शयनासनवस्तु (३) (अ ३१४ ५) (१२१) उद्दानम् शाक्या पंचनकाधश्च साङ्घिकं पौद्गलिकं च वस्तुभङ्गेन । कारयेत्प्रतिसंस्तरणं भूमिररण्यं च त्रिचीवरम् । उच्छेद्यमरण्यं भिक्षुस्थविरो लाभषट्कैर्भवति पश्चिमम् ॥ ______________________________________________________________ ओल्द्मोन्क्सरे एन्तित्लेद्तो वेनेरतिओन् बुद्धो भगवान् श्रावस्त्यां विहरति जेतवने अनाथपिण्डदस्यारामे; तेन खलु समयेन संबहुलानामुपस्थानशालायां संनिषण्णानां संनिपतितानामयमेवंरूपोऽभूदन्तराकथासमुदाहारः; कोऽस्माभिरायुष्मन्तः सत्कर्तव्यो गुरुकर्तव्यो मानयैतव्यः पूजयितव्यः? कस्य चास्माभिरभिवादनवन्दनप्रत्युत्थानांजलिसामीचीकर्म कर्तव्यम्? कोऽस्माकमर्हति अग्रासनमग्रोदकमग्रपिण्डपातं परिभोक्तुमिति? तत्रैके एवमाहुः शाक्यः प्रव्रजित इति; अन्ये त्वेवमाहुः यो ब्राह्मणः प्रव्रजित इति; अपरे यः क्षत्रियः प्रव्रजितः; अपरे यो वैश्यः प्रव्रजितः; अपरे यः शूद्रः प्रव्रजितः; (१२२) अपरे उच्चात्कुलात्प्रव्रजितोऽन्यूनात्; आढ्यात्कुलात्प्रव्रजितोऽदीनात्; अपरे योऽभिरूपो दर्शनीयः प्रासादिकः कल्याणवाक्यो वाक्करणेनोपेतो ज्ञातो महापुण्यः सूत्रधरो विनयधरो मातृकाधरो बहुश्रुतो धार्मकथिकः स्थविरो राजन्यः आरण्यकः त्रैचीवरिको नामतिकः पांसुकुलिकः पिण्डपातिकः एकासनिकः खलुपश्चाद्भक्तिको वृक्षमूलिकः श्माशानिकोऽभ्यवकाशिकः नैषदिको यथासंस्तरिको यो लाभी अनित्यसंज्ञायाः पूर्ववद्यावद्योऽर्हन्नष्टविमोक्षध्यायीति; अपरे एवमाहुः सर्वेषामस्माकमायुष्मन्तो न समेति यदुत नानाप्रज्ञप्त्या; (अ ३१४ ) एते वयं येन भगवांस्तेनोपसंक्रमामः; उपसंक्रम्य भगवन्तमेतमर्थं परिपृच्छामः; यथास्माकं स भगवान् व्याकरिष्यति तथैनं धारयिष्याम इति अथ संबहुला भिक्षवो येन भगवांस्तेनोपसंक्रान्ताः; उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषण्णाः; एकान्तनिषण्णाः संबहुला भिक्षवो भगवन्तमिदमवोचन्; इहास्मकं (४) भदन्त संबहुलानां भिक्षूणामुपस्थानशालायं संनिषण्णानां संनिपतितानामयमेवंरूपोऽभूदन्तराकथासमुदाहारः; पूर्ववद्यावद्यथास्माकं भगवान् व्याकरिष्यति तथैनं धारयिष्याम इति; ते वयं भदन्त भगवन्तमेतमेवार्थं पतिपृच्छामः; कोऽस्माभिः (१२३) सत्कर्तव्यो गुरुकर्तव्यो मानयितव्यः पूजयितव्यः? पूर्ववद्यावदग्रपिण्डपातं परिभोक्तुमिति; भगवानाह: वृद्धतरको युष्माभिर्भिक्षवः सत्कर्तव्यो गुरुकर्तव्यो मानयितव्यः पूजयितव्यः; अभिवादनवन्दनप्रत्युत्थानांजलिसामीचीकर्म कर्तव्यम्; स च युष्माकमर्हत्यग्रासनमग्रोदकमग्रपिण्डपातं परिभ्कोतुमिति उक्तं भगवता: वृद्धतरको भिक्षुर्युष्माभिः सत्कर्तव्यह्; पूर्ववद्यावदग्रासनं परिभोक्तुमिति ______________________________________________________________ ओल्धोउसे-होल्देर्स्, एत्च्., अरे नोतेन्तित्लेद्तो वेनेरतिओन् भिक्षवः आगारिकान् वृद्धान् सत्कुर्वन्ति गुरुकुर्वन्ति मानयन्ति पूजयन्ति; श्रुत्वा ब्राह्मणगृहपतयोऽवध्यायन्ति क्षिपन्ति विवाचयन्ति; आर्या वयं कामभोगिनः कामपंकनिमग्नाः; कथं यूयमस्माकं सत्कुर्वथ? एतत्प्रकरणं भिक्षवो भगवत आरोचयन्ति; भग्वानाह: प्रव्रजितान् भिक्षवो मया सन्धायोक्तं नो त्वागरिकानिति भिक्षवः अन्यतीर्थिकान् वृद्धान् दृष्ट्वा सत्कुर्वन्ति गुरुकुर्वन्ति मानयन्ति पूजयन्ति; भगवानाह; इह धार्मिकान्मया सन्धायोक्तं नो तु बाह्यकानिति ते श्रामणेरकान् वृद्धप्रव्रजितान् दृष्ट्वा सत्कुर्वन्ति गुरुकुर्वन्ति मानयन्ति पूजयन्ति; भगवानाह: उपसंपन्नान् भिक्षवो मया सन्धायोक्तं नो तु श्रामणेरकानिति ते नवोपसंपन्नान् वृद्धान् सत्कुर्वनि गुरुकुर्वन्ति मानयन्ति पूजयन्ति; भगवानाह: अन्योन्यं वर्षाग्रं पृष्ट्वा वन्दितव्यं; ते पृष्टाः सन्तो जन्मवर्षाणि कथयन्ति; भगवानाह; उपसंपद्वर्षाग्रं प्रष्टव्यमिति; भिक्षवो न जानते ःकति वर्षाग्राणीतिः; (१२४) भगवानाह; सामयिकमारोचयितव्यम्; भिक्षवो न जानते कति सामयिकानीति; भगबानाह: पंचेमे भिक्षवः समयाः, हैमन्तिकं ग्रैष्मिकं वार्षिकं मृतवार्षिकं दीर्घवार्षिकमिति; तत्र हैमन्तिकं चत्वारो मासाः; ग्रैष्मिकं चत्वारो मासाः; ःवार्षिकमेको मासःः; मृतवार्षिकमेकं रात्रिन्दिवसम्; दीर्घवार्षिकं रात्र्यूनास्त्रयो मासाः; इत्येवं सामयिकमारोचयित्वा यः पूर्वोपसंपन्नः स वन्दितव्यः अपरे भिक्षवश्चत्वारो वन्द्याः; कतमे चत्वारो वन्द्याः? सदेवकस्य (५) तावल्लोकस्य समारकस्य सब्रह्मकस्य सश्रमणब्राह्मणिकाया प्रजायाः सदेवमानुषायास्तथागतार्हत्सम्यक्संबुद्धो वन्द्यः; सर्वेषां गृहिणः प्रव्रजिता वन्द्याः; सर्वेषामुपसंपन्नानां पूर्वोपसंपन्ना वन्द्याः (अ ३१५ ) स्थापयित्वा भिक्षुणीम्; तस्या वर्षशतोपसंपन्नाया अपि तदहः उपसंपन्नो भिक्षुर्वन्द्यः; सर्वस्यानुपसंपन्नकस्योपसंपन्नको वन्द्यः दशावन्द्याः; कतमे ःदश?ः पारिवासिको मूलपारिवासिकः पर्युषितपरिवासः मानाप्यचारिकश्चरितमानाप्योऽदर्शनायोत्क्षिप्तकः अप्रतिकर्मायोत्क्षिप्तकः अप्रतिनिसृष्टे पापके दृष्टिगते उत्क्षिप्तकः सर्वो गृही ःसर्वाश्ः चानुपसंपन्नः यदा भगवता यथावृद्धिकया प्रज्ञप्तास्तदा भिक्षवोऽन्योन्यं सत्कुर्वन्ति गुरुकुर्वन्ति मानयन्ति पूजयन्ति; तेऽन्योन्यं सत्कुर्व्वन्तो ःगुरुकुर्वन्तोः मानयन्तः पूजयन्तो वर्धन्ते कुशलैर्धर्मैरुत्पलं वा (१२५) यथोदके भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: पश्य भदन्त यदा भगवता यथावृद्धिकया प्रज्ञप्तास्तदा भिक्षवोऽन्योन्यं सत्कुर्वन्ति गुरुकुर्वन्ति मानयन्ति पूजयन्ति; तेऽन्योन्यं सत्कुर्वन्तो गुरुकुर्वन्तो मानयन्तः पूजयन्तो वर्धन्ते कुशलैर्धर्मैरुत्पलं वा यथोदके इति; भगवानाह: किमत्र भिक्षवः आश्चर्यं यदिदानीं मया विगतरागेण विगतद्वेषेण विगतमोहेन परिमुक्तेन जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासैः सर्वज्ञेन सर्वाकारज्ञेन सर्वज्ञानज्ञेयवशिप्राप्तेन यथावृद्धिकायां प्रज्ञप्तायां यथावृद्धिकामागम्य भिक्षवोऽन्योन्यं सत्कुर्वन्ति गुरुकुर्वन्ति पूर्ववद्यावदुत्पलं वा यथोदके इति; यत्तु मया सरागेण सद्वेषेण समोहेनापरिमुक्तेन जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासैर्विनिपतितशरीरेण यथावृद्धिकायां प्रज्ञप्तायां यथावृद्धिकामागम्य सकलो जम्बूद्वीपनिवासी जनकायो यद्भूयसा प्रणीते त्रयस्त्रिंशे देवनिकाये उपपन्नस्तच्छ्रूयताम् ______________________________________________________________ थे स्तोर्योf थे fरन्चोलिने, थे हरे, थे मोन्केयन्द्थे एलेफन्त् भूतपूर्वं भिक्षवः काशीषु जनपदे अन्यतमस्मिन् वनगहने चत्वारः प्राणिनः प्रतिवसन्ति कपिञ्जलः शशो मर्कटो गजश्(६) च; ते च परस्परं सख्येनावस्थिताः सहिताः समग्राः संमोदमाना अविवदमाना अशंकिनो यथेष्टविहारतया कालमतिनामयन्ति; यावदपरेण समयेन तेषां बुद्धिरुत्पन्ना; (१२६) अस्ति वयं भवन्तः परस्परं सख्येनावस्थिताः सहिताः समग्राः संमोदमाना अविवदमानाः; किन् तु न जानीमः कोऽस्माभिः सत्कर्तव्यो गुरुकर्तव्यो मानयितव्यः पूजयितव्यः इति; यन्नु वयं यथावृद्धिकां प्रज्ञपयेम इति; ते परस्परं संजल्पं कर्तुमारब्धा इति; कोऽस्माकं वृद्ध इति; ततः कपिंजलेन वटवृक्षो दर्शितः; भवन्तः एष वटवृक्षः केन कियत्प्रमाणो दृष्ट इति; हस्ती कथयति; मया यूथेन सहानेन पथा गच्छता अयं दृष्टो मत्प्रमाण एव उच्चत्वेनेति; मर्कटः कथयति; मया यूथेन सहानेन पथा गच्छता अयं दृष्टो मम तुल्य एवोच्चत्वेनेति; ते कथयन्ति; त्वमस्य वृद्ध इति; शशः कथयति; मयाप्यस्य द्विपत्रकस्य पत्रेष्वेवावश्ययन्बिन्दवो जिह्वया निर्लीढा इति; ते कथयन्ति: त्वमप्यनयोर्वृद्ध इति; कपिञ्जलः कथयति; पश्यत यूयमेनं वटवृक्षं महत्प्रमाणाकारम्; ते कथयन्ति: पश्यामः; एतस्मान्मया फलानि भक्षयित्वास्मिन् प्रदेशे उच्चारः कृतस्तस्मादयं जात इति; (अ ३१५ ) ते कथयन्ति: यद्येवं त्वमस्माकं सर्वेषां वृद्ध इति; ततो हस्ती सर्वेषां सत्कर्तुमारब्धः; मर्कटः शशं कपिंजलं च; शाशः कपिंजलम् एव; ते एवं यथावृद्धिकया सत्कुर्वन्तस्तस्मिन् वनगहने इतश्चामुतश्च परिभ्रमन्ति; यदा विषमनिम्नाः प्रदेशा गन्तव्या भवन्ति तदा हस्तिनं मर्कटोऽभिरोहति मर्कटं शशः शशमपि कपिंजलः तेषामेवं प्रवृद्धस्नेहानां सगौरवाणां च बुद्धिरुत्पन्ना; अस्ति वयं भवन्तः प्रवृद्धस्नेहाः सगौरवाश्च; अन्यदपि (१२७) तावत्किंचित्कुशलं समादाय वर्तेम इति; किं कुर्मः; कपिंजलः कथयति; प्राणातिपातात्प्रतिविरमामः; कीदृषोऽस्माकं प्राणातिपातः? कपिंजलः कथयति: सन्ति तृणपुष्पफलानि सपृआणकानि सन्ति निष्प्राणकानि; तदस्माभिरद्याग्रेण सप्राणकानि परित्यज्य निष्प्राणकानि; परिभोक्तव्यानि; ते सप्राणकानि परित्यज्य निष्प्राणकानि परिभोक्तुमारब्धाः तेषामेतदभवत्; अस्ति वयं प्राणातिपातात्प्रतिविरता नो त्वदत्तादानात्प्रतिविरमामः; कीदृशोऽस्माकमदत्तादानम्? कपिंजलः कथयति: सन्ति सपरिग्रहाणि तृणपत्रपुष्पफलानि सन्ति निष्परिग्रहाणि; तदस्माभिरद्याग्रेण सपरिग्रहाणि परित्यज्य निष्परिग्रहाणि (७) परिभोक्तव्यानि; ते सपरिग्रहाणि परित्यज्य निष्परिग्रहाणि परिभोक्तुमारब्धाः तेषामेतदभवत्; अस्ति वयमदत्तादानात्प्रतिविरताः नो तु काममिथ्याचारात्; यन्नु वयं काममिथ्याचारात्प्रतिविरमामः; कीदृशोऽस्माकं काममिथ्याचारः? कपिंजलः कत्ययति: वयं गम्या अपि गच्छामः; अगम्या अपि गच्छामः; तदस्माभिरद्याग्रेण गम्यैव गन्तव्या नागम्या ते गम्यां गच्छन्ति नागम्याम्. तेषामेतदभवत्: अस्ति वयं काममिथ्याचारात्प्रतिविरताः; नो तु मृषावादात्; यन्नु वयं मृषावादात्प्रतिविरमामः; कीदृशोऽस्माकं मृषावादः? कपिंजलः कथयति: वयं यद्वा तद्वा विप्रलपामः; तदस्माभिरद्याग्रेण न यद्वा तद्वा विप्रलपितव्यम्; (१२८) विचार्य विचार्य काले वागुदीरयितव्या; ते न यद्वा तद्वा विप्रलपन्ति किं तु विचार्य विचार्य कालेन वाचमुदीरयन्ति तेषामेतदभवत्; अस्ति वयं मृषावादात्प्रतिविरताः; नो तु सुरामैरेयमद्यप्रमादस्थानात्प्रतिविरताः; यन्नु वयं सुरामैरेयमद्यप्रमादस्थानात्प्रतिविरमामः; किदृशमस्माकं सुरामैरेयमद्यप्रमादस्थानम्? कपिंजलः कथयति: सन्ति मादनीयानि फलानि सन्त्यमादनीयानि; तदस्माभिरद्याग्रेण मादनीयानि फलानि परित्यज्यमादनीयानि फलानि परिभोक्तव्यानि; ते मादनीयानि फलानि परित्यज्यमादनीयानि फलानि परिभोक्तुमारब्धाः यदा ते पञ्चसु व्रतपदेषु प्रतिष्ठापितास्तदा कपिंजलः कथयति: अस्ति वयं भवन्तः पंचसु व्रतपदेषु प्रतिष्ठिताः; यन्नु वयमन्यानपि पंचसु व्रतपदेषु प्रतिष्ठापयामः; ते कथयन्ति: एवं कुर्मः; को युष्माकं प्रतिष्ठापयति? मर्कटः कथयति: अहं सर्वान् शाखामृगान् प्रतिष्ठापयामि; ततः शशः कथयति: अहं सर्वान् शशान् लोमशान्मृगांश्च प्रतिष्ठापयामि; (अ ३१६ ) हस्ती कथयति: अहं सर्वान् हस्तिनः सिंहान् व्याघ्रद्वीपिनश्च प्रतिष्ठापयामि; कपिंजलः कथयति: यद्येवमेतत्संक्षेपाद्युष्माकमविनया अपदा द्विपदाश्चतुष्पदाः पक्षिणश्च तानहं सर्वान् पंचसु व्रतपदेषु प्रतिष्ठापयामीति (८) ततस्ते काशीविषये (१२९) यावत्तिर्यग्योनिगताः प्राणिनस्ते सर्वे पंचसु व्रतपदेषु प्रतिष्ठापिताः; ते अन्योन्यमव्याबाधमानास्तस्मिन् वनषण्डे संप्रजानद्विहारिणो यथेष्टं विहरन्ति; तेषामनुभावाद्देवः कालवर्षी संवृत्तः; सदा पुष्पफला वृक्षाः, शस्यवती वसुमती; ते मनुष्यैर्दृष्टा अन्योन्यमव्याबाधमाना विहरन्तः, सदा पुष्पफला वृक्षाः, शस्यवती वसुमती; राजा कथयति: अहं धर्मेण राज्यं कारयामि ममैषोऽनुभाव इति; अन्तःपुरं कुमारामात्या भटबलाग्रं नैगमजानपदाश्च ःकथयन्ति; अस्माकमेषोऽनुभावःः; राजा संलक्षयति; सर्व एते कथयन्ति ममानुभावो ममानुभाव इति; तन्न ज्ञायते कस्यानुभाव इति; स कुतूहलजातो नैमित्तिकानाहूय पृष्टवान्; तैरपि न ज्ञातम्; यावद्वाराणस्यां नातिदूरे उद्यानम्; तत्र पञ्चाभिज्ञ रिषिः प्रतिवसति सकलस्य वाराणसीनिवासिनो जनकायस्य पूज्यो मान्योऽभिवाद्यश्च; ततो राजा तस्य ऋषेः सकाशमुपसंक्रान्तः पादयोर्निपत्य कथयति: महर्षे मम विजिते यावत्तित्यग्योनिगताः प्राणिनस्ते सर्वे अन्योन्यमव्याबाधमानाः संप्रजानद्विहारिणो यथेष्टं विहरन्ति; देवः कालवर्षी सदा पुष्पफला वृक्षाः शस्यवती च वसुमती; तस्मान्ममैतदभवत्: अहं धर्मेण राज्यं कारयामि; ममैसोऽनुभाव इति; अन्तःपुरं कुमारामात्या भटबलाग्रं नैगमजानपदाश्च संलक्षयन्ति: अस्माकमेषोऽनुहाव इति; तन्न ज्ञायते कस्यायमनुभाव इति; कौतुकश्च मे महान्; त्वमर्हसि संशयं छेत्तुम्; कस्यायमनुभाव इति; स कथयति: महाराज म तवैषोऽनुभावो नान्तःपुरस्य न कुमाराणां नामात्यानां न भटबलाग्रस्य न (म्स्विव्१३०) नैगमजानपदानं; अपि तु तव विजिते चत्वारः प्रानिणः प्रतिवसन्ति; तेषामयमनुभाव तित्; राजा कथयति: गच्छामि तान् पश्यमीति; ऋषिः कथयति: महाराज किं तव तैर्दृष्टैरपि तु यत्ते समादाय वर्तन्ते तत्समादाय वर्तस्वेति; किं ते समादाय वर्तन्ते? पञ्च व्रतपदानि; महर्षे किदृशानि पञ्च व्रतपदानि? महाराज ते प्राणिनं जीवितान्न व्यवरोपयन्ति; परस्वं नापहरन्ति; अगम्यागमनं न कुर्वन्ति; मृषावादं न भाषन्ते; मद्यपानं च नाध्याचरन्ति; राजा कथयति: महर्षे यद्येवमहमप्येतानि पञ्च व्रतपदानि समादाय वर्तेम; अथ स राजा पञ्च व्रतपदानि समादाय वर्तितुमारब्धः; राजा पञ्च व्रतपदानि समादाय वर्तत इति देव्योऽपि पञच व्रतपदानि समादाय वर्तितुमारब्धाः; कुमारा अमात्या भटबलाग्रं नैगमजानपदा अपि पञ्च व्रतपदानि समादय वर्तितुमारब्धानि; पृतिसीमैः (९) कोट्टराजभिः श्रुतम्; राजा ब्रह्मदत्तः पञ्च व्रतपदानि समादाय वर्तते सार्धमन्तःपुरेण कुमारैरमात्यैर्भटबलाग्रैर्नैगमजानपदैरिति; श्रुत्वा च पुनस्तेऽपि पञ्चव्रतपदानि (अ ३१६ ) समादय वर्तितुमारब्धाः सार्धमन्तःपुरेण कुमारैरमात्यैर्भटबलाग्रैर्नैगमजानपदैरिति; भूयसा सर्व एव जनकायः पञ्च व्रतपदानि समादाय वर्तितुमारब्धः तेन खलु समयेन जम्बूद्वीपे यः कालं करोति स कायस्य भेदात्प्रणीतेषु देवेषू त्रयस्त्रिंशेषूपपद्यते; ततः शक्रो देवेन्द्रः आपूर्यमाणं देवपर्षदं दृष्ट्वा च पुनर्गाथां भाषते; (१३१) सगौरवाः सप्रतीशा विहरन्ति तपोवने । कपिंजलब्रह्मचर्यं पृथग्लोकप्रकाशितम् ॥ इति । भगवानाह: किं मन्यध्वे भिक्षवो योऽसौ कपिंजलः अहमेव सः तेन कालेन तेन समयेन; शशः शारिपुत्रो भिक्षुर्मर्कटो मौद्गल्यायनो भिक्षुर्गज आनन्दः; तदापि मया यथावृद्धिकायां प्रज्ञप्तायां यथावृद्धिकामागम्य सकलो जम्बूद्वीपनिवासी जनकायो भूयसा त्रयस्त्रिंशे देवनिकाये उपपन्नः; एतर्ह्यपि मया यथावृद्धिकायां प्रज्ञप्तायां यथावृद्धिकामागम्य भिक्षवोऽन्योन्यं सत्कुर्वन्तो गुरुकुर्वन्तो मानयन्तः पूययन्तो वर्धन्ते कुशलैर्धर्मैरुत्पलं वा यथोदके ______________________________________________________________ थे बुद्ध एउलोगिसेस्थे ओर्देर्ब्यगे तस्मात्तर्हि भिक्षवः सगौरवा विहरत सप्रतीषाः सभयवशवर्तिनः सब्रह्मचारिषु स्थविरेषु मध्येषु नवकेषु; तत्कस्य हेतोः? स तावद्भिक्षवो भिक्षुरगौरवो विहरन्नप्रतीशः अभयवशवर्ती स्थविरेषु मध्येषु नवकेषु आसमुदाचारिकान् धर्मान् परिपूरयिष्यति नेदं स्थानं विद्यते; आसमुदाचारिकान् धर्मानपरिपूर्य शैक्षान् धर्मान् परिपूरयिष्यति नेदं स्थानं विद्यते; शैक्षान् धर्मानपरिपूर्य शीलस्कन्धं समाधिस्कन्धं प्रज्ञास्कन्धं विमुक्तिस्कन्धं विमुक्तिज्ञानदर्शनस्कन्धं परिपूरयिष्यति नेदं स्थानं विद्यते; विमुक्तिज्ञानदर्शनस्कन्धमपरिपूर्यानुपादाय (१०) परिनिर्वास्यति नेदं स्थानं विद्यते; स तावद्भिक्षवो भिक्षुः सगौरवो विहरन् सप्रतीशः सभयवशवर्ती ब्रह्मचारिषु स्थविरेषु मध्येषु नवकेषु आसमुदाचारिकान् धर्मान् पूरयिष्यति (१३२) स्थानमेतद्विद्यते; आसमुदाचारिकान् धर्मान् परिपूर्य शैक्षान् धर्मान् परिपूरयिष्यति स्थानमेतद्विद्यते; शैक्षान् धर्मान् परिपूर्य शीलस्कन्धं समाधिस्कन्धं प्रज्ञास्कन्धं विमुक्तिस्कन्धं विमुक्तिज्ञानदर्शनस्कन्धं परिपूरयिष्यति स्थानमेतद्विद्यते; विमुक्तिज्ञानदर्शनस्कन्धं परिपूर्यानुपादाय परिनिर्वास्यति स्थानमेतद्विद्यते; तस्मात्तहि भिक्षव एवं शिक्षितव्यम्; यत्सगौरवा विहरिष्यामः सप्रतीशाः सभयवशवर्तिनः ःसब्रह्मचारिषूः स्थविरेषु मध्येषु नवकेषु: इत्येवं वो भिक्षवः शिक्षितव्यम् ______________________________________________________________ थे इन्स्तितुतिओनोf विहारस् यदा भगवता पञ्चका विनीतास्ते अरण्ये प्रतिवसन्ति; ते अरण्ये प्रतिवसन्तो आगम्या भवन्ति सिंहानां व्याघ्राणां द्वीपिनां तरक्षूणाम् भगवान् संलक्षयति: कुत्र पूर्वकाणां सम्यक्संबुद्धानां श्रावका आवासं कल्पितवन्तः? पश्यति विहारे; देवताभिरप्येवं भगवत आरोचितम् तेन खलु समयेन वाराणस्यां कलयाणभद्रो नाम गृहपतिः प्रतिवसति; तस्य कुशलमूलप्रतिबोधितसन्ततेरेतदभवत्; अहो बताहं भगवतः श्रावकाणं विहारं कारयेयमिति; स काल्यमेवोत्थाय येन भगवांस्तेनोपसंक्रान्तः; उपसंक्रम्य भगवतः पादौ (अ ३१७ ) शिरसा वन्दित्वैकान्ते निषण्णः; एकान्तनिषण्णं कल्याणभद्रिकं गृहपतिं भगवान् धर्म्यया कथया संदर्शयति समादापयति समुत्तेजयति संप्रहर्षयति; अनेकपर्यायेण धर्म्यया कथया संदर्ष्य (१३३) समादाप्य समुत्तेज्य संप्रहर्ष्य तूष्णीम्; अथ कल्याणभद्रिको गृहपतिरुत्थायासनादेकांसमुत्तरासंगं कृत्वा येन भगवांस्तेनांजलिं प्रणम्य भगवन्तमिएअमवोचत्: यदि भगवाननुजानीयादहं भगवतः श्रावकाणां विहारं करयेयमिति; भगवानाह; तस्माद्गृहपते अनुजानामि कारय इति; स न जानीते कीदृशः कारयितव्य इति; भगवानाह: यदि त्रिलयनं कारयसि मध्ये गन्धकुटिः कारयितव्या द्वयोः पार्श्वयोर्द्वे लयने; एवं त्रिषाले नव लयनानि; चतुःशाले मध्ये द्वारकोष्ठकाभिमुखं (११) गन्धकुटिः; द्वारकोष्ठकपार्श्वयोर्द्वे लयने; स न जानीते कति पुराः कर्तव्या इति; भगवानाह: भिक्षूणां पञ्चपुरा विहाराः कर्तव्याः सप्तपुरा गन्धकुटिः; सप्तपूरा बालाग्रपोतिकाः; भिक्षूणीनां तु त्रिपुरा विहाराः कर्तव्याः; पंचपुरा गन्धकुटिः; पंचपुरा बालाग्रपोतिका इति ______________________________________________________________ थे स्तोर्योf अनाथपिण्डद: हिस्बिर्थन्द्wओन्देर्स् तेन खलु समयेन श्रावस्त्यां दत्तो नाम गृहपतिः प्रतिवसति आढ्यो महाधनो महाभोग विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी; तेन सदृशात्कुलात्कलत्रमानीतम्; स तया सार्धं क्रीडति रमते परिचारयति; तस्य क्रीडतो रममाणस्य (१३४) परिचारयतः कालान्तरेण पत्नी आपन्नसत्वा संवृत्ता; सा चाष्टानां वा नवानां वा मासानामत्ययात्प्रसूता; दारको जातः; तस्य त्रीणि सप्तकान्येकविंशतिदिवसान् विस्तरेण जातस्य जातिमहं कृत्वा नामधेयं व्यवस्थाप्यते; किं भवतु दारकस्य नामेति; ज्ञातय ऊचुः: अयं दारको दत्तस्य गृहपतेः पुत्रस्तस्माद्भवतु दारकस्य सुदत्त इति नामेति; तस्य सुदत्त इति नामधेयं व्यवस्थापितम्; सुदत्तो दारकोऽष्टाभ्यो धात्रीभ्यो दत्तः; द्वाभ्यामंसधात्रीभ्याम्; द्वाभ्यां क्षीरधात्रीभ्याम्; द्वाभ्यां मलधात्रीभ्याम्; द्वाभ्यां क्रीडनकाभ्याम्; सोऽष्टाभिर्धात्रीभिरुन्नीयते वर्धते क्षीरेण दध्ना नवनीतेन सर्पिषा सर्पिर्मण्डेनान्यैश्चोत्तप्तोत्तप्तैरुपकरणविशेषैराशु वर्धते ह्रदस्थमिव पंकजम्; सोऽपरेण समयेन सर्वालंकारविभूषितो धात्र्यंसगतो निषण्णो बहिर्निर्गतः; याचनकेनालंकारं प्रार्थितः: कुमाराहमलंकारेणार्थी; प्रयच्छ मे अलंकारमिति; तेन प्रमुदितमनसा असावलंकारो दत्तः; स गृहं प्रविष्टः; पित्रा चास्य धात्री पृष्टा; कुत्र कुमारस्यालंकार इति; सा कथयति: दत्तः कुमारेण (१२) याचनकायेति; सोऽन्येनालंकारेण विभूषितः; सोऽपि दत्तः; भूयोऽप्यलंकृतः; सोऽपि तेन दत्तः; स गृहपतिः पत्नीमामन्त्रयते: भद्रे सोभनोऽस्माकं पुत्रो जातः; नित्यं दानाभिरत इति; सा कथयति: आर्यपुत्र यद्येवं नैनं भूयोऽप्यलंकरिष्यामि; स कथयति: भद्रे अस्त्यस्माकं सुवर्णमप्रमेयं रत्नानि च; किन् तु अलंकारघटका न सन्ति; सर्वथा नायं बहिर्(अ ३१७ ) निष्कासयितव्य इति; सोऽभ्यन्तर एव लाड्यते; यावदपरेण समयेन दत्तो गृहपतिर्भृत्यजनपरिवृतो (१३५) नदीमजीरवतीं स्नातुं संप्रस्थितः; सुदत्तो दारकः कथयति: तात अहमपि गच्छामीति; स तं विप्रलम्भयितुमारब्धः; पुत्र इहैव शोभनं सलिलम्; नदी ग्राहाकुला; इयं ते धात्री स्नापयिष्यतीति; स रोदितुं प्रवृत्तः; मातास्य कथयति: आर्यपुत्र किमर्थमयं दारको रौतीति; तेन यथावृत्तं समाख्यातम्; सा कथयति: आर्यपुत्र त्वया सार्धं गच्छतु; कोऽत्र विरोधः; सुतरां गुप्तो भविष्यतीति; स तमादाय नदीं गतः; स्नापयित्वा कुले स्थापितः कथयति: तात किमर्थं मम रक्षा क्रियते? पुत्र तव दोषोऽस्ति; कथम्? दत्तमलंकारं याचनकेभ्योऽनुप्रयच्छसि; किं तातो द्रव्येणार्थी? पुत्र कोऽनार्थी? तात यद्येवमवतारय माम्; स तेनावतारितः; ततस्तेनोभौ पाणी नद्यामाप्लाव्य सुवर्णपूर्णास्चत्वारो लोहसंघाटा उद्धृताः; कथयति: तात अतस्त्नं यावदाप्तःंः धनेन धनकार्यं कृत्वावशिष्टमत्रैव प्लावय; पुत्र किं त्वं जलगतान्निधीन् पश्यसि? तात न केवलं जलगतान् स्थलगतानपि सस्वामिकानस्वामिकानपि येऽपि दूरे येऽप्यन्तिके; दत्तो गृहपतिर्विस्मयोत्फुल्ललोचनः संलक्षयति: शक्यमेवंविधेन दानप्तिना दानं दातुमिति विदित्वा कथयति: पुत्र यद्येवं देहि दानं यथेष्टमिति; धर्मता ह्येषा: न तावत्पुत्रो यशस्वी भवति यावदस्य पिता जीवतीति यावदपरेण समयेन दत्तो गृहपतिः कालगतः; सुदत्तो गृहस्वामी संवृत्तः; सततमनाथेभ्यः पिण्डकमनुप्रयच्छतीति समन्ताच्छद्बो विसृतः: दत्तस्य गृहपतेः पुत्रः सुदत्तो गृहस्वामी संव्र्ट्तः; (१३) सोऽनाथेभ्यः पिण्डकमनुप्रयच्छतीति; तस्यानाथपिण्डदो (१३६) गृहपतिरिति संज्ञा संवृत्ता; ततस्तेन सदृशात्कुलात्कलत्रमानितं; स तया सार्धं क्रीडति रमते परिचारयति; तस्य क्रीडतो रममाणस्य परिचारयतः पुत्रो जातः; एवं यावत्सप्त पुत्रा जाताः; तेन षण्णां निवेशः कृतः; सप्तमः सुजातो नाम्ना; तस्य सदृशं कुलं समन्वेषते; न आरागयति; स करे कपोलं दत्वा चिन्ताप्रो व्यवस्थितः; तस्य मधुस्कन्धो नाम मानवो वयस्यः; तेनासौ दृष्टस्तथा चिन्तापरः; स कथयति: कस्मात्त्वं गृहपते करे कपोलं दत्वा चिन्तापरस्तिष्ठसीति; स कथयति: मया षण्णां पुत्राणां निवेशः कृतः; सप्तमस्य सुजातस्य सदृशकुलं चिन्तयामि कतरत्तत्कुलं यतोऽस्य निवेषं करिष्यामीति; स कथयति: अल्पोत्सुकस्तिष्ठ अहमस्य सदृशं कुलं गवेषयामि; कतरस्मिन् देशे? स कथयति; मगधविषयं तावद्गच्छमि; एवं कुरु; स राजगृहं गतः; राजगृहे अन्यतमो गृहपतिराढ्यो महाधनो महाभोगोऽनाथपिण्डदस्य प्रतिरूपः; स तस्य गृहं प्रविष्टो द्वारशालायां स्थित्वा कथयति: स्वस्ति स्वस्तीति; तस्य गृहजनाः कथयन्ति: ब्राह्मण किं प्रार्थयसि? कन्याभिक्षाम्; कस्यार्थाय? श्रावस्त्यामनाथपिण्डदो गृहपतिस्तस्य पुत्रः सुजातो नाम्ना; ते कथयन्ति सादृषोऽस्माकं कुलेन; अपि तु प्रभूतमस्माकं कुलशुल्कम्; (अ ३१८ ) कियत्प्रभूतम्? शतमश्वानां शतं निष्काणां शतमश्वतरीरथानां शतं काम्बोजिकानां कन्यानामिति; मधुस्कन्धेन (१३७) मानवेनानाथपिण्डदस्य गृहपतेरनेनार्थेन लेखो दत्तः: तेनापि वाचयित्वा प्रतीच्छ सर्वं मया देयमिति; तेन दिवसमुहूर्तयोगेन प्रतीष्टम् ततस्तैः शुचिना प्रणीतेन प्रभूतेनाहारेण संतर्पितो मानवकः शालां गत्वा वासमुपगतो विषूचितः; अपरिचिता ब्राह्मणाः; स तैरशुचिभयाद्बहिर्निष्कासयित्वा च्छोरितः; दैवादायुष्मन्तौ शारिपुत्रमौद्गल्यायनौ तं प्रदेशमागतौ; स ताभ्यां दृष्टः; ततस्ताभ्यां वंशविदलिकया निर्लिख्य पाण्डुमृत्तिकया उद्वर्त्य स्नापितः; तस्यैव धर्मं देशयित्वा प्रक्रान्तौ; तस्य प्रवाहिका नावतिष्ठते; स तयोरन्तिके चित्तमभिप्रसाद्य कालगतः; चातुर्महाराजिकेषु देवेषूपपन्नः; स वैश्रवणस्य महाराजस्य सकाशं गत्वा भवनं प्रार्थयते; स कथयति: गच्छ तदेव ते शिविकाद्वारं भवनमिति; स तत्र गत्वा नैवासिकः संवृत्तः (१४) विदेहराजेन राज्ञो बिंबिसारस्य हैमवतानां नागानां सातमनुप्रेषितम्; तेन राज्ञा प्रसेनजितः कोसलस्य सन्दिष्टम्: मम विदेहराजेन हैमवतानां नागानां शतमनुप्रेषितम्; यद्यर्थी भवसि प्रेष्य इति अनाथपिण्डदो गृहपतिर्येन राजा प्रसेनजित्कोसलस्तेनोपसंक्रान्तः; उपसंक्रम्य राजानं प्रसेनजितं कोसलमिदमवोचत्: देव मम राजगृहे किंचित्प्रयोजनम्; तत्र गत्वा आगमिष्यामीति; राजा कथयति: शोभनं गच्छ ममापि तस्माथस्तिशतमानेयं (१३८) तदनेष्यसीति; स कथयति: देव यदि मम तत्र प्रयोजनं ःनः भवति ग्रहीष्यामीति; इहागम्य देवस्य च्त्तग्राहं करिष्यामीति; राजा कथयति: शोभनमेवं भवत्विति ______________________________________________________________ अनाथपिण्डद मेएत्स्थे बुद्ध ततोऽनाथपिण्डदो गृहपतिः प्रभूतं कुलशुल्कमादाय राजगृहं गतः; स यस्य गृहपतेर्गृहे वासमुपगतः स गृहपतिः सरात्रमेवोत्थायान्तर्जनमामंत्रयते: उत्तिष्ठार्या उत्तिष्ठ; भद्रमुखाः काष्ठानि पाटयत समितिं प्रज्वालयत; भक्तं पचत; सूपिकं पचत; खाद्यकान्युल्लाडयत; प्रतिजागृत मण्डलवाटमिति; अथानाथपिण्डस्य गृहपतेरेतदभवत्: किं पुनरस्य गृहपतेरावाहो वा विवाहो वा भविष्यति; राष्ट्रं वानेन भक्तेनोपनिमन्त्रितम्? श्रेणी वा, पूगो वा पर्षदो वा? राजा वानेन मागधः श्रेण्यो बिम्बिसारः भक्तेनोपनिमन्त्रितः; इति विदित्वा तं गृहपतिमिदमवोचत्: किं पुनस्ते गृहपते आवाहो वा भविष्यति, विवाहो वा राष्ट्रं वा त्वया भक्तेनोपनिमन्त्रितं श्रेणी वा पूगो वा पर्षदो वा राजा वा ते मागधः श्रेण्यो बिम्बिसारो भक्तेनोपनिमन्त्रित इति; स कथयति: गृहपते न मे आवाहो भविष्यति न विवाहो वा नापि मया राष्ट्रं भक्तेनोपनिमन्त्रितं, न श्रेणी न पूगो न पर्षदो नापि राजा मागधः श्रेण्यो बिम्बिसारो भक्तेनोपनिमन्त्रितः अपि तु बुद्धप्रमुखो भिक्षुसंघो भक्तेनोपनिमन्त्रित; इति अनाथपैण्डदस्य गृहपतेर्बुद्ध इत्यश्रुतपूर्वं घोषं श्रुत्वा सर्वरोमकूपान्य्(अ ३१८ ) आहृष्टानि; स आहृष्टरोमकूपस्तं गृहपतिमिदमवोचत्: क एष गृहपते बुद्धो नाम? अस्ति गृहपते श्रमणो (१५) गौतमः शाक्यपुत्रः (१३९) शाक्यकुलात्केशश्मश्रू अवतार्य काषायाणि वस्त्राण्याच्छाद्य सम्यगेव श्रद्धया अगारादनगारिकां प्रव्रजितः; सोऽनुत्तरां सम्यक्संबोधिमभिसंबुद्धः; स एष गृहपते बुद्धो नाम; क एष गृहपते सङ्घो नाम? सन्ति गृहपते क्षत्रियकुलादपि कुलपुत्राः केशश्मश्रू अवतार्य काषायाण्य्वस्त्राण्याच्छाद्य सम्यगेव श्रद्धया अगारादनागारिकां तमेव भगवन्तं प्रव्रजितमनुप्रव्रजिताः; ब्राह्मणकुलादपि वैश्यकुलादपि शूद्रकुलादपि कुलपुत्राः केआशश्मश्रू अवतार्य काषायाणि वस्त्राणि आच्छाद्य सम्यगेव श्रद्धया अनागारादनागारिकां तमेव भगवन्तं प्रव्रजितमनुप्रव्रजिताः; स एष गृहपते सङ्घो नाम; ःश्वःः स मया बुद्धप्रमुखो भिक्षुसङ्घोऽन्तर्गृहे भक्तेनोपनिमन्त्रितः; कुत्र गृहपते स भगवानेतर्हि विहरति? अस्मिन्नेव राजगृहे शीतवने श्मशाने; लभ्यं गृहपते सोऽस्माभिर्भगवान् द्रष्टुम्? तेन हि गृहपते आगमय तावत्त्वम्; स्थानमेतद्विद्यते यदिहागतं श्वो द्रक्ष्यसि; अनाथपिण्डदो गृहपतिस्तां रात्रिं बुद्धालम्बनया स्मृत्या मिद्धमवक्रान्तः; सोऽप्रभाते प्रभातसंज्ञी येन शिवकद्वारं तेनोप्सङ्क्रान्तः; तेन खलु समयेन शिवकद्वारं रात्र्या द्वौ यामौ विवृतं तिष्ठति; पूर्वकं पश्चिमकं च, माहैव आगन्तुकानां गमिकानां च दूतानां विघ्नो भविष्यतीति; यावत्पश्यति शिवकद्वारं विवृतमालोकेन च स्फुटम्; तस्यैतदधवत्: नूनं प्रभाता रजनी: तथा हि शिवकद्वारं विवृतं तिष्ठति; इति विदित्वा तेनैव आलोकेन नगरान्निष्क्रान्तः; समनन्तरनिष्क्रान्तस्य चास्य य आलोकः (१४०) सोऽन्तर्हितः; अन्धकारं प्रादुर्भूतम्; तस्याभूद्भयम्; अभूच्छम्भितत्वं; अभूद्रोमहर्षह्; माहैव कश्चिद्विहेटयेन्मनुष्यो वामनुष्यो वा धूर्तको वा असंप्राप्तं वा स्यात्प्रभूतं कुलशुल्कमिति; विदित्वा प्रतिनिवर्तितुकामो मधुस्कन्धस्य देवपुत्रस्य स्थण्डिलं प्रदक्षिणीकरोति, नमस्करोति च; अथ मधुस्कन्धस्य देवपुत्रस्य एतदभवत्: अद्यैवानाथपिण्डदेन गृहपतिना सत्यदर्शनं कर्तव्यम्; अद्यैवायं बुद्धं भगवन्तमपास्य अन्यदेवतानमस्कारं करिष्यति; इति विदित्वा यावच्च शिवकद्वारं यवच्च शीतवनं श्मशानमत्रान्तरादुदारेणावभासेनावभास्य अनाथपिण्डदं गृहपतिमिदमवोचत्: अभिक्रम गृहपते, मा प्रतिक्रम; अभिक्रमतस्ते श्रेयो भविष्यति; न प्रतिक्रमतः; तत्कस्य हेतोः? (१६) शतमश्वा शतं निष्काः शतमश्वतरीरथाः । नानावित्तस्य संपूर्णाः शतं च वडवारथाः । पदाविहारस्यैकस्य कलां नार्हन्ति षोडशीम् ॥ अभिक्राम गृहपते, मा प्रतिक्राम; अभिक्रमतस्ते श्रेयो भवति, न प्रतिक्रमतः; तत्कस्य हेतोः? शतं हैमवता नागाः सुवर्णमणिकल्पिताः । ईषादन्ता महाकाया व्यूढवन्तो मतङ्गजाः । पदाविहारस्यैकस्य कलां नार्हन्ति षोडशीम् ॥ अभिक्राम गृहपते, मा प्रतिक्रम; अभिक्रमतस्(१४१) ते श्रेयो भवति; न प्रतिक्रमतः; तत्कस्य हेतोः? शतं काम्बोजिका कन्याः आमुक्तमणिकुण्डलाः । सुवर्णकेयूरधराः निष्कग्रीवाः स्वलङ्कृताः । पदाविहारस्यैकस्य कलां नार्हन्ति षोडशीम् ॥ अभिक्राम गृहपते, मा प्रतिक्राम; अभिक्रामतस्ते श्रेयो भवति; न प्रतिक्रामतः; (अ ३१९ ) अथानाथपिण्डदो गृहपतिस्तं देवपुत्रमिदमवोचत्: कस्त्वं भद्र्मुख? अहमस्मि गृहपते मधुस्कन्धो नाम माणवः; तवैव पुराणो गृहसखा; सोऽहं शारिपुत्रमौद्गल्यायनयोर्भिक्ष्वोरन्तिके चित्तमभिप्रसाद्य कालगतश्चातुर्महाराजिकेषु देवेषूपपन्नः, अस्मिन्नेव शिविकाद्वारे नैवासिकः; तस्मादहमेवं वदामि: अभिक्राम गृहपते मा प्रतिक्राम; अभिक्रामतस्ते श्रेयो भवति, न प्रतिक्रामत इति; अथानाथपिण्डादस्य गृहपतेरेतदभवत्: नावरो बुद्धो भविष्यति, नावरं धर्माख्यानं, यत्रेदानीं देवता अपि औत्सुक्यमापद्यन्ते तस्य भगवतो दर्शनाय; इति विदित्वा येन शीतवनं श्मशानं तेनोपसङ्क्रान्तः; तेन खलु समयेन बहिर्विहारस्याभ्यवकाशे भगवान् चङ्क्रमेण चङ्क्रम्यते, यद्भूयसा अनाथपिण्डदं गृहपतिमागमयमानः; अद्राक्षीदनाथपिण्डदो गृहपतिर्भगवन्तं दुरादेव; दृष्ट्वा च पुनर्येन भगवांस्तेनोपसङ्क्रान्तः; उपसङ्क्रम्य भगवन्तं गृहपतिः प्रतिसंमोदनया प्रतिसम्मोदते: (१४२) कच्चिद्भगवान् सुखं शायित इति; अथ भगवांस्तस्यां वेलायां गाथा भाषते; सर्वथा वै सुखं शेते ब्राह्मणः परिनिर्वृतः । (१७) लिप्यते यो न कामैर्हि विप्रमुक्तो निरुपधिः ॥ छित्वेह सर्वमाशक्तिन् विनीय हृदयज्वरम् । उपशान्तः सुखं शेते शान्तिप्राप्तेन चेतसा ॥ अथ भगवाननाथपिण्डदं गृहपतिमादाय विहारं प्रविश्य प्रज्ञप्त एवासने निषण्णः; अनाथपिण्डदो गृह्पतिर्भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषण्णः; एकान्ते निषण्णमनाथपिण्डदं गृहपतिं भगवान् धर्म्यया कथया सन्दर्शयति समादापयति समुत्तेजयति, संप्रहर्षयति; यासौ बुद्धानां भगवतां पूर्वकालकरणीया धर्म्या कथा, तद्यथा दानकथा शीलकथा स्वर्गकथा कामानामास्वादादीनवसंक्लेशव्यवदाननैष्क्रम्यप्रविवेक अनुशंसव्यवदानपक्ष्यान् धर्मान् विस्तरेण संप्रकाशयति; यदा चैनं भगवानद्राक्षीथृष्टचित्तं कल्यचित्तं मुदितचित्तं विनिवरणचित्तं भव्यं प्रतिबलं सामुत्कर्षिकीं धर्मदेशनामाज्ञातुम्, तदा यासौ बुद्धानां भगवतां सामुत्कर्षिकी धर्मदेशना तद्यथा दुःखं समुदयो निरोधो मार्गश्चत्वार्यार्यसत्यानि विस्तरेण संप्रकाशयति; अथानाथपिण्डदो ग्ःपतिस्तस्मिन्नेवासने निषण्णश्चत्वऋयार्यसत्यान्यभिसमेति; तद्यथा दुःखं समुदयो निरोधो मार्गः; तस्यथा शुद्धं वस्त्रमपगतकालकं रञ्जनोपगं रङ्गे प्रक्षिप्तं सम्यगेव रङ्गं प्रतिगृह्णाति, एवमेवानाथपिण्डदो गृहपतिस्तस्मिन्नेव आसने निषण्णश्चत्वार्यार्यसत्यान्यभिसमेति; तद्यथा दुःखं समुदयो निरोधो मार्ग इति; अथानाथपिण्डदो गृहपतिर्दृष्टधर्मा प्राप्तधर्मा विदितधर्मा (१४३) पर्यवगाढधर्मा तीर्णकाङ्क्षो तीर्णविचिकित्सः अपरप्रत्ययोऽनन्यनेयः शास्तुश्शासने धर्मेषु वैशारद्यप्राप्तः उत्थायासनादेकांसमुत्तरासङ्गं कृत्वा, येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तमिदम् (अ ३१९ ) अवोचत्; अभिक्रान्तोऽहं भदन्ताभिक्रान्तः; एसो ऽहं भगवन्तं शरणं गच्छामि; धर्मं च भिक्षुसङ्घं च; उपासकं मां च धारय अद्याग्रेण यावज्जीवं प्राणोपेतं शरणागतमभिप्रसन्नम्; अथ भगवाननाथपिण्डदं गृहपतिमिदमावोचत्: किन्नामा त्वं गृहपते? अहमस्मि भदन्त सुदत्तो नाम्ना; अपि त्वनाथेभ्यः पिण्डकमनुप्रयच्छामि; ततो मामनाथपिण्षदो गृहपतिरनाथपिण्डदो गृहपतिरिति जनः सञ्जानीते; कुतोभूमकस्त्वं गृहपते? (१८) अस्ति भदन्त प्राचीनेषु जनपदेषु श्रावस्ती नाम कोसलानां निगमः; तत्राहं प्रतिवसामि ______________________________________________________________ अनाथपिण्डद इन्वितेस्थे बुद्ध तो श्रावस्ती आगच्छतु भगवान् श्रावस्तीम्; अहं भगवन्तमुपस्थास्यामि यावज्जीवं चीवरपिण्डपातग्लानप्रत्ययभैषैयपरिष्कारैः सार्धं भिक्षुसङ्घेन; सन्ति गृहपते विहाराः श्रावस्त्याम्? नो भदन्त: यत्र गृहपते विहाराः सन्ति तत्र भिक्षव आगन्तव्यं गन्तव्यं वस्तव्यं मन्यन्ते; आगच्छतु भगवान्; अहं तथा करिष्यामि यथा श्रावस्त्यां विहारा भविष्यन्ति; भिक्षवश्च आगन्तव्यं गन्तव्यं वस्तव्यं मंस्यन्त इति; अधिवासयति भगवाननाथपिण्डदस्य गृहपतेस्तूष्णींभावेन; अनाथपिण्डदो गृहपतिर्भगवतस्तूष्णींभावेनाधिवासनां विदित्वा भगवतः पादौ शिरसा वन्दित्वा भगवतोऽन्तिकात्प्रक्रान्तः; ततोऽस्य यद्राजगृहे कृत्यं वा करणीयं वा तत्सर्वं कृत्वा परिप्राप्य (१४४) पुनर्येन भगवांस्तेनोपसङ्क्रान्तः; उपसङ्क्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषण्णः; एकान्तनिन्षण्णोऽनाथपिण्डदो गृहपतिर्भगवन्तमिदमवोचत्: अनुप्रयच्छ मे भगवन् भिक्षुं सहायकन् येन सहायकेन श्रावस्त्यां भगवतोऽर्थाय विहारं कारयामीति; भगवान् संलक्षयति; कतरस्य भिक्षोरनाथपिण्डदो गृहपतिः सपरिवारो श्रावस्तीनिवासी च जनकायो विधेयः? पश्यति शारिपुत्रस्य भिक्षोः; तत्र भगवानायुष्मन्तं शारिपुत्रमामन्त्रयते: समन्वाहर शारिपुत्र अनाथपिण्डदं गृहपतिं सपरिवारं श्रावस्तीनिवासिनं च जनकायमिति; अधिवासयत्यायुष्मांश्छारिपुत्रो भगवतस्तूष्णींभावेन; अथायुष्मांश्छारिपुत्रो भगवतः पादौ शिरसा वन्दित्वा भगवतोऽन्तिकात्प्तक्रान्तः ______________________________________________________________ शारिपुत्र लेअवेस्fओर्श्रावस्ती अथायुष्मांश्छारिपुत्रस्तस्या एव रात्रेरत्ययात्पूर्वाह्णे निवास्य, पात्रचीवरमादाय राजगृहं पिण्डाय प्राविक्षत्; राजगृहं पिण्डाय चरित्वा कृतभक्तकृत्यः पश्चाद्भक्तपिण्डपातप्रतिक्रान्तो यथापरिभुक्तं शयनासनं प्रतिशमय्य, समादाय पात्रचीवरं, येन श्रावस्ती तेन चारिकां प्रक्रान्तः; अथानाथपिण्डदो गृहपतिः प्रभूतं शम्बलमादाय एकैकरात्रिनिवासेन श्रावस्तीमनुप्राप्तः; स प्रविशन्नेव श्रावस्तीमारामेणाराममुद्यानेनोद्यानमुपवनेनोपवनं चङ्क्रममनुचङ्क्रम्यमाणो सुविचरन्नेवमाह: कतरः स पृथिवीप्रदेशो भविष्यति श्रावस्त्या नातिदूरे (१९) नात्यासन्ने दिवा अल्पाकीर्णोऽल्पविलापो रात्रावल्पशब्दोऽल्पनिर्घोषः अल्पदंशमशकवातातपसरीसृपसंस्पर्शः, यत्राहं भगवतोऽर्थाय विहारं मापयिष्यामीति; अद्राक्षीदनाथपिण्डदो गृहपतिः, जेतस्य कुमरस्यारामं श्रावस्त्या नातिदूरे नात्यासन्ने दिवा अल्पाकीणमल्पविलापं रात्रावल्पशब्द्मल्पनिर्घोषमल्पदंशमशकवातातपसरीसृपस्पर्शम्; दृष्ट्वा च पुनरस्यैतदभवत्: अत्राहं भगवतोऽर्थाय विहारं मापयिष्यामीति; स प्रविशन्नेव स्वं निवेशनं येन जेतः कुमारस्तेनोपसङ्क्रान्तः; उपसङ्क्रम्य जेतं कुमारमिदमवोचत्; अनुप्रयच्छ मे कुमार आरामम्; अहं तत्र भगवतोऽर्थाय विहारं कारयामि इति; स कथयति; न मे गृहपते स आरामः; किन् तु उद्यानं तन्ममेति; द्विरपि त्रिरप्यनाथपिण्डदो गृहपतिर्जेतं कुमारमिदमवोचत्: अनुप्रयच्छ मे कुमार आरामम्; अहं तत्र भगवतोऽर्थाय विहारं मापयामीति; अपरित्यक्तो ःगृहपतेः मे आरामाः कोटिसंस्तरेणापि; पुनरप्यनाथपिण्डदो गृहप्तिर्जेतं कुमरमिदमवोचत्: कृतार्घोऽसि कुमार आरामस्य; प्रतीच्छ हिरण्यसुवर्णम्; ममारामः; कः कृतार्घः? त्वं कृतार्घः; तौ कृतार्घो न कृतर्घ इति विवादमापन्नौ, येन व्यावहारिकपुरुषास्तेन संप्रस्थिताः; अत्रान्तरे चतुर्णां लोकपालानामेतदभवत्; अयमनाथपिण्डदो गृहपतिरुद्युक्तो भगवतोऽर्थाय विहारं विहारं मापयितुम्; साहाय्यमस्यानुष्ठेयमिति; ततो व्यावहारिकपुरुषमात्मानमभिनिर्माय अर्थाधिकरणे निषण्णाः; अनाथपिण्डदो गृहपतिर्जेतश्च कुमारो व्यावहारिकसकाशमुपसङ्क्रान्तौ; अथानाथपिण्डको गृहपतिर्व्यावहारिकपुरुषाणामेतमर्थं विस्तरेण निवेदयति; ते कथयन्ति; कृतार्घोऽसि कुमार आरामस्य; प्रतीच्छ सुवर्णम्: गृहपत्रे आराम इति; स तूष्णीमवस्थितः; अनाथपिण्डदो गृहपतिः शकटैर्भारैः मूटैः पिटकैरुष्ट्रैर्गोभिर्गर्दभैः प्रभूतं सुवर्णमभिनिर्हृत्य, सर्वं जेतवनं संस्तर्तुमारब्धः; न परिसमाप्यते; तिष्ठते एवानास्तीर्णः कश्चित्पृथिवीप्रदेशः; ततः अनाथपिण्डदो गृहपतिरेतमर्थं चिन्तयन्मुहूर्तं तूष्णीमस्थात्; कतरत्तन्निधानं भविष्यति? नातिस्तोकं, नातिप्रभूतं येन अयमनास्तीर्णः पृथिवीप्रदेशः आस्तरिष्यति; न च पुनर्गोपयितव्यो भविष्यतीति; जेतः कुमारः संलक्षयति; नूनमनाथपिण्डदस्य गृहपतेर्विप्रतिसारः; कस्मादारामकारणादियन्तं महान्तं धनस्कन्धं परित्यजामि; इति विदित्वा अनाथपिण्डदं गृहपतिमिदम् (२०) अवोचत्; सचेत्ते ह गृहपते विप्रतिसारः प्रतीच्छ सुवर्णम्; ममैवारामः; न मे कुमार विप्रतिसारः; अपि त्वहमेतमेवार्थमनुचिन्तयन्मुहूर्तं तूष्णीमवस्थितः; कतरत्तन्निधानं भविष्यति? नातिस्तोकं नातिप्रभूतं, येनायमनास्तीर्णः पृथिवीप्रदेशः आस्तरिष्यति; न च पुनर्गोपयितव्यो भविष्यतीति; अथ जेतस्य कुमारस्य एतदभवत्: न बतावरो बुद्धो भविष्यति; नावरं धर्माख्यानम्; यत्रेदानीमयं गृहपतिरारामकारणादियन्तं महान्तं धनस्कन्धं परित्यजति; इति विदित्वा अनाथपिण्डदं गृहपतिमिदमवोचत्: अनुप्रयच्छ मे गृहपते अनास्तीर्णं पृथिवीप्रदेशम्; अत्राहं भगवतोऽर्थाय द्वारकोष्ठकं मापयामि; अनाथपिण्डदो गृहपतिर्जेतस्य कुमारस्य अनास्तीर्णं पृथिवीप्रदेशमनुप्रयच्छति; यत्र जेतः कुमारो भगवतोऽर्थाय द्वारकोष्ठकं मापयति ______________________________________________________________ ओब्स्त्रुच्तिओन् ब्य्तीर्थ्यस् अथानाथपिण्डदो गृहपतिर्भगवतोऽर्थाय विहारं मापयितुमारब्ध इति तीव्रद्वेषपर्याकुलीकृतमनसस्तीर्थ्यास्ते संभूय येनानाथपिण्डदो गृहपतिस्तेनोपसंक्रान्ताः; उपसंक्रम्य कथयन्ति: मा त्वं गृहपते श्रमणस्य गौतमस्य अर्थायात्र विहारं कारय; किं कारणम्? अस्माभिर्नगराणि भाजितानि; श्रमणस्य गौतमस्य राजगृहम्; अस्माकं श्रावस्ती; स कथयति: भाजितानि युष्माभिर्नगराणि, न तु मदीयं स्वापतेयम्; यस्याभिप्रेतं तस्य धर्मस्कन्धं कारयामीति; ते राज्ञः सकाशं गतः; तत्राप्यनाथपिण्डदेन पराजिताः; ध्वाङ्क्षास्तीर्थ्या अविकृतवदनाः कथयन्ति; गृहपते न ते कामकारमनुप्रयच्छामः; श्रमणस्य गौतमस्याग्रश्रावकः आगतः; स यद्यस्मान् वादेन पराजयते, कारय विहारमिति; स कथयति: शोभनम्; आर्यशारिपुत्रं तावदवलोकयामीति; अथानाथपिण्डदो गृहपतिर्येनायुष्मान् शारिपुत्रः तेनोपसङ्क्रान्तः; उपसङ्क्रम्यायुष्मतः शारिपुत्रस्य पादौ शिरसा वन्दित्वा एकान्ते निषण्णः; एकन्तनिषण्णोऽनाथपिण्डदो गृहपतिरायुष्मन्तं शारिपुत्रमिदमवोचत्; तीर्थ्या भदन्त शारिपुत्र एवमाहुः; गृहपते न ते कामकारमनुप्रयच्छामः; श्रमणस्य गौतमस्य अग्रश्रावक आगतः; स यद्यस्मान् वादेन पराजयते, कारय विहारमिति; कथमत्र प्रतिपत्तव्यमिति; आयुष्मान् शारिपुत्रः संलक्षयति; किमेषां सन्ति कानिचित्कुशलमूलानि उत न सन्तीति; पश्यति, सन्ति; कस्यान्तिके प्रतिबद्धानि; ममैव; पुनः संलक्षयति; किमेतावन्त एव मम प्रतिबद्धा विनेया आहोस्विदन्येऽपि वादेन विनेयाः सन्तीति; पश्यति, सन्ति; कियच्चिरेण सन्निपतिष्यन्ति; (२४) पश्यति, सप्ताहस्यात्ययादिति; समन्वाहृत्य कथयति: गृहपते एनं भवतु; किं तु सप्तमे दिवसे; ततोऽनाथपिण्डदो गृहपतिः प्रीतिप्रामोद्यजातो येन तीर्थ्यास्तेन उपसङ्क्रान्तः; उपसङ्क्रम्य तीर्थ्यानिदमवोचत्; भदन्त आर्यशारिपुत्रः कथत्यति: शोभनम्, एवं भवतु; किं तु सप्तमे दिवसे इति; ते संलक्षयन्ति; द्वाभ्यामत्र कारणाभ्यां भवितव्यम्; अथवासौ निष्पलायितुकामः; अथवा पक्षं समन्वेष्टुकामः; किमत्र प्राप्तकालम्; वयमपि