एलिमिनतिओनोf अल्ल्देस्तिनिएस्, सन्स्क्रितन्द्तिबेतन् तेxत्स्wइथिन्त्रोदुच्तिओन्, एन्ग्लिस्ह्त्रन्स्लतिओनन्द्नोतेस्. देल्हि १९८३. इन्पुत्ब्य्क्लौस्wइल्ले (ग्”त्तिन्गेन्, गेर्मन्य्) ... = बोल्द् ___________________________________________________________________ थिस्तेxत्fइले इस्fओर्रेfएरेन्चे पुर्पोसेसोन्ल्य्! चोप्य्रिघ्तन्द्तेर्म्सोf उसगे अस्fओर्सोउर्चे fइले. तेxत्चोन्वेर्तेद्तो च्लस्सिचल्सन्स्क्रितेxतेन्देद्(च्स्x) एन्चोदिन्ग्: देस्च्रिप्तिओन् छरच्तेर् =अस्चिइ लोन्ग आ २२४ लोन्ग आ २२६ लोन्गि ई २२७ लोन्गि ई २२८ लोन्गु ऊ २२९ लोन्गु ऊ २३० वोचलिच्र् ऋ २३१ वोचलिच्र् ऋ २३२ लोन्ग्वोचलिच्र् ॠ २३३ वोचलिच्ल् ळ २३५ लोन्ग्वोचलिच्ल् ॡ २३७ वेलर्न् ङ् २३९ वेलर्न् ङ् २४० पलतल्न् ञ् १६४ पलतल्न् ञ् १६५ रेत्रोfलेx त् ट् २४१ रेत्रोfलेx त् ट् २४२ रेत्रोfलेx द् ड् २४३ रेत्रोfलेx द् ड् २४४ रेत्रोfलेx न् ण् २४५ रेत्रोfलेx न् ण् २४६ पलतल्स् श् २४७ पलतल्स् श् २४८ रेत्रोfलेx स् ष् २४९ रेत्रोfलेx स् ष् २५० अनुस्वर ं २५२ चपितलनुस्वर ं २५३ विसर्ग ः २५४ लोन्गे ¹ १८५ लोन्गो º १८६ लुन्देर्बर् × २१५ रुन्देर्बर् Ÿ १५९ नुन्देर्बर् ­ १७३ कुन्देर्बर् É २०१ तुन्देर्बर्  १९४ ओथेर्छरच्तेर्सोf थे च्स्x एन्चोदिन्ग्तब्ले अरे नोतिन्च्लुदेद्. उन्लेस्सिन्दिचतेदोथेर्wइसे, अच्चेन्त्स्हवे बेएन् द्रोप्पेदिनोर्देर् तो fअचिलितते wओर्द्सेअर्छ्. fओर चोम्प्रेहेन्सिवे लिस्तोf च्स्x अन्दोथेर्ग्रेतिलेन्चोदिन्ग्स् अन्द्fओर्मत्स्सेए: www.सुब्.उनि-गोएत्तिन्गेन्.देबेने_१।fइइन्दोलो।ग्रेतिल् ।ग्रेत्दिअच्.प्द्f अन्द् www.सुब्.उनि-गोएत्तिन्गेन्.देबेने_१।fइइन्दोलो।ग्रेतिल् ।ग्रेत्दिअस्.प्द्f ___________________________________________________________________ (स्द्प्१२०) इ ओं नमः श्रीवज्रसत्त्वाय । एवं मया श्रुतमेकस्मिन् समये भगवान् सर्वदेवोत्तमनन्दवने विहरति स्म । मणिसुवर्णशाखालताबद्धवनस्पतिगुल्मौषधिकमलोत्पलकर्णिकारबकुलतिलकाशोकमान्दारवमहामान्दारवादिभिर्नानाविधैः पुष्पैरुपशोभिते । कल्पवृक्षसमलंकृते । नानालंकारविभूषिते । नानापक्षिगणकूजिते । तूर्यमुकुन्दवेणुभेरीप्रभृतिप्रणदिते । शक्रब्रह्मादिदेवाप्सरोभिर्नानाविधाभिर्विक्रीडिते । सर्वबुद्धबोधिसत्त्वाधिष्ठिते । सर्वशक्रब्रह्मादिदेवविद्याधरदेवाप्सरःपर्षत्कोटीनियुतशतसहस्रैरनेकयक्षराक्षसासुरगरुडगन्धर्वकिन्नरमहोरगनागादिपर्षद्भिर्नानाविधाभिर्महाबोधिसत्त्वकोटीशतसहस्रैरष्टाभिः । तद्यथा । प्रतिभानमतिना च बोधिसत्त्वेन महासत्त्वेन । अचलमतिना च । विपुलमतिना च । समन्तमतिना च । अनन्तमतिना च । असमन्तमतिना च । कमलमतिना च । महामतिना च । दिवामतिना च । विविधमतिना च । अशेषमतिना च । समन्तभद्रेण च । एवं प्रमुखैरवैवर्तिकबोधिसत्त्वमहासत्त्वसंघैरनन्तापर्यन्तैः सत्कृतः । गुरुकृतोऽर्चितः पूजितः सुप्रकृष्टो महापर्षद्गणमध्ये महाब्रह्मा पद्मासने निषण्णः सर्वदुर्गतिपरिशोधननामसमाधिं समापन्नः समनन्तरमेवापायत्रयसन्ततिविमोक्षकनाममहाबोधिसत्त्वरश्मिस्फरणसंहरणानेकमाला स्वोर्णाकोशान्निश्चचार । तेन त्रिसहस्रमहासहस्रलोकधातुरवभासितः । तेनावभासेन सर्वसत्त्वाश्चित्तक्लेशबन्धनान्मोचयित्वा पृथक्पृथक्संप्रापितो नन्दवनं च समन्तादवभासयित्वा । (स्द्प्१२२) नानापूजामेघैः पूजयित्वा शतसहस्रं प्रदक्षिणीकृत्य शिरसा वन्दित्वा भगवतः पुरस्ताद्विमलासनेरुपरि निषद्यैवमाहुः अहो बुद्ध अहो बुद्धस्य धर्मशोभनम् ॥ तत्कस्य हेतोः ॥ अस्माकं दुर्गतिपरिशोधनम् ॥ बोधिसत्त्वचर्याप्रतिष्ठापनञ्च ॥ अथ देवेन्द्रो भगवन्तं शतसहस्रं प्रदक्षिणीकृत्य वन्दित्वा भगवन्तमेतदवोचत् । भगवन् केन कारणेन बुद्धरश्मिसमन्तावभासेन दुर्गतिसमन्तान्मोचयित्वा विमुक्तिमार्गे प्रतिष्ठापिता आश्चर्यं सुगत । भगवानाह । नेदं देवेन्द्राश्चर्यं बुद्धानां भगवतां सूपचिताप्रमाणपुण्यसंभाराणाम् । देवेन्द्र सम्यक्संबुद्धा अपरिमितगुणरत्नाकरभूताः । देवेन्द्र सम्यक्संबुद्धानामप्रमाणोपायाः पर्मिष्पन्नाः । देवेन्द्र बुद्धानां भगवतामपरिमिता प्रज्ञोपचिता । देवेन्द्र बुद्धानामप्रमाणा वीर्या । बुद्धेन भगवताप्रमाना विनेयजना भाजनीभूताः कृताः । असमसमज्ञानाभि बुद्धा भगवन्तोऽसमसमर्द्धिसमन्वागताः । भगवन्तोऽसमसमप्रणिधानसमन्वागताः । तस्माद्देवेन्द्र बुद्धानां भगवतां यथा भाजनं तथा सत्त्वार्थकरणञ्च । यथा विनेयं तथा सत्त्वानामर्थकरणञ्च । यथाभिप्रायं तथा सत्त्वार्थकरणं भवतीति । ज्ञातव्यमित्यत्र संशयशङ्काविमतिर्न कर्तव्या । तथागतवैनेयं न भवतीति नेदं स्थानं विद्यते । अथ देवेन्द्रः स्वकीयादासनादुत्थाय पुनरपि भगवतो विपुलां महतीं पूजां कृत्वा भगवन्तमेतदवोचत् । सर्वसत्त्वानां हितकरणायानुकम्पाकरणाय शरणकरणाय समहाकृपाकरणाय सर्वाशापरिपूरणकरणाय भगवन्मम प्रतिभानमुत्पादय सुगत मम प्रतिभानमुत्पादय । भगवन् (स्द्प्१२४) इतस्त्रयस्त्रिंशद्देवनिकायाद्विमलमणिप्रभनाम्नो देवपुत्रस्य च्युतस्य कालगतस्य सप्तदिवसा अभूवन् । भगवन् स कुत्रोपपन्नः सुखं दुःखं वानुभवति । इदं भगवन् व्याकुरु सुगत व्याकुरु । भगवानाह । देवेन्द्र प्राप्तकालसमयं ज्ञात्वा श्रोष्यसि । देवेन्द्र आह । भगवनयं कालः । अयं समयः सुगत । भगवानाह । देवेन्द्र विमलमणिप्रभनामदेवपुत्र इतश्च्युत्वावीचौ महानरक उत्पन्नस्तत्र द्वादशवर्षसहस्राणि तीव्रं कटुकं दुःखमनुभवति । पुनरल्पनरके दशवर्षसहस्राणि दुःखमनुभवति । पुनरपि तिर्यक्प्रेतेषूत्पन्नो दशवर्षसहस्राणि दुःखमनुभवति । पुनरपि प्रत्यन्तजनपदेषूत्पन्नो बधिरमूकाव्यक्तस्वभावतामनुभवति षष्टिवर्षसहस्राणि । पुनरपि चतुरशीतिवर्षसहस्राणि व्याधिरक्तातिसारकुष्ठविघातपीडितश्च बहुजननिन्दितोऽशेषपरित्यक्तो हीनकुलो भवति । दुःखदुःखपरंपरां न विच्छेदयति । अन्येषामप्यहितं करोति । नानाकर्मावरणानि चाविच्छेदेन करोति । पुनरप्यन्योन्यदुःखपरंपरामनुभवति । अथ खलु शक्रादयः सर्वदेवपुत्राः श्रुत्वा भ्रान्तास्त्रस्ताः खिन्ना अधोमुखं पतिताः । पुनरुत्थायैवमाहुः । कथं भगवन् तस्माद्दुःखपरंपरातो मुच्यते । कथं सुगत मुच्यते । केनोपायेन भगवन् दुःखराशेः तस्मान्मुच्यत इति । परित्रानं कुरु भगवन् । परित्राणं कुरु सुगत । भगवानाह । देवेन्द्र चतुरशीतिबुद्धकोटिभिर्भाषितमिदमहमपि भाषे शृणु । अथ खलु देवेन्द्रः पुनरपि भगवन्तं मान्दारवमहामान्दारवपुष्पैर्नानाविधैर्रत्नमुकुटकेयूरकर्णालंकारहारार्धहाराद्यनेकालंकारविशेषैरभ्यर्च्यानेकशतसहस्रवारं प्रदक्षिणीकृत्य प्रणम्य साधु भगवन् साधु सुगतेति । साधुकारेण हर्षयित्वा सदेवकस्य लोकस्य हितसुखकरणायानागतानां सत्त्वानामपायसन्ततिविमोक्षणाय सुभाषितार्थं विज्ञापयामि । अथ पुनरपि ब्रह्मादयो देवगणा (स्द्प्१२६) एवमाहुः । साधु भगवन् साधु सुगत येनानागतानां सत्त्वानां नाममात्रमपि श्रुतवतामपायत्रयमार्गविमोक्षो भवति । स्वर्गदेवलोके वा मनुष्यलोके चोत्पन्नानामनुत्तरसम्यक्संबोधिप्राप्त्यर्थं भाषतु । अथ खलु भगवान् शक्रब्रह्मादिदेवपुत्राणां सर्वतथागतहृदयेनाधिष्ठानार्थममोघवज्राधिष्ठाननामसमाधिं समापन्नः । ओं वज्राधिष्ठानसमये हुम् । एवञ्च समाधिं समापन्नोऽनभिभवनीयवज्राधिष्ठानेनाधिष्ठायेदं सर्वदुर्गतिपरिशोधनराजनामतथागतहृदयं निश्चारयामास । ओं शोधने शोधने सर्वपापविशोधनि शुद्धे विशुद्धे सर्वकर्मावरणविशुद्धे स्वाहा । अस्या विद्याया भाषणानन्तरमेव सर्वसत्त्वानां दुर्गतिर्विनिपातिता सर्वनरकतिर्यक्प्रेतगतिः शोधिता । तीव्रदुःखानि प्रशान्तानि बहवश्च जाताः सुखीमुखीभूताः । पुनरपरं गुह्यहृदयमभाषत । ओं शोधने शोधने शोधय सर्वापायान् सर्वसत्त्वेभ्यो हुं पुनरपरं देवेन्द्रेदं सर्वतथागतहृदयम् । ओं सर्वापायविशोधनि हुं फट् । पुनरपरं देवेन्द्रेदं सर्वतथागतहृदयोपहृदयम् । ओं त्राट् । पुनरपरं देवेन्द्र सर्वदुर्गतिपरिशोधनहृदयम् । हुम् । पुनरपरं देवेन्द्र संक्षेपतः स्मरणमात्रेणाप्यल्पपुण्यसत्त्वानां सर्वदुर्गतिशान्तिकरणायानायासतो विमोक्षणकरमिदं भवति । ओं नमो भगवते सर्वदुर्गतिपरिशोधनराजाय तथागतायार्हते सम्यक्संबुद्धाय । तद्यथा । ओं शोधने शोधने सर्वपापविशोधनि शुद्धे विशुद्धे सर्वकर्मावरणविशोधनि स्वाहा । मूलविद्या । (स्द्प्१२८) ओं सर्ववित्सर्वावरणानि विशोधय हन हुं फट् । ओं सर्वविधुम् । ओं सर्वविध्रीः फट् । ओं सर्वविदः । ओं सर्ववित्त्रां त्राट् । ओं सर्वविदोम् । ओं सर्वविद्धीम् । ओं सर्वविधुम् । ओं सर्ववित्क्रीं त्रट् । ओं सर्वविद्महावज्रोद्भवदानपारमितापूजे हुम् । लास्याया मन्त्रः । ओं सर्वविद्महावज्रोद्भवशीलपारमितापूजे त्राम् । मालाया मन्त्रः । ओं सर्वविद्महावज्रोद्भवक्षान्तिपारमितापूजे ह्रीः । गीताया मन्त्रः । ओं सर्वविद्महावज्रोद्भववीर्यपारमितापूजे अः । नृत्याया मन्त्रः । ओं सर्ववित्सर्वापायविशोधनि धम धम ध्यानपारमितापूजे हुं हुं फट् । धूपाया मन्त्रः । ओं सर्ववित्सर्व दुर्गतिपरिशोधने क्लेशोपक्लेशच्छेदनि पुष्पालोकिनि प्रज्ञापारमितापूजे त्रां हुं फट् । पुष्पाया मन्त्रः । ओं सर्ववित्सर्वापायविशोधनि ज्ञानालोककरि प्रणिधिपारमितापूजे ह्रीः हुं फट् । दीपाया मन्त्रः । ओं सर्ववित्सर्वापायगन्धनाशनि वज्रगन्धोपायपारमितापूजे अः हुं फट् । गन्धाया मन्त्रः । ओं सर्वविद्नरकगत्याकर्षणि हुं जः फट् । वज्राङ्कुशस्य मन्त्रः । ओं सर्वविद्नरकोद्धरणि हुं हुं फट् । वज्रपाशस्य मन्त्रः । ओं सर्ववित्सर्वापायबन्धनमोचनि हुं वं फट् । वज्रस्फोटस्य मन्त्रः । ओं सर्ववित्सर्वापायगतिगहनविशोधनि हुं होः फत् । वज्रावेशस्य मन्त्रः । ओं मैत्रीयहरणाय स्वाहा । मैत्रेयस्य मन्त्रः । ओममोघे अमोघदर्शिनि हुम् । अमोघदर्शिनः । (स्द्प्१२०) ओं सर्वापायजहे सर्वापायविशोधनि हुम् । सर्वापायजहस्य् ओं सर्वशोकतमोनिर्घातनमति हुम् । सर्वशोकतमोनिर्घातनमतेः । ओं गन्धहस्तिनि हुम् । गन्धहस्तिनः । ओं शूरंगमे हुम् । शूरंगमस्य । ओं गगने गगनलोचने हुम् । गगनगञ्जस्य । ओं ज्ञानकेतो ज्ञानवति हुम् । ज्ञानकेतोः । ओममृतप्रभे अमृतवति हुम् । अमृतप्रभस्य । ओं चन्द्रस्थे चन्द्रव्यवलोकिनि स्वाहा । चन्द्रप्रभस्य । ओं भद्रवति भद्रपाले । भद्रपालस्य । ओं जालिनि महाजालिनि हुम् । जालिनीप्रभस्य । ओं वज्रगर्भे हुम् । वज्रगर्भस्य । ओमक्षये हुं हुमक्षयकर्मावरणविशोधनि स्वाहा । अक्षयमतेः । ओं प्रतिभाने प्रतिभानकूटे स्वाहा । प्रतिभानकूटस्य । ओं समन्तभद्रे हुम् । समन्तभद्रस्य । एते भद्रकल्पिकस्य बोधिसत्त्वस्य मन्त्रान् यथाक्रममुच्चारयेत् । अनेन यथोक्ततन्त्रानुसारानुक्रमेण विधानेन प्रत्यहं प्रभातकाल उत्पत्तिक्रमेण भावयमानो भावयेत् । देवतायोगं समाधित्रयमुत्तमं यत्नतो दुर्गतिपरिशोधनसिद्धिर्भवति । पुनरपरं देवेन्द्र सर्वदुर्गतिपरिशोधनतेजोराजस्य तथागतस्य गुह्यहृदयमिदम् । कुलपुत्रो वा कुलदुहिता वा यः कश्चिद्नाममात्रं शृणोति धारयति वाचयति लिखित्वा च शिरसि शिखायां वा बाहौ ग्रीवायां वा बद्ध्वा धारयति तस्येहैव जन्मन्यष्टावकालमरणानि न्मरणसंबन्धस्वप्नप्रकारा (स्द्प्१३२) वा दुर्गतिनिमित्तानि वा तानि सर्वाणि स्वप्नमात्रतो नोपसर्पन्ति । मण्डलञ्च यथावत्प्रवेश्याभिषिक्तो हृदयञ्च जप्त्वा मन्त्रार्थं ये केचिद्भावयन्ति कः पुनर्वादस्तेसां यानि कानिचित्पापानि न निकटीभवन्तीति न दुर्गतिं गच्छन्तीति । पुरुषस्त्रीदेवनागयक्षराक्षसप्रेततिर्यग्नरकादीनां येषां केषाञ्चित्मृतकायेषु मण्डलं प्रवेश्याभिशिक्तेषु ते नरकेषूत्पन्नाः समनन्तरमेवं विमुच्यन्ते देवनिकायेषूत्पद्यन्ते । तत्रोत्पन्नाः सन्तः सर्वतथागतानां धर्मतामभिमुखीकुर्वन्त्यवैवर्तिकाश्च भवन्ति । सन्ततिश्च नियता भवति । सर्वतथागतकुले प्रजाताश्च भवन्ति । प्रहीणावरणाश्च । सर्वतथागतकुलेषु देवकुलेषु वान्यस्मिन् वा सुखमनुभवन्ति । देवेन्द्र संक्षेपतो लौकिकलोकोत्तरसर्वहितसुखमनुभवन्ति । अथ देवेन्द्रो भगवन्तं पूर्ववत्प्रदक्षिणीकृत्य वन्दित्वैवमाह । भगवन् सर्वदुर्गतिवशीभूतानां हितसुखकरणाय यथासत्त्वैः सर्वदुर्गतिपृष्ठीकरणायानायासतोऽनुत्तरसम्यक्संबोध्यधिगमार्थं धर्मं देशयतु । अथ खलु भगवान् शाक्यमुनिः सर्वदुर्गतिपरिशोधनज्ञानवज्रनामसमाधिं समापद्य सर्वतथागतसर्वदुर्गतिपरिशोधनतेजोराजनाममण्डलमभाषत । तत्साधनं शाक्यनाथेन भाषितम् । प्रथमं तावद्योगी विजने मनोऽनुकूलप्रदेशे मृदुसुकुमारासने निषण्णः सुगन्धेन मण्डलं कृत्वा पञ्चोपहारपूजा करणीया । ततः सर्वधर्मनैरात्म्यं भावयित्वा । आत्मानं हुंकारेण वज्रज्वालानलार्कं भावयेत् । तस्य कण्ठे ह्रीःकारेण पद्मं तस्योपरि दलाग्र आकारेण चन्द्रमण्डलं तस्योपरि हुंकारेण पञ्चसूचिकवज्रम् । तद्वज्रं जिह्वायां रीणं भवति । वज्रजिह्वेति । तेन वज्रजिह्वा भवति । मन्त्रजापक्षमो भवेत् । हस्तद्वयस्य मध्ये सिताकारेण चन्द्रमण्डलं तस्योपरि हुंकारेण पञ्चसूचिकवज्रम् । तद्वज्रं करमध्ये निलीयते वज्रहस्तो भवति । सर्वमुद्राबन्धक्षमो भवेत् । (स्द्प्१३४) ततो रक्षाचक्रभावना कर्तव्या । ओं गृह्ण वज्रसमये हुं वम् । इति ब्रुवन् क्रोधतेरिन्तिरीं बध्नीयात् । वज्रबन्धं तले कृत्वा च्छादयेत्क्रुद्धमानसः ॥ गाढमङ्गुष्ठवज्रेण क्रोधतेरिन्तिर्स्मृता ॥ ततो वज्रार्धासननिषण्णो वज्रतेरिन्तिरीं बद्ध्वा वज्रमालाभिषेकं गृह्णीयात् । ओं वज्रज्वालानलार्क हुमभिषिञ्च मामिति । वज्रबन्धेऽङ्गुष्ठद्वयं सहितोत्थितं वज्रबन्धस्योपरि श्लिष्ठं धारयेत् । वज्रतेरिन्तिरी । ओं टुमिति । अनेन द्व्यक्षरकवचेन कवचयित्वा । ओं वज्रज्वालानलार्क हुमित्युदीरयेत् । वामवज्रमुष्टिं हृदये कृत्वा दक्षिणवज्रमुष्टिमुल्लालयन् सर्वविघ्नान् हन्यात् । ततो वज्रानलेन मुद्रासहितेन विघ्नदहनादिकं कुर्यात् । ओं वज्रानल हन दह पच मथ भञ्ज रन हुं फट् इत्युदीरयेत् । अभ्यन्तरवज्रबन्धेऽङ्गुलिज्वालागर्भेऽङ्गुष्ठवज्रमुत्थितमियं वज्रानलमुद्रा । तदनु । वज्रनेत्रि बन्ध सर्वविघ्नानिति । मुद्रायुक्त्या सर्वविघ्नबन्धं कुर्यात् । वज्रबन्धं बद्ध्वाङ्गुष्ठद्वयं प्रसार्य समं धारयेत् । वज्रनेत्रिमुद्रा । प्रसारितवज्रबन्धं भूम्यां प्रतिष्ठाप्याधोबन्धं कुर्यात् । ओं वज्र दृढो मे भव रक्ष सर्वान् स्वाहा । वज्रभैरवनेत्रेण मुद्रासहितेनोर्ध्वबन्धं कुर्यात् । ओं हुलु हुलु हुं फत् । इति । वज्रमुष्टिद्वयं बद्ध्वालातचक्रं भ्रामयित्वा शिरसोपरि तर्जन्यङ्कुशाकारेण धारयेत् । वज्रभैरवनेत्रमुद्रा । तस्याधस्ताद्वज्रयक्षेण मुद्रासहितेन पुनर्बन्धं कुर्यात् । (स्द्प्१३६) ओं वज्रयक्ष हुमिति । वज्राञ्जलेरङ्गुष्ठद्वयं प्रसारितं तर्जनीद्वयं दम्ष्ट्रा । वज्रयक्षमुद्रा । वज्रोष्णीषेण मुद्रायुक्तेन पूर्वां दिशं बन्धयेत् । ओं द्रुं बन्ध हमिति । द्रुंऽइति वा । वज्रमुष्टिद्वयं कन्यसाश्र्ङ्खलाबन्धेन तर्जनीद्वयसूचीमुखं परिवर्तोष्णीषे स्थापयेत् । वज्रोष्णीषमुद्रा । पुनर्वज्रपाशेन तामेव बन्धयेत् । हुं वज्रपाशे ह्रीः इति । वज्रमुष्टिद्वयेन बाहुग्रन्थिं कुर्यात् । वज्रपाशमुद्रा । वज्रपताकया पश्चिमां दिशं बन्धेत् । ओं वज्रपताके पतंगिनि रटेति । वज्रबन्धेऽङ्गुष्ठसत्त्वपर्यङ्कसूचीं कृत्वाग्रासमानामाविदारितान्त्यपटाग्री । वज्रपताकायाः । दिग्विदिक्ष्वध ऊर्ध्वञ्च विघ्ननिकृन्तनं कुर्यात् । वज्रकाल्योत्तरां दिशं बन्धेत् । ह्रीः वज्रकालि रुट्मट् । इति । वज्रयक्षमुद्रामेव मुखे दृढीकृत्य वज्रकाल्याः । वज्रशिखरया दक्षिणां दिशं बन्धेत् । ओं वज्रशिखरे रुट्मट् । इति । वज्रमुष्टिद्वयेन पर्वतोत्कर्षणाभिनयाकारं वज्रशिखरायाः । वज्रकर्मना मण्डलबन्धं कृत्वा प्राकारं दद्यात् । हुं वज्रकर्मेति । पुनरभ्यन्तरप्राकारं वज्रहुंकारेण हुमिति । वज्रमुष्टिद्वयं बद्ध्वा बाहुवज्रं समाधाय कनिष्ठाङ्कुशबन्धिता त्रिलोकविजयनामतर्जनीद्वयं तर्जनी । वज्रहुंकारस्य । इयमेव मध्याग्रद्वयं वज्रं वज्रकर्मणः । (स्द्प्१३८) ततो वज्रचक्रमुद्रया सर्वदुर्गतिपरिशोधनमन्ण्डलं पुरतो निष्पादयेत् । ओं वज्रचक्र हुम् । इति । वज्रमुष्टिद्वयं बद्ध्वा द्व्यग्रान्त्यावज्रबन्धनात् ॥ वज्रचक्रेति विख्याता सर्वमण्डलसाधिका ॥ अनया सर्वदिक्षु प्रदक्षिणतया भ्रामयित्वा सर्वमण्डलनिर्माणं भवति । इमामेव मुखे न्यस्य निरीक्षमाणोऽष्टौ वारान् वज्रचक्रं जपेत् । ततः प्रत्यक्षमिव मण्डलं बुद्ध्यालग्यपुष्पादिभिः संपूज्य सर्वदिक्षु पञ्चमण्डलकेन प्रणमेदनेन । ओं सर्ववित्कायवाक्चित्तप्रणामेन वज्रबन्धनं करोमीति । ततश्चतुःप्रणामं कुर्यात् । तद्यथा । सर्वशरीरेण वज्राञ्जलिप्रसारितेन पूर्वस्यां दिशि प्रणमेदनेन । ओं सर्ववित्पूजोपस्थानायात्मानं निर्यातयामि । सर्वतथागतवज्रसत्त्वाधितिष्ठस्व माम् । इति । ततस्तथैवोत्थाय वज्राञ्जलिं हृदि कृत्वा दक्षिणस्यां दिशि ललाटेण भूमिं स्पृशन् प्रणमेदनेन । ओं सर्ववित्पूजाभिषेकायात्मानं निर्यातयामि । सर्वतथागतवज्ररत्नाभिषिञ्च माम् । इति । ततस्तथैवोत्थाय वज्राञ्जलिबन्धेन शिरसा पश्चिमायां दिशि मुखेन भूमिं स्पृशन् प्रणमेदनेन । ओं सर्ववित्पूजाप्रवर्तनायात्मानं निर्यातयामि । सर्वतथागतवज्रधर्म प्रवर्तय माम् । इति । ततस्तथैवोत्थितो वज्राञ्जलिं शिरसोऽवतार्य हृदि कृत्वोत्तरस्यां दिशि मूर्ध्ना भूमिं स्पृशन् प्रणमेदनेन । ओं सर्ववित्पूजाकर्मणा आत्मानं निर्यातयामि । सर्वतथागतवज्रकर्म कुरुष्व माम् । इति । जानुमण्डलद्वयं पृथिव्यां प्रतिष्ठाप्य वज्राञ्जलिं हृदि कृत्वा सर्वपापं प्रतिदेशयेत् । (स्द्प्१३८) समन्वाहरन्तु मां दशसु दिक्षु सर्वबुद्धबोधिसत्त्वाः सर्वतथागतवज्रमणिपद्मकर्मकुलावस्थिताश्च सर्वमुद्रामन्त्रविद्यादेवता अहममुकवज्रो दशसु दिक्षु सर्वबुद्धबोधिसत्त्वानां पुरतः सर्वतथागतवज्रमणिपद्मकर्मकुलावस्थितानां सर्वमुद्रामन्त्रविद्यादेवतानां च पुरतः सर्वपापं प्रतिदेशयामि । विस्तरेण दशसु दिक्ष्वतीतानागतप्रत्युत्पन्नानां सर्वबुद्धबोधिसत्त्वप्रत्येकबुद्धार्यश्रावकसम्यग्गतसम्यक्प्रतिपन्नानां सर्वसत्त्वनिकायानां च सर्वपुण्यमनुमोदयामि । दशसु दिक्षु सर्वबुद्धान् भगवतः । अप्रवर्तितधर्मचक्रानध्येषे धर्मचक्रप्रवर्तनाय । दशसु दिक्षु सर्वबुद्धान् भगवतः परिनिर्वातुकामान् याचेऽपरिनिर्वाणाय । ततः पुष्पमुद्रां बद्ध्वैवं वदेत् । ओं सर्ववित्पुष्पपूजामेघसमुद्रस्फरणसमये हुम् । इति । धूपमुद्रां बद्ध्वैवं वदेत् । ओं सर्वविद्धूपपूजामेघसमुद्रस्फरणसमये हुम् । दीपमुद्रां बद्ध्वैवं वदेत् । ओं सर्वविदालोकपूजामेघसमुद्रस्फरणसमये हुम् । गन्धमुद्रां बद्ध्वैवं वदेत् । ओं सर्वविद्गन्धपूजामेघसमुद्रस्फरणसमये हुम् । संपुटान्जलिं बद्ध्वैवं वदेत् । ओं सर्वविद्बोध्यङ्गरत्नालंकारपूजामेघसमुद्रस्फरणसमये हुम् । इति । ओं सर्वविधास्यलास्यरतिक्रीडासौख्यानुत्तरपूजामेघसमुद्रस्फरणसमये हुम् । इति । ओं सर्वविदनुत्तरवस्त्रपूजामेघसमुद्रस्फरणसमये हुम् । इति । (स्द्प्१४२) ततः सर्वसत्त्वसंसारदुःखमनुस्मृत्य भगवतो वज्रसत्त्वस्य कर्ममुद्रां बद्ध्वा करुणावशेन सर्वसत्त्वोत्तारणाय बोधिचित्तमुत्पादयेत् । अतीर्णतारणायामुक्तमोचनायानाश्वस्ताश्वासनायापरिनिर्वृतपरिनिर्वातनाय सकलसत्त्वधातोः संसारसमुद्रादुत्तारणाय च । ओं सर्वविद्वज्रपूजामेघसमुद्रस्फरणसमये हुम् । इति । ततो लास्यामुद्रां बद्ध्वैवं वदेत् । सर्वसत्त्वाः सर्वोपकरणसमन्वागता भवन्तु । इच्छामात्रप्रतिबद्धसर्वसंपत्तयः । ओं सर्वविद्महावज्रोद्भवदानपारमितापूजामेघसमुद्रस्फरणसमये हुम् । इति । वज्रमालामुद्रां बद्ध्वैवं वदेत् । सर्वसत्त्वाः सर्वाकुशलकायवाग्मनस्कर्मान्तविगता भवन्तु । सर्वकुशलकायवाग्मनस्कर्मान्तसमन्वागता भवन्तु । ओं सर्वविदनुत्तरमहाबोध्याहारशीलपारमितापूजामेघसमुद्रस्फरणसमये हुम् । इति । गीतामुद्रां बद्ध्वैवं वदेत् । सर्वसत्त्वाः सर्वलक्षणानुव्यञ्जनेन समलंकृतगात्रा भवन्तु । परस्परतो नित्यमभयावैरप्रतिपन्ना हृदयनयनाभिरामा गम्भीरधर्मक्षान्तिकाश्च । ओं सर्वविदनुत्तरमहाधर्मावबोधक्षान्तिपारमितापूजामेघसमुद्रस्फरणसमये हुम् । इति । नृत्यामुद्रां बद्ध्वैवं वदेत् । सर्वसत्त्वा बोधिसत्त्वचर्याभियुक्ता भवन्तु । बुद्धतत्त्वपरायणाः संसारापरित्यागवीर्ययुक्ताः । ओं सर्ववित्संसारापरित्यागवीर्यपारमितापूजामेघसमुद्रस्फरणसमये हुम् । इति । पुष्पामुद्रां बद्ध्वैवं वदेत् । सर्वसत्त्वाः सर्वक्लेशोपक्लेशविगता भवन्तु । सर्वध्यानविमोक्षसमाधिसमापत्त्यभिज्ञाविद्यावशितासंपन्नाः । ओं सर्वविदनुत्तरसौख्यविहारध्यानपारमितापूजामेघसमुद्रस्फरणसमये हुम् । इति । (स्द्प्१४४) धूपामुद्रां बद्ध्वैवं वदेत् । सर्वसत्त्वाः सर्वलौकिकलोकोत्तरप्रज्ञाज्ञानसमन्विता भवन्तु । चतुःप्रतिसंवित्प्राप्ताः सर्वशास्त्रशिल्पज्ञानकलायोगगुणगुह्यविधिज्ञास्तत्त्वदर्शिनः सर्वक्लेशज्ञेयावरणसमुछेदज्ञानप्राप्ताः । ओं सर्वविदनुत्तरक्लेशछेदमहाप्रज्ञापारमितापूजामेघसमुद्रस्फरणसमये हुम् । इति । दीपामुद्रां बद्ध्वैवं वदेत् । सर्वसत्त्वाः सर्वापायविगता भवन्तु । ओं सर्ववित्सर्वापायविशोधनि ज्ञानालोकप्रणिधानपारमितापूजामेघसमुद्रस्फरणसमये हुम् । इति । गन्धामुद्रां बद्ध्वैवं वदेत् । सर्वसत्त्वाः सर्वाज्ञानविगता भवन्तु । ओं सर्ववित्सर्वापायगन्धनाशनि वज्रगन्धोपायपारमितापूजामेघसमुद्रस्फरणसमये हुम् । इति । दशसु दिक्ष्वशेषसर्वतथागतपादमूलगतमात्मानमधिमुच्य कायपरिचर्यार्थम् । ओं सर्ववित्कायनिर्यातनपूजामेघसमुद्रस्फरणसमये हुम् । इति । असमाचलेत्यादि । सर्वत्र जिह्वाशतमुखेन स्तोत्रोपहारमधिमुच्य । ओं सर्वविद्वाग्निर्यातनपूजामेघसमुद्रस्फरणसमये हुम् । इति । सर्वबोधिसत्त्वैकाशयप्रयोगतया धर्मसमतामधिमुच्य । ओं सर्ववित्चित्तनिर्यातनपूजामेघसमुद्रस्फरणसमये हुम् । इति । अभावस्वभावाः सर्वधर्माः शून्यतानिमित्ताप्रणिहिताकारा इत्यधिमुच्य । ओं सर्वविद्गुह्यनिर्यातनपूजामेघसमुद्रस्फरणसमये हुम् । इति । एवं विंशतिप्रकारपूजया सर्वतथागतान् संपूज्यात्मानं निर्यातयेत् । आत्मानं सर्वबुद्धबोधिसत्त्वेभ्यो निर्यातयामि । सर्वदा सर्वकालं प्रतिगृह्णन्तु मां महाकारुणिका नाथा महासमयसिद्धिञ्च प्रयच्छन्तु । तच्च कुशलमूलं सर्वसत्त्वसाधारणं कर्तव्यम् । अनेन कुशलमूलेन सर्वसत्त्वाः सर्वलौकिकलोकोत्तरविपत्तिविगता भवन्तु । (स्द्प्१४६) सर्वलौकिकलोकोत्तरसंपत्तिसमन्वागताश्च भवन्तु । सहैव सुखेन सहैव सौमनस्येन बुद्धा भवन्तु नरोत्तमा इति । अनेन चाहं कुशलकर्मणा भवेय बुद्धो ॥ न चिरेण लोके देशये धर्मं जगतो हिताय ॥ मोचये सत्त्वान् बहुदुःखपीडितानिति ॥ अनुत्तरायां सम्यक्संबोधौ परिणामाय संवरं गृह्णीयात् । उत्पादयामि परमं बोधिचित्तमनुत्तरम् ॥ यथा त्रैयध्विकनाथाः संबोधौ कृतनिश्चयाः ॥ त्रिविधां शीलशिक्षां च कुशलधर्मसंग्रहम् ॥ सत्त्वार्थक्रियाशीलं च प्रतिगृह्णाम्यहं दृढम् ॥ बुद्धं धर्मं च सङ्घं च त्रिरत्नाग्रमनुत्तरम् ॥ अद्याग्रेण ग्रहीष्यामि संवरं बुद्धयोगजम् ॥ वज्रघण्टां च मुद्रां च प्रतिगृह्णामि तत्त्वतः ॥ आचार्यं च ग्रहीष्यामि महावज्रकुलोच्चये ॥ चतुर्दानं प्रदास्यामि षट्कृत्वा तु दिने दिने ॥ महारत्नकुले योगे समये च मनोरमे ॥ सद्धर्मं प्रतिगृह्णामि बाह्यं गुह्यं त्रियानिकम् ॥ महापद्मकुले शुद्धे महाबोधिसमुद्भवे ॥ संवरं सर्वसंयुक्तं प्रतिगृह्णामि तत्त्वतः ॥ पूजाकर्म यथाशक्त्या महाकर्मकुलोच्चये ॥ उत्पादयित्वा परमं बोधिचित्तमनुत्तरम् ॥ गृहीतं संवरं कृत्स्नं सर्वसत्त्वार्थकारणात् ॥ अतीर्णान् तारयिष्याम्यमुक्तान्मोचयिष्याम्यहम् ॥ अनाश्वस्तानाश्वासयिष्यामि सत्त्वान् स्थापयामि निर्वृत्ताविति ॥ तत आकाशस्थं मण्डलं देवादिभिः पूज्यनानं विचिन्तयेत् । पञ्चोपहारादिना पूजयेत् । सम्यक्प्रपूज्य बुद्धानां गुणवर्णानां स्तुतिं कुर्यात् । अहो बुद्ध अहो बुद्ध साधु बुद्ध कृतोत्तम ॥ सर्वदुर्गतिं संशोध्य सत्त्वानां बोधिः प्राप्यते ॥ (स्द्प्१४८) तत ओं वज्राञ्जलीति । वज्रबन्धनं हृदये स्फोटयेत् । ओं सर्वविद्वज्रबन्ध त्राट्ब्रुवन् । वज्रावेशमुद्रां बद्ध्वा । ओं तिष्ठ वज्र दृढो मे भव शाश्वतो मे भव हृदयं मेऽधितिष्ठ सर्वसिद्धिं च मे प्रयच्छ हुं ह ह ह ह होः । इति । ओं वज्रमुष्टि वम् । सत्त्ववज्रीं बद्ध्वा । ओं सर्ववित्शोधने शोधने सर्वपापानपनय हुम् । पापाकर्षणमन्त्रः । वज्रबन्धं दृढं बद्ध्वा वज्रमुद्राधिष्ठान्तरात् ॥ समुत्क्षिपेत्क्षणादूर्ध्वं पतितोत्क्षेपणं परम् ॥ इति । ओं सर्ववित्सर्वापायविशोधनि हुं फट् । पापविशोधनमन्त्रः । वज्रबन्धं दृढीकृत्य मध्यमा मुखसहिता ॥ चतुरन्त्यमुखासक्ता पापं स्फोटयति क्षणात् ॥ ओं सर्ववित्त्राठुम् । सत्त्ववज्रीं बद्ध्वा । ओं सर्ववित्सर्वावरणविशोधने मुः हुं फट् । उद्धरणलक्षणम् । ततः पश्चाद्योगिनो हृदयमध्येऽकारेण चन्द्रमण्डलं तस्योपरि । ओं मुने मुने महामुनये स्वाहा । ओं नमः सर्वदुर्गतिपरिशोधनराजाय तथागतायार्हते सम्यक्संबुद्धाय । तद्यथा । ओं शोधने शोधने सर्वपापविशोधं शुद्धे विशुद्धे सर्वकर्मावरणविशुद्धे स्वाहा । एतेन मन्त्रेण दुर्गतिपरिशोधनमण्डलं परिनिष्पन्नं भवति । ततो वज्राङ्कुशाद्यैराकृष्य प्रवेश्य बद्ध्वा वशीकृत्याकाशमण्डलपूजां कृत्वा हृदयमण्डले निवेशयेत् । द्वयमण्डलेनैकमण्डलं भवतीति । निष्पन्नयोगो भूत्वा समयमण्डलं देवतापरिपूर्णं भवति । तत्र मण्डलमध्ये चक्रवर्तिरूपमात्मभावं शाक्यसिंहं विभावयेत् । ततः शाक्यमुनेर्हृद्यकारेण चन्द्रमण्डलं भावयेत् । चन्द्रमण्डलमध्ये । (स्द्प्१५०) ओं मुने मुने महामुनये स्वाहा । ततो वज्रहेतुकर्ममुद्रया मण्डलं निर्माय । ओं सर्वविद्वज्रचक्र हुम् । इति । सत्त्ववज्रीं बद्ध्वैव मध्याङ्गुलिद्वयेन मालामादाय मनसा प्रविशेत् । समये हुमित्यनेन तां च मालां स्वशिरसि क्षिपेत् । अनेन प्रतिच्छ वज्र होः । इति । ततः स्वशिरसि बन्धेदनेन । ओं प्रतिगृह्ण त्वमिमां सत्त्व महाबलेति ॥ मुखबन्धं चानेन मुञ्चेत् । ओं वज्रसत्त्वः स्वयं तेऽद्य चक्षूद्घाटनतत्परः ॥ उद्घाटयति सर्वाक्षो वज्रचक्षुरनुत्तरम् ॥ इति । हे वज्र पश्य । इति । ततो महामण्डले तावत्पश्येद्यावद्भगवन्तं शाक्यमुनिम् । पुनः सत्त्ववज्रीं बद्ध्वा हृदये मुञ्चेत् । वज्राधिष्टितकलशादुदकाभिषेकं वज्रमुष्ट्या दद्यात् । ओं सर्वविद्वज्राभिषिञ्च माम् । इति । पुनर्वज्रधात्वीश्वर्यादिमुद्रयाभिमु द्रयेत् । ओं सर्वविद्वज्रधात्वीश्वरि हुमभिषिञ्च माम् । ओं सर्वविद्वज्रवज्रिणि हुमभिषिञ्च माम् । ओं सर्वविद्रत्नवज्रिणि हुमभिषिञ्च माम् । ओं सर्वविद्धर्मवज्रिणि हुमभिषिञ्च माम् । ओं सर्ववित्कर्मवज्रिणि हुमभिषिञ्च माम् । ओं टूं टूं टूं वज्र तुष्य होः । द्व्यक्षरकवचेन कवचयित्वा । ततः स्ववज्राभिषेकं गृह्णीयात् । अद्याभिषिक्तस्त्वमसि बुद्धैर्वज्राभिषेकतः ॥ इदं तत्सर्वबुद्धत्वं गृह्ण वज्रसुसिद्धये ॥ ओं वज्राधिपति त्वामभिषिञ्चामि तिष्ठ वज्रसमयस्त्वं वज्रनामाभिषेकतः । ओं वज्रसत्त्व त्वामभिषिञ्चामि । इदं तत्सर्वबुद्धत्वं वज्रसत्त्वकरे स्थितम् ॥ त्वयापि हि सदा धार्यं वज्रपाणिदृढव्रतम् ॥ ओं सर्वतथागतसिद्धिवज्रसमय तिष्ठैष त्वां धारयामि वज्रसत्त्व हि हि हि हि हुम् । इति । ओं सर्वविद्वज्राधिष्ठानसमये हुम् । आत्माधिष्ठानमन्त्रः । (स्द्प्१५२) वज्रमुष्टिद्वयं बद्ध्वाङ्गुष्ठमध्यमाकनिष्ठोर्ध्वं स्थित्वा मुखे श्लिष्येत्तर्जन्यनामिकासत्त्वपर्यङ्कं कृत्वा । वज्रमुद्रा । हृत्कण्ठललाट ऊर्णाभ्रूमध्ये नासिकाकर्णकटिजानुपादद्वये जंघायां चक्षुर्द्वये गुह्येऽधिष्ठाणं तु कारयेत् । ततः स्वकायसमय अकारेण चन्द्रमण्डलम् । सर्वबीजसमुत्पन्नचिह्नाहंकारं मन्त्रमुद्वहन् । ओं सर्वविद्जः हुं वं होः समयस्त्वं समय होः । ओं मुने मुने महामुनये स्वाहा । त्रिरुच्चारयेत्सामान्यमपि । ततः स्वकाये वज्रसमाजमुद्रां बद्ध्वा । जः हुं वं होः प्रवर्तयेत् । यथास्थानेष्वाकृष्य प्रवेश्य बद्ध्वा वशीकुर्यात् । स्वहृदि हुंकारयोगेन पञ्चसूचिकवज्रम् ॥ समयं तु प्रवक्ष्यामि शाक्यसिंहस्य मुद्रया ॥ समाध्यग्रस्थितो मध्ये मुद्रासमय उच्यते ॥ वज्रबन्धं दृढीकृत्य मध्यमा मुखसंहिता ॥ वज्रोष्णीषमुद्रा । सैव मध्यमा रत्नं तु पद्माकारं तु मध्यमा ॥ सैव मध्यमा वज्रं तु शेषा ज्वालांगुलीकृता ॥ सैवांगुली ज्वालाकृता तेज उष्णीषमुद्रया ॥ सैव तु समानामिका कनिष्ठाद्वयमुत्सृजेत् ॥ तर्जनी पद्मपत्त्रं तु मध्यमा वज्रमुत्थिता ॥ सैव पुरतः स्थित्वा वज्रपञ्जरकारका ॥ हृदये तु समांगुष्ठा सुप्रसारितमालिनी ॥ अञ्जल्यग्रमुखोद्धान्ता नृत्यतो मूर्ध्नि संपुटा ॥ वज्रबन्धं त्वधोदानात्स्वाञ्जलिस्थोर्ध्वदायिका ॥ समांगुष्ठनिपीडा च सुप्रसारितलेपना ॥ वज्रमुष्टिद्वयं बद्ध्वा तर्जन्यंगुष्ठमध्यमाः ॥ प्रत्येकमप्यन्योन्यमभिमुखं धारयेत् ॥ एकतर्जनीं संकुच्य द्व्यंगुष्ठौ ग्रन्थिं बन्धितौ ॥ अंगुष्ठाग्रकटिबन्धा वज्रमुष्ट्यग्रसंहिता ॥ इति । धर्ममुद्रां भावयेत्कण्ठे पद्मेन्दुमण्डले ॥ पूर्वमुत्सर्गमन्त्रेण धर्ममुद्रा विधीयते ॥ कर्ममुद्रा हृदये विश्ववज्रम् ॥ (स्द्प्१५४) धर्मचक्रं यथोक्तस्य शाक्यराजस्य मुद्रया ॥ भूस्पर्शवरदध्यानमभयाद्या यथाक्रमम् ॥ तेजोष्णीषस्य मुद्रया समाध्यग्रावस्थिता ॥ दक्षिणबाहुदण्डा च हृद्वामखड्गधारिणी ॥ वामतर्जनीमुत्सृज्य दक्षिणेन प्रसारयेत् ॥ द्वयहस्तेन संमील्य छत्राकारेण धारयेत् ॥ कर्ममुद्राविधिर्येन नवसंबुद्धतायिनाम् ॥ वज्रगर्वप्रयोगेण नमेदाशयकम्पितैः ॥ मालाबन्धा मुखोद्धान्ता नृत्यतः परिवर्तिता ॥ वज्रमुष्टिप्रयोगेण दद्याद्धूपादयस्तथा ॥ तर्जन्यंकुशबन्धेन कनिष्ठायां महांकुशी ॥ बाहुग्रन्थिकटाग्राभ्यां पृष्ठयोश्च निपीडयेत् ॥ अथातः संप्रवक्षामि बोधिसत्त्वमहात्मनाम् ॥ कर्ममुद्राप्रबन्धेन यथानुक्रमलक्षणम् ॥ वज्रमुष्टिद्वयं बद्ध्वान्योन्यं सहनि मीलयेत् ॥ तर्जनीमध्यमाकुञ्च्य पुष्पाकारेण धारयेत् ॥ मैत्रेयस्य मुद्रा । वाममुष्टिं कटौ न्यस्य दक्षिणं बाहुपार्श्वतः ॥ तर्जनीमध्यमोत्सृज्य नेत्राकारेण धारयेत् ॥ अमोघदर्शिनः । वज्रमुष्टिद्वयं बद्ध्वा तर्जनीस्संप्रसारयेत् ॥ सव्येनांकुशं संधार्य सर्वापायजहस्य च ॥ वाममुष्टिं कटिं न्यस्य दक्षिणदण्डमाकृतिः ॥ धारयेदूर्ध्वतश्चैव सर्वशोकतमस्य च ॥ वामे नाभस्थिता मुष्टिर्गजपुष्करमाकृतिः ॥ धारयेद्दक्षिणे हस्ते गन्धहस्तिनो मुद्रया ॥ वाममुष्टिं कटिं न्यस्य दक्षिणे खड्गकारतः ॥ शूरंगमस्य । वाममुष्टिं हृदि धार्य दक्षिणमूर्ध्वं भ्रामयेत् ॥ गगनगञ्जस्य । वज्रमुष्टिद्वयं बद्ध्वा दक्षिणेन तु धारयेत् ॥ ध्वजगृहिताकारेण ज्ञानकेतोश्च मुद्रया ॥ द्वयहस्तेन संधार्य कलशाकारेण धारयेत् ॥ अमृतप्रभस्य । (स्द्प्१५६) वाममुष्टिमुरौ स्थित्वा दक्षिणमुष्टिं पार्श्वतः ॥ प्रसार्य कनिष्ठांगुष्ठौ चन्द्ररेखा तु आकृतिः ॥ चन्द्रप्रभस्य । द्वयहस्तं हृदि देशे पद्माकारं विकासयेत् ॥ अन्योन्यं मुखमासज्य भद्रपालस्य मुद्रया ॥ वज्रमुष्टिद्वयं बद्ध्वा कवचाकारेण धारयेत् ॥ स्तनद्वये च संधार्य जालिनीप्रभमुद्रया ॥ वाममुष्टिः कटिं न्यस्तो दक्षिणहृदयस्थितः ॥ मध्यमांगुलिमुत्सृज्य वज्रगर्भस्य मुद्रया ॥ वाममुष्टिर्हृदि न्यस्तो वरदाकारं दक्षिणे ॥ अक्षयमतेर्मुद्रा । वामे नाभस्थिता मुष्टिर्दक्षिणे छोटिकां ददन् ॥ प्रतिभानकूटस्य । वाममुष्टिं कटिं धार्य दक्षिणरत्नमुष्टिका ॥ समन्तभद्रस्य । चिह्नरहितेन विधिना कर्ममुद्रा चोक्तिता ॥ हृदये वज्रं संधार्य पञ्चसूचिकरूपिणम् ॥ उत्सर्गेषु यथाधार्य मुद्रासायुधधारिणाम् ॥ वज्रघण्टाधरो भूत्वा हृदये वज्रं धारयेत् ॥ महामुद्रेति बोद्धव्या बोधिसत्त्वमहात्मनाम् ॥ उत्सर्गेषु यथागृह्य मुद्राप्रहरणधारिणाम् ॥ यां यां मुद्रां तु बध्नीयाद्यस्य यस्य महात्मनः ॥ जपन् तु हृदयार्थेन भावयेत्तु स्वमात्मानम् ॥ चतुर्मुद्रा विधातव्या देवतासर्वमुद्रितुम् ॥ सर्वज्ञगुणसंपन्नाः सर्वसत्त्वार्थकारणात् ॥ सर्वदुर्गतिं संशोध्य सत्त्वानां बोधिः प्राप्यते ॥ अथ मन्त्रं प्रवक्षामि सर्वदुर्गतिमण्डले ॥ मुद्रामन्त्रप्रयोगेण सर्वकार्यक्षमो भवेत् ॥ प्रतिप्रतिवज्रनृत्यं कृत्वा मन्त्रैश्चोदाहृतम् ॥ ओं नमः सर्वदुर्गतिपरिशोधनराजाय ॥ तथागतायार्हते सम्यक्संबुद्धाय तद्यथा ॥ ओं शोधने शोधने सर्वपापविशोधने शुद्धे ॥ विशुद्धे सर्वकर्मावरणविशुद्धे स्वाहा ॥ (स्द्प्१५८) वामवज्रमुष्ट्या वज्रघण्टामादाय दक्षिणहस्तेन वज्रंसगर्वमुल्ललयनेवं वदेत् । वज्रवाचाटक्कि हुं जः जः जः । स्वहृद्युत्कर्षणयोगेन धारयेत् । टक्कि जः होः इति वदेत् । तदनुशताक्षरेणदृढीकृत्य । एतेन दशभूमीश्वरबोधिसत्त्वसदृशो भवति । तान् दृष्ट्वा सर्वपूजां प्रपूजयेत् । ततः ताभिः सर्वाभिः स्तुतिभिः संपूजयेत् । नमस्ते शाक्यसिंहाय धर्मचक्रप्रवर्तकः ॥ त्रैधातुकं जगत्सर्वं शोधयेत्सर्वदुर्गतिम् ॥ नमस्ते वज्रोष्णीषाय धर्मधातुस्वभावतः ॥ सर्वसत्त्वहितार्थाय आत्मतत्त्वप्रदर्शकः ॥ नमस्ते रत्नोष्णीषाय समतातत्त्वभावनैः ॥ त्रैधातुकं स्थितं सर्वमभिषेकप्रदायकः ॥ नमस्ते पद्मोष्णीषाय स्वभावप्रत्यवेक्षकः ॥ आश्वासयति सत्त्वेषु धर्मामृतप्रवर्षणैः ॥ नमस्ते विश्वोष्णीषाय स्वभावकृत्यानुष्ठितः ॥ विश्वकर्मकरो ह्येषां सत्त्वानां दुःखशान्तये ॥ नमस्ते तेजोष्णीषाय त्रैधातुकमवभासयेत् ॥ सर्वसत्त्वेष्वपायेषु सत्यदृष्ट्वा करिष्यति ॥ नमस्ते ध्वजोष्णीषाय चिन्तामणिध्वजधरः ॥ दानेन सर्वसत्त्वानां सर्वाशा परिपूरयेत् ॥ नमस्ते तीक्ष्णोष्णीषाय क्लेशोपक्लेशछेदकः ॥ चतुर्मारबलभग्नं सत्त्वानां बोधिः प्राप्यते ॥ नमस्ते छत्रोष्णीषाय सितातपत्रशोभनम् ॥ त्रैधातुकं जगत्सर्वं धर्मराजत्वं प्राप्यते ॥ (स्द्प्१६०) लास्या माला तथा गीता नृत्या देव्यश्चतुष्टयाः ॥ पुष्पा धूपा च दीपा च गन्धा देवी नमोऽस्तु ते ॥ द्वारमध्ये स्थिता आवेशोऽंकुशः पाशस्स्फोटकः ॥ श्रद्धाद्यभावनिर्जाता द्वारपाला नमोऽस्तु ते ॥ वेदिकादौ स्थिता ये च चत्वरद्वारपार्श्वतः ॥ मुदितादौ दशे स्थित्वा बोधिसत्त्वा नमोऽस्तु ते ॥ ब्रह्मेन्द्रौ रुद्रचन्द्राद्यैर्लोकपालचतुर्दिशम् ॥ अग्निराक्षसवायुश्च भूताधिप नमोऽस्तु ते ॥ अनेन स्तोत्रराजेन संस्तुत्य मण्डलाग्रतः ॥ वज्रघण्टाधरो मन्त्री इदं स्तोत्रमुदाहरेत् ॥ पश्चादात्मदेहेषु आत्ममण्डलं कल्पयेत् ॥ एवं भावयमानां वै मण्डलमादियोगतः ॥ आदियोगनामसमाधिः । ततो मण्डलराजाग्रीनाम प्रवक्ष्यामि । ओमकारो मुखं सर्वधर्माणामाद्यनुत्पन्नत्वात् । तदर्थाधिमोक्षतो दशदिक्षर्वलोकधातुषोडशशून्यतामधिमुच्य शून्यताहंकारमात्मानं पश्येत् । ततो हुंकारेण निष्पन्नवज्रेण वायुमण्डलं तस्योपरि रंकारेणाग्निमण्डलं तस्योपरि वंकारेण महोदधिं तस्योपरि कंकारेण काञ्चनमण्डलं तद्मध्ये हुं सुं हुमिति । तेन सुमेरुं चतुरस्रं रत्नमयं सर्वरत्नविभूषितं निष्पाद्य । ओं वज्र दृढेत्यादिना वज्रबन्धेनाधितिष्ठेत् । तस्योपरि वज्रहेतुकर्ममुद्रया भूंकारसितनिष्पन्नवज्रमणिरत्नशिखरकूटागारम् । चतुरस्रं चतुर्द्वारं चतुस्तोरणभूसितम् ॥ चतुष्कोणेषु सर्वेषु द्वारनिर्यूहसंधिषु ॥ चन्द्रार्कवज्रचिह्नितं हारार्धहाररचितम् ॥ चतुस्सूत्रसमायुक्तं पटस्रग्दामभूषितम् ॥ अभ्यन्तरमण्डलमष्टारचक्रं वज्रावलीपरिवृतम् । तस्य नाभोपरि सिंहासनं तस्योपरि चन्द्रमण्डलम् । चक्राष्टारमध्येषु चन्द्रमण्डलं देवतास्थानम् । (स्द्प्१६२) बाह्यमण्डलस्य देवतास्थानं पटिकायामष्टाविंशतिचन्द्रमण्डलं पश्येत् । सिंहासनोपरि चन्द्रमण्डले । अकारादिककाराद्यक्षरप्रज्ञोपायस्वरूपं द्रवीभूतमाकाशस्फरणक समाधिसमापन्नं बोधिचित्तस्वरूपेण सत्त्वार्थहेतुसंपन्नमन्त्ररूपं भवति । ओं मुने मुने महामुनये स्वाहा । अनेन मन्त्रेण श्रीशाक्यसिंहराजनिष्पन्नो भवति । सर्वनीवारणं नाम समाधिसमापन्नः । ततस्समाधिसमापन्नो बुद्धो भगवान् तस्य मुद्रामन्त्रमुदाहरेत् । वज्रमुष्टिद्वयं बद्ध्वा परिपाट्या विकासयेत् ॥ मुद्रेयं धर्मचक्रस्य सर्वसंसारछेदनी ॥ तद्यथेति दृष्टान्तः । यथा पद्मेषु आसक्ता भ्रमराद्या विबन्धिताः ॥ तथा पद्मविकासेन विबन्धा दुःखमोचिताः ॥ तथैव दुःखसंसारे विबन्धास्त्न्भवे गतौ ॥ एवं विबन्धा मुच्यन्ते शाक्यसिंहकृपात्मनः ॥ ततश्शाक्यमुनेर्हृदयेऽकारेण चन्द्रमण्डलम् । ततश्चन्द्रमण्डले सर्वासां मन्त्राणि निष्पाद्यन्ते । वज्रोष्णीषमारभ्य यावद्वज्रावेशपर्यन्तं भावयेत् । ततो मन्त्राणि भवन्ति । ओं नमस्सर्वदुर्गतिपरिशोधनराजाय तथागतायार्हते सम्यक्संबुद्धाय । तद्यथा । ओं शोधने शोधने सर्वपापविशोधने शुद्धे विशुद्धे सर्वकर्मावरणविशुद्धे स्वाहा । इदं मन्त्रमुदाहरेत् । (स्द्प्१६४) अथातः संप्रवक्षामि परिपाट्या यथाक्रमम् । ओं वज्र हुं फट् । निश्चार्य मुखद्वारेण निर्गत्य पञ्चरश्मिकम् ॥ समन्ततो दशसु दिक्ष्ववभास्य सर्वसत्त्वानाम् ॥ दुःखस्यान्तं करिष्यति पुनरागत्य रश्मीनाम् ॥ प्रविश्य हृदये ततः ॥ मन्त्ररश्मिद्वयं मील्य निष्पन्नरूपसंभवम् ॥ अभ्यन्तरमण्डलस्य चक्रारे पूर्वदिशि पद्मचन्द्रस्थः ॥ वज्रोष्णीषस्तथागतो हृदयादवतीर्य निषीदेत ॥ हितार्थतः । शुक्लवर्णप्रभादिव्यो मुद्राभूस्पर्शसंस्थितः ॥ एवं रश्मिस्फरणसंहारपूर्वोक्तेन सर्वशः ॥ स्फरणसंहारयोगेन मन्त्ररश्मिनिमिलनम् ॥ बिम्बनिष्पत्तिसंपूर्णहृदयादवतीर्य च ॥ निषीदेत यथास्थाने दक्षिणारेषु सुस्थितः ॥ ओं रत्नोत्तम त्रमुत्सृजेत् । पद्मस्थचन्द्रमध्येषु रत्नोष्णीषस्तथागतः ॥ अवतीर्य हृदयाद्बुद्धलक्षणैः समलंकृतः ॥ नीलवर्णस्वभावं तु मुद्रेयं वरदस्य तु ॥ त्रैधातुकमशेषं तु सर्वसत्त्वाभिषेकदः ॥ पूर्ववत्स्फरणसंहारं बिम्बोत्पत्तिक्रमेण च ॥ ओं पद्मोत्तम ह्रीः उत्सृजेत् । ततः पश्चिमारस्थपद्मोपरि चन्द्रमण्डले ॥ रश्मिबीजेन निष्पन्नः पद्मोष्णीषस्तथागतः ॥ हृदयाद्निर्गतो भूत्वा निषीदेदनुशासकः ॥ पद्मरागप्रभादिव्यो ध्यानमुद्राव्यवस्थितः ॥ ओं विश्वोत्तम अः उत्सृजेत् । उत्तरे चक्र आरस्थपद्मोपरीन्दुमण्डले ॥ अवतीर्य हृदयाद्बुद्धो विश्वोष्णीषस्तथागतः ॥ हरितवर्णप्रभाज्वाल्यो मुद्रा चास्याभयप्रदः ॥ विश्वकर्मकरो बुद्धः सत्त्वान् संसारादुत्तरेत् ॥ (स्द्प्१६६) ओंकारेनोत्सृजेद्बुद्धस्तेजोष्णीषस्तथागतः ॥ आग्नेयारे स्थितः सम्यक्पद्मस्थचन्द्रमण्डले ॥ सव्येन सूर्यं संगृह्य वामहस्ते कटिस्थितः ॥ शितरक्तकवर्णाभस्त्रैधातुकमाभासयेत् ॥ हुंकारबीजसंजातो ध्वजोष्णीषस्तथागतः ॥ उत्सृजेधृदयातीर्णो नैरृत्यारे निषण्णकः ॥ पद्मस्थचन्द्रबिम्बे च रक्तकृष्णकवर्णिकः ॥ चिन्तामणिध्वजं धार्य सत्त्वमात्सर्यशोधकः ॥ धीःकारबीजनिष्पन्नस्तीक्ष्णोष्णीषस्तथागतः ॥ क्लेशोपक्लेशान् संछेद्य वायव्यारे च उत्सृजेत् ॥ पद्मचन्द्रे निषीदेश्च मुद्रास्य खड्गदक्षिणः ॥ गगनवर्णनिभकायो वामे पुस्तकधारिणः ॥ क्रींकारबीजनिर्जातश्छत्रोष्णीषस्तथागतः ॥ धर्मस्वामी च सत्त्वानामीशानारे च उत्सृजेत् ॥ कुन्देन्दुवर्णसन्निभो मुद्रेयं छत्रधारिणः ॥ सर्वे ते विश्वपद्मस्था निषन्णाश्चन्द्रमण्डले ॥ हुं त्रां ह्रीः अः । तेन मन्त्रेण उच्चार्य हृदयादुत्सृजन्ति च ॥ चतुर्षु कोणस्थानेषु पद्मस्थचन्द्रमण्डले ॥ लास्यादिदेव्यश्चतस्रः कुलवर्णकधारिण्यः ॥ सितं पीतं रक्तं विश्ववर्णकम् ॥ तेषां मुद्रा विधीयते यथोक्तितम् ॥ तेनैव मन्त्रमुच्चार्य उत्सृजेधृदयादपि ॥ धूपादिदेव्यश्चतस्रः पद्मस्थचन्द्रमण्डले ॥ चतुर्षु कोणसर्वेषु वर्णकुलक्रमेण तु ॥ ओं सर्वसंस्कारपरिशुद्धे धर्मते गगनसमुद्गते स्वभावविशुद्धे महानयपरिवारे स्वाहा । मन्त्रेण उत्सृजेत्पूर्वद्वारपार्श्वद्वये स्थिताः ॥ मैत्रेयादिचतुष्कस्य पद्मस्थचन्द्रमण्डले ॥ सत्त्वपर्यंकिनः सर्वे मुद्रावर्णक्रमेन तु ॥ पीतवर्णप्रभादिव्यो नागपुष्पकदक्षिणे ॥ वामेन कुण्डिकां गृह्य मैत्रीचित्तविशुद्धितः ॥ द्वितीयोऽमोघदर्शी तु पीतवर्णप्रभोज्वलः ॥ वामहस्तकटिन्यस्तो दक्षिणपद्मनेत्रकः ॥ (स्द्प्१६८) तृतीयो बोधिसत्त्वश्च नाम्नापायजहस्य च ॥ श्वेतवर्णप्रभाज्वालो मुद्रा अंकुशधारिणः ॥ चतुर्थः सर्वशोकतमनिर्घातनमतिस्तथा ॥ सितपीतमिश्रवर्णाभो मुद्रा दण्डधारिणः ॥ वाममुष्टिकटिन्यस्तः सत्त्वपर्यंकिना स्थितः ॥ चत्वारो बोधिसत्त्वाश्च दक्षिणद्वारे प्रतिष्ठिताः ॥ प्रथमो गन्धहस्ती च सितश्यामश्च वर्णकः ॥ मुद्रेयं दक्षिणहस्ते गन्धशंखं प्रपूरितम् ॥ वामहस्तकटिन्यस्तः सर्वावरणशोधनः ॥ द्वितीयो शूरंगमो नाम सर्वक्लेशप्रमोचकः ॥ स्फटिकवर्णप्रभादिव्यो मुद्रेयं खड्गधारिणः ॥ वामहस्तकटिन्यस्तः सत्त्वानां दुःखशन्तकः ॥ तृतीयः गगनगञ्जः सर्वाभरणभूषितः ॥ सितपीतमिश्रवर्णाभः सर्वावरणवर्जितः ॥ मुद्रेयं दक्षिणहस्ते पद्मस्थधर्मगञ्जतः ॥ वामहस्तकटिन्यस्तः सर्वाकाशधनधरः ॥ चतुर्थो ज्ञानकेतुश्च सर्वाशापरिपूरकः ॥ नीलवर्णकसंकाशश्चिन्तामणिध्वजधरः ॥ वाममुष्टिकटिन्यस्तः दारिद्रदुःखमोचकः ॥ पश्चिमद्वार आसीनः पद्मस्थचन्द्रमण्डले ॥ प्रथमममृतप्रभश्चन्द्रवर्णविराजितः ॥ अमृतकलशं संधार्य मुकुटं रत्नपाणिना ॥ वाममुष्टिकटिन्यस्तो विस्तीर्णमायुर्दायकः ॥ द्वितीयश्चन्द्रप्रभो नामाज्ञानतमध्वंसकः ॥ शुक्लवर्णतनुदिव्यो मुद्रा दक्षिणपाणिना ॥ पद्मस्थचन्द्रबिम्बं तु वाममुष्टिकटिस्थितः ॥ (स्द्प्१७०) तृतीयो भद्रपालेति सितरक्तं तु वर्णिकः ॥ सर्वधर्मप्रकाशको मुद्रा दक्षिणपाणिना ॥ ज्वलितरत्नं संधार्य वाममुष्टिकटिस्थितः ॥ चतुर्थो बोधिसत्त्वश्च जालिनीप्रभसंज्ञितः ॥ रक्तवर्णप्रभादिव्यो वज्रपञ्जरधारिणः ॥ प्रथमबुद्धपुत्रस्तु वज्रगर्भेतिनामतः ॥ सितनीलवर्णसंयुक्तो मुद्रा दक्षिणपाणिना ॥ उत्पलं वज्रसंयुक्तं वाममुष्टिकटिस्थितः ॥ द्वितीयो अक्षयो नाम मतिरन्तेषु संस्थितः ॥ कुन्देन्दुवर्णसंकाशो मुद्राहस्तद्वयेन तु ॥ ज्ञानकलशं संधार्य सर्वसत्त्वान् प्रपीनयेत् ॥ तृतीयो बुद्धपुत्रश्च प्रतिभाकूटसंज्ञितः ॥ रक्तवर्णप्रभाज्वालो मुद्रा दक्षिणपाणिना ॥ पद्मस्थरत्नकूटं तु वाममुष्टिकटिस्थितः ॥ चतुर्थो बोधिसत्त्वश्च समन्तभद्रनामतः ॥ सुवर्णवर्णसंकाशो मुद्रा दक्षिणपाणिना ॥ रत्नमञ्जरिकादिव्यं वाममुष्टिकटिस्थितः ॥ एवं रूपेण संयुक्ता बोधिसत्त्वकृपात्मनः ॥ मण्डलराजाग्री नामसमाधिः । (स्द्प्१७२) ओं मुने मुने महामुनये स्वाहा । ओं नमस्सर्वदुर्गतिपरिशोधनराजाय तथागतायार्हते सम्यक्संबुद्धाय ल्तद्यथा । ओं शोधने शोधने सर्वपापविशोधने शुद्धे विशुद्धे सर्वकर्मावरणविशुद्धे स्वाहा । अनेन मन्त्रेण श्रीशाक्यसिंहराजप्रमुखसप्तत्रिंशद्देवतापरिपूर्णं भावयेत् । ततः पश्चाद्ज्ञानमण्डलमाकर्षयेत् । द्वारोद्घाटनं कृत्वा मन्त्रमुद्रासमायुतः ॥ वज्रमुष्टिद्वयं बद्ध्वा तर्जनी द्वे प्रसारयेत् ॥ कनिष्ठां शृंखलीकृत्य द्वारोद्घाटनमुद्रया ॥ ओं सर्वविद्द्वारमुद्घाटय हुम् । द्वारोद्घाटनमन्त्रमुद्रया द्वारमुद्घाटयेत् । वज्रचक्रमुद्रया मण्डलं परिकल्पयेत् । ओं सर्वविद्वज्रचक्रे हुम् । बाहुभ्यां वज्रबन्धेन वज्रछटकविमोक्षणे ॥ श्रीशाक्यराजयोगात्मा सर्वबुद्धान् समाजयेत् ॥ वामे छटकतालेन समतालेन सिद्ध्यति ॥ दक्षिणेन तु तालोक्तं संनिपातावुभावपि ॥ ओं वज्रसमाज जः हुं वं होः । अस्या आज्ञाया मात्रेण सपर्षच्चक्रसंचयः ॥ सर्वबुद्धाः समायान्ति का कथान्येषु वर्त्तते ॥ ततोऽग्रत आकाशदेशे मण्डलचक्रं दृष्ट्वा वज्रयक्षमन्त्रेण । जप्तार्घभाजने स्थितगन्धवारिणा संप्रोक्ष्याचमनं दद्यात् । ततोऽर्घमुद्रयार्घं दद्यात् । ततः पाद्यमुद्रया पाद्यं दद्यात् । ततः । वज्रपुष्पे हुम् । वज्रधूपे हुम् । वज्रदीपे हुम् । वज्रगन्धे हुम् । वज्रयक्षमन्त्रेण विघ्नानुत्सार्य मण्डलेषु प्रवेशयेत् । (स्द्प्१७४) ततश्चतुर्मुद्राः । प्रथमं पूर्वोक्तविधिमुद्रया समयमुद्रा निबन्धयेत् । ततः पूर्वोक्तमन्त्रेण धर्ममुद्रा विधीयते । ततः कर्ममुद्रामन्त्रेण कर्ममुद्रां बध्म्यात् । ततो महामुद्रामन्त्रेण महामुद्रां बध्नीयात् । ततो वज्रोष्णीषादितथागतैः सत्त्ववज्रीरत्नवज्रीधर्मवज्रीकर्मवज्रीं स्फारयित्वा समाण्डलेयदेवताश्रीशाक्यराजप्रमुखवज्रावेशपर्यन्तमभिषेकं दद्यात् । पञ्चाभिषेकाधिपत्मशपर्यन्तं दद्यात् । अभिषेकानन्तरम् । ओं सर्वतथागतधूपपूजामेघसमुद्रस्फरणसमये हुम् । ओं सर्वतथागतपुष्पपूजामेघसमुद्रस्फरणसमये हुम् । ओं सर्वतथागतदीपपूजामेघसमुद्रस्फरणसमये हुम् । ओं सर्वतथागतगन्धपूजामेघसमुद्रस्फरणसमये हुम् । ततो लास्यादिचतुष्टयेन पूजयेत् । वज्रमुल्लालयन् वज्रवाचाशताक्षरपूर्ववत्स्तुतिं कुर्यात् । ततः । असमाचलासमितसारधर्मिणः । करुणात्मका जगति दुःखहारिणः । असमन्तसर्वगुणसिद्धिदायिनः ॥ असमाचलासमवराग्रधर्मिणः ॥ गगने समोपमगता न विध्यते ॥ गुणरेणुरेणुकणिकाप्यसीमिके ॥ स्फुटसत्त्वधातुवरसिद्धिदायिषु ॥ विगतोपमेषु असमन्तसिद्धिषु ॥ सततामला करुणवेगतोत्थिता ॥ प्रणिधानसिद्धिरनिरोधधर्मता ॥ जगतोऽर्थसाधनपरासमन्तिनी ॥ सततं विरोचति महाकृपात्मनाम् ॥ न निरोधतां करुणचारिकाचरा ॥ व्रजते त्रिलोकवरसिद्धिदायिका ॥ अमितामितेषु सुसमाप्तितां गता ॥ सुगतिं गतेष्वपि अहो सुधर्मता ॥ (स्द्प्१७६) समयाग्रसिद्धिवरदा ददन्तु मे ॥ वरदानता सुगतितां गता सदा ॥ सकलत्रिलोकवरसिद्धिदायिका ॥ सुगतत्रियाध्वगतिता अनावृता ॥ सर्वत्र जिह्वाशतमुखेन स्तोत्रोपहारमधिमुच्य वज्रघण्टाधरः स्तुतिं कर्यात् । ततो दशसु दिक्षु सर्वतथागतबोधिसत्त्वेभ्यो लौकिकलोकोत्तरबाह्यदेवताभ्यश्च सर्वपूजाभिर्बलिविधिमुपकरणेन सहितं बलिं दद्यात् । सुबहुपाठां पठेत् । आदौ छटादिशब्देनाकर्षयेत्पापराशयः ॥ त्रिलोकविजयमुद्रेण त्र्यक्षरादिसमन्वितम् ॥ सर्वापायसमापत्तिलोकधातुमशेषतः ॥ आकर्षणमुद्धरणबन्धविनाशनानि ॥ चत्वारि मन्त्राणी सुयोजनानि । ताड्यादिमन्त्रैः सितसर्षपताडमानैः । प्रक्षाल्यमस्थि सितवस्त्रसहितम् ॥ ओं शोधन इत्यादिमन्त्रेण उदकेन क्षालयेत्त्रयभवनमलम् । ओं कंकणीत्यादिमन्त्रेण क्षलयेत्पञ्चगव्येन । ओं रत्ने रत्न इत्यादिमन्त्रेण क्षालयेत्सर्वगन्धतः । ओममोघावरणेत्यादिमन्त्रेण क्षालयेत्क्षीरगावितः । ओममृते अमृत इत्यादिमन्त्रेण क्षालयेत्मद्यमुत्तमम् । ओं पुण्ये पुण्य इत्यादिमन्त्रेणोदकेन क्षालयेतन्तरान्ततः । पुनर्मंगलगाथां पाठयेदभिषिञ्चेत् । मार्गशोधनं कर्तव्यम् । धूपादिदेयाश्चतुर्विधमन्त्राः । (स्द्प्१७८) हस्तमात्रमिदं कुण्डं कर्तव्यं होमयेत्ततः ॥ अनुस्मृत्य च तं सत्त्वमपायगतिसंस्थितम् ॥ होमयेत्शुभसंतानः पापावरणशान्तये ॥ घृतक्षीरसमाक्षिकैर्लाजासर्षपमिश्रितैः ॥ तिलतण्डुलव्रीह्यादि समिधासु करद्वयम् ॥ अन्यान्यपि तु कर्माणि यथा पूर्वं तथा कुर्यात् ॥ तेन संपद्यते क्षिप्रं सत्त्वानां च सुखावहम् ॥ इति । कर्मराजाग्रीनामसमाधिः । तस्मिंश्च सत्त्वे कृते सति । ततस्ते नारकदुःखाद्विमुक्ताः सन्तस्तुषितेषु सर्वसत्त्वहितकारिणः । सुगतवदुत्पन्नाः । तत इन्द्रेण सहितमहायशसो देवा नृत्यन्तोऽनन्तैः पूजामेघैरिह जन्मनि तथागतपूजार्थं पुरस्कृत्य देवगणा उत्पातितबोधिचित्ता दिव्यनानाविधपुष्पधूपदीपगन्धछत्रध्वजपताकादिभिरनेकाकाराभिश्च शोभितम् । वस्त्ररत्नवर्षादिभिश्च परिपूरितं कुर्वन्ति स्म नन्दनवनम् । ततो महाश्चर्यं भूतम् । इइ अथ भगवान् वज्रपाणिर्बोधिसत्त्वो भगवतोऽधिष्ठानेन मन्त्रकल्पराजोत्तरकल्पमभाषत । वीरासनादुत्थाय प्रहर्षन् वज्रमुल्ललयन् शाक्याधिपं नन्दन्मुनीश्वरं प्रणम्य सर्वावरणविशोधनवज्रं नाम समाधिं समापद्येदं दुर्गतिपरिशोधनं नाम हृदयं स्वहृदयाद्निश्चचार । ओं सर्वपापदहनवज्र हुं फट् । ओं सर्वापायविशोधनवज्र हुं फट् । ओं सर्वकर्मावरणानि भस्मीकुरु हुं फट् । ओं भ्रुं विनाशयावरणानि हुं फट् । ओं द्रुं विशोधयावरणानि हुं फट् । ओं ज्वल ज्वल धक धक हन हनावरणानि हुं फट् । ओं स्रुं सर सर प्रसर प्रसरावरणानि हुं फट् । ओं हुं हर हर सर्वावरणानि हुं फट् । ओं हुं फट्सर्वावरणानि स्फोटय हुं फट् । ओं भृत भृत सर्वावरणानि हुं फट् । ओं त्रट त्रट सर्वावरणानि हुं फट् । ओं छिन्द छिन्द विद्रव विद्रव सर्वावरणानि हुं फट् । ओं दह दह सर्वनरकगतिहेतुं हुं फट् । ओं पच पच सर्वप्रेतगतिहेतुं हुं फट् । ओं मथ मथ सर्वतिर्यग्गतिहेतुं हुं फट् । ततस्तेषामुपकरणान्यभाषत । ओं सर्वपापविशोधनि धम धम धूपय हुं फट् । ओं सर्वदुर्गतिविशोधनि पुष्पविलोकिनि हुं फट् । ओं सर्वापायविशोधनि ज्ञानालोककरि हुं फट् । ओं सर्वापायगतिनाशनि गन्ध हुं फट् । ओं नरकगत्याकर्षणि हुं फट् । ओं सर्वनरकगत्युद्धरणि हुं फट् । ओं सर्वापायबन्धनविमोचनि हुं फट् । ओं सर्वापायगतिगहनविनाशनि हुं फट् । (स्द्प्१८२) ततो मण्डलमभाषत । चक्रान्तरं तु मण्डलमष्टारैश्च सुभूषितम् ॥ नाभिनेमिकसंयुक्तमभ्यन्तरावरणिकम् ॥ संलिख्य नाभौ शाक्याधिपेन्द्रमुनिं संलिखेत् ॥ ततो वीराग्रतो लिखेद्वज्रपाणिं महाबलम् ॥ पृष्ठतोऽभिसंलिखेच्चक्रवर्तिनं च ॥ दक्षिणे जयोष्णीषं च वामतो विजयं लिखेत् ॥ तेजोराशिमप्याग्नेयां सितातपत्रमैशान्याम् ॥ विकिरिणंश्चैव वायव्यां नैरृत्यां विध्वंसकं लिखेत् ॥ ततो बाह्यं संलिखेत् । चतुरश्रं चतुर्द्वारं चतुस्तोरणशोभितम् ॥ वीरेणांकुशपाशस्फोटघण्टाः स्थापनीयाः ॥ सर्वकोनेषु पुष्पादयो लेख्याः ॥ ततः स्रग्गन्धगन्धादिना स्वकायमनुलेपयेत् ॥ तथैव वज्राचार्यः प्रविशेत् । जः हुं वं होः । भगवनेहि महाकरुणिक दृश्य होः । इति । सर्वदेवानाकर्षयेत् । तथैव प्रवेश्याभिषिक्ताः सर्वदुर्गतिभ्यो विमुक्ताः स्वर्गलोकोत्तरभूमिषूद्पद्यन्ते । सर्वसिद्धयोऽपि सिद्ध्यन्ति । सम्यक्संबोधिश्चावश्यं प्राप्यते । पूर्ववत्सर्वकर्मां कुर्वन्ति । सर्वत्राप्रतिहता भवन्ति । उन्मार्जनेन सर्वज्वरग्रहादीन्मोक्षयन्ति । वज्रपाणिर्हुंकारेण सर्वकर्माणि करोति । अन्यकल्पविधिनापि सर्वसाधको भवति । देवनागयक्षगन्धर्वासुरराक्षसादीनां दुर्गतिवशीभूतानां सर्वप्रतिबिम्बादिकमभिलिख्य जपहोमाभिषेकैः सर्वदुर्गतिभ्यो मुक्तिर्भवति । अथ भगवान् वज्रधरः सिंहावलोकितेन भगवतो मुखमवलोक्य प्रणम्यैतदवोचत् । भगवन् परममुद्रालक्षणमुत्तममाभाषे करुणावेदनावशगचित्तेन सर्वजिना अधिष्ठानं कुर्वन्ति । (स्द्प्१८४) समाधिस्थो लला॰टेऽञ्जलिं कृत्वा प्रणमेत् । बुद्धानां प्रणाममुद्रा । योगवित्कण्ठप्रदेशेऽञ्जलिं मुकुलितपद्माकृतिं कुर्यात् । पद्मकुले पद्ममुद्रा । हृदि वज्राञ्जलिं कृत्वा मध्यमांगुलीसूचीयोजयति । वज्रकुले समयमुद्रा । वामहस्तमुत्तानमुत्संगे स्थापयित्वा तस्योपरि दक्षिणं व्यवस्थाप्यांगुष्ठद्वयं योजयित्वा शान्तं दृष्ट्वा निरीक्षयेत् । इयं तथागतकुले समाधिमुद्रा समयः । तामेव परिवर्त्यान्योन्यं योजयित्वा कनिष्ठांगुष्ठकानि शृंखलाकाराणि बद्ध्वा हृदि स्थापयेत् । इयं वज्रकुले समयमुद्रा । पूर्णाञ्जलिं कृत्वा कन्यसांगुष्ठौ सूचिं धारयेच्छेषान् प्रसारयेत् । इयं पद्मकुले पद्ममुद्रा । वज्रबन्धं दृढीकृत्य मध्यमांगुलिं वज्रसूचीकृत्य कन्यसांगुष्ठौ प्रसारयेत् । इयं वज्रपाणेर्वज्रमुद्रा । तस्या एव कनिष्ठांगुष्ठद्वयं तथैव कृत्वा तर्जन्यनामिके पद्मपत्राकारैः कुर्यात् । इयं सर्वदुर्गतिपरिशोधनराजस्य सर्वशोधनमुद्रा । तस्या एव तर्जन्यनामिके रत्नाकारं कुर्यात् । इयमभिषेकमुद्रा । कन्यसांगुष्ठौ पृथक्पृथग्योजयित्वा शेषाः प्रसारिताः । सर्वप्रसहनमुद्रा । वामहस्तस्तथैव परिवर्तितः सर्वकर्मिकमुद्रा । अञ्जलेरूर्ध्वक्षेपाद्धूपमुद्रा । तस्या एवाधःक्षेपात्पुष्पमुद्रा । सैव शंखाकारो गन्धमुद्रा । एतामेव प्रसारितां धारयेद्बलिमुद्रा । तस्या एव मध्यमाद्वयादन्तरमर्पणमुद्रा । वज्रबन्धमध्यमाद्वयं मध्ये पर्वभंगं कृत्वा सर्वांगुलीः प्रसारयेद्विकीरिणमुद्रा । तस्या एव कन्यसाद्वयांगुष्ठद्वयमाकृष्टं विध्वंसनमुद्रा । सैवाञ्जलिः प्रभाकारस्तेजोराशिमुद्रा । तामेवोष्णीषस्थाने भ्रामयेत्सितातपत्रमुद्रा । वज्रबन्धे कन्यसांगुष्ठद्वयं शृंखलाकारेण बद्ध्वोर्ध्वं भ्रामयेत् । चक्रमुद्रा । (स्द्प्१८६) वज्रबन्धे मध्यमे वज्राकारेण तर्जन्यो रत्नाकारौ कृत्वा शेषाः प्रभाकारा जयोष्णीषमुद्रा । तथैव तर्जनीद्वयं वज्रीकृत्य शेषांगुल्यो बद्ध्वा वज्राकाराह्कुर्याद्विजयास्य । दक्षिणेन वरदा वामेनाभयदा तथागती । वज्रबन्धे तर्जनीद्वयं वज्राकारं कुर्याद्वज्रमुद्रा । एतस्या एवांगुलदक्षिणतर्जन्याकृष्टांकुशी । सैव रोपाकारा शरः । सैवाग्रांगुष्ठा स्थापिता साधुमतेः । सैव मध्ये भग्ना रत्नम् । तस्या एवांगुलयः प्रभाकारास्तेजः । तामेवोष्णीषे स्थापयेत्केतुमुद्रा । तामेवाग्रतः स्थापयेद्वाशमुद्रा । सैव पद्माकारा पद्मा । सैवाग्राकृष्टा खड्गः । तामेव वलयाकारां कुर्याच्चक्रम् । तामेव पद्मपत्राकारां जिह्वा । सैवाग्रप्रसारिता विश्वा । सैव सुप्रसारिता रक्षा । सैवाग्रतः कुंचिता यक्षा । सैवाकुंचिता बन्धम् । तस्या एव तर्जनीद्वयं कुंचितमंकुशम् । सैवाग्रग्रस्ता पाशः । सैवान्योन्यं ग्रन्थिता स्फोटः । तामेव चालयेद्तोषा । अथ खलु भगवान् वज्रपाणिस्तं शक्रब्रह्माप्रमुखं महापर्षद्मण्डलमवलोक्य साधुकारैः संतोष्य साधु साधु शक्रप्रमुखा देवपुत्रा यद्युष्माकमीदृशं प्रतिभानं सजातं तत्साधु प्रतिपद्यध्वं देशयामि । (स्द्प्१८८) अथ खलु भगवान् वज्रपाणिः सर्वामितायुस्स्फरणसंभववज्रं नाम समाधिं समापद्यापरिमितायुःपुण्यज्ञानसंभारवर्धनं नाम सर्वतथागतहृदयं स्वहृदयाद्निश्चचार । ओं पुण्ये पुण्ये महापुण्येऽपरिमितपुण्येऽपरिमितायुःपुण्यज्ञानसंभारोपचयकारिणि स्वाहा । अस्यां सर्वतथागतहृदयधारण्यां भाषितमात्रायां सर्वापायाः प्रशान्ता मोचितश्चात्मा सर्वे नरकप्रेततिर्यग्गतिपन्नाः सत्त्वाः प्रजानन्ति । सर्वे च लोकधातवोऽवभासिता अवभास्य च द्वादशकारं बुद्धकृत्यं कृत्वा तस्मिनेव सर्वतथागतहृदयधर्माक्षरे प्रविष्टान्यभूवन् । अथ खलु भगवान् पुनरप्यमितायुर्वज्रप्रभाकरीं नाम समाधिं समापद्येमं सर्वतथागतायुर्वज्रं नाम हृदयधारणीमभाषत । ओममृतेऽमृतेऽमृतोद्भवेऽमृतसंभवेऽमृतविक्रान्तगामिनि सर्वक्लेशक्षयंकरि स्वाहा । अथास्यां भाषितमात्रायां तथैव सर्वसत्त्वानां सर्वदुःखानि प्रशान्तानि । अथ भगवान् पुनरप्यमोघावरणविनाशनीं नाम समाधिं समापद्येमं सर्वतथागतावरणत्रोटनं नाम हृदयधारणीं स्वहृदयाद्निश्चचार । ओं कंकणि कंकणि रोचनि रोचनि त्रोटनि त्रोटनि प्रतिहन प्रतिहन सर्वकर्मपरंपराणि सर्वसत्त्वानां स्वाहा । अस्यां भाषितमात्रायां तथैव सर्वमभूत् । अथ खलु भगवान् पुनरपि सर्वावरणविमलविशुद्धिवज्रं नाम समाधिं समापद्येमां सर्वतथागताशेषावरणविनाशनीं नाम हृदयधारणीं स्वहृदयाद्निश्चचार । ओं रत्ने रत्ने महारत्ने रत्नसंभवे रत्नकिरणे रत्नमालाविशुद्धे शोधय सर्वपापं हुं फट् । अस्यां भाषितमात्रायां सर्वमारभवनानि ध्वस्तानि विध्वंसितान्यभूवन् । (स्द्प्१९०) अथ खलु भगवान् पुनरप्यमोघाप्रतिहतसर्वावरणविध्वंसनिनामसमाधिं समापद्येमां सर्वतथागतहृदयधारणीं स्वहृदयाद्निश्चचार । ओममोघाप्रतिहतसर्वावरणविनाशनि हर हर हुं फट् । अस्यां भाषितमात्रायां सर्वोपमलोकधातुः कम्पितः प्रकम्पितः संप्रकम्पितश्चलितः प्रचलितः संप्रचलितः क्षुभितः प्रक्षुभितः संप्रक्षुभितः । अनेकान्याश्चर्याद्भुतानि लोके संदृश्यन्ते स्म । तथैषां मण्डलं भवति । चतुरस्रं चतुर्द्वारं चतुःपार्श्वे समन्वितम् ॥ चतुस्तोरणसंयुक्तं नेमिनिर्यूहसंयुतम् ॥ तस्याभ्यन्तरतो लेख्यं चक्रमण्डलमुत्तमम् ॥ चतुरारसमायुक्तं नाभिमण्डलमुत्तमम् ॥ तस्य मध्ये लिखेद्नाथं वज्रपाणिं महाबलम् ॥ वज्रघण्टाकरं सौम्यं पूर्णेन्दुहसिताननम् ॥ पूर्वारमध्यभागेषु लिखेदक्षोभ्यनायकम् ॥ दक्षिणेन लिखेद्रत्नं पश्चिमेनाम्बुजोत्तमम् ॥ उत्तरेणामोघाख्यातं लिखेद्वीरं महाबलम् ॥ चक्रवर्तिकृताटोपान् लिखेत्सर्वतथागतान् ॥ चन्द्रमण्डलसंकाशान् सर्वाभरणभूषितान् ॥ वरदाभयहस्तान् तु वज्रपर्यंकसुस्थितान् ॥ कोणभागेषु सर्वेषु लेख्या धूपादयस्तथा ॥ द्वारपालाश्च ते लेख्याः क्रुद्धाः क्रोधपरायणाः ॥ ततः प्रविश्य स्वयं योगी आकर्षयेद्मन्त्रदेवताः ॥ जः हुं वं होः भगवन् वज्र एह्येहि समयस्त्वम् ॥ ततश्चागतं नाथं पूजयित्वा समासतः ॥ प्रवेशयेद्मृत्युहानाय मृत्यूरगभयानि च ॥ ओं वज्रसमये हुम् । वज्रतेरिन्तिरीं बद्ध्वा प्रवेशयेद्रत्नकरान्वितम् ॥ पुष्पमालान्वितो वापि क्षेपयेद्मण्डले तु तम् ॥ ओं प्रतीच्छ वज्र हुम् । (स्द्प्१९२) ततः समयं देयम् । ओं वज्रसमये हुम् । ततोऽनेनोद्घाटयेद्वज्रम् । ओं वज्रहासोद्घाटय हुम् । ततोऽनेन दर्शयेत् । ओं वज्र दृश्य होः । ततोऽभिषेकमनेन दद्यात् । ओं वज्राभिषिञ्च हुम् । ओं बुद्धाभिषिञ्च ओम् । ओं रत्नाभिषिञ्च त्राम् । ओं पद्माभिषिञ्च ह्रीः । ओं कर्माभिषिञ्च अः । ततः कलशाभिषेकं दद्यात् । ओं वज्रकलशाभिषिञ्च हुम् । ओं बुद्धकलशाभिषिञ्च ओम् । ओं रत्नकलशाभिष्ःिञ्च त्राम् । ओं पद्मकलशाभिषिञ्च ह्रीः । ओं कर्मकलशाभिषिञ्च अः । ओं मालाभिषिञ्च त्राम् । ओं वज्रपटावलम्बनाभिषिञ्च त्रीम् । ओं बुद्धमुद्राभिषिञ्च ओम् । ओं वज्रमुद्राभिषिञ्च हुम् । ओं रत्नमुद्राभिषिञ्च त्राम् । ओं पद्ममुद्राभिषिञ्च ह्रीः । ओं कर्ममुद्राभिषिञ्च अः । ओं वज्रनामाभिषिञ्च ओं हुं त्रां ह्रीः अः । ओं कर्माभिषिञ्च हुमः । ओं वज्रचक्राभिषिञ्च हुं भ्रूम् । ओं वज्रचक्राधिपतिस्त्वामभिषिञ्च (येत्) ओमोमोम् । हुं हुं हुम् । त्रां त्रां त्राम् । ह्रीः ह्रीः ह्रीः । अः अः अः । ओं वज्रधारिण्यभिषिञ्च हुम् । ओं तथागतधारिण्यभिषिञ्च ओम् । ओं रत्नधारिण्यभिषिञ्च त्राम् । ओं पद्मधारिण्यभिषिञ्च ह्रीः । ओं कर्मधारिण्यभिषिञ्च अः । ओं सर्वतथागतगुह्याभिषिञ्च ओम् । ओं वज्रगुह्याभिषिञ्च हुम् । ओं रत्नगुह्याभिषिञ्च त्राम् । ओं पद्मगुह्यभिषिञ्च ह्रीः । ओं कर्मगुह्याभिषिञ्च अः । ओं प्रज्ञोपायसमायोगाभिषिञ्च हुमः । (स्द्प्१९४) एवमभिषिञ्च्यायुर्वर्धनीं विद्यां दद्यात् । ओं वज्रायुषि हुमः । अस्यः साधनं भवति । वज्रायुर्भगवाञ्चन्द्रमण्डलारूढश्चन्द्राभः सर्वाभरणमण्डितः । अभयहस्तो वरदश्च । अमृतं क्षरन्तम् । तस्याधस्तात्साधकं प्रसारितांजलिहस्तमूर्ध्वमुखं भगवन्तं निरीक्षयन्तं लिखेत् । पञ्चोपचारेण पूजां कृत्वा तस्याग्रतः शतसहस्रं जपेत् । ततः पूर्णमास्यां महतीं पूजां कृत्वा कपिलागोघृतं नवे भाण्डे स्थाप्य वामवज्रेणाक्रम्य भगवन्तं प्रध्यायन् सकलां रात्रीं जपेत् । ततो गन्धं विनस्यति । अपूर्वं वा गन्धमुद्वहति । ऊष्मा धूमः शिखा वा निश्चरति । रश्म्युल्का प्रमुञ्चति । एवमादिभिर्निमित्तैस्तद्घृतं नवनीतं तैलं वा । उदकं दधि क्षीरं मद्यं रुधिरं वसामस्थिकां वा । मांसं वान्यतमं वा संप्रसाध्य प्रत्यूषे रक्षादिकं च कृत्वा । आत्मानंश्च संशोध्य पिबेद्भक्षयेत् । यथा निमित्तेन यावदा चन्द्रार्कायुर्भवति । वज्रसत्त्वश्चेति । अधमेनाधमा सिद्धिर्भवेत् । नात्र संशयः । निर्मित्तेन भवेल्लोके निर्व्याधिर्मेधान्वितः । वलिपलितसुखात्मा दृढकायः शतायुः । अन्यान्यपि कर्माणि शान्तिपुष्टिवशादिकं करोत्यविचारेण जापमात्रात् । न संशयः । अथ चत्वारो महाराजानो भगवन्तं वज्रपाणिं प्रणिपत्यैवमाहुः । वयमपि भगवन् सर्वसत्त्वानामर्थाय हिताय सुखाय स्वकस्वकानि हृदयानि भाषयामः । आज्ञापयतु भगवानाज्ञापयतु वज्रधृक् । साधु साधु महाराजानो देशयध्वमहमनुमोदे । अधितिष्ठामि स्वसमयम् । अथ वैश्रवणो महायक्षराजा भगवदनुज्ञातोऽनुमोदितोऽधिष्ठितस्स्वहृदयं स्वहृदयाद्निश्चचार । ओं वैः । अथ धृतराष्ट्रस्तथैव स्वहृदयमभाषत । ओं धृः । अथ विरूढकः कुम्भाण्डमहाराजा स्वहृदयमभाषत । ओं विः । अथ विरूपाक्षो नागमहाराजा तथैव स्वहृदयमभाषत । ओं क्षः । (स्द्प्१९६) अथ तेषां मण्डलं भवति । चतुरस्रं चतुर्द्वारं पञ्चमण्डलमण्डितम् ॥ तस्य मध्ये लिखेद्नाथं वज्रपाणिं सगर्वितम् ॥ तस्य वामे पार्श्वे तु लिखेद्वैश्रवणं शुभम् ॥ गदानकुलिकाहस्तं रत्नाभरणमण्डितम् ॥ स्थूलं सिंहासनारूढं हेमवर्णं महाद्युतिम् ॥ भद्रकुम्भादिरत्नौघवर्षयन्तं लिखेद्बुधः ॥ पुरतो धृतराष्ट्रं तु वीणावादनतत्परम् ॥ ललितं श्यामवर्णं तु सर्वाभरणभूषितम् ॥ दक्षिणेन लिखेद्वीरं खड्गहस्तं विरूढकम् ॥ पश्चिमेन विरूपाक्षं वज्रपाशधरं परम् ॥ फणैः सप्तभिः संपूर्णं लोहिताक्षिभिर्निर्गतम् ॥ द्वारदेशेषु सर्वेषु द्वारपालास्तथैव च ॥ ततः प्रविशेत्स्वयं मन्त्री मुद्रया चक्रसंज्ञया ॥ आकर्षयेद्भगवन्तं ततो राज्ञः समाहरेत् ॥ आकृष्य पूजयेद्विद्वानर्घपात्रैर्यथाविधि ॥ ततः प्रवेशयेच्छिष्यान् पुष्पमालाविभूषितान् ॥ राजानं क्षत्रियं वापि ब्राह्मणादिकमेव वा ॥ मन्त्रेणानेन मन्त्रज्ञो मुद्रया वज्रधारया ॥ ओं वज्रसमये हुम् । ततः पुष्पं रत्नं वा क्षेपयेदनेन च । ओं वः प्रतीच्छध्वं महोत्तमाः । पतति यस्य राजस्य सोऽस्य सिध्यति नान्यथा ॥ ततोऽभिषिञ्चेत्कलशैश्चतुर्भिः कोणसंस्थितैः ॥ पञ्चमं वज्रपाणेस्तु मुद्रयैवाभिषिञ्चयेत् ॥ एवमादिक्रमेणैव मण्डलाख्याभिषिञ्चनात् ॥ अथ राजाभवते राजा राजा भवते महान् ॥ जम्बुद्वीपपतिश्श्रीमाञ्चतुर्द्वीपपतिर्वरः ॥ चतुरभिषेकाच्च चतुर्द्वारप्रवेशनात् ॥ तस्याहं वज्रधरो राजा पालयामि स्वपुत्रवत् ॥ वयं चतुर्महाराजाः पालयामः सततं नृपम् ॥ सभृत्यपरिजनन् तु सराष्ट्रपुरमण्डलम् ॥ दुष्टान् तस्य हनिष्यामः परराष्ट्रं च तस्य च ॥ व्याधिमृत्युभयं चापि दुर्भिक्षमीत्युपद्रवम् ॥ वैश्रवणः कुरुते पुष्टिं धृतराष्ट्रस्तु शान्तिकम् ॥ (स्द्प्१९८) विरूढकोऽकालमृत्युं हन्यात्सपशुबान्धवान् ॥ विरूपाक्षः कुरुते क्षेमं दुर्भिक्षादिविनाशनम् ॥ संक्षेपतो वयं तस्य सर्वाशां सर्वचिन्तितम् ॥ करोम वज्रपाणिस्तु द्रोहं यदि न निश्चयात् ॥ अथ दशदिग्लोकपाला भगवन्तं प्रणिपत्यैवमाहुः ॥ वयमपि भगवन् सर्वसत्त्वहितसुखाय ॥ स्वकस्वकानि हृदयानि प्रददामः ॥ साधु साधु लोकपालाः साधु साधु वदतेति ॥ अथेशानो भूताधिपतिर्हृदयं ददाति । ओमि । ओमी । ओमः । ओं यः । ओमृः । ओं वः । ओं यः । ओं कुः । ओमाः । ओं व्रः । अथैषां मण्डलं भवति । मण्डलं पूर्ववद्लिखेद्मध्ये नाथं तथैव च ॥ दिक्पालास्तु स्वदिग्भागे स्थापयेत्पुरतो द्वयम् ॥ आदित्यं वराहरूपन् तु द्वारपालास्तथैव च ॥ ततश्चाकृष्य तान् सर्वान् पूजयेत्सर्वपूजया ॥ ततः प्रवेशयेत्शिष्यान् प्रविश्य स्वयमेव तु ॥ अभिषिञ्चयेत्कलशैश्च दिक्पालादिमन्त्रितैः ॥ ततो दद्याद्धृदयं साधनाय हितैषणतः ॥ सिध्यन्तेऽविचाराश्च दिक्पालास्स्वदिक्स्थिताः ॥ अथ ते तुष्टा एवमाहुः । यः कश्चिद्भगवन् राजा क्षत्रियो वा मूर्ध्न्यभिषिक्तः । एतद्मण्डलं प्रविश्याभिषेकं गृह्णेत् । अन्यो वा श्राद्धः कुलपुत्रो वा कुलदुहिता वा । तस्य वयं भगवन् सर्वदा सर्वत्र रक्षावरणगुप्तिं संविधास्यामः । परराष्ट्राणि च वर्धयिष्यामः । कालेन कालं वर्षिष्यामः । सस्यपुष्पफलानि च निष्पादयिष्यामः । अथ यमो महाधर्मराजा भगवन्तं प्रणम्यैवमाह । अहं भगवन् तस्य महाराज्ञ आयुर्ददामि । अष्टकालमरणानि प्रतिबाधयामि । (स्द्प्२००) नैरृतो महाराक्षसाधिपतिरेवमाह । अहं भगवन् तस्य राज्ञो राजपुत्रस्य ब्राह्मणस्य क्षत्रियस्य वान्यतरेषु वा मनुष्येषु न व्याधिप्रेतपिशाचभयं न राक्षसभयादिकं नाकालमृत्युभयं करिष्यामि । सर्वदा रक्षावरणगुप्तिं करिष्यामि । अथ वरुणो महाराजैवमाह । अहं भगवन् तस्य महाराज्ञः सर्वदा सर्वत्र सर्वविषयं प्रतिपालयिष्यामि । आरक्षां च करिष्यामि । सस्यानि च निष्पादयिष्यामि । नागदोषानि च न प्रयच्छामि । विषाशनीञ्च नोत्सृजामि । सर्वाकालमरणानि च प्रतिबाधयामि । अथ वायव्याधिपतिरेवमाह । अहमपि भगवन् तस्य महासत्त्वस्य सर्वदा वायुभयं नोत्सृजामि । नाकालवातं चोत्सृजामि । सर्वसस्यपुष्पफलानि च परिनिष्पादयिष्यामि । सर्वभयञ्च प्रतिबाधयामि । अथ कुवेरो महायक्षराजा भगवन्तं नमस्यैवमाह । अहं भगवन् तस्य महासत्त्वस्याष्टाशीतिभिर्महायक्षसेनापतिभिः सहागत्य सर्वकालोद्योगेन सर्वदा सर्वभयं प्रतिबाधयामि । सर्वधनधान्यसमृद्धिञ्च करोमि । स्वजनपरिजनदेशविषयभृत्यबन्धुबान्धवमित्रपुत्रदुहितृभार्यादिरक्षां च करोमि । गोगव्यखरोष्ट्रमेषगजवाजिच्छागलादिरक्षं करोमि । अथेशानः सर्वभूताधिपतिर्भगवन्तं प्रणिपत्यैवमाह । अहं भगवन् तस्य राज्ञो राजपुत्रस्य क्षत्रियस्य ब्राह्मणस्य वा । इहामुत्र परित्राणं परिग्रहं परिपालनं शान्तिं स्वस्त्ययनं दण्डपरिहारं शस्त्रपरिहारं विषदूषणं विषनाशनं सीमाबन्धं धरणीबन्धं दिग्बन्धं वज्रप्राकारं वज्रकीलनं वज्रपञ्जरं च करोमि । सर्वकार्येषु प्रत्युपस्थापयामि । कार्येष्वकार्येसु निमित्तं च दर्शयामि । स्वप्ने च सर्वं शुभं कथयामि । साधयतोऽविघ्नेन सर्वसिद्धिं च दास्यामि । (स्द्प्२०२) अथाकाशचारी खगपतिर्भगवन्तं प्रणिपत्यैवमाह । अहं भगवन् सर्वदा सर्वं च पथिगतस्य राज्ञो राजपुत्रस्य राजामात्यस्य ब्राह्मणस्य क्षत्रियस्य वा स्वयमागत्य सर्वपरिवारेण रक्षावरणगुप्तिं संविधास्यामि । सर्वावरणं प्रतिवारयामि । सर्वव्याधिमपनयामि । सर्वदा चानुबद्धो भवति । अथ पातालाधिपतिर्महावराहो भगवन्तं नमस्यैवमाह । अहं भगवन्तस्य नराधिपतेश्च नृपसुतस्य वा द्विजातेर्द्विजसुतस्य वा क्षत्रियवैश्यशूद्रस्य वान्यतरस्य श्राद्धस्य कुलपुत्रस्य कुलदुहितुर्वा सर्वदा सर्वार्थं निष्पादयिष्यामि । सर्वभयेषु च रक्षां करिष्यामि । अनेनापि परित्रायिष्यामि । अथाष्टौ महाग्रहाः सनक्षत्रपरिवारा एवमाहुह् । वयं भगवन् सपरिवाराः स्वकस्वकानि हृदयानि ददामः । तद्भगवानधितिष्ठतु । साधु साध्वधितिष्ठंतु मया भाषध्वं महाग्रहाः । अथादित्यादयो महाग्रहा भगवन्तं नमस्याभाषन्त । ओमाः । ओं सोः । ओमः । ओं बुः । ओं ब्र्ः । ओं शुः । ओं साः । ओं राः । अथैषां मण्डलं भवति । मध्ये भगवन्तं वज्रपाणिं त्रैलोकविजयरूपं संलिख्य । समन्ताच्चत्वारो महासमुद्रान् लिखेत् ॥ शुक्रन्तु तस्य पुरतः सोमं पृष्ठतो लिखेत् ॥ दक्षिणे बृहस्पतिं लिखेद्वामतश्च बुधं लिखेत् ॥ अग्निस्थाने तु चांगारमादित्यं वायव्यां दिशि ॥ शनिश्चरं तु ऐशान्यां राहुं राक्षससन्निधौ ॥ नक्षत्रं सर्वत्र लेख्यं समन्ताद्बाह्यमण्डले ॥ द्वारे द्वारे तथा द्वारीं लिखेच्च क्रोधमानसम् ॥ वज्रधार्या प्रविश्य सर्वानावाहयेत् ॥ वज्रांकुशादिभिरिति ततश्शिष्यान् प्रवेशयेत् ॥ ओं वज्र हन हुं फट् । ओं वज्रग्रहसमये हुं फट् । ओं वज्रग्रह प्रतीच्छ समये हुम् । ततोऽष्टभिः कलशैरभिषिञ्चेत् ॥ (स्द्प्२०४) अष्टग्रहाभिमन्त्रितैः ॥ ततो वज्रमुद्रयाभिषिञ्चेत् ॥ ततस्सर्वग्रहं साधयेत् ॥ अथ ते महाग्रहा भगवन्तं नमस्यैवमाहुः । वयं भगवनष्टौ महाग्रहास्तस्य महाराज्ञो राजपुत्रस्य वा सर्वदा सर्वत्र तथैव सर्वं करिष्यामः । अथ नक्षत्रक्षणलवमुहूर्तकरणतिथियोगराशिलग्नविष्टिमण्डलादिदेवतास्तथैव नमास्यैवमाहुः । वयमपि भगवन् सर्वदा तस्य महासत्त्वस्याज्ञां नोत्सृजामः । भृत्यवत्प्रतिपालयामः । सर्वनगरनिगमजनपदराष्ट्रराजधानीं च प्रतिपालयामः । उत्पन्ने तु महाभये युष्माकं पूजयिष्यति तस्यावश्यं तद्भयं न भविष्यति । अथाष्टौ महानागाः फुंकारध्वनिना भगवन्तं संतोष्यैवमाहुः । वयं भगवन् सर्वेषां गुह्यहृदयं दास्यामः । साधु साधु महानागा ददध्वं हृदयं वरम् । अथ ते तुष्टा महानागा भगवन्तं नमस्यैवमाहुः । ओं फुः । ओं फः । ओं फुम् । ओं फाम् । ओं फीः । ओं फेः । ओं फईः । ओं फौः । अथैषां मण्डलं भवति । अष्टपत्रं महापद्मं संलिखेच्छ्वेतवर्णकम् ॥ तस्य मध्ये लिखेद्नाथं वज्रपाणिं सुकृष्णकम् ॥ समन्तात्सप्तफणं तर्जयन्तं महोरगम् । अनन्तं तक्षकं चैव कर्कोटं कुलिकं तथा ॥ वासुकिं शंखपालं च पद्मं वै वारुणं तथा ॥ एते लेख्याः समासेन पत्रे पत्रे फनज्वलाः ॥ सप्तसप्तफणा लेख्याः सभार्याः कण्ठसमागमाः ॥ कलशाष्टकं संस्थाप्य बलिनैवेद्यशोभितम् ॥ घृतक्षीरसमाक्षिकं कृत्रिमाश्चापि भेदकाः ॥ ततः संप्रविश्य वज्रात्माकर्षयेत्पाणिना फणैः ॥ फुंकारसहितैस्तु जः हुं वं होः प्रवर्तयेत् ॥ ततः प्रवेश्य तान् सर्वान् राजं क्षत्रियमेव वा । अभिषिञ्चेत्फुंकारैर्विषदोषमलापहैः । ततः सिध्यन्ति सर्वे ते नागा नामग्रहादपि ॥ (स्द्प्२०६) अथ ते समन्तं तुष्टा भगवन्तं नमस्य च ॥ प्रणिधानं प्रकुर्वन्ति स्थित्वा प्राञ्जलयः पुरः ॥ वयं भगवतः शासनाभिरतस्य यदिदं मण्डलं प्रविष्टस्य विषंवादयामः । तदा भगवन्तमेव विषंवादयामः । तदास्माकं तप्तवालुका भविष्यन्तु । आदीप्तेन वज्रेनास्माकं मूर्ध्नि स्फुटिष्यन्ति । सततं समितं च तस्य महासत्त्वस्य रक्षावरणगुप्तिं करिष्यामः । महौजोबलवीर्यं क्षेप्स्यामः । निर्विषं चापि विषं करिष्यामः । कालेन कालं वर्षयिष्यामः । सर्वसस्यानि निष्पादयिष्यामः । सर्वपरराष्ट्राणि च विकालवृष्टिमुत्सृजामः । सर्वभयं विनाशयिष्यामः। जिनाज्ञया वज्रधराज्ञया प्रतिपालयिष्यामः । अथ साधनं भवति । फुंकारं जपेल्लक्षं ध्यात्वा वज्रधरं प्रभुम् ॥ सितांशुमालिनं दिव्यं शिखायां फणावस्थितम् ॥ ततो विषं गृह्य ध्यात्वा फुंकारमण्डलम् ॥ रश्मिमालाकुलं दिव्यं फुंकारं तत्र चिन्तयेत् ॥ आकर्षयेधृतकृतिफणिपाशाकृतिकरेण ॥ फुंकारवातेन समीरयेत्तं विषं समस्तम् ॥ तनुरस्थिमांसगम् ॥ ततः सर्वकर्माणि कुर्याद्विषज्वरगरादिकम् ॥ मुष्ट्या वै हरेत्सर्वं किं पुनः फणमुद्रयेति ॥ अथ महाभैरवो महादेवाधिपतिरष्टभिर्महामातृकाभिः परिवृतो भगवन्तं प्रणिपत्यैवमाह । मद्भयान्मातृकाभयाच्च भगवन् सर्वदेवनागादयः संत्रस्ता वित्रस्ताः प्रत्रस्ता अधोमुखीभूता निमग्ना नष्टचेतसः परिभ्रमन्ति तु तेषां हितार्थाय हृदयं प्रदास्यामि । तत्साधु भगवानधितिष्ठतु । साधु साधु महाभैरव सुभैरव भाषस्व स्वहृदयं दिव्यमातृकाणां च सर्वासाम् । (स्द्प्२०८) अथ महाभैरवः सुभैरवनादं नदनेवमाह । ओं भैरवैः भीः स्वाहा । ओं भाः स्वाहा । ओं भीः स्वाहा । ओं भूः स्वाहा । ओं भेः स्वाहा । ओं भैः स्वाहा । ओं भोः स्वाहा । ओं भं स्वाहा । ओं भः स्वाहा । इत्येते भगवनष्टौ भैरवाः समाज्ञाकराः । अथैषां मण्डलं भवति । अष्टारं महाचक्रं लिख्य मध्ये निवेशयेत् ॥ वज्रपाणिं महाक्रोधं त्रिलोकविजयावहम् ॥ तस्य पादतले क्रुद्धं भैरवाणां महाधिपम् ॥ लिखित्वा भैरवीयुक्तं लिखेदन्यान् यथासुखम् ॥ आरमध्येषु सर्वेषु लिखेद्भैरवमष्टकम् ॥ मातृकाभिश्च समायुक्तं तत्क्रोधास्यक्रुद्धमानसम् ॥ द्वारे द्वारे तथैवेह लिखेद्द्वारिं सुक्रोधनम् ॥ ततो वाह्यांकुशादिभिः पुजयित्वा कपालया रुधिरपूर्णया ॥ मद्यं मांसं बलिं दिव्यं रुधिरपूर्णभाजनम् ॥ कपालं मुण्डनखण्डं चाष्टौ कलशान् पूरितान् ॥ रुधिरैरासवैर्वापि स्थापयेत्तस्य मण्डले ॥ ततः प्रवेशयेच्छिष्यान् त्रिलोकविजयापरः ॥ अभिषिञ्चेत्कपालेन कलशैरपि चाष्टभिः ॥ ततः कर्माणि दद्यात् । मातृकागृह एकलिंगे वा त्रिलोकमथने वरम् ॥ पूजां कृत्वा यथान्यायं जपेल्लक्षचतुष्टयम् ॥ ततो नादं प्रश्रुयते भैरवस्य महात्मनः ॥ निर्भीरर्घं प्रयच्छेत्कपालेन सुरक्तिना ॥ ततः पश्यति तं क्रुद्धं भैरवं दुष्टमानसम् ॥ मातृकागणसंपूर्णमष्टभिर्भैरवैर्वृतम् ॥ तं दृष्ट्वा निर्भयो भूत्वा दद्याद्मांससुपूरितम् ॥ कपालं वासवैः पूर्णं हुंकारमनुस्मरेण ॥ ततस्तुष्टः प्रसिध्येत भैरवो दुष्टघातकः ॥ ब्रूयात्किमिच्छेति तद्दद्यात्तुष्टमानसः ॥ रसरसायनं द्रव्यं खड्गं चक्रं त्रिशूलकम् ॥ स्वर्गमर्त्यपातालं राज्यं द्वीपचतुष्टयं चापि ॥ (स्द्प्२१०) शक्रत्वं यक्षेश्वर्यं राक्षसत्वं विद्याधरत्वम् ॥ विद्याधरचक्रवर्तित्वं त्रैलोक्याधिपतित्वम् ॥ मुक्त्वा भूमिदानञ्चेति । किंकरत्वं चापि स्वयगणं मातृकां वा ददाति ॥ यथेष्टान्यतमां सिद्धिं प्रार्थयेत् ॥ हुंहृतिना सुखिना दत्त्वा विहसन् याति ॥ भीतं मारयते क्षणात् ॥ अथ ब्रह्मादयो महादेवा भगवन्तं नमस्यैवमाहुः । वयमपि भगवत आज्ञया स्वकल्पं भाषयामः । तद्भगवान् कम्पामुपादायाधितिष्ठतु । अथ ब्रह्मादयो देवाः स्वहृदयमभाषन्त । ओमोम् । ओं विः । ओं रुः । ओमिः । ओं कः । ओं गः । ओं भृः । ओं कः । अथैषां मण्डलं भवति । मण्डलं पूर्ववल्लिखेद्मध्ये त्रैलोक्यसंग्रहम् ॥ तस्याग्रतो लिखेद्वीरमीश्वरं शूलपाणिम् ॥ पृष्ठतो विलिखेद्ब्रह्माणं वामतश्चक्रपाणिम् ॥ दक्षिणेन लिखेदिन्द्रं स्वमुद्राकरचिह्नितम् ॥ द्वारपालास्तथैवेह भार्या एसां स्वमण्डले ॥ कलशान् पूर्णकुम्भांश्च स्थापयेद्बाह्यमण्डले ॥ बलभद्रं दीप्तमहर्द्धिकम् ॥ ततः प्रविश्य तान् देवानाह्वयति विचक्षणः ॥ जः हुं वं होः सुराः सर्वे प्रविशध्वं पुरोत्तमे ॥ अथ तान् ततो द्र्ष्ट्वा पूजयेद्महासुखैः ॥ ततः प्रवेशयेच्छिष्यान्मुद्रया वज्रधारया ॥ ओं प्रतीच्छध्वं महासत्त्वा वज्रधराज्ञया हुं ह ह ह होः । पुष्पान् प्रक्षिप्य यथावच्चक्षुरुद्घाट्य दर्शयेत् ॥ ततोऽभिषिञ्चेत्तोयेन कलशादभिमन्त्रितम् ॥ ततः सर्वं प्रदद्यात्तद्देवानां तु यथेप्सितम् ॥ लक्षमेकं द्विलक्षं वा कृत्वा सेवाप्ररोचितम् ॥ साधयेत्साधकस्तेषामीश्वरादिसुरोत्तमान् ॥ (स्द्प्२१२) एकलिंगादिषु स्थान अथ वा वज्रपाणिनः ॥ गृहे तथागते चापि सधातुवरचैत्यके ॥ साधयेत्साधको नित्यं सर्वदेवान् यथावदिति ॥ अर्धरात्रे ततो देवा गत्वा वेदय ते ध्रुवम् ॥ ईप्सितं त्वया किं हितं दास्यामो यथासुखम् ॥ वद भद्र द्रुतं चिन्त्य येन दास्यामस्ते वरम् ॥ ततो याचते मन्त्रज्ञो वरसिद्धिं तु देवते ॥ रसरसायनं दिव्यमन्तर्धानं तु खे गमम् ॥ गुलिकाराजद्रव्यादि याचयेद्मनैषिणाम् ॥ इति अथ महेश्वरादयो भगवन्तं प्रणिपत्यैवमाहुः । ये भगवन् लौकिकलोकोत्तरमण्डले प्रविशन्ति तेषां वयं भगवन् सर्वदेवाः सर्वावरणानि विशोधयामः । स्वर्गमार्गं च दर्शयामः । सुगतिमार्गं च दर्शयामः । अपापमार्गं च दर्शयामः । सद्धर्ममार्गं च दर्शयामः । अनामार्गं च दर्शयामः । विवेकमार्गं च दर्शयामः । सारमार्गं च दर्शयामः । निर्वाणमार्गं च दर्शयामः । प्रहाणमार्गं च दर्शयामः । निःक्लेशमार्गं च दर्शयामः । बुद्धत्वं च दर्शयामः । बोधिसत्त्वत्वं च दर्शयामः । वज्रधरत्वं च दर्शयामः । इति । सर्वदा सर्वभयेषु च रक्षावरणगुप्तिं करिष्यामः । नगरनिगमजनपदराज्यराष्ट्रराजधानीं च रक्षयिष्यामः । विषयदेशग्रामगोष्ठं च रक्षयिष्यामः । राज्यं च दास्यामः । प्राप्तराज्यस्य राजवृद्धिं करिष्यामः । एकद्वीपं द्वितीयं तृतीयं चतुर्थं स्वर्गमर्त्यपातालं चक्रवर्तित्वं च दास्यामः । संक्षेपतः । शक्रत्वं ब्रह्मत्वं विष्णुत्वं महेश्वरत्वं च दास्याम इति । अथ भगवान् वज्रपाणिः पुनरपि स्वपर्षन्मण्डलमवलोक्य स्मितमकार्षीत् । ततः परिषन्मण्डलं प्रचलन् संप्रचलन् क्षुभन् प्रक्षुभन् संप्रक्षुभन् ज्वलन् प्रज्वलन् संप्रज्वलन् हर्षन् प्रहर्षन् संप्रहर्षन् क्रीडन् प्रक्रीडन् संप्रक्रीडन् अनेकान्याश्चर्याद्भुतानि च लोके संप्रदृश्यन्ते स्म । (स्द्प्२१४) अथ ब्रह्मादयो देवगणाः सुविस्मयजाता भगवन्तं प्रणिपत्यैवमाहुः । किमेतद्भगवन् स्मितस्य कारणं नाकारणेन बुद्धा भगवन्तो बोधिसत्त्वा वा स्मितमुत्सृजन्ति । तस्माद्भगवान् व्याकरोतु स्मितस्य कारणमिति । अथ भगवान् वज्रपाणिर्देवानामध्येषणावाचमुपश्रुत्यैवमाह । श्रुतं ब्रह्मादयो देवा यत्पुरः सर्वबुद्धैश्च भाषिता मृत्युनाशनी विद्या विद्यामन्त्रमहातेजा अकालमृत्युनाशनी । अथ भगवन्तं वज्रपाणिं प्रणिपत्य ते ब्रह्मादयो महादेवाः संहृष्टरोमकूपजाताः । साधुकारं प्राददुः । साधु साधु भगवन् साधु साधु वज्रधर । देशय तु विद्यां महातेजां महाबलपराक्रमां येनाल्पायुषाः सत्त्वा दीर्गायुषा भवन्ति । अकालमृत्युग्रस्ताश्च येनाकालमरणाद्विमुच्येरन् । अपायोपपन्नाश्च सर्वापायगतिपथाद्विमुच्येरन् । संसारभयभीताश्च सत्त्वाः सुखोपायेन संसारपरांमुखा भवन्ति । आशुरेवानुत्तरसम्यक्संबोधिमभिसंबुध्यन्त इति । अथ भगवान् वज्रपाणिर्ब्रह्मादीनां देवानामध्येषणावचनमुपश्रुत्येमां सर्वतथागतहृदयविद्यां स्वकायवाक्चित्तवज्रेभ्यो निश्चचार । ओं पुण्ये पुण्ये महापुण्येऽपरिमितायुःपुण्ये ज्ञानसंभारोपचिते स्वाहा । हृदयविद्या । ओं ह्रीः स्वाहा । उपहृदयविद्या । ओं भ्रूं स्वाहा । हृदयोपहृदयविद्या । ओं क्रुं स्वाहा । हृदयसंचोदनीविद्या । ओं त्रां स्वाहा । हृदयोत्तरा । ओं हं स्वाहा । गुह्यहृदया । अथैषां मण्डलं भवति । मण्डलं चतुरारं कृत्वा मध्ये निवेशयेदपरिमितायुःपुण्यज्ञानसंभारतेजोराजं नाम तथागतम् । भ्रूंकारहृदयम्। तस्याग्रतो वज्रपाणिम् । ह्रींकारहृदयम् । वामतः क्रोधम् । क्रुंकारहृदयम् । दक्षिणेनाकाशगर्भम् । त्रांकारहृदयम्। पृष्ठतोऽभयंददं नामार्यावलोकितेश्वरम् । हंकारहृदयम् । (स्द्प्२१६) तथागतस्य प्रभामण्डले विद्या लेख्याः । पञ्चाष्टौ कलशाः स्थाप्याश्चक्रवर्त्यभिमन्त्रिताः । सर्वकर्मिकक्रोधेनाभिमन्त्रितास्च धूपादिकं स्थापयेत्पूजादिकं सर्वद्वारपालानेव च । ततः संप्रविश्य स्वयं मन्त्री । आकर्षयेत्सुगतोत्तमं सपुत्रभृत्यसंघैश्च वृतं विद्यया सह । विद्या च सुगतवामपार्श्वे लेख्या । ततश्चात्मानमभिषिञ्च्य पर्यंकेन निषद्य शतसहस्रं जपेत् । तथागतं संमुखं पश्यति वज्रधरार्यावलोकितेश्वरं वा । यथेप्सितं वरं प्रतिलभते । यदा समाहितस्तदा मनसा सर्वकर्मसमर्थो भवति । ततः शिष्यान् प्रवेशयेद्वज्रधरमुद्रया । इत्यभिमानमुत्पादयेत् । ओं वज्रधर रत्नधर पद्मधर विश्वधर तथागतसमयातिक्रम तथागतसमयधारकोऽहम् । ततोऽनेन क्षेपयेत्पुष्पान् । ओं सर्वतथागत प्रतीच्छ होः समयस्त्वम् । ततस्तया मालयावेष्टयाभिषिञ्चयेत् । ओं सर्वतथागताभिषिञ्च वज्रधराज्ञापय हुं भ्रूम् । ओं वज्रवज्राभिषिञ्च हुं हुम् । ओं वज्ररत्नाभिषिञ्च हुं त्राम् । ओं वज्रपद्माभिषिञ्च हुं ह्रीः । ओं कर्मविश्वाभिषिञ्च अः हुं कम् । ततः समयं दद्यादाज्ञाभिषेकं च । तत्र समयम् । त्रिरत्नं न परित्याजं बोधिचित्तञ्च सद्गुरुम् ॥ प्राणिनश्च न संघात्या अदत्तं नैव चाहरेत् ॥ मृषा नैव च भाषेत नाचरेत्तत्परस्त्रियम् ॥ गुरुनिन्दा न संकार्या नापि छायां तु लंघयेत् ॥ अनाचार्यान्न गृह्णीयाद्नाममाचार्यवज्रिणः ॥ मन्त्रमुद्रा न निन्देत देवतां चापि कदाचन ॥ निन्देद्यदि मोहात्मा म्रियते व्याधिभिर्ध्रुवम् ॥ निर्माल्यदेवताच्छायां मुद्रां चाक्षरचिह्नकाम् ॥ लौकिकलोकोत्तरां च पादाभ्यां चापि नाक्रमेत् ॥ (स्द्प्२१८) रत्नत्रयादिद्रुग्धानां मूढानां बुद्धशासने ॥ गुरुनिन्दापराणां यत्नात्घातयेद्विचक्षणः ॥ अधर्मिकान् पापरतान् सत्त्वद्रोहनतान् सदा ॥ हनेत्कृपाया मन्त्री मन्त्रेण समयद्विषान् ॥ कृपणार्थं च संगृह्य दद्यात्सत्त्वे सुदुःखिते ॥ गुरुपूजानिमित्तं च तथा समयसाधने ॥ मण्डलार्थे हरेदर्थं कृपणार्थं चापि चिन्तितम् ॥ समयिनां हितार्थाय पूजार्थाय जिनौरसाम् ॥ रक्षणार्थाय भाषेत मृषा सत्त्वहिते रतः ॥ समयगुरुद्रव्यं च प्राणां प्राणिषु सर्वदा ॥ रागनार्थाय बुद्धानां समयपालनाय च ॥ सेवयेत्परदारां तु साधनार्थाय मन्त्रवित् ॥ सर्वकृत्सर्वभुग्वा किं वज्रसत्त्वपदे स्थितः ॥ सिध्यते नैव दुष्येत किं पुनः कृपयान्वितः ॥ इति । ततोऽनेन किं मे अभिषेकं दद्यात् । ओं सर्वतथागताज्ञां ते दास्यामि गृह्ण वज्रसुसिद्धये । ओं वज्र तिष्ठ हुम् । अनेन वज्रं हस्ते दत्वा कर्माभिषेकं दद्यात् ॥ ओं सर्वकर्माणि कुरु बुद्धानां हुम् । ततो गुरुगौरवं तेन दातव्यं देहमुत्तमम् ॥ द्रव्यं धनधान्यं च आसनं यानमेव च ॥ वरभृत्यपुरं चैव राज्यमैश्वर्यमेव च ॥ पुत्रदुहितृकलत्रं च माताभगिनीभगिनीम् ॥ अन्यानपीप्सितांस्सर्वान् गुरोर्देयान् हिताशयः ॥ ततः सिद्धिं तु प्रार्थयेद्बुद्धानां बोधिसाधिकाम् ॥ अन्यानि च यथेष्टानि लौकिकानि वर्द्धिकानि ॥ (स्द्प्२२०) ततो दद्याद्धितार्थाय सिद्धिं पुत्रस्य मन्त्रवित् ॥ अमत्सरेण चित्तेन श्रद्धया श्राद्धचेतसा ॥ निःस्वभावं तु धर्माणां भावयित्वा तु चेतसा ॥ अकारेन्दुमण्डलं चिन्त्य तस्य मध्ये स्वबीजकम् ॥ ध्यात्वा समयमुद्रां तु चिन्तयेत्तमेव च ॥ सा एव परिवर्तेत देवताकारयोगतः ॥ ततोऽधितिष्ठेत्तां मुद्रां स्वबिजेन तु मुद्रया ॥ अभिषिञ्चेद्बुद्धैस्तु यथावदनुपूर्वशः ॥ ततोऽभिमानमुत्पाद्य साधयेद्विचक्षणः ॥ सिद्धिं तथागतिं चापि किं पुनश्चान्यसिद्धयः ॥ अथ भगवन्तं प्रणिपत्य ब्रह्मादयो महादेवा एवमाहुः । किं भगवन् तस्य राजपुत्रस्य राजामात्यस्य क्षत्रियस्य ब्राह्मणस्य वैश्यस्य शूद्रस्यान्यस्य वा हीनजघनस्य प्रत्यन्तिकजनपदकुलजात्यस्यास्य मण्डलराजप्रविष्टस्य विपाकं भवति । भगवानाह । साधु साधु महाब्रह्मादयो देवगणा यन्ममेदमनागतानां सत्त्वानां हिताय परिप्रष्टवन्त इति । शृणुत देवगणस्य मण्डलराजप्रविष्टस्याभिषिक्तस्य लिखितस्य लिखापयितस्यानुमोदितस्य वन्दितस्य पूजितस्य फलविपाकं चेति । अहमपि देवपुत्राः संक्षेपतो नोत्साहामि । अनुशंसा वक्तुं यन्मम पुण्यसंभारं तमनेकशतसहस्रगुणितं कृत्वा संख्यामपि गणनामप्युपमामपि न क्षमते । यावत्सर्वतथागतानामपि पुण्यस्कन्धं न क्षमते । इति । आश्चर्यं भगवनाश्चर्यं वज्रधर यदेवं मण्डलप्रविष्टानां सत्त्वानां फलविपाकमिति । उत्साहामो वयं भगवनुत्साहामो भगवन् वज्रधर मण्डलादिप्रवेशम् । अथ ते देवास्तथैव नमस्यैवमाहुः । सन्ति भगवन् सत्त्वा जम्बुद्वीपका अल्पायुषो मन्दपुण्या अपायगतिका नरकप्रेततिर्यक्प्रत्युपपन्ना वा तेसां कथं वयं भगवन् प्रतिपत्स्यामः । (स्द्प्२२२) तेषां भो देवपुत्रा इहैव मण्डले प्रवेशयध्वम् । प्रवेश्य चाभिषिञ्चयध्वम् । धर्मताक्षरं च जपयध्वम् । तेन ते सत्त्वा दीर्घायुष्का भवन्ति । पुण्यहीनाः पुण्यवन्तो भवन्ति । अपायाद्विनिर्मुक्ता भवन्ति । ये चापायोत्पन्नास्तेषां भो देवपुत्रा नामाभिषेकं कुरुत । प्रतिबिम्बाभिषेकं कुरुत । स्तूपाभिषेकं कुरुत । स्वदेवताकायाभिषेकं कुरुत । अन्तशस्तज्जन्यं तत्पुत्रं तद्गोत्रं तन्नामधारकं वा भृत्यं वाभिषिञ्चध्वं सप्तरात्रदिवस्य सप्तभिर्मण्डले प्रवेश्याभिषेकैर्विमुच्यत अपायावरणात् । तन्नामकेनापि देवपुत्रा जपध्वं द्विलक्षं त्रिलक्षं चतुल्लक्षं यावल्लक्षशतसहस्रं पञ्चानन्तर्यकारिणोऽपि विमुच्यन्ते । किं पुणः स्वल्पपापकारिण इति । हस्तमात्रं देवपुत्रा वर्तुलं द्विहस्तं वा शान्तिकं कुण्डं कृत्वा हीनोत्कृष्टमध्यमं तन्नाम्ना श्वेतसर्षपानां शतसहस्रं जुहुयात् । सर्वापायाद्विमुच्यते । तन्मांसास्थिकेशभस्मादिकं वा तेनैव विधानेन जुहुयात् । सर्वपापाद्विमुच्यते । तन्मध्ये लिखेच्चक्रमष्टारश्वेतज्वालिनम् ॥ समन्ताल्लिखेद्वज्रं पञ्चशूलं सितांशुलम् ॥ विश्ववज्रं ततो कुर्याद्वज्ररत्नाम्बुजोत्तमम् ॥ ततो नानाविधामुद्रां कुर्यात्पापहननाय ॥ बाह्यवज्रकुलानां तु मुद्रा बाह्यतो लिखेत् ॥ ग्रहनक्षत्रचिह्नानि तथा लोकभृत्यानपि ॥ पटप्रतिमां तु नाथस्य स्थापयेद्वज्रिणा सह ॥ कलशान् पूर्णकुम्भांश्च बलिनैवेद्यशुक्लकान् ॥ सूत्रयित्वा समासेन संलिख्य च यथाविधैः ॥ श्वेताम्बरधरो भूत्वा बुद्धरूपी विशारदः ॥ अनुस्मृत्य च तं सत्त्वमपायगतिसंस्थितम् ॥ होमयेच्छुद्धसंतानः पापावरणशान्तये ॥ घृतक्षीरसमाक्षिकैर्लाजसर्षपमिश्रितैः ॥ अस्थिमांसादिकं तस्याथ वा नाममात्रकैर् ॥ इति ॥ उत्पाद्य सुगतौ तस्य पुष्टिं कुर्याद्विचक्षणः ॥ द्विहस्तं चतुर्हस्तं वाष्टहस्तं तथोत्तमम् ॥ कृत्वा कुण्डं चतुःकोणं समन्ताद्वेदिकायुक्तम् ॥ (स्द्प्२२४) तस्य मध्ये रत्नपद्मं तु लिखेत्पीतरश्मिनम् ॥ समन्ताल्लिखेद्रत्नं वेदिकायां तु अंबुजम् ॥ कुलपञ्चकभेदेन लिखेद्मुद्रां तु बाह्यतः ॥ तथैव बाह्यदेवानां लिखेदंकुशादिकम् ॥ पीताम्बरधरो भूत्वानुस्मृत्य सुगतिसंस्थितम् ॥ कुर्यात्पौष्टिककर्म पुष्ट्यर्थाय तद्धितम् ॥ आयुःश्रीकान्तिसौभाग्यं वर्धयेत्तस्य देहिनः ॥ ततः कुर्याद्वश्यं तु तस्य कर्म हिताय ॥ द्विहस्तं चतुर्हस्तं तु कृत्वा कुण्डं धनुराकृतिम् ॥ हस्तं वा तस्य मध्ये तु संलिख्य रक्तमम्बुजम् ॥ तस्योपरि च संलिखेत्सशरं धनुरेव च ॥ समन्ताच्च लिखेच्चापं सशरं रक्तवर्णकम् ॥ बाह्यतस्तद्वदेवास्य कुर्याद्मन्त्रभूतः सदा ॥ स्मृत्वा तस्य सत्त्वस्य रक्ताम्बरभुषितः ॥ रक्तपुष्पाम्बुजं वापि फलं रक्तं सधातुकम् ॥ भवेत्तस्य देवादयो घृतमिश्रितकुंकुमैः ॥ रक्तचन्दनचूर्णैश्च सर्वे तिष्ठन्ति तद्वशाः ॥ तस्य दुष्टविनाशाय अभिचारं समारभेत् ॥ द्व्यर्धहस्तं त्रिहस्तं वा नवहस्तं तथोत्तमम् ॥ कृत्वा कोणत्रयैर्युक्तैर्मध्ये वज्रनवात्मकम् ॥ त्रिसूचिकैर्वृतां वेदीं कृत्वा विश्वैश्च वज्रिभिः ॥ दण्डमुण्डत्रिशूलांकैर्वज्रपरशुसूचिकैः ॥ कारयेद्बाह्यतो चापि त्रिपुटं पूर्ववच्चित्रम् ॥ कलशान् बलिकुम्भांश्च नैवेद्यान् स्थापयेद्बहु ॥ मांसरुधिरसंपूर्णाः कपालाश्चापि सर्वतः ॥ कृष्णाम्बरधरः क्रुद्धस्त्रैलोक्यविजयी स्वयम् ॥ सर्वपापादिविघ्नानां नाशयेत्तस्य देहिनः ॥ ततः सौहतपापात्मा निर्विघ्नश्चरते सुखम् ॥ स्वर्गलोकेषु मानुष्ये यावत्त्रैलोक्यधातुषु ॥ अनेनैव क्रमेणाशु कुर्याज्जन्मनीह स्थितान् ॥ ततस्तथैव स्यात्तेषां येषामुद्दिश्य कार्यते ॥ अन्यान्यपि कर्माणि यथा पूर्वं तथा कुर्यात् ॥ तेन संपद्यते क्षिप्रं सत्त्वानां च सुखावहम् ॥ (स्द्प्२२६) अथ ब्रह्मादयो देवाः संहृष्टमनसो भगवन्तं नमस्यैवमाहुः । यो भगवनपायोपपन्नानां सत्त्वानामर्थाय हिताय सुखाय । एतं कल्पराजं लिखिष्यति लिखापयिष्यति । किं पुनर्यथानिर्दिष्टमविकल्पयतः करिष्यति । वयं ब्रह्माद्दयो देवास्तस्य कुलपुत्रस्य कुलदुहितुर्वा भृत्यवत्परिपालयिष्यामः । यश्च राजैव राजपुत्रो वा राजामात्यो वा यथापठितुं मन्त्रं वर्तयिष्यति तस्य राजवृद्धिं करिष्यामः । विषयदेशांश्च जनपरिवारजनसस्यादिरक्षां च करिष्यामः । बहुधनधान्यसमृद्धिं करिष्यामः । स्त्रीपुरुषदारकदारिकासंपदं च करिष्यामः । ऋद्धिं च स्फीतं च सुभिक्षं च क्षेमं च करिष्यामः । यश्चेदं कल्पराजं श्राद्धो ध्वजाग्रावरोपितं कृत्वा नगरनिगमादिसु प्रवेशयेत्स्वयं वा प्रत्युद्गच्छेद्धस्तिस्कन्धावरोपितं च कृत्वा सर्वग्रामनगरादिकं भ्रामयेत् । सर्वमृत्यूपद्रवं च नश्यति । तस्य महासत्त्वस्य पदं ज्ञास्यामो भृत्यत्वेन पुत्रत्वेन वा । यत्र पापं प्रचरिष्यति तत्र भगवान् वज्रपाणिः स्वयमेव संभोगिकैः कायैर्वज्रसत्त्वरूपेण व्यवस्थित इति मन्यामः । स एव भगवान् वज्रसत्त्वः समन्तभद्रः सर्वाशापरिपूरकः कल्पराजरूपेण विहरतीति मन्यामः । सर्वतथागताश्च सपरिवारा विहरन्त इति मन्यामः । तं च पृथिवीप्रदेशं चैत्यभूतं मन्यामः । पूजयामो वन्दयामः । आरक्षिष्यामः । यश्चैनं कल्पराजं प्रचरिष्यति वज्राचार्यमहातपा तस्य वयं ब्रह्मादयो देवा भृत्या भवामः । चेटत्वेनोपतिष्ठामः । किंकरत्वेनोपतिष्ठामः । सर्वाज्ञात्वे करिष्यामः । सर्वहितं सुखं च करिष्यामः । सर्वसिद्धिं च प्रयच्छामः । संक्षेपतश्च भगवन् तस्य पादरजांसि शिरसा धारयामः । (स्द्प्२२८) वन्दयामो भगवन् पूजयामो भगवन् तस्य पृष्ठतश्चानुगच्छामः । ये भगवन् सत्त्वा मण्डलेऽभिषिक्तास्तेऽस्माकं प्रभुरिति मन्यामः । वज्रपाणिरिति मन्यामः । वज्रसत्त्व इति मन्यामः । महासुखसमन्तभद्र इति मन्यामः । तथागतश्चेति मन्यामः । अथ भगवान् वज्रपाणिस्तान् ब्रह्मादीन् देवानेवाह । साधु साधु ब्रह्मादयो देवा येन धर्मगौरवेणैव भूतां प्रतिज्ञां कुर्वतस्तत्साधु प्रतिपद्यध्वमिति । (स्द्प्२३०) इइइ अथ भगवान् वज्रपाणिः सर्वमन्त्रविद्याहृदयदृढीकरणार्थं स्वहृदयमभाषत । ओं भ्रूं त्रूं वज्रपाणि दृधं तिष्ठ हुम् । ओं हुम् । ओं वज्र हुं फत् । ओं दृढवज्र हुम् । ओं वज्र हुं सः । ओं वज्र हुं स्रः । अथास्य मण्डलं भवति । मण्डलं पूर्ववल्लिख्य मध्ये वज्रं समालिखेत् ॥ अथ वा वज्रसत्त्वं तु समन्तभद्रं महासुखम् ॥ पुरतो वज्रपाणिं तु दक्षिणे रत्नपाणिनम् ॥ पश्चिमे पद्मपाणिं तु विश्वपाणिं तु चोत्तरे ॥ बाह्यतो मण्डलीकृत्य सर्व बुद्धान्निवेशयेत् ॥ तस्य बाह्ये तु सत्त्वाख्यं संलिखेद्तु यथाक्रमम् ॥ तद्बाह्येऽपि लिखेत्सत्त्वान्मैत्रेयादीन्महोत्तमान् ॥ तद्बाह्ये तु लिखेद्भिक्षूनानन्दादीन्मुनीन् तथा ॥ ब्रह्मादींश्च लिखेद्बाह्ये सभार्यायन्त्रमण्डितान् ॥ ग्रहनक्षत्रचन्द्रसूर्यं चतुर्नामवीरजिनाम् ॥ दिग्लोकपालानां संलिखेदस्मिन्मण्डले ॥ बाह्यतस्तु नारकादीन् तिर्यगुपमाम् ॥ द्वारे द्वारे तथैवापि ॥ दिनेष्वेतेषु दशसु प्रयत्नतो मण्डलं लिखेत् ॥ कृष्णपक्षेऽपि यद्बल्यो मण्डलं न विरुध्यते ॥ पञ्चम्यामथ सप्तम्यां पूर्णमास्यां विशेषतः ॥ शस्यते पद्महस्तस्य मण्डलानां क्रियाविधिः ॥ यानि च क्रूरकर्मासु तान्यालिखेत्कृष्णेऽपि ॥ क्रोधानां मण्डलानि च पूर्णमास्यां विशेषेन ॥ शस्यन्ते जिनमण्डलाः ॥ (स्द्प्२३२) अथाधिवासनां कुर्यात्स्वोभूते मण्डलोद्यमे ॥ दिग्भागं लक्षयेत्पूर्वमुदयेन विवस्वतः ॥ ततो मण्डलविन्यासं मनसा परिकल्पयेत् ॥ मन्त्रतन्त्रोदितं स्निग्धं मन्त्ररूपशुभं शुचि ॥ मनोऽनुकूलं भोक्तव्यं स्वशिष्यैः सह मात्रया ॥ ततः प्रदोषे सुस्नातः शिताम्बरधरः शुचिः ॥ सह शिष्यैर्गुरुर्धीमानागच्छेन्मण्डलान्तिकम् ॥ सूपलिप्ते सुसंमृष्टे प्रदेशे मण्डलस्य तु ॥ महाक्रोधाभिजप्तेन प्रोक्षिते गन्धवारिणा ॥ मध्येऽधिवासनां कुर्यात्कुलानां हृदयेन तु ॥ मण्डलाधिपमन्त्रेण सर्वकर्माणि कारयेत् ॥ गन्धमण्डलकं कृत्वा मेदिन्यां द्वादशांगुलम् ॥ सप्तशः पाणिनालभ्य जपेन्मण्डलविद्यया ॥ देवतानां तु पश्चान्महतां नाम बोधिया ॥ हृदयेन यथाभागं गन्धपुष्पादिपूजनम् ॥ कृत्वा बलिश्च दातव्यो धूपश्चैवाभिमन्त्रितः ॥ ततोऽभिमन्त्रयेत्तोयं चन्दनेन विमिश्रितम् ॥ तस्मिन् देयानि पुष्पाणि धूपयेच्च विधानतः ॥ औदुम्बरं दन्तकाष्टमश्वत्थं वापि निर्व्रणम् ॥ नातिकृशं नातिस्थूलं द्वादशांगुलसंमितम् ॥ क्षालितं गन्धतोयेन सूत्रकेन विवेष्टितम् ॥ धूपितं गन्धदिग्धं च जपेदालभ्य पाणिना ॥ हृदयं च बहुशः सप्तशो वा कुलस्य तु ॥ शिष्याणां परिमाणेन दन्तकाष्ठादिसंग्रहः ॥ एकाद्यानि च कर्याणि अग्रेणैव खादयेत् ॥ ततो रक्षां दृढं कृत्वा शिष्याणामात्मना बुधः ॥ होमकर्म सघृताक्ताभिः समिद्भिश्च ॥ तिलैश्च घृतमिश्रितैर्घृतैराहुतिहोमैश्च ॥ दध्यन्नेन च होमयेत् ॥ (स्द्प्२३४) प्रथमं विघ्नशान्त्यर्थं ततोऽनुहृदयेन च ॥ ततोऽनुशान्तिहोमं च कुर्याच्छान्तिं वा पापस्य ॥ ततः शिष्यान् परीक्षयेद्विधिना चाधिवासयेत् ॥ तदहः शक्तितः कुर्यात्संवरं ग्रहणं तथा ॥ तेषामेवं विधानं तु शुचीनां शुक्लवाससाम् ॥ प्राङ्मुखानां निषण्णानामारभेदधिवासनाम् ॥ आदौ त्रिशरनं दद्याद्बोधिचित्तं ततो गुरुः ॥ उद्पादयेदनुत्पन्नमुत्पन्नं स्मारयेत्पुनः ॥ ततः क्रोधाभिजप्तेन वारिणाभ्युक्षयेच्छिरः ॥ शिरसि आलभ्य जपेत्सप्तवारान् समाहितः ॥ विद्यारजस्य हृदयं गन्धदिग्धेन पाणिना ॥ आलभ्य भयं वर्तेत सप्तवारं विचक्षणः ॥ चक्रवर्तिजिनकुले विद्याराजैकमक्षरम् ॥ हयश्वेताम्बुजकुले विद्याराजो दशाक्षरः ॥ सुम्भतथावज्रकुले विद्याराजो महर्द्धिकः ॥ युक्तश्चतुर्भिर्हुंकारैः प्रचण्डः सर्वकर्मसु ॥ कुलत्रयेषु सामान्यः क्रोधो ह्यमृतकुण्डलिः ॥ सर्वविघ्नविनाशाय गुह्यकाधिपभाषितः ॥ सर्वकर्मिकमन्त्रेण मूर्ध्न्यालभ्य ततो जपेत् ॥ प्रोक्षयेच्चापि तेनैव धूपनेन च धूपयेत् ॥ अभिषेकाय कलशं सर्वव्रीह्यादिसंयुतम् ॥ स्तोकं तोयस्य निक्षिप्य विद्याराजाभिमन्त्रितम् ॥ अधिवासयेद्विधिवद्दत्वार्घं गन्धवारिणा ॥ कुसुमानि विनिक्षिप्य धूपनेनाधिवासयेत् ॥ अहन्यहनि त्रिसंध्यं तत्सम्यक्परिजपेद्बुधः ॥ तेनाभिषेकं कुर्वीत पुनर्जप्तेन मण्डले ॥ शिष्याणां तु समग्राणामञ्जल्या उत्तरामुखम् ॥ दन्तकाष्ठं ततो दद्यादासनानां यथाक्रमम् ॥ खादयन् प्राङ्मुखान् शिष्यान् दन्तकाष्ठादि बाह्यतात् ॥ स्फुटयेत्पूर्णं खादित्वा क्षिपेयुश्च न पार्श्वतः ॥ (स्द्प्२३६) सम्यक्क्षिप्तं दन्तकाष्ठं पतेदभिमुखं यदा ॥ ज्ञेयात्तस्योत्तमासिद्धिर्यस्य चापि उन्मुखं भवेत् ॥ प्रागग्रेण तथा सिद्धिर्मध्यमा परिकीर्तिता ॥ उदङ्मुखेन तु चक्षु विद्यासिद्धिस्तु लौकिकी ॥ दन्तकाष्ठं भवेत्क्षिप्तं कथञ्चिद्यदाधोमुखम् ॥ तदा पातालसिद्धिः स्याद्भवान्नास्त्यत्र संशयः ॥ शिष्याणामुपस्पृष्ठानामासीनानां तु पूर्ववत् ॥ सर्वकर्मिकमन्त्रेण दद्याद्गन्धोदकं गुरुः ॥ एकैकस्य तु पानाय दद्याच्चुलुकत्रयम् ॥ तत्रैव पीत्वा व्युत्थाय एकानेकभिराचरेत् ॥ ततः पूजां पुनः कृत्वा धूपमुत्क्षिप्य पाणिना ॥ अध्येषयेद्मतिमान् भक्तिमास्थाय देवताम् ॥ पूर्वमामन्त्रयेद्मन्त्रं यस्य तद्मण्डलं भवेत् ॥ तेनानुक्रमयोगेन देवतानां निमन्त्रणम् ॥ भगवनमुकनाम विद्याराज नमोऽस्तु ते ॥ स्वोऽहं लिखितुमिच्छामि मण्डलं करूणात्मकम् ॥ शिष्याणामनुकम्पाय युष्माकं पूजनाय च ॥ तन्मे भक्तस्य भगवन् प्रसादं कर्तुमर्हसि ॥ समन्वाहरन्तु मां बुद्धा लोकनाथाः कृपालवः ॥ अर्हन्तो बोधिसत्त्वाश्च या चान्या मन्त्रदेवता ॥ देवतालोकपालाश्च ये च भुतन्महर्द्धिकाः ॥ शासनाभिरताः सत्त्वा ये केचिद्दिव्यचक्षुषः ॥ अहममुकनाम्ना तु अमुकं मण्डलं शुभम् ॥ स्वभूते तु करिष्यामि यथाशक्त्युपचारतः ॥ अनुकम्पामुपादाय सशिष्यस्य तु तन्मम ॥ मण्डले सहिताः सर्वे सानिध्यं कर्तुमर्हथ ॥ एवमुक्त्वा तु या वाचा नमस्कृत्वा भगवतः ॥ स्तोत्रोपहारं कृत्वा च ततः कुर्याद्विसर्जनम् ॥ विरागप्रतिसंयुक्तां शिष्याणां धर्मदेशनाम् ॥ कृत्वा प्राच्छिरसो धीमान् स्थापयेत्कुशलं स्तरे ॥ प्रभातायां ततो रात्र्यां प्र्च्छते स्वप्नदर्शनम् ॥ श्रुत्वा दिने निर्विशंकः शुभं वा यदि वाशुभम् ॥ बुद्धधरो राजानां समयेत्सप्तकुलानि तु ॥ (स्द्प्२३८) ततस्त्वं समयं पुत्र संवरं जिनभाषितम् ॥ श्रद्धया गुरोराज्ञां च पालय प्राणिनो न त्वया घात्याः ॥ नादत्तं ग्राह्यं काममिथ्या न कार्या सिद्धिमिच्छताम् ॥ न मद्यं पेयं मांसादि भक्षं नैव कदाचन ॥ सत्त्वानामहितं न कार्यं त्याज्यं रत्नत्रयं न च ॥ बोधिचित्तहृन्मुद्रा तु गुरुदेवास्तथैव च ॥ अलंघ्या गुरोराज्ञा यतः पापं तु लंघयेत् ॥ न लंघयेच्च निर्माल्यं तच्छायां नाक्रमेत् ॥ मुद्राकारान् तथैव च ॥ न निन्दयेद्मन्त्रदेवतां ग्रहकर्माणि न कुर्वीत ॥ तीर्थिकांश्च न निन्दयेत् ॥ संक्षेपतो विमतिकांक्षा विचिकित्सा न कार्या ॥ आत्मतन्त्रदेवादिषु तथैव च ॥ दृढश्रद्धया यथावत्सर्वविदाभिषेकतः ॥ कुम्भादिभिः समग्रैर्दशानां दशाभिषेको यथेच्छम् ॥ ततो वज्रघण्टाश्च हस्ते दातव्याः ॥ ततश्चक्रादिसप्तरत्नानि गृहीत्वा ॥ राज्यैश्वर्यादिचक्रवर्तित्वप्राप्तये ॥ पापस्फोटनाय चाभिषिञ्चेत् ॥ मन्त्रसाधयितुकामस्य शिष्यस्याज्ञां श्रावयेत् ॥ ततः श्रद्धया शिरसा प्रणम्य विद्यमानद्रव्यम् ॥ गुरवे देयम् ॥ रत्ननिधानव्रीहिहिरण्यसुवर्णवाहनगृहाः ॥ आसनदारकदारिकापुरुषस्त्रियो देयाः ॥ ग्रामनगराणि च यथेप्सितानि ॥ स्वचित्तप्रसादेन दक्षिणानि वेशयेत् ॥ आशुसिद्धये गुरवे संक्षिप्त आत्मानमपि निवेदयेत् ॥ इहैव जन्मन्यनवशेषसुखानि परलोके चोत्तमसुखम् ॥ बुद्धत्वं प्राप्यते किं पुनर्देवसुखम् ॥ सर्वबुद्धसमं गुरुं वज्राचार्यनिन्दया ॥ नित्यदुःखावाप्तिरिति आचार्यं न निन्दयेत् ॥ वज्रब्भातृभगिनीमाता योगी न निन्दयेत् ॥ उपनाहं च न कुर्यात् ॥ रत्नत्रयोपकारिणो न क्षमेत् ॥ गुरुनिन्दकान् दुष्टान् समयातिक्रमिणोऽपि तथैव च ॥ एवमाद्यपकारकाइन्श्च ॥ एवं सन्ति सर्वविद्भाषितां सिद्धिमाप्नोति ॥ (स्द्प्२४०) सर्वसत्त्वानुकम्पी सिद्धिं प्राप्नोति शिग्रजाम् ॥ अथ खलु भगवान् देवेन्द्रसदेवलोकहितसुखार्थाय साधनविधिमभाषत । पटे भगवन्तं सर्वविदं तथैव लिखेत् । दक्षिणे सर्वदुर्गतिपरिशोधनराजं तथागतम् । वामे शाक्यमुनिम् । सर्वदुर्गतिपरिशोधनस्याधस्तादार्यावलोकितेश्वरं चन्द्रार्कवर्णपद्मपाणिम् । शाक्यमुनेरधस्ताद्वज्रपाणिम् । तयोर्मध्ये भैषज्यराजं नीलवर्णमेकेन हस्तेन हारितकीफलं धारयन्तमपरेण वरदं कारयन्तम् । हयग्रीवत्रैलोक्यविजयौ च दुष्टदमनतत्परौ स्वदेवताभिमुखौ लिखेत् । तयोर्मध्ये लोचनामामकीपाण्डुरवासिनीताराः स्वचिह्नकरा लिखेत् । तासामधस्तात्पुष्करिणीं मकरमत्स्यश्वेतमण्डुकादिसहितामनेकजलजपुष्पपरिपूर्णां लिखेत् । धूपदीपगन्धमाल्यनैवेद्यपुष्पफलानि नानाप्रकाराणि च लिखेत् । अधस्ताच्च साधकमञ्जलिं कृत्वा प्रणमन्तं लिखेद्निषण्णम् । ततः पटसत्याधिष्ठानमवलम्ब्य चक्षुरुन्मीलनं कृत्वा पूजयेत् । ततो यदि निमित्तं पश्येत्सिद्ध्यति शीग्रम् । यदि न पश्येच्चिरं सिद्ध्यति । हसितुंकर्मशब्दं च घण्टाध्वनिगर्जितमेव च ॥ भिक्षुब्राह्मणकन्याश्च फलानि च दृष्ट्वा शीघ्रम् ॥ सिध्यत्युत्तममध्यमाधमसिद्धिषु ॥ ततः पटं मन्त्रमुद्राभिरधितिष्ठेत् ॥ यथाप्राप्तेन च पूजयेत्तस्याग्रतो निषद्य ॥ त्रैलोक्यविजयेनात्मरक्षादिकं कृत्वा ॥ आत्मतत्वं च ध्यात्वा ॥ लक्षत्रयं षट्लक्षाणि वा जपेद्यावत्सिद्धिनिमित्तं भूतम् । ततो विवेकस्थानेऽष्टौऽशतानि पूरयेत् । मन्त्रं चानूनाधिकं जपेत् । ततो जपावसाने मण्डलं पूर्ववच्चिन्तयित्वा । विपुलां च पूजां कृत्वा रात्रीमेकां जपेत् । (स्द्प्२४२) ततः प्रधानं च तत्पुत्रं च देवांश्च यदि पश्यति । तदा यथाभाजनमीप्सितोत्तमसिद्धिं विज्ञापयेत् । देवता नित्यं तुष्टाः सिद्धिफलं तस्य ददति । नमस्कृत्य च सिद्धिमुत्तमादिकां गृह्णीयात् । गुरुरत्नत्रयस्वभागं दत्वा । ततो नित्यं विचरेत्तदभावेषु प्राज्ञः । गृहीत्वा स्वयं समाचरेत् । सर्वसत्त्वहितकारी चानेककल्पं तिष्ठेत् । असिद्धौ सर्वकर्मकरो भवेत् । यक्षनक्षत्रग्रहादयो वचनमात्रेण भृत्यवच्छान्तिकादिसर्वकर्मकरा भवन्ति । अथ खलु देवेन्द्रो भगवन्तमेतदवोचत् । भगवन् पापकारिणां नारकादिवशीभूतानां सत्त्वानां नारकादिदुःखप्रहाणाय कथं प्रतिपत्तव्यम् । भगवानाह । देवेन्द्र शृणु नारकवशगतसत्त्वानां महापापकारिणां तेषां यथा नारकदुःखेभ्योऽनायासतो मुक्तिर्भवति तथा शृणु । तथैव मण्डलं लिखित्वाष्टोत्तरशतजप्तैः कलशैः पूर्ववदभिषेकं कल्पयेत् । ततः सर्वपापगताः सर्वनारकादिदुःखेभ्यः शीघ्रं विमुच्यन्ते । ते च विमुक्तपापमहात्मानः शुद्धावासदेवेषूत्पन्नाः । सततं बुद्धधर्मसंगीतिं प्राप्नुवन्ति । अवैवर्तिकभूमिप्रतिष्ठिताश्च क्रमेण बोधिं साक्षात्कुर्वन्ति । तत्प्रतिबिम्बं वा नाम च कुंकुमेन लिखित्वा ॥ अपायत्रयमहाभयात्सत्त्वानां मोक्षणाय ॥ मन्त्री परहिते रतः कृपाया अभिषिञ्चेत् ॥ ततः स योगी मन्त्रमुद्राभिरभिषिञ्चेत् ॥ देवतारूपं कल्पयित्वा चैत्यमध्ये स्थापयेत् ॥ स्वपरदेवताहृदयं तधृदये प्रदेशे लिखित्वा ॥ देवतातुल्यचित्तमुत्पाद्य गृहे वा स्थापयेत् ॥ तन्नाम च विदर्भ्य मन्त्रं कुंकुमेन लिखित्वा ॥ (स्द्प्२४४) चैत्यकर्म कुर्याद्यावल्लक्षं परिपूर्णम् ॥ महापापिनः पापक्षयाय कोटिमपि पूरयेत् ॥ एवं कृते तेऽवश्यं नरकाद्मुक्ता भवन्ति ॥ तथा तिर्यग्भ्यश्च मुक्ता देवनिकायेषूत्पद्यन्ते ॥ तन्नाम च विदर्भ्य यथोक्तमन्त्रं सहस्रं जपेत् ॥ कदाचित्शतसहस्रमपि पूरयेद्यावत्कोटिमपि पूरयेत् ॥ देवनिकायेषूत्पद्यन्ते ॥ तन्नामविदर्भ्य कुशलो लक्षशतं वा यावच्छतसहस्रम् ॥ होमं कुर्यान्महानरकपापमुक्ता भवन्ति ॥ यावन्निमित्तं ज्वलिताग्नीस्थाने समुत्पद्यते ॥ तिलश्वेतसर्षपतण्डुला अजाक्षीरसंयुक्ताः ॥ समिधाश्च गन्धाक्तास्तावद्यथाविधि होतव्याः ॥ ततस्ते नियतं देवनिकायेषूत्पन्ना निमित्तमुपदर्शयन्ति । कदाचिद्देवोत्तमा उत्पन्ना अथ वा कुण्डमध्ये श्वेतप्रदक्षिणज्वाला निर्मलोर्ध्वज्वलनम् । अवकीर्णसंदत्तज्वलनं विद्युदिव निर्मलं स्थिरम् । एतान्यगनिमित्तानि पश्यति । अथ वैश्वानलतात्मानं तथैव दर्शयन्ति । चन्द्रवन्निर्मलं शुक्लमुखवर्णज्वलितम् । एतन्निमित्तदर्शनात्तेषां नरकादि विमुक्तिपापस्फोटनस्वर्गोत्पत्तयो ज्ञातव्याः । चतुर्हस्तप्रमाणं च यथाविधि कुण्डं खनेत् ॥ पर्यन्ते वज्रपरिवृतं लिखेन्मध्ये चक्रम् ॥ यथावत्पञ्चकुलमुद्राः स्वदिक्षु लिखेत् ॥ तथावत्सत्त्वानां लोकाधिपं च लिखेत् ॥ अतः पूर्णकलशा बलिपूर्णभाजनानि ॥ चाष्टौ षोडशं वा स्थाप्यानि भक्षभोजननैवेद्यानि च । पुष्पमालादयस्तथैव च वितानध्वजपटादिभिरुत्तमछत्रैश्च । सम्यग्विभूषणीयम् । एवमुत्तमहोमकुण्डे सम्यखोतव्यम् । लिखित्वैवं विधिज्ञो देवगणमाकर्षयेत् ॥ मन्त्रज्ञो मन्त्रमुद्रयार्घ उपधौकनीयः ॥ (स्द्प्२४६) संक्षेपतः पूजां कृत्वा देवगणनागयक्षगन्धर्वावस्थितः । कर्पूरचन्दनकुंकुमवस्त्रालंकारभूषितोऽभिमन्त्रितधूपं धूपयेत् । पुष्पमालादिभिश्च पूजयेत् । चूडायां बाहौ च तथैव मन्त्रं लिखित्वा बन्धयेत् । हृत्कण्ठमुखप्रदेशे सर्वविद्याधिष्ठानं कुर्यात् । ललाटोर्णाकर्णद्वये शिरःशिखाबाहुद्वये । नासाकटिजानुपादनासिकाग्रचक्षुर्द्वये । गुह्येन्द्रियप्रदेशेष्वेवमन्येष्वपि मन्त्राक्षराण्येकान्तशुभानि विन्यसेत् । ततो दुर्गतिपरिशोधनायासनसहितं तन्मध्ये स्थापयेत् । ततश्च मन्त्र्यभिमन्त्रितवस्त्रेण छादयेत् । ततो हुतभुजं सम्यक्प्रज्वाल्य । सहस्रज्वाल्य । सहस्रज्वालाकुलकायं कुण्डेन्दुदुसन्निभं शान्तमनन्तमग्निमाकृष्यार्घं परिकल्पयेत् । तथैव च बुद्धिमानग्रतः प्रतिमादिकं स्थापयेत् । तथागतगणं तथैवाकृष्यार्घादिकं परिकल्पयेत्तथैव यथोक्तपूजा कर्तव्या । तत आहुतिं हव्यं पूरयित्वा ज्वलनाय परिकल्पयित्वा जिनादिनीमष्टोत्तरशतं परिकल्पयेत् । ततः शोधनमन्त्रराजस्यैकविंशतिमाहुतिं परिकल्पयेत् । ततश्चाकृष्य श्वेतमुखमुपकरणैर्वा वारत्रयमर्घादिना च पूजयेत् । वज्रपाणिं पद्मपाशधरं त्रैलोक्यरूपं पादपद्माक्रान्तपापं सर्वालंकारालंकृतं संबुद्धकिरीटिनं चिन्तयेदथ वा लिखेत् । तस्य ःर्दयेन शतसहस्रं यावत्कोटिं वा जुहुयात् । (स्द्प्२४८) निमित्ते च समुत्पन्ने पापसंततिप्रहाणं तथैव ज्ञातव्यम् । ततो भस्मीभूतं वज्रसंहारमन्त्रेण यथाविधि संहरेत् । भस्मान्यस्थिरजांसि च गन्धोदकपञ्चगव्यसहितानि शोधनमन्त्रेण लक्षं जप्त्वा पिन्दीकृत्य कर्पूरगन्धमृद्भिर्मिश्रीकृत्य प्रतिमां चैत्यदेवतां वा कुर्यात् । एकद्वित्रिचतुःपञ्चवारं वाष्टोत्तरशतवारं वा । मन्त्रमुद्राभिरधिष्ठाय लक्षद्वयं जपेत् ॥ ततश्चैत्यं ज्वलति प्रतिमा वा हसति ॥ गन्धधूपप्रभा जिघ्रति पश्यति देवादीं नानाप्रकारां यस्य ऋद्धिप्रातिहार्याणि च पतन्ति पुष्पादीनि । शंखभेरीवंशवीणादीनां च शब्दाः श्रूयन्ते । कदाचिद्देवतानि निमित्तानि पापबहलतया यदि न पश्येत्तदाष्टौ लक्षसहस्राणि जपेत् । यावन्निमित्तं भवति तथागतं पूजयित्वा ॥ सुसमाहितो जपेत् । ततोऽन्ते रात्रीमेकां विधिज्ञो जपेत् । तदावश्यं पापविशुद्धात्मा पश्यति । देवतारूपकायं तत्सन्तानं परिजानाति । एतानि निमित्तानि ज्ञात्वा अविकल्पचित्तो । मैत्रीकृपापरीतः सर्वकर्माणि कुर्यात् । एवमपि यदि न संभवति तदा तन्नाममात्रं लिखित्वा चैत्यमालां कुर्यात्प्रतिमां वा कृत्वा । होमाभिषेककृते सति । नियतं स्वर्गेषूत्पद्यन्ते । भस्मसर्षपवालुकादींश्च नाम विदर्भ्याभिमन्त्र्य समुद्रगामिन्यां नद्यां क्षिपेत् । ततः पापीयसोऽपि दुर्गति विमोक्षति । उत्तमकुशलबीजमुत्पादितवतो बुद्धत्वफलसमन्वागतस्य दानशीलक्षान्तिवीर्यध्यानप्रज्ञाहेतुप्रभावितस्य पुण्यवतो लोकस्य दुर्गति भग्नेति । कः पुनः वादो नात्र संशयः । यश्चानुत्पादितकुशलमूलो यश्च नास्तिकदृष्टिर्बोधिमार्गाद्निवृत्तस्तस्य शासनविद्वेषिणोऽपकारिणः पापानभिज्ञस्यमातृ पितृविप्रियचित्तस्य बोधिचित्तनिसृतवीतरागघातकस्य देवताबुद्धधर्मसंघमन्त्रमुद्रागनादीनां (स्द्प्२५०) च नास्तित्वादृष्ट्यादीनां च पापीयसामेषां प्रज्ञोपायाभावे मुक्तिर्नास्तीति सुगतजिनैर्भाषितम् । अथ शक्रादय उत्पलपद्मलोचनाः साध्विति तोषयन्ति स्म । संतोषयित्वा पूजयन्ति स्म । शक्रेण च परहितरतेन यथाविज्ञप्तम् । द्वितीयं त्रिसूचिकवज्रसहितेन वरदो वामेनैकेन त्रिशूलधारि द्वितीयेन खड्गधारी सर्पयज्ञोपवीतनीलकण्ठो लेख्योऽनेन । ओं पशुपति नीलकण्ठ उमाप्रिय स्वाहा । अथास्य मुद्रा भवति । दक्षिणहस्तेन वाममुष्टिन कृत्वा कनीयसीमंगुष्ठेनाक्रम्य शेषांगुलवज्रलक्षणाः कृत्वानामिकां तर्जनीं च वज्राकारेण कञ्चिन्नामयेत् । इयं पशुपतेर्मुद्रा । विष्णुर्गरुदारूढःकृष्णवर्णश्चतुर्भुजः । दक्षिणभुजाभ्यां गदावज्रधरः । वामाभ्यां शंखचक्रधरः । वज्रहेमा कनकवर्णा आसनभुजायुधविष्णुवत् । वज्रघण्टामयूरारूढो रक्तवर्णः षड्मुखो दक्षिणभुजाभ्यां शक्तिवज्रधरः । वामाभ्यां कुक्कुटघण्टावज्रधरश्च । वज्रकौमारी वज्रघण्टावदेव ज्ञेया । मौनवज्रो हंसारूढः कनकवर्णश्चतुर्मुखो दक्षिणभुजाभ्यां वज्राक्षसूत्रधारी । वामाभ्यां दण्डकमण्डलुधारी । वज्रशान्तिर्ब्रह्मवद्ज्ञेया । वज्रायुधः श्वेतगजारूढो गौरवर्णो वामभुजेन विश्ववज्रधरो दक्षिणेन लोकोत्तरवज्रधरः । वज्रमुष्टिर्वज्रायुधवज्ज्ञेया । वज्रकुण्डली क्रोधश्च रथारूढो दक्षिणकरेण सपद्मेन वज्रधरो वामेन सपद्मेनादित्यमण्डलधरो रक्तवर्णः । वज्रामृता वज्रकुण्डलिक्रोधवदेव । वज्रप्रभक्रोधः सितवर्णो हंसारूढो दक्षिणकरेण वज्रधारी वामेन पद्मचन्द्रधरः । वज्रकान्तिर्वज्रप्रभक्रोधवत् । (स्द्प्२५२) वज्रदण्डक्रोधः कच्छपारूढो नीलवर्णो दक्षिणकरेण वज्रधारी वामेन दण्डधरः । दण्डवज्राग्री वज्रदण्डक्रोधवत् । वज्रपिंगलक्रोधोऽजारूढो रक्तवर्णो दक्षिणकरेण वज्रधरो वामेन मानुषमादाय भक्षयनवस्थितः । वज्रमेखला वज्रपिंगलक्रोधवत् । वज्रशौण्डो गणपतिर्गजवाहनो दक्षिणकरेण वज्रं धारयेद्वामेन लांगलं धारयेदवस्थितः । सितवर्णः । वज्रविणया वज्रशौण्डवदयन् तु विशेषो यदुत वामकरेण खट्वांगधारिणीति । वज्रमालो गणपतिः श्यामवर्णः कौकिलरथारूढो दक्षिणकरेण वज्रधरो वामेन कुसुममालाधरः । वज्रासना वज्रमालावदयन् तु विशेषो यदुत वामकरेण शक्तिधारिणीति । वज्रवशी शुकरथारूढो गौरवर्णो दक्षिणकरेण वज्रधरो वामेन मकरध्वजधारी । वज्रवशा वज्रवशीवदयन् तु तस्या विशेषो यदुत रक्तवर्णेति । विजयवज्रो गणपतिर्मण्डूकारूढः सितवर्णो दक्षिणकरेण वज्रधरो वामेन खड्गधरः । वज्रसेना विजयवज्रवत् । वज्रमुसलदूतः पुष्पविमानारूढो गौरवर्णो दक्षिणकरेण वज्रधरो वामेन मुसलधरः । वज्रदूती वज्रमुसलवदयन् तु तस्या विशेषो यदुत वामेन खट्वांगधारिणीति । वज्रानिलदूतो नीलवर्णो मृगारूढो दक्षिणकरेण वज्रधारी वामेन पटधारी । वेगवज्रिणी वज्रानिलदूतवत् । वज्रानलदूतोऽजारूढो रक्तवर्ण ऊर्ध्वज्वालाप्रभस्त्रिशिखाज्वालो दक्षिणभुजाभ्यां वज्रकवचधरो वामाभ्यां दण्डकमण्डलुधरश्च । वज्रज्वाला वज्रानलवत् । वज्रभैरवदूतो नीलो वेतालारूढो दक्षिणकरेण वज्रधारी वामेन गदाधारी । (स्द्प्२५४) वज्रविकटा दूती वज्रभैरववदयन् तु विशेषोऽस्या यदुत वामेन पाशधारिणीति । वज्रांकुशचेटः शेषनागारूढो नीलो वराहमुखः । दक्षिणेन वज्रधरो वामेनांकुशधरः । वज्रमुखी चेटी पुरुषवाहना नीला वराहमुखी दक्षिणेन वज्रधरा वामेन खड्गधरा । वज्रकालचेटको महिषारूढो नीलो दक्षिणकरेण वज्रधरो वामेन यमदण्डधरः । वज्रकाली चेटी वेतालवाहना वामकरेण खट्वांगधारिणी दक्षिणकरेण वज्रधारिणी कृष्णवर्णा । वज्रविनायकचेटक उन्दुरारूढः सितवर्णो गजमुखो दक्षिणकराभ्यां वज्रपरशुधरो वामाभ्यां त्रिशूलधरो दण्डधरश्च । सर्पयज्ञोपवीतः । वज्रपूतना चेटी नीलवर्ण दक्षिणेन वज्रधरा वामेन संमार्जनिकाधरा । उन्दुरारूढा । नागवज्रचेटको मकरारूढोऽष्टफणः सितवर्णो दक्षिणेन वज्रधरो वामेन नागपाशधरः । वज्रमकरा चेटी मकरारूढा सितवर्णा । अष्टफणा । दक्षिणेन वज्रधरा वामेन वज्रांकितमकरधरा । भीमा श्यामवमा दक्षिणेन वज्रधारिणी वामेन खड्गफेटकधारिणी । श्री गौरवर्णा दक्षिणेन वज्रधरा वामेन पद्मधरा । सरस्वती वीणाहस्ता वामेन दक्षिणेन वज्रधरा । (स्द्प्२५६) दुर्गा श्यामवर्णा सिंहारूढा दक्षिणभुजाभ्यां वज्रचक्रधरा वामाभ्यां पट्टिशाशंखढरा । सर्वासां मातृणां रुद्रादीनां च वरुणपर्यन्तानां यद्दक्षिणकरेषु वज्रमुक्तं तत्त्रिसूचिकं ज्ञेयमिति । सर्वलौकिकलोकोत्तराश्च देवता वैरोचनसंमुखलेख्या इति । ततः सन्ध्याकाले संप्राप्ते वज्रतेरिन्तिरीं बद्ध्वा नीलपुष्पमालामादाय मण्डलं प्रविशेच्चतुर्हुंकारमुदाहरन् वज्रवैरोचनसप्तप्रदक्षिणं च शंखवज्रघण्टां वादयन् कुर्यात् । सर्वमण्डलं चानातिरिक्तदोशशान्तये निरीक्ष्य मालां भगवतो निर्यात्य वज्रनृत्यं कृत्वा । आदाय स्वशिरसि बन्धेच्चतुर्हुंकारेणैव । तथा यथोक्तं यदूनं परिपूरयेत् ॥ विजह्यादधिकं बुद्ध आबाधयेद्वज्रघण्टाम् ॥ सिध्यते न च दुष्यते ॥ इति । ततो मध्ये स्थितो भूत्वा वज्राचर्यसमाहितः ॥ मनसोद्घाटयेच्चैव वज्रद्वारचतुष्टयम् ॥ ओं वज्रोद्घाटय समये प्रवेशय हुम् । इति । मुद्रा चास्य भवति । द्विवज्राग्रांगुली सम्यक्संधार्योत्तानतो दृढम् ॥ विधारयेत्सुसंक्रुद्धो द्वारोद्घाटनमुत्तमम् ॥ इति । ततोऽंकुशादिभिः कर्माणि कृत्वा सप्तरत्नमयं कलशं मृन्मयं वाकालमूलमुच्चग्रीवं लम्बौष्ठं महोदरं दिव्यगन्धोदकं (स्द्प्२५८) सर्वरत्नौषधिसर्वधान्यपरिपूर्णं सफलं सपल्लवं सद्वस्त्रावबद्धकण्ठकं कृतरक्षं बहिः समन्ताद्दिव्यगन्धानुलिप्तं स्रग्विणं वज्रांकितमुपरि महावज्राधिष्ठितं क्रोधतेरिन्तिरीपरिगृहीतया वज्रकुसुमलतया । ओं वज्रोदक हुमित्यनेनाष्टोत्तरसहस्राभिमन्त्रितं चतुर्हुंकारेण चाष्टशताभिमन्त्रितं कृत्वा भगवतो वज्रहुंकारस्याग्रतः संस्थाप्य । प्रवेशद्वाराभिमुखं च बहिर्द्वितीयं कलशं चतुर्हुंकारेणाष्टशतजप्तं स्थापयेत् । तेनोदकेनात्मशिष्याभिषेकं कृत्वा । प्रवेशमुद्रां बद्ध्वा न बन्धयेद्वा । प्रवालं जातरूपं च शंखं मुक्तामणिस्तथा । सर्वरत्नानि सिंहीव्याघ्रीगिरिकर्णासहदेवाश्चेति सर्वौषधयः । तिलान्माषान् यवान् धान्यान् गोधूमांश्चापि पञ्चमान् । शब्देन सर्वव्रीहीणां पञ्च तानुपलक्षयेत् । तदनु चतुःप्रणामादिपूर्वकं संवरं ग्राहयित्वा वज्रयक्षेण नीलवस्त्राणि परिजप्य सत्त्वोष्णीषेण वस्त्रं द्वारपालैर्मुखवेष्टनं वज्रकवचेनोत्तरीयमाबद्धोष्णीषादिक आचार्यः क्रोधतेरिन्तिर्या नीलपुष्पमादाय । ओं वज्रसमयं प्रविश्यामीत्युदीरयन् प्रविश्य सर्वतथागतान् विज्ञापयेत् । अहं भगवनित्यादिना । ततो वज्रोदकं पीत्वात्मावेशं कृत्वा तां मालां महामण्डले प्रक्षिप्य स्वशिरसि बद्ध्वा मुखबन्धं मुक्त्वा यथावद्मण्डलं दृष्ट्वा तिष्ठ वज्रेत्यादिना प्रवेशमुद्रामोक्षं च कृत्वा । उदकाभिषेकं पञ्चबुद्धमुकुटं पट्टवज्रमालाधिपतिवज्रनामाभिषेकं (स्द्प्२६०) भगवतः सकाशाद्भगवन्तं प्रणम्य गृहीत्वा । तत्त्वं धर्मसमयं सिद्धिवज्रव्रतं चादाय । पुष्पादिभिर्लास्यादिभिश्चात्मानं संपूज्य । गाथापञ्चकेनानुज्ञां च तु हुंकारमुद्गताव्याकरणं चादाय पुनः स्वाधिष्ठानादिकं कृत्वा यथाभिरुचितजापं च हुंकारवज्रोऽहं हुंकारवज्रोऽहमिति । स्वनामोच्चारणं कृत्वा वैरोचनमहामुद्रां बद्ध्वा । तन्मन्त्रेण अःकारान्तेन वैरोचनस्थाने तथागतवज्रमात्मानमावेशयेत् । वज्रोऽहमिति वज्राहंकारं विभाव्य । तद्वज्रं वैरोचनं भावयेत् । वज्रधातुरहमिति । एवं यावद्वज्रावेशमहामुद्रां बद्ध्वोत्तरद्वारे तन्मन्त्रेणाःकारान्तेन वज्रघण्टामात्मानमावेशयेत् । वज्रघण्टाहमित्यहंकारमुत्पाद्य तां वज्रावेशक्रोधोऽहमिति भावयेदेवं वज्रेण साधितं भवति । सत्त्ववज्रांकुशीं बद्ध्वा वज्राचार्यः ततः पुनः कुर्वनच्छटासंघातं सर्वबुद्धान् समाजयेत् । ओं वज्रसमाज जः वं होः इति । एकविंशतिवारं प्रवर्तयेत् । ततः शीघ्रं महामुद्रां वज्रक्रोधसमयमुच्चारयेत् । सकृद्वारं नामाष्टकं शतमुत्तमम् । ततो वज्रांकुशादिभिः स्वद्वारेणाकृष्य प्रवेश्य बद्ध्वा वशी कृत्य यथावच्चतुर्हुंकारेणार्घं दत्वा । श्रीवैरोचनादीन् समयमुद्राभिर्भद्रकल्पिकपर्यन्तान् साधयेत् । स्वमन्त्रमुच्चार्य वदेत् । जः हुं वं होः समयस्त्वं समयस्त्वमहम् । ततः स्वमन्त्रमुच्चारयेदेव सिद्धा भवन्ति ॥ अथ समयमुद्रा भवन्ति । वज्राद्विकर्षसंभूताः समयाग्रास्तु कीर्तिताः ॥ तासां बन्धं प्रवक्षामि क्रोधबन्धमनुत्तरम् ॥ बाहुवज्रं समाधाय कनिष्ठांकुशबन्धिता ॥ त्रिलोकविजया नाम तर्जनी द्वयतर्जनी ॥ तथैवाग्रा मुखसंगा मणिस्तु प्रविकुञ्चिता ॥ समोत्थमध्यमा पद्मा तु मध्याग्रद्वयतर्जनी ॥ (स्द्प्२६२) तर्जनीद्वयं वज्रं तु दक्षिणांकुचितांकुशी ॥ तथैवाग्रस्तहुंकाराः साधुकारास्तथैव हि ॥ द्व्यग्रसंस्था भृकुट्यां तु हृदि सुर्याग्रमण्डला ॥ प्रसारितभुजा मूर्ध्नि तर्जनी मुखहासिनी ॥ तर्जनी नखसंसक्ता कोशमुष्टिस्तु दक्षिणा ॥ सममध्यगुण्ठचक्रा तु मुखतः प्रतिनिःशृता ॥ तर्जनीमध्ये वज्रा तु ग्रीवावेष्टिततर्जनी ॥ अग्रादिकमहादम्ष्ट्रा ग्रस्ताग्रावज्रमुष्टिता ॥ इति । लास्यादीनां तु वज्रधातु उक्ता एव हुंकृता । तद्यथा । वज्रबन्धं बद्ध्वा हृदयं तु समांगुष्ठा ॥ सुप्रसारितमालिनी ॥ अञ्जल्यग्रमुखोद्धान्ता नृत्यतो मूर्ध्नि संयुता ॥ वज्रबन्धं त्वधोदानात्स्वञ्जलिश्चोर्ध्वदायिका ॥ समांगुष्ठा निपीडा च सुप्रसारितलेपना ॥ एकतर्जनी संकोचा द्व्यंगुष्ठग्रन्थिबन्धिता ॥ अंगुष्ठाग्रकटाबन्धा वज्रमुष्ट्यग्रसंधिता ॥ हृदयमण्डले पञ्चसूचिकवज्रं विचिन्त्य । हुंकारमेवोच्चारयता सर्वमुद्रा बन्धनीया । अथ मुद्राया नियमो भवति । वैरोचनवज्रहुंकाररत्नहुंकारधर्महुंकारकर्महुंकारस्थाने च । अथ रत्नहुंकारादीनां मन्त्राणि भवन्ति । ओं वज्रभृकुटीक्रोधानय सर्वरत्नानि ह्रीः फट् । ओं वज्रदृष्टिक्रोध दुष्टान्मारय हुं फट् । ओं वज्रविश्वक्रोध कुरु सर्वविश्वरूपया साधय हुं फट् । अन्यमुद्राः सत्त्ववज्रीमारभ्य द्रष्टव्याः । तथा हि सर्वविद्योत्तमानां विजयमन्त्रेत्युक्तम् । सवज्रहुंकारमुद्रासंग्रहश्च भगवान् वज्रहुंकारो पठ्यते । न चान्या वज्रहुंकारा भवतुमर्हन्ति । सर्वतन्त्रेषु वज्रहुंकारा निर्दिष्टेति ॥ तदनु तथैव जिह्वायां वज्रं न्यस्य यथाक्रमेण बुद्धवज्रधरादीनां धर्माक्षराणि न्यस्येत् । एतानि च तानि । (स्द्प्२६४) हुंकारो बुद्धवज्रिभ्यां त्रःकारो वज्रगर्भतः । ह्रीःकारो वज्रसेनस्य अःकारो वज्रविश्वतः । हुं सत्त्ववज्र्याः । त्रः रत्नवज्र्याः । ह्रीः धर्मवज्र्याः । अः कर्मवज्र्याः । हुं हे त्रां त्रं हि ह्रीः देः हः । इति वज्रसत्त्वादीनाम् । महारते हुम् । रूपशोभे हुम् । श्रोत्रसौख्ये हुम् । सर्वपूज्ये हुम् । प्रह्लादिनि हुम् । फलागमे हुम् । सुतेजाग्रि हुम् । सुगन्धाग्रि हुम् । आपाही जः हुम् । आहि हुं हुं हुम् । हे स्फोट वं हुम् । घण्ट अः अः हुम् । इति । वज्रलास्यादीनां वज्रावेशपर्यन्तानामिति । तदनन्तरमःकाराणि हृदि विश्ववज्रान्निष्पाद्य कर्ममुद्रां बध्नीयात् । तत्रेमाः क्रोधमुष्टिद्विधाकृत्य । वामवज्रांगुली ग्राह्या दक्षिणेन समुत्थिता ॥ बोध्यग्रि नाम मुद्रेयं बुद्धबोधिप्रदायिका ॥ सगर्वोत्कर्षनं द्वाभ्यां वज्रहुंकारवज्रसत्त्वसत्त्ववज्रीणाम् । अंकुशग्रहनसंस्थिता वाणघटनयोगा च ॥ साधुकारं हृदि स्थिता अभिषेकं द्विवज्रं तु ॥ रत्नहुंकारवज्रभृकुटिक्रोधरत्नवज्रीणाम् । हृदि सूर्यप्रदर्शनं वामस्थबाहुदण्डा च ॥ तथास्य परिवर्तिता सव्यापसव्यविकोच ॥ धर्महुंकारवज्रधर्मधर्मवज्रीणाम् । हृद्वामा खड्गधारिणी अलातचक्रभ्रमिता ॥ वज्रद्वयमुखोत्थिता वज्रनृत्यभ्रमोन्मुक्ता ॥ कपोतोष्णीषसंस्थिता ॥ कर्महुंकारवज्रकर्मकर्मवज्रीणां, । कवचकनिष्ठादम्ष्ट्राग्रा मुष्टिद्वयनिपीडिता ॥ वज्रगर्वप्रयोगेण नमेदाशयकम्पितैः ॥ मालबन्धा मुखोद्धान्ता नृत्यतो मूर्धनि संस्थिता ॥ अधःक्षेपोर्द्ध्वप्रक्षेपा समांगुष्ठनिपीडिता ॥ (स्द्प्२६६) गन्धलेपनयोगाच्च पूजामुद्रा प्रकीर्तिता ॥ तर्जन्यंकुशबन्धेन कनिष्ठाया महांकुशी ॥ बाहुग्रन्थिकटाग्राभ्यां पृष्ठयोश्च निपीडिता ॥ इति । द्वारपालमुद्राः । सर्वाश्च कर्ममुद्रा नृत्योद्भवाः । ततो यथालेखानुसारतो वैरोचनादीनां महामुद्राबन्धं कुर्यात् । वज्रसत्त्वरत्नधर्मकर्मक्रोधानां या महामुद्रास्ताः सत्त्वरत्नधर्मकर्मवज्रिणामपि वज्राद्यन्तर्गताः स्त्रीरूपधारिण्यश्च ताः । यां यां मुद्रां तु बध्नीयाद्यस्य यस्य महात्मनः । सर्वमुद्रासमयः । वामतथागतमुष्टिमुत्तानं कृत्वा दक्षिणहस्ततर्जन्यंगुष्ठाभ्यां कन्यसामारभ्य विकास्य संपुटाञ्जलिं कुर्यात् । इयं मैत्रेयादीनां समयमुद्रा । विद्या चैषां पूर्वोक्ता । तामेव विद्यां तेषां जिह्वासु न्यसेदियं तेषां धर्ममुद्राः । अकारेण स्वहृदि विश्ववज्रं निष्पाद्य तेषां लेख्यानुसारतो महामुद्रा बद्ध्वा कर्ममुद्रा भवन्ति । स्वहृदि पञ्चसूचिकं वज्रं विचिन्त्य लेख्यानुसारत एव तेषां महामुद्रा बध्नीयाः । सैव विद्या सामान्यैवेति । कनिष्ठांगुष्ठबन्धे तु वाममध्यांगुलित्रिके त्रिशूके मध्यशूलं तु वज्रमुद्रापरिग्रहं वज्रविद्योत्तमेयं वज्रशूलेति कीर्तिता । अतः परं प्रवक्षामि मायावज्रादिसंज्ञिनाम् ॥ वज्रबन्धं दृढीकृत्य वामवज्रं तु बन्धयेत् ॥ वज्रमुष्टिरिति ख्याता सर्ववज्रकुलेष्वियम् ॥ द्विधीकृत्य तु तद्वज्रं सर्वचिह्ननिवेशितम् ॥ (स्द्प्२६८) सर्ववज्रकुलानां तु मुद्रासु च निवेशयेत् ॥ प्रसारिताग्रपृष्ठस्था ज्येष्ठांगुष्ठग्रहाधका ॥ ओंकारमूर्ध्नि संस्था तु वज्रत्वराप्रतिष्ठिता ॥ विद्याराजमहामुद्रागणः । प्रसारिताग्रीतापाणिर्हस्तपृष्ठे तथैव च ॥ मुष्टिसंस्था भुजद्वा च मुखतः परिवर्तिता ॥ वज्रक्रोधमहामुद्रागणः । वामांगुष्ठसुसंस्था तु मालाबन्धनियोजिता ॥ दक्षिणेनार्थदायी च खड्गमुद्राग्रमुष्टिगा ॥ महागनपतिमुद्रागणः । दक्षिणग्रस्तमुसला प्रसारितभुजस्तथा ॥ दक्षिणज्वाले संदर्श्य वज्रमुष्टिप्रकम्पिता ॥ दूतमहामुद्रागणः । सगर्वमुखडम्ष्ट्राग्रा दण्डघातप्रयोजिता ॥ बाहुसंकोचलग्ना च वज्रदक्षिणहारिणी ॥ चेटमहामुद्रा । अथोमादिमातृगणमुद्रा भवति । वामवज्रबन्धेन त्रिशूलांजं तु पीडयेत् ॥ अनया बद्धया सम्यक्सिद्ध्येद्विद्योत्तमः स्वयम् ॥ सर्ववज्रकुलानां तु वामवज्राग्रसंग्रहम् ॥ मुद्राबन्धं प्रवक्षामि समयानां यथाविधि ॥ चक्रसर्वाग्रसंपीडा घण्टामुद्रा तथैव च ॥ तथैवौंकारमुद्रा तु सिंहकर्णिपरिग्रहा ॥ मुद्रा राजनिका ज्वालापरिग्रहा चैव ॥ प्रभासंग्रहमेव च ॥ दण्डमुष्टिग्रहा चैव मुखतः परिवर्तिता ॥ क्रोधसमयः । फणामुद्रा च माला च वज्रावस्तभ्यनामिका ॥ मूर्ध्नि स्था चैव गणिका मण्डलवद्वारफणिका ॥ गणिकासमयाः । बाहुसंकोचवक्त्रा च पृष्ठतः परिवर्तिता ॥ ज्वालास्फुलिंगमोक्षा च विदारितमुखस्थिता ॥ दूतसमयाः । (स्द्प्२७०) द्व्यन्तप्रवेशितमुखी पीड्य चैव प्रपातिनी ॥ बाहुवेष्टनवेष्टा च सहसाहारिणी तथेति ॥ चेटासमया इति ॥ ततो महादेवादिजिह्वासु तद्मन्त्रं न्यस्य । अकारेण स्वहृदि तथैव वज्रं निष्पाद्य । तेषां मुद्रा बद्धाः कर्ममुद्रा भवन्ति । स्वहृदि पञ्चसूचिकवज्रं विभाव्य । महामुद्रा लेख्यानुसारतो बन्धनीय इति । ततो भगवन्तं वैरोचनं भद्रकल्पिकं बाह्यवज्रकुलानि च वज्ररत्नाभिषेकेनाभिषिञ्च्य । श्रीवज्रहुंकारादीन् पञ्चबुद्धमुकुटवज्रमालापटाभिःषेकैरभिषिञ्चेत् । ततोऽर्घं दत्वा पूजां कुर्यात् । तत्र तावद्रत्नादिमयान् कलशान् पूर्वोक्तलक्षणान् वज्रादिस्वचिह्नकान् वैरोचनादिमन्त्रैरष्टोत्तरशतजप्तान् बाह्यमण्डलं बाह्यतो निवेशयेत् । पूर्णकुम्भाश्च वस्त्रयुगलक्षं दशसहस्रकं शतं प्रत्येकमेकं वा सर्वसामान्यम् । नानाप्रकाराणि वितानानि चतुःकोणे विचित्रपताकावसक्तानि छत्रध्वजपताकाश्च । ओंकारेण श्रीवज्रहुंकारेण च परिजप्य । वज्रस्फरणमित्यनेन सर्वदेवतान्निर्यातयेत् । पुष्पवृक्षशतं चतुरो वा वृक्षान् सर्वपुष्पाणि च । वज्रानलेन मुद्रायुक्तेन । ओं वज्रपुष्पे हुमिति च पुष्पमुद्रयाभिमन्त्र्य । सर्वगन्धान् सुवासांश्च विलेपनसुगन्धकान् तथैव वज्रानलेन । ओं वज्रगन्धे हुमित्यनया च गन्धमुद्रायुक्तया कर्पूरागुरुतुरुस्कानि चन्दनादिसंमिश्राणि । तथैव वज्रानलेन ओं वज्रधूपे हुमित्यनया धूपमुद्रासहितया धूपघटिकालक्षं दशसहस्रं शतं यथालाभं वा प्रदीपलक्षं दशसहस्रं शतं सर्वप्रदीपान् प्रदीपवर्तिज्वलितयुक्तं कुण्डं सहस्रं च दशैकं वा । तथैव वज्रानलेन ओं वज्रालोके इत्यनया प्रदीपमुद्रायुक्तया परिजप्य । ओं वज्रस्फरणमित्युदीरयन्निर्यातयेत् । बल्युपहारं च लक्षं दशसहस्रं शतं दशसंख्यां वा स्वस्तिकमादितः कृत्वा नानाप्रकाराणि च भक्षाणि । तथैव वज्रानलेन परिजप्य । (स्द्प्२७२) अकारो मुखं सर्वधर्माणामाद्यनुत्पन्नत्वादित्युदीरयन्निर्यातयेत् । दशवाद्यसहस्राणि सहस्रशतं वाद्यानि दशवाद्यानि वा हुंकारेण वाद्यमुद्राभिर्वज्रमुष्टिभ्यां करांगुलिभिर्वाद्याभिनयदशप्रकाराः । तद्यथा वीणावंशामुरजामुकुन्दाकांसाभेरीमृदंगपटहगुंजातिमिलाभिनयश्चेति । वाद्यनटनर्तककुण्डलमुकुटादिपाजाश्च । ओंकारेणाभिमन्त्र्य । तथा पटावलम्बना कार्या स्रक्चामरविभूषिता । हारार्धहाररचितारचितार्धचन्द्रोपशोभिता । तुरंगहस्तिगोयूथा दातव्याश्च सुकल्पिताः । तोरणानि च रम्याणि घण्टादिसहितानि च । वज्रस्फरणमित्यनेन । ओं वज्रसत्त्वसंग्रहाद्वज्ररत्नमनुत्तरं वज्रधर्म गायनैर्वज्रकर्मकरो भवेदित्युदीरयन् । नृत्यं कृत्वा वज्रलास्याद्यष्टविधपूजाभिः क्रोधमुष्टिद्वययुक्तकर्ममुद्राभिः सर्वमण्डलं पूजयेत् । वज्रमुष्टिद्वयं बद्ध्वा तर्जनीद्वयं प्रसार्य क्रोधमुष्टिद्वयं भवति । पुनर्वज्रकुलमण्डलोक्तषोडशकर्ममुद्राभिरपि संपूज्य सर्वक्रोधकुलविज्ञप्तिं कुर्यात् । सर्वसत्त्वार्थं कुरुध्वं सर्वसिद्धय इति । ततो बाह्यबलिं दद्यादुत्तरसाधकं मण्डले प्रतिष्ठाप्य । सलाजं सतिलं साम्भः सभक्तं कुसुमैह्सह सतिलकादिभक्तैश्चाकारादिना परिजप्य । पूर्वदिग्भागमारभ्य त्रिक्षेपां गन्धपुष्पधूपदीपार्घं चादावन्ते दद्यात् । तत्र पूर्वं तावन्मण्डलानि कारयेत् । तत आवाहयेत् । ततः समयं दर्शयेत् । अर्घं च दत्वा गन्धादिभिः संपूज्य बलिं दद्यात् । ततो विसर्जयेदिति । (स्द्प्२७४) तत्रेमे मुद्रामन्त्रा भवन्ति । आलीढपदेन स्थितः । प्राङ्मुखो वामवज्रं दर्शयेत् । दक्षिणं कटिदेशे संधार्य तर्जन्यंकुश्यावाहयेत् । तर्जन्यंकुशरहिता । शक्रस्य समयमुद्रा । प्रत्यालीढपदेन स्थित्वावाहनमुद्रायस्तर्जनीं प्रसार्य विसर्जनमुद्रा । अथास्य मन्त्रः । नमो वज्रस्य दिशि वज्रपाणे रक्ष स्वाहा । दक्षिणकरतर्जनी कुण्डलाकारेण कुंचयित्वा मध्यमासूच्यास्तृतीयपर्वे धारयेदंगुष्ठकं च करमध्ये । अग्नेरावाहनमुद्रा । आवाहनमुद्राया अंगुष्ठं तर्जनीपार्श्वश्रितम् । अग्नेः समयमुद्रा । अस्या एव मुद्रायाः करमध्येऽभिमुखावंगुष्ठतर्जनीनखावेकतो योज्यौ विसर्जनमुद्रा । मन्त्रः । अग्ने एहि एहि कपिल ज्वल ज्वल दह शिखितो लोल विरूपाक्ष स्वाहा । याम्यामभिमुखो योगी । अभिमुखकरौ कृत्वाभ्यन्तरवज्रबन्धे मध्येऽंगुष्ठयुगलं बहिरनामिकाद्वयासक्तसूची पुनरभ्यन्तरे धारयेत् । यमस्यावाहनमुद्रा । अनामिकां पुनर्बाह्यतः सूचीं तथैव कृत्वा । हृदये धारयेत् । समयमुद्रा । अनयैवानामिकासूच्या विसर्जनं भवति । अस्य । मन्त्रः । यमाय स्वाहा । नैरृत्यामभिमुखः समपदस्थितो दक्षिणकरमुष्टिं कृत्वा । मध्यमातर्जन्यावेवमाकुंच्य धारयेत्खड्गाकारेण संस्थाप्य वामकरं कटिदेशे धारयेत् । वामतर्जनीं कुंचयित्वा । नैरृत्येरावाहनमुद्रा । अस्या एव मुद्राया वामकरं कटिदेशेऽवस्थितं खड्गमुद्रा । नैरृतेः समयमुद्रा । आवाहनमुद्रायास्तर्जनीं प्रसार्य विसर्जनमुद्रा । मन्त्रोऽस्य । सर्वभूतभयंकरं कुरु कुरु स्वाहा । (स्द्प्२७६) वारुण्यां दिशि समपदस्थितो दक्षिणकरतर्जन्यंगुष्ठावेकतो योजयेद्वाममुष्टिं हृदि संधार्य वामतर्जन्यंकुशेनावाहयेत् । वरुणस्यावाहनमुद्रा । अस्या एव वामतर्जनीमुष्टियोगतो धारयेत्पाशमुद्रा । आवाहनमुद्रायास्तर्जनीं प्रसार्य विसर्जनमुद्रा । मन्त्रोऽस्य । तृतृपुट तृतृशिखितोलि विरूपाक्ष स्वाहा । वायव्यां दिश्यभिमुखं स्थित्वा वामकरमध्यमा सूचीमुक्ता तर्जनी कुण्डलाकारेण तृतीयपर्वे संदध्याभिमुखं प्रसारयेद्दक्षिणकरं कटिदेशे संस्थाप्य । कुंचितांगुष्ठेन वायोरावाहनमुद्रा । अस्या च्वांगुष्ठं पूर्ववत्संधार्य वायोर्समयमुद्रा । आवाहनमुद्राया अंगुष्ठं प्रसार्य विसर्जनमुद्रा । मन्त्रः । ओं श्वस खाखे खुखः स्वाहा । कौबेर्यभिमुखं स्थितः करद्वयमभिमुखं कृत्वाभ्यन्तरवज्रबन्धं कनिष्ठाद्वयसूचीं तस्याः पृष्ठतोऽनामिकायुगलं पृथक्संधार्य मध्यमासूचीं वज्राकारेण नामयेत्कुबेरावाहनमुद्रा । अस्या एव मुद्राया मध्यमाद्वयमभ्यन्तरवज्रबन्धयोगतो न्यस्य कुबेरस्य समयमुद्रा । आवाहनमुद्राया मध्यमाद्वयं प्रसार्य विसर्जनमुद्रा । मन्त्रोऽस्य । ओं कुबेराय स्वाहा । ऐशान्यां दिश्यभिमुखं स्थित्वा करावेकतो योज्यांजलिं कृत्वा कन्यसानामिकातलवज्रबन्धं कृत्वांगुष्ठयुगलं मध्यमाश्रितं मध्यमासूच्यो बहिर्वज्राकारेण तर्जनीद्वयं न्यस्य तदेवाकुंच्योपरि परस्परनखासक्तं कुर्यादीशानावाहनमुद्रा । अस्या एव तर्जन्यौ पूर्ववद्वज्राकारेण धारयेदीशानसमयमुद्रा । आवाहनमुद्रायास्तर्जन्यौ प्रसार्य विसर्जनमुद्रा । (स्द्प्२७८) मन्त्रः । ओं जुं जुं शिव स्वाहा । प्रत्यालीढस्थानस्थोऽंजल्याकारेण हस्तौ संधार्य । ऊर्ध्वं दृष्ट्वा तर्जनीद्वयांकुश्या ब्रह्मादीनामावाहनमुद्रा । अस्या एव तर्जनीद्वयं पूर्ववत्संस्थाप्य समयमुद्रा । आवाहनमुद्रायास्तर्जनीद्वयं प्रसार्य विसर्जनमुद्रा । मन्त्रास्तेषाम् । ओमूर्ध्वं ब्रह्मणे स्वाहा । ओं सूर्याय ग्रहाधिपतये स्वाहा । ओं चन्द्राय नक्षत्राधिपतये स्वाहा । समपदं स्थानमास्थाय हस्तद्वयमेकतो योज्याविचलान्योन्यांगुल्यग्रा सम्योज्यांगुष्ठौ वर्तुलाकारेणाधोदृष्टिं कृत्वा पृथिव्यादीनां तर्जन्यंकुशाभ्यामावाहनम् । तर्जन्यौ पूर्ववद्व्यवस्थाप्य समयमुद्रा । आवाहनमुद्रायाः प्रसारिततर्जनीभ्यां विसर्जनमुद्रा । मन्त्रः । ओमधः पृथिव्यै स्वाहा । ओमसुरेभ्यः स्वाहा । ओं नागेभ्यः स्वाहा । तत आचमनं स्वमन्त्रैरेव सर्वेषां दत्वा । सशिष्यगणस्य ममाविघ्नं कुरुत कर्मसिद्धिं च मे प्रयच्छ । इत्युक्त्वा सर्वान् विसर्जयेदिति । अथ सुबाहुपरिपठितगाथाभिर्बलिं दद्यात् । देवासुराः सर्वभुजंगसिद्धाः ॥ तार्क्षाः सुपर्णाः कटपूतनाश्च ॥ गन्धर्वयक्षा ग्रहजातयश्च ॥ ये केचिद्भूमौ निवसन्ति दिव्याः ॥ न्यस्तैकजानुः पृथिवीतलेऽस्मिन् ॥ कृतांजलिर्विज्ञापयामि तांस्तु ॥ सपुत्रदारैः सह भृत्यसंघैः ॥ श्रुत्वा इहायान्तु अनुग्रहार्थम् ॥ ये मेरुपृष्ठे निवसन्ति भूताः ॥ (स्द्प्२८०) ये नन्दने ये च सुरालयेषु ॥ ये चोदयास्ते रविमण्डले च ॥ नगरेषु सर्वेषु च ये वसन्ति ॥ सरित्सु सर्वासु च संगमेषु ॥ रत्नालये चापि कृताधिवासाः ॥ वापीतटागेषु च पल्वलेषु ॥ कूपेषु वप्रेषु च निर्झरेषु ॥ ग्रामघोषेषु सुरकानने वा ॥ शून्यालये देवगृहेषु ये च ॥ विहारचैत्यावसथाश्रमेषु ॥ मठेषु शालासु च कुञ्जराणाम् ॥ ये भूभृतां चित्रगृहे वसन्ति ॥ रथ्यासु वीथीषु च चत्वरेषु ॥ ये चैकवृक्षेषु महापथेषु ॥ महाश्मशानेषु महावनेषु ॥ सिंहेभ ऋक्षाध्युषितेषु ये च ॥ वदन्ति घोरास्महाटवीषु ॥ द्वीपेषु दिव्येषु कृतालयाश्च ॥ मेरौ श्मशाने निवसन्ति ये च ॥ हृष्टाः प्रसन्नाः स्रजगन्धमाल्यम् ॥ धूपं बलिं द्xपं विधिं च भक्त्या ॥ गृह्णन्तु भुंजन्तु पिबन्तु चेदम् ॥ इदं च कर्मं सफलं जुषन्तु ॥ एवं तु कृत्वा ग्रहपूजनं तु ॥ दिगर्चनं त्वेकमना प्रकुर्या ॥ इन्द्रा तु वज्री सह देवसंघैः ॥ इमां च गृह्णन्तु बलिं विशिष्टम् ॥ अग्निर्यमो नैरृतिर्भूपतिश्च ॥ (स्द्प्२८२) अपां पतिर्वायुधनाधिपतिः ॥ ईशानभूताधिपतिश्च देवाः ॥ ऊर्ध्वं तु चन्द्रोऽर्कः पिता महांश्च [। देवाः समस्ता भुवि ये च नागाः ॥ धराधरा गुह्यगणैः समेताः ॥ प्रतिप्रतित्वेकनिवेदनं तु ॥ स्वकस्वकाश्चैव दिशासु भूताः ॥ गृह्णन्तु तुष्टाः सबलाः ससैन्याः ॥ सपुत्रमित्रस्वजनैः समेताः ॥ धूपं बलिं दीपं पुष्पविलेपनं च ॥ भुंजन्तु जिघ्रन्तु पिबन्तु चेदम् ॥ इदं च कर्मं सफलं जुषन्तु ॥ इति । तत्रायं सबाह्याभ्यन्तरे बलिप्रदानमन्त्रः । अकारो मुखं सर्वधर्माणामाद्यनुत्पन्नत्वादिति । ततो पस्पृश्य पूर्वद्वाराभिमुखावस्थितः सर्वकर्मिककुण्डमध्ये श्रीत्रैलोक्यविजयमण्डलसर्वदेवतामन्त्रानुदाहरन् कुसुमैर्निवेश्य । होमविधिना श्रीवज्रहुंकारमन्त्रेणाष्टोत्तरशतं गोघृतेनाहुतिं दद्यात् । श्रीवैरोचनादिमन्त्रैरपि वज्रावेशक्रोधपर्यन्तैः सप्तसप्ताहुतिः पुनः । ततो यथावदग्निकुण्डे वैरोचनादीन् पुष्पैरवाकृष्य वैरोचनादिमन्त्रैरालिखिते मण्डले स्वस्थानेषु निवेशयेत् । ततः सर्वतथागतान् प्रणम्य । अहममुकनाम्ना च वज्राचार्यो महातपाः ॥ शिष्यान् प्रवेशयिष्यामि सर्वसत्त्वहितार्थतः ॥ अत्र च मण्डलप्रवेशे पात्रापात्रपरीक्षा न कार्या । तत्कस्य हेतोः । सन्ति भदन्तस्तथागताः केचित्सत्त्वा महापापकारिणस्त इदं वज्रहुंकारमण्डलं दृष्ट्वा प्रविष्ट्वा च सर्वापायविगता भविष्यन्ति । (स्द्प्२८४) सन्ति भगवन्तः सत्त्वाः सर्वार्थभोजनकामगुणगृद्धाः समयद्विष्टाः पुरश्चरणादीष्टाशक्तास्तेषामप्यत्र यथाकामकरणीया प्रविष्टानां सर्वाशापरिपूर्तिर्भविष्यति । सन्ति च भगवन्तः सत्त्वा नृत्यगीतहास्यलास्याहारविहारप्रियतया सर्वतथागतमहायानधर्मतानवबोधादन्यदेवकुलमण्डलानि प्रविशन्ति । सर्वाशापरिपूर्तीसंग्रहभूतेषु निरुत्तररतिप्रीतिहर्षसंभवकरेषु सर्वतथागतकुलमण्डलेषु शिक्षाभयभीतान्न प्रविशन्ति । तेषामपायमण्डलप्रवेषे यथावस्थितसुखात्मसमयमेव वज्रहुंकारमण्डलप्रवेशो युज्यते । सर्वरतिप्रीत्युत्तमसुखसौमनस्याभिवर्द्धनार्थं सर्वापायगतिप्रवेशाभिमुखपथविनिवर्तनाय च । सन्ति च पुनर्भगवन्तो धार्मिकाः सत्त्वाः सर्वतथागतशीलसमाधिप्रज्ञोत्तमसिद्ध्युपायैर्बुद्धबोधिं प्रार्थयन्तो ध्यानविमोक्षादिभिर्भूमिभिर्यत्नतः क्लिष्यन्ते । तेषामत्रैव वज्रहुंकारमण्डलेप्रवेशमात्रेणैव सर्वतथागतत्वमपि न दुर्लभम् । किमंग पुनरन्यसिद्धिरिति विज्ञापयेत् । ततः शिष्यान् प्रवेशयेत् । तत्र पञ्चशिक्षापदपरिगृहीतेन श्रामणेरकभिक्षुसंवरगृहीतेन वा । आचार्याभिषेकार्हे नाचार्यपादयोः प्रणिपत्यैवं वक्तव्यम् । त्वं मे शास्ता महारतः ॥ इच्छाम्यहं महानाथ महाबोधिनयं दृढम् ॥ देहि मे समयतत्त्वं संवरं च ददस्व मे ॥ इति । ततो वज्रयक्षपरिजप्तं नीलवस्त्रनिवसनोत्तरीयं वज्रांकुशादिद्वारपालचतुष्टयपरिजप्तं मुखवेष्टनं शिष्यं कृत्वा चतुःप्रणामं कारयेत् । (स्द्प्२८६) पुनः पुष्पकरेण शिष्येणाचार्यं पुष्पकरेणैव देशनानुमोदनाध्येषणायाचनां च कृत्वा वक्तव्यम् । देहि मे संवरं विभो ॥ समन्वाहरन्तु मां बुद्धा अशेषा मुनिभास्कराः ॥ अहममुकनाम्ना वई आचार्यसमक्षं स्थितः ॥ प्रविशामि महागुह्यं बुद्धनाटकसंभवम् ॥ अवैवर्तिकचक्राद्यं महामोक्षपुरं वरम् ॥ प्रवेश मां महाचार्य सर्वगुह्यकुलोच्चयम् ॥ ददस्व मे महाभागमवैवर्त्यभिषेचनम् ॥ ददस्व मे महाचार्य लक्षणस्यानुमोदनम् ॥ अनुव्यञ्जनसंयुक्तं बुद्धकायं मनोरमम् ॥ ददस्व मे महाचार्य अभिषेकं महाद्भुतम् ॥ आचार्योऽहं भवेन्नित्यं सर्वसत्त्वार्थकारणात् ॥ तत आचार्येण सर्वकुलविज्ञप्तिः कार्या । अयमेवामुकनाम्ना बोधिचित्तपरिग्रहः ॥ इच्छते गुह्यचक्रेऽस्मिन् प्रवेष्टां समयसंवरम् ॥ तत आचार्येण वक्तव्यम् । इच्छसे त्वं महात्मन्महागुह्यकुलं शुद्धं रहस्यं परिग्र्ह्णितुम् । बुद्धं धर्मं च सङ्घं च त्रिरत्नशरणं व्रज ॥ एतद्बुद्धकुले रम्ये संवरं भवते दृढम् ॥ वज्रं घण्टा च मुद्रा च त्वया ग्राह्या महामते ॥ यद्बोधिचित्तं तद्वज्रं प्रज्ञा घण्टा इति स्मृता ॥ आचार्यश्च गृहीतव्यः सर्वबुद्धसमो गुरुः ॥ एतद्वज्रकुले शुद्धे संवरं समयोच्यते ॥ चतुर्दानं प्रदातव्यं त्रिदिवे च त्रिरात्रिके ॥ आमीषाभयधर्माख्या मैत्री रत्नकुलोच्चये ॥ (स्द्प्२८८) सद्धर्मं च त्वया ग्राह्यं गुह्यं त्रियानिकम् ॥ एतत्पद्मकुले शुद्धे संवरं समयोच्यते ॥ संवरं सर्वसंयुक्तं परिगृह्णीष्व तत्त्वतः ॥ पूजाकर्म यथाशक्त्या महाकर्मकुलोच्चये ॥ एतत्पाराजिकाख्याताश्चतुर्दशमतः परम् ॥ न त्याज्यं न च क्षेप्तव्यं मूलापत्तिरिति स्मृतम् ॥ त्रिदिवे च त्रिरात्रौ च वर्तितव्यं दिने दिने ॥ यदा हानिर्भवेद्योगी स्थूलापत्त्यो भविष्यति ॥ प्राणिनश्च न ते घात्या अदत्तं नैव चाहरेत् ॥ नाचरेत्काममिथ्यायां मृषा नैव च भाषयेत् ॥ मूलं सर्वस्यानर्थस्य मद्यपानं विवर्जयेत् ॥ अक्रियां वर्जयेत्सर्वां सत्त्वार्थं विनयेन च ॥ साधूनामुपतिष्ठेत योगिनां पर्युपासनम् ॥ त्रिविधं कायिकं कर्म वचसा च चतुर्विधम् ॥ मनसा त्रिप्रकारं च यथाशक्त्यानुपालयेत् ॥ मनसा त्रिप्रकारं च यथाशक्त्यानुपालयेत् ॥ हीनयानस्पृहा नैव सत्त्वार्थं विमुखं न च ॥ न संसारपरित्यागी न निर्वाणरतिः सदा ॥ अपमानं न ते कार्यं देवता न च गुह्यके ॥ न च चिह्नं समाक्रम्यं मुद्रा वाहनमायुधम् ॥ एतत्समयमित्युक्तं रक्षितव्यं त्वया मते ॥ तस्यैव चापि वक्तव्यमाचार्य तु शृणुष्व मे ॥ एवमस्तु करिष्यामि यथा ज्ञापयसे विभो ॥ उत्पादयामि परममित्यादि यावत्सर्वान् स्थापयिष्यामि निर्वृताविति । यस्तु संवरं न गृह्णाति तस्य प्रवेशमात्रमेव दातव्यम् । अद्य त्वमित्यादि न ब्रूयादाचार्याभिषेकं च न कुर्यात् । ततः । ओं सर्वयोगचित्तमुत्पादयामीत्यनेन । उत्पादयित्वा परमं बोधिचित्तमनुत्तरम् ॥ वज्रमस्य प्रतिष्ठाप्य हृदये हृदयेन तु ॥ सुरते समयस्त्वं होः वज्रसिद्धि यथासुखम् ॥ इत्यनेन । (स्द्प्२९०) ततस्तं वज्रहुंकारमधिष्ठाय गन्धपुष्पादिभिरभ्यर्च्य स्रग्विनं सुरभिताननं च कृत्वोत्तमां दक्षिणामादाय बहिः स्थितकलशोदकेनाभिषिञ्च्य । ओं गृह्ण वज्रसमय हुं वमित्यनेन क्रोधतेरिन्तिरीं स्वयं बद्ध्वा शिष्येन बन्धयेत् । वज्रबन्धं तले कृत्वा छादयेत्क्रुद्धमानसः ॥ गाढमंगुष्ठवज्रेण क्रोधतेरिन्तिरी स्मृता ॥ ततस्तयैवांगुस्थाभ्यां पुष्पमालां ग्राहयित्वा प्रवेशयेदनेन हृदयेन । ओं वज्रसमयं प्रविशामीति । पूर्वद्वारे च वज्रांकुशेन तमाकर्षयेत् । दक्षिणेन पाशेन प्रवेशयेत् । पश्चिमेन स्फोटेन बध्नीयात् । उत्तरे वज्रावेशेन वेशयेत् । पुनः पूर्वद्वारेण प्रवेश्यैवं वदेत् । अभ्यर्च्य सर्वतथागतकुले प्रविष्टस्तदहं तु वज्रज्ञानमुत्पादयिष्यामि । येन ज्ञानेन सर्वतथागतसिद्धिरपि प्राप्स्यसे । किमन्या सिद्धिः । न च त्वयादृष्टमण्डलस्य पुरतो वक्तव्यम् । मा ते समयो व्यथेदिति । ततः स्वयं वज्राचार्यः क्रोधतेरिन्तिरीमेवमूर्ध्वमुखीं बद्ध्वा वज्रं शिष्यस्य मूर्ध्नि स्थाप्यैवं वदेत् । अयं ते समयवज्रो मूर्ध्निं ते स्फारयेद्यदि त्वं कस्यचिद्ब्रूयाः । ततस्तयैव समयमुद्रयोदकं शयथा हृदयेन सत्कृत्य परिजप्य तस्मै वज्रशिष्याय पाययेदिति । तत्रेदं शयथा हृदयम् । वज्रसत्त्वः स्वयं तेऽद्य हृदये समवस्थितः ॥ निर्भिद्य तत्क्षणं यायाद्यदि ब्रूया इमं नयम् ॥ वज्रोदक । इति । ततः शिष्याय ब्रूयादद्य प्रभ्त्ति तेऽहं वज्रपाणिर्यदहं ब्रूयामिदं कुरु तत्कर्तव्यं न च त्वयाहमवमन्तव्यो मा ते विषमापरिहारेण कालक्रियां कृत्वा नरके पतनं स्यादिति । (स्द्प्२९२) तदनु अकारं वज्ररश्मिमालायुक्तं स्वहृदि चिन्तयेत् । ततः शिष्यहृदूर्णाकण्ठमूर्ध्निषु चन्द्रमण्डलस्थपञ्चसूचिकं ज्वालावज्रं रत्नं पद्मं विश्ववज्रं च चिन्तयेत् । एभिर्यथाक्रमेण हुं त्रं ह्रीः अः इति । कपाटोद्घाटनमुद्रया स्वकीयं शिष्यहृदयं चोद्घाट्य स्वहृदयादकारं निश्चार्य शिष्यहृद्गतवज्रमध्ये बुद्ध्या प्रवेश्य सर्वकायमापूर्यमाणं चिन्तयेत् । एवं वदेत् । ब्रूहि सरतथागताश्चाधिष्ठन्तां वज्रसत्त्वो मे आविशतु । ततस्वर्तमानेन ब्वज्राचार्येण क्रोधतेरिन्तिरीं बद्ध्वेदमुच्चारयितव्यम् । अयन् तत्समयवज्रं वज्रसत्त्व इति स्मृतम् ॥ आवेशयतु तेऽद्यैव वज्रज्ञानमनुत्तरम् ॥ वज्रावेश अः इति । १० । २० । ३० । ४० । ५० । ६० । ७० । ८० । ९० । १०० वारानुच्चार्य नियतमाविशति । ततः क्रोधमुष्टिं बद्ध्वा सत्त्ववज्रीमुद्रां स्फोटयेदिदमुदीरयेत् । ओं सुम्भनि सुम्भनि हुम् । ओं गृह्ण गृह्ण हुम् । ओं गृह्णापय गृह्णापय हुम् । ओमानय होः भगवन् वज्रराज हुं फट् । अः अः अः अः । १० । २० । ३० । ४० । ५० । ६० । ७० । ८० । ९० । शतवारानुच्चारयेत् । भगवता च वज्रवातमण्डल्या च वज्रहुंकारेण रक्तवर्णज्वालाप्रभेणापार्यमाणं चिन्तयेत् । पुनरपि यद्यावेशो न भवति । ततो घण्टासहितां वज्रावेशसमयमुद्रां बद्ध्वा वामपादेन तस्य दक्षिणपादमाक्रंयोपर्याकाशदेशे वैरोचनं श्रीवज्रहुंकारस्योपरि तस्यैवावेशनाय क्रुद्धहुंकाररश्मिसमूहेनाक्रम्यमाणमधस्ताच्च वज्रवातमन्दल्या हुंकारेणोत्थाप्यमानमेवं पूर्वादिदिक्ष्थितैरक्षोभ्यादिभिः । हुं त्रां ह्रीः इति स्वबीजरश्मिव्यूहैः संपात्यमानं चिन्तयंस्तमावेशयेत् । हुं वज्रावेश अः शतधो च्चारयेत् । अथ पापबहुत्वादावेशो न भवति । तदा पापस्फोटनमुद्रया (स्द्प्२९४) तस्य पापानि स्फोटयेत् । ततः । समिद्भिर्मधुरैरग्निं प्रज्वाल्य सुसमाहितः ॥ निर्दहेत्सर्वपापानि तिलहोमेन तस्य तु ॥ ओं सर्वपापदहनवज्राय स्वाहा । इति दक्षिणहस्ततले कृष्णतिलैः पापप्रतिकृतिं कृत्वा हुंकारं मध्ये विचिन्त्य । तर्जन्यंगुष्ठाभ्यां होमयेत् । ततो होमकुण्डान्निर्गत्य ज्वालाकुलैर्वज्रैस्तस्य शरीरे पापं दह्यमानं चिन्तयेत् । ततः पुनर्वज्रावेशं तथैवं बद्ध्वावेशयेत् । नियतमाविशति । एवमपि यस्यावेशो न भवति तस्याभिषेकं न कुर्यादिति । आविष्टस्य च पञ्चाभिज्ञादिनिष्पत्तिस्तत्क्षणादेव भवति । ततः समाविष्टं ज्ञात्वा पुनः । ओं वज्रसत्त्वसत्त्वसंग्रहादिगीतिमुच्चार्य । क्रोधमुष्ट्या तथैव सत्त्ववज्रीमुद्रां स्फोटयेत् । स चेदाविष्टो वज्रसत्त्वक्रोधमुद्रां बध्नीयात् । तदाचार्येण वज्रमुष्टिं क्रोधमुद्रां बध्नियात् । एवं यावत्स चेत्वज्रहासमुद्रां बध्नीयात् । तदा वज्रधर्मक्रोधमुद्रां बन्धयेदित्येवं सांनिध्यं कल्पयन्ति । ततस्तस्य जिह्वायां वज्रं विचिन्त्य । ब्रूहि वज्र । इति वक्तव्यम् । ततः सर्वं कथयति । ततस्तां मालां महामण्डले क्षेपयेत् । प्रतिच्छ वज्र होः । इति । ततो यत्र पतति सोऽस्य सिद्ध्यति । ततस्तां मालां तस्यैव शिरसि बन्धयेत् । ओं प्रतिगृह्ण त्वमिमां वज्रसत्त्व महाबल । इति । ततो मुखबन्धं मुञ्चेदनेन । ओं वज्रसत्त्वः स्वयं तेऽद्य चक्षूद्घाटनतत्परः ॥ उद्घाटयति सर्वाक्षो वज्रचक्षुरनुत्तरम् ॥ इति । हे वज्र पश्य । इति । ततो महामण्डलवज्रांकुशादारभ्य यावद्वैरोचनपर्यन्तं दर्शयेत् । ततस्तिष्ठ वज्रेत्यादिना शिष्यप्रवेशमुद्रां मोक्षयेत् । ततो बाह्यमण्डलाभ्यन्तरे चन्द्रमण्डलं पूर्वद्वाराभिमुखं संलिख्य बाह्यतो वा शिष्यं श्रीवज्रहुंकारमुद्रया सत्त्ववज्रादिभिश्चाधिष्ठाय महामुद्रया ततः प्रतिष्ठाप्याभिषिञ्चेत् । (स्द्प्२९६) गन्धपुष्पादिभिरभ्यर्च्यार्घं दत्वा । छत्रध्वजपताकादिभिस्तुर्यशंखनिनादितैश्च । ततो मअलगाथाभिरभिनन्द्यादौ तावदुदकाभिषेकेन ततो मुद्राभिषेकेन मुकुटपत्टवज्राधिपतिनामाभिषेकैश्चाभिषिञ्चेत् । पुनः पुष्पादिभिर्लास्याद्यष्टविधपूजया च पूजयेत् । शिष्येनाचार्यं वलितवज्रांजलिना प्रणम्योत्तमां दक्षिणां दत्वा पुष्पाद्यभिषेकाश्च ग्राह्या इति । आचार्याभिषेकं तु श्रीवज्रहुंकारमुद्रया तथैव प्रतिष्ठाप्य यथा निर्दिष्टेषु स्थानेषु समयमुद्राभिस्तस्य काये श्रीवज्रहुंकारादीन्न्यस्य । पुनरपि अनेनाष्टोत्तरशतसहस्रपरिजप्तं विजयकलशं कृत्वा । ओं वज्राधिपति त्वामभिषिञ्चामि दृढो मे भव जः हुं वं होः हुं फटिति । तत इमं चोदीरयन् । ओं वज्राभिषिञ्च । इति चोदकाभिषेकं वज्रमुष्टिनोदकं विजयकलशाद्गिहीत्वा दद्यादिदं च ब्रूयात् ॥ इदं ते नारकं वारि समयातिक्रमाद्दहेत् ॥ समयाभिरक्षात्सिद्धिः सिद्धं वज्रामृतोदकम् ॥ वज्रघण्टां च मुद्रां च यद्यमण्डलिनो वदेत् ॥ हसेद्वाश्रद्धदानेन जनसंगणिकास्थितः ॥ इति । ततः सर्वविधिमनुष्ठाय नामाष्टशतेन संस्तुत्य गाथापञ्चकेनानुज्ञां दत्वोद्गतन्व्याकरणेन सर्वशिष्यान् सर्वशिष्यान् व्याकुर्यादिति । अथ गुह्याभिषेको भवति । आचार्याभिषेकार्हं प्रवेश्य सर्वमण्डलं तु तत्कुरुस्व । इति । अनेककर्मसंसिद्धिं सिद्धिम्. चापि यथेप्सिताम् ॥ प्राप्नोति नियतं कृत्स्नामधमोत्तममध्यमाम् ॥ निर्विघ्नेन परां भूमिं किं पुनः क्षुद्रसिद्धयः ॥ बुद्धत्वं बोधिसत्त्वत्वं वज्रसत्त्वत्वमदुर्लभम् ॥ इति । यस्य सिद्धिर्निर्जायते यस्य पापा महाग्रहाः ॥ विघ्ना विनायकाश्चापि मृत्यवो मारकायिकाः ॥ (स्द्प्२९८) नानाभयशस्त्रैस्तीव्राः सिद्धिकर्मविधारिणः ॥ ते तस्य नश्यन्ति नापि जायन्ते च महोत्तमा ॥ होमकर्मविधानेन ध्रुवमाशु प्रसिद्धयः ॥ देवताश्च महातुष्टीं प्रलभन्ति क्षणेन च ॥ ईत्युपद्रवदोषादि दूरं गुरुतरं भृशम् ॥ नश्यन्ति तत्र देशेऽस्मिन् व्याधिज्वरग्रहादिकम् ॥ परचक्रा विनश्यन्ति दुर्भिक्षाश्च सरौरवाः ॥ देवा नागा महोत्साहाः पालयन्ती सुखेन तु ॥ चतुरश्च महाराजाः पालयन्ति महर्द्धिकाः ॥ लोकपालाः सनक्षत्रा यक्षाश्चापि ग्रहादिकाः ॥ अथ शक्रब्रह्मादयो देवाः प्रणिपत्य मुहुः ॥ पूजां नानाविधां कृत्वा रत्नछत्रादिभिर्वराम् ॥ वज्रपाणिं जिनाधृष्टं संस्तुवुर्मुदिताश्रयाः ॥ सर्वबुद्धादिसंबुद्धं सर्वाज्ञानमलापहम् ॥ वज्रवज्रधरो राजा वज्रवज्रसवज्रधृक् ॥ वज्रकायो महाकायो वज्रपाणिर्नमो नमः ॥ वज्रवज्राग्रवज्राग्रो वज्रज्वालो महाज्वलः ॥ वज्रावेशो महावेशो वज्रायुधो महायुधः ॥ वज्रपाणिर्महापाणिर्वज्रवाणः सुवेधकः ॥ वज्रतीक्ष्णो महातीक्ष्णो महामहान्महोदधिः ॥ वज्रपद्मो महाबोधो बौधिबुद्धः स्वयं भुवः ॥ वज्रोदारो महोदारो वज्रमायाविशोधकः ॥ वज्रहेतुर्महायक्षो वज्रपद्मविशोधकः ॥ वज्रक्रोधो महाचण्डो वज्रारिदुष्टहा विभुः ॥ वज्रभीमो महारक्षो वज्रांकुशश्चामोघकृत् ॥ वज्रवेतालो वेतालो वज्रराक्षसभक्षकः ॥ वज्रयक्षो महायक्षो वज्रग्रहो ग्रहोत्तमः ॥ भीषणो रौद्रो रुद्रो भैरवभीकरः ॥ असाध्यः साधकः साधुः वज्रसाधुप्रहर्षकः ॥ वज्रप्रीतिर्महाप्रीतिर्वज्रायुधवशं करः ॥ वज्रतेजो महातेजो ज्वालाप्रभयमान्तकृत् ॥ वज्रघोरो महाघोरो घनप्रभो महाघनः ॥ (स्द्प्३००) आकाशसमसर्वाशः सर्वाशापरिपूरकः ॥ वज्राभिषेकतत्त्वाग्रो वज्रध्वजो गुणोदधिः ॥ वज्रज्ञानं महाज्ञानं विद्याकोटिगणार्चितः ॥ हालाहलमहाकालः कोलाहलविलासकः ॥ वज्रकामो महाकामः कषायकरिनाशकः ॥ वेलाचपलदोलाग्रो विद्युज्जिह्वास्फुरद्मुखः ॥ वज्रानलो प्रचण्डास्यश्चन्दप्रद्योतद्योतकः ॥ सहस्रसूर्यप्रभास्यो लोहिताक्षो भयानकः ॥ क्रोधानेकस्फरद्रश्मिर्भुजानेकशतायुधः ॥ मुखानेकसहस्रांगः कुटिलः कुटिलांगकः ॥ अनंगश्चित्तधर्मात्मा विकल्पाशेषवर्जितः ॥ अविद्याघातको ब्रह्मा रागद्वेषमलान्तकः ॥ रागो द्वेषो महामोहो भवाभवविशोधकः ॥ शान्तो दान्तो महाशुद्धो बुद्धो बुद्धप्रबोधकः ॥ बुद्धात्मा बुद्धरूपी च वज्रसत्त्वः सुवज्रजः ॥ समन्तभद्रो महाभद्रः सर्वलक्षणलक्षितः ॥ सर्वधातुमयो व्यापी सर्ववज्रमयः शुचिः ॥ इति । येन लिखेत्पठेद्वापि धारयेदर्थतः सदा ॥ स्मरेत्शृणुयाद्वापि वज्रपाणिसमो भवेत् ॥ इति । इदमवोचद्भगवानात्तमनः । शक्रब्रह्मादिदेवपर्षत्सदेवमानुषासुरगन्धर्वयक्षसादिभिर्हितसुखप्राप्तये भगवतो भाषितमभ्यनन्दनिति ॥ आर्यसर्वदुर्गतिपरिशोधनतेजोराजस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य कल्पैकदेशः समाप्तः ॥