् तत्त्यागात्कुङ्कुमादेर्गुणमणिनिधये बुद्धभट्टारकाय ॥ ५७ ॥ मृदङ्गवीणापटहप्रदानैः कृत्वा तु पूजां सुगतोत्तमानाम् । शृणोति शब्दान् सुरमानुषाणां श्रोत्रं च दिव्यं लभते विशिष्टम् ॥ ५८ ॥ ॥ इति कुङ्कुमादिकथा ॥ इx. छत्त्रकथा गजतुरगपदातिस्यन्दनैः सप्तरत्नैर् व्रजति सुतसहस्रैर्व्योम्नि यच्चक्रवर्ती । शशधरपरिवेषच्छत्त्ररुद्दार्कपादस् तदपि फलमुदारं छत्त्रदानात्प्रसूतम् ॥ ५९ ॥ वाचालप्रचलालिचक्रचरणव्यालोलपुष्पोत्करं नानावर्णसुगन्धिभूरिकुसुमन्यासेन चित्रीकृतम् । छत्त्रं चारुविचित्रपत्तसहितं चैत्याय यो यच्छति प्राप्नोति क्षितिपार्चितं स हि चतुर्द्वीपेश्वरत्वं ध्रुवम् ॥ ६० ॥ हेमच्छत्त्रतिरस्कृतार्ककिरणाः श्रीमद्विनीतद्विप- स्कन्धस्था बहुरत्नभूषणवराः शक्रर्द्धिविस्पर्धिनः । चातुर्द्वीपकचक्रवर्त्यवनिपा यद्यान्ति खे लीलया तत्ताथागतधातुचैत्यकुसुमच्छत्त्रप्रदानात्फलम् ॥ ६१ ॥ ॥ इति छत्त्रकथा ॥ x. धात्वारोपणकथा पदे सुगतसंपदां सपदि सत्प्रतिष्ठो भुवि प्रकाशितयशा भवत्यखिलसत्त्वधात्वाश्रयः । समुन्नततरस्थिरप्रकृतिसंपदा संश्रितो जिनप्रतिकृतौ जनेन यदि धातुरारोप्यते ॥ ६२ ॥ शाक्रीं समन्तादधिगम्य लक्ष्मीं द्वीपांश्च भुक्त्वा चतुरो नरेन्द्राः । अन्ते विशुद्धं पदमाप्नुवन्ति धातोः समारोपणतो जिनस्य ॥ ६३ ॥ दृश्यन्ते कान्तिमन्तः शशधरवदनाः सुभ्रुवो दीर्घनेत्रा मर्त्या यन्मर्त्यलोके वरकनकनिभाः क्षान्तिसौरत्ययुक्ताः । पृथ्वीं यच्चापि राजा जलनिधिवसनां पालयंश्चक्रवर्ती तत्सर्वं बुद्धबिम्बे भवति तनुभृतां धातुमारोप्य भक्त्या ॥ ६४ ॥ ॥ इति धात्वारोपणकथा ॥ xइ. मण्डलकथा भवति कनकवर्णः सर्वरोगैर्विमुक्तः सुरमनुजविशिष्टश्चन्द्रवद्दीप्तकान्तिः । धनकनकसमृद्धो जायते राजवंशे सुगतवरगृहेऽस्मिन्मण्डलं यः करोति ॥ ६५ ॥ ते प्राप्नुवन्ति सहसैव जनाधिपत्यं दीर्घायुषो विविधरोगभयैर्विमुक्ताः । बुद्धस्य ये हि भुवनत्रयपूजितस्य कृत्वा भवन्ति कुसुमैः सह मण्डलानि ॥ ६६ ॥ दानं गोमयमम्बुना च सहितं शीलं च संमार्जनं क्षान्तिः क्षुद्रपिपीलिकापनयनं वीर्यं क्रियोत्थापनम् । ध्यानं तत्क्षणमेकचित्तकरणं प्रज्ञा सुरेखोज्ज्वला एताः पारमिताः षडेव लभते कृत्वा मुनेर्मण्डलम् ॥ ६७ ॥ दिव्यैः सुखैः सकलभोगवरैश्च युक्ता मर्त्या भवन्ति कनकाधिकचारुवर्णाः । पद्माननाः स्वविकलाङ्गविशालनेत्राः पुष्पैर्गणस्य विविधैर्वसुधां विचित्र्य ॥ ६८ ॥ ॥ इति मण्डलकथा ॥ xइइ. भोजनकथा कान्तापाणिसरोजपत्त्रविधृतां सद्वर्णगन्धोज्ज्वलां स्वाडुस्पर्शसुखां सुराः सुरपुरे यद्देववृन्दारकैः । भास्वत्काञ्चनभाजनेषु निहितामश्नन्ति दिव्यां सुधां तद्बुद्धप्रमुखार्यसंघविषये न्यस्तान्नदानात्फलम् ॥ ६९ ॥ मैत्र्या यः सह किंकरैः स्मररिपुं निर्जित्य वज्रासने क्लेशारीनपि यो दुरन्तविषयानन्तश्चरान् दुर्जनान् । स्कन्धारातिमपि प्रसह्य सुगतो मृत्युं च नीत्वा वशं प्राप्तः सर्वरसाग्रभोगवशितां सोऽप्यन्नदानोदयात् ॥ ७० ॥ संपूर्णसर्वाङ्गसमन्वितं च श्रीमत्सुखाद्यप्रतिभानयुक्तम् । आयुर्बलं वर्णमुदाररूपं प्राप्नोति विद्वानशनप्रदानात् ॥ ७१ ॥ निर्जित्य शत्रून् बलवीर्ययुक्तान् लक्ष्मीं समासाद्य च ये नरेन्द्राः । स्वादूनि भोज्यानि समाप्नुवन्ति भोज्यप्रदानाद्धि सदा तदेतत् ॥ ७२ ॥ ॥ इति भोजनकथा ॥ xइइइ. पानकथा प्रेङ्खन्नीलसरोजगर्भममलं यत्पद्मरागारुणं काम्यं काञ्चनभाजने विनिहितं प्रालेयमिश्रं मधु । किंचित्ताम्रविलोचनप्रियतमाप्रत्यर्पितं पीयते संगीतध्वनिसंगतं नरवरैस्तत्पानदानात्फलम् ॥ ७३ ॥ यद्वैडूर्येन्द्रनीलप्रवरमणिचितैर्भाजनैः शातकौम्भैर् देवा दिव्याङ्गनाभिः स्तनकलशभरव्याप्तवक्षःस्थलाभिः । पानं प्रीतिप्रसक्ताः सह मधु मधुरं माधवं वा पिबन्ति प्रोक्तं प्राज्ञैः फलं तद्गुणनिचितगणे पानदानस्य रम्यम् ॥ ७४ ॥ यत्पानं वर्णगन्धप्रभृतिगुणयुतं कल्पितं तृड्विनाशि श्लेश्माघातोग्रवातप्रशमनचतुरं पिप्फलीखण्डचूर्णम् । ग्रीष्मे प्रालेयभिन्नं शशिकरसदृशे भाजने संस्कृतं तद् दत्त्वा संघाय भक्त्यामरभवनगतो दिव्यमाप्नोति पानम् ॥ ७५ ॥ मधुमधुरमुदारमादरेण प्रवरगणाय ददाति पानकं यः । दिवि भुवि सकले स पानमग्र्यं पिबति चिरं प्रवराङ्गनोपनीतम् ॥ ७६ ॥ श्रद्धाप्रसन्नमनसो भुवि ये मनुष्याः संघाय पानकवरं प्रदिशन्ति काले । संसारपर्वतदरीतटवाससंस्थास्ते प्राप्नुवन्ति सततं मधुरं सुपानम् ॥ ७७ ॥ ॥ इति पानकथा ॥ xइव्. वस्त्रकथा ये नीलपीतहरितारुणशुक्लचित्रवर्णप्रभेदरचितोज्ज्वलवस्त्रमालाम् । यच्छन्ति लोकगुरवे सगणोत्तमाय ते प्राप्नुवन्त्यभिमतप्रवराम्बराणि ॥ ७८ ॥ यः संघायाशेषगणानां प्रवराय श्राद्धो भक्त्या चीवरमालां प्रददाति । स प्राप्नोति ह्रीवसनं वस्त्रवरिष्ठं काषायं च क्लेशकषायप्रतिपक्षम् ॥ ७९ ॥ दत्त्वा सत्पिङ्गचित्रस्तबकविरचिता नीलपीतावदातै रक्तैरन्यैश्च रम्यैः सुरुचिरवसनैश्चीवरैश्चारुमालाः । दिव्यं वामुक्तवस्त्रं सुगतसुतगणायाभिरूपो मनोज्ञो ह्रीवस्त्रालंकृतात्मा भवति पटुमतिः सर्वधर्मेश्वरः सः ॥ ८० ॥ ॥ इति वस्त्रकथा ॥ xव्. पुष्पादिकथा शक्राधिकाः प्रवरभोगसमन्वितास्ते पद्मेन्दुकान्तिवपुषो वरकीर्तियुक्ताः । शत्रून् विजित्य रभसा सततं भवन्ति संघस्य ये सुकुसुमैः प्रकिरन्ति पूजाम् ॥ ८१ ॥ नीलोत्पलप्रचयतुल्यशरीरगन्धा विख्यातकीर्तिविमलायतचारुनेत्राः । रत्नोपमा भुवि चरन्ति मनुष्यभूता दत्त्वा जिने प्रवरधूपमुदारगन्धम् ॥ ८२ ॥ वैडूर्यमुक्तामणिभूषिताङ्गाः कौशेयवस्त्रावृतसर्वकायाः । नरोत्तमाः सर्वजनैरुपेता भवन्ति बुद्धे सुरभिप्रदानात् ॥ ८३ ॥ रोगादिभिः प्रबलदुःखकरैर्विमुक्ताः स्निग्धाननाः कनकतुल्यमनोज्ञवर्णाः । राज्यं हि ये विगतकण्टकमाप्नुवन्ति भैषज्यदानविधिना तदुशन्ति संघे ॥ ८४ ॥ ॥ इति पुष्पादिकथा ॥ xवि. प्रणामकथा यच्चक्रवर्ती क्षितिपप्रधानैः कृत्वाञ्जलिं कुण्डलचारुगण्डैः । भक्त्या स्वमूर्ध्ना बहु वन्द्यते तद्बुद्धप्रणामात्कथयन्ति तज्ज्ञाः ॥ ८५ ॥ ये जातमात्राः प्रभुतां प्रयान्ति श्रेष्ठे कुले जन्म सदैव येषाम् । हस्त्यश्वयानैश्च परिभ्रमन्ति कृत्वा तु ते श्रेष्ठतरे प्रणामम् ॥ ८६ ॥ प्रथयति यशो धत्ते श्रेयो विवर्धयति द्युतिं हरति दुरितं सर्वं सर्वं ह्यरातिमपाहते । सुगतिनियतां लोके नॄणां करोति च संततिं फलति च शिवायान्तेऽवश्यं मुनीन्द्रनमस्क्रिया ॥ ८७ ॥ चक्री नृपो यद्बलकीर्तियुक्तो द्वात्रिंशता लक्षणभूषिताङ्गः । संजायते वै क्षितिपप्रधानो बुद्धप्रणामाद्धि फलं तदुक्तम् ॥ ८८ ॥ एवं बहुगुणं मत्वा मत्वा कायं च भङ्गुरम् । बुद्धप्रणामात्को विद्वान् कायकर्मान्यदाचरेत् ॥ ८९ ॥ कस्तं न नमः कुर्याद्दृष्ट्वा दूरात्पुनर्भवाद्भीतः । कृत्वैकनमस्कारं भवपारमवाप यद्धेतोः ॥ ९० ॥ ॥ इति प्रणामकथा ॥ xविइ. उज्ज्वालिकादानकथा नानासारङ्गरूपप्रभवमृदुमहद्रोमसंश्लाघ्यवस्त्रा हेमन्ते गर्भगेहे प्रियतमवनिताबाहुयुग्मोपगूढाः । यत्क्रीडन्ति क्षितीशा विविधरसवरैरन्नपानैः समृद्धास् तत्स्यादुज्ज्वालिकायाः फलमतिमधुरं भिक्षुसंघार्पितायाः ॥ ९१ ॥ ज्वालातरङ्गविकसद्दहनोपगूढां भीमस्वनां शिशिरशीतविनाशकर्त्रीम् । उज्ज्वालिकां मुनिवरप्रवराय दत्त्वा दीप्तप्रभो भवति देवमनुष्यलोके ॥ ९२ ॥ गन्धर्वासुरकिन्नरैः सहचरा देदीप्यमानानना विद्युज्ज्वालशरच्छशाङ्कसदृशाः कान्ताभिरालिङ्गिताः । स्वर्गे यद्विचरन्ति दीप्तवपुषो लीलायमानाः सुरास् तद्दत्त्वार्यगणाय शीतसमये चोज्ज्वालिकां श्रद्धया ॥ ९३ ॥ जित्वा रिपून् ये गजवाजियुक्तान् पृथ्वीं समन्तादनुशासयन्ति । दीप्तानना हेमविभूषिताङ्गा उज्ज्वालिकायाः फलमेव तेषाम् ॥ ९४ ॥ ॥ इत्युज्ज्वालिकादानकथा ॥ xविइइ. प्रदीपकथा धराधरतिरस्कृतं परमदूरदेशस्थितं सुसूक्ष्ममपि वस्तु चातितिमिरोत्करैरावृतम् । कराग्र इव संस्थितं यदनिरुद्धभिक्षुर्दृशा ददर्श सुगतस्य दीपपरिबोधनात्तत्फलम् ॥ ९५ ॥ बुद्धत्वं किल सुगतः प्रदीपकेन व्याकार्षीन्ननु नगरावलम्बिकायाः । को दद्याद्भगवति न प्रदीपमालां प्राप्त्यर्थं विमलमुनीन्द्रलोचनस्य ॥ ९६ ॥ दूरं सूक्ष्मं व्यवहितं दृश्यं पश्यन्ति ये जनाः । जिनप्रदीपमालायास्तत्फलं मुनयो जगुः ॥ ९७ ॥ दृश्यन्ते यत्क्षितीशाः शशधरवपुषो दीर्घनीलोत्पलाक्षा देवा यद्देवलोकं वरकनकनिभा भासयन्ति स्वकान्त्या । राजा यच्चक्रवर्ती मणिकिरणशतैर्भासयन् गां प्रयाति तत्सर्वं दीपदानाद्भवति तनुभृतां शाक्यसिंहाय भक्त्या ॥ ९८ ॥ लोके यद्भान्ति मर्त्याः कुवलयनयनाः सुभ्रुवो हेमवर्णाः शक्रो यद्देवराजो दशशतनयनो भाति दिव्यासनस्थः । यद्ब्रह्मा वीतकामः प्रवरसुरनतो भाति दिव्ये विमाने दत्त्वा तद्दीपमालां प्रभवति सुफलं शास्तृचैत्ये नराणाम् ॥ ९९ ॥ ॥ इति प्रदीपकथा ॥ xइx. विहारकथा सर्वर्तुरम्यवरहर्म्यतले नरेन्द्राः संगीतिगर्भजयजीवगिरा रमन्ते । शुद्धान्तवारवनिताभिरशीततायाश्चातुर्दिशार्ययतिसंघविहारदानात् ॥ १०० ॥ बुद्धप्रचोदनवचोऽपि मुनेरशेषमारोच्य सार्ययतिसंघविहारहेतोः । यज्जाग्रतोऽपि चरतः स्वपतः स्थितस्य पुण्याभिवृद्धिरुपरिप्रभवाप्रमाणा ॥ १०१ ॥ प्रज्ञावज्रप्रहारप्रविदलितकलिक्ष्माधरस्य प्रसादात् संघस्योद्दिश्य सर्वोपकरणसुभगं यो विहारं करोति । प्रासादे वैजयन्ते प्रवरमणिमये स्तम्भभित्तौ प्रियाभिः सार्धं सर्वर्तुरम्ये चिरमभिरमते देवलोके स एव ॥ १०२ ॥ श्रीमद्वितानवरपङ्कजचित्रवस्त्रं नीलादिसंस्थगितभित्तिगृहं प्रधानम् । दत्त्वा गणाय गुणिने प्रवराय शाक्रं प्रासादरत्नमधिगच्छति वैजयन्तम् ॥ १०३ ॥ ॥ इति विहारकथा ॥ xx. शयनासनदानकथा पर्यङ्कविष्टरसमास्तृततूलिकासु सीमन्तिनीघनपयोधरपीडिताङ्गाः । संशेरते क्षितिभुजो निशि यैः प्रदत्तं शय्यासनं शमितदोषगणोत्तमाय ॥ १०४ ॥ दिव्यस्त्रीचारिकाणां कलरवकलिते चित्रवस्त्रावृतायाम् शय्यायां रत्नमय्यां सुरभिपरिमलामोदवत्यां महत्याम् । कान्ताबाहूपधानश्चिरममरपुरे निर्भयस्तत्र शेते यत्तच्छय्यासनानां फलमिदमुदितं भिक्षुसंघाय दानात् ॥ १०५ ॥ कर्पूरचन्दनवरागुरुलिप्तगात्रा दिव्याङ्गनास्तनयुगान्तरवर्तिदेहाः । नित्यं स्वपन्ति वरवस्त्रसुतूलिकायां स्तूपाय चात्र शयनासनदानतस्तत् ॥ १०६ ॥ ॥ इति शयनासनदानकथा ॥ xxइ. क्षेत्रकथा यद्द्वीपांश्चतुरो विजित्य रभसाद्यातो मघोनः पुरं मान्धाता त्रिदशाधिपाच्च मुदितो लेभे यदर्धासनम् । सप्ताहं च हिरण्यवृष्टिरतुलायातास्य यन्मन्दिरे तत्पात्रप्रतिपादितस्य महतो दानस्य चित्रं फलम् ॥ १०७ ॥ तच्च पात्रं चतुर्धा तु गतिदुःखादिभेदतः । पृथक्पृथक्फलं तस्माद्विशिष्टं जायते नृणाम् ॥ १०८ ॥ वृत्ताननाः कुवलयेन्दुसमानवर्णा मर्त्याः सदा विमलदृष्टिविशालवक्षाः । दानान्मनुष्यगतिकेषु समाप्नुवन्ति रम्याणि यानशयनासनभोजनानि ॥ १०९ ॥ ग्लानेषु यन्नरवराः प्रदिशन्ति दानं दीनेषु दुर्बलधनेषु कृपान्विता ये । लक्ष्मीं हि ते समधिगम्य नरेन्द्रतुल्याः क्रीडन्ति नित्यमुदिताः सह पुत्रभृत्यैः ॥ ११० ॥ चन्द्राननाः प्रवरदेहविशालनेत्रा बालार्कतुल्यवपुषः शुभकीर्तियुक्ताः । राज्यं नरा विगतशत्रुभयं लभन्ते सर्वं हि तत्स्वगुरुमातृजनेषु दानात् ॥ १११ ॥ यद्गच्छन्ति क्षितीशा हयरथकरिभिर्वन्द्यमाना जनौघैश् छत्त्रैः सौवर्णदण्डैः शशिकरसदृशै रुद्धतीक्ष्णार्कपादः । राजा यच्छक्रवर्ती वरनृपतिशतैर्याति सार्धं पृथिव्यां क्षेत्रे सम्यक्तदेतत्प्रवरगुणफलं शोधिते दानबीजात् ॥ ११२ ॥ मान्धाता मुद्गदानात्क्षितिपतिरभवत्पांशुदानादशोको राजा वै कप्फिणाख्यस्त्रिदशपतिरभूत्पञ्चसारप्रदानात् । चित्राख्यः क्षीरदानान्मधु पनसयुतं क्षीणदोषाय दत्त्वा प्राप्तं वै क्ष्मापतित्वं सुरपतिभवने सिंहनाम्नाधिपत्यम् ॥ ११३ ॥ दत्तं बह्वपि नैव तद्बहुफलं सत्पात्रहीनं धनं क्षिप्तं बल्बजकण्टकाकुलतले क्षेत्रे क्षिते बीजवत् । रागद्वेषतमोमलव्यपगते पात्रे गुणालंकृते दानं स्वल्पमपि प्रयाति बहुतां न्यग्रोधबीजं यथा ॥ ११४ ॥ ॥ इति क्षेत्रकथा ॥ xxइइ. विचित्रकथा यो धर्मरत्नं लिखतीह नित्यं शृणोति तच्चिन्तयते सदैव । संभावनां वा यदि चात्र कुर्याज्जातिस्मरत्वं लभते स नित्यम् ॥ ११५ ॥ यद्देवलोके वरकल्पवृक्षाः सर्वार्थसंसिद्धिकरा भवन्ति । देवोत्तमानां सुखहेतुभूतास्तत्गोप्रदानस्य फलं विशालम् ॥ ११६ ॥ यद्गर्भे परिपुष्टिमेति शुचिभिः प्रोन्नीयमानो रसैर् बाल्ये यन्मधुसर्पिषी च पिबति क्षीरं च काले पुनः । भिन्नेन्दीवरकेसरद्युतियुतं पानं च यद्यौवने वृद्धत्वे च यथेप्सितं वररसं तद्गोप्रदानोद्भवम् ॥ ११७ ॥ सिंहासनं प्रमुदितो रुचिरं गणाय भक्त्या ददाति विधिवत्खलु यः स दाता । सिंहासनानि लभते प्रवराण्यभेद्यं वज्रासनं च सुरपन्नगसिद्धवन्द्यम् ॥ ११८ ॥ सौवर्णपात्रे सततं नरेन्द्रा यत्क्षीरमश्नन्ति रसादियुक्तम् । लक्ष्मीसमृद्धाश्च नरीर्लभन्ते पद्माननास्तन्महिषीप्रदानात् ॥ ११९ ॥ यानप्रदानेन सदातुराणां सुदुर्बलानां वहनेन चैव । संमाननां वै कुरुते गुरूणामृद्धिं समाप्नोति नरस्तु तेन ॥ १२० ॥ अश्वैर्विचित्रैः सततं वहन्ति सुवर्णपत्त्रच्छुरितैर्नरेन्द्राः । ऋद्ध्या च गच्छन्ति सुदूरदेशं यानप्रदानात्तु तदेव मर्त्याः ॥ १२१ ॥ हारार्धहारैः कटकैरुपेताः क्रीडन्ति देवेषु मनोज्ञवर्णाः । सार्धं हि यत्तत्त्रिदशाधिपेन निःसङ्गदानात्प्रवदन्ति सन्तः ॥ १२२ ॥ भीतान् समाश्वासयते सदैव धीमान्नरो वाक्प्रतिपादनेन । सर्वैर्न मारैः परिभूयतेऽसौ वाक्यं च नित्यं मधुरं शृणोति ॥ १२३ ॥ यदर्हयन्तीह जिनस्य वाक्यैः क्लेशारिभङ्गैर्भुवि धर्मधातुम् । संसारसौख्यं त्वनुभूय सर्वं धर्मेश्वरत्वं प्रवरं लभन्ते ॥ १२४ ॥ प्रतिश्रयं ते प्रदिशन्ति सन्तः सर्वत्र काले श्रमपीडितानाम् । ते यान्ति नाकं सततं प्रहृष्टाः शक्रेण सार्धं च सदा रमन्ते ॥ १२५ ॥ ये रोपयन्तीह सुकाननानि वृक्षांश्च पुष्पाणि च गन्धवन्ति । च्युत्वापि ते यान्ति दिवं मनुष्या उद्यानमालाद्युपभोगयुक्ताः ॥ १२६ ॥ कुर्वन्ति सेतुं विषमे प्रदेशे पानीयमध्येऽपि च ये मनुष्याः । स्वर्गं सदा भोगसमन्वितं हि यान्त्युत्तमं ते वरहेमगात्राः ॥ १२७ ॥ वापीतडागानि सुशोभनानि कृत्वा नराः स्वर्गमवाप्नुवन्ति । इहैव लोके च मनुष्यभूता राज्यानि रम्याणि सुखावहानि ॥ १२८ ॥ कूपान्मठान् सत्त्वसमाश्रयांश्च वातातपत्राणनिमित्तभूतान् । ये कारयन्ति प्रवरान्मनुष्यास्ते देवभूताः सुखिनो भवन्ति ॥ १२९ ॥ छत्त्राणि ये वा प्रतिपादयन्ति सूर्यांशुतापेन सुदुःखितेषु । छत्त्रोपगास्ते जितशत्रुसंघा भवन्ति नित्यं वरसौख्ययुक्ताः ॥ १३० ॥ पादाश्रयं चित्रमुपानहौ च सर्वेषु सत्त्वेषु दिशन्ति भक्त्या । यानोत्तमैस्ते सुचिरं प्रयान्ति देवेषु मर्त्येसु सदोपपन्नाः ॥ १३१ ॥ शंसन्ति ये जिनवरं गुणकीर्तनेन कायप्रणामक्रियया च गुरूंश्च सर्वान् । संमाननां गुरुकुलात्समवाप्नुवन्ति जातिं तथैव वचनप्रतिसंविदं च ॥ १३२ ॥ मृदङ्गवीणापटहादिभिर्ये कुर्वन्ति पूजां सुगतोत्तमानाम् । मनुष्यभूताः सुमनोज्ञवाक्याः शृण्वन्ति शब्दान् सुमनोज्ञरूपान् ॥ १३३ ॥ यष्टिं समारोपयति प्रहृष्टश्छत्त्रं च घण्टां सुगतस्य चैत्ये । छत्त्रावलीं वा कुरुते स तेन लक्ष्मीं समाप्नोति नरो विशालाम् ॥ १३४ ॥ मनुष्यभूतो भुवि यः समन्तादीशत्वमाप्नोति बलेन युक्तः । केयूरमुक्ताभरणैरुपेतो भूमिप्रदानात्तदुशन्ति सन्तः ॥ १३५ ॥ बिम्बं करोति प्रवरं जिनस्य स्तूपं च वा छत्त्रवरैरुपेतम् । धातुं समारोपयतीह यश्च स्वर्गं समाप्नोति नरस्तु तेन ॥ १३६ ॥ ये बुद्धमुद्दिश्य महान्ति नित्यं कुर्वन्ति मृद्गोमयलेपनानि । पुष्पं फलं भोजनपानकं वा यच्छन्ति ते राजबलं लभन्ते ॥ १३७ ॥ दीपानुदारान् विविधांश्च गन्धान् पुष्पाणि धूपं गुडपानकं वा । दिशन्ति संघस्य तथा च हेम भवन्ति ते देवसुखेन युक्ताः ॥ १३८ ॥ स्तूपाङ्गनं धातुवरं विहारं ये शोधयन्तीह नराः प्रयत्नैः । निर्माल्यमेभ्यश्च समुद्वहन्ति ते हेमवर्णाः सुदृशो भवन्ति ॥ १३९ ॥ उज्ज्वालिकां ये प्रदिशन्ति सद्भ्यः शीतागमे वस्त्रमथापि गेहम् । पानं विचित्रं वरकन्यकां वा ते जन्मभूमौ सुखिनो भवन्ति ॥ १४० ॥ दीर्घायुरेव भुवि सर्वरुजा विमुक्तः प्राप्नोति सौक्ःयमतुलं सततं प्रहृष्टः । देवोद्भवानि विविधानि सुखानि भुङ्क्ते प्राणातिपातविरतः खलु यस्तु विद्वान् ॥ १४१ ॥ दृष्ट्वा परस्य विभवं न करोति चौर्यं गुप्तिं च यः प्रकुरुते परिरक्षणार्थम् । प्राप्नोत्यसौ द्रविणसंपदमप्रमेयां सर्वैस्तु तस्करनृपादिशतैरहार्याम् ॥ १४२ ॥ दारान् परस्य परिवर्जयतीह योऽसौ दारानसौ लभत एव मनोज्ञरूपान् । शत्रूद्भवो न हि जनस्य कदा चिदेव लोकस्य वै भवति विश्वसनीय एव ॥ १४३ ॥ नीलोत्पलस्यैव यथा हि गन्धो मनोज्ञरूपः सततं प्रवाति । तद्वन्मनुष्यस्य हि वाति गन्धो मुखादसत्यं तु न वक्ति यश्च ॥ १४४ ॥ सन्मित्रसम्धिं नृपतेश्च पूजां भक्त्यान्वितं पुत्रकलत्रभृत्यम् । भोगानुदारान् सुखमप्रमेयं प्राप्नोति नित्यं पिशुनाद्विमुक्तः ॥ १४५ ॥ आनन्दशब्दं मधुरं शृणोति वाक्यानि नित्यं सुमनोज्ञकानि । देवेषु मर्त्येषु च जायतेऽसौ पारुष्यवाक्याद्विरतो नरो यः ॥ १४६ ॥ धर्मार्थसत्यनिरता खलु यस्य वाणी लोके सदा प्रियतमा भवतीह नित्यम् । संपूजनां स लभते बहुरत्नजातैर्यायाच्च्युतो विबुधलोकमनन्तसौख्यम् ॥ १४७ ॥ स तीव्ररागो भवतीह नैव भोगैरुदारैः सततं च युक्तः । आदेयवाक्यः पृथुकीर्तियुक्तः परस्वतृष्णाविरतो हि यो वै ॥ १४८ ॥ प्रासादिकत्वं लभते स नित्यं स्फीतं सुखं राज्यधनादि लोके । ब्रह्मत्वमासादयतीह सम्यङ्मैत्रस्य चित्तस्य वशान्मनुष्यः ॥ १४९ ॥ स्वर्गापवर्गं समवाप्तुकामैर्नरैस्तु नित्यं समुपार्जनीया । अस्तित्वदृष्टिः परमा हि यस्मात्सर्वस्य सा वै कुशलस्य मूलम् ॥ १५० ॥ श्रद्धानिराकृतमतेर्न विरोहतीह पुण्यं ह्युदारभुवनत्रयसौख्यकारि । तस्मान्नरेण विदुषा सततं निषेव्या श्रद्धा समस्तगुणरत्ननिधानभूता ॥ १५१ ॥ श्रद्धा शुभस्य जननी जननी यथैव सैवादितो मनसि साधुजनैर्निवेश्या । श्रद्धाकरेन रहितो न हि बोधिपक्षसद्धर्मरत्ननिकरग्रहणे समर्थः ॥ १५२ ॥ भ्रष्टो यथाधिपत्यादैश्वर्यफलानि न ह्यवाप्नोति । श्रद्धेन्द्रियविभ्रष्टो न तथार्यफलान्यवाप्नोति ॥ १५३ ॥ तस्मान्नरेण विदुषा सुगतादिकेषु कार्यं मनःप्रसदनं सततं हितेषु । निःशेषदोषशमनाय न चान्यदस्ति श्रद्धा यथा दहति दोषगणं समस्तम् ॥ १५४ ॥ दीनाः कुवासवो मूढाः कपालाङ्कितपाणयः । दर्शयन्त्येव लोकस्य ह्यदातुः फलमीदृशम् ॥ १५५ ॥ दग्धस्थूणसमुच्छ्रयाः प्रतिगृहं प्रेतोपमा भैक्षुकाः शश्वत्क्षुद्विहता भ्रमन्ति यदमी देहीति बाहूच्छ्रिताः । दूरोपद्रुतसारमेयनिवहा व्यावृत्य तिष्ठन्त्यपि प्रायोऽल्पं सकृदप्यमीभिरशनं दत्तं न कस्मै चन ॥ १५६ ॥ सूचीमुखाः कुहरनेत्रविशुष्कगात्राः केशाम्बरा रविकरैः परिपीतभासः । प्रेताः सदा सलिललालसया यदार्तास्तत्पानदानविकलस्य फलं वदन्ति ॥ १५७ ॥ दानं सर्वसुखं महाभयहरं भाग्यं महच्चार्थदं नानाकारविशालकौशलपदं सर्वैर्गुणालंकृतम् । तस्माद्दानमनेकदोषशमनं संसारघोरापहं क्षुत्तृष्णादिसुशोषणं शुभकरं कुर्युर्नरा यत्नतः ॥ १५८ ॥ ॥ इति विचित्रकथा ॥ संग्रहश्लोकाः पुण्योत्साहनं श्रवणं दुर्लभं त्यागपुण्ययोः । बिम्बं स्नानं तथा गन्धश्छत्त्रं धातोश्च रोपणम् ॥ १ ॥ मण्डलं भोजनं पानं वस्त्रं पुष्पादिवर्णनम् । प्रणामोज्ज्वालिकादीपविहारशयनासनम् ॥ २ ॥ क्षेत्रं विचित्रं चैवान्त इत्येता बहुधा भृशम् । कथा द्वाविंशतिः प्रोक्ता भूयो दानस्य वर्णने ॥ ३ ॥ xxइइइ. शीलकथा यथाम्बुपूर्णः सभुजङ्गमो ह्रदः प्रफुल्लशाखश्च सकण्टको द्रुमः । श्रुतेन वित्तेन कुलेन चान्वितस्तथाविधः शीलपराङ्मुखो जनः ॥ १५९ ॥ वरं दरिद्रोऽपि सुशीलवान् भवेन्न चार्थवानप्यनलंकृतो गुणैः । दरिद्रभावेऽपि हि सज्जनः स्तुतो रसो गुणानाममृताद्विशिष्यते ॥ १६० ॥ संमानयन्ति गुरवो गुणवन्तमार्यं तेजस्विनोऽपि धनिनोऽपि मनस्विनोऽपि । तस्मान्नरो नरपतेरपि यः सकाशात्संमानमिच्छति स रक्षतु शीलमेव ॥ १६१ ॥ लोके सुखं विषयजं सभयं सवैरं धर्मात्मनः कृतमतेः सुखमुत्तमं तु । तस्मान्नरः सुखमुदारमहार्यमार्यं यः प्राप्तुमिच्छति स रक्षतु शीलमेव ॥ १६२ ॥ यो भ्रष्टशीलविनयस्य विनाशकाले त्रासः समाविशति शीलवतो न सोऽस्ति । तस्मात्प्रहृष्टविनयः परलोकमन्ते यो गन्तुमिच्छति स रक्षतु शीलमेव ॥ १६३ ॥ शीलेन निश्चयदृढेन दिवं प्रयाति नात्मक्लमेन न कुदृष्टिकृतैर्विमार्गैः । तस्मादृतेऽपि वनवासमृतेऽपि लिङ्गं यः स्वर्गमिच्छति स रक्षतु शीलमेव ॥ १६४ ॥ शीलं विनाशहरणावरणादिरक्षा शीलं धनं परममार्यमहार्यमन्यैः । शीलं स्थिरं व्युपशमेऽप्यनुगामि मित्रं शीलं विभूषणमृतेऽपि विभूषणेभ्यः ॥ १६५ ॥ न ह्यस्ति शीलसदृशं हितकारि मित्रं स्निग्धाशयो न खलु शीलसमोऽस्ति बन्धुः । माता पिता च तनयाय विधातुमिच्छेद्यः शीलमूर्जितफलं हितमादधातु ॥ १६६ ॥ ॥ इति शीलकथा ॥ xxइव्. क्षान्तिकथा सर्वमेतत्सुचरितं दानं सुगतपूजनम् । कृतं कल्पसहस्रैर्यत्प्रतिघः प्रतिहन्ति तत् ॥ १६७ ॥ न च द्वेषसमं पापं न च क्षान्तिसमं तपः । तस्मात्क्षान्तिं प्रयत्नेन भावयेद्विविधैर्नयैः ॥ १६८ ॥ मनः शमं न गृह्णाति न प्रीतिसुखमश्नुते । न निद्रां न धृतिं याति द्वेषशल्ये हृदि स्थिते ॥ १६९ ॥ न द्विषन्तः क्षयं यान्ति यावज्जीवमपि घ्नतः । क्रोधमेकं तु यो हन्यात्तेन सर्वद्विषो हताः ॥ १७० ॥ विकल्पेन्धनदीप्तेन जन्तुः क्रोधहविर्भुजा । दहत्यात्मानमेवादौ परं धक्ष्यति वा न वा ॥ १७१ ॥ जरा रूपवतां क्रोधः तमश्चक्षुष्मतामपि। वधो धर्मार्थकामानां तस्मात्क्रोधं निवारयेत् ॥ १७२ ॥ मत्कर्मचोदिता ह्येते जाता मय्यपकारिणः । येन यास्यन्ति नरकान्मयैवैते हता ननु ॥ १७३ ॥ एतानाश्रित्य मे पापं क्षीयते क्षमतो बहु । मामाश्रित्य तु यान्त्येते नरकान् दीर्घवेदनान् ॥ १७४ ॥ अहमेवापकार्येषां ममैते चोपकारिणः । कस्माद्विपर्ययं कृत्वा खलचेतः प्रकुप्यसि ॥ १७५ ॥ मुख्यं दण्डादिकं हित्वा प्रेरके यदि कुप्यसि । द्वेषेण प्रेरितः सोऽपि द्वेषे द्वेषोऽस्तु मे वरम् ॥ १७६ ॥ ॥ इति क्षान्तिकथा ॥ xxव्. वीर्यकथा वीर्यं हि सर्वगुणरत्ननिधानभूतं सर्वापदस्तरति वीर्यमहाप्लवेन । नैवास्ति तज्जगति वस्तु विचिन्त्यमानं नावाप्नुयाद्यदिह वीर्यरथाधिरूढः ॥ १७७ ॥ युद्धेषु यत्करितुरङ्गपदातिमत्सु नाराचतोमरपरश्वधसंकुलेषु । हत्वा रिपूञ्जयमनुत्तममाप्नुवन्ति विस्फूर्जितं तदिह वीर्यमहाभटस्य ॥ १७८ ॥ अम्भोनिधीन्मकरवृन्दविघट्टिताम्बूत्तुङ्गाकुलाकुलतरङ्गविभङ्गभीमान् । वीर्येण गोष्पदमिव प्रविलङ्घ्य शूराः कुर्वन्त्यनर्घगुणरत्नधनार्जनानि ॥ १७९ ॥ रागादीनुरगानिवोग्रवपुषो विष्कम्भवीर्यान्विताः शीलं सज्जनचित्तनिर्मलतरं सम्यक्समादापयन् । मर्त्याः कान्ततरेषु मेरुशिखरोपान्तेषु वीर्यान्विता मोदन्ते सुरसुन्दरीभुजलतापाशोपगूढाश्चिरम् ॥ १८० ॥ यद्देवा वियति विमानवासिनो ये निर्द्वन्द्वाः समनुभवन्ति सौमनस्यम् । अत्यन्तं विपुलफलप्रसूतिहेतोर्वीर्यस्य स्थिरविहितस्य सा विभूतिः ॥ १८१ ॥ ॥ इति वीर्यकथा ॥ xxवि. ध्यानकथा क्लेशारिवर्गं त्वभिभूय धीराः संबोधिलक्ष्मीपदमाप्नुवन्ति । बोध्यङ्गदानं प्रदिशन्ति सद्भ्यो ध्यानं हि तत्र प्रवदन्ति हेतुम् ॥ १८२ ॥ जन्मप्रबन्धकरणैकनिमित्तभूतान् रागादिदोषनिचयान् प्रविदार्य सर्वान् । आकाशतुल्यमनसः समलोष्टहेमा ध्यानाद्भवन्ति मनुजा गुणहेतुभूताः ॥ १८३ ॥ जित्वा क्लेशारिवृन्दं शुभबलमथने सर्वथालब्धलक्ष्यं प्राप्ताः संबोधिलक्ष्मीं प्रवरगुणमयीं दुर्लभामन्यभूतैः । सत्त्वे ज्ञानाधिपत्यं विगतरिपुभयाः कुर्वते यन्नरेन्द्रा ध्यानं तत्रैकहेतुं सकलगुणनिधिं प्राहुरार्या गुणौघाः ॥ १८४ ॥ मोहान्धकारं प्रविदार्य शश्वज्ज्ञानावभासं कुरुते समन्तात् । संबुद्धसूर्यः सुरमानुषाणां हेतुः स तत्र प्रवरः समाधिः ॥ १८५ ॥ ॥ इति ध्यानकथा ॥ xxविइ. प्रज्ञाकथा प्रज्ञाधनेन विकलं तु नरस्य रूपमालेख्यरूपमिव सारविहीनमन्तः । बुद्ध्यान्वितस्य फलमिष्टमुदेति वीर्याद्वीर्यं तु बुद्धिरहितं स्ववधाय शत्रुः ॥ १८६ ॥ योऽनेकजन्मान्तरितं स्वजन्म भूतं भविष्यत्कुलनामगोत्रैः । मध्यान्तविद्योऽपि जनः प्रवेत्ति प्रज्ञाबलं तत्कथयन्ति तज्ज्ञाः ॥ १८७ ॥ यद्बुद्धो मर्त्यलोके मलतिमिरगणं दारयित्वा महान्तं ज्ञानालोकं करोति प्रहरति च सदा दोषवृन्दं नराणाम् । आदेष्टा चेन्द्रियाणां परमनुजमनो वेत्ति सर्वैः प्रकारैः प्रज्ञां तत्रापि नित्यं शुभवरजननीं हेतुमुत्कीर्तयन्ति ॥ १८८ ॥ कार्यार्णवे चापि द्र्धं निमग्नाः संग्राममध्ये मनुजाः प्रधानाः । प्रज्ञावशात्ते विजयं लभन्ते प्रज्ञा यतः सा शुभहेतुभूता ॥ १८९ ॥ तस्मात्सर्वगुणार्थसाधनकरी प्रज्ञैव संवर्ध्यतां न प्रज्ञाविकला विभान्ति पुरुषाः प्रातः प्रदीपा इव । [मत्वैवं स्वपरात्मभद्रचरणे सद्धर्मसंसाधने जित्वा क्लेशगणाञ्छुभार्थनिरताः क्रीडन्तु धर्मार्थिनः ॥] १९० ॥ ॥ इति प्रज्ञाकथा ॥ स्वर्गापवर्गगुणरत्ननिधानभूता एताः षडेव भुवि पारमिता नराणाम् । ज्ञात्वा नरः स्वहितसाधनतत्परः सन् कुर्यान्न कः सततमासु दृढं प्रयत्नम् ॥ १९१ ॥ ॥ इति पारमितापरिकथा सुभाषितरत्नकरण्डके समाप्ता ॥ कृतिराचार्यशूरस्य ॥