पक्षं समन्वेषामह इति; ते पक्षं समन्वेष्टुमारब्धाः; तैः पक्षं समन्वेषमानै रक्ताक्षो नाम परिव्राजको दृष्टः; स तैरुक्तः; त्वमस्माकं सब्रह्मचारि; श्रमणस्य गौतमस्याग्रश्रावकोऽस्माभिर्वादेनाहूतः; स पक्षं समन्वेषते; त्वमस्माकं साहाय्यं कल्पय; कियता कालेन? इतः सप्तमे दिवसे; शोभनम्, एवं भवतु; यदा युष्माकं सन्निपतो भवति तदा ममारोचयितव्यम्; तीर्थ्याः शङ्कितोद्विग्नमनसो दिवसानुदिवसं पक्षं समन्वेषयन्ते; दिवसांश्च गणयन्ति ______________________________________________________________ तीर्थ्यसन्द्शारिपुत्र चोन्तेस्त् यावत्सप्तमे दिवसे अनाथपिण्डदेन गृहपतिना विस्तीर्णावकाशे पृथिवीप्रदेशे आसनप्रज्ञप्तिः कारिता; आयुष्मतश्च शारिपुत्रस्यार्थाय सिंहासनं प्रज्ञप्तम्; नानादेशन्वासिनस्तीर्थ्याः सन्निपतिताः; श्रावस्तीनिवासी जनकायः अनेकानि च तत्सामतनिवासीनि प्राणिशतसहस्राणि, कानिचित्कुतूहलजातानि, कानिचित्पूर्वकैः कूशलमूलैः संचोद्यमानानि; तत आयुष्मान् शारिपुत्रोऽनाथपिण्डदेन गृहपतिना सपरिवारेण संपुरस्कृतो वादिमण्डलं प्रविश्य विनेयजनमभिसंीक्ष्य स्मितपूर्वं समशान्तेनेर्यापथेन सिंहासनमभिरुह्य निषण्णः; सर्वैव सा पर्षदवहितचेतस्का आयुष्मन्तं शारिपुत्रमभिसमीक्षमाणा निषण्ण्ना ______________________________________________________________ देfएअतोf थे तीर्थ्यस् तत आयुष्मान् शारिपुत्रस्तीर्थ्यानामन्त्रयामास: भवन्तः किं तावत्करिष्यथ? आहोस्विद्विकरिष्यथ? ते कथयन्ति: वयं कुर्मः: त्वां विकुरु; आयुष्मान् शारिपुत्रः संलक्षयति: यद्यहं करिष्यामि; सदेवकोऽपि लोको न शक्ष्यति विकर्तुम्; प्रागेव रक्ताक्षः परिव्राजकः; इति विदित्वा रक्ताक्षं परिव्राजकमिदमवोचत्: त्वं कुरु, अहं विकरिष्यामीति; स इन्द्रजाले कृतावी; तेन सुपुष्पितः सहकारपादपो निर्मितः; आयुष्मता शारिपुत्रेण तुमुलो वातवर्ष (२२) उत्सृष्टः; येनासौ समूल उत्पाट्य इतश्चामुतश्च विकीर्णो योगिजनानामप्यविषयीभूतः; ततद्तेन पद्मिनी निर्मिता; आयुष्मता शारिपुत्रेण कलभहस्ती निर्मितः; तेन सा समन्तान्मर्दिता; तेन सप्तशीर्षो नागो निर्मितः; आयुष्मता शारिपुत्रेण गरुडो निर्मितः; येनासावपहृतः; तेन वेताडो निर्मितः; आयुष्मता शारिपुत्रेण मन्त्रैः कीलितः; कुप्रयुक्तो वेताड आत्मवधाय चेतयते; स तस्यैवोपरि प्रधावितः; ततोऽसौ भीतस्त्रस्तः संविग्न आहृष्टरोमकूपः आयुष्मतः शारिपुत्रस्य पादयोर्निपतितः; आर्य शारिपुत्र त्रायस्व शरणागतोऽस्मीति; तत आयुष्मता शारिपुत्रेण मन्त्रा उत्कीलिताः; स वेताडो व्युपशान्तः; तस्यायुष्मता शारिपुत्रेण धर्मो देशितः; स प्रसादजातः कथयति: लभेयाहमार्यशारिपुत्र स्वाख्याते धर्मविनये प्रव्रज्यामुपसंपदं भिक्षुभावम्; चरेयमहमार्यशारिपुत्रस्यान्तिके ब्रह्मचर्यमिति; आयुष्मता शारिपुत्रेण स प्रव्राजितः उपसंपादितः अववादो दत्तः, तेनोद्यच्छमानेन घटमानेन व्यायच्छमानेन सर्वक्लेशप्रहाणादर्हत्वं साक्षात्कृतम्; अर्हन् संवृत्तः; त्रैधातुकवीतरागः समलोष्टकाञ्चन आकाशपाणितलसमचित्तो वासीचन्दनकल्पो विद्याविदारिताण्डकोशो विद्याभिज्ञप्रतिसंवित्प्राप्तो भवलाभलोभपराङ्मुखः; सेन्द्रोपेन्द्राणां देवानां पूज्यो मान्योऽभिवाद्यश्च संवृत्तः; ततः सा पर्षत्विस्मयोत्फुल्ललोचना संवृत्ता; आयुष्मति शारिपुत्रेऽभिप्रसन्ना कथयति: महानार्यशारिपुत्रेण वादिवृषभो निगृहीतः; इति विदित्वा आयुष्मतः शारिपुत्रस्य मुखेऽवलोकिकाः संवृत्ताः; तत आयुष्मता शारिपुत्रेण तस्याः पर्षदः आशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशी चतुरार्यसत्यसंप्रतिवेधिकी धर्मदेशना कृता यां श्रुत्वा अनेकैः सत्वसहस्रैः महान् विशेष आगतः; कैश्चिच्छ्रावकबोधौ चित्तान्युत्पादितानि; कैश्चित्प्रत्येकायां बोधौ; कैश्चिदनुत्तरायां सम्यक्संबोधौ; कैश्चिच्छरणगमनशिक्षापदानि गृहीतानि; कैश्चित्स्रोतआपत्तिफलं साक्षात्कृतम्; कैश्चित्सकृदागामिफलम्; काइश्चिदनागामिफलम्; कैश्चित्प्रव्रज्य सर्वक्लेशसंप्रहाणाडर्हत्वं साक्षात्कृतम्; यद्भूयसा सा पर्षत्बुद्धनिम्ना, धर्मप्रवणा, सङ्घप्राग्भारा, व्यवस्थापिता; तीर्थ्याः संलक्षयन्ति; न शक्यमस्माभिरयं वादे निग्रहीतुम्; उपायसंविधानं कर्तव्यम्; अत्रैव भृतिकया कर्म कुर्मः; ततश्छिद्रं लब्ध्वा बैष्केणैनं प्रघातयाम इति; ते सर्वे संभूय अनाथपिण्डदस्य गृहपतेः सकाशं गत्वा कथयन्ति; गृहपते त्वयास्माकं सर्वाणि वृत्तिपदानि समुच्छिन्नानि; तदनुकम्पां कुरु; त्वदीयविहारे भृतिकया कर्म कुर्मः; चिरं वयमत्र अवस्थिताः; मा देशपरित्यागं कूर्म इति; अनाथपिण्डदः कथयति: आर्यशारिपुत्रं तावदवलोकयामि; स येनायुष्मान् शारिपुत्रस् तेनोपसङ्क्रान्तः; उपसङ्क्रम्यायुष्मन्तं (२३) शारिपुत्रमिदमवोचत्: ःार्यः, तीर्थ्याः कथयन्ति, कथयन्ति, अस्माकं त्वया सर्वाणि वृत्तिपदानि समुच्छिन्नानि; तदनुकम्पां कुरु; त्वदीये विहारे भृतिकया कर्म कुर्मः; चिरं वयमत्रावस्थिताः; म देशपरित्यागं कुर्म इति; आयुष्मांश्छारिपुत्रः समन्वाहर्तुं प्रवृत्तः; किं तेषां सन्ति कानिचित्कुशलमूलानि आहोस्विन्न सन्ति इति पश्यति, सन्ति; कस्यान्तिके प्रतिबद्धानि; ममैवेति; समन्वाहृत्य कथयति: गृहपते एवं भवतु, कोऽत्र विरोध इति; ते तस्मिन् विहारे भृतिकया कर्म कर्तुमारब्धाः; आयुष्मता शारिपुत्रेण लतावारिकः पुरुषो रौद्रो निर्मितः; स तत्कर्म कारयितुमारब्धः; आयुष्मान् शारिपुप्त्रः तेषां विनयकालं ज्ञात्वा तत्समीपे वृक्षमूलस्याधस्ताच्चङ्क्रम्यमाणस्तिष्ठति; स तैर्दृष्टः; ते संलक्षयन्ति, (अ ३२२ ) अयमस्य कालः प्रघातयितुं प्रविविक्ते तिष्ठतीति; ते तस्य सकाशमुपसङ्क्रम्य परिवार्य अवस्थिताः; आयुष्मान् शारिपुत्रः संलक्षयति: कीदृशेन चित्तेन एते मत्सकाशमुपसङ्क्रान्ता इति; यावत्पश्यति वधकचित्तेन; तेनासौ लतावारिको निर्मित उत्सृष्टः; तेन तेऽभिद्रुता गच्छत कर्म कुरुतेति; ते कथयन्ति: आर्य शारिपुत्र परित्रायस्व; स कथयति: आयुश्मन् गच्छ; विश्राम्यन्तु तावदिति; ते संलक्षयन्ति; ईदृशोऽस्त्ययं महात्मा; वयमस्य वधकचित्ताः; एषोऽस्माकं मैत्रचित्तः इति विदित्वा अभिप्रसन्नाः; तत आयुष्मता शारिपुत्रेण तेषामाशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशी चतुरार्यसत्यसंप्रतिवेधिकी धर्मदेशना कृता यां श्रुत्वा विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्वा स्रोतआपत्तिफलं साक्षात्कृतम् ______________________________________________________________ चोन्वेर्सिओनोf थे तीर्थ्यस् ते दृष्टसत्याः: लभेमहि वयं शारिपुत्र स्वाख्याते धर्मविनये प्रव्रज्यामुपसंपदं भिक्षुभावम्; चरेम वयं भदन्तशारिपुत्रस्यान्तिके ब्रह्मचर्यमिति; ते आयुष्मता शारिपुत्रेण प्रव्राजिता उपसंपादिताः; अववादो दत्तः; तैर्युज्यमानैर्, घटमानैर्, व्यायच्छमानैरिदमेव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकिरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणादर्हत्वं साक्षात्कृतमित्यर्हन्तः संवृत्ताः; त्रैधातुकवीतरागाः समलोष्टकाञ्चना आकाशपाणितलसमचित्ता वासीचन्दनकल्पा विद्याविदारिताण्डकोशा विद्याभिज्ञाप्रतिसंवित्प्राप्ता भवलाभलोभसत्कारपराङ्मुखाः सेन्द्रोपेन्द्राणां देवानां पूज्या मान्या अभिवाद्याश्च संवृत्ताः (२४) ______________________________________________________________ चोन्स्त्रुच्तिओनोf विहारस् तत्र आयुष्मता शरिपुत्रेण विहारसूत्रमेकान्ते गृहीतम्; अनाथपिण्डदेनापि गृहपतिना एकान्ते गृहीतम्; आयुष्मान् शारिपुत्रः स्मितं प्राविष्कर्तुमारब्धः; अनातपिण्डदो गृहपतिः कथयति: नाहेत्वप्रत्ययमार्य्शारिपुत्र तथागता वा तथागतश्रावका वा स्मितं प्राविष्कुर्वन्ति; कः आर्यशारिपुत्र हेतुः? कः प्रत्ययः स्मितस्य प्राविष्करणाय? एनमेतद्गृहपते, एवमेतत्; नाहेत्वप्रय्त्ययं तथागता वा तथागतश्रावका वा स्मितं प्राविष्कुर्वन्ति; त्वया चेह सूत्रं गृहीतम्; तुषिते देवनिकाये सौवर्णं भवनमभिनिर्वृत्तम्; ततोऽनाथपिण्डदो गृहपतिर्विस्मयोत्फुल्ललोचनः कथयति: आर्यशारिपुत्र यद्येवं, तेन हि पुनः सूत्रं प्रसारय भूयस्या मात्रया; चित्तमभिप्रसादयामीति; आयुष्मता शारिपुत्रेण तत्सूत्रं गृहीतम्; अनाथपिण्डदेन गृहपतिना भुयस्या मात्रया तीव्रेण प्रसादवेगेन चित्तमभिप्रसादितम्; येन प्रसादजातेन समनन्तरमेव तत्सौवर्णं भवनं चतूरत्नमयं संवृत्तम्; आयुष्मता चास्य शारिपुत्रेण निवेदितम्; ततोऽनाथपिण्डदेन गृहपतिना उत्तरोत्तरप्रवृद्धपुण्यसन्ततिना षोडशमहल्लिका विहारा मापिताः; षष्टिश्(अ ३२२ ) च कुटिकावस्तूनि; षोडशमहल्लिकान् विहारान्मापयित्वा षष्टिं च कुटिकावस्तूनि सर्वोपकरणैः पूरयित्वा येनायुष्मान् शारिपुत्रस्तेनोपसङ्क्रान्तः; उपसङ्क्रम्यायुष्मन्तं शारिपुत्रमिदमवोचत्: कियत्प्रमाणैरार्यशारिपुत्र प्रयाणकैर्भगवानध्वानं गच्छति? तद्यथा गृहपते राजा चक्रवर्ती; कियत्प्रमाणै राजा चक्रवर्ती? दशक्रोशकैर्गृहपते राजा चक्रवर्ती प्रयाणकैरध्वानं गच्छति; ततोऽनाथपिण्डदेन गृहपतिना यावच्च श्रावस्ती यावच्च राजगृहमत्रान्तराद्वासकान् परिसङ्ख्याय परिक्रमणका मापिताः; दानशला कारिता; कालारोचकः पुरुषः स्थापितः; छत्रध्वजपताकाशोभिताश्चन्दनवारिपरिषिक्ताः सुरभिधूपघटिकोपनिबद्धास्तोरणाः कारिताः; कालिकानि यामिकानि च भैषज्यान्युपस्थापितानि ______________________________________________________________ मेस्सेन्गेर्तो बुद्ध ततः संभृतसंभारोऽन्यतमं पुरुषमामन्त्रयते: एहि त्वं भोः पुरुष; येन भगवांस्तेनोपसङ्क्राम; उपसङ्क्रम्यास्माकं वचनेन भगवतः पादौ वन्दित्वा अल्पाबाधतां च पृच्छ अल्पातङ्कतां च लघूत्थानतां च यात्रां च बलं च सुखं च अनवद्यतां च स्पार्शविहारतां च; एवं च वद; आगच्छतु भगवान् श्रवस्तीम्; अहं भगवन्तमुपस्थास्यामि यावज्जीवं (२५) चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः सार्धं भिक्षुसङ्घेन ःितिः; एवमार्य इति स पुरुषोऽनाथपिण्डदस्य गृहपतेः प्रतिश्रुत्य येन राजगृहं तेन संप्रस्थितः; अनुपूर्वेण राजगृहमनुप्राप्तः; ततो मार्गश्रमं प्रतिविनोद्य येन भगवांस्तेनोपसङ्क्रान्तः; उपसङ्क्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्तेऽस्थात्; एकान्तस्थितः स पुरुषो भगवन्तमिदमवोचत्: अनाथपिण्डदो भदन्त गृहपतिर्भगवतः पादौ शिरसा वन्दते; पूर्ववद्यावत्स्पर्शविहारतां च; सुखी भवतु भोः पुरुष अनाथपिण्डदो गृहपतिस्त्वं च; अनाथपिण्डदो भदन्त गृहपतिरेवमाह: आगच्छतु भगवान् श्रवस्तीम्; अहं भगवन्तमुपस्थास्यामि यावज्जीवं चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः सार्धं भिक्षुसङ्घेनेति; अधिवासयति भगवांस्तस्य पुरुषस्य तूष्णींभावेन; अथ स पुरुषो भगवतस्तूष्णींभावेनाधिवासनां विदित्वा भगवतः पादौ शिरसा वन्दित्वा भगवतोऽन्तिकात्प्रक्रान्तः ______________________________________________________________ बुद्ध अर्रिवेसत्श्रावस्ती ततो भगवान् दान्तो दान्तपरिवारः, शान्तो शान्तपरिवारः, मुक्तो मुक्तपरिवारः, आश्वस्त आश्वस्तपरिवारः, विनीतो विनीतपरिवारः, अर्हन्नर्हत्परिवारः, वीतरागो वीतरागपरिवारः, प्रासादिकः प्रासादिकपरिवारः; ऋषभ इव गोगणपरिवृतः, गज इव कलभपरिवृतः, सिंह इव दंष्ट्रिगणपरिवृतः, हंस इव हंसगणपरिव्तः, सुपर्णीव पक्षिगणपरिवृतो, विप्र इव शिष्यगणपरिवृतः सुवैद्य (अ ३२३ ) इवातुरगणपरिवृतः शूर इव योधगणपरिवृतः देशिक इवाध्वगगणपरिवृतः सार्थवाह इव वणिग्गणपरिवृतः श्रेष्ठीव परिजनपरिवृतः कोट्टराज इव मन्त्रिगणपरिवृतः चक्रवर्तीव पुत्रसहस्रपरिवृतः चन्द्र इव नक्षत्रगणपरिवृतः सूर्य इव राश्मिसहस्रपरिवृतः धृतराष्ट्र इव गन्धर्वगणपरिवृतः विरूढक इव कुम्भाण्डगणपरिवृतः विरूपाक्ष इव नागगणपरिवृतो धनद इव यक्षगणपरिवृतो वेमचित्रीवासुरगणपरिवृतः, शक्र इव तृदशगणपरिवृतो ब्रह्मेव ब्रह्मकायपरिवृतः स्तिमित इव जलनिधिः सजल इव जलधरो विमद इव गजपतिः सुदान्तैरिन्द्रियैरसंक्षोभितेर्यापथप्रचारो द्वात्रिंशता महापुरुषलक्षणैह्, समलंकृतोऽशीत्यनुव्यञ्जनैर्विराजितगात्रो व्यामप्रभालंकृतमूर्तिः सूर्यसहसरातिरेकप्रभो जङ्गम इव रत्नपर्वत समन्ततोभद्रको (२६) दशभिर्बलैश्चतुर्भिर्वैशारद्यैस्त्रिभिरावेणिकैः स्मृत्युपस्थानैर्महाकरुणया च समन्वागतो भिक्षुसंघेन अनाथपिण्डदेन च गृहपतिना च सपरिवारेण श्रावस्तीनिवासिना च जनकायेन अनेकैश्च देवताशतसहस्रैरनुगम्यमानः श्रावस्तीं नगरीमनुप्राप्तः; यदा ःचः भगवता श्रावस्तीं नगरीं प्रविषता साभिसंस्कारं नगरेन्द्रकीले दक्षिणपादो न्यस्तः तदा षड्विकारं पृथिवीकम्पो जातः; इयं महापृथिवी चलति संचलति संप्रचलति; व्यथते प्रव्यथते संप्रव्यथते; पूर्वो दिग्भाग उन्नमति पाश्चिमोऽवनमति; पश्चिम उन्नमति पूर्वोऽवनमति; दक्षिण उन्नमति उत्तरोऽवनमति; उत्तर उन्नमति दक्षिणोऽवनमति; अन्त उन्नमति; मध्योऽवनमति; मध्य उन्नमति अन्तोऽवनमति; सर्वश्चायं लोक उदारेणावभासेन स्फुटः संवृत्तः सार्धं लोकान्तरिकाभिरन्तरीक्षे च देवदुन्दुभयस्ताडिता गगनतलस्था देवता भगवत उपरिष्टाद्दिव्यान्युत्पलानि क्षेप्तुमारब्धाः पद्मानि कुमुदानि पुण्डरिकान्यगरुचूर्णानि कुङ्कुमचूर्णानि तमालपत्राणि दिव्यानि मान्दरकाणि पुष्पाणि क्षिपन्ति चैलविक्षेपांश्चाकार्षुः ______________________________________________________________ एffएच्त्स्fएल्त्fओल्लोwइन्ग्बुद्धऽसर्रिवल् भगवतः पुरप्रवेशे