स्तूपलक्षणकारिकाविवेचनं इन्च्लुदिन्ग् प्रकीर्णकचैत्यलक्षणं आर्यलोकोत्तरवादिनो यत्कृतिर् आचार्यभद्रव्यूहस्य २०८ सिद्धं नमो बुद्धाय ॥ १ प्रकीर्णकविनये प्रोक्तं यल्लोकोत्तरवादिनाम् । यच्चान्येषां निकायानां सूत्रादौ स्तूपलक्षणम् ॥ १ ॥ दर्शितं लोकनाथेन स्तोकं स्तोकं क्वचित्क्वचित् । २०९ सर्वन् तन् से<तुमिवे>ह भद्रव्यूहेन कथ्यते ॥ २ ॥ अभिगम्ये भुवो भागे वास्तुशुद्धेऽप्रतिष्ठिते । न खबद्धौन्नते स्निग्धे स्थाने शुचिनि कारयेत् ॥ ३ ॥ योजनोच्छ्रेक्ऽ एक निर्दिष्टं परिक्षेपोऽर्धयोजनः । क्रोशविस्तारा वेदिका प्रकीर्णविनयोदितम् ॥ ४ ॥ परिणाहेन कुम्भस्य स्तूपमुच्चे प्रकीर्तितम् । तदंशेन तु नेम्यादि यावद्यष्टिशिरं क्रमात् ॥ ५ ॥ चतुरस्रा भवेन्नेमिरधस्तातः तदर्धेन । प्रमाणेन करण्डस्य अनुबन्धेन चापि का ॥ ६ ॥ करण्डस्याष्टभागेन अधो नेमिनिमर्जनम् । उदकोद्गमने यावदा शुद्धेर्च्चो भुवः स्मृताः ॥ ७ ॥ अष्टभागोन्नतं कार्येण नेमि मात्रतः । मण्डलं चतुरस्रं वा अन्यथानुकारयेत् ॥ ८ ॥ तदूर्ध्वं वेदिकाः कार्याः चतुस्त्रिद्व्ऽएक संख्यया । चतुष्कोणाष्टकोणा वा अथवा परिमण्डला ॥ ९ ॥ सार्च्चा गृह्ऽ एकसंयुक्तामूर्ध्वां वेदिं प्रकल्पयेत् । करण्डस्य समन्तेन नानाविद्याविभूषिताम् ॥ १० ॥ अतश्चतुकोणभागे मध्यकोष्ठप्रमाणतः । तिस्रस्तेषां तु कर्तव्या चतुर्थं बिंब ब ॥ ११ ॥ हेरे थे तेxत्ब्रेअक्सोff, अस्fओलिओ २ ,बिस्मिस्सिन्ग्. fरों थे चोम्मेन्तर्य्, इ अम् ॠउओतिन्ग्थे fरग्मेन्तर्य्पिएचेसोf थे स्तन्शस्wहिछ्wएरे इन्च्लुदेदिन् थे तेxत्पोर्तिओनोf fओलिओ २ ,ब्. २ अधश्चतुर्थके भागे ... [१२] (१६.६ .२). बाह्यकोष्ठ षडायामेत्यादि ... [१३] (१७.६ .४५). तदन्यानुक्रमक्षीणामिति ... [१४] (१७.६ .७). अधो वेद्या विस्तारस्तद्वेदिकाया ह्रस्वे कृतम् । ... [१५] (१८.६ .७). उन्नामेन तथा कुर्यादित्यादि । [१६] (१९.७ .ल्). तिस्रो वेद्यः जंघावेदिकाद्याः इत्याध्याहार्यम् । [१७] (१९.७ .२). न निर्गच्छेत्यथाबिंबमित्यादि । [१८] (१९.७ २३). करण्डके ह्युद्गतेत्यादि । [१९] (२०.७ .४). २१० करण्डश्च ततस्तूरिकामिति । [२०] (२१.७ .७). अण्डकं वटयितव्यमिति । [२१] (२२.७ .ल्). तस्याधो बाह्यकोष्ठस्येति । [२२] (२३.७ .२). तत्पात्राकारं शान्तिकामिति । [२२ ] (२३.७ .३). सर्वान्मनासमं सोम्यमित्यादि । [२३] (२३.७ .५). तदूर्ध्वं बाह्यकोष्ठस्येत्यादि । [२४] (२५.८ .ल्). पञ्चविंशतिकोष्ठकमित्यादि । [२५] (२७.८ .४५). श्चत्वारं पुद्गला मताः । अर्हन्त चक्रवर्तिस्तु प्रत्येकश्च जिनो जिनः ॥ २६ ॥ शैक्षाणामर्हतश्चैव गणखड्ग जिनस्य च । एकाधिकं तु कर्तव्यं च्छत्रावल्यां विभूषितम् ॥ २७ ॥ शरीरे धातुभिर्युक्तं धर्मधातुविवर्जितम् । उष्णीषचन्द्रसूर्यश्च स्तम्भा घण्टद्वयेन च ॥ २८ ॥ स्वभावं कल्पवेदादीं स्तूपस्यास्य तु कथ्ययेत् । अधरा भूमि पादाय यावदूर्ध्वं क्रमेण तु ॥ २९ ॥ ३ १. दानं पृथिवी २. शीलन्नेमि ३. चत्वार्यार्यवंशा अङ्गणां ४. चत्वार्यार्यसत्यानि सोपानानि ५. वैशारद्यानि स्तम्भाः ६. स्मृत्युपस्थानानि अधरा वेदी ७. सम्यक्प्रहाणानि द्वितीया वेदी २११ ८. ऋद्धिपादास्तृतीया वेदी ९. श्रद्धादीनि पंचेन्द्रियानि चतुर्थी जंघावेदी १०. श्रद्धादीनि पञ्चबलानि कण्ठकं ११. अनित्यादीनि धर्ममुखानि चतस्रः पुष्पग्रहण्याः १२. अनास्रवाः प्रथमध्यानभूमिजा प्रस्रब्धिसंबोध्यङ्गं कण्ठकं १३. द्वितीयतृतीयध्यानभूमिजा प्रीतिप्रीति संबोध्यङ्गं कण्ठकवलयं वलितकं १४. अनागम्यचतुर्थध्यानादिभूमिजा उपेक्षावेदनोपेक्षासंबोध्यङ्गं हर्मिका १५. स्मृतिधर्मप्रविचयवीर्यसमाधिसंबोध्यङ्गानि चत्वारो लोकपालाः २१२ १६. आर्याष्टाङ्गो मार्गो यष्टिः १७. क्षीणास्रवबलानि त्रीणि चावेनिकानि स्मृत्युपस्थानानि त्रयोदश च्छत्रवल्याः १८. उष्णीषो महाकरुणाविशुद्धिः (ब्‚निस्ति: तदुपरि अनुत्तरमहाकरुणाविशुद्ध्या उष्णीषम् ॥) १९. विमला निर्वाणधातुः सितातपत्रा २१३ २०. संवृत्तिसत्यं परमार्थसत्यं चन्द्रसूर्यौ २१. आर्यरत्नमिदं गाथाद्वयं सत्वविषयात्मगतं घण्टाद्वयं २२. सर्वाकारज्ञाताज्ञानं च्छत्रं २३. अलोभात्मिकचेतोविमुक्ति ध्वजमित्यपि स भगवानित्यादि २४. यशस्पताकाः प्रकीर्णकचैत्यलक्षनं समाप्तम् ॥ ॥ आर्यलोकोत्तरवादिनो यत्कृतिराचार्य भद्रव्यूहस्य । २१४ ४ निर्जिताशेषदोषगं गुणोत्वाकपरागताः । जयन्ति जितजन्मानो भगवन्तस्तथागताः ॥ १ ॥ स्तूपं कृत्वोपदेशेन येन्ऽ अर्थो जगतः कृतः । तमहं शिरसा वन्दे भद्रव्यूहाह्वयं यतिम् ॥ २ ॥ सन्दिग्धाज्ञविपर्यस्तधियं संप्रतिपत्तये । स्तूपलक्षणशास्त्रस्य विवेचनमिहोच्यते ॥ ३ ॥ ५ प्रकीर्णमित्यादि । इष्टदेवताया नमस्कारः सदाचारानुवृत्तये । किमर्थमाचार्येण प्रणामारम्भेन कृतः । कृतो ह्याचार्येण प्रकीर्णविनयसंग्रहकारिकादौ नमस्कारः । यस्य वाचो मनो देहाखतुल्याः सर्वथा मुनेः ॥ तं प्रनस्यत सातत्वं वक्ष्ये विनयकारिकामिति ॥ तदेकदेश भूतं चैदमित्यनेन नात्राभिहितम् । अत एव प्रकीर्णविनय इत्यादिना तयवतामस्य सूचयति शास्त्रकार इत्यतो न दोषः । ६ प्रकीर्णके हि यद्विंशतिसहस्रायुषिप्रजायां भगवतः काश्यपस्य कृकिन राज्ञा स्तूपः कृतः योजनमुच्चत्वेन योजनं परिणाहेन अर्धयोजन प्रतिसरेण क्रोशमात्रिकया वेदिकया । ताम्रलोहरैतिकाय हस्तचारणाय तमुपदर्शयित्वोक्तम् । स्थले प्रदेशे स्तूपं कर्तव्यं कारयता प्राचीरन् त्येवं कर्तव्यं. ७ अथाङ्गन (म्स्: अथाङ्गण) वेदी जंघा पुष्पग्रहणीयम् । आ यका अण्डकं कण्ठकं कण्ठिका हर्मिका च्छत्रावली च्छत्रं घण्टा ध्वजः पताका स्तूपगृह आगम पुष्किरिणी प्राकार चोक्तम् । पुन प्रकीर्णसंबन्धे नेदमुक्तम् । चक्रवर्तिभूतेन मया योजनमुच्चं योजनाभिवेषञ्च स्तूपं कृतं २१५ इति । तदन्येषां निकायानामिति सर्वास्तिवादिनां स्तूपकल्पनासूत्रे क्षुद्रके चोक्तम् । ८ सगृहस्तूपः स्तम्भश्चतस्रः परिषण्णाः स्तम्भ सोपान लोकपाला स्था सचन्द्रसिताम्बरः पताका मकरध्वजादयः चोक्ताः । ९ कूटागारसूत्रे चोक्तम् । सर्षपफलमात्र धातोरर्थाय आमलकमात्रं स्तूपं कारयेत् । तस्मिं स्तूपे सूचीमात्रं यष्टिमारोपयेत् । बदरीपत्रमात्रं च्छत्रमारोपयेत् । १० अभिगम्य इति । अभिगम्ये प्रशस्ते बहुजनोपसंक्रमणीये न वा । वास्तुशुद्धे वास्तुविद्याप्रणीतलक्षणान्विते । अप्रतिष्ठिते अन्यचैत्यरहिते । न खादि वर्जितोन्नते मध्योन्नते स्निग्धे अरूक्षे शुचिनि अमेध्यरहिते ॥ इत्येवं स्तूपोद्गमप्रदेशविशेषं निर्धाय लक्षणं समुपदर्शयन्नाह । परिनहेन कुम्भस्येत्यादि । परिहणं परिनाहः परिणाह । मध्यभागपरिक्षेपः परिबन्ध यथारोह परिणाहसंपन्नपुरुष इति ॥ तत्र च आरोहशब्देनोच्चत्वं कथ्यते । न परिणाहशब्देनोच्चत्वम् । परिणाहशब्देनाभिधानात् ॥ ११ एवमिहापि परिणाहशब्देन मण्डलनाभेश्चतुर्दिशम् । चक्रारन्यायेन मध्यसूत्रपरिक्षेपः परिबन्धोऽभिप्रोक्तः । चतुर्थी पि कलशादिस्थसंस्थानेषु तन्मात्रं पृथुत्वस्याव्यभिचारात् । किं संबन्धिना परिणाहेन कुम्भस्य कुम्भुः करण्डक तस्य परिणाहेन स्तूप दैर्घेणेष्टमित्यर्थः । उक्तं हि प्रकीर्णविनये योजनमुच्चत्वेन योजनं परिणाहेनेति । चतुरस्रा भवेन्नेमिरित्यादि । चतुरस्रा चतुष्कोणभूम्यां कुम्भः करण्डः मण्डलानुरूप्येन नेमिविस्तारो भवतीत्यर्थः । १२ अत्र प्रकीर्णे चोक्तम् । एष कश्चित्स्तूपं कारयता प्राचीरान्तात्तावत्कारयितव्येति तदनुक्रमार्थं चात्र चतुरस्रके मण्डलसूत्रपाताद्बाह्याबाह्यतो मध्यकोष्ठपरिक्षेपोऽभ्यन्तरतश्च । एकासीतिकोष्ठकन्याये स विज्ञेयाम् । २१६ ततोऽभ्यन्तरे च नेमिभित्तिविस्तारार्धेन द्रष्टव्यमिति । करण्डकस्याष्टभागेनेत्यदि कुम्भपरिणाहाष्टमांसेनाधस्तान्नेम्या निमर्जनम् । उदकोद्भेदं वा यावदाशुद्धेर्वा भुवः पृथिव्याः स्मृतमित्यर्थः । अष्टभागोन्नतमित्यादि नेमिमानादष्टमांसमादाय