सभिकसौगतशासनप्रव्रज्याव्रतचरणपरिवर्त (सम् ४ ब्४: अद्दितिओनल्वेर्सेस्) अथाशोको महाराजः श्रोतुं सुभाषितं पुनः । उपगुप्तं यतिं नत्वा साञ्जलिरेवमब्रवीत् ॥ *१* ॥ भदन्त श्रोतुमिच्छामि पुनस्तस्य जगद्गुरोः । मुनीन्द्रस्यानुभावत्वं तत्समादेष्टुमर्हति ॥ *२* ॥ इति संप्रार्थितं राज्ञा श्रुत्वा सोऽर्हन् यतिः सुधीः । तं नरेन्द्रं समामन्त्र्य संपश्यन्नेवमादिशत् ॥ *३* ॥ (सम् ४० ६; ब्क च्९९ ४; ब्क त्७१ ८) अथ शृणु समाधाय यथा मे गुरुणोदितम् । तथाहं संप्रवक्ष्यामि तव पुण्यप्रवृद्धये ॥ १ ॥ तद्यथाभून्महापुर्यां मथुरायां महाजनः । साधुभोगाभिधः श्रेष्ठी सर्वद्रव्यसमृद्धिमान् ॥ २ ॥ तस्य भार्या सुभद्रांगी सुन्दरी रतिसंनिभा । साध्वी श्रीसदृशाकारा प्रियंवदाभिधा वरा ॥ ३ ॥ तस्यास्त्रियंत्रिका जाता दारिका व्यंगिकाश्रया । तां दृष्ट्वा दारिकां माता बभूव व्याहताशया ॥ ४ ॥ जनकोऽपि समालोक्य दारिकां तां त्रियन्त्रिकाम् । लज्जाविदरितस्वान्तस्तस्थौ निश्वासतत्परः ॥ ५ ॥ ततः स जनकः श्रेष्ठी निमित्तज्ञान् विचक्षणान् । तीर्थिकान् सहसामन्त्र्य दारिकां तामदर्शयत् ॥ ६ ॥ त्रियन्त्रितां शिशुं दृष्ट्वा निमित्तज्ञः स तीर्थिकः । दारिकेयमभद्रेति श्रेष्ठिनोऽग्रे न्यवेदयत् ॥ ७ ॥ तच्छ्रुत्वा जनकः श्रेष्ठी दुःखशंकाकुलाशयः । स्नेहशोकाग्नितप्तात्मा तस्थौ संमोहितेन्द्रियः ॥ ८ ॥ तां दृष्ट्वा सा सती भार्या श्रुत्वा तत्तीर्थिकोदितम् । स्नेहशोकाग्निसंतप्ता बभूव व्याहताशया ॥ ९ ॥ तस्मिन् कणे सुपुण्यात्मा सर्वविद्याविचक्षणा । सा परिव्राजिका तत्र श्रेष्ठिगृह उपाचरत् ॥ १० ॥ तां दृष्ट्वा समुपायातां श्रेष्ठी स सहसोत्थितः । सादरं समुपामन्त्र्य शुद्धासने न्यवेशयत् ॥ ११ ॥ साधुभोगस्ततः श्रेष्ठी तां परिव्राजिकां मुदा । अभ्यर्च्य भोजयित्वा च संप्रसाद्यैवमब्रवीत् ॥ १२ ॥ भद्रिके दारिका जाता ममात्मजा त्रियन्त्रिका । इमां ते दातुमिच्छामि समन्वाहर्तुमर्हसि ॥ १३ ॥ इति निवेद्य स श्रेष्ठी समादाय निजां सुताम् । तां तस्याः पुरतः स्थाप्य बहु द्रव्यं च प्रब्रवीत् ॥ १४ ॥ इयं मे दारिका भद्रे भवत्यै संकल्पिता मया । तद्भवत्या समादाय संपाल्या स्वात्मजा यथा ॥ १५ ॥ त्वं पुत्रपुत्रीहीनासि निर्भर्तृका निराकुला । तस्मात्त्वया पालनीया स्वात्मजेव शिशुरियम् ॥ १६ ॥ इति निवेद्य स श्रेष्ठी सधात्रीं तां सुतां मुदा । बहुद्रव्यान्वितां तस्यै दत्वैवं पुनरब्रवीत् ॥ १७ ॥ यदेयं संप्रवृद्धा स्यात्तदा ते दासिका भवेत् । तस्माद्यावदियं बाला तावत्पाल्या त्वया सदा ॥ १८ ॥ ततः प्रव्राज्य स्वे धर्मे संचारयस्व सन्मते । अध्यापय च सर्वाणि शास्त्राण्यपि यथाक्रमम् ॥ १९ ॥ इत्युक्त्वा स पिता पुत्रीं वस्त्रालंकारमण्डिताम् । तां तस्यै ब्रह्मचारिण्यै संकल्प्य प्रददौ मुद ॥ २० ॥ तत्प्रदत्तां समादाय सधात्रीं सोपचारिकाम् । दत्वा भद्राशिषं तस्मै शिरी नामा ततोऽचरत्* ॥ २१ ॥ तत्र सा स्वाश्रमे गत्वा सधात्रीं तां प्रमोदिता । स्वात्मजामिव संपाल्य सहसा समपोषयत् ॥ २२ ॥ एवं संपाल्यमाना सा दिने दिनेऽभिवर्धिता । परिपुष्टेन्द्रिया कान्ता सर्वमनोहराभवत् ॥ २३ ॥ ततस्तयानुशासिन्या प्रव्राजिता यथाविधिम् । सा यतिसंवरं धृत्वा काषायचीवराचरत् ॥ २४ ॥ ततः सा सुमती कन्या सर्वा लिपीरशिक्षत । ततः क्रमेण सर्वाणि शास्त्राणि समशिक्षत ॥ २५ ॥ एवमधीत्य सा विज्ञा सर्वविद्यान्तपारगा । महाधीरिति नामाभूत्सुबुद्धित्वात्त्रियन्त्रिका ॥ २६ ॥ क्रमेण कुटिलांगी सा शालप्रोच्चाभवत्सुधीः । निजधर्मानुभावेन पूर्वपापक्षयं गते ॥ २७ ॥ चतुःषष्टि कलाधीता वेदाध्ययनचातुरी । सर्ववादिमनोत्रासं संहरन्ती व्यराजत ॥ २८ ॥ सर्वेऽपि वादिनो विज्ञास्तां जेतुं नैव शेकिरे । सैव प्रवादिनः सर्वान् विनिर्जित्याभ्यराजत ॥ २९ ॥ तत्कीर्तिसुरभिस्तस्याः समन्ततः प्रसारिता । तत्सुमतिं समकर्ण्य सर्वेऽतिविस्मयं ययुः ॥ ३० ॥ तदा तत्र द्विजो विद्वान् सर्ववेदान्तपारगः । विद्याकराभिधो मानी दक्षिणातः समागतः ॥ ३१ ॥ स पार्श्वं ताम्रपट्टेन वेष्टयित्वा समुन्मनाः । उल्कामुज्वालितां धृत्वा पुरे तत्र मुदाविशत् ॥ ३२ ॥ यो मया सह संवादं कर्तुमत्र समिच्छति । तस्याहमुपगच्छेयमिति मानी मुदाचरत् ॥ ३३ ॥ तमायातं समालोक्य माथुरिका महाजनाः । तं द्विजं समुपामन्त्र्य सर्वे प्येवं बभाषिरे ॥ ३४ ॥ साधो मात्र समागच्छ धृत्वोल्कां ज्वलितामिमाम् । या परिव्राजिका साध्वी सा प्राज्ञा विद्यते सती ॥ ३५ ॥ इति तैर्गदितं श्रुत्वा विद्याकरोऽतिमानिकः । माथुरिकानुपासृत्य साहंकारः समब्रवीत् ॥ ३६ ॥ का परिव्राजिका प्राज्ञा विद्यतेऽत्र कुहाश्रिता । तामहं द्रष्टुमिच्छामि तद्दर्शयितुमर्हथः ॥ ३७ ॥ इति तदुक्तमाकर्ण्य सर्वेऽपि ते महाजनाः । ब्राह्मणं तं समालोक्य संप्रष्टुमेवमब्रवीत् ॥ ३८ ॥ साधो यदि तया सार्धं संवादं कर्तुमिच्छसि । तां कान्तां सुमतिं विज्ञां दर्शयिष्यामहे वयम् ॥ ३९ ॥ इति सर्वैरपि प्रोक्तं श्रुत्वा स ब्राह्मणो मुदा । संपश्यन्स्तान् जनान् सर्वान् पुरः स्थित्वैवमब्रवीत् ॥ ४० ॥ भो भवन्तस्तया सार्धं संवादं कर्तुमुत्सहे । तदेनां समुपानीय दर्शयन्तु पुरो मम ॥ ४१ ॥ इति तेन समाख्यातं श्रुत्वा तथेति ते जनाः । सहसा तत्राश्रमे गत्वा तस्या यतेरुपाश्रयन् ॥ ४२ ॥ तान् वीक्ष्य समुपासीनान् सा परिव्राजिका मुदा । किमर्थमागता यूयमिति संपर्यपृच्छत ॥ ४३ ॥ तच्छ्रुत्वा ते जनाः सर्वे नत्वा सांजलयो मुदा । तां महाधियमापश्यन्माथुरा एवमब्रुवन् ॥ ४४ ॥ एकोऽत्र ब्राह्मणो विद्वान् सर्वशास्त्रविचक्षणः । वेदान्तपारगो विज्ञो दक्षिणातः समागतः ॥ ४५ ॥ तत्तेन सह संवादं कर्तुं यदि त्वमिच्छसि । सर्वलोकसभामध्ये स्वगुणं संप्रकाशय ॥ ४६ ॥ शक्नोसि यदि विज्ञेन संवादं कुरु मानिनि । पराजिता चेत्तेन त्वं वयमप्युपहास्यताम् ॥ ४७ ॥ इति तैरुक्तमाकर्ण्य सा परिव्राजिका सुधीः । वाढमिच्छामि संवादं कर्तुं तेन द्विजेन हि ॥ ४८ ॥ सर्वलोकसभामध्ये दर्शयिष्यामि मद्गुणम् । इति तया समुदितं श्रुत्वा सर्वे सविस्मयाः ॥ ४९ ॥ सर्वेमे तत्प्रवृत्तान्तं राज्ञः पुरो न्यवेदयन् । तत्समाकर्ण्य राजा स यथामूभ्यां प्रभाषितम् ॥ ५० ॥ कारयत तथा यूयमिति तानवदज्जनान् । तदनुज्ञां समासाद्य सर्वे ते मुदिता जनाः ॥ ५१ ॥ आमन्त्र्य तज्जनानेतद्वृत्तं प्रोक्त्वैवमूचिरे । परिव्राजिकया सार्धममुयाप्यतिविज्ञया ॥ ५२ ॥ अमुको ब्राह्मणो विद्वान् संवादं कर्तुमिच्छति । तच्छ्रोतुं येऽभिवाञ्च्छन्ति ज्ञातुं चैतद्विशेषताम् ॥ ५३ ॥ सर्वे तत्र समायान्तु पुरेऽतः सप्तमे दिने । इति राज्ञा समादिष्टं प्रभाषन्तः समन्ततः ॥ ५४ ॥ घण्टाघोषं समुच्चार्य चोदयत सतो जनान् । इति तत्कथितं श्रुत्वा सर्वेऽपि सज्जना मुदा ॥ ५५ ॥ तत्र ते मुदिताः सर्वे यथादिष्टं महीभृता । तथा घण्टां समुन्नाद्य सर्वांल्लोकान् व्यनोदयन् ॥ *५५* ॥ तथाहीति प्रतिज्ञाय घण्टाघोषमचारयन् । तत्समाकर्ण्य सर्वेऽपि सज्जना मथुराश्रिताः ॥ ५६ ॥ तद्विवादं समिच्छन्तः श्रोतुं द्रष्टुं प्रचेरिरे । तदा विद्याकरो मानी मनसैवं व्यचिन्तयत् ॥ ५७ ॥ सा परिव्राजिका विज्ञा कीदृग्विद्याविचक्षणा । इति विचिन्त्य सत्रस्थस्तां परिव्राजिकां सतीम् ॥ ५८ ॥ द्रष्टुं तत्राश्रमे गत्वा लोकानेवमपृच्छत । या परिव्राजिका प्राज्ञा सा का कुहसमाश्रिता ॥ ५९ ॥ तां भवन्तः समामन्त्र्य संदर्शयन्तु मे द्रुतम् । इति तत्कथितं श्रुत्वा तत्रान्तिकसमाश्रिताः ॥ ६० ॥ तां परिव्राजिकां साध्वीं समामन्त्र्यैवमब्रुवन् । भो भद्रे ब्राह्मणो विद्वान् भवतीं द्रष्टुमिच्छति ॥ ६१ ॥ तद्भवती तमामन्त्र्य संदर्शयतु सादरम् । इति तदुक्तमाकर्ण्य सा परिव्राजिका मुदा ॥ ६२ ॥ तं विद्वांसं समामन्त्र्य पुरतः समुपाश्रयत् । तां परिव्राजिकां कान्तां मनोरमातिसुन्दरीम् ॥ ६३ ॥ समीक्ष्य सुचिरं तस्थौ रागाग्निज्वलिताशयः । सा परिव्राजिका चापि दृष्ट्वा तं सुन्दरं द्विजम् ॥ ६४ ॥ संरागव्याकुलस्वान्ता पश्यन्त्येव समाश्रयत् । तयोर्द्वयोर्दैवयोगाद्रागवह्निः समुत्थितः ॥ ६५ ॥ तेनाभिद्रवितस्वान्तौ स्नेहरक्तौ बभूवतुः । ततः स ब्राह्मणः कान्तो युवा रागाकुलेन्द्रियः ॥ ६६ ॥ तां कान्तां यौवनीं रामां संपश्यन् रह अब्रवीत् । अयि भद्रे सुभद्रांगि त्वां दृष्ट्वा मम मानसम् ॥ ६७ ॥ रागाग्निर्दीप्यते दग्धुं तच्छमीकर्तुमर्हति । यदि तेऽस्ति दया भद्रे ब्राह्मणेऽस्मिन् विचक्षणे ॥ ६८ ॥ तत्सुदृष्ट्या समालोक्य मामाश्वास्याभिनन्दय । इति तदुक्तमाकर्ण्य सा परिव्राजिका अपि ॥ ६९ ॥ कामरागाविलस्वान्ता तस्थौ संमोहिता यथा । एवं संमोहितस्वान्तां तां वीक्ष्य ब्राह्मणोऽपि सः ॥ ७० ॥ आलिंग्य सुदृशापश्यन् समाश्वास्यैवमब्रवीत् । अयि भद्रे यदि तेऽस्ति स्नेहमैत्रमनो मयि ॥ ७१ ॥ श्रुत्वा मेऽभिहितं वाक्यं चित्तं समभिनन्दय । सुमते यन्मया सार्धं विवादं कर्तुमिच्छसि ॥ ७२ ॥ अहमपि त्वया सार्धं विवादं कर्तुमुत्सहे । तद्यदि ते मयि स्नेहस्तन्मे हितं वचः शृणु ॥ ७३ ॥ तन्मनसा समाधाय समभिकर्तुमर्हति । इति तदुक्तमाकर्ण्य कामातुरा महासुधीः ॥ ७४ ॥ विद्याकरं समालोक्य विहसंत्येवमब्रवीत् । भो द्विजेन्द्र महाप्राज्ञ समादिष्टं त्वया यथा ॥ ७५ ॥ तथाहं कर्तुमिच्छामि सत्यमिति प्रवक्ष्यताम् । इति तया समाख्यातं श्रुत्वासौ चातुरो मुदा ॥ ७६ ॥ तां स्मिताननः प्राह मनोजरसविह्वलः । यद्येवं क्रियते रामे तथावयोः समागमम् ॥ ७७ ॥ यावज्जीवं सुखं भुक्त्वा रममाणौ चरेमहि । तदभिसमयं कृत्वा गुप्तमावां विधाय तत् ॥ ७८ ॥ एवं तत्र सभामध्ये संलपिष्यावहे किल । योऽत्र विवादिते जेता तस्य स हतमानिकः ॥ ७९ ॥ शरणे प्राप्य शिष्यत्वं संचरेत सदानुगः । इत्यभिसमयं कृत्वा साक्षीकृत्वा महाजनान् ॥ ८० ॥ तत्र सर्वसभामध्ये संवदिष्यामहे मिथः । मया चेन्निर्जिता त्वं स्त्री तदा लोके न निन्दिता ॥ ८१ ॥ किमाश्चर्यं जिता बाला पुंसा सतेति वक्ष्यते । यदि तत्र सभामध्ये निर्जितोऽहं त्वया स्त्रिया ॥ ८२ ॥ तदा लोके भविष्यामि निन्द्यमानः समन्ततः । पुमानपि द्विजः प्राज्ञो बालयापि स्त्रिया जितः ॥ ८३ ॥ इति हास्यपथं यास्ये विद्याकरोऽतिविश्रुतः । इति त्वया तदा तत्र संवादे नौ प्रवर्तिते ॥ ८४ ॥ अन्ते प्रत्युत्तरं नैव दातव्यमपि किंचन । तथा जित्वा मया त्वं स्त्री शिष्यापि मे भवेस्तदा ॥ ८५ ॥ एवं समागमं नौ स्याद्वावज्जीवं सुखं महत् । इति तदुक्तमाकर्ण्य सा कामरागदाहिता ॥ ८६ ॥ तथेति पतिभाषित्वा ब्राह्मणं तं व्यनोदयत् । एवं स ब्राह्मणस्तत्र कृत्वाभिसमयं तया । लोकासमीक्ष्यमाणश्च स्वालये प्राचरन्मुदा ॥ ८७ ॥ ततोऽन्यस्मिन् दिने प्रातः विद्वान् कामसमुत्सुकः । महाजनसभामध्ये गत्वामन्त्र्यैवमब्रवीत् ॥ ८८ ॥ भवन्तोऽद्य तया सार्धं परिव्राजिकया सह । संवादं कर्तुमिच्छामि तदानयन्तु तां द्रुतम् ॥ ८९ ॥ इति तेनोदितं श्रुत्वा सर्वेऽपि ते महाजनाः । तथेति समुपामन्त्र्य तां यतिमेवमब्रुवन् ॥ ९० ॥ भवति यदयं विप्रः सर्वशास्त्रविचक्षणः । भवत्या सह संवादं कर्तुमद्य समिच्छति ॥ ९१ ॥ तद्भवन्ती सहानेन विवदितुं यदीच्छति । तत्र रंगे सभामध्ये समागत्याभितिष्ठतु ॥ ९२ ॥ इति तदुक्तमाकर्ण्य सा परिव्राजिका मुदा । तं भर्तारमभीच्छन्ती रंगभूम्यां समाश्रयत् ॥ ९३ ॥ विद्याकरोऽपि आगत्य तत्र रंगे सभाश्रये । महाधीमुखैनालोक्य प्रमनाः समुपाश्रयत् ॥ ९४ ॥ तत्र रंगे सभामध्ये तावुभौ समुपाश्रितौ । दृष्ट्वा श्रुत्वापि ते सर्वे महाजना उपाश्रयन् ॥ ९५ ॥ तद्द्रष्टुं कौतुकाक्रान्तं विप्राश्च ब्रह्मचारिणः । नृपतिप्रमुखा लोकाः सर्वे तत्र समागताः ॥ ९६ ॥ तथान्येऽपि जनाः सन्तः शिल्पिवणिक्प्रजादयः । सर्वेऽत्र समुपायातास्तद्द्रष्टुं समुपाश्रयन् ॥ *९६* ॥ तान् द्रष्टुं समुपासीनान् सर्वांल्लोकान् समीक्ष्य सः । ब्राह्मण उत्थितः पश्यन् साञ्जलिरेवमब्रवीत् ॥ ९७ ॥ भवन्तोऽत्र यदस्माभिः स्वमतिमदमानिकम् । कृतं वटुकचापल्यं कर्तुमर्हन्तु तत्क्षमाम् ॥ ९८ ॥ यदि मया विवादेऽत्र नारीयं निर्जिता तदा । किमाश्चर्यं वदेल्लोकः पुंसा नारी जितेति च ॥ ९९ ॥ यद्येतया स्त्रियाप्यत्र विवादेऽहं विनिर्जितः । पुमानपि जितो नार्या हीति स्यां सर्वनिन्दितः ॥ १०० ॥ तदत्र समयं कृत्वा विवादं कर्तुमुत्सहे । तद्भवन्तोऽपि मध्यस्था द्रष्टुमर्हन्तु साधवः ॥ १०१ ॥ यद्येषात्र विवादे मां पराजेतुं हि शक्नुयात् । अस्याः शिष्यत्वमासाद्य भवेयाहं सदानुगः ॥ १०२ ॥ यद्यत्राहमिमां जित्वा जयश्रियं समाप्नुयाम् । मम शिष्यत्वमासाद्य भवेदेषा सदानुगा ॥ १०३ ॥ इति संप्रार्थ्य विप्रोऽसौ तां परिव्राजिकां सतीम् । पश्यन् व्याकरणपृश्नं पृष्ट्वा समभ्यचोदयत् ॥ १०४ ॥ तत्प्रत्युत्तरमुद्दिश्य सा परिव्राजिका सुधीः । ब्राह्मणं तं विनिर्जित्य व्यस्माययन् सभाजनान् ॥ १०५ ॥ तच्छ्रुत्वा ते जनाः सर्वे विस्मयापन्नमानसाः । प्राज्ञेयं यतिरित्युक्त्वा स्वस्वालयमुपाचरम् ॥ १०६ ॥ तत्परेद्युस्तथा तत्र सा परिव्राजिकागता । तेऽपि सन्तो जनाः सर्वे समागत्य समाश्रयन् ॥ १०७ ॥ ततः स ब्राह्मणस्तत्र सभामध्ये समाश्रितः । तां परिव्राजिकां पश्यञ्च्छास्त्रार्थं पर्यपृच्छत ॥ १०८ ॥ तच्छास्त्रार्थं समाख्याय युवतिरपि सा सुधीः । विद्वांसमपि तं जित्वा सर्वान् सतोऽन्वमोदयत् ॥ १०९ ॥ एवं च तृतीयेऽप्यह्नि सा योषिदपि सन्मतिः । सर्वकलाभिसंवादे विस्पष्टार्थमुदाहरत् ॥ ११० ॥ एवं तुर्यदिने चापि पञ्चमे दिवसे तथा । षष्ठेऽपि वासरे सैवं यथार्थं समुपादिशत् ॥ १११ ॥ एवं स ब्राह्मणस्तत्र सप्तमेऽह्नि समाश्रिते । क्रियाबन्धं तय कृत्वा रंगभूमिमुपासरत् ॥ ११२ ॥ त्रपाकुलचित्त इव जनानाह सुचातुरः । अद्याप्यहं यदि जितस्तस्याः स्यामनुगो ननु ॥ ११३ ॥ जेष्यति प्रत्यहं सैवमेकस्मिन्नप्यहं किमु । वाणीच्छलाज्जिता सा तु यतो योषित्सरस्वती ॥ ११४ ॥ इति प्रोक्त्वा द्विजः कामी कामातुरीं महाधियम् । प्रगल्भवचसा नारिं वेदान्तं समपृच्छत ॥ ११५ ॥ तत्र विज्ञापि सा साध्वी स्मृत्वाभिसमयं सुधीः । अपि प्रत्युत्तरं किञ्चिदसमर्थैव नो ददौ ॥ ११६ ॥ ततः स ब्राह्मणः पश्यन्महाजनान् सभाश्रितान् । सानन्दसुप्रसन्नास्यः साञ्जलिरेवमब्रवीत् ॥ ११७ ॥ भवन्तो दृश्यतामत्र लभते को जयश्रियम् । इति समीक्ष्य प्राख्यातुमर्हन्ति मान्यथा खलु ॥ ११८ ॥ इति तत्प्रार्थितं श्रुत्वा सर्वेऽपि ते सभाजनाः । विद्यानिधिं महाप्राज्ञं संप्रशंस्यैवमब्रुवन् ॥ ११९ ॥ कोविदात्र भवाञ्जेता यतिरेषा पराजिता । तदियं भवतः शिष्या भवेत सर्वदानुगा ॥ १२० ॥ एकस्मिन्नेव दिवसे महाधीस्तेन निर्जिता । कथमत्र संदेह इति सर्वे सविस्मयाः ॥ १२१ ॥ इति सर्वैः समाख्यातं श्रुत्वा स ब्राह्मणो मुदा । तां परिव्राजिकां पश्यन् विहसन्नेवमब्रवीत् ॥ १२२ ॥ अयि भद्रे समायाहि यथाभिसमयं कृतम् । तथानुगत्वमासाद्य चर धर्मं ममानुगा ॥ १२३ ॥ इति तदुक्तमाकर्ण्य सा परिव्राजिका स्मिता । लज्जाभिहतचित्तेव तस्थावभिनतानना ॥ १२४ ॥ ततः स मुदितो विप्रो दण्डं च्छत्रमुपानहम् । दत्वा तां सहसामन्त्र्य समाश्वास्यैवमब्रवीत् ॥ १२५ ॥ अयि भद्रे तथा सिद्धं यथा मया समीहितम् । तत्त्वं मुदा मया सार्धं सुखं चर समाव्रज ॥ १२६ ॥ इति तत्कथितं श्रुत्वा सा परिव्राजिका ततः । दण्डमुपानहौ च्छत्रं गृहीत्वा प्रस्थिता शनैः ॥ १२७ ॥ ततः स ब्राह्मणो धृत्वा तां परिव्राजिकां मुदा । विजयश्रीमहोत्साहैर्वासालयमुपाचरत् ॥ १२८ ॥ तत्र वासे समाश्रित्य विद्वान् सोऽत्यभिनन्दितः । तया सार्धं यथाकामं भुंजमानोऽरमत्सुखम् ॥ १२९ ॥ तत्रैवं रम्यमाणासौ तेन भर्त्रातिरागिना । काल आपन्नसत्वाभूत्प्रावृषीव घनोऽम्बुभृत् ॥ १३० ॥ ततः क्रमेण सा नारी संप्रवर्धितगर्भिणी । कृशांगी पाण्डुवर्णाभून्मृदुवाग्मन्दगामिनी ॥ १३१ ॥ गर्भिणी सा परिज्ञाय निन्द्यमाना महाजनैः । लज्जासंकोचितस्वान्ता भर्तारमाह तं द्विजम् ॥ १३२ ॥ स्वामिन् भवान् विजानातु यदहं गर्भिणी भवे । तल्लोकैर्निन्द्यमानात्र कथं चरेय सांप्रतम् ॥ १३३ ॥ तदन्यविषये गत्वा स्थातुमिच्छति मे मनः । यदीच्छसि मया सार्धं रन्तुं प्रेहि व्रजेवहि ॥ १३४ ॥ इति तया समाख्यातं श्रुत्वा स ब्राह्मणस्तथा । अन्यत्र विषये गन्तुं तया सार्धं समैच्छत ॥१३५ ॥ ततस्तौ मथुरां त्यक्त्वा जग्मतुर्दक्षिणापथम् । जनपदचारिकां तत्र चरित्वा सुखमापतुः ॥ १३६ ॥ तत्र श्वेतवलाकाख्ये पुरे तौ दम्पती मुदा । गत्वा रात्रौ समाश्रित्य न्यूषतुः परिखेदितौ ॥ १३७ ॥ तत्र सा नवमासानामत्ययात्समयागते । मठे लोकसभोनान्ते प्रासूत लघुदारकम् ॥ १३८ ॥ आत्मजं तं समालोक्य सुवर्णमभिसुन्दरम् । सा माता विस्मितस्वान्ता तस्थौ लज्जानतानना ॥ १३९ ॥ जनकोऽ पि तमालोक्य विज्ञोऽयं हि भवेदपि । इति मत्वा चिरं पश्यन्स्तस्थौ संहर्षिताशयः ॥ १४० ॥ ततः स जनकस्तस्य कृत्वा जातिमहं स्वयम् । नामास्य किं करिष्येऽहमिति ध्यात्वैवमब्रवीत् ॥ १४१ ॥ यत्सभायां प्रजातोऽयं तेनास्य नन्दनस्य मे । सभिक इति विख्यातं नाम भवतु सर्वतः ॥ १४२ ॥ इत्याख्याय पिता तस्य दारकस्य यथार्थतः । सभिक इति प्रख्यातं नाम कृत्वात्यसारयत् ॥ १४३ ॥ ततः स दारको मात्रा पित्रापि संप्रपालितः । परिपुष्टेन्द्रियो वृद्धो बभूवाशु मनोहरः ॥ १४४ ॥ ततः स सभिको धीमानशिक्षत लिपीः क्रमात् । सर्वशास्त्राण्यधीत्याशु महावादित्वमाययौ ॥ १४५ ॥ एवं स वादिजिद्विज्ञः सर्वविद्याविचक्षणः । विद्याभिमानिनः सर्वान् पराजेतुं समैच्छत ॥ १४६ ॥ ततोऽनुज्ञां समासाद्य पित्रोः सोऽत्यतिमानिकः । प्रव्रजित्वा गुरोराज्ञां धृत्वाचरद्यतिव्रतम् ॥ १४७ ॥ यस्य माता महाप्राज्ञा विद्याकरः पिता तथा । अतोऽतिमानी सभिकः स्वयं विद्याविचक्षणः ॥ १४८ ॥ ततः स मानिनो जेतुं समुद्रान्तिक आश्रमे । महर्षीन् ब्राह्मणान् विज्ञान् संद्रष्टुं समुपाचरत् ॥ १४९ ॥ तत्र स वादिनः सर्वान् सर्वशास्त्रप्रवादिते । जित्वा विजयमासाद्य समभ्यानन्दितोऽचरत् ॥ १५० ॥ ततोऽन्यत्राश्रमे गत्वा स सभिको व्यलोकयत् । तथा प्रवादिनः सर्वाञ्जित्वा जयं समाययौ ॥ १५१ ॥ एवं स सभिको गत्वा षोडशनगरेष्वपि । सर्वान् प्रवादिनो जित्वा जयकीर्तिश्रियं ययौ ॥ १५२ ॥ ततः स सभिकः सर्वविद्यामदाभिमानिकः । सर्वान् प्रवादिनो जेतुं मनसैवं व्यचिन्तयत् ॥ १५३ ॥ संबुद्धोऽसौ महाभिज्ञः सर्वज्ञोऽर्हन्मुनीश्वरः । सर्ववादिविजेतेति प्रथितं सर्वतोऽधुना ॥ १५४ ॥ तदहं तस्य मुनीन्द्रस्य जगच्छास्तुर्महामतेः । प्रज्ञाविशेषमाज्ञातुं गमिष्यामि तदाश्रमे ॥ १५५ ॥ जेतुं न शक्यते बुद्धः क्षत्रियात्मज एव सः । रणकाले तु वीरास्ते क्षत्रियाः शास्त्रवैमुखाः ॥ १५६ ॥ विद्याकरो मम पिता महाधीर्जननी पुनः । स्वयं विद्याब्धिपारश्च सर्ववादिमदापहः ॥ १५७ ॥ इति स सभिको ध्यात्वा वाराणस्यां जिनाश्रमे । मृगदावे भ्रमन् गत्वा समीक्ष्य समुपाचरत् ॥ १३८ ॥ तत्र सभासनासीनं सर्वलोकसमावृतम् । ददर्श स मुनीन्द्रं तं पूर्णेन्दुमिव भास्करम् ॥ १५९ ॥ तं दृष्ट्वा स महामानी विस्मयाक्रान्तमानसः । विभिन्नवदनस्तस्थौ पश्यन्निश्चलितेन्द्रियः ॥ १६० ॥ ततो धैर्यं समालम्ब्य मदमानं विहाय सः । प्रणत्वा साञ्जलिस्तत्र संपश्यन् समुपाचरत् ॥ १६१ ॥ तत्र स समुपाश्रित्य तस्य शास्तुर्महामुनेः । प्रणत्वा चरणाम्भोजे साञ्जलिः समुपाश्रयत् ॥ १६२ ॥ तत्र स सुप्रसन्नात्मा साञ्जलिः स पुरः स्थितः । संबुद्धं तं महाभिज्ञं संपश्यन्नेवमब्रवीत् ॥ १६३ ॥ भगवन्स्तद्विजानीयाद्यदर्थेऽहमिहाव्रजे । तद्भवान्मे मनोवाञ्छां संपूरयितुमर्हति ॥ १६४ ॥ इति संप्रार्थितं तेन श्रुत्वा स भग्वाञ्जिनः । तं सभिकं समालोक्य विहसन्नेवमादिशत् ॥ १६५ ॥ शृणु साधो महाभाग यदर्थे त्वमिहागतः । तत्ते संपूरयिष्यामि समाख्याहि समीहितम् ॥ १६६ ॥ इत्यादिष्टं मुनीन्द्रेण श्रुत्वा स सभिको मुदा । भगवन्तं तमालोक्य साञ्जलिरेवमब्रवीत् ॥ १६७ ॥ भगवन् भवता प्राप्तं किं ज्ञानं किं च ते व्रतम् । यत्संबुद्धो भवान् ख्यात एतदादेष्टुमर्हति ॥ १६८ ॥ इति तत्प्रार्थितं श्रुत्वा सर्वमानिमदापहः । भगवान् सभिकं द्र्ष्ट्वा तदुत्तरमुपादिशत् ॥ १६९ ॥ उत्तरं प्रतिपृच्छस्व तदर्थं सभिक मदी । शिष्याणामग्रतोऽज्ञोऽयं स्वल्पशिक्षापरिग्रहात् ॥ १७० ॥ इति सर्वज्ञवचनं श्रुत्वा सभिक मानिकः । निर्मद उत्तरं विज्ञं पप्रच्छ साञ्जलिः स्मितः ॥ १७१ ॥ भगवताज्ञपितस्त्वं तदर्थं मे समादिश । विनयादर्थितस्तेन तदर्थमुत्तरादिशत् ॥ १७२ ॥ कथमज्ञोऽसि सभिक सर्वविद्याविचक्षण । श्रूयतां कथयिष्यामि संक्षेपात्सावधानतः ॥ १७३ ॥ बोधिचर्याव्रतं धृत्वा संप्राप्य बोधिमुत्तमाम् । संबोधयति यः सर्वं स संबुद्धो निगद्यते ॥ १७४ ॥ माराश्रयं गृहं त्यक्त्वा निष्क्लेशो विजितेन्द्रियः । सर्वसत्वहितार्थेन चरते यस्तपोव्रतम् ॥ १७५ ॥ सोऽर्हन् भिक्षुर्विशुद्धात्मा चतुर्ब्रह्मविहारिकः । सद्धर्मश्रावकः संघः स योगी यतिरुच्यते ॥ १७६ ॥ मायाभवं जगन्मत्वा स्वपरात्महितार्थभृत् । बोधिचर्याव्रतं धृत्वा चरते यो जगद्धिते ॥ १७७ ॥ स श्रमणो महाभिज्ञो भद्रश्रीसद्गुणाश्रयः । बोधिसत्वो महासत्वः सर्वधर्मार्थभृत्स्मृतः ॥ १७८ ॥ इत्युत्तरेण संदिष्टं श्रुत्वा स सभिकः पुनः । साश्चर्य उत्तरं विज्ञं प्रणत्वा च न्यवेदयत् ॥ १७९ ॥ उत्तरब्राह्मणाः के च स्नातकाश्च कथं द्विजाः । वैदिकाश्च कथं विप्राः श्रोत्रियाश्चापि ते कथम् ॥ १८० ॥ क्षेत्रज्ञाश्च कथं तेऽपि कथं च ब्रह्मचारिनः । ऋषयश्च परिव्राजा मुनयश्च तपस्विनः ॥ १८१ ॥ यतयो योगिनश्चापि कथं केनापि कर्मतः । एतत्कर्म समाख्याय संबोधयतु मे मनः ॥ १८२ ॥ इति संप्रार्थितं तेन उत्तरो विप्रभिक्षुकः । तं सभिकं समालोक्य विहसन्नेवमादिशत् ॥ १८३ ॥ ये च शुद्धात्मनोऽहिंसा धर्माश्रितास्तपस्विनः । शुद्धसंवरसंधाना योगाभ्यासे सुचातुराः ॥ १८४ ॥ साधु शृणु समाधाय यदेतत्प्रष्टुमिच्छसि । तत्ते मनोऽभितुष्टये वक्ष्याम्यहं समासतः ॥ *१८४ * ॥ यो विश्वं सृजति ब्रह्मा स्वयंभूर्वेदभृद्विधिः । तस्यात्मजहाः समाचारः सात्विका निर्मलेन्द्रियाः ॥ *१८४ * ॥ स्वपरात्मसमाचाराश्चतुर्ब्रह्मविहारिणः । वेदधर्मार्थभर्तारः सन्तस्ते ब्राह्मणाः स्मृताः ॥ १८५ ॥ स्नात्वा तीर्थेषु नित्यं ये शुद्धशीला जितेन्द्रियाः । ब्रह्मव्रतं चरन्तस्ते निष्कांक्षाः स्नातकाः स्मृताः ॥ १८६ ॥ संस्कारपरिशुद्धा ये वेदधर्मसमाचराः । ब्रह्मचर्याव्रतं धृत्वा चरन्ते ते द्विजाः स्मृताः ॥ १८७ ॥ शुद्धशीलाः समाचारा वेदधर्मार्थसाधकाः । ब्रह्मवृत्तिसमाधाना धीरास्ते वैदिकाः स्मृताः ॥ १८८ ॥ ये ब्रह्मसंवरं धृत्वा संचरन्तः सदा शुभे । सद्विधेः पूरयन्त्यर्थं ते विप्राः कथिता बुधैः ॥ १८९ ॥ ये सुधीरा महावीराः सर्वसत्वहितोद्यताः । वेदभद्रार्थभर्तारः प्राज्ञास्ते श्रोत्रियाः स्मृताः ॥ १९० ॥ सर्वेषामिन्द्रियाणां यत्क्षेत्रमात्मा समाश्रयेत् । तद्विशुद्धिं विजानीते स तु क्षेत्रज्ञ उच्यते ॥ १९१ ॥ ये मैत्रीमुदितात्मानः कारुण्यार्द्रितमानसाः । उपेक्ष्य संचरन्तेऽर्थे भद्र ते ब्रह्मचारिनः ॥ ल्९२ ॥ संसारविरतोत्साहा निर्वृतिसुखलालसाः । प्रव्रज्याव्रतसंचारास्ते परिव्राजकाः स्मृताः ॥ १९३ ॥ ये च ब्रह्मसमाचारा महासत्वा महर्धिकाः । ऋषयस्ते समाख्याता स्वर्गाभिपदसाधिनः ॥ १९४ ॥ ये भवगतिसंचारनिःसंगाः सुस्थितेन्द्रियाः । मौनचर्यासमाचाराः सन्तस्ते मुनयः स्मृताः ॥ १९५ ॥ निरपेक्षाः स्वकायेऽपि ये चरन्ते तपोव्रतम् । तपस्विनस्त आख्याता भद्रश्रीसद्गुणार्थिनः ॥ १९६ ॥ ये मायारतिनिष्कांक्ष निष्क्लेशा विजितेन्द्रियाः । निर्ममाः संयतात्मानो यतयस्ते निरञ्जनाः ॥ १९७ ॥ ये विश्वाससमाचारा निर्विकल्पा निराश्रयाः । समाधिनिहितात्मानो योगिनस्ते निरञ्जनाः ॥ १९८ ॥ एते भवविनिर्मुक्ताः प्रव्रज्याव्रतचारिणः । परिशुद्धेन्द्रियात्मानः संयायुः परमां गतिम् ॥ १९९ ॥ एतत्स्वल्पतरार्थेऽपि कथं न ज्ञायते त्वया । विद्याभिमानिना सर्वाञ्जेष्यामीति मदोद्धतः ॥ २०० ॥ मानं त्यज त्वं सभिक भजैनं शास्त्रपारगम् । बोधिं चर मोक्षकामिन् प्रव्रज्याव्रतमादध ॥ २०१ ॥ इत्युक्त्वा निजवृत्तान्तं कथयामास विस्तरम् । नालकस्यानुजस्यापि सर्वज्ञस्यानुभावताम् ॥ २०२ ॥ अयमेव त्रिलोकेषु सर्वविद्याधिपः सुधीः । सर्वधर्माधिपः शास्ता सर्ववादिमदापहः ॥ २०३ ॥ यस्य स्मरणमात्रेण ममानुजो महासुधीः । सर्ववादिविजेताभूच्छ्रुतिधरः सुपारगः ॥२०४ ॥ एतादृशस्य सर्वज्ञस्य दर्शने श्रवणे पुनः । का कथा चर तस्मात्त्वं शासनेऽस्य सुसंवरम् ॥ २०५ ॥ इत्युत्तरगिरं श्रुत्वा सभिकः सोऽतिसाहसः । प्रव्रज्याव्रतमाधातुं समभूत्प्रमनाः कृती ॥ २०६ ॥ इति तेन जगच्छास्त्रा समादिष्टं निशम्य सः । सभिकः सुप्रसन्नात्मा प्राभ्यनन्दत्प्रबोधितः ॥ *२०६* ॥ ततः स सभिको विज्ञः संबुद्धगुणलालसः । तं मुनीन्द्रं मुदा नत्वा साञ्जलिरेवमब्रवीत् ॥ २०७ ॥ भगवन् सर्वविद्विज्ञ सर्वविद्यान्तपारग । क्षमस्व मेऽपराधं यन्मदोत्थित दयानिधे ॥ २०८ ॥ त्वमेव भगवान्नाथः सर्वधर्माधिपो जिनः । भवानेव जगच्छास्ता महाभिज्ञो मुनीश्वरः ॥ २०९ ॥ चतुर्मारविनिर्जेता विनायकस्तथागतः । विराजते भवानेव त्रैधातुकाधिपेश्वरः ॥ २१० ॥ क्लेशध्वान्ताभिनिर्हन्ता सद्धर्मज्ञानभास्करः । यदहं भगवन् पातुं धर्मामृतं समुत्सहे ॥ २११ ॥ तद्भवान्मां समालोक्य समन्वाहर्तुमर्हति । सदाहं भवता शास्तः शरणे समुपस्थितः ॥ २१२ ॥ धृत्वानुज्ञां समाधाद्य चरिष्ये सौगतं पदम् । तद्भवान् सौगते धर्मे भद्रश्रीबोधिसाधने ॥ २१३ ॥ कृपाय मां समायुज्य संचारयितुमर्हति । इति संप्रार्थितं तेन श्रुत्वा स करुणाम्बुधिः ॥ २१४ ॥ अपमदं परिव्राजं तं समीक्ष्यैवमादिशत् । एहि भद्रास्ति ते वांच्छा सौगते संवरे यदि ॥ २१५ ॥ बोधिचर्यां समाधाय निष्क्लेशं संचर व्रतम् । इत्यादिश्य स संबुद्धो दक्षिणपाणिना स्वयम् ॥ २१६ ॥ शिरसि संस्पृशन्स्तस्य त्रिकायमभ्यशोधयत् । भगवता शिरः स्पृष्टे मुण्डितः स जितेन्द्रियः ॥ २१७ ॥ खिष्खिरीपात्रभृद्भिक्षुर्बभूव चीवरावृतः । ततः स सुप्रसन्नात्मा प्राप्यानुज्ञां जगद्गुरोः ॥ २१८ ॥ बोधिचर्याव्रतं धृत्वा समाचरत्समाहितः । ततः समाधिशुद्धात्मा परिशुद्धत्रिमण्डलः । ब्रह्मचारी महाभिज्ञो बभूव सौगतो यतिः ॥ २१९ ॥ इति श्रीभद्रकल्पावदाने अशोकोपगुप्तसंभाषणे सभिकसौगतशासनप्रव्रज्याव्रतचारणपरिवर्तो नाम चतुर्दशोऽध्यायः ॥ (सम् ४७ ३ f.: अद्दितिओनल्वेर्सेस्): एतद्दृष्ट्वा समाकर्ण्य सर्वे लोकाधिपा अपि । तद्व्रतमनुमोदन्तः संचेरिरेऽभिनन्दिताः ॥ *२१९* ॥ इति मे गुरुणादिष्टं श्रुतं मया तथोच्यते । त्वमपीदं महाराज श्रुत्वानुमोद्य चारय ॥ *२२ * ॥ श्रुत्वेदं मेऽनुमोदन्ति सर्वे ते निर्मलेन्द्रियाः । बोधिसत्वा महाभिज्ञाः भवेयुर्बोधिलाभिनः ॥ *२२१* ॥ इति शास्त्रार्हतादिष्टं श्रुत्वाऽशोको नृपो मुदा । तथेत्यभ्यनुमोदित्वा प्राभ्यनन्दत्सपार्षदः ॥ *२२२* ॥ इति सभिकसौगतशासनप्रव्रज्याव्रतचरणपरिवर्तो नाम नवमोऽध्यायः समाप्तः ॥