श्रीघनाचारसंग्रहः प्रथमोऽध्यायः बुद्धनमस्कारः प्रहीणाशेषसंक्लेशज्ञेयाम्भोनिधिपारगम् । प्रणम्य श्रामणेराणामाचारः संग्रहीष्यते ॥ १.१ ॥ इति संघसेनेन संविहितोद्धारे श्रीघनाचारसंग्रहे बुद्धनमस्कारो नाम प्रथमोऽध्यायः ॥ द्वितीयोऽध्यायः श्रामणेरभावः शरणं गतवान् बुद्धं धर्मं संघं च भक्तितः । शिक्षापञ्चकमादाय योऽनुप्रव्रजितो जिनम् ॥ २.१ ॥ यावज्जीवं वधस्तेयमैथुनानृतवाक्यतः । विरतः मद्यपानाच्च महोच्चैः शयनासनात् ॥ २.२ ॥ नृत्यादेर्गन्धमाल्याद्यात्विकालाशनतस्तथा । रुक्मरूप्यग्रहाच्चैष श्रामणेरो मुनेर्मतः । २.३ ॥ इति संघसेनेन संविहितोद्धारे श्रीघनाचारसंग्रहे श्रामणेरभावो नाम द्वितीयोऽध्यायः ॥ तृतीयोऽध्यायः श्रामणेरभावोपायः १ प्राणिवधविरतिशिक्षापदं संवरत्यागः सकलेन शरीरेण शरीरान्यतरेण वा । पञ्चशाखादिनिर्वृत्तं न हन्यात्प्राणिनं [यतिः] ॥ ३,१.१ ॥ मृत्योर्वर्ण न भाषेत शस्त्रहारं न चैषयेत् । वधकेन न चित्तेन मारणाय नियोजयेत् ॥ ३,१.२ ॥ विरेकवमनालेपविषशस्त्राभिसंस्कृति । न कुर्यात्प्राणिघाताय न च गर्भस्य शातनम् ॥ ३,१.३ ॥ निमित्तं न व्रती कुर्यात्स्वप्नोलूकादिवाशितैः । [दौःशीलं] (वापि कार्यं न) दानशीलफलाप्तिभिः ॥ ३,१.४ ॥ मध्यपश्चात्पुरोगेषु यत्रैव वधकं मनः । [तं पुरुषं] ध्नतो हिंसा नान्यमित्याह सर्ववित् ॥ ३,१.५ ॥ कूटावमार्थावष्टम्भवेताला[द्य]भिसंस्कृति । अवपयञ्च कुर्यान्न मारणाय शरीरिणाम् ॥ ३,१.६ ॥ तस्करा[द्य]हिसेनाभ्यः यत्र मार्गे भयं[भवेत्] । तत्पन्थानं न नाशाय देहिनां कथयेद्यतिः ॥ ३,१.७ ॥ भुजगावर्तकाभ्यां च यत्र तीर्थे[भयं भवेत्] । [नदीप्रतरणार्थाय] तत्तीर्थं न प्रकाशयेत् ॥ ३,१.८ ॥ किञ्चिद्भूपतये मा दास्त्वं वरं जीवितं त्यज । इति बद्धायुक्तेऽयुक्तं वचनं न वदेद्[यतिः] ॥ ३,१.९ ॥ भुजग [व्याडयक्षे]भ्यः यद्विहारे[भयं भवेत्] । तद्वधकाभिप्रायेणागन्तुकाय न चोद्दिशेत् ॥ ३,१.१० ॥ व्याघ्रादिव्यपदेशेन शत्रुं हन्याधि यः शठः । विहारादाशु[निर्द्वारं] घट्टनीयः स चेल्लकैः ॥ ३,१.११ ॥ तथा कार्यं यथैकोऽपि नानिर्जीवेच्च कश्चन । अधर्म्या न क्रिया कार्या संस्मृत्य क्रकचोपमम् ॥ ३,१.१२ ॥ वधश्च श्रामणेरा ये घातयितुं वधीकृताः । युगपत्तत्प्रयोगे ते नाशनीया विहारतः ॥ ३,१.१३ ॥ उपक्रमो नृसंज्ञा च नरो वधकचेतना । जीवितस्य क्षयश्चेति पञ्चांगानि नृघातने ॥ ३,१.१४ ॥ श्रामणेरेण नाशाय विषशस्त्रादि यत्[कृतं] । म्रियते नरस्तेनैवासौ तदासंवरी भवेत् ॥ ३,१.१५ ॥ अवक्रीतादिरज्ञानात्मनुष्यं मारयन् खलु । संवरक्षोभलाभी स [यतिर्] नोन्मत्तादिकः ॥ ३,१.१६ ॥ दुष्कृतानि कायमैत्रादि सत्त्वेषु यतिना कार्यं सर्वदा । यस्मात्कारुणिकैरुक्तं तस्मात्[सत्त्वान्न पीडयेत्] ॥ ३,१.१७ ॥ न सत्त्वान् पीडयेद्दारुरज्वयश्चर्मबन्धनैः । जलानलप्रवेशानुत्यागादौ न नियोजयेत् ॥ ३,१.१८ ॥ कृमिगोरूप[कादीनां] मिथ्याजीवश्च हिंसनम् । कर्षणे[हि] भवेद्यस्मात्तस्मात्[तद्]दूरतो त्यजेत् ॥ ३,१.१९ ॥ नांकयेद्गोमहिष्यादि नासिकां नास्य वेधयेत् । [यतिश्च विविधान् सत्त्वान्] वेत्रादिना न ताडयेत् ॥ ३,१.२० ॥ उद्दिश्य यत्कृतं मांसव्यञ्जनं [खादतो] यतेः । निघृणं जायते चित्तं तस्मात्तन्नैव भक्षयेत् ॥ ३,१.२१ ॥ ज्ञेयं तु त्रिभिराकारैरीक्षितश्रुतशंकितैः । ईक्षितं यत्स्वयं दृष्टं श्रुतं प्रत्यायितोदितम् ॥ ३,१.२२ ॥ गृहाबद्धमृगादीनां श्रृंगपक्षादिदर्शनात् । आशंकोत्पद्यते [तत्र] ममोद्दिश्य हता न वा ॥ ३,१.२३ ॥ पृष्टो दाता वदेदेवं त्वन्निमित्तममी हता । तस्मिन् गृहे न भुञ्जीत विरतः प्राणिनां वधात् ॥ ३,१.२४ ॥ श्येनकादिहता वै[ते] शालियवमुद्गभक्षणात् । मातापित्रोश्च यज्ञस्य कृते दोषोऽस्ति नाश्नताम् ॥ ३,१.२५ ॥ एकं श्रीघनमुद्दिश्य मांसं मत्स्यादिकं कृतम् । अन्येषां श्रामणेराणां तद्भोगाय न कल्पते ॥ ३,१.२६ ॥ नादेयादिजलं जानन्नापि पिबेत्सजन्तुकम् । जन्तवोऽभिमताः सूक्ष्मास्त्रसिकोर्मिकिरादयः ॥ ३,१.२७ ॥ वारि[पूत्या]यधिष्ठेयः करको [हि] सखल्लकः । विघातपरिहारार्थं कोशोऽन्तशः सुवाससः ॥ ३,१.२८ ॥ दिव्यनेत्रान्धयोर्नेष्टं जलस्य प्रत्यवेक्षणम् । हस्तांगुष्ठाग्रकावर्तदर्शिनो न निवार्यते ॥ ३,१.२९ ॥ लोचनविभ्रमो मा भूदिति पश्येन्न तच्चिरम् । कल्पमात्रं न वै कुर्यात्मायाशाठयसमन्वितः ॥ ३,१.३० ॥ येनान्तरेण षष्टयब्दः परिभ्रम्यते कुञ्जरः । शकटं वंशपूर्णं वा स कालः सलिलेक्षणे ॥ ३,१.३१ ॥ ऊर्ध्वाधोमध्यमास्तिस्त्रः सलिलस्यापि भूमयः । याया भूः शुद्धिमायाति कार्यं कुर्यात्तया[यतिः] ॥ ३,१.३२ ॥ यत्राधः प्राणका यान्ति स्थूलाः करतलाहताः । [ग्राह्यं] तदुदकं [स्राव्यं] पंचांगुलिकया न चेत् ॥ ३,१.३३ ॥ भवेयुरुदके यस्मिन् करे लग्ना[श्च] प्राणिनः । न तत्र पाणिपादास्यवस्त्रादि क्षालयेद्यतिः ॥ ३,१.३४ ॥ कुले गतेन प्रष्टव्यं जलं [हि] स्रावितं न वा । नेति चेत्संज्ञिको वाच्यः स्रावयेत्यितरो न तु ॥ ३,१.३५ ॥ [किन्तु] स्राव्यं जलं पात्रे कृत्वात्मीये सजन्तुकम् । [पृष्ट्वा] यस्तदानीतं मुञ्चेत्तत्रैव [स] स्वयम् ॥ ३,१.३६ ॥ सप्ताहं वा[तथा] यत्र पानीयमवतिष्ठति । विहारे वा कटाहादौ स्थापयेत्तदशुष्यति ॥ ३,१.३७ ॥ प्रवृष्टे वा [यतिर्] देवे स्वच्छनीरौघवाहिनि । निम्नगानां पतिं पातं गच्छतेति विसर्जयेत् ॥ ३,१.३८ ॥ सुदीर्घतलिकावक्त्ररज्जुद्वया[व]बद्धया । घटिकयोदकं मुञ्चेदधस्तादुदकेऽध्वगः ॥ ३,१.३९ ॥ घटिकात्रितयं वीक्ष्य मार्गगेणोदपानतः । परिशुद्धाश्चेत्पेयं जलं तत्स्राव्यमन्यथा । ३,१.४० ॥ न रज्जुघटिकादानं शस्तं सप्राणके जले । पिबेति वक्तुं दातुं वा न जातु क्षमते यतिः ॥ ३,१.४१ ॥ सजन्तुकं तडागादि न परेषामुच्चैर्वदेत् । [कृत्यं] कुरु समीक्ष्येति पृष्टः प्रतिवदेत्परान् ॥ ३,१.४२ ॥ उपाध्यायेऽपि वक्तव्यं सप्राणकमिदं न वा । तडागादीति [वै] शाठयं कर्त्तव्यं [यतिना] न [तु] ॥ ३,१.४३ ॥ वृक्षसेको न दातव्योऽपरिशुद्धेन वारिणा । उपाध्यायादिकस्नानं कर्त्तव्यं च तथैव न ॥ ३,१.४४ ॥ मस्तुकाञ्जिकसौवीरमण्डदण्डाहतादिकम् । न पिबेत्न यतिर्दद्यात्परस्मै न भुवि त्यजेत् ॥ ३,१.४५ ॥ समत्कुणं यच्छयनमातपे तन्न शोषयेत् । न हिमे कर्दमे वा[पि] शीतोष्णवारिणि क्षिपेत् ॥ ३,१.४६ ॥ नवकर्म स नो कुर्यात्सजन्तुकेन [वारिणा] । दिनान्तं स्रावयित्वा तद्धार्यं [त्रिकोण]खल्लकम् ॥ ३,१.४७ ॥ भृतकं शिक्षयेदेवं वधान त्वं त्रिकोणकम् । कपात्[तत्] स्रावयोत्क्षिप्य खल्लकं च विमोचय ॥ ३,१.४८ ॥ त्रिकोणसप्तकेनाम्भः स्राव्यं खल्लकेन तत् । [प्रतिकूप्यथ] कार्या[वा] त्यक्त्वा देशान्तरं [व्रजेत्] ॥ ३,१.४९ ॥ अभूत्वा सम्भवन्त्येते भूत्वा यान्ति भवान्तरम् । नवकर्म तदा कार्य यथोक्तविधिकारिणा ॥ ३,१.५० ॥ सत्पटाबद्धमञ्चादेरुच्छीदच्चतुरांगुलात् । नद्यादौ जलमालोक्य कार्यं च नवकर्मणि ॥ ३,१.५१ ॥ छिद्रकर्णद्वयासक्तसूत्रबद्धद्विदण्डकम् । धारणपात्रकं दध्यात्खल्लकस्य बहिर्[यतिः] ॥ ३,१.५२ ॥ कृपापरीतचित्तेन स्वादु वारि सजन्तुकम् । क्षारेऽम्भसि न मोक्तव्यमनापत्मृष्टसंज्ञिनः ॥ ३,१.५३ ॥ २ अदत्तादानविरतिशिक्षापदं संवरत्यागः कालिकं [यामिकं] यावज्जीविकं सर्पिरादिकम् । पारिहार्यमनाधेयं कल्प्याकल्प्यमकल्पिकम् ॥ ३,२.१ ॥ पृथिव्युदकद्विचतुष्पदापदकपादप । तद्गतं च यतिः किञ्चिन्नाददीत परस्वकम् ॥ ३,२.२ ॥ कार्षापणचतुर्भागं तदर्धमथवा धनम् । स्तेयचित्तो हरन्नन्यैर्नाशनीयो[यतिर्] लघु ॥ ३,२.३ ॥ वाटाद्धृते गजे पादैश्चतुर्भिरयतिश्च्युते । निष्क्रान्ते संवृतद्वाराद्द्विपहृत्स्याद्यतिः [खलु] ॥ ३,२.४ ॥ गुल्फाबद्धेक्षदण्डारे दूराकृष्टे महीतलात् । संवरभंग उत्क्षिप्ते पञ्जराद्गजवद्द्विजे ॥ ३,२.५ ॥ देशान्नयेधि सन्देशद्रविणं च सञ्चारयेत् । अंगात्स्तैन्येन चित्तेन संवरघूतमाप्नुते ॥ ३,२.६ ॥ मृतोऽसौ मत्वा श्रुत्वैवाध्वगाद्वै ब्रह्मचारिणः । सीमान्तस्थायिने दत्वा गृह्णन् स्यादयतिर्यतिः ॥ ३,२.७ ॥ यद्वित्तं श्रामणेरस्य मृतस्य निर्वृतार्हतः । उपाध्यायस्य प्राप्नोति तदित्येवं जगौ मुनिः ॥ ३,२.८ ॥ हर्त्तुरिष्टां दिशं यायाद्व्रती चेधस्तिनं हरेत् । असौ हर्त्ता व्रती चौरः करिपे हृतसंज्ञिनि ॥ ३,२.९ ॥ पूजाचीवरमालान्तद्वयस्य खलु मोचनात् । अवनौ तच्च्युतौ सत्यां भ्रश्यते संवराद्[यतिः] ॥ ३,२.१० ॥ क्षिप्तं मौक्तिकहारादि गृहीत्वा तद्महाकुलात् ॥ न्यस्य प्रसेविकायां च सहायेन च हारयन् ॥ ३,२.११ ॥ जटालेनाथवा वत्स हरन् कि संवरच्युतः । कि पादच्युतिमात्रेण ह्युपचारव्यतिक्रमे ॥ ३,२.१२ ॥ रात्रौ गोशकटाश्वादीन् कश्चिद्वध्नाति चेद्यतिः । एतानेते हरिष्यन्ति तत्किं स्याच्च्युतसंवरः ॥ ३,२.१३ ॥ ऋजुके कीलके बन्धे कठिने हार[कं] हरन् । उत्क्षेपणे च चौरः स्यात्कुटिले शिथिले न तु ॥ ३,२.१४ ॥ छिद्रयित्वा घटं सर्पिः क्षौद्रं तैलं जलं हरन् । यतिः पूरस्य विच्छेदे संवरक्षोभमाप्नुते ॥ ३,२.१५ ॥ वण्टयमाणे गृहे भ्रात्रोर्भागादेकस्य लिप्सया । बालमात्रं भूमिं यतिः स्यात्क्षतसंवरः ॥ ३,२.१६ ॥ तस्करोपात्तपात्रादि निराशः पुनराददन् । संवराद्भ्रश्यते हीतोतरस्त्वाप्नोति नापदम् ॥ ३,२.१७ ॥ मित्रभावेन लब्धं स्याद्दत्तं गोपादिभिश्[च]वा । तदा [तद्] आददानस्य यतेर्नापत्तिरिष्यते ॥ ३,२.१८ ॥ भयोपदर्शनं कार्यं पात्रचीवरमुक्तये । राजनि न वदेद्गत्वैभिश्चौरैर्मुषिता वयम् ॥ ३,२.१९ ॥ निष्कासयस्युपाध्यायाचार्याणां यत्तदावथोः । तदित्युक्त्वा हरेदेकः स्यातां द्वावपि तस्करौ ॥ ३,२.२० ॥ स्वद्रव्यं स्तैन्यचित्तेनापहरन्तायिमौ यती । भागार्धेनायतिस्त्वेको निष्कासितार्धेनेतरः ॥ ३,२.२१ ॥ दास्यामस्ते समं तिष्ठ द्वारे कुर्याम चौरिकाम् । इत्युक्तकृत आपत्तिः सहैव चौरचेल्लकैः ॥ ३,२.२२ ॥ उषित्वागन्तुके याते विस्मृत्य पात्रचीवरम् । आगत्य यो यतिस्तच्चेद्गोपयेच्चौर एव सः ॥ ३,२.२३ ॥ एवमावासिका सर्वे भवन्ति क्षतसंवराः । स एव यदि संस्मृत्य नयतीह न किल्विषी ॥ ३,२.२४ ॥ अन्येन स्तेयचित्तेन पात्रमन्यस्य चेद्यतिः । आनाययति स ततो दोषवान् भवति व्रती ॥ ३,२.२५ ॥ यावत्पूजा मुनेस्तावत्संघस्यापि प्रवर्तते । इति योऽन्यस्य दत्ते स भवति क्षतसंवरः ॥ ३,२.२६ ॥ लिखित्वोद्धारकं ग्राह्यं मिथः स्तूपाच्च संघतः । कर्मादाने च वक्तव्यमियत्नोक्तकृतोऽन्यथा ॥ ३,२.२७ ॥ स्वांशमुक्तहरश्चौरो[यत्योर]मध्ये तयोर्द्वयोः । दास्यामीति च विश्वासं कृत्वा प्राप्नोति नापदम् ॥ ३,२.२८ ॥ लभसे त्वं लभे चाहं यं लाभं तदावयोः । इति लाभे समुत्पन्ने ततोऽर्धेन [स] तस्करः ॥ ३,२.२९ ॥ दक्षिणादेशनेऽप्येवं पांशुकूलिकयोर्द्वयोः । भिनत्ति यः क्रियाकारं ततः स च्युतसंवरः ॥ ३,२.३० ॥ उपकार्यपकारिभ्यश्चान्नपानादि सांघिकम् । विहारस्वामिराजादिचौरादिभ्यो यथाक्रमम् ॥ ३,२.३१ ॥ श्रीघनेभ्योऽपि दातव्यं प्रातराशादि सांघिकम् । आलेपनादि कुर्वन्ति विहारे यदि नान्यथा ॥ ३,२.३२ ॥ सीमान्तस्थायिने दत्वा भिक्षूपस्थानकारिणे । दारकप्रस्थव्याजेन गृह्णीयात्तण्डुलादिकम् ॥ ३,२.३३ ॥ अत्यक्ताशो[हि]गृह्णीयात्नष्टं स्वपात्रचीवरम् । मत्वैवं नष्टपात्रादिराशां नैव त्यजेद्[यतिः] ॥ ३,२.३४ ॥ स्वाध्यायाध्ययनोद्देशं कृत्वा ये संघशीलकम् । क्रियाकारं न कुर्वन्ति ते जिनोदितलंघिनः ॥ ३,२.३५ ॥ पताकालक्षणं स्तूपान्न ग्राह्यं यतिना[खलु] । प्रांशुकूलमिति ग्राह्यमनिलोद्धूतपातितम् ॥ ३,२.३६ ॥ शुल्ककृत्यं परद्रव्यं न नयेत्नापि नाययेत । शुल्कप्रदानमोक्षार्थोपायं नोपदिशेद्यतिः ॥ ३,२.३७ ॥ रत्नं दत्वा यतिभ्यः प्राक्पश्चात्मार्गयते वणिक् । विसंवादयसीत्येवं दातव्यं परिभाष्य तत् ॥ ३,२.३८ ॥ नास्ति शुल्कं मुनेरेवं व्रतिनां पारिभोगिके । क्रयविक्रयकृद्दद्यात्शुल्कमन्यत्र वस्तुनि ॥ ३,२.३९ ॥ वर्षावासिकलाभो [हि] देयो वर्षोषितस्य च । जीवितब्रह्मचर्यस्य ययोर्नाशस्तयोरपि ॥ ३,२.४० ॥ प्राक्प्रागुपगतैः कार्या वर्षावासिकयाचना । पश्चादुपगतैः पश्चात्संघे युगपदेव च ॥ ३,२.४१ ॥ पुनर्गृह्णाति दीक्षां यो वस्तुकर्मजुगुप्सया । भिक्षुभावं परित्यज्य तस्मै चाप्याह सर्ववित् ॥ ३,२.४२ ॥ अवर्षोषितविभ्रान्तकुदृष्टिमृतकास्[तथा] । देशान्तरगता लाभं नार्हन्ति पंचपुद्गलाः ॥ ३,२.४३ ॥ अमुष्मै देयमित्येवं लाभोत्पन्ने यतौ मृते । दातव्यो नियतं तस्मै स विकल्पितभिक्षवे ॥ ३,२.४४ ॥ देशान्तरगतस्यापि स्थापयेत्कल्पमन्दिरे । त्रये कुर्वन्ति चानर्थं तेभ्यो देयंबुधर्न हि ॥ ३,२.४५ ॥ आच्छादं चीवरं मूल्यं दास्यामीति चतुष्पदैः । आप्नोति सम्मुखीभूतान् लाभो नेतरेषु च ॥ ३,२.४६ ॥ वर्षावासिकलाभश्च वर्षोषितस्य [गच्छति] । तदेतरस्य दोषो न गृह्णतो दायकेच्छया ॥ ३,२.४७ ॥ कालिको यामिको यावज्जीविकः साप्ताहिकः । मृतक्षुद्रपरिष्कारनैत्यकाकालचीवरम् ॥ ३,२.४८ ॥ कुटीप्रतिष्ठाजात्यादिसम्बोध्यादिमहोद्भवः । प्राप्नोति दशधा लाभः सम्मुखीभूतपुद्गलान् ॥ ३,२.४९ ॥ अनाधेयं [गुरुद्रव्यं] सांघिकं शयनासनम् । विक्रेतव्यं न भोक्तव्यं कृत्वा पौद्गलिकं न च ॥ ३,२.५० ॥ चातुर्दिशाय बुद्धाय सम्मुखीभूतसांघिके यतिर्द्रव्यान्तरे दत्ते तत्र तत्रोपनामयेत् ॥ ३,२.५१ ॥ तूष्णीं दत्वा गते देयं बुद्धे मुक्ताफलादिकम् । चातुर्दिक्सम्मुखीभूते शयनासनमंशुकम् ॥ ३,२.५२ ॥ पृथु द्रव्यं परोपात्तं तत्संज्ञी स्तेयचेतना । स्थानच्युतिश्च पंचांगैर्युक्तश्चेदयतिर्भवेत् ॥ ३,२.५३ ॥ दत्तस्वकापरोपात्तसंज्ञी चान्योऽपि संवरी । न तावत्कालिकं स्वांशाद्गृह्णन् जहाति संवरम् ॥ ३,२.५४ ॥ आदायादत्तमुत्प्लुत्य खं गत्वाशाचतुष्टयम् । तत्रैव पुनरासीनो भवति क्षतसंवरः ॥ ३,२.५५ ॥ अवक्रीतादिरज्ञानात्परद्रव्यं हरन् खलु । संवरक्षोभलाभी स यतिर्नोन्मत्तादिकः ॥ ३,२.५६ ॥ ३ मैथुनविरतिशिक्षापदं संवरत्यागः नृस्त्रीपण्डकविण्मूत्रवक्त्ररन्ध्रेंऽगजात[कं] । क्षिप्त्वा निगमयेत्स्वादं स [यतिः] क्षतसंवरः ॥ ३,३.१ ॥ मानुषाऽमानुषास्ते तु तिर्यञ्चश्च नरादयः । मृताः सुप्ताश्च जाग्रन्तो ज्ञेया [हि] मैथुनाश्रयाः ॥ ३,३.२ ॥ हस्तिनीमादितः [कृत्वा] यावत्कुक्कुटजाति[कां] । क्षुद्रिकां महतीं गच्छन्[स यतिश्] च्यवते व्रतात् ॥ ३,३.३ ॥ दुष्कृतानि रक्तः सन्न स्त्रियं पश्येत्शब्दमाकर्णयेन्न च । निर्वस्त्रः सन्न चोपेयादंगजात न निर्भुजेत् ॥ ३,३.४ ॥ भित्तिद्वये कृतां शुष्कां क्लिन्नां संयोज्य [कोटरीं] । [विप्रतिपत्तितो] नाश्यः संग्रहे सति नान्यदा ॥ ३,३.५ ॥ अध ऊर्ध्वं त्रिखण्डाया विनीलाध्मातिकां च न । न चास्थिसंकलां यायात्नाभ्यक्तां रुधिरादिभिः ॥ ३,३.६ ॥ सितास्थिसंकलां शैलदारुपुस्तमयीं[यतिः] । न च गच्छेत्स्त्रियं योऽत्र विरतो मैथुनात्सदा ॥ ३,३.७ ॥ ध्यानमिद्धगतं मत्तमभिभूतं च निद्रया । विक्षिप्तं वेदनातुन्नं गृहीत्वाभिनिषीदति ॥ ३,३.८ ॥ आदिमध्यावसानेषु स्वादयेत्ध्यानव्युत्थितः । विहाराद्घट्टनीयः सोऽभावे तु स्वादनस्य न ॥ ३,३.९ ॥ नानाव्यंजन[को]पेतरसशाल्युपभोगवत् । आस्वादना च तैलाच्छशौण्डासवपानवत् ॥ ३,३.१० ॥ अनास्वादो युवग्रीवामृतकुक्कुरबन्धवत् । विज्ञेयः सुकुमारस्य प्रदीप्तलोहस्पर्शवत् ॥ ३,३.११ ॥ अवक्रीतादि[रज्ञानात्] । [आपत्तिभाग्यतिर्नैवोन्मत्तविक्षिप्तचेतसः] ॥ ३,३.१२ ॥ रागा[मनुष्यसंयोगात्] प्रगुणीभूतांगजात[कं] । न स्पृशेत्शुक्रमोक्षार्थं स पृथिव्यादिधातुभिः ॥ ३,३.१३ ॥ तिर्यक्[प्रमत्त]संयोगात्शुक्रमुक्तिर्भवेद्यदि । [स्व]मानसं यतिगर्हेत्कृतं मे नु विरूपकम् ॥ ३,३.१४ ॥ मज्जजक्षरणं यस्य यतेः स्वप्नेषु जायते । स्वप्नशुक्रविनिर्मुक्तौ तद्दोषो न मनागपि ॥ ३,३.१५ ॥ रागाविष्टेन चित्तेन नारीं न श्रीघनः स्पृशेत् । [अन्यं स्पृशेत्तथारूपं नापि च] पुंनपुंसकम् ॥ ३,३.१६ ॥ स्तनकक्षौष्ठनाभ्यूरुपार्श्व कुक्षिमलभ्रमान् । संरक्तः [सन्] यतिः स्त्रीणां न निन्देत्न च संस्तुयात् ॥ ३,३.१७ ॥ यद्यद्वदेत्स्त्रियं[तावत्] कर्तुकामो यथा यथा । तत्तत्तथा तथा ब्रूयात्श्रीघनो नान्तिके स्त्रियाः ॥ ३,३.१८ ॥ अग्रा भवति सा योषिद्या मां परिचरेद्रहः । लाभिनी चायुरादीनां व्याधिहीना यशस्विनी ॥ ३,३.१९ ॥ इत्यादि न वचो ब्रूयाद्रागाग्निप्लुष्टमानसः । पुरस्ताच्छ्रोघनः स्त्रीणां पुनपुंसकयोस्तथा ॥ ३,३.२० ॥ विवाहावाहयोर्दौत्यं न कुर्यात्श्रामणेरकः । [न च कुर्यात्तथारूपनिमित्तमपि दौत्यकं] ॥ ३,३.२१ ॥ दापयेयमिमां श्राद्धां तथास्मै दारिकामिति । अर्थसंस्यन्दनासूत्रं घटते न [स] भाषितुम् ॥ ३,३.२२ ॥ बीजार्थं न व्रती दद्यात्[स्वयमेव] गवादिकम् । एतानेव परेभ्योऽपि कदाचिन्न [हि] प्रार्थयेत् ॥ ३,३.२३ ॥ तुल्यमेतासु त्वं तिष्ठ मा स्त्रिया चैकया वस । इत्येवं हि बहुस्त्रीकं पुरुषं न यतिर्वदेत् ॥ ३,३.२४ ॥ ४ मृषावादविरतिशिक्षापदं प्रत्येकबुद्धसंबुद्धतच्छिष्यज्ञानदर्शनम् । ममास्तीति ब्रुवन्मिथ्या नाश्योऽन्यत्राभिमानतः ॥ ३,४.१ ॥ ज्ञानं सत्याभिसंबोधिरभिज्ञाः पंच दर्शनम् । धर्मान्वयादिकज्ञानांगीकरणे क्षमो न सः ॥ ३,४.२ ॥ आर्यम्लेच्छवचोलेखलिप्या [च] हस्तमुद्रया । ज्ञानादि प्रतिजानीते बोद्धव्यमपि तन्मृषा ॥ ३,४.३ ॥ वृक्षमूलेऽहमेकाकी विहरामि रमे [गृहे] । समाहितं च मे चित्तं न च वाच्यमतीन्द्रियम् ॥ ३,४.४ ॥ बुद्धादीनां वदेद्वर्णमात्मनो न कथंचन । परकीयं गुणं पृष्टो ब्रूयात्तत्संमुखं न तु ॥ ३,४.५ ॥ दृष्टं श्रुतं मतं यद्यद्विज्ञातं चैव तद्वदेत् । [श्रीघनो] वैपरीत्येन गदन्मिथ्याभिधायकः ॥ ३,४.६ ॥ वस्तु चालीकसंज्ञी च चित्तं विनिहितं [तथा] । मृषासंज्ञी वदेद्वाचं पंचांगोऽनृतवादिकः ॥ ३,४.७ ॥ चतुस्त्रिद्वयेक[कै] रंगैर्युक्तो योऽत्र मृषां वदेत । अन्यैः स यतिभिर्ज्ञेयो मृषावादीति [श्रीघनः] ॥ ३,४.८ ॥ अभूतेनानिदानेन यतिः [प्राणिवधादिना] । ध्वंसनच्यावनाकूतः संमुखं न च चोदयेत् ॥ ३,४.९ ॥ क्षुद्रापत्तिनिमित्तेन लेशमात्रेण तेन वा । श्रामणेरो[हि] प्रत्यक्षं [श्रीघनान्] न क्षिपेत्परान् ॥ ३,४.१० ॥ जातिलिंगक्रियावादैर्हीनमध्योत्तमैर्व्रती । जिह्मनिष्प्रतिभानार्थं न प्राणान् जातु चोदयेत् ॥ ३,४.११ ॥ उपक्लेशगदाक्रोशापत्त्याद्यैर्हि यतिं व्रती । आशयेन पुरोक्तेन ब्रूयान्नैव कदाचन ॥ ३,४.१२ ॥ भेदं यास्यति सोऽन्येन संधास्यति मया सह । यतिर जात्यादिवादेन पैशुन्यं न समाचरेत् ॥ ३,४.१३ ॥ ५ सुरामैरेयमद्यपानविरतिशिक्षापदं मद्यं सुरा च मैरेयं प्रमादस्यास्पदं यतः । न परस्मै[हि] तद्देयं न च पेयं श्वमूत्रवत ॥ ३,५.१ ॥ वल्कलैः सगुडैः काचिदपरा केवलेन च । पिष्टकिण्वजलैरेभिरपि संचीयते सुरा ॥ ३,५.२ ॥ मैरेयं गुडधात्र्यम्बुधातकीसंस्कृतं हि यत् । कुशाग्रेणापि तत्पातुं यतीनां न प्रकल्पते ॥ ३,५.३ ॥ कोद्रवान्नं न भुञ्जीत तत्पलाले च न स्वपेत् ॥ पीतं सत मदयेद्यच्च पातव्यं तदपीह न ॥ ३,५.४ ॥ ६ उच्चशयनमहाशयनविरतिशिक्षापदं शयने यतिरासीत जिनाष्टांगुलपादके । [विना] शल्येन[मंचे वा] हेमरूप्यकृते न तु ॥ ३,६.१ ॥ सांघिके शयने दद्यात्तत्प्रत्यास्तरणं यतिः । वस्त्रकम्बलयोरिष्टं यत्त्रिद्वयेकपुटं क्रमात् ॥ ३,६.२ ॥ न्यस्य गर्त्तेषु तत्पादानतिरेकप्रमाणकान् । प्रक्षिप्य प्रतिपादेषु टंकित्वा कीलकेषु वा ॥ ३,६.३ ॥ एवं वेक्षुयवादीनां रक्षार्थं मंचके स्वपेत् । यतिर्न लंबयेत्पादावध्वगो दीर्घपादके ॥ ३,६.४ ॥ अल्पं चेद्द्वादशेभ्यो हि देयमेकं विहारकम् । निर्मुष्टहस्तं स्वल्पत्वे बहुत्वे तु विपर्ययात् । ३,६.५ ॥ स्तोकं चेद्नवकः पीठे वृद्धो मंचे[तदा] स्वपेत् । स्वप्तव्यं वृक्षमूले [ऽपि] नवेनाभ्यवकाशके ॥ ३,६.६ ॥ अन्तर्वर्षासु नोपस्थाप्योऽन्यः सब्रह्मचारिकः । यतिना [स्व] विहारे[तु] यथावृद्धिकया यतिः ॥ ३,६.७ ॥ संस्कारपरिभोगार्थं परिपालनार्थमेव च । उद्दिश्यते [यतिभ्यो वै] सांघिकं शयनासनम् ॥ ३,६.८ ॥ हीनमध्योत्तमं [स्थाप्यं भिक्षुभ्यो] लयनत्रयम् । वृद्धाद्यागन्तुकेभ्यस्तदुद्दिशेद्दहरक्रमात् ॥ ३,६.९ ॥ शयनासनमत्युच्चं प्रतिषिद्धं यतेर्हि तत् । मदौद्धत्यकरं यस्माद्लोकावध्यानकारणम् ॥ ३,६.१० ॥ ७ नृत्यगीतवादित्रविरतिशिक्षापदं बाहुविक्षेपकं नृत्यं गीतमुच्चैः स्वरेण च । वीणावंशमृदंगादिवादित्रं न च वादयेत् ॥ ३,७.१ ॥ ८ गन्धमाल्यविलेपनविरतिशिक्षापदं चन्दनादिक[गन्धं हि धारयेद्] व्याधितो यतिः । दत्त्वा [च] मुनये पूर्वं भिषगादेर्वचनेन [सः] ॥ ३,८.१ ॥ न तिष्ठेत्प्रकटे देशे क्षालयित्वा बहिर्व्रजेत् । अनेनैव विधानेन धारयेत्कुसुमस्रजम् ॥ ३,८.२ ॥ नेत्रदुःखशिरःशूलपूतनाग्रहरुग्वतः । मालया वेष्टयेत्शीर्षं मेखलां न च लंबयेत् ॥ ३,८.३ ॥ हरितालादिचूर्णेन तैलेन वा सुगन्धिना । न वदनादिकं गात्रं वर्णार्थं मर्षयेद्यतिः ॥ ३,८.४ ॥ यतेरप्रतिरूपत्वाद्गन्धमाल्य[विलेपनं] । रागौद्धत्यकरं यस्मात्तस्मात्तद्गर्हितं जिनैः ॥ ३,८.५ ॥ न दर्पणे निरीक्षेत मुखं वा तैलभाजने । मुक्त्वान्येनेक्षणीयं[हि] शिरोव्यथागदातुरम् ॥ ३,८.६ ॥ विभूषणाय तैलेनात्मनो नाभ्यंजयेद्मुखम् । स्फुटितास्यशिरोरोगादन्येनाभ्यंजनं न च ॥ ३,८.७ ॥ न कुंकुमादिचूर्णेन मण्डयेद्वदनं यतिः । पिटकशमनार्थं तु लेप इष्टस्तिला[दिभिः] ॥ ३,८.८ ॥ ९ विकालभोजनविरतिशिक्षापदं रात्रेरन्यत्र[भुंजाने मयि बभूवाल्परोगता] । तथैव [खलु] वः कार्यं [भोक्तव्यं दिनयेवच] ॥ ३,९.१ ॥ विण्मूत्रगर्त[के] पातः चौराहिभिः समागमः । उदरार्थं गृहे नोऽटन्तीत्यवध्यातवान् जनः ॥ ३,९.२ ॥ सायं प्रातश्च पिण्डार्थमटन्ति भुंजते [तथा] । सभाचत्वरश्रृंगाटमन्दिरेषु गृहेषु च ॥ ३,९.३ ॥ सुगतः प्राह भुंजीत काले यतिः ॥ उदितादित्यमध्याह्नकेशमात्रानतीतके ॥ ३,९.४ ॥ सक्तुरोदनकुल्माषं मत्स्य- मांसं च कालिकम् । यावज्जीविकतैलादिपिप्पलीपानवर्जितम् ॥ ३,९.५ ॥ यत्किंचिदद्यते दन्तैर्गलके वा प्रवेश्यते । कुक्षिविष्टभ्मकं काले तत्तदद्याद्यथोदिते ॥ ३,९.६ ॥ सक्त्वाद्यामिषनिर्मुक्तं नीरजं कर्दमादिकम् । वर्षोपलकमश्नीयात्पिपासार्त्तो यतिर्हिमम् ॥ ३,९.७ ॥ कल्प्यवारिग्रहे तावत्प्रक्षाल्यौ न [सशोणितौ] । हस्तौ द्वौ चांगुलीक्षाले न ग्राह्यं कल्पिकोदकम् ॥ ३,९.८ ॥ मायाशाठय[युतः] कुर्यात्न च प्रक्षालनं तयोः । सशब्दौ [यदि] तौ शुद्धौ वेद्यौ स्निग्धत्वचो यतेः ॥ ३,९.९ ॥ न दास्यथ[मह्यं] भोक्तुं क्षुत्तृष्णापीडितो [म्रिये] । इत्येवं [स] विरुक्तः स्यात्क्षेप्तव्यो मण्डकुण्ड[के] ॥ ३,९.१० ॥ अष्टासु धौतधान्यं यत्पात्रे दिशेदनामिषे । स्फुटं तु यदि पातुं तन्नैव ग्लानाय कल्पते ॥ ३,९.११ ॥ लोभोत्यापितवाक्कायकर्मणा समुपार्जितम् । विहारचीवराहारं वर्जयेद्विषभक्तवत् ॥ ३,९.१२ ॥ मद्यशस्त्रविषप्राणिलाक्षविक्रयणं व्रती । न कारयेत्न कुर्यान्न जीविकां तेन कल्पयेत् ॥ ३,९.१३ ॥ सत्कारार्थं [च लाभार्थ] कुहना ह्यक्षसंवरः । वस्त्रादिकस्य प्राप्तयर्थं लपना चाटुवादिता ॥ ३,९.१४ ॥ नैष्पेषिकत्वमन्नादि-लाभाय परकुत्सनम् । अन्यदीयस्य पात्रादेर्नैमित्तिकं [तु] वर्णनम् ॥ ३,९.१५ ॥ लाभेन लिप्सा लाभानां वृद्धिषर्येषणं च [यत्] । यतिर्विवर्जयेदेतान्मिथ्याजीवान् पुरीषवत् ॥ ३,९.१६ ॥ क्रीडापरोपघातं च कायवागुच्छितं [सदा] । व्रती विवर्जयेन्नित्यं विट्प्रदिग्धमिवोरगम् ॥ ३,९.१७ ॥ विपणितरगुल्मादौ द्यूतबन्धगृहे तथा । अगोचरो यदाख्यातस्तिष्ठेत्तत्र न चेल्लकः ॥ ३,९.१८ ॥ १० जातरूपरजतप्रतिग्रहणविरतिशिक्षापदं कायेन हस्तपादाभ्यां वस्त्रछत्रादिभिर्व्रती । रजतं जातरूपं च न स्पृशेत्ज्वलिताग्निवत् ॥ ३,१०.१ ॥ इति संघसेनेन संविहितोद्धारे श्रीघनाचारसंग्रहे श्रामणेरभावोपायो नाम तृतीयोऽध्याय ॥ चतुर्थोऽध्यायः अन्ये चाचाराः चम्पूकलहदन्तादकाष्ठो वृद्धान्तिको यतिः । स्नानपानाशनस्तोत्रव्यग्रो नग्नैकवस्त्र[कः] ॥ ४.१ ॥ मृत्कर्मव्यापृतस्तूर्णं गच्छन् [च] द्वित्रिभूमिकम् । आशु व्रजन् पचन् पात्रं व्यग्रश्चीवरकर्मणा ॥ ४.२ ॥ चूर्णचैलक्रियासक्तोऽक्ताक्षो[च] धूम्रमापिबन् । लिखन् यो पुस्तकं वापि यो वाचयति सोऽपि न ॥ ४.३ ॥ विट्प्रस्रावकुटीं गच्छन् तिष्ठन् तमसि वोद्दिशन् । वासयन्नथ प्रावृण्वन न वन्द्यो यतिना यतिः ॥ ४.४ ॥ अवगुण्ठितशीर्षेण सोपानत्केन जानुनोः । मुण्डस्फोटं हि जंघायां न दद्यादविना यथा ॥ ४.५ ॥ समवस्थानिषण्णेन वन्द्यमानेन पद्युगे । गृहीत्वा कर्कटग्राहं वाच्यमारोग्यमस्त्विति ॥ ४.६ ॥ भिक्षुविनयसंक्षेपादाचारान्तरमुद्धृतम् । श्रोतव्योऽन्यदुपाध्यायाद्भाव्यं सगौरवेण च ॥ ४.७ ॥ शतद्वयेन संहत्य श्रीघनाचार संग्रहम् । सुकृतं कर्म यत्तेन जनो प्राप्नोत्वसंस्कृतम् ॥ ४.८ ॥ इति संघसेनेन संविहितोद्धारे श्रीघनाचारसंग्रहे अन्ये चाचारा नाम चतुर्थोऽध्यायः ॥ इति श्रीघनाचारसंग्रहः ॥