इमान्येवंविधान्याश्चर्याण्यभुवनपराणि च; संक्षिप्तानि विशालीभवन्ति नीचान्युच्चानि भवन्ति उच्चानि च समानि भवन्ति हस्तिनः क्रोशन्ति अश्वा ह्रेषन्ते ऋषभा नर्दन्ते गृहगतानि विविधानि वादित्रबाण्डानि स्वयं नदन्ति; अन्धाश्चक्षूंषि प्रतिलभन्ते बधिराः श्रोत्रं मूकाः प्रव्याहरणसमर्था भवन्ति; परिशिष्टेन्द्रियविकला इन्द्रियाणि प्रतिलभन्ते; मद्यमदाक्षिप्ता विमदीभवन्ति; विषपायिता निर्विषीभवन्ति; अन्योन्यवैरिणो मैत्रीं प्रतिलभन्ते; गुर्विण्यः स्वस्तिना प्रसूयन्ते; बन्धनबद्धा मुच्यन्ते; अधना धनानि प्रतिलभन्ते: इमानि चान्यनि ःचः भगवतः पुरप्रवेशे अद्भुतशतसहस्राणि प्रादुर्भवन्ति ______________________________________________________________ थे जेतवन ततो भगवानेवंविधेन महता सत्कारेण श्रावस्तीं प्रविष्टः; प्रविश्य पुरस्ताद्भिक्षुसंघस्य (अ ३२३ ) प्रज्ञप्त एवासने निषन्नः; अथानाथपिण्डदो गृहपतिः सुहृत्सम्बन्धिबान्धवजनपरिवृतः सौवर्णं (२७) भृंगारमादाय वारिधारां पातयितुमारब्धः; सा न प्रपतति; अथानाथपिण्डदो गाहपतिर्दुर्मनाः संलक्षयति; मा मया कानिचित्सापक्षालानि कर्माणि कृतानि स्युः इति; भगवानाह: न त्वया गृहपते कानिचित्सापक्षालानि कर्माणि कृतान्यपि त्वेतस्मिन् प्रदेशे स्थितेन त्वया पूर्वकानां सम्यक्संबुद्धानामयं प्रदेशो निर्यातितः; अन्यस्मिन् प्रदेशे स्थित्वा पातय; तेन ःन्यस्मिन् प्रदेशे स्थित्वाः पातिता; भगवान् पञ्चाङ्गोपेतेन स्वरेण स्वयमेव जेतवनमुद्घोषयति; उद्घोष्यमाणे जेतवने जेतः कुमारः संलक्षयति; अहो बत भगवान्ममापि तत्प्रथमतरं नामोद्ग्रहणं कुर्यादिति; भगवता जेतस्य कुमारस्य चेतसा चित्तमाज्ञाय तत्प्रथमत उद्ग्रहणं कृतम्; इदं भिक्षवो जेतवनमनाथपिण्डदस्यारामः इति; श्रुत्वा जेतः कुमारोऽतिवाभिप्रसन्नः मम भगवता तत्प्रथमतो नामोद्ग्रहणं कृतमिति; तेन प्रीतिप्रामोद्यजातेन सर्वेणैव तेन द्रव्यजातेन भगवतोऽर्थाय चतूरत्नमयं द्वारकोष्ठकं कारितम्; तथा संगीतकारैरपि स्थविरैः सूत्र उपनिबद्धं भगवान् श्रावस्त्यां विहरति जेतवनेऽनाथपिण्डदस्यारामे इति ______________________________________________________________ प्रेविओउस्बिर्थ्सोf अनाथपिण्डद अत्थे तिमे ओf थे सेवेन् बुद्धस् भिक्षवः संशयजातः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: कुत्र भदन्तानाथपिण्डदेन गृहपतिनायं पृथिवीप्रदेशः पूर्वकाणां सम्यक्संबुद्धानां निर्यातितपूर्वः? इति; भगवानाह; भूतपूर्वं भिक्षव एकनवते कल्पे विपाश्यी नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्; ःसः द्वाषष्टिभिक्षुअसहस्रपरिवृतः इमं प्रदेशमनुप्राप्तः; तेन खलु समयेनास्यां श्रावस्त्यां तिष्यो नाम गृहपतिरभूत्; तेनायं प्रदेशः षट्क्रोशहिरण्यसुवर्णेनास्तीर्य राजकुमारस्यान्तिकात्क्रीत्वा विपश्यिनः सम्यक्संबुद्धस्य निर्यातितः; तस्यैवान्तिके प्रव्रज्य सर्वक्लेशप्रहाणादर्हत्वं साक्सात्कृतम्; तिष्यस्य गृहपतेर्भागिनेयः तत्संपर्काद्विपश्यिनि तथागतेऽत्यर्थमभिप्रसन्नः; तेन विपश्यिनः सम्यक्संबुद्धस्य (२८) केशनखस्तूपः कारितह्; स संलक्षयति: कोऽसावुपायः स्याद्येनाहमेतं रात्रौ दिवा चानावृतं पाश्येयमिति तस्यान्तेवसिना समुद्रतीरस्थेनावभासात्मकं मणिरत्नं प्रावृतमनुप्रेषितम्; तेनासौ तस्मिन् चैत्ये समारोपितं; तदनुभावादसौ तं केशनखस्तूपं दिवा रात्रौ चानावृतं पश्यति; ततः प्रसादजातेन प्रणिधानं कृतं: यथायं पृथिवीप्रदेशो मम मातुलेन कुमारस्यान्तिकात्क्रीत्वा हिरण्यसुवर्णेनास्तीर्य विपश्यिनः सम्यक्संबुद्धस्य निर्यातितः; एवमहमिमं पृथिवीप्रदेशं हिरण्यसुवर्णेनास्तीर्य सप्तानां सम्यक्संबुद्धानां निर्यातयेयम्; यश्च तेषामपश्चिमक तस्याहमन्तिके प्रव्रज्य सर्वक्लेशप्रहाणादर्हत्वं साक्षात्कुर्यामिति किं मन्यध्वे भिक्षवः? योऽसौ तस्य गृहपतेर्(अ ३२४ ) भागिनेय एष एवासावनाथपिण्डदो गृहप्तिस्तेन कालेन तेन समयेन ततोऽर्वागेकत्रिंशतिमे कल्पे शिखी नाम सास्ता लोक उत्पन्नः पूर्ववद्यावधुद्धो भगवान्; ःसः षष्टिभिक्षुसहस्रपरिवार इमं प्रदेशमनुप्राप्तः; तेन क्यलु पुनः समयेन पुष्यो नाम गृहप्तिरभूत्; तेनायं पृथिवीप्रदेशो अर्धतृतीयान् कोशान्मणिभिरास्तीर्य कुमारस्यान्तिकान्निष्क्रीय शिखिनः सम्यक्संबुद्धस्य सश्रावकसंघस्य निर्यातितः; स्यात्खलु युष्माकं भिक्षवोऽन्यतमः स तेन कालेन तेन समयेन पुष्यो नाम ग्र्हपतिरभूदिति? न खल्वेवं द्रष्टव्यम्, अपि त्वेष एवासावनाथपिण्डदो गृहप्तिस्तेन कालेन तेन समयेन ततोऽर्वक्तस्मिन्नेवैकत्रिंशतिमे कल्पे विश्वभुङ्नाम शास्ता लोक उत्पन्नः पूर्ववद्यावद्बुद्धो भगवान्; स षाष्टिभिक्षुसहस्रपरिवारः इमं प्रदेशमनुप्राप्तः; तेन खलु समयेन माघुर्नाम गृहपतिरभूत्; तेनायं प्रदेशो द्वौ क्रोशौ मुक्तिकाभिरास्तीर्य कुमारस्यान्तिकान्निष्क्रीय विश्वभुजः सम्यक्संबुद्धस्य सश्रावकसंघस्य निर्यातितः; स्यात्खलु युष्माकन् भिक्षवोऽन्यतमः (२९) स तेन कालेन तेन समयेन माघुर्माघुर्नाम गृहपतिरभूदिति? न खल्वेवं द्रष्टव्यमपि त्वेष एवासावनाथपिण्डदो गृहपतिस्तेन कालेन तेन समयेन ततोऽर्वागस्मिन् भद्रके कल्पे क्रकुत्सुन्दो नाम शास्ता लोक उत्पन्नः पूर्ववद्यावद्बुद्धो भगवान्; स चत्वारिंशद्भिक्षुसहस्रपरिवार इमं प्रदेशमनुप्राप्तः; तेन खलु समयेन भवदत्तो नाम गृहपतिरभूत्; तेनाप्ययं प्रादेशो गोभिः पूरयित्वा कुमारस्यान्तिकान्निष्क्रीय क्रकुत्सुन्दस्य सम्यक्संबुद्धस्य सश्रवकसंघस्य निर्यातितः; स्यात्खलु युष्माकं भिक्षवोऽन्यतमः स तेन कालेन तेन समयेन भवदत्तो नाम गृथपतिरभूदिति? न खल्वेवं द्रष्टव्यम्, अपि त्वेष एवासावनाथपिण्डदो गृहपतिस्तेन कालेन तेन समयेन ततोऽर्वागस्मिन्नेव भद्रके कल्पे त्रिंषद्वर्षसहस्रायुषि प्रजायां कनकमुनिर्नाम शास्ता लोक उदपादि पूर्ववद्यावद्बुद्धो भगवान्; स त्रिंशद्भिक्षुसहस्रपरिवारः इमं प्रदेशमनुप्राप्तः; तेन खलु समयेन बृहस्पतिर्नाम गृहपतिरभूत्; तेनाप्ययं प्रदेशः पट्टैरास्तीर्य कुमारस्यान्तिकान्निष्क्रीय निष्क्रीय कनकमुनेः सम्यक्संबुद्धस्य सश्रावकसंघस्य निर्यातिताः; स्यात्खलु ःयुष्माकंः भिक्षवोऽन्यतमः स तेन कालेन तेन समयेन बृहस्पतिर्नाम गृहपतिरभूदिति? न खल्वेवं द्रष्टव्यम्; अपि त्वेस एवासावनाथपिण्डदो गृहपतिस्तेन कालेन तेन समयेन ततोऽर्वागस्मिन्नेव भद्रके कल्पे विंशतिवर्षसहस्रायुषि प्रजायां काश्यपो नाम सम्यक्संबुद्धो लोक उदपादि पूर्ववद्यावद्बुद्धो भगवान्: स विंशतिसहस्रपरिवारः इमं प्रदेशमनुप्राप्तः; तेन खलु समयेन आषाढो नाम गृहपतिरभूत्; तेनाप्ययं पृथिवीप्रदेशो अर्धक्रोषं सौवर्णैर्यावैरास्तीर्य (अ ३२४ ) कुमारस्यान्तिकान्निष्क्रीय काश्यपस्य सम्यक्संबुद्धस्य सश्रावकसंघस्य निर्यातितः ; स्यात्खलु युष्माकं भिक्षवो अन्यतमः स तेन कालेन तेन समयेन आषाढो नाम गृहपतिरह्बूदिति: न खल्वेवं द्रष्टव्यम्, अपि त्वेष एवासावनाथपिण्डदो गृहपतिस्तेन कालेन तेन समयेन (३०) एतर्ह्यप्यहं भिक्षवः शास्ता लोक उत्पन्नस्तथागतोऽर्हन् सम्यक्संबुद्धः विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यशरथिः शास्ता देवमनुष्याणां बुद्धो भगवान्; अहमप्यर्धत्रयोदशशतप्रिवार इमं प्रदेशमनुप्राप्तः; एतर्ह्यप्यनाथपिण्डदेन गृहपतिना षोडशलाङ्गलावक्ताकोटै संस्तरेण संस्तीर्य जेतस्य कुमारस्यान्तिकान्निष्क्रीय मम सश्रावकसंघस्य निर्यातितः भविष्यति भिक्षवोऽनागतेऽप्यशीतिवर्षसहस्रायुषि प्रजायां मैत्रेयो नाम शास्ता षण्णवत्यर्हत्कोटीसहस्रपरिवार इमं प्रदेशमागमिष्यति; तेन खलु समयेन सुधनो नाम गृहपतिरुद्भविष्यति; सोऽपीमं प्रदेशं त्रीणि योजनानि हिरण्यसुवर्णेनास्तीर्य कुमारस्यान्तिकान्निष्क्रीय मैत्रेयस्य सश्रावकसंघस्य निर्यातयिष्यति; तस्यैव शासने प्रव्रज्य सर्वक्लेशप्रहाणादर्हत्वं साक्षात्करिष्यति; स्यात्खलु युष्माकं भिक्षवोऽन्यतमः स तेन कालेन तेन समयेन सुधनो नाम गृहप्तिरभूदिति? न खल्वेवं द्रष्टव्यम्, अपि त्वेष एवासावनाथपिण्डदो गृहपतिः सुधनो नाम ग्र्हपतिरुद्भविष्यति ______________________________________________________________ अनाथपिण्डद हस्थे पोwएर्तो सेए अब्स्चोन्देद्त्रेअसुरेस्, नो मत्तेर्wहेथेर्च्लोसे ओर्fअरwअय् अथानाथपिण्डदो गृहपतिर्निधीन् पश्यति स्वामिकानप्यस्वामिकानपि स्थलगतानपि जलगतानपि येऽपि दूरे येऽप्यन्तिके; सामन्तकेन शब्दो निसृत अनाथपिण्डदो गृहप्तिर्निधीन् पश्यति सस्वामिकान् ःपिः अस्वामिकानपि स्थलगतानपि जलगतानपि येऽपि दूरे येऽप्यन्तिके इति; तेन खलु समयेन संबहुलानां नानातीर्थिकश्रमणब्राह्मणचरकपरिव्राजकानां कुतूहलशालायां संनिषण्णानां संनिपतितानामयमेवंरूपोऽभूदन्तराकथासमुदाहारः; कतमेन भवन्तो लक्षणेन समन्वागतोऽनाथपिण्डदो गृहपतिर्निधीन् पश्यति सस्वामिकानप्यस्वामिकानपि स्थलगतानपि जलगतानपि येऽपि दूरे येऽप्य्(३१) अन्तिके? तेन खलु समयेन उपगुर्नाम माणव तस्यामेव पर्षदि संनिसण्णोऽभूत्संनिपतितः; स कथयति: अल्पोत्सुका यूयं भवन्तो भवन्तु; अहं विचार्य भवतां कथयिष्यामि येन लक्षणेन समन्वागतोऽनाथपिण्डदो गृहपतिर्निधीन् पश्यति सस्वामिकानप्यस्वमिकानपि स्थलगतानपि जलगतानपि येऽपि दूरे येऽप्यन्तिके इति; सोऽनाथपिण्डदस्य गृहपतेश्चारविहारान्वेषतत्परः पृष्ठतः पृष्ठतः समनुबद्धो यावदपरेण समयेनानाथपिण्डदो गृहपतिर्नद्यामजिरवत्यां स्नात्वा उत्तीर्णः; तस्य तेन पृष्ठेन तलप्रहारो दत्तः; अनाथपिण्डदो गृहपतिः पश्यन्नेव तूष्णीमवस्थितः; स कथयति: (अ ३२५ ) विज्ञातोऽसि गृहपते क्षान्तिसौरत्यसमन्वागतः त्वं येन निधीन् पश्यसि सस्वामिकानप्यस्वामिकानपि स्थलगतानपि जलगतानपि येऽपि दूरे येऽप्यन्तिके इति; तेन तीर्थ्यानामारोचितम्; तीर्त्यैरपि विकत्थमानैः समन्तादारोचितम्; सामन्तेन शब्दो विसृतः; अथानाथपिण्डदो गृहपतिः क्षान्तिसौरत्यसमन्वागतः येन निधीन् पश्यति सस्वामिकानप्यस्वामिकानपि स्थलगतानपि जलगतानपि येऽपि दूरे येऽप्यन्तिके इति; एतत्प्रकरणं भिक्षवो भगवत आरोचयन्ति; भगवानाह; तीर्थ्यकोटिशतसहस्रेणापि भिक्षवो न सुकरमाज्ञातुं येन लक्षणेन समन्वागतोऽनाथपिण्डदो गृहपतिर्निधीन् पश्यति अपि तु रत्नचित्रान्तकोशोऽनाथपिण्डदो गृहप्तिर्हिरण्येश्वरश्च येन निधीन् पश्यति सस्वामिकानप्यस्वामिकानपि स्थलगतानपि जलगतानपि येऽपि दूरे येऽप्यन्तिके भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: किं भदान्त अनाथपिण्डदेन गृहपतिना कर्म कृतं यस्य कर्मणो विपाकेन रत्नचित्रान्तकोशो हिरन्येश्वरश्च संवृत्तः? भगवानाह: अनाथपिण्डदेनैव भिक्षवो गृहपतिना कर्माणि कृत्यान्युपचितानि लब्धसंभाराणि परिणतप्रत्ययान्योघवत्प्रत्युपस्थितान्यवश्यभावीनि; अनाथपिण्डदेन गृहपतिना कर्माणि कृतान्युपचितानि कोऽन्यः प्रत्यनुभविष्यति; न भिक्षवः कर्माणि कृतन्युपचितानि बाह्ये पृथिवीधातौ ःविपच्यन्तेः नाब्धातौ न तेजोधातौ न वायुधातावपि तूपात्तेष्वेव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्यशुभानि च: न प्रणश्यन्ति कर्माण्यपि कल्पशतैरपि । सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम् ॥ (३२) ______________________________________________________________ थे स्तोर्योf थे प्रत्येकबुद्ध (चोन्चेर्निन्ग प्रेविओउस्लिfए ओf अनाथपिण्डद) भूतपूर्वं भिक्षवो अन्यतरस्मिन् कर्वटके गृहपतिः प्रतिवस्त्याढ्यो महाधनो महाभोगो विस्तीर्णविशालप्रतिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी; स संप्राप्ते वसन्तकालसमये संपुष्पितेषु हंसक्रौञ्चमयूरशुकसारिकाकोकिलजीवजीवकनिर्घोषिते वनषण्डे सान्तर्जनेन उद्यानभूमिं निर्गतः; असति बुद्धानामुत्पादे प्रत्येकबुद्धा लोक उत्पद्यन्ते हीनदीनानुकम्पकाः प्रान्तशयनासनभक्ता एकदक्षिणीया लोकस्य; यावदन्यतरो प्रत्येकबुद्धो जनपदचारिकां चरंस्तं कर्वटकमनुप्राप्तः; स तस्मिनुद्यानेऽन्यतरस्मिन् प्रदेशे स्थितः; उद्यानपालेन पुरुषेण तस्य गृहपतेर्निवेदितम्; अथामुष्मिन् प्रदेशे शान्तात्मा प्रव्रजितोऽवतिष्ठते इति; तस्य श्रुत्वा सौमनस्यमुत्पन्नम्; भाग्यहं यस्य मे उद्याने तादृशः प्रव्रजितोऽवस्थितः इति प्रसादजातस्तद्दर्शनाय संप्रस्थितः; स महात्मा निरुपधिशेषं निर्वाणधातुं प्रविश्य परिनिर्वृतः; ततस्तेन गृहपतिना सुहृत्संबन्धिबान्धवान्तर्जनसहीयेन महता सत्कारेण ध्यापितः; सा (अ ३२५ ) चिता क्षीरेण निर्वापिता; तान्यस्थीनि स्फटिकमये कुम्भे रत्नैर्व्यामिश्र्य प्रक्षिप्तानि; तान्यन्तःस्थान्यवभासन्ते शब्दं च कुर्वन्ति; ततस्तेन पादयोर्निपत्य प्रणिधानं कृतम्; यथा तस्यास्थीनि रत्नमिश्राण्यत्यर्थं भासन्ते शब्दं च कुर्वन्ति एवमेवाहमनेन कुशलमूलेन रत्नचित्रान्तकोशः स्यां हिरण्येश्वरश्च इति किं मन्यध्वे भिक्षवः? योऽसौ गृहपतिः तेन कालेन तेन समयेन एष एवासावनाथपिण्डदो गृहपतिः; यदनेन प्रत्येकबुद्धे कारां कृत्वा प्रणिधानं कृतं यच्च तिष्यस्य गृहपतेस्भागिनेयेन सता विपश्यिनः सम्यक्संबुद्धस्य केशनखस्तूपे अवभासात्मके मणिरारोपितः तस्य कर्मणो विपाकेन रत्नचित्रान्त्रकोशो हिरण्येश्वरश्च संवृत्तः; इति हि भिक्षव एकान्तकृष्णानां कर्मणामेकान्तकृष्णो विपाकः एकान्तशुक्लानामेकान्तशुक्लो व्यतिमिश्राणां व्यतिमिश्रः; तस्मात्तर्हि भिक्षवः एवं शिक्षितव्यं यत्(३३) कृष्णाणि कर्माण्यपास्य व्यतिमिश्राणि च एकान्तशुक्लेष्वेव कर्मस्वाभोगः करणीयः इत्येवं वो भिक्षवः शिक्षिताव्यम् अन्तरोद्दानम् तिष्यः पुष्यश्च माघुश्च भवदत्तो बृहस्पतिः । आषाढश्च सुदत्तश्च सुधनो भवति पश्चिमम् ॥ हिरण्यं च सुवर्णं च मणिमुक्ता तृतीयकम् । गोभिः पटैर्यवैः कोटिर्हिरण्येन समुच्छ्रिता ॥ ______________________________________________________________ दिस्चिप्लिनर्य्प्रेस्च्रिप्तिओन्स् यदानाथपिण्डदेन गृहपतिना कोटीसंस्तरेण संस्तीर्य जेतस्य कुमारस्य सकाशान्निष्क्रीय बुद्धप्रमुखाय भिक्षुसंघाय निर्यातितं तदा नानादेशनिवासिनः श्राद्धाश्चैत्याभिवन्दका श्रावस्तीं गच्छन्ति; तेषां केचिदभिप्रसन्नाः कथयन्ति: आर्य वयमप्यार्यसंघाय जेतवने किंचिद्वस्तु कारयेम Ýfर्कारयाम?Ý इति; भिक्षवः कथयन्ति: मूल्येन भूमिं क्रीत्वा कारयत; आर्य कियता मूल्येन दीयते इति; इयता हिरण्येन; आर्य कुतोऽस्माकमेतावद्भवति; तथापि तु यद्येतस्मिन् प्रदेशे लभामहे कारयाम इति एतत्प्रकरणं भिक्षवो भगवत आरोचयन्ति; भगवानाह: गृहपतिरवलोकयितव्यः; यद्यनुजानीते कारयितव्यमिति; भिक्षुभिरनाथपिण्डदो गृहपतिरवलोकितः; स कथयति; मामागम्य श्राद्धा ब्राह्मणगृहपतयः संघस्यार्थाय पुण्यक्रियावस्तु कुर्वन्ति अनुजानामि; पुद्गलस्य कुर्वन्ति नानुजानामि इति एतत्प्रकरणं भिक्षवो भगवत आरोचयन्ति; भगवानाह; तस्मादनुजानामि संघस्यार्थाय कारयितव्यम्; पुद्गलस्यार्थाय दानपतिरवलोकयितव्यः; यद्यनुजानीते कारयितव्यम्; नानुजानीते, न कारयितव्यमिति आगन्तुका भिक्षवः चैत्यवन्दका श्रावस्तीमागताः; ते यथासंस्तुतिकया भिक्षूणां सकाशेऽवतीर्णाः; अन्येषां संस्तुतिका (३४) न सन्ति ते विहन्यन्ते; अस्यामुत्पत्तौ भगवानाह: आगन्तुकानामर्थाय अनुद्दिष्टं वस्तु स्थापयितव्यमिति; अन्यतमस्मिन् कर्वटके विहारः; तत्र भिक्षवो (अ ३२६ ) वर्षा उपगतः; यावत्तस्मिन् कर्वटकेऽन्तर्वर्षे भयमुत्पन्नम्; तन्निवासिनो भिक्षवः संत्रस्ता अप्रवारिताः सन्तः श्रावस्तीमागताः; ते भिक्षुभिः प्रतिश्रामिताः मार्गश्रमे प्रतिविनोदिते कथयन्ति: आयुष्मन्तः शयनासनमुद्दिशथ इति; तेऽन्तर्वर्षमिति कृत्वा नोद्दिशन्ति; आगन्तुका भिक्षव अवध्यायन्ति क्षिपन्ति विवाचयन्ति; कथमिदानीं यूयमायुष्मन्तः स्थितस्य एव शास्तुः शासनमन्तर्धापयथ; यद्यस्ति वो कौकृत्यं यथावृद्धिकया प्रयच्छत शयनासनमिति; तथापि ते नोद्दिशन्ति; एतत्प्रकरणं भिक्षवो भगवत आरोचयन्ति; अस्यामुत्पत्तौ भगवानाह: तस्मादनुजानामि भङ्गिकभग्नकानां भिक्षूणामर्थाय द्वितीया वर्षोपनायिका कर्तव्या इति; भिक्षवो न जानते: कथं कर्तव्या इति; भगवानाह: त्रैमासिकी प्रवारणा कर्तव्या श्रावणमासे तु द्वितीया वर्षोपनायिका कर्तव्या इति; उक्तं भगवता: भङ्गिभग्नकानां भिक्षूणामर्थाय द्वितीया वर्षोपनायिका कर्तव्या इति यावदपरेऽपि भङ्गिभग्नका भिक्षवः श्रावस्तीमागताः; एतत्प्रकरणं भिक्षवो भगवत आरोचयन्ति; भगवानाह: भङ्गिभग्नकान्मया भिक्षवो भिक्षूनागम्य द्वितीया वर्षोपनायिका प्रज्ञप्ता, न तृतीया; भङ्गिभग्नकास्तु भिक्षवः यथासंस्तुतिकया विश्रामयितव्याः; भिक्षवः तान् कर्मादानं कारयन्ति; भगवानाह: न ते कर्मादानं कारयितव्याः इति; भिक्षवस्तेषां लाभमनुप्रयच्छन्ति; भगवानाह: न तेषां लाभो देयह्; भिक्षव आमिषलाभमपि नानुप्रयच्छन्ति; भगवानाह: आमिषलाभस्तेषां नो तु वस्त्रलाभ इति (३५) ष्राद्धैः प्रभूता विहाराः कारिताः; श्रावस्त्यामल्पा भिक्षव वर्षा उपगताः; ते शून्यकास्तिष्ठन्ति; दानपतीनां परिभोगान्वयं पुण्यं न भवति; वातपुत्रैश्चावास्यन्ते; भगवाणाह: सर्वे उद्देष्टव्याः प्रत्येकमेकैकस्य द्वौ त्रयश्चत्वारो वा यथाप्रमाणतः सर्वे परिभोक्तव्याः, क्वचित्पूर्वाह्णे स्थातव्यम्, क्वचिन्मध्याह्ने, क्वचिदपराह्णे, क्वचिद्रात्रौ वस्तव्यमिति; भिक्षवस्ते पुनः कर्म न कुर्वन्ति प्रलुभ्यन्ते; भगवानाह: दानपतिरुत्साहयितव्यः; स वै संपद्यत इत्येवं कुशलम्, नो चेत्संपद्यते सांघिकेन प्रतिसंस्तर्तव्याः; न चेत्शक्यते यावतां शक्यते तावतां संस्कारः कर्तव्यः, अन्ये व्युपेक्षितव्याः इति यदा भगवतः वैस्तारिकं संवृत्तं तदा बहवो भिक्षवः श्रावस्तीमागताः; ते लयने निर्विहन्यन्ते; भगवानाह: द्वयोस्त्रयाणां चोद्देष्टव्यमन्ततः सर्वेषां सामान्येन निषदनप्रामाणिकमुद्देष्टव्यमुदकस्थालकस्थानपानीयभैषज्यदन्तकाष्ठपात्रस्थानं वर्जयित्वा; सामीची च परस्परमुपचारस्तु सामान्य एव नोद्देष्टव्य इति उक्तं भगवता; एकान्यरण्यानि वृक्षमूलानि शून्यागाराणि पर्वतकन्दरगिरिगुहपलालपुञ्जाभ्यवकाशश्मशानवनप्रस्थानि (३६) प्रान्तानि शयनासनानि ध्यायत, भिक्षवः, मा प्रमाद्यत, मा पश्चाद्विप्रतिसारिणो (अ ३२६ ) भूत इति; आरण्यकत्वस्य च बहुधा वर्णो भाषितः तदा केचिद्भिक्षव आरण्यकत्वं समादाय अरण्येऽध्यवस्थिताः; ते तत्र चोरैः मुष्यन्ते; मुषिताः सन्तः ब्राह्मणगृहपतिकुलेभ्यश्चीवरार्थं पर्येष्टिमापद्यमानाः रिंचन्त्युद्देशं पाठं स्वाध्यायं योगं मनसिकारम्; एतत्प्रकरणं भिक्षवो भगवत आरोचयन्ति; अस्यामुत्पत्तौ भगवानाह: आरण्यकानां भिक्षूणामर्थाय वस्तु स्थापयितव्यमिति; उक्तं भगवता: आरण्यकानां भिक्षूणामर्थाय वस्तु स्थापयितव्यमिति; भिक्षव अप्रकाशे स्थापयन्ति; आरण्यको भिक्षुः पात्रचीवरं स्थापयित्वा द्वारं बद्ध्वा ताडकमादाय प्रक्रान्तः; अनयेषामारण्यकानां भिक्षूणां विघातो जातः; भगवानाह: प्रकाशे स्थाने आरण्यकानां भिक्षूणां वस्तु स्थापयितव्यमिति; उपनन्दस्यान्यतमेन गृहपतिना विहारः कारितः; स तत्र न प्रतिवसति; यो भिक्षुरागन्तुक आगच्छति तस्मै वस्तु ददाति लाभं त्वात्मना गृह्णाति; यावदन्यतमस्त्रैचीवरिको भिक्षुरागतः; तेनासौ विहारो दृष्टः शून्यः; स पृच्छति, कस्यायं विहारः इति; भिक्षवः कथयन्ति: उपनन्दस्य भिक्षोः; स तेन गत्वा याचितः; स कथयति: अयं विहारः, प्रतिवस; योऽत्र लाभः स मम इति; तत्रावस्थितः; तेनासौ विहारो न कदाचित्संमृष्टः, न सुकुमारी गोमयकार्षी न दत्ता; यावदसौ तस्माद्विहारादपक्रान्तः; अन्यो भिक्षुरागतः; सोऽप्युपनन्दस्य सकाशाद्याचित्वा तस्मिन् विहारेऽवस्थितः; पश्यति तं विहारं संकारपरिपूर्णम्; तेनासौ संमृष्टः संकारं छोरयित्वा संमार्जनीं गृहीत्वैव संकारकुटसमीपे ऽवस्थितः, यावदन्यतमेन भिक्षुणा दृष्टः; स कथयति: आयुष्मन् किं त्वं संमार्जनीव्यग्रहस्त एवावतिष्ठसे, नेयं संमार्जनी स्थाप्यत? इति; स कथयति: कोऽप्यत्र हस्तरक्षास्थितः, तेन न कदाचित्संमार्जनीपदमपि दत्तमिति; स कथयति: अमुकोऽत्र त्रैचीवरिको (३७) भिक्षुरवस्थितः इति; यावत्तेनासौ पिण्डपातमटता दृष्ट उपालब्धश्च; स कथयति: उपनन्दो लाभं गृह्णाति अहं तस्य विहारं शोधयामि? इति; एतत्प्रकरणं भिक्षवो भगवत आरोचयन्ति; अस्यामुत्पत्तौ भगवानाह: यो लाभं गृह्णाति तेन विहारः संमार्ष्टव्यः इति उक्तं भगवता: अभ्यतीतकालगतानां दानपतीनां नाम्ना दक्षिणा आदेष्टव्या इति; संघस्थविरोऽभ्यतीतकालगतानां दानपतीनामर्थाय गाथां भाषते; अन्यतमश्च गृहपतिर्विहारमागतः; तेनासौ श्रुतः; दक्षिणामादिशत्; स तस्य सकाशमुपसंक्रान्तः कथयति: आर्य यद्यहं विहारं कारयामि ममापि नाम्ना दक्षिणामुद्दिशसि इति; स कथयति: कारय सुष्ट्वादिशामि इति; यावत्तेन गृहपतिना विहारः कारितः; तत्रानेन न किंचिद्दत्तं; स शून्य एवावस्थितः; यावत्तेन गृहपतिना दृष्टः; स विहारमागम्य कथयति: आर्य मदीयो विहारः शून्य अवस्थितः, न तत्र कश्चिद्भिक्षुः प्रतिवसति इति; संघस्थविरः कथयति: भद्रमुख उत्स्वेद्यः; स गृहपतिः कथयति: आर्य ऊषरे जंगले कारितः, कथमुत्स्वेद्यो भवति? गृहपते (अ ३२७ ) नाहमेतत्संधाय कथयामि अपि तु तत्र लाभो नास्ति इति; स कथयति: आर्य इदानीं यो मदीये विहारे प्रतिवसति तमहं पटेनाच्छादयामि; इति लाभो लभ्यते इति उपनन्देन अनुपूर्वेण स्वभाग इव उद्गृहीतः; सोऽन्यत्रैव प्रतिवसति; स शून्यस्तिष्ठति, यावदन्यतमः पिण्डपातिको चैत्याभिवन्दकः श्रावस्तीमागतः; तेनासौ विहारः शून्यो दृष्टः; स भिक्षून् पृच्छति; कस्यायं विहारः इति; तैः समाख्यातम्: सांघिकोऽयं विहारः किं तूपनन्दस्य भिक्षोरुद्दिष्ट इति; स उपनन्दस्य सकाशमुपसंक्रान्तः: तवोद्दिष्टोऽयं विहारोऽत्र तिष्ठामि इति; स कथयति: एवं कुरुष्व इति; स तत्रावस्थितः; स पिण्डपातिको दक्षोऽनलसः; तेनासौ प्रतिदिनमुपलिप्तसंमृष्टं क्रियते; पञ्चानुशंसा संमर्जने; आत्मनश्चित्तं प्रसीदति; परस्य चित्तं (३८) प्रसीदति; देवता आत्तमनसो भवन्ति; प्रासादिकसंवर्तनीयं कुशलमूलमुपचिनोति; कायस्य भेदात्सुगतो स्वर्गलोके देवेषूपपद्यत इति; ये तं विहारमुपलिप्तसंमृष्टं पश्यन्ति ते तस्य गृहपतेर्गत्वा आरोचयन्ति; स श्रुत्वा प्रामोद्यमुत्पादयति; यावदपरेण समयेन स्वयमेवागतः पश्यति तथैव तं विहारमुपलिप्तसंमृष्टम्; सोऽभिप्रसन्नः; तेनासौ पिण्डपातिकः पटेनाच्छादितः; उपनन्देन श्रुतम्; स त्वरितत्वरितं गतः कथयति; पिण्डपातिक ममायं विहार उद्दिष्टः, प्रयच्छ मे पटकमिति; पिण्डपातिक संलक्षयति: लाभात्मकोऽयं यदि न दास्यामि तथाप्ययं बलाद्ग्रहीष्यति मां च विहारान्निष्कासयिष्यति इति; तेन तस्य समर्पितः इति; एतत्प्रकरणं भिक्षवो भगवत आरोचयन्ति; अस्यामुत्पत्तौ भगवानाह: यस्य प्रसन्नः प्रसन्नाधिकारं करोति तस्यैव स; उपनन्दस्य तु वार्षिको लाभः इति गुणप्रियो लोकः प्रपीड्य प्रपीड्यात्मानं स पुत्रदारं च; गुणवद्भ्यो दानमनुप्रयच्छन्ति श्राद्धा ब्राह्मणगृहपतयः; आरण्यकान् भिक्षूनुपनिमन्त्र्य भोजयन्ति; आरण्यकानां भिक्षूणामन्तर्गृहे भोक्तुं गतानामदत्तादायिकैर्विहारा मुष्यन्ते; भगवानाह: द्वारं बद्ध्वा कुञ्चिकामादाय प्रक्रमितव्यमिति; चोरा अदत्तादायिका प्रतिकुञ्चिकया मुषन्ति; भगनानाह: आरक्षकं भिक्षुं स्थापयित्वा गन्तव्यम्; तस्य पिण्डकेनाविघातः कर्तव्यः इति; अदत्तादायिका अन्यं भिक्षुं गृहीत्वा गच्छन्ति; स कथयति: मुञ्च द्वारमिति; भगवानाह; संज्ञा कर्तव्या सज्वरो निर्ज्वर इति; यदि कथयति सज्वर इति न मोक्तव्यम्; अथ कथयति निर्ज्वर इति मोक्तव्यम्; अपि त्वारण्यकेन भिक्षुणा अर्धशाखा उपस्थापयितव्या इति; उक्तं भगवता: आरण्यकेन भिक्षुणा अर्धशाखा उपस्थापयितव्या इति; भिक्षवो न जानीते केदृशी अर्धशाखा इति; भगवानाह: कुक्कुरो भिक्षवो अर्धशाखा तस्य पात्रशेषं दातव्यम्; आरण्यकैर्भिक्षुभिर्कुक्कुरा उपस्थापिता; ते स्तूपाङ्गणं विहारं च नखरिकाभिरुपलिखन्ति उच्चारप्रस्रावेण नाशयन्ति; भगवानाह: कुक्कुरपोषकस्याहं भिक्षवो (३९) भिक्षोरासमुदाचारिकान् धर्मान् प्रज्ञापयामि, (अ ३२७ ) कुक्कुरपोषकेन भिक्षुणा काल्यमेवोत्थाय स्तूपाङ्गणं विहारश्च प्रत्यवेक्षितव्यः यन्नखरिकाभिरुपलिखितं तत्समं कर्तव्यम्; उच्चारप्रस्रावश्छोरयितव्यः, कुक्कुरपोषको भिक्षुर्यथाप्रज्ञप्तानासमुदाचारिकान् धर्मानसमादाय वर्तते, सातिसारो वर्तते ______________________________________________________________ उपनन्दऽस्मिस्देमेअनोउर्स् आयुष्मानुपनन्दोऽन्यतमस्मिन् विहारे संघस्थविरः, यावत्तत्रान्यतमः संघस्थविरः आगतः; उपनन्दः संलक्षयति: मया नामेह विहारे संघस्थविरेण भूत्वा द्वितीयस्थविरेण भवितव्यम्; गच्छाम्यन्यं विहारमिति; सोऽन्यं विहारं गतः; ततो विहारादसौ गतः; तस्मिन् यो द्वितीयस्थविरस्य लाभ स संघस्थविरस्य; स संलक्षयति: इहापि मे एव लाभ इति; तत्रापि मे स एव लाभः, किं विना प्रयोजनेन संघस्थविरत्वं करोमि इति; स पुनस्त्वरितत्वरितमेव विहारं संप्रस्थितः; अर्धोद्दिष्टशयनासने विहारं प्रविष्टः; स कथयति: यथावृद्धिकया विहारमुद्दिश इति; भिक्षवोऽतिक्रान्त इति कृत्वा नोद्दिशन्ति; उपनन्दः कथयति: आयुष्मन्त किं तिष्ठत एव शास्तुः शासनमन्तर्धापयत, यथावृद्धिकया उद्दिशत विहारमिति; एतत्प्रकरणं भिक्षवो भगवत आरोचयन्ति; भगवानाह: यः संघिकेन वा स्तौपिकेन ःवाः करणीयेन गतो भवति तस्य शयनासनं यथावृद्धिकया उद्देष्टव्यम्, अन्यत्र यथागत्या इति (४०) उपनन्द अतिलोभेन द्वयोर्विहारयोर्वर्षा उपगतः उभयवैहारिकं लाभं लप्सयत इति स वृत्तासु वर्षासु लाभं प्रार्थयते नैतस्मिन् लभ्यते नाप्यपरस्मिन्; शयनासनोद्द्देशकान् भिक्षून् परिभाषत; एतत्प्रकरणं भिक्षवो भगवत आरोचयन्ति; भगवानाह: वर्षोषितोऽसौ देयोऽस्य लाभः इति; भिक्षव उभयविहाराभ्यामपि प्रयच्छन्ति; भगवानाह: न तत्रोभयविहाराभ्यां दातव्यम्; एकस्मात्प्रयच्छन्ति; अन्ये भिक्षवोऽवध्यायन्ति क्षिपन्ति विवाचयन्ति: उहयविहारयोर्वर्षोषितः किमर्थमेकसमाद्दीयते इति; ःेतत्प्रकरणं भिक्षवो भगवत आरोचयन्ति; भगवानाह:ः उभयविहाराभ्यामप्यर्धार्धं देयम्, न च पुनर्भिक्षुणा द्वयोर्विहारयोरुपगन्तव्यं; उपगच्छति, सातिसारो भवति अन्यतमेन गृहपतिना द्वौ विहारौ कारितौ, एक आरण्यकानां, दिव्तीयो ग्रामान्तिकानाम्; आचरितं तस्य गृहप्तेर्वर्षोषितस्य भिक्षुसंघस्य एकैकं भिक्षुं पटेनाच्छादयितुम्; स पटकानादाय आरण्यकानां विहारं संप्रस्थितः; उपनन्देन श्रुतम्; आरण्यके विहारे लाभो दीयते इति; तेन नन्दस्य संदिष्टम्; यद्यत्र लाभो दीयते तद्ग्रहीष्यसि इत्युक्त्वा स त्वरमाणः आरण्यकं विहारं संप्रस्थितः; तेन गृहपतिना दृष्टः; स संलक्षयति: यादृशोऽस्य पदोद्धातः; गतोऽयमारण्यकं विहारम्, किमत्र प्राप्तकालम्, इहैव तावत्ग्रामान्तिकविहारे ददामि; पश्चात्तत्र दास्यामि इति; स प्रतिनिवर्त्य पटकांश्चारयितुमारब्धः; नन्देन हस्तः प्रसारितः; गृहपतिना पटको दत्तः; भूयः प्रसारयति; गृहपतिः कथयति: आर्य दत्तस्ते पटकः, किं भूयः प्रसारयसि इति; स कथयति: (अ ३२८ ) गृहपते उपनन्दस्तव विहारे वर्षोषितः तस्य सन्तकं