तेनाजितमुन्नतं कार्यमित्यर्थः । १३ यतः प्रकीर्णके ह्ऽ उक्तम् । अंगन न खस्थल कार्यमिति । विस्तारतस्त्वया वेदिकाद्बहिः कुम्भपरिणाहपादेनैष्टम् । चतुरस्रिका मेधी वेदी जंघापुटावेदी कर्तव्येति । १४ सर्वास्तिवादकानामागमेषूक्तम् । चतस्र परिषण्णाः कर्तव्या इति चतुस्त्रि द्व्ऽ एक संख्यायेत्यनेनेन वेदिकाभिसंबन्धः क्रियते । चतस्रः परिसण्णा कर्तव्याः । चत्वारि स्मृत्युपस्थानानि प्रथमा वेदी ॥ यावत्पंचेन्द्रियाणि चतुर्थी वेदी । अनेनेव विनये तत्व उक्ता वेदिकानाम् । १५ कतमः संस्थानाभिसंबन्धः क्रियते । तदाह च चतुष्कोनाष्टकोणा वा अथवा परिमण्डलेति । सर्वा गृह्ऽ एकसंयुक्तानित्यादिना । आयकपुष्पग्रहाण्यापेक्षताम् । चतुर्थी जंघावेदिकात्कुर्यादित्यर्थ । यतः प्रकीर्णके उक्तम् । चतुर्दिक्षु आयकाः कर्तव्याः । अयमेषु बुद्धविग्रहाः स्थापयितव्या । पुष्पग्रहणी कर्तव्येति । तत्रायकशब्देन प्रतिपालकमुच्यते । पुष्पग्रहणीशब्देन न च वेदिकाबाह्यत समन्ततो वाप्य पंक्त्याकारेण नानासंस्थानगृहद्वारमात्रे पूर्वजातकप्रतिमाणां रचनेति ॥ १६ अधश्चतुस्कोणके भागेत्यादि । हर्मिकामुपादाय योऽधश्चतुर्थको २१७ बाह्यकोष्ठांशस्तत्र धान्यराशिकृतः । सर्वेणैव चतुर्थकेन । त्रिभि पादैः पात्राकृति । द्वाभ्यां पादाभ्यां खगण्डाकृतेः । पादैकेन कलशाकारस्येति । मध्यकोष्ठप्रमाणमिति मध्यकोष्ठप्रमाणाद्य प्रमाणगतेनेत्यादि । एतदुक्तं भवति । तत्रापि भागविभागेन धान्यराश्याकृतेः ॥ मध्यकोष्ठप्रमाणेन तिस्रो वेद्यः कार्याः परिशिष्टानां तु यथा प्रत्यनुसारेनेति । चतुर्थी बिंबपश्यगेति कुम्भपरिग्रहानुरोधेनेत्यर्थः । एतदुक्तं भवति । अधश्चतुर्थके भागे कृतानां तिस्राणां वेदीनां यावन्तामप्रमाणम् । चतुर्थी जंघावेदी चतुष्कोष्ठापि कुम्भसंस्थानेष्वित्यर्थः । यथः प्रकीर्णके उक्तम् । जंघापुटवेदी कुक्षितव्येति । जंघायाः पुटवेदी जंघापुटवेदीति । जंघासंबन्धिनी वा पुटावेदी कुम्भस्य पद्मवलितमित्यर्थः । १७ बाह्यकोष्ठषडायामेत्यादि । षण्णां बाह्यकोष्ठानां यो विस्तारस्तदायामानां तद्दैर्घ्यामधोवेदी कुर्यात् । अथ बाह्यकोष्ठेन वेदिका उक्तेति षट्संख्यपरिच्छिन्नायामो यस्या वेद्यः साबाह्यकोष्ठ षडायाममात्रामधोवेदीं कल्पयेत् । यतः प्रकीर्णके योजनमुच्चस्य क्रोशमात्रावेदीमुक्तेति । तदन्यानुक्रमक्षीणामिति । अधोवेद्यायामादुपरि वर्तिन्यः तिस्रो वेद्यः । तान्यनुक्रमेण मध्यकोष्ठप्रमाणेन कुर्यात् । अथवा चतस्रः परिषण्णाः कर्तव्या इति वचनात् ॥ मेरुपरिषण्डवत् । अर्धर्धोन्न<ति> २१८ क्षीणञ्च कल्पयेत् । एवं तावद्भूङ्गत स्तूपमाख्यायाधुना भूमिमर्जने स्तूपं कृतम् । भुवस्तु कल्पनाचलादेवेत्यर्थः । स्थैर्यपुष्टिकरं किल भवतीति । अतो भूम्या निमर्जनेन कारणायायन् दर्शयन्नाह । वेत्स्यादिशु समम् । इदन् तु निमर्जने निमर्जनार्थं भूमौ स्तूपस्य भवतु उन्मानतो क्षयो वेदिकानां विस्तारस्तु किमर्थम् । स्तूपस्योच्चत्वेन समीकरणार्थम् । यत स्तूपायामतुल्यो ह्यधो वेद्या विस्तार इष्यते । १८ यथा ह्युक्तं महावस्तुनि चक्रवर्तिभूतेन मया स्तूपो कृतो योजनोच्चत्वेन योजनमभिनिवेशेनेति । यत्र हि यथा धान्यराश्याकृतेः कुम्भस्य योजनानि निवेश्य योजनाभिनिवेशो गम्यते । तथा वेदिकाया अपि तु कुम्भपरिणाह प्रमाणेन स्तूप उच्चाभिप्रेतः । अधोवेद्या विस्तारस्तद्वेदिकाया ह्रस्वे कृतम् । कथं प्रमाणातिक्रमः । भूवस्तुकल्पनाबलान्नेम्याङ्गणप्रमाणस्य प्रमाणेऽन्तःकरणादनतिक्रमः कलशाकृतेः । वेद्युन्नामस्याल्पत्वात्निमर्जनंं नाक्ष्यम् । १९ उन्नामेन तथा कुर्यादित्यादि । तदुक्तं भवति । हर्मिकामुपादाय योऽधश्चतुर्थबाह्यकोष्ठांशस्तस्य यो विभागः प्राक्कृतस्तेनैव विभागेनैकोन तिस्रो वेद्यः जंघावेदिकाद्या इत्याव्याहार्यम् । न निर्गच्छेत्यथा बिंबमित्यादि । २० उदकोगमनेन कृतायां नेम्याम् । अल्पयां वाथ वसत्यां नेमितः । करण्डं यथा नाधः प्रतिसेत्तथोर्ध्वां वेदीमुन्नतां कुर्यात् । यतोऽधः प्रविष्टो नाधाय कल्पते ॥ करण्डकेह्युद्गतेत्यादि । प्राध्यान्येन ऊर्ध्ववर्तिन्याश्चतुर्थ्या जंघावेद्या ह्रासोन्नामकरणेनैव कुम्भस्योद्गममधोमर्जनञ्च संपद्यते । २१९ २१ वेदीत्रयस्य चोन्नामह्रासो यतः तस्मान्नाम्ऽ अधोंगणे च कुम्भे ह्रस्वात्ततो कुर्यादित्यर्थः । यस्तु पश्चाद्वक्षति । कुम्भस्योद्गमनं तत्कुम्भस्य दृश्यभागमात्रमपेक्षति । यतस्तत्र परमार्थतो वेद्या ह्रस्योन्नाममात्रोपलभ्यते । न कुम्भस्योद्गमनमधो निमर्जनं वेति । करण्डश्च ततस्तूरिकामिति जंघापुटावेद्या उपरि धान्यराश्यादि संस्थाने न कुम्भं वर्तुलं कुर्यात् ॥ यतः प्रकीर्णे उक्तम् । २२ अण्डकं वटयितव्यमिति । नवधा विभजितेत्यादि कोष्ठविभागकारिकाद्वयं सुगमम् । बाह्यकोष्ठद्वयोन्मानवेद्यासनादुद्गतो वर्तुलार्धपौष्टिको धान्यराशिसंस्थानो न तु त्रिभागोच्छ्रितः । शिवस्थलत्वादिति ॥ २३ तस्याधो बाह्यकोष्ठस्येत्यादि । तस्य वर्तुलार्धांश्यो यो बाह्यकोष्ठोऽर्धमानेन । अर्धबाह्यकोष्ठोन्मानवेद्यासनाद्यन् समुत्थितः । तत्पात्राकारं शान्तिकामिति । ततो पी दि । तस्मादपि पात्रसंस्थानात् । तेनैवान्तरोक्तप्रमाणेन बाह्यकोष्ठकोन्मानवेद्यासनाद्यन् समुत्थितम् । तदुन्नतिकरं खग्ऽ अण्डासंस्थानमिति । सर्वोन्मानसमं सोम्यमित्यादि । अभिनिवेशमात्रमपास्य यः सत्वभावेन ईषन् समाधिकबाह्यकोष्ठकोर्ध्वोन्मानावेद्यासनान् समुत्थितम् । तदा पुष्पकरण्डेषु न कर्तव्येत्यादि । २४ न केवलं बोधिसत्वानां प्रतिमा कुम्भेन कार्या कांचनेति बुद्धप्रतिमा अपि । यतः प्रकीर्णके उक्तम् । लक्षमिति प्रतिमालंकारैर्हि स्तूपमलंकर्तुमिति । यत्र हि प्रतिमालंकारस्यापि प्रतिषेधस्तत्र कथं प्रतिमाया स्यात् । स्वयं भगवता स्तूपप्रदक्षिणी करुणादिति ॥ २५ तदूर्ध्वं बाह्यकोष्ठस्येत्यादि बाह्यकोष्ठस्य भागत्यागोन्नामतश्चतुर्थार्धपरित्यागः परिग्रहः शेषपादत्रयस्य च्छ्(?) इदुन्नामस् २२० तस्य षट्कृत्वा अर्धांशं कुम्भान्तः प्रविष्टमांशद्वयं कण्ठकम् । २६ एकमांशकं कण्ठिकावलितकां हर्मिका यथाक्रमम् । एकादशभागवृध्या अर्धांशविस्तारतो वा । बाह्यकोष्ठविस्तारा हर्मिका तस्याधः स्वोन्मानेन समन्ततः कण्ठकम् ॥ क्षीणां कुर्यात् । यथा शोभानुरूपतो वा अन्यथा कल्पयेदिति । से साकारिका सुगमा । २७ पञ्चविंशतिकोष्ठमित्यादि । पञ्चविंशतिकोष्ठविभागेन यष्टेर्मूलमध्यशिरसा परिग्रहं सुगमो हर्मिकाया ऊर्ध्वं चतुष्ठ पि कुम्भसंस्थानेषु बाह्यकोष्ठद्वयोन्मानोऽधस्व यावत् । हृदयकोष्ठप्रवेशो स्तूपः । कलशादिसंस्थानेषु यथाक्रमेण हृदयकोष्ठोद्गमात् । यथा यष्टेरायामक्षयां वा परिणाहक्षयो वाप्यवगन्तव्यमित्येवं यावत् । २८ स्तूपलक्षणं प्रमाणं संस्थानतस्सुनिर्दिष्टम् । यथा शोभत अथोक्तलक्षणप्रमाणानतिक्रमेण संस्थानतः प्रस्ताकुम्भाक्रान्त्या ॥ रजतमणिकनकशिलादारुमूर्तिकृदिति । सुरभिप्रदेशे प्रशस्तामनोहरे । स्वहस्तेन वा कर्महस्तेन वा । तथा स्वबुद्ध्या विकल्प कार्यम् । यतः प्रोक्तं यथा स्या शोभनो भवेत् । तथा कुर्यादिति । आगमेस्मिनिति । स्तूपलक्षणशास्त्रस्य वस्तुमात्रोपदर्शनात् । यन्मयोपर्जितं पुण्यं तेनास्तु स्तूपस्तु सुगतो जन इति ॥ स्तूपलक्षणकारिकायां विवेचनं समाप्तम् ॥ ॥ अfतेर्थिस्fओल्लोwस्थे नेwआरी नोते ओf अ नेपलेसे लिब्ररिअन्. २९ श्री स्यंगुयायित सिया जेतनकु ३५ अंगु लिडा ५ यवन्हस ७ सअंकनघाव ॥ घातसकु ९ कु ५ घलसकु ३ उमडे थंथु उचकु १८ अं ५ यवन्हन प्रमानेति मध्यमादि क्रमेन ॥ ओन् थे तोप्द्रwस्हेएत्, थेरे अरे थे fओल्लोwइन्ग्लिनेस्: १ x x x x x प्रलसे तीसिज्य पु मनसीया तछोसथु से खो थु तेय उ(?)परिता न नेसं २ आलयन ॥ एतद्धर्म x x x छेल x x x x x ॥ तदनन्तर द्रंम (धर्म्म) लिक्य बुन आलेयन ॥ स्तुपलक्षणकारिकायां विवेचनं वुद्ज (?) २ संवत्