(१) (अ ३५० ) पिण्डोद्दानम् संमतो देवपालश्च निर्यूहो जीर्णो भद्रकः । पर्षत्कौण्डिन्य ऋद्धिश्च कौशिको भुक्पुह ... । सावीचिश्च कतरो भवति पश्चिमः ॥ उद्दानम् महासंमतः सिंहहनुः सुप्रबुद्धस्तथैवच । (२) तुषितास्च दोहदो जातिः छन्दोऽसितोऽप्यथ पात्री ॥ कृमिवर्माथ बद्धाली सहदेवस्तथैव च । छदनं वैशालकानिर्देशनं प्रसादनमथ ॥ यशोधरा हंसश्चाप्यथ कल्याणी गोपिका । निर्देशनं जम्बू च मृगजा सप्तमः कुलो भार्गवः । राजगृहं तपसश्च आराडो दुष्करं नन्दा । (३) कालकः स्वस्तिकस्तथा मारस्य नाशनं कृत्वा । चतुष्पर्षच्च पश्चिमम् ॥ ______________________________________________________________ लिनेअगे ओf किन्ग्स् अर्चिष्मन्तः पोतलके एकशतम् अरिन्दमः अयोध्यायां चतुष्पंचाशद् अजितंजयो वाराणस्यां त्रिषष्टिः दुष्प्रसहो किम्पिलायां चतुरशीतिः ब्रह्मदत्तः हस्तिनापुरे द्वात्रिंशद् हस्तिदत्तः तक्षशीलायां पंचसहस्राणि कालीशो उरसायां द्वात्रिंशन् नग्नजिदजितंजये द्वात्रिंशज् जयदत्तो कन्याकुब्जायां द्वादश जयसेन चंपायामष्टादश नागदेव तालिप्ये पंचविंशतिः नरदेवः तामलिप्त्यां द्वादश सागरदेवः दन्तपुर्यामष्टादश सुमतिः राजगृहे पंचविंशतिः तमोनुद्वाराणस्यामेकशतं महेन्द्रसेनः कुशावत्यां चतुरशीतिः समुद्रसेनः पोतलके सहस्रं तपंचरः कुसावत्यां चतुरशीतिः महीमुखो वाराणास्यां शतसहस्रं महीपतिरयोध्यायां शतसहस्रं महीधरो मिथिलायां चतुरशीतिः महादेवो (अ ३५० ) पुनरपि मिथिलायां चतुरशीतिः (४) महादेवो निमिः ... पेयालम् ... दृढरथः सांकाश्ये सप्तसप्ततिः अम्बरीशो नागसंपालो वाराणस्यामेकशतं कृकिः सुजातः पोतलके एकशतं कर्ण इक्ष्वाकुः पोतलके एकशतं विरूढक इक्ष्वाक्वादिर्गोपूरकः कपिलवस्तुनि पंचपंचाशत्सहस्राणि दशरथः ... पेयालम् ... सिंहहनुः सिंहहनोश्चत्वारः चतुर्भ्यः द्विकयुक्तिः (५) ______________________________________________________________ भिक्षुस्देसिरे तो क्नोw थे ओरिगिनोf थे शाक्यस् बुद्धो भगवान् कपिलवस्तुनि विहरति न्यग्रोधारामे । अथ संबहुलानां कापिलवास्तवानां शाक्यानां संस्थागारे संनिषण्णानां संनिपतितानामयमेवं रूपोऽभूदन्तराकथासमुदाहारः । कुतो निर्जाता भवन्तः शाक्याः किमग्रण्याः किमन्वयाः कश्च शाक्यानां पौराणकुलवंशश्च । सचेत्कश्चिदस्माकमुपसंक्रम्यैवं पृच्छेत्: कुतो निर्जाता भवन्तः शाक्याः किमग्रण्याः किमन्वयाः कश्च तेषां पौराणः कुलवंश इति । एवं पृष्टा वयं किं व्याकुर्यामः । न च पुनर्जानीमः कुतो निर्जाताः शाक्याः किमग्रण्याः किमन्वयाः कश्च तेषां पौराणः कुलवंश इति । एते वयं येन भगवांस्तेनोपसंक्रामामः । उपसंक्रम्य भगवन्तमेतमेवार्थं परिपृच्छामः, यथा चास्माकं भगवान् व्याकरोति तथैनं धारयिष्यामः इति । अथ संबहुलाः कापिलवास्तवाः शाक्या येन भगवांस्तेनोपसंक्रान्ताः । उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषण्णाः । एकान्ते निषण्णाः संबहुलाः कापिलवास्तवाः शाक्या भगवन्तमिदमवोचन् । इहास्माकं भदन्त संबहुलानां कापिलवास्तवानां शाक्यानां संस्थागारे संनिषण्णानां संनिपतितानामयमेवंरूपोऽभूदन्तराकथासमुधाहारः । कुतो निर्जाताः शाक्याः किमग्रण्याः किमन्वयाः कश्च तेषां पौराणः कुलवंशः । सचेत्कश्चिदस्माकम् (६) उपसंक्रम्यैवं पृच्छेत्कुतो निर्जाता भवन्तः शाक्याः किमग्रण्याः किमन्वयाः कश्च तेषां पौराणः कुलवंश इति । एवं पृष्टा वयं किं व्याकुर्यामः । न च पुनर्जानीमः कुतो निर्जाताः शाक्याः किमग्रण्याः किमन्वयाः कश्च तेषां पौराणः कुलवंश इति । एते वयं येन भगवांस्तेनोपसंक्रमामः । उपसंक्रम्य भगवन्तमेतमेवार्थं परिपृच्छामः, यथा चास्माकं भगवान् व्याकरिष्यति तथैनं धारयिष्यामः इति । ते वयमेतमेवार्थं परिपृच्छामः: कुतो भगवन्निर्जाताः शाक्याः किमग्रण्याः किमन्वयाः कश्च शाक्यानां पौराणः कुलवंश इति । अथ भगवत एतदभवत् । सचेदहं शाक्यानां पौराणं कुलवंशमारभ्य धर्म्यां कथां कुर्यां स्थानमेतद्विद्यते: यदन्यतीर्थिकपरिव्राजका एवं वदेयुः आत्मश्लाघी श्रमणो गौतमो यदिच्छति तद्व्याकरोतीति । अथ को नु मम श्रावकः (अ ३५१ ) प्रतिबलः स्याद्यः शाक्यानां पौराणं कुलवंशमारभ्य भिक्षूणां धर्म्यां कथां कुर्यात्; तेन खलु समयेनायुष्मान्महामौद्गल्यायनस्तस्यामेव परिषदि संनिषण्णोऽभूत्संनिपतितः ______________________________________________________________ थे बुद्ध अस्क्स्मौद्गल्यायन तो नर्रते तत्र भगवानायुष्मन्तं महामौद्गल्यायनमामन्त्रयते: प्रतिभातु ते मौद्गल्यायन शाक्यानां पौराणं कुलवंशमारभ्य भिक्षूणां धर्म्यां कथां कर्तुम् । पृष्ठं मे आविलायते । तत्तावदायामयिष्यामीति । अधिवासयत्यायुष्मान्महामौद्गल्यायनो भगवतस्तूष्णींभावेन । अथ भगवानायुष्मतो महामौद्गल्यायनस्य तूष्णींभावेनाधिवासनां विदित्वा गणपुटां संघाटीं शिरस्युपनिधाय दक्षिणपार्श्वेन शय्यां कल्पयति पादे पादमाधायालोकसंज्ञी स्मृतः संप्रजानन्नुत्थानसंज्ञामेव मनसिकुर्वाणः । अथायुष्मतो महामौद्गल्यायनस्यैतदभवत् । यन्वहं तद्रूपं समाधिं समापद्येयं (७) यथा समाहिते चित्ते शाक्यानां पौराणं कुलवंशमवलोकयेयं कुतो निर्जाताः शाक्याः किमग्रण्याः किमन्वयाः कश्च शाक्यानां पौराणः कुलवंश इति । अथायुष्मान्महामौद्गल्यायनस्तद्रूपं समाधिं समापन्नो यथा समाहिते चित्ते शाक्यानां पौराणं कुलवंशमवलोकयति । अद्राक्षीदायुष्मान्महामौद्गल्यायनः शाक्यानां पौराणं कुलवंशमवलोक्य यतो निर्जाताः शाक्याः यदग्रण्याः यदन्वयाः यश्च शाक्यानां पौराणः कुलवंशः । दृष्ट्वा च पुनस्तस्मात्समाधेर्व्युत्थाय पुरस्ताद्भिक्षुसंघस्य प्रज्ञप्त एवासने निषण्णः । निषद्यायुष्मान्महामौद्गल्यानः कपिलवास्तवांश्छाक्यानामन्त्रयते ______________________________________________________________ मौद्गल्यायन नर्रतेस्. थे बेइन्ग्सिन् थे रेगिओनोf थे आभास्वर देवस् भवति गौतमा स समयो यदयं लोकः संवर्तते; संवर्तमाने लोके यद्भूयसा सत्वा आभास्वरे देवनिकाये उपपद्यन्ते; ते तत्र भवन्ति रूपिणो मनोमयाः अविकला अहीनेन्द्रियाः सर्वाङ्गप्रत्यङ्गोपेताः शुभा वर्णस्थायिनः स्वयंप्रभा विहायसंगमाः प्रीतिभक्षाः प्रीत्याहाराः दीर्घायुषो दीर्घमध्वानं तिष्ठन्ति । तेन खलु समयेनेयं महापृथिवी एकोदका भवत्येकार्णवा । यः खलु <एकोदकाया> महापृथिव्या एकार्णवाया उपरि वायुना सरः संगच्छति संमूर्छति सन्तनोति तद्यथा पयसः पक्वस्य शीतीभूतस्य उपरि वायुना सरः संगच्छति संमूर्छति सन्तनोति । एवमेकोदकाया महापृथिव्या एकार्णवाया उपरि वायुना सरः संगच्छति संमूर्च्छति सन्तनोति । स भवति पृथिवीरसो वर्णसंपन्नो गन्धसंपन्नो रससंपन्नः; एवंरूपो वर्णेन तद्यथा नवनीतम्; एवंरूपो रसेन तद्यथा क्षौद्रमध्वनेडकम् । भवति गौतमा स समयो यदयं लोको विवर्तते; विवर्तमाने लोके तत एके सत्वा आयुःक्षयात्कर्मक्षयात्पुण्यक्षयादाभास्वराद्(अ ३५१ ) (८) देवनिकायाच्च्युत्वा इत्थमागच्छन्ति मानुष्याणां सभागतायाम् । ते इह भवन्ति रूपिणो मनोमया अविकला अहीनेन्द्रियाः सर्वाङ्गप्रत्यङ्गोपेताः शुभा वर्णस्थायिनः स्वयंप्रभा विहायसंगमाः प्रीतिभक्षाः प्रीत्याहाराः दीर्घायुषो दीर्घमध्वानं तिष्ठन्ति । तेन खलु समयेन न सूर्याचन्द्रमसोर्लोके प्रादुर्भावो भवति; न नक्षत्राणां; न क्षणलवमुहूर्तानां; न रात्रिन्दिवसानां; न मासार्धमासरितुसंवत्सराणां लोके प्रादुर्भावो भवति । न स्त्री प्रज्ञायते न पुरुषो नान्यत्र सत्वः सत्व इति संख्या गच्छति । ______________________________________________________________ थे तस्तिन्गोf थे पृथिवीरस अथान्यतमो लोलुपजातीयः सत्वः पृथिवीरसमङ्गुल्यग्रेणास्वादयति । यथा यथास्वादयति तथा तथा रोचयते; यथा यथा रोचयते तथा तथा कवडीकाराहारोपक्रमेण परिभुङ्क्ते । अद्राक्षुरन्येऽपि सत्वा तं सत्वं पृथिवीरसमङ्गुल्यग्रेणास्वादयमानं यथा यथास्वादयति तथा तथा रोचयते; यथा यथा रोचयते तथा तथा कवडीकारोपक्रमेण परिभुक्तवानिति । दृष्ट्वा च पुनस्ते सत्वाः पृथिवीरसमङ्गुल्यग्रेण आस्वादयितुमारब्धाः; यथा यथास्वादयन्ति तथा तथा रोचयन्ते; यथा यथा रोचयन्ते ततः कवडीकारोपक्रमेण परिभुक्तवन्तः; यतस्च ते सत्वाः पृथिवीरसं कवडीकाराहारोपक्रमेण परिभुक्तास्ततस्तेषां सत्वानां खरत्वं च गुरुत्वं च कायेऽवक्रान्तम् । तेषां यासौ शुभा वर्णनिभा सान्तर्हिता । अन्धकारं लोके प्रादुर्भूतम् । धर्मता खलु गौतमा अन्धकारस्य लोके प्रादुर्भावात्सूर्याचन्द्रमसोर्लोके प्रादुर्भावो भवति; नक्षत्राणां क्षणलवमुहूर्तानां रात्रिन्दिवसानां मासार्धमासरितुसंवत्सराणां लोके प्रादुर्भावो भवति (९) । ते तद्भक्षास्तदाहारा दीर्घायुषो दीर्घमध्वानं तिष्ठन्ति । तेषां योऽल्पतरमाहारमाहरति स वर्णवान् भवति; यः प्रभूततरमाहारमाहरति स दुर्वर्णो भवति; इत्याहारद्विमात्रतां प्रतीत्य वर्णद्विमात्रता प्रज्ञायते । वर्णद्विमात्रतायां सत्यां सत्वः सत्वमवमन्यते: हम्भोः सत्व वर्णवानहं; दुवर्णस्त्वमिति; तेषां वर्णाभिमानिकानां सतां तेषामेव पापकानामकुशलानां धर्माणां समादानहेतोः पृथिवीरसोऽन्तर्हितः । अन्तर्हिते पृथिवीरसे ते सत्वाः संगम्य समागम्य शोचन्ति क्लाम्यन्ति परिदेवन्ते । एवं चाहुरहो रस अहो रस इति । तद्यथैतर्हि मनुष्याः किंचिदेव स्वादु सुभोजनं भुक्त्वा तदेव पुराणमक्षरपदव्यञ्जनमनुस्मरन्त एवमाहुरहो रस अहो रस इति । एवं ते सत्वा अन्तर्हिते गौतमा पृथिवीरसे संगम्य समागम्य शोचन्ति क्लाम्यन्ति परिदेवन्ते । एवं चाहुरहो रस अहो रस इति । अर्थं चास्य न जानन्ति: अयमस्य भाषितस्यार्थोऽयमस्य भाषितस्यार्थ इति ______________________________________________________________ थे अप्पेअरन्चे ओf थे पृथिवीपर्पटके, एत्च्. अन्तर्हिते पृथिवीरसे तेषां सत्वानां पृथिवीपर्पटकः प्रादुर्भूतो वर्णसंपन्नो गन्धसंपन्नो रससंपन्नः; एवंरूपो वर्णेन तद्यथा कर्णिकारपुष्पम्; (अ ३५२ ) एवंरूपो रसेन तद्यथा क्षौद्रमध्वनेडकम् । ते तद्भक्षास्तदाहाराः दीर्घायुषो दीर्घमध्वानं तिष्ठन्ति । तेषां योऽल्पतरमाहारमाहरति स वर्णवान् भवति; यः प्रभूततरमाहारमाहरति स दुर्वर्णः; इत्याहारद्विमात्रतां प्रतीत्य वर्णद्विमात्रता प्रज्ञायते । वर्णद्विमात्रतायां सत्यां सत्वः सत्वमवमन्यते: हम्भोः सत्व वर्णवानहमस्मि; दुर्वर्णस्त्वमिति; तेषां वर्णाभिमानिकानां सतां तेषामेव पापकानामकुशलानां धर्माणां समादानहेतोः पृथिवीपर्पटकोऽन्तर्हितः । अन्तर्हिते पृथिवीपर्पटके ते सत्वाः संगम्य समागम्य शोचन्ति क्लाम्यन्ति परिदेवन्ते । एवं चाहुरहो बत अहो बतेति । तद्यथैतर्हि मनुष्याः केनचिदेव दुःखदौर्मनस्येन (१०) स्पृष्टाः तान्येव पुराणान्यक्षरपदव्यञ्जनान्यनुव्यवहरन्त एवमाहुरहो बत अहो बतेति । एवमेव ते सत्वा अन्तर्हिते पृथिवीपर्पटके संगम्य समागम्य शोचन्ति क्लाम्यन्ति परिदेवन्ते । एवं चाहुरहो बत अहो बतेति । अर्थं चास्य न जानन्त्य्: अयमस्य भाषितस्यार्थोऽयमस्य भाषितस्यार्थ इति अन्तर्हिते पृथिवीपर्पटके तेषां सत्वानां वनलता प्रादुर्भूता वर्णसंपन्ना गन्धसंपन्ना रससंपन्ना; एवंरूपा वर्णेन तद्यथा कदम्बकापुष्पम्; एवंरूपा रसेन तद्यथा क्षौद्रमध्वनेडकम् । ते तद्भक्षास्तदाहारा दीर्घायुषो दीर्घमध्वानं तिष्ठन्ति । तेषां योऽल्पतरमाहारमाहरति स वर्णवान् भवति; यः प्रभूतमाहारमाहरति स दुर्वर्णो भवतीत्याहारद्विमात्रतां प्रतीत्य वर्णद्विमात्रता प्रज्ञायते । वर्णद्विमात्रतायां सत्यां सत्वः सत्वमवमन्यते: हम्भोः सत्व वर्णवानहं; दुर्वर्णस्त्वमिति; तेषां वर्णाभिमानिकानां सतां तेषामेव पापकानामकुशलानां धर्माणां समादानहेतोः वनलता अन्तर्हिता । अन्तर्हितायां वनलतायां ते सत्वाः संगम्य समागम्य शोचन्ति क्लाम्यन्ति परिदेवन्ते । एवं चाहुरपैहि पुरस्तादपैहि पुरस्तादिति । एवमेव ते सत्वा अन्तर्हितायां वनलतायां संगम्य समागम्य शोचन्ति क्लाम्यन्ति परिदेवन्ते । एवमाहुरपैहि पुरस्तादपैहि पुरस्तादिति । अर्थं चास्य न जानन्त्य्: अयमस्य भाषितस्यार्थोऽयमस्य भाषितस्यार्थ इति । अन्तर्हितायां गौतमा वनलतायां तेषां सत्वानामकृष्टोप्तं तण्डुलफलशालिः प्रादुर्भूत अकण अतुषः शुद्धः शुचिः चतुरङ्गुलः पर्यवनद्धः । स सायं लूनः काल्यं पक्वश्च भवति (११) प्रतिविरूढश्च । काल्यां लूनः सायं पक्वश्च भवति प्रतिविरूढश्च इति लूनो लूनः प्रतिविरोहत्यलूनश्च प्रज्ञायते । ते तद्भक्षास्तदाहाराः दीर्घायुषो दीर्घमध्वानं तिष्ठन्ति । ततश्च ते सत्वा अकृष्टोप्तं तण्डुलफलशालिं कवडीकाराहारोपक्रमेण परिभुक्तवन्तः । (अ ३५२ ) ततस्तेषामिन्द्रियनानात्वं प्रादुर्भूतम् । एकेषां स्त्रीन्द्रियमेकेषां पुरुषेन्द्रियम् । तत्र येषां स्त्रीन्द्रियं येषां च पुरुषेन्द्रियं तेऽन्योन्यं चक्षुषा चक्षुरुपनिध्याय पश्यन्ति । ये यथा चक्षुषा चक्षुरुपनिध्याय पश्यन्ति तथा तथा संरक्ताः; यथा यथा संरक्तास्तथा तथावदीर्णाः; यथा यथावदीर्णास्तथा तथा विप्रतिपन्नाः । अद्राक्षुरन्येऽपि सत्वाः सत्वं सत्वे विप्रतिपन्नं; दृष्ट्वा च पुनः पांशुमपि क्षिपन्ति, लोष्टमपि शर्करा अपि कपालान्यपि; एवं चाहुः: धिग्ग्राम्यसत्व अकार्यकारक धिग्ग्राम्यसत्व अकार्यकारक कथमिदानीं त्वं भोः सत्व सत्वं दूषयसीति । तद्यथैतर्हि मनुष्या वधुकायामुद्वाह्यमानायां चूर्णमपि क्षिपन्ति गन्धमपि माल्यमपि वस्त्रजालान्यपि क्षिपन्ति । एवं चाहुः सुखिनी भव वधूके सुखिनी भव वधूके इति । एवमेव ते सत्वाः सत्वं सत्वे विप्रतिपन्नं दृष्ट्वा पांशुमपि क्षिपन्ति, लोष्टमपि शर्करा अपि कपालान्यपि; एवं चाहुः: धिग्ग्राम्यसत्व <धिग्ग्राम्यसत्व अकार्यकारक> कथमिदानीं त्वं भोः सत्व सत्वं दूषयसीति । इति हि गौतमा यत्पूर्वमधर्मसंमतं तदेतर्हि धर्मसंमतं; यत्पूर्वमविनयसंमतं तदेतर्हि विनयसंमतं; यत्पूर्वं गर्ह्यसंमतं तदेतर्हि प्रशस्यसंमतम् । ते तमेकाहमपि प्रवासयन्ति द्विस्त्रिः सप्ताहमपि प्रवासयन्ति । यतश्च ते सत्वास्तस्मिन् पापके असद्धर्मेऽत्यर्थं पातकव्रतमापन्नास्ततस्ते उद्युक्ता अगाराणि मापयितुमिह वयमकार्यं करिष्याम इह वयमकार्यं करिष्याम इति; अगारमगारमिति संज्ञा उदपादि । अयं गौतमा पुराणोऽग्रणीरगारे (१२) कर्मान्तानां लोके प्रादुर्भावः । यतश्च ते धर्मेण नाधर्मेण तत्रायं धर्मः श्रेष्ठो जिनेन्द्राणां; ते सायं च सायमाशार्थिनः शालिकारणात्समवसरन्ति प्रातश्च प्रातराशार्थिनः । अथान्यतरेणालसजातीयेन सत्वेन सायंप्रातिकः शालिरानीतः । अथान्यतरः सत्वस्तं सत्वमिदमवोचत्: एहि त्वं भोः सत्व शालिकारणात्समवसराम इति । अथ स सत्वस्तमिदमवोचत्: प्रतिजानीहि त्वं भोः सत्व स्वं शालिम्; आनीतो मया सायंप्रातिकः शालिरिति । अथ तस्य सत्वस्यैतदभवत्: एतद्बत साध्वेतद्बत सुष्ठु यन्वहं द्वैयह्निकं त्रैयह्निकं यावत्सप्ताहिकं शालिमानयेयमिति । स द्वैयह्निकं यावत्साप्ताहिकं शालिमानीतवान् । अथान्यतरः सत्वस्तं सत्वमिदम् अवोचत्: एहि त्वं भोः सत्व शालिकारणात्समवसराम इति । अथ स सत्वस्तमिदमवोचत्: प्रतिजानीहि त्वं भोः सत्व स्वं शालिम्; आनीतो मया स द्वैयह्निकं त्रैयह्निकं यावत्साप्ताह्निकं शालिरिति । अथ तस्य सत्वस्यैतदभवत्: एतद्बत साध्वेतद्बत (अ ३५३ ) सुष्ठु यन्वर्धमासिकं मासिकं शालिमानयेयमिति । सोऽर्धमासिकं मासिकं शालिमानीतवान् । यतश्च ते सत्वा अकृष्टोप्तं तण्डुलफलशालिं संनिधीकारपरिभोगेन परिभुक्तास्ततस्तस्य शालेः कणश्च तुषश्च तण्डुलं पर्यवनह्यति; लूनो लूनो न प्रतिविरोहत्यबलश्च प्रज्ञायते । षण्डवनषण्डेषु व्यवस्थितः शालिः । अथ ते सत्वाः संगम्य समागम्य शोचन्ति क्लाम्यन्ति परिदेवन्ते वयं स्म भवन्तः पूर्वं (१३) रूपिणो भवामो मनोमया अविकला अहीनेन्द्रियाः सर्वाङ्गप्रत्यङ्गोपेताः शुभा वर्णस्थायिनः स्वयंप्रभा विहायसंगमाः प्रीतिभक्षाः प्रीत्याहाराः दीर्घायुषो दीर्घमध्वानं तिष्ठामः । तेषामस्माकं पृथिवीरसः प्रादुर्भूतो वर्णसंपन्नो गन्धसंपन्नो रससंपन्नः । ते वयं पृथिवीरसं कवडीकाराहारोपक्रमेण परिभुक्ता यतश्च पृथिवीरसं कवडीकाराहारोपक्रमेण परिभुक्ता ततो अस्माकं खरत्वं गुरुत्वं च कायेऽवक्रान्तं; यासौ शुभा वर्णनिभा सान्तर्हिता; अन्धकारं लोके प्रादुर्भूतम् । ते वयं तद्भक्षास्तदाहारा दीर्घायुषो दीर्घमध्वानं तिष्ठामः । तेषामस्माकं योऽल्पमाहारमाहृतवान् स वर्णवान् भवति; यः प्रभूतमाहारमाहृतवान् स दुर्वर्ण इत्याहारद्विमात्रतां प्रतीत्य वर्णद्विमात्रता प्रज्ञायते । वर्णद्विमात्रतायां सत्यां सत्वः सत्वमवमन्यते: हम्भोः सत्व वर्णवानहं; दुर्वर्णस्त्वमिति; तेषामस्माकं वर्णाभिमानिकानां सतां तेषामेव पापकानामकुशलानां धर्माणां समादानहेतोः पृथिवीरसोऽन्तर्हितः । अन्तर्हिते पृथिवीरसे पृथिवीपर्पटकः प्रादुर्भूतो वर्णसंपन्नो गन्धसंपन्नो रससंपन्नः; तेषामस्माकं वर्णाभिमानिकानां सतां तेषामेव पापकानामकुशलानां धर्माणां समादानहेतोः पृथिवीपर्पटकोऽन्तर्हितः । अन्तर्हिते पृथिवीपर्पटके वनलता प्रादुर्भूता वर्णसंपन्ना गन्धसंपन्ना रससंपन्ना । तेषामस्माकं वर्णाभिमानिकानां सतां तेषामेव पापकानामकुशलानां धर्माणां समादानहेतोः वनलता अन्तर्हिता । अन्तर्हितायां वनलतायामकृष्टोप्तं तण्डुलफलशालिः प्रादुर्भूतः अकण अतुष्टः शुद्धः शुचिः चतुरङ्गुलः पर्यवनद्धः । स सायं लूनः काल्यं पक्वश्च भवति प्रतिविरूधश्च इति लूनः लूनः प्रतिविरोहति अलूनश्च प्रज्ञायते स्म । ते वयं तद्भक्षास्तदाहारा दीर्घायुषो दीर्घमध्वानं तिष्ठामः । यतः वयमकृष्टोप्तं तण्डुलफलशालिं संनिधिकारपरिभोगेन परिभुक्तवन्तः । ततोऽस्य शालेः कुणश्च तुषश्च तन्डुलं (१४) पर्यवनह्यति । लूनो लूनो न प्रतिविरोहत्यबलश्च प्रज्ञायते । षण्डवनषण्डेषु व्यवस्थितः शालिः ______________________________________________________________ थे एस्तब्लिस्हिन्गोf लिनेसोf देमर्चतिओन्, बोउन्दरिएस्, एत्च्., थे ओरिगिनोf प्रोपेर्त्य्, अन्द्थे fइर्स्त्किन्ग् यन्नु वयं संगम्य समागम्य क्षेत्राणि मापयेम सीमां बध्नीयाम मर्यादां स्थापयेम इदं तव इदं ममेति; ते संगम्य समागम्य क्षेत्राणि मापितवन्तः; सीमां च बद्धवन्तः; मर्यादां स्थापितवन्तः । अयं गौतमा पुराणोऽग्रणीः मर्यादाकर्मान्तानां लोके प्रादुर्भावो भवति । तच्च धर्मेण नाधर्मेण । तत्रायं धर्मो धर्मः श्रेष्ठो जिनेन्द्राणाम् । अथान्यतमः सत्वः तिष्ठति स्वे शालौ परकीयं शालिमदत्तमादत्ते । अद्राक्षीदन्यतरः सत्वः तं सत्वं तिष्ठति स्वे शालौ परकीयं शालिमदत्तमाददानं; दृष्ट्वा च पुनस्तं सत्वमिदमवोचत्: कस्मात्त्वं भोः सत्व तिष्ठति स्वे शालौ परकीयं शालिमादत्से? गच्छ भोस्त्वं सत्व मा भूय एवं कार्षिः; द्विरपि त्रिर्स सत्वः तिष्ठति स्वे शालौ परकीयं शालिमदत्तमादत्ते । अद्राक्षीत्स सत्वः तं सत्वं द्विरपि त्रिरपि तिष्ठति स्वे शालौ परकीयं शालिमदत्तमाददानं; दृष्ट्वा च पुनस्तं सत्वमिदमवोचत्: कस्मात्त्वं भोः सत्व तिष्ठति स्वे शालौ परकीयं शालिमदत्तमादत्से? स तमाकर्षति पराकर्षति यावत्पर्षन्मध्येऽप्यवतारयति अयं भवन्तः सत्वः तिष्ठति स्वे शालौ परकीयं शालिमदत्त इति । अथ ते सत्वास्तं सत्वमिदमवोचन्: कस्मात्त्वं भोः सत्व तिष्ठति स्वे शालौ यावत्त्रिरपि परकीयं शालिमदत्तमादत्से? गच्छ त्वं भोः सत्व मा भूय एवं कार्षिः; अथ स सत्वस्तान् सत्वानिदमवोचत्: अनेनास्मि भवन्तः सत्वेन शालिकारणादाकृष्टः पराकृष्टो यावत्पर्षन्मध्ये अपि अवध्यायितः । अथ ते सत्वास्सत्वमिदमवोचन्: कस्मात्त्वं भोः सत्व सत्वं शालिकारणादाकर्षसि पराकर्षसि यावत्पर्षन्मध्येऽप्यवतरयसि; (१५) गच्छ त्वं भोः सत्व मा भूय एवं कार्षीरिति । अथ तेषां सत्वानामेतदभवद्: दृष्यन्ते खलु शालिकारणादाकर्षणमपि पराकर्षणमपि यावत्पर्षन्मध्येऽप्यवतारणम् । यन्नु वयं संगम्य समागम्य योऽस्माकं सत्वोऽभिरूपतरश्च दर्शनीयतरश्च प्रासादिकतरश्च महेशाख्यतरश्च तं वयं क्षेत्राणामधिपतिं स्थापयेम योऽस्माकं निगृहीतव्यांश्च निग्रहीष्यति (अ ३५४ ) प्रगृहीतव्यांश्च प्रग्रहीष्यति । यच्चास्माकं क्षेत्रेभ्यः संपत्स्यते ततोऽस्मै धर्म्यां क्षितिमनुप्रदास्याम इति ते संगम्य समागम्य यस्तेषां सत्वोऽभिरूपतरश्च दर्शनीयतरश्च प्रासादिकतरश्च महेशाख्यतरश्च तं क्षेत्राणामधिपतिं स्थापयन्ति । एवं चाहुः: एहि त्वं भोः सत्व अस्मान्निगृहीतव्यांश्च निगृहाण; प्रगृहीतव्यांश्च प्रगृहाण; यच्चास्माकं क्षेत्रेभ्यः संपत्स्यते ततस्ते वयं धर्म्यां क्षितिमनुप्रदास्याम इति । स तेषां निगृहीतव्यांश्च निगृह्णाति प्रगृहीतव्यांश्च प्रगृह्णाति । यच्च तेषां क्षेत्रेभ्यः संपद्यते ततोऽस्मै धर्म्यां क्षितिमनुप्रयच्छन्ति; महाजनेन संमतो महासंमत इति महासंमतो महासंमत इति संज्ञोदपादि । क्षेत्राणामधिपतिः क्षताच्च त्रायत इति क्षत्रियः क्षत्रिय इति संज्ञोदपादि । धर्मेण प्रजा रञ्जयति शीलवृत्तसमुदाचारेण प्रज्ञावृत्तसमुदाचारेणेति राजा राजेति संज्ञोदपादि । महासंमतस्य गौतमा राज्ञो मनुष्याणां सत्वा सत्वा इति संज्ञाभूत् । महासंमतस्य गौतमा राज्ञो <रोचः पुत्रः; रोचस्य राज्ञो मानुष्याणामेहिका एहिका इति संज्ञोदपादि; रोचस्य गौतमा कल्याणः पुत्रः; कल्याणस्य राज्ञो मानुष्याणां तिलकास्तिलका इति संज्ञोदपादि; कल्याणस्य गौतमा वरकल्याणः पुत्रः वरकल्याणस्य गौतमा राज्ञो मानुष्याणाम्> अभ्रकण्ठा अभ्रकण्ठा इति संज्ञोदपादि । वरकल्याणस्य उपोषधः पुत्रः । उपोषधस्य गौतमा राज्ञो मनुष्याणां स्तालजङ्घा स्तालजङ्घा इति संज्ञाभूत् । उपोषधस्य (१६) राज्ञो मूर्ध्नि पिटको जातः मृदुः सुमृदुः; तद्यथा तूलपिचुर्वा कर्पासपिचुर्वा; न कदाचिदाबाधां जनयति । परिपाकान्वयात्स्फुटितः; कुमारो जातः अभिरूपो दर्शनीयः प्रासादिको द्वाद्रिंशता महापुरुषलक्षणैः समलङ्कृतः; मूर्ध्ना जातो इति मूर्ध्नातो मूर्ध्नात इति संज्ञोदपादि । जातमात्रः कुमारोऽन्तःपुरं प्रवेशितः । उपोषधस्य राज्ञः षष्टिस्त्रीसहस्राणि । सर्वासां स्तनाः प्रस्रुताः । एकैका कथयति मान् धापय मान् धापयेति; मान्धाता मान्धातेति संज्ञोदपादि । यस्मिन् समये मान्धाता राजा राज्यं कारयति तस्मिन् समये मनुष्याः चिन्तका अभूवन् तुलका उपपरीक्षकाः । ते चिन्तयित्वा तुलयित्वा उपपरीक्ष्य पृथक्छिल्पस्थानकर्मस्थानानि मापयन्तीति तेषां मनुजा मनुजा इति संज्ञोदपादि । इतीमे गौतमा षड्राजानोऽमृतायुषश्चाभूवन्नपरिमितायुषश्च अन्तरोद्दानम् सत्वा एहिकास्तिलका अभ्रकण्ठास्तथैव च । स्तालजङ्घाश्च मनुजा षडेते उदिताः पदा । ______________________________________________________________ लिनेअगे ओf किन्ग्स् मान्धातुर्गौतमा राज्ञो दक्षिणे ऊरौ पिटको जातो मृदुः सुमृदुः; तद्यथा तूलपिचुर्वा कर्पासपिचुर्वा; स न कांचिदाबाधां जनयति । परिपाकान्वयात्स्फुटितः; कुमारो जातः अभिरूपो दर्शनीयः प्रासादिको द्वाद्रिंशता महापुरुषलक्षणैः समलङ्कृतः; (अ ३५४ ) दक्षिणादूरोर्जातश्चारुश्चारुरिति संज्ञा उदपादि । महर्धिकः स कुमारो महानुभावः । अथेदानीं चतुर्षु द्वीपेषु राज्यैश्वर्याधिपत्यं कारितवान् । चारोर्गौतमा वामे ऊरौ पिटको जातः मृदुः सुमृदुस्तद्यथा तूलपिचुर्वा कर्पासपिचुर्वा; न कांचिदाबाधां जनयति, परिपाकान्वयात्(१७) स्फुटितः; कुमारो जातः अभिरूपो दर्शनीयः प्रासादिको द्वाद्रिंशता महापुरुषलक्षणैः समलङ्कृतः; वामादूरोर्जातः उपचारुरुपचारुरिति संज्ञा उदपादि । महर्धिकः स कुमारो महानुभावोऽपीदानीं त्रिषु द्वीपेषु राज्यैश्वर्याधिपत्यं कारितवान् । उपचारोर्गौतमा राज्ञो दक्षिणे चरणे पिटको जातो मृदुः सुमृदुस्तद्यथा तूलपिचुर्वा कर्पासपिचुर्वा; न कांचिदाबाधां जनयति, परिपाकान्वयात्स्फुटितः; कुमारो जातोऽभिरूपो दर्शनीयः प्रासादिको द्वाद्रिंशता महापुरुषलक्षणैः समलङ्कृतः; दक्षिणाच्चरणाज्जातः चारुमांश्चारुमानिति संज्ञा उदपादि । महर्धिकः स कुमारो महानुभाव इत्यपीदानीं द्वयोर्द्वीपयो राज्यैश्वर्याधिपत्यं कारितवान् । चारुमतो गौतमा राज्ञो वामे चरणे पिटको जातः मृदुः सुमृदुस्तद्यथा तूलपिचुर्वा कर्पासपिचुर्वा; न कांचिदाबाधां जनयति, परिपाकान्वयात्स्फुटितः; कुमारो जातोऽभिरूपो दर्शनीयः प्रासादिको द्वाद्रिंशता महापुरुषलक्षणैः समलङ्कृतः; वामाच्चरणाज्जात उपचारुमानुपचारुमानिति संज्ञा उदपादि । महर्धिकः स कुमारो महानुभावः अपीदानीमेकस्मिन् द्वीपे राज्यैश्वर्याधिपत्यं कारितवान् । इति हि गौतमा महासंमतस्य राज्ञो रोचः पुत्रः रोचस्य कल्याणः कल्याणस्य वरकल्याणः वरकल्याणस्य उपोषधः उपोषधस्य मान्धाता मान्धातुश्चारुः चारोरुपचारुः उपचारोश्चारुमान् चारुमत उपचारुमान् रुचिः सुरुचिः मुचिर्मुचिलिन्द अङ्ग अङ्गीरथो भृङ्गो भगीरथः सगरः सागरो महासागरः शकुनिर्महाशकुनिः कुश उपकुशो महाकुशः सुदर्शनो महासुदर्शनः प्रणयो महाप्रणयः प्रणादो महाप्रणादः प्रभङ्करः प्रतापवान्मेरुर्मेरुमान्मेरुमन्तः अर्चिरर्चिष्मानर्चिष्मन्तः; अर्चिष्मन्तस्य गौतमा राज्ञः पुत्रप्रपौतृकया नप्तृप्रनप्तृकया (१८) पोतलके नगरे एकशतराजशतमभूत्; तेषामपश्चिमकः अरिन्दमो नाम राजाभूद्; अरीन् दमयतीत्यरिन्दमः अरिन्दम इति संज्ञा उदपादि; अरिन्दमस्य गौतमा राज्ञाः पुत्रप्रपौतृकया नप्तृप्रनप्तृकया अयोध्यायां चतुःपंचाशद्राजसहस्राण्यभूवन्; तेषामपश्चिमकः अजितञ्जयो नाम राजाभूद्; अजितं जयतीत्यजितंजयः अजितंजय (अ ३५५ ) इति संज्ञा उदपादि । अजितंजयस्य गौतमा राज्ञः पुत्रप्रपौतृकया नप्तृप्रनप्तृकया वाराणस्यां त्रिषष्टी राजसहस्राण्यभूवन्; तेषामपश्चिमको दुष्प्रसहो नाम राजाभूत् । दुष्प्रसहस्य गौतमा राज्ञः पुत्रप्रपौतृकया नप्तृप्रनप्तृकया किंपिल्ये नगरे चतुरशीतिराजसहस्राण्यभूवन्; तेषामपश्चिमको ब्रह्मदत्तो नाम राजाभूत् । ब्रह्मदत्तस्य गौतमा राज्ञः पुत्रप्रपौतृकया नप्तृप्रनप्तृकया हस्तिनापुरे द्वात्रिंशद्राजसहस्राण्यभूवन्; तेषामपश्चिमको हस्तिदत्तो नाम राजाभूत् । हस्तिदत्तस्य गौतमा राज्ञः पुत्रप्रपौतृकया नप्तृप्रनप्तृकया तक्षशिलायां पंच राजसहस्राण्यभूवन्; तेषामपश्चिमको कालीशो नाम राजाभूत् । कालीशस्य गौतमा राज्ञः पुत्रप्रपौतृकया नप्तृप्रनप्तृकया उरसायां नगर्यां द्वात्रिंशद्राजसहस्राण्यभूवन्; तेषामपश्चिमको नग्नजिन्नाम राजाभूत् । नग्नजिनो गौतमा राज्ञः पुत्रप्रपौतृकया नप्तृप्रनप्तृकया अजितंजये नगरे द्वात्रिंशद्राजसहस्राण्यभूवन्; तेषामपश्चिमको जयदत्तो नाम राजाभूत् । जयदत्तस्य गौतमा राज्ञः पुत्रप्रपौतृकया नप्तृप्रनप्तृकया कन्यकुब्जायां नगर्यां द्वादशराजसहस्राण्यभूवन्; तेषामपश्चिमको जयसेनो नाम राजाभूत् । जयसेनस्य गौतमा राज्ञः पुत्रप्रपौतृकया नप्तृप्रनप्तृकया चंपायां नगर्यामष्टादश राजसहस्राण्यभूवन्; तेषामपश्चिमको नागदेवो नाम राजाभूत् । नागदेवस्य गौतमा राज्ञः पुत्रप्रपौतृकया नप्तृप्रनप्तृकया तालिप्ये नगरे पंचविंशती (१९) राजसहस्राण्यभूवन्; तेषामपश्चिमको नरदेवो नाम राजाभूत् । नरदेवस्य गौतमा राज्ञः पुत्रप्रपौतृकया नप्तृप्रनप्तृकया तामलिप्त्यां नगर्यां द्वादश राजसहस्राण्यभूवन्; तेषामपश्चिमकः सागरदेवो नाम राजाभूत् । सागरदेवस्य गौतमा राज्ञः पुत्रप्रपौतृकया नप्तृप्रनप्तृकया दन्तपुर्यां नगर्यामष्टादश राजसहस्राण्यभूवन्; तेषामपश्चिमकः सुमतिर्नाम राजाभूत् । सुमतेर्गौतमा राज्ञः पुत्रप्रपौतृकया नप्तृप्रनप्तृकया राजगृहे नगरे पंचविंसती राजसहस्राण्यभूवन्; तेषामपश्चिमकस्तमोनुदो नाम राजाभूत् । तमोनुदस्य गौतमा राज्ञः पुत्रप्रपौतृकया नप्तृप्रनप्तृकया पुनरपि वाराणस्यां नगर्यामेकशतराजशतमभूत्; तेषामपश्चिमको महेन्द्रसेनो नाम राजाभूत् । महेन्द्रसेनस्य गौतमा राज्ञः पुत्रप्रपौतृकया नप्तृप्रनप्तृकया कुशावत्यां नगर्यां चतुरशीतिराजसहस्राण्यभूवन्; तेषामपश्चिमकः समुद्रसेनो नाम राजाभूत् । समुद्रसेनस्य गौतमा राज्ञः पुत्रप्रपौतृकया नप्तृप्रनप्तृकया पुनरपि पोतलके नगरे राजसहस्रमभूत्; तेषामपश्चिमकस्तपंचरो नाम राजाभूत् । (अ ३५५ ) तपंचरस्य गौतमा राज्ञः पुत्रप्रपौतृकया नप्तृप्रनप्तृकया पुनरपि कुशावत्यां नगर्यां चतुरशीतिराजसहस्राण्यभूवन्; तेषामपश्चिमको महीमुखो नाम राजाभूत् । महीमुखस्य गौतमा राज्ञः पुत्रप्रपौतृकया नप्तृप्रनप्तृकया पुनरपि वाराणस्यां नगर्यां राजशतसहस्रमभूत्; तेषामपश्चिमको महीपतिर्नाम राजाभूत् । महीपतेर्गौतमा राज्ञः पुत्रप्रपौतृकया नप्तृप्रनप्तृकया पुनरपि अयोध्यायां नगर्यां शतसहस्रमभूत्; तेषामपश्चिमको महीधरो नाम राजाभूत् । महीधरस्य गौतमा राज्ञः पुत्रप्रपौतृकया नप्तृप्रनप्तृकया मिथिलायां नगर्यां चतुरशीतिराजसहस्राण्यभूवन्; तेषामपश्चिमको महादेवो नाम राजाभूत् । महादेवस्य गौतमा राज्ञः पुत्रप्रपौतृकया नप्तृप्रनप्तृकया पुनरपि मिथिलायां नगर्यां (२०) चतुरशीतिमहादेवसहस्राणि राजर्षय ब्रह्मचर्यमचार्षुः; तेषामपश्चिमको निमिर्नाम राजाभूत् । निमेर्निमग्नो दृढनेमिः खनुरुपखनुः खनुमान् खनुमन्तः सुदृशः समदृशः श्रुतसेनो धर्मसेनो विदितो महाविदितो विदितसेन अशोको विगतशोको दृढसेनो जरासन्ध धुन्धुमारः अरुणो दिशांपतिरेण्डः संककरकः आनन्द आदर्शमुखो जनकः संजनको जनर्षभः अन्नपानः प्रचुरान्नपानः अजितोऽपराजितः प्रतिष्ठितः सुप्रतिष्ठितः महाबलो महाबलवाहनः सुमतिर्दृढवाहनः शतधनुः चित्रधनुः नवतिधनुः विजितधनुर्दृढधनुर्दशरथः शतरथो नवतिरथः नरर्षभः चित्ररथो विचित्ररथो दृढरथः; दृढरथस्य गौतमा राज्ञः पुत्रप्रपौतृकया नप्तृप्रनप्तृकया सांकास्ये नगरे सप्तसप्तती राजसहस्राण्यभूवन्; तेषामपश्चिमकः अम्बरीषो नाम राजाभूत् । अम्बरीषस्य गौतमा राज्ञः नागसंपालः पुत्रः; नागसंपालस्य गौतमा रज्ञः पुत्रप्रपौतृकया नप्तृप्रनप्तृकया पुनरपि वाराणस्यां नगर्यामेकशतं राजशतमभूत्; तेषामपश्चिमको क्र्किर्नाम राजाभूत् । तेन खलु समयेन काश्यपो नाम शास्ता लोके उत्पन्नः; तथागतोऽर्हन् सम्यक्संबुद्धो विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्; यस्य अन्तिके बोधिसत्वो भगवानायत्यां बोधाय प्रणिधाय (२१) ब्रह्मचर्यं चरित्वा तुषिते देवनिकाये उपपन्नः । कृकेर्गौतमा राज्ञः सुजातः पुत्रः; सुजातस्य गौतमा राज्ञः पुत्रप्रपौतृकया नप्तृप्रनप्तृकया पुनरपि पोतलके नगरे एकशतं राजशतमभूत्; तेषामपश्चिमको कर्णो नाम राजाभूत् ______________________________________________________________ स्तोर्योf गौतम, थे प्रोगेनितोरोf इक्ष्वाकु (अ ३५६ ) कर्णस्य गौतमा राज्ञो द्वौ गौतमो भरद्वाजश्च; तयोर्गौतमो नैष्कर्म्याभिनन्दि; भरद्वाजो राज्याभिनन्दी; स पितरं पश्यति धर्माधर्मेण राज्यं कारयन्तं; स संलक्षयति: अहमपि पितुरत्ययाद्राजा भविष्याम्यहमपि धर्माधर्मेण राज्यं कारयित्वा नरकपरायणो भविष्यामि; किमत्र प्राप्तकालमगारादनगारिकां प्रव्रजिष्ये इति विदित्वा येन कर्णो राजा तेनोपसंक्रान्तः । उपसंक्रम्य पादयोर्निपत्य विज्ञापयति; तातानुजानीहि मां प्रव्रजामि श्रद्धया अगारादनगारिकामिति; स कथयति: पुत्र यस्यार्थे यज्ञा इज्यन्ते होमा हूयन्ते तपांसि तप्यन्ते तत्तव करतलगतं राज्यं; ममात्ययाद्राजा भविष्यसि । किमर्थं प्रव्रजसीति । स कथयति: तात न शक्यं मया धर्माधर्मेण राज्यं कारयितुं; तदनुजानीहि प्रव्रजामीति; ततो राज्ञा अवश्यं निर्बन्धं ज्ञात्वा अनुज्ञातः । तेन खलु समयेन अन्यतमस्मिन्नाश्रमपदे कृष्णद्वैपायनो नाम ऋषिः प्रतिवसति; ततो गौतमः कुमारो राज्ञा समनुज्ञातो हृष्टतुष्टप्रमुदित उदग्रप्रीतिसौमनस्यजातो येन कृष्णद्वैपायनो रिषिस्तेनोपसंक्रान्तः; उपसंक्रम्य विनीतेर्यापथपादाभिवन्दनं (२२) कृत्वा कथयति प्रव्रज्यार्थी प्रव्रजायस्व मामिति । स तेन प्रव्रजितः; कृष्णद्वैपायनो ऋषिः फलमूलांबुभक्षः; तस्यापि गौतम ऋषिः गौतम ऋषिः इति संज्ञा संवृत्ता । यावदपरेण समयेन कर्णो राजा कालगतः; भरद्वाजकुमारो राज्यैश्वर्याधिपत्ये प्रतिष्ठापितः पित्र्यं राज्यं कारयति; यावदपरेण समयेन गौतमो ऋषिरुपाध्यायास्य कथयति: उपाध्याय न शक्नोमि आरण्यकाभिरोषधीभिर्यापयितुं; ग्रामान्तं समवसरामीति; स कथयति: पुत्र शोभनं; ग्रामे वा अरण्ये वा प्रतिवसता रिषिणा सर्वथा इन्द्रियाणि रक्षितव्यानीति; गच्छ त्वं पोतलसामन्तकेन शाखापर्णकुटिं कृत्वा वासं कल्पय; एवमुपाध्याय इत्युक्त्वा गौतम रिषिः पोतलकसामन्तकेन शाखापर्णकुटिं कृत्वा अवस्थितः; तेन खलु समयेन पोतलके नगरे भद्रा नाम रूपाजीवनी प्रतिवसति; मृणालश्च नाम्ना धूर्तपुरुषः; तेन वस्त्रालंकारमनुप्रेषितं परिचारणाय; सा तद्वस्त्रालंकारं प्रावृत्य संप्रस्थिता; अन्यतमश्च पुरुषः पंचकार्षापणशतान्यादायोपस्थितः; भद्रे आगच्छ परिचारय इति; सा संलक्षयति: यदि गमिष्यामि पंचकार्षापणशतानि लप्स्ये; अदाक्षिण्यं चैतद्गृहागतं प्रत्याख्यायान्यत्र गमनमिति; तया प्रेष्यदारिकाभिहिता: गच्छ मृणालस्य कथय आर्या कथयति न तावदहं सज्जा पश्चादागमिष्यामीति; तयापि तस्य गत्वारोचितं; सोऽपि पुरुषो बहुकरणीयः; स (अ ३५६ ) तां परिचार्य प्रथम एव यामे प्रक्रान्तः । सा संलक्षयति: महती वेला वर्तते शक्ष्याम्यहं तस्यापि चित्तग्राहं कर्तुमिति; तया पुनरप्यसौ दारिकाभिहिता: गच्छ मृणालस्यारोचय आर्या सज्जा संवृत्ता कथय कतरदुद्यानमागच्छत्विति; तया तस्मै गत्वारोचितं; स कथयति क्षणेन तवार्या सज्जा क्षणेनासज्जेति; सा दारिका तस्याः सान्तरा; तया समाख्यातम्: आर्य्पुत्र नासावसज्जा; किं तर्हि; तया त्वदीयेन वस्त्रालंकारेणान्येन पुरुषेण सार्धं परिचारितमिति; तस्य यत्तत्कामरागपर्यवस्थानं (२३) तद्विगतं; व्यापादपर्यवस्थानं समुत्पन्नं; स संजातामर्षः कथयति: दारिके गत्वा भद्रायाः कथय मृणालः कथयत्यमुकमुद्यानं निर्गच्छेति; तया गत्वा भद्राया आरोचितं; ततः सा तदुद्यानं निर्गता; मृणालेन धूर्तपुरुषेणोक्ता: युक्तं नाम तव मदीयेन वस्त्रालंकारेणान्येन पुरुषेण सार्धं परिचारयितुमिति; सा कथयति: आर्यपुत्रास्त्येव ममापराधः; किं तु नित्यापराधो मातृग्रामः क्षमस्वेति; ततस्तेन संजातामर्षेण निष्कोशमसिं कृत्वा जीविताद्व्यपरोपिता; ततस्तया प्रेष्यदारिकया महान् कोलाहलः शब्दः कृतः आर्या प्रघातिता आर्या प्रघातितेति; श्रुत्वा समन्ताज्जनकायः प्रधावितः यावत्तस्मिन्नेवाश्रमपदे गौतमरिषिः प्रतिवसति; ततोऽसौ मृणालो धूर्तपुरुषः संत्रस्तो रुधिरम्रक्षितमसिं गौतमस्य रिषेः पुरस्ताच्छोरयित्वा तस्यैव महाजनकायस्य मध्यं प्रविष्टः; महाजनकायश्च रुधिरम्रक्षितमसिं दृष्ट्वा कथयति: अनेन प्रव्रजितेन भद्रा जीविताद्व्यपरोपितेति । ततस्तं गौतमरिषिं परिवार्य संजातामर्षाः कथयन्ति: भोः प्रव्रजित रिषिध्वजं धारयसि ईदृशं च कर्म करोषीति । स कथयति: किं कृतं; ते कथयन्ति: भद्रया ते सार्धं परिचारितं सा च जीविताद्व्यपरोपितेति; स कथयति: शान्तं नाहमस्य कर्मणः कारीति; स शान्तवाद्यपि तेन महाजनकायेन पश्चाद्बाहुगाढबन्धनबद्धो राज्ञे उपनामितः देवानेन प्रव्रजितेन भद्रया सार्धं परिचारितं सा जीविताद्व्यपरोपिता इति; अपरीक्षका राजानः; कथयति: यद्येवं गच्छत; एनं शूले समारोपयत; परित्यक्तोऽयं मया प्रव्रजित इति । ततोऽसौ प्रव्रजितः करवीरमालासक्तकण्ठगुणो नीलांबरवसनैः पुरुषैरुद्यतशस्त्रैः संपरिवारितो रथ्यावीथीचत्वरशृण्गाटकेषु श्रवणासुखेष्वनुश्राव्य दक्षिणेन (२४) नगरद्वारेण निष्कास्य जीवन्नेव शूले समारोपितः; तस्यासावुपाध्यायः कृष्णद्वैपायनः कालेन कालं तस्याश्रमपदमुपसंक्रामति; यावदपरेण समयेनोपसंक्रान्तः न पश्यति स इतश्चेतश्च समन्वेषितुमारब्धो यावत्पश्यति शूलसमारोपितं (अ ३५७ ) स बाष्पगद्गदकण्ठः अश्रुपर्याकुलेक्षणः करुणदीनविलंबिताक्षरं कथयति: हा वत्स किमिदं; सोऽपि गद्गदकण्ठो मर्मवेदनोपरोधजनितविषादः कथयत्युपाध्याय कर्माणि; किमन्यद्भविष्यतीति । स कथयति: वत्स नासि क्षत उपहतो वा; तात क्षतोऽहं कायेन नो तु चित्तेन; वत्स कथं ज्ञायते; उपाध्याय सत्योपयाचनं करिष्ये शृणु येन सत्येन सत्यवचनेन क्षतोऽहं कायेन नो तु चित्तेन तेन सत्येन सत्यवचनेन येयमुपाध्यायस्य कृष्णवर्णा च्छविरियं सुवर्णवर्णा भवेद्; भाविताध्याशयोऽसौ महात्मा; वचनावसानसमनन्तरमेव कृष्णद्वैपायनस्य ऋषेः कृष्णवर्णा च्छविरन्तर्हिता; सुवर्णवर्णा संवृत्ता । सामन्तकेन शब्दो विसृतः कृष्णद्वैपायनरिषिः सुवर्णवर्णः संवृत्त इति । तस्य सुवर्णद्वैपायनः सुवर्णद्वैपायन इति संज्ञा संवृत्ता; स परं विस्मयमुपगतः; ततोऽसौ गौतमरिषिः कथयति: उपाध्याय इतश्च्युतस्य मे का गतिर्भविष्यति का उपपत्तिः कोऽभिसंपराय इति । स कथयति: वत्स ब्राह्मणाः कथयन्ति: अपुत्रस्य गतिर्नास्तीति; अस्ति त्वया किंचिदपत्यमुत्पादितम्; उपाध्याय कुमार एवाहं; स्त्रीतन्त्रे अप्रकृतिज्ञः; पित्रा राज्यनिमित्तं प्रोत्साह्यमानः प्रव्रजितः; कुतो ममापत्यसमुत्पत्तिः; वत्स यद्येवं पूर्वोपभुक्तविषयानुस्मरणं कुरु; उपाध्याय गाढवेदनाभ्याहतस्य मे इदानीं छिद्यमानेषु मर्मसु मुच्यमानेषु सन्धिषु (२५) मरणैकान्तमनसः कथं पूर्वोपभुक्तविषयानुस्मरणं भवति; स तस्योपाध्यायः पंचाभिज्ञालाभी; तेन ऋद्ध्या महान् वातवर्षो निर्मितः; तस्य वर्षबिन्दवः काये निपतिताः; ततः शीतलसलिलवातस्पर्शाद्वेएदना विष्टंभिता; स पूर्वोपभुक्तविषयान् स्मर्तुमारब्धः; यावदस्य मैथुनरागसमनुस्मरणाद्द्वौ शुक्रबिन्दू सरुधिरे निपतितौ; चत्वारि स्थानान्यचिन्तनीयानि; आत्मचिन्ता लोकचिन्ता सत्वानां कर्मविपाकचिन्ता बुद्धानां च बुद्धविषयचिन्ता इति; तौ शुक्रबिन्दू द्वे अण्डे प्रादुर्भूते; सूर्यस्याभ्युद्गमनकालसमये सूर्यरश्मिपरिपाचिते स्फुटिते; द्वौ कुमारौ जातौ; ततो नातिदूरे इक्षुवाटः; तौ तत्र प्रविष्टौ; ततस्सूर्यरश्मयो भासुरतरा जाताः; गौतमरिषिः सूर्यरश्मिपरितापितः कालगतः; ततः सुवर्णद्वैपायनरिषिरागतः; पश्यति कालगतः; स शूलसामन्तके पश्यति अण्डे स्फुटिते; कपालान्यवस्थितानि; सोऽनुसरन्नितश्चामुतश्च इक्षुवाटं प्रविष्टो यावत्पश्यति: द्वौ कुमारौ; समन्वाहर्तुं प्रवृत्तः; कस्यैतौ पुत्राविति; पश्यति: गौतमस्य ऋषेः; ततोऽस्य सुतरां प्रेमा उत्पन्नः; तेन तावास्रमपदं नीत्वा आपायितौ पोषितौ संवर्धितौ; (अ ३५७ ) तयोश्च नामधेयं व्यवस्थापयितुं प्रवृत्तः; सूर्यस्याभ्युद्गमनकालसमये सूर्यरश्मिभिः परिपाचितौ जातौ भवतः; तस्मात्सूर्यगोत्राविति सूर्यगोत्रा इति संज्ञा संवृत्ता; गौतमस्य रिषेः पुत्रौ गौतमा गौतमा इति द्वितीया संज्ञा संवृत्ता; स्वाङ्गीनिसृता इति आङ्गीरसा आङ्गीरसा इति तृतीया संज्ञा संवृत्ता; इक्षुवाटाल्लब्धा इक्ष्वाका इक्ष्वाका इति चतुर्थी संज्ञा संवृत्ता; यावदपरेण समयेन भरद्वाजो राजा अपुत्र एव कालगतः; अमात्याः संनिपत्य समवायं कर्तुमारब्धाः; भवन्तः कमिदानीं राजानमभिषिञ्चाम इति; अपरे कथयन्ति तस्य भ्राता गौतमो रिषीणां मध्ये प्रव्रजितः; तस्येदं कुलक्रमागतं राज्यं; तमभिसिञ्चाम इति; कृतसञ्जल्पाः सुवर्णद्वैपायनस्य रिषेः सकाशमुपसंक्रान्ताः; उपसंक्रम्य पादयोर्निपत्य कथयन्ति: महर्षे गौतमः क्व गत इति; स कथयति युष्माभिरेव प्रघातित इति; महर्षे वयं तस्य दर्शनमपि न समनुस्मरामः; कथं प्रघातयामः (२६) अहं युष्मान् स्मारयामि; शोभनं; तेन ते स्मारिताः कथयन्ति: महर्षे यद्येवमलं तस्य नामग्रहणेन; पापकार्यसावकीर्तनीयः; किं तेन पापकं कर्म कृतं; इदं चेदं च; नासौ पापकर्मकारी; अदूष्यनपकार्येव युष्माभिः प्रघातितः; कथं; तेन विस्तरेण यथावृत्तं समाख्यातं; ते संजातदौर्मनस्याः कथयन्ति: महर्षे यद्येवं वयं पापकर्मकारिणो नासाविति; ते चैवमालापं कुर्वन्ति; तौ च दारकौ रिषेः सकाशमुपसंक्रान्तौ; अमात्याः कथयन्ति: महर्षे कस्येतौ दारकौ कथयति तस्यैव पुत्रौ; कथमेतौ समुत्पन्नौ का वा अनयोः संज्ञा; तेन सोत्पत्तिकं विस्तरेण समाख्यातम्; अमात्याः श्रुत्वापि परं विस्मयमुपगताः; तैस्तं रिषिमनुज्ञाप्य तयोर्ज्येष्ठः कुमारो राज्याभिषेकेणाभिषिक्तः; सोऽप्यपुत्रः कालगतः; ततोऽसौ द्वितीयः कनीयानभिषिक्तः; तस्य इक्ष्वाकुराजा इक्ष्वाकुराजा इति संज्ञा संवृत्ता; इक्ष्वाकोर् गौतमा राज्ञः पुत्रप्रपौतृकया नप्तृप्रनप्तृकया पुनरपि पोतलके नगरे एकशतमिक्ष्वाकुराजशतमभूत् ______________________________________________________________ थे स्तोर्योf विरूढक तेषामपश्चिमको विरूढको नाम इक्ष्वाकुराजोऽभूद्; विरूढकस्य गौतमा इक्ष्वाकुराजस्य चत्वारः पुत्राः; उल्कामुखः करकर्णी हस्तिनियंसः नूपुरकश्च; तस्यापरेण समयेनाग्रमहिषी कालगता; स करे कपोलं दत्वा चिन्तापरो व्यवस्थितः; अमात्याः कथयन्ति: किमर्थं देव करे कपोलं दत्वा चिन्तापरस्तिष्ठति; स कथयति: ममाग्रमहिषी कालगता; कथं न चिन्तापरस्तिष्ठामीति; देव यद्येवं किमर्थं देवस्याग्रमहिषी न समन्विष्यते; संविद्यन्ते प्रतिसामान्तकानां राज्ञां (२७) दुहितरः; (अ ३५८ ) राजा कथयति: इमे राज्याभिनन्दिनः कुमाराः; एषु संविद्यमानेषु प्रत्यनीकभूतेषु को मे दुहितरं दास्यति: देवश्चित्तं करोतु; वयं समन्वेषामः; यावदन्यतमस्य राज्ञः दुहिता अभिरूपा दर्शनीया प्रासादिका प्रतिरूपा देवीत्वेन; ते तां समुपलभ्य तस्य राज्ञः सकाशं गताः; तैः पारंपर्येण राज्ञो निवेदितं; राज्ञा आज्ञा दत्ता आहूयतामिति; ततस्ते राज्ञः सकाशं प्रेषिताः; पादयोर्निपत्य कथालापपूर्वकं निषण्णाः; आलापावसरप्राप्ता राजानं संमुखं दृष्ट्वा कथयन्ति: देव स्वस्ति स्वस्तीति; राजा कथयति: भवन्तः किं याचध्वे; विरूढकस्येक्ष्वाकुराजस्याग्रमहिषी कालगता; तस्यार्थाय कन्यां भिक्षां; राजा कथयति: शोभनं प्रतिरूपो वरः; किं तु समयतोऽनुप्रयच्छामि यदि मे दुहितुः पुत्रो भवति; तं यदि राज्यैश्वर्याधिपत्ये प्रतिष्ठापयति; देव एवं भवतु गच्छामः देवं श्रावयामः; तैर्गत्वा विरूढकस्येक्ष्वाकुराजस्य यथावृत्तमारोचितं; राजा कथयति: भवन्तो नैतत्प्रतिरूपं ज्येष्ठतरान् राज्याभिनन्दिनः कुमारान् प्रत्याख्याय कनीयसः प्रतिष्ठापनं; देव सन्दिग्धोऽयमर्थः आनीयतां तावद्देवी; तया सार्धं देवः क्रीडतु रमतां परिचारयतु; न ज्ञायते किमसौ कुमारं जनयिष्यतीत्याहोस्वित्कुमारिकां वन्ध्या वा भविष्यतीति; राजा कथयति: भवन्तो यद्येवं गच्छत; ततः प्रतिष्टा भवतु; तैर्गत्वा प्रतिगृहीता; यावद्राज्ञा महता श्रीसमुदायेन परिणीता; सा च राज्ञोऽभिमता संवृत्ता; स तया सार्धं क्रीडति रमते परिचारयति; तस्य क्रीडतो रममाणस्य परिचारयतः कालान्तरे देवी आपन्नसत्वा संवृत्ता; सा अष्टानां वा नवानां वा मासानामत्ययात्प्रसूता; दारको जातः अभिरूपो दर्शनीयः प्रासादिकः; तस्य जातौ जातिमहं कृत्वा नामधेयं व्यवस्थाप्यते किं भवतु दारकस्य नामेति; अमात्या देव यस्मादयमजात एव (२८) राज्यमभिनन्दति तस्माद्भवतु दारकस्य राज्याभिनन्दीति; स दारकः अष्टाभ्यो धात्रीभ्यः अनुप्रदत्तः पूर्ववद्यावदाशु वर्धते ह्रदस्थमिव पङ्कजं; तं राजा यौवराज्ये न प्रतिष्ठापयति; तस्य मातामहेन राज्ञा श्रुतं; तेन तस्य दूतोऽनुप्रेषितः; सकर्कशं च लिखितं: त्वया पूर्वमनुज्ञातमेव; यदि यथाप्रतिज्ञातं करोषि इत्येवं कुशलं; नो चेद्यत्ते बलं वीर्यं पराक्रमस्॰॰॰ तेनावतिष्ठस्व; एषोऽहमागतः राष्ट्रापमर्दं करोमीति; महाबलसमुदितोऽसौ राजा; स श्रुत्वा व्यथितः; अमात्यान् संनिपात्य पृच्छति: भवन्तः मम तेन राज्ञा एवं लिखितं; कथमत्र प्रतिपत्तव्यमिति; ते कथयन्ति: देव अभिषिच्यतां राज्याभिनन्दी यौवराज्ये; स कथयति: भवन्तः नैतद्युक्तं ज्येष्ठान् राज्याभिनन्दिनः कुमारान् प्रत्याख्याय कनीयसो राज्याभिषेचनं; ते कथयन्ति: देव उदीर्णबलवाहनो (अ ३५८ )ऽसौ राजा; स्थानमेतद्विद्यते यदागत्य नियतं राष्ट्रापमर्दं करिष्यति; अभिषिच्यतां राज्याभिनन्दी राज्यैश्वर्याधिपत्ये; प्रवास्यन्तां कुमारा राज्याद्; राजा कथयति: भवन्तः कथमदूषिणोऽनपकारिणः कुमारा निर्वास्यन्ते; देव वयममात्या हिताधानतत्पराः अदूषिणोऽनपकारिणः प्रवासयामः; दूषिणमपकारिणं प्रतिष्ठापयामः; राजा अप्युपेक्ष्य तूष्णीमवस्थितः; अमात्याः संनिपत्य परस्परं संजल्पं कर्तुमारब्धाः: भवन्त उपायसंविधानं कर्तव्यं येन राजा कुमारेषु विमुखी भवति; ततस्तैरुद्यानं शोधयित्वा चित्रमुपचित्रं कारितं; सुरभिधूपघटिकोपनिबद्धमामुक्तदामपट्टकलापं नानापुष्पावकीर्णं रमणीयं; ततस्तैरमात्यैस्तदुद्यानं तथाभिसंस्कृतं दूराद्दृष्टं; ते कुमाराश्चपलादुद्यानाभिमुखं संप्रस्थिताः; अमात्या उद्यानशोभां कारयित्वा निर्गताः; कुमारैः पृष्टाः कस्येदमुद्यानम् (२९) इति; ते कथयन्ति देवस्य; ते प्रतिनिवर्तितुमारब्धाः; अमात्याः कथयन्ति: कुमाराः प्रविशत किमर्थं निवर्तथ इति; ते कथयन्ति देवकीयमुद्यानं; कथं प्रविशाम इति; अमात्याः कथयन्ति: देवो वा क्रीडेत्कुमारो वा कोऽत्र विरोधः; ते प्रविश्य क्रीडितुमारब्धाः; अमात्यै राजाभिहितः: देव उद्यानं शोभनं परिकर्मीकृतं; कालो देवस्य द्रष्टुमिति; राजा संप्रस्थितः; अश्रौषीदुद्याने कोलाहलं शब्दं; श्रुत्वा च पुनरमात्यान् पृच्छति: भवन्त उद्याने कोलाहलः शब्दः श्रूयते; कोऽत्रावतिष्ठते; अमात्याः कथयन्ति: देव कुमाराः; यद्येवं परित्यक्ता मया कुमाराः; अमात्याः पादयोर्निपत्य कथयन्ति: देव क्षम्यतां कुमाराणां; मा परित्यज्यन्तामिति; राजा कथयति एवं भवत्विति; ते प्रवासयितुमारब्धाः राज्ञः पादयोर्निपत्य कथयन्ति: देव यद्येवं योऽस्माभिः सार्धं परिजनो गच्छति स यथा न निवार्यते तथाज्ञां दातुमर्हसि; राज्ञा आज्ञा दत्ता; ते संप्रस्थिताः; अनुरक्तजनपदास्ते; तैः सार्धं महाजनकायः संप्रस्थितः; सप्तदिवसं पोतलकस्य नगरद्वारमपावृतं स्थितं जनकायस्य निर्गच्छतः; अमात्यै राज्ञे निवेदितं: देव यदि नगरस्य द्वारं नाव्रियते न चिरात्पोतलकं निरावासं भवतीति; यद्येवं द्वाराण्यावृणुत; ततस्ते कुमाराः स्वकस्वका भगिनीरादायानुपूर्वेण हिमवत्पार्श्वं नद्या भगीरथ्यास्तीरं कपिलस्य रिषेराश्रमपदस्य नातिदूरमनुप्राप्ताः; ते तस्मिंश्छाखापर्णकुटीरकाणि कृत्वा वासं कल्पितवन्तः मृगांश्च प्रघात्य प्रघात्य जीविकां कल्पयन्ति; त्रिष्कालं च कपिलस्य रिषेराश्रमपदमुपसंक्रामन्ति; अभिनवयौवनमदाक्षिप्ताः कामरागेणात्यर्थं बाध्यमानाः उत्पाण्डूत्पाण्डूकाः कृशालकाः (अ ३५९ ) संवृत्ताः; यावदपरेण समयेन कपिलेन रिषिणा तथाविधा दृष्टाः पृष्टाश्च: कस्माद्यूयमुत्पाण्डूत्पाण्डुकाः; ते कथयन्ति: महर्षे कामरागेणातीव बाध्यामहे; स कथयति: स्वकस्वका भगिनीस्त्यक्त्वा वैमातृकाभिर्भगिनीभिः सार्धं वासं कल्पयत; लभ्यं महर्षे अस्माभिरेवं कर्तुं; लभ्यं भवन्तो यथापितत्क्षत्रियै राज्यपरिभ्रष्टैः; ततस्ते रिषिवचनं प्रमाणमिति कृत्वा कामरागाध्यवसिताः प्रीतिप्रामोद्यजाताः वैमातृकाभिर्भगिनीभिः सार्धं (३०) क्रीडन्ति रमन्ते परिचारयन्ति; तेषां ताभिः संक्रीडतां रममाणानां परिचारयतां पुत्रा दुहितरश्च जाताः; ते वृद्धिं गताः ______________________________________________________________ थे चितिएसोf कपिलवस्तु अन्द्देवदृश कपिलरिषिः शब्दकण्टकत्वाद्ध्यानानां चित्तैकाग्रतां नारागयति; स कथयति: भवन्तः अवलोकिता भवत; अहमन्यत्र गमिष्यामि; महर्षे किमर्थं; चित्तैकाग्रतां नारागयामि, शब्दकण्टकानि ध्यानानि; महर्षे त्वमिहैव तिष्ठ; वयमन्यत्र गच्छामः; किं तु भूभागमस्माकमनुप्रयच्छ; भवन्तः शोभनं; ऋषयस्ते महात्मानः ईप्सितमनोरथसाधकाः; तेन सौवर्णं भृंगारमादाय नगराकारेण उदकधारापातैर्नगरं मापितं; कपिलेन रिषिणा तेषां वासाय वस्तु परित्यक्तमिति कपिलवस्तु कपिलवस्त्विति संज्ञा संवृत्ता; ते तत्र वृद्धिं गताः; महाजनकायः संवृत्तः; संबाधाद्वृद्धिं न लभन्ते; तेषां चेतसा चित्तमाज्ञाय देवताभिरन्यप्रदेश उपदर्शितः; तैस्तत्र गत्वा द्वितीयं नगरं मापितं; देवद्रिशं देवद्रिशमिति संज्ञा संवृत्ता; ततस्ते संगम्य समागम्य संजल्पं कर्तुमारब्धाः: भवन्तो यद्वयं निर्वासिताः तत्सदृशभार्योपादानात्; तदस्माकं न केनचिद्द्वितीया सदृशी भार्या उपादातव्या; एकयैव सन्तोषः करणीय इति; ते एकामेव सदृशीं भार्यां परिणमयन्ति; न द्वितीयाम्; अथापरेण समयेन विरूढको राजा प्रियान् पुत्रान् समनुस्मरनमात्यानामन्त्रयते: हम्भोः ग्रामण्यस्ते कुमाराः क्व सांप्रतं; तैर्विस्तरेणारोचितं; देव केनचिदधिकरणेन निर्वासिताः; ते स्वकस्वका भगिनीरादाय इतः प्रक्रान्ताः; अनुहिमवत्पार्श्वे नद्या भगीरथ्यास्तीरे कपिलस्य रिषेराश्रमपदस्य नातिदूरे वासं कलयन्ति; स्वकस्वका भगिनीः प्रत्याख्याय वैमातृकाभिर्भगिनीभिः सार्धं क्रीडन्ति रमन्ते परिचारयन्ति; तेषां क्रीडतां रममाणानां परिचारयतां पुत्रा (३१) दुहितरश्च जाताः; शक्यं ग्रामण्यः कुमारैरेवं कर्तुं; देव शक्यम्; अथ विरूढकः इक्ष्वाकुराजः पूर्वं कायमभ्युन्नमय्य दक्षिणबाहुमभिप्रसार्योदानमुदानयति; शक्या बत कुमाराः, परमशक्या बत कुमारा इति; महेशाख्येन सत्वेन वाङ्निश्चारिता शाक्या बत कुमाराः; परमशाक्या बत कुमारा इति शाक्या इति संज्ञा संवृत्ता ______________________________________________________________ सुच्चेस्सोर्स्तो विरूढक अपरेण समयेन विरूढक इक्ष्वाकुराजः कालगतः (अ ३५९ ); राज्याभिनन्दी राज्येऽभिषिक्तः; सोऽप्यपुत्रः कालगतः; उल्कामुखो राज्यैश्वर्याधिपत्ये प्रतिष्ठापितः; सोऽप्यपुत्रः कालगतः; करकर्णी राजा संवृत्तः; सोऽप्यपुत्रः कालगतः; हस्तिनियंसो राजा संवृत्तः; सोऽप्यपुत्रः कालगतः; नूपुरको राजा सम्वृत्तः; तस्य पुत्र ओपुरकः; ओपुरकस्य गोपुरकः गोपुरकस्य गौतमा राज्ञः पुत्रप्रपौतृकया नप्तृप्रनप्तृकया कपिलवस्तुनगरे पंचपंचाशद्राजसहस्राण्यभूवन्; तेषामप्श्चिमको दशरथः शतरथो नवतिरथः चित्ररथो बिजितरथो दृढरथः दशधनुः शतधनुः नवतिधनुः विजितधनुर्चित्रधनुः दृढधनुर्; दृढधनुषो गौतमा द्वौ पुत्रौ सिंहहनुः सिंहनादी च; यावन्तः खलु गौतमा जम्बूद्वीपे धनुर्धराः सिंहहनुस्तेषामग्र अख्यातः; सिंहहनोर्गौतमा चत्वारः पुत्राः शुद्धोदनः शुक्लोदनः द्रोणोदनः अमृतोदनः; शुद्धा शुक्ला द्रोणा अमृतिका चेति दुहितरः; शुद्धोदनस्य द्वौ पुत्रौ भगवानायुष्मांश्च नन्दः; शुक्लोदनस्य (३२) द्वौ पुत्रौ; आयुष्मांश्च तिष्यो भद्रकश्च शाक्यराजः; द्रोणोदनस्य द्वौ पुत्रौ महानामा आयुष्मांश्चानिरुद्धः; अमृतोदनस्य द्वौ पुत्रौ आयुष्मानानन्दो देवदत्तश्च; शुद्धायाः सुप्रबुद्धः पुत्रः; शुक्लायाः पुत्रो माली; द्रोणाया भाद्दाली; अमृतिकायाः शैवलः भगवतो राहुलः पुत्र इति गौतमा राहुले महासंमतवंशः प्रतिष्ठितः; उच्छिन्ना भवनेत्री विक्षीणो जातिसंसारो नास्तीदानीं पुनर्भवः ______________________________________________________________ बुद्धऽस्रेमर्क्स् अथ भगवानायुष्मतो महामौद्गल्यायनस्य कथापर्यवसानं विदित्वा उत्थाय निषण्णः; निषद्यायुष्मन्तं महामौद्गल्यायनमामन्त्रयते: साधु साधु मौद्गल्यायन साधु साधु खलु त्वं मौद्गल्यायन यस्त्वं भिक्षूणां पुरस्ताच्छाक्यानां पौराणं कुलवम्शमारभ्य धर्म्यां कथां कथयसि; पुनरपि त्वं मौद्गल्यायन अभीक्ष्णमपि त्वं शाक्यानां पौराणं कुलवंशमारभ्य धर्म्यां कथां कथय; तदेषां भविष्यति दीर्घरात्रमर्थाय हिताय सुखाय; तत्र भगवान् भिक्षूनामन्त्रयते स्म: उद्गृह्णीत यूयं भिक्षवः शाक्यानां पौराणं कुलवंशमारभ्य धर्म्यां कथां धारयितुं ग्राहयितुं वाचयितुं; तत्कस्य हेतोः; अर्थोपसंहिता भिक्षवः शाक्यानां पौराणं कुलवंशमारभ्य धर्म्या कथा; अर्थोपसंहिता ब्रह्मचर्योपसंहिता; युक्तमेव भिक्षवः श्रद्धया प्रव्रजितेन कुलपुत्रेण शाक्यानां (३३) पौराणं कुलवंशमारभ्य धर्म्यां कथां धारयितुं ग्राहयितुं वाचयितुम्; अथ कापिलवस्तवाः (अ ३६० ) शाक्या भगवतो भाषितमभिनन्द्यानुमोद्य भगवतः पादौ शिरसा वन्दित्वा भगवतोऽन्तिकात्प्रक्रान्ताः ______________________________________________________________ सिंहहनुऽस्रेइग्न् तेन खलु समयेन कपिलवस्तुनि नगरे सिंहहनुर्नाम राजा राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं चाकीर्णबहुजनमनुष्यं च; देवदृशे नगरे सुप्रबुद्धो राज्यं राजा कारयति ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं चाकीर्णबहुजनमनुष्यं च; सुप्रबुद्धस्य राज्ञो लुम्बिनी नामाग्रमहिषी अभिरूपा दर्शनीया प्रासादिका जनपदकल्याणी; देवदृशेऽन्यतमो गृहपतिः प्रतिवसत्याढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी; तस्यारामः पुष्पसंपन्नः फलसंपन्नः शालिसंपन्नो नानाविहगनिकूजितः; तस्याभिरामतया राजा कालानुकालं तत्र गत्वा सार्धमन्तःपुरेण रतिक्रीडां प्रत्यनुभवति; लुम्बिन्यास्तं दृष्ट्वा स्पृहा उत्पन्ना; स कथयति: देव ममैतमाराममनुप्रयच्छेति; राजा कथयति: गृहपतिसन्तकोऽयमारामः; कथमनुप्रयच्छामि; यदि त्वमारामेणार्थिनी अन्यं तवार्थाय शोभनतरं कारयामीति; ततो राज्ञा सुप्रबुद्धेन लुम्बिन्या अर्थाय तद्विशिष्टतर आरामः कारितः; तस्य लुंबिनीवनं लुम्बिनीवनमिति संज्ञा संवृत्ता; सिंहहनोर्दीर्घरात्रमयमाशासकः: अहो बत मे कुले चक्रवर्ती उत्पद्येत इति; सुप्रबुद्धस्यापि राज्ञो दीर्घरात्रमयमाशासकः: अहो बत मे सिंहहनुना सार्धं संबन्धः स्यादिति; यावत्तस्यापरेण समयेन देव्या सार्धं क्रीडतो रममाणस्य परिचारयतः कालान्तरेण पत्नी आपन्नसत्वा संवृत्ता; सा अष्टानां वा नवानां वा मासानामत्ययात्प्रसूता; दारिका जाता अभिरूपा दर्शनीया प्रासादिका सर्वाङ्गप्रत्यङ्गोपेता; (३४) तस्या रूपशोभया सुप्रबुद्धो राजा सान्तःपुरो देवदृशनिवासी जनकायश्च परं विस्मयमुपगतः; सन्दिग्धमनाश्च संवृत्तः: किमियं दारिका आहोस्विद्विश्वकर्मनिर्मितेयं मायेति; तस्यास्त्रीणि सप्तकान्येकविंशतिदिवसान् विस्तरेण जाताया जातिमहं कृत्वा नामधेयं व्यवस्थाप्यते: किं भवतु दारिकाया नामेति; अमात्याः कथयन्ति: देव देवदृशनिवासिजनकाया रथ्यावीथीचत्वरशृङ्गाटकेषु विप्रवदन्ते; केचित्कथयन्ति: दारिका एवासौ पूर्वकर्मविपाकाभिनिष्पन्ना एवं वर्णरूपशोभेति; अपरे कथयन्ति: नासौ दारिका; किंतर्हि विश्वकर्मनिर्मिता सा मायेति तस्माद्भवतु दारिकाया मायेति नाम; तस्य मायेति नाम कृतं; माया दारिका अष्टाभ्यो धात्रीभ्योऽनुप्रदत्ता पूर्ववद्यावन्महती संवृत्ता; सा नैमित्तिकैर्व्याकृता; पुत्रं जनयिष्यत्यनेकलक्षणसंपन्नं; राजा भविष्यति बलचक्रवर्ती; भूयोऽप्यस्य क्रीडतो रम्माणस्य परिचारयतः दुहिता (अ ३६० ) जाता प्रतिरूपा दर्शनीया प्रासादिका परमया वर्णपुष्कलतया समन्वागता; तस्या जन्मनि सर्वं तन्नगरमुदारेणावभासेनावभासितं; न चास्याः शक्यते सर्वथा रूपशोभां वर्णयितुं; यथा मायायास्तस्या अपि विस्तरेण जातौ जातिमहं कृत्वा नामधेयं व्यवस्थाप्यते; किं भवतु दारिका नामेति; अमात्याः कथयन्ति: अस्या रूपशोभा यन्मायां व्यतिरिच्य वर्तते तस्माद्भवतु महामायेति; साप्युन्नीता वर्धिता महती संवृत्ता; सा नैमित्तिकैर्व्याकृता; पुत्रं जनयिष्यति द्वात्रिंशता महापुरुषलक्षणैः समलङ्कृतं; स राजा भविष्यति चक्रवर्तीति; सुप्रबुद्धेन राज्ञा सिंहहनोर्दूतोऽनुप्रेषितः; द्वे दुहितरौ जाते माया महामाया च; तत्रैका व्याकृता पुत्रं जनयिष्यति लक्षणसंपन्नं; स राजा भविष्यति बलचक्रवर्तीति; द्वितीया व्याकृता पुत्रं जनयिष्यति द्वात्रिंशता महापुरुषलक्षनैः (३५) समलङ्कृतं; स राजा भविष्यति चक्रवर्तीति; अनयोर्याभिप्रेता शुद्धोदनस्य कुमारस्यार्थायानयेति; सिंहहनुना प्रतिसन्देशो दत्तः, द्वाभ्यामपि कुमारस्य प्रयोजनं; किं तु न द्वे सदृशे भार्ये एकस्योपस्थापयितव्ये इति यैवं व्याकृता पुत्रं जनयिष्यति द्वात्रिंशता महापुरुषलक्षणैः समलङ्कृतं स राजा भविष्यति चक्रवर्तीति, एषा तावत्प्रतीष्टा; द्वितीयाया अर्थाय गणमवलोकयिष्यामीति; तेन सा पञ्चशतपरिवारा प्रेषिता; तेन खलु समयेन शाक्यानां पाण्डवा नाम खषाः प्रतिविरुद्धाः; शाक्याः संभूय राज्ञः सिंहहनोः सकाशमुपसंक्रान्ताः; देव पाण्डवैः खषैरुपद्रुताः स्म, साहाय्यं कल्पयेति; स कथयति भवन्तो वृद्धोऽहं न शक्नोमि तैः सार्धं संग्रामयितुं; देव शुद्धोदनं कुमारमनुप्रेषय; समयतोऽनुप्रेषयामि यदि कुमारस्य यथाभिप्रेतं वरं प्रार्थयतोऽनुप्रयच्छत; ते कथयन्ति: देव एवं भवतु प्रयच्छामः; राज्ञा चतुरङ्गं बलकायं दत्वा शुद्धोदनः कुमारः प्रेषितः; तेन ते खषाः हतप्रहतविध्वस्ताः कृताः; ततः शाक्याः परितुष्टाः सिंहहनो राज्ञः सकाशमुपसंक्रान्ताः; देव कुमारेण पाण्डवा खषाः हतप्रहताः विध्वस्ताः कृताः; परितुष्टा स्मः; वद कुमारस्य कं वरमनुप्रयच्छामः; भवन्तः शाक्यैः क्रियाकारः कृतः न केनचिद्द्वे सदृशे भार्ये उपस्थापयितव्ये इति; देव किं मुच्यतां क्रियाकारः; स कथयति: सुतरां बद्धव्यो न मोक्तव्यः; किं तु कुमारस्यैकं वरमनुप्रयच्छथ, द्वितीयां सदृशीं भार्यामुपस्थापयितुं; देव शोभनम्; एवं क्रियतां; ततः सिंहहनुना सुप्रबुद्धस्य लेखोऽनुप्रेषितः अवलोकितो मया गणः; द्वितीयां दुहितरमनुप्रेषयेति; तेन सापि पञ्चशतपरिवारा प्रेषिता; शुद्धोदनेन कुमारेण द्वे अपि परिणीते (३६) ______________________________________________________________ शुद्धोदन सुच्चेएद्स्सिंहहनु अन्द्थे देस्चेन्तोf थे बुद्ध यावदपरेण समयेन सिंहहनू राजा कालगतः; कपिलवस्तुनि शुद्धोदनो राजा राज्यं कारयति ऋद्धं च क्षेमं च सुभिक्षं चाकीर्णबहुजनमनुष्यं (अ ३६१ ) च; सोऽपरेण समयेन महामायादेव्या सार्धमुपरिप्रासादतलगतो निष्पुरुषेण तूर्येण क्रीडति रमते परिचारयति; धर्मता ह्येषा तुषितभवनस्थो बोधिसत्वः पंचभिरवलोकनैर्लोकमवलोकयति जात्यवलोकनेन देशावलोकनेन कालावलोकनेन वंशावलोकनेन स्त्र्यवलोकनेन च; (१) केन कारणेन बोधिसत्वा जात्यवलोकनं कुर्वन्ति? तुषितभवनस्थस्य बोधिसत्वस्यैवं भवति; कीदृश्यां जातौ बोधिसत्वाः प्रतिसन्धिं गृह्णन्तीति; पश्यति ब्राह्मणकुले वा क्षत्रियकुले वा; तत्र कदाचिद्ब्राह्मणा उच्चकुलसंमता भवन्ति; कदाचित्क्षत्रियाः; इदानीं तु क्षत्रियाः उच्चकुलसंमताः, यन्वहं क्षत्रियकुले प्रतिसन्धिं गृह्णीयां; मा मे स्युरतोनिदानं परे वक्तारः बोधिसत्वेन गर्हणीयायां जातौ प्रतिसन्धिर्गृहीत इति; तथा हि बोधिसत्वेनानादिकालीनमनाक्षेपसंवर्तनीयं कर्म कृतमुपचितम्; <अवन्ध्यफलधर्मदेशिका हि बुद्धा भगवन्तः>; अनेन कारणेन बोधिसत्वा जात्यवलोकनं कुर्वन्ति; (२) केन कारणेन बोधिसत्वा देशावलोकनं कुर्वन्ति? बोधिसत्वस्यैतदभवत्: कीदृशि देशे बोधिसत्वाः प्रतिसन्धिं गृह्णन्तीति; पश्यति योऽसौ देश इक्षुशालिमालागोमहिषीसंपन्नो भैक्षुकशतकलिलो दस्युजनविवर्जितः आर्यजनाध्युषितः; तस्यैवं भवत्ययं मध्यदेश इक्षुशालिमालागोमहिषीसंपन्नो भैक्षुकशतकलिलो दस्युजनविवर्जितः आर्यजनाध्युषितः; यन्वहं मध्यदेशे प्रतिसन्धिं गृह्णीयां; मा मे स्युरतोनिदानं परे वक्तारः बोधिसत्वेन (३७) प्रत्यन्तेषु जनपदेषु प्रतिसन्धिर्गृहीत इति; तथा हि बोधिसत्वेनानादिकालीनमनाक्षेपसंवर्तनीयं कर्म कृतमुपचितम्; अवन्ध्यफलधर्मदेशिका हि बुद्धा भगवन्तः; अनेन कारणेन बोधिसत्वा देशावलोकनं कुर्वन्ति; (३) केन कारणेन बोधिसत्वाः कालावलोकनं कुर्वन्ति? बोधिसत्वस्यैतदभवत्; कीदृशे काले बोधिसत्वा जंबूद्वीपे प्रतिसन्धिं गृह्णन्ति; उत्कर्षे वर्तमनायां प्रजायामशीतिवर्षसहस्रायुषि प्रजायामूर्ध्वं प्रतिसन्धिं न गृह्णन्ति; अपकर्षे शतवर्षायुषां मनुष्याणां <प्रजायामर्वाक्प्रतिसन्धिं न> गृह्णन्ति; केन कारणेन बोधिसत्वा अशीतिवर्षसहस्रायुषि मनुष्याणामूर्ध्वं प्रतिसन्धिं न गृह्णन्ति? अशीतिवर्षसहस्रायुषो हि मनुष्या दुरुद्वेज्या भवन्ति; दुःसंवेद्या जडा मृद्विन्द्रियाः प्रमत्ताः सुखबहुलाः सत्यानामभाजनभूताः; अपकर्षेऽप्यर्वाग्वर्षशतस्य पञ्चकषाया उद्रिक्ता भवन्ति; तद्यथा आयुःकषायः क्लेशकषायः सत्वकषायो दृष्टिकषायः कल्पकषायश्च; मा मे स्युरतोनिदानं परे वक्तारः पञ्चकषायोद्रिक्ते काले बोधिसत्वेन प्रतिसन्धिर्गृहीत इति; तथा हि बोधिसत्वेनानादिकालीनमनाक्षेपसंवर्तनीयं कर्म कृतमुपचितम्; अवन्ध्यफलधर्मदेशिकाश्(अ ३६१ ) च बुद्धा भगवन्तः; अनेन कारणेन बोधिसत्वाः कालावलोकनं कुर्वन्ति; (४) केन कारणेन कुलावलोकनं कुर्वन्ति? बोधिसत्वस्यैवं भवति; कीदृशे कुले बोधिसत्वाः प्रतिसन्धिं गृह्णन्तीति; पश्यति यत्कुलमुच्चसंमतमनुपाक्रुष्टचारित्रं यावदासप्तमं मातामहं पैतामहं युगमुपादायेति; तस्यैतदभवदयं शाक्यवंश उच्चकुलसंमतो यावन्महासंमतमुपादायानुपाक्रुष्टचारित्रश्च यन्वहं राज्ञः शुद्धोदनस्य कुले प्रतिसन्धिं गृह्णीयां; मा मे स्युरतोनिदानं परे वक्तारः प्रत्यवरे कुले बोधिसत्वेन प्रतिसन्धिर्गृहीत इति; तथा हि बोधिसत्वेनानादिकालीनमनाक्षेपसंवर्तनीयं कर्म (३८) कृतमुपचितम्; अवन्ध्यफलधर्मदेशिकाश्च बुद्धा भगवन्तः; अनेन कारणेन बोधिसत्वा वंशावलोकनं कुर्वन्ति; (५) केन कारणेन बोधिसत्वा स्त्र्यवलोकनं कुर्वन्ति? बोधिसत्वस्यैवं भवति; कीदृश्या स्त्रियाः कुक्षौ बोधिसत्वाः प्रतिसन्धिं गृह्णन्तीति; पश्यति या स्त्री रूपवती भवति शीलवती कुलवती कुलिना कुलवर्धनी पूर्वबुद्धेषु कृतप्रणिधाना अहो बताहं बुद्धस्य माता स्यामिति; शक्नोति बोधिसत्वं दशमासं कुक्षिणा धारयितुं; न च स्वार्थं हापयति; तस्यैवं भवति इयं महामाया यावदासप्तमं मातामहं मातामहं पैतामहं युगमुपादायानुपाक्रुष्टचारित्रा रूपवती शीलवती कुलिना कुलवर्धनी; शक्नोति बोधिसत्वं दशमासं कुक्षिणा धारयितुं; न च स्वार्थं हापयितुम्; तथा हि महामाया पूर्वबुद्धेषु कृताधिकारप्रणिधाना अहो बताहं बुद्धमाता स्यामिति; मा च मे स्युरतोनिदानं परे वक्तारः अलक्षणसंपन्नाया स्त्रियाः कुक्षौ बोधिसत्वेन प्रतिसन्धिर्गृहीत इति; तथा हि बोधिसत्वेनानादिकालीनमनाक्षेपसंवर्तनीयं कर्म कृतमुपचितम्; <अवन्ध्यफलधर्मदेशिकाश्च बुद्धा भगवन्तः>; अनेन कारणेन बोधिसत्वाः स्त्र्यवलोकनं कुर्वन्ति; अथ बोधिसत्वः पञ्च व्यवलोकनानि व्यवलोक्य षट्कामावचरान् देवांस्त्रिरनुश्रावयति इतोऽहं मार्षास्तुषिताद्देवनिकायाच्च्युत्वा मनुष्येषु प्रतिसन्धिं ग्रहीष्यामि राज्ञः शुद्धोदनस्याग्रमहिष्याः कुक्षौ; तस्य पुत्रत्वमधिगम्य अमृतमधिगमिष्यामि; यो युष्माकममृतेनार्थी स मनुष्येषु प्रतिसन्धिं गृह्णातु भूयो मध्यदेश इति; एवमुक्तास्तुषितकायिका देवा बोधिसत्वमिदमवोचन्: यत्खलु बोधिसत्व जानीया एतर्हि कलिकलुषो लोकः क्रूरसन्तानप्रजा आकुलीकृतश्च जंबूद्विपः षड्भिस्तार्किकैः षड्भिरानुश्रविकैः षड्भिः समापत्तृभिः; तत्र षट्तार्किकाः कतमे? तद्यथा पूरणः काश्यपः (३९) मस्करी गोशालिपुत्रः सञ्जयी वैरट्टीपुत्रः अजितः केशकंबलः ककुदः कात्यायनो निर्ग्रन्थो ज्ञातिपुत्र; षडानुस्रविकाः कतमस्तद्यथा कूटताण्ड्यो ब्राह्मणः श्रोणताण्ड्यो ब्राह्मणः, चोगी ब्राह्मणः ब्राह्मायुर्ब्राह्मणः (अ ३६२ ) पुष्करसारि ब्राह्मणः लोहित्यश्च ब्राह्मणः; षट्प्रतिपत्तारः कतमे? तद्यथा उद्रको रामपुत्रः; अराडः कालामः सुभद्रः परिव्राजकः सञ्जयी माणवः असितरिषिः उरुबिल्वाकाश्यपश्च जटिलः; इह तु बोधिसत्वस्य द्वादशयोजनानि धर्मश्रवणार्थमासनप्रज्ञप्तिः प्रज्ञाप्यते; अस्माकं चैवं भवति: यमस्माकं तुषितभवनस्थो बोधिसत्वो धर्मं देशयिष्यति तं वयं धर्मं श्रुत्वा तथा तथा प्रतिपत्स्यामहे; यथापितदस्माकं भविष्यति दीर्घरात्रमर्थाय हिताय सुखायेति; एवमुक्तो बोधिसत्वः तुषितकायिकान् देवानिदमवोचत्: तेन हि मार्षा सर्ववाद्यानि प्रहण्यन्तामिति ______________________________________________________________ देस्चेन्त्fरों थे तुषितस् तुषितकायिकाभिर्देवताभिः सर्ववाद्यानि प्रहतानि; बोधिसत्वेनापि सङ्खमापूर्याभिहितं: कतरोऽत्र मार्षाः ओदारिकः शब्दः? शङ्खशब्दो भगवन्; यथायं मार्षाः शङ्खशब्दः सर्ववाद्यान्यभिभूयावस्थितः एवमेवाहं जम्बूद्वीपमवतीर्य षट्तार्किकान्, षडानुश्रविकान्, षट्च प्रतिपत्त्रीनभिभूयामृतमधिगमिष्यामि; अमृतेन जगत्सन्तर्पयिष्यामि; अनित्यताशङ्खमापूरयिष्यामि; शून्यताभेरीं ताडयिष्यामीति; नैरात्म्यसिंहनादं नदिष्यामी इति विदित्वा गाथां भाषते: सिंहैकः प्रमथति नैकश्वापदौघान् वज्रैको विलिखति नैकषृङ्गशैलान् । शक्रैको विजयति नैकदानवेन्द्रान् सूर्यैको विमथति नैकमन्धकारम् ॥ (स्ब्व्.इ ४०) यो युष्माकं मार्षा अमृतेनार्थी स मध्यदेशे प्रतिसन्धिं गृह्णातु; षट्सु महानगरेष्विर्यतह; शक्रस्य देवेन्द्रस्यैतदभवत्: अयं बोधिसत्वो भगवान्महामायायाः देव्याः कुक्षाउ प्रतिसन्धिं ग्रहीतुकामः; यन्वहमस्या ओजोपसंहारं कुर्यां कुक्षिं च विशोधयेयमिति विदित्वा शक्रेण देवानामिन्द्रेण महामायाया देव्याः ओजोपसंहारं कृतवान्; कुक्षिं च शोधितवान्; ततस्तुषितभवनस्थो बोधिसत्वः पञ्चावलोकितानि व्यवलोक्य षट्कामावचरान् देवांस्त्रिरनुश्राव्य गजनिदर्शनेन रात्र्या मध्यमे यामे माहामायाया देव्याः कुक्षिमवक्रान्तः; आह च जगत्परित्राणकृतप्रतिज्ञो देवानुपामन्त्र्य ततश्च्युतोऽसौ । इक्ष्वाकुवंशे प्रविवेश कुक्षिम् सन्ध्याभ्रराजीमिव बालसूर्यः ॥ ______________________________________________________________ चोन्चेप्तिओन्; औस्पिचिओउस्सिग्न्सिन् थे द्रेअम् तथा हि महामाया चतुरः स्वप्नान् पश्यति; (१) षड्दन्तो मे श्वेतो हस्तिनागः कुक्षिं भित्वा प्रविष्टः; (२) उपरि विहायसा गच्छामि; (३) महाशैलपर्वतमभिरुहामि; (४) महाजनकायो मे प्रणामं करोतीति; तया रज्ञ शुद्धोदनायारोचितम्; राज्ञा अमात्यानामाज्ञा दत्ता; भवन्तः आहूयन्तां स्वप्नाध्यायविदः नैमित्तिकाश्च ब्राह्मणा इति; तैश्च स्वप्नाध्यायविदो नैमित्तिकाश्च ब्राह्मणा आहूताः; ततो राज्ञा तेषां स्वप्नानि निवेदितानि; ते कथयन्ति: देव यथा शास्त्रे दृष्टं, पुत्रं जनयिष्यति द्वात्रिंशन्महापुरुषलक्षणैः समलङ्कृतम्; सचेद्गृही अगारमध्यावत्स्यति, (अ ३६२ ) राजा भविष्यति चक्रवर्ती; सचेत्केशश्मश्रूण्यवतार्य काषायाणि (४१) वस्त्राण्याच्छाद्य सम्यगेव श्रद्धया अगारादनगारिकां प्रव्रजिष्यति, तथागतो भविष्यत्यर्हन् सम्यक्संबुद्धो विघुष्टशब्दो लोक इति अन्तरोद्दानम्: च्युतिर्देवपुत्रो रतनमष्टाङ्गं श्रान्तव्रतमानसम् ______________________________________________________________ थे बुद्ध इन्मोथेर्ऽस्wओम्ब् धर्मता खलु यस्मिन् समये बोधिसत्वस्तुषिताद्देवनिकायाच्च्युत्वा मातुः कुक्षिमवक्रान्तोऽत्यर्थं तस्मिन् समये महापृथिवीचालोऽभूत्; सर्वश्चायं लोकः उदारेणावभासेन स्फुटोऽभूत्; या अपि ता लोकस्य लोकान्तरिका अन्धास्तमसोऽन्धकारतमिस्रा यत्रेमौ सूर्याचन्द्रमसावेवंमहर्धिकावेवंमहानुभावावाभयाभां न प्रत्यनुभवतः, ता अपि तस्मिन् समये उदारेणावभासेन स्फुटा अभूवन्; तत्र ये सत्वा उपपन्नास्ते स्वकमपि बाहुं प्रगृहीतं न पश्यन्ति; ते तया आभया अन्योन्यं सत्वान् दृष्ट्वा संजानते अन्येऽपीह भवन्तः सत्वा उपपन्ना अन्येऽपीह भवन्तः सत्वा उपपन्ना इति यथैव मेघो विपुलः सुसंभृतो बहूदको मारुतवेगप्रेरितः । तथोपमं कुक्षिमिवाक्रमन्मुनिश् चिराद्घनं सूर्य इवाभ्युपागतः ॥ अवभासयित्वेह दिशः समन्ततः पृथक्च लोकान्तरिकास्तमोवृताः । यदाक्रमत्कुक्षिमतुल्यविक्रमस् तथा तदासीदियमत्र धर्मता ॥ (४१) धर्मता खलु यस्मिन् समये बोधिसत्वो भगवान्मातुः कुक्साववक्रान्तः तस्मिन् समये शक्रो देवेन्द्राश्चतुरो देवपुत्रान्मातुरारक्षकान् स्थापयत्यसिहस्तान्, प्रासहस्तांश्छक्तिहस्तान् तोमरहस्तान्, मा कश्चिद्बोधिसत्वं विहेटयिष्यति मनुष्यो वा अमनुष्यो वेति; धर्मता खलु यस्मिन् समये बोधिसत्वो मातुः कुक्षावस्थात्कोशोगत एवास्थादम्रक्षितो गर्भमलेन, जुव्रमलेन, रुधिरमलेन, अन्यतमान्यतमेन वाशुचिना विप्रकृतेन; तद्यथा मणिरत्नं काशिकरत्ने उपक्षिप्तं नैव मणिरत्नं काशीकरत्नेन लिप्यते, नापि काशिकरत्नं मणिरत्नेन; एवमेव यस्मिन् समये बोधिसत्वो मातुः कुक्षावस्थात्कोशोगत एवास्थादम्रक्षितो गर्भमलेन, जुव्रमलेन, रुधिरमलेन अन्यतमान्यतमेन वा अशुचिना विप्रकृतेन; तद्यथा मणिरत्नं; धर्मता खलु यस्मिन् समये बोधिसत्वो भगवान्मातुः कुक्षावस्थात्तमेनं तस्मिन् सस्मये माता सर्वमन्तःकुक्षिगतं परिपूर्णं पश्यति; तद्यथा मणिरष्टाङ्गो वैडूर्यः शुभ्रो जातिमानच्छो विप्रसन्नोऽनाविलः पञ्चरङ्गिके सूत्रेऽर्पितः स्यात्; तद्य्था नीले पीते लोहितेऽवदाते माञ्जिष्ठे; तं चक्षुष्मान् पुरुषो दृष्ट्वा जानीयादिदं सूत्रमयं मणिः; सूत्रे मणिरर्पितः; एवमेव बोधिसत्वो यस्मिन् समये मातुः कुक्षावस्थात्तमेनं तस्मिन् समये माता सर्वमन्तःकुक्षिगतं परिपूर्णं पश्यति; धर्मता खलु यस्मिन् समये बोधिसत्वो भगवान्मातुः कुक्षावस्थान्नास्य तस्मिन् समये माता श्रान्तकाया वाऽभूत्क्लान्तकाया वा यदुत बोधिसत्वं धारयन्ती; धर्मता खलु यस्मिन् समये बोधिसत्वो भगवान् (४३) मातुः कुक्षावस्थात्तस्मिन् समये माता यावज्जीवं पञ्चव्रतपदानि समादत्तवती; यावज्जीवं प्राणातिपातं प्रहाया प्राणातिपातात्प्रतिविरता; अदत्तादानम्, अह्रह्मचर्यं, मृषावादं सुरामैरेयमद्यप्रमादस्थानां प्रहाय सुरामैरेयमद्यप्रमादस्थानात्प्रतिविरता; प्राणानहन्ती नादत्तमाददौ; मृषा नावोचत्; न मद्यलोलुपाऽभूत्; अब्रह्मचर्याद्विरता च मैथुनात्सिद्धार्थमाता; इयमत्र धर्मता; धर्मता खलु यस्मिन् समये बोधिसत्वो भगवान्मातुः कुक्षावस्थान्नास्य माता तस्मिन् समये पुरुषेषु मानसं निबद्धवती यदुत कामोपसंहितम्; न रज्यते क्लेशेषु; न चास्याः कामहेतोः परिदह्यते मनः; न चास्य माता पुरुषेषु मानसं बध्नाति कामगुणोपसंहितम् ______________________________________________________________ पैन्सोf छिल्द्बिर्थ् अथ महामायाया दोहद उत्पन्नः अहो बताहं चतुर्भ्यो महास्मुद्रेभ्यः पानीयं पिबेयमिति; तया रज्ञे शुद्धोदनायारोचितम्; राज्ञा शुद्धोदनेन नैमित्तिकानां निवेदितम्; किमर्थं देव्या अयमेवंरूपो दोहद उत्पन्नः; नैमित्तिकैर्व्याकृतं: देव देवी कुमारां जनयिष्यति; द्वात्रिंशता महापुरुषणैः समलङ्कृतमूर्तिः प्रव्रजित्वा सकलं ज्ञेयार्णवं पास्यति; राज्ञाभिहितम्; यद्यस्याः महासमुद्रात्पानीयं <न> दीयते, किं तत्स्यात्; व्यङ्गं पुत्रं जनयेत्; राज्ञाभिहितं: मम तावत्शुद्धोदनस्याविकलाङ्गः पुत्रो भविष्यतीति; तेन खलु समयेन कपिलवस्तुनि रक्ताक्षो नाम परिव्राजकस्तिष्ठति इन्द्रजाले कृतावी; राज्ञा तस्याहूय निवेदितम्; तेन तस्या उपरिप्रासादतलगताया यावच्चतुरो महासमुद्रान् दर्शयित्वा पानीयं दत्तम्; तस्या यो दोहद उत्पन्नः स (४४) प्रतिविगतः; पुनरप्यस्या दोहद उत्पन्नः अहो बत सर्वबन्धनमोक्षः क्रियेतेति; राज्ञा सर्वबन्धनमोक्षः कृत इति तस्या यो दोहद उत्पन्नः स प्रतिविगतः; पुनरप्यस्या दोहद उत्पन्नः अहो बत दानानि दीयेरन् पुण्यानि क्रियेरन्निति; राज्ञा दानानि दत्तानि पुण्यानि कृतानि; तस्या यो दोहद उत्पन्नः स प्रतिविगतः; पुनरप्यस्या दोहद उत्पन्नः; अहो बताहमुद्यानानि पश्येयमिति; राज्ञा उद्यानानि दर्शितानि; तस्या यो दोहद उत्पन्नः स प्रतिविगतः; पुनरप्यस्या दोहद उत्पन्नः अहो बताहमुद्याने तिष्ठेयमिति; राज्ञः सुप्रबुद्धस्य लुम्बिनी नामोद्यानम्; तस्य शुद्धोदनेन राज्ञा सन्दिष्टं दुहिता ते उद्यानं निर्गन्तुकामा; उद्यानं शोधयेति; तेन पौरुषेयाणामाज्ञा दत्ता, भवन्त उद्यानं शोधयतेति; तैरुद्यानं शोधितम्; ततः सा परिचारिकासहीया निर्गता; ततस्तया लुंबिनीवने विचरन्त्या सपुष्पितः अशोकपादपो दृष्टः; सा तमवलोक्यावस्थिता प्रसवितुकामा ______________________________________________________________ थे बिर्थोf थे बुद्ध अन्द्थे अच्चोम्पन्यिन्ग्wओन्देर्स् शक्रो (अ ३६३ ) देवेन्द्रः संलक्षयति: बोधिसत्वमाता ह्रीमती; न शक्नोति महाजनपरिवृता प्रसवितुम्; उपायसंविधानं कर्तव्यमिति; तेन तुमुलं वातवर्षं निर्मितम्; तेनासौ महाजनकायः समन्ताद्विद्रुतः; ततः शक्रो देवेन्द्रः वृद्धधात्रीवर्णमात्मानामभिनिर्माय महामायायाः पुरस्तादवस्थितः सा प्रसवितुमारब्धा; बोधिसत्वो निर्गच्छंश्छक्रेणाजिनशाटिकायां प्रतिगृहीतः; स गर्भवासपरिक्लान्तः; अथ बोधिसत्वस्यैतदभवत्: मदप्राप्तोऽयं शक्रो भविष्यति मया बोधिसत्वः प्रतीच्छित इति; विदित्वा वज्रशरीरमात्मानमधिष्ठितः; शक्रो देवेन्द्रः कंपयितुमारब्धो बोधिसत्वेनाभिहितः; मुञ्च मुञ्च कौशिक अपैहि पुरस्तादिति; (४५) <धर्मता खलु>, यस्मिन् समये बोधिसत्वो भगवान् जातः तस्मिन् समये महापृथिवीचालोऽभूत्; पूर्ववद्यावदन्येऽपीह भवन्तः सत्वा उपपन्ना अन्येऽपीह भवन्तः सत्वा उपपन्ना इति; धर्मता खलु यस्मिन् समये बोधिसत्वो भगवान्मातुः कुक्षेर्निष्क्रान्तः कोशोगत इवासिर्निष्क्रान्तः अम्रक्षितो गर्भमलेन जुव्रमलेन रुधिरमलेनान्यतमान्यतमेन वा अशुचिना विप्रकृतेन; धर्मता खलु यस्मिन् समये बोधिसत्वो भगवान्मातुः कुक्षेर्निष्क्रान्तो नास्य तस्मिन् समये माता निषण्णा वाऽभून्निपन्ना वा; स्थितैव सा क्षत्रियी क्षत्रियं प्रसूता; धर्मता खलु सांप्रतजातो बोधिसत्वः सप्तपदानि प्रक्रान्तः परिगृहीतो न केनचित्; चतुर्दिषं च व्यवलोकयति; वाचं च भाषते, इयं पूर्वा दिक्पूर्वंगमो भविष्यामि निर्वाणाय, इयं दक्षिणा दक्षिणीयो भविष्यामि कृत्स्नस्य <जगतः, इयं पश्चिमा दिक्, मम पश्चिमं जन्म भविष्यति; इयमुत्तरा दिक्, भवसंसारादुत्त्तरिष्यामि इति; तस्य शिरसि उपरि देवाः श्वेतं च छत्रं मणिदण्डकं च चामरं च धारयन्ति; धर्मता खलु सांप्रतजातस्य बोधिसत्वस्य द्वे वारिधारेऽन्तरिक्षात्प्रादुर्भवत एका शिता एका उष्णा ये बोधिसत्वं स्नापितवत्ये>; धर्मता खलु सांप्रतजातस्य बोधिसत्वस्य मातुर्जनयित्र्याः पुरस्तान्महदुदपानं प्रादुर्भूतं वारिनिष्यन्दि; यतोऽस्य माता उदकेनोदककार्यमकार्षीत्; धर्मता खलु सांप्रतजातस्य बोधिसत्वस्य देवता अन्तरिक्षात्दिव्यान्युत्पलानि क्षिपन्ति; पद्मानि, कुमुदानि, पुण्डरीकान्यगरुचूर्णानि, तगरचूर्णानि; चन्दनचूर्णानि, तमालपत्रचूर्णानि, (४६) दिव्यानि च मान्दारवाणि पुष्पाणि क्षिपन्ति; दिव्यानि च वाद्यानि प्रवादयन्ति अन्तरोद्दानाम् उत्पादकोशस्थितिः सप्त पदानि द्वे वारिधारे, उदपानं देवता यदा शाक्यमुनिर्बोधिसत्वो जातः तदा चतुर्णां राज्ञां पुत्रा जाताः, श्रावस्त्यामराडब्रह्मदत्तस्य पुत्रो जातः; अराडब्रह्मदत्तस्यैतदभवत्: मम पुत्रस्य जन्मनि प्रसन्नः प्रसन्न इव जनपदः ख्याति; तस्माद्भवत्वस्य प्रसेनजितिति नाम, राजगृहे नगरे महापद्मस्य राज्ञः पुत्रो जातः; तस्यैतदभवत्मम पुत्रस्य जन्मनि आदित्यबिम्बेनेवोदयता लोकोऽवभासितः; बिम्बायाश्च पुत्रः; भवत्वस्य बिम्बिसार इति नाम; कौशांब्यां शतानीकस्य राज्ञः पुत्रो जातः; तस्यैतदभवत्: मम पुत्रस्य जन्मनि (अ ३६४ ) आदित्येनेवोदयता लोकोऽवभासितः; भवत्वस्योदयन इति नाम; उज्जयन्यां नगर्यामनन्तनेमिनो राज्ञः पुत्रो जातः; अनन्तनेमिनो राज्ञ एतदभवत्मम पुत्रस्य जन्मनि प्रद्योतेनेव लोकोऽवभासितः; भवत्वस्य प्रद्योत इति नाम; तच्च नैवम्; अपि सर्वं तद्बोधिसत्वानुभावात्. ______________________________________________________________ असित, नालद अन्द्थे यक्ष शाक्यवर्धन किष्किन्धे पर्वते असितो नाम रिषिः प्रतिवसति संवर्तनीयकुशलो विवर्तनीयकुशलश्च तस्य नालदो नाम भागिनेयः; स तस्य कालेन कालं संवर्तनीयविवर्तनीयं कथयति; स तस्य सकाशे प्रव्रजितः; बोधिसत्वस्य (४७) भगवतो जन्मनि सर्वलोक उदारेणावभासेन स्फुटोऽभूत्; तेन खलु समयेन नालदो गुहां प्रविश्य ध्यायति; स तमवभासं दृष्ट्वा असितमुवाच; उपाध्याय उपाध्याय उत्पद्यन्ते हि किं सर्वे युगपत्भास्करा इह । तथा हि सगुहा शैला दीप्ता इव गभस्तिभिः ॥ असितस्त्वब्रवीत्तीक्ष्णा भनोः शीता त्वियं प्रभा । तदस्मिन् प्रविशत्याभिर्नूनमेषा मुनिप्रभा ॥ निष्क्रामति ध्रुवं कुक्षेः बोधिसत्वो महाद्युतिः । इयं निष्क्रामतस्तस्य माहासत्वस्य निर्मला । प्रभा काञ्चनसङ्काशा लोकेषु विसृता त्रिषु ॥ नालदः कथयति: उपाध्याय गच्छामो बोधिसत्वं पश्यामः; स कथयति: वत्स इदानीं बोधिसत्वो महेशाख्यमहेशाख्याभिर्देवताभिराकीर्णो विहरति; स्थानमेतद्विद्यते यद्वयमवकाशं न लप्स्यामहे; यदा भगवान् कपिलवस्तु प्रवेशितो भवति, नाम चास्य व्यवस्थापितम्, तदा वयं दर्शनायोपसङ्क्रमिश्याम इति; यमेव दिवसं बोधिसत्वो भगवान् जातः तमेव दिवसं राज्ञः शुद्धोदनस्य छन्दकप्रमुखानि पञ्चोपस्थायकशतानि जातानि; च्छन्दिकाप्रमुखानि पञ्चोपस्थायिकशतानि <जातानि>; पञ्चहस्तिनीशतानि प्रसूतानि; पञ्चवडवाशतानि पञ्चभिर्निधिशतैर्मुखान्युपदर्शितानि; प्रातिसीमैश्च कोट्टराजभिः करप्रत्यया उपनिबद्धाः ______________________________________________________________ नमेसोf थे बोधिसत्व अमात्यै राज्ञे शुद्धोदनाय यथावृत्तं समाख्यातम्; राजा संलक्षयति: मम पुत्रस्य जन्मनि सर्वार्थाः सर्वकर्मान्ताश्च परिपूर्णाः; भवतु कुमारस्य सर्वार्थसिद्ध इति नाम; तत्र बोधिसत्वस्येदं प्रथमं नामधेयं व्यवस्थापितं यदुत सर्वार्थसिद्ध (४८) इति; कपिलवस्तुनि नगरे शाक्यवर्धनो नाम यक्षो नैवासिकः; आचरितं शाक्यानां, यस्य कस्यचित्छाक्यस्य पुत्रो वा जाते दुहिता वा स शाक्यवर्धनस्य पादाभिवन्दको नीयते; राज्ञा पौरुषेयाणामाज्ञा दत्ता: गच्छत भवन्तः कुमारं शाक्यवर्धनस्य यक्षस्य पादयोर्निपत्य पातयत इति; एवं देव इत्यमात्या राज्ञाः शुद्धोदनस्य प्रतिश्रुत्य, बोधिसत्वं चतूरत्नमयां शिबिकामारोप्य कपिलवस्तुनगरं प्रवेशयितुमारब्धाः; कापिलवास्तवाः शाक्याश्चण्डा रभसाः कर्कशाः साहसिकाश्च; ते बोधिसत्वस्य प्रविशतो मुनय इव स्थिताः; राजा शुद्धोदनः संलक्षयति: इमे कापिलवास्तवाः (अ ३६४ ) शाक्याश्चण्डा रभसाः कर्कशाश्च कुमारास्य प्रविशतो मुनय इवावस्थिताः; भवतु कुमारस्य शाक्यमुनिरिति नामेति; तत्र बोहिसत्वस्य द्वितीयं नाम व्यवस्थापितं यदुत शाक्यमुनिरिति; बोधिसत्वः शायवर्धनस्य यक्षय भवनसस्मीपं नीतः; अद्राक्षीच्छाक्यवर्धनो यक्षो बोधिसत्वं भवनसमीपमागतं; दृष्ट्वा च पुनर्भवनान्निर्गम्य सर्वकायेन बोधिसत्वस्य पादयोर्निपतितः; जनकायेन राज्ञा शुद्धोदनाय निवेदितम्: देव शाक्यवर्धन एव यक्षो बोधिसत्वस्य पादयोर्निपतितः इति; श्रुत्वा च राजा कथयति: भवन्तो देवा अपि कुमारस्य पादयोर्निपतन्ति; देवानामप्ययं देवः; तस्मात्भवतु कुमारस्य देवातिदेव इति नाम इति; तत्र बोधिसत्वस्य तृतीयं नामधेयं व्यवस्थापितं यदुत देवातिदेव इति; सांप्रतजातो बोधिसत्वः मातापितृभ्यां धात्र्यै दत्तः: अयं ते धात्रि कुमारः कालेन कालमुद्वर्तयितव्यः, कालेन कालं स्नपयितव्यः, कालेन कालं भोजयितव्यः, कालेन कालं सम्यक्सुखेन परिहर्तव्यः इति; तमेनं धात्री आत्तमनात्तमना उभाभ्यां पाणिभ्यां प्रतिगृह्य, कालेन कालमुद्वर्तयति, कालेन कालं स्नपयति, कालेन कालं भोजयति, कालेन कालं सम्यक्सुखेन परिहरति; अपीदानीं ये गन्धाः सुमनोज्ञरूपाः तैर्विलिप्य, सर्वालङ्कारैरलङ्कृतं पितुः शुद्धोदनस्यानुप्रयच्छति; तमेनं राजा शुद्धोदनो गृहीत्वा, अङ्के निषाद्य, पुनः पुनः प्रेक्षते हर्षजातः (४९) ______________________________________________________________ प्रेदिच्तिओन्सोf थे नैमित्तिकस् धर्मता खलु सांप्रतजातं बोधिसत्वं मातापितरौ ब्राह्मणानां, नैमित्तिकानाम्, विपञ्चनकानां चोपदर्शयतः: कच्चिद्भवन्तः समन्वागतः कुमारो द्वात्रिंशता महापुरुषलक्षणैः? यैः समन्वागतस्य महापुरुषस्य (अ ३६५ ?) द्वे गती भवतो, नान्या; सचेद्गृही अगारमध्यावसति, राजा भवति चक्रवर्ती, चातुरन्तां विजेता, धार्मिको, धर्मराजः सप्तरत्नसमन्वागतः; तस्येमान्येवंरूपाणि सप्त रत्नानि भवन्ति; तद्यथा (१) चक्ररत्नम्, (२) हस्तिरत्नम्, (३) अश्वरत्नम्, (४) मणिरत्नम्, (५) स्त्रीरत्नम्, (६) गृहपतिरत्नम्, (७) परिणायकरत्नमेव सप्तमम्; पूर्णं चास्य भवति सहस्रं पुत्राणां शूराणां वीराणां वराङ्गरूपिणां परसैन्यप्रमर्दकानाम्; स इमामेव समुद्रपर्यन्तां महापृथिवीमखिलामकण्टकामनुत्पीडामदण्डेनाशस्त्रेण धर्मेण समेनाभिनिर्जित्याध्यावत्स्यति; सचेत्केशश्मश्र्ववतार्य काषायाणि वस्त्राण्याच्छाद्य सम्यगेव श्रद्धया अगारादनगारिकां प्रव्रजति तथागतो भवत्यर्हन् संयक्संबुद्धो विघुष्टशब्दो लोक इति; तथ्यं देव समन्वागतः कुमारो द्वात्रिंशता महापुरुषलक्षणाइः; यैः समन्वागतस्य महापुरुषस्य द्वे गती भवतो नान्या; सचेत्गृही अगारमध्यावसति, राजा भवति चक्रवर्ति, चातुरन्तां विजेता, धार्मिको धर्मराजाः पूर्ववद्यावत्तथागतो भवत्यर्हन् सम्यकस्ंबुद्धो विघुष्टशब्दो लोके ______________________________________________________________ लक्षणसोf अ महापुरुष कतमानि तानि भवन्तो द्वात्रिंशत्महापुरुषलक्षणानि? यैः समन्वागतस्य महापुरुषस्य द्वे गती भवतो नान्या; पूर्ववद्यावद्विघुष्टशब्दो लोके (५०) (१) सुप्रतिष्ठितपादो देव कुमारः; अपीदानीं सुप्रतिष्ठितत्वात्पादयोः सममाक्रमते महीम्; इदं कुमारस्य महापुरुषस्य महापुरुषलक्षणम्; (२) अधस्ताच्चास्य पादतलयोः चक्रे जाते सहस्रारे, सनाभिके सनेमिके, सर्वाकारपरिपूर्णे; इदं देव कुमारस्य महापुरुषस्य महापुरुषलक्षणम्; (३) दीर्घाङ्गुलिर्देव कुमारः (४) आयतपाद्पार्ष्णिर्(५) मृदुतरुणपाणिपादः; मृदुकमस्य पाणिपादं तद्यथा तूलपिचुर्वा कर्पासपिचुर्वा; इदं देव कुमारस्य महापुरुषस्य महापुरुषलक्षणम्; (६) जालिनीपाणिपादो देव कुमारः; जालिन्यस्य हस्तयोश्च पादयोश्च, तद्यथा अभिजातस्य हंसराजस्य; इदं देव कुमारस्य महापुरुषस्य महापुरुषलक्षणम्; (७) उच्छाङ्खचारो देव कुमारः; (८) एणीजङ्घः; (९) अनवनतकायः अनवनमनेन कायेन उभौ जानुमण्डलावामार्ष्टि परामार्ष्टि; इदं देव कुमारस्य महापुरुषस्य महापुरुषणम्; (१०) कोशोगतवस्तिगुह्यो देव कुमारः; कोशोगतवस्तिगुह्यं तद्यथा अभिजातस्य हस्त्याजानेयस्य वा अश्वाजानेयस्य वा; इदें देव कुमारस्य महापुरुषस्य महापुरुषलक्षणम्; (११) न्यग्रोधपरिमण्डलो देव कुमारः; यावान् कायेन तावान् व्यामेन, यावान् व्यामेन तावान् कायेन; इदं देव कुमारस्य महापुरुषस्य महापुरुषलक्षणम्; (१२) ऊर्ध्वाङ्गरोमो देव कुमारः; (१३) एकैकरोमः; एकैकमस्य रोम काये जातं नीलम्, कुण्डलजातकां प्रदक्षिणावर्तम्; इदं देव कुमारस्य महापुरुषस्य महापुरुषलक्षणम्; (१४) सुवर्णवर्णसङ्काशो देव कुमारः; व्यामप्रभः काञ्चनसन्निभस्त्वक्; (१५) सूक्ष्मच्छविः; अपीदानीं सूक्ष्मत्वाच्च्छवे रजोमलमस्य काये न सन्तिष्ठते; इदं देव कुमारस्य महापुरुषस्य महापुरुष्लक्षणम्; (१६) सप्तोत्सदकायो देव कुमारः; सप्तोत्सदाः काये जाताः; द्वौ हस्तयोर्द्वौ पादयोर्द्वाउ अंसयोरेकं ग्रीवायाम्; इदं देव कुमारस्य महापुरुषस्य महापुरुषलक्षणम्; (५१) (१७) चितान्तरांसो देव कुमारः, (१८) सिंहपूर्वार्धकृयो (१९) बृहदृजुगात्राः, (२०) सुसंवृतस्कन्धः, (२१) चत्वारिंशद्दन्तः, (२२) समदन्तः (२३) अविरलदन्तः, (२४) शुक्लदंष्ट्रः, (२५) सिम्हहनू (२६) रसरसाग्रप्राप्तः; इदं देव कुमारस्य महापुरुषस्य महापुरुषलक्षणम्; (२७) प्रभूततनुजिह्वो देव कुमारः; अपीदानीं प्रधूतत्वात्तनुत्वाच्च जिह्वाया मुखाज्जिह्वां निर्णमय्य सर्वं मुखमण्डलं छादयति यावत्केशपर्यन्तमुपादाय; इदं देव कुमारस्य महापुरुषस्य महापुरुषलक्षणम्; (२८) ब्रह्मस्वरो देव कुमारः, कलविङ्कमनोज्ञभाणी दुन्दुभिस्वरनिर्घोषः; इदं देव कुमारस्य महापुरुषस्य महापुरुषलक्षणम्; (२९) अभिनीलनेत्रो देव कुमारः, (३०) गोपक्ष्मा; (३१) उष्णीषशिराः; (३२) ऊर्णा चास्य भ्रुवोर्माध्ये जाता श्वेता शङ्खनिभा प्रदक्षिणावर्ता; इदं देव कुमारस्य महापुरुषस्य महापुरुषलक्षणम्; इमानि तानि (अ ३६५ ) देव कुमारस्य महापुरुषस्य महापुरुषलक्षणानि, यैः समन्वागतस्य द्वे गती भवतो नान्या; पूर्ववद्यावद्विघुष्टशब्दो लोके; यदि च कुमारो न प्रव्रजिष्यति राजा भविष्यति चक्रवर्ती ______________________________________________________________ बेऔत्यन्दोथेरॄउअलितिएसोf थे बोधिसत्व धर्मता खलु सप्ताहजातस्य शाक्यमुनेर्बोधिसत्वस्य माता जनयित्री कालगता; समनन्तरकालगता प्रणीते त्रयस्त्रिंशद्देवनिकाये उपपन्ना; धर्मता खलु शाक्यमुनिर्बोधिसत्व अभिरूपो दर्शनीयः प्रासादिकः; अतिक्रान्तो मानुषवर्णमसंप्राप्तश्च दिव्यं वर्णं; अपीदानीं नराश्च नार्यश्च निरीक्षमाणास्तृप्तिं न गच्छन्ति; मुदं लभन्ते; तद्यथा जांबूनदमयी सुवर्णनिष्का कर्मारपरिमृष्टा अहते पाण्डुकम्बल उपनिक्षिप्ता अत्यर्थं भासते तपति विरोचते; एवमेव शाक्यमुनिर्बोधिसत्व अभिरूपो दर्शनीयः प्रासादिकः अतिक्रान्तो मानुषं वर्णमसंप्राप्तश्च दिव्यं वर्णं; धर्मता खलु शाक्यमुनिर्बोधिसत्वो महाजनकायस्य प्रियश्चाभून्मनापश्च; अपीदानीं महाजनकायम् (५२) अंसेनांसं सम्परिवर्तयति, तद्यथा शारदकं पद्मं महाजनकायस्य प्रियं च मनापं च; अपीदानीं महाजनकायस्तत्पाणिना पाणिं संवारयति; एवं पूर्ववत् अन्तरोद्दानम्: अनिमिषविपाकधर्मश्च वल्गुस्वरश्च पण्डित उद्यानम् ॥ धर्मता खलु सांप्रतजातो बोधिसत्व अनिमिषण्; रूपाणि पश्यन्नासौ निमिषति; तद्यथा देवास्त्रयस्त्रिंशाः; धर्मता खलु सांप्रतजातो बोधिसत्व पूर्वकर्मविपाकजेन दिव्येन चक्षुषा समन्वागतो येनासु पश्यति दिवा च रात्रौ च समन्तयोजनं; धर्मता खलु सांप्रतजातो बोधिसत्व वल्गुस्वरश्चाभून्मधुरस्वरश्च मनोज्ञस्वरश्च; तद्यथा हैमवतः शकुनको वल्गुस्वरश्च मधुरस्वरश्च मनोज्ञस्वरश्च; एवमेव सांप्रतजातो बोधिसत्वो वल्गुस्वरश्चाभून्मधुरस्वरश्च मनोज्ञस्वरश्च; धर्मता खलु सांप्रततजातो बोधिसत्वः पण्डितोऽभूद्व्यक्तो मेधावी तन्त्रोपमिकया मीमांसिक्या प्रज्ञया समन्वागतः; अपीदानीं राज्ञश्च शुद्धोदनस्यार्थाधिकरणेन निषद्य गंभीरमर्थपदव्यञ्जनं प्रज्ञया प्रतिविध्यति ______________________________________________________________ थे अर्रिवलोf असित अन्द्नालद ततो नालदः कथयति: उपाध्याय बोधिसत्वः कपिलवस्तुनि प्रवेशितः; नामत्रयं च व्यवस्थापितम्; इदानीं गच्छामो बोधिसत्वं दर्शनाय इति; स कथयति; एवं कुर्मः; तौ संप्रस्थितौ; बोध्हिसत्वानुभावादृद्धेः परिहीणौ; पद्भ्यामेव कपिलवस्तुनगरं प्रविश्य राज्ञः शुद्धोदनस्य गृहद्वारं गतौ; तत असितरिषिर्दौवारिकं पुरुषमामन्त्रयते: गच्छ भोः पुरुष रज्ञः शुद्धोदनस्य गत्वा कथय, असितरिषिर्द्वारि तिष्ठति, देवं द्रष्टुकाम इति; तेन प्रविश्य (५३) राज्ञे निवेदितम्; राजा कथयति, प्रविशतु को भवन्तमसितं वारयति; स प्रविष्टः; राज्ञा शुद्धोदनेन सत्कारपुरस्सरमर्घपाद्येन पूजितः आसने दत्ते निषण्णः; राज्ञा शुद्धोदनेन कथालापेन प्रतिसंमोद्याभिहितो: महर्षे किमागमनप्रयोजितम् (अ ३६६ ); स कथयति: महाराज तव पुत्रदर्शनाय वयमिहागताः, लोकज्येष्ठस्य विनायकस्य मुनेर्दर्शनाय; यद्येवं मुहूर्तं तावदुदीक्षस्व, सुप्तः कुमारो यावत्प्रतिबुद्ध्यत इति; स कथयति सुप्तमेव पश्यामि; एवं कुरु; स पश्यति; यावद्बोधिसत्व अनिमिषः; रूपाणि पश्यति न निमिसान्; स गाथां भाषते हयानामिव जात्यानामर्धरात्रावशायिनाम् । नाहितकार्यानां निद्रा चिरं नेत्रेषु तिष्ठति ॥ इति ततः सांप्रतजातो बोधिसत्वो धात्र्या अङ्के गृहीत्वा रिषेरुपनामितः; असितेन रिषिणा उभाभ्यां पाणिभ्यां प्रतिगृहीतः; मुहूर्तं निरीक्ष्य कथयति: देव दर्शितः कुमारो ब्राह्मणानां नैमित्तिकानां विपञ्चनकानाम्? राजा कथयति दर्शितः; किं तैर्व्याकृतम्? राजा भविष्यति चक्रवर्ती, पूर्ववद्यावद्विघुष्टशब्दो लोके; अथासितरिषिर्बोधिसत्वं दृष्ट्वा गाथां भाषते भ्रष्टा मतिः पार्थिव तार्किकाणां युगान्तकाले न हि चक्रवर्ती । अयं तु पुण्योत्तमधर्मकोशो बुद्धो भविष्यत्यभिजित्य दोषान् ॥ अव्यक्तैर्भवति हि लक्षणैर्नरेन्द्रो द्वीपानामधिपतिरीश्वरश्चतुर्णाम् । सुव्यक्तैर्भवति हि लक्षणैर्मुनीन्द्रो संबुद्धो नरवर धर्मचक्रवर्ती ॥ इति (५४) विदित्वा आत्मन आयुःप्रकर्षं व्यवलोकयितुमारब्धो बोधिसत्वस्य चाभिसंबोधिं यावत्; पश्यति बोधिसत्व एकान्नत्रिंशत्को वयसा गृहान्निर्गमिष्यति; षड्वर्षाणि दुष्करं चरिष्यति; ततोऽमृतमधिगमिष्यति; आत्मनः पश्यत्यन्तरैव कालक्रियाम्; सोऽस्रुपर्याकुलेक्षणो व्यवस्थितः; राजा शुद्धोदनो दृष्ट्वा सन्त्रस्तमतिर्गाथां भाषते नराश्च नार्यश्च हि यं समीक्ष्य तृप्तिं न गच्छन्ति मुदं लभन्ते । दृष्ट्वेह तं प्रीतिकरं शुभाङ्गम् कस्मात्सबाष्पं वदनं महर्षेः ॥ न मे कुमारस्य भयं कुतश्चिद् आयुःक्षयो वा समुपस्थितः स्यात् । तत्साधु मे क्षिप्रमिदं वदस्व तवाश्रुपातेन विकंपितोऽस्मि ॥ असितोऽपि ऋषिर्गाथां भाषते अस्योपरिष्टाद्यदि वज्रवर्षं नभःप्रमुक्तं प्रपतेत्प्रचण्डम् । महामुनेर्नैकशरीरचाल्यम् अप्येककं कंपयितुं समर्थम् ॥ महाग्नयो वायुबलप्रवेरितास् तीक्ष्णानि शत्राणि सुदारुणानि । विषं च घोरा उरगाश्च तीक्ष्णाः क्षणं नशेयुः पतिताः कुमारे ॥ भयार्दितानामभयप्रदाता औदर्यभूमिः करुणाविहारी । (५५) कृत्स्नस्य लोकस्य भयं स हन्ति भयं भवेत्तस्य कुतो नरेन्द्र ॥ सब्रह्मकायस्य दिवौकसाद्याः कुर्वन्ति रक्षां सततं मदात्मनः । मगात्मनां श्रेष्ठतमस्य लोके भयं भवेत्तस्य कुतो नरेन्द्र ॥ संप्रेक्ष्य तु स्वां नृपते विपत्तिं रोदिम्यहं येन लभे न शान्तिम् । अयं स सत्वोत्तमधर्मकोशो योऽहं मरिष्याम्यनवाप्तकार्यः ॥ ते धन्यपुण्याश्च गतज्वराश्च ये धर्ममस्याप्रतिमानस्य । श्रोष्यन्ति धर्मं वदतां वरस्य श्रुत्वा च यास्यन्ति परां प्रशान्तिम् ॥ ______________________________________________________________ असितऽस्देपर्तुरे असितर्षिः क्लिष्टसन्तानः संलक्षय्ति: अहं बोधिषत्वस्यानुभावादृद्धेः परिहीणः; सयदि पद्भ्यां गमिष्यामि (अ ३६६ ) महाजनकायो मां प्रतर्कयिष्यति राजा च ; इति विदित्वा कथयति: देव तवायं दीर्घरात्रमाशासकः, अहो बतासितर्षिः, पद्भ्यामेव कपिलवस्तु प्रविशेदिति; सोऽहं पध्भ्यां कपिलवस्तु प्रविष्टः; इदानीं पद्भ्यामेव निष्क्रमिष्यामि; त्वं मार्गशोभां च कारयेति; राज्ञा शुद्धोदनेन अमात्यानामाज्ञा दत्ता: गच्छत भवन्तो नगरशोभां मार्गशोभां च कारयत रथ्यावीथीचत्वरशृङ्गाटकेषु घण्टावघोषणाम्; असितिरिषिः पद्भ्यां कपिलवस्तुनो नगरान्निष्क्रामति; यद्वः कृत्यं वा करणीयं वा तत्कुरुध्वमिति; एवं देवेत्यमात्यैः राज्ञः प्रतिश्रुत्य कपिलवस्तुनगरमपगतशर्करकठल्लं (५६) व्यवस्थापितम्, चन्दनवारिपरिषिक्तं सुरभिधूपघटिकोपनिबद्धमामुक्तपल्लवदामकलापम्, उच्छ्रितध्वजपताकं; रथ्यावीथीचत्वरशृङ्गाटकेसु घण्तावघोषणं कारितम्: शृण्वन्तु भवन्तः कपिलवास्तवाः शाक्याः असितर्षिः कपिलवस्तुनो नगरान्निष्क्रामति; यद्वः कृत्यं वा करणीयं वा तत्कुरुध्वमिति; ततोऽसौ क्लिष्टबुद्धिः कृतोपचारी राज्ञा शुद्धोदनेनामात्यगणपरिवृतेनानेकैश्च कापिलवास्तवैर्ब्राह्मणगृहपतिभिरनुगम्यमानो मध्यमध्येन नगरस्य परया विभूत्या कपिलवस्तुनो निष्क्रान्तः; राजानं निवर्त्य यथेष्टगतिप्रचारतया संप्रस्थितोऽनुपूर्वेण किष्किन्धं पर्वतमनुप्राप्तः; स तमधिरुह्य इतश्चामुतश्च परिभ्रमन् यथाभिप्रेतस्थानसमन्वेषणया अन्यतमस्मिन् प्रदेशे निषण्णः; ततस्तेन मार्गश्रमं प्रतिविनोद्य ध्यानान्युत्पादितानि; ऋद्धिश्चाभिनिर्हृता; यावदपरेण समयेन असितरिषिर्ग्लानः संवृत्तः; स उपस्थीयते मूलगन्धपत्रपुष्पफलभैषज्यैः; तथाप्यसौ हीयत एव; ततोऽस्य नालदः शरीरावस्थां परिच्छिद्य कथयति: उपाध्याय यत्किंचिद्वयं प्रव्रजितास्तत्सर्वममृतार्थिनो मृतगवेषिणः; सचेदुपाध्यायेनामृतमधिगतमस्माकमपु अमृतेन संविभागं करोत्विति; स कथयति: माणव अहमपि यत्किंचित्प्रव्रजितः सर्वं तदमृतार्थी अमृतगवेषि; न च मयामृतमधिगतम्; अपि तु य एष शाक्यानां कुमार उत्पन्न एषोऽमृतमधिगमिष्यति; अमृतेन जगत्सन्तर्पयिष्यति; तस्यान्तिके प्रव्रज; प्रव्रज्य च तेन <न> जातिवादः कर्तव्यो न गोत्रवादो न माणवकवादः; केवलं तु प्रव्रज्य ब्रह्मचर्यं चरितव्यम्; अमृताधिगमे चोद्योगः करणीयः; ततस्ते अमृतं भविष्यति; इति विदित्वा गाथां भाषते प्राचीनानेव सेव त्वमन्वेषाणस्तथागतम् । दुर्लभं दर्शनं भवति संबुद्धानां यशस्विनाम् ॥ इत्युक्त्वा सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः । संयोगा विप्रयोगान्ता मरणान्तं हि जीवितम् ॥ (५७) इत्युक्त्वा कालधर्मेण संयुक्तः; ततो नालदस्तस्य शरीरे शरीरपूजां कृत्वा (अ ३६७ ) वाराणसीं गत्वावस्थितः; स तत्र पञ्चमाणवकशतानि ब्राह्मणकान्मन्त्रान् वाचयति; नालदः कात्यायनो गोत्रेण; तस्य कात्यायनः कात्यायन इति संज्ञा संवृत्ता; सोऽभिसम्बुद्धबोधेर्भगवतः सकाशमुपसङ्क्रमिष्यति; तं भगवान् कात्यायनाववादेनावबोध्य संसारकान्तारादुत्तार्य अत्यन्तनिष्ठे योगक्षेमे निर्वाणे प्रतिष्ठापयिष्यति; तस्य महाकात्यायनो महाकात्यायन इति संज्ञा भविष्यति ______________________________________________________________ सिद्धार्थ, थे नागसहस्रबल अथापरेण समयेन शाक्यमुनिर्बोधिसत्वो धात्र्यंसगतः सुवर्णपात्र्यां शालिमासौदनं भुङ्क्ते; स प्रभूतं भुङ्क्ते; नावतिष्ठत इति धात्री आच्छेत्तुमारब्धा; न शक्नोत्याच्छेत्तुम्; तया राज्ञे शुद्धोदनया आरोचितम्; राजा अन्तःपुरसहीय आच्छेत्तुमारब्धः; सोऽपि न शक्नोति; ततो राज्ञा अमात्याः कपिलवास्तवाश्च जनकायाः प्रयुक्टाः; तेऽपि न शक्नुवन्त्याच्छेत्तुम्; ततः पञ्चहस्तिशतानि योक्त्रितानि; बोधिसत्वः संलक्षयति: मा ममेति बलं पंसयिष्यन्ति; यन्वहं कुटिलाङ्गुलिकया पात्रीं विधारयेयमिति; तेन कुटिलाङ्गुलिकया सुवर्णपात्री आकृष्टा; तानि च पञ्चशतानि पृष्ठतोमुखानि आकृष्टानि, न तु तैः सुवर्णपात्री आकृष्टा; राजा शुद्धोदनः संलक्षयति: बोधिसत्वेन वामेन पाणिना पञ्चहस्तिशतान्याकृष्टानि; नियतमुभाभ्यां पाणिभ्यां नागसहस्रमाक्रक्ष्यति; तस्माद्भवतु कुमारस्य नागसहस्रबल इति नामेति अन्तरोद्दानम् दारका क्रीडनका चैव विद्या प्रासाद एव च । हंसो युद्धं सारकल्यानी युद्धमन्तःपुरेण च ॥ (५८) ______________________________________________________________ सिद्धार्थऽस्पेर्fओर्मन्चेस् धर्मता खलु शाक्यमुनिर्बोधिसत्वः पञ्चशतपरिवारः कृमिवर्मणो लिप्याचार्यस्य लिपिं शिक्षणायोपन्यस्तः; कृमिवर्मणा लिप्याचार्येण बोधिसत्वस्य लिपिर्लिखित्वा दत्ता; बोधिसत्वः कथयति जानाम्यहमेनामिति; ततस्तेन द्वितिया तृतीया; एवं यावत्पञ्चलिपिशतानि लिखित्वा दत्तानि; बोधिसत्वः कथयति: एतामप्यहं जाने अन्यां कथयेति; कृमिवर्मा कथयति: एतावत्यो लोके लिपयः प्रचरन्ति, नाहमन्यां जाने इति; ततो बोधिसत्वेन स्वयमेव लिपिर्लिखित्वा कृमिवर्मणो दत्ता; उक्तश्च कथय किंनामेयं लिपिरिति; स कथयति न जानामीति; बोधिसत्वः कथयति: द्वयोर्लोके प्रदुर्भावादियं लिपिः प्रज्ञायते, बोधिसत्वस्य चक्रवर्तिनो वा इति; गगनतलस्थेन ब्रह्मणाभिहितम्: एवमेतत्कृमिवर्मन् यथा बोधिसत्वः कथयति; द्वयोरेव लोके प्रादुर्भावादियं लिपिः प्रज्ञायते, बोधिसत्वस्य चक्रवर्तिनो वा इति; बोधिसत्वेनेयं लिपिर्ब्रह्मस्वरेण वाचिता; ब्रह्मणा च गगनतलस्थेन साक्ष्यं दत्तम्; ब्राह्मी लिपिर्ब्राह्मी लिपिरिति संज्ञा संवृत्ता; यदा बोधिसत्वो लिप्याः पारं गतः भाद्दालिनाम बोधिसत्वस्य मातुलस्तेन हस्तिग्रीवायं शिक्षायां शिक्षितः; सहदेवो नाम इष्वस्त्राचार्यः; तेन पञ्चशतपरिवारः च्छेद्यं शिक्षयितुमारब्धः; भाद्दालिना सहदेव उच्यते: बोधिसत्वः कारुणिकः (अ ३६७ ) सर्वाश्शिक्षाश्शिक्षयितव्यः; एवमन्ये कुमाराह्; अयं देवदत्तः क्रूरकर्मा; अस्य मर्मवेधो न व्यपदेष्टव्यः मा सर्वलोकं व्यापादयिष्यतीति; यदा बोधिसत्वः सर्वशिक्षासु शिक्षितः, पञ्चसु स्थानेषु कृतावी संवृत्तः, दूरवेधे, शब्दवेधे, मर्मवेधे, अक्षूणवेधे, दृढप्रहारितायां च, सामन्तकेन शब्दो विसृतः शाक्यानां कुमार उत्पन्नः पूर्ववद्यावद्विघुष्टशब्दो लोक इति; तेन खलु समयेन वैशालैर्लिच्छविभिर्लक्षणसंपन्नो हस्ती लब्धः; ते संलक्षयन्ति; राज्ञः शुद्धोदनस्य पुत्रो नैमित्तिकैर्व्याकृतः राजा भविष्यति चक्रवर्तीति; तस्यानुभावादिदं हस्तिरत्नम् (५९) उत्पन्नम्; गच्छामस्तस्यैव उपनामयाम इति; ते तं हस्त्यलङ्कारैरलङ्कृत्य महत्या विभूत्या संप्रस्थिता अनुपूर्वेण कपिलवस्त्वन्प्राप्ताः; राजकुलद्वारे हस्तिनं स्थापयित्वा स्थिताः; दैवात्क्रूरकर्मा देवदत्तो निर्गतः; तेनासौ हस्तिनागस्तथालङ्कारविभूषितो दृष्टः; यतोऽस्य महती ईर्ष्या समुत्पन्ना; ईर्ष्यांर्षजातः पृच्छति कस्यायं हस्तिनाग इति; तैः समाख्यातम्; शाक्यमुनिः कुमारो नैमित्तिकैश्चक्रवर्ती व्याकृतः; तस्येदं हस्तिरत्नं वैशालिकेन गणेन प्रेषितमिति; देवदत्तः सुतरां सञ्जातामर्षः कथयति: यावदसौ चक्रवर्ती न भवति तावद्युष्माभिरस्य हस्तिरत्नमुपनीतमित्युक्त्वा तलप्रहारेणासौ हस्ती जीविताद्व्यपरोपितः; यावत्तेन प्रदेशेन नन्दो गच्छति; तेनासौ दृष्टः; स पृच्छति: भवन्तः शोभनोऽयं हस्ती केन प्रघातितः; तैः समाख्यातं: देवदत्तेन; स संलक्षयति: नूनमत्र देवदत्तेन बलं जिज्ञासितम्, <यन्नु वयमप्यत्र बलं जिज्ञासयेमः> इति कृत्वा पुच्छे गृहीत्वा एकान्ते स्थापितो मा दौर्गन्ध्यं करिष्यतीति; यवत्शाक्यमुनिर्बोधिसत्वो निर्गतः; तेनासौ दृष्टः; स पृच्छति; कुतोऽयं हस्ती? तैर्यथावृत्तं समाख्यातम्; केन प्रघातितः? देवदत्तेन; न शोभनम्; अतिथीनामतिथिपूजा कर्तव्या; कस्म्मिन् प्रदेशे प्रघातितः? एतस्मिन्; केनायमत्रानीतः? नन्देन; संलक्षयति: नूनमत्र ताभ्यां बलं जिज्ञासितम्; यन्वहमप्यत्र बलं जिज्ञास्येयमिति विदित्वा पुच्छे गृहीत्वा उपरिष्टात्प्राकारस्य क्षिप्तः सप्त प्राकारान्, सप्त च परिखा लङ्घयित्वा पतितः; तेन पतता गर्ता कृता; हस्तिगर्ता हस्तिगर्ता इति (६०) संज्ञा संवृत्ता; तत्र श्राद्धैर्ब्राह्मणगृहपतिभिश्चैत्यं प्रतिष्ठापितम्; अद्यापि चैत्यवन्दका भिक्षवो वन्दन्ते; आह चात्र यो देवदत्तेन हतो गजेन्द्रो नन्देन नीतश्च पदानि सप्त । स बोधिसत्वेन करेण दूरं क्षिप्तो बहिर्लोष्ट इवान्तरिक्षे ॥ इति ॥ कुमाराः कथयन्ति: गच्छामः; च्छेद्यं कुर्मः इति ते निर्गताः; श्रुत्वा शाक्यमुनिर्बोधिसत्वः पञ्चाशतपरिवारः च्छेद्यं कर्तुं निर्गतः; कुमाराः कलमच्छेद्यं कुर्वन्ति; तैश्छिन्नाश्छिन्नाः पतन्ति; बोधिसत्वः आढकच्छेद्यं करोति; तेन छिन्ना न पतन्ति; तथैवावतिष्ठन्ते; कुमाराः कथयन्ति; भवन्तः शाक्यमुनिर्बोधिसत्वो बलवान् श्रूयते, पञ्चसु स्थानेषु कृतावीति; तदयं छेद्यमपि न जानाति कर्तुम्; न चायमस्मत्तो बलवान्; तथा ह्यस्माभिः पादपाश्छिन्नास्ते सर्वे निपतिताः; अनेन तु ये छिन्नास्ते तथैवावतिष्ठन्त इति; अथ या देवता शाक्यमुनौ बोधिसत्वे अभिप्रसन्ना तस्या एतदभवत्: इमे शाक्या बोधिसत्वबलमजानन्तः शिल्पे च कृतावितां बोधिसत्वस्यावज्ञां करिष्यन्ति; बलं च पंसयिष्यन्ति; तदुपायसंविधानं कर्तव्यमिति; तया तादृशं वातमुत्सृष्टं, येन सर्वे ते वृक्षाः कर्करायमाणाः पतिताः; दृष्ट्वा शाक्याः परं विस्मयमापननाः; ते वेध्यं कर्तुमारब्धाः; तेषां तत्र लोहा लक्ष्याः; सप्त लोहमयास्ताला भेरी <सूरी> च <प्रतिष्ठापिताः>; देवदत्तेन पदबन्धं कृत्वा नाराचः क्षिप्तः; एकस्तालो भिन्नः; नन्देन द्वौ; बोधिसत्वेन नाराचः क्षिप्तः; सप्त ताला भेरी सूरी च भिन्नाः; स नाराचः पातालं प्रविष्टः; नागैरुद्द्ःृतः; पानीयं प्रादुर्भूतं स्वादु; तन्महाजनकायः पातुमारब्धः; श्राद्धैर्ब्राह्मणगृहपतिभिस्तत्र चैत्यं प्रतिष्ठापितम्; अद्यापि चैत्यवन्दका भिक्षवो वन्दन्ते (६१) ______________________________________________________________ शुद्धोदनऽसेffओर्त्स् fओर्६१.१८-६३.३ च्f. अल्सो ग्ब्म् १०.३३४८-३३४९ कुमारा रथाभिरूढाः कपिलवस्तु प्रविशन्ति; नैमित्तिकाश्च नगरान्निष्क्रामन्ति; तैः शाक्यमुनिः कुमारो रथाभिरुढः प्रविशन् व्याकृतः; यद्ययं द्वादशभिर्वर्षैर्न प्रव्रजिष्यति, नियतं राजा भविष्यति चक्रवर्तीति; राज्ञा शुद्धोदनेन श्रुतं कुमारो नैमित्तिकैर्व्याकृत इति; श्रुत्वा पुनः प्रीतिप्रामोद्यजतः शाक्यान् सन्निपात्य कथयति: श्रुतं मे भवन्तः कुमारो नैमित्तिकैर्व्याकृतः यदि द्वादशभिर्वर्षैर्न प्रव्रजिष्यति, नियतं राजा भविष्यति चक्रवर्तीति; तद्यदि कुमारो द्वादशभिर्वर्षैर्न प्रव्रजति राजा भवति चक्रवर्ती; ते वयं गगनतलविचारिणश्चतुरो द्वीपाननुसंयास्यामः; निवेशोऽस्य क्रियताम्; अमात्याः कथयन्ति: देव कुमारोऽनर्थिकः कामैरिति; राजा शुद्धोदनः कथयति: सर्वाः कन्याः कुम्मारस्योपदर्शयामः; यास्याभिप्रेता भविष्यति, तामन्तःपुरं प्रवेशयिष्यामः; अपरे कथयन्ति: देव दानाभिरुचिः कुमारः; कन्यानामलङ्कारो दाप्यताम्; यास्य परितोषं जनयिष्यति तामन्तःपुरं प्रवेशयिष्याम इति; राजा शुद्धोदनः कथयत्येवं क्रियताम्; अमात्यैर्नानाप्रकाराणां रत्नविचित्राणामलङ्काराणां राशिरुपस्थापितः; ततो राज्ञा शुद्धोदनेन गृहशोभां नगरशोभां च कारयित्वा नक्षत्रतिथिमुहूर्तैर्मण्डपे सिंहासनं प्रज्ञप्य शाक्यमुनिकुमारो निषादितः; सिंहासनसमीपे च्द्नानाविचित्राणामलङ्काराणां राशिर्व्यवस्थापितह्; अमात्या अन्यश्च कापिलवास्तवप्रधानसंमतो जनकायः प्रविष्टः; ततः सर्वकन्याः स्वकुलविभवानुरूपेण वेषालङ्कारपरिच्छदेन प्रवेशिताः; बोधिसत्वेन दानरुचितया तासामलङ्कारं दत्तम् (६२) ______________________________________________________________ यशोधरा fओर्६१.१८-६३.३ च्f. अल्सो ग्ब्म् १०.३३४८-३३४९ दण्डपाणेः शाक्यस्य दुहिता यशोधरा नाम रूपयौवनवयसानुगता; दण्डपाणिना शाक्येनोक्ता: पुत्रि बोधिसत्वोऽलङ्कारं ददाति; सा कथयति: तात किमस्माकमालङ्कारिकं नास्ति? पुत्रि न नास्ति; किं तु या (अ ३६८ ) बोधिसत्वस्य कन्याभिरुचिता तामसौ वरयति; तात वरयतु वा मा वा; अपि तु स एव मम भर्ता; पुत्रि यद्येवं सुतरां गन्तव्यम्; गच्छतः; यशोधराभिनववयाः; सुवेषा, महाजनमनोनयनान्याक्षिपन्ती सर्वास्ताः कन्याः देवकन्या इवावभासमाना प्रविश्य शान्तेनेर्यापथेन बोधिसत्वस्य पुरस्तादवस्थिता; बोधिसत्वेन सर्वालङ्कारिकं दत्तम्; अङ्गुलीयकमेव समवशिष्टम्; बोधिसत्वेन तस्यास्तदुपदर्शितम्; ततस्तया अनादिकालप्रकर्षप्रणयनया सिंहासनसोपानकमभिरुह्य बोधिसत्वहस्तात्स्वयमाकृष्टम्; अमात्याः कापिलवास्तवश्च प्रधानसंमतो जनकायः कथयन्ति: भवन्तः सर्वकन्यानामियं विशिष्टा; शक्नोत्येषा कुमारस्य चित्तग्राहं कर्तुम्; एषा प्रवेश्यतामिति; ततो राज्ञा शुद्धोदनेन यशोधरा विंशतिकन्यासहस्रपरिवारा शाक्यमुणेः कुमारस्यान्तःपुरं प्रवेशिता ______________________________________________________________ थे सारकल्याणि-त्रेए, थे गोओसे अन्द्देवदत्तऽस्fइर्स्तॄउअर्रेल् fओर्६१.१८-६३.३ च्f. अल्सो ग्ब्म् १०.३३४८-३३४९ धर्मता खलु यदा बुद्धा भगवन्तो लोक उत्पद्यन्ते तदा सारकल्याणी नामा वृक्षो जायते; स दिवसेन हस्तशतं वर्धते; यावच्चादित्यो नोदयति तावन्नखेनापि छिद्यते; उदिते त्वादित्ये शस्त्रेणापि न छिद्यते; अग्निनापि न दह्यते; अन्तरा च कपिलवस्तु अन्तरा च देवदृषम्, (६३) अत्रान्तरा नदी रोहका नाम, तस्याः कूले जातः; कालेन कालमुदकवृद्ध्या तस्य मूलं शोचितम्; वातवशात्पतितः सेतुवन्नदीं रुद्ध्वा स्थितः; ततः सुप्रबुद्धस्य राज्ञः अनुदकेन देशो नाश्यति; शुद्धोदनस्याप्युदकेन; सुप्रबुद्धेन राज्ञः शुद्धोदनस्य सन्दिष्टम्: सारकल्याणि वृक्षः पतितः; रोहकां नदीमवष्टभ्यावस्थितः; कुमारा बलवन्तः श्रूयन्ते; तदेतान् प्रेषयितुमर्हसि इति; राजा शुद्धोदनः कथयति: नाहं कुमाराणामाज्ञां ददामीति; छन्दः कथयति: केवलं देवोऽनुजानातु; अहं तथा करिष्यामि यथा न च कुमाराणामाज्ञा दीयते, अथ च पुनः स्वयमेव गच्छन्तीति; राज्ञा शुद्धोदनेनाधिवासितं; छन्देन नद्या रोहकायास्तीरे प्रत्येकं कुमाराणामुद्यानानि मापितानि; उक्ताश्च कुमारा गच्छाम उद्यानं; ते कथयन्ति, गच्छामः; ते प्रत्येकं रथमभिरुह्य उद्यानं गताः; देवदत्तस्योद्यानोपरिष्टद्धंसो गच्छति; स देवदत्तेन शरेण विद्धः; बोधिसत्वस्योद्याने निपतितः; बोधिसत्वेन गृहीत्वा विशल्यीकृतः; उपहारश्च दत्तः; स्वस्थो जातः; देवदत्तेन बोधिसत्वस्य सन्दिष्टम्: मयायं पूर्वपरिगृहीतो हंसः, प्रेषयैनमिति; बोधिसत्वेन सन्दिष्टम्: यदैव मया बोधाय चित्तमुत्पादितं, तैदैव मया सर्वसत्वाः परिगृहीता इति; तत्र देवदत्तस्य बोधिसत्वेन सार्धं चरमे भवे तत्प्रथमतो वैरूक्ष्यमुत्पन्नम्; अन्यभवेषु तु बहुशः; सुप्रबुद्धेन (६४) कुमारा उद्यानभूमिं सारकल्याणीवृक्सस्यापनयनाय निर्गता इति श्रुत्वा महाजनकायः प्रेषितः; तत्रोच्चशब्दमहाशब्दो महाजनकायस्य च निर्घोषो जातः; बोधिसत्वः (अ ३६९ ) पृच्छति: भवन्तः किमेष उच्चशब्दमहाशब्दो महाजनकायस्य च निर्घोष इति; छन्देन यथावृत्तं समाख्यातम्; बोधिसत्वः कथयति: यद्येवं गच्छामोऽपनयामः; बोधिसत्वः संप्रस्थितः सार्धं कुमारैः; यावद्विवरादाशीविषो बोधिसत्वस्याभिमुखो निर्गतः; उदायिना मा बोधिसत्वं दङ्क्ष्यतीति तीक्ष्णेन शस्त्रेण मध्ये छिन्नः; तेन उदायी श्वासेन दग्धः कृष्णीभूतः; तस्य कालोदायी कालोदयीति संज्ञा संवृत्ता; ततः कुमाराः सारकल्याणीवृक्षमपनेतुं प्रवृत्ताः; देवदत्तेन परिकरं बद्ध्वा ईषच्चालितः; नन्देनेषदुत्क्षिप्तः; बोधिसत्वेन तु सर्वमुपरि विहायसा क्षिप्तो द्विखण्डो जातः; नद्या रोहकाया एकस्मिंस्तीरे एकखण्डो निपरितः, द्वितीये द्वितीयः; बोधिसत्वः कथयति: भवन्तः अयं सारकल्याणीवृक्षः शीतविपाकः, पित्तघ्नः; गण्डगण्डं कृत्वा नयत; उत्पातगण्डपिटकानां प्रलेपं दास्यथ; कुमाराः स्वकस्वकान् रथानभिरुह्य उद्यानभूमेः कपिलवस्तु संप्रस्थिताः; पुरप्रवेशे रथाभिरूढो बोधिसत्वो नैमित्तिकैर्व्याकृतः; यद्येष सप्तदिवसे न प्रव्रजति, राजा भवति चक्रवर्तीति ______________________________________________________________ मेएतिन्ग्wइथ्गोपिका घाटागिरेः शाक्यस्य गोपिका दुहिता, उपरिप्रासादतलगता बोधिसत्वेन दृष्टा; सहदर्शनाच्च रथः पादाङ्गुष्ठेनावष्टब्धो निष्कम्पो जातः; बोधिसत्वो गोपिकां निरीक्षितुमारब्धः; गोपिकापि बोधिसत्वम्; बोधिसत्वस्य हस्ते नाराचः; स तेन गोपिकां पश्यता चूर्णीकृतः; गोपिकयापि बोधिसत्वं (६५) निरीक्षमाणया पादाङ्गुष्ठेन प्रासादतलं छिद्रितम्; महाजनकायेन बोधिसत्वो गोपिका च परस्परं निऋईक्षमाणौ भाविताध्याशयौ दृष्टौ; <दृष्ट्वा कथयन्ति>: यादृशी कन्या शक्ष्यत्येवैषा बोधिसत्वस्य चित्तग्राहं कर्तुम्; एष वृत्तान्तो राज्ञा शुद्धोदनेन श्रुतः; तेन <सा> बोधिसत्वस्यान्तःपुरं विंशतिकन्याशहस्रपरिवारा प्रवेशिता ______________________________________________________________ सिघ्तोf अमोल्द्मन् धर्मता खलु यदा बोधिसत्व उद्यानभूमिं निर्गन्तुकामो भवति तदा सारथिमामन्त्रयते: अङ्ग तावत्सारथे क्षिप्रं भद्रं यानं योजय यत्राहमभिरुह्योद्यानभूमिं निर्यास्यामि <इति; ततो बोधिसत्वः सारथिमामन्त्रयते: अङ्ग तावत्सारथे क्षिप्रं भद्रं यानं योजय यत्राभिरुह्योद्यानभूमिं गच्छामि;> एवं देवेति सारथिः शाक्यमुनेर्बोधिसत्वस्य प्रतिश्रुत्य भद्रं यानं योजयित्वा येन शाक्यमुनिर्बोधिसत्वस्तेनोपसङ्क्रान्तः; उपसङ्क्रम्य शाक्यमुनिं बोधिसत्वमिदमवोचत्: युक्तं देवस्य भद्रं यानं, यस्येदानीं देवः कालं मन्यते; अथ शाक्यमुनिर्बोधिसत्वो भद्रं यानमभिरुह्य उद्यानभूमिं निर्गतः; अद्राक्षीच्छाक्यमुनिर्बोधिसत्वः पुरुषं जीर्णं वृद्धं महल्लकं <कुब्जं> गोपानसीवाङ्कं दण्डमवष्टभ्य पुरतः प्रवेपमानेन कायेन गच्छन्तं; केशाश्चास्य विवर्णा, न यथान्येषां पुरुषाणां; दृष्ट्वा च पुनः सारथिमामन्त्रयते: क एष सारथे पुरुषः? जीर्णो (अ ३६९ ) वृद्धो महल्लकः कुब्जो गपानसीवङ्को दण्डमवष्टभ्य पुरतः प्रवेपमानेन कायेन गच्छति; केशाश्चास्य न यथान्येषां पुरुषाणाम्; एष, देव, पुरुषो जीर्णो नाम; क एष सारथे जीर्णो नाम?; अनेन, देव, पुरुषेण न चिरादेव मर्तव्यं भविष्यति; स एष जीर्नो नाम; अहमपि सारथे जराधर्मा, जराधर्मतां चानतीतः? देवोऽपि जराधर्मा जराधर्मतां चानतीतः; तेन हि सारथे प्रतिनिवर्तय (६६) रथम्; अन्तःपुरमेव गच्छ; यदहमन्तःपुरमध्यगत एतमर्थं चिन्तयिष्यामीति; जरां किलाहमव्यतिवृत्त इति; प्रतिनिवर्तयति सारथी रथम्; अन्तःपुरमेव याति; तत्र स्विच्छाक्यमुनिर्बोधिसत्वोऽन्तःपुरमध्यगतः; अथाप्रतीतः करुणानि ध्यायति, जरां किलाहमव्यतिवृत्त इति; आह चात्र पुरुषं हि दृष्ट्वा समतीतयौवनं जीर्णं कुब्जं पलितं दण्डपाणिम् । अथाप्रतीतः करुणानि ध्यायति जरां किलास्म्यव्यतिवृत्त इत्यसौ ॥ इति ॥ अथ राजा शुद्धोदनः सारथिमामन्त्रयते: कच्चित्सारथे कुमार आत्तमनात्तमना उद्यानभूमिं निर्गत अभिरतो वा उद्याने?; नो देव: तत्कस्य हेतोः? अद्राक्षीद्देव कुमार उद्यानभूमिं निर्गच्छन् पुरुषं जीर्णं वृद्धं महल्लकं कुब्जं गोपानसीवङ्कं दण्डमवष्टभ्य पुरतः प्रवेपमानेन कायेन गच्छन्तम्; केशाश्चास्य विवर्णा; न यथान्येषां पुरुषाणाम्; दृष्ट्वा च पुनर्मामिदमवोचत्: क एष सारथे पुरुषो जीर्णो वृद्धो महल्लकः कुब्जो गोपानसीवङ्को दण्डमवष्टभ्य पुरतः प्रवेपमानेन कायेन गच्छति; केशाश्चास्य विवर्णा न यथान्येषां पुरुषाणामिति; तमेनमेवं वदामि; एष देव जीर्णो नामेति; स एवमाह; क एष सारथे जीर्णो नामेति; तमेनमेवं वदामि: अनेन देव, पुरुषेण न चिरान्मर्तव्यं भविष्यति; स एष जीर्णो नामेति; स एवमाह: अहमपि सारथे जराधर्मा, जराधर्मतां चानतीत इति; तमेनमेवं वदामि: देवोऽपि जराधर्मा, जराधर्मतां चानतीत इति; स एवमाह: तेन हि सारथे प्रतिनिवर्तय रथम्; अन्तःपुरमेव गच्छ; यदहमन्तःपुरमध्यगत एतमर्थं चिन्तयामि, जरां किलाहम् (६७) अव्यतिवृत्त इति; स एष देव कुमारोऽन्तःपुरमध्यगतः; अथाप्रतीतः करुणानि ध्यायति, जरां किलाहमव्यतिवृत्त इति ______________________________________________________________ शुद्धोदनस्ऽ अन्xइएत्य् अथ राज्ञः शुद्धोदनस्य एतदभवत्: मा हैव तेषां ब्राह्मणानां नैमित्तिकानां विपञ्चनकानां च वचनं भूतं सत्यं भविष्यति; मा हैव कुमारः केशश्मश्र्ववतार्य काषायाणि वस्त्राण्याच्छाद्य सम्यगेव श्रद्धया अगारादनगारिकां प्रव्रजिष्यति; यन्वहं कुमारस्य भूयस्या मत्रया पञ्च कामगुणाननुप्रदद्याम्, अप्येवाभिरतो न प्रव्रजेदिति; अथ राजा शुद्धोदनः शाक्यमुनेर्बोधिसत्वस्य भूयस्या मात्रया पञ्चकामगुणान् (अ ३७० ) अनुप्रयच्छत्यप्येवाभिरतो न प्रव्रजेदिति; आह चात्र श्रुत्वा हि सङ्ग्राहकवाक्यमेतच् छुद्धोदनः शाक्यमुनेः पितासौ । ददौ तदा कामगुणान् स पञ्च भूयो रतोऽप्येव न मां त्यजेदिति ॥ ______________________________________________________________ सिघ्तोf अ सिच्क्मन् धर्मता खलु यदा बोधिसत्व उद्यानभूमिं निर्गन्तुकामो भवति तदा सारथिमामन्त्रयते: अङ्ग तावत्सारथे क्षिप्रं भद्रं यानं योजय, यत्राहमभिरुह्योद्यानभूमिं निर्यास्यामि इति; ततो बोधिसत्वः सारथिमामन्त्रयते: अङ्ग तावत्सारथे क्षिप्रं भद्रं यानं योजय, यत्राहमभिरुह्योद्यानभूमिं निर्यास्यामि (६८) इति; एवं देवेति सारथिः शाक्यमुनेर्बोधिसत्वस्य प्रतिश्रुत्य क्षिपं भद्रं यानं योजयित्वा येन शाक्यमुनिर्बोधिसत्वस्तेनोपसङ्क्रान्तः; उपसङ्क्रम्य शायमुनिं बोधिसत्वमिदमवोचत्: युक्तं देवस्य भद्रं यानं, यस्येदानीं देवः कालं मन्यत इति; अथ शाक्यमुनिर्भद्रं यानमभिरुह्य उद्यानभूमिं निर्गतः; अद्राक्षीच्छाक्यमुनिर्बोधिसत्वः पुरुषमुत्पाण्डूत्पाण्डुकं कृशालं दुर्बलकं व्यतिभिन्नेन्द्रियं नो तु निबन्धनीयं बहुजनस्य चक्षुषो दर्शनाय; दृष्ट्वा च पुनः सारथिमामन्त्रयते: क एष सारथे पुरुष उत्पाण्डूत्पाण्डुकः कृशालो दुर्बलको व्यतिभिन्नेन्द्रियो नो तु निबन्धनीयो बहुजनस्य चक्षुषो दर्शनाय? एष देव व्याधितो नाम; क एष सारथे व्याधितो नाम? अनेन देव पुरुषेण स्थानमेतद्विद्यते यदनेनैवाबाधेन मर्तव्यं भविष्यति; स एष व्याधितो नाम; अहमपि सारथे व्याधिधर्मा व्याधिधर्मतां चानतितह्? देवोऽपि व्याधिधर्मा व्याधिधर्मतां चानतीतः; तेन हि सारथे प्रतिनिवर्तय रथम्; अन्तःपुरमेव गच्छ; यदहमन्तःपुरमध्यगत एतमर्थं चिन्तयिष्यामि, व्याधिं किलाहमव्यतिवृत्त इति; प्रतिनिवर्तयति सारथी रथम्; अन्तःपुरमेव याति; तत्र स्विच्छाक्यमुनिर्बोधिसत्वोऽन्तःपुरमध्यगतः; अथाप्रतीतः करुणानि ध्यायति, व्याधिं किलाहमव्यतिवृत्त इति; आह चात्र दृष्ट्वेह रोगेण विषक्तरूपं पाण्डुं मनुष्यं कृशमस्वतन्त्रम् । अथाप्रतीतः करुणानि ध्यायति व्याधिं किलास्म्यव्यतिवृत्त इत्यसौ ॥ इति । अथ राजा शुद्धोदनः सारथिमामन्त्रयते: कच्चित्सारथे कुमार आत्तमनात्तमना उद्यानभूमिं निर्गत अभिरतो वा उद्याने? नो देव; तत्कस्य हेतोः? अद्राक्षीद्देव कुमारः उद्यानभूमिं निर्गच्छन् पुरुषम् (६९) उत्पाण्डूत्पाण्डुकं कृशालकं दुर्बलकं म्लानं व्यतिभिन्नेन्द्रियं, नो तु निबन्धनीयं बहुजनस्य चक्षुषा दर्शनाय; दृष्ट्वा च पुनर्मामामन्त्रयते; क एष सारथे पुरुष उत्पण्डूत्पाण्डुकः कृशालको दुर्बलकः म्लानो व्यतिभिन्नेन्द्रियो नो तु निबन्धनीयो बहुजनस्य चक्षुषा दर्शनाय; तमेनमेवं वदामि: एष देव व्याधितो नमेति; स एवमाह: क एष सारथे व्याधितो नाम? तमेनमेवं वदामि: अनेन देव पुरुषेण स्थानमेतद्विद्यते यदनेनैवाबाधेन मर्तव्यं भविष्यति; स एष देव व्याधितो नामेति; स एवमाह: अहमपि सारथे व्याधिधर्मा व्याधिधर्मतां चानतीत? इति; तमेनमेवं वदामि: देवोऽपि व्याधिधर्मा व्याधिधर्मतां चानतीत इति; स एवमाह: तेन हि सारथे प्रतिनिवर्तय रथम्; अन्तःपुरमेव गच्छ; यदहमन्तःपुरमध्यगत एतमर्थं चिन्तयिष्यामि, व्याधिं किलाहमव्यतिवृत्त इति; स एष देव कुमारोऽन्तःपुरमध्यगत अप्रतीतः करुणानि ध्यायति, व्याधिं किलाहमव्यतिवृत्त इति; अथ राज्ञः शुद्धोदनस्यैतदभवत्: मा हैव तेषां ब्राह्मणानां नैमित्तिकानां विपञ्चनकानां वचनं भूतं सत्यं भविष्यति; मा हैव कुमारः केशश्मश्र्ववतार्य काषायाणि वस्त्राण्याच्छाद्य सम्यगेव श्रद्धया अगारादनगारिकां प्रव्रजिष्यतीति; यन्वहं कुमारस्य भूयस्या मात्रया पञ्चकामगुणाननुप्रदास्यामि; अप्येवाभिरतो न प्रव्रजेदिति; अथ राजा शुद्धोदनः शाक्यमुनेर्बोधिसत्वस्य भूयस्या मात्रया पञ्चकामगुणाननुप्रयच्छत्यप्येवाभिरतो न प्रव्रजेदिति; आह चात्र रूपाणि शब्दांश्च तथैव गन्धान् स्प्रष्टव्यान् वै प्रेमणीयान् प्रधानान् । (७०) ददौ तदा कामगुणांस्तु पञ्च भूयो रतोऽप्येव न मां त्यजेदिति ॥ ______________________________________________________________ सिघ्तोf अ देचेअसेद्-मन् धर्मता खलु यदा बोधिसत्व उद्यानभूमिं निर्गन्तुकामो भवति तदा सारथिमामन्त्रयते: अङ्ग तावत्सारथे क्षिप्रं भद्रं यानं योजय; यत्राहमभिरुह्योद्यानभूमिं निर्यास्यामि इति; ततो बोधिसत्वः सारथिमामन्त्रयते: अङ्ग तावत्सारथे क्षिप्रं भद्रं यानं योजय, यत्राभिरुह्योद्यानभूमिं गच्छामि; एवं देवेति सारथिः शाक्यमुनेर्बोधिसत्वस्य प्रतिश्रुत्य क्षिप्रं भद्रं यानं योजयित्वा येन शाक्यमुनिर्बोधिसत्वस्तेनोपसङ्क्रान्तः: उपसङ्क्रम्य शाक्यमुनिं बोधिसत्वमिदमवोचत्: युक्तं देवस्य भद्रं यानं यस्येदानीं देवः कालं मन्यत इति; अथ शाक्यमुनिर्बोधिसत्वो भद्रं यानमभिरुह्य उद्यानभूमिं निर्गतः; अद्राक्षीच्छाक्यमुनिर्बोधिसत्व उद्यानभूमिं निर्गच्छन्नानारङ्गैर्वस्त्रैश्चैलवितानं विततं, शिबिकां च प्रगृहीताम्, उल्कां च पुरस्तान्नीयमानां, महाजनकायं च पुरस्ताद्गच्छन्तं, नारीभिः प्रकीर्णकेशाभिः रुदन्तीभिः पृष्ठतः समनुबद्धम्; दृष्ट्वा च पुनः सारथिमामन्त्रयते: किमेतत्सारथे नानारङ्गैर्वस्त्रैश्चैलवितानं विततम्? शिबिका च प्रगृहीता? उल्का च पुरस्तान्नीयते? महाजनकायश्च पुरस्ताद्गच्छति? नार्यश्च प्रकीर्णकेश्यो रुदन्त्यः पृष्ठतः समनुबद्धा? इति; देव एष मृतो नाम; क एष सारथे मृतो नाम? एष देव पुरुषो न भूयः प्रियं मातापितरं द्रक्ष्यति; न पुत्रदारं; दासीदासकर्मकरपौरुषेयं; तेऽप्येनं न भूयो द्रक्ष्यन्ति; स एष देव मृतो नाम; अहमपि सारथे मरणधर्मा मरणधर्मतां चानतीतः? (अ ३७१ ) देवोऽपि मरणधर्मा मरणधर्मतां चानतीतः; स एवमाह: तेन हि सारथे प्रतिनिवर्तय रथम्; अन्तःपुरमेव गच्छ; यदहं (७१) अन्तःपुरमध्यगत एतमर्थं चिन्तयिष्यामि, मरणं किलाहमव्यतिवृत्त इति; प्रतिनिवर्तयति सारथी रथम्; अन्तःपुरमेव याति; तत्र स्विच्छाक्यमुनिर्बोधिसत्वोऽन्तःपुरमध्यगतः अप्रतीतः करुणानि ध्यायति, मरणं किलाहमव्यतिवृत्त इति; आह चात्र पुरुषं दृष्ट्वा व्यपयातचेतसं मृतं विसंज्ञं गतमायुषः क्षयात् । अथाप्रतीतः करुणानि ध्यायति मृत्युं किलास्म्यव्यतिवृत्त इत्यसौ ॥ अथ राजा शुद्धोदनः सारथिमामन्त्रयते: कच्चित्सारथे कुमार आत्तमनात्तमना उद्यानभूमिं निर्गत अभिरतो वा उद्याने? नो देव; तत्कस्य हेतोः? अद्राक्षीद्देव कुमार उद्यानभूमिं निर्गच्छन्नानारङ्गैर्वस्त्रैश्चैलवितानं विततम्; शिबिकां च गृहीताम्; उल्कां च पुरस्तान्नीयमानाम्; महाजनकायं च पुरस्ताद्गच्छन्तं; नारीश्च प्रकीर्णकेशा रुदतीः पृष्ठतः समनुबद्धाः; दृष्ट्वा च पुनर्मामामन्त्रयते: किमेतत्सारथे नानारङ्गैर्वस्त्रैश्चैलवितानं विततम्? शिबिका च प्रगृहीता? उल्का च पुरस्तान्नीयते? महाजनकायश्च पुरस्ताद्गच्छति? नार्यश्च प्रकीर्णकेश्यो रुदन्त्यः पृष्ठतः समनुबद्धा? इति; तमेनमेवं वदामि: एष देव मृतो नामेति; स एवमाह; क एष सारथे मृतो नामेति; तमेनमेवं वदामि: (७२) एष देव पुरुषो न भूयः प्रियं मातापितरं द्रक्ष्यति; न पुत्रदारं; न दासीदासकर्मकरपौरुषेयम्; तेऽप्येनं न भूयो द्रक्ष्यन्ति; स एष देव मृतो नामेति; स एवमाह: अहमपि सारथे मरणधर्मा? मरणधर्मतां चानतीतः? इति; तमेनमेवं वदामि; देवोऽपि मरणधर्मा मरणधर्मतां चानतीत इति; स एवमाह; तेन हि सारथे प्रतिनिवर्तय रथम्; अन्तःपुरमेव गच्छ; यदहमन्तःपुरमध्यगत एतमर्थं चिन्तयिष्यामि, मरणं किलाहमव्यतिवृत्त इति; स एष देव कुमारोऽन्तःपुरमध्यगतः; अथाप्रतीतः करुणानि ध्यायति, मरणं किलाहमव्यतिवृत्त इति अथ राज्ञः शुद्धोदनस्यैतदभवत्: मा हैव तेषां ब्राह्मणानां नैमित्तिकानां विपञ्चनकानां वचनं भूतं सत्यं भविष्यति; मा हैव कुमारः केशश्मश्र्ववतार्य काषायाणि वस्त्राण्याच्छाद्य सम्यगेव श्रद्धया अगारादनगारिकां प्रव्रजिष्यति; यन्वहं कुमारस्य भूयस्या मात्रया पञ्चकामगुणाननुप्रदद्याम्; अप्येवाभिरतो न प्रव्रजेदिति; अथ राजा शुद्धोदनः शाक्यमुनेर्बोधिसत्वस्य पञ्चकामगुणाननुप्रयच्छति; अप्येवाभिरतो न प्रव्रजेदिति; आह चात्र पुरोत्तमे श्रीमति तत्र रम्ये देवातिदेवो दहरः समानः । संमोदते कामगुणैर्हि पञ्चभिः सहस्रनेत्र इव नन्दने वने ॥ ______________________________________________________________ सिघ्तोf अ मेन्दिचन्त् अथ शुद्धावासकायिकानां देवानामेतदभवत्: (अ ३७ ब्) यद्यपि बोधिसत्वा हेतुबलिनस्तथापि प्रत्ययोपसंहारः (७३) कर्तव्यः यस्माद्धेतुबलं प्रत्ययबलमपेक्षत इति; तैः पुरुषो निर्मितो मुण्डः काषायवस्त्रप्रावृतः, पात्रपाणिरनुवेश्मानुवेश्म कुलान्युपसङ्क्रामन्; धर्मता खलु यदा बोधिसत्व उद्यानभूमिं निर्गन्तुकामो भवति तदा सारथिमामन्त्रयते: अङ्ग तावत्सारथे क्षिप्रं भद्रं यानं योजय, यत्राहमभिरुह्योद्यानभूमिम् <निर्यास्यामि इति; ततो बोधिसत्वः सारथिमामन्त्रयते: अङ्ग तावत्सारथे क्षिप्रं भद्रं यानं योजय यत्राहमभिरुह्योद्यानभूमिं> निर्गच्छामि; एवं देवेति सारथिः साक्यमुनिर्बोधिसत्वस्य प्रतिश्रुत्य क्षिप्रं भद्रं यानं योजयित्वा येन साक्यमुनिर्बोधिसत्वस्तेनोपसङ्क्रान्तः; उपसङ्क्रम्य शाक्यमुमिं बोधिसत्वमिदमवोचत्: युक्तं देवस्य भद्रं यानं यस्येदानीं देवः कालं मन्यत इति; अथ शाक्यमुनिर्बोधिसत्वो भद्रं यानमभिरुह्य उद्यानभूमिं निर्गतः; अद्राक्षीच्छाक्यमुनिर्बोधिसत्वः पुरुषं मुण्डं काषायवस्त्रप्रावृतं पात्रपाणिमनुवेश्मानुवेश्म कुलान्युपसङ्क्रामन्तम्; दृष्ट्वा च पुनः सारथिमामन्त्रयते: क एष सारथे पुरुषो मुण्डः पात्रपाणिरनुवेश्मानुवेश्म कुलान्युपसङ्क्रामति? वस्त्राणि चास्य विवर्णानि; म यथान्येषाम्? एष देव प्रव्रजितो नाम; क एष सारथे प्रव्रजितो नाम; एष देव प्रव्रजितः साधुदमः साधुसंयमः साध्वर्थचर्यः साधुकुशलचर्यः साधुकल्याणचर्य इति विदित्वा केशश्मश्र्ववतार्य काषायाणि वस्त्राण्याच्छाद्य सम्यगेव श्रद्धया अगारादनगारिकां प्रव्रजितः; स एष देव प्रव्रजितो नाम; तेन हि सारथे येनैष प्रव्रजितस्तेन रथं प्रेरय; एवं देवेति सारथिः शाक्यमुनेर्बोधिसत्वस्य प्रतिश्रुत्य येन स प्रव्रजितस्तेन रथं प्रेरयति; अथ शाक्यमुनिर्बोधिसत्वस्तं प्रव्रजितमिदमवोचत्: कस्मात्त्वं भोः पुरुष मुण्डः पात्रपाणिरनुवेश्मानुवेश्म कुलान्युपसङ्क्रामसि? वस्त्राणि च ते विवर्णानि न यथान्येषाम्? स एवमाह: अहमस्मि कुमार प्रव्रजितो नाम; यथा कथं त्वं भोः पुरुष प्रव्रजितो नाम? अहमस्मि कुमार साधुदमः साधुसंयमः साध्वर्थचर्यः साधुधर्मचर्यः (७४) साधुकुशलचर्यः साधुकल्याणचर्य इति केशश्मश्र्ववतार्य काषायाणि वस्त्राण्याच्छाद्य संयगेव श्रद्धया अगारादनगारिकां प्रव्रजितः; एवमहं प्रव्रजितो नाम; साधु त्वं भोः पुरुष साधुदमः साधुसंयमः साध्वर्थचर्यः साधुधर्मचर्यः साधुकुशलचर्यः साधुकल्याणचर्य इति केशश्मश्र्ववतार्य काषायाणि वस्त्राण्याच्छाद्य सम्यगेव श्रद्धया अगारादनगारिकां प्रव्रजितः अथ शाक्यमुनिर्बोधिसत्वः सारथिमामन्त्रयते: तेन हि सारथे प्रतिनिवर्तय रथम्; अन्तःपुरमेव गच्छ; यदहमन्तःपुरमध्यगत एतमर्थं चिन्तयिष्यामि; प्रतिनिवर्तयति (अ ३७२ ) सारथी रथम्; अन्तःपुरमेव याति; तत्र स्विच्छाक्यमुनिर्बोधिसत्वोऽन्तःपुरमध्यगत एतमर्थं चिन्तयत्यहो बताहं केशश्मश्र्ववतार्य काषायाणि वस्त्राण्याच्छाद्य सम्यगेव श्रद्धया अगारादनगारिकां प्रव्रजेयमिति; अथ राजा शुद्धोदनः सारथिमामन्त्रयते: कच्चित्सारथे कुमार आत्तमनात्तमना उद्यानभूमिं निर्गतोऽभिरतो वा उद्याने? नो देव; तत्कस्य हेतोह्? अद्राक्षीद्देव कुमारः उद्यानभूमिं निर्गच्छन् पुरुषं मुण्डं काषायवस्त्रप्रावृतं पात्रपाणिमनुवेश्मानुवेश्म कुलान्युपसङ्क्रामन्तं; दृष्ट्वा च पुनर्मामामन्त्रयते: एष सारथे मुण्डः पात्रपाणीरनुवेश्मानुवेश्म कुलान्युपसङ्क्रामति; वस्त्राणि चास्य विवर्णानि न यथान्येषामिति; तमेनमेवं वदामि एष देव प्रव्रजितो नामेति; स एवमाह: क एष सारथे प्रव्रजितो नामेति; तमेनमेवं वदामि एष देव प्रव्रजितः साधुदमः साधुसंयमः साध्वर्थचर्यः साधुधर्मचर्यः साधुकुशलचर्यः साधुकल्याणचर्य इति केशश्मश्र्ववतार्य काषायाणि वस्त्राण्याच्छाद्य सम्यगेव श्रद्धया अगारादनगारिकां प्रव्रजितः; स एष देव प्रव्रजितो नामेति; स एवमाह: तेन हि सारथे येनैष प्रव्रजितस्तेन रथं प्रेरय; एवं देवेति शाक्यमुनेर्बोधिसत्वस्य पुअतिश्रुत्य येन स प्रव्रजितस्तेन रथं प्रेरयामि; अथ शाक्यमुनिर्बोधिसत्वस्तं प्रव्रजितमिदमवोचत्: कस्मात्त्वं भोः पुरुष मुण्डः पात्रपाणिरनुवेश्मानुवेश्म कुलान्युपसङ्क्रामसि? वस्त्राणि (७५) च ते विवर्णानि; न यथान्येषां पुरुषाणाम्? स एवमाह: अहमस्मि <कुमार> प्रव्रजितो नामेति; बोधिसत्वः प्राह: यथाकथं त्वं भोः पुरुष प्रव्रजितो नामेति; स एवमाह: अहमस्मि कुमार साधुदमः साधुसंयमः साध्वर्थचर्यः <साधुधर्मचर्यः> साधुकुशलचर्यः साधुकल्याणचर्य इति केशश्मश्र्ववतार्य काषायाणि वस्त्राण्याच्छाद्य सम्यगेव श्रद्धया अगारादनगारिकां प्रव्रजितः; एवमहं प्रव्रजितो नामेति; बोधिसत्वः प्राह: साधु त्वं भोः पुरुष साधुदमः साधुसंयमः साध्वर्थचर्यः <साधुधर्मचर्यः> साधुकुशलचर्यः साधुकल्याणचर्य इति केशश्मश्र्ववतार्य काषायाणि वस्त्राण्याच्छाद्य सम्यगेव श्रद्धया अगारादनगारिकां प्रव्रजित इति; ततो देव कुमारो मामामन्त्रयते: तेन हि सारथे प्रतिनिवर्तय रथम्; अन्तःपुरमेव गच्छ; यदन्तःपुरमध्यगत एतमर्थं चिन्तयिष्यामि; तन्मया निवर्तितः <रथः>; कुमारोऽन्तःपुरं प्रविष्टः ______________________________________________________________ विसित्तो अ fअर्मिन्ग्विल्लगे राजा संलक्षयति: मा हैव तेषां ब्राह्मणानां नैमित्तिकानां विपञ्चनकानां वचनं सत्यं भूतं भविष्यति; मा हैव कुमारः केशश्मश्र्ववतार्य काषायाणि वस्त्राण्याच्छाद्य सम्यगेव श्रद्धया अगारादनगारिकां प्रव्रजिष्यति; यन्वहं कुमारं कार्षग्रामकं प्रेषयेयम्; अप्येव तत्र चित्तं विनोदयेदिति विदित्वा शाक्यमुनिं कुमारमिदमवोचत्: एहि त्वं कुमार कार्षकग्रामकं गच्छ; (अ ३७२ ) कर्मान्तान्यवलोकय इति; ततो बोधिसत्वो जीर्णातुरमृतसन्दर्शनादुद्विग्नः प्रव्रज्यायामभिनिविष्टबुद्धिः पितुः शाक्यस्य शुद्धोदनस्य वचनानुकारितया रथमभिरुह्य कार्षग्रामकं संप्रस्थितः कायेन नो तु चित्तेन; तस्यान्तर्मार्गे पञ्चभिर्निधिशतैर्मुखान्युपदर्शितानि; शब्दश्च निश्चारितः: कुमार वयं तव ज्ञातिसन्तका निधयो गृहाणास्मानिति; बोधिसत्वः कथयति: तैस्तावन्मोहपरिग्रहं कृत्वा किं कृतम्; गच्छत मम न युष्माभिः प्रयोजनमिति; गाथां च भाषते (७६) यैरपि कृताऽमृतकथा तेऽप्यस्माकं मृताः कथीभूताः । वयमपि मृताः परेषां नचिरेण कथीभविष्यामः ॥ तैः पुनरपि शब्दो निश्चारितः: यद्यस्माकं कुमारो न गृह्णाति वयं म्हासमुद्रं विशाम इति; बोधिसत्वः कथयति: प्रविशत यथासुखमिति; ते महासमुद्रं प्रविष्टाः; बोधिसत्वः संप्रस्थितो यावत्पश्यति कार्षकानुद्धूतशिरस्कान् स्फुटितपाणिपादान् रजसावचूर्णितगात्रान्; बलीवर्दांश्च प्रतोदविक्षतशरीरान् रुधिरावसिक्तपृष्ठकटिप्रदेशान् क्षुत्पिपासाश्रमोपरुध्यमानप्राणान्, प्रततनिश्वासोपरुध्यमानहृदयान्, युतगोत्पीडनप्रगडितव्रणपूयशोणितान्, मक्षिकाकृमिसङ्घातभक्ष्यमाणस्कन्धप्राणान्, हलयुगविलिखितचरणान्, लालाशिङ्घाणकप्रस्रुतमुखनासान्, दंशमशकचर्मप्राणकाकीर्णान्; दृष्ट्वा च पुनरनादिकालपुण्योपचयसंभृतया करुणया पर्याकुलीकृतमनाः कार्षकानिदमवोचत्: भवन्तः कस्य यूयं? ते कथयन्ति: देवस्य; स कथयति: गच्छत, भवन्तो, यूयमद्याग्रेणादासा अप्रेष्याभुजिष्या येनकामगमा सुखस्पर्शं विहरत; बलीवर्दाश्च उक्ताः: गच्छत यूयमप्यद्याग्रेण अच्छिन्नाग्राणि तृणानि भक्षयत; अनवमर्दितानि स्वच्छानि च पानीयानि पिबत अनाविलानि; चतुर्दिशं च शीतला वायवो वान्त्विति । ______________________________________________________________ थे स्हदोw ओf थे रोसेप्प्ले त्रेए ततो बोधिसत्वस्तेनैव संवेगेन पितुः शाक्यस्य शुद्धोदनस्य कर्मान्तानवलोक्य येन जम्बूछाया तेनोपसङ्क्रान्तः; उपसङ्क्रम्य जम्बूछायायां निषद्य विविक्तं <कामैर्विविक्तं> पापकैरकुशलधर्मैः सवितर्कं सविचारं विवेकजं प्रीतिसुखमनाश्रवसदृशं प्रथमं ध्यानं समापन्नः; जनकायोऽपि परिशिष्टवृक्षमूलेष्ववस्थितो बोखिसत्वं न (७७) परित्यज्य गच्छति; राजा शुद्धोदनः संलक्षयति: बोधिसत्वश्चिरयति; तथा हि भक्तकाइअसमयोऽतिक्रान्तः, गच्छामि, पश्यामि इति; स रथमभिरुह्य कार्षकग्रामकं गतः; इतश्चामुतश्च बोधिसत्वं समन्वेषमाणो जम्बूसमीपमनुप्राप्तः; तेन खलु समयेन परिणते मध्याह्ने अन्येषां वृक्षाणां छाया प्राचीननिम्ना, प्राचीनप्रवणा, प्राचीनप्राग्भारा; बोधिसत्वानुभावात्तु जम्बूछाया बोधिसत्वस्य कायं न विजहाति; अद्राक्षीद्राजा शुद्धोदनः परिणते मध्याह्ने अन्येषां वृक्षाणां छाया प्राचीननिम्ना, प्राचीनप्रवणा, प्राचीनप्राग्भारा; बोधिसत्वस्य <अनुभावात्> तु जम्बूछाया बोधिसत्वस्य कयं न विजहाति; दृष्ट्वा च पुनरस्यैतदभवत्: महर्धिकः कुमारो महानुभावो यत्रेदानीं परिणते मध्याह्ने अन्येषां वृक्षाणां छाया प्राचीननिम्ना प्राचीनप्रवणा प्राचीनप्राग्भारा, (अ ३७३ ) जम्बूछाया तु बोधिसत्वस्य कायं न विजहाति; ततः प्रसन्नाधिकारं कृत्वा बोधिसत्वस्य पादयोर्निपत्य, गाथां भाषते इदं द्वितीयं तव भूरिवृद्धे पादौ नमस्यामि समन्तचक्षो । यथा च जाते पृथिवी प्रकंपिता छाया च जम्बोर्न जहाति कायम् ॥ ततः प्रसन्नाधिकारं कृत्वा बोधिसत्वं पर्यङ्कादुत्थाप्य रथमभिरोप्य श्मशानमध्येन कपिलवस्तु संप्रस्थितः; बोधिसत्वेन श्मशानमध्येन गच्छता विनीलकानि, विपटुमकानि, व्याध्मातकानि शरीराणि दृष्टानि; तत्र सुतरां संविग्नो रथाभिरूढ एव पर्यङ्कं बद्ध्वावस्थितः; ततोऽपि राज्ञा पर्यङ्कादुत्थापितः; स संप्रस्थितः; कपिलवस्तुनगरप्रवेशे नैमित्तिकैर्व्याकृतः यदि कुमारः सप्तमे दिवसे न प्रव्रजति राजा भवति चक्रवर्ती इति; विदित्वा राजानमिदमवोचन् (७८) प्रादुर्भविष्यन्ति दिवाकरोदये रत्नानि सप्त नृपते न संशयह् । तस्माद्धि रक्षां कुरु सप्तरात्रिं सुतस्य शोभां यदि द्रष्टुमिच्छसि ॥ सप्तरत्नेश्वरो राजा भविष्यति सुतस्तव । प्रशासिष्यत्यदण्डेन सागरान्तां वसुन्धराम् ॥ अथवा त्यज्य वसुधां वनं यास्यति निर्भयः । सर्वज्ञतामनुप्राप्य जगदुत्तारयिष्यति ॥ ______________________________________________________________ मेएतिन्ग्wइथ्मृगजा कालक्षेमस्य शाक्यस्य मृगजा नाम दुहिता; तया वातायनस्थया बोधिसत्वं दृष्ट्वा गाथा भाषिता सुखिता बत सा माता सुखी चास्य पिता ह्यसौ । निर्वृता बत सा नारी यस्या भर्ता भविष्यति ॥ निर्वाणशब्दं श्रुत्वा तु ध्यायी स पुरुषोत्तमः । निर्वाणे शान्ततां ज्ञात्वा तस्मिंश्चित्तमरोचयत् ॥ ततो बोधिसत्वेन सौभाषिणिको मुक्ताहारः क्षिप्तः; बोधिसत्वस्यानुभावेन वातायनेनानुप्रविश्य तस्या ग्रीवायां लग्नः; प्रविशन्नसौ महाजनकायेन दृष्टः; तै राज्ञे शुद्धोदनाय विस्तरेण समाख्यातम्; राज्ञा शुद्धोदनेन मृगजा विंशतिस्त्रीसहस्रपरिवारा बोधिसत्वस्यान्तःपुरं प्रवेशिता; इति तत्र बोधिसत्वस्य गोपिकामृगजायशोधराप्रमुखानि षष्टिस्त्रीसहस्राण्यन्तःपुरमभूत् ______________________________________________________________ प्रेचौतिओन्सोf शुद्धोदन ततो राजा शुद्धोदनः भ्रातृभिः, द्रोणोदनेन, शुक्लोदनेन, अमृतोदनेन च, सार्धमेकध्ये सन्निपत्य संजल्पं कर्तुमारब्धः: ब्राह्मणैर्नैमित्तिकैर्विपञ्चनकैश्च (७९) व्याकृतः शाक्यमुनिर्बोधिसत्वो यदि सप्तमे दिवसे न प्रव्रजति, राजा भवति चक्रवर्तीति; तदस्माभिर्बोधिसत्वः सप्त रात्रिन्दिवसान् यत्नतो रक्षणीयः; नगरं सुगुप्तं कारयामः; ततस्तैः कपिलवस्तुनगरं सप्तभिः प्राकारैः परिक्षिप्तं सप्तभिः परिखाभिश्च; आयसाश्च कवाटाः पुरद्वारे दत्ताः; घण्टाश्च सुस्वनाः कवाटेषु निबद्धाः; यासामुद्घाट्यमानेषु द्वारेषु समन्ताद्योजनं शब्दः स्फुरति; बोधिसत्वश्च हर्म्यतले नृत्तगीतवादित्रै स्त्रीभिश्चाभिरूपमनोहराभिरुपचर्यमाणोऽवस्थापितः; अमात्याश्च तुरङ्गबलकायसमेता बहिः प्राकारस्य समन्ताद्गुल्मकेषु स्थापिताः; सञ्चारिसंशोधनं कारितम्; यत्पञ्चभिः पुरुषशतैः स्थाप्यते अन्तःपुरद्वारं तादृशं कारितम्; यस्योद्घाट्यमानस्य राज्ञः शुद्धोदनस्य गृहं शब्देन स्फुरति; तच्छ्रवणादन्तःपुरजनो नगरद्वारनियुक्तश्च अप्रमत्तोऽवतिष्ठते बहिर्नगरनियुक्ता अमात्याः पौराजनपदाश्च; तन्महत्या विभूत्या बोधिसत्व उपरिप्रासादतलगतो निष्पुरुषेण तूर्येण वीणावेणुपणवसुघोषकादिना उपगीयमनस्तिष्ठति; रात्रौ बहिः शुद्धोदनश्चतुरङ्गेन बलकायेन पूर्वद्वारेऽवहितोऽवतिष्ठते; दक्षिणे द्रोणोदनः पश्चिमे शुक्लोदनः, उत्तरे अमृतोदनः; मध्ये नगरस्य महानामा शाक्यः प्राहारिकः; स पूर्वद्वारं गत्वा कथयति, को जागर्ति, को जागर्तीति; राजा कथयति: अहं जागर्मि; जागृहि देव, जाग्रतस्ते श्रेयानिति; विदिवा गाथां भाषते सुप्तो मृतसमो लोकः सुप्तो मारवशं गतः । जाग्रतीह सदा सन्तस्तस्माज्जागृत जागृत ॥ इति; दक्षिणद्वारं गत्वा कथयति: को जागर्ति, को जागर्तीति; द्रोणोदनः कथयति: अहं जागर्मि; जागृहि देवः जाग्रतस्ते श्रेयानिति; विदित्वा गाथां भाषते (७९) सुप्तो मृतसमो लोकः सुप्तो मारवशं गतः । सुप्तो मृत्युवशं प्राप्तस्तस्माज्जागृत जागृत ॥ इति; पश्चिमद्वारं गत्वा कथयति: को जागर्ति को जागर्तीति; शुक्लोदनः कथयति: अहं जागर्मि; जागृहि देव, जाग्रतस्ते श्रेयानिति; विदित्वा गाथां भाषते सुप्तः खलु सदा मत्तः सुप्तो मद्याढकं पीत्वा । अटवीषु वनेषु सुप्तस्तस्माज्जागृत जागृत ॥ इति उत्तरं द्वारं गत्वा कथयति: को जागर्ति को जागर्तीति; अमृतोदनः कथयति: अहं जागर्मि; जागृहि देव; जाग्रतस्ते श्रेयानिति; विदित्वा गाथां भाषते शयितं गिरिषु शयितं दरीषु शयितं च सागरजलेष्वपि । वृक्षाग्रेष्वपि शयितं तस्माज्जागृत जागृत ॥ इति; मध्ये चत्वरशृङ्गाटकस्य गत्वा कथयति: को जागर्ति को जागर्तीति; नियुक्ताः कथयन्ति: वयं जागृमः; जागृत जाग्रतां वः श्रेयानिति; विदित्वा गाथां भाषते धर्मं चरत माऽधर्मं सत्यं वदत मानृतम् । महत्तमो प्रवेष्टव्यं तस्माज्जागृत जागृत ॥ इति; ततः प्रभातायां रजन्यां महानामा शाक्यो राज्ञे शुद्धोदनाय आरोचयति: देव प्रभाता रजनी; निर्गतं सप्तानां रात्रिंदिवसानामेकं रात्रिंदिवसम्; षड्रात्रिंदिवसान्यवशिष्टानि इति; राजा शुद्धोदनः कथयति: शोभनम्; षण्णां रात्रिंदिवसानामत्ययात्कुमारश्चक्रवर्ती भविष्यति; वयं गगनतलविचारिणश्चतुरो द्वीपाननुसंयास्यामः; इत्येवं यावदेकं रात्रिंदिवसमवशिष्टं; शक्रस्य देवानामिन्द्रस्याधस्ताज्ज्ञानदर्शनं प्रवर्तते; स गाघां भाषते; (८१) असौ मुनिश्शाक्यनरेन्द्रगर्भः प्रपूर्णषड्पारमितो महात्मा । प्रयातुकामो वनमार्यकान्तं तपोवनं प्रीतिकरं मुनीनाम् ॥ इति । ______________________________________________________________ दिस्गुस्तिन्ग्सिघ्तिन् हरेम् ततो बोधिसत्वस्यान्तःपुरसमेतस्य निष्पुरुषेण तूर्येण (अ ३७४ ) क्रीडतो रममाणस्य परिचारयत एतदभवत्: भविष्यन्ति मे अतोनिदानं परे वक्तारः शाक्यमुनिः कुमारोऽपुमान्, येन यशोधरागोपिकामृगजाप्रभृतीनि षष्टिस्त्रीसहस्राण्यपास्य प्रव्रजित इति; यन्वहं यशोधरया सार्धं परिचारयेयमिति; तेन यशोधरया सार्धं परिचारितम्; यशोधरा आपन्नसत्वा संवृत्ता; तस्या एतदभवत्: प्रभातायां रजन्यां बोधिसत्वस्यारोचयिष्यामि इति; अथ बोधिसत्वस्तस्यां वेलायां प्रतीत्यसमुत्पादयोगाद्गाथां भाषते नारीसहागारशय्या अपश्चिमा ममाद्येयम् । नाहं पुनरपि वत्स्ये अगारे सह युवत्या ॥ इति: अथ ताः स्त्रियो नृत्तगीतवादित्रपरिश्रान्ता लालाप्रस्रुतवदना प्रकीर्णकेश्यो विक्षिप्तभुजवाससः कान्यपि कान्यप्यश्लीकानि प्रलपन्त्यो मिद्धमवक्रान्ताः; अद्राक्षीद्बोधिसत्वस्ता स्त्रियः प्रस्रुतवदनाः प्रकीर्णकेश्यः विक्षिप्तभुजवाससः कान्यपि कान्यप्यश्लीकानि प्रलपन्त्यः मिद्धमवक्रान्ताः; दृष्ट्वा च पुनरस्यान्तःपुरे श्मशानसंज्ञा समुत्पन्ना; स गाथां भाषते वाताहतं कमलषण्डमिवापविद्धं (८२) विक्षिप्तबाहुचरणं धरणीतलेऽस्मिन् । केशाकुलं विवृतगुह्यकटिप्रदेशं दृष्ट्वापि शाक्यतनयोद्विजितोऽस्मि भावात् ॥ एतान् श्मशानसदृशान् विकृतस्वभावान् पश्यामि चारुरहितान् युवतीजनौघान् । किं भो विचेतनमतिस्मृतिसंप्रयुक्तो यद्बालसत्वचरितो विषये रमेद्यः ॥ धिक्कामपङ्कशरशक्तिविषाग्नितुल्यान् स्वप्नोपमान् लवणपानविषोपमांश्च । एष त्यजामि भुजगेन्द्रनिभान् दुरन्तान् कामाननर्थकलिकिल्बिषहेतुभूतान् ॥िति । ______________________________________________________________ द्रेअम्सोf महाप्रजापति, यशोधरा अन्द्सिद्धार्थ अत्रान्तरे महाप्रजापतिश्चतुरः स्वप्नान् पश्यति: राहुणा चन्द्रमसं ग्रस्तम्; पूर्वस्यां दिश्यादित्यमुदितं, तत्रैवास्तंगतम्; महाजनकायमात्मानं प्रणामं कुर्वन्तम्; हसन्तं चात्मानम्; यशोधरा अष्टौ स्वप्नानद्राक्षीत्; आत्मीयं मातृकावंशं भग्नम्; श्रीपर्यङ्कं भग्नम्; वलयबाहू भग्ने; दन्तमाले विशीर्णे; केशवेणीं स्रस्ताम्; श्रियं गृहान्निर्गताम्; चन्द्रमसं राहुणा ग्रस्तम्: पूर्वस्यां दिश्यादित्यमुदितं तत्रैवास्तंगतम्; बोधिसत्वोऽपि पञ्च स्वप्नानद्राक्षीत्: महापृथिवीमात्मनो महाशयनम्; सुमेरुं पर्वतराजं विश्वोपधानम्; वामं बाहुं पूर्वमहासमुद्रेऽन्तर्गतम्; दक्षिनं बाहुं पश्चिममहासमुद्रेऽन्तर्गतम्; उभौ चरणौ दक्षिणमहासमुद्रेऽन्तर्गतौ; स्थितिकां तृणजातं नाभेरभ्युद्गम्य यावन्नभ आसाद्य व्यवस्थिताम्; सर्वश्वेतांश्छकुनकान् कृष्णशिरसः पादयोर्निपत्य यावज्जानुमण्डलमुत्थितान्; नानावर्णांश्छकुनकान् चतुर्दिशाम् (८३) आगम्य पुरस्तादेकवर्णान् स्थितान्; अमेध्यपर्वतस्योपरि आत्मानं चङ्क्रमणं <कुर्वन्तम्>; दृष्ट्वा च पुनः प्रीतमनाः संलक्षयति: यादृशा मया स्वप्ना दृष्टाः, न चिरादेवानुत्तरं ज्ञानमधिगमिष्यामि इति; ततो यशोधरया बोधिसत्वस्य स्वप्ना निवेदिताः: देव अद्य मया अष्टौ स्वप्ना दृष्टाः; (अ ३७४ ) मातृकावंशो भग्नः; <श्रिपर्यङ्को भग्नः>; वलयबाहू भग्ने; दन्तमाले विशीर्णे; वेणी स्रस्ता; श्री गृहान्निर्गता; चन्द्रो राहुणा ग्रस्तः; पूर्वस्यां दिश्यादित्य उदितस्तत्रैव अस्तंगतः इति; बोधिसत्वो यशोधरां प्रतिविनोदयन् स्वप्नानाविष्करोति: यत्कथयसि मातृकावंशो मे भग्न इति; नन्वयं तिष्ठति; यत्कथयसि श्रीपर्यङ्को भग्न इति; सोऽपि न भग्नः; एष तिष्ठति; यत्कथयसि वलयबाहू भग्ने इति; स्वयमेव प्रत्यवेक्षस्व किं भग्ने न वेति; यत्कथयसि दन्तमाले विशीर्णे इति, एतत्ते प्रत्यात्मवेद्यम्; प्रत्यवेक्षस्व किं विशीर्णे न वेति; यत्कथयसि वेणी स्रस्तेति; एतत्ते प्रत्यात्मवेद्यम्; प्रत्यवेक्षस्व किं स्रस्ता न वेति; यत्कथयसि श्रीर्मे गृहान्निर्गतेति; स्त्रियो भर्ता श्रीः, तदहं तिष्ठाम्येव; यत्कथयसि राहुणा चन्द्रो ग्रस्त इति; नन्वेष चन्द्रमाः साक्षात्तिष्ठति; यत्कथयसि पूर्वस्यां दिश्यादित्य उदितस्तत्रैवास्तंगत इति; तदयमर्धरात्रो वर्तते; न तावदुदेति; कुतोऽस्तंगमिष्यति; एवं संज्ञप्ता यशोधरा तूष्णीमवस्थिता; बोधिसत्वः संलक्षयति: यादृशानि यशोधरया स्वप्नानि दृष्टानि नियतं मयाद्यैव गन्तव्यम्; तदस्या लेशांशदेशेन कथयाम्> इति; तेन तस्य लेशांशदेशेन कथितम्; यशोधरा कथयति: देव यत्र त्वं गमिष्यसि तत्र मां नेष्यसि इति; बोधिसत्वो निर्वाणं सन्धाय कथयत्येवं भवतु; यत्र यत्र गमिष्यामि तत्र तत्र त्वां नेष्यामि इति (८४) ______________________________________________________________ सिद्धार्थऽस्रेनुन्चिअतिओन् अथ शक्रब्रह्मादयो देवा बोधिसत्वस्य चेतसा चित्तमाज्ञाय येन बोधिसत्वस्तेनोपसङ्क्रान्ताः; उद्दामकिशोरकसन्निभकं वनवानरगोचरचित्तसमम् । यदि चित्तं निवर्तसि कामगुणात् ततो द्रक्ष्यसि ज्योतिरनिन्द्यपदम् ॥ उत्तिष्ठोत्तिष्ठ सुमते त्यक्त्वा निष्क्रम मेदिनीम् । सर्वज्ञतामनुप्राप्य जगदुत्तारयिष्यसि ॥ बोधिसत्वेनाभिहितम्: ननु पश्यसि कौशिक मृगपतिरिव वागुरावृतोऽहं धनुरसिखड्गधरैर्नरैः समर्थैः । हयगजरथसङ्कुलैर्बलौघैः कपिलपुरं परिवारितं समन्तात् ॥ शुद्धोदनप्रमुख एष हि शाक्यसङ्घो हस्त्यश्वयानमभिरुह्य सुवर्मिताङ्गः । प्रासादतोरणविमानतलान्तरस्थो नानाविधैः प्रहरणैरमनापहस्तैः ॥ अन्तःपुरगृहद्वारम् <बहिः द्वारं> तथैव च । बद्धं च यन्त्रितं चैव समन्ताद्रक्षितं तथा ॥ आडिंबशङ्खपटहस्वरभेरिनादैः प्रासादतोरणविमानतलान्तरस्थैः । हस्त्यश्वयोधकलिलः सतताप्रमत्तो मायं व्रजेदिति हि रक्षति मां जनौघः ॥ शक्रः कथयति पूर्वप्रतिज्ञां समनुस्मरस्व दीपङ्करव्याकरणं च सौम्य । दुःखार्दितं लोकमिमं च भूयस्(८५) त्यक्त्वा गृहान्निष्क्रमणं कुरुष्व ॥ वयं तथा करिष्यामः सब्रह्माद्या दिवौकसः । यद्भवान् विघ्ननिर्मुक्तो वनम् (अ ३७५ ) अद्यैव वास्यति ॥ इति; बोधिसत्वः शोभनमित्युक्त्वा प्रीतमनाः संवृत्तः; ततः शक्रेण देवेन्द्रेण स्वापनं कृत्वा पाञ्चिकस्य महायक्षसेनापतेराज्ञा दत्ता; मार्ष सोपानमुपानय; बोधिसत्वो हर्म्यतलादवतरतीति; तेन सोपानमुपनीतम्; बोधिसत्वोऽवतीर्णः; ततः शक्रेण सह कृतसङ्केतो येन छन्दक उपस्थायकस्तेनोपसङ्क्रान्तो यावत्पश्यति छन्दकं गाढमिद्धावष्टब्धम्; बोधिसत्वेन यत्नमास्थाय प्रबोधितो गाथाभिर्गीतेन चोक्तः: उत्तिष्ठ हे छन्द ममानयस्व तूर्णं गृहात्कन्थकमश्वरत्नम् । यास्याम्यहं पूर्वजिनोपभुक्तं तपोवनं तुष्टिकरं मुनीनाम् ॥ छन्दकः सुप्तप्रतिबुद्धलोचनः कथयति: देव नोद्यानकालः समुपस्थितस्ते वैरं न ते केनचिदस्ति सौम्य । न चापि शत्रुस्तव कश्चिदस्ति किमर्धरात्रे हि तवाश्वकार्यम् ॥ बोधिसत्वः कथयति न कदाचित्त्वया छन्द मम वाक्यं विलोपितम् । मा मेऽद्य चरमे काले वाक्यमेतद्विलोपय ॥ इति; छन्दः कथयति: कुमार रात्रिरियं भयभैरवा; नाहमश्वमानयामि इति; बोधिसत्वः संलक्षयति: उत्तरादुत्तरे नियतं जनप्रबोधो भवति; गच्छामि स्वयमेव; कन्थकमश्वराजं सज्जीकरोमि इति; ततः स्वयमेव पुरद्वारमुद्घाट्य कन्थकमश्वराजं ग्रहीतुमारब्धः; स क्रोधाग्निसंप्रदीप्त इव क्षिपति पादं, वक्रयति मुखं, स्थानात्स्थानं चालयति; नावतिष्ठते; ततो बोधिसत्वेन चक्रस्वस्तिकनन्द्यावर्तेनानेकपुण्यशतनिर्जातेन भूतानामाश्वासनकरेण करेण शिरसि परामृष्ट उक्तश्च: (८६) अपश्चिमं कन्थक भारमुद्वहा विलंबितं प्रापय मां तपोवनम् । अवाप्य बोधिं न चिरेण तर्पये कृत्स्नं जगद्ध्यानविमोक्षवृष्टिभिः ॥ इति; धर्मता खलु तिर्यञ्चोऽप्युपसान्त्व्यमाना विकृतिं न विकृतिं न भजन्ते; कन्थकोऽश्वराजो निर्विकारोऽवस्थितः; ततो बोधिसत्वः संजातसौमनस्यं कन्थकमश्वराजं सज्जमवस्थितं <दृष्ट्वोत्थितः>; शक्रब्रह्मादिभिर्देवैश्चत्वारो देवपुत्रा बोधिसत्वं निष्कासनाय समनुशिष्य स्थापिताः, कूलः, उपकूलः, पर्णः शबरश्च; ते बोधिसत्वेनाभिहिताः: भवन्तः को मां नेष्यति? कथयन्ति: वयं नेष्यामः; किं युष्माकं बलम्? एकः कथयति: कुमार यावती पृथिव्या मृत्तिका तामहं स्कन्धेनादाय गच्छामीति; द्वितीयः कथयति: यावच्चतुर्षु महासमुद्रेषु सरित्तडागोदपानेषु च सलिलं तत्सर्वमहं स्कन्धेनादाय गच्छामि इति; तृतीयः कथयति: यावन्तः पृथिव्यां पर्वतास्तानहं स्कन्धेनादाय गच्छामि इति; चतुर्थः कथयति: यावत्पृथिव्यां तृणकाष्ठपर्णशादं तत्सर्वमहं स्कन्धेनादाय गच्छामि इति; ततो बोधिसत्वेन पृथिव्यां पादो न्यस्तः; ते कम्पयितुमपि न शक्नुवन्ति; विस्मयजाताः कथयन्ति: कुमार नास्माभिर्विज्ञातमीदृशं बलं (अ ३७५ ) बोधिसत्वानामिति; यदि विज्ञातं स्यान्न वयमवस्थिता स्याम इति; तं कथालापं श्रुत्वा पूर्वबुद्धश्छन्दको बोधिसत्वसमीपमुपसङ्क्रान्तः; ततो बोधिसत्वः कन्थकमश्वराजमधिरूढः; छन्दकेऽश्वपृष्ठे लग्ने कन्थकोऽश्वराज उपरि विहायसमभ्युद्गतः: यथापि तत्बोधिसत्वस्य बोधिसत्वानुभावेन देवतानां च देवतानुभावेन; अन्तःपुरनिवासिन्यो देवता बोधिसत्वविजोगाद्रोदितुमारब्धाः; तासां रुदन्तीनामश्रुबिन्दवः काये पृथिव्यां च निपतितुमारब्धाः; छन्दकः कथयति: कुमार उदकबिन्दवो निपतन्ति; किं देवो वर्षति इति; बोधिसत्वः कथयति: न देवो वर्षति; किन् त्वन्तःपुरनिवासिन्यो देवता मद्वियोगाद्रोदितुमारब्धाः; तासां (८७) रुदन्तीनामश्रुबिन्दवः काये निपतन्तीति; ततश्छन्दकोऽश्रुपर्याकुलेक्षणो दीर्घमुष्णं च निश्वस्य तूष्णीमवस्थितः; बोधिसत्वो दक्षिणेन सर्वकायेन नागावलोकितेन व्यवलोकयति; चिन्तयति च: इयं च मे पश्चिमा रात्रिर्<यदा> मातृग्रामेण सार्धं सहागारशय्या इति; भूयस्स लक्षयति: सचेदहं पूर्वं द्वारमपहायान्येन द्वारेण निर्गमिष्यामि, राज्ञो भविष्यत्यन्यथात्वं चरमे काले नाहं कुमारेण व्यवलोकित <इति>; यावत्पश्यति राजानं शुद्धोदनं गाढमिद्धावष्टब्धम्; स तं प्रदक्षिणीकृत्य कथयति: तात नागौरवात्, न शुश्रूषाभावाद्गच्छामि; नान्यत्र जरामरणाभिमर्दितं लोकं जरामरणदुःखभयात्परिमोचयेयमिति; यावन्महानामा शाक्यो जागरकजनं प्रत्यवेक्षमाणस्तं प्रदेशमागतः; पश्यति बोधिसत्वं गमनाभिमुखम्; ततो बाष्पगद्गदकन्ठोऽश्रुपर्याकुलेक्षणः कथयति: किमिदं प्रारब्धम्? महानामन् गम्यते; कुमार न युक्तमेतत्; महानामन् येन मया त्रिभिः कल्पासङ्ख्येयैरनेकैश्च दुष्करशतसहस्रैः सत्वानामर्थाय बोधिः समुपार्जितः; मया किं शक्यं गृहे वस्तुम्; एष निश्चयः; गतोऽस्मि तपोवनमिति; ततो महानामा शाक्यो निष्करुणवचनसमुदाचारपराहतो विक्रोष्टुमारब्धः; हा कष्टं शाक्यानामद्य सर्वेषां राज्ञः शुद्धोदनस्य च । आशा भविष्यत्यफला चिन्तिता या पुनः पुनः ॥ अद्य शुद्धोदनो राजा पुत्रशोकसमर्पितः । ऊर्ध्वबाहू रवं घोरं करिष्यति सुदुःखितः ॥ गोपिकामृगजायशोधरा स्फीतमन्तःपुरं तथा । सिद्धार्थस्य विगोयेन भविष्यन्ति सुदुःखिताः ॥ (८८) इति विदित्वा ससंभ्रमो यशोधरामुत्थापयन् कथयति: एष गच्छति सिद्धार्थस्तं वारय पतिं प्रियम् । आरोदिष्यसि दुःखार्ता पतिशोकसमर्पिता ॥ भर्ता प्रयाति तव दुर्लभदर्शनीयं पश्याद्य पश्चिमनिदं पतिदर्शनं ते । कष्टं न कश्चिदपि मे वचनं ददात्य् आर्तो विरौमि निशि नात्र ममापराधः ॥ इति; तस्यैवं विप्रलपतोऽप्यन्तःपुरे न कश्चित्प्रतिबुद्ध्यत इति .................................... अरण्यं वा निराक्रन्दं तथा देवैरधिष्ठितम् । इति; ततो महानामा दुःखदौर्मनस्यपरीतः संत्वरमाणो राज्ञः (अ ३७६ ) शुद्धोदनस्य समीपं गत्वा राजानं शुद्धोदनं प्रबोधयन् कथयति एष गच्छति सिद्धार्थस्तं बलाद्विनिवारय । मा रोदिष्यसि दुःखार्तः पुत्रशोकसमर्पितः ॥ इति; दैवात्सोऽपि न प्रतिबुद्ध्यते; ततः शक्रब्रह्मादयो देवा अनेकदेवताशतसहस्रपरिवृता येन बोधिसत्वस्तेनोपसङ्क्रान्ताः; उपसङ्क्रम्य बोधिसत्वं परिवार्य संप्रस्थिताः; दक्षिणेन पार्श्वेन रूपावचरा देवा शान्तेर्यापथवर्तिनः, वामे कामावचरा उच्छ्रितध्वजपताकैर्दिव्यैर्वाद्यविशेषैर्; अग्रतः शक्रब्रह्मादयः स्वेन स्वेनाचारविहारेण गगनतलस्थाने चानेकानि देवताशतसहस्राणि बोधिसत्वस्योपरिष्टाद्दिव्यान्युत्पलानि, पद्मानि, कुमुदानि, पुण्डरीकानि क्षिपन्ति; अगरुचूर्णानि, (८९) तगरुचूर्णानि, तमालपत्रचूर्णानि, दिव्यानि मान्दारकाणि पुष्पाणि क्षिपन्ति; दिव्यानि च विविधानि वादित्राणि प्रवादयन्ति; चैलविक्षेपांश्चाकार्षुः; आह चात्र प्रस्फोटनादतुमुलं हि दिवौकसः खं कुर्वन्ति हृष्टमनसो भ्रमयन्ति वस्त्रम् । स्तुन्वन्ति केचिदपरेऽपि च बोधिसत्वम् आकाशमङ्गुलिशतैश्च समाक्षिपन्ति ॥ द्वाराणि केचित्प्रविघाटयन्ति मन्दारपुष्पाण्यपरे क्षिपन्ति । अश्वस्य केचिच्चरणौ गृहीत्वा निरीक्षमाणाः सुगतं व्रजन्ति ॥ वामेन गच्छन्तमनुव्रजन्ति केचित्पुनर्दक्षिणतो व्रजन्ति । मार्गं स्वयं दर्शयते कुबेरः शक्रस्तथा ब्रह्मसहीय एव ॥ पुरस्कृतो देवगणैर्महात्मा नक्षत्रसङ्घैरिव पूर्णचन्द्रः । प्रयाति हृष्टो वनमार्यकान्तं तपोवनं प्रीतिकरं मुनीनाम् ॥ ततो बोधिसत्वः कपिलवस्तुनो नगरात्प्रतिनिष्क्रान्तः; शक्रब्रह्मादयो देवाः प्रीतमनसः प्रोत्साहयन्ति: मार्ष यस्तेऽभूद्दीर्घरात्रमाशासकः कदास्विदहं विघ्ननिर्मुक्तस्तपोवनं गच्छेयमिति स तेऽद्य परिपूर्णः; यदा त्वमनुत्तरां सम्यकसंबोधिमभिसंबुद्ध्येथास्तदास्मानपि समन्वाहरेथा इति; तथास्त्विति प्रतिज्ञाय बोधिसत्वो दक्षिणेन सर्वकायेन नागावलोकनेन व्यवलोक्य कथयति: अनवाप्य परं मार्गं सर्वबुद्धनिषेवितम् । न पुनः संप्रवेक्ष्यामि पुरं कपिलवस्त्वहम् ॥ इति अथ बोधिसत्वो यामद्वयेन द्वादशयोजनानि समतिक्रम्याश्वादवतीर्याभरणान्यवमुच्य छन्दकमामन्त्रयते निवर्तय छन्दकाश्वमादायाभरणानि च । (९०) आह चात्र इमं हयं ह्याभरणानि चैव ज्ञातिभ्यो मे सारथे त्वं प्रयच्छ । अहं हि कामान् विपुलान् प्रहाय इहैव दीक्षामुपयामि सांप्रतम् ॥ अथ छन्दकः साश्रुदुर्दिनवदनो बोधिसत्वमुवाच सिंहव्याघ्रसमाकीर्णे वने गोकण्टकाचिते । एकाकी बन्धुरहितः कथमार्य करिष्यसि ॥ इति; बोधिसत्वः कथयति एको ह्ययं जायते जायमानस् तथा म्रियते म्रियमाणोऽयमेकः । एको दुःखान्यनुभवतीह जन्तुर् न विद्यते संसरतः सखा यः ॥ छन्दकः कथयति अदृष्टदुःखः सुकुमारपादो हस्त्यश्वयानोचितो (अ ३७६ ) हा कुमार । दर्भोपलाकीर्णतलां खरां महीम् कथं समाक्रम्य वने भ्रमिष्यसि ॥ बोधिसत्वः कथयति न सौकुमार्यं न सुखोचितत्वं न नाथवत्तां न कुलीनभावम् । न शौर्यवीर्यं न जनप्रियत्वम् अवेक्षते मृत्युभयं कदाचित् ॥ आगमिष्यति कृत्वा वा जरामृत्युभयं किल । अकृतार्थो निरारंभो निधनं यास्यतीति वा ॥ छन्दकः कथयति: देव वृद्धो राजा पुत्रशोकेन कालं करिष्यतीति; तथा (९१) बोधिसत्वो बोधिसंभारसंभृतत्वात्छन्दकवचनं चित्तेन न करोति; ततो बोधिसत्वेन नीलोत्पलसदृशं निष्कोशमसिं कृत्वा चूडामपनीय उपरि उपरि विहायसि क्षिप्ता; शक्रेण देवेन्द्रेण गृहीत्वा महता सत्कारेण देवांस्त्रयस्त्रिंशान्नीत्वा चूडामहः प्रज्ञप्तः; श्राद्धैरपि ब्राह्मणगृहपतिभिस्तस्मिन् प्रदेशे केशग्रहणं नाम चैत्यं प्रतिष्ठापितमद्यापि चैत्यवन्दका भिक्षवो वन्दन्ते; बोधिसत्वः कथयति: किं मन्यसे छन्दक? यस्येदृशो व्यवसायो न स पुनरपि गृही अगारमध्यावसेत? नो देव; छन्दकः संलक्षयति: क्षत्रियाभिमानी कुमारो, न शक्यमनेन प्रतिनिवर्तितुमिति । ______________________________________________________________ रेतुर्नोf कन्थक अन्द्छन्दक ततः कन्थकोऽश्वराजो बोधिसत्वस्य पादौ जिह्वया निर्लीढे; बोधिसत्वेन चक्रस्वस्तिकनन्द्यावर्तेन पाणिना परामृश्याभिहितः: गच्छ कन्थक सोऽहमभिसंबुद्धबोधिर्भवत्कृतज्ञो भवीष्यामि इति; छन्दकोऽप्युक्तः: न त्वया कन्थकोऽन्तःपुरं प्रवेशयितव्य इति; एवमुक्तश्छन्दको बाष्पगद्गदकन्ठोऽश्रुपर्याकुलेक्षणः कन्थकमश्वराजमादाय पुनर्बोधिसत्वमीक्षमाणः संप्रस्थितः; तौ यां भूमिं यामद्वयेन गतौ तां सप्तरात्रेण प्रतिनिवृत्तौ; छन्दकः संलक्षयति: युगपत्<यदि> प्रवेक्ष्यामो महता विप्रलापेन नात्मानं सन्धारयिष्यामि; तेनोद्याने स्थित्वा कन्थकः प्रेषितः; तेन हेषितम्; तच्छब्दप्रतिसंवेदी अन्तःपुरजनोऽन्यश्च जनकायः ससंभ्रमो निर्गतो, न पश्यति बोधिसत्वम्; कन्थकं कण्ठे परिष्वज्य रोदितुमारब्धाः; धर्मता ह्येषा अन्ये प्राकृतास्तिर्यग्योनिगताः प्राणिनः संवृतिज्ञानलाभिनः; प्रागेव कन्थकोऽश्वराजः; स महाजनकायविक्लवं श्रुत्वा अन्तर्गतेनैव बाष्पेणोपरुद्ध्यमानः कालगतः; तेन विश्रुते अन्यतमस्मिन् षट्कर्मनिरते ब्राह्मणकुले (९२) प्रतिसन्धिर्गृहीतः; यदा बोधिसत्वोऽनुत्तरां संयक्संबोधिमभिसंभोत्स्यते तदा तं खटुंकाश्ववादेन अवबोध्य संसारकान्तारादुत्तार्यात्यन्तनिष्ठे योगक्षेमे निर्वाणे प्रतिस्थापयिष्यति ______________________________________________________________ थे तकिन्गोf थे येल्लोw रोबेस् बोधिसत्वस्य काषायैः प्रयोजनमुत्पन्नम्; अनुपमे नगरेऽन्यतमो गृहपतिराढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी; तेन सदृशात्कुलात्कलत्रमानीतम्; स तया सार्धं क्रीडति रमते परिचारयति; तस्य क्रीडतो रममाणस्य परिचारयतः (अ ३७७ ) पुत्रो जातः; एवं यावद्दशपुत्रा जाताह्; सर्वैश्च प्रव्रज्य प्रत्येका बोधिः साक्षात्कृता; तेषां माता वृद्धा; सा तेभ्यः शाणकानि चीवराण्यनुप्रयच्छति; तैरभिहिता: अंब वयं परिनिर्वास्यामः; नास्माकमेतैः प्रयोजनम्; किन् तु राज्ञः शुद्धोदनस्य शाक्यमुनिर्नाम पुत्रः कुमारोऽनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यते; तस्यैतानि दास्यसि; ततस्ते महती फलावाप्तिर्भविष्यति; इत्युक्त्वा ज्वलनतपनवर्षणविद्योतनप्रातिहार्याणि कृत्वा निरुपधिशेषे निर्वाणधातौ परिनिर्वृताः; तयापि वृद्धया तानि चीवराणि मरणकाले दुहितुर्दत्तानि; यथावृत्तं चारोचितम्; साप्यस्या दुहिता ग्लाना संवृत्ता; तयापि मरणावस्थां परिच्छिद्य वृक्षे स्थापितानि; या देवता तस्मिन् वृक्षेऽध्युषिता सा आयाचिता त्वयैतानि राज्ञः शुद्धोदनपुत्रस्य दातव्यानीति; शक्रस्य देवेन्द्रस्याधस्ताज्ज्ञानदर्शनं प्रवर्तते; तेन तानि गृहीत्वा नीतानि; ततो जराजीर्णलुब्धवर्णमात्मानमभिनिर्माय तानि प्रावृत्य धनुर्बाणव्यग्रपाणिः बोधिसत्वस्य प्रतिमार्गेऽवस्थितः; बोधिसत्वश्चानुपूर्वेण तं मार्गं प्रतिपन्नः पश्यति लुब्धं धनुर्बाणव्यग्रपाणिं काषायवस्त्रप्रावृतम्; दृष्ट्वा च पुनस्तं पुरुषमामन्त्रयते: भोः पुरुष एतानि साणकानि वस्त्राणि प्रव्रजितानुरूपाणि; इमानि काशिकसूक्ष्माणि गृहाण; ममैतण्यनुप्रयच्छ इति; स कथयति: कुमार नाहमेतान्यनुप्रयच्छामि; मा मे स्युरतोनिदानं परे वक्तारः, त्वया राजकुमारं जीविताद्व्यपरोप्य एतानि काशिकसूक्ष्माणि वस्त्राणि गृहीतानि <इति>; बोधिसत्वः कथयति: भोः पुरुष सर्वलोको (९३) मां जानीते याडृशोऽहं शक्तिसंपन्नः; कः शक्नोति मां जीविताद्व्यपरोपयितुम्; को वा श्रद्धत्ते त्वयाहं जीविताद्व्यपरोपित इति; निर्विशङ्कः प्रयच्छ इति; ततः शक्रो देवेन्द्रो बोधिसत्वस्य पादयोर्निपत्य शाणकान्यनुप्रयच्छति; काशिकानि गृह्णाति; बोधिसत्वस्य तानि शाणकानि वस्त्राणि न कायप्रमाणिकाणि; तस्यैतदभवत्: अहो बत मे शाणकानि चीवराणि कायप्रमाणिकानि स्युरिति; वाक्प्रव्याहारसमनन्तरमेव बोधिसत्वस्य तानि शाणकानि चीवराणि कायप्रमाणिकानि संवृत्तानि; यथापितद्बोधिसत्वस्य बोधिसत्वानुभावेन देवतानां च देवतानुभावेन; बोधिसत्वः संलक्षयति: इदानीमहं प्रव्रजितः, करिष्यामि जगतोऽनुग्रहमिति; ततस्तानि बोधिसत्वकाशिकवस्त्राणि <प्रतिगृह्य> शक्रेण देवेषु त्रयस्त्रिंशेषु काशिकमहः प्रज्ञप्तः; श्राद्धैर्ब्राह्मणगृहपतिभिर्तस्मिन् प्रदेशे काषायप्रतिग्रहणं नाम चैत्यं प्रतिष्ठापितमद्यापि चैत्यवन्दका भिक्षवो वन्दन्ते; ततो बोधिसत्वो मुण्डः काषायवस्त्रप्रावृतः इतश्चामुतास्च पर्यटन् भार्गवस्य रिषेराश्रमपदमनुप्राप्तः ______________________________________________________________ थे सगे भार्गव तस्मिंश्च समये भार्गवरिषिः करे कपोलं दत्वा चिन्तापरो (अ ३७७ ) व्यवस्थितः; स बोधिसत्वेन तथाविधो दृष्टः; उक्तश्च: महर्षे किमर्थं करे कपोलं दत्वा चिन्तापरस्तिष्ठसि इति; स कथयति: ममास्मिन्नाश्रमपदे तालाः सौवर्णैः पुष्पफलैरासन्; ते यथा पौराणाः संवृत्ताः इति; बोधिसत्वः कथयति: महर्षे यस्यानुभावादेतस्मिन्नाश्रमपदे तालाः सौवर्णैः पुष्पफलैरासन् स जीर्णातुरमृतसन्दर्शनादुद्विग्नो वनं संशृतः; यद्यसौ जीर्णातुरमृतसन्दर्शनादुद्विग्नस्तपोवनं <न> संशृतोऽभविष्यत्तस्यैतदुद्यानमभविष्यत्; इत्येवमुक्तो भार्गवरिषिर्बोधिसत्वं निरीक्षितुमारब्धह्; ततो रूपशोभां शान्तं च वेषं दृष्ट्वा, चिरं निरीक्ष्य कुतूहलजातः कथयति: भोः प्रव्रजित मा हैव त्वमेव सः; बोधिसत्वः कथयति: महर्षे व्यक्तमेतत्; ततो भार्गवेन विस्मयोत्फुल्लदृष्टिना बोधिसत्वस्तत्प्रथमत आसनेनोपनिमन्त्रितः पुष्पफलैश्च; एवं प्रतिसंमोदितो मुहूर्तमास्थाय कथयति: महर्षे कियद्दूरमितः कपिलवस्तु नगरम् (९४) इति; स कथयति: द्वादशयोजनानीति; बोधिसत्वः संलक्षयति आसन्नं कपिलवस्तुनगरम्, नात्रावस्थानं श्रेयः; शाक्याः पौराः संक्षोभं करिष्यन्ति; यन्वहं गङ्गामुत्तरेयमिति ______________________________________________________________ अर्रिवलत्राजगृह अन्द्बिम्बिसारऽस्मेएतिन्ग् स गङ्गामुत्तीर्यानुपूर्वेण चारिकां चरन् राजगृहमनुप्राप्तः: कुशलो भवन् बोधिसत्वस्तेषु तेषु शिल्पस्थनाकर्मस्थानेषु करवीरपत्रपुटकं कृत्वा शान्तेनेर्यापथेन राजगृहं पिण्डाय प्रविष्टः; तस्मिंश्च समये राजा बिंबिसार उपरिप्रासादतलगतः; तेनासौ दृष्टः प्रासादिकेन अभिक्रमप्रतिक्रमेण आलोकितव्यवलोकितेन संमिञ्जितप्रसारितेन सङ्घाटीचीवरपात्रधारणेन पिण्डपातमटन्; दृष्ट्वा च पुनरस्यैतदभवत्: यावन्तः प्रव्रजितसमापन्ना राजगृहे प्रतिवसन्ति, नास्ति कस्यचिदेवंरूप ईर्यापथस्तद्यथास्य प्रव्रजितस्य; आथ चात्र प्रव्रज्यां कीर्तयिष्यामि चक्षुष्मान् प्राव्रजद्यथा । यथा मीमांसमानोऽसौ प्रव्रज्यां समरोचयत् । संबाधोऽयं गृहावास आवासो रजसामयम् । प्रव्रज्याभ्यवकाशश्च ज्ञात्वायं प्राव्रजत्तथा ॥ प्रव्रजित्वाऽथ कायेन कर्म पापं प्रवर्जयन् । हित्वा च पापिकां वाचमाजीवं पर्यशोधयत् ॥ ततो राजगृहं गत्वा मगधानां पुरोत्तमः । पिण्डाय व्याहरन्नाथः संप्रजानन् प्रतिस्मृतः ॥ प्रासादस्थस्तमद्राक्षीच्छ्रेणिको मगधाधिपः । प्रसन्नचित्तो दृष्ट्वाथ अमात्यानिदमब्रवीत् ॥ इमं भवन्त ईक्षध्वमाकीर्णं वरलक्षणैः । आरोहेण च संपन्नं युगमात्रं च पश्यति ॥ नोक्षिप्तचक्षुर्मेधावि (अ ३७८ ) नायमूनकुलोदितः । राजदूतानुसंयान्तु वासं क्वोपगमिष्यति ॥ ततः संचोदिता दूता अन्वबध्नंश्च पृष्ठतः । (९५) भिक्षुर्गमिष्यति क्वायं कुत्र वासमुपैष्यति ॥ स पिण्डपातं चरति षड्भिर्द्वारैः सुसंवृतः । क्षिप्रं पात्रं पूरयति संप्रजानन् प्रतिस्मृतः ॥ पिण्डपातं चरित्वाथ निष्क्रम्य नगरान्मुनिः । पाण्डवमभिसारयत्यत्र वासो भविष्यति ॥ ज्ञात्वा च वासोपगतमेको दूत उपाविशत् । अपरे क्षिप्रमागम्य राज्ञ आरोचयंस्ततः ॥ एष भिक्षुर्महाराज पाण्डवस्योपरि स्थितः । आसीनो व्याघ्रशाबो वा सिंहो वा गिरिगह्वरे ॥ दूतानां वचनं श्रुत्वा रथमारुह्य पार्थिवः । प्रायासीत्क्षिप्रमेवासावमात्यैः परिवारितः ॥ आयानभूमिं निर्याय स यानादवतीर्य च । पद्भ्यां समुपसङ्क्रम्य तथाद्राक्षीत्तथागतम् ॥ राजा निषद्य संमोद्य कृत्वा संरञ्जनीं कथाम् । अनुद्धतं सोऽपरुषमिदमर्थमभाषत ॥ प्रथमोत्पतिते भिक्षो यौवने समुपस्थिते । एवंतेजोगुणोपेते भैक्षचर्या न शोभते ॥ निवेशनानि रम्याणि नारीश्च समलङ्कृताः । ददामि ते वरान् भोगान् जातिं पृष्टो वदात्मनः॥ सन्ति राजन् जनपदाः पार्श्वे हिमवतो गिरेः । आकीर्णा धनधान्येन कौसला इति विश्रुताः ॥ इक्ष्वाकवः सूर्यगोत्राः शाक्यास्तत्र निवासिनः । क्षत्रिय्ष्मे कुलं राजन्न कामान् प्रार्थयाम्यहम् ॥ प्रशास्य हीमां पृथिवीं सशैलां ससागरां सर्वसमृद्धरत्नाम् । न याति तृप्तिं पुरुषः कदाचित् काष्टैर्निदाघे ज्वलनो यथैव ॥ वैरप्रसङ्गांस्तु वदन्ति कामान् दुरुत्तरासारनिभान्नरेन्द्र । दुःखस्य शोकस्य भयस्य चापि मूलं परं प्राकृतबुद्धिसेव्यान् ॥ निष्क्रान्तमात्रेण मया तु राजन् कृता न कामेष्वभिलाषबुद्धिः । वान्तान् कथं तान् पुनराददेयम् (९६) भयङ्करान् धर्मसपत्नभूतान् ॥ अप्येव नानाशिखरप्रवृद्धः कम्पेत मेरुर्हिमवांश्च वातैः । न त्वेव बुद्धिं मम कामवेगा मोक्षाश्रितां कंपयितुं समर्थाः ॥ लोको ह्ययं कामनिमग्नवाहः संसारचक्रे परिबंभ्रमीति । त्राताहमस्मीति नरेन्द्र नान्यः तं मोक्षयिष्यामि महाभयेभ्यः ॥ कामेष्वादीनवं ज्ञात्वा दृष्ट्वा निर्वाणशान्तताम् । प्रहाणाय गमिष्यामि यत्र मे रंस्यते मनः ॥ राज्ञा बिंबिसारेणाभिहितम्: भोः प्रव्रजित अनेन व्रतेन किं प्रार्थयसे? कथयति: अनुत्तरां सम्यक्संबोधिम्; राजा कथयति: भोः प्रव्रजित यदा त्वमनुत्तरां सम्यक्संबोधिमभिसंबुद्ध्येथास्तदास्मानपि समन्वाहरेथा इति; बोधिसत्वः कथयति: एवं भवतु समन्वाहरिष्यामि; इत्युक्त्वा राजगृहान्निष्क्रान्तः ______________________________________________________________ हेर्मितगे ओf थे सगेस् गृध्रकूटस्य नातिदूरे ऋषीणामाश्रमपदम्; तत्रोपसङ्क्रान्तः; तेषां चारविहारतया ध्यानपरो व्यवस्थितः; (अ ३७८ ) यदा ते एकपादा दिवसस्य प्रहरमवतिष्ठन्ते, बोधिसत्वो द्वाववतिष्ठते; यदि ते पञ्चतपःप्रयोगेण दिवसस्य प्रहरमवतिष्ठन्ते, बोधिसत्वस्तेनापि योगेन द्वाववतिष्ठते; ततस्ते विस्मयमापन्नाः संजल्पं कर्तुमारब्धाः: महानयं श्रमण <इति> महाश्रमणो महाश्रमण इति संज्ञा संवृत्ता; बोधिसत्वेन ते पृष्टाः: भवन्तो यूयमनेन व्रतेन किं प्रार्थयथ? तत्रैके कथयन्ति: शक्रत्वमिति; अपरे (९७) कथयन्ति वयं ब्रह्मत्वमिति; अन्ये कथयन्ति मारत्वमिति; बोधिसत्वः संलक्षयति: पुनरावर्तका ह्येते ऋषय उन्मार्गप्रतिपन्ना इति ______________________________________________________________ आराड कालाम स तं मार्गं नालमिति कृत्वा येनाराडः कालामस्तेनोपसङ्क्रान्तः; उपसङ्क्रम्य आराडं कालाममिदमवोचत्: सचेत्ते आराड अगुरु चरेयमहं भवतोऽन्तिके ब्रह्मचर्यमिति;स कथयति: न मे आयुष्मन् गौतमागुरु; विहर त्वं यथासुखमिति; बोधिसत्वः कथयति: कियन्तो भवता आराडेन धर्मा अधिगताः? स कथयति: यावदेवायुष्मन् गौतम आकिञ्चन्यायतनम्; अथ बोधिसत्वस्यैतदभवत्: आराडस्यापि कालामस्य श्रद्धा, ममापि श्रद्धा; आराडस्यापि कालामस्य वीर्यं स्मृतिः समाधिः प्रज्ञा, ममापि वीर्यं स्मृतिः समाधिः प्रज्ञा; आराडेन कालामेन इयन्तो धर्माः साक्षात्कृताः यावदेव आकिञ्चन्यायतनम्; कस्मादहमिमान् धर्मान्न साक्षात्करिष्यामि इति; अथ बोधिसत्वस्तेषामेव धर्माणामप्राप्तानां प्राप्तये अनधिगतानमधिगमाय असाक्षात्कृतानां साक्षात्क्रियायै एको व्यपकृष्टोऽप्रमत्त आतापी प्रहितात्मा व्याहार्षीद्; एको व्यपकृष्टोऽप्रमत्त आतापी प्रहितात्मा विहरन्नचिरादेव तान् धर्मान् साक्षादकार्षीत्; साक्षात्कृत्वा च पुनस्तान् धर्मान् येनाराडः कालामस्तेनोपसङ्क्रान्तः; उपसङ्क्रम्य आराडं कालाममिदमवोचत्: ननु भवता आराडेन इमे धर्माः स्वयमभिज्ञया साक्षात्कृता यावदेवाकिञ्चन्यायतनम्; स एवमाह: तथ्यं मया गौतम इमे धर्माः साक्षात्कृता यावदेवाकिञ्चन्यायतनम्; बोधिसत्वः कथयति: ममाप्यायुष्मनाराड इमे धर्माः स्वयमभिज्ञया साक्षात्कृता यावदेवाकिञ्चन्यायतनमिति; तर्ह्यायुष्मन् गौतम यावत्तव तावन्मम; यावन्मम तावत्तव; एह्यावामुभावपीमं गणं परिकर्षावः; अस्मींश्चार्थे आवां समसमौ सामान्यप्राप्तौ; अथाराडः कालामो बोधिसत्वस्य पूर्वाचार्य एव सन् बोधिसत्वं परमया माननया मानितवान्; परमया पूजनया पूजितवान्; परमेषु चास्य प्रत्ययेषु आत्तमनाश्चाभूदभिराद्धश्च; अथ बोधिसत्वस्यैतदभवत्: अयं मार्गो (९८) नालं ज्ञानाय, नालं दर्शनाय, नालमनुत्तरायै सम्यक्संबोधये ______________________________________________________________ उद्रक रामपुत्र अथ बोधिसत्वस्तं मार्गं नालमिति विदित्वा येनोद्रको रामपुत्रस्तेनोपसङ्क्रान्तः; उपसङ्क्रम्योद्रकं रामपुत्रमिदमवोचत्: सचेत्ते उद्रक अगुरु चरेयमहं तवान्तिके ब्रह्मचर्यम्; न मे आयुष्मन् गौतमागुरु; विहर त्वं यथासुखं; कियन्तो भवता उद्रकेण धर्माः साक्षात्कृताः? यावदेवायुष्मन् गौतम नैवसंज्ञानासंज्ञायतनम्; बोधिसत्वस्यैतदभवत्: उद्रकस्य रामपुत्रस्य श्रद्धा; ममापि श्रद्धा; उद्रकस्य रामपुत्रस्य वीर्यं स्मृतिः समाधिः प्रज्ञा; ममापि वीर्यं स्मृतिः समाधिः प्रज्ञा; उद्रकेण रामपुत्रेण इयन्तो धर्माः साक्षात्कृता यावदेव नैवसंज्ञानासंज्ञायतनम्; कस्मादहमिमान् धर्मान्न साक्षात्करिष्यामि इति; अथ बोधिसत्वस्तेषामेव धर्माणामप्राप्तानां प्राप्तये अनधिगतानामधिगमाय असाक्षात्कृतानां साक्षात्क्रियायै एको व्यपकृष्टोऽप्रमत्त आतापी प्रहितात्मा व्याहार्षीत्; एको व्यपकृष्टोऽप्रमत्त आतापी प्रहितात्मा विहरन्नचिरादेव तान् धर्मान् साक्षादकार्षीत्; साक्षात्कृत्वा च पुनस्तान् धर्मान् येनोद्रको रामपुत्रस्तेनोपसङ्क्रान्तः; उपसङ्क्रम्योद्रकं रामपुत्रमिदमवोचत्: ननु भवता उद्रकेण इमे धर्माः स्वयमभिज्ञया साक्षात्कृता यावदेव नैवसंज्ञानासंज्ञायतनम्? तथ्यम्; मया आयुष्मन् गौतम इमे धर्माः साक्षात्कृता यावदेव नैवसंज्ञानासंज्ञायतनम्; बोधिसत्वः कथयति: मयाप्यायुष्मन्नुद्रक इमे धर्माः स्वयमभिज्ञया साक्षात्कृता यावदेव नैवसंज्ञानासंज्ञायतनमिति; तर्ह्यायुष्मन् गौतम यावत्तव तावन्मम; यावन्मम तावत्तव; एह्यावामुभावपीमं गणं परिकर्षावः; अस्मिंश्चार्थे आवां समसमौ सामान्यप्राप्तौ; अथोद्रको रामपुत्रो बोधिसत्वस्य पूर्वाचार्य एव सन् तं परमया माननया मानितवान्; परमया पूजनया पूजितवान्; परमेषु चास्य प्रत्ययेष्वात्तमनाश्चाभूदभिराद्धश्च; अथ बोधिसत्वस्य एतदभवत्: अयमपि मार्गो नालं ज्ञानाय, नालं दर्शनाय नालमनुत्तरायै सम्यक्संबोधये; अथ बोधिसत्वस्तमपि मार्गं नालमिति कृत्वा प्रक्रान्तः (९९) ______________________________________________________________ थे रिवेर्नैरञ्जना राजा शुद्धोदनः पुत्रशोकाभिभूतो नित्यमेव बोधिसत्वं समन्वेषणाय दूतान् प्रेषयति; तेन श्रुतं यथा सिद्धार्थं कुमार उद्रकेण रामपुत्रेण सार्धं विहृत्य राजगृहान्निष्क्रान्तो उपस्थायकविरहितः परिभ्रमतीति; श्रुत्वा त्रीण्युपस्थायकानां शतानि प्रेषितानि; देवदृशे नगरे सुप्रबुद्धेन शाक्येनैवमेव श्रुतम्; तेनापि द्वे उपस्थायकशते <प्रेशिते> इति; तत्र बोधिसत्वः पञ्चभिरुपस्थायकशतैः परिवृतस्तपोवने परिभ्रमति; स संलक्षयति: तपोवनाध्याचरणम् (अ ३७९ ) आकीर्णविहारता च नालममृताधिगमाय; यन्वहं पञ्चोपस्थायकान् गृहीत्वा परिशिष्टान् प्रेषयेयमिति; तेन मातृपक्षाद्द्वौ गृहीतौ, पितृपक्षात्त्रयः; ते तस्योपस्थानं कुर्वन्ति; अथ बोधिसत्वः पञ्चभिरुपस्थायकैः परिवृतो गयादक्षिणेन येनोरुबिल्वासेनायनीग्रामकस्तेन चारिकां प्रक्रान्तः; स इतश्चामुतश्च परिभ्रमन्नद्राक्षीद्रमणीयं पृथिवीप्रदेशम्, प्रासादिकं वनषण्डम्, नदीं च नैरञ्जनां शीतलस्यन्दनां ससिकतां सूपतीर्थां हरितशाद्वलविस्तीर्णकूलां नानावृक्षोपशोभितां रमणीयां; दृष्ट्वा च पुनरस्यैतदभवत्: रमणीयो बतायं पृथिवीप्रदेशः, प्रासादिकं च वनषण्डम्, नदी च नैरञ्जना शीतलस्यन्दना ससिकता सूपतीर्था हरितशाद्वलविस्तीर्णकूला नानावृक्षोपशोभिता रमणीया; अहो बत प्रहाणार्थिना कुलपुत्रेणेमं वनषण्डं निश्रित्य प्रहाणं प्रणिधातुं <युक्तम्>; अहं च प्रहाणेनार्थी; यन्वहमिमं वनषण्डं निश्रित्य प्रहाणं प्रणिदध्यामिति (१००) ______________________________________________________________ सेल्f-तोर्तुरेसन्द्fअस्तिन्ग्स् अथ बोधिसत्वस्तं वनषण्डमभ्यवगाह्यान्यतरद्वृक्षमूलं निश्रित्य दन्तेषु दन्तानाधाय, जिह्वाग्रं तालुनि प्रतिष्ठाप्य, चेतसा चित्तमभिगृह्णात्यभिनिपीडयत्यभिसन्तापयति; तस्य चेतसा चित्तमभिगृह्णतोऽभिनिपीडयतोऽभिसन्तापयतः सर्वरोमकूपेभ्यः स्वेदो मुक्तः; तद्यथा बलवान् पुरुषो दुर्बलतरं पुरुषमुद्बाहुकं गृहीत्वा अभिनिगृह्णीयादभिनिपीडयेदभिसन्तापयेत्, तस्य रोमकूपेभ्यः स्वेदो मुच्येत; एवमेव बोधिसत्वस्य तस्मिन् समये दन्तेषु दन्तानाधाय जिह्वाग्रं तालुनि प्रतिष्ठाप्य चेतसा चित्तमभिनिगृह्णतोऽभिनिपीडयतोऽभिसन्तापयतः सर्वरोमकूपेभ्यः स्वेदो मुक्तः; आरब्धं चास्य वीर्यं भवत्यसंलीनं, प्रस्रब्धः कायो भवत्यसंरब्धं, उपस्थिता स्मृतिर्भवत्यसंमूढा, समाहितं चित्तं भवत्येकाग्रम्; एवंरूपां बोधिसत्वस्य दुःखां तीव्रां खरां कटुकाममनापां वेदनां वेदयतश्चित्तं न पर्यादाय तिष्ठति; यथापितद्भावितत्वात्कायस्य; तस्यैतदभवत्: यन्वहं भूयस्या मात्रया व्याध्मातकानि <ध्यानानि> ध्यायेयमिति; भूयस्या मात्रया व्याध्मातकानि ध्यानानि ध्यातुमारब्धः; स व्याध्मातकानि ध्यानानि ध्यायन्, मुखे नासिकायां चाश्वासप्रश्वासान् संनिरुणद्धि; तस्य मुखे नासिकायां चाश्वासप्रश्वासेषु संनिरुद्धेष्वत्यर्थं तस्मिन् समये शिरसि शिरोवेदना वर्तन्ते; तद्यथा बलवान् पुरुषो दुर्बलतरस्य पुरुषस्य दृढेन वारत्रकेण दाम्ना शिरस्याम्रेडकं दद्यात्, तस्यात्यर्थं शिरसि शिरोवेदना वर्तेरन्; एवमेव बोधिसत्वस्य व्याध्मातकानि ध्यानानि ध्यायतोऽत्यर्थं शिरसि शिरोवेदना वर्तन्ते; आरब्धं चास्य वीर्यं भवत्यसंलीनम्; प्रस्रब्धं कायो भवत्यसंरब्धः; उपस्थिता स्मृतिर्भवत्यसंमूढा; समाहितं चित्तं भवत्येकाग्रम्; एवंरूपां बोधिसत्वस्य दुःखां तीव्रां खरां कटुकाममनापां वेदनां वेदयतश्(अ ३८० ) चित्तं न पर्यादाय तिष्ठति; यथापितद्भावितत्वात्कायस्य; तस्यैतदभवत्: यन्वहं भूयस्या मात्रया व्याध्मातकानि (१०१) ध्यानानि ध्यायेयमिति; तद्भूयस्या मात्रया व्याध्मातकानि ध्यानानि ध्यातुमारब्धः; स व्याध्मातकानि ध्यानानि ध्यायन्मुखे नासिकायां चाश्वासप्रश्वासान् संनिरुणद्धि; तस्य मुखे नासिकायां चाश्वासप्रश्वासेषु संनिरुद्धेषु अत्यर्थं तस्मिन् समये [हेरे थेरे इस गपोf अबोउतोने लेअf दुए तो अनेर्रोरोf थे स्च्रिबे. थे तिब्. त्रन्स्ल्. थत्चोवेर्स्थिस्गफस्बेएन् रेप्रोदुचेद्बेलोw इन् fअच्सिमिले, अस्थे अप्पेन्दिx.] कुक्षौ कुक्षिवेदना वर्तन्ते; तद्यथा गोघातको वा गोघातकान्तेवासी वा तीक्ष्णया गोकर्तन्या गोकुक्षिं पाटयेत्, तस्यात्यर्थं कुक्षौ कुक्षिवेदना वर्तेरन्; एवमेव बोधिसत्वस्य तस्मिन् समये व्याध्मातकानि ध्यानानि ध्यायतोऽत्यर्थं तस्मिन् समये कुक्षौ कुक्षिवेदना वर्तन्ते; आरब्धं चास्य वीर्यं भवत्यसंलीनम्, प्रस्रब्धः कायो भवत्यसंरब्धः, उपस्थिता स्मृतिर्भवत्यसंमूढा, समाहितं चित्तं भवत्येकाग्रम्; एवंरूपां बोधिसत्वस्य दुःखां तीव्रां खारं कटुकाममनापां वेदनां वेदयतश्चित्तं न पर्यादाय तिष्ठति यथापितद्भावितत्वात्कायस्य; तस्यैतदभवत्: यन्वहं भूयस्या मात्रया व्याध्मातकानि ध्यानानि ध्यायेयमिति; स भूयस्या मात्रया व्याध्मातकानि ध्यानानि ध्यातुमारब्धः; व्याध्मातकानि ध्यानानि ध्यायन्मुखे नासिकायां चाश्वाशप्रश्वासान् संनिरुणद्धि; तस्य मुखे नासिकायां चाश्वासप्रश्वासेषु संनिरुद्धेष्वत्यर्थं तस्मिन् समये काये कायपरिदाहा वर्तन्ते; तद्यथा द्वौ बलवत्तरौ पुरुषौ दुर्बलतरं पुरुषमुद्बाहुकं गृहीत्वा अङ्गारकर्ष्यामुपनामयेते, तस्यात्यर्थं काये कायपरिदाहा वर्तेरन्; एवमेव बोधिसत्वस्य व्याध्मातकानि ध्यानानि ध्यायतोऽत्यर्थं तस्मिन् समये काये कायपरिदाहा वर्तन्ते; आरब्धं चास्य वीर्यं भवत्यसंलीनम्; प्रस्रब्धः कायो भवत्यसंरब्धः; उपस्थिता च स्मृतिर्भवत्यसंमूढा; समाहितं चित्तं भवत्येकाग्रम्; एवंरूपां बोधिसत्वस्य दुःखां तीव्रां खरां कटुकाममनापां (१०२) वेदनां वेदयतश्चित्तं न पर्यादाय तिष्ठति यथापितद्भावितत्वात्कायस्य; तस्यैतदभवत्: यन्वहं सर्वेण सर्वमनाहारतां प्रतिपद्येय इति ______________________________________________________________ ओffएरोf थे देवतास् अथ संबहुला देवता बोधिसत्वस्य चेतसा चित्तमाज्ञाय येन बोधिसत्वस्तेनोपसङ्क्रान्ताः; उपसङ्क्रम्य बोधिसत्वमिदमवोचन्: सचेत्त्वं मार्ष मानुष्यकेणाहारेणार्त्तीयसे जेह्रीयसि वितरसि विजुगुप्ससे, वयं ते सर्वरोमकूपेषु दिव्यमोजः काये उपसंहरामः; तत्त्वमासादय इति; अथ बोधिसत्वस्यैतदभवत्: अहं चेन्मनुष्याणामनाहारतां प्रतिजानीयाम्, देवताश्च मे सर्वरोमकूपेषु दिव्यम् (अ ३८० ) ओजः काये उपसंहरेयुः, तच्चाथं स्वीकुर्याम्, तन्मम स्यान्मृषा; यन्मम स्यान्मृषा तन्मम स्यान्मिथ्यादृष्टिः; मिथ्यादृष्टिप्रत्ययश्च पुनरिहैके सत्वाः कायस्य भेदात्परं मरणादपायदुर्गतिविनिपातं नरकेषूपपद्यन्ते; यन्वहं देवतानां वचनं सर्वेण सर्वं प्रत्याख्यायाल्पं स्तोकं कतिपयं परीत्तमाहारमाहरेयम्; यदि वा मुद्गयूषेण यदि वा कुलुत्थयूषेण यदि वा हरेणुकायूषेण इति ______________________________________________________________ नेw स्त्रिविन्ग्स् अथ बोधिसत्वस्य तस्मिन् समये देवतानां वचनं सर्वेण सर्वं प्रत्याख्यायाल्पं स्तोकं कतिपयं परीत्तमाहारमाहरतः सर्वाण्यङ्गप्रत्यङ्गानि म्लानान्यभूवन्; संम्लानानि कृशानि अल्पमांसानि; तद्यथा असीतकपर्वाणि वा कालकापर्वाणि वा म्लानानि भवन्ति; संम्लानानि कृशान्यल्पमांसानि; एवमेव तस्मिन् (१०३) समये बोधिसत्वस्य अल्पं स्तोकं कतिपयं परीत्तमाहारमाहरतः शिरसि शिरस्त्वक्म्लानाभूत्; संम्लाना सङ्कुचिता संपर्पटकजाता; तद्यथा अलाबूर्वृन्ताच्छिन्ना म्लानावतिष्ठते; संम्लाना सङ्कुचिता संपर्पटकजाता; एवमेव बोधिसत्वस्य तस्मिन् समये अल्पं स्तोकं कतिपयं परीत्तमाहारमाहरतः शिरसि शिरस्त्वक्म्लानाभूत्; संम्लाना सङ्कुचिता संपर्पटकजाता; आरब्धं चास्य वीर्यं भवत्यसंलीनम्; प्रस्रब्धः कायो भवत्यसंरब्धः; उपस्थिता स्मृतिर्भवत्यसंमूढा; समाहितं चित्तं भवत्येकाग्रम्; एवंरूपां बोधिसत्वस्य तस्मिन् समये आत्मोपसङ्क्रमिकां दुःखां तीव्रां खरां कटुकाममनापां वेदनां वेदयतश्चित्तं न पर्यादाय तिष्ठति; यथापितद्भावितत्वात्कायस्य; तस्याल्पं स्तोकं कतिपयं परीत्तमाहारमाहरतः अक्ष्णोरक्षितारके अपगते गंभीरे गंभीरानुगते दूरानुगते दूरानु प्रविष्टे; अपीदानीमुद्धृते इव ख्यायेते; तद्यथा गंभीरोदके उदपाने उदकतारका अपगता भवन्ति; अत्यपगता गंभीरा गंभीरानुगता दूरानुप्रविष्टा अपीदानीमाख्यायिकाभिः श्रूयन्ते; एवमेव तस्मिन् समये बोधिसत्वस्याल्पं स्तोकं कतिपयं परीत्तमाहारमाहरत अक्ष्णोरक्षितारके अपगते अभूताम्; अत्यपगते गंभीरे गंभीरानुगते दूरानुप्रविष्टे; अपीदानीमुद्धृते इव ख्यायेते; आरब्धं चास्य वीर्यं भवत्यसंलीनम्; प्रस्रब्धः कायो भवत्यसंरब्धः; उपस्थिता स्मृतिर्भवत्यसंमूढा; समाहितं चित्तं भवत्येकाग्रम्; एवंरूपां बोधिसत्वस्य तस्मिन् समये आत्मोपक्रमिकां दुःखां तीव्रां खरां कटुकाममनापां वेदनां वेदयतश्चित्तं न पर्यादाय तिष्ठति, यथापितद्भावितत्वात्कायस्य; तस्मिन् समये अल्पं स्तोकं कतिपयं परीत्तमाहारमाहरतः पार्शुकान्तराण्य्(अ ३८१ ) उन्नतावनतान्यभूवन्; तद्यथा द्विवर्षत्रिवर्षप्रतिच्छन्नायास्तृणशालाया गोपानस्या उन्नतावनता भवन्ति; एवमेव तस्मिन् समये बोधिसत्वस्य अल्पं स्तोकं कतिपयं परीत्तमाहारमाहरतः पार्शुकान्तराण्युन्नतावनतान्यभूवन्; आरब्धं चास्य वीर्यं (१०४) भवत्यसंलीनम्; प्रस्रब्धः कायो भवत्यसंरब्धः; उपस्थिता स्मृतिर्भवत्यसंमूढा; समाहितं चित्तं भवत्येकाग्रम्; एवंरूपां बोधिसत्वस्य तस्मिन् समये आत्मोपक्रमिकां दुःखां तीव्रां खरां कटुकाममनापां वेदनां वेदयतश्चित्तं न पर्यादाय तिष्ठति; अथ बोधिसत्वस्य अल्पं स्तोकं कतिपयं परीत्तमाहारमाहरतः पृष्ठवंशोऽभूत्तद्यथा वर्तनावेणी; आनिषादोऽभूत्तद्यथा उष्ट्रपदम्; स एकदा उत्थास्यामीत्यवाङ्मुखः पतति; एकदा निषत्स्यामीत्युत्तानमुखः पतति; स पूर्वं कायं परिगृह्य पश्चिमकं कायं संस्थापयति; पश्चिमकं कायं संपरिगृह्य पूर्वकं कायं संस्थापयति; स उभाभ्यां पाणिभ्यां कायमामार्ष्टि; परामार्ष्टि; तस्योभाभ्यां पाणिभ्यां कायमामार्जतः परिमार्जतोऽपीदानीं प्रतिमूलानि रोमाणि पृथिव्यां शीर्यन्ते; तस्यैतदभवत्: अयमपि मार्गो नालं ज्ञानाय, नालं दर्शनाय, नालमनुत्तरायै सम्यक्संबोधय इति; अथ तिस्रो देवता येन बोधिसत्वस्तेनोपसङ्क्रान्ताः; तत्रैका एवमाह: कृष्णः श्रमणो गौतम इति: द्वितीया एवमाह: नैष कृष्णोऽपि तु श्याम इति; तृतीया एवमाह: नैष कृष्णो नापि श्यामोऽपि तु मद्गुरच्छविरिति; बोधिसत्वस्य या सा शुभा वर्णनिभा सा सर्वेण सर्वमन्तर्हिताभूत् ______________________________________________________________ थे थ्रेए सिमिलेस् अथ बोधिसत्वस्य तस्मिन् समये अश्रुतपूर्वास्तिस्र उपमाः प्रतिभाताः; १) तद्यथा आर्द्रं काष्ठं सस्नेहं जल उपनिक्षिप्तं स्यादारात्स्थलात्; अथ पुरुष आगच्छेदग्न्यर्थी अग्निगवेषी; स तत्राधरारण्यामुत्तरारणिं प्रतिष्ठाप्य अभिमथ्नन्न भव्योऽग्निं संजनयितुं, तेजः प्राविष्कर्तुम्; एवमेव तद्भवति यथापितदार्द्रात्काष्ठात्सस्नेहात्; एवमेव ये केचिच्छ्रमणा वा ब्राह्मणा वा कामेषु न कायेन चित्तेन वा व्यपकृष्टा विहरन्ति, तेषां यः कामेषु कामच्छन्दः कामस्नेहः कामप्रेमा कामालयः कामनियन्त्री कामाध्यवसानं <स> तेषां चित्तं पर्यादाय तिष्ठति; एवमेव तद्भवति यथापितत्कायेन चित्तेन (१०५) वाव्यपकृष्टानां विहरताम्; किं चापि ते इमामेवंरूपामात्मोपक्रमिकां दुःखां तीव्रां खरां कटुकाममनापां वेदनां वेदयन्ति; अथ च पुनस्ते नालं ज्ञानाय, नालं दर्शनाय, नालमनुत्तरायै सम्यक्संबोधये इति; इयं तत्र बोधिसत्वस्य तस्मिन् समये प्रथमा अश्रुतपूर्वा उपमा प्रतिभाता; २) तद्यथा आर्द्रं काष्ठं सस्नेहं स्थल उपनिक्षिप्तं स्यादारात्जलात्; <अथ> पुरुष आगच्छेद्(अ ३८१ ) अग्न्यर्थी अग्निगवेषी; स तत्राधरारण्यामुत्तरारणिं प्रतिष्ठाप्याभिमथ्नन्न भव्योऽग्निं संजनयितुम्, तेजः प्राविष्कर्तुम्; एवमेतद्भवति यथापितदार्द्रात्काष्ठात्सस्नेहात्; एवमेव ये केसिच्छ्रमणा वा ब्राह्मणा वा कामेषु कायेन व्यपकृष्टा विहरन्ति, न तु चित्तेन तेषां तत्र यः कामेषु कामच्छन्दः कामप्रेमा कामालयः कामनियन्त्री, कामाध्यवसानं स तेषां चित्तं पर्यादाय तिष्ठति; किंचापि ते इमामेवंरूपामात्मोपक्रमिकां दुःखां तीव्रां खरां कटुकाममनापां वेदनां वेदयन्ति; अथ च पुनस्ते नालं ज्ञानाय; नालं दर्शनाय, नालमनुत्तरायै सम्यक्संबोधये इति; इयं तत्र बोधिसत्वस्य तस्मिन् समये द्वितीया अश्रुतपूर्वा उपमा प्रतिभाता; ३) तद्यथा शुष्कं काष्ठं कोटरं निःस्नेहं स्थल उपनिक्षिप्तं स्यादाराज्जलात्; अथ पुरुष आगच्छेदग्न्यर्थी, अग्निगवेषी; स तत्राधरारण्यामुत्तरारणिं प्रतिष्ठाप्याभिमथ्नन् भव्योऽग्निं सञ्जनयितुं तेजः प्राविष्कर्तुम्; एवमेतद्भवति यथापितत्शुष्कात्काष्ठात्कोटरात्; एवमेव ये केचिच्छ्रमणा वा ब्राह्मणा वा कायेन व्यपकृष्टा विहरन्ति चित्तेन च, तेषां यः कामेषु कामच्छन्दः कामस्नेहः कामप्रेमा कामालयः कामनियन्ति कामाध्यवसानं स तेषां चित्तां न पर्यादाय तिष्ठति; किंचापि ते न इमामेवंरूपामात्मोपक्रमिकां दुःखां तीव्रां खराममनापां वेदनां वेदयन्ते; अथ च पुनस्ते अलं ज्ञानाय अलं दर्शनाय, अलमनुत्तरायै सम्यक्संबोधये इति; इयं तत्र बोधिसत्वस्य तस्मिन् समये तृतीया अश्रुतपूर्वा उपमा प्रतिभाता; यन्वहमेकतिलफलमाहारमाहरेयमिति; स एकं तिलफलमाहारम् (१०६) आहरति; न तावद्द्वितीयं यावदस्य तदोजः कायान्न विगतं भवति; तस्यैकं तिलमाहारमाहरतः सुतरामङ्गप्रत्यङ्गानि परिक्षीणानि, यथा एकं तिलम्, एकं तण्डुलम्, एकं कोलम्, एकं कुलत्थम्, एकं माषम्, एकं मुद्गं ______________________________________________________________ रेअच्तिओनोf शुद्धोदन अन्दोथेर्स् तां दुष्करचर्यावस्थां श्रुत्वा राजा शुद्धोदनः अर्धतृतीयानि वार्तावाहकशतानि प्रेषयति; सुप्रबुद्धोऽपि राजा अर्धतृतीयानि; तयोः प्रतिदिवसं मुहुर्मुहुर्वार्तां कथयन्ति: बोधिसत्व ईदृशीं दुष्करचर्यां चरति; एकं तिलमाहारमाहरति; एकं तण्डुलम्, एकं कोलम्, एकं कुलत्थम्, एकं माषम्, एकं मुद्गम्; दर्भसंस्तरे च शय्यां कल्प्यति; इति श्रुत्वा राजा शुद्धोदनः पुत्रशोकाभिभूतो भूयस्या मात्रया बाष्पोपतप्यमानहृदयोऽश्रुपर्याकुलेक्षणः सन्तप्यते; दर्भसंस्तरे च शय्यां कल्पयति; सार्धमन्तःपुरेण यशोधरा देवी भर्तुस्तदवस्थां प्रतिश्रुत्य भर्तृशोकाभिभूता बाष्पार्द्रवदना विनिर्मुक्तमाल्याभरणा विषण्णा (अ ३८२ ) दुष्करं चरति; एकं तिलमाहारमाहरति; एकं तण्डुलम्, एकं कोलम्, एकं कुलत्थम्, एकं मुद्गम्; तृणसंस्तरे च शय्यां कल्पयति; तस्याः स गर्भो लयं गतः; राज्ञा शुद्धोदनेन श्रुतम्; स संलक्षयति: यदि यशोधरा प्रतिदिवसं बोधिसत्वस्य वार्तां शृणोति स्थानमेतद्विद्यते यद्भर्तृशोकाभ्याहता अनया दुष्करचर्यया गर्भं न धारयिष्यति; प्राणैर्वा वियोक्ष्यते; तदुपायसंविधानं कर्त्वयं येन यशोधराया बोधिसत्ववार्तां न कश्चित्कथयति इति विदित्वा राज्ञा शुद्धोदनेन सर्वान्तःपुरजनः क्रियाकारं कारितो न केनचित्बोधिसत्ववार्ता यशोधराया अरोचयितव्या <इति>; वार्तासंचारकाश्च समनुशिष्टाः, मां मुक्त्वा न कस्यचिद्बोधिसत्ववार्ता निवेदयितव्येति; श्रुत्वापि स्वयं वार्तां यशोधरापेक्षया अन्तर्निगूढसन्तापोऽन्यथान्तःपुरजनं विप्रलंभयति, यं श्रुत्वा यशोधरा देवी प्राणान् सन्धारयति (१०७) ______________________________________________________________ उन्पलतब्ले fओओद् अथ बोधिसत्वस्यैतदभवत्: अयमपि मार्गो नालं ज्ञानाय, नालं दर्शनाय, नालमनुत्तरायै सम्यक्संबोधये; यन्वहं परमविकृतमाहारमाहरेयमिति; स परमविकृतभोजनमाहारमाहरति; तत्रेदं परमविकृतभोजनम्; ये ते वत्सका अचिरजातका मातुस्स्तन्येन यापयन्ति तेषामुच्चारप्रस्रावः; तावच्च न द्वितीयमाहारमाहरति, यावदस्य तदोजः कायान्न विगतं भवति; द्वितीये तु <विगते> द्वितीयमाहारमाहरति; महाश्मशानं च गत्वा मृतकडेबरं शिरस्युपनिधाय दक्षिणेन पार्श्वेन शय्यां कल्पयति पादे पादमाधायालोकसंज्ञी स्मृतः संप्रजाननुत्थानसंज्ञामेव मनसि कुर्वानः ______________________________________________________________ विल्लगे गिर्ल्सन्द्बोय्स् अपीदानीं ग्रामकुमारका ग्रामकुमारिकाश्चागम्यास्योभयोः कर्णस्रोतसोस्तूलिका आसारयन्त्यपि प्रसारयन्त्यपि; उभयोः कर्णस्रोतसोरेवं चाहुः, पांसुपिशाचकं बत पश्यामः, पांसुपिशाचकं बत पश्यामः इति; अपीदानीं पांसुमपि क्षिपन्ति, लोष्टमपि, शर्करामपि; नाभिजानाति बोधिसत्वस्तेषां ग्रामकुमारकाणां ग्रामकुमारिकाणां वा अन्तिके प्रदुष्टं चित्तमुत्पादयितुं, पापिकां वा वाचं निश्चारयितुम्; एवंरूपाणि बोधिसत्वस्य दुष्कराणि चरतः एतदभवत्: ये केचिद्दुःखप्रहाणयोगमनुयुक्ता विहरन्ति सर्वे ते एतावन्नात उत्तरेण; अतो भूयस्सोऽपि मार्गो नालं ज्ञानाय, नालं दर्शनाय, नालमनुत्तरायै सम्यक्संबोधये इति; आरब्धं चास्य वीर्यं भवत्यसंलीनम्; प्रस्रब्धः कायो भवत्यसंरब्धः; उपस्थिता स्मृतिर्भवत्यसंमूढा; समाहितं चित्तं भवत्येकाग्रम्; तस्यैतदभवत्: कतमोऽसौ मार्गः अलं ज्ञानाय, अलं दर्शनाय, अलमनुत्तरायै सम्यक्संबोधये इति; तस्यैतदभवत्: अभिजानाम्यहं पितुः शुद्धोदनस्य निवेशने कर्मान्ताननुसङ्गम्य जम्बूच्छायायां निषद्य (अ ३८२ ) विविक्तं कामैर्विविक्तं पापकैरकुशलैर्धर्मैः सवितर्कं सविचारं विवेकजं प्रीतिसुखं (१०८) प्रथमं ध्यानमुपसंपद्य विहर्तुम्; स्यात्स मार्गः, स्यात्प्रतिपदलं ज्ञानाय, अलं दर्शनाय, अलमनुत्तरायै सम्यक्संबोध्ये; स तु मया न सुकरमुत्पादयितुं यथापितत्कृशेन दुर्बलेनाप्लस्थामेन; यन्वहं यथासुखमाश्वस्यां यथासुखं प्रश्वस्यां, यथासुखमौदारमाहारमाहरेयमोदनकुल्माषान्; सर्पिस्तैलाभ्यां गात्राणि म्रक्षयेयम्; सुखोदकेन च कायं परिषिञ्चेयमिति; स यथासुखमाश्वसिति, यथासुखं प्रश्वसिति; औदारिकमाहारमाहरत्योदनकुल्माषान्; सर्पिस्तैलाभ्यां गात्राणि म्रक्षयति; सुखोदकेन च कायं परिषिञ्चति ______________________________________________________________ थे fइवे अत्तेन्दन्त्स्देसेर्त् अथ तेषां पञ्चानामुपस्थायकानामेतदभवत्: अयं भवन्तः श्रमणो गौतमः शैथिलिकः संवृत्तो, बाहुलिको बहुलाजीवः, प्रहाणविभ्रान्तो य एष इदानीमौदारिकमाहारमाहरत्योदनकुल्माषान्; सर्पिस्तैलाभ्यां गात्राणि म्रक्षयति; सुखोदकेन कायं परिषिञ्चति; न शक्यमनेनाधुना किंचिदधिगन्तुम्; इति विदित्वा बोधिसत्वमपहाय प्रक्रान्ताः, अनुपूर्वेण वाराणसीं गत्वा ये लोके अर्हन्तस्तानुद्दिश्य प्रव्रजिताः; ते पञ्च समग्राः सहिताः संमोदमाना अविवदमाना ऋषिवदने विहरन्ति मृगदावे इति पञ्चकाः पञ्चका इति संज्ञा संवृत्ता ______________________________________________________________ नन्दा अन्द्नन्दबला बोधिसत्वोऽप्यनुपूर्वेण कायस्य स्थामं च बलं च विर्यं च संजनय्य अनुपूर्वेण सेनायनीग्रामं गतः; तत्र सेनो नाम ग्रामिकः; तस्य द्वे दुहितरौ नन्दा च नन्दबला च; ताभ्यां श्रुतम्: शाक्यानां कुमार उत्पन्नोऽनुहिमवत्पार्श्वे नद्या भागीरथ्यास्तीरे कपिलस्य ऋषेराश्रमपदस्य नातिदूरे: स ब्राह्मणैर्नैमित्तिकैर्विपञ्चनकैर्व्याक्तृअः राजा भविष्यति चक्रवर्ती; स चाभिरूपो दर्शनीयः प्रासादिकः सर्वलक्षणसंपन्नः सर्वजनमनोहरः; या नारी द्वादशवर्षाणि इदमेवंरूपं व्रतं समादाय वर्तते तस्या (१०९) असौ भर्ता भवति इति; पुरुषाभिप्रायो मातृग्रामः; ताभ्यां द्वादशवार्षिकं व्रतं तप्तम्; तस्य समाप्तौ षोडशगुणितं मधुपायसं तपःपरिखिन्नाय ऋषये प्रतिपाद्यते आगन्तुकाय इति श्रुत्वा च पुनस्ताभ्यां गोसहस्रं दोहयित्वा तदेव गोसहस्रं पायितम्; ततस्तदेव गोसहस्रं दोहयित्वा पञ्चशतानि पायितानि; ततस्तानि पञ्चशतानि दोहयित्वा तान्येव <पञ्चशतानि> पायितानि; <ततः तानि> पञ्चशतानि दोहयित्वा अर्धतृतीयानि शतानि पायितानि; ततस्तान्यर्धतृतीयानि शतानि दोहयित्वा <तान्येवार्धतृतीयानि शतानि पायितनि; ततस्तान्यर्धतृतीयानि शातानि दोहयित्वा> पञ्चविंशत्युत्तरं शतं पायितम्; ततस्तत्पञ्चविंषत्युत्तरं शतं दोहयित्वा <तदेव पञ्चविंशत्युत्तरं शतं पायितम्; ततः तत्पञ्चविंशत्युत्तरं शतं दोहयित्वा> त्रिषष्टिः पायिता; ततस्तां त्रिषष्टिं दोहयित्वा सैव त्रिषष्टिः पायिता; ततस्तां त्रिषष्टिं दोहयित्वा द्वात्रिंशत्पायिता; ततस्ता द्वात्रिंशत्दोहयित्वा ता एव द्वात्रिंशत्पायिताः; ततस्ता द्वात्रिंशत्दोहयित्वा षोडश पायिताः; ततस्ताः षोडश दोहयित्वा ता एव षोडश (अ ३८३ ) पायिताः; ततस्ताः षोदश दोहयित्वा अष्टौ पायिताः; ततस्ता अष्टौ दोहयित्वा ता एवाष्टौ पायिताः; ततस्ता अष्टौ दोहयित्वा स्फटिकमय्यां स्थाल्यां षोडशगुणितं मधुपायसं साधयितुमारब्धाः; शुद्धावासकायिका देवाः संलक्षयन्ति; बोधिसत्वः इदं पायसं भुक्त्वा अद्यैवानुत्तरं ज्ञानमधिगमिष्यति; ततस्तेजौपसंहारः कर्तव्य इति तैः सद्योबला ओषधयः प्रक्षिप्ताः; तत्र च क्षीरे संपरिवर्तमाने चक्रस्वस्तिकनन्द्यावर्तानि चिह्नानि दृश्यन्ते; तत्र च उपगो नामाजीवकः परिभ्रमंस्तं प्रदेषमनुप्राप्तः; तेन तत्पायसं दृष्टम्; स संलक्षयति: य एतत्पायसं भुङ्क्ते सोऽनुत्तरं ज्ञानमधिगमिष्यति; यन्वहमेतत्प्रार्थयेयमिति; स मुहूर्तमेकान्ते प्रक्रम्य स्थितो यावदवतारितमिति; स उपसङ्क्रम्य कथयति: क्षुत्तर्षश्रमपीडितोऽस्मि; ममैतत्प्रयच्छ इति; ते कथयतः: नानुप्रयच्छाम इति; स तूष्णीं प्रक्रान्तः; ततस्ताभ्यां स्फटिकमय्यां स्थाल्यां रत्नमय्यां पात्र्यां प्रक्षिप्तम्; शक्रस्य देवेन्द्रस्याधस्ताज्ज्ञानदर्शनं प्रवर्तते: तस्यामवस्थायां ब्राह्मणवेषमभिनिर्माय तयोः पुरतोऽवस्थितः; ब्रह्माप्यवतीर्य तस्यादूरे अवस्थितः; ते शक्राय दातुमारब्धे; स कथयति: किं ममानुप्रयच्छथ आहोस्विद्यो ममान्तिकाद्विशिष्टतरः? यस्तवान्तिकाद्विशिष्टतरः तस्यानुप्रयच्छावः; अयं ब्रह्मा ममान्तिकात्प्रतिविशिष्टः; तदस्यानुप्रयच्छतम्; ते तस्मै दातुमारब्धे; (११०) स कथयति: किं ममानुप्रयच्छथ आहोस्विद्यो ममान्तिकात्प्रतिविशिष्टतमः; यस्तवान्तिकात्प्रतिविशिष्टतमः; अमी शुद्धावासकायिका देवाः; एभ्योऽनुप्रयच्छतम्; ते तेभ्यो दातुमारब्धे; ते कथयन्ति: किमस्माकमनुप्रयच्छथ आहोस्विद्योऽस्मद्विशिष्टतमः? यो युष्मद्विशिष्टतमः; ते कथयन्ति: अयं बोधिसत्वो भगवान्नैरञ्जनामभ्यवगाह्य गात्राणि परिषिच्य अल्पस्थामवत्वान्न शक्नोति प्रत्युत्तर्तुम्; एषोऽस्मद्विशिष्टतमः; अस्मायनुप्रयच्छतम्; ते तस्य सकाशं संप्रस्थिते; तदा देवताभिरर्जुनशाखावनामिता यामवलंब्य बोधिसत्वो नदीं नैरञ्जनामुत्तीर्य चीवरकाणि प्रावृत्य नद्या नैरञ्जनायास्तीरे निषण्णः; ततस्ताभ्यां सत्कृत्य तीव्रेणाशयेन तन्मधुपायसं तस्मै प्रतिपादितम्; बोधिसत्वेनापि तयोरनुग्रहार्थं प्रतिसङ्गृहीतम्; प्रतिगृह्य कथयति: किमेषापि पात्री परित्यक्ता? ते कथयतः: भगवन्नेषापि परित्यक्ता; ततो बोस्हिसत्वेन मधुपायसं परिभुज्य सा पात्री प्रक्षाल्य नद्यां नैरञ्जनायां प्रक्षिप्ता; नागैः प्रतिगृहीता; देवानामधस्ताज्ज्ञानदर्शनं प्रवर्तते; शक्रेण देवानामिन्द्रेण गरुडवेषमभिनिर्माय नदीं नैरञ्जनां क्षोभयित्वा, नागान् वित्रास्य, तां पात्रीमपहृत्य, देवेषु त्रयस्त्रिंशेषु पात्रीमहः प्रज्ञप्तः; ततो नन्दा नन्दबला बोधिसत्वेनोक्ते: अनेन दानेन किं प्रार्थयथ इति; ते कथयतः: भगवन् योऽसौ शाक्यानां कुमार उत्पन्नोऽनुहिमवत्पार्श्वे (अ ३८३ ) नद्या भागीरथ्यास्तीरे कपिलस्य ऋषेराश्रमपदस्य नातिदूरे स ब्राह्मणैर्नैमित्तिकैर्विपञ्चनकैर्व्याकृतः राजा भविष्यति चक्रवर्ती इति; सोऽस्माकमनेन कुषलमूलेन चित्तोत्पादेनान्नपरित्यागेन भर्ता भवेदिति; बोधिसत्वः कथयति: प्रव्रजितोऽसावनर्थिकः कामैरिति; ते कथयतः: भगवन् यद्यनर्थी कामैः प्रणीतदानात्तु यदस्ति पुण्यं संपद्यतां तस्य यशोन्वितस्य । सर्वार्थसिद्धस्य नरोत्तमस्य सर्वार्थसिद्धिर्भृशमग्रबुद्धेः ॥ एवमस्त्वित्युक्त्वा बोधिसत्वः मधुपायसं परिभुज्य सन्तर्पितः षडिन्द्रियबलस्थामप्राप्तः, (१११) नद्या नैरञ्जनायास्तीरे इतश्चामुतश्च निषद्य भूमिं पर्येषते; यावत्पश्यति महाशैलं पर्वतं नानापुष्पफलोपेतम्; स तमभिरुह्य विविक्तावकाशे पृथिवीप्रदेशे पर्यङ्कमाभुज्य निषण्णः; निषादकालसमनन्तरमेवासौ पर्वतो विशीर्णः; बोधिसत्वः संलक्षयति: नूनं मयापक्षालानि कर्माणि कृतानि येनायं पर्वतो विशीर्णः; देवता बोधिसत्वस्य चेतसा चित्तमाज्ञाय कथयन्ति: भगवन्न त्वया पापकानि कर्माणि कृतानि; अपि तु धर्मता ह्येषा, सर्वापि द्वौ पृथिवी न शक्नोति धारयितुं यश्चोच्छिन्नकुशलमूलो यश्चोत्तप्तकुशलमूलः; स त्वमुत्तप्तकुशलमूलः; नैतद्भगवन् बोधिसत्वानां स्थानम्; अपि तु नदीं नैरञ्जनामुत्तीर्यामुष्मिन् प्रदेशे गच्छ वज्रासनम्; तत्र अतीतानागतप्रत्युत्पन्नास्सर्वे बोधिसत्वा निषद्यानुत्तरं ज्ञानमधिगतवन्तः; अधिगमिष्यन्ति च इति; ततो बोधिसत्वो देवतोपदिष्टेन मार्गेण संप्रस्थितः; तस्य चरणनिपाते पद्मं प्रादुर्भवति; चतुर्भ्यश्च महासमुद्रेभ्यस्सलिलमागच्छति; पद्मिनी प्रादुर्भवति; चरणनिपाते संपीदिता चेयं महापृथिवी कांसपात्रीव रटितुमारभ्दा; चाषा मृगाश्च बोधिसत्वस्य प्रदक्षिणीकुर्वन्ति; वातबलाहका अपि देवपुत्रा मन्दमन्दं प्रवातुमारब्धाः; वर्षबलाहका अपि देवपुत्रा ईषत्प्रवर्षितुमारब्धाः; बोधिसत्वः संलक्षयति: यादृशीनि मे निमित्तानि प्रादुर्भवन्ति अद्यैव मया अनुत्तरं ज्ञानमधिगतं भविष्यतीति ______________________________________________________________ कालिक नागराज नद्यां नैरञ्जनायां कालिकस्य नागराजस्य पूर्वकर्मविपाकजं भवनमभिनिर्वृत्तम्; स बुद्धोत्पादे बुद्धोत्पादे चक्षुषी प्रतिलभते; स रणन्त्याः पृथिव्याः शब्देन भवनादभ्युद्गतः; पश्यति बोधिसत्वं दूरादेव द्वात्रिंशता महापुरुषलक्षणैः समलङ्कृतम्, अशीत्या चानुव्यञ्जनैर्विराजितगात्रं, व्यामप्रभालङ्कृतं, सूर्यसहस्रातिरेकप्रभं, जङ्गममिव रत्नपर्वतं, (११२) समन्ततोभद्रकम्; सहदर्शनाच्च बोधिसत्वं गाथाभिर्गीतेन चाभिष्टोतुमारब्धः: रणन्तीं प्तृहिवीं श्रुत्वा नदीं घोषसमाकुलाम् । भवनादुद्गतो नागो दिशस्समवलोकयन् ॥ अद्राक्षीदुरगश्रेष्ठो नागराजो महर्धिकः । नैरञ्जनायास्तीरेण आयान्तं (अ ३८४ ) लोकनायकम् ॥ बुद्धोत्पादप्रभावाच्च चक्षुरासाद्य पन्नगः । प्रहृष्टचित्तः सुमना इमां गिरमुवाच ह ॥ पूर्वका हि मया दृष्टास्तेऽपि बुद्धा महर्धिकाः । तेषां तव च पश्यामि न नानाकरणं मुने ॥ यथोक्षिपसि पूर्वं हि पादं दक्षिणकं मुने । दक्षिणीयस्य लोकस्य त्वं बुद्धोऽद्य भविष्यसि ॥ यथा चीवरविक्षेपो यथा चैवावगाहसे । नैरञ्जनां शीतजलां त्वं बुद्धोऽद्य भविष्यसि ॥ सुदृढविक्रम विक्रमसे यथा लडितगोवृषविक्रमविक्रम । स पुरुषर्षभ धर्मभृतां वर त्वमिह बुद्धवरोऽद्य भविष्यसि ॥ नभसि चाषशतैः क्रियते यथा परिपतद्भिरिदं परिदक्षिणम् । तव शरीरमुदारोदारकृतीत्य् अवरबुद्धवरोऽद्य भविष्यसि ॥ सुरभयः परिवान्ति यथानिलास् त्रसति नापि गणो मृगपक्षिणाम् । न तरवः प्रचलन्त्यनिलेरिताः अवरबुद्धवरोऽद्य भविष्यसि ॥ तव भदन्त यथा विमलप्रभा (११३) ज्वलितकाञ्चनदीप्तिसमप्रभा । मुखमिदं च विराजति वर्णवत् अवरबुद्धवरोऽद्य भविष्यसि ॥ अन्तरोद्दानम्: रणन्त्य्, अद्राक्षीत्, बुद्धश्च, पूर्व, चरण, चीवर, सुदृढ चाष, अनिलाश्चैव, तव, कृत्वाथ ते दश । ______________________________________________________________ स्वस्तिक अन्द्बुद्धऽस्देतेर्मिनतिओन् ततो बोधिसत्वः कालिकनागराजेन संस्तूयमानो वज्रासनाभिमुखः संप्रस्थितः; स संलक्षयति: तृणसंस्तरे निषद्यां कल्पयामीति; तस्य तृणैः प्रयोजनमिति शक्रो देवानामिन्द्रो बोधिसत्वस्य चेतसा चित्तमाज्ञय गन्धमादनात्पर्वतात्तूलसंस्पर्शानां तृंानां भारमादाय स्वस्तिकयावसिकवर्णमात्मानमभिनिर्माय बोधिसत्वस्य पुरस्तादवस्थितः; बोधिसत्वः कथयति: भद्रमुख दीयन्तां ममैतानि तृणानीति; शक्रेण देवेन्द्रेण बोधिसत्वस्य पादयोर्निपत्य सगौरवेण दत्तानि; ततो बोधिसत्वः स्वस्तिकस्य यावसिकस्यान्तिकात्तृणान्यादाय देवतोपदिष्टेन मार्गेण येन बोधिमूलं तेनोपसङ्क्रान्तः; उपसङ्क्रम्य अनाकुलमसङ्कुलं तृणसंस्तरकं प्रज्ञपयितुमारब्धः; ततस्तानि तृणानि प्रदक्षिणानि पतितुमारब्धानि; बोधिसत्वः संलक्षयति: यथैतानि तृणानि प्रदक्षिणं पतन्ति, नियतं मयाद्यानुत्तरं ज्ञानमधिगन्तव्यम्; इति विदित्वा वज्रासनमभिरुह्य सुप्तोरगराजभोगपरिपिण्डीकृतं पर्यङ्कं बद्ध्वा निषण्णः; ऋजुं कायं प्रणिधाय प्रतिमुखां स्मृतिमुपस्थाप्य चित्तमुत्पादयति; वाचं च भाषते: न तावद्भेत्स्यामि पर्यङ्कं यावदप्राप्त आस्रवक्षयः (अ ३८४ ) स न तावत्भिन्दति पर्यङ्कं यावदप्राप्त आस्रवक्षयः ______________________________________________________________ मारऽस्मिस्छिएf मारस्य पापीयसो द्वौ ध्वजौ हर्षस्थानीयः शोकस्थानीयश्च; यावच्छोकस्थानीयो ध्वजः कम्पितुम् (११४) आरब्धः मारः पापीयान् संलक्षयति: यथैष कम्पते ध्वजः, नूनमनर्थेन भवितव्यम्; स समन्वाहर्तुं प्रवृत्तः यावत्पश्यति बोधिसत्वं वज्रासने निषण्णम्; तस्यैतदभवत्: अयं शुद्धोदनपुत्रो वज्रासने निषण्णो यावन्मद्विषयं नाक्रामति, तावदस्य विघ्नः कर्तव्यः; इति विदित्वा उद्धूतशिरस्कः शणशाटीनिवसितः, लेखवाहकवर्णमात्मानमभिनिर्माय, येन बोधिसत्वस्तेनोपसङ्क्रान्तः; उपसङ्क्रम्य ससंभ्रमः कथयति: किमर्थं भवान्निषण्णोऽवतिष्ठते; कपिलवस्तु नगरं देवदत्तेनावष्टब्धम्; अन्तःपुरं विध्वंसितम्; शाक्याः प्रघातिता इति; तत्र बोधिसत्वस्य त्रयः पापका अकुशला वितर्काः समुत्पन्नाः; तद्यथा, कामवितर्को, व्यापादवितर्को, विहिंसावितर्कश्च; तत्र यशोधरामृगजागोपिकासु कामवितर्कः, देवदत्ते व्यापादवितर्कः, तदनुजीविषु शाक्येषु विहिंशावितर्कः; बोधिसत्वस्यैतदभवत्: किमर्थं मे त्रयः पापका अकुशला वितर्काः समुत्पन्नाः; यावत्पश्यति, मारः पापीयानुपसङ्क्रान्तो यदुत व्याक्षेपकर्मणेति; ततो बोधिसत्वस्य त्रयः कुशलाः समुत्पन्नाः; तद्यथा नैष्क्रम्यवितर्कः, अव्यापादवितर्कः, अविहिंसावितर्कश्च भूयो मारः कथयति: किमर्थं त्वं बोधिमूले निषण्ण इति; बोधिसत्वः कथयति: अनुत्तरं ज्ञानमधिगमिष्यामीति; मारः कथयति: कुमार कुतस्तव अनुत्तरं ज्ञानमिति; बोधिसत्वः कथयति: तव तावत्पापीयनेकं यज्ञमिष्ट्वा कामधात्वीश्वरत्वं संपन्नम्; प्रागेव येन मया त्रिषु कल्पासङ्ख्येयेष्वनेकानि यज्ञकोटीनियुतशतसहस्राणीष्टानि; सत्वानां चार्थाय शिरःकरचरणनयनमांसरुधिरसुतदारहिरण्यसुवर्णादि परित्यक्तमनुत्तरज्ञानाधिगमाय; सोऽहमनुत्तरं ज्ञानं नाधिगमिष्यामीति कुत एतत्? एवमुक्तो मारः कथयति: स तावत्भवानेव साक्षी यथा मया एकेन यज्ञेन कामधात्वीश्वरत्वं प्राप्तमिति; भवतः कः साक्षी; यथा त्वया त्रिषु कल्पासङ्ख्येयेष्वनेकानि यज्ञकोटीनियुतशतसहस्राणीष्टानि; सत्वानां चार्थाय शिरःकरचरणनयनमांसरुधिरसुतदारहिरण्यसुवर्णादि परित्यक्तमनुत्तरज्ञानाधिगमायेति? ततो भगवता चक्रस्वस्तिकनन्द्यावर्तेन जालावनद्धेन अनेकपुण्यशतनिर्जातेन भीतानाम् (११५) आश्वासनकरेण करेण पृथिवी परामृष्टा पृथिवी साक्षिणी यथा मया (अ ३८५ ) त्रिषु कल्पासङ्ख्येयेष्वनेकानि यज्ञकोटीनियुतशतसहस्राणिष्टानि; सत्वानां चार्थाय शिरःकरचरणनयनमांसरुधिरसुतदारहिरण्यसुवर्णादि परित्यक्तमिति; ततः पृथिवीदेवता पृथिवीमुद्भिद्य कृताञ्जलिपुटा शब्दमुदीरयति: एवमेतत्पापीयन् यथा भगवान् कथयतीति; एवमुक्ते मारः पापीयांस्तूष्णींभूतो मद्गुभूतस्स्रस्तस्कन्धोऽधोमुखो निष्प्रतिभः प्रध्यानपरमो व्यवस्थितः स दुःखी दुर्मनाः संलक्षयति: एवमप्यहं कुर्वन्न लभे शाक्यस्य शुद्धोदनपुत्रस्य अवतारं; यन्वहमस्य भूयस्यास्मात्रया विघ्नं कुर्यामित्युक्त्वा प्रक्रान्तः; ततस्तेन तिस्रो दुहितरः प्रेषिताः तृष्णा च रता च रतिश्च; ता रूपयौवनमदमत्ता दिव्यवस्त्रालङ्कारविभूषिता बोधिसत्वस्य पुरस्तात्स्त्रीसाध्यानि विदर्शयित्र्मारब्धाः; ततो बोधिसत्वेनोपायकौशलेन तथाधिष्ठिता यथा वृद्धाः संवृत्ताः; येन मारस्तेनोपसङ्क्रान्ताः; मारस्तास्तथाविधा दृआट्वा विषण्णः करे कपोलं दत्वा चिन्तापरो व्यवस्थितः: कोऽसावुपायस्स्याद्येन शाक्यस्य शुद्धोदनपुत्रस्य तपोविघ्नं कुर्यामिति; षट्त्रिंशद्भूतकोटिबलाग्रमादाय हस्त्यश्वोष्ट्रमृगमहिषवराहकुक्कुरोलूकनकुलशाखामृगाद्याकाराणामसितोमरभिण्डिपालचक्रकुन्तकधनुष्पाशपरशुभुसुण्ड्याद्यायुधानाम्, स्वयं चाकर्णाद्धनुः पूरयित्वा बोधिसत्वं परिवार्यावस्थितः; ततो बोधिसत्वस्ताननेकरूपान् बहुविविधप्रहरणसहितान् दृष्ट्वा संलक्षयति: यस्तावत्प्राकृतपुरुषेण सार्धं संरंभमारभते, स प्रतिपक्षं योजयति; प्रागेवायं कामधात्वीश्वरो यन्वहं प्रतिपक्षं योजयेयम्; इति विदित्वा तदुपशमनोपायं चिन्तयितुमारब्धः; मारश्च षट्त्रिंशद्भूतकोटिसहितो बोधिसत्वस्योपरि कुन्तकचक्रतोमरभिण्डिपालशरादि निक्षेप्तुमारब्धः; ततो बोधिसत्वो मैत्रीं समापन्नः; तानि चास्य प्रहरणानि दिव्यान्युत्पलपद्मकुमुदपुण्डरीकाणि भूत्वा बोधिसत्वस्य समन्तात्पतितुमारब्धानि; ततो मार उपरि विहायसमभ्युद्गम्य पांसुवर्षं वर्षितुमारब्धः; तदपि (११६) दिव्यानि मान्दारकाणि पुष्पाणि भूत्वा बोधिसत्वस्योपरि निपतितुमारब्धानि; ततो मारेण विषवायुरुत्सृष्टः उपलवर्षश्च; शुद्धावासकायिकाभिर्देवताभिस्ततो बोधिसत्वस्योपरि पर्णिकाकुटिरभिनिर्मिता; उपलवर्षेणापि विषवायुसमेतेन बोधिसत्वस्य न किञ्चित्कृतमिति; मारः संलक्षयति: कियच्चिरं मया परिवार्य अवस्थातव्यम्; शब्दकण्तकानि ध्यानानि; बोधिवृक्षं स्फटिकमयमभिनिर्माय गच्छामि; तस्य पत्राणि नित्यं शब्दं करिष्यन्ति; तेनास्य चित्तैकाग्रता न भविष्यति; इति विदित्वा बोधिवृक्षं स्फटिकमयमभिनिर्माय श्रोत्रावधानतत्परोऽवस्थितः; बोधिपत्राणि (अ ३८५ ) स्फटिकमयानि मुहुर्मुहुः स्वनितुमारब्धानि; बोधिसत्वश्शब्दकण्टकत्वाद्ध्यानानां चित्तैकाग्रतां नासादयति; शुद्धावासकायिका देवाः संलक्षयन्ति: बोधिसत्वः स्फटिकबोधिपत्रनिस्वनाच्चित्तैकाग्रतां नासादयति; उपायसंविधानं कर्तव्यमिति; ततस्तैः पत्रं विधारितम्; तथापि मारबलं तिष्ठत्येव; शुद्धावासकायिका देवाः संलक्षयन्ति: अयं मारः पापीयांश्चिरं बोधिसत्वं विहेठयिष्यति; इति विदित्वा तन्मारबलं चक्रवाटस्योपरिष्टात्क्षिप्तमिति ______________________________________________________________ एxपेरिएन्चेसोf सुएर्नतुरल्पोwएर्स् तत्र बोधिसत्वो भगवानुरुबिल्वायां विहरति; नद्या नैरञ्जनायास्तीरे बोधिमूले युक्तः सातत्ये नैपक्ये संबोधिपक्षेषु धर्मेषु भावनायोगमनुयुक्तो विहरति; स रात्र्या प्रथमे यामे रिद्धिविषयज्ञानसाक्षात्क्रियायामभिज्ञायां चित्तमभिनिर्णमयति; सोऽनेकविधमृद्धिविषयं प्रत्यनुभवति; एको भूत्वा बहूधा भवति; बहुधा भूत्वा एको भवति; आविर्भावतिरोभावं ज्ञानदर्शनं प्रत्यनुभवति; तिरः कुड्यं तिरःशैलं तिरः प्राकारमसज्जमानेन कायेन गच्छति, तद्यथा आकाशे; पृथिव्यामुन्मज्जननिमज्जनं करोति तद्यथा उदके; उदके अभिन्नस्रोतो गच्छति; तद्यथा पृथिव्याम्, आकाशं पर्यंकेन क्रामति तद्यथा पक्षी शकुनिः; इमऊ वा पुनः सूर्याचन्द्रमसौ एवंमहर्धिकावेवंमहानुभावौ पाणिना आमार्ष्टि परिमार्ष्टि; यावत्, (११७) ब्रह्मलोकं कायेन वशे वर्तयति; भूयो मारः संलक्षयति: शब्दकण्टकानि ध्यानानि; यन्वहं दूरस्थ एव शब्दं कुर्यामिति; तेन षट्त्रिंशद्भूतकोटिपरिवारेण महाभयभैरवशब्द उत्सृष्टः; बोधिसत्वेनापि तदावरनाय द्वादशयोजनानि कदलीवनं निर्मितं येनासौ शब्दः पराहतः श्रूयते; बोधिसत्वः संलक्षयति: यन्वहं दिव्यश्रोत्रज्ञानसाक्षात्क्रियायामभिज्ञायं चित्तमभिनिर्णमयेयं, येन यान् शब्दानाकाङ्क्षामि श्रोतुं तान् शृणोमि, दिव्यानपि मानुषानपि; इति विदित्वा दिव्यश्रोत्रज्ञानसाक्षात्क्रियायामभिज्ञायां चित्तमभिनिर्णमयति; स दिव्येन श्रोत्रेण विशुद्धेनातिक्रान्तमानुषेण उभयान् शब्दान् शृणोति मानुषानप्यमानुषानपि, येऽपि दूरे, येऽप्यन्तिके ______________________________________________________________ रेअसोनिन्ग्wइथिन्, अन्देन्लिघ्तेन्मेन्त् ततो बोधिसत्वः संलक्षयति: षट्त्रिंशद्भूतकोटिपरिवारस्य <मारस्य> केन ममान्तिके चित्तं प्रदूषितं, केन नेति कथमेतज्ज्ञायते इति; तस्यैतदभवत्: चेतःपर्यायज्ञानसाक्षात्क्रिययाभिज्ञया इति; स रात्र्या मध्यमे यामे चेतःपर्यायज्ञानसाक्षात्क्रियायामभिज्ञायां चित्तमभिनिर्णमयति; परसत्वानां परपुद्गलानां वितर्कितं, विचारितं मनसा मानसं यथाभूतं प्रजानाति; सरागं चित्तं सरागं चित्तमिति यथाभूतं प्रजानाति; विगतरागं चित्तं विगतरागं चित्तमिति यथाभूतं प्रजानाति; सद्वेषं विगतद्वेषं, समोहं (अ ३८६ ) विगतमोहं, संक्षिप्तं विक्षिप्तं, लीनं प्रगृहीतम्, उद्धतमनुद्धतम्, अव्युपशान्तं व्युपशान्तम्, असमाहितं समाहितम्, अभावितं भावितम्, अविमुक्तं चित्तम्, अविमुक्तं चित्तमिति यथाभूतं प्रजानाति; सविमुक्तं चित्तम् <सविमुक्तं चित्तम्> इति यथाभूतं प्रजानाति; तस्यैतदभवत्: एषां मारकिंकराणां को मे अन्यस्यां जातौ मातृसंबन्धं पितृसंबन्धः; को वा वधकः, प्रत्यर्थिकः, प्रत्यमित्र इति; कथमेतज्ज्ञायत इति; तस्यैतदभवत्: पूर्वनिवासानुस्मृतिज्ञानसाक्षात्क्रियायामभिज्ञयेति; स रात्र्या मध्यमे यामे पूर्वनिवासानुस्मृतिज्ञानसाक्षात्क्रियायामभिज्ञायां चित्तमभिनिर्णमयति; सोऽनेकविधं पूर्वनिवासं समनुस्मरति; तद्यथा एकामपि जातिं, द्वे, तिस्रश्, चतस्रः, पञ्च, षट्, सप्त, अष्टौ, (११८) नव दश, विंशतिं, त्रिंशतं, चत्वारिंशतं, पञ्चाशतं, जातिसहस्रमपि, जातिशतान्यनेकान्यपि, जातिस्हस्राण्यनेकान्यपि, जातिशतसहस्राणि, संवर्तकल्पमपि, विवर्तकल्पमपि, संवर्तविवर्तकप्लमपि, अनेकानपि संवर्तकल्पान्, अनेकानपि विवर्तकल्पान्, अनेकानपि संवर्तविवर्तकप्लान् समनुस्मरति; अमी नाम ते भवन्तः सत्वाः यत्राहमासमेवंनामा, एवंजात्यः, एवंगोत्रः, एवमाहारः, एवं सुखदुःखं प्रतिसंवेदी, एवंदीर्घायुः, एवंचिरस्थितिकः, एवमायुःपर्यन्तः; सोऽहं तस्मात्स्थानाच्च्युतः अमुत्रोपपन्नः तस्मादपि च्युतः अमुत्रोपपन्नः; तस्मादपि च्युत इहोपपन्न इति; साकारं सोद्देशमनेकविधं पूर्वनिवासं समनुस्मरति; तस्यैतदभवत्: एषां मारकिंकराणां के अपायगामिनः, के नेति; कथमेतज्ज्ञायते? तस्यैतदभवत्: च्युत्युपपादज्ञानसाक्षात्क्रियायामभिज्ञयेति; स रात्र्या मध्यमे यामे च्युत्युपपादज्ञानसाक्षात्क्रियायामभिज्ञायां चित्तमभिनिर्णमयति; स दिव्येन चक्षुषा विशुद्धेनातिक्रान्तमानुष्यकेण सत्वान् पश्यति, च्यवमानानपि उपपद्यमानानपि, सुवर्णानपि, दुर्वर्णानपि, हीनानपि, प्रणीतानपि, सुगतिमपि गच्छतो, दुर्गतिमपि गच्छतो; यथाकर्मोपगान् सत्वान् यथाभूतान् प्रजानाति; अमी नाम ते भवन्तः सत्वाः कायदुश्चरितेन समन्वागता वाङ्मनोदुश्चरितेन समन्वागता आर्याणामपवादका मिथ्यादृष्टयः; मिथ्यादृष्टिकर्मधर्मसमादानहेतोः तद्धेतुतत्प्रत्ययं कायस्य भेदात्परं मरणादपायदुर्गतिविनिपातं नरकेषु प्रपद्यन्ते; अमी वा पुनर्भवन्तः सत्वाः कायसुचरितेन समन्वागता वाङ्मनस्सुचरितेन समन्वागतासार्याणामनपवादकाः सम्यग्दृष्टयः; सम्यग्दृष्टिकर्मधर्मसमादानहेतोस्तद्धेतुतत्प्रत्ययं कायस्य भेदात्परं मरणात्सुगतौ स्वर्गलोके देवेषूपपद्यन्ते; तस्यैतदभवत्: अमी भवन्तः सत्वाः कामाश्रवेण भवाश्रवेणाविद्याश्रवेन (अ ३८६ ) च संसारे संसरन्ति; तत्कामाश्रवो भवाश्रवोऽविद्याश्रवश्च; यथा प्रहीयन्ते तत्कथं ज्ञायत इति; तस्यैतदभवत्: आश्रवक्षयज्ञानसाक्षात्क्रियायामभिज्ञयेतिÝआस्रवक्षयज्ञानसाक्षात्क्रियायाम्Ý; च युक्तः सातत्ये नैपक्ये संबोधिपक्षेषु धर्मेषु भावनायोगमनुयुक्तो विहरन्नास्रवक्षयज्ञानसाक्षात्क्रियायामभिज्ञायां चित्तमभिनिर्णमयति; स इदं दुःखमार्यसत्यमिति यथाभूतं प्रजानाति; अयं दुःखसमुदयः, अयं दुःखनिरोधः, अयं दुःखनिरोधगामिनी प्रतिपदार्यसत्यमिति यथाभुतं प्रजानाति; तस्यैवं जानत एवं (११९) पश्यतः कामाश्रवाच्चित्तं विमुच्यते; भवाश्रवाद्चित्तं विमुच्यते; <अविद्याश्रवाच्चित्तं विमुच्यते>; विमुक्तस्य विमुक्तमेव ज्ञानदर्शनं भवति, क्षीना मे जातिर्, उषितं ब्रह्मचर्यं, कृतं करणीयं, नापरमस्माद्भवं प्रजानामीति; इति तत्राभिसंबुद्धबोधिर्भगवान् कृतकृत्यः, कृतकरणीयः, तेजोधातुं समापन्नः ______________________________________________________________ मारऽस्देfएअत्, अन्द्मिस्छिएवोउस्रुमोउर् यदा बोधिसत्वेन षट्त्रिंशाद्भूतकोटिपरिवारं मारं मैत्रेणास्त्रेणाभिनिर्जित्य अनुत्तरं ज्ञानमधिगतं, तदा मारस्य पापीयसो हस्ताद्धनुः स्रस्तो, ध्वजः पतितः, भवनं च कम्पितम्; ततो मारः पापीयान् षट्त्रिंशद्भूतकोटिपरिवारो दुःखी, दुर्मना, विप्रतीसारी, तत्रैवान्तर्हितः; मारकायिकाभिर्देवताभिः कपिलवस्तुनगरे आरोचितम्: शाक्यमुनिर्बोधिसत्वो दुष्करचर्यां चरित्वा वज्रासनमभिरुह्य तृणसंस्तरे कालगतः इति; यत्श्रुत्वा राजा शुद्धोदनः अन्तःपुरकुमारामात्यगणसहीयो महता दुःखदौर्मनस्येन सन्तप्तः, कपिलवास्तवश्च जनकायः; गोपिका मृगजा यशोधरा च बोधिसत्वगुणानुस्मरणात्मूर्छिताः पृथिव्यां निपतिताः; जलावसेकप्रत्यागतप्राणास्ता अन्तःपुरजनेन सान्त्व्यमाना अश्रुपर्याकुलेक्षणा मुहुर्बाष्परोधगद्गदस्वरा विप्रलपन्त्योऽवस्थिताः; तां विप्रतिपत्तिं दृष्ट्वा बुद्धाभिप्रसन्नाभिर्देवताभिरारोचितम्: न शाक्यमुनिर्बोधिसत्वः कालगतः, अपि तु तेनानुत्तरं ज्ञानमधिगतमिति ______________________________________________________________ राहुल अन्दानन्द यत्श्रुत्वा राजा शुद्धोदनः सपरिवारः कपिलवास्तवश्च जनकायः परं हर्षमुपागताः; अनुत्तरज्ञानाधिगमे च भगवतः यशोधरायः पुत्रो जातः; अमृतोदनस्य च पुत्रो जातः; राहुणा चन्द्रो ग्रस्तः; अथ राजा शुद्धोदनः तां संपत्तिं दृष्ट्वा हृष्टतुष्टप्रमुदित उदग्रप्रीतिसौमनस्यजातः संवृत्तः; तेन कपिलवस्तुनगरमपगतपाषणशर्करकठल्लं व्यवस्थापितम्, चन्दनवारिपरिषिक्तं सुरभिधूपस्फटिकोपनिबद्धमामुक्तपट्टदामकलापमुच्छृतध्वजपताकं नानापुष्पावकीर्णं रमणीयम्; (११९) चतुर्षु नगरद्वारेषु दानशाला मापिता मध्ये च शृण्गाटकस्य; ततः पूर्वनगरद्वारे श्रमणब्राह्मणचरकपरिव्राजकादीनवानाथकृपणवनीपकयाचनकेभ्यो दानानि दत्तानि; दक्षिणे पश्चिमे उत्तरे मध्ये शृङ्गाटकस्य (अ ३८७ ) दानानि दीयन्ते; पुण्याणि क्रियन्ते; यशोधरायाः पुत्रस्य नाम व्यवस्थाप्यते; अन्तःपुरजनः कथयति: अस्य जन्मनि राहुणा चन्द्रो ग्रस्तः; तस्माद्भवतु दारकस्य राहुल इति नामेति; अमृतोदनस्यापि तथैव दानानि दत्वा पुण्यानि कृत्वा पुत्रस्य नामधेयं व्यवस्थाप्यते; किं भवतु दारकस्य नामेति: ज्ञातय ऊचुः: यस्मादस्य जन्मनि सर्वं नगरमानन्दितं, तस्माद्भवतु दारकस्य आनन्द इति नामेति; राजा शुद्धोदनः कथयति: योऽयं यशोधरायाः पुत्रो जातः नैष शाक्यमुनेः पुत्रः; इति श्रुत्वा यशोधरा व्यथिता; ततस्तया बोधिसत्वस्य व्यायामशिलायामारोप्य क्रीडापुष्करिण्यास्तीरे स्थितया सत्योपयाचनं कृतम्: यद्ययं बोधिसत्वेन जातस्तथास्यां पुष्करिण्यां सह शिलया प्लवेत; नो चेन्निमज्जेत; इत्युक्त्वा उदके प्रक्षिप्तः; स तूलपिचुवत्सह शिलया प्लवितुमारब्धः; राजा शुद्धोदनस्तदत्यद्भुतं <श्रुत्वा> महाजनकायपरिवृतो बोधिसत्वस्य क्रिडापुष्करिणीगतो यावत्पश्यति राहुलभद्रं बोधिसत्वस्य शिलायां निषण्णं तूलपिचुवदुदके प्लवमानम्; दृष्ट्वा च पुनः हृष्टतुष्टप्रमुदित उदग्रप्रीतिसौमनस्यजातः सहसा पुष्करिणीमवतीर्य राहुलब्रद्रं कुमारमंशेनादाय व्युत्थितः यदा भगवता षट्त्रिंशद्भूतकोटिपरिवारं मारं मैत्रेणास्त्रेणाभिनिर्जित्य अनुत्तरं ज्ञानमधिगतम्, अत्यर्थं तस्मिन् समये महापृथिवीचालोऽभूत्; सर्वश्चायं लोक उदारेणावभासेन स्फुटोऽभूत्; या अपि ता लोकस्य लोकान्तरिका अन्धास्तमसोऽन्धकारतमिस्रा यत्रेमौ सूर्याचन्द्रमसावेवंमहर्धिकावेवंमहानुभावावाभया आभां न प्रत्यनुभवतः, ता अपि तस्मिन् समये उदारेणावभासेन स्फुटा अभूवन्; तत्र ये सत्वा उपपन्नास्<ते स्वकमपि बाहुं प्रगृहीतं न पश्यन्ति>; ते तया आभया (१२१) अन्योन्यं सत्वान् दृष्ट्वा संजानते; अन्येऽपीह भवन्तः सत्वा उपपन्ना अन्येऽपीह भवन्तः सत्वा उपपन्ना इति; अन्तरोद्दानम्: चातुष्पर्षिकं दहरः पितापुत्रसमागमः । शाक्यानां चैव प्रव्रज्या गङ्गापाल नमोऽस्तु ते ॥ ______________________________________________________________ त्wओ देवतस् अथ द्वयोर्ब्रह्मकायिकयोर्देवतयोर्<ब्रह्मलोके निवासिनोर्> एतदभवत्: अयं बुद्धो भगवानुरुबिल्वायां विहरति; नद्या नैरञ्जनायास्तीरे बोधिमूले अचिराभिसंबुद्धबोधिस्तेजोधातुसमापन्नः सप्ताहमेकपर्यङ्केन अतिनामयति; न चैनं कश्चित्पिण्डकेन प्रतिपादयति; यन्नु वयमेनं गत्वा प्रत्येकप्रत्येकं गाथाभिरभिष्टुयाम इति; अथ द्वे ब्रह्मकायिके देवते तद्यथा बलवान् पुरुषः संमिञ्जितं वा बाहुं प्रसारयेत्, प्रसारितं वा संमिञ्जयेत्, एवमेव द्वे ब्रह्मकायिके देवते ब्रह्मलोके अन्तर्हिते भगवतः पुरतः प्रत्यष्ठाताम्; एकान्तस्थिते द्वे ब्रह्मकायिके देवते; एका गाथां भाषते: उत्तिष्ठ विजितसंग्राम सार्थवाहानिघ विचर लोके । देशय सुगत वरधर्मं भविष्यन्ति (अ ३८७ ) धर्मरत्नस्याज्ञातारः ॥ द्वितिया गाथं भाषते उत्तिष्ठ विजितसङ्ग्राम पर्णलोपानिघ विचर लोके । चित्तं हि ते सुविशुद्धं पञ्चदश्यां शशीव परिपूर्णः ॥ (१२२) इत्युक्त्वा तत्रैवान्तर्हिते; अथ भगवांस्तस्मात्समाधेर्व्युत्थाय तस्यां वेलायां गाथां भाषते: यच्च कामसुखं लोके यच्चापि दिविजं सुखम् । तृष्णाक्षयसुखस्यैतत्कलां नार्हति षोडशीम् ॥ निक्षिप्य हि गुरुं भारं नाददीत परं पुनः । भारस्य दुःखमादानं भारनिकिषेपणं सुखम् ॥ सर्वां तृष्णां विप्रहाय सर्वसंस्कारसंक्षयात् । सर्वभावपरिज्ञानान्न गच्छति पुनर्भवम् ॥ ______________________________________________________________ त्रपुष अन्द्भल्लिक विमुक्तिप्रीतिसुखसंवेदी बुद्धो भगवान् सप्ताहमेकपर्यङ्केन अतिनामयति; न चैनं कश्चित्पिण्डकेन प्रतिपादयति; तेन खलु समयेन त्रपुषभल्लिकौ वणिजौ पञ्चमात्रैः शकटशतैः सार्धमनुव्यवहरमाणौ, तस्मिन्नेव मार्गे अध्वप्रतिपन्नावभूताम्; अथ त्रपुषभल्लिकयोर्वणिजोरन्यतमायाः पुराणमित्रामात्यज्ञातिसालोहितायाः देवतायाः एतदभवत्: अयं बुद्धो भगवानुरुबिल्वायां विहरति नद्या नैरञ्जनायास्तीरे बोधिमूले अचिराभिसंबुद्धो विमुक्तिप्रीतिसुखप्रतिसंवेदी सप्ताहमेकपर्यङ्केनातिनामयति; न चैनं कशित्पिण्डकेन प्रतिपादयति; तं त्रपुषभल्लिकौ वणिजौ तत्प्रथमतः प्रतिपादयेताम्; तत्स्यात्त्रपुषभल्लिकयोर्वणिजोर्दीर्घरात्रमर्थाय हिताय सुखाय; यन्वहं स्वयमेवौत्सुक्यमापदयेय यदुत भगवतः पिण्डपातप्रदानस्य हेतोरिति; अथ सा देवता सर्वं कर्वटकमुदारेणावभासेन स्फारित्वा त्रपुषभल्लिकौ वणिजाविदमवोचत्: वणिजौ वणिजौ अयं बुद्धो भगवानुरिबिल्वायां विहरति नद्या नैरञ्जनायास्तीरे बोधिमूले अचिराभिसंबुद्धो विमुक्तिप्रीतिसुखप्रतिसंवेदी; सप्ताहमेकपर्यङ्केनातिनामयति; नैनं कश्चित्पिण्डकेन प्रतिपादयति; तं युवां तत्प्रथमतः पिण्डकेन प्रतिपादयतम्; तद्युवयोर्भविष्यति दीर्घरात्रमर्थाय हिताय सुखाय; इत्युक्त्वा सा देवता तत्रैवान्तर्हिता; (१२३) अथ त्रपुषभल्लिकयोर्वणिजोरेतदभवत्: न बतावरो बुद्धो भविष्यति; नावरं धर्माख्यानम्; यत्रेदानीं देवता अपि तस्य भगवत औत्सुक्यमापद्यन्ते यदुत पिण्डपातप्रतिपादनहेतोः; इति विदित्वा प्रभूतं मधु च मन्थाश्च आदाय येन भगवांस्तेनोपसङ्क्रान्तौ; उपसङ्क्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्तेऽस्थाताम्; एकान्तस्थितौ त्रपुषभल्लिकौ वणिजाविदमवोचताम्: इहावाभ्यां भदन्त भगवन्तमुद्दिश्य प्रभूतं मधु च मन्थाश्च आनीताः; तान् भगवान् प्रतिगृह्णात्वनुकम्पामुपादाय इति; अथ भगवत एतदभवत्: न मम प्रतिरूपं स्याद्यदहं पाणौ पिण्डपातं प्रतिगृह्णीयां, तद्यथा अन्यतीर्थिकः; यन्वहं समन्वाहरेयं कुत्र पूर्वकैः सम्यक्संबुद्धैः पिण्डपातः प्रतिगृहीतो हिताय प्राणिनामिति; देवता भगवत आरोचयन्ति: पात्रे भदन्त पूर्वकैः सम्यक्संबुद्धैः पिण्डपातः प्रतिगृहीतो हिताय प्राणिनामिति; भगवतोऽपि समन्वाहृत्य ज्ञानदर्शनं प्रवर्तते पात्रे पूर्वकैः सम्यक्संबुद्धैः पिण्डपातः प्रतिगृहीतो हिताय प्राणिनामिति; तत्र भगवतः पात्रेण पात्रकार्यमुत्पन्नम्; अथ चत्वारो महाराजा भगवतः पात्रेण पात्रकार्यमुत्पन्नमिति विदित्वा अन्यतमस्मात्पाषाणपर्वताच्चत्वारि शैलमयानि पात्राण्यमनुष्यकृतान्यमनुष्यनिष्ठितान्यच्छानि शुचीनि निष्प्रतिगन्धान्यादाय, येन भगवांस्तेनोपसङ्क्रान्ताः; उपसङ्क्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते तस्थुः; एकान्तस्थिताश्चत्वारो महाराजा भगवन्तमिदमवोचन्: इह अस्माभिर्भदन्त भगवतः पात्रेण पात्रकार्यमुत्पन्नं विदित्वा अन्यतममात्पाषाणपर्वताच्चत्वारि शैलमयानि पात्राण्यमनुष्यकृतान्यमनुष्यनिष्ठितानि अच्छानि शुचीनि निष्प्रतिगन्धानि आनीतानि; तानि भगवान् प्रतिगृह्णात्वनुकम्पामुपादाय इति; अथ भगवत एतदभवत्: सचेदहमेकस्य महाराजस्यान्तिकादेकं पात्रं प्रतिग्रहीष्यामि, त्रयाणां भविष्यति चेतसोऽन्यथात्वम्; सचेद्द्वयोर्, द्वयोर्भविष्यति चेतसोऽन्यथात्वम्; सचेत्त्रयाणामेकस्य भविष्यति चेतसो (१२४)ऽन्यथात्वम्; यन्वहं चतुर्णां महाराजानामन्तिकाच्चत्वारि पात्राणि प्रतिगृह्य एकं पात्रमधिमुच्येयमिति; अथ भगवांश्चतुर्णां महाराजानामन्तिकाच्चत्वारि पत्राणि प्रतिगृह्य एकं पात्रमधिमुक्तवानिति; तत्र भगवता त्रपुषभल्लिकयोर्वणिजोरन्तिकात्पिण्डपातः प्रतिगृहीतो हिताय प्राणिनामिति; तत्र भगवान् त्रपुषभल्लिकौ वणिजाविदमवोचत्: एतौ युवां वणिजौ बुद्धं शरणं गच्छताम्; धर्मं शरणं गच्छताम्; योऽप्यसौ भविष्यत्यनागतेऽध्वनि सङ्घो नाम तमपि शरणं गच्छताम्; एतावावां भदन्त बुद्धं शरणं गच्छावह्, धर्मं शरणं गच्छावः, योऽप्यसौ भविष्यत्यनागतेऽध्वनि सङ्घो नाम तमपि शरणं गच्छावः; अथ भगवांस्त्रपुष्भल्लिकयोर्वणिजोस्तद्दानमनया अभ्यनुमोदनया अभ्यनुमोदते यदर्थं दीयते दानं तदर्थाय भविष्यति । सुखार्थं दीयते दानं तत्सुखाय भविष्यति ॥ सुखो विपाकः पुण्यानामभिप्रायः च सिद्ध्यति । क्षिप्रं च परमां शान्तिं निर्वृतिं चाधिगच्छति ॥ परतो ये उपसर्गा देवता मारकायिकाः । न शक्नुवन्त्यन्तरायं कृतपुण्यस्य कर्तु वै ॥ सचेधि स व्यायमते आर्यप्रज्ञया त्यागवान् । दुःखस्यान्तक्रियायै स्पर्शो (अ ३८८ ) भवति विपश्यतः ॥ अथ त्रपुषभल्लिकौ वणिजौ भगवतो भाषितमभिनन्द्य अनुमोद्य भगवतः पादौ शिरसा वन्दित्वा भगवतोऽन्तिकात्प्रक्रान्तौ (१२५) ______________________________________________________________ थे बुद्धऽसैल्मेन्त्, अन्द्मारऽस्मिस्छिएf अगैन् अथ भगवान् त्रपुषभल्लिकयोर्वणिजोरन्तिकात्पिण्डपातमादाय येन नदी नैरञ्जना तेनोपसङ्क्रान्तः; उपसङ्क्रम्य नद्या नैरञ्जनायास्तिरे निषद्य भक्तकृत्यमकार्षीत्; तत्र मध्वपि वातिकं, मन्था अपि वातिकाः, तेन भगवतो वाताबाधिकं ग्लान्यमुत्पन्नम्; अथ मारः पापीयान् भगवतो वाताबाधिकं ग्लान्यमुत्पन्नं विदित्वा, येन भगवांस्तेनोपसङ्क्रान्तः; उपसङ्क्रम्य भगवन्तमिदमवोचत्: परिनिर्वातु भगवान्, परिनिर्वाणकालसमय इति; अथ भगवत एतदभवत्: मारो बतायं पापीयानुपसङ्क्रान्तो यदुत व्याक्षेपकर्मणि; इति विदित्वा मारं पापीयांसमिदमवोचत्: न तावत्पापीयन् परिनिर्वास्यामि, यावन्न मे श्रावकाः पण्डिता भविष्यन्ति व्यक्ता मेधाविनः, अलमुत्पन्नोत्पन्नानां परप्रवादकानां सह धर्मेण निग्रहीतारः अलं स्वस्य वादस्य पर्यवदापयितारः भिक्षवो भिक्षुण्यः उपासका उपासिकाः, वैस्तारिकं च मे ब्रह्मचर्यं भविष्यति बाहुजन्यं पृथुभूतं यावद्देवमनुष्येभः सम्यक्सुप्रकाशितमिति; अथ मारस्य पापीयस एतदभवत्: न परिनिर्वास्यति बत श्रमणो गौतमः; इति विदित्वा दुःखी दुर्मना विप्रतीसारी तत्रैवान्तर्हितः ______________________________________________________________ हरीतकी ब्रोउघ्त्ब्य्शक्र अथ शक्रो देवेन्द्रो भगवतो वाताबाधिकं ग्लान्यमुत्पन्नं विदित्वा, यस्या जम्ब्वा नाम्ना जम्बूद्वीपः प्रज्ञायते तस्य नातिदूरे महद्धरीतकीवनम्, ततो वर्णगन्धरसोपेता हरीतकीरादाय येन भगवांस्तेनोपसङ्क्रान्तः; उपसङ्क्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते अस्थात्: एकान्तस्थितः शक्रो देवेन्द्रो भगवन्तमिदमवोचत्: इह मया भदन्त भगवतो वाताबाधिकं ग्लान्यमुत्पन्नं विदित्वा यस्या जम्ब्वा नाम्ना जम्बूद्वीपः प्रज्ञायते तस्य नातिदूरे महद्धरीतकीवनं ततो मया वर्णगन्धरसोपेता (१२६) हरीतक्य आनीताः; ता भगवान् परिभुङ्क्ताम्; भगवता परिभुक्ता वातं चानुलोमयिष्यन्ति; वाताबाधिकं ग्लान्यं व्युपशमयिष्यन्तीति; ता भगवान् परिभुक्तवान्; भगवता परिभुक्ता वातं चानुलोमितम्; वाताबाधिकं ग्लान्यं व्युपशान्तम्; तेन भगवतः क्षेमणीयतरं चाभूद्यापनीयतरं च ______________________________________________________________ मुचिलिन्द नागराज अथ भगवान् यथासुखं रम्यं बोधिमूले विहृत्य, येन मुचिलिन्दस्य नागराजस्य भवनं तेनोपसङ्क्रान्तः; उपसङ्क्रम्य अन्यतरद्वृक्षमूलं निश्रित्य निषण्णः पर्यङ्कमाभुज्य ऋजुं कायं प्रणिधाय प्रतिमुखं स्मृतिमुपस्थाप्य; तेन खलु समयेन मुचिलिन्दस्य नागराजस्य भवने साप्ताहिक अकालमेघः समुपागतः; अथ मुचिलिन्दो नागराजः साप्ताहिकमकालमेघं समुपागतं विदित्वा भवनादभ्युद्गम्य सप्तकृत्वः काये कायं वेष्टयित्वा, उपरि महान्तं फणं कृत्वा अस्थात्; मा (अ ३८९ ) भगवत इमं सप्ताहं शीतं भविष्यति; मा उष्णं मा दंशमशकवातातपसरीसृपसंस्पर्शाः कायं परितापयिष्यन्ति; मुचिलिन्दो नागराजो तं विगतं साप्ताहिकं विदित्वा भगवतः कायेन कायमुद्वेष्ट्य अङ्गदकुण्डलविचित्रमाल्याभरणानुलेपनो भूत्वा येन भगवांस्तेनाञ्जलिं प्रणमय्य भगवन्तमिदमवोचत्: मा भगवत इमं सप्ताहं शीतमभूत्, मा उष्णं, मा दंशमशकवातातपसरीसृपसंस्पर्शाः कायं परितापितवन्तः; अथ भगवांस्तस्यां वेलायां गाथां भाषते सुखो विवेकस्तुष्टस्य श्रुतधर्मस्य पश्यतः । अव्याबाधसुखं लोके प्राणिभूतेषु संयमः । सुखं विरागता लोके कामानां समतिक्रमः । अस्मिमानस्य यो विनय एतद्वै परमं सुखम् ॥ (१२७) ______________________________________________________________ चोग्निशन्चे ओf प्रतीत्यसमुत्पाद अथ भगवान् यथाभिरम्यं मुचिलिन्दस्य नागराजस्य भवने विहृत्य, येन बोधिमूलं तेनोपसङ्क्रान्तः; उपसङ्क्रम्य प्रज्ञप्त एव तृणसंस्तरके निषण्णः, पर्यङ्कमाभुज्य ऋजुं कायं प्रणिधाय प्रतिमुखं स्मृतिमुपस्थाप्य सप्ताहमेकपर्यङ्केनातिनामयति, इदमेवं द्वादशाङ्गं प्रतीत्यसमुत्पादमनुलोमप्रतिलोमं व्यवलोकयन्, यदुत अस्मिन् सति इदं भवति; अस्योत्पादादिदमुत्पद्यते; यदुताविद्याप्रत्ययाः संस्काराः; संस्कारप्रत्ययं विज्ञानम्; विज्ञानप्रत्ययं नामरूपम्; नामरूपप्रत्ययं षडायतनम्; षडायतनप्रत्ययः स्पर्शः; स्पर्शप्रत्यया वेदना; वेदनाप्रत्यया तृष्णा; तृष्णाप्रत्ययमुपादानम्; उपादानप्रत्ययो भवः; भवप्रत्यया जातिः; जातिप्रत्यया जरामरणशोकपरिदेवदुःखदौर्मनस्योपायासा अमी भवन्ति; एवमस्य केवलस्य महतो दुःखस्कन्धस्य समुदयो भवति; यदुत अस्मिन्नसति इदं न भवति; अस्य निरोधादिदं निरुद्ध्यते; यदुत अविद्यानिरोधात्संस्कारनिरोधः; संस्कारनिरोधाद्विज्ञाननिरोधः; विज्ञाननिरोधान्नामरूपनिरोधः; नामरूपनिरोधात्षडायतननिरोधः; षडायतननिरोधात्स्पर्शनिरोधः; स्पर्शनिरोधाद्वेदनानिरोधः; वेदनानिरोधात्तृष्णानिरोधः; तृष्णानिरोधादुपादाननिरोधः; उपादाननिरोधात्भवनिरोधः; भवनिरोधाज्जातिनिरोधः; जातिनिरोधाज्जरामरणशोकपरिदेवदुःखदौर्मनस्योपायासा निरुद्ध्यन्ते; एवमस्य केवलस्य महतः दुःखस्कन्धस्य निरोधो भवति अथ भगवांस्तस्यैव सप्ताहस्यात्ययात्तस्मात्समाधेर्व्युत्थाय तस्यां वेलायां गाथा भाषते यदा इमे प्रादुर्भवन्ति धर्मा आतापिनो ध्यायतो ब्राह्मणस्य । अथास्य काङ्क्षा व्यपयान्ति सर्वा यदा प्रजानाति सहेतुधर्मम् ॥ यदा इमे प्रादुर्भवन्ति धर्मा आतापिनो ध्यायतो ब्राह्मणस्य । (१२८) अथास्य काङ्क्षा व्यपयान्ति सर्वा यदा प्रजानाति सहेतुदुःकम् ॥ यदा इमे प्रादुर्भवन्ति धर्मा आतापिनो ध्यायतो ब्राह्मणस्य । अथास्य काङ्क्षा व्यपयान्ति सर्वा यदा क्षयं वेदनानामुपैति ॥ <यदा इमे प्रादुर्भवन्ति धर्मा । आतापिनो ध्यायतो ब्राह्मणस्य । अथास्य काङ्क्षा व्यपयान्ति सर्वा यदा क्षयं प्रत्ययानामुपैति ॥ यदा इमे प्रादुर्भवन्ति धर्मा आतापिनो ध्यायतो ब्राह्मणस्य । अथास्य काङ्क्षा व्यपयान्ति सर्वा> यदा क्षयमास्रवाणामुपैति ॥ यदा इमे (अ ३८९ ) प्रादुर्भवन्ति धर्मा आतापिनो ध्यायतो ब्राह्मणस्य । अवभासयंस्तिष्ठति सर्वलोकं सूर्यो यथैवाभ्युदितोऽन्तरिक्षे ॥ यदा इमे प्रादुर्भवन्ति धर्मा आतापिनो ध्यायतो ब्राह्मणस्य । विधूपयंस्तिष्ठति मारसैन्यं बुद्धो हि संयोजनविप्रमुक्तः ॥ अथ भगवत एतदभवत्: अधिगतो मे धर्मो गम्भीरो गम्भीरावभासो दुर्दृशो दुरवबोधः; अतर्क्योऽतर्क्यावचरः सूक्ष्मो निपुणपण्डितविज्ञवेदनीयः; तं चेदहं परेषामारोचयेयम्; तं च परे न विजानीयुः; स मम स्याद्विघातः; स्याद्भ्रमः; चेतसोऽनुदय एव; यन्वहमेकाकी अरण्ये प्रवणे दृष्टधर्मसुखविहारयोगमनुयुक्तो विहरेयमिति; तत्र भगवत अल्पोत्सुकविहारतायां चित्तं क्रामति, न धर्मदेशनायाम्; अथ ब्रह्मणः सभापतेरेतदभवत्; विनश्यति बतायं लोकः; प्रणश्यति बतायं लोकः, यत्रेदानीं कदाचित्कर्हिचित्तथागता अर्हन्तः सम्यक्संबुद्धा (१२९) लोके उत्पद्यन्ते, तद्यथा उदुम्बरपुष्पम्; तस्य चाद्य भगवत अल्पोत्सुकविहारतायां चित्तं क्रामति, न धर्मदेशनायाम्; यन्वहमेनं गत्वा अध्येशयेयम्; अथ ब्रह्मा सभापतिस्, तद्यथा बलवान् पुरुषः संमिञ्जितं वा बाहुं प्रसारयेत्, प्रसारितं वा संमिञ्जयेत्, एवमेव ब्रह्मा सभापतिर्ब्रह्मलोके अन्तर्हितः; स भगवतः पुरस्तात्प्रत्यस्थात्; अथ ब्रह्मा सभापतिस्तस्यां वेलायां गाथां भाषते प्रादुर्बभूव मगधेषु पूर्वं धर्मो ह्यशुद्धः समलानुबद्धः । अपावृणीष्व अमृतस्य द्वारं वदस्व धर्मं विरजोनुबद्धम् ॥ भगवानह; कृच्छ्रेण मे अधिगतोऽखिलो ब्रह्मन् प्रदाल्य वै । भवरागपरीत्तैर्हि नायं धर्मः सुसंबुद्धः ॥ प्रतिस्रोतोनुगामिनं मार्गं गम्भीरमतिदुर्दृशम् । न द्रक्ष्यन्ति रागारक्तास्तमस्कन्धेन नीवृताः ॥ ______________________________________________________________ ब्रह्मऽस्रेॠउएस्त्fओर्धर्मदेशना सन्ति भदन्त सत्वा लोके जाता, लोके वृद्धास्तीक्ष्णेन्द्रिया अपि, मध्येन्द्रिया अपि, मृद्विन्द्रिया अपि, स्वाकाराः, सुविनेया, अल्परजसोऽल्परजस्कजातीया, येऽश्रवणात्सद्धर्मस्य परिहीयन्ते; तद्यथा भदन्त उत्पलानि वा, पद्मानि वा कुमुदानि वा, पुण्डरीकाणि वा उदके जातान्य्, उदके वृद्धान्य्, एकत्यानि उदकादभ्युद्गतानि तिष्ठन्ति; एकत्यानि समोदकानि; एकत्यानि उदकनिमग्नकोशानि तिष्ठन्ति; एवमेव सन्ति भदन्त सत्वा लोके जाता, लोके वृद्धास्तीक्ष्णेन्द्रिया अपि, मध्येन्द्रिया अपि, मृद्विन्द्रिया अपि, स्वाकाराः, सुविनेयाः, अल्परजसोऽल्परजस्कजातीया येऽश्रवणात्सद्धर्मस्य परिहीयन्ते; देशयतु भगवान् धर्मम्; देशयतु सुगतो धर्मम्; भविष्यन्ति धर्मतत्नस्याज्ञातारः; अथ भगवत एतदभवत्: यच्चाहं स्वयमेव बुद्धचक्षुषा (१३०) लोकं व्यवलोकयेयमिति; अथ भगवान् स्वयमेव बुद्धचक्षुषा लोकं व्यवलोकयति; अद्राक्षीद्भगवान् स्वयमेव बुद्धचक्षुषा लोकं व्यवलोकयन् सन्ति सत्वा लोके जाता, लोके वृद्धास्, तीक्ष्णेन्द्रिया अपि, मध्येन्द्रिया अपि, मृद्विन्द्रिया अपि, स्वाकाराः, सुविनेयाः, अल्परजसोऽल्परजस्कजातीया, ये (अ ३९० )ऽश्रवणात्सद्धर्मस्य परिहीयन्ते; दृष्ट्वा च पुनरस्य सत्वेषु महाकरुणाऽवक्रान्ता; अथ भगवांस्तस्यां वेलायां गाथां भाषते अपावरिष्ये अमृतस्य द्वारम् । ये श्रोतुदामाः प्रणुदन्तु काङ्क्षाः । विहेठप्रेक्षी प्रचुरं न भाषे धर्मं प्रणीतं मनुजेषु ब्रह्मन् ॥ अथ ब्रह्मणः सभापतेरेतदभवत्: देशयिष्यति बत भगवान् धर्मं, देशयिष्यति बत सुगतो धर्मम्; इति विदित्वा हृष्टतुष्टप्रमुदित उदग्रप्रीतिसौमनस्यजातो भगवतः पादौ शिरसा वन्दित्वा भगवन्तं त्रिः प्रदक्षिणीकृत्य तत्रैवान्तर्हितः ______________________________________________________________ देअथोf आराड कालाम अथ भगवत एतदभवत्: कस्य न्वहं तत्प्रथमतो धर्मं देशयेयमिति; अथ भगवत एतदभवत्; यन्वहमाराडस्य कालामस्य तत्प्रथमतो धर्मं देशयेयं, यो मां पूर्वाचार्य एव सन् परमया माननया मानितवान्, परमया पूजनया पूजितवान्, परमेषु च प्रत्ययेष्वात्तमनाश्चाभूदभिराद्धश्च; देवता भगवत आरोचयन्ति: सप्ताहकालगतो भदन्ताराडः कालाम इति; भगवतोऽपि समन्वाहृत्य ज्ञानदर्शनं प्रवर्तते; सप्ताहकालगत आरादः कालामः; अथ भगवत एतदभवत्; महती बतेयं ज्यानिर्, आराडस्य कालामस्य कालक्रियाया; सुमहती बतेयं ज्यानिराराडस्य कालामस्य कालक्रियाया, य इमं धर्मविनयं नाश्रौषीत्; सचेदश्रोष्यदज्ञास्यत्स इमं धर्मविनयमिति; (१३१) अथ भगवत एतदभवत्: कस्य न्व्छं तत्प्रथमतो धर्मं देशयेयमिति ______________________________________________________________ देअथोf उद्रक रामपुत्र अथ भगवत एतदभवत्; यन्वहमुद्रकस्य रामपुत्रस्य तत्प्रथमतो धर्मं देशयेयं, यो मां पूर्वाचार्य एव सन् परमया माननया मानितवान्, परमया पूजनया पूजितवान्, परमेषु च प्रत्ययेष्वात्तमनाश्चाभूद्, अभिराद्धश्च; देवता भगवत आरोचयन्ति; अभिदोषकालगतो भदन्त उद्रको रामपुत्रः; भगवतोऽपि समन्वाहृत्य ज्ञानदर्शनं प्रवर्तते; अभिदोषकालगत उद्रको रामपुत्रः; अथ भगवत एतदभवत्: महती बतेयं ज्यानिरुद्रकस्य रामपुत्रस्य कालक्रियाया; सुमहती बतेयं ज्यानिरुद्रकस्य रामपुत्रस्य कालक्रियाया, यो मम इमं धर्मविनयं नाश्रौषीत्; सचेदिमं धर्मविनयमश्रोष्यदज्ञास्यत्स इमं धर्मविनयमिति ______________________________________________________________ बुद्ध स्तर्त्सोf वाराणसी अथ भगवत एतदभवत्: कस्य न्वहं तत्प्रथमतो धर्मं देशयेयमिति; तस्यैतदभवत्: यन्वहं पञ्चकानां भिक्षूणां तत्प्रथमतो धर्मं देशयेयमिति; ये मां पूर्वं दुःखप्रहाणयोगमनुयुक्तं विहरन्तं सत्कृत्योपतस्तुः प्रेम्णा च गौरवेण च; अथ भगवत एतदभवत्: कुत्र त्वेतर्हि पञ्चका भिक्षवो विहरन्ति इति; अद्राक्षीद्भगवान् दिव्येन चक्षुषा विशुद्धेन अतिक्रान्तमानुषेण पञ्चकान् भिक्षून्; वाराणस्यां विहरन्ति ऋषिवदने मृगदावे; दृष्ट्वा च पुनर्यथाभिरम्यं बोधिमूले विहृत्य येन वाराणसी काशीनां निगमस्तेन चारिकां प्रक्रान्तः ______________________________________________________________ उपगु आजीविक तेन खलु समयेन उपगुराजीविकस्तस्मिन्नेव (अ ३९० ) मार्गे अध्वप्रतिपन्नोऽभूत्; अद्राक्षीदुपगुराजीवको भगवन्तं प्रतिपन्नं (१३२) मार्गे; दृष्ट्वा च पुनरेवमाह: विप्रसन्नानि ते आयुष्मन् गौतम इन्द्रियाणि; परिशुद्धो मुखवर्णः पर्यवदातश्छविवर्णः; कस्ते आयुष्मन् गौतम शास्ता; तं वास्युद्दिश्य प्रव्रजितः; कस्य वा धर्मं रोचसीति; अथ भगवांस्तस्यां वेलायां गाथा भाषते न मेऽस्ति कश्चिदाचार्यः सदृशो मे न विद्यते । एकोऽस्मि लोके संबुद्धः प्राप्तः संबोधिमुत्तमाम् ॥ सर्वाभिभूः सर्वविदस्मि लोके सर्वैश्च धर्मैरिह नोपलिप्तः । सर्वञ्जहो वीततृष्णो विमुक्तः स्वयं ब्यभिज्ञाय कमुद्दिशेयम् ॥ कमुद्दिशेयमसमो ह्यतुल्यः स्वयं प्रवक्ता अधिगम्य बोधिम् । तथागतो देवमनुष्यशास्ता सर्वैश्च सर्वज्ञबलैरुपेतः ॥ सदेवकेषु लोकेषु अहं माराभिभूर्जिनः ॥ जिन इत्यायुष्मन् गौतम <कं> वदसि; जिना हि मादृशा ज्ञेया ये प्राप्ता आश्रवक्षयम् । Ýआस्रवक्षयम् जिता मे पापका धर्मास्तेनोपगु जिनो ह्यहम् ॥ कुत्र त्वमायुष्मन् गौतम गमिष्यसि? वाराणसीं गमिस्याम्याहन्तुं धर्मदुन्दुभिम् । धर्मचक्रं प्रवर्तयितुं यल्लोकेष्वप्रवर्तितम् ॥ न हि सन्तः प्रकाशन्ते विदित्वा लोकपर्यायम् । आज्ञानिर्वृतबुद्धास्ते तीर्णा लोकविषक्तिकाम् ॥ साध्वायुष्मन् गौतम जिनः; इत्युक्त्वा उपगुराजीवकः मार्गादपक्रान्तः (१३३) ______________________________________________________________ थे fइवे भिक्षुस् अथ भगवान् काशिषु जनपदेषु चारिकां चरन् वाराणसीमनुप्राप्तः; तेन खलु समयेन पञ्चका भिक्षवो वाराणस्यां विहरन्ति ऋषिवदने मृगदावे; अद्राक्षुः पञ्चका भिक्षवो भगवन्तं दूरत एव; दृष्ट्वा च पुनरन्योन्यं संप्रतस्थुः; क्रियाकारं चाकार्षुः; अयं स भवन्तः श्रमंो गौतम आगच्छति शैथिलिको बाहुलिको बहुलाजीवः प्रहाणविभ्रान्तः; स एतर्ह्यौदारिकमाहारमाहरति ओदनकुल्माषान्; सर्पिस्तैलाभ्यां गात्राणि म्रक्षयति; सुखोदकेन च कायं परिषिञ्चति; सोऽस्माभिरुपसङ्क्रान्तो नाभिवाद्यः, न वन्दितव्यो, न प्रत्युत्थातव्यो, नोत्थायासनेनोपनिमन्त्रयितव्यो नान्यत्र प्रागेवासनानि प्रज्ञप्य; इदं स्याद्वचनीयः; संविद्यन्ते आयुष्मन् गौतम आसनानि; सचेदाकाङ्क्षसि निषीद इति; यथा यथा भगवान् पञ्चकान् भिक्षून् दर्शनायोपसङ्क्रामति तथा तथा पञ्चका भिक्षवो भगवतस्तेजश्च श्रियं च गौरवं च असहमाना उत्थायासनादेके भगवतोऽर्थे आसनं प्रज्ञपयन्ति; एके पादोदकं, पादाधिष्ठानं चैकान्ते उपनिक्षिपन्ति; एके प्रत्युद्गम्य चीवरकाणि प्रतिगृह्णन्ति; एवं चाहुः: एतु भवान् गौतम; स्वागतं भवते गौतमाय; निषीदतु भवान् गौतम प्रज्ञप्त एवासने; अथ भगवत एतदभवत्: च्युता बतेमे नोहपुरुषा स्वस्मात्क्रियाकाराद्; इति विदित्वा प्रज्ञप्त एव आसने निषण्णः; तत्रस्वित्पञ्चका भिक्षवो भगवन्तमत्यर्थं नामवादेन गोत्रवादेन आयुष्मद्वादेन समुदाचरन्ति; तत्र भगवान् पञ्चकान् भिक्षूनामन्त्रयते स्म: मा यूयं भिक्षवस्तथागतम् (अ ३९१ ) अत्यर्थं नामवादेन गोत्रवादेन आयुष्मद्वादेन समुदाचरत; मा वोऽभूद्दीर्घरात्रमनर्थायाहिताय दुःखाय; तत्कस्य हेतोः? यः कश्चिद्भिक्षवः तथागतमत्यर्थं नामवादेन गोत्रवादेन आयुष्मद्वादेन समुदाचरति; तत्तस्य भवति मोहपुरुषस्य दीर्घरात्रमनर्थाय अहिताय दुःखाय; त एवम् (१३४) आहुः: तया तावत्त्वमायुष्मन् गौतम पूर्विकया ईर्यया चर्यया दुष्करचर्यया किञ्चिदधिगतवानुत्तरं मनुष्यधर्मादलमार्यविशेषाधिगमं ज्ञानं वा, दर्शनं वा, स्पर्शविहारतां वा; कुतः पुनर्यस्त्वमेतर्हि शैथिलिको बहुलाजीवः प्रहाणविभ्रान्तः स त्वमेतर्ह्यौदारिकमाहारमाहरस्योदनकुल्माषान्; सर्पिस्तैलाभ्यां गात्राणि म्रक्षयसि; सुखोदकेन च कायं परिषिञ्चसि; ननु यूयं भिक्षवः पश्यथ तथागतस्य पूर्वेणापरं मुखस्य वा विप्रसन्नत्वम्, इन्द्रियाणाण्<वा> नानाकरणम् ? त एवमूहुः: एवमेतदायुष्मन् गौतम ______________________________________________________________ थे मिद्द्ले चोउर्से ओf चोन्दुच्त् तत्र भगवान् पञ्चकान् भिक्षूनामन्त्रयते स्म : द्वाविमौ भिक्षवोऽन्तौ प्रव्रजितेन न सेवितव्यौ, न वक्तव्यौ, न पर्युपासितव्यौ; कतमौ द्वौ; यश्च कामेषु कामसुखालयानुयोगो हीनो ग्राम्यः प्राकृतः पार्थग्जनिकः; यश्चात्मक्लमथानुयोगो दुःखोऽनार्योऽनर्थोपसंहितः; इत्येतावुभावन्तावनुपगम्य अस्ति मध्यमा प्रतिपच्चक्षुष्करणी ज्ञानकरणी उपशमसंवर्तनी अभिज्ञायैव संभोधये निर्वाणाय संवर्तते; मध्यमा प्रतिपत्कतमा? आर्याष्टाङ्गो मार्गः; तस्य सम्यग्दृष्टिः, सम्यक्सङ्कल्पः, सम्यग्वाक्, सम्यक्कर्मान्तः, सम्यगाजीवः; सम्यग्व्यायामः, सम्यक्स्मृतिः, सम्यक्समाधिः; अशकद्भगवान् पञ्चकान् भिक्षूननया संजप्त्या संज्ञपयितुम्; द्वौ च भगवान् पञ्चकानां भिक्षूणां पूर्वभक्ते अववदति; त्रयो ग्रामं पिण्डाय प्रविशन्ति; यत्त्रिवर्गोऽभिनिर्हरति तेन षड्वर्गो यापयति; त्रींश्च भगवान् पञ्चकानां भिक्षूणां पश्चाद्भक्ते अववदति; द्वौ ग्रामं पिण्डाय प्रविशतः; यद्द्विवर्गोऽभिनिर्हरति तेन पञ्चवर्गो यापयति; तथागतः प्रतियत्येव कालभोजी (१३५) ______________________________________________________________ थे fओउर्नोब्ले त्रुथ्स् तत्र भगवान् पञ्चकान् भिक्षूनामन्त्रयते स्म: १) इदं दुःखमार्यसत्यमिति भिक्षवः पूर्वमननुश्रुतेषु धर्मेषु योनिशो मनसि कुर्वतश्चक्षुरुदपादि; ज्ञानं विद्या बुद्धिरुदपादि; अयं दुःखसमुदयः, अयं दुःखनिरोधः; इयं दुःखनिरोधगामिनी प्रतिपतार्यसत्यमिति भिक्षवः पूर्वमननुश्रुतेषु धर्मेषु योनिशो मनसि कुर्वतश्चक्षुरुदपादि ज्ञानं विद्या बुद्धिरुदपादि; तत्खलु दुःखमार्यसत्यमभिज्ञया परिज्ञेयं मयेति भिक्षवः पूर्वमननुश्रुतेषु धर्मेषु योनिशो मनसि कुर्वतश्चक्षुरुदपादि, ज्ञानं विद्या बुद्धिरुदपादि; तत्खलु दुःखसमुदयमार्यसत्यमभिज्ञया प्रहातव्यं मयेति भिक्षवः पूर्वम् (अ ३९१ ) अननुश्रुतेषु धर्मेषु योनिशो मनसि कुर्वतश्चक्षुरुदपादि, ज्ञानं विद्या बुद्धिरुदपादि; तत्खलु दुःखनिरोधमार्यसत्यमभिज्ञया साक्षात्कर्तव्यं मयेति भिक्षवः पूर्वमननुश्रुतेषु धर्मेषु योनिशो मनसि कुर्वतश्चक्षुरुदपादि, ज्ञानं विद्या बुद्धिरुदपादि; तत्खलु दुःखनिरोधगामिनी प्रतिपदार्यसत्यमभिज्ञया भावयितव्यं मयेति भिक्षवः पूर्वमननुश्रुतेषु धर्मेषु योनिशो मनसि कुर्वतश्चक्षुरुदपादि, ज्ञानं विद्या बुद्धिरुदपादि तत्खलु दुःखमार्यसत्यमभिज्ञाया परिज्ञातं मयेति भिक्षवः पूर्वमननुश्रुतेषु धर्मेषु योनिशो मनसि कुर्वतश्चक्षुरुदपादि, ज्ञानं विद्या बुद्धिरुदपादि; तत्खलु दुःखसमुदयमार्यसत्यमभिज्ञया प्रहीणं मयेति भिक्षवः पूर्वमननुश्रुतेषु धर्मेषु योनिशो मनसि कुर्वतश्चक्षुरुदपादि, ज्ञानं विद्या बुद्धिरुदपादि; तत्खलु दुःखनिरोधमार्यसत्यमभिज्ञया साक्षात्कृतं मयेति भिक्षवः पूर्वमननुश्रुतेषु योनिशो मनसि कुर्वतश्चक्षुरुदपादि, ज्ञानं विद्या बुद्धिरुदपादि; तत्खलु दुःखनिरोधगामिनी प्रतिपदार्यसत्यमभिज्ञया भावितं मयेति भिक्षवः पूर्वमननुश्रुतेषु धर्मेषु योनिशो मनसि कुर्वतश्चक्षुरुदपादि, ज्ञानं विद्या बुद्धिरुदपादि; यावच्च (१३६) मम भिक्षव एषु चतुर्ष्वार्यसत्येष्वेवं त्रिपरिवर्तं द्वादशाकारं न चक्षुरुदपादि, न ज्ञानं <न> विद्या न बुद्धिरुदपादि, न तावदहमस्माद्भिक्षवः सदेवकाल्लोकात्, समारकात्, सब्रह्मकात्, सश्रमणब्राह्मणिकायाः प्रजायाः सदेवमानुषाया मुक्तो निसृतो विसंयुक्तो विप्रमुक्तो विपर्यासापगतेन चेतसा बहुलं व्याहार्षम्; न तावदहं भिक्षवः अनुत्तरां सम्यक्संबोधिमभिसंबुद्धोऽस्मीत्यध्यज्ञासिषम्; यतश्च मम भिक्षव एषु चतुर्ष्वार्यसत्येष्वेवं त्रिपरिवर्तं द्वादशाकारं चक्षुरुदपादि, ज्ञानं विद्या बुद्धिरुदपादि, ततोऽहमस्मात्सदेवकाल्लोकात्समारकात्सब्रह्मकात्, सश्रमणब्राह्मणिकायाः प्रजायाः सदेवमानुषाया मुक्तो निसृतो विसंयुक्तो विप्रमुक्तो विपर्यासापगतेन चेतसा बहुलं व्याहार्षम्; भिक्षवः अनुत्तरां सम्यक्संबोधिमभिसंबुद्धोऽस्मीत्यध्यज्ञासिषं ______________________________________________________________ थे नमे ओf आज्ञातकौण्डिन्य अस्मिन् खलु धर्मपर्याये भाष्यमाणे आयुष्मत आज्ञाताकौण्डिन्यस्य विरजो विगतमलं धर्मेषु धर्मचक्षुरुत्पन्नम्, अशीतेश्च देवतासहस्राणाम्; तत्र भगवानायुष्मन्तं कौण्डिन्यमामन्त्रयते स्म: आज्ञातस्ते कौण्डिन्य धर्मः? आज्ञातः भगवन्नाज्ञातः; आज्ञातस्ते कौण्डिन्य धर्मः? आज्ञातः सुगत आज्ञात; <आज्ञातो> आयुष्मता कौण्डिन्येन धर्म इति तस्मादायुष्मतः कौण्डिन्यस्य आज्ञातकौण्डिन्य इत्यधिवचनम्; आज्ञात आयुष्मता कौण्डिन्येन धर्म इति ______________________________________________________________ प्रोच्लमतिओनोf धर्मचक्र भौमा यक्षाः शब्दमुदीरयन्ति, घोषमनुश्रावयन्ति: एतन्मार्षा भगवता वाराणस्यामृषिवदने मृगदावे त्रिपरिवर्तं द्वादशाकारं धर्म्यं धर्मचक्रं प्रवर्तितम्, अप्रवर्त्यं श्रमणेन वा ब्राह्मणेन वा देवेन वा मारेण वा ब्रह्मणा वा केनचिद्वा (१३७) लोके <सहधर्मतः> बहुजनहिताय बहुजनसुखाय लोकानुकम्पायै अर्थाय सुखाय देवमनुष्याणामिति दिव्याः काया अभिवर्धिष्यन्ते, आसूराः कायाः परिहास्यन्ते इति; भौमानां यक्षाणां शब्दं श्रुत्वा अन्तरिक्षावचरा यक्षास्<तमनुश्रावयन्ति> चातुर्महाराजकायिका देवाः त्रायस्त्रिंशा यामास्तुषिता निर्माणरतयः परनिर्मितवशवर्तिनो देवाः; तेन क्षणेन, तेण लवेन, तेन मुहूर्तेन, तेन क्षणलवमुहूर्तेन (अ ३९२ ) यावद्ब्रह्मलोकं शब्दोऽगमत्; ब्रह्मकायिका देवाः शब्दमुदीरयन्ति; घोषमनुश्रावयन्ति: एतन्मार्षा भगवता वाराणस्यमृषिवदने मृगदावे त्रिपरिवर्तं द्वादशाकारं धर्म्यं धर्मचक्रं प्रवर्तितमप्रवर्त्यं श्रमणेन ब्राह्मणेन वा देवेन वा मारेण वा ब्रह्मणा वा केनचिद्वा पुनर्लोके सहधर्मतः बहुजनहिताय बहुजनसुखाय लोकानुकम्पायै अर्थाय हिताय सुखाय देवमनुष्याणामिति दिव्याः काया अभिवर्धिष्यन्ते; आसुराः कायाः परिहास्यन्त इति; प्रवर्तितं भगवता वाराणस्यामृषिवदने मृगदावे त्रिपरिवर्तं द्वादशाकारं धर्म्यं धर्मचक्रमिति; तस्मादस्य धर्मपर्यायस्य धर्मचक्रप्रवर्तनमित्यधिवचनं ______________________________________________________________ थे बुद्द एxप्लैन्स्थे fओउर्नोब्ले त्रुथ्स् तत्र भगवान् द्विरपि पञ्चकान् भिक्षूनामन्त्रयते स्म: चत्वारीमानि भिक्षव आर्यसत्यानि; कतमानि चत्वारि? दुःखमार्यसत्यं, दुःखसमुदयो दुःखनिरोधो दुःखनिरोधगामिनी प्रतिपदार्यसत्यम्; १) दुःखमार्यसत्यं कतमत्? जातिर्दुःखं, जरा दुःखं, व्याधिर्दुःखं, मरणं दुःखम्, प्रियविप्रयोगो दुःखम्, अप्रियसंप्रयोगो दुःखम्, यदपीच्छन् पर्येषमाणो न लभते तदपि दुःखम्; सङ्क्षेपतः पञ्च इमे उपादानस्कन्धा दुःखम्; तस्य परिज्ञायै आर्याष्टङ्गो मार्गो भावयितव्यः; २) दुःखसमुदयमार्यसत्यं कतमत्? तृष्णा पौनर्भविकी नन्दीरागसहगता तत्र तत्राभिनन्दिनी; तस्याः प्रहाणाय आर्याष्टाङ्गो मार्गो भावयितव्यः; ३) दुःखनिरोधमार्यासत्यं कतमत्? यदस्या एव तृष्णायाः पौनर्भविक्याः नन्दीरागसहगतायास्तत्र तत्राभिनन्दिन्या अशेषप्रहाणं प्रतिनिसर्गो वान्तीभावः क्षयो विरागो निरोधो (१३८) व्युपशमः अस्तङ्गमः; तस्य साक्षात्क्रियायै आर्याष्टाङ्गो मार्गो भावयितव्यः; ४) दुःखनिरोधगामिनी प्रतिपदार्यसत्यं कतमत्? आर्याष्टाङ्गो मार्गः; तद्यथा, सम्यग्दृष्टिः, सम्यक्सङ्कल्पः; सम्यग्वाक्, सम्यक्कर्मान्तः; सम्यगाजीवः; सम्यग्व्यायामः; सम्यक्स्मृतिः; सम्यक्समाधिः; सोऽपि भावयितव्यः अस्मिन् खलु धर्मपर्याये भाष्यमाणे आयुष्मत आज्ञातकौण्डिन्यस्यानुपादायाश्रवेभ्यश्चित्तं विमुक्तम्; अवशिष्टानां तु पञ्चकानां भिक्षूणां विरजो विगतमलं धर्मेषु धर्मचक्षुरुत्पन्नम्; तेन खलु समयेन एको <लोके> अर्हन् भगवांश्च द्वितीयः; तत्र भगवानवशिष्टान् पञ्चकान् भिक्षूनामन्त्रयते स्म: रूपं भिक्षवो नात्मा; रूपं चेद्भिक्षव आत्मा स्यान्न रूपमाबाधाय दुःखाय संवर्तेत; लभ्येत च रूपस्यैवं मे रूपं भवतु, एवं मा भूदिति; यस्मात्तर्हि भिक्षवो रूपमनात्मा तस्माद्रूपमाबाधाय दुःखाय संवर्तते; न च लभ्यते रूपस्यैवं मे भवतु, एवं मा भूदिति; वेदना संज्ञा संस्कारा विज्ञनं भिक्षवो नात्मा; विज्ञानं चेत्भिक्षवः आत्मा स्यान्न विज्ञानमाबाधाय <दुःखाय> संवर्तेत; लभ्येत च विज्ञानस्यैवं मे विज्ञानं भवतु, एवं मा भूदिति; यस्मात्तर्हि भिक्षवः विज्ञानमनात्मा, तस्माद्विज्ञानमाबाधाय (अ ३९२ ) दुःखाय संवर्तते; न च लभ्यते विज्ञानस्यैवं मे विज्ञनं भवतु, एवं मा भूदिति किं मन्यध्वे भिक्षवो, रूपं, नित्यं वा <अनित्यं वा>? अनित्यमिदं भदन्त; यत्पुनरनित्यं दुःखं वा तन्न वा दुःखम्? दुःखमिदं भदन्त; यत्पुनरनित्यं दुःखं विपरिणामधर्मि; अपि नु तच्छ्रुतवानार्यश्रावक आत्मत उपगच्छेदेतन्मम, एसोऽहमस्म्य्, एष मे आत्मेति? नो भदन्त; किं मन्यध्वे भिक्षवो वेदना संज्ञा संस्कारा विज्ञानं नित्यं वा अनित्यं वा? अनित्यमिदं भदन्त; यत्पुनरनित्यं <दुःखं> वा तन्, न वा दुःखम्? दुःखमिदं भदन्त; यत्पुनरनित्यं <दुःखम्> विपरिणामधर्मि; अपि नु तच्छ्रुतवानार्यश्रावक आत्मत उपगच्छेदेतन्मम, एषोऽहमस्म्य्, एष मे आत्मेति? नो भदन्त; (१३९) तस्मात्तर्हि भिक्षवो यत्किञ्चिद्रूपमतीतानागतप्रत्युत्पन्नमध्यात्मं वा बाह्यं वा औदारिकं वा सूक्ष्मं वा हीनं वा प्रणीतं वा यद्वा दूरे यद्वा अन्तिके तत्सर्वं नैतन्मम, नैषोऽहमस्मि, नैष मे आत्मेति; एवमेतत्यथाभूतं सम्यक्प्रज्ञया द्रष्टव्यम्; <एवं या काचिद्वेदना या काचित्संज्ञा ये केचित्संस्कारा यत्किंचिद्विज्ञानमतीतानागतप्रत्युत्पन्नमाध्यात्मं वा बाह्यं वा औदारिकं वा सूक्ष्मं वा हीनं वा प्रणीतं वा यद्वा दूरे यद्वान्तिके तत्सर्वं नैतन्मम, नैसोऽहमस्मि, नैष मे आत्मेति; एवमेतत्यथाभूतं सम्यक्प्रज्ञया द्रष्टव्यम्;> यतश्च भिक्षवः श्रुतवानार्यश्रावक इमां पञ्च उपादानस्कन्धान्नैवात्मतो नात्मीयतः समनुपश्यति; स एवं समनुपश्यन्न किञ्चिल्लोक उपादत्ते; अनुपाददानो न परितस्यति अपरितस्य आत्मैव परिनिर्वाति; क्षीणा मे जातिः; उषितं ब्रह्मचर्यम्; कृतं करणीयम्; नापरमस्माद्भवं प्रजानामीति; अस्मिन् खलु धर्मपर्याये भाष्यंाणे अवशिष्टनां पञ्चकानां भिक्षूणामनुपादायाश्रवेभ्यश्चित्तानि विमुक्तानि; तेन खलु समयेन पञ्च लोकेऽर्हन्तो, भगवांश्च षष्ठ इति ______________________________________________________________ थे चोन्वेर्सिनोf यशस्, सोनोf अग्रकुलिक तत्र भगवान् वाराणस्यां विहरति नद्या वारकायष्तीरे; तेन खलु समयेन वाराणस्यां यशा अग्रकुलिकपुत्रः प्रतिवसति; दिवादिवसे स्त्रीमयेन तूर्येण क्रीडित्वा रमित्वा परिचार्य श्रान्तकायः क्लान्तकायः प्राभारकायः प्रतियत्येव मिद्धमवक्रान्तः; ता अपि स्त्रियः श्रान्तकायाः क्लान्तकायाः प्राग्भारकायाः प्रतियत्येव मिद्धमवक्रान्ताः; अद्राक्षीद्यशा अग्रकुलिकस्य पुत्रः सरात्रमेव सुप्तप्रतिबुद्धः सर्वास्ता स्त्रियो विलालिका विनग्निका विकेशिका विक्षिप्तभुजाः कान्यपि कान्यपि विप्रलपन्त्यः; दृष्ट्वा च पुनरस्य स्वेऽन्तःपुरे श्मशानसंज्ञा अवक्रान्ता; अथ यशा अग्रकुलिकपुत्रो महाशयनादवतीर्य शतसहस्रं मणिपादुकायुगं प्रावृत्य (१४०) येनान्तःपुरद्वारं तेनोपसङ्क्रान्तः; उपसङ्क्रम्य अपस्वरमकार्षीत्: उपद्रुतोऽस्मि मार्षा उपसृष्टोऽस्मि मार्षा इति; तस्यामनुष्या द्वारं विवृण्वन्ति; शब्दं चान्तर्धापयन्ति; अथ यशा अग्रकुलिकपुत्रो येन निवेशनद्वारं तेनोपसङ्क्रान्तः; उपसङ्क्रम्यापस्वरमकार्षीत्: उपद्रुतोऽस्मि मार्षा उपसृष्टोऽस्मि मार्षा इति: तस्यामनुष्या द्वारं विवृण्वन्ति; शब्दं चान्तर्धापयन्ति; अथ यशा अग्रकुलिकपुत्रो येन नगरद्वारं तेनोपसङ्क्रान्तः; (अ ३९३ ) उपसङ्क्रम्यापस्वरमकार्षीत्: उपद्रुतोऽस्मि मार्षा उपसृष्टोऽस्मि मार्षा <इति>; तस्यामनुष्या द्वारं विवृण्वन्ति; शब्दं चान्तर्धापयन्ति; अथ यशा अग्रकुलिकपुत्रो येन नदी वारका तेनोपसङ्क्रान्तः; तेन खलु समयेन भगवान्नद्या वारकायास्तीरे बहिर्विहारस्याभ्यवकाशे चङ्क्रमे चङ्क्रम्यते यद्भूयसा यशसमेवाग्रकुलिकपुत्रमागमयमानः; अद्राक्षीत्यशा अग्रकुलिकपुत्रो भगवन्तं नद्या वारकायास्तीरे चङ्क्रमे चङ्क्रम्यमाणं दूरत एव; दृष्ट्वा च पुनरपस्वरमकार्षीत्: उपद्रुतोऽस्मि श्रमण उपसृष्टोऽस्मि श्रमण <इति>; अथ भगवान् यशसमग्रकुलिकपुत्रमिदमवोचत्: एहि कुमार; इदं ते स्थानमनुपद्रुतम्; इदमनुपसृष्टमिति; अथ यशा अग्रकुलिकपुत्रः शतसहस्रं मणिपादुकायुगं नद्या वारकायास्तीरे उज्झित्वा, नदीं वारकां प्रत्युत्तीर्य येन भगवांस्तेनोपसङ्क्रान्तः; उपसङ्क्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते अस्थात्; अथ भगवान् यशसमग्रकुलिकपुत्रमादाय येन स्वो विहारस्तेनोपसङ्क्रान्तः; उपसङ्क्रम्य प्रज्ञप्त एवासने न्यषीदत्; निषद्य भगवान् यशसमग्रकुलिकपुत्रं धर्मयया कथया सन्दर्शयति <समादापयति> समुत्तेजयति संप्रहर्षयति; यासौ बुद्धानां भगवतां पूर्वकालकरणीया धर्म्या कथा तद्यथा दानकथा, शीलकथा, स्वर्गकथा, कामानामास्वादादीनवसंक्लेशव्यवदाननैष्क्रम्यप्रविवेक अनुशंसव्यवदानपक्ष्यान् धर्मान् विस्तरेण संप्रकाशयति; यदा चैनं भगवानद्राक्षीद्धृष्टचित्तं कल्यचित्तं मुदितचित्तं विनिवरणचित्तं भव्यं प्रतिबलं सामुत्कर्षिकीं धर्मदेशनामाज्ञातुं, तदा (१४१) यासौ बुद्धानां भगवतां सामुत्कर्षिकी धर्मदेशना, तद्यथा दुःखं समुदयो निरोधो मार्गश्चत्वार्यार्यसत्यानि विस्तरेण संप्रकाशयति; तद्यथा शुद्धं वस्त्रमपगतकालकं रञ्जनोपगं रङ्गे प्रक्षिप्तं सम्यगेव रङ्गं प्रतिगृह्णाति; एवमेव यशा अग्रकुलिकपुत्रस्तस्मिन्नेवासने निषण्णश्चत्वार्यार्यसत्यान्यभिसमेति; तद्यथा दुःखं समुदयं निरोधं मार्गं अथ यशा अग्रकुलिकपुत्रो दृष्टधर्मा प्राप्तधर्मा विदितधर्मा पर्यवगाढधर्मा तीर्णकाङ्क्षस्तीर्णविचिकित्सोऽपरप्रत्ययोऽनन्यनेयः शास्तुश्शासने धर्मेषु वैशारद्यप्राप्तः उत्थायासनादेकांशमुत्तरासङ्गं कृत्वा येन भगवांस्तेनाञ्जलिं प्रणमय्य भगवन्तमिदमवोचत्: अभिक्रान्तोऽहं भदन्त, अभिक्रान्तः; एषोऽहं भगवन्तं शरणं गच्छामि धर्मं च भिक्षुसङ्घं च; उपासकं च मां धारय अद्याग्रेण यावज्जीवं प्राणोपेतं शरणागतमभिप्रसन्नं ______________________________________________________________ यशस्ऽस्fअथेर्बेचोमेस लय्-दिस्चिप्ले अन्द्यशसनर्हत् अद्राक्षीदन्यतमावरुद्धिका सरात्रमेव सुप्तप्रतिबुद्धा यशाः कुमारो महाशयने न दृश्यते इति; दृष्ट्वा च पुनर्येनाग्रकुलिको गृहपतिस्तेनोपसंक्रान्ता; उपसङ्क्रम्याग्रकुलिकं गृहपतिमिदमवोचत्: यत्खल्वार्य जानीया यशाः कुमारः स्वे महाशयने न दृश्यते (अ ३९३ ) इति; अथ अग्रकुलिकस्य गृहपतेरेतदभवत्: माहैव कुमारश्चोरैर्वा धूर्तैर्वा स्वापतेयकारणात्बहिर्निष्कासितो भविष्यति; इति विदित्वा चतुर्दिशमश्वदूतान् प्रेषयति; स्वयमेव प्रदीपिकाहस्तैः पुरुषैः सार्धं येन नदी वारका तेनोपसङ्क्रान्तः; अद्राक्षीदग्रकुलिको गृहपतिर्नद्या वारकायास्तीरे शतसहस्रं मणिपादुकायुगमुज्झितम्; दृष्ट्वा च पुनरस्यैतदभवत्: माहैव (१४२) कुमारश्चोरैर्वा धूर्तैर्वा निष्कासितः; तथा हि नद्या वारकायास्तीरे शतसहस्रं मणिपादुकायुगमुज्झितम्; माहैव कुमारोऽनेन तीर्थेन नदीं वारकामुत्तीर्णो भविष्यति; तथा <हि> शतसाहस्रं मणिपादुकायुगं नद्या वारकायास्तीरे उज्झितः; इति विदित्वा तेनैव तीर्थेन नदीं वारकामुत्तीर्य येन भगवांस्तेनोपसङ्क्रान्तः; अद्राक्षीद्भगवानग्रकुलिकं गृहपतिं दूरादेव; दृष्ट्वा च पुनरस्यैतदभवत्: यन्वहं तद्रूपानृद्ध्यभिसंस्कारानभिसंस्कुर्यां यथाग्रकुलिको गृहपतिरस्मिन्नेवासने निषण्णो यशसं कुमारं न पश्येदिति; अथ भगवान् तद्रूपानृद्ध्यभिसंस्कारानभिसंस्करोति यथाय्रकुलिको गृहपतिस्तस्मिन्नेवासने निषण्णो यशसं कुमारं न पश्यति; अथाग्रकुलिको गृहपतिर्येन भगवांस्तेनोपसङ्क्रान्तः; उपसङ्क्रम्य भगवन्तमिदमवोचत्: कच्चित्भगवान् यशसं कुमारम् <अद्राक्षीत्>? तेन हि गृहपते निषीद स्थानमेतद्विद्यते यदस्मिन्नेवासने निषण्णो यशसं कुमारं द्रक्ष्यसीति; अथाग्रकुलिकस्य गृहपतेरेतदभवत्: नूनं च भगवता यशाः कुमारो दृष्टो भविष्यति; तथाहि भगवानेवमाह, तेन हि गृहपते निषीद स्थानमेतद्विद्यते यदस्मिन्नेवासने निषण्णो यशसं कुमारं द्रक्ष्यसि; इति विदित्वा हृष्टतुष्टप्रमुदित उदग्रप्रीतिसौमनस्यजातो भगवतः पादौ शिरसा वन्दित्वा एकान्ते न्यषीदत्; एकान्ते निषण्णमग्रकुलिकं गृहपतिं भगवान् धर्मयया कथया सन्दर्शयति, समादापयति, समुत्तेजयति संप्रहर्षयति; यासौ बुद्धानां भगवतां पूर्वकालकरणीया धर्म्या कथा, तद्यथा दानकथा शीलकथा स्वर्गकथा कामानामास्वादादीनवसंक्लेशव्यवदाननैष्क्रम्यप्रविवेक अनुसंसव्यवदानपक्ष्यान् धर्मान् विस्तरेण संप्रकाशयति; यदा चैनं भगवानद्राक्षीद्धृष्टचित्तं कल्यचित्तं मुदितचित्तं विनिवरणचित्तं भव्यं प्रतिबलं सामुत्कर्षिकीं धर्मदेशनामाज्ञातुं, तदा यासौ बुद्धानां भगवतां सामुत्कर्षिकी धर्मदेशना तद्यथा दुःखं समुदयं निरोधं मार्गं चत्वार्यार्यसत्यानि विस्तरेण संप्रकाशयति; तद्यथा शुद्धं वस्त्रमपगतकालकं रञ्जनोपगं रङ्गे प्रक्षिप्तं सम्यगेव रङ्गं (१४३) प्रतिगृह्णाति, एवमेवाग्रकुलिको गृहपतिस्तस्मिन्नेवासने निषण्णश्चत्वार्यार्यसत्यान्य्(अ ३९४ ) अभिसमेति; दुःखं समुदयं निरोधं मार्गम्; तस्मिन् खलु धर्मपर्याये भाष्यमाणे अग्रकुलिकस्य गृहपतेर्विरजो विगतमलं धर्मेषु धर्मचक्षुरुत्पन्नम्; आयुष्मतश्च यशसः सर्वालङ्कारविभूषितस्यानुपादायाश्रवेभ्याश्चित्तं विमुक्तम्; अथ भगवांष्तानृद्ध्यभिसंस्कारान् प्रतिप्रस्रभ्य तस्यां वेलायां गाथां भाषते: अलङ्कृतश्चापि चरेत धर्मं दान्तश्शान्तः संयतो ब्रह्मचारी । सर्वेषु भूतेषु निधाय दण्डं स ब्राह्मणः स श्रमणः स भिक्षुः ॥ तेन खलु समयेन षट्लोके अर्हन्तः, भगवांश्च सप्तमः; अद्राक्षीदग्रकुलिको गृहपतिर्यशसं कुमारं तस्मिन्नेवासने निषण्णम्; दृष्ट्वा च पुनर्यशसं कुमारमिदमवोचत्: एहि कुमार निवेशनं गमिष्यावो माता ते श्रान्तकाया क्लान्तकाया परिदेवितवतीति; अथ भगवानग्रकुलिकं गृहपतिमिदमवोचत्: किं मन्यसे गृहपते येनाशैक्षेण ज्ञानेन अशैक्षेण दर्शनेन चत्वार्यार्यसत्यान्यभिसमितानि, तद्यथा दुःखं, समुदयो, निरोधो, मार्गः, अपि नु स पुनरपि गृही अगारमध्यावसेत? सन्निधीकारपरिभोगेन वा कामान् परिभुञ्जीत इति? नो भदन्त: यथा खलु त्वया गृहपते शैक्षेण ज्ञानेन शैक्षेण दर्शनेन चत्वार्यार्यसत्यान्यभिसमितानि, दुःखं, समुदयो, निरोधो, मार्गः; एवमेव कुमारेण अशैक्षेण ज्ञानेन अशैक्षेण दर्शनेन चत्वार्यार्यसत्यान्यभिसमितानि, तद्यथा दुःखं, समुदयो, निरोधो, मार्गः इति; लाभा भदन्त यशसा कुमारेण सुलब्धा येन अशैक्षेना ज्ञानेन अशैक्षेण दर्शनेन चत्वार्यार्यसत्यान्यभिसमितानि, तद्यथा दुःखं, समुदयो, निरोधो, मार्गः; साधु भगवान् यशसा कुमारेण पश्चाच्छ्रमणेन येनाग्रकुलिकस्तेनोपसङ्क्रामेदनुकम्पामुपादाय; अधिवासयति भगवानग्रकुलिकस्य गृहपतेस्तूष्णींभावेन; अथाग्रकुलिको गृहपतिर्भगवतस्तूष्णींभावेनाधिवासनां (१४४) विदित्वा भगवतः पादौ शिरसा वन्दित्वा भगवतोऽन्तिकात्प्रक्रान्तः ______________________________________________________________ यशऽस्मोथेरन्द्wइfए बेचोमे लय्-दिस्चिप्लेस् अथ भगवांस्तस्या एव रात्रेरत्ययात्निवास्य पात्रचीवरमादाय आयुष्मता यशसा पश्चाच्छ्रमेणेन येनाग्रकुलिकस्य गृहपतेर्निवेशनं तेनोपसङ्क्रान्तः; तेन खलु समयेन आयुष्मतो यशसो महल्लिका पुराणद्वितीया च मध्यमायां द्वारशालायामास्थातां यद्भूयसा भगवन्तमागमयमाने; अद्राष्टामायुष्मतो यशसो महल्लिका पुराणद्वितीया च भगवन्तं दूरत एव दृष्ट्वा च पुनर्भगवतोऽर्थे आसनं प्रज्ञापयतः; एवं चाहतुः; एतु भगवान्; स्वागतं भगवते; निषीदतु भगवान् प्रज्ञप्त एव आसने; निषण्णो भगवान् प्रज्ञप्त एवासने; अथायुष्मतो यशसो महल्लिका पुराणद्वितीया च भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषण्णे; एकान्ते निषण्णामायुष्मतो यशसो महल्लिकां पुराणद्वितीयां च भगवान् धर्म्यया कथया सन्दर्शयति, (अ ३९४ ) समादापयति, समुत्तेजयति, संप्रहर्षयति; यासौ बुद्धानां भगवतां पूर्वकालकरणीया धर्म्या कथा, तद्यथा दानकथा शीलकथा स्वर्गकथा कामानामास्वादादीनवसङ्क्लेशव्यवदाननैष्क्रम्यप्रविवेक अनुशंसव्यवदानपक्ष्यान् धर्मान् विस्तरेण संप्रकाशयति; यदा चैते भगवानद्राक्षीद्धृष्टचित्ते कल्यचित्ते मुदितचित्ते विनिवरणचित्ते भव्ये प्रतिबले सामुत्कर्षिकीं धर्मदेशनामाज्ञातुम्, तदा यासौ बुद्धानां भगवतां सामुत्कर्षिकी धर्मदेशना, तद्यथा दुःखं समुदयो निरोधो मार्गश्चत्वार्यार्यसत्यानि, <विस्तरेण> संप्रकाशयति; तद्यथा शुद्धं वस्त्रमपगतकालकं रञ्जनोपगं रङ्गे प्रक्षिप्तं सम्यगेव रङ्गं प्रतिगृह्णाति, एवमेव आयुष्मतो यशसो महल्लिका पुराणद्वितीया च तस्मिन्नेवासने निषण्णे चत्वार्यार्यस्त्यान्यभिसमितवत्यौ; तद्यथा दुःखं समुदय निरोध मार्गः; अथ आयुष्मतो यशसो महल्लिका पुराणद्वितीया च दृष्टधर्मे प्राप्तधर्मे विदितधर्मे पर्यवगाढहर्मे (१४५) तीर्णकाङ्क्षे तीर्णविचिकित्से अपरप्रत्यये अनयनेये शास्तुश्शासने धर्मेषु वैशारद्यप्राप्ते उत्थायासनादेकांशमुत्तरासङ्गं कृत्वा येन भगवांस्तेनाञ्जलिं प्रणमय्य भगवन्तमिदमवोचताम्: अभिक्रान्ते आवां, भदन्त, अभिक्रान्ते; एते आवां भगवन्तं शरणं गच्छावो, धर्मं च भिक्षुसङ्घं च; उपासिके च आवां धारयाद्याग्रेण यावज्जीवं प्राणोपेते शरणागते अभिप्रसन्ने; तेन हि भदन्त इहैव भक्तकृत्यं क्रियताम्; अधिवासयति भगवानायुष्मतो यशसो महल्लिकायाः पुराणद्वितीयायाश्च तूष्णींभावेन; अथ आयुष्मतो यशसो महल्लिका पुराणद्वितीया च भगवतस्तूष्णींभावेन अधिवासनां विदित्वा भगवन्तं सुखोपनिषण्णं शुचिप्रणीतेन खादनीयभोजनीयेन स्वहस्तं सन्तर्पयतः, संप्रवारयतः; अनेकपर्यायेण शुचिना प्रणीतेन खादनीयभोजनीयेन स्वहस्तं सन्तर्प्य संप्रवार्य भगवन्तं भुक्तवन्तं विदित्वा धौतहस्तमपनीतपात्रं नीचतरमासनं गृहीत्वा भगवतः पुरस्तान्निषण्णे धर्मश्रवणाय; अथ भगवानायुष्मतो यशसो महल्लिकां पुराणद्वितीयां च धर्म्यया कथया सन्दर्श्य समादाप्य समुत्तेज्य संप्रहर्ष्य उत्थायासनात्प्रक्रान्तः; येन स्वो विहारस्तेनोपसङ्क्रान्तः; उपसङ्क्रम्य प्रज्ञप्त एवासने निषण्णः भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पृच्छन्ति: किं भदन्त आयुष्मता यशसा कर्म कृतं यस्य कर्मणो विपाकेन अन्तःपुरमध्यगतस्य स्वस्मिन्नन्तःपुरे श्मशानसंज्ञा उत्पन्ना; सर्वालङ्कारविभूषितेन च भगवतोऽन्तिके अर्हत्वं च साक्षात्कृतम्; यशसा एवं भिक्षवः कर्माणि कृतान्युपचितानि लब्धसंभाराणि परिणतप्रत्ययान्योघवत्प्रत्युपस्थितान्यवश्यंभावीनि; (अ ३९५ ) यशसा कर्मान्युपचितानि कोऽन्यः प्रत्यनुभविष्यति; न भिक्षवः कर्माणि कृतान्युपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तु उपात्तेष्वेव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते, शुभान्यशुभानि च न प्रनश्यन्ति कर्माण्यपि कल्पशतैरपि । सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम् ॥ (१४६) ______________________________________________________________ प्रेविओउस्बिर्थोf यशस् भूतपूर्वं भिक्षवः वाराणस्यां नगर्यां नातिदूरे रिषिः प्रतिवसति स्म मैत्र्यात्मकः कारुणिकः सर्वसत्वहितवत्सलः; तेन पिण्डपातं प्रविशता मृतकुणपं दृष्टम्; असत्प्रतिबद्धेनेव चित्तेन पिण्डपातं प्रविष्टः; पिण्दपातं चरित्वाभ्यागतः; यावत्पश्यति तं मृतकुणपं विलीनीभूतं व्याध्मातकं च; तस्यैवाग्रतः स्फुटितम्; तेन तत्रैव वैराग्यमुत्पादितम्; तत इहान्तःपुरे प्रत्ययो दत्तः किं मन्यध्वे भिक्षवः? योऽसौ रिषिरेष एवासौ यशाः कुमारः तेन कालेन तेन समयेन; यदनेन तत्र वैराग्यमुत्पादितं तेनैतर्हि अन्तःपुरमध्यगतस्य प्रत्ययो दत्तः; इति हि भिक्षवस्ः एकान्तकृष्णानां कर्मणामेकान्तकृष्णो विपाकः; एकान्तशुक्लानामेकान्तशुक्लो व्यतिमिश्राणां व्यतिमिश्रः; तस्मात्तर्हि भिक्षवः एकान्तकृष्णानि कर्माणि अपास्य व्यतिमिश्राणि च एकान्तशुक्लेष्वेव कर्मस्वाभोगः करणीयः; इत्येवं वो भिक्षवः शिक्षितव्यम् ______________________________________________________________ यशस्ऽस्fओउर्ब्रोथेर्सरे चोन्वेर्तेदन्द्बेचोमे अर्हत्स् अश्रौषुर्वाराणस्यां द्वितीय अग्रकुलोकपुत्रस्तृतीयश्चतुर्थः पञ्चम अग्रकुलिकपुत्रः, पूर्णो, विमलो, गवांपतिः सुबाहुश्च: यशा अग्रकुलिकपुत्रः केशश्मश्र्ववतार्य काषायाणि वस्त्राण्याच्छाद्य सम्यगेव श्रद्धया अगारादनगारिकां प्रव्रजित इति; श्रुत्वा च पुनरेषामेतदभवत्: न बतावरो बुद्धो भविष्यति, नावरं धर्माख्यानम्; यत्रेदानीं यशा अग्रकुलिकपुत्रस्तावत्तरुणः तावत्सुखैषी केशश्मश्र्ववतार्य काषायाणि वस्त्राण्याच्छाद्य सम्यगेव श्रद्धया अगारादनगारिकां प्रव्रजितः; यन्नु (१४७) वयमपि केशश्मश्र्ववतार्य काषायाणि वस्त्राण्याच्छाद्य सम्यगेव श्रद्धया अगारादनगारिकां प्रव्रजेमेति; अथ द्वितीयोऽग्रकुलिकपुत्रस्तृतीयश्चतुर्थः पञ्चमोऽग्रकुलिकपुत्रः पूर्णो, विमलो, गवांपतिस्, सुबाहुर्, वाराणस्यां निष्क्रम्य येन भगवांस्तेनोपसङ्क्रान्ताः; उपसङ्क्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते तस्थुः; एकान्तस्थिता द्वितीयोऽग्रकुलिकपुत्रस्तृतीयश्चतुर्थः पञ्चमः अग्रकुलिकपुत्रः पूर्णो, विमलो, गवांपतिस्, सुबाहुर्, भगवन्तमिदमवोचन्: लभेमहि वयं भदन्त स्वाख्याते धर्मविनये प्रव्रज्यामुपसंपदं भिक्षुभावम्; चरेम वयं भगवतोऽन्तिके ब्रह्मचर्यम्; लब्धवन्तस्त आयुष्मन्तः स्वाख्याते धर्मविनये प्रव्रज्यामुपसंपदं भिक्षुभावम्; एवं प्रव्रजिता एकाकिनो व्यपकृष्टा अप्रमत्ता आतापिनः प्रहितात्मानो व्यहार्षुः; एकाकिनो व्यपकृष्टा अप्रमत्ता आतापिनः प्रहितात्मानो विहरन्तो यदर्थं कुलपुत्राः केशश्मश्र्ववतार्य काषायाणि वस्त्राण्याच्छाद्य सम्यगेव (अ ३९५ ) श्रद्धया अगारादनगारिकां प्रव्रजन्ति तदनुत्तरं ब्रह्मचर्यपर्यवसानं दृष्ट एव धर्मे स्वयमभिज्ञया साक्षात्कृत्वा उपसंपद्य प्रवेदयन्ते: क्षीना नो जातिर्, उषितं ब्रह्मचर्यं, कृतं करणीयं, नापरमस्माद्भवं प्रजानीम इति आज्ञातवन्त आयुष्मन्तोऽर्हन्तो बभूवुः सुविमुक्तचित्ताः; तेन खलु समयेन दश लोकेऽर्हन्तो, भगवानेकादशमः ______________________________________________________________ थे चोन्वेर्सिओनोf fइfत्य्योउन्ग्मेन् अश्रौषुर्वाराणस्यां पञ्चाशदुत्सदोत्सदा ग्रामिकदारकाः, प्रथमोऽग्रकुलिकपुत्रो, द्वितीयस्, तृतीयश्चतुर्थः, पञ्चमोऽग्रकुलिकपुत्रो, यशाः, पूर्णो, विमलो, गवांपतिः, सुबाहुः केशश्मश्र्ववतार्य काषायाणि वस्त्राण्याच्छाद्य सम्यगेव श्रद्धया अगारादनगारिकां प्रव्रजिता इति; श्रुत्वा च पुनरेषामेतदभवत्: न बतावरो बुद्धो भस्विष्यति; नावरं धर्माख्यानम्; यत्रेदानीं प्रथमोऽग्रकुलिकपुत्रो, द्वितीयो यावत्पुर्णो विमलो गवांपतिः सुबाहुर्तावत्तरुणास्तावत्सुखैषिणः केशश्मश्र्ववतार्य काषायाणि वस्त्राण्याच्छाद्य सम्यगेव श्रद्धया अगारादनगारिकां (१४८) प्रव्रजिताः; यन्नु वयमपि केशश्मश्र्ववतार्य काषयाणि वस्त्राण्याच्छाद्य सम्यगेव श्रद्धया अगारादनगारिकां प्रव्रजेमेति; अथ पञ्चाशदुत्सदोत्सदा ग्रामिकदारका वाराणस्यां निष्क्रम्य येन भगवांस्तेनोपसङ्क्रान्ताः; उपसङ्क्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते तस्थुः; एकान्तस्थिताः पञ्चाशदुत्सदोत्सदा ग्रामिकदारका भगवन्तमिदमवोचन्: लभेमहि वयं स्वाख्याते धर्मविनये प्रव्रज्यामुपसंपदं भिक्षुभावम्; चरेम वयं भगवतोऽन्तिके ब्रह्मचर्यम्; लब्धवन्तस्त आयुष्मन्तस्स्वाख्याते धर्मविनये प्रव्रज्यामुपसंपदं भिक्षुभावम्; एवंप्रव्रजितास्ते आयुष्मन्त एककिनो व्यपकृष्टाः अप्रमत्ता आतापिनः प्रहितात्मानो व्यहार्षुः; एकाकिनो व्यपकृष्टा अप्रमत्ता आतापिनः प्रहितात्मनो विहरन्तो यदर्थं कुलपुत्राः केशश्मश्र्ववतार्य काषयाणि वस्त्राण्याच्छाद्य सम्यगेव श्रद्धया अगारादनगारिकां प्रव्रजन्ति तदनुत्तरं ब्रह्मचर्यपर्यवसानं दृष्ट एव धर्मे स्वयमभिज्ञया साक्षात्कृत्वा उपसंपद्य प्रवेदयन्ते; क्षीणा नो जातिर्, उषितं ब्रह्मचर्यं, कृतं करणीयं, नापरमस्माद्भवं प्रजानीम इति आज्ञातवन्त आयुष्मन्तोऽर्हन्तो बभूवुः सुविमुक्तचित्ताः; तेन खलु समयेन षष्टिर्लोके अर्हन्तो भगवानेकषष्टितमः इति ______________________________________________________________ थे बुद्ध गोएस्तो थे विल्लगे उरुबिल्वा तत्र भगवान् वाराणस्यां विहरति ऋषिवदने मृगदावे; तत्र भगवान् भिक्षूनामन्त्रयते स्म: मुक्तोऽहं, भिक्षवः, सर्वपाशेभ्यो ये दिव्या ये च मानुषाः; यूयमपि भिक्षवो मुक्ताः सर्वपाशेभ्यो ये दिव्या ये च मानुषाः; ततो भिक्षवश्चारिकां प्रक्रमिश्यामो बहुजनसुखाय लोकानुकम्पायै अर्थाय हिताय सुखाय देवमनुष्याणाम्; मा च वो द्वावेकेन गमिष्यथ; अहमपि येनोरुबिल्वासेनायनीग्रामकस्तेन चारिकां प्रक्रमिष्यामि; अथ मारस्य (अ ३९६ ) पापीयस एतदभवत्; अयं श्रमणो गौतमो वाराणस्यां विहरति ऋषिवदने मृगदावे; एवं श्रावकान् धर्मं देशयति: मुक्तोऽहं भिक्षवः सर्वपाशेभ्यो ये च दिव्या ये च मानुषाः; यूयमपि भिक्षवो मुक्तास्सर्वपाशेभ्यो ये च दिव्या ये च मानुषाः; यावदहमपि येनोरुबिल्वासेनायनीग्रामकस्तेन चारिकां प्रक्रमिष्यामीति; यन्वहमस्योपसङ्क्रमेयं यदुत व्याक्षेपकर्मणि; अथ मारः (१४९) पापीयान्माणवकवर्णमात्मानमभिनिर्माय येन भगवांस्तेनोपसङ्क्रान्तः; उपसङ्क्रम्य भगवतोऽन्तिके तिष्ठन् गाथां भाषते: अमुक्तो मुक्तसंज्ञी सन् किं मुक्तोऽस्मीति मन्यसे । महाबन्धनबद्धोऽसि न मे श्रमण मोक्ष्यसे ॥ अथ भगवत एतदभवत्: मारो बतायं पापीयानुपसङ्क्रान्तो यदुत व्याक्षेपकर्मणि; इति विदित्वा गाथां भाषते: मुक्तोऽहं सर्वपाशेभ्यो ये दिव्या ये च मानुषाः । एवं जानीहि पापीयन्निहतस्त्वमिहान्तक ॥ अथ मारस्य पापीयस एतदभवत्: जानाति मे श्रमणो गौतमश्चेतसा चित्तम्; इति विदित्वा दुःखी दुर्मना विप्रतीसारी तत्रैव अन्तर्हितः; तत्र भगवान् भिक्षूनामन्त्रयते स्म: मुक्तोऽहं भिक्षवः सर्वपाशेभ्यो ये दिव्या ये च मानुषाः; यूयमपि भिक्षवो मुक्ताः सर्वपाशेभ्यो ये दिव्या ये च मानुषाः; चरत भिक्षवश्चारिकां बहुजनहिताय पूर्ववद्यावदहमपि येनोरुबिल्वासेनायनीग्रामकस्तेन चारिकां प्रक्रमिष्यामि; एवं भदन्त इति भिक्षवो भगवतः प्रतिश्रुत्य जनपदचारिकां प्रक्रान्ताः अथ भगवाव्यथाभिरम्यं विहृत्य येनोरुबिल्वासेनायनीग्रामकस्तेन चारिकां प्रक्रान्तोऽनुपूर्वेण चारिकां चरन् सेनायनीग्रामकमनुप्राप्तः; अथ भगवान् येन कार्पासवनषण्डः तेनोपसङ्क्रान्तः; उपसङ्क्रम्य अन्यतरद्वृक्षमूलं निश्रित्य निषण्णो दिवाविहाराय ______________________________________________________________ सिxत्य्गेन्त्लेमेन् बेचोमे लय्-दिस्चिप्लेस् तेन खलु समयेन षष्टिर्भद्रवर्गीयाः पूगाः बहिः सेनायनीग्रामकस्य दिवादिवसे स्त्रीमयेन तूर्येण क्रीडन्ति रमन्ते परिचारयन्ति; तेषां क्रीडतां रममाणानां परिचारयतामन्यतरा स्त्री समयं विराग्य निष्पलायिता; अथ षष्टिर्भद्रवर्गीयाः पूगाः तां स्त्रियं समन्वेषमाणा येन कार्पासवनषण्डस्तेनोपसङ्क्रान्ताः; उपसङ्क्रम्य अद्राक्षुः षष्टिर्भद्रवर्गीयाः पूगा भगवन्तमन्यतरद्वृक्षमूलं निश्रित्या निषण्णं प्रासादिकं प्रसादनीयं शान्तेन्द्रियं शान्तमानसं परमेण चित्तदमव्युपशमेन समन्वागतं (१५०) सुवर्णयूपमिव श्रिया ज्वलन्तम्; दृष्ट्वा च पुनर्येन भगवांस्तेनोपसङ्क्रान्ताः; उपसङ्क्रम्य भगवन्तमिदमवोचन्: कच्चिद्भगवान् स्त्रियमद्राक्षीत्; <किं पुनर्वः कुमारकास्तया स्त्रिया?> इह वयं भदन्त षष्टिर्भद्रवर्गीयाः पूगाः बहिः सेनायनीग्रामस्य दिवादिवसे स्त्रीमयेन तूर्येण क्रीडामो रमामो परिचारयामः; तेषामस्माकं क्रीडतां रममाणानां परिचारयतामन्यतमा <स्त्री समयं विराग्य निष्पलायिता; ते> वयं तां स्त्रियं समन्वेषामहे; किं मन्यध्वे कुमारकाः? किं वरं यो वा स्त्रियं समन्वेषाते, यो वा आत्मानम्? किमस्माकं भदन्त स्त्री (अ ३९६ ) करिष्यति; इदमेवास्माकं वरं यद्वयमात्मानं समन्वेषेमहि; तेन हि कुमारका निषीदन्तु; धर्मं वो देशयिष्यामि; अथ षष्टिर्भद्रवर्गीयाः पूगाः भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषण्णाः; एकान्तनिषण्णान् षष्टिं भद्रवर्गीयान् पूगान् भगवान् धर्म्यया कथया सन्दर्शयति समादापयति समुत्तेजयति संप्रहर्षयति; यासौ <बुद्धानां भगवतां धर्म्या कथा; तद्यथा> दानकथा शीलकथा स्वर्गकथा कामानामास्वादादीनवसङ्क्लेशव्यवदाननैष्क्रम्यप्रविवेक अनुशंसव्यवदानपक्ष्यान् धर्मान् विस्तरेण संप्रकाशयति; यदा चैतान् भगवानद्राक्षीद्धृष्टचित्तान्मुदितचित्तान् कल्यचित्तान् विनिवरणचित्तान् भव्यान् प्रतिबलान् सामुत्कर्षिकीं धर्मदेशनामाज्ञातुं, तदा यासौ बुद्धानां भगवतां सामुत्कर्षिकी धर्मदेशना तद्यथा दुःखः समुदयो निरोधो मार्गश्चत्वार्यार्यसत्यानि विस्तरेण संप्रकाशयति; तद्यथा शुद्धं वस्त्रमपगतकालकं रञ्जनोपगं रङ्गे प्रक्षिप्तं सम्यगेव रङ्गं प्रतिगृह्णाति; एवमेव षष्टिर्भद्रवर्गीयाः पुगाः एष्वेवासनेषु निषण्णाश्चत्वार्यार्यसत्यान्यभिसमयन्ति; तद्यथा दुःखं समुदयं निरोधं मार्गम्; अथ षष्टिर्भद्रवर्गीगाः पूगाः दृष्टधर्माणः प्राप्तधर्माणो विदितधर्माणः पर्यवगाढधर्माणस्तीर्णकाङ्क्षा तीर्णविचिकित्सा अपरप्रत्यया (१५१) अनन्यनेया शास्तुश्शासने धर्मेषु वैशारद्यप्राप्ता उत्थायासनेभ्य एकांसमुत्तरासङ्गं कृत्वा येन भगवांस्तेन अञ्जलिं प्रणमय्य भगवन्तमिदमवोचन्: अभिक्रान्ता वयं भदन्ताभिक्रान्ताः; एते वयं भगवन्तं शरणं गच्छामो धर्मं च भिक्षुसङ्घं च; उपासकांश्च अस्मान् धारयाद्याग्रेण यावज्जीवं प्राणोपेतान् शरणागतानभिप्रसन्नान्; अथ षष्टिर्भद्रवर्गीयाः पूगा भगवतो भाषितमभिनन्द्य अनुमोद्य भगवतः पादौ शिरसा वन्दित्वा भगवतोऽन्तिकात्प्रक्रान्ताह् ______________________________________________________________ चोन्वेर्सिओनोf थे ब्रह्मिन् देव तेन खलु समयेन कपिलवस्तुनि देवो नाम ब्राह्मणः प्रतिवसत्याढ्यो महाधनो महाभोगो भगवतः पुराणो गृहपतिस्सखा: असौ परेण समयेन ज्ञातिक्षयं <धनक्षयमृद्धिक्षयं गतः; यदा भगवता> षट्त्रिंशद्भूतकोटिपरिवारं मारं विद्राव्य अनुत्तरं ज्ञानमधिगतं, तदा देवो ब्राह्मणः पत्न्या सार्धं सेनायनीग्रामकमनुप्राप्तः; देवेन ब्राह्मणेन श्रुतं भगवता अनुत्तरं ज्ञानमधिगतम्; श्रुत्वा च तस्यैतदभवत्: कथं पुनरहं भगवन्तं पिण्डकेन प्रतिपादयेयमिति; स पत्नीमामन्त्रयते: भद्रे भगवता अनुत्तरं ज्ञानमधिगतम्; स च भगवांश्चक्रवर्तिकुले जातः; स इदानीं सेनायनीग्रामकं पिण्डपातं <चरति> ............................................................ सा कथयति: (अ ३९७ ) आर्यपुत्र तथा भवतु; देवेन ब्राह्मणसकाशे पत्नीबन्धकं स्थापयित्वा पञ्चकार्षापण ..................................................... देवेन ब्राह्मणेन गृहपतिसकाशादलङ्कारं याचित्वा पत्न्या अनुप्रदत्तः; अथ देवो ब्राह्मणः सपत्नीकः सुचिं प्रणीतं खादनीयभोजनीयं समुदानीय येन भगवांस्तेनोपसंक्रान्तः; उपसंक्रम्य भगवन्तमिदमवोचत्; अधिवासयतु मे भगवान् श्वोऽन्तर्गृहे भक्तेन; अधिवासयति भगवान् देवस्य ब्राह्मणस्य तूष्णींभावेन; अथ भगवान् येन देवस्य ब्राह्मणस्य निवेषनं (१५२) तेनोपसंक्रान्तः; उपसंक्रम्य प्रज्ञप्त एवासने न्यषीदत्; अथ देवो ब्राह्मणः सुखोपनिषण्णं भगवन्तं विदित्वा सपत्नी कः शुचिना प्रणीतेन खादनीयभोजनीयेन स्वहस्तं तर्पयतः संप्रवारयतः; अनेकपर्यायेण शुचिना प्रणीतेन खादनीयभोजनीयेन स्वहस्तं संतर्पयित्वा संप्रवारयित्वा भगवन्तं भुक्तवन्तं विदित्वा धौतहस्तमपनीतपात्रं नीचतरमासनं गृहीत्वा भगवतः पुरस्तान्निषण्णौ धर्मश्रवणाय; अथ भगवान् देवस्य ब्राह्मनस्य दक्सिणादेशनां कृत्वा प्रक्रान्तः इति; देवो ब्राह्मणस्तच्छ्रुत्वा दुःखी दुर्मनाः संवृत्तः; अटवीं संप्रस्थितः कुतोऽहमलङ्कारं दास्यामीति; नान्यत्रात्मानम् ..................................................... तदा पश्यति तमलङ्कारम्; स तं गृहीत्वा गृहमागतः; देव पश्यामीति <पत्नी> दुःखदौर्मनस्याहता गृहं विशोधयति सुवर्णकलशं दीप्तिमन्तं पश्यति यथापितद्बुद्धस्य बुद्धानुभावेन देवतानां च देवतानुभावेन; देवस्तां पृच्छति: भद्रे किमेतद्? इति; सा कथयति: आर्यपुत्र मया सुवर्णकलशो दृष्टः; सोऽपि कथयति: भद्रे, मयापि सोऽलंकारो दृष्टः; तावत्यर्थं भगवति प्रसादजातौ तथा चाभिप्रसन्नौ; ततो भगवता तादृशी चतुरायसत्यसंप्रतिवेधिकी धर्मेदेशना कृता; यथा देवेन ब्राह्मणेन सपत्नीकेन विंशतिशिखरसमुद्गतं दृष्टिशैलं ज्ञानवज्रेण भित्वा श्रोत्रआपत्तिफलं साक्षात्कृतम् ______________________________________________________________ चोन्वेर्सिओनोf नन्दा अन्द्नन्दबला अथ भगवांस्तस्या एव रात्र्या अत्ययात्पूर्वाह्णे निवास्य पात्रचीवरमादाय सेनायनीग्रामकं पिण्डाय प्राविक्षत्; अथ भगवत एतदभवत्: कस्य न्वहं सेनायनीग्रामके तत्प्रथमतो धर्मं देशयेयम्; अथ भगवत एतदभवत्: यन्वहं नन्दायाश्च नन्दबलायाश्च (अ ३९७ ) ग्रामिकदुहित्रोः तत्प्रथमतो धर्मं देशयेयं, ये मां दुःखप्रहाणयोगमनुयुक्तं विहरन्तं सत्कृत्योपस्थतुः प्रेम्ना च गौरवेण च; अथ भगवान् येन नन्दायाश्च नन्दबलायाश्च ग्रामिकदुहित्रोर्निवेशनं तेनोपसंक्रन्तः; अद्राष्टां च नन्दा च नन्दबला च ग्रामिकदुहितरौ (१५३) भगवन्तं दूरत एव; दृष्ट्वा च पुनर्भगवतोऽर्थायासनं प्रज्ञपयतः एवं चाहतुः: निषीदतु भगवान् प्रज्नाप्त एवासने; न्यषीदद्भगवान् प्रज्ञाप्त एवासने; अथ नन्दा च नन्दबला च ग्रामिकदुहितरौ भगवत्पादौ शिरसा वन्दित्वैकान्ते निषण्णे; एकान्तनिषण्णे नन्दां च नन्दबलां च ग्रामिकदुहितरौ भगवान् धर्म्यया कथया संदर्शयति समादापयति समुत्तेजयति संप्रहर्षयति यासौ बुद्धानां भगवतां पूर्वकालकरणीया धर्मी कथा तद्यथा दानकथा शीलकथा स्वर्गकथा कामानामास्वादादीनवसंक्लेशव्यवदाननैष्क्रम्यप्रविवेके अनुशंसव्यवदानपक्ष्यान् धर्मान् विस्तरेण संप्रकाशयति; यदैते भगवानद्राक्षीद्धृष्टचित्ते कल्यचित्ते मुदितचित्ते विनिवरणचित्ते भव्ये प्रतिबले सामुत्कर्षिकीं धर्मदेशनामाज्ञातुं तदा यासौ बुद्धानां भगवतां सामुत्कर्षिकी धर्मदेशना तद्यथा दुःखं समुदयो निरोधो मार्गश्चत्वार्यार्यसत्यानि विस्तरेण संप्रकाशयति; तद्यथा शुद्धं वस्त्रमपगतकालकं रञ्जनोपगं रङ्गे प्रक्षिप्तं सम्यगेव रङ्गं प्रतिगृह्णाति, एवमेव नन्दा च नन्दबला च तस्मिन्नेवासने निषण्णे चत्वर्यार्यसत्यानि अभिसमयतस्तद्यथा दुःखं समुदयं निरोधं मार्गम्; अथ नन्दा च नन्दबला च ग्रामिकदुहितरौ दृष्टधर्मे प्राप्तधर्मे पर्यवगाधधर्मे तीर्णकांक्षे तीर्णविचिकित्सेऽपरप्रत्ययेऽनन्यनेये शास्तुः शासने धर्मेषु वैशारद्यप्राप्ते; उत्थायासनादेकांशमुत्तरासङ्गं कृत्वा येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तमिदमवोचताम्: अभिक्रान्ते आवां भदन्ताभिक्रान्ते; एते आवां भगवन्तं शरणं गच्छावो धर्मं च भिक्षुसङ्घं च; उपासिके चावां धारयाद्याग्रेण यावज्जीवं प्राणोपेते शरणगतेऽभिप्रसन्ने; अथ नन्दा च नन्दबला च ग्रामिकदुहितरौ भगवन्तमिदमवोचताम्; तेन हि भदन्त इहैव भक्तकृत्यं क्रियताम्; अधिवासयति भगवान्नन्दायाश्च नन्दबलायाश्च ग्रामिकदुहित्रोः तूष्नींभावेन; अथ नन्दा च नन्दबला च ग्रामिकदुहितरौ भगवतस्तूष्णीम्भावेनाधिवासनां विदित्वा सुखोपनिषण्णं भगवन्तं विदित्वा शुचिना प्रणीतेन खादनीयभोजनीयेन स्वहस्तं संतर्पयतः संप्रवारयतः; शुचिना प्रणीतेन खादनीयभोजनीयेन स्वहस्तं संतर्पयित्वा संप्रवारयित्वा भगवन्तं भुक्तवन्तं विदित्वा धौतहस्तमपनीतपात्रं नीचतरकमासनं गृहीत्वा भगवतः पूरतो निषण्णे धर्मश्रवणाय (१५४) [थे ff. ओf थे मनुस्च्रिप्त्बेत्wएएन् ३९८ अन्द्४०५ अरे मिस्सिन्ग्. सोमे fरग्मेन्त्सिन् सन्स्क्रित्चोन्चेर्निन्ग्थिस्पोर्तिओनोf थे सङ्घभेदवस्तु हवे बेएनेदितेदन्द्रेस्तोरेद्wइथ्थे ऐदोf थे तिबेतन् त्रन्स्लतिओन् ब्य्प्रोf. एर्न्स्त्wअल्द्स्छ्मिद्त्, चतुष्परिषत्सूत्र, एद्. चित्, वोल्. ल्ल्ल्, वोर्गन्ग्२३, १८-२७ च्३ (प्प्. २३५-३३७)]. थे पोर्तिओन् रेस्तोरेद्ब्य्प्रोf. एर्न्स्त्wअल्द्स्छ्मिद्थस्बेएन् रेप्रोदुचेद्बेलोw अस्थे अप्पेन्दिx ल्ल्] ______________________________________________________________ बिंबिसारऽस्विसित्तो थे बुद्ध <ता देवता पुनरवोचन्: महाराज न ते पापं कर्म कृतम्; अपि तु> (अ ४०६ ) यैः सार्धं त्वया सामवायिकानि कर्माणि कृतानि तेषां ये केचित्सन्निपतिताः केचिदद्यत्वेपि जनपदैरमुष्मिन् कर्मान्तान् कारयन्तस्तिष्ठन्तो तान् शब्दयेति; राज्ञा तद्देशनिवासिनो जनकायास्सर्वे आहूताः; ततो राजा बिंबिसारो द्वादशभी रथसहस्रैरष्टादशभिश्च पेटकाश्वसहस्रैरनेकैश्च मागधकैर्ब्राह्मणगृहपतिशतसहस्रैः सार्धं राजगृहान्निर्याति भगवतोऽन्तिकं भगवन्तं दर्शनायोपसङ्क्रमितुं पर्युपासनायै; तस्य यावती यानस्य भूमिस्तावद्यानेन गत्वा यानादवतीर्य पद्भ्यामेवारामं प्राविक्षत्; यदन्तरा राजा मागधः श्रेण्यो बिम्बिसारो भगवन्तमद्राक्षीत्तदन्तरात्पञ्चककुदान्यपनीय उष्णीषं, छत्रं, खड्गं, मणिबालव्यजनं चित्रे चोपानहौ येन भगवांस्तेनोपसङ्क्रान्तः; उपसङ्क्रम्य एकांसमुत्तरासङ्गं कृत्वा येन भगवांस्तेन अञ्जलिं प्रणमय्य त्रिरात्मनो नामधेयमनुश्रावयति: राजाहमस्मि भदन्त मागधः श्रेण्यो बिम्बिसारः; राजाहमस्मि भदन्त मागधः श्रेण्यो बिम्बिसारः; एवमेतन्महाराज, एवमेतत्; राजा त्वं महाराज मागधः श्रेण्यो बिम्बिसारः; राजा त्वं महाराज मागधः श्रेण्यो बिम्बिसारः; निषीद त्वं महाराज यथास्वके आसने; अथ राजा मागधः श्रेण्यो बिम्बिसारो भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषण्णः; एके मागधका ब्राह्मणगृहपतयो भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषण्णाः; एके भगवता सार्धं संमुखं संमोदनीं संरञ्जनीं विविधां कथां (१५५) व्यतिसार्य एकान्ते निषण्णाः; एके येन भगवांस्तेनाञ्जलिं प्रणमय्य एकान्ते निषण्णाः; एके भगवन्तं दूरादेव दृष्ट्वा तुष्णीमेकान्ते निषण्णाः ______________________________________________________________ उरुबिल्वाकाश्यप अन्द्थे बुद्ध चोन्fरोन्त् तेन खलु समयेन आयुष्मानुरुबिल्वाकाश्यपस्तस्यामेव पर्षदि सन्निषण्णः सन्निपतितः; अथ मागधकानां ब्राह्मणगृहपतीनामेतदभवत्: किं नु महाश्रमण उरुबिल्वाकाश्यपस्य जटिलस्यान्तिके ब्रह्मचर्यं चरत्याहोस्विदुरुबिल्वाकाश्यप एव जटिलो महाश्रमणस्यान्तिके ब्रह्मचर्यं चरति? अथ भगवान्मागधकानां ब्राह्मणगृहपतीनां चेतसा चित्तमाज्ञाय आयुष्मन्तमुरुबिल्वाकाश्यपं गाथाभिर्गीतेन प्रश्नं पृच्छति स्म: दृष्ट्वेह किं त्वमुरुबिल्ववासिन् अग्नीनहासीर्व्रतमेव चार्षम् । आचक्ष्व मे काश्यप एतमर्थं कथं प्रहीणं हि तवाग्निहोत्रम् ॥ अन्नानि पानानि तथा रसांश्च कामान् स्त्रियश्चैव वचन्ति हैके । तावन्मलानुपधौ संप्रपश्यन् तस्मान्न इष्टे न हुते रतोऽहम् ॥ न तेऽत्र कामेषु मनो रतं चेद् अन्नेषु पानेषु तथा रसेषु । कथं नु ते देवमनुष्यलोके रतं मनः काश्यप ब्रूहि पृष्टः ॥ दृष्ट्वा पदं निरुपधि शान्तमग्र्यं आकिञ्चन्यं सर्वभावेष्वसक्तम् । अनन्यथीभावमनन्यनेयं तस्मान्न इष्टे न हुते रतोऽहम् ॥ यज्ञैर्व्रतैरग्निभिश्चापि मोक्षः इत्यप्यभून्मे मनसो वितर्कः । अन्धोऽस्मि जातिमरणानुसारी (१५६) अनीक्ष्मानोऽच्युतमुत्तमं पदम् ॥(अ ४०६ ) पश्यामीदानीं तदसंस्कृतं पदं सुदेशितं नागवरेण तायिना । महाजनार्थाय मुनिर्विनायकस् त्वमुद्गतो गौतम सत्यविक्रमः ॥ भगवानाह स्वागतं ते व्यवसितं नैतद्दुश्चिन्तितं त्वया । प्रविभक्तेषु धर्मेषु यच्छ्रेष्ठं तदुपागम ॥ संवेजय काश्यप पर्षदमिति । ______________________________________________________________ थे त्wइन्मिरच्ले ओf उरुबिल्वाकाश्यप अथ आयुष्मानुरुबिल्वाकाश्यपो भगवता कृतावकाशस्तक्रूपं समाधिं समापन्नो, यथा <स्वस्मिन्नासनेऽन्तर्हितः> समाहिते चित्ते पूर्वस्यां दिशि समभ्युद्गम्य चतुर्विधमीर्यापथं कल्पयति; तद्यथा, चङ्क्राम्यते, निषीदति, तिष्ठति शय्यां कल्पयति; तेजोधातुमपि समापद्यते; तेजोधातुसमापन्नस्य आयुष्मत उरुबिल्वाकाश्यपस्य विविधान्यर्चींषि कायान्निश्चरन्ति; तद्यथा नीलानि, पीतानि, लोहितान्य्, अवदातानि, माञ्जिष्ठानि, स्फटिकवर्णानि; यमकान्यपि प्रातिहार्याणि विदर्शयति; अधःकायः प्रज्वलति; उपरिमात्कायाच्छीतला वारिधारा स्यन्दते; उपरिमः कायः प्रज्वलति; अधःकायाच्छीतला वारिधारा स्यन्दते; यथा पूर्वस्यां दिश्येवं दक्षिणस्यां, पश्चिमायाम्, उत्तरस्यां दिशि; इति चतुर्दिशं चतुर्विधमृद्धिप्रातिहार्यं विदर्श्य तानृद्ध्यभिसंस्कारान् प्रतिप्रस्रभ्य येन भगवांस्तेन अञ्जलिं प्रणमय्य भगवन्तमिदमवोचत्; शास्ता मे भगवान् श्रावकोऽहं भगवतः; शस्ता मे भगवान् श्रावकोऽहं भगवतः; एवमेतत्काश्यप, <एवमेतत्काश्यप>, श्रावकस्त्वं मम शास्ता तेऽहं काश्यप; श्रावकस्त्वं मम; निषीद त्वं (१५७) काश्यप यथास्वके आसने; अथायुष्मानुरुबिल्वाकाश्यपो भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषण्णः; अथ मागधकानां ब्राह्मणगृहपतीनामेतदभवत्: न हैव महाश्रमण उरुबिल्वाकाश्यपस्य जटिलस्यान्तिके ब्रह्मचर्यं चरति; अपि तु उरुबिल्वाकाश्यप एव जटिलो महाश्रमणस्यान्तिके ब्रह्मचर्यं चरतीति ______________________________________________________________ थे सेर्मोनोf थे बुद्ध ओन् थे प्रोदुच्तिओनन्द्पस्सिन्गwअय्ब्य्देपेन्देन्चे तत्र भगवान् राजानं मागधं श्रेण्यं बिम्बिसारमामन्त्रयते: रूपं महाराज उत्पद्यतेऽपि; व्ययतेऽपि; तस्योत्पादोऽपि वेदितव्यः, व्ययोऽपि; वेदना संज्ञा संस्कारा विज्ञानं महाराज उत्पद्यतेऽपि; व्ययतेऽपि; तस्योत्पादोऽपि वेदित्व्यः, व्ययोऽपि; रूपस्य महाराज कुलपुत्र उत्पादव्ययधर्मतां विदित्वा तद्रूपं परिजानाति; वेदनायाः संज्ञायाः संस्काराणां विज्ञानस्य महाराज कुलपुत्र उत्पादव्ययधर्मतां विदित्वा तद्विज्ञानं परिजानाति; रूपं महाराज (अ ४०७ ) कुलपुत्र परिजानन्नोपैति, नोपादत्ते, नाधितिष्ठति, नाभिनिविशति आत्मा मे इति; वेदनां संज्ञां संस्कारान् विज्ञानं महाराज कुलपुत्र परिजानन्नोपैति, नोपादत्ते, नाधितिष्ठति, नाभिनिविशति आत्मा मे इति; रूपं महाराज कुलपुत्र अनुपायन्तमनुपाददानमनधितिष्ठन्तमनभिनिविशन्तमनात्मममायमानमप्रमेयमसङ्ख्येयं निर्वृतमिति वदामि; वेदना संज्ञा संस्कारान् विज्ञानं महाराज कुलपुत्र अनुपायन्तमनुपाददानमनधितिष्ठन्तमनभिनिविशमानमनात्मममायमानमप्रमेयमसङ्ख्येयं निर्वृतमिति वदामि; अथ मागधकानां ब्राह्मणगृहपतीनामेतदभवत्: सति खलु रूपमनात्मा, वेदना संज्ञा संस्कारा विज्ञानमनात्मा; अथ को न्वसौ भविष्यत्यात्मा वा सत्वो जीवो वा जन्तुर्वा पोषो वा पुद्गलो वा मनुजो वा मानवो वा कर्ता वा कारको वा जनको वा संजनको वा उत्थापको वा समुत्थापको (१५८) वा वदको वा वेदको वा <प्रतिसंवेदको वा>, यो न जन्तुर्नाभून्, न भविष्यति; नाप्येतर्हि विद्यते; यस्तत्र कृताकृतानां कल्याणपापकानां कर्मणां विपाकं प्रतिसंवेदयते; य इमांश्च स्कन्धान्निक्षिपत्यन्यांश्च स्कन्धान् प्रतिसंदधाति ______________________________________________________________ थे सेर्मोनोf थे बुद्ध ओन् थे उन्रेअलित्योf थे सेल्f अथ भगवान्मागधकानां ब्राह्मणगृहपतीनां चेतसा चित्तमाज्ञाय भिक्षूनामन्त्रयते स्म; आत्मा आत्मेति भिक्षवो बालोऽश्रुतवान् पृथग्जनः प्रज्ञप्तिमनुपतितो न चात्रास्त्यात्मा नात्मीयं वा; दुःखमिदं भिक्षवः उत्पद्यमानमुत्पद्यते; दुःखमिदं निरुद्ध्यमानं निरुद्ध्यते; संस्कारा उत्पद्यमाना उत्पद्यन्ते; निरुद्ध्यमाना निरुद्ध्यन्ते; तान् हेतूंस्तान् प्रत्ययान् प्रतीत्य सत्वानां संस्कारसन्ततिः प्रवर्तते; संस्कारसन्ततिप्रतिसन्धिं खलु भिक्षवस्तथागतो विदित्वा सत्वानां च्युत्युपपादं प्रज्ञापयति; पश्याम्यहं भिक्षवो दिव्येन चक्षुषा विशुद्धेनातिक्रान्तमानुषेण सत्वान्; पश्यामि च्यवमानानप्युपपद्यमानानपि सुवर्णानपि, दुर्वर्णानपि, हीनानपि, प्रणीतानपि, सुगतिमपि गच्छतो, दुर्गतिमपि गच्छतः; यथाकर्मोपगान् सत्वान् यथाभूतान् प्रजानामि; अमी भवन्तः सत्वाः कायदुश्चरितेन समन्वागता वाङ्मनोदुश्चरितेन समन्वागता आर्याणामपवादकाः, मिथ्यादृष्टयः मिथ्यादृष्टिकर्मधर्मसमादानहेतोस्तद्धेतुतत्प्रत्ययं कायस्य भेदात्परं मरणादपायदुर्गतिविनिपातं नरकेषूपपद्यन्ते; अमी वा पुनर्भवन्तः सत्वाः कायसुचरितेन (अ ४०७ ) समन्वागता वाङ्मनस्सुचरितेन समन्वागता आर्याणामनपवादकाः सम्यग्दृष्टयः सम्यग्दृष्टिकर्मधर्मसमादानहेतोस्तद्धेतुतत्प्रत्ययं कायस्य भेदात्सुगतौ स्वर्गलोके देवेषूपपद्यन्ते; एवं चाहं भिक्षवो जानाम्येवं पश्यामि; न चाहमेवं वदाम्ययं मे आत्मा वा सत्वो वा जीवो वा जन्तुर्वा पोषो वा पुद्गलो वा मनुजो वा मानवो वा कर्ता वा कारको वा जनको वा संजनको वा उत्थापको वा समुत्थापको वा वदको वा वेदको वा प्रतिसंवेदको वा, यो न जन्तुर्नाभून्न भविष्यति, नाप्येतर्हि विद्यते; यस्तत्र कृताकृतानां कल्याणापापकानां कर्मणां विपाकं प्रतिसंवेदयते; इमांश्च स्कन्धान्निक्षिपत्यन्यांश्च स्कन्धान् प्रतिसन्दधाति, नान्यत्र धर्मसङ्केतात्; तत्रायं धर्मसङ्केतो यदुतास्मिन् सतीदं भवति; (१५९) अस्योत्पादादिदमुत्पद्यते; यदुताविद्याप्रत्ययाः संस्काराः; संस्कारप्रत्ययं विज्ञानम्; विज्ञानप्रत्ययं नामरूपम्; नामरूपप्रत्ययं षडायतनम्; षडायतनप्रत्ययः स्पर्शः; स्पर्शप्रत्यया वेदना; वेदनाप्रत्यया तृष्णा; तृष्णाप्रत्ययमुपादानम्; उपादानप्रत्ययो भवः; भवप्रत्यया जातिः; जातिप्रत्यया जरामरणशोकपरिदेवदुःखदौर्मनस्योपायासाः संभवन्ति; एवमस्य केवलस्य महतो दुःखस्कन्धस्य समुदयो भवति; यदुतास्मिन् सतीदं भवति; अस्य निरोधादिदं निरुद्ध्यते; यदुताविद्यानिरोधात्संस्कारनिरोधः; संस्कारनिरोधाद्विज्ञाननिरोधः; विज्ञाननिरोधान्नामरूपनिरोधः; नामरूपनिरोधात्षडायतननिरोधः; षडायतननिरोधात्स्पर्शनिरोधः; स्पर्शनिरोधाद्वेदनानिरोधः; वेदनारिरोधात्तृष्णानिरोधः; तृष्णानिरोधादुपादाननिरोधः; उपादाननिरोधाद्भवनिरोधः; भवनिरोधाज्जातिनिरोधः; जातिनिरोधाज्जरामरणशोकपरिदेवदुःखदौर्मनस्योपायासा निरुद्ध्यन्ते; एवमस्य केवलस्य महतो दुःखस्कन्धस्य निरोधो भवति; इति हि भिक्षवो दुःखाः संस्काराः; शान्तं निर्वाणाम्; हेतुसमुदयाद्दुःखसमुदयः; हेतुनिरोधाद्दुःखनिरोधः; छिन्नं वर्त्म न प्रवर्तते; अप्रतिसन्धि निरुद्ध्यते; एष एवान्तो दुःखस्य; तत्र भिक्षवः कः परिनिर्वृतो नान्यत्र दुःखं, तन्निरुद्धं; तद्व्युपशान्तं, (अ ४०८ ) तच्छीतीभूतम्; शान्तमिदं भिक्षवः पदं यदुत सर्वोपधिप्रतिनिःसर्गः, तृष्णाक्षयो विरागो निरोधो निर्वाणम् ______________________________________________________________ थे चोन्वेर्सिओनोf बिम्बिसार तत्र भगवान् द्विरपि राजानं मागधं श्रेण्यं बिम्बिसारमामन्त्रयते: किं मयसे महाराज रूपं नित्यं वा अनित्यं वा? अनित्यमिदं भदन्त; यत्पुनरनित्यं दुःखं वा तन्न वा दुःखम्? दुःखमिदं भदन्त; यत्पुनरनित्यं दुःखं विपरिणामधर्मि; अपि नु तच्छ्रुतवानार्यश्रावक आत्मत उपगच्छेदेतन्मम, एषोऽहमस्मि, एष मे आत्मेति? नो भदन्त; किं महाराज वेदना संज्ञा संस्कारा विज्ञानं नित्यं वा अनित्यं वा? अनित्यमिदं भदन्त; यत्पुनरनित्यं दुःखं वा तन्न वा दुःखम्; दुःखमिदं भदन्त; यत्पुनरनित्यं दुःखं विपरिणामधर्मि; अपि नु तच्छ्रुतवानार्यश्रावक आत्मत उपगच्छेदेतन् (१६०) मम, एषोऽहमस्मि, एष मे आत्मेति? नो भदन्त; तस्मात्तर्हि ते महाराज यत्किंचिद्रूपमतीतानागतप्रत्युत्पन्नमाध्यात्मिकं वा बाह्यं वा ओदारिकं वा सूक्ष्मं वा हीनं वा प्रणीतं वा, यद्वा दूरे, यद्वा अन्तिके, तत्सर्वं नैतन्मम नैषोऽहमस्मि, नैष मे आत्मेत्येवमेतद्यथाभूतं सम्यक्प्रज्ञया द्रष्टव्यम्; तस्मात्तर्हि महाराज या काचिद्वेदना संज्ञा संस्कारा यत्किंचिद्विज्ञानमतीतानागतप्रत्युत्पन्नमाध्यात्मिकं वा, बाह्यं वा, ओदारिकं वा, सूक्ष्मं वा, हीनं वा, प्रणीतं वा, यद्वा दूरे, यद्वा अन्तिके, तत्सर्वं नैतन्मम, नैषोऽहमस्मि, नैष मे आत्मेत्येवमेतद्यथाभूतं सम्यक्प्रज्ञया द्रष्टव्यम्; एवंदर्शी महाराज श्रुतवानार्यश्रावकः रूपादपि निर्विद्यते; वेदनायाः संज्ञाया संस्कारेभ्यो विज्ञानादपि निर्विद्यते; निर्विण्णो विरज्यते; विरक्तो विमुच्यते; विमुक्तस्य विमुक्तमेव ज्ञानदर्शनं भवति; क्षीणा मे जातिर्, उषितं ब्रह्मचर्यम्; कृतं करणीयं, नापरमस्माद्भवं प्रजानामीति अस्मिन् खलु धर्मपर्याये भाष्यमाणे राज्ञो मागधस्य श्रेण्यस्य बिम्बिसारस्य विरजो विगतमलं धर्मेषु धर्मचक्षुरुत्पन्नम्; अशितेश्च देवतासहस्राणाम्, अनेकेषां च ब्राह्मणगृहपतिशतसहस्राणाम्; अथ राजा मागधः श्रेण्यो बिम्बिसारो दृष्टधर्मा प्राप्तधर्मा विदितधर्मा पर्यवगाढधर्मा तीर्णकाङ्क्षस्तीर्णविचिकित्सोऽपरप्रत्ययोऽनन्यनेयः शास्तुश्शासने धर्मेषु वैशारद्यप्राप्त उत्थायासनादेकांसमुत्तरासङ्गं कृत्वा येन भगवांस्तेनाञ्जलिं प्रणमय्य भगवन्तमिदमवोचत्: अभिक्रान्तोऽहं भदन्ताभिक्रान्तः; एषोऽहं भगवन्तं शरणं गच्छामि, धर्मं च, भिक्षुसङ्घं च; उपासकं च मां धारयाद्याग्रेण यावज्जीवं प्राणोपेतं शरणागतम्, अभिप्रसन्नम्; आगच्छतु भगवान् राजगृहम्; अहं (अ ४०८ ) भगवन्तमुपस्थास्यमि यावज्जीवं चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः सार्धं भिक्षुसङ्घेनेति; अधिवासयति भगवान् राज्ञो मागधस्य श्रेण्यस्य बिम्बिसारस्य तूष्णींभावेन; अथ राजा मागधः श्रेण्यो बिम्बिसारो भगवतस्तूष्णींभावेन अधिवासनां विदित्वा, भगवतः पादौ शिरसा वन्दित्वा, भगवतोऽन्तिकात्प्रक्रान्तः भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: किं भदन्त राज्ञा मागधेन श्रेण्येन बिम्बिसारेण सपरिवारेण कर्म कृतं, यस्य कर्मणो विपाकेन भगवतोऽन्तिके सत्यदर्शनं कृतमिति; भगवानाह: बिम्बिसारेणैव (१६१) भिक्षवो राज्ञा सपरिवारेण कर्माणि कृतान्युपचितानि लब्धसंभाराणि परिणतप्रत्ययान्योघवत्प्रत्युपस्थितान्यवश्यंभावीनि; राज्ञा बिम्बिसारेण सपरिवारेण कर्माणि कृतान्युपचितानि कोऽन्यः प्रत्यनुभविष्यति; न भिक्षवः कर्माणि कृतान्युपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ अपि तूपात्तेष्वेव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्यशुभानि च न प्रणश्यन्ति कर्माण्यपि कल्पशतैरपि । सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम् ॥ ______________________________________________________________ थे स्तोर्योf थे किन्ग्कृकि भूतपूर्वं भिक्षव अतीतेऽध्वनि अरनाभी नाम शास्ता लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदमयसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्; स सकलं बुद्धकार्यं कृत्वा निरुपधिशेषे निर्वाणधातौ परिनिर्वृतः; तस्य महाजनकायेन शरीरे शरीरपूजां कृत्वा विविक्तावकाशे पृथिवीप्रदेशे महान् स्तूपः प्रतिष्ठापितः; तेन खलु समयेन कृकिर्नाम राजा चक्रवर्ती अष्टादशभिर्भटबलाग्रकोटिभिरुपरि विहायसा अनुसंयान् तस्य स्तूपस्य समीपमनुप्राप्तः; बुद्धाभिप्रसन्नाभिर्देवताभिस्तस्य चक्ररत्नं विधारितम्; कृकी राजा संलक्षयति: यथैतच्चक्ररत्नमवस्थितं, माहैव मे पुण्यपरिक्षयः स्यादिति; तस्य देवताभिरारोचितम्: महाराज न ते पुण्यपरिक्षयः; किन्त्वरनाभेः सम्यक्संबुद्धस्य एतस्मिन् प्रदेशे स्तूपम्; तेनेदं चक्ररत्नमवस्थितम्; न तस्योपरिष्टाद्गच्छतीति; ततः कृकी राजा अष्टादशभिर्भटबलाग्रकोटिभिः सहावतीर्णो यावत्पश्यति स्तूपमसंमृष्टम्; तेन सपरिवारेण संमृज्य गन्धैर्माल्यैर्धूपैश्चूर्णैर्वाद्यैः पूजां कृत्वा पादयोर्निपत्य सपरिवारेण प्रणिधानं कृतम्: यन्मया एवंविधे सद्भूतदक्षिनीये काराः कृताः, अनेनाहं कुशलमूलेन एवंविधानां गुणानां लाभी स्याम्; एवंविधमेव शास्तारमारागयेयम्, मा विरागयेयमिति; किं मन्यध्वे भिक्षवो योऽसौ तेन कालेन, तेन (अ ४०९ ) समयेन कृकिर्नाम राजाभूच्चक्रवर्ती सपरिवार एष एवासौ राजा बिम्बिसारः तेन कालेन तेन समयेन; यदनेन अरनाभेस्सम्यक्संबुद्धस्य (१६२) स्तूपे सपरिवारेण पूजा कृता, तस्य कर्मणो विपाकेन अनेकानि कल्पकोटीनियुतशतसहस्राणि दिव्यमानुषं च प्रतिविशिष्टं सुखमनुभूतम्; यत्प्रणिधानं कृतमेवंविधानां गुणानां लाभी स्यामिति; तेन ममान्तिके सपरिवारेण सत्यदर्शनं कृतम्; यत्प्रणिधानं कृतमेवंविधमेव शास्तारमारागयेयम्, मा विरागयेयमिति; अहमस्मि भिक्षवो अरनाभिना सम्यक्संबुद्धेन समसमं समजवः, समबलः, समधुरः, समसामान्यप्राप्तः, शास्ता आरागितो न विरागितः; इति हि भिक्षव एकान्तकृष्णानां कर्मणामेकान्तकृष्णो विपाकः, एकान्तशुक्लानामेकान्तशुक्लो, व्यतिमिश्राणां च व्यतिमिश्रः; तस्मात्तर्हि भिक्षव एकान्तकृष्णानि कर्माण्यपास्य व्यतिमिश्राणि च, एकान्तशुक्लेष्वेव कर्मस्वाभोगः करणीयः; इत्येवं वो भिक्षवः शिक्षितव्यं भिक्षवः संशयजाताः सर्वसंशायच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: किं भदन्त आयुष्मता उरुबिल्वाकाश्यपेन कर्म कृतं, येन पञ्चभिः प्रातिहार्यशतैर्विनीतः; नदीगयाकाश्यपौ तु अल्पकृच्छ्रेण विनीताविति; भगवानाह: एभिरेव भिक्षवः कर्माणि कृतान्युपचितानि लब्धसंभाराणि पूर्ववद्यावत्फलन्ति खलु देहिनां ______________________________________________________________ थे स्तोर्योf थे थ्रेए सोन्सोf अ गृहपति भूतपूर्वं भिक्षवः अस्मिन्नेव भद्रके कल्पे विंशतिवर्षसहस्रायुषि प्रयाजां काश्यपो नाम शास्ता लोक उदपादि तथागतोऽर्हन् सम्यक्संबुद्धो विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्; स वाराणसीनगरीमुपनिश्रित्य विहरति ऋषिवदने मृगदावे; स सकलं बुद्धकार्यं कृत्वा इन्धनक्षयादिवाग्निर्निरुपधिशेषे निर्वाणधातौ परिनिर्वृतः; तस्य कृकिना राज्ञा सर्वगन्धकाष्ठैश्चितां चित्वा शरीरं ध्यापितम्; सा चिता क्षीरेण निर्वापिता; तान्यस्थीनि चतूरत्नमये कुम्भे प्रक्षिप्य विविक्तावकाशे पृथिवीप्रदेशे शारीरः स्तूपः प्रतिष्ठापितः, योजनमुच्छ्रायेण अर्धयोजनं विस्तारेण; तेन खलु समयेन वाराणस्यामन्यतमो गृहपतिराढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी; तेन सदृशात्कुलात्कलत्रमानीतम्; स (१६३) तया सार्धां क्रीडति रमते परिचारयति; तस्य क्रीडतो रममाणस्य परिचारयतः क्रमशः त्रयः पुत्रा जाताः; यावदसौ गृहपतिर्ग्लान्यं पतितः; स उपस्थीयते मूलगन्धपत्रपुष्पफलभैषज्यैः; न चासौ व्याधिरुपशमं गच्छति; स कालधर्मणा संयुक्तः; ततस्तैः पुत्रैर्नीलपीतलोहितावदातैर्वस्त्रैः (अ ४०९ ) शिबिकामलङ्कृत्य श्मशानं नीत्वा ध्यापितः; शोकविनोदनं कृत्वा पितुश्च पितृकार्याणि द्रव्यविभागसञ्जल्पं कर्तुमारब्धाः; ज्येष्ठो भ्राता कथयति: द्रव्यं विभजाम इति; तौ कनीयांसौ भ्रातरौ नेच्छतः; स निर्बन्धं कर्तुमारब्धः; तौ कथयतः: यद्येवं पारलौकिकं पथ्यदनं गृह्णीमः; पश्चाद्विभागं करिष्याम इति; स कथयति: किं कुर्मः? तौ कथयतः: काश्यपस्य सम्यक्संबुद्धस्य पूजामिति; स दुःश्रद्दधानः; तेन कृच्छ्रेण प्रतिज्ञातम्; ततस्ते काश्यपस्य सम्यक्संबुद्धय्स पूजां कृत्वा प्रणिधानं कर्तुमारब्धाः; द्वाभ्यामेवं प्रणिधानं कृतम्: अनेन कुशलमूलेन योऽसौ भगवता काश्यपेन सम्यक्संबुद्धेन उत्तरो नाम माणवो व्याकृतः भविष्यसि त्वं माणव वर्षशतायुषि प्रजायां शाक्यमुनिर्नाम तथागतोऽर्हन् सम्यक्संबुद्ध इति, तस्यावां शासने प्रव्रजेव विशेसं चाधिगच्छाव इति; तयोः प्रणिधानं श्रुत्वा स ज्येष्ठो भ्राता पादयोर्निपत्य प्रणिधानं कर्तुमारब्धः; अहं खतुंको दुःश्रद्दधानश्च; अनेन कुश्लमूलेन ममाप्यसौ शाक्यमुनिः पञ्चभिः प्रातिहार्यशतैः विनीयात्, प्रव्राजयेत्; प्ररजितश्च विशेषमधिगच्छेयमिति; किं मन्यध्वे भिक्षवः योऽसौ ज्येष्ठो भ्राता खटुंकः दुःश्रद्दधानः एष एवासौ उरुबिल्वाकाश्यपः; यौ तौ कनीयांसौ भ्रातरौ एतावेतौ नदीगयाकाश्यपौ; तत्प्रणिधानवशादुरुबिल्वाकाश्यपः पञ्चभिः प्रातिहार्यशतैर्विनीतः नदीगयाकाश्यपौ तु अल्पकृच्छ्रेण विनीतौ ______________________________________________________________ थे स्तोर्योf कलन्दकनिवाप यदा राजा बिम्बिसारः कुमारो भवति, तदा राजगृहेऽन्यतमो गृहपतिः; तस्यारामः पुष्पफलसलिलसंपन्नः; स तत्रात्यर्थम् (१६४) अध्यवसितः; यावद्बिम्बिसारेण बहिर्निर्गतेन तदुद्यानं दृष्टम्; सोऽत्यर्थमध्यवसितः कथयति: गृहपते प्रयच्छ ममैतदुद्यानमिति; स नानुप्रयच्छति; पुनरप्युपप्रदानेनाभिहितः; स कथयति: कुमार, काममहं देशपरित्यागं कुर्यां, न चोद्यानं दद्यामिति; बिम्बिसारः कुमारः कथयति: गृहपते स्मर्तव्यं ते वाक्यम्; यदा अहं राजा भविष्यामि, तदा स्वयमेव ग्रहीष्यामीति; स कथयति: यदा त्वं राजा भविष्यसि, तदा अहं राजगृहात्प्रक्रमिष्यामीति; बिम्बिसारः कुमारो हुमिति कृत्वा प्रक्रान्तः; यावदपरेण समयेन महापद्मो राजा कालगतः; बिम्बिसारः कुमारो राज्ये प्रतिष्ठापितः तेन तदुद्यानं हठात्गृहीतम्; स गृहपतिर्हृद्रोगं पतितः, तस्मिन्नुद्याने अत्यर्थमध्यवसितः, कालगतः; स तत्रैव आशीविष उत्पन्नः; स राज्ञोऽभीक्ष्णं रन्ध्रान्वेषणतत्परोऽवतिष्ठते; यावद्राजा बिम्बिसारः संप्राप्ते वसन्तकालसमये पुष्पितेषु पादपेष्वन्तःपुरसहीयस्तदुद्यानं निर्गतः; स तत्र निष्पुरुषेण अन्तःपुरजनेन सार्धं रतिक्रीडां प्रत्यनुभूय मिद्धमवक्रान्तः; पुष्पफललोलुपो मातृग्रामः समन्तात्पर्यटितुमारब्धः; एका स्त्री खड्गं राज्ञ आरक्षिका स्थापिता ..................................................... (अ ४१० ) राज्ञः पुण्यानुभावात्कलन्दका नाम पक्षिणः; तैस्तमाशीविषं परिवार्य कलकलाशब्दः कृतः; यं श्रुत्वा असिधारिण्या स्त्रिया खद्गेन जीविताद्व्यपरोपितः; सन्त्रस्तया च महान् शब्दः कृतः; ततो राजा सन्त्रस्तो विबुद्धः कथयति, किमेतदिति; तया स्त्रियाभिहितम्: देव एष आशीविषः देवं दष्टुमबिसंप्रस्थितः कलन्दकैः पक्षिभिः कोलाहलशब्दः कृतः मया जीविताद्व्यपरोपित इति; राज्ञस्तामवस्थां प्रतिश्रुत्य कुमारभटबलाग्रः राजगृहनिवासी जनकायः सन्निपतितः; अन्तर्बहिस्तदुद्यानं महता कोलहलशब्देन क्षोभितुमारब्धम्; प्रजावत्सलो (१६५) राजा; भूयसा अन्तःपुरजनकायोऽश्रुपर्याकुलेक्षणो व्यवस्थितः; ततो राजा कथयति: भवन्तो यो राजानं क्षत्रियं मूर्धाभिषिक्तं जीवितेनाच्छादयति, कस्तस्य वर इति; जनकायः कथयति: उपार्धं राज्यस्येति; राजा कथयति: भवन्तः कलन्दकैः पक्षिभिर्मम जीवितं दत्तम्; तदेभ्यो दत्तमुपार्धं राज्यस्य इति; अमात्याः कथयन्ति: देव पक्षिण एते तिर्यग्योनिगताः; किमेषामुपार्धराज्येन; यस्मिन्नेते वेणुवने प्रतिवसन्ति तत्रैषां निवापः प्रज्ञप्यतामिति; राजा कथयति: एवं क्रियतामिति; तदुद्यानं वेणुवनपरिवेष्टितम्; अमात्यैस्तेषां वेणुवनसामन्तके निवापः प्रज्ञप्तः; तस्य वेणुवनं कलन्दकनिवाप इति संज्ञा संवृत्ता; राज्ञो बिम्बिसारस्य मातुल आजीविकानां मध्ये प्रव्रजितः; तेन तदुद्यानं तस्मै निवासाय दत्तं ______________________________________________________________ बिम्बिसार प्रेसेन्त्स्वेणुवन तो थे बुद्ध यावद्भगवान्मगधेषु जनपदेषु चारिकां चरन् राजगृहमनुप्राप्तोऽन्यतमस्मिन् वृक्षमूलेऽवस्थितः; अश्रौशीद्राजा मागधः श्रेण्यो बिम्बिसारः, भगवान्मागधेसु जनपदेषु चारिकां चरन् राजगृहमनुप्राप्तोऽन्यतमस्मिन् वृक्षमूलेऽवतिष्ठतीति; श्रुत्वा च पुनर्महत्या राजऋद्ध्या, महता राजानुभावेन, राजगृहान्निष्क्रम्य येन भगवांस्तेनोपसङ्क्रान्तः; उपसङ्क्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषण्णः; एकान्तनिषण्णं राजानं मागधं श्रेण्यं बिम्बिसारं भगवान् रम्यया कथया सन्दर्शयति, समादापयति, समुत्तेजयति, संप्रहर्षयति; अनेकपर्यायेण धर्म्यया कथया सन्दर्श्य समादाप्य समुत्तेज्य संप्रहर्ष्य तूष्णीम्; अथ राजा मागधः श्रेण्यो बिम्बिसार <उत्थायासनादेकांशमुत्तरासन्गं कृत्वा येन भगवांस्तेनाञ्जलिं प्रणमय्य भगवन्तमिदमवोचत्: अधिवासयतु मे भगवांश्श्वोऽन्तर्गृहे भक्तेन सार्धं भिक्षुसङ्घेन: अधिवासयति भगवान् राज्ञो मागधस्य श्रेण्यस्य बिम्बिसारस्य तूष्णिम्भावेन;> अथ राजा मागधः श्रेण्यो बिम्बिसारो भगवतस्तूष्णींभावेनाधिवासनां विदित्वा, भगवतः पादौ शिरसा वन्दित्वा उत्थायासनात्प्रक्रान्तः; राजा मागधः श्रेण्यो बिम्बिसारस्तामेव रात्रिं शुचि प्रणीतं खादनीयभोजनीयं समुदानीय कल्यमेवोत्थायासनानि प्रज्ञप्य उदकमणीन् प्रतिष्ठाप्य भगवतो दूतेन कालमारोचयति: समयो (१६६) भदन्त; सज्जं भक्तं यस्येदानीं कालं मन्यते इति; अथ (अ ४१० ) भगवान् पूर्वाह्णे निवास्य, पात्रचीवरमादाय भिक्षुगणपरिवृतो भिक्षुसङ्घपुरस्कृतो येन राज्ञो मागधस्य श्रेण्यस्य बिम्बिसारस्य निवासस्तेनोपसङ्क्रान्तः; उपसंक्रम्य पुरस्ताद्भिक्षुसङ्घस्य प्रज्ञप्त एवासने निषण्णः; अथ राजा मागधः श्रेण्यो बिम्बिसारः सुखोपनिषण्णं बुद्धप्रमुखं भिक्षुसङ्घं विदित्वा शुचिना प्रणीतेन खादनीयभोजनीयेन स्वहस्तं सन्तर्पयति, संप्रवारयति; अनेकपर्यायेण शुचिना प्रणीतेन खादनीयभोजनीयेन स्वहस्तं सन्तर्प्य संप्रवार्य, भगवन्तं भुक्तवन्तं विदित्वा धौतहस्तमपनीतपात्रं सौवर्णं भृङ्गारं गृहीत्वा तदुद्यानं भगवते निर्यातयति: इदं भदन्त वेणुवनं, कलन्दकनिवापम्; अत्र भगवान् विहरतु यथासुखमिति; तथा स्थविरैरपि सूत्रान्तेषूपनिबद्धं, भगवान् राजगृहे विहरति वेणुवने कलन्दकनिवाप इति ______________________________________________________________ अनाथपिण्डद मेएत्स्थे बुद्ध तेन खलु समयेन भगवान् राजगृहे विहरति वेणुवने कलन्दकनिवापे; राजगृहेऽन्यतमो गृहपतिः; तेन भगवान् गृहे उपनिमन्त्रितः सार्धं भिक्षुसङ्घेन; तस्मिंश्च समये अनाथपिण्डदो गृहपतिः राजगृहमनुप्राप्तः केनचिदेव करणीयेन; स तस्य गृहपतेर्निवेशने रात्रिं वासमुपगतः; अथ स गृहपतिः सरात्रमेवोत्थायान्तर्जनमामन्त्रयते: उत्तिष्ठत आर्या उत्तिष्ठत भद्रमुखाः; कष्ठानि पाटयत; समिधं प्रज्वालयत; भक्तं पचत; सूपिकं पचत; खाद्यकान्युल्लाडयत; प्रतिजागृत मण्डलवाटमिति; अथानाथपिण्डदस्य गृहपतेरेतदभवत्: किं पुनरस्य गृहपतेरावाहो वा भविष्यति, विवाहो वा, राष्ट्रं वा, श्रेणी वा, पूगा वा पर्षदो वा राजा <वा> अनेन मागधः श्रेण्यो बिम्बिसारः श्वोऽन्तर्गृहे भक्तेन निमन्त्रितो भविष्यति; इति विदित्वा तं गृहपतिमिदमवोचत्: किं पुनस्ते गृहपते आवाहो वा भविष्यति विवाहो वा राष्ट्रं वा श्रेणी वा पूगा वा पर्षदो वा राजा वा ते मागधः श्रेण्यो बिम्बिसारः श्वोऽन्तर्गृहे भक्तेनोपनिमन्त्रितः? न मे गृहपते आवाहो, न विवाहो, न राष्ट्रं, न श्रेणी, न पूगा, नापि पर्षदो, नापि राजा मागधः श्रेण्यो बिम्बिसारः श्वोऽन्तर्गृहे भक्तेनोपनिमन्त्रितः; अपि तु बुद्धप्रमुखो भिक्षुसङ्घोऽन्तर्गृहे भक्तेनोपनिमन्त्रितः; (१६७) अनाथपिण्डदस्य गृहपतेर्बुद्ध इत्यश्रुतपूर्वं घोषं श्रुत्वा सर्वरोमकूपान्याहृष्टानि; स आहृष्टरोमकूपस्तं गृहपतिमिदमवोचत्: क एष गृहपते बुद्धो नाम; अस्ति गृहपते श्रमणो गौतमः शाक्यपुत्रः शाक्यकुलात्केशश्मश्र्ववतार्य काषायाणि वस्त्राण्याच्छाद्य सम्यगेव श्रद्धया अगारादनगारिकां प्रव्रजितः; सोऽनुत्तरां सम्यक्संबोधिम् (अ ४११ ) अभिसंबुद्धः; स एष गृहपते बुद्धो नाम; क एष गृहपते सङ्घो नाम; सन्ति गृहपते क्षत्रियकुलादपि कुलपुत्राः केशश्मश्र्ववतार्य काषायाण्य्<वस्त्राण्य्> आच्छाद्य सम्यगेव श्रद्धया <अगारादनागरिकां> तमेव भगवन्तं प्रव्रजितमनुप्रव्रजिताः; ब्राह्मणकुलादपि वैश्यकुलादपि शूद्रकुलादपि कुलपुत्राः केशश्मश्र्ववतार्य काषायाणि वस्त्राण्याच्छाद्य सम्यगेव श्रद्धया <अगारादनागारिकां> तमेव भगवन्तं प्रव्रजितमनुप्रव्रजिताः; स एष गृहपते सङ्घो नाम; श्वः स मया बुद्धप्रमुखो भिक्षुसङ्घोऽन्तर्गृहे भक्तेनोपनिमन्त्रितः; कुत्र गृहपते स भगवानेतर्हि विहरति? अस्मिन्नेव राजगृहे शीतवने श्मशाने; लभ्यं गृहपते सोऽस्माभिर्भगवान् द्रष्टुम्; तेन हि गृहपते आगमय तावत्त्वम्; स्थानमेतद्विद्यते यदिहागतं श्वो द्रक्ष्यसि; अनाथपिण्ददो गृहपतिस्तां रात्रिं बुद्धालम्बनया स्मृत्या मिद्धमवक्रान्तः; सोऽप्रभाते प्रभातसंज्ञी येन शिविकाद्वारं तेनोपसङ्क्रान्तः; तेन खलु समयेन शिविकाद्वारं रात्र्या द्वौ यामौ विवृतं तिष्ठति, पूर्वकं पश्चिमकं च, माहैव आगन्तुकानां गमिकानां च दूतानां विघातो भविष्यतीति; यावत्पश्यति शिविकाद्वारं विवृतं तिष्ठति; सालोकेन च स्फुटम्; तस्यैतदभवत्: नूनं प्रभाता रजनी; तथाहि शिविकाद्वारं विवृतं तिष्ठति; इति विदित्वा तेनैव आलोकेन नगरान्निष्क्रान्तः; समनन्तरनिष्क्रान्तस्य चास्य य आलोकः सोऽन्तर्हितः; अन्धकारं प्रादुर्भूतम्; तस्याभूद्भयम्; अभूच्छम्भितत्वम्; अभूद्रोमहर्षः; माहैव कश्चिद्विहेठयेन्मनुष्यो वा अमनुष्यो वा धूर्तको वा असंप्राप्तं वा स्वात्प्रभूतं कुलशुल्कमिति; विदित्वा प्रतिनिवर्तितुकामो मधुस्कन्धस्य देवपुत्रस्य स्थण्डिलं प्रदक्षिणीकरोति, नमस्करोति च; अथ मधुस्कन्धदेवपुत्रस्य एतदभवत्: अद्यैवानाथपिण्डदेन गृहपतिना सत्यदर्शनं कर्तव्यम्; अद्यैवायं बुद्धं भगवन्तमपास्य अन्यदेवता नमस्कारं करिष्यति; इति विदित्वा यावच्च शिविकाद्वारं यावच्च शीतवनं श्मशानमत्रान्तरादुदारेणावभासेनावभास्य अनाथपिण्डदं गृहपतिमिदमवोचत्: अभिक्रम गृहपते, मा प्रतिक्रम; अभिक्रमतस्ते श्रेयो भवति, न प्रतिक्रमतः; तत्कस्य हेतोः शतमश्वा शतं निष्काः शतमाश्वतरीरथाः । नानावित्तस्य संपूर्णाः शतं च वडवारथाः ॥ पदाविहारस्यैकस्य कलां नार्हन्ति षोडशीम् । अभिक्रम गृहपते, मा प्रतिक्रम; अभिक्रमतस्ते श्रेयो <भवति>, न प्रतिक्रमतः; तत्कस्य हेतोः? शतं हैमवता नागाः सुवर्णमणिकल्पिताः । ईषादन्ता महाकाया व्यूढवन्तो मतङ्गजाः ॥ पदाविहारस्यैकस्य कलां नार्हन्ति षोडशीम् । अभिक्रम गृहपते, मा प्रतिक्रम; अभिक्रमतस्(अ ४११ ) ते श्रेयो भवति; न प्रतिक्रमतः; तत्कस्य हेतोः शतं काम्बोजिकाकन्याः आमुक्तमणिकुण्डलाः । सुवर्णकेयूरधराः निष्कग्रीवाः स्वलङ्कृताः ॥ पदाविहारस्यैकस्य कलां नार्हन्ति षोडशीम् । अभिक्रम गृहपते, मा प्रतिक्रम; अभिक्रमतस्ते श्रेयो भवति, न प्रतिक्रमतः; अथानाथपिण्डदो गृहपतिस्तं देवपुत्रमिदम् (१६९) अवोचत्: कस्त्वं भद्रमुख; अहमस्मि गृहपते मधुस्कन्धो नाम माणवः, तवैव पुराणो गृहसखः; सोऽहं शारिपुत्रमौद्गल्यायनयोर्भिक्ष्वोरन्तिके चित्तमभिप्रसाय <कालगतः> चातुर्महाराजिकेषु देवेषूपपन्नः, अस्मिन्नेव शिविकाद्वारे नैवासिकः; तस्मादहमेवं वदामि: अभिक्रम गृहपते मा प्रतिक्रम; अभिक्रमतस्ते श्रेयो भवति, न प्रतिक्रमत इति; अथानाथपिण्डदस्य गृहपतेरेतदभवत्: नावरो बुद्धो भविष्यति, नावरं धर्माख्यानं, यत्रेदानीं देवता अपि औत्सुक्यमापद्यन्ते तस्य भगवतो दर्शनाय; इति विदित्वा येन शीतवनं श्मशानं तेनोपसङ्क्रान्तः; तेन खलु समयेन बहिर्विहारस्याभ्यवकाशे भगवान् चङ्क्रमे चङ्क्रम्यते यद्भूयसा अनाथपिण्डदं गृहप्तिमागमयमानः; अद्राक्षीतनाथपिण्डदो गृहपतिर्भगवन्तं दूरादेव; दृष्ट्वा च पुनर्येन भगवांस्तेनोपसङ्क्रान्तः; उपसङ्क्रम्य भगवन्तं गृहपतिः प्रतिसंमोदनया प्रतिसंमोदते: कच्चिद्भगवान् सुखं शायित इति; अथ भगवांस्तस्यां वेलायां गाथा भाषते; सर्वथा वै सुखं शेते ब्राह्मणः परिनिर्वृतः । लिप्यते यो न कामैर्हि विप्रमुक्तो निरुपधिः ॥ छित्वेह सर्वमाशक्तिं विनीय हृदयज्वरम् । उपशान्तः सुखं शेते शान्तिप्राप्तेन चेतसा ॥ अथ भगवाननाथपिण्डदं गृहपतिमादाय विहारं प्रविश्य प्रज्ञप्त एवासने निषण्णः; अनाथपिण्ददो गृहपतिर्भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषण्णण्; एकान्ते निषण्णमनाथपिण्डदं गृहपतिं भगवान् धर्म्यया कथया सन्दर्शयति समादापयति <समुत्तेज्यति>, संप्रहर्षयति; यासौ बुद्धानां भगवतां पूर्वकालकरणीया धर्म्या कथा, तद्यथा दानकथा शीलकथा स्वर्गकथा कामानामश्वादादीनवसङ्क्लेशव्यवदाननैष्क्रम्यप्रविवेके अनुशंसव्यवदानपक्ष्यान् धर्मान् विस्तरेण संप्रकाशयति; यदा चैनं भगवानद्राक्षीथृष्टचित्तं कल्यचित्तं मुदितचित्तं विनिवरणचित्तं भव्यं प्रतिबलं सामुत्कर्षिकीं धर्मदेशनामाज्ञातुम्, तदा यासौ बुद्धानां भगवतां सामुत्कर्षिकी धर्मदेशना तद्यथा दुःखं समुदयो निरोधो मार्गश्चत्वार्यार्यसत्यानि विस्तरेण संप्रकाशयति; अथानाथपिण्डदो गृहपतिस्तस्मिन्नेवासने निषण्णश्चत्वार्यार्यसत्यान्यभिसमेति; तद्यथा (१७०) दुःखं समुदयो निरोधो मार्गः; तद्यथा शुद्धं वस्त्रमपगतकालकं रञ्जनोपगं रङ्गे प्रक्षिप्तं सम्यगेव रङ्गं प्रतिगृह्णाति, एवमेवानाथपिण्डदो गृहपतिस्तस्मिन्नेव आसने निषण्णश्चत्वार्यार्यसत्यान्यभिसमेति; तद्यथा दुःखं समुदयो निरोधो मार्ग इति; अनाथपिण्डदो (अ ४१२ ) गृहपतिर्दृष्टधर्मा प्राप्तधर्मा विदितधर्मा पर्यवगाढधर्मा तीर्णकाङ्क्षो तीर्णविचिकित्सः अपरप्रत्ययोऽनन्यनेयः शास्तुश्शासने धर्मेषु वैशारद्यप्राप्तः उत्थायासनादेकांसमुत्तरासङ्गं कृत्वा, येन भगवांस्तेनाञ्जलिं प्रणमय्य भगवन्तमिदमवोचत्: अभिक्रान्तोऽहं भदन्ताभिक्रान्तः; एषोऽहं भगवन्तं शरणं गच्छामि धर्मं च भिक्षुसङ्घं च; उपासकं मां च धारय अद्याग्रेण यावज्जीवं प्राणोपेतं शरणागतमभिप्रसन्नम्; अथ भगवाननाथपिण्डदं गृहपतिमिदमवोचत्; किन्नामा त्वं गृहपते? अहमस्मि भदन्त सुदत्तो नाम्ना; अपि त्वनाथेभ्यः पिण्डकमनुप्रयच्छामि; ततो मामनाथपिण्डदो गृहपतिरनाथपिण्डदो गृहपतिरिति जनः सञ्जानीते; कुतोभूमकस्त्वं गृहपते? अस्ति भदन्त प्राचीनेषु जनपदेषु श्रावस्ती नाम कोसलानां निगमः; तत्राहं प्रतिवसामि ______________________________________________________________ अनाथपिण्डद इन्वितेस्थे बुद्ध तो श्रावस्ती आगच्छतु भगवान् श्रावस्तीम्; अहं भगवन्तमुपस्थास्यामि यावज्जीवं चीवरपिण्डपातग्लानप्रत्ययभैषज्यपरिष्कारैः सार्धं भिक्षुसङ्घेन; सन्ति गृहपते विहाराः श्रावस्त्याम्? नो भदन्त; यत्र गृहपते विहाराः सन्ति तत्र भिक्षव आगन्तव्यं गन्तव्यं वस्तव्यं मन्यन्ते; आगच्छतु भगवान्; अहं तथा करिष्यामि यथा श्रावस्त्यां विहारा भविष्यन्ति; भिक्षवश्च आगन्तव्यं गन्तव्यं वस्तव्यं मंस्यन्त इति; अधिवासयति भगवाननाथपिण्डदस्य गृहपतेस्तूष्णींभावेन; अनाथपिण्डदो गृहपतिर्भगवतस्तूष्णींभावेनाधिवासनां विदित्वा भगवतः पादौ शिरसा (१७१) वन्दित्वा भगवतोऽन्तिकात्प्रक्रान्तः; ततोऽस्य यावद्राजगृहे कृत्यं वा करणीयं वा तत्सर्वं कृत्वा परिप्राप्य येन भगवांस्तेनोपसङ्क्रान्तः; उपसङ्क्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषण्णः; एकान्तनिषण्णोऽनाथपिण्डदो गृहपतिर्भगवन्तमिदमवोचत्: अनुप्रयच्छ मे भगवन् भिक्षुं सहायकं येन सहायकेन भगवतोऽर्थाय विहारं कारयामीति; भगवान् संलक्षयति: कतरस्य भिक्षोरनाथपिण्डदो गृहपतिः सपरिवारो <श्रावस्तीनिवासी च जनकायो> विधेय; पश्यति शारिपुत्रस्य भिक्षोः; तत्र भगवानायुष्मन्तं शारिपुत्रमामन्त्रयते: संन्वाहर शारिपुत्र अनाथपिण्डदं गृहपतिम् <सपरिवारं> श्रावस्तीनिवासिनं च जनकायमिति; अधिवासयत्यायुष्मांश्छारिपुत्रो भगवतस्तूष्णींभावेन; अथायुष्मांश्छारिपुत्रो भगवतः पादौ शिरसा वन्दित्वा भगवतोऽनित्कात्प्रक्रानतः ______________________________________________________________ शारिपुत्र लेअवेस्fओर्श्रावस्ती अथायुष्मांश्छारिपुत्रस्तस्या एव रात्रेरत्ययात्पूर्वाहाणे निवास्य पात्रचीवरमादाय राजगृहं पिण्डाय प्राविक्षत्; राजगृहं पिण्डाय चरित्वा कृतभक्तकृत्यः पश्चाद्भक्तपिण्डपातप्रतिक्रान्तो यथापरिभुक्तं शयनासनं प्रतिशमय्य, समादाय पात्रचीवरं, येन श्रावस्ती तेन चारिकां प्रक्रान्तः; अथानाथपिण्डदो गृहपतिः प्रभूतं शम्बलमादाय एकैकरात्रिनिवासेन श्रावस्तीमनुप्राप्तः स प्रविशन्नेव श्रावस्तीमारामेणारामम् (अ ४१२ ) उद्यानेनोद्यानमुपवनेनोपवनं चङ्क्रममनुचङ्क्रम्यमाणो सुविचरन्नेवमाह: कतरः स पृथिवीप्रदेशो भविष्यति श्रावस्त्या नातिदूरे नात्यासन्ने दिवा अल्पाकीर्णोऽल्पविलापो रात्रावल्पशब्दोऽल्पनिर्घोषः अल्पदंशमशकवातातपसरीसृपसंस्पर्शः, यत्राहं भगवतोऽर्थाय विहारं मापयिष्यामीति; अद्राक्षीदनाथपिण्डदो गृहपतिर्जेतस्य कुमरस्यारामं श्रावस्त्या नातिदूरे नात्यासन्ने दिवा अल्पाकिर्णमल्पविलापं रात्रावल्पशब्दमल्पनिर्घोषमल्पदंशमशकवातातपसरीसृपस्पर्शम्; दृष्ट्वा च पुनरस्यैतदभवत्: अत्राहं भगवतोऽर्थाय विहारं मापयिष्यामीति; स प्रविषन्नेव स्वं निवेशनं येन जेतः कुमारस्तेनोपसङ्क्रान्तः; उपसङ्क्रम्य जेतं कुमारमिदमवोचत्: अनुप्रयच्छ मे कुमार आरामम्; (१७२) अहं तत्र भगवतोऽर्थाय विहारं कारयामि इति; स कथयतिटिप्पणीअ मे गृहपते स आरामः; किन्तु उद्यानं तन्मेमेति; द्विरपि त्रिरप्यनाथपिण्डदो गृहपतिर्जेतं कुमारमिदमवोचत्: अनुप्रयच्छ मे कुमार आरामम्; अहं तत्र भगवतोऽर्थाय विहारं मापयामीति; अपरित्यक्तो <गृहपते> मे आरामः कोटिसंस्तरेणापि; पुनरप्यनाथपिण्डदो गृहपतिर्जेतं कुमारमिदमवोचत्: कृतार्घोऽसि कुमार आरामस्य; प्रतीच्छ हिरण्यसुवर्णम्; ममारामः; कः कृतार्घः? त्वं कृतार्घः; तौ कृतार्घो न कृतार्घ इति विवादमापन्नौ, येन व्यावहारिकपुरुषास्तेन संप्रस्थिताः; अत्रान्तरे चतुर्णां लोकपालानामेतदभवत्: अयमनाथपिण्डदो गृहपतिरुद्युक्तो भगवतोऽर्थाय विहारं मापयितुम्; साहाय्यमस्यानुष्ठेयमिति; ततो व्यावहारिकपुरुषमात्मानमभिनिर्माय अर्थाधिकरणे निषण्णाः; अनाथपिण्डदो गृहपतिर्जेतश्च कुमारो व्यावहारिकसकाशमुपसङ्क्रान्तौ; अथानाथपिण्डको गृहपतिर्व्यावहारिकपुरुषाणामेतमर्थं विस्तरेण निवेदयति; ते कथयन्ति: कृतार्घोऽसि कुमार आरामस्य: प्रतीच्छ सुवर्णम्: गृहपतेराराम इति; स तूष्णीमवस्थितः; अनाथपिण्डदो गृहपतिः शकतैर्भारैः मूटैः पिटकैरुष्ट्रैर्गोभिर्गर्द्भैः प्रभूतं सुवर्णमभिनिर्हृत्य, सर्वं जेतवनं संस्तर्तुमारब्धः; न परिसमाप्यते; तिष्ठते एवानास्तीर्णः कश्चित्पृथिवीप्रदेशः; ततः अनाथपिण्डदो गृहपतिरेतमर्थं चिन्तयन्मुहूर्तस्ं तूष्णीमस्थात्: कतरत्तन्निधानं भविष्यति? नातिस्तोकं, नातिप्रभूतं येन अयमनास्तीर्णः पृथिवीप्रदेशः आस्तरिष्यति; न च पुनर्गोपयितव्यो भविष्यतीति; जेतः कुमारः संलक्षयति: नूनमनाथपिण्डद्स्य गृहपतेर्विप्रतिसारः, कस्मादारामकारणादियन्तं महान्तं धनस्कन्धं परित्यजामि; इति विदित्वा अनाथपिण्डदं गृहपतिमिदमवोचत्: सचेत्ते ह गृहपते विप्रतिसारः प्रतीच्छ सुवर्णम्; ममैवारामः; न मे कुमार विप्रतिसारः; अपि त्वहमेतमेवार्थमनुचिन्तयन्मुहूर्तं तूष्णीमवस्थितः; कतरत्तन्निधानं भविष्यति? नातिस्तोकं नातिप्रभूतं, येनायमनास्तीर्णः पृथिवीप्रदेशः आस्तरिष्यति; न च प्र्नर्गोपयितव्यो भविष्यतीति; अथ जेतस्य कुमारस्य एतदभवत्टिप्पणीअ बतावरो (अ ४१३ ) बुद्धो भविष्यति; नावरं धर्माख्यानम्; यत्रेदानीमयं गृहपतिरारामकारणादियन्तं (१७३) महान्तं धनस्कन्धं परित्यजति; इति विदित्वा अनाथपिण्डदं गृहपतिमिदमवोचत्: अनुप्रयच्छ मे गृहपते अनास्तीर्णं पृथिवीप्रदेशम्; अत्राहं भगवतोऽर्थाय द्वारकोष्ठकं मापयामि; अनाथपिण्डदो गृहपतिर्जेतस्य कुमारस्य अनास्तीर्णं पृथिवीप्रदेशमनुप्रयच्छति: यत्र जेतः कुमारो भगवतोऽर्थाय द्वारकोष्ठकं मापयति ______________________________________________________________ ओब्स्त्रुच्तिओन् ब्य्थे तीर्थ्यस् अथानाथपिण्डदो गृहपतिर्भगवतोऽर्थाय विहारं मापयितुमारब्ध इति तीव्रद्वेषपर्याकुलीकृतमनसस्तीर्थ्यास्ते संभूय येनानाथपिण्डदो गृहपतिस्तेनोपसङ्क्रान्ताः; उपसङ्क्रम्य कथयन्ति: मा त्वं गृहपते श्रमणस्य गौतमस्य अर्थायात्र विहारं कारय; किं कारणम्? अस्माभिर्नगराणि भाजितानि; श्रमणस्य गौतमस्य राजगृहम्; अस्माकं श्रावस्ती; स कथयति: भाजितानि युष्माभिर्नगराणि, न तु मदीयं स्वापतेयम्; यस्याभिप्रेतं तस्य धर्मस्कन्धं कारयामीति; ते राज्ञः सकाशं गताः; तत्राप्यनाथपिण्डदेन पराजिताः; ध्वाङ्क्षास्तीर्थ्या अविकृतवदनाः कथयन्ति: गृहपते न ते कामकारमनुप्रयच्छामः; श्रमणस्य गौतमस्याग्रश्रावकः आगतः; च यद्यस्मान् वादेन पराजयते कारय विहारमिति; स कथयति: ओब्ननम्; आर्यशारिपुत्रं तावदवलोकयामीति; अथानाथपिण्डदो गृहपतिर्येनायुष्मान् शारिपुत्रः तेनोपसङ्क्रान्तः; उपसङ्क्रम्यायुष्मतः शारिपुत्रस्य पादौ शिरसा वन्दित्वा एकान्ते निषण्णः; एकान्तनिषण्णोऽनाथपिण्डदो गृहपतिरायुष्मन्तं शारिपुत्रमिदमवोचत्: तीर्थ्या भदन्ते शारिपुत्र एवमाहुः: गृहपते न ते कामकारमनुप्रयच्छामः; श्रमणस्य गौतमस्य अग्रश्रावक आगतः; स यद्यस्मान् वादेन पराजयते, कारय विहारमिति; कथमत्र प्रतिपत्तव्यमिति; आयुष्मान् शारिपुत्रः संलक्षयति: किमेषां सन्ति कानिचित्कुशलमूलानि उत न सन्तीति; पश्यति, सन्ति; कस्यान्तिके प्रतिबद्धानि; ममैव; पुनः संलक्षयति: किमेतावन्त एव मम प्रतिबद्धा विनेया आहोस्विदन्येऽपि वादेन विनेयाः सन्तीति; पश्यति, सन्ति; कियच्चिरेण सन्निपतिष्यन्ति; पश्यति, सप्ताहस्यात्ययादिति; समन्वाहृत्य कथयति: गृहपते एवं भवतु; किं तु सप्तमे दिवसे; ततोऽनाथपिण्डदो गृहपतिः प्रीतिप्रामोद्यजातो येन तीर्थ्यास्तेन उपसङ्क्रान्तह्; उपसङ्क्रम्य (१७४) तीर्थ्यानिदमवोचत्: भदन्त आर्यशारिपुत्रः कथयति: शोभनम्, एवं भवतु; किं तु स्पतमे दिवसे इति; ते संलक्षयन्ति; द्वाभ्यामत्र कारणाभ्यां भवितव्यम्; अथवासौ निष्पलायितुकामः; अथवा पक्षं समन्वेष्टुकामः; किमत्र प्राप्तकालं; वयमपि पक्षं समन्वेषामह इति; ते पक्षं समन्वेष्टुमारब्धाः; तैः पक्षं समन्वेषमानै रक्ताक्षो नाम परिव्राजको दृष्टः; स तैरुक्तः: त्वमस्माकं सब्रह्मचारी; श्रमणस्य गौतमस्याग्रश्रावकोऽस्माभिर्वादेनाहूतः; (अ ४१३ ) स पक्षं समन्वेषते; त्वमस्माकं साहाय्यं कल्पय; कियता कालेन? इतः सप्तमे दिवसे; शोभनम्, एवं भवतु; यदा युष्माकं सन्निपातो भवति तदा ममारोचयितव्यम्; तीर्थ्याः शङ्कितोद्विग्नमनसो दिवसानुदिवसं पक्षं समन्वेषयन्ते; दिवसांश्च गणयन्ति ______________________________________________________________ थे तीर्थ्यसन्द्शारिपुत्र चोन्तेस्त् यावत्सप्तमे दिवसे अनाथपिण्डदेन गृहपतिना विस्तीर्णावकाशे पृथिवीप्रदेशे आसनप्रज्ञप्तिः कारिता; आयुष्मतश्च शारिपुत्रस्यार्थाय सिंहासनं प्रज्ञप्तम्; नानादेशनिवासिनस्तीर्थ्याः सन्निपतिताः; श्रावस्तीनिवासी जनकायः अनेकानि च तत्सामन्तनिवासीनि प्राणिशतसहस्राणि, कानिचिर्कुतूहलजातानि, कानिचित्पूर्वकैः कुशलमूलैः संचोद्यमानानि; तत आयुष्मान् शारिपुत्रोऽनाथपिण्डदेन गृहपतिना सपरिवारेण संपुरस्कृतो वादिमण्डलं प्रविश्य विनेयजनमभिसमीक्ष्य स्मितपूर्वं समशान्तेर्यापथेन सिंहासनमभिरुह्य निषण्णः; सर्वैव सा पर्षदवहितचेतस्का आयुष्मन्तं शारिपुत्रमभिसमीक्षमाणा निषण्णा ______________________________________________________________ देfएअतोf थे तीर्थ्यस् तत आयुष्मान् शारिपुत्रस्तीर्थ्यानामन्त्रयामास: भवन्तः किं तावत्करिष्यथ? आहोसिव्द्विकरिष्यथ? ते कथयन्ति: वयं कुर्मः; त्वां विकुरु; आयुष्मान् शारिपुत्रः संलक्षयति: यद्यहं करिष्यामि; सदेवकोऽपि लोको न शक्ष्यति विकर्तुम्; प्रागेव रक्ताक्षः परिव्राजकः; इति विदित्वा रक्ताक्षं परिव्राजकमिदमवोचत्: त्वं कुरु, अहं विकरिष्यामीति; स इन्द्रजाले कृतावी; तेन सुपुष्पितः (१७५) सहकारपादपो निर्मितः; आयुष्मता शारिपुत्रेण तुमुलो वातवर्ष उत्सृष्टः; येनासौ समूल उत्पाट्य इतश्चामुतश्च विकीर्णो योगिजनानामप्यविषयीभूतः; ततस्तेन पद्मिनी निर्मिता; आयुष्मता शारिपुत्रेण कलभहस्ती निर्मितः; तेन सा समन्तान्मर्दिता; तेन सप्तशीर्षो नागो निर्मितः; आयुष्मता शारिपुत्रेण गरुडो निर्मितः येनासावपहृतः; तेन वेताडो निर्मितः; आयुष्मता शारिपुत्रेण मन्त्रैः कीलितः; कुप्रयुक्तो वेतादा आत्मवधाय चेतयते; स तस्यैवोपरि प्रधावितः; ततोऽसौ भीतस्त्रस्तः संविग्न आहृष्टरोमकूपः आयुष्मतः शारिपुत्रस्य पादयोर्निपतितः: आर्य शारिपुत्र त्रायस्व शरणागतोऽस्मीति; तत आयुष्मता शारिपुत्रेण मन्त्रा उत्कीलिताः; स वेताडो व्युपशान्तः; तस्यायुष्मता शारिपुत्रेण धर्मो देशितः; स प्रसादजातः कथयति: लभेयाहमार्यशारिपुत्र स्वाख्याते धर्मविनये प्रव्रज्यामुपसंपदं भिक्षुभावम्; चरेयमहमार्यशारिपुत्रस्यान्तिके ब्रह्मचर्यमिति; आयुष्मता शारिपुत्रेण स प्रव्राजितः उपसंपादितः; अववादो दत्तः; तेनोद्यच्छमेन घटमानेन व्यायच्छमानेन सर्वक्लेशप्रहाणादर्हत्वं साक्षाकृतम्; अर्हन् संवृत्तः; त्रैधातुकवीतरागः समलोष्टकाञ्चन आकाशपाणितलसमचित्तो वासीचन्दनकल्पो विद्याविदारिताण्डकोशो (अ ४१४ ) विद्याभिज्ञाप्रतिसंवित्प्राप्तो भवलाभलोभपराङ्मुखः, सेन्द्रोपेन्द्राणां देवानां पूज्यो मान्योऽभिवाद्यश्च संवृत्तः; ततः सा पर्षद्विस्मयोत्फुल्ललोचना संवृत्ता; आयुष्मति शारिपुत्रेऽभिप्रसन्ना कथयति: महानार्यशारिपुत्रेण वादिवृषभो निगृहीतः; इति विदित्वा अयुष्मतः शारिपुत्रस्य मुखेऽवलोकिकाः संवृत्ताः; तत आयुष्मता शारिपुत्रेण तस्याः पर्षदः आशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशी चतुरार्यसत्यसंप्रतिवेधिकी धर्मदेशना कृता; यां श्रुत्वा अनेकैः सत्वसहस्रैः महान् विशेष आगतः; कैश्चिच्छ्रावकबोधौ चित्तान्युत्पादितानि; कैश्चित्प्रत्येकायां बोधौ; कैशिदनुत्तरायां सम्यक्संबोधौ; कैश्चिच्छरणगमनशिक्षापदानि गृहीतानि; कैश्चित्स्रोतआपत्तिफलं साक्षात्कृतम्; कैश्चित्सकृदागामिफलम्; कैश्चिदनागामिफलम्; कैश्चित्प्रव्रज्य सर्वक्लेशसंप्रहाणादर्हत्वं साक्षात्कृतम्; यद्भूयसा सा पर्षद्बुद्धनिम्ना, धर्मप्रवणा, सङ्घप्राग्भारा, (१७६) व्यवस्थापिता; तीर्थ्याः संलक्षयन्ति: न शक्यमस्माभिरयं वादे निग्रहीतुम्; उपायसंविधानं कर्तव्यम्; अत्रैव भृतिकया कर्म कुर्मः; ततश्छिद्रं लब्ध्वा बैष्केणैनं प्रघातयाम इति; ते सर्वे संभूय अनाथपिण्डदस्य गृहपतेः सकाशं गत्वा कथयन्ति: गृहपते त्वयास्माकं सर्वाणि वृत्तिपदानि समुच्छिन्नानि; तदनुकम्पां कुरु; त्वदीयविहारे भृतिकया कर्म कुर्मः; चिरं वयमत्र अवस्थिताः; मा देशपरित्यागं कुर्म इति; अनाथपिण्डदः कथयति: आर्यशारिपुत्रं तावदवलोकयामि; स येनायुष्मान् शारिपुत्रस्तेनोपसङ्क्रान्तः; उपसङ्क्रम्यायुष्मन्तं शारिपुत्रमिदमवोचत्: <आर्य>, तीर्थ्याः कथयन्ति, अस्माकं त्वया सर्वाणि वृत्तिपदानि समुच्छिन्नानि; तदनुकम्पां कुरु; त्वदीये विहारे भृतिकया कर्म कुर्मः; चिरं वयमत्रावस्थिताः; मा देशपरित्यागं कुर्म इति; आयुष्मांश्छारिपुत्रः समन्वाहर्तुं प्रवृत्तः: किं तेषां सन्ति कानिचित्कुशलमूलानि आहोस्विन्न सन्ति इति; पश्यति, सन्ति; कस्यान्तिके प्रतिबद्धानि; ममैवेति; समन्वाहृत्य कथयति: गृहपते एवं भवतु, कोऽत्र विरोध इति; ते तस्मिन् विहारे भृतिकया कर्म कर्तुमारब्धाः; आयुष्मता शारिपुत्रेण लतावारिकः पुरुषो रौद्रो निर्मितः; स तत्कर्म कारयितुमारब्धः; आयुष्मान् शारिपुत्रः तेषां विनयकालं ज्ञात्वा तत्समीपे वृक्षमूलस्याधस्ताच्चङ्क्रम्यमाणस्तिष्ठति; स तैर्दृष्टः; ते संलक्षयन्ति, अयमस्य काल प्रघातयितुं प्रविविक्ते तिष्ठतीति; ते तस्य सकाशमुपसङ्क्रम्य परिवार्य अवस्थिताः; आयुष्मान् शारिपुत्रः संलक्षयति: कीदृशेन चित्तेन एते मत्सकाशमुपसङ्क्रान्ता इति; यावत्पश्यति वधकचित्तेन; तेनासौ लतावारिको निर्मित उत्सृष्टः; तेन तेऽभिद्रुता गच्छत कर्म कुरुतेति; ते कथयन्ति: आर्य शारिपुत्र परित्रायस्व; स कथयति: आयुष्मन् गच्छ; विश्राम्यन्तु तावदिति; ते संलक्षयन्ति: ईदृशोऽस्त्ययं महात्मा; वयमस्य वधकचित्ताः; एषोऽस्माकं मैत्रचित्तः इति विदित्वा अभिप्रसन्नाः; तत आयुष्मता (१७७) शारिपुत्रेण तेषामाशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशी चतुरार्यसत्यसंप्रतिवेधिकी धर्मदेशना कृता (अ ४१४ ) यां श्रुत्वा विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्वा स्रोतआपत्तिफलं साक्षात्कृतं ______________________________________________________________ चोन्वेर्सिओनोf थे तीर्थ्यस् ते दृष्टसत्याः कथयन्ति: लभेमहि वयं शारिपुत्र स्वाख्याते धर्मविनये प्रव्रज्यामुपसंपदं भिक्षुभावम्; चरेम वयं भदन्तशारिपुत्रस्यान्तिके ब्रह्मचर्यमिति; ते आयुष्मता शारिपुत्रेण प्रव्राजिता उपसंपादिताः; अववादो दत्तः; तैर्युज्यमानैर्, घटमानैर्, व्यायच्छमानैरिदमेव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकिरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशपरहाणादर्हत्वं साक्षात्कृतमित्यर्हन्तः संवृत्ताः; त्रैधातुकवीतरागाः समलोष्टकाञ्चना आकाशपाणितलसमचित्ता वासीचन्दनकल्पा विद्याविदारिताण्डकोशा विद्याभिज्ञाप्रतिसंवित्प्राप्ता भवलाभलोभसत्कारपराङ्मुखाः सेन्द्रोपेन्द्राणां देवानां पूज्या मान्या अभिवाद्याश्च संवृत्ताः ______________________________________________________________ चोन्स्त्रुच्तिओनोf विहारस् तत्र आयुष्मता शरिपुत्रेण विहारसूत्रमेकान्ते गृहीतम्; अनाथपिण्डदेनापि गृहपतिना एकान्ते गृहीतम्; आयुष्मान् शारिपुत्रः स्मितं प्राविष्कर्तुमारब्धः; अनाथपिण्डदो गृहपतिः कथयति: नाहेत्वप्रत्ययमार्यशारिपुत्र तथागता वा तथागतश्रावका वा स्मितं प्राविष्कुर्वन्ति; कः आर्यशारिपुत्र हेतुः? कः प्रत्ययः स्मितस्य प्राविष्करणाय? एवमेतद्गृहपते, एवमेतत्; नाहेत्वप्रत्ययं तथागता वा तथागतश्रावका वा स्मितं प्राविष्कुर्वन्ति; त्वया चेह सूत्रं गृहीतम्; तुषिते देवनिकाये सौवर्णं भवनमभिनिर्वृत्तम्; ततोऽनाथपिण्डदो गृहपतिर्विस्मयोत्फुल्ललोचनः कथयति: आर्यशारिपुत्र यद्येवं, तेन हि पुनः सूत्रं प्रसारय भूयस्या मात्रया; चित्तमभिप्रसादयामीति; आयुष्मता शारिपुत्रेण तत्सूत्रं गृहीतम्; अनाथपिण्डदेन गृहपतिना भूयस्या मात्रया तीव्रेण प्रसादवगेन चित्तमभिप्रसादितम्; येन प्रसादजातेन समनन्तरमेव तत्सौवर्णं भवनं चतूरत्नमयं संवृत्तम्; आयुष्मता चास्य शारिपुत्रेण निवेदितम्; ततोऽनाथपिण्डदेन गृहपतिना उत्तरोत्तरप्रवृद्धपुण्यसन्ततिना (१७८) षोडशमहल्लिका विहारा मापिताः; षष्टिश्च कुटिकावस्तूनि; षोडशमहल्लिकान् विहारान्मापयित्वा षष्टिं च कुटिकावस्तूनि सर्वोपकरणैः पूरयित्वा येनायुष्मान् शारिपुत्रस्तेनोपसङ्क्रान्तः; उपसङ्क्रम्यायुष्मन्तं शारिपुत्रमिदमवोचत्: कियत्प्रमाणैरार्यशारिपुत्र प्रयाणकैर्भगवानध्वानं गच्छति; तद्यथा गृहपते राजा चक्रवर्ती; कियत्प्रमाणै राजा चक्रवर्ती; दशक्रोशकैर्गृहपते राजा चक्रवर्ती प्रयाणकैरध्वानं गच्छति; ततोऽनाथपिण्डदेन गृहपतिना यावच्च श्रावस्ती यावच्च राजगृहमत्रान्तराद्वासकान् परिसङ्ख्याय परिक्रमणका मापिताः; दानशला कारिता; कालारोचकः पुरुषः स्थापितः; छत्रध्वजपताकाशोभिताश्चन्दनवारिपरिषिक्ताः सुरभिधूपघटिकोपनिबद्धास्तोरणाः कारिताः; कालिकानि यामिकानि च भैषज्यान्युपस्थापितानि ______________________________________________________________ मेस्सेन्गेर्तो थे बुद्ध ततः संभृतसंभारोऽन्यतमं पुरुषमामन्त्रयते: एहि त्वं भोः पुरुष; येन भगवांस्तेनोपसङ्क्राम; उपसङ्क्रम्यास्माकं वचनेन भगवतः पादौ वन्दित्वा अल्पाबाधतां च पृच्छ अल्पातङ्कतां च, लघूत्थानतां च यात्रां च, बलं च, सुखं च अनवद्यतां (अ ४१५ ) च, स्पर्शविहारतं च; एवं च वद, आगच्छतु भगवान् श्रावस्तीम्; अहं भगवन्तमुपस्थास्यामि यावज्जीवं चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः सार्धं भिक्षुसङ्घेन <इति>; एवमार्य इति स पुरुषोऽनाथपिण्डदस्य गृहपतेः प्रतिश्रुत्य येन राजगृहं तेन सम्प्रस्थितं; अनुपूर्वेण राजगृहमनुप्राप्तः; ततो मार्गश्रमं प्रतिविनोद्य येन भगवांस्तेनोपसङ्क्रान्तः; उपसङ्क्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्तेऽस्थात्; एकान्तस्थितः स पुरुषो भगवन्तमिदमवोचत्: अनाथपिण्डदो भदन्त गृहपतिर्भगवतः पादौ शिरसा वन्दते; पूर्ववद्यावत्स्पर्शविहारतां च; सुखी भवतु भोः पुरुष अनाथपिण्डदो गृहपतिस्त्वं च; अनाथपिण्डदो भदन्त गृहपतिरेवमाह: आगच्छतु भगवान् श्रावस्तीम्; अहं भगवन्तमुपस्थास्यामि यावज्जीवं चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः सार्धं भिक्षुसङ्घेनेति; अधिवासयति (१७९) भगवांस्तस्य पुरुषस्य तूष्णींभावेन; अथ स पुरुषो भगवतस्तूष्णींभावेनाधिवासनां विदित्वा भगवतः पादौ शिरसा वन्दित्वा भगवतोऽन्तिकात्प्रक्रान्तः ______________________________________________________________ थे बुद्ध अर्रिवेसत्श्रावस्ती ततो भगवान् दान्तो दान्तपरिवारः, शान्तो शान्तपरिवारः, मुक्तो मुक्तपरिवारः, आश्वस्त आश्वस्तपरिवारः, विनीतो विनीतपरिवारः, अर्हन्नर्हत्परिवारः, वीतरागो वीतरागपरिवारः, प्रासादिकः प्रासादिकपरिवारः, ऋषभ इव गोगणपरिवृतः, गज इव कलभपरिवृतः, सिंह इव दंष्ट्रिगणपरिवृतः, हंस इव हंसगणपरिवृतः, सुपर्णीव पक्षिगणपरिवृतो, विप्र इव शिष्यगणपरिवृतः, सुवैद्य इवातुरगणपरिवृतः, शूर इव योधगणपरिवृतो, दैशिक इवाध्व गगणपरिवृतः, सार्थवाह इव वणिग्गणपरिवृतः, श्रेष्ठीव परिजनपरिवृतः, कोट्टराज इव मन्त्रिगणपरिवृतः, चक्रवर्तीव पुत्रसहस्रपरिवृतः, चन्द्र इव नक्षत्रगणपरिवृतः, सूर्य इव रश्मिसहस्रपरिवृतः, धृतराष्ट्र इव गन्धर्वगणपरिवृतः, विरूढक इव कुम्भाण्डगणपरिवृतः, विरूपक्ष इव नागगणपरिवृतः, धनद इव यक्षगणपरिवातः, वेमचित्रीव असुरगणपरिवृतः, शक्र इव त्रिदशगणपरिवृतः, ब्रह्मेव ब्रह्मकायिकपरिवृतः, स्तिमित इव जलनिधिः, सजल इव जलधरः, विमद इव गजपतिः, सुदान्तैरिन्द्रियैरसंक्षोभितेर्यापथप्रचारः, द्वात्रिंशता महापुरुषलक्षणैः समलङ्कृतः, अशीत्या चानुव्यञ्जनैर्विराजितगात्रः, व्यामप्रभालङ्कृतमूर्तिः, सूर्यसहस्रातिरेकप्रभं, जङ्गम इव रत्नपर्वतः, समन्ततोभद्रको, दशभिर्बलैश्, चतुर्भिर्वैशारद्यैस्, त्रिभिरावेणिकैः स्मृत्युपस्थानैर्महाकरुणया च समन्वागतः, महता भिक्षुसङ्घेन, अनाथपिण्डदेन गृहपतिना श्रावस्तीनिवासिना च महाजनकायेन, अनेकैश्च देवताशतसहस्रैरनुगम्यमानः, (अ ४१५ ) श्रावस्तीनगरीमनुप्राप्तः; यदा च भगवता श्रावस्तीं नगरीं (१८०) प्रविशता साभिसंस्कारं नगरेन्द्रकीले दक्षिणः पादो न्यस्तः तदा षड्विकारः पृथिवीकम्पो जातः; इयं महापृथिवी चलति, संचलति, संप्रचलति; व्यथते, प्रव्यथते, संप्रव्यथते; पूर्वो दिग्भाग उन्नमति; पश्चिमोऽवनमति; पश्चिम उन्नमति; पूर्वोऽवनमति; दक्षिन उन्नमति; उत्तरोऽवनमति; उत्तर उन्नमति; दक्षिणोऽवनमति; अन्त उन्नमति; मध्योऽवनमति; मध्य उन्नमति; अन्तोऽवनमति; सर्वश्चायं लोक उदारेण अवभासेन स्फुटः संवृत्तः सार्धं लोकान्तरिकाभिः; अन्तरीक्षे च देवदुन्दुभयस्तादिताः; गगनतलस्था देवता <भगवत> उपरिष्टाद्दिव्यान्युत्पलानि क्षेप्तुमारब्धाः; पद्मानि, कुमुदानि, पुण्डरीकाण्य्, अगरुचूर्णानि, तगरुचूर्णानि, चन्दनचूर्णानि, कुङ्कुमचूर्णानि, तमालपत्रानि, दिव्यानि च मान्दारकाणि पुष्पाणि <क्षिपन्ति> चैलविक्षेपांश्चाकार्षुः ______________________________________________________________ एffएच्त्स्fएल्त्fओल्लोwइन्ग्बुद्धऽसर्रिवल् भगवतः पुरप्रवेशे इमान्येवंविधाश्चर्याण्यभूवन्; अपराणि च; संक्षिप्तानि विशालीभवन्ति; नीचान्युच्चानि भवन्ति; उच्चानि समानि भवन्ति; हस्तिनः क्रौञ्चन्ति; अश्वा हेषन्ते; ऋषभा नर्दन्ति; गृहगतानि विविधानि वादित्रभाण्डानि स्वयं नदन्ति; अन्धाश्चक्षुंषि प्रतिलभन्ते; बधिराः श्रोत्रम्; मूकाः प्रव्याहरणसमर्था भवन्ति; परिशिष्टेन्द्रियविकला इन्द्रियाणि प्रतिलभन्ते; मद्यमदाक्षिप्ता विमदीभवन्ति; विषपायिता निर्विषीभवन्ति; अन्योन्यवैरिणो मैत्रीं प्रतिलभन्ते; गुर्विण्यः स्वस्तिना प्रसूयन्ते; बन्धनबद्धा मुच्यन्ते; अधना धनानि प्रैलभन्ते; इमानि चान्यानि च भगवतः पुरप्रवेशे अद्भुतशतसहस्राणि प्रादुर्भवन्ति ______________________________________________________________ थे जेतवन ततो भगवानेवंविधेन महता सत्कारेण श्रावस्तीं प्रविष्टः; प्रविश्य पुरस्ताद्भिक्षुसङ्घस्य प्रज्ञप्त एवासने निषण्णः; अनाथपिण्डदो गृहपतिः सुहृत्संबन्धिबान्धवजनपरिवृतः सौवर्णं (१८१) भृङ्गारमादाय वारिधारां पातयितुमारब्धः; सा न प्रपतति; अनाथपिण्डदो गृहपतिर्दुर्मनाः संलक्षयति: मा मया कानिचित्सापक्षालानि कर्माणि कृतानि स्युरिति; भगवानाह: न त्वया गृहपते कानिचित्सापक्षालाणि कर्माणि कृतानि; अपि त्वेतस्मिन् प्रदेशे स्थितेन त्वया पूर्वकाणां सम्यक्संबुद्धानामयमेव प्रदेशो निर्यातितः; अन्यस्मिन् प्रदेशे स्थित्वा <पातय; तेनान्यस्मिन् प्रदेशे स्थित्वा> पातिता; भगवान् पञ्चाङ्गोपेतेन स्वरेण स्वयमेव जेतवनमुद्घोषयति; उद्घोष्यमाणे जेतवने जेतः कुमारः संलक्षयति: अहो बत भगवान्ममापि तत्प्रथमतो नामोद्ग्रहणं कुर्यादिति; भगवता जेतस्य कुमारस्य चेतसा चित्तमाज्ञाय तत्प्रथमतो नामोद्ग्रहनं कृतम्: इदं भिक्षवो जेतवनमनाथपिण्डददस्यारामः; इति श्रुत्वा जेतः कुमारोऽतीव प्रसन्नः मम भगवता तत्प्रथमतो नामोद्ग्रहणं कृतमिति; तत्प्रीतिप्रामोद्यजातेन तद्द्रव्यजातं भगवतोऽर्थाय चतूरत्नमयं द्वारकोष्ठकं कारितम्; तथा सङ्गीतिकारैरपि स्थविरैस्सूत्रान्त उपनिबद्धम्: (अ ४१६ ) भगवान् श्रावस्त्यां विहरति जेतवनेऽनाथपिण्डदस्यारामे इति ______________________________________________________________ किन्ग्प्रसेनजित्मेएत्स्थे बुद्ध अश्रौषीद्राजा प्रसेनजित्कौशलः श्रमणो गौतमः कौशलेषु जनपदेषु चारिकां चरन् श्रावस्तीमनुप्राप्तः; श्रवस्त्यां विहरति जेतवने अनाथपिण्डदस्यारामे; स खलु भगवान् गौतमोऽनुत्तरां सम्यक्संबोधिमभिसंबुद्धोऽस्मीत्यात्मानं प्रतिजानीत इति; श्रुत्वा च पुनर्येन भगवांस्तेनोपसङ्क्रान्तः; उपसङ्क्रम्य भगवता सार्धं संमुखं संमोदनीं संरञ्जनीं विविधां कथां व्यतिसार्य एकान्ते निषण्णः; एकान्तनिषण्णो राजा प्रसेनजित्कौशलो भगवन्तमिदमवोचत्: श्रुतं मे भो गौतम भवान् गौतमोऽनुत्तरां सम्यक्संबोधिमभिसंबुद्धोऽस्मीत्यात्मानं प्रतिजानीत इति; ये ते भो गौतम एवमाहुः कच्चित्ते एवं व्याकुर्वाणा, नो च भवन्तं गौतममभ्याचक्षते, नातिसरन्ति; उक्तवादिनाश्च ते भवतो गौतमस्य <धर्मवादिनश्च धर्मस्य> चानुधर्मं व्याकुर्वन्ति? न च तेषां कश्चिदागच्छेत्परतः सहधर्मेण वादानुवादं गर्हास्थानीयो धर्मः; ये ते महाराज एवम् (१८२) आहुस्तथ्यत एवं व्याकुर्वाणा नो च मामभ्याचक्षते, नातिसरन्ति; उक्तवादिनश्च ते धर्मवादिनश्च धर्मस्य चानुधर्मं व्याकुर्वन्ति; न च तेषां कश्चिदागच्छेत्परतः सहधर्मेण वादानुवादं गर्हास्थानीयो धर्मः; तत्कस्य हेतोर्? अहमस्मि महाराज अनुत्तरां सम्यक्संबोधिमभिसंबुद्धः; किं चापि भवान् गौतम एवमाह; अपि तु नाहं भवतो गौतमस्य श्रद्धादेयो गच्छामि; तत्कस्य हेतोर्? ये तावदिमे, भो गौतम, वृद्धवृद्धाः, श्रमणब्राह्मणाः, तद्यथा पूरणः काश्यपो, मस्करी गोशलीपुत्रः, सञ्जयी वैरडीपुत्रः, अजितः केशकम्बलः, ककुदः कात्ययनो, निर्ग्रन्थो ज्ञातिपुत्रः, ते तावन्नानुत्तरां सम्यक्संबोधिमभिसंबुद्धा स्म इत्यात्मानं प्रतिजानते? कुतः पुनर्भवान् गौतमो दह्रश्च जात्या, नवकाश्च प्रव्रज्यया? ______________________________________________________________ थे fओउर्स्मल्लोनेस् भगवानाह: चत्वार इमे महाराज दह्रा नावमन्तव्याः; न परिभवितव्याः; कतमे चत्वारः? क्षत्रियो, महाराज, दह्रो नावमन्तव्यः, <दह्रो> न परिभवितव्यः; उरग, महाराज, दह्रो नावमन्तव्यः, दह्रो न परिभवितव्यः; अग्निर्, महाराज, स्तोको नावमन्तव्यः, स्तोको न परिभवितव्यः; भिक्षुर्, महाराज, दह्रो नावमन्तव्यः, दह्रो न परिभवितव्यः; तत्कस्य हेतोर्? धरश्चापि भिक्षुर्भवति अर्हन्महर्धिको; महानुभावः; इदमवोचत्भगवान्; इदमुक्त्वा सुगतो ब्यथापरमेतदुवाच शास्ता: क्षत्रियं व्यञ्जनोपेतमभिजातं यशस्विनम् । दह्रं तं नावजानीयान्नैनं परिभवेद्बुधः ॥ स्थानं हि रज्यते राजन् यद्राज्यं प्राप्य कोविदः । क्षत्रियो दण्डमादध्यात्तस्मात्तं प्रणमेत्भृशम् ॥ तस्मात्तं नावजानीयाद्रक्षन् जीवितमात्मनः । सम्यक्चैनं परिहरेत्संपश्यन्नर्थमात्मनः ॥ ग्रामे वा यदि वारण्ये यत्र पश्येद्भुजङ्गमम् । (१८३) दह्रं तं नावजानीयान्नैनं परिभवेद्बुधः ॥ उच्चावचेषु वर्णेषु नागश्चरति हैषिणाम् । आसाद्य बालान् दहति नरान्नारीश्च नैकशः ॥ तस्मात्तं नावजानीयाद्रक्षन् जीवितमात्मनः । सम्यक्चैनं परिहरेत्संपश्यन्नर्थमात्मनः ॥ प्रभूतपक्षो ज्वलनः कृष्णवर्त्मा हुताशनः । स्तोकं तं नावजानीयान् (अ ४१६ ) नैनं परिभवेद्बुधः ॥ स्तोकं भूत्वा बहुर्भवत्युपादानेन पावकः । तेजसा दहति क्षिप्रं ग्रामांश्च नगराणि च ॥ तस्मात्तं नावजानीयाद्रक्षन् जीवितमात्मनः । सम्यक्चैनं परिहरेत्संपश्यन्नर्थमात्मनः ॥ यमग्निर्दहते दावं ग्रामांश्च नगराणि च । जायन्ते पल्लवास्तत्र अहोरात्रान्वयाः क्वचित् ॥ यस्तर्हि शीलसंपन्नं भिक्षुमासाद्य दह्यते । न तस्य पुत्रा पौत्रा वा दायादं न स विन्दति ॥ न चिरात्तालमस्तकवदुद्दायादा भवन्ति ते । तस्मात्तं नावजानीयाद्रक्षन् जीवितमात्मनः ॥ सम्यक्चैनं परिहरेत्संपश्यन्नर्थमात्मनः । क्षत्रियं व्यञ्जनोपेतमुरगं पावकं तथ ॥ भिक्षुं च शीलसंपन्नं नैनान् परिभवेद्बुधः ॥ तस्मात्तान्नावजानीयाद्रक्षन् जीवितमात्मनः । सम्यक्चैनान् परिहरेत्संपश्यन्नर्थमात्मनः ॥ अथ राजा प्रसेनजित्कौशलो भगवतो भाषितमभिनन्द्य अनुमोद्य भगवतः पादौ शिरसा वन्दित्वा भगवतोऽन्तिकात्प्रक्रान्तः ______________________________________________________________ उदायिन् ब्रिन्ग्स्मेस्सगेस्fरोम् शुद्धोदन अन्धिसोwन् चोन्वेर्सिओन् तत्र बुद्धो भगवान् श्रावस्त्यां विहरति जेतवने अनाथपिण्डदस्यारामे; राज्ञा प्रसेनजिता कौशलेन राज्ञः शुद्धोदनस्य (१८४) लेखोऽनुप्रेषितः: देव दिष्ट्या वर्धस्व; पुत्रेण ते अमृतमधिगतम्; अमृतेन जगत्सन्तर्पयति इति; श्रुत्वा राज्ञा शुद्धोदनेन दूतोऽनुप्रेषितः; स तत्रैव प्रव्रजितः; द्वितीयो दूतोऽनुप्रेषितः; सोऽपि तत्रैव प्रव्रजितः; स्वाख्यातत्वाद्धर्मविनयस्य यं यं दूतमनुप्रेषयति, स तत्रैव प्रव्रजति; राजा करे कपोलं दत्वा चिन्तापरो व्यवस्थितः: यं यमेव दूतं प्रेषयामि स तत्रैव प्रव्रजति स्वाख्यातत्वाद्धर्मविनयस्य; उदायिना दृष्ट उक्तश्च: देव कस्यार्थे त्वं करे कपोलं दत्वा चिन्तापरस्तिष्ठसीति; स कथयति: उदायिन् कथमहं न चिन्तापरो भवामि? यदा सर्वार्थसिद्धः कुमारो दुष्कराणि चरति तदाहं वृत्तान्तवाहकान् पुरुषान् प्रेषयामि; ते समागत्यारोचयन्ति; अनेन चानेन <च> विहारेण सर्वार्थसिद्धः कुमारो विहरतीति; इदानीमहं वृत्तान्तवाहकान् पुरुषान् प्रेषयामि न कश्चिद्वृत्तान्तं गृहीत्वा आगच्छति; उदायी कथयति: देव अहं गच्छामि; वृत्तान्तं गृहीत्वा आगमिष्यामीति; राजा शुद्धोदनः कथयति: उदायिन् यो गच्छति <स> शासनसंपत्तिं दृष्ट्वा तत्रैव तिष्ठति; स्थानमेतद्विद्यते यत्त्वमपि तत्रैव गत्वा स्थास्यसीति; उदायी कथयति, देव आगमिष्यामीति; ततो रज्ञा शुद्धोदनेन स्वयमेव लेखो लिखितः: गर्भात्प्रभृत्युपादाय भवान् संवर्धितो मया । क्लेशाग्निसंप्रतप्तेन जिनवृक्षः प्ररोपितः ॥ तस्य तेऽद्य विवृद्धस्य शिष्यशाखाप्रशाखिनः । अन्ये सुखेन मोदन्ते वयं दुःखस्य भागिनः ॥ येनासि वृक्षक इवाङ्कुरमात्रपक्षः संवर्धितो शिशुरपत्यमिदं ममेति । प्राप्ते तनूज विषयस्य फलोपभोगे तस्मिन् गुणैरफलतो न तवास्ति दैन्यम् ॥ यदासि प्रथमं जात प्रतिज्ञातं तदा त्वया । कृत्वा स्वकार्यं सुमहत्करिष्ये ज्ञात्यनुग्रहम् ॥ (१८५) तत्तेऽवाप्तं पदं (अ ४१७ ) शान्तं कुरुष्वागमने मतिम् । अनुकम्पामुपादाय मम ज्ञातिगणस्य च ॥ उदायी लेखं गृहीत्वा सप्तमे दिवसे श्रावस्तीमनुप्राप्तः; मार्गश्रमं प्रतिविनोद्य भगवत्सकाशमुपसङ्क्रान्तः; उपसङ्क्रम्य लेखमुपनामयति: भगवन् राज्ञा शुद्धोदनेन लेखोऽनुप्रेषित इति; भगवता स्वयमेव गृहीत्वा वाचितः; वाचयित्वा लेख एकान्ते स्थापितः; उदायी कथयति: किं भगवान् गमिष्यति कपिलवस्त्विति; भगवान् कथयति; गमिष्याम्युदायिन्निति; उदायी भगवतः पूर्वमतीव कृतप्रणयः; स तेनैव पूर्वकेण प्रणयेन कथयति: यदि भवान्न गमिष्यति, अहं बलान्नेष्यामीति; अथ भगवानस्यामुत्पत्तौ गाथा भाषते: यस्य जालिनी विषक्तिका तृष्णा न क्वचिदस्ति नेत्रिका । तं बुद्धमनन्तगोचरमपदं केन पदेन नेष्यसि ॥ यस्य जालिनी विषक्तिका तृष्णा न क्वचिदस्ति नेत्रिका । तं बुद्धमनन्तगोचरमपदं केन पदेन नेष्यसि ॥ यस्य जितं नोपचीयते जितमस्य नान्वेति कथंचिदेव । तं बुद्धमनन्तगोचरमपदं केन पदेन नेष्यसि ॥ यस्य जितं नोपचीयते जितमस्य नान्वेति कथंचिदेव । तं बुद्धमनन्तगोचरमपदं केन पदेन नेष्यसि ॥ स उत्तरे प्रतिभानमलभमानः कथयति: भगवन् गच्छामि; राज्ञः शुद्धोदनस्य कथयामीति; उदायिन्नेवंविधा बुद्धदूता भवन्ति; उदायी कथयति, भगवन् कीदृशा भवन्ति; प्रव्रजिताः; त्वमपि प्रव्रजेति; भगवन्मया राज्ञः शुद्धोदनस्य प्रतिज्ञातमागमिष्यामीति; भगवानाह: उदायिन् यथाप्रतिज्ञातं कुरु; प्रव्रजित्वा गच्छ; तथा हि भगवता बोधिसत्वभूतेन मातापित्रोराचार्योपाध्यायानां गुरूणां गुरुस्थानीयानां च धर्म्या आज्ञा न कदाचित्प्रतिव्यूढपूर्वा; उदायी कथयति: भगवन् यद्येवं प्रव्रजामीति ______________________________________________________________ उदायिन्मदे अ मोन्क् तत्र भगवानायुष्मन्तं शारिपुत्रमामन्त्रयते: प्रव्राजय शारिपुत्र उदायिनम्; तदास्य भविष्यति दीर्घरात्रमर्थाय हिताय (१८६) सुखायेति; एवं भदन्त इत्यायुष्मान् शारिपुत्रो भगवतः प्रतिश्रुत्य उदायिनं प्रव्राजितः उपसंपादितं; विस्तरेण चास्य आसमुदाचारिकमारोचितमिदं ते करणीयमिति; अद्याग्रेण ते उदायिन्मातृग्रामेण सार्धमेकागारे शय्या न कल्पयितव्येति; एवं भदन्तेत्युदायी आयुष्मतः शारिपुत्रस्य पादौ शिरसा वन्दित्वा प्रक्रान्तः; येन भगवांस्तेन उपसङ्क्रान्तः; उपसङ्क्रम्य भगवतः पादौ शिरसा वन्दित्वा भगवन्तमिदमवोचत्: भगवन् कपिलवस्तु गमिष्यामीति ______________________________________________________________ इन्स्त्रुच्तिओन्स्तो उदायिन् भगवानाह: उदायिन् गच्छ; न ते सहसैव राजकुलं प्रवेष्टव्यम्; द्वारे स्थित्वा वक्तव्यम्, शाक्यभिक्षुरागत इति; यदि कथयन्ति प्रविशेति, प्रवेष्टव्यम्; प्रविष्टस्य यदि कथयन्ति, सन्त्यन्येऽपि शाक्यभिक्षव इति, वक्तव्यं सन्तीति; यदि कथयन्ति सर्वार्थसिद्धस्यापि कुमारस्य एवंविध एव वेष इति, वक्तव्यमेवंविध एवेति; न च ते राजकुले वस्तव्यम्; यदि कथयन्ति सर्वार्थसिद्धः कुमारो राजकुले वासं न कल्पयतीति; वक्तव्यः, न कल्पयतीति; यदि पृच्छन्ति कुत्र वासं कल्पयतीति, वक्तव्यमरण्ये विहारे वा; यदि पृच्छन्ति क एवंविधो विहार इति, जेतवनाकारेण लिखित्वा दर्शयितव्यम्; यदि पृच्छन्ति, आगमिष्यति सर्वार्थसिद्धः कुमार इति, वक्तव्यम् (अ ४१७ ) आगमिष्यति; कियच्चिरेण? सप्ताहस्यात्ययदिति ______________________________________________________________ उदायिन् रेतुर्न्स् स कथयति: भगवन् गच्छामीति; भगवानाह: गच्छेति; वचसा महीपतीनां समृद्ध्यति, चित्तेन देवानां, चित्तोत्पादेन तथा समृद्ध्यति ध्यायिनां सर्वमिति, स भगवता तथाधिष्ठितो यथायुष्मानुदायी तत्क्षणादेव कपिलवस्तु नगरं गतः; आयुष्मत उदायिनः भगवतोऽन्तिके तीव्रः प्रसादो जातः; स राजकुलद्वारे स्थित्वा कथयति, भवन्त राज्ञो निवेदयत शाक्यभिक्षुरागत इति, ते कथयन्ति: किमन्येऽपि सन्ति शाक्यभिक्षवः; भवन्तः सन्ति; तै राज्ञो निवेदितं, शाक्यभिक्षुरागत इति; राजा कथयति: (१८७) प्रविशतु; स प्रविष्टः; राज्ञा शुद्धोदनेन दृष्ट उक्तश्च; उदायिन् प्रव्रजितोऽसि? <देव> प्रव्रजितोऽस्मि; ननु भवताभिहितमागमिष्यामीति, तत्कथमेतत्; उदायी कथयति; देव उक्तं भगवता नेदृशा बुद्धदूता भवन्तीति; सोऽहं स्वाख्यातत्वाद्धर्मविनयस्य प्रव्रजितं; अपि त्वहं स्वश्रद्धया प्रव्रजितः; राज्ञा सर्वाङ्गैरनुपरिष्वज्य प्रज्ञप्त एवासने निषादितः; तदर्थं च पानीयं परिस्रावितम्; मूलफलानि कल्पितानि; शुचिनाहारेण भोजितः; आयुष्मता उदायिना परमोपशमदमस्थितियुक्तेन यथानुशासनीविधानेन परिभुक्तम्; राजा तमुपलक्ष्य विस्मयमापन्नः कथयति: किं कुमारस्याप्येवंविध उपशमः? उदायी कथयति: देव अल्पमात्रं ममोपशमं; यथाकथं सुमेरुसर्षपवत्, समुद्रगोष्पदवत्, आदित्यखद्योतवत्, आकाशविवरवत्; राजा शुद्धोदनः कथयति: उदायिन् सर्वार्थसिद्धस्यापि कुमारस्य एवंविध एव वेषः? एवंविधः; श्रुत्वा राजा शुद्धोदनः मूर्छितः पृथिव्यां निपतितो महता जलप्रक्षेपेण प्रत्यागतप्राणः कथयति: उदायिनाग्मिष्यति सर्वार्थसिद्दः कुमार इति; उदायी कथयति, आगमिष्यति: कियच्चिरेण? सप्ताहस्यात्ययात्; राजा शुद्धोदनः अमात्यानामन्त्रयते; भवन्तो राजकुलं शोधयत, अन्तःपुराणी च; सर्वार्थसिद्धः कुमारा आगमिष्यतीति; उदायी कथयति: देव न भगवानन्तःपुरे वासं कल्पयति; राजा कथयति: कुत्र वासं कल्पयति? उदायी कथयत्यरण्ये विहारे वा; राजा कथयति: क एवंविधो विहार इति; आयुष्मता उदायिना जेतवनाकारेण लिखित्वा दर्शितः; ततो राजा अमात्या आमन्त्रयते; भवन्तो न्यग्रोधारामे जेतवनाकारेण षोदशमहल्लकान् विहारान्मापयत; षष्टिं च कुटिकावस्तूनि; एवं देवेत्यमात्या राज्ञः प्रतिश्रुत्य न्यग्रोधारामे जेतवनाकारेण षोडशमहल्लकान् विहारान्मापिताः; षष्टिं च कुटिकावस्तुनि ______________________________________________________________ थे बुद्ध लेअवेस्fओर्कपिलवस्तु तत्र भगवानायुष्मन्तं महामुद्गल्यायनमामन्त्रयते: गच्छ मौद्गल्यायन भिक्षूणामारोचय, भगवान् कपिलवस्तु संप्रस्थितः; यो युष्माकमुत्सहते पितापुत्रसमागमं द्रष्टुं स चीवराणि प्रतिगृह्णातु; एवं भदन्तेत्यायुष्मान्महामौद्गल्यायनो (१८८) भगवतः प्रतिश्रुत्य भिक्षूणामारोचयति: भगवानायुष्मन्तः कपिलवस्तु गमिष्यति; यो युष्माकमुत्सहते पितापुत्रसमागमं द्रष्टुं स चीवरकाणि प्रतिगृह्णात्विति; ततो भगवान् दान्तो दान्तपरिवारः शन्तो शान्तपरिवारः, मुक्तो मुक्तपरिवारः, आश्वस्त आश्वस्तपरिवारः, विनीतो विनीतपरिवारः, अर्हन्नर्हत्परिवारः, वीतरागो वीतरागपरिवारः, प्रासादिकः प्रासादिकपरिवारः, ऋषभ इव गोगणपरिवृतः, गज इव कलभपरिवृतः, सिंह इव दंष्ट्रिगणपरिवृतः, हंस इव हंसगणपरिवृतः, सुपर्णीव पक्षिगणपरिवृतो, विप्र इव शिष्यगणपरिवृतः, सुवैद्य इवातुरगणपरिवृतः, शूर इव योधगणपरिवृतो, दैशिक इवाध्व गगणपरिवृतः, सार्थवाह इव वणिग्गणपरिवृतः, श्रेष्ठीव परिजनपरिवृतः, कोट्टराज इव मन्त्रिगणपरिवृतः, चक्रवर्तीव पुत्रसहस्रपरिवृतः, चन्द्र इव नक्षत्रगणपरिवृतः, सूर्य इव रश्मिसहस्रपरिवृतः, धृतराष्ट्र इव गन्धर्वगणपरिवृतः, विरूढक इव कुम्भाण्डगणपरिवृतः, विरूपक्ष इव नागगणपरिवृतः, धनद इव यक्षगणपरिवातः, वेमचित्रीव असुरगणपरिवृतः, शक्र इव त्रिदशगणपरिवृतः, ब्रह्मेव ब्रह्मकायिकपरिवृतः, स्तिमित इव जलनिधिः, सजल इव जलधरः, विमद इव गजपतिः, सुदान्तैरिन्द्रियैरसंक्षोभितेर्यापथप्रचारः, द्वात्रिंशता महापुरुषलक्षणैः समलङ्कृतः, अशीत्या चानुव्यञ्जनैर्विराजितगात्रः, व्यामप्रभालङ्कृतमूर्तिः, सूर्यसहस्रातिरेकप्रभं, जङ्गम इव रत्नपर्वतः, समन्ततोभद्रको, दशभिर्बलैश्, चतुर्भिर्वैशारद्यैस्, त्रिभिरावेणिकैः स्मृत्युपस्थानैर्महाकरुणया च समन्वागतो, <महता> भिक्षुसङ्घेन सार्धं रोहकामनुप्राप्तह्; अश्रौषीद्राजा शुद्धोदनः सर्वार्थसिद्धः कुमारो रोहकां नदीमनुप्राप्त इति; श्रुत्वा च पुनः राज्ञा शुद्धोदनेन कपिलवस्तुनगरमपगतपाषाणशर्करकठल्लं व्यवस्थापितम्; चन्दनवारिपरिषिक्तं विविधसुरभिधूपघटिकासमलङ्कृतम्, आमुक्तपट्टदामकलापम्, यावच्च रोहका नदी यावच्च न्यग्रोधाराम अत्रान्तरान्महती मार्गशोभा कारिता; विस्तीर्णावकाशे पृथिवीप्रदेशे आसनप्रज्ञप्तिर्विचित्रा कारिता; तत्र रोहकायां नद्यां केचिद्भिक्षवो हस्तौ निर्मर्दयन्ति; केचिद्दन्तकाष्ठं विसर्जयन्ति; केचित्स्नान्ति; कापिलवास्तवैः शाक्यैः श्रुतं, सर्वार्थसिद्धः कुमार आगत इति; श्रुत्वा च पुनः सर्वे न्यग्रोधारामं निर्गताः; केचित्पूर्वकैः कुशलमूलैः सञ्चोद्यमानाः, केचित्कृतकुतूहलजाताः ज्ञास्यमः किं पिता पुत्रस्य पादाभिवन्दनं करोति, आहोस्वित्पुत्रः पितुरिति; अथ भगवत एतदभवत्: सचेदहं कपिलवस्तु पद्भ्यां प्रवेक्ष्यामि मानिनः शाक्या अप्रसादं प्रवेदयिष्यन्ते: प्रभूतं च सर्वार्थसिद्धेन कुमारेण तपोवनं गत्वावाप्तम्; यो हि नामानेकैर्देवताशतसहस्रैरनुगम्यमान उपैर्विहायसा निष्क्रम्य इयन्तं कालं दुष्करशतसहस्राणि चरित्वा अमृतमधिगम्य इदानीं पद्भ्यां प्रविष्ट इति ______________________________________________________________ मगिचलेxप्लोइत्स् अथ भगवांस्तद्रूपं समाधिं समापन्नो यथा समाहिते चित्ते पूर्वस्यां दिश्युपरि विहायसमभ्युद्गम्य चतुर्विधमीर्यापथं कल्पयति; तद्यथा चङ्क्रम्यते, तिष्ठति, निषीदति, शय्यां कल्पयति, तेजोधातुमपि समापद्यते; तेजोधातुसमापन्नस्य भगवतो बुद्धस्य विविधान्यर्चींषि कायान्निश्चरन्ति, नीलानि, पीतानि, लोहितान्य्, अवदातानि, माञ्जिष्ठानि, स्फटिकवर्णानि; यमकान्यपि प्रातिहार्याणि विदर्शयति; अधःकायः प्रज्वलति; उपरिमात्कायाच्छीतला वारिधारा स्यन्दन्ते; उपरिमः कायः प्रज्वलति; अधःकायाच्छीतला वारिधारा स्यन्दन्ते; यथा पूर्वस्यां दिश्येवं दक्षिणस्यां पश्चिमायाम्, उत्तरस्यां दिशीति चतुर्दिशं चतुर्विधमृद्धिप्रातिहार्यं (१८९) विदर्श्य तानृद्ध्यभिसंस्कारान् प्रतिप्रस्रभ्य सप्ततालमात्रेऽवस्थितः, <सप्ततालमात्रे> भिक्षवः, षट्सु भगवान्, षट्सु भिक्षवः; पञ्चसु भगवान्, अपि पञ्चसु भिक्षवः; चतुर्षु भगवान्, अपि चतुर्षु भिक्षवः; त्रिषु भगवान्, अपि त्रिषु भिक्षवः; द्वयोर्भगवांश्, द्वयोः भिक्षवः; तालमात्रे भगवांस्, तालमात्रे भिक्षवः; सप्तपौरुषे व्यवस्थितो भगवान्, सप्तपौरुषा भिक्षवः; षट्सु भगवान्, षट्सु भिक्ष्वः; पञ्चसु भगवान्, पञ्चसु भिक्षवः; चतुर्षु भगवान्, चतुर्षु भिक्षवः; त्रिषु भगवान्, त्रिषु भिक्षवः; द्वयोर्भगवान्, द्वयोर्भिक्षवः; साधिकपौरुषे <भगवान्, साधिकपौरुषे> भिक्षवः; पृथिव्यां राज्ञः शुद्धोदनस्य तथाविधं प्रातिहार्यं दृष्ट्वा भिक्षुत्वं च संमोहो जातः; न जानीते कतरोऽत्र भगवानिति; तत आयुष्मन्तमुदायिनमामन्त्रयते: उदायिन् बहवोऽत्र काषायवाससः प्रव्रजिताः; कतरः कुमारः? आयुष्मानुदायी भगवन्तमुपदर्शयन्नाह: एषोऽसौ भगवान् भवान्तकरणश्चित्तेश्वरो नायकः एष क्लेशनिषूदनो दिनकरस्तत्वार्थसन्दर्शकः । एष प्राप्तमनोरथो दशबलः सर्वत्र पारङ्गतः पुत्रस्ते नृपते विभाति विमलः पश्याद्य धर्मेश्वरः ॥ अथ राजा शुद्धोदनस्तथागतस्यावनमत्कायेन पादाभिवन्दनं करोति; गाथां भाषते: इदं तृतीयं तव भूरिबुद्धे पादौ नमस्यामि समन्तचक्षोः । उत्पद्यमानस्य मही प्रकम्पिता जम्ब्वाश्च छाया न जहाति कायम् ॥ (१९०) ततः शाक्याः शाक्यायनिकाश्च राजानं शुद्धोदनं भगवतः पादयोर्निपतितं दृष्ट्वा अप्रसादं प्रवेदयन्ते: कथमिदानीं पिता पुत्रस्य पादाभिवन्दनं करोतीति; राजा शुद्धोदनः शाक्यान् शाक्यायनिकाश्च संज्ञापयन्नेवमाह: न मया भवन्त इदानीं सर्वार्थसिद्धस्य कुमारस्य पादाभिवन्दनं कृतम्; यदापि सर्वार्थसिद्धस्य कुमारस्य जन्मनि महान् पृथिवीचालोऽभूत्सर्वश्चायं लोक उदारेणावभासेन स्फुटोऽभूत्; या अपि ता लोकस्य लोकान्तरिका अन्धास्तमसोऽन्धकारतामिस्रा यत्रेमौ सूर्यचन्द्रमसौ एवंमहर्धिकावेवंमहानुभावावाभया आभां न प्रत्यनुभवतः, ता अपि तस्मिन् समये उदारेणावभासेन स्फुटा अभूवन्; तत्र ये सत्वा उपपन्नास्ते तया आभया अन्योन्यं सत्वं दृष्ट्वा संजानते अन्येऽपीह भवन्तस्(अ ४१९ ) सत्वा उपपन्ना अन्येऽपीह भवन्तस्सत्वा उपपन्ना इति; तदापि मया बोधिसत्वस्य भगवतः पादाभिवन्दनं कृतम्; यदापि सर्वार्थसिद्धं कुमारो मम कर्मान्ताननुसंयान् जम्बूछायायां निषद्य विविक्तं कामैर्विविक्तं पापकैरकुशलैर्धर्मैः सवितर्कं सविचारं विवेकजं प्रीतिसुखमनास्रवसदृशं प्रथमं ध्यानमुपसंपद्य विहरति, अन्येषां च वृक्षाणां छाया प्राचीननिम्ना <प्राचीनप्रवणा> प्राचीनप्राग्भारा, जम्बूच्छाया बोधिसत्वस्य कायं न विजहाति, तदापि मया तदाश्चर्याद्भुतधर्मावर्जितमतिना भूयो भगवतः पादौ शिरसा वन्दितौ; इदानीं त्रिरपि भगवतः पादौ वन्दे यतः एवं वदामि इदं तृतीयं तव भूरिबुद्धे पादौ नमस्यामि समन्तचक्षोः । उत्पद्यमानस्य मही प्रकम्पिता जम्ब्वाश्च छाया न जहाति कायम् ॥ इति; अथ भगवान् तानृद्ध्यभिसंस्कारान् प्रतिप्रस्रभ्य अनेकशतसहस्रां पर्षदमभ्यवगाह्य पुरस्ताद्भिक्षुसण्घस्य प्रज्ञप्त एवासने निषण्णः ______________________________________________________________ शुद्धोदनऽसॄउएस्तिओन्सन्द्बुद्धऽस्रेप्लिएस् अथ राजा शुद्धोदनः बाष्पोपरुद्ध्यमानहृदयोऽश्रुपर्याकुलेक्षणो भगवन्तं गाथाभिर्गीतेन प्रश्नं पृच्छति: (१९१) भवनेषु महार्हेषु वसित्वा पैतृके गृहे । सभयेषु अरण्येषु एकाकी वससे कथम् ॥ भगवानाह: आर्यावासेषु दशसु वसामि मनुजाधिप । वसन्ति मुनयो यत्र निर्मुक्ता गृहबन्धनात् ॥ राजा प्राह: दन्तकाञ्चनपादेषु आस्तीर्णेषु सुखेषु च । पर्यङ्केषु शयित्वाथ संस्तरे शयसे कथम् ॥ भगवानाह: विमुक्तिशयने रम्ये बोध्यङ्गकुसुमाकुले । राजन् स्वपिमि निःसङ्गः परिदाहविवर्जितः ॥ राजा प्राह: हस्त्यश्वरथयानेन गत्वा वीर स्वके गृहे ॥ सकण्टकां वसुमतीं पद्भ्यामाक्रमसे कथम् ॥ भगवानुवचा: ऋद्धिपादरथेनाहं सम्यग्व्यायामदायिना। विचरामि महीं कृत्स्नामक्षतः क्लेशकण्टकैः ॥ राजा शुद्धोदनः प्राह: प्रावृतः काशिकैर्वस्त्रैः पूर्वं वीर विराजसे । काषायपरुषं वासं कथं वहति ते तनुः ॥ भगवानाह: ह्रीवस्त्रं मम सङ्घाटी राजन् प्रावरणं मम । प्रावृता येन शोभन्ते शान्ते हि मुनयो वने ॥ राजा शुद्धोदनः प्राह: पुरा हि त्वं काञ्चनभाजनस्थं शाल्योदनं नैकरसोपपन्नम् । (१९२) भुक्त्वा विभो पिण्डपातं हि भुङ्क्षे लूहं कथं कण्ठमुपैति तेऽद्य ॥ भगवानाह: अग्रं हि मे धर्मरसेन भोज्यम् नैष्क्रम्ययुक्तस्य समाहितस्य । आहारतृष्णां हि विहाय सर्वां लोकानुकम्पार्थमहं चरामि ॥ राजा प्राह: मृद्वीकाशर्करारसं पीत्वा कण्ठसुखं बहु । कथं पिबसि तोयानि तप्तानि कलुषाणि च ॥ भगवानाह: अहं धर्मरसं सुख्यं पिबामि मनुजाधिप । यं पीत्वा सर्वपानानि विषवत्प्रतिभान्ति मे ॥ राजा शुद्धोदनः प्राह: पुरा हि त्वं हर्म्यविमानवासी प्रासादपृष्ठेषु यथार्तवेषु । एकाकिनस्ते वसतो वनेऽद्य कथं भयं नाविशते सुबुद्धे ॥ भगवानाह: यद्गौतमा सर्वभयस्य मूलं ते मे मलाः सानुशयाः प्रहीणाः ॥ सोऽहं विशोको ह्यभयं वसामि न मे भयं स्वल्पमपीह किंचित् ॥ राजा शुद्धोदनः प्राह: पुरा हि त्वं स्नानगृहे सुरम्ये स्नातः सदा स्नानवरैर्विशिष्टैः । एकाकिनं त्वा वनवासयुक्तम् इहाद्य कः स्नापयते मुनीन्द्रः ॥ भगवानाह: (१९३) धर्मो ह्रदो गौतम शीलतीर्थो ह्य् अनाविलस्सद्भिरपि प्रशस्तः । स्नात्वा यस्मिन् वेदगुणैर्मनुष्या अनार्द्रगात्राः प्रतरन्ति पारम् ॥ राजा शुद्धोदनः प्राह: सौवर्णराजतैः कुम्भैर् स्नात्वा वीर स्वके गृहे । कथं स्नायसि तोयेषु तप्तेषु कलुषेषु च ॥ भगवानाह: शुद्धा नदी गौतम पुण्यतीर्था ह्यनाविल सद्भिरपि प्रशस्ता । स्नात्वा यस्यां वेदगुणैर्मनुष्या अनार्द्रगात्राः प्रतरन्ति पारम् ॥ राजा शुद्धोदनः प्राह: हरिचन्दनलिप्ताङ्गः काशिकोत्तमसंवृतः । शोभसे त्वं पुरा वीर तैर्वियुक्तो न शोभसे ॥ भगवानाह: शीलमाभरणं ह्यग्र्यं शीलमिवानुलेपनम् । किं ममोन्मादजनकैः सुवर्णमणिकुण्डलैः ॥ राजा शुद्धोदनः प्राह: कुतः परिभवो जातः कुतश्च भवभीरुता । निर्वेदो वा यतो जातः पृष्ट आचक्ष्व तन्मम ॥ भगवानाह: यतः परिभवो मह्यं यतश्च भवभीरता । निर्वेदो वा यतो जातः शृणु त्वं कथयामि ते ॥ जरा व्याधिश्च मृत्युश्च यदि न स्यादिदं त्रयम् । ममापि सुमनोज्ञेषु विषयेषु रतिर्भवेत् ॥ राजा शुद्धोदनः प्राह: (१९४) साधु वीर सुजातोऽसि शाक्यानां कुलनन्दनः । अष्टाभिर्लोकदर्मैस्त्वं यदेवं नोपलिप्यसे ॥ ततः प्रहृष्टो विकसत्प्रसाद<ः> प्रदक्षिणं सङ्घमृषिं च कृत्वा । मुनीन्द्रपादौ शीरसा प्रणम्य स्थितः समन्तात्सुगतं निरीक्ष्य ॥ अथ राज्ञः शुद्धोदनस्य एतदभवत्: लाभा मे सुलब्धा यस्य मे पुत्रेण एवंविधा गुणगणा अधिगताः ______________________________________________________________ चोन्वेर्सिओनोf थे शाक्यस् ततो भगवता न्यग्रोधारामे तस्याः पर्षदः आशयानुशयं धातुं प्रकृतिं च ञात्वा तादृशी धर्मदेशना कृता यां श्रुत्वा शुद्धोदनप्रमुखैः सप्तसप्तत्या शाक्यसहस्रैः स्रोतआपत्तिफलं साक्षात्कृतं स्थापयित्वा राजानं शुद्धोदनं; देवदत्तः पापेच्छो मनाभिमानी; तेन सत्यदर्शनं न कृतम्; स क्रोधपर्यवस्थितः कथयति: यन्वहमपीदृशीमन्वावर्तनीं मायां जानीयाम्; अहमपि सर्वं लोकमन्वावर्तयेयमिति; स कृतप्रणयसौमुख्यैः शाक्यैरभिहितः, अलं देवदत्त मा मैवं वोचः; महर्धिको भगवान्महानुभाव इति; स तूष्णीमवस्थितः; ब्रह्मावर्ते उद्याने तथाविधो धर्मो देशितः यं श्रुत्वा द्रोणोदनप्रमुखैः षट्सप्तत्या शाक्यसहस्रैः स्रोतआपत्तिफलं साक्षात्कृतं स्थापयित्वा राजानं शुद्धोदनं; देवदत्तस्तथैव परिभाषते; रोहीतके उद्याने तथाविधो धर्मो देशितो यं श्रुत्वा अमृतोदनप्रमुखैः पञ्चसप्तत्या शाक्यसहस्रैः स्रोतआपत्तिफलं साक्षात्कृतं स्थापयित्वा राजानं शुद्धोदनं; देवदत्तस्तथैव परिभाषते; अवशिष्टायाः पर्षदः कैश्चिच्छ्रावकबोधौ चित्तान्युत्पादितानि; कैश्चित्प्रत्येकायां बोखौ, कैश्चिदनुत्तरायां सम्यक्संबोधौ; कैश्चित्स्रोतआपत्तिफलं साक्षात्कृतम्; कैश्चित्सकृदागामिफलम्; कैश्चिदनागामिफलम्; कैश्चित्प्रव्रज्य सर्वक्लेशप्रहाणाद्(१९५) अर्हत्वं (अ ४२० ) साक्षात्कृतम्; केचिद्बुद्धं शरणं गताः; केचिद्धर्मम्; केचित्सङ्घम्; यद्भूयसा सा परिषद्बुद्धनिम्ना धर्मप्रवणा सङ्घप्राग्भारा व्यवस्थापिता ______________________________________________________________ थे प्रिदे ओf शुद्धोदन अथ राज्ञः शुद्धोदनस्य एतदभवत्; पूर्वं भगवान् ससुरासुरस्य जगतः पूज्यश्चाभून्मान्यश्चाभूदभिवाद्यश्च; इदानीं मनुष्यपूजितो न देवपूजित इति; अथान्यतमः शाक्यकुमारो गाथां भाषते: सन्तर्पितेयं जनता महर्षे सद्धर्मवृष्ट्या वदतां वरेण । उद्धृत्य घोराद्विनिपातमार्गात् लोकोऽह्ययं मोक्षपथे नियुक्तः ॥ इति; राजा शुद्धोदनः अतिहर्षात्सत्यानि न पश्यति, ममैव एकस्य पुत्र एवंमहर्धिको महानुभाव इति; भगवान् संलक्षयति: किं कारणं राजा शुद्धोदनः सत्यानि न पश्यति; तस्यैतदभवत्; अतिहर्षेण ममैवैकस्य पुत्र एवंमहर्धिक एवंमहानुभाव इति; सर्वथा मदापनयोऽस्य कर्तव्य इति; द्वाभ्यां कारणाभ्यां सत्यानि न दृश्यन्ते अतिलीनतया औद्बिल्येन च; तदस्य लीनं चित्तमौद्बिल्यं च; यन्वहमस्य लीनां सन्ततिमपनयेयमौद्बिल्यं चेति; तत्र भगवानायुष्मन्तं महामौद्गल्यायनमामन्त्रयते: समन्वाहर मौद्गल्यायन राजानं शुद्धोदनम्; एवं भदन्तेत्यायुष्मान्महामौद्गल्यायनो भगवतः प्रतिश्रुत्य येन राजा शुद्धोदनस्तेनोपसङ्क्रान्तः; अद्राक्षीद्राजा शुद्धोदनः आयुष्मन्तं महामौद्गल्यायनं दूरादेव; दृष्ट्वा च पुनरायुष्मन्तं महामौद्गल्यायनमिदमवोचत्: एतु भदन्त महामौद्गल्यायन, स्वागतं भवते महामौद्गल्यायनाय; निषीदतु भदन्त महामौद्गल्यायनः प्रज्ञप्त एवासने; निषण्णः आयुष्मान्महामौद्गल्यायनः प्रज्ञप्त एवासने अथायुष्मान्महामौद्गल्यायनस्तद्रूपं समाधिं समापन्नो यथा समाहिते चित्ते स्वे आसनेऽन्तर्हितः पूर्वस्यां दिश्युपरि विहायसमभ्युद्गम्य चतुर्विधमीर्यापथं कल्पयति; तद्यथा चाङ्क्रम्यते, तिष्ठति, निषीदति, शय्यां कल्पयति; तेजोधातुमपि समापद्यते; (१९६) तेजोधातुसमापन्नस्य आयुष्मतो महामौद्गल्यायनस्य विविधान्यर्चींषि कायान्निश्चरन्ति; तद्यथा नीलानि पीतानि लोहितान्यवदातानि माञ्जिष्ठानि स्फटिकवर्णानि; यमकान्यपि प्रातिहार्याणि विदर्शयति; अधः कायः प्रज्वलति; उपरिमात्कायाच्छीतला वारिधारा स्यन्दन्ते; उपरिमः कायः प्रज्वलति; अधःकायाच्छीतला वारिधारा स्यन्दन्ते; यथा पूर्वस्यां दिश्येवं दक्षिणस्यां पश्चिमायामुत्तरस्यां दिशीति चतुर्दिशं चतुर्विधमृद्धिप्रातिहार्यं विदर्श्य तानृद्ध्यभिसंस्कारान् प्रतिप्रस्रभ्य प्रज्ञप्त एवासने निषण्णः अथ राजा शुद्धोदनः आयुष्मन्तं महामौद्गल्यायनमिदमवोचत्: सन्ति महामौद्गल्यायन अन्येऽपि भगवतः श्रावका एवंमहर्धिका एवंमहानुभावा इति; सन्ति महाराज; गाथां च भाषते: महानुभावास्त्रैविद्याश्चेतःपर्याककोविदाः । क्षीणास्रवास्तथार्हन्तो बहवः श्रावका मुनेः ॥ अथ राज्ञः शुद्धोदनस्य एतदभवत्: न खलु ममैव एकस्य पुत्र एवंमहर्धिक एवंमहानुभावः; अपि तु सन्त्यन्येऽपि प्रव्रजिता एवंमहर्धिका (अ ४२० ) एवंमहानुभावा इति; तस्य यदौद्बिल्यमभूत्तत्प्रतिविगतम्; अत्रान्तरे भगवता लौकिकं चित्तमुत्पादितम्: अहो बत शक्रब्रह्मादयो देवा आगच्छेयुः; शुद्धायां देवपर्षदि धर्मं देशयेयमिति; धर्मता खलु यस्मिन् समये बुद्धा भगवन्तो लौकिकं चित्तमुत्पादयन्ति तदा कुन्तपिपीलका अपि प्राणिनस्तस्मिन् समये भगवतश्चेतसा चित्तमाजानन्ति; प्रागेव शक्रब्रह्मादयो देवाः; यस्मिंस्तु समये लोकोत्तरं चित्तमुत्पादयन्ति तस्मिन् समये महाश्रावका अपि भगवतश्चेतसा चित्तं नाजानन्ति; कः पुनर्वादः शक्रब्रह्मादयो देवाः; कुत एव कुन्तपिपीलिका अपि प्राणिनः ______________________________________________________________ थे बुद्ध तेअछेस्तो थे गोद्स् अथ शक्रस्य देवेन्द्रस्य एतदभवत्: किमर्थं थगवता लौकिकं चित्तमुत्पादितमिति; तस्यैतदभवत्: शुद्धायां देवपर्षदि धर्मं देशयितुकाम इति; तेन विश्वकर्मणो देवपुत्रस्य आज्ञा दत्ता; निर्मिणु विश्वकर्मन्नयग्रोधारामे चतूरत्नमयं कूटागारं, विचित्रां चासनप्रज्ञप्तिम्; भगवान् शुद्धायं देवपर्षदि धर्मं देशयितुकाम इति; परं भद्रं बत कौशिक इति; विश्वकर्मा देवपुत्रः शक्रस्य देवेन्द्रस्य प्रतिश्रुत्य न्यग्रोधारामे चतूरत्नमयं कूटागारं निर्मिणोति, विचित्रां चासनप्रज्ञप्तिम्; तत्र चत्वारो महाराजाश्चतुर्षु द्वारेष्ववस्थिताः, धृतराष्ट्रो, विरूढकः, विरूपाक्षः, कुबेरश्च; पूर्वस्मिन् द्वारे धृतराष्ट्र (१९७) अङ्गदकुण्डलविचित्रमाल्याभरणविभूषितः, दक्षिणे विरूढको दिव्यालङ्कारविभूषितः, पश्चिमे च विरूपाक्षो नानारत्नविभूषितः, उत्तरे कुबेरः सर्वालङ्कारविभूषितः; ततः शक्रो देवेन्द्रो न्यग्रोधारामे महतीं विभूतिं कारयित्वा येन भगवांस्तेनोपसङ्क्रान्तः; उपसङ्क्रम्य भगवत एतमर्थं विस्तरेणारोचयति; ततो भगवान् शक्रादिभिरनेकैर्देवताशतसहस्रैऋ परिवृतः कूटागारं प्रविश्य महत्या देवपर्षदः पुरस्तान्नानारत्नविभूषिते सिंहासने निषण्णः; अथ आयुष्मान्महामौद्गल्यायनो राजानं शुद्धोदनमादाय येन भगवांस्तेनोपसङ्क्रान्तः; उपसङ्क्रम्यायुष्मान्महामौद्गल्यायनः प्रविष्टः; राजा शुद्धोदनो धृतराष्ट्रेण देवराजेन निवारितः, तिष्ठ <तिष्ठ> महाराज मा प्रविक्षः; किं कारणम्? भगवान् शुद्धायां देवपर्षदि धर्मं देशयति; नात्र मानुषमात्रस्य प्रवेशोऽस्तीति; अथ राजा शुद्धोदनः दक्षिणं द्वारं गतः; विरूढकेन देवराजेन दृष्ट्वाभिहितः: तिष्ठ तिष्ठ महाराज मा प्रविक्षः; राजा शुद्धोदनः कथयति: कस्त्वं भद्रमुख; अहमस्मि महाराज विरूढकः; भगवान् शुद्धायां देवपर्षदि धर्मं देशयति; नात्र मनुष्यप्रवेशोऽस्तीति; अथ राजा शुद्धोदनः पश्चिमं द्वारं गतः; विरूपाक्षेण देवराजेन दृष्ट्वाभिहितः: तिष्ठ तिष्ठ महाराज, मा प्रविक्षः; राजा शुद्धोदनः कथयति, कस्त्वं भद्रमुख; विरूपाक्षः कथयति; अहमस्मि महाराज विरूपाक्षः; भगवान् शुद्धायां देवपर्षदि धर्मं देशयति; यत्र मनुष्यभूतस्य न प्रवेशो लभ्यते; अथ राजा शुद्धोदन उत्तरं द्वारं गतः; वैश्रवणेन महाराजेन दृष्ट्वा अभिहितः, तिष्ठ तिष्ठ महाराज मा प्रविक्षः; राजा शुद्धोदनः कथयति, कस्त्वं भद्रमुख; (अ ४२१ ) वैश्रवणः कथयति, अहमस्मि महाराज वैश्रवणः; भगवान् शुद्धायां देवपर्षदि धर्मं देशयति; नात्र मनुष्यभूतस्य प्रवेशो लभ्यत इति अथ राज्ञः शुद्धोदनस्य स्पृहा उत्पन्ना; अहो बताहं भगवन्तं शुद्धायां देवपर्शदि धर्मं देशयन्तं पश्येयमिति; ततो राज्ञः शुद्धोदनस्य यासौ लीना सन्ततिः सा प्रतिविगता; भगवान् संलक्षयति: राजा शुद्धोदनो यदि मां न पश्यति, स्थानमेतद्विद्यते यदुष्णं शोणितं छर्दयित्वा कालं करिष्यति; तद्(१९८) उपायसंविधानं कर्तव्यमिति; भगवता यत्तत्चतूरत्नमयं कूटागारं तत्स्फटिकमयं निर्मितम्; येन राजा शुद्धोदन अनावृतं बुद्धशरीरं पश्यति; दृष्ट्वा च पुनः प्रीतिप्रामोद्यजातः भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषण्णः ______________________________________________________________ थे बुद्ध तेअछेस्तो शुद्धोदन अथ राज्ञः शुद्धोदनस्य आशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशीं चतुरार्यसत्यसंप्रतिवेधिकीं धर्मदेशनां कृतवान्, यां श्रुत्वा राज्ञा शुद्धोदनेन विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्वा स्रोतआपत्तिफलं साक्षाक्त्कृतम्; स दृष्टसत्यस्त्रिरुदानमुदानयति: इदमस्माकं भदन्त न मात्रा कृतम्; न पित्रा, न राज्ञा, न देवताभिः, न पूर्वप्रेतैः, न श्रमणब्राह्मणैः, नान्येन स्वजनबन्धुवर्गेण, यद्भगवता अस्माकं कृतम्; उच्छोषिता रुधिराश्रुसमुद्राः; लङ्घिता अस्थिपर्वताः; पिहितान्यपायद्वाराणि; विवृतानि स्वर्गमोक्षद्वाराणि; प्रतिष्ठापिता देवमनुष्येषु; आह च: यत्कर्तव्यं सुपुत्रेण पितुः प्रत्युपकारिणा । तत्त्वया कृतमस्माकं चित्तं मोक्षपरायणम् ॥ दुर्गतिभ्यः समुद्दृत्य स्वर्गे मोक्षे च ते वयम् । स्थापिता सुप्रयत्नेन साधु ते दुष्करं कृतम् ॥ वणिजा इव लोभेन स्वर्गलोभेन ते वयम् । लम्भिता नाथ वात्सल्याद्भवभोगाभिलाषिणः ॥ अथ राजा शुद्धोदनः उत्थायासनादेकांसमुत्तरासङ्गं कृत्वा येन भगवांस्तेनाञ्जलिं प्रणमय्य भगवन्तमिदमवोचत्: अधिवासयतु मे भगवान् श्वोऽन्तर्गृहे भक्तेन, सार्धं भिक्षुसङ्घेन; अधिवासयति भगवान् राज्ञः शुद्धोदनस्य तूष्णींभावेन; अथ राजा शुद्धोदनो भगवतस्तूष्णींभावेन अधिवासनां विदित्वा भगवतः पादौ शिरसा वन्दित्वा भगवतोऽन्तिकात्प्रक्रान्तो येन शुक्लोदनस्तेनोपसङ्क्रान्तः; उपसङ्क्रम्य शुक्लोदनमिदमवोचत्: कुमार राज्याभिषेकस्ते प्राप्तः; प्रतीच्छ राज्यम्; कस्यार्थे? यतो भगवतः सकाशात्सत्यानि दृष्टानि; कतरस्मिन् दिवसे? अद्यैव; (१९९) मया यमेव दिवसं भगवता न्यग्रोधारामे धर्मो देशितस्तमेव दिवसं सप्तसप्तत्या शाक्यसहस्रैः सार्धं सत्यानि दृष्टानीति; एवं द्रोणोदनो राज्यं प्रतीच्छेत्युक्तः; स कथयति: यदा भगवता ब्रह्मावर्ते उद्याने धर्मो देशितस्तदा षट्सप्तत्या शाक्यसहस्रैः सार्धं सत्यानि दृष्टानीति; एवममृतोदनो राज्यं प्रतीच्छेत्युक्तः स कथयति, मयापि यदा भगवता रोहीतके उद्याने धर्मो देशितस्तदा पञ्चसप्तत्या शाक्यसहस्रैः सार्धं सत्यानि दृष्टानि; यद्येवमिदानीं कं राज्ये प्रतिष्ठापयामः; (अ ४२१ ) ते कथयन्ति; भद्रिकं शाक्यराजमिति; तैः संभूय भद्रिकः शाक्यराजो राज्यैश्वर्याधिपत्ये अभिषिक्तः ______________________________________________________________ देदिचतिओनोf न्यग्रोधाराम अथ राजा शुद्धोदनस्तामेव रात्रिं शुचि प्रणीतं खादनीयभोजनीयं समुदानीय कल्यमेवोत्थाय आसनकानि प्रज्ञाप्य उदकमणीन् प्रतिष्ठाप्य भगवतो दूतेन कालमारोचयति: समयो भदन्त; सज्जं भक्तम्; यस्येदानीं भगवान् कालं मन्यते इति; अथ भगवान् पूर्वाह्णे निवास्य पात्रचीवरमादाय भिक्षुगणपरिवृतो भिक्षुसङ्घपुरस्कृतो येन राज्ञः शुद्धोदनस्य भक्ताभिसारस्तेनोपसङ्क्रान्तः; उपसङ्क्रम्य पुरस्ताद्भिक्षुसङ्घस्य प्रज्ञप्त एवासने निषण्णः; अथ राजा शुद्धोदनः सुखोपनिषण्णं बुद्धप्रमुखं भिक्षुसङ्घं विदित्वा शुचिना प्रणीतेन खादनीयभोजनीयेन स्वहस्तं सन्तर्पयति, संप्रवारयति; अनेकपर्यायेण शुचिना प्रणीतेन खादनीयभोजनीयेन स्वहस्तं सन्तर्प्य संप्रवार्य भगवन्तं भुक्तवन्तं विदित्वा धौतहस्तमपनीतपात्रं सौवर्णं भृङ्गारं गृहीत्वा भगवते न्यग्रोधारामं निर्यातितवान्; भगवता च पञ्चाङ्गोपेतेन स्वरेण दक्षिणा आदिष्टा: इतो दानाद्धि यत्पुण्यं तच्छाक्यानुपगच्छतु । प्राप्नुवन्तु पदं नित्यमीप्सितान् वा मनोरथान् ॥ इति; तत्र भगवान् कपिलवस्तुनि विहरति न्यग्रोधारामे; तथा स्थविरैरपि सूत्रान्त उपनिबद्धम्, भगवान् कपिलवस्तुनि न्यग्रोधारामे इति; भगवान् कपिलवस्तुन्यवस्थितः एकं दिवसं राजकुले भुक्तः, एकं दिवसमन्तःपुरे (२००) ______________________________________________________________ थे शाक्यस्fओल्लोw थे बुद्ध राज्ञा शुद्धोदनेन जटिला प्रव्रजिताः भिक्षवो दृष्टाः; शान्तेर्यापथत्वाच्चित्तप्रासादिका नो तु कायप्रासादिकाः कष्टैस्तपोव्रतविशेषैः कर्शितशरीराः; दृष्ट्वा च पुनरस्यैतदभवत्: किं वापीमे जटिलाः शान्तेर्यापथत्वाच्चित्तप्रासादिकाः नो तु कायप्रासादिकाः; कथंरूपेण परिवारेण भगवान् शोभेत; संलक्षयति, शाक्यपरिवारेणैति; ततः सर्वशाक्यान् सन्निपात्य कथयति; भवन्तो यदि सर्वार्थसिद्धः कुमारो न प्रव्रजितोऽभविष्यत्, कोऽभविष्यद्? राजा चक्रवर्ती; यूयं केऽभविष्यत? अनुयात्रिकाः; इदानीं सर्वार्थसिद्धः कुमारोऽनुत्तरो धर्मराजः; कस्मान्नानुयात्रिका भवथ; देव किं प्रव्रजामः? प्रव्रजत; किं सर्व एव? कुलैकिकया; एवं कुर्मः; राज्ञा शुद्धोदनेन कपिलवस्तुनगरे घण्टावघोषणं कारितम्; राजा एवं समाज्ञापयति मम विषयनिवासिभिः शाक्यैः कुलैकिकया प्रव्रजितव्यमिति ______________________________________________________________ अनिरुद्ध अन्द्महानामन् द्रोणोदनस्य द्वौ पुत्रौ अनिरुद्धो महानामा च; तयोर्महानामा कृषिकर्मान्तानुष्ठाने अत्यर्थमभियुक्तः; अनिरुद्धस्तु उपरिप्रासादतलगतो निष्पुरुषेण तूर्येण क्रीडति रमते परिचारयति; महानामा मात्रा अभिहितः: पुत्र राज्ञा घण्टावघोषणं कारितं शाक्यैः कुलैकिकया प्रव्रजितव्यमिति; स त्वं प्रव्रज; स कथयति, नाहं प्रव्रजामि; यस्ते प्रियः पुत्रः सुखासीनस्तिष्ठति तं प्रव्राजय; पुत्र पुण्यमहेशाख्यो (अ ४२२ )ऽसौ सत्वो; मा तेन सह स्पर्धां कुरु; अम्ब त्वं तस्याभिप्रसन्ना येनासौ पुण्यमहेशाख्यः; अद्य तस्याम्ब मा किंचित्प्रेषय; ज्ञास्यामि किं पुण्यमहेशाख्यो न वेति; पुत्र एवं भवतु; प्रत्यक्षीकरोमि; तया रिक्तपिठरिकाभि <ः> पेटकं पूरयित्वा शुक्लेन वस्त्रेण आच्छाद्य मुद्रालक्षितं कृत्वा प्रेष्यदारिकाया हस्ते प्रेषितः; सन्दिष्टा, यदि पृच्छेत्किमत्रेति, वक्तव्यं न किंचिदिति; सा तमादाय संप्रस्थिता; (२०१) शक्रस्य देवेन्द्रस्य अधस्ताज्ज्ञानदर्शनं प्रवर्तते; स संलक्षयति: येन नाम उपारिष्टः प्रत्येकबुद्धः पिण्डकेन प्रतिपादितः; तस्याद्य कथं भोजनेन विघातो भविष्यतीति; भोजनोपसंहारोऽस्य कर्तव्य इति; तेनासौ पेटको नानासूपिकरसव्यञ्जनोपेतस्याहारस्य पूरितः; यावदसौ दारिका तमादाय अनिरुद्धस्य सकाशं गता; तदा तेनोक्ता दारिका, किमत्रेति; सा कथयति, कुमार न किंचिदिति; अनिरुद्धः संलक्षयति: प्रियोऽहं मातुः; किमसौ रिक्तं प्रेषयिष्यतीति; नूनमत्र नाम नकिंचिद्भोजनं प्रक्षिप्तम्; पश्यामि तावदिति समुद्घाटितम्; सर्वं तदुद्यानमनेकोपकरणसुरभिगन्धसंपूर्णं व्यवस्थितम्; घ्रात्वा अनिरुद्धः परं विस्मयमुपगतः; मातृभक्तोऽसौ; तेन मातुरग्रपिण्डपातः प्रेषितः; सन्दिष्टं च अम्ब प्रतिदिवसमीदृशं नकिंचिन्नाम भोजनं प्रेषयितुमर्हसीति; सापि दृष्ट्वा परं विस्मयमुपगता; तया महानाम्नो दर्शितम्; पुत्र दृष्टं ते? अम्ब दृष्टम्; तन्न त्वं मया पूर्वमेवोक्तः पुण्यमहेशाख्यस्स सत्वमनुष्यसुभगः; मा तेन सह स्पर्धां कुरुष्वेति; स कथयति: अम्ब पुण्यमहेशाख्यो वा भवतु मा वा; नाहं प्रव्रजामीति; यतश्च महानामा सर्वावस्थं नाधिवासितवान् प्रव्रज्यां, ततस्तया अनिरुद्धोऽभिहितः: पुत्र राज्ञा घण्टावघोषणं कारितम्: शाक्यैः कुलैकिकया प्रव्रजितव्यमिति; स त्वं किं प्रव्रजसि, आहोस्विद्गृहे तिष्ठसीति; स कथयति: अम्ब प्रव्रज्यायां कोऽनुशंसः? क आदीनवः? गृहावासे कोऽनुशंसः? क आदीनवः? पुत्र प्रव्रज्या संपद्यमाना निर्वाणावाहिका भवति; विपद्यमाना देवमनुष्यावाहिका भवति; गृहावासः सम्यक्प्रतिपाल्यमानो देवमनुष्यावाहकः; अप्रतिपाल्यमानो नरकतिर्यक्प्रेतावाहकः; अम्ब यः प्रव्रज्यायामादीनवः, स गृहावासे अनुशंसः; तस्मादलं गृहावासेन; अनुजानीहि; प्रव्रजामीति; सा कथयति: पुत्र शोभनम्, एवं कुरु; अनिरुद्धस्य भद्रिकः शाक्यराजो वयस्यकः; स तस्य सकाशं गतः; तेन खलु समयेन भद्रिकः शाक्यराजो वीणां सारयति; तस्य वीणां सारयतः तन्त्री च्छिन्ना; स्वरः स्वरान्तरं गतः; अनिरुद्धो वीणायां कृतावी; तेन यथानुस्वरं निमित्तमुद्गृहीतम्; स द्वारे स्थित्वा दौवारिकं पुरुषमामन्त्रयते: गच्छ भोः पुरुष, भद्रिकस्य राज्ञो निवेदय अनिरुद्धो द्वारे तिष्ठति देवं द्रष्टुकाम इति; दौवारिकेण (२०२) गत्वा भद्रिकस्य शाक्यराजस्य निवेदितम्: देव अनिरुद्धो द्वारे तिष्ठति (अ ४२२ ) देवं द्रष्टुकाम इति; स कथयति: प्रविशतु भवाननिरुद्धः; को भवन्तमनिरुद्धं वारयति; स प्रविष्टः; राज्ञा परिष्वज्य निषादितः; उक्तश्च कियच्चिरं तवागतस्येति; स कथयति; यदा तव वीणां सारयतस्तन्त्री छिन्ना; स्वरो स्वरान्तरं गत इति; स परं विस्मयमापन्नः कथयति: वीणायां भवान् कृतावी; भद्रिकः शाक्यराजः कथयति: कुमार किमागमनप्रयोजनम्; अनिरुद्धः कथयति: देव राज्ञा शुद्धोदनेन घण्टावघोषणं कारितम्: शाक्यैः कुलैकिकया प्रव्रजितव्यमिति; तदवलोकितो भव; प्रव्रजामिति; राजा कथयति, यद्येवमहमपि प्रव्रजामीति; संप्रधारयावेति; अद्य त्वमिहैव वासम् <उपगच्छ; स इहैव वासम्> उपगतः: शय्याकर्मान्तिकेन शाय्यायां ज्वरगन्धिकानि वस्त्राण्याच्छादितानि; पुष्पाणि चावकीर्णानि; अनिरुद्धः शय्यानिषण्णः; तस्य मल्लिकावृन्तमधस्तादवस्थितम्; स स्पर्शप्रतिसंवेदी कथयति: किमत्राधस्ताच्छिलापुत्रकस्तिष्ठतीति; ते प्रत्यवेक्षितुमारब्धाः; मल्लिकावृन्तं <दृष्ट्वा> ते परं विस्मयमापन्नाः; अनिरुद्धो रात्रौ दुःखं सुप्तः; प्रभातायां रजन्यां राज्ञाभिहितम्: कच्चिदनिरुद्धः सुखं सुप्त इति; स कथयति: देव न सुखं सुप्त इति; राज्ञाभिहितम्, किमर्थम्; अनिरुद्धः कथयति; देव ज्वरगन्धानि वस्त्राणि प्रज्ञप्तानि; पुष्पाणि चावकीर्णानि; पुष्पवृन्तैः कायो द्रूयते; राज्ञा शय्याकर्मान्तिक आहूयोक्तः: किमर्थं त्वया ज्वरगन्धानि वस्त्राणि प्रज्ञप्तानि; शय्याकर्मान्तिकेनाभिहितम्: मम भाण्डागारिकेन अनुप्रदत्तानि; राज्ञा भाण्डागारिक आहूयोक्तः: किमर्थं त्वया ज्वरगन्धिकानि वस्त्राण्यनुप्रदत्तानि; स कथयति; देव मम तन्तुवायेनानुप्रदत्तानि; राज्ञा तन्तुवाय आहूयोक्तः; किमर्थं त्वया ज्वरगन्धिकानि वस्त्राण्यनुप्रदत्तानि? तन्तुवायः कथयति: देव वस्त्रे ऊयमाने किंचिच्छेषम्; तन्मया ज्वरितेन उतम्; राजा कथयति: कुमार कथं त्वया विज्ञातम्; स कथयति, उष्णस्पर्शप्रतिसंवेदनात्; ज्वरगन्धेन च; राजा परं विस्मयमापन्नः कथयति: (२०३) भवन्त अनिरुद्धो भवति शाक्यसुभगः; ततो भद्रिकेन शाक्यराजेनाभिहितः: यद्यहं प्रव्रजामि, देवदत्तः शाक्यानां राजा भविष्यति; स शाक्यानामनर्थं करिष्यति; यन्नु वयं सर्वे संभूय देवदत्तं प्रोत्साहयाम इति ______________________________________________________________ देवदत्त एन्त्रप्पेद् स भद्रिकेन शाक्यराजेनाहूतः; ततः सर्वैः सम्भूयाभिहितः: देवदत्त वयं सर्वे प्रव्रजामः; त्वं किं करिष्यसि; देवदत्तः संलक्षयति: यदि वक्ष्यामि न प्रव्रजामीति भद्रिकः शाक्यराजो न प्रव्रजिष्यति; तदुपायसंविधानेन एनान् विप्रलम्भयामि; अपि नु मया यमेव दिवसं भगवता न्यग्रोधारामे ऋद्धिप्रातिहार्यं विदर्शितं तदैव मे बुद्धिरुत्पन्ना, यथैवानेन अन्वावर्तिन्या मायया महाजनकायोऽन्वावर्तितः, तथैव मया अन्वावर्तितव्यः; इति विदित्वा कथयति: देव यूयं प्रव्रजथ; (अ ४२२ ) अहं किमर्थं तिष्ठामीति; भद्रिकः शाक्यराजः संलक्षयति: मृषावादिकोऽयम्; प्रतिज्ञायां स्थापयित्वा महाजनकायः प्रतिसंविदितः कर्तव्य इति; ततो राज्ञा तस्य तद्वचनं पत्राभिलिखितं कृत्वा कपिलवस्तुनि नगरे घण्टावघोषणं कारितम्: शृण्वन्तु भवन्तः कपिलवस्तुनिवासिनः पौरा, भद्रिकरेवतानिरुद्धदेवदत्तप्रमुखानि पञ्चशाक्यशतानि प्रव्रजिष्यन्ति; श्रुत्वा भवद्भिः प्रामोद्यमुत्पादयितव्यमिति; श्रुत्वा देवदत्तस्य महद्दुःखदौर्मनस्यमुत्पन्नम्; यदि मया विज्ञातमभविष्यत्भद्रिकः शाक्यराजो निश्चयेन प्रव्रजेदिति, न मया प्रतिज्ञातमभविष्यत्; इदानीं यदि न प्रव्रजिष्यामि, मृषावादिक इति कृत्वा राज्यमपि न लप्स्ये; सर्वथा किमत्र प्राप्तकालम्; प्रव्रजामि; प्रव्रजित एव राज्यं कारयिष्यामीति ______________________________________________________________ ओर्दिनतिओनोf fइवे हुन्द्रेद्शाक्यस् अथ राज्ञः शुद्धोदनस्य एतदभवत्: अपश्चिमां शाक्यानां विभूतिं पश्यामीति; तेन तन्नगरमपगतपाषाणाशर्करकठल्लं व्यवस्थापितं, चन्दनवारिपरिषिक्तमुच्छ्रितध्वजपताकमामुक्तपट्टदामकलापं सुरभिधूपघटिकोपनिबद्धं नानापुष्पावकीर्णं रमणीयम्; ततः अनेकशाक्यशतसहस्रपरिवारः नगरद्वारे सिंहासने निषण्णः; शाक्यस्त्रियः शाक्यकुमार्याश्च कुतूहलजाता गवाक्षवातायनवेदिकास्ववस्थिताः, शाक्यानां विभूतिं द्रष्टुकामः (२०४) नानादेशभ्यागतश्च जनकायः रथ्यावीथीचत्वरशृङ्गाटकेषु; नैमित्तिका ब्राहमणा विपञ्चनका आहूताः शाक्यपरीक्षां प्रति, कोऽत्राराधकः को न वेति; अथ शाक्या मातापित्राववलोक्य हारकटककेयूराद्यलङ्कारविभूषिताः प्रत्येकप्रत्येकं रथेष्वभिरुह्य निर्गन्तुमारब्धाः; पूर्वं भद्रिकः शाक्यराजो निर्गतः; नैमित्तिकैर्दृष्टः; ते कथयन्ति: एष तावदाराधको भविष्यतीति; एवं रेवतानिरुद्धप्रभृतयो निर्गताः; तेऽपि नैमित्तिकैर्व्याकृताः; ततो देवदत्तो निर्गतः; तस्य निर्गच्छतः श्येनकेन शकुनकेन चूडामणिरपहृतः; नैमित्तिकैर्दृष्टः; ते कथयन्ति: यादृशमस्य निमित्तं नियतमयं शास्तरि प्रहृत्य नरकपरायणो भवतीति; कोकालिकखण्डद्रव्यकटमोरकतिष्यसमुद्रदत्तानां निर्गच्छतां खरेण वाशितम्; तेऽपि नैमित्तिकैर्व्याकृताः: एतेऽपि महाश्रावकेषु वाग्दुश्चरितं कृत्वा नरकपरायणा भविष्यन्ति इति; उपनन्दस्य हस्तिस्कन्धाभिरूढस्य इतश्चामुतश्च व्यवलोकयतो मुक्ताहारः पतितः; स हस्तिस्कन्धादवतीर्य गृहीतः; सोऽपि व्याकृतः: अनेनात्यन्तलोभान्नरकेषूपपत्तव्यमिति; ततस्तेषां शाक्यानां भद्रिकानिरुद्धदेवदत्तप्रमुखानि पञ्चशाक्यशतानि उद्यानयात्राप्रतिस्पर्धया शोभया येन भगवांस्तेनोपसङ्क्रान्तानि; भगवान् संलक्षयति: सचेदहं शाक्यानेहिभिक्षुकया प्रव्राजयिष्यामि केचिदाराधका भविष्यन्ति, केचिदनाराधकाः; ये अनाराधकास्तेषां भविष्यत्यन्यथात्वम्; सर्वश्चैहिभिक्षुश्चरमभविकः; यन्वहं सर्वानेव भिक्षून् (अ ४२२ ) ज्ञप्तिचतुर्थेन कर्मणा प्रव्राजयेयमुपसंपादयेयम्; इति विदित्वा भिक्षूनामन्त्रयते: प्रव्राजयत भिक्षवः कापिलवास्तवान् शाक्यान्, उपसंपादयत ज्ञप्तिचतुर्थेन कर्मणा इति; एवं भदन्तेति ते भिक्षवो भगवतः प्रत्यश्रौषुः ______________________________________________________________ उपालिन्, थे बर्बेर् शाक्यानामुपाली नाम कल्पकः राज्ञा शुद्दोदनेन तेषां प्रव्रजतां केशावरोपकः प्रेषितः; भद्रिकस्य शाक्यराजस्य केशानवतारयन् सोऽश्रुदुर्दिनवदनो बाष्पोपरुद्ध्यमानहृदयो मुहुर्(२०५) निश्वासपरायणः केशानवतारयति; भद्रिकः शाक्यराजः कथयति: उपालिन् किमर्थं रोदिषि? स करुणदीनविलम्बितैरक्षरैः कथयति: देव मया जम्बूद्वीपप्रधानानां पुरुषाणामुपस्थानं कृत्वा, इदानीं प्राकृतपुरुषाणामुपस्थानं कर्तव्यं भविष्यति; कामं प्राणवियोगः, न युष्माभिः परित्यक्तस्य जीवितमिति; भद्रिकः शाक्यराजः कथयति: अलमुपालिन् दर्शितस्त्वया स्वामिभक्त्यनुरागः; नियच्छ शोकम्; अहं तथा करिष्यामि यथा प्राकृतपुरुषाणामुपस्थानं न करिष्यसि; इति विदित्वा तेनैकस्मिन् प्रदेशे पटकः प्रसारितः, शाक्यकुमाराश्च अभिहिताः: शृण्वन्तु भवन्तः कुमारा एषोऽस्माकमुपाली कल्पकः कृतोपस्थानः; तदस्य जीविकानिमित्तमलङ्कारं पटे स्थापयत; नास्माभिः पुनरगारे वस्तव्यमिति; तैर्हारार्धहारकटककेयूरकुण्डलानां नानारत्नप्रत्युप्तानामलङ्कारविशेषाणां पटके महान् राशिः कृतः; उपालिना तेषामनुपूर्वेण केशावरोपणं कृतम्; ते स्नातुं गताः; स संलक्षयति: इमे तावत्कुमाराः कुलविभवयौवनोपेताः स्फीतान्यन्तःपुराणि, स्फीतानि कोशकोष्ठागाराण्यपास्य प्रव्रजिताः; अहमस्मिन्नलङ्कारमात्रे सक्तोऽनयेन व्यसनमापत्स्ये; यद्यहं न नीचकुलोत्पन्नः स्याम्, अहमपि स्वाख्याते धर्मविनये प्रव्रज्योद्युज्येयं, घटेयं, व्यायच्छेयम्, ओघानामुत्तरणाय, योगानां समतिक्रमणायेति धर्मता ह्येषा यथा बुद्धा भगवन्तस्त्री रात्रेः, त्रिर्दिवसस्य बुद्धचक्षुषा लोकं व्यवलोकयन्ति, एवं महाश्रावका अपि; अद्राक्षीदायुष्मान् शारिपुत्रः उपालिनं कल्पकमतीव संविग्नम्; दृष्ट्वा च पुनर्येनोपाली कल्पकस्तेनोपसङ्क्रान्तः; उपसङ्क्रम्य उपालिनं कल्पकमिदमवोचत्: कस्मात्त्वमुपालिनतीव संविग्नः करे कपोलं दत्वा चिन्तापरस्तिष्ठसीति; स कथयति: कथमहं भदन्त शारिपुत्र न चिन्तापरो भवामि यत्रेदानीममी कुमाराः कुलविभवयौवनोपेताः स्फीतान्यन्तःपुराणि स्फीतानि च कोशकोष्ठागाराण्यपास्य प्रव्रजिताः; अहमस्मिन्नलङ्कारमात्रे सक्तोऽनयेन व्यसनमापत्स्ये? यद्यहं न नीचकुलोत्पन्नः स्यामहमपि स्वाख्याते धर्मविनये प्रव्रज्य उद्युज्येयं, घटेयं, (२०६) व्यायच्छेयमोघानामुत्तरणाय, योगानां समतिक्रमणायेति; आयुष्मान् शारिपुत्रः कथयति: भद्रमुख नेदं मुनीन्द्रप्रवचनं जातिसारकं, न गोत्रसारकं, न श्रुतसारकम्; अपि तु प्रतिपत्तिसारकमिदं मुनीन्द्रप्रवचनम्; (अ ४२३ ) न जातिकुलगोत्राणि परीक्षन्ते तथागताः; कर्माणि तु परीक्षन्ते चिरकालकृतान्यपि; सचेदाकाङ्क्षसि स्वाख्याते धर्मविनये प्रव्रज्यामुपसंपदां भिक्षुभावम्, एहि भगवत्सकाशं गच्छाव; प्रव्राजयिष्यति ते भगवानिति; तेनाधिवासितम् ______________________________________________________________ उपालिनोर्दैनेद् अथायुष्मान् शारिपुत्रः उपालिनं कल्पकमादाय येन भगवांस्तेनोपसङ्क्रान्तः; उपसङ्क्रम्य भगवतः पादौ शिरसा वन्दित्वा भगवन्तमिदमवोचत्: अयं भदन्त उपाली आकाङ्क्षते स्वाख्याते धर्मविनये प्रव्रज्यामुपसंपदं भिक्षुभावम्; ततो भगवान् प्रव्राजयतु, उपसंपादयतु, अनुकम्पामुपादायेति; स भगवता आभाषितः एहि भिक्षो चर ब्रह्मचर्यमिति; भगवतो वाचोऽवसानसमनन्तरमेव मुण्डः संवृत्तः, सङ्घाटीप्रावृतः, पात्रकरकव्यग्रहस्तः, सप्ताहावरोपितकेशश्मश्रुः, वर्षशतोपसम्पन्नस्य भिक्षोरीर्यापथेनावस्थितः; आह चात्र: एहीति चोक्तः स तथागतेन मुण्डश्च सङ्घाटिपरीतदेहः । सद्यः प्रशान्तेन्द्रिय एव तस्थौ नेपथ्यितो बुद्धमनोरथेन ॥ शाक्याः प्रव्रजिताः यथावृद्धिकया सामीचीं कार्यन्ते; भद्रिकेन शाक्यराजेन सामीचीं कुर्वता उपालिनः पादौ प्रत्यभिज्ञातौ, ततो मुखं व्यवलोकितम्; स कथयति: भगवन्नेष उपाली; किमस्यापि मया पादयोर्निपतितव्यमिति; भगवानाह: वत्स मानप्रहाणाय प्रव्रज्या; तवैष वृद्धो निहतमदमानः; निपतेति; स तस्य पादयोर्निपतितः; षड्विकारं पृथिवीकम्पो जातः; इयं महापृथिवी चलति, संचलति, संप्रचलति; व्यथते, प्रव्यथते संप्रव्यथते; पूर्वा दिगुन्नमति; पश्चिमावनमति; पश्चिमा उन्नमति; पुर्वा अवनमति; दक्षिणा उन्नमति; उत्तरा अवनमति; उत्तरा उन्नमति; दक्षिणा अवनमति; (२०७) मध्य उन्नमति, अन्तोऽवनमति; अन्त उन्नमति, मध्योऽवनमति; एवमनुपूर्वेण निपतिताः; देवदत्तो न निपतति; भगवान् कथयति: वत्स मानप्रहाणाय प्रव्रज्या, निपतेति; स कथयति; तव किं विद्यते? नाहमस्य पादयोर्निपतामीति; स न निपततीति तत्र देवदत्तेन भगवतस्तत्प्रथमतः आज्ञा प्रतिव्यूढा भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: पश्य भदन्त भद्रिकेन शाक्यराजेन उपालिनो वन्दनायां कृतायां षड्विकारं पृथिवीकम्पो जातः इति; भगवानाह: न भिक्षव एतर्हि, यथातीतेऽपि अध्वन्येषा धर्मता; योऽसौ पादयोर्निपतितः; षड्विकारश्च पृथिवीकम्पो जातः; तच्छ्रूयताम् ______________________________________________________________ सुन्दर, थे स्तुदेन्त्, अन्द्भद्रा, थे हर्लोत् भूतपूर्वं भिक्षवो वाराणस्यां नगर्यां ब्रह्मदत्तो नाम राजा राज्यं कारयति, ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं च आकीर्णबहुजनमनुष्यं च; तेन खलु समयेन वाराणस्यां नगर्यां भद्रा नाम रूपाजीविनी प्रतिवसति; सुन्दराश्च नाम्ना माणवकः; स तस्याः सकाशमुपसङ्क्रान्तः कथयति: भद्रे आगच्छ परिचारयाम इति; सा कथयति; सन्ति ते पञ्च कार्षापणशतानीति; (अ ४२३ ) स कथयति, न सन्ति; गच्छ, पञ्च कार्षापणशतानि गृहीत्वा आगच्छ; तस्य विभवो नास्ति; स तस्यामत्यर्थमध्यवसितः; कालेन कालं नानाविचित्राणि पुष्पाणि, फलानि चोपनाम्यति; तस्यास्तस्मिन्ननुनय उत्पन्नः; यावदपरेण समयेन वाराणस्यां पर्वा प्रत्युपस्थितः; सर्वास्स्त्रियो वस्त्रमाल्यालङ्कारविभूषिताः स्वकस्वकेषु क्रीडारतिहर्षबहुला अवतिष्ठन्ते; ता दृष्ट्वा सुन्दरो माणवः परितस्यति; भद्रा रूपाजीविनी संलक्षयति: अद्य वाराणसेया मनुष्या वस्त्रालङ्कारविभूषिता स्वकस्वकाभिः स्त्रीभिः सार्धं परिचारयिष्यन्ति; सुन्दरो माणवकः मया सार्धं परिचारयिष्यति; सा चैवं चिन्तयति; सुन्दरश्च माणवकस्तं प्रदेशमनुप्राप्तः; सा तं दृष्ट्वा पूर्वोपकारसञ्जनितसौमनस्या कथयति: माणव गच्छ; सुगन्धानि पुष्पाण्यादायागच्छ; मया सार्धं परिचारयिष्यसीति; स नष्टोपलब्धप्राण इव विस्मयावर्जितसन्ततिः प्रक्रान्तः; तस्या रूपयौवनचातुर्यगुणान् विकल्पयन्मदाविष्टः कृत्स्नां रात्रिं जागरितः; प्रभातायां रजन्यामत्यर्थमिद्धर्पर्याकुलीकृतनयनस्तावत्सुप्तो यावदाधित्योदय इति; सर्वोपयोगाय लोकेन यदा सर्वाणि पुष्पाण्युच्चितानि तदा प्रतिविबुद्धः; पुष्पनिमित्तमितश्(२०८) चामुतश्च परिभ्रमति; नारागयति; शिरीषपुष्पाण्यादाय तस्याः सकाशमुपसङ्क्रान्तः; सा गाथां भाषते: अलसोऽजिनधार्यकर्मशीलो बटुकः सुन्दरको निरर्धमाषः । परिपुष्पितपादपेऽद्य काले प्रददात्येष हि यच्छिरीषपुष्पम् ॥ इति विदित्वा कथयति: गच्छ अन्यानि पुष्पाण्यादायागच्छेति; कामान् खलु प्रतिसेवमानस्य संयोजनान्युपचयं गच्छन्तीति स प्रवृद्धकामरागो ग्रीष्मणां पश्चिमे मासे व्यभ्रे दिने विगतबलाहके, स्थिते मध्याह्नसमये, नगरादतिविप्रकृष्टदेशेष्वरण्येषु वक्त्रापरवक्त्रं गायन् पुष्पाण्युच्चिनोति; राजा च ब्रह्मदत्तो मृगवधाय निर्गतः; स तीक्ष्णार्करश्मिसन्तापितः छायायाः शीतलं प्रदेशमनुप्राप्तः; तस्य गीतशब्दं श्रुत्वा गाथां भाषते: ऊर्ध्वं तपति आदित्यः अधस्ताद्दहति वालुका । कस्माद्गायसि गात्राणि न ते दहति आतपः ॥ इति; सुन्दरकोऽपि गाथां भाषते: न मां तापयत्यादित्यः सङ्कल्पास्तापयन्ति माम् । कार्याकार्याणि लोकेऽस्मिंस्तापयन्ति तु नातपः ॥ इति; राजा संलक्षयति: नूनमयं माणवः शैत्यकथासु कृतावी येन स्थिते मध्याह्नसमये पुष्पाण्युच्चिनोतीति; स तेनाभिहितः: कुरु माणव शैत्यां तावत्कथाम्; शृणोमीति; स संलक्षयति; नूनमस्य राज्ञः शरीरदाहः, येनैवं वदतीति; तेन तस्य विचित्रा शैत्यकथा कृता, यां श्रुत्वा राज्ञः शरीरदाहः प्रतिविगतः; राजा अभिप्रसन्नः; अमात्यान् पृच्छति; भवन्तो यो राज्ञो क्षत्रियस्य मूर्धाभिषिक्तस्य जीवितमनुप्रयच्छति, तस्य कः प्रत्युपकारः? देव उपार्धराज्यम्; ततस्स राज्ञा अभिहितः; माणव अद्य राजकुले वासं कल्पयस्व; उपार्धराज्यं ते प्रयच्छामि इति; तस्य राजकुले प्रणीतं शयनासनं दत्तम्; स तस्मिन् शयितः भद्रामनुस्मृत्य चिन्तयति; तदुपार्धराज्यं गृह्णामि यत्र भद्रा रूपाजीविनी इति; भूयः संलक्षयति: कीदृशः स राजा यत्र उपार्धराज्यं भुङ्क्ते; यन्वहमेनं जीविताद्व्यपरोपयेयमिति; पुनः संलक्षयति: (अ ४२४ ) अलमनेन राज्येन यद्राजानं प्रघात्य इति; ग्मथां च भाषते: (२०९) अप्राप्ते अर्थतर्षः प्राप्ते चार्थे न तर्षविनिवृत्तिः । अप्राप्ते च विघातस्तस्मादर्थे मतिरनर्थाय ॥ इति यावत्प्रभाता रजनी संवृत्ता, स विप्रतिसारजातः शयनादवतीर्य कृष्णाजीनमास्तीर्य भूमौ शयितः; प्रभातायां रजन्यां राजा कथयति: भवन्तः शब्दयत तं माणवम्; उपार्धराज्यं तस्मै अनुप्रयच्छामीति; राजदूता गताः पश्यन्ति; महाशयनादवतीर्य भूमौ शयितः; दृष्ट्वा च पुनरप्रसादं प्रवेदयन्तो राज्ञः सकाशं गताः कथयन्ति: देव नासावर्हति राज्यम्; राजा कथयति, किमर्थम्? ते कथयन्ति: देव यो हि नाम प्रणीतं शयनासनमपहाय भूमौ कृष्णाजिने शयितस्तस्य हीनाधिमुक्तस्य किं राज्येनेति; राजा कथयति: भवन्तः स प्राज्ञः, कारणेनात्र भवितव्यम्; शब्दयत इति; तैरसौ शब्दितः: राज्ञा पृष्टः: भो माणव किमर्थं त्वं महाशयनासनाद्कृष्णाजिने शयित इति; तेन यथावृत्तं राज्ञे समाख्यातम्; ततः कथयति: देव अनुजानीहि प्रव्रजामीति; राजा कथयति: समयतोऽनुजानामि; यदि प्रव्रजित्वा किञ्चिद्गुणगणमधिगच्छसि ममारोचयितव्यमिति; तेन प्रतिज्ञातमेवं भवत्विति; ततस्तेन शान्तं प्रदेशं गत्वा अनाचार्यकेण अनुपाध्यायकेन प्रत्येकबोधिरनुगता; स प्रत्येकबुद्धः संलक्षयति; मया तस्य राज्ञः प्रतिज्ञातम्; गच्छामि तां पूर्विकां प्रतिज्ञां निर्यातयामि इति; स राज्ञः सकाशं गत्वा उपरि विहायसमभ्युद्गम्य ज्वलनतपनवर्षणविद्योतनप्रातिहार्याणि कर्तुमारब्धः; राजा तस्य पादयोर्निपत्य गाथां भाषते: पश्याल्पकल्पप्रभवं विपाकं महान् विशेषो ह्युपगेन लब्धः । लाभाः सुलब्धा बत माणवेन यत्प्राव्रजत्किं कुशलं गवेषी ॥ ______________________________________________________________ गङ्गापाल, थे बर्बेर् राज्ञो ब्रह्मदत्तस्य गङ्गापालो नाम कल्पकः; तेनासौ सुन्दरप्रोक्तां गाथां गाथां ग्राहितः; उक्तश्च: गङ्गापाल भूयो भूयः मामेतां गाथां स्मारयिष्यसीति; गङ्गापालः कल्पकः स्वशिल्पे अत्यर्थं कृतावी; स यदा राज्ञो ब्रह्मदत्तस्य श्मश्रुकर्म करोति तदासौ मिद्धमवक्रामति; रिच्छतया प्रबोध्यते; प्रबुद्धश्(२१०) च गङ्गापालं वरेण प्रवारयति, वद कं ते वरमनुप्रयच्छामीति; स कथयति, देव विज्ञापयिष्यामीति; यदा गङ्गापालो राजानं गाथां स्मारयति तदा राज्ञः कामकथायामपि चित्तं न क्रामति; प्रागेव कामाध्याचरणे; सोऽन्तःपुरमन् व्यवलोकयति; अन्तःपुरिकाः क्लेशमदाविष्टाः गङ्गापालस्य कथयन्ति: मातुल यदा ते देवो वरेण प्रवारयति, तदा वक्तव्यम्, यदि मे देवोऽभिप्रसन्नः तदस्या गाथाया अर्थं विस्तरेण संप्रकाशयेदिति; राज्ञा तस्या गाथाया अर्थो विस्तरेण संविभक्तः; स संविग्नः पादयोर्निपत्य कथयति: देव कृतोपस्थानोऽहम्; प्रव्रजाम्यगारादनगारिकामिति; राजा कथयति: यदि प्रव्राजितः किञ्चिद्गुणगणमधिगमिष्यसि मम निवेदयिष्यसीति; स कथयति: देव एवं भवतु निवेदयिष्यामीति; (अ ४२४ ) स गत्वा ऋषीणां मध्ये प्रव्रजितः; तेन पञ्चाभिज्ञाः साक्षात्कृताः; तस्यैतदभवत्: मया राज्ञो ब्रह्मदत्तस्य प्रतिज्ञातम्; गच्छामि, तां पूर्विकां प्रतिज्ञां निर्यातयामीति; स येन राजा ब्रह्मदत्तस्तेन उपसङ्क्रान्तः; उपसङ्क्रम्य उपरि विहायसमभ्युद्गम्य ज्वलनतपनवर्षणविद्योतनप्रातिहार्याणि कर्तुमारभः; अस्ति पृथग्जनस्य ऋद्धिरावर्जनकरी; स पादयोर्निपत्य कथयति: आर्य त्वया एवंविधगुणगणा अधिगताः? अधिगताः; राजा ब्रह्मदत्तः गङ्गापालस्य ऋषेः <पादयोर्निपतति> षड्विकारः पृथिवीकम्पो जातः; माता चास्य गाथां भाषते: एतत्ते देवाम्रवणं ब्रह्मदत्तस्य धीमतः । प्रविभज्य हि यत्रैष प्राव्रजत्क्षुरभाण्डिकम् ॥ इति; राजा ब्रह्मदत्तो मातरमनुसंज्ञपयन् गाथां भाषते: मा वोचत ग्ङ्गपालमेवं किञ्चिन्मौनपदेषु शिक्षमाणम् । तस्यैष हि दुष्करस्य कर्ता यत्कृत्वा पृथुबुद्धयो भवन्ति ॥ तपसा ह्यभिभूय सर्वपापम् तपसा चाप्यभिभूय सर्वलोकम् । तपसा ह्यभिभूय कर्मभाण्डम् तपसा भाति न वाच्य एष किञ्चित् ॥ इति; (२११) किं मन्यध्वे भिक्षवो योऽसौ तेन कालेन तेन समयेन ब्रह्मदत्तो नाम राजाभूदेष एव स भद्रिकः शाक्यराजः; योऽसौ गङ्गपालनामा ऋषिरेष एवासावुपाली; तदापि भद्रिकेन शाक्यराजेन ब्रह्मदत्तभूतेन उपालिनो गङ्गपालऋषिभूतस्य प्रणामे कृते षड्विकारः पृथिवीकम्पो जातः; एतर्ह्यपि भद्रिकेन शाक्यराजेन उपालिनः प्रव्रजितस्य प्रणामे कृते षड्विकारः पृथिवीकम्पो जात इति. (२१७) ______________________________________________________________ अप्पेन्दिx इइ ______________________________________________________________ चोन्वेर्सिओनोf नन्दा अन्द्नन्दबला अथ भगवान्नन्दां च नन्दबलां च ग्रामिकदुहितरौ धार्म्यया कथया सन्दर्शयित्वा समादापयित्वा समुत्तेजयित्वा संप्रहर्षयित्वोत्थायासनात्प्रक्रान्तः ______________________________________________________________ मर्वेल्लोउस्देएद्सोf थे बुद्ध बेfओरे उरुबिल्वा काश्यप अ) थे बुद्ध सुब्दुएस नाग (च्प्स्२४ .१) अथ भगवतः सेनायनग्रामकात्प्रक्रम्यैतदभवत्: अस्तीह मगधेषु जनपदेषु कश्चिच्छ्रमणो वा ब्राह्मणो वा सुशीलः संमतो यमहमन्वावर्तयेयं यस्मिन्मेऽन्वावृत्तेऽल्पकृच्छ्रेण महाजनकायोऽन्वावर्तिष्यते; तेन खलु समयेनोरुबिल्वाकाश्यपो जटिलो जीर्णो वृद्धो महल्लको; स विंशतिवर्षशतिको जात्या मागधकानां मनुष्याणां सत्कृतो गुरुकृतो मानितो पूजितोऽर्हन् संमतः; पंचशतपरिवारो नद्या नैरंजनायास्तीर आश्रमपदे शाम्यते; अथ भगवत एतदभवत्: अयमुरुबिल्वाकाश्यपो जटिलो जीर्णो महल्लकः पूर्ववद्यावच्छाम्यते; यन्वहमुरुबिल्वाकाश्यपं जटिलमन्वावर्तयेयं यस्मिन्मेऽन्वावृत्तेऽल्पकृच्छ्रेण महाजनकायोऽन्वावर्तिष्यते (च्प्स्२४ .४) अथ भगवान् येनोरुबिल्वाकाश्यपस्य जटिलस्याश्रमपदं तेनोपजगाम; अद्राक्षीदुरुबिल्व्लाकाश्यपो जटिलो भगवन्तं दूरत एव; दृष्ट्वा च पुनर्भगवतोऽर्थायासनं प्रज्ञप्य भगवन्तमिदमवोचत्: आगच्छ महाश्रमण स्वागतं महाश्रमण; महाश्रमणश्चिरचिरस्य पर्यायमकार्षीदिहागमनाय; निषीदतु महशृअमणः प्रज्ञप्त एवासने; न्यषीदद्भगवान् प्रज्ञप्त एवासने; अथोरुबिल्वाकाश्यपो भगवता सार्धं संमोदनीं संरञ्जनीं विविधां कथां व्यतिसार्यैकान्ते न्यषीदत्; (२१८) एकान्तनिषण्णं भगवानुरुबिल्वाकाश्यपं जटिलमिदमवोचत्: यदि ते काश्यप अगुर्वहं तवाग्न्यागार एकरात्रीं विहरेयं; न मे महाश्रमण अगुरु; अपि तु तत्राशीविषो नागः प्रतिवसति; मा ते स विहेठयिष्यति; अङ्ग त्वं काश्यप अनुजानीहि न मे स विहेटयिष्यति; सचेन्महाश्रमण न ते विहेठयति तत्र महाश्रमण विहर यथासुखमेव; (च्प्स्२४ .९) अथ भगवान् बहिरग्न्यागारस्य पादौ प्रक्षाल्य अग्न्यागारं पर्विश्य न्यषीदत्पर्यङ्कमाभुज्य ऋजुं कायं प्रणिधाय प्रतिमुखां स्मृतिमुपस्थाप्य; अद्राक्षीदाशीविषो नागो भगवन्तं दूरत एव; दृष्ट्वा च क्रोधानुभावेन धूमयति; भगवानप्यृद्ध्यानुभावेन धूमयति; अथाशिविषो नागः क्रोधानुभावेन प्रज्वलितः; भगवांश्च तेजोधातुसमाधिं समापन्नः; अथाशीविषस्य नागस्य क्रोधानुभावेन भगवतश्च ऋद्ध्यानुभावेन सर्वोऽग्न्यागार आदीप्तः प्रदीप्तः संप्रज्वलित एकज्वलीभूतो ध्यायति; अद्राक्षीदुरुबिल्वाकाश्यपो जटिलो रात्र्याः प्रत्यूषसमये नक्षत्राणि व्यवलोकयमानः सर्वमग्न्यागारमादीप्तं प्रदीप्तं संप्रज्वलितमेकज्वलीभूतं ध्यायन्तं; (च्प्स्२४ .१३) दृष्ट्वा च तस्यैतदभवत्: तथा प्रासादिको महाश्रमणः; मा हैवाशीविषेण नागेन भस्मीकृतो भविष्यति; हा कष्टं मम वचनं नाश्रौषीत्; अथ भगवत एतदभवत्: धर्मदेशनार्थाय उरुबिल्वाकाश्यपस्य जटिलस्य सपरिषत्कस्य यन्वहं तद्रूपानृद्ध्यभिसंस्कारानभिसंस्कुर्यां यथाशीविषस्य नागस्य तेजसा तेजः पर्यादद्यां न चास्य कायः क्लाम्येत दान्तं च तं कृत्वा पात्रेणादाय उरुबिल्वाकाश्यपस्य जटिलस्य प्रयच्छेयम्; अथ भगवान् तद्रूपानृद्ध्यभिसंस्कारानभिसंकरोति यथा समाहिते चित्ते आशीविषस्य नागस्य तेजसा तेजः पर्याददाति न चास्य कायः क्लाम्यति; दान्तं च तं कृत्वा पात्रेणादाय येनोरुबिल्वाकाश्यपो जटिलस्तेनोपजगाम; (च्प्स्२४ .१७) अद्राक्षीदुरुबिल्वाकाश्यपो जटिलो भगवन्तं दूरत एव; दृष्ट्वा च भगवन्तमिदमवोचत्: जीवसि महाश्रमण; जीवामि काश्यप; किं नु ते महाश्रमण पात्रे; यस्य ते काश्यप आशीविषस्य नागस्यानुभावेन तवाग्न्यागार्....... स मया दान्तः कृत्वा पात्रेणानीतः; अथोरुबिल्वाकाश्यपस्य जटिलस्यैतदभवत्: आश्चर्यं यावन्महर्द्धिको महाश्रमनो महानुभावः; अपि त्वहमप्यर्हन् ______________________________________________________________ ब्) थे बुद्ध हिन्देर्स्थे लिघ्तिन्गोf थे fइरेसोf काश्यपऽस्स्तुदेन्त्स् (च्प्स्२४ .१) तत्रेदानिं भगवानुरुबिल्वाकाश्यपस्य जटिलस्याश्रमपदे विहरति वनगुल्मके; तेन खलु समयेनोरुबिल्वाकाश्यपस्य जटिलस्याश्रमपदे पञ्च माणवशतानि अग्निं परिचरन्ति; एकैकस्त्रीण्य्(२१९) अग्निकुण्डानि संक्षेपेण पञ्चदशाग्निकुण्डशतानि; अथ ते माणवका अग्निं प्रज्वालयित्वा परिचर्तुकामा न शक्नुवन्ति प्रज्वालयितुम्; अथ ते माणवका येनोरुबिलाकाश्यपो जटिलस्तेनोपजग्मुः; उपेत्योरुबुल्वाकाश्यपं जटिलमिदमवोचत्: इह वयमुपाध्यायाग्निं प्रज्वालयित्वा परिचर्तुकामा न शक्नुमः प्रज्वालयितुम्; (च्प्स्२४ .५) अथोरुबिल्वाकाश्यपस्य जटिलस्यैतदभवत्: महाश्रमणोऽस्माकं सामन्तके प्रतिवसति; मा हैव तस्यानुभावो भविष्यति; अथोरुबिल्वाकाश्यपो जटिलो येन भगवांस्तेनोपजगाम; उपेत्य भगवन्तमिदमवोचत्: इहास्मकं महाश्रमण ते माणवका अग्निं प्रज्वालयित्वा परिचर्तुकामा न शक्नुवन्ति प्रज्वालयितुम्; तस्य मे एतदभवत्: महाश्रमणोऽस्माकं सामन्तके प्रतिवसति मा हैव तस्यानुभावो भविष्यति; (च्प्स्२४ .८) प्रज्वलतु काश्यपाग्निः; प्रज्वलतु महाश्रमण; अथ सोऽग्निः स्वयमेव प्रज्वलितो यथापितद्बुद्धस्य बुद्धानुभावेन देवतानां च देवतानुभावेन; अथोरुबिल्वाकाश्यपस्य जटिलस्यैतदभवत्: आश्चर्यं यावन्महर्द्धिको महाश्रमणो महानुभावः; अपि त्वहमप्यर्हन् ______________________________________________________________ च्) थे बुद्ध हिन्देर्स्थे एxतिन्च्तिओनोf थे fइरे ओf काश्यपऽस्स्तुदेन्त्स् (च्प्स्२४ .१) तत्रेदानीं भगवानुरुबिल्वाकाश्यपस्य जटिलस्याश्रमपदे विहरति वनगुल्मके; अथ ते माणवका अग्निं परिचरित्वा निर्वापयितुकामा न शक्नुवन्ति निर्वापयितुम्; अथ ते माणवका येनोरुबिलाकाश्यपो जटिलस्तेनोपजग्मुः; उपेत्योरुबुल्वाकाश्यपं जटिलमिदमवोचत्: इह वयमुपाध्यायाग्निं परिचरित्वा निर्वापयितुकामा न शक्नुमो निर्वापयितुम्; (च्प्स्२४ .४) अथोरुबिल्वाकाश्यपस्य जटिलस्यैतदभवत्: महाश्रमणोऽस्माकं सामन्तके प्रतिवसति; मा हैव तस्यानुभावो भविष्यति; अथोरुबिल्वाकाश्यपो जटिलो येन भगवांस्तेनोपजगाम; उपेत्य भगवन्तमिदमवोचत्: इहास्मकं महाश्रमण ते माणवका अग्निं परिचरित्वा निर्वापयितुकामा न शक्नुवन्ति निर्वापयितुम्; तस्य मे तदभवत्: महाश्रमणोऽस्माकं सामन्तके प्रतिवसति मा हैव तस्यानुभावो भविष्यति; (च्प्स्२४ .७) निर्वातु काश्यपाग्निः; निर्वातु महाश्रमण; अथ सोऽग्निः स्वयमेव निर्वृतो यथापितद्बुद्धस्य बुद्धानुभावेन देवतानां च देवतानुभावेन; अथोरुबिल्वाकाश्यपस्य जटिलस्यैतदभवत्: आश्चर्यं यावन्महर्द्धिको महाश्रमणो महानुभावः; अपि त्वहमप्यर्हन् (२२०) ______________________________________________________________ द्) थे बुद्ध हिन्देर्स्थे लिघ्तिन्गोf काश्यपस्ऽस्fइरे (च्प्स्२४ .१) तत्रेदानीं भगवानुरुबिल्वाकाश्यपस्य जटिलस्याश्रमपदे विहरति वनगुल्मके; तेन खलु समयेनोरुबिल्वाकाश्यपो जटिलोऽग्निं प्रज्वालयित्वा परिचर्तुकामो न शक्नोति प्रज्वालयितुम्; अथोरुबिल्वाकाश्यपस्य जटिलस्यैतदभवत्: महाश्रमणोऽस्माकं सामन्तके प्रतिवसति; मा हैव तस्यानुभावो भविष्यति; अथोरुबिल्वाकाश्यपो जटिलो येन भगवांस्तेनोपजगाम; उपेत्य भगवन्तमिदमवोचत्: इहाहं महाश्रमणाग्निं प्रज्वालयित्वा परिचर्तुकामो न शक्नोमि प्रज्वालयितुम्; तस्य मे तदभवत्: महाश्रमणोऽस्माकं सामन्तके प्रतिवसति मा हैव तस्यानुभावो भविष्यति; प्रज्वलतु काश्यपाग्निः; प्रज्वलतु महाश्रमण; अथ सोऽग्निः स्वयमेव प्रज्वलितो यथापितद्बुद्धस्य बुद्धानुभावेन देवतानां च देवतानुभावेन; अथोरुबिल्वाकाश्यपस्य जटिलस्यैतदभवत्: आश्चर्यं यावन्महर्द्धिको महाश्रमणो महानुभावः; अपि त्वहमप्यर्हन् ______________________________________________________________ ए) थे बुद्ध हिन्देर्स्थे एxतिन्च्तिओनोf काश्यपऽस्fइरे (च्प्स्२४ .१) तत्रेदानीं भगवानुरुबिल्वाकाश्यपस्य जटिलस्याश्रमपदे विहरति वनगुल्मके; तेन खलु समयेनोरुबिल्वाकाश्यपो जटिलोऽग्निं परिचर्य निर्वापयितुकामो न शक्नोति निर्वापयितुम्; अथोरुबिल्वाकाश्यपस्य जटिलस्यैतदभवत्: महाश्रमणोऽस्माकं सामन्तके प्रतिवसति; मा हैव तस्यानुभावो भविष्यति; अथोरुबिल्वाकाश्यपो जटिलो येन भगवांस्तेनोपजगाम; उपेत्य भगवन्तमिदमवोचत्: इहाहं महाश्रमणाग्निं परिचर्य निर्वापयितुकामा न शक्नोमि निर्वापयितुम्; तस्य मे एतदभवत्: महाश्रमणोऽस्माकं सामन्तके प्रतिवसति मा हैव तस्यानुभावो भविष्यति; निर्वातु काश्यपाग्निः; निर्वातु महाश्रमण; अथ सोऽग्निः स्वयमेव निर्वृतो यथापितद्बुद्धस्य बुद्धानुभावेन देवतानां च देवतानुभावेन; अथोरुबिल्वाकाश्यपस्य जटिलस्यैतदभवत्: आश्चर्यं यावन्महर्द्धिको महाश्रमणो महानुभावः; अपि त्वहमप्यर्हन् ______________________________________________________________ f) थे बुद्ध सेत्स्fइरे तो थे fइरे-होउसे ओf काश्यप (च्प्स्२४ .१) तत्रेदानीं भगवानुरुबिल्वाकाश्यपस्य जटिलस्याश्रमपदे विहरति वनगुल्मके; अथापरेण समयेनोरुबिल्वाकाश्यपस्य जटिलस्य सर्वोऽग्न्यागार आदीप्तः प्रदीप्तः संप्रज्वलित एकज्वालीभूतो ध्यायति (२२१) तमुरुबिल्वाकाश्यपः सपरिषत्को महता जनकायेन सार्धमुद्यतो न शक्नोति निर्वापयितुम्; अथोरुबिल्वाकाश्यपस्य जटिलस्यैतदभवत्: महाश्रमणोऽस्माकं सामन्तके प्रतिवसति; मा हैव तस्यानुभावो भविष्यति; अथोरुबिल्वाकाश्यपो जटिलो येन भगवांस्तेनोपजगाम; उपेत्य भगवन्तमिदमवोचत्: जानीहि महाश्रमण इहास्माकं महाश्रमनो सर्वोऽग्न्यागार आदीप्तः प्रदीप्तः संप्रज्वलित एकज्वालीभूतो ध्यायति; तमहं सपरिषत्को महता जनकायेन सार्धमुद्यतो न शक्नोमि निर्वापयितुम्; तस्य मे एतदभवत्: महाश्रमणोऽस्माकं सामन्तके प्रतिवसति; मा हैव तस्यानुभावो भविष्यति; निर्वापय काश्यपाग्न्यागारं; निर्वापयितु महाश्रमण; अथ सोऽग्न्यागारः स्वयमेव निर्वृतो यथापितद्बुद्धस्य बुद्धानुभावेन देवतानां च देवतानुभावेन; अथोरुबिल्वाकाश्यपस्य जटिलस्यैतदभवत्: आश्चर्यं यावन्महर्द्धिको महाश्रमणो महानुभावः; अपि त्वहमप्यर्हन् ______________________________________________________________ ग्) थे fओउर्हेअवेन्ल्य्किन्ग्स्विसित्थे बुद्ध (च्प्स्२४ .१) तत्रेदानीं भगवानुरुबिल्वाकाश्यपस्य जटिलस्याश्रमपदे विहरति वनगुल्मके; अथ तं रात्रिं चत्वारो महाराजानोऽतिक्रान्तवर्णा अभिक्रान्तायां रात्र्यां येन भगवांस्तेनोपजग्मुः; उपेत्य भगवत्पादौ शिरसा वन्दित्वैकान्ते न्यषीदन्; तेषामयमेव रूपआत्मभावस्तद्यथा चतुर्णामग्निस्कन्धानामादीप्तानां प्रदीप्तानां संप्रज्वलितानामेकज्वलीभूतानां ध्यायताम्; अद्राक्षीदुरुबिल्वाकाश्यपो जटिलो रात्र्याः प्रत्यूषसमये नक्षत्राणि व्यवलोकयमानो भगवतः पुरस्ताच्चत्वारो महान्तोऽग्निस्कन्धा आदीप्ताः प्रदीप्ताः संप्रज्वलिता एकज्वालीभूता ध्यायन्ति; अथोरुबिल्वाकाश्यपस्य जटिलस्यैतदभवत्: मा हैव महाश्रमणोऽप्यग्निं परिचरति तथा ह्यस्य पुरतो चत्वारो महान्तोऽग्निस्कन्धा आदीप्ताः प्रदीप्ताः संप्रज्वलिता एकज्वालीभूता ध्यायन्ति; अथोरुबिल्वाकाश्यपो जटिल आश्रमपदमन्वाहिण्ड्य येन भगवांस्तेनोपजगाम; उपेत्य भगवन्तमिदमवोचत्; (च्प्स्२४ .७) इहाहं महाश्रमणाद्राक्षं रात्र्याः प्रत्यूषसमये नक्षत्राणि व्यवलोकयमानो महाश्रमणस्य पुरस्ताच्चत्वारो महान्तोऽग्निस्कन्धा आदीप्ताः प्रदीप्ताः संप्रज्वलिता एकज्वालीभूत ध्यायन्ति; दृष्ट्वा च पुनर्मे एतदभवत्: मा हैव महाश्रमणोऽप्यग्निं परिचरति तथा ह्यस्य पुरस्ताच्चत्वारो महान्तोऽग्निस्कन्धा आदीप्ताः प्रदीप्ताः संप्रज्वलिता एकज्वालीभूता ध्यायन्ति; नाहं काश्यप अग्निं परिचरामि; न अग्निं परिचरिष्ये; अपि तु इमां रात्रिं चत्वारो महाराजानोऽतिक्रान्तवर्णा अभिक्रान्तायां रात्र्यां येनाहं तेनोपसंक्रान्ताः; उपेत्य मम पादौ शिरसा वन्दित्वा (२२२) एकान्ते न्यषीदन्; तेषामयमेव रूपआत्मभावस्तद्यथा चतुर्णामग्निस्कन्धानामादीप्तानां प्रदीप्तानां संप्रज्वलितानामेकज्वालीभूतानां ध्यायताम्; अथोरुबिल्वाकाश्यपस्य जटिलस्यैतदभवत्: आश्चर्यं यावन्महर्द्धिको महाश्रमणो महानुभावः; अपि त्वहमप्यर्हन् ______________________________________________________________ ह्) शक्र विसित्स्थे बुद्ध (च्प्स्२४ .१) तत्रेदानीं भगवानुरुबिल्वाकाश्यपस्य जटिलस्याश्रमपदे विहरति वनगुल्मके; अथ तां रात्रिं शक्रो देवेन्द्रोऽतिक्रान्तवर्णो अभिक्रान्तायां रात्र्यां येन भगवांस्तेनोपजगाम; उपेत्य भगवत्पादौ शिरसा वन्दित्वैकान्ते न्यषीदत्; तस्यायमेव रूपआत्मभावस्तेषामेव चतुर्णामग्निस्कन्धानामुत्तरे अतिक्रान्ततरश्च प्रणीततरश्च; अद्राक्षीदुरुबिल्वाकाश्यपो जटिलो रात्र्याः प्रत्यूषसमये नक्षत्राणि व्यवलोकयमानो भगवतः पुरस्तान्महानग्निस्कन्ध आदीप्तः प्रदीप्तः संप्रज्वलित एकज्वालीभूतो ध्याति; अथोरुबिल्वाकाश्यपस्य जटिलस्यैतदभवत्: मा हैव महाश्रमणोऽप्यग्निं परिचरति तथा ह्यस्य पुरतो महानग्निस्कन्ध आदीप्तः प्रदीप्तः संप्रज्वलित एकज्वालीभूतो ध्याति; अथोरुबिल्वाकाश्यपो जटिल आश्रमपदमन्वाहिण्ड्य येन भगवांस्तेनोपजगाम; उपेत्य भगवन्तमिदमवोचत्; इहाहं महाश्रमणाद्राक्षं रात्र्याः प्रत्यूषसमये नक्षत्राणि व्यवलोकयमानो महाश्रमणस्य पुरतो महानग्निस्कन्ध आदीप्तः प्रदीप्तः संप्रज्वलित एकज्वालीभूतो ध्याति; दृष्ट्वा च पुनर्मे एतदभवत्: मा हैव महाश्रमणोऽप्यग्निं परिचरति तथा ह्यस्य पुरतो महानग्निस्कन्ध आदीप्तः प्रदीप्तः संप्रज्वलित एकज्वालीभूतो ध्याति; नाहं काश्यप अग्निं परिचरामि; न मयाग्निं परिचरितः; अपि तु तां रात्रिं शक्रो देवेन्द्र अतिक्रान्तवर्ण अभिक्रान्तायां रात्र्यां येनाहं तेनोपसंक्रान्तः; उपेत्य मम पादौ शिरसा वन्दित्वैकान्ते न्यषीदत्; तस्यायमेव रूपआत्मभावस्तेषामेव चतुर्णामग्निस्कन्धानामुत्तरे अतिक्रन्ततरश्च प्रणीततरश्च; अथोरुबिल्वाकाश्यपस्य जटिलस्यैतदभवत्: आश्चर्यं यावन्महर्द्धिको महाश्रमणो महानुभावः; अपि त्वहमप्यर्हन् ______________________________________________________________ ह्) ब्रह्म विसित्स्थे बुद्ध (च्प्स्२४ .१) तत्रेदानीं भगवानुरुबिल्वाकाश्यपस्य जटिलस्याश्रमपदे विहरति वनगुल्मके; अथ तां रात्रिं ब्रह्मा सभापतिरतिक्रान्तवर्णो अभिक्रान्तायां रात्र्यां येन भगवांस्तेनोपजगाम; उपेत्य भगवत्पादौ शिरसा वन्दित्वैकान्ते न्यषीदत्; तस्यायमेव रूपआत्मभावस्(२२३) तेषामेव पंचानामग्निस्कन्धानामुत्तरे अतिक्रान्ततरश्च प्रणीततरश्च; अद्राक्षीदुरुबिल्वाकाश्यपो जटिलो रात्र्याः प्रत्यूषसमये नक्षत्राणि व्यवलोकयमानो भगवतः पुरस्तान्महानग्निस्कन्ध आदीप्तः प्रदीप्तः संप्रज्वलित एकज्वालीभूतो ध्याति; अथोरुबिल्वाकाश्यपस्य जटिलस्यैतदभवत्: मा हैव महाश्रमणोऽप्यग्निं परिचरति तथा ह्यस्य पुरतो महानग्निस्कन्ध आदीप्तः प्रदीप्तः संप्रज्वलित एकज्वालीभूतो ध्याति; अथोरुबिल्वाकाश्यपो जटिल आश्रमपदमन्वाहिण्ड्य येन भगवांस्तेनोपजगाम; उपेत्य भगवन्तमिदमवोचत्; इहाहं महाश्रमणाद्राक्षं रात्र्याः प्रत्यूषसमये नक्षत्राणि व्यवलोकयमानो महाश्रमणस्य पुरतो महानग्निस्कन्ध आदीप्तः प्रदीप्तः संप्रज्वलित एकज्वालीभूतो ध्याति; दृष्ट्वा च पुनर्मे एतदभवत्: मा हैव महाश्रमणोऽप्यग्निं परिचरति तथा ह्यस्य पुरतो महानग्निस्कन्ध आदीप्तः प्रदीप्तः संप्रज्वलित एकज्वालीभूतो ध्याति; नाहं काश्यप अग्निं परिचरामि; न मयाग्निं परिचरितः; अपि तु तां रात्रिं ब्रह्मा सभापतिरतिक्रान्तवर्ण अभिक्रान्तायां रात्रौ येनाहं तेनोपसंक्रान्तः; उपेत्य मम पादौ शिरसा वन्दित्वैकान्ते न्यषीदत्; तस्यायमेव रूपआत्मभावस्तेषामेव पंचानामग्निस्कन्धानामुत्तरे अतिक्रन्ततरश्च प्रणीततरश्च; अथोरुबिल्वाकाश्यपस्य जटिलस्यैतदभवत्: आश्चर्यं यावन्महर्द्धिको महाश्रमणो महानुभावः; अपि त्वहमप्यर्हन् ______________________________________________________________ ज्) थे बुद्ध रेअद्स्काश्यपऽस्थोउघ्त्स् (च्प्स्२४ .१) तत्रेदानीं भगवानुरुबिल्वाकाश्यपस्य जटिलस्याश्रमपदे विहरति वनगुल्मके; तेन खलु समयेनोरुबिल्वाकाश्यपस्य जटिलस्यावसथे सप्ताहिको यज्ञः प्रत्युपस्थितः; अथोरुबिल्वाकाश्यपस्य जटिलस्यैतदभवत्: सचेद्मागधका मनुष्या जानीयुरेवंमहर्धिको महाश्रमण एवंमहानुभावः स्थानमेतद्विद्यते यदस्यैव कारा कर्तव्या मन्येरन्न तथा मम; अहो बत महाश्रमण इदं सप्ताहमेवान्यत्र विप्रक्रमेत; अथ भगवानुरुबिल्वाकाश्यपस्य जटिलस्य चेतसा चित्तमाज्ञाय तत्सप्ताहमेवान्यत्र विप्रक्रान्तः; तत्खलु सप्ताहमुरुबिल्वाकाश्यपस्य जटिलस्य महां लाभसत्कारः प्रादुर्भूतः प्रभूतं खादनीयभोजनीयं संपन्नं महाजनकायश्च वशे वृत्तः; अथोरुबिल्वाकाश्यपस्य जटिलस्य तस्य सप्ताहस्यात्ययादेतदभवत्: अहो तत्सप्ताहं मे महां लाभसत्कारः प्रादुर्भूतः प्रभूतं खादनीयभोजनीयं संपन्नं महाजनकायश्च वशे वृत्तः; अहो बत महाश्रमण आगच्छेत्सोऽपीतः परिभुंजीत; अथ भगवानुरुबिल्वाकाश्यपस्य जटिलस्य चेतसा चित्तमाज्ञाय येनोरुबिल्वाकाश्यपो जटिलस्तेनोपजगाम (२२४) अद्राक्षीदुरुबिल्वाकाश्यपो भगवन्तं दूरत एव; दृष्ट्वा च पुनरेवमाह: आगतोऽसि महाश्रमण; आगतोऽस्मि काश्यप; कस्यार्थं त्वं महाश्रमण तत्सप्ताहमेवान्यत्र विप्रक्रान्तः; ननु ते काश्यप एतदभूद्यदि मागधका मनुष्या जानीयुरेवंमहर्द्धिको महाश्रमण एवंमहानुभावः स्थानमेतद्विद्यते यदस्यैव पूर्ववद्यावदहो बत महाश्रमण इदं सप्ताहमेवान्यत्र विप्रक्रमेत; एवं महाश्रमण; अहं तव चेतसा चित्तमाज्ञायान्यत्र विप्रक्रान्तः; कस्यार्थं त्वं महाश्रमण आगतः; ननु ते काश्यप तस्य सप्ताहस्यात्ययादेतदभवदहो तत्सप्ताहं मे महां लाभसत्कारः प्रादुर्भूतः प्रभूतं खादनीयभोजनीयं संपन्नं महाजनकायश्च वशे वृत्तः; अहो बत महाश्रंण आगच्छेत्सोऽपीतः परिभुंजीत; एवं महाश्रमण; अहं तव चेतसा चित्तमाज्ञायागतः; परिभुंक्तां महाश्रमणो यथासुखमेव; अथोरुबिल्वाकाश्यपस्य जटिलस्यैतदभवदाश्चर्यं यावन्महर्द्धिको महाश्रमणो महानुभावः; अपि त्वहमप्यर्हन् ______________________________________________________________ क्) थे बुद्ध प्रोचुरेस्fरुइत्सोf जम्बु एत्च्. (च्प्स्२४ .१) तत्रेदानीं भगवानुरुबिल्वाकाश्यपस्य जटिलस्याश्रमपदे विहरति वनगुल्मके; अथोरुबिल्वाकाश्यपो जटिलो भगवन्तमिदमवोचत्: तेन हि महाश्रमणास्माकं सामन्तके प्रतिवस; अहं ते यात्राधर्मेण; अधिवासयति भगवानुरुबिल्वाकाश्यपस्य जटिलस्य तूष्णींभावेन; अथोरुबिल्वाकाश्यपो जटिलो भगवतोऽर्थाय भोजनं प्रतिपादयित्वा येन भगवांस्तेनोपजगाम; उपेत्य भगवन्तमिदमवोचत्: समयो महाश्रमण सद्यो भक्तं यस्येदानीं महाश्रमणः कालं मन्यते; तेन हि काश्यप गच्छ; एष आगच्छामि; अथ भगवानचिरप्रक्रान्तमुरुबिल्वाकाश्यपं जटिलं विदित्वा यस्या जंब्वा नाम्ना जंबुद्वीपः प्रज्ञायते ततो जंबुपेशीनां वर्णगन्धरसोपेतानां पात्रपूरमादाय येनोरुबिल्वाकाश्यपस्य जटिलस्याश्रमपदं तेनोपजगाम; उपेत्य प्रज्ञप्त एवासने न्यषीदत्; ततः पश्चादागत उरुबिल्वाकास्यपो जटिलः; अद्राक्षीदुरुबिल्वाकाश्यपो जटिलो भगवन्तमाश्रमपदे निषण्णम्; दृष्ट्वा च पुनरेवमाह: आगतोऽसि महाश्रमण; आगतोऽस्मि काश्यप; किन्नु ते महाश्रमण पात्रे; इहाहमचिरप्रक्रान्ते त्वयि तद्रूपं समाधिं समापन्नो यथा समाहिते चित्ते यस्या जंब्वा नाम्ना जंबुद्वीपः प्रज्ञायते ततो जंबुपेशीनां वर्णगन्धरसोपेतानां पात्रपूरमादायागतः; सचेदाकांक्षसि परिभुंक्ष्व; परिभुंक्तां महाश्रमणो यथासुखमेव; अथोरुबिल्वाकास्यपस्य जटिलस्यैतदभवत्: आश्चर्यं यावन्महर्द्धिको महाश्रमणो महानुभावः; (२२५) अपि त्वहमप्यर्हन्; (च्प्स्२४ -न्) यथा जम्बुपेशीनां तथापि आमलकपेशीनाम्; उत्तरकुरुद्वीपं गत्वा अकृष्टोप्तानां तण्डुलफलशालीनां पात्रपूरमादाय येनोरुबिल्वाकाश्यपस्य जटिलस्याश्रमपदं तेनोपजगाम; उपेत्य प्रज्ञप्त एवासने न्यषीदत्; ततः पश्चादागत उरुबिल्वाकाश्यपो जटिलः; अद्राक्षीदुरुबिल्वाकाश्यपो जटिलो भगवन्तमाश्रमपदे निषण्णम्; दृष्ट्वा च पुनरेवमाह: आगतोऽसि महाश्रमण; आगतोऽस्मि काश्यप; किन्नु ते महाश्रमण पात्रे; इहाहमचिरप्रक्रान्ते त्वयि तद्रूपं समाधिं समापन्नो यथा समाहिते चित्ते उत्तरकुरुद्वीपं गत्वा अकृष्टोप्तानां तण्डुलफलशालीनां पात्रपूरमादाय आगतः; सचेदाकांक्षसि परिभुंक्ष्व; परिभुंक्तां महाश्रमणो यथासुखमेव; अथोरुबिल्वाकाश्यपस्य जटिलस्यैतदभवत्: आश्चर्यं यावन्महर्द्धिको महाश्रमणो महानुभावः; अपि त्वहमप्यर्हन् ______________________________________________________________ ओ) शक्र सुप्प्लिएस्थे बुद्ध wइथ्wअतेर् (च्प्स्२४ .१) तत्रेदानीं भगवानुरुबिल्वाकाश्यपस्य जटिलस्याश्रमपदे विहरति वनगुल्मके; अथोरुबिल्वाकाश्यपो जटिलो भगवतोऽर्थाय भोजनं प्रतिपादयित्वा येन भगवांस्तेनोपजगाम; उपेत्य भगवन्तमिदमवोचत्; समयो महाश्रमण सद्यो भक्तं यस्येदानीं महाश्रमणः कालं मन्यते; अथ भगवान् पूर्वाह्णे निवास्य पात्रचीवरमादाय येनोरुबिल्वाकाश्यपस्य जटिलस्याश्रमपदं तेनोपजगाम; उपेत्य प्रज्ञप्त एवासने न्यषीदत्; अथोरुबिल्वाकाश्यपो जटिलः सुखोपनिषण्णं भगवन्तं विदित्वा शुचिना प्रणीतेन खादनीयभोजनीयेन पात्रं पूरयित्वा पर्तिपादितः; अथ भगवानुरुबिल्वाकाश्यपस्य जटिलस्यान्तिकात्पिण्डपातमादाय अन्यतरस्मिं प्रदेशे भक्तकृत्यमकार्षीत्; तत्र भगवत उदकेनोदककार्यमुत्पन्नम्; अथ शक्रो देवेन्द्रो भगवत उदकेनोत्पन्नमुदककार्यं विदित्वा भगवतः पुरतः पाणिना पृथिवीं पराहन्ति; तत्र महदुदपानं प्रादुर्भूतं वारिविष्यन्दि; यतो भगवानुदककार्यमकार्षीत्; अद्राक्षीदुरुबिल्वाकाश्यपो जटिल आश्रमपदे चंक्रमन्महदुदपानं प्रादुर्भूतं वारिविष्यन्दि; दृष्ट्वा च तस्यैतदभवत्: न इदं पूर्वे उदपानं मया दृष्टम्: एतर्हि उदकं कुत आगतम्: अथोरुबिल्वाकाश्यपो जटिलो येन भगवांस्तेनोपजगाम; उपेत्य भगवन्तमिदमवोचत्: जानीहि महाश्रमण; इहाहमाश्रमपदे चंक्रमन्नद्राक्षं महदुदपानं वारिविष्यन्दि; दृष्ट्वा च ममैतदभवत्: न इदं महाश्रमण पूर्वे उदपानं मया दृष्टं, एतर्हि उदकं कुत आगतं; अत्र तव काश्यप अन्तिकात्पिण्डपातमादाय अन्यतरस्मिं प्रदेशे भक्तकृत्यं कृत्वा मम उदकेनोदककार्यम् (२२६) उत्पन्नम्; अथ शक्रो देवेन्द्रो मम उदकेनोत्पन्नमुदककार्यं विदित्वास्मिं प्रदेशे पाणिना पृथिवीं पराहन्ति; अत्र महदुदपानं प्रादुर्भूतं यतोऽहमुदकेनोदककार्यमकार्षम्; पाणिखाता नाम काश्यप एषा पुष्करिणी; अथोरुबिल्वाकाश्यपस्य जटिलस्यैतदभवत्: आश्चर्यं यावन्महर्द्धिको महाश्रमणो महानुभावः; अपि त्वहमप्यर्हन् ______________________________________________________________ प्) अनर्जुन-त्रेए इन्च्लिनेस्थे ब्रन्छ् (च्प्स्२४ .१) तत्रेदानीं भगवानुरुबिल्वाकाश्यपस्य जटिलस्याश्रमपदे विहरति वनगुल्मके; अथ भगवान् सायाह्ने प्रतिसंलयनाद्व्युत्थाय येन पाणिखाता पुष्करिणी तेनोपजगाम; उपेत्य पाणिखातायाः पुष्करिण्यास्तीरे एकान्तं चीवरकाण्युपनिक्षिप्य पाणिखातां पुष्करिणीमभ्यवगाह्य गात्राणि परिषिच्य पाणिखातायाः पुष्करिण्या उत्तर्तुकामो येन ककुभवृक्षस्तेन बाहुं प्रसारयति; ततः सा महती ककुभशाखा नता यामवलंब्य भगवान् पाणिखातायाः पुष्करिण्या उत्तीर्णः; अद्राक्षीदुरुबिल्वाकाश्यपो जटिल आश्रमपदमन्वाहिण्डन् पाणिखातायाः पुष्करिण्यास्तीरे महतीं ककुभशाखां नतां; दृष्ट्वा च तस्यैतदभवत्: नैषा मे पूर्वे ककुभशाखा नमति; न को महतीं ककुभशाखां नमयति; अथोरुबिल्वाकाश्यपो जटिलो येन भगवांस्तेनोपजगाम; उपेत्य भगवन्तमिदमवोचत्: जानीहि महाश्रमण; इहाहमाश्रमपदमन्वाहिण्डन्नद्राक्षं पाणिखातायाः पुष्करिण्यास्तीरे महतीं ककुभशाखां नताम्; दृष्ट्वा च ममैतदभवत्: नैषा मे महाश्रमण पूर्वे ककुभशाखा नमति; मा कश्चिन्महतीं ककुभशाखां नमयति; इहाहं काश्यप सायाह्ने प्रतिसंलयनाद्व्युत्थाय येन पाणिखाता पुष्करिणी तेनोपजगाम; उपेत्य पाणिखातायाः पुष्करिण्यास्तीरे एकान्तं चीवरकाण्युपनिक्षिप्य पाणिखातां पुष्करिणीमभ्यवगाह्य; गात्राणि परिषिच्य पाणिखातायाः पुष्करिण्या उत्तर्तुकामो येन ककुभवृक्षस्तेन बाहुं प्रसारयमि; ततः सा महती ककुभशाखा नमति यामवलंब्य पाणिखातायाः पुष्करिण्या अहमुत्तीर्णः; बाहुगृहीतो नाम काश्यप एष ककुभः; अथोरुबिल्वाकाश्यपस्य जटिलस्यैतदभवत्: आश्चर्यं यावन्महर्द्धिको महाश्रमणो महानुभावः; अपि त्वहमप्यर्हन् ______________________________________________________________ ॠ) शक्र मकेस्थे wअस्हिन्गोf च्लोथेस्पोस्सिब्ले (च्प्स्२४ .१) तत्रेदानीं भगवानुरुबिल्वाकाश्यपस्य जटिलस्याश्रमपदे विहरति वनगुल्मके; तेन खलु समयेन भगवतः शाणकानि पांसुकूलानि संपन्नानि; अथ भगवत एतदभवत्: कुत्र न्वहं शाणकानि (२२७) पांसुकूलानि प्रविषिंचेयम्; अथ खलु शक्रो देवेन्द्रो भगवतश्चेतसा चित्तमाज्ञायान्यतरस्मात्प्रदेशां महतीं पाषाणशिलामादाय येन भगवांस्तेनोपजगाम; उपेत्य भगवन्तमिदमवोचत्: इह भगवाञ्शाणकानि पांसुकूलानि प्रविषिंचतु; तत्र भगवता शाणकानि पांसुकूलानि प्रविषिक्तानि; अथ भगवत एतदभवत्: कुत्र न्वहं शाणकानि पांसुकूलानि शोचयेयम्; अथ खलु शक्रो देवेन्द्रो भगवतश्चेतसा चित्तमाज्ञायान्यतरस्मात्प्रदेशान्महतीं पाषाणशिलामादाय येन भगवांस्तेनोपजगाम; उपेत्य भगवन्तमिदमवोचत्: इह भगवाञ्शाणकानि पांसुकूलानि शोचयतु; तत्र भगवता शाणकानि पांसुकूलानि शोचितानि; अद्राक्षीदुरुबिल्वाकाश्यप आश्रमपदमन्वाहिण्डंस्ते महत्यौ पाशाणशिले; दृष्ट्वा च तस्यैतदभवत्: नैते महत्यौ पाषाणशिले पूर्वे अभूतम्; केन ते एतर्ह्यानीते; अथ उरुबिल्वाकाश्यपो जटिलो येन भगवांस्तेनोपजगाम; उपेत्य भगवन्तमिदमवोचत्: जानीहि महाश्रमण; इहाहमाश्रमपदमन्वाहिण्डन्नद्राक्षं महत्यौ पाषाणशिले; दृष्ट्वा च ममैतदभवत्: नैते महत्यौ पाषाणशिले पूर्वे अभूतम्; केन ते एतर्ह्यानीते; इह मम काश्यप शाणकानि पांसुकूलानि संपन्नानि; तस्य मे एतदभवत्: कुत्र न्वहं शाणकानि पांसुकूलानि प्रविषिंचेयम्; अथ खलु शक्रो देवेन्द्रो मम चेतसा चित्तमाज्ञायान्यतरस्मात्प्रदेशां महतीं पाषाणशिलामादाय येनाहं तेनोपजगाम; उपेत्य मामिदमवोचत्: इह भगवाञ्शाणकानि पांसुकूलानि प्रविषिंचतु; तत्र मया शाणकानि पांसुकूलानि प्रविषिक्तानि; तस्य मे एतदभवत्: कुत्र न्वहं शाणकानि पांसुकूलानि शोचयेयम्; अथ खलु शक्रो देवेन्द्रो मम चेतसा चित्तमाज्ञायान्यतरस्मात्प्रदेशान्महतीं पाषाणशिलामादाय येनाहं तेनोपजगाम; उपेत्य मामिदमवोचत्: इह भगवाञ्शाणकानि पांसुकूलानि शोचयतु; तत्र मया शाणकानि पांसुकूलानि शोचितानि; यक्षाहृता नाम काश्यप एषा महती पाषाणशिला; अथोरुबिल्वाकाश्यपस्य जटिलस्यैतदभवत्: आश्चर्यं यावन्महर्द्धिको महाश्रमणो महानुभावः; अपि त्वहमप्यर्हन् ______________________________________________________________ र्) बुद्धऽस्चोम्मन्दोन् थे एलेमेन्त्wअतेर् (च्प्स्२४ .१) तत्रेदानीं भगवानुरुबिल्वाकाश्यपस्य जटिलस्याश्रमपदे विहरति वनगुल्मके; तेन खलु समयेन नैरंजनाया महोदकवाहः प्रादुर्भूतः; अथ भगवान् साधिकपौरुषेणोदकस्कन्धेन परिक्षिप्तो रेणुहतेऽभ्यवकाशे चंक्रमति; अथोरुबिल्वाकाश्यपस्य जटिलस्यैतदभवत्: तथा प्रासादिको महाश्रमणः; मा हैवोदकवाहेन हृतो भविष्यति इति महाश्रमणं समन्वेषिष्यामीत्येकवृक्षिकां (२२८) नावमधिरोहन् भगवन्तं समन्वेषति; अद्राक्षीदुरुबिल्वाकास्यपो जटिलो भगवन्तं साधिकपौरुषेणोदकस्कन्धेन परिक्षिप्तं रेणुहतेऽभ्यवकाशे चंक्रमन्तम्; दृष्ट्वा च पुनर्भगवन्तमिदमवोचत्: जीवसि महाश्रमण; जीवामि काश्यप; अधिरोह महाश्रमण; अधिरोक्ष्यसि महाश्रमण एकवृक्षिकां नावम्; अधिरोहामि काश्यप; अथ भगवत एतदभवत्: यन्वहं तद्रूपानृद्ध्याभिसंस्कारानभिसंस्कुर्यां यथा समाहिते चित्ते यथोदकमेव एकवृक्षिकां नावमधिरोहेयम्; अथ भगवान् तद्रूपनृद्ध्याभिसंस्कारानभिसंस्करोति यथा समाहिते चित्ते यथोदकमेव एकवृक्षिकां नावमधिरोहति; अथोरुबिल्वाकाश्यपस्य जटिलस्यैतदभवत्: आश्चर्यं यावन्महर्द्धिको महाश्रमणो महानुभावः; अपि त्वहमप्यर्हन् ______________________________________________________________ चोन्वेर्सिओनोf उरुबिल्वाकाश्यप अन्दोf हिस्fइवे हुन्द्रेद्स्तुदेन्त्स् (च्प्स्२५ .१) अथ भगवानुरुबिल्वाकाश्यपस्य जटिलस्य चेतसा चित्तमाज्ञाय उरुबिल्वाकाश्यपं जटिलमिदमवोचत्: नैव त्वं काश्यपार्हन्नैवार्हत्वफलसाक्षात्क्रियां समापन्नो नैवाजानास्यर्हत्वमार्गम्; अथोरुबिल्वाकाश्यपस्य जटिलस्यैतदभवत्: जानाति मे महाश्रमणश्चेतसा चित्तम्; इति विदित्वा भगवन्तमिदमवोचत्: लभेयाहं महाश्रमणस्यान्तिके प्रव्रज्यामुपसंपदं भिक्षुभावम्; चरेयमहं महाश्रमणस्यान्तिके ब्रह्मचर्यम्; अथ भगवानुरुबिल्वाकाश्यपमामन्त्रयते: अवलोकिता ते काश्यप परिषन्नो श्रमण; तेन हि काश्यप परिषदं तावदवलोकय; परिषदवलोकनमेव साधु यथापितत्त्वादृशानां यशस्विनां ज्ञातमनुष्याणाम्; अथोरुबिल्वाकाश्यपो जटिलो माणवकानामन्त्रयति: अहं माणवका महाश्रमणस्यान्तिके ब्रह्मचर्यं चरिष्यामि; भवन्तः किं करिष्यन्ति; यत्किञ्चिद्वयमुपाध्याय प्रजानीमः सर्वं तदुपाध्यायमागम्य; सचेदुपाध्यायो महाश्रमणस्यान्तिके ब्रह्मचर्यं चरिष्यति ते वयमुपाध्यायं प्रव्रजितमनुप्रव्रजिष्यामः; तेन हि यूयं माणवका एतान्यजिनानि वल्कलानि दण्डकमण्डलूनि स्रुग्भाजनानि नद्यां नैरंजनायां प्रक्षिपत; एवमुपाध्याय; इति ते माणवका अजिनानि वल्कलानि दण्डकमण्डलूनि स्रुग्भाजनानि नद्यां नैरंजनायां प्रक्षिप्य येनोरुबिल्वाकाश्यपो जटिलस्तेनोपजग्मुः; उपेत्योरुबिल्वाकाश्यपं जटिलमिदमवोचन्: उपाध्याय एवमस्माभिः कृतम्; अस्ति किंचित्करणीयम्; अथोरुबिल्वाकास्यपो जटिलः पंचशतं जटिलमाणवकानादाय येन भगवांस्तेनोपजगाम; उपेत्य भगवन्तमिदमवोचत्: अवलोकिता मे महाश्रमण परिषत्; लभेयाहं स्वाख्याते धर्मविनये प्रव्रज्यामुपसंपदं (२२९) भिक्षुभावम्; चरेयमहं महाश्रमणस्यान्तिके ब्रह्मचर्यम्; लब्धवानुरुबिल्वाकाश्यपो जटिलो भगवतोऽन्तिके ब्रह्मचर्यम्; सा एवास्यायुष्मतः प्रव्रज्याभूदुपसंपद्भिक्षुभावः ______________________________________________________________ चोन्वेर्सिओनोf नदी- अन्द्गयाकाश्यप wइथ्थेइर्त्wओ हुन्द्रेदन्द्fइfत्य्स्तुदेन्त्स् (च्प्स्२५ .१) तेन खलु समयेनोरुबिल्वाकाश्यपस्य जटिलस्य नदीगयाकाश्यपौ भ्रातरावर्धतृतीयशतपरिवारौ नद्या नैरंजनाया अधस्ताद्भागेनाश्रमपदे शाम्येते; अद्राष्टां नदीगयाकाश्यपौ भ्रातरावजिनानि वल्कलानि दण्डकमण्डलूनि स्रुग्भाजनानि नद्यां नैरंजनायामुह्यमानानि; दृष्ट्वा च काश्यपयोरेतदभवत्: मा हैवावयोः सब्रह्मचारिणां कश्चिदेवादीनवो भविष्यति राजतो वा चौरतो वा अग्नितो वा उदकतो वा; यन्व्चावां सब्रह्मचारिणोऽन्वेषेव; अथ नदीगयाकाश्यपौ भ्रातरावन्वेषन्तावुरुबिल्वाकाश्यपं येनोरुबिल्वाकाश्यपस्य जटिलस्याश्रमपदं तेनोपजग्मतुः; तेन समयेनोरुबिल्वाकाश्यपो जटिलो मुण्डः संघाटीप्रावृतो भगवतः पुरतो निषण्णः धर्मश्रवणाय; अपश्यतां नदीगयाकाश्यपौ भ्रातरावुरुबिल्वाकाश्यपं जटिलं मुण्डं संघाटीप्रावृतं भगवतः पुरतो निषण्णं धर्मश्रवणाय; दृष्ट्वा चोरुविल्वाकास्यपं जटिलमिदमूचतुः; एतत्काश्यप वरं नेदम्; इदं काश्यपौ वरं नैतत्; अथ नदीगयाकाश्यपयोरेतदभवत्: न बतावरो बुद्धो भविष्यति नावरं धर्माख्यानं यत्रेदानीमुरुबिल्वाकाश्यपो जटिलो जीर्णो वृद्धो महल्लकः स विंशतिवर्षशतिको जात्या मागधकानां मनुष्याणां सत्कृतो गुरुकृतो मानितः पूजितोऽर्हन् सम्मतः स महाश्रमणस्यान्तिके द्विरपि प्रव्रज्यामुपगतः; यन्वावामपि महाश्रमणस्यान्तिके ब्रह्मचर्यां चरेव; इति विदित्वा भगवन्तमिदमवोचतां: लभेवह्यावां महाश्रमण स्वाख्याते धर्मविनये प्रव्रज्यामुपसंपदं भिक्षुभावम्; चरेव आवां महाश्रमणस्यान्तिके ब्रह्मचर्यम्; अवलोकिता वां काश्यपौ परिषन्नो महश्रमण; तेन हि काश्यपौ परिषदं तावदवलोकयताम्; परिषदवलोकनमेव साधु यथापितद्युष्मद्विधानां यशस्विनां ज्ञातमनुष्याणाम्; अथ नदीगयाकाश्यपौ भ्रातरौ येन स्वकीयाश्रमस्तेनोपजग्मतुः; उपेत्य स्वकान्माणवकानिदमवोचताम्: आवां माणवका महाश्रमणस्यान्तिके ब्रह्मचर्यं चरिष्यावः; भवन्तः किं करिष्यन्ति; यत्किंचिद्वयमुपाध्यायौ प्रजानीमः सर्वं तदुपाध्यायावागम्य; सचेदुपाध्यायौ महाश्रमणस्यान्तिके ब्रह्मचर्यं चरिष्यतस्ते वयमुपाध्यायौ प्रव्रजितावनुप्रव्रजिष्यामः; यस्येदानीं माणवकाः कालं मन्यध्वे; अथ नदीगयाकाश्यपौ (२३०) भ्रातरावर्धतृतीय्शतपरिवारौ येन भगवांस्तेनोपजग्मतुः; उपेत्य भगवन्तमिदमवोचताम्; अवलोकिता नौ महाश्रमण परिषत्; लभेवह्यावां महाश्रमणस्यान्तिके प्रव्रज्यामुपसंपदं भिक्षुभावम्; चरेवावां महाश्रमणस्यान्तिके ब्रह्मचर्यम्; लब्धवन्तौ नदीगयाकाश्यपौ भ्रातरौ भगवतो ब्रह्मचर्यम्; सा एवानयोरायुष्मन्तोः प्रव्रज्याभूदुपसंपद्भिक्षुभावः ______________________________________________________________ थे सेर्मोनत्गयाशीर्ष (च्प्स्२६.१) अथ भगवांस्तद्जटिलसहस्रं प्रव्राजयित्वोपसंपादयित्वा यथाभिरम्यमुरुबिल्वायां विहृत्य येन गया तेन चार्यां प्रक्रान्तः; अनुपूर्वेण चार्यां चरन् गयामनुप्राप्तः; विहरति गयाशीर्षे चैत्ये सार्धं भिक्षुसहस्रेण सर्वैः पुराणजटिलैः; तत्र भगवांस्तद्भिक्षुसहस्रं तृभिः प्रातिहार्यैरववदति; ऋद्धिप्रातिहार्येणादेशनाप्रातिहार्येणानुशासनीप्रातिहार्येण; तत्रेदं भगवत ऋद्धिप्रातिहार्यम्; अथ भगवांस्तद्रूपं समाधिं समापन्नो यथा समाहिते चित्ते स्वस्मिन्नासनेऽन्तर्हितः पूर्वस्यान् दिश्युपरि विहायसमभ्युद्गम्य चतुर्विधमीर्यापथं कल्पयति चंक्रमति तिष्ठति निषीदति शय्यां कल्पयति; तेजोधातुमपि समापद्यते; तेजोधातुं समापन्नस्य बुद्धस्य भगवतो विविधान्यर्चींषि कायान्निश्चरन्ति नीलानि पीतानि लोहितान्यवदातानि मांजिष्ठानि स्पटिकवर्णानि; यमकानि च प्रातिहार्याणि विदर्शयति; अधः कायः प्रज्वलति; उपरिमात्कायाच्छीतला वारिधाराः स्यन्दन्ते; उपरिमः कायः प्रज्वलति; अधः कायाच्छीतला वारिधाराः स्यन्दन्ते; एवं दक्षिणस्यां पश्चिमस्यामुत्तरस्यान् दिश्य्; अथ चतुर्दिशं चतुर्विधं विविधमृद्धिप्रातिहार्यं विदर्शयित्वा तानृद्ध्यभिसंस्कारान् प्रतिप्रस्रभ्य पुरस्ताद्भिक्षुसंघस्य प्रज्ञप्त एवासने न्यषीदत्; इदं तत्र भगवत ऋद्धिप्रातिहार्यम्; तत्रेदं भगवत आदेशनाप्रातिहार्यम्; युष्माकं भिक्षवश्चित्तमेवम्; मन इदम्; विज्ञानमिदं; वितर्कयतेदं मा वितर्कयतेदम्; मनसिकुरुतेदं; न मनसिकुरुतेदम्; प्रजहतेदं; मा प्रजहतेदम्; इदं कायेन साक्षात्कृत्वोपसंपद्य विहरत; इदं तत्र भगवता आदेशनाप्रातिहार्यम्; तत्रेदं भगवतोऽनुशासनीप्रातिहार्यम्; सर्वं भिक्षवः आदीप्तं; किं च सर्वमादीप्तं; चक्षुरादीप्तं रूपं चक्षुर्विज्ञानं चक्षुःसंस्पर्शः; यदपि चक्षुःसंस्पर्शप्रत्ययमाध्यात्ममुत्पद्यते वेदयितं सुखं वा दुःखं वा अदुःखमसुखं वा तदप्यादीप्तं; एवं श्रोत्रं घ्राणं जिह्वा कायो मन आदीप्तम्; आदीप्तं मनोविज्ञानं मनःसंस्पर्शः; यदपि मनःसंस्पर्शप्रत्ययम् (२३१) अध्यात्ममुत्पद्यते वेदयितं सुखं वा दुःखं वा अदुःखमसुखं वा तदप्यादीप्तं; केनादीप्तं; रागाग्निना द्वेषाग्निना मोहाग्निना; आदीप्तं जातिजराव्याधिमरणपरिदेवदुःखदौर्मनस्योपायासैः; आदिप्तं दुःखेनेति; इदं तत्र भगवतोऽनुशसनीप्रातिहार्यम्; अस्मिन् खलु धर्मपर्याये भाष्यमाणे तस्य भिक्षुसहस्रस्यानुपादायास्रवेभ्यश्चित्तं विमुक्तं ______________________________________________________________ थे fइर्स्तनोउन्चेमेन्तोf थे बिर्थोf अ ग्रेअत्मन् (च्प्स्२७ .१) अथ भगवान् गयायां गयाशीर्षे चैत्य एव विहरति सार्धं भिक्षुसहस्रेण सर्वैः पुराणजटिलैः सर्वैश्चार्हद्भिः क्षीणास्रवैः कृतकृत्यैः कृतकरणीयैरवहृतभारैरनुप्राप्तस्वकार्थैः परिक्षीणभवसंयोजनैः सम्यगाज्ञया सुविमुक्तचित्तैः; अश्रौषू राज्ञो मागधस्य श्रैण्यस्य बिंबिसारस्य पौरुषेया जनपदानन्वाहिण्डन्तः; शाक्यानां कुमार उत्पन्नोऽनुहिमवत्पार्श्वे नद्या भागिरथ्यास्तीरे कपिलस्यर्षेराश्रमपदस्य नातिदूरे; स ब्राह्मणैर्निमित्तिकैर्विपंचनकैर्व्याकृतः; सचेदगारमध्यावत्स्यति राजा भविष्यति चक्रवर्ती चतुरन्त्यां विजेता धार्मिको धर्मराजा सप्तरत्नसमन्वागतः; तस्यैवंरूपाणि सप्त रत्नानि भविष्यन्ति तद्यथा चक्ररत्नं हस्तिरत्नमश्वरत्नं मणिरत्नं स्त्रीरत्नं गृहहपतिरत्नं परिणायकरत्नमेव सप्तमम्; पूर्णं चास्य भविष्यति सहस्रं पुत्राणां शूराणां वीराणां वराङ्गरूपिणां परसैन्यप्रमर्दकानाम्; स इमां समुद्रपर्यन्तां महापृथिवीमखिलामकण्टकामनुत्पातामदण्डेनाशस्त्रेण धर्मेण समेनाभिनिर्जित्याध्यवत्स्यति; सचेत्केशश्मश्रूण्यवतार्य काषायाणि वस्त्राण्याच्छाद्य सम्यगेव श्रद्धयागारादनगारिकां प्रव्रजिष्यति तथागतो भविष्यत्यर्हन् सम्यक्संबुद्धो विघुष्टशब्दो लोके; श्रुत्वा च पुनर्येन राजा मागधः श्रैण्यो बिंबिसारस्तेनोपजग्मुः; उपेत्य राजानं मागधं श्रैण्यं बिंबिसारमिदमवोचन्: यत्खलु देव जानीयाः; इह वयमश्रौष्म देवस्य जनपदानन्वाहिण्डन्तः; शाक्यानां कुमार उत्पन्नोऽनुहिमवत्पार्श्वे नद्या भागिरथ्यास्तीरे कपिलस्यर्षेराश्रमपदस्य नातिदूरे; स ब्राह्मणैर्निमित्तिकैर्विपंचनकैर्व्याकृतः; सचेदगारमध्यावत्स्यति राजा भविष्यति चक्रवर्ती चतुरन्त्यां विजेता पूर्ववद्यावद्परिणायकरत्नमेव सप्तमम्; पूर्णं चास्य भविष्यति सहस्रं पुत्राणां पूर्ववद्यावद्धर्मेण समेनाभिनिर्जित्याध्यवत्स्यति; सचेत्केशश्मश्रूण्यवतार्य काषायाणि वस्त्राण्याच्छाद्य पूर्ववद्याचदर्हन् सम्यक्संबुद्धो विघुष्टशब्दो लोके; तं देवो घातयतु; (२३२) म् ॰॰॰॰ ग्रामण्य शाक्यानां कुमार उत्पन्नोऽनुहिमवत्पार्श्वे नद्या भागिरथ्यास्तीरे कपिलस्यर्षेराश्रमपदस्य नातिदूरे पूर्ववद्यावत्सचेदगारमध्यावत्स्यति राजा भविष्यति चक्रवर्ती पूर्ववद्यावद्धर्मेण समेनाभिनिर्जित्याध्यवत्स्यति; पुर्ववद्यावत्सचेत्केशश्मश्रूण्यवतार्य काषायाणि वस्त्राण्याच्छाद्य सम्यगेव श्रद्धयागारादनगारिकां प्रव्रजिष्यति तथागतो भविष्यत्यर्हन् सम्यक्संबुद्धो विघुष्टशब्दो लोके; तं देवो घटयितु; म् ॰॰॰ मा ग्रामन्य एवं वोचत; तत्कस्य हेतोः; (च्प्स्२७ .१४) मा ग्रामन्य शाक्यानां कुमार उत्पन्नो इति पूर्ववद्यावत्सचेत्राजा भविष्यति चक्रवर्ती अनुयात्रका अस्य भविष्यामः; अथ राजा मागधः श्रैण्यो बिंबिसार उपरि प्रासादतलगतः पंचायाचनवस्तून्यायाचते; अहो बतायं मम विजिते तथागत उत्पद्येतार्हन् सम्यक्संबुद्धो विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्; तं चाहं दर्शनायोपसंक्रमयेयम्; उपसंक्रान्तस्य च मे धर्मं देशयेत्; तं चाहं धर्ममाजानीयां; आज्ञातधर्मस्य च मे शिक्षां प्रज्ञापयेत्; यच्चाहं तां शिक्षां समादाय वसेयम्; तत्र भगवान् भिक्षूनामन्त्रयते; एष भिक्षवो राजा मागधः श्रैन्यो बिंबिसार उपरि प्रासादतलगतः पंचायाचनवस्तून्यायाचते: अहो बतायं मे विजिते तथागत उत्पद्येतार्हन् सम्यक्संबुद्धो विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्; तं चाहं दर्शनायोपसंक्रमयेयम्; उपसंक्रान्तस्य च मे धर्मं देशयेत्; तं चाहं धर्ममाजानीयां; आज्ञातधर्मस्य च मे शिक्षां प्रज्ञापयेत्; यच्चाहं तां शिक्षां समादाय वसेयम् ______________________________________________________________ थे बुद्ध इन्मगध. थे इन्विततिओनोf बिम्बिसार (च्प्स्२७ .१) अश्रौषू रज्ञो मागधस्य श्रैण्यस्य बिम्बिसारस्य पौरुषेया जनपदानन्वाहिण्डन्तः: शाक्यानां कुमार उत्पन्नोऽनुहिमवत्पार्श्वे नद्या भागिरथ्यास्तीरे कपिलस्यर्षेराश्रमपदस्य नातिदूरे; स ब्राह्मणैर्निमित्तिकैर्विपंचनकैर्व्याकृतः पूर्ववद्यावद्विघुष्टशब्दो लोके; स केशश्मश्रूण्यवतार्य काषायाणि वस्त्राण्याच्छाद्य सम्यगेव श्रद्धयागारादनगारिकां प्रव्रजितः; सोऽनुत्तरां सम्यक्संबोधिमभिसंबुद्धो गयायां विहरति गयाशीर्षे चैत्ये सार्धं भिक्षुसहस्रेण सर्वैः पुराणजटिलैः सर्वैश्चार्हद्भिः (२३३) क्षीणास्रवैः कृतकृत्यैः कृतकरणीयैरवहृतभारैरनुप्राप्तस्वकार्थैः परिक्षीणभवसंयोजनैः सम्यगाज्ञया सुविमुक्तचित्तैः; श्रुत्वा च पुनर्येन राजा मागधः श्रैण्यो बिम्बिसारस्तेनोपजग्मुः; उपेत्य राजानं मागधं श्रैण्यं बिम्बिसारमिदमवोचन्: यत्खलु जानीयाः; इह वयमश्रौष्म देवस्य जनपदानन्वाहिण्डन्तः: यः शाक्यानां कुमार उत्पन्नः पूर्ववद्यावद्विघुष्टशब्दो लोके; स केशश्मश्रूण्यवतार्य काषायाणि वस्त्राण्याच्छाद्य सम्यगेव श्रद्धयागारादनगारिकां प्रव्रजितः; सोऽनुत्तरां सम्यक्संबोधिमभिसंबुद्धो गयायां गयाशीर्षे चैत्ये एव विहरति सार्धं भिक्षुसहस्रेण सर्वैः पुराणजटिलैः सर्वैश्चार्हद्भिः क्षीणास्रवैः कृतकृत्यैः पूर्ववद्यावद्सम्यगाज्ञया सुविमुक्तचित्तैः; तन् देवः पर्युपासीत; एवं देवः ॰॰॰ भविष्यति; अथ राजा मागधः श्रैण्यो बिंबिसारोऽन्यतमं पुरुषमामन्त्रयते: एहि भोः पुरुष येन भगवांस्तेनोपसंक्रम; उपेत्यास्माकं वचनेन भगवतः पादौ शिरसा वन्दस्व; अल्पाबाधतां च पृच्छाल्पातङ्कतां च लघूत्थानतां च यात्रां च बलं च सुखं चानवद्यतां च स्पर्शविहारतां च; एवं च वद; आगच्छतु भगवान् राजगृहम्; अहं भगवन्तं यावज्जीवमुपस्थास्यामि चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः सार्धं भिक्षुसंघेन; एवं देवेति स पुरुषो राज्ञो मागधस्य श्रैण्यस्य बिंबिसारस्य प्रतिश्रुत्य येन भगवांस्तेनोपजगाम; उपेत्य भगवत्पादौ शिरसा वन्दित्वैकान्ते न्यषीदत्; एकान्तनिषण्णः स पुरुषो भगवन्तमिदमवोचत्: राजा भदन्त मागधः श्रैण्यो बिंबिसारो भगवत्पादौ शिरसा वन्दत्यल्पाबाधतां च पृच्छत्यल्पातङ्कतां च पूर्ववद्यावत्स्पर्शविहारतां च; सुखी भवतु पुरुष राजा मागधः श्रैण्यो बिंबिसारस्त्वं च ______________________________________________________________ थे विसितोf बिंबिसार. उरुबिल्वाकाश्यप अन्द्थे बुद्ध (च्प्स्२७ .१४) राजा भदन्त मागधः श्रैण्यो बिंबिसार एवं वदति: आगच्छतु भगवान् राजगृहम्; अहं भगवन्तं यावज्जीवमुपस्थास्यामि चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः सार्धं भिक्षुसंघेन; अधिवासयति भगवांस्तस्य पुरुषस्य तूष्णींभावेन; अथ सो पुरुषो भगवतस्तूष्णींभावेनाधिवासनां विदित्वा भगवत्पादौ शिरसा वन्दित्वा भगवतोऽन्तिकात्प्रक्रान्तः; (च्प्स्२७ .१) अथ भगवान्महता भिक्षुसंघेन सार्धं भिक्षुसहस्रेण सर्वैः (२३४) पुराणजटिलैः सर्वैश्चार्हद्भिः क्षीणास्रवैः कृतकृत्यैः कृतकरणीयैरवहृतभारैरनुप्राप्तस्वकार्थैः परिक्षीणभवसंयोजनैः सम्यगाज्ञया सुविमुक्तचित्तैर्मागधेषु जनपदेषु चर्यां चरन् येन यष्टिवनं सुप्रतिष्ठितो मागधकानां चैत्यस्तेन चर्यां प्रक्रान्तः; अथ भगवान् सुप्रतिष्ठितं चैत्यमनुप्राप्तो यष्टिवने सुप्रतिष्ठिते विहरति मागधकानां चैत्ये; अश्रौषीद्राजा मागधः श्रैन्यो बिंबिसारः; भगवान्महता भिक्षुसंघेन सार्धं भिक्षुसहस्रेण सर्वैः पूर्ववद्यावत्सम्यगाज्ञया सुविमुक्तचित्तैर्मागधेषु जनपदेषु चर्यां चरन् येन यष्टिवनं सुप्रतिष्ठितो मागधकानां चैत्यस्तेनानुप्राप्तो यष्टिवने विहरति मागधकानां चैत्ये (इ १) उद्दानम्: कौण्डिन्यो नन्दीपालश्च मोदका उदकं पिबेत् । पूपको मधुवासिष्ठो विनयाग्रं गणितेन च ॥ करकः कलभुश्चैव विश्वभुग्वनरथेन च । छत्रं कीतशिरामैत्री तथा घण्टेन घोषिता ॥ यदा आयुष्मता कौण्डिन्येन सर्वक्लेशप्रहाणादर्हत्वं साक्षात्कृतम् <इति> भगवता सङ्घाटीध्वजधारिणामग्रो निर्दिष्टः, तदा भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: किं भदन्त आयुष्मता कौण्डिन्येन कर्म कृतं येन भगवता सङ्घाटीध्वजधारिणामग्रो निर्दिष्टः? भगवानाह: कौण्डिन्येन भिक्षुणा कर्माणि कृतान्युपचितानि लब्धसंभाराणि परिणतप्रत्ययान्योघवत्प्रत्युपस्थितान्यवश्यभावीनि; कौण्डिन्येनैव कर्माणि कृतान्युपचितानि कोऽन्यः प्रत्यनुभविष्यति? न भिक्षवः कर्माणि कृतान्युपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ; (इ २) अपि तूपात्तेष्वेव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्यशुभानि च; न प्रणश्यन्ति कर्माण्यपि कल्पशतैरपि । सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम् ॥ ______________________________________________________________ स्तोर्योf कौण्डिन्य भूतपूर्वं भिक्षवः अस्मिन्नेव भद्रके कल्पे वर्षसहस्रायुषि प्रजायां काश्यपो नाम सम्यक्संबुद्धो लोक उदपादि, विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्; *स वाराणसीं नगरीमुपनिश्रित्य विहरति करकच्छेदके पर्वते; यावदपरेण समयेन काश्यपः सम्यक्संबुद्धः पूर्वाह्णे निवास्य, पात्रचीवरमादाय वाराणसीं प्रविशति; पञ्चमात्राणि च गोष्ठिकशतानि निर्गच्छन्ति; अद्राक्शुस्ते गोष्ठिकास्तं बुद्धं भगवन्तं द्वात्रिंशता महापुरुषलक्षणैः समलङ्कृतम्, अशित्या चानुव्यञ्जनैर्विराजितगत्रम्, व्यामप्रभालङ्कृतं, सूर्यसहस्रातिरेकप्रभम्, जङ्गममिव रत्नपर्वतं समन्ततो भद्रकम्; सहदर्शनाच्च प्रसादजाताः सञ्जल्पं कर्तुमारब्धाः: भवन्तोऽस्माभिरस्य सकाशे प्रव्रजितव्यमिति; तेषामेवं कृतसङ्केतानां केचिन्महासमुद्रमवतीर्णाह्; केचिद्देशान्तरं गताः; केचित्कालधर्मेण संयुक्ताः; षोदशजनाः परिशिष्टाः; ते कर<क>च्छेदकं पर्वतं गत्वा काश्यपस्य सम्यक्संबुद्धस्य सकाशे प्रव्रजिताः; ते तत्र ध्यानाध्ययनयोगेनावस्थिताः; यावदपरेण समयेन काश्यपः सम्यक्संबुद्धः सकलं बुद्धकार्यं कृत्वा इन्धनक्षयादिवाग्निः ऋषिवदने मृगदावे निरुपधिशेषे निर्वाणधातौ परिनिर्वृतह्; तेषां देवताभिरारोचितम्: भवन्तः काश्यपः परिनिर्वृतः; सप्ताहपरिनिर्वृतस्य चास्य शासनमन्तर्हितम्; किं यूयमफलकंबुका पुरतस्तिष्ठत इति; ते श्रुत्वा अकृतकार्यत्वान्महता दुःखेनाभ्याहताह्; पञ्च सहश्रवणादेव करकच्छेदकात्पर्वतादवतीर्य वाराणसीं प्रविष्टाः; षड्भिस्तेनैव संवेगेन वीर्यमवलम्ब्य प्रत्येकबोधिः साक्षात्कृता; पञ्च पश्चादवतीर्य वाराणसीं प्रवेष्टुम् (इ ३) आरब्धाः; यावच्छकटसार्थो निर्गच्छति; एकस्य शाकटिकस्य बलीवर्दा दुर्बलाः; स तान् प्रतोदयष्ट्या भूयो ताडयति; दुर्बलप्राणत्वान्न शक्नुवन्ति गन्तुम्; स च शाकटिकस्तस्य शकटसार्थस्याग्रतो यायी; स तैर्भिक्षुभिरुक्तः: भोः शाकटिक तवेमे बलीवर्दा दुर्बलाः; किमेतान् प्रतोदयष्ट्या भूयोभूयस्ताडयसि? यदि न शक्नुवन्ति गन्तुम्, विस्रब्धगतिप्रचारतया पृष्ठतोऽनुगच्छेति; स कथयति: ममाग्रतो गच्छतो न शक्यमनेन शकटसार्थेन सार्धं गन्तुम्; यद्यहं पृष्ठतोऽनुगच्छामि, नूनमयं शकटसार्थो छोरयित्वा गच्छतीति; ते शाकटिकस्यान्तिके असद्विकल्पसंज्ञनितवैमुख्याः परस्परं कथयन्ति: भवन्तः काश्यपे सम्यक्संबुद्धे परिनिर्वृते वयं विलम्बिता इत्यनेनास्माकमेषा चोदना कृता; यन्नु वयं वीर्यमारभेमहि; इति विदित्वा गाथां भाषन्ते: यद्यप्यन्तर्हितो धर्मः काश्यपस्य महामुनेः । वीर्यं न स्रंसयिष्यामः सम्यक्संबुद्धदेशितम् ॥ परिक्षयं न यास्यन्ति यद्यप्यस्माकमास्रावाः । श्रावकाग्रा भविष्यामः शाक्यसिंहस्य तायिनः ॥ इति; ते वाराणसीं प्रविश्य पिण्डपातं चरित्वा पुनरपि करकच्छेदकं पर्वतं गत्वा ध्यानाध्ययनयोगेनावस्थिताः; तेषां चत्वारः कालगताः; एकोऽवस्थितः; स उत्सुक उदानमुदानयति: अयमेव स करकच्छेदकः पर्वतो यत्र मया काश्यपः सम्यक्संबुद्धः पर्युपासितः; दृष्टश्च तस्य विंशतिभिक्षुसहराणामेकः (अ ४२५ ) सकलजम्बूद्वीपेऽपि सङ्घाटीध्वजधारीति; स प्रणिधानं कर्तुमारब्धः: यन्मया भगवति काश्यपे सम्यक्संबुद्धे यावदायुर्ब्रह्मचर्यं चरितम्; न कश्चिद्गुणगणोऽधिगतः; अनेनाहं कुशलमूलेन योऽसौ भगवता काश्यपेन सम्यक्संबुद्धेन उत्तरो नाम माणवो व्याकृतः, भविष्यसि त्वं माणव वर्षशतायुषि प्रजायां शाक्यमुनिर्नाम तथागतः अर्हन् सम्यक्संबुद्धः इति; तस्याहं शासने प्रव्रज्य तत्प्रथमतः सर्वक्लेशप्रहाणादर्हत्वं साक्षात्कुर्याम्; मां च भगवान् शाक्यमुनिः सङ्घाटीध्वजधारिणामग्रं निर्दिशेदिति. किं मन्यध्वे भिक्षवः? योऽसौ तेन कालेन समयेन भगवतः काश्यपस्य सम्यक्संबुद्धस्य परिनिर्वृतस्य विंशतिभिक्षुसहराणाम् (इ ४) सकलजम्बूद्वीपे एको भिक्षुरवशिष्टः सङ्घाटीध्वजधारी, येन तत्करकच्छेदके पर्वते प्रणिधानं कृतम्, एष एवासौ कौण्डिन्यो भिक्षुः; तत्प्रणिधान्वशादेतर्हि भगवता सङ्घाटीध्वजधारिणामग्रतायां निर्दिष्टः; इति हि भिक्षवः एकान्तकृष्णानां कर्मणामेकान्तकृष्णो विपाकः, एकान्तशुक्लानामेकान्तशुक्लः, व्यतिमिश्राणां व्यतिमिश्रः; तस्मात्तर्हि भिक्षवः एकान्तकृष्णानि कर्माण्यपास्य व्यतिमिश्राणि च, एकान्तशुक्लेष्वेव कर्मस्वाभोगः करणीयः; इत्येवं वो भिक्षवः शिक्षितव्यम्. यदा भगवता आयुष्मतः कौण्डिन्यस्य आकार्याकार्य धर्मो देशितः, आज्ञातस्ते कौण्डिन्य धर्मः? आज्ञतो भगवन्; आज्ञतस्ते कौण्डिन्य धर्मः? आज्ञतस्सुगत, इति, तदा भिक्षवः संशयजातः सर्वसंशयछेत्तारं बुद्धं भगवन्तं पप्रच्छुः: किं भदन्त आज्ञातकौण्डिन्येन कर्म कृतं येनास्य भगवता आकार्याकार्य धर्मो देशितः, आज्ञातस्ते कौण्डिन्य धर्मः? आज्ञतो भगवन्; आज्ञतस्ते कौण्डिन्य धर्मः? आज्ञतस्सुगत इति; भगवानाह: कौण्डिन्येनैव भिक्षवो भिक्षुणा कर्माणि कृतान्युपचितानि लब्धसंभाराणि पूर्ववद्यावत्फलन्ति खलु देहिनाम्. ______________________________________________________________ स्तोर्योf काशिसुन्दरक (क्षान्तिवादिन्) (चोन्चेर्निन्ग प्रेविओउस्बिर्थोf कौण्डिन्य) भूतपूर्वं भिक्षवो वाराणस्यां नगर्यां ब्रह्मदत्तो नाम राजा राज्यं कारयति, ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं च आकीर्णबहुजनमनुष्यं च; सोऽपरेण समयेन देव्या सार्धं क्रीडति रमते परिचारयति; तस्य क्रीडतो रममाणस्य परिचारयतः देवी आपन्नसत्वा संवृत्ता; अष्टानां वा नवानां वा मासानामत्ययात्प्रसूता; दारको जातः, अभिरूपो दर्शनीयः प्रासादिकः सर्वाङ्गप्रत्यङ्गोपेतः; तस्य जातौ जातिमहं कृत्वा नामधेयं व्यवस्थाप्यते, किं भवतु दारकस्य नामेति; अमात्याः ऊचुः: देव आचरितं मध्यदेशे योऽभिरूपो भवति प्रासादिकः स सुन्दर इत्युच्यते; अयं च दारकः अभिरूपो दर्शनीयः प्रासादिकः, काशिराजस्य च पुत्रः; भवतु दारकस्य काशिसुन्दर इति नामेति; तस्य काशिसुन्दर इति नामधेयं व्यवस्थापितम्; काशिसुन्दरो दारकः अष्टाभ्यो धात्रीभ्यो दत्तः; द्वाभ्यामङ्गधात्रीभ्यां द्वाभ्यां क्षीरधात्रीभ्यां द्वाभ्यां (अ ४२६ ) मलधात्रीभ्यां द्वाभ्यां क्रीडनिकाभ्यां धात्रीभ्याम्; अष्टाभिर्धात्रीभिरुन्नीयते क्षीरेण (इ ५) दध्ना नवनीतेन सर्पिषा सर्पिर्मण्डेन अन्यैश्चोत्तप्तोत्तप्तैरुपकरणविशेषैराशु वर्धते ह्रदस्थमिव पङ्कजम्. भूयोऽपि राज्ञः क्रीडतो रममाणस्य परिचारयतः देवी आपन्नसत्वा संवृत्ता; सा अष्टानां वा नवानां वा मासानामत्ययात्प्रसूता; दारको जातः; यस्मिन्नेव दिवसे वाराणस्यां पौरजानपदानां महान् कलिरुत्पन्नः; तस्यापि जातिमहं कृत्वा नामधेयं व्यवस्थाप्यते, किं भवतु दारकस्य नामेति; अन्तःपुरजनः कथयति: देव अस्य जन्मनि वाराणस्यां पौरजानपदानां महान् कलिरभूत्; तस्माद्भवतु दारकस्य कलिभूरिति नामेति; राजा ब्रह्मदत्तः धर्माधर्मेण राज्यं कारयति; काशिसुन्दरः कुमारः पश्यति पितरं धर्माधर्मेण राज्यं कारयन्तम्; दृष्ट्वा च पुनरस्यैतदभवत्: अहमपि पितुरत्ययाद्राजा भविष्यामि; अहमपि धर्माधर्मेण राज्यं कारयित्वा नरकपरायणो भविष्यामि; यन्न्वहमगारादनगारिकां प्रव्रजेयमिति; स पितुस्सकाशमुपसंक्रान्तः; पादयोर्निपत्य कथयति: तात अनुजानिष्व, प्रव्रजाम्यगारादनगारिकामिति; स कथयति: पुत्र यस्यार्थे यज्ञा इज्यन्ते, होमा हूयन्ते, तपांसि तप्यन्ते, तत्तव करतलगतं राज्यम्; कस्यार्थे अपास्य प्रव्रजसीति; स गाथां भाषते: वरं वने वल्कलचीरवाससा फलाशिना व्याडमृगैः सहोषितम् । न राज्यहेतोर्वधबन्धताडनं बुधेन कर्तुं परलोकभीरुणा ॥ इति; राज कथयति; यत्खलु कुमार जानीयास्त्वमस्माकमेकपुत्रः प्रियो मनापः क्षान्तोऽप्रतिकूलः; मरणेन ते वयमकामका वियुज्येम; न तु जीवन्तं परित्यक्ष्यामः; काशिसुन्दरः कुमारः कथयति; तात सचेदनुज्ञास्यसीत्येवं कुशलम्; नो चेदनुज्ञास्यसि, अद्य न भोक्ष्ये, न पास्यामीति; तत्र काशिसुन्दरः कुमारः एकमपि भक्तच्छेदमकार्षीद्, द्वौ, त्रीन्, यावद्षड्भक्तच्छेदानकार्षीत्; अथ राज ब्रह्मदत्तः काशिसुन्दरं कुमारमिदमवोचत्: (इ ६) यत्खलु तात कुमार जानीया दुश्चरं ब्रह्मचर्यम्, दुष्करं प्राविवेक्यं, दुरभिरममेकत्वे, दुरभिसंबुधान्यरण्यवनप्रस्थानि, प्रान्तानि शयनासनान्यध्यावस्तुम्, दुःखमेकाकिनोऽरण्ये वासः; यावज्जीवं ते व्याडमृगैः सह वस्तव्यम्; यावज्जीवं ते परदत्तभोजिनो भवितव्यम्; यावज्जीवं ते मानुषकेभ्यः कामेभ्यः आवरणं कर्तव्यम्; यावज्जीवं ते मानुषिकाभ्यो रतिक्रीडाभ्य आवरणं कर्तव्यम्; एहि त्वं तात कुमार इहैव स्थितो यौवराज्यं कारय; कामांश्च परिभुंक्ष्व; दानानि च देहि पुण्यानि च कुरु; एवमुक्त काशिसुन्दरः कुमारस्तूष्णीम्. अथ राजा ब्रह्मदत्तः अन्तःपुरममात्यान् पौरोहितांश्चोद्योजयति; अङ्ग तावद्भवन्तः कुमारमुत्थापयत; एवं देवेत्यन्तःपुरामात्यपौरोहिता येन काशिसुन्दरः कुमारस्तेनोपसंक्रान्ताः; उपसंक्रम्य काशिसुन्दरं कुमारमिदमवोचन्: यत्खलु (अ ४२६ ) तात कुमार जानीयास्, त्वं हि सुकुमारः सुखैषी; न त्वं ज्ञाता दुःखस्य; दुश्चरं ब्रह्मचर्यम्; दुष्करं प्राविवेक्यं, दुरभिरममेकत्वे, दुरभिसंबुधान्यरण्यवनप्रस्थानि, प्रान्तानि शयनासनान्यध्यावस्तुम्, दुःखमेकाकिनोऽरण्ये वासः; यावज्जीवं ते व्याडमृगैः सह वस्तव्यम्; यावज्जीवं ते परदत्तभोजिनो भवितव्यम्; यावज्जीवं ते मानुषकेभ्यः कामेभ्यः आवरणं कर्तव्यम्; यावज्जीवं ते मानुषिकाभ्यो रतिक्रीडाभ्य आवरणं कर्तव्यम्; एहि त्वं तात कुमार इहैव स्थितो यौवराज्यं कारय; कामांश्च परिभुंक्ष्व; दानानि च <देहि पुण्यानि च> कुरु; एवमुक्त काशिसुन्दरः कुमारस्तूष्णीम्. अथ राजा ब्रह्मदत्तः काशिसुनद्रस्य कुमारस्य पांसुक्रीडनकामात्यपुत्रान् पौरोहितपुत्रानन्यांश्च कुमाराणुद्योजयति; अङ्ग तावद्कुमारकाः काशिसुन्दरं कुमारमुत्थापयत; अथामात्यपुत्राः पुरोहितपुत्राः कुमाराश्च राज्ञो ब्रह्मदत्तस्य प्रतिश्रुत्य, येन काशिसुन्दरः कुमारस्तेनोपसंक्रान्ताः; उपसंक्रम्य काशिसुन्दरं कुमारमिदमवोचन्: यत्खलु सोम्य कुमार जानीयास्त्वं हि सुकुमारः सुखैषी; न त्वं ज्ञाता दुःखस्य; दुश्चरं ब्रह्मचर्यम्; दुष्करं प्राविवेक्यं, दुरभिरममेकत्वे; दुरभिसंबुधान्यरण्यवनप्रस्थानि, प्रान्तानि शयनासनान्यध्यावस्तुम्, दुःखमेकाकिनोऽरण्ये वासः; यावज्जीवं ते व्याडमृगैः (इ ७) सह वस्तव्यम्; यावज्जीवं ते परदत्तभोजिनो भवितव्यम्; यावज्जीवं ते मानुषकेभ्यः कामेभ्यः आवरणं कर्तव्यम्; यावज्जीवं ते मानुषिकाभ्यो रतिक्रीडाभ्यः आवरणं कर्तव्यम्; एहि त्वं सोम्य कुमार इहैव स्थितो यौवराज्यं कारय; कामांश्च परिभुंक्ष्व; दानानि <च> देहि; पुण्यानि च कुरु; एवमुक्त काशिसुन्दरः कुमारस्तूष्णीम्. अथामात्यपुत्राः पुरोहितपुत्राः च येन राजा ब्रह्मदत्तस्तेनोपसंक्रान्ताः; उपसंक्रम्य राजानं ब्रह्मदत्तमिदमवोचन्: अनुजानीहि देव सोम्यं काशिसुन्दरं कुमारम्; किं हि मृतेन करिष्यसि? विज्ञप्रशस्ता हि प्रव्रज्या; सचेदभिरंस्यसे, जीवन्तमेनं द्रक्ष्यसि; नो चेदभिरंस्यसे, पुनरावर्तिका हि ऋषयो भवन्ति; कान्या पुत्रस्य गतिर्, अन्यत्र मातापितृभ्याम्. राजा ब्रह्मदत्तः कथयति: कुमारका यद्येवम्, अनुज्ञतो भवतु; अथामात्यपुत्राः पुरोहितपुत्राः कुमाराश्च येन काशिसुन्दरः कुमारस्तेनोपसंक्रान्ताः; उपसंक्रम्य काशिसुन्दरं कुमारमिदमवोचन्: यत्खलु सोम्य कुमार जानीयाः, अनुज्ञतोऽसि राज्ञा प्रव्रज्यायै, यस्येदानीं कालं मन्यसे: अथ काशिसुन्दरः कुमारः मण्डानुपूर्वीं कृत्वा कायस्य स्थाम च बलं च वीर्यं च सञ्जन्य वाराणस्याः च निष्क्रम्य ऋषीणां मध्ये प्रव्रजितः; तेनोद्यच्छमानेन, व्यायच्छमानेन, कामेषु वैरग्यं कृत्वा मैत्री समधिगता; सोऽत्यन्तं सत्वेषु दयावान् संवृत्तः; तस्यैतया मत्र्या व्याडमृगा अप्याश्रमपदे विश्वासमापद्यन्ते; नापराध्यन्ते; तस्य क्षान्तिवादी क्षान्तीवादीति संज्ञासंवृत्ता; यावदपरेण समयेन (अ ४२७ ) राजा ब्रह्मदत्तः कालगतः; कलभू राज्ये प्रतिष्ठापितः; स धर्माधर्मेण <राज्यं> कारयति; क्षान्तिवादी ऋषिः कथयति: उपाध्याय ममान्नपानाभिवर्जितम्; न शक्नोम्यारण्यकाभिरोषधीभिर्यापयितुम्; ग्रामान्तं समवसरामीति; कथयति: वत्स ग्रामे वारण्ये <वा> वसतो ऋषिणो रक्षितव्याण्येवेन्द्रियाणि; गच्छ वाराणसीसामन्तकम्; गत्वा शाखापर्णकुटीरकाणि कृत्वा वासं कल्पयेति; स उपाध्यायाल्लब्धानुज्ञो वाराणसीं (इ ८) गत्वा शान्तविहारसमन्वेषणया इतश्चामुतश्च परिभ्रमन्ननुपूर्वेण पितुः सन्तकमुद्यानं गतः; तेन तस्मिन् पर्यटता शान्तः प्रदेशो दृष्टः; स तत्रावस्थितः. यावदपरेण समयेन कलभू राजा संप्राप्ते वसन्तकालसमये संपुष्पितेषु पादपेषु हंसक्रौञ्चमयूरशुकशारिकाकोकिलजीवञ्जीवकोन्नादिते वनषण्डे अन्तःपुरसहीयः उद्यानभूमिं निर्गतः; स तत्रोद्याने सुखमनुभूय खेदमापन्नो मिद्धमवक्रान्तः; पुष्पफललोलुपो मातृग्रामस्तस्मिन्नुद्याने इतश्च अमुतश्च परिभ्रमितुमारब्धः; यावत्पश्यन्ति क्षान्तिवादिनमृषिमेकान्ते शान्तेर्यापथे निषण्णम्; दृष्ट्वा च पुनर्गौरवाप्यायितचित्तसन्तत्यः तस्य ऋषेः प्रणामं कृत्वा परिवार्यावस्थिताः; क्षान्तिवादी ऋषिस्तास्स्त्रियो शान्ततरेणेर्यापथेन धर्मं देशयितुमारब्धः; यावत्कलभू राजा निद्राक्लमं प्रतिविनोद्य प्रबुद्धो न पश्यत्यन्तःपुरजनम्; स खड्गमादाय युवतिजनं समन्वेषितुमारब्धः; यावत्पश्यति क्षान्तिवादिनं रिषिं परिवार्य अवस्थिताः; दृष्ट्वा च पुनरीर्ष्याजनितक्रोधपर्याकुलीकृतात्मभावः तस्य रिषेः सकाशमुपसंक्रान्तः; मातृग्रामो राज्ञः सकाशमवस्थानं दृष्ट्वा सन्त्रस्तो विद्रुतः; राजा सावष्टम्भं क्षान्तिवादिनमुवाच: भोः पुरुष, कस्त्वं? स कथयति: क्षान्तिवादी; कलभू राजा कथयति: मयि विकुपिते क्षान्तिवादिनमात्मानं प्रतिजानीषे? इदानीं क्षान्तिवादी वा भवान्न वेति तेन तस्य हस्तौ छिन्नौ; भूयः पृच्छति; को भवानिति; स कथयति, क्षान्तिवादी; तेन तस्य पादौ छिन्नौ; स छिद्यमानेष्वङ्गप्रत्यङ्गेषु गाथां भाषते: यदि तिलशतमपि कृत्वा क्षेप्स्यसे कायमुर्व्याम् न त्यजामि क्षान्तिं तिलशतोऽपि चूर्णितगात्रः । यस्य मम शुभा मैत्री चेतसि परिभाविता सदा क्षान्तिम् तां नोत्सहे विहन्तुं सुतमिव सुतवत्सला जननी ॥ स एवं गाथाभिर्गीतेन रुजं विनोद्य प्रणिधानं कर्तुमारब्धः: यथैष राजा क्लेशाभिनिविष्टबुद्धिर्ममाकार्याकार्य अङ्गप्रत्यङ्गानि छिनत्ति; तथाहं क्षान्तिसौरत्यसमन्वागतेन (इ ९) कुशलमूलेन क्लेशगणमात्मीयमभिनिर्जित्य अनुत्तरायां सम्यक्संबोधौ अभिसंबुद्धः स्याम्; ततः प्रज्ञाशस्त्रेणस्य आकार्याकार्य तत्प्रथमतः क्लेशान् प्रम्लायेयमिति. अथ या देवता क्षान्तिवादिन्यभिप्रसन्ना सा संलक्षयति: अनेन कलिराजेन अयमृषिरदूष्यनपकारी करचरणशून्यो व्यवस्थापितः; यन्वहमस्य वैरं निर्यातयेयम्; इति विदित्वा तीव्रेण (अ ४२७ ) पर्यवस्थानेन क्षान्तिवादिनः पुरस्ताद्गाथां भाषते: कलभूं सपुत्रदारं सबन्धुवर्गं सपौरजानपदम् । कृत्स्नं च जीवलोकमाज्ञापय नाशयिष्यामि ॥ इति; सोऽपि गाथां भाषते: करचरणनाशविकलं कृतं मम शरीरमाकुलं येन । तस्यापि पापमण्वपि नेच्छामि कुतः पुनरदूषिनो जगतः ॥ तस्यापि या देवता वाराणस्यामीतिस्तत इतः सृष्टा; मूषिकाः शलभाः शुकाः प्रबलाः संवृत्ताः; देवो न वर्षति; जनकायो म्रियते; राज्ञा नैमित्तिका आहूय पृष्टाः: भवन्तः किमर्थं देवो न वर्षति? मुषिकाः शलभाः शुकाः प्रबलाः संवृत्ताः; जनकायश्च म्रियते इति; ते कथयन्ति: देव देवताप्रकोप इति; या देवता क्षान्तिवादिनो ऋषेरभिप्रसन्ना सा कुपिता; तया एषा ईतिः सृष्टा इति; राजा कथयति: भवन्तः कथमत्र प्रतिपत्तव्यमिति; नैमित्तिकाः कथयन्ति: देव बलिमाल्योपहारेण देवताः प्रकुपिता आराध्यन्ते; बलिमाल्योपहारं कृत्वा क्षमापयितव्या स च ऋषिरिति; ततो राज्ञा वाराणस्यां घण्टावघोषणं कारितम्: शृण्वन्तु भवन्तो वाराणसीनिवासिनः पौराः, उद्याननिवासिनी देवता क्षान्तिवादिनो ऋषेरभिप्रसन्ना; तया ईतिरुत्सृष्टा; येन देवो न वर्षति; मूषिकाः शलभाः शुकाः प्रबलाः संवृत्ताः; जनकायश्च म्रियते; तद्युष्माभिरीतिव्युपशमार्थं श्वो बलिमाल्योपहारसमेतैरुद्यानं गत्वा तस्याः पूजा संविधातव्या इति. (इ १०) जनकायस्तामेव रात्रिं बलिमाल्योपहारं समुदानीय तदुद्यानं गतः; राजा चान्तःपुरसहीयः; ततो जनकायेन श्रमणब्राह्मणकृपणवनीपकेभ्यो दानानि दत्वा देवतास्थाने च महतीं पूजां कृत्वा सा देवता क्षमिता; ततो राजा ऋषेः क्षान्तिवादिनः सकाशं गत्वा पादयोर्निपत्य क्षमयितुमारब्धः: क्षमस्व मे महर्षे यन्मया विषयाध्यवसितेन क्रोधपर्याकुलीकृतमतिना तवापराद्धमिति; क्षान्तिवादी कथयति: क्षान्तं महाराज; यथाकथं ज्ञायते? स गाथां भाषते: गात्रेषु वहसि शस्त्रं मैत्री मे सर्वसत्वेषु । यदि संशयोऽत्र भवतां पश्यत रुधिरं प्रसन्नं मे ॥ इति; तस्य तद्रुधिरं परावृतम्; पापकर्मकारी स राजा प्रातिहार्यसन्दर्शनेनापि न श्रद्धत्ते; स भूयः कथयति, क्षमस्व महर्षे; क्षान्तं महाराज; यथाकथं ज्ञायते? ततो बोधिसत्वः छिन्नान्यङ्गप्रत्यङ्गानि यथास्वे स्थाने स्थापयित्वा सत्योपयाचनया गाथां भाषते: छिद्यमानेषु गात्रेषु त्वया राजन् यथा न मे । आघातोऽस्ति सुसूक्ष्मोऽपि स्यान्मे कायस्तथा पुरा ॥ इति; तस्य सत्योपयाचनया शरीरं यथापुरं संवृत्तम्; ततो राजा विस्मयोत्फुल्ललोचनो गाथां भाषते: अहो व्रतमिदं सिद्धमहो धर्मस्स्वनुष्ठितः । छिद्यमानेषु गात्रेषु यस्य ते नास्ति विक्रिया ॥ राजा कलभूः सान्तःपुरामात्यपौरनजानपदः तस्य ऋषेः पादौ शिरसा वन्दित्वा प्रक्रान्तः. किं मन्यध्वे भिक्षवो योऽसौ <तेन कालेन समयेन> (अ ४२९ ) क्षान्तिवादी ऋषिरहमेव स; योऽसौ कलिभू राजा एष एवासौ कौण्डिन्यभिक्षुः; यन्मया तस्यान्तिके मैत्रचित्तमुत्पाद्य प्रणिधानं कृतम्, अनेनाहं कुशलमूलेनास्य आकार्याकार्य क्लेशान् छेदयेयमिति; (इ ११) तत्प्रणिधानवशादेतर्हि तथागतेन अस्य आकार्याकार्य धर्मो देशितः; एकान्तकृष्णानामेकान्तकृष्णो विपाकः, पूर्ववद्यावदेवं वो भिक्षवः शिक्षितव्यम्. यदा भगवता अशीतिर्देवतासहस्राणि धर्मरसेन संगृह्य सत्येषु प्रतिष्ठापितानि तदा भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: पश्य भदन्त भगवता अशीतिर्देवतासहस्राणि धर्मरसेन संगृह्य सत्येषु प्रतिष्ठापितानि; भगवानाह: न भिक्षव एतर्हि यथातीतेऽप्यध्वनि मयैतानि अशीतिर्वणिक्सहस्राणि आमिषेण संगृह्य पंचसु व्रतपदेषु प्रतिष्ठापितानि; तच्छ्रूयताम्. ______________________________________________________________ थे स्तोर्योf थे त्wओ मेर्छन्त्स् भूतपूर्वं भिक्षवो द्वौ सार्थवाहौ अभूवतां विश्वभुक्सुयात्रश्च; एकैकश्च चत्वारिंशद्वणिक्सहस्रपरिवारः; तत्र सुयात्रो नैष्क्रम्याभिनन्दी; स रिषीनां मध्ये प्रव्रजितः; तेनैकाकिना वीर्यमास्थाय अनाचार्येणानुपाध्यायकेन सप्तत्रिंशद्बोधिपक्ष्यान् धर्मान् संमुखीकृत्य प्रत्येकबोधिः साक्षाकृता; तस्य ते सार्थिका सार्थवाहमपश्यन्तः इतश्चामुतः च समन्वेषितुमारब्धाः; यदा सर्वथा नारागयन्तस्तदानीं विश्वभुजः सार्थवाहोऽनवलोक्य प्रक्रान्तः; समन्विष्टोऽस्माभिर्नारागितः; कथमत्र प्रतिपत्तव्यम्? इति; स कथयति: तिष्ठत, मा काहलीभवत; समन्वेषामः सार्थवाहमिति; ततो विश्वभुक्सार्थवाह अशीत्या वणिक्सहस्रैः परिवृतः सुयात्रं सार्थवाहं समन्वेषितुमारब्धः उद्यानावसथतपोवनेषु; स तेन दृष्टः पृष्टश्च: कस्मात्त्वं सार्थमपहाय प्रव्रजित इति; कायिकी तेषां महात्मनां धर्मदेशना न वाचिकी; तेनासौ सार्थवाहः सपरिवारो ज्वलनतपनवर्षनविद्योतनप्रातिहार्यैरावर्जितः; तेन तान्यशीतिर्वणिक्सहस्राणि आमिषोपसंहारोपसंहृतान्युक्तानि: अस्मै कारान् कुरुत; अस्मै काराः कृता नियतं फलदायका भवन्ति; तैः तस्मिन्ननेकाः काराः कृताः. किं मन्यध्वे भिक्षवो योऽ साव्विश्वभुक्सार्थवाह अहमेव (इ १२) स तेन कालेन तेन समयेन; यानि वणिक्सहस्राण्येतान्येव तान्यशीतिर्देवतासहस्राणि; तदाप्येतानि मयामिषेणोपसंहृत्य पंचसु व्रतपदेषु प्रतिष्ठापितानि; एतर्ह्यप्येतानि मया सद्धर्मरसेनोपसंहृत्य सत्येषु प्रतिष्ठापितानि; इति हि भिक्षवः एकान्तकृष्णानां कर्माणां व्यतिमिश्रः यावदेवं वो भिक्षवः शिक्षितव्यम्. यदा भगवता पंचका भिक्षवः संसारकान्तारादुत्तार्य इन्द्रियबलबोध्यङ्गरत्नैः संविभक्ताः सद्धर्मरसेन संतर्पिताः, तदा भिक्षवः (अ ४२९ ) संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: पश्य भदन्त भगवता पंचका भिक्षवः संसारकान्तारादुत्तार्य सद्धर्मरसेन संतर्पिता इति; भगवानाह: किमत्र, भिक्षव, आश्चर्यं यदिदानीं मया विगतरागेण विगतद्वेषेण विगतमोहेन परिमुक्तेन जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासैः सर्वज्ञेन सर्वाकारज्ञेन सर्वज्ञानज्ञेयवशिप्राप्तेन पंचका भिक्षवः संसारकान्तारादुत्तर्य सद्धर्मरसेन संतर्पिताः; यत्तु मयापि अतीतेऽध्वनि सरागेण सद्वेषेण समोहेनापरिमुक्तेन जातिजाराव्यधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासैः सार्थवाहभूतेन पंचकैः कान्तारमार्गे कृच्छ्रसंकटसंबाधप्राप्ताः सलिलं विना प्राणैर्वियुज्यमाना देवतायाचनं कृत्वा माहेन्द्रा सलिलवर्षेण संतर्पिताः; तच्छ्रूयताम्. ______________________________________________________________ थे स्तोर्योf थे थिर्स्त्य्चरवन् भूतपूर्वं भिक्षवः विश्वभुङ्नाम सार्थवाहः पंचवणिक्शतैः सार्धं संव्यवहरन्नल्पसलिलकान्तारमार्गं प्रतिपन्नः अनुपूर्वेण विन्ध्याटवीं संप्राप्तः; तेषां तत्र सर्वं सलिलं परिक्षीणम्; वणिक्सार्थः सलिलविरहात्प्रतिसंख्याने संप्रस्थितः; पंच तु वणिजः सलिलमलभमाना अत्यर्थं काहलीभूताः; विश्वभुक्सार्थवाहस्तान् तथाविधान् दृष्ट्वा कारुण्यादाकंपितहृदयो ऊर्ध्वमुखो देवतायाचनं कर्तुमारब्धः: शृण्वन्तु भवन्तः शिववरुणकुबेरवासवाद्या देवा येन सत्येन सत्यवचनेन मम सर्वेषु समप्रवृत्ता दया अनेन सत्येन सत्यवचनेन माहेन्द्रो देवो वर्षतु; बोधिसत्वानुभावेन माहेन्द्रं भवनमाकम्पितम्; शक्रस्य देवेन्द्रस्याधस्ताज्ज्ञानदर्शनं प्रवर्तते; स संलक्षयति: केन माहेन्द्रं भवनमाकम्पितम्? पश्यति बोधिसत्वेनानुभावात्; तेन तथाविधं माहेन्द्रं वर्षमुत्सृष्टमेनासौ वणिक्सार्थः संतर्पितः कान्तारमार्गं समतिक्रान्तः. (इ १३) किं मन्यध्वे भिक्षवः, योऽसौ विश्वभुक्सार्थवाहः अहमेव स तेन कालेन तेन समयेन; ये ते पंच वणिजः सलिलविरहादत्यर्थं काहलीभूता एत एव ते पंचका भिक्षवः; तदाप्येते मया सलिलेन संतर्प्य कान्तारमार्गादुत्तारिताः; एतर्ह्यपि मया एते सद्धर्मरसेन संतर्प्य संसारकान्तारादुत्तारिताः. यदा भगवता पंचका भिक्षवः संसारकान्तारादुत्तार्य इन्द्रियबलबोध्यङ्गैः संविभक्ताः, तदा भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: पश्य भदन्त भगवता पंचका भिक्षवः संसारकान्तारादुत्तार्य इन्द्रियबलबोध्यङ्गरत्नैः संविभक्ताः; भगवानाह: किमत्र, भिक्षव, आश्चर्यं यदिदानीं मया विगतरागेण विगतद्वेषेण विगतमोहेन परिमुक्तेन जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासैः सर्वज्ञेन सर्वाकारज्ञेन सर्वज्ञानज्ञेयवशिप्राप्तेन पंचका भिक्षवः संसारकान्तारादुत्तर्य इन्द्रियबलबोध्यङ्गरत्नैः (अ ४३० ) संविभक्ताः; यत्तु मयापि अतीतेऽध्वनि सरागेण सद्वेषेण समोहेनापरिमुक्तेन जातिजाराव्यधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासैः सार्थवाहभूतेन एते स्वजीवितपरित्यागेन महासमुद्रादुत्तार्य रत्नैः संविभक्ताः; तच्छ्रूयताम्. ______________________________________________________________ थे स्तोर्योf थे मेर्छन्त्धनरथ भूतपूर्वं, भिक्षवो, धनरथो नाम महासार्थवाहो बभूव; पंचभिः सार्थवाहैः सार्धं महासमुद्रं संप्रस्थितः; ते तस्य सार्थवाहस्य अन्योन्यकथालापसौमुख्या अन्योन्यकृतप्रणया संवृत्ताः; यावदनुपूर्वेण समुद्रतीरमनुप्राप्तैः प्रत्येकं वहनानि सज्जीकृतानि; अवतरणकाले तैर्धनरथः सार्थवाहोऽभिहितः; सार्थवाह वयं त्वया विना धृतिं न लभामहे; स कथयति: यद्येवमिहैवाभिरुहतः वहनानि मुच्यन्तामिति; ते तत्राभिरूढाः, वातश्चोत्थित्ः; संत्रस्तानां धनरथः कथयति: भवन्तो मा बिभीत; यदा वहनं विनाशमुपैति तदा मम कण्ठे लगेत, अहं वो उत्तारयिष्यामि इति; कुशला भवन्ति (इ १४) बोधिसत्वास्तेषु तेषु शिल्पस्थानकर्मस्थानेषु; तेन महार्हानि रत्नानि कक्षायामुपनिबद्धानि; यानपात्रं विपन्नम्; ते सार्थवाहस्य्लग्नाः; ते तेन श्रान्तकायेन ईषज्जीवितावशेषेण समुद्रतीरसंप्राप्तिताः; तैश्चासौ स्थलप्राप्तैः प्रतिमुक्तः; सोऽत्यन्तनिरुत्साहः कालगतः; तैरसौ जलात्स्थलमुत्तारितः; यावत्पश्यन्ति कक्षोपनिबद्धानि महार्हानि रत्नानि; ते तान्यादाय प्रक्रान्ताः. किं मन्यध्वे भिक्षवः? योऽसौ धनरथो नाम सार्थवाह अहमेव स तेन कालेन तेन समयेन; ये ते पंचका भिक्षवः तदाप्येते मया महासमुद्रादुत्तार्य रत्नैः संविभक्ताः; एतर्ह्यप्य्मया संसारकान्तारादुत्तार्य इन्द्रियबलबोध्यङ्गरत्नैः संविभक्ताः. यदायुष्मानाज्ञातकौण्डिन्यो वृद्धान्ते निषीदति, तदा पर्षदं छत्रीकृत्य निषीदति; भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: किं भदन्त आयुष्मता आज्ञातकौण्डिन्येन कर्म कृतं यस्य कर्मणो विपाकेन छत्रीकृत्य पर्षदं निषीदति? भगवानाह: कौण्डिन्येन भिक्षवो भिक्षुणा कर्माणि कृतान्युपचितानि लब्धसंभारानि पूर्ववद्यावत्फलन्ति खलु देहिनाम्. ______________________________________________________________ थे स्तोर्योf संधान, थे होउसेहोल्देर् (चोन्चेर्निन्ग प्रेविओउस्बिर्थोf कौण्डिन्य) भूतपूर्वं भिक्षवो वाराणस्यां नगर्यां संधनो नाम गृहपतिः प्रतिवसत्याढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी; तेन खलु समयेन वाराणस्यां ब्रह्मदत्तो नाम राजा राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं चाकीर्णबहुजनमनुष्यं च; यावन्नैमित्तिकैर्द्वादशवार्षिका अनावृष्टिरदिष्टा; ब्रह्मदत्तेन राज्ञा स्वविषये घण्टावघोषणं कारितम्: शृण्वन्तु भवन्तो मद्विषयनिवासिनः पौराः; नैमित्तिकैर्द्वादशवार्षिका अनावृष्टिरादिष्टा; तद्येषां युष्माकं द्वादशवर्षिकमन्नपानमस्ति तैर्मद्विषये वस्तव्यम्; अन्यैर्नानादिक्षु विप्रक्रमितव्यम्; द्वादशवर्षसमतिक्रमे पुनरागन्तव्यमिति; ततः संधानो गृहपतिः (अ ४३० ) कोष्ठागारिकपुरुषमामन्त्रयते: भोः पुरुष अस्ति कोष्ठागारे द्वादशवार्षिकमन्नपानमिति; स कथयति: आर्य (इ १५) भविष्यति इति; <ततः संधानो गृहपतिः सपरिवारो निषण्णः> जनकायः समन्ताद्विद्रुतः; महद्दुर्भिक्षं प्रादुर्भूतं कृच्छ्रः कान्तारः दुर्लभः पिण्डको याचनकेन; असति बुद्धानामुत्पादे प्रत्येकबुद्धा लोके उत्पद्यन्ते हीनदीनानुकम्पका प्रान्ताशयनासनभक्ता एकदक्षिणीया लोकस्य; तेन खलु समयेन वाराणस्यां नातिदूरे अन्यतमस्मिन्नाश्रमपदे पंच प्रत्येकबुद्धशतानि प्रतिवसन्ति; यदा दुर्भिक्षकालमृत्युभयभीतो जनकायः समन्ताद्विद्रुतः तदा तेषां पिण्डका समुच्छिन्नाः; ते सर्व एव संभूय संधनस्य गृहपतेस्सकाशमुपसंक्रान्ताः कथयन्ति: गृहपते, अस्माकं पंचानां प्रव्रजितशतानां पिण्डकेन योगोद्वहनं कुरुष्व इति; स कथयति: कोष्ठागार्कं तावदवलोकयामि इति; स कोष्ठागारिकमामन्त्रयते: अस्ति भोः पुरुष अस्माकं कोष्ठागारे अन्नपानं यदस्माकं स्यादेषां च पंचानां प्रव्रजितशतानां द्वादशवर्षाणि इति; स कथयति आर्य भविष्यति इति; संधानेन गृहपतिना पंचानां प्रव्रजितशतानां पिण्डक उपनिबद्ध इति; श्रुत्वा अपराणि पंच प्रत्येकबुद्धशतानि संधानस्य गृहपतेः सकाशमुपसंक्रान्तानि; उपसंक्रम्य संधानं गृहपतिमिदमवोचन्: गृहपते अस्माकं पंचानां प्रव्रजितशतानां पिण्डकेन योगोद्वहनं कुरुष्व इति; स कथयति: आर्यका दत्तमेव युष्माकं किं भूयः प्रार्थयत इति; ते कथयन्ति गृहपते अन्ये ते वयमन्ये इति; स कथयति: आर्यका, यद्येवं कोष्ठागारिकं तावदवलोकयामि इति; स कोष्ठागारिकं पुरुषमामन्त्रयते: भोः पुरुष अस्ति अस्माकं कोष्ठागारे अन्नपानं यदस्माकं स्यादस्य च प्रव्रजितसहस्रस्य द्वादशवर्षाणि इति; स कथयति: भविष्यति इति; तेन ते प्रत्येकबुद्धा उक्ता: आर्यका तिष्ठत; को युष्माकं भक्तकाल इति; ते कथयन्ति: गृहपते अपरिणतो मध्याह्नः; ततः संधानेन गृहपतिना दानशाला मापिता दानाधिस्थायिकः पुरुषः स्थापितः कालारोचकश्च; ते प्रतिदिनमागम्य भक्तकृत्यं कुर्वन्ति; तस्य प्रत्येकबुद्धसहस्रस्य यः संघस्थविरः सोऽतीव प्रासादिकः छत्राकारशिरास्तां पर्षदं छत्रीकृत्यावतिष्ठते; संधानस्य गृहपतेर्दुहिता तस्य संघस्थविरस्य (इ १६) छत्राकारशिरस्कतां वर्णपुष्कलतां दृष्ट्वातीवाभिप्रसन्ना; यावदपरेण समयेन भक्तकाले देवो वर्षितुमारब्धः; ततः तया दारिकया संघस्थविरस्य मूर्ध्नि छत्रं धारितम्; भुक्तस्य च पादयोर्निपत्य प्रणिधानं कृतम्: अनेनाहं कुशलमूलेन एवंविधानां गुणानां लाभी स्यां यादृशोऽयमार्यः यथा चायं छत्रीकृत्य पर्षदि निषण्णः एवमहमपि छत्रीकृत्य पर्षदं निषीदेयमिति. किं मन्यध्वे भिक्षवः? यासौ संधानस्द्य गृहपतेर्दुहिता एष एवासौ (अ ४३१ ) कौण्डिन्यो भिक्षुः; यदनेन कुमारिकाभूतेन प्रत्येकबुद्धसंघस्थविरस्य छत्रं विधार्य प्रणिधानं कृतमेवंविधानां गुणानां लाभी स्यां छत्रीकृत्य च पर्षदं निषीदेयमिति, तदेतर्हि सर्वक्लेशप्रहाणादर्हत्वं साक्षात्कृतं छत्रीकृत्य च पर्षदमवस्थितः; इति हि भिक्षवः एकान्तकृष्णानां कर्मणामेकान्तकृष्णो विपाकः पूर्ववद्यावदेवं वो भिक्षवः शिक्षितव्यम्. यदा भगवता आज्ञातकौण्डिन्यमागम्य अशीतिर्देवतासहस्राणि सद्धर्मरसेन संतर्पितानि तदा भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: पश्य भदन्त भगवता आयुष्मन्तमाज्ञातकौण्डिन्यमागम्य अशीतिर्देवतासहस्राणि सद्धर्मरसेन संतर्पितानि; भगवानाह: किमत्र भिक्षव आश्चर्यं यदिदानीं मया विगतरागेण विगतद्वेषेण विगतमोहेन परिमुक्तेन जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासैः सर्वज्ञेन सर्वाकारज्ञेन सर्वज्ञानज्ञेयवशिप्राप्तेन आज्ञातकौण्डिन्यमागम्य अशीतिर्देवतासहस्राणि धर्मरसेन संतर्पितानि? यत्तु मयातीतेऽध्वनि सरागेण सद्वेषेण समोहेनापरिमुक्तेन जातिजाराव्यधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासैः विनिपतितशरीरेण तिर्यग्योनावुपपन्नेन अशितिकीटसहस्राणि कौण्डिन्यं कीटिकीभूतमागम्य स्वरुधिरेण संतर्पितानि; तच्छ्रूयताम्. ______________________________________________________________ थे स्तोर्योf थे तोर्तोइसे (चोन्चेर्निन्ग प्रेविओउस्बिर्थोf कौण्डिन्य) भूतपूर्वं, भिक्षव, अनियतराश्यवस्थितो बोधिसत्वो महासमुद्रे कच्छपेषूपपन्नस्तेषामधिपतिर्बभूव; यावत्पंचवणिक्शतानि महासमुद्रयानपात्रं प्रतिपद्य महासमुद्रम् (इ १७) अवतीर्णानि; ततो नानारत्नसंग्रहं कृत्वा प्रतिनिर्वृत्तानि; यावद्वहनं मकरेण मत्स्यजातेनानयेन व्यसनमापादितम्; तत्र महान् कोलाहलो जातः; तच्छब्दश्रवणात्कच्छपो महासमुद्रादुत्थितः; स तेषां सकाशमुपसंक्रम्य कथयति: अलं भवतां विषादेन मम पृष्ठमभिरुहेत अहं वस्तारयिष्यामि इति; ते नष्टोपलब्धप्राणाः सर्वे कूर्मपृष्ठमभिरूढाः; स तानादाय समुद्रतीराभिमुखः संप्रस्थितः; अत्यन्तभारावष्टब्धोऽपि वीर्यमास्थाय विषादं नापद्यते; स श्रान्तकायः तेषु संकीर्णेषु ग्रीवामभिप्रसार्य सुप्तः; तस्य नातिदूरे कीटिकानां नगरम्; तस्मादेका कीटिका परिभ्रमन्ती गन्धं घ्रात्वा तस्य सकाशमुपसंक्रान्ता; ततस्तं महत्प्रमाणाकारविकारं दृष्ट्वा त्वरितगतिप्रचारिकी कीटिकानगरमभिगता; स्वस्वसंज्ञया कीटिकाः प्रबोध्य अशीतिः कीटिकासहस्राण्यादाय कच्छपसकाशं गता; ततः तं सुओतं मृतमिव निश्चेष्टप्राणं भक्षयितुमारब्धाः; यदास्य स्थूलं मांसं भक्षयन्ति श्रमनपरिखिन्नो गाढमिद्धावष्टब्धो न चेतयते; यदा तु मर्मस्थानेषु मांसं भक्षयन्ति तदा प्रबुद्धः पश्यति कीटिकाभिः सर्वं शरीरमाकीर्णम्; स संलक्षयति: यदि कायं चलयिष्ये (अ ४३१ ) वा संपरिवर्तयिष्ये वा नियतमेताः प्रघातयिष्यामि; कामं प्राणवियोगो न तु प्राणोपरोधः; इति विदित्वा छिद्यमानेषु मर्मसु मुच्यमानेषु संधिषु प्रणिधानं कर्तुमारब्धः: यथा मया एतानि अशीतिर्कीटिकासहस्राणि मांसरुधिरेण संतर्पितानि, तान्येवमहमनागतेऽध्वनि अनुत्तरां सम्यक्संबोधिमभिसंबुद्ध्य सद्धर्मरसेन संतर्पयेयमिति. किं मन्यध्वे भिक्षवः? योऽसौ कीटिकानां मार्गोद्देशिक एष एवासौ कौण्डिन्यो भिक्षुः; यानि तानि अशीतिर्कीटिकासहस्राणि तमागम्य मांसरुधिरेण संतर्पितानि, तान्यशीतिर्देवतासहस्राणि; तदाप्येतानिमया स्वरुधिरेण संतर्पितानि; एतर्ह्यप्येतानि मया सद्धर्मरसेन संतर्पितानि; इति हि भिक्षवः एकान्तकृष्णानामिति यावदेवं वो भिक्षवः शिक्षितव्यम्. यदा भगवता पंचका भिक्षवः सद्धर्मरसेन संतर्प्य संसारकान्तारादुत्तार्यात्यन्तनिष्ठे योगक्षेमे निर्वाणे प्रतिष्ठापिता (इ १८) तदा भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: पश्य भदन्त भगवता भिक्षवः सद्धर्मरसेन संतर्प्य संसारकान्तारादुत्तार्यात्यन्तनिष्ठे योगक्षेमे निर्वाणे प्रतिष्ठापिताः इति; भगवानाह: किमत्र भिक्षव आश्चर्यं यदिदानीं मया विगतरागेण विगतद्वेषेण विगतमोहेन परिमुक्तेन जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासैः सर्वज्ञेन सर्वाकारज्ञेन सर्वज्ञानज्ञेयवशिप्राप्तेन पंचका भिक्षवः सद्धर्मरसेन संतर्प्य संसारकान्तारादुत्तार्यात्यन्तनिष्ठे योगक्षेमे निर्वाणे प्रतिष्ठापिताः? यत्तु मयातीतेऽध्वनि सरागेण सद्वेषेण समोहेनापरिमुक्तेन जातिजाराव्यधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासैरेते स्वरुधिरेण संतर्प्य पंचसु व्रतपदेषु प्रतिष्ठापिताः; तच्छ्रूयताम्. ______________________________________________________________ थे स्तोर्योf थे किन्ग्वज्रबाहु भूतपूर्वं भिक्षवो वाराणस्यां नगर्यां वज्रबाहुर्नाम राजा राज्यं कारयति ऋद्धं च यावदाकीर्णबहुजनमनुष्यं च; स राजा श्राद्धो भद्रः कल्याणाशयः आत्महितपरहितप्रतिपन्नः कारुणिको महात्मा धर्मकामः प्रजावत्सलः सर्वप्रदः सर्वपरित्यागी निःसङ्गपरित्यागी च महति त्यागे वर्तते; तेनात्यन्तं मैत्री स्वभ्यस्ता; त्रिर्दिवसस्य मैत्रीं समापद्यते; तस्य मैत्रीं समापद्यमानस्य याचनकजनो विहन्यते; तेनामात्यानामाज्ञा दत्ता; भवन्तो वाराणस्यां चतुर्षु नगरद्वारेषु दानशाला मापयित्वा श्रमणब्राह्मणकृपणवणीपकाध्वगयाचनकेभ्यो यो येनार्थी तस्मै तदनुप्रयच्छत इति; एवं देव इत्यमात्या रज्ञो वज्रबाहोर्प्रतिशुत्य वाराणस्यां चतुर्षु नगरद्वारेषु दानशाला मापयित्वा अन्नपानवस्त्रशयनासनहिरण्यसुवर्णमुक्तावैडूर्यशंखशिलाप्रवाडजातरूपरजताश्मगर्भमुसारगल्बलोहितिकादक्षिणावर्तादिद्रव्यसंभारेनावस्थिताः याचनकजनं संतर्पनाय; यावदपरेण (अ ४३२ ) समयेन वैश्रवणेन राज्ञा अडकवत्तायां राजधान्यां पंच यक्षा ओजोहारा निर्वासिताः; इतश्चामुतश्च परिभ्रमन्तो वाराणसीमनुप्राप्ताः; ते गोपालकान् पशुपालकान् तृणहारकान् काष्ठहारकान् पथाजीवानुत्पथाजीवांश्च मनुष्यान् दृष्ट्वा कथयन्ति: भवन्तो न यूयमस्मान् बिभीत? (इ १९) इति; भवन्तः किमर्थं बिभीमः येषामस्माकं राजा मैत्र्यात्मकः कारुणिकः सर्वसत्वहिताध्याशयेन त्रिर्दिवसस्य मैत्रीं समापद्यते? इति; ततः ते ब्राह्मणवेषमात्मानमभिनिर्माय वाराणस्यां चतुर्षु द्वारेषु दानशालां प्रत्यवेक्ष्य वज्रबाहुं राजानं मैत्र्या व्युत्थितं ज्ञात्वा विनीतवेषधारिणो रज्ञः सकाशमुपसंक्रान्ताः; उपसंक्रम्य जयेनायुषा च राजानं वर्धयित्वा ऊचुः: देव बुभुक्षिताः स्माहारेण अनुग्रहं कुरुष्व इति; राज्ञा अमात्यानाहूयोक्ताः: भवन्त एतान् ब्राह्मणान् प्रणीतेनाहारेण संतर्पयत इति; ते कथयन्ति: मांसरुधिरभक्षा वयमिति; राज्ञा अमात्या अभिहिता: भवन्तो यदि मांसस्य <न> संभवोऽस्ति रुधिरस्य वा वीथ्या धर्मन्यायलब्धं रुधिरं प्रयच्छत इति; ते कथयन्ति: सद्योहतरुधिरमांसभक्षका वयम्; सद्योहतेन मांसरुधिरेणानुग्रहं कुरुष्व इति; राजा संलक्षयति: कुतः सद्योहतस्य मांसरुधिरस्य संभवः परस्य पीडामकृत्वा? यन्वहमेभ्यः स्वरुधिरमनुप्रयच्छेयमिति; ततो वैद्यानाहूय कथयति: भवन्तो मम सर्वाङ्गिकं शिरावेधं कुरुत; याचनकजनं संतर्पयिष्यामि इति; वैद्याः कथयन्ति: न वयं प्राकृतपुरुषाणामर्थाय देवस्य शरीरे शस्त्रं निपातयामः; कुशलाः भवन्ति बोधिसत्वास्तेषु तेषु शिल्पस्थानकर्मस्थानेषु; तेन स्वयमेव पंचसु गात्रेषु शस्त्रनिपातः कृतः; ततः स्वरुधिरेण संतर्प्य तेषां तादृशी धर्मदेशना कृत्वा यां श्रुत्वा ते यक्षाः पंचसु व्रतपदेषु प्रतिष्ठापिताः. <किं मन्यध्वे भिक्षवः? योऽसौ वज्रबाहुर्नाम राजा अहमेव स तेन कालेन तेन समयेन; ये अमी पंच यक्षा ओजोहारास्ते एवामी पंच भिक्षवः; तदाप्येते स्वरुधिरेण संतर्प्य पंचसु व्रतपदेषु प्रतिष्ठापिताः>; एतर्ह्यप्येते मया सद्धर्मरसेन संतर्प्य संसारकान्तारादुत्तार्यात्यन्तनिष्ठे योगक्षेमे निर्वाणे प्रतिष्ठापिता. यदा भगवता पंचका भिक्षवः सद्धर्मरसेन संतर्प्य संसारकान्तारादुत्तार्यात्यन्तनिष्ठे योगक्षेमे निर्वाणे प्रतिष्ठापितास्तदा भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: पश्य भदन्त भगवता पंचका भिक्षवः सद्धर्मरसेन (इ २०) संतर्प्य संसारकान्तारादुत्तार्यात्यन्तनिष्ठे योगक्षेमे निर्वाणे प्रतिष्ठापिताः इति; भगवानाह: किमत्र भिक्षव आश्चर्यं यदिदानीं मया विगतरागेण यावत्सर्वज्ञानज्ञेयवशिप्राप्तेन पंचका भिक्षवः सद्धर्मरसेन संतर्प्य संसारकान्तारादुत्तार्यात्यन्तनिष्ठे योगक्षेमे निर्वाणे प्रतिष्ठापिताः; यत्तु मयातीतेऽध्वनि सरागेण पूर्ववत्दुःखदौर्मनस्योपायासैः एते स्वरुधिरेण संतर्प्य पंचसु व्रतपदेषु प्रतिष्ठापिताः; तच्छ्रूयताम्. ______________________________________________________________ थे स्तोर्योf मैत्रबल भूतपूर्वं भिक्षवो वाराणस्यां नगर्यां मैत्रबलो नाम राजा राज्यं कारयति ऋद्धं च यावद्बहुजनमनुष्यं च; मैत्र्यात्मकः कारुणिको महात्मा सर्वसत्वेषु दयावान्; (अ ४३२ ) यावदपरेण समयेन वैश्रवणेन राज्ञा अडकवत्तायां राजधान्यां पंच ओजोहारा यक्षाः कस्मिण्चिदेव अपराधे प्रवासिताः; ते तं जनपदमन्वाहिण्ड्य वाराणसीमनुप्राप्ताः; तेषां न कश्चिद्बलिमाल्योपहारं कुरुते; तैः प्रकोपमापन्नैरीतिरुत्सृष्टा; वाराणस्यां जनकायो म्रियते; अमात्यै राज्ञे मैत्रबलाय निवेदितम्: देव वाराणस्यामतीव जनकायो मृत इति; राज्ञा तेषामाज्ञा दत्ता: गच्छत वाराणस्यामेवं घण्टावघोषणं कारयत: भदन्तो राजा मैत्रबलः समाज्ञापयति, अहं सर्वसत्वहिताध्याशयतत्परेण मनसा रात्रिन्दिवमतिनमयामि; तद्युष्माभिरपि सर्वसत्वानुगता मैत्री मनसि कर्तव्या; एवं वः शान्तिर्भविष्यतीति; ते सर्वसत्वानुगतां मैत्रीं मनसि कर्तुमारब्धा; ओजोहारा यक्षा वाराणसीसामन्तकेन परिभ्रमितुमारब्धाः; प्रवेशं न लभन्ते; ते प्रवेशमलभमाना गोपालकां पशुपालकान् तृणहारकां काष्ठहारकां पथाजीवानुत्पथाजीवांश्च मनुष्यान् दृष्ट्वा कथयन्ति: भवन्तो न यूयमस्मद्बिभीत? इति; ते कथयन्ति: न बिभीमः; किं कारणं? वयं हि यद्राजा मैत्रबलश्चिन्तयति तच्चिन्तयामः; किं मैत्रबलो राजा चिन्तयति? सर्वसत्वानुगतां मैत्रीं; ते संलक्षयन्ति: इदमत्र कारणं येन वयमिदानीमवतारं न लभामह इति; ते वाराणस्यां द्वारेण (इ २१) द्वारं परिभ्रमन्ति: कदाचिद्राजानं मैत्रबलं द्रक्ष्यामः इति; यावदपरेण समयेन मैत्रबलो राजा बहिरुद्यानाय संप्रस्थितः; ततस्ते ब्राह्मणवेषमात्मानमभिनिर्माय शान्तेर्यापथेन राजानमुपसंक्रम्य जयेनायुषा च वर्धयित्वोचुः: देव बुभुक्षिता स्म; आहारेणानुग्रहं कुरुष्व इति; राज्ञा अमात्या आहूयोक्ताः: भवन्त एतान् ब्राह्मणान् प्रणीतेनाहारेण संतर्पयत; ते कथयन्ति: देव मांसरुधिरभक्षा वयमिति; राज्ञा अमात्या अभिहिताः: भवन्त यदि मांसस्य <न> संभवोऽस्ति रुधिरस्य वा विथ्या धर्मन्यायलब्धं मांसं रुधिरं च प्रयच्छत इति; देव सद्योहतरुधिरमांसभक्षा वयं सद्योहतेन मांसेनानुग्रहं कुरुष्व इति; राजा संलक्षयति: कुतस्सद्योहतस्य मांसरुधिरस्य संभवः परस्यपीडामकृत्वा; यन्वहमेभ्यः स्वरुधिरमनुप्रयच्छेयमिति; ततो वैद्यानाहूय कथयति: भवन्तो मम सर्वाङ्गिकं शिरावेधं कुरुत इति याचनकजनं संतर्पयिष्यामि इति; वैद्याः कथयन्ति: देव न वयं प्राकृतपुरुषाणामर्थाय देवस्य शरीरे शस्त्रं निपातयामः; कुशला भवन्ति बोधिसत्वास्तेषु तेषु शिल्पस्थानकर्मस्थानेषु; तेन स्वयमेव पंचसु गात्रेषु शास्त्रनिपातः कृतः; ततः स्वरुधिरेण संतर्प्य तेषां तादृशी धर्मदेशना कृता यां श्रुत्वा ते यक्षा पंचसु व्रतपदेषु प्रतिष्ठापिताः. किं मन्यध्वे भिक्षवः? योऽसौ मैत्रबलो नाम राजाऽभूदहमेव स तेन कालेन तेन समयेन; ये ते पंच ओजोहारास्यक्षा (अ ४३३ ) एते एव ते पंचका भिक्षवः; तदाप्येते मया स्वरुधिरेण संतर्प्य पंचसु व्रतपदेषु प्रतिष्ठापिताः; एतर्ह्यप्येते मया सद्धर्मरसेन संतर्पिताः संसारकान्तारादुत्तार्यात्यन्तनिष्ठे योगक्षेमे निर्वाणे प्रतिष्ठापिता. यदा भगवता षड्वर्षाणि दुष्करं चरितम्; अनुत्तरा सम्यक्संबोधिरभिसंबुद्धा, वाराणस्यां गत्वा धर्मचक्रं प्रवर्तितं, पंचका विनीत उपपंचकाः षष्टिभद्रवर्गीयाः पूगाः, भिक्षुबहुत्वं जातम्, तदा भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: पश्य भदन्त भगवता कर्म कृतं यस्य कर्मणो विपाकेन षड्वर्षाणि दुष्करं चरितम्; भगवानाह: तथागतेनैवैतानि भिक्षवः पूर्वमन्यासु जातिषु कर्माणि कृतान्युपचितानि लब्धसंभारानि पूर्ववद्यावत्फलन्ति खलु देहिनाम्. (इ २२) ______________________________________________________________ थे स्तोर्योf नन्दपाल थे पोत्तेर्(= घटीकरसुत्त, म्न् ८१, च्f. म्वि ३१९ f.) भूतपूर्वं भिक्षवो वैभिडिङ्गी नाम ग्रामनिगमोऽभूदृद्धश्च स्फीतश्च बहुजनमनुष्यश्च; वैभिडिङ्ग्यां भिक्षवो ग्रामनिगमे न्यग्रोधो नाम ब्राह्मणमहाशालः प्रतिवसति, आढ्यो महाधनो महाभोगः स्फीतः, वैभिडिङ्गीं परिभुंक्ते सोत्सदां सतृणकाष्ठोदकां कृकिना राज्ञा ब्रह्मदेयां दत्ताम्; न्यग्रोधस्य खलु भिक्षवो ब्राह्मणमहशालस्य उत्तरो नामो माणवोऽन्तेवासी उपेतो मातृतः पितृतः संशुद्धो गृहिण्यामनाक्षिप्तो जातिवादेन गोत्रवादेन च यावदासप्तमं मातामहपैतामहं युगमुपादाय; अध्यापको मन्त्रधरो त्रयाणां वेदानां पारंगतः सनिघण्टुकैटभानां साक्षरप्रभेदानामितिहासपंचमानां सादृशो व्याकरकः, अभिरूपो दर्शनीयः प्रासादिकः; न्यग्रोधस्य ब्राह्मणमहशालस्य पंचमात्राणि माणवकशतानि ब्राह्मणकान्मन्त्रान् वाचयन्ति; वैभिडिङ्ग्यां भिक्षवो ग्रामनिगमे नन्दीपालो घटीकरः प्रतिवसति; बुद्धेऽभिप्रसन्नो धर्मे संघेऽभिप्रसन्नः; बुद्धं शरणं गतो धम्मं संघं शरणं गतः; बुद्धे एकान्तिको धर्मे संघे एकान्तिकः; बुद्धे निष्कांक्षो निर्विचिकित्सो धर्मे संघे निष्कांक्षो निर्विचितः; दुःखे समुदये निरोधे मार्गे निष्कांक्षो निर्विचिकित्सो दृष्टसत्य आगतफलाभिसमितवां निक्षिप्तपर्णमुसलो न स्वहस्तं पृथिवीं खनति न खानयति; नान्यत्र, यत्तद्भवति दकप्ररुग्नं वा मूषिकोत्किरा वा ततः कायेन मृत्तिकां संहृत्य निष्प्राणकेनोदकेन तीमयित्वा भाजनानि कृत्वा एकान्तमुपनिक्षिप्य एवमाह: एत आर्या एत भद्रमुखा तिलान् वा तण्डुलान् वा मुद्गप्रभृतीन् वा माषप्रभृतीन् वा एकान्त उपनिक्षिप्य यो वा येन भाजनेनार्थी स तदादाय प्रक्रामतु इति; स तस्मादन्धौ मातापितरौ बिभर्ति; काश्यपं सम्यक्संबुद्धं कालेन (इ २३) कालं पिण्डकेन प्रतिपादयति; उत्तरस्य माणवस्य मित्रं सुहृद्वयस्यको च नन्दीपालो घटीकरो येन काश्यपः सम्यक्संबुद्धः तेनोपसंक्रान्तः; उपसंक्रम्य काश्यपस्य सम्यक्संबुद्धस्य पादौ शिरसा वन्दित्वा एकान्तनिषण्णः; एकान्तनिषण्णं (अ ४३३ ) नन्दीपालं घटीकरं काश्यपः सम्यक्संबुद्धः धर्म्यया कथया संदर्शयति समादापयति समुत्तेजयति संप्रहर्षयति; अनेकपर्यायेण धर्म्यया कथया संदर्श्य समादाप्य समुत्तेज्य संप्रहर्ष्य तूष्णीम्; अथ नन्दीपालो घटीकरः काश्यपस्य सम्यक्संबुद्धस्य पादौ शिरसा वन्दित्वा उत्थायासनात्प्रक्रान्तः; तेन खलु समयेन उत्तरो माणवः सर्वश्वेतं वडवारथमभिरुह्य सौवर्णेन दण्डकमण्डलुना धार्यमानेन माणवकगणपरिवृतो माणवकगणपुरस्कृतो वैभिडिङ्ग्यान्निर्याति; बहिर्वैभिडिङ्ग्याः ब्राह्मणकान्मन्त्रान् वाचयितुकामः अद्राक्षीदुत्तरो माणवो नन्दीपालं घटीकरं दूरादेव; दृष्ट्वा च पुनरेवमाह: कुतस्त्वं सोम्य नन्दीपाल एतर्ह्यागच्छसि? इतोऽहं सोम्य उत्तर एतर्ह्यागच्छामि काश्यपं सम्यक्संबुद्धं पर्युपास्य; एह्यावां सोम्य उत्तर गमिष्यावाः; काश्यपं सम्यक्संबुद्धं पर्युपासिष्यावहे; अलं सोम्य नन्दीपाल काश्यपेन सम्यक्संबुद्धेन दृष्टेनालं पर्युपासितेन; तत्कस्य हेतोः; कुतस्तस्मिन्मुण्डके श्रमणके बोधिः; बोधिर्हि परमदुष्करा; मा त्वं सोम्य उत्तर एवं वद: कुतस्तस्मिन् श्रमणके बोधिः; बोधिर्हि परमदुष्करा; अपि तु बुद्धः स भगवान्, बुद्धाश्चानेन सर्वधर्मा इति; द्विरपि त्रिरपि नन्दीपालो घटीकरः उत्तरं माणवकमिदमवोचत्: एह्यावां सोम्य उत्तर गमिष्यावः; काश्यपं सम्यक्संबुद्धं पर्युपासिष्यावहे इति; द्विरपि त्रिरपि उत्तरो माणवो नन्दीपालं घटीकरमिदमवोअत्: अलं सोम्य नन्दीपाल काश्यपेन सम्यक्संबुद्धेन दृष्टेन अलं पर्युपासितेन; तत्कस्य हेतोः? कुतस्तस्मिन्मुण्डले श्रमणके बोधिः; बोधिर्हि परमदुष्करा; मा त्वं सोम्योत्तर एवं वद कुतस्तस्मिन्मुण्डके श्रमणके बोधिः; बोधिर्हि परमदुष्करा; अपि तु बुद्धः स भगवान्, बुद्धाश्चानेन सर्वधर्मा इति; अथ नन्दीपालो घटीकर उत्तरस्य माणवस्य रथमभिरुह्य उत्तरं माणवमिदमवोचत्: एह्यावां सोम्य उत्तर गमिष्यावः; काश्यपं सम्यक्संबुद्धं पर्युपासिष्यावहे इति; अथोत्तरस्य माणवस्यैतदभवत्: न बतावरो बुद्धो भविष्यति; (इ २४) नावरं धर्माख्यानं; यत्रेदणीं नन्दीपालो घटीकरो दीर्घरात्रमचण्डोऽरभसोऽकर्कशऽसाहसिकः केशग्रहणमप्यगमदिति विदित्वा नन्दीपालं घटीकरमिदमवोचत्: सोम्य नन्दीपाल अतोऽपि यावत्; सोम्य उत्तर, अतोऽपि यावत्; अतोऽपि यावत्सोम्य नन्दीपाल; अतोऽपि यावत्, सोम्य उत्तर; तेन हि सोम्य नन्दीपाल मुंच, गमिष्यावः, काश्यपं सम्यक्संबुद्धं पर्युपासिष्यावहे; अथोत्तरो माणवो नन्दीपालश्च घटीकरः रथमभिरुह्य येन काश्यपः सम्यक्संबुद्धस्तेनोपसंक्रान्तौ; तयोर्यावती यानस्य भूमिस्तावद्यानेन गत्वा यानादवतीर्य येन काश्यपः सम्यक्संबुद्धस्तेनोपसंक्रान्तौ; उपसंक्रम्य काश्यपस्य सम्यक्संबुद्धस्य पादौ शिरसा वन्दित्वा एकान्ते निषण्णौ; एकान्तनिषण्णो नन्दीपालो घटीकरः काश्यपं सम्यक्संबुद्धमिदमवोचत्: अयं भदन्त उत्तरो (अ ४३४ ) माणवो न बुद्धेऽभिप्रसन्नो न धर्मे न संघेऽभिप्रसन्नः; साध्वस्य भगवान् तथा धर्मं देशयेद्यथा उत्तरो माणवो बुद्धेऽभिप्रसीदेद्धर्मे संघेऽभिप्रसीदेदिति; अधिवासयति काश्यपः सम्यक्संबुद्ध उत्तरं माणवं धर्म्यया कथया संदर्शयति समादापयति समुत्तेजयति संप्रहर्षयति; अनेकपर्यायेण धर्म्यया कथया संदर्श्य समादाप्य समुत्तेज्य संप्रहर्ष्य तूष्णीम्; अथोत्तरो माणवो नन्दीपालं घटीकरमिदमवोचत्: कस्मात्त्वं, सोम्य नन्दीपाल, स्वाख्यातं धर्मविनयं श्रुत्वा न प्रव्रजसि सम्यगेव श्रद्धया अगारादनागारिकाम्? न त्वं, सोम्य कुमार, जानीषे यथाहमन्धं मातापितरं बिभर्मि, काश्यपं सम्यक्संबुद्धं कालेन च कालं पिण्डकेन प्रतिपादयामि; प्रव्रज त्वं सोम्य नन्दीपाल मा वा; अहं तावत्प्रव्रजिष्ये इति; अथ नन्दीपालो घटीकरः काश्यपं सम्यक्संबुद्धमिदमवोचत्: अयं भदन्त उत्तरो माणव आकांक्षति स्वाख्याते धर्मविनये प्रव्रज्यामुपसंपदं भिक्षुभावम्; तं भगवान् प्रव्राजयतूपसंपादयतु अनुकंपामुपादाय इति; अधिवासयति काश्यपः (इ २५) सम्यक्संबुद्धो नन्दीपालस्य घटीकरस्य तूष्णींभावेन; अथ नन्दीपालो घटीकरः काश्यपस्य सम्यक्संबुद्धस्य तूष्णींभावेनाधिवासनां विदित्वा काश्यपस्य सम्यक्संबुद्धस्य पादौ शिरसा वन्दित्वोत्थायासनात्प्रक्रान्तः; अथ काश्यपः सम्यक्संबुद्धशचिरप्रक्रान्तं नन्दीपालं घटीकरं विदित्वा उत्तरं माणवं प्रव्राज्य उपसंपाद्य यथाभिरम्यं वैभिडिंग्यां विहृत्य येन वाराणसी काशीनां निगमस्तेन चारिकां प्रक्रान्तः; अनुपूर्वेण चारिकां चरन् वाराणसीमनुप्राप्तः; वाराणस्यां विहरति ऋषिवदने मृगदावे. अश्रौषीत्कृकी राजा काश्यपः सम्यक्संबुद्धः काशिषु जनपदे चारिकां चरन् वाराणसीमनुप्राप्तो वाराणस्यां विहरति ऋषिवदने मृगदावे इति; श्रुत्वा च पुनर्वाराणस्याः निष्क्रम्य येन काश्यपः सम्यक्संबुद्धस्तेनोपसंक्रान्तः; उपसंक्रम्य उपसंक्रम्य काश्यपस्य सम्यक्संबुद्धस्य पादौ शिरसा वन्दित्वा एकान्ते निषण्णौ; एकान्तनिषण्णं कृकिं राजानं काश्यपः सम्यक्संबुद्धो धर्म्यया कथया संदर्शयति समादापयति समुत्तेजयति संप्रहर्षयति; अनेकपर्यायेण धर्म्यया कथया संदर्श्य समादाप्य समुत्तेज्य संप्रहर्ष्य तूष्णीम्; अथ कृकी राजा उत्थायासनादेकांसमुत्तरासंगं कृत्वा येन काश्यपः सम्यक्संबुद्धः तेनाञ्जलिं प्रणम्य काश्यपमिदमवोचत्: अधिवासयतु मे भगवान् श्वोऽन्तर्गृहे भक्तेन सार्धं भिक्षुसंघेन इति; अधिवासयति काश्यपः सम्यक्संबुद्धः कृकिनो राज्ञस्तूष्णींभावेन; अथ कृकी राजा काश्यपस्य सम्यक्संबुद्धस्य तूष्णींभावेनाधिवासनां विदित्वा कास्यपस्य सम्यक्संबुद्धस्य पादौ शिरसा वन्दित्वोत्थायासनात्प्रक्रान्तः; अथ कृकी राजा तामेव रात्रिं शुचि प्रणीतं खादनीयभोजनीयं समुदानीय काल्यमेवोत्थायासनकानि प्रज्ञप्य उदकमणिं प्रतिष्ठाप्य (अ ४३४ ) काश्यपस्य सम्यक्संबुद्धस्य दूतेन कालमारोचयति: समयो भदन्त सज्जं भक्तं यस्येदानीं भगवान् कालं मन्यते इति; अथ कास्यपः सम्यक्संबुद्धः पूर्वाह्णे निवास्य पात्रचीवरमादाय भिक्षुगणपरिवृतो भिक्षुसंघपुरस्कृतो येन कृकेः राज्ञो भक्ताभिसारस्तेनोपसंक्रान्तः; उपसंक्रम्य पुरस्ताद्भिक्षुसंघस्य प्रज्ञप्त एवासने निषण्णः; अथ कृकी राजा सुखोपनिषण्णं बुद्धप्रमुखं भिक्षुसंघं विदित्वा शुचिना प्रणीतेन खादनीयभोजनीयेन स्वहस्तं संतर्पयति संप्रवारयति; अनेकपर्यायेण शुचिना प्रणीतेन खादनीयभोजनीयेन स्वहस्तं संतर्प्य संप्रवार्य काश्यपं सम्यक्संबुद्धं भुक्तवन्तं विदित्वा धौतहस्तमपनीतपात्रं सौवर्णं भृङ्गारमादाय काश्यपस्य सम्यक्संबुद्धस्य (इ २६) पुरतोऽस्थादायाचमानः: अधिवासयतु मे भगवान् त्रैमासीं चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः सार्धं भिक्षुसंघेन; अहं भगवतोऽर्थाय पंच विहारशतानि मापयिष्यामि; पंच मंचपीठवृषिकोचवबिम्बोपधानचतुरश्रकशतानि कारयिष्यामि; अनेन चैवंरूपेन पर्णोपगूढेन शालिना भगवन्तमुपस्थास्यामि भिक्षुसंघं च; अलं महाराजा कृतमेतावद्यावदेव चित्तमभिप्रसन्नम्; द्विरपि त्रिरपि कृकी राजा काश्यपं सम्यक्संबुद्धमिदमवोचत्: अधिवासयतु मे भगवान् त्रैमासीं चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः सार्धं भिक्षुसंघेन; अहं भगवतोऽर्थाय पंच विहारशतानि मापयिष्यामि; पंच मंचपीठवृषिकोचवबिम्बोपधानचतुरश्रकशतानि कारयिष्यामि; अनेन चैवंरूपेन पर्णोपगूढेन शालिना भगवन्तमुपस्थास्यामि भिक्षुसंघं च; द्विरपि त्रिरपि काश्यपः सम्यक्संबुद्धाः कृकिं राजानमिदमवोचत्: अलं महाराजा कृतमेतावद्यावदेव चित्तमभिप्रसन्नम्; अथ कृकी राजा काश्यपं संयक्संबुद्धमिदमवोचत्: अस्ति कश्चिद्भगवन् योऽप्येवंरूप उपस्थायकः तद्यथा अहमेतर्ह्य्? अस्ति महाराज तवैव विजिते वैभिडिंगी नाम ग्रामनिगमः; तत्र नन्दीपालो नाम घटीकर प्रतिवसति; स बुद्धेऽभिप्रसन्नो धर्मे संघेऽभिप्रसन्नः; बुद्धं शरणं गतो धम्मं संघं शरणं गतः; बुद्धे एकान्तिको धर्मे संघे एकान्तिकः; बुद्धे निष्कांक्षो निर्विचिकित्सो धर्मे संघे दुःखे समुदये निरोधे मार्गे निष्कांक्षो निर्विचिकित्सो दृष्टसत्ये आगतफलो ऽभिसमितवां निक्षिप्तपर्णमुसलः स न स्वहस्तं पृथिवीं खनति न खानयति; नान्यत्र, यत्तद्भवति दकप्ररुग्नं वा मूषिकोत्किरा वा ततः कायेन मृत्तिकां संहृत्य निष्प्राणकेनोदकेन तीमयित्वा भाजनानि कृत्वैकान्तमुपनिक्षिप्यैवमाह: एत आर्या एत भद्रमुखा तिलान् वा तण्डुलान् वा मुद्गप्रभृतीन् वा माषप्रभृतीन् वा एकान्त उपनिक्षिप्य यो वा येन भाजनेनार्थी भवति स तदादाय प्रक्रामतु; स तस्मादन्धं मातापितरौ बिभर्ति; मां च कालेन कालं पिण्डकेन प्रतिपादयति; (इ २७) एकमहं महाराज समयं वैभिडिंगीं ग्रामनिगममुपनिश्रित्य विहरामि; सोऽहं पूर्वाह्णे निवास्य पात्रचीवरमादाय वैभिडिंगीं ग्रामनिगमं पिण्डाय प्राविक्षम्; (अ ४३५ ) सावादानं वैभिडंगीं पिण्डाय चरन् येन घटीकरस्य निवेशनं तेनोपसंक्रान्तः; उपसंक्रम्य शनैर्मन्दमन्दमर्गडमाकोटयामि; तेन खलु समयेन नन्दीपालो घटीकरः बहिर्निर्गतोऽभूत्केनचिदेव करणीयेन; अश्रौष्टां नन्दीपालस्य घटीकरस्यान्धौ मातापितरावर्गडस्याकोटनशब्दम्; श्रुत्वा च पुनरेवमाहतुः; क एष आर्यः क एष भद्रमुखः शनैर्मन्दमन्दमर्गडमाकोटयति? तावहमेवं वदामि: अहं काश्यपः सम्यक्संबुद्धः पिण्डकेनार्थी; तावेवमाहतुः: प्रविशतु आर्यः प्रविशतु भद्रमुख एते कुण्डालिकायां कुल्माषाः पिठिरिकायां च सूपिकम्; सचेदाकांक्षस्यात्मना गृहीत्वा परिभुंक्ष्व; बहिर्गत ते उपस्थायक इति; सोऽहं महाराज उत्तरकौरवं समयमधिष्ठाय स्वयमेव कुण्डलिकायाः कुल्माषान् पिठिरिकायाश्च सूपिकं गृहीत्वा भुक्तवान्; ततः पश्चादागतो नन्दीपालो घटीकरः; अद्राक्षीन्नन्दीपालो घटीकरः कुण्डलिकायां कुल्माषान् पिठिरिकायां च सूपिकं परिभुक्तम्; दृष्ट्वा च पुनरन्धौ मातापितराविदमवोचत्: अम्ब तात केनैते कुण्डलिकायां कुल्माषाः पिठिरिकायां च सूपिकं परिभुक्तम्; तावेवमाहतुः: इह ते सोम्य नन्दीपाल अचिरनिर्गतस्याश्रौष्व अर्गडकस्याकोटनशब्दम्; श्रुत्वा च पुनरेवं वदावः: क एष आर्यः क एष भद्रमुखः शनैर्मन्दमन्दमर्गडमाकोटयति? स एवमाह: अहं काश्यपः सम्यक्संबुद्धः पिण्डकेनार्थी; तमेनमेवं वदावः: प्रविशतु आर्य प्रविशतु भद्रमुख; एते कुण्डलिकायां कुल्माषाः पिठिरिकायां सूपिकम्; सचेदाकांक्षस्यात्मना गृहीत्वा परिभुंक्ष्व; बहिर्गतस्ते उपस्थायकः; तेन ते कुण्डालिकायां कुल्माषाः पिठिरिकायां च सूपिकं परिभुक्तं भविष्यति; अथ नन्दीपालस्य घटीकरस्यैतदभवत्: लाभा मे सुलब्धा यस्य मे काश्यपः सम्यक्संबुद्धः कुलेऽत्यर्थं विश्वस्तो विश्वासमापन्नः इति विदित्वा तेनैव प्रीतिप्रामोद्येन सप्ताहमेकपर्यंकेनातिनामयति अर्धमासं चास्य सततसहगता स्मृतिः कायं न विजहाति; साव्युच्छिन्ना काये वर्तते; सप्ताहं मातापित्रोः यथा कुण्डालिकायाः कुल्माषम्. पिठिरिकायश्च सूपिकमेवं कुण्डिकाया ओदनं पिठिरिकायाश्च सूपिकम्; एकमिमं महाराज (इ २८) समयं वैभिडिंगीं ग्रामनिगममुपनिश्रित्य अहं वर्षा उपगतः; तस्य मम तत्प्रथमवर्षिणा देवेन विहारोऽभिवृष्यते; तेन खलु समयेन नन्दीपालस्य घटीकारस्यावेशनशाला नवतृणप्रतिच्छन्नाऽभूत्; सोऽहमुपस्थायकान् भिक्षून् आमन्त्रयामि: गच्छत यूयं भिक्षवो नन्दीपालस्य घटीकारस्यावेशनशालां नवतृणप्रतिच्छन्नामवच्छाद्य मम विहारं छादयत; ते मम ओमिति प्रतिश्रुत्य नन्दीपालस्य घटीकारस्य नवतृणप्रतिच्छन्नामावेशनशालामवच्छादयन्ति; तेन खलु समयेन नन्दीपालो घटीकरो बहिर्निर्गतोऽभूत्केनचिदेव करणीयेन; अश्रौष्टां नन्दीपालस्य (अ ४३५ ) घटीकरस्यान्धौ मातापितरावावेशनशालायामवच्छादनशब्दं; श्रुत्वा च पुनरेवमाहतुः: क एष आर्यः क एष भद्रमुखो नन्दीपालस्य घटीकरस्य नवतृणप्रतिच्छन्नामावेशनशालामवच्छादयति? ते एवमाहुर्वयं भिक्षवः काश्यपस्य सम्यक्संबुद्धस्योपस्थायिकाः; काश्यपस्य सम्यक्संबुद्धस्य तत्प्रथमवर्षिणा देवेन विहारो वृष्यते; ते वयं नन्दीपालस्य घटीकारस्य नवतृणप्रतिच्छन्नामावेशनशालामवच्छाद्य काश्यपस्य सम्यक्संबुद्धस्य विहारं प्रतिच्छादयामः; तावेवमाहतुः हरत आर्या हरत भद्रमुखा बहिर्निर्गतो वः उपस्थायकः; तैस्तामवच्छाद्य मम विहारः प्रतिच्छादितः; पश्चादागतो नन्दीपालो घटीकरोऽद्राक्षीन्नवतृणप्रतिच्छन्नामावेशनशालामवच्छादितां; दृष्ट्वा च पुनरन्धौ मातापितराविदमवोचत्: अम्ब तात केनैषा नवतृणप्रतिच्छन्ना आवेशनशाला अवच्छादिता; तावेवमाहतुः: इह ते सोम्य नन्दीपाल अचिरनिर्गतस्य अश्रौष्व नवतृणप्रतिच्छन्नाया आवेशनशालाया अवच्छादनशब्दम्; श्रुत्वा च पुनरेवं वदावः क एष आर्यः क एष भद्रमुखो नवतृणप्रतिच्छन्नामावेशनशालामवच्छादयति? ते एवमाहुर्वयं भिक्षवः काश्यपस्य सम्यक्संबुद्धस्योपस्थायिकाः; काश्यपस्य सम्यक्संबुद्धस्य तत्प्रथमवर्षिणा देवेन विहारो वृष्यते; ते वयं नन्दीपालस्य घटीकरस्य नवतृणप्रतिच्छन्नामावेशनशालामवच्छाद्य काश्यपस्य सम्यक्संबुद्धस्य विहारं प्रतिच्छादयामः; तानावामेवं वदावः हरत आर्या हरत भद्रमुखा बहिर्निर्गतो वः उपस्थायकः; तैरेषा आवेशनशाला अवच्छादिता भविष्यति. अथ नन्दीपालस्य घटीकरस्यैतदभवत्: लाभा मे सुलब्धा यस्य मे काश्यपः सम्यक्संबुद्धः कुलेऽत्यर्थं विश्वस्तो विश्वासम् (इ २९) आपन्नः इति विदित्वा तेनैव प्रीतिप्रामोद्येन सप्ताहमेकपर्यंकेनातिनामयति अर्धमासं चास्य सततसमिता स्मृतिः कायं न जहाति; सा चाव्युच्छिन्ना काये वर्तते; सप्ताहं मातापित्रोः तं खलु वर्षावासं नन्दीपालस्य घटीकरस्यावेशनशाला एकवारिबिन्दुनापि नाभिवृष्टा; यथापितद्बुद्धस्य बुद्धानुभावेन देवतानां च देवतानुभावेन. स्यात्खलु ते महाराज चेतसोऽन्यथात्वं नाधिवासयति मे काश्यपः सम्यक्संबुद्धस्त्रैमासीं चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारान्? न त्वेव नन्दीपालस्य घटीकरस्य नवतृणप्रतिच्छन्नायामावेशनशालायामवच्छादितायां चेतसोऽन्यथात्वं; लाभा भदन्त नन्दीपालेन घटीकरेण सुलब्धा यस्यास्य भगवान् कुलेऽत्यर्थं विश्वस्तो विश्वासमापन्नः. अथ कास्यपः सम्यक्संबुद्धः कृकेः राज्ञस्तद्दानमनयाभ्यनुमोदनयाभ्यनुमोदते; अग्निहोत्रमुखा यज्ञाः गायत्री छन्दसां मुखम् । राजा मुखं मनुष्याणां नदीनां सागरो मुखम् ॥ नक्षत्राणां मुखं चन्द्र आदित्यस्तपतां मुखम् । ऊर्ध्वं तिर्यगधश्चापि यावती जगतो गतिः । सदेवकेषु लोकेषु संबुद्धो हीज्यतां वरः ॥ अथ काश्यपः सम्यक्संबुद्धः कृकिणं राजानं धर्म्यया कथया (अ ४३६ ) संदर्श्य समादाप्य समुत्तेज्य संप्रहर्ष्योत्थायासनात्प्रक्रान्तः; अथ कृकी राजा अचिरप्रक्रान्तं काश्यपं सम्यक्संबुद्धं यत्रोत्सदनधर्मकं तत्सर्वं विसर्जनधर्मकमिति कृत्वा काश्यपं सम्यक्संबुद्धं पृष्ठतः पृष्ठतः समनुबद्धः; अथ कृकी राजा कास्यपं सम्यक्संबुद्धं यावत्तावत्पृष्ठतः पृष्ठतः समनुबद्ध्य काश्यपस्य पादौ शिरसा वन्दित्वा काश्यपं सम्यक्संबुद्धं त्रिर्प्रदक्षिणीकृत्य तत एव प्रतिनिवृत्तः; अथ कृकी राजा अचिरप्रक्रान्तं काश्यपं सम्यक्संबुद्धं विदित्वा अन्यतमं पुरुषमामन्त्रयते: एहि त्वं भोः पुरुष पर्णोपगूढस्य शालेः पंचमात्राणि शकटशतानि पूरयित्वा येन नन्दीपालो घटीकरस्तेनोपसंक्राम; उपसंक्रम्य नन्दीपालं (इ ३०) घटीकरमिदमवोचः: इमानि ते सोम्य नन्दीपाल कृकिणा राज्ञा पंचमात्राणि शकटशतानि पर्णोपगूढस्य शालेरनुप्रेषितानि; अतस्त्वमात्मानं सम्यक्सुखेन प्रीणय अन्धं च मातापितरम्; काश्यपं च सम्यक्संबुद्धं कालेन कालं पिण्डकेन प्रतिपादय; एवं देव इति स पुरुषः कृके रज्ञः प्रतिश्रुत्य पर्णोपगूढस्य शालेः पंचमात्राणि शकटशतानि पूरयित्वा येन नन्दीपाल्प्घटीकरस्तेनोपसंक्रान्तः; उपसंक्रम्य नन्दीपालं घटीकरमिदमवोचत्: इमानि ते सोम्य नन्दीपाल कृकिणा राज्ञा पर्णोपगूढस्य शालेः पंचमात्राणि शकटशतान्यनुप्रेषितानि; अतस्त्वमात्मानं सम्यक्सुखेन प्रीणय अन्धं च मातापितरम्; काश्यपं च सम्यक्संबुद्धं कालेन कालं पिण्डकेन प्रतिपादय; भोः पुरुष राजा बहुकृत्यो बहुकरणीय इत्युक्त्वा नाधिवासयति. किं मन्यध्वे भिक्षवः? योऽसौ उत्तरो माणवः अहमेव स तेन कालेन तेन समयेन; यन्मया काश्यपे सम्यक्संबुद्धे खरं वाक्कर्म निश्चरितं: कुतः तस्मिन्मुण्डके श्रमणके बोधिः; बोधिर्हि परमदुष्करा; तस्य कर्मणो विपाकेन एतर्हि मया षड्वर्षाणि दुष्करं चरितं; यदि पुनर्बोधिरपवदिताभविष्यत्पुनरपि मया त्रिणि कल्पासंख्येयानि आत्मबोधिनिमित्तं परिखेदितोऽभविष्यम्; इति हि भिक्षव एकान्तकृष्णानां कर्मणामेकान्तकृष्णो विपाकः पूर्ववद्यावदेकान्तशुक्लेष्वेव कर्मस्वाभोगः करणीयः; इत्येवं वो भिक्षवः शिक्षितव्यम्. ______________________________________________________________ यशोधरा ब्रिन्ग्स्fओर्थ सोन् यमेव दिवसं बोधिसत्वो निर्गतस्तमेव दिवसं यशोधरा आपन्नसत्वा संवृत्ता; यदा बोधिसत्वो दुष्कराणि चरति तदान्तःपुरमपि दुष्करं चरितुमारब्धं; यशोधरायाः स गर्भो लयं गतः; यदा भगवान्निष्किंचनं दुष्करमिति विदित्वा यथासुखमाश्वसिति; यथासुखं प्रश्वसिति; ओदारिकमाहारमाहरत्योदनकुल्माषं, सर्पिस्तैलाभ्यां गात्राणि म्रक्षयति सुखोदकेन च कायं परिषिंचति; अन्तःपुरमपि तदा यथासुखमाश्वसिति, यथासुखं प्रश्वसिति, ओदारिकमाहारमाहरत्योदनकुल्माषान्, सर्पिस्तैलाभ्यां गात्राणि म्रक्षयति, सुखोदकेन च कायं परिषिंचति; तदासौ गर्भः पुनरपि पुष्टिं गतः तस्या (इ ३१) गर्भनिमित्तानि प्रादुर्भूतानि; सा शाक्यैः सपरिहासमुच्यते: त्वं बोधिसत्वे तपोवनं गते व्यभिचरिता इति; सा कथयति: शान्तं पापं, नाहं व्यभिचरामि; कथं ज्ञायते? युष्माकं प्रत्याययिष्यामि; यावदसौ प्रसूता, दारको जातः; यमेव दिवसं जातः, तमेव दिवसं राहुणा चन्द्रो गृहीतः; तस्य जातौ जातिमहं कृत्वा नामधेयं (अ ४३६ ) व्यवस्थाप्यते; किं भवतु दारकस्य नाम इति; तस्य ज्ञातयः कथयन्ति: अस्य जन्मनि राहुणा चन्द्रो गृहीतः तद्भवतु दारकस्य राहुल इति नाम इति; जाते कुमारे भूयस्या मात्रया शाक्या विब्रुवते एव; तयासौ सत्योपयाचनं कृत्वा राहुलभद्रो बोधिसत्वस्य व्यायामशिलायां स्थापयित्वा क्रीडापुष्करिण्यामाप्लावितः: यद्ययं बोधिसत्वेन जातः प्लवतामिति; प्लवितुमारब्धः; सा कथयति: पारादपारमागच्छतु इति; स पारादपारमागतः; ते विस्मयमापन्नाः; यशोधरा कथयति: भूयोऽपि भवतां प्रत्यक्षीकरिष्यामि यथायं बोधिसत्वेन जातः, नाहं व्यभिचरिता इति. यदा भगवानतिक्रान्तः षड्वर्षाण्यभिसंबुद्धः कपिलवस्त्वनुप्राप्तः एकं दिवसं राजकुले भुंक्ते, एकमन्तःपुरे; तदा यशोधराया एतदभवत्: कोऽसावुपायः स्याद्येनाहं भगवन्तमन्वावर्तेयमित्; कपिलवस्तुनि चान्यतमा परिव्राजिका वशीकरणादिकर्मस्वत्यर्थं प्रवीणा; यशोधरया तस्याः पंचकार्षापणशतानि दत्तानि: आर्ये कार्षापणैर्वशीकरणं कृत्वा प्रेषय इति; तया वशीकरणमोदको यशोधरायाः प्रेषितः; यशोधरया राहुलस्य हस्ते दत्त उक्तश्च: पुत्र यस्तव पिता तस्मै अनुप्रयच्छ इति; अत्रान्तरे नास्ति किंचिद्बुद्धानां भगवतामज्ञातमदृष्टमविदितमविज्ञातं; भगवान् संलक्षयति: यशोधराया असच्छब्दो निर्गतः; तस्यापन्नयाः कर्तव्य इति; भगवता पंचबुद्धशतानि निर्मितानि; राहुलेन सर्वान् बुद्धान् प्रत्यवेक्ष्य भगवतो वृद्धान्ते स्थितस्य दत्तः; भगवता गृहीत्वा पुनस्तस्यैव दत्तः; राहुलेन भक्षितः; भगवान् दक्षिणादेशनां कृत्वा प्रक्रान्तः; राहुलभद्रः कुमारो भगवतः पृष्ठतः पृष्ठतोऽनुबद्धः निर्वर्त्यमानोऽपि न निर्वर्तते: अरोदीतिति; भगवान् संलक्षयति: चरमभविकोऽयं सत्वः, न शक्यमनेन गृहवासे वस्तुम् (इ ३२) इति; राहुलेन भगवतः प्रत्यभिज्ञातेन कृतेन राजा शुद्धोदनः सान्तःपुरजनः शाक्याश्च परं विस्मयमुपगताः यशोधरायां चात्यर्थमभिप्रसन्नाः; ततो यशोधराभ्याख्यानं सर्वेण सर्वं प्रतिवुगतं; भगवान् राहुलं कुमारं प्रव्राजयितुमारब्धः; राज्ञा शुद्धोदनेन श्रुतं; स भगवत्सकाशमुपसंक्रान्तः; उपसंक्रम्य भगवन्तमिदमवोचत्: भगवन्, यदि राहुलभद्रः कुमारोऽवश्यं प्रव्राज्यते अद्यैकं दिवसं तिष्ठतु यावदहमस्य पूजां करोमि इति; राज्ञा शुद्धोदनेन राहुलस्य महानुत्सवः कृतः; तत्र भगवता आयुष्मान् शारिपुत्रोऽभिहितः; प्रव्राजय, शारिपुत्र, राहुलं कुमारमिति; एवं भदन्त इत्यायुष्मता शारिपुत्रेण भगवतः प्रतिश्रुत्य राहुलभद्रः कुमारः प्रव्राजितः. भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: पश्य भदन्तायुष्मता राहुलेन भगवान्मोदकेन महाजनकायस्य मध्ये विज्ञात इति; भगवानाह: न भिक्षव एतर्ह्यि यथातीतेऽप्यध्वनि अहमनेन राहुलेन मालया विज्ञातः; तच्छ्रूयताम्. ______________________________________________________________ थे स्तोर्योf थे ग्रेअत्थिएf भूतपूर्वं भिक्षवो अन्यतरस्मिन् कर्वटके गृहपतिः प्रतिवसति; तेन सदृशात्कुलात्कलत्रमानीतं; स तया सार्धं क्रीडति रमते परिचारयति; तस्य क्रीडतो रममाणस्य परिचारयतः (अ ४३७ ) पुत्रो जातः; स पत्नीमामन्त्रयते: भद्रे जातोऽस्माकं धनहरो ऋणहरः; गच्छामि पण्यमादाय महासमुद्रमवतरामि इति; सा कथयति: आर्यपुत्र एवं कुरुष्व इति; स पण्यमादाय महासमुद्रमवतीर्णः; स तत्रैव च निधनमुपयातः; ततस्तस्य पत्न्या शोकविनोदनं कृत्वा स दारको हस्तबलेन ज्ञातिबलेन चाप्यायितः पोषितः संवर्धितः; तस्य नातिदूरे कुविन्दः प्रतिवसति स्वशिल्पकृतावी; तस्य स्वशिल्पात्सर्वं संपद्यते; सा तस्य स्वशिल्पाद्भोगसंपत्तिं दृष्ट्वा कथयति: वरं कुविन्दकर्म न समुद्रावतरणं; तस्मिन् गते अनयेन व्यसनमापद्यन्ते इति; तयासौ कुविन्दोऽभिहितः: भ्रात इममपि भागिनेयं कुविन्दकर्म शिक्षयेति; स कथयति: शोभनमेवं (इ ३३) भवतु इति; स तं शिक्षयितुमारब्धः; पटुप्रचारोऽसौ; तेनाल्पीयसा कालेन कुविन्दकर्म शिक्षितं; स कुविन्दः सुस्नातः सुप्रावृतः प्रणीतमाहारं भुंक्ते; सा दारकः कथयति: मातुल त्वमपि तदेव कर्म करोषि; अहमपि तदेव; अथ कस्मात्त्वं सुस्नातः सुप्रावृतः प्रणीतमाहारं भुंक्षे; मम तु न संपद्यते इति; स कथयति: भागिनेय अहं कर्मद्वयं करोमि, दिवा कुविन्दत्वं रात्रौ चौर्यमिति; स कथयति: मातुल यद्येवमहमपि चौर्यं करोमि; भागिनेय शक्ष्यसि त्वं चौर्यं कर्तुं? मातुल शक्ष्यामि; स संलक्षयति: जिज्ञासयामि तावदेनमिति; स तमादाय वीथिं गतः; तेन तत्र शशकः क्रीत्वा तस्य दत्तः भागिनेय साधय तावद्यदहं स्नात्वागच्छामि; स स्नात्वा आगतः; तेन तं लघु लघ्वेव साधयित्वा एकपादो भक्षितः; स कुविन्दः स्नात्वा आगतः; भागिनेय साधितः शशकः? मातुल साधितः; पश्यामि तावत्; तेन समर्पितः; पश्यति पादत्रयं; स कथयति भागिनेयास्य चतुर्थः पादः क्व गतः? स कथयति: मातुल शशकस्य चतुर्थः पादो नास्ति; क्व गमिष्यति? इति; स संलक्षयति: अहं तावच्चोरः, अयं तु महाचोर इति; स तमादाय त्रिपादकं च शशकं पानागारं प्रविष्टः: भागिनेय मद्यं पिबामः; पिबामः; ताभ्यां पीतं; कुविन्दः कथयति: भागिनेय मद्यमूल्यमपलपामः; स कथयति: मातुल येन पीतं सोऽपलपतु; अहं नैव पिबामि; किमपलपामि इति; स कुविन्दः संलक्षयति: महाचोरोऽयं; शक्यमनेन सार्धं चौर्यं कर्तुमिति; स तेन सार्धं चौर्यं कर्तुमारब्धः; स कुविन्दः सन्धौ शिरः प्रक्षिपति; तेनोच्यते: मातुल चौर्यमपि न ज्ञायते त्वया कर्तुं; पादौ पूर्वं प्रक्षेप्तव्यं न शिरः; यदि शिरः छिद्यते प्रत्यभिज्ञायते, कुलं सर्वं विनाशमुपैति; पादौ प्रक्षिप इति; तेन पादौ प्रक्षिप्तौ; ततश्चोरश्चोर इति कोलाहलो जात इति पद्भ्यां गृहीतः; महाजनकायो लग्नः; स एको न शक्नोत्याकर्ष्टुं; स शिरश्छित्वा तदादाय प्रक्रान्तः; अमात्यै राज्ञो निवेदित: देव एकश्चोरः सन्धिं प्रविष्टो गृहीतः; तस्य कोऽपि शिरश्छित्वा तदादाय प्रक्रान्तः; राज कथयति: भवन्तः यः शिरश्(इ ३४) छित्वा प्रक्रान्तः स महाचोरः; गच्छत तं कबन्धं चतुर्महापथे स्थापयित्वा प्रतिगुप्ते प्रदेशे तिष्ठत; यस्तं गृहीत्वा रोदिति तेनैकचोरेण भवितव्यं, गृह्णीत इति; ततस्ते राजपुरुषाः तं कबन्धं चतुर्महापथे स्थापयित्वा प्रतिगुप्ते प्रदेशे स्थिताः; स एकचोरः संलक्षयति: न नाम मया मातुलं कण्ठे गृहीत्वा रोदितव्यं; स उन्मत्तकवेषम् (अ ४३७ ) आत्मानं कृत्वा स्त्रियमपि कण्ठे गृह्णाति; पुरुषमपि वृक्षमपि अश्वमपि वृषभमपि महिषमपि छागमपि कुक्कुरमपि ग्रहीतुमारब्धः; यदा लोकेन विज्ञात उन्मत्तकोऽयमिति तदा तं कबन्धं कण्ठे गृहीत्वा यावदाप्तं रुदित्वा प्रक्रान्तः; राजपुरुषै राज्ञो निवेदितं: देव उन्मत्तकस्तं कबन्धं कण्ठे गृहीत्वा यावदाप्तं रुदित्वा प्रक्रान्त इति; राज कथयति: भवन्तः स एवासावेकचोरकः; न शोभनं कृतं यन्न गृहीतः; इदानीं गृह्णीत इति; एकचोरकः संलक्षयति: न नाम मया मातुलः सत्कारयितव्यः? इति; स शाकटिकवेषं कृत्वा काष्ठस्य शकटं पूरयित्वा तं प्रदेशं गतः; तस्योपरि शकटं काष्ठपूर्णं स्थापयित्वा बलीवर्दानुत्सृज्य शकटे अग्निं दत्वा प्रक्रान्तः; तेन दह्यमानेन स कबन्धो दग्धः; राजपुरुषै राज्ञ निवेदितं: देव स एकचोरको दग्धः; राजा कथयति, केन; तैर्यथावृत्तं समाख्यातं; राजा कथयति: भवन्तो योऽसौ शाकटिकः स एवासावेकचोरिकः; न शोभनं कृतं यन्न गृहीतः; गृह्णीत इति; स एकचोरिकः संलक्षयति: न नाम मया मातुलस्य श्मशाने पितृकार्यं कृतमिति; स ब्रह्मणवेषं कृत्वा अधिष्ठाने भिक्षामटित्वा तय तां भिक्षां श्मशाने पक्त्वा पिण्डान् दत्वा प्रक्रान्तः; राजपुरुषै राज्ञो निवेदितं: देव ब्राह्मणेनाधिष्ठाने भिक्षामटित्वा यस्मिन् प्रदेशे स कबन्धो दग्धः तत्र पंच पिण्डान् दत्वा प्रक्रान्त इति; राजा कथयति: भवन्तः स एवासावेकचोरिकः; न शोभनं कृतं यन्न गृहीत इति; एकचोरिकः संलक्षयति: न नाम मया मातुलस्यास्थीनि गंगायां प्रक्षेप्तव्यानि? इति; स कापालिकवेषं कृत्वा तं प्रदेशं गतः; स तत्र गात्रं भस्मना उद्धूलयित्वा अस्थीनां भस्मनां च कर्परकं पूरयित्वा गंगायां प्रक्षिप्य प्रक्रान्तः; राजपुरुषै राज्ञो यथावृत्तमारोचितं; राजा कथयति: भवन्तः स एवासावेकचोरिकः; (इ ३५) न शोभनं कृतं यन्न गृहीतः; सर्वथा तिष्ठत यूयं; अहमेवैनं गृह्णामि इति; राज्ञा गंगायां नौभिरुद्यानं कारितं; उभयकूले आरक्षकाः पुरुषाः स्थापिताः; राज्ञो दुहिता अभिरूपा दर्शनीया प्रासादिका तस्मिन् जलोद्याने स्थापिता; उक्ता च यदि त्वां कश्चिद्गृह्णाति रावयिष्यसि इति: आरक्षकपुरुषाणां चाज्ञा दत्ता: यदैषा रावयति तदा युष्माभिर्जलोद्यानं गन्तव्यं; यदि कश्चित्तत्र पुरुषो भवति स गृहीत्वा मां नेयः इति; एकचोरकः संलक्षयति: न नाम मया राजदुहित्र्या सार्धं परिचारयितव्यमिति; स तत्र गंगायामनुस्रोतोऽवस्थितः; स तत्र रिक्तपिठरिकान् क्षेप्तुमारब्धः; एकः क्षिप्तः; आरक्षकपुरुषाः चोर इति कृत्वा धाविताः; तैरसौ प्रहारेण भग्नः; द्वितीयः क्षिप्तः; सोऽपि भग्नः; तृतीयः क्षिप्तः; सोऽपि भग्नः; आरक्षका रिक्तपिठरिका एत उह्यन्ते इत्यप्युपेक्षिता व्यवस्थिताः; ततोऽसावेकचोरिकः रिक्तपिठरिकायां शिरः प्रक्षिप्य श्रोतसा उह्यमानस्तं प्रदेशमागतः; ततो नावमभिरूढो दारिकायाः कथयति: मा शब्दं करिष्यसि; न त्वां प्रघातयिष्यामि इति; सा संत्रस्ता तूष्णीमव्स्थिता; तया सार्धं परिचार्य प्रक्रान्तः; सा प्रलपितुमारब्धा: एष चोरो मां परिचार्य गच्छति इति; आरक्षकाः कथयन्ति: यदा परिचारयति तदा तूष्णीं तिष्ठसि; यदा परिचारयित्वा प्रक्रान्तस्तदा रोदिषि; इदानीं कुत्र समन्वेषाम इति; आरक्षकै राज्ञो यथावृत्तमारोचितं; राजा कथयति: न शोभनं कृतं यन्न गृहीतः इति; दारिका चोरेण सार्धं परिचारयित्वा आपन्नसत्वा संवृत्ता; सा अष्टानां वा नवानां वा मासानाम् (अ ४३८ ) अत्ययात्प्रसूता; दारको जातः; एकचोरकेन श्रुतं; स संलक्षयति: न मया पुत्रस्य जन्मनि प्रमोदः कृतः इति; स कांचुकीयमात्मानं कृत्वा राजकुलान्निर्गम्य पौरुषेयानामन्त्रयते: भवन्तो देव आज्ञापयति पत्तनं लुण्ठयत इति; ते संलक्षयन्ति: राज्ञो नप्ता जातः; तेनास्माभिराज्ञा दत्ता; लुण्ठयामः; ते लुण्ठयितुमारब्धाः; उच्चशब्दमहाशब्दो जातः; राजा पृच्छति किमेतदिति; अमात्यैर्विस्तरेण समाख्यातं; स कथयति: एवमप्यहं तेन खलीकृतः; राज्यं वा परित्यजामि तस्य वा निग्रहं करोमि इति; तेन विदित्वा मण्डलवाटः कारितः; कंचित्कालं विनोद्य अमात्यानाम् (इ ३६) आज्ञा दत्ता: भवन्त अधिष्ठाने एवंविधं घण्टावघोषणं कारयत; यावन्तो पुरुषाः प्रतिवसन्ति तैः सर्वैर्निष्परिहारैर्भूत्वा मण्डलवाटं प्रवेष्टव्यं; यो न प्रविशति तस्य वधो दण्ड इति; आमत्यैर्घण्टावघोषणा कारिता; सर्वेऽधिष्ठाननिवासिनः पुरुषा प्रविष्टाः; ततो राज्ञा तस्मै दारकाय मालां दत्वा उक्तं: यस्तव पिता तस्मै तां मालामनुप्रयच्छ इति; आरक्षकाश्च पुरुषा उक्ताः: यस्यायं दारको मालां ददाति युष्माभिर्गृहीत्वा मत्सकाशमुपनेयः इति; ततस्तां पुष्पमालां गृहीत्वा परिभ्रमितुमारब्धो जनकायान्निरीक्षमाणः; तेनासौ चोरो दृष्टः; अचिन्त्यः सत्वानां कर्मविपाकः; तेन तस्मै माला दत्ता; राजपुरुषै एकचोरो गृहीत्वा राज्ञ उपनामितः; राजा अमात्यानामन्त्रयते: भवन्तः कथमत्र प्रतिपत्तव्यं? इति; ते कथयन्ति; देव प्रघात्यतामिति; राजा कथयति: भवन्तः कथमीदृशो वीरपुरुषः प्रघात्यः; उपसंग्रहोऽस्य कर्तव्यः इति; तेन तस्मै सा दुहिता सर्वालंकारविभूषिता भार्यार्थं दत्ता; उपार्धराज्येन संविभक्तः. किं मन्यध्वे भिक्षवः? योऽसावेकचोरिक अहमेव स तेन कालेन तेन समयेन; योऽसौ तस्य पुत्रः एष एवासौ राहुलस्तेन कालेन तेन समयेन; तदाप्यनेन मालया विज्ञातः; एतर्ह्यप्यहमनेन मोदकेन विज्ञातः; एवं हि वो भिक्षवोऽचिन्त्यः सत्वानां कर्मविपाकः इति कर्मपरायणैर्भवितव्यं. ______________________________________________________________ यशोधरा सेएक्स्तो ब्रिन्ग्थे बुद्ध बच्क्तो हेर् यशोधरा संलक्षयति: यदि राहुलस्य पिता अन्तःपुरं प्रविशति तथाइवानुचरितव्यो यथा न भूयो निर्गच्छति इति; तत आत्मानमादौ कृत्वा गोपिकामृगजाप्रमुखानि षष्टिस्त्रीसहस्राणि नानाविधालंकारैरलंकृतानि सुरभिमाल्यधूपवस्त्रैर्विभूषितानि; अथ भगवान् पूर्वाह्णे निवास्य पात्रचीवरमादाय भिक्षुगणपरिवृतो भिक्षुसंघपुरस्कृतो विनेयजनापेक्षा अन्तःपुरं प्रविष्टः; ततो यशोधरामृगजागोपिकाप्रमुखानि षष्टिस्त्रीसहस्राणि रूपयौवनविभ्रमाशाखेदाकुलविलसितचलितशिथिलमेखलाकलापनिस्वनैर्(अ ४३८ ) हसितमधुरगीतमधुनेत्रभ्रूविकारोत्कंपनपयोधरोदरदर्शनांगविस्पष्टचेष्टितैर्भावं दर्शयामासुः; अथ भगवत एतदभवत्: सचेद्भोक्ष्ये वैनेयजनकालातिक्रमो भविष्यति; एताः स्त्रियाः कामरागाभिभूताः सत्यानामभाजनभूता (इ ३७) भविष्यन्ति; अस्त्याशु पृथग्जनस्य रिद्धिरावर्जनकरी; यन्न्वहमन्तःपुरमृद्धिप्रातिहार्येणावर्जयेयमिति; विदित्वा पूर्वस्यां दिश्युपरि विहायसमभ्युद्गम्य चतुर्विधमीर्यापथं कल्पयति; तद्यथा चंक्रम्यते तिष्ठति निषीदति शय्यां कल्पयति; तेजोधातुमपि समापद्यते; तेजोधातुसमापन्नस्य बुद्धस्य भगवतो विविधान्यर्चींषि कायान्निश्चरन्ति; तद्यथा नीलानि पीतानि लोहितान्यवदातानि मंजिष्ठानि स्फटिकवर्णानि; यमकान्यपि प्रातिहार्याणि विदर्शयति; अधःकायः प्रज्वलति, उपरिमात्कायाच्छितला वारिधाराः स्यन्दन्ते, उपरिमः प्रज्वलति, अधःकायाच्छितला वारिधारा स्यन्दन्ते; यथा पूर्वस्यां दिश्यवं दक्षिणायां पश्चिमायामुत्तरस्यां दिशि इति चतुर्दिशं चतुर्विधमृद्धिप्रातिहार्यं विदर्शयनृद्ध्यभिसंस्कारान् प्रतिप्रस्रभ्य पुरस्ताद्भिक्षुसंघस्य प्रज्ञप्त एवासने निषण्णः; अथ ताः स्त्रियो भगवत ऋद्धिप्रातिहार्यं दृष्ट्वा आवर्जिता मूलनिकृन्ता इव द्रुमा भगवतः पादयोर्निपत्य पुरस्तान्निषण्णाः धर्मश्रवणाय; ततो भगवता तासामाशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशी चतुरार्यसत्यसंप्रतिवेधिकी धर्मदेशना कृता यां श्रुत्वा गोपिकामृगजाप्रमुखैः षष्टिस्त्रीसहस्रैः स्रोतआपत्तिफलं साक्षात्कृतं; यशोधराया अत्यर्थं कामरागाभिभूताया सत्यदर्शनं न कृतं; तस्या एतदभवत्: यन्न्वहं भगवन्तं रसतृष्णया अन्वावर्तेयमिति; विदित्वा स्वयमेव भगवतोऽर्थाय अन्नपानं साधयित्वा कथयति: अद्याहं स्वहस्तं भगवन्तं संतर्पयामि इति; श्रुत्वा भिक्षुभिर्भगवत आरोचयन्ति: यशोधरा भदन्त भगवन्तं स्वहस्तं रसतृष्णया अन्वावर्तयितुकाम इति; भगवानाह: पूर्वमहं भिक्षवः सरागः सद्वेषः समोहः रसप्रतिसंवेदी रसरागप्रतिसंवेदी च; एतर्ह्यहं विगतरागो विगतद्वेषो विगतमोहो रसप्रतिसंवेदी नो तु रसरागप्रतिसंवेदी; तत्कथमिदानीं यशोधरा रसतृष्णया अन्वावर्तयति इति. भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: पश्य भदन्त यशोधरा भगवन्तं वशीकरणमोदकेनान्वावर्तयितुकामारब्धा; भगवानाह: न भिक्षव एतर्हि यथातीतेऽप्यध्वनि अहमनया मोदकेनान्वावर्तितः; तच्छ्रूयताम् (इ ३८) ______________________________________________________________ थे स्तोर्योf ऋष्यशृङ्ग भूतपूर्वं भिक्षवो अन्यतमस्मिन् ग्रामकेऽरण्यायतने पुष्पफलसलिलकन्दसंपन्ने रिषिः (अ ४३९ ) प्रतिवसति; स कष्टतपा मूलफलाम्बुभक्षोऽजिनवल्कलवासा; अनेन पंचाभिज्ञाः साक्षात्कृता; तस्य व्याडमृगा अप्याश्रमपदे विश्वस्तविहारिणो विहरन्ति; सोऽन्यतमं प्रदेशं प्रस्रावं कर्तुमभिसंप्रस्थितः; मृगी पृष्ठतः समनुबद्धा; तेन सशुकः प्रस्रावः कृतः; स तया मृग्या पीतः; स्त्रीन्द्रियं जिह्वया निर्लीढम्; अचिन्त्यः सत्वानां कर्मविपाकः; आपन्नसत्वा संवृत्ता; प्रसवनकाले तमेव देशमागम्य प्रसूता; दारको जातः; सा गन्धं घ्रात्वा विसभागः सत्वः इति संत्रस्ता मूत्रपुरीषमुत्सृजन्ती छोरयित्वा प्रक्रान्ता; यावदसौ रिषिस्तं प्रदेशमनुप्राप्तः; तेन स दारको दृष्टः; स समन्वाहर्तुं प्रवृत्तः कस्यायं पुत्रः इति; पश्यति अत्मनः; तेन स्वाश्रमपदं नीत्वा आपायितः पोषितः संवर्धितः; तस्यापि वृद्धिं गच्छतः शिरसि मृगडृङ्गे प्रादुर्भूते; तस्य मृगस्य यादृशे शृङ्गे इति रिष्यशृण्ग इति संज्ञा संवृत्ता; यावदसौ रिषिर्म्लानः संवृत्तः; स ऋषिः प्रतिरूपैर्भैषज्यैरुपस्थीयते; न चासौ व्याधिरुपशमं गच्छति; यदा तस्य मरणान्तिकी वेदना प्रादुर्भूता न चिरेण कालं करिष्यामि इति; तदा तेनासौ पुत्रोऽभिहितः; पुत्र अस्मिन्नाश्रमपदे नानादेशनिवासिनः रिषयः कालेन कालमुपसंक्रामन्ति; ते त्वया मत्प्रियतया स्वागतवादसमुदाचारेण संमोद्य आसनेनोपनिमन्त्रयितव्या यथाशक्तितश्च फलमूलैः प्रतिपाद्याः इत्युक्त्वा सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः । संयोगा विप्रयोगान्ता मरणान्तं हि जीवितम्* ॥ इति कालधर्मेण संयुक्तः; स तेन ऋषिधर्मसमुदाचारेण ध्यापितः; तेन पितृशोकाभिभूतेन संवेगात्पंचाभिज्ञाः साक्षात्कृताः; सोऽपरेण समयेन सलिलार्थी घटमादाय संप्रस्थितः; देवश्च वर्षितुमारब्धः; स पानीयघटं पूरयित्वा आगन्तुमारब्धः; स्खलितः पतितः; आशुप्रकोपिनो रिषयः; तेन पानीयस्तोकं गृहीत्वा क्षिपता शापो दत्तः; दुराचार त्वया पानीयघटः पूर्णो भग्नः; तस्मात्त्वया इदं दिवसमुपादाय द्वादशवर्षाणि न वर्षितव्यम् (इ ३९) इति; देवो न वर्षितुमारब्धः; वाराणस्यां महादुर्भिक्षं प्रादुर्भूतं; जनकायः समन्ताद्विद्रुतः; रज्ञा नैमित्तिका आहूय पृष्टाः: भवन्तः कस्यानुभावाद्देवो न वर्षति इति; ते कथयन्ति: देव रिषिप्रकोपाद्यद्ययं रिषिस्तस्मात्तपसः चालयितुं शक्येत, एवं देवो वर्षति, अन्यथा न इति; राजा चिन्तापरो व्यवस्थितः; अन्तःपुरामात्यकुमारैरुच्यते: देव किमर्थं चिन्तापरः? स कथयति: रिषिप्रकोपाद्देवो न वर्षयति; नैमित्तिकाश्चैवं कथयन्ति, यद्यसौ रिषिस्तस्मात्तपसश्चाल्यते एवं देवो वर्षयति; अन्यथा न; तन्न विज्ञायते: कस्तं शक्नोति तस्मात्तपशश्चालयितुम् (अ ४३९ ) इति; तस्य राज्ञो दुहिता शान्ता नाम; सा कथयति: देव यद्येवमल्पोत्सुको भव; अहं तथा करिष्यामि यथासौ रिषिस्तस्मात्तपसः चलति इति; स कथयति केनोपायेन? सा कथयति: मां ब्राह्मणकान्मन्त्रान् पाठय अन्यांश्च कन्याः; नौसंक्रमे च आश्रमपदं कारय पुष्पफलसलिलसंपन्नमिति; तेन ब्राहम्णकान्मन्त्रान् पाठिता अन्याश्च कन्याः, नौसंक्रमे च तादृशमाश्रमपदं कारितं, ततः तया तानि फलानि वशीकरणद्रव्यैः मद्येन च समापूरितानि; अपराणि च नानाविचित्राणि च फलानि कारितानि; रिषिवेषः कृतः; सा चीवरवल्कलप्रावृता; सा ताभिः कन्याभिः ब्राह्मणकान्मन्त्रान् पाठयन्ती आश्रमपदं गता; रिषेः शिष्यैर्निवेदितमुपाध्याय बहवस्तवाश्रमपदं रिषय आगताः; स्वागतं रिषीणां प्रविशन्तु इति; ते प्रविष्टाः; स दृष्ट्वा गाथां भाषते: व्यायामहीना च गतिः सलीला मुखानि च श्मश्रुविवर्जितानि । उरांसि चैषां विषमोन्नतानि वेषो ह्यपूर्वोऽयं महारिषीनाम्* ॥ इति; तेन ता विचिकित्सापर्याकुलीकृतमतिनापि मूलफलैः प्रवारिताः; ताभिस्तानि फलानि परिभुज्य स रिषिरभिहितो: युष्माकमेतानि फलानि कटुकतिक्तकषयानि; अस्माकं त्वाश्रमो जलमध्ये यत्र फलान्यमृतप्रख्यानि; अपि तु त्वमस्माभिराश्रमपदे उपनिमन्त्रितो भव; तेनाधिवासितं; स ताभिः नौसंक्रमोद्यानम् (इ ४०) अभिरोहितः; तस्य तत्र मद्यपूर्णानि वशीकरणद्रव्यसंयुक्तानि नारिकेलफलानि च दत्तानि; स मद्यमदाक्षिप्तो वशीकरणद्रव्ययोगात्तया सार्धं विप्रतिपन्नः रिद्धिपरिहीणः; मेघाः समन्तादुन्नताः; वर्षाभिप्राया देवतेति ऋषिणा सन्तर्जिता; शान्ता कथयति: अद्यापि त्वमात्मानं न जानीषे कोऽहमिति; स तया रागपाशपाशितो राज्ञः सकासमुन्नीतः देव अयं स रिषिः इति; ततो देवो वर्षितुमारब्धः; सुभिक्षं प्रादुर्भूतं; राज्ञा सा तस्यैव रिषेर्भार्यार्थं सपरिवारा दत्ता; स शान्तां प्रत्याख्याय ताभिरन्याभिः सार्धं परिचारयितुमारब्धः; तत्र शान्ता ईर्ष्याकुलीकृतहृदया तस्यासत्कारं कर्तुमारब्धा; तत उत्तरादुत्तरं; स तया सोपानत्केन पादेन शिरसि पराहतः; स संलक्षयति: योऽहं मेघस्यापि गर्जितं न सहे स इदानीं रागपाशितः स्त्रीमात्रेणैवं खलीकृतः इति; तेन वीर्यमास्थाय पुनरपि पंचाभिज्ञाः साक्षात्कृताः. किं मन्यध्वे भिक्षवः? योऽसावृषिरहमेव स तेन कालेन तेन समयेन; यासौ शान्ता एषैव सा यशोधरा; तदाप्यहमनया रसतृष्णया अन्वावर्तितः; एतर्ह्यप्येषा मां मोदकेनान्वावर्तितुं प्रवृत्ता. ______________________________________________________________ यशोधरा अत्तेम्प्त्स्तो चोम्मित्सुइचिदे यदा भगवानन्तःपुरान् भुक्त्वा निष्क्रामति तदा यशोधरया नैराश्यमापन्नया भर्तुः स्नेहवैमुख्याच्छरणपृष्ठमभिरुह्य आत्मा मुक्तः; (अ ४४० ) असंमोषधर्माणो बुद्धा भगवतः; सा भगवता ऋद्ध्या प्रतिगृहीता. भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: पश्य भदन्त यशोधरया भगवन्तोऽर्थाय शरणपृष्ठादात्मा मुक्तः इति; भगवानाह: न भिक्षव एतर्हि यथातीतेऽप्यध्वन्यनया ममार्थायात्मा परित्यक्तः; तच्छ्रूयताम् (इ ४१) ______________________________________________________________ थे स्तोर्योf थे किन्नर अन्द्थे किन्नरी भूतपूर्वं भिक्षवो वाराणस्यां नगर्यां ब्रह्मदत्तो नाम राजा बभूव; सोऽपरेण समयेन मृगवधाय निर्गतः; अनुपूर्वेण पर्वतकन्दरं प्रविष्टः; तेन तत्र किन्नरः किन्नरी च दृष्टा; किन्नरः सुप्तः, किन्नरी जागर्ति; रज्ञा आकर्णं धनुः पूरयित्वा किन्नरः शरेण मर्मनि ताडितः; प्राणैर्वियुक्तः; राज्ञा किन्नरी गृहिता भार्याऋथाय; राजा तामादाय संप्रस्थितः; सा कथयति: देव तिष्ठतु तावत्, अनुजानीहि मां यावदस्य किन्नरस्य शरीरपूजां करिष्यामि इति; राजा संलक्षयति: क्व गमिष्यति; पश्यामि तावत्कथमस्य शरीरपूजां करोति इति; सा तेन समनुज्ञाता; ततस्तया तं किन्नरं काष्ठैरवष्टभ्य चितां प्रज्वाल्यात्मा प्रक्षिप्तः; देवता गाथां भाषते अन्यथा चिन्तितो प्यर्थ अन्यथा परिवर्तितः । किन्नरीं रमयामीति कृतं प्राणिवधद्वयम् ॥ इति किं मन्यध्वे भिक्षवः? योऽसौ किन्नर अहमेव स तेन कालेन तेन समयेन; यासौ किन्नरी एषैव सा यशोधरा; तदाप्यनया ममार्थायात्मा चितायां मुक्तः; एतर्ह्यप्यनया ममार्थायात्मा शरणपृष्ठान्मुक्तः इति. ______________________________________________________________ चोन्वेर्सिओनोf यशोधरा भगवान् संलक्षयति: इदानीं यशोधराया प्राप्तो विनयकालः; यदहमेनां संसारकान्तारादुत्तारयेयमिति विदित्वा तस्य तादृशी चतुरार्यसत्यसंप्रतिवेधिकी धर्मदेशना कृता यां श्रुत्वा यशोधरया विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्वा स्रोतआपत्तिफलं साक्षात्कृतं; सा सम्यगेव श्रद्धया अगारादनगारिकां प्रव्रजिता; यावदर्हन्तिनी संवृत्ता; स्वकुलसंशानुरूपतया आर्यमार्गप्रतिलम्भाच्च भिक्षुणीनां मध्ये समुत्पन्नेषु कार्येष्वत्यर्थं जिह्रेति; तत्र भगवान् भिक्षूनामन्त्रयति: एषाग्रा मे भिक्षवो भिक्षुणीनां मम श्राविकानां ह्रीमतीनां यदुत यशोधरा राहुलमाता इति. पुनरपि भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: किं भदन्त यशोधरया कर्म (इ ४२) कृतं यस्य कर्मणो विपाकेन षड्वर्षाणि कुक्षिणा गर्भो धारितः इति; भगवानाह: यशोधरयैव भिक्षवः पूर्वमन्यासु जातीषु कर्माणि कृतान्युपचितानि पूर्ववद्यावद्फलन्ति खलु देहिनाम्. ______________________________________________________________ थे स्तोर्योf थे त्wओ आभीरीस् भूतपूर्वं भिक्षवोऽन्यतमस्मिन् गोकुले द्वौ आभीर्यौ प्रतिवसतः; माता च दुह्ता च; ते अभिक्ष्णं मथितघटमादाय ग्रामान्तं गच्छतः; तयोर्दुहिता शाठ्यसमुदाचारजाता माता ऋजुका; दुहिता कथयति: अम्ब गृहाण (अ ४४० ) तावन्मथितघटं प्रस्रावं करोमि इति; सागृहीत्वा संप्रस्थिता; सा शाठ्यसमुदाचारेण पृष्ठतो लम्बत एव, न तामनुगच्छति; एवं तयासौ माता षट्क्रोषान्मथितघटं वाहिता. किं मन्यध्वे भिक्षवः? यासावाभीरीदुहिता एषा एव सा यशोधरा तेन कालेन तेन समयेन; यदनया माता शाठ्यसमुदाचारेण षट्क्रोषान्मथितघटं वाहिता, तस्य कर्मणो विपाकेनानया राहुलः षड्वर्षाणि कुक्षिणा ऊढः इति हि भिक्षव एकान्तकृष्णानां कर्मणामेकान्तकृष्णो विपाकः पूर्ववद्यावदेवं वो भिक्षवः शिक्षितव्यम्. भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: किं भदन्त आयुष्मता राहुलेन कर्म कृतं यस्य कर्मणो विपाकेन मातुः कुक्षौ षड्वर्षाण्यवस्थितः इति; भगवानाह: राहुलेनैव भिक्षवः कर्माणि कृतान्युपचितानि लब्धसंभाराणि परिणतप्रत्ययान्योघवत्प्रत्युपस्थितान्यवश्यभावीनि; राहुलेन कर्माणि कृतान्युपचितानि कोऽन्यः प्रत्यनुभविष्यति; न भिक्षवः कर्माणि कृतान्युपचितानि न बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तूपात्तेष्वेव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्यशुभानि च; न प्रणश्यन्ति कर्माण्यपि कल्पशतैरपि । सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम् ॥ (इ ४३) ______________________________________________________________ स्तोर्योf शङ्ख अन्द्लिखित भूतपूर्वं भिक्षवः वाराणस्यां नातिदूरे पुष्पफलसंपन्नमाश्रमपदं नानाविहगनिकूजितं विश्वस्तमृगपक्षिनिषेवितम्; तत्र द्वावृषी भ्रातरौ प्रतिवसतः फलमूलाम्बुभक्षावजिनवल्कलधारिणौ शङ्खश्च लिखितश्च; शङ्ख उपाध्याय लिखितश्च शिष्यः; तौ वाराणस्यां सर्वलोकप्रख्यातौ; राज्ञापि ब्रह्मदत्ते<न> विदितौ: अमुष्मिन्नुद्याने द्वावृषी भ्रातरौ प्रतिवसतः शङ्खश्च लिखितश्च; तत्र शङ्ख उपाध्यायो लिखितश्च शिष्यः इति; यावदपरेण समयेन शङ्ख उदकस्य कुण्डिकां पूरयित्वा मूलफलानामर्थे वनं गतः; लिखितस्तु सरात्रमेवोत्थाय पूर्वतरं गतः; स पुष्पफलान्यादाय त्वरितमागतः; आत्मीयामाटिकां प्रत्यवेक्षते; स्वल्पं पानीयं; स तृष्णार्तः संलक्षयति उपाध्यायसन्तकं पानीयं पिबामि इति; तेन पीतं; यावत्शङ्ख रिषिर्मूलफलान्यादाय तृषापर्याकुलीकृतमुखः आश्रमं प्रविष्टः; कुण्डिकां प्रत्यवेक्षते; पश्यति रिल्तिकां; स संजातामर्षः कथयति, केन चोरेण पानीयमपहृतं? इति; लिखितः कथयति: उपाध्याय अहं चोरः; मया पीतं; दण्डं प्रयच्छ इति; स कथयति: त्वं मम भ्राता शिष्यश्च; यदि पीतं सुपीतं यथासुखमिति; स कथयति: उपाध्याय न शक्नोम्यहमेतत्कौकृत्यं प्रतिविनोदयितुं; प्रयच्छ मे गुरुकं दण्डं यश्चोरस्य प्रदीयते इति; एवमुक्तः शङ्ख ऋषिः (अ ४४१ ) प्रकुपितः कथयति: नाहं दण्डमनुप्रयच्छामि: यदि त्वं दण्डेनार्थी राज्ञः सकाशं गच्छ इति; स राज्ञः सकाशं गतः; तस्मिंश्च समये राजा मृगवधाय संप्रस्थितः; तेनासौ जयेनायुषा वर्धयित्वा गाथया विज्ञप्तः: अहं चोरो महाराज योऽस्यादत्तं जलं पिबेत् । प्रयच्छ मे गुरुं दण्डं यश्चोरस्य प्रदीयते ॥ राजा कथयति: नास्ति पानीयस्यादत्तादानमिति; अपि तु कस्य सन्तकं त्वया जलमपहृतं? <इति>; तेन यथावृत्तं समाख्यातं; राजा कथयति: स तव भ्राता उपाध्यायश्च; गच्छ न त्वं दण्डार्हः इति; स कथयति देव न शक्नोम्यहं कौकृत्यं (इ ४४) प्रतिविनोदयितुं; प्रयच्छ मे गुरुं दण्डं यश्चोरस्य प्रदीयते इति; एवमुक्ते राजा प्रकुपितः तीव्रेण पर्यवस्थानेन पर्यवस्थितः; स कथयति: यद्येवमत्रैव तिष्ठ न तावत्प्रयातव्यं यावदहं प्रतिनिर्वृत्तः इति; स राजा मृगवधं कृत्वा संचिन्त्यान्येन द्वारेण प्रविष्टः न भूयो निर्गच्छति; अमात्यै षष्टे दिवसे राज्ञो निवेदितं: देव तस्य रिषेरद्य षड्दिवसा<न्> तस्मिन्नेव प्रदेशे तिष्ठतः आज्ञां दातुमर्हसि इति; राजा कथयति: उद्धृतदण्डो भवतु; गच्छतु, एषैवास्य दण्डः इति; अमात्यैस्तस्य रिषेराख्यातं: ऋषे देव कथयति उद्धृतदण्डोऽसौ गच्छत्वेष एवास्य दण्डः इति; स विगतकौकृत्यः प्रक्रान्तः. किं मन्यध्वे भिक्षवः? योऽसौ राजा ब्रह्मदत्त एष एव स राहुलः तेन कालेन तेन समयेन; यदनेन चित्तं प्रदूष्य रिषिरभिहितः; तस्मिन् प्रदेश तिष्ठ; न ते गन्तव्यमिति; तस्य कर्मणो विपाकेन मातुः कुक्षौ षड्वर्षाण्युषितः; इति हि भिक्षवः एकान्तकृष्णानां कर्मणामेकान्तकृष्णो विपाकः पूर्ववद्यावदेवं वो भिक्षवः शिक्षितव्यम्. भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: किं भदन्त आयुष्मता भद्रिकेण कर्म कृतं यस्य कर्मणो विपाकेन प्रधानपुरुषाणां राजा संवृत्तः? भगवानाह: भद्रिकेणैव भिक्षवः कर्माणि कृतान्युपचितानि लब्धसंभाराणि परिणतप्रत्ययान्योघवत्प्रत्युपस्थितान्यवश्यभावीनि; भद्रिकेणैव कर्माण्युपचितानि कोऽन्यः प्रत्यनुभविष्यति; न भिक्षवः कर्माणि कृतान्युपचितानि <न> बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तूपात्तेष्वेव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्यशुभानि च; न प्रणश्यन्ति कर्माण्यपि कल्पशतैरपि । सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम् ॥ ______________________________________________________________ स्तोर्योf थे बेग्गर्(चोन्चेर्निन्ग प्रेविओउस्बिर्थोf किन्ग्भद्रिक) भूतपूर्वं भिक्षवः अन्यतमः कोट्टमल्लकः जनपदाद्वाराणसीमागतः; स तन्निवासिभिः कोट्टमल्लकैः ईर्ष्या<स्वभावैः> (इ ४५) प्रत्याखचपेटाप्रहारादिभिः प्रताडितं कृत्वा निष्कासितः; स बहिर्वाराणस्यां राजकीय उद्यानेऽवस्थितः; यावद्राजा ब्रह्मदत्तः सम्प्राप्ते वसन्तकालसमये संपुष्पितेषु पादपेषु हंसक्रौञ्चमयूरशुकशारिकाकोकिलजीवञ्जीवकोन्नादिते वनषण्डे (अ ४४१ )ऽन्तःपुरसहीयः उद्यानभूमिं निर्गतः; स तत्रान्तःपुरेण सार्धमुद्याने सुखमनुभूय मिद्धमवक्रान्तः; पुष्पफललोलुपो मातृग्रामः पुष्पफलानि समन्वेषमाणः परिभ्रमितुमारब्धः; यावद्राजा ब्रह्मदत्तः निद्रालस्यं प्रतिविनोद्य लघु लघ्वेव वाराणसीं प्रविष्टः; अन्तःपुरजनोऽपि त्वरितत्वरितं संप्रस्थितः; यावदन्यतमा स्त्री संभ्रान्ता मुक्ताहारं छोरयित्वा प्रक्रान्ता; यावदसौ कोट्टमल्लकस्तस्मिन्नुद्याने परिभ्रमितुमारब्धः; तेनासौ मुक्ताहारो दृष्टः; स संलक्षयति: किं ममानेन प्रयोजनं; स्थानमेतद्विद्यते यदर्थायानर्थं प्रापयामि इति; तेनासौ लतायां बद्ध्वा उद्यानेऽवस्थितः; यस्य सन्तको भविष्यति स ग्रहीष्यति इति; यावदन्तःपुरिकाभिः राजा विज्ञप्तः; देव अमुकया उद्याने मुक्ताहारो विस्मृतः इति; राज्ञामात्यानामाज्ञा दत्ता: भवन्त उद्याने उक्ताहारो विस्मृतः, समन्वेषत इति; ते उद्यानं गत्वा समन्वेषयितुमारब्धाः; यावत्पश्यति लतायामुपनिबद्धं; ते संलक्षयन्ति: विचारयामस्तावत्केनैष बद्ध इति; ते उद्यानं परिभ्रमितुमारब्धाः; यावत्पश्यन्ति कोट्टमल्लकं; स तैरुक्तः: भोः पुरुष केनैष मुक्ताहारो लतायां बद्ध्वावस्थापितः; तेन यथावृत्तं तेषां समाख्यातम्; अमात्यै रज्ञो मुक्ताहारो दत्तः; यथावृत्तमारोचितं; राजा कथयति भवन्तस्तं कोट्टमल्लकं शब्दापयत; पश्यामि इति; तैः शब्दितः; राज्ञा पृष्टः भोः पुरुष कस्मात्त्वया मुक्ताहारो लतायां बद्ध्वावस्थपितः, न स्वीकृतः इति; स कथयति: देव नाहमस्य भागी देवस्यैवार्हति इति; राजा अभिप्रसन्नः कथयति: भोः पुरुष वरार्हस्त्वं; वद कं ते वरमनुप्रयच्छामि इति; स कथयति: यदि देवः परितुष्टः कोट्टमल्लकान् भोजयित्वा तेषां प्रत्येकमेकैकं वस्त्रयुगेनाच्छाद्य माम् (इ ४६) अधिपतिं स्थापयतु इति; राज्ञामात्यानामाज्ञा दत्ता: भवन्तो युष्माभिः कोट्टमल्लकान् भोजयित्वा प्रत्येकमेकैकं वस्त्रयुगेनाच्छाद्य एतं पुरुषं तेषामधिपतिं स्थापयत; तैः वाराणस्यां घण्टावघोषणं कारितं: देवसमाज्ञापयति यावन्तः कोट्टमल्लकाः वाराणस्यां सर्वैरमुष्मिन्नुद्याने संनिपतितव्यम्; अहं कोट्टमल्लकान् भोजयामि एकैकं वस्त्रयुगेनाच्छादयामि इति; ते सर्वे संनिपतिताः आमत्यैः प्रणीतेनाहारेण संतर्पिताः; प्रत्येकं वस्त्रयुगेनाच्छादिताः; उक्ताश्च: देव समाज्ञापयति, अद्याग्रेण युष्माकमेष कोट्टमल्लको राजा; युष्माभिरस्याज्ञा कर्तव्या इति; ते प्रणीतेनाहारेण संतर्पिताः वस्त्रयुगेनाच्छादिताः प्रीतमनसः कथयन्ति यथा देवः समाज्ञापयति इति; सो कोट्टमल्लकोऽधिपतिः संवृत्तः; प्रकृत्यैव कोट्टमल्लकाः क्षुत्पिपासाभिभूताः वीथ्यामन्नपानमाच्छिन्दन्ति; ते राज्ञा सत्कृता इति भूयस्या मात्रया आच्छेत्तुमारब्धाः; पत्तनोपजीवि जनकायः क्षुब्धः; राज्ञो निवेदितं; राजा कथयति (अ ४४२ ) अप्रमत्तैर्भवद्भिरारक्षा कर्तव्या, न तु ते ताडयितव्याः इति; यावदन्यतमः पुरुषः पूपकानादाय वीथीमध्येन गच्छति; तेन कोट्टमल्लकाधिपतिना तस्य सकाशात्पूपिका आच्छिन्नाः; स तानादाय प्रतिगुप्तं प्रदेशं गतः; कोट्टमल्लकैरनुबद्धः; स तैरुपद्रूयमानो नदीं वारकामुत्तीर्य अन्यतमस्मिन् वृक्षमूलेऽवस्थितः; असति बुद्धानामुत्पादे प्रत्येकबुद्धा लोक उत्पद्यन्ते हीनदीनानुकम्पाः प्रान्तशयनासनभक्ता एकदक्षिणीया लोकस्य; यावदन्यतमः प्रत्येकबुद्धो दैवात्तं प्रदेशमागतः; तेनासौ दृष्टः कायप्रासादिकः शान्तेर्यापथश्च; स संलक्षयति: नूनं मया एवंविधे सद्भूतदक्षिणीये कारा न कृता येनाहं मानुष्यमासाद्य कोट्टमल्लको जातः; यद्ययं महात्मा ममान्तिकात्पूपान् प्रतिगृह्णीयादहमस्मै दद्यामिति; ततस्तेन प्रत्येकबुद्धेन तस्य चेतसा चित्तमाज्ञाय परानुग्रहकारणात्पात्रमुपनामितं; तेन तस्मै सत्कृत्य पूपिका दत्ताः; कायिकी तेषां महात्मनां धर्मदेशना न वाचिकी; स उपरि विहायसमभ्युद्गम्य ज्वलनतपनवर्षणविद्योतनप्रातिहार्याणि कर्तुमारब्धः; अस्त्याशु पृथग्जनस्य रिद्धिरावर्जनकरी; स मूलनिकृन्त इव (इ ४७) द्रुमः प्रत्येकबुद्धस्य पादयोर्निपत्य प्रणिधानं कर्तुमारब्धः: यन्मयैवंविधे सद्भूतदक्षिणीये काराः कृताः, अनेनाहं कुशलमूलेन प्रधानपुरुषाणां राजा स्याम्*; प्रतिविशिष्टतरं चातः शास्तारमारागयेयमेव न विरागयेयमिति; ततः ते कोट्टमल्लकाः संप्राप्ताः कथयन्ति: अस्माकमपि पूपिकां प्रयच्छ इति; स कथयति: अयं महात्मा रिषिः; अस्मै मया प्रतिपदिता इति; ते कथयन्ति: प्रतिपाद्य किं त्वया प्रणिधानं कृतमिति; स कथयति: प्रधानपुरुषाणां राजा स्यामिति; ते कथयन्ति: वयमेव ते प्रधानपुरुषाः स्याम येषां त्वं राजा भविष्यसि इति; स कथयति: शोभनमेवं भवतु; किं त्वस्य रिषेः पादयोर्निपत्य प्रणिधानं कुरुत इति; तैस्तस्य प्रत्येकबुद्धस्य पादयोर्निपत्य प्रणिधानं कृतं वयं ते प्रधानपुरुषाः स्याम येषामयं राजा भविष्यति इति. किं मन्यध्वे भिक्षवः? योऽसौ कोट्टमल्लकाधिपतिरेष एव स भद्रिकः शाक्यराजः इति तेन कालेन तेन समयेन; ये ते कोट्टमल्लका एतान्येव तानि पञ्चशाक्यशतानि; भद्रिकेण कोट्टमल्लकभूतेन प्रत्येकबुद्धे प्रणिधानं कृतं; तस्य कर्मणो विपाकेन एषां पञ्चानां शाक्यशतानां राजा संवृत्तः; इति हि भिक्षवः एकान्तकृष्णानां कर्मणामेकान्तकृष्णो विपाकः पूर्ववद्यावदेवं वो भिक्षवः शिक्षितव्यम्. ______________________________________________________________ थे स्तोर्योf मधुवासिष्ठ बुद्धो भगवान्नादिकायां विहरति गुञ्जिकावसथे; तेन खलु समयेन संबहुलानि पात्राण्यभ्यवकाश उपरि क्षिप्तानि; भगवतश्च पात्रम्; अथान्यतमो मर्कतः शालवृक्षादवतीर्य येन पात्राणि (अ ४४२ ) तेनोपसंक्रमति; भिक्षवस्तं वारयन्ति, मा भेत्स्यति पात्राणि इति; तत्र भगवान् भिक्षूणामामन्त्रयते स्म: मा भिक्षवः एतं मर्कटं वारयत; तत्कस्य हेतोः; नैष भेत्स्यते पात्राणि; अथ स मर्कटो येन भगवतः पात्रं तेनोपसंक्रान्तः; उपसंक्रम्य भगवतः पात्रमादाय तं शालावृक्षमभिरुह्य क्षौद्रस्य मधुनोऽनेडकस्य पूरयित्वा शनैर्मन्दमन्दं शालवृक्षादवतीर्य भगवत उपनामयति; तस्य भगवान्न प्रतिगृह्णाति सप्राणकमिति कृत्वा; अथ स मर्कट एकान्ते प्रक्रम्य (इ ४८) निष्प्राणकं कृत्वा भगवत उपनामयति; तस्य भगवान्न प्रतिगृह्णाति अकल्पिकमिति कृत्वा; अथ स मर्कट एकान्ते प्रक्रम्य शीतलेन वारिणा परिषिच्य भगवत उपनामयति; तस्य भगवान् प्रतिगृह्णाति कृतकल्पिकमिति; अथ स मर्कट प्रतिगृहीतं मे भगवता मधुपात्रमिति विदित्वा हृष्टतुष्टप्रमुदितः उदग्रप्रीतिसौमनस्यजातः प्राञ्जलीकृतः प्रतिपुटकं प्रत्यवसृतो नर्तमानः भगवन्तं नमस्यमानः भगवति प्रसादजातो भगवन्तं निरीक्षमाणः पृष्ठतो नावलोकयति; कूपे पतितः; कालगतः; नादिकायामेव षट्कर्मनिरते ब्राह्मणकुले उपपन्नः; यमेव दिवसं प्रतिसन्धिर्गृहीतस्तमेव दिवसं मधुवर्षं पतितं; पित्रा चास्य नैमित्तिका आहूय पृष्टाः; ते कथयन्ति: अस्य सत्वस्यानुभाव इति; यावदसौ ब्राह्मणी अष्टानां व नावानां वा मासानामत्ययात्प्रसूता; दारको जातः; यमेव दिवसं जातस्तमपि दिवसं मधुवर्षं पतितं; तस्य ज्ञातयः संगम्य समागम्य त्रीणि सप्तकान्येकविंषतिदिवसान् विस्तरेण जातस्य जातिमहं कृत्वा नामधेयं व्यवस्थाप्यते, किं भवतु दारकस्य नाम इति; ज्ञातय ऊचुः: अयं दारको यमेव दिवसं मातुः कुक्षिमवक्रान्तस्तमेव दिवसं मधुवर्षं पतितं; यमपि दिवसं जातः तमपि दिवसं मधुवर्षं पतितं; वासिष्ठसगोत्रश्च; तस्माद्भवतु दारकस्य मधुवासिष्ठ इति नामधेयं व्यवस्थापितं; स उन्नीतो वर्धितो महान् संवृत्तः; यदा महान् संवृत्तः तदा स्व्याख्याते धर्मविनये प्रव्रजितः; तस्य प्रव्रजितस्यापि सतः दिने दिने त्रीणि मधुपात्राणि संपद्यन्ते; स तेषामेकं भगवतोऽनुप्रयच्छति; द्वितीयं संघाय; त्रितीयं सप्रेमकैः सार्धं परिभुङ्क्ते. भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: किं भदन्तायुष्मता मधुवासिष्ठेन कर्म कृतं यस्य कर्मणो विपाकेनास्य दिने दिने त्रीणि पात्राणि संपद्यन्ते इति; भगवानाह: मधुवासिष्ठेनैव भिक्षवः (इ ४९) कर्माणि कृतान्युपचितानि लब्धसंभाराणि परिणतप्रत्ययान्योघवत्प्रत्युपस्थितानि पूर्ववद्यावद्फलन्ति खलु देहिनां; दृष्टो युष्माभिर्भिक्षवः स मर्कटः येन तथागतस्य मधुपात्रमुपनामितं? (अ ४४३ ) दृष्टो भदन्त; योऽसौ मर्कट एष एवासौ मधुवासिष्ठः तेन कालेन तेन समयेन; तेन तथागतस्य मधुपात्रमुपनामितं; तस्य कर्मणो विपाकेन षट्कर्मनिरते ब्राह्मणकुले उपपन्नः प्रतिसन्धौ चास्य जातौ च मधुवर्षं पतितं; यावदेतर्ह्यपि दिवसे दिवसे त्रीणि मधुपात्राणि संपद्यन्ते; इति हि भिक्षवः एकान्तकृष्णानां कर्मणामेकान्तकृष्णो विपाकः पूर्ववद्यावदेकान्तशुक्लेष्वेव कर्मस्वाभोगः करणीयः; तत्कस्य हेतोः; यदि मधुवासिष्ठो भिक्षुः पूर्वं महासमुद्रं मध्वधिमुच्यते; तदपि मधु स्यात्; एवं हि भिक्षवः अप्रमेया तथागतदक्षिणा इति. भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: किं भदन्तायुष्मता उपालिना कर्म कृतं यस्य कर्मणो विपाकेन राजेनापितः संवृत्तः; भगवानाह: उपालिनैव भिक्षवः अप्रमेया तथागतदक्षिणा इति पूर्वमन्यासु जातिषु कर्माणि कृतान्युपचितानि लब्धसंभाराणि पूर्ववद्यावद्फलन्ति खलु देहिनां. ______________________________________________________________ थे स्तोर्योf थे रोयल्बर्बेर् (चोन्चेर्निन्ग प्रेविओउस्बिर्थोf उपालिन्) भूतपूर्वं भिक्षवोऽन्यतमस्य राजनापितस्य प्रत्येकबुद्धः उपसंक्रान्तः: भद्रमुख केशान्मेऽवतार्य, पुण्यं भविष्यति इति; स च राजकुलं संप्रस्थितः; तेन भागिनेय उक्तः: भागिनेय अस्य प्रव्रजितस्य केशानवतारय; अहं राजकुलं संप्रस्थितः; तथा चावतारय यथा राज्ञः इति; स संलक्षयति: यथा मातुलः कथयति; नूनमत्र पुण्येन भवितव्यमिति; तेनादरं कृत्वा केशश्मश्र्ववतारितं; प्रत्येकबुद्धः संलक्षयति: बह्वनेन सत्वेन पुण्यं प्रसुतं; कुशलमूलावरोपणमस्य कर्तव्यमिति विदित्वा तस्यानुकम्पार्थमुपरि विहायसम् (इ ५०) अभ्युद्गम्य ज्वलनतपनवर्षणविद्योतनप्रातिहार्याणि कर्तुमारब्धः; अस्त्याशु पृथग्जनस्य ऋद्धिरावर्जनकरी; स मूलनिकृन्त इव द्रुमः पादयोर्निपत्य प्रणिधानं कर्तुमारब्धः: अनेनाहं कुशलमूलेन यथा मे मातुलो राजनापितः एवमहमपि राजनापितः स्यामिति. किं मन्यध्वे भिक्षवः? योऽ सौ राजनापितस्य भागिनेय एष एवासावुपालिर्भिक्षुः; यदनेन प्रत्येकबुद्धस्य केशश्मश्रूण्यवतार्य प्रणिधानं कृतं तस्य कर्मणो विपाकेन रजनापितः संवृत्तः; भूयोऽपि यदनेन प्रणिधानं कृतं तच्छ्रूयताम्. ______________________________________________________________ अनोथेर्स्तोर्योf अ बर्बेर् भूतपूर्वं भिक्षवोऽन्यतरस्मिन् कर्वटके गृहपतिः प्रतिवसति; तेन सदृशात्कुलात्कलत्रमानीतं; स तया सार्धं क्रीडति रमते परिचारयति; तस्य क्रीडतो रममाणस्य परिचारयतः पुत्रो जातः; भूयोऽपि क्रीडतो रममाणस्य परिचारयतः पुत्रो जातः; भूयोऽपि क्रीडतो रममाणस्य परिचारयतः पुत्रो जातः; यावत्क्रमेण सप्त पुत्राः जाताः; तस्य राजनापितो वयस्यः; सोऽपुत्रः; करे कपोलं कृत्वा चिन्तापरोऽवस्थितः; न मे पुत्रो न दुहिता; ममात्ययात्सर्वं स्वापतेयमपुत्रकमिति कृत्वा राजविधेयं भविष्यति इति; स तेन गृहपतिना दृष्ट उक्तश्च: वयस्य किमसि चिन्तापरः? स (अ ४४३ ) कथयति: वयस्य कथं न चिन्तापरो भविष्यामि यस्य मे इयत्धनजातं न पुत्रो न दुहिता, ममात्ययात्सर्वमेतद्राजविधेयं भविष्यति इति; स कथयति: यद्येवमेष मम सर्वकनीयान् पुत्रः: स मया तव दत्तः इति; तेनासौ प्रतिगृहीतः; यावद्गृहपतिः कालगतः; ते तस्य पुत्राः यदा केनचित्सार्धं कलिं कुर्वन्ति तदा तेन परिभाष्यन्ते: यूयमपि कलिं कुरुथ येषां भ्राता नापितः इति; ते दौर्मनस्यजाताः संलक्षयन्ति: यत्किंचिद्वयं परिभूताः सर्वं तदस्य भ्रातुर्दोषात्; सर्वथा आच्छेत्तव्य इति; स तैराच्छिन्नो नापितः; तेन सर्वनापिताः क्रियाकारं कारिताः, अमुकस्य गृहपतेः पुत्राणां न केनचित्श्मश्रुकर्म कर्तव्यमिति; ते दीर्घश्मश्रुनखा जाताः; ते राज्ञा दृष्टा उक्ताश्च: भवन्तः किमर्थं यूयं दीर्घश्मश्रुनखास्तिष्ठथ? इति ते कथयन्ति (इ ५१) अनेन नापितेन सर्वनापिता निवारिताः; न केनचिदेषां श्मश्रुकर्म कर्तव्यमिति; किं कारणात्; तैर्यथावृत्तं समाख्यातं; राजा कथयति: अर्हति पिता पुत्रं दातुं; किमिति युष्माभिराच्छिन्नः? तस्यैव प्रयच्छत इति; तैरकामकैः प्रतिमुक्तः; ते दौर्मनस्यजाताः लोकापवादभयात्तं घातयितुमिच्छन्ति; मित्रामित्रमध्यमो लोकः; तस्यापरैः समाख्यातं; तेनासौ नापित उक्तः: ते मां प्रघातयितुमिच्छन्ति; अनुजानीहि प्रव्रजामि इति; स संलक्षयति: काममेव प्रव्रजतु मा तैः प्राणान् वियोक्ष्यत इति विदित्वा उक्तः: पुत्र यद्येवं गच्छ प्रव्रज; यत्किंचिद्गुणगणमधिगच्छेथास्तदा ममारोचयिष्यसि इति; स लब्धानुज्ञो रिषीणां मध्ये प्रव्रजितः; तेनानुपचार्यकेनानुपाध्यायकेन प्रत्येकबोधिः साक्षात्कृता; स संलक्षयति: मया तस्य पितुः प्रतिज्ञातमुपदर्शयिष्यामि इति; गच्छामि, तामिमां पूर्विकां प्रतिज्ञां निर्यातयामि इति; स तस्य सकाशं गत्वा ज्वलनतपनवर्षणविद्योतनप्रातिहार्यं यावत्मूलनिकृन्त इव द्रुमः स पादयोर्निपत्य प्रणिधानं कर्तुमारब्धः: यन्मया एवंविधे सद्भूतदक्षिणीये काराः कृताः अनेनाहं कुशलमूलेन राजनापितः स्यामिति; भूयोऽपि अनेन पञ्चसु प्रत्येकबुद्धशतेषु कारान् कृत्वा प्रणिधानं कृतम्: अनेनाहं कुशलमूलेन राजनापितः स्यामिति; पुनरपि चतुर्षु सम्यक्संबुद्धेषु कारान् कृत्वा प्रणिधानं कृतमनेनाहं कुशलमूलेन राजनापितः स्यामिति; तस्य कर्मणो विपाकेन बहून् वारान् राजनापितः संवृत्तः. भूयोऽपि भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: किं भदन्त उपालिना कर्म कृतं येन विनयधाराणामग्रो निर्दिष्टः इति; भगवानाह: कुत्र प्रणिधानं कृतं? ______________________________________________________________ उपालि इस्थे fओरेमोस्तमोन्ग्थोसे wहो मस्तेरन्द्क्नोw थे विनय भूतपूर्वं भिक्षवोऽस्मिन्नेव भद्रके कल्पे विंशतिवर्षसहस्रायुषि प्रजायां काश्यपो नाम सम्यक्संबुद्धो लोक उदपादि पूर्ववद्यावत्स वाराणसीं नगरीम् (अ ४४४ ) उपनिश्रित्य विहरति ऋषिवदने मृगदावे; तस्यायं प्रवचने प्रव्रजितः; यः प्रव्रजितो (इ ५२) भिक्षुः स पुनः काश्यपेन सम्यक्संबुद्धेन विनयधराणामग्रो निर्दिष्टः; तत्रानेन यावदायुर्ब्रह्मचर्यं चरितं; न कश्चिद्गुणगणोऽधिगतः; तदनेन मरणकालसमये प्रणिधानं कर्तुमारब्धं: यद्मया काश्यपे भगवति सम्यक्संबुद्धे यावदायुर्ब्रह्मचर्यं चरितं, न कश्चिद्गुणगणोऽधिगतः; अनेनाहं कुशलमूलेन योऽसौ भगवता काश्यपेन सम्यक्संबुद्धेन उत्तरो नाम माणवो व्याकृतो भविष्यसि त्वं माणव वर्षशतायुषि प्रजायां शाक्यमुनिर्नाम तथागतोऽर्हन् सम्यक्संबुद्ध इति; तस्याहं प्रवचने प्रव्रज्य सर्वक्लेशप्रहाणादर्हत्वं साक्षात्कुर्याम्; यथा च मे उपाध्यायेन भगवता काश्यपेन सम्यक्संबुद्धेन विनयधाराणामग्रो निर्दिष्टः; एवं मामपि स भगवांस्शाक्यमुनिर्विनयधराणामग्रं निर्दिषेदिति तत्प्रणिधानवशात्तथागतेन विनयधराणामग्रो निर्दिष्टः; इति हि भिक्षवः एकान्तकृष्णानां कर्मणामेकान्तकृष्णो विपाकः पूर्ववद्यावदाभोगः करणीयः; इत्येवं वो भिक्षवः शिक्षितव्यम्. ______________________________________________________________ उन्त्रुए अन्नोउन्चेमेन्तोf थे देअथोf थे बुद्ध अन्द्थे बिर्थोf आनन्द यदा भगवता षट्त्रिंशद्भूतकोटिपरिवारं मारं पपीयंसमभिनिर्जित्य अनुत्तरं ज्ञानमधिगतं, तदा सान्तःपुरामात्यपौरजनपदस्यारोचितम्: अद्य श्रमणो गौतमः कालगतः इति; राजा शुद्धोदनः सान्तःपुरकुमारामात्यपौरजनपदः शोचितुमारब्धः; देवतानां दर्शनमधस्तात्प्रवर्तते; शुद्धावासकायिकाभिर्देवताभिररोचितं: न भगवान् कालगतोऽपि तु भगवतानुत्तरं ज्ञानमधिगतमिति; ततो राजा शुद्धोदनः परमानन्दमुपागतः; तेनसमयेनामृतोदनस्य दारको जातः; तस्य जातौ जातिमहं विस्तरेण कृत्वा नामधेयं व्यवस्थाप्यते, किं भवतु दारकस्य नाम इति; ज्ञातस्य कथयंति: अयं दारकः आनन्दे वर्तमाने जातः; तद्भवतु दारकस्यानन्द इति नामधेयं व्यवस्थापितम्; आनन्दो दारकोऽष्टाभ्यो धात्रीभ्योऽनुप्रदत्तः; द्वाभ्यामंशधात्रीभ्यां द्वाभ्यां क्रीडनिकाभ्यां धात्रीभ्यां द्वाभ्यां क्षीरधात्रीभ्यां द्वाभ्यां मलधात्रीभ्यां; स धात्र्यंशगतो नैमित्तिकैर्व्याकृतोऽनेन दारकेण भगवतः शाक्यमुनेरुपस्थानं कर्तव्यमिति; दारको नैमित्तिकैर्व्याकृत इति श्रुत्वा अमृतोदनः संलक्षयति: यद्येवं भगवान् प्रव्राजयिष्यति, न तत्पुरस्तादवतारोऽप्यनेन कर्तव्य इति; स यदा भगवान् कपिलवस्त्वागच्छति तदा (इ ५३) वैशालीन्नीयते; यदा भगवान् वैशालीं गच्छति तदा पुनः कपिलवस्तु नीयते; अत्रान्तरे नास्ति किंचिद्बुद्धानां भगवतामज्ञातमदृष्टमविदितमविज्ञातं; धर्मता खलु बुद्धानां भगवतां महाकारुणिकानां लोकानुग्रहप्रवृत्तानामेकारक्षाणां शमथविपश्यनाविहारिणां त्रिदमथवस्तुकुशलानां चतुरोघोत्तीर्णानां चतुरृद्धिपादचरणतलसुप्रतिष्ठितमतीनां चतुर्षु संग्रहवस्तुषु दीर्घरात्रकृतपरिचयानां पञ्चाङ्गविप्रहीनानां पञ्चगतिसमतिक्रान्तानां षडङ्गसमन्वागतानां षट्पारमितापरिपूर्णानां सप्तबोध्यङ्गकुसुमाढ्यानामष्टाङ्गमार्गदेशिकानां नवानुपूर्वविहारसमापत्तिकुशलानां दशबलिनां दशदिक्समापूर्णयशसां दशशतवशवर्तिप्रतिविशिष्टानां त्री रात्रेस्त्रिर्दिवसस्य च बुद्धचक्षुषा लोकं व्यवलोक्य ज्ञानदर्शनं प्रवर्तते: को हीयते को वर्धते कः कृच्छ्रप्राप्तः कः संकतप्राप्तः कः संबाधप्राप्तः कोऽपायनिम्नः कोऽपायप्रवणः कोऽपायप्राग्भारः कमहमपायादुद्धृत्य स्वर्गे मोक्षे च प्रतिष्ठापयेयं; कस्य अनवरोपितानि कुशलमुलान्यवरोपयेयं? कस्यावरोपितानि परिपाचयेयं? कस्य पक्वानि विमोचयेयम्? आह च: अप्येवातिक्रमेद्वेलां सागरो मकरालयः । न तु वैनेयवत्सानां बुद्धो वेलामतिक्रमेत् ॥ ______________________________________________________________ आनन्दऽस्चोन्वेर्सिओन् भगवान् संलक्षयति: चरमभविको आनन्दो दारकः; स मम शासने प्रव्रजिष्यति, प्रव्रज्य चानेन ममोपस्थानं कर्तव्यं वचनं च धारयितव्यं मयि च परिनिर्वृते अमृतमधिगन्तव्यं यन्न्वहमानन्दं कुमारं शासनेऽवतारयेयमिति; अप्रविदित एव कपिलवस्तुनगरं प्रविश्यामृतोदनस्य भवनमागम्य प्रज्ञप्त एवासने निषण्णः; अमृतोदनेनानन्दः कुमारोऽववरकं प्रविश्य स्थापितः; भगवता तथाधिष्ठितो येन स्वयमेव द्वारमपावृतं; प्रथमत एव च भगवतो पादौ शिरसा (इ ५४) वन्दित्वा भगवतः पृष्ठतः स्थितोऽभूद्व्यजनं गृहीत्वा च भगवन्तं वीजयमानः; ततोऽमृतोदनो भगवतः पादौ शिरसा वन्दित्वैकान्ते निषण्णः; एकान्ते निषण्णंममृतोदनं भगवान् धर्म्यया कथया संदर्श्य समादाप्य समुत्तेज्य संप्रहर्ष्य आसनादुत्थाय प्रक्रान्तः; महदपि हेतुबलं प्रत्ययबलमपेक्षते; इत्यानन्दश्चरमभविकः सत्वो भगवन्तः पृष्ठतः पृष्ठतः समनुबद्धः; अमृतोदनेन सान्तःपुरपरिवारेण न शक्यते निवर्तयितुं; भगवानाह: अयं चरमभविकः सत्वः न त्वया शक्यते निवर्तयितुं, मा निवर्तेत इति; अमृतोदनः कथयति; भगवन् यद्येवमानुपूर्वीमस्य कुर्मः; भगवानाह: एवं कुरु; ततोऽमृतोदनेन श्रमणब्राह्मणकृपणवणीपकपरिव्राजकयाचनकेभ्यो दानानि दीयन्ते; पुण्यानि क्रियन्ते; स्वबन्धुजनं च क्षमापयित्वा सर्वालंकारविभूषितो हस्तिस्कन्धमभिरुह्य अनेकजनपरिवृतो न्यग्रोधारामाभिमुखो भगवत्सकाशं प्रेषितः; (अ ४४५ ) ततश्च तस्य वीथीमध्येन गच्छतो हस्तिना उत्पलहस्तको निगीर्णः; नैमित्तिकैर्दृष्टः; ते कथयन्ति: अनेन कुमारेण श्रुतिधराणामग्रेण भवितव्यमिति; तस्य यानस्य यावती भूमिस्तावद्यानेन गत्वा यानादवतीर्य पद्भ्यामेव न्यग्रोधारामं प्रविश्य येन भगवांस्तेनोपसंक्रान्तः; उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वैकान्ते निषण्णः; भगवता दशबलकाश्यपस्य समर्पितः काश्यप प्रव्राजय कुमारमिति; तेन प्रव्राजित उपसंपादितः; अथ भगवान् यथाभिरम्यं कपिलवस्तुनि विहृत्य येन राजगृहं तेन चारिकां प्रक्रान्तः; अनुपूर्वेण चारिकां चरन् राजगृहमनुप्राप्तः; राजगृहे विहरति वेणुवने कलन्दकनिवापे. आयुष्मतः आनन्दस्य मूर्ध्नि पिटको जातः; भगवता जीविकस्याज्ञा दत्ता आनन्दस्य भिक्षोश्चिकित्सां कुरुष्व इति; एवं भदन्त इति जीविकः कुमारभृतो भगवतः प्रत्यशौषीद्; अथ भगवान् पुरस्ताद्भिक्षुसंघस्य प्रज्ञप्त एवासने निषण्णः धर्मं देशयति; आयुष्मानप्यानन्दस्तत्रैव निषण्णः धर्मश्रवणाय; जीविकः कुमारभृतः संलक्षयति: अयमस्य कलश्चिकित्सायाः; (इ ५५) धर्मवेगप्राप्तोऽयं न चेतयिष्यति इति; तेन तस्य पिटके पाचनं दत्तं; तत्रैव च पाटितः; तत्र पर्यवसिते धर्मे जीवकः कथयति: भगवन्मया अर्यानन्दस्यात्रैव निषण्णस्य पिटकः पाचितः पाटितो रोहितश्च; आयुष्मानानन्दः कथयति: यदि मम शरीरं तिलशश्छिन्नमभविष्यत्तथापि मया न परिज्ञातमभविष्यद्भगवतो धर्मं देशयतो धर्मान्वयप्रसादावर्जितसन्ततिना; जीवकः परं विस्मयमापन्नः. भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: किं भदन्त आयुष्मता आनन्देन कर्म कृतं येनास्य पृष्ठे पिटको जातः इति; भगवानाह: आनन्देनैव भिक्षवः भिक्षुणा कर्माणि कृतान्युपचितानि पूर्ववद्यावद्फलन्ति खलु देहिनां. ______________________________________________________________ थे स्तोर्योf थे किन्ग्किरातस् (अ प्रेविओउस्बिर्थोf आनन्द) भूतपूर्वं भिक्षवोऽन्यतमस्मिन् कर्वटके किरातानामधिपतिः प्रतिवसति; असति बुद्धानामुत्पादे प्रत्येकबुद्धा लोक उत्पद्यन्ते हीनदीनानुकम्पकाः प्रान्तशयनासनभक्ताः एकदक्षिणीया लोकस्य; अथान्यतमः प्रत्येकबुद्धस्तेन तेनान्वाहिण्डमानः किरातनगरमनुप्राप्तः; स तत्र पिण्डार्थी किरातराजस्य गृहं प्रविष्टः; स तेन संजातामर्षेण चित्तं प्रदूष्य गुडिकया पृष्ठे ताडितः; स महात्मा निहतमदमानत्वात्तस्याभव्यतां ज्ञात्वा प्रक्रान्तः. किं मन्यध्वे भिक्षवः? योऽसौ किरातराजः एष एव स आनन्दो भिक्षुः; यदनेन प्रत्येकबुद्धः संजातामर्षेण चित्तं प्रदूष्य पृष्ठे गुडिकया ताडितः तस्य कर्मणो विपाकेन यत्र यत्र जायते तत्र तत्रास्य पंचजन्मशतानि पृष्ठे पिटको जायते; यावदेतर्ह्यप्यस्य चरमे भवे पृष्ठे पिटको जातः (इ ५६) ______________________________________________________________ आनन्द fओल्लोwस्थे बुद्ध अन्द्मकेसनेxहिबितिओनोf मथेमतिचल्क्नोwलेद्गे यदा आयुष्मानानन्दो भगवता सार्धं गच्छति तदास्य भगवति तीव्रप्रसादगौरवं (अ ४४५ ) ह्रीव्यपत्राप्यं छम्बितत्वं चोपतिष्ठति; यदा निर्माणेन न तादृशं प्रसादगौरवं ह्रीव्यपत्राप्यं छम्बितत्वं चोपतिष्ठति; यावदन्यतमेन गृहपतिना बुद्धप्रमुखो भिक्षुसंघोऽन्तर्गृहे भक्तेनोपनिमन्त्रितः; भगवान् पूर्वाह्णे निवास्य पात्रचीवरमादाय भिक्षुगणपरिवृतो भिक्षुसंघपुरस्कृतः तस्य गृहपतेर्गृहं प्रविश्य भुक्त्वा प्रक्रान्तः; भिक्षुभिरायुष्मानानन्दः पृष्टः; आयुष्मन्नानन्द किं त्वमद्य भगवता सार्धं गतः आहोस्विन्निर्माणेन इति; स कथयति: भगवता सार्धं गतो न बुद्धनिर्माणेन; कथं कृत्वा; यदाहं भगवता सार्धं गच्छामि ततो मम भगवतोऽन्तिके तीव्रप्रसादगौरवं ह्रीव्यपत्राप्यं छम्बितत्वं चोपतिष्ठति; यदा बुद्धनिर्माणेन तदा न तथा इति भिक्षवः परस्परं मन्त्रयन्ति: आयुष्मानानन्दो निमित्तकुशलः इति; दिग्विदिक्षु शब्दो विसृतः आनन्दो भिक्षुर्निमित्तकुशलः इति; अथ भगवान् यथाभिरम्य राजगृहे विहृत्य येन श्रावस्ती तेन चारिकां प्रक्रान्तः; अनुपूर्वेण चारिकां चरन् श्रावस्तीमनुप्राप्तः; श्रावस्त्यां विहरति जेतवनेऽनाथपिण्डदस्यारामे; अथायुष्मानानन्दः पूर्वाह्णे निवास्य पात्रचीवरमादाय श्रावस्तीं पिण्डाय प्राविक्षत्; अन्यतमेन ब्राह्मणेन दृष्टः; स संलक्षयति: अयं श्रमणस्य गौतमस्य श्रावकः आनन्दो भिक्षुः, योऽसौ श्रूयते निमित्तकुशल इति; पृच्छामि तावदेनमस्याः शिंशपायाः कियन्ति पत्राणि इति; स तेन पृष्टः: आर्य अस्याः शिंशपायाः कियन्ति पत्राणि इति; स कथयति: एतावन्ति शतानि सहस्राणि शतसहस्राणि इत्युक्त्वा प्रक्रान्तः; तेन ब्राह्मणेन कतिपयानि पत्राण्यपनीय गणयित्वा छोरितानि; आयुष्मानानन्दः पिण्डपातमटित्वा प्रतिनिवृत्तः; तेन ब्राह्मणेन भूय उक्तः; आर्य इदानीं जानीष्व अस्याः शिंशपायाः कियन्ति पत्राणि इति; स कथयति: पूर्वमेतावन्ति शतानि सहस्राणि शतसहस्राणि च; अत एतावन्त्यपनीतानि इति उक्त्वा प्रक्रान्तः; स ब्राह्मणः परं विस्मयमापन्नः; ईदृशोऽप्यार्यो गणिते कृतावी इति. भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: किं भदन्त आयुष्मतानन्देन कर्म (इ ५७) कृतं येन निमित्तकुशलो जातः इति; भगवानाह: आनन्देनैव भिक्षवः भिक्षुणा कर्माणि कृतान्युपचितानि पूर्ववद्यावत्फलन्ति खलु देहिनां. ______________________________________________________________ थे स्तोर्योf थे अस्त्रोनोमेर् (अ प्रेविओउस्बिर्थोf आनन्द) भूतपूर्वं भिक्षवो वाराणस्यामन्यतमो ब्राह्मणः, तेन सदृशात्कुलात्कलत्रमानीतं; स तया सार्धं क्रीडति रमते परिचारयति; तस्य क्रीडतो रममाणस्य परिचारयतः पुत्रो जातः; तस्य त्रीणि सप्तकान्येकविंषतिदिवसान् विस्तरेण जातस्य जातिमहं कृत्वा कुलसदृशं नामधेयं व्यवस्थाप्यतं; स उन्नीतो वर्धितो महान् संवृत्तः; तेन देशान्तरं गत्वा षष्टिसहस्रकं होराशास्त्रमधीतम्; एवं यावत्संसारे संसरता पंच जन्मशतानि होराज्ञानमधीतं; परेषां चोपदिष्टं; तेन हेतुना तेन प्रत्ययेन यत्र यत्रोपपन्नः तत्र तत्र (अ ४४६ ) नैमित्तिकानामग्रो जातः; यावदेतर्ह्यपि पश्चिमे भवे नैमित्तिकानामग्रो जातः. ______________________________________________________________ थे स्तोर्योf थे रिचे, थे त्wओ पत्रिद्गेसन्द्थे सुगर्-चने (चोन्चेर्निन्ग्किन्ग्प्रसेनजितन्द प्रेविओउस्बिर्थोf हिम्) राज्ञः प्रसेनजितः कोशलस्य प्रतिदिनं भोजनकाले शाल्योदनं फेलायां निपतति तित्तिरी द्वाविक्षुयष्टिश्च; तयोरेकः फेलायां द्वितीयो भूम्यां; तेनायुष्मत आनन्दस्य निवेदितं; तेन भिक्षूणाम्. भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: किं भदन्त राज्ञा प्रसेनजिता कोशलेन कर्म कृतं येनास्य भोजनवेलायां शाल्योदनं फेलायां निपतति तित्तिरी द्वाविक्षुयष्टिश्च; तयोरेकः फेलायां, द्वितीयो भूम्यां? इति; भगवानाह: राज्ञैव भिक्षवः प्रसेनजिता कोशलेन पूर्वमन्यासु जातिषु कर्माणि कृतान्युपचितानि येनास्य भोजनवेलायां (इ ५८) शाल्योदनं फेलायां निपतति तित्तिरी द्वाविक्षुयष्टिश्च; तयोरेकः फेलायां, द्वितीयो भूम्यां. भूतपूर्वं भिक्षवो वाराणस्यां नगर्यामन्यतमो गृहपतिः प्रतिवसत्याढ्यो महाधनो महाभोगः; तस्य परिचारकैः क्र्षिग्रामान्नवशालिरानीतः; द्वे तित्तिरी इक्षुषष्टिश्च; असति बुद्धानामुत्पादे प्रत्येकबुद्धा लोक उत्पद्यन्ते हीनदीनानुकम्पकाः प्रान्तशयनासनभक्ताः एकदक्षिणीया लोकस्य; अन्यतमः प्रत्येकबुद्धो वाराणसीमनुप्राप्तः; स पूर्वाह्णे निवास्य पात्रचीवरमादाय पिण्डपातमटंस्तस्य गृहपतेर्निवेशनं प्रविष्टः; स तेन दृष्टः कायप्रासादिकः चित्तप्रासादिकश्च; तेन तस्मै तत्प्रथमतो नवान्नमानेतव्यमिति कृत्वा शाल्योदनमिक्षुयष्टिस्तित्तिरिद्वयं दत्तं; तत्रैकः पात्रे निपतितो द्वितीयो भूम्यां. भगवानाह: किं मन्यध्वे भिक्षवः? योऽसौ गृहपतिरेष एवासौ राजा प्रसेनजित्कोशालस्तेन कालेन तेन समयेन; यदनेन प्रत्येकबुद्धाय नवं शाल्योदनमिक्षुयष्टिस्तित्तिरिद्वयं च दत्तं तेन कर्मणा बहूनि वर्षाणी बहूनि वर्षशतानि बहूनि वर्षशतसहस्राणि दिव्यमानुषं सौख्यमनुभूतम्; एतर्ह्यप्यस्य भोजनवेलायां शाल्योदनमिक्षुयष्टिस्तित्तिरिद्वयमेकः फेलायां पतति द्वितीयो भूम्यां. राज्ञा प्रसेनजिता कोशलेन श्रुतं: मम भगवता एवं कर्मप्लोतिर्व्याकृता; तदयं प्राक्तनस्य कर्मणः फलविपाक इति विदित्वा भगवति सश्रावकसंघे प्रसन्नः; स चैवं कर्मविपाकावर्जितमतिस्तिष्ठति; नैमित्तिकेन च व्याकृतमार्यानन्दस्य पट्टबन्धो भविष्यति इति; यावत्प्रभातायां रजन्यामायुष्मत आनन्दस्य ललाटे पिटको जातः; राज्ञा प्रसेनजिता कोशलेन श्रुतं; तस्यैतदभवत्; भवति दक्षिणीयेषु कारान् कृत्वा अवन्ध्यपुण्यफलविशेषः; यन्न्वहमस्य स्वयमेवोपस्थानं कूर्यामिति; तेन सर्ववैद्या आहूतः: आर्यानन्दस्य चिकित्सां कुरुत इति; ते तस्य चिकित्सां कर्तुमारब्धाः; राज्ञा प्रसेनजिता कोशलेन आयुष्मत आनन्दस्य स्वयमेव शतशलाकं छत्रं धारितं; शिरायां च मुक्तायां ललाटे (अ ४४६ ) पट्टो बद्धः. (इ ५९) भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: किं भदन्तायुष्मतानन्देन कर्म कृतं यस्य कर्मणो विपाकेन राज्ञा प्रसेनजिता कोशलेन मूर्ध्नि शतशलाकं छत्रं धारितं स्वयमेव शुक्लपट्टो बद्धः उपस्थानं च कृतमिति; भगवानाह: आनन्देनैव भिक्षवः भिक्षुणा पूर्वमन्यासु जातिषु कर्माणि कृतान्युपचितानि पूर्ववद्यावत्फलन्ति खलु देहिनां. ______________________________________________________________ थे स्तोर्योf थे फ्य्सिचिअन् (अ प्रेविओउस्बिर्थोf आनन्द) भूतपूर्वं भिक्षवो वाराणस्यामन्यतमो वैद्यः प्रतिवसति; तस्य समीपे प्रत्येकबुद्धो ग्लान उपसंक्रान्तः; स तेन सर्वोपकरणैः प्रवारितः; स्वयमेव चिकित्सा कृता उपस्थानं च. किं मन्यध्वे भिक्षवः? योऽसौ वैद्य एष एवासौ आननदभिक्षुः तेन कालेन तेन समयेन; यदनेन प्रत्येकबुद्धाय कारान् कृत्वा प्रणिधानं कृतं तस्य कर्मणो विपाकेन अनेकानि वर्षाणि वर्षशतानि वर्षसहस्राणि राजामात्यब्राह्मणगृहपतिभिरस्योपस्थानं कृतं; यावदेतर्ह्यस्य राज्ञा प्रसेनजिता कोशलेन शतिशलाकं छत्रं धारितं; स्वयं चोपस्थानं कृतमिति. ______________________________________________________________ थे बुद्ध छोओसेसानन्द अस्सेर्वन्त् अथ भगवान् यथाभिरम्यं श्रावस्त्यां विहरति; येन शाला तेन चारिकां <चरन्> प्रक्रान्तः; अनुपूर्वेण चारिकां चरन् शालामनुप्राप्त्ः; शालायां विहरति ब्राह्मणग्रामके; तेन खलु समयेन एवंरूपा संबहुला स्थविरस्थविरा महाश्रावका भगवतः सामन्तकमुपनिश्रित्य विहरन्त्यरण्यकुटिकाया<ं>, तद्यथा आयुष्मानाज्ञातकौण्डिन्यः, आयुष्मानश्वजिद्भद्रिकः बाष्पः महानामा यशा पूर्णः विमलः गवाम्पतिः सुबाहुः आयुष्मान् शारिपुत्रः आयुष्मान्महामौद्गल्यायनः आयुष्मान्महाकाश्यपः (इ ६०) आयुष्मान्महाकौष्ठिलः आयुष्मान्महाकप्फिनः आयुष्माननिरुद्धः नन्दिकः किम्पिलः यशा शालाविहरीयकस्थविरः पूर्णः कुण्डोपधानीयकस्थविर इतीमे चान्ये च स्थविरस्थविरा महाश्रावका भगवतः सामन्तकमुपनिश्रित्य विहरन्ति. तत्र भगवान् भिक्षूनामन्त्रयते स्म: अहमस्मि भिक्षवः एतर्हि जीर्णो वृद्धो महल्लकः, क्लाम्यामि चतस्रः पर्षदोऽववदितुं भिक्षून् भिक्षुणीः उपासिकानुपासिक्यः; उत्साहयत मे भिक्षवो भिक्षुमुपस्थायकं यो मामुपस्थानं करिष्यति मनापेन नामनापेन, भाषितं चोद्ग्रहीष्यति, स्वमर्थं च न रिंचिष्यति; अथायुष्मानाज्ञातकौण्डिन्य उत्थायासनादेकांशमुत्तरासङ्गं कृत्वा येन भगवांस्तेनाञ्जलिं प्रणमय्य भगवन्तमिदमवोचत्*: अहं भदन्तमुपस्थास्यामि मनापेन नामनापेन, भाषितं चोद्ग्रहीष्यामि, स्वं चार्थं न रिंचिष्यामि; त्वं तावत्कौण्डिन्य जीर्णो वृद्धो महल्लकः; तवैव तावदुपस्थायकेन करणीयं; निषीद त्वं कौण्डिन्य यथास्वके आसने; निषण्ण आयुष्मान् (अ ४४७ ) आज्ञातकौण्डिन्यो यथास्वके आसने; अथायुष्मानश्वजिद्भद्रिकः बाष्पः महानामा यशा पूर्णः विमलः गवंपतिः सुबाहुः आयुष्मान् शारिपुत्रः आयुष्मान्महामौद्गल्यायनः आयुष्मान्महाकाश्यपः आयुष्मान्महाकौष्ठिलः आयुष्मान्महाकप्फिनः आयुष्माननिरुद्धः नन्दिकः किंपिलः यशा शालाविहारीयकस्थविरः पूर्णः कुण्डोपधानीयकस्थविर उत्थायासनादेकांशमुत्तरासङ्गं कृत्वा येन भगवांस्तेनाञ्जलिं प्रणमय्य भगवन्तमिदमवोचन्*: अहं भदन्तं भगवन्तमुपस्थास्यामि मनापेन नामनापेन, भाषितं चोद्ग्रहीष्यामि, स्वं चार्थं न रिंचिष्यामि; त्वमपि पूर्णो जीर्णो वृद्धो महल्लकः; तवैव तावदुपस्थायकेन करणीयं; निषीद त्वं पूर्ण यथास्वके आसने; निषण्ण आयुष्मान् पूर्णो यथास्वके आसने. अथायुष्मतो महामौद्गल्यायनस्यैतदभवत्*: कः पुनर्भगवतो भिक्षुरभिप्रेत उपस्थायको भविष्यति? यन्न्वहं तद्रूपं समाधिं समापद्येयं यथा समाहिते चित्ते भगवतो मानसम् (इ ६१) अवलोकयेयम्; अथायुष्मान्महामौद्गल्यायनस्तद्रूपं समाधिं समापन्नो यथा समाहिते चित्ते भगवतः मानसमवलोकयति; अद्राक्षीदायुष्मान्महामौद्गल्यायनो भगवतो मानसमायुष्मत्यानन्दे प्रतिष्ठितमानन्दो मे भिक्षुरुपस्थास्यति मनापेन नामनापेन, भाषितं चोद्ग्रहीष्यति, स्वं चार्थं न रिंचिष्यति; दृष्ट्वा च पुनस्तस्मात्समाधेर्व्युत्थायायुष्मन्तं शारिपुत्रमिदमवोचत्*: यत्खलु आयुष्मन् जानीयाः भगवतो मानसमायुष्मत्यानन्दे प्रतिष्ठितमानन्दो मे भिक्षुरुपस्थास्यति मनापेन नामनापेन, भाषितं चोद्ग्रहीष्यति, स्वं चार्थं न रिंचिष्यति; तद्यथा कूटागारे वा कूटागारशालायां वा उत्तरायतायां प्राचीनायतायां पूर्वेण वातायनेन सूर्यरश्मयः प्रविष्य पश्चिमां भित्तिं निश्रित्य तिष्ठेयुः; एवमेव भगवतो मानसमायुष्मत्यानन्दे प्रतिष्ठितमानन्दो मे भिक्षुरुपस्थास्यति मनापेन नामनापेन, भाषितं चोद्ग्रहीष्यति, स्वं चार्थं न रिंचिष्यति; एहि गत्वा उत्साहयावः. अथायुष्मान् छारिपुत्र आयुष्मां च महामौद्गल्यायनो येनायुष्मानानन्दस्तेनोपसंक्रान्तौ; उपसंक्रम्यायुष्मता आनन्देन सार्धं संमुखं संमोदनीं संरञ्जनीं विविधां कथां व्यतिसार्य एकान्ते निषण्णौ; एकान्तनिषण्णावायुष्मत्शारिपुत्रमौद्गल्यायनौ; आयुष्मान् शारिपुत्र आयुष्मन्तमानन्दमिदमवोचत्: उत्सह त्वमायुष्मनानन्द भगवन्तमुपस्थातुं, महर्द्धिका ते भविष्यति सुगतपरिचर्या; नाहमायुष्मन् शारिपुत्र उत्सहे भगवन्तमुपस्थातुं; तत्कस्य हेतोः; दुरासदा हि बुद्धा भगवन्तो दुष्प्रसहाः; तद्यथा अग्निः प्रज्वलितो दुरासदो भवति दुष्प्रसहो यदुतार्चिरन्तरिकया, एवमेव दुरासदा बुद्धा भगवन्तो दुष्प्रसहाः; नाहमुत्सहे भगवन्तमुपस्थातुं; तद्यथा सिंहो मृगराजा (अ ४४७ ) गिरिगुहागतो दुरासदो भवति दुष्प्रसहो यदुत दंष्ट्रान्तरिकया, एवमेव दुरासदा बुद्धा भगवन्तो दुष्प्रसहाः; तद्यथा राज्ञो नागो मत्तो मातङ्गः कुञ्जरः षष्टिहायन ईषादन्तो व्यूढोरस्कः संग्रामावचरः संग्राममध्यगतो दुरासदो भवति दुष्प्रसहो यदुत दन्तान्तरिकया, एवमेव दुरासदा बुद्धा भगवन्तो दुष्प्रसहाः; नाहमायुष्मन् शारिपुत्र उत्सहे भगवन्तमुपस्थातुं. (इ ६२) अथायुष्मान्महामौद्गल्यायन आयुष्मन्तमानन्दमिदमवोचत्: यत्खलु आयुष्मन् जानीयः भगवतो मानसमायुष्मत्यानन्दे प्रतिष्ठितमानन्दो मे भिक्षुरुपस्थास्यति मनापेन नामनापेन, भाषितं चोद्ग्रहीष्यति, स्वं चार्थं न रिंचिष्यति; तद्यथा कूटागारे वा कूटागारशालायां वा उत्तरायतायां प्राचीनायतायां पूर्वेण वातायनेन सूर्यरश्मयः प्रविष्य पश्चिमां भित्तिं निश्रित्य तिष्ठेयुः; एवमेव भगवतो मानसमायुष्मत्यानन्दे प्रतिष्ठितमानन्दो मे भिक्षुरुपस्थास्यति मनापेन नामनापेन, भाषितं चोद्ग्रहीष्यति, स्वं चार्थं न रिंचिष्यति; उत्सह त्वमायुष्मनानन्द भगवन्तमुपस्थातुं, महर्द्धिका ते भविष्यति सुगतपरिचर्या; एवमहमायुष्मान्महामौद्गल्यायन उतसहे भगवन्तमुपस्थातुं सचेन्मे भगवान् त्रीन् वरान् दद्यात्, नाहं भगवतो निर्वसनं चीवरं धारयेयं; नाहं भगवतः पौद्गलिकं निमन्त्रणं स्वीकूर्यां; न च मे कश्चिदकालः स्याद्भगवन्तं दर्शनायोपसंक्रमितुं पर्युपासनाय; सचेन्मे आयुष्मन्महामौद्गल्यायन भगवानिमान् त्रीन् वरां दद्यात्, एवमहमुत्सहे भगवन्तमुपस्थातुं, नान्यथा. अथायुष्मान्महामौद्गल्यायन आयुष्मान् शारिपुत्र आयुष्मन्तमानन्दं भगवत उपस्थायकमुत्साह्य येन भगवांस्तेनोपसंक्रान्तौ; उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वैकान्ते निषण्णौ; एकान्तनिषण्णो आयुष्मान्महामौद्गल्यायनो भगवन्तमिदमवोचत्*: उत्साहित आवाभ्यं भदन्त भिक्षुर्भगवत उपस्थायको यदुतायुष्मानानन्द; स एवमाह: सचेन्मे आयुष्मन्महामौद्गल्यायन भगवांस्त्रीन् वरान् दद्यादेवमहमुत्सहे भगवन्तमुपस्थातुं; नाहं भगवतो निर्वसनं चीवरं धारयेयं, नाहं भगवतः पौद्गलिकं निमन्त्रणं स्वीकूर्यां; न च मे कश्चिदकालः स्याद्भगवन्तं दर्शनायोपसंक्रमितुं पर्युपासनाय; सचेद्भगवानिमान् त्रीन् वरान् दद्यात्, एवमहमुत्सहे भगवन्तमुपस्थातुं; साधु साधु मौद्गल्यायन पण्डित आनन्दो भिक्षुः; स पश्यत्यनागतं (इ ६३) सब्रह्मचारिणामन्तिकाद्वादानुवादं गर्हस्थानीयं धर्मं; स्युर्मे अतोनिदानं सब्रह्मचारिणो वक्तारः, चीवरहेतोरानन्दो भिक्षुः शास्तारमुपतिष्ठति; मौद्गल्यायन आनन्दस्य भिक्षोराश्चर्याद्भुतो धर्मः; साधु साधु मौद्गल्यायन पण्डित आनन्दो भिक्षुः; स पश्यत्यनागतं सब्रह्मचारिणामन्तिकाद्वादानुवादं गर्हस्थानीयं धर्मं; स्युर्मे अतोनिदानं सब्रह्मचारिणो वक्तारः, (अ ४४८ ) पिण्डपातहेतोरानन्दो भिक्षुः शास्तारमुपतिष्ठति; साधु साधु मौद्गल्यायन पण्डित आनन्दो भिक्षुः कालज्ञः कालवित्*; स कालं ज्ञास्यत्ययं मे कालो भगवन्तं दर्शनयोपसंक्रमितुम्, अयमकालः; अयं कालो भिक्षुसंघस्य भिक्षुणीसंघस्य उपासकपर्षदः उपासिकापर्षदः अयं कालोऽन्यतीर्थिकपरिव्राजकानां दर्शनयोपसंक्रमितुम्, अयमकालः; अमी अन्यतीर्थिकपरिव्राजिका भगवतः कथाप्रातिभानिका अमी न कथाप्रातिभानिकाः; इदं खादनीयभोजनीयं भगवतः सुखोपचयाय संवर्तेत, इदं न सौखोपचयाय; मौद्गल्यायन पण्डित आनन्दो भिक्षुः कालज्ञः कालवित्; स कालं ज्ञास्यति अयं मे कालो भगवन्तं दर्शनयोपसंक्रमितुम्, अयमकालः; अयं कालो भिक्षुसंघस्य भिक्षुणीसंघस्योपासकपर्षदः उपासिकापर्षदः अयं कालोऽन्यतीर्थिकपरिव्राजकानां भगवन्तं दर्शनयोपसंक्रमितुम्, अयमकालः; अमी अन्यतीर्थिकपरिव्राजिका भगवतः कथाप्रातिभानिका अमी न कथाप्रातिभानिकाः; इदं खादनीयभोजनीयं भगवतः सुखोपचयाय संवर्तेत, इदं न सौखोपचयाय; अयं मौद्गल्यायन आनन्दस्य भिक्षोराश्चर्याद्भुतो धर्मः; साधु साधु मौद्गल्यायन पण्डित आनन्दो भिक्षुः; स चेतःपर्यायकुशलः; एवं संज्ञास्यति तथागतं सायाह्ने प्रतिसंलयनाद्व्युत्थितं निमित्तेन वा परिकथया वा आदेष्टुम्; अनेन चानेन च सुखविहारेण भगवान् बहुलं व्याहार्षीद्; अनेन चानेन च सुखविहारेण सुगतो बहुलं व्याहार्षीद्; यच्च यदा आदेक्ष्यति तत्सर्वं तथैव भविष्यति, नान्यथा; अयं मौद्गल्यायन आनन्दस्य भिक्षोराश्चर्याद्भुतो धर्मः; स तथागतमुपस्थास्यति मनापेन नामनापेन, भाषितं चोद्ग्रहीष्यति, स्वं चार्थं न रिंचिष्यति; यन्मौद्गल्यायनानन्दो भिक्षुः तथागतमुपस्थास्यति मनापेन नामनापेन, (इ ६४) भाषितं चोद्ग्रहीष्यति, स्वं चार्थं न रिंचिष्यति, अयमानन्दस्य भिक्षोः आश्चर्याद्भुतो धर्मः. यदायुष्मद्भ्यां शारिपुत्रमौद्गल्यायनाभ्यामायुष्मानानन्दो भगवत उपस्थायक उत्साहितः, भगवता चानुवर्णितः, तदा भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: किं भदन्त आयुष्मता आनन्देन कर्म कृतं यस्य कर्मणो विपाकेन भगवतो भ्राता संवृत्तः, उपस्थायको, बहुश्रुतः., श्रुतधरः, श्रुतसन्निचय इति; भगवानाह: आनन्देनैव भिक्षवः भिक्षुणा कर्माणि कृतान्युपचितानि पूर्ववद्यावत्फलन्ति खलु देहिनां. ______________________________________________________________ थे स्तोर्योf भानुमानन्द्भानुमन्तः (चोन्चेर्निन्ग प्रेविओउस्बिर्थोf आनन्द) भूतपूर्वं भिक्षवो वाराणस्यां नगर्यां भानुर्नाम राजा राज्यं कारयति ऋद्धं च यावदाकीर्णबहुजनमनुष्यं च; स देव्या सार्धं क्रीडति रमते परिचारयति; तस्य क्रीडतो रममाणस्य परिचारयतः पुत्रो जातः; तस्य जातौ जातिमहं कृत्वा नामधेयं व्यवस्थाप्यते, किं भवतु दारकस्य नामेति; अमात्याः कथयन्ति; (अ ४४८ ) पितास्य भानुः, तस्माद्भवतु दारकस्य भानुमानिति नाम; तस्य भानुमानिति नाम कृतं; स उन्नीतो वर्धितो महान् संवृत्तः; पित्रा यौवराज्येऽभिषिक्तः; भूयोऽप्यस्य क्रीडतो रममाणस्य परिचारयतः पुत्रो जातः; तस्यापि जातौ जातिमहं कृत्वा भानुमन्त इति नाम कृतं; भानुमान् कुमारो नैष्क्रम्याभिनन्दी; स पितरं पश्यति धर्माधर्मेण राज्यं कारयन्तं; स संलक्षयति; अहमपि पितुरत्ययाद्राजा भविष्यामि; अहमपि धर्माधर्मेण राज्यं कारयित्वा नरकपरायणो भविष्यामि इति; स पितुः सकाशमुपसंक्रान्तः पादयोर्निपत्य कथयति: देव अनुजानीहि प्रव्रजामि इति; स कथयति: पुत्र यस्यार्थे यज्ञा इज्यन्ते होमा हूयन्ते तपांसि तप्यन्ते तत्तव करतलगतं राज्यं; कस्यार्थे प्रव्रजसि इति; स निवार्यमाणोऽपि नावतिष्ठते; राज्ञा अवश्यनिर्बन्धं ज्ञात्वा अनुज्ञातः; स ऋषीणां मध्ये प्रव्रजितः; राज्ञा भानुमन्तः कुमारो यौवराज्ये अभिषिक्तः; भानुमता ऋषिमध्ये प्रव्रजितेन एकान्ते प्रक्रम्य अनाचार्यकेण अनुपाध्यायकेन प्रत्येकबोधिः साक्षात्कृता; सोऽपरेण समयेन ग्लानः संवृत्तः; स इतश्चानुतश्च परिभ्रमन् वाराणसीमनुप्राप्तः; राज्ञा श्रुतं; भानुमता (इ ६५) प्रत्येकबोधिः साक्षात्कृता, स चेह इति; स तस्य सकाशमुपसंक्रान्तः पादयोर्निपत्य कथयति: महर्षे त्वं पिण्डकेनार्थी, अहं पुण्येन; इहैव मदीये उद्याने प्रतिवस; अहं ते सर्वोपकरणैर्वैघातं करोमि इति; तेनाधिवासितं; राज्ञा तस्य भानुमन्तः कुमारः उपस्थायको दत्तः; स तस्योपस्थानं कर्तुं प्रवृत्तः; प्रत्येकबुद्धेन तस्य अल्पलक्षणं दृष्टं, सप्ताहस्यात्ययात्कालं करिष्यतीति; स तेनोक्तः: भ्रातः किमर्थं न प्रव्रजसि? इति; स कथयति: महर्षे प्रव्रजामि; यद्येवं गच्छ, पितरमवलोक्य; स राज्ञः सकाशं गतः; देव अनुजानीहि मां, प्रव्रजामि; राजा कथयति: तव भ्राता प्रव्रजितः; ममात्ययात्त्वमेव राजा; किमर्थं प्रव्रजसि इति; स न लभते प्रव्रज्यां; स प्रत्येकबुद्धः स्वयमेव राज्ञः सकाशमुपसंक्रान्तः; उपसंक्रम्य गाथया कथयति: मुञ्च भानो भानुमन्तं प्रव्राजयति भानुमान् । प्रव्रज्या श्रेयसि भानो यस्मात्संवर्णिता जिनैः ॥ इति; राजा कथयति: महर्षे त्वं प्रव्रजितः; एष ममात्ययाद्राजा भविष्यति; इहैव दानानि दास्यति; पुण्यानि करिष्यति; किमर्थं प्रव्रजति इति; प्रत्येकबुद्धो गाथां भाषते: अन्यथा चिन्तिता ह्यर्था अन्यथा परिवर्तिताः । अल्पकं जीवितं भानो परं सप्ताहमेव तु ॥ महर्षे अस्य सप्ताहं जीवितं? प्रत्येकबुद्धः कथयति, सप्ताहं; राजा कथयति: महर्षे यद्येवमनुज्ञातो भवतु; प्रव्राजय; स आत्मनः अल्पकं जीवितं ज्ञात्वा तीव्रेण प्रसादेन तस्योपस्थानं कर्तुमारब्धः; स प्रत्येकबुद्धो व्यावाबाधिकः; तस्य पात्रं करतले हृहीत्वा भुंजानस्य वायुना हस्तः कम्पते; ततस्तेन राजकुमारेण कटकमवतार्य पात्रस्य (अ ४४९ ) आधारको दत्तः; तत्पात्रं निश्चलं स्थितं; स तं दृष्ट्वा प्रणिधानं कर्तुमारब्धः: यथैतत्पात्रं निश्चलं, एवं ममानेन (इ ६६) कुशलमूलेन ये धर्मसन्ताने प्रविशेयुः ते निश्चला अवतिष्ठेयुः इति; स तस्य पूर्वं परिमण्डलैः पदव्यञ्जनैर्धर्मं देशयति; स कथयति: त्वं पूर्वमागारिकभूतः परिमण्डलपरिमण्डलैः पदैर्व्यञ्जनैर्धर्मं देशयसि; इदानीं त्वया प्रत्येकबोधिः साक्षात्कृता; किमर्थं न देशयसि इति; स कथयति: नाहं देशयामि; अर्थो को देशयति? ये ते तथागता अर्हन्तः सम्यक्संबुद्धाः ते बुद्धा भगवन्तः परिमण्डलपरिमण्डलैः पदव्यञ्जनैर्धर्मं देशयन्ति इति; तेन प्रणिधानं कृतं; योऽसौ बुद्धो भगवान् परिमण्डलपरिमण्डलैः पदव्यञ्जनैर्धर्मं देशयति, तस्याहं भ्राता स्यामुपस्थायकश्च; स तेन प्रत्येकबुद्धेन प्रव्राजितः उक्तश्च: वत्स एतदेव ते मनसि कर्तव्यं मया सप्ताहस्यात्ययात्मर्तव्यमिति; तेन तेन सप्ताहेन न किंचिदधिगतं; स मरणकालसमये प्रणिधानं करोति; अनेनाहं कुशलमूलेन तस्य भगवतस्तथागतस्यार्हतः सम्यक्संबुद्धस्य शासने प्रव्रज्य बहुश्रुतः स्यां, श्रुतधरः, श्रुतसन्निचय इति. किं मन्यध्वे भिक्षवो योऽसौ राजकुमारः प्रत्येकबुद्धस्य भ्राता एष एवासावानन्दो भिक्षुः; यदनेन प्रत्येकबुद्धस्य भ्रातुरुपस्थानं कृत्वा प्रणिधानं कृतं तस्य कर्मणो विपाकेन भगवतो भ्राता संवृत्तः उपस्थायको बहुश्रुतः श्रुतधरः श्रुतसन्निचयश्च. भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: किं भदन्त आयुष्मता आनन्देन कर्म कृतं यस्य कर्मणो विपाकेन भगवता बहुश्रुताणां श्रुतधराणां श्रुतसन्निचयाणामग्रो निर्दिष्ट इति; भगवानाह: आनन्देनैव भिक्षवो भिक्षुणा कर्माणि कृतान्युपचितानि लब्धसंभाराणि पूर्ववद्यावत्फलन्ति खलु देहिनां. ______________________________________________________________ आनन्द इस्थे fओरेमोस्तमोन्ग्थे लेअर्नेद्मोन्क्स् भूतपूर्वं भिक्षवोऽस्मिन्नेव भद्रके कल्पे विंशतिवर्षशतायुषि प्रजायां काश्यपो नाम सम्यक्संबुद्धो लोक उदपादि, विद्याचरणसंपन्नः यावद्बुद्धो भगवान्; स वाराणसीं नगरीम् (इ ६७) उपनिश्रित्य विहरति ऋषिवदने मृगदावे; तस्यायं प्रवचने प्रव्रजितः; तत्रानेन न कश्चिद्गुणगणोऽधिगतः; यस्य सकाशे प्रव्रजितः भगवता काश्यपेन बहुश्रुतानां श्रुतधराणां श्रुतसन्निचयानामग्रो व्याकृतः; स मरणकालसमये प्रणिधानं करोति: यन्मया भगवति काश्यपे सम्यक्संबुद्धे अनुत्तरे दक्षिणीये यावदायुर्ब्रह्मचर्यं चरितं, न कश्चिद्गुणगणोऽधिगतः; अनेनाहं कुशलमूलेन योऽसौ भगवता काश्यपेन सम्यक्संबुद्धेन उत्तरो माणवो व्याकृतः, भविष्यसि त्वं माणव वर्षशतायुषि प्रजायां शाक्यमुनिर्नाम तथागतोऽर्हन् सम्यक्संबुद्ध इति; तस्याहं प्रवचने प्रव्रज्य सर्वक्लेशप्रहाणादर्हत्वं साक्षात्कुर्याम्; यथा च मे उपाध्यायो भगवता काश्यपेन सम्यक्संबुद्धेन बहुधाराणाम् (अ ४४९ ) श्रुतधराणां श्रुतसन्निचयाणामग्रो व्याकृतः; एवं मामपि स भगवान् शाक्यमुनिर्शाक्याधिराज बहुश्रुतानां श्रुतधराणां श्रुतसन्निचयानामग्रं व्याकुर्याद्; इति हि भिक्षवः एकान्तकृष्णानामिति यावदित्येवं वो भिक्षवः शिक्षितव्यम्. उद्दानं: ऋद्धिः शास्ता तृका वक्ता चण्डालेनायं गया । यस्य चैते पराध्यन्ति सत्वश्राणाश्च कुक्कुराः ॥ (इ ६८) ______________________________________________________________ fअमिने इन् राजगृह च्f. मत्सुद, "अ विनय fरग्मेन्तोf थे म्स्व्fरोम्ऽबेन्दल्ल्ऽस्पुकऽ", fएस्त्स्. बेछेर्त्(१९९७) भगवान् राजगृहे विहरति वेनुवने कलन्दकनिवापे; तेन खलु समयेन दुर्भिक्षमभूत्कृच्छ्रः कान्तारो दुर्लभः पिण्डको याचनकेन; तत्र ये भिक्षवः ऋद्धेर्लाभिनस्ते यस्या जम्ब्वा नाम्ना जम्बूद्वीपः प्रज्ञायते ततो वर्णगन्धरसोपेतानां जम्बूपेशीनां पात्रपूरमादाय आत्मना परिभुंजते; सतश्च शेषेण भिक्षून् संविभजन्ते; यद्वा पुनरस्यास्सामन्तकेन बिल्ववनं कपित्थवनमामलकीवनं ततो वर्णगन्धरसोपेतानामामलकपेशीनां पात्रपूरमादाय आत्मना परिभुंजते; शतश्च शेषेण भिक्षून् संविभजन्ते; उत्तरकुरुद्वीपं गत्वा अकृष्टोप्तस्य तण्डुलफलशालेः पात्रपूरमादाय आत्मना परिभुंजते; शतश्च शेषेण भिक्षून् संविभजन्ते; चातुर्महाराजिकान् त्रयस्त्रिंशान् देवान् गत्वा दिव्यायाः सुधायाः पात्रपूरमादाय आत्मना परिभुंजते; शतश्च शेषेण भिक्षून् संविभजन्ते; ये वा ते जनपदाः ऋद्धाश्च यावदाकिर्णबहुजनमनुष्याश्च ततः शुचिनः प्रणीतस्य खादनीयभोजनीयस्य पात्रपूरमादाय आत्मना परिभुंजते; शतश्च शेषेण भिक्षून् संविभजन्ते. ______________________________________________________________ देवदत्त स्त्रिवेस्तो wइन्मगिचल्पोwएर् च्f. मत्सुद, "अ विनय fरग्मेन्तोf थे म्स्व्fरोम्ऽबेन्दल्ल्ऽस्पुकऽ", fएस्त्स्छ्. बेछेर्त्(१९९७) अथ देवदत्तस्य एतदभवत्*: एतर्हि दुर्भिक्षं कृच्छ्रः कान्तारो दुर्लभः पिण्डको याचनकेन; ये भिक्षवः ऋद्धिलाभिनस्ते यस्या जम्ब्वा नाम्ना जम्बूद्वीपः प्रज्ञायते ततो वर्णगन्धरसोपेतानां जम्बूपेशीनां पात्रपूरमादाय आत्मना परिभुंजते; सतश्च शेषेण भिक्षून् संविभजन्ते; यद्वा पुनरस्यास्सामन्तकेन बिल्ववनं कपित्थवनमामलकीवनं ततो वर्णगन्धरसोपेतानामामलकपेशीनां पात्रपूरमादाय आत्मना परिभुंजते; शतश्च शेषेण भिक्षून् संविभजन्ते; उत्तरकुरुद्वीपं गत्वा अकृष्टोप्तस्य तण्डुलफलशालेः पात्रपूरमादाय आत्मना परिभुंजते; शतश्च शेषेण भिक्षून् संविभजन्ते; चातुर्महाराजिकान् त्रयस्त्रिंशान् देवान् गत्वा दिव्यायाः सुधायाः पात्रपूरमादाय आत्मना परिभुंजते; शतश्च शेषेण भिक्षून् संविभजन्ते; ये वा ते जनपदाः ऋद्धाश्च यावदाकिर्णबहुजनमनुष्याश्च ततः शुचिनः प्रणीतस्य खादनीयभोजनीयस्य पात्रपूरमादाय आत्मना परिभुंजते; शतश्च शेषेण भिक्षून् संविभजन्ते; अहमपि यदि ऋद्धेर्लाभी स्यामहमपि यस्या जम्ब्वा नाम्ना जम्बूद्वीपः प्रज्ञायते ततो वर्णगन्धरसोपेतानां जम्बूपेशीनां पात्रपूरमादाय आत्मना परिभुंजीय; सतश्च शेषेण भिक्षून् संविभजन्ते; यद्वा पुनरस्यास्सामन्तकेन बिल्ववनं कपित्थवनमामलकीवनं ततो वर्णगन्धरसोपेतानामामलकपेशीनां पात्रपूरमादाय आत्मना परिभुंजते; शतश्च शेषेण भिक्षून् संविभजन्ते; उत्तरकुरुद्वीपं गत्वा अकृष्टोप्तस्य तण्डुलफलशालेः पात्रपूरमादाय आत्मना परिभुंजते; शतश्च शेषेण भिक्षून् संविभजन्ते; चातुर्महाराजिकान् त्रयस्त्रिंशान् देवान् गत्वा दिव्यायाः सुधायाः पात्रपूरमादाय आत्मना परिभुंजते; शतश्च शेषेण भिक्षून् संविभजन्ते; ये वा ते जनपदाः ऋद्धाश्च यावदाकिर्णबहुजनमनुष्याश्च ततः शुचिनः प्रणीतस्य खादनीयभोजनीयस्य पात्रपूरमादाय आत्मना परिभुंजते; शतश्च शेषेण भिक्षून् संविभजन्ते. (अ ४५० ) अथ को नु मे प्रतिलभः स्यादृद्धेर्मार्गं व्यपदेष्टुमिति; अथ देवदत्तो येन भगवांस्तेनोपसंक्रान्तः; उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते अस्थात्*; एकान्तस्थितो देवदत्तो भगवन्तमिदमवोचत्*; व्यपदिशतु मे भगवानृद्धेर्मार्गमिति; अथ भगवान् देवदत्तस्य इदमेवंरूपं पापकमिच्छागतमुत्पन्नं विदित्वा देवदत्तमिदम् (इ ६९) अवोचत्: अधिशीले त्वं गौतम योनिशो मनसि कुरु, ऋद्धिश्च ते भविष्यति, अन्यच्च; अधिचित्ते अधिप्रज्ञे त्वं गौतम योनिशो मनसि कुरु; ऋद्धिश्च ते भविष्यति, अन्यच्च; अथ देवदत्तस्यैतदभवत्: न व्यपदिशति मे भगवानृद्धेर्मार्गमिति विदित्वा प्रक्रान्तः; येन आयुष्मानाज्ञातकौण्डिन्यस्तेनोपसंक्रान्तः; उपसंक्रम्य आयुष्मन्तमाज्ञातकौण्डिन्यमिदमवोचत्: व्यपदिशतु मे स्थविर ऋद्धेर्मार्गं; अथायुष्मानाज्ञातकौण्डिन्यो भगवतो मानसं व्यवलोक्य देवदत्तस्य चेदमेवंरूपं पापकमिच्छागतं विदित्वा देवदत्तमिदमवोचत्: रूपं त्वं देवदत्त योनिशो मनसि कुरु, ऋद्धिश्च ते भविष्यति, अन्यच्च; अथ देवदत्तस्यैतदभवत्: स्थविरोऽपि मे कौण्डिन्यो न व्यपदिशति ऋद्धेर्मार्गमिति विदित्वा आयुष्मानश्वजिद्भद्रिको बाष्पो महानामा पूर्णो विमलो गवंपतिः सुबाहुर्येन पंच स्थविरशतानि तेनोपसंक्रान्तः; उपसंक्रम्य पंच स्थविरशतानि इदमवोचत्: व्यपदिशन्तु मे स्थविरा ऋद्धेर्मार्गं; अथ पंच स्थविरशतानि भगवतो मानसं व्यवलोक्य स्थविरस्थविराणां च भिक्षूणां देवदत्तस्य चेदमेवंरूपं पापकमिच्छागतं विदित्वा देवदत्तमिदमवोचत्: रूपं त्वं देवदत्त योनिशो मनसि कुरु, ऋद्धिश्च ते भविष्यति, अन्यच्च; वेदनासंज्ञासंस्कारान् विज्ञानं त्वं देवदत्त योनिशो मनसि कुरु, ऋद्धिश्च ते भविष्यति, अन्यच्च; अथ देवदत्तस्यैतदभवत्: पंचापि स्थविरशतानि ऋद्धेर्मार्गं न व्यपदिशन्ति; किं पुनरेभिरायुष्मद्भिर्भगवता सार्धं पुर्वमेव सङ्गीतं भविष्यति? तथा हि मे न कश्चिद्व्यपदिशन्ति ऋद्धेर्मार्गं; अथ देवदत्तस्यैतदभवत्*: अथ को नु मे प्रतिबलः स्यादृद्धेर्मार्गं व्यपदेष्टुं? ______________________________________________________________ दशबलकाश्यप तेअछेस्तो देवदत्त थे wअय्तो ओब्तैन्मगिचल्पोwएर् च्f. मत्सुद, "अ विनय fरग्मेन्तोf थे म्स्व्fरोम्ऽबेन्दल्ल्ऽस्पुकऽ", fएस्त्स्छ्. बेछेर्त्(१९९७) तेन खलु समयेन आयुष्मान् दशबलकाश्यपो राहगृहे विहरति सेनिकागुहायं (अ ४५० ) अथ देवदत्तस्यैतदभवत्*: अयं स्थविरो दशबलकाश्यपो दीर्घरात्रमशठ अमायावी; ऋजुकऋजुकजातीयो भ्रातृसालोहितस्य च मे नन्दस्य उपाध्यायो भवति; प्रतिबलश्च मे स्थविरो दशबलकाश्यपः ऋद्धेर्मार्गं व्यपदेष्टुमिति विदित्वा येनायुष्मान् दशबलकाश्यपस्तेन उपसंक्रान्तः; उपसंक्रम्य (इ ७०) आयुष्मतो दशबलकाश्यपस्य पादौ शिरसा वन्दित्वा एकान्ते अस्थात्*; एकान्तस्थितो देवदत्तः आयुष्मन्तं दशबलकाश्यपमिदमवोचत्*: व्यपदिशतु मे स्थविरो ऋद्धेर्मार्गं; अथायुष्मान् दशबलकाश्यपः भगवतो मानसमव्यवलोक्य स्थविरस्थविराणां च भिक्षूणां देवदत्तस्य चेदमेवंरूपं पापकमिच्छागतमुत्पन्नमित्यविदित्वा ऋद्धेर्मार्गं व्यपदिशति; तत्र देवदत्तेन पूर्वरात्रापररात्रं जागरिकायोगमनुयुक्तेन विहरता प्रथमं ध्यानं निश्रित्य ऋद्धिरभिनिर्हृता; स एको भूत्वा बहुधा भवति; बहुधा भूत्वा एकीभवति: आविर्भावतिरोभावं ज्ञानदर्शनेन प्रत्यनुभवति; तिरःकुड्यं तिरःशैलं तिरःप्राकारमसज्जमानेन कायेन गच्छति तद्यथा आकाशे; पृथिव्यामुन्मज्जननिमज्जनं करोति तद्यथा उदके; उदकेऽप्यभिन्नस्रोतो गच्छति तद्यथा पृथिव्याम्; आकाशे पर्यङ्केन क्रामति तद्यथा पक्षी शकुनकः इमौ वा सूर्याचन्द्रमसौ एवंमहर्धिकावेवंमहानुभावौ पाणिना आमार्ष्टि परिमार्ष्टि. अथ देवदत्तस्यैतदभवत्*: किं पुनर्मे यस्या जम्ब्वा नाम्ना जम्बूद्वीपः प्रज्ञायते ततो वर्णगन्धरसोपेतानां जम्बूपेशीनां पात्रपूरमादाय आत्मना परिभोक्तुं? सतश्च भिक्षून् शेषेण संविभक्तुं? यद्वा पुनरस्यास्सामन्तकेन बिल्ववनं कपित्थवनमामलकीवनं ततो वर्णगन्धरसोपेतानामामलकपेशीनां पात्रपूरमादाय आत्मना परिभोक्तुं? शतश्च भिक्षून् शेषेण संविभक्तुं? उत्तरकुरुद्वीपं गत्वा अकृष्टोप्तस्य तण्डुलफलशालेः पात्रपूरमादाय आत्मना परिभोक्तुं? शतश्च भिक्षून् शेषेण संविभक्तुं? चातुर्महाराजिकान् त्रयस्त्रिंशान् च देवान् गत्वा दिव्यायाः सुधायाः पात्रपूरमादाय आत्मना परिभोक्तुं? शतश्च भिक्षून् शेषेण संविभक्तुं? ये वा ते जनपदा ऋद्धाश्च यावदाकिर्णबहुजनमनुष्याश्च ततः शुचिनः प्रणीतस्य खादनीयभोजनीयस्य पात्रपूरमादाय आत्मना परिभोक्तुं? शतश्च भिक्षून् शेषेण संविभक्तुं? ______________________________________________________________ देवदत्त सेदुचेस्प्रिन्चे अजातशत्रु अथ देवदत्तस्यैतदभवत्*: किं पुनरहमस्मिन्मगधक्षेत्रे प्रधानपुरुषमन्वावर्तयेयं: यस्मिन्नन्वावृत्ते (इ ७१) अकृच्छ्रेण महाजनकायोऽन्वावर्तेत; अथ देवदत्तस्यैतेअदभवत्*: अयमजातशत्रुः कुमारः पितुरत्ययात्पैत्र्यराज्यैश्वर्याधिपत्ये प्रतिष्ठास्यति; यन्न्वहमजातशत्रुमन्वावर्तयेयं; यस्मिन्मे अन्वावृत्ते अल्पकृच्छ्रेण महाजनकायोऽन्वावर्तिष्यते; अथ देवदत्तः अभिजातो हस्त्याजानेयो भूत्वा अजातशत्रोः कुमारस्य (अ ४५१ ) निवेशनमपद्वारेण प्रविश्य द्वारेण प्रतिनिष्क्रामति; द्वारेण प्रविश्य अपद्वारेण प्रतिनिष्क्रामति अभिजातः अश्वाजानेयः भिक्षुरपि मुण्डः सङ्घाटीप्रावृतः; दह्रोऽपीदानीं कुमारः सुवर्णमेखलाधारी भूत्वा अजातशत्रोः कुमारस्य उत्सङ्गे आवर्तते; परिवर्तते संवर्तते; अजातशत्रुरपि एनं कुमारमालिङ्गति चुम्बति परिष्वजति; अपीदानीं खेटपिण्डमप्यास्ये प्रक्षिपति; तदपि देवदत्तोऽभ्यवहरति यथापितल्लाभसत्कारेण अभिभूतः पर्यादत्तचित्तः इति; तत्राजातशत्रुः कुमारो भूयस्या मात्रया पापकं दृष्टिगतं प्रतिलब्धवान्: महर्धिकतरो बतार्यो देवदत्तः शास्तुरन्तिकात्* इति; प्रसन्नश्चास्य प्रसन्नाधिकारमकार्षीत्; पंचमात्रै रथशतैः सार्धं सायं च प्रातश्च उपस्थानकरो निर्याति; पंचमात्राणि चास्य स्थालीपाकशतानि भक्ताभिसारे भक्ताभिसारे उपसंहरति; देवदत्तोऽपि पंचमात्रैर्भिक्षुशतैर्भक्ताग्र उपनिषीदति. ______________________________________________________________ थे गिfत्सन्धोनोउर्सोf अजातशत्रु इन्fअतुअते देवदत्त अन्धिस्मगिचल्पोwएर्स्लेअवे हिमेन्तिरेल्य् अथ संबहुला भिक्षवः पूर्वाह्णे निवास्य पात्रचीवरमादाय राजगृहं पिण्डाय प्राविक्षन्; अश्रौषुः संबहुला भिक्षवः राजगृहं पिण्डाय चरन्तः; देवदत्तस्य अयमेवंरूपो लाभसत्कार उदपादि; राजास्य मागधः अजातशत्रुः वैदेहीपुत्रः पंचमात्रै रथशतैः सार्धं सायं च प्रातश्च उपस्थानकरो निर्याति; पंचमात्राणि चास्य स्थालीपाकशतानि भक्ताभिसारे भक्ताभिसारे उपसंहरति; देवदत्तः पंचमात्रैर्भिक्षुशतैः सार्धं भक्ताग्र (इ ७२) उपनिषीदति इति; श्रुत्वा पुनः राजगृहं पिण्डाय चरित्वा कृतभक्तकृत्याः पश्चाद्भक्तपिण्डपातप्रतिक्रान्तः पात्रचीवरं प्रतिशमय्य पादौ प्रक्षाल्य येन भगवांस्तेनोपसंक्रन्ताः; उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषण्णाः; एकान्तनिषण्णाः संबहुला भिक्षवो भगवन्तमिदमवोचन्: इह वयं भदन्त संबहुला भिक्षवः पूर्वाह्णे निवास्य पात्रचीवरमादाय राजगृहं प्राविक्षाम; अश्रौष्म वयं भदन्त संबहुला भिक्षवो राजगृहं पिण्डाय चरन्तो: देवदत्तस्यायमेवंरूपो लाभ्सत्कारः उदपादि; राजस्य मागधः अजातशत्रुर्वैदेहीपुत्रः पंचमात्रै रथशतैः सार्धं सायं च प्रातश्च उपस्थानकरो निर्याति; पंचमात्राणि चास्य स्थालीपाकशतानि भक्ताभिसारे भक्ताभिसारे उपसंहरति; देवदत्तोऽपि पंचमात्रैर्भिक्षुशतैः सार्धं भक्ताग्र उपनिषीदति; मा यूयं भिक्षवो देवदत्तस्य लाभसत्कारं स्पृहयत; तत्कस्य हेतोः? वधाय देवदत्तस्य लाभसत्कारः; पराभवाय देवदत्तस्य लाभसत्कारः; तद्यथा भिक्षवो वधाय कदली फलं ददाति पराभवाय कदली फलं ददाति; एवमेव वधाय (अ ४५१ ) देवदत्तस्य लाभसत्कारः; पराभवाय देवदत्तस्य लाभसत्कारः; तद्यथा वधाय वेणुर्नडः फलं ददाति; एवमेव वधाय देवदत्तस्य लाभसत्कारः; पराभवाय देवदत्तस्य लाभसत्कारः; तद्यथा वधाय अश्वतरी गर्भं गृह्णाति; पराभवाय अश्वतरी गर्भं गृह्णाति; एवमेव वधाय देवदत्तस्य लाभसत्कारः; यावच्च भिक्षवो देवदत्तस्य अयमेवंरूपो लाभसत्कारः उत्पद्यते, तत्कस्य भविष्यति मोहपुरुषस्य दीर्घरात्रमनर्थाय दुःखाय; तस्मात्तर्हि भिक्षवः एवं शिक्षितव्यं यल्लाभसत्कारमभिभविष्यामः; न च न उत्पन्नो लाभसत्कारः चित्तं पर्यादाय स्थास्यति; इत्येवं वो भिक्षवः शिक्षितव्यं; फलं वै कदलीं हन्ति फलं वेणुं फलं नडम्* । <सत्कारः> पुरुषं हन्ति स्वगर्भोऽश्वतरीं यथा ॥ (इ ७३) यावदेव ह्यनर्थाय ज्ञातो भवति बालिशः । हन्ति बालस्य शुक्लांसं मूर्ध्नोऽप्यस्य निपातयत्* ॥ अथ देवदत्तस्य लाभसत्काराभिभूतस्य पर्यादत्तचित्तस्य इदमेवंरूपो पापकमिच्छागतमुत्पन्नम्: एतर्हि भगवान् जीर्णो वृद्धो महल्लकः क्लाम्यति चतस्रः पर्षदोऽववदितुम्; अहो वत भगवान्मम भिक्षुसंघं प्रतिनिसृजेत्; अहं भिक्षुसंघं परिकर्षयेयं; भगवानल्पोत्सुको विहरेत्दृष्टधर्मसुखविहारमनुयुक्तः इति; सहचित्तोत्पादात्स पुनर्देवदत्तस्तस्य ऋद्धेः परिहीणः; परिहीणश्च पुनर्नाज्ञासीदित्यप्यहं परिहीणः इति. ______________________________________________________________ मौद्गल्यायन इन्fओर्म्स्थे बुद्ध अस्देवदत्त इसैमिन्गत्थे दिरेच्तिओनोf थे चोन्ग्रेगतिओन् तेन खलु समयेन ककुदो भिक्षुः क्रोडपुत्रो भगवतः श्रावको भगवतोऽन्तिके ब्रह्मचर्यं चरित्वा चतुरो ब्रह्मविहारान् भावयित्वा, कामेषु कामच्छन्दं प्रहाय, तद्बहुलविहारी ब्रह्मलोकसभागतायामुत्पन्नः; तेन खलु समयेन आयुष्मान्महामौद्गल्यायनः भार्गवेषु विहरति शिशुमारगिरौ भीषणिकावने मृगदावे; अथ ककुदो ब्रह्मा देवदत्तं तस्या ऋद्धेः परिहीणं विदित्वा, तद्यथा बलवान् पुरुषः संकुचितं वा बाहुं प्रसारयेत्, प्रसारितं वा संकुचयेदेवमेव ककुदो ब्रह्मा ब्रह्मलोकेऽन्तर्हितो भार्गवेषु प्रत्यष्ठादायुष्मतो महामौद्गल्यायनस्य पुरस्ताद्; अथ ककुदो ब्रह्मा आयुष्मन्तं महामौद्गल्यायनमिदमवोचत्*; यत्खलु भदन्त मौद्गल्यायन जानीया देवदत्तस्य लाभसत्कारेणाभिभूतस्य पर्यादत्तचित्तस्य इदमेवंरूपो पापकमिच्छागतमुत्पन्नम्: एतर्हि भगवान् जीर्णो वृद्धो महल्लकः क्लाम्यति चतस्रः पर्षदोऽववदितुम्; अहो (इ ७४) वत भगवान्मम भिक्षुसंघं प्रतिनिसृजेत्; अहं भिक्षुसंघं परिकर्षयेयं; भगवानल्पोत्सुको विहरेत्दृष्टधर्मसुखविहारयोगमनुयुक्तः इति; सहचित्तोत्पादात्स पुनस्तस्या ऋद्धेः परिहीणः; परिहीणश्च पुनर्नाज्ञासीदित्यप्यहं परिहीण इति; भदन्त साधु मौद्गल्यायन (अ ४५२ ) येन बहगवांस्तेनोपसंक्रामेः; उपसंक्रम्य भगवन्तमेतमेवार्थं विस्तरेणारोचयेः अनुकम्पामुपादाय; अधिवासयत्यायुष्मान्महामौद्गल्यायनः ककुदस्य ब्रह्मणस्तूष्णींभावेन; अथ ककुदो ब्रह्मा आयुष्मतो महामौद्गल्यायनस्य तूष्णींभावेनाधिवासनां विदित्वा आयुष्मतो महामौद्गल्यायनस्य पादौ शिरसा वन्दित्वा तत्रैवान्तर्हितः; अथायुष्मान्महामौद्गल्यायनः अचिरप्रक्रान्तं ककुदं ब्रह्माणं विदित्वा तद्रूपं समाधिं समापन्नः, यथा समाहिते चित्ते भार्गेष्वन्तर्हितः राजगृहे प्रत्यष्ठाद्वेणुवने कलन्दकनिवापे; अथायुष्मान्महामौद्गल्यायनो येन भगवांश्तेनोपसंक्रान्तः; उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषण्णः; एकान्तनिषण्ण आयुष्मान्महामौद्गल्यायनो यावानेवाभूत्ककुदेन ब्रह्मणा सार्धमन्तराकथासमुदाहारस्तत्सर्वं विस्तरेणारोचयति; एवमुक्तो भगवानायुष्मन्तं महामौद्गल्यायनमिदमवोचत्*: न खलु मौद्गल्यायन देवदत्तः पूर्वमेव चेतसा स्फरित्वा विदितः? किं ततः पश्चात्ककुदेन ब्रह्मणा आरोचितम्? एवं भदन्त इति; इयं च पुनर्भगवत आयुष्मता महामौद्गल्यायनेन सार्धमन्तराकथा विप्रसृता. ______________________________________________________________ देवदत्त विसित्स्थे बुद्ध अन्द्देपर्त्सिन्दिग्नन्त् अथ देवदत्तश्चतुभिर्भिक्षुभिः सहायकैः कोकालिकेन खण्डद्रव्येण कटमोरकतिष्येण समुद्रदत्तेन च सार्धं येन भगवांस्तेनोपसंक्रान्तः; अद्राक्षीद्भगवान् देवदत्तं दूरादेव दृष्ट्वा च पुनरायुष्मन्तं महामौद्गल्यायनमामन्त्रयते: रक्षेदानीं मौद्गल्यायन, रक्षेदानीं मौद्गल्यायन, एष गच्छति देवदत्तः; इदानीमेष मोहपुरुषो मम पुरस्तादात्मनैवात्मानं व्याकरिष्यति; अथायुष्मान्महामौद्गल्यायनः भगवतः (इ ७५) पादौ शिरसा वन्दित्वा तद्रूपं समाधिं समापन्नः, यथा समाहिते चित्ते वेणुवनेऽन्तर्हितो भार्गवेषु प्रत्यष्ठाद्शिशुमारगिरौ भीषणिकावने मृगदावे. अथ देवदत्तो येन भगवांस्तेनोपसंक्रान्तः; उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते अस्थात्*; एकान्तस्थितो देवदत्तओ भगवन्तमिदमवोचत्*: एतर्हि भगवान् जीर्णो वृद्धो महल्लकः क्लाम्यति चतस्रः पर्षदोऽववदितुम्; अहो वत भगवान्मम भिक्षुसंघं प्रतिनिसृजेत्; अहं भिक्षुसंघं परिकर्षयेयं; भगवानल्पोत्सुको विहरेत्दृष्टधर्मसुखविहारयोगमनुयुक्त; शारिपुत्रमौद्गल्यायनयोस्तावदहं मोहपुरुष पेशलयोः सब्रह्मचारिणोरपि भिक्षुसंघं न प्रतिनिसृजामि; कुतः पुनस्त्वयि निस्रक्ष्यामि शवे खेटाशके? अथ देवदत्तस्यैतदभवत्*: भगवान् शारिपुत्रमौद्गल्यायनयोर्वर्णं भाषते; मां च शवखेटाशकवादेन समुदाचरति इति; तत्र देवदत्तो (अ ४५२ ) भगवतोऽन्तिके कोपं च द्वेषं च मानं च म्रक्षं च आघातं च अक्षान्तिं च अप्रत्ययं च प्राविष्कार्षीत्*; अथ देवदत्तो हुमिति कृत्वा त्रिः शिरः कम्पयित्व भगवतो अन्तिकात्प्रक्रान्तः. ______________________________________________________________ थे बुद्ध अस्सेम्ब्लेस्थे मोन्क्स् थे सेर्मोनोन् थे fइवे तेअछेर्स् तेन खलु समयेन आयुष्मानानन्दो भगवतः पृष्ठतः स्थितोऽभूद्व्यजनं गृहीत्वा च भगवन्तं वीजयमानः; तत्र भगवानायुष्मन्तमानन्दमामन्त्रयते: गच्छानन्द यावन्तो वेणुवनं कलन्दकनिवापमुपनिश्रित्य विहरन्ति तान् सर्वानुपस्थानशालायां सन्निपातय; एवं भदन्त इत्यायुष्मानानन्दो भगवतः प्रतिश्रुत्य, यावन्तो भिक्षवो वेणुवनं कलन्दकनिवापमुपनिश्रित्य विहरन्ति तान् सर्वानुपस्थानशालायां सन्निपात्य येन भगवांस्तेनोपसंक्रान्तः; उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते अस्थात्*; एकान्तस्थित आयुष्मानानन्दो भगवन्तम् (इ ७६) इदमवोचत्*: यावन्तो भदन्त भिक्षवो वेणुवनं कलन्दकनिवापमुपनिश्रित्य विहरन्ति, ते सर्वे उपस्थानशालायां सन्निषण्णाः, सन्निपतिताः; यस्येदानीं भगवान् कालं मन्यत इति. अथ भगवान् येनोपस्थानशाला तेनोपसंक्रान्तः, उपसंक्रम्य पुरस्तात्भिक्षुसंघस्य प्रज्ञप्त एवासने निषण्णः; निषद्य भगवान् भिक्षूनामन्त्रयते स्म; पंचेमे भिक्षवः शास्तारः सन्तः संविद्यमाना लोके; कतमे पंच? १) इहैकः शास्ता अपरिशुद्धशील एव सन् परिशुद्धं मे शीलमक्लिष्ट इति प्रतिजानीते; तमेनं श्रावकाः संवासान्वयात्प्रतिजानन्ति: अयं भगवान् शास्ता अपरिशुद्धशील एव सन् परिशुद्धं मे शीलमसंक्लिष्ट इति प्रतिजानीते; वयं चेदेनं परेषामारोचयेम तेनास्य स्यादमनापं; येनास्य स्यादमनापं किं वयं तेन शास्तारं समुदाचरिष्यामः? एष भगवान् शास्ता स्वयमेव प्रतिजानाति; स्मन्वाहरत्येषोऽस्मान् यदुत चीवरपरिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः; इत्यप्येनं श्रावकाः शीलवन्तोऽनुरक्षितव्यं मन्यन्ते; एवंरूपः शास्ता श्रावकाणामन्तिकात्शीलानुरक्षनं प्रत्याशंसति; अयं प्रथमः शास्ता सन् सन्विद्यमानो लोके. २) पुनरपरमिहैकः शास्ता अपरिशुद्धजीव एव परिशुद्धो मे अजीवः अक्लिष्ट इति प्रतिजानीते; तमेनं श्रावकाः संवासान्वयात्प्रतिजानन्ति: अयं भगवान् शास्ता अपरिशुद्धजीव एव सन् परिशुद्धो मे आजीव असंक्लिष्ट इति प्रतिजानीते; वयं चेदेनं परेषामारोचयेम तेनास्य स्यादमनापं; येनास्य स्यादमनापं किं वयं तेन शास्तारं समुदाचरिष्यामः? एष भगवान् शास्ता स्वयमेव प्रतिजानाति; स्मन्वाहरत्येषोऽस्मान् यदुत चीवरपरिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः; इत्यप्येनं श्रावकाः आजीवतोऽनुरक्षितव्यं मन्यन्ते; एवंरूपः शास्ता श्रावकाणामन्तिकात्शीलानुरक्षनं प्रत्याशंसति; अयं द्वितीयः शास्ता सन् सन्विद्यमानो लोके. ३) पुनरपरमिहैकः शास्ता (अ ४५३ ) अपरिशुद्धज्ञानदर्शन एव सन् परिशुद्धं मे ज्ञानदर्शनमक्लिष्ट इति प्रतिजानीते; तमेनं श्रावकाः संवासान्वयात्प्रतिजानन्ति: अयं भगवान् शास्ता (इ ७७) अपरिशुद्धज्ञानदर्शन एव सन् परिशुद्धं मे ज्ञानदर्शनमसंक्लिष्ट इति प्रतिजानीते; वयं चेदेनं परेषामारोचयेम तेनास्य स्यादमनापं; येनास्य स्यादमनापं किं वयं तेन शास्तारं समुदाचरिष्यामः? एष भगवान् शास्ता स्वयमेव प्रतिजानाति; स्मन्वाहरत्येषोऽस्मान् यदुत चीवरपरिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः; इत्यप्येनं श्रावकाः ज्ञानदर्शनतोऽनुरक्षितव्यं मन्यन्ते; एवंरूपः शास्ता श्रावकाणामन्तिकाद्ज्ञानदर्शनानुरक्षनं प्रत्याशंसति; अयं तृतीयः शास्ता सन् सन्विद्यमानो लोके. ४) पुनरपरमिहैकः शास्ता असंपन्नव्याकरण एव सन् संपन्नं मे व्याकरणमसंक्लिष्टमिति प्रतिजानीते; तमेनं श्रावकाः संवासान्वयात्प्रतिजानन्ति: अयं भगवान् शास्ता असंपन्नव्याकरण एव सन् संपन्नं मे व्याकरणमसंक्लिष्ट इति प्रतिजानीते; वयं चेदेनं परेषामारोचयेम तेनास्य स्यादमनापं; येनास्य स्यादमनापं किं वयं तेन शास्तारं समुदाचरिष्यामः? एष भगवान् शास्ता स्वयमेव प्रतिजानाति; स्मन्वाहरत्येषोऽस्मान् यदुत चीवरपरिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः; इत्यप्येनं श्रावकाः संपन्नव्याकरणोऽनुरक्षितव्यं मन्यन्ते; एवंरूपः शास्ता श्रावकाणामन्तिकात्संपन्नव्याकरणानुरक्षनं प्रत्याशंसति; अयं चतुर्थः शास्ता सन् सन्विद्यमानो लोके. ५) पुनरपरमिहैकः शास्ता दुराख्यातधर्मविनय एव सन् स्वाख्यातो मे धर्मविनयः असंक्लिष्ट इति प्रतिजानीते; तमेनं श्रावकाः संवासान्वयात्प्रतिजानन्ति: अयं भगवान् शास्ता दुराख्यातधर्मविनय एव सन् स्वाख्यातो मे धर्मविनयः असंक्लिष्ट इति प्रतिजानीते; वयं चेदेनं परेषामारोचयेम तेनास्य स्यादमनापं; येनास्य स्यादमनापं किं वयं तेन शास्तारं समुदाचरिष्यामः? एष भगवान् शास्ता स्वयमेव प्रतिजानाति; स्मन्वाहरत्येषोऽस्मान् यदुत चीवरपरिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः; इत्यप्येनं श्रावकाः स्वाख्यातधर्मविनयतोऽनुरक्षितव्यं मन्यन्ते; एवंरूपः शास्ता श्रावकाणामन्तिकात्स्वाख्यातधर्मविनयानुरक्षनं प्रत्याशंसति; अयं पंचमः शास्ता सन् सन्विद्यमानो लोके. अथ खलु भिक्षवः परिशुद्ध्शील एव सन् परिशुद्धं (इ ७८) मे शीलमसंक्लिष्ट इति प्रतिजाने; न मे श्रावका शीलवतोऽनुरक्षितव्यं मन्यन्ते; नाहं श्रावकाणामन्तिकात्शीलानुरक्षनं प्रत्याशंसामि; अयं खलु भिक्षवः परिशुद्धजीव एव सन् परिशुद्धो मे अजीवः असंक्लिष्ट इति प्रतिजाने; न मां श्रावका आजीवतोऽनुरक्षितव्यं मन्यन्ते; नाहं श्रावकाणामन्तिकादाजीवानुरक्षणं प्रत्याशंसामि; अहं खलु भिक्षवः परिशुद्धज्ञानदर्शन (अ ४५३ ) एव सन् परिशुद्धं मे ज्ञानदर्शनमसंक्लिष्ट इति प्रतिजाने; न मां श्रावकाः ज्ञानदर्शनतोऽनुरक्षितव्यं मन्यन्ते; नाहं श्रावकाणामन्तिकाद्ज्ञानदर्शनानुरक्षनं प्रत्याशंसामि; अहं खलु भिक्षवः संपन्नव्याकरण एव सन् संपन्नं मे व्याकरणमसंक्लिष्ट इति प्रतिजाने; न मां श्रावकाः संपन्नव्याकरणतोऽनुरक्षितव्यं मन्यन्ते; नाहं श्रावकाणामन्तिकात्संपन्नव्याकरणानुरक्षनं प्रत्याशंसामि; अहं खलु भिक्षवः स्वाख्यातधर्मविनय एव सन् स्वाख्यातो मे धर्मविनयः असंक्लिष्ट इति प्रतिजाने; न मां श्रावकाः स्वाख्यातधर्मविनयतोऽनुरक्षितव्यं मन्यन्ते; नाहं श्रावकाणामन्तिकात्स्वाख्यातधर्मविनयानुरक्षनं प्रत्याशंसामि; निगृह्य निगृह्य वोऽहं भिक्षवः प्रवक्ष्यामि, प्रसह्य प्रसह्य; न च वो धनयिष्ये, कुम्भकार इवामभाजनानां; यत्सारं तत्स्थास्यति; क्षमाश्च यूयं भगवतो वचनपथानां. (इ ७९) ______________________________________________________________ देवदत्त देचिदेस्तो ब्रिन्गबोउत्स्छिस्मिन् थे चोन्ग्रेगतिओन् अथ देवदत्तः कोकालिकखण्डद्रव्यकटमोरकतिष्यसमुद्रदत्तनामन्त्रयते: एत एवं कोकालिकखण्डद्रव्यकटमोरकतिष्यसमुद्रदत्ताः; तिष्ठते एव श्रमणस्य गौतमस्य समग्रं श्रावकसंघं भेत्स्यामः; चक्रभेदं करिष्यामः; तदस्माकमभ्यतीतकालगतानां दिग्विदिक्षु उदारः कल्याणः कीर्तिशब्दश्लोकः अभ्युद्गमिष्यति; तिष्ठत एव श्रमणस्य गौतमस्य तावन्महर्धिकस्य तावन्महानुभावस्य देवदत्तेन कोकालिकेन खण्डद्रव्येण कटमोरकतिष्येण समुद्रदत्तेन समग्रः श्रावकसंघः भिन्नश्चक्रभेदश्च क्रियते इति; ते कथयन्ति: न शक्ष्यामो वयं देवदत्त भगवतः समग्रं श्रावकसंघं भेत्तुं; तत्कस्य हेतोः? सन्त्यायुष्मन् देवदत्त भगवतः श्रावकाः महर्धिका महानुभावा दिव्यचक्षुषः परचित्तविदः; ये दूरादपि पश्यन्ति, अन्तिकेऽपि न दृश्यन्ते; ते चेतसा चित्तं स्फरित्वा मनसा मनो विजानन्ति; ते अस्मान् परिसर्पत एव ज्ञास्यन्ति इति; स कथयति: अस्ति कोकालिक उपायः; एते वयं स्थविरस्थविरान् भिक्षूनुपसंक्रमामः सर्वोपकरणैः अल्पोत्सुखा भवन्तु स्थविरा वयं स्थविराणां सर्वोपकरणैरविघातं करिष्याम इति; नवकांश्च भिक्षूनुपस्थापयामः उपलाडायामः पात्रेण चीवरेण शिक्येन सरितेन कायबन्धनेन उद्देशेन पाठेन स्वाध्यायेन योगेन मनसिकारेण; अस्त्येष आयुष्मन् देवदत्त उपाय इति; तत्र देवदत्तः समग्रस्य संघस्य भेदाय पराक्रमितुमारब्धः. ______________________________________________________________ थे बेहविओउरोf देवदत्त इस्दिस्चुस्सेदिन् थे चोन्ग्रेगतिओन् स्थविरस्थविरैर्भिक्षुभिः परिसर्पन्नेव विज्ञातः देवदत्तः, समग्रस्य संघस्य भेदाय पराक्रमति इति; एतत्प्रकरणं भिक्षवः भगवत आरोचयन्ति; भदन्त देवदत्तः समग्रस्य संघस्य भेदाय पराक्रमति इति; तान् भगवान् भिक्षूनामन्त्रयते स्म: आज्ञापयत यूयं भिक्षवो देवदत्तं (इ ८०) मेषकेन इति, यो वा पुनरन्योऽप्येवंजातीयः (अ ४५४ ) एवं च पुनराज्ञापयितव्यः; मा त्वं देवदत्त समग्रस्य संघस्य भेदाय पराक्रम; मा भेदकरणसंवर्तनीयमधिकरणं समादाय प्रगृह्य तिष्ठ; समेतु ते देवदत्त सार्धं संघेन; समग्रो हि संघः सहितः संमोदमानः अविवदमानः एकाग्रः एकोद्देशः एकक्षीरोदकीभूतः शास्तुः शासनं दीपयन् सुखस्पर्शं विहरतु इति; आज्ञापयन्ति ते भिक्षवो देवदत्तं मेषकेन; मेषकेनाज्ञाप्यमानस्तदेव वस्तु स्थामशः परामृश्य अभिनिविश्यानुव्यवहरति: इदमेव सत्यं मोहमन्यदिति. एतत्प्रकरणं भिक्षवो भगवत आरोचयन्ति: आज्ञाप्तोऽस्माभिर्भदन्त देवदत्तो मेषकेन; मेषकेनाज्ञाप्यमानस्तदेव वस्तु स्थामशः परामृश्य अभिनिविश्यानुव्यवहरति इदमेव सत्यं मोहमन्यदिति; भगवानाह: आज्ञापयत यूयं भिक्षवो देवदत्तं ज्ञप्तिचतुर्थेन कर्मणा इति, यो वा पुनरन्योऽप्येवंजातीयः एवं च पुनराज्ञापयितव्यः. शयनासनप्रज्ञप्तिं कृत्वा गण्डीमाकोट्य पृष्टवाचिकया भिक्षून् समनुयुज्य सर्वसंघे सन्निषण्णे सन्निपतिते एकेन भिक्षुणा ज्ञप्तिं कृत्वा कर्म कर्तव्यं. शृणोतु भदन्ताः संघः; अयं देवदत्तः समग्रस्य संघस्य भेदाय पराक्रमते; भेदकरणसंवर्तनीयं चाधिकरणं समादाय प्रगृह्य तिष्ठति; स एष संबहुलैर्भिक्षुभिर्मेषकेनाज्ञप्तः; मेषकेनाज्ञाप्यमानस्तदेव वस्तु स्थामशः परामृश्य अनुव्यवहरति इदमेव सत्यं मोहमन्यदिति; सचेत्संघस्य प्राप्तकालं क्षमेत आनुजानीयात्संघो यत्संघः देवदत्तं ज्ञप्तिचतुर्थेन कर्मणा आज्ञापयेत्मा त्वं देवदत्त समग्रस्य संघस्य भेदाय पराक्रम; मा भेदकरणसंवर्तनीयमधिकरणं समादाय प्रगृह्य तिष्ठ; समेतु ते देवदत्त सार्धं संघेन; समग्रो हि संघः सहितः संमोदमानः अविवदमानः एकाग्रः एकोद्देशः एकक्षीरोदकीभूतः शास्तुः शासनं दीपयन् सुखस्पर्शं विहरतु; निःसृज त्वं (इ ८१) देवदत्त इदमेवंरूपं संघभेदकरं वस्तु; इत्येषा ज्ञप्तिः; एवं च कर्म कर्तव्यं. शृणोतु भदन्ताः संघः; अयं देवदत्तः समग्रस्य संघस्य भेदाय पराक्रमते; भेदकरणसंवर्तनीयं चाधिकरणं समादाय प्रगृह्य तिष्ठति; स एष संबहुलैर्भिक्षुभिर्मेषकेनाज्ञप्तः; मेषकेनाज्ञाप्यमानस्तदेव वस्तु स्थामशः परामृश्य अभिनिविश्यानुव्यवहरति इदमेव सत्यं मोहमन्यदिति; तत्संघः देवदत्तं ज्ञप्तिचतुर्थेन कर्मणा आज्ञापयति: मा त्वं देवदत्त समग्रस्य संघस्य भेदाय पराक्रम; मा भेदकरणसंवर्तनीयं चाधिकरणं समादाय प्रगृह्य तिष्ठ; समेतु ते देवदत्त सार्धं संघेन; समग्रो हि संघः सहितः संमोदमानः अविवदमानः एकाग्रः एकोद्देशः एकक्षीरोदकीभूतः शास्तुः शासनं दीपयन् सुखस्पर्शं विहरत्विति; येषामायुष्मतां क्षमते देवदत्तं ज्ञप्तिचतुर्थेन कर्मणा आज्ञापयितुं; मा त्वं देवदत्त समग्रस्य संघस्य भेदाय पराक्रम; (अ ४५४ ) भेदकरणसंवर्तनीयं चाधिकरणं समादाय प्रगृह्य तिष्ठ; समेतु ते देवदत्त सार्धं संघेन; समग्रो हि संघः सहितः संमोदमानः अविवदमानः एकाग्रः एकोद्देशः एकक्षीरोदकीभूतः शास्तुः शासनं दीपयन् सुखस्पर्शं विहरतु इति ते तूष्णीं; न क्षमन्ते भाषन्तामियं प्रथमा कर्मवाचना; एवं द्वितीया तृतीया कर्मवाचना. आज्ञापयन्ति ते भिक्षवो देवदत्तं ज्ञप्तिचतुर्थेन कर्मणा; आज्ञाप्यमानस्तदेव वस्तु स्थामशः परामृश्याभिनिविश्य अनुव्यवहरति: इदमेव सत्यं मोहमन्यदिति. ______________________________________________________________ थे बेहविओउरोf थे fओउर्मोन्क्स्fओल्लोwएर्सोf देवदत्त इस्दिस्चुसेदिन् थे चोन्ग्रेगतिओन् चत्वारश्चास्य भिक्षवः सहायकाः अनुवर्तिनो व्यग्रवादितायां, कोकालिकखण्डद्रव्यकटमोरकतिष्यसमुद्रदत्ताः; ते भिक्षूनेवं वदन्ति: मा यूयमायुष्मन्तोऽस्य भिक्षोः किंचिद्वोचत कल्याणं वा पापकं वा; तत्कस्य हेतोः? एष हि भिक्षुर्धर्मवादी विनयवादी; धर्मं चैष भिक्षुर्विनयं च समादाय प्रगृह्य अनुव्यवहरति; जानंश्चैष भिक्षुर्भाषते, नाजानन्; (इ ८२) यच्चास्मै भिक्षवे रोचते, क्षमते च, अस्माकमपि तद्रोचते क्षमते च इति. एतत्प्रकरणं भिक्षवो भगवत आरोचयन्ति: आज्ञाप्तोऽस्माभिर्भदन्त देवदत्तः ज्ञप्तिचतुर्थेन कर्मणा आज्ञाप्यमानस्तदेव वस्तु स्थामशः परामृश्य अभिनिविश्यानुव्यवहरति इदमेव सत्यं मोहमन्यदिति; चत्वारश्चास्य भिक्षवः सहायकाः अनुवर्तिनो व्यग्रवादितायां, कोकालिकखण्डद्रव्यकटमोरकतिष्यसमुद्रदत्ताः; ते भिक्षूनेवं वदन्ति: मा यूयमायुष्मन्तोऽस्य भिक्षोः किंचिद्वोचत कल्याणं वा पापकं वा; एष हि भिक्षुर्धर्मवादी विनयवादी; धर्मं चैष भिक्षुर्विनयं च समादाय प्रगृह्यानुव्यवहरति; जानंश्चैष भिक्षुर्भाषते, नाजानन्; यच्चास्मै भिक्षवे रोचते च क्षमते च, अस्माकमपि तद्रोचते च क्षमते च इति. भगवानाह: आज्ञापयत यूयं भिक्षवः कोकालिकखण्डद्रव्यकटमोरकतिष्यसमुद्रदत्ता मेषकेन; एवं पुनराज्ञापयितव्याः: मा यूयं कोकालिकखण्डद्रव्यकटमोरकतिष्यसमुद्रदत्ताः जानन्तो यो भिक्षुसमग्रस्य संघस्य भेदाय पराक्रमते, भेदकरणसंवर्तनीयं चाधिकरणं समादाय प्रगृह्य तिष्ठति, तस्यानुवर्तिनो भवत व्यग्रवादितायां; मा च भिक्षूनेवं वदत: मा यूयमायुष्मन्तः अस्य भिक्षोः किंचिद्वोचत कल्याणं वा पापकं वा; तत्कस्य हेतोः? धर्मवादी चैषो आयुष्मन्तो भिक्षुः, विनयवादी च; धर्मं चैष भिक्षुर्विनयं च समादाय प्रगृह्यानुव्यवहरति; जानंश्चैष भिक्षुर्भाषते, नाजानन्; यच्चास्मै भिक्षवे रोचते च क्षमते च, अस्माकमपि तद्रोचते च क्षमते च इति; मा यूयमायुष्मन्तः संघभेदं रोचयत; समेत्वायुष्मतां सार्धं संघेन; समग्रो हि संघः सहितः संमोदमानोऽविवदमान एकाग्रः एकोद्देशः एकक्षीरोदकीभूतः शास्तुः शासनं दीपयन् सुखस्पर्शं विहरतु; निःसृजन्त्व्(अ ४५५ ) आयुष्मन्तः इमामेवंरूपं संघभेदानुवर्तनीं व्यग्रवादितामिति; आज्ञापयन्ति ते भिक्षवः कोकालिकखण्डद्रव्यकटमोरकतिष्यसमुद्रदत्तान्मेषकेन; ते मेषकेनाज्ञाप्यमानस्तदेव वस्तु स्थामशः परामृश्यानुव्यवहरति इदमेव सत्यं मोहमन्यदिति. एतत्प्रकरणं भिक्षवो भगवत आरोचयन्ति: आज्ञाप्ता अस्माभिर्भदन्त कोकालिकखण्डद्रव्यकटमोरकतिष्यसमुद्रदत्ताः (इ ८३) मेषकेन; ते मेषकेनाज्ञाप्यमानस्तदेव वस्तु स्थामशः परामृश्य अभिनिविश्य अनुव्यवहरति इदमेव सत्यं मोहमन्यदिति; भगवानाह: आज्ञापयत यूयं भिक्षवः कोकालिकखण्डद्रव्यकटमोरकतिष्यसमुद्रदत्तान् ज्ञप्तिचतुर्थेन कर्मणा इति, ये वा पुनरन्येऽप्येवंजातीयः एवं च पुनराज्ञापयितव्याः. शयनासनप्रज्ञप्तिं कृत्वा गण्डीमाकोट्य पृष्टवाचिकया भिक्षून् समनुयुज्य सर्वसंघे सन्निषण्णे सन्निपतिते एकेन भिक्षुणा ज्ञप्तिं कृत्वा कर्म कर्तव्यं. शृणोतु भदन्ताः संघः; इमे कोकालिकखण्डद्रव्यकटमोरकतिष्यसमुद्रदत्ताः जानन्तो यो भिक्षुः समग्रस्य संघस्य भेदाय पराक्रमति, तस्यानुवर्तिनो भविष्यन्ति व्यग्रवादितायां; भिक्षूंश्चैवं वदन्ति: मा यूयमायुष्मन्तोऽस्य भिक्षोः किंचिद्वोचत कल्याणं वा पापकं वा; तत्कस्य हेतोः? धर्मवादी चैषो आयुष्मन्तो भिक्षुः, विनयवादी च; धर्मं च एष भिक्षुर्विनयं च समादाय प्रगृह्य अनुव्यवहरति; जानंश्चैष भिक्षुर्भाषते, न अजानन्; यच्चास्मै भिक्षवे रोचते क्षमते च, अस्माकमपि तद्रोचते क्षमते च इति; त एवं संबहुलैर्भिक्षुभिर्मेषकेन आज्ञाप्यमानास्तदेव वस्तु स्थामशः परामृश्याभिनिविश्य अनुव्यवहरन्ति इदमेव सत्यं मोहमन्यदिति; सचेत्संघस्य प्राप्तकालं क्षमेत अनुजानीयात्संघो यत्संघः कोकालिकखण्डद्रव्यकटमोरकतिष्यसमुद्रदत्तान् ज्ञप्तिचतुर्थेन कर्मणा आज्ञापयति: मा यूयं कोकालिकखण्डद्रव्यकटमोरकतिष्यसमुद्रदत्ताः जानन्तो यो भिक्षुः समग्रस्य संघस्य भेदाय पराक्रमति भेदकरणसंवर्तनीयं चाधिकरणं समादाय प्रगृह्य तिष्ठति; तस्यानुवर्तिनो भवत व्यग्रवादितायां; मा च भिक्षूनेवं वदत: मा यूयमायुष्मन्तोऽस्य भिक्षोः किंचिद्वोचत कल्याणं वा पापकं वा; तत्कस्य हेतोः? धर्मवादी चैष भिक्षुः, विनयवादी च; धर्मं च एष भिक्षुर्विनयं च समादाय प्रगृह्य अनुव्यवहरति; जानंश्चैष भिक्षुर्भाषते, न अजानन्; यच्चास्मै भिक्षवे रोचते च क्षमते च, अस्माकमपि तद्रोचते च क्षमते च इति; तत्कस्य हेतोः? नैष आयुष्मन्तो भिक्षुर्धर्मवादी विनयवादी च; अधर्मवादी चैष भिक्षुरविनयवादी च; अधर्मं चैष भिक्षुरविनयं च समादाय प्रगृह्य अनुव्यवहरति; अजानंश्चैष भिक्षुर्भाषते, न अजानन्; निःसृजन्त्वायुष्मन्तः इमामेवंरूपां संघभेदानुवर्तिनीं (इ ८४) व्यग्रवादितायां; समेत्वायुष्मतां सार्धं संघेन; समग्रो हि संघः संमोदमानः अविवदमानः एकाग्रः एकोद्देशः एकक्षीरोदकीभूतः शास्तुः (अ ४५५ ) शासनं दीपयन् सुखस्पर्शं विहरतु; इत्येषा ज्ञप्तिः; एवं च कर्म कर्तव्यं. शृणोतु भदन्ताः संघः; इमे कोकालिकखण्डद्रव्यकटमोरकतिष्यसमुद्रदत्ताः जानन्तो यो भिक्षुः समग्रस्य संघस्य भेदाय पराक्रमति, तस्यानुवर्तिनो भविष्यन्ति व्यग्रवादितायां; भिक्षूंश्चैवं वदन्ति: मा यूयमायुष्मन्तोऽस्य भिक्षोः किंचिद्वोचत कल्याणं वा पापकं वा; तत्कस्य हेतोः? धर्मवादी चैषो आयुष्मन्तो भिक्षुः, विनयवादी च; धर्मं च एष भिक्षुर्विनयं च समादाय प्रगृह्य अनुव्यवहरति; जानंश्चैष भिक्षुर्भाषते, न अजानन्; यच्चास्मै भिक्षवे रोचते क्षमते च, अस्माकमपि तद्रोचते क्षमते च इति; त एवं संबहुलैर्भिक्षुभिर्मेषकेन आज्ञाप्यमानास्तदेव वस्तु स्थामशः परामृश्याभिनिविश्य अनुव्यवहरन्ति इदमेव सत्यं मोहमन्यदिति; तत्संघः कोकालिकखण्डद्रव्यकटमोरकतिष्यसमुद्रदत्तान् ज्ञप्तिचतुर्थेन कर्मणाज्ञापयति: मा यूयं कोकालिकखण्डद्रव्यकटमोरकतिष्यसमुद्रदत्ता जानन्तो यो भिक्षुः समग्रस्य संघस्य भेदाय पराक्रमते भेदकरणसंवर्तनीयं चाधिकरणं समादाय प्रगृह्य तिष्ठति; तस्यानुवर्तिनो भवत व्यग्रवादितायां; मा च भिक्षूनेवं वदत: मा यूयमायुष्मन्तोऽस्य भिक्षोः किंचिद्वोचत कल्याणं वा पापकं वा; तत्कस्य हेतोः? धर्मवादी चैष भिक्षुः, विनयवादी च; धर्मं चैष भिक्षुर्विनयं च समादाय प्रगृह्य अनुव्यवहरति; जानंश्चैष भिक्षुर्भाषते, न अजानन्; यच्चास्मै भिक्षवे रोचते च क्षमते च, अस्माकमपि तद्रोचते च क्षमते च इति; तत्कस्य हेतोः? नैष भिक्षुर्धर्मवादी न विनयवादी; अधर्मं चैष भिक्षुरविनयं च समादाय प्रगृह्यानुव्यवहरति; अजानंश्चैष भिक्षुर्भाषते, न जानन्; मा आयुष्मन्तः संघभेदं रोचयन्तु; संघसामग्रीमेव रोचयन्तु; समेत्वायुष्मतां सार्धं संघेन; समग्रो हि संघः सहितः संमोदमानः अविवदमानः एकाग्रः एकोद्देशः एकक्षीरोदकीभूतः शास्तुः शासनं दीपयन् सुखस्पर्शं विहरतु; निःसृजन्त्वायुष्मन्तः इमामेवंरूपं संघभेदानुवर्तिनीं व्यग्रवादितामिति. येषामायुष्मतां क्षमन्ते कोकालिकखण्डद्रव्यकटमोरकतिष्यसमुद्रदत्तान् ज्ञप्तिचतुर्थेन कर्मणा आज्ञापयितुं; मा यूयं कोकालिकखण्डद्रव्यकटमोरकतिष्यसमुद्रदत्ताः जानन्तो यो भिक्षुः समग्रस्य संघस्य भेदाय पराक्रमते भेदकरणसंवर्तनीयं चाधिकरणं समादाय प्रगृह्य तिष्ठति; तस्यानुवर्तिनो भवत व्यग्रवादितायां; मा च भिक्षूनेवं वदत: मा यूयमायुष्मन्तोऽस्य भिक्षोः किंचिद्वोचत कल्याणं वा पापकं वा; तत्कस्य हेतोः? धर्मवादी चैष भिक्षुः, विनयवादी च; धर्मं चैष भिक्षुर्विनयं च समादाय प्रगृह्य अनुव्यवहरति; जानंश्चैष भिक्षुर्भाषते, न अजानन्; यच्चास्मै भिक्षवे रोचते च क्षमते च, अस्माकमपि तद्रोचते च क्षमते च इति; तत्कस्य हेतोः? नैष भिक्षुर्धर्मवादी न विनयवादी; अधर्मं चैष भिक्षुरविनयं च समादाय प्रगृह्यानुव्यवहरति; अजानंश्चैष भिक्षुर्भाषते, न जानन्; मा आयुष्मन्तः संघभेदं रोचयन्तु; संघसामग्रीमेव रोचयन्तु; समेत्वायुष्मतां सार्धं संघेन; समग्रो हि संघः सहितः संमोदमानः अविवदमानः एकाग्रः एकोद्देशः एकक्षीरोदकीभूतः शास्तुः शासनं दीपयन् सुखस्पर्शं विहरतु; निःसृजन्त्वायुष्मन्तः इमामेवंरूपं संघभेदानुवर्तिनीं व्यग्रवादितामिति ते तूष्णीं; न क्षमन्ते भाषन्तामियं प्रथमा कर्मवाचना; एवं द्वितीया तृतीया कर्मवाचना. (इ ८५) आज्ञापयन्ति ते भिक्षवः कोकालिकखण्डद्रव्यकटमोरकतिष्यसमुद्रदत्तान् ज्ञप्तिचतुर्थेन कर्मणा; ते भ्क्षुभिर्ज्ञप्तिचतुर्थेन कर्मणा आज्ञाप्यमानस्तदेव वस्तु स्थामशः परामृश्य अभिनिविश्य अनुव्यवहरति: इदमेव सत्यं मोहमन्यदिति. ______________________________________________________________ थे मोन्क्सिन्fओर्ं थे बुद्ध ओf थे रेसुल्तोf थे मोतिओन् (ज्ञप्ति). देवदत्त गेत्स्स्त्रोन्गेरिन् हिस्रेसोलुतिओन् तो ब्रिन्गबोउत्थे स्छिस्मिन् थे चोन्ग्रेगतिओन् एतत्प्रकरणं भिक्षवो भगवत आरोचयन्ति: आज्ञाप्ता अस्माभिर्भदन्त कोकालिकखण्डद्रव्यकटमोरकतिष्यसमुद्रदत्ताः ज्ञप्तिचतुर्थेन कर्मणा; आज्ञाप्यमानस्ते तदेव वस्तु स्थामशः परामृश्याभिनिविश्य अनुव्यवहरति: इदमेव सत्यं मोहमन्यदिति; तत्र भगवान् भिक्षूनामन्त्रयते स्म: प्रतिबलो मे भिक्षवो देवदत्तः समग्रं श्रावकसंघं भेत्तुं चक्रभेदं च कर्तुं; तथा चास्य चत्वारो भिक्षवः सहायकाः अनुवर्तिनो व्यग्रवादितायां कोकालिकखण्डद्रव्यकटमोरकतिष्यसमुद्रदत्ताः. देवदत्तेन श्रुतं व्याकृतोऽहं श्रमणेन गौतमेन प्रतिबलो मे भिक्षवो देवदत्तः समग्रं श्रावकसंघं भेत्तुं चक्रभेदं च कर्तुं; तथा चास्य चत्वारो भिक्षवः सहायकाः अनुवर्तिनो व्यग्रवादितायां कोकालिकखण्डद्रव्यकटमोरकतिष्यसमुद्रदत्ताः इति; श्रुत्वा च पुनः कोकालिकखण्डद्रव्यकटमोरकतिष्यसमुद्रदत्तानामन्त्रयते: (अ ४५६ ) यत्खलु कोकालिकखण्डद्रव्यकटमोरकतिष्यसमुद्रदत्ताः जानीयात, व्याकृतोऽहं श्रमणेन गौतमेन प्रतिबलो देवदत्तः समग्रं श्रावकसंघं भेत्तुं चक्रभेदं च कर्तुं; तथा चास्य चत्वारो भिक्षवः सहायकाः कोकालिकखण्डद्रव्यकटमोरकतिष्यसमुद्रदत्ता इति; यन्न्वहं भूयस्या मत्रया संघभेदाय पराक्रमेय इति; स पंचभिर्भिक्षुशतैः सार्धमन्ते आरामस्य गणभोजनं भुङ्क्ते; एतत्प्रकरणं भिक्षवो भगवत आरोचयन्ति. भगवानाह: किं मन्यध्वे भिक्षवः? किमर्थं तथागतेन त्रिकभोजनमनुज्ञातं; गणभोजनं प्रतिक्षिप्तं? ननु द्वावर्थाउ संपश्यता, कुलोदयतां च प्रतीत्य, पापेच्छानां (इ ८६) च पुद्गलानां पक्षप्रलोपनार्थं; मा हैव पापेच्छः पुद्गलः संघमेवागम्य, संघमेवोद्दिश्य, संघमेवावेदयित्वा पाषण्डिक इव कृत्वा संघेनैव सार्धं विगृह्य विवादं स्थापयेतिति. ______________________________________________________________ देवदत्त लोसेस्हिस्मगिचल्पोwएर्स् यदा आयुष्मता दशबलकाश्यपेन देवदत्तस्य ऋद्धेर्मार्गो व्यपदिष्टः, तदासौ भिक्षुभिरुच्यते: कस्मात्त्वया स्थविर देवदत्तस्य पापेच्छस्य ऋद्धेर्मार्गो व्यपदिष्टः? स कथयति: नाहमायुष्मन्तो जाने यथायं पापेच्छ इति; यदि मया ज्ञातमभविष्यतृकारोऽप्यस्य मया न व्यपदिष्टोऽभविष्यत्; प्रागेव ऋद्धेर्मार्गः इति; ततो देवदत्तः भिक्षुभिः प्रणयमास्थायोच्यते; देवदत्त या काचित्श्रीसौभाग्यसंपत्, सर्वासौ स्थविरं दशबलकाश्यपमागम्य; न त्वं तस्य सकाशमुपसंक्रामसि इति; ते संलक्षयन्ति: अप्येव नामायमस्माभिः प्रबोधितः तस्य सकाशमुपसंक्रामेत्; स एवं प्रतिनिवर्तयेतिति; स एवं प्रतिचोदितः कथयति: किं मम तेन कृतं? ननु मया वीर्यमाधाय, पूर्वरात्रापररात्रं जागरिकायोगमनुयुक्तेन विहरता प्रथमं ध्यानं निश्रित्य ऋद्धिरभिनिर्हृता इति; स वाक्प्रव्याहरणकालसमनन्तरमेव तया अकृतज्ञतया ऋद्धेः परिहीणः. भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: पश्य भदन्त देवदत्तः अकृतज्ञतया ऋद्धेः परिहीणः इति; भगवानाह: न भिक्षव एतर्हि, यथा अतीतेऽप्यध्वन्येषः अकृतज्ञतया विद्यायाः परिहीणः; तच्छ्रूयतां. ______________________________________________________________ थे स्तोर्योf अनोउत्-चस्ते वेर्सेदिन्मगिचन्दोf अ ब्राह्मण स्तुदेन्त् (चोन्चेर्निन्ग प्रेविओउस्बिर्थोf देवदत्त) भूतपूर्वं भिक्षवो वाराणस्यां नगर्यां ब्रह्मदत्तो नाम राज्यं कारयति ऋद्धं च यावदाकीर्णबहुजनमनुष्यं च; (इ ८७) तत्र चण्डालो विद्यामन्त्रधरो विद्यामन्त्रकुशलः गान्धारीविद्यां परिवर्त्य ऋद्ध्या गन्धमादनात्पर्वतातकालर्तुकानि पुष्पफलान्यादाय राज्ञे ब्रह्मदत्तायोपनयति; राजा ब्रह्मदत्तस्तस्याभिप्रसन्नः अभिसारमनुप्रयच्छति; यावदन्यतमो माणवो मन्त्रार्थी मन्त्रगवषी श्रवपरम्पया जनपदात्वाराणसीमनुप्राप्तः; ततो मार्गश्रमं प्रतिविनोद्य तस्य चण्डालस्य विद्यामन्त्रधारिणः सकाशमुपसंक्रान्तः; उपसंक्रम्य कथयति: इच्छाम्यहमुपाध्यायस्य शुश्रूषां कर्तुं; कस्यार्थे? विद्यायाः; स गाथां भाषते: (अ ४५६ ) न विद्या कस्यचिद्देया मर्तव्यं सह विद्यया । प्रयच्छेद्विद्यया विद्यां शुश्रूषाभिर्धनेन वा ॥ <इति> स कथयति: उपाध्याय यद्येवमहं शुश्रूषां करोमि; कियन्तं कालं कर्तव्या? स कथयति: द्वादशभिर्वर्षैः शुश्रूषया दीयेत वा न वा; सोऽत्यर्थं विद्याप्रतिपन्नः अनुज्ञातवान्; तत आराधनपरमः सत्कृत्य गुरुशुश्रूषां कर्तुमारब्धः; यावदपरेण समयेनासौ चण्डालो मद्यमदाक्षिप्तो गृहमागतः; स माणवः संलक्षयति; अयमुपाध्यायः अतीव मद्यमदाक्षिप्तः; पार्श्वे अस्य शय्या कल्पयितव्या इति; यावदसौ चण्डालः संपरिवर्तितुमारब्धः; तस्य संपरिवर्तमानस्य खट्वाया अङ्गणिका भग्ना; माणवः श्रुत्वा प्रतिबुद्धः; स संलक्षयति: उपाध्यायः दुःखं शयिष्यते; यन्न्वहमङ्गणिकायां पृष्ठं दत्वा अवस्थितः; धर्मता ह्येषा शौण्डानां यो बलवांस्तस्य वान्तिर्भवति; तस्य प्रथमे यामे मद्यं विगच्छति; तेन तीक्ष्णमद्यवेगात्माणवस्य पृष्ठे वान्तं; स संलक्षयति: यद्यहं कायं चालयेयं वाचं वा निश्चारयेयं स्थानमेतद्विद्यते यदुपाध्यायः शब्दं श्रुत्वा प्रतिबुद्धो न पुनः शय्यां कल्पयेत्; स प्रतिसङ्ख्यानेन अवस्थितः; यावद्चण्डालः स्वयमेव प्रतिबुद्धः पश्यति तं तथा विप्रकृतं; ततः पृच्छति, कोऽयं; स कथयति: उपाध्याय अहं सोमशर्मा; वत्स (इ ८८) किमस्येवंस्थितः? तेन यथावृत्तं समाख्यातं; सोऽभिप्रसन्नः कथयति: वत्स परितुष्टोऽहं; गत्वा स्नात्वा आगच्छ; विद्यां तुभ्यमनुप्रयच्छामि इति; सोमशर्मा आगतः; तेन तस्मै विद्या दत्ता; चपला ब्राह्मणा भवन्ति; स वेगमसहमानः चिन्तयति; इहैव तावदेनां विद्यां जिज्ञासयामि, ततोऽन्यत्र गमिष्यामि इति; तेन सा विद्या परिवर्तिता; भवनतलमुत्पत्य, आश्वेव गन्धमादनं पर्वतं गत्वा, अकालर्तुकानि पुष्पान्यादाय आगतः; तेन तानि राज्ञः पुरोहिताय दत्तानि; तेनापि राज्ञे ब्रह्मदत्ताय; राजा कथयति: कुतस्तवैतानि; स कथयति: विप्रकृष्टाद्देशान्माणवोऽभ्यागतः; तेनैतानि मम दत्तानि; स चात्यर्थं विद्यामन्त्रधारी अकामकरणीयश्च ब्राह्मणः; किमनेन चण्डालेन सर्वलोकप्रत्याख्यातेन? तस्य वृत्तिमाच्छिद्य अस्मै माणवाय दीयतामिति; राजा कथयति: एवं कारय इति; ततः पुरोहितेन चण्डालाद्वृत्तिमाच्छिद्य तस्मै ब्राह्मणाय दत्ता; स तया अकृतज्ञतया तस्य विद्यायाः परिहीणः. किं मन्यध्वे भिक्षवः योऽसौ चण्डालः एष एवासौ दशबलकाश्यपः तेन कालेन तेन समयेन; सोऽसौ माणवः एष एव असौ देवदत्तः तेन कालेन तेन समयेन; तदाप्येष विद्यायाः परिहीणः; अद्याप्येष ऋद्धेः परिहीणः; तस्मात्तर्हि भिक्षवः एवं शिक्षितव्यं यत्कृतज्ञा भविष्यामः; स्वल्पमपि कृतं न नाशयिष्यामः प्रागेव प्रभूततरम्; इत्येवं वो भिक्षवः शिक्षितव्यं. ______________________________________________________________ थे बुद्ध गोएस्तो गया अथ भगवान् यथाभिरम्यं राजगृहे विहृत्य भिक्षुगणपरिवृतः भिक्षुसंघपुरस्कृतः, मगधेषु जनपदेषु चारिकां चरन् गयामनुप्राप्तः गयायां विहरति; (अ ४५७ ) राज्ञा बिम्बिसारेण भगवतः पर्णोपगूढस्य शालेः पंचमात्राणि शकटशतानि प्रापितानि; देवदत्तेन अजातशत्रुरभिहितः: पश्य वृद्धराजा श्रमणस्य गौतमस्य कीदृशान् कारान् करोति; अहमपि जनपदचारिकां चरिष्यामि; अस्माकमपि त्वया पिण्डकेन अविघातः करणीयः. (इ ८९) अथ देवदत्तोऽपि पंचशतपरिवारो जनपदचारिकां प्रक्रान्तः; देवदत्तस्याजातशत्रुणा राज्ञा पर्णोपगूढस्य शालेः पंचमात्राणि शकटशतानि प्रतिमार्गं प्रेषितानि; भिक्षवो दृष्ट्वा संलक्षयन्ति: कस्यैतानि पंच शकटशतान्यागच्छन्ति इति; तैः कुतूहलजातैः अध्वगतपुरुषाः पृष्टाः; तैर्विस्तरेण समाख्यातं. भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: पश्य भदन्त राजा अजातशत्रुरपात्रमपात्रवर्षी च इति; भगवानाह: न भिक्षव एतर्हि, राजा अजातशत्रुरपात्रमपात्रवर्षी, यथा अतीतेऽप्यध्वन्येषः अपात्रमपात्रवर्षी; तच्छ्रूयतां. ______________________________________________________________ थे स्तोर्योf अ मन्गो त्रेए (चोन्चेर्निन्ग प्रेविओउस्बिर्थोf प्रिन्चे अजातशत्रु) भूतपूर्वं भिक्षवः अन्यतमस्मिन्नग्रामके अरण्यायतने ऋषीणामाश्रमपदं, नानापुष्पफलसलिलसंपन्नं; तत्र ऋषयः प्रतिवसन्ति फलमूलाम्भुभक्षाः, जटावल्कलधारिणः, प्रमुक्तफलभोजिनः; यावत्तस्मिन्नाश्रमपदे आम्रवृक्षः फलभारावनतशाखः पक्वफलस्तिष्ठति; ऋशयः फलानि याचन्ते; या तस्मिन् वृक्षे अध्युषिता देवता सा मात्सर्याभिभूता न प्रयच्छति; ततस्ते ऋषयः मूलार्थिनः एकमृषिमाश्रमपदे स्थापयित्वा भ्रान्ताः; तत्समनन्तरमेव पंच चोरशतान्याश्रमपदमनुप्राप्तानि; तैरसौ वृक्षो दत्तः; ते कथयन्ति: कथमस्मात्फलानि परिभोक्तव्यानि इति; चोरसेनापतिः कथयति: वृक्षं परशुना मूले छित्वा फलानि भक्षयत इति; एवमुक्ते देवतया सर्वाणि फलानि भूम्यां पातितानि; चोरा यावदाप्तं भक्षयित्वा प्रक्रान्ताः; ऋषय आगताः पृच्छन्ति: केन तान्याम्रफलानि भक्षितानि? चोरैः; स ऋषिर्गाथां भाषते: ददाति वृक्षो न फलं शान्तानां ब्रह्मचारिणाम् । ददाति तु फलं तेषां चोराणां पापकारिणाम् ॥ इति ते पृच्छन्ति: ऋषे किमेतत्? तेन यथावृत्तं समाख्यातं; ते अवध्यातुमारब्धाः; मात्सर्याभिभूतया देवतया फलानि ऋषीणां न दत्तानि; अपात्राणां चोराणां दत्तानि इति. भगवानाह: किं मन्यध्वे भिक्षवः यासौ देवता एष एवासवजातशत्रुः तेन कालेन तेन समयेन; तदाप्येष अजातशत्रुः देवताभूतः अपात्रमपात्रवर्षी च; एतर्हि अप्येष अपात्रमपात्रवर्षी च इति. (इ ९०) ______________________________________________________________ थे बुद्ध इन् राजगृह अथ भगवान्मगधेषु जनपदेषु चारिकां चरन् राजगृहमनुप्राप्तः राजगृहे विहरति वेणुवने कलन्दकनिवापे; देवदत्तो राजगृहनिवासिनो जनकायस्य नित्यमेवापराधं करोति; यस्य यस्यापराधः क्रियते, स भगवत उपालम्भं प्रेषयति; तत्र भगवानायुष्मन्तमानन्दमामन्त्रयते: गच्छ आनन्द संघाटीम् (अ ४५७ ) आदाय अन्यतमेन भिक्षुणा पश्चाच्छ्रमणेन राजगृहे रथ्यावीथीचत्वरशृङ्गाटकेषु ब्राह्मणगृहपतीनामारोचय यद्देवदत्तो वा, देवदत्तपक्षिको वा अपराधं करोति; न तेन बुद्धो वा धर्मो वा संघो वा संबध्यते इति; यदि कथयन्ति: महर्धिको देवदत्तो महानुभावः इति, वक्तव्याः: आसीन्महर्धिकः; इदानीं परिहीणस्तस्या ऋद्धेः इति; तेन गत्वा राजगृहे नगररथ्यावीथीचत्वरशृङ्गाटकेषु ब्राह्मणगृहपतीनामारोचितं, ते न भूयो भगवत उपालम्भं प्रेषयन्ति. ______________________________________________________________ थे बुद्धो ग्रोwसिल्ल् भगवतो ग्लान्यमुत्पन्नं; जीवकेन भगवते नाराचघृतमुपनीतं; तत्र भगवान् जीवकं वैद्यराजमामन्त्रयते: आश्चर्यं जीवक? आश्चर्यं भगवन्; अद्भुतं जीवक? अद्भुतं भगवन्, जानासि जीवक? जानामि भगवन्; न जानासि जीवक; न चापि सुगत; १) किं जीवक आश्चर्यं? भगवन् गावस्तृणानि चरन्ति; पानीयं पिबन्ति; तत इदममृतं समुत्पन्नं; येनेदं नाराचघ्र्तं पक्वन्; २) किमद्भुतं? भगवन् बुद्धोत्पादः, सद्धर्मस्य च देशना, संघस्य च सुप्रतिपत्तिः; ३) किं जानासि? भगवन् जातेनावश्यं मर्तव्यं; ४) किं न जानासि? भगवन् केन कुत्र मर्तव्यमिति. भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: पश्य भदन्त जीवकेन भगवतः संधाय भाषितं विज्ञातमिति; भगवानाह: न भिक्षव एतर्हि, यथा अतीतेऽप्यध्वन्यनेन मम संधाय भाषितं विज्ञातं; तच्छ्रूयतां. (इ ९१) ______________________________________________________________ थे स्तोर्योf अ गृहपति अन्धिस्सोन् (चोन्चेर्निन्ग प्रेविओउस्बिर्थोf जीवक) भूतपूर्वं भिक्षवोऽन्यतमस्मिन् कर्वटके गृहपतिः प्रतिवसति, आढ्यो महाधनो महाभोगः; तेन सदृशात्कुलात्कलत्रमानीतं; स तया सार्धं क्रीडति रमते परिचारयति; तस्य क्रीडतो रममाणस्य परिचारयतः कालान्तरेण पत्नी आपन्नसत्वा संवृत्ता; सा अष्टानां व नावानां वा मासानामत्ययात्प्रसूता; दारिका जाता; तस्यास्त्रीणि सप्तकान्येकविंषतिदिवसान् जातायाः जातिमहं कृत्वा वलयेति नामधेयं व्यवस्थापितं; भूयोऽप्यस्य क्रीडतो रममाणस्य परिचारयतः पुत्रो जातः; तस्यापि कुलसदृशं नामधेयं व्यवस्थापितं; स संलक्षयति: जातो मे ऋणहरो धनहरश्च; गच्छामि पण्यमादाय देशान्तरमिति; भूयः स संलक्षयति: इयं मम पत्नी रूपवती; यद्यहमस्याः प्रभूतान् कार्षापणान् दत्वा गच्छामि, स्थानमेतद्विद्यते यत्परपुरुषैः सार्धं विकरिष्यति; यन्न्वहमस्याः स्वल्पान् कार्षापणान् दत्वा गच्छेयमिति; स तस्याः स्तोकान् कार्षापणान् दत्वा, अवशिष्टं सुवर्णकलशे प्रक्षिप्य, ग्रीवायां मुक्ताहारं बद्ध्वा श्मशाने अश्वकर्णस्य मूले निखन्य पण्यमादाय देशान्तरं गतः; तस्य तत्र प्रभूतो लाभः संपन्नः; स तत्रैव दारसङ्ग्रहं कृत्वा अवस्थितः; तस्य च बहवः पुत्रा जाताः; ततस्तया पूर्विकया पत्न्या वलया स च दारकः हस्तबलेन ज्ञातिबलेन च पायितौ, पोषितौ, संवर्धितौ; तौ कथयतः: अम्ब पिता अस्माकं क्व गतः? सा कथयति: पुत्र अस्मिन् देशे अमुकमधिष्ठानं तत्र तिष्ठति (अ ४५८ ) तस्य च महती धनसंपत्तिः श्रूयते, गच्छ यदि किंचिदस्योज्जीवनोपायस्ते भविष्यति इति; स पितरं समन्वेषमाणः अनुपूर्वेण तस्य सकाशं गतः; स वीथ्यामन्वाहिण्डमानः पित्रा मुखबिम्बकेन प्रत्यभिज्ञातः; शब्दयित्व्या अभिहितः: कुतस्त्वमिहागच्छसि? कुत्र वा गन्तुम्? इति; तेन विस्तरेण समाख्यातं; स संलक्षयति: एष एवासौ मम पुत्रः इति; स तेन स्वगृहीतः उक्तश्च: पुत्र न ते कस्यचिदाख्येयं, ममायं पिता इति; स तस्यात्यर्थं स्नेहं कर्तुमारब्धः; (इ ९२) ततस्तैरन्यैः पुत्रैरुच्यते: तात कस्यायं दारकः? स कथयति: ममायं वयस्यस्य पुत्रः इति; तैः संलक्षितं: यथायमस्यात्यर्थं स्नेहवान्नूनमस्यैव पुत्रः इति; ते परस्परं संजल्पं कर्तुमारब्धाः: अयमपरो भ्राता इति; स संलक्षयति: प्रेषयाम्येनं; प्रतिक्रुष्टमेतद्वैराणां, यदुत सापत्न्यकं; स्थानमेतद्विद्यते यदेनं प्रघातयिष्यन्ति; यदि च किंचिद्दास्यामि अन्तर्मार्गे दायाद्यकारणाद्घातयिष्यन्ति; यन्न्वहमेवं प्रेषयेयमिति विदित्वा चीरिका लिखित्वा दत्ता: ग्रामश्मशाने हयकर्णमूलं प्राग्भूमितो योजनमन्तरेण । तस्मिन् खनन् वै निपुणोऽप्रमत्तो दायाद्यमात्मीयमुपैष्यसि त्वम् ॥ कण्ठे तु यत्तद्वलयाया देयमिति. स चीरिकामादाय संप्रस्थितः; अन्तर्मार्गे भ्रातृभिर्गृहीतः; उक्तश्च: किं त्वया पितुः सकाशाल्लब्धं स कथयति: न किंचिदियं चीरिका; ते संलक्षयन्ति: व्यंशितोऽयं पित्रा; गच्छतु इति; स तैर्मुक्तः; अनुपूर्वेण स्वगृहे प्रविष्टो मार्गश्रमं प्रतिविनोदयति; मात्रा अभिहितः: किं त्वया पितुः सकाशाल्लब्धमिति; स कथयति: न किंचिदपि, किंतु इयं चीरिका; सा कथयति: व्यंशितस्त्वं तेन, मार्गश्रमश्च जातो, न किंचित्संपन्नमिति; स कथयति: अम्ब महात्मासौ; न मां व्यंशयिष्यति इति; स तां चीरिकां वाचयितुमारब्धः: ग्रामेति, यत्र जायते सोऽत्र ग्रामोऽभिप्रेतः; श्मशानेति, यत्र मृतो (इ ९३) दह्यते; हयकर्णमूले इति, हया उच्यन्ते अश्वाः; तत्कर्णनामा वृक्षः; अश्वकर्णमूले इत्युक्तं भवति; प्राग्भूमित इति, पूर्वस्यां दिशि; योजनमन्तरेणेति, युगमात्रमन्तरेन इति; स एवं गाथार्थं विचार्य निःसंपातवेलायां श्मशानं गतः; तत्समीपे पश्यति, अश्वकर्णवृक्षः, स तस्य पूर्वे दिग्भागे युगमात्रं मापयित्वा खनितुमारब्धः; यावत्पश्यति सुवर्णकलशं; ग्रीवायां चास्य हारं बद्धं; स तमादाय आत्तमनात्तमनो गृहं गतः; मुक्ताहारं चापनीय वलयायैव दत्तवान्. किं मन्यध्वे भिक्षवः? योऽसौ गृहपतिरहमेव सः तेन कालेन तेन समयेन; योऽसौ तस्य पुत्रः एष एवासौ जीवकः तेन कालेन तेन समयेन; तदाप्यनेन मम संधाय भाषितं विज्ञातं. ______________________________________________________________ थे सिछ्नेस्सोf थे बुद्ध. थे बुद्ध हेअल्स्देवदत्त जीवकः संलक्षयति: वज्रकायशरीरो भगवान् बृहत्कायश्च; न शक्यमत्यल्पेन घृतेन चिकित्सां कर्तुं; तेन पात्रं गृहीत्वा द्वात्रिंशद्घृतपलानि तुलोन्मितानि कृत्वा भगवते प्रदत्तानि; भगवता पात्रशेषं भिक्षूणां चार्यते; भिक्षवः (अ ४५८ ) भगवतः पात्रशेषमिति कृत्वा नमस्यन्ति. देवदत्तः संलक्षयति: अहमपि घृतं पिबामीति; तेन जीवकः पृष्टः: जीवक कियति मात्रा घृतस्य श्रमणेन गौतमेन पीता? इति; स कथयति: द्वात्रिंशत्पलानि इति; स कथयति: अहमपि द्वात्रिंशत्पलानि पिबामि इति; जीवकः कथयति: वज्रमयशरीरो भगवान् बृहत्कायश्च; शक्नोति इयतीं मात्रां जरयितुं; त्वं पुनर्न शक्ष्यसि जरयितुमिति; स कथयति: अहमपि वज्रशरीरः; किमर्थं न जरयामि? इति; तेन द्वात्रिंशत्पलिका मात्रा बलात्पीता; भगवतः सम्यक्परिणतं; देवदत्तस्य न परिणतम्; अपरस्मिन्नेव दिवसे जीवकेन भगवतो मण्डो दत्तः; देवदत्तेन मानाद्भगवान् पिबतीति अजीर्णे एव घृते मण्डः पीतः; शूलः समुत्पन्नः; मर्मोपरोधिकी वेदना प्रादुर्भूता; स तन्निमित्तं दुःखां तीव्रां खरां कटुकाम् (इ ९४) अमनापां वेदनां वेदयते; न रात्रौ न दिवा निद्रामासादयति. आयुष्मानानन्दो ज्ञातिवत्सलः; तेन स वृत्तान्तो भगवते निवेदितः; ततो भगवता गजभुजसदृशं बाहुमभिप्रसार्य गृध्रकूटं पर्वतं भित्वा चक्तस्वस्तिकनन्द्यावर्तेन अनेकपुण्यशतनिर्जातेन भीतानामाश्वासनकरं करं देवदत्तस्य स्थापयित्वा सत्योपयाचनं कृतं; येन सत्येन यथा राहुलभद्रे प्रिये एकपुत्रके चित्तमनूनानधिकं तथैव देवदत्ते तेन सत्येन रुजा शमं गच्छेदिति; सत्योपयाचनकालसमनन्तरमेव देवदत्तस्य रुजा प्रशान्ता; स नष्टोपलब्धप्राणो भगवतः पाणिं निरीक्षते; तेन संप्ररिज्ञातं; स संलक्षयति: श्रमणस्य गौतमस्य पाणिरिति; सोऽनल्पकल्पशाठ्यसमुदाचारमदावलेपावर्जितसन्तैः; तथापि बुद्धमाहात्म्योपशान्तरुजः कथयति: शोभनं ते सिद्धार्थ वैद्यकमधिगतं; शक्ष्यस्यनेन जीविकां कल्पयितुमिति; सामन्तकेन शब्दो विसृतः: देवदत्तो भगवता सत्योपयाचनया प्रगाढवेदनाभिभूतः प्राणैर्वियुज्यमानः स्वस्थीकृतः इति; यं श्रुत्वा देवदत्तपक्ष्या अप्यत्यन्ताभिनिविष्टा भगवत्याश्चर्यं प्रवेदितवन्तः: अहोऽस्य सम्यक्संपन्ना मैत्री; अहो सत्वेषु सुभाविता करुणा इति. भिक्षुभिर्देवदत्तोऽभिहितः: देवदत्त त्वं भगवता स्वस्थीकृतः; अन्यथा प्राणैर्वियुक्तः स्याः इति; स कथयति: जानात्यसावन्वावर्तनीं मायां, यया लोकं समन्वावर्तयति इति; भिक्षवः कथयन्ति: देवदत्त अलमनेन विकत्थितेन; स्वचित्तं प्रतिलभस्व; स्वस्थीकृतस्त्वं भगवता इति; स कथयति: किं मम तेन कृतं? घृते परिणते रुजा व्युपशान्ता इति. अकृतज्ञोऽयमकृतवेदी इति कृत्वा प्रक्रान्ताः; येन भगवांस्तेनोपसंक्रान्ताः; उपसंक्रम्य संशयजातः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: पश्य भदन्त देवदत्तः अकृतज्ञः अकृतवेदी; भगवानाह: न भिक्षव एतर्हि, यथा (अ ४५९ ) अतीतेऽप्यध्वनि एष अकृतज्ञ अकृतवेदी; तच्छ्रूयतां. (इ ९५) उद्दानं: कौशिको महेन्द्रसेन आम्राणि दारुकोटकः । द्वौ ऋक्षौ शिबिराजा च विदारा जुज्जुकेन च ॥ ______________________________________________________________ थे स्तोर्योf अ सगे अन्दोf अनुन्ग्रतेfउलेलेफन्त् (चोन्चेर्निन्ग प्रेविओउस्बिर्थोf देवदत्त) भूतपूर्वं भिक्षवोऽन्यतमस्मिन्नग्रामके अरण्यायतने नानाविधपुष्पफलसलिलसंपन्नमुद्यानं; तस्मिन् कौशिकसगोत्रो ऋषिः प्रतिवसति; प्रमुक्तफलभोजी मूलफलाम्बुभक्षः अजिनवल्कलवासाः; तस्याश्रमपदसमन्तके विश्वस्ता मृगपक्षिणो यथेष्टं विहरन्ति; तस्य नातिदूरे हस्तिनी प्रसूता; तत्प्रसवसमनन्तरं सिंहेन नादो मुक्तः; सा भीता त्रस्ता कलभं परित्यज्य मूत्रपुरीषमुत्सृजन्ती निष्पलायिता; यावदसौ ऋषिराश्रमपदान्निष्क्रम्य आश्रमपदसामन्तकेन दिशो व्यवलोकयन् संपरिभ्रमितुमारब्धः; यावत्पश्यति तमभिनवजातं हस्तिकलभकं; ततोऽसौ ऋषिः कारुण्यादाकम्पितहृदयः तन्मातृसमन्वेषणाभिनिविष्टबुद्धिः समन्ततो व्यवलोकयितुमारब्धः; यदा सर्वावस्थं न पश्यति तदा तमादायाश्रमपदं प्रविष्टः; स तेन पुत्रवदापायितः पोषितः संवर्धितः; महान् संवृत्तः; तदा तस्य ऋषेराश्रमपदे अपराध्यते; पुष्पविटपानुत्पाटयति; फलवृक्षान् शाखाः भिनत्ति; एतानि चान्यानि चापराधसहस्राणि करोति; स ऋषिस्तं तर्जयति; ऋषिणा सन्तर्जितः संकोचमापद्यते; स यदा संजातरागः संवृत्तः तदा सन्तर्ज्यमानोऽप्यवज्ञां करोति; यावदपरेण समयेन ऋषिणा भृशं तर्जितः, तमेव ऋषिं हन्तुं प्रधावितः; स ऋषेर्देहैकदेशं भङ्क्त्वा निष्पलायितः; देवता गाथां भाषते: (इ ९६) न संगतिः कापुरुषेण भद्रिक कृतघ्नसत्वेन सुदारुणेन । चिरानुयातोऽपि करोति पापिकं नागो यथैवाश्रमकौशिकस्य ॥ इति किमादराद्दुर्जनं सेवसे त्वमन्नेन पानेन तथोभयेन । अवश्यमन्ते स निहन्ति मित्रं नागो यथैवाश्रमकौशिकस्य ॥ इति भगवानाह: किं मन्यध्वे भिक्षवः? योऽसौ ऋषिरहमेव सः तेन कालेन तेन समयेन; योऽसौ हस्तिनागः एष एवासौ देवदत्तः तेन कालेन तेन समयेन; तदाप्येष अकृतज्ञ अकृतवेदी; एतर्ह्यप्येष अकृतज्ञ अकृतवेदी; पुनरपि यथैष अकृतज्ञ अकृतवेदी, तच्छ्रूयतां. ______________________________________________________________ थे स्तोर्योf महेन्द्रसेन (चोन्चेर्निन्ग प्रेविओउस्बिर्थोf देवदत्त) भूतपूर्वं भिक्षवः अतीतेऽध्वनि वाराणस्यां नगर्यां महेन्द्रसेन नाम राजा राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं चाकीर्णबहुजनमनुष्यं च; तस्य चन्द्रप्रभा नाम देवी सत्यस्वप्ना; यत्किंचित्स्वप्ने पश्यति सर्वं तत्तथैव भवति; तस्य च राज्ञो विजिते सुवर्णपार्श्वो नाम बोधिसत्वः मृगेषूपपन्नो मृगाणामधिपतिः; सोऽचिन्तनीयरूपप्रभावयोगात्सर्वलोकमनोनयनप्रह्लादनकरः, प्रार्थनीयश्च; यस्तं पश्यति स निरीक्षमानस्तत्रैव तिष्ठति; सोऽत्यर्थमभिवीक्ष्यमानः शङ्की संवृत्तः; स लुब्धकभयादन्यलोकभयाच्च भीतश्चरति; धर्मता ह्येषा अचिरव्यतिवृत्ते लोकसन्निवेशे तिर्यञ्चोऽपि वाक्प्रव्याहरणसमर्था भवन्ति; अथान्यतरः काकस्(अ ४५९ ) तस्य समीपमुपसंक्रान्तः; स तेन सार्धं प्रेमप्रणयसौख्यः कथयति: भो मातुल कस्मात्त्वमेवं भीतभीतश्चरसि? इति; स कथयति: भागिनेय ममेदं रूपं सर्वलोकशुभं संप्रार्थनीयं च; सोऽहं लोकभयाल्लुब्धकभयाच्च भीतभीतश्(इ ९७) चरामि इति; स कथयति: ममाप्यतीवोलूकभयं; तदन्योन्यं रक्षां कुर्वः; अहं त्वां दिवा रक्षामि; त्वं मां रात्रौ रक्ष इति; तावेवं कृतमर्यादौ व्यवस्थितौ; यावदन्यतमः पुरुषो द्विषद्भिः पश्चाद्बाहुगाढबन्धनबद्धो नवाम्बुपूर्णायां हेमलोह्यां हेममालिन्यां शीघ्रस्रोतसि नद्यां प्रक्षिप्तः; तत्र उह्यमान आर्तस्वरं विललाप: पर्यदेवत: भवामि कस्य दासोऽहं कस्य वा परिचारकः । यो मेऽद्य जीवितं दद्याद्यल्लोकेषु सुदुर्लभम् ॥ इति; दैवादसौ मृगाधिपतिः सलिलाशयात्मृगगणपरिवृतो नदीसमीपमुपसंक्रान्तः; ततः पुरुषविरावं श्रुत्वा ते मृगाः समन्ताद्विद्रुताः; धर्मता ह्येषा बोधिसत्वानां यदपि कायेन विनिपतन्ति, नो तु चित्तेन; ततः स मृगाधिपतिः कारुण्यादाम्रेडितहृदयः सहसा नदीमवतर्तुमारब्धः; काकश्चास्य पूर्वमर्यादावधृतमतिः पृष्ठतः अनुबद्ध एव संरक्षणाय; स तं पुरुषं कृतोद्धरणव्यवसायं विदित्वा एवमाह: अलमलं मृगाधिपते; मा साहसं कार्षीः; अकृतज्ञा ह्येते मनुष्याः नोपकारं मन्यन्ते इति; अनिवर्तका भवन्ति बोधिसत्वा महासत्वाः; स तस्य वचनमवचनं कृत्वा नदीमवगाह्य तं पुरुषं प्रियमिवैकपुत्रं पृष्ठमभिरोह्य, नद्यास्तीरं संप्राप्य, बन्धनान्यवमुच्य, मुहूर्तं समाश्वास्य, कथयति: वत्स अनेन पथा यथेष्टं गच्छ इति; ततोऽसौ पुरुषः कृतांजलिः पादयोर्निपत्य तं मृगाधिपतिमिदमवोचत्: तव दासो ह्यहं तात तवैव परिचारकः । त्वया मे जीवितं दत्तं यल्लोकेषु सुदुर्लभम् ॥ इति स कथयति म मे त्वमद्य दासः स्याः मा चैव परिचारकः । न वाच्यस्त्वहमन्येभ्यो हन्युर्मां चर्मकारणात् ॥ अपि तु वत्स इदं त्वया कर्तव्यं; कृते प्रत्युपकारात्नाहं त्वया कस्यचिन्निवेद्यः; अतिलोभनीयमिदं मे शरीरं प्रार्थनीयं सर्वलोकस्य इति; ततस्स पुरुष तथेति प्रतिज्ञाय मृगाधिपतिं (इ ९८) त्रिः प्रदक्षिणीकृत्य पादयोर्निपत्य प्रक्रान्तः; यावदपरेण समयेन चन्द्रप्रभा देवी रतिपरिखेदखिन्ना महाशयने अत्यर्थं मिद्धमवक्रान्ता रात्र्याः पश्चिमे यामे स्वप्नमद्राक्षीदतिपरमरमणीयशरीरं मृगाधिपतिं सिंहासने निषद्य महत्यां राजपर्षदि धर्मं देशयन्तं; दृष्ट्वा च पुनः प्रत्यक्षवत्स्वप्नदर्शनसंजनितसौमनस्या लघु लघ्वेव महाशयनादुत्थाय राज्ञो निवेदितवती; श्रुत्वा राजा तस्याः सत्यस्वप्नायाः परं विस्मयमापन्नः: अनिष्टगत्युपपन्नेन सता कथं नाम सिंहासने निषद्य महत्यां राजपर्षदि धर्मो देशयितव्यः इति; ततश्चन्द्रप्रभा देवी प्रियमधुरचातुर्यकथासमुदाचारयोगेन मुहूर्तं राजानमुपलाड्य कथयति: देव क्रियतां यत्नः तस्य मृगस्यानयनाय इति; ततो राज्ञा अमात्यानाम् (अ ४६० ) आज्ञा दत्ता: भवन्तो यावन्तो मद्विषयनिवासिनो मृगलुब्धकास्तिष्ठन्ति ते सर्वे मत्सकाशमुपनेयाः इति; अमात्यैः प्रतिप्रतिविषयेषु राजपुरुषाणामाज्ञा दत्ता: देवः समाज्ञापयति मद्विषयनिवासिभिर्मृगलुब्धकैरिहागन्तव्यमिति; तद्युष्माभिः सर्वमृगलुब्धका इह प्रेषयितव्याः इति; तैः सर्वे विषयनिवासिनो मृगलुब्धका राज्ञः सकाशं प्रेषिताः; अमात्यै रज्ञे उपनीताः; राजा कथयति: भवन्तो श्रुतं मया मद्विजिते परमरमणीयरूपविग्रहो मृगोऽस्तीति; स युष्माभिर्मृदुशिथिलबन्धनोपनिबद्धो मत्सकाशमखेदित उपनेयः इति; ते कथयन्ति: देव वयं तज्जीविन एव; इयता कालेन देवस्य विजिते पर्यटद्भिर्न कदाचिदेवंविधो मृगवरः श्रुतपूर्वः; किमुत दृष्टः तमर्हति देवः श्रवपरम्परया समन्वेष्य अमुष्मिन् देशे तिष्ठतीति; अस्माकमाज्ञातुम्; एवं देवस्य वयं नियतमाज्ञां संपादयामः इति; ततो राज्ञा अमात्यानामाज्ञा दत्ता: भवन्तो वाराणस्यां घण्टावघोषणं कारयत समाज्ञापयति देवः; अतिरमणीयविग्रहो मृगाधिपतिरस्ति; यो मे तस्य प्रवृत्तिं निवेदयति तमहं महता सत्कारेण सत्करोमि; पंच चास्मै ग्रामवरान् प्रयच्छामि इति; अमात्यै राज्ञः प्रतिश्रुत्य वाराणस्यां घण्टावघोषणं कारितं: शृण्वन्तु भवन्तो वाराणसीनिवासिनः पौरा नानादेशाभ्यागताश्च जनाः; देव एवं समाज्ञापयति मद्विजिते अतिपरमरमणीयविग्रहो मृगाधिपतिरस्ति; यो मे तस्य प्रवृत्तिं निवेदयति तमहं महता सत्कारेण सत्करोमि; पंच चास्मै ग्रामवरान् प्रयच्छामि इति; ततस्तद्दर्शिनः पुरुषस्य एतदभवत्: किं तावत्कुटुम्बमनुपालयामि, आहोस्वित्कृतज्ञताम्? इति; कामान् खलु प्रतिसेवमानस्य (इ ९९) नास्ति किंचित्पापकं कर्म अकरणीयमिति स कामनिदानोत्थेन द्वेषवह्नितीव्रेण सन्तापितहृदयः संलक्षय्ति: तिष्ठतु कृतज्ञता; शत्रोर्वैरनिर्यातनाय समुपस्थितः कालः; किं मया पुनस्तादृशी अवस्था प्रापयितव्या? तस्य तावद्वैरनिर्यातनं करोमि इति; स प्रभातायां रजन्यां राज्ञः पर्षदि सन्निषण्णस्य राजकार्यमधितिष्ठतः, अनिवारिते राजकुलद्वारे नानाविचित्रसुरभिपुष्पाण्यादाय दौवारिकामात्यपरंपरया राजानं संश्राव्य पर्षदमभ्यवगाह्य सत्कारविधिपूर्वकेण राज्ञो निवेदितयति: अमुष्मिन् देशे नानातरुषण्डमण्डिते विश्वस्तमृगपक्षिणि सुवर्णपार्श्वो मृगाधिपतिरनेकमृगगणपरिवृतस्तिष्ठति; अहं तं देवस्य अतिरमणीयविग्रहं मृगवरमुपदर्शयामि इति; ततो राजा तच्छ्रवणसंजनितसौमनस्यः अनेकामात्यशतसहस्रपरिवृतः कुतूहलजातेनान्येन नानादेशाभ्यागतेन वाराणसीनिवासिना च पौरजानपदेन संपुरस्कृतः, देशितमार्गस्तेन पुरुषेण, अनुपूर्वेण तं प्रदेशमनुप्राप्तः; यावदसौ काकः बोधिसत्वस्य कृतावधिः दिशामवलोककः तस्मिन् वनषण्डवृक्षशिखरे निषण्णः; यावत्पश्यति वनषण्डाभिमुखं (अ ४६० ) महाजनकायं; त्वरितत्वरितं मृगाधिपतेः सकाशमुपसंक्रम्य कथयति; मृगराज मया त्वं पूर्वमुक्तः अकृतज्ञा मनुष्याः, अकृतवेदिनः, नोपकारं मन्यते इति; अयं स पुरुषो महता प्राभृतेनागतः इति; तच्छब्दप्रतिसंवेदिनो मृगा भीताः समन्ताद्प्रद्रुताः; मृगाधिपतिर्बोधिसत्वः संलक्षयति: यद्यहमेतान्न रक्षिष्यामि, अद्यैव निधनमुपयास्यन्ति; कामं स्वप्राणविनाशो न तु सत्वाध्युपेक्षणमिति विदित्वा राजानं प्रत्युद्गतः; ततः स पुरुषो निर्घृणहृदयस्त्यक्तपरलोको मृगदर्शनादावर्जितमतिस्तं मृगवरमुभाभ्यां पाणिभ्यामुपदर्शयन्नाह: देव अयं स मृगाधिपतिरिति; अत्युदीर्णपरिपूर्णानि हि कर्माणि न विपाककालमपेक्षन्ते; वाक्प्रव्याहरणकालसमनन्तरमेव तस्य पुरुषस्य उभौ पाणी पृथिव्यां निपतितौ; ततः स राजा संवेगजातस्तं पुरुषं पृष्टवान्: भोः पुरुष किमिदम्? इति; स दुःखवेदनाभ्याहतः सगद्गदं गाथां भाषते: नासौ चोरो महाराज हरत्यर्थं निहत्य यः । स तु चोरो महाराज यस्य नास्ति कृतज्ञता ॥ (इ १००) राजा कथयति: कोऽस्य भाषितस्यार्थः? इति; तेन सर्वं यथाविस्तरेण समाख्यातं; ततो राजा अकृतज्ञपुरुषं गाथया प्रत्याभाषत: कथं पृथिव्यां न निमज्जसेऽधमः कथं न जिह्वा शतधा विदीर्यते । कथं न वज्राशनिशक्तितोमरैस् तवेह गात्रे प्रहरन्ति गुह्यकाः ॥ इति ततो राजा बोधिसत्वस्य तां प्रभावमहत्तां ज्ञात्वा अमात्यानामन्त्रयते: सत्कारार्थोऽयं मृगाधिपतिर्महात्मा; गच्छत; नगरशोभां मार्गशोभां च कारयत इति; तैस्तन्नगरमपगतपाषाणशर्करकठल्लं व्यवस्थापितं, चन्दनवारिपरिषिक्तं सुरभिधूपघटिकोपनिबद्धमुच्छृतध्वजपताकमामुक्तपट्टादामकलापं नानापुष्पावकीर्णं रमणीयं, देवानामिव नन्दनवनोद्यानम्; एवं मार्गशोभा कारिता; वाराणसीनिवसी जनकायः मल्योपहारशोभामादाय प्रत्युद्गतः; ततो राज्ञा असावतिरमणीयविग्रहो मृगाधिपतिर्महत्या विभूत्या वाराणसीं नगरीं प्रवेश्य सिंहासने निषादितः; ततो महत्या राजऋद्ध्या महता राजानुभावेन राजा सान्तःपुरकुमारामात्यपौरजानपदैस्परिवार्य निषण्णः; अथ मृगाधिपतिबोधिसत्वेन समन्तात्तां पर्षदमवलोक्य राज्ञस्तस्याश्च पर्षदस्तथाविधो धर्मो देशितः, यं श्रुत्वा राज्ञा सपरिवारेण पंचशिक्षापदानि गृहीतानि; अनेकैश्च सत्वैः कुशलमूलान्यासादितानि; ततो राज्ञा सदा बोधिसत्वमृगेभ्योऽभयं दत्तं; सर्वप्राणिभूतेष्वभयं दत्तं. किं मन्यध्वे भिक्षवः? योऽसौ सुवर्णपार्श्वो मृगाधिपतिरहमेव सः तेन कालेन तेन समयेन; योऽसौ पुरुषः एष एवासौ देवदत्तः तेन कालेन तेन समयेन; तदाप्येष अकृतज्ञः अकृतवेदी; एतर्ह्यप्येष अकृतज्ञ अकृतवेदी; पुनरपि यथा देवदत्तः अकृतज्ञ अकृतवेदी तच्छ्रूयतां. ______________________________________________________________ थे स्तोर्योf अ लोर्दोf मोन्केय्सन्दोf अ मकेरोf गर्लन्द्स् (चोन्चेर्निन्ग प्रेविओउस्बिर्थोf देवदत्त) भूतपूर्वं भिक्षवोऽन्यतमस्मिन् कर्वटके मालाकारः प्रतिवसति; (अ ४६१ ) तत्र नद्याः पारे पुष्पवाटिका; स दिवा दिवसमेव नदीपुष्पाण्य्(इ १०१) उच्चिनोति; यावदपरेण समयेन नदीमुत्तरता आम्रफलमुह्यमानमनार्तवं दृष्टं; तेन गृहीत्वा दौवारिकाय दत्तं; दौवारिकेण प्रतीहाराय; प्रतीहारेण राज्ञे; राज्ञा देव्यै; देव्या तदास्वादितम्; आस्वाद्य रसाभिगृद्धया राजा विज्ञप्तः: देव ईदृशान्याम्रफलानि दातुमर्हसि इति; राज्ञा प्रतीहारः पृष्टः: कुतस्तवाम्रफलानि? इति; स कथयति: दौवारिकेण दत्तमिति; दौवारिकः पृष्टः; स कथयति: मालाकारेण दत्तमिति; राजा कथयति: भवन्त अआहूयतां मालाकारः इति; राजपुरुषैराहूतः; राजा कथयति: मालाकार कुतस्त्वया आम्रफलं लब्धं? तेन यथावृत्तं समाख्यातं; राज्ञा तस्यैवाज्ञा दत्ता: गच्छ, तादृशान्याम्रफलान्यानय इति; अकोप्या नराधिपाणामाज्ञा; स शङ्कापरिहतहृदयः आम्राणि समन्वेष्टुमारब्धः; तेन पूर्वकाम्रफलानुसारेण सम्बलमादाय गच्छता पर्वतैकदेशे स आम्रवृक्षो दृष्टः; स मर्कटानां गम्यो, न मनुष्याणां; ततः स मालाकारस्तं वृक्षमितश्चामुतश्च निरीक्षते सम्धिरोढुं; स प्रपाताभिवृद्धत्वादगम्यो मनुष्याणां; तस्य्तत्र आम्रफलाशयाद्बहवो दिवसा अतिक्रान्ताः; पथ्यदनं परिक्षीणं; स संलक्षयति: एवमहं पथ्यदनविरहात्प्राणाइर्वियोक्ष्ये; यथा वा तथा वा अधिरुहामि इति; स पाषाणनवलम्ब्य अवलम्ब्य अधिरोढुमारब्धः; अप्राप्यैव आम्रफलानि गर्तायां पतितः; तस्मिंश्च पर्वते वानरभूतो बोधिसत्वो वानराणामधिपतिर्बभूव; दैवादसौ तस्मिन् पर्वते यूथमपहाय तं प्रदेशमनुप्राप्तः; यावत्तेनासौ मालाकारः कृच्छ्रसङ्कटसंबाधप्राप्तो दृष्टः; कुशला भवन्ति बोधिसत्वाः तेषु तेषु शिल्पस्थानकर्मस्थानेषु; स तस्य हिताधानतत्परतया न शक्यते क्रममन्तरेण उद्धर्तुमिति पाषाणैरभ्यासं कर्तुमारब्धः; यदास्य परिविदितः शक्नोम्यहमेनमुद्धर्तुमिति तदा स तेन प्रपातात्क्रमेणोद्धृतः; पाषाणव्यायामात्तस्य च मालाकारस्योद्धरणादतीव परिश्रान्तः; तस्मिंश्च समये तिर्यञ्चो मानुषप्रलापिनः; तेनासु पृष्टः; किमर्थं त्वमेवंविधं सङ्कटमापन्नः? इति; तेन यथावृत्तं समाख्यातं; बोधिसत्वः संलक्षयति: गतो (इ १०२)ऽप्ययमाम्रफलैर्विना अनर्थं प्राप्नोति; ददाम्यहमस्मै आम्रफलानि इति; अनिक्षिप्तोत्साहः स महात्मा परहिताधानतत्परः परिश्रान्तोऽपि तं वृक्षमधिरुह्य आम्रफलानि पातयितुमारब्धः; तेन पुरुषेण यावदाप्तमाम्रफलानि भक्षितानि; उत्संगं च पूरितं; तदासौ वानराधिपतिरवतीर्णः; सर्वसत्वविश्वासिनो बोधिसत्वाः; स तं पुरुषमुवाच: भोः पुरुष दिगवलोकनं तावत्कुरु; परिश्रान्तोऽस्मि; मुहूर्तं स्वपामि इति; स कथयति: एवं कुरुष्व; स मिद्धमवक्रान्तः; पुरुषः संलक्षयति: क्षीणपथ्यदनोऽहं यद्याम्रफलं भक्षयन् गमिष्यामि राज्ञः किं मया देयं? (अ ४६१ ) तस्मादेतमेव वानरं हत्वा शुण्डीवल्लूरकाणि कृत्वा मार्गं गच्छामि इति; तेनासौ निर्घृणहृदयेन त्यक्तपरलोकेन महत्या शिलया जीविताद्व्यपरोपितः; देवता गाथां भाषते: उपकारलक्षणं प्राहुर्मित्रं तथोपकारज्ञम् । एकत्यास्तु मनुष्याः कृतमुपकारं न जानन्ति ॥ किं मन्यध्वे भिक्षवः? योऽसौ मर्कटाधिपतिरहमेव सः तेन कालेन तेन समयेन; योऽसौ मालाकरः एष एवासौ देवदत्तः तेन कालेन तेन समयेन; तदाप्येष अकृतज्ञः अकृतवेदी; एतर्ह्यप्येष अकृतज्ञ अकृतवेदी; पुनरपि यथैष अकृतज्ञ अकृतवेदी तच्छ्रूयतां. ______________________________________________________________ थे स्तोर्योf अ लोर्दोf अ दारुकोटक बिर्दन्द लिओन् (चोन्चेर्निन्ग प्रेविओउस्बिर्थोf देवदत्त) भूतपूर्वं भिक्षवः अनियतराश्यवस्थितो बोधिसत्वः अन्यतमस्मिन्नग्रामके अरण्यायतने पर्वतगिरिगुहाप्रवणे पुष्पफलसमृद्धे पक्षिषूपपन्नो दारुकोटको बभूव; तस्मिन्नेव च पर्वतैकदेशे सिंहो मृगराजः यथेष्टप्रचारविहारतया मृगान् प्रघात्य प्रघात्य भक्षयति; तस्यापरेण समयेन मांसं भक्षयतः अस्थि दन्तान्तरेण प्रविष्टं; स शूलरुजोपरुद्ध्यमानविग्रहो (इ १०३) विगतत्रासभयोऽपि काहलीभूतः; आहारमाहर्तुं न शक्नोतो; दैवात्स दारुकोटको वृक्षान्तरसञ्चाराभ्यासाद्यस्मिन् प्रदेशे मृगाधिपतिस्तं प्रदेशमनुप्राप्तः; तेन असौ सिंहो दुःखवेदनाभ्याहतो दृष्टः; उक्तश्च: मातुल किमसि काहलः? इति? स कथयति: भागिनेय दुःखवेदनाभ्याहतोऽस्मि; कीदृशं तव दुःखं? तेन विस्तरेण समाख्यातं; स कथयति: मातुल अहं तव चिकित्सां करोमि; त्वं हि सर्वचतुष्पदामधिपतिः; शक्तः सर्वोपकारं कर्तुं; तत्त्वया मम कालेन कालं योगोद्वहनं कर्तव्यं; स कथयति: एवं भवतु; करिष्यामि इति; स दारुकोटकः संलक्षयति: तथास्य चिकित्सां करोमि यथा कृतमपि न जानीते; स्वस्थस्तु संजानीते; स तस्याचारविहारसमन्वेषणया हिताधानतत्परस्तिष्ठति; यावदसौ मृगाधिपतिः सुखवायुसंस्पर्शविष्कम्भितास्यो महत्यां पृथिवीशिलायां वामपार्श्वं शिरस्याधाय मिद्धमवक्रान्तः; ततोऽसौ दारुकोटकस्तस्य मृगाधिपतेस्समीपमुपसंक्रान्तः; पश्यति तथा तथा विप्रलम्भविहारिणं; स संलक्षयति: अयं स कालोऽस्य चिकित्सायाः; इति विदित्वा सुपरीक्षितं कृत्वा दन्तानतरविलग्नमस्थि पक्षनिपातक्रमेण सहसा अपकृष्य मुखविवरान्निष्क्रम्य तमेव निरीक्षमाणो वृक्षेऽवस्थितः निषण्णः; ततः स मृगाधिपतिरस्थिशल्यापहारसंजनितसौमनस्यो निद्राक्लमं प्रतिविनोद्य उत्थाय प्रक्रान्तः; अथासौ दारुकोटकः तं मृगाधिपतिं व्यपगतदुःखदौर्मनस्यं विदित्वा प्रमुदितमनास्तत्समीपमुपसंक्रम्य कथयति: मातुल इदं तदस्थि तव दुःखनिमित्तभूतमिति; ततोऽसौ मृगाधिपतिः परं विस्मयमापन्नः कथयति: भागिनेय अस्योपकारस्य मया तवावश्यं प्रत्युपकारः कर्तव्यः कालेन कालमुपसंक्रमेथाः इति; शोभनमेव तथा भवतु इत्युक्त्वा स दारुकोटकः प्रक्रान्तः; यावदपरेण समयेन स (अ ४६२ ) मृगाधिपतिर्मांसं भक्षयति; स च दारुकोटकः श्येनकस्य पक्षिणः क्रमान्तरपरिभ्रष्टः, मृतमिव आत्मानं मन्यमानः क्षुधापरिगतहृदयः तस्य मृगाधिपतेः सकाशमुपसंक्रान्तः आर्तिनिवेदनं कृत्वा कथयति: मातुल क्षुधाभिभूतोऽहं; मांसस्तोकं (इ १०४) प्रयच्छ इति; स गाथां भाषते: प्राणातिपातिनो मेऽद्य रौद्रस्याशुभकारिणः । दंष्ट्रान्तरालसक्तस्त्वं जीवन्न बहुमन्यसे ॥ इति सोऽपि गाथां भाषते: नष्टं समुद्रपतितं नष्टं स्वप्ने विचिन्तितम् । नष्टं कापुरुषे सेवा अकृतज्ञे च यत्कृतम् ॥ इति भगवानाह: किं मन्यध्वे भिक्षवः? योऽसौ दारुकोटकः अहमेव सः तेन कालेन तेन समयेन; योऽसौ सिंहो मृगराजः एष एवासौ देवदत्तः तेन कालेन तेन समयेन; तदाप्येष अकृतज्ञः अकृतवेदी; एतर्ह्यप्येष अकृतज्ञ अकृतवेदी; पुनरपि यथैष अकृतज्ञ अकृतवेदी तच्छ्रूयतां. ______________________________________________________________ थे स्तोर्योf अ लोर्दोf अ बेअरन्द पोओर्मन् (चोन्चेर्निन्ग प्रेविओउस्बिर्थोf देवदत्त) भूतपूर्वं भिक्षवो वाराणास्यां नगर्यामन्यतमो दरिद्रपुरुषः प्रतिवसति; स काष्ठानि विक्रीय जीविकां कल्पयति: सोऽपरेण समयेन काल्यमेवोत्थाय परशुमाभङ्गीमादाय काष्ठार्थी वनं गतः; महांश्चाकालमेघो जलमुचमारुतपूर्वरूपः समागतः; ततः स पुरुषः युक्तं वायुक्तं वा इदमिति स्थानान्तरसमन्वेषणया वृक्षाद्वृक्षान्तरं गच्छति; तथाप्यतिवृष्यत एव; स वृक्षान्तरचारतया अनुपूर्वेण पर्वतगुहां प्रविष्टः; तस्यां च गुहायामृक्षस्तिष्ठति; स तं दृष्ट्वा सन्त्रस्तो निष्पलायितुमारब्धः; ऋक्षः कथयति: वत्स किं त्रस्तोऽसि; नास्ति ते मत्सकाशाद्भयं; तिष्ठ इति; स जातशङ्कोऽपि साध्वसान्न शक्नोति गन्तुं; ततस्तेन ऋक्षेण बाहुभ्यामुपगृह्य धारितः; मूलफलैश्च सन्तर्पितः; सप्ताहदुर्दिनं च संवृत्तं; वर्षत्येव देवः, न तिष्ठति; सप्ताहस्यात्ययादष्टमे दिवसे व्यभ्रे दिने विगतबलाहके देवे ऋक्षेण चतुर्दिशं व्यवलोक्य प्रभूतानि मूलफलानि दत्वा स पुरुषः अभिहितः: वत्स अपेतं दुर्दिनं; व्य्भ्रं दिनं; विगतबलाहको देवः; यथासुखं गच्छ इति; स पुरुषः पादयोर्निपत्य कथयति: तात गच्छामि; अपि तु मया तव प्रत्युपकारः कर्तव्यः इति; स कथयति (इ १०५) वत्स एतदेव मे कृतं, यथा मां न कस्यचिन्निवेदयसि इति; स कथयति: तात एवं भवतु उतु; स तं प्रदक्षिणीकृत्य पादयोर्निपत्य प्रक्रान्तः; स च वाराणसीं प्रविशति; अन्यतमश्च मृगलुब्धको मृगवधाय निर्गच्छति; स तेन दृष्टः उक्तश्च: मित्र त्वमियता कालेन इहागतः; पुत्रदारं ते विक्लवीभूतम्; अतीव विरौति: त्वं किलाकालसाप्ताहिकमेघेन श्वापदेन वा प्रघातितः इति; अनेके मृगपक्षिनः साप्ताहिकाकालमेघेन प्रघातिताः; त्वं पुनः कथं परिभ्रष्टः? इति; तेन यथावृतं सर्वमारोचितं; स कथयति: वयस्य कामं येन वा तेन वा जीविकं कल्पयामि, न भूयो वनं प्रविशामि इति; स तेन तथा तथा प्रतिलोभितो मांसप्रत्यंशद्वयेन यथा प्रतिपन्नो मार्गमुपदर्शयन् संप्रस्थितः; यावदनुपूर्वेण (अ ४६२ ) गुहामनुप्राप्तः यत्रासौ महात्मा ऋक्षस्तिष्ठति; ततो नैर्घृण्यमास्थाय अकृतज्ञतां च कथयति: एषा गुहा यत्रासौ तिष्ठति इति; ततस्तेन लुब्धेन परप्राणोपरोधिना गुहायामग्निर्दत्तः; अथ स महात्मा ऋक्षो धूमव्याकुलीकृतमना अश्रुपर्याकुलेषणो गाथां भाषते: कस्य किं व्यपनीतं मे वसता गिरिगह्वरे । फलमूलाम्बुभक्षेण सत्वेषु हितबुद्धिना ॥ इदानीं किं करिष्यामि मृत्युकाल उपस्थिते । कर्म त्वनुप्रसर्तव्यमिष्टानिष्टं शरीरिणाम् ॥ इत्युक्त्वा कालगतः; ततस्तैर्विशस्यमांसस्य भागान् कृत्वा स कृतघ्नपुरुषोऽभिहितः: गृहाण मांसस्य प्रत्यंशद्वयमिति; तेन हस्तौ प्रसारितौ ग्रहीष्यामीति; पृथिव्यां निपतितौ; ततस्तेन मृगलुब्धकेन तं तथा विप्रकृतं दृष्ट्वा हा कष्टं हा कष्टमित्युक्त्वा स्वकानपि प्रत्यंशान् परित्यज्य प्रक्रान्तम्; एतदत्यद्भुतं श्रुत्वा महाजनकायस्तस्मिन् प्रदेशे सन्निपतितः; राजा ब्रह्मदत्तः कुतूहलजातस्तत्रैव गतः; तस्मिंश्च पर्वतैकदेशे संघारमः; ततो राजा ब्रह्मदत्तस्तस्य चर्म गृहीत्व विस्मयोत्फुल्ललोचनः (इ १०६) एतमर्थं भिक्षुसंघाय निवेदयामीति तं संघारामं गतः; चर्म पुष्करिण्यां स्थापयित्वा वृद्धान्ते निषण्णः संघस्यैतमर्थं विस्तरेण रोचयति; तत्र च संघस्थविर अर्हन्; स गाथया राज्ञः कथयति: नैष ऋक्षो महाराज बोधिसत्व द्युतिंधरः । पूजनीयस्त्रिभिर्लोकैः त्वयाप्येष नरोत्तम ॥ इति राजा संलक्षयति: कर्तव्यास्य पूजेति; भिक्षवः कथयन्ति: देव भद्रकल्पिकोऽयं बोधिसत्वः; संविधातव्यास्य पूजा इति; ततो राजा ब्रह्मदत्तः सान्तःपुरकुमारामात्यपौरजानपदः सर्वगन्धकाष्ठान्यादाय तं प्रदेशमभिगतः; सर्वं तन्मांसमस्थि कलेबरं च एकध्ये कारयित्वा कथयति: भवन्तः सर्वगन्धकाष्ठैश्चितां चित्वा महता सत्कारेण ध्यापयत इति; तस्मिंश्च प्रदेशे महान् स्तूपः प्रतिष्ठापितः; छत्रध्वजपताकाश्च रोपिताः; महश्च प्रस्थापितम् Ýएद्. प्रतिस्थापितम्Ý; यैश्च तत्र काराः कृताः ते सर्वे मोक्षपरायणाः संवृत्ताः. किं मन्यध्वे भिक्षवः? योऽसौ ऋक्षः अहमेव सः तेन कालेन तेन समयेन; योऽसावकृतज्ञः पुरुषः एष एवासौ देवदत्तः तेन कालेन तेन समयेन; तदाप्येष अकृतज्ञः अकृतवेदी; एतर्ह्यप्येष अकृतज्ञ अकृतवेदी; पुनरपि यथैष अकृतज्ञ अकृतवेदी तच्छ्रूयतां. ______________________________________________________________ अनोथेर्स्तोर्योf अ बेअरोf अ पोओर्मन् (चोन्चेर्निन्ग प्रेविओउस्बिर्थोf देवदत्त) भूतपूर्वं भिक्षवो वाराणास्यां नगर्यामन्यतमो दरिद्रपुरुषः प्रतिवसति; स काष्ठानि विक्रीय जीविकां कल्पयति: सोऽपरेण समयेन काल्यमेवोत्थाय परशुमाभङ्गीमादाय काष्ठार्थी वनं गतः; तत्पर्वतप्रदेशे विविधतरुषण्डमण्डिते नानापुष्पफलसमृद्धे अनियतराश्यवस्थितो बोधिसत्वः ऋक्षेषूपपन्नः; यावदसौ काष्ठहारकः काष्ठानि पर्येषमाणः अन्यतमस्मिन् प्रदेशे व्याघ्रेणाभिद्रुतः; मरणभयभीतो दैवात्तं (इ १०७) वृक्षमभिरूढो यस्मिन्वृक्षे स ऋक्षो बोधिसत्वस्तिष्ठति; स तं दृष्ट्वा भूयः सन्त्रस्तः; तेन महात्मना समाश्वास्य उत्सङ्गेन धारितः; स च व्याघ्र आहारगृद्धस्तं वृक्षतलं नैव मुञ्चति; कथयति (अ ४६३ ) च: भो महात्मन्नेते मनुष्याः कृष्णशिरसः अकृतज्ञाः भवन्ति; पातयैनं; भक्षयित्वा गच्छामि इति; प्रायः शरणागतवत्सला अन्यऽपि मनुष्याः; प्रागेव बोधिसत्वाः; स कथयति: ममायं शरणागतः; नाहमेतं पातयामि इति; तथाप्यसौ व्याघ्रः मांसशोणिताभिलाषी तिष्ठत्येव; न तस्माद्विप्रक्रामति; अथासौ ऋक्षस्तं पुरुषमाह: श्रान्तोऽहं; त्वं तावत्तिष्ठ; अहं विश्रमामि इति; स तस्योत्सङ्गनिषण्णः श्रमखेदितपरिष्रान्तश्च मिद्धमवक्रान्तः; स व्याह्ग्रः कथयति: भोः पुरुष कियन्तं कालं त्वयात्र स्थातव्यं? पातयैनं; भक्षयित्वा गमिष्यामि: इति; स निर्घृणहृदयः पापकर्मा त्यक्तपरलोकः संलक्षयति: शोभनमेष कथयति; कियन्तं कालं मयात्र स्थातव्यं? पातयामि इति; स तेन पातितः; तेन महात्मना पतताभिहितं हा नै वा ते हा किं चित्दुस्से मि इत्युक्त्वा पतितः; व्याघ्रेणानयेन व्यसनमापादितः; स तस्य संधाय भाषितं श्रुत्वा संलक्षयति: ममायं केनचित्संविभागं कर्तुकामः, येनैवं कथयति इति; तस्य तृष्णान्धस्य प्रलापो लग्नः; क्षिप्तचित्तस्तेन तेनान्वाहिण्डन्नेवमाह: हा नै वा ते हा किं चित्दुस्से मि इति; स ज्ञातिभिर्गृहं नीतः; प्रलपत्येव न सन्तिष्ठते; ते विद्यामन्त्रधारिणो भूतचिकित्सकानन्यांश्च श्रमणब्राह्मणान् सुहृत्सम्बन्धिबान्धवान् पृच्छति; ते बहुधा कथयन्ति; न कश्चित्चिकित्सां करोति; तेन खलु समयेन वाराणस्यां नातिदूरे आश्रमपदे विविधतरुषण्डमण्डिते पुष्पफलसलिलसंपन्ने अनेकविहगनिकूजिते ऋषिः पंचाभिज्ञः प्रतिवसति; तस्य पुरुषस्य ज्ञातयस्तं पुरुषनादाय तस्य ऋषेः सकाशं गताः पादयोर्निपत्य कथयन्ति: महर्षे अयमस्माकं ज्ञातिः; मुहुर्मुहुरेवं प्रलपति; किमस्य कर्तव्यमिति; पापकारी अयं सत्वः; अनेन दुरात्मना कृतोपकारी बोधिसत्वो व्याघ्रस्य पुरस्तात्पातितः; तेन महात्मना चिन्तितमस्मै धर्मं देशयामि इति; सोऽनेन पातितः; तस्य पततो भ्रान्तस्य दशानां श्लोकानामेकैकमक्षरं प्रतिभातं हा नै वा ते हा किं चित्दुस्से मि इति; तस्य ऋषेः शिष्यः (इ १०८) कथयति: उपाध्याय कथयस्व तावत्कीदृशस्ते श्लोकाः इति; स ऋषिरनुपूर्वेण तान् श्लोकान् कथयितुमारब्धः: हा काष्टं बत लोकेऽस्मिनधर्मः खलु दारुणः । असत्येषु मनुष्येषु हिंसा मित्रेषु विद्यते ॥ १ ॥ नैवासने न शयने नापि चैव च चङ्क्रमे । न कस्यांचिदवस्थायां मित्रद्रुक्सुखमेधते ॥ २ ॥ वाणी ते करुणार्त्तेन तता या चैव भाषिता । सा त्वां दहति दुर्बुद्धे खाण्डवं ज्वलितं यथा ॥ ३ ॥ तेन हि त्वं परे लोकेऽनुभविष्यसि वेदनाम् ॥ असातां दुःखसंस्पर्शां कर्म कृत्वा सुदारुणाम् ॥ ४ ॥ हा हेति क्रन्दमानस्त्वं रौरवे भृशदारुणे । संप्राप्स्यसि महद्दुःखं निहीनमधमाधम ॥ ५ ॥ किं ते न प्रकृतं कर्म रौद्रस्याशुभकर्मणः । असत्येषु मनुष्येषु हिंसा मित्रेषु विद्यते ॥ ६ ॥ चित्तं पापं व्यवस्यन्ति धर्मलोपो (अ ४६३ ) हि धारुणः । स्मर ऋक्षं च व्याघ्रं च यत्पापं प्रकृतं त्वया ॥ ७ ॥ दुर्बुद्धे त्वं न जानीषे यथा मित्रेषु वर्तितुम् । हन्तारं लभते हन्ता वैरी वैराणि पश्यति ॥ ८ ॥ सेवितस्त्वं चिरं कालं प्राप्ते व्याघ्रमहाभये । रक्षितश्च शयानस्त्वं त्वयासौ किं न रक्षितः ॥ ९ ॥ मित्रभेदं परं गर्ह्यं ब्रुवते धर्मवादिनः । कायस्य भेदाद्दुर्बुद्धे नरकेषूपपत्स्यते ॥ १० ॥ इति किं मन्यध्वे भिक्षवो? योऽसौ ऋक्षः अहमेव सः तेन कालेन तेन समयेन; योऽसौ कृतघ्नः सत्वः एष एवासौ देवदत्तः तेन कालेन तेन समयेन; तदाप्येष अकृतज्ञः अकृतवेदी; एतर्ह्यप्येष अकृतज्ञ अकृतवेदी; पुनरपि यथैष अकृतज्ञ अकृतवेदी तच्छ्रूयतां. ______________________________________________________________ थे स्तोर्योf थे किन्ग्शिबि (चोन्चेर्निन्ग प्रेविओउस्बिर्थोf देवदत्त) भूतपूर्वं भिक्षवो शिबिघोषायां राजधान्यां शिबिर्नाम राजा राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं (इ १०९) चाकीर्णबहुजनमनुष्यं च; स च राजा श्राद्धो भद्रः कल्याणाशयः आत्महितप्रतिपन्नः कारुणिको महात्मा धर्मकामः प्रजावत्सलः सर्वप्रदः सर्वपरित्यागि निस्सङ्गपरित्यागी महति च त्यागे वर्तते; तस्य नास्ति किंचिददत्तमपरित्यक्तं यदुत श्रमणब्राह्मणेभ्यः कृपणेभ्यो वणीपकेभ्यः अध्वगेभ्यः याचनकेभ्यः; यद्भूयसा तु ग्लानेभ्यः आचरितं तस्य राज्ञः; काल्यमेवोत्थाय मातापितरावभिवाद्य ग्लानावलोक्यनं कृत्वा अर्थाधिकरणे निषीदति; यावदन्यतरः पुरुषो ग्लानः; स सर्ववैद्यप्रत्याख्यातो निरपेक्षो जीविते मरणाभिमुक्तः तेन तेनान्वाहिण्डमानः शिबिघोषां राजधानीमनुप्राप्तः; तस्मिंश्च समये राजा संप्राप्ते वसन्तकालसमये संपुष्पितफलितेषु पादपेषु हंसक्रौञ्चमयूरशुकाकोकिलजीवञ्जीवोन्नादिते वनषण्डे अन्तःपुरपरिवृतः उद्यानभूमिं संप्रस्थितः; स च व्याधितस्तीव्ररुजोपतापसङ्जनितदौर्मनस्यो मुहुः श्वासोपरुध्ह्यमानतनुरश्रुपर्याकुलेकणो दण्डपाणिः शनैः शनै राज्ञः सकाशमुपसंक्रान्तः; शिरःप्रणामं कृत्वा कथयति: देव परित्रायस्व मामस्माद्व्याधेः; प्रयच्छ जीवितमिति; ततः शिबिराजा करुणदीनविलम्बितैरक्षरैरुच्यमानस्तदातुरवचनं श्रुत्वा कारुण्यादाकम्पितहृदयः तत्र एव प्रतिनिवृत्तः अमात्यानामन्त्रयते: आहूयन्तां मद्विषयनिवासिनो वैद्याः इति; तैस्सर्वे वैद्या आहूताः; राज्ञ उपनीताः; ततो राजा तं पुरुषं शब्दयित्वा कथयति: भवन्तः कुरुतास्य चिकित्सामिति; वैद्या विचार्यैकमतेन कथयन्ति: देव यः पुरुषः जन्मनो न कस्यचिद्रुषितपूर्वः तस्य रुधिरेण यवागूं साधयित्वा यदि भोज्यते, एवमयं स्वस्थीभवति; नान्यथा इति; श्रुत्वा राजा संलक्षयति: किं ममानेन एवंविधेन जीवितेन, राज्यैश्वर्याधिपत्येन वा? ईदृशेन योऽहं परेषां दुःखार्तानां न शक्नोमि शान्तिं कर्तुमिति; एवं विचिन्त्य राजा स्वसन्ततिं प्रत्यवेक्षितुमारब्धः; तेन धात्री पृष्टा: अम्ब अस्त्यहं कस्यचिद्रुषितपूर्वः? सा कथयति: देव यदा (अ ४६४ ) त्वं ममांसगतस्तदा अहमपि न कस्यचिद्रुषितपूर्वा; प्रागेव त्वमिति; ततो मातुः सकाशमुपसंक्रम्य कथयति: पुत्र यदा त्वं मम कुक्षिगतस्तदा अहमपि न कस्यचिद्रुषितपूर्वा, प्रागेव त्वमिति; राजा कथयति: इदानीं संपन्नं भैषज्यमिति; तेन वैद्या उक्ताः: मम पंचसु गात्रेषु शिरां (इ ११०) मुञ्चत इति; ते कथयन्ति: देव न वयं प्राकृतपुरुषस्यार्थाय देवस्य काये शस्त्रं निपातयामः इति; कुशला भवन्ति बोधिसत्वास्तेषु तेषु शिल्पस्थानकर्मस्थानेषु; तेन स्वयमेव पंचसु गात्रेषु शिरा मुक्ता; रुधिरस्य कर्परः पूर्णः; ततः पेया साधयित्वा दत्ता; अनुरक्तपौरजानपदः स राजा; अन्तःपुरकुमारामात्यपौरजानपदा विक्रोष्टुमारब्धाः; नानादेशाभ्यागतश्च जनकयो विवाचयितुमारब्धः: कथं नाम एकस्य प्राकृतसत्वस्यार्थाय इयन्तः सत्वाः परित्यज्यन्ते? इति; ततो राज्ञा स जनकायः समाश्वासितः; तदनेनोपायेन षण्मासान् पंचसु गात्रेषु शिरा मुक्ता; यवागूं भोजितः; राज्ञः शिबेः तच्छरीरं चालनीसदृशं संवृत्तम्; ओजः परिहातुमारब्धः; शुद्धावासकायिका देवाः संलक्षयन्ति: यद्येवं भद्रकल्पिको बोधिसत्वः परिहीयते, न शोभनं; ते तस्य प्रत्यहमोज उपहरन्ति, येनासौ यापयति; यदा तस्य पुरुषस्य व्याधिरुपशान्तः, तदा शिबिना राज्ञा पंचभिर्ग्रामवरैः संविभक्तः, वाराणस्यां प्रधानसंमतो जातः; तदा सामन्तकेन शब्दो विसृतः; शिबिना राज्ञा पंचसु गात्रेषु शिरा मुक्ता; स्वरुधिरेण ग्लानस्य इयन्तं कालमुपस्थानं कृतं; स च स्वस्थीकृतः इति; ततः कुतूहलजातः सत्वा आगम्य तं पुरुषं पृच्छन्ति: भोः पुरुष सत्यं तव किल शिबिना राज्ञा इयन्तं कालमुपस्थानं कृतम्? इति; स कथयति: किं ममानेन कृतं? दुष्टशोणितं पृथिव्यां वा छोर्येत अन्यस्य वा दीयेत, किमत्र आश्चर्यमिति; वचोऽवसानसमनन्तरमेवास्य गृहे अग्निर्निपतितः; येनास्य गृहं सर्वं च स्वापतेयं दग्धं. किं मन्यध्वे भिक्षवो? योऽसौ शिबी राजा अहमेव सः तेन कालेन तेन समयेन; योऽसौ कृतघ्नःपुरुषः एष एवासौ देवदत्तः तेन कालेन तेन समयेन; तदाप्येष अकृतज्ञः अकृतवेदी; एतर्ह्यप्येष अकृतज्ञ अकृतवेदी; पुनरपि यथैष अकृतज्ञ अकृतवेदी तच्छ्रूयतां. ______________________________________________________________ थे स्तोर्योf कल्याणकारिन् (चोन्चेर्निन्ग प्रेविओउस्बिर्थोf देवदत्त) भूतपूर्वं भिक्षवोऽन्यतमस्यां राजधान्यामन्यतमो राजा राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं च आकीर्णबहुजनमनुष्यं च; सोऽपरेण समयेन देव्या सार्धं क्रीडति रमते परिचारयति; तस्य क्रीडतो रममाणस्य परिचारयतः (इ १११) कालान्तरेण देवी आपन्नसत्वा संवृत्ता; सा अष्टानां व नावानां वा मासानामत्ययात्प्रसूता; दारको जातः अभिरूपो दर्शनीयः प्रासादिको गौरः कनकवर्णः छत्राकारशिराः प्रलम्बबाहुर्विस्तीर्णललाटः संगतभ्रूस्तुङ्गनासो (अ ४६४ ) सर्वाङ्गप्रत्यङ्गोपेतः; जन्मनि चास्य अनेकानि कल्याणसहस्राणि प्रादुर्भूतानि; तस्य जातौ जातिमहं कृत्वा नामधेयं व्यवस्थाप्यते; किं भवतु दारकस्य नाम? इति; अमात्याः कथयन्ति: देवास्य जन्मनि अनेकानि कल्याणसहस्राणि प्रादुर्भूतानि; तस्माद्भवतु दारकस्य कल्याणकारीति नाम इति; तस्य कल्याणकारीति नामधेयं व्यवस्थापितं; कल्याणकारी दारकः अष्टाभ्यो धात्रीभ्योऽनुप्रदत्तः; द्वाभ्यामंशधात्रीभ्यां द्वाभ्यां क्षीरधात्रीभ्यां द्वाभ्यां मलधात्रीभ्यां द्वाभ्यां क्रीडनिकाभ्यां धात्रीभ्यां; सोऽष्टाभिर्धात्रीभिरुन्नीयते क्षीरेण दध्ना नवनीतेन सर्पिषा सर्पिर्मण्डेन अन्यैश्चोत्तप्तोत्तप्तैरुपकरणविशेषैराशु वर्धते ह्रदस्थमिव पङ्कजम्; भूयः स राजा देव्या सार्धं क्रीडति रमते परिचारयति; तस्य क्रीडतो रममाणस्य परिचारयतः देवी आपन्नसत्वा संवृत्ता; सा अष्टानां व नावानां वा मासानामत्ययात्प्रसूता; दारको जातः; तस्यापि जन्मनि अकल्याणसहस्राणि प्रादुर्भूतानि; तस्य अकल्याणकारीति नामधेयं व्यवस्थापितं; सोऽपि उन्नीतो महान् संवृत्तः; कल्याणकारी कुमारो मैत्र्यात्मकः कारुणिकः सर्वसत्वेषु दयावान् दानरुचिर्दानाभिरतः; स श्रमणब्राह्मणकृपणवणीपकयाचनकेभ्यो दानं ददाति; स पित्रा उच्यते: पुत्र मा त्वं सततं दानमनुप्रयच्छ; कुतोऽस्माकमेतावद्धनजातं भविष्यति यन्न्वहमन्वहमेवं दास्यामीति; धर्मता ह्येषा दातुर्दानपतेर्यद्बहुजनस्य प्रियो भवति मनापश्च; दिग्विदिक्षु चास्य उदारः कल्याणकीर्तिशब्दश्लोकोऽभ्युद्गच्छति; तस्यान्यतरेण भूम्यन्तरेण राज्ञा गुणमाहात्म्यं श्रुत्वा दुहिता दत्ता; राज्ञा महता श्रीसमुदायेन प्रतीष्टा; कल्याणकारी कथयति: न तावदहं भार्योपादानं करोमि, यावन्न धनोपार्जनं कृतं; तदनुज्ञातुमार्हसि तात, महासमुद्रमवतरामि इति; स कथयति: एवं कुरुष्व इति; स पण्यमादाय महासमुद्रं संप्रस्थितः; सोऽस्य भ्राता अकल्याणकारी संलक्षयति: अयं बहुजनस्य प्रियो मनापश्च; यदि महासमुद्रात्समृद्धयानपात्रोऽभ्यागच्छति भूयसा बहुजनप्रियो भवति (इ ११२) मनापश्च; स्थानमेतद्विद्यते यत्तिष्ठत एव पितुः राज्यैश्वर्याधिपत्यं कारयति; सर्वथा किमत्र प्राप्तकालम्? अहमप्यनेन साकमवतरामि: अत्रैवैनं जीविताद्व्यपरोपयिष्यामि; एवं ममाकामस्यापि यौवराज्याभिषेकः; इति विदित्वा पितुः सकाशमुपसंक्रम्य कथयति: देव कल्याणकारी महासमुद्रं संप्रस्थितः; अहमपि तेन सार्धं गच्छामि इति;स कथयति एवं कुरुष्वेति; ततः कल्याणकारिणा स्वेऽधिष्ठाने घण्टावघोषणं कारितं; शृण्वन्तु भवन्तो नगरनिवासिनो वणिजः; कल्याणकारी कुमारो महासमुद्रं संप्रस्थितः; यो युष्माकमुत्सहते कल्याणकारिणा सार्थवाहेन सार्धमशुल्केन अगुल्मेन अतरपण्येन महासमुद्रमवतर्तुं (अ ४६५ ) महासमुद्रगमनीयं पण्यं समुदानयतु इति; अनेकैर्वणिक्छतैर्महासमुद्रगमनीयं पण्यं समुदानीतं; ततः कल्याणकारी सार्थवाहः अकल्याणकारिणा भ्रात्रा सार्धं कृतकुतूहलमङ्गलस्वस्त्ययनः अनेकवणिक्शतपरिवारः शकटैर्भारैर्मूटैः पिटकैः उष्ट्रैर्गोभिर्गर्दभैः प्रभूतं महासमुद्रगमनीयं पण्यमादाय संप्रस्थितः; सोऽनुपूर्वेण ग्रामनिगमराजराष्ट्रधानीषु पट्टनान्यवलोक्य समुद्रतीरमनुप्राप्तः; स पंचभिः पुराणशतैर्वहनं कृत्वा पंच पौरुषेयान् गृहीत्वा आहारकं निर्हारकं नाविकं कैवर्तं कर्णधारं च त्रिर्घण्टावघोषणं कृत्वा महासमुद्रमवतीर्णः; संप्रस्थिते वहने भ्रातुरकल्याणकारिणः कथयति: महासमुद्रमध्यगतानां यदि तद्वहनं विपद्येत, मम गले लगेः; मा काहलीभविष्यसि इति; स कथयति: शोभनमेवं भवतु इति; यावत्तद्वहनमनुगुणेन वायुना रत्नद्वीपमनुप्राप्तं; कर्णधारः कथयति: शृण्वन्तु भवन्तो जम्बूद्वीपका वणिजः; योऽसौ श्रूयते रत्नद्वीपो नाम वज्रवैडूर्येन्द्रनीलमरकतादीनां रत्नानामाकरः इति तमनुप्राप्ताः स्म; यथेष्टं रत्नसङ्ग्रहं कुरुत इति; ततस्तैः प्रमुदितमनोभिः उपपरीक्ष्य, तद्वहनं रत्नानां पूरितं (इ ११३) तद्यथा तिलतण्डुलकोलकुत्थानां; निपुणा भवन्ति बोधिसत्वाः कुशलश्च; कल्याणकारिणा कुमारेण महार्हाणि रत्नानि कट्यामुपनिबद्धानि; यावत्तद्वहनं विपरिवृत्तं; तीरस्य नातिदूरे मकरेण मत्स्यजातेन अनयेन व्यसनमापादितं; ततः अकल्याणकारी कल्याणकारिणो गले लग्नः; स तेन महता यत्नेन उत्तारितः; स तावत्कृतपरिष्रमो मिद्धमवक्रान्तः; तस्य परिवर्तमानस्य अकल्याणकारिणा कट्युपनिबद्धानि रत्नानि दृष्टानि; स संलक्षयति: अयं नाम रत्नानि गृहीत्वा गमिष्यति; अहं रिक्तपाणिर्गमिष्यामि; इति विदित्वा तेन तस्य गाढमिद्धावष्टब्धस्य तानि रत्नान्यपहृतानि; कण्टकैश्च अक्षिणी उत्पाटिते; स तमन्धं समुद्रतीरे छोरयित्वा प्रक्रान्तः; दैवात्गोपालका गाश्चारयन्तस्तं प्रदेशमनुप्राप्ताः; तैरसौ दृष्टः पृष्टश्च: भोः पुरुष कस्त्वमीदृशः इति; तेन यथावृतं समाख्यातं; श्रुत्वा तेषां कारुण्यमुत्पन्नं; तैरसौ पालबन्धोर्गृहे नीतः; स तेन विणामाश्रावयितुमारब्धः; तस्य पालबन्धोर्भार्या यौवनमदाक्षेपात्वीणास्वनं श्रुत्वा तं प्रार्थयितुं प्रवृत्ता; स कृतघ्नचेष्टितमनुस्मृत्य कर्णौ पिधायावस्थितो नाधिवासयति; कामाध्यवसितानां नास्ति किंचिदकरणीयमिति तया स्वामि विग्राहितः: मामयमन्धः पुरुषः प्रार्थयति इति; (अ ४६५ ) ईदृशानां त्वं संग्रहं करोषि इति; प्रतिक्रुष्टमेतद्वैराणां यदुत स्त्रीवैरं; स संलक्षयति: कृतनिग्रहोऽयं; नास्ति किंचिदस्य करणीयमृते निर्वासनादिति; स तेन गृहान्निर्वासितः रथ्यावीथीचत्वरशृङ्गाटकेषु वीणया जीविकां कल्पयति; तस्य पिता कालगतः; भ्राता अस्य अकल्याणकारी राज्यैश्वर्याधिपत्ये प्रतिष्ठितः; सोऽप्यनुपूर्वेण सीमान्तरस्य राज्ञो नगरमनुप्राप्तः येनास्य पूर्वं दुहिता दत्ता; सा च महती संवृत्ता; तस्या नानादेशनिवासिनो राजपुत्राः पुरोहितपुत्राश्च वरका आगच्छन्ति; सापि तातेनोच्यते: पुत्रि यस्य त्वं दत्ता स कल्याणकारी कुमारो महासमुद्रं (इ ११४) गतः; तत्रैव च अनयेन व्यसनमापन्नः; तव चेदानीं याचका आगच्छन्ति; यस्यैव त्वां न दास्यामि स विसुखो भविष्यति; कथमत्र प्रतिपत्तव्यम्? इति; सा कथयति: तात यद्येवं नगरशोभां कारय; अहं स्वयंवराय अवतरामि इति; राजा कथयति: पुत्रि एवं कुरुष्व इति; ततो नानादेशेषु नानाधिष्ठानेषु स्वयंवरणं श्रावितं; तच्च नगरमपगतपाषाणशर्करकठल्लं व्यवस्थापितं चन्दनवारिपरिषिक्तं सुरभिधूपघटिकोपनिबद्धमुच्छ्रितध्वजपताकमामुक्तपट्टदामकलापं नानापुष्पावकीर्णं रमणीयं देवानामिव नन्दनवनोद्यानं; घण्टावघोषणं च कारितं: शृण्वन्तु भवतो नगरनिवासिनः पौरा, नानादेशाभ्यागतश्च जनकायः; श्वो राजकुमारी स्वयंवराय अवतरिष्यति; तद्युष्माभिर्यथाविभवेन सन्निपतितव्यमिति; ततः प्रभातायां रजन्यां सा राजकुमारी नानालंकारविभूषिता अनेककुमारीपरिवृत्ता वनदेवतेव कुसुमितवनमध्ये अतीव विभ्राजमाना महता श्रीसमुदायेन मध्ये नगरस्य अनेकेषु प्राणिशतसहस्रेषु सन्निपतितेषु स्वयंवराय अवतीर्णा; स कल्याणकारी अन्यतमस्मिन् प्रदेशे वीणामाश्रावयंस्तिष्ठति; कर्माण्येव सत्वानां परस्परं संयोजकानि; बलवदपि हेतुबलं प्रत्यबलमपेक्षत इति; ततः सा राजकुमारी वीणास्वनावर्जितहृदया वीणावादके कल्याणकारिण्याक्षिप्ता; तया तस्य स्रग्दाम क्षिप्तम्: एष मम स्वामी इति; जनकायो दुर्मनाः संवृत्तः; केचिद्वेगमसहमानाः अवध्यातुमारब्धाः: कथं नाम नानादेशाभ्यागतान् राजामात्यपुरोहितपुत्रानन्यांश्च नगरनिवासिनः प्रधानपुरुषान् प्रत्याख्याय राजकुमार्या एवंरूपयौवनकलासंपद्युक्तया अन्धलकः स्वामी वृतः इति; पौरुषेयैर्दौर्मनस्यविमुखै राज्ञो निवेदितं; देव कुमार्या स्वयंवरावतीर्णया स्वामी वृतः इति; राजा कथयति: कीदृशः? देव अन्धलकः; सोऽपि श्रुत्वा दुर्मनाः संवृत्तः; ततस्तेन सा आहूयोक्ता; पुत्रि संविद्यन्ते राजानो धनिनः श्रेष्ठिनः सार्थवाहाः अमात्यपुत्राः पुरोहितपुत्राश्(अ ४६६ ) च रूपयौवनविभवसंपन्नाः; कस्मात्त्वया एवंविधः स्वामी वृतः? इति; सा कथयति: तात स एव मे रोचते इति; राजा कथयति: यद्येवं किमर्थं तिष्ठसि इति; सा तस्य सकाशमुपसंक्रान्ता कथयति: त्वं मया स्वामी (इ ११५) वृतः इति; न ते शोभनं कृतं; किं त्वं चिन्तयसि? एषोऽन्धलकः; अहं परपुरुषैः सार्धं परिचारयिष्यामि इत्: सा कथयति: नाहमेवंविधस्य कर्मणः कारिणी इति; स कथयति: कथं ज्ञायते? सा सत्योपयाचनं कर्तुमारब्धा: येन सत्येन सत्यवचनेन तस्य कल्याणकारिणो राजकुमारस्य तव चान्तिके रागः समुत्पन्नः, नान्यस्य कस्यचित्, अनेन सत्येन सत्यवचनेन तवैकमक्षि यथापौराणं स्यादिति; सत्याधिष्ठानसमनन्तरमेव तस्यैकं चक्षुः यथापौराणं संवृत्तं: स कथयति: स एवाहं कल्याणकारी; अकल्याणकारिणा भ्रात्रा एतां दशां नीतः; सा कथयति: कथं ज्ञायते त्वमेवासौ कल्याणकारी इति; सोऽपि सत्योपयाचनं कर्तुमारब्धः: येन सत्येन सत्यवचनेन तस्य ममाक्षिणी समुत्पाटयतोऽन्तिके ईषदपि न प्रदुष्टं चित्तं मे, अनेन सत्येन सत्यवचनेन मम द्वितीयमक्षि यथापौराणं भवेदिति; तस्य सह सत्ययाचनया द्वितीयमक्षि यथापौराणं संवृत्तं; ततः सा राजकुमारी कल्याणकारिणमविकलेन्द्रियमादाय राज्ञः सकाशं गता कथयति: तात एष एवासौ कल्याणकारी इति; राजा न श्रद्धत्ते; तेन यथावृत्तमारोचितं; राजा परं विस्मयमापन्नः; ततस्तेनासौ दुहिता महता श्रीसमुदायेन परिणीता; स च कल्याणकारी महता बलसमुदायेन तन्नगरं गत्वा अकल्याणकारिणं च्यावयित्वा पितृके राज्ये प्रतिष्ठापितः. किं मन्यध्वे भिक्षवः? योऽसौ कल्याणकारी अहमेव सः तेन कालेन तेन समयेन; योऽसौ अकल्य्णकारी एष एव स देवदत्तः तेन कालेन तेन समयेन; तदाप्येष अकृतज्ञः अकृतवेदी; एतर्ह्यप्येष अकृतज्ञ अकृतवेदी; पुनरप्येष यथा अकृतज्ञ अकृतवेदी तच्छ्रूयतां. ______________________________________________________________ थे स्तोर्योf विशाख (चोन्चेर्निन्ग प्रेविओउस्बिर्थोf देवदत्त) भूतपूर्वमन्यतमस्यां राजधान्यामन्यतमो राजा राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं चाकीर्णबहुजनमनुष्यं च; स देव्या सार्धं क्रीडति रमते परिचारयति; तस्य क्रीडतो रममाणस्य परिचारयतः क्रमशश्चत्वारः पुत्रा जाताः, शाखः प्रशाखः अनुशाखः विशाखश्च; ते उन्नीता वर्धिता महान्तः संवृत्ताः; भूम्यन्तराणां च राज्ञां दुहितृभिः परिणीताः; ते राज्ञो विकर्तुमारब्धाः; ततो राज्ञा निर्वासिताः स्वकस्वका (इ ११६) पत्नीरादाय निर्गताः; यावत्कान्तारमार्गं प्रतिपन्नाः; तेषां पथ्यदनं परिक्षीणं; तैः परस्परंक्रियाकारः कृतः: एकैकां स्त्रियं जीविताद्व्यपरोप्य तन्मांसेन कान्तारमार्गान्निस्तरेम इति; विशाखः (अ ४६६ ) संलक्षयति: कामं स्वप्राणविनाशो, न तु परप्राणोपरोधः; किमत्र प्राप्तकालं भार्यामादाय निष्पलायेय इति; स भार्यामादाय निष्पलायितः; सास्य भार्या अन्नपानवियोगान्मार्गश्रमखेदाच्च काहलीभूता कथयति: आर्यपुत्र प्राणैर्वियोक्ष्ये इति; विशाखः संलक्षयति: मया राक्षसमध्यात्परित्राता; इदानीं यदि मरिष्यति, न शोभनमिति; तेन ऊरुमांसं छित्वा तस्या भक्षणाय दत्तं; बाहुभ्यां च शिरे मुक्त्वा रुधिरं पायिता; सोऽनुपूर्वेण तामादाय अन्यतमं पर्वतमुपसृप्तः; तत्र च मूलफलैर्यापयति; तस्य च पर्वतस्य सन्निकृष्टे नदी वहति; तस्यां पुरुषः शत्रुणा हस्तपादविकलः कृत्वा प्रवाहितः; स स्रोतसापह्रियमाणः आर्तस्वरं क्रन्दति; विशाखश्चान्यतमस्मिन् प्रदेशे मूलान्युत्पाटयति; तेनासौ पुरुषविरावः श्रुतः; स करुणाम्रेडितचित्तसन्ततिः पर्वतमभिरुह्य समन्ताद्व्यवलोकयितुमारब्धः; यावत्पश्यति तं पुरुषमुह्यमानं; स लघु लघ्वेव पर्वतादवतीर्य नदीमभ्यवगाह्य तं पुरुषं पृष्ठमभिरोह्य नदीमुत्तीर्य तीरे स्थापयित्वा तं दुःखसन्तापितहृदयः कथयति: वत्स किमिदमिति; तेन यथावृत्तं समाख्यातं; ततस्तेनासौ समाश्वासितः; मूलफलैश्च सन्तर्प्य पत्न्याः समर्पितः; तया तस्योपस्थानं कृतं; सा तस्योपस्थानं कुर्वती प्रणयसौमुख्या मुहुर्मुहुरुपसंक्रम्य विविधाभिः कथाभिरुपतिष्ठति; धर्मता ह्येषा प्रकृत्या मन्दरागिणो भवन्ति बोधिसत्वाः; विशाखस्तया सार्धं कदाचित्परिचारयति कदाचिन्न परिचारयति; बोधिसत्वानुभावेन च तानि कन्दमूलफलानि अतीव वीर्यवन्ति; तान्यसौ परिभुंजाना क्लेशप्राबल्यात्तं हस्तपादविकलं प्रार्थयितुमारब्धा; स न संप्रतिपद्यते; कथयति च: अहं तावदिदानीं गतप्रत्यागतप्राणः कथंचिज्जीवितः; यदि पुनरीदृशं करोमि स्थानमेतद्विद्यते यदयं तव भर्ता मां सर्वेण सर्वं जीविताद्व्यपरोपयति इति; स भूयो भूयस्तया प्रार्थ्यते; दुर्जयाः क्लेशाः; सा तया सार्धं विप्रतिपन्नः; सा तेन सार्धमानन्दसौमनस्यादेव अतीव संरक्ता प्रेष्यमाणापि तत्सकाशान्न गच्छति; स संलक्षयति: यथैवेयम् (इ ११७) अध्यवसिता, प्रतिक्रुष्टमेतद्वैराणां यदुत स्त्रीवैरम्: इदानीमहं नष्टः; तेन तया सार्धं संजल्पः कृतः; अयं तव स्वामी यदि जानीते आवयोः संप्रयोगं नियतं तव अनर्थं करोति, मां च जीविताद्व्यपरोपयति इति; सा संलक्षयति: शोभनमयं कथयति; उपायसंविधानं कर्तव्यमिति; असितपण्डितो मातृग्रामः; सा शिरो वस्त्रेण वेष्टयित्वा पर्वतशिलायां निषद्यावस्थिता; यावन्मूलफलान्यादाय विशाख आगतः; पश्यति तां तथा विप्रकृतां; ततः पृच्छति: भद्रे किमेतदिति; सा कथयति: आर्यपुत्र शिरोरुजा मेऽतीव बाधते इति; विशाखः कथयति: किमत्र कर्तव्यमिति; तया पाषाणभेदकः पर्वतप्राग्भारे दृष्टः इति सा (अ ४६७ ) कथयति: आर्यपुत्र पूर्वमप्येषा शिरोरुजा आसिद्वैद्येन पाषाणभेदको व्यपदिष्टः; तेन स्वस्थीकृता इति; विशाखः कथयति: पाशाणभेदकं समन्वेषामि इति; सा कथयति: आर्यपुत्र एष पर्वतप्राग्भारे दृश्यते; अहं त्वां रज्वा धारयामि; त्वमुत्पाटय इति; ऋजुकोऽसौ महात्मा तस्याः शाठ्यं न वेत्ति; स प्रतिपन्नः: एवं भवतु धारय उत्पाटयामि इति; स तया रज्वा ओसारितः; तेन चैकेन पाणिना रज्जुर्मुक्ता; तया च मुक्ता; नद्यां पतितः; दीर्घायुः स सत्वः; राज्यसुखं च प्रत्यनुभवितव्यं; न मृतः; स्रोतसा उह्यमानः अन्यतमां राजधानीमनुप्राप्तः; तत्र च राजा अपुत्रः कालगतः; अमात्याः सपौरजानपदाः सर्वे सन्निपत्य विचारयन्ति: भवन्तो राजा कालगतः; कमिदानीं राज्ये प्रतिष्ठापयामः इति; तैर्लक्षणज्ञाः पुरुषाः प्रयुक्ताः: भवन्तः समन्वेषत; यः पुण्यमहेशाख्यः सत्वः तं राज्ये प्रतिष्ठापयामः इति; ते सन्नततः समन्वेषितुमारब्धाः; न प्रणश्यन्ति कर्माण्यपि कल्पशतैरपि । सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम् ॥ विशाखः प्रत्युपस्थितविपाकत्वाद्राज्यसंवर्तनीयस्य कर्मणः नदीमुत्तीर्य एकस्मिन् प्रदेशे निषण्णः; बोधिसत्वानुभावेन स प्रदेशोऽलङ्कृतः इवावस्थितः; यावल्लक्षणपरीक्षकाः पुरुषाः तं (इ ११८) प्रदेशमागताः पश्यन्ति तं महात्मानं राज्यलक्षणसंपन्नं; ते प्रमुदितमनसः अमात्यानां सकाशं गताः कथयन्ति: समन्वेषितः अस्माभिः पुण्यमहेशाख्यः सत्वो यो राज्यमर्हति इति; ततस्तैरमात्यैर्मार्गशोभां नगरशोभां च कृत्वा महता श्रीसमुदायेन नगरं प्रवेश्य दिवसतिथिमुहूर्तनक्षत्रानुपूर्व्या राज्येऽभिषिक्तः; तस्य देवी नास्तीति अमात्याः पुरोहिताः भूम्यन्तरराजानः अन्ये च धनिनः श्रेष्ठिनः सार्थवाहाः स्वकस्वका दुहितॄन् सर्वालङ्कारविभूषिताः आदाय तन्नगरमागताः राजा परिणेष्यतीति; स राजा स्त्रिया विप्रलब्धो न प्रतिपद्यते; अमात्याः कथयन्ति: देव अन्तःपुरकुमारामात्यपौरजानपदाः धनिनो राजानो भवन्ति; अन्तःपुरमुपस्थाप्यतां; नानादेशनिवासिनः प्रधानपुरुषाः भूम्यन्तराश्च राजानः इतस्त्याश्च प्रधानपुरुषाः कन्याः सज्जीकृत्य व्यवस्थिताः; अभिमुखीभवतु इति; तथाप्यसौ न प्रतिपद्यते; स भूयसा च स्त्रियो जुगुप्सते; पुण्यानुभावात्सत्वानामुपभोगा वीर्यवन्तो भवन्ति संपद्यन्ते च; यदा बोधिसत्वस्तस्मात्पर्वतात्कृतघ्नस्त्रिया मुक्तस्तदा तस्मिन् पर्वते मूलफलानि तनूभूतानि; निर्वीर्याणि च संवृत्तानि; ततः सा स्त्री दुर्भिक्षाकालमृत्युभयभीता तं हस्तपादविकलं पुरुषं स्कन्धे आरोप्य ग्रामान्तं समवसृता; रथ्यावीथीचत्वरशृङ्गाटकेषु भिक्षामटति; पृष्टा च कथयति अहं पतिव्रतेति; अस्ति चैष लोकधर्मो या स्त्री पतिव्रता सा लोके पूज्यते; सा यत्र प्रविशति तत्र भिक्षां लभते; यावदसावनुपूर्वेण तां राजधानीमनुप्राप्ता; श्रुत्वा लोकः (अ ४६७ ) परं विस्मयमापन्नः; केचित्कुतूहलजाताः तां द्रष्टुं बहिर्निर्गताः; नगरनिवासिना जनकायेनावतारो लब्धः; तेऽवध्यायन्ति क्षिपन्ति विवाचयन्ति: भवन्तः अयं राजा सर्वाः स्त्रियो जुगुप्सते; न पश्यतीमां सतीं पतिव्रतां हस्तपादविकलं पुरुषं स्कन्धेनादाय परिभ्रमतीमिति; स वृत्तान्तः पुरोहितेन राज्ञो निवेदितः; राज्ञा च संलक्षितं; स कथयति: आहूयतां सा स्त्री पश्यामि इति; सा आहूता, राज्ञा दृष्टा; विपुष्पितं गाथा चोक्ता: भक्षयित्वोरुमांसानि पीत्वा च मम शोणितम् । स्कन्धेन वहसे रुण्डमिदानीं त्वं पतिव्रता ॥ पातयित्वा प्रपाते मां शिलोद्भेदस्य कारणात् । (इ ११९) स्कन्धेन वहसे रुण्डमिदानीं त्वं पतिव्रता ॥ इति किं मन्यध्वे भिक्षवः? योऽसौ राजकुमारः अहमेव सः तेन कालेन तेन समयेन; यासव्भार्या एष एव स देवदत्तस्तेन कालेन तेन समयेन; तदाप्येष अकृतज्ञः अकृतवेदी; एतर्ह्यप्येष अकृतज्ञ अकृतवेदी; पुनरप्य्यथैष अकृतज्ञ अकृतवेदी तच्छ्रूयतां. ______________________________________________________________ थे स्तोर्योf विश्वन्तर (चोन्चेर्निन्ग प्रेविओउस्बिर्थोf देवदत्त) भूतपूर्वं भिक्षवो विश्वपुर्यां राजधान्यां विश्वामित्रो नाम राजा राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं च आकीर्णबहुजनमनुष्यं च प्रशान्तकलिकलहडिम्बडमरतस्कररोगापगतं शालीक्षुगोमहिषीसंपन्नं; धार्मिको धर्मराजो धर्मेण राज्यं कारयति; स च राजा श्राद्धो भद्रः कल्याणाशयः आत्महितपरहितप्रतिपन्नः कारुणिको महात्मा धर्मकामः प्रजावत्सलः; सोऽपरेण समयेन देव्या सार्धं क्रीडति रमते परिचारयति; तस्य क्रीडतो रममाणस्य परिचारयतः कालान्तरेण पत्नी आपन्नसत्वा संवृत्ता; सा अष्टानां व नावानां वा मासानामत्ययात्प्रसूता; दारको जातः अभिरूपो दर्शनीयः प्रासादिको गौरः कनकवर्णः छत्राकारशिराः प्रलम्बबाहुर्विस्तीर्णललाटः संगतभ्रूस्तुङ्गनासः सर्वाङ्गप्रत्यङ्गोपेतः; तस्य जातौ जातिमहं कृत्वा नामधेयं व्यवस्थाप्यते; किं भवतु दारकस्य नाम? इति; ज्ञातय ऊचुः; अयं दारको विश्वामित्रस्य राज्ञः पुत्रः; तस्माद्भवतु दारकस्य विश्वन्तर इति नाम इति; विश्वन्तरो दारकः अष्टाभ्यो धात्रीभ्योऽनुप्रदत्तः; द्वाभ्यामंशधात्रीभ्यां द्वाभ्यां क्षीरधात्रीभ्यां द्वाभ्यां मलधात्रीभ्यां द्वाभ्यां क्रीडनिकधात्रीभ्यां; सोऽष्टाभिर्धात्रीभिरुन्नीयते वर्ध्यते क्षीरेण दध्ना नवनीतेन सर्पिषा सर्पिर्मण्डेन अन्यैश्चोत्तप्तोत्तप्तैरुपकरणविशेषैराशु वर्धते ह्रदस्थमिव पङ्कजम्; स यदा महान् संवृत्तः तदा लिप्यामुपन्यस्तः सङ्ख्यायां गणनायां मुद्रायां; यानि तानि राज्ञां क्षत्रियाणां मूर्धाभिषिक्तानां (अ ४६८ ) जनपदैश्वर्यस्थामवीर्यमनुप्राप्तानां महान्तं पृथिवीमण्डलमभिनिर्जित्य अध्यावसतां (इ १२०) पृथग्भवन्ति शिल्पस्थानकर्मस्थानानि तद्यथा हस्तिग्रीवायामश्वपृष्ठे रथे त्सरौ धनुषि अपयाने निर्याणे अंकुशग्रहे पाशग्रहे तोमरग्रहे छेद्ये भेद्ये वेध्ये मुष्टिबन्धे पादबन्धे शिखाबन्धे दूरवेधे शब्दवेधे मर्मवेधे अक्षूणवेधे दृढप्रहारितायां पञ्चसु स्थानेषु कृतावी संवृत्तः; विश्वन्तरः कुमारो श्राद्धो भद्रः कल्याणाशयः आत्महितपरहितप्रतिपन्नः कारुणिको महात्मा धर्मकामः प्रजावत्सलः सर्वप्रदः सर्वपरित्यागी निःसङ्गपरित्यागी च महति त्यागे वर्तते; तस्य प्रदानविस्तरमुपश्रुत्य योजनशतादपि अर्थिनः अभ्यागच्छन्ति; सर्वांश्च परिपूर्णमनोरथान् प्रेषयति अथ कदाचित्बोधिसत्वो मणिकनकरजतवज्रवैडूर्यमुसारगल्वार्केन्द्रनीलविद्योतितं चन्दनवरसारपरिणामितं सिंहव्याघ्रद्वीपिचर्मपरिणद्धं पवनबलसमजवैः कनकरजतमणिघण्टिकाविघूर्णितरवैः चतुर्भिस्तुरगैर्युक्तं स्यन्दनवरमभिरुह्य नगरादुद्यानाभिमुखो निर्ययौ; अथ केचिद्विप्रा वेदवेदाङ्गविदो विश्वन्तरमभिगम्योचुः; जयतु भवान् क्षत्रियकुमारः इति; आह च सर्वेषु खलु लोकेषु विश्रुतः सर्वदो भवान् । रथमेतद्द्विजातिभ्यो दानं त्वं दातुमर्हसि ॥ इत्येवमुक्तो विश्वन्तरो बोधिसत्वः लघु लघ्वेव तस्माद्रथादवतीर्य हृष्टतुष्टप्रमुदितहृदयस्तेभ्यो द्विजातिभ्यस्तं रथवरमुपदर्शयन्नुवाच यथा मया रथस्त्यक्तो विप्रेभ्यः परया मुदा । तथाहं त्रिभवं त्यक्त्वा स्पृशेयं बोधिमुत्तमाम् ॥ (इ १२१) इति; सोऽपरेण समयेन कुन्दकुमुदहिमरजतसिताभ्रवर्णं सप्तसुजातसुप्रतिष्ठितचरणतलमैरावणविलासगामिनं परमस्वाभाव्यलक्षणालङ्कृतपुण्यनिदर्शनं राजवर्धनं नाम गजवरमभिरुह्य परितुष्टभृत्यमित्रसेवकानुयात्रिकैः चन्द्र इव नक्षत्रगणैः परिवृतः संप्राप्ते वसन्तकालसमये संपुष्पितेषु पादपेषु हंसक्रौञ्चमयूरशुकशारिकाकोकिलजीवञ्जीववकनिर्घोषिते वनषण्डे उद्यानभूमिं निर्ययौ; अथ केचित्प्रत्यर्थिकप्रयुक्ता विप्रास्त्वरितत्वरितं विश्वन्तरं कुमारमभिगम्य ऊचुः: जयतु भवान् क्षत्रियकुमारः इति; आह च सदैत्यामरलोकेषु विश्रुतः सर्वदो भवान् । दातुमेतं गजवरमस्मभ्यस्त्वमिहार्हसि ॥ इति एवमुक्तश्च बोधिसत्वस्तस्मादपि गजवराल्लघु लघ्वेव अवतीर्य हृष्टतुष्टप्रमुदितमनास्तेभ्यस्तं गजवरमुपदर्शयन्नुवाच यथा मया गजस्त्यक्तो विप्रेभ्यः परया मुदा । तथाहं त्रिभवं त्यक्त्वा स्पृशेयं बोधिमुत्तमाम् ॥ शुश्राव च राजा विश्वामित्रः: पुत्रेण च तेभ्यो विश्वन्तरेण राज्यवर्धनो नाम गजवरः प्रत्यर्थिकप्रयुक्तेभ्यो दत्तः इति; (अ ४६८ ) श्रुत्वा च पुनः राज्ञा विस्वामित्रेण कोपकुपितेन विश्वन्तरः कुमारः आहूयोक्तः: गच्छ कुमार न ते मद्विषये वस्तव्यमिति; ततो विश्वन्तरः कुमारः पित्रा परित्यक्तः चिन्तयामास: बोधाय मया कृतव्यवसायेन सर्वलोकानुग्रहार्थं बद्धसन्नाहेन गजोऽसौ त्यक्तः तद्गृहे वर्तमानेन दानं देयं यथाबलम् । तपोवनं वा संश्रित्य कर्तव्यो नियमः परः ॥ तदहं गृहमुत्सृज्य प्रयास्यामि तपोवनम् । वक्तुं न तूत्सहे वाक्यं न दास्यामीति याचितः ॥ इति अथैवं कृतमतिर्बोधिसत्वो भार्याया माद्र्याः सकाशमभिगम्य एतद्विस्तरेण निवेदयामास; ततः सा माद्री सहश्रवणादेव (इ १२२) प्रियविप्रयोगाशङ्कितहृदया कृतकरपुटा बोधिसत्वमुवाच: आर्यपुत्र यद्येवमहमपि तपोवनं यास्यामि इति; न शक्यं मया आर्यपुत्रवियुक्तया मुहूर्तमपि प्राणान् धारयितुं; कुतः गगनमिव चन्द्रहीनं सस्यविहीना भवेद्यथा पृथिवी । नलिनीव जलविहीना भर्तृविहीना भवेत्तथा नारी ॥ इति बोधिसत्व उवाच: अवश्यमावयोरन्ते वियोगेन भवितव्यम्, एष लोकस्वभावः; त्वं च प्रवरान्नपानशयनासनसंवसनोपचिता परमसुकुमारशरीरा; तपोवने च तृणपर्णोपचितायां भूमौ स्वप्तव्यं; मूलफलानि चाहारः; दर्भोपलकण्टकचितायां मह्यां विचरितव्यम्; अभीक्ष्णमुपवासमुपवसितव्यं; सर्वजनस्यात्मा उपदर्शयितव्यः; सर्वप्रयत्नेनातिथयः पूजयितव्याः; तत्रापि च मया अवश्यं यथाशक्त्या दानं देयं; तत्र भवत्या न किंचिदनुतापः करणीयः; तत्पुनरपि तावत्संप्रधार्यतामिति; माद्री कथयति: आर्यपुत्र यथाशक्त्या अहमार्यपुत्रमनुवर्तिष्ये इति; बोधिसत्वः कथयति: यद्येवं स्मर्तव्या ते इयं प्रतिज्ञा इति; ततो बोधिसत्वः पितरमुपगम्य मूर्ध्ना च प्रणिपत्योवाच क्षमस्व यत्तात मयापराद्धं गजप्रदानं प्रति पार्थिवेन्द्र । एष प्रयास्यामि पुरादरण्यं कोशक्षयो मा नृपते तवाभूत् ॥ इति ततः पुत्रवियोगविक्लवो राजा बष्पोपरुध्यमानगद्गदकण्ठ उवाच: पुत्र तिष्ठ निवर्त्यतां दानान्मतिरिति; बोधिसत्व उवाच अप्येव परिवर्तेत धरा सधरणीधरा । प्रदानान्न त्वहं चित्तं निवर्तेय महीपते ॥ इत्युक्त्वा प्रक्रान्तः; ततः पुत्रदुहितृकलत्रसहितः शोकोत्कण्ठः पौरजानपदसहस्रैरनुगम्यमानः तस्मान्नगरान्निर्जगाम; कश्चित्पुरुषः तं रुदनपरिदेवितशब्दं श्रुत्वा महाजनकायं च नगरद्वारेण निर्गच्छन्तं दृष्ट्वा अन्यतरं पुरुषमुवाच: भोः पुरुष किंकृतोऽयं महाजनस्य रुदितशब्दः इति; स उवाच: किं भवान्न जानीते (इ १२३) अस्मात्पुरान्नृपतिना स्वसुतः सुदंष्ट्रो निर्वास्यते स्थिरधृतिर्निरतः प्रदाने । तं प्रस्थितं वनमुपेत्य सपुत्रदारं पौराः समेत्य सुभृशं करुणं रुदन्ति ॥ इति ततो बोधिसत्वस्तस्मान्नगरान्निर्गतान् पौरान् यथान्याय्यमभिगम्योवाच: निवर्तन्तु भवन्तः; सुचिरमपि हि प्रियसंयोगो भूत्वा अवश्यमेवान्ते (अ ४६९ ) विप्रयोगावसानः; वासवृक्षोऽध्वप्रतिश्रयभूतो हि बन्धुजनसंयोगः; अवश्यभावी प्रियविप्रयोगः; कुतः सर्वेषु लोकेष्ववशस्य जन्तोः प्रियैर्वियोगो भवन्तीति मत्वा । कार्या भवद्भिर्भुवि सर्वयत्नैः स्थिराप्रकम्प्या च शमाय बुद्धिः ॥ इति अथ त्रिंशद्योजनातिक्रान्तं बोधिसत्वमवेक्ष्य अन्यतमो ब्राह्मणः अभिगम्योवाच: भोः क्षत्रियकुमार इतस्त्रिंशन्मात्रैरधिष्ठानं; ततोऽहं भवतो गुणश्रवणादागतः; तदर्हति भवाननेन रथवरेण मे सफलं श्रमं कर्तुमिति; ततो माद्री संजातामर्षा निष्ठुराभिधानेन तं ब्राह्मणमुवाच अहो द्विजस्यास्य सुदारुणा मतिर्वनेऽपि योऽभ्यर्थयते नृपात्मजम् । न नाम कारुण्यमिहास्य जायते नरेन्द्रपुत्रे नृपतिश्रिया च्युते ॥ इति बोधिसत्व उवाच: न खलु न खलु भवत्या ब्राह्मणः परिभाषणीयः; कुतः यद्येते न भवेयुरर्थरुचयो माद्रि प्रतिग्राहकाः बोधिं कः समवाप्नुयाद्भुवि नरः सर्वप्रदानादृते । षड्भिः पारमिताभिरुत्तमगुणाः संबोधिसत्वाः सदा दानाद्याभिरवाप्नुवन्ति नियतं सर्वज्ञतामुत्तमाम् ॥ इति ततो बोधिसत्वस्तमप्यश्वरथं परेण हर्षेण तस्मै ब्राह्मणाय दत्वा उवाच अनेन मात्सर्यमलप्रवाहिना रथप्रदानेन ममास्त्विह द्विज । (इ १२४) महर्षिभिः सद्भिरनुप्रवर्तितो निरास्रवो धर्ममयो महारथः ॥ इति ततो विश्वन्तरः प्रमुदितहृदयस्तमपि रथवरं ब्राह्मणाय दत्वा कृष्णाजिनां कुमारीं स्कन्धे आरोप्य माद्री च जालिनं कुमारं तपोवनाभिमुखौ संप्रस्थितौ; अनुपूर्वेण च तपोवनमनुप्राप्तौ; ततो विश्वन्तरस्तस्मिंस्तपोवने स्वहृदयप्ररितोषकरं व्रतमास्थाय विजहार; यावदन्यतमो ब्राह्मणः माद्र्या<ं> मूलफलार्थमभिगताया<ं> तपोवनाद्विश्वन्तरमभिगम्योवाच: जयतु भवान् क्षत्रियकुमारः; उपस्थायकहीनोऽहं भ्रमामि सवधूजनः । तदर्थं बालकावेतौ मम त्वं दातुमर्हसि ॥ इति एवमुक्तो विश्वन्तरो बोधिसत्वः इष्टसुतपरित्यागं प्रति मुहूर्तं चिन्तापरो बभूव; ततोऽसौ ब्राह्मणो विश्वन्तरं बोधिसत्वमुवाच: यतोऽहं भवन्तमर्थये; तत्किमिदं विचार्यते भवान् ख्यातः क्षितितले सर्वतः करुणात्मकः । यथा शिबिः श्रुतो नित्यं तथा त्वं कर्तुमर्हसि ॥ इति एवमुक्तो बोधिसत्वस्तं ब्राह्मणमुवाच: भो महाब्राह्मण स्वजीवितपरित्यागे न मे काचिद्विचारणा । किं पुनः स्वसुतत्यागे मम स्यान्मतिरन्यथा ॥ अपि तु महाब्राह्मण परित्यक्तौ मया बालौ वनवृद्धौ सुखात्मकौ । मातृहीनौ कथमिमौ स्थास्यतः करुणात्मकौ ॥ मा भूद्वक्ता च मे कश्चित्कुमारौ निर्घृणो भृशम् । बालौ त्यजति नात्मानं साधु ब्राह्मण मां नय ॥ इति अथ स ब्राह्मणो (अ ४६९ ) विश्वन्तरमुवाच: भोः क्षत्रियकुमार नैतद्भवतः प्रतिरूपं महति राजवंशे प्रसूतस्य सर्वस्यां पृथिव्यां ख्यातयशसः सर्वप्राणिषु दयानुक्रोशप्रवृत्तस्य दानमानसत्कारगन्धहस्तिनः (इ १२५) श्रमणब्राह्मणातिथिगुरुजनपूजकस्य कृपणवणीपकानाथदरिद्रजनपरिग्राहकस्य सर्वमनोरथपरिपूरकस्य अमोघदर्शनस्य यत्मम वन्ध्यमागमनं भवेत्, मोघो वा मार्गश्रमः निरर्थकं वा दर्शनम्; अफला सा आशा चिरकालाशासितो वा चेतस्याशासकः; तत्शिघ्रं सङ्क्कल्पतुरगस्य मनोरथस्य तद्वचननास्तिक्यप्रत्याहतस्य मे निर्वृत्तिर्भवेत्; तदर्हति भवान् परिपूर्णमनोरथं मां विसर्जयितुं कुतः जलनिधिवसना<ं> ग्रहान्तराक्षी<ं> गिरिवरपीनपयोधरोत्तमाङ्गीम् । सनगरनिगमां विचार्य भूमिं न तव सुदंष्ट्र समोऽस्ति दानशक्त्या ॥ इति अथैतद्वचनं ब्राह्मणस्योपश्रुत्य विश्वन्तरो बोधिसत्वः इमां चिन्तामापेदे तनयस्नेहविक्लवः यदि तावत्प्रदास्यामि ब्राह्मणस्य सुतद्वयम् । प्राप्स्याम्यहं च माद्री च दुःखं पुत्रवियोगजम् ॥ अथास्मै न प्रदास्यामि भविष्यामि क्षतव्रतः । निराशो ब्राह्मणश्चायं गमिष्यति यथागतः ॥ कामं पुत्रवियोगार्तो भुवि शोकं व्रजाम्यहम् । भग्नप्रतिज्ञो न त्वेव भविष्यामि क्षतव्रतः ॥ इति ततो विश्वन्तरो बोधिसत्वः इष्टसुतपरित्यागं प्रति कृतनिश्चय उवाच: एष भो लोकं दुःखमाहर्णवे प्रतिभये मज्जन्तमार्तं भृशम् पारं तारयितुं सुदुष्करशतैर्बध्नामि मार्गप्लवम् । इत्युक्त्वा विमलाम्बुपूर्णवदनो वक्त्रेण निर्मन्युना बालावश्रुजलाम्बुपूर्णनयनौ विप्राय तस्मै ददौ ॥ (इ १२६) आह च अस्य पुत्रप्रदानस्य फलं विपुलमाप्नुयाम् । तारयेयमहं तेन लोकं संसारसागरात् ॥ इति दत्तमात्रयोश्च पुनस्तयोर्बालदारकयोः इयं च वसुमती षड्विकारं चचाल; ततस्तेन भूमिकम्पेन तद्वनवासिनस्तापसाः संत्रस्ताः अन्योन्यमूचुः किंप्रभावनिमित्तोऽयं भूमेः कम्पः सुदारुणः । ज्ञतव्यमिह सुव्यक्तं प्रभावः कस्य ईदृशः ॥ इति तत्रान्यतमो वृद्धतापसो वसिष्ठसगोत्रो निमित्तज्ञानकुशलः; स तेषामृषीणामेतमर्थं निवेदयामास नूनं तपोवनरतौ हि फलाम्बुभक्षौ बालौ सुतौ नयनतुष्टिकरौ मनोज्ञौ । दुःखार्दितस्य जगतः परिमोक्षणार्थं विश्वन्तरस्त्यजति कम्पति येन भूमिः ॥ इति ततस्तौ बालदारकौ पितुराशयपरित्यागबुद्धिमवगम्य करुणकरुणं रुदन्तौ विश्वन्तरस्य पादयोर्निपत्य कृतकरपुटावूचतुः: प्रसीद तात मा आवां परित्याक्षीः; क्वेदानिं गुरुविहीनौ गमिष्यावः इति अम्बा च तात निष्क्रान्ता त्वं च नो दातुमर्हसि । यावत्तामपि पश्यावस्ततो दास्यति नौ भवान् ॥ इति ततो बोधिसत्वः स्नेहविक्लवः साश्रुदुर्दिननयनः तौ बालदारकौ (अ ४७० ) परित्यज्योवाच: पुत्रकौ न मे हृदयमस्निग्धं नाकृपा नापि नैर्घृणम् । सर्वलोकहितार्थं तु त्यजामि गुणदर्शनात् ॥ इति अप्येवाहं परां बोधिमभिगम्य शिवां स्वयम् । दुःखार्णवगतं लोकं तारयेयं निराश्रयः ॥ इति ततस्तौ बालदारकौ पितुराशयपरित्यागमवगम्य करुणादीनविलम्बिताक्षरं पादयोर्निपत्य कृतकरपुटावूचतुः यद्येवं व्यवसायस्ते वचनादावयोस्त्वया वक्तव्या जननी तात क्षन्तुमम्ब त्वमर्हसि ॥ इति (इ १२७) अपि च तात यन्नौ गुरोरपकृतं त्वयि बालभावात् यद्यप्रियं वचनमन्यदुदाहृतं वा । शुश्रूषणं च परिपूरितमेव न स्यात् बालापराध इति तत्खलु मर्षणीयम् ॥ इत्युक्त्वा पितरमभिवाद्य त्रिः प्रदक्षिणीकृत्य गुरुवचनलालसौ मुहुर्मुहुः संपरिवर्तमानौ नयनाम्बुपरिप्लुताक्षकौ तस्मादाश्रमाद्विनिश्चक्रामतुः; ततो बोधिसत्वस्तैरतिकरुणैर्बालदारकवचोभिः विक्लवीकृतहृदयो बोधौ मनः प्रणिधाय तपोवनपर्णकुटीं प्रविष्टः; निष्क्रान्तमात्रयोश्च बालदारकयोः अयं त्रिसहस्रमहासहस्रो लोकधातुः षड्विकारं कम्पितः; अनेकैश्च देवतासहस्रैः हाहाकृतमन्तरिक्षं बभूव अहो प्रदानमाहात्म्यमहो खल्वस्य निश्चयः । बालाविमौ सुतौ त्यक्त्वा यन्न विक्रियते मनः ॥ इति तस्मिंश्च समये माद्री मूलफलान्यादाय आश्रमाभिमुखी संप्रस्थिता; तेन च महता भूमिकम्पेन त्वरितमाश्रमपदं प्रतस्थे; अन्यतमा देवता सिंहरूपधारिणी भूत्व मार्गमवरुध्यावस्थिता, मा हैव माद्री बोधिसत्त्वस्य सर्वसत्वनिर्मोक्षणकृतोद्योगस्य दानपारमितायां विघ्नमुत्पादयिष्यतीति ततो माद्री तां मृगराजवधूमुवाच मृगराजवधूविलासिनि किमिदं मामुपरुध्य तिष्ठसि । ध्रुवमस्मि यथा पतिव्रता लघु मार्गादपसर्प मे तथा ॥ अपि च त्वमपि मृगराजपत्नी अहमपि भार्या नरेन्द्रसिंहस्य । धर्मेण भवसि भगिनी मृगराज्ञि ददस्व मे मार्गम् ॥ (इ १२८) इत्येवमुक्ता सा सिंहरूपधारिणी देवता तस्मान्मार्गादपक्रान्ता; ततो माद्री निमित्तान्यप्रशस्तानीति मत्वा मुहूर्तं चिन्तयामास: यथायमन्तरीक्षे रुदनशब्दः श्रूयते, यथा वनवासिनां भूतानां विक्रोशनशब्दो व्यक्तमाश्रमपदे अकुशलं भविष्यति इति; आह च यथा स्फुरति मे नेत्रं यथा रौति विहङ्गमः । ध्रुवं तौ बालकौ त्यक्तौ यथा मे मतिरुत्सुका ॥ यथायं पृथिवीकम्पो वेपते हृदयं च मे । व्यक्तौ तौ बालकौ त्यक्तौ यथा कायश्च सीदति ॥ इति सा एवमनर्थशतसहस्राणि चिन्तयन्ती आस्रमपदं गता; प्रविश्य चा आश्रमपदं ससंभ्रान्ता निरीक्षते; न पश्यति पुत्रकौ; ततो विक्लवहृदया वेपमाना अस्थानपदानुसारं विकल्पयति: अस्मिन् प्रदेशे जालिनः कुमारः सहभगिन्या मृगपोतकैर्(अ ४७० ) अभीक्ष्णं क्रीडितवान्; इमानि च ताभ्यां पांसुनगराणि कृतानि; इमानि च तयोः क्रीडनकानि; तौ तु न पश्यामि; अथ वा अम्बा न दृश्यते इति पर्णकुटीं प्रविश्य शयितौ भविष्यतः इत्येवमाशङ्कापरिगतहृदया सुतदर्शनलालसा मूलफलान्येकान्ते उपनिक्षिप्य बाष्पाम्बुपरिप्लुतेक्षणा भर्तुः पादयोर्निपत्य पृच्छति: आर्यपुत्र क्व गतौ बालदारकौ इति; विश्वन्तर उवाच आशया समभिक्रान्तो ब्राह्मणो मम सन्निधौ । तस्य तौ दारकौ दत्तौ त्वमनुज्ञातुमर्हसि ॥ इति अथैवमुक्ता माद्री विषदिग्धविद्धेव मृगी भूमौ निपपात; जलाशयोद्धृतेव मत्सी पृथिव्यामावर्तनपरिवर्तनं करोति स्म; हृतपोतेव कुररी करुणकरुणं विरौति स्म; नष्टवत्सेव गौर्बहुविधं हम्भारवैर्विललाप; आह च बालपङ्कजसमानवक्त्रकौ पद्मपत्रसुकुमारहस्तकौ । दुःखदुःखितमदृष्टदुःखकौ कां गतिं मम गतौ हि पुत्रकौ ॥ निरतौ मृगकैः सहाश्रमे मृगशाबार्जनकौ मृगाक्षकौ । कथमद्य नु पुत्रकौ मम व्रजतस्तस्य वशे न दुःखितौ ॥ (इ १२९) नयनाम्बुपरिप्लुताक्षकौ विरुवन्तौ करुणं सुदुःखितौ । न च मेऽद्य सुदृष्टकौ कृतौ कृपणं जीवति दुःखितो जनः ॥ अङ्के मम तौ विवृद्धकौ मूलपुष्पफलभोजनात्मकौ । क्षान्तिमार्दवगुरुप्रियौ सदा दुःखितौ हि परमं सुतौ मम ॥ ज्ञातिमातृपरिहीणकौ च तौ बन्धुभिश्च सहसा निराकृतौ । दुर्जनं जनमुपेत्य पापकं दुःखितौ हि परमं सुतौ मम ॥ क्षुत्तृषापरिगतात्मकौ सदा कस्य तौ वशमुपागमिष्यतः । आर्तिदुःखपरिपीडितौ च तौ प्रेष्यभावमुपयास्यतो ध्रुवम् ॥ कर्म नूनमिह पापकं मया अन्यजन्मनि कृतं सुदारुणम् । प्राणिनः प्रियशतैर्वियोजिता येन गौरिव विरौम्यवत्सिका ॥ येन सत्यवचनेन मे सदा सर्वसत्वसमतां गतं मनः । तेन सत्यवचनेन मे सुतौ दासभावगमनाद्विमुच्यताम् ॥ इति ततो माद्री ताभ्यां बालदारकाभ्यां ये वृक्षा रोपितकायपालितकास्तान् किसलयसंछन्नाण्दृष्ट्वा ससंभ्रमा परिष्वज्योवाच बालबालकलशावसिक्तकाः पल्लवप्रपतिताश्रुबिन्दवः । चेतना इव रुदन्ति वृक्षका बालकाः स्तनविहीनका इव ॥ पुनश्च तयोर्बालदारकयोः क्रीडनकानाश्रमवासिनो मृगशाबकान् दृष्ट्वा करुणादीनविलम्बिताक्षरं वचनमुवाच (इ १३०) दुःखमेतदपरं ह्यनल्पकम् यद्भ्रमन्ति मृगशाबका इमे । यद्वयस्यपरिदर्शनोत्सुकाः स्थानकेषु परिमार्गणोत्सुकाः ततो येन मार्गेण तौ बालदारकौ गतौ तं मार्गमनुसरन्ती तयोर्बालदारकयोरितश्चामुतश्च पदान्यनृजुकानि दृष्ट्वा तीव्रदुःखाभ्याहता पुनरुवाच (अ ४७१ ) पात्यमानौ ध्रुवं नीतौ यथा पदविलम्बितम् । क्वचिद्द्रुतगतावृत्तौ हानृशंस द्विजोत्तम ॥ बाष्पगद्गदनिरुद्धकण्ठकौ वेपमानरुचिराधरोष्ठकौ । तौ हि मे हरिणपरिप्लुताक्षकौ कोमलैश्चरणकैः कथं गतौ ॥ इति ततो बोधिसत्वस्तां तथा परिदेवनात्मिकां दृष्ट्वा ताभिस्ताभिः श्रुतिभिरनित्यताप्रतिसंयुक्ताभिः बहुप्रकारमनुसंज्ञापयन्नुवाच न दर्पान्न च विद्वेषान्मया त्यक्तं सुतद्वयम् । सर्वसत्वहितार्थं तु त्यक्तौ तौ दुस्त्यजौ सुतौ ॥ आत्मपुत्रकलत्रं च त्यक्त्वा परमदुस्त्यजम् । प्राप्नुवन्ति महासत्वाः शिबिवद्बोधिमुत्तमाम् ॥ इति त्यागाधिष्ठानान्माद्रि पुत्रौ तौ त्यक्तौ दुस्त्याजौ लोकनिर्मोक्षणार्थम् । दद्यां स्वान् दारान् वाहनं चापि वित्तं सर्वं सर्वेभ्यो दातुमेषा मतिर्मे ॥ इति अथ माद्री धैर्यमालम्ब्य चित्तेन बोधिसत्वमुवाच न करोम्यन्तरायं ते मा ते भून्मतिरन्यथा । मामपीच्छसि चेद्दातुं निर्विशङ्कं प्रयच्छ माम् ॥ अपि तु यस्यार्थे स्वजनान् धीर त्यजसि स्नेहविक्लवः । तमर्थं प्राप्नुहि क्षिप्रं तारयन् हि भवाज्जगत् ॥ इति ततः शक्रो देवेन्द्रः तदत्यद्भुतमतिदुष्करं च माद्र्या बोधिसत्वस्य च व्यवसायमागम्य त्रिदशगणपरिवृतः उपरि (इ १३१) विहायसा तदाश्रमपदमुपगम्य उदारेणावभासेन तद्वनमवभास्य गगनतलस्थ एव बोधिसत्वमुवाच यथा मूढे लोके कुमतिग्रहपर्याकुलमतौ विभोगासक्ताशये च सुतपाशैर्निगदिते । त्वमेको निःसङ्गस्त्यजसि तनयान् स्नेहजनकान् ध्रुवं क्षेमं शान्तं विमलविरजं प्राप्स्यसि पदम् ॥ इति तदेवं प्रोत्साह्य बोधिसत्वं शक्रो देवेन्द्रश्चिन्तयामास: एकोऽयमुपस्थायकविरहितः खेदमापत्स्यते; यन्न्विमामस्मात्प्राथयेयमिति; ततो बोधिसत्वसकाशादपक्रम्य ब्राह्मणवेषमास्थाय पुनर्बोधिसत्वमुवाच इमां सर्वानवद्याङ्गीमनुरक्तां पतिव्रताम् । संप्रयच्छ कुलश्लाघ्यां मम भृत्यार्थभागिनीम् ॥ इति ततो माद्री संजातामर्षा ब्राह्मणमुवाच निर्लज्जश्चापि लुब्धश्च त्वमिह ब्राह्मणाधमः । सद्धर्मनिरतां यस्त्वं मामिच्छसि पतिव्रताम् ॥ इति ततो विश्वन्तरो बोधिसत्वः करुणापरिगतहृदयो माद्रीं निरीक्षितुमारब्धः; अथ माद्री विश्वन्तरं बोधिसत्वमुवाच न शोचाम्यहमात्मानं नापेक्षा मे तथात्मनि । यथा त्वामनुशोचामि कथमेको भविष्यसि ॥ इति ततो बोधिसत्वस्तां माद्रीमुवाच अहमिह भुवि माद्रि नानुशोच्यो परिमृश पदमक्षयं विशोकम् । तमिममनुसर द्विजं विशोको मृगशरणे त्वहमाश्रमेऽभ्युपैमि ॥ इति विदित्वा हृष्टतुष्टप्रमुदितमनाश्चिन्तयामास इदमस्मिन् वने दानं पश्चिमं मे भविष्यति माद्रीं चेमां परित्यज्य भविष्याम्यपरिग्रहः ॥ इति विदित्वा माद्रीपाणौ गृहित्वा तं ब्राह्मणमुवाच भावानुरक्तशुश्रूषां सद्वृत्तां प्रियवादिनीम् । (इ १३२) (अ ४७१ ) मम भार्यामिमामिष्टां गृहाण त्वं द्विजोत्तम ॥ इति ततः पत्नीं सुदंष्ट्रस्य त्यजतो बोधिकाङ्क्षया । षड्विकारा मही कृत्स्ना चचालाम्बुनि नौर्यथा ॥ ततो माद्री बाष्पोपरुद्ध्यमानगद्गदकण्ठा ब्राह्मणवशमागता पतिपुत्रदुहितृरहिता इदमभ्रवीत् कीदृङ्मया कृतं कर्म अनार्यं पूर्वजन्मसु । नष्टवत्सेव गौर्येन विरौमि विजने वने ॥ ततः शक्रो देवेन्द्रो ब्राह्मणवेषमन्तर्धाप्य स्ववेषेण स्थित्वा माद्रीमुवाच न ब्राह्मणोऽस्मि सुभगे न च मानुषोऽस्मि शक्रस्त्वहं ह्यसुरनाशकरः सुरेन्द्रः । प्रीतोऽस्म्यनेन विनयेन तवोत्तमेन तद्ब्रूहि किं वरमिहेच्छसि मत्सकाशात् ॥ इति ततो माद्री तद्वचनजनितसौमनस्या शक्रं प्रणम्योवाच मम पुत्रौ सहस्राक्ष दासभावाद्विमोचय । पितामहसकाशं च प्रापय त्रिदशेश्वर ॥ इति तथेत्युक्त्वा महेन्द्रः पुनराश्रमपदं प्रविश्य बोधिसत्वमुपजग्मिवान्; माद्रीं च वामेन पाणिना गृहित्वा बोधिसत्वमुवाच अहं माद्रीमिमां तुभ्यं ददामि परिचारिकाम् । न च ते कस्यचिद्देया न्यासद्रोहो हि गर्हितः ॥ इति ततो शक्रो देवेन्द्रस्तं बालदारकपरिग्रहीतारं तथा व्यामोहयामास यथा अन्यनगरशङ्कया तदेव नगरमुपेत्य तौ बालदारकौ विक्रेतुमारब्धः; यावदमात्यैर्दृष्ट्वा राज्ञे निवेदितम् एतौ पुत्रस्य ते पुत्रौ ब्राह्मणोऽस्मिन् पुरोत्तमे । जालिनं चैव कृष्णां च विक्रीणीते सुदारुणः ॥ इति एतच्छ्रुत्वा भ्रान्तचित्तः स राजा प्राह क्षिप्रं दर्शय त्वं कुमारौ । नार्यश्चक्रुः क्रोशमन्तःपुरस्थाः पौरा राज्ञः क्षिप्रमेयुः समीपम् ॥ यावदन्येनामात्येन राज्ञः सकाशमुपनीतौ (इ १३३) पौत्रौ निरीक्ष्य स नृपोऽभिमुखोपनीतौ क्षीणस्वरौ कृशतनू मलदिग्धगात्रौ । सिंहासनात्क्षितितलं सहसा पपात पौरा विचुक्रुशुरमात्यगणाः स्त्रियश्च ॥ ततो राजा अमात्यानामन्त्रयते वनेऽपि वसतो दानेष्वभिरतं मनः । तमिहानयत क्षिप्रं पत्न्या सार्धं सुलोचनम् ॥ इति ततः शक्रो देवेन्द्रो बोधिसत्वमभिनमस्य स्वभवनमुपजगाम; पश्चाच्च राजनि विश्वामित्रे अभ्यतीते ब्राह्मणामात्यपौरजानपदैः सार्धं तदाश्रमपदं गत्वा बोधिसत्वं याचित्वा स्वपुरमानीय राज्ये प्रतिष्ठापितवान्; ततो विश्वन्तरो राजा सर्वंददो बभूव; स श्रंनब्राह्मणवनीपकसुहृत्सम्बन्धिबान्धवानुजीविजनेषु अनेकप्रकाराणि दानानि दत्वा पुण्यानि कृत्वा गाथां भाषते बोधिं प्रार्थयमानेन दानं देयं विशारद । क्षत्रिये ब्राह्मणे वैश्ये शूद्रे चण्डालपुक्कशे ॥ हिरण्यं च सुवर्णं च गवाश्वमणिकुण्डलम् ॥ दद्यात्संपन्नशीलेभ्यो दासकर्मकरं तथा ॥ सुतदारपरित्यागं कृत्वा मुक्तेन चेतसा । प्राप्नुवन्ति नराः शुद्धिमस्मिन् लोके परत्र च ॥ इति यदा विश्वामित्रेण राज्ञा विश्वन्तरनिमित्तं जुज्जुकाय ब्राह्मणाय प्रभूतं धनं दत्तं तदासौ विस्तीर्णविभवो जातः; तस्य (अ ४७२ ) सुहृत्सम्बन्धिबान्धवा मित्राणि चागम्य कथयन्ति: या च काचित्तव श्रीरसौ विश्वन्तरं कुमारमागम्य इति; स कथयति: किं मम विश्वन्तरेण कृतमुत्तमवर्णप्रसूतोऽहं; दक्षिणीयो लोकस्य; येन मम भोगा उपनमन्ति इति भगवानाह: किं मन्यध्वे भिक्षवः? योऽसौ विश्वन्तरो नाम राजकुमारः अहमेव सः तेन कालेन तेन समयेन; योऽसौ जुज्जुकः एष एवासौ देवदत्तः तेन कालेन तेन समयेन; तदाप्येष अकृतज्ञः अकृतवेदी; एतर्ह्यप्येष अकृतज्ञ अकृतवेदी; तस्मात्तर्हि भिक्षवः एवं शिक्षितव्यं यत्कृतज्ञा भविष्यामः कृतवेदिनः स्वल्पमपि कृतं न नाश्ययिष्यामः; प्रागेव प्रभूतं; इत्येवं वो भिक्षवः शिक्षितव्यम् (इ १३४) ______________________________________________________________ थे स्तोर्योf श्रोणकोटीविंशा बुद्धो भगवान् विहरति वेणुवने कलन्दकनिवापे; तेन खलु समयेन चम्पायां पोतलो नाम गृहपतिः प्रतिवसति, आढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी; तेन सदृशात्कुलात्कलत्रमानीतं; स तया सार्धं क्रीडति रमते परिचारयति; तस्य क्रीडतो रममाणस्य परिचारयतः कालान्तरेण पत्नी आपन्नसत्वा संवृत्ता; सा उपस्थीयते शीते शीतोपकरणैः उष्णे उष्णोपकरणैः वैद्यप्रज्ञप्तैराहारैः, नातितिक्तैः नात्यम्लैः नातिलवणैः नातिमधुरैः नातिकटुकई नातिकषायैः तिक्ताम्ललवणमधुरकटुकषायविवर्जितैः; हारार्धहारविभूषितगात्री अप्सरा इव नन्दने वने विचारिणी मंचान्मंचं पीठात्पीठमनवतरन्ती अधरिमां भूमिं; न चास्याः किंचिदमनोज्ञां शब्दश्रवणं यावद्गर्भस्य परिपाकाय तेन खलु समयेन पोतलको गृहपतिः राजगृहं गतः केनचिदेव करणीयेन; सा चाष्टानां वा नवानां वा मासानामत्ययात्श्रवणे नक्षत्रे प्रसूता; दारको जातः अभिरूपो दर्शनीयः प्रासादिकः; तस्य पादतलयोरधस्तात्चतुरङ्गुलमात्राणि रोमाणि सुवर्णवर्णवर्णानि जातानि; यावत्पोतलकस्य गृहपतेः स्वमनुष्यः त्वरितत्वरितं राजगृहं गतः, पोतलकस्य गृहपतेः कथयति: गृहपते दिष्ट्या वर्धसे पुत्रस्ते जातः इति; स प्रीतिसौमनस्यजातः भूयः पृच्छति किं कथयसि गृहपते पुत्रस्ते जातः; पुनः पृच्छति किं कथयसि इति; अथ तस्य पुरुषस्यैतदभवत्किमयं गृहपतिर्भूयो भूयः पृच्छति? मा मां प्रलापयितुकामः इति विदित्वा तूष्णीमवस्थितः; गृहपतिः कथयति: भोः पुरुष क्षूणस्त्वं; यदि त्वया शतमपि वाङ्निश्चारिताभविष्यत्, मयापि तव मुखं सुवर्णस्य पूरितमभविष्यतिति; ततः पोतलकेन गृहपतिना तस्य पुरुषस्य त्रीन् वारान् सुवर्णेन मुखं (अ ४७२ ) पूरितं; कोष्ठागारिकस्य च सन्दिष्टं दारकस्यावलेहिकामूल्यं विंशतिहिरण्यकोटीर्देहि इति पोतलको गृहपतिः प्रीतमनाः राज्ञः सकाशमुपसंक्रान्तः देव पुत्रो मे जातः इति; राजा कथयति: शोभनमेव; ददाम्य्(इ १३५) अहं तस्य चम्पायां साधारणं सप्तहस्तिकं दानीयमिति; पोतलको गृहपतिः राजानं बिम्बिसारमवलोक्य चम्पामागतः; ततो गृहपतेर्ज्ञातयः त्रीणि सप्तकान्येकविंशतिदिवसान् जातस्य जातिमहं कृत्वा नामधेयं व्यवस्थापयन्ति किं भवतु दारकस्य नाम इति; अन्ये कथयन्ति: अयं दारकः श्रवणनक्षत्रे जातः; पित्रा चास्य जन्मनि विंशतिहिरण्यकोट्यः अवलेहिकामूल्यं दत्तः; तस्माद्भवतु दारकस्य श्रोणः कोटीविंश इति नाम; तस्य श्रोणः कोटीविंश इति नामधेयं व्यवस्थापितं; श्रोणः कोटीविंशो दारकः अष्टाभ्यो धात्रीभ्योऽनुप्रदत्तः; द्वाभ्यामंसधात्रीभ्यां द्वाभ्यां क्षीरधात्रीभ्यां द्वाभ्यां मलधात्रीभ्यां द्वाभ्यां क्रीडनिकाभ्यां धात्रीभ्यां; सोऽष्टाभिर्धात्रीभिरुन्नीयते वर्ध्यते क्षीरेण दध्ना नवनीतेन सर्पिषा सर्पिर्मण्डेन अन्यैश्चोत्तप्तोत्तप्तैरुपकरणविशेषैराशु वर्धते ह्रदस्थमिव पङ्कजम्; स यदा महान् संवृत्तस्तदा लिप्यामुपन्यस्तः सङ्ख्यायां गणनायां मुद्रायां; उद्धारे न्यासे निक्षेपे वस्तुपरीक्षायां वस्त्रपरीक्षायां रत्नपरीक्षायां दारुपरीक्षायां हस्तिपरीक्षायामश्वपरीक्षायां कुमारपरीक्षायां कुमारिकापरीक्षायां; सोऽष्टासु परीक्षासु उद्घाटको वाचकः पण्डितः पटुप्रचारः संवृत्तः; तस्य पुण्यमहेशाख्यतां श्रुत्वा समानकुलीनैर्बहुभिर्दारिका दत्ताः; तस्य पित्रा त्रीणि वासगृहाणि मापितानि हैमन्तिकं ग्रैष्मिकं वार्षिकं; त्रीणि उद्यानानि मापितानि हैमन्तिकं ग्रैष्मिकं वार्षिकं; त्रीणि अन्तःपुराणि व्यवस्थापितानि ज्यैष्ठं मध्यं कनीयसं; स उपरिप्रासादतलगतो निष्पुरुषेण तूर्येण क्रीडति रमते परिचारयति; तस्य दिने दिने पंचशतिकाः पाको भोजनार्थं साध्यते ______________________________________________________________ अजातशत्रु, इम्पेल्लेद्ब्य्देवदत्त, सेएक्स्तो तके हिस्fअथेर्किन्ग्बिम्बिसारऽस्लिfए बुत्fऐल्सिन् थे अत्तेम्प्त् देवदत्तेन अजातशत्रुः कुमारो विप्रस्थाप्यते: कुमार सर्वेषां राज्ञां यदा शिरसि पलितं जातं भवति, तदा ज्येष्ठं कुमारं (इ १३६) राज्यैश्वर्याधिपत्ये प्रतिष्ठाप्य प्रव्रजन्ति; भवतः पितुः केशास्तृतीयं वर्णान्तरं गताः; तथापि कामेष्वध्यवसित एव नोपशमं गच्छति इति; अजातशत्रुः कथयति: किमस्य करोमि इति; देवदत्तः कथयति पराक्रमस्व इति; कामार्थिनां नास्तिकिंचिदकरणीयं; यावद्राजा बिम्बिसारो भगवतो घृतपीतस्य मण्डं पातुकामस्य मण्डमधिष्ठाय वेणुवनं संप्रस्थितः; अजातशत्रुणा दृष्टः; तेन कनकः क्षिप्तः; राजा शब्दे कृतावी, तेन तस्य मण्डस्थाली भग्ना; राजा तत एव प्रतिनिवृत्तः ______________________________________________________________ थे बुद्ध, देसिरिन्ग्तो चोन्वेर्त्श्रोणकोटीविंश, सेन्द्स्मौद्गल्यायन तो हिम्, wहो अप्पेअर्स्तो हिमिन् थे ओर्बोf थे सुन्, अन्द्तल्क्स्तो हिमोf थे बुद्ध अत्रान्तरे नास्ति किंचिद्बुद्धानां भगवतामज्ञातमदृष्टमविदितमविज्ञातं; तत्र (अ ४७३ ) भगवानायुष्मन्तं महामौद्गल्यायनमामन्त्रयते: विनिपातितो मौद्गल्यायन अजातशत्रुणा अकल्याणमित्रोपगूढेन तथागतस्य पिण्डपातः; गच्छ चम्पायां पोतलकपुत्रस्य सकाशात्पिण्डपातमादाय इति; एवं भदन्तेत्यायुष्मान्महामौद्गल्यायनो भगवतः प्रतिश्रुत्य तद्रूपं समाधिं समापन्नः यथा समाहिते चित्ते राजगृहेऽन्तर्हितश्चम्पायां प्रत्यष्ठात्; श्रोणः कोटीविंशः आदित्यभक्तः; स दिने दिने काल्यमेवोत्थाय आदित्यं नमस्यति; आयुष्मान्महामौद्गल्ययानः ऋद्ध्या आदित्यमण्डलं भित्वा अवतीर्णः; अथ श्रोणः कोटीविंशः दृष्ट्वा परं विस्मयमापन्नः: प्रत्यक्षमेवाहमादित्यं स्वेन रूपेण पश्यामि इति; दृष्ट्वा च पुनर्गाथां भाषते भित्वा रविं क्षितितलाभिमुखं क एष संप्रत्युपैति भवनं समशीघ्र एव । स्यात्किं न्वयं दिनकरो धनदः शशाङ्कः शक्रोऽथ वा सुरपतिः सहसावतीर्णः ॥ इति आयुष्मानपि महामौद्गल्यायनस्तस्य चेतसा चित्तमाज्ञाय गाथां भाषते (इ १३७) नाहं दीप्तसहस्ररश्मिकिरणस्सूर्यो न ताराधिपः नाहं वैश्रवणो चास्मि भगवान्नास्मीश्वरस्सुव्रतः । पुत्रं मामवगच्छ शान्तमनसो बुद्धस्य दीप्तौजसः भैक्षार्थं तु तवाहमभ्युपगतः पिण्डेन कार्यं पुनः ॥ इति श्रोणः कथयति: किं भवान्मुनिः? स गाथां भाषते मेरुं प्राप्य यथा हि कांचनगिरिं स्यात्सर्षपोऽभ्यागतः सूर्यं प्राप्य यथा भवेच्च तुलितः खद्योतजन्तुः क्षितौ । रत्नाढ्यं च समेत्य सागरमिह स्याद्गोष्पदं संसृतम् बुद्धं प्राप्य तथा नरोत्तमगुरुं मां विद्धि शास्तात्मजम् ॥ इति श्रोणः कथयति अनेनैवानुमानेन वयं हि तव नायकम् । सुव्यक्तमवगच्छामो यथास्ति सुमहातपाः ॥ आज्ञापय किमागमनप्रयोजनमिति; स कथयति: भगवतः पिण्डपातमनुप्रयच्छ; कोऽसौ भगवान्? अस्ति गृहपतिपुत्र श्रमणो गौतमः शाक्यपुत्रः शाक्यकुलात्केशश्मश्र्ववतार्य काषायाणि वस्त्राण्याच्छाद्य सम्यगेव श्रद्धया अगारादनगारिकां प्रव्रजितः; सोऽनुत्तरां सम्यक्संबोधिमभिसम्बुद्धः; स एष गृहपतिपुत्र बुद्धो नाम; तस्य बुद्ध इत्यश्रुतपूर्वं घोषं श्रुत्वा सरोमकूपाण्याहृष्टाणि; तेनाभिप्रसन्नेन स एव पंचशतिकः पाकः आयुष्मते महामौद्गल्यायनाय प्रतिपादितः ______________________________________________________________ श्रोणकोटीविंश fइल्ल्स्हिस्बोwल्wइथ्fओओदोf एxत्रओर्दिनर्य्fरग्रन्चे, wहिछ्महामौद्गल्यायन चर्रिएस्बच्क्तो थे बुद्ध अथायुष्मान्महामौद्गल्यायनस्तस्यान्तिकात्पिण्डपातमादाय तद्रूपं समाधिं समापन्नो यथा समाहिते चित्ते चम्पायामन्तर्हितो राजगृहे प्रत्यष्ठाद्वेनुवने कलन्दकनिवापे; तेन भगवतः पिण्डपात उपनामितः; भगवान् भोक्तुमारब्धः; राजा मागधः श्रेण्यो बिम्बिसारः द्वितीयं स्थालिपाकमादाय भगवत्सकाशमुपसंक्रामति; यावत्पश्यति सर्वं वेणुवनं नानाविधेन (इ १३८) (अ ४७३ ) सुरभिणा आहारगन्धेन स्फुटं; स संलक्षयति नूनं शक्रेण देवेन्द्रेण अन्याभिर्देवताभिर्भगवतः पिण्डपातः उपनीतः; यथेदं वेणुवनं नानाविधेन सुरभिणा आहारगन्धेन स्फुटम्; इति विदित्वा भगवन्तमिदमवोचत्: किं भदन्त शक्रेण देवेन्द्रेण अन्याभिर्देवताभिर्भगवतः पिण्डपात उपनीतः? येन वेणुवनं नानाविधेन सुरभिणा आहारगन्धेन स्फुटमिति; भगवानाह: न महाराज शक्रेण देवेन्द्रेण नाप्यन्याभिर्देवताभिरुपनीतः; अपि तु तवैव विजिते चम्पायां पोतलकपुत्रस्य दिने दिने पंचशतिकः स्थालीपाकः साध्यते; ततो मौद्गल्यायनेन भिक्षुणा आनितः इति; तस्य भगवान् वर्णं भाषितुमारब्धः इति श्रुत्वापि तस्य दर्शनकामता उत्पन्ना; भगवांस्तस्य चेतसा चित्तमाज्ञाय कथयति: महाराज पुण्यमहेशाख्यस्स सत्वः; मा तस्य आज्ञां दास्यसि; मा ते पुण्यपरिक्षयो भविष्यति; अपि तु महाराज परिभुङ्क्ष्व पात्रशेषं; स कथयति: अहमस्मि भदन्त राजा; भदन्त क्षत्रियो मूर्धाभिषिक्तः; न मया कस्यचित्पात्रशेषं परिभुक्तपूर्वं; किंतु भगवान् धर्मतया पिता भवति; यदि भगवानाज्ञापयति <तर्हि परिभुंजे इति> परिभोक्तुमारब्धः; भगवानाह: अस्ति महाराज त्वया कदाचिदेवंरूपमन्नपानं परिभुक्तपूर्वं? राजा कथयति: अयं भदन्त राजकुले वृद्धो, राजा च संवृत्तः नाभिजानात्येवंरूपमन्नपानमास्वादितपूर्वं; पुण्यमहेशाख्यो महाराज स सत्वः य ईदृशमन्नपानं परिभुङ्क्ते ______________________________________________________________ किन्ग्बिम्बिसार देसिरेस्तो सेए श्रोणकोटीविंश अथ राजा मागधः श्रेण्यो बिम्बिसारः भगवतः पादौ शिरसा वन्दित्वा भगवतोऽन्तिकात्प्रक्रान्तः; तेन अमात्यानामाज्ञा दत्ता: सन्नाहयन्तु भवन्तः चतुरङ्गं बलकायं; चम्पां गमिष्यामि; कस्यार्थे? पोतलकपुत्रं द्रष्टुं; देवस्यासौ विषयनिवासी; इहैवाहूयतां; पुण्यमहेशाख्योऽसौ सत्वः; न तस्य आज्ञा दातव्या; देव वयं तथा करिष्यामः, यथा आज्ञां न दास्यामः; स चागमिष्यति; एवं कुरुत इति; तैश्चम्पाया लेखोऽनुप्रेषितः; भवन्तो नगरशोभां कुरुत; यवसयोगासनं च सम्दानयत; राजा आगमिष्यति; इति श्रुत्वा परितुष्टाः; भूयो लेखोऽनुप्रेषितः; भवन्तो न राजा आगमिष्यति; अपि तु कुमार आगच्छति इत्; ते सन्त्रस्ताः: कर्कशः (इ १३९) कुमारः, कदाचिदागत अनर्थं करिष्यति इति; भुयो लिखितं; न राज आगच्छति; नापि कुमारः; अपि तु युष्माभिर्गङ्गा तथा बद्धव्या यथा प्रतिलोमा वहति; इति श्रुत्वा चम्पानिवासिनः पौरास्सन्निपतिताः: भवन्तो नूनमस्मान् राजा दण्डयितुकामः, येनैवं लिखति इति तैरमात्यानामनेन अर्थेन लेखोऽनुप्रेषितः; तैर्वाचयित्वा पुनस्तेषां यथाभूतं सन्दिष्टं: भवन्तः एष परमार्थः; न राजा आगच्छति; न कुमारः; नापि गङ्गाबन्धेन किंचित्प्रयोजनम्; अपि तु देवः पोतलकपुत्रं (अ ४७४ ) द्रष्टुकामः; तैरवचरकः पुरुषः प्रेषितः; तेनाप्येवमेव समाख्यातं; ततस्ते संभूय पोतलकस्य गृहपतेः सकाशं गताः; गृहपते देवः श्रोणं कोटिविंशं द्रष्टुकामः; प्रेषय अमात्यैरस्माकं यथाभूतं सन्दिष्टम्; अवचरकपुरुषेणपि स एवार्थः समाख्यातः इति; स कथयति: भवन्तो न प्रेषयामि; यो मम भागस्तं सुवर्णपिण्डैरपि बध्नीयामिति; ते कथयन्ति: गृहपते यद्यप्येवं तथापि पश्चिमा जनता अनुकम्पितव्या इति; स कथयति: भवन्तो यद्येवं समयतः अनुजानामि; यदि युष्माकमपि पुत्राः श्रोणेन सार्धं गच्छति इति; ते कथयन्ति: गृहपते एवं भवतु; गच्छन्तु भवन्तः ______________________________________________________________ श्रोणकोटीविंश गोएस्तो राजगृह तो विसित्बिम्बिसार अथ पोतलको गृहपतिर्येन श्रोणकोटीविंशस्तेनोपसंक्रान्तः; उपसंक्रम्य श्रोणं कोटीविंशमिदमवोचत्: पुत्र इमेपौर एवं कथयन्ति इति; स कथयति: तात यद्येवं गच्छामि इति; पुत्र नूनं स राजा तव पादयोः सुवर्णवर्णानि रोमाणि द्रष्टुकामः; न त्वया तस्य पादौ उत्क्षिप्य दर्शयितव्यौ; राजान अस्थानप्रकोपिनः; मा ते अनर्थं करिष्यन्ति; अयं मुक्ताहारः; एतं राज्ञः पादयोः स्थापयित्वा प्रणामं च कृत्वा तस्य पुरस्तात्पर्यङ्कं बध्वा निषीद; ततो रोमाणि द्रक्ष्यति इति; ततः पोतलको गृहपतिः संलक्षयति: कतरेण यानेन श्रोणं प्रेषयामि? किं हस्तियानेन? अश्वयानेन? रथयानेन्? उत नौयानेन इति; तस्यैतदभवत्; नौयानमेषां वरं; नौयानेन प्रेषयामि इति; तेन नद्यां गङ्गायां नौसङ्क्रमो मापितः; तत्र विचित्रमुद्यानं कारितं नानापुष्पफलसंपन्नं हंसक्रौञ्चमयूरशुकशारिकाकोकिलादिविहङ्गनिकूजितं; विविधानि वादित्राणि, नर्यश्च नानालङ्कारविभूषिताः समारोपिताः; तदनया विभूत्या जलमध्येन प्रेषितः; (इ १४०) सोऽनुपूर्वेण राजगृहसमीपं गतः; राज्ञा बिम्बिसारेण श्रुतं पोतलकपुत्रः आगच्छति इति; तेन यावच्च राजगृहं, यावच्च नादी गङ्गा अत्रान्तरात्खातमस्याः पूरयित्वा तन्मध्येन नौराकृष्टा; राजगृहं च तन्नगरमपगतपाषाणशर्करकठल्लं व्यवस्थापितं चन्दनवारिपरिषिक्तं सुरभिधूपघटिकोपनिबद्धमामुक्तपट्टदामकलापमुच्छृतध्वजपताकं नानापुष्पावकीर्णं रमणीयं देवानामिव नन्दनवनोद्यानं; सोऽनया विभूत्या राजगृहं नगरं प्रवेशितः; ततोऽसौ राज्ञः सिंहासनस्थस्य मुक्ताहारं पादयोर्दत्वा, शिरसा प्रणम्य, पुरस्तात्पर्यङ्कं बध्वा निषण्णः; राजा तस्य पादतलयोः सुवर्णवर्णानि रोमाणि दृष्ट्वा परं विस्मयमापन्नः: अहो पुण्यमहेशाख्यः श्रोणः कोटीविंशः इति ______________________________________________________________ श्रोणकोटीविंश अन्द्किन्ग्बिम्बिसार गो तोगेथेर्तो थे बम्बोओ ग्रोवे इनोर्देर्तो सेए थे बुद्ध दृष्ट्वा कथयति: श्रोण दृष्टस्ते भगवान्? नो देव; आगच्छ गच्छामः; स पृच्छति देव किं भगवान् यानेन गच्च्छति? आहोस्वीत्पादाभ्याम्? इति; राजा कथयति (अ ४७४ ) प्रव्रजितोऽसौ; किं तस्य यानेन? इति; स कथयति: देव यद्येवमहमपि पादाभ्यामेव गच्छामि इति, पादाभ्यामेव संप्रस्थितः; तस्य पौरुषेयैर्वस्त्राणि पृथिव्यामास्तीर्णानि; स कथयति: किं भगवानास्तीर्णेन गच्छति? आहोस्विसनास्तीर्णेन? इति; ते कथयन्ति अनास्तीर्णेन इति; स कथयति: अपन्यत वस्त्राणि; अहमप्यनास्तीर्णेन गच्छामि इति; पौरुषेयैर्वस्त्राणि अपनीतानि; अमनुष्यकैरास्तीर्णानि; स कथयति: भवन्तो यूयं मया निवारिताः? इति; ते कथयन्ति: देव निवारिताः; अथ केन पुनरास्तीर्णानि? इति; देव पुण्यमहेशाख्यस्त्वम्; अमनुष्यकैरास्तीर्णानि इति; तेनाशयतो वाङ्निश्चारिता अपनयन्तु अमनुष्या वस्त्राणि इति; तैरपनीतानि; तेन पृथिव्यां पादो न्यस्तः; षड्विकारः पृथिवीकम्पो जातः; इयं महापृथिवी चलति, संचलति, संप्रचलति; व्यथते संव्यथते संप्रव्यथते; पूर्वो दिग्भाग उन्नमति, पश्चिम अवनमति; पश्चिम उन्नमति; पूर्वोऽवनमति; दक्षिण उन्नमति, उत्तरोऽवनमति; उत्तर उन्नमति, दक्षिणोऽवनमति; अन्त उन्नमति, मध्योऽवनमति; मध्य (इ १४१) उन्नमति, अन्तोऽवनमति; तत्र भगवान् भिक्षूनामन्त्रयते स्म: इतो भिक्षव एकनवतं कल्पमुपादाय न कदाचित्पोतलकपुत्रेण अनास्तीर्णायां पृथिव्यां पादो न्यस्तः; एतर्हि न्यस्तो धर्मगौरवतः, नो तु पुण्यपरिक्षयात्; तेनायं षड्विकारः पृथिवीकम्पो जातः इति ______________________________________________________________ थे बुद्ध चोन्वेर्त्स्श्रोणकोटीविंश अथ श्रोणः कोटीविंशो येन भगवान् तेनोपसंक्रान्तः; उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषण्णः; ततो भगवता आशयानुशयं धातुं प्रकृतिं च ज्ञत्वा तादृशी चतुरार्यसत्यसंप्रतिवेधिकी धर्मदेशना कृता, यां श्रुत्वा श्रोणेन कोटीविंशेन विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्वा स्रोतआपत्तिफलं साक्षात्कृतं; स दृष्टसत्य उत्थाय आसनादेकांसमुत्तरासङ्गं कृत्वा, येन भगवांस्तेन अञ्जलिं प्रणमय्य भगवन्तमिदमवोचत्: लभेयाहं भदन्त स्वाख्याते धर्मविनय प्रव्रज्यामुपसंपदं भिक्षुभावं चरेयमहं भगवतोऽन्तिके ब्रह्मचर्यमिति; भगवानाह: न खलु गृहपुत्र तथागता वा तथागतश्रावका वा अननुज्ञातं कुलपुत्रं मातापितृभ्यां प्रव्राजयन्ति उपसंपादयन्ति वा; गच्छ मातापितराववलोकय इति; राजा कथयति अहं भदन्त प्रभुः सर्वाधिकरणानाम्; अर्थे ममैव धर्मतया अयं पुत्रो भवति; अहमेनमनुजानामि; प्रव्राजयतु भगवान् यथासुखमिति; ततो भगवता एहिभिक्षुकया आभाषितः एहि भिक्षो चर ब्रह्मचर्यमिति; ततो वाचोऽवसानसमनन्तरमेव मुण्डः संवृत्तः; सङ्घाटीप्रावृतः; पात्रकरकव्यग्रहस्तः सप्ताहावरोपितकेशश्मस्रुः वर्षशतोपसंपन्नस्य भिक्षोरीर्यापथेनावस्थितः; आह चात्र एहीति चोक्तः स तथागतेन मुण्डश्च सङ्घाटिपरीतदेहः । सद्यः प्रशान्तेन्द्रिय एव तस्थौ नेपच्छितो बुद्धमनोरथेन ॥ इति षड्वर्गीयास्(अ ४७५ ) तदवस्फण्डयितुमारब्धाः; अयं तावन्नीतपिण्डकः; एकान्तघटके शासने किं विशेषमधिगमिष्यति इति (इ १४२) स तैरवस्फण्डितो येन भगवांस्तेनोपसंक्रान्तः; उपसंक्रम्य आयुष्मन्तमानन्दमिदमवोचत्: कतरो भदन्त आनन्द भगवता एकान्तघटकस्य भिक्षोः योगानुकूलस्समाधिरुक्तः आयुष्मन् श्रोण भगवतोक्तं चङ्क्रमत अविगतसमाधिश्चिरस्थितिको भविष्यतीति तेन शीतवनं श्मशानं गत्वा चङ्क्रमोऽधिष्ठितः इति; तत्रायुष्मान् श्रोणः कोटीविंशः राजगृहे विहरति शीतवने श्मशाने युक्तः; सातत्ये नैपक्ये संबोधिपक्षिकेषु धर्मेषु भावनायोगमनुयुक्तो भवति ______________________________________________________________ श्रोणकोटीविंश गिवेस्हिम्सेल्f तो सेवेरे पेनन्चेस्. थे एxअम्प्ले ओf थे लुते अथ आयुष्मतः श्रोणकोटीविंशस्य एकाकिनो रहोगतस्य प्रतिसंलीनस्य एवं चेतसि चेतःपरितर्क उदपादि; यावन्तः खलु भगवतः श्रावकाः आरब्धवीर्या विहरन्ति; अहं तेषामन्यतमः; अथ च पुनर्मे नानुपादायास्रवेभ्यश्चित्तं विमुच्यते; संविद्यन्ते च मे ज्ञातिषु विपुला भोगाः; यन्न्वहं निषद्य कामांश्च परिभुङ्जीय; दानानि च दद्यां; पुण्यानि च कुर्यामिति अथ भगवानायुष्मतः श्रोणस्य चेतसा चित्तमाज्ञाय अन्यतमं भिक्षुमामन्त्रयते: एहि त्वं भिक्षो; येन श्रोणः कोटीविंशस्तेनोपसम्क्राम; उपसंक्रम्य श्रोणं कोटीविंशमेवं वद शास्ता त्वां श्रोण आमन्त्रयते इति; एवं भदन्तेत्य्स भिक्षुर्भगवतः प्रतिश्रुत्य यनायुष्मान् श्रोणः कोटीविंशस्तेनोपसंक्रान्तः; उपसंक्रम्य आयुष्मन्तं श्रोणं कोटीविंशमिदमवोचत्: शास्ता त्वामायुष्मन् श्रोण आमन्त्रयते इति; एवमायुष्मनित्यायुष्मान् श्रोणः कोटीविंशस्तस्य भिक्षोः प्रतिश्रुत्य येन भगवांश्तेनोपसंक्रान्तः; उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकाण्ते स्थितः; आयुष्मन्तं श्रोणं कोटीविंशं भगवानिदमवोचत्: न ते श्रोण एकाकिनो रहोगतस्य प्रतिसंलीनस्य एवं चेतसि चेतःपरितर्क उदपादि? यावन्तः खलु भगवतः श्रावकाः आरब्धवीर्या विहरन्ति; अहं तेषामन्यतमः; अथ च पुनर्मे नानुपादाय आस्रवेभ्यः चित्तं विमुच्यते; संविद्यन्ते च मे (इ १४३) ज्ञातिषु विपुला भोगाः; यन्न्वहं निषद्य कामांश्च परिभुञ्जीय; दानानि च दद्यां; पुण्यानि च कुर्यामिति अथ आयुष्मतः श्रोणस्य कोटीविंशस्य एतदभवत्: जानाति मे भगवान् चेतसा चित्तम्; इति विदित्वा भीतस्त्रस्तस्संविग्नः आहृष्टरोमकूपो भगवन्तमिदमवोचत्: एवंभदन्त; तेन हि श्रोण त्वामेव पृच्छामि; यथा ते क्षमते तथैनं व्याकुरु; किं मन्यसे श्रोण? कुशलस्त्वमभूः पूर्वमागारिकः सन् वीणायां तन्त्रीस्वने; तथ्यमहं भदन्त कुशलोऽभूवं पूर्वमागारिकः सन् वीणायां तन्त्रीस्वने: किं मन्यसे श्रोण? यस्मिन् समये वीणायास्तन्त्र्यः अत्यातता भवन्ति, अपि नु तस्मिन् समये (अ ४७५ ) वीणा वल्गुस्वरा भवति? मनोज्ञस्वरा वा स्वरवती वा कर्मण्या वा? नो भदन्त; यस्मिन् समये वीणायास्तन्त्र्यः अतिश्लथा भवन्ति अपि नु तस्मिन् समये वीणा वल्गुस्वरा भवति? मनोज्ञस्वरा वा स्वरवती वा कर्मण्या वा? नो भदन्त; अथ पुनर्यस्मिन् समये वीणायास्तन्त्र्यः नात्यातता भवन्ति नातिश्लथाः सह गुणेषु प्रतिष्ठापिताः, ननु तस्मिन् समये वीणा वल्गुस्वरा वा भवति? मनोज्ञस्वरा वा स्वरवती वा कर्मण्या वा? एवं भदन्त; एवमेव श्रोण अत्यारब्धं वीर्यमत्यौद्धत्याय संवर्तते; अतिलीनं चित्तं कौसीद्याय संवर्तते; तस्मात्त्वं श्रोण समतां प्रतिपद्यस्व; तेन च मा मंस्थाः; तस्मिंश्च प्रमादः; तस्मिंश्च निमित्तमुद्गृह्णीष्व; अनेन त्वं श्रोण विहारेण विहरन्नचिरादेव आस्रवाणां क्षयादनास्रवां चेतोविमुक्तिं प्रज्ञाविमुक्तिं दृष्ट एव धर्मे स्वयमभिज्ञया साक्षात्कृत्वा, उपसंपद्य प्रवेदयसे क्षीणा मे जातिः; उषितं ब्रह्मचर्यं; कृतं करणीयं; नापरमस्माद्भवं प्रजानामि इति ______________________________________________________________ श्रोणकोटीविंश fओल्लोwस्थे अद्विचे ओf थे बुद्ध, अन्दिन स्होर्त्तिमे बेचोमेसनर्हत् अथायुष्मान् श्रोणः कोटीविंशो भगवतो भाषितमभिनन्द्य अनुमोद्य भगवतः पादौ शिरसा वन्दित्वा भगवतोऽन्तिकात्प्रक्रान्तः; अथायुष्मान् श्रोणः कोटीविंशो भगवता अनेन वीणोपमेन अववादेनाववादितः एको व्यपकृष्टः अप्रमत्तः आतापी प्रहितात्मा व्याहार्षीत्; एको व्यपकृष्टः अप्रमत्त आतापी प्रहितात्मा विहरन्, यदर्थं कुलपुत्राः केशश्मश्रूण्यवतार्य काषायाणि वस्त्राण्य्(इ १४४) आच्छाद्य सम्यगेव श्रद्धया अगारादनगारिकां प्रव्रजन्ति, तदनुत्तरं ब्रह्मचर्यपर्यवसानं दृष्ट एव धर्मे स्वयमभिज्ञया साक्षात्कृत्वा उपसंपद्य प्रवेदयते: क्षीणा मे जातिः; उषितं ब्रह्मचर्यं; कृतं करणीयं; नापरमस्माद्भवं प्रजानामि इति; आज्ञातवान् स आयुष्मानर्हन् बभूव सुविमुक्तचित्तः अथायुष्मतः श्रोणास्य कोटीविंशस्य अर्हत्वप्राप्तस्य विमुक्तिप्रीतिसुखसंवेदिनः एतदभवत्: अयं मे कालो भगवन्तं दर्शनाय उपसंक्रमितुं, पर्युपसनाय इति; अथायुष्मान् श्रोणः कोटीविंशः सायाह्ने ओरतिसंलयनाद्व्युत्थाय येन हगवांश्तेनोपसंक्रान्तः; उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते न्यषीदत्; एकान्तनिषण्ण आयुष्मान् श्रोणः कोटीविंशः भगवन्तमिदमवोचत् ______________________________________________________________ थे दिस्चोउर्से ओf श्रोणकोटीविंश योऽसौ भदन्त भिक्षुर्भवति अर्हन् क्षीणास्रवः कृतकृत्यः कृतकरणीयः अपहृतभारः अनुप्राप्तस्वकार्यः परिक्षीणभवसंयोजनः सम्यगाज्ञासुविमुक्तचित्तः स तस्मिन् समये षट्स्थानान्यधिमुक्तो भवति; नैष्क्रम्यमधिमुक्तो भवति; त्र्ष्णाक्षयमुपादानक्षयमसं मोषं च चेतसा अधिमुक्तो भवति; स्यात्खलु भदन्त इहैकत्यस्य एवं श्रद्धामात्रकं, बत अयमायुष्मान्निश्रित्य नैष्क्रम्यमधिमुक्त इति; न खल्वेवं द्रष्टव्यं क्षयाद्भदन्त रागस्य क्षयाद्द्वेषस्य क्षयान्मोहस्य नैष्क्रम्यमधिमुक्तो भवति; स्यात्खलु इहैकत्यस्य एवं शीलमात्रकं बत अयमायुष्मान्निश्रित्य अव्याबाध्यमधिमुक्त इति; न खल्वेवं द्रष्टुं; क्षयाद्भदन्त रागस्य क्षयाद्द्वेषस्य क्षयान्मोहस्य अव्याबाध्यमधिमुक्तो भवति; स्यात्खलु भदन्त इहैकत्यस्य एवं लाभसत्कारश्लोकमात्रकं (इ १४५) बत अयमायुष्मान् परिमृगयमाणाः प्राविवेक्यमधिमुक्त इति; न खल्वेवं द्रष्टव्यं; क्षयाद्भदन्त रागस्य क्षयाद्द्वेषस्य क्षयान्मोहस्य तृष्णाक्षयमुपादानक्षयमसंमोषं च चेतसा अधिमुक्तो भवति; योऽसौ भदन्त भिक्षुर्भवति अर्हन्, क्षीणास्रवः कृतकृत्यः कृतकरणीयः अपहृतभारः अनुप्राप्तस्वकार्यः परिक्षीणभवसंयोजनः सम्यगाज्ञासुविमुक्तचित्तः तस्मिन् समये इमानि षट्स्थानान्यधिमुक्तो भवति; योऽसौ भदन्त भिक्षुर्भवति शैक्ष असंप्राप्तमानसः स उत्तरं योगक्षेमं निर्वाणमभिप्रार्थयमानरूपो बहुलं विहरति; तस्मिन् समये शैक्षैः शीलैः समन्वागतो भवति शैक्षैश्चेन्द्रियैः; सोऽपरेण समयेन आस्रवाणां क्षयादनास्रवां चेतोविमुक्तिं प्रज्ञाविमुक्तिं दृष्ट एव धर्मे स्वयमभिज्ञया साक्षात्कृत्य उपसंपद्य प्रवेदयते; क्षीणा मे जाति, उषितं ब्रह्मचर्यं; कृतं करणीयं; नापरमस्माद्भवं प्रजानामि इति; स तस्मिन् समये अशैक्षैः शीलैः समन्वागतो भवति अशैक्षैश्चेन्द्रियैः; तद्यथा दह्रः कुमारको बालो मन्दः उत्तानशायी तस्मिन् समये दह्रैः शीलैः समन्वागतो भवति दह्रैश्चेन्द्रियैः; सोऽपरेण समयेन वृद्धेरन्वयात्, इन्द्रियाणां परिपाकात्स तस्मिन् समये वृद्धैः शीलैः समन्वागतो भवति वृद्धैश्चेन्द्रियैः; एवमेव योऽसौ भिक्षुर्भवति शैक्ष असंप्राप्तमानसः स उत्तरं योगक्षेमं निर्वाणमभिप्रार्थयमानरूपो बहुलं विहरति; स तस्मिन् समये शैक्षैः समन्वागतो भवतिं शैक्षैश्चेन्द्रियैः; सोऽपरेण समयेन आस्रवाणां क्षयादनास्रवां चेतोविमुक्तिं प्रज्ञाविमुक्तिं दृष्ट एव धर्मे स्वयमभिज्ञया साक्षात्कृत्व उपसंपद्य प्रवेदयते; क्षीणा मे जाति, उषितं ब्रह्मचर्यं; कृतं करणीयं; नापरमस्माद्भवं प्रजानामि इति; स तस्मिन् समये अशैक्षैः शीलैः समन्वागतो भवति अशैक्षैश्चेन्द्रियैः; तस्य चेत्भृशान्यपि चक्षुर्विज्ञेयानि रूपाणि चक्षुष आभाः समागच्छन्ति नास्य तां चेतोविमुक्तिं प्रज्ञाविमुक्तिं पर्याददते; स्थितमेवास्य तत्चित्तं भवति, अध्यात्ममविपरीतं सुविमुक्तं सुभावितं; (इ १४६) व्ययं चास्यानुपश्यति; तस्य चेद्भृशा अपि श्रोतविज्ञेयाः शब्दाः घ्राणविज्ञेयाः गन्धाः जिह्वाविज्ञेया रसाः कायविज्ञेयानि स्प्रष्टव्यानि मनोविज्ञेया धर्माः मनस आभाः समागच्छन्ति नास्य तां चेतोविमुक्तिं प्रज्ञाव्मुक्ति पर्याददते; स्थितमेवास्य तच्चित्तं भवति; अध्यात्ममविपरीतं सुविमुक्तं सुभावितं; (अ ४७६ ) व्ययं चास्यानुपश्यति; तद्यथा नगरस्य वा निगमस्य वा नातिदूरे महाशैलः पर्वतः स्यात्, अखण्डः अच्छिद्रः असुषिरः सुसंवृत्तः एकघनः; तस्य चेत्पूर्वस्या दिशो भृशो वायुवेग आगच्छेन्नैनं चलयेत्, नैनं कम्पयेत्, नैनं पश्चिमायां दिश्युपसंहरेत्; सचेद्दक्षिणस्याः पश्चिमायाः उत्तरस्या दिशो वायुवेगः आगच्छेन्नैनं चलयेत्, नैनं कम्पयेत्, नैनं दक्षिणस्यां दिश्युपसंहरेत्; यतस्ततो वा भृशो वायुवेग आगच्छेन्नैनं चलयेत्, नैनं कम्पयेत्, नैनं यतस्तत उपसंहरेत्; एवमेव तस्य भृशान्यपि चक्षुर्विज्ञेयानि रूपाणि चक्षुष आभाः समागच्छन्ति; नास्य तां चेतोविमुक्तिं प्रज्ञाविमुक्तिं पर्याददते; स्थितमेवास्य तच्चित्तं भवति अध्यात्म अविपरीतं सुविमुक्तं सुभावितं; व्ययं चास्यानुपश्यति इति; इदमवोचदायुष्मान् श्रोणः कोटीविंशः; इदमुक्त्वा अर्हन्नथापरमेतदुवाच स्थविरः नैष्क्रम्याधिमुक्तस्य अव्याबध्यं च चेतसः । प्राविवेक्याधिमुक्तस्य तृष्णाक्षयरतस्य च ॥ उपादानक्षयाधिमुक्तस्य असंमोषं च चेतसः । ज्ञात्वा आयतनोत्पादं ततश्चित्तं विमुच्यते ॥ ततो विमुक्तचित्तस्य शान्तचित्तस्य तायिनः । कृतेषु करणीयेषु करणियं न विद्यते ॥ (इ १४७) यथापि पर्वतः शैलो वायुना न प्रकम्पते । एवं रूपाणि शब्दाश्च स्पर्शा गन्धा अथो रसाः ॥ धर्मा इष्टा अनिष्टश्च प्रवेपन्ति तायिनः । स्थितं चित्तमनेयस्य व्ययं चास्यानुपश्यति ॥ इति भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: किं भदन्त आयुष्मता श्रोणेन कर्म कृतं यस्य कर्मणो विपाकेन आढ्ये महाधने महाभोगे कुले जातः; सुवर्णवर्णानि च रोमाणि पादतलयोर्जातानि; पंचशतिकश्चास्य दिने दिने स्थालिपाक उपस्थाप्यते; इत एकनवतं कल्पमुपादाय न कदाचिदनास्तीर्णे पृथिवीप्रदेशे पादो न्यस्तः; जातमात्रेण विंशतिहिरण्यकोट्यः अवलेहिकामूल्यं लब्धाः; भगवतश्च शासने प्रविश्य सर्वक्लेशप्रहाणासर्हत्वं साक्षात्कृतमिति भगवानाह: श्रोणेनैव भिक्षवः कोटीविंशेन कर्माणि कृतान्युपचितानि लब्धसंभाराणि परिणतप्रत्ययान्योघवत्प्रत्युपस्थितान्यवश्यभावीनि; श्रोणकोटीविंशेन कर्माणि कृतान्युपचितानि लब्धसंभाराणि कोऽन्यः प्रत्यनुभविष्यति? न भिक्षवः कर्माणि कृतान्युपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ; अपि तु (अ ४७७ ) उपात्तेष्वेव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्यशुभानि च; न प्रणश्यन्ति कर्माण्यपि कल्पशतैरपि । सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम् ॥ ______________________________________________________________ थे स्तोर्योf विपश्यिन् (चोन्चेर्निन्ग प्रेविओउस्बिर्थोf श्रोणकोटीविंश) भूतपूर्वं भिक्षवः एकनवते कल्पे विपश्यी नाम सम्यक्संबुद्धो लोक उदपादि, विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्; स द्वाषष्टिभिक्षुसहस्रपरिवारः जनपदचारिकां चरन् बन्धुमतीराजधानीमनुप्राप्तः; तेन खलु समयेन बन्धुमत्यां राजधान्यां संबहुला गोष्ठिकाः प्रतिवसन्ति; तैः श्रुतं विपश्यी सम्यक्संबुद्धः द्वाषष्टिभिक्षुसहस्रपरिवारः जनपदचारिकां चरनिहानुप्राप्तः इति; श्रुत्वा च पुनः सर्वे संभूय येन विपश्यी सम्यक्संबुद्धस्तेनोपसंक्रान्ताः; उपसंक्रम्य विपश्यिनः सम्यक्संबुद्धस्य पादौ शिरसा वन्दित्वा एकान्ते निषण्णाः; एकान्तनिषण्णान् सम्बहुलान् गोष्ठिकान् विपश्यी सम्यक्संबुद्धः धर्म्यया कथया संदर्शयति समादापयति समुत्तेजयति संप्रहर्षयति; अनेकपर्यायेण धर्म्यया कथया संदर्श्य (इ १४८) समादाप्य समुत्तेज्य संप्रहर्ष्य तूष्णीम्; अथ सम्बहुला गोष्ठिकाः उत्थायासनादेकांसमुत्तरासङ्गं कृत्वा येन विपश्यी सम्यक्संबुद्धस्तेनाञ्जलिं प्रणमय्य विपश्यिनं सम्यक्संबुद्धमिदमवोचन्: अधिवासयत्वस्माकं भगवान् त्रैमासीं चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः सार्धं संघेन इति । अधिवासयति विपश्यी सम्यक्संबुद्धः संबहुलानां गोष्ठिकानां तूष्णींभावेन अथ संबहुला गोष्ठिका विपश्यिनः सम्यक्संबुद्धस्य तूष्णींभावेन अधिवासनां विदित्वा भगवतो भाषितमभिनन्द्यानुमोद्य भगवतो पादौ शिरसा वन्दित्वा उत्तहायासनात्प्रक्रान्तः; ते संस्थागारे सन्निपत्य सञ्जल्पं कर्तुमारब्धाः; कथमस्माभिर्भवन्तो भगवान् भोजयितव्यः किं संभूय आहोस्विदेकैकेन इति; तत्रैके कथयति; यदि दिने दिने संभूय भोजयितव्योऽसौ अस्माकं कृषिकर्मान्ताः समुच्छेत्स्यन्ति; तद्यदि भवतामभिरुचितं वारेण वारं भोजयामः इति; ते वारेण वारं गणाधीनं भोजयितुमारब्धाः; यथाविभवतश्चात्मीयमस्यानुप्रयच्छन्ति; तत्रैको ब्राह्मणदारको दरिद्रः; स मातुः सकाशमुपसंक्रान्तः कथयति: अम्ब गोष्ठिकैः क्रियाकारः कृतः, भगवान् वारेण वारं भोजयितव्यः इति; तदहं तनुविभवः; कथं मया भोजयितव्यः इति; सा कथयति: पुत्र यद्येवमपश्चिमं दिवसं गृहाण; त्वमियता कालेन किंचित्समुदानयिष्यसि; गणसन्तकाच्च किंचिदुत्सदनधर्मकं भविष्यति इति; तेन पश्चिमो दिवसो गृहीतः; तत्र गणसन्तकादुत्सदनधर्मकं प्रभूतां संपन्नं; तेनापि किंचित्समुदानीतं; ततस्तेन (अ ४७७ ) लयनं कारितं; तद्वस्त्रैराच्छादितं; कोणेषु पंच कार्षापणशतानि स्थापितानि; ऋक्षचर्म चास्य संपन्नं; तदपि लयनद्वारे प्रज्ञप्तं; ततः पंचशतिकं पाकं साधयित्वा महता सत्कारेण विपश्यी सम्यक्संबुद्धो भोजितः; पादयोश्च प्रणिपत्य प्रणिधानं कृतमनेनाहं कुशलमूलेन आढ्यो महाधनो महाभोगो जायेय; मा कदाचिदनास्तीर्णे पृथिवीप्रदेशे पादौ स्थापयेयं; यादृशानि च विपश्यिनः सम्यक्संबुद्धस्य सुवर्णवर्णानि चतुरङ्गुलमात्राणि रोमाणि पादतलयोर्जातानि, ममाप्येवंविधानि स्युः; एवंविधानां च गुणानां लाभी स्यां; एवंविधमेव शास्तारमारागयेयं; मा विरागयेयमिति (इ १४९) किं मन्यध्वे भिक्षवः? योऽसौ गोष्ठिको ब्राह्मणदारकः एष एवासौ श्रोणः कोटीविंशः तेन कालेन तेन समयेन; यदनेन विपश्यिनः सम्यक्संबुद्धस्य कारान् कृत्वा प्रणिधानं कृतं, तस्य कर्मणो विपाकेन आढ्ये महाधने महाभोगे कुले जातः; पादयोश्चास्य सुवर्णवर्णानि चतुरङ्गुलमात्राणि रोमाणि जातानि; इत एकनवतं कल्पमुपादाय न कदाचिदनास्तीर्ने पृथिवीप्रदेशे पादौ स्थापितौ; जातमात्रस्य चास्य विंशतिहिरण्यकोट्यो लब्धाः; मम च शासने प्रव्रज्य सर्वक्लेशप्रहाणादर्हत्वं साक्षात्कृतं; इति हि भिक्षवः एकान्तकृष्णानां कर्मणामेकान्तकृष्णो विपाकः; एकान्तशुक्लानामेकान्तशुक्लः; व्यतिमिश्राणां व्यतिमिश्रः; तस्मात्तर्हि भिक्षवः एकान्तकृष्णानि कर्माण्यपास्य व्यतिमिश्राणि च एकान्तशुक्लेष्वेव कर्मस्वाभोगाः करणीयः इत्येवं वो भिक्षवः शिक्षितव्यम्* ______________________________________________________________ राजगृहऽस्पेओप्ले बेगिन्स्तु मुर्मुरगैन्स्तजातशत्रु अन्द्देवदत्त यदा अजातशत्रुणा देवदत्ताकल्याणमित्रोपगूढेन राज्ञो बिम्बिसारस्य कनकः क्षिप्तः तदा राजगृहनिवासिनः पौराः अवध्यातुमारब्धाः; तत्र केचिद्राज्ञः अकर्णं भाषन्ते अयं पितुः शत्रुत्वे व्याकृतः; कस्मान्न जातमात्र एव प्रघातितः इति; अपरे कथयन्ति: न भवन्तो राज्ञोऽपराधः; किं सर्वेषां व्याकरणं भूतं भवति? विनीत एवायं कुमारः; अपि तु देवदत्तेनायमकल्याणमित्रेण विप्रलब्धः, येन एवंक्रियासु प्रवर्तते इति; अपरे कथयन्ति; न भवन्तो राज्ञो दोषः नापि देवदत्तस्य; अपि तु भगवत एव दोषः; येन देवदत्तः प्रव्राजितः; नो तु लोकधात्वन्तरं नीत्वा अवस्थापितः इति; अपरे कथयन्ति: भगवतो नायमपराधः; अपि तु संघस्य येनास्य उत्क्षेपनीयं कर्म न कृतमिति; तत्र येन राज्ञः अकर्णं भाष्यते तेन (इ १५०) न राजा आर्तीयते कर्माण्येतानि मया पूर्वमन्यासु जातिषु कृतानि उपचितानि इति; येन तु भगवतः संघस्य च अकर्णं भाष्यते, तेन राजा अत्यर्थमार्तीयते; मदीयेन दुर्नीतेन लोको भगवतः संघस्य च अकर्णं भाषते इति भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः । पश्य भदन्त अन्यैरपराद्धम् (अ ४७८ ) अन्ये दोषेण लिप्यन्ते इति, भगवानाह: न भिक्षव एतर्हि; यथा अतीतेऽप्यध्वन्यन्यैरपराद्धमन्ये दोषेण लिप्ताः; तच्छ्रूयतां ______________________________________________________________ थे स्तोर्योf कूल अन्दुपकूल (चोन्चेर्निन्ग प्रेविओउस्बिर्थोf देवदत्त अन्दजातशत्रु) भूतपूर्वं भिक्षवो वाराणस्यां नगर्यां ब्रह्मदत्तो नाम राजा राज्यं कारयति, ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं च आकीर्णबहुजनमनुष्यं च; तस्य द्वौ कुक्कुरौ कूलश्च उपकूलश्च; ताभ्यां राज्ञः अश्वसन्नाहभाण्डिका खादिता; यावदपरेण समयेन राज्ञो ब्रह्मदत्तस्य संग्रामः प्रत्युपस्थितः; तेन अमात्यानामाज्ञा दत्ता; प्रत्यवेक्षत भवन्तः अश्वसन्नाहभाण्डिकामिति; ते प्रत्यवेक्षितुमारब्धाः, पश्यन्ति सर्वां छिन्नप्रच्छिन्नां; तै राज्ञे निवेदितं: देव अश्वसन्नाहभाण्डिका कुक्कुरेण भक्षिता इति; राजा कथयति; भवन्तो यद्येवं परित्यक्ता मया कुक्कुराः इति; तत्र केचित्प्रघातिताः; केचिन्निष्पलायिताः; यावदन्यतमो जानपदः कुक्कुरः जनपदाद्वाराणसीं गच्छति; तेन ते निष्पलायमाना दृष्टाः; पृष्टाश्च: भवन्तः किमर्थमेवं यूयं सन्त्रस्ताः इति; तैर्यथावृत्तं समाख्यातं; स कथयति: किमर्थं राजा युष्माभिर्न विज्ञप्तः इति; ते कथयन्ति: कः शक्नोति राजानं विज्ञपयितुमन्य प्रघातिताः; वयं कथंचित्प्रपलायिताः; स कथयति: तिष्ठतु यूयम्; अहं युष्माकमर्थे राजानं विज्ञपयामि इति; तेन समाश्वासिताः प्रतिनिवृत्ताः; ततस्तेन संपातवेलायां श्रवणोपविचारे स्थित्वा राजा गाथया विज्ञप्तः यौ कुक्कुरौ राजकुले निवासिनौ कूलोपकूलौ बलवर्णयुक्तौ । (इ १५१) तावत्र घात्यौ वयमप्रघात्याः अघात्यघातो न हि देव युक्तः ॥ इति राज्ञा श्रुतं; तेन प्रभातायं रजन्याममात्यानामाज्ञा दत्ता: भवन्तो येनाहं रात्रौ गाथया विज्ञप्तः तस्य समन्वेषणं कुरुत इति; तैः रक्षिणामाज्ञा दत्ता; समन्वेषतत्भवन्तः केन देवो रात्रौ गाथया विज्ञप्तः इति; तैः समाख्यातं जानपदेन कुक्कुरेणेति; राजा कथयति: भवन्तः परीक्षां कुरुत किं कूलोपकूलाभ्यां भक्षितमाहोस्वितन्यैः कुक्कुरैः इति; अमात्याः सन्निपत्य संजल्पं कर्तुमारब्धाः: भवन्तो देवेनैवाज्ञा दत्ता कुक्कुराणां परीक्षां कुरुतेति; तत्कथमेषां परीक्षा कर्तव्या इति; अन्ये कथयन्ति: किमत्र परीक्षितव्यं केशाण्डुकं दत्वा छर्दापयितव्यौ; अथ कूलोपकूलाभ्यां चर्मखण्डा उद्गीर्णाः; राज्ञो निवेदितं; राज्ञा परित्यक्तौ; परिशिष्टानामभयं दत्तम् किं मन्यध्वे भिक्षवः? यौ कूलोपकूलौ एतावेव देवदत्ताजातशत्रू तेन कालेन तेन समयेन; तदापि एताभ्यामपराद्धमन्ये दोषेण लिप्ताः; एतर्ह्यपि एताभ्यामपराद्धमन्ये दोषेण लिप्ताः; पुनरपि यथा देवदत्तः अकृतज्ञ अकृतवेदी तच्छ्रूयतां. ______________________________________________________________ थे स्तोर्योf अ हुन्तेरन्दनुन्ग्रतेfउल्मन् (चोन्चेर्निन्ग प्रेविओउस्बिर्थोf देवदत्त) भूतपूर्वं भिक्षवो वाराणस्यां नगर्यां ब्रह्मदत्तो नाम राज्यं कारयति; यावदन्यतमः पुरुषः (अ ४७८ ) परशुमाभङ्गीमादाय काष्ठार्थी वनं गतः; स तत्र काष्ठं पर्येषमाणः सिंहेनाभिद्रुतः; निष्पलायमानः कूपे पतितः; सोऽपि तद्भक्षणाध्यवसायस्तत्रैव पतितः; आशीविषेण मूषकोऽभिद्रुतो निष्पलायते; मूषकाभिलाषात्श्येनकः प्रधावितः; यावत्सर्वे कूपे निपतिताः; तेन सर्व एव व्यापन्नाः; परस्परमभिलषन्ते व्यापादनाय; सिंहः कथयति: भवन्तः सर्वे यूयं मम गम्याः; अपि तु वयं कृच्छ्रसङ्कटसंबाधप्राप्ताः; निश्चलास्तिष्ठत; मायं व्यापादनकालः इति; यावत्दैवान्मृगलुब्धको मृगान् पर्येषमाणस्तं प्रदेशमनुप्राप्तः; स तं कूपं निरीक्षितुमारब्धः; (इ १५२) तत्रैवं भ्रान्तैर्वाङ्निश्चारिता: भोः पुरुष परित्रायस्व इति; ततस्तेन मृगलुब्धकेन ज्ञात्वा पूर्वतरं सिंह उद्धृतः; स पादयोर्निपत्य कथयति: कृतज्ञस्ते भविष्यामि; किंतु अत्रकृष्णशिरस्कस्तिष्ठति; स त्वया नोद्धर्तव्यः; कृतघ्ना ह्येत भवन्ति इत्युक्त्वा प्रक्रान्तः; यावत्तेन मृगलुब्धकेन सर्वे अनुपूर्वेण उद्धृताः; यावदपरेण समयेन सिंहेन मृगो जीविताद्व्यपरोपितः; स च मृगलुब्धकस्तं प्रदेशमनुप्राप्तः; सिंहेन तं परिज्ञाय स मृगः पादयोर्निपत्य दत्तः; अपरेण समयेन राजा ब्रह्मदत्तः उद्यानभूमिं निर्गतः सार्धमन्तःपुरेण; स तत्रोद्याने सुखमनुभूय मिद्धमवक्रान्तः; अन्तःपुरजनो विश्वस्तविहारी उद्याने चंक्रम्यते तिष्ठति निषीदति मिद्धमवक्रामति; वस्त्राणि शोधयति; अलंकाराण्यपनीय पार्श्वे स्थापयति; यावदन्यतमा अन्तःपुरिका अलंकारमवमुच्य पार्श्वे स्थापयित्वा मिद्धमवक्रान्ता; तत्श्येनकेनापहृत्य तस्मै लुब्धकाय कृतज्ञतया दत्तं; राजा ब्रह्मदत्तो निद्राक्लमं प्रतिविनोद्य लघु लघ्वेव वाराणसीं प्रविष्टः; अन्तःपुरकुमारामात्यपौरजानपदोऽपि अतित्वरेण गतः; यावदसावन्तःपुरिका अलंकारं समन्वेषति; न पश्यति; तया राज्ञे निवेदितं: देव उद्याने मे अलंकारः अपहृतः इति; राज्ञा अमात्यानामाज्ञा दत्ता: भवन्तः अलंकाराः उद्याने अपहृतः; समन्वेषत केन गृहीतः इति; ते समन्वेषितुमारब्धाः; स कृष्णशिरस्कः तस्य मृगलुब्धकस्य कालेन कालमुपसंक्रामति; तेन तस्य गृहमुपसंक्रामता उपांशुना विज्ञातमस्यालंकारोऽस्तीति; तेन कृतघ्नतया राज्ञो गत्वा आरोचितं; ततो राज्ञा परमकोपकुपितेन मृगलुब्धको राजपुरुषैराह्वाय्य उक्तः: भोः पुरुष त्वया उद्यानादलंकारोऽपहृतः इति; ततस्तेन सन्त्रस्तेन यथावृत्तं समाख्याय असावलंकारो राज्ञे समर्पितः; तथाप्यसौ पुरुषः चारके बध्वा स्थापितः; मूषकेन गत्वा आशीविषाय निवेदितं: तेन कृष्णशिरस्केन पापकारिणा अस्माकं कल्याणमित्रो राज्ञा चारके बध्वा स्थापितः इति; आशीविषः कथयति: भोः लुब्धक अहं राजानं (अ ४८० ) दशामि; त्वया एभिर्मन्त्रपदैरेभिश्च ओषधैः चिकित्सितव्यः; एवं स राजा अभिप्रसन्नो नियतं त्वां मुञ्चति; भोगसंविभागं च करोति इति; स कथयति: शोभनमेवं कुरु; आशीविषेण राजा दष्टः; लुब्धकेन गत्वा मन्त्रैश्चौषधैश्च चिकित्सितः; ततो राज्ञा परितुष्टेन बन्धनान्मुक्तः; भोगैश्च संविभक्तः (इ १५३) भगवानाह: किं मन्यध्वे भिक्षवः? योऽसौ लुब्धकः अहमेव सः तेन कालेन तेन समयेन; योऽसौ कृतघ्नपुरुषः एष एव स देवदत्तः तेन कालेन तेन समयेन; तदाप्येष अकृतज्ञः अकृतवेदी; एतर्ह्यप्येष अकृतज्ञः अकृतवेदी; पुनरपि यथा अकृतज्ञः अकृतवेदी तच्छ्रूयतां. ______________________________________________________________ थे स्तोर्योf नन्द, थे मुन्गोओसे (चोन्चेर्निन्ग प्रेविओउस्बिर्थोf देवदत्त) भूतपूर्वं भिक्षवो सप्ताह अकालमेघः समुपागतः; देवे वर्षति नकुल आश्रमं प्रविष्टः; मूषिकोऽपि तत्रैव प्रविष्टः, आशीविषोऽपि वर्षभयात्परिभ्रमन् तत्रैव प्रविष्टः; यावदसौ नकुलस्तं मूषिकमभिद्रवितुमारब्धः; आशीविषः कथयति: भवन्तो वयं कृच्छ्रसङ्कटसंबाधप्राप्तः; परस्परमव्याबाधां कुरुत; निश्चलास्तिष्ठत इति; तत्राशीविषस्य संज्ञाकरणं प्रियसेन इति; नकुलस्य नाम नन्द इति; मूषिकस्य गङ्गदत्त इति; इति; प्रियसेन नन्देन च गङ्गदत्त उक्तः; अनालक्ष्य गच्छ; अस्माकमाहारं पर्येषय इति; स ऋजुको भद्राशयः; तयोरर्थाय आशयेन आहारं पर्येषितुमारब्धः; न लभते; नन्दः प्रियसेनस्य कथयति; यदि गङ्गदत्तः आहारं विना आगच्छति, मया स एव भक्षयितव्य इति; प्रियसेनः संलक्षयति कृच्छ्रसङ्कटसंबाधप्राप्तोऽप्येषस्तस्य बधाय पराक्रमति; प्रागेव यद्यसौ विना आहारेण आगच्छति; सर्वथा तस्य सन्देष्टव्यमिति; तेन तस्य सन्दिष्टं; नन्द एवं कथयति: यदि गङ्गदत्तः विना आहारेणागच्छति स एव मया भक्षयितव्य इति; गङ्गदत्तेन आहारं पर्येषमाणेन न किंचिदासादितं; स संलक्षयति नियतमसौ मां भक्षयति: इति; तेन प्रियसेनस्य सन्दिष्टम् क्षीणा नरा निष्करुणा भवन्ति आर्ताः क्षुधावेधपरिश्रमेण । वाच्यस्त्वया एष कृतघ्नसत्वो न गङ्गदत्तः पुनरागमिष्यति ॥ इति किं मन्यध्वे भिक्षवः? योऽसौ गङ्गदत्तः अहमेव सः तेन कालेन तेन समयेन; योऽसौ नन्दनामा नकुलः एष एव स देवदत्तः तेन कालेन तेन समयेन; तदाप्येष अकृतज्ञः अकृतवेदी; एतर्ह्यप्येष अकृतज्ञः अकृतवेदी (इ १५४) उद्दानम्: भुङ्क्ष्व लिखिर्नटः काकः चक्रः कुम्भीरचन्दनम् । कायः कविर्मणिर्वण्टः कन्याथ धनपालकः ॥ ______________________________________________________________ किन्ग्बिम्बिसार मकेसेxचेएदिन्ग्ग्रन्त्स्तो अजातशत्रु यदा अजातशत्रुणा राज्ञो बिम्बिसारस्य कनकः क्षिप्तः तदा राज्ञा उपालब्धः: कुमार किमर्थं त्वया मम कनकः क्षिप्तः स कथयति: देव रोषात्; देवस्य भोगाः संविद्यन्ते; मम न (अ ४८० ) संविद्यन्ते; राजा कथयति: पुत्र यद्येवं गच्छ चम्पा साधारणा तव भवतु इति; स हृष्टतुष्टप्रमुदितो देवदत्तस्य सकाशं गत्वा कथयति: आर्य मया चम्पा साधारणा लब्धा इति; स कथयति: कुमार दृष्टं ते पराक्रमस्य फलमार्य दृष्टं; भूयः पराक्रमस्व; अतिवृद्धिस्ते भविष्यति इति; स चम्पायां प्रकरप्रत्ययैः पीडयितुमारब्धः; पीड्यमानो महाजनकायः निष्पलायितुमारब्धः; केचिद्राजगृहं गताः; केचिद्देशान्तरं गताः; अमात्यै राज्ञो दूतोऽनुप्रेषितः: देव कुमारश्चम्पां पीडयति; जनः पीड्यमानो निष्पलायते; तदर्हति देवः कुमारस्य निवारणं कर्तुमिति; राजा कथयति: कुमार कस्माज्जनपदान् पीडयसि इति; स कथयति: देव साधनं न पुष्यति इति; राजा कथयति: यद्येवं राजगृहमेकं त्यक्त्वा मगधविषयं गृहाण इति; मगधविषयं गृहीत्वा देवदत्तस्य सकाशं गत्वा कथयति: आर्य मया (इ १५५) राजगृहमेकं मुक्त्वा सर्वो मगधविषयो लब्धः इति; स कथयति: ईदृशं पराक्रमस्य फलं; भूयः पराक्रमस्व इति; स मगधविषयं नाशयितुमारब्धः; मगधविषयनिवासिना जनकायेन राजा बिम्बिसारो विज्ञप्तः; देव कुमारो मगधविषयं नाशयति; निवर्त्यतामिति; स राज्ञा आहूयोक्तः कुमार किमर्थं मगधविषयं नाशयसि इति; स कथयति देव प्रभूतो जनकायो न पुष्यति इति; राजा कथयति; कुमार यद्येवं कोशमेकं मुक्त्वा सर्वं तवैव भवतु इति; स राजगृहमपि गृहीत्वा देवदत्तस्य सकाशं गतः कथयति: आर्य मया कोशमेकं मुक्त्वा, सर्वभोगा लब्धाः इति; स कथयति पराक्रमफलमेतत्; अपि तु कोशबलिनो हि राजानः; यस्य कोशः स राजा; कोशार्थं पराक्रमस्व इति; स राजगृहमपि नाशयितुमारब्धः; राजगृहनिवासी जनकायः अन्यश्च मगधनिवासी चम्पेयश्च सर्व एव सन्त्रस्ताः यथा अजातशत्रुर्न पश्यति तथा दूतसंप्रेषणेन राजानं विज्ञपयितुमारब्धाः: देवेन वयं पुत्रवत्परिपालिताः; कुमारेणात्यन्तं निःस्वीकृताः; प्रायो देवस्य जनपदा निष्पलायिताः; वयमपि निष्पलायामः इति; धर्मप्रधानः स राजा; करुणात्मकश्च; तेन समुत्पन्नमन्युना अजातशत्रुराहूय प्रियमधुरवचोनुकूलतया शिरस्परामृश्योक्तः: पुत्र मया तव सर्वजनपदा दत्ताः; किमर्थमुद्वेजयसि? प्रतिपालय इति; स कथयति: देव कोशबलिनो राजानः; मम कोशबलं नास्ति; किं करोमि इति; अ कथयति: यद्येवमन्तःपुरमेकं मुक्त्वा सर्वं तवैव भवतु इति; तथाप्यसौ दुष्टप्रकृतिः पापसहायश्च नाशयत्येव, नावतिष्ठते; राज्ञा सोपालम्भमुक्तः: सकोशकोष्ठागारजनपदास्तवैव दत्ताः; इदानीं किमर्थं नाशयसि इति ______________________________________________________________ अजातशत्रु चस्त्स्हिस्fअथेरिन् प्रिसोन्, थेरे तो दिए ओf हुन्गेर् स एवमुक्ते रुषितः अमात्यानां कथयति: भवन्तो यो राजानं क्षत्रियं मूर्धाभिषिक्तं परिभाषते, तस्य को दण्डः इति; अमात्याः कथयन्ति: देव वधो दण्डः इति; स कथयति: पिता मम; कथमेनं प्रघातयामि? गच्छत; चारकावबद्धमेनं स्थापयत इति; स चारके प्रक्षिप्तः; अनुरक्तपौरजानपदः स राजा; तद्विषयनिवासी च जनकायः श्रुत्वा (इ १५६) दुर्मनाः संवृत्तः; अजातशत्रुश्चण्डो रभसः कर्कशः इति नास्य कश्चित्परिवादं मन्त्रयति; राजा (अ ४८१ ) बिम्बिसारश्चारके कर्मपरायणोऽवतिष्ठते; तस्य च वैदेही स्थालीपाकं प्रवेशयति: अजातशत्रुश्चारकपुरुषान् पृच्छति: भवन्तः कथं वृद्धराजा यापयति? इति; ते कथयन्ति: देव जननी ते स्थालीपाकं प्रवेशयति इति; अजातशत्रुणा आज्ञा दत्ता: धारयत भक्तं पानं च यथा न भूयः प्रवेशयति इति; अन्तःपुरे चाज्ञा दत्ता न केनचिच्चारके भक्तं पानं प्रवेशयितव्यं; यः प्रवेशयति तस्य वधो दण्डः इति; तस्य रौद्रकर्मतां ज्ञात्वा न कश्चिद्भक्तं साधयति; कुत एव प्रवेशयिष्यति; ततो वैदेही भर्तृस्नेहोपरुद्ध्यमानहृदया सक्तुकल्केन गात्राणि म्रक्षयित्वा नूपुराणि च पानीयस्य पूरयित्वा प्रवेशयितुमारब्धा; तेनासौ यापयति; चारकपुरुषैः सोऽप्युपायो विज्ञातः; किंतु अनुरागात्तस्य राज्ञः अजातशत्रोर्न निवेदयन्ति; भूयः अजातशत्रुश्चारकपुरुषान् पृच्छति: भवन्तो वृद्धराजा कथं यापयति? इति; तैरिस्तरेण समाख्यातं; स कथयति: भवन्तो वैदेहीं धारयत, यथा न भूयः प्रविशति इति; ततो भगवान् तत्कुशलमूलावरोपणार्थं गृद्ध्रकूटपर्वते वातायनाभिमुखं चंक्रमितुमारब्धः; राजा बिम्बिसारः वातायनेन भगवन्तमवलोक्य प्रामोद्यमुत्पादयति येन प्राणैर्न वियुज्यते; आजातशत्रुः च भूयश्चारकपुरुषान् पृच्च्छति भवन्तः अन्नपानं विधारितं; इदानीं वृद्धराजः कथं यापयति इति; ते कथयन्ति: भगवांस्तस्यानुग्रहार्थं गृद्ध्रकूटे पर्वते चंक्रम्यते; तमसौ स्थितः प्रतिदिनं परीक्षते इति; स कथयति वातायनानानि पिथयन्तु; तस्य च पादौ क्षुरेण निर्लिखत इति; तैर्वातायनानानि पिहितानि; तस्य च पादौ क्सुरेण निर्लिखितौ; स दुःखवेदनार्तो बाष्पोपरुद्ध्यमानगद्गदकण्ठः अश्रुपर्याकुलेक्षणश्चिन्तयति: न मां भगवान् कृच्छ्रसङ्कटसंबाधप्राप्तं समन्वाहरति इति ______________________________________________________________ थे बुद्ध सेन्द्स्मौद्गल्यायन तो विसितन्द्चोम्fओर्त्थे ओल्द्किन्ग् अत्रान्तरे नास्ति किंचित्बुद्धानां भगवतामज्ञातमदृष्टमविदितमविज्ञातं; धर्मता खलु बुद्धानां भगवतां महाकारुणिकानां लोकानुग्रहप्रवृत्तानामेकारक्षाणां (इ १५७) शमथविपश्यनाविहारिणां त्रिदमथवस्तुकुशलानां चतुरोघोत्तीर्णानां चतुरृद्धिपादचरणतलसुप्रतिष्ठितमतीनां चतुर्षु संग्रहवस्तुषु दीर्घरात्रकृतपरिचयानां पञ्चाङ्गविप्रहीनानां पञ्चगतिसमतिक्रान्तानां षडङ्गसमन्वागतानां षट्पारमितापरिपूर्णानां सप्तबोध्यङ्गकुसुमाढ्यानामष्टाङ्गमार्गदेशिकानां नवानुपूर्वविहारसमापत्तिकुशलानां दशबलिनां दशदिक्समापूर्णयशसां दशशतवशवर्तिप्रतिविशिष्टानां त्री रात्रेस्त्रिर्दिवसस्य बुद्धचक्षुषा लोकं व्यवलोक्य ज्ञानदर्शनं प्रवर्तते: को हीयते को वर्धते कः कृच्छ्रप्राप्तः कः संकतप्राप्तः कः संबाधप्राप्तः कः कृच्छ्रसंकटसंबाधप्राप्तः कोऽपायनिम्नः कोऽपायप्रवणः कोऽपायप्राग्भारः कमहमपायादुद्धृत्य स्वर्गे मोक्षे च प्रतिष्ठापयेयं; कस्य अनवरोपितानि कुशलमुलानि अवरोपयेयं? कस्यावरोपितानि परिपाचयेयं? कस्य पक्वानि विमोचयेयमिति; तत्र भगवानायुष्मन्तं महामौद्गल्यायनमामन्त्रयते: गच्छ मौद्गल्यायन; राजानं बिम्बिसारं मद्वचनादारोग्य; एवं स वद: भगवान् कथयति: यत्कल्याणमित्रेण करणीयं कृतं तत्ते मया; उद्धृतस्ते नरकतिर्यक्प्रेतेभ्यः पादः; प्रतिष्ठापितो देवमनुष्येषु; पर्यन्तीकृतः संसारः; उच्छोषिता रुधिराश्रुसमुद्राः; लङ्घिता अस्थिपर्वताः; पिहितान्यपायद्वाराणि; विवृतानि स्वर्गमोक्षद्वाराणि; अपि तु त्वयैवैतानि कर्माणि कृतान्युपचितानि लब्धसंभाराणि परिणतप्रत्ययान्योघवत्प्रत्युपस्थितान्यवश्यभावीनि; त्वयैव कर्माणि कृतान्य्कोऽन्यः प्रत्यनुभविष्यति? न महाराज कर्माणि कृतान्युपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ; अपि तूपात्तेष्वेव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्यशुभानि च; न प्रणश्यन्ति कर्माण्यपि कल्पशतैरपि । सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम् ॥ तस्मात्तर्हि ते महाराज कर्मपरायणेन भवितव्यमिति; एवं भदन्तेत्यायुष्मान्महामौद्गल्यायनो भगवतः प्रतिश्रुत्य (अ ४८१ ) तद्रूपं समाधिं समापन्नो यथा समाहिते चित्ते गृद्ध्रकूटे (इ १५८) अन्तर्हितश्चारके प्रत्यष्ठात्, राज्ञो बिम्बिसारस्य पुरस्तात्; एवं चाह: महाराज भगवांस्ते आरोगयति; वन्दे भदन्त महामौद्गल्यायन भगवन्तं च; भगवान्महाराज एवमाह: यत्कल्याणमित्रेण करणीयं कृतं तत्ते मया; उद्धृतस्ते नरकतिर्यक्प्रेतेभ्यः; प्रतिष्ठापितो देवमनुष्येषु; पर्यन्तीकृतः संसारः; उच्छोषिता रुधिराश्रुसमुद्राः; लङ्घिता अस्थिपर्वताः; पिहितान्यपायद्वाराणि; विवृतानि स्वर्गमोक्षद्वाराणि; अपि तु त्वयैवैतानि कर्माणि कृतान्युपचितानि लब्धसंभाराणि परिणतप्रत्ययान्योघवत्प्रत्युपस्थितान्यवश्यभावीनि; त्वया कर्माणि कृतान्युपचितानि कोऽन्यः प्रत्यनुभविष्यति? न महाराज कर्माणि कृतान्युपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ; अपि तूपात्तेष्वेव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्यशुभानि च; न प्रणश्यन्ति कर्माण्यपि कल्पशतैरपि । सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम् ॥ तस्मात्तर्हि ते महाराज कर्मपरायणेन भवितव्यमिति; सा चारकावरुद्धः क्षुरपादाभिलिखनान्नपानवियोगदुःखैरभ्याहतः कथयति: कुत्र भदन्त महामौद्गल्यायन प्रणीत आहारो भुज्यते इति; स कथयति: महाराज चातुर्महाराजकायिकेषु देवेषु इत्युक्त्वा अयुष्मान्महामौद्गल्यायनः तद्रूपं समाधिं समापन्नो यथा समाहिते चित्ते चारके अन्तर्हितो गृद्ध्रकूटपर्वते प्रत्यष्ठात् ______________________________________________________________ थे तर्द्य्रेपेन्तन्चे ओf अजातशत्रु अन्द्थे देअथोf बिम्बिसार अजातशत्रोः पुत्रस्य उदयभद्रस्य अङ्गुल्यां पिटको जातः, स रुदन्नजातशत्रोः सकाशमुपसंक्रान्तः; स तमङ्के स्थापयित्वा आलिङ्गति चुम्बति परिष्वजति; तथाप्यसौ रुदत्येव; नावतिष्ठते; अजातशत्रुणा तत्सन्तिका अङ्गुलिः मुखे प्रक्षिप्ता; स्फोटको मुखे स्फुटितः; अजातशत्रुणा पूयशोणितं पृथिव्यां छोरितम्; उदायिभद्रः कुमारः पूयशोणितं दृष्ट्वा भूयसा रोदितुमारब्धः इति; वैदेह्या विपुष्पितं दृष्ट्वा अजातशत्रुः कथयति: अम्ब किमिदमिति; सा कथयति: पुत्र युष्माकमेष पितृपर्यागतव्याधिः तवाप्यासीत्; तव तु पित्रा अङ्गुल्यां मुखे प्रक्षिप्तावां स्फोटकः स्फुटितः; मा त्वं रोदिष्यसीति पूयशोणितमभ्यवहृतं; न पृथिव्यां छोरितं; स कथयति: अम्ब ईदृशोऽहं पितुः प्रिय (इ १५९) आसं सा कथयति: ईदृशः; ततः अजातशत्रोः पितुरन्तिके द्वेषपर्यवस्थानं विगतम्; अनुनय उत्पन्नः; तेनामात्या उक्ताः: भवन्तो यो मम कथयति वृद्धराजो जीवतीति, तस्याहमुपार्धराज्यं ददामि इति; अनुरक्तपौरजानपदः स राजा; महाजनकायश्चारकाभिमुखो धावितुमारब्धः; राजा शब्दं श्रुत्वा संलक्षयति: इदानीं कामपि प्रत्यवरां कारणां करिष्यति; इति सन्त्रस्तो दीर्घं निश्वस्य कालगतः; वैश्रवणस्य महाराजस्य पुत्रत्वमभ्युपगतः; अङ्के निषण्णो दिव्यां सुधां परिभुङ्क्ते; वैश्रवणः कथयति; कस्त्वमिति; स कथयति: जिनर्षभोऽस्मि महाराजेति; तस्य जिनर्षभो जिनर्षभ इति संज्ञा संवृत्ता भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: किं भदन्त राज्ञा बिम्बिसारेण कर्म कृतं यस्य कर्मणो विपाकेन आढ्ये महाधने महाभोगे राजकुले जातः; भगवतोऽन्तिके सत्यदर्शनं कृतं; क्षुरेण पादौ निर्लिखितौ; चारकावबद्धश्च क्षुत्पिपासाभिभूतः कालगतः इति; भगवानाह: बिम्बिसारेणैव भिक्षवो राज्ञा कर्माणि कृतान्युपचितानि लब्धसंभाराणि परिणतप्रत्ययान्योघवत्प्रत्युपस्थितान्यवश्यभावीनि; बिम्बिसारेण कर्माणि कृतान्युपचितानि कोऽन्यः प्रत्यनुभविष्यति? न भिक्षवः कर्माणि कृतान्युपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ; अपि तूपात्तेष्वेव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्यशुभानि च; न प्रणश्यन्ति कर्माण्यपि कल्पशतैरपि । सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम् ॥ ______________________________________________________________ थे स्तोर्योf अ पोत्तेर् (चोन्चेर्निन्ग प्रेविओउस्बिर्थोf किन्ग्बिम्बिसार) भूतपूर्वं भिक्षवः बुद्धानामुत्पादे प्रत्येकबुद्धा लोक उत्पद्यन्ते हीनदीनानुकम्पकाः प्रान्तशयनासनभक्ताः एकदक्षिणीया लोकस्य; यावदन्यतमः प्रत्येकबुद्धो जनपदचारिकां चरन् (अ ४८२ ) वाराणसीमनुप्राप्तः; वाराणस्यामन्यतमस्य कुम्भकारस्य आवेशनशालायां रात्रिंवासमुपगतः; सार्थश्च तस्याम् (इ १६०) एव शालायामुषितः; तत्रैकेन उच्चारः कृतः; सार्थःसरात्रमेवोत्थाय प्रक्रान्तः; असमन्वाहृत्यार्हतां प्रत्येकबुद्धानामेव ज्ञानदर्शनं न प्रवर्तते; प्रत्येकबुद्धस्तत्रैवावस्थितः; इहैव पिण्डपातमटिष्यामि इति; यावत्कुम्भकारः प्रभातायां रजन्यामावेशनशालायां प्रविष्टः; पश्यति अशुचिना नाशिता; अपरीक्षका भवन्ति प्राकृतपुरुषाः; तेन प्रत्येकबुद्धस्यान्तिके चित्तं प्रदूषितं; स प्रदुष्टचित्तः कथयति: भोः प्रव्रजित किं तव पादौ क्षुरेण लिखितौ? येन त्वया आवेशनशालायामुच्चारः कृतः; न बहिर्निर्गतः इति; तेनासौ द्वारं बध्वा स्थापितः इहैव जिघत्सय कालं कुरुष्व इति; स महात्मा संलक्षयति: क्षतोऽयं तपस्वी; यद्यहं द्वारमवमुच्य गमिष्यामि भूयस्या मात्रया क्षतो भविष्यति इति; स तूष्णीमवस्थितः; यावत्कुम्भकारस्य भोजनवेला आसन्ना; तस्य द्वेषपर्यवस्थानं विगतं; स कथयति भोः प्रव्रजित आगच्छ; भुञ्ज्महे; प्रत्येकबुद्धः कथयति: भद्रमुख कालभोजिनो वयम्; अतिक्रान्तः कालः इति; स कथयति: यद्येवमिहैव श्वो भुक्त्वा गमिष्यसि इति; तेन तस्यानुकम्पार्थमधिवासितं; स तेनापरस्मिन् दिवसे प्रणीतेनान्नाहारेण सन्तर्पितः; कायिकी तेषां महात्मनां धर्मदेशना न वाचिकी; स उपरि विहायसमभ्युद्गम्य ज्वलनतपनवर्षणविद्योतनप्राटिहार्याणि कर्तुमारब्धः; आशु पृथग्जनस्य ऋद्धिरावर्जनकरी; स मूलनिकृत्त इव द्रुमः पादयोर्निपत्य कथयति; अवतर महादक्षिणीय; मम कामपङ्कनिमग्नस्य हस्तोद्धारमनुप्रयच्छ इति; सोऽवतीर्णः; तेन तस्य पादयोर्निपत्य प्रणिधानं कृतं; यन्मया एवंविधे सद्भूतदक्षिणीये अपकारः कृतः, मा अस्य कर्मणो भागी स्यां; यत्तु कारः अनेनाहं कुशलमूलेन आढ्ये महाधने महाभोगे कुले जायेय; एवंविधानां च धर्माणां लाभी स्यां; प्रतिविशिष्टतरं चातः शास्तारमारागयेयं मा विरागयेयमिति किं मन्यध्वे भिक्षवः? योऽसौ कुम्भकारः एष एव स राजा बिम्बिसारः तेन कालेन तेन समयेन; यत्प्रत्येकबुद्धस्यान्तिके चित्तं प्रदूष्य खरं वाक्कर्म निश्चारितं तस्य कर्मणो विपाकेन पादौ निर्लिखितौ; चारकावबद्धश्च जिघत्सया कालगतः; यत्तु तेन प्रणिधानं कृतं, तस्य कर्मणो विपाकेन आढ्ये महाधने महाभोगे कुले जातः; ममान्तिके विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं (इ १६१) ज्ञानवज्रेण भित्वा स्रोतआपत्तिफलं साक्षात्कृतं; इति हि भिक्षवः एकान्तकृष्णानां कर्मणामेकान्तकृष्णो विपाकः; एकान्तशुक्लानामेकान्तशुक्लः; व्यतिमिश्राणां व्यतिमिश्रः; तस्मात्तर्हि भिक्षवः एकान्तकृष्णानि कर्माण्यपास्य व्यतिमिश्राणि च एकान्तशुक्लेष्वेव कर्मस्वाभोगाः करणीयः इत्येवं वो भिक्षवः शिक्षितव्यम्* ______________________________________________________________ थे दिस्त्रेस्सोf अजातशत्रु अत्थे देअथोf किन्ग्बिम्बिसार, थे अर्रिवलोf अ दन्चेर्fरों थे सोउथ्, अन्द्थे एxत्रओर्दिनर्येffएच्त्सोf बुद्धऽस्स्मिले अमात्यैरजातशत्रोरारोचितं देव वृद्धराजः कालगतः इति; स श्रुत्वा मूर्च्छितः पृथिव्यां निपतितः; जलपरिषेकप्रत्यागतप्राणः शोकागारं प्रविश्यावस्थितः; तस्य न कश्चित्शक्नोति चित्तविनोदनं कर्तुं; अमात्यास्तस्य चित्तविनोदोपायं (अ ४८२ ) समन्वेषितुमारब्धाः; यावद्दक्षिणापथात्नटः अभ्यागतः; सोऽमात्यैस्तस्य पुरस्तान्नर्तितः; अजातशत्रुर्दुर्मना एवेति न केनचित्साधुरित्युक्तः; स नटित्वा निर्गच्छति; भगवांश्च तं प्रदेशमनुप्राप्तः; तेन भगवान् दृष्टः; स संलक्षयति: यदि तत्रैवंविधः साधुपुरुषः स्यादनेन मम साधुकारः दत्तः स्यादिति; तेन भगवतोऽन्तिके चित्तमभिप्रसाद्य मुरवः पराहतः; अथ भगवान् स्मितमकार्षीत् धर्मता खलु यस्मिन् समये बुद्धा भगवन्तः स्मितं प्राविष्कुर्वन्ति तस्मिन् समये नीलपीतलोहितावदाताः अर्चिषः मुखान्निश्चर्य काश्चिदधस्ताद्गच्छन्ति; काश्चिदुपरिष्टाद्गच्छन्ति या अधस्ताद्गच्छन्ति ताः सञ्जीवं कालसूत्रं सङ्घातं रौरवं महारौरवं तापनं प्रतापनमवीचिमर्बुदं निरर्बुदमटटं हहव हुहुवमुत्पलं पद्मं महापद्मं नरकं गत्वा ये उष्णनरकास्तेषु शीतीभूत्वा निपतन्ति; ये शीतनरकास्तेषु उष्णीभूत्वा निपतन्ति; तेन तेषां सत्वानां कारणाविशेषाः प्रतिप्रस्रभ्यन्ते; तेषामेवं भवति: किं नु वयं भवन्तः इतश्च्युताः आहोस्विदन्यत्रोपपन्नाः इति; तेषां प्रसादसंजननार्थं भगवान्निर्मितं विसर्जयति; तेषां निर्मितं दृष्ट्वा एवं भवति; न हैव वयं भवन्तः इतश्च्युताः; (इ १६२) नाप्यन्यत्रोपपन्नाः; अपि तु अयमपूर्वदर्शनः सत्वः; अस्य अनुभावेन अस्माकं कारणाविशेषाः प्रतिप्रस्रब्धाः इति; ते निर्मिते चित्तमभिप्रसाद्य, तन्नरकवेदनीयं कर्म क्षपयित्वा देवमनुष्येषु प्रतिसन्धिं गृह्णन्ति यत्र सत्यानां भाजनभूता भवन्ति या उपरिष्टाद्गच्छन्ति ताश्चातुर्महाराजिकान् त्रयस्त्रिंशान् यामान् तुषितान्निर्माणरतीन् परनिर्मितवशवर्तिनः ब्रह्मकायिकान् ब्रह्मपुरोहितान्महाब्रह्मणः परीत्ताभानप्रमाणाभानाभास्वरान् परीत्तशुभानप्रमाणशुभान् शुभकृत्स्नाननभ्रकान् पुण्यप्रसवान् बृहत्फलानबृहानतपान् सुदृशान् सुदर्शनानकनिष्ठान् देवान् गत्वा अनित्यं दुःखं शून्यमनात्मा इत्युद्घोषयन्ति; गाथाद्वयं च भाषन्ते आरभध्वं निष्क्रामत युज्यध्वं बुद्धशासने । धुनीत मृत्युनः सैन्यं नडागारमिव कुञ्जरः ॥ यो ह्यस्मिन् धर्मविनये अप्रमत्तश्चरिष्यति । प्रहाय जातिसंसारं दुःखस्यान्तं करिष्यति ॥ इति अथ ता अर्चिषस्त्रिसहस्रमहासहस्रं लोकधातुमन्वाहिण्ड्य भगवन्तमेव पृष्ठतः पृष्ठतः समनुगच्छन्ति; तद्यदि भगवानतीतं कर्म व्याकर्तुकामो भवति, भगवतः पृष्ठतोऽन्तर्धीयन्ते; अनागतं व्याकर्तुकामो भवति, पुरस्तादन्तर्धीयन्ते; नरकोपपत्तिं व्याकर्तुकामो भवति पादतले अन्तर्धीयन्ते; तिर्यगुपपत्तिं व्याकर्तुकामो भवति पार्ष्ण्यामन्तर्धीयन्ते; प्रेतोपपत्तिं व्याकर्तुकामो भवति पादाङ्गुष्ठे अन्तर्धीयन्ते; मनुष्योपपत्तिं व्याकर्तुकामो भवति जानुनोरन्तर्धीयन्ते; बलचक्रवर्तिराज्यं व्याकर्तुकामो भवति वामे करतले अन्तर्धीयन्ते; चक्रवर्तिराज्यं व्याकर्तुकामो भवति दक्षिणे करतले अन्तर्धीयन्ते; देवोपपत्तिं व्याकर्तुकामो भवति नाभ्यामन्तर्धीयन्ते; श्रावकबोधिं व्याकर्तुकामो भवति आस्येऽन्तर्धीयन्ते; प्रत्येकबोधिं व्याकर्तुकामो भवति ऊर्णायामन्तर्धीयन्ते; अनुत्तरां सम्यक्संबोधिं व्याकर्तुकामो भवति उष्णीषे अन्तर्धीयन्ते अथ ता अर्चिषो भगवन्तं (अ ४८३ ) त्रिः प्रदक्षिणीकृत्य भगवत ऊर्णायामन्तर्हिताः; अथायुष्मानानन्दः कृतकरपुटो भगवन्तं पप्रच्छ नानाविधो रङ्गसहस्रचित्रो वक्त्रान्तरान्निष्कसितः कलापः । (इ १६३) अवभासिता येन दिशः समन्तात् दिवाकरेणोदयता यथैव ॥ गाथाश्च भाषते विगतोद्भवा दैन्यमदप्रहीणा बुद्धा जगत्युत्तमहेतुभूताः । नाकारणं शङ्खमृणालगौरम् स्मितमुपदर्शयन्ति जिना जितारयः ॥ तत्कालं स्वयमधिगम्य धीर बुद्ध्या श्रोतृणां श्रमण जिनेन्द्र काङ्क्षितानाम् । धीराभिर्मुनिवृष वाग्भिरुत्तमाभिर् उत्पन्नं व्यपनय संशयं शुभाभिः । नाकास्माल्लवणजलाद्रिराजधैर्याः संबुद्धाः स्मितमुपदर्शयन्ति नाथाः । यस्यार्थे स्मितमुपदर्शयन्ति धीराः तं श्रोतुं समभिलषन्ति ते जनौघाः ॥ इति दृष्टस्त्वया आनन्द स नटो येन ममान्तिके चित्तं प्रसाद्य मुरवः पराहतः दृष्टो भदन्त; स एष आनन्द नटः अनेन कुशलमूलेन चित्तोत्पादेन च दुन्दुभीश्वरो नाम प्रत्येकबुद्धो भविष्यति; अयमस्य देयधर्मो यो ममान्तिके चित्तप्रसादः ______________________________________________________________ देवदत्त हस्हिम्सेल्f गिल्त्ब्य्गोल्द् देवदत्त अजातशत्रोः कथयति: मया त्वं राज्ये प्रतिष्ठापितः; मामपि त्वं बुद्धत्वे प्रतिष्ठापय इति; स कथयति: भगवतः सुवर्णवर्णः कायः; आदौ तावत्तव सुवर्णवर्णतैव नास्ति इति; स कथयति: अहं सुवर्णवर्णमभिनिर्वर्तयामि इति; तेन सुवर्णकार आहूयोक्तः: मम काये सुवर्णं चारय इति; स कथयति: आर्य यदि शक्नोषि वेदनां सोढुमिति; स कथयति: चारय; शक्ष्यामि इति; तेन चुञ्चुतैलेन गात्रं म्रक्षयित्वा काये सुवर्णपत्रं चारितं; स दुःखां तीव्रं खरां कटुकाममनापां वेदनां वेदयति; भिक्षुभिः कोकालिकः पृष्टः: कुत्र देवदत्त (इ १६४) स कथयति: अमुष्मिन् प्रदेशे सुवर्णवर्णतामभिनिर्वर्तयति इति; भिक्षवस्तं प्रदेशं गताः; तैरसौ श्रुतो दुःखवेदनार्तो विक्रोशन्; ते भगवत्सकाशमुपसंक्रान्तः भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: पश्य भदन्त देवदत्त सुवर्णवर्णताया अर्ते दुःखां तीव्रं खरां कटुकाममनापां वेदनां वेदयते इति, भगवानाह: न भिक्षव एतर्हि; यथा अतीतेऽप्यध्वन्येष सुवर्णखोलाया अर्थे अनयेन व्यसनमापन्नः; तच्छ्रूयतां ______________________________________________________________ थे स्तोर्योf अ च्रोw अन्द गोल्देन् चप्(सुवर्णखोला) (चोन्चेर्निन्ग प्रेविओउस्बिर्थोf देवदत्त) भूतपूर्वं भिक्षवो वाराणस्यां नगर्यामन्यतमा स्त्री प्रोषितभतृका; तस्याः पुरस्तात्काको मधुरमधुरं रौति; सा कथयति: उत्क्रामोत्क्राम वायस; यदि मे भर्ता स्वस्तिना क्षेमेण आगच्छति, तव सौवर्णां खोलां ददामि इति; यावदसौ तस्या भर्ता स्वस्तिना आगतः; स काकस्तस्याः पुरस्तात्सुवर्णखोलानिमित्तं मधुरमधुरं विरौति; ततस्तया तस्य सौवर्णा खोला दत्ता; स तया पिनद्धया इतश्चामुतश्च परिभ्रमति; तस्य सुवर्णखोलानिमित्तमलिकेन पक्षिना शिरश्छिन्नं; देवता गाथां भाषते भवत्यर्थोऽप्यनर्थाय योऽनर्थपदसंहितः । केलिकाकेन पर्येष्टो यस्य सौवर्णकं शिरः ॥ भगवानाह: किं मन्यध्वे भिक्षवो योऽसौ भिक्षवः काकः एष एव देवदत्तः तेन (अ ४८३ ) कालेन तेन समयेन; तदाप्येष सुवर्णखोलाहेतोरनयेन व्यसन्नमापन्नः; एतर्ह्यप्येष सुवर्णवर्णताया आर्थाय दुःखां तीव्रं खरां कटुकाममनापां वेदनां वेदयते इति ______________________________________________________________ देवदत्त हसिन् हिस्fएएत्थे सिग्नोf थे wहेएलिम्प्रिन्तेद्wइथ्रेधोतिरोन् पुनरपि देवदत्तः अजातशत्रोः कथयति: त्वं मया राज्ये प्रतिष्ठापितः; त्वमपि मां बुद्धत्वे प्रतिष्ठापय इति; स कथयति (इ १६५) भगवतः चक्राङ्कपादतलचिह्नता लक्षनमस्ति; तव तु चक्राङ्कपादतलचिह्नता नास्ति इति; अहं चक्राङ्कपादतलचिह्नमभिनिर्वर्तयामि इति; तेन अयस्कारा आहूय उक्ताः: शक्ष्यथ मम पादतले चक्राङ्कं कर्तुमिति; ते कथयन्ति: आर्य यदि शक्नोषि वेदनां सोढुमिति; स कथयति कुरुत शक्ष्यामि इति; ते संलक्षयन्ति: बलवानेषः; यद्येवमेवाङ्क्यामः, स्थानमेतद्विद्यते यत्पार्ष्णिप्रहारेण अस्मान् जीविताद्व्यपरोपयिष्यति; इति तैः कन्थां छिद्रयित्वा उक्तः: आर्य अनेन कन्थाछिद्रेण पादौ प्रवेशय इति; तेन कन्थाछिद्रेण पादौ प्रवेशितौ; अयस्कारैरग्निवर्णं चक्रं कृत्वा पादावङ्कितौ; स दुःखां तीव्रं खरां कटुकाममनापां वेदनां वेदयते; भिक्षुभिः कोकालिकः पृष्टः: कुत्र देवदत्त स कथयति: अमुष्मिन् प्रदेशे चक्राङ्कपादचिह्नतामभिनिर्वर्तयति इति; भिक्षवस्तं प्रदेशं गताः; तैरसौ श्रुतो दुःखवेदनार्तो विक्रोशन्; ते भगवत्सकाशमुपसंक्रान्तः भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: पश्य भदन्त देवदत्त चक्राङ्कपादतलचिह्नताया अर्थे दुःखां तीव्रं खरां कटुकाममनापां वेदनां वेदयते इति, भगवानाह: न भिक्षव एतर्हि; यथा अतीतेऽप्यध्वन्येष पादनिमित्तमनयेन व्यसनमापन्नः; तच्छ्रूयतां ______________________________________________________________ थे जच्कल्मेअसुरिन्ग्थे स्तेपोf अनेलेफन्त्wइथित्सोwन् (चोन्चेर्निन्ग प्रेविओउस्बिर्थोf देवदत्त) भूतपूर्वं भिक्षवो हैमवतो हस्ती पानीयं पातुमवतीर्णः; तस्य पृष्ठतः सृगालोऽवतीर्णः; स हस्तिपदं दृष्ट्वा आत्मीयेन पदेन मापयितुमारब्धः; स संलक्षयति: ममैतानि पदानि इति; स उत्प्लुत्योत्प्लुत्य पदानि स्थापयन् कलमच्छिन्नेन काष्ठेन शूलायां प्रोतः; देवता गाथां भाषते न पदं तव मुढ तुल्यकं गजपादपदेन सर्वथा । त्यज बुद्धिमिमां निरर्थिकां परिखेदमाप्स्यसे वृथा ॥ इति (इ १६६) किं मन्यध्वे भिक्षवो योऽसौ सृगालः एष एव देवदत्तः तेन कालेन तेन समयेन; तदाप्येष पादनिमित्तमनयेन व्यसन्नमापन्नः; एतर्ह्यप्येष चक्राङ्कपादतलचिह्नताया अर्थे दुःखां तीव्रं खरां कटुकाममनापां वेदनां वेदयते इति ______________________________________________________________ देवदत्त चल्ल्स स्किल्लेद्मस्तेर्-मेछनिचन्द्मकेस्हिं चोन्स्त्रुच्त चतपुल्तिन् fरोन्तोf थे बुद्धऽस्रेसिदेन्चे बुद्धो भगवान् राजगृहे विहरति गृध्रकूटे पर्वते कुम्भीरयक्षस्य भवने; भूयो देवदत्तः अजातशत्रोः कथयति: मया त्वं राज्ये प्रतिष्ठापितः; त्वयाहं न शक्तो बुद्धत्वे प्रतिष्ठापयितुम्? इदानीमहं श्रमणं गौतमं जीविताद्व्यपरोपयामि; न त्वया समन्वेष्टव्यं केन प्रघातितः कुत्र प्रघातितः इति; स कथयति: एवमस्तु इति; यावद्दक्षिणापथाद्यन्त्रकलाचार्यः अभ्यागतः; स देवदत्तेन (अ ४८४ ) आहूयोक्तः: भोः आचार्य शक्ष्यसि त्वमीदृशं यन्त्रं कर्तुं यः पंचभिः पुरुषशतैः आम्रेड्यते? इति; स कथयति: आर्य शक्ष्यामि इति; तेन तस्य शतसहस्रो मुक्ताहारो दत्तः; मनुष्यसहस्रं च दत्तम्; उक्तश्च; यत्र स्थाने भगवांस्तिष्ठति, तन्मुखं गृध्रकूटस्योपरि यन्त्रं सज्जीकुरु इति; तत्र पंच मनुष्यशतानि स्थापितानि, ये तद्यन्त्रमाम्रेडयन्ति; अपरस्मिन् स्थाने अर्धतृतीयानि शतानि स्थापितानि, उक्तानि च; यदि श्रमणो गौतमो यन्त्रेण न प्रघात्यते, युष्माभिः प्रघातयितव्यः इति; अपरस्मिन्नपि स्थाने तदर्थेन अर्धतृतीयानि मनुष्यशतानि; सर्वे च समादिष्टाः: येषां युष्माकं श्रमणो गौतमो भागप्राप्तो भवति, तैः प्रघातयितव्यः इति; आत्मना चापरस्मिन् प्रदेशे स्थितः; एषां परिभ्रष्टो मया प्रघातयितव्यः इति; यावत्तानि पंच पुरुषशतानि यन्त्रमाम्रेडयितुमारब्धानि; संजल्पं कुर्वन्ति: कस्यार्थे यन्त्रमाम्रेड्यते इति ______________________________________________________________ थे wओर्क्मेन् रेfउसे तो किल्ल्थे बुद्ध, गो अwअय्, सित्दोwनथिस्fएएत्, अन्दरे चोन्वेर्तेf ब्य्हिम् यावत्पश्यन्ति अधस्ताद्बुद्धं भगवन्तं; ते कथयन्ति: भवन्तो वरं (इ १६७) स्वजीवितपरित्यागः, न तु देवमनुष्यपूजितस्य बुद्धस्य भगवतः प्राणघातः; परित्यजत यन्त्रमिति; ते यन्त्रं परित्यज्य गृध्रकूटे इतश्चामुतश्च परिभ्रमन्ति, कतरेण स्थानेन यन्त्रमवतारयामः, यत्र देवदत्तो न पश्येदिति; तेषां चेतसा चित्तमाज्ञाय भगवता सोपानं निर्मितं; तेषां सोपानं दृष्ट्वा एतदभवत्: भवन्तः कुतोऽत्र सोपानः? भगवत एषोऽनुभावः इति; भूयस्या मात्रया चित्तमभिप्रसाद्य सोपानेन अवतीर्य, येन भगवांस्तेनोपसंक्रान्ताः; भगवानपि तद्विनयनापेक्षयैव गृध्रकूटे पर्वते चङ्क्रम्यमाणोऽवस्थितः; ततस्ते भगवतः पादौ शिरसा वन्दित्वा पुरस्तान्निषण्णा धर्मश्रवणाय: भगवता तेषामाशयानुशयं धातुं प्रकृतिं च ज्ञत्वा तादृशी चतुरार्यसत्यसंप्रतिवेधिकी धर्मदेशना कृता, यां श्रुत्वा तैर्विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्वा स्रोतआपत्तिफलं साक्षात्कृतं; ते दृष्टसत्यास्त्रिरुदानमुदानयन्ति: इदमस्माकं भदन्त न मात्रा कृतं न पित्रा; न राज्ञा नेष्टेन स्वकनबन्धुवर्गेण न पूर्वप्रेतैर्, न श्रमणब्राह्मणैः, यत्भगवता अस्माकं कृतं; उद्धृतो नरकतिर्यक्प्रेतेभ्यः पादः; प्रतिष्ठापितो देवमनुष्येषु; पर्यन्तीकृतः संसारः; उच्छोषिता रुधिराश्रुसमुद्राः; लङ्घिता अस्थिपर्वताः; पिहितान्यपायद्वाराणि; विवृतानि स्वर्गद्वाराणि; अनादिकालोपचितं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्वा स्रोतआपत्तिफलं साक्षात्कृतं; अभिक्रान्ता वयं भदन्त, अभिक्रान्ताः; एते वयं भगवन्तं श्रणं गच्छामः, धर्मं च भिक्षुसंघं च; उपासकां च अस्मान् भगवान् धारयतु अद्याग्रेण यावज्जीवं प्राणोपेतान्, शरणागतान्, अभिप्रसन्नान्; इत्युक्त्वा भगवतोऽन्तिकात्पंच शिक्षापदानि ग्रहितुमारब्धाः ______________________________________________________________ देवदत्त पेर्चेइवेस्थत्थे wओर्क्मेनन्द्थे मेछनिच्तोओ रनwअय्, अन्द्मनगेस्हिम्सेल्f तो हुर्ल स्तोने fरों थे चतपुल्तत्थे बुद्ध यन्त्रकलाचार्योऽपि (अ ४८४ ) बुद्धं भगवन्तमयं प्रघातयतीति विदित्वा, तेषामनुपदमेव सोपानादवतीर्य, शतसहस्रं मुक्ताहारं गृहीत्वा निष्पलायितः; देवदत्तोऽपि शिलापतनतत्परो मुहुर्मुहुर्निरीक्षते; न पततीति कृत्वा स्वयमेव तान्यन्यानि पंच मनुष्यशतान्यादाय गृध्रकूटं पर्वतम् (इ १६८) अभिरोढुमारब्धः; पश्यति तानि भगवतोऽन्तिकाद्धर्मं शृण्वन्ति; दृष्ट्वा च भूयस्या मात्रया संजातामर्षोऽन्यतोमुखो गृध्रकूटं पर्वतमभिरूढः; यावत्पश्यति यन्त्रकलाचार्योऽपि निष्पलायितः; स्वयमेव पंचशतपरिवारो यन्त्रमाम्रेडयितुमारब्धः; भगवान् संलक्षयति: मयैव एतानि कर्माणि कृतान्युपचितानि लब्धसंभाराणि परिणतप्रत्ययान्योघवत्प्रत्युपस्थितान्यवश्यभावीनि; मयैव एतानि कर्माणि कृतान्युपचितानि कोऽन्यः प्रत्यनुभविष्यति? इति विदित्वा तानि पंच मनुष्यशतानि इदमवोचत्: भवन्तो देवदत्तस्तीव्रपर्यवस्थानावस्थितो गृध्रकूटं पर्वतमभिरूढाः; गच्छत; ममैतानि कर्माणि कृतानि इति; ततस्तानि पंच मनुष्यशतानि निष्पलायितानि; देवतानामधस्ताज्ज्ञानदर्शनं प्रवर्तते ______________________________________________________________ थे यक्ष कुम्भीर सच्रिfइचेस्हिस्लिfए इन् त्र्यिन्ग्तो अर्रेस्त्थे स्तोने, बुत fरग्मेन्त्स्त्रिकेस्थे बुद्ध ओन् थे fओओत् अथ वज्रपाणेर्यक्षस्यैतदभवत्: देवदत्तो भगवतो वधाय पराक्रमति इति विदित्वा येन कुम्भीरयक्षस्तेनोपसंक्रान्तः; उपसंक्रम्य कुम्भीरं यक्षमिदमवोचत्: देवदत्तो गृध्रकूटाद्यन्त्रेण भगवतः शिलां क्षेप्तुमारब्धः; तव च भवने भगवान् विहरति; तदहं यत्नमास्थाय अन्तरीक्षे एतां शिलां वज्रेण चूर्णयामि; त्वयापि साहाय्ये वर्तितव्यं; कदाचिच्चूर्णितायाः खण्डः भगवत उपरिष्टान्निपतेद्ति; स कथयति: एवं भवतु इति; भगवानभ्यवकाशे स्थित्वा पर्वतविवरे प्रविष्टः; देवदत्तेन पंचशतपरिवारेण यन्त्रमाम्रेड्य भगवतः शिला क्षिप्ता; वज्रपाणिना यक्षेण चूर्णिता; अर्धं भगवतः स्थाने पतितुकामं कुम्भीरयक्षेण गृह्णता न सुगृहीतं कृतं; स तेन प्रघातितः; भगवता उत्प्लुत्य पाषाणशर्करया पादः क्षतः कृतः; भगवांस्तस्यां वेलायां गाथां भाषते नैवान्तरीक्षे न समुद्रमध्ये न पर्वतानां विवरं प्रविश्य । न विद्यतेऽसौ पृथिवीप्रदेशो यत्र स्थितौ न प्रसहेत कर्म ॥ इति कुम्भीरोऽपि यक्षः कुशलचित्तः कालगतः; कालं कृत्वा प्रणीतेषु त्रयस्त्रिंशेषु देवेषु उपपन्नः; धर्मता खलु देवपुत्रस्य वा देवकन्याया वा अचिरोपपन्नस्य त्रीणि चित्तान्युत्पद्यन्ते: कुतश्च्युतः कुत्रोपपन्नः केन कर्मणा इति स पश्यति: यक्षेभ्यश्च्युतः, प्रणीतेषु त्रयस्त्रिंशेषु देवेषूपपन्नः भगवतो (इ १६९)ऽन्तिके चित्तमभिप्रसाद्य इति; अथ यक्षपूर्विणो देवपुत्रस्य एतदभवन्न मम प्रतिरूपं स्याद्यदहं पर्युषितपरिवासो भगवन्तं दर्शनायोपसंक्रमेयं (अ ४८५ ) यन्न्वहमपर्युषितपरिवास एव भगवन्तं दर्शनायोपसंक्रमेयमिति अथ स यक्षपूर्वी देवपुत्रश्चलविमलकुण्डलधरो हारार्धहारविभूषितगात्रस्तामेव रात्रिं दिव्यानामुत्पलपद्मकुमुदपुण्डरीकमान्दारकाणां पुष्पाणामुत्संगं पूरयित्वा सर्वं गृध्रकूटं पर्वतमुदारेणावभासेनावभास्य भगवतं पुष्पैरवकीर्य भगवतः पुरस्तान्निषण्णो धर्मश्रवणाय; ततो भगवता आशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशी चतुरार्यसत्यसंप्रतिवेधिकी धर्मदेशना कृता यां श्रुत्वा यक्षपूर्विणा देवपुत्रेण विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्वा स्रोतआपत्तिफलं साक्षात्कृतं; स दृष्टसत्यस्त्रिरुदानमुदानयति: इदमस्माकं भदन्त न मात्रा कृतं न पित्रा कृतं; नेष्टेन स्वजनबन्धुवर्गेण; न राज्ञा न देवताभिर्न पूर्वप्रेतैर्न श्रमणब्राह्मणैः यद्भगवता अस्माकं कृतम्; उच्छोषिता रुधिराश्रुसमुद्राः; लंघिता अस्थिपर्वताः पिहितान्यपायद्वाराणि विवृतानि स्वर्गमोक्षद्वाराणि; प्रतिष्ठापिताः स्मो देवमनुष्येषु आह च तवानुभावात्पिहितस्सुघोरो ह्यपायमार्गो बहुदोषयुक्तः । अपावृता स्वर्गगतिः सुपुण्या निर्वाणमार्गश्च मयोपलब्धः ॥ त्वदाश्रयाच्चाप्तमपेतदोषं मयाद्य शुद्धं सुविशुद्धचक्षुः । प्राप्तं च शान्तं पदमार्यकान्तं तीर्णश्च दुःखार्णवपारमस्मि ॥ जगति दैत्यनरामरपूजितं विगतजन्मजरामरणामयम् । भवसहस्रसुदुर्लभदर्शनं सफलमद्य मुने तव दर्शनम्* ॥ अवलम्ब्य ततः प्रलम्बहारः चरणौ द्वावभिवन्द्य जातहर्षः । परिगम्य च दक्षिणं जितारिं सुरलोकाभिमुखो दिवं जगाम ॥ (इ १७०) अथ यक्षपूर्वी देवपुत्रो वणिगिव लब्धलाभः संपन्नसस्य इव कार्षकः शूर इव विजितसंग्रामः सर्वरोगपरिमुक्त इवातुरो यया विभूत्या भगवत्सकाशमुपसंक्रान्तः तयैव विभूत्या स्वभवनं गतः भिक्षवः पूर्वरात्रापररात्रं जागरिकायोगमनुयुक्ता विहरन्ति; तैर्दृष्टो भगवतोऽन्तिके उदारोऽवभासः; यं दृष्ट्वा सन्दिग्धाः भगवन्तं पप्रच्छुः: किं भगवनिमां रात्रिं भगवन्तं दर्शनाय ब्रह्मा सभांपतिः शक्रो देवेन्द्रः चत्वारो लोकपाला उपसंक्रान्ताः भगवानाह: न भिक्षवो ब्रह्मा सभांपतिः न शक्रो देवानामिन्द्रः नापि चत्वारो लोकपाला मां दर्शनायोपसंक्रान्ताः; अपि तु देवदत्तेन मद्वधायोद्युक्तेन या गृद्ध्रकूटपर्वताद्यन्त्रेण शिला क्षिप्ता सा अन्तरीक्षे एव वज्रपाणिना वज्रेण चूर्णिता; तस्या अर्धं ममोपरि पतमानं कुम्भीरयक्षेण दुर्गृहीतं कृतं; स तेन प्रघातितो ममान्तिके चित्तमभिप्रसाद्य कालगतः; प्रणीतेषु देवेषु त्रयस्त्रिंशेषु (अ ४८५ ) उपपन्नः; स इमां रात्रिं मत्सकाशमुपसंक्रान्तः; तस्य मया धर्मो देशितः; स दृष्टिसत्यः स्वभवनं गतः; इति हि भिक्षवः एकान्तकृष्णानां कर्मणामेकान्तकृष्णो विपाकः; एकान्तशुक्लानामेकान्तशुक्लः; व्यतिमिश्राणां व्यतिमिश्रः; तस्मात्तर्हि भिक्षवः एकान्तकृष्णानि कर्माण्यपास्य व्यतिमिश्राणि च एकान्तशुक्लेष्वेव कर्मस्वाभोगाः करणीयः इत्येवं वो भिक्षवः शिक्षितव्यम्* भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: पश्य भदन्त कुम्भीरेण यक्षेण भगवतः अर्थाय आत्मा परित्यक्तः इति; भगवानाह: न भिक्षव एतर्हि यथा अतीतेऽप्यध्वनि अनेन ममार्थाय आत्मा परित्यक्तः; तच्छ्रूयतां ______________________________________________________________ थे स्तोर्योf अ हुन्तेर् (चोन्चेर्निन्ग प्रेविओउस्बिर्थोf यक्ष कुम्भीर) भूतपूर्वं भिक्षवो वाराणस्यां नगर्यां ब्रह्मदत्तो नाम राजा राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं च आकीर्णबहुजनमनुष्यं च; तेन खलु समयेन वाराणस्यां नगर्यां नातिदूरे अन्यतरस्मिन्नाश्रमपदे मूलपुष्पफलसलिलसंपन्ने नानाविहगनिकूजिते ऋषिः प्रतिवसति; कष्टतपाः फलमूलाम्बुभक्षः अजिनवल्कलवासाः; तस्य चाश्रमपदस्य सामन्तकेन मृगलुब्धको मृगान् प्रघात्य प्रघात्य जीविकां कल्पयति; स तस्य ऋषेः कालेन कालमुपसंक्रामति; तस्यासौ ऋषिः श्रान्तस्य मूलफलैरुपसंहारं करोति; अप्येवायं लुब्धको मत्सरी (इ १७१) समीपनिवासिनो मृगान्न प्रघातयेदिति; तयोः परस्परं पितृपुत्रेति संज्ञा समुत्पन्ना;लुब्धको ऋषिं पितृवादेन समुदाचरति; ऋषिरपि लुब्धकं पुत्रवादेन; यावदपरेण समयेन राजा ब्रह्मदत्तः काल्यमेवोत्थाय मृगवधाय निर्गतः; तेन मृगः शरपरम्परया ताडितः उत्पतितः तय ऋषेराश्रमपदं प्रविष्टः; तत्रापि राज्ञा नाराचेन मर्मणि ताडितः कालगतः; स ऋषिः क्रोधपर्यवस्थितः कथयति: कलिराजस्त्वं दुराचारो येन मे शरणोपगतो मृगः प्रघातितः इति; एवमुक्ते स राजा द्वेषपर्यवस्थाननिविष्टबुद्धिरमात्यानां कथयति: भवन्तो यो राजानं क्षत्रियं मूर्धाभिषिक्तं परिभाषते तस्य को दण्डः इति; अमात्याः कथयन्ति: वधो दण्डः इति; राजा कथयति: यद्येवं परित्यक्तो मे अयमृषिः; अमात्याः ऋषिं प्रघातयितुमारब्धाः; दैवात्स लुब्धकस्तस्य ऋषेः सकाशमागतः; आगत एव स संलक्षयति; मम जीवतः कथमृषिः प्रघात्यते इति; स योद्धुमारब्धः; ऋषिर्निष्पलायितः; स महता बलकायेन प्रघातितः भगवानाह: किं मन्यध्वे भिक्षवो योऽसौ ऋषिरहमेव सः तेन कालेन तेन समयेन; योऽसौ लुब्धकः एष एव स कुम्भीरयक्षः तेन कालेन तेन समयेन; तदाप्यनेन ममार्थाय आत्मा परित्यक्तः; एतर्ह्यप्यनेन ममार्थाय आत्मा परित्यक्तः इति ______________________________________________________________ जीवक प्रेस्च्रिबेस वेर्य्ररे सुब्स्तन्चे चल्लेद्गोशीर्षचन्दन इनोर्देर्तो स्तोप्थे हेमोर्र्हगे अत्थे fओओतोf थे बुद्ध भगवतः पाषाणशर्करया (अ ४८६ ) पादः क्षतः; रुधिरं प्रघरत्येव नावतिष्ठते; जीवको वैद्यराजो भगवतो रुजावलोककः त्रिकालमुपसंक्रामति; राजगृहनिवासी श्राद्धो जनकायः नानादेशभ्यागताश्च सम्यग्दर्शनसंपन्नाः धनिनः श्रेष्ठिनः सार्थवाहाः; तत्र केचित्कथयति: जीवक इदमत्र भैषज्यं शोभनमिति; अन्ये कथयन्ति: इदं शोभनमिति; जीवको वैद्यराजः कथयति: अस्त्यत्र सद्यःप्रशमनं भैषज्यं; किं तु तद्दुर्लभं; आयुष्मानानन्द कथयति: जीवक किं तत्; स कथयति: गोशीर्षचन्दनं; तेन खलु समयेन गोषीर्षचन्दनस्य प्राप्तिरेव समुच्छिन्ना; यावदन्यतमेन वणिजा गोशीर्षचन्दनमात्ययिकं स्थापितम्: अयं राजा अजातशत्रुश्चण्डो रभसः कर्कशः; यद्यस्य दैवाद्गोशीर्षचन्दनेन प्रयोजनं भवति (इ १७२) नियतमस्याभावत्शिरश्छेदमपि करोति; यस्मादहं कालानुकालं गोशीर्षचन्दनविक्रयं कृतवानिति; तेन श्रुतं यथा जीवकेन वैद्यराजेन भगवतो रुजाप्रशमनं गोशीर्षचन्दनमुपदिष्टमिति; स संलक्षयति: अयमजातशत्रुर्देवदत्तविग्राहितो भगवत्यभिनिविष्टबुद्धिः; यद्यहं भगवतो गोशीर्षचन्दनं प्रदास्यामि स्थानमेतद्विद्यते यदनर्थं करिष्यति इति; पुनः संलक्षयति: भगवान् देवमनुष्यपूजितः; यदि तस्यार्थाय्प्राणवियोगो भवति, भवत्येव; यन्न्वहं भगवतो गोशीर्षचन्दनं प्रयच्छेयमिति; स गोशीर्षचन्दनमादाय भगवत्सकाशमुपसंक्रान्तः पादयोर्निपत्य कथयति: भगवन्नुपलब्धं मया भगवतो गोशीर्षचन्दनेन प्रयोजनमिति; इदं तत्प्रतिगृह्णातु भगवाननुकम्पामुपादाय इति; तत्र भगवानायुष्मन्तमानन्दमामन्त्रयते: प्रतिगृह्णीष्व आनन्द अस्य महात्मनः सकाशाद्गोशीर्षचन्दनमिति; आयुष्मता आनन्देन प्रतिगृहीतं; ततोऽसौ वणिक्प्रीतिप्रामोद्यजातः भगवतः पादौ शिरसा वन्दित्वा भगवतोऽन्तिकात्प्रक्रान्तः अथ भगवान् विस्मितमकार्षीत्; धर्मता खलु यस्मिन् समये बुद्धा भगवन्तः स्मितं प्राविष्कुर्वन्ति तस्मिन् समये नीलपीतलोहितावदाताः अर्चिषः मुखान्निश्चर्य काश्चिदधस्ताद्गच्छन्ति; काश्चिदुपरिष्टाद्गच्छन्ति या अधस्ताद्गच्छन्ति ताः सञ्जीवं कालसूत्रं सङ्घातं रौरवं महारौरवं तापनं प्रतापनमवीचिमर्बुदं निरर्बुदमटटं हहवं हुहुवमुत्पलं पद्मं महापद्मं नरकं गत्वा ये उष्णनरकास्तेषु शीतीभूत्वा निपतन्ति; ये शीतनरकास्तेषु उष्णीभूत्वा निपतन्ति; तेन तेषां सत्वानां कारणाविशेषाः प्रतिप्रस्रभ्यन्ते; तेषामेवं भवति: किं नु वयं भवन्तः इतश्च्युताः आहोस्विदन्यत्रोपपन्नाः इति; तेषां प्रसादसंजननार्थं भगवान्निर्मितं विसर्जयति; तेषां निर्मितं दृष्ट्वा एवं भवति; न हैव वयं भवन्तः इतश्च्युताः; नाप्यन्यत्रोपपन्नाः; अपि तु अयमपूर्वदर्शनः सत्वः; अस्य अनुभावेन अस्माकं कारणाविशेषाः प्रतिप्रस्रब्धाः इति; ते निर्मिते चित्तमभिप्रसाद्य, तन्नरकवेदनीयं कर्म क्षपयित्वा देवमनुष्येषु प्रतिसन्धिं गृह्णन्ति यत्र सत्यानां भाजनभूता भवन्ति या उपरिष्टाद्गच्छन्ति ताश्चातुर्महाराजिकान् त्रयस्त्रिंशान् यामान् तुषितान्निर्माणरतीन् परनिर्मितवशवर्तिनः ब्रह्मकायिकान् ब्रह्मपुरोहितान्महाब्रह्मणः परीत्ताभानप्रमाणाभानाभास्वरान् परीत्तशुभानप्रमाणशुभान् शुभकृत्स्नाननभ्रकान् पुण्यप्रसवान् बृहत्फलानबृहानतपान् सुदृशान् सुदर्शनानकनिष्ठान् देवान् गत्वा अनित्यं दुःखं शून्यमनात्मा इत्युद्घोषयन्ति; गाथाद्वयं च भाषन्ते आरभध्वं निष्क्रामत युज्यध्वं बुद्धशासने । धुनीत मृत्युनः सैन्यं नडागारमिव कुञ्जरः ॥ यो ह्यस्मिन् धर्मविनये अप्रमत्तश्चरिष्यति । प्रहाय जातिसंसारं दुःखस्यान्तं करिष्यति ॥ इति अथ ता अर्चिषस्त्रिसहस्रमहासहस्रं लोकधातुमन्वाहिण्ड्य भगवन्तमेव पृष्ठतः पृष्ठतः समनुगच्छन्ति; तद्यदि भगवानतीतं कर्म व्याकर्तुकामो भवति, भगवतः पृष्ठतोऽन्तर्धीयन्ते; अनागतं व्याकर्तुकामो भवति, पुरस्तादन्तर्धीयन्ते; नरकोपपत्तिं व्याकर्तुकामो भवति पादतले अन्तर्धीयन्ते; तिर्यगुपपत्तिं व्याकर्तुकामो भवति पार्ष्ण्यामन्तर्धीयन्ते; प्रेतोपपत्तिं व्याकर्तुकामो भवति पादाङ्गुष्ठे अन्तर्धीयन्ते; मनुष्योपपत्तिं व्याकर्तुकामो भवति जानुनोरन्तर्धीयन्ते; बलचक्रवर्तिराज्यं व्याकर्तुकामो भवति वामे करतले अन्तर्धीयन्ते; चक्रवर्तिराज्यं व्याकर्तुकामो भवति दक्षिणे करतले अन्तर्धीयन्ते; देवोपपत्तिं व्याकर्तुकामो भवति नाभ्यामन्तर्धीयन्ते; श्रावकबोधिं व्याकर्तुकामो भवति आस्येऽन्तर्धीयन्ते; प्रत्येकबोधिं व्याकर्तुकामो भवति ऊर्णायामन्तर्धीयन्ते; अनुत्तरां सम्यक्संबोधिं व्याकर्तुकामो भवति उष्णीषे अन्तर्धीयन्ते अथ ता अर्चिषो भगवन्तं त्रिः प्रदक्षिणीकृत्य भगवत ऊर्णायामन्तर्हिताः; अथायुष्मानानन्दः कृतकरपुटो भगवन्तं पप्रच्छ नानाविधो रङ्गसहस्रचित्रो वक्त्रान्तरान्निष्कसितः कलापः । अवभासिता येन दिशः समन्तात् दिवाकरेणोदयता यथैव ॥ गाथाश्च भाषते विगतोद्भवा दैन्यमदप्रहीणा बुद्धा जगत्युत्तमहेतुभूताः । नाकारणं शङ्खमृणालगौरम् स्मितमुपदर्शयन्ति जिना जितारयः ॥ तत्कालं स्वयमधिगम्य धीर बुद्ध्या श्रोतृणां श्रमण जिनेन्द्र काङ्क्षितानाम् । धीराभिर्मुनिवृष वाग्भिरुत्तमाभिर् उत्पन्नं व्यपनय संशयं शुभाभिः । नाकास्माल्लवणजलाद्रिराजधैर्याः संबुद्धाः स्मितमुपदर्शयन्ति नाथाः । यस्यार्थे स्मितमुपदर्शयन्ति धीराः तं श्रोतुं समभिलषन्ति ते जनौघाः ॥ इति भगवानाह: एवमेतदानन्द एवमेतत्; नाहेतप्रत्ययमानन्द तथागता अर्हन्तः सम्यक्संबुद्धाः स्मितं प्राविष्कुर्वन्ति; दृष्टस्त्वया अनन्द स वणिक्, येन तथागतस्य चित्तमभिप्रसाद्य गोशीर्षचन्दनं (अ ४८७ ) दत्तं दृष्टो भदन्त; स एष आनन्द वणिक्तेन कुशलमूलेन चित्तोत्पादेन देयधर्मपरित्यागेन च चन्दनो नाम प्रत्येकबुद्धो भविष्यति; अयमस्य देयधर्मो यो ममान्तिके चित्तप्रसादः ______________________________________________________________ थे हेमोर्र्हगे दोएस्नोत्स्तोप्, अन्द्जीवक प्रेस्च्रिबेस्थे मिल्कोf अ योउन्ग्wओमन् तथापि तद्रुधिरं प्रघरत्येव; नावतिष्ठते; जीवकः कथयति: इदानीं कन्याक्षीरेण परिषेको दीयतामिति; भिक्षवो न जानते कीदृशं कन्याक्षीरमिति; आयुष्मानानन्दः कथयति: जीवक कीदृशं कन्याक्षीरमिति; स कथयति: या तु प्रथमप्रसवा (इ १७३) नारी सात्र कन्या अभिप्रेता; तस्या यत्क्षीरं तत्कन्याक्षीरमित्युच्यते इति; आयुष्मता आनन्देन कन्याक्षीरनिमित्तं चतस्रोऽपि पर्षदः प्रयुक्ताः; भिक्षवः कन्याक्षीरं पर्येषितुमारब्धाः; भिक्षुण्यः उपासका उपासिह्यश्च भूयसा सर्व एव राजगृहनिवासी जनकायः स्थापयित्वा देवदत्तं देवदत्तपक्ष्यांश्च; ते चतसृणां पर्षदां जनकायस्य च पर्येषमाणस्य यैस्तैरुपायैः विघ्नं कुर्वन्ति; यावद्राजगृहे अन्यतमा प्रथमप्रसवा कन्या स्वल्पक्षीरा स्वकमपि पुरं क्षीरेण न सन्तर्पयति; कुतः पुनरन्यस्य दास्यति? तया श्रुतं यथा भगवतः कन्याक्षीरेण प्रयोजनमिति; सा संलक्षयति: यदि दास्यामि दारको मे स्वल्पप्राणः क्षीरविरहात्प्राणैर्वियोक्ष्यते; न केवलमयमादीनवः; अयमपरः, देवदत्तः भगवतो दीर्घरात्रं प्रत्यर्थिकः प्रत्यमित्रः; तद्विग्राहितश्च राजा अजातशत्रुः देवदत्तपक्ष्याश्च कोकालिकखण्डद्रव्यकटमोरकतिष्यसमुद्रदत्ताः; एते मां जीविताद्व्यपरोपयिष्यन्ति इति; पुनः संलक्षयति: कामं स्वप्राणवियोगः पुत्रवियोगश्च; न तु देवमनुष्यपूजितस्य बुद्धस्य भगवतः व्याधिदुःखवेदनानुभवनं येन सर्व एव राजगृहनिवासी जनकायः समाकुलः; यन्न्वहं क्षीरमादाय गच्छेयमिति; सा भगवतोऽन्तिके चित्तमभिप्रसाद्य नवे भाजने क्षीरं दुग्ध्वा येन भगवांश्तेनोपसंक्रान्ता; उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा भगवन्तमिदमवोचत्: उपलब्धं मया भदन्त जीवकेन भगवतः कन्याक्षीरमुपदिष्टमिति; तदिदं कन्याक्षीरं प्रगृह्यतां ममानुग्रहाय इति; तत्र भगवानायुष्मन्तमानन्दमामन्त्रयते: भद्राशया इयमानन्द दारिका; अस्या सकाशाद्गृहाण क्षीरमिति; तेन प्रतिगृहीतं क्षीरं; सा भगवतः पादौ शिरसा वन्दित्वा भगवतोऽन्तिकात्प्रक्रान्ता अथ भगवान् विस्मितमकार्षीत्; धर्मता खलु यस्मिन् समये बुद्धा भगवन्तः स्मितं प्राविष्कुर्वन्ति तस्मिन् समये नीलपीतलोहितावदाताः अर्चिषः मुखान्निश्चर्य काश्चिदधस्ताद्गच्छन्ति; काश्चिदुपरिष्टाद्गच्छन्ति या अधस्ताद्गच्छन्ति ताः सञ्जीवं कालसूत्रं सङ्घातं रौरवं महारौरवं तापनं प्रतापनमवीचिमर्बुदं निरर्बुदमटटं हहवं हुहुवमुत्पलं पद्मं महापद्मं नरकं गत्वा ये उष्णनरकास्तेषु शीतीभूत्वा निपतन्ति; ये शीतनरकास्तेषु उष्णीभूत्वा निपतन्ति; तेन तेषां सत्वानां कारणाविशेषाः प्रतिप्रस्रभ्यन्ते; तेषामेवं भवति: किं नु वयं भवन्तः इतश्च्युताः आहोस्विदन्यत्रोपपन्नाः इति; तेषां प्रसादसंजननार्थं भगवान्निर्मितं विसर्जयति; तेषां निर्मितं दृष्ट्वा एवं भवति; न हैव वयं भवन्तः इतश्च्युताः; नाप्यन्यत्रोपपन्नाः; अपि तु अयमपूर्वदर्शनः सत्वः; अस्य अनुभावेन अस्माकं कारणाविशेषाः प्रतिप्रस्रब्धाः इति; ते निर्मिते चित्तमभिप्रसाद्य, तन्नरकवेदनीयं कर्म क्षपयित्वा देवमनुष्येषु प्रतिसन्धिं गृह्णन्ति यत्र सत्यानां भाजनभूता भवन्ति या उपरिष्टाद्गच्छन्ति ताश्चातुर्महाराजिकान् त्रयस्त्रिंशान् यामान् तुषितान्निर्माणरतीन् परनिर्मितवशवर्तिनः ब्रह्मकायिकान् ब्रह्मपुरोहितान्महाब्रह्मणः परीत्ताभानप्रमाणाभानाभास्वरान् परीत्तशुभानप्रमाणशुभान् शुभकृत्स्नाननभ्रकान् पुण्यप्रसवान् बृहत्फलानबृहानतपान् सुदृशान् सुदर्शनानकनिष्ठान् देवान् गत्वा अनित्यं दुःखं शून्यमनात्मा इत्युद्घोषयन्ति; गाथाद्वयं च भाषन्ते आरभध्वं निष्क्रामत युज्यध्वं बुद्धशासने । धुनीत मृत्युनः सैन्यं नडागारमिव कुञ्जरः ॥ यो ह्यस्मिन् धर्मविनये अप्रमत्तश्चरिष्यति । प्रहाय जातिसंसारं दुःखस्यान्तं करिष्यति ॥ इति अथ ता अर्चिषस्त्रिसहस्रमहासहस्रं लोकधातुमन्वाहिण्ड्य भगवन्तमेव पृष्ठतः पृष्ठतः समनुगच्छन्ति; तद्यदि भगवानतीतं कर्म व्याकर्तुकामो भवति, भगवतः पृष्ठतोऽन्तर्धीयन्ते; अनागतं व्याकर्तुकामो भवति, पुरस्तादन्तर्धीयन्ते; नरकोपपत्तिं व्याकर्तुकामो भवति पादतले अन्तर्धीयन्ते; तिर्यगुपपत्तिं व्याकर्तुकामो भवति पार्ष्ण्यामन्तर्धीयन्ते; प्रेतोपपत्तिं व्याकर्तुकामो भवति पादाङ्गुष्ठे अन्तर्धीयन्ते; मनुष्योपपत्तिं व्याकर्तुकामो भवति जानुनोरन्तर्धीयन्ते; बलचक्रवर्तिराज्यं व्याकर्तुकामो भवति वामे करतले अन्तर्धीयन्ते; चक्रवर्तिराज्यं व्याकर्तुकामो भवति दक्षिणे करतले अन्तर्धीयन्ते; देवोपपत्तिं व्याकर्तुकामो भवति नाभ्यामन्तर्धीयन्ते; श्रावकबोधिं व्याकर्तुकामो भवति आस्येऽन्तर्धीयन्ते; प्रत्येकबोधिं व्याकर्तुकामो भवति ऊर्णायामन्तर्धीयन्ते; अनुत्तरां सम्यक्संबोधिं व्याकर्तुकामो भवति उष्णीषे अन्तर्धीयन्ते अथ ता अर्चिषो भगवन्तं त्रिः प्रदक्षिणीकृत्य भगवत ऊर्णायामन्तर्हिताः; अथायुष्मानानन्दः कृतकरपुटो भगवन्तं पप्रच्छ नानाविधो रङ्गसहस्रचित्तो वक्त्रान्तरान्निष्कसितः कलापः । अवभासिता येन दिशः समन्तात् दिवाकरेणोदयता यथैव ॥ गाथाश्च भाषते विगतोद्भवा दैन्यमदप्रहीणा बुद्धा जगत्युत्तमहेतुभूताः । नाकारणं शङ्खमृणालगौरम् स्मितमुपदर्शयन्ति जिना जितारयः ॥ तत्कालं स्वयमधिगम्य धीर बुद्ध्या श्रोतृणां श्रमण जिनेन्द्र काङ्क्षितानाम् । धीराभिर्मुनिवृष वाग्भिरुत्तमाभिर् उत्पन्नं व्यपनय संशयं शुभाभिः । नाकास्माल्लवणजलाद्रिराजधैर्याः संबुद्धाः स्मितमुपदर्शयन्ति नाथाः । यस्यार्थे स्मितमुपदर्शयन्ति धीराः तं श्रोतुं समभिलषन्ति ते जनौघाः ॥ इति भगवानाह: दृष्टस्त्वया अनन्द सा दारिका, यया ममान्तिके चित्तमभिप्रसाद्यक्षीरं दत्तं दृष्टा भदन्त; एषा सा आनन्द दारिका अनेन कुशलमूलेन चित्तोत्पादेन देयधर्मपरित्यागेन च क्षीरप्रदो नाम प्रत्येकबुद्धो भविष्यति; अयमस्या देयधर्मो यो ममान्तिके चित्तप्रसादः इति ______________________________________________________________ दशबलकाश्यप स्तोप्स्थे हेमोर्र्हगे तथापि तद्रुधिरं प्रघरत्येव; नावतिष्ठते; नानादेशनिवासिनो भिक्षवः अभ्यागताः भगवत एवंविधमाबाधं (इ १७४) श्रुत्वा अन्ये च श्राद्धा ब्राह्मणगृहपतयः; तत्र केचिदगदान् व्याहरन्ति; केचिन्मन्त्रैश्चिकित्सां कुर्वन्ति; आयुष्मान् दशबलकाश्यपः सत्योपयाचनं कर्तुमारब्धः समं ते भगवंश्चित्तं पुत्रेष्वपि अरिष्वपि । अनेन सत्यवाक्येन तिष्ठ क्षतज मा स्रव ॥ इति सत्योपयाचनसमन्तरमेव तद्रुधिरं स्थितं; भिक्षवः प्रमुदितमनसः संवृत्ताः भिक्षुण्यः उपासकाः उपासिक्यः भूयसा सर्व एव राजगृहनिवासी जनकायः स्थापयित्वा देवदत्ताजातशत्रू कोकालिकखण्डद्रव्यकटमोरकतिष्यसमुद्रदत्तांश्च; भगवान् जानन्नेव यो यथा चिकित्सां करोति, तस्य तथानुमोदते, तेषां कुशलमूलबीजावरोपणार्थं भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: पश्य भदन्त भगवता आयुष्मता दशबलकाश्यपेन सत्योपयाचनया स्रवद्रुधिरं विधारितमिति; भगवानाह: न भिक्षव एतर्हि यथा अतीतेऽप्यध्वनि अहमनेन विषकृतेन पर्याकुलीकृतो निर्विषीकृतः; तच्छ्रूयतां ______________________________________________________________ थे स्तोर्योf धर्मकाम (चोन्चेर्निन्ग प्रेविओउस्बिर्थोf दशबलकाश्यप) भूतपूर्वं भिक्षवः अन्यतमस्य कर्वटकस्य नातिदूरे उद्यानं मूलकन्दपुष्पफलसलिलसंपन्नं नानाविहगनिकूजितं; तत्र ऋषिः प्रतिवसति फलमूलाम्बुभक्षः अजिनवल्कलवासाः विद्यामन्त्रधारी च; तस्मिंश्च कर्वटके गृहपतिः प्रतिवसति; तेन सदृशात्कुलात्कलत्रमानीतं; स तया सार्धं क्रीडति रमते परिचारयति; तस्य क्रीडतो रममाणस्य परिचारयतः कालान्तरेण पत्नी आपन्नसत्वा संवृत्ता; सा अष्टानां वा नवानां वा मासानामत्ययात्प्रसूता; दारको जातः; तस्य त्रीणि सप्तकान्येकविंशतिदिवसान् विस्तरेण जातस्य जातिमहं कृत्वा नामधेयं व्यवस्थापितं; स उन्नीतो वर्धितो महान् संवृत्तः; स चंक्रम्यमाणः (अ ४८८ ) स्थितो शयितो वा कुशलं चित्तमतिकुशलं च कर्म करोति; तस्य जनकायेन धर्मकाम इति संज्ञा कृता; स किंकुशलगवेषितया कर्वटकान्निष्क्रम्य कालानुकालं तस्य ऋषेः सकाशमुपसंक्रामति; उपस्थानं चास्य करोति; तपस्विन उपसंक्रामतीति तापसस्(इ १७५) तापस इति संवृत्ता; तस्यापरेण समयेन विषकृतमुत्थितं; सोऽनेकैरगदमन्त्रप्रयोगैश्चिकित्स्यते; न चासौ व्याधिरुपशमं गच्छति; स मातापितृभ्यां तस्य ऋषेः सकाशमुपनीतः; महर्षे उपस्थायकस्ते विषकृतेन प्राणैर्वियुज्यते; चिकित्सां कुरुष्व इति; स सत्योपयाचनं कर्तुमारब्धः समं ते दारक चित्तं मित्रेष्वपि रिपुष्वपि । अनेन सत्यवाक्येन निर्विषो भव दारक ॥ इति स सत्योपयाचनकालसमनन्तरमेव निर्विषीकृतः किं मन्यध्वे भिक्षवो योऽसौ दारकः अहमेव सः तेन कालेन तेन समयेन; योऽसौ ऋषिः एष एव स दशबलकाश्यपः; तदाप्यहमनेन सत्योपयाचनेन स्वस्थीकृतः; एतर्ह्यप्यहमनेन सत्योपयाचनेन स्वस्थीकृतः ______________________________________________________________ थे दिसप्पोइन्त्मेन्तोf देवदत्त देवदत्तो दुःखी दुर्मना विप्रतीसारी चिन्तयति: व्यर्थं मया श्रमणस्य गौतमस्य शिला क्षिप्ता; न च श्रमणो गौतमः प्रघातितः; महाजनप्रतिसंविदितो जातः इति; स वृक्षमूलं गत्वा चिन्तापरः कृतकेन पर्यङ्कं बध्वा अवस्थितः; भिक्षवः स्थानस्थानेष्ववध्यायन्ति क्षिपन्ति विवाचयन्ति: पश्व भदन्त ईदृशः क्रूराशयो देवदत्तः, येन भगवतः प्रव्रजितस्यापि पराक्रान्तम्; उपरिष्टात्शिला क्षिप्ता इति; कोकालिकखण्डद्रव्यकटमोरकतिष्यसमुद्रदत्ताः कथयन्ति: किं भवन्तो यद्वा तद्वा असमीक्ष्य कथयन्ति ननु पश्यत देवदत्तमस्मिन् वृक्षमूले; चतुर्थं ध्यानं समापन्नः महात्मासौ; कथमेवं करिष्यति इति भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: पश्य भदन्त अमी कोकालिकखण्डद्रव्यकटमोरकतिष्यसमुद्रदत्ताः आत्मना अलज्जिनः अलज्जिनो देवदत्तस्य वर्णं भाषन्ते इति; भगवानाह: न भिक्षव एतर्हि यथा अतीतेऽप्यध्वनि एते अलज्जिन अलज्जिनो वर्णमभाषन्त; तच्छ्रूयतां (इ १७६) ______________________________________________________________ थे स्तोर्योf अ जच्कलन्द च्रोw (चोन्चेर्निन्ग प्रेविओउस्बिर्थोf देवदत्त, एत्च्.) भूतपूर्वं भिक्षवो राजगृहीयकैर्मनुष्यैः राज्ञा च केनचित्कारणेन क्रियाकारं कृत्वा द्वे श्मशाने व्यवस्थापिते, एकस्मिन् प्रदेशे पुरुषाश्छोरयितव्याः एकस्मिन् स्त्रियः इति; यावदपरेण समयेन पण्डकः कालगतः; स न एकस्मिन् श्मशाने अवकाशं लभते, न द्वितीये; राजगृहस्यान्यतमस्मिन् प्रदेशे उद्यानं मूलकन्दपुष्पफलसलिलसंपन्नं नानाविहगनिकूजितं; तस्मिंश्च खुस्तशिरा ऋषिः प्रतिवसति; फलमूलाम्बुभक्षः अजिनवल्कलवासाः; तस्मिंश्च प्रदेशे त्रिकण्टकेदारैरण्डवृक्षाश्च सन्ति; तत्र स पण्डको छोरितः; कुणपगन्धेन सृगाल आगतः; (अ ४८९ ) स तं पण्डकं भक्षयितुमारब्धः; काकश्च एरण्डवृक्षाग्रतस्तिष्ठति; तस्य बुद्धिरुत्पन्ना: सृगालस्य वर्णं भाषे; कदाचिद्भक्षितशेषं दद्यादिति; स तस्य गाथया वर्णं भाषितुमारब्धः: सिंहस्य ते यथा ग्रीवा ऋषभस्य यथा कटिः । मृगराज नमस्तुभ्यं भुक्तशेषं लभेमहि ॥ इति सृगालो व्यवलोक्य प्रत्यभाषत कोऽयं द्रुमवराग्रेऽस्मिन् द्विजानां प्रवरः खलु । अवभास्य दिशः सर्वाः भ्राजते रत्नपिण्डवत् ॥ इति काकः कथयति अहमस्मि महाभाग दर्शनार्थं त्वागतः । मृहराज नम्स्तुभ्यं भुक्तशेषं लभेमहि ॥ इति सृगालः कथयति मयूरकण्ठस्त्वमसि वायस प्रियदर्शन । आक्रन्दचारिणां श्रेष्ठ एहि भुङ्क्ष्व यथासुखम् ॥ इति सोऽवतीर्णः सृगालेन सह कुणपं भक्षयन् तेन ऋषिणा दृष्टः; स गाथां भाषते (इ १७७) चिरस्य बत पश्यामि समागममलज्जिनोः । वृक्षाधमस्य च्छायायां भुञ्जते कुणपं सह ॥ इति काकेन श्रुतं; स सामर्षं गाथां भाषते यदि सिंहो म्यूरश्च भुञ्जते वरजाङ्गलम् । किमत्र खुस्तशिरसः परदत्तोपजीविनः ॥ इति ऋषिरपि जातामर्षो गाथां भाषते पक्षिणामधमः काकः जम्बुकश्च चतुष्पदाम् । एरण्डश्चापि वृक्षाणां मौष्यानां च पण्डकः । हीनास्त्रिकण्टकेदाराः पश्यालज्जिसमागमम् ॥ इति ततः काको भूयस्या मात्रया संजातामर्षो ऋषेरग्निशरणं प्रविश्य व्यवलोकयितुमारब्धो न पश्यति किंचित्; कमण्डलुं भङ्क्त्वा निष्पलायितः; यावदसौ ऋषिरग्निशरणं प्रविश्य पश्यति कमण्डलुं भग्नं; स संलक्षयति: तस्यैतद्दुष्काकस्य कर्म नान्यस्य; इति विदित्वा गाथां भाषते न रोच्यास्तादृशाः केचिदलजिनाः क्रूराशयाः । दूषितं चाग्निशरणं भग्नश्चापि कमण्डलुः ॥ अवर्णार्हो न वर्णार्हः न वाच्यं खलु सर्वथा । किंचिन्मतिमता नित्यं तूष्णींभावः सुखावहः ॥ इति किं मन्यध्वे भिक्षवो योऽसौ ऋषिरहमेव सः तेन कालेन तेन समयेन; सृगालो देवदत्तः तेन कालेन तेन समयेन, काकः कोकालिकः तेन कालेन तेन समयेन; तदाप्येतावलज्जिनौ अलज्जिनोर्वर्णमभाषाताम्; एतर्ह्यप्येतावलज्जिनौ अलज्जिनोर्वर्णं भाषेते भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: कुत्र भदन्त भगवतो देवदत्तस्य च तत्प्रथमतो वैरूक्ष्यमुत्पन्नमिति; भगवानाह ______________________________________________________________ थे स्तोर्योf थे त्wओ बिर्द्स्धर्म अन्दधर्म (चोन्चेर्निन्ग प्रेविओउस्बिर्थोf थे बुद्ध अन्दोf देवदत्त) भूतपूर्वं भिक्षवो द्वौ जीवजीवकौ एकेन कायेन समुद्रतीरे प्रतिवसतः धर्मश्चाधर्मश्च; यावदधर्मो मिद्धम् (इ १७८) अवक्रान्तः; धर्मो जागर्ति; तेन अमृतफलमुह्यमानं दृष्टं; तेन तद्गृहीतं; स संलक्षयति: किं तावदेनमुत्थापयिष्यामि? आहोस्विद्भक्षयामि? इति; भूयः संलक्षयति: भक्षयामि: एकस्मिन्नेव शरीरे विपक्ष्यते इति; स तेन नोत्थापितः; स्वयमेव (अ ४८९ ) भक्षितः; स प्रतिबुद्धः; तस्मिन् प्रदेशे धर्मस्य अंर्तफलोद्गारः उत्थितः; अधर्मेण घ्रातः; स कथयति: कस्य एष उद्गारः इति; स कथयति: अमृतफलस्य; कुत्र लब्धं?; स कथयति: मया तव सुप्तस्य अमृतफलं लब्धं; तन्मया भक्षितं; त्वं नोत्थापितः: एकस्मिन्नेव शरीरे विपक्ष्यते इति; स कथयति: न शोभनं कृतम्; अहमपि कालज्ञो भविष्यामि इति; यावदपरेण समयेन धर्मो मिद्धमवक्रान्तः; अधर्मो जागर्ति; तेन विषफलमुह्यमानं दृष्टं; तेन तद्भक्षितं; तावुभावपि मूर्च्छितौ; अधर्मो विषफलेन पर्याकुलीकृतः कथयति: तत्र तत्रोपपद्येय, यत्र यत्र जन्मनि तव वधकः स्यां प्रत्यर्थिकः प्रत्यमित्रः इति; धर्मः कथयति: अहमपि यत्र यत्रोपपद्येय, तत्र तत्र जन्मनि तव मैत्र्युपसंहारं कुर्यामिति भगवानाह: किं मन्यध्वे भिक्षवो योऽसौ धर्मः अहमेव सः तेन कालेन तेन समयेन; योऽसावधर्मः एष एव स देवदत्तः तेन कालेन तेन समयेन; तत्रायं मम तत्प्रथमतो विरूक्षितः; अहं चास्य मैत्रेण चित्तेनावस्थितः; भूयोऽप्ययं यथा मम विरूक्षितः, अहं चास्य मैत्रचित्तः; तच्छ्रूयताम् ______________________________________________________________ थे स्तोर्योf सूर्यनेमि थे पोएत् (चोन्चेर्निन्ग प्रेविओउस्बिर्थोf थे बुद्ध अन्दोf देवदत्त) भूतपूर्वं भिक्षवो वाराणस्यां नगर्यां सर्जरसो नाम राजा राज्यं कारयति ऋद्धं च यावदाकीर्णबहुजनमनुष्यं च; तेन भूम्यन्तरस्य राज्ञः सकाशाद्दारिका लब्धा; स तया सार्धं क्रीडति रमते परिचारयति; तस्य क्रीडतो रममाणस्य परिचारयतः सा दारिका कालान्तरेण आपन्नसत्वा संवृत्ता; सा अष्टानां वा नवानां वा मासानामत्ययात्सूर्योदये प्रसूता; दारको (इ १७९) जातः अभिरूपो दर्शनीयः प्रासादिकः; तस्य जातौ जातिमहं कृत्वा नामधेयं व्यवस्थाप्य्ते किं भवतु दारकस्य नाम इति; अमात्याः कथयन्ति: अयं दारकः सूर्योदये जातः; तस्माद्भवतु दारकस्य सूर्यनेमीति नाम; तस्य सूर्यनेमीति नामधेयं व्यवस्थापितं; सूर्यनेमी दारकः अष्टाभ्यो धात्रीभ्यो दत्तः; द्वाभ्यामंसधात्रीभ्यां द्वाभ्यां क्षीरधात्रीभ्यां द्वाभ्यां मलधात्रीभ्यां द्वाभ्यां क्रीडनिकाभ्यां धात्रीभ्यां; सोऽष्टाभिर्धात्रीभिरुन्नीयते वर्ध्यते क्षीरेण दध्ना नवनीतेन सर्पिषा सर्पिर्मण्डेन अन्यैश्चोत्तप्तोत्तप्तैरुपकरणविशेषैराशु वर्धते ह्रदस्थमिव पङ्कजम्; स यदा महान् संवृत्तस्तदा लिप्यामुपन्यस्तः सङ्ख्यायां गणनायां मुद्रायां; यानि राज्ञां क्षत्रियाणां मूर्धाभिषिक्तानां जनपदैश्वर्यस्थामवीर्यमनुप्राप्तानां महान्तं पृथिवीमण्डलमभिनिर्जित्य अध्यावसतां पृथग्भवन्ति शिल्पस्थानकर्मस्थानानि तद्यथा हस्तिग्रीवायामश्वपृष्ठे रथे त्सरौ धनुषि अपयाने निर्याणे अंकुशग्रहे पाशग्रहे तोमरग्रहे छेद्ये भेद्ये वेध्ये मुष्टिबन्धे पादबन्धे शिखाबन्धे दूरवेधे शब्दवेधे मर्मवेधे अक्षूणवेधे दृढप्रहारितायां पञ्चसु स्थानेषु कृतावी संवृत्तः; स पित्रा यौवराज्ये प्रतिष्ठापितः (अ ४९० ) सर्जरसस्य राज्ञः अग्रमहिषी धर्मा नाम; अग्रामात्यश्च गोनिषादो नाम्ना; तस्मिंश्च राजा अत्यर्थं विश्वस्तः; यावदपरेण समयेन राजा सर्जरसः धर्मया सार्धं क्रीडति रमते परिचारयति; तस्य क्रीडतो रममाणस्य परिचारयतः धर्मा आपन्नसत्वा संवृत्ता; सा नैमित्तिकैर्व्याकृता: पुत्रं जनयिष्यति; स राजानं जीविताद्व्यपरोप्य स्वयमेव पट्टे बध्वा राज्यैश्वर्याधिपत्यं कारयिष्यति इति; यावद्राजा सर्जरसः ग्लानः संवृत्तः; स उपस्थीयते मूलगण्डपत्रपुष्पफलभैषज्यैः; न चासौ व्याधिरुपशमं गच्छति; शरीरावस्था परिच्छिन्ना; स संलक्षयति: ममात्ययात्सूर्यनेमी राजा भविष्यति; नियतमसौ धर्मां घतयिष्यति; किमत्र प्राप्तकालं; इति भूयः स संलक्ष्यति: अयममात्यो गोनिषादः मया प्रणीतैर्भोगैः संविभक्तः, प्रतिपालितश्च; अस्य धर्मां समर्पयामि इति; तेन गोनिषाद आहूयोक्तः:मम धर्मा अग्रमहिषी: त्वं चाग्रामात्यः; मम शरीरावस्था परिच्छिन्ना; नियतमहं प्राणाइर्वियोक्ष्ये; त्वया मत्प्रियतया तथा अनुष्ठेयं यथा धर्मा सूर्यनेमिना जीवितान्न व्यपरोप्यते (इ १८०) इति; स कथयति: देव तदपि न शक्यं ते कर्तुम्; अल्पोत्सुको भवतु देवः; तथा करिष्ये यथा न प्रघात्यते इति सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः । संयोगा विप्रयोगान्ताः मरणान्तं च जीवितम् ॥ इति राजा सर्जरः कालगतः; स छत्रध्वजपताकादिशोभया महता सत्कारेण ध्यापितः; सूर्यनेमी महाराजः महाराजाभिषेकेण अभिषिक्तः; तेनामात्यानामाज्ञा दत्ता; धर्मां घातयत इति; गोनिषादः कथयति: देव किमसमीक्ष्य प्रघात्यते? न ज्ञायते किं दारकं जनयिष्यति? उत दारिकामिति; तद्यदि दारकं जनयिष्यति स एव जीविताद्व्यपरोप्यते इति; सूर्यनेमी राजा कथयति: एवं भवतु; त्वयैव संरक्ष्या इति; तेन गृहे स्थापिता; सा अष्टानां वा नवानां वा मासानामत्ययात्प्रसूता; दारको जातः; तस्मिन्नेव दिवसे कैवर्ती प्रसूता; तस्या दारिका जाता; स जातमात्र एव कैवर्तीं धनेन प्रलोभ्य परिवर्तितः; गोनिषादेन राज्ञो निवेदितं: देव धर्मा प्रसूता; दारिका जाता इति; राजा कथयति: शोभनं; मुक्ताः स्मः इति; स दारकः कैवर्त्या आपायितः पोषितः संवर्धितः महान् संवृत्तः; लिप्यक्षराणि पाठितः; काव्यं कर्तुमारब्धः; तस्य कविः कैवर्तदारकः कविः कैवर्तदारकः इति संज्ञा संवृत्ता; गोनिषादेन धर्मायाः समाख्यातं: पुत्रस्ते काव्यकर्ता संवृत्तः इति; सा कथयति: पश्यामि तावत्कीदृशः इति; स कथयति: अलं; किं तेन दृष्टेन इति; सा कथयति: पुत्राभिलाषिणी आकांक्षत्येव दर्शनं नावतिष्ठते इति; तस्या गोनिषादेन अवश्यनिर्बन्धं ज्ञात्वा उपायसंविधानेन मत्स्यां कृत्वा प्रवेशितः; स प्रविशन्नेव नैमित्तिकैर्व्याकृतः: (अ ४९० ) एष कविः कैवर्तदारको राजानं जीविताद्व्यपरोप्य, स्वयमेव पट्टां बध्वा राज्यं कारयिष्यति इति; राज्ञा श्रुतं; तेनामात्यानामाज्ञा दत्ता: गृह्णीत यथा न परिभ्रश्यते इति; तेन कर्णपरम्परया श्रुतं; स इतश्चामुतश्च निष्पलायमानो वृद्धयुवत्या गृहं प्रविष्टः; स तया गोपायितः; ततो हरिद्रतैलेन गात्राणि म्रक्षयित्वा मंचे आरोप्य मृत इति कृत्वा निष्कासितः; स च श्मशाने छोरितः; उत्थाय निष्पलायितः; तस्मिन् प्रदेशे अन्यतमः पुरुषः पुष्पफलानि पर्येषते; तेनासौ निष्पलायमानो दृष्टः; तस्य पृष्ठतश्चारकपुरुषाः प्रधाविताः; तैरसौ पुरुषः पृष्टः: भो (इ १८१) पुरुष न त्वया ईदृशः प्रमाणेन वर्णेन च अनेन पथा गच्छन् कश्चिन्मनुष्यो दृष्टः? स कथयति: दृष्टः; अनेन पथा गच्छत इति; ते तस्य पृष्ठतोऽनुबद्धाः; सोऽन्यतमस्मिन् कर्वटके रजकस्य गृहं प्रविष्टः; तस्य च यथावृत्तमारोचितं; चारकपुरुषैः कर्वटको विचारयितुमारब्धः; रजकेन वस्त्रवरण्डेन वेष्टयित्वा गर्दभे आरोप्य कर्वटकान्निष्कासितः; स्नानशालायां नित्वा मुक्तः; उत्थाय चतुर्दिशं व्यवलोक्य निष्पलायितः; तत्राप्यन्यतरेण पुरुषेण दृष्टः; तेन चारकपुरुषाणां निवेदितं; भवन्तो यदर्थं यूयं कर्वटकं प्रत्यवेक्षथ, असौ पुरुषः अनेन पथा गतः; गच्छत शीघ्रमिति; ते संप्रस्थिताः; सोऽप्यपरस्मिन् ग्रामे चर्मकारगृहं प्रविष्टः; तस्य तेन यथावृत्तमारोचितं; स कथयति: पृष्ठतो मुखे उपानहौ कुरु इति; स कथयति: न मया कदाचिदेवंरूपा उपानहा कृतपूर्वा; स गाथां भाषते नानामतयो ह्यनेकरूपास् तुलितास्ते तुलया हि नैकयापि । वनवं कुरु चर्मकार मे त्वं यत्पृष्ठं तदिह ममाग्रतः कुरुष्व ॥ इति तेनासौ चर्मकारः शिक्षितः; चर्मकारेण तादृश्यौ उपानहौ कृते; कुड्यपरिक्षिप्तोऽसौ कर्वटकः; स तेन उपानहौ प्रावृत्य उपच्छिद्रेण निष्पलायितः; चारकपुरुषाः उपानहा अनुसृत्य कर्वटकमन्वाहिण्डन्ते; सोऽपि निष्पलायमानः उदकं प्रविष्टः, नागैर्नागभवनं प्रवेशितः; राज्ञा श्रवपरम्परया श्रुतं यथा असौ नागैर्नागभवनं प्रवेशितः इति; राज्ञा अमात्यानामाज्ञा दत्ता: भवन्तो ये मद्विषयनिवासिनः आहितुण्डिकाः, ते सर्वे मत्सकाशे आनेयाः इति; तैः सर्वे विषयनिवासिनः आहितुण्डिकाः राज्ञः उपनीताः; राज्ञा तेषामाज्ञा दत्ता: भवन्तो गच्छत; अमुष्मिन्नागभवने नागमुद्धरत इति; एवं देवेति सर्वे आहितुण्डिकाः राज्ञः प्रतिश्रुत्य तन्नागभवनं गताः; अन्यतरस्यां चाटव्यां पिङ्गलो नाम यक्षो मांसरुधिरभक्षः; तस्य भयात्श्वापदा अपि तमटवीं परित्यजन्ति; किमुत मनुष्याः सा पिङ्गलाटवीति प्रकाशा (इ १८२) संवृत्ता; आहितुण्डिकेन स नागस्तथा मन्त्रबलाधानादुपद्रुतो यथा (अ ४९१ ) सन्त्रस्तः पिङ्गलाटव्यां छोरितो न शक्तस्तामतिक्रामयितुं; नागाः संजल्पं कुर्वन्ति: न शोभनमस्माभिः कृतं यदसौ पिङ्गलाटवीं नातिक्रामितः; सोऽपि पिङ्गलेन यक्षेण प्रघात्यते; वयं च तदर्थमभिद्रुताः; कथमत्र प्रतिपत्तव्यमिति; स नागराजः कथयति: एतमर्थमाहितुण्डिकानां निवेदयामः इति; तैराहितुण्डिकानां समाख्यातं: भवन्तो यदर्थं वयमाकुलीक्रियामहे, सोऽस्माभिरर्थतः प्रघातित एव, यत्पिङ्गलाटव्यां समुत्सृष्टः इति; आहितुण्डिकैः राज्ञ एतत्प्रकरणं समाख्यातं; राजा कथयति: यद्यप्येवं तथापि समन्वेष्यतामिति; स पिङ्गलाटव्यामितश्चामुतश्च परिभ्रमितुमारब्धः; पिङ्गलश्च यक्षः अन्यतमस्मिन् प्रदेशे कुक्कुरैः परिवृतस्तिष्ठति; तेनासौ कुक्कुरैश्च दूरत एव दृष्टः; स संलक्षयति: किं ममानेन मृतप्रवृत्तिः श्रुता? येनायमत्र प्रविष्ट इति; तेन तस्य कुक्कुरा उत्सृष्टाः; स निष्पलायमानो वृक्षमभिरूढः; कुक्कुराः पिङ्गलश्च वृक्षस्याधस्ताद्व्यवस्थिताः; पिङ्गलः कथयति: भोः पुरुष न त्वया श्रुतं पिङ्गलाटव्यां पिङ्गलो नाम अमनुष्यकः प्रतिवसति; यस्तत्र प्रविशति स तं प्रघातयति इति; प्राप्तस्ते कालः; अवतर इति; स कथयति: यावज्जीवामि तावत्तिष्ठामि इति; पिङ्गलयक्षः अवसक्तिकां बध्वा निर्बन्धेनावस्थितः; स प्रचालयितुमारब्धः; तेन तस्योपरि वस्त्रं क्षिप्तं; कुक्कुराः संलक्षयन्ति: स एवायं मनुष्यः पतितः इति; ते पिङ्गलं यक्षं भक्षयित्वा प्रक्रान्ताः; स वृक्षात्शनैरवतीर्य प्रक्रान्तः तेन तेनान्वाहिण्डन्; स संलक्षयति: मम मातुलः ऋषीणां मध्ये प्रव्रजितः; तस्य सकाशं गच्छामि इति; तस्य च ऋषेर् अन्यतमस्मिन् पर्वते उद्यानं मूलपुष्पफलसलिलसंपन्नं विविधतरुषण्डमण्डितं नानाविहगनिकूजितं; सोऽनुपूर्वेण श्रवपरम्परया तस्य रिषेः सकाशमुपसंक्रान्तः; ज्ञातिसम्बन्धमाख्यायावस्थितः; तत्रापि चारकपुरुषैः समन्विष्टः; ते तं ग्रहीतुमारब्धाः; तेन पर्वतप्रपातादात्मा मुक्तः; स पतन्नन्यतमेन पुरुषेण शिखायां गृहीताः; शिखा उत्पटिता; स पतितः; ते संलक्षयन्ति: मृतोऽयं; गच्छामः इति ते शिखामादाय राज्ञः सकाशं गताः कथयन्ति: (इ १८३) देव प्रघातितोऽसौ कविः; इयमस्य शिखा इति; राजा परितुष्टः; तेन ते भोगैः संविभक्ताः; अथ या देवता ऋषेरुद्याननिवासिनी, तया तस्य रिषेः समाख्यातं: भागिनेयस्ते कृच्छ्रसङ्कटसंबाधप्राप्तः; न समन्वाहरस्? इति; स कथयति: यदि मया न समन्वाहृतोऽभवियत्प्राणैर्वियुक्तः अभविष्यदिति; स ऋषिर्विद्यामन्त्रधारी; ईदृशीं विद्यां जानीते यया पुरुषः स्त्री भवति स्त्री पुरुषो भवति; स तेन तां विद्यां ग्राहितः; उक्तश्च: गच्छेदानीम्; अकुतोभयो विहर इति; सोऽन्यं प्रतिरूपं स्त्रीवेषं (अ ४९१ ) विद्यया अभिनिर्माय वाराणसीं गत्वा राजकीये उद्याने स्थितः; उद्यानपालैर्दृष्टः; परं विस्मयमुपगताः; तैर्लघु लघ्वेव गत्वा सूर्यनेमिनो राज्ञः समाख्यातं: देव एवंरूपयौवनसंपन्ना स्त्री उद्याने तिष्ठति इति; तेनाज्ञा दत्ता आनीयतामिति; सा महता श्रीसमुदायेन राजकुलं प्रवेशिता; राजा सूर्यनेमिस्तया सार्धमतीव संरक्तः; ततस्तया अवसरं ज्ञात्वा रहसि स्थितो जीविताद्व्यपरोपितः; पुनश्च विद्यां परिवर्त्य पुरुषः संवृत्तः; ततः स्वयमेव पट्टं बध्वा गोनिषादस्यामात्यस्य निवेद्य राज्ये प्रतिष्ठितः; देवता गाथां भाषते नासौ हतो यय शिरो न छिन्नं भूयस्स उत्थाय करोति कर्म । स वै हतो शब्दहतेन तेन कविना यथा सर्जरस्य पुत्रः ॥ इति किं मन्यध्वे भिक्षवो योऽसौ सूर्यनेमी राजा सर्जरस्य राज्ञः पुत्रः एष एव स देवदत्तः तेन कालेन तेन समयेन; योऽसौ कविः कैवर्तदारकः अहमेव सः तेन कालेन तेन समयेन; तदाप्येष मम वैरप्रसक्तः; एतर्ह्यप्येष मम वैरप्रसक्तः; भूयोऽपि यथैष मम वैरानुबद्धस्तच्छ्रूयताम् ______________________________________________________________ थे स्तोर्योf थे त्wओ जेwएल्लेर्स् (चोन्चेर्निन्ग प्रेविओउस्बिर्थोf थे बुद्ध अन्दोf देवदत्त) भूतपूर्वं भिक्षवः अन्यतमस्मिन् कर्वटके द्वौ मणिकारौ प्रतिवसतः; तयोः रथ्या विभक्ता गृहं च; तेन खलु समयेन अन्यतमः परिक्षीणविभवो वणिक्; स मणिभाजनमादाय तं कर्वटकमनुप्राप्तः; ततो मार्गश्रमं प्रतिविनोद्य एकस्य मणिकारस्य सकाशमुपसंक्रान्तः कथयति: इदं मणिभाज्नमर्घं कुरुष्व इति; तेन स्वल्पं मूल्यं कृतं; स कथयति: किमेवं कथयसि? यद्यपि अहं भोगेभ्यः परिभ्रष्टः न तु प्रज्ञया; जानाम्यहमेवास्य मूल्यमिति; स तस्य सकाशम् (इ १८४) उपसंक्रम्य द्वितीयस्य सकाशमुपसंक्रान्तः कथयति: इदं मणिभाजनं; मूल्यमस्य कुरुष्व इति; तेन तस्य पुष्कलं मूल्यं कृतं; स परितुष्टः कथयति: गृहाणा, देहि मूल्यमिति; स कथयति: नास्ति मे एतावन्मूल्यमिति; स कथयति: यदस्ति तदनुप्रयच्छ इति; तेन गृहीतं; तेनान्येन मणिकारेण श्रुतं; स संजातामर्षस्तस्य सकाशमुपसंक्रान्तः; मयैतत्पूर्वं गृहं नीतं; मया चास्य मूल्यं कृतं; त्वं कस्माद्गृह्णीषे? इति; तयोः परस्परं वैरूक्ष्यमुत्पन्नम् किं मन्यध्वे भिक्षवो योऽसौ मणिकारः येन मणिभाजनस्य स्वल्पं मूल्यं कृतमेष एव स देवदत्तः तेन कालेन तेन समयेन; योऽसौ द्वितीयो मणिकारः येन पुष्कलं मूल्यं कृतमहमेव सः तेन कालेन तेन समयेन; तदाप्यावयोः परस्परं वैरूक्ष्यमुत्पन्नं; पुनरपि यथा वयोः वैरूक्ष्यमुत्पन्नं; तच्छ्रूयताम् ______________________________________________________________ थे स्तोर्योf थे एल्देर्सोनोf अ गृहपति (चोन्चेर्निन्ग प्रेविओउस्बिर्थोf थे बुद्ध अन्द्देवदत्त) भूतपूर्वं भिक्षवः अन्यतमस्मिन् कर्वटके गृहपतिः प्रतिवसति; तेन सदृशात्कुलात्कलत्रमानीतं; स तया सार्धं क्रीडति रमते परिचारयति; तस्य क्रीडतो रममाणस्य परिचारयतः (अ ४९२ ) कालान्तरेण पत्नी आपन्नसत्वा संवृत्ता; सा अष्टानां वा नवानां वा मासानामत्ययात्प्रसूता; दारको जातः; सा अस्य पत्नी कालगता; स संलक्षयति: दारकं कः सम्वर्धयिष्यति? अन्यामानयामि इति; तेनान्या आनीता; स तया सार्धं क्रीडति रमते परिचारयति; तस्या अपि पुत्रो जातः; सापि कालगता; स गृहपतिः संलक्षयति: यद्यन्यामानयामि, सापि कालं करिष्यति; ज्येष्ठस्य पुत्रस्य निवेशनं करोमि इति; तेन ज्येष्ठस्य पुत्रस्य निवेशः कृतः; तस्य बहवः पुत्रा दुहितरश्च जाताः; सा तस्य भार्या कथयति: आर्यपुत्र एष दारकस्तव को भवति? इति: स कथयति: कनीयान् भ्राता; सा कथयति: आर्य तव बहवः पुत्राः; अयमेकः; एषां चास्य च तुल्यो गृहभोगो देयः; स कथयति: भद्रे एष लोकधर्मः इति; सा कथयति: यद्येवं प्रघातय एनमिति; कामान् खलु प्रतिसेवमानस्य नास्ति किंचित्पापकं कर्म अकरणीयमिति स पुष्पफलव्याजेन अटवीं नीत्वा प्रघातितः; (इ १८५) किं मन्यध्वे भिक्षवो योऽसौ ज्येष्ठो गृहपतिपुत्रः एष एव स देवदत्तः तेन कालेन तेन समयेन; योऽसौ कनीयानहमेव सः तेन कालेन तेन समयेन; तदाप्यनेन ममान्तिके वैरूक्ष्यमुत्पादितः; एतर्ह्यप्यनेन वैरूक्ष्यमुत्पादितः; यथा पुनरप्यावयोर्वैरूक्ष्यमुत्पन्नं; तच्छ्रूयताम् ______________________________________________________________ थे स्तोर्योf अ गिर्लन्दनस्त्रोलोगेर् (चोन्चेर्निन्ग प्रेविओउस्बिर्थोf थे बुद्ध अन्द्देवदत्त) भूतपूर्वं भिक्षवः अन्यतमस्मिन् कर्वटके ब्राह्मणः प्रतिवसति; तेन सदृशात्कुलात्कलत्रमानीतं; स तया सार्धं क्रीडति रमते परिचारयति; तस्य क्रीडतो रममाणस्य परिचारयतः पत्नी आपन्नसत्वा संवृत्ता; सा अष्टानां वा नवानां वा मासानामत्ययात्प्रसूता; दारिका जाता अभिरूपा दर्शनीया प्रासादिका; स ब्राह्मणः संलक्षयति: यो ममाद्य गृहं ब्राह्मणो भिक्षार्थी प्रविशति, तस्यैनां कन्याभिक्षां प्रयच्छामि इति; यावदन्यतमो माणवः भिक्षार्थी तस्य गृहं प्रविष्टः: स्वस्ति भिक्षां प्रयच्छ इति; तेन ब्राह्मणेनाहूयोक्तः: माणव इयं मम दुहिता; मया कन्याभिक्षा तुभ्यं दत्ता इति; स कथयति: नाद्य प्रतिगृह्णामि; दिवसमुहूर्तेन प्रतिग्रहिष्यामि इति; स प्रक्रान्तः; यावदन्यतमो माणवो भिक्षार्थी तस्य गृहं प्रविष्टः: स्वस्ति भिक्षां प्रयच्छ इति; स तेन ब्राह्मणेनाहूयोक्तः: माणव इयं मम दुहिता; मया कन्याभिक्षा तुभ्यं दत्ता इति; स कथयति: अपरोऽत्र माणवः भिक्षार्थी प्रविष्टः; तस्मै किमर्थं न दत्ता इति; स कथयति: यद्ब्रूते नक्षत्रमशोभनमिति; स कथयति: यद्येवं प्रतीष्टा भवतु इति; ब्राह्मणः कथयति: त्वं पुनः किमर्थं नक्षत्रं न पश्यति? इति; स गाथां भाषते नक्षत्रं भद्रकं सर्वं सर्वे कल्याणका दिनाः । समुत्पन्नेषु कार्येषु सर्वमेतत्प्रदक्षिणम् ॥ हापयन्ति नरा ह्यर्थं नक्षत्रगणनापराः । अर्थो ह्यर्थस्य नक्षत्रं किं कार्यं ज्योतिभिः पुनः ॥ स प्रतिगृहीत्वा प्रक्रान्तः (अ ४९२ ) तेनान्येन माणवेन श्रुतं सा ब्राःमणकन्या अनेन माणवेन प्रतीष्टा इति; स तस्य सकाशं गतः (इ १८६) कथयति: माणवकः सा कन्या किमर्थं त्वया प्रतीष्टा? मया पूर्वलब्धा इति; स कथयति: त्वं नक्षत्रगणनापरः; नक्षत्रं तावत्परीक्ष; मम तु शोभनं नक्षत्रमिति; स रुषितः किं मन्यध्वे भिक्षवो योऽसौ पूर्वमाणवः एष एव स देवदत्तः तेन कालेन तेन समयेन; योऽसौ पश्चिमको माणवः अहमेव स तेन कालेन तेन समयेन; तदाप्यस्य ममान्तिके वैरूक्ष्यमुत्पन्नं; एत्र्ह्यप्यस्य ममान्तिके वैरूक्ष्यमुत्पन्नं ______________________________________________________________ थे वेर्य्fएरोचिओउसेलेफन्तोf आजातशत्रु, धनपालक ब्य्नमे बुद्धो भगवान् राजगृहे विहरति वेणुवने कलन्दकनिवापे; तेन खलु समयेन योऽसौ राज्ञः अजातशत्रोः धनपालको नाम दुष्टनागः प्रतिदिनमावासान्निष्क्राम्यमाणो महाजनविप्रघातं करोति; राजगृहनिवासिना जनकायेन राजा अजातशत्रुर्विज्ञप्तः: देव धनपालको दुष्टनागः प्रतिदिनमावासान्निष्क्राम्यमाणो रथ्यावीथीचत्वरशृङ्गाटकेषु महाजनविप्रघातं करोति; तदर्हति देवः हस्तिदमकानामाज्ञां दातुं यथा न प्रतिदिनं निष्कासयन्ति; श्वो निष्क्राम्यते इति च घण्टावघोषणं कारयितुमिति; राजा कथयति एवं भवतु; गच्छत इति; राज्ञा अमात्यानामाज्ञा दत्ता: आहूयन्तां भवन्तो हस्तिदमकाः इति; तैर्हस्तिदमका आहूताः; राजा कथयति: भवन्तो राजगृहनिवासिना जनकायेन अभिहितोऽस्मि धनपालको दुष्टनागः प्रतिदिनमावासान्निष्क्राम्यमाणो रथ्यावीथीचत्वरशृङ्गाटकेषु महाजनविप्रघातं करोति; तदर्हति देवः हस्तिदमकानामाज्ञां दातुं यथा न प्रतिदिनं निष्कासयन्ति; श्वो निष्क्राम्यते इति च घण्टावघोषणं कारयितुमिति; तद्युष्माभिर्न प्रतिदिनं निष्क्रामयितव्यः; श्वो निष्क्राम्यते इति च घण्टावघोषणं कारयितव्यमिति; हस्तिदमकाः राज्ञः अजातशत्रोः प्रतिश्रुत्य पादयोर्निपत्य प्रक्रान्ताः (इ १८७) ______________________________________________________________ देवदत्तऽसत्तेम्प्त्तो किल्ल्थे बुद्ध ब्य्मेअन्सोf थे एलेफन्त्धनपालक राजगृहे चान्यतरो गृहपतिः आढ्यो महाधनो महाभोगः; तेन बुद्धप्रमुखो भिक्षुसंघः श्वोऽन्तर्गृहे भक्तेन उपनिमन्त्रितः; देवदत्तेन श्रुतं यथा अमुकेन गृहपतिना बुद्धप्रमुको भिक्षुसंघः श्वोऽन्तर्गृहे भक्तेनोपनिमन्त्रितः इति; तेन हस्तिदमकस्य शतसहस्रो मुक्ताहारो दत्तः; उक्तश्च: अमुकेन गृहपतिना श्रमणो गौतमः सश्रावकसंघः श्वोऽन्तर्गृहे भक्तेन उपनिमन्त्रितः; तत्त्वया धनपालको हस्तिनागः उत्स्रष्टव्यः इति; स कथयति: आर्य एवं भवतु; किंतु यथा वा तथा वा देवमवलोकय इति; ततो देवदत्तो येन राजा अजातशत्रुस्तेनोपसंक्रान्तः; उपसंक्रम्य राजानमजातशत्रुमिदमवोचत्: शक्तस्त्वं मां बुद्धत्वे न प्रतिष्ठापयितुम्; (अ ४९३ ) अपि तु त्वं पितरं जीविताद्व्यपरोप्य राज्ये प्रतिष्ठपितः; अहमपि श्रमणं गौतमं प्रघात्य सर्वज्ञत्वं करोमि; धनपालं हस्तिनागमुत्सृज इति; अजातशत्रुः कथयति: न त्वया श्रुतम्? अदान्तदमका बुद्धा भगवन्तः इति; स कथयति: यद्यदान्तदमकाः स्युः अहमेव तावदनेन दान्तः स्यामिति; स तं यथा वा तथा वा अवलोक्य हस्तिदमकानां सकाशमुपसंक्रम्य कथयति: निवेदितं मया देवस्य; तद्युष्माभिः श्वो धनपालको हस्तिनागः उत्स्रष्टव्यः इति; ततो हस्तिदमकैः राजगृहे घण्टावघोषणं कारितं: शृण्वन्तु भवन्तो राजगृहनिवासिनः पौराः, श्वो हस्तिनागो मुच्यते; तद्युष्माभिः श्वः सर्वप्रयत्नेन आत्मरक्षा कर्तव्या इति; गृहपतिः श्रुत्वा चिन्तापरो व्यवस्थितः: ईदृशोऽहं मन्दभाग्यः; मया बुद्धप्रमुखो भिक्षुसंघः श्वोऽन्तर्गृहे भक्तेनोपनिमन्त्रितः; धनपालकश्च दुष्टनागः श्वो मुच्यते; कथं मया बुद्धप्रमुखो भिक्षुसंघः भोजयितव्यः इति; पुनः संलक्षयति: साधयामि पाकं; तत्रैव नीत्वा भगवन्तं भोजयामि इति; स शुचि प्रणीतं खादनीयभोजनीयं साधयित्वा काल्यमेवोत्थाय भगवतः सकाशं गतः: भगवन् राजगृहे घण्टावघोषणं श्वो धनपालको हस्तिनागो मुच्यते; युष्माभिः शक्तितः आत्मरक्षा कर्तव्या इति; तद्भगवता राजगृहं न प्रवेष्टव्यम्; अहमिहैव अन्नपानमानयामि इति; भगवान् कथयति: अल्पोत्सुकस्त्वं गृहपते भव; अन्नपानं सज्जीकुरु; विगतं तथागतस्य नागभयं; प्रविशाम्यहं सश्रावकसंघः इति; ततोऽसौ गृहपतिरात्तमनात्तमनाः स्वगृहं गतः; अन्नपानं (इ १८८) समन्वाहृत्य आसनादि प्रज्ञप्य भगवन्तमुदीक्षमाणः अवस्थितः; अथ भगवान् पूर्वाह्णे निवास्य पात्रचीवरमादाय पंचभिर्भिक्षुशतैः सार्धं राजगृहं प्रविष्टः; धनपालको हस्तिनागः उत्सृष्टः; अद्राक्षीद्धनपालको हस्तिनागो भगवन्तं दूरादेव; दृष्ट्वा च पुनर्भ्रूकुटिं कृत्वा नादं च मुक्त्वा येन भगवांस्तेन सबलमाजवेन प्राधावत् अथ देवदत्तः अजातशत्रुसहीयः अपरिप्रासादमभिरुह्य अवस्थितः; पश्यामि श्रमणं गोतमं प्रघात्यमानमिति; ततो देवदत्तः भगवन्तं दृष्ट्वा हृष्टतुष्टप्रमुदितः उच्चैर्गाथामुवाच द्विपंचबल पश्यामि त्वां नागबलमर्दितम् । सश्रावकश्शाक्यसुत त्वमद्य न भविष्यसि ॥ इति भगवानाह: नीचोऽसि देवदत्त; प्रवादं त्वं प्रवदसि दशबलबलिनं मामगणयित्वा; पश्येदानीं तु बलं दशबलबलिनः अद्भुतस्य इति; ततो भगवता दक्षिणे करतले पंच सिंहाः केसरिणः पट्टधारिणो निर्मिताः; स तेषां गन्धं घ्रात्वा मूत्रपुरिषमुत्सृजन्निष्पलायितुमारब्धः; भगवता सर्वा दिशः आदीप्ताः प्रदीप्ताः संप्रज्वलिताः एकज्वालीभूता अधिमुक्ताः स्थापयित्वा (अ ४९३ ) स्वकमेव पादमूलं शान्तं शीतीभूतमधिष्ठितं; ततो धनपालको हस्तिनागः इतश्चामुतश्च प्रधावन् सर्वमादिप्तं पश्यति; नान्यत्र भगवतः पादमूलं शीतीभूत्ं; धनपालकप्रकोपं दृष्ट्वा सर्वे भिक्षवो निष्पलायिताः स्थापयित्वा आयुष्मन्तमानन्दं; ततो धनपालको विगतमदवेगो मन्दगतिप्रचारतया भगवत्सकाशमुपसंक्रान्तः; स भगवता चक्रस्वस्तिकनन्द्यावर्तेन अनेकपुण्यशतनिर्जातेन भीतानामाश्वासनकरेण करेण शिरसि परामृष्टः; गाथा च भाषिता मा कुञ्जर विहेठय नागम् दुःखं कुञ्जर विहेठनमस्य । (इ १८९) नो नागहतस्य परस्मिन् भद्रा हि नाग गतिर्भवति ॥ इति+ ______________________________________________________________ थे एलेफन्त्धनपालक fओल्लोwस्सुब्मिस्सिवेल्य्थे बुद्ध, दिएसोf ग्रिएf अन्दिस्रेबोर्निन् थे हेअवेनोf थे fओउर्ग्रेअत्किन्ग्स् त्वं तावद्भद्रमुख पूर्वकेण दुश्चरितेन प्रत्यवरायां तिर्यग्योनावुत्पन्नः; स त्वमेतर्हि परप्राणहरः परप्राणोपरोधेन परितुष्यसि; इतश्च्युतस्य ते का गतिर्भविष्यसि? का उपपत्तिः कोऽभिसंपरायः इति हि भद्रमुख सर्वसंस्कारा अनित्याः; सर्वधर्माः अनात्मानः; शान्तं निर्वाणं; ममान्तिके चित्तमभिप्रसाद्य अद्यैव तिर्यग्योनिं विरागयिष्यसि; इत्युक्त्वा येन तस्य गृहपतेर्निवेशनं तेनोपसंक्रान्तः; उपसंक्रम्य प्रज्ञप्त एवासने निषण्णः; धनपालकोऽपि भगवन्तं पृष्ठतः पृष्ठतः समनुबद्धः; भगवान् प्रविष्टः; स द्वारमूले स्थितः; भगवन्तमपश्यन् गृहं भङ्क्तुमारब्धः; भगवता तद्गृहं स्फटिकमयं निर्मितं यत्रानावृतं बुद्धबिम्बं पश्यति; स भगव्नतं दृष्ट्वा न भङ्क्तुमारब्धः; भगवान् सश्रावकसंघः भुक्त्वा दक्षिणादेशनां कृत्वा प्रक्रान्तः; स भगवतः पृष्ठतोऽनुबद्ध एव; एतत्प्रकरणममात्यैः राज्ञो निवेदितम्:; अजातशत्रुणा देवदत्तोऽभिहितः: त्वया मम अनर्थः कृतः; तं हस्तिनमागम्य सीमान्तरा राजानः मां नाभिद्रवन्ति; सोऽपि त्वया विमदीकृतः इति; स तूष्णीमवस्थितः; राज्ञा अमात्यानामाज्ञा दत्ता; यदा भगवान्निर्गतो भवति तदा भवद्भिर्धनपालः हस्तिनागो द्वारं बध्वा स्थापयितव्यः यथा भगवतः पृष्ठतः न निर्गच्छति इति; अमात्यै अपि हस्तिदमकानामाज्ञा दत्ता धनपालकं हस्तिनागं द्वारं बध्वा स्थापयत यथा भगवतः पृष्ठतो न निर्गच्छति इति; स भगवन्तमपश्यन् पादेन शुण्डामवष्टभ्य कालगतः; चातुर्महाराजिकेषु देवेषूपपन्नः; धर्मता खलु देवपुत्रस्य वा देवकन्याया वा अचिरोपपन्नस्य त्रीणि चित्तान्युत्पद्यन्ते: कुतश्च्युतः कुत्रोपपन्नः केन कर्मणा इति; स पश्यति नागेभ्यश्(इ १९०) च्युतः; प्रणीतेषु चातुर्महाराजिकेषु देवेषूपपन्नः; भगवतोऽन्तिके चित्तमभिप्रसाद्य इति अथ नागपूर्विणो देवपुत्रस्यैतद्बहवत्: न मम प्रतिरूपं स्याद्यदहं पर्युषितपरिवास एव भगवन्तं दर्शनाय उपसंक्रमेयं; यन्न्वहमपर्युषितपरिवास एव भगवन्तं दर्शनायोपसंक्रमेयमिति; अथ (अ ४९४ ) नागपूर्वी देवपुत्रश्चलविमलकुण्डलधरो हारार्धहारविभूषितगात्रः तामेव रात्रिं दिव्यानामुत्पलपद्मकुमुदपुण्डरीकमान्दारकाणां पुष्पाणामुत्संगं पूरयित्वा सर्वं वेणुवनं कलन्दकनिवापमुदारेणावभासेनावभास्य भगवतं पुष्पैरवकीर्य भगवतः पुरस्तान्निषण्णो धर्मश्रवणाय; ततः अस्य भगवता आशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशी धर्मदेशना कृता यां श्रुत्वा नागपूर्विणा देवपुत्रेण विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्वा स्रोतआपत्तिफलं साक्षात्कृतं; स दृष्टसत्यस्त्रिरुदानमुदानयति: इदमस्माकं भदन्त न मात्रा कृतं न पित्रा कृतं; न देवताभिः; नेष्टेन स्वजनबन्धुवर्गेण; न पूर्वप्रेतैर्न श्रमणब्राह्मणैः यद्भगवता अस्माकं कृतम्; उच्छोषिता रुधिराश्रुसमुद्राः; लंघिता अस्थिपर्वताः पिहितान्यपायद्वाराणि विवृतानि स्वर्गमोक्षद्वाराणि; प्रतिष्ठापिताः स्मो देवमनुष्येषु आह च तवानुभावात्पिहितस्सुघोरो ह्यपायमार्गो बहुदोषयुक्तः । अपावृता स्वर्गगतिः सुपुण्य निर्वाणमार्गश्च मयोपलब्धः ॥ त्वदाश्रयाच्चाप्तमपेतदोषं मयाद्य शुद्धं सुविशुद्धचक्षुः । प्राप्तं च शान्तं पदमार्यकान्तं तीर्णश्च दुःखार्णवपारमस्मि ॥ जगति दैत्यनरामरपूजितं विगतजन्मजरामरणामयम् । भवसहस्रसुदुर्लभदर्शनं सफलमद्य मुने तव दर्शनम्* ॥ अवनम्य ततः प्रलम्बहारः चरणौ द्वावभिवन्द्य जातहर्षः । (इ १९१) परिगम्य च दक्षिणं जितारिं सुरलोकाभिमुखो दिवं जगाम ॥ अथ नागपूर्वी देवपुत्रो वणिगिव लब्धलाभः सस्यसंपन्न इव कार्षकः शूर इव जितसंग्रामः सर्वरोगपरिमुक्त इवातुरो यया विभूत्या भगवत्सकाशमुपसंक्रान्तः तयैव विभूत्या स्वभवनं गतः भिक्षवः पूर्वरात्रापररात्रं जागरिकानुयोगमनुयुक्ता विहरन्ति; तैर्दृष्टो भगवतोऽन्तिके उदारोऽवभासः; यं दृष्ट्वा भगवन्तं पप्रच्छुः: किं भगवनिमां रात्रिं भगवन्तं दर्शनाय ब्रह्मा सभांपतिः शक्रो देवेन्द्रः चत्वारो लोकपाला उपसंक्रान्ताः भगवानाह: न भिक्षवो ब्रह्मा सभांपतिः न शक्रो देवानामिन्द्रः नापि चत्वारो लोकपालाः मां दर्शनायोपसंक्रान्ताः; अपि तु युष्माभिर्भिक्षवः स धनपालो हस्तिनागः, तावच्चण्डः तावद्रभसो यस्तथागतस्य वधाय पराक्रान्तः दृष्टो भदन्त: मया विनीतः स ममान्तिके चित्तमभिप्रसाद्य कालगतः चातुर्महाराजिजेषु देवेषूपपन्नः; स इमां रात्रिं मत्सकाशमुपसंक्रान्तः; तस्य मया धर्मो देशितः; स दृष्टसत्यः स्वभवनं गतः इति भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: किं भदन्त धनपालकेन कर्म कृतं (अ ४९४ ) यस्य कर्मणो विपाकेन तिर्यक्षूपपन्नः; किं कर्म कृतं येन चातुर्महाराजिकेषु देवेषूपपन्नः सत्यदर्शनं च कृतमिति; भगवानाह: धनपालकेनैव हि भिक्षवः कर्माणि कृतान्युपचितानि लब्धसंभाराणि परिणतप्रत्ययान्योघवत्प्रत्युपस्थितान्यवश्यभावीनि; धनपालेन कर्माणि कृतान्युपचितानि कोऽन्यः प्रत्यनुभविष्यति? न भिक्षवः कर्माणि कृतान्युपचितानि पूर्ववद्यावत्फलन्ति खलु देहिनाम् ______________________________________________________________ धनपालक इन प्रेविओउस्बिर्थ् भूतपूर्वं भिक्षवः अस्मिन्नेव भद्रके कल्पे विंशतिवर्षसहस्रायुषि प्रजायां काश्यपो नाम शास्ता लोक उदपादि, विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्; स वाराणसीं नगरीमुपनिश्रित्य विहरति ऋषिवदने मृगदावे; तस्य च शासने प्रव्रजित आसीद्वैयापृत्यकरह्; तत्रानेन क्षुद्रानुक्षुद्रेषु शिक्षापदेषु अनादरः (इ १९२) कृतः; तस्य कर्मणो विपाकेन तिर्यक्षूपपन्नः; यत्तत्रानेन संघस्य उपस्थानं कृतं तस्य कर्मणो विपाकेन अन्नपानस्य लाभी संवृत्तः; यन्ममान्तिके चित्तमभिप्रसाद्य कालगतः तेन चातुर्महाराजिकेषु देवेषूपपन्नः; यत्काश्यपे सम्यक्संबुद्धे प्रव्रजितेन पठितं स्वाध्यायितं स्कन्धकौशलं धातुकौशलमायतनकौशलं प्रतीत्यसमुत्पादकौशलं स्थानास्थानकौशलं च कृतं तेन देवभूतेन ममान्तिके सत्यदर्शनं कृतम्; इति हि भिक्षवः एकान्तकृष्णानां कर्मणां पूर्ववद्यावदेकान्तशुक्लेष्वेव कर्मस्वाभोगः करणीयः इत्येवं वो भिक्षवः शिक्षितव्यम् उद्दानम् हंश अट्टोऽथोत्सृष्टो मृगः पूतिश्च मर्कटो गजः बिदालो बलिवर्दः चन्द्रपाषाणः हस्ति सृगालो ब्राह्मणेन् च भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: पश्य भदन्त भगवान् पंचभिर्भिक्षुशतैः परित्यक्तः; आयुष्मता आनन्देन न परित्यक्तः; भगवानाह: न भिक्षव एतर्हि; यथा अतीतेऽप्यध्वन्यभिः परित्यक्तः; आनन्देन न परित्यक्तः; तच्छ्रूयताम् ______________________________________________________________ थे स्तोर्योf थे किन्ग्धृतराष्ट्र, अन्धिस्fऐथ्fउल्चप्तैन् पूर्णमुख, एत्च्. (चोन्चेर्निन्ग प्रेविओउस्बिर्थोf आनन्द, एत्च्.) भूतपूर्वं भिक्षवोऽनवतप्ते महासरसि धृतराष्ट्रो नाम हंसाधिपतिर्बभूव; तस्य द्वौ पुत्रौ पूर्णश्च पूर्णमुखश्च; पूर्णो ज्येष्ठः पूर्णमुखः कनियान्; ततो पूर्णश्चण्डो (इ १९३) रभसः कर्कशः; नित्यमेव हंसान् भर्त्सयति; केषांचित्पक्षानुत्पाटयति; केषांचिन्नखरिकाभिः क्षतं करोति; एतानि चान्यानि च उपद्रवशतानि करोति; ते हंसाः प्रतिदिनमागम्य धृतराष्ट्रस्य हंसाधिपतेर्निवेदयन्ति; स संलक्षयति: पूर्णश्चण्डो रभसः कर्कशः; यद्यहमेनं यौवराज्ये प्रतिष्ठापयामि ममात्ययादेष हंसयूथं नाशयिष्यति; तदुपायसंविधानं कर्तव्यमिति; तेन पूर्णः पूर्णमुखश्च उभावप्युक्तौ; यः उत्सान् सरांसि तडागानि चावलोक्य अग्रतो मत्सकासमागच्छति तमहं हंसाधिपतिं स्थापयामि इति; तावन्योन्यं स्पर्धया पंचशतपरिवारौ प्रन्क्रान्तौ; तावितश्चामुतश्च उत्सान् सरांसि तडागानि च अवलोकयन्ताव्(अ ४९५ ) अनुपूर्वेण वाराणसीं नगरीमनुप्राप्तौ; तेन खलु समयेन वाराणस्यां ब्रह्मदत्तो नाम राजा राज्यं कारयति ऋद्धं च यावदाकीर्णबहुजनमनुष्यं च; तेन वाराणस्यामुद्यानस्य नातिदूरे ब्रह्मावती नाम पुष्करिणी सरःप्रतिविशिष्टतराख्या; तस्यां नानाविधानि जलजानि पुष्पाणि रोपितानि; तीरे समन्ताच्चतुर्ष्वपि पार्श्वेषु अनेकानि पुष्पफलवृक्षसहस्राणि रोपितानि; सा उत्पलकुमुदपुण्डरीकसंछन्ना अनेकतरुषण्डमण्डिता बहुविविधविहगनिकूजिता; तस्यास्तां विभूतिं दृष्ट्वा पूर्णो हंसः पंचशतपरिवारः अवतीर्य यथेष्टगतिप्रचारतया क्रीडितुमारब्धः; पूर्णमुखोऽपि स्वयूथ्यैरुच्यते: त्वमप्यवतीर्य क्रीड इति; स कथयति: राज्यं तावत्प्रतीच्छामि; ततः पश्चादागम्य क्रीडिष्यामि इति; तेन लघु लघ्वेव गत्वा राज्यं प्रतीष्टं: ततः पंचशतपरिवारः वाराणसीमागम्य ब्रह्मावतीं पुष्करिणीमवतीर्य क्रीडितुमारब्धः; तं तथा प्रमोदविहारिणं दृष्ट्वा जनकायः संशयमापन्नः: अहो परमदर्शनीयो हंसाधिपतिः कुतोऽपीह संप्राप्तः; ब्रह्मावतीं पुष्करिणीमलंकृत्य सर्वजलचरान् पक्षिणो रूपशोभया अभिभूय लोकस्य स्पृहामुत्पादयति; यथेष्टं च विहरति इति; श्रुत्वा सर्व एव वाराणसीनिवासी जनकायः समन्ताद्ब्रह्मावतीं पुष्करिणीं परिवार्य, तस्य विस्रब्धविहारतां रूपशोभां च निरीक्षमाणः अवस्थितः; अमात्यै राज्ञो निवेदितं: देव कुतोऽपि हंसाधिपतिरागतः; स ब्रह्मावतीं पुष्करिणीमवतीर्य अनेकहंसशतपरिवारः सर्वान् जलचरान् पक्षिणो रूपशोभया अभिभूय (इ १९४) लोकस्य स्पृहामुत्पादयन् विस्रब्धविहारतया तिष्ठति इति; राजा कथयति: भवन्तः यद्येवमाहूयन्तां शाकुनिकाः इति; तैराहूताः; राजा कथयति: भवन्तः श्रूयते ब्रह्मावत्यां पुष्करिण्यामतिपरमदर्शनीयविग्रहो हंसाधिपतिः कुतोऽप्यागतः; स युष्माभिरेक अक्षतः पाशैर्बध्वा मत्सकाशमानेयः; इति; स तैः परमसुकुमारेण पाशेन बद्धः; स गाथां भाषते संस्यन्दितोऽस्मि बद्धो मनुष्यवशमागतोऽहम् । अचिकित्स्य आदाय हंसयूथं गच्छत शीघ्रं ह्यनवतप्तम् ॥ इति एकोनानि पंचशतानि निष्पलायितानि; एको न निष्पलायितः; तमेव च बद्धं शोचमानोऽवस्थितः; शाकुनिकास्ते दृष्ट्वा परं विस्मयमापन्नाः; राजभयान्न बध्नन्ति; नापि प्रघातयन्ति; ते तं हंसाधिपतिमादाय राज्ञः सकाशं गताः; स द्वितीयः अबद्धः; स्नेहपाशपाशितः स्वयमेव गतः; स हंसाधिपती राज्ञ उपनीतः; राजा कथयति: भवन्तोऽयं द्वितीयः किमर्थमानीतः? ते कथयन्ति: देव नास्माभिरयं बद्धः; अपि तु स्वयमेवागतः इति; राजा परं विस्मयमापन्नः कथयति: नूनमस्येयं (अ ४९५ ) भार्या; गच्छत; एतं हंसाधिपतिं सह भार्यया मुञ्चत; न च युष्माभिः केनचिदपि एतौ प्रघात्यौ इति; शाकुनिकाः कथयन्ति: देव अन्य प्रघातयिष्यन्ति; जनकायस्य निवेद्यतामिति; राज्ञा अमात्यानामाज्ञा दत्ता: गच्छत भवन्तो वाराणस्यां नगर्यां घण्टावघोषणं कारयत देव एवं समाज्ञापयति, न केनचिद्मद्विषयनिवासिना जलचराः पक्षिणो घातयितव्याः इति; तैर्घण्टावघोषणं कारितं किं मन्यध्वे भिक्षवो योऽसौ पूर्णमुखो हंसाधिपतिरहमेव सः तेन कालेन तेन समयेन; या सा तस्य पत्नी स एवासावानन्दः तेन कालेन तेन समयेन; यानि तानि एकोनानि पंच हंसशतानि, एतान्येव तानि एकोनानि पंच भिक्षुशतानि; तदाप्यहमेभिर्हंसभूतैः परित्यक्तः; आनन्देन हंसभूतेन न परित्यक्तः; एतर्ह्यप्यहमेभिः परित्यक्तः; आनन्देन भिक्षुणा न परित्यक्तः; भूयोऽपि भिक्षवः यथा अहमेभिः परित्यक्तः, आनन्देन भिक्षुणा न परित्यक्त तच्छ्रूयताम् (इ १९५) ______________________________________________________________ थे स्तोर्योf करदण्डी, थे सहस्रयोध (चोन्चेर्निन्ग प्रेविओउस्बिर्थोf आनन्द, एत्च्.) भूतपूर्वं भिक्षवो वाराणस्यां नगर्यामट्टो नाम राजा राज्यं कारयति ऋद्धं च स्फीतं च यावदाकीर्णबहुजनमनुष्यं च; तस्य पंचामात्यशतानि येषामनुभावात्प्रातिसीमैः कोट्टराजभिर्नाभिभूयते; यावद्दक्षिणापथात्करदण्डी नाम सहस्रयोधी अभ्यागतः; सोऽन्यतमेनामात्येन राज्ञः सकाशमुपनीतः; देव अयं करदण्डी नाम सहस्रयोधी; देवमुद्दिश्य दक्षिणापथादागतः; तदर्हति देवोऽस्य परिग्रहं कर्तुमिति; स राज्ञा परिगृहीतः; भोगैः संविभक्तः; यावदपरेण समयेन अट्टस्य राज्ञः भूम्यन्तरा राजानः उपचित्तबलसाधनाः संवृत्ताः; ते चतुरङ्गबलकायं सन्नाह्य हस्तिकायमश्वकायं रथकायं पत्तिकायमट्टं राजानमभिगताः युद्धाय; अट्टोऽपि राजा चतुरङ्गबलकायं सन्नाह्य हस्तिकायमश्वकायं रथकायं पत्तिकायं भूम्यन्तरान् राज्ञः प्रत्यभिनिर्यातो युद्धाय; अट्टेन राज्ञा भूम्यन्तरा राजनः जीताः भीतः भग्नाः पराजिताः परापृष्ठीकृताः स्वक्स्वकान् विषयान् गताः; तैः पुनरपि सन्निपत्य अट्टस्य राज्ञः पंचामात्यशतानि उपस्कारेण भग्नानि: आगच्छत यूयं; युष्मान् प्रतिविशिष्टरैः भोगैः संविभजामः इति; ते संप्रतिपन्नाः; ततो भूम्यन्तरा राजनः पुनरपि चतुरङ्गबलकायं सन्नाह्य हस्तिकायमश्वकायं रथकायं पत्तिकायमट्टं राजानमभिगता यौद्धाय; अट्टोऽपि नाम चतुरङ्गबलकायं सन्नाह्य हस्तिकायमश्वकायं रथकायं पत्तिकायं भूम्यन्तरान् राज्ञः प्रत्यभिनिर्यातो युद्धाय; अट्टस्य राज्ञः पंच अमात्यशतानि युद्धे वर्तमाने प्रतिनिवर्त्य करण्ड्दिना सहस्रयोधेन सार्धं योद्धुमारब्धानि (अ ४९६ ) राजा दृष्ट्वा व्यथितः; करदण्डी सहस्रयोधो गाथां भाषते त्यजन्ति सर्वमित्राणि चिरसंस्तुतिकानि ते । (इ १९६) मित्रं ते करदण्डी तु त्वामेको न प्रहास्यति ॥ इति तेन ते सर्वे प्रघातिताः किं मन्यध्वे भिक्षवो योऽसावट्टो नाम राजा अहमेव सः तेन कालेन तेन समयेन; याऽसौ करदण्डी सहस्रयोधः आनन्दः सः तेन कालेन तेन समयेन; यानि तानि पंच अमात्यशतानि एतान्येव तानि पंच भिक्षुशतानि; तदाप्यहमेभिः परित्यक्तः; आनन्देन न परित्यक्तः; एतर्ह्यप्यहमेभिः परित्यक्तः; आनन्देन न परित्यक्तः; भूयोऽपि यथा अहमेभिः परित्यक्तः, आनन्देन न परित्यक्त तच्छ्रूयताम् ______________________________________________________________ थे स्तोर्योf अ लिओनन्धिस्जच्कल्-fरिएन्द् (चोन्चेर्निन्ग प्रेविओउस्बिर्थोf आनन्द, एत्च्.) भूतपूर्वं भिक्षवः अनियतराश्यवस्थितो बोधिसत्वः अन्यतमस्मिन् पर्वतैकदेशे सिंहो मृगपतिर्बभूव; तस्य पंच सृगालशतानि विघसखादकानि नित्यानुबद्धानि पर्वतमुपनिश्रित्य तिष्ठन्ति; सिंहः प्राणिनो घातयित्वा वरमांसानि वररुधिराणि च पीत्वा निरपेक्षः प्रक्रामति; तेषामेवं महान् कालोऽतिक्रान्तः; यावदपरेण समयेन सिंहो मृगराजः रात्रौ प्राणिनः समन्वेषमानः कूपे पतितः; तेषां पंचानां सृगालशतानामेकोनानि प्रक्रान्तानि; एकः कूपतटे अवस्थितः; चिन्तयति च: कोऽसावुपायः स्याद्येनेमं समुद्धरेयमिति; स इतश्चामुतश्च कूपसामन्तकेन पर्यटितुमारब्धः; यावत्पश्यति: कूपस्य नातिदूरे पल्वलं; तेन विचार्य एकदेशेन सुरङ्गो निखातः; ततस्तदुदपानं पल्वलात्सलिलेन पूर्णं; सिंहः स्वयमेवोत्थितः; देवता गाथां भाषते कर्तव्यानि च मित्राणि दुर्बलानि बलान्यपि । पश्य सिंहः सृगालेन जीर्णकूपात्समुद्धृतः ॥ इति किं मन्यध्वे भिक्षवो योऽसौ सीम्हः अहमेव सः तेन कालेन तेन समयेन; सृगाल आनन्दो भिक्षुः तेन कालेन तेन समयेन; यानि तानि एकोनानि पंच सृगालशतानि एतान्येव पंच भिक्षुशतानि; तदाप्यहमेभिः परित्यक्तः; आनन्देन न परित्यक्तः; एतर्ह्यप्य्(इ १९७) अहमेभिः परित्यक्तः; भूयोऽपि यथा अहमेभिः परित्यक्तः तच्छ्रूयताम् ______________________________________________________________ थे स्तोर्योf अ मृगी अन्द्मृगाधिपति भूतपूर्वं भिक्षवः अनियतराश्यवस्थितो बोधिसत्वः अन्यतमस्मिन् प्रदेशे पंचानां मृगशतानां मृगाधिपतिर्बभूव; यावदन्यतमेन लुब्धकेन मृगाणां वधाय प्रभूताः कूटपाशाः लेपाश्च व्यवस्थापिताः; स च मृगाधिपतिः विस्रब्धविहारतया पंचशतपरिवारो मृगदावे परिभ्रमति; स मृगयूथस्याग्रतो गच्छन् पाशेन बद्धः; तं बद्धं दृष्ट्वा सर्वे मृगा निष्पलायिताः; एका मृगी यूथपतेः पार्श्वे अवस्थिता; स मृगाधिपतिर्व्यायच्छति पाशं छेत्तुं; स शक्नोति; तं तथा चलन्तं दृष्ट्वा सा मृगी गाथां भाषते व्यायमस्व महाभाग व्यायमस्व मृगोत्तम । आगमिष्यति लुब्धोऽसौ पाशो येनैष आहृतः ॥ (अ ४९६ ) सोऽपि गाथां भाषते किं करोमि न शक्नोमि भिनद्म्याशु महीमिमाम् । दृढानि चर्मपाशानि पादौ कर्षन्ति मे भृशम् ॥ इति ततोऽसौ लुब्धकः धनुर्बाणपाणिः काषायवस्त्रवसितः तं प्रदेशमुपसंक्रामति; अद्राक्षीत्सा मृगी तं लुब्धकं वधायोद्यतं मृगाधिपतिमुपसंक्रान्तं; दृष्ट्वा च पुनस्त्वरितत्वरिता गाथां भाषते व्यायमस्व महाभाग व्यायमस्व मृगोत्तम । आगतो ह्येष लुब्धोऽसौ पाशो येनैष आहृतः ॥िति सोऽपि गाथां भाषते किं करोमि न शक्नोमि भिनद्म्याशु महीमिमाम् । दृढानि चर्मपाशानि पादौ कर्षन्ति मे भृशम् ॥ इति (इ १९८) ततः सा मृगी शून्यहृदया तं मृगलुब्धकमिमां गाथां तत्समीपे भाषते लुब्धावतारय धनुरसिं गृह्णीष्व लुब्धक । पूर्वं घातय मां तावत्ततः पश्चान्मृगाधिपतम् ॥ इति ततः स मृगलुब्धकः विस्मयावर्जितमतिः कथयति: कस्तवैष भवति? इति; सा कथयति: स्वामि इति; स तं गाथया प्रत्यभाषत नाहं त्वा घतायिष्यामि न हनिष्ये मृगाधिपम् । संगमं ते करिष्यामि प्रियेण पतिना सह ॥ इति सापि गाथां भाषते यथाहं लुध मोदामि प्रियेण पतिना सह । एवं त्वं लुब्ध मोदस्व सह सर्वैः स्वबान्धवैः ॥ इति ततस्तेन लुब्धेन भूयस्या मात्रया विस्मयजातेन मृगो मुक्तः किं मन्यध्वे भिक्षवो योऽसौ मृगाधिपतिरहमेव सः तेन कालेन तेन समयेन; या सा मृगी आनन्दः सः तेन कालेन तेन समयेन; यानि तानि एकोनानि पंच मृगशतानि एतान्येव एकोनानि पंच भिक्षुशतानि; तदाप्यहमेभिः परित्यक्तः; आनन्देन न परित्यक्तः; एतर्ह्यप्यहमेभिः परित्यक्तः; आनन्देन न परित्यक्तः भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: पश्य भदन्त देवदत्तः पूतिः पूतिना लाभसत्कारेण हतः इति; भगवानाह: न भिक्षव एतर्हि; यथा अतीतेऽप्यध्वन्येष पूतिना पूतिर्लाभसत्कारेण हतः; तच्छ्रूयताम् ______________________________________________________________ थे स्तोर्योf अ जच्कल्चोम्पेतिन्ग्wइथनेलेफन्त् (चोन्चेर्निन्ग प्रेविओउस्बिर्थोf देवदत्त) भूतपूर्वं भिक्षवः अन्यतमस्मिन् परवतैकदेशे महत्पद्मसरः; तस्य समीपे हस्ती प्रतिवसति; अपरस्मिन्नपि प्रदेशे सृगालः प्रतिवसति; यावदपरेण समयेन हस्ती तस्मात्पद्मसरसः पानीयं पीत्वा उत्तिष्ठति; सृगालश्चावतरति; तेन हस्ती उक्तः; युद्धं वा अनुप्रयच्छ मार्गं वा इति; हस्ती संलक्षयति: (इ १९९) पूतिरयं तपस्वी ध्वाङ्क्षश्च; यदेनं पादेन घातयिष्यामि, शुण्डया वा दन्तेन वा अशुचिना वा नाशयिष्यामि इति; पुनः संलक्षयति: सर्वथा पूतिरयं पूतिनैव हन्तव्यः; इति विदित्वा गथां भाषते न त्वा पद्भ्यां हनिष्यामि न दन्ताभ्यां न शुण्डया । पूतिना त्वां हनिष्यामि पूतिर्हन्येत पूतिना ॥ इति हस्ती संलक्षयति: अपक्रम्यैकान्ते गच्छामि; नियतमेष मां पृष्ठतोऽनुगच्छति इति; स मार्गादपक्रम्य त्वरितत्वरितं संप्रस्थितः; (अ ४९७ ) सृगालः संलक्षयति: वचनमात्रेणैव एष भग्नो मया येन त्वरितत्वरितं निष्पलायितः इति; स तस्य पृष्ठतः पृष्ठतोऽनुबद्धः; हस्तिना समीपं गतं ज्ञात्वा तस्योपरि महता वेगेन पुरीषं मुक्तं; पतितः कालगतः किं मन्यध्वे भिक्षवो योऽसौ सृगालः एष एव स देवदत्तः तेन कालेन तेन समयेन तदाप्येष पूतिना पूतिर्हतः इति; एतर्ह्यप्येष पूतिना पूतिर्लाभसत्कारेण हतः [हेरे थेरे इस लेअf मिस्सिन्ग्, सेएमिन्ग्ल्य्बेचौसे ओf अनेर्रोरोf थे स्च्रिबे हिम्सेल्f.] पुनरपि भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: पश्य भदन्त देवदत्तः धर्ममुखिकया लोको व्यंसितः इति; भगवानाह: न भिक्षव एतर्हि; यथा अतीतेऽप्यध्वन्यनेन धर्ममुखिकया लोको व्यंसितः; तच्छ्रूयताम् ______________________________________________________________ थे स्तोर्योf आग्नेय, थे चत् (चोन्चेर्निन्ग प्रेविओउस्बिर्थोf देवदत्त) भूतपूर्वं भिक्षवः अन्यतमस्मिन् प्रदेशे मूषिकाणां यूथपतिः पंचशतपरिवारोऽवतिष्ठते; आग्नेयो नाम बिडालः; तेन तरुणावस्थायां यस्मिन् प्रदेशे प्रतिवसति; तत्सामन्तकेन सर्वे मूषिकाः प्रघातिताः; सोऽपरेण समयेन जीर्णः संवृत्तः; पराक्रमेण न शक्नोति मूषिकान् ग्रहीतुं; स संलक्षयति: पूर्वमहं तरुणावस्थायां शक्तः पराक्रमेण मूषिकान् ग्रहीतुम्; इदानीमशक्तः; किं तु उपायसंविधानेन भक्षयामि इति; स शनैर्(इ २००) मन्दं मन्दं मूषिकान् पर्येषितुमारब्धः; तेन पर्येषमाणेन पंचशतिको मूषिकयूथः परिज्ञातः; स मुषिकविवरस्य नातिदूरे कृतकेन तपस्तप्यति; स मूषिकैर्भ्रमद्भिर्दृष्टः शान्तेनेर्यापथेन अवस्थितः; ते दूरतः स्थित्वा कथयन्ति: मातुल किं करोषि इति; स कथयति:मया तरुणावस्थायां प्रभूतमपुण्यं कृतं; तस्य क्षपणाय तपश्चरामि इति; तेषां तस्यान्तिके धर्मान्वयप्रसादः उपपन्नः; विरतोऽयं तस्मात्पापकादसद्धर्मादिति; ते तं प्रतिदिनं प्रदक्षिणीकृत्य विवरं प्रविशन्ति; स तेषां पश्चिमं गृहीत्वा भक्षयति; यावदसौ यूथः परिहीयते; यूथपतिः संलक्षयति: मम मूषिकाः परिहीयन्ते; अयं च बिडालो बलवान् जातः; कारणेनात्र भवितव्यमिति; स बिडालस्य विष्ठां निरीक्षितुमारब्धः; यावत्पश्यति सर्वलोमिकां विष्ठां; स संलक्षयति: नियतमनेन मूषिकाः प्रघात्यन्ते; यन्न्वहमेनं गृह्णीयामिति; (अ ४९७ ) स तस्यादर्शनपथे निरीक्षमाणः तत्परो व्यवस्थितः; यावत्तेनासौ दृष्टः पश्चिमं मूषिकं भक्षयन्; स तमुपसंक्रम्य दूरेण गत्वा गाथया प्रत्यभाषत वर्धते मातुलस्याङ्गं गनश्च परिहीयते । न मूलफलभक्षस्य विष्ठा भवति रोमशा ॥ नायं शिखी धर्मशिखी अर्थहेतोरयं शिखी । स्वस्ति तेऽग्नेय भवतु परिहीयन्ति मूषकाः ॥ इति किं मन्यध्वे भिक्षवो योऽसौ तेन कालेन तेन समयेन आग्नेयो बिडालः देवदत्तः सः; तदाप्यनेन धर्ममुखिकया मूषिका भक्षिताः; एतर्ह्यप्यनेन धर्ममुखिकया लोको व्यंसितः भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: पश्य भदन्त ये भगवतो दृष्ट्यनुमतमापन्नाः ते स्वस्तिक्षेमाभ्यां संसारकान्तारादुत्तीर्णाः; ये देवदत्तः दृष्ट्यनुमतमापन्नाः ते अनयेन व्यसनमापन्नाः इति; भगवानाह: न भिक्षव एतर्हि; यथा अतीतेऽप्यध्वन्य्ये मम दृष्ट्यनुमतमापन्नाः ते स्वस्तिक्षेमाभ्यां संसारकान्तारादुत्तीर्णाः; ये दृष्ट्यनुमतमापन्नाः ते अनयेन व्यसनमापन्नाः; तच्छ्रूयताम् (इ २०१) ______________________________________________________________ थे स्तोर्योf अ बुल्ल्थत्गोतेन्तन्ग्लेदोथेर्बुल्ल्सिन्तो त्रोउब्ले ब्य्बद्चोउन्सेल्स् (चोन्चेर्निन्ग प्रेविओउस्लिfए ओf थे बुद्ध अन्द्देवदत्त) भूतपूर्वं भिक्षवो द्वौ सार्थवाहौ पंचभिः शकटशतैः सार्धमनुव्यहरमाणौ कान्तारमार्गं प्रतिपन्नौ; तव्योः कान्तारमार्गप्रतिपन्नयोः कदाचिद्बलीवर्दानां परीत्तो यवसो भवति; पानीयंच कदाचित्परीत्तं भवति; कदाचिन्नास्त्येव; ततोऽसौ सार्थः सह बलीवर्दैः अतीव परिश्रान्तः कृच्छ्रेण कान्तामार्गं प्रतिपन्नः पश्यति अन्यतरस्मिन् प्रदेशे हरितशाद्वलं सलिलसंपन्नं च स्नाताः; प्रभूतं च पानीयं पीतं; ततस्ते बलीवर्दाः परीत्तेन पान्येन यवसेन च परिखिन्नाः, पर्याप्तं यवसं पानीयं च पीत्वा विश्रान्ताः; तेषां यः प्रधानो बलीवर्दः स तान् प्रबोधयति: भवन्तो वयं परीत्तेन यवसेन परीत्तेन च पानीयेन परिखेदिताः; अयं प्रदेशो हरितशाद्वलः सलिलसंपन्नश्च; यदि भवतामभिप्रेतमिहैव हठं कृत्वा तिष्ठामः इति; द्वितीयः प्रधानबलीवर्दश्च यूथ्यान् कथयति: भवन्तो बलवन्तो मनुष्याः दुर्दान्तदमकाः; यथैव वयं वहामस्तथैव वहत; मा अनर्थं प्रापयिष्यथ इति; एवमुक्ते प्रधानबलीवर्दो रुषितः स्वयूथ्यान् कथयति: भवन्तः केन चन्द्रस्य पृष्ठं (अ ४९८ ) दृष्टमेभिर्युष्माभिर्न वोढव्यमिति; यावत्सार्थिका बलीवर्दान् योजयितुमारब्धाः; ते बलीवर्दैर्भ्रेषणरूपा अवस्थापिताः; सार्थिका प्रभूतान् प्रहारान् दत्वा प्रतोदयष्टिभिराताड्य आताड्य रुधिरेण प्रघरता शकटे योजिताः; अन्ये तूष्णीं वोढुमारब्धाः; तेषां न किंचित्कृतं; देवता गाथां भाषते मिथ्या हि चोदिताः पश्य बलीवर्देन गा इमाः । विकर्तिताभिरुधिराः क्षुत्पिपासप्रमर्दिताः ॥ सम्यक्च चोदिताः पश्य बलीवर्देन गा इमाः । ते वै निस्तीर्णकान्ताराः जलं शीतं पिबन्ति हि ॥ किं मन्यध्वे भिक्षवो योऽसौ प्रधानो बलीवर्दः येन ते सम्यगेव चोदिताः अहं सः तेन कालेन तेन समयेन; येन तु (इ २०२) बलीवर्दा विप्रस्थापिताः सः तेन कालेन तेन समयेन; तदापि यैर्मम वचनं श्रुतं ते स्वस्तिक्षेमाभ्यां कान्तारमार्गं निस्तीर्णाः; यैर्देवदत्तस्य वचनं श्रुतं ते अनयेन व्यसनमापन्नाः; एतर्ह्यपि ये मम दृष्ट्यनुमतमापन्नाः ते स्वस्तिक्षेमाभ्यां संसारकान्तारमार्गादुत्तीर्णाः; ये देवदत्तस्य दृष्ट्यनुमतमापन्नाः ते अनयेन व्यसनमापन्नाः भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: पश्य भदन्त देवदत्तो मूर्खो मुर्खपरिवारः इति; भगवानाह: न भिक्षव एतर्हि; यथा अतीतेऽप्यध्वनि देवदत्तो मूर्खो मूर्खपरिवारः; तच्छ्रूयताम् ______________________________________________________________ थे स्तोर्योf थे लेअदेरोf थे मोन्केय्स् (चोन्चेर्निन्ग प्रेविओउस्लिfए ओf देवदत्त) भूतपूर्वं भिक्षवः अन्यतमस्मिनरण्यायतने मर्कटयूथपतिः प्रतिवसति; तेन परिभ्रमता कूपे चन्द्रबिम्बकं दृष्टं; यूथपतिः कथयति: भवन्तः चन्द्रः कूपे पतितः; उद्धरामः; किमचन्द्रको लोको भविष्यति? इति; ते कथयन्ति: शोभनम्; उद्धरामः इति; ते संजल्पं कर्तुमारब्धाः: कथमत्र उद्धर्तव्यः? इति; अपरे कथयन्ति: किमत्र ज्ञायते? मर्कटरज्जुं कृत्वा समुद्धरामः इति; तैर्मर्कटरज्जुः कृता; एकः शाखायां लग्नः; तस्य पुच्छे अपरो लग्नः; तस्याप्यपरो लग्न इत्येवं सर्वे लग्नाः; शाखा अतिभारा जाता; ते पानीयं विक्षोभयितुमारब्धाः; चन्द्रप्रतिबिम्बकं नष्टं; शाखा भग्ना; सर्वे कूपे पतिताः; अनयेन व्यसनमापन्नाः; देवता गाथां भाषते येषामिह हि मूर्काणां मूर्खो भवति नायकः । सर्वे ते निधनं यान्ति चन्द्रोद्धारा इव वानराः ॥ इति किं मन्यध्वे भिक्षवो योऽसौ मर्कटयूथपतिः देवदत्तः सः तेन कालेन तेन समयेन; तदाप्येष मूर्खो मूर्खपरिवारः; एतर्ह्यप्येष मूर्खो मूर्खपरिवारः ______________________________________________________________ थे fइवे चौसेसोf थे दिविसिओनोf थे चोन्ग्रेगतिओन् भगवान् श्रावस्त्यां विहरति जेतवने अनाथपिण्डदस्यारामे; अथ भगवत एतदभवत्: तथागतस्य संभृतसंभाराणि कर्माणि कृतान्युपचितानि लब्धसंभाराणि परिणतप्रत्ययान्योघवत्प्रत्युपस्थितान्य्(अ ४९८ ) अवश्यभावीनि; तथागतेनैव कर्माणि (इ २०३) कृतान्युपचितानि कोऽन्यः प्रत्यनुभविष्यति? न हि कर्माणि कृतान्युपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते पूर्ववद्यावत्फलन्ति खलु देहिनाम्; अवश्यं देवदत्तेन तथागतस्य संघो भेत्तव्यः पंचभिः कारणैः संघो भिद्यते: आदौ तावत्संघो न भिद्यते; यावत्बुद्धो लोके उत्पद्यते लोकस्तावत्तन्मुखोऽवतिष्ठते बुद्धः किल मार्षा लोक उत्पन्न इति; परिनिर्वृते शास्तरि संघो भिद्यते; यः कश्चिदेवं ब्रूयाद्: अहमेव शास्ता इति तस्य वक्तव्यं: यदा भगवान् जीवति तिष्ठति ध्रियते यापयति तदा त्वं क्व आसीः? अर्बुदे अनुत्पन्ने संघो न भिद्यते दृष्ट्यर्बुदे वा शीलार्बुदे वा श्रावकयुगे अनिर्दिष्टे संघो न भिद्यते; तत्कस्य हेतोः संघो भिन्नः अवश्यं श्रावकयुगं प्रतिसन्धत्ते; सीमायामबद्धायां संघो न भिद्यते; तत्कस्य हेतोः अन्तःसीम्नि संघो भिद्यते न बहिःसीम्नि ______________________________________________________________ सोलिचितुदेसोf थे बुद्ध अथ भगवत एतदभवत्: मम निरर्बुदे भिक्षुसंघे अर्बुदमुत्पन्नं शीलार्बुदं दृष्ट्यर्बुदं च; शीलार्बुदमुत्पादितं सुदत्तेन कलन्तकपुत्रेण; दृष्ट्यर्बुदमरिष्टेन भिक्षुणा; अवश्यं च देवदत्तेन संघो भेत्तव्यः; यन्न्वहं राजगृहे वर्षामुपगच्छेयम्; अथ भगवत एतदभवत्: यदि तावत्शैक्षाशैक्षैः पुद्गलैः सार्धं राजगृहं गमिष्यामि न शक्ष्यति देवदत्तः संघभेदं कर्तुं; यन्न्वहं पृथग्जनकल्याणकैः पुद्गलैः सार्धं गच्छेयम्; इति विदित्वा आयुष्मता राहुलेन उपस्थायकेन पंचभिर्भिक्षुशतैः सार्धं यथाभिरम्यं श्रावस्त्यां विहृत्य येन राजगृहं तेन चारिकां प्रक्रान्तः; अनुपूर्वेण चारिकां चरन् राजगृहमनुप्राप्तः इति (इ २०४) ______________________________________________________________ fअमिने इन् राजगृह, दिविसिओनोf थे चोन्ग्रेगतिओनन्द्नेw रुलेसिम्पर्तेद्ब्य्देवदत्त बुद्धो भगवान् राजगृहे वर्षा उपगतो वेणुवने कलन्दकनिवापे; तेन खलु समयेन दुर्भिक्षमभूत्; कृच्छ्रः कान्तारः दुर्लभः पिण्डको याचनकेन; तत्र भगवान् भिक्षूनामन्त्रयते स्म: इच्छाम्यहं भिक्षवः इमां त्रैमासीं प्रतिसंलातुं; न मे केनचिद्भिक्षुणा उपसंक्रमितव्यं स्थापयित्वा पिण्डपातनिर्हारकं; तदेव पोषधमिति; भिक्षुसंघेन क्रियाकारः कृतः न केनचिदस्माकमिमां त्रैमासीं भगवन्तं दर्शनायोपसंक्रमितव्यं स्थापयित्वा पिण्डपातनिर्हारकं; तदेव पोषधमिति तेन खलु समयेन आयुष्मन्तौ शारिपुत्रमौद्गल्यायनौ दक्षिणागिरिषु वर्षा उपगतौ; देवदत्तेन त्रैमासीं भिक्षुसंघः प्रवारितः चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः; स त्रयाणां व द्विकानां वा मासानामत्ययाद्भिक्षूनामन्त्रयते स्म: श्रमण आयुष्मन्तो गौतम एवं श्रावकाणां धर्मं देशयति; आरण्यकत्वेन भिक्षुः शुध्यति मुच्यति निर्याति सुखदुःखं व्यतिक्रामति सुखदुःखव्यतिक्रमं चानुप्राप्नोति; पिण्डपातिकत्वेन पांसुकूलिकत्वेन (अ ४९९ ) त्रैचीवरिकत्वेन आभ्यवकाशिकत्वेन शुध्यति मुच्यति निर्याति सुखदुःखं व्यतिक्रामति सुखदुःखव्यतिक्रमं चानुप्राप्नोति; यस्य चायुष्मन्तः इमानि पंच व्रतपदानि न रोचन्ते न क्षमन्ते न संप्रख्यान्ति स श्रमणस्य गौतमस्य आराद्भवतु दुराद्भवतु; शलाकं गृह्णातु इति; पंचभिर्भिक्षुशतैः शलाका गृहीताः; देवदत्त उत्थायासनात्प्रक्रान्तः; पंच भिक्षुशतानि पृष्ठतः पृष्ठतः समनुबद्धानि; आयुष्मान् राहुलो द्वारे तिष्ठति; तेन तानि देवदत्तस्य पृष्ठतः पृष्ठतः समनुबद्धानि दृष्टानि; स कथयति: आयुष्मन्तः किमर्थं तथागतमर्हन्तं सम्यक्संबुद्धमपहाय अस्य पापेच्छस्य पृष्ठतः पृष्ठतः समनुगच्छत? इति; ते कथयन्ति: आयुष्मन् राहुल एवंविधे दुर्भिक्षे कृच्छ्रे कान्तारे भगवानदर्शनो व्यवस्थितः; वयं (इ २०५) देवदत्तानुभावात्प्राणैर्न वियुक्ताः; यदि देवदत्तेन त्रैमासीं भिक्षुसंघो न प्रतिपादितोऽभविष्यत्, एकः भिक्षुर्न जीवितोऽभविष्यदिति यदा देवदत्तेन तथागतेन श्रावकसंघो भिन्नः, तदा महान् पृथिवीचलो जातः; उल्कापाता दिशोदाहाः; देवदुन्दुभयः अभिनदन्ति; नियमानवक्रान्ता नियमं नावक्रामन्ति; फलं न प्राप्नुवन्ति; वैराग्यं न गच्छति; आस्रवान्न क्षपयन्ति; नोद्दिशन्ति; न पठन्ति; न स्वाध्यायन्ति; सूत्रविनयधराभिधार्मिकारण्यकाः सूत्रविनयाभिधर्मारण्यकचिन्तायां न प्रयुज्यन्ते; न श्रावकबोधौ बीजमारोपयन्ति; न प्रत्येकायां बोधौ; नानुत्तरायां सम्यक्संबोधौ; सदेवमानुषं जगद्व्याकुलं वर्तते; त्रिसहस्रमहासहस्रे लोकधातौ धर्मचक्रं विष्ठितं न सत्वसन्ताने वर्तते ______________________________________________________________ शारिपुत्र अन्द्मौद्गल्यायन विसित्थे बुद्ध अन्द्प्रोमिसे तो हिं तो रेस्तोरे थे चोन्ग्रेगतिओन् आयुष्मन्तौ शारिपुत्रमौद्गल्यायनौ संलक्षयन्ति: किमर्थमयं महापृथिवीचालः? इति; समन्वाहृत्यार्हतां ज्ञानदर्शनं न प्रवर्तते; तौ समन्वाहर्तुं प्रवृत्तौ; पश्यतः: देवदत्तेन भगवतः श्रावकसंघं भिन्नं; तयोरेतदभवत्: गच्चावः भगवतः श्रावकसंघं प्रतिसन्धातुमिति; अथायुष्मन्तौ शारिपुत्रमौद्गल्यायनौ त्रयाणां वार्षिकाणां मासानामत्ययात्कृतचीवरौ निष्ठितचीवरौ समादाय पात्रचीवरं येन राजगृहं तेन चारिकां प्रक्रान्तौ; अनुपूर्वेण चारिकां चरन्तौ राजगृहमनुप्राप्तौ; अथायुष्मन्तौ शारिपुत्रमौद्गल्यायनौ पात्रचीवरं प्रतिशमय्य पादौ प्रक्षाल्य येन भगवांस्तेनोपसंक्रान्तौ; तेन खलु समयेन आयुष्मान् राहुलो द्वरे तिष्ठते; अथायुष्मान् राहुलः आयुष्मन्तं शारिपुत्रमिदमवोचदुपाद्याय देवदत्तेन भगवतः श्रावकसंघो भिन्नः इति; (इ २०६) स कथयति: आयुष्मनेतदर्थमेव वयमागताः; अल्पोत्सुकस्त्वं भव; प्रतिसन्धानं करिष्यामः; इत्युक्त्वा भगवत्सकाशं प्रविष्टौ; प्रविश्य बहगवतः पादौ शिरसा वन्दित्वा एकान्ते निषण्णौ; एकान्तनिषण्णावायुष्मतौ (अ ४९९ ) शारिपुत्रमौद्गल्यायनौ भगवन्तमिदमवोचतां: गछामो वयं भदन्त तथागतस्य भिन्नं श्रावकसंघं सन्धातुमिति ______________________________________________________________ थे सेर्मोनोन् थे fओउर्मेरितुओउस्मेन् भगवानाह: साधु साधु शारिपुत्रमौद्गल्यायनौ; बहु स पुण्यं प्रसूयते अप्रमाणमसंख्येयं यस्तथागतस्य भिन्नं श्रावकसंघं प्रतिसन्धत्ते, तद्यथा शतछिन्नं वालं यः कोट्या कोटिं प्रतिसन्दध्यात्; एवमेव स बहु पुण्यं प्रसूयते अप्रमेयमसंख्येयं यस्तथागतस्य भिन्नं श्रावकसंघं प्रतिसन्धत्ते चत्वार इमे शारिपुत्रमौद्गल्यायनौ ब्राह्मं पुण्यं प्रसवन्ति; कतमे चत्वारः? १) यः पुद्गलः अप्रतिष्ठितपूर्वे पृथिवीप्रदेशे तथागतस्य शारीरं स्तूपं प्रतिष्ठापयति; अयं प्रथमः पुद्गलः ब्राह्मं पुण्यं प्रसवति; कल्पं स्वर्गेषु मोदते; २) पुनरपरं यः पुद्गलः अप्रतिष्ठितपूर्वे पृथिवीप्रदेशे चतुर्दिशस्य भिक्षुसंघस्य विहारं प्रतिष्ठापयति; अयं द्वितीयः पुद्गलः ब्राह्मं पुण्यं प्रसवति; कल्पं स्वर्गेषु मोदते; ३) पुनरपरं यः पुद्गलः तथागतश्रावकसंघं भिन्नं सन्धत्ते; अयं त्रितीयः पुद्गलः ब्राह्मं पुण्यं प्रसवति; कल्पं स्वर्गेषु मोदते; ४) पुनरपरं यः पुद्गलः मैत्रीसहगतेन चित्तेन अवैरेण असपत्नेन अव्याबाधेन विपुलेन महद्गतेन अप्रमाणेन सुभावितेन एकां दिशमधिमुच्य स्फरित्वा उपसंपद्य विहरति; तथा द्वितीयां तथा तृतीयां तथा चतुर्थीम्; इत्यूर्ध्वमधः तिर्यक्सर्वशः सर्वमिमं लोकं मैत्रीसहगतेन चित्तेन अवैरेण असपत्नेन अव्याबाधेन विपुलेन (इ २०७) महद्गतेन अप्रमाणेन सुभावितेन अधिमुच्य स्फरित्वा उपसंपद्य विहरति; एवं करुणामुदितौपेक्षासहगतेन चित्तेन अवैरेण असपत्नेन अव्याबाधेन विपुलेन महद्गतेन अप्रमाणेन सुभावितेन अधिमुच्य स्फरित्वा उपसंपद्य विहरति; तथा द्वितीयां तथा तृतीयां तथा चतुर्थीम्; इत्यूर्ध्वमधः तिर्यक्सर्वशः सर्वमिमं लोकमुपेक्षासहगतेन चित्तेन अवैरेण असपत्नेन अव्याबाधेन विपुलेन महद्गतेन अप्रमाणेन सुभावितेन एकां दिशमधिमुच्य स्फरित्वा उपसंपद्य विहरति; अयं चतुर्थः पुद्गलः ब्राह्मं पुण्यं प्रसवति; कल्पं स्वर्गेषु मोदते ______________________________________________________________ शारिपुत्र अन्द्महामौद्गल्यायन विसित्देवदत्त अन्देxहोर्त्थे मिस्गुइदेद्मोन्क्स्तो रेतुर्न् तो थे त्रुए दोच्त्रिने आथायुष्मन्तौ शारिपुत्रमौद्गल्यायनौ भगवतो भाषितमभिनन्द्यानुमोद्य भगवतः पादौ शिरसा वन्दित्वा भगवतोऽन्तिकात्प्रक्रान्तौ; तेन खलु समयेन देवदत्तो दक्षिणागिरिषु बुद्धलीलया अनुधर्मं देशयति; कोकालिकोऽस्य दक्षिणे पार्श्वे निषण्णः; खण्डद्रव्यः वामे; अद्राक्षीद्देवदत्तः शारिपुत्रमौद्गल्यायनौ दूरादेव; दृष्ट्वा च पुनः संलक्षयति: महाश्रावका अपि मया अन्वावर्तिताः; इदानीमहं सर्वज्ञः; कोकालिकं खण्डद्रव्यं च बाहुभ्यां (अ ५०० ) घट्टयति उत्तिष्ठोत्तिष्ठेति; तौ संलक्षयतः एष एवास्माकं दोषो यदस्माभिरस्य संघभेदे साहाय्यं कल्पितम्; उत्तिष्ठामः; यदि प्रहारं ददाति, बलवानेष नियतमस्मान् हन्ति इति; तावुत्थितौ; आयुष्मान् शारिपुत्रो दक्षिणे पार्श्वे निषण्णः; आयुष्मान्मौद्गल्यायनः उत्तरे इति; तत्र देवदत्तः आयुष्मन्तं शारिपुत्रमामन्त्रयते प्रतिभातु ते शारिपुत्र भिक्षूणां धर्म्यां कथां कथयितुं; पृष्ठी मे आविलायति; तत्तावदायामयिष्ये इति; अधिवासयत्यायुष्मान् शारिपुत्रः देवदत्तस्य तूष्णींभावेन; अथ देवदत्तश्चतुर्गुणमुत्तरासङ्गं प्रज्ञप्य दक्षिणेन पार्श्वेन शय्यां कल्पयित्वा मिद्धमवक्रान्तः; आयुष्मता शारिपुत्रेण (इ २०८) तथाधिष्ठितो यथोत्तानकः कायेन क्रथमनेन अवस्थितः; तत्र आयुष्मान् शारिपुत्रो भिक्षूनामन्त्रयते स्म: पश्यत आयुष्मन्तः शास्तुरवस्थाम्: उत्तानकः कायेन क्रथमानेन मिद्धमवक्रान्तः इति; अथायुष्मान् शारिपुत्रः आयुष्मन्तं महामौद्गल्यायनमिदमवोचत्: संवेजय आयुष्मन्महामौद्गल्यायन पर्षदमिति; अथायुष्मान्महामौद्गल्यायनस्तद्रूपं समाधिं समापन्नः यथा समाहिते चित्ते पूर्वस्यां दिश्युपरि विहायसमभ्युद्गम्य चतुर्विधमीर्यापथं कल्पयति चंक्रम्यते तिष्ठति निषीदति शय्यां कल्पयति; तेजोधातुमपि समापद्यते; तेजोधातुसमापन्नस्य आयुष्मतो महामौद्गल्यायनस्य विविधान्यर्चिंषि कायान्निश्चरन्ति नीलानि पीतानि लोहितान्यवदातानि माञ्जिष्ठानि स्फटिकवर्णानि; यमकान्यपि प्रातिहार्याणि विदर्शयति; अधः कायः प्रज्वलति उपरिमात्कायात्शीतला वारिधारा स्यन्दते; उपरिमः कायः प्रज्वलति अद्धःकायात्शीतला वारिधारा स्यन्दते; यथा पूर्वस्यां दिशि एवं दक्षिणस्यां पश्चिमायामुत्तरस्यां दिशि; इति चतुर्दिशं चतुर्विधमृद्धिप्रातिहार्यं विदर्श्य तानृद्ध्यभिसंस्कारान् प्रतिप्रस्रभ्य प्रज्ञप्त एवासने निषण्णः; आयुष्मन्ता च महामौद्गल्यायनेन ते भिक्षवः संवेजिताः; तत आयुष्मता शारिपुत्रेण तेषां भिक्षूणां तथाविधो धर्मो देशितः; यं श्रुत्वा देवदत्ते निरपेक्षाः संवृत्ताः; उक्ताश्च: येषां वः आयुष्मन्तः शास्ता प्रियः ते उत्तिष्ठन्तु; गच्छामः इति ______________________________________________________________ मन्य्मिस्लेद्मोन्क्सरे लेद्बच्क्तो थे बुद्ध अन्द्रेअद्मित्तेदिन्तो थे ओर्देर्wइथोउत wओर्दोf रेप्रोअछ् आयुष्मन्तौ शारिपुत्रमहामौद्गल्यायनौ संप्रस्थितौ; भिक्षवः पृष्ठतः पृष्ठतः समनुबद्धाः; कोकालिकेन देवदत्तः उत्थाप्यते: उत्थिष्ठोत्तिष्ठ; महाश्रावकैस्ते पर्षदपह्रियते इति; अथायुष्मतः शारिपुत्रस्य एतदभवद्: यदि देवदत्तस अपश्यतः पर्षदं नेष्यामि स्थानमेतद्विद्यते यदुष्णं रुधिरं छर्दयित्वा कालं करिष्यति; पश्यत एव नेतव्या इति; तौ मन्दगतिप्रचारतया संघसमेतौ गच्छतः; देवदत्तोऽपि तीव्रेण पर्यवस्थानेन अक्षिणी संपरिमार्जन् प्रधावितः; आयुष्मता शारिपुत्रेण अतिपरमभीषणपातालप्रख्या (अ ५०० ) गर्ता निर्मिता; देवदत्तः कोकालिकखण्डद्रव्यकटमोरकतिष्यसमुद्रदत्तैः सार्धं समन्ततस्तां गर्तां परिभ्रमितुमारब्धः; न शक्नोत्युत्तर्तुं; स संलक्षयति: (इ २०९) न च पर्षदमारागयिष्यामि; अथ च पुनरनयेन व्यसनमापत्स्यामि; इति विदित्वा प्रतिनिवृत्तः; आयुष्मन्तावपि शारिपुत्रमौद्गल्यायनौ भिक्षुसंघमादाय येन भगवांस्तेनोपसंक्रान्तौ; अथ ते भिक्षवः आलेखजाताः मद्गुभूताः स्रस्तस्कन्धा अधोमुखा भगवत्सकाशमुपसंक्रामन्ति: कथं वा वयं भगवन्तमप्रमेयगुणसमन्वागतमपहाय पापेच्छं देवदत्तं संसृताः इति; अथ भगवान् तेषां भिक्षूणां चेतसा चित्तमाज्ञाय भिक्षूनामन्त्रयते स्म: स्वागतं वो भिक्षवः सुप्रव्रजितं; सुलब्धो वो मनुष्यप्रतिलम्भः; कदाचित्कर्हिचिदार्यायतने प्रत्याजातिः इन्द्रियैरविकलता अजडता अनेडमूकता अहस्तसंवाचिकता प्रतिबलता सुभाषितदुर्भाषितानां धर्माणामर्थमाज्ञातुं; कदाचित्कर्हिचित्तथागता अर्हन्तः सम्यक्संबुद्धा लोक उत्पद्यन्ते; कदाचित्कर्हिचित्तथागतप्रवेदितस्य धर्मविनयस्य लोके धर्मदेशना प्रज्ञायते; तदिदं भिक्षवः सुदुर्लभं सुदुर्लभं यदुत आर्यायतने प्रत्याजातिः, इन्द्रियैरविकलता अजडता अनेडमूकता अहस्तसंवाचिकता प्रतिबलता सुभाषितदुर्भाषितानां धर्माणामर्थमाज्ञातुं; अहं चैतर्हि शास्ता लोक उत्पन्नः तथागतोऽर्हन् सम्यक्संबुद्धः विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्; धर्मश्च देश्यते औपशमिकः पारिनिर्वाणिकः संबोधिगामी सौगतप्रतिसंवेदितः यदुत अस्मिन् सति इदं भवति; अस्योत्पादादिदमुत्पद्यते; यदुत अविद्याप्रत्यायाः संस्काराः; संस्कारप्रत्ययं विज्ञानं विज्ञानप्रत्ययं नामरूपं नामरूपप्रत्ययं षडायतनं षडायतनप्रत्ययः स्पर्शः स्पर्शप्रत्यया वेदना वेदनाप्रत्यया तृष्णा तृष्णाप्रत्यय्मुपादानमुपादानप्रत्ययो भवः भवप्रत्यया जातिः जातिप्रत्ययाः जरामरणशोकपरिदेवदुःखदौर्मनस्योपायासाः संभवन्ति; एवमस्य केवलस्य महतो दुःखस्कन्धस्य समुदयो भवति; यदुत अस्मिन्नसति न भवति; अस्य निरोधादिदं निरुध्यते; यदुत अविद्यानिरोधात्संस्कारनिरोधः संस्कारनिरोधाद्विज्ञाननिरोधो विज्ञाननिरोधान्नामरूपनिरोधो नामरूपनिरोधात्षडायतननिरोधः षडायतननिरोधात्स्पर्शनिरोधः स्पर्शनिरोधाद्वेदनानिरोधः वेदनानिरोधात्(इ २१०) तृष्णानिरोधः तृष्णानिरोधादुपादाननिरोधः उपादाननिरोधाद्भवनिरोधो भवनिरोधाज्जातिनिरोधः जातिनिरोधाज्जरामरणशोकपरिदेवदुःखदौर्मनस्योपायासा निरुध्यन्ते एवमस्य केवलस्य महतो दुःखस्कन्धस्य निरोधो भवति; तस्मात्तर्हि (अ ५०१ ) भिक्षवः आत्मार्थं समनुपश्यद्भिः परार्थं चोभयार्थं च इदं प्रतिसंशिक्षितव्यं: कच्चिन्नः प्रव्रज्य अमोघा भविष्यन्ति क्रियाः सफलाः सुखोदयाः सुखविपाकाः; येषां च परिभोक्ष्यामहे चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारान् तेषां ते काराः कृताः अत्यर्थं महाफला भविष्यन्ति महानुशंसाः महाद्युतयः महाविस्ताराः इत्येवं वो भिक्षवः शिक्षितव्यम् यदा ते भिक्षवो भगवता स्वागतवादेन सुप्रव्रजितवादेन समुदाचरिताः तदा तेषां यत्तदभून्मद्गुत्वं कौकृत्यमालेखः विलेखः विप्रतिसारः तत्सर्वेण सर्वं प्रतिविगतं; ततोऽन्ये भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: किं भदन्त भगवता कर्म कृतं यस्य कर्मणो विपाकेन भगवतः श्रावकसंघो भिन्नः इति; भगवानाह: तथागतेनैव भिक्षवः पूर्वमन्यासु जातिषु कर्माणि कृतान्युपचितानि पूर्ववद्यावत्फलन्ति खलु देहिनाम् ______________________________________________________________ थे स्तोर्योf अ ऋषि लिविन्गिन् थे चोउन्त्र्य् (चोन्चेर्निन्ग प्रेविओउस्बिर्थोf थे बुद्ध अन्द्देवदत्त) भूतपूर्वं भिक्षवः अन्यतमस्मिन्नाश्रमपदे मूलपुष्पफलसलिलसंपन्ने नानावृक्षोपशोभिते अनेकपक्षिगणनिषेविते ऋषिः प्रतिवसति पंचानामृषिशतानां प्रमुखः; यावदन्यः ऋषिः जनपदचारिकां चरन् तदाश्रमपदमनुप्राप्तः; स तेन ऋषिणा न सम्यक्प्रतिमानितः; तेन संजातामर्षेण तस्य पर्षद्भिद्यते: अयं पापेच्छः ऋषिर्न किंचिदपि जानीते; किमर्थमस्य सकाशे तिष्ठथ? आगच्छत; मया सार्धं गच्छत; अहं युष्मान् पंचस्वभिज्ञासु प्रतिष्ठापयामि इति; तेन भिद्यमानास्ते तस्य ऋषेरववादेन अवतिष्ठन्ते; तेन ऋषिणा संलक्षितम्: अनेन पापकारिणा ममैते ऋषयो भिन्नाः इति; स तमुपसान्त्वयितुमारब्धः: मा आयुष्मन् पर्षद्भेदं कुरु; नैष ऋषिधर्मः इति; तथाप्यसौ भिनत्त्येव, नावतिष्ठते इति स ऋषिर्दुर्मनाः उपायसंविधानेन अवस्थितः; असति बुद्धानामुत्पादे प्रत्येकबुद्धा लोक (इ २११) उत्पद्यन्ते हीनदीनानुकम्पकाः प्रान्तशयनासनभक्ताः एकदक्षिणीया लोकस्य; अथ अन्यतमः प्रत्येकबुद्धो जनपदचारिकां चरन् तस्य ऋषेराश्रमपदमनुप्राप्तः; तेनासौ दृष्टः कायप्रासादिकः शान्तेर्यापथश्च; स तं दृष्ट्वा अभिप्रसन्नः; तेन तस्मै कारान् कृत्वा मिथ्याप्रणिधानं कृतं: यन्ममानेन पापर्षिणा पर्षद्भेदः कृतः अहमस्य सर्वज्ञेयवशिप्राप्तस्यापि पर्षद्भेदं कुर्यामिति किं मन्यध्वे भिक्षवो योऽसौ जानपदः ऋषिः येन तस्य ऋषेः पर्षद्भिन्ना अहमेव सः तेन कालेन तेन समयेन; योऽसौ नैवासिकः ऋषिः देवदत्तः सः तेन कालेन तेन समयेन; यन्मया अस्य पर्षद्भिन्ना तस्य कर्मणो विपाकेन अनेन मिथ्याप्रणिधानं कृत्वा संघो मम भिन्नः; इति हि भिक्षवः एकान्तकृष्णानां पूर्ववदित्येवं वो भिक्षवः शिक्षितव्यम् भिक्षवः संशयजाताः (अ ५०१ ) सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: पश्य भदन्त देवदत्तेन सबाह्यानभ्यन्तरीकृत्य अभ्यन्तरांश्च बाह्यीकृत्य पर्षधारिता इति; भगवानाह: न भिक्षव एतर्हि, यथा अतीतेऽप्यध्वन्यनेन सबाह्यानभ्यन्तरीकृत्य अभ्यन्तरांश्च बाह्यीकृत्य पर्षधारिता; तच्छ्रूयताम् ______________________________________________________________ थे स्तोर्योf अ जच्कल्, शतद्रु ब्य्नमे (चोन्चेर्निन्ग प्रेविओउस्लिfए ओf देवदत्त) भूतपूर्वं भिक्षवः अन्यतमस्मिन् प्रदेशे सृगालः प्राणी प्रतिवसति; स अतिलोलुपः अरण्ये पर्यटति ग्रामेऽपि; सोऽनुपूर्वेण पर्यटन्नीलरजकगृहं प्रविष्टः; नीलकुण्डे पतितः; तेन घृणा गृहीता; तस्य नातिदूरे ऊषस्य पुञ्जस्तिष्ठति; स तस्मिन् पतितः पार्श्वेन पार्श्वं लुठितः; स भूयस्या मात्रया शरीरं जुगुप्समानः पानीये पतितः; उत्थाय संप्रस्थितः आदित्यरश्मिस्पृष्टः मेचकवर्णो जातः; यावत्सृगालैर्दृष्टः; ते समन्ताद्विद्रुताः; दूरे स्थित्वा कथयन्ति: कस्त्वं? कुतो वा अभ्यागतः? इति; स कथयति: (इ २१२) अहं शतद्रुनामा शक्रेण देवेन्द्रेण चतुष्पदानां राज्ये अभिषिक्तः इति; सृगालाः संलक्षयन्ति: अपूर्वरूपोऽयं; नूनमेवं भविष्यति इति; सृगालैः सर्वचतुष्पदानां निवेदितं; सिंहाः संलक्षयन्ति: कोऽसावस्मत्प्रतिविशिष्टो यश्चतुष्पदानां राजा भविष्यति? गच्छामस्तावत्; स्वस्य यूथपतेर्निवेदयामः इति; तेषां यूथपतिरन्यतमस्मिन् पर्वतैकदेशे निवसति; स केसरी पट्टधारी; तैस्तस्य निवेदितं; तेनान्यचतुष्पदस्य आज्ञा दत्ता: गच्छ चतुष्पदाधिपतिं निरीक्षस्व किमसौ केनचिच्चतुष्पदेन दृष्टो न वा इति; स तेन गत्वा प्रत्यवेक्षितः अपूर्वदर्शनः; सर्वैश्चतुष्पदैः परिवृतः स्थापयित्वा सिंहान्; तेन तस्य यथादृष्टं गत्वा निवेदितं; स श्रुत्वा सिंहयूथपरिवृतः तस्य सकाशमभिगतः; सोऽनेकचतुष्पदपरिवृतः हस्तिस्कन्धाभिरूढः अन्वाहिण्डते; तं परिवार्य सिंहा गच्छन्ति; ततो व्याघ्राः; ततोऽन्ये चतुष्पदाः; तेषां बहिर्दूरेण सृगालाः; तस्य माता अन्यस्मिन् पर्वतकुञ्जे प्रतिवसति; तस्यास्तेन सृगालः प्रेषितः: आगच्छ पुत्रराज्यं प्रत्यनुभव इति; सा कथयति: कीदृशः तस्य परिवारः? इति; स कथयति: सिंहव्याघ्रा हस्तिनश्च अभ्यन्तरपरिवारः; वयं तु बाह्याः इति; सा कथयति: गच्छ; विनष्टः स इति; सा गाथां भाषते सुखं वसाम्यस्य गिरेर्निकुञ्जे स्वस्था जलं शीतमहं पिबन्ति । तावत्सुखं गच्छति हस्तिनासौ शृणोति यावन्न सृगालशब्दम् ॥ इति स गतः; तेन तेषां सृगालानां निवेदितं: सृगाल एवायं चतुष्पदानां राजा; दृष्टास्य मया माता, या अमुष्मिन् पर्वतनिकुञे प्रतिवसति इति; ते कथयन्ति: यद्येवं वयमेनं ज्ञास्यामः सृगालो वा न वा इति; धर्मता ह्येषा सृगालानां यः सृगालशब्दं श्रुत्वा न वाशते, तस्य रोमाणि पतिष्यन्ति; सृगाला वाशितुमारब्धाः; स संलक्षयति: यद्यहं न रौमि, नियतं मम रोमाणि पतिष्यन्ति; यदि (अ ५०२ ) हस्तिस्कन्धादवतीर्य रविष्यामि, मामेते प्रघातयिष्यन्ति; अत्रैव विरौमि इति; स हस्तिस्कन्ध एव वाशितुमारब्धः; हस्तिना ज्ञातं सृगालो मां वहतीति; तेनासौ पातयित्वा पद्भ्यां मर्दितः; देवता गाथां भाषते (इ २१३) यस्य वाभ्यन्तरा बाह्या बाह्या वाभ्यन्तरीकृताः । स एवं निधनं याति हस्तिना क्रोष्टुको यथा ॥ इति किं मन्यध्वे भिक्षवो योऽसौ सृगालः एष एव स देवदत्तः तेन कालेन तेन समयेन; तदाप्येष अभ्यन्तरान् बाह्यीकृत्य बाह्यांश्च अभ्यन्तरीकृत्य अनयेन व्यसनमापन्नः; एतर्ह्यप्यनेन अभ्यन्तरान् बाह्यीकृत्य बाह्यांश्च अभ्यन्तरीकृत्य परिषधारिता ______________________________________________________________ देवदत्त गेत्सन्ग्र्य्wइथ्कोकालिक अन्द्खण्डद्रव्य यदा आयुष्मद्भ्यां शारिपुत्रमौद्गल्यायनाभ्यां देवत्तस्य पर्षदपहृता तदा देवदत्तः कोकालिकं खण्डद्रव्यं च ताडयितुमारब्धः: युवाभ्यां मम पर्षधारिता इति; भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: पश्य भदन्त अन्यैर्देवदत्तस्य पर्षदपहृता; अन्येषामनेन दुःखमुत्पादितमिति; भगवानाह: न भिक्षव एतर्हि; यथा अतीतेऽप्यध्वन्यन्येनैवास्य भार्या अपहृता; अन्येषामनेन दुःखमुत्पादितं; तच्छ्रूयताम् ______________________________________________________________ थे स्तोर्योf थे एलेफन्त् (चोन्चेर्निन्ग प्रेविओउस्लिfए ओf देवदत्त) भूतपूर्वं भिक्षवः अन्यतमस्मिन् प्रदेशे हस्तियूथपतिः प्रतिवसति; तत्राप्यन्यतमस्य हस्तिनोऽन्यतरा हस्तिनी बहुमता; सान्यतमस्मिन् कलभकेऽत्यर्थं सक्ता; तयासौ कलभ उच्यते; निष्पलायामहे इति; स कथयति: कोऽसावुपायो येन निष्पलाय्यामहे इति; सा कथयति: अहमुपायं जाने; तयोर्गजोऽभिहितः; स्नायामो ह्रदमवतरामः इति; सोऽवतीर्णः; सा कथयति: पश्यामः कः आवयोश्चिरतरं निमग्नस्तिष्ठति इति; स मोहपुञ्जस्तया सार्धमुदके निमग्नः; सा उत्थाय कलभहस्तिना निष्पलायिता; स हस्ती चिरं स्थित्वा उत्थितो न पश्यति; स संलक्षयति: भूयो निमज्जामि मा मे स्यात्पराजयः इति; भूयो निमग्नः दन्तौ निखात्यावस्थितः सुचिराद्गतप्रत्युद्गतप्राणः; व्युत्थितो न पश्यति तां हस्तिनीं; स तं ह्रदमितश्चामुतश्च क्षोभयितुमारब्धः; तेन तत्र बहवो मत्स्यकच्छपमण्डूकादयः प्राणिनोऽनयेन व्यसनमापदिताः; देवता गाथां भाषते (इ २१४) वृन्दी बतायं सुमहान् प्रज्ञाप्यस्य न विद्यते । अन्येनास्य हृता भार्या अन्ये दुःखस्य भागिनः ॥ इति किं मन्यध्वे भिक्षवो योऽसौ हस्तिनागः देवदत्तः सः तेन कालेन तेन समयेन; तदाप्यस्य अन्येन भार्या अपहृता; अन्येषामनेन दुःखमुत्पादितं उद्दानम् वीचिः सान्दृष्टिकं चैव वध उत्पलवर्णया । कुण्डी त्रयं तथा क्षीरं गोपिका च क्षमापणा । अस्थीनि चेतिकश्चैव पक्षिणा चरमं पदम् ॥ भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: पश्य भदन्त आयुष्मद्भ्यां (अ ५०२ ) शारिपुत्रमौद्गल्यायनाभ्यां देवदत्तस्य वीचिमागमयमानाभ्यां वीचिर्लब्धः इति; भगवानाह: न भिक्षव एतर्हि; यथा अतीतेऽप्यध्वनि शारिपुत्रमौद्गल्यायनाभ्यां देवदत्तस्य वीचिमागमयमानाभ्यां वीचिर्लब्धः; तच्छ्रूयताम् ______________________________________________________________ थे स्तोर्योf अ लेअदेरोf थे थिएवेस् (चोन्चेर्निन्ग प्रेविओउस्लिfए ओf देवदत्त, एत्च्) भूतपूर्वं भिक्षवः अन्यतमस्मिन् कर्वटके इष्वस्त्राचार्यः प्रतिवसति; तेन सदृशात्कुलात्कलत्रमानीतं; स तया सार्धं क्रीडति रमते परिचारयति; तस्य क्रीडतो रममाणस्य परिचारयतः कालान्तरेण पत्नी आपन्नसत्वा संवृत्ता; सा अष्टानां वा नवानां वा मासानामत्ययात्प्रसूता; दारिका जाता; तस्यास्त्रीणि सप्तकान्येकविंशतिदिवसान् विस्तरेण जाताया जातिमहं कृत्वा कुलसदृशं (इ २१५) नामधेयं व्यवस्थापितं; सा उन्नीता वर्धिता महती संवृत्ता; इष्वस्त्राचार्यः संलक्षयति: इयं दारिका न मया कस्यचिद्रूपेण दातव्या न शीलेन नापि धनेन; अपि तु यो मत्सकाशात्पंचसु स्थानेषु कृतावी भवति, तस्यैषा मया देया इति; तस्य च सकाशाद्द्वौ माणवौ इष्वस्त्रं शिक्षितौ; तत्रैकः पंचसु स्थानेषु कृतावी; द्वितीयस्तु छेद्ये कृतावी संवृत्तः; तस्मै तेन सा दारिका दत्ता; सोऽन्यः संजातामर्षः चोराणां मध्यं प्रविष्टः, पंचानां चोरशतानां सेनापतिर्जातः; स एकस्मिन् प्रदेशे मार्गं बध्वा अवस्थितः; प्रथमस्तां पत्नीं परिणीय रथ आरोप्य स्वगृहं संप्रस्थितः; यावच्चोरभयात्सार्थः अग्रतो गच्छन् स्थितः; स कथयति: भवन्तो गच्छत; किं तिष्ठथ? इति; ते कथयन्ति: चोरैर्मार्गो बद्धः इति; स कथयति: आर्या गच्छत; किं करिष्यन्ति इति; स संप्रस्थितः; सार्थिकाः कथयन्ति: भवन्तो गच्छत्वेषः; तिष्ठामस्तावत्; स्थानमेतद्विद्यते यदयमात्मानं दारयिष्यति; पत्नीं च हारयिष्यति इति; चोरा वृक्षमधिरुह्य दिगवलोकनं कुर्वन्तोऽवस्थिताः; तैरसौ रथाभिरूढो दृष्टः; कथयन्ति: भवन्तः पुरुषो रथाभिरूढः आगच्छति इति; चोरसेनापतिना दूतोऽनुप्रेषितः: निवर्तय रथमिति; स कथयति: भवन्तः शूरस्य शूरपरिहारं प्रयच्छत इति; ते कथयन्ति: वयमपि शूराः इति; सेनापतिना पंच चोराः प्रेषिताः; तेन ते प्रघातिताः; एवं विंशतिरागताः, तेऽपि प्रघातिताः; यावत्सर्वे प्रघातिताः; सेनापतिरेकोऽवशिष्टः; स खड्गमादाय अग्रतः स्थितः; स शरान् क्षेप्तुमारब्धः; स खद्गेन छिनत्ति; यावत्तेन पंचशतिकस्तूणीरः क्षिप्तः; तेन सर्वे खड्गेन छिन्नाः; एकः शरोऽवस्थितः; स तं न मुञ्चति; सा दारिका कथयति: मुञ्च शरं; किमर्थं तिष्ठति? इति; स कथयति: एष एव एकोऽवशिष्टः, एष चेन्मुक्तः, अहं प्रघातितः; त्वं चापहृता इति; ततः सा दारिका विजृम्भमाणा वेणिं बन्धुमारब्धा; चोरसेनापतिस्तस्यामवेक्षमाणायां निरीक्षितुमारब्धः; स तेन शरेण मर्मणि ताडितः; स म्रियमाणो गाथां भाषते (इ २१६) (अ ५०३ ) नाहं रथिकेन हतो हतोऽस्मि लोलेन पापचित्तेन । योऽहं रणमध्यगतः प्रमदावदनं निरीक्षामि ॥ इति किं मन्यध्वे भिक्षवो योऽसौ रथिकः शारिपुत्रः सः तेन कालेन तेन समयेन; यासौ दारिका मौद्गल्यायनः सः तेन कालेन तेन समयेन; योऽसौ चोरसेनापतिर्देवदत्तः सः तेन कालेन तेन समयेन; तदा आभ्यामस्य वीचिं पर्येषमाणाभ्यां वीचिर्लब्धा; एतर्ह्यपि आभ्यामस्य वीचिं पर्येषमाणाभ्यां वीचिर्लब्धा ______________________________________________________________ थे fरुइतोf मोनछल्लिfए इन् थे विसिब्ले wओर्ल्दजातशत्रु विसित्स्थे बुद्ध १. बुद्धो भगवान् राजगृहे वर्षा उपगतो जीवकस्य कुमारभृतस्य आम्रवणे; अथ राजा मागधः अजातशत्रुर्वैदेहीपुत्रः तदैव ज्योत्स्नायां रात्र्यामाषाढ्यां वर्षोपनायिकायामभिज्ञातायामभिलक्षितायां पूर्णायां पौर्णमास्यामुपरिप्रासादतलगतः अमात्यानामन्त्रयते: हम्भो ग्रामण्यः एवंरूपायां ज्योत्स्नायां रात्र्यामाषाढ्यां वर्षोपनायिकायामभिज्ञातायामभिलक्षितायां पूर्णायां पौर्णमास्यां किमस्माभिः करणीयं स्यात्? २. अथान्यतमा अवरुद्धिका स्त्री राजानमजातशत्रुं वैदेहीपुत्रमिदमवोचत्: एवंरूपायां देव ज्योत्स्नायां रात्र्यामाषाढ्यां वर्षोपनायिकायामभिज्ञातायामभिलक्षितायां पूर्णायां पौर्णमास्यां यद्देवः पंचभिः कामगुणैः समर्पितः समन्वङ्गीभूतः क्रीडेद्रमेत परिचारयेदिदमहं देवस्य करणीयं मन्ये ३. अथान्यतमा अवरुद्धिका एवमाह: एवंरूपायां देव ज्योत्स्नायां रात्र्यामाषाढ्यां वर्षोपनायिकायामभिज्ञातायामभिलक्षितायां पूर्णायां पौर्णमास्यां यद्देवः राजगृहस्य नगरस्य अनुपर्यायपथकानन्वाहिण्डन् पंचभिः कामगुणैः समर्पितः समन्वङ्गीभूतः क्रीडेद्रमेत परिचारयेदिदमहं देवस्य करणीयं मन्ये ४. उदायिभद्र कुमारः एवमाह: एवंरूपायां देव ज्योत्स्नायां रात्र्यामाषाढ्यां वर्षोपनायिकायामभिज्ञातायाम् (इ २१७) अभिलक्षितायां पूर्णायां पौर्णमास्यां यद्देवश्चतुरङ्गबलकायं सन्नाह्य हस्तिकायं रथकायमश्वकायं पत्तिकायं परराष्ट्रं परविषयं गत्वा महान्तं सङ्ग्रामं सङ्ग्राम्य विजितसंग्रामः तदैव संग्रामशिरसि निर्जितोऽध्यावसेद्; इदमहं देवस्य करणीयं मन्ये ५. अथान्यतरो वृद्धामात्यः एवमाह: एवंरूपायां देव ज्योत्स्नायां रात्र्यामाषाढ्यां वर्षोपनायिकायामभिज्ञातायामभिलक्षितायां पूर्णायां पौर्णमास्यामयं देवः पूरणः काश्यपः संघी च गणी च गणाचार्यश्च साधुरूपसंमतो बहुजनस्य महता च जनकायेन संपुरस्कृतः पंचमात्राणामाजीविकशतानां प्रमुखः; सोऽस्मिन् राजगृहे वर्षा उपगतः; तं देवः पर्युपासीत; इदमहं देवस्य करणीयं मन्ये ६. अथान्यतरो वृद्धामात्यः एवमाह: एवंरूपायां देव ज्योत्स्नायां रात्र्याम् (अ ५०३ ) आषाढ्यां वर्षोपनायिकायामभिज्ञातायामभिलक्षितायां पूर्णायां पौर्णमास्यामयं देवः मस्करी गोशालीपुत्रः सञ्जयी वैरट्टीपुत्रः अजितः केशकम्बलः ककुदः कात्यायनः तथा च निर्ग्रन्थो ज्ञातिपुत्रः संघी च गणी च गणाचार्यश्च साधुरूपसंमतो बहुजनस्य महता च गणेन संपुरस्कृतः अमुष्मिन्नेव राजगृहे वर्षा उपगतः; तं देवः पर्युपासीत; इदमहं देवस्य करणीयं मन्ये ७. तेन खलु समयेन जीवकः कुमारभृतः तस्यामेव पर्षदि सन्निषण्णोऽभूत्सन्निपतितः; अथ राजा मागधः अजातशत्रुर्वैदेहीपुत्रः जीवकं कुमारभृतमामन्त्रयते: अहो जीवक किमसि तुष्णीं? किं न लपसि? स कथयति: एवंरूपायां देव ज्योत्स्नायां रात्र्यामाषाढ्यां वर्षोपनायिकायामभिज्ञातायामभिलक्षितायां पूर्णायां पौर्णमास्यामयं देवः भगवान् संघी च गणी च गणाचार्यश्च साधुरूपसंमतो बहुजनस्य महता गणेन च संपुरस्कृतः अस्मिन्नेव राजगृहे वर्षा उपगतः अस्माकमेव आम्रवणे; तं देवः पर्युपासीत; इदमहं देवस्य करणीयं मन्ये ८. तेन खलु समयेन राज्ञो मागधस्य अजातशत्रोर्वैदेहीपुत्रस्य (इ २१८) भगवन्निम्मं चित्तं भगवत्प्रवणं भगवत्प्राग्भारं; अथ राजा मागधः अजातशत्रुर्वैदेहीपुत्रः जीवकं कुमारभृतमिदमवोचत्: गछ जीवक हस्तिनागं सन्नाहय यत्राहमभिरूढः अद्यैव भगवन्तं दर्शनाय उपसंक्रमिष्यामि; एवं देवेति जीविकः कुमारभृतो राज्ञो मागधस्य अजातशत्रोर्वैदेहीपुत्रस्य प्रतिश्रुत्य महान्तं हस्तिनागं सन्नाह्य पंचमात्राणि हस्तिनीशतानि पंचमात्राणि अवरुद्धिकाशतानि प्रदीपिकाहस्तानि प्रत्येकप्रत्येकं हस्तिनीष्वारोप्य येन राजा मागधः अजातशत्रुस्तेनोपसंक्रान्तः; उपसंक्रम्य राजानं मागधमजातशत्रुं वैदेहीपुत्रमिदमवोचत्: सन्नद्धो देवस्य महान् हस्तिनागः; यस्येदानीं देवः कालं मन्यते इति; अथ राजा मागधः अजातशत्रुर्वैदेहीपुत्रः महान्तं हस्तिनागमभिरुह्य पंचमात्रैरवरुद्धिकाशतैः प्रत्येकप्रत्येकं हस्तिनीष्वभिरूढैः प्रदीपिकाहस्तैः संपुरस्कृतो राजगृहान्निर्याति भगवतोऽन्तिकं भगवन्तं दर्शनाय उपसंक्रमितुं प्रत्युपासनाय ९. तेन खलु समयेन राजा मागधः अजातशत्रुर्वैदेहीपुत्रः वृजिभिः सार्धं विरुद्धः; अथो राज्ञो मागधस्य अजातशत्रोर्वैदेहीपुत्रस्य समनन्तरनिष्क्रान्तस्य राजगृहादभूद्भयमभूत्छम्भितत्वमभूद्रोमहरः: मा मे जीवकः कुमारभृतः घातयितुकामो भवति? वञ्चयितुकामो वा? वधकेभ्यः प्रत्यमित्रेभ्यो वा अनुप्रदापयितुकामः? इति विदित्वा जीविकं कुमारभृतमिदमवोचत्: मासि मां जीविक घातयितुकामो वा लापयितुकामो वा वञ्चयितुकामो वा (अ ५०४ ) वधकेभ्यो वा प्रत्यर्थिकेभ्यः प्रत्यमित्रेभ्यो वा अनुप्रदापयितुकामः? स एवमाह: नाहं देव त्वां घातयितुकामः न लापयितुकामः न वञ्चयितुकामः नापि वधकेभ्यः प्रत्यर्थिकेभ्यः प्रत्यमित्रेभ्यो वा अनुप्रदापयितुकामः इति १०. अथ राजा मागधः अजातशत्रुर्वैदेहीपुत्रः जीविकं कुमारभृतमिदमवोचत्: कियत्परिवारः स भगवान् सातिरेकान्यस्य अर्धत्रयोदशभिक्षुशतानि; अहो जीवक कथं त्वं मां न घातयितुकामो वा न लापयितुकामो वा नापि वधकेभ्यो वा प्रत्यर्थिकेभ्यः प्रत्यमित्रेभ्यो वा अनुप्रदापयितुकामः? यत्रेदानीमियत्परिवारस्य नैवोत्कासनशब्दः श्रूयते? अल्पशब्दकामो देव स भगवानल्पशब्दनिरतः अल्पशब्दसंतुष्टः (इ २१९) अल्पशब्दतायाश्च स वर्णवादी; तस्य पर्षदल्पशब्दैव; तेन हि देव त्वरितत्वरितं महान्तं हस्तिनागं प्रेरय; तथा ह्यालोक्यते मण्डलवाटे तैलप्रद्योतनाभा; अथ राजा मागधः अजातशत्रुर्वैदेहीपुत्रः त्वरितत्वरितं महान्तं हस्तिनागं प्रेरयति; तस्य यावती यानस्य भूमिस्तावद्यानेन गत्वा तस्मादवतीर्य पद्भ्यामेवारामं प्राविक्षत् ११. तेन खलु समयेन भगवान्मध्ये भिक्षुसंघस्य निषण्णः ह्रद इवाच्छो विप्रसन्नः अनाविलः; अथ राजा मागधः अजातशत्रुर्वैदेहीपुत्रः मण्डलवाटमनुसंयाय जीवकं कुमारभृतमामन्त्रयते: कुत्र जीवक स भगवानेष देव भगवान्मध्ये भिक्षुसंघस्य निषण्णः ह्रद इवाच्छो विप्रसन्नोऽनाविलः; अथ राजा मागधः अजातशत्रुर्वैदेहीपुत्रः येन भगवांस्तेनोपसंक्रान्तः; उपसंक्रम्य एकांसमुत्तरासङ्गं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस्तेनाञ्जलिं प्रणमय्य भगवनत्मिदमवोचत्: यद्रूपेण भदन्त भगवान् चित्तदमव्युपशमेन समन्वागतो भिक्षुसंघश्च तद्रूपेण चित्तदमव्युपशमेन समन्वागतो उदायिभद्रः कुमारः भवतु इति; साधु साधु महाराज प्रवक्ष्यामि, महाराज स्वकं प्रेम; निषीद त्वं महाराज यथास्वके आसने ______________________________________________________________ अजातशत्रु अस्क्स्थे बुद्ध इf इतिस्पोस्सिब्ले तो स्होw अन्य्विसिब्ले बेनेfइत्तो बे देरिवेद्fरोमस्चेतिचिस्म् १२. अथ राजा मागधः अजातशत्रुर्वैदेहीपुत्रः भगवतः पादौ शिरसा वन्दित्वा एकान्ते न्यषीदद्; एकान्तनिषण्णो राजा मागधः अजातशत्रुर्वैदेहीपुत्रः भगवन्तमिदमवोचत्: पृच्छेम वयं भदन्त भगवन्तं कंचिदेव प्रदेशं सचेदवकाशं कुर्यात्प्रश्नस्य व्याकरणाय; पृच्छ महाराज यदेवाकाङ्क्षसे १३. इमे भदन्त पृथक्शिल्पस्थानकर्मस्थानिकाः; तद्यथा (इ २२०) मालाकाराः नडकाराः नैषद्यिकाः यावसिकाः सूताः हस्त्यारोहाः अश्वारोहाः रथिकाः त्सरुकाः धनुर्ग्रहाः सेवाः चेटाः पिण्डभुजः उग्राः शूराः प्रस्कन्दिनः महानग्नाः राजपुत्राः आराधकाः कल्पकाः स्नपकाः; ते स्वकस्वकैः शिल्पस्थानकर्मस्थानैः कृत्यानि कुर्वन्ति, दानानि ददति, पुण्यानि कुर्वन्ति, भृत्यान् (अ ५०४ ) बिभ्रति; पंचभिश्च कामगुणैः समर्पिताः समन्वङ्गीभूताः क्रीडन्ति रमन्ते परिचारयन्ति; लभ्यमेवंरूपाणां सान्दृष्टिकं श्रामण्यफलं प्रज्ञप्तुम्? अभिजानासि त्वं महाराज इतः पूर्वमन्यानपि श्रमणब्राह्मणानेवंरूपं प्रश्नं प्रष्टु? अभिजानामि भदन्त ______________________________________________________________ अजातशत्रु नर्रतेस्होw हे प्रोपोउन्देद्थिस्समे ॠउएस्तिओन् तो पूरण काश्यप, एत्च्., अन्दन्योf थेमेxपोउन्देधिं हिसोwन् थेओर्य् १४. एकोऽयं भदन्त समयः, अहं येन पूरणः काश्यपः तेनोपसंक्रान्तः; उपसंक्रम्य पूरणं काश्यपमेवं वदामि: इमे भदन्त कास्यप पृथग्लोकेशिल्पस्थानकर्मस्थानिकाः; तद्यथा मालाकाराः नडकाराः नैषद्यिकाः यावसिकाः सूताः हस्त्यारोहाः अश्वारोहाः रथिकाः त्सरुकाः धनुर्ग्रहाः सेवाः चेटाः पिण्डभुजः उग्राः शूराः प्रस्कन्दिनः महानग्नाः राजपुत्राः आराधकाः कल्पकाः स्नपकाः; ते स्वकस्वकैः शिल्पस्थानकर्मस्थानैः कृत्यानि कुर्वन्ति, दानानि ददति, पुण्यानि कुर्वन्ति, भृत्यान् बिभ्रति; पंचभिश्च कामगुणैः समर्पिताः समन्वङ्गीभूताः क्रीडन्ति रमन्ते परिचारयन्ति; लभ्यमेवंरूपाणां सान्दृष्टिकं श्रामण्यफलं प्रज्ञप्तुम् १५. स एवमाह: अहमस्मि महाराज एवंदृष्टिरेवंवादी; नास्ति दत्तं नास्ति इष्टं नास्ति हुतं नास्ति सुचरितं नास्ति सुचरितदुश्चरितानां कर्मणां फलविपाकः नास्त्ययं लोकः नास्ति परलोकः नास्ति माता नास्ति पिता नास्ति सत्व उपपादुकः न सन्ति (इ २२१) लोकेऽर्हन्तः सम्यग्गताः सम्यक्प्रतिपन्नाः ये इमं च लोकं परं च लोकं दृष्ट एव धर्मे स्वयमभिज्ञया साक्षात्कृत्वा उपसंपद्य प्रवेदयन्ते: क्षीणा मे जातिः उषितं ब्रह्मचर्यं कृतं करणीयं नापरमस्माद्भवं प्रजानीमः इति; इहैव जीवो जीवति स प्रेत्योच्छिद्यते विनश्यति न भवति परं मरणाद्चातुर्महाभौतिकः पुरुषस्य समुच्छ्रयः; यस्मिन् समये कालं करोति तस्य पृथिव्यां पृथिवीकायः उपैति; अप्सु अप्कायः; तेजसि तेजःकायः; वायौ वायुकायः; आकाशे इन्द्रियाण्यनुपरिवर्तन्ते; आसन्दीपञ्चमाः पुरुषाः पुरुषमादाय श्मशानमनुव्रजन्त्यादहनात्परं न प्रज्ञायते; भस्मीभवन्ति आहुतयः; कपोतवर्णान्यस्थीन्यवतिष्ठन्ति इति; दृप्तोपज्ञातं दानं; पण्डितोपज्ञातः परिग्रहः; तत्र ये अस्तिवादिनः सर्वे ते रिक्तं तुच्छं मृषा प्रलपन्ति इति बालश्च पण्डितश्च उभावपि एतौ प्रेत्य उच्छिद्येते विनश्यतः न भवतः परं मरणात् १६. तद्यथा भदन्त आम्राणि पृष्टः लकुचानि व्याकुर्यात्, लकुचानि वा पृष्टः आम्राणि व्याकुर्यादेव पूरणः काश्यपः मया सान्दृष्टिकं श्रामण्यफलं पृष्टः नास्तितामेव व्याकार्षीत्; तस्य मम भदन्त एतदभवत्; न मम प्रतिरूपं स्याद्यन्मादृशो विज्ञपुरुषः साधुरूपसंमतं विषयनिवासिनं श्रमणं वा ब्राह्मणं वा संमुखमवसादयेदिति; सोऽहं भदन्त पूरणस्य काश्यपस्य भाषितं नाभिनन्दामि न प्रतिक्रोशामि; (अ ५०५ ) अनभिनन्द्य अप्रतिक्रोश्य उत्थायासनात्प्रक्रान्तः ______________________________________________________________ मस्करी गोशालिपुत्रऽ थेओर्य् १७. सोऽहं येन मस्करी गोशालिपुत्रः तेनोपसंक्रान्तः; उपसंक्रम्य मस्करिणं गोशालिपुत्रमेवं वदामि: इमे भदन्त मस्करिन् पृथग्लोकेशिल्पस्थानकर्मस्थानिकाः; तद्यथा मालाकाराः नडकाराः नैषद्यिकाः यावसिकाः सूताः हस्त्यारोहाः अश्वारोहाः रथिकाः त्सरुकाः धनुर्ग्रहाः सेवाः चेटाः पिण्डभुजः उग्राः शूराः प्रस्कन्दिनः महानग्नाः राजपुत्राः आराधकाः कल्पकाः स्नपकाः; ते स्वकस्वकैः शिल्पस्थानकर्मस्थानैः कृत्यानि कुर्वन्ति, दानानि ददति, पुण्यानि कुर्वन्ति, भृत्यान् बिभ्रति; पंचभिश्च कामगुणैः समर्पिताः समन्वङ्गीभूताः क्रीडन्ति रमन्ते परिचारयन्ति; लभ्यमेवंरूपाणां सान्दृष्टिकं श्रामण्यफलं प्रज्ञप्तुम् १८. स एवमाह: अहमस्मि महाराज एवंदृष्टिरेवंवादी; नास्ति हेतुः नास्ति प्रत्ययः; सत्वा संक्लिष्यन्ते? अहेत्वप्रत्ययं सत्वाः संक्लिष्यन्ते; नास्ति हेतुः नास्ति प्रत्ययः सत्वाः विशुध्यन्ते (इ २२२) अहेत्वप्रत्ययं सत्वा विशुध्यन्ते; नास्ति हेतुर्नास्ति प्रत्ययः; सत्वानामज्ञानादर्शने भवतः अहेत्वप्रत्ययं सत्वानामज्ञानादर्शने भवतः; नास्ति हेतुर्नास्ति प्रत्ययः; सत्वानां ज्ञानादर्शने भवतः? अहेत्वप्रत्ययं सत्वानां ज्ञानादर्शने भवतः; नास्ति बलं नास्ति वीर्यं नास्ति बलवीर्यं नास्ति पुरुषकारः नास्ति पराक्रमाः नास्ति पुरुषकारपराक्रमः; नास्त्यात्मकारः न परकारः अनात्मकारपरकाराः सर्वे भूताः अस्थामा अबला अवशा अवीर्या अपराक्रमाः नियतसंगतिभावपरिणताः सुखदुःखं प्रतिसंवेदयन्ते यदुत षट्स्वभिजातिषु १९. तद्यथा पुरुषः आम्राणि पृष्टः लकुचानि व्याकुर्यात्, लकुचानि वा पृष्टः आम्राणि व्याकुर्यादेवमेव मस्करी गोशालिपुत्रः मया सान्दृष्टिकं श्रामण्यफलं पृष्टः अहेतुतामेव व्याकार्षीत्; तस्य मम एतदभवत्; कथमिदानीं मादृशो विज्ञपुरुषः साधुरूपसंमतं विषयनिवासिनं श्रमणं वा ब्राह्मणं वा संमुखमवसादयेदिति; सोऽहं मस्करिणो गोशालिपुत्रस्य भाषितं नाभिनन्दामि न प्रतिक्रोशामि; अनभिनन्द्य अप्रतिक्रोश्य उत्थाय आसनात्प्रक्रान्तः ______________________________________________________________ सञ्जयी वैरट्टीपुत्रऽस्थेओर्य् २०. सोऽहं येन सञ्जयी वैरट्टीपुत्रस्तेनोपसंक्रान्तः; उपसंक्रम्य सञ्जयिनं वैरट्टीपुत्रमिदमवोचम्: इमे भदन्त सञ्जयिन् पृथग्लोकेशिल्पस्थानकर्मस्थानिकाः; तद्यथा मालाकाराः नडकाराः नैषद्यिकाः यावसिकाः सूताः हस्त्यारोहाः अश्वारोहाः रथिकाः त्सरुकाः धनुर्ग्रहाः सेवाः चेटाः पिण्डभुजः उग्राः शूराः प्रस्कन्दिनः महानग्नाः राजपुत्राः आराधकाः कल्पकाः स्नपकाः; ते स्वकस्वकैः शिल्पस्थानकर्मस्थानैः कृत्यानि कुर्वन्ति, दानानि ददति, पुण्यानि कुर्वन्ति, भृत्यान् बिभ्रति; पंचभिश्च कामगुणैः समर्पिताः समन्वङ्गीभूताः क्रीडन्ति रमन्ते परिचारयन्ति; लभ्यमेवंरूपाणां सान्दृष्टिकं श्रामण्यफलं प्रज्ञप्तुम् २१. स एवमाह: अहमस्मि महाराज एवंदृष्टिरेवंवादी; कुर्वतः कारयतः छिन्दतः छेदयतः पचतः पाचयतः हिंसतो घातयतः प्राणिनो हिंसतः अदत्तमाददतः कामेषु मिथ्या चरतः संप्रजानं (अ ५०५ ) मृषावादं भाषमाणस्य मद्यपानं (इ २२३) पिबतः सन्धिं छिन्दतो ग्रन्थिं मुञ्चतः निर्लोपं हरतः परिपन्थं तिष्ठतः; ग्रामघातं कुर्वतः, नगरघातं जनपदघातं क्षुरपर्यन्तीकृतेन वा चक्रेण येऽस्यां महापृथिव्यां प्राणिनस्तान् सर्वान् संछिन्दतः संभिन्दतः संकुट्टयतः संप्रदालयतः तान् सर्वान् संछिन्द्य संभिन्द्य संकुट्ट्य संप्रदाल्य एकमांसखलं कुर्वतः मांसपिण्डं मांसपुञ्जं मांसराशिम्; इदं प्रतिसंशिक्षतो नास्त्यतोनिदानं पापं नास्त्यतोनिदानं पापस्यागमः दक्षिणेन नदीं गङ्गां छिन्दन् भिन्दन् वागच्छेदुत्तरेण वा नद्या गंगाया ददद्व्यजमानाः आगच्छेन्नास्त्यतोनिदानं पुण्यपापं; नास्त्यतोनिदानं पुण्यपापस्यागमः; यदुत दानेन दमेन संयमेन अर्थचर्यया समानार्थतया इति कुर्वता न क्रियत एव पुण्यमिति २२. तद्यथा भदन्त पुरुषः आम्राणि पृष्टः लकुचानि व्याकुर्यात्, लकुचानि वा पृष्टः आम्राणि व्याकुर्यादेवमेव सः; मया सञ्जयी वैरट्टीपुत्रः सान्दृष्टिकं श्रामण्यफलं प्रश्नं पृष्टः अक्रियामेव व्याकार्षीत्; तस्य मम एतदभवत्; कथमिदानीं मादृशो विज्ञपुरुषः साधुरूपसंमतं विषयनिवासिनं श्रमणं वा ब्राह्मणं वा संमुखमवसादयेदिति; सोऽहं सञ्जयिनो वैरट्टीपुत्रस्य भाषितं नाभिनन्दामि न प्रतिक्रोशामि; अनभिनन्द्य अप्रतिक्रोश्य उत्थायासनात्प्रक्रान्तः ______________________________________________________________ अजित केशकम्बलऽस्थेओर्य् २३. सोऽहं येन अजितः केशकम्बलस्तेनोपसंक्रान्तः; उपसंक्रम्य अजितं केशकम्बलमिदमवोचम्: इमे भदन्त अजित पृथग्लोकेशिल्पस्थानकर्मस्थानिकाः; तद्यथा मालाकाराः नडकाराः नैषद्यिकाः यावसिकाः सूताः हस्त्यारोहाः अश्वारोहाः रथिकाः त्सरुकाः धनुर्ग्रहाः सेवाः चेटाः पिण्डभुजः उग्राः शूराः प्रस्कन्दिनः महानग्नाः राजपुत्राः आराधकाः कल्पकाः स्नपकाः; ते स्वकस्वकैः शिल्पस्थानकर्मस्थानैः कृत्यानि कुर्वन्ति, दानानि ददति, पुण्यानि कुर्वन्ति, भृत्यान् बिभ्रति; पंचभिश्च कामगुणैः समर्पिताः समन्वङ्गीभूताः क्रीडन्ति रमन्ते परिचारयन्ति; लभ्यमेवंरूपाणां सान्दृष्टिकं श्रामण्यफलं प्रज्ञप्तुम् (इ २२४) २४. एवमुक्तः अजितः केशकम्बलः मामिदमवोचत्: अहमस्मि महाराज एवंदृष्टिरेवंवादी; सप्त इमे कायाः अकृताः अकृतकृताः अनिर्मिताः अनिर्माणकृताः अवध्याः कूटस्थाः इषीकावदवस्थितः; कतमे सप्त तद्यथा पृथिवीकायः अप्कायः तेजःकायः वायुकायः सुखं दुःखं जीवजीवमेव सप्तममितीमे सप्त कायाः अकृताः अकृतकृताः अनिर्मिताः अनिर्माणकृताः अवध्याः कूटस्थाः इषीकावदवस्थितः; ते नेञ्जन्ति; न परिणमन्ति; नान्योन्यं व्याबाधन्ते पुण्याय वा पापाय वा; पुण्यपापाय वा; सुखाय वा दुःखाय वा; सुखदुःखाय वा; योऽप्यसौ पुरुषः पुरुषस्य शिरश्छिनत्ति सोऽपि न किंचिल्लोके व्याबाधते त्रसं वा स्थावरं वा सप्तानां कायानां विवरमन्तरेण शस्त्रं व्यतिवर्तते; न चात्र जीवो वध्यते; तत्र नास्ति कश्चिधन्ता वा घातयिता वा (अ ५०६ ) छेत्ता वा छेदयिता वा; स्मर्ता वा स्मारयिता वा; चोत्ता वा चोदयिता वा; विज्ञप्ता वा विज्ञापयिता वा; चतुर्दशेमानि योनिप्रमुखसहस्राणि षष्टिसहस्राणि महाप्रतिपदः षट्शतानि पञ्च च कर्माणि त्रीणि च कर्माणि द्वे च कर्मणी कर्म च अर्धकर्म च द्वाषष्टिः कर्माणि द्वाषष्टिः अन्तरप्रतिपदः सप्त संज्ञाः विंशत्यधिकं नरकशतं त्रिंशदधिकमिन्द्रियशतं षट्त्रिंशद्रजोधातवः एकान्नपञ्चाशन्नागकुलसहस्राणि एकान्नपञ्चाशत्सुपर्णिकुलसहस्राण्येकान्नपञ्चाशदाजीवकुलसहस्राण्येकान्नपञ्चाशदचेलकुलसहस्राण्येकान्नपञ्चाशन्निग्रन्थकुलसहस्राण्य्सप्त संज्ञिकल्पाः सप्त (इ २२५) असंज्ञिकल्पाः सप्त सुराः सप्त पैशाचाः सप्त आदित्याः सप्त मानुषाः सप्त सरांसि सप्त सरश्शतानि सप्त अपायाः सप्त अपायशतानि सप्त स्वप्नाः सप्त स्वप्नशतानि सप्त प्रबुद्धाः सप्त प्रबुद्धशतानिसप्त प्रपाताः सप्त प्रपातशतानि षडभिजातयो दश अभिवृद्धयः अष्टौ महापुरुषभूमयः इति; इमानि चतुरशीतिर्महाकल्पसहस्राणि यानि बालश्च पण्डितश्च संधाव्य संसृत्य दुःखस्यान्तं कुरुतः; तद्यथा लघुसूत्रगुडकमुपरि विहायसा क्षिप्तं यावत्पृथिवीमुद्वेष्ट्यमानं परैत्येवमेवैतानि चतुरशीतिर्महाकल्पसहस्राणि यानि बालश्च पण्डितश्च संधाव्य संसृत्य दुःखस्यान्तं कुरुतः; तत्र नास्ति कश्चित्श्रमणो वा ब्राह्मणो वा य एवं वदेत्: अहमनेन शीलेन वा व्रतेन वा तपसा वा ब्रह्मचर्यवासेन वा अपरिपक्वं वा कर्म परिपाचयिष्यामि परिपक्वं वा कर्म स्पृष्ट्वा वान्तीकरिष्यामि; ध्रुवमिदं सुखदुःखम्; उत्कर्षापकर्षौ न प्रज्ञायेते; एवं वा नो वा तुलितः संसारः इति २५. तद्यथा भदन्त पुरुषः आम्राणि पृष्टः लकुचानि व्याकुर्यात्, लकुचानि वा पृष्टः आम्राणि व्याकुर्यादेवमेव अजितः केशकम्बलः सान्दृष्टिकं श्रामण्यफलं पृष्टः संसारशुद्धतामेव व्याकार्षीत्; तस्य मम एतदभवत्; कथमिदानीं मादृशो विज्ञपुरुषः साधुरूपसंमतं विषयनिवासिनं श्रमणं वा ब्राह्मणं वा संमुखमवसादयेदिति; सोऽहमजितस्य केशकम्बलस्य भाषितं नाभिनन्दामि न प्रतिक्रोशामि; अनभिनन्द्य अप्रतिक्रोश्य उत्थायासनात्प्रक्रान्तः ______________________________________________________________ निर्ग्रन्थ ज्ञातिपुत्रऽस्थेओर्य् २६. सोऽहं येन निर्ग्रन्थो ज्ञातिपुत्रः तेनोपसंक्रान्तः; उपसंक्रम्य निर्ग्रन्थं ज्ञातिपुत्रमिदमवोचम्: इमे भदन्त (इ २२६) ज्ञातिपुत्र पृथग्लोकेशिल्पस्थानकर्मस्थानिकाः; तद्यथा मालाकाराः नडकाराः नैषद्यिकाः यावसिकाः सूताः हस्त्यारोहाः अश्वारोहाः रथिकाः त्सरुकाः धनुर्ग्रहाः सेवाः चेटाः पिण्डभुजः उग्राः शूराः प्रस्कन्दिनः महानग्नाः राजपुत्राः आराधकाः कल्पकाः स्नपकाः; ते स्वकस्वकैः शिल्पस्थानकर्मस्थानैः कृत्यानि कुर्वन्ति, दानानि ददति, पुण्यानि कुर्वन्ति, भृत्यान् बिभ्रति; पंचभिश्च कामगुणैः समर्पिताः समन्वङ्गीभूताः क्रीडन्ति रमन्ते परिचारयन्ति; लभ्यमेवंरूपाणां सान्दृष्टिकं श्रामण्यफलं प्रज्ञप्तुम् २७. (अ ५०६ ) स एवमाह: अहमस्मि महाराज एवंदृष्टिरेवंवादी; यत्किंचिदयं पुरुषपुद्गलः प्रतिवेदयते सर्वं तत्पूर्वहैतुकमिति पुराणानां कर्मणां तपसा वान्तीभावः; नवानां कर्मणामकरणसतुसमुद्घातः; एवमाय्त्यामनवस्रवः; अनवस्रवात्कर्मक्षयः; कर्मक्षयाद्दुह्खक्षयः; दुःखक्षयाद्दुःखस्यान्तक्रिया भवति इति २८. तद्यथा भदन्त पुरुषः आम्राणि पृष्टो लकुचानि व्याकुर्यात्, लकुचानि वा पृष्टः आम्राणि व्याकुर्यादेवमेव मया भदन्त निर्ग्रन्थो ज्ञातिपुत्रः सान्दृष्टिकं श्रामण्यफलं पृष्टः पूर्वकृतहेतुतामेव व्याकार्षीत्; तस्य मम भदन्त एतदभवत्; न मम प्रतिरूपं स्याद्यदहं साधुरूपसंमतं विषयनिवासिनं श्रमणं वा ब्राह्मणं वा संमुखमवसादयेयमिति; सोऽहं निर्ग्रन्थस्य ज्ञातिपुत्रस्य भाषितं नाभिनन्दामि न प्रतिक्रोशामि; अनभिनन्द्य अप्रतिक्रोश्य उत्थायासनात्प्रक्रान्तः ______________________________________________________________ ककुद कात्यायनऽस्थेओर्य् २९. सोऽहं येन ककुदः कात्यायनस्तेनोपसंक्रान्तः; उपसंक्रम्य ककुदं कात्यायनमिदमवोचम्: इमे भदन्त कात्यायन पृथग्लोकेशिल्पस्थानकर्मस्थानिकाः; तद्यथा मालाकाराः नडकाराः नैषद्यिकाः यावसिकाः सूताः हस्त्यारोहाः अश्वारोहाः रथिकाः त्सरुकाः धनुर्ग्रहाः सेवाः चेटाः पिण्डभुजः उग्राः शूराः प्रस्कन्दिनः महानग्नाः राजपुत्राः आराधकाः कल्पकाः स्नपकाः; ते स्वकस्वकैः शिल्पस्थानकर्मस्थानैः कृत्यानि कुर्वन्ति, दानानि ददति, पुण्यानि कुर्वन्ति, भृत्यान् बिभ्रति; पंचभिश्च कामगुणैः समर्पिताः समन्वङ्गीभूताः क्रीडन्ति रमन्ते परिचारयन्ति; लभ्यमेवंरूपाणां सान्दृष्टिकं श्रामण्यफलं प्रज्ञप्तुम् ३०. एवमुक्तः ककुदः कात्यायनओ मामिदमवोचत्: अहमस्मि महाराज एवंदृष्टिरेवंवादी; यदि मां कश्चिदुपसंक्रम्य एवं पृच्छेद्: अस्ति परलोक इति तस्य च स्यादस्ति परलोक इति तस्याहमस्ति परलोक इति प्रश्नं पृष्टो व्याकुर्यां नास्ति परलोकः अस्ति च नास्ति च नैवास्ति न नास्ति परलोक एवं वा नो वा अन्यथा वा न वा नो वा न वा नो वा न त्विति वा नो वा परलोक इति तस्य च स्यान् (इ २२७) न वा नो वा न न्विति वा नो वा परलोक इति तस्याहं न वा नो वा न न्विति वा नो वा प्रश्नं पृष्टो व्याकुर्यामिति ३१. सोऽहं भदन्त चिन्तयामि एतद्: ये केचिदस्मिन् राजगृहे प्रव्रजितसमापन्नाः प्रतिवसन्ति अयं तेषां मूर्खतरश्च जडतरश्च स्थपिण्डतरश्च यदुत ककुदः कात्यायनः इति; तस्य मम एतदभवत्; न मम प्रतिरूपं स्याद्यदहं साधुरूपसंमतं विषयनिवासिनं श्रमणं वा ब्राह्मणं वा संमुखमवसादयेयमिति; सोऽहं ककुदस्य कात्यायनस्य भाषितं नाभिनन्दामि न प्रतिक्रोशामि; अनभिनन्द्य अप्रतिक्रोश्य उत्थायासनात्प्रक्रान्तः ______________________________________________________________ अजातशत्रु प्रोपोउन्द्स्थे ॠउएस्तिओन् तो थे बुद्ध ३२. सोऽहं भगवन्तमेतमर्थं परिपृच्छामि यदिमे भदन्त पृथग्लोकेशिल्पस्थानकर्मस्थानिकाः; तद्यथा मालाकाराः नडकाराः नैषद्यिकाः यावसिकाः सूताः हस्त्यारोहाः अश्वारोहाः रथिकाः त्सरुकाः धनुर्ग्रहाः सेवाः चेटाः पिण्डभुजः उग्राः शूराः प्रस्कन्दिनः महानग्नाः राजपुत्राः आराधकाः कल्पकाः स्नपकाः; ते स्वकस्वकैः शिल्पस्थानकर्मस्थानैः कृत्यानि कुर्वन्ति, दानानि ददति, पुण्यानि कुर्वन्ति, भृत्यान् बिभ्रति; पंचभिश्च कामगुणैः समर्पिताः समन्वङ्गीभूताः क्रीडन्ति रमन्ते परिचारयन्ति; लभ्यमेवंरूपाणां सान्दृष्टिकं श्रामण्यफलं प्रज्ञप्तुम् ? (अ ५०७ ) ______________________________________________________________ बुद्धऽस्रेप्ल्य् ३३. तेन हि महाराज त्वामेव प्रक्ष्यामि; यथा ते क्षमते तथैवं व्याकुरु; तद्यथा महाराज इह ते दासः स्यात्प्रेष्यो निर्देश्यो भुजिष्यः नयेनकामंगमः; स त्वां पश्येदुपरिप्रासादतलगतं पंचभिः कामगुणैः समर्पितं समन्वङ्गीभूतं निष्पुरुषेण तूर्येण क्रीडन्तं रममाणं परिचारयन्तं; दृष्ट्वा च पुनरस्यैवं स्याद्: राजा मागधः अजातशत्रुर्वैदेहीपुत्रः पुरुषः; अहमपि पुरुषः; नान्यत्र राजा मागधः अजातशत्रुर्(इ २२८) वैदेहीपुत्रः पूर्वं कृतत्वात्पुण्यानामुपचितत्वादेतर्ह्युपरिप्रासादतलगतः निष्पुरुषेण तूर्येण क्रीडति रमते परिचारय्ति; यन्न्वहं कंचिदेव कुशलं धर्मं समादाय वर्तेय; कं पुनरहं कुशलं धर्मं समादाय वर्तेय? यन्न्वहं केशश्मश्रूण्यवतार्य काषायाणि वस्त्राण्याच्छाद्य सम्यगेव श्रद्धया अगारादनगारिकां प्रव्रजेयमिति स इदं प्रतिसङ्ख्याय केशश्मश्रूण्यवतार्य काषायाणि वस्त्राण्याच्छाद्य सम्यगेव श्रद्धया अगारादनगारिकां प्रव्रजति; यावज्जीवं प्राणातिपातं प्रहाय प्राणातिपातात्प्रतिविरतो भवति; अदत्तादानमब्रह्मचर्यं मृषावादं पैशुन्यं पारुष्यं संभिन्नप्रलापमभिध्याव्यापादं मिथ्यादृष्टिं प्रहाय मिथ्यादृष्टेः प्रतिविरतः स्यात्; तेन एनं पश्येयुस्तव पौरुषेयाः जानपदा अन्वाहिण्डमानाः; दृष्ट्वा च पुनरेषामेवं स्याद्: अयं स राज्ञो मागधस्य अजातशत्रोर्वैदेहीपुत्रस्य दासः प्रेष्यो निर्देश्यो भुजिष्यः नयेनकामंगमः केशश्मश्रूण्यवतार्य काषायाणि वस्त्राण्याच्छाद्य सम्यगेव श्रद्धया अगारादनगारिकां प्रव्रजितः; स यावज्जीवं प्राणातिपातं प्रहाय प्राणातिपातात्प्रतिविरतो भवति; अदत्तादानमब्रह्मचर्यं मृषावादं पैशुन्यं पारुष्यं संभिन्नप्रलापमभिध्याव्यापादं मिथ्यादृष्टिं प्रहाय मिथ्यादृष्टेः प्रतिविरतो भवति सम्यग्दृष्टिकः; यन्नु वयं राज्ञो गत्वा आरोचयेम इति; ते तवागम्य आरोचयेयुः यत्खलु देव जानीयाः योऽसौ देवस्य दासः प्रेष्यो निर्देश्यो भुजिष्यः नयेनकामंगमः स केशश्मश्रूण्यवतार्य काषायाणि वस्त्राण्याच्छाद्य सम्यगेव श्रद्धया (अ ५०७ ) अगारादनगारिकां प्रव्रजितः; स यावज्जीवं प्रहाय प्राणातिपातं प्राणातिपातात्प्रतिविरतः; अदत्तादानमब्रह्मचर्यं मृषावादं पैशुन्यं पारुष्यं संभिन्नप्रलापमभिध्याव्यापादं मिथ्यादृष्टिं प्रहाय सम्यग्दृष्टिकः इति; तत्किं मन्यसे महाराज अपि नु त्वमेवं वदेः? गच्छन्तु भवन्तः; तं पुरुषमानयन्तु; पुनरपि मे दासो भविष्यति प्रेष्यो निर्देश्यो भुजिष्यः नयेनकामंगमः इति ३४. नो भदन्त; नान्यत्र अहं दर्शनायास्य उपसंक्रमेयं; यच्च मे पूर्वमभिवादनवन्दनप्रत्युत्थानाञ्जलिसामीचीकर्म अकार्षीत्तदहमेव तस्य कुर्यां; यावज्जीवं चैनं प्रवारयेयं यदुत चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः (इ २२९) तत्किं मन्यसे महाराज न त्वेवं सति मया दर्शितं भवति; सान्दृष्टिकं श्रामण्यफलम् तथ्यं भदन्त; एवं दर्शितं भगवता सान्दृष्टिकं श्रामण्यफलम् ३५. तद्यथा महाराज इह ते स्यात्कर्षको गृहपतिः आदायकः पोषको राजकोशसंवर्धकः; स त्वां पश्येदुपरिप्रासादतलगतं पंचभिः कामगुणैः समर्पितं समन्वङ्गीभूतं निष्पुरुषेण तूर्येण क्रीडन्तं रममाणं परिचारयन्तं; दृष्ट्वा च पुनरस्य एवं स्याद्: अयं राजा मागधः अजातशत्रुर्वैदेहीपुत्रः पुरुषः; अहमपि पुरुषः; नान्यत्र राजा मागधः अजातशत्रुर्वैदेहीपुत्रः पूर्वं कृतत्वात्पुण्यानामुपचितत्वादेतर्ह्युपरिप्रासादतलगतो निष्पुरुषेण तूर्येण क्रीडति रमते परिचारय्ति; यन्न्वहं कंचिदेव कुशलं धर्मं समादाय वर्तेय; कं पुनरहं कुशलं धर्मं समादाय वर्तेय? यन्न्वहं केशश्मश्रूण्यवतार्य काषायाणि वस्त्राण्याच्छाद्य सम्यगेव श्रद्धया अगारादनगारिकां प्रव्रजेयमिति स इदं प्रतिसङ्ख्याय केशश्मश्रूण्यवतार्य काषायाणि वस्त्राण्याच्छाद्य सम्यगेव श्रद्धया अगारादनगारिकां प्रव्रजति; यावज्जीवं प्राणातिपातं प्रहाय प्राणातिपातात्प्रतिविरतो भवति; अदत्तादानमब्रह्मचर्यं मृषावादं पैशुन्यं पारुष्यं संभिन्नप्रलापमभिध्याव्यापादं मिथ्यादृष्टिं प्रहाय मिथ्यादृष्टेः प्रतिविरतः स्यात्; तेन एनं पश्येयुस्तव पौरुषेयाः जानपदाः अन्वाहिण्डमानाः; दृष्ट्वा च पुनरेषामेवं स्याद्: अयं स राज्ञो मागधस्य अजातशत्रोर्वैदेहीपुत्रस्य कर्षको गृहपतिः आदायकः पोषकः राजकोशसंवर्धकः केशश्मश्रूण्यवतार्य काषायाणि वस्त्राण्याच्छाद्य सम्यगेव श्रद्धया अगारादनगारिकां प्रव्रजितः; स यावज्जीवं प्राणातिपातं प्रहाय प्राणातिपातात्प्रतिविरतः; अदत्तादानमब्रह्मचर्यं पैशुन्यं पारुष्यं संभिन्नप्रलापमभिध्याव्यापादं मिथ्यादृष्टिं प्रहाय मिथ्यादृष्टेः प्रतिविरतो भवति सम्यग्दृष्टिकः; यन्नु वयं राज्ञो गत्वा आरोचयेम इति; ते तवागम्य आरोचयेयुः यत्खलु देव जानीयाः योऽसौ देवस्य कर्षको गृहपतिः आदायकः पोषकः राजकोशसंवर्धकः केशश्मश्रूण्यवतार्य काषायाणि वस्त्राण्याच्छाद्य सम्यगेव श्रद्धया अगारादनगारिकां प्रव्रजितः; स यावज्जीवं प्राणातिपातं प्रहाय प्राणातिपातात्प्रतिविरतः; अदत्तादानमब्रह्मचर्यं पैशुन्यं पारुष्यं संभिन्नप्रलापमभिध्याव्यापादं मिथ्यादृष्टिं प्रहाय मिथ्यादृष्टेः प्रतिविरतो भवति सम्यग्दृष्टिकः इति; तत्किं मन्यसे महाराज अपि नु त्वमेवं वदेः? गच्छन्तु भवन्तः; तं पुरुषमानयन्तु; पुनरपि मे (इ २३०) कर्षको भविष्यति आदायकः पोषकः (अ ५०८ ) राजकोशसंवर्धकः इति ३६. नो भदन्त; नान्यत्र अहमेवास्य दर्शनायोपसंक्रमेयं; यच्च मे पूर्वमभिवादनवन्दनप्रत्युत्थानाञ्जलिसामीचीकर्म अकार्षीत्तदहमेवास्य कुर्यां; यावज्जीवं चैनं प्रवारयेयं यदुत चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः तत्किं मन्यसे महाराज न त्वेवं सति मया दर्शितं सान्दृष्टिकं श्रामण्यफलम् तथ्यं भदन्त; एवं सति भगवता दर्शितं सान्दृष्टिकं श्रामण्यफलम् ३७. इह महाराज शास्ता लोक उत्पद्यते तथागतोऽर्हन् सम्यक्संबुद्धः विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्; स धर्मं देशयति, आदौ कल्याणं मध्ये कल्याणं पर्यवसाने कल्याणं स्वर्थं सुव्यञ्जनं केवलं परिपूर्णं परिशुद्धं पर्यवदातं; ब्रह्मचर्यं प्रशासयति; तं धर्मं शृणोति गृहपतिर्वा गृहपतिपुत्रो वा; स तं धर्मं श्रुत्वा शास्तुः त्रिषु स्थानेषु विशुद्धिं समन्वेषते यदुत लोभधर्मे द्वेषधर्मे मोहधर्मे: किं न्वस्त्यस्यायुष्मतः स लोभः अप्रहीणः अपरिज्ञातः अनिरोधितः अवान्तीकृतः येन लोभेनाभिभूतः पर्यात्तचित्तोऽजानक एव सन् जानकोऽस्मीति वदेदपश्यक एव सन् पश्यकोऽस्मीति वदेत्; परान् वा तथा तथा प्रतिपादयेद्यत्तेषां स्याद्दीर्घरात्रमनर्थाय अहिताय दुःखाय; आहोस्विन्नास्त्यस्यायुष्मतः स लोभः अप्रहीणः अपरिज्ञातः अनिरोधितः अवान्तीकृतः येन लोभेनाभिभूतः पर्यात्तचित्तोऽजानक एव सन् जानकोऽस्मीति वदेदपश्यक एव सन् पश्यकोऽस्मीति वदेत्; परान् वा तथा तथा प्रतिपादयेद्यत्तेषां स्याद्दीर्घरात्रमनर्थाय अहिताय दुःखाय; तस्यैवं भवति; नास्त्यायुष्मतः स लोभः अप्रहीणः अपरिज्ञातः अनिरोधितः अवान्तीकृतः येन लोभेनाभिभूतः पर्यात्तचित्तोऽजानक एव सन् जानकोऽस्मीति वदेदपश्यक एव सन् पश्यकोऽस्मीति वदेत्; परान् वा तथा तथा प्रतिपादयेद्यत्तेषां स्याद्दीर्घरात्रमनर्थाय अहिताय दुःखाय; तत्कस्य हेतोः? ते ह्यस्यायुष्मतः कायसंस्काराः वाक्संस्काराः मनःसंस्काराः (इ २३१) अलुब्धस्य; अयं च एष धर्मं भाषते संक्षिप्तेन वा विस्तरेण वा; शान्तोऽस्य धर्मः प्रणीतः गम्भीरो गम्भीरावभासः, दुर्दृशः दुरनुबोधः अतर्क्यः अतर्क्यावचरः सूक्ष्मनिपुणपण्डितविज्ञवेदनीयः; स चानेनायुष्मता न सुकरमाज्ञातुं यथापितदेकान्तलुब्धेन; अलुब्धोऽयमायुष्मान्; नायमायुष्मान् लुब्धः; यदा चैनमस्मिन् प्रथमे लोभधर्मे विशुद्धिं समनुपश्यति; अथैनमुत्तरे समन्वेषते, द्वितीये द्वेषधर्मे तृतीये मोहधर्मे; किं न्वस्यायुष्मतः स मोहः अप्रहीणः अपरिज्ञातः अनिरोधितः अवान्तीकृतः येन मोहेनाभिभूतः पर्यात्तचित्तः अजानक एव सन् जानकोऽस्मीति वदेदपश्यक एव सन् पश्यकोऽस्मीति वदेत्; परान् वा तथा तथा प्रतिपादयेद्यत्तेषां स्याद्दीर्घरात्रमनर्थाय (अ ५०८ ) अहिताय दुःखाय; आहोस्विन्नास्त्यस्यायुष्मतः स मोहः अप्रहीणः अपरिज्ञातः अनिरोधितः अवान्तीकृतः येन मोहेनाभिभूतः पर्यात्तचित्तः अजानक सन् जानकोऽस्मीति वदेदपश्यक एव सन् पश्यकोऽस्मीति वदेत्; परान् वा तथा तथा प्रतिपादयेद्यत्तेषां स्याद्दीर्घरात्रमनर्थाय अहिताय दुःखाय; तस्यैवं भवति; नास्त्यस्यायुष्मतः स मोहः अप्रहीणः अपरिज्ञातः अनिरोधितः अवान्तीकृतः येन मोहेनाभिभूतः पर्यात्तचित्तः अजानक एव सन् जानकोऽस्मीति वदेदपश्यक एव सन् पश्यकोऽस्मीति वदेत्; परान् वा तथा तथा प्रतिपादयेद्यत्तेषां स्याद्दीर्घरात्रमनर्थाय अहिताय दुःखाय; तत्कस्य हेतोः? ते ह्यस्यायुष्मतः कायसंस्काराः वाक्संस्काराः मनःसंस्काराः अमूढस्य; अयं चैष धर्मं भाषते सम्क्षिप्तेन वा विस्तरेण वा; शान्तोऽस्य धर्मः प्रणीतः गम्भीरः गम्भीरावभासः, दुर्दृशो दुरनुबोधः अतर्क्यः अतर्क्यावचरः सूक्ष्मनिपुणपण्डितविज्ञवेदनीयः; स चानेन आयुष्मता न सुकरमाज्ञातुं यथापितदेकान्तमुधेन; अमूढोऽयमायुष्मान्; नायमायुष्मान्मूढः; यदा चैनमस्मिन् तृतीये मोहधर्मे विशुद्धिं समनुपश्यति; अथात्र आकारवतीं श्रद्धामभिनिवेदयति; श्रद्धाजातः इदं प्रतिसंशिक्षते; संबाधो गृहावासः रजसामावासः; अभ्यवकाशं च प्रव्रज्या; तदिदं न सुकरं गृहिणा अगारमध्यावसता एकान्तशङ्खलिखितं, यावज्जीवं केवलं (इ २३२) परिपूर्णं परिशुद्धं पर्यवदातं; ब्रह्मचर्यं चरितुं; यन्न्वहं केशश्मश्रूण्यवतार्य काषायाणि वस्त्राण्याच्छाद्य सम्यगेव श्रद्धया अगारादनगारिकां प्रव्रजेयं; स इदं प्रतिसङ्ख्याय प्रभूतं वा अल्पं वा धनस्कन्धं प्रहाय प्रभूतं वा अल्पं वा ज्ञातिपरिवर्तितं प्रहाय केशश्मश्रूण्यवतार्य काषायाणि वस्त्राण्याच्छाद्य सम्यगेव श्रद्धया अगारादनगारिकां प्रव्रजति स एवं प्रव्रजितः सन् शीलवान् विहरति; प्रातिमोक्षसंवरसम्वृतः आचारगोचरसंपन्नः अणुमात्रेष्ववद्येषु भयदर्शी समादापयति, शिक्षते शिक्षापदेषु; स प्राणातिपातं प्रहाय प्राणातिपातात्प्रतिविरतो भवति; न्यस्तदण्डः न्यस्तशस्त्रः लज्जी दयावान् सर्वसत्वप्राणिभूतेष्वन्ततः कुन्तपिपीलकप्राणिनमुपादाय प्राणातिपातात्प्रतिविरतो भवति ३८. स अदत्तादानं प्रहाय अदत्तादानात्प्रतिविरतो भवति; दत्तादायी दत्तरतः दत्तत्यक्तमुक्तप्रतिकाङ्क्षी अस्तेनमलोलुपं शुद्धं शुचिमात्मानं परिहरननवद्यमदत्तादानात्प्रतिविरतो (अ ५०९ ) भवति; स अब्रह्मचर्यं प्रहाय अब्रह्मचर्यात्प्रतिविरतो भवति; ब्रह्मचारी कुचर्याविरतः, शुद्धः शुचिः निरामगन्धः, विरतो मैथुनादपेतो ग्राम्यधर्मादब्रह्मचर्यात्प्रतिविरतो भवति ३९. स मृषावादं प्रहाय मृषावादात्प्रतिविरतो भवति; सत्यवादी सत्यरतः श्रद्धितः प्रत्ययितः स्थेयः अविसंवादको लोकस्य मृषावादात्प्रतिविरतो भवति; स न एषां श्रुत्वा तेषामारोचयति, तेषां भेदाय; तेषां वा श्रुत्वा नैषामारोचयति एषां भेदाय इति; भिन्नानां सन्धाता भवति; समग्राणां चानुप्रदाता; समग्रारामः समग्ररतः समग्रकरणीं वाचं भाषते; पैशुन्यात्प्रतिविरतो भवति; पारुष्यं प्रहाय पारुष्यात्प्रतिविरतो भवति; स या इयं वाग्बाधका; कर्कशा परकटुका पराभिषङ्गिणी बहुजनानिष्टा बहुजनाकान्ता बहुजनाप्रिया बहुजनामनापा असमाहिता असमाधिसंवर्तनीया इत्येवंरूपं वाचं प्रहाय येयं वाग्नेला, कर्णमुखहृदयंगमा प्रेमणीया पौरी वल्गुविस्पष्टा विज्ञेया अनिश्रिता अप्रतिकूला अपर्यादत्ता बहुजनेष्टा बहुजनकान्ता बहुजनप्रिया बहुजनमनापा समाहिता समाधिसंवर्तनी इत्येवंरूपं (इ २३३) वाचं भाषते; पारुष्यात्प्रतिविरतो भवति, स च भवति कालवादी भूतवादी तत्ववादी अर्थवादी धर्मवादी निशाम्यवादी; निशाम्यवतीं वाचं भाषते काले न विप्रकीर्णां सावदानां सोपदेशां धर्म्यामर्थोपसंहितां; संभिन्नप्रलापात्प्रतिविरतो भवति ४०. ॰॰॰ स वधबन्धनछेदनताडनपरामर्शं प्रहाय वधबन्धनछेदनताडनपरामर्शात्प्रतिविरतो भवति आलोकसहागारशय्यां प्रहाय आलोकसहागारशय्यातः प्रतिविरतो भवति, स क्षेत्रवस्तुगृहवस्त्वापणवस्तुपरिग्रहं प्रहाय क्षेत्रवस्तुगृहवस्त्वापणवस्तुपरिग्रहात्प्रतिविरतो भवति; हस्त्यश्वगवेडककुक्कुटसूकरप्रतिग्रहं प्रहाय हस्त्यश्वगवेडककुक्कुटसूकरप्रतिग्रहात्प्रतिविरतो भवति; स दासीदासकर्मकरपौरुषेयप्रतिग्रहं प्रहाय दासीदासकर्मकरपौरुषेयप्रतिग्रहात्प्रतिविरतो भवति; स स्त्रीपुरुषदारकदारिकाप्रतिग्रहं प्रहाय स्त्रीपुरुषदारकदारिकाप्रतिग्रहात्प्रतिविरतो भवति; स जातरूपरजतप्रतिग्रहं प्रहाय जातरूपरजतप्रतिग्रहात्प्रतिविरतो भवति; आमधान्यप्रतिग्रहं प्रहाय आमधान्यप्रतिग्रहात्प्रतिविरतो भवति; स एकभक्तिको भवति; स रात्र्युपरतः; विरतोत्कालभोजनः कालचारी कालचर्यायोगमनुयुक्तः; स कायपारिहारिकेण चीवरेण तुष्टो भवति संतुष्टः; कुक्षिपारिपूरिकेण (अ ५०९ ) पिण्डपातिकेन तुष्टो भवति संतुष्टो; येन येन प्रक्रामति सपात्रचीवरः प्रक्रामति; तद्यथा पक्षी शकुनको येन येनोड्डयते सपक्षः सपलाशः उड्डयते; एवमेव स कायपारिहारिकेण चीवरेण तुष्टः (इ २३४) संतुष्टः कुक्षिपारिपूरिकेण पिण्डपातेन तुष्टः संतुष्टः येन येन प्रक्रामति सपात्रचीवरः प्रक्रामति ४१ यथापितन्महाराज एके श्रमणब्राह्मणाः श्रद्धादेयं परिभुज्य विविधबीजग्रामभूतग्रामसमारम्भानुयोगमनुयुक्ता विहरन्ति; तद्यथा मूलबीजे स्कन्धबीजे अग्रबीजे स्फुटबीजे बीजबीजे एव पंचमे इत्यप्येवंरूपात्श्रमणो विविधबीजग्रामभूतग्रामसमारम्भानुयोगात्प्रतिविरतो भवति ४२. यथापितन्महाराज एके श्रमणब्राह्मणाः श्रद्धादेयं परिभुज्य विविधसन्निधिसमारम्भानुयोगमनुयुक्ता विहरन्ति; तद्यथा अन्नसन्निधौ पानसन्निधौ वस्त्रसन्निधौ गन्धसन्निधौ माल्यसन्निधौ पत्रसन्निधौ पुष्पसन्निधौ फलसन्निधौ इत्यप्येवंरूपाद्विविधसन्निधिसमारम्भानुयोगात्प्रतिविरतो भवति ४३. यथापितन्महाराज एके श्रमणब्राह्मणाः श्रद्धादेयं परिभुज्य उच्चशयनमहाशयनसमारम्भानुयोगमनुयुक्ता विहरन्ति; तद्यथा आसन्द्यां पर्यङ्के पट्टिकायां गोणिकायां तूलिकायां बृहतिकायां चित्रिकायां पटलिकायां हस्त्यास्तरणे अश्वास्तरणे एकान्तरोमे उच्चरोमे अधोरोमे स्कन्धरोमे कालिङ्गप्रावरणे प्रत्यास्तरणे सोत्तरोच्छदनपटे उभयान्तलोहितोपधाने इत्यप्येवंरूपात्श्रमणः उच्चशयनमहाशयनसमारम्भानुयोगात्प्रतिविरतो भवति ४४. यथापितन्महाराज एके श्रमणब्राह्मणाः श्रद्धादेयं परिभुज्य विविधमण्डनसमारम्भानुयोगमनुयुक्ता विहरन्ति; तद्यथा उत्सदने स्नपने परिमर्दने मालागन्धविलेपने वर्णसंधारणे नखलिखने दन्तपरिमर्जने मुखालेपने मुखादर्शे शिखाबन्धे नाडे दण्डे छत्रे खड्गे वालव्यजने चित्रे चोपानहौ अहतानि च वस्त्राणि नवानि दीर्घदशानि (इ २३५) धारणजातीयानि भवन्ति इत्यप्येवंरूपात्श्रमणो विविधमण्डनसमारम्भानुयोगात्प्रतिविरतो भवति ४५. यथापितन्महाराज एके श्रमणब्राह्मणाः श्रद्धादेयं परिभुज्य विविधदर्शनसमारम्भानुयोगमनुयुक्ता विहरन्ति; तद्यथा हस्तियुद्धे अश्वयुद्धे रथयुद्धे पत्तियुद्धे यष्टियुद्धे मुष्टियुद्धे ऋषभयुद्धे महिषयुद्धे अजयुद्धे मिण्ढकयुद्धे कुक्कुटयुद्धे वर्तकयुद्धे लावकयुद्धे कुक्कुटवर्तकलावकयुद्धे स्त्रीयुद्धे पुरुषयुद्धे दारकयुद्धे दारिकयुद्धे अट्टालवंशे शोभितनगरे उत्सन्तिकायां ध्वजाग्रे बलग्रे व्यूढे सेनिकादर्शने महासमाजं वा द्रष्टुमिच्छन्ति एके इत्यप्येवंरूपात्(अ ५१० ) श्रमणो विविधदर्शनसमारम्भानुयोगात्प्रतिविरतो भवति ४६. यथापितन्महाराज एके श्रमणब्राह्मणाः श्रद्धादेयं परिभुज्य विविधशब्दश्रवणसमारम्भानुयोगमनुयुक्ता विहरन्ति; तद्यथा हस्तिशब्दे अश्वशब्दे रथशब्दे शङ्खशब्दे पटहशब्दे आडम्बरशब्दे भेरीशब्दे नृत्तशब्दे गीतशब्दे वादित्रशब्दे वाचकशब्दे अच्छटाशब्दे पाणिस्वरे कुम्भतूणीरे कवतीकावेये चित्राक्षरे चित्रपदव्यञ्जने लोकायतप्रतिसङ्घुष्टे आख्यायिकायां वा श्रोतुमिच्छन्ति एके इत्यप्येवंरूपात्विविधशब्दश्रवणसमारम्भानुयोगात्प्रतिविरतो भवति ४७. यथापितन्महाराज एके श्रमणब्राह्मणाः श्रद्धादेयं परिभुज्य विविधाक्षकवञ्चकद्यूतसमारम्भानुयोगमनुयुक्ता (इ २३६) विहरन्ति; तद्यथा अष्टापदे दशपदे आकर्षणे परे घटिके चले मुष्कले अक्षवङ्कानुचरिते शलाकाहस्ते यथापि वा प्रयोजयन्ति एके इत्यप्येवंरूपात्श्रमणो वञ्चकद्यूतसमारम्भानुयोगात्प्रतिविरतो भवति ४८. यथापितन्महाराज एके श्रमणब्राह्मणाः श्रद्धादेयं परिभुज्य विविधकथासामरम्भानुयोगमनुयुक्ता विहरन्ति; तद्यथा राजकथायां चोरकथायं युद्धकथायमन्नकथायां पानकथायां वस्त्रकथायां वीथीकथायां वेश्यकथायां कुमारिकाख्यानकथायां समुद्राख्यानकथायां लोकाख्यानकथायां जनपदमहामात्राख्यानकथायामित्यप्येवंरूपात्श्रमणो विविधकथासमारम्भानुयोगात्प्रतिविरतो भवति ४९. यथापितन्महाराज एके श्रमणब्राह्मणाः श्रद्धादेयं परिभुज्य विविधविगृह्यकथासामारम्भानुयोगमनुयुक्ता विहरन्ति; तद्यथा न त्वमेनं धर्मविनयमाजानासि; अहमेनं धर्मविनयमाजानामि; यथा अन्वहमेनं धर्मविनयमाजानामि; यथा नान्वहमेनं धर्मविनयमाजानासि; युक्तं मम; अयुक्तं तव; सहितं मम; असहितं तव; पूर्वं वचनीयं पश्चादवोचत्; पश्चाद्वचनीयं पूर्वमवोचत्; अतितूर्णं ते परामृष्टम्; आरोपितस्ते वादः वादार्थाय; अपहर वादं वादविप्रमोक्षाय; गृहीतोऽसि निर्वेठय; सचेदुत्तरं प्रजानासि ब्रूहि पृष्टः इत्यप्येवंरूपात्श्रमणो विविधविगृह्यकथासमारम्भानुयोगात्प्रतिविरतो भवति ५०. यथापितन्महाराज एके श्रमणब्राह्मणाः श्रद्धादेयं परिभुज्य दूतगमनसंप्रेषणमिथ्याजीवेन जीविकां कल्पयन्ति (इ २३७) ते राज्ञां राजामात्याणां ब्राह्मणानां नैगमानां जानपदानां श्रेष्ठिनां सार्थवाहानां मितौपौ ॰॰॰ इह आह्वय अमुत्र प्रेषय इह प्रेषय अमुत्र आह्वय इत्यप्येवंरूपात्श्रमणो दूतगमनसंप्रेषणमिथ्याजीवात्प्रतिविरतो भवति ५१. यथापितन्महाराज एके श्रमणब्राह्मणाः श्रद्धादेयं परिभुज्य कुहकाश्च भवन्ति लपकाश्च नैमित्तिकाश्च नैष्पेषिकाश्च लाभेन लाभं निश्चिकीर्षन्ते (अ ५१० ) ते कुहनलपननैमित्तिकनैष्पेषिकलाभेन लाभनिश्चिकीर्षकत्वेन जीविकां कल्पयन्ति इत्यप्येवंरूपात्श्रमणो विविधकुहनन्लपननैमित्तिकनैष्पेषिकलाभेन लाभनिश्चिकीर्षणात्प्रतिविरतो भवति ५२. यथापितन्महाराज एके श्रमणब्राह्मणाः श्रद्धादेयं परिभुज्य तिर्यग्विद्यामिथ्याजीवेन जीविकां कल्पयन्ति; तद्यथा उत्पाते व्रणलक्षणे स्वप्नलक्षणे अग्निदग्धे दकस्पृष्टे मूषिकच्छिन्ने आवेशने स्वरविचये सर्वभूतरुते अङ्गविद्यायां वास्तुविद्यायां शुकविद्यायां शकुनविद्यायां प्रयोजयन्ति एके इत्यप्येवंरूपात्श्रमणः तिर्यग्विद्यामिथ्याजीवात्प्रतिविरतो भवति ५३. यथापितन्महाराज एके श्रमणब्राह्मणाः श्रद्धादेयं परिभुज्य तिर्यग्विद्यामिथ्याजीवेन जीविकां कल्पयन्ति; तद्यथा नक्षत्राणां संप्रयोगे मुहूर्तानामभ्युत्थाने शवपरीक्षायां पत्रकर्मणि शान्तिकर्मणि भूतकर्मणि पुष्टिकर्मणि प्रणिधिकर्मणि लिपिकर्मणि गणने न्यसने सङ्ख्यायां मुद्रायां (इ २३८) मार्गदर्शविद्यायां प्रयोजयन्ति एके इत्यप्येवंरूपात्श्रमणः तिर्यग्विद्यामिथ्याजीवात्प्रतिविरतो भवति ५४. यथापितन्महाराज एके श्रमणब्राह्मणाः श्रद्धादेयं परिभुज्य तिर्यग्विद्यामिथ्याजीवेन जीविकां कल्पयन्ति; तद्यथा चिकित्सायां मूलभैषज्ये अञ्जनानुप्रदाने ॰॰॰ नुप्रादाने रसानुप्रदाने स्त्रीचिकित्सायां पुरुषचिकित्सायां कुमारचिकित्सायां कुमारिकाचिकित्सायामोषधीर्वा प्रयोजयन्ति इत्यप्येवंरूपात्श्रमणस्तिर्यग्विद्यामिथ्याजीवात्प्रतिविरतो भवति ५५. यथापितन्महाराज एके श्रमणब्राह्मणाः श्रद्धादेयं परिभुज्य तिर्यग्विद्यामिथ्याजीवेन जीविकां कल्पयन्ति; तद्यथा मणिलक्षणे दण्डलक्षणे असिलक्षणे इषुलक्षणे आयुधलक्षणे हस्तिलक्षणे अश्वलक्षणे ऋषभलक्षणे महिषलक्षणे अजलक्षणे मिण्ढकलक्षणे अविलक्षणे कुक्कुटलक्षणे वर्तकलक्षणे ॰॰॰ लक्षणे स्त्रीलक्षणे पुरुषलक्षणे कुमारलक्षणे कुमारिकालक्षणे अल्पायुर्लक्षणे दीर्घायुर्लक्षणे अल्पभागलक्षणे महाभागलक्षणे अल्पपुण्यलक्षणे महापुण्यलक्षणे अल्पेशाख्यलक्षणे महेशाख्यलक्षणे आर्यलक्षणे दासलक्षणे इत्यप्येवंरूपात्श्रमणस्तिर्यग्विद्यामिथ्याजीवात्प्रतिविरतो भवति ५६. यथापितन्महाराज एके श्रमणब्राह्मणाः श्रद्धादेयं परिभुज्य तिर्यग्विद्यामिथ्याजीवेन जीविकां कल्पयन्ति; तद्यथा आजवने जवने ऊर्ध्वविरेचने अधोविरेचने नस्तेकर्मणि (?) धूमपाने स्वेदपरिकर्मणि आमाध्याशये पक्वाध्याशये ॰॰॰ पिटकाध्याशये चक्रे वायसमण्डले हनुसंहनने जिह्वानिकृन्तने वेताडार्धवेतादं वा प्रयोजयन्ति (इ २३९) एके इत्यप्येवंरूपात्श्रमणस्तिर्यग्विद्यामिथ्याजीवात्प्रतिविरतो भवति ५७. यथापितन्महाराज एके श्रमणब्राह्मणाः श्रद्धादेयं परिभुज्य तिर्यग्विद्यामिथ्याजीवेन (अ ५११ ) जीविकां कल्पयन्ति; तद्यथा वहने आवाहने विवाहने आमोहने संमोहने उच्चाटने मारणे सुखकरणे दुःखकरणे दर्भहोमे तिलहोमे तण्डुलहोमे धनहोमे धान्यहोमे मुद्गहोमे माषहोमे द्रव्यहोमे अग्निहोमे आदित्योपस्थाने नक्षत्रोपस्थाने देवतोपस्थाने महाप्रस्थानं वा प्रयोजयन्ति एके इत्यप्येवंरूपात्श्रमणस्तिर्यग्विद्यामिथ्याजीवात्प्रतिविरतो भवति ५८. यथापितन्महाराज एके श्रमणब्राह्मणाः श्रद्धादेयं परिभुज्य तिर्यग्विद्यामिथ्याजीवेन जीविकां कल्पयन्ति; तद्यथा भयं भविष्यति क्षेमं भविष्यति दुर्भिक्षं भविष्यति सुभिक्षं भविष्यति दुर्वृष्टिर्भविष्यति सुवृष्टिर्भविष्यति ईतिर्भविष्यति अनीतिर्भविष्यति इत्यप्येवंरूपात्श्रमणस्तिर्यग्विद्यामिथ्याजीवात्प्रतिविरतो भवति ५९. यथापितन्महाराज एके श्रमणब्राह्मणाः श्रद्धादेयं परिभुज्य तिर्यग्विद्यामिथ्याजीवेन जीविकां कल्पयन्ति; तद्यथा अभ्यन्तराणां राज्ञां जयो भविष्यति बाह्यकानां पराजयः बाह्यकानां राज्ञां जयो भविष्यति आभ्यन्तराणां पराजयः आभ्यन्तराणां राज्ञामपयानं भविष्यति बाह्यकानां निर्याणं बाह्यकानामपयानं भविष्यति आभ्यन्तराणां निर्याणमित्यप्येवंरूपात्श्रमणस्तिर्यग्विद्यामिथ्याजीवात्प्रतिविरतो भवति ६०. यथापितन्महाराज एके श्रमणब्राह्मणाः श्रद्धादेयं परिभुज्य तिर्यग्विद्यामिथ्याजीवेन जीविकां कल्पयन्ति; तद्यथा एवंविरूपौ पथा सूर्याचन्द्रमसौ गच्छतः एवंविरूपावुत्पथा सूर्याचन्द्रमसौ गच्छतः एवंविरूपका पथा सूर्याचन्द्रग्रहाः (इ २४०) उल्कापाताः दिशोदाहाः अन्तरिक्षे देवदुन्दुभयः अतिनदन्ति उत्पथा सूर्याचन्द्रग्रहाः उल्कापाताः दिशोदाहाः अन्तरिक्षे देवदुन्दुभयः अतिनदन्ति; अनयोर्वा सूर्याचन्द्रमसोरेवंमहर्धिकयोरेवंमहानुभावयोरुद्गमनागमनसंक्लेशव्यवदानव्यवस्थानविशुद्धिर्न प्रज्ञायते यदुत पथा अप्युत्पथापि इत्यप्येवंरूपात्श्रमणस्तिर्यग्विद्यामिथ्याजीवात्प्रतिविरतो भवति ६१. यथापितन्महाराज एके श्रमणब्राह्मणाः श्रद्धादेयं परिभुज्य तिर्यग्विद्यामिथ्याजीवेन जीविकां कल्पयन्ति; तद्यथा एवंविपाकौ पथा सूर्याचन्द्रमसौ गच्छतः एवंविपाकावुत्पथा सूर्याचन्द्रमसौ गच्छतः एवंविपाकाः पथा सूर्यग्रहः चन्द्रग्रहः उल्कापाताः दिशोदाहाः अन्तरिक्षे देवदुन्दुभयो अतिनदन्ति एवंविपाका उत्पथा सूर्यग्रहश्चन्द्रग्रहः उल्कापाताः दिशोदाहाः अन्तरिक्षे देवदुन्दुभयोऽतिनदन्ति; अनयोर्वा सूर्याचन्द्रमसोरेवंमहर्धिकयोरेवंमहानुभावयोरुद्गमनागमनसंक्लेशव्यवदानव्यवस्थानविशुद्धिर्न प्रज्ञायते यदुत पथा अप्युत्पथापि इत्यप्येवंरूपात्श्रमणस्तिर्यग्विद्यामिथ्याजीवात्प्रतिविरतो भवति ६२. सोऽनेन आर्येण शीलस्कन्धेन समन्वागतः अध्यात्ममनवद्यसुखं प्रतिवेदयते; स इन्द्रियैर्गुप्तद्वारो भवति; निपकस्मृतिर्गुप्तस्मृतिमानसः (अ ५११ ) सहावस्थावचारकः; स चक्षुषो रूपाणि दृष्ट्वा न निमित्तग्राही भवति; नानुव्यञ्जनग्राही; यतोऽधिकरणमेव चक्षुरिन्द्रियेण असंवरसंवृतस्य विहरतः अभिध्यादौर्मनस्ये लोके पापका अकुशला धर्माश्चित्तमनुस्रवन्ति; तेषां संवराय प्रतिपद्यते; रक्षति चक्षुरिन्द्रियं; चक्षुरिन्द्रियेण संवरमापद्यते; श्रोत्रेन्द्रियेण शब्दान् घ्राणेन्द्रियेण गन्धान् जिह्वया रसान् कायेन स्प्रष्टव्यानि मनसा धर्मान् विज्ञाय न निमित्तग्राही नानुव्यञ्जनग्राही; यतोऽधिकरणमेव मनैन्द्रियासंवरसंवृतस्य विहरतः अभिध्यादौर्मनस्ये लोके पापका अकुशला धर्माश्चित्तमनुस्रवन्ति; तेषां संवराय प्रतिपद्यते; रक्षति मनैन्द्रियं; मनैन्द्रियेण संवरं प्रतिपद्यते (इ २४१) ६३. सोऽनेन आर्येण शीलस्कन्धेन समन्वागतः अनया च इन्द्रियगुप्तद्वारतया अध्यात्ममनवद्यसुखं संवेदयते; सोऽतिक्रमप्रतिक्रमे संप्रजानविहारी भवति; आलोकितव्यवलोकिते समिञ्जितप्रसारिते संघाटीपात्रचीवरधारणे गते स्थिते निषण्णे शयिते जागरिते भाषिते तूष्णींभावे निद्राक्लमप्रतिविनोदने संप्रजानविहारी भवति; सोऽनेन आर्येण शीलस्कन्धेन समन्वागतः अनया च इन्द्रियगुप्तद्वारतया अनेन च परमेण स्मृतिसंप्रजन्येन समन्वागतः अध्यात्ममव्याबाधसुखं प्रतिसंवेदयते; सोऽनेन आर्येण शीलस्कन्धेन समन्वागतः अनया च इन्द्रियगुप्तद्वारतया अनेन च परमेण स्मृतिसंप्रजन्येन समन्वागतः प्रान्तानि शयनासनान्यध्यावसति अरण्यानि वृक्षमूलानि शून्यागाराणि; सोऽरण्यगतो वा वृक्षमूलगतो वा शून्यागारगतो वा निषीदति पर्यंकमाभुज्य ऋजुं कायं प्रणिधाय प्रतिमुखां स्मृतिमुपस्थाप्य; सोऽभिध्यां लोके प्रहाय विगताभिध्येन चेतसा बहुलं विहरति; अभिध्यायाश्चित्तं परिशोधयति; व्यापादस्त्यानमिद्धमौद्धत्यकौकृत्यविचिकित्सां लोके प्रहाय तीर्णकाङ्क्षो भवति; तीर्णविचिकित्साकांक्षः कुशलधर्मेषु विचिकित्सायाश्चित्तं परिशोधयति ६४. तद्यथा महाराज पुरुषः ऋणमादाय कर्मान्तान् प्रयुञ्जीत तस्य ते कर्मान्ताः संपद्येरन्; स तस्मात्तच्च ऋणं शोधयेत्; अस्ति चास्य स्वापतेयमात्रा यावदेव दाराणां पोषणार्था; तस्यैवं भवति: ऋणमादाय कर्मान्ताः प्रयुक्ताः; तस्य ते मे कर्मान्ताः संपन्नाः; न विपन्नाः; तेन मया तच्च ऋणं शोधितम्; अस्ति च मे स्वापतेयमात्रा यावदेव दाराणां पोषणाय; स ततोनिदानमधिगच्छेत्सौमनस्यम् ६५. तद्यथा पुरुषः आबाधिकः स्याद्दुःखी रोगी दुर्बलः; तस्य भोजनं भुक्तं न कायं छादयति; पानकं पीतं कुक्षिं च व्याबाधते; सोऽपरेण समयेन सुखी स्यादरोगः बलवान्; तस्य भोजनं भुक्तं कायं छादयति; पानकं पीतं कुक्षिं न व्याबाधते; तस्य एवं स्याद्: अहमस्मि पूर्वमाबाधिकः (इ २४२) दुःखी <रोगी दुर्बलः; मम भोजनं भुक्तं न कायं छादयति;> पानकं (अ ५१२ ) पीतं कुक्षिं न व्याबाधते; स ततोनिदानमधिगच्छेत्प्रामोद्यम् ६६.तद्यथा पुरुषो <दासः स्यात्प्रेष्यो निर्देश्यो भुजिष्यो नयेनकामगः; सोऽपरेण समयेन न दासः स्यात्प्रेष्यो भुजिष्यो नयेनकामगः; तस्य एवं स्याद्: अहमस्मि पूर्वं दासः प्रेष्यो निर्देश्यो> भुजिष्यो नयेनकामगः; सोऽस्म्येतर्ह्यदासो <ऽप्रेष्यो>ऽभुजिष्योऽ<न>येनकामगः; स ततो<निदानमधिगच्छेत्प्रामोद्यम् ६७. तद्यथा पुरुषो बन्धनागारे बद्धो पश्चाद्बाहुगाढबन्धनबद्धः; स च ततो मुक्तः स्वस्तिक्षेमाभ्यामव्ययेन; तस्यैवं स्याद्: यः पूर्वं बन्धनागारे बद्धो> पश्चाद्बाहुगाढबन्धनबद्धोऽभूवं सोऽहं ततो मुक्तः स्वस्तिक्षेमाभ्यामव्ययेन; स <ततोनिदानमधिगच्छेत्प्रामोद्यम् ६८. तद्यथा पुरुषः सप्रतिभयो भूत्वा सुखी भवति; दुर्भिक्षं प्रतिपादयित्वा प्रतिपादयति सुभिक्षं; तस्यैवं स्याद्: अहमस्मि सुखी सप्रतिभयो भूत्वा; यस्य मे दुर्भिक्षमभूदेतर्हि भवति> सुभिक्षं; स ततोनिदानमधिगच्छेत्सुखमधिगच्छेत्सौमनस्यम् ६९. एवमेव <महाराज> इमानि पंचवरणानि <तद्यथा ऋणं रोगं दास्यं बन्धनागारं कान्तारं प्रहाय समनुपश्यति; इमानि पंचवरणानि चित्तोपक्लेशकराणि> प्रहाय प्रज्ञादौर्बल्यकराणि विघाटपक्ष्याण्यनिर्वाणसंवर्तनीयानि विविक्तं कामैर्विविक्तं <पापकैरकुशलधर्मैः सवितर्कं सविचारं विवेकजं प्रीतिसुखं प्रथमं ध्यानमुपसंपद्य विहरति; स इममेव कायं विवेकजं प्रीतिसुखेनाभिष्यन्दयति> परिष्यन्दयति परिप्रीणाति परिस्फरति; नास्य किंचित्सर्वतः कायादस्फुटं <भवत्यस्फरणीयं (इ २४३) यदुत विवेकजेन प्रीतिसुखेन ७०. तद्यथा दक्षिणो रजको रजकान्तेवासी वा ॰॰॰ स्नातचूर्णान्याकीर्य उदकेन> परिप्रोक्ष्य परिप्रोक्ष्य स्यन्दयेत्; स चास्य स्नात्रपिण्डी स्निग्धा स्नेहानुगता स्नेहपरीता स्फुटान्तर्बहिर्धा <न प्रघरति न निश्चरति; एवमेव स इममेव कायं विवेकजेन प्रीतसुखेनाभिष्यन्दयति परिष्यन्दयति परिपरिप्रीणाति परिस्फरति; नास्य किंचित्सर्वतः कायादस्फुटं भवत्यस्फरणीयं यदुत विवेकजं प्रीतिसुखेन किं मन्यसे म<हाराज न त्वेवं सति भगवता दर्शितं सान्दृष्टिकं श्रामण्यफलम् ७१. स वितर्कविचाराणां व्युपशमाद्> अध्यात्मं संप्रसादाच्चेतस एकोतीभावादवितर्कमविचारं समाधिजं प्रीतिसुखं द्वितीयं ध्यानम् <उपसंपद्य विहरति; स इममेव कायं समाधिजेन प्रीतिसुखेनाभिष्यन्दयति परिष्यन्दयति परिप्रीणाति परिस्फरति; नास्य किंचित्सर्वतः> कायादस्फुटं भवत्यस्फरणीयं यदुत समाधिजेन प्रीतिसुखेन ७२. तद्यथा उपरिपर्वतं सं<॰॰॰ उदकह्रदो भवति; तस्य न पूर्वस्या न दक्षिणस्या न पश्चिमाया नोत्तरस्या दिशो उदकः प्रवहति; नात्र> (अ ५१२ ) देवः कालेन कालं सम्यग्वारिधाराननुप्रयच्छेत; अन्यत्र तस्मादेवोदकह्रदान्महान् <उदकाकोदा उदकशुल्पो वा सर्वं तमुदकह्रदं शीतलेन वारिणाभिष्यन्दयेत्(इ २४४) परिष्यन्दयेत्परिपूरयेत्परिस्फरयेत्; न किंचित्सर्वत> उदकह्रदादस्फुटं भवत्यस्फरणीयं यदुत शीतलेन वारिणा; एवमेव स इममेव कायं समाधिजेन <प्रीतिसुखेनाभिष्यन्दयति परिष्यन्दयति परिप्रीणाति परिस्फरति; नास्य किंचित्सर्वतः कायादस्फुटं भवत्यस्फरणीयं यदुत समाधिजेन> प्रीतिसुखेन किं मन्यसे महाराज न त्वेवं सति मया दर्शितं सान्दृष्टिकं श्रामण्यफलम्? तथ्यं भदन्त <एवं सति भगवता दर्शितं सान्दृष्टिकं श्रामण्यफलम् ७३. स प्रीतेर्विरागादुपेक्षको विहरति स्मृतः संप्रजानन् सुखं च कायेन> प्रतिसंवेदयते यत्तदार्या आचक्षते उपेक्षकः स्मृतिमान् सुखं विहरन्तीति निष्प्रीतिकं तृतीयं ध्यानमुपसंपद्य विहरति; स इमम् <एव कायं निष्प्रीतिकेन सुखेन अभिष्यन्दयति परिष्यन्दयति परिप्रीणाति परिस्फरति; नास्य किंचित्सर्वतः कायादस्फुटं भवत्यस्फरणीयं> यदुत निष्प्रीतिकेन प्रीतिसुखेन ७४. तद्यथा उत्पलानि वा पद्मानि वा कुमुदानि वा पुण्डरीकानि वा <उदके जातानि उदके वृद्धानि ॰॰॰ तिष्ठन्ति; तेषामग्रतो मूलतश्॰॰॰ न किंचिदस्फुटं भवत्यस्फरणीयं यदुत शीतलेन> वारिणा; एवमेव इममेव कायं निष्प्रीतिकेन सुखेनाभिष्यन्दयति परिष्यन्दयति परिप्रीणाति <परिस्फरति; नास्य किंचित्सर्वतः कायादस्फुटं भवत्यस्फरणीयं यदुत निष्प्रीतिकेन सुखेन किं मन्यसे महाराज न त्वेवं सति मया दर्शितं सान्दृष्टिकं> श्रामण्यफलम्? तथ्यं भदन्त एवं सति भगवता दर्शितं सान्दृष्टिकं श्रामण्यफलम् ७५. स सुखस्य <च प्रहाणाद्दुःहस्य च प्रहाणात्पूर्वमेव सौमनस्यदौर्मनस्ययोरष्टंगमाददुःखासुखमुपेक्षास्मृतिपरिशुद्धं चतुर्थं ध्यानमुपसंपद्य विहरति; स इममेव कायं परिशुद्धचित्तेन पर्यवदातेन अधिमुच्य स्फरित्वोपसंपद्य (इ २४५) विहरति; नास्य किंचित्सर्वतः कायादस्फुटं भवत्यस्फरणीयं यदुत परिशुद्धेन चित्तेन पर्यवदातेन ७६. तद्यथा गृहपतिर्गृहपतिपुत्रो वा ॰॰॰ एवमेव इममेव कायं परिशुद्धेन चित्तेन पर्यवदातेनाधिमुच्य स्फरित्वा उपसंपद्य विहरति; नास्य किंचित्सर्वतः कायादस्फुटं भवत्यस्फरणीयं यदुत परिशुद्धेन चित्तेन पर्यवदातेन किं मन्यसे महाराज न त्वेवं सति मया दर्शितं सान्दृष्टिकं श्रामण्यफलम्? तथ्यं भदन्त एवं सति भगवता दर्शितं सान्दृष्टिकं श्रामण्यफलम् ७७. यस्मिन् समये महाराज आर्यश्रावकः सुखस्य च प्रहाणाद्दुःखस्य च प्रहाणात्पूर्वमेव च सौमनस्यदौर्मनस्ययोरष्टंगमाददुःखमसुखमुपेक्षास्मृतिपरिशुद्धं चतुर्थं ध्यानमुपसंपद्य विहरति, तस्य चित्तं तस्मिन्> समये नैवोन्नतं भवति नावनतमनभिनतं स्थितमानिञ्ज्यप्राप्तं ७८. तद्यथा कूटागारे <वा कूटागारशालायां वा तैल ॰॰॰ तस्य तेजः नैवोन्नतं भवति> नावनतमनभिनतं स्थितमानिञ्ज्यप्राप्तमेवमेव यस्मिन् समये आर्यश्रावकः <सुखस्य च प्रहाणाद्दुःखस्य च प्रहाणात्पूर्वमेव च सौमनस्यदौर्मनस्ययोरष्टंगमाददुःखमसुखमुपेक्षास्मृतिपरिशुद्धं चतुर्थं ध्यानमुपसंपद्य विहरति, तस्य चित्तं तस्मिन्> समये नैवोन्नतं भवति नावनतमनभिनतं स्थितमानिञ्ज्यप्राप्तं; तस्यैवं भवति ७९. <अयं मम कायो रूपी> (अ ५१३ ) ओदारिकश्(म्स्विव्२१३) <चातुर्महाभूतिकः>; विज्ञानामत्र प्रतिष्ठितमत्र पर्यापन्नं; यन्न्वहमस्मात्कायाद्मानसं व्युत्थाप्यान्यं कायमभिनिर्मायां रूपिणं मनोमयमविकलमहीनेन्द्रियं; स तस्मात्कायान् <मानसं व्युत्थाप्यान्यं कायमभिनिर्मिमीते रूपिणं मनोमयमविकलम्> अहीनेन्द्रियं; तद्यथा मणिरष्टांगमो वैडूर्यः शुभो जातिमान्नच्छो विप्रसन्नोऽनाविलः पंचाङ्गरङ्गिके सूत्रेऽर्पितः स्यान्नीले पीते लोहिते अवदाते मञ्जिष्ठे; तं चक्षुष्मान् पुरुषो दृष्ट्वा <जानीयादयं मणिरिदं सूत्रं सूत्रे मणिरर्पितोऽस्तीति>; एवमेव स तस्मात्कायान्मानसं व्युत्थाप्यान्यं कायमभिनिर्मिमीते रूपिणं मनोमयमविकलम् (इ २४६) अहीनेन्द्रियं; तद्यथा पुरुषो मुञ्जादिषिकामावृह्यात्; तं चक्षुष्मान् पुरुषो दृष्ट्वा जानीयाद्<अयं मुञ्ज इयमिषिका मुञ्जादिषिकामावृहतीति एवम्> एव (म्स्विव्२१४) स तस्मात्कायान्मानसं व्युत्थाप्यान्यं कायमभिनिर्मिमीते रूपिणं मनोमयमविकलमहीनेन्द्रियं; तद्यथा पुरुषाः करण्डादहिमावृह्यात्; तं चक्षुष्मान् पुरुषो दृष्ट्वा जानीयादयं करण्डः अयमहिः करण्डादहिमावृहतीति एवमेव स> तस्मात्कायान्मानसं व्युत्थाप्यान्यं कायमभिनिर्मिमीते रूपिणं मनोमयमविकलमहीनेन्द्रियं; तद्यथा पुरुषः कोशादसिमावृह्यात्; तं चक्षुष्मान् पुरुषो दृष्ट्वा जानीयादयं कोशोऽयमसिः कोशादहिमावृहतीति <एवमेव स तस्मात्कायान्मानसं> व्युत्थाप्यान्यं कायमभिनिर्मिमीते रूपिणं मनोमयमविकलमहीनेन्द्रियं ८०. स एवं समाहिते चित्ते परिशुद्धे पर्यवदाते अनङ्गणे विगतोपक्लेशे रिजुभूते कर्मण्ये स्थिते आनिञ्ज्यप्राप्ते ऋद्धिविषयसाक्षात्क्रियायामभिज्ञायां चित्तमभिनिर्णमय्य सोऽनेकविधमृद्धिविषयं प्रत्यनुभवति; तद्यथा एको भूत्वा बहुधा भवति; बहुधा भूत्वैको भवति; आविर्भावं तिरोभावं ज्ञानदर्शनेन प्रत्यनुभवति; तिरःकुड्यं तिरःशैलं तिरःप्राकारमसज्जमानः कायेन गच्छति तद्यथा आकाशे; पृथिव्यामुन्मज्जननिमज्जनं करोति तद्यथा उदके; उदके अभिन्नस्रोतो गच्छति तद्यथा पृथिव्याम्; आकाशे पर्यङ्केनातिक्रामति तद्यथा पक्षी शकुनिः; इमौ वा सूर्याचन्द्रमसावेवं महर्द्धिकावेवं महानुभावौ पाणिना आमार्ष्टि परिमार्ष्टि यावद्ब्रह्मलोकं (म्स्विव्२१५) कायेन वशे वर्तयति; तद्यथा दक्षः कर्मारो वा कर्मारान्तेवसी वा सुपरिकर्मीकृतं जातरूपं विदित्वा यां यां पिण्डकविकृतिं काङ्क्षत्युपनयितुं यदि वा पट्टिकायां यदि वा कर्णिकायां यदि वा ग्रैवेये यदि वा हस्ताभरणे यदि वा पादाभरणे यदि वा अङ्गुलिमुद्रिकायां यदि वा जातरूपमालायां तत्र तत्र लघु लघ्वेवोपनयति; एवमेव स एवं समाहिते परिशुद्धे पर्यवदाते अनङ्गणे विगतोपक्लेशे रिजुभूते कर्मण्ये स्थिते आनिञ्ज्यप्राप्ते ऋद्धिविषयज्ञानसाक्षात्क्रियायामभिज्ञायां (इ २४७) चित्तमभिनिर्णामयति (अ ५१३ ) सोऽनेकविधमृद्धिविषयं प्रत्यनुभवति; तद्यथा एको भूत्वा बहुधा भवति; बहुधा भूत्वा एको भवति; आविर्भावं तिरोभावं ज्ञानदर्शनेन प्रत्यनुभवति; तिरःकुड्यं तिरःशैलं तिरःप्राकारमसज्जमानः कायेन गच्छति तद्यथा आकाशे; पृथिव्यामुन्मज्जन्नैमज्जनं करोति तद्यथोदके; उदके अभिन्नस्रोतो गच्छति तद्यथा पृथिव्याम्; आकाशे पर्यङ्केन क्रामति तद्यथा पक्षी शकुनिः; इमौ वा पुनः सूर्याचन्द्रमसावेवं महर्द्धिकावेवं महानुभावौ पाणिना आमार्ष्टि परिमार्ष्टि यावद्ब्रह्मलोकं कायेन वशे वर्तयति; तद्यथा दक्षः कुम्भकारो वा कुम्भकारान्तेवसी वा सुपरिकर्मीकृतं मृत्पिण्डं विदित्वा यां यामेव काङ्क्षते भाजनविकृतिमभिनिर्वर्तयितुं तां तामेव भाजनविकृतिं लघु लघ्वेवाभिनिर्वर्तयति; एवमेव स एवं समाहिते चित्ते पर्यवदाते (म्स्विव्२१६) अनङ्गणे विगतोपक्लेशे रिजुभूते कर्मण्ये स्थिते आनिञ्ज्यप्राप्ते ऋद्धिविषयज्ञानसाक्षात्क्रियायामभिज्ञायां चित्तमभिनिर्णामयति; एवमेव सोऽनेकविधमृद्धिविषयं प्रत्यनुभवति; तद्यथा एको भूत्वा बहुधा भवति; बहुधा भूत्वैको भवति; आविर्भावं तिरोभावं ज्ञानदर्शनेन प्रत्यनुभवति; तिरःकुड्यं तिरःशैलं तिरःप्राकारमसज्जमानः कायेन गच्छति तद्यथा आकाशे; पृथिव्यामुन्मज्जननिमज्जनं करोति तद्यथोदके; उदके अभिन्नस्रोतो गच्छति तद्यथा पृथिव्याम्; आकाशे पर्यङ्केन क्रामति तद्यथा पक्षी शकुनिः; इमौ वा सूर्याचन्द्रमसावेवं महर्द्धिकावेवं महानुभावौ पाणिना आमार्ष्टि परिमार्ष्टि यावद्ब्रह्मलोकं कायेन वशे वर्तयति; तद्यथा दक्षः दन्तकारो वा दन्तकारान्तेवसी वा सुपरिकर्मीकृतं <दन्तं यां यां यां यामेव काङ्क्षते> रूपविकृतिमभिनिर्वर्तयितुं तां तामेव रूपविकृतिं लघु लघ्वेवाभिनिर्वर्तयति; एवमेव स एवं समाहिते चित्ते पर्यवदाते अनङ्गणे विगतोपक्लेशे ऋजुभूते कर्मण्ये <स्थिते आनिञ्ज्यप्राप्ते ऋद्धिविषयज्ञानसाक्षात्क्रियायाम्> अभिज्ञायां चित्तमभिनिर्णामयति; सोऽनेकविधमृद्धिविषयं प्रत्यनुभवति; तद्यथा एको भूत्वा बहुधा भवति; बहुधा भूत्वैको भवति; आविर्भावं तिरोभावं ज्ञानदर्शनेन प्रत्यनुभवति; तिरःकुड्यं तिरःशैलं <तिरःप्राकारम् (म्स्विव्२१७) असज्जमानः कायेन गच्छति तद्यथा> आकाशे; पृथिव्यामुन्मज्जननिमज्जनं करोति तद्यथोदके; उदके अभिन्नस्रोतो गच्छति तद्यथा पृथिव्याम्; आकाशे पर्यङ्केन क्रामति तद्यथा पक्षी शकुनकः; इमौ वा पुनः सूर्याचन्द्रमसावेव महर्द्धिकावेवं महानुभावौ <पाणिना आमार्ष्टि परिमार्ष्टि यावद्ब्रह्मलोकं कायेन वशे वर्तयति> किं मन्यसे <महाराज न त्वेवं सति मया> दर्शितं सांदृष्टिकं श्रामण्यफलम्? तथ्यं भदन्त एवं सति भगवता दर्शितं सान्दृष्टिकं श्रामण्यफलम् (इ २४८) ८१. स एवं समाहिते चित्ते परिशुद्धे पर्यवदाते <अनङ्गणे विगतोपक्लेशे रिजुभूते कर्मण्ये स्थिते आनिञ्ज्यप्राप्ते> (अ ५१४ ) दिव्यश्रोत्रज्ञानसाक्षात्क्रियायामभिज्ञायां चित्तमभिनिर्णामयति स दिव्येन श्रोत्रेण विशुद्धेनातिक्रान्तमानुष्येनोभयान् शब्दान् शृणोति मानुष्यानप्यमानुष्यानपि; येऽपि दूरे येऽप्यन्तिके; तद्यथा शङ्खधामकः पुरुषो महाशैलपर्वतमभिरुह्य निशार्धे शङ्खमाधमेत्तस्य शब्दोऽव्याहतः पृथग्दिशः स्फुरेद्; एवमेव स एवं समाहिते चित्ते परिशुद्धे पर्यवदाते अनङ्गणे विगतोपक्लेशे ऋजुभूते कर्मण्ये स्थिते आनिञ्ज्यप्राप्ते दिव्यश्रोत्रज्ञानसाक्षात्क्रियायाम् (म्स्विव्२१८) अभिज्ञायां चित्तमभिनिर्णामयति स दिव्येन श्रोत्रेण विशुद्धेनातिक्रान्तमानुष्येनोभयान् शब्दान् शृणोति मानुष्यानप्यमानुष्यानपि; येऽपि दूरे येऽप्यन्तिके <किं मन्यसे महाराज न त्वेवं सति मया दर्शितं सांदृष्टिकं श्रामण्यफलम्? तथ्यं भदन्त एवं सति भगवता दर्शितं सान्दृष्टिकं श्रामण्यफलम्> ८२. स एवं समाहिते चित्ते परिशुद्धे पर्यवदाते अनङ्गणे विगतोपक्लेशे ऋजुभूते कर्मण्ये स्थिते आनिञ्ज्यप्राप्ते चेतःपर्यायज्ञानसाक्षात्क्रियायामभिज्ञायां चित्तमभिनिर्णामयति स परसत्वानां परपुद्गलानां वितर्कितं विचारितं मनसा मानसं यथाभूतं प्रजानाति; सरागं चित्तं सरागं चित्तमिति यथाभूतं प्रजानाति; विगतरागं चित्तं विगतरागं चित्तमिति यथाभूतं प्रजानाति; सद्वेषं विगतद्वेषं समोहं विगतमोहं संक्षिप्तं विक्षिप्तं लीनं प्रगृहीतमुद्धतमनुद्धतमव्युपशान्तं व्युपशान्तं समाहितमसमाहितमभावितं सुभावितमविमुक्तं वा चित्तमविमुक्तं चित्तमिति यथाभूतं प्रजानाति; सुविमुक्तं वा चितं सुविमुक्तं चित्तमिति यथाभूतं प्रजानाति; तद्यथा चक्षुष्मान् पुरुषः सुपरिशुद्धमादर्शमण्डलं गृहीत्वा संमुखनिमित्तं वा प्रत्यवेक्षते; एवमेव स एवं समाहिते चित्ते परिशुद्धे पर्यवदाते अनङ्गणे विगतोपक्लेशे ऋजुभूते कर्मण्ये स्थिते आनिञ्ज्यप्राप्ते चेतःपर्यायज्ञानसाक्षात्क्रियायामभिज्ञायां चित्तमभिनिर्णामयति स परसत्वानां परपुद्गलानां वितर्कितं विचारितं मनसा मानसं यथाभूतं प्रजानाति; सरागं (म्स्विव्२१९) चित्तं सरागं चित्तमिति यथाभूतं प्रजानाति; विगतरागं चित्तं विगतरागं चित्तमिति यथाभूतं प्रजानाति; सद्वेषं विगतद्वेषं विगतमोहं संक्षिप्तं विक्षिप्तं लीनं प्रगृहीतमुद्धतमनुद्धतमव्युपशान्तं व्युपशान्तं समाहितमसमाहितं सुभावितमभावितमविमुक्तं वा चित्तमविमुक्तं चित्तमिति यथाभूतं प्रजानाति; सुविमुक्तं वा चितं सुविमुक्तं चित्तमिति यथाभूतं प्रजानाति किं मन्यसे महाराज न त्वेवं सति मया दर्शितं सांदृष्टिकं (इ २४९) श्रामण्यफलम्? तथ्यं भदन्त एवं सति भगवता दर्शितं सान्दृष्टिकं श्रामण्यफलम् ८३. स एवं समाहिते चित्ते परिशुद्धे पर्यवदाते अनङ्गणे विगतोपक्लेशे ऋजुभूते कर्मण्ये स्थिते आनिञ्ज्यप्राप्ते पूर्वनिवासानुस्मृतिज्ञानसाक्षात्क्रियायामभिज्ञायां चित्तमभिनिर्णामयति सोऽनेकविधं पूर्वनिवासं समनुस्मरति; तद्यथा एकमपि द्वे तिस्रश्चतस्रः पंच षट्सप्ताष्टौ नव दश विंशतं (अ ५१४ ) त्रिंशतं चत्वारिंशतं पंचाशतं जातिशतं जातिसहस्रं जातिशतसहस्रमनेकान्यपि जातिशतानि अनेकान्यपि जातिसहस्राणि अनेकान्यपि जातिशतसहस्राणि संवर्तकल्पमपि विवर्तकल्पमपि संवर्तविवर्तकल्पमपि अनेकानपि संवर्तकल्पाननेकानपि विवर्तकल्पाननेकानपि संवर्तविवर्तकल्पान् समनुस्मरति; अमि नाम ते भवन्तः सत्वा यत्राहमासमेवंनामा एवंजात्य एवंगोत्र एवमाहार एवंसुखदुःखप्रतिसंवेदी एवंदीर्घायुः एवंचिरस्थितिक एवमायुष्पर्यन्तः; सोऽहं तस्मात्(म्स्विव्२२०) स्थानाच्च्युतोऽमुत्रोपपन्नः; तस्मादपि च्युतोऽमुत्रोपपन्नः; तस्मादपि च्युतः इहोपपन्न इति; साकारं सोद्देशमनेकविधं पूर्वनिवासमनुस्मरति; तद्यथा पुरुषो ग्रामाद्ग्रामं गच्छेत्; तस्मादपि ग्रामादपरं ग्रामं गच्छेत्; तस्मादपीहागच्छेत्; तस्यैवं स्याद्; अहममुष्माद्ग्रामदमुं ग्राममागतः; तस्मादपीहागत इति; एवमेव स समाहिते चित्ते परिशुद्धे पर्यवदाते अनङ्गणे विगतोपक्लेशे ऋजुभूते कर्मण्ये स्थिते आनिञ्ज्यप्राप्ते पूर्वनिवासानुस्मृतिज्ञानसाक्षात्क्रियायामभिज्ञायां चित्तमभिनिर्णामयति तद्यथा एकामपि जातिं द्वे तिस्रश्चतस्रः पंच षट्सप्ताष्टौ नव दश विंशतं त्रिंशतं चत्वारिंशतं पंचाशतं जातिशतं जातिसहस्रं जातिशतसहस्रमनेकान्यपि जातिशतानि अनेकान्यपि जातिसहस्राणि अनेकान्यपि जातिशतसहस्राणि संवर्तकल्पमपि विवर्तकल्पमपि संवर्तविवर्तकल्पमपि अनेकानपि संवर्तकल्पाननेकानपि विवर्तकल्पाननेकानपि संवर्तविवर्तकल्पान् समनुस्मरति; अमि नाम ते भवन्तः सत्वा यत्राहमेवंनामा आसमेवंजात्य एवंगोत्र एवमाहार एवंसुखदुःखप्रतिसंवेदी एवंदीर्घायुः एवंचिरस्थितिक एवमायुष्पर्यन्तः; सोऽहं तस्मात्स्थानाच्च्युतः अमुत्रोपपन्नः; तस्मादपि च्युतोऽमुत्रोपपन्नः; तस्मादपि च्युतः इहोपपन्न इति; साकारं सोद्देशमनेकविधं पूर्वनिवासमनुस्मरति किं मन्यसे महाराज न त्वेवं सति मया दर्शितं सांदृष्टिकं (इ २५०) श्रामण्यफलम्? तथ्यं भदन्त एवं सति भगवता दर्शितं सान्दृष्टिकं श्रामण्यफलम् ८४. (म्स्विव्२२१) स एवं समाहिते चित्ते परिशुद्धे पर्यवदाते अनङ्गणे विगतोपक्लेशे ऋजुभूते कर्मण्ये स्थिते आनिञ्ज्यप्राप्ते च्युत्युपपादज्ञानसाक्षात्क्रियायामभिज्ञायां चित्तमभिनिर्णामयति दिव्येन चक्षुषा विशुद्धेनातिक्रान्तमानुष्यकेन सत्वान् पश्यति च्यवमानानुपपद्यमानानपि सुवर्णानपि दुर्वर्णानपि हीनानपि प्रणीतानपि सुगतिमपि गच्छतो दुर्गतिमपि यथाकर्मोपयोगान् सत्वान् यथाभूतं प्रजानाति; अमी भवन्तः सत्वाः कायदुश्चरितेन समन्वागता वाङ्मनोदुश्चरितेन समन्वागता आर्याणामपवादका मिथ्यादृष्टयो (अ ५१५ ) मिथ्यादृष्टिकर्मधर्मसमादानहेतोस्तद्धेतुं तत्प्रत्ययं कायस्य भेदात्परं मरणादपायदुर्गतिविनिपातं नरकमुपपद्यन्ते; अमी वा पुनर्भवन्तः सत्वाः कायसुचरितेन समन्वागता वाङ्मनःसुचरितेन समन्वागता आर्याणामनपवादकाः सम्यग्दृष्टयः सम्यग्दृष्टिकर्मधर्मसमादानहेतोस्तद्धेतुं तत्प्रत्ययं कायस्य भेदात्सुगतौ स्वर्गलोके देवेषूपपद्यन्ते; <तद्यथा चक्षुष्मान् पुरुषः रथ्याचत्वारे निषण्णो महाजनकायो आगच्छति गच्छति तिष्ठति निषीदति इत्यनेकान् समुदाचारान् पश्येत्; स एवं समाहिते चित्ते परिशुद्धे पर्यवदाते अनङ्गणे विगतोपक्लेशे ऋजुभूते कर्मण्ये स्थिते आनिञ्ज्यप्राप्ते च्युत्युपपादज्ञानसाक्षात्क्रियायामभिज्ञायां चित्तमभिनिर्णामयति दिव्येन चक्षुषा विशुद्धेनातिक्रान्तमानुष्यकेन सत्वान् पश्यति च्यवमानानुपपद्यमानानपि सुवर्णानपि दुर्वर्णानपि हीनानपि प्रणीतानपि सुगतिमपि गच्छतो दुर्गतिमपि यथाकर्मोपयोगान् सत्वान् यथाभूतं प्रजानाति; अमी भवन्तः सत्वाः कायदुश्चरितेन समन्वागता वाङ्मनोदुश्चरितेन समन्वागता आर्याणामपवादका मिथ्यादृष्टयो मिथ्यादृष्टिकर्मधर्मसमादानहेतोस्तद्धेतुं तत्प्रत्ययं कायस्य भेदात्परं मरणादपायदुर्गतिविनिपातं नरकमुपपद्यन्ते; अमी वा पुनर्भवन्तः सत्वाः कायसुचरितेन समन्वागता वाङ्मनःसुचरितेन समन्वागता आर्याणामनपवादकाः सम्यग्दृष्टयः सम्यग्दृष्टिकर्मधर्मसमादानहेतोस्तद्धेतुं तत्प्रत्ययं कायस्य भेदात्सुगतौ स्वर्गलोके देवेषूपपद्यन्ते <किं मन्यसे महाराज न त्वेवं सति मया दर्शितं सांदृष्टिकं श्रामण्यफलम्? तथ्यं भदन्त एवं सति भगवता दर्शितं सान्दृष्टिकं श्रामण्यफलम्> ८५. स एवं समाहिते चित्ते परिशुद्धे पर्यवदाते अनङ्गणे विगतोपक्लेशे ऋजुभूते कर्मण्ये स्थिते आनिञ्ज्यप्राप्ते आस्रवक्षयज्ञानसाक्षात्क्रियायामभिज्ञायां चित्तमभिनिर्णामयति; स इदं दुःखमार्यसत्यमिति यथाभूतं प्रजानाति; अयं दुःखसमुदयोऽयं दुःखनिरोधः; इयं दुःखनिरोधगामिनी प्रतिपदार्यसत्यमिति यथाभूतं प्रजानाति; तस्यैवं जानत एवं पश्यतः कामास्रवाच्चित्तं विमुच्यते; भवास्रवादविद्यास्रवाच्चित्तं विमुच्यते; विमुक्तस्य विमुक्तमेव ज्ञानदर्शनं भवति; क्षीणा मे जातिः उषितं ब्रह्मचर्यं कृतं करणीयं नापरमस्माद्भवं प्रजानामीति; (इ २५१) तद्यथा ग्रामस्य वा निगमस्य वा नातिदूरे गम्भीरे स्यादुदकह्रदः अच्छो विप्रसन्नोऽनाविलः; तत्र चक्षुष्मान् पुरुषस्तीरे निषण्णः पश्येत्शर्करान् वा कठल्लानि वा मत्स्यान् वा कूर्मान् वा शुक्तीर्वा शम्बूकान् वा; एवमेव स एवं समाहिते परिशुद्धे पर्यवदाते अनङ्गणे विगतोपक्लेशे ऋजुभूते कर्मण्ये स्थिते आनिञ्ज्यप्राप्ते आस्रवक्षयज्ञानसाक्षात्क्रियायामभिज्ञायां चित्तमभिनिर्णामयति; स इदं दुःखमार्यसत्यमिति यथाभूतं प्रजानाति; अयं दुःखसमुदयोऽयं दुःखनिरोधः इयं दुःखनिरोधगामिनी प्रतिपदार्यसत्यं यथाभूतं प्रजानाति; तस्यैवं जानत एवं पश्यतः कामास्रवाच्चित्तं विमुच्यते; भवास्रवादविद्यास्रवाच्चित्तं विमुच्यते; विमुक्तस्य (म्स्विव्२२२) विमुक्तमेव ज्ञानदर्शनं भवति; क्षीणा मे जातिः उषितं ब्रह्मचर्यं कृतं करणीयं नापरमस्माद्भवं प्रजानामीति किं मन्यसे महाराज न त्वेवं सति मया दर्शितं सांदृष्टिकं श्रामण्यफलम्? तथ्यं भदन्त एवं सति भगवता दर्शितं सान्दृष्टिकं श्रामण्यफलम् ______________________________________________________________ किन्गजातशत्रु, रेपेन्तेदोf थे मुर्देरिन्गोf हिस्fअथेरिस्fइनल्ल्य्गैनेदोवेर्तो थे बुद्ध च्रेएद् एवमुक्ते राजा मागधोऽजातशत्रुर्वैदेहीपुत्रः प्रारोदीदश्रूणि वर्षयन्; अथ राजा मागधोऽजातशत्रुर्वैदेहीपुत्रः चीवरकर्णिकेनाश्रूण्युत्सृज्य भगवतः पादयोर्निपत्य भगवन्तमिदमवोचद्: अत्ययो भगवन्नत्ययः सुगत यथा भो यथा मूढो यथा अव्यक्तो यथा अकुशलः येन मया पापमित्रसहायेन पापमित्रवशंगतेन (म्स्विव्२२३) पापमित्रोपगूढकेन पिता धार्मिको धर्मराजो जीविताद्व्यपरोपितः; तस्य मम भदन्त अत्ययं जानतोऽत्ययं पश्यतोऽत्ययमत्ययः प्रतिगृह्णीष्वानुकम्पानुपादाय; तथ्यं त्वं महाराज अत्ययमत्ययतः अधिगतः तद्यथा बालो यथा मूढो यथा अव्यक्तो यथा अकुशलो येन त्वया पापमित्रसहायेन पापमित्रवशंगतेन (अ ५१५ ) पापमित्रोपगूढकेन पिता धार्मिको धर्मराजो जीविताद्व्यपरोपितः; यतश्च त्वं महाराज अत्ययं जानासि (इ २५२) अत्ययं पश्यसि च दृष्ट्वादेशयसि आयत्यां चा संवरमापद्यसे; वृद्धिरेव ते प्रतिकाङ्क्षितव्या कुशलानां धर्माणां न हानिः; तत्कस्य हेतोः यः कश्चिन्महाराज अत्ययं जानाति अत्ययं पश्यति तं दृष्ट्वादेशयति आयत्यां च संवरमापद्यते वृद्धिरेवास्य प्रतिकाङ्क्षितव्या कुशलानां धर्माणां न हानिः; एवमेव त्वं महाराज यतश्चात्ययं जानासि अत्ययं च पश्यसि दृष्ट्वादेशयसि आयत्यां च संवरमापद्यसे वृद्धिरेव ते प्रतिकाङ्क्षितव्या कुशलानां धर्माणां न हानिः ______________________________________________________________ थे बुद्ध, इन्वितेद्ब्य्किन्गजातशत्रु, रेग्रेत्स्fओर्थे सिन् चोम्मितेद्ब्य्हिस्रोयल्गुएस्त् अथ राजा मागधोऽजातशत्रुर्वैदेहीपुत्रो भगवन्तमिदमवोचद्: अधिवासयतु मे भगवान् श्वोऽन्तर्गृहे भक्तेन सार्धं भिक्षुसंघेन; अधिवासयति भगवान् राज्ञो मागधस्याजतशत्रोर्वैदेहीपुत्रस्य तूष्णींभावेन; अथ राजा मागधोऽजातशत्रुर्वैदेहीपुत्रः भगवतस्तूष्णींभावेनाधिवासनां विदित्वा भगवतो भाषितमभिनन्द्यानुमोद्य भगवतः पादौ शिरसा वन्दित्वा भगवतोऽन्तिकात्प्रक्रान्तः; अथ भगवानचिरप्रक्रान्तं राजानं मागधमजातशत्रुं वैदेहीपुत्रं विदित्वा भिक्षूनामन्त्रयते स्म: क्षतो (म्स्विव्२२४) भिक्षवो राजा मागधोऽजातशत्रुर्वैदेहीपुत्रः उपहतो येन पापमित्रसहायेन पापमित्रवशंगतेन पापमित्रोपगूढकेन पिता धार्मिको धर्मराजो धर्मस्थितो महाराजो जीविताद्व्यपरोपितः; सचेद्भिक्षवो राजाञा मागधेनाजातशत्रुणा वैदेहीपुत्रेण पिता धार्मिको धर्मराजो धर्मस्थितो महाराजो जीवितान्न व्यपरोपितो भविष्यत्स्थानमेतद्विद्यते यदस्मिन्नेवासने निषण्णेन चत्वारि आर्यसत्यानि अभिसमितान्यभविष्यन्; एवं क्षतो भिक्षवो राजा मागधोऽजातशत्रुर्वैदेहीपुत्रः एवमुपहतः; तस्मात्तर्हि भिक्षव एवं शिक्षितव्यं यद्दग्धस्थूणायामपि चित्तं न प्रदूषयिष्यामः प्रागेव सविज्ञानके काये; इत्येवं वो भिक्षवः शिक्षितव्यम् अथ राजा मागधोऽजातशत्रुर्वैदेहीपुत्रस्तामेव रात्रिं शुचि प्रणीतं खादनीयभोजनीयं समुदानीय काल्यमेवोत्थायासनानि प्रज्ञप्योदकमणिं प्रतिष्ठाप्य भगवतो दूतेन कालमारोचयति; (इ २५३) समयो भदन्तः सज्जं भक्तं यस्यैवेदानीं भगवान् कालं मन्यते; अथ भगवान् पूर्वाह्णे निवास्य पात्रचीवरमादाय भिक्ष्सुगणपरिवृतो भिक्षुसंघपुरस्कृतो येन राज्ञा मागधेनाजातशत्रुणा वैदेहीपुत्रेण भक्ताभिसारस्तेनोपसंक्रान्तः; उपसम्क्रम्य पुरस्ताद्भिक्षुसंघस्य प्रज्ञप्त एवासने न्यषीदद्; अथ राजा मागधोऽजातशत्रुर्वैदेहीपुत्रः सुखोपनिषण्णं बुद्धप्रमुखं भिक्षुसंघं विदित्वा शुचिना प्रणीतेन (म्स्विव्२२५) खादनीयभोजनीयेन स्वहस्तं संतर्पयति संप्रवारयति; अनेकपर्यायेण शुचिना प्रणीतेन खादनीयभोजनीयेन (अ ५१६ ) स्वहस्तं संतर्प्य संप्रवार्य भगवन्तं भुक्तवन्तं विदित्वा धौतहस्तमपनीतपात्रं नीचतरमासनं गृहित्व भगवतः पुरस्तान्निषण्णो धर्मश्रवणाय ______________________________________________________________ बुद्ध चोन्वेर्सेस्wइथजातशत्रु, wहो ग्रोwस्मोरे अन्द्मोरे अत्तछेद्तो हिम् अथ भगवान् राज्ञो मागधस्याजतशत्रोर्वैदेहीपुत्रस्य तद्दानमनया अभ्यनुमोदनयाभ्यनुमोदते अग्निहोत्रमुखा यज्ञाः सावित्री च्छन्दसां मुखम् । राजा मुखं मनुष्याणां नदीनां सागरो मुखम् ॥ नक्षत्राणां मुखं चन्द्र आदित्यस्तपतां मुखम् । ऊर्ध्वं तिर्यगधश्चापि यावती जगतो गतिः । सदेवकेषु लोकेषु संबुद्धो हीज्यतां वरः । अथ भगवान् राजानं मागधमजातशत्रुं धर्म्यया कथया सम्दर्शयति समादापयति समुत्तेजयति संप्रहर्षयति; अनेकपर्यायेण धर्म्यया कथया संदर्श्य समादाप्य समुत्तेज्य संप्रहर्ष्योत्थायासनात्प्रक्रान्तः यदा भगवता राजा अजातशत्रुर्वैदेहीपुत्रोऽमूलिकया श्रद्धया प्रतिस्ठापितः तदा यदा भगवन्तं हर्म्यतलस्थो हस्तिस्कन्धावरूढो (म्स्विव्२२६) वा पश्यति तदात्मानं मुञ्चति; यावदपरेण समयेन हस्तिस्कन्धावरूढेन भगवान् दृष्टः; तेनात्मा मुक्तः; भगवता रिद्ध्या प्रतीष्टः; पौरुषेयमन्तर्जनं चामन्त्रयते (इ २५४) यत्खलु भवन्तः जानीयुः; अद्याग्रेण भगवतः श्रावको भगवन्तं शरणं गतः; अद्याग्रेणानावृतं द्वारं भगवतः श्रावकाणां भिक्षूणां भिक्षुणीनामुपासकानामुपासिकानामावृतं द्वारं देवदत्तस्य देवदत्तस्य श्रावकाणां चेति ______________________________________________________________ देवदत्त, नो मोरे अद्मित्तेदिन्तो थे पलचे, स्त्रुच्क्स्थे भिक्षुणी उत्पलवर्णा, wहो स्होर्त्ल्यfतेर्दिएस् यावदपरेण समयेन देवदत्तो राज्ञोऽजातशत्रोर्गृहं प्रवेष्टुमारब्धो दौवारिकेणाभिहितः: तिष्ठ मा प्रवेक्ष्यसीति; किं कारणं? देवाज्ञा दत्ता: अद्याग्रेणाहं भगवतः श्रावको भगवन्तं शरणं गतः; अद्याग्रेणानावृतं द्वारं भगवतः श्रावकाणां भिक्षूणां भिक्षुणीनामुपासकानामुपासिकानाम्; आवृतं तु देवदत्तस्य देवदत्तश्रावकाणामेवदत्तश्राविकाणां चेति; स च द्वारे विधारितस्तिष्ठति; उत्पलवर्णा च भिक्षुणी पिण्डपातमादाय राजकुलान्निष्क्रामति; देवदत्तस्यैतदभवद्; अस्या मुण्डिकायाः श्रामणिकाया एतत्कर्म; अनया राजाजातशत्रुः सान्तःपुरकुमारामत्यो भिन्नो येन मे ईदृशी समवस्थेति विदित्वोत्पलवर्णामिदमवोचत्: किं मया तवापराद्धं येन त्वया मम भैक्षाककुलं दुरीकृतमिति; स तां प्रघातयितुमारब्धाः; सा प्रघात्यमाना करुणदीनविलपितैरक्षरैर्(म्स्विव्२२७) उवाच: आर्य शान्तं किमहमेव करिष्ये? त्वं तावद्भगवतो पुनः शाक्यकुलात्प्रव्रजितः; नाहमेवं करोमि क्षमस्वेति; तथाप्युच्यमानेन देवदत्तेन तस्याः शिरसि खटप्रहारो दत्तः; सा मरणवेदनाभ्याहता जीवितसंस्कारानधिष्ठाय आयुःसंस्कारानुत्सृज्य वीर्यमवलम्ब्य भिक्षुणीवर्षकं गता; भिक्षुण्यस्तां तथाविधां दृष्ट्वा कथयन्ति: अहो आर्ये किमिदमिति; सा कथयति: भगिन्यः (अ ५१६ ) सर्वसंस्कारा अनित्याः; सर्वधर्मा अनात्मानः; शान्तं निर्वाणं; युष्माभिः कुशलेषु धर्मेष्वप्रमादः करणीयः; देवदत्तेन (इ २५५) तृतीयमानतर्यं कृतं; परिनिर्वास्यामीति; ततोऽसौ भिक्षुणीसंघस्य पुरस्ताद्विचित्राणि प्रातिहार्याणि कृत्वा निरुपधिशेषे निर्वाणधातौ परिनिर्वृता भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: पश्य भदन्त देवदत्तेनोत्पलवर्णा भिक्षुणी करुणकरुणं विप्रलपन्ति खटप्रहारेण प्रघातिता इति; भगवानाह: न भिक्षव एतर्हि यथा अतीतेऽप्यध्वन्यस्याः करुणकरुणं विप्रलपन्त्या हत्वा मांसं भक्षितं; तच्छ्रूयताम् ______________________________________________________________ थे स्तोर्योf थे ओल्द्स्हेएप् (चोन्चेर्निन्ग प्रेविओउस्लिfए ओf देवदत्त) भूतपूर्वं भिक्षवोऽन्यतमस्मिन् कर्वटके गृहपतिः प्रतिवसति; तस्य एडकानां वर्गः; तंच्रारणाय एडकपालो ग्रामाद्बहिर्निर्गतः; ततश्चारयित्व सूर्यस्यास्तंगमनकालसमये कर्वटकं प्रवेशितुमारब्धः; तत्रान्यतरा जीर्णेडिका पृष्ठतोऽवलम्बमाना; वृको गच्छति; तावद्वृकेण गृहीता; कथयति (म्स्विव्२२८) कच्चित्ते मातुल क्षेमं सुखं कच्चिन्नु मातुल । एकः कच्चिदरण्येऽस्मिन् सुखं विन्दसि मातुल ॥ इति । सोऽपि कथयति मर्दित्वा मम लाङ्गूलं खोसयित्वा च वालधिम् । अथ मातुलवादेन कुत्र मोक्ष्यसे एडके ॥ इति । एडका पुनराह पृष्ठतस्तव लाङ्गूलं पुरतो ह्यागता अहम् । अथ केनाभ्युपायेन लाङ्गूलं मर्दितं मया ॥ इति । वृको भूयः कथयत् चत्वार इमे द्वीपाः ससमुद्राः सपर्वताः । सर्वेषु मम लाङ्गूलमथ केन त्वमागता ॥ इति । (इ २५६) एडिका प्राह पूर्वमेव मया भद्र ज्ञातीनामन्तिकाच्छ्रुतम् । सर्वत्र तव लाङ्गूलमाकाशेनाहमागता ॥ इति । वृकः प्राह आकाशेन पतन्त्या वै त्वया मे अजरेडिके । त्रासितो मृगसंघोऽसौ यो मे भक्ष्य उपागतः ॥ इति । एवं तस्याः प्रलपन्त्या उत्पत्य पापकर्मणा । एडिकायाः शिरः छिन्नं हत्वा मांशं च भक्षितम् ॥*<>* भगवानाह: किं मन्यध्वे भिक्षवो योऽसौ वृकः एष एव स देवदत्तस्तेन कालेन तेन समयेन; या साजरेडिका एषैव सा (म्स्विव्२२९) उत्पलवर्णा तेन कालेन तेन समयेन; तदाप्येषा करुणकरुणं विलपन्ति प्रघातिता; एतर्ह्यप्येषा करुणकरुणं विप्रलपन्ति प्रघातिता ______________________________________________________________ देवदत्त इस्गैनेदोवेर्थे निहिलिस्तिच्दोच्त्रिने ओf पूरण काश्यप अथ देवदत्तस्यैतदभवद्: बहुशो मया भगवतः पराक्रान्तमानन्तर्यत्रयं च कृतं; भगवतः शिला क्षिप्ता रुधिरोत्पादः कृतः, इदं प्रथममानन्तर्यं; संघो भिन्नः, इदं द्वितीयम्; उत्पलवर्णा जीविताद्व्यपरोपिता, इदं तृतीयं; न च सर्वज्ञत्वमवाप्तं; न चान्या काचित्कार्यसिद्धिरवाप्ता; नान्यत्रेदानीं नरकेषूपपत्तव्यमित्विदित्वा करे कप्लं दत्वा चिन्तापरो व्यवस्थितः यावत्पूरणस्तं प्रदेशमनुप्राप्तः; स कथयति: देवदत्त किम् (अ ५१७ ) अर्थं करे कपोलं दत्वा चिन्तापरस्तिष्ठसीति; स कथयति: कथमहं न चिन्तापरस्तिष्ठामि; येन मया द्वेषावेशाद्भगवतो बहुशः पराक्रान्तं; त्रीणि चानन्तर्यकर्माणि कृतानि; चिरमवीचौ महानरके वस्तव्यं भविष्यतीति; स कथयति: ज्ञातं मया त्वमेकः शाक्यानां पण्डित इति; त्वमपि मूर्खः; कुतः परलोकः स्यात्त्वया ईदृशं कर्म कृतमिति वयमपि त्वदर्थं चिन्तापरस्तिष्ठेम; ततः तत्प्रत्ययनार्थं च तेन तस्य पुरस्तात्कुण्डिका भग्ना; सदेवस्(इ २५७) तावल्लोकः एतां प्रतिसन्दधातु; सर्वथा मा काहलो भव; (म्स्विव्२३०) नास्त्यत्र कर्ता वा कारको वा; अपि तु गच्छ कपिलवस्तुनगरं; गत्वा राज्यं कारय; वयं तवाग्रे श्रावका भविष्याम इति; तत्र देवदत्त आर्यापवादिकां मिथ्यादृष्टिं प्रतिलब्धवान् यया सर्वेण सर्वं कुशलमूलानि समुच्छिन्नानि ______________________________________________________________ थे बुद्ध ब्लमेस्देवदत्त तत्र भगवान् भिक्षूनामन्त्रयते स्म: समुच्छिन्नानि भिक्षवो देवदत्तेन कुशलमूलानि; यावच्चाहं भिक्षवो देवदत्तस्य शुक्लं धर्ममद्राक्षम्, न तावन्मया देवदत्तो व्याकृता इत्यपि देवदत्त आपायिको नैरयिकः कल्पस्थोऽचिकित्स्य इति; तद्यथा ग्रामस्य वा निगमस्य वा नातिदूरे गूथोडीरं स्यादूर्ध्वं साधिकपौरुष्यं; तत्र कश्चिदेव पुरुषः सशिरःपाणिपादो मग्नः स्यात्; तत्र कश्चिदेव पुरुष उपपद्येत दीर्घरात्रमर्थकामो हितकामः सुखकामः स्पर्शकामो योगक्षेमकामः; स तं गूथोडीरं सामन्तकेनानुपरिवार्यागच्छेदप्येव लभेयास्य पुरुषस्य कंचिदेव प्रदेशं गूथेनाम्रक्षितं यत्रैनं गृहीत्वोद्धरेयमिति; स तत्र सामन्तकेनानुपरिवार्यागच्छन्न लभते तस्य पुरुषस्य कंचिदेव प्रदेशं गूथेनाम्रक्षितमन्ततः पाणितलमात्रमपि यत्रैनं गृहीत्वोद्धरेद्; एवमेव यावच्चाहं भिक्षवो देवदत्तस्य शुक्लं धर्ममद्राक्षं न तावन्मया देवदत्तो व्याकृत इत्यपि देवदत्त आपायिको (म्स्विव्२३१) नैरयिकः कल्पस्थोऽचिकित्स्य इति; यतश्चाहं देवदत्तस्य शुक्लं धर्मं नाद्राक्षमन्ततो वालाग्रकोटीमात्रमपि ततो मया देवदत्तो व्याकृत इत्यपि देवदत्त आपायिको नैरयिकः कल्पस्थोऽचिकित्स्य इति; त्रिभिर्भिक्षवः असद्धर्मैः समन्वागतो देवदत्त आपायिको नैरयिकः कल्पस्थोऽचिकित्स्यः; कतमैस्त्रिभिः? १) पूर्वमेव भिक्षवो पापेच्छोऽभूत्पापिकया इच्छया वशगतः; यद्देवदत्तः पूर्वमेव पापेच्छोऽभूत्पापिकया इच्छया वशगतो (इ २५८)ऽनेन प्रथमेनासद्धर्मेण समन्वागतो देवदत्त आपायिको नैरयिकः कल्पस्थोऽचिकित्स्यः; २) पुनरपरं भिक्षवः देवदत्तः पापमित्रोऽभूत्पापसहायः पापसंपर्कः; यद्देवदत्तः पूर्वमेव पापमित्रोऽभूत्पापसहायः पापसंपर्कोऽनेन द्वितीयेनासद्धर्मेण समन्वागतो देवदत्त आपायिको नैरयिकः कल्पस्थोऽचिकित्स्यः; ३) पुनरपरं देवदत्तोऽल्पमात्रावरमात्रकेण विशेषाधिगमेनान्तरा विषादम् (अ ५१७ ) आपन्नः सत्युत्तरे करणीये; यद्देवदत्त अल्पमात्रावरमात्रकेण विशेषाधिगमेनान्तरा विषादमापन्नः सत्युत्तरे करणीये; अनेन तृतीयेनासद्धर्मेण समन्वागतो देवदत्त आपायिको नैरयिकः कल्पस्थोऽचिकित्स्यः मा जातु कश्चिल्लोकेऽस्मिन् पापेच्छ उपपद्यताम् । तदनेनैव जानीध्वं पापेच्छानां हि या गतिः ॥ पण्डितोऽपि समाख्यातो भावितात्मा हि संमतः । श्रीया च देदीप्यमानो देवदत्त इति विश्रुतः ॥ स वै प्रमादमनुयुज्यासाद्येह तथागतम् । व्याकृतस्तु स कल्पस्थः संबुद्धेन प्रजानता ॥ (म्स्विव्२३२) कदर्यः पापसंकल्पो मिथ्यादृष्टिरनादरः । अवीचिनरकं प्राप्तश्चतुर्द्वारं हि यं विदुः ॥ अद्रुग्धस्य हि यो द्रुह्येत्कर्म पापमकुर्वतः । तमेव पापं स्पृशति लोकेऽस्मिंश्च परत्र च ॥ समुद्रं विषकुम्भेन यो दूषयितुमुत्सहेत् । न स तेन विदूष्येत भीष्मो हि स महोदधिः ॥ एवमेव तथागतं यो वादेनोपहिंसति । (इ २५९) सम्यग्दर्शी शान्तचित्तो वादो यस्मिन्न रोहति ॥ तादृग्मित्रं प्रकुर्वीत तं वै सेवेत पण्डितः । तादृशं सेवमानस्य श्रेयः स्यान्न तु पापकम् ॥ <इदमवोचद्भगवान्: आत्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्> ______________________________________________________________ थे नेw रुलेसोf देवदत्त ततो देवदत्त आर्यापवादिकां मिथ्यादृष्टिं प्रतिलभ्य समुच्छिन्नकुशलमूलो नास्ति परलोक इति निश्चयं लब्ध्वा पंचभिः पदैः श्रावकाणां धर्मं देशयति; श्रमणो गौतमो दधिक्षीरं (म्स्विव्२३३) परिभुङ्क्ते; अस्माभिरद्याग्रेण न परिभोक्तव्यं; यत्कारणम्; अतोनिदानं वत्सकाः क्लाम्यन्ति; श्रमणो गौतमो मांशं परिभुङ्क्ते; अस्माभिर्न परिभोक्तव्यं; यत्कारणं; अतोनिदानं प्रानिनो घात्यन्ते; श्रमणो गौतमो लवणं परिभुङ्क्ते; अस्माभिर्न परिभोक्तव्यं; रेणुसंभूतमिति कृत्वा; श्रमणो गौतमश्छिन्नदशानि वस्त्राणि धारयति; अस्माभिर्दीर्घदशानि वस्त्राणि धारयितव्यानि; यत्कारणं; अतोनिदानं कुविन्दानां पुरुषकारो ध्वंस्यते; श्रमणो गौतमोऽरण्ये प्रतिवसति; अस्माभिर्ग्रामे वस्तव्यं; यत्कारणम्; अतोनिदानं मनुष्यानां देयधर्मा न परिभुज्यन्त इति अन्तरोद्दानम् क्षीरं मांसं च लवणं वस्त्रमारण्यकेन च ॥ ______________________________________________________________ देवदत्त इस्थ्रोwनिन्तो अ पोन्द् यावद्भगवान् जनपदचारिकां चरन् श्रावस्तीमनुप्राप्तः; देवदत्तः संलक्षयति: बहुशो मया श्रमणस्य गौतमस्यापकृतं; न च शक्तः श्रमणं गौतमं प्रघातयितुं; गच्छामि दारापमर्दमस्य करोमीत्य्; स कपिलवस्तुं गतः; तेन तत्र गत्वा यशोधरायाः संदिष्टं: श्रमणो गौतमः प्रव्रजितः; अहं त्वदर्थमागतः; सा त्वं मया सार्धं परिचारयेति; तया गोपिकाया (इ २६०) समाख्यातं; सा कथयति: त्वमेवं संदिश: बोधिसत्वोऽस्माकं हस्तग्रहणं सहते; यदि त्वमपि सहसे आगच्छ; स निर्लज्जतया अन्तःपुरं प्रविष्टः; तेन सोपानमभिरुहता गोपिका दृष्टा; तस्याः समनुपहासमन्ञ्जलीकर्तुमारब्धः; सा महानग्नबला; तया वामेन (म्स्विव्२३४) पाणिना तस्याङ्गुल्यो निपीडिताः; शोणितमागतं; ततस्तया बोधिसत्वस्य क्रीडापुष्करिण्यां (अ ५१८ ) क्षिप्तः; तेन पतला नादो मुक्तः; श्रुत्वा शाक्याः प्रधाविताः: देवदत्तो बोधिसत्वस्यान्तः पुरं प्रविश्य दारापमर्दं करोतीति; तैरसौ क्रीडापुष्करिण्यां पतितो दृष्टः; ते सम्जल्पं कर्तुमारब्धाः; प्रघातयाम एतमिति; भूयः कथयन्ति: अस्य हतस्य हन्यते; व्याकृत एवायं भगवता इत्यपि देवदत्त आपायिको नैरयिकः कल्पस्थोऽचिकित्स्यः; तैः उत्सृष्टः; त्रसच्छिद्रेण निष्पलायितः; तस्य वस्त्रं पाटितं द्विखण्डं जातं; स संलक्षयति: शोभनम्; अनेन कल्पेन मे श्रावकैर्निवसनं निवासयितव्यमिति ______________________________________________________________ देवदत्त fऐल्सिन् हिसत्तेम्प्त्स्तो बेचोमे किन्गोf थे शाक्यस्, fइल्ल्सुन्देर्नेअथ्हिस्नैल्स्wइथ देअद्ल्य्पोइसोन्, इन्तेन्दिन्ग्तो स्च्रत्छ्थे बुद्धऽस्fएएत्, दिएसन्द्fअल्ल्सिन्तो हेल्ल् सोऽपरेण समयेन शाक्यान् सन्निपात्य कथयति: मां राज्ये प्रतिष्ठापयतेति; ते कथयन्ति: बोधिसत्वस्यात्रान्तःपुरमवतिष्टते; त्वं तावत्स्वीकुरु; ततः पश्चाद्राज्यं कारयिष्यसीति; एवमुक्तो देवदत्तः शाक्येभ्यो विगतशंको हर्म्यतलमवरूढः; यशोधरायाः सकाशमुपसंक्रम्याञ्जलिं कृत्वा कथयति: नियोज्येऽहं तव; प्रसादं कुरु ममाग्रमहिषी; कपिलवस्तुनि राज्यं कारयामीति; यशोधरा प्रस्कन्दिबलिनि; तदा श्रीपर्यङ्कादुत्थायोभयोर्हस्तयोर्गृहीत्वा जानुभ्यां पातितः; तस्य हस्तयोः रुधिरं स्यन्दितुमारब्धं; (इ २६१) स दुःखवेदनाभ्याहतो यशोधरयाभिहितः: निरपत्रपस्त्वं मूर्खश्च; यस्त्वं मम हस्तग्रहणमपि न शक्तः सोढुं स मां प्रार्थयसे; चक्रवर्ती (म्स्विव्२३५) वास्माकं भर्ता स्याद्बोधिसत्वो वेति; ततस्तयावमानितोऽन्तःपुरान्निर्गतः; शाक्यैरुक्तो गच्छ भगवन्तं क्षमय; यदि ते भगवान् क्षमति पश्चाद्राज्यं कारयिष्यसीति; स वत्सनाभस्य परमतीक्ष्णस्य विषस्य नखान् पूरयित्वा येन भगवांस्तेनोपसंक्रान्तः; यदि मे श्रमणः गौतमः क्षमिष्यतीति एवं कुशलं; नोचेत्क्षमिष्यति तत्रैवास्य पादयोर्निपतितो नखविषपूर्णौ पादौ करिष्यामीति विदित्वा भगवतः पादयोर्निपत्य भगवन्तमिदमवोचत्: क्षमस्व भगवन्निति; भगवान् संलक्षयति: कीदृशेन चित्तेनायं मामुपसंक्रान्त इति; पश्यति वधचित्तेन; ततो भगवान् पादतलाद्यावज्जानुमण्डलमुपादाय स्फटिकमयौ पादौ निर्माय तूष्णीमवस्थितः; स भगवतः पादौ नखैर्वेद्धुमारब्धः; तस्य नखा भग्नाः; स प्रतिविभिन्नः कथयति: त्वां शरणं गच्छामि; यस्मादुक्तं त्वया: ये बुद्धं शरणं गच्छन्ति न ते गच्छन्ति दुर्गतिमिति; यदि दुर्गतिं गमिष्यामि इदं ते मृषा इति; अभ्य्दीर्णपरिपूर्णानि हि कर्माणि शरीरस्य पतनं नापेक्षन्ते; स जीवन्नेवावीचिकाभिर्ज्वालाभिरालिङ्गितो विक्रोष्टुमारब्धो दह्ये आनन्द दह्ये आनन्देति; अथायुष्मानानन्दः कारुणिको मैत्र्यात्मकः स्वजनवत्सलः; स कथयति: एहि देवदत्त तथागतमर्हन्तं बुद्धं शरणं गच्छेति; तेन दुःखवेदनाभिभूतेन (म्स्विव्२३६) प्रत्यक्षकर्मफलदर्शिना आशयतः चित्तः उत्पादितं; वाग्भाषिता: एषोऽहमस्थितोऽपि बुद्धं भगवन्तं शरणं गच्छामीत्युक्त्वा (अ ५१८ ) स्वशरीरेणावीचौ महानरकौ पतितः (इ २६२) ______________________________________________________________ थे बुद्ध fओरेतेल्ल्स्थत्, ओन् थे एxपिरतिओनोf अ कल्प, देवदत्त wइल्ल्बेचोमे अ प्रत्येकबुद्ध, अस्थिमान् ब्य्नमे तत्र भगवान् भिक्षूनामन्त्रयते स्म: प्रतिसंहृतानि भिक्षवो देवदत्तेन कुशलमूलानि; कल्पमवीचौ महानरके स्थित्वा प्रत्येकं बोधिं साक्षात्करिष्यति; अस्थिमान्नाम प्रत्येकबुद्धो भविष्यति; सोऽभिसंबुद्धमात्रः पिण्डपातमेकान्ते स्थापयित्वा हस्तौ निर्मर्दयन् समन्वाहरिष्यति: किमर्थमहं दीर्घकालं संसारे संसृतः? इति; स्मन्वाहरन् ज्ञास्यति: जन्मनि जन्मनि मया भगवतः पराक्रान्तं बोधिसत्वभूतस्यापि सर्वज्ञेयवशिताप्राप्तस्यापि, तच्च लाभसत्कारहेतोरिति; स तमप्येकपिण्डपातमपरिभुज्योपरिविहायसमभ्युद्गम्य ज्वलनतपनवर्षणविद्योतनप्रातिहार्याणि कृत्वा निरुपधिशेषे निर्वाणधातौ परिनिर्वास्यतीति ______________________________________________________________ शारिपुत्र अन्द्मौद्गल्यायन देस्चेन्द्तो हेल्ल्तो विसितन्द्चोम्fओर्त्देवदत्त आचरितं शारिपुत्रमौद्गल्यायनोः कालेन कालं नरकचारिकां चरितुम्; अथायुष्मान् शारिपुत्र आयुष्मन्तं महामौद्गल्यायनमिदमवोचद्: आयुष्मन्महामौद्गल्यायन भगवता देवदत्तः प्रत्येकबोधौ व्याकृतः; एह्यावामवीचिं महानरकं गत्वा देवदत्तमाश्वासयाव इति; अथायुष्मन्तौ शारिपुत्रमहामौद्गल्यायनौ (म्स्विव्२३७) अवीचिं महानरकं गतौ; तत्रायुष्मान् शारिपुत्र आयुष्मन्तं महामौद्गल्यायनमामन्त्रयते: समन्वाहर आयुष्मन्महामौद्गल्यायन नारकान् सत्वानिति; आयुष्मान्महामौद्गल्यायनस्तद्रूपं समाधिं समापन्नो यथा समाहिते चित्ते मुसलमात्राभिर्धाराभिर्वर्षितुमारब्धः; तदुदकमवीचिकाभिर्ज्वालाभिरन्तरात्पर्यादीयते; एवमीषामात्राभिरक्षमात्राभिर्धाराभिर्वर्षितुमारब्धः; तदप्युदकमन्तरात्पर्यादीयते; तत आयुष्मान् शारिपुत्र (इ २६३) आधिमोक्षिकं समाधिं समापन्नः; सर्वं तन्नरकमुदकेन प्लावितम्; आयुष्मता महामौद्गल्ययेनोक्तं: यो देवदत्तः स आगच्छत्विति; अनेक्नि देवदत्तसहस्राण्यागतानि; आयुष्मान्महामौद्गल्यायनः कथयति: यो भगवतो भ्राता देवदत्तः स आगच्छत्विति; अथ देवदत्तो येनायुष्मन्तौ शारिपुत्रमहामौद्गल्यायनौ तेनोपसंक्रान्तः; उपसंक्रम्यायुष्मतोः शारिपुत्रमहामौद्गल्यायनयोः पादौ निपतितः; ताभ्यामुक्तः: अस्ति ते कच्चित्कारणानां विशेष? इति; स कथयति: या तावदावीचिकैः सत्वैः साधारणता स्थिता सा एवास्तु मम; याः प्रातिपौद्गलिका वर्तन्ते ताः शृणु: (म्स्विव्२३८) अयस्मयाः पर्वता आगच्छन्ति, आदीप्ताः प्रदीप्ताः संप्रज्वलिता एकज्वलीभूताः; ते मां तिलवत्पेषयन्ति; उभयतो दन्तकैः क्रकचैरङ्गप्रत्यङ्गानि पाट्यन्ते; अयस्मयैर्मुद्गरैरादीप्तैः प्रदीप्तैः संप्रज्वलितैरेकज्वालीभूतैर्मुहुर्मुहुः शिरश्चूर्ण्यते; चतुर्दिशं हस्तिन आगच्छन्ति; ते मां पिष्टवत्पेषयन्ति इति आयुष्मन्तौ शारिपुत्रमहामौद्गल्यायनौ कथयतः: यस्त्वं देवदत्त कथयसि: अयस्मयाः पर्वता आगच्छन्ति आदीप्ताः प्रदीप्ताः संप्रज्वलिता एकज्वलीभूताः; ते मां तिलवत्पेषयन्तीति; तथा हि त्वया भगवतो वधाय गृध्रकूटपर्वताच्छिला क्षिप्ता तस्यैतत्कर्मणः फलम् यत्कथयसि: उभयतोदन्तकैः क्रकचैरादीप्तैः प्रदीप्तैः संप्रज्वलितैरेकज्वालीभूतैरङ्गप्रत्यङ्गानि पाट्यन्ते इति; तथा हि त्वया भगवतः श्रावकसंघो भिन्नः; तस्यैतत्कर्मणः फलम् यत्कथयसि: अयस्मयैर्मुद्गरैरादीप्तैः प्रदीप्तैः संप्रज्वलितैरेकज्वालीभूतैर्मुहुर्मुहुः शिरश्चूर्ण्यते; तथा हि त्वया उत्पलवर्णा भिक्षुणी अर्हन्ती खटप्रहारेण प्रघातिता; तस्यैतत्कर्मणः फलम् यत्कथयसि: चतुर्दिशं हस्तिन आगच्छन्ति; ते मां पिष्टवत्पेषयन्ति इति; तथा हि त्वया भगवतो वधाय धनपालको हस्तिनाग उत्सृष्टः; तस्यैतत्कर्मणः फलम् अपि तु व्याकृतस्त्वं भगवता: किमिति भदन्त शारिपुत्र? प्रतिसंहृतानि भिक्षवो देवदत्तेन कुशलमूलानि; कल्पमवीचौ (म्स्विव्२३९) महानरके स्थित्वास्थिमान् प्रत्येकबुद्धो भविष्यतीति; स कथयति (इ २६४) भदन्त शारिपुत्र यद्येवमुत्सहे अहमेकपार्श्वेनावीचौ महानरके स्थातुमिति ______________________________________________________________ शारिपुत्र अन्द्मौद्गल्यायन विसितिन् हेल्ल्fओल्लोwएर्सोf देवदत्त, कोकालिक, एत्च्., अन्द्पूरण काश्यप अथायुष्मन्तौ शारिपुत्रमहामौद्गल्यायनौ येन कोकालिकप्रभृत्ययस्तेनोपसंक्रान्तौ; यावत्कोकालिकस्य हि जिह्वा हलशतेन धार्यते; ब्रह्मणा सभांपतिना कोकालिक उच्यते; कोकालिकाभिप्रसाद्य शारिपुत्रमौद्गल्यायनयोर्भिक्ष्वोरन्तिके चित्तं पेशलयोः सब्रह्मचारिभिर्वत्सलयोरिति; एवमुक्तो कोकालिक आयुष्मन्तौ शारिपुत्रमहामौद्गल्यायनौ दृष्ट्वा कथयति: इहाप्येतौ पापेच्छावागताविति; वाक्प्रव्याहरणकालसमनन्तरमेव कोकालिकस्य हलसहरेण जिह्वा पाटयितुमारब्धा; अथायुष्मन्तौ शारिपुत्रमहामौद्गल्यायनावकरणीया ह्येते इति विदित्वा प्रक्रान्तौ; येन पूरानः काश्यपस्तेनोपसंक्रान्तौ अथ पूरणः काश्यप आयुष्मन्तोः शारिपुत्रमहामौद्गल्यायनयोः पादयोर्निपत्य कथयति: आर्य शारिपुत्र मया मिथ्याधर्मदेशनया महाजनकायो विप्रलब्धः; तस्य मे कर्मणो विपाकेन जिह्वायां पंच हलशतानि वहन्ति; यथा यथा च श्रावका स्तूपकारान् कुर्वन्ति तथा तथा तीव्रतरवेदनां वेदयामि; तदर्हसि मदीयामवस्थां तेषां निवेद्य निवारयितुं: मा तस्य स्तूपकारं करिष्यथेति; तथेति प्रतिज्ञाय आयुष्मन्तौ शारिपुत्रमहामौद्गल्यायनौ नरकचारिकां (म्स्विव्२४०) चरित्वा ऋद्ध्या जम्बूद्वीपमनुप्राप्ता; ताभ्यां भगवतो भिक्षूणां जनकास्य देवदत्तकोकालिकपूरणप्रभृतीनां नरकोपपन्नानामवस्था विस्तरेण समाख्याता भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: पश्य भदन्त देवदत्तो भगवतो वचनमवचनीकृत्यावीचौ महानरके (अ ५१९ ) पतित इति; भगवानाह: न भिक्षव एतर्हि यथा अतीतेऽप्यध्वनि एष मम वचनमवचनीकृत्य अनयेन व्यसनमापन्नः; तच्छ्रूयताम् (इ २६५) ______________________________________________________________ थे स्तोर्योf थे बुल्लन्द्थे अस्स् (चोन्चेर्निन्ग प्रेविओउस्लिfए ओf थे बुद्ध अन्द्देवदत्त) भूतपूर्वं भिक्षवोऽनियतराश्यवस्थितो बोधिसत्वो गोषूपपन्नो वृषो बभूव; स रात्रौ नगरान्निर्गम्य राजकीये माषक्षेत्रे चरति; दिवा नगरे तिष्ठति; यावत्तस्य सकाशं गर्दभः उपसम्क्रम्य कथयति: मातुल त्वमुपचितत्वमांसशोणितः; न चाहं त्वां पश्यामि कदाचिच्चरन्तमिति; स कथयति: भगिनेयाहं रात्रौ राजकीये माषक्षेत्रे चरामीति; स कथयति: अहमपि मातुल त्वया सार्धं चरामीति; स कथयति: भागिनेय त्वं वाचाटो मनर्थं करिष्यसीति; स कथयति: मातुल गछामि न करिष्यामीति; तौ वाटं भङ्क्त्वा राजकीये माषक्षेत्रे निपतितौ; गर्दभस्तावत्तूष्णीमवस्थितो यावदाशितो जातः; ततः कथयति: मातुल गायामि तावद्; वृषः कथयति: तिष्ठ तावनुहूर्तं यावदहं निर्गच्छामीति; पश्चाद्यथेष्टं करिष्यसि; इत्युक्त्वा निष्पलायितः; गर्दभो वाशितुमारब्धः; राजपुरुषैः (म्स्विव्२४१) श्रुत्वा गृहीतः: भवन्तः अनेन गर्दभेन सर्वमिदं राजकीयं माषक्षेत्रं भक्षितं; निग्रहमस्य कुर्म इति; तैः कर्णौ च्छित्वा उलूखलं च ग्रीवायां बद्ध्वा मुक्तः; इतश्चामुतश्च परिभ्रमन् वृषेण दृष्टः; स तं गाथया प्रत्यभाषत साधु गीतं सुष्ठु गीतं प्राप्तं गीतस्य तत्फलम् । यतोऽसि तव गीतेन जातः कर्णविहीनकः ॥ एवं हि तस्य भवति यो वाचं च न रक्षति । भ्रमेदानीं कर्णहीनः उलूखलविभूषितः ॥ इति । सोऽपि गाथया प्रत्यभाषत तूष्णीं भव खण्डदन्त तूष्णीं भव जरद्गव । त्वामप्यत्र गवेषन्तो दण्डहस्तास्त्रयो जनाः ॥ इति । भगवानाह: किं मन्यध्वे भिक्षवः? योऽसौ वृषः अहमेव स तेन कालेन तेन समयेन; योऽसौ गर्दभ एष एव स देवदत्तस्तेन कालेन तेन समयेन; तदाप्येष मम वचनमवचनीकृत्यानयेन (इ २६६) व्यसनमापन्नः; पुनरपि यथैव मम वचनमवचनीकृत्यानेन व्यसनमापन्नस्तच्छ्रूयताम् ______________________________________________________________ थे स्तोर्योf थे बुल्लन्द्थे जच्कल् (चोन्चेर्निन्ग प्रेविओउस्लिfए ओf थे बुद्ध अन्द्देवदत्त) भूतपूर्वं भिक्षवोऽन्यतस्मिन् कर्वटके गृहपतिः प्रतिवसति; तस्य वलीवर्दो लक्षणसंपन्नः; तेनासौ श्रमणब्राह्मणान् स्वजनाननाथकृपणवनीपकान् भोजयित्वा यथेष्टप्रचारी उत्सृष्टः; सोऽपरेण समयेन इतश्चामुतश्च परिभ्रमन् कलुषे मग्नोऽवस्थितः; तेन सूर्यास्तंगमनकालसमये श्रुतं; समन्वेषमाणस्तस्य सकाशं (म्स्विव्२४२) गतः; स संलक्षयति: न शक्नोमि अहमधुना समुद्धर्तुं; श्वः प्रभाते समुद्धरिष्यामीति; वृषः कथयति: मम पुरस्तात्पाशं स्थापयित्वा गच्छ; यदि शृगाल आगमिष्यति तस्याहं शृङ्गे पाशं क्षेप्स्यामीति; स तस्य (अ ५२० ) पुरस्तात्पाशं क्षिप्त्वा प्रक्रान्तः; यावद्रात्रौ शृगाल आगतः; स कथयति: कोऽयं बिसान्युत्खनति पुण्डरीकानि चेति; वृषः कथयति: अहं निमग्नस्तिष्ठामीति; शृगालः संलक्षयति: भक्ष्यो मे प्रत्युपस्थित इति; स तमभिद्रवितुमारब्धः; वृषः कथयति: गच्छ त्वमस्मात्प्रदेशान्मा अनयेन व्यसनमापत्स्यस इति; तथाप्यसौ निवार्यमानोऽभिद्रवत्येव; स वृषो गाथां भाषते नाहं बिसान्युत्खनामि पुण्डरीकानि नाप्यहम् । सचेद्भक्षितुकामोऽसि पृष्ठतो गच्छ भक्षय ॥ इति । शृगालो भक्षयामीति पृष्ठतो गतः; वृषेण शृङ्गे पाशः क्षिप्तः; शृगालो ग्रीवायां बद्धः; आकाशे प्रलम्भते; वृषो गाथां भाषते किं नटो नर्तको वा त्वमुत शोभितदारकः । ग्रामे विदर्श्यतां शिल्पमरण्ये नास्ति दायकः ॥ इति । (इ २६७) शृगालोऽपि गाथां भाषते नाहं नटो नर्तको वा नापि शोभितदारकः । दत्ता शकेण मे श्रेणी ब्रह्मलोकं व्रजाम्यहम् ॥ इति । (म्स्विव्२४३) भूयो वृषो गाथां भाषते न शक्रो ददाति श्रेणीं ब्रह्मलोकः कुतस्तव । बद्धोऽसि कूटपाशेन न ते पश्यामि जीवितम् ॥ इति । किं मन्यध्वे भिक्षवः? योऽसौ वृषः अहमेव स तेन कालेन तेन समयेन; योऽसौ शृगाल एष एव स देवदत्तस्तेन कालेन तेन समयेन; तदाप्येष मम वचनमवचनीकृत्यानयेन व्यसनमापन्नः; एतर्ह्यप्येष मम वचनमवचनीकृत्यानेन व्यसनमापन्नः भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: भदन्त देवदत्तो भगवतो वचनमशृण्वन्नवीचिपरायणः संवृत्त इति; भगवानाह: न भिक्षव एतर्हि यथा अतीतेऽप्यध्वनि एष मम विक्रोशतो वचनमशृण्वन्नवीचिपरायणः संवृत्तः; तच्छ्रूयताम् ______________________________________________________________ थे स्तोर्योf थे किन्ग्चैतिक अन्द्थे त्wओ सोन्सोf थे पुरोहित (चोन्चेर्निन्ग प्रेविओउस्लिfए ओf थे बुद्ध अन्द्देवदत्त) भूतपूर्वं भिक्षवोऽन्यतमस्यां राजधान्यां राजा चैतिको नाम राज्यं कारयति ऋद्धं च यावदाकीर्णबहुजनमनुष्यं च; पुण्यानुभावाद्देवता अन्तरीक्षे आसनं धारयन्ति; तस्य राज्ञः पुरोहितस्य द्वौ पुतौ ज्येष्ठो कनीयांश्च; तत्र ज्येष्ठो नैष्क्रम्याभिनन्दी; कनीयान् पौरोहित्याभिन्नन्दी; ज्येष्ठः पश्यति पितरं धर्माधर्मेण पौरोहित्यं कारयन्तं; स सम्लक्षयति; अहं पितुरत्ययात्पुरोहितो भवियामि; यन्न्वहमपि प्रव्रजेयमिति; स पितरमनुज्ञाप्य भगवच्छासने प्रव्रजितः; यावदपरेण समयेन पुरोहितः कालगतः; स कनीयान् पौरोहित्ये प्रतिष्ठापितः; स अधर्मेण पौरोहित्यं कर्तुमारब्धः; जनकायः पीड्यते; यावदन्यतमः पुरुष इतश्चामुतश्च परिभ्रमंस्तस्य (म्स्विव्२४४) ज्येष्ठस्य (इ २६८) प्रव्रजितस्य सकाशमुपसंक्रान्तः; स तेन दृष्टः: कुतस्त्वमागच्छसीति; तेन समाख्यातम्: अमुष्या राजधान्याः; स वार्त्तां प्रष्टुमारब्धः; स कथयति: राज्ञः पुरोहितः कालगतः; तस्य कनीयान् पुत्रः पौरोहित्ये प्रतिष्ठति; सोऽधर्मेण पौरोहित्यं (अ ५२० ) करोति; जनकायः पीड्यते इति; स कथयति: कंचित्कालं प्रेक्षय; अहमेव तत्र गत्वा अहितान्निवारयिष्यामि हिते च संनियोजयिष्यामि यथा न जनपदान्निपीडयतीति; तेन पुरुषेण गत्वा ज्ञातीनामेतत्प्रकरणं निवेदितं; श्रुतिपरंपरया तेन कनीयसा श्रुतं; तेन राज्ञे निवेदितं: देव मम स ज्येष्ठो भ्राता आगमिष्यतीति; राजा कथयति: शोभनं; स एव पुरोहितो भविष्यतीति; स कथयति: देव त्वं नाम मया इयन्तं कालं वृथा सेवित इति; राजा कथयति: एष लोकधर्मो ज्येष्ठः सः; अपित्वेकेन प्रकारेण तव पौरोहित्यं भवत्विति; यदि त्वं त्स्मिन्नागते कथयसि: अहं ज्येष्ठ इति; स कथयति: एवं भवतु, वक्ष्यामीति; यावदसावागतः; तं दृष्ट्वा सराजका पर्षदुत्थिता; स तु नोत्थितः; तेनोक्तः: त्वं मम कनीयान् कस्मान्नोत्तिष्ठसीति; स कथयति: त्वमेव कनीयानहं ज्येष्ठः; यदि तव न प्रत्ययो वयं राजकुले वृद्धांस्देवं च पृच्छामः; ज्येष्ठेन राजा पृष्ठः; कथय भो राजन् क आवयोर्ज्येष्ठ इति; राज्ञा संप्रजानं मृषा वाग्भाषिता: एष ज्येष्ठस्त्वं कनीयानिति; वाक्प्रव्याहरणकालसमन्तरमेव तस्य देवताभिर्(म्स्विव्२४५) आसनं मुक्तं; स पृथिव्यां पतितो मुखाच्चास्य पूतिगन्धः प्रवाति; ज्येष्ठः पुरोहितपुत्रो गाथां भाषते मृषा हि भाषमाणस्य प्रक्रामन्तीह देवताः । मुखं च पूतिकं भवति स्वर्गाच्च परिहीयते ॥ सत्यं कथय भो राजन् भविष्यति यथा पुरा । मृषा वदसि चेद्व्यक्तमधो यास्यसि चैतिक ॥ अजिह्वकोऽसौ भवति मत्स्यो वारिचरो यथा । परिपृष्टो हि यो धर्ममधर्ममुपदर्शयेत् ॥ सत्यं कथय भो राजन् भविष्यसि यथा पुरा । (इ २६९) मृषा वदसि चेद्व्यक्तमधो यास्यसि चैतिक ॥ अपुमान् जायते तत्र पुमांस्तत्र न जायते । परिपृष्टो हि यो धर्ममधर्ममुपदर्शयेत् ॥ सत्यं कथय भो राजन् भविष्यसि यथा पुरा । मृषा वदसि चेद्व्यक्तमधो यास्यसि चैतिक ॥ वर्षत्यकाले देवश्च काले तत्र न वर्षति । परिपृष्टो हि यो धर्ममधर्ममुपदर्शयेत् ॥ सत्यं कथय भो राजन् भविष्यसि यथा पुरा । मृषा वदसि चेद्व्यक्तमधो यास्यसि चैतिक ॥ द्वे जिह्वे भवतस्तस्योरगस्येव हि जन्तुनः । परिपृष्टो हि यो धर्ममधर्ममुपदर्शयेत् ॥ (म्स्विव्२४६) सत्यं कथय भो राजन् भविष्यसि यथा पुरा । मृषा वदसि चेद्व्यक्तमधो यास्यसि चैतिक ॥ इत्येवं चैतिको राजा कर्म कृत्वा सुदारुणम् । अवीचिं नरकं प्राप्तो निरयं पापकर्मणा ॥ किं मन्यध्वे भिक्षवः? योऽसौ ज्येष्ठः पुरोहितपुत्रः अहमेव स तेन कालेन तेन समयेन; योऽसौ चैतिको राजा एष एव स देवदत्तस्तेन कालेन तेन समयेन; तदाप्येष मम विक्रोशतो वचनमशृण्वन्नवीचिं नरकं प्राप्तः; एतर्ह्यप्येष ममविक्रोशतो वचनमशृण्वन्नवीचिं नरकं प्राप्तः (अ ५२१ ) भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: पश्य भदन्त देवदत्तो हितमुच्यमानो वचनमशृण्वन्नवीचिपरायणः संवृत्त इति; भगवानाह: न भिक्षव एतर्हि यथा अतीतेऽप्यध्वन्येष मया हितमुच्यमानो वचनमशृण्वन्ननयेन व्यसनमापन्नः; तच्छ्रूयताम् ______________________________________________________________ थे स्तोर्योf थे मस्तेर्-मेछनिचन्धिस्पुपिल् (चोन्चेर्निन्ग प्रेविओउस्लिfए ओf थे बुद्ध अन्द्देवदत्त) भूतपूर्वं भिक्षवोऽन्यतमस्मिन् कर्वटके यन्त्रकलाचार्यः प्रतिवसति; तेन सदृशात्कुलात्कलत्रमानीतं; स तया सार्धं क्रीडति रमते परिचारयति; तस्य क्रीडतो रममाणस्य परिचारयतः कालान्तरेण पत्नी आपन्नसत्वा संवृत्ता; साष्टानां वा नवानां वा मासानामत्ययात्प्रसूता; दारिको जातः; तस्य त्रीणि सप्तकान्येकविंशतिदिवसान् (इ २७०) विस्तरेण जातस्य जातिमहं कृत्वा कुलसदृशं नामधेयं व्यवस्थापितं; सा उन्नीतो वर्धितो महान् संवृत्तः; पिता चास्य कालगतः; सोऽन्यतमस्मिन् कर्वटकेऽन्यस्य यन्त्रकलाचार्यस्यान्तिकाद्(म्स्विव्२४७) यन्त्रकलां शिक्षितुमारब्धः; तेनान्यतमस्मिन् कर्वटके गृहपतेः सकाशाद्दारिका प्रार्थिता; स कथयति: यदि अमुष्मिन् दिवसे आगच्छसि दास्यामि; अन्यथा नेति; तेन यन्त्रकलाचार्यस्य निवेदितम्; उपाध्यायामुष्मिन् कर्वटके गृहपतिः; तस्य सकाशान्मया दारिका प्रार्थिता: स कथयति: यद्यमुष्मिन् दिवस आगच्छसि दास्यामि; अन्यथा नेति; यन्त्रकलाचार्यः कथयति: पुत्र यद्येवं गच्छावः; अहमेव प्रतीच्छामीति; स तेन् सार्धं काष्ठमयं मयूरमभिरुह्य यस्मिन्नेव दिवसे अवधिः कृतस्तस्मिन्नेव दिवसे कर्वटकमनुप्राप्तः; दृष्ट्वा परं विस्मयमापन्नः; ततो दारिकां प्रतिगृह्य पुनस्तद्यन्त्रमारुह्य स्वगृहमागतः; यन्त्रं संगृह्य मातुः समर्पितमुक्तं च; अयं तव पुत्रो यन्त्रस्य प्रवर्तनयोगं जानीते नो तु निवर्तनं; न त्वयास्य यन्त्रं देयमिति; स भूयो भूयो मतुः कथयति: अम्ब प्रयच्छ मे यन्त्रं महाजनकायमन्वावर्तयामीति; सा कथयति: पुत्र आचार्यस्ते कथयति: अयं प्रवर्तनप्रयोगं जानीते नो तु निवर्तनं; मा दास्यसि मानयेन व्यसनमापत्स्यतीति; तस्मादहं न ददामीति; स कथयति: अम्ब प्रवर्तनमप्यहं जानांि निवर्तनमपि; किं त्वसावाचार्यो मात्सर्येण न ददातीति; लघुचित्तो मातृग्रामः; तया लोभितया दत्तं; स यन्त्रमाम्रेड्याभिरुह्य संप्रस्थितः; महाजनकायोऽभिप्रसन्नः; ततो यन्त्रकलाचार्येण दृष्टः; स कथयति: गतोऽयमपुनरागमनायेति; स यथा यथा संभ्रमादाम्रेडयति (म्स्विव्२४८) तथा तथा दूरतरं गच्छति; यावन्महासमुद्रं गतः; महासमुद्रे सदा वर्षति देवः; बन्धनामि क्लिन्नानि; अनयेन व्यसनमापन्नः; देवता गाथां भाषते यो ह्यर्थकामस्य हितानुकम्पिनो वचो न गृह्णाति यथानुशिष्टम् । स उह्यते दारुमयेण पक्षिणा अनायको न शृणोतीह कस्यचित् ॥ इति । भगवानाह: किं मन्यध्वे भिक्षवः? योऽसौ यन्त्रकलाचार्यः अहमेव स तेन कालेन तेन समयेन; योऽसौ तस्यान्तेवासी एष एव स देवदत्तस्तेन कालेन तेन समयेन; तदाप्येष वचनमशृण्वन्ननयेन व्यसनमापन्नः; एतर्ह्यप्येष मया हितमुच्यमानो मम वचनमशृण्वन्ननयेन व्यसनमापन्नः (इ २७१) (अ ५२१ ) ______________________________________________________________ थे ॠउएस्तिओनोf उपालि आयुष्मानुपाली बुद्धं भगवन्तं पृच्छति: उच्यते भदन्त संघभेदः उच्यते भदन्त संघसामग्री इति; तत्र कतरो भेदः कतरा संघसामग्री; यतश्चोपालिन् भिक्षवः धर्मेऽधर्म्संज्ञिनः अधर्मे धर्मसंज्ञिनो व्यग्रे अव्यग्रसंज्ञिनः कर्माणि कुर्वन्ति; अयमुच्यते संघभेदः; यतस्तु धर्मे धर्मसंज्ञिनः समग्रे समग्रसंज्ञिनः कर्माणि कुर्वन्ति; इयमुच्यते संघसामग्री इति यत्रैको भिक्षुर्न तत्र संघो भिद्यते; यत्रौ द्वौ यत्र त्रयो यावदष्टौ न तत्र संघो भिद्यते; यत्र नव भिक्षवो उत्तरे वा तत्र द्वाभ्यां कारणाभ्यां संघो भिद्यते; ज्ञप्तिकर्मणा शलाकाग्रहणेन च (म्स्विव्२४९) कथं ज्ञप्तिकर्मणा? यथापितद्देवदत्तो भिक्षूणां ज्ञापयति संज्ञापयति शिक्षयति ग्राहयति: पंचभिरायुष्मन्तो व्रतपदैर्भिक्षुः शुध्यति विमुच्यति निर्याति सुखदुःखं व्यतिक्रामति; सुखदुःखव्यतिक्रमं चानुप्राप्नोति; कतमैः पंचभिः? आरण्यकत्वेन आयुष्मन्तो भिक्षुः शुध्यति विमुच्यति निर्याति सुखदुःखं व्यतिक्रामति; सुखदुःखव्यतिक्रमं चानुप्राप्नोति; वृक्षमूलिकत्वेन पैण्डपातिकत्वेन त्रैचीवरिकत्वेन पांसुकूलिकत्वेनायुष्मन्तो भिक्षुः शुध्यति विमुच्यति निर्याति सुखदुःखं व्यतिक्रामति; सुखदुःखव्यतिक्रमं चानुप्राप्नोति; येषां युष्माकमायुष्मन्तः न क्षमन्ते एभिः पंचभिः व्रतपदैः शोधुं मोक्तुं निर्यातुं ते श्रमणस्य गौतमस्याराद्भवन्तु, हिरुग्भवन्तु; दूरेण परेण भवन्तु इत्येषा ज्ञप्तिः; इत्येवं ज्ञप्तिकर्मणा कथं शलाकाग्रहणेन? यथापितद्देवदत्तो भिक्षूणां ज्ञापयति संज्ञापयति शिक्षयति ग्राहयति: पंचभिरायुष्मन्तो व्रतपदैर्(इ २७२) भिक्षुः शुध्यति मुच्यति निर्याति सुखदुःखं व्यतिक्रामति; सुखदुःखव्यतिक्रमं चानुप्राप्नोति; कतमैः पंचभिः? आरण्यकत्वेनायुष्मन्तो भिक्षुः शुध्यति मुच्यति निर्याति सुखदुःखं व्यतिक्रामति; सुखदुःखव्यतिक्रमं चानुप्राप्नोति; वृक्षमूलिकत्वेन पैण्डपातिकत्वेन त्रैचीवरिकत्वेन पांसुकूलिकत्वेनायुष्मन्तो भिक्षुः शुध्यति विमुच्यति निर्याति सुखदुःखं व्यतिक्रामति; सुखदुःखव्यतिक्रमं चानुप्राप्नोति; येषां युष्माकमायुष्मन्तः न क्षमन्ते (म्स्विव्२५०) एभिः पंचभिः व्रतपदैः शोधुं मोक्तुं निर्यातुं ते श्रमणस्य गौतमस्याराद्भवन्तु, हिरुग्भवन्तु; दूरेण परेण भवन्तु; शलाकां गृह्णन्त्विति; देवदत्तश्चात्मपंचमः शलाकां गृह्णाति; एवं शलाकाग्रहणेन ॥ ॥ आयुष्मानुपाली बुद्धं भगवन्तं पृच्छति  उत्क्षिप्तकेन तावद्भदन्त संघो भिद्यते उत्क्षिप्तकानुवर्तकेन उत्क्षिप्तकानुवर्तकानुवर्त्तकेन न उत्क्षेपकेन न उत्क्षेपकानुवर्तकेन न उत्क्षेपकानुवर्तकानुवर्त्तकेन न उत्क्षेपकानुवर्त्तकेन तावद्भदन्त संघो भिद्येत न उत्क्षिप्तकेन न उत्क्षिप्तकानुवर्तकानुवर्तकेन न उत्क्षेपकेन न उत्क्षेपकानुवर्तकानुवर्तकेन उत्क्षिप्तकानुवर्तकानुवर्तकेन तावद्भदन्त संघो भिद्येत न उत्क्षिप्तकेन न उत्क्षिप्तानुवर्तकेन न उत्क्षेपकेन न उत्क्षेपकानुवर्त्तकानुवर्तकेन ॥ ॥ उत्क्षेपकेन तावद्भदन्त संघो भिद्येत न उत्क्षिप्तकेन न उत्क्षिप्तकानुवर्तकेन उत्क्षिप्तकानुवर्तकानुवर्तकेन न उत्क्षिप्तकानुवर्तकेन न उत्क्षिप्तानुवर्तकानुवर्तकेन (अ ५२२ ) तावद्भदन्त संघो भिद्येत न उत्क्षिप्तकानुवर्तकेन न उत्क्षिप्तकानुवर्तकेन न उत्क्षिप्तानुवर्तकेन न उत्क्षिप्तानुवर्तकानुवर्तकानुवर्तकेन न उत्क्षिप्तकेन न उत्क्षिप्तकानुवर्तकानुवर्तकेन ॥ उत्क्षेपकानुवर्तकानुवर्तकेन तावद्भदन्त संघो भिद्येत (अ२) न उत्क्षिप्तकेन न उत्क्षिप्तकानुवर्तकेन न उत्क्षिप्तकानुवर्तकानुवर्तकानुवर्तकेन न उत्क्षेपकेन न उत्क्षिप्तकानुवर्तकेन (इ २७३) सर्वैरेभिरुपालिं संघो भिद्येत स्थापयित्वा एक उत्क्षिप्तकम्* ॥ ॥ अन्तरोद्दानम् संघभेदश्च सामग्री एकः संघो न भिद्यते । नवानामन्तिमो भेदस्तिस्र उत्क्षेपषट्किकाः ॥ आयुष्मानुपाली बुद्धं भगवन्तं पृच्छति: यदुक्तं भदन्त भगवता समग्रं श्रावकसंघं भित्वा आवीचिकमवद्यं प्रसूते; स्पृश्यति चानन्तर्यावद्येन कर्मणा; कियता भदन्त भिक्षुः समग्रं श्रावकसंघं भित्वा आवीचिकमवद्यं प्रसूते स्पृश्यते चानन्तर्यावद्येन कर्मणा १) यतश्चोपालिन् भिक्षुर्धर्मे अधर्मसंज्ञी भेदे अधर्मसंज्ञी भिक्षूणां ज्ञापयति संज्ञापयति शिक्षयति ग्राहयति संघस्य भेदाय पराक्रामति; इयता उपालिन् भिक्षुः समग्रं श्रावकसंघं भित्वा आवीचिकमवद्यं प्रसूते स्पृश्यते चानन्तर्यावद्येन कर्मणा २) यतश्चोपालिन् भिक्षुरधर्मे अधर्मसंज्ञी भेदे धर्मसंज्ञी भिक्षूणां ज्ञापयति संज्ञापयति शिक्षयति ग्राहयति संघस्य भेदाय (म्स्विव्२५२) पराक्रामति; इयता उपालिन् भिक्षुः समग्रं श्रावकसंघं भित्वा आवीचिकमवद्यं प्रसूते स्पृश्यते अनन्तर्यावद्येन कर्मणा ३) यतश्चोपालिन् भिक्षुरधर्मे अधर्मसंज्ञी भेदे वैमतिको भिक्षूणां ज्ञापयति संज्ञापयति शिक्षयति ग्राहयति संघस्य भेदाय पराक्रामति; इयता उपालिन् भिक्षुः समग्रं श्रावकसंघं भित्वा आवीचिकमवद्यं प्रसूते <न तु> स्पृश्यते आनन्तर्यावद्येन कर्मणा (इ २७४) ४) यतश्चोपालिन् भिक्षुरधर्मे धर्मसंज्ञी भेदे अधर्मसंज्ञी भिक्षूणां ज्ञापयति संज्ञापयति शिक्षयति ग्राहयति संघस्य भेदाय पराक्रामति; इयता उपालिन् भिक्षुः समग्रं श्रावकसंघं भित्वा आवीचिकमवद्यं प्रसूते स्पृश्यते चानन्तर्यावद्येन कर्मणा ५) यतश्चोपालिन् भिक्षुरधर्मे धर्मसंज्ञी भेदे धर्मसंज्ञी भिक्षूणां ज्ञापयति संज्ञापयति शिक्षयति ग्राहयति संघस्य भेदाय पराक्रामति; इयता उपालिन् भिक्षुः समग्रं श्रावकसंघं भित्वा आवीचिकमवद्यं प्रसूते न तु स्पृश्यते आनन्तर्यावद्येन कर्मणा ६) यतश्चोपालिन् भिक्षुरधर्मे धर्मसंज्ञी भेदे वैमतिको भिक्षूणां ज्ञापयति संज्ञापयति शिक्षयति ग्राहयति संघस्य भेदाय पराक्रामति; इयता उपालिन् भिक्षुः समग्रं श्रावकसंघं भित्वा आवीचिकमवद्यं प्रसूते न तु स्पृश्यते आनन्तर्यावद्येन कर्मणा ७) यतश्चोपालिन् भिक्षुर्धर्मे अधर्मसंज्ञी भेदे अधर्मसंज्ञी भिक्षूणां ज्ञापयति संज्ञापयति शिक्षयति ग्राहयति संघस्य भेदाय पराक्रामति; (अ ५२२ ) इयता उपालिन् भिक्षुः समग्रं श्रावकसंघं भित्वा आवीचिकमवद्यं प्रसूते स्पृश्यते चानन्तर्यावद्येन कर्मणा (म्स्विव्२५३) ८) यतश्चोपालिन् भिक्षुर्धर्मे अधर्मसंज्ञी भेदे धर्मसंज्ञी भिक्षूणां ज्ञापयति संज्ञापयति शिक्षयति ग्राहयति संघस्य भेदाय पराक्रामति; इयता उपालिन् भिक्षुः समग्रं श्रावकसंघं भित्वा आवीचिकमवद्यं प्रसूते न तु स्पृश्यते आनन्तर्यावद्येन कर्मणा ९) यतश्चोपालिन् भिक्षुर्धर्मे अधर्मसंज्ञी भेदे वैमतिको भिक्षूणां ज्ञापयति संज्ञापयति शिक्षयति ग्राहयति संघस्य भेदाय पराक्रामति; इयता उपालिन् भिक्षुः समग्रं श्रावकसंघं भित्वा आवीचिकमवद्यं प्रसूते न तु स्पृश्यते आनन्तर्यावद्येन कर्मणा १०) यतश्चोपालिन् भिक्षुर्धर्मे धर्मसंज्ञी भेदे अधर्मसंज्ञी भिक्षूणां ज्ञापयति संज्ञापयति शिक्षयति ग्राहयति संघस्य भेदाय पराक्रामति; इयता उपालिन् भिक्षुः समग्रं श्रावकसंघं भित्वा आवीचिकमवद्यं प्रसूते स्पृश्यते चानन्तर्यावद्येन कर्मणा ११) यतश्चोपालिन् भिक्षुर्धर्मे धर्मसंज्ञी भेदे धर्मसंज्ञी (इ २७५) भिक्षूणां ज्ञापयति संज्ञापयति शिक्षयति ग्राहयति संघस्य भेदाय पराक्रामति; इयता उपालिन् भिक्षुः समग्रं श्रावकसंघं भित्वा आवीचिकमवद्यं प्रसूते न तु स्पृश्यते आनन्तर्यावद्येन कर्मणा १२) यतश्चोपालिन् भिक्षुर्धर्मे धर्मसंज्ञी भेदे वैमतिको भिक्षूणां ज्ञापयति संज्ञापयति शिक्षयति ग्राहयति संघस्य भेदाय पराक्रामति; इयता उपालिन् भिक्षुः समग्रं श्रावकसंघं भित्वा आवीचिकमवद्यं प्रसूते न तु स्पृश्यते आनन्तर्यावद्येन कर्मणा (म्स्विव्२५४) १३) यतश्चोपालिन् भिक्षुरधर्मे वैमतिको भेदे अधर्मसंज्ञी भिक्षूणां ज्ञापयति संज्ञापयति शिक्षयति ग्राहयति संघस्य भेदाय पराक्रामति; इयता उपालिन् भिक्षुः समग्रं श्रावकसंघं भित्वा आवीचिकमवद्यं प्रसूते स्पृश्यते चानन्तर्यावद्येन कर्मणा १४) यतश्चोपालिन् भिक्षुरधर्मे वैमतिको भेदे धर्मसंज्ञी भिक्षूणां ज्ञापयति संज्ञापयति शिक्षयति ग्राहयति संघस्य भेदाय पराक्रामति; इयता उपालिन् भिक्षुः समग्रं श्रावकसंघं भित्वा आवीचिकमवद्यं प्रसूते न तु स्पृश्यते आनन्तर्यावद्येन कर्मणा १५) यतश्चोपालिन् भिक्षुरधर्मे वैमतिको भेदे वैमतिको भिक्षूणां ज्ञापयति संज्ञापयति शिक्षयति ग्राहयति संघस्य भेदाय पराक्रामति; इयता उपालिन् भिक्षुः समग्रं श्रावकसंघं भित्वा आवीचिकमवद्यं प्रसूते न तु स्पृश्यते आनन्तर्यावद्येन कर्मणा १६) यतश्चोपालिन् भिक्षुर्धर्मे वैमतिको भेदे अधर्मसंज्ञी भिक्षूणां ज्ञापयति संज्ञापयति शिक्षयति ग्राहयति संघस्य भेदाय पराक्रामति; इयता उपालिन् भिक्षुः समग्रं श्रावकसंघं भित्वा (अ ५२३ ) आवीचिकमवद्यं प्रसूते स्पृश्यते चानन्तर्यावद्येन कर्मणा १७) यतश्चोपालिन् भिक्षुर्धर्मे वैमतिको भेदे धर्मसंज्ञी भिक्षूणां ज्ञापयति संज्ञापयति शिक्षयति ग्राहयति संघस्य भेदाय पराक्रामति; इयता उपालिन् भिक्षुः समग्रं श्रावकसंघं भित्वा आवीचिकमवद्यं प्रसूते न तु स्पृश्यते आनन्तर्यावद्येन कर्मणा १८) यतश्चोपालिन् भिक्षुर्धर्मे वैमतिको भेदे वैमतिको भिक्षूणां ज्ञापयति संज्ञापयति शिक्षयति ग्राहयति संघस्य भेदाय पराक्रामति; इयता उपालिन् भिक्षुः समग्रं श्रावकसंघं भित्वा आवीचिकमवद्यं प्रसूते न तु स्पृश्यते आनन्तर्यावद्येन कर्मणा (इ २७६) एवमेतावन्ति अष्टादश; आसां षट्प्सृश्यन्ते आनन्तर्यावद्येन कर्मणा; यासु भेदे अधर्मसंज्ञी; अवशिष्टाः न स्पृश्यन्ते आनतर्यावद्येन कर्मणेति विनये संघभेदवस्तु समाप्तः ॥ ॥ विनयवस्त्वागमम् ॥ ॥