प्रार्थयामि इति; गृहप्तिः कथयति: ःार्यः स्वहस्तेन भगवत दानं प्रशस्तम्, स्वहस्तेनैव दास्यामि इति; स लज्जितस्तूष्णीमवस्थितः; उपनन्दः संलक्षयति: चिरयत्यसौ गृहपतिः, ग्रामान्तिकं गमिष्यामि इति विदित्वा ग्रामान्तिकविहारं (४१) गतः नन्दं पृच्छति; आर्य गृहीतो मदीयः पटकः? तेन यथावृत्तं समाख्यातम्; गृहपतिरप्यन्येन पथा आरण्यकं विहारं गत्वा पताकांश्चारयित्वा प्रकृआन्तः; ःुपनन्दःः पुनरारण्यकं विहारं प्रधावितः, यावत्पटकाश्चारिताः; स उभयविहारयोरप्यतिलोभेन लाभात्परिभ्रष्टः; स शोचति क्लाम्यति परिदेवते भिक्षवः संशयजाताः सर्वशंषयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: पश्य भदन्त उपनन्द अतिलोभेन पटकात्परिभ्रष्टह्; भगवानाह: न भिक्षव एतर्हि यथातीतेऽप्यध्वन्यनेन अतिलोभात्भक्तच्छेदः कृतः; तच्छ्रूयताम् ______________________________________________________________ थे स्तोर्योf थे दोग्व्हिछ्wअस्तोओ ग्रेएद्य्(बेइन्ग प्रेविओउस्बिर्थोf उपनन्द) भूतपूर्वं भिक्षवो नद्या उभयकूले द्वौ विहारौ, एकः संघलाभिकानाम्, द्वितीयो पिण्डपातिकानाम्; यावदन्यतमः कुक्कुरः गण्डीशब्दप्रतिसंवेदी; स गण्डीशब्दं श्रुत्वा संघलाभिकानां विहारं गच्छति; तस्य ते भिक्षवः पात्रशेषं प्रयच्छन्ति; स तं परिभुज्य पिण्डपातिकानां विहारं गच्छति, तत्रापि पात्रशेषं भुक्त्वा यथेष्टं गच्छति; यावदपरेण समयेन पिण्डपातिकानामौपपादुकानां लाभः संपन्नः; तैस्सानुकालं गण्डी दत्ता; स गण्डीकुक्कुरः गण्डीशब्दं श्रुत्वा नदीमुत्तर्तुमारब्धः; मध्यं गतस्यास्य संघलाभिकानां विहारे गण्डी दत्ता; स भग्नोत्साहो प्रतिनिवर्तितुमारब्धः; स्रोतसा दूरमूढ उभयपरिभ्रष्टः किं मन्यध्वे भिक्षवः? योऽसौ गण्डीकुक्कुरः तेन कालेन तेन समयेन एष एवासावुपनन्दः; तदाप्ययमतिलोभेन उभयपरिभ्रष्टह्; एतर्ह्यप्यतिलोभेन उभयपरिभ्रष्टः; तस्मात्तर्हि भिक्षवो न भिक्षुणा अतिलोभः कर्तव्यः; करोति, सातिसारो भवति (४२) उद्दानम् कलहो ग्लानपर्याप्ति रात्रिकालश्च काशिषु । वृक्षस्थण्डिलशाद्वलं भाजकानां च संवृतिः ॥ ______________________________________________________________ प्रेचौतिओन्स्तो तके अगैन्स्तॄउअर्रेल्सोमे मोन्क्स् आयुष्मानुपालिर्बुद्धं भगवन्तं पृच्छति; यथापितद्भिक्षवः शृण्वन्ति भिक्षवः आगच्छन्ति कलहकारका ःभण्डनकारका विग्रहकारकाः विवादकारका आधिकरणिका तेऽस्मांश्चोदयिष्यन्ति स्मारयिष्यन्ति अलज्जितेन वा वैतरिकेण वा इति; तैः तेषां कथं प्रतिपत्तव्यम्? नैवासिकैरुपालि भिक्षुभिः कलहकारिकान् भिक्षूनागच्छतः श्रुत्वा त्रयः शयनासनोद्देशकाः कर्तव्याः, षट्शयनासनग्राहकाः; त्रयः शयनासनोद्देशकाः कतमे? हैमन्तिको ग्रैष्मिको वार्षकश्च; षट्शयनासनग्राहकाः कतमे? सर्वो विहार उद्देष्टव्यः सर्वो विहारसामन्तकः ःसर्वः परिगणःः सर्वः परिगणसामन्तकः सर्व आराम सर्व आरामसामन्तकः: यदि कथयति विहारमुद्दिशत इति वक्तव्यमुद्दिष्टोऽयम्, विहारसामन्तकमुद्दिशत एषोऽप्युद्द्दिष्टः, परिगणमुद्दिशत एषो (अ ३२८ )ऽप्युद्दिष्टः परिगणसामन्तकमुद्दिशत एषोऽप्युद्दिष्टः, आराममुद्दिशत एषोऽप्युद्दिष्टः, आरामसामन्तकमुद्दिशत एषोऽप्युद्दिष्टः; ते अलयना अप्रतिष्ठिताः कंचिद्दोषं जनयिष्यन्ति; ततः पश्चाद्गतवेगैः गतप्रत्यर्थिकैः गतप्रत्यमित्रैः यथावृद्धिकया (४३) शयनासनमुद्देष्टव्यम्; उक्तं भगवता: यथावृद्धिकया शयनासनमुद्देष्टव्यमिति ______________________________________________________________ थे चरे ओf थे सिच्क्मोन्क्सन्दुपनन्दऽस्मिस्छिएf अगैन् यावदेको भिक्षुर्ग्लानः; तस्य वृद्धतरक भिक्षुरगतः; यथावृद्धिकया तत्सन्तकं लयनमुद्दिष्टम्; स सर्वनवकिअः; तस्यान्यलयनं न प्रापद्यते; स तेन भिक्षुणाभिहितः; आयुष्मन्ममैतल्लयनमुद्दिष्टम्, निर्गच्छ इति; स कथयति: ग्लानोऽहम्, यावत्स्वस्तीभवामि; निष्ठुरसौ भिक्षुः; स तेन पुष्करिण्यां निष्कास्य स्थापितः; यावद्ब्राह्मणगृहपतयो विहारमागताः; द्रष्टुकामैस्तैरसौ भिक्षुर्दृष्टः; ते कथयन्ति: आर्या किमयं भिक्षुः कालगतः? भद्रमुखा, नायं कालगतः; अथ कस्मादत्र स्थापितः? अस्य वृद्धतरको भ्जिक्षुरागतः, एतत्सन्तकं लयनं तस्योद्दिष्टम्; तेनायं निष्कास्येह स्थापितः; आर्या वयमागारिकाः सन्तोऽनुरक्षणया ग्लानगृहान् ःनः निष्कासयामः, यूयं प्रव्रजिताः, कारुणिकश्च युष्माकं शास्ता, तत्कथं ग्लानं निष्कासयथ? तेऽवध्यायन्ति क्षिपन्ति विवाचयन्ति; एतत्प्रकरणं भिक्षवो भगवत आरोचयन्ति; अस्यामुत्पत्तौ भगवानाह: तस्मात्तर्हि भिक्षवो ग्लानस्य भिक्षोर्वस्तुपरिहारो दातव्यः इति; उक्तं भगवता: ग्लानस्य भिक्षोर्वस्तुपरिहारो देयः इति आयुष्मनुपनन्द हुमिति कृत्वा तूष्णीमवस्थितः; यावद्षड्भिर्सप्तभिर्वा दिवसैः शयनासनमुद्देक्ष्यति इति पादे व्रणपट्टकं बद्ध्वावस्थितः; शयनासनोद्देशकैर्भिक्षुभिर्ग्लान इति कृत्वा तत्सन्तकं लयनमुद्दिष्टम्; स उद्दिष्टेषु शयनासनेषु व्रणपट्टकं मुक्त्वावस्थितः; ततस्स ग्लानावलोककैर्भिक्षुभिर्पृष्टः किं स्थविरस्य पादः स्वस्थीभूतः इति; स कथयति: नानूक्तं भगवता सर्वसंस्कारा अनित्या इति; तत्किं मम (४४) व्याधिर्नित्यो भविष्यति? ते कथयन्ति: शीघ्रं स्थविर स्वस्थीभूतः, ह कल्पग्लानः इति; स कथयति: किमिच्छथ मां जीर्णलयने प्रक्षेप्तुमिति; अल्पाथा भिक्षवोऽवध्यायन्ति क्षिपन्ति विवाचयन्ति: कथमिदानीं भिक्षव अग्लाना एव वस्तुपरिहारं स्वीकुर्वन्ति? एतत्प्रकरणं भिक्षवो भगवत आरोचयन्ति; अस्यामुत्पत्तौ भगवानाह: तस्मात्तर्हि भिक्षवो कल्पग्लानस्य वस्तुपरिहारोऽदेयः, नापि तेन स्वीकर्तव्यः, करोति, सातिसारो भवति ______________________________________________________________ थे वरिओउस्ब्लेस्सिन्ग्सोf थे मेन् wहो मस्तेर्थे विनय: थे सिx पेन्तद्स् पञ्चिकानां पिण्डोद्दानम् पुरःकृतश्च स्वं शीलमसंसक्तमथापिच । आलोकजाता उत्पत्तिरान्तरायिकमेव च ॥ आपत्तिः पश्चिमं कृत्वा पिण्डोद्दानसमुद्धृतम् । अन्तरोद्दानम् पुरःकृत्यमपरं च चाभ्यन्तरं च परेषाम् । बहुजनहिताय कृत्वा प्रथमा भवति पञ्चिका ॥ भगवता सूत्रं (अ ३२९ ) मातृका च देवमनुष्येषु प्रतिष्ठापिते, सूत्रं नागेषु; विनयस्तु ःगम्भीरोः गम्भीरावभासो दुर्दृशो दुरवबोधो बहुसंधिर्लोकाक्षरप्रतिसंयुक्तः; भिक्षवो विनयं गम्भीरत्वात्बहुसंधिकत्वात्लोकाक्षरप्रतिसंयुक्तत्वाच्च नोत्सहन्ते पठितुम्; धर्मता चैषा येनाङ्गेन शासनं परिहीयते तस्य बुद्धा भगवन्तोऽत्यर्थं वर्णं भाषन्ते; तत्र भगवान् भिक्षूनामन्त्रयते स्म; पञ्च मे भिक्षवो आनुशंसा विनयधरपुद्गले; कतमे पञ्च? पुरस्कृतो भवति चतसृणां पर्षदाम्: (४५) अपराप्रतिबद्धास्य भवत्यववादानुशासनी; अतीतानागतप्रत्युत्पन्नानां सम्यक्संबुद्धानामभ्यन्तरकोशधरो भवति; परेषां श्रमणब्राह्मणानां मूर्धानमासाद्य तिष्ठति; बहुजनहिताय बहुजनसुखाय च प्रतिपन्नो भवति सद्धर्मस्थितये अन्तरोद्दानम् स्वशीलमभिगमनं कौकृत्यं विशारदश्च । सह धर्मेण कृत्वा द्वितीया भवति पञ्चिका ॥ अप्रे पञ्चानुशंसा विनयधरे पुद्गले; ःकतमे पञ्च?ः स्वोऽस्य शीलस्कन्धः सुगुप्तो भवति सुगोपितः; अभिगमनीयो भवति चतसृणां पर्षदाम्; कौकृत्यप्रसृतानां पुद्गलानां प्रतिशरणभूतो भवति; विशारद्ः संघमध्ये विहरति; प्रत्यर्थिनः स्वसद्धर्मे गृह्णाति अन्तरोद्दानम् असंसक्तमर्थनिश्चयः शिक्षापदान्यथापि । चास्त्वालोकद्वयं चैव तृतीया भवति पञ्चिका ॥ अपरे पञ्चानुशंसा विनयधरे पुद्गले; कतमे पञ्च? असंसक्तमर्थमुद्धरति; सुविनिश्चितो भवति अर्थविनिश्चये; शिक्षापदान्यस्य सुगृहीतानि भवन्ति; आलोकजातेन चेतसा बहुलं विहरति; पश्चिमाया जनताया आलोकं करोति उद्दानम् आलोकाभासप्रभासश्च अल्पोत्सुकोऽशून्यकेन च । अपरे पञ्चानुशंसा विनयधरे पुद्गले; कतमे पञ्च? आलोकजाता (४६) मे दिक्ख्याति अवभासजाता प्रभासजाता, अल्पोत्सुकोऽहं तस्यां दिशि विहरामि, अशून्या च मे दिक्ख्याति यस्यां दिशि विनयधरः पुद्गलः प्रतिवसति ःुद्दानम् उत्पत्तिरथ प्रज्ञप्तिरनुप्रज्ञप्तिरेव च । प्रतिक्षेपोऽभ्यनुज्ञा च सैव पञ्चमा पञ्चिका ॥ः अपरे पञ्चानुशंसा विनयधरे पुद्गले; कथमे पञ्च? उप्तत्तिं जानाति, प्रज्ञप्तिम् ःजानातिः, अनुप्रज्ञप्तिं जानाति, प्रतिक्षेपं जानाति, अभ्यनुज्ञां जानाति ःुद्दानम्ः ................................... ................................... अपरे पञ्चानुशंसा विनयधरे पुद्गले; कतमे पञ्च? अन्तरायिकं जानाति, अनन्तरायिकां जानाति, अववदति, अनुशास्ति; प्रतिबलो भवति सार्धंविहार्यन्तेवासिकानां निश्रयं ग्राहयितुम् ःुद्दानम्ः .................................. .................................. अपरे पञ्चानुशंसा विअनयधरे पुद्गले; कतमे पञ्च? आपत्तिं जानाति, अनापत्तिं जानाति, गुर्वीं जानाति, प्रातिमोक्षसूत्रोद्देशोऽस्य विस्तरेणोद्दिष्टो भवति (४७) ______________________________________________________________ उपालिनिस्थे fओरेमोस्तमिद्स्त्थेम् wहो मस्तेरन्द्क्नोw थे विनय. थे तेअछिन्गोf थे विनय भगवता विनयस्य वर्णो भाषित इति स्थविरस्थविरा भिक्षवः सोत्साहा विनयं पठितुमारह्धाः; तेन खलु समयेनायुष्मानुपाली अग्रोऽभूद्विनयनिदानसमुत्पत्तिकुशलानाम्; स्थविरस्थविरा भिक्षवो विनयं पर्यवाप्नुवन्ति इति सत्कृत्योद्देष्टुमारब्धः; स उत्पाण्डुको जातः कृशालको दुर्बलको म्लानो प्राप्तकायः; जानका पृच्छका (अ ३२९ ) बुद्धा भगवन्तः, जानन्तः पृच्छन्ति, अजानन्तो न पृच्छन्ति, काले पृच्छन्ति, कालातिक्रान्तं न पृच्छन्ति, अर्थोपसंहितं पृच्छन्ति, अनर्थोपसंहितं न पृच्छन्ति; सेतुसमुद्घातो बुद्धानां भगवतामनर्थोपसंहितायां पृच्छायाम्; तत्र कालज्ञा बुद्धा भगवन्त अर्थोपसंहितायां पृच्च्छायाम्; पृच्छति बुद्धो भगवानायुष्मन्तमानन्दं: कस्मादानन्द उपाली भिक्षुरुत्पाण्डूत्पाण्डुकः कृशालको दुर्बलको म्लानो प्राप्तकाय इति; स कथयति: भगवता विनयस्य वर्णो भाषितः यत्कृत्वा स्थविरस्थविरा भिक्षवः सोत्साहा विनयं पठितुमारब्धाः; आयुष्मानुपाली स्थविरस्थविरा भिक्षवः सगौरवा विनयं पर्यवाप्नुवन्ति इति सत्कृत्योद्देष्टुमारब्धः; तेनासावुत्पाण्डूत्पाण्डुकः कृशालको ःदुर्बलकोः म्लानो प्राप्तकाय इति; अस्यामुत्पत्तौ भगवानाह: उद्देशदायकस्याहं ःभिक्षवोः भिक्षोरासमुदाचारिकान् धर्मान् प्रज्ञापयामि; उद्देशदायकेना भिक्षुणा चतुर्भिरार्यपथैरुद्देशो दातव्यः; चङ्क्रम्यमाणेन तिष्ठता निषन्नेन निपन्नेन च; उद्देशग्राहकेन भिक्षुणा तृभिरार्यपथैरुद्देशो ग्रहीतव्यः; उद्देशग्राहको भिक्षुरुद्देशदायकस्य भिक्षोः सचेत्चाङ्क्रम्यमाणस्यागच्छति नवकश्(४८) च भवति तेन सामीचीं कृत्वा धातुसाम्यं पृष्ट्वा कायमवनाम्य ऋजुकचित्तेन सगौरवेण पदपरिहाणिकया उद्देशो ग्रहीतव्यः; अथ वृद्धतरको भवति, तेन धातुसाम्यं पृष्ट्वा कायमवनाम्य ऋजुकचित्तेन सगौरवेण पदपरिहाणिकगा उद्देशो ग्रहीतव्यः; सचेत्तिष्ठत आगच्छति नवकश्च भवति तेन सामीचीं कृत्वा धातुसाम्यं पृष्ट्वा उत्कुटुकेन कृत्वा नीचतरके वा आसने निषद्य ऋजुकचित्तेन सगौरवेणोद्देशो ग्रहीतव्यः; अथ वृद्धो भवति तेन धातुसाम्यं पृष्ट्वा उत्कुटुकेन स्थित्वा नीचतरके वा आसने निषद्य ऋजुकचित्तेन सगौरवेण उद्देशो ग्रहीतव्यः; यथा तिष्ठत एवं निषण्णस्य निपन्नस्य च योजयितव्यम्: उद्देशदायकेन भिक्षुणा स्वभ्यस्तं सुपरिचितं निःसंधिग्धं च कृत्वा उद्देशो दातव्यः; उद्देशग्राहकेनापि सुपरिपृष्टं सूद्गृहीतं निःसंदिग्धं च कृत्वा उद्देशो ग्रहीतव्यः; उद्देशदायको भिक्षुरुद्देशग्राहकश्च यथाप्रज्ञप्तानासमुदाचारिकान् धर्मान्न समादाय वर्तते, सातिसारो भवति ______________________________________________________________ थे मिस्छिएf ओf थे सिx मोन्क्स् षड्वर्गिका भिक्षवो जनपदचारिकां चरन्तो रात्रौ विहारं संप्राप्ता यथसंस्तुतिकया भिक्षुभिः प्रतिशामिताः; ते कथयन्ति: आयुष्मन्तः किं तिष्ठथ शयनासनोद्देशकं शब्दयत; ते कथयन्ति: किमर्थम्? शयनासनमुद्देष्टुम्; ते कथयन्ति: शयनासनं सुखं स्वप्ताः प्रभातायां रजन्यामुद्दिष्ययिष्यथ इति; ते पर्यवस्थिता कथयन्ति: यूयं तिष्ठत एव शास्तुः शासनमन्तर्धापयत; यद्यस्ति कौकृत्यमुद्दिषत यथावृद्दिहिकया (४९) शयनासनम्; वाग्बलिनस्ते; शयनासनोद्देशकेन संत्रस्तेनोद्दिष्टम्; षड्वर्गिका वृद्धान्ते शयनासनं गृहीत्वा शयिताः; यावन्नवका उद्दिश्यन्ते तावत्प्रभाता रजनी; षड्वर्गिका लघ्व्लघ्वेवोत्थाय कथयन्ति: आयुष्मन्तो गृह्णीत शयनासनम् (अ ३३० ), गच्छाम इति; ते भिक्षुभिरुच्यन्ते: आयुष्मन्तो युष्माभिरेकरात्रस्यार्थाय कृत्स्नां रात्रिं भिक्षुसंघो विहेठितः अहो बत यूयमिहैव तिष्ठत; ते कथयन्ति: नन्दोपनन्द श्रावस्तीं गच्छामः सवातला एत इति कृत्वा प्रक्रान्ताः; एतत्प्रकरणं भिक्षवो भगवत आरोचयन्ति; अस्यामुत्पत्तौ भगवानाह: तस्मात्तर्हि भिक्षवो न रात्रौ शयनासनमुद्देष्टव्यम्; यदि रात्रावागच्छन्ति यथासंस्तुतिकया प्रतिश्रामयितव्या ______________________________________________________________ दिस्चिप्लिनर्य्प्रेस्च्रिप्तिओन्स् जनपदाद्भिक्षुश्चैत्यवन्दकः श्रावस्तीमागतः; स तत्रागोचरकुशलः काल्यमेवोत्थाय भगवत्सकाशमुपसंक्रान्तः भगवतः पादाभिवन्दनं कृत्वा स्थविरस्थविराणां च भिक्षूणां श्रावस्तीं पिण्डाय प्राविक्षत्; तस्य पिण्डाय चरतः प्राप्तवेला; तत्रैव कुड्यमूलं निश्रित्य भक्तकृत्यं कर्तुमारब्धः; अनाथपिण्डदश्च तेन पथा चैत्याभिवन्दकः संप्रस्थितः; स तेन दृष्ट उक्तश्च: आर्य समन्तप्रासादिके शासने प्रव्रज्य किमाराटिकां करोषि इति; स कथयति: आयुष्मन् कात्राराटिका, न पश्यसि वेलामासन्नामिति; स कथयति: मदीयं गृहं कस्मान्न गतः इति; किं नाम त्वम्; अनाथपिण्डदः; अस्ति मया श्रुतं तेषु (५०) तेषु सूत्रेष्वनाथपिण्डदो गृहपतिरनाथपिण्डदो गृहपतिरिति, नाहं त्वा जाने नापि गृहम्; अनाथपिण्डदो गृहपतिः संलक्षयति: अप्रकृतिज्ञोऽयं भिक्षुर्दूरागतः, ध्रुवं न मां वेत्ति ःनापि मम गृहम्ः; किमत्र प्राप्तकालं भगवन्तमालोकयामि यावच्च श्रावस्ती यावच्च जेतवनमत्रान्तरात्परिक्रमणकां कारयामि इति विदित्वा येन भगवांस्तेनोपसंक्रान्तः; उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषण्णः; एकान्तनिषण्णोऽनाथपिण्डदो गृहपतिर्ब्व्हगवन्तमिदमवोचत्: आगन्तुका भदन्त भिक्षव अगोचरकुशला पिण्डपातमटन्तः कालातिक्रमतया कुड्यमूलं निश्रित्य भक्तकृत्यं कुर्वन्ति; अश्रद्धा अनेनाङ्गेनार्यकान् ध्वंसयिस्यन्ति; तद्यदि भगवाननुजानीयादहं यावच्च श्रावस्ती यावच्च जेतवनमत्रान्तरात्परिक्रमणकां कारयेयमिति; यस्य यत्र वेला भविष्यति स तत्र पिण्डपातं परिभोक्ष्यते इति; भगवानाह: तस्माद्गृहपतेऽनुजानामि कारय इति; तेन यावच्च श्रावस्ती यावच्च जेतवनमत्रान्तरात्परिक्रमणका कारिता; यस्य भिक्षोर्यत्र वेला भवति स तत्र भक्तकृत्यं करोति अपरेषां भिक्षूणां पानीयविघातो भवति; अनाथपिण्डदेन गृहपतिना तत्र कूपः कारितः त्रिकटुकस्य त्रिफलायाश्च शकटभार उत्क्षिप्तः; तत्पानीयं स्वादु संपन्नं सर्वलोकप्रख्यातम्; जनकायः श्रुत्वा आगतः; भिक्षवो वारयन्ति; श्रावस्तीनिवासिनः: आर्या वयं युष्माकं सर्वोपकरणैः प्रत्युपस्थितः, यूयं सर्वलोकसाधारणं पानीयं वारयथ इति; एतत्प्रकरणं भिक्षवो भगवत आरोचयन्ति; भगवानाह: न निवारयितव्या इति; मातृग्रामो भिक्षूणां पानीयं याचते; भिक्षवो नानुप्रयच्छन्ति; (अ ३३० ) भगवानाह: दातव्यम्; उक्तं भगवता: मातृग्रामं समन्तपाशं मारबन्धनमिति; भिक्षवः पानीयमनुप्रयच्छन्तो मातृग्रामे संरज्यन्ते; यावदन्यतरा स्त्री रूपयौवनसंपन्ना तरुणकस्य भिक्षोरन्तिकेऽत्यर्थमवेक्षावती (५०) तत्पानीयं याचते; योऽपि तस्यामवेक्षावान् प्रतिबन्धचित्तः; निवार्यमाणोऽप्यच्छिन्नधारया ददाति एवं सापि निरीक्षते, पिबति, बत पानीयं विषमं गतम्, कालगता; अक्पार्था भिक्षवोऽवध्यायन्ति क्षिपन्ति विवाचयन्ति; एतत्प्रकरणं भिक्षवो भगवत आरोचयन्ति; अस्यामुत्पत्तौ भगवानाह: या स्त्रीर्भिक्षोरन्तिके अवेक्षावती भवति प्रतिबद्धचित्ता भवति तस्या स्वयं न दातव्यम्; न च मातृग्रामस्य अच्छिन्नया धारया पानीयं दातव्यम्; अन्तरान्तरा वारिधारा च्छेत्तव्या वक्तव्या वा अञ्जलिं पूरयित्वा पिब इति, अन्यथा सातिसारः तेन खलु समयेन येऽग्रपिण्डपातं जेतवने प्रतिपादयन्ति ते तत्रैव दातुमारब्धाः; षड्वर्गिकैः श्रुतम्; ते परिक्रमणिकां गत्वावस्थिताः; येन आनीयते अगरपिण्डपातस्तं पृच्छन्ति; यदि पायसो भवति पात्रमुपनामयन्ति; अथ पानीयपेया भवति, कथयन्ति: महर्धिकः संघः, संघः स महानुभावः, संघायानुप्रयच्छत, एवं खण्डखाद्यकादि योजयितव्यम्; अल्पार्था भिक्षवोऽवध्यायन्ति क्षिपन्ति विवाचयन्ति; एतत्प्रकरणं भिक्षवो भगवत आरोचयन्ति; अस्यामुत्पत्तौ भगवानाह: न भिक्षुणा परकीये लाभे संनिपतितव्यम्: संनिपतति, सातिसारो भवति; उक्तं भगवता: न भिक्षुणा परकीये लाभे संनिपतितव्यमिति भिक्षवः केनचित्करणीयेन विहारान्तरं गच्छन्ति; तेषां तत्र गतानां वेला आसन्ना भवति; कौकृत्यान्न परिभुञ्जते; एतत्प्रकरणं भिक्षवो भगवत आरोचयन्ति; अस्यामुत्पत्तौ भगवानाह: संचिन्त्य न गन्तव्यमन्यथा गतानां यदि वेला भवति भोक्तव्यम्, नात्र कौक्ट्र्त्यं करणीयमिति (५२) सकृच्छ्रः कालो वर्तते; भिक्षवो विहारान्तरं गताः; ते तत्र भिक्षून् भुञ्जानां दृष्ट्वा पुनराकांक्षन्ते भोक्तुम्; ःकौकृत्यान्ः न परिभुञ्जन्ते; एतत्प्रकरणं भिक्षवो भगवत आरोचयन्ति; अस्यामुत्पत्तौ भगवानाह; यन्न गृहीतं पूर्वविहारे तच्चेदपरिमितं चार्यते ग्रहीतव्यम्; अथ भिक्षुप्रामाण्यं कृतं भवति न ग्रहीतव्यम्; गृह्णाति, सातिसारो भवति ______________________________________________________________ नेfअरिओउस्दोइन्ग्सोf थे मोन्क्सश्वक अन्द्पुनर्वसुक अथ भगवान् काशिषु जनपदेषु चारिकान् चरन् किटागिरिमनुप्राप्तः; तेन खलु समयेन किटागिरावश्वकपुनर्वसुकौ भिक्षू प्रतिवसतः; ताभ्यां श्रुतं: भगवान् काशिषु जनपदेषु चारिकां चरित्वा इहागमिष्यति सार्धं भिक्षुसंघेन इति; श्रुत्वा च पुनः संलक्षयतः: भिक्षवोऽस्मान् शास्तुः संनिधौ चोदयिष्यन्ति ःस्मारयिष्यन्तिः अलज्जितेन वा वैतरिकेण वा; यन्नु वयं भगवतोऽर्थाय महल्लकं विहारं स्थापयित्वा भिक्षूनारभ्य त्रीन् शयनासनोद्देशकान् कारयेम, षट्शयनासनग्राहकान्; त्रयः शयनासनोद्देशलाः कतमे? हैमन्तिको ग्रैष्मिको (अ ३३१ ) वर्षिकश्च; षट्शयनासनग्रहकाः कतमे? सर्वो विहार उद्देष्टव्यः, सर्वो विहारसामन्तकः, सर्वः परिगणः, सर्वः परिगणसामन्तकः, सर्व आरामः सर्वः आरामसामन्तकः; यदि कथयन्ति विहारमुद्दिशतेति वक्तव्या उद्दिष्टोऽयम्; परिगणमुद्दिशत एषोद्दिष्टः; विहारसामन्तकमुद्दिशत एषोऽप्युद्दिष्ट; आराममुद्दिशत एषोऽप्युद्दिष्टः; आरामसामन्तकमुद्दिशत एषोऽप्युद्दिष्टः; ते अलयना अप्रतिष्ठिता नास्मान् चोदयिष्यन्ति स्मारयिष्यन्ति अलज्जितेन वा वैतरिकेण वा; ताभ्यां त्रयः शयनासनोद्देशका कारिताः, षाट्शयनासनग्राहकाः; (५३) यावद्भगवान् किटागिरिमनुप्राप्तः; ताभ्यां भगवतः पूर्वकल्पित एव विहारः; भिक्षवः कथयन्ति: आयुष्मन्तौ शयनासनमुद्दिशतां विहारं च; कथयतः: पूर्वोद्दिष्टको विहारः; परिगणमुद्दिषत; सोऽप्युद्दिष्टः; विहारसामन्तकमुद्दिशत; सोऽप्युद्दिष्टः; परिगणसामन्तकमुद्दिशत; सोऽप्युद्दिष्टकः; आराममुद्दिशत; सोऽप्युद्दिष्टकः; आरामसामन्तकमुद्दिशत; सोऽप्युद्दिष्टकः; यतस्तौ सर्वावस्थौ नोद्दिशतः ततोऽन्ते आरामस्योच्चशब्दो महाशब्दो जातः; जानका पृच्छका बुद्धा भगवन्तो जानन्तः पृच्छन्ति, अजानन्तो न पृच्छन्ति; काले पृच्छन्ति; कालातिक्रान्तं न पृच्छन्ति, अर्थोपसंहितं पृच्छन्ति, अनर्थोपसंहितं न पृच्छन्ति, सेतुसमुद्घातो बुद्धानां भगवतामनर्थोपसंहितायां पृच्छायां; तत्र कालज्ञा बुद्धा भगवन्तः अर्थोपसंहितायां पृच्छायाम्; पृच्छति बुद्धो भगवानायुष्मन्तनानन्दम्; किमेष आनन्द अन्ते आरामस्य उच्चशब्दो महाशब्दो जातः महाजनकायस्य च निर्घोषः? स कथयति: अश्वकपुनर्वसुकाभ्याम् ःभिक्षूभ्यांः भिक्षूनारभ्या त्रयः शयनासनोद्देशकाः कृताः, षट्शयनासनग्राहकाः; भिक्षवः शयनासनं न लभन्ते; तेनायमन्ते आरामस्य उच्चशब्दो महाशब्दो महाजनकायस्य च निर्घोषः; भगवानाह: कलहकारकानानन्द मया भिक्षून् संधाय त्रयः शयनासनोद्देशकाः षट्शयनासनग्राहकाः कृताः, नोऽत्र प्रकृतिस्थकानाम्; तस्मान्न भिक्षुभिः प्रकृतिस्थकान् भिक्षूनारभ्य त्रयः शयनासनोद्देशकाः कर्तव्याः षट्शयनासनग्राहकाः; कुर्वन्ति, सातिसारा भवन्ति ______________________________________________________________ थे मिस्छिएf ओf थे सिx मोन्क्सगैन् भगवान् कोशलेषु जनपदेषु चारिकान् चरनन्यतरस्मिनग्रामकेऽरण्यायतने रात्रिवासमुपगतः सार्धं भिक्षुसंघेन; षड्वर्गिकैर्भगवतोऽर्थाय एकं शोभनवृक्षं स्थापयित्वा (५४) अन्ये शोभनवृक्षा आत्मना गृहीताः; स्थविरस्थविराणां भिक्षूणां कोटरवृक्षा प्राप्ताः; राज्ञा प्रसेनजिता कोशलेन श्रुतम्; स चतुरङ्गेन बलकायेन प्रत्युद्गतः; स भगवतः पादाभिवन्दनं कृत्वा स्थविरस्थविरान् पर्येषते; यावत्पश्यति षड्वर्गिकान् शोभनेषु वृक्षेस्ववस्थापितान्; स्थविरस्थविरान् कोटरवृक्षेषु; स हुमिति कृत्वा येन भगवांस्तेनोपसंक्रान्तः; उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वैकान्ते निषण्णः; एकान्तनिषण्णो राजा प्रसेनजित्कोशलो (अ ३३१ ) भगवन्तमिदमवोचत्: अहमस्मि भदन्त राजा क्षत्रियो मूर्धाभिषिक्तः प्रभुः सर्वविषयोद्भवानां रत्नानाम्; सर्वं प्रणीतवस्तु तन्मम; ःयद्ः अवशिष्टं यथार्हं तद्देवीनां कुमाराणाममात्यानां बटबलाग्रस्य; भगवानप्युत्तरो धर्मराजा, आर्यकौण्डिन्यशारिपुत्रमौद्गल्यायनकाश्यपरेवतप्रभृतयो महाश्रावका कोटरवृक्षेष्ववस्थिताः; षड्वर्गिकास्तु शोभनवृक्षेषु; अहो बत भगवान् वृक्षानपि यथावृद्धिकया प्रज्ञपयेदनुकम्पामादाय इति; अधिवासयति भगवान् राज्ञः प्रसेनजितः कोशलस्य तूष्णींभावेन; अथ राजा प्रसेनजित्कोशलो भगवतस्तूष्णींभावेनाधिवासनां विदित्वा भगवतः पादौ शिरसा वन्दित्वा उत्थायास्नात्प्रक्रान्तः; अस्यामुत्पत्तौ भगवानाह: तस्मात्तर्हि भिक्षवो वृक्षा अपि यथावृद्धिकया उद्देष्टव्या स्थण्डिलान्यपि शाद्वलान्यपि इति; उक्तं भगवता: वृक्षा अपि यथावृद्धिकया उद्देष्टव्या स्थण्डिलानि शाद्वलान्यपि इति भिक्षवः स्वयमेवोद्दिशन्ति; भगवानाह: विहारोद्देशको भिक्षुः संमन्तव्यः; भिक्षवोऽविशेषेण संमन्यन्ते; भगवानाह: पञ्चभिर्धर्मैः समन्वागतो विहारोद्देशको भिक्षुरसंमतो न संमन्तव्यः, संमतश्चावकाशयितव्यः; कतमैः पञ्चभिः? छन्दाद्गच्छति द्वेषान्मोहाद्भयाद्गच्छति उद्दिष्टानुद्दिष्टविहारं न जानाति; एभिः पञ्चभिर्धर्मैः समन्वागतः विहारोद्देशकोऽसंमतो न संमन्तव्यः, संमतश्चावकाशयितव्यः; (५४) पञ्चभिस्तु धर्मैः समन्वागतो विहारोद्देशकः असंमतः संमन्तव्यः, संमतश्च नावकाशयितव्यः; कतमैः पञ्चभिः? न छन्दाद्गच्छति न द्वेषान्न भयान्न मोहाद्गच्छति उद्दिष्टानुधिष्टं च जानाति; एभिः पञ्चभिर्धर्मैः समन्वागतो विहारोद्देशकः असंमतश्च संमन्तव्यः, संमतश्च नावकाशयितव्यः एवं च पुनः संमन्तव्यः: शयनासनप्रज्ञप्तिं कृत्वा गण्डीमाकोट्य पृष्ठवाचिकया भिक्षून् समनुयुज्य सर्वसंघे संनिषण्णे संनिपतिते पूर्ववद्यावदुत्साहयितव्यः; उत्सहसे त्वमेवंनामा संघस्य विहारानुद्देष्टुमिति; सचेदुत्सहते ःतेन वक्तव्यमुत्सहे इति; ततः पश्चाद्ः एकेन भिक्षुणा ज्ञप्तिं कृत्वा कर्म कर्तव्यम्; शृणोतु भदन्ताः संघः, अयमेवंनामा विहारोद्देशको भिक्षुरुत्सहते संघस्य विहारानुद्देष्टुम्; सचेत्संघस्य प्राप्तकालं क्षमेत, अनुजानीयट्संघो यत्संघ एवंनामानं विहारोद्देशकं संमन्येत इत्येषा ज्ञाप्तिः; कर्म कर्तव्यम्; शृणोतु भदन्ताः संघः, अयमेवंनामा विहारोद्देशको भिक्षुः उत्सहते संघस्य विहारानुद्देष्टुं तत्संघ एवंनामानं विहारोद्देशकं भिक्षुं संमन्यते; येषामायुष्मतां क्षमते एवंनामानं विहारोद्देशकं भिक्षुं संमन्तुं तेत्तूष्णीम्; न क्षमते, भाषन्ता; संमतः संघेन एवंनामा विहारोद्देशको भिक्षुः; क्षान्तमनुज्ञातं संघेन यस्मात्तूष्णीम्; एवमेतद्धारयामि; यथा विहारोद्देशकः एवं भक्तोद्देशकः यवागूचारदः खाद्यकभाजकः यत्किंचिच्चारकः भाण्डगोपकः चीवरगोपकः ःचीवरभाजकःः वर्षाशाटिगोपकः वर्षाशाटीभाजकः प्रेषकः; पञ्चभिर्(५६) धर्मैः समन्वागतः प्रासादवारिको भिक्षुरसंमतो न संमन्तव्यः, ःसंम्न्तश्चावकाशयितव्यःः; कतमैः पञ्चभिः? छन्दाद्गच्छति द्वेषान्मोहाद्भयाद्गच्छति, प्रासादिकाप्रासादिकं च न जानाती; पञ्चभिस्तु धर्मैः समन्वागतः प्रासादवारिको भिक्षुरसंमत संमन्तव्यः, संमतश्चानवकाशयितव्यः; कतमैः पञ्चभिः? न छन्दाद्गच्छति, न द्वेषान्न मोहान्न भयाद्गच्छति प्रासादिकाप्रासादिकं च जानाति उद्दानम् विहारभक्तोद्देशको यवागूखाद्यकेन च । यत्किंचिद्भण्डगोपकश्चीवरद्वयमेव च ॥ वर्षाशाटी च गोपश्च भाजकः प्रेषकस्तथा । प्रासादवारिकश्चैव पुद्गला द्वाद्श स्मृताः ॥ शयनासनवस्तु समाप्तम् ******************************************************************************* इन्देx ओf थे एन्ग्लिस्ह्तित्लेसिन् थे शयनासनवस्तु: ओल्द्मोन्क्सरे एन्तित्लेद्तो वेनेरतिओन् ओल्धोउसे-होल्देर्स्, एत्च्., अरे नोतेन्तित्लेद्तो वेनेरतिओन्४ थे स्तोर्योf थे fरन्चोलिने, थे हरे, थे मोन्केयन्द्थे एलेफन्त् थे बुद्ध एउलोगिसेस्थे ओर्देर्ब्यगे थे इन्स्तितुतिओनोf विहारस् थे स्तोर्योf अनाथपिण्डद: हिस्बिर्थन्द्wओन्देर्स् अनाथपिण्डद इन्वितेस्थे बुद्ध अनाथपिण्डद इन्वितेस्थे बुद्ध तो श्रावस्ती शारिपुत्र लेअवेस्fओर्श्रावस्ति ओब्स्त्रुच्तिओन् ब्य्तीर्थ्यस् तीथ्यसन्द्शारिपुत्र चोन्तेस्त् देfएअतोf थे तीथ्यस् चोन्वेर्सिओनोf थे तीथ्यस् चोन्स्त्रुच्तिओनोf थे विहारस् मेस्सेन्गेर्तो बुद्ध बुद्ध अर्रिवेस्तो श्रावस्ती एffएच्त्स्fएल्त्fओल्लोwइन्ग्बुद्धऽसर्रिवल् थे जेतवन प्रेविओउस्बिर्थ्सोf अनाथपिण्डद अत्थे तिमे ओf थे सेवेन् बुद्धस् अनाथपिण्डद हस्थे पोwएर्तो सेए अब्स्चोन्देद्त्रेअसुरेस्, नो मत्तेर्wहेथेर्च्लोसे ओर्fअरwअय् थे स्तोर्योf थे प्रत्येकबुद्ध (चोन्चेर्निन्ग प्रेविओउस्लिfए ओf अनाथपिण्डद) दिस्चिप्लिनर्य्प्रेस्चिप्तिओन्स् उपनन्दऽस्मिस्देमेअनोउर्स् थे स्तोर्योf थे दोग्wहिछ्wअस्तोओ ग्रेएद्य्(बेइन्ग प्रेविओउस्बिर्थोf उपनन्द) प्रेचौतिओन्स्तो तके अगैन्स्तॄउअर्रेल्सोमे मोन्क्स् थे चरे fओ थे सिच्क्मोन्क्सन्दुपनन्दऽस्मिस्छिएf अगैन् थे वरिओउस्ब्लेस्सिन्ग्सोf थे मेन् wहो मस्तेर्थे विनय: थे सिx पेन्तद्स् उपालि इस्थे fओरेमोस्तमिद्स्त्थेम् wहो मस्तेरन्द्क्नोw थे विनय. थे तेअछिन्गोf थे विनय. थे तेअछिन्गोf थे विनय थे मिस्छिएf ओf थे सिx मोन्क्स् दिस्चिप्लिनर्य्प्रेस्चिप्तिओन्स् नेfअरिओउस्दोइन्ग्सोf थे मोन्क्सश्वक अन्द्पुनर्वसुक थे मिस्छिएf ओf थे सिx मोन्क्सगैन्