कौशीद्यवीर्योत्साहनावदान ++ ओं नमः श्रीसर्वबुद्धबोधिसत्वेभ्यः ++ यः श्रीमाञ्छ्रीघनो लोके सद्धर्मं समुपादिशत् । शासनानि त्रिलोकेषु जयन्तु तस्य सर्वदा ॥ १.१{१} ॥ अथाशोको महाराजः कृताञ्जलिः प्रमोदितः । उपगुप्तं यतिं नत्वा पुनरेवमभाषत ॥ १.२{२} ॥ भदन्त श्रोतुमिछामि पुनरन्यत्सुभाषितम् । तद्यथा गुरुणादिष्टं तथा देष्टुं च मेऽर्हति ॥ १.३{३} ॥ इति संप्रार्थितं राज्ञा श्रुत्वा सोऽर्हन् यतिः सुधीः । उपगुप्तो नरेन्द्रं तं समालोक्यैवमादिशत् ॥ १.४{३ } ॥ साधु शृणु महाराज यथा मे गुरुणोदितम् । तथाहं ते प्रवक्ष्यामि श्रुत्वा चाप्यनुमोदय ॥ १.५{४} ॥ पुरासौ भगवान् बुद्धः शाक्यसिंहो दयानिधिः । धर्मराजो जगच्छास्ता सर्वज्ञः सुगतो जिनः ॥ १.६{५} ॥ (र्म् २) सर्वविद्याकलाभिज्ञः षडभिज्ञो मुनीश्वरः । मारजिल्लोकविन्नाथो विनायकस्तथागतः ॥ १.७{६} ॥ श्रवस्त्यां जेतकारण्ये महोद्याने मनोरमे । अनाथपिण्डदाख्यस्य गृहस्थस्य महात्मनः ॥ १.८{७} ॥ नानावृक्षैः समापन्ने नानापुष्पप्रशोभितैः । नानाफलभरानम्रैः कल्पपादपसन्निभैः ॥ १.९{८} ॥ अष्टाङ्गगुणसंपन्नजलैः पद्मोत्पलादिभिः । पुष्पैश्च परिपूर्णाभिः पुष्करिणीभिराश्रिते ॥ १.१०{९} ॥ नानाजन्तुगणैश्चापि मिथस्नेहनिवन्धितैः । नानापक्षिगणैश्चापि संरावैरुपसेविते ॥ १.११{१०} ॥ तस्मिन् दिव्यमनोरम्य आरामे परिशोभिते । पुण्यक्षेत्रे जिनावासे विहारे मणिमण्डिते ॥ १.१२{११} ॥ श्रावकैर्भिक्षुभिः सार्द्धं बोधिसत्वगणैरपि । सर्वसत्वहितार्थेन तस्थौ धर्मं प्रकाशितुम् ॥ १.१३{१२} ॥ एवं तत्र समासीनं संबुद्धं धर्मदेशिनम् । दृष्ट्वा धर्मोत्तमं श्रोतुं सर्वे लोकाः समाययुः ॥ १.१४{१३} ॥ देवा दैत्याश्च सिद्धाश्च यक्षगंधर्वकिन्नराः । ग्रहा विद्याधराश्चापि नागाश्च गरुडा अपि ॥ १.१५{१४} ॥ सर्वेऽपि लोकपालाश्च मुनयश्च महर्षयः । ब्राह्मणाः क्षत्रियाश्चापि वैश्याश्च मंत्रिणो जनाः ॥ १.१६{१५} ॥ अमात्याः साधवः शूद्राः सार्थवाहा महाजनाः । धनिनो वणिजश्चापि गृहस्थाः पौरिका अपि ॥ १.१७{१६} ॥ तथा जानपदाश्चापि ग्राम्याः कार्पटिका अपि । एवमन्येऽपि सत्वाश्च सद्धर्मश्रवणार्थिनः ॥ १.१८{१७} ॥ पूजापंचोपहाराणि गृहीत्वा भक्तिसंयुताः । सद्धर्मं सौगतं श्रोतुमनुमोद्य समाययुः ॥ १.१९{१८} ॥ सर्वे तत्र प्रविष्टास्ते दृष्ट्वा तं सुगतं जिनम् । विस्मितानंदिताः पूजां कृत्वा नत्वा यथाक्रमम् ॥ १.२०{१९} ॥ सर्वे तत्र समासीनाः परिवृताः पुरस्कृताः । तं दृष्ट्वा सद्गुरुं धर्मं श्रोतुं तस्थुः समाहिताः ॥ १.२१{२०} ॥ अथासौ भगवान् दृष्ट्वा लोकान् सर्वान् समाहितान् । आदिमध्यान्तकल्याणं दिदेश धर्ममुत्तमम् ॥ १.२२{२१} ॥ एवं नित्यमसौ नाथः सर्वसत्वहितार्थिकः । धर्मं प्रकाशयन् लोके तस्थौ भानुरिवोदितः ॥ १.२३{२२} ॥ (र्म् ३) तस्मिंश्च समये तत्र श्रावस्त्यां सन्महाजनः । आढ्यः श्रेष्ठी महाभोगो विस्तीर्णसुपरिग्रहः ॥ १.२४{२३} ॥ श्राद्धो भद्राशयो धीमान् सर्वबन्धुसुहृत्प्रियः । तीर्थिकश्रावको मानी बभूव धनगर्वितः ॥ १.२५{२४} ॥ तदासौ सुन्दरीं भार्य्यां कुलधर्मसमानिकाम् । नीत्वा कामगुणासक्तो रेमे नित्यं तया सह ॥ १.२६{२५} ॥ तस्यैवं रमतस्तस्यां भार्यायां सुचिरादपि । पुत्रो न दुहिता वापि नोद्बभूव कथं चन ॥ १.२७{२६} ॥ तदपुत्रो गृहस्थोऽसौ पुत्राभिदर्शनोत्सुकः । कपोलं स्वकरे धृत्वा व्यचिन्तयद्रहो गतः ॥ १.२८{२७} ॥ अहो दैवान्न मे पुत्रः पुत्री वाद्यापि नास्ति यत् । तन्मे स्युः संपदो व्यर्थायासां भोक्ता न विद्यते ॥ १.२९{२९!} ॥ किं ममैतैर्धनै रत्नैः केवलं दुह्खसाधनैः । येषां भोक्ता न विद्येत व्यर्थं मया ह्युपार्जितम् ॥ १.३०{३०} ॥ ह्यपुत्रस्य जगच्छून्यं संसारे निःसुखं मम । यतो न वर्द्धते धर्मस्तज्जन्मापि च निस्फलम् ॥ १.३१{३१} ॥ किमुपायं करिष्यामि यतो भाग्यं न विद्यते । दैवो हि वलवांल्लोके किमुपायैर्गुणैर्वलैः ॥ १.३२{३२} ॥ कुत्रात्र शरणं यास्ये ह्यपुत्रोऽहं कुलान्तकः । तन्मे स्यात्कोऽत्र सन्मित्रं संकटे यः समुद्धरेत् ॥ १.३३{३३} ॥ नूनं मे पितरः सर्वे पिण्डविछेददर्शिनः । मत्परं दुर्लभं मत्वा भविष्यन्ति निराशिताः ॥ १.३४{३४} ॥ सर्वथाहं विनष्टोऽस्मि कुलधर्मविनाशकः । किं परत्र प्रभोक्ष्यामि को मे पिण्डं प्रदास्यति ॥ १.३५{३५} ॥ इति चिन्ताविषण्णं तं दृष्ट्वा सर्वे च बान्धवाः । (र्म् ४) समुपेत्य समामंत्र्य दुह्खहेतुमपृछन् ॥ १.३६{३६} ॥ किं दुःस्थितोऽसि साधोऽत्र किं चापि दुःखचिन्तया । वक्तव्यं चेत्तदस्माकं सर्वथा वक्तुमर्हसि ॥ १.३७{३७} ॥ इति पृष्टे गृहस्थोऽसौ दीर्घनिश्वासमुत्सृजन् । सर्वांस्तान् बान्धवान् दृष्ट्वा दुःखहेतुमुदहरत् ॥ १.३८{३८} ॥ भवन्तः श्रूयतां सर्वैर्मम दुःखस्य कारणम् । यदद्यापि न मे पुत्रः पुत्री वापि न विद्यते ॥ १.३९{३९} ॥ संपदो मे गृहे सन्ति सर्वरत्नसमन्विताः । सर्वद्रव्यसमृद्धाश्च तासां भोक्ता न विद्यते ॥ १.४०{४०} ॥ तत्सर्वं नक्ष्यते व्यर्थं मया यात्नैरुपार्जितम् । अपुत्रस्य हि सर्वस्वं नूनं राजा ग्रहीष्य्ति ॥ १.४१{[४१]} ॥ अपुत्रोऽहं ह्यपुण्यात्मा गन्तव्यं मरणं ध्रुवम् । प्रेतीभूतस्य मे कोऽन्यः पिण्डदानं प्रदास्यति ॥ १.४२{[४२]} ॥ मया न प्रकृतं पुण्यं संपदर्थप्रसंगिना । तन्मे सर्वं निरर्थं स्यात्को मां पापात्समुद्धरेत् ॥ १.४३{४३} ॥ इह भोग्यं प्रभुक्त्वापि किं मे सारमवस्थितम् । केवलं धनसक्तस्य परत्र सद्गतिः कथम् ॥ १.४४{४४} ॥ इति चिन्ता हृदि स्थित्वा चित्तं मे तुदतेऽनिशम् । एवं चित्तव्यथाक्रान्तः शल्यविद्ध इवास्म्यहम् ॥ १.४५{४५} ॥ तद्व्यथाहरणोपायं दातव्यं मम तद्धितम् । अन्यथा चेदिहामुत्र विनष्टः स्यां निराशितः ॥ १.४६{४६} ॥ इति तेनोदितं श्रुत्वा सर्वे ते बान्धवा जनाः । करुणाविष्टचित्तास्तं बोधयन्तः समब्रुवन् ॥ १.४७{४७} ॥ मा मा भैष्ठा महाभाग त्यज चिन्तां वचः शृणु । तदुपायं वयं ब्रूमस्तत्कुरुष्व समाहितः ॥ १.४८{४८} ॥ देवताराधनां कृत्वा कुरुष्व वंशयाचनाम् । नूनं वंशं प्रदास्यन्ति देवतास्ते प्रसादिताः ॥ १.४९{४९} ॥ (र्म् ५) एष लोके प्रवादोऽस्ति यदायाचनहेतुतः । पुत्रा दुहितरो वापि जाता देवप्रसादतः ॥ १.५०{५०} ॥ तथा नैव प्रमाणं स्याच्छास्त्रे कर्मप्रमाणतः । तत्तु देवप्रसादेन कर्मश्शीघ्रं प्रसिद्ध्यते ॥ १.५१{५१} ॥ तदेव देववैरुद्धे कर्म विघ्नैर्निहन्यते । तस्माद्दैवप्रसिद्ध्यर्थं श्रद्धाभक्तिसमाहितः ॥ १.५२{५२} ॥ देवताराधनां कृत्वा सर्वकार्य्यं प्रसाधयेत् । इति मत्वा भवांश्चापि सत्पुत्रप्रतिपत्तये ॥ १.५३{५३} ॥ भार्य्यया सह भक्त्या च देवतायाचनां कुरु । ततो रक्तैः प्रियां भार्यामृतुस्नातां प्रकामतः ॥ १.५४{५४} ॥ गाढमालिंग्य संरक्तो धर्मवीजं प्ररोपय । ततो देवप्रभावेन सुनिष्पन्नः प्रसिद्धितः ॥ १.५५{५५} ॥ त्वत्पुत्रः संप्रजायेत सत्यमेवं प्रमाणय । इति तेषां वचः श्रुत्वा गृहस्थोऽसौ विनोदितः ॥ १.५६{५६} ॥ तथेति च प्रतिश्रुत्य भार्य्यया सह मोदितः । शिवब्रह्मादिदेवेशानिंद्रादिदिगधीश्वरान् ॥ १.५७{५७} ॥ जलाश्रयवनारामचत्वरमण्डपालयान् । सूर्य्यादींश्च ग्रहान् सर्वा भैरवाद्याश्च मातृकाः ॥ १.५८{५८} ॥ स्वकुलाधिपतीं देवानन्यांश्च त्रिभवस्थितान् । सर्वानेवं समाराध्य पूजयित्वा विधानतः ॥ १.५९{५९} ॥ संतानं प्रार्थयित्वासौ पत्न्या सह तथारमत् । तदा कश्चिन्महासत्वः स्वर्गाच्च्युत्वा भुवं गतः ॥ १.६०{६०} ॥ तस्य गृहपतेः पत्न्या गर्भे स समुपाविशत् । ततः सा श्रेष्ठिनो भार्य्यापन्नसत्वाशु गुर्विणी ॥ १.६१{६१} ॥ गर्भे सत्वं समुत्पन्नं मत्वा भर्त्तारमब्रवीत् । स्वामिन् प्रसीद मा भूस्त्वं विषण्नोऽत्र सुखी भव ॥ १.६२{६२} ॥ तव भाग्याद्धि मे गर्भे नूनं सत्वः प्रवर्त्तते । (र्म् ६) यद्गर्भे दक्षिणे भागे स्थितः संपरिवर्त्तते ॥ १.६३{६३} ॥ तन्नूनं दारकोऽयं स्यात्सत्यमेव न संशयः । इति भार्यावचः श्रुत्वा गृहस्थोऽसौ प्रमोदितः ॥ १.६४{६४} ॥ भार्याया गर्भमालोक्य सत्यमित्यन्वमन्यत ॥ १.६५{५६!} ॥ ततोऽसौ सहसा वन्धुसुहृन्मित्रसहायकान् । प्राहूय पुरतस्तेषां मुदैवं समुदानयत् ॥ १.६६{६६} ॥ अहो भाग्यान्ममोत्पन्नं यदभिवांछितं मया । धन्योऽस्मि नावगीतः स्याद्देवतानुप्रसादतः ॥ १.६७{६७} ॥ चिराभिलषितं पुत्रमुखं पश्येय सांप्रतम् । कृत्या मे प्रतिकुर्वीत भृतश्च प्रतिविभृयात् ॥ १.६८{६८} ॥ दायाद्यं प्रतिपद्येत वंशो मे स्थितिको भवेत् । सुहृदो मे प्रसन्नाः स्युर्द्विषन्तश्च विषादिताः ॥ १.६९{६९} ॥ मया यावन्ति दानानि पुण्यानि प्रकृतानि च । एतत्पुण्यफलैर्नित्यं मंगलं भवतु द्वयोः ॥ १.७०{७०} ॥ एतत्पुण्यानुभावेन भूयान्माता निरातुरा । सुखं सुनोतु सत्पुत्रं मा पापं समुदागमत् ॥ १.७१{७१} ॥ इति तेनोदितं श्रुत्वा सर्वे बन्धुसुहृत्सखाः । तथास्त्वित्यनुमोदन्तः स्वस्वालयं समाययुः ॥ १.७२{७२} ॥ ततोऽसौ गर्भिणी कान्ता क्रमाद्गर्भप्रवर्द्धिता । वैद्योपदिष्टमाहारं भुक्त्वाचरद्यथा सुखम् ॥ १.७३{७३} ॥ ततश्च समयेऽसूत पुत्रं कान्तं मनोहरम् । सर्वलक्षणसंपन्नं भद्रांशं मंगलान्वितम् ॥ १.७४{७४} ॥ तच्छ्रुत्वैव गृहस्थोऽसौ सुप्रसन्नः प्रमोदितः । दृष्ट्वा तं दारकं सौम्यं नैव तृप्तिं समाययौ ॥ १.७५{७५} ॥ ततो ज्ञातीन् समाहूय कृत्वा जातिमहं मुदा । पुत्रनामाभिसंस्कर्तुं भूय एतान् समब्रवीत् ॥ १.७६{७६} ॥ भवन्तो दृश्यतां सिद्धं ममभिलषितं चिरात् । (र्म् ७) तन्नामास्य यथायोग्यं प्रसिद्धं क्रियतां शुभम् ॥ १.७७{७६!} ॥ इति तस्य वचः श्रुत्वा सर्वे ते ज्ञातयो मुदा । दारकं तं समालोक्य नंदिताः समभाषत ॥ १.७८{७८} ॥ यस्मिन् दिने ह्ययं जातस्तदा सर्वेऽपि पौरिकाः । नन्दितास्तद्भवत्वयं नाम्ना नन्द इति श्रुतः ॥ १.७९{७९} ॥ अथासौ दारको नन्दः सम्यग्देहोपचारणे । पित्राष्टासु च धात्रीषु परितोष्य समर्पितः ॥ १.८०{८०} ॥ ततोऽसौ क्रमशस्तासां धात्रिणामुपचारतः । दिने दिने प्रवृद्धोऽभूद्ध्रदस्थं पंकजं यथा ॥ १.८१{८१} ॥ एवं प्रवर्द्धमानोऽसौ षड्वर्षिको यदाभवत् । तदा कुशीदसंवृत्तो बभूव विरतोत्सवः ॥ १.८२{८२} ॥ सदा शय्यासनस्थस्तत्समुत्थातुं न चैछत । शय्यासनस्थितश्चैव भुक्त्वा नैवाचरत्क्वचित् ॥ १.८३{८३} ॥ सदा स्वान्तर्गृहस्थोऽपि सुतीक्ष्णबुद्धिमान् सुधीः । अधीत्य सर्वशास्त्राणि सत्यधर्मरतोऽभवत् ॥ १.८४{८४} ॥ अथ श्रेष्ठी पिता दृष्ट्वा पुत्रमेवं कुशीदितम् । सर्वविद्यागुणाधारं दृष्ट्वा चैवं व्यचिन्तयत् ॥ १.८५{८५} ॥ कथं चिद्यो मया प्राप्तो देवतासंप्रसादतः । सोऽपि पुत्रो ममाभाग्याद्भवत्येवं कुशीदितः ॥ १.८६{८६} ॥ सर्वविद्यागुणाधारं सर्वशास्त्रविचक्षणः । किं ममानेन पुत्रेण दुस्थितेनेव रोगिना । यतः स्वस्थशरीरोऽपि भुक्त्वैवं पशुवत्स्थितः ॥ १.८७{८७} ॥ किमत्राहं करिष्यामि यत्पुत्रोऽयं नि रुद्यमः । किमीद्रिग्जन्तुना कार्य्यं कुलधर्मोपहारिणा ॥ १.८८{६८!} ॥ धिग्मे दैवं प्रयत्नं च सर्वं तत्स्यान्निरर्थकम् । किमुपायं करिष्यामि सर्वथाहं विभग्नितः ॥ १.८९{७८} ॥ एवं चिन्तापरीतोऽसौ गृहस्थश्च व्यचिन्तयत् । पूरणो मेऽस्ति शास्ता यः पृछेयं तदुपायकम् ॥ १.९०{७९} ॥ इति मत्वा गृहस्थोऽसौ तदाश्रमं समागतः । पूरणं तं गुरुं नत्वा पप्रच्छ तदुपायताम् ॥ १.९१{८०} ॥ (र्म् ८) भगवन् भो महाभिज्ञ शास्तासि मे प्रसीद तत् । यन्मया पृछ्यते कार्य्यं तत्समादेष्टुमर्हसि ॥ १.९२{८१} ॥ इति तेनार्थितं श्रुत्वा तीर्थिको मानगर्वितः । आशु सिद्धं करिष्यामो यत्कार्य्यं तेऽत्र तद्वद ॥ १.९३{८२} ॥ इति प्रोक्त्वैवमाश्वास्य पूरणोऽत्यभिमानिकः । प्रवदंस्तं गृहस्थं वै सर्वथैवमबोधयत् ॥ १.९४{८३} ॥ इति तेन समादिष्टं श्रुत्वा गृहपतिर्मुदा । कृताञ्जलिपुटो नत्वा तं गुरुं समभाषत ॥ १.९५{८४} ॥ भगवन् भो विजानीया यो मे पुत्रः प्रजायते । स प्रवृद्धो निरुत्साही कुशीदो वर्त्ततेऽधुना ॥ १.९६{८५} ॥ सदा शय्यास्थितो भुङ्क्ते भुक्त्वा शेते निरुद्यमः । नोत्सहति क्वचिद्गंतुं पशुवत्तिष्ठते गृहे ॥ १.९७{८६} ॥ न शयनात्समुत्थाय श्रोतुं द्रष्टुं समिच्छति । गृहे शय्यासनारूढो रोगीव वसते सदा ॥ १.९८{८७} ॥ तदुपायं कथं कुर्य्यां येनायं शयनोत्थितः । श्रोतुं द्रष्टुं च गंतुं च कर्त्तुं कार्य्यं यथोत्सहेत् ॥ १.९९{८८} ॥ तथा मे भगवन् पुत्रं कुलधर्मे नियोजय । भवानेव हि मे शास्ता तद्धितं कर्तुमर्हसि ॥ १.१००{८९} ॥ इत्येवं प्रार्थितं तेन श्रुत्वासौ पूरणो यतिः । तस्य गृहपतेश्चित्तं प्रहर्षयन् समब्रवीत् ॥ १.१०१{९०} ॥ अरे मा गा विषादं त्वं चिन्तया किं प्रतप्यसे । अस्मासु विद्यमानेषु षट्सु विज्ञेषु शास्तृषु ॥ १.१०२{९१} ॥ तदहं ते महाभाग सार्द्धं सर्वैश्च तीर्थिकैः । ऋद्ध्या गत्वा करिष्यामि दारकं विस्तयोत्थितम् ॥ १.१०३{९२} ॥ यदासौ दारको ह्यस्मान् सर्वान् दृष्ट्वा समुत्थितः । कृत्वा प्रणाममस्माकं धर्म्मं श्रोतुं समुत्सहेत् ॥ १.१०४{९३} ॥ श्रुत्वा धर्मसमुत्साहात्कुशलानि समाचरेत् । तत्कुशलैः समापन्नो वीर्यवान् स भवेत्सुधीः ॥ १.१०५{९४} ॥ (र्म् ९) ततस्ते सर्वकार्याणि साधयेत्स समुद्यतः । स्वकुलधर्मकर्माणि कुशली संचरिष्यते ॥ १.१०६{९५} ॥ एवं मे वचनं सत्यं दृष्ट्वा सम्यक्प्रमाणय । तद्विषादं परित्यज्य कर्त्तव्यं हि तथा कुरु ॥ १.१०७{९६} ॥ इति तेन समादिष्टं श्रुत्वा स गृहभृन्मुदा । सहसा स्वगृहं गत्वा तद्भोज्यं समसाधयत् ॥ १.१०८{९७} ॥ अथासौ पूरणोऽन्यैश्च तीर्थिकैः सार्द्धमागतः । गृहे गत्वा पुरस्तस्य पर्य्यङ्के समुपाश्रयत् ॥ १.१०९{९८} ॥ तथासौ तान् समागत्वा क्रमश आसने स्थितान् । दृष्ट्वा संहर्षितः श्रेष्ठी सहसा पुत्रमब्रवीत् ॥ १.११०{९९} ॥ पुत्र पश्य गृहेऽस्माकं शास्तारः समुपस्थिताः । तत्समुत्थाय नत्वैताञ्छास्तॄन् भोज्यैः प्रवारय ॥ १.१११{१००} ॥ इत्युक्त्वा जनकेनासौ दारको न समुत्थितः । द्रष्टुमपि न चोत्सेहे किं नमेच्च प्रवारयेत् ॥ १.११२{१} ॥ बहुशः प्रेर्य्यमाणोऽपि पित्रा स बन्धुभिः सह । दारकस्तान् समासीनान् द्रष्टुमपि न चैछत ॥ १.११३{२} ॥ किं पुनरुत्थितो नत्वा भोजणैः संप्रवारयेत् । तथा शय्यासनारूढ एवं तस्थौ निरुत्सवः ॥ १.११४{३} ॥ ततस्ते तीर्थिकाः सर्वे दृष्ट्वैवं निरुत्सवम् । नानाविधिप्रयत्नैस्तमुत्थापयितुमारभन् ॥ १.११५{४} ॥ तथापि नैव शय्याया उदतिष्ठत्स दारकः । स्वधर्मदेशकांश्चापि तान् द्रष्टुमपि नैहत ॥ १.११६{५} ॥ एवं चानुत्थितं दृष्ट्वा तं ते सर्वे च तीर्थिकाः । हठाच्चैनं समुत्थाप्य वशीकर्त्तुं पराक्रमन् ॥ १.११७{६} ॥ तथैतांस्तीर्थिकान् सर्वानेव गर्वाभिवादितान् । (र्म् १०) दृष्ट्वाभिसंमुखायातान् भीतोऽरौत्सीत्स दारकः ॥ १.११८{७} ॥ तथा तं रुदितं दृष्ट्वा सर्वे ते लज्जया भिया । प्रतिजग्मुर्विभिन्नास्याः स्वस्वालयानि भेदिताः ॥ १.११९{८} ॥ तथा गृहपतिर्दृष्ट्वा सर्वानेतान् परायितान् । प्रतिभिन्नविषण्नात्मा तस्थौ चिन्ताविमोहितः ॥ १.१२०{९} ॥ अथ श्रीभगवान् बुद्धः सर्वदर्शी विनायकः । पश्यन् सत्वान् समुद्धर्तुं ददर्श तं कुशीदितम् ॥ १.१२१{१०} ॥ दृष्ट्वा तस्य कुशीदस्य कर्मवृत्तिपरंपराम् । तत्कुशीदं समुद्धर्तुमर्यानंदं समब्रवीत् ॥ १.१२२{११} ॥ पश्यानंद गृहस्थस्य श्रावस्तीपुरवासिनः । पुत्रो नंद इति ख्यातः साम्प्रतं संकुशीदिकः ॥ १.१२३{१२} ॥ असौ मे दर्शनादेव नूनं वीर्य्यं समारभन् । सहसोत्थाय स नत्वा धर्मं प्रशृणुयान्मुदा ॥ १.१२४{१३} ॥ ततो मे शासने धर्मं प्रचरेत्स सुधीः सदा । क्रमाद्बोधिचरीं पूर्य्य संबोधिं चापि लप्स्यति ॥ १.१२५{१४} ॥ तस्मात्तस्य गृहे गत्वा तीर्थिकदर्प्पछित्तये । सद्धर्मे संप्रतिष्ठाप्य सर्वान् बोधौ नियोजये ॥ १.१२६{१५} ॥ इत्यादिष्टं मुनीन्द्रेण श्रुत्वानन्दः स हर्षितः । कर्त्तव्यं भगवन्नेवमित्यनुमोदितोऽभवत् ॥ १.१२७{१६} ॥ ततो भगवता तेन सुवर्णाभा मरीचयः । उत्सृष्टास्तैश्च तद्गेहमवभास्य व्यशोधयत् ॥ १.१२८{१७} ॥ यदा तैर्दारकः स्पृष्टो बुद्धमैत्रीमरीचिभिः । तदा प्रह्लादितश्चासावित्येवं समचिन्तयत् ॥ १.१२९{१८} ॥ अहो कस्य प्रभावोऽयं येनैवमवभासितम् । प्रह्लादितश्च मे कायस्तन्न जाने कुतः कथम् ॥ १.१३०{१९} ॥ इति चिन्तां समालम्ब्य कौतुकाक्रान्तमानसः । समन्ततो निरीक्ष्यैवं तस्थौ गेहे सुविस्मितः ॥ १.१३१{२०} ॥ (र्म् ११) तथा तं विस्मितं दृष्ट्वा भगवान् भिक्षुभिः सह । सहसा तद्गृहं गत्वा प्रादुरासीत्प्रभासयन् ॥ १.१३२{२१} ॥ तत्र स दारकोऽपश्यद्भगवन्तं तमास्थितम् । कान्तं दिव्यातिरिक्ताभं समन्तभद्ररूपिणम् ॥ १.१३३{२२} ॥ दृष्ट्वैव सहसोत्थाय नत्वा पादौ प्रमोदितः । स्वयमेवासनं तस्मै प्रज्ञप्यैवमभाषत ॥ १.१३४{२३} ॥ स्वागतं भगवन्नाथ विजयस्व मुनीश्वर । प्रसीदानुग्रहार्थेन निषीदात्र शुभासने ॥ १.१३५{२४} ॥ इति तेनोदिते तत्र भगवान् भिक्षुभिः सह । तत्प्रज्ञप्तासने स्थित्वा धर्मं देष्टुं समारभत् ॥ १.१३६{२५} ॥ तद्दृष्ट्वा दारकस्यैवं धर्मोत्साहं समुत्थितम् । पितरौ ज्ञातिवर्गाश्च सर्वेऽप्यासन् सुविस्मिताः ॥ १.१३७{२६} ॥ तत्रासौ दारको हर्षादुत्फुल्लनयनो मुदा । नत्वा पादौ मुनेश्चाग्रे धर्मं श्रोतुमुपाश्रयत् ॥ १.१३८{२७} ॥ अथासौ भगवांस्तस्य ज्ञात्वाशयविशुद्धताम् । आदिमध्यान्तकल्याणं धर्मं देष्टुं तमब्रवीत् ॥ १.१३९{२७} ॥ शृणु वत्स महाभाग पापपुण्यार्थसाधने । हेतुं वक्ष्ये शुभार्थे ते तदत्र त्वं समाचर ॥ १.१४०{२९} ॥ मानुष्यं दुर्लभं प्राप्य विद्युत्तरंगचंचलम् । पापक्षये मतिः कार्या पुण्यार्थसाधनेषु च ॥ १.१४१{३०} ॥ पापेन दुर्गतिं यायात्पुण्येन सद्गतिं व्रजेत् । पापमित्रानुरागेण मतिः पापे प्रवर्त्तते ॥ १.१४२{३१} ॥ ततः पापरतः कुर्यात्पापानि दारुणान्यपि । ततो दुष्टः सुपापिष्ठः सद्धर्माणि विनिन्दयेत् ॥ १.१४३{३२} ॥ ततो धर्मविरुद्धत्वात्कुशक्तिः कुत्सितो भवेत् । ततः स कुत्सितात्मा हि सर्वसत्वैर्विनिन्द्यते ॥ १.१४४{३३} ॥ परिभूतो विषादेन भवेत्मूढो निरुत्सहः । उत्साहवर्जिते चित्ते आलस्यं समुपाश्रयेत् ॥ १.१४५{३४} ॥ आलस्वी साधयेन्नैव किंचिद्धर्मं गुणानि वा । (र्म् १२) धर्मकर्मविरक्तात्मा निर्गुणी किं करिष्यति । भोग्य एव सदासक्तः पशोरप्यधमो नरः । किं तेन पुरुषेणापि निर्गुणेन सुखाशिना । यस्य पुण्ये गुणे वापि कदापि नोत्सहेन्मनः । पुण्योत्साहविपन्नात्मा दुष्टक्लेशैर्विहन्यते । क्लेशितो मारसंघैश्च वशीकृत्य निवद्ध्यते ॥ १.१४६{३६} ॥ मारस्य वशगः स्त्रीणां दासत्वं समुपाश्रयेत् । स दासनिरतो भुक्त्वा पशुवत्तिष्ठते गृहे ॥ १.१४७{३६} ॥ नैव धर्मं क्वचिच्छ्रोतुं द्रष्टुं वापि न चोत्सहेत् । धर्मं विना व्रजेन्नैव सद्गतिं हि कदा चन ॥ १.१४८{३७} ॥ तस्माद्धर्मे समाचर्तुं पुण्योत्साहं प्रवर्द्धयन् । त्रिमण्डलविशुद्धेन दानं दद्याच्छुभाप्तये ॥ १.१४९{३९} ॥ दानेन सिद्ध्यते धर्मं धर्माच्चित्तं विशुद्ध्यते । शुद्धचित्तश्चरेच्छीले शीलवान् हि भवेत्सुधीः ॥ १.१५०{४०} ॥ सुधीरो भावयेत्क्षांतिं क्षान्तिमान् दुष्टजित्कृती । कुशली प्रारभेद्वीर्य्यं वीर्य्यवान् पुरुषोत्तमः ॥ १.१५१{४१} ॥ महासत्वो लभेद्ध्यानं ध्याता ब्रह्मविहारिकः । संस्मृतः साधयेत्प्रज्ञां प्रज्ञावान् हि गुणालयः ॥ १.१५२{४२} ॥ गुणज्ञः समुपायैश्च सत्वान् धर्मे नियोजयेत् । एतत्पुण्यानुभावेन बोधौ प्रणिधिमाचरेत् ॥ १.१५३{४३} ॥ बोधिप्रणिधिचित्तेन बलानि साधयेद्दश । तद्बलैश्च महाघोरां मारसंघान् पराजयेत् ॥ १.१५४{४४} ॥ जित्वा मारगणान् सर्वान् संबोधिज्ञानमाप्नुयात् । ततः सर्वत्र लोकेषु धर्मचक्रं प्रवर्त्तयेत् ॥ १.१५५{४५} ॥ एवं प्रवर्त्तयन् धर्मं शास्ता लोकाधिपो भवेत् । सर्वलोकहितं कुर्वन्महत्पुण्यैः समृद्धितः ॥ १.१५६{४६} ॥ सदैवं सद्गतौ स्थित्वा संबुद्धपदमाप्नुयात् । एवं मत्वा त्वया वत्स चरितव्यं तथा शुभे ॥ १.१५७{४७} ॥ इत्यादिष्टं जिनेन्द्रेण श्रुत्वा स दारको मुदा । (र्म् १३) कृतांजलिः पुनर्नत्वा भगवन्तमभाषत ॥ १.१५८{४८} ॥ अद्यारभ्य सदा शास्तर्भवतः शरणं व्रजे । तद्यथा भवताज्ञप्तं तथा सत्यं चराम्यहम् ॥ १.१५९{४९} ॥ कृपादृष्टिमुपस्थाप्य समन्वाहर मां सदा । भवानेव हि सर्वज्ञस्त्रैधातुकविनायकः ॥ १.१६०{५०} ॥ यदैवं ते दया नास्ति मय्युद्यमविवर्जिते । क एवं समुपागत्य प्रोद्धरेन्मां कुशीदिकम् ॥ १.१६१{५१} ॥ पवित्रीभूतमात्मानं मन्येऽहं ते प्रसादतः । धन्योऽस्मि तन्महाभद्रो यच्छास्त्रैवं प्रदर्शितः ॥ १.१६२{५२} ॥ इति तेनोदिते भूयः सर्वज्ञः स मुनीश्वरः । सुचंदनमयीं यष्टिं दत्वैनं समभाषत ॥ १.१६३{५३} ॥ वत्सेमां यष्टिमाधाय प्रकोटय समाहितः । ततस्त्वं सर्वदावश्यं लभेः पुण्यमहोत्सवम् ॥ १.१६४{५४} ॥ इति शास्त्रा प्रदत्तां तां नत्वासौ दारकोऽग्रहीत् । यथादिष्टं मुनीन्द्रेण तथा कर्तुमुदाचरत् ॥ १.१६५{५५} ॥ इत्येवं तं समादिश्य स संबुद्धः ससांघिकः । स्वं विहारमुपाश्रित्य धर्मं दिशन् समावसत् ॥ १.१६६{५६} ॥ अथासौ दारको हर्षात्तां यष्टिं स्वयमादधत् । यथादिष्टं मुनीन्द्रेण प्राकोटयत्समाहितः ॥ १.१६७{५७} ॥ तस्यामाकोट्यमानायां पुण्यशब्द उदाचरत् । गृहे रत्ननिधानानि प्रादुरासन् बहूनि च ॥ १.१६८{५७} ॥ तच्छब्दश्रवणं कृत्वा दारकोऽसौ प्रमोदितः । गृहे रत्ननिधानानि दृष्ट्वाश्चर्य्यं समाययौ ॥ १.१६९{५९} ॥ ततश्च विस्मितो हर्षात्पुनरेवं व्यचिन्तयत् । बतेदं सुमहाशौर्य्यं वीर्य्यं प्रारम्भये ततः ॥ १.१७०{६०} ॥ तथा रत्नाकरं गत्वा रत्नानि समुपार्जयन् । ससंघं सुगतं नित्यमुपतिष्ठेय संभजन् ॥ १.१७१{६१} ॥ (र्म् १४) इति ध्यात्वा समुत्साहं संनिबध्य स दारकः । रत्नाकरं समागन्तुं प्रारेभे सह वाणिजैः ॥ १.१७२{६२} ॥ ततोऽसौ दारको वीरस्तस्यां पूर्य्यां समन्ततः । सार्थवाहं स्वमात्मानं कृत्वा घोषमकारयत् ॥ १.१७३{६३} ॥ तथा तद्घोषणां श्रुत्वा ये वीरास्ते वणिग्जनाः । तेन सार्द्धं महोत्साहैर्महाब्धिं गन्तुमैछन् ॥ १.१७४{६४} ॥ ततोऽसौ पुरुषो वीरः सर्वैस्तैश्च वणिग्जनैः । सह रत्नाकरं गत्वा बहुरत्नान्यसाधयत् ॥ १.१७५{६५} ॥ ततः सार्थपतिः सर्वैः सार्थैः सार्द्धं महोदधेः । क्षेमेन सहसोत्तीर्य्य स्वदेशं समुपाययौ ॥ १.१७६{६६} ॥ अथ सार्थपतिस्तत्र यात्रासिद्धिप्रमोदितः । सर्वान् सार्थान् समामंत्र्य दृष्ट्वैवं समभाषत ॥ १.१७७{६७} ॥ भवन्तः श्रूयतां सर्वैर्यत्स्वस्ति प्रागता वयम् । तत्प्रभावं विजानीध्वं जिनेन्द्रस्य प्रसादताः ॥ १.१७८{६८} ॥ तस्मादस्य मुनीन्द्रस्य कृत्वा दर्शनमादरात् । पूजयित्वा प्रणत्वा च पश्चाद्गेहं व्रजेम हि । इति तस्य वचः श्रुत्वा सर्व्वेऽपि ते वणिग्जनाः । दृष्टसत्यानुमोदन्तः तथेति प्रतिमेनिरे । इति संभाषणां कृत्वा सर्व्वसार्थसमन्वितः । ततः सार्थपतिः शीघ्रं विहारं समुपाययौ । तत्र दृष्ट्वा जिनेन्द्रं तं सर्व्वे ते संप्रहर्षिताः । पादौ नत्वा मुनेस्तस्य परिवृत्योपतस्थिरे ॥ १.१७९{६९} ॥ अथासौ भगवान् दृष्ट्वा सर्वान् सार्थगणानपि । धर्मोत्साहप्रावृद्ध्यर्थैः समामंत्र्य समब्रवीत् ॥ १.१८०{७०} ॥ आगताः स्थ समायात मा स्थ श्रान्ताश्च खेदिताः । यात्रासाफल्यसिद्धिश्च कच्चिद्वः कुशलानि च ॥ १.१८१{७१} ॥ एवं पृष्टे जिनेन्द्रेण सर्वे ते संप्रमोदिताः । कृताञ्जलिपुटो नत्वा संबुद्धं प्रोचुरादरात् ॥ १.१८२{७२} ॥ (र्म् १५) भगवन् भवतामेवं कृपादृष्टिप्रसादतः । यात्रासिद्धिः कथं न स्यात्सर्वत्र कुशलं हि नः ॥ १.१८३{७३} ॥ यद्वयं शास्तरायाताः शुभरत्नसमन्विताः । तत्सर्वं त्वत्प्रभावेन सत्यमेतत्प्रमाण्यते ॥ १.१८४{७४} ॥ तद्भवन्तं सुशास्तारं द्रष्टुं सर्वे समागताः । पूजयितुं समिछामस्तत्प्रसीद जगद्गुरो ॥ १.१८५{७५} ॥ इति विज्ञापनां कृत्वा सह सार्थैः स सार्थभृत् । ससंघं पूजयित्वा च रत्नानि समढौकत ॥ १.१८६{७६} ॥ नमस्ते भगवन्नाथ व्रजामः शरणं तव । पाहि नः सर्वदाप्येवं त्वमेव जगदीश्वरः ॥ १.१८७{७७} ॥ एवं स्तुत्वा मुनीन्द्रं तं सर्वे ते संप्रसादिताः । कृताञ्जलिपुटा नत्वा स्वगृहं गन्तुमीहिरे ॥ १.१८८{७८} ॥ ततश्च भगवान् दृष्ट्वा तान् सर्वान् स्वगृहोत्सुकान् । दत्वाशीर्वचनं स्पृष्ट्वा व्रजतेति व्यसर्जयत् ॥ १.१८९{७९} ॥ ततः सर्वेऽपि ते सार्थाः कृत्वा प्रदक्षिणत्रयम् । शास्तारं सुगतं नत्वा स्वं स्वं गेहं समाययुः ॥ १.१९०{८०} ॥ ततो भूयस्तथान्यैश्च प्रार्थ्यमानः स वीर्य्यवान् । षड्ढा रत्नाकरं गत्वा बहुरत्नान्यसाधयत् ॥ १.१९१{८१} ॥ ततश्च गृहपतिः श्रेष्ठी सार्थवाहः सुवीर्य्यवान् । ससङ्घं सुगतं गेहे प्रणीत्वार्चितुमारभत् ॥ १.१९२{[८२]} ॥ ततो भोजनसामग्रीं साधयित्वा निवेशने । ससंघैः बुद्धमामंत्र्य न्यवेशयच्छुभासने ॥ १.१९३{[८३]} ॥ ततः पूजोपहारैश्च पूजयित्वा विधानतः । प्रत्येकं चीवरं दत्वा भोजनैः समतोषयत् ॥ १.१९४{८४!} ॥ ततश्च भोजनान्तेऽसौ सार्थवाहः कृताञ्जलिः । ससंघं सुगतं नत्वा प्रणिधानं तथाकरोत् ॥ १.१९५{८५} ॥ यत्किञ्चित्प्रकृतं दानं संबुद्धशासने मया । एतत्पुण्यफलेन स्यां संबुद्धोऽयं जिनो यथा ॥ १.१९६{८६} ॥ इति तस्य गृहस्थस्य चित्तं संबोधिवांछितम् । ज्ञात्वासौ भगवान् बुद्धः स्मितं कृत्वाभ्यनंदत ॥ १.१९७{८७} ॥ तदा भगवतो वक्त्रान्निश्चेरुः पंचवर्णिकाः । (र्म् १६) रश्मयस्ताः समन्ताच्च त्रैलोक्यं शामभासयन् ॥ १.१९८{८८} ॥ याः काश्चिद्रश्मयो याता अधस्तान्नरकेष्वपि । ताश्च निश्चरितास्तावत्संजीवं कालसूत्रकम् ॥ १.१९९{[८९]} ॥ संघातं रौरवं चापि महारौरवविश्रुतम् । तपनाख्यं तथा चैवं प्रतापनाह्वयं ततः ॥ १.२००{९०} ॥ अवीचिमर्बुदं चैवं निरर्बुदं तथाटटम् । हहवं हुहुवं चैवमुत्पलं पद्मकं ततः ॥ १.२०१{९१} ॥ महापद्माख्यमेतानि षोडश निलयानि हि । तत्रोष्णनरका ये तु तेषु सर्वेषु निःसृताः ॥ १.२०२{९२} ॥ शीतीभूता विनिःपत्य प्रभासयन् समंततः । ये शीतनरकास्तेषु तूष्णीभूताप्यभासयन् ॥ १.२०३{९३} ॥ तेषु ये नारकाः सत्वा नानादुःखाभिवेदिनः । ते ताभी रश्मिभिः स्पृष्टा महत्सौख्यं प्ररेभिरे ॥ १.२०४{९४} ॥ अथ सर्वेऽपि ते सत्वा महत्सौख्यसमन्विताः । विस्मितास्तत्र संमील्य मिथश्चैवं वभाषिरे ॥ १.२०५{९५} ॥ अहो भवन्त आश्चर्य्यं किं चास्माकं भवेत्खलु । यद्वयं सर्वदापीत्थं नानादुःखैः प्रपीडिताः । तन्मुक्ताः सांप्रतं सर्वे वयं सौख्यसमन्विताः ॥ १.२०६{९६} ॥ किं ततो हि वयं मुक्ता अन्यत्र चरिता ननु । इति विस्मितचित्तानां सर्वेषां चित्तबोधने ॥ १.२०७{९७} ॥ भगवान्निर्मितं तेषां पुरस्तात्समदर्शयत् ॥ १.२०८{९८} ॥ तत्र तं निर्मितं दृष्ट्वा सर्वेऽपि तेऽतिविस्मिताः । परस्परं मुखं दृष्ट्वा तथैवं संवभाषिरे ॥ १.२०९{९९} ॥ भो भवन्त इतश्च्युत्वा नान्यत्र गमिता वयम् । किं त्वयं सुगताकार आयातोऽपूर्वदर्शनः ॥ १.२१०{१००} ॥ नूनमस्यानुभावेन वयमित्थं सुखान्विताः ॥ १.२११{१} ॥ इति संभाष्य ते सर्वे तस्मिं सौगतनिर्मिते । चित्तं प्रसाद्य बुद्धाय नम इति प्रणेमिरे ॥ १.२१२{२} ॥ ततस्ते निर्मितं दृष्ट्वा नत्व चित्तप्रसादितः । (र्म् १७) सर्वपापविनिर्मुक्ताः सर्वेऽपि सुगतिं ययुः ॥ १.२१३{३} ॥ याश्च काश्चिद्गता ऊर्द्ध्वं ता महाराजिकान् गताः । त्रयस्त्रिंशांश्च यामांश्च तुषितांश्च गतास्ततः ॥ १.२१४{४} ॥ निर्माणरतिमाभास्य निर्मितवशवर्त्तिकान् । ब्रह्मकायिकलोकांश्च गता ब्रह्मपुरोहितान् ॥ १.२१५{५} ॥ महाब्रह्मालयं चापि परीताभांस्तथा गताः । अप्रमाणाभलोकांश्च तत आभास्वरान् गताः ॥ १.२१६{६} ॥ परीत्तशुभलोकांस्तदाप्रमाणशुभान् गताः । शुभकृत्स्नाननभ्रांश्च पुण्यप्रसवकांस्ततः ॥ १.२१७{७} ॥ बृहत्फलांस्ततश्चैवमवृहानतपान् गताः । ःसुदृशांश्च ततो याता तथा चैवं सुदर्शनान् ॥ १.२१८{८} ॥ अकनिष्ठं तथा गत्वा सर्वानेतान् व्यभासयन् । तेषु ये संस्थिता लोकाः सर्वे ताभिश्च रश्मिभिः ॥ १.२१९{९} ॥ परिस्पृष्टाः सुखप्राप्ता दृष्ट्वा तां चैवमूचिरे । अहो चित्रं शुभा काम्या कस्य पुण्यप्रभा इमाः ॥ १.२२०{१०} ॥ याभिर्वयं परिस्पृष्टा महत्सौख्यं लभामहे । इति विस्मितचित्तानां तेषां चित्तविनोदने ॥ १.२२१{११} ॥ तथा ता रश्मयश्चैनां गाथाभिः समचोदयन् । अनित्यं खलु संसारं दुःखं शून्यं ह्यनात्मकम् ॥ १.२२२{१२} ॥ अतः क्लेशगणांस्त्यक्त्वा भजध्वं सुगतं सदा । निष्क्रामतारभध्वं कं युज्यध्वं बुद्धशासने ॥ १.२२३{१३} ॥ धुनीत मारसैन्यांश्च नडागारमिव द्विपः । (र्म् १८) यो ह्यस्मिं धर्मवैनेयेऽत्यप्रमत्तश्चरेत्सुधीः ॥ १.२२४{१४} ॥ प्रहाय स भवे क्लेशान् दुःखस्यान्तं करिष्यति । इति ता रश्मयः सर्वा अवभास्य समन्ततः ॥ १.२२५{१५} ॥ प्रेरयित्वा शुभे सत्वान् पुनर्मुनेः पुरोगताः । ततो भगवतस्तस्य कृत्वा त्रयप्रदक्षिणाम् ॥ १.२२६{१६} ॥ तथा ता रश्मयः सर्वा उष्णीषेऽन्तर्हितं ययुः । अथानन्दः समुत्थाय कृताञ्जलिपुटो मुदा ॥ १.२२७{१७} ॥ भगवन्तं प्रणम्यैवं पप्रच्छ स्मितकारणम् । भगवंस्तव शुभा रश्मिः स्मितोद्भवा विनिर्गता ॥ १.२२८{१८} ॥ ययावभासिता लोकाः सूर्य्येणोदयता यथा । नाकस्माद्दर्शयन्त्येवं स्मितं बुद्धा जिनाः क्वचित् ॥ १.२२९{१९} ॥ तत्कस्माद्भगवान् स्मितं संदर्शयति सांप्रतम् । यस्यार्थे भवताप्येवं स्मितं संदर्शितं तथा ॥ १.२३०{२०} ॥ तं दृष्ट्वा विस्मिताः सर्वे श्रोतुमिछन्ति सज्जनाः । तदत्र भगवाञ्छास्ता ह्येसां धर्माभिकांक्षिणाम् ॥ १.२३१{२१} ॥ सर्वेषां तत्समादिश्य संदेहं छेत्तुमर्हति । इत्यानंदोदितं श्रुत्वा भगवांश्च तमब्रवीत् ॥ १.२३२{२२} ॥ एवमेतत्तथानंद यथा त्वं भाषसे किल । नाकारणे जिनं सर्वं स्मितं संदर्शितं क्वचित् ॥ १.२३३{२३} ॥ तदर्थं शृणु वक्ष्येऽहं यदर्थं संस्मितं मम । पश्यानन्द गृहस्थोऽयं दारको यः कुशीदितः ॥ १.२३४{२४} ॥ मम संदर्शनादेवं विर्य्योत्साहं समाप्नुवन् । इत्थं रत्नानि संसाध्य बुद्धिमांश्च समृद्धितः ॥ १.२३५{२५} ॥ एवं श्राद्धः प्रसन्नात्मा शासने मेऽनुमोदितः । सत्कृत्य शरणं कृत्वा भजति मां ससांघिकम् ॥ १.२३६{२६} ॥ यदयं सार्थभृन्नन्दो मम धर्माभिसंरतः । (र्म् १९) अस्य पुण्यविपाकेन बोधिचित्तं समाप्नुयात् ॥ १.२३७{२७} ॥ ततः चिक्षाः समासाद्य पूर्य्य पारमिता दश । क्रमान्मारगणाञ्जित्वा संबोधिं समवाप्नुयात् ॥ १.२३८{२८} ॥ ततोऽर्हन्नभिवन्द्योऽतिबलवीर्य्यपराक्रमः । इति नाम्ना प्रसिद्धोऽयं संबुद्धः सुगतो जिनः ॥ १.२३९{२९} ॥ सर्वधर्माधिपः शास्ता सर्वविद्यागुणाकरः । सर्वज्ञस्त्रिजगद्भर्त्ता तथागतो भविष्यति ॥ १.२४०{३०} ॥ तस्मादेवं सदानंद कर्त्तव्यं बुद्धदर्शनम् । बुद्धदर्शनपुण्येन धर्मोत्साहं समापुण्यात् ॥ १.२४१{३१} ॥ ततो वीर्य्यसमारूढः सद्धर्मं साधयेन्मुदा । ततो धर्मबलैर्माराञ्जित्वा संबोधिमाप्नुयात् ॥ १.२४२{३२} ॥ इत्यादिष्टं मुनीन्द्रेण श्रुत्वानंदः ससांघिकः । अनुमोद्य गुरुं नत्वा तथेति प्राभ्यनंदत ॥ १.२४३{३३} ॥ एवं मे गुरुणादिष्टं धर्मोत्साहप्रवृद्धये । तथा तव मया ख्यातं सत्यमेतत्प्रधार्य्यताम् ॥ १.२४४{३४} ॥ एवं राजंस्त्वयाप्येवं कृत्वानुमोदनां तथा । धर्मप्रोत्साहनां कृत्वा कर्त्तव्यं बुद्धदर्शनम् ॥ १.२४५{३५} ॥ सद्धर्मचरणोत्साहे चारणीयाः प्रजाः सदा । इत्येतद्गुरुणादिष्टं श्रुत्वाशोकः स भूमिपः ॥ १.२४६{३६} ॥ सत्यमेवं प्रतिश्रुत्य प्राभ्यनन्दत्सपार्षदः ॥ १.२४७{३७!} ॥ तत्कौशीद्यावदानं मुनिवरकथितं श्रद्धया यः शृणोति । श्रुत्वा यः श्रावयेद्यः प्रतिदिनमनिशं बुद्धसेवानुरक्तः । हित्वा क्लेशान् प्रदुष्टान् सकलकलिवलान्मारपक्षांश्च जित्वा । पारं गत्वा गुणाब्धेर्व्रजति स सुभगं श्रीघनस्य चरित्रम् । ++ इति रत्नमालायां कौशीद्यवीर्य्योत्साहनावदानं ++ (र्म् २०) इइ स्नातावदान अथाशोको नृपेन्द्रोऽसौ सद्धर्मचरणोत्सवः । उपगुप्तं गुरुं नत्वा कृताञ्जलिपुटोऽवदत् ॥ २.१{१} ॥ भदन्त श्रोतुमिछामि पुनरन्यत्सुभाषितम् । यथा ते गुरुणा ख्यातं तथा मे ख्यातुमर्हसि ॥ २.२{२} ॥ इति तेन नृपेशेन प्रार्थ्यमानो जिनांशजः । उपगुप्तः समामंत्र्य तं क्षितीशं समब्रवीत् ॥ २.३{३} ॥ साधु सुष्ठु महारज शृणु धर्मं समाहितः । यथा मे गुरुणादिष्टं तथात्र ते प्रचक्ष्यते ॥ २.४{५!} ॥ पुरैकसमये योऽभूच्छाक्यसिंहो दयाकरः । धर्मराजो जगच्छास्ता सर्वज्ञः सुगतो जिनः ॥ २.५{६} ॥ सर्वविद्याकलाविज्ञः षडभिज्ञो मुनीश्वरः । समन्तभद्रकृन्नाथो विनायकस्तथागतः ॥ २.६{७} ॥ स श्रावस्त्यां महोद्याने जेतारामे मनोहरे । अनाथपिण्डदस्यैव विहारे मणिमण्डिते ॥ २.७{८} ॥ श्रावकैर्भिक्षुभिः सार्द्धं बोधिसत्वैरुपासकैः । देवासुरमहाराजैर्मनुजेन्द्रं सपार्षदैः ॥ २.८{९} ॥ सर्वलोकाधिपैश्चापि त्रैधातुकनिवासितैः । चतुर्वर्णैश्च पौरैश्च तथान्यैश्च शुभार्थिभिः ॥ २.९{१०} ॥ सत्कृतो मानितश्चाभिवन्दितः संस्तुतोऽर्चितः । गुरुकृतः पुरस्कृत्य परिवृतोऽवलोकितः ॥ २.१०{११} ॥ आदिमध्यान्तकल्याणं धर्मं लोके प्रकाशयन् । सर्वसत्वहितार्थेन विजहार समाहितः ॥ २.११{१२} ॥ तस्मिंश्च समये तत्र श्रावस्त्यां ये वणिग्जनाः । ते पंचशतमात्राणि रत्नाकरं समागताः ॥ २.१२{१३} ॥ ततः प्रत्यागताः सर्वे कान्तारं समुपाविशन् । तत्र ते भ्रमिता मार्गात्परिभ्रष्टा विचेरिरे ॥ २.१३{१४} ॥ विमार्गेण चरन्तस्ते वालुकास्थलमुपाविशन् । तत्र प्रप्ताश्च ते सर्वे मध्याह्ने द्योतितातपे ॥ २.१४{१५} ॥ भानोस्तीक्ष्णकरैस्तप्ता घर्मतापाभिखेदिताः । (र्म् २१) क्षीणपथ्यादनाश्चापि क्षुत्तृष्णा परिपीडिताः ॥ २.१५{१६} ॥ तीव्रदुःखाभिसंतप्ताः पर्यावर्त्तन्त तत्र च । स्थलप्राप्ता यथा मीना मृत्युभयविकंपिताः ॥ २.१६{१७} ॥ तदा सर्वेऽपि ते सार्थाः श्रद्धया शरणं गताः । स्वस्वकुलेशस्वस्वेष्टदेवताः संययाचिरे ॥ २.१७{१८} ॥ केचित्स्वयंभुवं स्मृत्वा केचिन्नारायणं तथा । केचिच्छिवं महारौद्रं केचित्सूर्य्यग्रहाधिपम् ॥ २.१८{१९} ॥ केचिच्चंद्रं च तारेशं केचिदिंद्रं सुराधिपम् । केचिदग्निं यमं चैव नैऋत्यं च तथापरे ॥ २.१९{२०} ॥ वारुणं च तथा वायुकुवेरं च महेश्वरैः । भैरवं मातृकाश्चैवं केचित्स्कन्धं विनायकम् ॥ २.२०{२१} ॥ महाकालं तथा चैवं केचिदृषीन् यतीश्वरान् । केचिद्दैत्याधिपान् वीरान् केचिन्नागाधिपांस्तथा ॥ २.२१{२२} ॥ केचिच्चातुर्महाराजान् केचिद्यक्षाधिपान् तथा । एवमन्यांस्त्रिधातुस्थांस्सर्वान् स्मृत्वा ययाचिरे ॥ २.२२{२३} ॥ तैरेवं याच्यमानानां देवतानं न कश्चन । एकोऽप्यासीत्तदा त्राता वाणिजां दुःखभागिनाम् ॥ २.२३{२४} ॥ ततस्ते वणिजः सर्वे मृत्युभयविकंपिताः । निराशया विषीदन्तस्तस्थुर्निश्चेष्टमानसाः ॥ २.२४{२५} ॥ तत्र यः सुगतोपासी दृष्टसत्यः स धीरवान् । तान् सार्थान् विपन्नाशां दृष्ट्वामंत्र्यैवमब्रवीत् ॥ २.२५{२६} ॥ भवन्तो मा विषीदध्वं किं विषादेन सेत्स्यते । तस्मात्त्यक्त्वा विषादत्वं धीर्य्यमालम्ब्य तिष्ठत ॥ २.२६{२७} ॥ धैर्य्येण तारयेद्दुःखं महाकृच्छ्रं विपत्स्वपि । तस्माद्धैर्य्यं समाधाय स्मरध्वं च जिनं द्रुतम् ॥ २.२७{२८} ॥ जिन एव जगन्नाथस्त्राता सर्वानुकंपकः । तदस्मद्वचनं श्रुत्वा संबुद्धं स्मरतादरात् ॥ २.२८{२९} ॥ (र्म् २२) तत्राप्येवं भयेऽस्माकं त्राता कोऽन्यो भविष्यति । बुद्ध एव जगद्बंधुस्तद्व्रजध्वं जिनं द्रुतम् ॥ २.२९{३०} ॥ सर्वथा नो जिनेन्द्रोऽसौ सर्वसत्वानुकनिपकः । डृष्ट्वास्मान् करुणादृष्ट्या संरक्षेत्सहसा खलु ॥ २.३०{३१} ॥ इति तेनोदितं श्रुत्व सर्वे ते वणिजस्तथा । संबुद्धं शरणं कृत्वा स्मृत्वाभयं ययाचिरे ॥ २.३१{३२} ॥ नमस्ते भगवन्नाथ सर्वज्ञोऽसि जगत्प्रभुः । भवतैव जगत्सर्वं पालितं पुत्रवत्सदा ॥ २.३२{३३} ॥ अद्याग्रेण वयं सर्वे यावज्जीवं सदापि हि । भवतां शरणं यामस्तद्रक्षास्माञ्जगद्गुरो ॥ २.३३{३४} ॥ भवानेव जगद्धर्मं संसारे पालितं सदा । भगवन् सर्वविन्नाथ त्रातुमर्हसि सर्वथा ॥ २.३४{३५} ॥ पंचशतसर्वाणि वाणिजाश्च समागताः । विमार्गेण चरन्तस्ते मध्याह्ने द्योतितातपे ॥ २.३५{३६} ॥ तत्र प्राप्ताश्च ते सर्वे वालुकास्थले संस्थिताः । भानो तीक्ष्णकरे तप्ता क्षुत्तृषार्त्ता परिपीडिताः ॥ २.३६{३७} ॥ तीव्रातिवेदनाक्रान्ता मृत्युभयं समागताः । नमो बुद्धाय धर्माय संघायेति नमो नमः ॥ २.३७{३८} ॥ दृष्ट्वास्मान् करुणा सर्वान् पंचशतानि वाणिजान् । भवानेव जगत्स्वामिं तथा बुद्धानुभावताम् ॥ २.३८{३९} ॥ तदा स भगवान् तेभ्य माहेन्द्रवृष्टिमाचरन् । शीतला वायवो याति तेन शीतत्वमागताः ॥ २.३९{४०} ॥ तद्दृष्ट्वा सार्थपतिना सर्वान् सार्थान् समब्रवीत् । भवन्तः श्रूयतां सर्वे यन्मया प्रोच्यते हितम् ॥ २.४०{४१} ॥ तद्भवद्भिः समाधृत्वा कर्त्तव्यं कृतवेदिभिः । यद्वयं मृत्युसंप्राप्ता परलोकादिवागताः ॥ २.४१{४२} ॥ तद्ज्ञेयं जिनेन्द्रस्य कृपादृष्टिप्रसादतः । तस्मात्सर्वे वयं तस्य बुद्धस्य शरणं गताः ॥ २.४२{४३} ॥ सद्धर्म्मं समुपाश्रित्य चरेमहि सदापि हि । अनित्यं खलु संसारमनित्यं जीवितं सुखम् ॥ २.४३{४४} ॥ क्षणध्वंसि शरीरं च भवे नित्यं न किं चन । धर्म एव महासारं येनैवं रक्ष्यते जगत् ॥ २.४४{४५} ॥ तस्माद्धर्मं समाधर्तुं गन्तव्यं शरणं मुनेः । इति तेनोदितं श्रुत्वा सर्वे ते वणिजो मुदा ॥ २.४५{४६} ॥ तथेत्यभ्यनुमोदन्तस्ततो गंतुमुपाक्रमत् । अथ सार्थपतिश्चैवं कृत्वा तं सह संमतम् ॥ २.४६{४७} ॥ (र्म् २३) विहारे सुगतं द्रष्टुं धर्मं चाप्तुमगान्मुदा । तत्रोपेत्य प्रविष्टोऽसौ सर्वसार्थगणान्वितः ॥ २.४७{४८} ॥ दृष्ट्वा तं सुगतं नत्वा विषसाद पुरो मुनेः । अथासौ भगवांस्तेषां दृष्ट्वाशयविशुद्धताम् । आर्य्यसत्यार्य्यमार्गाङ्गं दिदेश धर्ममुत्तमम् ॥ २.४८{४९} ॥ तदा सर्वेऽपि ते सत्वाः श्रुत्वा तं धर्ममादरात् । सत्कायदृष्टिनिर्मुक्ता बोधिचित्तं प्रलेभिरे ॥ २.४९{५०} ॥ तत्र केचिन्महाश्राद्धा धर्मानुसारिणोऽभवन् । श्रोतापन्नास्तथा केचित्सकृदागामिनो परे ॥ २.५०{५१} ॥ तथानागामिनः केचित्केचिद्भवपराङ्मुखाः । संसारक्लेशसंघांश्च हित्वा सुविमलाशयाः ॥ २.५१{५२} ॥ साक्षात्सद्धर्म्ममासाद्य बभूवुर्धर्मचारिणः । केचिच्छ्रावकबोधौ च प्रत्येकायां तथापरे ॥ २.५२{५३} ॥ केचिदनुत्तरायां च संबोधौ प्रणिधिं दधुः । एवं ताः पर्षदः सर्वाः संबुद्धशरणे स्थिताः ॥ २.५३{५४} ॥ सद्धर्म्माचरणे रक्ताः संघभक्ता बभूविरे । अथ ते भिक्षवो दृष्ट्वा तान् सर्वान् बोधिचारिणः ॥ २.५४{५५} ॥ संबुद्धं प्रयता नत्वा पप्रछुर्विस्मयान्विताः । आश्चर्य्यं भगवन् यावद्यदिमे वणिजस्तथा ॥ २.५५{५६} ॥ कांतारपतिताः सर्वे भवता परिपालिताः । भवच्चिन्तितमात्रेऽपि माहेन्द्रवृष्टिमाचरन् ॥ २.५६{५७} ॥ शीतला वायवो वातास्तत्कथं वक्तुमर्हसि । इति तैर्भिक्षुभिः पृष्टो भगवांस्तानभाषत ॥ २.५७{५८} ॥ शृणुध्वं भिक्षवः कर्म्म यन्मया कृत कृतं कथ्यते । यन्मया प्रकृतं कर्म कोऽन्यो भुंज्याद्धि तत्फलम् ॥ २.५८{५९} ॥ येन यत्प्रकृतं कर्म स एवाद्याद्धि तत्फलम् । अभुक्तं क्षीयते कर्म नैव क्वापि कथं चन ॥ २.५९{६०} ॥ (र्म् २४) अग्निभिर्दह्यते नैव वायुभिर्नापि शुष्यते । उदकैः क्लिद्यते नापि भूमिषु ॥ २.६०{६१} ॥ अपि तु पच्यते स्कन्धषड्धात्वायतनेषु हि । अन्यथा चापि कर्माणि न ददन्ति फलानि च ॥ २.६१{६२} ॥ यथैव यत्कृतं कर्म तथैव तत्फलं मतम् । शुभकर्म शुभं दद्यात्पापकर्माशुभं खलु ॥ २.६२{६३} ॥ मिश्रितमुभयं दद्यादिति मत्वा शुभे चरेत् । न प्रणश्यंति कर्माणि कल्पकोटिशतैरपि ॥ २.६३{६४} ॥ सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम् । यन्मया प्रकृतं पूर्वं तत्फलं प्राप्यतेऽधुना ॥ २.६४{६५} ॥ कथ्यते तत्पुरावृत्तं साधु शृणुत सादरम् । पुरैकसमये बुद्धश्चंदनो नाम धर्मराट् ॥ २.६५{६६} ॥ सर्वज्ञोऽर्हञ्जगन्नाथः शास्ता लोकाधिपेश्वरः । विद्याचरणसंपन्नः सुगतो लोकविज्जिनः ॥ २.६६{६७} ॥ तथागतो महाभिज्ञः संबुद्धोऽभूद्विनायकः । तदैकसमये तत्र चंदनः स मुनीश्वरः ॥ २.६७{३८!} ॥ भिक्षुभिः सह सद्धर्म्मं प्रकाशयन् समंततः । हिताय सर्वसत्वानां जानपदेषु संचरन् ॥ २.६८{६९} ॥ अन्यतमां पुरीं रम्यां राजधानीमुपाश्रयत् । तत्र सत्वहितार्थेन बोधिचर्यां प्रकाशयन् ॥ २.६९{७०} ॥ श्रावकैर्भिक्षुभिः सार्द्धं विजहार जिनाश्रमे । अथ तदाधिपो राजा श्रुत्वा तं बुद्धमागतम् ॥ २.७०{७१} ॥ स मंत्रिजनपौरैश्च सह प्रत्युद्ययौ मुदा । तत्रासौ सहसोपेत्य दृष्ट्वा तं सुगतं मुनिम् ॥ २.७१{७२} ॥ कृतांजलिपुटो नत्वा तस्थावेकांतिके मुदा । अथासौ भगवान् दृष्ट्वा तं नृपं समुपस्थितम् ॥ २.७२{७३} ॥ आदिमध्यान्तकल्याणं दिदेश धर्ममुत्तमम् । शृणु राजन् भवे सारं धर्मं नित्यमतंद्रितम् ॥ २.७३{७४} ॥ धर्मेण जायते लोको धर्मेण स्वर्गमारुहेत् । तस्माद्धर्मं पुरस्कृत्य संपालयन् प्रजा सदा ॥ २.७४{७५} ॥ प्रजारक्षाव्रतं धर्मं मूलं राज्ञां विदुर्बुधाः । प्रजारक्षाव्रतं त्यक्त्वा किमन्यैर्बहुभिर्व्रतैः ॥ २.७५{७६} ॥ (र्म् २५) तेन राजन् त्वया धर्मे पालनीयाः प्रजाः शुभे । तद्दशाकुशलेभ्यश्च विनिवार्य त्वया सदा ॥ २.७६{७७} ॥ योजनीयाः प्रजा धर्मे तत्पुण्यैस्त्वं प्रमोक्ष्यसे । आदौ दाने प्रजान् योज्याः संबोधिपदकारणे ॥ २.७७{७८} ॥ तत्पुण्यैः प्रचरिष्यन्ति प्रजाः संवर्द्धिताः शुभे । शुभकर्मरते लोके तत्पुण्यैः वर्द्ध्यते नृपः ॥ २.७८{७९} ॥ तस्माद्दानं स्वयं दत्वा प्रजा शीले नियोजय । शीलेन शुद्ध्यते कायः शुद्धकायो भवेत्सुधीः ॥ २.७९{८०} ॥ सुबुद्धिः क्षमया सर्वाच्छत्रूं जित्वा विराजते । ततो वीर्य्यबलैः सर्वान् सत्वान् सौख्ये नियोजयेत् ॥ २.८०{८१} ॥ ततः क्लेशान् विनिर्जित्य ध्यात्वा बोधिं प्रसाधयेत् । बोधिप्रणिधिचित्तेन कृती प्रज्ञां प्रसाधयेत् ॥ २.८१{८२} ॥ ततः प्राज्ञ उपायैश्च जगद्बोधौ नियोजयेत् । ततो मारान् विनिर्जित्य संबोधिज्ञानमाप्नुयात् ॥ २.८२{८३} ॥ तत्र प्राप्य रसाभिज्ञा दशभूमीश्वरो भवेत् । ततः कृत्वा वशे सर्वांस्त्रैधातुकनिवाशिनः ॥ २.८३{८४} ॥ संस्थाप्य सौगते धर्मे स्वयं निर्वृतिमाचरेत् ॥ २.८४{८५} ॥ एवं ज्ञात्वा महाराज निर्वाणगतिसाधनम् । यदि ते निर्वृतौ वांछा तदैतासु समाचर ॥ २.८५{८६} ॥ ततस्ते मंगलं नित्यं संवृत्तिसुखमाप्नुयाः । क्रमात्पारमिताः पूर्य्य निर्वृतिं समवाप्नुयाः ॥ २.८६{८७} ॥ निर्वाणं परमं ज्ञानं निर्वाणं परमं सुखम् । निर्वाणं परमं पुण्यं निर्वाणं परमां गतिम् ॥ २.८७{८८} ॥ एवं हि सुकृतं सर्वं ज्ञात्वा निर्वाणकारणम् । तथा धर्मे स्वयं स्थित्वा प्रेरणीयाः प्रजा अपि ॥ २.८८{८९} ॥ एवं स चंदनो बुद्धो बोधयित्वा च तं नृपम् । बोधिमार्गे प्रतिस्थाप्य विरराम क्षणं ततः ॥ २.८९{९०} ॥ अथ स नृपती राजा श्रुत्वा तद्धर्ममादरात् । प्रमोदितः समुत्थाय उत्तरासंगमुद्वहन् ॥ २.९०{९१} ॥ जानुभ्यां भुवि संस्थित्वा कृतांजलिपुटो नतः । (र्म् २६) सुप्रसन्नमुखः पादौ नत्वा तं प्रार्थयन्मुनिम् ॥ २.९१{९२} ॥ नमस्ते भगवन्नाथ भवतां शरणं व्रजे । सद्धर्ममादिशन्नत्र विजयस्व गणैः सह ॥ २.९२{९३} ॥ इति तेन नृपेन्द्रेण प्रार्थिते स मुनीश्वरः । तथेति प्रतिसंश्रुत्य त्रैमास्यमध्यवासयत् ॥ २.९३{९४} ॥ ततः सान्तःपुरा राजा तं मुनीन्द्रं ससांघिकम् । सदा सत्कारपूजाङ्गैर्भोज्यैः प्रारागयन्मुदा ॥ २.९४{९५} ॥ तस्मिंश्च समये तत्र लोकानाचरकोपिताः । वर्षाधिदेवता मेघावृष्टिं न मुमुचुर्भुवि ॥ २.९५{९६} ॥ ततस्तस्यामनावृष्ट्यां तडागादि जलाश्रयाः । दिने दिने प्रहीनांभः पंकशेषविशोषिताः ॥ २.९६{९७} ॥ निःपुष्पा निष्फला वृक्षाः शाखापत्त्रविशीर्ण्णिताः ॥ २.९७{९७!} ॥ स्थाणुकल्पा निराभोग्याः पक्षिसंपातवर्जिताः । महीशस्यविपन्नाश्च बीजांकुलविशोषिताः ॥ २.९८{९८} ॥ निस्तृणा प्रखलीभूता मरुकल्पाभवत्तदा । अन्नपानवियोगेन मृता अनेकजन्तवः ॥ २.९९{९९} ॥ क्षुत्पिपासहताः केचिन्न्यषीदन्त मृता इव । केचिद्गेहे विषण्णास्या मृत्युशंकाविषादिताः ॥ २.१००{१००} ॥ परस्परं मुखं दृष्ट्वा निःश्वसन्तो निषेदिरे । केचिन्मेघं च खे दृष्ट्वा प्रायाचन्त दिवानिशम् ॥ २.१०१{१} ॥ हा हतास्म इति प्रोक्त्वा केचित्तस्थुर्निराशिताः । एवं नानाप्रकारेण विलपन्तो विखेदिताः ॥ २.१०२{२} ॥ सर्वेऽपि पौरिकास्तत्र चिखेदुर्मृत्युशंकिताः । तद्दृष्ट्वा नृपतिश्चापि मृत्युत्रस्तानुकंपितः ॥ २.१०३{३} ॥ मंत्रिणः सचिवान् सर्वान् समामंत्र्याब्रवीदिति । हा कष्टं कथमत्रैवं दुर्भिक्षं वर्त्ततेऽधुना । किं करोमि न मन्येऽहं वदध्वं तत्प्रतिक्रियाम् ॥ २.१०४{४} ॥ येन तदा महापापदुर्भिक्षं शाम्यते द्रुतम् । तदुपायं प्रकुर्याम तत्कुरुध्वं यथाविधिम् ॥ २.१०५{५} ॥ (र्म् २७) इति श्रुत्वा नृपाज्ञां ते समंत्रिजनपौरिकाः । देवता विधिनाराध्य तच्छान्तिं संययाचिरे ॥ २.१०६{६} ॥ भो देवताः प्रसीदध्वं नमो वः प्रणता वयम् । अपराधं यदस्मासु क्षन्तव्यं सर्वथापि तत् ॥ २.१०७{७} ॥ इमं दुर्भिक्षनिर्वृष्टिं प्राप्तं शमयत द्रुतम् । सुवृष्टिं कारयित्वात्र सुभिक्षं कुरुत ध्रुवम् ॥ २.१०८{८} ॥ एवं केचिद्विधातारं केचिद्विष्णुं जनार्दनम् । केचिच्छिवं महेशानमिंद्रं केचित्सुराधिपम् ॥ २.१०९{९} ॥ केचिद्ग्रहाधिपं केचिल्लोकपालान्महर्द्धिकान् । केचिच्च मातृकादेवीं स्कंदविघ्नेशभैरवान् ॥ २.११०{१०} ॥ महाकालगणांश्चापि केचिन्नागाञ्जलाधिपान् । केचिन्मेघान् समालोक्य नत्वा वृष्टिं ययाचिरे ॥ २.१११{११} ॥ एवं सर्वेऽपि लोकाश्च स्वस्वेष्टकुलदेवताः । विधिनाराध्य संप्रार्थ्य सुवृष्टिं प्रययाचिरे ॥ २.११२{१२} ॥ एवं तैः प्रार्थ्यमानास्ताः सर्वाश्च देवता अपि । तत्र वृष्टिं समुत्स्रष्टुं नैव शेकुर्विघातिताः ॥ २.११३{१३} ॥ ततः सर्वे च ते लोका दृष्ट्वा तद्वृष्टिघातिताम् । हाहाकारविरावन्तो विचिखेदुर्निराशिताः ॥ २.११४{१४} ॥ अथ राजा स तान् दृष्ट्वा दुर्भिक्षाक्षोभिताशायान् । तथा च ग्रहामालोक्य विसण्णास्यो व्यचिन्तयत् ॥ २.११५{१५} ॥ अहो कष्टं महोत्पातं मम राज्ये भविष्यति । कथमत्र प्रतीकारं तत्प्रशान्त्यै करिष्यते ॥ २.११६{१६} ॥ किं मया नृपभूतेन यशोधर्मविघातिना । न शक्यंते प्रजा येन रक्षितुमीतिपीडिते । धिग्मां नृपाधमीभूतं किं पापं प्रकृतं मया । येन यस्य प्रजा एव क्षुत्पिपासहता मृताः । किमेव मम राज्ये न भोग्यैश्चापि धनैरपि । किं तेन जीवितेनापि यशोधर्मविनाशिना ॥ २.११७{१८} ॥ येन राज्ञा न रक्ष्यन्ते प्रजाः स्वविषयाश्रिताः । स किं राजा बलिष्ठोऽपि कृतान्त इव मन्यते ॥ २.११८{१९} ॥ (र्म् २८) यश्च राजा स्वभोग्यार्थं केवलं दण्डमाहरन् । न विपत्सु प्रजाः पाति स किं राजापि चौरवत् ॥ २.११९{२०} ॥ येषामेव हितार्थाय यश्च राजाभिषिच्यते । स तेषां न हितं कुर्य्यात्स किं राजा कृतार्थहा ॥ २.१२०{२१} ॥ धिक्प्रवादहतः सोऽत्र यशोधर्मसुखार्थहा । स्वयं नष्टः परान् हत्वा नरकेषु व्रजेद्ध्रुवम् ॥ २.१२१{२१!} ॥ किं चाहमपि मानुष्यः समान इंद्रियैरपि । यतो मे क्रियते सर्वैः सेवो नित्यं समाहितैः ॥ २.१२२{२२} ॥ यदि न क्रियते रक्षा मयाप्येषां विपत्स्वपि । कथमेतदृशैर्मुक्तः कदा यास्यामि सद्गतिम् ॥ २.१२३{२३} ॥ सर्वदैतदृणैर्बद्धः सर्वथा प्रतिबंधितः । कर्मभिः प्रेर्य्यमाणोऽहं यास्यामि नरकान् ध्रुवम् ॥ २.१२४{२४} ॥ तदाहं किं करिष्यामि यमदूतैरधिष्ठिते । दृष्ट्वा तां भीषणां क्रूरान् पतिष्यामि विमोहितः ॥ २.१२५{२५} ॥ तदा तत्र न विद्येत कश्चित्त्राता दयान्वितः । धर्म एव तदा रक्षेत्तद्धर्मं साधयेच्छुभम् ॥ २.१२६{२६} ॥ धर्माश्च बहुधा प्रोक्तास्तेषां प्राहुर्मुनीश्वराः । आदिमध्यान्तकल्याणं सौगतं धर्ममुत्तमम् ॥ २.१२७{२७} ॥ येनैव शुभतां कृत्वा सर्वत्र भुवनेष्वपि । सर्वसत्वाश्च पाल्यन्ते सर्वदेह परत्र च ॥ २.१२८{२८} ॥ तथात्रापि शुभं कर्तुं संबुद्धं शरणं व्रजन् । सद्धर्मं समवाप्तुं च सेवितव्यं ससांघिके ॥ २.१२९{२९} ॥ तेनात्र सहसा कृत्वा पुष्करणीमनोरमाम् । संबुद्धसुगतं तत्र स्नापयित्वा ससांघिकम् ॥ २.१३०{३०} ॥ महत्सत्कारपूजाभिर्भोजनैश्च प्रतोषयन् । ततस्तं सुगतं नत्वा तद्दुर्भिक्षं प्रशांतये ॥ २.१३१{३१} ॥ सुवृष्टिचारणे लोके प्रार्थयिष्यामि सादरम् । तदा स भगवानत्र सुवृष्टिं चारयेद्ध्रुवम् ॥ २.१३२{३२} ॥ सर्वत्र शुभतां कृत्वा सुभिक्षं कारयेत्सदा । ततोऽत्र सर्वदाप्येवं दुर्भिक्षं न कदा चन ॥ २.१३३{३३} ॥ सुभिक्षं सर्वतो भद्रं भवेन्नूनं समंततः । (र्म् २९) इति ध्यात्वा विनिश्चित्य मनसा स नराधिपः ॥ २.१३४{३४} ॥ सहसा सचिवान् सर्वान् समामंत्र्याब्रवीत्तथा । शृणुध्वं मंत्रिणो यन्मे मनसा संविचिंतितम् ॥ २.१३५{३५} ॥ तदनुमोद्य युष्माभिः प्रकर्त्तव्यं समाहितैः । यदद्य जायतेऽवृष्टिं दुर्भिक्षं चोपवर्त्तते ॥ २.१३६{३६} ॥ तदस्मत्पापतो नूनं तत्पापपरिहाणये । संबुद्धशरणं कृत्वा सद्धर्मसमवाप्तये ॥ २.१३७{३७} ॥ ससंघं सेवितुं नित्यमिछे तदनुमोद्यताम् । स एव भगवान्नाथः कृत्वात्र शुभतां सदा ॥ २.१३८{३८} ॥ सुवृष्टिं चारयित्वा च सुभिक्षं कारयेद्ध्रुवम् । ततोऽस्माकं तदाप्यत्र मंगलं स्यात्समंततः ॥ २.१३९{३९} ॥ सदा सद्धर्ममाधाय सौख्यं भुक्त्वा भजेमहि । धर्मेण शुभता नित्यं धर्मेण जीयते विपत् ॥ २.१४०{४०} ॥ धर्मेण पाल्यते सर्वं धर्मेण सद्गतिं व्रजेत् । धर्मं तु सौगतं भद्रं सर्वे प्राहुर्मुनीश्वराः ॥ २.१४१{४१} ॥ सद्धर्मं समवाप्तुं तं संबुद्धं भजतादरात् । बुद्ध एव जगद्बंधुः सर्वसत्वहितंकरः ॥ २.१४२{४२} ॥ बुद्ध एव जगन्मित्रं सर्वसत्वसुखप्रदः । बुद्ध एव जगत्त्राता सर्वसत्वानुकंपकः ॥ २.१४३{४३} ॥ बुद्ध एव जगद्भर्ता धर्मार्थसुखसंप्रदः । बुद्ध एव जगच्छास्ता सर्वसत्त्वानुबोधकः । बुद्ध एव जगन्नाथो बोधिसंभारपूरकः । बुद्ध एव जगत्स्वामी संबोधिमार्गदेशकः । बुद्ध एव महावीरः सर्वमारप्रभंजकः ॥ २.१४४{४४} ॥ बुद्ध एव महासत्वः षडभिज्ञो जगत्प्रभुः । बुद्ध एव त्रिलोकेषु धर्मरूजा मुनीश्वरः । येनैव त्रिजगल्लोकं पालितं पुत्रवत्सदा ॥ २.१४५{४७!} ॥ स एव भगवान् बुद्धः सेवनीयः शुभार्थिभिः । येनैवं त्रिषु लोकेषु सर्वलोकाधिपेश्वरः ॥ २.१४६{४८} ॥ राजते जयते तेन सिद्धोऽयं धर्म्मराज्जिनः । यथा च त्रिषु लोकेषु बोधिचर्याः प्रकाशयन् । (र्म् ३०) करोति भद्रतां नित्यं तथात्रापि करिष्यति ॥ २.१४७{१९} ॥ संस्थापयति सद्धर्मे यथा त्रैधातुवासिनः । सत्वान् प्रबोधयन्नस्मान्निवेशयेत्तथा खलु ॥ २.१४८{२०} ॥ ततः सर्वे वयं धृत्वा सद्धर्मं शुभदं शिवम् । यशोपुण्यसुखं भुक्त्वा यास्यामोऽन्ते सुखावतीम् ॥ २.१४९{२१} ॥ इति मत्वा तथास्माभिश्चन्दनोऽयं जिनेश्वरः । महत्सत्कारपूजाभिः सेवितव्यो मुदा सदा ॥ २.१५०{२२} ॥ इति संभाष्य तैः सर्वैस्तथेत्यभ्यनुमोदितैः । मंत्रिभिः सह राजा स प्रययौ तज्जिनाश्रमम् ॥ २.१५१{२३} ॥ तत्र प्राप्तः प्रविष्टश्च दृष्ट्वा तं चंदनं मुनिम् । कृतांजलिपुटो नत्वा चकार प्रार्थनामिति ॥ २.१५२{२४} ॥ नमस्ते भगवच्छास्तः वयं ते शरणं गताः । तत्प्रसन्नो भवास्माकं क्षन्तव्या चापराधता ॥ २.१५३{२४} ॥ यदवृष्टिः प्रवृत्तात्र तदस्मत्पापतः खलु । तत्पापपरिहाणाय सद्धर्मं देष्टुमर्हसि ॥ २.१५४{२६} ॥ तद्भवन्तं वयं सर्वे स्नापयित्वा ससांघिकान् । यथाशक्त्युपचारैश्च समिछामोऽर्चितुं पुरे ॥ २.१५५{२७} ॥ तत्प्रसीद मुनीन्द्रोऽसि यथास्माकं हितं भवेत् । तथास्मत्पुरमागत्वा शुभं कर्तुं समर्हसि ॥ २.१५६{२८} ॥ इति तेनार्थितं राज्ञा श्रुत्वा स चंदनो मुनिः । तूष्णीभूत्वा तथेत्येवमध्युवास स सांघिकः ॥ २.१५७{२९} ॥ ततः स नृपतिर्ज्ञात्वा तदधिवासितं मुनेः । पादौ नत्वा पुनर्दृष्ट्वा सहसा स्वं पुरं ययौ ॥ २.१५८{६०!} ॥ ततः पुरे च मार्गेषु शोधयित्वा समंततः । सुगंधिजलसंसिक्तमकारयन्महीतलम् ॥ २.१५९{६१} ॥ ततः पुष्पावकीर्ण्णं च कारयित्वा समंततः । ध्वजच्छत्रवितानैश्च तत्पुरं पर्य्यभूषयत् ॥ २.१६०{६२} ॥ ततस्तन्नगरे मध्ये कारयित्वा सरो वरम् । तद्गंधोदकसंपूर्णमकारयत्प्रशोभितम् ॥ २.१६१{६३} ॥ तत्र पुष्पाभिः संयुक्तं कृत्वा तीरे समंततः । छत्रध्वजपताकानि वितत्य पर्य्यमण्डयत् ॥ २.१६२{६४} ॥ (र्म् ३१) आसनानि च प्रज्ञप्य ससंघस्य क्रमान्मुनेः । स्वर्णकुंभांश्च संस्थाप्य शुचिगंधाम्बुपूरितान् ॥ २.१६३{६५} ॥ ततो पूजोपचारां भोज्योपकरणानि च । साधयित्वोपसंस्थाप्य संगीतिसहितानि च ॥ २.१६४{६६} ॥ ततो राजा स सामात्यैः पौरिकैश्च समन्वितः । तं बुद्धं पुरमानेतुं जिनाश्रममगान्मुदा ॥ २.१६५{६७} ॥ तत्र स सहसा प्राप्तो दृष्ट्वा तं चन्दनं मुनिम् । कृतांजलिपुटो नत्वा गमनं प्रार्थयदिति ॥ २.१६६{६८} ॥ सर्वज्ञ भगवं गन्तुं समयो वर्त्ततेऽधुना । सर्वं च साधितं सिद्धं तदाश्वागन्तुमर्हसि ॥ २.१६७{६९} ॥ एवं तेनार्थिते राज्ञा स संबुद्धः ससांघिकः । पात्रचीवरमादाय प्रागात्तत्पुरसंमुखः ॥ २.१६८{७०} ॥ यदासौ भगवान् बुद्धाः प्रातिहार्य्यं प्रदर्शयन् । लोकान् भासावसंभास्य प्राचरन् प्राप्तगोपुरम् ॥ २.१६९{७१} ॥ तदाकम्पद्रसा साब्धिर्ववौ वायुः सुमंगलम् । क्षुत्पिपासा हता ये च ते सर्वे परितृप्तिताः ॥ २.१७०{७२} ॥ ये च हीनेन्द्रियाः सत्वास्ते च पूर्णेन्द्रिया बभुः । निर्धना धनिनाश्चासन् रोगिनो निरुजोऽभवन् ॥ २.१७१{७३} ॥ बंधनस्था विमुक्ताश्च दुःखिताः सुखिनोऽभवन् । उन्मत्ताः सुस्मृतिं प्राप्ता नग्ना आसन् सुवस्त्रिकाः ॥ २.१७२{७४} ॥ गुर्विण्या याश्च ताः सर्वाः प्रमदाः सुखसूतिकाः । चिरवैरानुसंबद्धा मैत्रीभूताः समाचरन् ॥ २.१७३{७५} ॥ ये च पापरताः सत्वा दशाकुशलचारिकाः । ते सर्वे परिसंतृप्ताः पुण्यकामाः प्रचेरिरे ॥ २.१७४{७६} ॥ एवमन्ये च ये तत्र पापका उपसर्गिकाः । ते सर्वे विलयं याताः ते सर्वे संशुभाङ्किताः ॥ २.१७५{७७} ॥ एवं सर्वप्रकारेण हत्वा सर्वममङ्गलम् । कृत्वा भद्रं च सर्वत्र ससंघः स पुरेऽविशत् ॥ २.१७६{७८} ॥ क्रमात्प्रदक्षिणेनैवं प्रचरित्वा महोत्सवैः ॥ २.१७७{७९} ॥ (र्म् ३२) वंद्यमानस्तु तैः सर्वैः सदेवासुरमानवैः ॥ २.१७८{८०} ॥ तं नृपं पुरतः कृत्वा राजमार्गमुपासरन् । तत्सरोवरसंप्राप्तो दृष्ट्वा तीरे समाश्रयत् ॥ २.१७९{८१} ॥ ततः स भगवान् बुद्धो यथा प्रज्ञप्त आसने । एकचीवरकस्तस्थौ स्नातुं तत्र सरोवरे ॥ २.१८०{८२} ॥ ततो नृपादयः सर्वे लोकास्तं चंदनं मुनिम् । ससंघं स्नापयामासुः स्वर्णकुम्भाम्बुभिः क्रमात् ॥ २.१८१{८३} ॥ कृत्वा स्नानं ततोऽन्यत्र यथाप्रज्ञप्त आसने । ससंघो भगवान् तस्थौ स्वप्रभावं प्रदर्शयन् ॥ २.१८२{८४} ॥ अथ राजा स तं बुद्धं समासीनं ससांघिकम् । चीवरप्रावृतं कृत्वा पूजाङ्गैः समपूजयत् ॥ २.१८३{८५} ॥ ततश्च भोजनैः शुद्धैः प्रणीतैर्व्यञ्जनैरपि । पंचामृतैश्च पानैश्च सुतृप्तिं समतोषयत् ॥ २.१८४{८६} ॥ ततश्च भोजनांते संशोधयित्वा मुखादिकम् । नीचासने समासीनः कृतांजलिपुटो नृपः ॥ २.१८५{८७} ॥ सुप्रसन्नमुखाम्भोजः स मंत्रीजनपौरिकैः । नत्वा क्षमापयित्वा तं ससंघं प्रार्थयत्तथा ॥ २.१८६{८८} ॥ सर्वज्ञ भगवन्नाथ क्षमस्व नोऽपराधताम् । प्रसीद सर्वथा रक्ष दृष्ट्वास्मान् पापचारिणः ॥ २.१८७{८९} ॥ तद्दुर्भिक्षविनाशाय सुवृष्टिं चारय द्रुतम् । सर्वसत्वहितार्थाय सद्धर्मं च समादिश ॥ २.१८८{९०} ॥ इत्येवं प्रार्थिते तेन राज्ञा लोकहितार्थिना । संबुद्धो भगवांश्चैवं स्वाशीर्वचनमब्रवीत् ॥ २.१८९{९१} ॥ आरोग्यमस्तु ते राजन् सर्वत्रापि च मंगलम् । सुभिक्षं सर्वदाप्यत्र निर्विघ्नं बोधिमाप्नुहि ॥ २.१९०{९२} ॥ इति स्वाशीर्वचो दत्वा संबुद्धः स ससांघिकः । ततश्च स्वाश्रमं प्रागात्स नृपजनमन्वितः ॥ २.१९१{९३} ॥ एवमस्य मुनीन्द्रस्य त्रैमास्यं च निरंतरम् । तेनाकारि नृपेन्द्रेण सेवा सत्कारपूजनैः ॥ २.१९२{९४} ॥ ततः शक्रो महेन्द्रोऽसौ दृष्ट्वा तत्सुगतार्चिताम् । तद्दुर्भिक्षप्रशांत्यर्थं सुवृष्टिं समचारयत् ॥ २.१९३{९५} ॥ (र्म् ३३) ततो जलाश्रयान्यम्बुपूरितानि समंततः । पद्मोत्पलादिपुष्पैश्च छन्नानि रुरुचुस्तदा ॥ २.१९४{९६} ॥ तृणैर्नवाङ्कुरोद्भूतं साद्वलैश्च प्ररूढितैः । प्रतिछन्ना हरिद्वस्त्रैः प्रावृतैव रराज भूः ॥ २.१९५{९७} ॥ वृक्षाश्चापि हरित्पत्रैः समाछन्नाः प्रशोभिताः । पुष्पैः प्रस्फुल्लितैरम्यैः फलैश्च संचकासिरे ॥ २.१९६{९८} ॥ क्रमाच्चैवं प्ररूढानि शस्यानि वर्द्धितानि च । परिनिष्पन्नसिद्धानि प्रविपेचुः समंततः । ततः सर्वे जनाश्चैवं संप्रयातां सुभिक्षताम् । दृष्ट्वानंदं समुच्चार्य्य प्रचेरिरे प्रहर्षिताः ॥ २.१९७{९९} ॥ अथ राजा स तान् सर्वान्महाहर्षप्रमोदितान् । दृष्ट्वा भूयः समामंत्र्य वभाष संप्रबोधयन् ॥ २.१९८{१००} ॥ भवन्तो दृश्यतामस्य संबुद्धस्यानुभावता । यस्य पुण्यानुभावेन प्रजातैव सुभिक्षता ॥ २.१९९{१} ॥ तस्मान्नित्यं तथैवास्य संबुद्धस्य जगत्प्रभोः । महत्सत्कारपूजाभिः कर्त्तव्यं भजनं सदा ॥ २.२००{२} ॥ एवं यदि सदा चास्य संबुद्धस्य जगत्प्रभोः । पूजाभिः सत्करिष्यन्ति सदात्र मंगलं भवेत् ॥ २.२०१{३} ॥ तस्मादस्य मुनीन्द्रस्य नखकेशविदर्भितः । गन्धस्तूपः प्रतिस्थाप्य सेवितव्यः सदार्चनैः ॥ २.२०२{४} ॥ इति संभाष्य राजासौ तैस्तथेत्यनुमोदितैः । सह बौद्धाश्रमं गत्वा नत्वा तं प्रार्थयन्मुनिम् ॥ २.२०३{५} ॥ नमस्ते भगवं छास्तर्वयं ते शरणस्थिताः । सदा चैवं करिष्यामो भवत्सेवामुपास्थिताः ॥ २.२०४{६} ॥ तत्प्रसीद सदा पात्र विहृत्य धर्ममादिशन् । विजयस्व न चान्यत्र मा व्रज नोऽनुकंपया ॥ २.२०५{७} ॥ तेनैवं प्रार्थिते राज्ञा भगवांश्च स चंदनः । (र्म् ३४) तं नृपं सजनं दृष्ट्वा प्रसन्नास्योऽब्रवीत्तथा ॥ २.२०६{८} ॥ नैव राजन्मया बोधिरेकस्यार्थे प्रसाधिता । अपि च सर्वसत्वानां हितार्थे ह्यनुकंपिना ॥ २.२०७{९} ॥ तस्मादत्र सदा नैव स्थास्याम्यहं ससांघिकः । सर्वत्रापि चरेयाहं सद्धर्मं संप्रकाशितुम् ॥ २.२०८{१०} ॥ यदि मे श्रद्धया नित्यं सेवां कर्तुं समिछथ । केशस्तूपं प्रतिस्थाप्य सेव्यत सर्वदार्चनैः ॥ २.२०९{११} ॥ ततस्तेऽत्र सदा राज्ये सुभिक्षं मंगलं भवेत् । दुर्भिक्षता च कुत्रापि नाक्रमिष्यति कदा चन ॥ २.२१०{१२} ॥ इति मत्वा त्वया गत्वा त्रिरत्नशरणं स्वयम् । सर्वसत्वाश्च सद्धर्मे प्रेरणीयाः प्रयत्नतः ॥ २.२११{१३} ॥ इत्यादिश्य मुनींद्रोऽसौ छित्वा स्वान्नखरांस्तथा । केशांश्चाप्यवतार्य्यैवं तस्मै राज्ञे स्वयं ददौ ॥ २.२१२{१४} ॥ ततो राजा स तं बुद्धं नत्वा केशां नखांश्च तान् । समादाय प्रहर्षेण प्रत्याययौ स्वमालयम् ॥ २.२१३{१५} ॥ तत्र प्राप्तः पुरे मध्ये पुष्करिण्यास्तटान्तिके । तत्केशनखरान् रोप्य गंधस्तूपमकारयत् ॥ २.२१४{१६} ॥ तस्मिं सिद्धे प्रतिस्थाप्य विधिना च महोत्सवैः । नित्यं सत्कारपूजाभिः सेवां चक्रे प्रसन्नधीः ॥ २.२१५{१७} ॥ एतत्पुण्यानुभावेन लोकेऽंधेऽपरिणायके । जगल्लोके हितं कर्तुं भवेयं सुगतस्तथा ॥ २.२१६{१८} ॥ इति धृत्वा प्रचित्तेऽसौ प्रणिधानं नराधिपः । गंधजलैश्च तं स्तूपं स्नापयित्वा सदार्चयत् ॥ २.२१७{१९} ॥ प्रतिस्थाप्य महं चापि गत्वा च शरणे मुदा । अष्टांगैश्च प्रणत्वैवं महोत्साहैरसेवयत् ॥ २.२१८{२०} ॥ तथा सर्वे जनाश्चापि श्रद्धया तं प्रभेजिरे । ये गताः शरणं तत्र ते सर्वे निर्वृतिं ययुः ॥ २.२१९{२१} ॥ अहमेवावसिष्टः स तेषां योऽभून्नराधिपः । संबोधिप्रणिधिं धृत्वा नैवं निर्वाणमाययौ ॥ २.२२०{२२} ॥ (र्म् ३५) एतत्पुण्यानुभावैश्च सुवृष्टिः संप्रचारिता । सर्वदाप्यभवत्तत्र सुभिक्षं निरुपद्रवम् ॥ २.२२१{२३} ॥ एतद्धर्मानुभावैश्च सर्वत्र सांप्रतं लभे । पूजासत्कारमान्यानि यशोधर्मसुखानि च ॥ २.२२२{२४} ॥ यत्र यत्र प्रगछामि तत्र तत्र समंततः । इत्थं सत्कारपूजाभिर्मानितोऽहं ससांघिकः ॥ २.२२३{२५} ॥ तच्छास्तारं समाराध्य यशोधर्मसुखेप्सुभिः । शुभेषु सर्वदा नित्यं चरितव्यं प्रयत्नतः ॥ २.२२४{२६} ॥ शुभेन सुखता नित्यं भवेल्लोके समंततः । पापेन दुःखता चैवं मिश्रितेनापि मिश्रिता ॥ २.२२५{२७} ॥ तस्मात्पापं विरम्यैवं मिश्रितानि विहाय च । शुभेष्वेव प्रयत्नेन चरितव्यं सुखार्थिभिः ॥ २.२२६{२८} ॥ इत्यादिष्टं मुनीन्द्रेण सर्वे ते सांघिकास्तथा । श्रुत्वा प्रमेनिरे सत्यं कर्मभावं भवालये ॥ २.२२७{२९} ॥ पापेभ्यो विरता नित्यं मिश्रितेभ्योऽपि ते सदा । सदा शुभेषु निरताः सर्वे संचेरिरे समाहिताः ॥ २.२२८{३०} ॥ एवं राजंस्त्वया नित्यं पापाच्च मिश्रितादपि । विरम्य सर्वथा धर्मे चरितव्यं सुखाप्तये ॥ २.२२९{३१} ॥ प्रजाश्चापि विनिर्वार्य्य सर्वथा पापचारणात् । श्रावयित्वा च सद्धर्मं योजनीयाः शुभे सदा ॥ २.२३०{३२} ॥ तथा ते सर्वदा नित्यं सर्वत्र विषयेष्वपि । सुवृष्टिः प्रचरेच्चैवं मंगलं निरुपद्रवम् ॥ २.२३१{२३!} ॥ इति तेन समादिष्टमुपगुप्तेन शासिना । श्रुत्वाशोको नृपोऽस्त्वेवमित्यनन्दत्सपार्षदः ॥ २.२३२{२४} ॥ स्नातावदानं तदिदं निशम्य ये श्रावयन्ति प्रतिबोध्य लोकान् । ते पापनिर्मुक्तविशुद्धदेहाः प्रयान्ति नूनं सुगतालयेषु ॥ २.२३३{२५} ॥ ++ इति रत्नावदानमालायां स्नातावदानं समाप्तम् ++ (र्म् ३६) इइइ चक्रावदान अथाशोको नरेन्द्रोऽसौ भूयो नत्वा कृतांजलिः । उपगुप्तं गुरुं प्राह श्रोतुमन्यत्सुभाषितम् ॥ ३.१{१} ॥ भदन्त श्रोतुमिछामि भूयोऽप्यन्यत्सुभाषितम् । यथा ते गुरुणा ख्यातं तथा मे वक्तुमर्हसि ॥ ३.२{२} ॥ इति तेनार्थिते राज्ञा भूयोऽप्यसौ जिनांशजः । उपगुप्तो यतिर्भिक्षुस्तं नृपमेवमब्रवीत् ॥ ३.३{३} ॥ यथा मे गुरुणादिष्टं वक्ष्येऽहं ते सुभाषितम् । साधु चित्तं समाधाय शृणु राजन् समाहितः ॥ ३.४{४} ॥ यः पुरासीन्महाबुद्धः सर्वज्ञः श्रीघनो जिनः । सर्वविद्याकलाभिज्ञो धर्मराजस्तथागतः ॥ ३.५{५} ॥ शास्तार्हन् सुगतो नाथस्त्रैधातुकविनायकः । स शाक्याधिपतिर्लोके हिताय च समंततः ॥ ३.६{६} ॥ सद्धर्मदेशनां कृत्वा बोधिमार्गं प्रकाशयन् । भिक्षुश्रावकसंघैश्च बोधिसत्वैश्च सांघिकैः ॥ ३.७{७} ॥ उपासिकागणैश्चैवमुपासकगणं सह । राजगृहमुपाश्रित्य वेणुवने जिनाश्रमे ॥ ३.८{८} ॥ कलंदके निवापाख्ये महोद्याने समाश्रितः । आदिमध्यांतकत्याणं दिदेश धर्ममुत्तमम् ॥ ३.९{९} ॥ तद्धर्मदेशनां श्रोतुं देवासुरमनुष्यकाः । यक्षकिन्नरगंधर्वाः सिद्धविद्याधरादयः ॥ ३.१०{१०} ॥ गरुडा नागराजाश्च महाहर्षसमन्विताः । ब्राह्मणा क्षत्रियाश्चैव राजानो राजपुत्रकाः ॥ ३.११{११} ॥ वैश्याश्च श्रेष्ठिनः शूद्रा मंत्रिणो मातृकाजनाः । सार्थवाहाश्च पौराश्च धनिनश्च वणिग्जनाः ॥ ३.१२{१२} ॥ एवमन्येऽपि लोकाश्च सर्वे ते संप्रहर्षिताः । महत्सत्कारपूजाभिः सर्वोपकरणैस्तथा ॥ ३.१३{१३} ॥ (र्म् ३७) पूजयित्वा प्रवंदित्वा संबुद्धं सुगतं मुनिम् । परिवृत्य पुरस्कृत्य तस्थौ सर्वान्य तस्थिरे ॥ ३.१४{१४} ॥ सद्धर्मवांछिताः सर्वे श्रोतुं तत्र समागताः ॥ ३.१५{१५} ॥ तस्मिंश्च समये पूर्य्यां श्रावस्त्यां सुभगो वणिक् । अन्यत्तमः सार्थवाह आसीन्महाधनः सुधीः ॥ ३.१६{१६} ॥ तेन भार्य्या सुभद्रांगी जातिधर्मसमानिका । परिणीता कुलस्थित्यै कुलधर्मानुसारतः ॥ ३.१७{१७} ॥ ततस्तौ दंपती रक्तौ स्नेहानुबन्धितौ मुदा । यथाकामं प्रभुंजानौ सन्रमाते यथेछया ॥ ३.१८{१८} ॥ ततस्तस्य गृहस्थस्य भोग्येष्वेवाभिरागिणः । स्वकुलवृत्तिधर्मेषु प्रमादादनपेक्षिणः ॥ ३.१९{१९} ॥ व्यवहारे विरक्तस्य प्रोद्यमरहितस्य च । अर्जनोपायमंदस्य केवलं व्ययकुर्वतः ॥ ३.२०{२०} ॥ दिने दिने क्रंान्नित्यमतिव्ययान्निरागमत् । संपदः क्षीणतां याता ग्रिष्मकाल इव ह्रदाः ॥ ३.२१{२१} ॥ ततस्तस्य गृहस्थस्य भार्या या कुलधर्मिका । संपदः क्षीनतां दृष्ट्वा गृहे चैवं व्यचिन्तयत् ॥ ३.२२{२२} ॥ अयं मे पुरुषो भर्त्ता सार्थवाहो वणिक्धनी । भाग्यमेव गृहे भुक्त्वा निवसति निरुद्यमः ॥ ३.२३{२३} ॥ अत्यर्थव्ययता यत्र विद्यते न तथागमः । सा च संपत्कियत्कालं तिष्ठेत्क्षीणं व्रजेत्क्रमात् ॥ ३.२४{२४} ॥ तदयं पुरुषश्चापि कथं सुस्थो भविष्यति । केन संधार्य्यते लोकैर्विहीने भोग्यसंचये ॥ ३.२५{२५} ॥ वृद्धोऽप्ययं भवेन्नूनं दरिद्रोऽपि भवेत्तथा । तदा किं परिभुक्त्वैवं गृहे तिस्थेत्कथं सुखी ॥ ३.२६{२६} ॥ यस्य संपद्गृहे नास्ति कथं स पुरुषः सुखी । (र्म् ३८) स्वयं भोक्तुं न शक्तः स्यात्किं पुनर्दानमाचरेत् ॥ ३.२७{२७} ॥ दानं विना न संसारे किं सारसुखमाप्स्यते । दानेनैव हि लभ्यन्ते यशोधर्मसुखानि च ॥ ३.२८{२८} ॥ दानेन शुद्ध्यते चित्तं शुद्धचित्तो भवेत्सुधिः । सुधिया साध्यते शीलं शीलवान् स्याच्छुभंकरी ॥ ३.२९{२९} ॥ शुभकर्मा च सद्धर्मं कृत्वा यास्यति सद्गतिम् । तस्मादहमिमं नाथं भर्त्तारं पुरुषं प्रभुम् ॥ ३.३०{३०} ॥ सद्धर्मसुखसंप्राप्त्यै प्रेरयेयं धनार्जने । धनवान् पुरुषो लोके सर्वार्थसाधने कृती ॥ ३.३१{३१} ॥ धर्मार्थकाममोक्षाणां मूलं प्राहुर्धनं बुधाः । भर्तुर्हि पुरुषस्यापि त्रिवर्गकार्य्यसाधने ॥ ३.३२{३२} ॥ सहायः कथ्यते प्राज्ञैः सती भार्य्यानुचारिणी । अस्य भर्तुर्ह्यहं भर्य्या सती धर्मार्थसाधने ॥ ३.३३{३३} ॥ मनः प्रोत्साहितं कृत्वा प्रेरयेयं धनार्जने ॥ ३.३४{३४!} ॥ इति निश्चित्य सा साध्वी दृष्ट्वा भर्त्तारमादरात् । धर्मार्थसाधने चैवं प्रोत्साहयितुमब्रवीत् ॥ ३.३५{३४!} ॥ स्वामि भर्त्तासि मे नाथो देवतापि त्वमेव हि । तन्मया वक्ष्यते तथ्यं परत्रेह सुखाय ते ॥ ३.३६{३५} ॥ तथ्यं च तच्छृणुष्वैवमन्यथा चेत्तु मा कुरु ॥ ३.३७{३६} ॥ यद्भवान् पुरुसः प्राढ्यः सार्थवाहो वणिक्प्रभुः । सदा भोग्यानि भुक्त्वैव स्थित्वा नैवं प्रशोभति ॥ ३.३८{३७} ॥ तत्प्रमादं परित्यक्त्वा यशोधर्मसुखाप्तये । सत्यधर्मानुसारेण कुरुष्व धनसाधनम् ॥ ३.३९{३८} ॥ धनेन साधयेद्भोग्यं भोग्येन पालयेत्तनुम् । देहेन साधयेद्धर्मं धर्मेण सत्सुखं लभेत् ॥ ३.४०{३९} ॥ किं च यत्र गृहे स्वामी व्यवहारनिरुद्यमः । तत्र सर्वे जनाश्चापि निषत्स्यंत्यवसादिनः ॥ ३.४१{४०} ॥ अपि यत्र गृहे स्वामी व्यवहारसमुद्यतः । तत्र सर्वे जनाश्चैव प्रचरेयुः समुद्यमाः ॥ ३.४२{४१} ॥ यच्च दानमहोत्साहं यत्र गेहे न विद्यते । स किं गेहो न रम्यः स्याच्छून्यारण्ये श्मशानवत् ॥ ३.४३{४१!} ॥ (र्म् ३९) यस्मिन् गृहे सदा नित्यं दानपुण्यमहोत्सवम् । स एव मन्दिरो रम्यस्वर्गवत्प्रतिभास्यते ॥ ३.४४{४२} ॥ यस्मिंश्चापि गृहस्थो हि दानपुण्यनिरुत्सहः । स्वयमेव प्रभुक्त्वैवं वसते पशुवत्स किम् ॥ ३.४५{४३} ॥ धन्यास्ते पुरुषा वीरा यशोधर्मसुखान्विताः । कृत्वा दानवृषोत्साहं सुखं भुक्त्वा वसंति ये ॥ ३.४६{४४} ॥ तेषामेव हि संसारे सुसारं जीवितं खलु । ये कृत्वा दानपुण्यानि स्वयं सौख्यं च भुंजते ॥ ३.४७{४५} ॥ दानेनैव हि लोभ्यंते यशोधर्मसुखानि च । अन्यथा नैव लप्स्यन्ते ततः संपन्निरर्थिता ॥ ३.४८{४६} ॥ कियत्कालं च जीवेयुर्ये भुक्त्वैव सुखं स्थिताः । अवश्यं सर्वशो हित्वा मृता यायुर्यमालयम् ॥ ३.४९{४७} ॥ तत्र कर्मसहायांस्तान् दृष्ट्वा धर्माधिपो यमः । निर्णयित्वा च तत्कर्म प्रेरयेत्कर्मभुक्तये ॥ ३.५०{४८} ॥ ये च पापकरा दुष्टा प्रेरयेत्तान् तु दुर्गतौ । ये तु पुण्यकरा भद्राः प्रेरयेत्तांश्च सद्गतौ ॥ ३.५१{४९} ॥ तत्र कर्मफलान्येवं दुःखानि च । सुखानि च सर्वथेह परत्रापि भुंजते सर्वजांतवः ॥ ३.५२{५०} ॥ शुभेन सद्गतिं ययाद्यशोधर्मसुखान्विताः । पापेन दुर्गतिं यायाद्धिक्प्रवादासुखान्विताः ॥ ३.५३{५१} ॥ एवं मत्वा प्रभो स्वामिन् यशोधर्मसुखाप्तये । स्वकुलवृत्तिमाधाय प्रोद्यमस्व धनार्जने ॥ ३.५४{५२} ॥ सदा दानमहोत्साहं कृत्वा सद्गतिलब्धये । यथेछया सुखं भुक्त्वा पालयस्व सदा जनान् ॥ ३.५५{५३} ॥ ततस्ते मंगलं नित्यं भवेदिह परत्र च । सफलं मानुषं जन्म नूनं सद्गतिमाप्नुयात् ॥ ३.५६{५४} ॥ इति भार्यावचः श्रुत्वा स गृहस्थो वणिक्सुधीः । भार्यां तां वल्लभां कान्तां दृष्ट्वा चैवं समब्रवीत् ॥ ३.५७{५५} ॥ अयि प्रिये सुभद्रासि मम भार्यानुचारिणी । यत्त्वया भाषितं सत्यं तत्करिष्यामि सर्वथा ॥ ३.५८{५६} ॥ किं तु त्वं मे प्रिया भार्या वल्लभातिमनोहरा । तत्कथं त्वां प्रियां त्यक्त्वा कुत्र यास्ये धनार्थतः ॥ ३.५९{५७} ॥ (र्म् ४०) सार्थवाहो ह्यहं चापि तत्कथं नीचवृत्तिभिः । रत्नार्जनं करिष्यामि ततो रत्नाकरं व्रजे ॥ ३.६०{५८} ॥ तस्मात्प्रिये सुभद्रांगी सति धर्मानुचारिणी । गृहकार्य्यं समाधार्य्य वस भुक्त्वा यथासुखम् ॥ ३.६१{५९} ॥ यावन्नाहं गृहे प्राप्तस्तावद्धैर्य्यं समाश्रय । शीघ्रमेवागमिष्यामि मं स्मृत्वा मान्वतप्यथाः ॥ ३.६२{६०} ॥ इति भर्त्तोदितं श्रुत्वा सा च भार्यानुतापिता । गलदश्रुमुखी नत्वा स्वामिनं तमभाषत ॥ ३.६३{६१} ॥ हे नाथ सुप्रिय स्वामिन्मां विहाय कथं व्रजेः । त्वया विना कथं गेहे तिष्ठेयाहं यथा वने ॥ ३.६४{६२} ॥ दर्शने श्रवणे वापि गंधतैलानुलेपने । स्पर्शने भोजने पाने सुवस्त्रपरिभूषणे ॥ ३.६५{६३} ॥ सौरभ्याऽङ्गने चापि भाषने गमने क्वचित् । निद्राभोगे तथा नैव विद्येत मेऽभिलाषता ॥ ३.६६{६४} ॥ तवैव स्मरणं कृत्वा निःश्वसन्ती मुहुर्मुहुः । विरहानलसंतप्ता व्रजेयं मरणं ध्रुवम् ॥ ३.६७{६५} ॥ मृतायां मयि ते गेहे कोऽनुरक्षेन्नु संपदः । श्रुत्वा मे मरणं नूनं धक्ष्यसे विरहानलैः ॥ ३.६८{६६} ॥ तदैताभिश्च संपत्तिरत्नैश्च किं करिष्यसि । अपुत्रस्य हि सर्वस्वं नूनं राजा ग्रहीष्यति ॥ ३.६९{६७} ॥ तदात्मना विखिद्यैवं दूरं मा गा विहायताम् । गृहे स्थित्वा मया सार्द्धां सुखं भुक्त्वोद्यमं कुरु ॥ ३.७०{६८} ॥ अत्रापि बहवः सन्ति वणिक्संघा महाजनाः । पण्यं प्रसार्य्य तं सार्द्धं साधयस्व धनं सुखम् ॥ ३.७१{६९} ॥ कियत्कालं च जीवेव सन्ततिश्च न विद्यते । तत्किं नौ बहुभी रत्नैर्मा गा रत्नाकरं ह्यतः ॥ ३.७२{७०} ॥ यावज्जीवं सुखं भुक्त्वा दानं कृत्वा सदार्थिने । संवृत्या प्रार्जय द्रव्यं स्वगेहे संस्थितो रम ॥ ३.७३{७१} ॥ मा धाव प्रिय कुत्रापि किं वा रत्नाकरे लभेत् । स्वगृहेऽपि लभेज्जन्तुः स्वकर्मनिर्मितं धनम् ॥ ३.७४{७२} ॥ स्वकृतं कर्म तद्भावि निर्माणसदृशं फलम् । (र्म् ४१) सर्वत्रापि लभन्त्येव महान्तः क्षुद्रिका अपि ॥ ३.७५{७३} ॥ तथा ये सुजना लोके सधना सद्गुणाश्रयाः । तेऽपि क्षणाद्भवन्त्येव निर्धना भिक्षुताश्रिताः ॥ ३.७६{७४} ॥ ये चापि दुर्जना लोके निर्धना निर्गुणाश्च ये । तेऽपि लभन्ति मान्यार्हं सेव्यन्ते चापि सज्जनैः ॥ ३.७७{७५} ॥ तथा ये वणिजो धीराः सार्थवाहा मणीछया । रत्नाकरं गतास्तेषां के चित्स्वस्तिसमागताः ॥ ३.७८{७६} ॥ के चित्तत्र समुद्रे वा भग्ननौका धनैः सह । पतिताः सन्निमज्जन्ता मृताश्च विलयं गताः ॥ ३.७९{७७} ॥ के चिद्वीर्यबलेनैवैः समुत्तीर्य प्रयत्नतः । अकिंचन्याः परिभ्रष्टा रिक्तहस्ता गृहागताः । एवं सर्वेऽपि सत्वाश्च स्वकृतकर्मनिर्मितम् । फलं भुक्त्वा भ्रमन्त्येवं संसारे षड्गतिष्वपि ॥ ३.८०{७८} ॥ इति कर्मप्रमाणत्वं ज्ञात्वा संपद्विपत्तिता । मा खेदय स्वमात्मानं धर्मं कृत्वा सुखं वस ॥ ३.८१{७९} ॥ तथा नौ मंगलं नित्यं सर्वत्रापि भवेत्खलु । यावज्जीवं सुखं भुक्त्वा सद्गतिं च व्रजेमहि ॥ ३.८२{८०} ॥ इति भार्योदितं श्रुत्वा सार्थवाहात्मजः स च । तं प्रियां रमणीं भार्य्यां दृष्ट्वैवं समभाषत ॥ ३.८३{८१} ॥ भद्रे सत्यं त्वं या प्रोक्तं यत्स्वकर्मप्रमानता । इति मत्वाहमिछामि गन्तुं रत्नाकरेऽपि हि ॥ ३.८४{८२} ॥ यदभावि न तद्भावि भावि चेन्न तदन्यथा । सर्वत्रापि भवेन्नूनं तेनाब्धिं गन्तुमीह्यते ॥ ३.८५{८३} ॥ यदि भाग्यं ममास्त्येवं स्वस्ति स्याद्गमने खलु । रत्नानि बहुशो लब्धा प्रत्यागछेय सिद्धिताः ॥ ३.८६{८४} ॥ अथ मे भाग्यता नैव नूनं तत्र विपत्तिता । महत्तीर्थे निमग्नोऽहं मृतो यास्ये सुरालयम् ॥ ३.८७{८५} ॥ यथा भट्टा महावीरा यशोधर्मसुखाप्तये । शत्रुं जेतुं महोत्साहैर्विशन्ति रणमण्डले ॥ ३.८८{८६} ॥ तत्र के चिद्धता वीरा यशोधर्मान्विता मृताः । सहसा ते प्रयान्त्येवं स्वर्गसौख्यानुभोगिनः ॥ ३.८९{८७} ॥ अहमपि वणिक्पुत्रः सार्थवाहात्मजो ह्यहम् । (र्म् ४२) तत्तथाहं गंिष्यामि रत्नाकरं न चान्यतः ॥ ३.९०{८८} ॥ यदि स्वस्ति गृहं प्राप्स्ये यशोरत्नसुखान्वितः । मृतोऽथ निर्मलीभूत्वा स्वर्गे सौख्यमवाप्नुयाम् ॥ ३.९१{८९} ॥ इति मत्वा प्रिये भद्रे मा विषीद सुखां वस । यावन्नाहं गृहं प्राप्तस्तावद्भजेष्टदेवताम् ॥ ३.९२{९०} ॥ सर्वथाहं गमिष्यामि स्वकुलकीर्तिलब्धये । अनिवर्त्ती ह्यहं कार्य्ये तन्मां त्वं मा निवारय ॥ ३.९३{९१} ॥ इति भर्त्तुर्वचः श्रुत्वा निर्बन्धं गमनं प्रति । सा सती तं स्वभर्त्तारं नत्वा प्राह कृतांजलिः ॥ ३.९४{९२} ॥ स्वामिंस्त्वं सर्वथा गन्तुं यदीछसि महाम्बुधिम् । धैर्य्यमालम्व्य संपश्यन्मार्गे व्रज समाहितः ॥ ३.९५{९३} ॥ स्वस्ति ते व्रजतो मार्गे सर्वत्रापि दिवानिशम् । स्वस्ति प्रत्यागते चैवं भूयान्नित्यं शुभं सदा ॥ ३.९६{९४} ॥ यात्रासिद्धिमहासंपद्यशोधर्मसुखान्वितः । स्वस्ति शीघ्रं समागछ व्रजा तेऽस्तु सदा शिवम् ॥ ३.९७{९५} ॥ इति भार्योदितं श्रुत्वा सार्थवाहस्तथेति सः । प्रतिज्ञाय वंक्संघान् सर्वानाहूय चाब्रवीत् ॥ ३.९८{९६} ॥ भवन्तोऽहं समिछामि योशोधर्मसुखाप्तये । स्वकुलवृत्तिमाधाय गन्तुं रत्नाकरांबुधौ ॥ ३.९९{९७} ॥ तत्र गन्तुं मया सार्द्धं यदि यूयं समिछथ । तत्पण्यं सहसादाय समायात चरेमहि ॥ ३.१००{९८} ॥ इति तेनोदितं श्रुत्वा सर्वे ते वणिजो मुदा । सहसा पण्यमादाय तत्र गन्तुमुपाक्रमन् ॥ ३.१०१{९९} ॥ अथ सार्थपतिः शीघ्रं तैश्च पंचशतैः सह । स्वस्त्ययनविधिं कृत्वा प्रतस्थे संप्रमोदितः ॥ ३.१०२{१००} ॥ ततः क्रमादतिक्रम्य ग्रामजनपदानि ते । विलंघ्यारण्यदेशांश्च तीरं प्रापुर्महोदधेः ॥ ३.१०३{१} ॥ ततो नावं समारुह्य तानि पंचशतानि च । प्रवितत्य ध्वजं शुभ्रं जगाहिरेऽम्बुधौ क्रमात् ॥ ३.१०४{२} ॥ तथा ते वहनारूढा वातानुकूलतो ध्रुवम् । क्रमाद्द्वीपांश्च लंघित्वा रत्नाकरं समाययुः ॥ ३.१०५{३} ॥ तत्र रत्नाकरं प्राप्ता देवता सुप्रमोदतः । ते मिथः कलहं कृत्वा प्रत्यागंतुं न शेकिरे ॥ ३.१०६{४} ॥ (र्म् ४३) चिरमेवं विरोधित्वाद्रत्नानि च न लेभिरे । बांधवांश्च मुहुः स्मृत्वा तस्थुः सर्वे विलंविताः ॥ ३.१०७{५} ॥ अत्रांतरे च सा नारी सार्थवाहप्रिया सती । भर्त्त्रा विना गृहं शून्यममन्यत निरुत्सवात् ॥ ३.१०८{६} ॥ यद्दिने प्रस्थितो भर्ता सार्थवाहः पुराद्वहिः । तद्दिनारभ्य सा नारी गणयन्ती दिनं प्रति ॥ ३.१०९{७} ॥ भर्त्तुरेव मुहुः स्मृत्वा विरहवेदनातुरा । निःश्वसन्ती मुहुश्चैवमधैर्य्या परितापिनी ॥ ३.११०{८} ॥ कृशाङ्गा पाण्डुवर्णा च विरुक्षाकीर्णकेशिनी । प्रसाधनानभीछन्ती मलिनवसनावृता ॥ ३.१११{९} ॥ दर्शनश्रवणे चापि गंधान्वाहरणेऽपि च । भोजनेष्वपि पाने च स्पर्शने गमनेष्वपि ॥ ३.११२{१०} ॥ कुतूहरे तथान्यत्र मनोरमेऽपि चाद्भुते । सर्वत्र विषयेष्वेवं न प्रोत्सहे यथातुरा ॥ ३.११३{११} ॥ भर्त्तुर्वियोगदुःखार्त्ता रोगिनीव विषादिनी । असह्यमदनाक्रान्ता धैर्य्योपायविचेतना ॥ ३.११४{१२} ॥ भर्तुरागतिमालम्ब्य क्षणं धैर्य्यसमाश्रिता । भर्तारमेव संस्मृत्वा गृह एव न्यषीदत ॥ ३.११५{१३} ॥ न निद्रां शयने भेजे नान्यस्मृतौ मनोऽनुदत् । प्रभुमेवं समाध्यात्वा तस्थौ ध्यायीव योगवित् ॥ ३.११६{१४} ॥ अथैवं विकलीभूतां यौवनीं तां पतिव्रताम् । काचिदेका सखी भद्रा संनिरीक्ष्याब्रवीद्रहः ॥ ३.११७{१५} ॥ भद्रे किन् ते विषाद त्वं विभासि त्वैः यथातुरा । मा विषीद यदर्थन् ते तद्वदस्व मयि प्रिये ॥ ३.११८{१६} ॥ कथं नोत्सहसे भद्रे स्वकुलधर्मचारिणि । कौतुके चाद्भुते चापि सर्वत्र विषयेष्वपि ॥ ३.११९{१७} ॥ भोजने भूषणे चापि द्रष्टुं श्रोतुं न वांछसि । किं विषादेन सिद्धं ते तत्प्रभुक्ष्व यथासुखम् ॥ ३.१२०{१८} ॥ (र्म् ४४) इति तयोदिते सख्या सार्थवाहप्रियापि स । तां सखीं प्रमदां कान्तां दृष्ट्वा चैवमभाषत ॥ ३.१२१{१९} ॥ नाहं भोगार्थिनी भद्रे नापि कामातिरागिणी । किं तु धर्मानुरक्तास्मि तत्कथं स्वामिनं विना ॥ ३.१२२{२०} ॥ तेनाहं विषयां त्यक्त्वा स्मृत्वा भर्त्तारमेव तम् । स्वागार एव तिष्ठामि भोग्येष्वपि च निस्पृहा ॥ ३.१२३{२१} ॥ कदा स मे प्रियो भर्त्ता गृहे प्रत्यासरिष्यति । इति चिंतां समाधाय तिष्ठामि योगिनी यथा ॥ ३.१२४{२२} ॥ यावच्च स प्रियः स्वामी नायाति स्वगृहं प्रति । तावदेवं न भोक्ष्येऽहं भोग्यानि सुरसान्यपि ॥ ३.१२५{२३} ॥ विषयेष्वपि सर्वेषु न मे वांछा प्रियं विना । नान्यच्चिंता च मे चित्ते तस्मादेवं स्थिता सदा ॥ ३.१२६{२४} ॥ यावत्स्वामी न मे दृष्टस्तावत्स्थास्याम्यहं तथा । अपि मे जिवितं यातु न च यायां गृहाद्बहिः ॥ ३.१२७{२५} ॥ स्त्रीणां हि देवता स्वामी धर्मोऽपि भर्तृसेवया । तस्मात्स्मृत्वैव भर्त्तारं भाजाम्यहं पतिव्रता ॥ ३.१२८{२६} ॥ कुत्र धर्मं चरिष्यामि यस्या नास्ति गृहे पुमान् । तत्मनसैव भर्त्तारं ध्यात्वा भजे दिवानिशम् ॥ ३.१२९{२७} ॥ धिग्मे जन्म निरर्थं स्याद्यस्या न यौवने पतिः । वृद्धत्वे किं करिष्यामि स्वामिना च धनैरपि ॥ ३.१३०{२८} ॥ वरमेवाद्य मे मृत्युर्न मिथ्या चिरजीवितम् । यस्माच्चिरमपि स्थित्वा मृत्युदुःखं तदेव हि ॥ ३.१३१{२९} ॥ यमेवालंव्य जीवामि स यदि नागमिष्यति । किमेव जीवितेनापि केवलदुःखभाविना ॥ ३.१३२{३०} ॥ धन्यास्ता हि स्त्रियो भद्राः स्वस्वामिसहचारिकाः । कृत्वा धर्मं सदा गेहे सौख्यं भुक्त्वा वसन्ति याः ॥ ३.१३३{३१} ॥ मा भूत्तु मादृशि काचिदभद्रा दुःखभागिनी । सम्यग्भोग्यैश्च किं तस्या यस्या भर्त्ता न यौवने ॥ ३.१३४{३२} ॥ तथापि किं करिष्यामि नार्य्यहं हि पतिव्रता । तस्मात्तमेव भर्त्तारं स्मृत्वा स्थास्यामि सर्वदा ॥ ३.१३५{३३} ॥ (र्म् ४५) इति तयोदितं श्रुत्वा सा सखी हितकारिणी । तदुपायहितं कर्तुं तां सखीं च समब्रवीत् ॥ ३.१३६{३४} ॥ भद्रे सत्यं त्वया प्रोक्तं स्त्रीणां हि देवता पतिः । तथापि वक्ष्यते भद्रे तव प्रीत्या च तच्छृणु ॥ ३.१३७{३५} ॥ यावन्निवसते गेहे भर्ता कामरसारतः । तावत्स्त्री सेवयेन्नित्यं धर्मं भर्तुरनुज्ञया ॥ ३.१३८{३६} ॥ यदा भर्त्ता गृहे न स्याद्दूरदेशं गतस्तथा । यावद्गृहं न चायातस्तावद्देवं भजेत्पतिः ॥ ३.१३९{३७} ॥ पतेस्ते देवतास्माकं विष्णुर्नारायणो हरिः । तस्मादेनं प्रभोर्नाम्ना स्मृत्वा नित्यं भजार्चय ॥ ३.१४०{३८} ॥ स एव कामदो देवः कामधात्वीश्वराधिपः । संसारस्थितिधर्मस्थो रतिभोग्यसुखप्रदः ॥ ३.१४१{३९} ॥ तस्यैव ह्यनुभावेन प्रेर्य्यमानो मनो भुवाः । भर्त्ता ते सहसा प्रायात्स्वस्ति रत्नैश्च संयुतः ॥ ३.१४२{४०} ॥ ततस्ते सफलं जन्म संसारे प्रभुना सह । दानं कृत्वा सुखं भुक्त्वा यावज्जीवं सुखं वस ॥ ३.१४३{४१} ॥ एवं सख्योदितं श्रुत्वा रमणी सा पतिव्रता । तथेति प्रतिसंश्रुत्य पुनस्तामवदत्सखीम् ॥ ३.१४४{४२} ॥ सत्यं भद्रे यथा प्रोक्तं त्वया मे हितकारणम् । तथाहं संभजिष्यामि स्मृत्वा नाम्ना प्रभोर्हरिम् ॥ ३.१४५{४३} ॥ यथा स्वस्ति समायातः स्वामी रत्नसमृद्धिभृत् । तदा ह्येकं सुवर्णस्य चक्रं दास्यामि विष्णवे ॥ ३.१४६{४४} ॥ इत्येवं सा प्रतिज्ञाय विष्णुमेवं समस्मरत् ॥ ३.१४७{४५} ॥ नमस्ते भगवन् विष्णो हरे नारायण प्रभो । प्रसीद पश्य मां नारीं प्रभुं च प्रापयाशु मे ॥ ३.१४८{४६} ॥ यदा मे पुरुषो भर्त्ता स्वस्ति गेहसमागतः । तदोपढौकयिष्यामि स्वर्णचक्रं हरे तव ॥ ३.१४९{४७} ॥ इति सख्याः पुरः प्रोक्त्वा स्मृत्वा नित्यं हरिं मुदा । स्वर्णचक्रं च संकल्प्य तस्थौ भर्तुः स्मरन्ति स ॥ ३.१५०{४८} ॥ तदैव सार्थवाहोऽसौ सर्वसार्थगणैः सह । बहुरत्नानि संगृह्य प्रतस्थे सहसा ततः ॥ ३.१५१{४९} ॥ ततः स्वस्ति समुत्तीर्य्य महोदधेस्तदागतः । सर्वसार्थगणैः सार्द्धं सहसा गृहमाययौ ॥ ३.१५२{५०} ॥ (र्म् ४६) ततस्तं गृहसंप्राप्तं दृष्ट्वा सा नंदिता सती । पादौ नत्वा पुरः स्थित्वा स्वं प्रवृत्तमभाषत ॥ ३.१५३{५१} ॥ स्वामिन् यदा भवान् गेहात्प्रस्थितो मां विहाय च । तदारभ्य सदा स्मृत्वा त्वामेवास्मि स्थिता गृहे ॥ ३.१५४{५२} ॥ तदाहमनया सख्या दृष्ट्वा त्वद्विरहातुरा । तद्दुःखं मे विनोदार्थं प्रेरिता स्मरणे हरेः ॥ ३.१५५{५३} ॥ तदारभ्य सदा नित्यं स्मृत्वा तवेष्टदेवताम् । भजामि सततं भक्त्या तवाशु गमनार्थिनी ॥ ३.१५६{५४} ॥ चक्रमेकं सुवर्णस्य संकल्प्य श्रद्धया मया । प्रार्थनापि कृता नित्यं तव यात्राप्रसिद्धये ॥ ३.१५७{५५} ॥ यथा मे प्रार्थितं सर्वं तथा सिद्धं हि सांप्रतम् । तन्मे संकल्पितं देव पूरयेयं तथा प्रभो ॥ ३.१५८{५६} ॥ तत्पूजांगं समादाय शक्रं समुपढोकितुम् । देवकुलं गमिष्यामि तदनुज्ञां प्रदेहि मे ॥ ३.१५९{५७} ॥ इति भार्योदितं श्रुत्वा सार्थवाहोऽनुमोदितः । पूरय त्वं प्रिये सत्यं गच्छेत्येवमभाषत ॥ ३.१६०{५८} ॥ ततः सानुज्ञया भर्तुः सती सार्द्धं सखीजनैः । पूजांगानि च तं चक्रं धृत्वा देवकुलं ययौ ॥ ३.१६१{५९} ॥ तस्मिं क्षणे स संबुद्धो भगवान् करुणामयः । लोके सत्वान् समुद्धर्तुमपश्यद्बुद्धचक्षुषा ॥ ३.१६२{६०} ॥ तामेवं प्रस्थितां दृष्ट्वा भद्रां सद्धर्मचारिणीम् । प्रैक्षच्च भगवानेनां प्रत्येकबोधिलाभिनीम् ॥ ३.१६३{६१} ॥ ततोऽसौ भगवान् बुद्धः संनिरीक्ष्य च तां सतीम् । सर्वान् भिक्षुगणां छिष्यान् समामंत्र्याब्रवीत्तथा ॥ ३.१६४{६२} ॥ पश्यध्वं भिक्षवो यूयं दारिकं तां सुभद्रिकाम् । नूनं मद्दर्शनादेषा बोधिचित्तमवाप्नुयात् ॥ ३.१६५{६३} ॥ सम्यक्कुशलमूलानि समवरोपयिष्यति । ध्रुवं प्रत्येकबोधौ च प्रणिधानं करिष्यति ॥ ३.१६६{६४} ॥ तस्मात्संदर्शनं दत्वा दारिकां तां सुभाविनीम् । प्रत्येकबोधिचर्यायां सुप्रतिस्थापयाम्यहम् ॥ ३.१६७{६५} ॥ तत्र च गन्तुमिछन्ति ये मया सह भिक्षवः । (र्म् ४७) पात्रचीवरमादाय ते प्रायातं चरेमहि ॥ ३.१६८{६६} ॥ इत्यादिष्टं जिनेन्द्रेण श्रुत्वा सर्वेऽपि सांघिकाः । पात्रचीवरसंयुक्तास्तत्र गंतुमुपाचरन् ॥ ३.१६९{६७} ॥ ततोऽसौ भगवान् बुद्धः स्वप्रभावं प्रदर्शयन् । सर्वैश्च सांघिकैः सार्द्धं राजगृहमुपासरत् ॥ ३.१७०{६८} ॥ तत्र मार्गे समायाता दारिका ससखीवृता । तं बुद्धं श्रीघनं दूराद्ददर्श संप्रभास्वरम् ॥ ३.१७१{६९} ॥ द्वात्रिंशल्लक्षणोपेतमशीतिव्यंजनान्वितम् । दिव्यातिक्रान्तसौन्दर्य्यं समन्तभद्ररूपकम् ॥ ३.१७२{७०} ॥ सहस्रेणातिरिक्ताभं सौम्यं कान्तं मनोहरम् । पुण्डरीकमिवोद्भासं रत्नाङ्गमिव जंगमम् ॥ ३.१७३{७१} ॥ साक्षात्पुण्यावतारं च दृष्ट्वा चात्यनुमोदिता । सहसोपेत्य तच्चक्रमुपढौकितुमैछत ॥ ३.१७४{७२} ॥ एवं तां चक्रमादाय संबुद्धमुपढौकितुम् । प्रयातं तां सखी दृष्ट्वा निवारयितुमब्रवीत् ॥ ३.१७५{७३} ॥ नायं नारायणो भद्रे सुगतोऽयं जितेन्द्रियः । तदस्मै मा प्रदेहीदं चक्रं संकल्पितं हरेः ॥ ३.१७६{७४} ॥ एवं निवार्य्यमानापि सखीभिः सा च भद्रिका । सद्धर्मगुणवांछन्ती ताः सखीः पुनरब्रवीत् ॥ ३.१७७{१७५} ॥ सख्यो भाग्यान्मयाप्येवं संबुद्धो दृश्यतेऽधुना । तदद्य सफलं जन्म संसारे जीवितं च मे ॥ ३.१७८{७६} ॥ यदाभास्पर्शिता चापि सत्वाः क्लेशविमोचिताः । संवृत्तिसुखसंप्राप्ता निर्वृत्तिमपि चाप्नुयुः ॥ ३.१७९{७७} ॥ यन्नामोच्चारणाद्वापि संभाव्यस्मरणादपि । मारपाशविनिर्मुक्ताः संबोधिपदमाप्नुयुः ॥ ३.१८०{७८} ॥ यद्धर्मश्रवणादेवं नित्यानुमोदनादपि । सर्वपापविनिर्मुक्ताः सद्गतिं समवाप्नुयुः ॥ ३.१८१{७९} ॥ यत्संघेषु सुपात्रेषु किंचिन्मात्रार्प्पनादपि । संसारेऽनन्तसौख्यानि भुक्त्वा यायुः सुखावतीम् ॥ ३.१८२{८०} ॥ येनैवं पालिताः सत्वाः षड्गतिचरिता अपि । (र्म् ४८) बोधयित्वा च सद्धर्मे स्थापिता निर्वृतावपि ॥ ३.१८३{८१} ॥ यस्य धर्मानुभावाच्च मंगलं भुवनत्रये । सर्वे सत्वा सुखाढ्याश्च संबोधिपदचारिणः ॥ ३.१८४{८२} ॥ सोऽप्ययं भगवान्नाथः शास्ता त्रैलोक्याधिपः । नूनं मे पुण्यभाग्येन दृश्यतेऽयत्नतोऽधुना ॥ ३.१८५{८३} ॥ तदहं कुशलिनी स्यां हि संबुद्धेन दर्शिता । महाभाग्यवती चास्मि यदयं सद्गुरुः सुधीः ॥ ३.१८६{८४} ॥ अमृग्यमान एवेत्थं लभ्यते पुरतो मया । तदहं पूजयित्वेमं चक्रं च समुपढौकितुम् ॥ ३.१८७{८५} ॥ इछाम्यस्मै मुनींद्राय निर्वृतिपदलब्धये । अपि चात्र सदा नैव संबुद्धो लप्स्यते तथा ॥ ३.१८८{८६} ॥ कदा चिद्धि जिनोत्पत्तिः पुष्पमौदुन्वरं यथा । मानुष्येऽपि सदा नैव जन्म भवानुचारिणाम् । पुण्यैरेव हि मानुष्यं लप्ष्यते जन्म दुल्लभम् ॥ ३.१८९{८७} ॥ मानुष्येऽलभ्यमाने तु कथं बुद्धानुसेवना । बुद्धसेवां विना केन बोधिचित्तमवाप्नुयात् ॥ ३.१९०{८८} ॥ बोधिचित्तं विना कस्य सद्धर्मेषु मतिश्चरेत् । विना धर्ममतिं को हि बोधिचर्य्यां समाचरेत् ॥ ३.१९१{८९} ॥ बोधिचर्यां विना लोके हितं कर्तुं कथं चरेत् । लोके हितमकृत्वैव कुतः पुण्यमवाप्नुयात् ॥ ३.१९२{९०} ॥ अपुण्येन कथं क्लेशान् हित्वा निर्वृतिमाप्नुयात् । तस्मात्क्लेशविमुक्त्यर्थं निर्वृत्तिपदलब्धये ॥ ३.१९३{९१} ॥ इमं बुद्धं जगन्नाथमिछाम्यभ्यर्चितुं मुदा । बुद्ध एव जगन्नाथः सर्वसत्वहितार्थदः ॥ ३.१९४{९२} ॥ सद्धर्मदेशकः शास्ता संबोधिज्ञाननायकः । तस्मादेनं समुत्सृज्य नान्यमिछामि चार्चितुम् ॥ ३.१९५{९३} ॥ अस्यैव शरणं गत्वा भजिष्यामि सदाप्यहम् ॥ ३.१९६{९४} ॥ इति सा दारिका प्रोक्त्वा चक्रमादाय मोदिता । संबुद्धं चार्प्पितुं तस्मै पूजां कर्तुमुपाययौ ॥ ३.१९७{९५} ॥ अथ सा तं मुनिं नत्वा पूजाभिश्च समर्चयत् । तं चक्रं समुपस्थाप्य नत्वैवं प्रणिधिं व्यधात् ॥ ३.१९८{९६} ॥ (र्म् ४९) यथायं सुगतो बुद्धो निःक्लेशो विजितेन्द्रियः । तथाहमपि शुद्धात्मा निर्वृतिपदमाप्नुयाम् ॥ ३.१९९{९७} ॥ तथासौ भगवान् बुद्धो दृष्ट्वा तत्प्रणिधिं ततः । सुप्रसन्नमुखाम्भोजाद्व्यसृजत्संस्मितामृतम् ॥ ३.२००{९८} ॥ तत्स्मितसहोच्चार्यमाणा पंचविधांशवः । के चिदूर्द्ध्वं गताः के चिदधो याताश्च तेऽंशवः ॥ ३.२०१{९९} ॥ ये च याता अधोलोके ते संजीवनरके गताः । कालसूत्रे च संघाते तथा च रौरवे ततः ॥ ३.२०२{१००} ॥ महारौरवके चापि तपने च प्रतापने । अवीचौ चार्बुदे चापि निरर्बुदे तथाटटे ॥ ३.२०३{१} ॥ हहवे हुहुवे चैवमुत्पले पद्मके तथा । महापद्मेऽपि चैतेषु षोडशेषु समंततः ॥ ३.२०४{२} ॥ तथोपनारकेष्वेवं सर्वेष्वपि च तेऽंशवः । प्रसृता भासयित्वैवं प्राकाशयन् समंततः ॥ ३.२०५{३} ॥ ये शीतनरकास्तेषु तूष्णीभूता निपातिताः । ये उष्णनरकास्तेषु शीतीभूता व्यभासयन् ॥ ३.२०६{४} ॥ तेषु ये पापिनः सत्वा दुःखातिवेदनातुराः । ते सर्वे तद्द्युतिस्पृष्टास्तद्दुःखवेदनोज्झिताः ॥ ३.२०७{५} ॥ शांतसौख्यानुभूताश्च विस्मयोद्धतमानसाः । दृष्ट्वैव सह संमील्य मिथश्चैवमभाषत ॥ ३.२०८{६} ॥ अहो चित्रं भवन्तोऽद्य किं नु वयमितश्च्युताः । अन्यत्र चरिताः स्मः किं वताहोस्विन्न मन्यते ॥ ३.२०९{७} ॥ इति संदिग्धचित्तानां तेषां चित्तप्रबोधने । भगवान्निर्मितं तत्र प्रैषयच्च समंततः ॥ ३.२१०{८} ॥ अथ तं निर्मितं सौम्यं दृष्ट्वा ते संप्रसादिताः । भूयो दृष्ट्वाभिमोदन्तो मिथश्चैवं वभाषिरे ॥ ३.२११{९} ॥ भवन्तो नु वयं सर्वे नान्यत्र चरिता इतः । अपि त्वयमिहायातः सत्वो ह्यपूर्वदर्शनः ॥ ३.२१२{१०} ॥ (र्म् ५०) नूनमस्यानुभावेन निर्दुःखा सुसुखा वयम् । इति ते निर्मिते तस्मिन् बौद्धे चित्तं प्रसाद्य च ॥ ३.२१३{११} ॥ नमो बुद्धाय ते तायिन्नित्युक्त्वा शरणं ययुः । ततः सर्वे च ते सत्वास्तद्बुद्धस्मृतिधारिणः ॥ ३.२१४{१२} ॥ निःपापाः कुशलाध्याश्च सद्गतिं सहसा ययुः । ये तथोर्द्धं गतास्ते च बुद्धस्मितोत्सृताः कराः ॥ ३.२१५{१३} ॥ गत्वा चातुर्महाराजभुवनेषु ततो गताः । त्रयस्त्रिंशाश्च यामाश्च तथा च तुषितां गताः ॥ ३.२१६{१४} ॥ निर्माणरतिकां चान्यनिर्मितवशवर्त्तिनः । ब्रह्मकायिकलोकं च तथा ब्रह्मप्रोहितम् ॥ ३.२१७{१५} ॥ महाब्राह्मणलोकांश्च परीत्ताभं तथा गताः । अप्रमाणं ततो याता आभास्वरां तथा गताः ॥ ३.२१८{१६} ॥ परीत्तशुभमेवं च ह्यप्रमाणशुभं तथा । शुभकृत्स्नमनभ्रं च पुण्यप्रसवसंज्ञिकम् ॥ ३.२१९{१७} ॥ बृहत्फलं तथा चैवमबृहमतपं तथा । सुदृशं भुवनं चैव सुदर्शनं तथा गताः ॥ ३.२२०{१८} ॥ अकनिष्ठं तथा गत्वा प्रोच्चैरेवमघोषयन् ॥ ३.२२१{१९} ॥ अनित्यं खलु संसारं दुःखं शून्यं ह्यनात्मकम् । इति मत्वा त्रिरत्नानि संभजध्वं समाहिताः ॥ ३.२२२{२०} ॥ निष्क्रामतारभध्वं च युज्यध्वं बुद्धशासने । धुनीत मृत्युसैन्याश्च नडागारं यथा करी ॥ ३.२२३{२१} ॥ योऽप्यस्मिन् धर्मवैनेये ह्यप्रमत्तश्चरिष्यति । स हित्वा जातिसंसारं दुःखस्यान्तं करिष्यति ॥ ३.२२४{२२} ॥ एवं ता अर्चिषः सर्वांल्लोकधातून् समंततः । अवभास्य शुभे सत्वान् विनीय पुनरागताः ॥ ३.२२५{२३} ॥ भगवतोऽग्रतः स्थित्वा कृत्वा प्रदक्षिणत्रयम् । ऊर्णायां च मुनीन्द्रस्य सर्वा अन्तर्दधुस्त्विषः ॥ ३.२२६{२४} ॥ तदानन्दः समुत्थाय कृतांजलिपुटो नतः । (र्म् ५१) जानुभ्यां भुवि संस्थित्वा भगवन्तं समब्रवीत् ॥ ३.२२७{२५} ॥ नानारङ्गकलापस्ते वक्त्रान्निष्कसितो मुनेः । येनावभासिताः सर्वा सूर्येणोदयता यथा ॥ ३.२२८{२६} ॥ विगतोद्धवा दैन्यमदप्रहीणा बुद्धा जगत्युत्तमहेतुभूताः । नाकारणं शंखमृणालगौरं स्मितमुपदर्शयन्ति जिना जितारयः ॥ ३.२२९{२७} ॥ तत्कालं स्वयमधिगम्य धीरबुद्ध्या श्रोतॄणां श्रमणजिनेन्द्र कांक्षितानाम् । धीराभिर्मुनिवृष वाग्भिरुत्तमाभिरुत्पन्नं व्यपनय संशयं शुभाभिः ॥ ३.२३०{२८} ॥ नाकस्माल्लवणजलाद्रिराजधैर्य्याः संबुद्धाः स्मितमुपदर्शयन्ति नाथाः । यस्यार्थे स्मितमुपदर्शयन्ति धीरास्तं श्रोतुं समभिलषन्ति जनौघाः ॥ ३.२३१{२९} ॥ इत्यानंदवचः श्रुत्वा संबुद्धो भगवानसौ । तत्स्मितहेतुमादेष्टुं तमानन्दं समब्रवीत् ॥ ३.२३२{३०} ॥ एवमेतत्तथानन्द नाहेत्वप्रत्ययं स्मितम् । प्राविष्कुर्वन्ति संबुद्धा अर्हन्तः सुगता जिनाः ॥ ३.२३३{३१} ॥ पश्यानन्दानया नार्य्या चक्रं मे समुपार्प्पितम् । पूजयित्वा प्रणत्वा च बोधौ च प्रणिधिः कृता ॥ ३.२३४{३२} ॥ अनेन दानधर्मेण कुशलैश्च समन्विताः । दारिकेयं सुभद्रांशा दिव्यभोग्यं समाप्नुयात् ॥ ३.२३५{३३} ॥ न पंचदशकल्पानि विनिपातं गमिष्यति । ततश्चक्रान्तरो नाम प्रत्येकसुगतो सुधीः ॥ ३.२३६{३४} ॥ अर्हं क्लेशविमुक्तात्मा पंचाभिज्ञो जितेन्द्रियः । सर्वसत्वानुकंपी च ब्रह्मचारी भविष्यति ॥ ३.२३७{३५} ॥ यन्मयि सुगते बुद्धे चित्तमस्याः प्रसीदति । तेन पुण्यबलेनेयं प्रत्येकबोधिमाप्स्यति ॥ ३.२३८{३६} ॥ सुगतेषु कृतं पुण्यं न क्षिणोति कदा चन । क्रमात्तेन विशुद्धात्मा संबोधिमपि चाप्नुयात् ॥ ३.२३९{३७} ॥ इति मत्वा त्रिरत्नेषु चित्तमेवं प्रसाद्य च । श्रद्धया संप्रकर्त्तव्यं सत्कारं बोधिवांछिभिः ॥ ३.२४०{३८} ॥ इत्यादिष्टं मुनीन्द्रेण श्रुत्वा सर्वे जनाश्च ते । (र्म् ५२) तथेत्यभ्यनुमोदन्तस्त्रिरत्नसेविनोऽभवन् ॥ ३.२४१{३९} ॥ ततो बुद्धानुभावेन तच्चक्रं खे समुद्गतम् । क्षणं बुद्धोपरि स्थित्वा छत्रमिवोज्ज्वलन् बभौ ॥ ३.२४२{४०} ॥ ततश्च वियतो गत्वा हरिहर्म्योपरि स्थितम् । सुदर्शनमिवोद्दीप्तं बभौ रस्मिसमुत्किरन् ॥ ३.२४३{४१} ॥ ततोऽसौ भगवान् बुद्धो दृष्ट्वा तां दारिकां स्वयम् । शिरसि पाणिना स्पृष्ट्वा स्वाशीर्वचनमादिशत् ॥ ३.२४४{४२} ॥ भद्रे ते मंगलं भूया विनिपातं न चाप्नुहि । क्रमात्पारमिताः पूर्य्य प्रत्येकं बोधिमाप्नुहि ॥ ३.२४५{४३} ॥ इत्याशीर्वचनं दत्वा संबुद्धोऽसौ मुनीश्वरः । ततो राजगृहं गंतुमुपाचरत्ससांघिकः ॥ ३.२४६{४४} ॥ ततोऽसौ दारिका चापि नत्वा तं सुगतं पुनः । दृष्ट्वैवं मुहुः स्मृत्वा स्वगेहं समुपाययौ ॥ ३.२४७{४५} ॥ तत्र गेहे प्रविष्ट्वासौ दारिका संप्रमोदिता । भर्त्तुरग्रे च तद्वृत्तमाचख्ये सर्वमादरात् ॥ ३.२४८{४६} ॥ भर्त्ताप्यसौ तथा श्रुत्वा बुद्धधर्मानुमोदितः । तयैवं भार्यया सार्द्धं भेजे रत्नत्रयं सदा ॥ ३.२४९{४७} ॥ एवं मे गुरुणा ख्यातं तथा ते कथ्यते मया । त्वमप्येवं महाराज त्रिरत्नानि सदा भज ॥ ३.२५०{४८} ॥ प्रजाश्चापि त्रिरत्नानां भजने प्रेरय प्रभो । तथा ते मंगलं नित्यं बोधिं चापि समाप्नुयाः ॥ ३.२५१{४९} ॥ इति तेनोपगुप्तेन भाषितं तत्सुभाषितम् । श्रुत्वाशोको नरेन्द्रोऽसौ मुमोद सह पार्षदैः ॥ ३.२५२{५०} ॥ एतच्चक्रावदानं मुनिवरगुणदं यः शृणोति प्रसाद्य । श्रुत्वा यश्चानुमोद्य प्रमुदितमनसा श्रावयत्येवमन्यान् । स जित्वा क्लेशसंघान् विगतकलिमलो बुद्धधर्मानुचारी । पूतात्मा सद्गुणाढ्यः मुनिवरनिलयैः संप्रयाति प्रमोदात् ॥ ३.२५३{५१} ॥ ++ इति रत्नावदानमालायं चक्रावदानो नाम समाप्तम् ++ (र्म् ५३) इव्प्रेतिकावदान अथाशोको महीपालः सद्धर्मचरणोत्सवः । उपगुप्तं गुरुं नत्वा कृताञ्जलिपुटोऽवदत् ॥ ४.१{१} ॥ भदन्त श्रोतुमिछामि पुनरन्यत्सुभाषितम् । यथा मे गुरुणा प्रोक्तं तथा वक्तुं समर्हसि ॥ ४.२{२} ॥ इति तेन नरेन्द्रेण प्रार्थितेऽसौ जिनांशजः । उपगुप्तो महाभिज्ञस्तं नरेशमभाषत ॥ ४.३{३} ॥ यथा मे गुरुणादिष्टं तथा वक्ष्यामि तेऽधुना । तथापि श्रूयतां राजन् तव धर्मप्रवृद्धये ॥ ४.४{४} ॥ पुरैकसमये चासौ संबुद्धो भगवाञ्जिनः । चैलकैश्च तथान्यैस्तत्सद्धर्मगुणवांछिभिः ॥ ४.५{५} ॥ राजगृहमुपाश्रित्य वेणुवने जिनाश्रमे । करण्डकनिवापाख्ये तस्थौ धर्मं समादिशत् ॥ ४.६{६} ॥ तद्धर्म्मदेशनां श्रोतुं सदेवासुरमानुषाः । सिद्धविद्याधराश्चापि यक्षगंधर्वकिन्नराः ॥ ४.७{७} ॥ गरुडा नागराजाश्च राक्षसाश्च महोरगाः । सर्वे लोकाधिपाश्चापि ससैन्यपरिवारकाः ॥ ४.८{८} ॥ राजानो राजमात्राश्च ब्राह्मणाश्च महाजनाः । मंत्रिणो श्रेष्ठिनश्चापि सार्थवाहाश्च पौरिकाः ॥ ४.९{९} ॥ ऋषयो योगिनश्चापि यतयो ब्रह्मचारिणः । एवमन्येऽपि लोकाश्च परिवृत्य समंततः ॥ ४.१०{१०} ॥ सत्कृत्य स्वर्य्य पूजाङ्गैः सर्वोपकरणैरपि । मानयित्वा च तं नाथं दृष्ट्वा तस्थुः समाहिताः ॥ ४.११{११} ॥ तस्मिंश्च समये तत्र मौद्गल्यायन आत्मवित् । स प्रेतभुवने गत्वा चरन् प्रेतीमपश्यत ॥ ४.१२{१२} ॥ स्वकेशरोमसंछन्नां दग्धस्थूनामहाकृतिम् । सूचीमुखीं महत्कायीं पर्वतसंनिभोदराम् ॥ ४.१३{१३} ॥ पिङ्गलकेशिनीं रौद्रीं प्रदीप्ताग्निशिखामिव । (र्म् ५४) तीव्रातिवेदनाक्रान्तां तृषार्त्तं परिमूर्छिताम् ॥ ४.१४{१४} ॥ तत्रायुष्मान् स मौद्गल्यो दृष्ट्वा तां प्रेतिकां चिरम् । कैषेति सहसोपेत्य पप्रछ समुपागताम् ॥ ४.१५{१५} ॥ किं त्वया प्रकृतं पापं येनैवं दुःखभागिनी । तृषार्त्ता जलमार्गन्ती भ्रमित्वा चरसेऽधुना ॥ ४.१६{१६} ॥ इति तेन यतीशेन पृष्ट्वा सा प्रेतिका ततः । तं यतिं सौगतं नत्वा प्ररुदित्वावदत्तथा ॥ ४.१७{१७} ॥ भदन्त तद्विजानीयाः पापकारिण्यहं यतः । एवं तृष्णाप्रतप्ताङ्गा भ्रमामि जललालसा ॥ ४.१८{१८} ॥ यत्राहमुदकं पातुं गछामि तृष्णयान्विता । अत्र पश्यामि नद्यादिजलाधारान् विशोषितान् ॥ ४.१९{१९} ॥ यदा वर्षति देवे च दृष्ट्वा तदम्बुपातितम् । पातुमिछन्त्ल्तृष्णार्त्ता सहसाहं प्रधाविता ॥ ४.२०{२०} ॥ तदा पश्यामि तद्विन्दुविस्फुलिङ्गनिभोज्वलान् । दृष्ट्वैवं निराशान्धा भ्रमामि दिक्षु सर्वतः ॥ ४.२१{२१} ॥ किं मया प्रकृतं पापं येनास्म्येवं सुपापिनी । तन्मे पापं जगच्छास्ता पृछ्यतां भवतादरात् ॥ ४.२२{२२} ॥ नूनं सो भगवाञ्छास्ता यन्मे कर्मपुराकृतम् । व्याकरिष्यति तत्सर्वं तथा लोकप्रबोधने ॥ ४.२३{२३} ॥ यच्छ्रुत्वान्येऽपि सत्वाश्च संविग्नमनसो द्रुतम् । विरम्य पापमार्गेभ्यश्चरिष्यन्ति शुभे सदा ॥ ४.२४{२४} ॥ तस्माद्भदन्त सर्वज्ञस्तव शास्ता स पृछ्यताम् । व्याकुर्यान्मम सर्वत्र यत्कर्म प्रकृतं पुरा ॥ ४.२५{२५} ॥ अस्मन्नाम्ना स संबुद्धो वंद्यतां भवता यथा । इत्युक्त्वा सा तमात्मजं नत्वा प्रेता गृहं ययौ ॥ ४.२६{२६} ॥ स मौद्गल्यस्तथेत्युक्त्वा तत्संदेशमनुस्मरन् । सहसैतत्परिप्रष्टुं वेणुवनमुपाययौ ॥ ४.२७{२७} ॥ तदादौ भगवान् दृष्ट्वा तन्मौद्गल्यमुपागतम् । प्रहसन् सुप्रसन्नास्यः समामंत्र्यैतदब्रवीत् । कंचित्ते कुशलं वत्स कुतोऽत्रासि समागतः । लोकेषु किं प्रवृत्तांतं तत्प्रचक्ष्व महामते । (र्म् ५५) इति पृष्टे जिनेन्द्रेण स मौद्गल्यः पुरोगतः ॥ ४.२८{२८} ॥ आदौ तस्य मुनेर्नत्वा तत्प्रवृत्तमुदाहरत् । आगतोऽस्मि भदन्तोऽहं चरित्वा प्रेतभूमिषु ॥ ४.२९{२९} ॥ तत्र स्थितोऽहमीक्षन् तां प्रेतीमेकां भयानकीम् । दग्धस्थूणानिभां नग्नां पर्वतसन्निभोदराम् ॥ ४.३०{३०} ॥ सूचीछिद्रमुखच्छिद्रां कंकारयन्त्रिकामिव । स्वकेशरोमसंछन्नां ज्वलिताग्निशिखामिव ॥ ४.३१{३१} ॥ तिव्रातिवेदनाक्रान्तामार्त्तस्वरानुरोदिनाम् । दुर्गन्धामशुचिव्याप्तां स्वकेशपरितापिताम् ॥ ४.३२{३२} ॥ विण्मूत्रानुभोक्तुं च साक्षात्पापावतारिकाम् । भगवन् सा मया दृष्ट्वा तृष्णार्त्ता जललालसा ॥ ४.३३{३३} ॥ भ्रमन्ती जलमार्गन्ती जलाश्रयेषु सर्वतः । नदीकूपतडागादिनुदपानजलाश्रयान् ॥ ४.३४{३४} ॥ स्वेछाम्बुपूरितान् दृष्ट्वा प्राधावत्सहसा यदा । तस्या दर्शणमात्रेण ते सर्वेऽपि जलाश्रयाः ॥ ४.३५{३५} ॥ निर्जलाः पंकशेषेण शुशुषुश्च समंततः । तथा विशोषितां दृष्ट्वा नद्यादींस्ताञ्जलाश्रयान् ॥ ४.३६{३६} ॥ निराशा परितप्ताङ्गा सा प्रेती पर्यमूर्छत । ततश्च पुनरुत्थाय क्षुत्तृष्णोन्मादचारिणी ॥ ४.३७{३७} ॥ जलं चान्नं समन्वेष्टुं बभ्राम दिक्षु सर्वतः । तथापि सा जलं नासादयत्कुहापि वा ॥ ४.३८{३८} ॥ ततोऽतितृष्णया तप्ता विण्मूत्रभोक्तुमैछत । तदपि कृच्छ्रतोऽन्विष्य भुक्त्वा तृप्तिं न सा ययौ ॥ ४.३९{३८} ॥ तथामेध्यानि भुक्त्वापि कदाचिन्नैव तृप्तिता । क्षुत्तृष्णाहताक्लान्ता पतिता खेदितावसत् ॥ ४.४०{४०} ॥ मां दृष्ट्वा सहसोत्थाय शनैर्मन्दस्वरावदत् । स्वागतं भो भवानैतु रक्ष मां पापिनीं लघु ॥ ४.४१{४१} ॥ पानीयं देहि मे भद्र पानीयं दातुमर्हसि । इति प्रोक्ताभिधावन्ति पानीयं मामयाचत ॥ ४.४२{४२} ॥ ततोऽहमवदं चैनां पानीयं नात्र विद्यते । कात्वमेवं नु दुःखानि भुक्त्वात्र वससे कथम् ॥ ४.४३{४३} ॥ किं त्वया हि कृतं पापं येनैवं दुःखताधुना । (र्म् ५६) वक्तव्यं चेच्च तत्पापं सर्वं मे वक्तुमर्हसि ॥ ४.४४{४४} ॥ इति मे गदितं श्रुत्वा स प्रेती पुनरब्रवीत् । किं मया वक्ष्यते पापं यत्पुरा कुधिया कृतम् ॥ ४.४५{४५} ॥ सर्वज्ञो हि भवच्छास्ता स एवं परिपृछ्यताम् । तत्सर्वाणि च मे पापं स व्याकुर्यात्स सर्ववित् ॥ ४.४६{४६} ॥ अस्मन्नाम्ना च संबुद्धो वंद्यतां भवतादरात् । इति तयोदितं श्रुत्वा प्रतिज्ञाय तथेति च ॥ ४.४७{४७} ॥ भवन्तं प्रष्टुमायामि तत्समादेष्टुमर्हसि । आर्त्तस्वरा रुदन्ती सा प्रेती विन्दति वेदनाम् ॥ ४.४८{४८} ॥ येन विण्मूत्रधानानि तेन धावति दुःखिता । तदपि कृच्छ्रतो लब्ध्वा भुंक्ते किं चित्कदा चन ॥ ४.४९{४९} ॥ एवं सा पापिनी प्रेती दृष्टातिदुःखिता मया । किं तया प्रकृतं पापं मर्त्यलोके सुदारुणम् ॥ ४.५०{५०} ॥ येनैवंविधदुःखं सा ह्यनुभवति सांप्रतम् । कदा सा पापतो मुक्ता कथं च सुगतिं व्रजेत् ॥ ४.५१{५१} ॥ तत्सर्वं वदतां शास्त सर्वसत्वप्रबोधने । इति तेनार्थिते चासौ भगवान् पुनरब्रवीत् ॥ ४.५२{५२} ॥ मौद्गल्यायन सा प्रेती पापिनी मत्सरी कुधीः । तया यत्प्रकृतं पापं येन सा दुःखभागिनी ॥ ४.५३{५३} ॥ तत्सर्वं ते प्रवक्ष्यामि शृणु श्रोतुं यदीछसि ॥ ४.५४{५४} ॥ पुरासीद्भगवान् बुद्धः काश्यपो नाम सर्ववित् । सर्वविद्याधिपो नाथो धर्मराजस्तथागतः ॥ ४.५५{५५} ॥ समन्तभद्रकृच्छास्ता त्रैधातुकविनायकः । जिनोऽर्हन् सुगतस्त्रायी संबोधिमार्गदेशकः ॥ ४.५६{५६} ॥ स सत्वानां हितार्थेन बोधिचर्याः प्रकाशयन् । वाराणसीमुपाश्रित्य मृगदावे जिनाश्रमे ॥ ४.५७{५७} ॥ श्रावकैर्भिक्षुभिः सार्द्धं बोधिसत्वगणैरपि । तस्मिन्नेव पर्षत्मध्ये तस्थौ धर्मं समादिशत् ॥ ४.५८{५८} ॥ तस्मिंश्च समये तस्य भिक्षुरन्यतमो यतिः । अन्यत्रनगरे गत्वा प्रत्यागछत्स्वमाश्रमम् ॥ ४.५९{५९} ॥ (र्म् ५७) तत्र मार्गे तृषार्त्तोऽसौ दूरात्कूपं विलोकयन् । सहसा समुपागत्य कूपान्तिकमुपाययौ ॥ ४.६०{६०} ॥ तदैका दारिका तत्र पूरयित्वा घटं जलैः । सहसा शिरसोहित्वा गृहं गन्तुमुपाचरत् ॥ ४.६१{६१} ॥ स तृषार्त्तो यतिर्दृष्ट्वा तामम्बुघटवाहिकाम् । समुपेत्य जलं पातुं प्रार्थयन् समुपाचरत् ॥ ४.६२{६२} ॥ भगिन्योऽहं तृषार्त्तोऽस्मि दूरदेशादुपागतः । त्वां दृष्ट्वा सहसोपेत्य जलं पातुमिहागतः ॥ ४.६३{६३} ॥ तद्भगिनी जलं देहि जीवय मां तृषातुरम् । दत्वा मे जीवनं त्वं तच्चिरं जीव्या निरोगिनी ॥ ४.६४{६४} ॥ इति तेनार्थितं दृष्ट्वा दारिकासौ दुराशया । मात्सर्य्यप्रहतत्वाता तं भिक्षुं पर्य्यभाषत ॥ ४.६५{६५} ॥ अरे भिक्षोऽत्र मायाहि म्रियसे यदि वा खलु । न ते ददामि पानीयं घटो पूर्णो भवेन्मम ॥ ४.६६{६६} ॥ कूपे यत्नात्समुद्धृत्य पूरयित्वाम्बुना घटे । प्रोहित्वायं मयानीतस्त्वदर्थे किं न मन्यते ॥ ४.६७{६७} ॥ निर्लज्ज क्व नु ते लज्जा परकीयाम्बुमिछसि । राजा किं त्वं धनी वासि गुरुर्वा किं न मन्यते ॥ ४.६८{६८} ॥ इत्याक्षेपं प्रतिक्षिप्य तं भिक्षुं सौगतं यतिम् । अदत्वैवामृतं किं चित्सत्वरा सा गृहं ययौ ॥ ४.६९{६९} ॥ ततो भिक्षुस्तृषार्त्तोऽपि लज्जयासौ न्यवर्त्तते । अन्यत्रैवं समायाच्य पीत्वा ययौ स्वमाश्रमम् ॥ ४.७०{७०} ॥ तत्राश्रमे तरोर्मूले पर्यण्कमुपभुज्य सः । अनुशोचय तां नारीं मनसैवं व्यचिंतयत् ॥ ४.७१{७१} ॥ अहो सा दुर्मती नारी मात्सर्य्यप्रहताशया । कथं न मन्यते ह्येवं मानुष्यजन्म दुर्ल्लभम् ॥ ४.७२{७२} ॥ मानुष्यं पुण्यतो लब्ध्वा निस्फलं क्रियते तया । धिक्तां दुराशयां मूढां यस्या जन्म निरर्थकम् ॥ ४.७३{७३} ॥ कदैषा पापतो मुक्त्वा सद्गतिं समवाप्स्यति । मा गात्सा नरके दुःखं भूयाद्धर्मानुमोदिनी ॥ ४.७४{७४} ॥ शीघ्रं लोकेश्वरस्मार्त्तं लब्ध्वा व्रजतु सन्मतिम् । (र्म् ५८) इत्येवंमनसा भाष्य स भिक्षुर्विजितेन्द्रियः ॥ ४.७५{७५} ॥ त्रिरत्नस्मरणं कृत्वा तस्थौ ध्यानसमाहितः । ततोऽसौ दारिका गेहे प्राप्ता भर्तुः पुरोगता ॥ ४.७६{७६} ॥ एतत्सर्वं प्रवृत्तांतं विस्तरेणाब्रवीन्मुदा । स्वामिन्नद्याम्बुसंपूर्णं घटं धृत्वागता पथि ॥ ४.७७{७७} ॥ ततो भिक्षुरुपागत्य पानीयं मां प्रयाचति । अदत्वैवं जलं तस्मै भिक्षवे सत्वरागता ॥ ४.७८{७१} ॥ वहुशो याच्यमानापि किं चिन्नैव ददाम्यहम् । इति तयोक्तमात्रेऽसौ भर्त्ता साधुरपि क्रुधा । तां भार्यां रुक्षणेत्रेण दृष्ट्वा चैवमभाषत ॥ ४.७९{७२} ॥ अरे पापिनि दुर्बुद्धे कथं न दीयते त्वया । कियद्व्येति जलं दत्वा भिक्षवे तृषिताय ते ॥ ४.८०{७१!} ॥ जलमात्रप्रदानेऽपि यस्याः श्रद्धा न विद्यते । सा किमन्नं धनं रत्नं कथां दातुं समुत्सहेत् ॥ ४.८१{७२} ॥ धिक्त्वां पापिनीं दुष्टां यस्या नास्ति दयार्थिने । किं त्वया मम सत्यापि यशोधर्मप्रघातया ॥ ४.८२{७३} ॥ यद्येवं न प्रदद्यास्त्वं कस्मै चिदर्थिने जलम् । प्रेयसीमपि भार्ये त्वां परित्यक्ष्याम्यहं खलु ॥ ४.८३{७४} ॥ यदि मे प्रियतां कर्तुमिछसि स्नेहचेतसा । अर्थिनो मानयित्वा तद्दानं कर्तुं समुत्सहेः ॥ ४.८४{७५} ॥ नो चेदेवं मया त्यक्ता व्रज मा तिष्ठ मे गृहे । अवश्यं नौ वियोगः स्यादेकान्ते मरणं ध्रुवम् ॥ ४.८५{७६} ॥ किं त्वादृश्या स्त्रिया पुंसः केवलं धर्महानये । धर्मं विना न मे कार्य्यं दाक्षिण्यापि च भार्यया ॥ ४.८६{७७} ॥ किं त्वया कांतयाप्येवं मात्सर्य्यकुलदुर्धिया । धर्म एव विनश्येत तद्व्रज मा गृहे वस ॥ ४.८७{७८} ॥ धर्मेण रक्ष्यते लोकः कान्तया किं हि रक्ष्यते । तत्कान्तापि परित्याज्या यदि पापनुरगिनी ॥ ४.८८{७९} ॥ (र्म् ५९) भार्या हि पालनीया सा यदि धर्मार्थिनी सती । किं त्वं पापार्थिनी दुष्टा यशोधर्मविनाशिनी ॥ ४.८९{८०} ॥ नैवाहं च त्वया सार्द्धं भोक्तुं रन्तुं समुत्सहे । क्रियते चेत्त्वया धर्मस्तथा वस मया सह ॥ ४.९०{८१} ॥ नो चेदेवं मया त्यक्ता त्वं मा तिष्ठ गृहे व्रज । एवं भर्त्त्रोच्यमानापि प्रमदा सा न बोधिता ॥ ४.९१{८२} ॥ मात्सर्य्यालीढचित्तत्वाद्रोषिता चैवमब्रवीत् । नैव स्थास्याम्यहं यास्ये किं स्थित्वैवं विनिन्दिता ॥ ४.९२{८३} ॥ कियत्त्वय्यपराधं मे यत्तथाहं विमोचिता । किं स भिक्षुर्गुरुर्राजा मित्रं वा ते पिता सुहृत् ॥ ४.९३{८४} ॥ ज्ञातिर्वा स सखा वन्धुः किं च भ्राता प्रभुर्धनी । प्रदत्तं किमदत्तं च कियन्नष्टं भवेत्यतः ॥ ४.९४{८५} ॥ नैव किंचिच्च दास्यामि कस्मै चिद्भिक्षवेऽर्थितम् । अदत्वा मे भवेत्किं हि दास्याम्यहं यथेछया ॥ ४.९५{८६} ॥ दास्यामि वा न दास्यामि का चर्चात्र तथा तव । पापश्चेन्मयि पच्येत धर्मो वापि तथा मम ॥ ४.९६{८७} ॥ त्वमत्र मा कृथाश्चिन्तां किं त्वयात्र विचार्य्यते । शुभं वाप्यशुभं वा मे तव किं तद्विचारता ॥ ४.९७{८८} ॥ तथापि मम दोषं चेद्यास्यामि न वसाम्यहम् । वरं प्राणपरित्याज्यं न तु दानं ददाम्यहम् ॥ ४.९८{८९} ॥ इत्यसौ प्रमदाक्रुष्य भर्तुराक्षिप्य गर्विता । क्वचित्किंचिच्च कस्मैचिद्ददौ नैव कदाचन ॥ ४.९९{९०} ॥ गृहे तिथीनुपायातान् दृष्ट्वैवातिप्ररोषिता । वहुधा क्रुष्य तान् गेहान्न्यकासयद्बलादपि ॥ ४.१००{९१} ॥ तदाशीर्वचनान्येवं श्रुत्वापि परिकोपिता । हसति निन्दयित्वैनां परिभाष्य न्यकासयत् ॥ ४.१०१{९२} ॥ सदा बध्वा गृहद्वारं याचकागतिशंकया । कोष्ठ एव समासीना कदाचिन्न विनिर्ययौ ॥ ४.१०२{९३} ॥ (र्म् ६०) सर्वदा स्वामिना सार्द्धं कृत्वैवं कलहं मुहुः । स्वयमेव प्रभुक्त्वासौ कालमेवमयापयत् ॥ ४.१०३{९४} ॥ ततः काल उपायाते प्रमदा सा रुजान्विता । तदाप्येवं न चोत्सेहे किंचिद्दातुं समर्थिने ॥ ४.१०४{९५} ॥ ततः प्रवृद्धरोगार्त्ता तृष्णार्त्ता परिशोषिता । मृता सा नरके याता प्रेती भवति सांप्रतम् ॥ ४.१०५{९६} ॥ या चाभूद्दारिका दुष्टा मात्सर्य्यप्रहताशया । सैवैषा हि त्वया दृष्टा प्रेती नरकवासिनी ॥ ४.१०६{९७} ॥ इति मौद्गल्य दृष्ट्वैवं प्रत्यक्षं पापदुःखिनीम् । सर्वादा श्रद्धयार्थिभ्यो दातव्यं जलमादरात् ॥ ४.१०७{९८} ॥ सर्ववस्तुप्रदानानां जलदानं महत्तरम् । सर्वेषां जीवनं यस्मादमृतं संवरं जलम् ॥ ४.१०८{९९} ॥ जलपानं विना सर्वे न जीवन्ति हि जन्तवः । तदमृतं जलं शुद्धं दातव्यमर्थिने सदा ॥ ४.१०९{१००} ॥ जलमेव हि पीत्वा ते निराहारास्तपस्विनः । योगिनोऽनेकवर्षानि जीवन्ति प्राणिनो यथा ॥ ४.११०{१} ॥ सर्वाहाराभिसंत्यक्ता जिवंति प्राणिनो जलैः । सर्वान्न परिभुक्त्वापि न जीवन्ति जलैर्विना ॥ ४.१११{२} ॥ तदमृतप्रदानं तज्जीवदानं प्रचक्ष्यते । सर्ववस्तुप्रदानेभ्यो जलदानं प्रशस्यते ॥ ४.११२{३} ॥ विशेषाद्ग्रीष्मकाले तु तृषार्त्ताय च रोगिने । बालवृद्धातुरेभ्यश्च दातव्यं जलमादितः ॥ ४.११३{४} ॥ जलदानं महादानं जलदानसमं न हि । येनाभिधार्य्यते प्राणं तत्फलं संप्रशस्यते ॥ ४.११४{५} ॥ सर्वधातुप्रदानेभ्यः सर्वरत्नप्रदानतः । सर्वान्नभोग्यदानेभ्यो जलदानं महीयते ॥ ४.११५{६} ॥ कन्याकोटिप्रदानाच्च गजकोटिप्रदानतः । गवां कोटिप्रदानाच्च जलदानं महीयते ॥ ४.११६{७} ॥ सप्तरत्नमयीभूमिप्रदानाच्च महीयते । एवं सर्वप्रदानेभ्यो जलदानं महत्तरम् ॥ ४.११७{८} ॥ तृप्यन्ते देवताः सर्वे पितृलोकास्तथापरे । सर्वे भूताश्च सत्वाश्च जलेनैव सदापि हि ॥ ४.११८{९} ॥ तथा द्रव्यानि सर्वाणि भूतानि ह्यशुचिन्यपि । जलाभिषिक्तमात्रेण शुद्ध्यन्ते सर्वदा खलु ॥ ४.११९{१०} ॥ जलं विना न तृप्यन्ते भुक्त्वापि दिव्यभोजनम् । (र्म् ६१) तस्मात्सर्वप्रदानानां जलदानं महीयते ॥ ४.१२०{११} ॥ तथा ये च सुधां पीत्वा दिव्यकान्ता समर्पिता । रमन्ति त्रिदशाः स्वर्गे ते हि सर्वे जलप्रदाः ॥ ४.१२१{१२} ॥ चक्रवर्त्ती नृपेन्द्रो यो रमणीभिः सहामृतम् । भुक्त्वा रमति संमोदी सोऽपि चाम्बुप्रदानतः ॥ ४.१२२{१३} ॥ एवं चान्येऽपि ये लोका यथेछा सुखभोगिनः । निःक्लेशा निरुजा भद्रास्ते हि सर्वे जलप्रदाः ॥ ४.१२३{१४} ॥ ये तु नीचाशयादीनाः क्षुत्पिपासातुराः कृशाः । याचकाः प्रेष्यकाश्चापि सर्वे तेऽम्भोऽप्रदानिकाः ॥ ४.१२४{१५} ॥ जलदानोद्भवं पुण्यं संख्यातुं नैव शक्यते । सर्वैरपि मुनींद्रैश्च किमन्यैर्विबुद्धैर्जनैः ॥ ४.१२५{१६} ॥ मत्वेति श्रद्धया नित्यं दिव्यामृताभिवांछिभिः । अर्थिभ्यः सर्वसत्वेभ्यो दातव्यं जलमादरात् ॥ ४.१२६{१७} ॥ इत्यादिष्टं मुनीन्द्रेण श्रुत्वा सर्वे च भिक्षवः । सर्वेभ्यः सर्वदा कर्तुं जलदानं समैछन् ॥ ४.१२७{१८} ॥ अथानन्दः समुत्थाय नत्वा तं श्रीघनं गुरुम् । कृतांजलिपुटो पृछन् तत्पापपरिमोचनम् ॥ ४.१२८{१९} ॥ कदा सा भगवन् प्रेती तत्पापात्परिमोक्ष्यते । सर्वसत्वाभिबोधार्थं तत्समादेष्टुमर्हसि ॥ ४.१२९{२०} ॥ इत्यानन्देन पृष्टेऽसौ सर्वज्ञो भगवांस्तदा । तमानंदं समारभ्य प्राह पापविमोचनम् ॥ ४.१३०{२१} ॥ शृण्वानंद समाधाय येन सा परिमोक्ष्यते । सर्वसत्वप्रबोधाय तदुपायैः प्रचक्ष्यते ॥ ४.१३१{२२} ॥ सा प्रेती नरकेष्वेवं सर्वेषु भ्रमिता सदा । दुःखाभिवेदनाखिन्ना परितप्तानुतापिता ॥ ४.१३२{२३} ॥ ततः कालान्तरे सैवं स्मृत्वा रत्नत्रयं यदि । (र्म् ६२) नमो बुद्धाय धर्माय संघायेति वदेद्यदा ॥ ४.१३३{२४} ॥ तदा लोकेश्वरो सर्वलोकनाथो जिनात्मजः । दृष्ट्वा तां सहसोपेत्य स्वप्रभाभिः परिस्पृशेत् ॥ ४.१३४{२५} ॥ यदा लोकेश्वराभाभिः स्पर्शिता सा सुधी सती । तदातिसौख्यतां लब्ध्वा विस्मितैवं व्यचिन्तयेत् ॥ ४.१३५{२६} ॥ अहो सौख्यं मया लब्धं कस्यानुभावतोऽधुना । किमाहोस्विदितश्च्युत्वागतोऽन्यत्र वसाम्यहम् ॥ ४.१३६{२७} ॥ इति चिन्तारि तिष्ठन्ती विस्मयोद्धतमानसीम् । दृष्ट्वा लोकेश्वरश्चैनां बोधयितुमुपाचरेत् ॥ ४.१३७{२८} ॥ उपेत्य तर्पयित्वा च स्वतनुनिःसृतैर्जलैः । विविधैर्भोजनैश्चापि प्रतर्प्पयेत्स बोधिराट् ॥ ४.१३८{२९} ॥ ततोऽसौ पापिनी प्रेती पीत्वा तत्तनुजामृतम् । परितृप्ता विशुद्धाङ्गा नत्वा तं प्रार्थयेत्तथा ॥ ४.१३९{३०} ॥ नमस्ते भगवन्नाथ कृपया मां समुद्धर । दर्शय धर्ममार्गं मे सदा ते शरणं व्रजे ॥ ४.१४०{३१} ॥ तयैवं प्रार्थिते चासौ लोकनाथो दयानिधिः । दर्शयित्वार्यमार्गं च श्रावयेद्धर्मदेशनाम् ॥ ४.१४१{३२} ॥ यां श्रुत्वैव च सा प्रेती सर्वपापविमोचिता । ततश्च्युत्वा विशुद्धात्मा जन्म बोधिकुले लभेत् ॥ ४.१४२{३३} ॥ तत्र बोधिचरीः प्राप्तुं चरेद्व्रतमुपोषधम् । तद्व्रतपुण्यभावैश्च बोधिचर्य्याः समाचरेत् ॥ ४.१४३{३४} ॥ क्रमाद्बोधिचरीः पूर्य्य बोधिप्रणिधिमानसः । बोधिसत्वो महासत्वो भविष्यति न संशयः ॥ ४.१४४{३५} ॥ ततो लोकहितं कृत्वा संबोधिपदमाश्रयन् । सर्वदा च सुखं भुक्त्वा सुखावतीं गमिष्यति । तत्रामिताभसंबुद्धं सेवित्वा समुपाश्रयन् । संबोधिज्ञानमासाद्य निर्वृतिं चाप्यवाप्स्यति ॥ ४.१४५{३६} ॥ यद्यसौ स्मरते प्रेती त्रिरत्नानां समाहिता । तदा चैवं ततश्च्युत्वा सौखावतीं गमिष्यति ॥ ४.१४६{३७} ॥ नो चेदेवं हि सा प्रेती सदापि नरके वसेत् । यावन्न स्मरते बुद्धं तावन्न मोक्ष्यते ततः ॥ ४.१४७{३८} ॥ (र्म् ६३) एवं सर्वेऽपि ये सत्वा यावन्तो नरकास्थिताः । तावन्तस्तेऽपि सर्वे च दुष्टाः पापानुचारिकाः ॥ ४.१४८{३९} ॥ यदैषां ये त्रिरत्नानां स्मरन्त्यनुतापिताः । नमो बुद्धाय धर्माय संघायेति वदंति च ॥ ४.१४९{४०} ॥ तदा तत्पापनिर्मुक्ता विशुद्धाङ्गाः शुभाशयाः । सद्धर्माचरणं कर्तुमुत्सहेयुः समाहिताः ॥ ४.१५०{४१} ॥ ततो लोकेश्वरो दृष्ट्वा तान् सत्वान् धर्मभाजनान् । बोधयित्वा प्रयत्नेन बोधिमार्गे नियोजयेत् ॥ ४.१५१{४१!} ॥ ततः सर्वे च ते सत्वा बोधिप्रणिधिमानसाः । सर्वसत्वहितार्थेन समिछेयुः शिवां चरीम् ॥ ४.१५२{४२} ॥ ततस्ते नरकाच्च्युत्वा संप्रयायुः सुखावतीम् । तत्रामिताभनाथस्य धर्मं श्रुत्वानुमोदिताः ॥ ४.१५३{३३!} ॥ बोधिचर्य्याः समाश्रित्य कुर्युर्लोकहितानि ते । क्रमाद्बोधिचरीः पूर्य्य सर्वक्लेशविमुक्तिगाः ॥ ४.१५४{३४} ॥ संबोधिज्ञानमासाद्य निर्वृतिं समवाप्नुयुः । एवमन्येऽपि ये सत्वा लोकेशसरणं गताः ॥ ४.१५५{३५} ॥ ते आशु पापनिर्मुक्ताः सुखावतीं व्रजन्ति हि । ये ये लोकेश्वरं स्मृत्वा भजन्ति सततं मुदा । ते ते सर्वे च निःपापा भवन्ति बोधिभागिनः ॥ ४.१५६{३६} ॥ तस्माल्लोकेश्वरं स्मृत्वा गत्वा च शरणं सदा । त्रिमण्डलविशुद्धेन चरितव्यं व्रतोत्तमम् ॥ ४.१५७{३७} ॥ व्रतोत्तमं समाख्यातमार्याष्टांगिकपोषाधम् । सर्वेषामपि पुण्यानां तद्व्रतपुण्यमुत्तमम् ॥ ४.१५८{३८} ॥ येनैवाशु विशुद्ध्यंते घोरपातकिनापि च । तस्मादेतत्महत्पुण्यं व्रतराजं विदुर्जिनाः ॥ ४.१५९{३९} ॥ यस्य पुण्यानुभावेन पूर्य्य पारमितागणाः । सर्वक्लेशान् विनिर्जित्य शीघ्रं बोधिमवाप्नुयुः ॥ ४.१६०{४०} ॥ येऽप्यतीताश्च संबुद्धाः सर्वज्ञाः सुगता जिनाः । तेऽपि तद्व्रतपुण्यैस्तु शीघ्रं बोधिमवाप्नुवन् ॥ ४.१६१{४१} ॥ येऽप्येतर्हि च संबुद्धाः संबोधिधर्मदेशकाः । (र्म् ६४) तेऽप्येतद्व्रतपुण्यैश्च भवन्ति बोधिपारगाः ॥ ४.१६२{४२} ॥ ये चाप्यनागता बुद्धा भविष्यन्ति तथागताः । तेऽप्येतद्व्रतपुण्यैस्तु लप्स्यन्ते बोधिसंपदम् ॥ ४.१६३{४३} ॥ एवमन्येऽपि ये प्राज्ञाः संबोधिपदवांछिताः । तेऽप्येतद्व्रतमाधाय लभन्ति बोधिसंपदम् ॥ ४.१६४{४४} ॥ तस्मादेतद्व्रतं धृत्वा दातव्यं दानमदरात् । एतत्फलं सदाक्षीणं सूते कल्पतरुर्यथा ॥ ४.१६५{४५} ॥ एतद्व्रतधराः सत्वाः सद्धर्माचरणोद्यताः । सर्वथा न व्रजंत्येव दुर्गतिषु कदाचन ॥ ४.१६६{४६} ॥ सदैव सुगतिं प्राप्ताः सर्वसत्वानुकंपिनः । सद्धर्माचरणं धृत्वा बोधिसत्वा भवन्ति ते ॥ ४.१६७{४७} ॥ ये च लोकेश्वरं स्मृत्वा चरन्त्येतद्व्रतं सदा । ते पश्यन्ति सदाप्येनं लोकनाथं जगत्प्रभुम् ॥ ४.१६८{४८} ॥ तेन लोकेश्वरेणापि दृश्यंते तेऽपि सर्वदा । ये च लोकेशसंदृष्टास्ते सर्वे बोधिभागिनः ॥ ४.१६९{४९} ॥ बोधिसत्वा महासत्वाः संबोधिं समवाप्नुयुः । ये स्मरन्ति सदा नित्यं लोकेशं करुणामयम् । सहसा दुर्गतिं त्यक्त्वा मुक्त्वा यायुः सुखावतीम् ॥ ४.१७०{५०} ॥ ये च तच्छरणं गत्वा भजंति तं जिनात्मजम् । सर्वपापविनिर्मुक्तास्तेऽपि यायुः सुखावतिम् ॥ ४.१७१{५१} ॥ ये सुगन्धैर्जलैः शुद्धैः स्नापयन्ति जगद्गुरुम् । मन्दाकिन्यां च ते स्नात्वा शुद्धा यांति सुखावतिम् ॥ ४.१७२{५२} ॥ पंचगंधादिसौरभ्यैर्लोकेशं लेपयंति ये । चक्रवर्त्तिपदं भुक्त्वा तेऽपि यांति सुखावतीम् ॥ ४.१७३{५३} ॥ चीवरं ये ददंत्यस्मै ते दिव्यवस्त्रसंयुताः । सर्वधर्माधिनाथाश्च यांति चांते सुखावतीम् ॥ ४.१७४{५३*} ॥ सत्कृत्य श्रद्धया येऽपि पुष्पैस्तमर्चयन्ति ये । (र्म् ६५) ते सुरेन्द्रपदं प्राप्य यान्ति चान्ते सुखावतीम् ॥ ४.१७५{५४} ॥ सौरभ्ययोजितैर्धूपैर्ये भजन्ति तमीश्वरम् । ते नरेन्द्रपदं भुक्त्वा यांति चान्ते सुखावतिम् ॥ ४.१७६{५५} ॥ ये ददन्ति च भैषज्यं तस्मै लोकाधिपाय च । चक्रवर्त्तिपदं प्राप्य यांति ते च सुखावतीम् ॥ ४.१७७{५६} ॥ ये ददन्ति प्रदीपानि तस्मै लोकेश्वराय च । ते महेन्द्रपदं भुक्त्वा यान्ति चान्ते सुखावतीम् ॥ ४.१७८{५७} ॥ नैवेद्यं ये ददन्त्यस्मै ते भवन्ति नरेश्वराः । दिव्यभोग्यानि भुक्त्वा च यान्ति चान्ते सुखावतीम् ॥ ४.१७९{५८} ॥ ये च पानं ददन्त्यस्मै ते पीत्वा सततं सुधाम् । स्वर्गे रमन्ति देवेन्द्रा यान्ति चान्ते सुखावतीम् ॥ ४.१८०{५९} ॥ फलमूलादिकं दत्तं यैश्च तस्मै सुतायिने । यथेप्सितसुखं भुक्त्वांतेऽपि यांति सुखावतीम् ॥ ४.१८१{६०} ॥ ताम्बूलं पूगसंयुक्तं लोकेशाय ददन्ति ये । सुरूपाः सत्सुखं भुक्त्वांतेऽपि यान्ति सुखावतीम् ॥ ४.१८२{६१} ॥ शय्यासनं प्रदत्तं यैस्तस्मै सत्वानुकंपिने । ते क्षितीशश्रियं भुक्त्वा यान्त्यंते च सुखावतीम् ॥ ४.१८३{६२} ॥ सिंहासनं प्रदत्तं यैस्तस्मै धर्मानुशासिने । ते वंद्याः सर्वलोकैश्च यान्त्यन्ते च सुखावतीम् ॥ ४.१८४{६३} ॥ छत्रं तस्मै प्रदत्तं यैस्ते नृपाश्चक्रवर्त्तिनः । यशोधर्मसुखं भुक्त्वा संप्रयान्ति सुखावतीम् ॥ ४.१८५{६४} ॥ पताकां ये प्रयछन्ति तस्मै लोकाधिपाय चा । तेऽपि सर्वां महीं भुक्त्वा यान्ति चान्ते सुखावतीम् ॥ ४.१८६{६५} ॥ तस्मै ये च प्रयछन्ति धातुरत्नगणानि च । ते नरेन्द्राश्चतुर्द्वीपां भुक्त्वा यान्ति सुखावतीम् ॥ ४.१८७{६६} ॥ ये वितानं वितन्वंति गेहे तस्य कृपानिधेः । ते नरेन्द्राः सुरेन्द्राश्च भूत्वा यांति सुखावतीम् ॥ ४.१८८{६७} ॥ त्रैलोक्याधिपतेस्तस्य ये कुर्वन्ति प्रदक्षिणाम् । ते नरेन्द्रश्रियं भुक्त्वा यान्ति चान्ते सुखावतीम् ॥ ४.१८९{६८} ॥ संगीतैर्ये प्रकुर्वन्ति पूजां तस्य जगत्प्रभोः । सदा सुभाषितान्येव शृण्वन्ति ते गुणाकराः ॥ ४.१९०{६९} ॥ चामरैर्व्यजनैर्वापि तं नाथं वीजयन्ति ये । (र्म् ६६) ते नृपाः सुरलक्ष्मीं च भुक्त्वा यांति जिनालये ॥ ४.१९१{७०} ॥ शोधयन्ति च ये नित्यं विहारे कारुणानिधेः । दिव्यनेत्राश्च ते सौख्यं भुक्त्वा यांति सुरालयम् ॥ ४.१९२{७१} ॥ कृत्वा रम्यं विहारं च लोकेशाय ददन्ति ये । ते महेन्द्रश्रियं भुक्त्वा संप्रयान्ति सुखावतीम् ॥ ४.१९३{७२} ॥ विहारे तत्र संसिद्धे यष्टिमारोप्य ये नराः । सुवर्णकलशांश्छत्रध्वजघण्टावलीयुतान् ॥ ४.१९४{७३} ॥ पंचवर्णपताकाभिः पुष्पस्रग्भिश्च संयुतान् । संप्रतिस्थां प्रकुर्वति महोत्साहैर्विधानतः ॥ ४.१९५{७४} ॥ ते नरेन्द्राः सुरेन्द्राश्च यशोधर्मसुखान्विताः । माहेश्वर्य्यश्रियं भुक्त्व यान्ति चान्ते सुखावतीम् ॥ ४.१९६{७५} ॥ पद्यगद्यमयैः स्तोत्रैर्ये स्तुवंति तमीश्वरम् । निःपापाः सुखिनः प्राज्ञास्ते प्रयान्ति सुखावतीम् ॥ ४.१९७{७६} ॥ ये चाष्टांगप्रणामानि अस्मै शास्त्रे प्रकुर्वंते । चक्रवर्तीपदं भुक्त्वा ते प्रयान्ति जिनालयम् ॥ ४.१९८{७७} ॥ ये स्मरन्ति सदा नित्यं तमीशं सुगतात्मजम् । ते सद्यः पापनिर्मुक्ता अन्ते यान्ति सुखावतीम् ॥ ४.१९९{७८} ॥ ये ये सत्वाश्च तं नाथं स्मृत्वा भजन्ति सर्वदा । ते ते सर्वे न यान्त्येव दुर्गतिषु कदाचन ॥ ४.२००{८०} ॥ सदापि सद्गतिष्वेव याताः सौख्यसमन्विताः । सद्धर्माचरणं कृत्वा संप्रयान्ति सुखावतीम् ॥ ४.२०१{८१} ॥ एवं ये पापिनश्चापि लोकेशं शरणं गताः । तेऽपि पापविनिर्मुक्ताः शुद्धा यांति जिनालयम् ॥ ४.२०२{८२} ॥ एवं लोकेश्वरो नाथः पुण्यक्षेत्रं शुभप्रदः । चिंतामणिः कल्पवृक्षो यथेप्सितफलप्रदः ॥ ४.२०३{८३} ॥ (र्म् ६७) न हि तेन समः कश्चिन्महत्पुण्यफलप्रदः । कुतोऽधिकस्तु विद्येत त्रैधातुभुवनेष्वपि ॥ ४.२०४{८४} ॥ तेनैव सकलाः सत्वा बोधयित्वा प्रयत्नतः । आर्य्यमार्गे प्रतिष्ठाप्य प्रेरिता निर्वृतावपि ॥ ४.२०५{८५} ॥ पापिष्ठो अपि सत्वाश्च तेनोपेत्य स्वयं तथा । नरकेभ्यः समुद्धृत्य संप्रेरिताः सुखावतीम् ॥ ४.२०६{८६} ॥ एवं सर्वेऽपि सत्वाश्च नानोपायविधानतः । दर्शयित्वार्य्यमार्गाणि तेन बोधौ निवेशिताः ॥ ४.२०७{८७} ॥ तस्मात्सर्वाधिकेशः स लोकेश्वरो महेश्वरः । सर्वधर्मानुभर्ता स लोकनाथः प्रतीयते । केनापि गंतुं तस्य पुण्यस्कंधं न शक्यते । मयापि शक्यते नैवं सर्वैश्चापि मुनीश्वरैः । एवं मत्वा त्वमानंदः लोकनथं दयोदधिम् ॥ ४.२०८{८८} ॥ सर्वदेवाधिदेवेशं स्मृत्वैव सततं भज । ततस्ते मंगलं नित्यं सर्वदापि समंततः ॥ ४.२०९{८९} ॥ कुतश्चिन्नैव विद्येरन् भयानि विविधान्यपि । यत्र लोकेश्वरस्मृतिस्तत्रोत्पातभयं न हि ॥ ४.२१०{९०} ॥ अग्नेरपि भयं नैव नाप्युत्पातमरुद्भयम् । न चोदकभयं तत्र न च भूमिभयं खलु ॥ ४.२११{९१} ॥ विद्युत्पातभयं नापि न चाशनिभयं सदा । न च शत्रुभयं क्वापि नापि राजभयं तथा ॥ ४.२१२{९२} ॥ न च चौरभयान्येवं न च रोगभयानि च । सर्वभयः प्रशाम्यन्ते लोकेशस्मृतिभावतः ॥ ४.२१३{९३} ॥ सर्वेऽप्युपद्रवाश्चैवं प्रयांति विलयं ततः । एवं लोकेश्वरो नाथो महत्पुण्यानुभाववान् ॥ ४.२१४{९४} ॥ येनैवं त्रिजगल्लोकं पालितं पुत्रवत्सदा । तस्माल्लोकेश्वरो नित्यं सेवितव्यः शुभार्थिभिः ॥ ४.२१५{९५} ॥ यस्य धर्मानुभावेन सर्वत्रापि शिवं सदा । इति मत्वा त्वयानंद तद्धर्माञ्छ्रावयन् सदा ॥ ४.२१६{९७} ॥ प्रेरयित्वा च तद्भक्तौ संबोधौ संप्रवेशय । (र्म् ६८) एतत्पुण्यानुभावैस्त्वमप्येवं कुशली भवन् ॥ ४.२१७{९८} ॥ बोधिसत्वो महासत्वो भवेन्नूनं जिनात्मजः ॥ ४.२१८{९९} ॥ इत्यादिष्टं मुनीन्द्रेण श्रुत्वानंदः ससांघिकः । तथेति प्रतिमोदित्वा सदा लोकेशमस्मरत् ॥ ४.२१९{१००} ॥ एवं राजंस्त्वया चापि स्मृत्वा लोकेश्वरः सदा । सेवितव्यः प्रयत्नेन बोधिप्रणिधिचेतसा ॥ ४.२२०{१} ॥ ततस्त्वं सहसा सर्वपापेभ्यः परिमोचितः । बोधिसत्वो विशुद्धात्मा प्रयास्यसि सुखावतीम् ॥ ४.२२१{२} ॥ इत्येवं गुरुणादिष्टमुपगुप्तेन धीमता । श्रुत्वा राजानुमोदित्वा सोऽभ्यनन्दत्सपार्षदः ॥ ४.२२२{३} ॥ इदं श्रुत्वावदानं ये श्रावयित्वा परानपि । भजंति लोकनाथं ते संप्रयायुः सुखावतीम् ॥ ४.२२३{४} ॥ ++ इति रत्नावदानमालायं प्रेतिकावदानं समाप्तम् ++ (र्म् ६९) व्शालपुष्पावदान अथाशोको महीपालो भूयः श्रोतुं सुभासितैः । उपगुप्तं गुरुं नत्वा कृतांजलिरवोचत् ॥ ५.१{१} ॥ भदन्त श्रोतुमिछामि पुनरन्यत्सुभाषितम् । तदर्हसि समादेष्टुं लोकानां पुण्यवृद्धये ॥ ५.२{२} ॥ इति विज्ञापिते तेन नृपेन्द्रेण प्रसादिना । उपगुप्तो यतिश्चापि तं नृपं प्रत्यभाषत ॥ ५.३{३} ॥ शृणु राजन्महाभाग सर्वलोकहितार्थभृत् । यथा मे गुरुणादिष्टं वक्ष्येऽहं ते तथा खलु ॥ ५.४{४} ॥ पुरैकसमये बुद्धो भगवाञ्छ्रीघनो जिनः । श्रावस्त्यां जेतकारण्ये विहारे मणिमण्डिते ॥ ५.५{५} ॥ श्रावकैर्भिक्षुभिः संघैर्बोधिसत्वगणैः सह । सद्धर्मदेशनां कर्तुं व्यहरल्लोकशासितुम् ॥ ५.६{६} ॥ तद्धर्मदेशनां श्रोतुं सर्वे सत्वाः समागताः । ब्राह्मणाः क्षत्रियाश्चापि राजानो राजमात्रिकाः ॥ ५.७{७} ॥ वैश्याः शूद्रा अमात्याश्च मंत्रिणः साधवो जनाः । श्रेष्ठिनः सार्थवाहाश्च धनिनश्च वणिग्गणाः ॥ ५.८{८} ॥ पौराजानपदाश्चापि नानादेशसमागताः । देवा दैत्याश्च गन्धर्वा यक्षकिन्नरराक्षसाः ॥ ५.९{९} ॥ सिद्धाविद्याधराः साध्या वसवश्च ग्रहाधिपाः । नागेंद्रा गरुडाश्चैवमृषयो ब्रह्मचारिणाः ॥ ५.१०{१०} ॥ योगिनो यतयश्चापि लोकपालाः ससैन्यकाः । सर्वे तं सुगतं नत्वा धर्मं श्रोतुमुपागताः ॥ ५.११{११} ॥ सत्कृत्य पूजयित्वा च कृतांजलिपुटो मुदा । परिवृत्य पुरस्कृत्य दृष्ट्वा तस्थुः समाहिताः ॥ ५.१२{१२} ॥ अथासौ भगवान् दृष्ट्वा तान् सर्वान् धर्मवांछिनः । आदिमध्यान्तकल्याणं दिदेश धर्ममुत्तमम् ॥ ५.१३{१३} ॥ तत्र देवादयः सर्वे तत्सद्धर्मामृतं मुदा । पीत्वा चाभ्यनुमोदन्तः प्रापुर्ज्ञानविशेषताम् ॥ ५.१४{१४} ॥ (र्म् ७०) श्रावस्तेयात्तदानेके दारिका दारकाश्च ते । कुसुमान् याचितं शालभंजिकाख्यं गिरिं ययुः ॥ ५.१५{१५} ॥ तत्र ते सहसा गत्वा दृष्ट्वा पुष्पाण्यनेकशः । प्रादाय समुपागत्वा श्रावस्त्यामचरन्मुदा ॥ ५.१६{१६} ॥ तत्रैका दारिका वाला श्रेष्ठिपुत्री प्रमोदिता । शनैः सा शालपुष्पाणि प्रादाय पृष्ठतोऽचरत् ॥ ५.१७{१७} ॥ तदा च भगावान् बुद्धो भिक्षुसंघसमन्वितः । श्रावस्त्यां भोजनं भुक्त्वा ततो बहिर्विनिर्ययौ ॥ ५.१८{१८} ॥ तत्र सा दारिकाद्राक्षीद्भगवन्तं तमागतम् । द्वात्रिंशल्लक्षणाशीतिव्यंजनं समलंकृतम् ॥ ५.१९{१९} ॥ व्यामप्रभाविराजन्तं सहस्रेणाधिकप्रभम् । जंगममिव रत्नाङ्गं समन्तभद्ररूपिकम् ॥ ५.२०{२०} ॥ दृष्ट्वैवं श्रीघनं नाथं दारिका सा प्रमोदिता । श्रद्धयार्चयितुं पुष्पैर्मनसैवं व्यचिंतयत् ॥ ५.२१{२१} ॥ अहो पुण्यं मया लब्धं यत्संबुद्धो दृश्यतेऽधुना । एवं कदा कथं कुत्र द्रक्ष्यतेऽयं मुनीश्वरः ॥ ५.२२{२२} ॥ भाग्येनैवं मया लब्धं संबुद्धदर्शनं तथा । नूनं भाग्यवती चास्मि यत्पुण्यनिधिराप्यते ॥ ५.२३{२३} ॥ तस्मात्पुण्यं महारत्नं प्राप्तुमुपेत्य सादरम् । एतैश्च कुसुमैः सर्वैरर्हाम्येतं समर्चितुम् ॥ ५.२४{२४} ॥ कदायं लप्स्यते भूयः परवश्या स्त्रिया मया । तदहं सहसोपेत्य पुष्पाण्यस्मायुपाकिरे ॥ ५.२५{२५} ॥ सदा नोत्पद्यते नात्र संबुद्धो हि कदा चन । अतिसुदुर्ल्लभं ह्यस्य दर्शनं च सदा न हि ॥ ५.२६{२६} ॥ मानुष्यं दुर्ल्लभं जन्म विना पुण्यैर्न लभ्यते । मानुष्येऽलभ्यमानेऽपि संबुद्धे सेव्यते कथम् ॥ ५.२७{२७} ॥ मानुष्ये लभ्यमानेऽपि क्षणं संपत्सुदुर्ल्लभा । नरैरप्यक्षणप्राप्तैः कथं बुद्धेऽनुसेव्यते ॥ ५.२८{२८} ॥ तदद्य मानुषी भूत्वा प्राप्यैवं सुकृतौ क्षणम् । यद्यत्र कुसुमैरेभिः संबुद्धं नार्चयाम्यहम् ॥ ५.२९{२९} ॥ (र्म् ७१) ततो मे निष्फलं जन्म मानुष्ये व्यर्थमेव हि । किं ममानेन देहेन सर्वथैकान्तनाशिना ॥ ५.३०{३०} ॥ किमनेनापि जीवेन मृत्यौ नित्यं पुरःस्थिते । कियत्कालं च जीवेयं गछेयं मरणं ध्रुवम् ॥ ५.३१{३१} ॥ चिरं स्थित्वापि किं सारं संबुद्धभजनं विना । वरं प्राणपरित्यागं कृत्वा संबुद्धदर्शनम् ॥ ५.३२{३२} ॥ अनित्यं खलु संसारं सर्वदेहादिकं धनम् । एतदेव तु सत्सारं यद्बुद्धे भजनं सदा ॥ ५.३३{३३} ॥ तदैतैः कुसुमैः सर्वैः पूजयामि मुनीश्वरम् । कथं न पूजयिस्यामि संबुद्धं त्रिजगद्गुरुम् ॥ ५.३४{३४} ॥ इति निश्चित्य सा वाला दृष्ट्वा तं सुगतं मुदा । सहसोपेत्य तैः सर्वैः सालपुष्पैरवाकिरन् ॥ ५.३५{३५} ॥ ततः प्रदक्षिणीकृत्य प्रणम्य तं प्रहर्षिता । किं चिद्दूरे परावृत्य तस्थौ दृष्ट्वा मुनिं मुदा ॥ ५.३६{३६} ॥ ततोऽसौ भगवान् बुद्धस्तस्या आयुर्विहीनताम् । मत्वा तां संन्रीक्स्यैवं स्वं विहारं समाययौ ॥ ५.३७{३७} ॥ अथ सा दारिका भूयस्तथान्यत्कुसुमानि च । गृहस्यार्थे समादातुं ततः शालवनं ययौ ॥ ५.३८{३८} ॥ तत्र शालतरुं दृष्ट्वा प्रफुल्लकुसुमान्वितम् । तत्पुष्पाणि समाचेतुं सहसा सा रुरोह तम् ॥ ५.३९{३९} ॥ तत्रावरुह्य पुष्पाणि चिन्वन्ती सा प्रमोदतः । अग्रशाखासमारूढा पपात सहसा ततः ॥ ५.४०{४०} ॥ पतिता सा विरुग्नाङ्गा तीव्रातिवेदनातुरा । हा हतास्मीति निश्चित्य संबुद्धस्मरणं व्यधात् ॥ ५.४१{४१} ॥ नमो बुद्धाय धर्माय संघाय सुगताय च । इति प्रोक्त्वैव संबुद्धं स्मरन्ति मरणं ययौ ॥ ५.४२{४२} ॥ ततः स्वर्गोपपन्ना सा विस्मितैवं व्यचिन्तयत् । कुतश्च्युत्वा कुहोत्पन्ना केन वा कुशलेन च ॥ ५.४३{४३} ॥ इति चिन्तापरीता सा सहसैवं व्यबुद्ध्यत । मर्त्याच्च्युत्वागता स्वर्गे बुद्धे पुष्पप्रदानतः ॥ ५.४४{४४} ॥ इति बुद्ध्वा च सा भद्रा सुप्रसादितमानसी । तमेव सुगतं नाथं स्मृत्वा नत्वाभ्यनन्दत ॥ ५.४५{४५} ॥ (र्म् ७२) ततो देवैरुपनीतं दिव्यपुष्पस्वलंकृतम् । विमानं सा समारुह्य देवसभामुपाययौ ॥ ५.४६{४६} ॥ तस्मिंश्च समये शक्रः सुधर्मायां सुरैः सह । संबुद्धवर्णनां कृत्वा तस्थौ देवान् प्रमोदयन् ॥ ५.४७{४७} ॥ तथा तां समुपायातां शालपुष्पाभ्यलंकृताम् । दृष्ट्वा दिव्यातिवर्णाभां पप्रछ विस्मितो हरिः ॥ ५.४८{४८} ॥ गात्रं केन विमृष्टकांचननिभं पद्मोत्पलाभं तव । दिव्यश्रीरतुलाकृतेयमिह ते केन प्रभा निःसृता । वक्त्रं केन विबुद्धपद्मसदृशं चामीकराभं तव । कस्य त्वं वरदेवते फलमिदं यत्कर्मजं भुज्यते ॥ ५.४९{४९} ॥ इति प्रोक्ते सुरेन्द्रेण सा भद्रा देवकन्यका । तं देवाधिपतिं नत्वा कृतांजलिपुटोऽब्रवीत् ॥ ५.५०{५०} ॥ सश्रावका नरादित्य आकीर्णशालपुष्पकैः । तत्कर्मकुशलं कृत्वा राजते मेऽधिकं तनुः ॥ ५.५१{५१} ॥ जलजेन्दुविशुद्धाभं वदनं मेऽभिरोचते । एतत्कर्मानुभावेन विजानीयाः सुरेश्वर ॥ ५.५२{५२} ॥ तयेति प्रोदितं श्रुत्वा देवेन्द्रोऽसौ सुविस्मितः । दृष्ट्वा चैनां सुभद्राङ्गीं प्रहर्षयन्नभाषत ॥ ५.५३{५३} ॥ अहो गुणमयं क्षेत्रं सर्वदोषविवर्जितम् । यत्र न्यस्तं त्वया वीजमित्थं स्वर्गोपपत्तये ॥ ५.५४{५४} ॥ को नार्चयेत्प्रवरकांचनराशिगौरं बुद्धं विबुद्धकमलायतपत्रनेत्रम् । यत्राधिकारजनितानि विशोभितानि कांतामुखानि कमलायतलोचनानि ॥ ५.५५{५५} ॥ धन्योऽसि त्वं सुभद्रांगि संबुद्धगुणभाविनि । सर्वथा हि स संबुद्धः सेवितव्यः सदापि च ॥ ५.५६{५६} ॥ यस्य पुण्यप्रसादात्त्वं सद्यः स्वर्गे समागता । स एव भगवान्नाथः संस्मृत्वा सेव्यतां सदा ॥ ५.५७{५७} ॥ ततस्ते सर्वदा नित्यं मंगलं स्यात्समंततः । चिरं दिव्यसुखं भुक्त्वा यायाश्चान्ते सुखावतीम् ॥ ५.५८{१५८} ॥ इत्यादिष्टं सुरेन्द्रेण सा देवकन्यका सुधीः । अनुमोद्य च तं शक्रं नत्वा स्वमालयं ययौ ॥ ५.५९{५९} ॥ (र्म् ७३) ततः सा संस्थिता देवीप्रासादे दिव्यमण्डिते । दिव्यभोग्यसुखप्राप्ता मोदित्वैवं व्यचिन्तयेत् ॥ ५.६०{६०} ॥ यच्च्युत्वाहं मनुष्येभ्योऽधुना स्वर्गसमागता । तत्संबुद्धप्रसादेन जानामि नान्यथा खलु ॥ ५.६१{६१} ॥ यन्मया पूजितो बुद्धः शालपुष्पैर्वनोद्भावैः । तत्पुण्यफलभोग्यार्थे आगताहं सुरालयम् ॥ ५.६२{६२} ॥ यद्दिव्यसुखसंप्राप्तं तत्संबुद्धप्रसादतः । तेन तमेवं संबुद्धं पुनर्गछेय वंदितुम् ॥ ५.६३{६३} ॥ न युक्तं सौगते गन्तुं पर्य्युषितेन वाससा । युक्तं तु सौगते गंतुमपर्युषितवाससा ॥ ५.६४{६४} ॥ इति सा मनसा मत्वा देवकन्या सुभद्रिका । स्नात्वा सौरभ्यलिप्तांगा दिव्यशुद्धाम्वरावृता ॥ ५.६५{६५} ॥ दिव्यालंकारमालादिमौलीकुण्डलमंडिता । अनेकदेवकन्याभिरप्सरोभिः समन्विता ॥ ५.६६{६६} ॥ दिव्यपूजोपचाराणि गृहीत्वा सहसा ययौ । तस्यामेव निशि स्वर्द्ध्या भासयन्ती समंततः ॥ ५.६७{६७} ॥ जेतवनमुपेत्यासौ प्रविवेश जिनालयम् । ततः प्रदक्षिणं कृत्वा प्रणम्य चरणौ मुनेः ॥ ५.६८{६८} ॥ पंचोपहारपूजाभिः पूजयित्वा कृतांजलिः । नत्वा च पुरतः तस्थौ सद्धर्मश्रवणोत्सुका ॥ ५.६९{६९} ॥ अथासौ भगवांस्तस्या ज्ञात्वाशयविशुद्धताम् । आदिमध्यान्तकल्याणं दिदेश धर्ममुत्तमम् ॥ ५.७०{७०} ॥ चत्वारि चार्य्यसत्यानि निःक्लेशपुण्यलब्धये । दशकुशलमूलानि सम्यक्सत्वविशुद्धये ॥ ५.७१{७१} ॥ आर्य्याष्टाङ्गिकमार्गांश्च संबोधिमार्गलब्धये । बोधिपाक्षिकधर्मांश्च संबुद्धगुणलब्धये ॥ ५.७२{७२} ॥ अथासौ देवकन्या तां सद्धर्मदेशणं मुनेः । श्रुत्वानुमोदिता चापि प्राप्य धर्मविशेषताम् ॥ ५.७३{७३} ॥ ज्ञानवज्रेण सत्कायदृष्टिशैलं विभेद सा । श्रोतापत्तिफलं प्राप्ता दृष्टसत्याभवत्तदा ॥ ५.७४{७४} ॥ ततो भूयः प्रणम्यैवं भगवन्तं कृतांजलिः । सुप्रसन्नमुखाम्भोजो त्रिरुदानमुदाहरत् ॥ ५.७५{७५} ॥ (र्म् ७४) भगवन्निदमस्माकं महापुण्यसुखोदयम् । जनन्यापि कृतं नापि न पित्रा न च वंधुभिः ॥ ५.७६{७६} ॥ न ज्ञातिभिर्न मित्रैश्च न सहायसुहृज्जनैः । नापि सालोहितैश्चापि पितृलोकैर्न चापरैः ॥ ५.७७{७७} ॥ न राज्ञा न चामात्यैर्न मंत्रिभिर्न च पौरिकैः । न गुरुभिर्न विप्रैश्च न यतिभिर्न तापसैः ॥ ५.७८{७८} ॥ न देवैर्नापि दैत्यैश्च नापि लोकाधिपैरपि । तथान्यैश्च कृतं नैव यदिदं भवता कृतम् ॥ ५.७९{७९} ॥ उछोषितो यदस्माकं रुधिराश्रुसरित्पतिः । अस्थिमयो महाछैलो यदस्माभिश्च लंघितः ॥ ५.८०{८०} ॥ तवानुभावात्पिहितः सुघोरो ह्यपायमार्गो बहुदोषयुक्तः । अपावृता स्वर्गगतिः सुपुण्या निर्वाणमार्गश्च मयोपलब्धः ॥ ५.८१{८१} ॥ भवत्प्रसादान्निरुपेतदोषं मयाद्य लब्धं सुविशुद्धचक्षुः । प्राप्तं च शान्तं पदमार्य्यकान्तं तीर्णश्च दुःखार्णवपारमस्मि ॥ ५.८२{८२} ॥ नरवरेन्द्रसुरासुरपूजिते विगतजन्मजरामरणादयः । भवसहस्रसुदुल्लभदर्शने सफलमद्य मुने तव दर्शनम् ॥ ५.८३{८३} ॥ ततः प्रणत्वा चरणारविंदौ मुनेः प्रकृत्वा तृप्रदक्षिणां च । प्रजातहर्षा सुगतं जिनेंद्रं स्मृत्वा च भूयो दिवमाययौ सा ॥ ५.८४{८४} ॥ तथा स्वर्गसमायाता देवकन्या मुमोद सा । यथा वणिग्लब्धलाभो रोगमुक्तो यथातुरः ॥ ५.८५{८५} ॥ सम्यग्निष्पन्नशस्याप्तो यथा च कृषिकार्मिकः । सिद्धयात्राप्रलब्धार्थः सार्थवाहो वणिग्यथा ॥ ५.८६{८६} ॥ अथ ते भिक्षवः सर्वे दृष्ट्वैवमवभासितम् । संदिग्धविस्मिताश्चैवं पप्रछुस्तं मुनीश्वराम् ॥ ५.८७{८७} ॥ भगवन्नद्य रात्रौ को भवतोऽन्तिकमागतः । ब्रह्मा वा सुरराजो वा लोकपालगणा अपि ॥ ५.८८{८८} ॥ अस्माभिर्ज्ञायते नायं योऽद्य रात्राविहागतः । (र्म् ७५) तदस्मान् विस्मितान् सर्वान् बोधयितुं समर्हसि ॥ ५.८९{८९} ॥ इति तैर्भिक्षुभिः पृष्टो भगवान् स मुनीश्वरः । तांश्च भिक्षुगणान् सर्वान् समामंत्र्याब्रवीत्तथा ॥ ५.९०{९०} ॥ न हि स भिक्षवो ब्रह्मा नापि वासौ सुराधिपः । नैव लोकाधिपालाश्च याद्य रात्राविहागता ॥ ५.९१{९१} ॥ अपि तु दारिका दृष्टा युष्माभिः सगता पथि । ययाहं सालपुष्पैश्च प्रावकीर्य्याभितोषितः ॥ ५.९२{९२} ॥ सा मां पुष्पैरवाकीर्य्य गृहस्यार्थे पुनर्वनम् । गता पुष्पाण्युपाहर्तुं वृक्षारूढापतत्तरोः ॥ ५.९३{९३} ॥ ततोऽसौ पतनोद्विग्ना वेदनाक्रांतचेतसा । त्रिरत्नानि स्मरन्त्येव देहं त्यक्त्वा दिवं ययौ ॥ ५.९४{९४} ॥ तत्र स्वर्गे समासाद्य स्मृत्व मां सुगतं पुनः । द्रष्टुं धर्मं च मे श्रोतुमिहासौ समुपागता ॥ ५.९५{९५} ॥ तन्मया देशितं तस्यै संबोधिधर्ममुत्तमम् । श्रुत्वा सा चानुमोद्यैवं संहर्षिता दिवं ययौ ॥ ५.९६{९६} ॥ इत्येवं भिक्षवो मत्वा त्रिरत्नानि शुभार्थिभिः । सेवितव्यानि संस्मृत्वा गत्वा च शरणं सदा ॥ ५.९७{९७} ॥ ये भजन्ति त्रिरत्नानि संस्मृत्वा शरणं गताः । दुर्गतिं ते न गछंति व्रजन्ति सद्गतिं सदा ॥ ५.९८{९८} ॥ ये निन्दन्ति त्रिरत्नानि प्रतिक्षिप्य प्रमादतः । सद्गतिं ते न गछन्ति वसन्ति नरके सदा ॥ ५.९९{९९} ॥ तस्मान्नित्यां त्रिरत्नानि संस्मृत्वा शरणं गताः । सत्कृत्य भावयित्वा च भजध्वं बोधिवांछया ॥ ५.१००{१००} ॥ तथा वो मङ्गलं नित्यं सर्वत्र सर्वदा भवेत् । क्रमाद्बोधिचरीं पूर्य संबोधिमपि लप्स्यथ ॥ ५.१०१{१} ॥ इत्यादिष्टं मुनीन्द्रेण श्रुत्वा ते भिक्षवो मुदा । तथेत्यभ्यनुमोदन्तस्त्रिरत्नानि सदाभजन् ॥ ५.१०२{२} ॥ इत्येवं गुरुणादिष्टं मयैवं ते प्रचक्ष्यते । श्रुत्वैतच्छ्रावयित्वा च त्रिरत्नानि सदा भज ॥ ५.१०३{३} ॥ ततस्त्वं क्रमशश्चैव बोधिचर्यां समाचरन् । सर्वपापविनिर्मुक्तः सुखावतीं समाव्रजेः ॥ ५.१०४{३*} ॥ इत्येतद्गुरुणादिष्टमुपगुप्तेन भिक्षुणा । (र्म् ७६) श्रुत्वा राजा तथेत्येवमभ्यनन्दत्सपार्षदः ॥ ५.१०५{४} ॥ तत्संबुद्धानुभावं मुनिवरकथितं शालपुष्पावदानम् । ये श्रुत्वा श्रावयन्ति प्रमुदितमनसः श्रद्धया बोधिकामाः । ते सर्वक्लेशमुक्ताः सकलगुणधरा बोधिचर्य्यानुरक्ताः । कृत्वा लोके हितार्थं जिनवरवसतिं संप्रयंति प्रहर्षैः ॥ ५.१०६{५} ॥ ++ इति शालपुष्पावदानं समाप्तं ++ (र्म् ७७) वि सूकर्यवदान पुनरेवं यतीशोऽसावुपगुप्तो जिनांशजः । त्रिरत्नस्मृतिजं पुण्यं ख्यातुं नृपमब्रवीत् ॥ ६.१{१} ॥ महत्पुण्यानुभावत्वं त्रिरत्नस्मृतिसंभवम् । तदहं ते प्रवक्ष्यामि शृणु राजन् समाहितः ॥ ६.२{२} ॥ धर्मता खलु देवानां स्वर्गच्यवनधर्म्मिणाम् । पंचपूर्वनिमित्तानि प्रादुर्भवेयुरात्मनि ॥ ६.३{३} ॥ अक्लिष्टानि हि वासांसि क्लिश्येयुश्च्यवनान्तिके । अम्लानानि च माल्यानि म्लायेरन् सहसा खलु ॥ ६.४{४} ॥ दौर्गन्धं निःसरेद्देहात्कक्षाभ्यां स्वेद उद्भवेत् । प्रच्युतिसमये प्राप्ते स्वासने न धृतिं लभेत् ॥ ६.५{५} ॥ एतत्पंचनिमित्तानि स्वर्गाच्च्यवनधर्मिणाम् । सर्वेषां प्रोद्भवेयुश्च प्रच्युतिसमयागमे ॥ ६.६{६} ॥ पुरैकदेवपुत्रस्य तथा च्यवनधर्मिणः । एतत्पंचनिमित्तानि प्रादुरासंश्च्युतेः पुरः ॥ ६.७{७} ॥ अथ च्यवनधर्मासौ देवपुत्रो विषादितः । अवश्यं च्यवनं स्वर्गान्मत्वा रौत्सीदधीरितः ॥ ६.८{८} ॥ आवर्त्य स्वविमानस्थः परिवर्त्त्य विमूर्छितः । पुनश्चैतन्यमासाद्य विलपं पर्य्यदेवतः ॥ ६.९{९} ॥ हा मन्दाकिनि हेमाव्जव्याप्ते पुण्याम्बुवाहिनि । त्वयि स्नात्वप्यहं च्युत्वा यास्यामि दुर्गतिं कथम् ॥ ६.१०{१०} ॥ हा चैत्ररथमुत्सृज्य क्व क्रीडेयं यथेछया । हा नन्दनवनं रम्यं त्यक्त्वाहं क्व रमेय च ॥ ६.११{११} ॥ हा मिश्रिकावनं दिव्यं त्यक्त्वा रम्ये कुहाधुना । हा पारुष्यवनं त्यक्त्वा क्व रम्याम्यप्सरोगणैः ॥ ६.१२{१२} ॥ क्व सुखं लप्स्यते पाण्डुकंवलकशिलां विना । (र्म् ७८) हा देवसमितिं त्यक्त्वा क्व श्रोष्यामि सुभाषिताम् ॥ ६.१३{१३} ॥ हा हा सुदर्शनं रम्यं पुरं त्यक्त्वा व्रजे च्युतः । प्रासादं वैजयंतञ्च कदा द्रक्ष्याम्यहं पुनः ॥ ६.१४{१४} ॥ हा शक्रप्रमुखैर्देवैः सार्द्धं कृदाप्रमोदितः । अधुना मे क्व तत्सौख्यं श्रोतुं चापि न लप्स्यते ॥ ६.१५{१५} ॥ हा देव्यममृतं त्यक्त्वा किं प्रभोक्ष्यामि सांप्रतम् । दिव्यकामसुखं भुक्त्वा पुनर्दुर्गतिमाश्रयन् ॥ ६.१६{१६} ॥ कियद्दुःखं च संभोक्तुं यास्यामि नरकेष्वहम् । एतद्दिव्यमहोत्साहाद्भ्रष्टोऽहं नरके गतः ॥ ६.१७{१७} ॥ महद्दुःखाभिसंतप्तः सहिष्यामि कथं तदा । हा हतोऽस्मि स्वपापेन किं पापं प्रकृतं मया ॥ ६.१८{१८} ॥ येनेतः स्वर्गतश्च्युत्वा पुनर्यास्यामि नारकान् किम् । उपायं करिष्यामि न यायां येन दुर्गतिम् ॥ ६.१९{१९} ॥ को मे शास्तात्र विद्येत यो मां धर्मे नियोजयेत् । धर्मेण रक्ष्यते प्राणी नरके संस्थितोऽपि च ॥ ६.२०{२०} ॥ धर्मं विनात्र देवोऽपि स्वर्गात्प्रभ्रन्स्यते पुनः । किं करोमि क्व यास्यामि नात्रोपायं तु मन्यते ॥ ६.२१{२१} ॥ सर्वथाहमितश्च्युत्वा गछेयं दुर्गतिं खलु । इतश्च्युतस्य मे जन्म लब्धव्यं भुवने कुह ॥ ६.२२{२२} ॥ इति धैर्यं समाधाय मनसैवं व्यलोकयत् । च्युत्वेतः सौकरं जन्म प्राप्तव्यं सप्तमे दिने ॥ ६.२३{२३} ॥ एवं स्वाप्तगतिं दृष्ट्वा पपात सविमूर्छितः । अथाद्राक्षीन्महेन्द्रस्तं पतितं भुवि मूर्छितम् ॥ ६.२४{२४} ॥ दृष्ट्वा च सहसोपेत्य सुधासेकैरसिंचयत् । ततोऽसौ चेतनां लब्ध्वा शनैरुत्थाय तं प्रभुम् ॥ ६.२५{२५} ॥ दृष्ट्वा पादौ परिष्वज्य नत्वैवं प्रार्थयद्रुदन् । हा हा नाथ महेन्द्रोऽसि सर्वलोकाधिपः प्रभुः ॥ ६.२६{२६} ॥ मामधः पतितं दृष्ट्वा नोपेक्षां कर्तुमर्हसि । (र्म् ७९) भवान् हि जगतां राजा स्वामी भर्त्ता पतिः प्रभुः ॥ ६.२७{२७} ॥ नाथो धर्मानुशास्ता च तन्मां रक्षतुमर्हसि । त्वदृतेऽन्यो न मे कश्चिद्रक्षको विद्यतेऽत्र हि ॥ ६.२८{२८} ॥ तदनुकंपया दृष्ट्या धृत्वा मामुद्धर प्रभो । यदि मां रक्षितुं नाथ न शक्नोति भवानपि ॥ ६.२९{२९} ॥ को मां समुद्धरेदन्यो हा हतो नरके व्रजे । मंडाकिन्यां त्वया सार्द्धं स्नात्वा पूतात्मकोऽप्यहम् ॥ ६.३०{३०} ॥ कथं च नरके गत्वा वसेयमशुचिं चरन् । सहाप्सरोगणैर्नित्यं चरित्वा नंदने वने ॥ ६.३१{३१} ॥ दिव्यसंगीतिवाद्यैश्च रमामि संप्रमोदितः । अद्येतः पतितो पृथ्व्यां राजगृहोपजांगले ॥ ६.३२{३२} ॥ सौकरं जन्म लप्स्यामि सप्तमे दिवसे खलु । तत्र मूत्रपुरिषादीनमेध्यानपि कृच्छ्रतः ॥ ६.३३{३३} ॥ लब्ध्वा भुक्त्वा चरिष्यामि व्याधसंघैरुपद्रुतः । बहुवर्षसहस्राणि भूत्वैवं सूकरात्मजः ॥ ६.३४{३४} ॥ अमेध्यकर्दमे नित्यं वत्स्याम्यावर्त्य संचरन् । एवं दिव्यामृतं भुक्त्वा रमित्वा भवता सह ॥ ६.३५{३५} ॥ कथं हि नारके गत्वा भोक्ष्येऽमेध्यानि संचरः । इमं कल्पतरुं त्यक्त्वा यथेप्सितफलप्रदम् ॥ ६.३६{३६} ॥ जांगलं वृक्षमाश्रित्य स्थितो भोक्ष्यामि किं तदा । सर्वथाहं च्युतोऽस्मीतः प्रेरितो हि स्वकर्मणा ॥ ६.३७{३७} ॥ विविधानि च दुःखानि भोक्तुं यास्यामि नारके । तदुपायं प्रदातव्यं भवता मेऽनुकंपिना ॥ ६.३८{३८} ॥ येनाशु दुर्गतेर्मुक्तः प्रागछेयं च स्वर्गतिम् । सर्वथा रक्ष मां नाथ यद्यस्ति ते कृपा मयि ॥ ६.३९{३९} ॥ भवान्मां पतितं दृष्ट्वा नोपेक्षां कर्तुमर्हति । भवानेव जगच्छास्ता सर्वलोकाधिपः प्रभुः ॥ ६.४०{४०} ॥ तदाशु मां प्रयत्नेन समुद्धर्तुं समर्हति । इदं ते दर्शनं नाथ पश्चिमं मे भवेत्खलु ॥ ६.४१{४१} ॥ (र्म् ८०) जन्मशतसहस्रैश्च दुर्लभं स्याद्धि संगमम् । इत्येवं विलपं देवपुत्रस्स तं सुराधिपम् ॥ ६.४२{४२} ॥ नत्वा पादौ निरीक्ष्यैव तस्थावश्रुगलन्मुखः । अथ शक्रः सुरेन्द्रोऽसौ दृष्ट्वैवं प्रविलापितम् ॥ ६.४३{४३} ॥ कारुण्या क्रान्तचित्तस्तमाश्वासयन्नभाषत । मा कृथा रोदनं भद्र समाश्वसि हि धीरय ॥ ६.४४{४४} ॥ क्रियन्ते किं प्रयत्नानि सर्वथा मरणं ध्रुवम् । मृत्युर्महावलिष्ठो हि सर्वसत्वान्तकारकः ॥ ६.४५{४५} ॥ ह्रीयन्ते मृत्युना सर्वे मृत्युः केन निहन्यते । अनिर्वायो हि सर्वत्र सर्वत्रैधातुकेष्वपि ॥ ६.४६{४६} ॥ सर्वेषामपि जन्तूनामेकान्ते मरणं ध्रुवम् । तस्मान्मा भेस्तथा मृत्योः किं विषादेन सिध्यते ॥ ६.४७{४७} ॥ तद्धैर्य्यतैः समालंव्य त्रिरत्नं शरणं व्रज । गत्वा च शरणं तेषां स्मर नित्यं समाहितः ॥ ६.४८{४८} ॥ ततस्त्वं दुर्गतिं मुक्त्वा सद्गतिं समवाप्नुयाः । एतदेव हि संसारे महोपायं शुभाप्तये ॥ ६.४९{४९} ॥ नान्यद्धि विद्यते किंचिन्मृत्यौ साधारणे ध्रुवे । तदन्यच्चेतनां हित्वा त्रिरत्नान्यभिसंस्मरन् ॥ ६.५०{५०} ॥ नमो बुद्धाय धर्माय संघायेति वदन् भज । ये त्रिरत्नस्मृतिं धृत्वा मृतास्ते पुण्यभागिनः ॥ ६.५१{५१} ॥ क्रमाद्बोधिचरीं प्राप्य यायुश्चान्ते सुखवतीम् । त्वं चापि त्रिरत्नानं स्मृत्वा मृतः सुपुण्यधृक् ॥ ६.५२{५२} ॥ क्रमाद्बोधिचरीं प्राप्य संप्रयायाः सुखावतीम् । इतीन्द्रेण समादिष्टं श्रुत्वा देवसुतोऽथ सः ॥ ६.५३{५३} ॥ तथेत्यनुसंमोद्य पुनर्नत्वैवमब्रवीत् । अद्यारभ्य महेन्द्राहं त्रिरत्नानं सदा स्मरन् ॥ ६.५४{५४} ॥ गत्वा च शरणं तेषामुपासको भवे खलु । इत्युक्त्वा स महेन्द्रस्य पुरः स्थित्वा कृताञ्जलिः ॥ ६.५५{५५} ॥ अनुस्मृत्य त्रिरत्नानां नमस्कृतिमुदाहरत् । नमो बुद्धाय भद्राय नमो धर्माय तायिने ॥ ६.५६{५६} ॥ (र्म् ८१) नमः संघाय नाथाय सर्वदापि नमे भजे । अद्यारभ्य त्रिरत्नानां सदाहं शरणं व्रजे ॥ ६.५७{५७} ॥ उपासको भवेन्नित्यं नमामि सततं स्मरेत् । इत्युक्त्वा देवपुत्रोऽसौ कालधर्मयुतश्च्युतः ॥ ६.५८{५८} ॥ तुषिते देवलोकेऽभूदुपपन्नः सुपुण्यतः । धर्मता खलु देवानां ये देवाः स्वर्गतश्च्युताः ॥ ६.५९{५९} ॥ तेऽधोलोकेषु गछेयुर्न तूर्द्ध्वभुवनेषु हि । अथ शक्रो नरेन्द्रोऽसौ दृष्ट्वा तं स्वर्गतश्च्युतम् ॥ ६.६०{६०} ॥ कुत्रासौ लभते जन्म इत्यधस्ताद्व्यलोकयत् । किमसौ सूकरीगर्भ उत्पन्नो वा न वेति च ॥ ६.६१{६१} ॥ अपश्यत्सर्वतश्चैनं न ददर्श कुहापि स । ततोऽसौ विस्मितः शक्रो दिव्येन चक्षुषा पुनः ॥ ६.६२{६२} ॥ कुत्रासौ लभते जन्म इत्येवं समलोकयत् । वत तिर्य्यक्षु जातोऽसौ प्रेतेषु च प्रजायते ॥ ६.६३{६३} ॥ अथ नरकेषु वा जात इत्येवं समलोकयत् । तेषु त्रिष्वप्यपायेषु नाद्राक्षीत्तं समंततः ॥ ६.६४{६४} ॥ ततो मनुष्यलोकेषु जातो वेति ददर्श च । तत्रापि च स सर्वत्र नाद्राक्षीत्तं सुरेश्वरः ॥ ६.६५{६५} ॥ ततश्चतुर्महाराजभुवनेषु प्रजायते । इति तेषु च सर्वत्र विलोकयन् ददर्श न ॥ ६.६६{६६} ॥ ततश्च विस्मितः शक्रस्त्रयस्त्रिंशे व्यलोकयन् । तत्रापि तं न चाद्राक्षीत्कुत्रापि च समंततः । एवं सर्वत्र लोकेषु विलोकयंस्तदुद्भवम् । अदृष्ट्वा विस्मितः शक्रः पुनरेवं व्यचिंतयत् । अहो वत महाश्चर्य्यं यन्मयापि न दृश्यते ॥ ६.६७{६७} ॥ कुत्रासौ जायते नूनं न मन्ये तत्प्रवृत्तिताम् । को नु ज्ञास्यति तद्वृत्तिं बुद्धादन्यो न कश्चन ॥ ६.६८{६८} ॥ बुद्ध एव जगद्दर्शी षडभिज्ञस्त्रिकालवित् । तस्मादहमितो गत्वा संबुद्धे समुपाचरन् ॥ ६.६९{६९} ॥ (र्म् ८२) विज्ञप्यैवं च तद्वृत्तिं प्रष्टुमर्हामि सांप्रातम् । इत्येवं मनसा ध्यात्वा देवेन्द्रोऽसौ सविस्मयः ॥ ६.७०{७०} ॥ सहसा जेतकारण्ये जिनाश्रममवातरत् । तत्रासौ सुगतं दृष्ट्वा सहर्षविस्मयान्वितः ॥ ६.७१{७१} ॥ प्रणम्य पुरतः स्थित्वा कृतांजलिपुटोऽवदत् । भगवंस्तद्विजानीया यदिहाहमुपागतः ॥ ६.७२{७२} ॥ तथापि प्रष्टुमिछामि तत्समादेष्टुमर्हसि । एकः कालगतो देवपुत्रः स्वर्गाच्च्युतो गतः ॥ ६.७३{७३} ॥ षट्सु लोकेषु सर्वत्र दृश्यते न मया ह्यसौ । कुत्रासौ जायते शास्तर्मया न दृश्यते क्वचित् ॥ ६.७४{७४} ॥ तस्योत्पत्तिः कुह स्थाने तत्समादेष्टुमर्हसि । इतीन्द्रवचनैः श्रुत्वा स संबुद्धो मुनीश्वरः ॥ ६.७५{७५} ॥ तस्य पुण्यात्मनः स्थानमिंद्राय समचक्षतच् । कौशिक तुषितो नाम लोकधातुः प्रसिद्धितः ॥ ६.७६{७६} ॥ तत्रासौ मोदते देवो गत्वा त्रिशरणं च्युतः । इत्यादिष्टं मुनीन्द्रेण श्रुत्वा स त्रिदशाधिपः ॥ ६.७७{७७} ॥ विस्मितः सुप्रसन्नात्मा प्रणत्वैवंमुदानयत् । अहो बुद्धमहो धर्ममहो संघं शुभंकरम् ॥ ६.७८{७८} ॥ यत्संशरणमात्रेऽपि सत्वा यान्ति शुभालयम् । ये बुद्धं शरणं यान्ति न ते गछंति दुर्गतिम् ॥ ६.७९{७९} ॥ प्रहाय पातकान् सर्वान् दिव्यलोकमुपासते । ये धर्मं शरणं यान्ति न ते गछंति दुर्गतिम् । प्रहाय मानुषान् कायान् दिव्यान् कायानुपासते ॥ ६.८०{८०} ॥ ये संघं शरणं यान्ति न ते गछन्ति दुर्गतिम् । प्रहाय सर्वदुःखानि दिव्यसौख्यान्युपासते ॥ ६.८१{८१} ॥ धन्यास्ते पुरुषा भद्राः संबोधिपदगामिनः । ये संस्मृत्वा त्रिरत्नानि व्रजन्ति मरणं ध्रुवम् ॥ ६.८२{८२} ॥ अथासौ भगवाञ्छ्रुत्वा शक्रेणैवं सुभाषितम् । तथानुवर्णयन् प्राह कौशिकं तं सुराधिपम् ॥ ६.८३{८३} ॥ एवमेतद्धि देवेन्द्र यथैवं त्वं प्रभाषसे । (र्म् ८३) धन्यास्ते पुरुषा भद्रा त्रिरत्नं भजंति ये ॥ ६.८४{८४} ॥ ये बुद्धं शरणं यान्ति न ते गछन्ति दुर्गतिम् । क्लेशवैरीं विनिर्जित्य संबोधिं समवाप्नुयुः ॥ ६.८५{८५} ॥ ये धर्मं शरणं यान्ति न ते गछन्ति दुर्गतिम् । मारधर्मविनिर्मुक्ता बोधिधर्मानवाप्नुयुः । ये संघं शरणं यांति न ते गछंति दुर्गतिम् । पातकेभ्यो विनिर्मुक्ताः संप्रयान्ति सुखावतीम् ॥ ६.८६{८६} ॥ न भजन्ति मुनीन्द्रं ये ते भ्रमंति भवार्णवे । संबोधिमार्गतो भ्रष्टा नष्टा गछन्ति दुर्गतिम् ॥ ६.८७{८७} ॥ ये शृण्वंति न सद्धर्मं ते क्लेशपरिदाहिताः । मारधर्मरता दुष्टाः प्रणष्टा यांति दुर्गतिम् । न मानयंति ये संघं न ते जानंति सद्गतिम् । सदा दुःखाभिसंतप्ता भ्रष्टा गछंति दुर्गतिम् । निन्दन्ति ये त्रिरत्नानि ते दुष्टा मारपाक्षिकाः । नैव चरंति सन्मार्गे विनष्टा यंति दुर्गतिम् । तस्माद्ये मानवाः सन्तो वांछन्ति सद्गतिं सदा । तैः संस्मृत्वा त्रिरत्नानां कर्त्तव्यं शरणं मुदा ॥ ६.८८{८८} ॥ ये स्मरन्ति त्रिरत्नानां न ते गछंति दुर्गतिम् । प्रहाय पातकान् सर्वाञ्शीघ्रं यान्ति सुखावतीम् ॥ ६.८९{८९} ॥ सुखावत्यां जिनेन्द्रस्य धर्मं श्रुत्वानुमोदिताः । बोधिचित्तं समासाद्य चरन्ति बोधिचारिकाम् ॥ ६.९०{९०} ॥ ततस्ताः क्रमतः पूर्य्य संवृत्तिपारमागताः । परमार्थचरीं प्राप्य निर्वृत्तिं समवाप्नुयुः ॥ ६.९१{९१} ॥ इदं हि बोधिमार्गानां वीजं विज्ञाय कौशिक । त्रिरत्नस्मरणं नित्यं कर्त्तव्यं बोधिवांछिभिः ॥ ६.९२{९२} ॥ कदापि नैव मोक्तव्यं त्रिरत्नस्मरणं सदा । गत्वा च शरणं तेषां त्रिरत्नानां समाचर ॥ ६.९३{९३} ॥ एवं तेन मुनीन्द्रेण समादिष्टं स कौशिकः । श्रुत्वैवमित्यनुज्ञाय प्राभ्यनन्दत्प्रसादितः ॥ ६.९४{९४} ॥ ततोऽसौ भगवन्तं तं नत्वा स रचितांजलिः । त्रिधा प्रदक्षिणीकृत्य पुनर्नत्वा दिवं ययौ ॥ ६.९५{९५} ॥ (र्म् ८४) ततो देवपुरे गत्वा सुधर्ममंदिरे स्थितः । देवलोकान् समामंत्र्य तत्प्रवृत्तं समब्रवीत् ॥ ६.९६{९६} ॥ भो भो देवगणाः सर्वे शृणुध्वं तत्समाहितः । यदद्भुतं महापुण्यं संबोधिहेतुमुच्यते ॥ ६.९७{९७} ॥ धर्मता खलु देवानां ये ये देवा हि नाकतः । च्युतास्ते ते प्रयान्त्यधो न तूर्द्ध्वं यान्ति के चन ॥ ६.९८{९८} ॥ इदानीं तु व्रजेयुस्ते ये देवाः स्वर्गतश्च्युताः । त्रिरत्नशरणं कृत्वोर्द्ध्वगतिं न त्वधोगतिम् ॥ ६.९९{९९} ॥ दृश्यताममुको देवपुत्रस्त्रिशरणं गतः । स्वर्गाच्च्युत्वा समुत्पन्नस्तुषितेऽसौ प्रमोदते ॥ ६.१००{१००} ॥ यूयमपि च तद्दृष्ट्वा त्रिरत्नानां समाहिताः । गत्वा च शरणं नित्यं स्मृत्वा भजध्वमादरात् ॥ ६.१०१{१} ॥ ततो यूयं न यायात दुर्गतिषु कदा चन । सदा दिव्यसुखं भुक्त्वा प्रयास्यथ सुखावतीम् ॥ ६.१०२{२} ॥ ये बुद्धे शरणं यांति न ते गछन्ति दुर्गतिम् । क्लेशवैरान् विनिर्जित्य संबोधिपदमाप्नुयुः ॥ ६.१०३{३} ॥ ये धर्मे शरणं यान्ति न ते गछन्ति दुर्गतिम् । मारधर्मविनिर्मुक्ता बुद्धधर्माण्यवाप्नुइयुः ॥ ६.१०४{४} ॥ ये संघे शरणं गत्वा न ते गछन्ति दुर्गतिम् । सर्वपातकनिर्मुक्ता प्रयास्यंति सुखावतीम् ॥ ६.१०५{५} ॥ न भजन्ति त्रिरत्नं ये ते भ्रमन्ति भवार्णवे । सद्धर्मनिन्दका भ्रष्टा नष्टा गछन्ति दुर्गतिम् ॥ ६.१०६{६} ॥ दुर्गतिषु भ्रमंतस्ते दुःखानि विविधानि च । भुक्त्वा चरन्ति दुष्टांशा नैव गछंति सद्गतिम् ॥ ६.१०७{७} ॥ तद्दुःखं हातुमिछंति सुखं प्राप्तुं च ये सदा । ते त्रिरत्नं सदा स्मृत्वा भजंतां शरणं गताः ॥ ६.१०८{८} ॥ ततो वो मंगलं नित्यं नैव यायात दुर्गतिम् । सद्गतिमेव यायात संबोधिमपि लप्स्यथ ॥ ६.१०९{९} ॥ इति तेन सुरेन्द्रेण समादिष्टं हितार्थिना । श्रु<वा सर्वेऽपि ते देवास्तथेत्युक्त्वा ननन्दिरे ॥ ६.११०{१०} ॥ तदा सर्वेऽपि देवाश्च त्रिरत्नं शरणं गताः । (र्म् ८५) सर्वदानुस्मरन्तश्च सत्कृत्यैवं प्रभेजिरे ॥ ६.१११{११} ॥ एवं देवास्तदा ये ये त्रिरत्नशरणं गताः । ते ते स्वर्गादपि च्युत्वा नैवागछन्नधोगतिम् ॥ ६.११२{१२} ॥ तत ऊर्द्ध्वं समुद्गम्य प्रागछंस्तुषितालये । त्रिरत्नशरणं याता मैत्रेयं समुपाश्रयन् ॥ ६.११३{१३} ॥ तथा शक्रश्च तान् सर्वान्मैत्रेयसमुपाश्रितान् । दृष्ट्वानुमोदनां कुर्वन् प्राभ्यनन्दत्सुरैः सह ॥ ६.११४{१४} ॥ इति मे गुरुणा ख्यातं तथा ते वक्ष्यते मया । एवं मत्वा महाराज त्रिरत्नशरणं व्रज ॥ ६.११५{१५} ॥ ततस्ते मंगलं नित्यं सर्वत्रापि भवेद्ध्रुवम् । क्रमाद्बोधिचरीः प्राप्य संबोधिपदमाप्नुयाः ॥ ६.११६{१६} ॥ प्रजाश्चापि महाराज बोधयित्वा प्रयत्नतः । त्रिरत्नशरणे स्थाप्य त्वया धर्मप्रवृद्धये ॥ ६.११७{१७} ॥ इत्येवमुपगुप्तेन समादिष्टं सुभाषितम् । श्रुत्वा राजा तथेत्येवं प्रान्वमोदत्सपार्षदः ॥ ६.११८{१८} ॥ ये पुण्यप्राप्तुकामास्तदिदमविरतं सूकरीकावदानम् । शृण्वन्ति श्रवयन्ति प्रमुदितमनसा दुर्गतिं ते न यान्ति । निर्जित्य क्लेशसंघांस्त्रिगुणहितकरा बोधिचर्य्यानुरक्ता । मैत्रेयं बोधिसत्वं तुषितभुवनागाः संभजन्ति प्रकामम् ॥ ६.११९{१९} ॥ ++ इति रत्नावदानमालायां सूकर्य्यवदानं समाप्तं ++ (र्म् ८६) विइ वपुष्मत्कुमारावदान अथशोको महीपालः कृतांजलिपुटो मुदा । उपगुप्तं गुरुं नत्वा पुनरेवमभाषत ॥ ७.१{१} ॥ भदन्त श्रोतुमिछामि पुनरन्यत्सुभाषितम् । सर्वसत्वहितार्थाय तत्समादेष्टुमर्हसि ॥ ७.२{२} ॥ इति संप्रार्थिते तेन राज्ञाशोकेन भूभुजा । उपगुप्तो यतिश्चासौ दृष्ट्वा तं नृपमब्रवीत् ॥ ७.३{३} ॥ साधु राजन् समाधाय श्रूयतां पुण्यवृद्धये । यथा मे गुरुणा ख्यातं तथा ते वक्ष्यते मया ॥ ७.४{४} ॥ पुरासीद्भगवान् बुद्धः श्रीघनः शक्यकेशरी । सर्वविद्यागुणाचार्य्यस्त्रैधातुकविनायकः ॥ ७.५{५} ॥ सुगतोऽर्हन्महाभिज्ञो धर्मराजस्तथागतः । जिनः समन्तभद्रांशश्चतुर्ब्रह्मविहारकः ॥ ७.६{६} ॥ स एकसमये तत्र कपिलाख्ये पुरोत्तमे । न्यग्रोधारमके रम्ये व्यहरच्छ्रावकैः सह ॥ ७.७{७} ॥ तस्मिंश्च समये तत्र धर्म्मं श्रोतुं समागताः । देवासुरमहाराजा यक्षगंधर्वकिन्नराः ॥ ७.८{८} ॥ गरुडा नागराजाश्च सिद्धविद्याधरा ग्रहाः । योगिनो यतयश्चापि मुनयो ब्रह्मचारिणः ॥ ७.९{९} ॥ राजानः क्षत्रियाश्चापि वैश्यामात्याश्च मंत्रिणः । श्रेष्ठिनः सार्थवाहाश्च पौरा जानपदा अपि ॥ ७.१०{१०} ॥ एवमन्येऽपि सत्वाश्च ये सद्धर्मगुणवांछिनः । ते सर्वे समुपागत्य वंदित्वा तं मुनीश्वरम् ॥ ७.११{११} ॥ पूजयित्वा पुरस्कृत्य परिवृत्य समन्ततः । कृतांजलिपुटो धर्मं श्रोतुं समुपतस्थिरे ॥ ७.१२{१२} ॥ अथासौ भगवान् दृष्ट्वा तान् सर्वान् धर्मकांक्षिणः । आदिमध्यांतकल्याणं दिदेश धर्ममुत्तमम् ॥ ७.१३{१३} ॥ तं च धर्मामृतं पीत्वा सर्वे ते संप्रमोदिताः । (र्म् ८७) सत्कृत्य श्रद्धया नित्यं भजन्त उपतस्थिरे ॥ ७.१४{१४} ॥ भगवांश्च तथा नित्यं सर्वसत्वहितार्थतः । सद्धर्मदेशनां कृत्वा व्यहरत्सांघिकैः सह ॥ ७.१५{१५} ॥ तस्मिंश्च समये तत्र पुरे कपिलवस्तुनि । आसीच्छाक्यो महासाधुर्महाभोगो महाधनः ॥ ७.१६{१६} ॥ तेन कलत्रमानीतं स्वकुलसदृशात्कुलात् । तया स कान्तया सार्द्धं रराम परिचारयन् ॥ ७.१७{१७} ॥ तस्यैवं रममाणस्य सा भार्यासीत्सुगर्भिणी । ततोऽसौ समयेऽसूत दारकं दिव्यसुंदरम् ॥ ७.१८{१८} ॥ मर्त्यातिक्रान्तवर्णाभं दिव्यकल्पसुवर्णितम् । सूक्ष्मछविं सुभद्रांगं गौरवर्णं मनोहरम् ॥ ७.१९{१९} ॥ महेशाख्यं मनापं च दर्शनीयं प्रसादिकम् । अभिरूपं सुपुष्टांगं सर्वलक्षणमण्डितम् ॥ ७.२०{२०} ॥ तत्रासौ जनको दृष्ट्वा दारकं तं सुभद्रिकम् । मोदितः सहसा ज्ञातिं समाहूयाब्रवीत्तथा ॥ ७.२१{२१} ॥ भवन्तः पश्यतां पुत्रो ममायं दिव्यसुंदरः । अस्य जातिमहं कृत्वा नामधेयं प्रचक्ष्यताम् ॥ ७.२२{२२} ॥ इति तेनोदितं श्रुत्वा ज्ञातयस्ते ससंमताः । दृष्ट्वा तं वालकं दिव्यं कल्यवर्णं सुसुंदरम् ॥ ७.२३{२३} ॥ संमील्य संमतं कृत्वा दृष्ट्वा तस्याङ्गलक्षणम् । कृत्वा जातिमहं नाम स्थापितुं संवभाषिरे । यदयं दारको दिव्यवपुः कल्यातिसुंदरः । तस्माद्भवतु नाम्नायं वपुस्मानिति विश्रुतः । इति संभाषणां कृत्वा सर्वे ते ज्ञातिवर्गिकाः ॥ ७.२४{२४} ॥ पुरस्तात्तस्य शाक्यस्य गत्वा चैवं वभाषिरे । यदयं भवतः पुत्रो दिव्यवपुर्गुणान्वितः ॥ ७.२५{२५} ॥ तस्माद्भवतु नाम्नायं वपुष्मानिति विश्रुतः । तथेति समभिख्याय पित्रा स सुत आत्मजः ॥ ७.२६{२६} ॥ अष्टाभ्य उपमातृभ्य उपन्यस्तोऽभिपालने । ततोऽसौ दारकस्ताभिर्धात्रीभिरुपचारणैः ॥ ७.२७{२७} ॥ (र्म् ८८) पालितो वर्द्धितः पुष्ट आसीत्पद्मं यथा ह्रदे । क्रमात्प्रवर्द्धितश्चासौ कुमारोऽभूद्यदा ततः ॥ ७.२८{२८} ॥ तदा सुहृत्सहायैश्च सार्द्धं क्रीडितुमाचरत् । यत्र यत्र वपुष्मान् स चक्राम भुवि संचरम् ॥ ७.२९{२९} ॥ तत्र तत्राभवन्मेध्या भूप्रदेशाः समंततः । एवंविधमहापुण्यमहेशाख्यः शिवाशयः ॥ ७.३०{३०} ॥ कारुणिको महाश्राद्धः स्वपरात्महितार्थभृत् । धर्मकामः सुभद्रात्मा पूज्यो मान्यो जितेन्द्रियः ॥ ७.३१{३१} ॥ अभिवाद्यः कुमारोऽपि वपुष्मान् स व्यराजत । ततः कर्मविपाकेन प्रेर्य्यमानः कुमारकः ॥ ७.३२{३२} ॥ स वपुष्मान् सुहृत्संघैः सार्द्धं पुरो विनिर्ययौ । ततोऽसौ जेतकारण्यं दूराद्दृष्ट्वा प्रमोदितः ॥ ७.३३{३३} ॥ रमितुं तत्र महोद्याने सहसा समुपाचरत् । ततः समुपविष्टोऽसौ दृष्ट्वोद्यानं प्रमोदितः ॥ ७.३४{३४} ॥ शान्तरूपान् यतीन् पश्यन् विहारे हर्षितोऽविशत् । तत्रासौ भगवन्तं तं ददर्श समितिस्थितम् ॥ ७.३५{३५} ॥ द्वात्रिंशल्लक्षणाशीतिव्यञ्जनपरिमण्डितम् । व्यामाभालंकृतं काम्यं शतसूर्य्याधिकप्रभम् ॥ ७.३६{३६} ॥ समंतभद्ररूपं च रत्नांगमिव जंगमम् । दृष्ट्वासौ सुप्रसन्नात्मा समुपेत्य पुरोगतः ॥ ७.३७{३७} ॥ पादौ तस्य मुनेर्नत्वा धर्मं श्रोतुमुपाविशत् । अथासौ भगवान् दृष्ट्वा तस्य चित्तं विशोधितम् ॥ ७.३८{३८} ॥ अर्य्यसत्यानि मार्गं च दिदेश बोधिसाधनम् । तच्छ्रुत्वा सुगतोदितं वपुष्मान् स प्रहर्षितः ॥ ७.३९{३९} ॥ भवाभिसरणोद्विग्नः सद्धर्मगुणमैछत । भित्वा स ज्ञानवज्रेण सत्कायदृष्टिपर्वतम् ॥ ७.४०{४०} ॥ श्रोतापत्तिफलं लब्ध्वा दृष्टसत्योऽभवत्सुधीः । संसारं चास्थिरं मत्वा भवभोग्यसुनिस्पृहः ॥ ७.४१{४१} ॥ प्रव्रज्यां चरितुमैछत्स्वाख्याते सुगताश्रमे । ततोऽसौ पुरतो गत्वा मुनीन्द्रस्य कृतांजलिः ॥ ७.४२{४२} ॥ पादौ नत्वा प्रसन्नास्यः प्रव्रज्यां समयाचत ॥ ७.४३{४३} ॥ नमस्ते भगवञ्छास्तः शरणं भवतां व्रजे । (र्म् ८९) तत्प्रव्रज्याव्रतं देहि चरिष्ये ब्रह्मचारिकाम् ॥ ७.४४{४४} ॥ इति तेनार्थितं दृष्ट्वा भगवांस्तं कुमारकम् । प्रव्रज्याचरणारक्तं मत्वा चैवं समब्रवीत् ॥ ७.४५{४५} ॥ कुमार यदि ते वांछा प्रव्रज्याचरणेऽस्ति हि । पित्रोरादेशमासाद्य प्रागछ दास्यते तदा ॥ ७.४६{४६} ॥ इति श्रुत्वा मुनीन्द्रस्य निर्देशं तत्तथेति सः । नंदितश्चरणौ नत्वा स्वगृहं सहसागतः ॥ ७.४७{४७} ॥ ततो गृहे समासाद्य पित्रोश्च पुरतः स्थितः । कृतांजलिपुटो नत्वा वृत्तांतं समभाषत ॥ ७.४८{४८} ॥ अद्याम्ब तात संबुद्धो दृश्यतेऽपूर्वदर्शनः । सर्वलक्षणसंपूर्णो दिव्यातिकान्तसुंदरः ॥ ७.४९{४९} ॥ संस्थितः पर्षदां मध्ये भाषति धर्ममुत्तमम् । अपूर्वं श्रूयते तस्य सुभाषितवचोऽमृतम् ॥ ७.५०{५०} ॥ तत्सुभाषितसुधां पीत्वा चित्तं मे तृप्यते न हि । भूयस्तदमृतं पातुं व्रतमिछामि सांप्रतम् ॥ ७.५१{५१} ॥ अन्येऽपि बहवो दृष्ट्वा भिक्षवो ब्रह्मचारिणः ॥ ७.५२{५२} ॥ शान्तशीलाः शुभात्मानो दयाकारुण्यमानसाः । तत्सभागव्रतं चर्तुमिछामि खलु सांप्रतम् ॥ ७.५३{५३} ॥ तदनुज्ञां प्रदत्तं मे कृपास्ति यदि वां मयि । एवं तस्य स्वपुत्रस्य वचनं वज्रसन्निभम् ॥ ७.५४{५४} ॥ तौ मातापितरौ श्रुत्वा मूर्छितौ पेततुर्भुवि । ततः पुत्रप्रयत्नेन चेतनां प्राप्य तौ पुनः ॥ ७.५५{५५} ॥ परिष्वज्य स्वकं पुत्रं तमेवं पर्य्यदेवताम् । हा पुत्र कथमज्ञोऽसि हात्मज वल्लभोऽसि नः ॥ ७.५६{५६} ॥ हा सुत वंच्यसे केन हा तात किं नु वांछसि । हा जीव कथमेकान्ते त्यक्त्वास्मान् क्व नु यास्यसे ॥ ७.५७{५७} ॥ नन्दनः सुप्रियाश्चासि केन दुःखेन यास्यसे । किंचिद्दुःखं न ते दत्तमस्माभिर्वा कदा चन ॥ ७.५८{५८} ॥ कुतः किं जायते दुःखं तद्वदस्व यदीहसि । इत्येवं परिदेवित्वा पितासौ चेतसात्मजम् ॥ ७.५९{५९} ॥ (र्म् ९०) निवारयन् प्रवंधेन बोधयितुं समब्रवीत् । त्वं कुमार वयस्थोऽसि सुकोमलः सुखैधितः ॥ ७.६०{६०} ॥ शीततापासहिष्णुश्च यथेछाभोग्यसंरतः । किंचिद्दुःखानभिज्ञस्त्वं तत्कथं प्रव्रजेः सुत ॥ ७.६१{६१} ॥ प्रव्रजितो गृहं त्यक्त्वा बहिर्देशे वसेस्सदा । चीवरप्रावृतः पिण्डं याचित्वा स्वयमाहरेः ॥ ७.६२{६२} ॥ अनेकजन्तुसंचारे वनेऽरण्ये कथं वसेः । जंगले दुर्गमे नैकचौराकीर्णे कथं चरेः ॥ ७.६३{६३} ॥ एकाकी च कथं तिष्ठेर्वृक्षमूले च निर्जने । श्मशाने संस्थितः पश्यन्मृतकान्तो त्रसेः कथम् ॥ ७.६४{६४} ॥ शयिथाश्च कथं शून्ये गृहे भूतनिवासिते । एवं सुदुष्करीं चर्य्यां चरितुं कथमिछसि ॥ ७.६५{६५} ॥ तत्प्रव्रज्याव्रते चित्तं मा कृथास्त्वं निवर्त्तय । इति मद्वचनं श्रुत्वा गृहे स्थित्वा सुखं रम ॥ ७.६६{६६} ॥ नित्यं प्रव्रजतां दुःखं किं सिद्धं दुःखचर्य्यया । धर्मे वंछास्ति चेत्पुत्र गृहे स्थित्वा चर व्रतम् ॥ ७.६७{६७} ॥ शृण्वंश्च धर्मशास्त्राणि श्रावयंश्च बहूञ्जनान् । दानं कृत्वा विशुद्धात्मा त्रिरत्नं सततं भज ॥ ७.६८{६८} ॥ यस्य किंचिद्गृहे नास्ति ज्ञातिर्वंधुश्च कश्चन । नापि मित्रगतिश्चापि प्रव्रज्या तस्य युज्यते । किं तव सेत्स्यते पुत्र प्रव्रज्यां पाकुनिष्ठया । सर्वथा त्यज तद्वांछा गृहे धर्मं सुखं चर । इति पित्रोदितं श्रुत्वा वपुष्मान् स विशंकितः ॥ ७.६९{६९} ॥ पित्रोः पादान् पुनर्नत्वा प्रत्युवाच प्रबोधयन् । सत्यं तात गृहे सौख्यं धर्माणां चरमुत्तमम् ॥ ७.७०{७०} ॥ संपदोऽपि समृद्धास्ते कामभोग्यं महत्सुखम् । गृहे परिग्रहाः पोष्यास्तदर्थं धनमर्जयेत् ॥ ७.७१{७१} ॥ (र्म् ९१) अर्जने हि महत्कष्टं रक्षणेऽपि प्रयत्नता । अनेके संपदोऽपाया राजाग्न्युदकतस्कराः ॥ ७.७२{७२} ॥ क्षणाद्धरेयुराकृष्य तद्दुःखं सहितुं कथम् । संपदोऽन्ते विपत्तिः स्यात्कस्य संपद्विनिश्चला ॥ ७.७३{७३} ॥ विपत्तौ हीयते धैर्य्यमधैर्य्यात्क्लेशितो भवेत् । क्लेशितो दोषमाप्नोति तदा पुण्ये मतिः कुतः ॥ ७.७४{७४} ॥ अपुण्ये कुपिता लक्ष्मिर्नैवाश्रये गमिष्यति । लक्ष्मीविरहिते गेहे कुतो धर्मस्य गोचरम् ॥ ७.७५{७५} ॥ संपत्तौ तु लभेन्मानं मानाद्धि जायते मदः । मदाद्प्रमादितो धर्मे तदा धर्मो गृहे कुतः ॥ ७.७६{७६} ॥ अधर्मात्कामभोग्यं तु केवलं पापसाधनम् । कामार्थे क्लेशिता लोकाः कामार्थे दुःखभागिनः ॥ ७.७७{७७} ॥ कामार्थे प्रतिहन्यन्ते तेन कामे सुखं कथम् । संत्येवं तात सर्वत्र भयानि विविधानि हि ॥ ७.७८{७८} ॥ त्रैधातुकभवस्थानां कस्य नास्ति भयं कुह । दैवात्सर्वत्र जायन्ते दुःखानि च सुखानि च ॥ ७.७९{७९} ॥ क्लेशचित्तसमुत्थानि दुःखानि च भयानि च । यत्र यत्रापि संयाति क्लेशितात्मा सुखेछया ॥ ७.८०{८०} ॥ तत्र तत्रापि कर्मोत्थैर्दुःखैर्भयैश्च हन्यते । यत्र यत्रापि संयाति धर्मचित्तो हितेछया । तत्र तत्रापि सर्वत्र निर्भयश्चरते सुखम् । यल्लोकानां भयस्थानं तत्रैव रमते यतिः । विविक्ते निर्जनेऽरण्ये वृक्षमूले गुहासु च ॥ ७.८१{८१} ॥ शून्यगेहे श्मशानेऽपि सुखं ध्यात्वा यतिर्वसेत् । स्वधर्मै रक्षितो योगी संयतात्मा कुतो भयः ॥ ७.८२{८२} ॥ किमेव वहुवादेन निर्वाणार्थिमनो मम । तन्निर्वातुं स्वदेहेऽपि निरपेक्षः परिव्रजे ॥ ७.८३{८३} ॥ तदनुज्ञां प्रदत्तं मे प्रव्रज्याव्रतसाधने । यदि न दीयतेऽनुज्ञा मरिष्येऽहं न संशयः ॥ ७.८४{८४} ॥ इति तस्यात्मजस्यैवं निर्वन्धवचनं पिता । (र्म् ९२) श्रुत्वा वियोगदुःखार्त्तः पुनस्तं सुतमब्रवीत् ॥ ७.८५{८५} ॥ मा पुत्र सहसा कार्षी मरणाभिलाषितं मनः । सर्वथाप्यनिवर्त्ती त्वमवश्यं चेद्गमिष्यसि ॥ ७.८६{८६} ॥ यदिछसि व्रतं कर्तुं सद्धर्मार्थिमनस्तव । प्रव्रज श्रद्धया पुत्र स्वाख्याते बुद्धशासने ॥ ७.८७{८७} ॥ एवं भर्त्त्रोदितं श्रुत्वा तन्माता मूर्छितापतत् । चिरात्सा चेतनां प्राप्ता रुदन्ती चावदत्सुतम् ॥ ७.८८{८८} ॥ हा पुत्र कथमेकान्ते मां विहाय क्व यास्यसि । हा मे जीवोऽसि किं पश्यं प्रव्रजितुं समीहसि ॥ ७.८९{८९} ॥ किंचिद्दुःखं न ते दत्तं मयाम्वाया कदा चन । केन दुःखेन ते चित्तं प्रव्रजितुं समिछति ॥ ७.९०{९०} ॥ प्रव्रज्या शोभते पुत्र वृद्धत्वे वा दरिद्रिते । त्वं तु दहर इत्यश्च तत्प्रव्रज्यां चरेः कथम् ॥ ७.९१{९१} ॥ यावच्च जिवितं मेऽस्ति तावन्मा गाः सुत क्वचित् । यावच्चास्ति गृहे संपत्तावद्भुक्त्वा सुखं वस ॥ ७.९२{९२} ॥ यदाहं मरणं याता यदा चापत्तिता गृहे । ज्ञातिमित्रपरित्यक्तस्तदा व्रजस्व वांछया ॥ ७.९३{९३} ॥ इत्युक्तेऽपि तयोः पित्रोरुदतोर्विघ्नशंकितः । पादां नत्वा वपुष्मान् स सहसा निर्ययौ गृहात् ॥ ७.९४{९४} ॥ ततो वेणुवनं गत्वा प्रणम्य मुनिमादरात् । कृतांजलिपुटो भूत्वा प्रव्रज्यां समयाचत ॥ ७.९५{९५} ॥ पितृप्राप्ताभ्यनुज्ञोऽहं नाथ सांप्रतमागतः । तत्प्रव्रज्यां व्रतं देहि पंचशिक्षापदानि च ॥ ७.९६{९६} ॥ उपसम्पच्छुभाचारमनुशिक्षापदं च मे । ब्रह्मचर्य्यं चरिष्यामि संबोधौ कृतनिश्चयः ॥ ७.९७{९७} ॥ अद्याग्रेण महाबुद्ध भवतां शरणं व्रजे । सधर्मसांघिकानां च्ं कायवाक्चित्तभक्तितः ॥ ७.९८{९८} ॥ इत्युक्ते भगवान् दृष्ट्वा पृष्ट्वा हस्तेन तच्छिरः । एहि भिक्षो कुमारेति संवदंस्तं समग्रहीत् ॥ ७.९९{९९} ॥ एहीति प्रोक्ते सुगतेन मुण्डः पात्री वपुष्मान् सकषायवासाः । (र्म् ९३) सद्यप्रशान्तेन्द्रिय एव तस्थौ स्वर्ण्णप्रभो बुद्धमनोरथेन ॥ ७.१००{१००} ॥ सच्चित्तलब्धः स मुनेः प्रसादात्प्रयुज्यमानो व्यहरत्समाधौ । व्यायछमानः खलु बोधिमार्गे संबुद्धधर्मे घटमान एवम् ॥ ७.१०१{१} ॥ सर्वं च संसारमनित्यताहतं मत्वा च त्रैधातुगतिं विघातिनीम् । क्लेशांश्च सर्वान् प्रविहाय संयतः साक्षाद्वरोऽर्हं स बभूव सांघिकः ॥ ७.१०२{२} ॥ सुवीतरागः समलोष्टहेम आकाशचित्तशुभगंधिवासी । भिन्दन्नविद्यांगमिवाण्डकोशं प्राप्तादभिज्ञाः प्रतिसंविदश्च ॥ ७.१०३{३} ॥ सत्कारलोभेषु परांमुखत्वात्स शक्रदेवासुरमानुषाणाम् । पूज्यश्च मान्योऽप्यभिवन्दनीयो बभूव स ब्रह्मविहारचारी ॥ ७.१०४{४} ॥ अथ ते भिक्षवः सर्वे तं दृष्ट्वा विस्मयान्विताः । भगवन्तं प्रणम्यैवं पप्रछुस्तस्य कर्मताम् ॥ ७.१०५{५} ॥ केनायं कर्मणा नाथ वपुष्मानतिसुंदरः । प्रव्रज्य सहसार्हत्वं प्राप्तो भवति चात्मवित् ॥ ७.१०६{६} ॥ इति पृष्टे च तैर्नाथो भगवांस्तान् समब्रवीत् । भिक्षवः श्रूयतां वक्ष्ये तस्य च कर्म यत्कृतम् ॥ ७.१०७{७} ॥ एतेन यत्कृतं कर्म तत्केनान्येन भोक्ष्यते । येनैव यत्कृतं कर्म तेनैव तद्धि भुज्यते ॥ ७.१०८{८} ॥ पुरैकनवते कल्पे विपश्वी नाम सर्ववित् । समुदपादि लोकेऽर्हन् धर्मराजस्तथागतः ॥ ७.१०९{९} ॥ विद्याचरणसंपन्नः सुगतो भद्रकृज्जिनः । सर्वज्ञोऽनुत्तरो नाथः पुरुषदम्यसारथिः ॥ ७.११०{१०} ॥ शास्ता त्रैधातुकस्थानां विनायको गुणाकरः । सद्धर्मरत्नदात स भगवान् पुण्यभास्करः ॥ ७.१११{११} ॥ पुरीं वंधुमतो राज्ञो राजधानीमुपाश्रयन् । सार्द्धं भिक्षुगणैः शिष्यै बोधिसत्वगणैरपि ॥ ७.११२{१२} ॥ हिताय सर्वसत्वानां दिदेश धर्ममुत्तमम् । आदिमध्यांतकल्याणं बोधिचर्य्यानुसारिकम् ॥ ७.११३{१३} ॥ ततः स बुद्धकार्य्याणि कृत्वा सर्वाण्यशेषतः । निर्वाणमाययौ शान्तो वह्निरिवेन्धनक्षयात् ॥ ७.११४{१४} ॥ ततो वन्धुमता राज्ञा तत्तनुः संस्कृतोऽग्निना । (र्म् ९४) तद्धातूश्च समारोप्य स्तूप उच्चैर्महान् कृतः ॥ ७.११५{१५} ॥ तत्र रत्नमये स्तूपे सद्विधाने प्रतिष्ठिते । नित्यसत्कारपूजाभिः कारितं च महोत्सवम् ॥ ७.११६{१६} ॥ संगीतिवाद्यनृत्यैश्च महानंदप्रचारिभिः । कारयित्वा महोत्साहं स्थापितं सुमहन्महः ॥ ७.११७{१७} ॥ एकस्मिन् दिवसे तत्र पुमानेको दरिद्रितः । तन्महांते दिनेऽन्यस्मिं स्तापांगणमुपाविशत् ॥ ७.११८{१८} ॥ तत्र स्तूपाङ्गणे चासौ प्रविष्टः समलोकयत् । म्लानीभूतानि पुष्पाणि प्रकीर्ण्णानि समंततः ॥ ७.११९{१९} ॥ तानि निर्माल्यपुष्पाणि विकीर्ण्णानि समंततः । ग्लानीभूतान्यशुद्धानि दृष्ट्वा चैवं व्यचिन्तयत् । अयं चैत्यो मुनीन्द्रस्य विपश्चिनो गुणांबुधेः ॥ ७.१२०{२०} ॥ धातुरत्नमयस्तूपः सर्वलोकाभिः पूजितः । एतन्निर्माल्यपुष्पैस्तु म्लानितैः पवनेरितैः ॥ ७.१२१{२१} ॥ आकीर्णो मलिनीभूतो ह्यशुद्धेः स्यादशोभितः । तस्मादेतानि पुष्पाणि निर्माल्यानि समंततः ॥ ७.१२२{२२} ॥ अपनीय विशुद्धाय मार्जयेयमिह द्रुतम् ॥ ७.१२३{२३} ॥ इति ध्यात्वा दरिद्रोऽसौ निर्माल्यान्यपनीय वै ॥ ७.१२४{२५} ॥ संमार्ज न्यासममार्क्षी स्तूपांगणं समंततः । ततः स्तूपांगणं सर्वं विरजं परिशोधितम् । दृष्ट्वा प्रसन्नचित्तोऽसौ नत्वैवं प्रणिधिं दधे । यन्मयात्र जिनस्तूपे निर्माल्यान्यपनीय वै । संमृज्य शोभनं कृत्वा कुशलं समुपार्जितम् । अनेन कुशलेनाहं सदा दुर्गतिमोचितः ॥ ७.१२५{२६} ॥ एवंविधगुणज्ञानलाभि भूयासमात्मवित् । एवंविधं च शास्तारं संबुद्धं ज्ञानभास्करम् ॥ ७.१२६{२७} ॥ आरागयं समाश्रित्य लभेयं सौगतिं गतिम् । प्रणिधानं तथा धृत्वा नित्यमेवमुपाश्रयन् ॥ ७.१२७{२८} ॥ तत्स्तूपे शरणं गत्वा भजे रत्नत्रयं सदा । भिक्षवः किं नु मन्यध्वे यो पुरुषः दरिद्रिकः ॥ ७.१२८{२९} ॥ (र्म् ९५) अयमेव वपुष्मान् स ज्ञेयो हि नान्यथा खलु । यत्स्तूपांगणं तेन संबुद्धगुणभाविना ॥ ७.१२९{३०} ॥ समन्ततः सुसंमृज्य परिशुद्धीकृतं तदा । तेन पुण्यविपाकेन जात आढ्यकुलेऽधुना ॥ ७.१३०{३१} ॥ दिव्याभिसुन्दरः कान्तः स वपुष्मान् भवत्ययम् । यत्प्रणिधिः कृतः स्तूपे नत्वा तेन सुचेतसा ॥ ७.१३१{३२} ॥ तेन मे शासनेऽप्यद्य प्रव्रज्यार्हन् भवत्ययम् । आरागितस्तथार्हञ्च संबुद्धः सुगतो जिनः ॥ ७.१३२{३३} ॥ अनेन भिक्षुणा बोधिप्राप्तेन ब्रह्मचारिणा । इत्येवं कर्म जानीत सुकृतं दुष्कृतं भवे ॥ ७.१३३{३४} ॥ येनैव यत्कृतं कर्म तेनैव तत्फलं गतम् । न नश्यन्ति हि कर्माणि कल्पकोटिशतैरपि ॥ ७.१३४{३५} ॥ सामग्रीं प्राप्य कालं च फलंति खलु देहिनाम् । अभुक्तं क्षीयते नैव कर्म क्वापि कथं चन ॥ ७.१३५{३६} ॥ नाग्निभिर्दह्यते कर्म वायुभिश्च न शुष्यते । जलैश्च क्लिद्यते नापि क्षीयते नापि भूमिषु ॥ ७.१३६{३७} ॥ अन्यथापि भवेन्नैव कर्मणां गतिराभवम् । शुक्लानां शुभतैव स्यात्कृष्णानां दुर्गतिस्सदा ॥ ७.१३७{३८} ॥ मिश्रिता मिश्रितानं तु भुज्यंते सर्वजन्तुभिः । तस्मादपास्य कृष्णानि कर्माणि मिश्रितानि च ॥ ७.१३८{३९} ॥ चरणीयां शुभेष्वेव कर्मसु सुखवांछिभिः । तथेति भिक्षवः सर्वे ते च लोकाः सभाश्रिताः ॥ ७.१३९{४०} ॥ बुद्धवाचोऽमृतं पीत्वा ननन्दुः शुभकामिनः । एवमेतन्महाराज श्रुतं मे गुरुभाषितम् ॥ ७.१४०{४१} ॥ एवं श्रुत्वा त्वयाप्येवं कर्त्तव्यं पुण्यमेव हि । पुण्यमेव भवेत्त्राता सुहृन्मित्रं हितंकरः ॥ ७.१४१{४२} ॥ नान्यः कश्चिदिहामुत्र विद्यते भवचारिणाम् । तस्मात्पुण्यं स्वयं श्रुत्वा कर्त्तव्यमादरात्सदा ॥ ७.१४२{४३} ॥ प्रजाश्च श्रावयित्वैवं पुण्ये संस्थापय सदा । इत्येवं गुरुणादिष्टमुपगुप्तेन भिक्षुणा ॥ ७.१४३{४४} ॥ श्रुत्वा राजा जनैः सार्द्धं तथेति प्राभ्यनंदत । (र्म् ९६) शृण्वन्ति ये श्रावयन्तीह यश्च वपुष्मतोऽदः प्रथितावदानम् । ते क्लेशनिर्मुक्तविशुद्धचित्ताः प्रयान्ति नूनं सुगतालयेषु ॥ ७.१४४{४५} ॥ ++ इति रत्नावदानमालायां वपुष्मतावदानं नाम समाप्तम् ++ (र्म् ९७) विइइ प्रश्नोत्तरावदान अथाशोको महीपालः संबुद्धगुणलालसः । उपगुप्तं गुरुं नत्वा प्रांजलिश्चैवमब्रवीत् ॥ ८.१{१} ॥ भदन्त श्रोतुमिछामि पुनरन्यत्सुभाषितम् । यथा ते गुरुणादिष्टं तथा मे ख्यातुमर्हसि ॥ ८.२{१२} ॥ इति तेन नरेन्द्रेण पृष्टेऽसौ च जिनांशजः । उपगुप्तो यतिर्भूयस्तं नृपेशमभाषत ॥ ८.३{३१} ॥ शृणु राजंस्तथा वक्ष्ये यथा मे गुरुणोदितम् । श्रुत्वा च भवताप्येवं कर्त्तव्यं धर्मसाधनम् ॥ ८.४{४१} ॥ पुरैकसमये चासौ शाक्यसिंहोस्दयाकरः । सर्वज्ञः सुगतो नाथः शास्ता त्रैधातुकाधिपः ॥ ८.५{५} ॥ सर्वविद्याधिपो बुद्धः षडभिज्ञो मुनीश्वरः । मारजिष्णुर्विनेतार्हं धर्मराजस्तथागतः ॥ ८.६{६} ॥ सर्वसत्वहितार्थाय श्रावस्त्यां वहिराश्रमे । जेतवने विहारस्थे व्यहरच्छ्रावकैः सह ॥ ८.७{७} ॥ बोधिसत्वगणैश्चापि सूपासकैश्च चैलकैः । देवासुरगणैश्चापि चतुर्वर्ण्णादिमानवैः ॥ ८.८{८} ॥ चतुर्भिश्च महाराजैः ससैन्यपरिवारकैः । सर्वसत्वैश्च पौरैश्च सद्धर्मगुणवांछिभिः ॥ ८.९{९} ॥ सत्कृत्य पूजयित्वा च परिवृत्य पुरस्कृतः । स भगवान् सभामध्ये सिंहासने स्थितो वभौ ॥ ८.१०{१०} ॥ तदा स भगवान् दृष्ट्वा तां सभां समुपस्थिताम् । आदिमध्यान्तकल्याणं दिदेश धर्ममुत्तमम् ॥ ८.११{११} ॥ ते तद्धर्मामृतं पीत्वा सर्वे लोकाः प्रमोदिताः । भगवन्तं पुनर्नत्वा स्वस्वस्थानं प्रतीयिरे ॥ ८.१२{१२} ॥ ततोऽसौ भगवान् रात्रौ ध्यानागारे समाविशन् । पर्य्यङ्कं समुपाश्रित्य तस्थौ ध्यानसमाहितः ॥ ८.१३{१३} ॥ तदैका देवता तस्यां रात्रौ स्वर्गात्समागता । स्वकान्त्या भासयंत्येवं जेतवनमुपाविशत् ॥ ८.१४{१४} ॥ (र्म् ९८) ततस्तां भगवान् दृष्ट्वा देवतां समुपागताम् । संनिरीक्ष्य समामंत्र्य तथैनां समबोधयत् ॥ ८.१५{१५} ॥ देवते स्वागतं कच्चि कुशलं ते समेहि भो । प्रायातासि यदर्थेन तद्वदस्व प्रपूरये ॥ ८.१६{१६} ॥ इत्यादिष्टे मुनीन्द्रेण तेनासौ देवता मुदा । संपृछावसरं लब्ध्वा हर्षिता समुपाक्रमत् ॥ ८.१७{१७} ॥ तत्रासौ पुरतो गत्वा नत्वा पादौ कृतांजलिः । प्रदक्षिणत्रयं कृत्वा तस्थावेकान्तिके मुनेः ॥ ८.१८{१८} ॥ सर्वजेतवनं तस्या देवतायाः प्रभावतः । उदारेणावभासेन प्रविस्फुटं वभौ तदा ॥ ८.१९{१९} ॥ तथावभाषितं दृष्ट्वा सर्वे ते भिक्षुसांघिकाः । विस्मिताः सहसोत्थाय दृष्ट्वा तमुपतस्थिरे ॥ ८.२०{२०} ॥ अथ सा देवतोत्थाय कृतांजलिपुटोऽग्रगा । भगवन्तं मुनीन्द्रं तं प्रणत्वैवमपृछत ॥ ८.२१{२१} ॥ सर्वज्ञ भगवं छास्तः येनाहं समुपागता । तदर्थं त्वं समादिश्य चित्तं मे परिबोधय ॥ ८.२२{२२} ॥ के नराः सुगतिं यान्ति के नराः स्वर्गगामिनः । केषां चापि दिवारात्रौ सदा पुण्यं प्रवर्द्धते ॥ ८.२३{२३} ॥ के चापि दुर्गतिं यांति के चाधः पतिता नराः । केषां चापि दिवारात्रौ सदा पापं प्रवर्द्धते ॥ ८.२४{२४} ॥ किंददो वलवां स्याच्च किंददश्च प्रशोभितः । किंददः सुखितो लोकः चक्षुष्मानपि किंप्रदः ॥ ८.२५{२५} ॥ किं नु वा निशितं शस्त्रं किं वा हालाहलं विषम् । किं च प्रज्वलितो वह्निः किं महद्दारुणं तमः ॥ ८.२६{२६} ॥ गृहीतं किं नु मर्त्येन किन् तेनेह समुज्झितम् । अभेद्यं कवचं किं च किं वा तीक्ष्णमिहायुधम् ॥ ८.२७{२७} ॥ को न्वसौ प्रोच्यते चौरो धनं किं वा सतां मतम् । के वा त्रैधातुके लोके प्रोच्यन्ते मुषितैति ॥ ८.२८{२८} ॥ कश्चेह सत्सुखी लोके को वा च परमेश्वरः । को विभूषितो नित्यं कश्चाप्यत्र विदंवितः ॥ ८.२९{२९} ॥ वत्सलो वांधवो को नु को वा दुष्टाशयो रिपुः । किं महद्दारुणं दुःखं किं महत्परमं सुखम् ॥ ८.३०{३०} ॥ (र्म् ९९) किं च लोके प्रियो पथ्यः किं वापथ्यं न चाप्रियम् । को नु पीडाकरो व्याधिः को नु वै को भिषग्वरः ॥ ८.३१{३१} ॥ केनायमावृतो लोकः केन लोको वशीकृतः । केन त्यजति मित्राणि केन स्वर्गं न गछति ॥ ८.३२{३२} ॥ केन मित्राणि वर्द्ध्यंते केन शाम्यंति शत्रवः । केन स्वर्गमवाप्नोति केन मोक्षं च गछति ॥ ८.३३{३३} ॥ केनायं बध्यते लोकः केन लोको विमुच्यते । कस्येह विप्रहाणेन निर्वाणमिति कथ्यते ॥ ८.३४{३४} ॥ किं नु राजा च चौराश्च स्यंदमानाः समुद्यताः । नो शक्नुवन्त्यपाहर्तुं स्त्रियो वा पुरुषस्य च ॥ ८.३५{३५} ॥ किं न दहति सप्तार्चिः किं न भिनत्ति मारुतः । किं वा न क्लेदयंत्यापः किं न क्षीणं च भूमिषु ॥ ८.३६{३६} ॥ इमं संशयमद्यापि मम तच्छेतुमर्हसि । अस्माल्लोकात्परं लोकं को गतोऽत्यंतवंचितः ॥ ८.३७{३७} ॥ किं नु हत्वा सुखं शेते किं च हत्वा न शोचति । कस्य चैकस्य धर्मस्य वधं संशसि गौतम ॥ ८.३८{३८} ॥ मयैतद्भगवन् पृष्टः सर्वज्ञोऽसि यतो सुधीः । तन्मम संशयं छेतुं सम्यगादेष्टुमर्हसि ॥ ८.३९{३९} ॥ तयैवं पृछ्यमानोऽसौ भगवान् सर्वविज्जिनः । देवतां तां समालोक्य तत्प्रश्नोत्तरमब्रवीत् ॥ ८.४०{४०} ॥ शृणु त्वं देवते सम्यक्कृत्वा चित्तं समाहितम् । तवैतत्परिपृछायाः प्रत्युत्तरमुदाहरे ॥ ८.४१{४१} ॥ आरामारोपका येऽत्र ये च वा सेतुकारकाः । प्रपातोदकयानं च प्रददन्ति प्रतिश्रयम् ॥ ८.४२{४२} ॥ श्रद्धाशीलेन सत्येन क्षमया वीतमत्सराः । ते नराः सुगतिं यान्ति ते नराः स्वर्गगामिनः ॥ ८.४३{४३} ॥ तेषामेव हि मर्त्यानां दिवारात्रौ निरंतरम् । अविछिन्नाः पुण्यधाराः प्रवर्द्ध्यन्ते सदा खलु ॥ ८.४४{४४} ॥ दशाकुशलकर्त्तारो येन सद्धर्मनिंदकाः । ते नरा दुर्गतिं यान्ति भ्रमन्ति पापचारिणः ॥ ८.४५{४५} ॥ ये चाततायिनो मर्त्याः स्वकुलधर्मनष्टकाः । ते नराः पतिता यन्ति नरके दुःखभागिनः ॥ ८.४६{४६} ॥ (र्म् १००) तेषां पापिष्ठसत्वानां दिवारात्रौ निरंतरम् । अविछिन्नाः पापधाराः प्रवहन्ते सदा खलु ॥ ८.४७{४७} ॥ अन्नदो वलवान् भोगी वस्त्रदः शोभितो भवेत् । पानदः सुखितः तृप्तश्चक्षुष्मान् भवति दीपदः ॥ ८.४८{४८} ॥ दुष्टवाग्निशितं शस्त्रं रागो हालहलं विषम् । द्वेषः प्रज्वलितो वह्निरविद्या दारुणं तमः ॥ ८.४९{४९} ॥ गृहीतं यत्स्वयं दत्तं यद्गृहे तदिहोज्झितम् । अभेद्यं कवचं क्षान्तिः प्रज्ञा तीक्ष्णं महायुधम् ॥ ८.५०{५०} ॥ वितर्कोऽकुशलश्चौरः शिलं धनं सतां मतम् । ते एव मुषिता लोके यैः शीलं विनिपातितम् ॥ ८.५१{५१} ॥ अल्पेछः सत्सुखी लोके संतुष्टः परमेश्वरः । शीलवान् भूषितो नित्यं नष्टशीलो विदंवितः ॥ ८.५२{५२} ॥ वत्सलो वान्धवः पुण्यं पापं दुष्टाशयो रिपुः । नारकं दारुणं दुःखं स्कंधाभावपरं सुखम् ॥ ८.५३{५३} ॥ कामाः प्रिया अपथ्या हि मोक्षः पथ्यो प्रियः सताम् । द्वेषः पीडाकरो व्याधिः बुद्ध एको भिषग्वरः ॥ ८.५४{५४} ॥ अज्ञानेनावृतो लोको मोहनः प्रवशीकृतः । लोभात्त्यजति मित्राणि संगात्स्वर्गं न गछति ॥ ८.५५{५५} ॥ त्यागान्मित्राणि वर्द्धन्ते मैत्र्या शाम्यन्ति शत्रवः । शीलात्स्वर्गमवाप्नोति ज्ञानान्मोक्षं सु गछति ॥ ८.५६{५६} ॥ इछया बध्यते लोको नीछया च विमुच्यते । तृष्णाया विप्रहाणेन निर्वाणमिति कथ्यते ॥ ८.५७{५७} ॥ पुण्यं राजा च चौराश्च स्यंदमानाः समुद्यताः । न शक्नुवंत्यपाहर्तुं स्त्रियो वा पुरुषस्य च ॥ ८.५८{५८} ॥ पुण्यं न दहते वह्निर्भिनत्ति च न मारुतः । पुण्यं न क्लेदयंत्यापो नैव क्षीण्वंति भूमयः ॥ ८.५९{५९} ॥ विद्यमानेषु भोग्येषु पुण्यं येन न संचितम् । अस्माल्लोकात्परं लोकं स गतोऽत्यंतवंचितः ॥ ८.६०{६०} ॥ क्रोधं हत्वा सुखं शेते क्रोधं हत्वा न शोचति । (र्म् १०१) क्रोधस्यैकस्य धर्मस्य वधं संशामि सर्वदा ॥ ८.६१{६१} ॥ एतत्प्रश्नोत्तरं श्रुत्वा देवतासौ प्रमोदिता । भगवंतं पुनर्नत्वा प्रसंश्यैवमवोचत ॥ ८.६२{६२} ॥ धन्योऽसि भगवन् बुद्ध सर्वप्रश्नोत्तरप्रदः । सर्वज्ञो जगतां शास्ता षडभिज्ञो मुनीश्वरः ॥ ८.६३{६३} ॥ वीरस्य च न पश्यामि ब्राह्मण्यं परिनिर्वृतिम् । सर्ववीरो भयातीतस्त्रातुं लोकेऽभिशक्तिभाग् ॥ ८.६४{६४} ॥ इत्युक्त्वा देवता भूयः कृत्वा प्रदक्षिणत्रयम् । नत्वा पादौ मुनीन्द्रस्य तत एव दिवं ययौ ॥ ८.६५{६} ॥ अथ ते भिक्षवः सर्वे श्रुत्वा शास्त्रानुदेशितम् । सत्यमेवं परिज्ञाय सम्यक्कर्मसु चेरिरे ॥ ८.६६{६६} ॥ एवमेतन्महाराज गुरुणा मे प्रभाषितम् । श्रुत्वा चैवं परिज्ञाय सद्धर्मे निरतो भव ॥ ८.६७{६७} ॥ धर्मेण सुगतिं यायात्पापेन दुर्गतिं व्रजेत् । तस्माद्धर्मं पुरस्कृत्य प्रजाः सम्यक्प्रपालय ॥ ८.६८{६८} ॥ दशाकुशलकर्माणि त्यक्त्वा संवृतिमाचर । सर्वोपकरणं दानं दातव्यं स्वर्गवांछिना ॥ ८.६९{६९} ॥ दुष्टसंगं परित्यज्य हत्वा रागविषं मुहुः । द्वेषाग्निशमनं कृत्वा ह्यविद्या संप्रघात्यताम् ॥ ८.७०{७०} ॥ कामवितर्कतां त्यक्त्वा बोधिप्रणिधिचेतसा । त्रिकायशोधनं कृत्वा शीलधनमुपार्ज्यताम् ॥ ८.७१{७१} ॥ स्कंधाभावं परिज्ञाय मत्वा दुष्टाशयं रिपुम् । क्षमास्वावरणं धृत्वा दुष्टसंघान् विजीयताम् ॥ ८.७२{७२} ॥ मारधर्मान् विनिर्जित्य संबोधिधर्मसाधने । धैर्यवीर्यमहोत्साहैरुद्यमं क्रियतां सदा ॥ ८.७३{(७३)} ॥ क्लेशमानमदाञ्जित्वा कृत्वा चित्तं समाहितम् । सर्वसत्वहितार्थेषु ध्यातां बोधिसाधनम् ॥ ८.७४{(७४)} ॥ लोकं मायासमुद्भूतमज्ञानतमसावृतम् । दृष्ट्वा प्रज्ञाप्रदीपेन प्रेर्यतां सुगतेः पथि ॥ ८.७५{(७५)} ॥ एवं राजन् भवान्मत्वा दुष्टसंगान् विवर्जयेत् । (र्म् १०२) सत्संगं निरतो नित्यं त्रिरत्नसेवको भव ॥ ८.७६{(७६)} ॥ सर्वा अपि प्रजाश्चैवं परिबोध्य प्रयत्नतः । प्रेरणीया त्वया राजन् संवृत्तिचरणे सदा ॥ ८.७७{(७७)} ॥ एवं मत्वा भवां राजा संसारसारमाप्नुवन् । क्रमाद्बोधिचरी पूर्य संबुद्धपदमाप्नुयात् ॥ ८.७८{(७८)} ॥ इत्येतद्गुरुणादिष्टमुपगुप्तेन भिक्षुणा । श्रुत्वा तथेति राजासावभ्यनंदत्सपर्षिकाः ॥ ८.७९{(७९)} ॥ देवतापरिपृछाख्यसूत्रं शृण्वंति ये मुदा । श्रावयंति च ते सौख्यं भुक्त्वा यांति सुखावतीम् ॥ ८.८०{(८०)} ॥ ++ इति देवतापरिपृछासूत्रं समाप्तं ++ (र्म् १०३) इx शुक्लावदान अथाशोको नरेंद्रश्च कृतांजलिपुटो मुदा । उपगुप्तं गुरुं नत्वा पुनः श्रोतुं समर्थयत् ॥ ९.१{(१)} ॥ भदंत श्रोतुमिछामि पुनरन्यत्सुभाषितम् । यथा ते गुरुणादिष्टं तन्ममाख्यातुमर्हसि ॥ ९.२{(२)} ॥ इति पृष्टे नृपेणासौवुपगुप्तो जिनांशजः । तमशोकं महीनाथं संनिरीक्ष्य समब्रवीत् ॥ ९.३{(३)} ॥ शृणु वक्ष्यामि ते राजं यथा मे गुरुणोदितम् । श्रुत्वैतद्भवताप्येवं कर्त्तव्यं धर्ममादरात् ॥ ९.४{(४)} ॥ पुरैकसमये राजं शाक्यसिंहो दयांबुधिः । सर्वज्ञो धर्मराण्नाथः शास्ता त्रैधातुकाधिपः ॥ ९.५{(५)} ॥ सर्वविद्याधिपो बुद्धः षडभिज्ञो मुनीश्वरः । जिनोऽर्हन् सुगतो बुद्धस्तथागतो विनायकः ॥ ९.६{(६)} ॥ भगवान् सत्वहितार्थेन पुरे कपिलवस्तुनि । न्यग्रोधमण्डितोद्याने करण्डकनिवापके ॥ ९.७{(७)} ॥ श्रावकभिक्षुसंघैश्च बोधिसत्वगणैः सह । सद्धर्मदेशनां कर्तुं विजहार जिनाश्रमे ॥ ९.८{(८)} ॥ तद्धर्मं श्रोतुमायातैरुपासकैश्च चैलकैः । देवासुरगणैश्चापि चतुर्भि लोकपालकैः ॥ ९.९{(९)} ॥ चातुर्वर्ण्ण्यैर्मनुष्यैश्च पौरजानपदादिभिः । संबोधिचरणोत्साहैः सद्धर्मगुणलालसैः ॥ ९.१०{(१०)} ॥ सत्कृतो पूजितश्चैवं परिवृत्य पुरस्कृतः । भगवान् स सभामध्ये सिंहासनस्थितो वभौ ॥ ९.११{(११)} ॥ तत्र स भगवान् दृष्ट्वा सभां तां समुपस्थिताम् । आदिमध्यांतकल्याणं दिदेश धर्ममुत्तमम् ॥ ९.१२{(१२)} ॥ तत्सद्धर्मामृतं पीत्वा सर्वे सत्वाश्च मोदिताः । तथैनं श्रीघनं नित्यं भेजिरे धर्मलालसाः ॥ ९.१३{(१३)} ॥ तस्मिंश्च समये तत्र पुरे कपिलवस्तुनि । रोहिणाख्यो महाछाक्यो धनाढ्यो धनदोपमः ॥ ९.१४{(१४)} ॥ महाभोगो महाश्राद्धः सुविशालपरिग्रहः । दाता साधुर्महा धीरः प्रत्युवास सुखान्वितः ॥ ९.१५{१५} ॥ समये तेन शाक्येन स्वकुलसदृशात्कुलात् । भार्या नीता सुभद्राङ्गी स्वकुलधर्मचारिणी ॥ ९.१६{१६} ॥ ततोऽसौ रोहिणः शाक्यस्तयैव कान्तया सह । (र्म् १०४) महारगानुरागेण रराम परिचारयन् ॥ ९.१७{१७} ॥ तस्यैवं रममाणस्य कृईडतोऽप्यनुरागतः । न पुत्रो न सुता वापि सुचिरेणाप्यजायत ॥ ९.१८{१८} ॥ ततोऽसौ रोहिणः पुत्रीपुत्रलाभे समुत्सुकः । पुत्रचिन्तापरः कोष्ठे स्थित्वैवं च व्यचिन्तयत् ॥ ९.१९{१९} ॥ ईयत्संपद्गृहे मेऽस्ति न च पुत्रसुतापि न । एता मे संपदो राजा ममात्ययाद्ग्रहीष्यति ॥ ९.२०{२०} ॥ हा मे संपद्विनष्टा स्यात्परत्रापि गतिर्न हि । व्यर्थस्मज्जन्म संसारे यतो मे सन्ततिर्न हि ॥ ९.२१{२१} ॥ को मे कुर्याच्च संस्कारं कश्च पिण्डं प्रदास्यति । कुत्राहं शरणं यायां हा दैवनिहतोऽस्म्यहम् ॥ ९.२२{२२} ॥ इति चिन्ताविषण्णोऽसौ शोकागारे व्यवस्थितः ॥ ९.२३{२३} ॥ कपोलं स्वकरे धृत्वा तस्थौ भोग्यनिरुत्सुकः । एवं चिन्तासमाक्रान्तं रोहिणं तं निरुत्सुकम् ॥ ९.२४{२४} ॥ दृष्ट्वा सर्वे सुहृन्मित्रा वान्धवाश्च व्यबोधयन् । किमेवं तिष्ठसे भद्र किं च दुःखं प्रजायते ॥ ९.२५{२५} ॥ वक्तव्यं चेत्तथास्माकं वक्तुमर्हसि सर्वथा । इति पृष्टे च तैः सर्वैर्वन्धुमित्रसुहृज्जनैः ॥ ९.२६{२६} ॥ रोहिणोऽसौ पुरस्तेषां सर्वमेवमभाषत । भवन्तः शृणुत सर्वे कथ्यते दुःखता मया ॥ ९.२७{२७} ॥ महती मे गृहे संपदस्या भोक्ता न विद्यते । कथं मे विद्यते वंशस्तत्प्रकारं न मन्यते ॥ ९.२८{२८} ॥ यदि वोऽस्ति मयि स्नेहस्तदुपायं प्रचक्ष्यताम् । एवं तेनार्थितं श्रुत्वा सर्वे ते स्नेहवंधिताः ॥ ९.२९{२९} ॥ तस्य वंशसमुत्पत्तेरुपायं समुपादिशन् । मा कार्षीः शोकतां भद्र तदुपायं नु विद्यते ॥ ९.३०{३०} ॥ देवताराधनां कृत्वा याचस्व पुत्रमात्मना । अवश्यं देवतानां ते प्रसन्नानां प्रसादतः ॥ ९.३१{३१} ॥ पुत्रो वा दुहिता वापि भविष्यति न संशयः । इत्येतत्तैः समादिष्टं श्रुत्वासौ रोहिणो मुदा ॥ ९.३२{३२} ॥ देवताराधनां कर्तुं प्रयतात्मा समारभत् । पूजाङ्गैः पूजायित्वा च ब्राह्मणं हरिमीश्वरम् ॥ ९.३३{३३} ॥ (र्म् १०५) इंद्रादिलोकपालाञ्च संततिं समयाचत । एवं पुत्राभिनन्दी स सदारः वंशकाम्यया ॥ ९.३४{३४} ॥ देवताराधनं कृत्वा तस्थौ नित्यं समुत्सुकः । तथापि तस्य शाक्यस्य स्वदैवपरिमाणतः ॥ ९.३५{३५} ॥ न पुत्रो न च पुत्री वा सुचिरमप्यजायत । ततोऽसौ रोहिणः शाक्यो देवतासु निराशया ॥ ९.३६{३६} ॥ पुत्रवांछाविरक्तात्मा तस्थौ गेहे निरुत्सवः । अस्ति चैष महाराज प्रवादो लौकिकोद्भवः ॥ ९.३७{३७} ॥ यद्देवताप्रसादेन जायते संततिः खलु । एवं चेद्वा तथा राजन्नेकैकस्य भवेत्खलु ॥ ९.३८{३८} ॥ यथा पुत्रसहस्रं वा नृपस्य चक्रवर्त्तिनः । अपि तु संमुखीभावात्त्रिस्थानानां नृपेश्वर ॥ ९.३९{३९} ॥ पुत्रा वापि सुताश्चापि जायंते प्राणिनां खलु । तद्यथा पितरौ रक्तौ कल्या चर्तुमती प्रसूः । गंधर्वः प्रस्थितः काले तदा गर्भे समुद्भवेत् ॥ ९.४०{४०} ॥ ततश्च समये तस्य रोहिणस्यानुरागिणः । भार्य्या कल्यावतीभूता स्नात्वा रतिं समारभत् ॥ ९.४१{४१} ॥ तदैका देवता स्वर्गाच्च्युत्वा कर्मानुभोगिनी । तस्य शाक्यस्य भार्य्याया गर्भे सा समुपाविशत् ॥ ९.४२{४२} ॥ ततः स्वापन्नसत्वा सा मत्वा गर्भसमुद्भवम् । स्वामिनोऽग्रे रहः स्थित्वा हर्षितैवं न्यवेदयत् ॥ ९.४३{४३} ॥ स्वामिन्नापन्नसत्वास्मि वंश आवां समुद्भवेत् । तद्भवान् सर्वकृयानि कारयत्वनुमोदितः ॥ ९.४४{४४} ॥ इति भार्योदितं श्रुत्वा रोहिणोऽसौ प्रमोदितः । भार्यां तां गर्भिणीं दृष्ट्वा संस्मितः प्रत्यभाषत ॥ ९.४५{४५} ॥ सत्यं मे भाषितं भद्रे मत्वा भव समाहिता ॥ ९.४६{४५!} ॥ प्रमादमत्र मा कार्षी यदि स्नेहास्ति ते मयि । एवं ते कुशलं भद्रे यदि पुत्रं जनिष्यसि ॥ ९.४७{४६} ॥ तदा निष्काशयामि त्वां यदि पुत्रीं जनिष्यसि । इति भर्तुर्वचः श्रुत्वा सा स्त्री विवृद्धदोहदा । (र्म् १०६) भर्तुर्वियोगशंकार्त्ता बभूव परिखेटिता ॥ ९.४८{४७} ॥ यावत्सा समये सूत दारिकां दिव्यसुंदरीम् । शुक्लवस्त्रपरीताङ्गां गर्भमलाविलिप्तिताम् ॥ ९.४९{४८} ॥ ततस्तां दारिकां जातां श्रुत्वासौ रोहिणो रुषा । प्रत्याख्यातुं स्वयं भार्यां विवेश सूतिकागृहे ॥ ९.५०{४९} ॥ प्रजापत्या तया भर्तुरुपनीता पुरः सुता । शुक्लवस्त्रपरीताङ्गा भद्राङ्गी दिव्यसुंदरी ॥ ९.५१{५०} ॥ ततः स रोहिणो दृष्ट्वा तां सुतां दिव्यसुंदरीम् । शुक्लवस्त्रपरीताङ्गां परविस्मयमाययौ ॥ ९.५२{५१} ॥ अहो भाग्यान्मया लब्धा सुतेयं भद्ररूपिणी । यदेषा सहजैः शुक्लवस्त्रैः प्रावृत्य जायते ॥ ९.५३{५२} ॥ तस्मान्नूनमियं साक्षाद्देवकन्यावतारिता । सद्धर्मचारिणी भद्रा भविष्यति न संशयः ॥ ९.५४{५३} ॥ इत्युक्त्वासौ पिता शाक्यः पश्यंस्तां दारिकां चिरात् । अतृप्तो निश्चलाक्षश्च तस्थौ संमूर्छितो यथा ॥ ९.५५{५४} ॥ ततो ज्ञातीन् समाहूय कृत्वा जातिमहं मुदा । तन्नामकरणं तस्यास्तान् पुनः स समब्रवीत् ॥ ९.५६{५५} ॥ भवन्तोऽस्याः सुताया मे भद्राङ्ग्या अनुरूपतः । नामधेयं प्रसिद्धेन कर्त्तव्यं क्रियतां शुभम् ॥ ९.५७{५६} ॥ इति तेनार्थिते तस्याः सर्वे ते जातयस्तथा । सहजशुक्लवस्त्राङ्गं दृष्ट्वैवं संवभाषिरे ॥ ९.५८{५७} ॥ यदियं दारिका सौम्या भद्रांगी दिव्यसुंदरी । शुक्लवस्त्रावृता जाता तच्छुक्लेति प्रसिध्यतु ॥ ९.५९{५८} ॥ इति संभाषणां कृत्वा सर्वे ते ज्ञातयस्तथा । रोहिणं तं समामंत्र्य तथैवं समुदाहरत् ॥ ९.६०{५९} ॥ यदियं ते सुता भद्र भद्राङ्गी दिव्यसुंदरी । शुक्लवस्त्रावृता जाता तच्छुक्लेति प्रचक्ष्यताम् ॥ ९.६१{६०} ॥ तथेत्यनुमतं कृत्वा तेन पित्रा प्रसादिता । शुक्ला सा दुहिताष्टासु धात्रीषु समुपार्पिता ॥ ९.६२{६१} ॥ ततस्तासां च धात्रीणामुपचारप्रचारतः । वर्द्धिताभूत्सुरम्याङ्गी ह्रदस्थमिव पंकजम् ॥ ९.६३{६२} ॥ यथा यथा च सा शुक्ला परिवृद्धाभवत्क्रमात् । (र्म् १०७) तथा तथा च तद्वस्त्रं ववृद्धे निर्मलीऽभवत् ॥ ९.६४{६३} ॥ न च कायोऽप्यभूत्तस्मात्मलाभिलिप्तदुर्भगः । वभौ तु निर्मलः शुद्धः सुगंधिपरिवाहकः ॥ ९.६५{६४} ॥ यदा सा दारिका शुक्ला परिवृद्धा क्रमादभूत् । कुमारी सर्वलोकानां मनोनेत्राभिहारिणी ॥ ९.६६{६५} ॥ ततः सा शिक्षितुं विद्या गुरुणां समुपाश्रिता । शिक्षित्वा क्रमशो विद्यां पारमाशु ययौ सुधीः ॥ ९.६७{६६} ॥ तदा ये ये च तां शुक्लामपश्यद्दिव्यसुंदरीम् । ते ते सर्वेऽपि पश्यन्तो विस्मिता मोहमाययुः ॥ ९.६८{६७} ॥ ततस्ते ब्राह्मणाद्याश्च तद्गुणाकृष्टमानसाः । स्वस्वदूतेन तां शुक्लां रोहिणं प्रार्थयन्मुहुः ॥ ९.६९{६८} ॥ जातिश्रेष्ठो ह्यहं विप्रस्तच्छुक्लां मे दातुमर्हसि । इति तां ब्राह्मणपुत्रा रोहिणं प्रत्ययाचयन् ॥ ९.७०{[६९]} ॥ राजपुत्रोऽस्म्यहं वीरस्तत्सुता मे प्रदीयताम् । इति राजकुमारास्तं रोहिणं तां समर्थयन् ॥ ९.७१{[७०]} ॥ अहं वैश्यः प्रजाभर्ता तच्छुक्लां मे दातुमर्हसि । इति वैश्यकुमारास्तां रोहिणं प्रार्थयरि मुहुः ॥ ९.७२{[७१]} ॥ अहं मंत्रिसुतो विज्ञस्तच्छुक्ला मे प्रदीयताम् । इति मंत्रिसुताः सर्वे रोहिणं प्रत्ययाचयन् ॥ ९.७३{७१!} ॥ महामात्यसुतोऽहं हि तच्छुक्लां मे प्रयछताम् । इत्यामात्यकुमारास्तां रोहिणं प्रत्ययाचयन् ॥ ९.७४{७२} ॥ एवमन्येऽपि लोकाश्च रूपद्रव्याभिमानिनः । स्वस्वदूतेन तां शुक्लां रोहिणं प्रत्ययाचयन् ॥ ९.७५{७३} ॥ एवं सर्वैश्च तैर्नित्यैः प्रार्थ्यमानो महाजनैः । रोहिणः स विषण्णात्मा स्थित्वैवं च व्यचिन्तयत् ॥ ९.७६{७४} ॥ हा मे दुःखानि जातानि कथमत्र प्रतिक्रिया । सर्वथाहं प्रणष्टः स्यां सुतयाः कारणेऽधुना ॥ ९.७७{७५} ॥ यद्येकस्मै प्रदास्यामि सुतामेतां मनोहराम् । अन्ये सर्वेऽपि मे वैरा भविष्यंति तदा खलु ॥ ९.७८{७६} ॥ अवश्यं मे सुता हीयं वैरिणी मां हनिष्यति । एवं दुःखानुदायिन्या पुत्र्यापि किं ममैतया ॥ ९.७९{७७} ॥ इति चिन्ताविषण्णोऽसौ तच्चिन्ताकुलमानसः । (र्म् १०८) कपोलं स्वकरे स्थाप्य तस्थौ कोष्ठे निरुत्सवः ॥ ९.८०{७८} ॥ एवं चिन्ताविभिन्नास्यं पितरं तं विषादिनम् । सा शुक्ला दुहिता दृष्ट्वा प्रणत्वैवमभाषत ॥ ९.८१{७९} ॥ किमेवं तिष्ठसे तात किं ते दुःखं नु जायते । कथ्यतां तद्यदि स्नेहो मयि ते वर्त्तते पितः ॥ ९.८२{८०} ॥ इति पुत्र्या वचः श्रुत्वा पिता स रुषिताशयः । निःस्नेहस्तां सुतां शुक्लां दृष्ट्वैवं पर्य्यभाषत ॥ ९.८३{८१} ॥ त्वन्निमित्ते महद्दुःखं जायते मे कुपुत्रिके । किं तवाग्रे कथित्वैतं यतो नैव प्रतिक्रिया ॥ ९.८४{८२} ॥ अवश्यं त्वं सुता शत्रुः सर्वथा मां हनिष्यसि । एवं दुःखाभिदायिन्या पुत्र्यापि किं मम त्वया ॥ ९.८५{८३} ॥ इति पित्रोदितं श्रुत्वा सा शुक्ला प्रहताशया । सहसा पितरं नत्वा रुदंत्यैवमभाषत । तात किं मे निमित्तेन दुःखं ते जायते कथम् । सर्वथैतत्प्रवक्तव्यं यदि तेऽहं सुतात्मजा । तदुपायं करिष्यामि येन दुःखं निहन्यते ॥ ९.८६{८४} ॥ तदेतत्सर्वथा तात ममाग्रे वक्तुमर्हसि । इति पुत्र्योदिते भूयः पितासौ रोहिणोऽवदत् ॥ ९.८७{८५} ॥ तत्किन् ते कथ्यते पुत्रि यतो नास्ति प्रतिक्रिया । बहवः प्रार्थयितारस्तव राजसुतादयः ॥ ९.८८{८६} ॥ कुमारा ब्राह्मणा वैश्याः शूद्राश्च मंत्रिनंदनाः । अमात्यनंदनाश्चापि सार्थवाहसुतादयः ॥ ९.८९{८७} ॥ एवमन्येऽपि ये चान्या गुणद्रव्याभिमानिताः । पौरिका ग्रामिकाश्चापि कुलरूपाभिमानिकाः ॥ ९.९०{८८} ॥ एतैः सर्वैरहं नित्यं सुमुद्रितस्त्वदर्थिभिः । कथमत्र करिष्यामि चेतना मे न विद्यते ॥ ९.९१{८९} ॥ त्वमेवैका हि मे पुत्री बहवो याचकाश्च ते । एकस्मै यदि दास्यामि सर्वेऽन्ये स्युर्ममाहिताः ॥ ९.९२{९०} ॥ अतस्त्वां खण्डशः कृत्वा सर्वेभ्योऽप्यर्पये च वै । एवं तु क्रियमाणे मे कुशलत्वं भविष्यति ॥ ९.९३{९१} ॥ अन्यथा चेद्भवेन्नैव कुशलं मे सदापि हि । (र्म् १०९) इति पित्रोदितं श्रुत्वा शुक्ला सा मृत्युशंकित ॥ ९.९४{९२} ॥ मोदितेव पितुः पादौ प्रणत्वैवमभाषत । प्रसीद मा कृथाः खेदं ममैतत्कारणे पितः ॥ ९.९५{९३} ॥ तथाहं ते करिष्यामि यथा दोषो न विद्यते । नाहं कामार्थिनी तात तदनुज्ञां प्रदेहि मे ॥ ९.९६{९४} ॥ प्रव्रजित्वा चरिष्यामि भगवच्छासने व्रतम् । इत्येतद्भाषितं पुत्र्या श्रुत्वासौ रोहिणः पिता ॥ ९.९७{९५} ॥ पुत्रीवियोगमाशंक्य पुनरेवमभाषत । मा कृथाः सर्वथा पुत्रि प्रव्रज्याचरणे मनः ॥ ९.९८{९६} ॥ त्वं स्त्री वाला न शक्नुयाः प्रव्रज्यां चरितुं सुते । प्रव्रज्यायां व्रतं कष्टं पुरुषैरपि दुष्करम् ॥ ९.९९{९७} ॥ त्वं तु वाला सुभद्रांगी कोमला दिव्यसुंदरी । कथं तद्दुष्करस्थाने व्रतं कर्तुं सहेः सुते ॥ ९.१००{९८} ॥ तन्मा कृथास्तथा वाले प्रव्रज्यायां मनस्त्यज । यदि कामार्थिनी नासि कस्मै चिद्दास्यते न हि ॥ ९.१०१{९९} ॥ तत्पुत्रि स्वगृहे स्थित्वा व्रतं धृत्वा सुखं वस । यदि कामार्थिनी वासि पुत्रि तेषां त्वदर्थिनाम् ॥ ९.१०२{१००} ॥ स्वयंवरविधिं कृत्वा स्वयं वर यमिछसि । तदा मे दूषणं नास्ति तवापि दूषणं न हि ॥ ९.१०३{१} ॥ सर्वत्रापि हि लोकेषु विधिरेष प्रवर्त्तते । तस्मात्तेषां कुमाराणां पतिं भद्रं स्वयं वर ॥ ९.१०४{२} ॥ तेनैव पतिना सार्द्धं व्रतं कृत्वा सुखं चर । तदा सन्ततिमुत्पाद्य भुक्त्वा भोग्यं यथा सुखम् ॥ ९.१०५{३} ॥ संवृत्तिचरणं कृत्वा तथान्ते स्वर्गमाप्नुयाः । तेनैवं मा कृथाः पुत्रि प्रव्रज्याचरणे मनः ॥ ९.१०६{४} ॥ किं ते प्रव्रज्यया सिद्ध्येन्महद्दुष्करचर्य्यया । इत्युक्ते जनकेनासौ शुक्ला कामपराङ्मुखा ॥ ९.१०७{५} ॥ सद्धर्मचरणप्रेप्सुः पितरमेवमब्रवीत् । नाहं कामार्थिनी तात संबोधिपदवांछिनी ॥ ९.१०८{६} ॥ तस्माद्भोग्यान्यपि त्यक्त्वा चरितुमिछामि सद्व्रतम् । सभयाः सरणाः कामाः सक्लेशाश्च विषोपमाः ॥ ९.१०९{७} ॥ तस्मात्कामे न मे वांछा निर्वाणे एव मे मनः । (र्म् ११०) सदेवासुरमानुष्या ये सत्वाः कामरागिणः ॥ ९.११०{८} ॥ सर्वे ते क्लेशिताश्चान्धाश्चरन्ति पातकेष्वपि । कृत्वा ते पातकान्येवं गछन्ति दुर्गतिष्वपि ॥ ९.१११{९} ॥ विविधानि च दुःखानि भुंजते नरकास्थिताः । ब्राह्मणा अपि धीराश्च वैदिका ब्रह्मचारिणः ॥ ९.११२{१०} ॥ तेऽपि कामानुरागेन भ्रष्टा गच्छंति दुर्गतिम् । तपस्विनो महाभिज्ञाः शुद्धात्माना जितेन्द्रियाः । तेऽपि कामानुरागेन भ्रष्टा गच्छंति दुर्गतिम् । यतयो योगिनश्चापि निर्ग्रंथाश्च दिगंवराः ॥ ९.११३{११} ॥ तेऽपि कामानुरागेन भ्रष्टा गच्छन्ति दुर्गतिम् । राजानः क्षत्रियाश्चापि कृत्वा युद्धं परस्परम् ॥ ९.११४{१२} ॥ आहवे निधनं यान्ति तदपि कामकारणे । अमात्या मंत्रिणश्चापि मारयन्ति परार्धिनः ॥ ९.११५{१३} ॥ तत्पापैर्दुर्गतिं यान्ति तदपि कामहेतुना । योधारश्च महावीरा युद्धं कृत्वा परस्परम् ॥ ९.११६{१४} ॥ संग्रामे निधनं यान्ति तदपि कामकारणे । वणिजः सार्थवाहाश्च रत्नद्रव्यातिलालसाः ॥ ९.११७{१५} ॥ समुद्रे पतिताः केचिन्मृताः केचिच्च जंगले । केचिन्मृता महारण्ये चौरैः केचिदुपद्रुताः ॥ ९.११८{१६} ॥ क्षुत्पिपासाहताः केचिन्मृता मार्गे रुजान्विताः । शीतवातातपाक्रान्ता मृता केचिच्छ्रमातुराः ॥ ९.११९{१७} ॥ केचिद्गृहगता एव मृताः केचिच्च रोगिनः । केचिद्भारं वहन्तश्च मृताः केचिद्भयान्विताः ॥ ९.१२०{१८} ॥ जन्तुभिः खादिताः केचित्तत्सर्वं कामहेतुना । कृषिणश्च दिनं यावत्क्षत्रकर्मसमुद्यताः ॥ ९.१२१{१९} ॥ दिनान्ते गृहमगत्य शेरते ते मृता इव । एवमन्येऽपि लोकाश्च शिल्पिप्रेष्यजनादयः ॥ ९.१२२{२०} ॥ दासदासीजनाश्चापि स्वस्वकर्मसमुद्यताः । एवं नित्यमविश्रान्तं कुटुंवधनसाधने ॥ ९.१२३{२१} ॥ वहंति खेदिताः क्लेशं तत्सर्वं कामहेतुना । एवं चौरादिदुष्टाश्च परद्रव्यापहारिणः ॥ ९.१२४{२२} ॥ पातकान्यपि कुर्वन्ति तदपि कामकारणे । केचिच्च परद्रव्याणि हरन्ति हारयन्ति च ॥ ९.१२५{२३} ॥ केचिद्धत्वापि सर्वं हरन्ति क्रूरमानसाः । धनार्थे किं न कुर्वन्ति दुष्टा लुब्धाश्च निर्दयाः ॥ ९.१२६{२४} ॥ (र्म् १११) प्रघ्नन्ति पितरौ केचित्तेऽपि घ्नन्ति गुरूनपि । केचिद्विघ्नन्ति मित्राणि ज्ञातिवन्धुजनानपि ॥ ९.१२७{[१२५]} ॥ पत्नीपुत्रदुहितॄश्च भ्रात्रींश्च भागिनीरपि । केचिद्घ्नन्ति सहायांश्च दासदासीजनान्यपि ॥ ९.१२८{२६} ॥ बालान् वृद्धांश्च नारींश्च तत्सर्वं कामकारणे । केचिच्च प्राणिनः पक्षिमृगमत्स्यादिजन्तुकान् ॥ ९.१२९{२७} ॥ हत्वा खादन्ति पापिष्ठास्तदपि कामकारणे । एवं तिर्य्यग्गणाश्चापि पक्षिसिंहादिजन्तवः ॥ ९.१३०{२८} ॥ परस्परं निहत्यैवं खादन्ति कामहेतुना । एवं शथावंचयन्तस्त्रासयन्तोऽपि वालकान् ॥ ९.१३१{२९} ॥ अदत्तं प्रतिगृह्नन्ति तदपि कामकारणात् । मिथ्याकामरताः केचित्परदारांश्च कामिनीः ॥ ९.१३२{३०} ॥ हरन्ति छद्मना चापि तदपि कामकारणे । यच्च मृषावदंतोऽपि परकार्य्याभिघाटकाः ॥ ९.१३३{३१} ॥ साधयन्ति स्वकार्याणि तदपि कामहेतुना । यच्च पिशुनवादेन सुहृन्मित्रानुचारिणाम् । विरोधं कारयन्त्येवं तदपि कामहेतुना ॥ ९.१३४{[१३२]} ॥ यच्च पारुष्यवादेन गुरुसाधुजनानपि । परिभाष्य विनिन्दन्ति तदपि कामकारणे ॥ ९.१३५{[१३३]} ॥ यत्संभिन्नप्रलापेन सुहृन्मित्रानुयायिनाम् । चित्तानि भेदयन्त्येवं तदपि कामकारणे ॥ ९.१३६{[१३४]} ॥ यच्च मायानुरागेण साधूनां धर्मचारिणाम् । प्रभेदयन्ति चित्तानि तदपि कामहेतुना ॥ ९.१३७{[१३५]} ॥ यदीर्ष्यामत्सरालीढा दृष्ट्वा परगुणर्द्धिताम् । व्यापादं चिन्तयन्त्येवं तदपि कामकारणे ॥ ९.१३८{[१३६]} ॥ यन्मिथ्यादृष्टिका लोके सर्वधर्मप्रहासिकाः । भोग्यानि भुंजते हृत्वा तदपि कामकारणे ॥ ९.१३९{[१३७]} ॥ केचिज्जातिपरिभ्रष्टा नीचजातिप्रसंगताः । स्वकुलधर्मभ्रष्टाश्च तदपि कामकारणे ॥ ९.१४०{[१३८]} ॥ एवं सर्वेऽपि सत्वाश्च सद्गतिपरिवर्तिनः । कामर्थे क्लेशितात्मानो भ्रमन्ति दुर्गतौ सदा ॥ ९.१४१{[१३९]} ॥ (र्म् ११२) एवं यावन्ति दुःखानि संसारे षड्गतिष्वपि । तानि सर्वाणि सत्वानां जायन्ते कामहेतुना ॥ ९.१४२{[१३०]} ॥ एवं मत्वा तु ये विज्ञाः कामं त्यक्त्वा विरागिणः । प्रव्रजित्वा सुनिःक्लेशा ब्रह्मचर्य्यं चरन्ति ते ॥ ९.१४३{[१३१]} ॥ ततो मे सभये कामे सरणे च विषोपमे । विद्वद्भिर्गर्हिते तात मनोवांछा न वर्त्तते ॥ ९.१४४{३२} ॥ तत्प्रव्रज्यां समाश्रित्य भगवच्छरणं गता । ब्रह्मचर्य्यं चरित्वाहं प्राप्तुमिछामि निर्वृतिम् ॥ ९.१४५{३३} ॥ बुद्धो हि जगतां शास्ता धर्मराजो विनायकः । तत्तस्य शरणे गत्वा चरितुमिछामि सच्चरीम् ॥ ९.१४६{३४} ॥ यद्यस्ति ते मयि स्नेहः सद्धर्मे चानुरागता । तदनुमोदनां कृत्वानुज्ञां मे दातुमर्हसि ॥ ९.१४७{३५} ॥ यदि तु सौगते धर्मेऽप्यनुज्ञां मे ददासि न । तीर्थयात्रां भ्रमिष्यामि सर्वदाहं विरागिनी ॥ ९.१४८{३६} ॥ इति पुत्रीवचः श्रुत्य शाक्योऽसौ रोहिणः पिता । सुताधर्मवियोगत्वं विज्ञायैवमचिन्तयत् ॥ ९.१४९{३७} ॥ यदियं मे सुता भद्रा निराश्रवा विरागिनी । अवश्यं स्वगृहं त्यक्त्वा प्रव्रजेत्सर्वथा खलु ॥ ९.१५०{३८} ॥ अवश्यं मेऽनया पुत्र्या वियोगं सर्वथा भवेत् । सर्वथा ह्यनिवार्य्येयं व्रजतु सौगताश्रमे ॥ ९.१५१{३९} ॥ यदायं सौगते धर्मे प्रव्रजित्वा निराश्रवा । ब्रह्मचर्य्यं चरत्येवं ततो निर्वृतिमाप्नुयात् ॥ ९.१५२{४०} ॥ यदियं मे सुता कान्ता सुभद्रा दिव्यसुंदरी । यदि गेहं परित्यक्त्वा तीर्थयात्रां करिष्यति ॥ ९.१५३{४१} ॥ तदा नूनमियं भ्रांता तीर्थिकधर्मसंरता । कुलधर्मपरिभ्रष्टा विनष्टा स्यान्न संशयः ॥ ९.१५४{४२} ॥ ततोऽस्माकं यशोधर्मविनष्टोऽपि भवेत्खलु । तस्याश्च दूरगामिन्या दर्शनं स्यात्सुदुल्लभम् ॥ ९.१५५{४३} ॥ (र्म् ११३) तस्मादस्या न कर्त्तव्या वारणा धर्मसाधने । चरतु सौगतीं चर्य्यामियं हि निर्वृतये ॥ ९.१५६{४४} ॥ तथा चेत्सफलं जन्म मानुष्ये स्यान्ममापि च । तेनेयं जगतां भर्तुः शासने चरतु व्रतम् ॥ ९.१५७{४५} ॥ इत्येवं मनसा ध्यात्वा शाक्योऽसौ रोहिणः पिता । शुक्लां तां स्वात्मजां भद्रां संनिरीक्ष्यैवमब्रवीत् ॥ ९.१५८{४६} ॥ सत्यमेवं सुते भद्रे यथोद्दिष्टं त्वया खलु । किं तु त्वं दारिका नारी प्रव्रज्यां तत्कथं चरेः ॥ ९.१५९{४७} ॥ प्रव्रज्या दुष्करस्थानं नारीणां तु विशेषतः । तत्प्रव्रज्याव्रते स्थित्वा मा पश्चात्परितप्यथाः ॥ ९.१६०{४८} ॥ यदि त्वं निश्चयेनैव प्रव्रज्याव्रतमिछसि । तच्चरस्व मुनीन्द्रस्य शासने व्रतमादरात् ॥ ९.१६१{४९} ॥ यथा च गुरुणादिष्टं श्रुत्वा तथा समाहितः । सम्यक्छिक्षाः समाधाय चर नित्यमतन्द्रिता ॥ ९.१६२{५०} ॥ संबुद्धशासनं धृत्वा श्रद्धाभक्तिसमन्विता । त्रिरत्नशरणं गत्वा बोधिव्रतं समाचर ॥ ९.१६३{५१} ॥ इति पित्रा समादिष्टे शुक्ला सा प्रतिमोदिता । नत्वा पादौ पितुश्चैवं जनन्याश्चरणेऽनमत् ॥ ९.१६४{५२} ॥ ततः सा जननी दृष्ट्वा तां शुक्लां स्वात्मजां प्रियाम् । परिष्वज्य रुदन्त्येवं प्रव्रज्यायां न्यवारयत् ॥ ९.१६५{५३} ॥ हा पुत्रि कथमेकान्ते मां त्यक्त्वा क्व व्रजिष्यसे । हा जीव किं नु पश्यन्ती प्रव्रजितुं त्वमीहसे ॥ ९.१६६{५४} ॥ किं चिद्दुःखं न ते दत्तं मयाम्वया कदा चन । केनैवं हेतुना पुत्री प्रव्रजितुं त्वमिछसि ॥ ९.१६७{५५} ॥ त्वं तु नारी सुभाद्राङ्गी कुमारी दिव्यसुंदरी । किंचिद्दुःखानभिज्ञा च तत्प्रव्रज्यां कथं चरे ॥ ९.१६८{५६} ॥ यावज्जीवाम्यहं चैव तावत्मा गाः कुहापि हि । यावच्चास्ति गृहे संपत्तावद्भुक्त्वा सुखं वस ॥ ९.१६९{५७} ॥ यदाहं मरणं याता यदा चापि गृहे विपत् । ज्ञातिमित्रजनैस्त्यक्त्वा तदा व्रजस्व वांछया ॥ ९.१७०{५८} ॥ इति मात्रा निषिद्धेऽपि शुक्ला सा विघ्नशंकितास्। मातुः पादौ प्रणत्वैव सहसा निर्ययौ गृहात् ॥ ९.१७१{५९} ॥ (र्म् ११४) ततः सा सत्वरा गत्वा न्यग्रोधारम आश्रमे । ददर्श भिक्षुणीभिक्षून् शन्तशीलाञ्जितेंद्रियान् ॥ ९.१७२{६०} ॥ तान् सर्वान् क्रमतो नत्वा विहारे समुपाविशत् । तत्रस्थं सुगतं नाथमपश्यच्छ्रिघनं जिनम् ॥ ९.१७३{६१} ॥ द्वात्रिंशल्लक्षणाशीतिव्यंजनैः परिमंडितम् । सहस्रेणाधिकाभासं व्यामाभपरिरोचितम् ॥ ९.१७४{६२} ॥ शान्तात्मानं सुभद्रांशं समन्तभद्ररूपिणम् । रत्नराशिमिवोज्ज्वालं सुमेरुमिव जंगमम् ॥ ९.१७५{६३} ॥ दृष्ट्वैव निश्चला तस्थौ हर्षोत्फुल्लतनूरुहा । दृष्ट्वैवं सुचिरात्तस्य श्रीघनस्यान्तिके ययौ ॥ ९.१७६{६४} ॥ तथैवं समुपायातां दृष्ट्वा तां भगवान्मुनिः । स्वागतं दारिके भद्रे एहीत्युक्त्वा समग्रहीत् ॥ ९.१७७{६५} ॥ ततोऽसौ दारिका शुक्ला स्वागतास्मि मुनीश्वर । इत्युक्त्वा प्रांजलिं कृत्वा ननाम चरणौ मुनेः ॥ ९.१७८{६६} ॥ ततो भगवता तेन प्रेषिता मातुरन्तिके । सा शुक्ला सहसा गत्वा गौतम्याच्चरणेऽनमत् ॥ ९.१७९{६७} ॥ तथा तां समुपायातां शुक्लां सद्व्रतवांछिनीम् । दृष्ट्वा सा गौतमी स्पृष्ट्वा हस्तेनैव समग्रहीत् ॥ ९.१८०{६८} ॥ ततः प्रव्राजयित्वा सा गौतम्या भिक्षुणी कृता । खिक्खिरीपात्रहस्ताङ्का संगताभूज्जितेन्द्रिया ॥ ९.१८१{६९} ॥ येनैव शुक्लवस्त्रेण प्रावृता समजायत । ततः पंचसुरक्तं जातानि चीवराण्यपि ॥ ९.१८२{७०} ॥ तैरेव चिवरै रक्तैः प्रावृता परिशोभिता । सा शुक्ला सुप्रसन्नास्या मुण्डिताप्यभ्यरोचत ॥ ९.१८३{७१} ॥ ततो बुद्धानुभावेन सुप्रशान्तसुभाविनी । जित्वा क्लेशारिवर्गांश्च शिक्षापारं समाययौ ॥ ९.१८४{७२} ॥ मत्वानित्यं च संसारं भवगतिं विघातिनीम् । निहत्य सर्वसंस्कारगतीसतनधर्मिणी ॥ ९.१८५{७३} ॥ मारचर्य्याविनिर्मुक्ता साक्षादर्हत्वमाययौ । अविद्याङ्गं विनिर्भिद्य प्राप्तविद्या शुभाशया ॥ ९.१८६{७४} ॥ अभिज्ञा गुणसंपन्ना प्रतिसंविद्वती सुधीः । सुवीतरागिणी धीरा लोष्ठहेमसमानिका ॥ ९.१८७{७५} ॥ (र्म् ११५) आकाशसमचित्ता च पाणीतलसमाशया । निरंजनाविकल्पा च श्रीखण्डतुल्यवासिनी ॥ ९.१८८{७६} ॥ स्वात्मसत्कारलाभेषु पराण्मुखी सुनिस्पृहा । सर्वसत्वहिताधानि संबुद्धधर्मचारिणी ॥ ९.१८९{७७} ॥ सदेवासुरलोकानां पूज्या मान्या समन्ततः । वंदनीया चाभितोष्या च वभूव ब्रह्मचारिणी ॥ ९.१९०{७८} ॥ अथ ते भिक्षवः सर्वे दृष्ट्वा तां ब्रह्मचारिणीम् । विस्मिताः सुगतं नत्वा पप्रछुरिति सादरम् ॥ ९.१९१{७९} ॥ भगवन् किमियं शुक्ला पुरा कर्माकरोच्छुभम् । येन वस्त्रावृता जाता भवत्येवं च भिक्षुणी ॥ ९.१९२{८०} ॥ तत्सर्वं नः समादेष्टुमर्हसि सर्वविद्गुरो । यदनया कृतं कर्म भिक्षुण्या शुक्लया पुरा ॥ ९.१९३{८१} ॥ इति तैर्भिक्षुभिः पृष्टे भगवान् स मुनीश्वरः । तान् भिक्षुसांघिकान् सर्वान् संनिरीक्ष्यैवमब्रवीत् ॥ ९.१९४{८२} ॥ शृणुध्वं भिक्षवः सर्वे यदनया कृतं पुरा । तत्सर्वं कथयिष्यामि सर्वलोकाभिबोधने ॥ ९.१९५{८३} ॥ पुरास्मिन्नेव भद्राख्ये कल्पेऽभूत्काश्यपो जिनः । संबुद्धः सुगतो नाथो धर्मराजस्तथागतः ॥ ९.१९६{८४} ॥ सर्वविद्याधिपः शास्ता त्रैधातुकविनायकः । सर्वज्ञो भगवानर्हन् ब्रह्मचारी हितंकरः ॥ ९.१९७{८५} ॥ स मुनीन्द्रो जगन्नाथो वाराणसीमुपाश्रयन् । मृगदावे वने रम्ये व्यहरच्छ्रावकैः सह ॥ ९.१९८{८६} ॥ भिक्षुभिर्बोधिसत्वैश्च भिक्षुणीभिरुपासकैः । सार्द्धमुपासिकाभिश्च यतिभिश्च महर्षिभिः ॥ ९.१९९{८७} ॥ तत्रस्थो भगवान् बुद्धो सर्वसत्वहिताय सः । आदिमध्यान्तकल्याणं दिदेश धर्ममुत्तमम् ॥ ९.२००{८८} ॥ तदैकान्यतरा काचिच्छ्रेष्ठिभार्या शुभाशया । सुकल्याणार्थिनी श्राद्धा सद्धर्ममानसी सुधीः ॥ ९.२०१{८९} ॥ केन चित्करणियेन मृगदावमुपाचरत् । तत्र भिक्षून् क्रमाद्दृष्ट्वा संबुद्धान्तिकमुपाययौ ॥ ९.२०२{९०} ॥ तत्र सा समुपागत्य ददर्श तं मुनीश्वरम् । द्वात्रिंशल्लक्षणाशीतिव्यंजनैरुपलक्षितम् ॥ ९.२०३{९१} ॥ व्यामाभालंकृतं सौम्यं शतसूर्य्याधिकप्रभम् । सुप्रशान्तेन्द्रियां काम्यं समंतभद्ररूपकम् ॥ ९.२०४{९२} ॥ (र्म् ११६) रत्नराशिमिवोज्ज्वालं सुमेरुमिव जंगमम् । तथा दृष्ट्वैव प्रामोदात्सांजलिं समुपागता ॥ ९.२०५{९३} ॥ नत्वा पादौ मुनेस्तस्थावेकान्तिके कृतांजलिः । ततः स भगवान् दृष्ट्वा तस्याश्चित्तं विशोधितम् ॥ ९.२०६{९४} ॥ आदिमध्यान्तकल्याणं दिदेश धर्ममुत्तमम् । तत्सद्धर्मामृतं पीत्वा सा शूद्री परिहर्षिता ॥ ९.२०७{९५} ॥ ससंघं सुगतं नाथं भोजयितुं समैछत । ततः सा स्वगृहे गत्वा साधयित्वा सुभोजनम् ॥ ९.२०८{९६} ॥ संबुद्धप्रमुखं संघं स्वांतर्गेहे न्यमंत्रयत् । तत्र स्वस्वासनासीनं संबुद्धं तं ससांघिकम् ॥ ९.२०९{९७} ॥ पूजयित्वा तदर्हैश्च भोजनैः समतोषयत् । ततः सा श्रद्धया तेभ्यः सर्वेभ्योऽपि प्रसन्निता ॥ ९.२१०{९८} ॥ बुद्धप्रमुखसंघेभ्यः प्रत्येकं चीवरं ददौ । ततो नित्यं च सा भक्त्या चक्रे संबुद्धसेवनाम् ॥ ९.२११{९९} ॥ तत्पुण्यैश्चापि सद्धर्मे प्रव्रजितुं समैछत । ततोऽसौ पितरौ नत्वाभ्यनुज्ञाप्य प्रसादिनी ॥ ९.२१२{१००} ॥ भगवच्छासने गत्वा प्रव्रज्याव्रतमाचरत् । तस्मात्किं भिक्षवो यूयं मन्यध्वे याभवत्तदा ॥ ९.२१३{१} ॥ श्रेष्ठिभार्या न चान्या सा शुक्लैवैषेति मन्यत । यदनया प्रसादिन्या बुद्धप्रमुखसांघिके ॥ ९.२१४{२} ॥ प्रत्येकं चीवरं दत्तं प्रव्रज्या चापि साधिता । एतत्पुण्यविपाकेन प्रावृत्य शुक्लवाससा ॥ ९.२१५{३} ॥ जाता प्रव्रजिता चैषा भवति ब्रह्मचारिणी । इत्येवं कर्मजं भोग्यं प्राणिनो भुंजते भवे ॥ ९.२१६{४} ॥ येनैव यत्कृतं कर्म तेनैव भुज्यते फलम् । न नश्यंति हि कर्माणि कल्पकोटिशतैरपि ॥ ९.२१७{५} ॥ सामग्रीं प्राप्य कालं च फलंति खलु देहिनाम् । अभुक्तं क्षीयते नैव कर्म क्वापि कथं चन ॥ ९.२१८{६} ॥ नाग्निभिर्दह्यते कर्म वायुभिश्च न शुष्यते । जलैश्च क्लिद्यते नापि क्षीयते नापि भूमिषु ॥ ९.२१९{७} ॥ अन्यथा च भवेन्नैव कर्मगतिः कथं चन । शुक्लानां शुभता नित्यं कृष्णानां दुःखता सदा ॥ ९.२२०{८} ॥ मिश्रिता मिश्रितानां च जंतुभिर्भुज्यते गतिः । तस्मादपास्य कृष्णानि कर्माणि मिश्रितानि च ॥ ९.२२१{९} ॥ चरितव्यं शुभेष्वेव कर्मसु सुखवांछिभिः । (र्म् ११७) तथेति भिक्षवः सर्वे ते च लोकः सभास्थिताः ॥ ९.२२२{१०} ॥ श्रुत्वा तत्सुगतादिष्टमभ्यनन्दन् प्रसादिताः । एवमेतन्महाराज गुरुणा मे प्रभाषितम् ॥ ९.२२३{११} ॥ एवं राजंस्त्वयाप्येवं कर्त्तव्यं पुण्यमादरात् । पुण्यमेव भवे वन्धुभ्राता मित्रं सुहृत्सखा ॥ ९.२२४{१२} ॥ नान्यः पुण्यात्परः कश्चिद्विद्यते भवचारिणाम् । तस्मात्पुण्यं स्वयं कृत्वा लोकेष्वपि प्रचारय ॥ ९.२२५{१३} ॥ प्रजाश्च बोधयित्वैवं पुण्यमार्गे प्रचारय । इत्येवं गुरुणादिष्टमुपगुप्तेन भिक्षुणा ॥ ९.२२६{१४} ॥ श्रुत्वा तथेति राजासौ प्राभ्यनन्दज्जनैः सह ॥ ९.२२७{१५} ॥ य इदं शुक्लावदानं जिनवरकथितं पुण्यहेतोर्नराणां शृण्वन्ति श्रवयन्ति प्रमुदितमनसः सद्गुणप्राप्तुकामाः । ते सर्वे क्लेशमुक्ताः सुविमलमनसो बोधिचर्या चरन्तः सत्सौख्यान्येव भुक्त्वा मुनिवरनिलये संप्रयाता वसन्ति ॥ ९.२२८{१६} ॥ ++ इति रत्नमालायां शुक्लावदानं नाम समाप्तम् ++ (र्म् ११८) x हिरण्यपाण्यवदान अथाशोको महीपाल उपगुप्तं जिनांशजम् । कृतांजलिपुटो नत्वा पुनरेवमभाषत ॥ १०.१{१} ॥ भदन्त श्रोतुमिछामि पुनरन्यत्सुभाषितम् । यथा ते गुरुणा ख्यातं तथा वक्तुं समर्हसि ॥ १०.२{२} ॥ एवं तेन नृपेन्द्रेण प्रार्थिते स जिनात्मजः । उपगुप्तो महाभिज्ञस्तं नृपं चैवमब्रवीत् ॥ १०.३{३} ॥ शृणु राजंस्तथा वक्ष्ये यथा मे गुरुणोदितम् । श्रुत्वा चैवं सदा बोधिचर्यां चर समाहितः ॥ १०.४{४} ॥ पुरैकसमयेऽसौ च शाक्यमुनिस्तथागतः । सर्वज्ञः सुगतो नाथः शास्ता त्रैधातुकाधिपः ॥ १०.५{५} ॥ सर्वविद्याधिपस्तायी षडभिज्ञो मुनीश्वरः । जिनोऽर्हं भगवान् बुद्धो धर्मराजो विनायकः ॥ १०.६{६} ॥ श्रावस्त्यां वहिरुद्याने जेतवने जिनाश्रमे । अनाथपिण्डदारामे विहारे मणिमण्डिते ॥ १०.७{७} ॥ भिक्षुभिः श्रावकैः सार्द्धं भिक्षुणीभिरुपासकैः । त्रिरत्नोपासिकाभिश्च चैलकैश्च शुभाशयैः ॥ १०.८{८} ॥ बोधिसत्वगणैश्चापि सहान्यैश्च महर्षिभिः । ओसद्धर्मदेशनां दत्वा तस्थौ लोकहितार्थतः ॥ १०.९{९} ॥ तत्सद्धर्मामृतं पातुं प्राजग्मुः सद्गुणार्थिनः । देवा दैत्याश्च नागाश्च यक्षगंधर्वकिन्नराः ॥ १०.१०{१०} ॥ सिद्धविद्याधराद्याश्च लोकपालगणादयः । ब्राह्मणाः क्षत्रियाश्चापि वैश्याः शूद्राश्च मंत्रिणः ॥ १०.११{११} ॥ अमात्याः श्रेष्ठिनश्चापि धनिनश्च महाजनाः । वणिजः सार्थवाहाश्च तदन्येऽपि च सज्जनाः ॥ १०.१२{१२} ॥ पौरा जानपदाश्चापि सर्वे ते समुपागताः । तं बुद्धं सुगतं नत्वा पूजयित्वा समंततः ॥ १०.१३{१३} ॥ परिवृत्य परस्कृत्य तस्थुः सांजलयो मुदा । अथासौ भगवान् दृष्ट्वा तान् सर्वान् समुपास्थितान् । आदिमध्यान्तकल्याणं दिदेश धर्ममुत्तमम् ॥ १०.१४{१४} ॥ तत्सद्धर्मामृतं पीत्वा सर्वे सत्वाः सुरादयः । हर्षिता अनुमोदन्तो वभूवुर्बोधिचारिणः ॥ १०.१५{१५} ॥ (र्म् ११९) एवं नित्यं च ते सत्वाः पीत्वा धर्मामृतं मुनेः । त्रिरत्नशरणं गत्वा भेजिरे समुपाश्रिताः ॥ १०.१६{१६} ॥ तदैव समये तस्यां श्रावस्त्यां पुरि संस्थितः । आसीद्गृहपतिः प्राढ्यो महाभोग्यसमृद्धिमान् ॥ १०.१७{१७} ॥ कुवेलवन्महाश्रीमान् सुविस्तीर्णपरिग्रहः ॥ १०.१८{१८} ॥ श्राद्धो दाता महाभोगी सर्वलोकहितार्थभृत् । एवं महर्द्धिकस्यापि तस्य गृहपतेश्चिरम् । न पुत्रो न च पुत्री वा समुदपादि दैवतः ॥ १०.१९{१९} ॥ ततोऽपुत्रो गृहस्थोऽसौ वंशविछिन्नखेटितः । कपोलं स्वकरे स्थाप्य विषाद्यैवं व्यचिन्तयत् ॥ १०.२०{२०} ॥ अनेकधनरत्नाद्याः संपदो मे महर्द्धिकाः । विशालपरिवाराश्च विद्यन्ते सुपरिग्रहाः ॥ १०.२१{२१} ॥ पुत्रो मे दुहिता वापि विद्यते न कथं चन । संपदोऽपि निरर्थाः स्युर्यतो भोक्ता न विद्यते ॥ १०.२२{२२} ॥ हा हा सर्वं विनष्टं स्याद्यतो मे सन्ततिर्न हि । किं मेऽनया समृद्ध्यापि यत्र वंशो न विद्यते ॥ १०.२३{२३} ॥ व्यर्थमेव मया द्रव्यं कष्टेन समुपार्जितम् । किं करिष्यामि तद्द्रव्यं सर्वथा मरणे सति ॥ १०.२४{२४} ॥ के हि ग्रस्ता न संसारे मृत्युसर्प्पेण जंतवः । मयि मृत्युप्रयातेऽत्र संस्कारं कः करिष्यति ॥ १०.२५{२५} ॥ दुर्गतिशोधनं कश्च पिण्डमेकं प्रदास्यति । नूनं मदत्ययाद्राजा सर्वस्वमाहरिष्यति ॥ १०.२६{२६} ॥ तदा नामापि मे लोके न कश्चन ग्रहीष्यति । यदर्थमेव संपत्तीः साधयामि प्रयत्नतः ॥ १०.२७{२७} ॥ तदेव यदि नास्त्येवं तत्किं मे स्यात्सुजीविते ॥ १०.२८{२८!} ॥ वरमेवाद्य मृत्युर्न मिथ्याचिरजीवनम् । यस्माच्चिरमपि स्थित्वा मृत्युदुःखं तदैव हि ॥ १०.२९{२९} ॥ तन्मे भोग्येऽपि वांछा न भुक्त्वापि किं सुखं विना । अपुत्रस्य सुखं नैव परत्रेह निरन्वयात् ॥ १०.३०{३०} ॥ तन्मे जन्मापि व्यर्थं स्याद्ध्यपुत्रोऽस्मि निरन्वयात् । हा हतोऽहं स्वदैवेन किं मयात्र करिष्यते ॥ १०.३१{३१} ॥ कस्याग्रे संवदिष्यामि को मे बुद्धिं प्रदास्यति । (र्म् १२०) कस्याहं शरणं यास्ये को मां समुद्धरिष्यति ॥ १०.३२{३२} ॥ इति चिन्ताविषण्नोऽसौ तस्थौ कोष्ठे यथातुरः । निरुत्साही गृहान्नैव निरपायात्कदाचन ॥ १०.३३{३३} ॥ एतच्चिन्ताविषण्णाभं तं गृहस्थं सुहृज्जनाः । दृष्ट्वैव सहसोपेत्य बोधयितुं समब्रुवन् ॥ १०.३४{३४} ॥ किं ते दुःखं समुत्पन्नं केनैवं तिष्ठसे सखे । वक्तव्यं चेत्तदा आशु सर्वथा वक्तुमर्हसि ॥ १०.३५{३१} ॥ इति पृष्टे सुहृद्भिस्तैर्गृहस्थः स विनिश्वसन् । तान् सर्वान् सुहृदो दृष्ट्वा तद्दुःखं समुदाहरत् ॥ १०.३६{३६} ॥ सुहृदो मे भवन्तो हि तन्मयात्र प्रचक्ष्यते । संपत्तिर्महती मेऽस्ति पुत्रो नैव सुतापि नः ॥ १०.३७{३७} ॥ तेन मे संपदः सर्वा विनक्ष्यन्ति निरर्थिताः । एतच्चिन्ताविषार्त्ताहं तिष्ठामि पुत्रवांछितः ॥ १०.३८{३८} ॥ अपुत्रस्य सुखं नास्ति परत्रेह समंततः । तन्मे जन्मापि व्यर्थं स्यादपुत्रस्य निरन्वयात् ॥ १०.३९{३९} ॥ तथा हतोऽहं स्वदैवेन किं मयात्र चरिष्यते । इति तेनोदिते सर्वे ज्ञातिवंधुसुहृज्जनाः ॥ १०.४०{४०} ॥ तस्य ग्रीहपतेश्चैवां तदुपायं समादिशत् । किं भद्रात्र विषादेन यत्र देवाधिकारता ॥ १०.४१{४१} ॥ तथापि क्रियतां यत्नं क्लैब्यं त्यक्त्वा त्वयाधुना । यदशक्यं वलैर्द्रव्यैस्तदुपायेन शक्यते ॥ १०.४२{४२} ॥ तस्मात्क्लैब्यमिह त्यक्त्वा कुरु यत्नं समाहितः । देवताराधनां कृत्वा सर्वकार्य्यं हि साधयेत् ॥ १०.४३{४३} ॥ तदादौ देवताः पूज्य याचस्व पुत्रमात्मना । ततो देवप्रसादेन तवधर्मानुभावतः । पुत्रो वा दुहिता वापि समुपपत्स्यते ध्रुवम् ॥ १०.४४{४४} ॥ ततस्ते संततिश्चैवं वर्द्धिष्यति क्रमात्तथा । तदापि भृशतो मुक्तः सद्गतिं समवाप्नुयात् ॥ १०.४५{४५} ॥ इति तैः समुपादिष्टं श्रुत्वासावनुमोदिताः । देवताराधनं कर्तुं प्रयतात्मा समारभत् ॥ १०.४६{४६} ॥ पूजांगैः पूजयित्वैवं ब्रह्माणं हरिमीश्वरम् । इंद्रादिलोकपालानां संततिं समयाचत ॥ १०.४७{४७} ॥ (र्म् १२१) एवं पुत्राभिलासी स सदा च सन्ततीछया । देवताराधनं कृत्वा तस्थौ नित्यं समुत्सुकः ॥ १०.४८{४८} ॥ नित्यमेवं कृतस्यापि तस्य दैवप्रणामतः । न पुत्रो दुहिता वापि नोदपादि चिरादपि ॥ १०.४९{४९} ॥ तथा चापि गृहस्थोऽसौ देवतासु निराशया । सन्तत्युच्छिन्नचिन्तार्त्तस्तस्थौ भूयो विषादितः ॥ १०.५०{५०} ॥ ततः कश्चित्सुहृत्साधुः संबुद्धोपासकः सुधीः । तं गृहस्थमुपागत्य तथैवं पर्य्यबोधयत् ॥ १०.५१{५१} ॥ साधो किन् ते विषादेन तद्धीरं समुपाश्रय । यदि ते सन्ततौ वांछा तन्मे श्रुत्वा ततश्चर ॥ १०.५२{५२} ॥ किमेवं देवताः पूज्य याचसे पुत्रमादरात् । यत्र दैवाधिकारत्वं तत्र किं देवता वलम् ॥ १०.५३{५३} ॥ वंशार्थे यदि ते भक्तिरस्त्येवं देवतासु तत् । संबुद्धशरणं गत्वा सद्धर्मं समुपाश्रय ॥ १०.५४{५४} ॥ ततो धर्मानुभावेन बुद्धस्यापि प्रसादतः । नूनं ते सत्सुतः शीघ्रमुत्पत्स्यति न संशयः ॥ १०.५५{५५} ॥ यदि नोत्पत्स्यते पुत्रस्तव देवविरोधतः । पुण्यमुत्पत्स्यते नूनं तेन सद्गतिमाप्नुयात् ॥ १०.५६{५६} ॥ ये बुद्धशरणं यान्ति ते लभन्ति शुभाशयम् । ये विशुद्धाशया लोके सद्धर्मं ते शृण्वन्ति हि ॥ १०.५७{५७} ॥ ये सद्धर्मानुशृण्वन् तो बोधिचित्तं लभन्ति ते । प्रलब्धबोधिचित्ता ये ते चरन्ति गुणार्थिनः ॥ १०.५८{५८} ॥ गुणकामाश्च ये लोके ते भजन्ति जिनात्मजान् । बोधिसत्वानुभावेन बोधिचर्यां समाप्नुयुः ॥ १०.५९{५९} ॥ बोधिचर्यारता ये च न ते गछंति दुर्गतिम् । सर्वक्लेशगणाञ्जित्वा सौख्यावतीमवाप्नुयुः ॥ १०.६०{६०} ॥ एवं मत्वा जिनं स्मृत्वा सद्धर्मं समुपाश्रयेः । ततस्ते संभवेद्भद्रमिहामुत्रापि सर्वतः ॥ १०.६१{६१} ॥ इति तेनोदितं श्रुत्वा गृहस्थोऽसौऽनुमोदितः । तथेति प्रतिसंश्रुत्य संबुद्धं स्मर्तुमैछत ॥ १०.६२{६२} ॥ ततो गृहपतिर्नित्यं सदारः श्रद्धयान्वितः । संबुद्धं सुगतं स्मृत्वा वंशमेवमयाचत ॥ १०.६३{६३} ॥ नमस्ते भगवन्नाथ भवतां शरणं व्रजे । (र्म् १२२) तन्मां करुणाय दृष्ट्या द्रष्टुमर्हसि सर्वथा ॥ १०.६४{६४} ॥ भवानेव हि जगन्नाथः सर्वसत्वहितार्थदः । त्वया मह्यं हितार्थाय सत्पुत्रं दातुमर्हसि ॥ १०.६५{६५} ॥ इत्येवं स गृही साधुः पुत्राभिलषितः सदा । सभार्य्यः सुगतं स्मृत्वा तथा नित्यं समुत्सुकः ॥ १०.६६{६६} ॥ तदैव समये कश्चिद्देवपुत्रो दिवश्च्युतः । स संबुद्धानुभावेन तद्भार्यागर्भमाविशत् ॥ १०.६७{६७} ॥ ततः स्वापन्नसत्वाभूत्सा भार्या गृहिणः सती । दोहदलक्षणोपेता कृशाङ्गी भाविनी क्रमात् ॥ १०.६८{६८} ॥ प्रवृद्धगर्भा सा दृष्ट्वा स्वयं च गर्भमादरात् । दक्षपार्श्वगतं सत्वं मत्वा चैवं व्यचिंतयत् ॥ १०.६९{६९} ॥ नूनं मे जायते गर्भे सत्वो बुद्धानुभावतः । यदयं दक्षिणे वर्त्ति तेन पुत्रो भवेत्खलु ॥ १०.७०{७०} ॥ इति निश्चित्य सा नारी पुत्रोत्पत्याशया मुदा । स्वस्वामिनो पुरे स्थित्वा रहस्यैवं न्यवेदयत् ॥ १०.७१{७१} ॥ दृष्ट्यार्य्यपुत्र वर्द्धस्व यदहं गर्भिणी भवे । नूनमयं भवेत्पुत्रो यत्स्थितो दक्षिणोदरे ॥ १०.७२{७२} ॥ इति भार्योदितं श्रुत्वा स गृहस्थः प्रमोदितः । दक्सिणं वाहुमुन्नम्य नन्दन्नेवमुदानयत् ॥ १०.७३{७३} ॥ चिराभिलषितं पुत्रमुखं पश्येयं सांप्रतम् । जातः स्यान्नामजाता मे कुलवंशस्थितिर्भवेत् ॥ १०.७४{७४} ॥ कृत्यानि च प्रकुर्वीत बिभृयाद्भरणं प्रति । नूनं बुद्धानुभावेन सत्पुत्रोऽपि भविष्यति ॥ १०.७५{७५} ॥ यदस्माकं कृतं पूर्वं कर्म दानादिकं शुभम् । एतत्पुण्यानुभावेन भवेत्कुशलमेतयोः ॥ १०.७६{७६} ॥ ततस्तेन सदा भर्त्ता सह संमोदचारिणी । पथ्याहारोपचारैश्च वर्द्धितो सुखचारिणी ॥ १०.७७{७७} ॥ ततः सा समये सूत पुत्रं दिव्यातिसुंदरम् । दर्शनीयं सुसौम्याङ्गं प्रासादिकं मनोहरम् ॥ १०.७८{७८} ॥ सर्वाङ्गलक्षणोपेतं सदीनारकरद्वयम् । सर्वसत्वमनापीशमभिरूपं सुभद्रिकम् ॥ १०.७९{७९} ॥ ततः सा जननी तस्य वालकस्य करद्वयम् । (र्म् १२३) दीनारांकितमालोक्य सहर्षं विस्मिताभवत् ॥ १०.८०{८०} ॥ ततोऽसौ जनकश्चापि जातं पुत्रमहाद्भुतम् । सखीभिर्वेदितं श्रुत्वा विस्मितो द्रष्टुमाययौ ॥ १०.८१{८१} ॥ ततः प्रजापतिः सापि विस्मितो स्वामिनोऽग्रतः । दर्शयित्वा सुतं पुत्रं शंकितैवं न्यवेदयत् ॥ १०.८२{८२} ॥ स्वामिं पश्य महाश्चर्य्यमस्य हेमान्वितौ करौ । तच्छुभं वाप्यशुभं वा दर्शयित्वा विचारय ॥ १०.८३{८३} ॥ इति भार्य्योदितं श्रुत्वा दृष्ट्वा तं वालकं चिरम् । दीनारं भुजयोः पश्यं तस्थौ सविस्मयान्वितः ॥ १०.८४{८४} ॥ ततस्तस्य गृहस्थोऽसौ निमित्तं ज्ञातुमादरात् । नैमित्तिकं समाहूय दारकं तमदर्शयत् ॥ १०.८५{८६} ॥ भवन्तो दृश्यतामस्य दारकस्य करद्वयम् । तन्निमित्तं परिज्ञाय तत्फलं वक्तुमर्हथ ॥ १०.८६{८६} ॥ इत्युक्ते तेन ते सर्वे दृष्ट्वा तं दारकं शुभम् । दीनारे भुजयोश्चापि परिज्ञायैवमब्रवीत् ॥ १०.८७{८७} ॥ साधो गृहपते ह्यस्य दारकस्य करद्वयम् । सुवर्णलक्षणोपेतं तत्ते भद्रं भवेत्खलु ॥ १०.८८{८८} ॥ तवायं दारको दाता महेशाख्यो भवेत्किल । स्वहस्तं संप्रसार्य्यैव हेमवृष्टिं करिष्यति ॥ १०.८९{८९} ॥ अपनीय स्वयं हस्तादिदं दीनारमर्पयेत् । अपनीते पुनरन्यत्प्रादुर्भवेत्ततोऽधिकम् ॥ १०.९०{९०} ॥ इत्येवं तैः समादिष्टं श्रुत्वा संहर्षितो गृही । ततो जातिमहं कृत्वा ज्ञातीनेवमभाषत ॥ १०.९१{९१} ॥ भवन्तो दारकस्यास्य शुभाक्षरसमन्वितम् । नामधेयं यथायोग्यं क्रियतां संप्रसिद्धितम् ॥ १०.९२{९२} ॥ इति तेनार्थितं श्रुत्वा सर्वे ते ज्ञातयस्तथा । दृष्ट्वा तस्य निमित्तानि संमतेनैवमब्रुवन् ॥ १०.९३{९३} ॥ यस्माद्धस्तद्वयोऽप्यस्य हिरण्येनोपलक्षितम् । तन्नाम्ना प्रसिद्धोऽस्तु हिरण्यपाणिरित्ययम् ॥ १०.९४{९४} ॥ एवं ज्ञातिसमुदिष्टं श्रुत्वासौ स गृहाधिपः । तथेति तस्य पुत्रस्य चक्रे नामव्यवस्थितम् ॥ १०.९५{९५} ॥ ततो हिरण्यपाणिः स दारकः प्रतिपालने । अष्टासु योऽपि धात्रीषु तेन पित्रा समर्पितः ॥ १०.९६{९६} ॥ ताभिः प्रपाल्यमानोऽसौ पथ्यपुष्टोपचारणैः । वर्द्धितोऽभूत्क्रमादाशु ह्रदस्थमिव पंकजम् ॥ १०.९७{९७} ॥ (र्म् १२४) तथा क्रमात्प्रवृद्धोऽसौ हिरण्यपाणिरात्मवित् । श्राद्धो भद्राशयो धीमान् स्वपरार्थहितार्थिकः ॥ १०.९८{९८} ॥ ततः स शिक्षितुं विद्याः सद्गुरुं समुपाश्रयत् । क्रमात्तेषां प्रसादाच्च विद्यापारं ययौ लघुः ॥ १०.९९{९९} ॥ ततोऽसौ दारको विद्वान् दाता श्रद्धासमन्वितः । स्वहस्तं संप्रसार्य्यैव ददौ दानं यथेप्सितम् ॥ १०.१००{१००} ॥ गुरुभ्यो ब्राह्मणेभ्यश्च याचकेभ्यः स दारकः । स्वहस्तं संप्रसार्य्यैव ददौ हेमं यथेप्सितम् ॥ १०.१०१{१} ॥ तथा तद्दानमाकर्ण्य श्रवणब्राह्मणादयः । अर्थिनो धनलुब्धाश्च संप्रतीयुः समंततः ॥ १०.१०२{२} ॥ तथा तं समुपेत्यैवं सर्वदिग्भ्यः समागताः । वालावृद्धादयो दीना ययाचिरे यथेप्सितम् ॥ १०.१०३{३} ॥ तदा हिरण्यपाणिः स दृष्ट्वैतानर्थिनो मुदा । सर्वोपकरणैश्चापि सर्वांस्तान् समतोषयत् ॥ १०.१०४{४} ॥ ततस्ते याचकाः सर्वे तेनैव परितर्पिताः । यथेछया सुखं भुक्त्वा प्रचेरुर्धर्ममानसा ॥ १०.१०५{५} ॥ तथा वीथिगतश्चैवं हस्तद्वयं प्रसार्य सः । हेमराशिं समुत्थाप्य सर्वेभ्यः प्रददौ मुदा ॥ १०.१०६{६} ॥ तथा सर्वेऽपि ते लोका धनाढ्याः सुखिनोऽभवन् । नैकोऽभूत्कृपनो दुःखी नोऽपि कश्चिद्दरिद्रितः ॥ १०.१०७{७} ॥ सर्वेऽपि धनिनः प्राढ्या दातारो भोगिनोऽभवन् । सत्यधर्मानुरक्ताश्च सद्धर्मश्रवणार्थिनः ॥ १०.१०८{८} ॥ तदा तस्यैव तत्कीर्त्तिः सर्वत्र भुवनेष्वपि । लोकैरुद्गीर्यमानोऽसौ प्रससार समंततः ॥ १०.१०९{९} ॥ तद्दृष्ट्वा ब्राह्मणो लोभी मात्सर्य्यप्रहताशयः । तद्यशः प्रतिलब्धं स मनसैवं व्यचिन्तयत् ॥ १०.११०{१०} ॥ यदस्य भुजयोर्हेम चिन्तामणिसमं खलु । तेनायं भवते श्रीमान् प्रार्थितार्थाधिकप्रदः ॥ १०.१११{११} ॥ यच्चायं दारकः श्राद्धः प्रार्थनासंप्रदायकः । तदहं प्रार्थनां कृत्वा प्रतिगृह्णीय तत्मणिम् ॥ १०.११२{१२} ॥ इत्यसौ मनसा ध्यत्वा लोभाकृष्टो त्वरान्वितः । (र्म् १२५) तं हिरण्यभुजं प्रेत्य तद्दीनारं समयाचत ॥ १०.११३{१३} ॥ जयोऽस्तु ते सदा साधो दीर्घायुश्च सुमंगलम् । तथैव त्वं सदा भूया अर्थिनां कल्पपादपः ॥ १०.११४{१४} ॥ त्वत्कीर्त्त्या समाहूतः प्रागतोऽस्मि यदाशया । तदर्थं पूरयित्वा मे चित्तं हर्षय सर्वतः ॥ १०.११५{१५} ॥ इत्येवं प्रार्थिते तेन विप्रेणाभिप्रगल्भिना । दृष्ट्वा हिरण्यपाणिः स तं विप्रं प्रत्यभाषत ॥ १०.११६{१६} ॥ साधु विप्र प्रसीद त्वं यदर्थं समुपागतः । तदर्थं संप्रदत्वाद्य हर्षयिष्यामि ते मनः ॥ १०.११७{१७} ॥ तच्छंका मा कृथा ह्यत्र यद्यत्ते हृदि रोचते । तत्तन्नूनं प्रदास्ये ते तद्वदस्व यदीहितम् ॥ १०.११८{१८} ॥ इति तेनोदितं श्रुत्वा विप्रोऽसौ संप्रहर्षितः । स्वस्तीत्याशीर्वचो दत्वा तद्दीनारमयाचत ॥ १०.११९{१९} ॥ साधो हिरण्यपाणे यत्तव हस्तसमुद्भवम् । तद्दीनारं प्रदत्वा मे चित्तं संहर्षयार्थदः ॥ १०.१२०{२०} ॥ इति तेनोदितं श्रुत्वा तत्पितासौ सुविस्मितः । सवन्धुज्ञातिमित्रस्तं पुत्रमेवमभाषत ॥ १०.१२१{२१} ॥ शृणु पुत्र मया प्रोक्तं तवैव हितकारणम् । यदि ते स्वामिनी प्रीतिस्तत्कर्त्तव्यं हि सर्वथा ॥ १०.१२२{२२} ॥ त्वं हि पुत्र मया लब्धः संबुद्धस्यानुभावतः । तत्संबुद्धशासने कार्य्यमेव दातु समर्हसि ॥ १०.१२३{२३} ॥ यच्चेदन् भुजयोर्जातं दीनारं मणिसंनिभम् । तदपि सुगतस्यैव प्रभावान्मन्यतां खलु ॥ १०.१२४{२४} ॥ यच्चेदं ते करोद्भूतं जीवितं सहजेन्द्रियम् । तत्स्वकरात्समुद्धृत्य कथं दद्या द्विजातये ॥ १०.१२५{२५} ॥ यदीदं दास्यते हस्तात्समुद्धृत्य वलादपि । तदा ते जीवितं वापि सहानेन व्रजं खलु ॥ १०.१२६{२६} ॥ तस्मादेवं परिज्ञाय यदि ते जीवित प्रियम् । तदेवं सहजं हेम मा प्रदाहि द्विजातये ॥ १०.१२७{२७} ॥ तदन्यद्दीयतां तस्मै यद्यद्वस्तु समीछितम् । इदं तु सर्वथान्यस्मै दातव्यं नैव यत्नतः ॥ १०.१२८{२८} ॥ येनैव त्वं महेशाख्यो सर्वार्थिप्रार्थितार्थदः । तेन यदा परिभ्रष्टस्तदा किं तेन मन्यसे ॥ १०.१२९{२९} ॥ येनापि च त्वया सर्वे याचकाः संप्रतर्पिताः । (र्म् १२६) तच्चिन्तामणिसामान्यं कथं दातुं समिछसि ॥ १०.१३०{३०} ॥ यत्त्वया सुकृतं कर्म प्रकृत्वा पुण्यमाचितम् । नूनं तस्य विपाकत्वं भुंजयोस्ते प्रतिष्ठितम् ॥ १०.१३१{३१} ॥ तस्मादिदं महारत्नं कस्मिञ्चिन्मा प्रदीयताम् । दत्वा त्विदं महारत्नं किमन्यल्लब्धमिछसि ॥ १०.१३२{३२} ॥ यदि त्विदं महारत्नं दातुमेवं प्रतिष्ठितम् । संप्रदेहि जिनेन्द्राय तत्पुण्यमक्षयं वहुम् ॥ १०.१३३{३३} ॥ पुण्येन लभ्यते जन्म शुद्धवम्षे महत्कुले । पुण्येन दीयते कीर्त्तिं निर्वृतिं च समाप्नुयात् ॥ १०.१३४{३४} ॥ यदि पुण्येऽस्ति ते वांछा तद्बुद्धशरणं गतः । देहि बुद्धानुशासिन्या तद्दानं हि महत्फलम् ॥ १०.१३५{३५} ॥ ततो नित्यं सुखं भुक्त्वा कृत्वा संबोधिसाधनम् । क्रमाद्बोधिचरिं प्राप्ते निर्वृतिं वा समाप्नुयाः ॥ १०.१३६{३६} ॥ इति पित्रा समादिष्टं श्रुत्वासौ हेमभृत्सुधीः । तथेति निश्चयं कृत्वा पुनरेवमभाषत ॥ १०.१३७{३७} ॥ सत्यं तात त्वयादिष्टं तत्सर्वं हितमेव मे । तस्मात्तथा चरिष्यामि त्वदाज्ञां शिरसा वहन् ॥ १०.१३८{३८} ॥ किं तु सत्यं मया प्रोक्तामिदं दातुं द्विजातये । तत्कथमन्यथा कृत्वा पुण्यमेव समाप्नुयात् ॥ १०.१३९{३९} ॥ तत्सत्यं पूरणे तात प्रदद्यामि ममात्मनः । अथ न दास्यते ह्यत्र कियत्कालं हि जीवितम् ॥ १०.१४०{४०} ॥ यदिदं भुजयोर्हेमं ममात्मसहसंभवम् । तथैवं सहजीवेन विनक्ष्यति न संशयः ॥ १०.१४१{४१} ॥ यथेदं तु महारत्नं मम देवसमुद्भवम् । तथैवं संप्रदत्वास्मै पुनः प्राप्स्यामि तेऽधिकम् ॥ १०.१४२{४२} ॥ यथा बुद्धानुभायेन संजातं करयोरिदम् । तथा सत्यानुभावेन पुनरन्यज्जनिष्यते ॥ १०.१४३{४३} ॥ धर्मेण तुष्यते बुद्धो मूलं धर्मस्य सत्यवाक् । तत्सत्यपारणार्थेन दास्याम्यहमिदं मणिम् ॥ १०.१४४{४४} ॥ सत्यं विना न फुल्लन्ते पुण्यानि प्रकृतान्यपि । म्लानिभूतानि नश्यन्ते शस्यानीवामृतं विना ॥ १०.१४५{४५} ॥ सत्येन वर्द्धते धर्मं धर्मेण पाल्यते नरः । धर्मिष्ठः सद्गतिं याति तस्मात्सत्यं महद्वली ॥ १०.१४६{४६} ॥ तस्मात्सत्यवलेनात्र यशोधर्मार्थलब्धये । सर्वथास्मै प्रदास्यामि मा कृथास्तं निवारणम् ॥ १०.१४७{४७} ॥ (र्म् १२७) इति पुत्रवचः श्रुत्वा पिता स विस्मयान्वितः । तथेत्यभ्यनुमोदित्वा तस्थौ तूष्णी विलोकयन् ॥ १०.१४८{४८} ॥ ततो हिरण्यपाणिः स मत्वा पित्राधिवासितम् । तद्दीनारं सहसोत्कृत्य विप्राय प्रददौ मुदा ॥ १०.१४९{४९} ॥ तत्प्रदत्तमसौ विप्रः प्रतिगृह्य प्रमोदितः । दत्वाशीर्वचनं तस्मै स्वगृहं सहसा ययौ ॥ १०.१५०{५०} ॥ ततश्चानन्तरं तस्य भुजेऽन्यत्तद्गुणाधिकम् । दीनारं दिव्यरत्नाभैः प्रादुरासीन्महाद्भुतम् ॥ १०.१५१{५१} ॥ तद्दत्तानंतरोद्भूतं दीनारं तद्गुणाधिकम् । दृष्ट्वा श्रुत्वा च सर्वे ते लोका आशु सुविस्मिताः ॥ १०.१५२{५२} ॥ ततो हिरण्यपाणिः स एवं लोकान् प्रहर्षयन् । संबुद्धशासने दातुं जेतवनमुपाचरत् ॥ १०.१५३{५३} ॥ तत्र भिक्षून् यतीन् दृष्ट्वा सद्धर्मचरणोत्सुकः । संबुद्धं सुगतं द्रष्टुं विहारं समुपाविशत् ॥ १०.१५४{५४} ॥ तत्रासौ भगवन्तं तमद्राक्षीत्समितिस्थितम् । द्वात्रिंशल्लक्षणाशीतिव्यंजनैः परिमंडितम् ॥ १०.१५५{५५} ॥ व्यामप्रभासमुज्वालं सहस्रेणाधिकप्रभम् । शान्तेंद्रियं सुभद्रांगं सौम्यरूपं मनोहरम् ॥ १०.१५६{५६} ॥ दृष्ट्वासौ सुप्रसन्नात्मा सहसा समुपागतः । नत्वा पादौ मुनेस्तस्य पुरस्तात्समुपाश्रयन् ॥ १०.१५७{५७} ॥ तत्रासौ भगवान् तस्य दृष्ट्वाशयविशुद्धताम् । आदिमध्यान्तकल्याणं दिदेश धर्ममुत्तमम् ॥ १०.१५८{५८} ॥ तं धर्मं सुगतादिष्टं श्रुत्वासौ संप्रमोदितः । आनंदं समुपाश्रित्य प्रणम्यैवं व्यजिज्ञपत् ॥ १०.१५९{५९} ॥ भदन्त दातुमिछामि संघेभ्यो भोजनं खलु । तदाज्ञां देहि मे शास्त यदि तेऽस्ति कृपा मयि ॥ १०.१६०{६०} ॥ इति विज्ञापिते तेन हिरण्यपाणिना मुदा । स आनंदः समालोक्य दारकं तं समादिशत् ॥ १०.१६१{६१} ॥ साधु वत्स महाभाग्याद्भद्रमालोचितं त्वया । यद्यत्र दास्यते भोज्यं कार्षापणं प्रदीयताम् ॥ १०.१६२{६२} ॥ एवंकृते तु ते वत्स मंगलं सर्वदा भवेत् । अतश्च दुर्गतिं हित्वा सद्गतिं समवाप्नुयाः ॥ १०.१६३{६३} ॥ इत्यानंदसमादिष्टे दारकोऽसौ प्रमोदितः । स्वयं हस्तौ प्रसार्य्यैव हेमराशिं व्यधात्पुनः ॥ १०.१६४{६४} ॥ तां दृष्ट्वा भिक्षवः सर्वे विस्मिताः संप्रहर्षिताः । (र्म् १२८) तद्द्रव्यैः साधयामास भोज्यानि सुरसानि च ॥ १०.१६५{६५} ॥ ततः स दारको भोज्यैस्तैः प्रणीतसुसाधितैः । संबुद्धप्रमुखं सर्वसांघिकं समतोषयत् ॥ १०.१६६{६६} ॥ ततोऽसौ भोजनान्ते च संबुद्धप्रमुखं क्रमात् । सर्वसंघं प्रणम्यैवं पुनस्तस्थौ कृतांजलिः ॥ १०.१६७{६७} ॥ ततः श्रीभगवान् दृष्ट्वा तस्याशयविशुद्धताम् । आर्य्यसत्यं समायुक्तं दिदेश धर्ममुत्तमम् ॥ १०.१६८{६८} ॥ तच्छ्रुत्वा हेमपाणिः स सत्कायदृष्टिपर्वतम् । प्रभित्वा ज्ञानवज्रेण विंशतिशिखरोद्गतम् ॥ १०.१६९{६९} ॥ श्रोतापत्तिफलं प्राप्तो दृष्टसत्योऽभवत्ततः । संबुद्धसगणं नत्वा स्वगेहं हर्षितो ययौ ॥ १०.१७०{७०} ॥ तत्र सर्वं स तद्वृत्तं पित्रोराख्याय हर्षितः । प्रव्रज्याचरणानुज्ञां पितरौ प्रत्ययाचत ॥ १०.१७१{७१} ॥ चित्तं मे रोचते तात प्रव्रज्याव्रतसाधने । तदनुज्ञां प्रदत्तं मे हितं मयि यदीच्छथ ॥ १०.१७२{७२} ॥ इति पुत्रोदितं श्रुत्वा स्वात्मजं स पितावदत् । मा कृथा सहसा पुत्र प्रव्रज्याचरणे मनः ॥ १०.१७३{७३} ॥ प्रव्रज्याचरणे भैक्ष्यं दुःखिनामेव तद्व्रतम् । त्वं वृद्धिमान्महादाता तत्प्रव्रज्यां कुतश्चरेः ॥ १०.१७४{७४} ॥ किं वाप्यते विवाहस्त्वं दहरश्च कुमारिकः । प्रव्रज्या दुष्करं स्थानं तत्कथं प्रचरेत्सुतः ॥ १०.१७५{७५} ॥ तत्तावत्त्वं युवा पुत्र विवाहित्वा कुलस्त्रियम् । भुक्त्वा सौख्यं यथाकामं गृहे धर्मं समाचर ॥ १०.१७६{७६} ॥ ततो वंशं समुत्पाद्य कुलस्थितिप्रसिद्धये । कुलधर्मं प्रतिस्थाप्य ततः प्रव्रज वार्द्धिकः ॥ १०.१७७{७७} ॥ यदा वृद्धो दरिद्रश्च प्रव्रज्यां हि तदा चरेत् । यावद्युवा समृद्धश्च तावत्त्वं प्रव्रज कथम् ॥ १०.१७८{७८} ॥ संपत्तिः क्षणयौवन्यमेतन्मारवलध्रुवम् । तदेतदा कथं पुत्र प्रव्रज्याव्रतमाचरेः ॥ १०.१७९{७९} ॥ इत्येतद्दुष्करं मत्वा प्रव्रज्याचरणे मनः । सर्वथा त्वं विनिर्वार्य कुलधर्मं समाचर ॥ १०.१८०{८०} ॥ ततस्ते मंगलं नित्यमिमु पुत्र भवेद्ध्रुवम् । (र्म् १२९) यशोधर्मसुखान्वेत्य सद्गतिं चाप्यवाप्नुयाः ॥ १०.१८१{८१} ॥ इति पित्रोदितं श्रुत्वा दारकोऽसौ विशंकितः । बोधयन् पितरं धर्मे पुनरेवमभाषत ॥ १०.१८२{८२} ॥ सत्यमेव तथा तात यदेतद्भाष्यते त्वया । तथापि श्रूयतां तात यदभिप्रायकं मम ॥ १०.१८३{८३} ॥ अनित्यं खलु संसारं जीवितं चापि भंगुरम् । क्षणध्वंसि शरीरं च क्षणसंपद्घनोपमम् ॥ १०.१८४{८४} ॥ एवं पश्यनहं तात संसारभोगनिस्पृहः । प्रव्रज्याव्रतमाश्रित्य प्राप्तुमिछामि निर्वृतिम् ॥ १०.१८५{८५} ॥ अपि च दुल्लभं जन्म मानुषं भवचारिणाम् । सर्वेषामपि जन्तूनां मरणं सर्वथा ध्रुवम् ॥ १०.१८६{८६} ॥ मानुष्ये लभ्यमाने तु कुतो धर्मानुभावना । विना धर्मानुभावेन कथं सद्गतिमाप्नुयात् ॥ १०.१८७{८७} ॥ संबुद्धोऽपि ससंघोऽयं स्थास्यति न सदेह च । अन्यत्रापि व्रजेन्नूनं निर्वृतिं वा गमिष्यति ॥ १०.१८८{८८} ॥ संबुद्धे निर्वृतिं याते सद्धर्मोऽपि विनक्ष्यते । सद्धर्मान्तर्गते लोके म्लेछधर्मवली भवेत् ॥ १०.१८९{८९} ॥ म्लेछधर्मवलीक्रान्ते सर्वत्र भूमिमंडले । सर्वलोकाश्च कामांधा भवेयुः क्लेशमानिनः ॥ १०.१९०{९०} ॥ तद धर्मानुसंवृत्तौ मतिः कस्यापि नो चरेत् । प्रव्रज्यासंवरं धर्तुं कः समर्थो भविष्यति ॥ १०.१९१{९१} ॥ नैव संयुज्यते चित्तं प्रव्रज्यासंवरं विना । अविशोधितचित्तात्मा न यायात्परमां गतिम् ॥ १०.१९२{९२} ॥ तच्चित्तये विशुद्ध्यर्थं निर्वाणपदलब्धये । प्रव्रज्यासंवरं धर्त्तुमिछामि तात सांप्रतम् ॥ १०.१९३{९३} ॥ तद्यदि मे हितं द्रष्टुमिछसि तात सर्वदा । तदनुज्ञां समादातुमर्हसि मात्र चारये ॥ १०.१९४{९४} ॥ इति पुरोदितं श्रुत्वा पिता स परिबोधितः । तथेत्यनुमतं कृत्वाभवत्तूष्णीव्यवस्थितः ॥ १०.१९५{९५} ॥ तदा तज्जननी चासौ दृष्ट्वा तं सुतमात्मजम् । स्नेहादश्रु विमोचन्ती निवारयितुमब्रवीत् ॥ १०.१९६{९६} ॥ हा पुत्र कथमेकान्ते मां विहाय क्व यास्यसे । मा पुत्र सहसा गछ किंचित्कालं विनोदय ॥ १०.१९७{९७} ॥ यावज्जीवाम्यहं तात तावन्मा गाः कुहापि च । (र्म् १३०) मृतायां मयि भो पुत्र तदा व्रजस्व वांछिते ॥ १०.१९८{९८} ॥ अचिरेणैव मां मृत्युर्ग्रहीष्यति न संशयः । तावदेव गृहे स्थित्वा दानं कुर्वन् सुखं वस ॥ १०.१९९{९९} ॥ इति मात्रोदितं श्रुत्वा पुत्रोऽसौ परिमोदितः । नत्वा तां जननीमेवं बोधयितुमभाषत ॥ १०.२००{१००} ॥ यत्त्वयाम्वे रुदन्त्येवं मृत्युनाम प्रकीर्तितम् । तेन मे चोदितं चित्तं प्रव्रज्याव्रतसाधने ॥ १०.२०१{१} ॥ ध्रुवं जन्मवतां मृत्युर्मृतानां जन्म च ध्रुवम् । परिवर्त्तिनि संसारे मृतः को हि न जायते ॥ १०.२०२{२} ॥ धर्मिष्ठो वीर्यावांश्चापि मरणं याति सर्वतः । पापिष्ठो निघ्नितश्चापि मरणं याति सर्वतः ॥ १०.२०३{३} ॥ धर्मिष्ठः सत्सुखं भुक्त्वा मृतो यात्येव सद्गतिम् । पापिष्ठो दुःखतां भुक्त्वा मृतो गछति दुर्गतिम् ॥ १०.२०४{४} ॥ यदा संत्यजते जन्तुः संसारप्राणवायुना । तदा संत्यज्यते सर्वैर्वंधुमित्रजनैरपि ॥ १०.२०५{५} ॥ तदा न विद्यते कोऽपि हितकारी सहानुगः । धर्म एकः सहायः स्यात्सर्वत्रापि हितार्थकृत् ॥ १०.२०६{६} ॥ तस्मात्मातः प्रयत्नेन कर्त्तव्यं धर्ममादरात् । धर्मेण रक्ष्यते सर्व इहामुत्र सहापि हि ॥ १०.२०७{७} ॥ धर्मेणैवाभिपाल्यन्ते वालवृद्धातुरादयः । धर्मेण सुधृताः सत्वा निमग्ना दुःखसागरे ॥ १०.२०८{८} ॥ धर्मेण जीयते दुष्टो धर्मेण जीयते कलिः । धर्मेण जीयते रागो मृत्युर्धर्मेण जीयते ॥ १०.२०९{९} ॥ धर्मेण सुकुले जन्म लक्ष्मी धर्मेण स्थीयते । विद्यायशोऽर्थमोक्साश्च प्राप्यन्ते धर्मतः खलु ॥ १०.२१०{१०} ॥ धर्मं तु सौगतं कार्यं सर्वलोकहितंकरम् । सुगतस्यापि धर्मेषु प्रव्रज्याधर्ममुत्तमम् ॥ १०.२११{११} ॥ यमाश्रित्य महासत्वा जित्वा क्लेशगणान् लघुः । साक्षादर्हत्पदं प्राप्य व्रजन्ति निर्वृतिं पराम् ॥ १०.२१२{१२} ॥ इति मत्वा हि ते सर्वे भिक्षवो भवनिस्पृहाः । प्रव्रज्याव्रतमाश्रित्य भवन्ति ब्रह्मचारिणः ॥ १०.२१३{१३} ॥ तथात्राहं समिछामि प्रव्रज्याव्रतमुत्तमम् । तदनुज्ञां प्रदत्वा मे नात्र कार्यो विषादितः ॥ १०.२१४{१४} ॥ (र्म् १३१) यदि न दीयतेऽनुज्ञा तदपि नो वियोगतः । अकस्मान्मृत्युना घ्राय ग्रसिष्यति पुरो हि नः ॥ १०.२१५{१५} ॥ तदा किं ते करिष्यामि ममापि किं करिष्यसि । कृत्वानुशोचनां चैव यास्यामो मरणं ध्रुवम् ॥ १०.२१६{१६} ॥ इति मातः परिज्ञाय तदनुज्ञां प्रदेहि मे । विषादं मा कृथा अत्र प्रसादीनी भवेत्प्रभु ॥ १०.२१७{१७} ॥ तथा ते मंगलं नित्यमिहामुत्रापि संभवेत् । अहं च सौगतं धर्मं धृत्वा निर्वृतिमाप्नुयाम् ॥ १०.२१८{१८} ॥ इति पुत्रोदितं श्रुत्वा मातासौ परिबोधिता । तथानुमोदनां कृत्वा तस्थौ तूष्णीव्यवस्थितान् ॥ १०.२१९{१९} ॥ अथ हिरण्यपाणिः सः पित्रोर्मत्वाभिसंमतम् । तयोश्च चरणे नत्वा सहसा निर्ययौ गृहात् ॥ १०.२२०{२०} ॥ तत्र ज्ञातिगणांश्चासौ वन्धुमित्रसुहृज्जनान् । कृपणातिथिसंघादिं वांछितार्थैरतोषयत् ॥ १०.२२१{२१} ॥ ततोऽसौ वांधवान् सर्वान् संतर्प्य परिबोधयन् । आशु जेतवनं गत्वा विहारं समुपाविशत् ॥ १०.२२२{२२} ॥ तत्रासौ सुगतं दृष्ट्वा कृतांजलिपुटो मुदा । भगवंतं तमानम्य प्रव्रज्यां समयाचत ॥ १०.२२३{२३} ॥ नमस्ते भगवच्छास्त भवतां चरणं व्रजे । तत्प्रव्रज्याव्रतं दत्वा ब्रह्मचर्यं प्रदेहि मे ॥ १०.२२४{२४} ॥ इति तेनार्थितेऽसौ श्रीभगवान् तमभाषत । एहि भिक्षो कुमार त्वं ब्रह्मचर्यं चरेहि स ॥ १०.२२५{२५} ॥ इति प्रोक्तो मुनीन्द्रोऽसौ पाणिना तच्छिरः स्पृशन् । सम्यक्प्रवाजयित्वाशु स्वसंघे तं समग्रहीत् ॥ १०.२२६{२६} ॥ एहीति प्रोक्तमात्रेऽपि जिनेन्द्रेण स मुण्डितः । खिक्खिरीपात्रहस्ताभूच्ल्चीवरप्रावृतः सुधीः ॥ १०.२२७{२७} ॥ ततः शिक्षासु शिक्षित्वा प्राप्योपसंपदोऽपि च । व्यायच्छद्घटमानश्च समाधिषु समाहितः ॥ १०.२२८{२८} ॥ तदिदं पंचगंदं च भवचक्रं चलाचलम् । विदित्वा सर्वसंस्कारगतिश्चापि विघाटिनी ॥ १०.२२९{२९} ॥ भिंदन् सर्वमविद्याङ्गं प्राप्य विद्याः शुभंकराः । प्रतिसंविद्गुणप्राप्तो जितक्लेशगणो यतिः ॥ १०.२३०{३०} ॥ साक्षादर्हत्पदं प्राप्य वीतरागो जितेन्द्रियः । समलोष्टसुवर्णश्च वासीचंदनसंनिभः ॥ १०.२३१{३१} ॥ (र्म् १३२) आकाशसमचित्तश्च निर्विकल्पो निरंजनः । संसारभोग्यसत्कारलाभलोभसुनिस्पृहः ॥ १०.२३२{३२} ॥ पंचाभिज्ञपदप्राप्तो चतुर्ब्रह्मविहारिकम् । सदेवासुरमर्त्यानां त्रैधातुकनिवासिनाम् ॥ १०.२३३{३३} ॥ पूज्यो मान्योऽभिवंद्यश्च बभूव स हिरण्यभृत् । ततस्ते भिक्षवः सर्वे दृष्ट्वा तं दारकं यतिम् ॥ १०.२३४{३४} ॥ विस्मिताः श्रीघनं नत्वा पप्रछुस्तस्य कर्मताम् । भगवन् केन धर्मेण हिरण्यपाणिरयं सुधीः ॥ १०.२३५{३५} ॥ सर्वार्थिनो हि संतर्प्य साक्षादर्हन् भवत्यपि । इति तैर्भिक्षुभिः पृष्टे भगवान् तान् तथाब्रवीत् ॥ १०.२३६{३६} ॥ श्रूयतां भिक्षवः सर्वैर्युष्माभिर्विस्मिताशयैः । अनेन यत्कृतं कर्म तन्मया कथ्यतेऽधुना ॥ १०.२३७{३७} ॥ पुरासीद्भगवान् बुद्धः काश्यपोऽर्हन्मुनीश्वरः । सर्वविद्याधिपः शास्ता तथागतो विनायकः ॥ १०.२३८{३८} ॥ ससांघिको जिनेन्द्रोऽसौ वाराणसीमुपाश्रितः । बोधिचर्यां समादिश्य कृत्वा धर्ममयं जगत् ॥ १०.२३९{३९} ॥ सर्वाणि बुद्धकार्याणि समाप्य निर्वृतिं ययौ । तदा राजा कृकी नाम मत्वा तं निर्वृतिं गतम् ॥ १०.२४०{४०} ॥ विधिवदग्निसंस्कारं कारयित्वा महार्चनैः । ततस्तद्धातुरत्नानि गर्भ आरोप्य सादरात् ॥ १०.२४१{४१} ॥ हेमरत्नमयं स्तूपं कारयामास स प्रभुः । तत्सुसिद्धं प्रतिष्ठाप्य सद्विधानैर्महोत्सवैः ॥ १०.२४२{४२} ॥ महश्चापि तदा तत्र स्थापयित्वा भजन्नृपः । तस्मिन्नारोप्यमानायां यष्ट्यां पूजापरिग्रही ॥ १०.२४३{४३} ॥ किन्तवो कंदरो नाम निदधे रूपकद्वयम् । ततः स पादयोर्नत्वा प्रणिधानं व्यधात्तथा ॥ १०.२४४{४४} ॥ यन्मया श्रद्धया भक्त्यारोपितं रूपकद्वयम् । यत्पुण्यं च विपाकेन जायेयं सुकुले सदा ॥ १०.२४५{४५} ॥ करोद्भवसुवर्णैः संतर्पयित्वार्थिनो जनान् । एवंविधं च शास्तारमारोग्य समुपाश्रितः ॥ १०.२४६{४६} ॥ एतद्धर्मं समासाद्य प्राप्नुयां परमां गतिम् । तेन पुण्यविपाकेन प्रणिधानेन भूयसा ॥ १०.२४७{४७} ॥ हिरण्यपाणिरयं दाता भवत्यर्हं स सांप्रतम् । एवं सर्वेऽपि संसारे भुंजते कर्मजं फलम् ॥ १०.२४८{४८} ॥ (र्म् १३३) येनैवं यत्कृतं कर्म तेनैव भुंज्यते फलम् । अभुक्तं क्षीयते नैव कर्म क्वापि कदा चन ॥ १०.२४९{४९} ॥ शुभं वाप्यशुभं वापि भुक्तं तु क्षीयते खलु । नाग्निभिर्दह्यते कर्म क्लिद्यते नोदकैरपि ॥ १०.२५०{५०} ॥ वायुभिः शुष्यते नापि भूमिषु क्षीयते न हि । अन्यथापि भवेन्नैव संसारे कर्मणो गतिः ॥ १०.२५१{५१} ॥ शुभस्य शुभतैव स्यात्कृष्णस्य कृष्णतैव हि । मिश्रस्य मिश्रितैव स्यादन्यथा न सदा भवेत् ॥ १०.२५२{५२} ॥ एवं मत्वाथ संसारे चरितव्यं सदा शुभम् । न प्रणस्यंति कर्माणि कल्पकोटिशतैरपि ॥ १०.२५३{५३} ॥ सामग्रीं प्राप्य कालं च फलन्ति प्राणिनां खलु । इत्यसौ भगवान् बुद्धः सत्कर्मदेशनामतैः ॥ १०.२५४{५४} ॥ तर्पयन् स कलांल्लोकान् ततो विश्रान्तमादधौ । इति शास्त्रोदितं श्रुत्वा सर्वे ते भिक्षुसांघिकाः ॥ १०.२५५{५५} ॥ शुभेष्वेव सदा नित्यं संप्रचेरुः समाहितः । महाराज त्वयाप्येवं चरितव्यं शुभे सदा ॥ १०.२५६{५६} ॥ बोधयित्वा प्रजाञ्चैवं स्थापनीयाः शुभे सदा । ततस्ते मंगलं नित्यं सर्वत्रापि भवेत्खलु । क्रमाद्बोधिचरीं प्राप्य संबोधिपदमापुण्याः ॥ १०.२५७{५७} ॥ इति तेन समादिष्टं श्रुत्वा स नृपतीश्वरः । तथेत्यभ्यनुमोदित्वा प्राभ्यनंदत्सपार्षदः ॥ १०.२५८{५८} ॥ शृण्वन्ति ये श्रावयन्तीह यश्च हिरण्यपाणेरवदानमेतत् । ते क्लेशमुक्ताः सुगतानुभक्ताः प्रयान्ति नूनं सुगतालयेषु ॥ १०.२५९{५९} ॥ ++ इति श्रीरत्नमालयां हिरण्यपाण्यवदानं नाम समाप्तं ++ (र्म् १३४) xइ हस्तकावदान अथाशोको महीपालः कृतांजलिपुटो मुदा । उपगुप्तं गुरुं नत्वा भूयोऽप्येवमभाषत ॥ ११.१{१} ॥ भदन्त श्रोतुमिछामि पुनरन्यत्सुभाषितम् । यथा ते गुरुणाख्यातं तथा मे वक्तुमर्हसि ॥ ११.२{२} ॥ इति तेन नरेन्द्रेण पृष्टोऽसौ सुगतांशजः । उपगुप्तो महाभिज्ञस्तं नृपं प्रत्यभाषत ॥ ११.३{३} ॥ शृणु राजन्महाभाग यथा मे गुरुणोदितम् । तथाहं ते प्रवक्ष्यामि तदनुमोदनां कुरु ॥ ११.४{४} ॥ पुरैकसमये चैवं श्रीघनोऽसौ तथागतः । संबुद्धः सुगतः शास्ता सर्वधर्मानुदेशकः ॥ ११.५{५} ॥ श्रावस्त्यां वहिरुद्याने जेतवने मनोरमे । अनाथपिण्डदोद्याने विहारे सुगताश्रमे ॥ ११.६{६} ॥ भिक्षुभिः श्रावकैः सार्द्धमुपासकैश्च चैलकैः । बोधिसत्वैर्महासत्वैस्तदन्यैश्च महर्षिभिः ॥ ११.७{७} ॥ व्यहरत्सर्वहितार्थाय धर्मामृतं प्रवर्षयन् । तत्सद्धर्मामृतं पातुं प्रययुर्बोधिकामिनः ॥ ११.८{८} ॥ लोकपाला महाराजा स्वस्वसैन्यजनैः सह । ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्च मंत्रिणो जनाः ॥ ११.९{९} ॥ अमात्याः साधवः पौरा धनिनश्च महाजनाः । वणिजः सार्थवाहाश्च तथान्ये सर्वजातिकाः ॥ ११.१०{१०} ॥ सर्वदिग्भ्यः समागत्य सर्वे ते समुपागताः । तं बुद्धं सुगतं नाथं पूजयित्वा समंततः ॥ ११.११{११} ॥ परिवृत्य पुरोधाय शख्याविगुणकामिताः । कृतांजलिपुटो तस्थुः सद्धर्मचरणोत्सुकाः ॥ ११.१२{१२} ॥ अथासौ भगवान् दृष्ट्वा तान् सर्वान् समुपस्थितान् । आदिमध्यान्तकल्याणं दिदेश धर्ममुत्तमम् ॥ ११.१३{१३} ॥ तत्सद्धर्मामृतं पीत्वा सर्वे लोकाधिपादयः । हर्षितास्तेऽनुमोदन्तो वभूवुः परिबोधिताः ॥ ११.१४{१४} ॥ तदैव समये तस्यां श्रावस्त्यां पुरिसंभवः । आसीद्गृहपतिः प्राढ्यः कुवेरवत्समृद्धिमान् ॥ ११.१५{१५} ॥ श्राद्धो दाता महाभोगी सर्वहितार्थभृत् । (र्म् १३५) त्रिरत्नसेवको धीमान् सुविशालपरिग्रहः ॥ ११.१६{१६} ॥ संगृही विधिवद्भार्यां स्वकुलधर्मचारिणी । परिणीता यथाकामं संरमे परिचारयन् ॥ ११.१७{१७} ॥ तस्यासौ रमणी भार्या संवृत्ता गर्भिणी सती । असूत समये पुत्रं प्रासादिकं मनोहरम् ॥ ११.१८{१८} ॥ स च जातिस्मरो वालो जातमात्रः स्वकौ भुजौ । संदृष्ट्वालिंग्य चुंवित्वा परिष्वज्यैवमब्रवीत् ॥ ११.१९{१९} ॥ अहो वताद्य मे हस्तौ सुचिरेण समुद्भवौ । अहो लब्धाविमौ हस्तौ सुचिरेण मयाधुना ॥ ११.२०{२०} ॥ तेनैवं जातमात्रेण दृष्टं कृतं प्रभाषितम् । दृष्ट्वा श्रुत्वा च सा माता त्रासिता विस्मिताभवत् ॥ ११.२१{२१} ॥ किमेतदिति संत्रस्ता दृष्ट्वा तं दारकं मुदा । भर्त्तारं सहसाहूय अग्रमेनमदर्शयत् ॥ ११.२२{२२} ॥ तदासौ दारकश्चापि दृष्ट्वा तं जनकं मुदा । हस्तौ दृष्ट्वा तथालिंग्य चुंवयित्वा चैवमब्रवीत् ॥ ११.२३{२३} ॥ अहो वताद्य मे हस्तौ सुचिरेण समुद्भवौ । अहो लब्धाविमौ हस्तौ सुचिरेण मयाधुना ॥ ११.२४{२४} ॥ इति संदर्शयं हस्तावेवं चाप्यवदच्छिशुः । दारकोऽसौ पुनः सुप्तो निद्रां भेजे यदिछया ॥ ११.२५{२५} ॥ ततोऽसौ जनकोऽप्येतद्दृष्ट्वा श्रुत्वा प्रविस्मितः । किमेतदिति साशंका ज्ञातिनाहूय चाब्रवीत् । भवन्तोऽद्य प्रजातं मे पुत्ररत्नं मनोहरम् । तन्निमित्तं निरीक्ष्यैतत्सत्यं मे वक्तुमर्हथ । इति तेनोदितं श्रुत्वा सर्वे ते ज्ञातयो मुदा । तत्पुत्रं दारकं द्रष्टुं तत्कोष्ठं समुपादिशत् । तथासौ दारकश्चैवं तान् दृष्ट्वा समुपस्थितान् । भुजौ पश्यन् परिष्वज्य चुंवित्वैवमभाषत । अहो वताद्य मे हस्तौ सुचिरेण मयाधुना । भवन्तोऽर्हत्सु मा चित्तं दूषयत कदा चन । खरां वाचं च मार्हत्सु निश्चारयत सर्वदा । एवं संदर्शयं हस्तौ वचनं संवदं शिशुः । दारकोऽसौ पुनः सुप्तो निद्रां भेजे यदिछया । एतत्ते ज्ञातयो दृष्ट्वा श्रुत्वा सर्वेऽपि विस्मिताः । किमेतदिति भाषन्तो वभूवुः परिसंकिताः ॥ ११.२६{२६} ॥ ततस्ते ज्ञातयः सर्वे विज्ञाय तस्य लक्षणम् । संमील्य तमुपामंत्र्य गृहस्थः प्रतिहर्षितः ॥ ११.२७{२७} ॥ तस्य जातिमहं कृत्वा पुनरेवमवोचत । भदन्तो दारकस्यास्य नामधेयं प्रमाणतः ॥ ११.२८{२८} ॥ (र्म् १३६) यथायोग्यप्रसिद्धेन कर्त्तुमर्हथ सांप्रतम् । इति तेनोदितं श्रुत्वा सर्वे ते ज्ञातयस्ततः ॥ ११.२९{२९} ॥ संमील्य संमतं कृत्वा तं गृहस्थं समब्रुवन् । यदयं ते सुतो वालो जातमात्रः स्वकौ भुजौ ॥ ११.३०{३०} ॥ पश्यनालिंग्या चुंवित्व मुदा चैवं प्रभाषते । तदयं दारको नाम्ना हस्तक इति विश्रुतः ॥ ११.३१{३१} ॥ भवतु सर्वलोकेषु सुचिरं चापि जीवतु । तथेति प्रतिनंदित्वा गृहस्थोऽसौ प्रमोदितः ॥ ११.३२{३२} ॥ तेन नाम्ना प्रसिद्धेन प्रथयामास तं सुतम् । ततोऽसौ दारकस्तेन पित्रा पुत्राभिनंदितः । उपन्यस्तोपधात्रीषु धारणप्रतिपालने ॥ ११.३३{३३} ॥ ततस्तासां प्रयत्नैः स पथ्योपचारणैः क्रमात् । दिने दिने प्रवृद्धोऽभूध्रदस्थमिव पंकजम् ॥ ११.३४{३४} ॥ एवं स हस्तकस्ताभिः पाल्यमानः प्रवर्द्धितः । कुमारः सखिभिः सार्द्धं क्रीडास्थानं गतोऽरमत् ॥ ११.३५{३५} ॥ तत्र तेषां सखीनां च हस्तकोऽसौ पुरःस्थितः । हस्तावालिंग्य संरक्ष्य चुंवित्वैवमभाषत ॥ ११.३६{३६} ॥ अहो वताद्य मे हस्तौ सुचिरेण समुद्भवौ । अहो लब्धाविमौ हस्तौ सुचिरेण मयाधुना ॥ ११.३७{३७} ॥ भवन्तोऽर्हत्सु मा चित्तं दूषयत कदाचन । खरां वाचं च मार्हत्सु निश्चारयत केषु चित् ॥ ११.३८{३८} ॥ इति संरक्षितौ हस्तौ तेनैवं च प्रभाषितम् । दृष्ट्वा श्रुत्वाभवन् सर्वे सखायातीवविस्मिताः ॥ ११.३९{३९} ॥ ततश्च जनकेनासौ लिपिशालानिवेशितः । गुरुं सम्यगुपाश्रित्य विद्यापारं ययौ लघु ॥ ११.४०{४०} ॥ तत्र तेषां गुरुणां च हस्तकोऽसौ पुरःस्थितः । हस्तौ दृष्ट्वा समालिंग्य चुंवित्वा चैवमब्रवीत् ॥ ११.४१{४१} ॥ अहो वताद्य मे हस्तौ सुचिरेण समुद्भवौ । अहो लब्धविमौ हस्तौ सुचिरेण मयाधुना ॥ ११.४२{४२} ॥ भवन्तोऽर्हत्सु मा चित्तं दूषयत कदा चन । खरां वाचं च मार्हत्सु निश्चारयत केषु चित् ॥ ११.४३{४३} ॥ इति दृष्ट्वा च संश्रुत्य सर्वे ते गुरवोऽपि च । सर्वे शिष्य गणाश्चापि वभूवुर्विस्मयान्विताः । यस्मिंश्च समये तत्र देशे भयौपक्रमे । (र्म् १३७) जनकायः समुद्भ्रान्तोऽगोपायत्स्वस्वभाण्डकम् । तदासौ हस्तकोऽप्येवं समुद्भ्रान्तः स्वकौ भुजौ । संभुज्य गोपयित्वैवं जनकायमभाषत । अहो वताद्य मे हस्तौ सुचिरेण समुद्भवौ । अहो लब्धाविमौ हस्तौ सुचिरेण मयाधुना । भवन्तोऽर्हत्सु मा चित्तं दूषयत कदा चन । खरां वाचैव मार्हत्सु निश्चारयत केषु चित् । एवं हस्तौ सुसंरक्ष्य तेनैवं च प्रभाषितम् । दृष्ट्वा श्रुत्वा च ते सर्वे लोका आसन् सुविस्मिताः ॥ ११.४४{४४} ॥ ततोऽसौ हस्तकोऽन्यस्मिं दिवसे सखिभिः सह । जेतवनं महोद्यानं जिनाश्रमे उपाययौ ॥ ११.४५{४५} ॥ तत्राद्राक्षीत्महाबुद्धं भगवन्तं सभास्थितम् । द्वात्रिंशल्लक्षणाशीतिव्यंजनैः परिमंडितम् ॥ ११.४६{४६} ॥ व्यामप्रभासमुद्दीप्तं शतसूर्याधिकप्रभम् । शान्तेन्द्रियं सुभद्रांगं सौम्यकान्तं मनोहरम् ॥ ११.४७{४७} ॥ दृष्ट्वासौ सुप्रसन्नात्मा सहसा समुपागतः । पादौ तस्य मुनेर्नत्वा धर्मं श्रोतुं पुरोऽविशत् ॥ ११.४८{४८} ॥ ततोऽसौ भगवान् तस्य दृष्ट्वाशयं विशोधितम् । आदिमध्यान्तकल्याणं दिदेश धर्ममुत्तमम् ॥ ११.४९{४९} ॥ तं सुगतोदितं धर्ममार्य्यसत्यसमन्वितम् । श्रुत्वासौ हस्तको विज्ञः सत्कायदृष्टिपर्वतम् ॥ ११.५०{५०} ॥ संभिद्य ज्ञानवज्रेण विंशतिशिखरोद्गतम् । श्रोतापत्तिफलं प्राप्तो दृष्टसत्योऽभवत्ततः ॥ ११.५१{५१} ॥ संबुद्धसुगतं नत्वा स्वगेहं सहसा ययौ ॥ ११.५२{५२} ॥ तत्रैतत्सर्ववृत्तांतं पित्रोराज्ञाय हर्षितः । प्रव्रज्यासाधनेऽनुज्ञां पितरौ प्रत्ययाचत ॥ ११.५३{५३} ॥ चित्तं मे रोचते तात प्रव्रज्याव्रतसाधने । तदनुज्ञां प्रदत्तं मे हितं मयि यदीछथ ॥ ११.५४{५४} ॥ इति पुत्रोदितं श्रुत्वात्मजं तं पितावदत् । मा कृथाः सहसा पुत्र प्रव्रज्यासाधने मनः ॥ ११.५५{५५} ॥ प्रव्रज्या दुष्करं स्थानं तदन्यद्व्रतमाचर । प्रव्रज्याग्रहणं वृद्धे दरिद्रिते सुशोभिते ॥ ११.५६{५६} ॥ त्वं च पुत्र कुमारोऽसि दहरोऽतिसुकोमलः । किंचिद्दुःखेऽनभिज्ञाय तत्प्रव्रज्यां चरेः कथम् ॥ ११.५७{५७} ॥ तद्यावद्यौवनं देहं यावत्संपच्च ते गृहे । तावद्गेहे सुखं भुक्त्वा गृही धर्मं समाचर ॥ ११.५८{५८} ॥ यदा वृद्धो दरिद्रो च प्रव्रज्यायां तदा चर । (र्म् १३८) यावद्युवा समृद्धश्च तावत्त्वं प्रव्रजेः कथम् ॥ ११.५९{५९} ॥ संपत्तिक्षणयौवन्यमेतन्मारस्य गोचरम् । तदेतस्मिं कथं पुत्र प्रव्रज्याव्रतमाचरेः ॥ ११.६०{६०} ॥ इत्येतद्दुष्करं मत्वा प्रव्रज्याचरणे मनः । यत्नेनापि विनिवार्य कुलधर्मे समाश्रय ॥ ११.६१{६१} ॥ ततस्ते मंगलं नित्यमिहामुत्रापि सर्वतः । यशोधर्मसुखान्येवं सद्गतिं समवाप्नुयाः ॥ ११.६२{६२} ॥ इति वाक्यं पितुः श्रुत्वा हस्तकोऽसौ विशंकितः । पितरौ बोधयन् धर्मे पुनरेवमभाषत ॥ ११.६३{६३} ॥ सत्यमेतत्तथा तात त्वयैवं सत्यमुच्यते । अत्रापि श्रूयतां तात ममाभिप्रायमुच्यताम् ॥ ११.६४{६४} ॥ अनित्यं खलु संसारं जीवितं चापि चंचरम् । क्षणध्वंसि शरीरं च संपच्चापि घनोपमा ॥ ११.६५{६५} ॥ एवं दृष्ट्वा ह ताताहं संसारसुखनिःस्पृहः । प्रव्रज्याव्रतमाधाय प्राप्तुमिछामि सद्गतिम् ॥ ११.६६{६६} ॥ अपि च जन्म मानुष्यं दुल्लभं भवचारिणाम् । तत्रापि मरणं नित्यं पुरतः सर्वसंमुखम् ॥ ११.६७{६७} ॥ मानुष्यं लभ्यमाने हि कुतो धर्मानुचारितम् । विना धर्मानुचारेण सद्गतिं कथमाप्नुयाम् ॥ ११.६८{६८} ॥ संबुद्धोऽपि सदा नात्र संस्थाप्यति ससांघिकः । अतोऽन्यत्रापि यायाद्वा निर्वृतिं चाव्रजेत्खलु ॥ ११.६९{६९} ॥ संबुद्धे निर्वृतिं याते सद्धर्म लप्स्यते कुतः । सद्धर्मान्तर्गते लोके मारचर्य्या समाचरेत् ॥ ११.७०{७०} ॥ मारचर्य्यासमाक्रान्ते सर्वत्र भुवनेष्वपि । सर्वे सत्वाश्च कामार्त्ता भवेयुः क्लेशभागिनः ॥ ११.७१{७१} ॥ तदा धर्मानुचारेषु बुद्धिः कस्य कथं चरेत् । प्रव्रज्यासंवरं स्थातुं कः समर्थो भवेत्तदा ॥ ११.७२{७२} ॥ न च संशुद्ध्यते चित्तं प्रव्रज्यासंवरं विना । अविशोधितचित्ते हि नैव यायाच्छिवां गतिम् ॥ ११.७३{७३} ॥ तच्चित्तपरिशुद्ध्यर्थं निर्वृते च यदाप्तये । प्रव्रज्याव्रतमादातुमिछामि तात सांप्रतम् ॥ ११.७४{७४} ॥ यदत्र यदि मे तात हितं कर्तुं समिछसि । प्रव्रज्यासाधनेऽनुज्ञां दातुं मे प्रार्हसि द्रुतम् ॥ ११.७५{७५} ॥ इति पुत्रवचः श्रुत्व स गृहस्थोऽनुबोधितः । (र्म् १३९) तथेत्यभ्यनुमोदित्वा तदनुज्ञां व्यसृजत ॥ ११.७६{७६} ॥ तच्छ्रुत्वा जननी चासौ दृष्ट्वा तं पुत्रमात्मजम् । वियोगदुःखसंकार्ता रुन्दन्त्येवं न्यवारयत् ॥ ११.७७{७७} ॥ हा पुत्र कथमेकान्ते मां विहाय क्व यास्यसि । सहसा पुत्र मा कार्षी प्रव्रज्याचरितं मनः ॥ ११.७८{७८} ॥ यावज्जीवाम्यहं जीव तावन्मा प्रव्रजात्मजे । मृतायां मयि पुत्र त्वं प्रव्रजस्व यथेछया ॥ ११.७९{७९} ॥ अचिरेण हि मे मृत्युर्भविष्यति न संशयः । तावदेव गृहे धर्मं कुर्वन् भुक्त्वा सुखं वस ॥ ११.८०{८०} ॥ इति मातुर्वचः श्रुत्वा पुत्रोऽसौ परिचोदितः । मातरं तां प्रणत्वैवं बोधयितुमभाषत ॥ ११.८१{८१} ॥ यत्त्वयाम्वे रुदन्त्येवं मृत्युनामात्र कीर्त्त्यते । तेन मे प्रेरितं चित्तं प्रव्रज्याव्रतधारणे ॥ ११.८२{८२} ॥ ध्रुवं जन्मवतां मृत्युः संसारे परिवर्त्तिनः । जातो न म्रियते को हि मृतः कश्च न जायते ॥ ११.८३{८३} ॥ गृहस्थो धर्मकृच्चापि यात्येवं मरणं ध्रुवम् । ब्रह्मचारी वनस्थोऽपि यात्येवं मरणं खलु ॥ ११.८४{८४} ॥ गृहस्थो बहुभिर्यत्नैः प्रकृत्वा द्रव्यसाधनम् । कृच्छ्रेण साधयन् धर्मं मृतो याति सुरालयम् ॥ ११.८५{८५} ॥ यावद्धर्मफलं स्वर्गे तावद्भुक्त्वा सुखं वसेत् । ततो धर्मफले हीने स्वर्गाच्च्युतो यतेदधः ॥ ११.८६{८६} ॥ अधोलोकेष्ववीच्यादौ नरकेषु भ्रमेच्चिरम् । विविधानि च दुःखानि भुक्त्वा जीवं चिरं वसेत् ॥ ११.८७{८७} ॥ यावन्न जायते तस्य पुण्यानुमोदना मतौ । तावत्कर्मजदुःखानि प्रभुक्त्वा नरके चरेत् ॥ ११.८८{८८} ॥ यदा तु जायते तस्य त्रिरत्नस्मरणे मतिः । तदा तत्स्मृतिपुण्येन धर्मेऽनुमोद्यते मतिः ॥ ११.८९{८९} ॥ यदा पुण्यानुरागेण संबुद्धशरणं व्रजेत् । तदा तं सुगतं दृष्ट्वा धर्माकरैः परिस्पृशेत् ॥ ११.९०{९०} ॥ सुगते दृक्प्रभास्पृष्टे पापदुःखैर्विमोचितः । नरकेभ्यः समुत्तीर्य प्रयायात्सुगतालयम् ॥ ११.९१{९१} ॥ तत्रापि यदि धर्मेषु चरन्नित्यमतंद्रितः । क्रमाद्बोधिचरीं प्राप्य प्रयायात्परमां गतिम् ॥ ११.९२{९२} ॥ एवं मात गृहस्थो हि कृत्वापि धर्ममादरात् । (र्म् १४०) सुखदुःखानि संभुक्त्वा संसारे चरते भ्रमन् ॥ ११.९३{९३} ॥ कथं चित्सुचिरेणैवं सुगतस्य प्रसादतः । भवचारकनिर्मुक्तं प्रयायात्परमां गतिम् ॥ ११.९४{९४} ॥ प्रव्रज्यार्हत्पदं प्राप्य प्राप्तुमिछामि निर्वृतिम् । तन्ममात्र त्वया मात नैव कार्या निवारणा ॥ ११.९५{९५} ॥ यदि पुण्येऽस्ति ते वांछा तदनुज्ञाशु दीयताम् । यदि न दीयतेऽनुज्ञा तदपि नौ वियोगता ॥ ११.९६{९६} ॥ अकस्मात्मृत्युरागत्य भविष्यति पुरापि नौ । तदा ते किं करिष्यामि किं ममापि करिष्यसि ॥ ११.९७{९७} ॥ सदानुशोचनामेव कृत्वा जीवं त्यजेवहि । इति मातर्विदित्वा त्वं तदनुज्ञां प्रदेहि मे ॥ ११.९८{९८} ॥ विघ्नतां मा कृथा ह्यत्र धर्मे भवानुमोदिनी । तथा चेच्छुभता नित्यमिहामुत्रापि ते भवेत् ॥ ११.९९{९९} ॥ अहं च सौगतिं चर्यां कृत्वा यास्यामि निर्वृतीम् । इति पुत्रोदितं श्रुत्वा मतासौ परिबोधिता ॥ ११.१००{१००} ॥ तथानुमोदनां कृत्वाभवत्तूष्णीव्यवस्थिता ॥ ११.१०१{१} ॥ अथासौ हस्तको विज्ञः पित्रोर्मत्वाभिसंमतम् । तयोः पादान् प्रणत्वैवं सहसा निर्ययौ गृहात् ॥ ११.१०२{२} ॥ ततो ज्ञातिगणान् सर्वान् वन्धुमित्रसुहृज्जनान् । सर्वानतिथिवर्गांश्च वांछितार्थैः प्रतोषयन् ॥ ११.१०३{३} ॥ सन्तर्प्य बोधयित्वा च सहसा संप्रहर्षितः । जेतवनं प्रगत्वा स विहारं समुपाविशत् ॥ ११.१०४{४} ॥ तत्रस्थं सुगतं दृष्ट्वा सहसा समुपायतः । कृतांजलिपुटो नत्वा प्रव्रज्यां समयाचत ॥ ११.१०५{५} ॥ नमस्ते भगवन्नाथ भवतां शरणं व्रजे । तत्प्रव्रज्यां व्रतं देहि चरिष्ये ब्रह्मसंवरम् ॥ ११.१०६{६} ॥ इति तेनार्थिते बुद्धो भगवान् तमभाषत । एहि भिक्षो कुमारात्र चर ब्रह्मव्रतं वरम् ॥ ११.१०७{७} ॥ इत्यादिश्य मुनीन्द्रोऽसौ पाणिना तच्छिरः स्पृशन् । सम्यक्प्रव्राजयित्वाशु स्वसंघे तं समग्रहीत् ॥ ११.१०८{८} ॥ एहीत्यादिष्टमात्रेऽपि मुनीन्द्रेण स हस्तकः । मुण्डितः खिष्खिरीपात्रहस्तोऽभूच्चीवरावृतः ॥ ११.१०९{९} ॥ क्रमाच्छिक्षा समासाद्य प्राप्योपसंपदोऽपि च । व्यायच्छ घटमानश्च समाधिषु समाहितः ॥ ११.११०{१०} ॥ तदिदं पंचगंडं च भवचक्रं चलाचलम् । विदित्वा सर्वसंस्कारगतिश्चापि विघातिनी ॥ ११.१११{११} ॥ भिन्दन् सर्वमविद्याङ्गं प्राप्य विद्यागणाः शिवाः । (र्म् १४१) प्रतिसंविद्गुणाः प्राप्य जित्वा क्लेशगणां यतिः ॥ ११.११२{१२} ॥ साक्षादर्हत्पदं प्राप्तः वीतरागो जितेंद्रियः । समलोष्टहिरण्यश्च वासीचंदनसंनिभः ॥ ११.११३{१३} ॥ आकाशसमचित्तांगो निर्विकल्पो निरंजनः । संसारभोग्यसत्कारलाभलोभपराङ्मुखः ॥ ११.११४{१४} ॥ पंचाभिज्ञापदप्राप्तश्चतुर्ब्रह्मविहारकः । सदेवासुरमर्त्यानां त्रैधातुकनिवासिनाम् ॥ ११.११५{१५} ॥ पूज्यो मान्योऽभिवंद्योऽभूद्धस्तकोऽर्हं यतिः सुधीः । सहसा क्लेशगणाञ्जित्वा साक्षादर्हन् भवत्यपि ॥ ११.११६{१६} ॥ ततस्ते भिक्षवः सर्वे दृष्ट्वा तं दारकं यतिम् । विस्मिताः श्रीघनं नत्वा पप्रछुस्तस्य कर्मताम् ॥ ११.११७{१७} ॥ तदद्य भगवच्छास्तः सर्वसत्वानुबोधये । यदनेन कृतं कर्म तत्समादेष्टुमर्हति ॥ ११.११८{१८} ॥ इति ते भिक्षुभिः पृष्टे भगवान् स मुनीश्वरः । तान् स्वशिष्यान् यतीन् भिक्षून् समामंत्र्याब्रवीत्तथा ॥ ११.११९{१९} ॥ शृणुध्वं भिक्षवः सर्वे यूयं हि विस्मयान्विताः । यदनेन कृतं कर्म तन्मया वः प्रचक्ष्यताम् ॥ ११.१२०{२०} ॥ पुरासीद्भगवान् बुद्धः काश्यपो नाम सर्ववित् । स्सर्वत्रैधातुकाधीशः सर्वविद्याधिपो जिनः ॥ ११.१२१{२१} ॥ धर्मराजो जगच्छास्ता तथागतो विनायकः । सर्वधर्मानुसंभर्त्ता संबोधिसंप्रकाशितः ॥ ११.१२२{२२} ॥ ससांघिको मुनीन्द्रोऽसौ वाराणसीमुपाश्रितः । सर्वसत्वहितार्थेन तस्थौ धर्मं समादिशत् ॥ ११.१२३{२३} ॥ तस्य सद्धर्मराजस्य काश्यपस्य जगद्गुरोः । शासने द्वौ यती भिक्षू संशीतिकौ वभूवतुः ॥ ११.१२४{२४} ॥ तयोरेको महाधीरो विनीतोऽर्हं वहुश्रुतः । द्वितीयोऽल्पश्रुतः भिक्षुः पृथग्जनसमानिकः ॥ ११.१२५{२५} ॥ योऽसावर्हन्महाविज्ञो वहुश्रुतो विचक्षणः । स ज्ञातोऽर्हन्महापुण्यः सर्वलोकैः प्रपूजितः ॥ ११.१२६{२६} ॥ योऽभूच्चाल्पश्रुतो भिक्षुः संशीतिकः पृथग्जनः । स केन चित्पूजितो नैवं यथा सोऽर्हं यतिः सुधीः ॥ ११.१२७{२७} ॥ यदा सोऽर्हन्महाभिज्ञो यत्र यत्र निमंत्रितः । (र्म् १४२) तेनैव सर्वतः पश्चाच्छ्रमनेन सहाचरत् ॥ ११.१२८{२८} ॥ तथान्यस्मिन् दिने सोऽर्हं दात्रान्येन निमंत्रितः । गन्तुकामस्तदा तत्र पश्चाच्छ्रमणमैच्छत ॥ ११.१२९{२९} ॥ तदागमनमन्विष्य नैव प्रत्यलभत्क्वचित् । ततस्तद्दर्शनाभावादन्यमाहूय भिक्षुकम् ॥ ११.१३०{३०} ॥ तं पश्चाच्छ्रमणं कृत्वा दातुर्गृहमुपाचरत् । तदनन्तरमेवासौ तत्राश्रमे उपागतः ॥ ११.१३१{३१} ॥ तमर्हन्तमपश्यन् स तस्थौ तूष्णी निराशितः । तथैवं तं निषीदन्तं दृष्ट्वा ते भिक्षवो नराः ॥ ११.१३२{३२} ॥ तस्यौद्धत्यमनः कर्तुमेवमूचुः परस्परम् । भदन्त पश्यताद्यायं तेनाहतो न नीयते ॥ ११.१३३{३३} ॥ अन्योऽद्य नीयते पश्चाच्छ्रमणः केन हेतुना । इति तैर्भिक्षुभिः प्रोक्तं श्रुत्वासौ प्रतिभेदितः । तस्यार्हतोऽन्तिके चित्तं प्रदुष्याभ्यशपत्तथा ॥ ११.१३४{३४} ॥ यदद्य मां परित्यज्य समाहूयान्यतो हरात् । गछत भोजनं भोक्तुं तदहस्तो भवत्वसौ ॥ ११.१३५{३५} ॥ तदासौ भोजनं भुक्त्वा तेनैवं भिक्षुणा सह । स्वाश्रमं समुपायातस्तमद्राक्षीद्रुषाकुलम् ॥ ११.१३६{३६} ॥ इत्येवं शपितं वापि मत्वा सोऽर्हं महामतिः । दृष्ट्वा तं कृपया दृष्ट्या तूष्णीभूत्वा व्यचिंतयत् ॥ ११.१३७{३७} ॥ अहो अयं महामूढ ईदृग्मयि प्रभाषते । एतत्कर्मफलं घोरं कथं भोक्ष्यति नारके ॥ ११.१३८{३८} ॥ यदयं मम दोषेण क्रोधेनैवं खलीकृतः । तदेतत्कर्मवैपाक्यं मयैव परिपाच्यताम् ॥ ११.१३९{३९} ॥ इत्येवं मनसा ध्यात्वा स महार्हं कृपानिधिः । तत्पापपरिशुद्ध्यर्थं समाधिं विदधे चिरम् ॥ ११.१४०{४०} ॥ ततः सोऽप्ययतिर्भिक्षुर्दृष्ट्वा तं ध्यानसंस्थितम् । पश्चात्तापाग्निसंतप्तेस्तत्पादप्रणतोऽवदत् ॥ ११.१४१{४१} ॥ भदन्त यन्मया रौष्यात्क्रोधाभिभूतचेतसा । प्रोचितं पातकं घोरं तद्भवान् क्षन्तुमर्हति ॥ ११.१४२{४२} ॥ यन्मया दुष्टचित्तेन भवतोऽप्युपभाष्यते । (र्म् १४३) तदत्ययं भवाञ्छास्तः प्रतिहर्तुं समर्हति ॥ ११.१४३{४३} ॥ अद्याग्रेण सदा चापि भवतां शरणं व्रजे । तन्मे यदपराधत्वं तत्सर्वं क्षन्तुमर्हति ॥ ११.१४४{४३!} ॥ पुनर्नैतत्करिष्येऽहमकर्त्तव्यं यद्यत्र हि । अवक्तव्यं च यत्किं चिन्न तद्वक्ष्यामि सर्वथा ॥ ११.१४५{४४} ॥ अभाव्यं चापि यत्किंचिद्भावयिष्ये न तत्पुनः । यदेव तं प्रकर्त्तव्यं तदेव हि करोम्यहम् ॥ ११.१४६{४५} ॥ वक्तव्यमेव वक्ष्येऽहं भाव्यमेव प्रभावये । एतत्सर्वं समासेन समादेष्टुं समर्हति ॥ ११.१४७{४६} ॥ भवदाज्ञां शिरोधृत्वा सत्यमेवं चरेत्सदा ॥ ११.१४८{४७!} ॥ इति तेनार्थितं श्रुत्वा स समाधेः समुत्थितः । तं भिक्षुं कृपया दृष्ट्वा पश्यन्नेवं समब्रवीत् ॥ ११.१४९{४८} ॥ शृणु वत्स समाधाय त्वामत्राहं प्रबोधये । यथा मे गदितं श्रुत्वा तथा कुरु समाहितः ॥ ११.१५०{४९} ॥ प्राणिहिंसा न कर्त्तव्या तथादत्तप्रतिग्रहम् । स्त्रीणां संगानुरागं च अकर्त्तव्यं कदा चन ॥ ११.१५१{५०} ॥ मृषावादं न वक्तव्यं पैशून्यवचनं तथा । संभिन्नप्रलापं च पारुष्यं च कदा चन ॥ ११.१५२{५१} ॥ मिथ्यादृष्टिरभिध्या च व्यापादं च तथा सदा । भिक्षुभिर्मनसा नैव चिंतनीया कदा चन ॥ ११.१५३{५२} ॥ एतानि दशपापानां मूलानि दुःखदानि हि । तस्मादेवं परिज्ञाय त्यक्तव्यानि सुखार्थिभिः ॥ ११.१५४{५३} ॥ पुनरन्यच्छृणुष्वात्र वक्ष्ये दारुणपातकम् । सद्धर्माणां प्रतिक्षेपं कर्तव्यं न कदा चन ॥ ११.१५५{५४} ॥ तथा वार्यापवादत्वं वक्तव्यं न कदा चन । पंचानंतर्यपापानि नैव कार्याणि केन चित् ॥ ११.१५६{५५} ॥ यानि श्रुत्वापि दृष्ट्वापि भावयित्वानुमोद्य च । पतन्तो नरकेष्वेव क्लेशान्धानि च सन्ति हि ॥ ११.१५७{५६} ॥ तस्मादेतानि कर्माणि मानसापि च मा कृथा । वर्जनीयानि यत्नेन सद्धर्मसुखवांछिभिः ॥ ११.१५८{५७} ॥ कर्त्तव्यं तु सदा नित्यमार्यसत्यानुभावितम् । आर्याष्टांगिकमार्गे च चरित्वा व्रतमादरात् ॥ ११.१५९{५८} ॥ व्रतानामपि सर्वेषामार्याष्टांगमुपोषधम् । (र्म् १४४) प्रवरं व्रतमाख्यातं सर्वैरपि मुनीश्वरैः ॥ ११.१६०{५९} ॥ यस्य पुण्यानुभावेन परिशुद्धत्रिमंडलाः । निःशेषपापनिर्मुक्ताः प्रयान्त्यर्हत्पदं द्रुतम् ॥ ११.१६१{६०} ॥ एवमेतत्परिज्ञाय व्रतं कृत्वा समाचरन् । ततस्ते क्रमतः पापं निःशेषं क्षिणुयाद्द्रुतम् ॥ ११.१६२{६१} ॥ ततश्च क्रमशः शिक्षाः शिक्षित्वात्र समाहितः । त्रिरत्नशरणं कृत्वा ब्रह्मचर्य्यं समाचर ॥ ११.१६३{६२} ॥ ततस्त्वं क्रमशश्चैवं शोधयित्वा त्रिमंडलम् । सर्वक्लेशविनिर्मुक्तः साक्षादर्हन् भविष्यसि ॥ ११.१६४{६३} ॥ इति तेनार्हतादिष्टं श्रुत्वासौ परिबोधितः । तथेति च परिज्ञाय तद्व्रतं कर्तुमैछत ॥ ११.१६५{६४} ॥ तथा तस्यार्हतः शास्तुः सदैवं शरणं गतः । क्रमाच्छिक्षाश्च शिक्षित्वा तदुपोषधमाचरत् ॥ ११.१६६{६५} ॥ अधीत्य सकला विद्या त्रिरत्नसमुपाश्रयन् । सर्वक्लेशान् विनिर्जित्य ब्रह्मचर्यं समाचरत् ॥ ११.१६७{६६} ॥ भिक्षवो ज्ञायतामेष योऽसौ भिक्षुः पृथग्जनः । यदनेनार्हते शास्त्रे शपितं रुष्टचेतसा ॥ ११.१६८{६७} ॥ तेनाहस्तो वभूवायं पंचजन्मशतान्यपि । यच्चानेनार्हतः शस्तुर्गत्वा च शरणं सदा ॥ ११.१६९{६८} ॥ अधीत्य सकला विद्या ब्रह्मचर्यं समाश्रितम् । तेनायं शासनेनात्र प्रव्रज्यार्हं भवत्यपि ॥ ११.१७०{६९} ॥ इति हि भिक्षवो मत्वा चरितव्यं शुभे सदा । शुभेन सद्गतिं यांति कृष्णेन दुर्गतिं सदा ॥ ११.१७१{७०} ॥ मिश्रितेनापि मिश्रत्वं भुंजते सर्वजंतवः । येनैव यत्कृतं कर्म तस्यैव कर्मणः फलम् ॥ ११.१७२{७१} ॥ तेनैव भुज्यते लोके नान्येन स्पृश्यते क्वचित् । अभुक्तं क्षीयते नैव कर्म क्वापि कदा चन ॥ ११.१७३{७२} ॥ भुक्तं तु क्षीयते कर्म शुभं वाप्यशुभं तथा । नाग्निभिर्दह्यते केन वायुभिश्च न शुष्यते ॥ ११.१७४{७३} ॥ क्लिद्यते नोदकैश्चापि क्षीयते नैव भूमिषु । न प्रणश्यन्ति कर्माणि कल्पकोटिशतैरपि ॥ ११.१७५{७४} ॥ सामग्रीं प्राप्य कालं च फलन्ति प्राणिनां खलु । एवमेतत्प्रभषित्वा जिनेन्द्रोऽसौ महामुनिः ॥ ११.१७६{७५} ॥ बोधयन् सकलांल्लोकान् समाधिं विदधे ततः । इति शास्त्रा समादिष्टं श्रुत्वा सर्वे च सांघिकाः ॥ ११.१७७{७६} ॥ शुभेष्वेव सदा रक्ताः प्रचेरिरे समाहिताः ॥ ११.१७८{७७} ॥ इत्येवं मे समाख्यातं गुरुणा शाणवासिना । (र्म् १४५) तथैवं ते मया ख्यातं श्रुत्वा चैवं शुभे चर ॥ ११.१७९{७८} ॥ प्रजाश्च श्रावयित्वैवं बोधयित्वा प्रयत्नतः । सद्धर्माचरणेष्वेवं प्रेरणीया नराधिप ॥ ११.१८०{७९} ॥ ततस्ते मंगलं नित्यं सर्वत्रापि भवेद्ध्रुवम् । क्रमाद्बोधिपथः प्राप्य संबोधिमाप्नुयाः खलु ॥ ११.१८१{८०} ॥ इति तेनोपगुप्तेन भाषितं स नरेश्वरः । श्रुत्वा तथेति वंदित्वा प्राभ्यनन्दत्सपार्षदः ॥ ११.१८२{८१} ॥ ये शृण्वन्तीदमेवं प्रमुदितमनसो हस्तकाख्यावदानं ये चापि श्रावयन्ति प्रतिदिनमनिशं बोधिचर्याभिरक्ताः । ते सर्वे क्लेशमुक्ताः सुविमलमनसो बोधिसत्वा गुणाढ्या भुक्त्वा सौख्यं प्रकामं मुनिवरनिलयं संप्रयांति प्रमोदाः ॥ ११.१८३{८२} ॥ ++ इति श्रिरत्नमालायां हस्तकावदानं नाम समाप्तम् ++ (र्म् १४६) xइइ सार्थवाहावदान अथाशोको महीपालः कृतांजलिपुटो मुदा । उपगुप्तं गुरुं नत्वा पुनरेवमभाषत ॥ १२.१{१} ॥ भदन्त श्रोतुमिछामि पुनरन्यत्सुभाषितम् । यथा ते गुरुणादिष्टं तथा मे ख्यातुमर्हसि ॥ १२.२{२} ॥ इति तेन नरेन्द्रेण पृष्टेऽसौ सुगतात्मजः । उपगुप्तो यतिश्चैवं तं नृपं प्रत्यभाषत ॥ १२.३{३} ॥ शृणु राजन् समाधाय यथा मे गुरुणोदितम् । तथाहं ते प्रवक्ष्यामि तच्छ्रुत्वा मुदितो भव ॥ १२.४{४} ॥ पुरैकसमये चैवं शाक्यसिंहो जगद्गुरुः । सर्वज्ञः सुगतः शास्ता सर्वधर्मानुदेशकः ॥ १२.५{५} ॥ सर्वविद्याधिपो नाथस्त्रैधातुकविनायकः । धर्मराजो मुनीन्द्रोऽसौ सर्वसत्वहितंकरः ॥ १२.६{६} ॥ श्रावस्त्यां वहिरुद्याने जेताह्वये महावने । अनाथपिण्डदारामे विहारे सौगताश्रमे ॥ १२.७{७} ॥ श्रावकैर्भिक्षुभिः सार्द्धमुपासकैश्च चैलकैः । बोधिसत्वगणैश्चापि तथान्यैश्च महर्षिभिः ॥ १२.८{८} ॥ व्यहरत्सत्वहितार्थेन धर्मामृतैः प्रवर्षयन् । तत्सद्धर्मामृतं पातुं प्राययुर्बोधिवांछिनः ॥ १२.९{९} ॥ लोकपालगणाः सर्वे स्वस्वसैन्यगणैः सह । ब्राह्मणाः क्षत्रियाश्चापि वैश्याः शूद्राश्च मंत्रिणः ॥ १२.१०{१०} ॥ अमात्या धनिनः पौराः साधवश्च महाजनाः । वणिजः सार्थवाहाश्च तथान्ये सर्वजातिकाः ॥ १२.११{११} ॥ सर्वदिग्भ्यः समागत्य सर्वे ते समुपागताः । संबुद्धं श्रीघनं नत्वा पूजयित्वा समंततः ॥ १२.१२{१२} ॥ परिवृत्य पुरस्कृत्य सद्धर्मश्रवणार्थिनः । कृतांजलिपुटो दृष्ट्वा संतस्थुः संमुखानताः ॥ १२.१३{१३} ॥ अथासौ भगवान् दृष्ट्वा तान् सर्वान् समुपाश्रितान् । आदिमध्यांतकल्याणं दिदेश धर्ममुत्तमम् ॥ १२.१४{१४} ॥ तत्सद्धर्मामृतं पीत्वा सर्वे लोकाधिपादयः । हर्षितास्तेऽनुमोदन्तो ननन्दुः परिबोधिताः ॥ १२.१५{१५} ॥ तदैव समये तस्यां श्रावस्त्यां पुरि संस्थितः । (र्म् १४७) आसीत्सांयात्रिकोत्साही सार्थवाहो महोद्यमी ॥ १२.१६{१६} ॥ स्वकुलधर्मभृद्वीरः स्वकुलवृत्तिमानितः । यशोधर्मार्थकामाप्त्यै समुद्रं गन्तुमैछत ॥ १२.१७{१७} ॥ ततोऽसौ स्वां प्रियां भार्यां बोधयित्वा प्रयत्नतः । स्वसहायाश्च तां सर्वां समाहूय समब्रवीत् ॥ १२.१८{१८} ॥ भवंतो श्रूयतां सर्वे यदभिलषितं मम । अत्रास्ति यदि वो वांछा तन्मे स्वागन्तुमर्हथ ॥ १२.१९{१९} ॥ अहं रत्नाकरं गन्तुमिछे रत्नसमृद्धये । तत्प्रायात मया सार्द्धं यदि संपत्तिमिछथ ॥ १२.२०{२०} ॥ इति तेनोदितं श्रुत्वा सर्वे ते रत्नलोभिताः । सहसा गंतुमिछन्ते रत्नाकरे महोदधौ ॥ १२.२१{२१} ॥ ततोऽसौ सार्थभृच्छीघ्रं सर्वे सार्थगणैः सह । स्वस्त्ययनविधिं कृत्वा प्रतस्थे संप्रमोदितः ॥ १२.२२{२२} ॥ ततः क्रमाद्व्यतिक्रम्य ग्रामारण्यवनानि च । सर्वे ते प्रचरन्तो वै तीरं प्रापुर्महोदधेः ॥ १२.२३{२३} ॥ ततो भांडानि नौकायामारोप्यारुह्य च स्वयम् । कर्णधारप्रयत्नैस्ते जगाहिरेऽम्बुधिं क्रमात् ॥ १२.२४{२४} ॥ ततः क्रमात्समुल्लंघ्य बहुद्वीपान्तराणि ते । रत्नाकरं समासाद्य रत्नानि समसाधयन् ॥ १२.२५{२५} ॥ ततस्ते बहुरत्नानि समासाद्य प्रमोदिताः । ततः प्रत्यागता अब्धेस्तीरान्तिकं समाययुः ॥ १२.२६{२६} ॥ तत्र तत्कर्मदोषेण कालवातैर्विघट्टितम् । भिद्यते वहनं तेषां हृदयैः सा सहाशु तत् ॥ १२.२७{२७} ॥ तदा ते वणिजः सर्वे निःप्रयत्नप्रतिक्रिया । सर्वभाण्डैः सहागाढे निपेतुर्दुष्करेऽम्बुधौ ॥ १२.२८{२८} ॥ केचित्फलकमालम्व्य समुत्तीर्णाः स्ववीर्यतः । केचिद्वाहुवलाधानं समुत्तीर्य स्थलं ययुः ॥ १२.२९{२९} ॥ केचिच्च विलयं प्राप्ता निरालम्व्यनिराश्रयाः । उत्प्रवन्तो निमज्जन्तः खेदिता निधनं ययुः ॥ १२.३०{३०} ॥ ततस्ते वणिजः सर्वे ये विशिष्टा विषादिताः । ते यशोधनविभ्रष्टाः शून्यहस्ता गृहं ययुः ॥ १२.३१{३१} ॥ तथासौ सार्थवाहोऽपि गृहं प्राप्तो विषादितः । एतद्वृत्तं स्वभार्यायाः कथित्वैवं व्यचिन्तयत् ॥ १२.३२{३२} ॥ हा हा मे मन्दभाग्यत्वाज्जायते मीदृशी विपत् । (र्म् १४८) अत्राहं किं करिष्यामि यतो भाग्यं न विद्यते ॥ १२.३३{३३} ॥ भाग्यवान् पुरुषो धीरो भाग्यवान् कुशली सुधीः । भाग्येन लभ्यते संपद्यशः सौख्यगुणान्वितः ॥ १२.३४{३४} ॥ धीः श्रीलक्ष्मीयशोरत्नं वलं संपत्क्षणादयः । एतदाद्या गुणाः सर्वे शोभन्ति भाग्यमाश्रिताः ॥ १२.३५{३५} ॥ निहीनभाग्यवृत्तेस्तु पुरुषस्यापि संमते । एतदाद्यादिगुणाः सर्वे न प्रसिद्ध्यंति सर्वतः ॥ १२.३६{३६} ॥ तदत्र किं करिष्येऽहं क्व यास्यामि धनाप्तये । धनहीना न शोभन्ते गृहस्थाः साधवोऽपि हि ॥ १२.३७{३७} ॥ वरं प्राणपरित्यागं न तु द्रव्यैर्विना गृहे । पशुवन्निरसं भुक्त्वा स्थास्याम्येवं निरुत्सवम् ॥ १२.३८{३८} ॥ भाग्येन लभ्यते द्रव्यं भाग्यं धर्मेण लभ्यते । धर्मे हि जायते स्वेष्टदेवतायाः प्रसादतः ॥ १२.३९{३९} ॥ तद्धर्मभाग्यलब्धार्थं स्वकुलदेवतां प्रति । सम्यगाराधयित्वैवं यायां रत्नाकरं पुनः ॥ १२.४०{४०} ॥ मनसीति विनिश्चित्य स सार्थवाहकः पुनः । स्वकुलदेवतां सम्यगाराध्य समयाचत ॥ १२.४१{४१} ॥ नमस्ते देवते नित्यं भजेऽहं शरणं गतः । क्षंतव्यं मेऽपराधत्वं प्रसीद परमेश्वर ॥ १२.४२{४२} ॥ इत्थं सा देवता सम्यगाराध्य संप्रमोदिता । सर्वसार्थान् समाहूय पुनरेवमभाषत ॥ १२.४३{४३} ॥ भो भवन्तो विजानीध्वं वयं सर्वे वणिग्जनाः । तदत्र भवतामग्रे कथ्यते मे समीहितम् ॥ १२.४४{४४} ॥ यद्भवन्तो वयं सर्वे सार्थवाहकुलोद्भवाः । तत्तथैव गृहे स्थित्वा नैव शोभां व्रजेमहि ॥ १२.४५{४५} ॥ तस्मात्स्वकुलवृत्तिस्थैः सर्वैरस्माभिरुद्यतैः । यशोधर्मसुखाप्त्यर्थं कर्त्तव्यं धनसाधनम् ॥ १२.४६{४६} ॥ धनहीना न शोभन्ते गृहस्था हि कुटुंविनः । सार्थवाहोऽस्तु शोभन्ते वहुरत्नार्जनोद्यताः ॥ १२.४७{४७} ॥ तद्विषादं परित्यक्त्वा यशोरत्नसुखाप्तये । धैर्य्यमालम्व्य सर्वैश्च कर्त्तव्यं धनसाधनम् ॥ १२.४८{४८} ॥ धनवान् पुरुषो लोकैः सर्वत्रापि प्रमान्यते । धनेन साधयेद्धर्मं धर्मेण सद्गतिं व्रजेत् ॥ १२.४९{४९} ॥ तस्मान्नित्यं महोत्साहैस्ञ्ल्त्यक्त्वालस्यकुशीदता । अर्जनीयं प्रयत्नेन धनं दानाय भुक्तये ॥ १२.५०{५०} ॥ दानं विभूषणं लोके दानं दुर्गतिनिवारणम् । (र्म् १४९) दानं स्वर्गस्य सोपानं दानं शान्तिकरं सदा ॥ १२.५१{५१} ॥ अस्माद्दानं सदा कर्तुं भोक्तुं सौख्यं यथेछया । भूयो रत्नाकरं गंतुमर्हामहे धनार्जने ॥ १२.५२{५२} ॥ तत्र रत्नानि संगृह्य स्वस्तिप्रत्यागता वयम् । यावज्जीवं सुखं भुक्त्वा दानं कृत्वा वसेमहि ॥ १२.५३{५३} ॥ यदि दैवो विपत्तिः स्यात्समुद्रे पतिता वयम् । तीर्थराजे मृताः सर्वे यास्यामः स्वर्गतिं ध्रुवम् ॥ १२.५४{५४} ॥ यदि भाग्यादथास्माकं देवानां च प्रसादतः । यात्रासिद्धिर्भवेन्नूनं यावज्जीवं सुखं तदा ॥ १२.५५{५५} ॥ अस्माद्रत्नाकरे गन्तुमिछे रत्नप्रलब्धये । तत्प्रायात मया सार्द्धं यदि संपत्तिमिछथ ॥ १२.५६{५६} ॥ इति तस्योदितं श्रुत्वा ते सर्वे वणिजो मुदा । तथा तेन सहैछान्त गन्तुं रत्नाकरैः पुनः ॥ १२.५७{५७} ॥ ततोऽसौ सार्थभृच्छीघ्रं धृत्वा स्वस्त्ययनं मुदा । सर्वे सार्थगणैः सार्द्धं प्रतस्थे स्वपुराद्वहि ॥ १२.५८{५८} ॥ ततः क्रमाद्व्यतिक्रम्य ग्रामारण्यवनानि च । प्रचरन्तश्च ते सर्वे तीरं प्रापुर्महोदधेः ॥ १२.५९{५९} ॥ तत्र सर्वेऽपि ते सार्था भाण्डानि वहने क्रमात् । आरोप्य सहसारूढा जगाहिरे महाम्बुधौ ॥ १२.६०{६०} ॥ ततः क्रमात्समुल्लंघ्य वहुद्वीपान्तराणि ते । रत्नाकरं समासाद्य रत्नानि समसाधयन् ॥ १२.६१{६१} ॥ तत्र ते वहुरत्नानि समागृह्य प्रहर्षिताः । ततः प्रत्यागताश्चाब्धेस्तीरान्तिकमुपाययुः ॥ १२.६२{६२} ॥ ततस्तद्दैवयोगेन कालिकावातघट्टिता । सा नौका भिद्यते चैवं तेषां वै हृदयैः सह ॥ १२.६३{६३} ॥ तदा ते वणिजः सर्वे निःप्रयत्नप्रतिक्रिया । सर्वभाण्डैः सहागाढे न्यपतन् दुष्टरेऽम्बुधौ ॥ १२.६४{६४} ॥ तत्र ते विलयं प्राप्ता निरालंवा निराश्रयाः । उन्मज्जन्तो निमज्जन्तः प्रेरितास्तीरमूर्मिभिः ॥ १२.६५{६५} ॥ केचित्फलकमाश्रित्य समुत्तीर्य्य स्ववीर्य्यतः । केचिद्वाहुवलाधानैः समुत्तीर्य्य स्थलं ययुः ॥ १२.६६{६६} ॥ केचिन्निहीनवीर्य्याङ्गा हन्यमाना महोर्मिभिः । उत्प्लवन्ता निमज्जन्तः खेदिता निधनं ययुः ॥ १२.६७{६७} ॥ ततस्तेषां च सार्थानां येऽवशिष्टा सुजीविनः । (र्म् १५०) यशोरत्नवियुक्तास्ते शून्यहस्ता गृहं ययुः ॥ १२.६८{६८} ॥ तथासौ सार्थवाहोऽपि गृहं गत्वा विषादितः । एतद्वृत्तं स्ववंधूनां कथित्वैवमभाषत ॥ १२.६९{६९} ॥ हा मया किं कृतं पापं येनेद्रिग्जायते विपत् । द्विधापि सिद्ध्यते नैव यतो भाग्यं न विद्यते ॥ १२.७०{७०} ॥ पापैर्न सिद्ध्यते कर्म अत्र यत्नस्य किं वलैः । धर्मेण सिद्ध्यते कर्म तस्माद्धर्मो वलोत्तमः ॥ १२.७१{७१} ॥ तस्माद्धर्मं पुरस्कृत्य कर्त्तव्यं द्रव्यसाधनम् । द्रव्येन साधयेत्कर्म सद्गतिं समवाप्नुयाः ॥ १२.७२{७२} ॥ कर्म तु सिद्ध्यते सम्यक्कुलवृत्तिं च चारिणाम् । कुलवृत्तिं परित्यज्य योऽन्यवृत्तौ चरेत्कुधीः ॥ १२.७३{७३} ॥ स इहापि परिभ्रष्टः परत्र दुर्गतिं व्रजेत् । येनैवं सद्गतिप्राप्तिस्तदैव कर्म्म साधयेत् ॥ १२.७४{७४} ॥ यतोऽपि दुर्गतिं प्राप्तिस्तत्कर्म तर्हितं बुधैः । तदत्र किं करिष्येऽहं क्व यास्याम्यर्थमर्जितुम् । अर्थं विना कथं धर्मं कर्त्तव्यं हि कुटुंविभिः ॥ १२.७५{७५} ॥ विना धर्मं हि संसारे जन्म जीवं च निस्फलम् । किं ते न पौरुषेणापि येन धर्मं न साध्यते ॥ १२.७६{७६} ॥ धिग्धिग्मे जन्म संसारे जीवितुं न तथोत्सहे । वरं प्राणपरित्यागं न त्वेवं चिरजीवितम् ॥ १२.७७{७७} ॥ अवश्यं जन्तुभिर्मृत्युर्गन्तव्यमेकधा ध्रुवम् । ततोऽत्र मर्तुमिछामि न त्वेवमुषितुं गृहे ॥ १२.७८{(७८)} ॥ एवंजीवो न शोभेऽहं धिग्प्रवादाग्निदग्धितः । कथं मे शाम्यते दुःखं येनाहं परिखेदितः ॥ १२.७९{(७८)} ॥ किं कर्त्तव्यं क्व गन्तव्यं यत्नं चात्र न विद्यते । सर्वथाहं विनष्टोऽस्मि को मेऽस्ति रक्षको जनः ॥ १२.८०{७९} ॥ यशोधर्मपरिभ्रष्टो व्रजेयं दुर्गतिं खलु । तदाहं किं करिष्यामि धर्मयशःसुखान्वितः ॥ १२.८१{८०} ॥ मानुष्ये लभ्यमाने हि कुतो धर्मानुसाधनम् । विना धर्म्मं यशोद्रव्यः किं सौख्यं गृहवासिनाम् ॥ १२.८२{८१} ॥ विना धर्मयशोद्रव्यैर्यो गृहस्थः पशुः खलु । धर्मेण साधयेद्द्रव्यं यशोभाग्यसुखाप्तये ॥ १२.८३{८२} ॥ धर्माद्धि जायते पुण्यं दानशीलक्षमादिभिः । पुण्येनैव प्रलभ्यन्ते चतुर्वर्गा अपि ध्रुवम् ॥ १२.८४{८३} ॥ (र्म् १५१) तदेतेषां ममैकोऽपि न विद्यते कथं चन । हा हतोऽस्मि स्वदैवेन किं करोमि विखेदितः ॥ १२.८५{८४} ॥ सर्वथाहं विनष्टोऽस्मि नमो दैवाय कर्मणे । एवं तेषां स्ववंधूनां विलपीत्वा स सार्थपः ॥ १२.८६{८५} ॥ तस्थौ चिन्ताकुलीभूतो धनार्जननिराश्रया । एवं व्यवस्थितं दृष्ट्वा तं ते सर्वेऽपि वांधवाः ॥ १२.८७{८६} ॥ दत्वाश्वासं विनोदाय बोधयन्ते ध्रुवं तथा । साधो सार्थपते सत्यं तत्सर्वं यत्त्वयोच्यते ॥ १२.८८{८७} ॥ तदेवं धैर्य्यमालंव्य प्रोद्यमस्व गृहे वसन् । साधो कुत्रापि मा धाव निर्माणसदृशं फलम् ॥ १२.८९{८८} ॥ यावदेवाम्भसा कुम्भः सिंधावन्धौऽवपूर्यते । यदभावि न तद्भावि भावि नैव तदन्यथा ॥ १२.९०{८९} ॥ अवश्यं भाविनो भावा भवंति सर्वदेहिनाम् । अवश्यं भाविनो भावा न भवेयुस्तथा यदि ॥ १२.९१{९०} ॥ पित्रा त्यक्तः कथं रामो राज्यभ्रष्टो वनं ययौ । तत्रापि वसतस्तस्य भार्या शीता पतिव्रता ॥ १२.९२{९१} ॥ आहृत्य रक्षसा नीता कथं लंकापुरेऽवसत् । ततो रामेण वीर्येण हत्वासौ रावणस्ततः ॥ १२.९३{९२} ॥ प्रत्यानीय पुनः शीता त्यक्ता भर्त्त्रा स्वयं कथम् । पुनरृषेः समानीय सभामध्ये परिक्षिता ॥ १२.९४{९३} ॥ ततः पृथ्या स्वयं गृह्य सीतानीता रसातलम् । ततस्तद्विरहार्त्तासौ रामः संसारनिस्पृहः ॥ १२.९५{९४} ॥ नद्यां प्राणस्वयं त्यक्त्वा जनं सार्द्धं दिवं ययौ । एवमन्येऽपि राजानो युधिष्ठिरा नृपादयः । राज्यभ्रष्टा वने गत्वा विभ्रमुस्तेऽपि दैवतः ॥ १२.९६{९५} ॥ एवमन्येऽपि लोकाश्च सर्वत्रैधातुकभवाः । उत्तमा अधमा मध्या संति तेऽपि स्वदैवतः ॥ १२.९७{९६} ॥ केचिद्गृहे मृताः केचिज्जायमाना मृता अपि । केचिद्वाल्ये मृताः केचित्कौमारत्वे मृतास्तथा ॥ १२.९८{९७} ॥ यौवनेऽपि मृताः केचिन्मृता वृद्धे वदन्ति मे । सर्वेऽप्येवं मृता लोकाः स्वस्वदैवप्रमाणतः ॥ १२.९९{९८} ॥ एवं देवादयो लोकाः सुखदुःखानुयोगिनः । स्वस्वदैवानुभावेन षड्गतिषु चरन्ति ते ॥ १२.१००{९९} ॥ केचिद्वाल्ये सुखं भुक्त्वा यौवने दुःखभागिनः । केचिच्च यौवने सौख्यं भुक्त्वा वृद्धे सुदुःखिताः ॥ १२.१०१{१००} ॥ (र्म् १५२) केचिच्च दुःखिता वाल्ये यौवने सौख्यभागिनः । वृद्धत्वस्य सुखीभूता भवंति तेऽपि हि दैवतः ॥ १२.१०२{१} ॥ सर्वेऽपि सुखमिछन्ति दुःखं नेछति कश्चन । तथा सुखानि संप्राप्तुं यत्नं कुर्वन्त्यनेकशः ॥ १२.१०३{२} ॥ केषां चित्सिद्ध्यते यत्नं केषां चिद्वा न सिद्ध्यति । केषां चिद्विघ्नतां याति तत्सर्वं दैवयोगतः ॥ १२.१०४{३} ॥ तथा च रोगिणां रोगा वैद्योपचारणैरपि । वर्द्ध्यन्ते नैव शाम्यन्ते तदपि दैवयोगतः ॥ १२.१०५{४} ॥ केषां चिद्रोगिणां रोगा विना वैद्योपचारणे । शाम्यंते यत्नतो चापि तदपि दैवयोगतः ॥ १२.१०६{५} ॥ तथा चल्द्मंत्रिणां मंत्राः सिद्ध्यन्ते यत्नतो लघुः । केषां चिद्विघ्नतां यान्ति तदपि दैवकारणात् ॥ १२.१०७{६} ॥ तथैवं वणिजां लाभोः सिद्ध्यन्ते यत्नतोऽपि च । केषां चिन्नैव यत्नेन तदपि दैवयोगतः ॥ १२.१०८{७} ॥ तथा वीरा रणे शत्रुं विना यत्नं जयंत्यपि । केचित्तु रिपुना युद्धे हन्यमाना मृताः परे ॥ १२.१०९{८} ॥ केचित्कृत्वा महायुद्धं हन्यमानाः परस्परम् । त्यक्त्वा देहं गताः स्वर्गं तदपि दैवयोगतः ॥ १२.११०{९} ॥ एवं सांयात्रिका रत्नं प्राप्तुं रत्नाकरं गताः । केचिद्रत्नानि संगृह्य स्वस्ति प्रत्यागता गृहम् ॥ १२.१११{१०} ॥ केचिद्रत्नमलब्धं वै शून्यहस्ता गृहागताः । केचिच्च निधनं यातास्तत्रैव मकरालये ॥ १२.११२{११} ॥ केचिद्यत्नात्समुत्तीर्य जीवन्तो गृहमागताः । केचिच्च जांगले चौरैर्निहता मरणं गताः ॥ १२.११३{१२} ॥ केचिच्च जंतुभिर्मार्गे हिंस्यमाने मृता वने । केषां चित्सिद्ध्यते यात्रा महल्लाभसमन्विताः ॥ १२.११४{१३} ॥ केषां चिद्विघ्नतां यान्ति तथापि दैवयोगतः । कैश्चिद्गृहे निधिः प्राप्तः कैश्चिद्देशान्तरे वने ॥ १२.११५{१४} ॥ कैश्चिद्दूरे भ्रमद्भिश्च नैव किं चित्क्व चिद्धनम् । केषां चिद्वर्द्धते संपद्यत्नायासं विना लघु ॥ १२.११६{१५} ॥ केषां चिद्धीयते संपद्रक्षितापि प्रयत्नतः । केषां चित्सुस्थिरा संपत्केषां चिद्वल अस्थिरा ॥ १२.११७{१६} ॥ केषां चिज्जायते नैव नानोपायार्जनैरपि । एवं नानाप्रकारैश्च सत्वास्त्रैधातुकोद्भवाः ॥ १२.११८{१७} ॥ (र्म् १५३) भुंजते सुखदुःखानि स्वस्वदैवानुसारिणाः । सुखस्यान्ते हि दुःखानि दुःखस्यान्ते सुखानि च ॥ १२.११९{१८} ॥ भुंजन्ते जंतवः सर्वे भ्रमन्ते षड्गतिष्वपि । तथा भवन्ति मित्राणि द्विषोऽपि हितकारिणः ॥ १२.१२०{१९} ॥ मित्राण्यपि द्विषो दुष्टा भवंति दैवयोगतः । तथामृतं विषीभूतं विषं चाप्यमृती भवेत् ॥ १२.१२१{२०} ॥ तदपि दैवयोगेन तस्माद्दैवं महद्वरम् ॥ १२.१२२{२१} ॥ तथा च ब्रह्मणः शीर्षं निकृत्तं शूलपाणिना । तदपि दैवयोगेन तस्माद्दैवं महावली ॥ १२.१२३{२२} ॥ तथा चक्री सुवीरोऽपि व्याधेषु निहतो मृतः । तदपि दैवयोगेन तस्माद्दैवं महद्वलम् ॥ १२.१२४{२३} ॥ यश्च भूताधिपश्चेशः सोऽप्युमत्तो दिगंवरः । तदपि दैवयोगेन तस्माद्दैवं महेश्वरः ॥ १२.१२५{२४} ॥ चंद्रोऽपि च कलंकाङ्को मासे मासेऽपि हीयते । तदपि दैवयोगेन तस्माद्दैवं महद्वलम् ॥ १२.१२६{२५} ॥ एवं चन्द्रदिनेशौ च ग्रहेणापि निपीडितौ । तदपि दैवयोगेन तस्माद्दैवं महावली ॥ १२.१२७{२६} ॥ रामो रक्षोविजेतापि पुत्रेण निहतो रणे । तदपि दैवयोगेन तस्माद्दैवं महावली ॥ १२.१२८{२७} ॥ तथार्ज्जुनः सुधीरोऽपि पुत्रेणापि हतो रणे । तदपि दैवयोगेन तस्माद्दैवं महावलम् ॥ १२.१२९{२८} ॥ तथा च पर्शुरामेण मातापि निहता क्रुधा । तदपि दैवयोगेन तस्माद्दैवं महावलः ॥ १२.१३०{२९} ॥ बिंबिसारो नृपेन्द्रोऽपि पुत्रेणाजातशत्रुणा । वंधने मारितं चैवं तदपि दैवयोगतः ॥ १२.१३१{३०} ॥ तस्माच्च ब्रह्मदत्तेन धर्मपालो स नन्दनः । मारितः प्रमदातुष्ट्यै तदपि दैवयोगतः ॥ १२.१३२{३१} ॥ राज्ञी च दुर्पती माता स्वात्मजस्यापि रोहितम् । पीत्वैव निर्दया तुष्टा तदपि दैवयोगतः ॥ १२.१३३{३२} ॥ क्षान्तिवादी मुनिश्चापि राज्ञा निर्दयचेतसा । असिना घातितोऽरण्ये तदपि दैवयोगतः ॥ १२.१३४{३३} ॥ प्रसेनजिन्नृपेशोऽपि पुत्रेणापि स्वराज्यतः । निर्वासितो वने भ्रान्तस्तदपि दैवयोगतः ॥ १२.१३५{३४} ॥ एवमन्येऽपि राजानो हत्वा ज्ञाती स्ववांधवान् । भुंजते प्राप्य राज्यानि तदपि दैवयोगतः ॥ १२.१३६{३५} ॥ एवं पित्रा सुतास्त्यक्त्वा मात्रा च स्वात्मजा अपि । वंधुमित्रादिभिस्त्यक्त्वा केचिद्दैवानुयोगतः ॥ १२.१३७{३६} ॥ भार्यापि स्वामिना त्यक्त्वा भर्त्तापि भार्य्यया तथा । (र्म् १५४) तदपि दैवयोगेन तस्माद्दैवं महत्तरम् ॥ १२.१३८{३७} ॥ पुत्रेणापि पिता त्यक्तं मातापि जननी तथा । धात्री चापि परित्यक्तास्तथा पौत्रपितामहः ॥ १२.१३९{३८} ॥ तथा पितामहस्त्यक्तः पुत्रैश्चाप्यतिनिर्दयैः । तदपि दैवयोगेन तस्माद्दैवं महत्तरम् ॥ १२.१४०{३९} ॥ तथा राज्ञा स्वभृत्याश्च सेवका अपि सज्जनाः । अपराधं विना त्यक्तास्तदपि दैवयोगतः ॥ १२.१४१{४०} ॥ तथा सखिसहायां च वंधुमित्रसुहृज्जनान् । परित्यक्त्वा निहंत्यन्ते तदपि दैवयोगतः ॥ १२.१४२{४०*} ॥ तथा शिष्यान् गुरुर्हन्ति शिष्यो हन्ति गुरुमपि । तदपि दैवयोगेन तस्माद्दैवं महत्तरम् ॥ १२.१४३{४१} ॥ तथापि घ्नन्ति भर्त्तारं स्वामिनं सेवकान्नपि । तदपि दैवयोगेन तस्माद्दैवं महत्तरम् ॥ १२.१४४{४२} ॥ तथा च स्वयमात्मानं घ्नन्ति केचिद्रुषान्विताः । तदपि दैवयोगेन तस्माद्दैवं महत्तमः ॥ १२.१४५{४३} ॥ केचिच्छस्त्रैः स्वयं हत्वा केचिद्भुक्त्वा विषादिकम् । केचिदग्नौ जले स्वभ्रे प्रपातात्पतिता मृताः ॥ १२.१४६{४४} ॥ केचित्पाशैः स्वयं बध्य मृताः केचिच्च वंधने । केचित्पानाशनादींश्च त्यक्त्वा यांति यमालयम् ॥ १२.१४७{४५} ॥ एवं कृत्वापि यान्त्येव केचिद्वापि सुरालयम् । केचिच्च नरके यान्ति तत्सर्वं दैवयोगतः ॥ १२.१४८{४६} ॥ तथा मृद्दारुपाषाणे नानाधातुप्रतिष्ठिताः । देवताश्च ददन्त्येवं फलं दैवनियोगतः ॥ १२.१४९{४७} ॥ परेऽपि स्वजना इष्टाः सहजा अपि च द्विषः । भवन्ति तत्क्षणादेव तदपि दैवयोगतः ॥ १२.१५०{४८} ॥ एवं त्रैधातुकोत्पन्नाः सर्वे सत्वाश्च जंतवः । षड्गतिषु भ्रमन्तस्ते चरन्ति दैवयोगतः ॥ १२.१५१{४९} ॥ केचिद्वीरा गुणाढ्याश्च सुंदरा भाग्यमानिनः । सर्वसंपत्समृद्धाश्च चक्रवर्त्तिनृपादयः ॥ १२.१५२{५०} ॥ केचिच्च निर्गुणाः प्राढ्याः केचिन्निर्गुणिनः शठाः । केचिच्च विकलांगाश्च गुणसंपत्तिभागिनः ॥ १२.१५३{५१} ॥ केचिच्च सुंदरा मूर्खा निर्धना निर्गुणाः शठाः । केचिच्च गुणिनः प्राढ्या नीचकर्मानुचारिणः ॥ १२.१५४{५२} ॥ केचिन्नीचकुलोत्पन्नाः गुणाढ्याः साधुवृत्तयः । (र्म् १५५) दातारो धनिनो वीराः सर्वसत्वानुपालकाः ॥ १२.१५५{५३} ॥ केचिदुच्चकुलोत्पन्ना निर्गुणा दुष्टवृत्तयः । कृपणा विकलांगाश्च निर्दयाश्च दुराशयाः ॥ १२.१५६{५४} ॥ केचिद्वीरा ह्यलाभिज्ञाः कुलीनाः साधवोऽपि ये । तेऽपि जातिनिहीनेऽपि भजंति शरणं गताः ॥ १२.१५७{५५} ॥ केचिच्च गुणवन्तोऽपि कुचेलाः कृशगात्रिकाः । प्रेतवद्भुज्यमानाश्च चरंति भिक्षुका भुवि ॥ १२.१५८{५६} ॥ केचिच्च निर्गुणा वापि वंचका दुष्टमानसाः । मान्यन्ते साधुवल्लोके तदपि दैवयोगतः ॥ १२.१५९{५७} ॥ एवं नानाविधा लोकाः षड्गतिषु समुद्भवाः । सुखदुःखानि भुंजन्ते भ्रमंति दैवयोगतः ॥ १२.१६०{५८} ॥ तस्माद्दैवं महावीरं सर्वत्रैधातुकेष्वपि । केनापि शक्यते नैव वशे नेतुं कथं चन ॥ १२.१६१{५९} ॥ तेन दैवं महानाथः सर्वकर्माधिपः प्रभुः । स्रष्टा भर्त्ता च हर्त्ता च त्रैधातुवासिनामपि ॥ १२.१६२{६०} ॥ तस्याप्यधिपतिब्रह्मा सर्वलोकेश्वरो विधिः । तत्तस्य शरणं गत्वा भक्त्या नित्यं समर्चय ॥ १२.१६३{६१} ॥ तस्मिं तुष्टे विधौ देवैः परितुष्टं भवेद्ध्रुवम् । ततो दैवप्रसादेन सर्वत्र मंगलं भवेत् ॥ १२.१६४{६२} ॥ दैवे तुष्टे सुसिद्ध्यन्ते सर्वकर्माणि यत्नतः । विरुद्धे तु न सिद्ध्यन्ते यत्नैः संसाधितान्यपि ॥ १२.१६५{६३} ॥ तस्माद्दैवाधिपं देवं ब्रह्माणं चतुराननम् । भज दैवप्रसन्नाय सर्वकार्यप्रसिद्धये ॥ १२.१६६{६४} ॥ दैवं ब्रह्मप्रसादेन शुभदं संमुखी भवेत् । ततस्ते मंगलं नित्यं सर्वकार्य्येषु संभवेत् ॥ १२.१६७{६५} ॥ एवं सार्थपते नत्वा विधानं कार्य्यसाधनम् । विधिनाराध्य सद्भक्त्या कुरुष्व कर्मसाधनम् ॥ १२.१६८{६६} ॥ तथा चेत्सर्वथा नित्यं यात्रायं मंगलं भवेत् । अन्यद्वा चिन्तितं कार्यं सर्वाप्येवं प्रसत्स्यते ॥ १२.१६९{६७} ॥ यदि वांछास्ति ते भूयो गन्तुं रत्नाकरं प्रति । तथाभ्यर्च्य विधातारं गछेत्स्वस्ति भवेत्खलु ॥ १२.१७०{६८} ॥ इति तेनोदितं श्रुत्वा सार्थवाहस्तथेति सः । प्रतिज्ञाय समभ्यर्च्य ब्रह्माणं प्रार्थयत्तदा ॥ १२.१७१{६९} ॥ नमस्ते भगवन् ब्रह्मं यात्रासिद्धिं कुरुष्व मे । एवं विधिं समाराध्य स सार्थाधिपतिस्ततः ॥ १२.१७२{७०} ॥ रत्नं प्राप्त्यै पुनः सार्थान् समाहूयाब्रवीत्तथा । (र्म् १५६) भवन्तः श्रूयतां वाक्यं यन्मया समुदीरितम् ॥ १२.१७३{७१} ॥ अत्रास्ति यदि वो वांछा तथा कर्तुं समुद्यताम् । अहं रत्नाकरं भूयो गन्तुमिछामि सांप्रतम् ॥ १२.१७४{७२} ॥ तद्यदीछथ रत्नानि तथा यात मया सह । किं चाप्यत्र वयं सर्वे सार्थवाहकुलोद्भवाः ॥ १२.१७५{७३} ॥ तद्गृहे पशुवद्भुक्त्वा कथं शोभी व्रजेमहि । संसारे सर्वजंतूनामेकधा मरणं ध्रुवम् ॥ १२.१७६{७४} ॥ तत्किं नो मरणे भीत्या मृत्युं केन निवार्य्यते । यदि दैवाद्विपत्तिः स्यादस्माकं कर्म्मदोषतः ॥ १२.१७७{७५} ॥ सर्वतीर्थजलाधारे मृताः स्वर्गं व्रजेमहि । यदि भाग्याच्च नो यात्रा सिद्धा स्वस्तिमती भवेत् । तदा जीवं सुखं दानं कृत्वा स्वर्गं व्रजेमहि । तद्विषादं परित्यज्य यशोधर्म्मसुखाप्तये ॥ १२.१७८{७६} ॥ वीर्योत्साहं समाधाय समायात मया सह । इति तस्य वचः श्रुत्वा सर्वे ते वणिजो मुदा ॥ १२.१७९{७७} ॥ तथेति च समुत्साहं कृत्वा गंतुं समुद्यताः । ततः सर्वेऽपि ते सार्था धृत्वा स्वस्त्ययनं विधिम् ॥ १२.१८०{७८} ॥ पण्यमादाय तेनैव सह सार्थभृता ययुः । ततस्ते प्रस्थिताः सर्वे ग्रामारण्यवनस्थलीः ॥ १२.१८१{७९} ॥ समुत्तीर्य्य क्रमाद्यातास्तीरं प्रापुर्महोदधेः । तत्र नावि समारूढा कर्णधारप्रयत्नतः ॥ १२.१८२{८०} ॥ मरुतांतेऽनुकूलेन जगाहिरे महोदधिम् । ततस्तेषां च सर्वेषां दैवयोगानुयोगतः ॥ १२.१८३{८१} ॥ सा नौका कालिकावातसंक्षुब्धाभूद्विभेदिता । तदा सर्वेऽपि ते सार्था दृष्ट्वा नौकां विभेदिताम् ॥ १२.१८४{८२} ॥ त्रसिताः सहसा तस्मात्प्रत्याययुः प्रयत्नतः । ततस्ते वणिजः सर्वे विपंनाशा विषादिताः ॥ १२.१८५{८३} ॥ रात्रौ स्वस्वगृहे गत्वा विभग्नासा विषेदिरे । तथासौ सार्थवाहोऽपि लज्जितः खण्डिताशयः ॥ १२.१८६{८४} ॥ खेदितात्मा गृहे तस्थौ मूकवद्धि नतोत्सवः । ततो भार्य्या सती भद्रा पतिखेदविभेदितम् । दृष्ट्वा तं विकलीभूतं समुपेत्याब्रवीत्पुनः ॥ १२.१८७{८५} ॥ मा विषादं कृथाः स्वामिन्नत्र धैर्य्यं समाश्रयः । धर्मिष्ठे शरणं गत्वा कुरुष्व धर्मसाधनम् ॥ १२.१८८{८६} ॥ (र्म् १५७) धर्म्मेण जीयते पापं निष्पापो निर्मलाशयः । शुद्धचित्तो विशुद्धात्मा पुण्यात्मा भाग्यमाप्नुयात् ॥ १२.१८९{८७} ॥ ततो भाग्यवतः पुंसो यद्यत्कर्मणि साधितम् । तत्तत्सर्वं प्रसिद्ध्येत तस्माद्धर्मं चरोत्तमम् ॥ १२.१९०{८८} ॥ धर्ममेव सुहृद्मित्रमिहामुत्र सहानुगः । धर्म्मेण पाल्यते सर्वं तस्माद्धर्मो जगत्सुहृत् ॥ १२.१९१{८९} ॥ धर्मा नानाविधा लोके कुलचर्य्यानुसरतः । सर्वेषामपि धर्माणां दया धर्मे विशिष्यते ॥ १२.१९२{९०} ॥ दयालुः सुगतो बुद्धो धर्मराजस्तथागतः । समन्तभद्र आत्मज्ञः सर्वसत्वहितंकरः ॥ १२.१९३{९१} ॥ सर्वज्ञो मारजिच्छास्ता जगन्नाथः शुभार्थदः । षडभिज्ञो जगद्भर्त्ता सर्वलोकाधिपेश्वरः ॥ १२.१९४{९२} ॥ तस्मात्तस्य मुनीन्द्रस्य सद्भक्त्या शरणं व्रजन् । सद्धर्मशरणं कृत्वा भज नित्यमुपासकः ॥ १२.१९५{९३} ॥ ततस्ते नश्यते पापं मंगलं च भवेद्ध्रुवम् । तदैव सर्वकार्याणि समेत्स्यंते न संशयः ॥ १२.१९६{९४} ॥ इति भार्योदितं श्रुत्वा स सार्थाधिपतिर्मुदा । तथेति संप्रतिज्ञाय संबुद्धशरणं ययौ ॥ १२.१९७{९५} ॥ नमस्ते भगवन्नाथ पापिस्थोऽहं सुदुर्भगः । भवतां शरणं गछे तन्मां दृष्ट्वाशु रक्षताम् ॥ १२.१९८{९६} ॥ यन्मया प्रकृतं पापं कारितं वानुमोदितः । तत्सर्वं देशयिष्यामि तन्मे देहि शुभां गतिम् ॥ १२.१९९{९७} ॥ भवतां सर्वदा नाथ शरणं याम्युपासकः । अन्यो मे शरणं नास्ति तन्मां रक्ष सदा भजे ॥ १२.२००{९८} ॥ त्रिधापि मे जगन्नाथ यात्रा भग्ना स्वदैवतः । गृहस्थः सार्थवाहोऽहं तन्मे देहि सुसंपदः ॥ १२.२०१{९९} ॥ यन्वहं सांप्रतं नाथ भवतं शरणं व्रजन् । भूयो रत्नाकरं गन्तुमिछामि रत्नलब्धये ॥ १२.२०२{१००} ॥ यदि यात्रा भवेत्सिद्धि यावल्लाभं च लप्स्यते । तदुपायेन संबुद्धं पूजयेयं ससांघिकम् ॥ १२.२०३{१} ॥ इत्येवं निश्चयं कृत्वा संबुद्धं संस्मरन्मुहुः । तां भार्य्यां भद्रिकां दृष्ट्वा पुनरेवमभाषत ॥ १२.२०४{२} ॥ भद्रे त्वया यदादिष्टं तथा कर्तुं समुत्सहे । अद्याग्रेण जगन्नाथं शरणं यास्याम्युपासकः ॥ १२.२०५{३} ॥ (र्म् १५८) भद्रे नाम्ना जिनेन्द्रस्य यास्ये रत्नाकरे पुनः । यदि यात्रा भवेत्सिद्धि यावल्लाभं च लप्स्यते ॥ १२.२०६{४} ॥ तदुपार्द्धेन रत्नेन ससंघं सुगतं तदा । यथार्हं पूजयिष्येऽहमिति संकल्पितं मया ॥ १२.२०७{५} ॥ यदि दैवाद्विपत्तिः स्यात्संबुद्धनाम संस्मरन् । सर्वतीर्थजलाधाने मृतो यायां सुखावतीम् ॥ १२.२०८{६} ॥ तदत्र यदि मे कार्य्यं शुभं कर्तुं समिछसि । तद्विषादं परित्यज्य धैर्य्यं कृत्वा सुखं वस ॥ १२.२०९{७} ॥ इति भर्त्त्रोदितं श्रुत्वा सा भार्य्या भद्रिका सती । तथेति प्रतिसंमोद्य स्वामिनं तं समब्रवीत् ॥ १२.२१०{८} ॥ यद्येवं ते समीहास्ति कृत्वेतं निश्चयं प्रभो । संबुद्धस्मरणं धृत्वा गछ स्वस्तिं समाचर ॥ १२.२११{९} ॥ यदि बुद्धकृपादृष्टिः सत्वेषु विद्यते किल । तथावश्यं स संबुद्धः पश्यन् त्वां चाप्यचेत्खलु ॥ १२.२१२{१०} ॥ तदा ते मङ्गलं नित्यं यात्रा स्वस्तिमती भवेत् । ततस्ते जन्म संसारे साफल्यं च भवेत्खलु ॥ १२.२१३{११} ॥ तेन स्वामिं जिनेंद्रस्य नामस्वस्त्ययनं दधत् । गछ यात्रा सुसिद्धास्तु स्वस्ति प्रत्यागताशु च ॥ १२.२१४{१२} ॥ इति भार्योदितं श्रुत्वा स सार्थाधिपतिर्मुदा । भूयः सार्थगणान् सर्वान् समाहूयाब्रवीत्तथा ॥ १२.२१५{१३} ॥ भवन्त श्रूयतां वाक्यं यन्मयात्र समीहितम् । अहं रत्नाकरं भूयो गन्तुमिछामि सांप्रतम् ॥ १२.२१६{१४} ॥ तदस्ति यदि वो वांछा यशःसंपत्सुखाप्तये । समायात मया सार्द्धं रत्नाकरं व्रजेमहि ॥ १२.२१७{१५} ॥ यदि भाग्याद्धि नो यात्रा सिद्धा स्वस्तिमतिर्भवेत् । यावजीवं सुखं धर्मं कृत्वा स्वर्गं व्रजेमहि । अथ वा स्याद्विपत्तिर्नः सर्वतीर्थजलाश्रये । मृताः स्वर्गं गमिष्यामो ह्यवश्यं मरणे सति ॥ १२.२१८{१६} ॥ पशुवत्किं गृहे स्थित्वा सुखं वा किं यशो विना । यशोन्विता मृता ये हि तत्पुमांसो नरोत्तमाः ॥ १२.२१९{१७} ॥ यदर्थमेव जीवामस्तदर्थं यन्न विद्यते । किं तेन जीवितेनापि केवलं दुःखभागिनः ॥ १२.२२०{१८} ॥ वरमेवाद्य मे मृत्युर्न व्यर्थं चिरजीवितम् । (र्म् १५९) यस्माच्चिरमपि स्थित्वा मृत्युर्केन निवार्य्यते ॥ १२.२२१{१९} ॥ इति मृत्युभयं दृष्ट्वा सर्वत्राप्यनिवारणम् । त्यक्त्वा विषादकौशीद्यं प्रोद्यमह्यं यशोर्जने ॥ १२.२२२{२०} ॥ एवं नानाप्रकारेण तेन सार्थभृतापि ते । बोध्यमाना वणिक्संघाः किं चिन्नैव समूचिरे ॥ १२.२२३{२१} ॥ अभद्रोऽयं पुमां चापि यतो यात्रा न सिद्ध्यति । इति तेन महांभोधौ नैकोऽपि गन्तुमैछत ॥ १२.२२४{२२} ॥ अथ सार्थपतिर्दृष्ट्वा तान् सर्वान् विरतोत्सवान् । एकोऽपि वा स्वयं गन्तुमैछद्रत्नाकरं प्रति ॥ १२.२२५{२३} ॥ ततो भार्यां समामंत्र्य परिबोध्य प्रसन्नधीः । स्वस्त्ययनविधिं कृत्वा प्रतस्थे भारकैः सह ॥ १२.२२६{२४} ॥ ततः पण्यं समादाय भारवाहजनैः सह । पुराद्वहि विनिर्गत्य क्रमाद्देशांतरं ययौ ॥ १२.२२७{२५} ॥ क्रमाच्चंचूर्य्यमानोऽसौ ग्रामारण्यवनस्थलीः । परिक्रमन् समुल्लंघ्य प्रापुस्तीरं महोदधेः ॥ १२.२२८{२६} ॥ तत्रासौ सार्थभृद्दृष्ट्वा तं समुद्रं महाम्बुधिम् । कृतांजलिपुटो नत्वा प्रार्थयच्छरणं गतः ॥ १२.२२९{२७} ॥ नमस्ते जीवमाधार सर्वसत्वार्थसंपदे । त्वदासया समायामि तदाशां मे प्रपूरय ॥ १२.२३०{२८} ॥ ततोऽसौ कर्णधारं च तोषयित्वा प्रबोधयन् । कृतांजलिपुटो नत्वा संधृत्वा समयाचत ॥ १२.२३१{२९} ॥ कर्णधार महावाहो तवाहं शरणं व्रजे । तत्स्वस्ति चारयन्नौकां यात्रासिद्धिं प्रसाधय ॥ १२.२३२{३०} ॥ तथासौ वहनं कृत्वा दृढीतं गाढवंधितम् । कृतांजलिपुटो नत्वा संधृत्वा समयाचत ॥ १२.२३३{३१} ॥ यथा माता च गर्भस्थं वालकं संप्ररक्षते । तथा मामेव गर्भस्थे नौके मातः प्ररक्षताम् ॥ १२.२३४{३२} ॥ ततश्च सुगतं स्मृत्वा त्रिरत्नशरणं गतः । कृतांजलिपुटो भूत्वा प्रणम्यैवमयाचत ॥ १२.२३५{३३} ॥ नमस्ते भगवन्नाथ यथा त्रासि जगत्त्रयम् । तथा मां कृपया दृष्ट्वा पाहि व्रजे रत्नाकरे ॥ १२.२३६{३४} ॥ इत्येवं सार्थवाहोऽसौ प्रणत्वा सुगतं स्मरन् । (र्म् १६०) भाण्डान्यारोप्य नौकायं समारोहज्जनं सह ॥ १२.२३७{३५} ॥ ततोऽसौ नौक्रमेणैव कर्णधारप्रयत्नतः । मरुतां चानुकूलेन संजगाह महाम्बुधौ ॥ १२.२३८{३६} ॥ यत्तत्र सार्थवाहोऽसौ संस्मरन् सुगतं मुहुः । तेन पुण्यबलेनैव सा नौका स्वस्तिमाचरन् ॥ १२.२३९{३७} ॥ तथा क्रमाच्चरन्त्येवं द्वीपलोकान्तराणि च । व्यतिक्रम्य सुशिघ्रेण रत्नाकरं समाययौ ॥ १२.२४०{३८} ॥ तत्र रत्नाकरे प्राप्य रत्नानि समसाधयन् । ततो रत्नानि संगृह्य प्रतस्थे वहनास्थितः ॥ १२.२४१{३९} ॥ ततः क्रमाद्व्यतिक्रम्य द्वीपलोकान्तराणि च । तीरं प्रापुः सुशीघ्रेण बुद्धदृष्टिप्रसादतः ॥ १२.२४२{४०} ॥ ततः स्थलं समासाद्य शैलारण्यवनस्थलीः । ग्रामां देशां परिक्रम्य श्रावस्त्यां पुरमाययौ ॥ १२.२४३{४१} ॥ ततो गृहे प्रविष्टोऽसौ भर्य्यया सह मोदितः । सुहृन्मित्रजनैश्चापि कृत्वालापं न्यषीदत ॥ १२.२४४{४२} ॥ ततः सद्यर्गृहस्थोऽसौ भार्य्यया सह नंदितः । भाण्डमुद्घाट्य रत्नानि प्रत्यवेक्षितुमारभत् ॥ १२.२४५{४३} ॥ तत्र दिव्यविचित्राणि रत्नानि विविधानि च । दृष्ट्वा हर्षं समासाद्य पुनरेवं वभाषते ॥ १२.२४६{४४} ॥ ममैतानि सुरत्नानि दिव्यान्येतादृशानि हि । तत्र दिव्यविचित्राणि नानारत्नकुलानि च ॥ १२.२४७{४५} ॥ लब्धानि तज्जिनेन्द्रस्य कृपादृष्टिप्रसादतः । तस्माद्यथाप्रतिज्ञातं श्रद्धया सांप्रतं मया ॥ १२.२४८{४६} ॥ यदुपार्द्धं प्रदातव्यैः श्रवणायार्हतेऽपि नः । तदुपार्द्धं कथं चानुदातव्यं मुनयेऽर्हते ॥ १२.२४९{४७} ॥ यदि राजा विजानीयादेतदर्द्धं हरे मम । रत्नलुब्धो नरेशो यं दण्डं वा प्रणयं मयि ॥ १२.२५०{४८} ॥ तदा मे स्याद्विपत्तिश्च तत्कथं क्रियते मया । अहो दैवाद्विपत्तिर्मामद्यापि च न मुंचति । तत्कथं वा प्रतिज्ञातं पूरयितुं न मन्यते । नमस्ते भगवन्नाथ सर्वज्ञोऽसि मुनीश्वरः ॥ १२.२५१{४९} ॥ रक्ष मां पापिनं मूढनिमग्नं दुःखसागरे । इत्यसौ सुगतं स्मृत्वा तच्चिन्ताव्यथिताशयः ॥ १२.२५२{५०} ॥ कपोलं स्वकरे धृत्वा तस्थौ कोष्ठे निरुत्सवः । (र्म् १६१) तथैवं स्थितमालोक्य स्वामि नं तं विषादितम् ॥ १२.२५३{५१} ॥ सा भार्या भद्रिकोपेत्य पुरः स्थित्वाब्रवीत्तथा । स्वामिं भर्त्तः किमेव त्वं स्थितोऽसि दुःखितो यथा ॥ १२.२५४{५२} ॥ किं वा ते जायते दुःखं तद्वच चेत्प्रियास्मि ते ॥ १२.२५५{५३} ॥ इति भार्योदितं श्रुत्वा स सार्थाधिपतिः पुनः । तां भार्य्यां समुपामंत्र्य पुनश्चैवमभाषत ॥ १२.२५६{५४} ॥ भद्रे यज्जायते दुःखं तत्प्रवक्ष्ये शृणु प्रिये । यथा मया प्रतिज्ञातं पूरयितुं कथं तथा ॥ १२.२५७{५५} ॥ यद्युपार्द्धं प्रदास्यामि श्रवणायार्हतेऽपि नु । एतदर्द्धं हरेद्राजा लोभान्मे दण्डयेदपि ॥ १२.२५८{५६} ॥ इत्येवं तद्विषादेन व्यथितोऽहं निरुत्सवः । तन्मे नात्र प्रतीकारो कथं कर्तुं न मन्यते ॥ १२.२५९{५७} ॥ इति भर्त्त्रोदितं श्रुत्वा सा भार्या पुनरब्रवीत् । विषादं मा कृथाः स्वामिं शृणु यन्मे समीहितैः ॥ १२.२६०{५८} ॥ तावदिमानि संकल्पः पश्चात्तत्समयागते । पूजया सह भोजैश्च ससंघायार्हतेऽर्चयेत् ॥ १२.२६१{५९} ॥ एवं कृते तथा स्वामिन् प्रतिज्ञा तेन सेत्स्यते । भीतिश्चापि न विद्येत तस्मादेवं कुरु प्रभो ॥ १२.२६२{६०} ॥ इति भार्यावचः श्रुत्वा स सार्थाधिपतिर्मुदा । तथेति प्रतिसंश्रुत्य पुनरेवमभाषत ॥ १२.२६३{६१} ॥ तावदिमानि सर्वाणि रत्नानि ते समर्प्पये । पश्चात्काले ससंघं तं पूजयिष्ये मुनीश्वरम् ॥ १२.२६४{६२} ॥ इदानीं सुगंधधूपेन पूजयेयं मुनीश्वरम् । इत्युक्त्वा सर्वरत्नानि भार्यायां स न्यधापयेत् ॥ १२.२६५{६३} ॥ ततोऽसौ चागुरुं क्रीत्वा कार्षापणद्वयेन वा । गत्वा जेतवने विहारे तत्र द्वारे स्थितो गुरुमधूपयेत् ॥ १२.२६६{६४} ॥ तत्रापत्रमानोऽसौ संबुद्धशरणं गतः । कृतांजलिपुटो नत्वा संस्मरन् प्रार्थयत्तथा ॥ १२.२६७{६५} ॥ भगवच्छास्तासि सर्वज्ञो विजानीया ममाशयम् । तद्यथा मे प्रतिज्ञातैः पूरयितुं समर्हसि ॥ १२.२६८{६६} ॥ अथासौ भगवान् तस्य मत्वाशयविशुद्धताम् । (र्म् १६२) महदृध्यभिसंस्कारं चकार तत्प्रसादतः ॥ १२.२६९{६७} ॥ येन स धूप आकाशे प्राभ्युद्गम्य पुरीं च ताम् । स्फुरित्वा खे पुनरभ्रकूटीभूत्वाभ्यशोभयत् ॥ १२.२७०{६८} ॥ तत्रासौ सार्थभृद्दृष्ट्वा प्रातिहार्यं तदद्भुतम् । महानंदप्रसंनात्मा पुनरेवं व्यचिंतयत् ॥ १२.२७१{६९} ॥ नैतन्मे प्रतिरूपं स्याद्यदयं सुगतो जिनः । मया नाभ्यर्चितो रत्नैर्धिग्मे चित्तभयाद्द्रुतम् ॥ १२.२७२{७०} ॥ यन्वहं सांप्रतं नाथं प्रार्थयित्वा ससांघिकम् । सरत्नैः पूजयिष्यामि भोजनैश्च स्वके गृहे ॥ १२.२७३{७१} ॥ इत्यसौ निश्चयं कृत्वा कृतांजलिपुटो मुदा । संबुद्धसंमुखं गत्वा प्रणत्वैवं व्यजिज्ञपत् ॥ १२.२७४{७२} ॥ भगवन्नाथ सर्वज्ञ क्षमस्व मेऽपराधताम् । भवतां पूजनां कर्तुमिछामि मे प्रसीदतु ॥ १२.२७५{७३} ॥ इत्येवं प्रार्थिते तेन स संबुद्धो मुनीश्वरः । तथेति प्रतिसंमोद्य तूष्णीभूत्वा व्यवस्थितः ॥ १२.२७६{७४} ॥ ततोऽसौ सार्थभृन्मत्वा सुगतेनाधिवासितम् । प्रणत्वा च मुनेः पादौ सहसा स्वगृहं ययौ ॥ १२.२७७{७५} ॥ तत्र स भार्य्यया सार्द्धं वंधुमित्र जनैरपि । प्रणीतं भोज्यपूजांगं साधयामास सत्वरम् ॥ १२.२७८{७६} ॥ ततो भोज्यार्चनांगानि सज्जीकृत्य प्रमोदितः । विहारे सहसा गत्वा नत्वा तं प्रार्थयन्मुनिम् ॥ १२.२७९{७७} ॥ भगवन्नाथ संबुद्ध समयोऽयं प्रवर्त्तते । तद्भवान् सांघिकैः सार्द्धं समागन्तुं समर्हति ॥ १२.२८०{७८} ॥ इत्येवं प्रार्थिते तेन स संबुद्धः ससांघिकः । प्रतस्थे सूर्य्यवन्मार्गे प्रातिहार्यं प्रदर्शयन् ॥ १२.२८१{७९} ॥ ततः क्रमात्पुरीं प्राप्य तद्गृहं समुपाविशत् । तद्दत्ते पाद्यमादाय शुद्धासने न्यषीदत ॥ १२.२८२{८०} ॥ ततस्तान् सांघिकान् सर्वान् संबुद्धप्रमुखान् क्रमात् । स्वस्वासनसमासीनान् दृष्ट्वा सम्यक्समर्चयत् ॥ १२.२८३{८१} ॥ यथार्हं भोजनैर्वापि वर्णगन्धरसान्वितैः । संबुद्धप्रमुखान् संघान् संतर्प्य पर्यतोषयत् ॥ १२.२८४{८२} ॥ ततश्च भोजनान्ते स शोधयित्वा भुजादिकम् । (र्म् १६३) अपनीय च पात्राणि ताम्बूलादीनढौकयत् ॥ १२.२८५{८३} ॥ ततो यानि सुरत्नानि पूर्वसंकल्पतानि हि । एतैः सर्वं सुरत्नैस्तं संबुद्धैः समवाकिरन् ॥ १२.२८६{८४} ॥ तानि रत्नानि सर्वाणि संबुद्धस्यानुभावतः । मुनेरुपरि खे गत्वा छत्रीभूत्वा स्थिता वभौ ॥ १२.२८७{८५} ॥ ततस्तं स गृही दृष्ट्वा द्विगुणसंप्रमोदितः । पादौ तस्य मुनेर्नत्वा प्रणिधानं व्यधात्तथा ॥ १२.२८८{८६} ॥ अनेन दानधर्मेण पुण्येन कुशलेन च । भवेयं सुगतो बुद्धो लोकेऽन्धेऽपरिणायके ॥ १२.२८९{८७} ॥ अमुक्तो मोचयिष्यामि तारयिष्याम्यतारितान् । भीतानाश्वास्य संबोधौ स्थापयिष्यामि निर्वृतौ ॥ १२.२९०{८८} ॥ तथासौ भगवान् बुद्धस्तथाशयविशोधितम् । संबोधौ निहितं चित्तं ज्ञात्वा स्मितं व्यधात्तथा ॥ १२.२९१{८९} ॥ तदा तस्य मुनीन्द्रस्य मुखपद्माद्विनिर्गताः । पंचवर्णा विभासन्तो विनिश्चेरुः सुभानवः ॥ १२.२९२{९०} ॥ ततस्ते भास्वराः सर्वे प्रविसृताः समंततः । केचिदूर्द्धं गताः केचिन्मध्यं केचिद्रसातले ॥ १२.२९३{९१} ॥ केचिदधो गता यास्ते सर्वे ते नरकेषु च । निपतंतो विभासन्तो प्रविसस्रुः समंततः ॥ १२.२९४{९२} ॥ ये उष्णनरकास्तेषु शितीभूता विचेरिरे । ये शीतनरकास्तेषु न्यपतदुष्णिकाश्च ते ॥ १२.२९५{९३} ॥ ये ये तैः किरणैः स्पृष्टास्ते ते सर्वे सुखान्विताः । यदा ते सुखसंप्राप्तास्तदा ते विस्मयान्विताः ॥ १२.२९६{९४} ॥ अहो नः सुखमद्यैवं कथमेतद्व्यचिन्तयन् । किं नु वयमितश्च्युत्वा कुत्र यातास्म सांप्रतम् ॥ १२.२९७{९५} ॥ आहोस्विदुपपन्नाः स्युरन्यत्र भुवनेष्वपि । इति संदेहिनां तेषां सत्वानां परिबोधने ॥ १२.२९८{९६} ॥ भगवान्निर्मिते बुद्धं प्रेषयन्नरकान् प्रति । दृष्ट्वा तं निर्मितं मुनिं विस्मिता हर्षिताश्च वै ॥ १२.२९९{९७} ॥ ते सर्वे नरका लोकाः संमील्य संवभाषिरे । न भवन्त इतश्च्युत्वा गतास्मान्यत्र भूमिषु ॥ १२.३००{९८} ॥ किंस्त्वयं नु महासत्वः ह्यपूर्वदर्शनः पुमान् । (र्म् १६४) नूनमस्यानुभावेन दुःखानि समितानि च ॥ १२.३०१{९९} ॥ तद्वयमेनमानम्य वंदे मया प्रमुक्तये । इति संभाष्य ते सर्वे नत्वा तच्छरणं गताः ॥ १२.३०२{१००} ॥ नमो बुद्धाय धर्माय संघायेति ववन्दिरे । इति ते निर्मिते तस्मिन् प्रसाद्य चित्तमारताः ॥ १२.३०३{१} ॥ सर्वपापविनिर्मुक्ता मर्त्यदेवालयं ययुः । एवं ते भानवः सर्वे सर्वत्र नरकेष्वपि ॥ १२.३०४{२} ॥ प्रोद्यन्ते नारकान् सर्वान् प्रत्याययुर्मुनेः पुरः । तथा तद्भानवश्चैवमुपरिष्टां गता अपि ॥ १२.३०५{३} ॥ तेऽपि सर्वे चतुर्लोकपालानां भुवनानि च । अवभास्य क्रमात्सर्वान् देवलोकानभासयन् ॥ १२.३०६{४} ॥ तथाकनिष्ठपर्यन्तं त्रैधातुकानभासयन् । एवं सर्वाश्च तान् सर्वानवभास्य समंततः ॥ १२.३०७{५} ॥ गाथाः प्रोद्घोषयन्तश्च प्रलयं सौगते वृषे । अनित्यं खलु संसारं दुःखशून्यं ह्यनात्मकम् ॥ १२.३०८{६} ॥ तस्मात्मारं परित्यज्य गछध्वं शरणं मुनेः । निष्क्रामतारभध्वं कं युज्यध्वं बुद्धशासने ॥ १२.३०९{७} ॥ मृत्युसैन्यं धुनीताशु नडागारं करी यथा । योऽप्यस्मिन् धर्मविनये ह्यप्रमत्तश्चरिष्यति ॥ १२.३१०{८} ॥ त्यक्त्वा जातिससंसारे दुःखस्यान्तं करिष्यति ॥ १२.३११{९!} ॥ अथ ते भानवः सर्वे त्रैधातुभुवनेष्वपि । सर्वान् सत्वान् समुद्धृत्य पुनः प्रत्याययुर्मुनेः ॥ १२.३१२{१०} ॥ अथ ते भानवः सर्वे भगवन्तं मुनीश्वरम् । प्रदक्षिणत्रयं कृत्वा मूर्द्ध्नि चान्तर्दधुर्मुनेः ॥ १२.३१३{११} ॥ अथैतत्सभासीना लोकाः सर्वे ससांघिकाः । तत्तदद्भुतमालोक्य वभूवुर्विस्मयोद्धताः ॥ १२.३१४{१२} ॥ अथानंदः समुत्थाय कृतांजलिपुटो मुदा । भगवन्तं गुरुं नत्वा पप्रछ स्मितकारणम् ॥ १२.३१५{१२!} ॥ भगवन् भवतो वक्त्रात्पंचवर्णाः सुभांसवः । विनिर्गता दिशः सर्वानवभास्य शता पुनः ॥ १२.३१६{१३} ॥ भवान् हि सुगतो शास्ता संबुद्धो भगवञ्जिनः । (र्म् १६५) निर्मदो निरहंकारः मानमात्सर्य्यवर्जितः ॥ १२.३१७{१४} ॥ तद्भव भगवं कस्मात्स्मितैः करोति सांप्रतम् । दृष्ट्वैवं तं स्मितं सर्वे इमे लोकाः प्रविस्मिताः ॥ १२.३१८{१५} ॥ नाहेतुः सुगता बुद्धा अर्हन्तो विगतोद्धवाः । दर्शयन्ति स्मितं केचित्तत्केन भवतः स्मृतम् ॥ १२.३१९{१६} ॥ तदेतद्धेतुमिछन्ति श्रोतुं सर्वे इमे जनाः । तदेतत्कारणं शास्तः समादेष्टुं समर्हति ॥ १२.३२०{१७} ॥ इत्येवं प्रार्थिते तेन शिष्येणानंदयोगिना । तथेति प्रतिसंमोद्य तमानंदं वभाषत ॥ १२.३२१{१८} ॥ एवमेतत्तथानंद यथैव भाषसि त्वया । तत्स्मितं यदर्थं मे तद्वक्ष्ये शृणुतादरात् ॥ १२.३२२{१९} ॥ पश्यानंद ममानेन सार्थवाहेन साधुना । एभी रत्नैश्च सत्कृत्य कृता पूजा स्वभक्तितः ॥ १२.३२३{२०} ॥ अनेन कुशलेनैव सार्थवाहो महासुधीः । क्रमाद्बोधिचरीं प्राप्य पूर्य्य पारमिता दश ॥ १२.३२४{२१} ॥ संबोधिपाक्षिकान् धर्मान् प्राप्य ब्रह्मविहारिकः । संबोधिं समवाप्यैवं जित्वा मारगणानपि ॥ १२.३२५{२२} ॥ बुद्धो रत्नोत्तमो नाम सर्वज्ञोऽर्हं तथागतः । धर्मराजो जगंनाथो लोके शास्ता भविष्यति ॥ १२.३२६{२३} ॥ तदनुमोदनां कृत्वा सद्धर्मं भजतादरात् । धर्मेणैव जगज्जित्वा मारचर्याविनिर्गतः ॥ १२.३२७{२४} ॥ भद्रचरी समासाद्य संबोधिपदमाप्नुयात् । धर्निओ हि जगतां मित्रमिहामुत्र समन्ततः ॥ १२.३२८{२५} ॥ हितकारी सुहृदिष्टः सर्वदापि सहानुगः । तस्माद्धर्मं समाधाय संचरध्वं समाहितः ॥ १२.३२९{२६} ॥ तेन वा मंगलं नित्यं सर्वभावी भवेद्ध्रुवम् ॥ १२.३३०{२७} ॥ इति शास्त्रा समादिष्टं श्रुत्वानंदः सपार्षदः । तथेति मोदितस्तं च गुरुं नत्वा स नंदतः ॥ १२.३३१{२८} ॥ सोऽपि सार्थपतिश्चैव स्वकं व्याकरणं किल । मुनीन्द्रेण समादिष्टं श्रुत्वातीवाभ्यनंदतत् ॥ १२.३३२{२९} ॥ ततश्चाभिप्रसन्नात्मा समुत्थाय कृतांजलिः । भगवंतं ससंघं तं प्रणत्वैवं व्यतिज्ञपत् ॥ १२.३३३{३०} ॥ नमस्ते भगवन्नाथ सर्वधर्माधिपेश्वरः । (र्म् १६६) भवतां शरणं कृत्वा भवाम्यहमुपासकः ॥ १२.३३४{३१} ॥ यन्मया प्रकृतं पापं कारितं चानुमोदितम् । तत्सर्वं देशयिष्यामि तन्मे देहि शुभां चरिम् ॥ १२.३३५{३२} ॥ बोधौ चित्तं समाधाय त्रिरत्नं समुपाश्रये । क्षमस्व मेऽपराधत्वं तन्मां रक्ष मुदा तथा ॥ १२.३३६{३३} ॥ एवं तेनार्थितं श्रुत्वा स संबुद्धोऽभ्यधात्पुनः । यथा तेऽभिहितं साधो तथा संसेत्स्यते ध्रुवम् ॥ १२.३३७{३४} ॥ तस्माच्चित्तं समाधाय त्रिरत्नशरणं गतः । सर्वसत्वहितं कृत्वा बोधिचर्यां समाचर ॥ १२.३३८{३५} ॥ ततस्त्वं क्रमतो ह्येवं पूर्य पारमिता द्रुतम् । बोधिसत्वो महासत्वो भवेद्बोधिमवाप्नुयात् ॥ १२.३३९{३६} ॥ एतत्सत्यं परिज्ञाय सद्धर्मं संप्रसाधय । तेन ते मंगलं नित्यं सर्वत्रापि भवेद्ध्रुवम् ॥ १२.३४०{३७} ॥ जयोऽस्तु ते सदा बोधौ सिद्ध्यतु प्रणिहितं द्रुतम् । चिरं जीवं हितं लोके धर्मं धृत्वा सुखं वस ॥ १२.३४१{३८} ॥ इत्यसौ भगवान् बुद्धस्तस्मै दत्वाशिषं शुभाम् । संघैः सह समुत्थाय स्वं विहारं ययौ ततः ॥ १२.३४२{३९} ॥ अथ सार्थपतिश्चासौ सदारः संप्रमोदितः । त्रिरत्नशरणं कृत्वा सद्धर्मेषु सदाचरत् ॥ १२.३४३{४०} ॥ तथा सर्वेऽपि सत्वाश्च श्रुत्वा तस्य प्रवृत्तिताम् । बोधिचित्तं समाधाय त्रिरत्नशरणं ययुः ॥ १२.३४४{४१} ॥ एतत्मे गुरुणाख्यातं संश्रुतं यथा मया । तथात्रैवं तव प्रीत्या कथ्यते संप्रबुध्यताम् ॥ १२.३४५{४२} ॥ तथा राजन् त्वयाप्येवं स्वयं धृत्वा वृषं शुभे । बोधयित्वा प्रजाश्चापि स्थापनीयाः सदा शुभे ॥ १२.३४६{४३} ॥ एवं चेत्ते सदाप्येवं सर्वत्रापि सुमंगलम् । भवेन्नूनं महाराजन् सत्यमेतन्न संशयः । धर्मेण निर्जितं पापं धर्मेण जीयते कुधीः । धर्मेण निर्जिता मारा धर्मेण बोधिमाप्नुयात् । तस्माद्बोधिपदं प्राप्तुं यदीच्छथ नराधिपः । बोधिचित्तं समाधाय सदा रत्नत्रयं भज । तथा तं क्रमणो राज बोधिचर्य्याहिताय च । सर्वमारगणां जित्वा संबोधिमाप्नुया ध्रुवम् । एतत्तेनोपगुप्तेन गुरुणादिष्टं समादरात् । (र्म् १६७) श्रुत्वा राजो तथेत्येवं प्रत्यनन्दन् सपार्षदः । ये शृण्वन्तीदमेवं प्रणिहितमनसः सार्थवाहावदानम् । ये चापि श्रावयन्ति प्रमुदितमनसः सर्वलोकहितार्थम् । ते सर्वे बोधिसत्वा विजितकलिमलो बुद्धधर्मानुरक्ताः । संभुक्त्वा सत्सुखानि प्रथितगुणयुता बुद्धक्षेत्रे प्रयान्ति । ++ इति श्रीरत्नमालावदानकथायां सार्थवाहोऽवदानं नाम द्वादश ++ (र्म् १६८) xइइइ वडिकावदान ओं नमः श्रीसर्वबुद्धबोधिसत्वेभ्यः । यः श्रीमाञ्छ्रीघनो लोके सद्धर्मैः समुपादिशत् । शासनानि त्रिलोकेषु जयन्तु तस्य सर्वदा ॥ १३.१{१} ॥ अवदानतत्वं वक्ष्यामि नत्वा तं श्रीघनं गुरुम् । पुराभूत्पाटलीपुत्रे नगरे स्वर्गसन्निभे ॥ १३.२{२} ॥ अशोको नृपराजेन्द्रस्त्रिरत्नसेवकः कृती । एकस्मिन् समये तत्र स राजा स्वजनैः सह ॥ १३.३{३} ॥ पौरिकैश्च सभां कृत्वा सद्धर्मं श्रोतुमैच्छत । तदा स सौगतो भिक्षुरुपगुप्तो जिनांशजः ॥ १३.४{४} ॥ लोकान् धर्मोत्सुकान् दृष्ट्वा समाधेः सहसोत्थितः । तत्सभायां समाक्रम्य सिंहासने शुभासने ॥ १३.५{५} ॥ भासयंस्तत्सभालोकांस्तस्थौ पूर्णसुधांशुवत् । अथाशोको महीपालः स मंत्रिपौरिकैः सह ॥ १३.६{६} ॥ पूजाङ्गैः पूजयित्वा तमुपगुप्तमवन्दत । स्थित्वा भूमौ स्वजानुभ्यामुत्तरासङ्गमुद्वहन् ॥ १३.७{७} ॥ कृताञ्जलिः पुटो नत्वा पुनरेवमभाषत । भदन्त श्रोतुमिच्छामि सद्धर्मं सुखसंप्रदम् ॥ १३.८{८} ॥ यथोक्तं श्रीमुनीन्द्रेण तथा देष्टुं च मेऽर्हति । एवं तेन महीन्द्रेण प्रार्थिते स यतीश्वरः ॥ १३.९{९} ॥ उपगुप्तो नरेन्द्रं तं समामन्त्र्यैवमब्रवीत् । साधु सुष्ठु महाराज शृणु सद्धर्ममादरात् ॥ १३.१०{१०} ॥ यथा मे गुरुणा ख्यातं तथा वक्ष्यामि ते हिते । पुरा स भगवान् बुद्धः शक्यसिंहो शुभाकरः ॥ १३.११{११} ॥ धर्मराजो जगच्छास्ता सर्वज्ञः सुगतो जिनः । सर्वविद्याकलाविज्ञः षडभिज्ञो मुनीश्वरः ॥ १३.१२{१२} ॥ मारजिल्लोकविन्नाथो विनायकस्तथागतः । श्रावस्त्यां जेतकारण्ये महोद्याने मनोरमे ॥ १३.१३{१३} ॥ अनाथपिण्डदाख्यस्य गृहस्थस्य महात्मनः । नानावृक्षसमाकीर्णे नानापुष्पप्रशोभितैः ॥ १३.१४{१४} ॥ नानाफलभरानम्रैः कल्पवृक्षसमानिकैः । अष्टाङ्गगुणसंपन्नजलैः पद्मोत्पालादिभिः ॥ १३.१५{१५} ॥ सुपुष्पैः परिपूर्णाभिः पुष्करिणीभिराश्रिते । नानाजन्तुगुणैश्चापि मिथः स्नेहानुवन्धितैः ॥ १३.१६{१६} ॥ नानापक्षिगणैश्चापि संहर्षैरुपसेविते । तस्मिं दिव्यमनोरम्ये मुनिसंघनिषेविते ॥ १३.१७{१७} ॥ पुण्यक्षेत्रे जिनावासे विहारे मणिमण्डिते । श्रावकैर्भिक्षुभिः सार्द्धं बोधिसत्वैरुपासकैः ॥ १३.१८{१८} ॥ सर्वसत्वहितार्थेन तस्थौ धर्म्मं प्रकाशितुम् । (र्म् १६९) एवं तत्र सभासीनं संबुद्धं धर्मभाषिणम् ॥ १३.१९{१९} ॥ दृष्ट्वा धर्मामृतं पातुं सर्वलोकाः समाययुः ॥ १३.२०{१९!} ॥ दैवा दैत्याश्च सिद्धाश्च यक्षगंधर्वकिन्नराः । ग्रहा विद्याधराः साध्या नागेंद्रा गरुडा अपि ॥ १३.२१{२०} ॥ सर्वेऽपि लोकपालाश्च मुनयश्च महर्षयः । यतयो योगिनश्चापि तीर्थिकाश्च तपश्विनः ॥ १३.२२{२१} ॥ ब्राह्मणाः क्षत्रियाश्चापि वैश्याः शूद्राश्च मंत्रिणः । अमात्याः कोट्टवाराश्च सार्थवाहा महाजनाः ॥ १३.२३{२२} ॥ शिल्पिनो वणिजश्चापि गृहस्थाः पौरिका जनाः । तथा जानपदाश्चापि ग्राम्याः कार्पटिका अपि ॥ १३.२४{२३} ॥ एवमन्येऽपि सत्वाश्च सर्वजातिसमुद्भवाः । पूजापंचोपहाराणि गृहीत्वा भक्तिमानसा ॥ १३.२५{२४} ॥ सद्धर्मं श्रद्धया श्रोतुमनुमोद्य समाययुः । तत्र सर्वे प्रविष्टास्ते दृष्ट्वा तं सुगतं जिनम् ॥ १३.२६{२५} ॥ वन्दित्वानन्दिताः सर्वे पूजां चक्रुर्यथाक्रमम् ॥ १३.२७{२६!} ॥ ततो नत्वा समासीनाः परिवृत्य प्रमोदिताः । धर्म्मं श्रोतुं पुरस्कृत्य तस्थुः साञ्जलयो मुदा ॥ १३.२८{२७} ॥ अथ स भगवान् दृष्ट्वा तांल्लोकान् धर्मवाञ्छिनः । आदिमध्यान्तकल्याणं दिदेश धर्ममुत्तमम् ॥ १३.२९{२८} ॥ एवं स भगवान्नित्यं सर्वसत्वहितार्थिकः । धर्मं प्रकाशयं लोके तस्थौ दीप्तांशुमानिव ॥ १३.३०{२९} ॥ तस्मिन्नवसरे तत्र श्रावस्त्यां पुरिसंभवः । आढ्यः श्रेष्ठी महाभोगः सुविस्तीर्णपरिग्रहः ॥ १३.३१{३०} ॥ श्राद्धो भद्राशयो धीरः सर्वलोकसुहृत्प्रियः । तीर्थिकसेवको मानी वभूव श्रीमदान्वितः ॥ १३.३२{३१} ॥ तदा स सुन्दरीभार्यां कुलधर्मसमानिकाम् । आदाय रतिसंरक्तो रेमे नित्यं यथासुखम् ॥ १३.३३{३२} ॥ तस्यैवं रममाणस्य भार्या साभूत्सुगर्भिणी । ततः प्रवृद्धगर्भा सा पाण्डुवर्णा व्यराजत ॥ १३.३४{३३} ॥ ततः सा गर्भसंजातं पुत्रं तस्यामुपाश्रितम् । पुत्रं मत्वाभिनंदंती भर्त्तारमेवमब्रवीत् ॥ १३.३५{३४} ॥ स्वामिन् गर्भे प्रजातो मे यत्कुक्षौ दक्षिणाश्रितः । दारकोऽयं भवेत्पुत्रः नूनं तस्मात्प्रमोदय ॥ १३.३६{३५} ॥ इति भार्योदितं श्रुत्वा स गृहस्थः प्रहर्षितः । गर्भे स व्याश्रितं दृष्ट्वा मुदैवं समुदानयत् ॥ १३.३७{३६} ॥ वत मे जायते पुत्रस्तदहं भाग्यवान् भवे । पुत्रमुखं हि पश्येयं वंशस्थितिर्भवेदपि ॥ १३.३८{३७} ॥ यन्मम विद्यते पुण्यं दानशीलादिसंचितम् । तेनानयोर्द्वयोरस्तु जननीपुत्रयोः शिवम् ॥ १३.३९{३८} ॥ एवं प्रोक्त्वा गृहस्थः स श्रद्धया संप्रमोदितः । भिक्ष्वर्थिब्राह्मणेभ्यश्च ददौ दानं यथेप्सितम् ॥ १३.४०{३९} ॥ (र्म् १७०) कुलेष्टदेवताश्चापि समभ्यर्च्य यथाविधि । तच्छुभं प्रार्थयन्नित्यं तस्थौ पुत्रसमुत्सुकः ॥ १३.४१{४०} ॥ ततः सा भद्रिका नारी पथ्योपचारभोगिनी । असूत समये पुत्रं सुंदरं लक्षणान्वितम् ॥ १३.४२{४१} ॥ ततः स जनकः श्रुत्वा संप्रजातं सुतं मुदा । सहसा समुपास्रित्य ददर्श तं ससुंदरम् ॥ १३.४३{४२} ॥ दर्शनीयं सुभद्राङ्गं प्रासादिकं मनोहरम् । दृष्ट्वापि सुचिरं पश्यन्नेव तस्थावतृप्तितः ॥ १३.४४{४३} ॥ ततो जातिमहं कृत्वा तस्य पित्रा प्रसादिना । वडिक इति नाम्ना प्रख्यापितोऽभूत्स दारकः ॥ १३.४५{४५!} ॥ ततः स वालकोऽष्टाभ्यो धात्रीभ्यः प्रतिपालने । मानयित्वानुसंभाष्य पित्रा समर्पितोऽभवत् ॥ १३.४६{४६} ॥ तथा स वडिको वालोऽष्टाभिर्धात्रीभिरादरात् । पाल्यमानः प्रवृद्धोऽभूथ्रदस्थमिव पंकजम् ॥ १३.४७{४७} ॥ यदा स दारकः पंचवर्षितोऽभून्मदान्वितः । तदा विद्योपलब्धार्थी लिपिशालामुपाविशत् ॥ १३.४८{४८} ॥ तत्र स सद्गुरुं नत्वा क्रमाल्लिपीन्मुदाग्रहीत् । गुरुभक्तिप्रसादेन लिपिपारं ययौ लघु ॥ १३.४९{४९} ॥ ततः स गुरुभिः सम्यच्छिष्यमाणः सुबुद्धिमान् । अधीत्य सर्वशास्त्राणि विद्यापारं ययौ लघु ॥ १३.५०{५०} ॥ तदा तद्वडिकस्यापि पूर्वकर्मविपाकतः । देहे कस्मात्समुत्पन्नो महाव्याधिः पराक्रमत् ॥ १३.५१{५१} ॥ तदा स व्याधिना तेन पीड्यमानोऽभिमूर्छितः । असह्यवेदनाक्रान्तो विरुराव दिवानिशम् ॥ १३.५२{५२} ॥ तथा तं व्याधिनाघ्रातमसह्यवेदनातुरम् । क्रन्दन्तं स पिता दृष्ट्वा कृपयैवं व्यचिंतयत् ॥ १३.५३{५३} ॥ हा मे दैवविरुद्धेन पुत्रोऽयं व्याधिमूर्छितः । असह्यवेदनाक्रान्तो भोक्तुमपि न वाञ्छति ॥ १३.५४{५४} ॥ अवश्यं मरणं यायात्कथं जीवेदभुक्तवान् । मृते पुत्रे मरिष्येऽहं स्नेहदुःखं कथं सहे ॥ १३.५५{५५} ॥ इति चिन्ताव्यथाक्रान्तो भोग्येऽपि विरतोत्सवः । तमेव स्वात्मजं पश्यंस्तस्थौ स्नेहाभिवन्धितः ॥ १३.५६{५६} ॥ मातापि तं सुतं दृष्ट्वा स्नेहदुःखाग्नितापिता । (र्म् १७१) मृत्युशंका परित्रस्ता रुदन्ती समुपाचरत् ॥ १३.५७{५७} ॥ तदा तस्य सुहृन्मित्रवांधवाः समुपागताः । सर्वे ते रोगिणं दृष्ट्वा स्नेहार्त्ता एवमब्रुवन् ॥ १३.५८{५८} ॥ किं भो स्वस्थं न ते देहे भोक्तुं किं वा न वाञ्छसि । भुंक्ष्व यथेप्सितं पथ्यं तिष्ठ धैर्यं समाश्रयन् ॥ १३.५९{५९} ॥ इति प्रोक्तेऽपि तैः सर्वैः स वडिको ज्वरान्वितः । दृष्ट्वैव तान्मुहुः पश्यन्नैव किञ्चिदभाषत ॥ १३.६०{६०} ॥ ततः सर्वेऽपि ते दृष्ट्वा तं वडिकं रुजातुरम् । मृत्युशंकाविषादिग्धं पितरं तं तथावदन् ॥ १३.६१{६१} ॥ साधोऽस्य वर्द्धते रोगस्तद्रोगव्युपाशान्तये । सहसा वैद्यमाहूय दर्शयस्व समाहितः ॥ १३.६२{६२} ॥ उपदिष्टं यथा तेन वैद्येन सुधिया तथा । परिचर्य्यां समाधाय कुरूपचारमादरात् ॥ १३.६३{६३} ॥ तथा पथ्योपचारेण सिद्धौषध्यसहैरपि । क्रमादस्य शरीरस्थो रोगः शान्तिं व्रजेद्ध्रुवम् ॥ १३.६४{६४} ॥ ततस्तेऽयं सुतो भद्रः परिपुष्टतनुःकृती । स्वकुलधर्ममाधाय सुखं जीवेच्छुभे चरन् ॥ १३.६५{६५} ॥ इति मत्वा महाभाग मा कृथास्तद्विषादनम् । धैर्यमालम्व्य देवांश्च स्मृत्वा भुक्त्वा सुखं वस ॥ १३.६६{६६} ॥ इत्येवं समुपादिश्य तद्गृहस्थात्समुत्थिताः । सर्वे ते स्नेहदुःखार्त्ताः स्वस्वगेहमुपाचरत् ॥ १३.६७{६७} ॥ ततः स गृहभृत्तस्य पुत्रस्य रोगशांतये । सद्वैद्यं समुपाहूय सादरं समदर्शयत् ॥ १३.६८{६८} ॥ तस्य रोगनिमित्तं स वैद्यो दृष्ट्वा समीक्ष्य च । पथ्यौषध्युपचारेण समाहित उपाचरत् ॥ १३.६९{६९} ॥ तथापि तस्य तद्रोगः परिवृद्धो दिने दिने । केनापि ह्युपचारेण नैव शान्तिमुपाययौ ॥ १३.७०{७०} ॥ तद्रोगं वर्द्धितं दृष्ट्वा जनकः स विषादितः । भूतिकं सहसाहूय रोगहेतुमपृच्छत ॥ १३.७१{७१} ॥ ततः स भूतिको दृष्ट्वा तस्य रोगप्रशान्तये । स भूतदेवताभ्यश्च वलिं प्रादाद्यथाविधि ॥ १३.७२{७२} ॥ तथापि वृंहितो रोगस्तस्य कर्मविपाकतः । किञ्चिदपि विशेषेण नैव शान्तिमुपाययौ ॥ १३.७३{७३} ॥ ततः स जनको दृष्ट्वा तद्रोगं परिवर्द्धितम् । आयुर्विदमुपामंत्र्य रोगहेतुमपृच्छत ॥ १३.७४{७४} ॥ (र्म् १७२) स अयुर्विदको दृष्ट्वा तस्य ग्रहदशाफलम् । कुदशाव्युपशान्त्यर्थं ग्रहपूजामुपादिशत् ॥ १३.७५{७५} ॥ तथा स जनकस्तस्य रोगिणो ग्रहशान्तये । ब्राह्मणं समुपामन्त्र्य ग्रहपूजामकारयत् ॥ १३.७६{७६} ॥ तथापि तस्य तद्रोगो वर्द्धितो न शमं ययौ । दैवेन समुपाघ्राते तदुपाये न सिद्ध्यते ॥ १३.७७{७७} ॥ तथा स जनकस्तस्य पुत्रस्य रोगवृद्धितम् । दृष्ट्वा निराशया भिन्नचित्तो मूर्च्छामुपाययौ ॥ १३.७८{७८} ॥ तदा सा सुप्रिया भार्या भर्त्तारं तं विमोहितम् । दृष्ट्वैव समुपागृह्य समाश्वास्यैवमब्रवीत् ॥ १३.७९{७९} ॥ स्वामिन् धैर्य्यं समालम्ब्य त्यज चित्ते विमोहताम् । किमस्माकं प्रयत्नेन दैवस्यात्र प्रमाणिके ॥ १३.८०{८०} ॥ सर्वथा भाविनो भावाः फलंति सर्वजीविनाम् । यदभावि न तद्भावि भावि चेन्न तदन्यथा ॥ १३.८१{८१} ॥ तस्माद्दैवप्रसादाय स्वकुलेशेष्टदेवताः । अनुस्मृत्य समाराध्य याचस्व पुत्रजीवितम् ॥ १३.८२{८२} ॥ इति भार्योदितं श्रुत्वा स गृहस्थोऽनुमोदितः । कुलदेवं समभ्यर्च्य प्रार्थयदेवमादरात् ॥ १३.८३{८३} ॥ प्रसीद मे कुलेश त्वं क्षमस्व ह्यपराधताम् । तवैव शरणस्थोऽहं तन्मे पुत्रं प्ररक्षताम् ॥ १३.८४{८४} ॥ एवं तेन गृहस्थेन प्रार्थितेऽपि दिवानिशम् । तस्य रोगो विवृद्धोऽभून्नैव शाम्यमुपाक्रमत् ॥ १३.८५{८५} ॥ तथा ब्रह्मादिदेवांश्च सर्वान् लोकाधिपानपि । विहारमण्डपारामक्षेत्रारण्यसमाश्रितान् ॥ १३.८६{८६} ॥ नदीकूपतडागादिजलाश्रयप्रतिस्थितान् । बलिभोक्तॄन् कलंकस्थान्मार्गशृङ्गाटकाश्रितान् ॥ १३.८७{८७} ॥ एवमन्यत्र सर्वत्र प्रतिस्थितान् समर्चयन् । पुत्रस्यारोग्यकौशल्यं जीवितं स समर्थयन् ॥ १३.८८{८८} ॥ तथापि तस्य रोगो न शमितोऽभूत्प्रवर्द्धितः । ततस्तं जनको दृष्ट्वा निराशा मूर्छितोऽपतत् ॥ १३.८९{८९} ॥ तदा स वडिको रोगी पितरं तं विमूर्छितम् । पृथिव्यां पतितं दृष्ट्वा शनैर्नीचस्वरोऽवदत् ॥ १३.९०{९०} ॥ हा हा मे जावते पापं येनायं पतितः पिता । (र्म् १७३) स्नेहदुःखाग्निसंतप्तः पुत्रतो मरणं व्रजेत् ॥ १३.९१{९१} ॥ हा तातोत्तिष्ठ मां पश्य मा त्यजात्मजमातुरम् । धैर्य्यमालम्व्य संधाय रक्ष मां समुपस्थितः ॥ १३.९२{९२} ॥ इत्यसौ विलपन् पुत्रः पितरं तं विमूर्छितम् । दृष्ट्वा भोजनकेत्यश्रु मुञ्चंस्तस्थौ निराश्रितः ॥ १३.९३{९३} ॥ तदा सा सुप्रिया भार्य्या भर्त्तारं तं विमूर्छितम् । दृष्ट्वैव सहसालिंग्य समुत्थाप्यैवमब्रवीत् ॥ १३.९४{९४} ॥ स्वामिन् धैर्यं समालंब्य पश्य मां ते प्रियं सतीम् । त्यक्त्वा दैन्यं समाधाय पश्यन् रक्षात्मकं प्रियम् ॥ १३.९५{९५} ॥ इति भार्योदितं श्रुत्वा स गृहस्थो समुत्थितः । दृष्ट्वा तां सुप्रियां भार्यां पुत्रं चैवमभाषत ॥ १३.९६{९६} ॥ हा दैव किं मया पापं प्रकृतं दारुणं पुरा । येनायं सुकृती पुत्रः त्यक्त्वा मां क्व प्रयास्यति ॥ १३.९७{९७} ॥ हा हा मे संपदश्चैताः समृद्धाः समुपार्जिताः । को नु भोक्ता भवेदासां व्यर्थं नक्ष्यन्ति सर्वशः ॥ १३.९८{९८} ॥ किमत्राहं करिष्यामि यास्यामि शरणं च कम् । को नु मां सहसा रक्षेद्दत्वा पुत्रस्य जीवितम् ॥ १३.९९{९९} ॥ किमत्रास्य रुजः शान्त्यै करिष्यामि प्रतिक्रियाम् । न जाने परिमूढोऽस्मि चेतना मे न विद्यते ॥ १३.१००{१००} ॥ इति चिन्तापरीतात्मा पुत्रस्नेहविमोहितः । कारुणाकुलचित्तोऽपि पुनरेवं व्यचिन्तयत् ॥ १३.१०१{१०१} ॥ यदिमे तीर्थिका विज्ञा भगवन्तो विचक्षणाः । सर्वज्ञाः सद्गुणाधाराः शास्तारो मे हितंकराः ॥ १३.१०२{१०२} ॥ तत्तान् सर्वान् समामंत्र्य गृहे भोक्ष्यैः समर्चयन् । इमं पुत्रं पुरः स्थाप्य दर्शयेयं शुभाप्तये ॥ १३.१०३{१०३} ॥ तत्सुदृष्टिप्रसादेन नूनमस्य भवेच्छुवम् । ततो हि क्रमशो रोगाः शाम्येयुः सर्वथा लघु ॥ १३.१०४{१०४} ॥ तदायमात्मजः पुष्टो न रोगी सुतनुः सुखी । कृती शुभरतो भोगी कुलधर्मे समाचरेत् ॥ १३.१०५{१०५} ॥ इति निश्चित्य स श्रेष्ठी तत्र तीर्थ्याश्रमे गतः । तान् सर्वांस्तीर्थिकान्नत्वा प्रार्थयेदेवमादरात् ॥ १३.१०६{१०६} ॥ नमो वो ब्रह्मविज्ञेभ्यो भवतां शरणं व्रजे । विज्ञप्यते यदर्थं तदनुग्रहीतुमर्हत ॥ १३.१०७{१०७} ॥ (र्म् १७४) इति तेनोदितं श्रुत्वा तीर्थिकास्तेऽभिमानिकाः । सर्वे तं समुपामंत्र्य प्रमोदयितुमब्रुवन् ॥ १३.१०८{१०८} ॥ साधु वद महासाधो यत्ते कार्यं समीहितम् । तत्सर्वं सर्वथास्माभिः कृतमेवं करिष्यते ॥ १३.१०९{१०९} ॥ इति तैस्तीर्थिकैः प्रोक्ते स श्रेष्ठी संप्रसादितः । कृताञ्जलिपुटो नत्वा पुनरेवमभाषत ॥ १३.११०{११०} ॥ भगवन्तो महाविज्ञा भवन्तो गुरवो मम । तत्सर्वं प्रतिजानीत यदर्थं समुपाचरे ॥ १३.१११{१११} ॥ तथापि चार्थयिष्येऽत्र यन्मे कष्टं प्रवर्त्तते । तद्वो विज्ञापनं कर्तुं भवतः शरणं व्रजे ॥ १३.११२{११२} ॥ यन्मया प्रकृतं पापं तेन मे स्वात्मजाधुना । रोगैः संपीड्यतेऽतीवनिःस्वस्थो मरणं व्रजेत् ॥ १३.११३{११३} ॥ नानास्वस्तिविधानैर्हि तस्य रोगो न शाम्यति । भिषजां कृतयत्नानि न सिद्ध्यन्ति कथं चन ॥ १३.११४{११४} ॥ अनेका देवताश्चापि प्राभ्यर्च्य प्रार्थितो मया । तथापि शाम्यते नैव तस्य रोगो विवर्द्धितः ॥ १३.११५{११५} ॥ यथा यथा रुजाशान्तिस्वस्त्युपायकृतानि हि । तथा तथा न तद्रोगः प्रशाम्यति प्रवर्द्ध्यते ॥ १३.११६{११६} ॥ किमुपायं करिष्यामि केन शाम्येत तद्गदः । तदुपायं प्रदातव्यं येनाशु शाम्यते क्रमात् ॥ १३.११७{११७} ॥ इति विज्ञापनां कर्तुं भवतां शरणं व्रजे । तन्मेऽनुकम्पयासु नो रोगशान्तिर्विधीयताम् ॥ १३.११८{११८} ॥ भवन्तो मेऽनुशास्तारः सर्वज्ञा ब्रह्मचारिणः । तन्मे सुकृपया दृष्ट्या परित्रातुं समर्हत ॥ १३.११९{११९} ॥ इति तेनार्थितं श्रुत्वा सर्वे ते तीर्थिका अपि । श्रेष्ठिनं तं समामंत्र्य पुनरेवं समब्रुवन् ॥ १३.१२०{१२०} ॥ शृणु साधो यदस्माभिर्हितार्थं ते प्रचक्ष्यताम् । तत्सत्यं नः परिज्ञाय प्रमाणीक्रियतां किल ॥ १३.१२१{१२१} ॥ वयं हि सर्वलोकानां शास्तारो हितसाधकाः । तस्मादत्र विषादत्वं मा कृथा धैर्यमाश्रय ॥ १३.१२२{१२२} ॥ अद्यैव सहसा गत्वा वयं दृष्ट्वा तवात्मजम् । निःपापं नीरुजं स्वास्थ्यं करिष्यामः सुजीवितम् ॥ १३.१२३{१२३} ॥ अप्येतद्वचनं सत्यं श्रुत्वा दृष्ट्वा प्रमाणय । (र्म् १७५) अन्यथा न भवेत्क्वापि ह्यस्माकं ब्रह्मचारिणाम् ॥ १३.१२४{१२४} ॥ इति तैस्तीर्थिकैः प्रोक्तं श्रुत्वा स गृहसत्तमः । तथेति प्रतिहर्षित्वा नत्वा तान् स्वगृहं ययौ ॥ १३.१२५{१२५} ॥ तत्र स गृह आसाद्य दासिदासजनैः सह । तदर्हभोज्यपूजाङ्गसामग्रीं समसाधयत् ॥ १३.१२६{१२६} ॥ तस्मिन्नेव क्षणे तत्र सर्वे ते तीर्थिका मुदा । सहसा समुपागत्य स्वस्वासने उपाविशत् ॥ १३.१२७{१२७} ॥ तथा तान् समुपासीनान् दृष्ट्वा श्रेष्ठी स मोदितः । पूजाङ्गैः क्रमतोऽभ्यर्च्य भोजनैः समतोषयत् ॥ १३.१२८{१२८} ॥ ततश्च भोजनान्ते स वडिकं तं प्रियात्मजम् । रोगिणं समुपाहृत्य तेषां पुरोऽभ्यदर्शयत् ॥ १३.१२९{१२९} ॥ ते सर्वे तीर्थिका दृष्ट्वा वडिकं तं रुजान्वितम् । तदामयनिमित्तं च निरीक्ष्यैवमुपादिशत् ॥ १३.१३०{१३०} ॥ अहो ह्यस्य महारोगं महापातकसंभवम् । तत्पातकविमुक्त्यै तु दातव्यं दानमादरात् ॥ १३.१३१{१३१} ॥ तद्यथा नवरत्नानि हेमलक्षपलानि च । श्रद्धया ब्रह्मचारिभ्यः संप्रदद्यात्समर्चयन् ॥ १३.१३२{१३२} ॥ यद्येतद्दीयते दानं त्वया गृहपते तथा । भग्नकुष्माण्डदरिनमहिषीशतदक्षिणा ॥ १३.१३३{१३३} ॥ पुरा दत्ता नंदराज्ञा अस्माकं ब्रह्मचारिणाम् । पादस्फोटामयस्तस्य शांतोऽभूत्तत्प्रभावतः ॥ १३.१३४{१३४} ॥ तथास्य सर्वपापानि विनक्ष्यन्ति न संशयः । ततः सर्वेऽपि रोगाश्च विनक्ष्यन्ति क्रमाद्द्रुतम् ॥ १३.१३५{१३५} ॥ ततो रोगैर्विमुक्तोऽयं कुशली स्वास्थ्यमाप्नुयात् । ततः पुष्टो विशुद्धाङ्गः सुशीलः सुकृती सुधीः । स्वकुलाचारधर्मिष्ठो वंशांश्चापि समुद्धरेत् ॥ १३.१३६{१३६} ॥ इति मत्वा त्वया साधो दातव्यं दानमादरात् । अन्यथा न भवेत्स्वस्ति तवास्य नंदनस्य च ॥ १३.१३७{१६७} ॥ इति तैर्गदितं श्रुत्वा स श्रेष्ठी परिबोधितः । तस्यात्मजस्य त्राणार्थं तथा दातुमुदाचरत् ॥ १३.१३८{[१३८]} ॥ ततः स पुनरभ्यर्च्य तान् सर्वान्स्तीर्थिकान् पतीन् । प्रददौ नवरत्नानि स्वर्णलक्षपलानि च ॥ १३.१३९{१३९} ॥ ततस्ते तीर्थिकाः सर्वे दृष्ट्वा तानि प्रमोदिताः । सर्वान्यपि प्रतिगृह्य तथाशीर्वचनं ददुः ॥ १३.१४०{१४०} ॥ स्वस्त्यस्तु ते सदा साधो कल्याणमस्तु सर्वथा । (र्म् १७६) नीरोगी सुचिरं जीव्या जयोऽस्तु ते समन्ततः ॥ १३.१४१{१४१} ॥ एतदेव समादिश्य सर्वे ते तीर्थिकास्ततः । तानि सर्वाणि वस्तूनि प्रतिगृह्याश्रमं ययुः ॥ १३.१४२{१४२} ॥ तथापि तस्य रोगा न शमिता वर्द्धिताः क्रमात् । स्वदैवफलभोग्यानि भोक्तव्यानि हि सर्वथा ॥ १३.१४३{१४३} ॥ ततस्तज्जनको दृष्ट्वा स्वात्मजं तं रुजातुरम् । निराशामूर्छितो भूमौ निपतं व्यलपत्तथा ॥ १३.१४४{१४४} ॥ हा दैव किं मया पापं दारुणं प्रकृतं पुरा । यतोऽयं स्वात्मजः पुत्रः पुरो मे मरणं व्रजेत् ॥ १३.१४५{१४५} ॥ कृतान्युपाययत्नानि दानानि विविधानि च । सर्वाण्येतानि मत्पापैर्निस्फलानि भवन्ति हि ॥ १३.१४६{१४६} ॥ किं मयात्रापि कर्त्तव्यं कोऽत्र मे हितमादिशेत् । सर्वथाहं विनष्टोऽस्मि कोऽपि त्राता न विद्यते ॥ १३.१४७{१४७} ॥ कस्यात्र शरणं यास्ये को नो रक्षेद्दयादृशा । सर्वे वयं विनष्टास्म हा दैव शरणं व्रजे ॥ १३.१४८{१४८} ॥ इत्येवं विलपंतं तं जनकं वडिकोऽपि सः । दृष्ट्वा शनैः समाहूय पुर एवमभाषत ॥ १३.१४९{१४९} ॥ भो तात किं त्वयात्रापि कर्त्तव्यं हि मयापि च । सर्वेषामपि जन्तूनां दैवगतिः प्रमाणिका ॥ १३.१५०{१५०} ॥ इति मत्वा विषादत्वं हृदये मा कृथास्त्यज । संबुद्धशरणं कृत्वा भज नित्यमनुस्मरन् ॥ १३.१५१{१५१} ॥ बुद्ध एव जगच्छास्ता त्राता लोकहितंकरः । दुर्गतितारको नाथो भर्त्ता सद्गतिनायकः ॥ १३.१५२{१५२} ॥ तदेवं सुगतं स्मृत्वा सद्धर्मं समुपाश्रयन् । संघानां भजनं कृत्वा चिनु पुण्यं समाहितः ॥ १३.१५३{१५३} ॥ त्रिरत्ने साधितं पुण्यं न क्षिणुयात्कदा चन । यदि दैवाद्विपत्तिः स्यात्पुण्यं तु लभते वरम् ॥ १३.१५४{१५४} ॥ पुण्येन रक्ष्यते लोकः पुण्येन सद्गतिं व्रजेत् । तस्मात्पुण्यं महारत्नं चिनु धैर्यं समाश्रयन् ॥ १३.१५५{१५५} ॥ अवश्यमरणे लोके किं विषादेन सिद्ध्यते । इति मत्वापि तं बुद्धं स्मृत्वा भज समाहितः ॥ १३.१५६{१५६} ॥ तथाहं वा तमेवात्र संबुद्धं शरणं व्रजन् । संस्मृत्वा भजनं कुर्वन् व्रजेय मरणं ध्रुवम् ॥ १३.१५७{१५७} ॥ यदि तस्य जिनेन्द्रस्य कृपास्ति मयि पापिनि । (र्म् १७७) तत्कृपादृक्प्रसादेन जीवेय नीरुजः पुनः ॥ १३.१५८{१५८} ॥ यदि दैवबलेनाहं मृते तत्स्मृतिपुण्यतः । सर्वथा दुर्गतिं त्यक्त्वा सद्गतिं पुनराप्नुयाम् ॥ १३.१५९{१५९} ॥ एवं ज्ञात्वा त्वया तात मा क्रियतां विषादता । संसारेऽवश्यं मर्त्तव्यं सर्वेषामपि जन्मिनाम् ॥ १३.१६०{१६०} ॥ इत्युक्त्वा स रुजार्त्तोऽपि वडिको धैर्य्यमाश्रयन् । संबुद्धं शरणं कृत्वा स्मृत्वा तस्थौ समाहितः ॥ १३.१६१{१६१} ॥ तथा स गृहभृच्छ्रेष्ठी श्रुत्वैतदात्मजोदितम् । सत्यमेतत्परिज्ञाय बुद्धं स्मृत्वा तथावदत् ॥ १३.१६२{१६२} ॥ नमो बुद्धाय धर्माय संघाय च सदा स्मरे । अद्यारभ्य सदा नित्यं भवतां शरणं व्रजे ॥ १३.१६३{१६३} ॥ यदि वोऽस्ति कृपा लोके रक्षन्तु नः सुदुःखिनः । सर्वथा कृपया दृष्ट्या दृष्ट्वाशु त्रातुमर्हति ॥ १३.१६४{१६४} ॥ यथान्ये त्रिभवे लोका भवद्भिः प्रतिपालिताः । तथास्मान् कृपया दृष्ट्वा त्रातुमर्हति सर्वथा ॥ १३.१६५{१६५} ॥ रक्षतु भगवन्नाथ जीवयेयं ममात्मजम् । कृपयानुग्रहं कृत्वा पुत्ररत्नं प्रयच्छ मे ॥ १३.१६६{१६६} ॥ यदि जीवेदयं पुत्रो भवद्दृष्टिप्रसादतः । भवतां शरणे स्थित्वा चरतु व्रतमादरात् ॥ १३.१६७{१६७} ॥ इत्येवं स्मरणं कृत्वा संबुद्धशरणं व्रजन् । स श्रेष्ठी तं सुतं दृष्ट्वा तस्थौ मोहविनोदितः ॥ १३.१६८{१६८} ॥ तस्मिन्नेव क्षणे लोकां त्रातुं स भगवान्मुनिः । संपश्यन् कृपया दृष्ट्या प्राद्राक्षीत्तान् सदुःखिनः ॥ १३.१६९{१६९} ॥ तथा तान् दुःखिनो दृष्ट्वा भगवान् स जिनेश्वरः । सहसा तान् परित्रातुं बुद्धरस्मिं व्यमुञ्चत ॥ १३.१७०{१७०} ॥ ताभिः कनकवर्णाभिः संबुद्धरश्मिभिस्तदा । समन्तात्समतिक्रम्य तद्गृहमवभासितम् ॥ १३.१७१{१७१} ॥ ततो मैत्र्यंशवश्चापि तेन भगवता पुनः । समुत्षृष्टास्तनौ तस्य पर्यस्पृशन् प्रसादिताः ॥ १३.१७२{१७२} ॥ ततस्तस्य तनुस्तैः संस्पृष्टमात्रे समंततः । प्रह्लादिता सुखप्राप्ता स्वास्थ्यतां समुपाययौ ॥ १३.१७३{१७३} ॥ ततः स वडिकः स्वास्थ्यं प्राप्य निर्मलमानसः । विस्मितः पितरं पश्यन् समामंत्र्यैवमब्रवीत् ॥ १३.१७४{१७४} ॥ अहो बुद्धस्य माहात्म्यमहो धर्मानुभावता । अहो संघप्रभावत्वं पश्य तात मुनेः प्रभाम् ॥ १३.१७५{१७५} ॥ (र्म् १७८) यस्यानुस्मृतिमात्रेण कृपा लोके प्रसार्यते । धन्योऽयं भगवान् बुद्धो जयत्वेवं सदा स्थितः ॥ १३.१७६{१७६} ॥ यस्य दयानुभावेन जीवेम नीरुजः सुखी । पापैश्चापि विमुक्तोऽहमिति सत्यं प्रमन्यते ॥ १३.१७७{१७७} ॥ तस्मात्तमेव शास्तारं संबुद्धं शरणं व्रजे । यावद्भवमनुस्मृत्वा भजेय समुपाश्रितः ॥ १३.१७८{१७८} ॥ एवं बुद्धगुणान् स्मृत्वा वडिकः स प्रमोदितः । कृताञ्जलिः स्मरन् भूयः प्रणत्वैवमयाचत ॥ १३.१७९{१७९} ॥ नमस्ते भगवन्नाथ भवतां शरणं व्रजे । यावद्भवं त्रिरत्नानां भवेयं सेवकः सदा ॥ १३.१८०{१८०} ॥ इत्येवं सुगतं स्मृत्वा वडिकः सोऽभिबोधितः । भूयो भूयः स्मरन्नत्वा तस्थौ स्वास्थ्यत्वमागतः ॥ १३.१८१{१८१} ॥ तदा स भगवान् बुद्धो दृष्ट्वा तं शुद्धमानसम् । सद्धर्मं समुपादेष्टुं तद्द्वारे समुपासरत् ॥ १३.१८२{१८२} ॥ तद्द्वारसमुपासीनं तं मुनीन्द्रं रविप्रभम् । दृष्ट्वैव विस्मितो द्वास्थः सहसा गृहमाविशत् ॥ १३.१८३{१८३} ॥ तत्र गृहपतिं दृष्ट्वा वडिकं तं च सादरम् । पुरतः समुपेत्यैव व्यज्ञापयत्ससत्वरः ॥ १३.१८४{१८४} ॥ गृहपते मुनीन्द्रोऽत्र गृहद्वार उपस्थितः । तदत्र सहसोपेत्य समामंत्र्य प्रवेशय ॥ १३.१८५{१८५} ॥ इति तेनोदितं श्रुत्वा वडिकः स प्रसादितः । उत्थितः सहसोपेत्य तं मुनीन्द्रं मुदानमत् ॥ १३.१८६{१८६} ॥ नत्वा तं सुगतं गेहे प्रज्ञप्य स्वासनं मुदा । विज्ञप्य समुपामंत्र्य प्रवेशयंस्तथार्थयन् ॥ १३.१८७{१६७!} ॥ स्वागतं भगवन् वांछे भवतां शरणं मुने । प्रविशतु जगन्नाथ विजयस्वासने शुभे ॥ १३.१८८{१६८} ॥ इति तेनोदिते बुद्धो भगवान् स समाविशन् । स्वासने समुपासीनो वडिकं तं तथावदत् ॥ १३.१८९{१६९१} ॥ किं ते वडिक दुःखत्वं वाधकश्च कथं वद । इति भगवता पृष्टो वडिकः स तथावदत् ॥ १३.१९०{१९०} ॥ कायिकं जायते दुःखं चेतसिकं च मे मुने । तद्भवान् कृपया दृष्ट्या शमयेत्तत्प्रबाधनम् ॥ १३.१९१{१९१} ॥ इति तद्विज्ञापितं श्रुत्वा भगवान् स मुनीश्वरः । (र्म् १७९) तच्चित्तदुःखशान्त्यर्थं मैत्रीधर्ममुपादिशत् ॥ १३.१९२{१९२} ॥ वडिकात्र सदा लोके मैत्रचित्तं समाचर । अनेन ते मनोदाहं प्रशाम्येत सदापि हि ॥ १३.१९३{१९३} ॥ इत्यादिश्य मुनीन्द्रः स पुनरेवं व्यचिंतयत् । वतेन्द्रक्षीरिकां नाम महौषधां समानयेत् ॥ १३.१९४{१९४} ॥ इति चित्तमतं शास्तुः परिज्ञाय सुराधिपः । आदाय क्षीरिकां नाम महौषधीमुपानयत् ॥ १३.१९५{१९५} ॥ तत्र सो सुरराजस्तं भगवन्तं प्रणम्य ताम् । महौषधीमुपस्थाप्य पुर एवं समब्रवीत् ॥ १३.१९६{१९६} ॥ भगवन् प्रतिगृह्णातु दिव्यौषधीमिमां भवान् । अनयात्र यथाकार्यं साधयतु सुखाप्तये ॥ १३.१९७{१९७} ॥ इत्युक्ते तेन शक्रेण दृष्ट्वा तां भगवान्मुनिः । गृहीत्वा वडिकायैवं प्रदत्वा चैवमादिशत् ॥ १३.१९८{१९८} ॥ गृहाण वडिकेमां ते कायिकदुःखशामिनीम् । अनया ते शरीरे संस्क्रियतामुपचारणैः ॥ १३.१९९{१९९} ॥ इत्यादिष्टे मुनीन्द्रेण वडिकः सोऽनुमोदितः । तथेति तां समादाय यथादिष्टमुपाचरत् ॥ १३.२००{२००} ॥ ततस्तस्य तनू रोगैर्विमुक्ता परिपुष्टिता । क्रमेण शाम्यसौन्दर्यं प्राप्याभिपर्यशोभत ॥ १३.२०१{२०१} ॥ ततः शास्त्रा यथादिष्टं वडिकेन तथा हृदि । मैत्री प्रभाविता लोके स्वात्मजे सुप्रिये यथा ॥ १३.२०२{२०२} ॥ तदा तस्य महद्दुःखं चेतसिकं शशाम तत् । महामैत्र्या परिषिक्ते हृदयेऽग्निरिवाम्बुभिः ॥ १३.२०३{१०३!} ॥ ततः स वडिकः स्वस्थः परिशुद्धेन्द्रियः सुधीः । भगवन्तं तमानम्य प्रार्थयदेवमादरात् ॥ १३.२०४{१०४} ॥ वन्देऽहं भवतां पादौ सर्वदा शरणं व्रजे । तथा च सर्वदा नाथ कृपया त्रातुमर्हति ॥ १३.२०५{१०५} ॥ यद्येवं भवतां शास्तः कृपादृष्टिर्न विद्यते । मृतोऽहं नरकेऽद्यापि गतो दुःखान्यवाप्नुयाम् ॥ १३.२०६{१०६} ॥ यदेवं स्वस्थितो जीवे तत्ते कृपाम्बुभावतः । तथा मेऽनुग्रहं कर्तुं नित्यमर्हति सर्वदा ॥ १३.२०७{१०७} ॥ इत्येवं प्रार्थनां कृत्वा भूयः स वडिको मुदा । साञ्जलिः प्रणतिं कृत्वा पश्यंस्तस्थौ मुनीश्वरम् ॥ १३.२०८{१०८} ॥ तथा तज्जनकः श्रेष्ठी सदारः संप्रमोदितः । त्रिरत्ने शरणं कृत्वा संबुद्धं तं समर्चयत् ॥ १३.२०९{१०९} ॥ (र्म् १८०) ततः स गृहभृच्छ्रेष्ठी दृष्ट्वा तं सुगतं मुदा । कृताञ्जलिपुटो नत्वा प्रार्थयदेवमादरात् ॥ १३.२१०{२१०} ॥ वन्दे ते चरणौ शास्तः सर्वदा शरणं व्रजे । एवं नोऽनुग्रहं कर्तुंमर्हति कृपया सदा ॥ १३.२११{२११} ॥ ततः स भगवान् बुद्धस्तथास्त्विति समादिशत् । ऋद्ध्याकाशं समुत्प्लुत्य स्वमाश्रममुपाययौ ॥ १३.२१२{२१२} ॥ तत्र स भगवान् प्राप्तः सभामध्ये समाश्रितः । एतद्वृष्टि समाख्याय तस्थौ धर्मं समादिशत् ॥ १३.२१३{२१३} ॥ तदा स वडिको भूयो बुद्धगुणाननुस्मरन् । स संघं सुगतं भोज्यैः पूजयितुं समैछत ॥ १३.२१४{२१४} ॥ तदा स नृपते राज्ञः प्रसेनजित आनतः । एतत्सर्वं प्रवृत्तांतं निवेद्यैवमभाषत ॥ १३.२१५{२१५} ॥ राजन्नहं महारोगी त्रिरत्नशरणं व्रजे । तत्त्रिरत्नकृपादृष्टेर्जीवे रोगैर्विमोचितः ॥ १३.२१६{२१६} ॥ तन्मया स मुनीन्द्रोऽपि सर्वसंघैः सहाधुना । समामंत्र्य गृहे भोज्यैः पूजयितुं समिच्छ्यते ॥ १३.२१७{२१७} ॥ तन्मेऽनुग्रहणं कृत्वा लोकानां पुण्यवृद्धये । तदधिवासनां कृत्वा समनुज्ञापय प्रभो ॥ १३.२१८{२१८} ॥ इति तेनार्थितं श्रुत्वा स राजाभ्यनुमोदितः । वडिकं तैः समालोक्य प्रशंस्यैव समादिशत् ॥ १३.२१९{२१९} ॥ वडिक त्वं महासाधुस्तद्बुद्धशरणं गतः । तथानुश्रद्धया नित्यं भज रत्नत्रयं सदा ॥ १३.२२०{२२०} ॥ इति राज्ञाभ्यनुज्ञातं श्रुत्वा स वडिको मुदा । नृपतिं तं प्रणत्वैवं स्वगृहं समुपाययौ ॥ १३.२२१{२२१} ॥ तत्र गृहे समासाद्य कृत्वानुमतं पितुः । शास्तु निमंत्रणां कर्तुं विहारे समुदाचरन् ॥ १३.२२२{२२२} ॥ तत्र स समुपाविष्टो दृष्ट्वा तं श्रीघनं मुदा । कृताञ्जलिपुटो नत्वा प्रार्थयदेवमादरात् ॥ १३.२२३{२२३} ॥ भगवंस्तद्विजानीयाद्यदर्थं समुपाव्रजे । तथाप्यत्र भवदग्रे प्रार्थयेऽनुग्रहं कुरु ॥ १३.२२४{२२४} ॥ यदहं रोगनिर्मुक्तः पुन जन्म इवाप्तवान् । तद्भवतां कृपादृष्टेः प्रसादादितिन्मन्यते ॥ १३.२२५{२२५} ॥ तदहं भवतां सर्वसंघानां भोजनैर्गृहे । पूजयितुं समिछे तदनुग्रहीतुमर्हति ॥ १३.२२६{२२६} ॥ (र्म् १८१) इति संप्रार्थितं तेन श्रुत्वा स भगवान्मुनिः । तथेत्यभ्यनुमोदित्वा तूष्णीभूत्वाध्युवास तत् ॥ १३.२२७{२२७} ॥ ततः स वडिको मत्वा भगवताधिवासितम् । मुदा तस्य मुनेः पादौ नत्वाशु स्वगृहं ययौ ॥ १३.२२८{२२८} ॥ तत्र स सहसा गेहे वन्धुमित्रजनैः सह । संघार्हभोज्यपूजाङ्गं सामग्रीं समसाधयत् ॥ १३.२२९{२२९} ॥ ततः स सर्वसामग्रीं साधयित्वासनानि च । प्रज्ञप्य शुद्धिते भूमौ मंदयित्वा समन्ततः ॥ १३.२३०{२३०} ॥ ततस्तं श्रीघनं बुद्धं ससंघं स्वजनैः सह । आमंत्रितुं विहारे स सहसा समुपाचरत् ॥ १३.२३१{२३१} ॥ तत्र स समुपाविष्टो दृष्ट्वा तं श्रीघनं मुदा । ससंघं सांजलिर्नत्वा प्रार्थयदेवमादरात् ॥ १३.२३२{२३२} ॥ भगवन् साध्यते साध्यं समयो वर्त्ततेऽधुना । तद्भवां सांघिकैः सार्द्धं विजयितुं समर्हति ॥ १३.२३३{२३३} ॥ इति तेनार्थितं श्रुत्वा तथेति स मुनीश्वरः । पात्रचीवरमाधाय सर्वसंघैः सहाचरत् ॥ १३.२३४{२३४} ॥ तत्र मार्गेषु सर्वत्र नगरे च समन्ततः । प्रकाशयन् प्रातिहार्यं तद्गृहं समुपाविशत् ॥ १३.२३५{२३५} ॥ तत्र गृहे समासाद्य पादार्घं प्रतिगृह्य सः । स्वासने समुपाविश्य क्रमात्तस्थौ ससांघिकः ॥ १३.२३६{२३६} ॥ तदा स वडिको दृष्ट्वा तं बुद्धं स्वासने स्थितम् । ससंघं सर्वपूजाङ्गैः सर्वपुष्पैः समर्चयत् ॥ १३.२३७{२३७} ॥ ततश्च सुरसैर्भोज्यैः सुप्रणीतैः सुहाधितैः । वर्णगन्धरसोपेतैः सर्वैस्तां समतोषयत् ॥ १३.२३८{२६८!} ॥ ततश्च भोजनान्ते स पात्रादीन्यपनीय च । मुखादीं शोधयित्वा च पूगौषधीन् प्रढौकयत् ॥ १३.२३९{२६९} ॥ ततः स प्राञ्जलिर्नत्वा ससंघं सुगतं मुदा । पुरस्थो मनसा ह्येवं प्रणिधानं व्यधात्स्मरन् ॥ १३.२४०{२७०} ॥ अनेन कुशलेनाहं लोकेऽन्धेऽपरिणायके । यथायं भगवान् बुद्धस्तथा भूयासमात्मवित् ॥ १३.२४१{२७१} ॥ यथानेन मुनीन्द्रेण जगल्लोकोऽभिपालितः । तथाहं सर्वलोकानां पालयेयं समन्ततः ॥ १३.२४२{२७२} ॥ अतीर्णांस्तारयिष्यामि मोचयिष्याम्यमोचितान् । अनास्वस्तान् समाश्वास्य स्थापयिष्यामि निर्वृतौ ॥ १३.२४३{२७३} ॥ (र्म् १८२) इत्येवं मनसा तेन प्रणिधानं कृतं मुदा । मत्वा स भगवान् बुद्धो स्मितं प्राविर्व्यधान्मुदा ॥ १३.२४४{२७४} ॥ तदा तस्य मुनीन्द्रस्य मुखात्पंच सुरस्मयः । निसृत्य त्रिषु लोकेषु भासयन्तः समासरन् ॥ १३.२४५{२७५} ॥ यापि काश्चिदधोलोके प्रसृता नरकेषु ताः । उष्णेषु शीतलीभूता शीतलेषु तथोष्णिकाः ॥ १३.२४६{२७६} ॥ तदा ताभिः परिस्पृष्टाः सर्वे नैरयिका जनाः । महत्सौख्यं समासाद्य विस्मिताश्चैवमालपत् ॥ १३.२४७{२७७} ॥ अहो सौख्यं कथं ह्येवमन्यत्र किं गता वयम् । कस्य पुण्यानुभावेन क्वास्माकं जायते सुखम् ॥ १३.२४८{२७८} ॥ इति चिन्ताभिदग्धानां तेषां चित्तप्रबोधने । भगवान्निर्मितं बुद्धं संप्रेष्य समदर्शयत् ॥ १३.२४९{२७९} ॥ तत्र तं निर्मितं बुद्धं दृष्ट्वा सर्वेऽपि ते मुदा । विस्मिताः सहसंमील्य पुनरेवं वभाषिरे ॥ १३.२५०{२८०} ॥ अहो समन्तभद्रोऽयं पुरुषो दृश्यतेऽधुना । नूनमस्यानुभावेन सौख्यं नो जायते खलु ॥ १३.२५१{२८१} ॥ इति संभाष्य ते सर्वे तस्मिन् बुद्धे प्रसादिताः । नमो बुद्धाय धर्माय संघाय चेति प्रावदन् ॥ १३.२५२{२८२} ॥ ततः सर्वेऽपि ते सत्वास्त्रिरत्नस्मृतिपुण्यतः । ते दुर्गतिविनिर्मुक्ताः सद्गतिं समुपाययुः ॥ १३.२५३{२८३} ॥ एवं ता रश्मयः सर्वा अवभास्य समंततः । सर्वसत्वान् समुद्धृत्य मुनेः प्रत्याययुः पुनः ॥ १३.२५४{२८४} ॥ तथा या रश्मयः काश्चिदुपरिष्टात्प्रसारिताः । ताः सर्वान् देवलोकानामवभास्य समन्ततः ॥ १३.२५५{२८५} ॥ यावद्भवाग्रपर्यंतं भासयन्तः प्रसारिताः । एवं चापि महाशब्दमुद्घुष्य समुदाचरन् ॥ १३.२५६{२८६} ॥ अनित्यं खलु संसारं दुःखं शून्यमनात्मकम् । तद्भवे सद्गतिं हित्वा सद्धर्मं भजतादरात् ॥ १३.२५७{२८७} ॥ निष्क्रामतारभध्वं च युज्यध्वं बुद्धशासने । धुनीत मृत्युसैन्यं च नडागारमिव द्विपः ॥ १३.२५८{२८८} ॥ योऽप्यस्मिन् धर्मवैनेये ह्यप्रमत्तश्चरेत्सदा । (र्म् १८३) स हित्वा जातिसंसारं दुःखस्यान्तं करिष्यति ॥ १३.२५९{२८९} ॥ इत्येवं तन्महाशब्दं श्रुत्वा सर्वेऽपि ते सुराः । तथेत्यभ्यनुमोदन्तस्त्रिरत्नशरणं ययुः ॥ १३.२६०{२९०} ॥ तथा ता अर्चिषः सर्वा अवभास्य समंततः । पुनः प्रत्यागतास्तस्य मुनेरन्तिकमाययुः ॥ १३.२६१{२९१} ॥ ततस्ता अर्चिषः सर्वाः संमील्य समुपास्थिताः । कृत्वा प्रदक्षिणां त्रैधमुष्णीषेऽन्तर्दधौ मुनेः ॥ १३.२६२{२९२} ॥ अथानंदस्तमालोक्य विस्मितः सहसोत्थितः । कृताञ्जलिपुटो नत्वा पप्रछैवं मुनीश्वरम् ॥ १३.२६३{२९३} ॥ भगवन् भवतो वक्त्रात्पंचवर्णाः सुरश्मयः । विनिसृता दिशः सर्वा भाषयन्ति समन्ततः ॥ १३.२६४{२९४} ॥ नाकारणं जिना बुद्धा दर्शयन्ति स्मितं क्वचित् । भवत्स्मितं समालोक्य सर्वे भवन्ति विस्मिताः ॥ १३.२६५{२९५} ॥ तद्धेतु श्रोतुमिछंति सर्वेऽपीमे सभाश्रिताः । तदेषां संशयं छेतुं तद्धेतु समुपादिश ॥ १३.२६६{२९६} ॥ इति तेनार्थितं श्रुत्वा भगवान् स मुनीश्वरः । तां च सर्वां सभां दृष्ट्वा तथानन्दमभाषत ॥ १३.२६७{२९७} ॥ पश्यानंद ममानेन वडिकेनानुमोदिना । संघेषु श्रद्धया भक्त्या सत्कृत्य भजनं कृतम् ॥ १३.२६८{२९८} ॥ एतत्पुण्यविपाकेन वडिकोऽयं सुधीः कृती । क्रमाद्बोधिचरीः पूर्य दशभूमीश्वरो भवन् ॥ १३.२६९{२९९} ॥ सर्वमारगणां जित्वा संबोधिं समवाप्तवान् । श्लक्ष्णवाण्यभिधो बुद्धस्तथागतो भविष्यति ॥ १३.२७०{३००} ॥ यदनेन त्रिरत्नेषु शरणं संप्रसादिना । प्रणिधानं कृतं तेन संबुद्धोऽयं भवेद्ध्रुवम् ॥ १३.२७१{३०१} ॥ एवं मत्वा तथानंद त्रिरत्नशरणं गतः । सत्कृत्य समुपाश्रित्य भज नित्यं समाहितः ॥ १३.२७२{३०२} ॥ ये सत्वाः श्रद्धया स्मृत्वा त्रिरत्नशरणं गताः । दुर्गतिं ते न गछन्ति भवन्ति बोधिभागिनः ॥ १३.२७३{३०३} ॥ एवं मत्वा त्रिरत्नानां सत्कृत्य श्रद्धया मुदा । संस्मृत्य शरणं गत्वा भक्तव्यं बोधिवांछिभिः ॥ १३.२७४{३०४} ॥ इत्यादिष्टं मुनीन्द्रेण श्रुत्वानंदः स मोदितः । सांघिकं सह लोकैश्च तथेति प्राभ्यनंदत ॥ १३.२७५{३०५} ॥ ततः स भगवांस्तस्मै वडिकाय सुभागिने । दत्वाशीर्वचनं भूयः समामंत्र्य तमब्रवीत् ॥ १३.२७६{३०६} ॥ (र्म् १८४) वडिक त्वं महाभाग त्रिरत्नं शरणं गतः । बोधिचर्य्यां चरन्नित्यं संबोधिं समवाप्नुयाः ॥ १३.२७७{३०७} ॥ इति सत्यं परिज्ञाय सर्वसत्वहितार्थभृत् । तथा रत्नत्रयं स्मृत्वा भज नित्यं समाहितः ॥ १३.२७८{३०८} ॥ इत्यादिश्य मुनीन्द्रः स संघैः सार्द्धं समुत्थितः । वडिकं तं समामंत्र्य स्वविहारं ययौ तथा ॥ १३.२७९{३०९} ॥ तथा स वडिको नित्यं त्रिरत्नशरणं गतः । सदा लोकहितं कृत्वा बोधिचर्यां समाचरत् ॥ १३.२८०{३१०} ॥ एतन्मे गुरुणादिष्टं श्रुतं मया नराधिप । तथा ते कथ्यते राजं श्रुत्वा चैवं प्रकाशय ॥ १३.२८१{३११} ॥ तथा त्वयापि राजेन्द्र सत्वानां हितसाधने । त्रिरत्नशरणैः कृत्वा कर्त्तव्या बोधिचारिकाः ॥ १३.२८२{३१२} ॥ तथा ते सर्वदा नित्यं सर्वत्र मंगलं भवेत् । क्रमाद्बोधिचरीं पूर्य संबोधिमपि चाप्नुयाः ॥ १३.२८३{३१३} ॥ इति मत्वा महाराज प्रजाश्चापि प्रबोधयन् । सद्धर्मे संप्रतिस्थाप्य सर्वथा त्रातुमर्हसि ॥ १३.२८४{३१४} ॥ इति तेनोपगुप्तेन समादिष्टं निशम्य सः । राजा तथेति विज्ञप्य प्राभ्यनन्दत्सपार्षदः ॥ १३.२८५{३१५} ॥ श्रुत्वावदानं वडिकस्य साधोरिदं नरा येऽभ्यनुमोदयन्ति । सर्वेऽपि ते लोकहितानुरक्ता भवन्ति बोधिगुणलाभिका हि ॥ १३.२८६{३१६} ॥ ++ इति रत्नावदानतत्वे वडिकावदानं समाप्तम् ++ (र्म् १८५) xइव्गान्धर्विकावदान अथाशोको महीपालः श्रोतुमन्यत्सुभाषितम् । उपगुप्तं यतिं नत्वा प्रार्थयदेवमादरात् ॥ १४.१{१} ॥ भदन्त श्रोतुमिच्छामि पुनरन्यत्सुभाषितम् । तद्यथा गुरुणाख्यातं तथादेष्टुं च मेऽर्हति ॥ १४.२{२} ॥ इति तेन नरेन्द्रेण प्रार्थितं स जिनात्मजः । श्रुत्वा तं नृपतिं दृष्ट्वा पुनरेवं समादिशत् ॥ १४.३{३} ॥ शृणु राजन्मयाख्यातं यथा मे गुरुणोदितम् । तथा श्रूत्वानुमोदित्वा शुभे चरितुमर्हसि ॥ १४.४{४} ॥ पुरा स भगवान् बुद्धः श्रावस्त्यां बहिराश्रमे । जेतारण्ये महोद्याने विहारे मणिमण्डिते ॥ १४.५{५} ॥ भिक्षुभिः श्रावकैः सार्द्धं चैलकैर्व्रतिभिस्तथा । भिक्षुणीभिस्तथान्यैश्चा महासात्वैरुपासकैः ॥ १४.६{६} ॥ विहृत्य सर्वसत्वानां समितिस्थितः । संबोधिसाधानं धर्ममुपादेष्टुं समारभत् ॥ १४.७{७} ॥ तदा तस्य मुनीन्द्रस्य वक्त्रपद्माद्विनिसृतम् । तत्सद्धर्मामृतं पातुं सर्वे सत्वा उपगताः ॥ १४.८{८} ॥ ब्रह्मशक्रादि देवेन्द्राः सर्वे लोकाधिपा अपि । दैत्येन्द्राः सगणा यक्षाः सिद्धगंधर्वराक्षसाः ॥ १४.९{९} ॥ विद्याधरगणाश्चपि नागेंद्राश्च महोरगाः । गरुडाः किन्नरेन्द्राश्च तथान्येऽपि समागताः ॥ १४.१०{१०} ॥ ब्राह्मणा ऋषयश्चापि तापसा ब्रह्मचारिणः । यतयो योगिनो विज्ञास्तथान्ये तीर्थिका अपि ॥ १४.११{११} ॥ रजानः क्षत्रियाश्चापि वीरा राजकुमारकाः । अमात्या मंत्रिणश्चापि वैश्याश्चापि प्रजाधिपाः ॥ १४.१२{१२} ॥ श्रेष्ठिनो वणिजश्चापि सार्थवाहा महाजनाः । पौरा जानपदा ग्राम्यास्तथा कार्पटिका अपि ॥ १४.१३{१३} ॥ एवमन्येऽपि सत्वाश्च सर्वे लोकाः समागताः । तत्सद्धर्मामृतं पातुं तद्विहारे उपाविशत् ॥ १४.१४{१४} ॥ तत्र तं श्रीघनं दृष्ट्वा समभ्यर्च्य प्रणम्य च । सत्कृत्य समुपाश्रित्य परिवृत्य सामान्ततः ॥ १४.१५{१५} ॥ तं मुणीन्द्रं समालोक्य श्रोतुं तद्धर्मदेशनाम् । साञ्जलयः प्रसन्नास्या उपतस्थुः समाहिताः ॥ १४.१६{१६} ॥ तथा तान् समुपासीनान् दृष्ट्वा स भगवाञ्जिनः । आर्यसत्यं समारभ्य सद्धर्मं समुपादिशत् ॥ १४.१७{१७} ॥ तत्सद्धर्मामृतं पीत्वा सर्वे सत्वाः प्रमोदिताः । (र्म् १८६) त्रिरत्नभजनं कृत्वा वभूवुर्बोधिचारिणः ॥ १४.१८{१८} ॥ तदापि पंचमात्राणि गांधर्विकशतानि च । श्रावस्त्यां पुरि जातानि समदानि प्रचेरिरे ॥ १४.१९{१९} ॥ तदा तां समदान् दृष्ट्वा गंधर्वाधिपतेः सुतः । सुप्रियो नाम तन्मादमीर्ष्यया हन्तुमुद्ययौ ॥ १४.२०{२०} ॥ ततः स सुप्रियः सर्वगान्धर्विकसुकौशलः । दिव्यवीणां समादाय तत्रैव समुपाचरत् ॥ १४.२१{२१} ॥ सप्तस्वरानेकतंत्र्यामेकविंशतिमूर्छनाः । समुद्घोषयमानः च स्वमतिं दर्शयन् ययौ ॥ १४.२२{२२} ॥ षण्महानगरेष्वेवं पट्टनेषु समन्ततः । समुद्घोषयमानश्च श्रावस्तीं स उपाविशत् ॥ १४.२३{२३} ॥ तत्र तं समुपाविष्टं दृष्ट्वा सर्वेऽपि पौरिकाः । श्रुत्वा तदद्भुतं नादं विस्मिताः समुपाचरन् ॥ १४.२४{२४} ॥ तानि च पंचमात्राणि गांधर्विकशतान्यपि । श्रुत्वा दृष्ट्वा च सर्वाणि विस्मयं समुपाययुः ॥ १४.२५{२५} ॥ तद तानि च सर्वाणि दृष्ट्वा पंचशतान्यपि । स्वस्वमदाभिमानत्वां प्रविहाय विषेदिरे ॥ १४.२६{२६} ॥ ततः सर्वेऽपि ते तेन सहवादे भयान्विताः । नृपतेरन्तिकं गत्वा तत्प्रवृत्तिं न्यवेदयन् ॥ १४.२७{२७} ॥ जय प्रभो विजानीयाद्यद्वयं समुपागताः । तदत्र नो भयत्रस्तां त्रातुमर्हति सर्वथा ॥ १४.२८{२८} ॥ अत्रासौ सुप्रियो नाम गन्धर्वाधिपतेः सुतः । नूनं नो मदघाताय विजेतुं समुपागतः ॥ १४.२९{२९} ॥ तत्तस्याप्यभिमानत्वां निहंतुं सत्प्रतिक्रियाम् । क्रियतां सहसास्माकमिति विज्ञापनां शृणु ॥ १४.३०{३०} ॥ इति विज्ञापितं सर्वैस्तैः श्रुत्वा स नराधिपः । सर्वान्स्तान् समुपामंत्र्य पुर एवं समादिशत् ॥ १४.३१{३१} ॥ अल्पोत्सुका भवन्तोऽत्र भवते मा विषीदत । भविष्यामोऽत्र कालज्ञाश्चरतु स यथेछया ॥ १४.३२{३२} ॥ इति राज्ञा समादिष्टं श्रुत्वा तेऽभ्यनुमोदिताः । तद्विवादभयातंकं त्यक्त्वा सर्वे प्रसेदिरे ॥ १४.३३{३३} ॥ तदा स सुप्रियस्तत्र दृष्ट्वा तानभिमानिकान् । तेषां मानविघातार्थं मनसैवं व्यचिन्तयत् ॥ १४.३४{३४} ॥ अयं राजपि गांधर्वविद्याभिमानिको भवेत् । तदनेन सहात्राहं वादं कुर्यां सभाश्रये ॥ १४.३५{३५} ॥ इत्येवं निश्चयं कृत्वा सुप्रियः सोऽभिमानिकः । नृपतिं तमुपालब्धुं तत्सभां समुपाचरत् ॥ १४.३६{३६} ॥ तत्र स नृपतिर्दृष्ट्वा सुप्रियं तमुपागतम् । प्रज्ञप्यासनमामंत्र्य प्रणत्वैवमभाषत ॥ १४.३७{३७} ॥ स्वागतं ते भवन्नत्र तिष्ठासने प्रसीद मे । किमर्थेऽत्र समायासि तदादेष्टुं हि मेऽर्हसि ॥ १४.३८{३८} ॥ (र्म् १८७) इति तेनोदितं श्रुत्वा सुप्रियः स सभास्थितः । नृपतिं तं समालोक्य पुर एवमभाषत ॥ १४.३९{३९} ॥ शृणु राजन्मयाख्यातं श्रुतं यत्ते यशो महत् । तद्गुणान् भवतो द्रष्टुमिहाहं समुपाचरे ॥ १४.४०{४०} ॥ तन्मे दर्शय राजेन्द्र गान्धर्वगुणामात्मनः । कस्ते सास्ता गुरुर्वास्ति तं चापि मे प्रदर्शय ॥ १४.४१{४१} ॥ इति तेनोदितं श्रुत्वा स राजा प्रतिभाणवान् । सुप्रियं तं समालोक्य तथेत्येवमभाषत ॥ १४.४२{४२} ॥ साधु पश्य महाभाग दर्शयिस्यामि तं गुरुम् । यो मे शास्ता महाभिज्ञः सर्वविद्यागुणाधिपः ॥ १४.४३{४३} ॥ स मे शास्ताधुनेहैव सर्वसत्वहितार्थतः । जेतारण्ये महोद्याने निवशति वृषं दिशन् ॥ १४.४४{४४} ॥ साधु पश्य महाभाग तं गुरुं मे हितार्थदम् । तदेहि सह यास्याम शास्तारं दर्शयामि तम् ॥ १४.४५{४५} ॥ इति तेन नरेन्द्रेण समाख्यातं स सुप्रियः । श्रुत्वा तथेति प्रमोद्य गन्तुमभाषत ॥ १४.४६{४६} ॥ साधु राजन् समिछामि शास्तारं तत्प्रदर्शय । तेन सह विवादानि कुर्यां तत्र नयाशु माम् ॥ १४.४७{४७} ॥ इति तेनोदितं श्रुत्वा नृपतिः स तथेति हि । सुप्रियं तं समादाय विहारे गन्तुमैछत ॥ १४.४८{४८} ॥ ततः स नृपतिस्तेन सुप्रियेणाभिमानिना । तैश्च पंचशतैरन्यैर्गान्धर्विकैः सहाचरत् ॥ १४.४९{४९} ॥ तस्मिन्नवसरे बुद्धो भगवान् स मुनीश्वरः । लोके सत्वान् समुद्धर्तुं कृपया समपश्यत ॥ १४.५०{५०} ॥ तदा तेन नरेशेन सार्द्धमेवमुपागतम् । सुप्रियं तं स आलोक्य मनसैव व्यचिन्तयत् ॥ १४.५१{५१} ॥ अहो वत सुधीर्या सा गन्धर्वाधिपनन्दनः । पञ्चशिखोऽभिधो वीणामादायेहोपसंक्रमेत् ॥ १४.५२{५२} ॥ इति तेन मुनीन्द्रेण मनसा परिचिन्तितम् । मत्वा पञ्चशिखः सोऽपि तथागन्तुं समैछत ॥ १४.५३{५३} ॥ ततः स सप्तगंधर्वसहस्रेण सहान्वितः । वैडूर्यदण्डवीणां संप्रादाय सहसाचरन् ॥ १४.५४{५४} ॥ तथा स संक्रमंस्तत्र विहारे समुपाविशन् । दृष्ट्वा तं श्रीघनं नत्वा तां वीणां समुपानयत् ॥ १४.५५{५५} ॥ ततः स सुगतं भक्त्या समभ्यर्च्य प्रसन्नधीः । तत्सद्धर्मामृतं पातुं तत्सभायामुपाश्रयत् ॥ १४.५६{५६} ॥ तदा स सुप्रियोऽप्येनं दृष्ट्वा मानाभिगर्वितः । तां वीणां क्वनयन्नग्रेऽनुश्रावितुं समारभत् ॥ १४.५७{५७} ॥ तत्प्रक्वाणात्स्वरा सप्त एकै विंशति मूर्छनाः । समुत्थिताः सर्वलोकचेतान्सि पर्यमोहयन् ॥ १४.५८{५८} ॥ तदा सर्वेऽपि ते लोकाः श्रुत्वा तत्प्रक्वणान्मुदा । नृपतिप्रमुखाश्चापि परं विस्मयमायजुः ॥ १४.५९{५९} ॥ (र्म् १८८) ततः स भगवांश्चापि तस्य मानाभिघातने । वैडूर्यदण्डवीणां तामनुश्रावितुमारभत् ॥ १४.६०{६०} ॥ एकैकस्यां हि तत्तंत्र्या नैकस्वरविशेषिताः । मूर्छनाश्च तथा नानाविधा निश्चारितास्तथा ॥ १४.६१{६१} ॥ ततः शब्दात्समुच्चेरुर्गाथा एवं प्रचोदिनाः । तद्यथेह भवे सर्वं दुःखं शून्यं ह्यनात्मकम् ॥ १४.६२{६२} ॥ इदं कायं च वीणावदिन्द्रियाणि स्वरानी च । मूर्छना इव चित्तानि ज्ञात्वा बोधौ समाचर ॥ १४.६३{६३} ॥ एतद्गाथामनुश्रुत्वा सर्वे लोका नृपादयः । सत्यमेतदिति ज्ञात्वा बोधिचित्तं प्रलेहिरे ॥ १४.६४{६४} ॥ तदा स सुप्रियोऽप्येवं श्रुत्वा मत्वानुमोदितः । परितत्याज गांधर्वविद्यामदाभिमानताम् ॥ १४.६५{६५} ॥ ततो निर्यात्य वीणां स गन्धकुट्यां विरागितः । भगवच्छासने तत्र प्रव्रजितुं समैछत ॥ १४.६६{६६} ॥ तदा तं श्रीघनं नत्वा सुप्रियः सोऽनुमोदितः । कृताञ्जलिः पुरः स्थित्वा प्रव्रज्यां समयाचत ॥ १४.६७{६७} ॥ वंदे ते चरणौ शास्त भवतां शरणं व्रजे । तन्मेऽत्रानुग्रहं कृत्वा प्रव्रज्यां दातुमर्हति ॥ १४.६८{६८} ॥ इति तेनार्थितं श्रुत्वा भगवान् स मुनीश्वरः । दृष्ट्वा तदाशयं शुद्धं गंधर्वं तं तथावदत् ॥ १४.६९{६९} ॥ गंधर्व सौगते धर्मे प्रव्रजितुं यदीछसि । पित्रोराज्ञां समासाद्य प्रेहि दास्यामि ते व्रतम् ॥ १४.७०{७०} ॥ इत्यादिष्टं मुनीन्द्रेण श्रुत्वा स सुप्रियो मुदा । तथेति तं मुनिं नत्वा सहसर्द्ध्या गृहं ययौ ॥ १४.७१{७१} ॥ तत्र स सहसा प्राप्तो नत्वा तौ पितरौ मुदा । साञ्जलिः पुरतः स्थित्वा प्रार्थयदेवमादरात् ॥ १४.७२{७२} ॥ शृणु मे वाञ्छितं तात यदि ते कृपया मयि । तन्ममानुग्रहं कृत्वा सद्धर्मे मां नियोजय ॥ १४.७३{७३} ॥ अहं हि सौगतं धर्मं दृष्ट्वा वाञ्छामि तद्व्रतम् । तत्प्रव्रज्यां समासाद्य प्राप्तुमिछामि निर्वृतिम् ॥ १४.७४{७४} ॥ अनित्यं खलु संसारं तदत्रापि न मे रतिः । अवश्यं हि भवेन्मृत्युः सर्वेषां प्राणिनामपि ॥ १४.७५{७५} ॥ एवं दृष्ट्वात्र संसारे भोग्यं नेछामि निःस्पृहः । तत्प्रव्रज्याव्रतं धृत्वा प्राप्तुमिछे सुनिर्वृतिम् ॥ १४.७६{७६} ॥ अपि चासौ मुनीन्द्रो हि सदात्रैव न तिष्ठति । बुद्धकार्यं समाप्यैव निर्वृतिं सर्वथा व्रजेत् ॥ १४.७७{७७} ॥ किं चात्र सर्वदा नैवमुत्पत्स्यते मुनीश्वरः । कदा चिदेवमुत्पन्नो लोके बोधिं समादिशेत् ॥ १४.७८{७८} ॥ तथा च दुर्लभं जन्म सद्गतौ च क्षणं तथा । तत्क्षणेऽलभ्यमानेऽत्र कथं धर्मानुलप्स्यते ॥ १४.७९{७९} ॥ धर्मं विनात्र संसारे किं सारं सुखिनोऽपि हि । क्षणध्वन्सि शरीरं हि जीवितं च तृणाम्बुवत् ॥ १४.८०{८०} ॥ (र्म् १८९) धर्मेण सद्गतिं यायात्संबोधिमपि प्राप्नुयात् । तत्प्रव्रज्याचरिं धृत्वा प्राप्तुमिछेऽत्र निर्वृतिम् ॥ १४.८१{८१} ॥ तदात्र यदि वां तात कृपास्ति स्वात्मजे मयि । सर्वथानुग्रहं कृत्वा तदनुज्ञां प्रदेहि मे ॥ १४.८२{८२} ॥ इति तेनार्थितं श्रुत्वा स गन्धर्वाधिपः सुधीः । सुचिरं तं सुतं दृष्ट्वा स्नेहादेवमभषत ॥ १४.८३{८३} ॥ सत्यमेवं सुताख्यातं तथापि मे वचः शृणु । प्रव्रज्या दुष्करीचर्य्या तत्कथं त्वं समाचरेः ॥ १४.८४{८४} ॥ त्वं हि युवा प्रमत्तोऽसि मदनाक्रांतमानसः । कामभोग्यसुखारक्तस्तत्कथं तद्व्रतं चरेः ॥ १४.८५{८५} ॥ प्रव्रजितो विरक्तात्मा संसारभोग्यनिस्पृहः । सर्वान् परिग्रहान्स्त्यक्त्वा सदैकान्ती वने वसे ॥ १४.८६{८६} ॥ सुकुले दुःकुले चापि याचित्वा विरशासनम् । भुंजीथास्तत्कथं भुक्त्वा समाधिं संप्रधास्यसि ॥ १४.८७{८७} ॥ इत्येवं दुष्करं ज्ञत्वा प्रव्रज्याव्रतसाधने । सहसा मा कृथाश्चित्तं निवारय समाहितः ॥ १४.८८{८८} ॥ यद्यतिवांछसे पुत्र प्रव्रज्याग्रहणे तथा । वृद्धत्वे समुपाश्रित्य त्रिरत्नं तद्व्रतं चर ॥ १४.८९{८९} ॥ तत्त्वं यावद्युवा गेहे सौख्यं भुक्त्वा यथेप्सितम् । वृद्धत्वे तद्व्रतं धृत्वा त्रिरत्नानि सदा भज ॥ १४.९०{९०} ॥ तथा चेत्ते भवेज्जन्म साफल्यं भवचारणे । सुखं भुक्त्वा व्रतं धृत्वा निर्वृतिं वा समाप्नुयाः ॥ १४.९१{९१} ॥ इति मे वचनं श्रुत्वा मत्वैवं तत्प्रबोधितः । तावद्गृहे सुखं भुक्त्वा स्मृत्वा रत्नत्रयं वस ॥ १४.९२{९२} ॥ इति पित्रोदितं श्रुत्वा सुप्रियः सोऽभिशंकितः । पुनस्तं पितरं दृष्ट्वा बोधयन्नेवमब्रवीत् ॥ १४.९३{९३} ॥ सत्यमेवं भवे तात तथापि वक्ष्यते मया । तच्छ्रुत्वापि त्वया परिज्ञाय विबुध्यताम् ॥ १४.९४{९४} ॥ सत्कुले दुर्लभं जन्म तत्रापि दुर्लभं क्षणम् । दुर्लभं सुगतोत्पादं दुर्लभं तद्व्रतं भवे ॥ १४.९५{९५} ॥ इति मत्वात्र संसारे क्लेशमानमदाकुले । अवश्यं मरणं दृष्ट्वा प्राप्तुमिछेऽत्र निर्वृतिम् ॥ १४.९६{९६} ॥ तदत्र कृपया मह्यमनुज्ञां दातुमर्हसि । यूयं चापि हि तद्धर्मभाणैः सद्गतिमाप्स्यथ ॥ १४.९७{९७} ॥ इति हेतोः पित तत्र विलम्बंम कृथा चिरम् । सहसानुग्रहं कृत्वा तदनुज्ञां प्रदेहि मे ॥ १४.९८{९८} ॥ इति तेनार्थितं श्रुत्वा स गंधर्वाधिपश्चिरात् । स्नेहदुःखाग्निसंतप्तो गलदश्रुमुखोऽवदत् ॥ १४.९९{९९} ॥ अयि सुप्रिय पुत्र त्वं स्नेहान्मया निवार्यस । यद्यतिवांछसे प्राप्तुं निर्वृतिं तन् समाचर ॥ १४.१००{१००} ॥ संबुद्धशरणं कृत्वा प्रव्रज्य संवरं दधत् । (र्म् १९०) त्रिरत्नभजनं कृत्वा चर नित्यं समाहितः ॥ १४.१०१{१} ॥ इति पित्रोदितं श्रुत्वा सुप्रियः सोऽभिमोदितः । पित्रोः पादान् प्रणत्वैव सहसा निर्ययौ गृहात् ॥ १४.१०२{२} ॥ ततः स सहसा गत्वा विहारं समुपाचरत् । तत्र प्राप्तो मुनीन्द्रं तं दृष्ट्वैव समुपाविशत् ॥ १४.१०३{३} ॥ तत्र तं श्रीघनं नात्वा प्राञ्जलिः पुर आश्रयन् । सुप्रसन्नमुखांभोजः प्रार्थयदेवमादरात् ॥ १४.१०४{४} ॥ सर्वज्ञ भगवाञ्छास्तरादिष्टं भवतायथा । तथानुज्ञां पितुः प्राप्य प्रागताहमिहाधुना ॥ १४.१०५{५} ॥ तदत्र भवतां शास्तः शरणं समुपागतः । ब्रह्मचर्यं चरिष्यामि तत्प्रव्रज्यां प्रदेहि मे ॥ १४.१०६{६} ॥ इति तेनार्थितं श्रुत्वा भगवान् स जगद्गुरुः । दृष्ट्वा तस्याशयं शुद्धं पुनरेव समादिशत् ॥ १४.१०७{७} ॥ एहि सुप्रिय भिक्षोऽत्र चर ब्रह्मचरिं शिवाम् । त्रिरत्नं शरणं कृत्वा समाधिं समुपाश्रयत् ॥ १४.१०८{८} ॥ ततो दृष्ट्वा च संसारं क्लेशसंघसमाकुलम् । पंचगंडमयं देहं जीवितं च त्रिनाम्वुवत् ॥ १४.१०९{९} ॥ समाधिसंवरं धृत्वा संबोधिसाधनोद्यतः । सर्वक्लेशरिपुञ्जित्वा साक्षादर्हत्पदं ययौ ॥ १४.११०{१०} ॥ ततः सुप्रियो भिक्षुः प्राप्ताभिज्ञः कृती सुधीः । भिन्दन् सर्वमविद्याङ्गं निर्विकल्पोऽभवद्यतिः ॥ १४.१११{११} ॥ समलोष्टसुवर्णश्च परिशुद्धत्रिमंडलः । वासीचंदनकल्पोऽभूदाकाशसममानसः ॥ १४.११२{१२} ॥ संसारभोग्यसत्कारमान्यलाभपराङ्मुखः । निःक्लेशः परिषुद्धात्मा ब्रह्मचारी निरंजनः ॥ १४.११३{१३} ॥ सदेवासुरलोकानां सर्वभुवनवासिनाम् । वंद्यः पूज्योऽभिनंद्यश्च माननीयो भवन् बभौ ॥ १४.११४{१४} ॥ तदैवंभूतमर्हन्तं सुप्रियं तं शुभेन्द्रियम् । प्रालोक्य विस्मिताः सर्वे तत्सभास्थाः प्रसेदिरे ॥ १४.११५{१५} ॥ तदा सर्वेऽपि ते लोका देवा दैत्याश्च किन्नराः । यक्षाः सिद्धाश्च गंधर्वा नागाश्च राक्षसा अपि ॥ १४.११६{१६} ॥ गरुडाश्च तथान्येऽपि विद्याधराश्च साप्सराः । सर्वे लोकाधिपाश्चापि त्रिरत्नशरणं गताः ॥ १४.११७{१७} ॥ संबुद्धशासने तत्र सांघिकानां समन्ततः । रक्षावरणसंगुप्तिं कृत्वाभजन् समुद्यताः ॥ १४.११८{१८} ॥ तद्दृष्ट्वा तानि पञ्चापि गांधर्विकशतानि च । अनुमोद्य प्रसन्नानि संमील्यैवं वभाषिरे ॥ १४.११९{१९} ॥ एते सर्वे वयं नीचे कर्मणि परिवर्त्तिकाः । सुखानभिज्ञदुःखार्त्ताः क्लेशिनः कृछ्रवृत्तयः ॥ १४.१२०{२०} ॥ यदस्माभिः पुरा पुण्यं किं चिद्वापि न साधितम् । तेनास्यात्र वयं सर्वे दुःखिनो नीचवृत्तयः ॥ १४.१२१{२१} ॥ तदस्माभिरयं शास्ता मुनीश्वरः ससांघिकः । सत्कृत्य भोजनैर्वापि पूजनीयो यथाविधिः ॥ १४.१२२{२२} ॥ नूनमेतद्विपाकेन भवेमहि सुभागिनः । (र्म् १९१) ततः पुण्यानुसारेण बोधिमार्गे चरेमहि ॥ १४.१२३{२३} ॥ ततः क्रमेण संप्राप्य बोधिचर्य्यां शुभां चरीम् । चरन्तस्तद्विपाकैश्च निर्वृतिं संलभेमहि ॥ १४.१२४{२४} ॥ इति मत्वा वयं सर्वे विज्ञप्य नृपतिं तथा । ससंघं सुगतं भोज्यैरर्हामहे समर्चितुम् ॥ १४.१२५{२५} ॥ तथेति संमतं कृत्वा सर्वे तेऽभ्यनुमोदिताः । नृपतेर्विज्ञापनां कर्तुं सहसा समुपाचरन् ॥ १४.१२६{२६} ॥ तत्र ते समुपासृत्य दृष्ट्वा तं नृपतिं मुदा । कृताञ्जलिपुटो नत्वा प्रार्थयन्नेवमादरात् ॥ १४.१२७{२७} ॥ जय देव महाराज लोकान् धर्मेण पालय । किञ्चिद्विज्ञापनां कर्त्तुं वयमुपागताः ॥ १४.१२८{२८} ॥ विजानीयाद्भवान् ह्येतत्तथापि प्रार्थयामहे । श्रुत्वा नोऽनुग्रहं कृत्वा कृपया तत्प्रसीदतु ॥ १४.१२९{२९} ॥ यद्वयं देव सर्वेऽत्र नीचकर्मानुचारिणः । तत्ससंघं मुनिं भोज्यैः समिछामः समर्चितुम् ॥ १४.१३०{३०} ॥ तदनुज्ञां प्रदत्वा नः कृपयोद्धर्तुमर्हसि । एतद्विज्ञापनां कुर्मस्तत्प्रसीद नृपाधिप ॥ १४.१३१{३१} ॥ इति तैः प्रार्थितं श्रुत्वा नृपतिः सोऽनुमोदितः । तान् सर्वान् समुपामंत्र्य पुनरेवं समादिशत् ॥ १४.१३२{३२} ॥ साधु भवतु सर्वेषां युष्माकं सत्समीहितम् । तत्तथा क्रियतां बुद्धे सत्कारं श्रद्धयादरात् ॥ १४.१३३{३३} ॥ संबुद्धे यत्कृतं कर्म तत्फलं क्षिणुयान्न हि । क्रमाद्बोधिचरिं पूर्य निर्वृतिं समवाप्नुयात् ॥ १४.१३४{३४} ॥ तदत्र सर्वथा यूयं ससंघं श्रीघनं मुनिम् । यथार्हभोजनं भक्त्या पूजयध्वं समादरात् ॥ १४.१३५{३५} ॥ इत्यादिष्टम् ः - न्द्रेण श्रुत्वा सर्वेऽपि ते मुदा । तथेति प्रतिनंदित्वा नृपं नत्वा ततोऽचरन् ॥ १४.१३६{३६} ॥ ततस्ते संमतं कृत्वा विहारे सहसा गताः । दृष्ट्वा तं श्रीघनं नत्वा प्रार्थयन्नेवमादरात् ॥ १४.१३७{३७} ॥ भगवंस्तद्विजानीयाद्यदर्थं समुपागताः । तथापि प्रार्थयेयैवमनुग्रहीतुमर्हति ॥ १४.१३८{३८} ॥ यद्वयं भवतां सर्वसांघिकानां यथाविधिम् । पूजयितुं समिछामो सत्कर्तुं भोजनैरपि ॥ १४.१३९{३९} ॥ तद्भवां कृपया दृष्ट्वा कृत्वास्माकमनुग्रहम् । पुरे श्वः सांघिकैः सार्द्धं विजयितुं समर्हसि ॥ १४.१४०{४०} ॥ इति तैः प्रार्थिते सर्वैर्भगवान् स मुनीश्वरः । तेषां धर्मप्रवृद्ध्यर्थं तूष्णीभूत्वाध्युवास तत् ॥ १४.१४१{४१} ॥ ततस्सर्वेऽपि ते मत्वा भगवताधिवासितम् । भूयस्तं श्रीघनं नत्वा स्वं पुरं सहसा ययुः ॥ १४.१४२{४२} ॥ तत्र सर्वेऽपि ते भूमिं शोधयित्वा समन्ततः । प्रज्ञप्य स्वासनान्येवं सामग्रिं समसाधयन् ॥ १४.१४३{४३} ॥ (र्म् १९२) ततः पूजोपहाराणि भोज्याङ्गानि रसानि च । पेयानि सुप्रणीतानि साधयित्वा प्रमोदिताः ॥ १४.१४४{४४} ॥ तत्र तं सुगतं सर्वं संघं चामंत्रितुं ययुः । विहारे समुपसृत्य श्रीघनं संप्रणेमिरे ॥ १४.१४५{४५} ॥ कृताञ्जलिपुटो नत्वा सर्वे ते समुपस्थिताः । संबुद्धप्रमुखं संघं प्रार्थयन्नेवमादरात् ॥ १४.१४६{४६} ॥ सर्वज्ञ भगवं छास्तः समयो वर्त्ततेऽधुना । तद्भवान् संघिकैः सार्द्धं विजयितुं समर्हति ॥ १४.१४७{४७} ॥ इति तैः प्रार्थिते दृष्ट्वा भगवान् स ससांघिकः । पात्रचीवरमादय प्रतस्थे संप्रभासयन् ॥ १४.१४८{४८} ॥ तत्र मार्गेषु सर्वत्र प्रातिहार्यं प्रदर्शयन् । सर्वेषां शुभतां कृत्वा तत्पुरे समुपाविशत् ॥ १४.१४९{४९} ॥ प्रदक्षिणक्रमेणैवं चरंस्तत्र समंततः । भासयं भद्रतां कुर्वन् तत्प्रदेशे समाचरन् ॥ १४.१५०{५०} ॥ तत्र पाद्यार्घमादाय क्रमेण सह सांघिकम् । स्वासने समुपाविश्य तस्थौ भानुरिवोज्वलन् ॥ १४.१५१{५१} ॥ तदा तं श्रीघनं सर्वसंघं च स्वासने स्थितम् । दृष्ट्वा सर्वेऽपि ते हर्षात्पूजयितुं समारभन् ॥ १४.१५२{५२} ॥ तथा क्रमेण संपूज्य तं बुद्धप्रमुखं गणम् । यथार्हभोजनैः सर्वं संतृप्तं समतोषयन् ॥ १४.१५३{५३} ॥ ततस्ते भोजनांते तत्पात्राणि व्यपनीय च । करादीञ्छोधयित्वा तद्भूमिं च पर्यशोधयन् ॥ १४.१५४{५४} ॥ ततः पूगादिकं दत्वा पुनः सर्वेऽपि ते मुदा । कृताञ्जलिपुटा नत्वा समुपतस्थिरे पुनः ॥ १४.१५५{५५} ॥ ते च गांधर्विकाः सर्वे त्रिरत्नशरणं गताः । बोधिप्रणिधिमाधाय प्रभेजिरे समाहिताः ॥ १४.१५६{५६} ॥ वेणुवीणामृदंगादि तूर्यसंगीतिवादनैः । उपस्थित्य ससंघं तं श्रीघनं समतोषयत् ॥ १४.१५७{५७} ॥ तद स भगवां दृष्ट्वा तेषां भक्तिप्रसादिनीम् । सर्वेषां शुद्धचित्तानि व्यमुञ्चत्स्मितमुद्धवात् ॥ १४.१५८{५८} ॥ तत्संस्मितसहोत्पन्नाः पंचवर्णाः शुभांशवः । सर्वत्र भुवने गत्वा प्रचेरुरमृतांशुवत् ॥ १४.१५९{५९} ॥ तेषां के चिदधोगत्वा नरकेषु समन्ततः । अवभास्य परिस्पृष्ट्वा सर्वत्रापि सुखं ददुः ॥ १४.१६०{६०} ॥ तदा ते नारकीयास्तत्प्रभास्पृष्टाः सुखान्विताः । किमेतदिति संदिग्धाः संमील्यैवं वभाषिरे ॥ १४.१६१{६१} ॥ अहो नु जायते सौख्यमस्माकं सांप्रतं कथम् । वतान्यत्र गताः स्मोऽद्य कस्य पुण्यानुभावतः ॥ १४.१६२{६२} ॥ इति संदिग्धचित्तानां तेषां मनः प्रबोधने । भगवान्निर्मितं बुद्धं संप्रेषयन् समंततः ॥ १४.१६३{६३} ॥ तत्रा तं सौगतं दृष्ट्वा सर्वे ते नरकस्थिताः । विस्मिताः समुपासृत्य ववन्दिरे प्रसादिताः ॥ १४.१६४{६४} ॥ (र्म् १९३) नमो बुद्धाय धर्माय संघाय च नमस्सदा । इति प्रोक्त्वा प्रणत्वा तच्छरणं समुपाययुः ॥ १४.१६५{६५} ॥ एतत्पुण्यानुभावेन सर्वे ते नरकोत्थिताः । सहसा स्वर्गतिं याताः सद्धर्मे समुदाचरन् ॥ १४.१६६{६६} ॥ एवं तान् सर्वसत्वांश्च समुद्धृत्य समन्ततः । सर्वे तेऽप्यंशवो भूयस्संबुद्धान्तिकमुपाचरन् ॥ १४.१६७{६७} ॥ के चिदूर्द्ध्वगता यावदकनिष्ठं समन्ततः । अवभास्य समुद्घुष्य तत्रैवं समचोदयन् ॥ १४.१६८{६८} ॥ अनित्यं खलु संसारं शून्यं ह्यनात्मकम् । इति सत्यं परिज्ञाय त्रिरत्नं भजतादरात् ॥ १४.१६९{६९} ॥ निष्क्रामतारभध्वं च यूज्यध्वं बुद्धशासने । धुनीत मारसैन्याश्च नडागारं यथा करी ॥ १४.१७०{७०} ॥ योऽप्यस्मिन् सौगते धर्मे ह्यप्रमत्तश्चरेत्सदा । स त्यक्त्वा जन्म संसारे दुःखस्यान्तं करिष्यति ॥ १४.१७१{७१} ॥ इति संचोदयन्तस्तां सार्वान् देवांश्च सर्वतः । ते सर्वेऽप्यंशवो भायः सुगतान्तिकमाययुः ॥ १४.१७२{७२} ॥ ततस्तेऽप्यंशवः सर्वे संमील्य संगता मुनेः । प्रदक्षिणत्रयं कृत्वा तस्योर्णायां समाविशन् ॥ १४.१७३{७३} ॥ तद्दृष्ट्वा ते सभालोका विस्मयोद्धतमानसाः । किमेतदिति संचिन्त्य सर्वे तस्थुः शकौतुकाः ॥ १४.१७४{७४} ॥ अथानंदः समालोक्य तान् सर्वान् विस्मयोद्धवान् । उत्थाय साञ्जलिर्नत्वा शास्तारं तं समब्रवीत् ॥ १४.१७५{७५} ॥ भगवन्स्ते मुखाद्भासिः पंचवर्णा विनिर्गता । अवभास्य दिशः सर्वा ऊर्णायां च विशन्ति ताः ॥ १४.१७६{७६} ॥ एतद्दृष्ट्वा सभालोकाः सर्वेऽपीमे सविस्मयाः । तद्धेतुं श्रोतुमिछन्ति तदुपादेष्टुमर्हति ॥ १४.१७७{७७} ॥ नाहेतु हि स्मितं बुद्धा दर्शयन्ति कदा चन । यद्धेतौ भवता शास्तुर्हसितं तत्समादिश ॥ १४.१७८{७८} ॥ इति संप्रार्थितं शिष्येन स मुनीश्वरः । तमानंदैः सभां चापि समालोक्यैवमादिशत् ॥ १४.१७९{७९} ॥ पश्यानंद यदेतैर्हि सर्वै गान्धर्विकैरपि । मम ससांघिकस्यैवं सत्कारं प्रकृतं मुदा ॥ १४.१८०{८०} ॥ एतत्पुण्यविपाकेन सर्वेऽपीमे भवान्तरे । क्रमाद्बोधिचरीं प्राप्ता निःक्लेशा विमलाशयाः ॥ १४.१८१{८१} ॥ मारचर्याविनिर्मुक्ताः परिशुद्धास्त्रिमण्डलाः । वर्णस्वराभिधाः सर्वे प्रत्येकसुगता जिनाः ॥ १४.१८२{८२} ॥ प्रान्ताशय्यासानासीना हीनदीनानुकम्पकाः । दक्षिणीया महासत्वा भविष्यन्ति शुभंकराः ॥ १४.१८३{८३} ॥ एवमेतात्समालोक्य यूयं यदि समिछथ । तथात्र श्रद्धया नित्यं त्रिरत्नं भजतादरात् ॥ १४.१८४{८४} ॥ ये त्रिरत्नं सदा भक्त्या सत्कृत्यैवं भजन्ति ते । विहाय दुर्गतिं नित्यं सद्गतिं समवाप्नुयुः ॥ १४.१८५{८५} ॥ (र्म् १९४) इति मत्वात्र संसारे येषां वांछा सुखे शिवे । ते सत्कृत्य त्रिरत्नेषु श्रद्धया भजतानिशम् ॥ १४.१८६{८६} ॥ इत्यादिष्टं मुनीन्द्रेण श्रुत्वा सर्वे च ते जनाः । सत्यमेवं प्रतिज्ञाय त्रिरत्नं सर्वदाभजन् ॥ १४.१८७{८७} ॥ तद्दृष्ट्वा भिक्षवः सर्वे विस्मयोद्धतमानसाः । कृताञ्जलिपुटा नत्वा पप्रछुस्तं मुनीश्वरम् ॥ १४.१८८{८८} ॥ यदेवं भगवन्नेभिः सत्कारं प्रकृतं महत् । तत्ते केन सुपुण्येन सम्यगादेष्टुमर्हति ॥ १४.१८९{८९} ॥ एवं तैर्भिक्षुभिः सर्वैः प्रार्थिते स जिनेश्वरः । सर्वान्स्ताञ्छ्रावकान् भिक्षून् समालोक्यैवमादिशत् ॥ १४.१९०{९०} ॥ शृणुध्वं भिक्षवः पुण्यं यन्मया प्रकृतं पुरा । तदत्र कथितं श्रुत्वा श्रद्धयाभ्यनुमोदत ॥ १४.१९१{९१} ॥ पुरासीद्भगवान् बुद्धः प्रबोधनाभिधो जिनः । सर्वज्ञः सुगतः शास्ता धर्मराजो मुनीश्वरः ॥ १४.१९२{९२} ॥ सर्वविद्याधिपो नाथस्तथागतो विनायकः । मारजिल्लोकविद्भर्त्ता सुभद्रोऽर्हन् हितंकरः ॥ १४.१९३{९३} ॥ तदा स भगवान् बुद्धो जनपदेषु चारिकाम् । चरन्नन्यां राजधानीमनुप्राप्तः ससांघिकः ॥ १४.१९४{९४} ॥ तत्र तस्य नरेन्द्रस्य क्रीडोद्याने तरोरधः । प्रविश्य स्वासनासीनस्तस्थौ वह्निरिवोज्वलन् ॥ १४.१९५{९५} ॥ तदैकस्मिन् दिने तत्र राजा कान्ताप्रवादिनैः । संगीतैः सह संरक्तो रमितुं समुपाविशत् ॥ १४.१९६{९६} ॥ तत्रस्थं तं समासीनं सुगतं सुप्रभोज्वलम् । दृष्ट्वैव सहसोपेत्य नत्वा कृत्वा प्रदक्षिणाम् ॥ १४.१९७{९७} ॥ समाधिस्थं तमालोक्य तष्ठौ चिरमुपाश्रयन् । ततस्तन्मुखपद्मोत्थसद्धर्मामृतलिप्सया ॥ १४.१९८{९८} ॥ वाद्यमानैः सतैर्वाद्यैर्मुनिं प्राबोधयन्नृपः । ततः स सुगतो बुद्धो समाधेः शीघ्रमुत्थितः ॥ १४.१९९{९९} ॥ सान्तःपुरं नरेंद्रं तं प्राद्राक्षीत्समुपस्थितम् । तदा तं नृपतिं दृष्ट्वा स संबुद्धः प्रबोधनः ॥ १४.२००{१००} ॥ सद्धर्म्मं समुपादेष्टुं समामंत्र्यैवमब्रवीत् । एहि राजन्महावाहो स्वागतं ते महीपते ॥ १४.२०१{१} ॥ सद्धर्मं समुपाश्रित्य बोधिचर्यां समाचर । सदा दानं प्रदत्वात्र शीलं धृत्वा समाहितः ॥ १४.२०२{२} ॥ क्षान्त्या प्रसादयल्लोकान् धर्मवीर्यं प्रसाधय । बोधौ चित्तं समाधाय प्रज्ञारत्नमुपार्जय ॥ १४.२०३{३} ॥ तद्रत्नानुभावेन संबोधिमार्गमाप्नुयाः । ततस्ते मङ्गलं नित्यमिहामुत्रे सदा भवेत् ॥ १४.२०४{४} ॥ सर्वसत्वहितं कुर्वन् सद्गतिमेव प्राप्नुयाः । इति मत्वा महाराज सद्धर्मं समुपाश्रयन् ॥ १४.२०५{५} ॥ त्रिरत्नं शरणं कृत्वा सत्कृत्य भज सर्वदा । त्रिरत्नेषु कृतं पुण्यं न क्षिणोति कदा चन ॥ १४.२०६{६} ॥ (र्म् १९५) सर्वदा सत्फलान्येव सूते बोधिं समर्पयेत् । इति मत्वा महाराज त्रिरत्नशरणं गतः ॥ १४.२०७{७} ॥ बोधिचर्याव्रतं धृत्वा चर नित्यं समाहितः । तथा ते मंगलं नित्यं सर्वत्रापि भवेद्ध्रुवम् ॥ १४.२०८{८} ॥ क्रमाद्बोधिं समासाद्य संबुद्धपदमाप्नुयाः । इति तेनार्हतादिष्टं मुनीन्द्रेण स भूपतिः ॥ १४.२०९{९} ॥ श्रुत्वा तथेति विज्ञप्य प्राभ्यनन्दत्प्रबोधितः । ततः स मुदितो राजा तं मुनीन्द्रं ससांघिकम् ॥ १४.२१०{१०} ॥ यथाविधि समभ्यर्च्य भोजनैः समतोषयत् । ततश्च भोजनान्ते स नृपतिः साञ्जलिर्मुदा । तं मुनीन्द्रं प्रणत्वैवं प्रणिधानं हृदो व्यधात् ॥ १४.२११{११} ॥ अनेन कुशलेनाहं लोकेऽन्धेऽपरिणायके । सम्यग्बोधिं समागम्य भवेयं सुगतो जिनः ॥ १४.२१२{१२} ॥ एतत्तेन नरेन्द्रेण प्रणिधानं कृतं मुदा । मत्वा स सुगतस्तस्य तथाशीर्वचनं ददौ ॥ १४.२१३{१३} ॥ जयोऽस्तु ते सदा राजं धर्मेण पालय प्रजाः । प्रणिधानं यथा बोधौ तथा ते सिद्ध्यतु ध्रुवम् ॥ १४.२१४{१४} ॥ इत्यादिष्टं मुनीन्द्रेण तेन श्रुत्वा स भूपतिः । मुदितः साञ्जलिर्नत्वा तं मुनीन्द्रं समब्रवीत् ॥ १४.२१५{१५} ॥ अद्यारभ्य सदा शास्तस्त्रिरत्नशरणं गतः । संबोधिसंवरं धृत्वा चरिष्यामि समाहितः ॥ १४.२१६{१६} ॥ तद्भवान् कृपया दृष्ट्या सदा मां द्रष्टुमर्हति । सर्वदा भवतामेव शरणेऽस्मि समास्थितः ॥ १४.२१७{१७} ॥ इति संप्रार्थनां कृत्वा राजा स सजनो मुदा । भगवंतं तमानम्य सानंदः स्वपुरं ययौ ॥ १४.२१८{१८} ॥ ततः स भगवाञ्छास्ता समुत्थाय ससांघिकः । सर्वत्र भद्रतां कृत्वा स्वाश्रमे समुपाययौ ॥ १४.२१९{१९} ॥ मन्यतां भिक्षवो योऽसौ राजा संबुद्धसेवकः । अहमेव तदाभूवन्नान्यो द्रष्टव्य एव सः ॥ १४.२२०{२०} ॥ यन्मया श्रद्धया तस्य प्रबोधनस्य तायिनः । पूजाकारि महोत्साहैस्तूर्यसंगीतिवादनैः ॥ १४.२२१{२१} ॥ तेन पुण्यविपाकेन ममात्रैव महोत्सवैः । एतैर्गान्धर्विकैरेवं सत्कारः प्रकृताधुना ॥ १४.२२२{२२} ॥ एवं मत्वा महत्पुण्यं संबुद्धभजनोद्भवम् । त्रिरत्नं शरणं कृत्वा भजनीयं शुभार्थिभिः ॥ १४.२२३{२३} ॥ यूयं चापि सदा नित्यं शास्तारं सद्गुरुं जिनम् । संबुद्धं समुपाश्रित्य विहरध्वं समाहिताः ॥ १४.२२४{२४} ॥ इत्यादिष्टं मुनीन्द्रेण श्रुत्वा ते भिक्षवो मुदा । सर्वे तथेति विज्ञप्य त्रिरत्नानि सदाभजन् ॥ १४.२२५{२५} ॥ इति मे गुरुणादिष्टं श्रुतं मया नराधिप । तथाधुना समाख्यातं तव पुण्यप्रवृद्धये ॥ १४.२२६{२६} ॥ एवं राजंस्त्वयाप्येवं त्रिरत्नं शरणं गतः । संबुद्धशासनं धृत्वा चर धर्मं समाहितः ॥ १४.२२७{२७} ॥ (र्म् १९६) प्रजाश्चापि तथा राजं बोधयित्वा प्रयत्नतः । संबोधिसाधने धर्मे योजनीयास्त्वयादरात् ॥ १४.२२८{२८} ॥ तथा चेत्ते सदा भद्रं भवेन्नूनं समन्ततः । क्रमाद्बोधिं समासाद्य संबुद्धपदमाप्नुयाः ॥ १४.२२९{२९} ॥ इति शास्त्रा समादेष्टं श्रुत्वाशोकः स भूपतिः । तथेति प्रतिमोदित्वा प्राभ्यनन्दत्सपार्षदः ॥ १४.२३०{३०} ॥ गांधर्विकानामवदानमेतच्छ्रुत्वानुमोदन्ति नरा मुदा ये । ते सर्व एनःपरिमुक्तचित्ता भुक्त्वा सुखान्येव लभन्ति बोधिम् । ++ इति रत्नावदानतत्वे गांधर्विकावादनं समाप्तम् ++ (र्म् १९७) xव्सूक्ष्मत्वचोवदान अथाशोको महीपालः कृतांजलिपुटो मुदा । उपगुप्तं गुरुं नत्वा पुनरेवमभाषत ॥ १५.१{१} ॥ भदन्त श्रोतुमिछामि पुनरन्यत्सुभाषितम् । तद्यथा गुरुणाख्यातं तथादेष्टुं च मेऽर्हसि ॥ १५.२{२} ॥ इति संप्रार्थिते राज्ञा स यतिः सुगतात्मजः । अशोकं तं नृपं दृष्ट्वा पुनरेवमुपादिशत् ॥ १५.३{३} ॥ शृणु राजन्महाभाग यथा मे गुरुणोदितम् । तथाहं ते प्रवक्ष्यामि श्रुत्वाप्येवं प्रमोदय ॥ १५.४{४} ॥ पुरा स भगवान् बुद्धः शाक्यसिंहो जगद्गुरुः । विहारे जेतकारण्ये विजहार ससांघिकः ॥ १५.५{५} ॥ तस्मिंश्च समये तत्र सर्वे भिक्षुगणा अपि । श्रावकाश्चैलकाश्चैव सर्व उपासका अपि ॥ १५.६{६} ॥ सर्वेऽपि भिक्षुणीसंघा उपासिकागणा अपि । बोधिसत्वगणाश्चापि सद्धर्मसाधनोद्यताः ॥ १५.७{७} ॥ सभामध्यासनासीनं श्रीघनं तं जगद्गुरुम् । उपतस्थुः पुरस्कृत्य परिवृत्य समंततः ॥ १५.८{८} ॥ तदा तस्य मुनीन्द्रस्य मुखाम्भोजविनिर्गतम् । भद्रधर्मामृतं पातुं सर्वे लोकाः समागताः ॥ १५.९{९} ॥ शक्रादयः सुरेन्द्राश्च ब्रह्मादयो महर्द्धिकाः । लोकपाला महावीराः ससैन्यपरिवारकाः ॥ १५.१०{१०} ॥ योगिनो यतयश्चापि महर्षयस्तपश्विनः । ब्राह्मणाश्च महाविज्ञाः सद्धर्मगुणवांछिनः ॥ १५.११{११} ॥ राजानो राजपुत्राश्च वैश्या मंत्रिजना अपि । अमात्याः श्रेष्ठिनो भट्टाः पौरिकाश्च गृहाधिपाः ॥ १५.१२{१२} ॥ सैन्याधिपाश्च योधारः सार्थवहा महाजनाः । वणिजः शिल्पिनश्चापि ग्राम्याः कार्पटिका अपि ॥ १५.१३{१३} ॥ एवमन्येऽपि लोकाश्च सद्धर्मगुणवाञ्छिनः । सर्वे धर्मामृतं पातुं विहारे समुपागताः ॥ १५.१४{१४} ॥ तत्र प्राप्ताः सभामध्ये समासीनं मुनीश्वरम् । श्रीघनं तं समालोक्य प्रणत्वा समुपाचरन् ॥ १५.१५{१५} ॥ तत्र ते समुपासृत्य सर्वे तं श्रीघनं मुनिम् । त्रिधा प्रदक्षिणीकृत्वा समभ्यर्च्य प्रणेमिरे ॥ १५.१६{१६} ॥ ततः सर्वेऽपि ते लोकाः परिवृत्य समन्ततः । साञ्जलयः प्रसन्नास्या उपतस्थुः समाहिताः ॥ १५.१७{१७} ॥ तदा स भगवान् दृष्ट्वा सर्वांस्तान् समुपस्थितान् । आदिमध्यान्तकल्याणमार्यधर्ममुपादिशत् ॥ १५.१८{१८} ॥ तत्सद्धर्मामृतं पीत्वा सर्वे ते त्रिदशादयः । (र्म् १९८) लोका धर्मविशेषत्वं विज्ञाय प्राणनन्दिरे ॥ १५.१९{१९} ॥ तस्मिन्नवसरे तत्र श्रावस्त्यां पौरिको गृही । श्रेष्ठी महाजनः श्रिमाञ्छ्राद्धो भद्राशयाभवत् ॥ १५.२०{२०} ॥ स एकस्मिं दिने स्वस्मिन् भाण्डालकोष्ठके विशन् । स्वसंपन्निचयं दृष्ट्वा मनसैवं व्यचिन्तयत् ॥ १५.२१{२१} ॥ अहो मे जायते संपद्दीयती संप्रवर्द्धिता । तथापि वर्द्ध्यते तृष्णा यतः सौख्यं न किं चन ॥ १५.२२{२२} ॥ यदिमे चंचला भोगा जलचंद्रनिभा मम । अनित्या अस्थिराः पद्मपत्रस्थितजलोपमा ॥ १५.२३{२३} ॥ तदत्र किं मनोऽद्यापि तृष्णयाकृष्यते मम । येन चराम्यहं लोके दुःखी भविकलाशयः ॥ १५.२४{२४} ॥ तत्किं मे संपदा सारं यतः सौख्यं न विद्यते । धर्मार्थे गोचरं नैव केवलं मदवृद्धये ॥ १५.२५{२५} ॥ मदेन वर्द्धते मानं मानाल्लोके प्रमादता । प्रमादाद्दीप्यते चेर्ष्या कोपाग्निर्दीप्यते ततः ॥ १५.२६{२६} ॥ कोपात्क्रूराशयश्चण्डो निर्दयो दुरिताशयः । पापात्मा हिंसको दुष्टो दशाकुशलसाधकः ॥ १५.२७{२७} ॥ स्वयं नष्टः परांश्चापि नाशयति दुराशयः । ततोऽतिपापसंरक्तो दुराचरोऽतिदुर्मनाः ॥ १५.२८{२८} ॥ ततोऽतिदुर्मतिर्द्रोही संवृत्तिधर्मनिंदकः । त्रिरत्नानि प्रतिक्षिप्य महापातकमाचरेत् ॥ १५.२९{२९} ॥ ततोऽतिपापसंक्लिष्टाः प्रमूढो नरकं व्रजेत् । नरकेषु भ्रमन्नित्यं दुःखान्येव सदाश्नुयात् ॥ १५.३०{३०} ॥ यद्वात्रापि च संसारे जीवितमध्रुवं खलु । क्षणध्वंसि शरीरं च सार्वेषां मरणं ध्रुवम् ॥ १५.३१{३१} ॥ तदत्राहमसारेभ्यो भोगेभ्यः सारमुत्तमम् । सद्धर्मं समुपादातुं यत्नं कुर्यां समादरात् ॥ १५.३२{३२} ॥ सद्धर्मं सौगतं धर्ममित्याख्यातं पुराविदैः । तदत्र सौगते क्षेत्रे दानं कुर्वीय सांप्रतम् ॥ १५.३३{३३} ॥ बौद्धक्षेत्रे कृतं दानं बोधिवीजं भवेद्ध्रुवम् । एतदेवात्र संसारे साधनीयं शुभाप्तये ॥ १५.३४{३४} ॥ दानेन शुद्ध्यते चित्तं सुचित्तः सुमतिं लभेत् । सुबुद्धिः सद्गुणारक्तः संवृत्तिशीलभृत्कृती ॥ १५.३५{३५} ॥ सुशीलः क्षान्तिमान् धीरः परात्मसमभाविकः । सुधीरो वीर्यवान् सर्वसत्वार्थसाधनोद्यतः ॥ १५.३६{३६} ॥ अप्रधृष्यो महासत्वः क्लेशारिदमको भवेत् । ततः सुपरिशुद्धात्मा समाधिसुस्थितो भवेत् ॥ १५.३७{३७} ॥ तत्समाधिवलाधानैः प्रज्ञाब्धिपारमागतः । बोधिरत्नं समासाद्य बोधिसत्वोऽधिपो भवेत् ॥ १५.३८{३८} ॥ एतद्रत्नानुभावेन भद्रंकला समन्ततः । (र्म् १९९) सर्वमारान् विनिर्जित्य संबुद्धपदमाप्नुयात् ॥ १५.३९{३९} ॥ इत्यर्हद्भिर्महाभिज्ञैः समाख्यातं मया श्रुतम् । तत्संबुद्धपदां प्रप्तुं बुद्धं भजेय सांप्रतम् ॥ १५.४०{४०} ॥ नूनं बुद्धानुभावेन भावितं सेत्स्यते ध्रुवम् । तद्बुद्धप्रमुखं सर्वसंघं पूजेय सादरम् ॥ १५.४१{४१} ॥ इति निश्चित्य स श्रीमान् गृहस्थः संप्रमोदितः । भगवंतं ससंघन् तं पूजयितुं समैछत ॥ १५.४२{४२} ॥ ततः स सजनः श्रेष्ठी त्रिरत्नभजनोत्सुकः । विहारे जेतकारण्ये प्रययौ संप्रहर्षितः ॥ १५.४३{४३} ॥ तत्र तं श्रीघनं दृष्ट्वा स गृहस्थः प्रमोदितः । नत्वा प्रदक्षिणीकृत्य समर्चयद्यथाविधिः ॥ १५.४४{४४} ॥ ततः स सजनो नत्वा साञ्जलिः संप्रमोदितः । मुनीन्द्रं तं समालोक्य पुरः स्थित्वैवमब्रवीत् ॥ १५.४५{४५} ॥ सर्वज्ञ भगवं छास्तर्भवतां शरणं व्रजे । ततोऽभिलषिते कार्ये प्रसीदतु जगद्गुरो ॥ १५.४६{४६} ॥ भगवं भवतः शास्तुः ससंघस्य जगद्गुरोः । पूजयितुं समिछामि तदनुज्ञां ददातु मे ॥ १५.४७{४७} ॥ इति संप्रार्थिते तेन भगवान् स मुनीश्वरः । तथास्त्विति प्रतिज्ञाय तूष्णीभूत्वाध्युवास तत् ॥ १५.४८{४८} ॥ ततः स गृहभृन्मत्वा भगवताध्युवास तम् । साञ्जलिस्तं मुनिं नत्वा मुदितः स्वगृहं ययौ ॥ १५.४९{४९} ॥ तत्र स स्वजनैः स्वस्मिं गृहे मर्गेषु सर्वतः । परिशोध्य सुगंधैश्च परिषिंच्याभ्यशोभयत् ॥ १५.५०{५०} ॥ तत्रासनानि प्रज्ञप्य वितानानि वितत्य च । मुक्तपुष्पैः समाकीर्य सुरभिं समधूपयत् ॥ १५.५१{५१} ॥ ततः स भोज्यसामग्रीं साधयित्वा स्ववंधुभिः । तथोपहारसामग्रीं परिशुद्धामसाधयत् ॥ १५.५२{५२} ॥ ततोऽन्ये द्युर्गृहस्थः स स्नात्वा शुद्धांवरावृतः । संबुद्धामंत्रणं कर्तुं विहारे सजनो ययौ ॥ १५.५३{५३} ॥ तत्र तं श्रीघनं दृष्ट्वा ससंघं स पुरोगतः । कृताञ्जलिपुटो नत्वा प्रार्थयदेवमादरात् ॥ १५.५४{५४} ॥ भगवन्नाथ सर्वज्ञ समयो वर्ततेऽधुना । तत्ससंघो ममावासे भावानागन्तुमर्हति ॥ १५.५५{५५} ॥ इति संप्रार्थिते तेन भगवान् स ससांघिकः । पात्रचीवरमादाय संप्रतस्थे प्रभासयन् ॥ १५.५६{५६} ॥ तत्र स भगवान्मार्गे कृत्वा भद्रं प्रभासयन् । भिक्षुसंघगणैः सार्द्धं श्रावस्तीं समुपाविशन् ॥ १५.५७{५७} ॥ तदाभून्नगरे तत्र सर्वत्रापि सुमङ्गलम् । उपद्रवाणि सर्वाणि सहसा विलयं ययुः ॥ १५.५८{५८} ॥ अन्धा रूपाणि पश्यन्तः शृण्वन्तो वधिरा रवान् । हीनेन्द्रियाश्च ये तेऽपि प्रतिलब्धेन्द्रिया ववुः ॥ १५.५९{५९} ॥ क्सुत्पिपासाहता ये च तेऽभवन् परितुष्टिताः । रोगिणो नीरुजा आसन् कुवेला रुचिराम्वराः ॥ १५.६०{६०} ॥ (र्म् २००) मूका आसन् प्रवक्तारो जडाश्चापि सुवाग्मिनः । चिरवैराभिसंनद्धास्तेऽप्यासन्मैत्रभाविताः ॥ १५.६१{६१} ॥ ये च चण्डाशायाः क्रूरास्तेऽप्यभूवन् दयालवः । ये च दुष्टा दुराचारास्ते सन्तस्सम्यमोद्यताः ॥ १५.६२{६२} ॥ दरिद्रा धनिनः प्रोढ्या दूर्वला वलिनोऽभवन् । ये शठा वंचकाश्चौरस्ते आर्याः सत्यवादिनः ॥ १५.६३{६३} ॥ एवं ये दुःखिनः सत्वास्ते सर्वे सुखिनोऽभवन् । एवं स भगवांस्तत्र कृत्वा भद्रं समन्ततः ॥ १५.६४{६४} ॥ प्रदक्षिणक्रमेणैवं ससंघं तद्गृहे विशन् । तत्र तस्य मुनीन्द्रस्य स गृहस्थो यथाक्रमम् । पाद्यं ददौ ससंघस्य सदाराः शुचिनाम्बुना ॥ १५.६५{६५} ॥ ततः स सुप्रासन्नात्मा ससंघं तं मुनीश्वरम् । प्रज्ञप्ते स्वासने तत्र यथाक्रमं न्यवेशयत् ॥ १५.६६{६६} ॥ तत्र ते सांघिकाः सर्वे संबुद्धप्रमुखाः क्रमात् । स्वस्वासने समाविश्य समातस्थुः समाहिताः ॥ १५.६७{६७} ॥ ततः स्वस्वासनासीनान् संबुद्धप्रमुखान् यतीन् । तान् सर्वान् स गृही दृष्ट्वा यथाविधि समर्चयत् ॥ १५.६८{६८} ॥ ततः स सजनः श्रेष्ठी स्वहस्तेन ससांघिकम् । तं मुनीन्द्रं सुधाकल्पैर्भोजनैः समतर्पयेत् ॥ १५.६९{६९} ॥ ततः संतृप्तितं दृष्ट्वा ससंघं तं मुनीश्वरम् । अपनीय स पात्राणि तद्धस्तादीन् व्यशोधयत् ॥ १५.७०{७०} ॥ ततः स साञ्जलिर्नत्वा तान् बुद्धप्रमुखान् यतीन् । पुरो नीचासनासीनो धर्मं श्रोतुमुपाश्रयत् ॥ १५.७१{७१} ॥ ततः स भगवान् दृष्ट्वा तं गृहष्ठं सुभाविनम् । आदिमध्यान्तकल्याणं धर्मामादेष्टुमब्रवीत् ॥ १५.७२{७२} ॥ आरोग्यमस्तु ते नित्यं गृहपते सदा शिवम् । बोधौ चित्तं समाधाय चर धर्मं समाहितः ॥ १५.७३{७३} ॥ धर्मेण जीयते पापं निष्पापः सद्गतिं व्रजेत् । सद्गतौ सत्सुखान्येव भुक्त्वा संचरते सदा ॥ १५.७४{७४} ॥ धर्मेण पुरुषो विद्वान् सर्वविद्याकलाधिपः । सुधिरो गुणवान् विज्ञो भवेच्छ्रीमान्महर्द्धिकः ॥ १५.७५{७५} ॥ धर्मेण सुचिरं जीवेदारोग्यं च सदा तनौ । सर्वत्रापि भवेन्नित्यं मंगलं निरुपद्रवम् ॥ १५.७६{७६} ॥ धर्मो न नश्यते क्वपि ह्रियते नापि केन चित् । केनापि नश्यते नैव चालयितुं कदा चन ॥ १५.७७{७७} ॥ नाग्निभिर्दह्यते धर्मः क्लिद्यते नापि चोदकैः । वायुभिः शुष्यते नैव क्षीयते नापि भूमिषु ॥ १५.७८{७८} ॥ धर्मेण भूः स्थिरीभूता धर्मेण दीप्यतेऽनलः । धर्मेण चलते वायुर्धर्मेण वहते जलः ॥ १५.७९{७९} ॥ धर्मेण दीप्यते भानुर्धर्मेणैवं सुधाकरः । (र्म् २०१) मेघा धर्मेण वर्षाणा भूमिः शष्यौषधीभराः ॥ १५.८०{८०} ॥ धर्मेणैवं तथा सर्वे लोकपाला महर्द्धिकाः । सर्वदुष्टान् विनिर्जित्य पालयन्ति जगत्त्रये ॥ १५.८१{८१} ॥ धर्मो न शीयते क्वापि धर्मो न परिभूयते । सर्वत्र जयते धर्मो धर्मो हि शोभते सदा ॥ १५.८२{८२} ॥ धर्महीना न शोभन्ते श्रिमन्तो गुणिनोऽपि च । धर्म्मिष्ठा एव शोभन्ते दरिद्रा निर्गुणा अपि ॥ १५.८३{८३} ॥ धर्मेण रक्षिता वीराः संग्रामे विजितारयः । यशोमान्यमहत्संपत्सुखानि ते लभन्ति च ॥ १५.८४{८४} ॥ तथा वीरा वणिक्सार्था धर्मेणैवाभिरक्षिताः । महाम्बुधिं समुत्तीर्य रत्नान्यपि लभन्ति च ॥ १५.८५{८५} ॥ धर्मवन्तो नरा धीरा बुद्धिमन्तो विचक्षणाः । सर्वविद्याकलाविज्ञा जयन्ते परवादिनः ॥ १५.८६{८६} ॥ तथा धर्मानुभावेन शिल्पविद्याकलाविदः । यशोमान्यप्रसादश्रीसत्सुखानि लभन्ति च ॥ १५.८७{८७} ॥ तथा च मंत्रिणोऽमात्या धर्मवन्तो विचक्षणाः । राज्यकार्याणि सर्वाणि साधयन्तो जयन्त्यरीन् ॥ १५.८८{८८} ॥ राजानः क्षत्रियाश्चैवं धर्मनीतिविचक्षणाः । सर्वदुष्टान् विनिर्जित्य विराजन्ते नाराधिपाः ॥ १५.८९{८९} ॥ तथा धर्मेण राजेन्द्रश्चक्रवर्त्ती महीश्वरः । सप्तरत्नसमायुक्तः सर्वशास्ता विराजते ॥ १५.९०{९०} ॥ तथा धर्मधरा एव यतयो योगिनोऽपि च । सर्वक्लेशगणाञ्जित्वा लभन्ति परमं पदम् ॥ १५.९१{९१} ॥ तथर्षयो महाभिज्ञा धर्मभृतो महर्द्धिकाः । यथाभिलषितां सिद्धिं प्राप्य मोक्षं व्रजन्ति च ॥ १५.९२{९२} ॥ तथा धर्मानुसारेण मंत्रविद्यार्थसाधकाः । सिद्धिसमृद्धिसंप्राप्ताः साधयन्ति यथेहितम् ॥ १५.९३{९३} ॥ तथा च मानवाः सर्वे लोका धर्मानुसारतः । निहीनमध्यमोत्कृष्टाः प्रभवन्ति महीतले ॥ १५.९४{९४} ॥ तथा धर्मानुसारेण लोका दैत्यादयोऽपि च । निहीनमध्यमोत्कृष्टा प्रचरन्ति रसातले ॥ १५.९५{९५} ॥ तथा स्वर्गेषु देवाश्च स्वस्वधर्मानुभावतः । सुखानि सुचिरं भुक्त्वा प्रवसन्ति प्रमोदिताः ॥ १५.९६{९६} ॥ एवं सर्वत्र लोकेषु स्वस्वधर्मानुभावतः । सर्वे सत्वाः सुखप्राप्ताः प्रचरन्ति यथेछया ॥ १५.९७{९७} ॥ एवं त्रैधातुकोत्पन्नाः सत्वाः सर्वे सुरादयः । स्वस्वधर्मानुसारेण भ्रमन्ति षड्गतिष्वपि ॥ १५.९८{९८} ॥ किमत्र वहुनोक्तेन धर्म एव जगत्प्रभुः । धर्मेणैव सदा नित्यं रक्षितः प्रचरेच्छुभे ॥ १५.९९{९९} ॥ षुभेन सिद्ध्यते चित्तं शुद्धचित्तः सुधीर्भवेत् । सुबुद्धिः सद्गुणाधारं सद्गुरुं समुपाश्रयेत् ॥ १५.१००{१००} ॥ तद्गुरोरुपदेशेन चरन्नित्यं समाहितः । बोधिचित्तं समाधाय त्रिरत्नानि सदा भजेत् ॥ १५.१०१{१} ॥ एतत्पुण्यानुभावेन सद्धर्मसाधनोद्यतः । (र्म् २०२) बोधिसत्वो महासत्वो बोधिचर्यां व्रतं चरेत् ॥ १५.१०२{२} ॥ ततो मारगणाञ्जित्वा पूर्य पारमिताः क्रमात् । त्रिविधां बोधिमासाद्य संबुद्धपदमाप्नुयात् ॥ १५.१०३{३} ॥ एवं धर्मवरं मत्वा त्रिरत्नशरणं गतः । सद्धर्मं समुपश्रित्य चर बोधिपदाप्तये ॥ १५.१०४{४} ॥ मृत्युकाले विपत्तौ च धर्म्म एवानुगस्सुहृत् । तदा सर्वे त्यजन्त्याशु कोऽपि नैव सहानुगः ॥ १५.१०५{५} ॥ धर्म एव तदा त्राता सर्वत्राप्यनुगः सुहृत् । तस्माद्धर्मो महारत्नं साधनीयं प्रयत्नतः ॥ १५.१०६{६} ॥ एवं स भगवाञ्छास्ता धर्मस्याभ्यनुभावताम् । समादिश्य क्षणं तस्थौ तूष्णीभूत्वा समाहितः ॥ १५.१०७{७} ॥ ततस्तस्य मुनीन्द्रस्य पादौ स मुदितो गृही । प्रणत्वा मनसा चैवं प्रणिधानं सामदधे ॥ १५.१०८{८} ॥ अनेन कुशलेनाहं सर्वक्लेशविवर्जितः । प्रत्येकां बोधिमासाद्य निर्वृतिं समवाप्नुयात् ॥ १५.१०९{९} ॥ ततः स सुप्रसन्नास्यो गृहस्थः सजनो मुदा । भगवतं तमालोक्य पुरस्तस्थौ समाहितः ॥ १५.११०{१०} ॥ तदा स भगवांस्तस्य श्रीमतो हृदये स्थितम् । प्रणिधानं परिज्ञाय सुसंस्मितं व्यमुञ्चत ॥ १५.१११{११} ॥ ततस्तस्य मुनीन्द्रस्य मुखपद्मात्सुरस्मयः । पंचवर्णा विनिर्गत्य सर्वत्र समुदाचरन् ॥ १५.११२{१२} ॥ तासां या रश्मयो याता अधोलोके समन्ततः । ताः सर्वनरकेष्वेवमवभ्यास्य समासरत् ॥ १५.११३{१३} ॥ तदा ताभिः परिस्पृष्टाः सर्वे ते नरकस्थिताः । महत्सौख्यं समासाद्य विस्मयं समुपाययुः ॥ १५.११४{१४} ॥ तत्र सर्वेऽपि ते सत्वाः परस्परसमागताः । सर्वदुःखविनिर्मुक्ताः संमील्यैवं समब्रुवन् ॥ १५.११५{१५} ॥ अहो चित्रं किमद्यैवं महत्सौख्यं प्रजायते । किं नु वयं भवन्तोऽस्माच्च्युता अन्यत्र चागताः ॥ १५.११६{१६} ॥ यदस्माकं महद्दुःखं तत्सर्वं शाम्यतेऽधुना । संजायते महासौख्यं तदद्भुतं न मन्यते ॥ १५.११७{१७} ॥ नूनमत्राधुना कोऽपि बोधिसत्वः समागतः । यस्मादियं महारश्मिरवभास्य प्रसर्यति ॥ १५.११८{१८} ॥ इति चिंताभिदग्धानं तेषां चित्तप्रबोधने । भगवान्निर्मितं बुद्धं सर्वत्र तत्र प्रेषयेत् ॥ १५.११९{१९} ॥ तदा तं सौगतिं मूर्त्तिं दृष्ट्वा सर्वेऽपि ते मुदा । अहो चित्रमिति प्रोक्त्वा विस्मिताश्चैवमब्रुवन् ॥ १५.१२०{२०} ॥ नेहैवेतश्च्युताः सर्वे नाप्यन्यत्र गता वयम् । इहैव संस्थिताः सर्वे नरके प्रवसामहे ॥ १५.१२१{२१} ॥ अपि त्वयं महान् सत्वोऽपूर्वदर्शन आगतः । नूनमस्यानुभावेन संजायन्ते सुखानि नः ॥ १५.१२२{२२} ॥ तदस्मिं सुगताकरे वयं सर्वे प्रसादिताः । उपेत्य प्रणतिं कृत्वा सर्वथा संभजेमहि ॥ १५.१२३{२३} ॥ इति संभाष्य सर्वे ते नारकीयाः प्रमोदिताः । (र्म् २०३) उपेत्य तं महासत्वं साञ्जलयोऽभिनेमिरे ॥ १५.१२४{२४} ॥ नमो बुद्धाय धर्माय संघाये च नमः सदा । इत्युक्त्वा च त्रिरत्नानां संस्मृत्वा शरणं ययुः ॥ १५.१२५{२५} ॥ इति ते निर्मिते तस्मिं चित्तं प्रसाद्य निर्मलाः । सर्वनिर्मुक्तकर्माणः सहसा सद्गतिं ययुः ॥ १५.१२६{२६} ॥ तथा चोर्द्धगता यास्ताः क्रमाच्चातुर्महाधिपान् । समारभ्य त्रयस्त्रिंशान् सर्वांश्चापि सुरालयात् ॥ १५.१२७{२७} ॥ यावद्भवाग्रपर्यन्तमवभास्य प्रसारिताः ॥ १५.१२८{२७} ॥ तथा चापि समोद्घुष्य सर्वान् देवाननोदयन् । अनित्यं खलु संसारं दुःखं शून्यमनात्मकम् । इति मत्वा शुभे नित्यं चरितव्यं सदापि च ॥ १५.१२९{२८} ॥ निष्क्रामतारभध्वं तद्युज्यध्वं बुद्धशासने । धुनीत मृत्युसैन्यानि नडागारं करी यथा ॥ १५.१३०{२९} ॥ यो ह्यस्मिं धर्मविनये ह्यप्रमत्तश्चरिष्यति । त्यक्त्वा जन्मात्र संसारे दुःखस्यान्तं करिष्यति ॥ १५.१३१{३०} ॥ इति मत्वात्र संबोधिपदं यदि समिछथ । तच्छ्रद्धया त्रिरत्नानि भजध्वं सर्वदादरात् ॥ १५.१३२{३१} ॥ एतच्छब्दं समाकर्ण्य सर्वे देवाः प्रबोधिताः । त्रिरत्नं शरणं कृत्वा प्रभेजिरे सदादृताः ॥ १५.१३३{३२} ॥ एवं ता रश्मयः सर्वाः सर्वांल्लोकांच्छुभे वृषे । बोधयित्वा प्रतिस्थाप्य प्रत्याययुर्मुनेः पुरः ॥ १५.१३४{३३} ॥ तत्र ता रश्मयः सर्वाः पिण्डितास्तस्य तायिनः । त्रिधा प्रदक्षिणीकृत्वा सूर्णायां न्यविशत्पुनः ॥ १५.१३५{३४} ॥ तद्दृष्ट्वा विस्मिताः सर्वे लोकास्ते समितिस्थिताः । किं धर्ममादिशेद्बुद्ध इति संचिंत्य तस्थिरे ॥ १५.१३६{३५} ॥ अथानन्दो महाभिज्ञः समुत्थाय कृताञ्जलिः । पुरः स्थितो मुनीन्द्रं तं प्रणत्वा प्रार्थयत्तथा ॥ १५.१३७{३६} ॥ भगवान्नानाविधा रश्मिर्भवन्मुखाब्जनिर्गताः । अवभास्य जगल्लोकं भवदूर्णां निवेशिता ॥ १५.१३८{३७} ॥ मारजिन्निर्मलस्वान्तो निर्विकल्पो निरंजनः । नाहेत्वप्रत्ययं बुद्धा निर्दैन्या निर्मदोद्धवाः । स्मितं चंद्रकराहासं दर्शयन्ति कदाचन ॥ १५.१३९{३८} ॥ तद्यदर्थं भवान् स्मितं दर्शयति मुनीश्वर । तदर्थं श्रोतुमिच्छंति सर्वे लोका इमेऽधुना ॥ १५.१४०{३९} ॥ तद्भवां यत्समादेष्टुमिछति सांप्रतं मुने । तद्धर्मं समुपादिश्य प्रसादयत्विमां सभाम् ॥ १५.१४१{४०} ॥ इति तेन वशिष्येण प्रार्थिते स मुनीश्वरः । तमायुष्मन्तमानन्दं समामंत्र्यैवमब्रवीत् ॥ १५.१४२{४१} ॥ एवमेतत्सदानंद नाहेत्वप्रत्ययं स्मितम् । संबुद्धा अपि ते सर्वे दर्शयन्ति कदा चन ॥ १५.१४३{४२} ॥ यदर्थे स्मितमानंद दर्शितं सांप्रतं मया । (र्म् २०४) तदर्थं संप्रवक्ष्यामि तच्छृणुध्वं समाहिताः ॥ १५.१४४{४३} ॥ पश्यसि त्वं तदानंद श्रेष्ठिनानेन यन्मम । एवंविधं ससंघस्य सत्कारं श्रद्धया कृतम् ॥ १५.१४५{४४} ॥ एतत्पुण्यविपाकेन मयि चित्तप्रसादतः । अयं श्रीमान्महासत्वो बोधिसत्वो भवेत्सुधीः ॥ १५.१४६{४५} ॥ ततः क्लेशविमुक्तात्मा परिशुद्धत्रिमंडलः । सूक्ष्मत्वगिति विख्यातः प्रत्येकबुद्ध आत्मवित् ॥ १५.१४७{४६} ॥ भविष्यति महाभिज्ञः संवृतिपरमार्थवित् ॥ १५.१४८{४७!} ॥ एवमेतत्महत्पुण्यवीजमाराधितं मम । सासने श्रीमतानेन श्रद्धया बोधिचेतसा ॥ १५.१४९{४८} ॥ बुद्धक्षेत्रे कृतं पुण्यं न क्षिणोति कदा चन । संबोधिसत्फलं दद्यान्नान्यद्धर्मफलं खलु ॥ १५.१५०{४९} ॥ एवं महत्तरं पुण्यं बुद्धक्षेत्रेषु सत्कृतम् । मत्वा तच्छरणं कृत्वा त्रिरत्नं भजतादरात् ॥ १५.१५१{५०} ॥ ये बुद्दशरणं गत्वा भजन्ति सर्वदादरात् । ते सदा सद्गतिं याताश्चरंति बोधिसंवरम् ॥ १५.१५२{५१} ॥ ये धर्मं शरणं कृत्वा श्रुत्वा भजन्ति सादरम् । सर्वे तेऽक्लेशिनो भद्राः संप्रयान्ति जिनालयम् ॥ १५.१५३{५२} ॥ ये संघे शरणं गत्वा भजन्ति श्रद्धया सदा । न ते गच्छन्ति दुःखत्वं सदा यान्ति सुखावतीम् ॥ १५.१५४{५३} ॥ इति मत्वा तथा यूयं सदा नित्यं समाहिताः । त्रिरत्नशरणं कृत्वा भजध्वं श्रद्धयादरात् ॥ १५.१५५{५४} ॥ तेन पुण्यविपाकेन यूयं सर्वेऽपि सर्वथा । त्रिविधां बोधिमासाद्य संबुद्धपदमाप्स्यथ ॥ १५.१५६{५५} ॥ इति शास्त्रा मुनीन्द्रेण समादिष्टं निशम्यते । सर्वेऽपि सांघिकाः सर्वे लोकाश्च संप्रमोदिताः ॥ १५.१५७{५६} ॥ तथेति प्रतिसंश्रुत्य त्रिरत्नं शरणं गताः । सत्कृत्य श्रद्धया नित्यं प्रभेजिरे समाहिताः ॥ १५.१५८{५७} ॥ सोऽपि श्रेष्ठी तथा शास्त्रा समादिष्टं तदात्मनम् । व्याकरणं समाकर्ण्य प्राभ्यनन्दत्प्रबोधितः ॥ १५.१५९{५८} ॥ ततः प्रभृति स श्रीमांस्त्रिरत्नं शरणं गतः । सत्कृत्य श्रद्धया नित्यं सदा भेजे प्रमोदितः ॥ १५.१६०{५९} ॥ ततः स भगवाञ्छास्ता ससांघिकः समुत्थितः । तथा सर्वत्र भद्राणि प्रकुर्वन् स्वाश्रमं ययौ ॥ १५.१६१{६०} ॥ इत्येवं गुरुणाख्यातं तथा मयात्र कथ्यते । त्वमप्येवं महाराज श्रुत्वा धर्मं शुभे चर ॥ १५.१६२{६१} ॥ प्रजाश्चापि तथा धर्मं श्रावयित्वा प्रबोधयन् । बोधिमार्गे प्रतिष्ठाप्य शुभेऽभ्यव सदादरात् ॥ १५.१६३{६२} ॥ तथा ते सर्वदा नित्यं मंगलं निरुपद्रवम् । भवेन्नूनं महाराज सत्यमेतत्प्रबुध्यताम् ॥ १५.१६४{६३} ॥ एतत्पुण्यविपाकेन दशपारमिता अपि । परिपूर्य्य क्रमेणैवं संबोधिमपि चाप्स्यै ॥ १५.१६५{६४} ॥ एवं सत्यं परिज्ञाय त्रिरत्नं शरणं गतः । सत्कृत्य श्रद्धया नित्यं भज बोधिं यदीछसि ॥ १५.१६६{६५} ॥ (र्म् २०५) इति तेनार्हता शास्त्रा समादिष्टं निशम्य सः । नृपस्तथेति संश्रुत्य प्राभ्यनन्दत्सपार्षदः ॥ १५.१६७{६६} ॥ सूक्ष्मत्वचोऽवदानं यत्तदिदं ये नरा मुदा । सत्कृत्य श्रद्धया भक्त्या शृण्वन्ति श्रावयन्ति च ॥ १५.१६८{६७} ॥ ते सर्वे सद्गतिं याता भुक्त्वा सौख्यानि सर्वदा । सद्धर्मं समुपाश्रित्य संप्रयान्ति जिनालयम् ॥ १५.१६९{६८} ॥ ++ इति रत्नावदानतत्वे सूक्ष्मत्वचोऽवदानं समाप्तः ++ (र्म् २०६) xवि प्रेतिकावदान अथाशोको महाराजः कृताञ्जलिपुटो मुदा । उपगुप्तं यतिं नत्वा पुनरेव समब्रवीत् ॥ १६.१{१} ॥ भदन्त श्रोतुमिछामि पुनरन्यत्सुभाषितम् । तद्यथा गुरुणादिष्टं तथादेष्टुं च मेऽर्हसि ॥ १६.२{२} ॥ इति संप्रार्थितं तेन राज्ञा स यतिरात्मवित् । तमशोकं महीपालं समालोक्यैवमादिशत् ॥ १६.३{३} ॥ शृणु राजन्महाभाग यथा मे गुरुणोदितम् । तथाहं ते प्रवक्ष्यामि श्रुत्वानुमोदनां कुरु ॥ १६.४{४} ॥ पुरा स भगवान् बुद्धः शाक्यसिंहो जगद्गुरुः । सर्वज्ञः सुगतः शास्ता धर्मराजस्तथागतः ॥ १६.५{५} ॥ भिक्षुबिः श्रावकैः सार्द्धं चैलकैर्भिक्षुणीगणैः । उपासकैर्महाश्राद्धैस्तथा चोपासिकागणैः ॥ १६.६{६} ॥ बोधिसत्वगणैश्चापि सद्धर्मसाधनोद्यतैः । कृतकृत्यैर्महाभिज्ञैश्चतुर्ब्रह्मविहारकैः ॥ १६.७{७} ॥ राजगृहे पुरोपान्ते वेणुवने शुभाङ्किते । करण्डकनिवापाख्ये महोद्याने जिनाश्रमे ॥ १६.८{८} ॥ विहृत्य सर्वसत्वानां हितार्थेन सभाश्रितः । आदिमध्यान्ताकल्याणं धर्ममादेष्टुमारभत् ॥ १६.९{९} ॥ तदा सर्वेऽपि देवेन्द्राः सदेवाः कमलासनः । सर्वे लोकाधिपाश्चापि यक्षगंधर्वकिन्नराः ॥ १६.१०{१०} ॥ सिद्धा विद्याधराः साध्या राक्षसा दानवाधिपाः । नागेंद्रा गरुडाश्चापि सजनपरिवारकाः ॥ १६.११{११} ॥ ऋषयो ब्रह्मणाश्चापि यतयो योगिनोऽपि च । राजानो राजपुत्राश्च मंत्रिणोऽपि च ॥ १६.१२{१२} ॥ अमात्याः सैन्यलोकाश्च सार्थवाहा महाजनाः । वणिजः शिल्पिनश्चापि गृहस्थाः पौरिका जनाः ॥ १६.१३{१३} ॥ ग्राम्या जानपदाश्चापि कार्पटिकाश्च नैर्गमाः । तथान्येऽपि समायाताः सद्धर्मगुणवांछिनः ॥ १६.१४{१४} ॥ तत्र सर्वेऽपि ते लोका विहारे समुपागताः । तं मुनीन्द्रं समासीनं दृष्ट्वा नत्वा प्रमोदिताः ॥ १६.१५{१५} ॥ त्रिधा प्रदक्षिणीकृत्वा समभ्यर्च्य यथाक्रमम् । नत्वा साञ्जलयः सर्वे परिवृत्य समंततः ॥ १६.१६{१६} ॥ तत्सद्धर्मामृतं पातुं सुप्रसन्नमुखाम्बुजम् । श्रीघनं तं समालोक्य समातस्थुः समाहिताः ॥ १६.१७{१७} ॥ तदा स भगवान् दृष्ट्वा तान् सर्वान् समुपस्थितान् । आर्यसत्यं समारभ्य सद्धर्मं समुपादिशत् ॥ १६.१८{१८} ॥ तत्सद्धर्मामृतं पीत्वा लोकाः सर्वेऽपि ते मुदा । (र्म् २०७) संबोधिसाधनोत्साहाः प्रचेरिरे प्रमोदिताः ॥ १६.१९{१९} ॥ तस्मिन्नवसरे तत्र राजगृहान्तिके वने । वेणुवनान्तिके पंचप्रेतशतानि चेरिरे ॥ १६.२०{२०} ॥ नग्नान्यतिकृताङ्गानि दग्धस्थूणाकृतीनि वै । रोमवस्त्राणि रुक्षाणि शैलोपमोदराणि च ॥ १६.२१{२१} ॥ सूचीछिद्रमुखान्यस्थियंत्रवदुच्छृतान्यपि । क्षुत्पिपासाभिदग्धानि हीनदीनस्वराण्यपि ॥ १६.२२{२२} ॥ तीव्रदुःखानि तप्तानि प्रलपन्ति विहायसि । विभ्रमन्ति सदा क्वापि किञ्चि स्थितिं न लेभिरे ॥ १६.२३{२३} ॥ तदैकस्मिन् दिने तत्र मौद्गल्यायन आत्मवित् । आयुष्मान् सौगतो भिक्षुर्महाभिज्ञो दयान्वितः ॥ १६.२४{२४} ॥ पूर्वाह्ने पात्रमादाय काषायचीवरावृतः । राजगृहे पुरे पिण्डं याचितुं समुपाचरन् ॥ १६.२५{२५} ॥ तत्र यतिः स तां प्रेतां सर्वान् विभ्रमतोऽम्वरे । दृष्ट्वेने क इति ध्यात्वा पश्यञ्जनैरुपाचरन् ॥ १६.२६{२६} ॥ ते सर्वे प्रेतकाश्चापि दृष्ट्वा तं भिक्षुमागतम् । सहसोपेत्य नत्वाग्रे रुदन्त एतदब्रुवन् ॥ १६.२७{२७} ॥ भदन्त भवतां पादौ वन्दामहे समानताः । तदस्माकं हितं कृत्वा कृपया त्रातुमर्हति ॥ १६.२८{२८} ॥ वयं राजगृहे जाताः पौराः पंचशतान्यपि । स्वकर्मपरिभुंजानः प्रेतीभूताश्चरामहे ॥ १६.२९{२९} ॥ तदा वयमिमे सर्वे गृहस्थाः श्रेष्ठिनो नराः । महाधना महाभोगास्तीर्थिका धर्मसेवकाः ॥ १६.३०{३०} ॥ यद्वयं मत्साराक्रान्तमानसाः कुटुकुञ्चकाः । आगृहीतपरिष्काराः केवलार्जनसाधकाः ॥ १६.३१{३१} ॥ नैव किञ्चित्तदा दानमदद्महि कदा चन । अर्थिनमागतं दृष्ट्वा प्राकुष्यामहि रोषिताः ॥ १६.३२{३२} ॥ परदत्तान्यपि श्रुत्वा दृष्ट्वा चापि प्ररोषिताः । दीयमानेषु विघ्नानि प्राकुर्महि प्रयत्नतः ॥ १६.३३{३३} ॥ सौगता अपि चार्हन्तः प्रेता इवेयमागताः । इत्यस्माभिः प्रमोहान्धैः परिभाष्याभिनिन्दिताः ॥ १६.३४{३४} ॥ तत एते वयं सर्वे कालं कृत्वा च सांप्रतम् । एवं प्रेतालयोत्पन्ना दुःखार्दिताश्चरामहे ॥ १६.३५{३५} ॥ इति भदन्त विज्ञाय गत्वा राजगृहे भवान् । कृपयास्मत्प्रवृत्तांतं ज्ञातीनां पुरतो वदन् ॥ १६.३६{३६} ॥ छन्दकभिक्षणं कृत्वा बुद्धादिं सर्वसांघिकम् । अस्मन्नाम्ना समभ्यर्च्य भोजयितुं समर्हति ॥ १६.३७{३७} ॥ संबुद्धप्रमुखेभ्यश्च संघेभ्यो भवतादरात् । अस्मन्नाम्ना प्रकर्त्तव्यं प्रणाममपि सद्गुरो ॥ १६.३८{३८} ॥ दक्षिणादेशनाप्यस्मन्नाम्ना बुद्धादिसांघिकैः । (र्म् २०८) भवता कारयितव्या इत्यस्मासु कृपां कुरु ॥ १६.३९{३९} ॥ यथास्माकमितः प्रेतलोका मुक्तिर्भवेद्ध्रुवम् । तथास्मासु भवाम्च्छास्ता कृपया कर्तुमर्हाति ॥ १६.४०{४०} ॥ इति तैः प्रार्थितं सर्वैः स मौद्गल्यायनः सुधीः । श्रुत्वा तथेति संश्रुत्य तूष्णीभूत्वाध्युवास तत् ॥ १६.४१{४१} ॥ ततस्तान् प्रेतिकान् सर्वान् स मौद्गल्यायनो यतिः । समालोक्य समाश्वास्य पुनरेतत्समब्रवीत् ॥ १६.४२{४२} ॥ तत्र यूयं च सर्व श्वः प्रवृत्ते संघभोजने । ससंघं श्रीघनं द्रष्टुं समायात समादरात् ॥ १६.४३{४३} ॥ इति तेनार्हातादिष्टं श्रुत्वा ते प्रेतका अपि । तथेति हि प्रतिज्ञाय प्रणत्वा तं वने ययुः ॥ १६.४४{४४} ॥ ततः स सौगतो भिक्षुर्मौद्गल्यो यतिरात्मवित् । गत्वा राजगृहे तेषां ज्ञातीनां समुपाचरन् ॥ १६.४५{४५} ॥ तत्र सर्वत्र तेषां तत्ज्ञातीनां भवनेषु स । गत्वा तेषां प्रवृत्तांतं सर्वमेवं न्यवेदयत् ॥ १६.४६{४६} ॥ ततः स तत्र सर्वांस्तां ज्ञातीनाहूय सादरम् । तेषां प्रेतगतेर्मुक्तिहेतोरेवं समब्रवीत् ॥ १६.४७{ऽ४७} ॥ शृणुत भो महाभाग्य यूयं सर्वे समाहिताः । युष्माकं ज्ञातिवर्गाणां मुक्तिहेतुं प्रवक्ष्यते ॥ १६.४८{४८} ॥ यतो युष्मत्सगोत्रास्ते मत्सरिणो दुराशयाः । आगृहीतपरिष्कारा दशाकुशलसंचराः ॥ १६.४९{४९} ॥ नापि दानं प्रदत्तं तैः कस्मै चि क्वापि किं चन । परदत्तान्यपि श्रुत्वा दृष्ट्वा वा पर्यभाष्यत ॥ १६.५०{५०} ॥ अर्हन्तो भिक्षवो वा तैर्याचकाश्च गृहागताः । परिभाष्याभिसंतर्ज्य निष्कासिता गृहाद्वलात् ॥ १६.५१{५१} ॥ प्रेता इव सदा भिक्षां याचित्वेमेऽभिभुंजते । इत्यर्हतो यती चापि दृष्ट्वैव तेऽभ्यनिन्दयन् ॥ १६.५२{५२} ॥ एतत्कर्मविपाकैस्ते प्रेतीभूता वनेऽधुना । क्षुत्पिपासाहता नित्यं विभ्रम्यन्तेऽभिदुःखिताः ॥ १६.५३{५३} ॥ तत्तेसां तन्महत्पापमुक्तिहेतोरिहाधुना । संबुद्धशासने दानं कर्तुमिछाम्यहं खलु ॥ १६.५४{५४} ॥ मयैतद्दक्षिणादेशास्तन्नाम्ना कारयिष्यते । तदा तत्पापमुक्तास्ते सर्वे यायुर्दिवं ध्रुवम् ॥ १६.५५{५५} ॥ तदत्र श्रद्धया यूयं यथाशक्ति मयार्थिताः । संघभोजनसामग्रिं सर्वे प्रदातुमर्हय ॥ १६.५६{५६} ॥ संघभोज्ये प्रवृत्तेऽत्र सर्वे ते प्रेतिका अपि । द्रष्टुं समागमिष्यन्ति यूयं चागंतुमर्हथ ॥ १६.५७{५७} ॥ इत्युक्त्वा प्रार्थिते तेन मौद्गल्येन दयालुना । श्रुत्वा तज्जातयः सर्वे विस्मयां समुपाययुः ॥ १६.५८{५८} ॥ ततस्ते विस्मिताः सर्वे तत्प्रेतगतिमुक्तये । (र्म् २०९) तत्भोज्यसामग्रीं श्रद्धया दातुमिच्छिरे ॥ १६.५९{५९} ॥ के चित्तस्मै सुवर्णानि के चिद्रत्नानि संददुः । के चिद्रोप्यादि धातूंश्च द्रव्यानि विविधानि चा ॥ १६.६०{६०} ॥ तण्डुलानि ददुः के चिद्ददुर्धान्यानि के चन । के चिद्ददुः कलायांश्च गोधूमांश्च यवानपि ॥ १६.६१{६१} ॥ कुल्माषान्मसुरांश्चापि माषचनकसर्षपान् । मुद्गांश्चापि तथान्यांश्च सर्वान् व्रीहिन् ददुः परे ॥ १६.६२{६२} ॥ तिलप्रियंगुसिद्धार्थान् भंगाश्च राजिका अपि । मूलशाककदम्वांश्च पत्रपुष्पांकुराणि च ॥ १६.६३{६३} ॥ शृङ्गवेरातिपक्वानि फलानि विविधानि च । सुरसानि सुपथ्यानि प्रददुश्चापरे मुदा ॥ १६.६४{६४} ॥ तिक्ताम्ललवणादीनि रसानि विविधानि च । शुन्ठीश्च पिप्पिरीश्चापि मरिचानि ददुर्मुदा ॥ १६.६५{६५} ॥ हिङ्गुं च जीरकांश्चान्ये विडर्कसैंधवादि च । अन्ये घृतानि तैलानि प्रददुः श्रद्धया मुदा ॥ १६.६६{६६} ॥ शक्तूंश्च पिष्टकांश्चान्यमोदकांश्च ददुर्मुदा । तथा दधीनि दुग्धानि मधुनि च गुडानि च ॥ १६.६७{६७} ॥ तथान्ये सर्कराश्चापि प्रददुः श्रद्धया मुदा । तथौषधानि पथ्यानि पाचकानि ददुः परे ॥ १६.६८{६८} ॥ लाङ्गलीपूगताम्बूलरवंगादीनि संददुः । सर्वपेयानि भोज्यानि विविधान्यपि । सर्वे ते ज्ञातयस्तेषां संघभोक्ष्याय संददुः ॥ १६.६९{६९} ॥ एवं ते सर्ववस्तूनि दत्वा सर्वे प्रमोदिताः । सांजलयः प्रणत्वा तं मौद्गल्यं यतिमूचिरे ॥ १६.७०{७०} ॥ भदन्तोऽनुग्रहं कृत्वा संबुद्धप्रमुखं भवान् । सर्वसंघं समभ्यर्च्य भोजयतु प्रतोषयन् ॥ १६.७१{७१} ॥ वयमप्यागमिष्यामः प्रवृत्ते संघभोजने । तान् प्रेतान् समुपायातान् सर्वान् द्रष्टुं सबान्धवाः ॥ १६.७२{७२} ॥ इति तैः प्रार्थितं श्रुत्वा तथेति स प्रबोधयन् । तानि द्रव्यानि सर्वाणि गृहीत्वा स्वाश्रमे ययौ ॥ १६.७३{७३} ॥ ततः स भिक्षुरायुष्मान् विहारे समुपाचरन् । दृष्ट्वा तं श्रीघनं नत्वा साञ्जलिः समुपाश्रयन् ॥ १६.७४{७३} ॥ तत्र स भगवान् दृष्ट्वा तं मौद्गल्यमुपस्थितम् । प्रहसन् सुप्रसन्नास्यः समामंत्र्यैतदब्रवीत् ॥ १६.७५{७४} ॥ कं चित्ते कुशलं वत्स कुतोऽत्रासि समागतः । लोकेषु किं प्रवृत्तांतं तन् प्रचक्ष्व महामते ॥ १६.७६{७५} ॥ इत्यादिष्टे मुनीन्द्रेण स मौद्गल्यायनः सुधीः । भगवन्तं तमानत्वा साञ्जलिरेतदब्रवीत् ॥ १६.७७{७६} ॥ भगवन् कृपया शास्तः सर्वत्र कौशलं मम । राजगृहे पुरे पिंडं याचितुं समुपाचरन् ॥ १६.७८{७७} ॥ तत्र मार्गे वनोपान्ते पंच प्रेतशतान्यपि । दृष्ट्वा मां समुपसृत्य प्रणत्वैतद्वदन्ति वै ॥ १६.७९{७८} ॥ भदन्त तद्विजानीया यद्वयं प्रेतिका इमे । सर्वे राजगृहे जाता गृहस्थाः पौरिकाः खलु ॥ १६.८०{७९} ॥ (र्म् २१०) तदा वयं स्वयं नष्टा दशाकुशलचारिणः । एते स्वदैवयोगेन प्रेतीभूताश्चरामहे ॥ १६.८१{८०} ॥ तद्भवान् कृपयास्माकं प्रेतगतिविमुक्तये । ज्ञातीनामपि सर्वेषां कर्मप्लोतिं निवेद्य हि ॥ १६.८२{८१} ॥ छन्दकभिक्षणं कृत्वाप्यस्मन्नाम्ना ससांघिकम् । भगवन्तं समभ्यर्च्य भोजयितुं समर्हति ॥ १६.८३{८२} ॥ अस्मन्नाम्नाय संबुद्धं ससंघं नमतां भवान् । दक्षिणादेशनाश्चास्मन्नाम्ना देशयतुमर्हसि ॥ १६.८४{८३} ॥ ततो नूनं वयं सर्वे प्रेतगतिविमोचिताः । निर्मुक्तपापकाः शुद्धाः प्राप्नुयाम सुरालयम् ॥ १६.८५{८४} ॥ इत्यस्मत्प्रार्थनां कृत्वा कृपयास्मान् समुद्धरन् । बोधिमार्गे प्रतिस्थाप्य पातुमर्हति सर्वदा ॥ १६.८६{८५} ॥ इति तेषां वचः श्रुत्वा तथा राजगृहे गतः । तद्ज्ञातीनां पुरस्तेषां प्रवृत्तांतं निवेद्य च ॥ १६.८७{८६} ॥ छन्दकभिक्षणं तेभ्यो याचित्वाहमिहाचरे । तथार्चयितुमिछामि भगवन्तं ससांघिकम् ॥ १६.८८{८७} ॥ इति मे प्रार्थनां कृत्वा भवां छास्ता जगद्गुरुः । तदधिवासनां कृत्वा कृपया तान् समुद्धर ॥ १६.८९{८८} ॥ इति संप्रार्थितं तेन भगवान् स मुनीश्वरः । तथेति संप्रतिश्रुत्य तूष्णीभूत्वाध्युवास तत् ॥ १६.९०{८९} ॥ ततो मत्वा स मौद्गल्यो भगवतोऽधिवासितम् । सहसा भोज्यसामग्रीं सपौरैः समसाधयत् ॥ १६.९१{९०} ॥ ततोऽन्ये द्युः प्रभातायां सर्वसाधितसिद्धिते । साञ्जलिस्तं मुनीन्द्रं च प्रणत्वैतत्समब्रवीत् ॥ १६.९२{९१} ॥ भगवन् सर्वसामग्रीं संसाधितं सुसिद्ध्यते । तत्सर्वसांघिकैः सार्द्धं सहसागंतुमर्हति ॥ १६.९३{९२} ॥ इति संप्रार्थिते तेन भगवां स मुनीश्वरः । भिक्षुं प्राह समाहूय गण्डीमाकोट्यतामिति ॥ १६.९४{९३} ॥ तदादिष्टं मुनीन्द्रेण श्रुत्वा भिक्षुस्तथेति सः । आश्रुत्य सहसादाय गण्डीमाकोटयत्तदा ॥ १६.९५{९४} ॥ तद्गण्डीशब्दमाकर्ण्य सर्वे ते सांघिका अपि । विहारे सहसागत्य भगवन्तं प्रणेमिरे ॥ १६.९६{९५} ॥ ततः स भगवांस्तत्र स्वासने समुपाविशत् । सर्वे ते सांघिकाश्चापि क्रमात्स्वस्वासनेऽविशन् ॥ १६.९७{९६} ॥ ततस्तद्ज्ञातयः सर्वे तत्रान्ये पौरिका अपि । तान् प्रेतान् द्रष्टुमायाता उपतस्थुः सकौतुकाः ॥ १६.९८{९७} ॥ तदा ते प्रेतिकाः सर्वे प्रक्षिप्ताः कर्मवायुभिः । बहुलोकान्तरे दुरे यातास्तस्थुर्विमोहिताः ॥ १६.९९{९८} ॥ तदा स यतिरालोक्य सर्वसंघान् समास्थितान् । तद्ज्ञातिबन्धुवर्गांश्च प्रेतान् द्रष्टुं समाचरत् ॥ १६.१००{९९} ॥ तत्र प्रेतानदृष्ट्वा स मौद्गल्यो विस्मिताशयः । किं तेऽत्र नागता वेति समन्ततो व्यलोकयत् ॥ १६.१०१{१००} ॥ (र्म् २११) विलोकयन् स सर्वत्र नाद्रक्षीत्तां समंततः । स संदिग्धः पुनस्तत्र सम्यग्दृष्ट्या व्यलोकयत् ॥ १६.१०२{१} ॥ सर्वत्रापि स तां प्रेतानदृष्ट्वा विस्मयान्वितः । सर्वत्र मगधेऽपश्यत्सम्यग्दृशा समाहितः ॥ १६.१०३{२} ॥ तत्रापि च स सर्वत्र नैव कं चिदपश्यते । ततोऽतिविस्मितोऽन्यत्र दिव्यदृशाभ्यलोकयत् ॥ १६.१०४{३} ॥ अंगवंगकलिंगेषु सौराष्ट्रमगधेषु च । तत्रापि तानदृष्ट्वा स नरकेषु समन्ततः । दिव्येन चक्षुषा पश्यन्न च तत्राप्यपश्यत ॥ १६.१०५{४} ॥ ततश्चतुर्महाराजभुवनेषु समन्ततः । स दिव्यचक्षुषा पश्यंस्तत्रापि नाभ्यपश्यत ॥ १६.१०६{५} ॥ तत्रापि तानदृष्ट्वा स मौद्गल्यो विस्मयान्वितः । देवालयेषु सर्वत्र क्रमेण समलोकयत् ॥ १६.१०७{६} ॥ तत्रापि तां समन्तेषु स मौद्गल्योऽतिविस्मितः । तानदृष्ट्वातिसंदिग्धो भगवतान्तिकेऽचरत् ॥ १६.१०८{७} ॥ तत्र स पुरतो गत्वा शास्तारं तं मुनीश्वरम् । कृताञ्जलिपुटो नत्वा पप्रछैतत्प्रवृत्तिताम् ॥ १६.१०९{८} ॥ भगवन् सर्वलोकेषु पश्यता दिव्यचक्षुसा । मया न दृश्यते कश्चित्ते प्रेताः क्वाधुना गताः ॥ १६.११०{९} ॥ तेषां नाम्ना भवत्पूजां कर्त्तुमेतत्प्रसाधितम् । यदत्र नागताः केचित्तत्ते प्रेता गताः कुह ॥ १६.१११{१०} ॥ दृश्यन्ते न मया क्वापि सर्वत्रापि समीक्ष्यते । एकोऽपि नागतो ह्यत्र क्व गतास्तेऽधुना खलु ॥ १६.११२{११} ॥ तन्मे चित्तं प्रसंदिग्धं दृष्ट्वा शास्ता भवान् सुदृक् । तेषां गतिं समाख्याय संबोधयितुमर्हति ॥ १६.११३{१२} ॥ इति संप्रार्थिते तेन मौद्गल्येन स सर्ववित् । भगवांस्तं समालोक्य मौद्गल्यमेतदब्रवीत् ॥ १६.११४{१३} ॥ मौद्गल्य मा कृथा यत्नं खेदमेवाभिपत्स्यसे । गतास्ते प्रेतिकाः सर्वे सुदूरभुवनेऽधुना ॥ १६.११५{१४} ॥ सर्वे ते यतिदेवर्षिप्रत्येकसुगतैरपि । अदृश्ये विषये याताः प्रेरिताः कर्मवायुभिः ॥ १६.११६{१५} ॥ यदि सर्वां च तां द्रष्टुं वांछसि त्वमिहाश्रितः । सर्वांस्तां दर्शयिष्यामि पश्य बुद्धानुभावताम् ॥ १६.११७{१६} ॥ तदत्र त्वं समादाय गण्डीमाकोटय द्रुतम् । ओं नमो भगवते अपरिमितायुर्ज्ञानसुविनिश्चिततेजोराजाय तथागतायार्हते सम्यकम्बुद्धाय ॥ तद्यथा ॥ ओं पुण्ये पुण्ये महापुण्ये अपरिमितपुण्ये अपरिमितपुण्यज्ञानसंभारोपचिते । ओं सर्वसंस्कारपरिशुद्धे धर्मते गगणसमुद्गते स्वभावविशुद्धे महानयपरिवारे स्वाहा । अष्टोत्तरशताक्षर्य्यानयासंलब्धचेतनाः ॥ १६.११८{१७} ॥ सर्वे तेऽत्रागमिष्यन्ति गण्डीशब्दाभिनादिताः । इति शास्त्रा समादिष्टं श्रुत्वा स प्रतिबोधितः ॥ १६.११९{१८} ॥ सहसा तत्सभामध्ये गण्डीमाकोटयत्तथा । तद्गण्डीशब्दमाकर्ण्य सर्वे ते प्रेतिका अपि । (र्म् २१२) परिशुद्धाशया द्रष्टुं विहारे समुपाचरन् ॥ १६.१२०{१९} ॥ तत्र सर्वेऽपि ते प्रेता दृष्ट्वा तं श्रीघनं मुदा । त्रिधा प्रदक्षिणीकृत्य साञ्जलयः प्रणेमिरे ॥ १६.१२१{२०} ॥ क्रमात्तां सर्वसंघांश्च प्रणत्वा ते प्रमोदिताः । सर्वेऽप्येकान्तमाश्रित्य पश्यन्त उपतस्थिरे ॥ १६.१२२{२१} ॥ तत्र तद्ज्ञातयः सर्वे पौरिकाश्चापरेऽपि च । तान् प्रेतान् समुपासीनान् दृष्ट्वा तस्थुः सकौतुकाः ॥ १६.१२३{२२} ॥ एवं सर्वेऽपि ते प्रेताः स्वस्वज्ञातीनुपस्थितान् । भात्रादीन् बन्धुवर्गांश्च दृष्ट्वैवमुपतस्थिरे ॥ १६.१२४{२३} ॥ ततः सोऽर्हन्महाभिज्ञो मौद्गल्यस्तानुपस्थितान् । प्रेतान् सर्वान् समालोक्य नत्वाहैवं मुनीश्वरम् ॥ १६.१२५{२४} ॥ भगवन्नाथ सर्वज्ञ ते प्रेताः सर्व आगताः । तदेषां भगवां च्छास्तानुग्रहं कर्त्तुमर्हति ॥ १६.१२६{२५} ॥ निवेद्येति स मौद्गल्यः संबुद्धप्रमुखं क्रमात् । सर्वं संघं समभ्यर्च्य भोजयन् समतोषयत् ॥ १६.१२७{२६} ॥ ततः स सर्वसंघं तं दृष्ट्वा संतृप्तिकं मुदा । अपनीयाशु पात्राणि हस्तादीन् समशोधयत् ॥ १६.१२८{२७} ॥ ततः खपुरसूक्ष्मैलाताम्बूलादि रसायनम् । दत्वा क्षमार्थनां कृत्वा प्रार्थयत्स मुनीश्वरम् ॥ १६.१२९{२८} ॥ भगवन्नाथ सर्वज्ञ भवां छास्ता ससांघिकः । दक्षिणादेशनामेभ्यः प्रेतेभ्यः कर्तुमर्हति ॥ १६.१३०{२९} ॥ इति संप्रार्थितं श्रुत्वा सर्वे ते प्रेतिका मुदा । ससंघं तं मुनिं नत्वा सादरमुपतस्थिरे ॥ १६.१३१{३०} ॥ ततः स भगवान् दृष्ट्वा ससंघस्तानुपस्थितान् । दक्षिणादेशनां तेभ्यः सर्वेभ्यो विदधे शुभाम् ॥ १६.१३२{३१} ॥ इतो दानाद्धि यत्पुण्यं तत्प्रेताननुगछतु । उत्तिष्ठन्तः प्रयान्त्येते सर्वे प्रेताः सुरालयम् ॥ १६.१३३{२१} ॥ इत्यादिश्य पुनस्तत्र भगवां स मुनीश्वरः । आर्य्यसत्यं समारभ्यापरिमितायुषस्तदा ॥ १६.१३४{२२} ॥ धारण्या गुणमाहात्म्यं सद्धर्मं समुपादिशत् ॥ १६.१३५{२३} ॥ संसारे मानुषे जन्म दुर्लभं भवचारिणाम् । मानुष्ये लभ्यमानेऽपि क्षणसंपत्सुदुर्लभा ॥ १६.१३६{२४} ॥ मानुष्येऽलभ्यमाने हि जन्तूनां सुखता कुतः । दुःखान्येव भवे नित्यं पुण्ये मतिः कथं चरेत् ॥ १६.१३७{२५} ॥ विना पुण्यमतिं जन्तुः सद्धर्मे कथमाचरेत् । विना सद्धर्मभावेन सद्गतिं कथमाप्नुयात् ॥ १६.१३८{२६} ॥ प्रेतेषु सर्वदा नित्यं क्षुत्पिपासाविदाहितः । तिर्यक्षु नरकेष्वेव भ्रमन् दुःखान्यवाप्नुयात् ॥ १६.१३९{२७} ॥ तदत्र मानुषे जन्मप्राप्तैर्यत्नेन मानवैः । सत्कृत्य श्रद्धया नित्यं श्रोतव्यं सद्वृषं मुदा ॥ १६.१४०{२८} ॥ सद्धर्मश्रुतमात्रेण महत्पुण्यमवाप्नुयात् । एतत्पुण्यविपाकेन सद्गुरौ सर्वदा भजेत् ॥ १६.१४१{२९} ॥ (र्म् २१३) सद्गुरोरुपदेशेन सद्धर्मेष्वेव सदाचरेत् । एतत्पुण्यविपाकेन सद्गतिं सर्वदा व्रजेत् ॥ १६.१४२{३०} ॥ तत्र सुखानि संभुक्त्वा संचरेत शुभे सदा ॥ १६.१४३{३१} ॥ एतद्धर्मानुभावेन महत्समृद्धिमाप्नुयात् । महत्समृद्धिसंपत्सु कर्त्तव्यं दानमर्थिषु ॥ १६.१४४{३२} ॥ दानेन वर्द्ध्यते लक्ष्मीर्लक्ष्मीमां च्छोभते पुमान् । सद्बुद्धिः सद्गुणाधारो यशोभाग्यसुखान्वितः ॥ १६.१४५{३३} ॥ ततः सौगतधर्माणि श्रुत्वा नित्यं प्रबोधितः । त्रिरत्नशरणं कृत्वा भजेद्भक्त्या सदादरात् ॥ १६.१४६{३४} ॥ एतत्पुण्यानुभावेन बोधिचित्तं समाप्नुयात् । बोधिचित्ते हि लब्धे हि बोधिसत्वो भवेत्कृती ॥ १६.१४७{३५} ॥ ततः स बोधिचित्तेन दशपारमिताः क्रमात् । परिपूर्य महासत्वस्त्रिविधां बोधिमाप्नुयात् ॥ १६.१४८{३६} ॥ ततो मारगणां जित्वा परिशुद्धस्त्रिमण्डलः । ॠसाक्षादर्हत्पदं प्राप्य निर्वृतिपदमाप्नुयात् ॥ १६.१४९{३७} ॥ एवं विज्ञाय मर्त्येन कर्त्तव्यं दानमर्थिने । दानेन सद्गतिं यायाददाता दुर्गतिं व्रजेत् ॥ १६.१५०{३८} ॥ दुर्गतिषु सदा भुक्त्वा दुःखानि विविधां स । सर्वदा दुःखसंक्लिष्टः पापेष्वेवारतश्चरेत् ॥ १६.१५१{३९} ॥ एतत्पापविपाकेन दशस्वकुशलेष्वपि । निरतो ह्यविशंकेन संचरेत प्रमादतः ॥ १६.१५२{४०} ॥ ततः सो ह्यतिपापिष्ठः सद्धर्मनिन्दकः कुधीः । स्वयं नष्टः परांश्चापि नाशयेन्नास्तिकः शठः ॥ १६.१५३{४१} ॥ ततोऽतिपापसंक्लिष्टः प्रतिक्षिप्य जिनानपि । घोरेषु नरकेष्वेव गत्वा भ्रमन् सदा वसेत् ॥ १६.१५४{४२} ॥ सदापि नरकेष्वेवं भ्रमतस्तस्य दुःखिनः । कश्चिन्नैव समुद्धर्तुं शक्नुयात्सौगतादृते ॥ १६.१५५{४३} ॥ यावन्न स्मरते बुद्धं तावत्स नरके वसेत् । यदेव स्मरते बुद्धं तदा स्याच्छुद्धिताशयः ॥ १६.१५६{४४} ॥ तदा तं कृपया बुद्धो दृष्ट्वा बौद्धेन चक्षुषा । पुण्यकरेण संस्पृष्ट्वा समुद्धरेदरं ततः ॥ १६.१५७{४५} ॥ ततस्तं पापिनं बौद्धा धर्माम्बुभिर्विशोध्य च । क्रमेण बोधिमार्गेषु नियोजयेत्प्रबोधयन् ॥ १६.१५८{४६} ॥ ततः स परिशुद्धात्मा संबुद्धशासने रतः । त्रिरत्नशरणं कृत्वा सद्धर्म एव प्राचरेत् ॥ १६.१५९{४७} ॥ ततः सत्वहितार्थे स बोधिचर्यासमुद्यतः । क्रमात्पारमिताः सर्वा पूरयितुं समुद्यमेत् ॥ १६.१६०{४८} ॥ ततः पारमिताः सर्वाः पूरयित्वा समाहितः । बोधिसत्वो महासत्वो बुद्धात्मजो भवेदपि ॥ १६.१६१{४९} ॥ ततः क्लेशगणाञ्जित्वा परिशुद्धत्रिमंडलः । त्रिविधां बोधिमासाद्य निर्वृतिपदमाप्नुयात् ॥ १६.१६२{५०} ॥ एवं मत्वा सदा नित्यं त्रिरत्नशरणं गताः । सद्धर्मं समुपाश्रित्य चरध्वं मानवा मुदा ॥ १६.१६३{५१} ॥ इत्यादिष्टं मुनीन्द्रेण श्रुत्वा ते ब्राह्मणादयः । (र्म् २१४) सर्वे लोका परिज्ञाय दृष्टसत्यास्तथाचरन् ॥ १६.१६४{५२} ॥ तथा सर्वेऽपि ते प्रेताः श्रुत्वा तद्धर्मदेशनाम् । मुदा तं श्रीघनं नत्वा शुद्धात्मानस्ततोऽचरन् ॥ १६.१६५{५३} ॥ ततस्तद्ज्ञातयः सर्वे दृष्ट्वा श्रुत्वा सकौतुकाः । ससंघं तं मुनिं नत्वा स्वस्वालयं ययुर्मुदा ॥ १६.१६६{५४} ॥ ततः स भगवान् बुद्धः समुत्थाय सषांघिकः । ध्यानालयं समाश्रित्य तस्थौ ध्यानसमाहितः ॥ १६.१६७{५५} ॥ स मौद्गल्यायनश्चापि कृतकृत्यः प्रमोदितः । शास्तारं तं प्रणत्वैवं स्वमाश्रमं समाश्रयत् ॥ १६.१६८{५६} ॥ तदा सर्वेऽपि ते प्रेताः संबुद्धेऽभिप्रसादिताः । त्रिरत्नस्मरणं कृत्वा ततश्च्युता दिवं ययुः ॥ १६.१६९{५७} ॥ तत्रोत्पन्ना हि ते सर्वे महत्सौख्यसमन्विताः । परिशुद्धसुभद्राङ्गा विस्मिता एतदब्रुवन् ॥ १६.१७०{५८} ॥ अहोऽस्माकं महत्सौख्यं किमेवं जायतेऽधुना । कुतश्च्युताः कुहायामः कर्मणा केन वा वयम् ॥ १६.१७१{५९} ॥ अथ बुद्धानुभावेन सर्वे ते प्रेतपूर्वकाः । देवपुत्रा अनुस्मृत्वा प्रबोधिताः समब्रुवन् ॥ १६.१७२{६०} ॥ भवन्तो यद्वयं सर्वे प्रेता बुद्धानुभावतः । मौद्गल्यस्यार्हतो भिक्षोः कृपादृष्टिप्रयत्नतः ॥ १६.१७३{६१} ॥ संबुद्धदर्शनप्राप्तास्त्रिरत्नशरणं गताः । एतत्पुण्यपरिस्पृष्टाः परिशुद्धत्रिकायिकाः ॥ १६.१७४{६२} ॥ ततः प्रेतगतेश्च्युत्वा स्वर्गलोके समागताः । महद्दिव्यसुखान्येवमत्र लभामहेऽधुना ॥ १६.१७५{६३} ॥ एतत्सत्यं परिज्ञाय तस्य शास्तुर्जगद्गुरोः । पुनः सर्वे वयं गत्वा सत्कृत्य प्रभजेमहि ॥ १६.१७६{६४} ॥ इति संभाषणं कृत्वा सर्वे ते प्रेतपूर्वकाः । देवपुत्राः शुभाम्भोभिः स्नात्वा दिव्याम्वरावृताः ॥ १६.१७७{६५} ॥ दिव्यसुगंधलिप्ताङ्गा दिव्यालंकारभूषिताः । दिव्यपूजोपचाराणि गृहीत्वा महदुत्सवैः । सर्वं वेणुवनं भाभिरवभास्य समन्ततः ॥ १६.१७८{६६} ॥ विहारे समुपासृत्य दृष्ट्वा तं श्रीघनं मुदा । नत्वा प्रदक्षिणीकृत्वा प्रहर्षिता उपाचरन् ॥ १६.१७९{६७} ॥ तत्र दिव्योपचारैस्तैः पूजांगैस्तं मुनीश्वरम् । सर्वेऽपि ते समभ्यर्च्य सत्कृत्य श्रद्धयाभजन् ॥ १६.१८०{६८} ॥ तत्र चैकान्तमाश्रित्य सद्धर्म्मश्रवणोत्सुकाः । कृताञ्जलिपुटाः सर्वे उपतस्थुः समाहिताः ॥ १६.१८१{६९} ॥ अथ स भगवान् दृष्ट्वा तान् सर्वान् समुपस्थितान् । आर्यसत्यं समारभः सद्धर्मं समुपादिशत् ॥ १६.१८२{७०} ॥ तत्सद्धर्मामृतं पीत्वा सर्वे ते प्रेतपूर्वकाः । देवपुत्राश्च धर्माणां विशेषत्वं प्रलेभिरे ॥ १६.१८३{७१} ॥ ततस्ते मुदिताः सर्वे संबोधिपदवांछिनः । शास्तारं तं पुनर्नत्वा समालोक्यैतदब्रुवन् ॥ १६.१८४{७२} ॥ भगवन् यद्वयं सर्वे विमुक्तकर्मबंधनाः । (र्म् २१५) प्रेतलोकात्परिच्युत्वा स्वर्गे याताः स्म सांप्रतम् ॥ १६.१८५{७३} ॥ दिव्यसुखानि साम्भुक्त्वा देवैः सह प्रमोदिताः । सद्धर्मगुणमाकर्ण्य चरामहे सदाधुना ॥ १६.१८६{७४} ॥ तत्कृपालो यतस्तस्य मौद्गल्यस्य महामतेः । कृपदृष्टिप्रसादेन नूनं मन्यामहे वयम् ॥ १६.१८७{७५} ॥ तद्भवद्दर्शनं प्राप्य पीत्वा धर्मामृतान्यपि । मुदिताः श्रद्धया भक्त्या त्रिरत्नं संभजामहे ॥ १६.१८८{७६} ॥ एतत्पुण्यैः परीताङ्गाः परिशुद्धाशया मुदा । भवतां दर्शनं कर्तुं भूयः प्रायामहे वयम् ॥ १६.१८९{७७} ॥ तथा च भवतां शास्तः कृपादृष्टिप्रसादतः । आर्यधर्मामृतं पीत्वा संतुष्टिं न लभामहे ॥ १६.१९०{७८} ॥ तद्वयं भवतामेवं सर्वदा शरणं गताः । सत्कृत्य समुपासृत्य भक्तुमिछामहे पुनः ॥ १६.१९१{७९} ॥ तद्भवान् कृपयास्मा कं कृत्वानुग्रहमाभवम् । सद्धर्मं समुपादिश्य सर्वदा त्रातुमर्हति ॥ १६.१९२{८०} ॥ भवतां कृपयास्माभि दुःखाब्धिः परिलंघितः । सत्कायदृष्टिशैलं च ज्ञानवज्रेण भिद्यते ॥ १६.१९३{८१} ॥ ज्ञानचक्षुश्च संप्राप्तं दृष्टं मायामयं भवम् । आर्यमार्गश्च संप्राप्तः प्राप्ता च निर्वृतिश्रुतिः ॥ १६.१९४{८२} ॥ धन्या इमे वयं सर्वे यद्भवच्छरणं गताः । आर्यधर्मामृतं पीत्वा महानन्दं लभामहे ॥ १६.१९५{८३} ॥ धन्यास्ते पुरुषाः सर्वे ये बुद्धशरणं गताः । सदा धर्मामृतं पीत्वा कारां कुर्वन्ति शासने ॥ १६.१९६{८४} ॥ एवं भवां जगच्छास्ता सर्वसत्वानुकम्पया । सद्धर्मं समुपादिश्य तिष्ठतु सर्वदा सुखम् ॥ १६.१९७{८५} ॥ इति प्रभाख्य सर्वे ते देवपुत्राः प्रमोदिताः । तं मुनीन्द्रं प्रणत्वा च सुप्रसन्ना दिवं ययुः ॥ १६.१९८{८६} ॥ तत्र सर्वेऽपि ते देवास्त्रिरत्नशरणं गताः । प्रभेजिरे सदा स्मृत्वा संबोधिपदवांछिनः ॥ १६.१९९{८७} ॥ ततः प्रातः समुत्थाय भगवान् सोऽनुमोदितः । तं मौद्गल्यायनं शिष्यं समामंत्र्यैवमब्रवीत् ॥ १६.२००{८८} ॥ साधु मौद्गल्य संवृत्तं सफलं ते कृपामते । यत्त्वया प्रकृतं कायं वैयावृत्तं सुशोभितम् ॥ १६.२०१{८९} ॥ यन्नाम्ना भिक्षणं कृत्वा बुद्धपूजा कृता त्वया । ते सर्वे देवलोकेषु समुत्पन्नाः प्रतिस्थिताः ॥ १६.२०२{९०} ॥ ते सर्वेऽद्य निशायां मत्सकाशं समुपगताः । तेषां भद्राशयं दृष्ट्वा सद्धर्मो देशितो मया ॥ १६.२०३{९१} ॥ तत्सद्धर्मामृतं पीत्वा ते सर्वेऽपि प्रमोदिताः । दृष्टसत्याः प्रक्रान्ताश्च गछन्ति त्रिदशालये ॥ १६.२०४{९२} ॥ तत्र स्वर्गेऽपि ते सर्वे त्रिरत्नशरणं गताः । प्रभजन्ति सदा नित्यं संबोधिगुणवांछिनः ॥ १६.२०५{९३} ॥ यन्नाम्ना यत्कृतं कर्म तत्फलं ते प्रभुंजते । (र्म् २१६) एवं लोकहितं कर्तुं कर्त्तव्यं पुण्यसाधनम् ॥ १६.२०६{९४} ॥ एवं लोकहितं कृत्वा प्रकुर्वन्ति शुभानि ये । ते पुमांसो महासत्वा बोधिसत्वा जिनात्मजाः ॥ १६.२०७{९५} ॥ एवं विज्ञाय लोकानां हितं कर्तुं समुद्यतः । सद्धर्मसाधनेष्वेव चरितव्यं समाहितः ॥ १६.२०८{९६} ॥ इति शास्त्रा समादिष्टं श्रुत्वा सोऽर्हं महामतिः । सत्यमिति प्रतिज्ञाय प्राभ्यनन्दत्प्रबोधितः ॥ १६.२०९{९७} ॥ ततः सोऽर्हन्महाभिज्ञस्तच्छास्त्रादिष्टमादरात् । तद्ज्ञातीनां पुरोगत्वा सर्वमेवं न्यवेदयत् ॥ १६.२१०{९८} ॥ तेऽपि च ज्ञातयः सर्वे तेनार्हता निवेदितम् । श्रुत्वा सत्यमिति ज्ञात्वा प्रामोद्यं प्रतिलेभिरे ॥ १६.२११{९९} ॥ ततस्ते ज्ञातयः सर्वे त्रिरत्नशरणं गताः । सत्कृत्य श्रद्धया नित्यं प्रभेजिरे समादरात् ॥ १६.२१२{१००} ॥ इति मे गुरुणादिष्टं श्रुतं मया नराधिप । लोकप्रबोधनार्थेन तव प्रीत्या प्रकथ्यते ॥ १६.२१३{१} ॥ एवं विज्ञाय राजेन्द्र प्रेतानां शुभसाधनम् । त्रिरत्नभजनं लोकैः कारयितुं त्वमर्हसि ॥ १६.२१४{२} ॥ तथा ते मंगलं नित्यं भवेन्नूनं समंततः । सर्वसत्वहितोद्भुतं महत्पुण्यं हि सत्फलम् ॥ १६.२१५{३} ॥ इति मत्वा महाराज लोकान् सर्वान् प्रबोधयन् । प्रतिष्ठाप्य शुभे धर्मे पालयस्व समाहितः ॥ १६.२१६{४} ॥ इति शास्त्रा समादिष्टं श्रुत्वाशोकः स भूपतिः । तथेति प्रतिमोदित्वा प्राभ्यनन्दत्सपार्षदः ॥ १६.२१७{५} ॥ प्रेतावदानं मनुजा इदं ये शृण्वन्ति ये चापि निशामयन्ति । ते सर्व एवं प्रतिलब्धपुण्या भुक्त्वा सुखानि प्रचरन्ति लोके ॥ १६.२१८{६} ॥ ++ इति रत्नाव दानतत्वे प्रेतिकावदानं समाप्तम् ++ (र्म् २१७) xविइ कचंगलावदान अथाशोको महाराजः प्रमोदितः । उपगुप्तं यतिं नत्वा पुनरेवमभाषत ॥ १७.१{१} ॥ भदन्त श्रोतुमिच्छामि पुनरन्यत्सुभाषितम् । तद्यथा गुरुणादिष्टं तथादेष्टुं च मेऽर्हति ॥ १७.२{२} ॥ इति संप्रार्थितं राज्ञा श्रुत्वा सोऽर्हन् यतिः सुधीः । उपगुप्तो नरेंद्रां तं समलोक्यैवमादिशत् ॥ १७.३{३} ॥ साधु शृणु महाराज यथा मे गुरुणोदितम् । तथाहं ते प्रवक्ष्यामि श्रुत्वा चाप्यनुमोदय ॥ १७.४{४} ॥ पुरैकसमये बुद्धः साक्यसिंहो मुनीश्वरः । सर्वज्ञः सुगतः सास्ता धर्मराजो विनायकः ॥ १७.५{५} ॥ श्रावस्त्या निकटेऽरण्ये जेताश्रमे शुभालये । विहारे श्रावकैः सार्द्धं भिक्षुभिश्चैलकैरपि ॥ १७.६{६} ॥ भिक्षुणीभिः सुशिलाभिरुपासिकागणैरपि । उपासकैस्तथान्यैश्च त्रिरत्नशरणागतैः ॥ १७.७{७} ॥ बोधिसत्वगणैश्चापि सत्वोद्धरणतत्परैः । विजहार जगल्लोकं धर्मांशुभिः प्रभासयन् ॥ १७.८{८} ॥ तत्सद्धर्मामृतं पातुं सर्वे लोकाः समागताः । शक्रादयः सुपर्वाणब्रह्मादि लोकपालकाः ॥ १७.९{९} ॥ दैत्या नागाश्च गंधर्वा यक्षकिन्नरराक्षसाः । गरुडा विद्याधराश्चापि सर्वे ते संप्रचेरिरे ॥ १७.१०{१०} ॥ ततः सर्वेऽपि ते तत्र पुरस्कृत्य समन्ततः । परिवृत्य ससंघं तमुपतस्थुः समाहिताः ॥ १७.११{११} ॥ तदा स भगवान् दृष्ट्वा तान् सर्वान् समुपस्थितान् । आदिमध्यान्तकल्याणं दिदेश धर्ममुत्तमम् ॥ १७.१२{१२} ॥ तत्सद्धर्मामृतं पीत्वा सर्वे ते संप्रमोदिताः । धर्मविशेषमाज्ञाय प्राभ्यनन्दञ्छूभाशयाः ॥ १७.१३{१३} ॥ तस्मिन्नवसरे तत्र वृद्धारामोदकार्थिनी । कचङ्गलाभिधा कुम्भं धृत्वा कूपान्तिकेऽचरत् ॥ १७.१४{१४} ॥ तत्र तां भगवान् दृष्ट्वा मत्वा जन्मान्तरप्रसूम् । आनंदं समुपामंत्र्य पुर एवमभाषत ॥ १७.१५{१५} ॥ गछानंद त्वमेतस्यां वृद्धायां प्रार्थयामृतम् । भगवांस्तृषितो मातस्तदम्बु दीयतामिति ॥ १७.१६{१६} ॥ एतद्भगवतादिष्टं श्रुत्वानंदस्तथेति सः । सहसा समुपाश्रित्य तां वृद्धामेवमब्रवीत् ॥ १७.१७{१७} ॥ मातर्मे भगवाञ्छास्ता तृषितोऽयमिहाधुना । तत्पानीयं प्रदत्वा मे महद्धर्ममवाप्नुहि ॥ १७.१८{१८} ॥ (र्म् २१८) इति संप्रार्थितं तेन श्रुत्वा सा स्थविरा सती । तमानन्दं समालोक्य मुदितैवमभाषत ॥ १७.१९{१९} ॥ भदन्त साधु तत्राहममृतपूरितं घटम् । स्वयमेव समानीय दास्यामि व्रजतां भवान् ॥ १७.२०{२०} ॥ इति तयोदितं श्रुत्वा स आनंदः प्रबोधितः । उपेत्यैवं समाख्याय शास्तुः पुर उपाश्रयत् ॥ १७.२१{२१} ॥ तदा सा सहसा कृत्वा घटं शुद्धाम्बुपूरितम् । स्वयमेव समादाय तत्राभिसंमुखाचरत् ॥ १७.२२{२२} ॥ तत्र सा समुपाश्रित्य प्राद्राक्षीत्तं मुनीश्वरम् । द्वात्रिंशल्लक्षणाशीतिव्यंजनप्रतिमण्डितम् ॥ १७.२३{२३} ॥ व्यामप्रभाभिभास्वंतं शतसूर्याधिकप्रभम् । जंगममिव रत्नाभं सौम्यं समन्तभद्रकम् ॥ १७.२४{२४} ॥ सह तद्दर्शणात्तत्र पुत्रस्नेहसमुद्भवाः । स्तनाभ्यां प्रश्रुतास्तस्याः क्षीरधारा निरंतरम् ॥ १७.२५{२५} ॥ ततो धर्मानुभावेन स्मृत्वा पूर्वभवात्मजम् । पुत्र पुत्रेति सोक्त्वा तं परिष्वेक्तुमुपाचरत् ॥ १७.२६{२६} ॥ तदा ते भिक्षवः सर्वे एवं तां समुपद्रुताम् । दृष्ट्वैव सहसोत्थाय प्रधारयितुमारभन् ॥ १७.२७{२७} ॥ तद्दृष्ट्वा भगवां छस्ता सर्वांस्तां सांघिकानपि । सहसा समुपामंत्र्य पुनरेवं समादिशत् ॥ १७.२८{२८} ॥ मा भिक्षव इमां वृद्धां धारायतात्र मुञ्चत । पंचजन्मशतान्येषा माता मे भूयतः पुरा ॥ १७.२९{२९} ॥ तत्पूर्वजन्ममातेयं पुत्रस्नेहानुभाविनी । समालिंगतुमीछन्ती मम गात्रे प्रधावति ॥ १७.३०{३०} ॥ यद्यत्रैषा निवार्य्येते गात्र मे श्लेष्मणादपि । इदानीं रुधिरं ह्युष्णं कम्ठादस्याः क्षरेत्क्षणात् ॥ १७.३१{३१} ॥ कृतज्ञतामनुस्मृत्वा दृष्ट्वेमां पुत्रलालसाम् । कारुण्याद्गात्रसंश्लेषं ददाम्यत्रानुकंपया ॥ १७.३२{३२} ॥ इति शास्त्रा समादिष्टं श्रुत्वा ते सर्वसांघिकाः । तां शास्तुः पूर्वप्रसूं मत्वा व्यवतस्थुः सविस्मयाः ॥ १७.३३{३३} ॥ तत्क्षणादुर्द्धवाहुः सा समीक्ष्य तं मुनीश्वरम् । सहसा संप्रधावित्वा समालिंग्य नमच्चिरम् ॥ १७.३४{३४} ॥ ततश्चिरात्समुत्थाय सा वृद्धा साञ्जलिर्मुदा । श्रीघनं तं समालोक्य पुरस्तस्थौ समाहिता ॥ १७.३५{३५} ॥ तदा स भगवान् दृष्ट्वा तां पुरः समुपास्थिताम् । आर्य्यसत्यं समारभ्य सद्धर्मं समुपादिशत् ॥ १७.३६{३६} ॥ तत्सद्धर्मामृतं पीत्वा स वृद्धापि कचंगला । परिशुद्धाशया भद्रा बोधिचर्या प्रबोधिता ॥ १७.३७{३७} ॥ सत्कायदृष्टिभूमीध्रं विंशतिशिखरोद्गतम् । निर्भिद्य ज्ञानवज्रेण दृष्टसत्यप्रबोधिता ॥ १७.३८{३८} ॥ संप्राप्य श्रोतआपत्तिफलं साक्षत्कृतोद्यमा । सांजलिस्तं मुनिं नत्वा गाथा इमा अभाषत ॥ १७.३९{३९} ॥ (र्म् २१९) यत्कर्त्तव्यं स्वपुत्रेण मातुर्दुष्करकारिणा । तत्कृतं भवता मेऽत्र चित्तं मोक्षपरायणम् ॥ १७.४०{४०} ॥ दुर्गतिभ्यः समुद्धृत्य स्वर्गे मोक्षं च सांप्रतम् । स्थापितोऽहं प्रयत्नेन विशेषसंप्रबोधने ॥ १७.४१{४१} ॥ तथा मेऽनुग्रहं कृत्वा संबोधिपदसाधनम् । प्रव्रज्यासंवरं दातुमर्हति सांप्रतं भवान् ॥ १७.४२{४२} ॥ भवतां शरणं कृत्वा त्रिरत्नभजनोद्यता । प्रव्रज्यासंवरं धृत्वा चरिष्ये ब्रह्मचारिकाम् ॥ १७.४३{४३} ॥ इत्यर्थितं तया श्रुत्वा भगवान् स मुनीश्वरः । तस्याश्चित्तविशुद्धत्वं मत्वैवं समुपादिशत् ॥ १७.४४{४३!} ॥ यदि श्रद्धास्ति ते मातः प्रव्रज्यासधने खलु । भर्त्तुरनुज्ञां समासाद्य प्रागछ चर संवरम् ॥ १७.४५{४४} ॥ इत्यादिष्टं मुनीन्द्रेण श्रुत्वा सा संप्रमोदिता । तथा हीति प्रतिज्ञाय मुनिं नत्वा ततोऽचरत् ॥ १७.४६{४५} ॥ तत्र सा सहसा गेहे गत्वा तं स्वामिनं मुदा । कृतांजलिपुटो नत्वा पुरः स्थित्वैवमब्रवीत् ॥ १७.४७{४६} ॥ स्वामि च्छृण्वद्भुतं वक्ष्ये यदद्याहं जलार्थिनी । घटं धृत्वा वहिर्देशे कूपान्तिकमुपाचरे ॥ १७.४८{४७} ॥ तत्र मां समुपायातां दृष्ट्वानन्दो महायतिः । सहसा समुपाश्रित्य भगवतेऽम्बु याचते ॥ १७.४९{४८} ॥ ततोऽहं सहसा शुद्धैः पूरयित्वा जलैर्घटम् । धृत्वा स्वयं प्रदातुं तत्सभायामुपसंचरे ॥ १७.५०{४९} ॥ तत्र तं श्रीघनं दृष्ट्वा चित्तं मे स्नेहमोहितम् । क्षारधारा स्तनाभ्यां च संप्रश्रुता निरंतरम् ॥ १७.५१{५०} ॥ तत्राहं स्नेहरागांधा स्वात्मजमिव तं मुनिम् । ऊर्द्धवाहुः परिष्वक्तुं प्रधावामि भवान्तरे ॥ १७.५२{५१} ॥ एवं मामभिधावन्तीं दृष्ट्वा ते सांघिका अपि । सर्वे प्रधातुमिछन्तः प्रधावन्ति समुत्थिताः ॥ १७.५३{५२} ॥ तदा स भगवान् दृष्ट्वा तान् सर्वानेवमुत्थितान् । सहसा समुपामंत्र्य पुर एवं समादिशत् ॥ १७.५४{५३} ॥ मा इमां सर्वथा यूयं निवारयितुमर्हथ । यन्ममेयं पुण्यं च शतजन्मप्रसू किल ॥ १७.५५{५४} ॥ तदत्र मां समालोक्य स्वात्मजस्नेहरागिणी । परिष्वक्तुं समीछन्ती प्रधावतीयमुन्मुखी ॥ १७.५६{५५} ॥ यद्यत्रेषात्र धार्य्येत पुरतो मे विमूर्छिता । उष्णं रुधिरमुत्सृज्य मृत्युं यायान्न संशयः ॥ १७.५७{५६} ॥ एतच्छास्त्रा समादिष्टं श्रुत्वा ते सांघिकास्तथा । प्रबोधिताः प्रणत्वा मां स्वस्वासने समाश्रिताः ॥ १७.५८{५७} ॥ एवं तेन मुनीन्द्रेण समाख्यातं निशम्य तत् । सर्वं प्रबुध्यमानाहं पुरावृत्तं स्मरामि हि ॥ १७.५९{५८} ॥ ततोऽहं विस्मयाक्रांतहृदयात्यभिनंदिता । (र्म् २२०) तत्सद्धर्मामृतं पातुमुपतिष्ठामि सादरम् ॥ १७.६०{५९} ॥ तत्र स भगवान् दृष्ट्वा मामेवं समुपस्थिताम् । आर्यसत्यं समारभ्य समादिशति सद्वृषम् ॥ १७.६१{६०} ॥ तत्सद्धर्मामृतं पीत्वा मनो मेऽतिप्रमोदिते । भूयोऽपि तद्रसास्वादतृषितं पातुमिछते ॥ १७.६२{६१} ॥ सर्वे ते सांघिकास्तत्र सद्धर्मामृततृप्तिताः । शुद्धात्मानः सुभद्रांगाः परिशुद्धास्त्रिमंडलाः ॥ १७.६३{६२} ॥ शुद्धशीलाः शुभाचारा दयाकारुण्यभाविनः । सर्वसत्त्वहिताधानाः संसारलाभनिस्पृहाः ॥ १७.६४{६३} ॥ समाधिधारणीविद्या घटमानाः समाहिताः । साक्षादर्हत्पदप्राप्ता निर्विकल्पा निरंजनाः ॥ १७.६५{६४} ॥ संबुद्धशरणं कृत्वा संबोधिसाधनोद्यताः । विहारे समुपासीनाः प्रदृश्यन्ते मया प्रभो ॥ १७.६६{६५} ॥ तत्सभागं चरिं प्राप्तुं प्रव्रज्याव्रतमिछ्यते । तदत्र कृपया भर्त्तस्तदनुज्ञां प्रदेहि मे ॥ १७.६७{६६} ॥ इति भार्यासमाख्यातं श्रुत्वा सोऽतिदरिद्रितः । साश्चर्यस्तम्भितस्तस्थौ पश्यंस्तामेव निश्चलः ॥ १७.६८{६७} ॥ ततः स सुचिरं भार्यां तामेवमभिलोकयन् । वियोगशंकया त्रस्तः शनैरेवमभाषत ॥ १७.६९{६८} ॥ अरे नारि प्रमूधासि किमेवं त्वं प्रभाषसे । कथमेवं त्वयाख्यातं कोऽत्र सत्यं प्रतीष्यति ॥ १७.७०{६९} ॥ यदसौ भगवान् बुद्धश्चक्रवर्त्तिनृपात्मजः । सर्वत्रैधातुकाधीशो धर्मराजो विनायकः ॥ १७.७१{७०} ॥ जगच्छास्ता जगन्नाथः सर्वज्ञः सुगतो जिनः । मुनीन्द्रो मारजिदर्हन् षडभिज्ञस्तथागतः ॥ १७.७२{७१} ॥ बोधिसत्वो महासत्वः समंतभद्ररूपकः । दशबलो महेशाख्यो ब्रह्मचारी जितेन्द्रियः ॥ १७.७३{७२} ॥ सुब्रह्मामरदैत्यादिलोकानां सर्वदेहिनाम् । शरण्यो माननीयो हि वन्द्यः पूज्यो भवत्यपि ॥ १७.७४{७३} ॥ त्वमेवं दुर्भगा नारी दरिद्रतातिदुःखिनी । दासी परवती प्रेष्या कृपणा दुःकृताकृतिः ॥ १७.७५{७४} ॥ कथमेवंविधायास्ते गर्भे जातोऽप्यसौ महान् । बोधिचित्तं समासाद्य प्राचरद्बोधिचारिकाम् ॥ १७.७६{७५} ॥ यतः पुण्यविपाकेन पूर्य पारमिताः क्रमात् । अधुना बोधिमासाद्य संबुद्धोऽयं भवत्यपि ॥ १७.७७{७६} ॥ एतत्पुण्यविभागेन कथं ते ईदृशी गतिः । अद्यापीदृगवस्था हि किं चित्सौख्यं न विद्यते ॥ १७.७८{७७} ॥ तदत्र मा वदैवं च तथोक्त्वा नैव शोभसे । कस्तवैतद्वचः श्रुत्वा सुप्रतीतः प्रमाणयेत् ॥ १७.७९{७८} ॥ धिक्प्रवादाग्निदग्धाङ्गा महत्कष्टाभिखेदीता । वमित्वा रुधिरं ह्युष्णं त्वं नूनं मरणं व्रजेः ॥ १७.८०{७९} ॥ मिथ्यावादाभिसंकल्पादपि हि नरके व्रजेत् । त्वमपि च तथा नूनं नरके न व्रजेः कथम् ॥ १७.८१{८०} ॥ (र्म् २२१) नरकेषु सदा नित्यं दुःखानि विविधानि वै । भुक्त्वातिवेदनाक्रान्ता सुचिरं स्थास्यसे ध्रुवम् ॥ १७.८२{८१} ॥ इति भर्त्त्रोदितं श्रुत्वा सा वृद्धा स्त्री कचंगला । विभिन्नहृदया तस्थौ तन्निराशाभिमोहिता ॥ १७.८३{८२} ॥ तदा सा सुचिरेणैव संप्राप्य चेतनां ततः । भर्त्तारं तं पुनर्दृष्ट्वा बोधयितुमभाषत ॥ १७.८४{८३} ॥ स्वामिन्नत्र प्रसीद त्वं मामेवं वद सर्वथा । सत्यमेतन्मया प्रोक्तं न मिथ्येति प्रकल्पय ॥ १७.८५{८४} ॥ यदि मिथ्यावचः स्यान्मे तेनाहं नरके व्रजे । अथ मे वचनं सत्यमत्राहं सद्गतिं व्रजे ॥ १७.८६{८५} ॥ तेनात्रोभयथाप्येव वियोगं नौ भवेत्खलु । सर्वेषामपि जंतूनामवश्यं मरणं भवे ॥ १७.८७{८६} ॥ किमेवं जीवितेनापि केवलं दुःखभागिना । यत्र न विद्यते धर्म्मं तत्र किं सुखतापि च ॥ १७.८८{८७} ॥ धर्मार्थमेव संसारे जन्मदेहार्थसाधनम् । धर्मं विना किमेतैर्नः केवलं दुःखताप्तये ॥ १७.८९{८८} ॥ इति मत्वा महान्तोऽपि श्रीमन्तोऽपि विचक्षणाः । सर्वान् परिग्रहान् त्यक्त्वा प्रव्रजन्ति जिनाश्रमे ॥ १७.९०{८९} ॥ तथात्राहं परिज्ञाय संबुद्धशरणं गता । सद्धर्मसाधनं कर्त्तुमिछामि सांप्रतं प्रभो ॥ १७.९१{९०} ॥ तत्प्रव्रज्याव्रतानुज्ञां प्रदातुं मे समर्हसि । एतत्पुण्यविभागेन त्वं चापि सद्गतिं व्रजेः ॥ १७.९२{९१} ॥ यदि न दीयतेऽनुज्ञा प्रव्रज्याव्रतसाधने । अकस्मात्मृत्युनाघ्राते तदा कथं निवारये ॥ १७.९३{९२} ॥ कियत्कालं च जीवेयं वृद्धाहं जिर्णितेन्द्रिया । इति मत्वात्र मां नैवं निवारयितुमर्हसि ॥ १७.९४{९३} ॥ किं चाहं जरती वृद्धा तत्ते किं स्नेहता मयि । वृद्धया दुर्बलाङ्गात्र कार्ये किं नु प्रयोजनम् ॥ १७.९५{९४} ॥ त्वं चापि जरयाक्रान्तो वृद्धोऽसि दुर्बलेन्द्रियः । तत्किं ते स्नेहरागेण वृद्धाया मयि सांप्रतम् ॥ १७.९६{९५} ॥ अद्यापि किं सुखाशा नौ जराक्रान्तशरीरयोः । अवश्यं मृत्युरत्रावां समाक्रम्य ग्रसिष्यति ॥ १७.९७{९६} ॥ तदाहं किं करिष्यामि त्वं चापि किं करिष्यसि । शोचित्वेव निषत्स्यामि त्वमप्येवं निषत्स्यसि ॥ १७.९८{९७} ॥ अवश्यमत्र संसारे भावि भावा फलन्त्यपि । कस्यापि भूयते नात्र भावि भावान्यथा क्वचित् ॥ १७.९९{९८} ॥ स्वकृतकर्म एवात्र गृहीत्वा सर्वजंतवः । याता यान्ति च यास्यंति देहं त्यक्त्वा यमालयम् ॥ १७.१००{९९} ॥ तत्र यमाज्ञया सर्वे स्वकृतकर्मभागिनः । धर्मिणः सद्गतिं याताः पापिनो दुर्गतिं गताः ॥ १७.१०१{१००} ॥ एवं सर्वे इमे सत्वाः स्वदैवफलभोगिनः । ससुखानि च दुःखानि भुक्त्वा भ्रमन्ति सर्वदा ॥ १७.१०२{१} ॥ (र्म् २२२) एवं स्वामिन् परिज्ञाय सर्वदा सुखवांछिभिः । धर्ममेवात्र संसारे कर्त्तव्यं यत्नतः सदा ॥ १७.१०३{२} ॥ धर्मन् तु प्रवरं श्रेष्ठं सौगतसंवरोद्भवम् । इति बुद्धैः समाख्यातं त्वयाप्येतच्छ्रुतं न किम् ॥ १७.१०४{३} ॥ तस्मादहं मुनीन्द्रस्य शासने शरणं गतः । प्रव्रज्यासंवरं धर्त्तुमिछामि सांप्रतं प्रभो ॥ १७.१०५{४} ॥ एतत्पुण्यविपाकेन परिशुद्धास्त्रिमण्डलाः । साक्षादर्हत्पदं प्राप्य निर्वृतिपदमाप्नुयाम् ॥ १७.१०६{५} ॥ एतद्धर्मविभागेन त्वं चापि सद्गतिं व्रजेः । इति मत्वा तथा स्वामिंस्तदनुज्ञां ददातु मे ॥ १७.१०७{६} ॥ त्वमत्र स्वगृहे स्थित्वा त्रिरत्नशरणं गतः । यावज्जीवं सुखं भुक्त्वा शुभे चर सदादरात् ॥ १७.१०८{७} ॥ एतत्पुण्यविपाकेन त्वं चाप्येवं सुधीर्भवेः । ततस्ते सौगते धर्मे वांछा जायेत चेतसि ॥ १७.१०९{८} ॥ ततस्त्वं श्रद्धया गत्वा संबुद्धशासने स्वयम् । प्रव्रज्यासंवरं प्राप्य साक्षादर्हत्वमाप्नुयाः ॥ १७.११०{९} ॥ इति मत्वा भवान् स्वामिन् सद्धर्मं यदि वाञ्छति । तत्प्रव्रज्याव्रतानुज्ञां मह्यं प्रदातुमर्हति ॥ १७.१११{१०} ॥ इति तयोदितं श्रुत्वा स दरिद्रः प्रबोधितः । तां भार्यां सुचिरं दृष्ट्वा शनैरेवमभाषत ॥ १७.११२{११} ॥ हा प्रिये कथमेव त्वं मां विहातुं समिछसि । किमत्राहं वदिष्यामि त्वयैवं प्रतिभाषते ॥ १७.११३{१२} ॥ यदि तेऽस्ति मनो धैर्य्यं कृत्वा श्रद्धान्विताश्रया । प्रव्रज संवरं धृत्वा चर सत्यसमाहिता ॥ १७.११४{१३} ॥ इति भर्त्रोदितं श्रुत्वा सा वृद्धापि कचंगला । भर्त्तारं तं प्रणत्वैवं ततोऽचरत्प्रमोदिता ॥ १७.११५{१४} ॥ ततः सा सहसा गत्वा तत्राश्रमे उपागता । श्रीघनं तं समालोक्य पुरतः समुपाचरत् ॥ १७.११६{१५} ॥ तत्र तत्पुरतो गत्वा साञ्जलिः सा प्रमोदिता । मुनीन्द्रं तं प्रणत्वैवं प्रव्रज्यां समयाचत ॥ १७.११७{१६} ॥ भगवन्नाथ सर्वज्ञ भवतां शरणं व्रजे । तद्भवां कृत्वा कृपया मह्यं प्रव्रज्यां दातुमर्हति ॥ १७.११८{१७} ॥ तयेति प्रार्थितं श्रुत्वा भगवान् स मुनीश्वरः । सव्येन पाणिना तस्या वृद्धायाः शिरसि स्पृशन् ॥ १७.११९{१८} ॥ एहि मतश्चर ब्रह्मचारिकां त्वं समाहिता । इत्युक्त्वा तां समागृह्य सांघिके पुनरब्रवीत् ॥ १७.१२०{१९} ॥ गछ मात प्रजापत्या गौतम्याः शरणं व्रज । सार्हन्ती भिक्षुणीमाता प्रव्रज्यां ते प्रदास्यति ॥ १७.१२१{२०} ॥ इत्यादिष्टं मुनीन्द्रेण श्रुत्वा सा प्रतिनंदिता । तथेत्याश्रुत्य शास्तारं तं प्रणत्वा ततोऽचरत् ॥ १७.१२२{२१} ॥ तत्र सा समुपासृत्य दृष्ट्वा तां गौतमीं मुदा । (र्म् २२३) उपेत्य सांजलिर्नत्वा प्रव्रज्यां समयाचत ॥ १७.१२३{२२} ॥ मातरत्र समायामि भवत्याः शरणं मुदा । तद्भवन्ती जगन्माता प्रव्रज्यां प्रददातु मे ॥ १७.१२४{२३} ॥ तयेति प्रार्थितं श्रुत्वा गौतमी सानुमोदिता । हस्तेन शिरसि स्पृष्ट्वा सांघिकतां समग्रहीत् ॥ १७.१२५{२४} ॥ तत्र साशु प्रजापत्यां प्रव्रजिता यथाविधिः । मुण्डिता खिक्खिरीपात्रहस्ता काखायचीवरा ॥ १७.१२६{२५} ॥ सौम्येन्द्रिया सुभद्रंगा वृद्धापि सा कचंगला । भिक्षुणीगणमध्यस्था शान्तरूपात्यशोभत ॥ १७.१२७{२६} ॥ ततः सा भिक्षुणी शास्तु गौतम्याश्च प्रसादतः । समाधिधारणीविद्याध्ययनाभिसमुद्यता ॥ १७.१२८{२७} ॥ हित्वाविद्यागणं प्राप्तविद्याभिज्ञाविशारदा । प्रतिसंविद्गुणाद्यागु परिशुद्धाकृतिर्वभौ ॥ १७.१२९{३०!} ॥ अथ सा परिविज्ञाय भवचक्रं चलाचलम् । विदित्वा संस्कारगतीश्चाभिविघातिनीस्ततः ॥ १७.१३०{३१} ॥ सर्वक्लेशगणां जित्वा परिशुद्धस्त्रिमण्डला । साक्षादर्हत्पदं प्राप्य वभूव ब्रह्मचारिणी ॥ १७.१३१{३२} ॥ तदा सा निर्जितक्लेशा निर्विकल्पा निरंजना । चंदनकल्पसौरभ्या समलोष्ठसुवर्णिका ॥ १७.१३२{३३} ॥ संसारभोगसत्कारनिष्पृहाकाशसन्निभा । सर्वसत्वहिताधाना सर्वसूत्रांतपारगा ॥ १७.१३३{३४} ॥ सदेवासुरलोकानां त्रिधातुकनिवासिनाम् । वंद्या पूज्याभिमान्या च वभूव सा सुभाषिणी ॥ १७.१३४{३५} ॥ यदा स भगवञ्छास्ता भिक्षुणीनां सुभाषितम् । संक्षेपेण समुद्दिश्य ध्यानागारे समाश्रयत् ॥ १७.१३५{३६} ॥ तदा सा भिक्षुणी तत्र कचंगला सुभाषिणी । भिक्षुणीनां सभामध्ये सुत्रान्तं समुपादिशत् ॥ १७.१३६{३७} ॥ तच्छ्रुत्वा भगवांस्तत्र तया सूत्रांतदेशिते । सर्वान्स्तान् सांघिकान् भिक्षून् समामंत्र्यैवमादिशत् ॥ १७.१३७{३८} ॥ एषोऽग्रा भिक्षवो माता भिक्षुणीनां ममाश्रमे । सूत्रान्तभागकर्तॄणां यदुतेयं कचंगला ॥ १७.१३८{३९} ॥ इत्यादिष्टं मुनीन्द्रेण श्रुत्वा सर्वेऽपि सांघिकाः । सविस्मया मुनीन्द्रं तं पप्रछुस्तत्पुराकृतम् ॥ १७.१३९{४०} ॥ भगवन्ननया कर्मं किं प्रकृतं पुराकृतम् । इमान् सर्वान् सभासीनान् प्रबोधयितुमर्हति ॥ १७.१४०{४१} ॥ येनेयं शासने बौद्धे वृद्धा प्रव्रजिताधुना । साक्षादर्हत्वमासाद्य भवति ब्रह्मचारिणी ॥ १७.१४१{४२} ॥ किं वानया पुराकर्म कृतं कुत्र कदा कथम् । सूत्रान्तभागकर्तॄणां येनाग्रेयं भवत्यपि ॥ १७.१४२{४३} ॥ किंचापि प्रकृतं कर्मं पुरानया कदा कथम् । येनात्र पश्चिमे गर्भावासे न धारितो भवान् ॥ १७.१४३{४४} ॥ एतत्सर्वैः परिज्ञाय भगवान्नस्याः पुराकृतम् । इमान् सर्वान् सभासीनान् प्रबोधयितुमर्हति ॥ १७.१४४{४५} ॥ (र्म् २२४) इति तैर्भिक्षुभिः सर्वैः प्रार्थिते स मुनीश्वरः । सर्वांस्तान् सांघिकान् दृष्ट्वा समामंत्र्यैवमादिशत् ॥ १७.१४५{४६} ॥ शृणुत भिक्षवः सर्वे यद्यत्कृतं पुरानया । तत्तत्सर्वं प्रवक्ष्यामि युष्माकं चित्तबोधने ॥ १७.१४६{४७} ॥ पुरा मे बोधिसत्वस्य बोधिचर्यानुचारिणः । पंचजन्मशतान्येषा जनन्यासीन्निरंतरम् ॥ १७.१४७{४८} ॥ तदा मे ददतो दानमन्तरायः कृतोऽनया । तेनाद्यापि दरिद्रेयं दुर्भगा च भवत्यपि ॥ १७.१४८{४९} ॥ प्रव्रज्यायै तदै चैषा वहुधा प्रार्थिता मया । नैवानुज्ञां ददौ मह्यं विघ्नमेव व्यधाद्धठात् ॥ १७.१४९{५०} ॥ एतत्कर्मविपाकेन वृद्धैषा दुःखिनी सती । प्रव्रज्यासंवरं प्राप्ता चरति मम शासने ॥ १७.१५०{५१} ॥ यदि नैषा तदा दानं विघ्ना ममाकरिष्यति । नैषाधुना दरिद्रात्र भवति हि कदा चन ॥ १७.१५१{५२} ॥ प्रव्रज्यायां च मे विघ्नं यदि नैषाकरिष्यत । अचरिष्यद्व्रतं वाल्ये न तु वृद्धात्र सांप्रतम् ॥ १७.१५२{५३} ॥ यन्ममैवं कृतं विघ्नं दाने व्रते तदानया । तेनाधुना दरिद्रैषा वृद्धा व्रतं चरत्यपि ॥ १७.१५३{५४} ॥ यत्तदा सुकृतं किं चित्प्रकृतं नानया पुरा । तेनाहं पश्चिमे गर्भावासेऽधुना न धारितः ॥ १७.१५४{५५} ॥ यत्सा माया महादेवी महापुण्यार्थसाधिनी । तेनाहं पश्चिमे गर्भावासे तयात्र धारितः ॥ १७.१५५{५६} ॥ भूयोऽप्येषा पुरा तत्र वारणस्यां द्विजात्मजाः । क्लेशाग्निपरिदग्धांगा दरिद्रा कृपणाभवत् ॥ १७.१५६{५७} ॥ तदा तत्र मुनीन्द्रस्य काश्यपस्य जगद्गुरोः । शासने शरणं गत्वा प्रव्रजिताचरद्व्रतम् ॥ १७.१५७{५८} ॥ तत्र स सर्वशास्त्रार्थकोविदातिविचक्षणा । सर्वसूत्रान्तसद्धर्मं भिक्षुणीनामुपादिशत् ॥ १७.१५८{५९} ॥ तदा सा भिक्षुणी तत्र किञ्चित्कार्यार्थरोषिताः । सर्वास्ता भिक्षुणीर्दासीवादेन पर्यभाषत ॥ १७.१५९{६०} ॥ एतत्कर्मविपाकेन सैषाधुनातिदुःखिता । परसेवाकरा दासी भवति दुर्भगाकृतिः ॥ १७.१६०{६१} ॥ यच्चानया तदा तत्र विद्याभ्यासीकृतं मुदा । तेनैषा सहसार्हन्ती भवति ब्रह्मचारिणी ॥ १७.१६१{६२} ॥ यच्चाप्येसा तदा तत्र सूत्रान्तं समुपादिशत् । तेन सूत्रान्तवक्तानामग्रा भवति सांप्रतम् ॥ १७.१६२{६३} ॥ एवं हि भिक्षवः सर्वे मन्यध्वं कर्मसंभवम् । सुखं दुःखं च संसारे भ्रमतां सर्वदेहिनाम् ॥ १७.१६३{६४} ॥ येनैव यत्कृतं कर्मं तेनैवं भुज्यते फलम् । अभुक्तं क्षीयते नैव कर्मं क्वापि कदा चन ॥ १७.१६४{६५} ॥ नाग्निभिर्दह्यते कर्मं क्लिद्यते नोदकैरपि । वायुभिः शुष्यते नैव क्षीयते न च भूमिषु ॥ १७.१६५{६६} ॥ (र्म् २२५) अह्यथापि भवेन्नैव विपाके कर्मणः फलम् । यदुप्तं भूतले बीजं तदेव सूयते फलम् ॥ १७.१६६{६७} ॥ अन्यथा न भवेत्क्वापि कृतं कर्मं फलं भवे । शुभस्य कर्मणः पाके शुभतैव सदा भवे ॥ १७.१६७{६८} ॥ कृष्णस्य कृष्णतैव स्या मिश्रितस्यापि मिश्रितम् । एवं विज्ञाय कृष्णानि विहाय मिश्रितानि च ॥ १७.१६८{६९} ॥ शुभ एव सदाप्यत्र चरितव्यं शुभार्थिभिः । शुभेन सद्गतिं यायात्कृष्णेन दुर्गतिं सदा ॥ १७.१६९{७०} ॥ मिश्रितेन तथोहे च गतीर्यायाद्भवेद्ध्रुवम् । इति मत्वात्र संसारे सर्वदा शुभवाञ्छिभिः । त्रिरत्नभजनं कृत्वा चरितव्यं शुभे सदा ॥ १७.१७०{७१} ॥ ये भजन्ति सदा बुद्धं न ते गच्छन्ति दुर्गतिम् । सर्वदा सद्गतौ भद्रं कृत्वा यान्ति जिनालयम् ॥ १७.१७१{७२} ॥ ये शृण्वन्ति सदा धर्म्मं न यान्ति तेऽपि दुर्गतिम् । सर्वदा भद्रसौख्यानि भुक्त्वा यान्ति सुखावतीम् ॥ १७.१७२{७३} ॥ दानं ददन्ति ये संघे तेऽपि न यान्ति दुर्गतिम् । सर्वदा शुभसौख्यानि भुक्त्वा यान्ति जिनाश्रयम् ॥ १७.१७३{७४} ॥ एवं मत्वात्र संसारे त्रिरत्नं शरणं गताः । सत्कृत्य श्रद्धया नित्यं भजध्वं समुपास्थिताः ॥ १७.१७४{७५} ॥ त्रिरत्नेषु कृतं कर्मं तद्विपाके महत्फलम् । अप्रमेयमसंख्येयं संबोधिपदसाधनम् ॥ १७.१७५{७६} ॥ एतत्पुण्यानुभावेन बोधिसत्वाः सदा भवे । सर्वसत्वहितं कृत्वा प्रचरन्ति यथेछया ॥ १७.१७६{७७} ॥ नानारूपधराः सर्वे सत्वार्थसाधनोद्यताः । सद्धर्मं समुपादिश्य पालयन्ति जगत्त्रयम् ॥ १७.१७७{७८} ॥ क्रमात्पारमिताः सर्वाः परिपूर्य शुभान्विताः । सर्वक्लेशगणाञ्जित्वा परिशुद्धास्त्रिमण्डलाः ॥ १७.१७८{७९} ॥ जित्वा मारगणाञ्चापि प्राप्य संबोधिमुत्तमाम् । सर्वत्र धर्मसोत्कृत्वा ततो निर्वृतिमाययुः ॥ १७.१७९{८०} ॥ येऽतीता जिनास्तेऽपि त्रिरत्नभजनोद्यमात् । क्रमाद्बोधिं समासाद्य निर्वृतिपदमागताः ॥ १७.१८०{८१} ॥ वर्त्तमाना जिनास्तेऽपि त्रिरत्नभजनोद्भवैः । पुण्यैर्बोधिं समासाद्य गछेयुर्निर्वृतिं तथा ॥ १७.१८१{८२} ॥ अनागता जिनास्तेऽपि त्रिरत्नभजनोद्भवैः । पुण्यैरेवं क्रमाद्बोधिं प्राप्य यास्यन्ति निर्वृतिम् ॥ १७.१८२{८३} ॥ अहं चापि तथा नूनं त्रिरत्नभजनोद्यमी । एतत्पुण्यानुभावेन बोधिं प्राप्नोमि सांप्रतम् ॥ १७.१८३{८४} ॥ तथाहमपि सर्वत्र कृत्वा धर्ममयं जगत् । सर्वान् बोधौ नियोज्यैवं यास्यामि निर्वृतिं ध्रुवम् ॥ १७.१८४{८५} ॥ एवं ये ये भजन्त्यत्र त्रिरत्नशरणं गताः । ते ते सर्वेऽपि संबोधिं प्राप्य निर्वृतिमाययुः ॥ १७.१८५{८६} ॥ (र्म् २२६) इति मत्वात्र संसारे निर्वृतिपदवांछिनः । त्रिरत्नभजनं कृत्वा प्रचरध्वं शुभे सदा ॥ १७.१८६{८७} ॥ तथा कृत्वात्र सद्धर्मंभुक्त्वैव सत्सुखान्यपि । क्रमाद्बोधिं समासाद्य निर्वृतिं समवाप्स्यथ ॥ १७.१८७{८८} ॥ इत्यादिष्टं मुनीन्द्रेण श्रुत्वा सर्वेऽपि ते जनाः । सांघिकाश्च तथेत्युक्त्वा प्राभ्यनंदत्प्रबोधिताः ॥ १७.१८८{८९} ॥ तदा तत्र जनाः सर्वे त्रिरत्नशरणं गताः । सत्कृत्य श्रद्धया नित्यं प्रभेजिरेऽनुमोदिताः ॥ १७.१८९{९०} ॥ एतत्पुण्यानुभावैस्तु तदा समंततः । सर्वदा मंगलोत्साहं बभुव निरुपद्रवम् ॥ १७.१९०{९१} ॥ इति मे गुरुणाख्यातं श्रुतं मया तथोच्यते । श्रुत्वा राजन्स्त्वमप्येवं त्रिरत्नं भज सर्वदा ॥ १७.१९१{९२} ॥ प्रजाश्चापि तथा धर्मं श्रावयित्वा प्रबोधयन् । त्रिरत्नभजनं नित्यं कारयितुं सदार्हसि ॥ १७.१९२{९३} ॥ तथा ते मंगलं नित्यं सर्वत्रापि भवेद्ध्रुवम् । क्रमात्पारमिता पूर्य बोधिं चापि समाप्स्यसि ॥ १७.१९३{९४} ॥ इति तेनार्हतादिष्टं श्रुत्वाशोकः स भूपतिः । तथा हीति प्रतिज्ञाय प्राभ्यनन्दन् सपार्षदः ॥ १७.१९४{९५} ॥ कचंगलाया अवदानमेतच्छृण्वन्ति ये श्रावयतीह यश्च । विहाय पापं खलु तेऽपि सर्वे भुक्त्वा सुखान्येव सुगतिं व्रजन्ति ॥ १७.१९५{९६} ॥ ++ इति रत्नमालायामवदानतत्वे कचंगलावदानं समाप्तम् ++ (र्म् २२७) xविइइ धनिकावदान अथाशोको महीपालः कृतांजलिपुटो मुदा । उपगुप्तं गुरुं नत्वा पुनरेवं समब्रवीत् ॥ १८.१{१} ॥ भदन्त श्रोतुमिच्छामि पुनरन्यत्सुभाषितम् । तद्यथा गुरुणादिष्टं तथादेष्टुं च मेऽर्हति ॥ १८.२{२} ॥ इति संप्रार्थितं राज्ञा श्रुत्वा सोऽर्हन् सुधीर्यतिः । उपगुप्तो नरेन्द्रं तं समालोक्यैवमब्रवीत् ॥ १८.३{३} ॥ शृणु राजन् समाधाय यथा मे गुरुणोदितम् । तथाहं संप्रवक्ष्यामि तव पुण्यप्रवृद्धये ॥ १८.४{४} ॥ पुरैकसमये स श्रीशाक्यसिंहो मुनीश्वरः । सर्वज्ञः सुगतः शास्ता धर्मराजो विनायकः ॥ १८.५{५} ॥ भिक्षुभिः श्रावकैः सार्द्धं भिक्षुणीभिश्च चैलकैः । उपासकै महाश्राद्धैरुपासिकागणैरपि ॥ १८.६{६} ॥ बोधिसत्वगणैश्चापि महासत्वैः शुभार्थिभिः । सर्वसत्वहितार्थाय बोधिचर्यां प्रकाशिभिः ॥ १८.७{७} ॥ वृजिषु पुरि वैशाल्यां मर्कटाख्यह्रदान्तिके । कूटागारगुहावासे विजहार प्रभासयन् ॥ १८.८{८} ॥ तत्सद्धर्मामृतं पातुं तत्र सर्वे समागताः । ब्रह्मशक्रादिदेवेन्द्रा लोकपाला दिगास्थिताः ॥ १८.९{९} ॥ ग्रहाः सिद्धगणाः साध्या यक्षगंधर्वकिन्नराः । गरुडा नागराजाश्च विद्याधराश्च दानवाः ॥ १८.१०{१०} ॥ राक्षसाः सगणाश्चैव ऋषयो ब्रह्मचारिणः । ब्रह्मणाः क्षत्रिया भूपा राजानोऽपि नराधिपाः ॥ १८.११{११} ॥ तथा राजकुमाराश्च वैश्या मंत्रिजना अपि । गृहस्थाः श्रेष्ठिनः पौराः सार्थवाहा महाजनाः ॥ १८.१२{१२} ॥ वणिजः शिल्पिनश्चापि तथान्येऽपि शुभार्थिनः । ग्राम्या जानपदाश्चापि तथा कार्पटिका अपि ॥ १८.१३{१३} ॥ एवमन्येऽपि लोकाश्च सद्धर्मामृतवांछिनः । सर्वे ते समुपायातास्तत्राद्राक्षुस्तमीश्वरम् ॥ १८.१४{१४} ॥ सभामध्यासनासीनं सर्वसंघपुरस्कृतम् । श्रीघनं तं समालोक्य सर्वे ते समुपाश्रिताः ॥ १८.१५{१५} ॥ नत्वा प्रदक्षिणीकृत्य समभ्यर्च्य यथाक्रमम् । पुनः साञ्जलयो नत्वा परिवृत्य समंततः । तत्सद्धर्मामृतं पातुमुपतस्थुः समाहिताः ॥ १८.१६{१६} ॥ तदा स भगवान् दृष्ट्वा तान् सर्वान् समुपस्थितान् । आदिमध्यान्तकल्याणीं बोधिचर्यां समादिशत् ॥ १८.१७{१७} ॥ (र्म् २२८) तदार्यधर्ममाकर्ण्य सर्वे लोकाः प्रमोदिताः । तदा ते धर्मवैशेष्यं मत्वा प्रतिननंदिरे ॥ १८.१८{१८} ॥ तदा तत्र महापूर्य्यां वैशाल्यां पौरिको महान् । गृहस्थो धनिको नाम श्रीमान् सर्वगुणी सुधीः ॥ १८.१९{१९} ॥ श्राद्धो भद्राशयो दाता शुद्धशीलो विचक्षणः । सर्वसत्वहिताधानादासीत्सत्पुरुषोत्तमः ॥ १८.२०{२०} ॥ पत्नी धर्मसखी तस्य शीलवत्यभिधाभवत् । तनयश्च वंदान्याख्यः सत्यवत्यभिधा स्नुषा ॥ १८.२१{२१} ॥ तदा तत्र द्विजा सर्वे भक्तिमन्तो जगद्गुरोः । पूजानिमंत्रणे चक्रुः समयं संमतास्तथा ॥ १८.२२{२२} ॥ भवन्तो यन्मुनीन्द्रोऽयमत्रास्माकं हितेछया । सद्धर्मं समुपादेष्टुं ससंघः समुपागतः ॥ १८.२३{२३} ॥ तदस्माभिर्मुनीन्द्रोऽयं पूजनीयं समादरात् । अतो निमंत्रणीयोऽत्र सर्वैः संभूय नान्यथा ॥ १८.२४{२४} ॥ एकश्चेत्कुरुते द्रव्यमदादस्य निमंत्रणम् । सर्वैर्निर्वासनीयोऽसौ यतोऽन्यधर्मविघ्नकृत् ॥ १८.२५{२५} ॥ तदा स धनिकोऽज्ञात्वा समयं तैस्तथा कृतम् । स्वयमेव मुनीन्द्रं तं पूजयितुं समिछत ॥ १८.२६{२६} ॥ ततः स धनिकः श्रीमान् दिव्यसंपत्समृद्धिमान् । स्वयं निमंत्रणं कर्त्तुं ससंघस्य मुनेर्ययौ ॥ १८.२७{२७} ॥ तत्र स समुपासृत्य नत्वा तं श्रीघनं मुदा । ससंघं तत्पुरः स्थित्वा प्रार्थयदेव सांजलिः ॥ १८.२८{२८} ॥ भगवन्नाथ सर्वज्ञ भगवंतं ससांघिकम् । पूजयितुं समिछामि पश्यन्मेऽनुग्रहं कुरु ॥ १८.२९{२९} ॥ इति संप्रार्थितं तेन भगवान् स मुनीश्वरः । तथा हीति प्रतिश्रुत्वा तूष्णीभूत्वाध्युवास तत् ॥ १८.३०{३०} ॥ तदा ते ब्राह्मणाः सर्वे संभूय समुपागताः । भगवतश्चरणौ नत्वा चक्रुर्भोज्यनिमंत्रणम् ॥ १८.३१{३१} ॥ तच्छ्रुत्वा भगवान् प्राह तान् दृष्ट्वा भक्तिमानसान् । पूर्वमेव ससंघाहमनेनोद्य निमंत्रितः ॥ १८.३२{३२} ॥ एतदाकर्ण्य सर्वे ते ब्राह्मणा भेदिताशयाः । परं प्रतीक्ष्यमानाश्च शनैः स्वस्वगृहं ययुः ॥ १८.३३{३३} ॥ ततः स धनिको मत्वा मुनीन्द्रेणाध्युवासितम् । मुदितस्तं मुनिं नत्वा सहसा स्वगृहं ययौ ॥ १८.३४{३४} ॥ तत्र स स्वगृहे गत्वा वांधवेष्टजनैस्सह । तदर्हभोज्यसामग्रीं सहसा समसाध्ययत् ॥ १८.३५{३५} ॥ ततो भोज्यस्थलं तत्र शोधयित्वा समन्ततः । रत्नध्वजैर्वितानैश्च स पताकैरमण्डयत् ॥ १८.३६{३६} ॥ ततो यथाक्रमं तत्र दिव्यरत्नमयानि च । स्वासनानि समास्तीर्य्य सुगंधीः समधूपयत् ॥ १८.३७{३७} ॥ (र्म् २२९) ततः स प्रातरुत्थाय स्नात्वा शुद्धाम्वरावृतः । पूजापाद्यार्घसामग्रीं प्रतिष्ठाप्य प्रमोदितः ॥ १८.३८{३८} ॥ सवांधवेष्टजनस्तत्र कूटागारे समाचरत् । साञ्जलिस्तं मुनिं नत्वा प्रार्थयदेवमादरात् ॥ १८.३९{३९} ॥ भगवन्नाथ सर्वज्ञ समयो वर्त्ततेऽधुना । तत्ससंघो ममावासे विजयितुं समर्हसि ॥ १८.४०{४०} ॥ इति संप्रार्थिते तेन भगवान् स ससांघिकः । खिक्खिरीपात्रमादाय प्रतस्थे चीवरावृतः ॥ १८.४१{४१} ॥ तत्र स भगवान्मार्गे कृत्वा भद्रं समन्ततः । प्रभासयन् क्रमेणैवं वैशाल्यां समुपविशत् ॥ १८.४२{४२} ॥ तथायातं मुनीन्द्रं तं श्रीघनं सांघिकान्वितम् । दृष्ट्वा वैशालिकाः लोकाः सर्वेऽपि समपूजयन् ॥ १८.४३{४३} ॥ एवमभ्यर्च्यमानोऽभिवंद्यमानोऽभिनंदितः । भासयन् भद्रतां कृत्वा संघैः सह समाचरत् ॥ १८.४४{४४} ॥ तत्र तस्य गृहे गत्वा ससंघः स मुनीश्वरः । तद्दत्तं पाद्यमादाय स्वासने समुपाश्रयत् ॥ १८.४५{४५} ॥ ततस्ते सांघिकाश्चापि सर्वे तत्र यथाक्रमम् । तद्दत्तं पाद्यमादाय स्वस्वासने समाश्रयन् ॥ १८.४६{४६} ॥ ततः स धनिको दृष्ट्वा ससंघं तं मुनीश्वरम् । स्वस्वासने समासीनं पूजाङ्गैः समपूजयत् ॥ १८.४७{४७} ॥ ततो दिव्योपचारैस्तं भगवन्तं ससांघिकम् । सुप्रणीतै रसोपेतैर्भोजनैः समतोषयत् ॥ १८.४८{४८} ॥ तद्भोज्यं सुरसं भुक्त्वा भगवान् स ससांघिकः । अमृतैरिव संतुष्टस्तृप्तिं ययौ प्रमोदितः ॥ १८.४९{४९} ॥ असंघैः तं मुनिं तृप्तं दृष्ट्वा स धनिको मुदा । ततोऽपनीय पात्राणि तद्धस्तादीन्यशोधयत् ॥ १८.५०{५०} ॥ ततः शुद्धौषधीपूगताम्वूलादि रसायनम् । बुद्धप्रमुखसंघेभ्यो मुदितः स स्वयं ददौ ॥ १८.५१{५१} ॥ ततः स हर्षितो नत्वा तं मुनीन्द्रं ससांघिकम् । पुरतः साञ्जलिः स्थित्वा प्रार्थयदेवमादरात् ॥ १८.५२{५२} ॥ भगवन्नाथ सर्वज्ञ भवतां शरणं गतः । भक्त्यैव भजनं कुर्वे तत्क्षमस्वापराधताम् ॥ १८.५३{५३} ॥ सदैवं कृपया दृष्ट्य पश्यन् भवान् ससांघिकः । ममानुग्रहमाधाय त्रातुमर्हति सर्वथा ॥ १८.५४{५४} ॥ ततः स भगवाञ्छास्ता ससांघिकोऽनुमोदितः । धनिकं तं समालोक्य नंदयन्नेवमादिशत् ॥ १८.५५{५५} ॥ गृहपते सदा नित्यमारोग्यमस्तु वो ध्रुवम् । बोधिप्रणिधिसिद्धिश्च भूयाद्भद्रं च सर्वदा ॥ १८.५६{५६} ॥ ततस्तस्य प्रिया भार्या शीलवत्यनुमोदिता । साञ्जलिः प्रणतिं कृत्वा प्रार्थयत्तं मुनीश्वरम् ॥ १८.५७{५७} ॥ भगवन्नाथ सर्वज्ञ श्वश्चात्र भवतामहम् । (र्म् २३०) पूजां कर्तुं समिच्छे तदनुग्रहीतुमर्हति ॥ १८.५८{५८} ॥ तयेति प्रार्थिते दृष्ट्वा भगवान् स तदाशयम् । श्रद्धान्वितं प्रतिज्ञाय तुष्णीभूत्वाध्युवास तत् ॥ १८.५९{५९} ॥ ततः स भगवाञ्छास्ता समुत्थाय ससांघिकः । भासयं भद्रतां कृत्वा स्वाश्रमे च समाश्रयत् ॥ १८.६०{६०} ॥ ततः परदिने प्रातः स्नात्वा शुद्धांवरावृता । साधित्वा सर्वसामग्रीं सा दूतं प्रेषयन्मुनौ ॥ १८.६१{६१} ॥ स दूतः सहसा गत्वा विहरे तं मुनीश्वरम् । ससंघं सांजलिर्नत्वा पुनरेवं न्यवेदयत् ॥ १८.६२{६२} ॥ भगवन्नाथ सर्वज्ञ समयो वर्त्ततेऽधुना । तत्ससंघो भवांस्तत्र सहसागन्तुमर्हति ॥ १८.६३{६३} ॥ ततः स भगवान्नेवं भद्रं कृत्वा ससांघिकः । धनिकस्य गृहे गत्वा पाद्यं गृह्यासनेऽविशत् ॥ १८.६४{६४} ॥ तत्रासने समासीनं ससंघं तं मुनीश्वरम् । दृष्ट्वा शीलवती साथ यथाविधि समर्चयत् ॥ १८.६५{६५} ॥ ततश्च सा मुदिता सर्वं संघं बुद्धादिकं तथा । दिव्योपचारसंयुक्तैर्भोजनैः समतोषयत् ॥ १८.६६{६६} ॥ ततः संतर्प्पितं दृष्ट्वा शोधयित्वा करादिकम् । दत्वा ताम्वुरपूगादिं नत्वा सा समुपाश्रयत् ॥ १८.६७{६७} ॥ ततः स भगवान् तस्मै दत्वाशिषं ससांघिकः । समुत्थाय ततश्चैवं स्वविहारे समाश्रयत् ॥ १८.६८{६८} ॥ तथा सर्वे तदान्योऽपि धनिकस्यात्मजः सुधीः । तत्परेद्यु विहारं तं गत्वा नत्वा न्यमंत्रयत् ॥ १८.६९{६९} ॥ भगवान्नपि तस्यैवं दृष्ट्वा श्रद्धान्वितं मनः । तथेति प्रतिमोदित्वा तूष्णीभूत्वाध्युवास च ॥ १८.७०{७०} ॥ ततः सस्तं मुनिं नत्वा स्वगृहं सहसागतः । बांधवैः सर्वसामग्रीं मुदितः समसाधयत् ॥ १८.७१{७१} ॥ ततः प्रातः समुत्थाय स्नात्वा शुद्धाम्वारावृतः । विहारे समुपासृत्य नत्वैवं मुनिमब्रवीत् ॥ १८.७२{७२} ॥ भगवन्नाथ सर्वज्ञ समयो वर्त्ततेऽधुना । तत्संघो भवान् गेहे ममागन्तुं समर्हति ॥ १८.७३{७३} ॥ ततः ससंघ उत्थाय भगवान् स तथाचरत् । तद्गृहे पाद्यमादाय तत्रासने समाश्रयत् ॥ १८.७४{७४} ॥ ततः स मुदितो बुद्धप्रमुक्बं सर्वसांघिकम् । समभ्यर्च्य तथा दिव्यभोजनैः समतोषयत् ॥ १८.७५{७५} ॥ ततोऽपनीय पात्राणि शोधयित्वा करादिकम् । दत्वा पूगादिकं नत्वा पुरतः समुपाश्रयत् ॥ १८.७६{७६} ॥ पुनः स सांजलिर्नत्वा प्रकृत्वा च क्षमार्थनाम् । ससंघं तं मुनीन्द्रं तं संदृष्ट्वैवं समुपाश्रयत् ॥ १८.७७{७७} ॥ तदा तस्य स्नुषा चापि सत्यवती प्रमोदिता । भगवंतं ससंघं तं प्रणत्वैवं न्यमंत्रयत् ॥ १८.७८{७८} ॥ (र्म् २३१) भगवान्नपि तस्याश्च दृष्ट्व श्रद्धान्वितं मनः । तथेति प्रतिमोदित्वा तुष्णीभूत्वा रधां व्यधात् ॥ १८.७९{७९} ॥ ततः स भगवांस्तस्मै दत्वाशिषं ससांघिकः । तथा कृत्वा शुभं लोके गत्वाश्रमे समाश्रयत् ॥ १८.८०{८०} ॥ ततः सापि तथा प्रातः स्नात्वा शुद्धाम्वरावृता । दूतेनापि मुनीन्द्रं तं ससंघं समचोदयत् ॥ १८.८१{८१} ॥ तथा स भगवांश्चापि ससांघिकः समुत्थितः । प्रचरन् भद्रतां कृत्वा तस्या गेहे समाविशत् ॥ १८.८२{८२} ॥ तत्र पाद्यार्घमादाय भगवान् स ससांघिकः । शुभासने समासीनस्तस्थौ तत्र प्रभासयन् ॥ १८.८३{८३} ॥ तथास्थितं मुनीन्द्रं तं दृष्ट्वा संप्रमोदिता । यथाविधि समभ्यर्च्य तथा भोज्यैरतोषयत् ॥ १८.८४{८४} ॥ तातस्तं सुगतं तृप्तं ससांघिकं समीक्ष्य सा । तत्रापनीय पात्राणि हस्तादीं पर्यशोधयत् ॥ १८.८५{८५} ॥ ततः पूगादिकं दत्वा प्रार्थयित्वा क्षमां तथा । ससंघं तं मुनिं नत्वा सा साञ्जलिरुपाश्रयत् ॥ १८.८६{८६} ॥ तथा स भगवांस्तस्यै दत्वाशीषं ससांघिकः । ततो विहायसा गत्वा स्वाश्रमे च समाश्रयत् ॥ १८.८७{८७} ॥ तथा स धनिको भक्त्या भगवन्तं ससांघिकम् । दिव्याद्भुतर्द्धिसंभारैः पुनरेवं न्यमंत्रयत् ॥ १८.८८{८९!} ॥ तत्पुत्रेण तृतीयेऽह्नि चतुर्थे स्नुषया तथा । ससंघो भगवान्नेवं दिव्यभोगैर्निमंत्रितः ॥ १८.८९{९०} ॥ तच्छ्रुत्वा तद्द्विजाः सर्वे वैशालिकाः प्रजा अपि । अलब्धावसराः शास्तुः पूजायां प्रतिचुक्रुशुः ॥ १८.९०{९१} ॥ ततस्ते संमतं कृत्वा सर्वे विप्राः सपौरिकाः । धनिकाय पुरं क्रुद्धाश्चक्रुर्निकासनोद्यमम् ॥ १८.९१{९२} ॥ एवं तत्समतं ज्ञात्वा भगवान् स मुनीश्वरः । धनिकं तं समाहूय पुर एवमुपादिशत् ॥ १८.९२{९३} ॥ साधो गृहपते सर्वे इमे वैशालिका द्विजाः । क्रुद्धास्ते संघभोज्येऽत्र ह्यलब्धावसरा मम ॥ १८.९३{९४} ॥ तदत्र त्वं क्षमां कृत्वा द्विजान् सर्वान् प्रबोधय । कृत्वात्र विनयं धर्मे प्रसादयितुमर्हसि ॥ १८.९४{९५} ॥ इत्यादिष्टं मुनीन्द्रेण श्रुत्वा स धनिकस्तथा । इत्याश्रुत्य द्विजान् सर्वान् समुपेत्यैवमब्रवीत् ॥ १८.९५{९६} ॥ भवन्तो न मया ज्ञातं भवतां कोपकारणम् । तदत्र मे समाख्यात यदर्थे कुप्यतेऽधुना ॥ १८.९६{९७} ॥ इति तेनोदितं श्रुत्वा सर्वे ते ब्राह्मणा । कोपाग्निपरिदग्धास्या धनिकं तं निनिन्दिरे ॥ १८.९७{९८} ॥ तत्रैको ब्राह्मणः साधुर्दयालुः सुकृतार्थवित् । धनिकं तं समामंत्र्य बोधयितुं समब्रवीत् ॥ १८.९८{९९} ॥ साधो गृहपतेऽस्माभिर्यथात्र समतं कृतम् । (र्म् २३२) तथा तत्ते प्रवक्ष्यामि श्रुत्वा तत्प्रतिबुध्यताम् ॥ १८.९९{१००} ॥ भवन्तो यन्मुनीन्द्रोऽयमत्रास्माकं हितेछया । सद्धर्मं समुपादेष्टुं ससांघिकः समागतः ॥ १८.१००{१} ॥ तदस्माभिर्मुनीन्द्रोऽयं पूजनीयः समादरैः । अतो निमंत्रणीयोऽत्र सर्वैः संभूय नान्यथा ॥ १८.१०१{२} ॥ एकश्चेत्कुरुते वित्तमदादस्य निमंत्रणम् । सर्वैर्निर्वासनीयोऽसौ यतोऽन्यधर्मविघ्नकृत् ॥ १८.१०२{३} ॥ इत्यस्माभिः कृतं साधो समयं सर्वसंमतम् । तद्विलंघ्य त्वयैकेन शास्तुः पूजा कृता सदा ॥ १८.१०३{४} ॥ एतद्धेतो इमे सार्वे ब्राह्मणा रुषितास्तथा । निष्कासयितुमिछन्ति त्वामन्यधर्मवाधकम् ॥ १८.१०४{५} ॥ किं चापि भगवानत्र सर्वदा स्थास्यते न हि । तत्सर्वे भगवत्पूजां कर्तुं वांछन्ति सांप्रतम् ॥ १८.१०५{६} ॥ यच्चायं भगवाञ्छास्ता धर्मराजो मुनीश्वरः । सर्वसत्वहितार्थाय समुत्पन्न इहाऽधुना ॥ १८.१०६{७} ॥ तथात्र सर्वसत्वानं हितं कर्तुमुपाचरन् । सद्धर्मं समुपादिश्य चरत्ययं समंततः ॥ १८.१०७{८} ॥ तथात्रापि हितं कर्तुमस्माकं समुपागतः । सद्धर्मं समुपादिश्य विजयते ससांघिकः ॥ १८.१०८{९} ॥ तदत्र सर्वलोकानां त्रिरत्नभजनोत्सवम् । दातुमर्हसि सर्वेषामपि पुण्यप्रवृद्धये ॥ १८.१०९{१०} ॥ एक एव त्वमेवं तु मा कृथा भजनं सदा । सर्वैः संभूय ते सास्तुः कर्त्तव्यं भजनं सदा ॥ १८.११०{११} ॥ इति तेनोदितं श्रुत्वा धनिकः स विवोधितः । ब्राह्मणं तं समालोक्य प्रणत्वैवमभाषत ॥ १८.१११{१२} ॥ मया न ज्ञायते ह्येवं भवद्भिः समयं कृतम् । तदत्र मेऽपराधत्वं क्षन्तुमर्हन्ति सर्वथा ॥ १८.११२{१३} ॥ यदि वो विद्यते श्रद्धा त्रिरत्नभजने सदा । कुरुध्वं सर्वदाप्यत्र संबुद्धभजनं खलु ॥ १८.११३{१४} ॥ यदा न विद्यते पूजा संबुद्धेऽस्मिन् ससांघिके । तदैवाहं करिष्यामि संबुद्धभजनं खलु ॥ १८.११४{१५} ॥ इति तेन समाख्यातं श्रुत्वा सर्वेऽपि ते द्विजाः । सत्यमिति परिज्ञाय वभूवुस्तत्प्रसादिताः ॥ १८.११५{१६} ॥ ततस्ते ब्राह्मणाः सर्वे संभूय सह पौरिकैः । भगवतः ससंघस्य निमंत्रितुमुपासरन् ॥ १८.११६{१७} ॥ तत्र ते ब्राह्मणाः सर्वे समेत्य सह पौरिकैः । साञ्जलयो मुनीन्द्रं तं नत्वैवं प्रार्थयन्मुदा ॥ १८.११७{१८} ॥ भगवन्नाथ सर्वज्ञ त्रिमास्यं भवतां सदा । सत्कारं कर्तुमिछाम त्वदनुज्ञां ददातु नः ॥ १८.११८{१९} ॥ इति तैः प्रार्थिते सर्वैर्दृष्ट्वा स भगवान्मुनिः । तेषामाशयशुद्धत्वं तूष्णीभूत्वाध्युवास तत् ॥ १८.११९{२०} ॥ (र्म् २३३) ततस्ते ब्राह्मणाः सर्वे भगवताधिवासितम् । मत्वा सपौरिका नत्वा तं मुणिं स्वपुरेऽचरन् ॥ १८.१२०{२१} ॥ तत्र ते पौरिका विप्राः शोधयित्वा समम्टतः । भोज्यक्षत्रे ध्वजैरुच्चैर्वितानैः पर्यशोभयन् ॥ १८.१२१{२२} ॥ तत्रासनानि प्रज्ञप्य सर्वसामग्रसाधनम् । कृत्वा सर्वेऽपि ते लोका महोत्साहं प्रचक्रिरे ॥ १८.१२२{२३} ॥ ततस्ते ब्राह्मणाः प्रातः स्नात्वा शुद्धाम्वरावृताः । तत्राश्रमे समेत्यैवं नत्वा तं प्रार्थयन्मुनिम् ॥ १८.१२३{२४} ॥ भगवन्नाथ सर्वज्ञ समयो वर्त्ततेऽधुना । तत्ससंघो भवांस्तत्र पुरे आगन्तुमर्हति ॥ १८.१२४{२५} ॥ ततः स भगवान् बुद्धः ससंघश्चीवरावृतः । खिक्खिरिपात्रमादाय संप्रतस्थे प्रभासयन् ॥ १८.१२५{२६} ॥ तत्र मार्गेषु सर्वत्र भगवान् स ससांघिकः । भासयं भद्रतां कृत्वा प्रचरंस्तत्पुरेऽविशत् ॥ १८.१२६{२७} ॥ तत्र स भगवान् क्षेत्रे सुशोधिते ससांघिकः । तद्दत्तं पाद्यमादाय स्वासने समुपाश्रयत् ॥ १८.१२७{२८} ॥ संबुद्धप्रमुखं सर्वं संघं ते समतोषयत् । ततस्तं सुगतं तृप्तं संघं चापि विलोक्यते ॥ १८.१२८{२९} ॥ तत्पात्राण्युपनीत्वा तद्धस्तादीकं व्यशोधयत् । ततः स पूगताम्बूरमहौषध्यरसाय नम् ॥ १८.१२९{३०} ॥ दत्वा क्षमार्थनं कृत्वा तं ससंघं प्रणेमिरे । ततस्ते ब्राह्मणाः सर्वे पौराश्चापि प्रमोदिताः । तत्सद्धर्मामृतं पातिमुपातस्थुः समाहिताः ॥ १८.१३०{३१} ॥ तत्र स भगवान् दृष्ट्वा सर्वांस्तान् समुपस्थितान् । आर्य्यसत्यं समारभ्य सद्धर्मं समुपादिशत् ॥ १८.१३१{३२} ॥ ततो भद्राशिषं दत्वा भगवान् सह संघिकैः । भासयं भद्रतां कुर्वन् गत्वा स्वाश्रममाश्रयत् ॥ १८.१३२{३३} ॥ एवं वैशालिका लोकास्ते त्रैमास्यं निरंतरम् । यथार्हभोजनैः शास्तुः ससंघस्य प्रभेजिरे ॥ १८.१३३{३४} ॥ ततोऽन्ते धनिकश्चापि पत्नी पुत्रः स्नुषापि च । संबुद्धप्रमुखं संघं दिव्यभोग्यैः समार्चयत् ॥ १८.१३४{३५} ॥ भगवान्नपि तथा तेभ्यो दत्वा शुभाशिषं ततः । समुत्थाय ससंघश्च गत्वाश्रमे समाश्रयत् ॥ १८.१३५{३६} ॥ ततः स धनिकः पत्नीपुत्रस्नुषासमन्वितः । दृष्टसत्यः सदा रत्नत्रयसेवारतोऽभवत् ॥ १८.१३६{३७} ॥ एतत्पुण्यानुभावेन भूयोऽतिश्रीसमृद्धिमान् । सर्वलोकहितं कृत्वा प्रचचार शुभे सदा ॥ १८.१३७{३८} ॥ तद्दृष्ट्वा विस्मिताः सर्वे भिक्षवः समुपाश्रिताः । भगवन्तं प्रणत्वैवं पप्रछुस्तत्पुराकृतम् ॥ १८.१३८{३९} ॥ भगवन् किं पुरानेन धनिकेन वृषं कृतम् । कुत्र कथं कदैतन्नः सर्वमाख्यातुमर्हति ॥ १८.१३९{४०} ॥ (र्म् २३४) इति तैर्भिक्षुभिः पृष्टे भगवान् स मुनीश्वरः । सर्वान्स्तां संघिकान् दृष्ट्वा तदैवं समुपादिशत् ॥ १८.१४०{४१} ॥ शृणुत भिक्षवः सर्वे यदनेन वृषं कृतम् । तत्पत्न्या च पुत्रेण स्नुषया च तदुच्यते ॥ १८.१४१{४२} ॥ वराणस्यामभूत्पूर्वं मालिकः कमलाभिधः । दुर्भिक्षक्षपिते काले परां दुर्गतिमागतः ॥ १८.१४२{४३} ॥ पत्नी पत्नविका नाम पुत्रः कुवलियाभिधः । पाटलोख्या स्नुषा चेति वभूवुस्तस्य संमताः ॥ १८.१४३{४४} ॥ तदैकस्मिन् दिने तस्य गृहान्तिके प्रपुष्पिते । उद्याने सायमागत्य प्रत्येकबुद्ध आश्रयेत् ॥ १८.१४४{४५} ॥ ते सर्वे एकवस्त्रा हि पर्य्यायेन नृपालये । दत्वा पुष्पाणि प्रायाताः स्वभवने निषीदिरे ॥ १८.१४५{४६} ॥ तदा स च गृहस्थास्ते तत्रोदाने ज्वलत्प्रभाम् । दृष्ट्वा किं महोज्वालमुद्याने इति विस्मिताः ॥ १८.१४६{४७} ॥ सहसा ते समुत्थाय तत्रोद्याने निरीक्षितुम् । सर्वगताः समीक्षन्तः ददृशुस्तं प्रभासयम् ॥ १८.१४७{४८} ॥ तत्र ते समुपाश्रित्य दृष्ट्वा तं ध्यानसंस्थितम् । साञ्जलयः प्रणत्वैव मुदिता स्वगृहं ययुः ॥ १८.१४८{४९} ॥ तत्र ते स्वगृहासीनाः प्रातस्तत्पूजनोत्सुकाः । निर्द्धनास्तद्व्यथां प्रापु लूनपक्षाः खगा इव ॥ १८.१४९{५०} ॥ तदा स मालिकस्तस्मै पूजां कर्तुं समुत्सुकः । तद्द्रव्यं स्वगृहे सम्यगन्विष्य समलोकयत् ॥ १८.१५०{५१} ॥ तत्र गृहे स सर्वत्र समन्विष्य समंततः । कञ्चि मात्रमपि द्रव्यमलब्धैवं व्यचिंतयत् ॥ १८.१५१{५२} ॥ अहो मया पुरा पापं प्रकृतं किं यतोऽधुना । अकिंचन्यो दरिद्रोऽस्मि किमत्र जीवितेन मे ॥ १८.१५२{५३} ॥ यतो न विद्यते द्रव्यं किं चिदपि गृहे मम । तत्केन करिष्यामि पूजामस्य महात्मनः ॥ १८.१५३{५४} ॥ अत्रायं स्वयमागत्य ममोद्याने समाश्रितः । प्रत्येकबुद्ध आत्मजो ध्यात्वा तिष्ठति भासयन् ॥ १८.१५४{५५} ॥ तदस्य सुगतस्यात्र कर्त्तव्या सत्कृतिर्मया । कदायं पुरि रम्यत्र समागछेत्स्वयं पुनः ॥ १८.१५५{५६} ॥ तत्प्रातः शून्यपात्रेण गछेदितो ममात्मवित् । तन्ममात्र भवे शून्यमिव जन्मापि निस्फलम् ॥ १८.१५६{५७} ॥ यतो मान्योऽभिपूज्यो यं पूज्यते न कथं चन । तत्र किं जायते भद्रं पुण्यं वास्य कथं कुतः ॥ १८.१५७{५८} ॥ पुण्यं विनात्र संसारे किं सारं जन्म निस्फलम् । भुक्त्वापि किं सुखान्यत्र सुचिरं जीविते ननु ॥ १८.१५८{५९} ॥ पुण्यार्थे जीवितं जन्म तदत्र यदि नश्यति । किमेव जीवितेनापि जन्मना पापसाधिना ॥ १८.१५९{६०} ॥ तन्मृत्युर्मे वरं ह्यत्र न मिथ्याचिरजीवितम् । अवश्यमेव संसारे सर्वत्र मरणं ध्रुवम् ॥ १८.१६०{६१} ॥ किमेवं देहपुष्टेन भुक्त्वा दुःखां सर्वदा । तत्केनापि प्रदानेन पूजयेयमिमं जिनम् ॥ १८.१६१{६२} ॥ (र्म् २३५) पुण्येन सद्गतिं यायां पापेन दुर्गतिं सदा । तत्पापं परित्यक्तुं पुण्यं प्राप्तु यतेय हि ॥ १८.१६२{६३} ॥ यद्यत्र पूज्यते नायं द्रक्ष्यते च कदा कुह । बुद्धपूजां विना भद्रे पुण्यं च लप्स्यते कुतः ॥ १८.१६३{६४} ॥ यावन्न प्राप्यते पुण्यं तावद्दुर्गतिचारणम् । तस्मात्पुण्यं प्रयत्नेन कर्त्तव्यं सुखताप्तये ॥ १८.१६४{६५} ॥ तदत्र श्रद्धया किंचिन्मात्रेणापि स्ववस्तुना । सत्कृत्यैनं महाभिज्ञं भजेयं समुपस्थितः ॥ १८.१६५{६६} ॥ इति ध्यात्वा विनिश्चित्य मालिकः संप्रमोदितः । भार्यां पुत्रं स्नुषां चापि समामंत्र्यैवमब्रवीत् ॥ १८.१६६{६७} ॥ अये प्रिये स्नुषे पुत्र यूयं शृणुत मद्वचः । यदत्र कर्तुमिछामि तत्र यूयं प्रसादतः ॥ १८.१६७{६८} ॥ यदत्रायं महाभिज्ञः स्वयमेव समागतः । अस्माकं गृहे द्रव्यं किञ्चित्मात्रं न विद्यते ॥ १८.१६८{६९} ॥ तत्केनात्र करिष्यामः पूजामस्य महात्मनः ॥ १८.१६९{६९!} ॥ यदि न पूज्यतेऽस्माभिः सुगतोऽयं मुनिर्यतिः । तदा पुण्यं वयं कुत्र लप्स्यामहे कदा कथम् ॥ १८.१७०{७०} ॥ पुण्यं विनात्र संसारे निस्फलं जन्म जीवितम् । तद्वयं पुण्यतो प्राप्तुं यतेम सर्वथा वयम् ॥ १८.१७१{७१} ॥ पुण्येन सद्गतिं प्राप्य पापेन दुर्गतिं सदा । तत्सद्गतिसुखप्राप्त्यै पुण्यं कुर्वीमहि ध्रुवम् ॥ १८.१७२{७२} ॥ चतुर्णां विद्यतेऽस्माकमेकं सर्वस्वमम्वरम् । अनेनाप्येनमाछाद्य प्रभजमहि सांप्रतम् ॥ १८.१७३{७३} ॥ नाद्यराजकुले नग्ना गछामः किं भविष्यति । एतत्मे वचनं श्रुत्वाभ्यनुमोदितुमर्हथ ॥ १८.१७४{७४} ॥ इति तेनोदितं श्रुत्वा पत्नी पुत्रः स्नुषापि ते । सर्वेऽप्यभ्यनुमोदित्वा तथा कुर्विति प्रोचिरे ॥ १८.१७५{७६!} ॥ इत्येतत्समयं कृत्वा सर्वे ते श्रद्धयान्विताः । गत्वा तेनैकवस्त्रेण तं प्राछाद्य समार्चयन् ॥ १८.१७६{७७} ॥ ततस्ते मुदिताः सर्वे कृताञ्जलिपुटा मुनेः । तस्य पादौ प्रणत्वैवं प्रणिधानं प्रचक्रिरे ॥ १८.१७७{७८} ॥ अनेन वस्त्रदानेन वयं सर्वे शुभाशयाः । भवेयं सद्गतिं याता दिव्यसंपत्तिहानिनः ॥ १८.१७८{७९} ॥ शास्तारं सुगतं बुद्धं समाराध्य सदा भवे । त्रिरत्नभजनं कृत्वा भवेम बोधिचारिणः ॥ १८.१७९{८०} ॥ इति तैर्मुदितैः सर्वैः प्रणिधानं कृतं तथा । विदित्वा स महाविज्ञस्तथास्त्विति समादिशत् ॥ १८.१८०{८१} ॥ ततस्तेसां मनोहर्षं कृत्वा स सुगतो मुनिः । तत उड्डीय पक्षीव भासयन् स्वाश्रमे ययौ ॥ १८.१८१{८२} ॥ तद्दृष्ट्वा ते नन्दिताः सर्वे बुद्धधर्मानुशंसिनः । त्रिरत्नस्मरणं कृत्वा प्रचेरिरे सुखं सदा ॥ १८.१८२{८३} ॥ तत्पुण्यप्रणिधानेन धनिकोऽयं स मालिकः । (र्म् २३६) जातो दिव्यप्रभावर्द्धिः पत्नीपुत्रस्नुषान्वितः ॥ १८.१८३{८४} ॥ मनःशुद्धिविधानेन दानेनातिग्लघीयसा । भवन्त्यलघ्व्याः संकल्पैः संपदः सत्वशालिनाम् ॥ १८.१८४{८५} ॥ बुद्धक्षेत्रेषु यत्कर्म सुकृतं दुःकृतं तथा । महत्तरत्वमासाद्य फलत्येव सदा भवे ॥ १८.१८५{८६} ॥ इति मत्वात्र संसारे कर्त्तव्यं सुकृतं सदा । बौद्धे सत्कृतपुण्येन लभन्ति बोधिसंपदः ॥ १८.१८६{८७} ॥ इति शास्त्रा समादिष्टं श्रुत्वा सर्वेऽपि सांघिकाः । मेनिरे चित्तवैमल्यमूलं दानफलश्रियम् ॥ १८.१८७{८८} ॥ तच्छ्रुत्वा ब्राह्मणास्तेऽपि तत्पुण्यविस्मिता मुदा । भगवंतं सदा स्मृत्वा प्रभेजिरेऽनुमोदिताः ॥ १८.१८८{८९} ॥ तथा ते ब्राह्मणाश्चापि सर्वेऽपि पौरिकास्तथा । तत्पुण्यपरिशुद्धांशा वभुवुः कुशलोद्यताः ॥ १८.१८९{९०} ॥ हेलार्पितं रत्नधनं तृणाग्रं श्रद्धावतीर्णं तृणमप्यनर्घम् । अनेकशोभानुभवं हि चित्तं चित्तं निमित्तं शुभसंभवानाम् ॥ १८.१९०{९१} ॥ इति मे गुरुणादिष्टं श्रुतं मया तथोच्यते । श्रुत्वाप्येवं महाराज कर्त्तव्यं सुकृतं सदा ॥ १८.१९१{९२} ॥ प्रजाश्चापि महाराज बोधयित्वा प्रयत्नतः । क्रमाद्बोधिं समासाद्य संबुद्धपदमाप्नुयाः ॥ १८.१९२{९४} ॥ इति तेनार्हताख्यातं श्रुत्वाशोकः स भूपतिः । तथा हीति प्रतिज्ञाय प्राभ्यनन्दत्सपार्षदः ॥ १८.१९३{९५} ॥ इदं नरा ये धनिकावदानं शृण्वन्ति ये चापि निशामयन्ति । सुखानि भुक्त्वा स शुभे सदा ते सर्वेऽपि शम्यान्ति जिनालयन् ते । ++ इति रत्नावदानतत्वे धनिकावदानं समाप्तम् ++ (र्म् २३७) xइx रैवतावदान अथाशोको नरेन्द्रः स कृतांजलिपुटो मुदा । उपगुप्तं गुरुं नत्वा पुनरेवमभाषत ॥ १९.१{१} ॥ भदन्त श्रोतुमिछामि पुनरन्यत्सुभाषितम् । तद्यथा गुरुणाख्यातं तथादेष्टुं च मेऽर्हति ॥ १९.२{२} ॥ इति सांप्रार्थितं राज्ञा श्रुत्वा सोऽर्हं महामतिः । उपगुप्तो नरेन्द्रं तं समालोक्यैवमादिशत् ॥ १९.३{३} ॥ साधु शृणु महाराज यथा मे गुरुणोदितम् । तथाहं ते प्रवक्ष्यामि श्रुत्वैवं परिबुध्यताम् ॥ १९.४{४} ॥ क्रौर्येण द्विरसनाः शुचिवेष्टितानां मिथ्यापवादविषमं विषमुत्सृजन्ति । ते पापशापपरितापपरंपरार्त्तास्तीव्रव्यलीकतिमिरविवरं विशन्ति ॥ १९.५{५} ॥ तद्यथाभूत्पुरा भिक्षुः कास्मीरे पतिताश्रमे । रैवतकाभिधो बौद्धः सर्वभूतदयाश्रयः ॥ १९.६{६} ॥ स कदाचिद्धनोद्देशे विविक्ते सुघटान्तरे । तरुत्वचः कषायेन चक्रे चीवररंजनम् ॥ १९.७{७} ॥ तस्मिन्नवसरे तत्र पिशुनाख्यद्विजन्मनः । धेनुवत्सा वने नष्टा वभूवुर्यूथनिर्गताः ॥ १९.८{८} ॥ तदा स ब्राह्मणो दृष्ट्वा तं दुष्टाशितशंकितः । सर्वत्रापि समन्विष्टा तत्राप्यन्वेषितुं ययौ ॥ १९.९{९} ॥ तत्र तच्चीवरक्वाथवाके वह्निसमुद्गतम् । धूमं स द्विज आलोक्य वत्सपाकममन्यत ॥ १९.१०{१०} ॥ ततः स ब्राह्मणः सार्द्धं स्वजनैः शस्त्रपाणिभिः । तद्द्रष्टुं शैलमारुह्य सहसागात्तदन्तिके ॥ १९.११{११} ॥ तत्र तं रैवतं भिक्षुं दृष्ट्वा स द्विज आदरात् । उपेत्य चूडिकेड्याहतं कुम्भमपश्यत् ॥ १९.१२{१२} ॥ तद्दृष्ट्वा शंकितश्चासौ विनयान् समुपासरन् । किमेतत्क्रियते भिक्षोरिति तं पर्यपृछत ॥ १९.१३{१३} ॥ इति पृष्टे द्विजेनासौ रैवतो भिक्षुरादरात् । तत्र चीवररागोऽयमिति तं द्विजमब्रवीत् ॥ १९.१४{१४} ॥ अस्मिन्नवसरे तस्या पूर्वकर्मविपाकतः । गोमांसरक्तपाणीयः सपाकः समपद्यत ॥ १९.१५{१५} ॥ सुखं दुःखत्वमानाति शुक्लमप्येति कालताम् । विधौ विधुरतां याते धर्मोऽप्यायात्यधर्मताम् ॥ १९.१६{१६} ॥ मिथ्यापापप्रकटता जनकोपः पदच्युतिः । (र्म् २३८) अपुण्यपरिपाकानामेतत्प्रत्यक्षलक्षणम् ॥ १९.१७{१७} ॥ दोषः समुन्मिषति यात्यगुणः प्रकाशं कार्यं विपर्ययमुपेति विशीर्यते धीः ॥ १९.१८{१८} ॥ पुंसां पुराविहितः दुःकृतपाककाले के के न नाम निपतन्ति महाभिघाताः ॥ १९.१९{१९} ॥ ततः स ब्राह्मणोऽप्यत्र कुम्भे किमिति शंकितः । पश्यामीति विनिश्चित्य निरीक्षितुमुपाचरत् ॥ १९.२०{२०} ॥ विरुद्धामिषगंधेन रुधिरेण च शंकितः । अपश्यन् स द्विजः कुम्भे मांसपिण्डं सुपक्वितैः ॥ १९.२१{२१} ॥ प्रत्यक्षदोषमालोक्य द्विजः क्रोधितो रुषा । तमभाषत निर्भत्स्य तीव्रवैशशकंपितः ॥ १९.२२{२२} ॥ अहो वत सदाचारः स्थितोऽयं विजने वने । यस्येदृशानि कर्माणि न कस्यचिदिह पश्यति ॥ १९.२३{२३} ॥ प्रव्रज्यारंजितः कायः क्रिया म्लेछजनोचिता । जानाति छन्नपापानां कः कूटव्रतशान्तिताम् ॥ १९.२४{२४} ॥ इत्युक्ते तेन साक्षेपं स रैवतोऽप्यचिंतयत् । दोषे प्रत्यक्षलक्ष्यस्मिन् किं ब्रवीमि निरुत्तरः ॥ १९.२५{२५} ॥ मम दैवाय घातोऽयमित्युक्ते कोऽनुमन्यते । हास्यायतनतामेति प्रत्यक्ष्यापह्नवी जनः ॥ १९.२६{२६} ॥ उपस्थितं सहे सर्वं मौनमालम्ब्य केवलम् । अयं मे निःप्रतीकारः सलिलादग्निदुत्थितः ॥ १९.२७{२७} ॥ दोषे गुणातिशयमाशु गुणेऽपि दोषं पैयूषधाम्नि विषमप्यमृतं विषे च ॥ संदर्शयत्यनिशमद्भुतरूपमेव कालेन्द्रजालिकावधूर्भवितव्येयम् ॥ १९.२८{२८} ॥ इत्येवं मनसा ध्यात्वा रैवतः स महामतिः । स्वदैवस्मरणं कृत्वा तस्थौ योगसमाहितः ॥ १९.२९{२९} ॥ इति ध्यानं समालम्ब्य स्थितं तं रैवतं मुनिम् । दृष्ट्वातिरुषितश्चासौ संतर्य्य पर्यभाषत ॥ १९.३०{३०} ॥ अरे रे दुर्मते भिक्षो किमत्र दुर्जने वने । स्थित्वेवं दारुणं पापं साधयित्वा निषीदसि ॥ १९.३१{३१} ॥ अरे पापिष्ठ भाषस्व यदर्थे वालकां वृषम् । हत्वात्र पच्यते मांस त्वयात्मनो परेण वा ॥ १९.३२{३२} ॥ परेणापि हतं दृष्ट्वा तत्पापैः परिलिप्यसे । तत्त्वया वृषभी हत्वा कथं पापैर्न दह्यसे ॥ १९.३३{३३} ॥ धिग्धिक्त्वामत्र रेभिक्षो संबुद्धशासने यतः । प्रव्रज्यासंवरं धृत्वा निर्जने वन आश्रयन् ॥ १९.३४{३४} ॥ महद्दुःकरकर्माणि कृत्वैवं तपसेऽधुना । अरे रे श्रूयते किं न त्वया संबुद्धभाषितम् ॥ १९.३५{३५} ॥ अथ श्रुत्वापि ते तत्र श्रद्धा न विद्यते खलु । किमेवं पातकं कृत्वा प्रव्रज्यासंवरं चरन् ॥ १९.३६{३६} ॥ केवलं पापकान्येव साधयित्वात्र तिष्ठसे । प्रव्रजितो विरक्तात्मा परिशुद्धत्रिमंडलः ॥ १९.३७{३७} ॥ सर्वसत्वदयादृष्टिश्चरेन्नित्यं समाहितः ॥ १९.३८{३७!} ॥ अदत्तं कस्य चिद्द्रव्यं गृहीयान्न कथं चन । (र्म् २३९) दयाकरुण्ययुक्तात्मा न कुर्यात्प्राणिपीडिनम् ॥ १९.३९{३८} ॥ कामभोगमधर्मेण नैव भुंज्यात्कदा चन । मृषावादं कदाप्यत्र नैव ब्रूयात्कथं चन ॥ १९.४०{३९} ॥ पारुष्यवचनं चापि नैव ब्रूयात्कथं चन । पैशुन्यवचनं वापि वदेन्न कस्य चित्पुरः ॥ १९.४१{४०} ॥ संभिन्नप्रलापं च न प्रवदेत्कस्य चिदपि । व्यापादं कस्य चिच्चापि भावयेन्न कथं चन ॥ १९.४२{४१} ॥ अभिध्यां च तथा नैव चिंतयेत्कस्य चिदपि ॥ १९.४३{४२} ॥ मिथ्यादृष्टिं सदा क्वापि भावयेन्न कदा चन । एतानि दशपापानां मूलानि सर्वथा त्यजेत् ॥ १९.४४{४३} ॥ एतानि ये समालभ्य प्रचरन्ति प्रमादतः । ते सर्वे क्लेशसंतप्ता भ्रमन्ति दुःखिनो भवे ॥ १९.४५{४४} ॥ ततः क्लेशाग्निसंतप्ताः पापेष्वेव समाहिताः । दुःखान्येव सदा भुक्त्वा नरकेषु भ्रमन्ति ते ॥ १९.४६{४५} ॥ इति मत्वात्र संसारे त्यक्त्वैतानि दशापि हि । सन्तो नित्यं शुभेष्वेव प्रचरन्ति समाहिताः ॥ १९.४७{४६} ॥ शुभेन सद्गतिं यान्ति पपिन दुर्गतिं सदा । इत्याख्यातं जिनैः सर्वैः किं नैतच्छ्रूयते त्वया ॥ १९.४८{४७} ॥ कथमेतदवज्ञाय प्रव्रजितस्त्वमाचरेः । धिक्ते चित्तं यदेवं मे गोवत्सं भोक्तुमिछति ॥ १९.४९{४८} ॥ प्रव्रजितो हि शुद्धात्मा परिशुद्धस्त्रिमण्डलः । सर्वसत्वदयाचित्तश्चरेन्नित्यं समाहितः ॥ १९.५०{४९} ॥ सर्वसत्वहितं कृत्वा ब्रह्मचर्यं समाहितः । भिक्षान्नमात्रसंकृष्टः सुनिःस्पृहश्चरेच्छुभे ॥ १९.५१{५०} ॥ समाधिनिरतो योगी धारणीपरमार्थभृत् । सर्वक्लेशान् विनिर्जित्वा सर्वमारगाणानपि ॥ १९.५२{५१} ॥ सर्वान् परिग्रहान् त्यक्त्वा निर्विकल्पो निरंजनः । साक्षादर्हत्वमासाद्य ब्रह्मचर्यं समाचरेत् ॥ १९.५३{५२} ॥ एवं प्रव्रजितो भिक्षुश्चरन्नित्यं सुशीलभृत् । शिवां बोधिं समासाद्य निर्वृतिपदमाप्नुयात् ॥ १९.५४{५३} ॥ त्वं तु प्रव्रजितोऽप्येवं महद्दारुणपातकम् । कृत्वात्र निर्जने भुक्त्वा चरसे म्लेछचारिकाम् ॥ १९.५५{५४} ॥ हा वतात्र विनष्टोऽसि यदेतत्पातकान्वितः । सहसा नरके गत्वा चिरं दुःखानि भोक्ष्यसि ॥ १९.५६{५५} ॥ किं त्वया प्रकृतं पापं पुरा जन्मान्तरे कथम् । यदत्र सौगते धर्मं प्राप्तोऽप्येवं दुराशयः ॥ १९.५७{५६} ॥ तच्चरस्व समाधाय प्रायश्चित्तव्रतं पुनः । एतत्पापाभिसंशुद्ध्यै पुनर्व्रतसमाप्तये ॥ १९.५८{५७} ॥ तथा ते शुद्धिते काये मंगलं च भवेत्क्रमात् । परिशुद्धस्त्रिकायश्च प्रव्रज्यासंवरं चर ॥ १९.५९{५८} ॥ तदा त्वं सर्वथा जित्वा क्लेशान्मारगणान्नपि । साक्षादर्हत्वमासाद्य ब्रह्मचारी भविष्यति ॥ १९.६०{५९} ॥ (र्म् २४०) तदा त्वं परिशुद्धात्मा निर्विकल्पो निरंजनः । शिवां बोधिं समासाद्य निर्वृतिपदमाप्नुयाः ॥ १९.६१{६०} ॥ इति तेनोदितं श्रुत्वा रैवतः स प्रबोधितः । तथापि मौनमाधाय तथौ दैवाभ्यनुस्मरन् ॥ १९.६२{६१} ॥ एवं स्थितं तमालोक्य ब्राह्मणः स रुषान्वितः । एवं द्विधा त्रिधाप्येनं परिभाष्याभ्यनिन्दयत् ॥ १९.६३{६२} ॥ एवं द्विधा त्रिधाप्युक्ते ब्राह्मणेन स रैवतः । स्वदैवमभ्यनुस्मृत्वा मौनेनैव न्यषीदत ॥ १९.६४{६३} ॥ स्वदैवचिन्तयस्तस्य मौनात्स ब्राह्मणो रुषा । रैवतं तां कताक्षेण दृष्ट्वैनं पर्यभाषत ॥ १९.६५{६४} ॥ अरे रे दुर्मते भिक्षो किमेवं तिष्ठसेऽधुना । उत्तिष्ठात्र प्रवंधित्व नयामि त्वां नृपान्तिके ॥ १९.६६{६५} ॥ एवं तेनोदितेऽप्येव स्थितः स रैवतो यतिः । किं चिन्नैवावदेन्मौनमेवालम्ब्य न्यषीदत ॥ १९.६७{६६} ॥ ततः स ब्राह्मणस्तस्य मौनादतिप्रकोपितः । मुर्द्ध्नि पापमिव स्थूलं लगुडं मर्पयातयत् ॥ १९.६८{६७} ॥ तथाभिघात्यमानोऽपि रैवतः स समाहितः । दैवमेवाभ्यनुस्मृत्वा तस्थौ निःकंपिताशयः ॥ १९.६९{६८} ॥ तथास्थितं तं मुनिमात्मविद्यं दैवं स्मरंतं ह्यकृतापराधम् । निनाय पश्चात्कृतवाहुदंडं सदस्तदा नंदनभूमिभर्तुः ॥ १९.७०{६९} ॥ तथास्थितं तमालोक्य स द्विजः प्रतिरोषितः । रक्ताक्षं रैवतं वद्ध्वा सहसानयन्नृपान्तिके ॥ १९.७१{७०} ॥ तत्र स ब्राह्मणो नीत्वा तं राज्ञः स्थितः । तद्वत्सपिशितं पक्वमुपस्थाप्यऽभ्यदर्शयत् ॥ १९.७२{७१} ॥ ततः स ब्राह्मणः क्रूरस्तस्य भिक्षो सविस्तरम् । सर्ववृत्तांतमाख्याय तं नृपं पर्यकोपयत् ॥ १९.७३{७२} ॥ तद्वत्समांसमालोक्य नृपतिः स प्रकोपितः । रैवतं तं यतिं वद्ध्वा चक्रे कारागृहातिथिम् ॥ १९.७४{७३} ॥ निर्दोषः क्लेशमाश्नाति तम्भते गुप्तपातकः । जानाति कस्य कः शुद्धिं चित्राकारेष्वसाक्षिषु ॥ १९.७५{७४} ॥ तत्र स वंधनागारे वंधितोऽपि स सन्मतिः । त्रिरत्नस्मरणं कृत्वा तस्थौ दैवानुचिन्तयन् ॥ १९.७६{७५} ॥ तत्रैवं वंधनागारे तस्मिन् भिक्षौ निवन्धिते । काले न विस्नितो राजा तद्विचारेऽपि नास्मरत् ॥ १९.७७{७६} ॥ तदान्यस्मिन् दिने तत्र ते वत्साः सर्व आगताः । मातृभिः सह संसक्तास्तृणं भुक्त्वा निषेदिरे ॥ १९.७८{७७!} ॥ तान् वत्सान्मातृसंसक्तान् सर्वानालोक्य स द्विजः । विस्मितः पुनरालोक्य पश्यन्नेवं व्यचिंतयत् ॥ १९.७९{७८} ॥ अहो वत्सा इमे सर्वे कुत्र गत्वाधुनागताः । (र्म् २४१) सर्वत्रान्विष्यमाना हि कुत्रापि नाभ्यदृश्यते ॥ १९.८०{७९} ॥ हा ममात्र महत्पापो जायते सांप्रतं कथम् । यन्मया सहसा भिक्षोरसमीक्ष्यापराध्यते ॥ १९.८१{८०} ॥ यथा भिक्षोर्घटे मान्सं दृष्ट्वैषामिति चिन्तयत् । चौरायमिति तं भिक्षुं पर्यभाषं रुषाभृतम् ॥ १९.८२{८१} ॥ अपराधं विनार्हंतमपि भिक्षुं प्रताडयत् । वद्ध्वा तं सहसा राज्ञः पुरोऽत्र समुपानयम् ॥ १९.८३{८२} ॥ राजापि मम वाक्येन सहसैव निमंत्रयन् । वद्ध्वाशु वंधनागारे प्रस्थापयति सांप्रतम् ॥ १९.८४{८३} ॥ तदत्र किं करिष्यामि वत्साः सर्वे इहागताः । अपराधा यतेर्नेति वदेय सांप्रतं कथम् ॥ १९.८५{८४} ॥ यद्यवक्ष्यं तथा राजा तदा मे कुपितो नृपः । सर्वस्वमपहृत्वापि प्राहरिष्यते मामिह ॥ १९.८६{८५} ॥ अथ यदि भयाद्राज्ञो नावदिष्यंस्तथा क्वचित् । नूनं तं यतिमर्हन्तमपि राजा हनिष्यते ॥ १९.८७{८६} ॥ तदाहं किं करिष्यामि तद्घोरपातकानलैः । पच्यमानस्सदावीचौ तिष्ठेयमतिदुःखितः ॥ १९.८८{८७} ॥ तदत्र किं करिष्यामि यत्रोपायं न विद्यते । सर्वथाहं विनष्टोऽस्मि व्रजेय शरणं कुह ॥ १९.८९{८८} ॥ यदिमं सौगतं भिक्षुमर्हन्तं ब्रह्मचारिणम् । अनपराधिनं हत्वा कथं पापैर्न लेप्स्यते ॥ १९.९०{८९} ॥ एतैर्हि पातकैर्घोरैरहं राजा जना इमे । सर्वे वत्स्यामहेऽवीचौ भुक्त्वा दुःखानि सर्वदा ॥ १९.९१{९०} ॥ हा मे दैवाद्यतेश्चापि निर्जने वसतोऽपि यत् । घटेऽभिदृश्यते वत्समान्सीभूतं हि चीवरम् ॥ १९.९२{९१} ॥ अवश्यं भाविनो भावा भवन्त्येव न चान्यथा । तदत्र किं करिष्यामि भिक्षुर्वा किं करिष्यति ॥ १९.९३{९२} ॥ तस्यैव कर्मदोषेण मांसीभूतं हि चीवरम् । अथ ममैव दैवेन तदिति मन्यते न हि ॥ १९.९४{९३} ॥ तदत्र किं वदेयाहं दैवं हि सर्वकर्मकृति । इति ममार्होऽप्यस्य दूषणं नात्र विद्यते ॥ १९.९५{९४} ॥ तथप्येतत्प्रवृत्तिर्न वक्तव्यं कस्य चिदपि । न गंतव्यं वहिः क्वापि स्थातव्यं स्वगृहे सदा ॥ १९.९६{९५} ॥ कदा चित्स्खलिता बुद्धिर्वाणी च विस्मृतस्य मे । एतद्धि पातकं घोरं समाचक्षत कुत्र चित् ॥ १९.९७{९६} ॥ तदाहं निंद्यमानोऽत्र सर्वलोकैरितस्ततः । भ्रत्स्यमानः कथं लोके चरिष्ये दुष्टजंतुवत् ॥ १९.९८{९७} ॥ इति ध्यात्वा विनिश्चित्य ब्राह्मणः स विषादितः । कस्याप्येतत्प्रवृत्तांतं नोचे दौर्जन्यलज्जया ॥ १९.९९{९८} ॥ तत्पातकाग्निसंतप्तः स्मृत्वार्हन्तं तमेव सः । प्रायश्चित्तव्रतं कुर्वन्निव तस्थौ गृहाश्रितः ॥ १९.१००{९९} ॥ एवं द्वादशवर्षाणि नृपेणापि स विस्मृतः । (र्म् २४२) रैवतो वंधनागारे तस्थौ ध्यानसमाहितः ॥ १९.१०१{१००} ॥ अथ द्वादशवर्षान्ते तच्छिष्याः सर्व आगताः । तत्प्रवृत्तिं समाकर्ण्य विस्मितास्तेऽभवंस्तदा ॥ १९.१०२{१} ॥ ततः सर्वेऽपि ते शिष्याः संमील्य नृपतेः पुरः । उपेत्यैतत्प्रवृत्तांतं समाख्याय न्यवेदयन् ॥ १९.१०३{२} ॥ आरोग्यमस्तु ते राजन् लोकान् धर्मेण पालय । यदर्थे वयमायामस्तत्र भवान् प्रसीदतु ॥ १९.१०४{३} ॥ यदस्माकं गुरुर्भिक्षुरपराधं विना कथम् । भवता वंधनागारे स्थापितस्तद्विचारय ॥ १९.१०५{४} ॥ इति तैर्भिक्षुभिः सर्वैस्तच्छिष्यैः प्रार्थिते तदा । व्योमवाणी तथाख्याय नरेन्द्रं तं व्यबोधयत् ॥ १९.१०६{५} ॥ तत्खवाणिं समाकर्ण्य नृपः स परिबोधितः । तच्छिष्यैः सारितो भिक्षुं तं मुमोचाशु वंधनात् ॥ १९.१०७{६} ॥ अहो ग्रावाग्रलिखिता निश्चला कर्मसंततिः । प्राप्तभिज्ञोऽपि यत्प्राप क्रूरक्लेशदशां तथा ॥ १९.१०८{७} ॥ तं यतिं निर्गतं दृष्ट्वा स राजाभ्यानुतापितः । निनिन्दा मन्दपुण्यत्वं प्रमादाद्धतमात्मनः ॥ १९.१०९{८} ॥ तदा स नृपति राजा सहसा तस्य पादयोः । सांजलिः प्रणतिं कृत्वा समुत्थायैवमब्रवीत् ॥ १९.११०{९} ॥ भदन्तो विचार्यैव प्रमदा यद्भवान्मया । स्थापितो वंधने तन्मेऽपराधं क्षंतुमर्हति ॥ १९.१११{१०} ॥ विस्मृता मे सहायां च परिज्ञाता न केन चित् । दण्डः पतति शुद्धेषु प्राप्तः पापे महीपतौ ॥ १९.११२{११} ॥ इत्युक्तः क्षितिपालेन क्षान्तिप्रक्षालिताशयः । रैवतः स नरेंद्रं तं समालोक्यैवमब्रवीत् ॥ १९.११३{१२} ॥ राजन्न तेऽपराधत्वं ममैतत्कर्मजं फलम् । तदत्र मा कृथाः खेटं सौगत आत्मविद्युतम् ॥ १९.११४{१३} ॥ ततस्तं यतिमर्हन्तं स राजा सहसादरात् । चीवरेण समाछाद्य पिंडकेन समार्चयत् ॥ १९.११५{१४} ॥ तदैतद्वृत्तिमाकर्ण्य ब्राह्मणः स त्वरान्वितः । आगत्य तत्सभामध्ये दत्ताशीः समुपाचरत् ॥ १९.११६{१५} ॥ तत्र स समुपासृत्य राज्ञे दत्वा जयाशिषाम् । तं यतिं साञ्जलिर्नत्वा प्रार्थयन् विनयात्क्षमाम् ॥ १९.११७{१६} ॥ भदन्त भवतामेवमपराधमकारयन् । तन्मेऽपराधतां क्षंतुमर्हति सर्वथा भवान् ॥ १९.११८{१७} ॥ इत्युक्ते तेन विप्रेण रैवतः स विशुद्धधीः । ब्राह्मणं तं विषण्णास्यं समालोक्यैवमब्रवीत् ॥ १९.११९{१८} ॥ न मन्युर्विद्यते विप्र न त्वयापकृतं मयि । ममैव दैवया केन मांसीभूतं हि चीवरम् ॥ १९.१२०{१९} ॥ तत्राहं मौनमालम्ब्य स्थितो दैवाभ्यनुस्मरन् । तेनात्र किं वदिष्यामि दैवा हि वलवान् भवे ॥ १९.१२१{२०} ॥ न त्वयापाकृतं किञ्चिद्विपुलक्लेशपातितः । (र्म् २४३) तन्ममोपनतं पाके स्वकर्मसदृशं फलम् ॥ १९.१२२{२१} ॥ यत्सौत्कण्ठतयैव सर्वविपदः कुर्वन्ति कण्ठग्रहं सर्वाङ्गप्रसभोपभोगसुभगाः क्लिश्यन्ति यत्संपदः । यत्स्वाछंद्यसुखास्पदं विहरणं दीर्घं च यद्वंधनं तत्पुंसां निजकर्मपाकशवलं संसारवल्लीफलम् ॥ १९.१२३{२२} ॥ इति तेनार्हताख्यातं श्रुत्वा नंदः स भूपतिः । विस्मितः कौतुकाच्चैवं दृष्ट्वा तं यतिमब्रवीत् ॥ १९.१२४{२३} ॥ तवापि सुमते कस्य फलमेतत्कुकर्मणः । किं पुरा प्रकृतं कर्मन् तत्समाख्यातुमर्हति ॥ १९.१२५{२४} ॥ इति पृष्टे नरेन्द्रेण रैवतः स सुधिर्यतिः । तं नरेंद्रं समालोक्य बोधयितुं तथावदत् ॥ १९.१२६{२५} ॥ साधु शृणु महाराज यन्मया प्रकृतं पुरा । तदत्राहं प्रवक्ष्यामि सर्वलोकप्रबोधने ॥ १९.१२७{२६} ॥ वाराणस्यां पुरा क्रूरचरितोऽभूत्कुथाभिधः । गोचौरः कुत्सिकाचारो गोमांसविहिताशनः ॥ १९.१२८{२७} ॥ कदा चित्स वने गत्वा हत्वा गोवत्समात्मना । तद्वत्समांसमादाय सहसा ततो विनिर्ययौ ॥ १९.१२९{२८} ॥ तत्र गोरक्षिणो वत्सनष्टमन्विष्य सर्वतः । दृष्ट्वा तं मांसभारार्त्तं कोपात्समभिदुद्रुवुः ॥ १९.१३०{२९} ॥ तत्र स कुथ आलोक्य तान् सर्वान् समुपद्रुतान् । सहसोपद्रुतोऽरण्ये प्रदुद्राव वनांतरे ॥ १९.१३१{३०} ॥ तत्र प्रत्येकबुद्धस्य ध्यानलीनस्य सोऽग्रतः । उपनिक्षिप्य तन्मांसं तत्रैकान्ते न्यलीयत ॥ १९.१३२{३१} ॥ तेऽपि गोरक्षिणः सर्वे सानुचरामभिद्रुताः । तत्र प्रत्येकबुद्धं तमालोक्य समुपाचरन् ॥ १९.१३३{३२} ॥ तत्र स कुथ आगत्य तेषां गोरक्षिणां पुरः । गोमांसं दर्शयित्वा तं चौरायमित्यदर्शयत् ॥ १९.१३४{३३} ॥ तत्र ते गोभृतः सर्वे गोमांसं तन्मुनेः पुरः । दृष्ट्वैव सहसा कोपात्तं मुनिमभ्यघातयत् ॥ १९.१३५{३४} ॥ वध्योऽयमिति तं वध्वा गोपालास्ते प्रकोपिताः । आक्रुश्य सहसानीत्वा कारागारे न्यवंधयत् ॥ १९.१३६{३५} ॥ ततः स कुथ आकर्ण्य तं यतिं वंधने धृतम् । पश्चात्तापाग्निसंतप्तस्तहीत्येवं व्यचिंतयत् ॥ १९.१३७{३६} ॥ हा मया पापिनाप्येवं साध्यते पातकानि च । अवश्यं वह्निनावीचौ कुंह्भ्यां पक्ष्ये रतंश्चिरम् ॥ १९.१३८{३७} ॥ यदयं निर्जने ध्यातो प्रत्येकबुद्ध आत्मवित् । चौरायमिति संदर्श्य वंधने स्थापितोमया ॥ १९.१३९{३८} ॥ एतत्पापविपाके हि सर्वदा नरके स्थितः । तीव्रदुःखाग्निसंतप्त अन्ते मां स्वकृते फलम् ॥ १९.१४०{३९} ॥ हा मयैवं महाघोरं पातकं दुर्धिया कृतम् । कदा तत्पातकान्मुक्तो व्रजेयं सद्गतिं कथम् ॥ १९.१४१{४०} ॥ (र्म् २४४) हा सर्वज्ञ नमस्तुभ्यं पश्य मामतिपापिनम् । भवान्नेव जगत्त्राता तन्मेऽपि त्रातुमर्हति ॥ १९.१४२{४१} ॥ मया मूढेन दुष्टेन महापातकमाचितम् । तद्विमुक्त्यामुपायं मे कृपया दातुमर्हति ॥ १९.१४३{४२} ॥ इति कुथः स चाण्डालः स्मृत्वा संबुद्धमादरात् । पश्चात्तापाभिसंतप्तस्तस्थौ गेहे प्रमोहितः ॥ १९.१४४{४३} ॥ ततः स चेतनं प्राप्य संबुद्धस्यानुभावतः । सहसा तत उत्थाय तदन्तिके उपाचरत् ॥ १९.१४५{४४} ॥ तत्र स समुपासृत्य तेसां गोरक्षिणं पुरः । कृतांजलिपुटो नत्वा याचित्वाभयमब्रवीत् ॥ १९.१४६{४५} ॥ भवन्तोऽत्र मया पापं कृतं तत्प्रतिदेक्ष्यते । तद्भवंतः समाकर्ण्य क्षंतुमर्हंति सर्वथा ॥ १९.१४७{४६} ॥ अस्य प्रत्येकबुद्धस्य ह्यपराधो न विद्यते । तत्र मयातिदुष्टेन चौरोऽयमिति दर्शितः ॥ १९.१४८{४७} ॥ तदत्र मुच्यतामेष प्रत्येकसुगतो मुनिः । सत्कृत्याभ्यर्च्य पिंडेन माननीयो हि सर्वदा ॥ १९.१४९{४८} ॥ अत्रैतत्पातकं नास्य ममैव मस्तके पचेत् । तदहमेव वध्योऽत्र तदयं मुच्यतां यतिः ॥ १९.१५०{४९} ॥ इति तेनोदितं श्रुत्वा सर्वे गोरक्षिणोऽपि ते । रुष्टास्तं सहसा वद्ध्वा पर्य्याख्यायात्यताडयत् ॥ १९.१५१{५०} ॥ तत्ताडनरवं श्रुत्वा स प्रत्येकजिनः सुधीः । गोपालांस्तान् समामंत्र्य पुनरेवं समादिशत् ॥ १९.१५२{५१} ॥ भवन्तो मुच्यतामेष मापराधेऽपि हन्यताम् । क्षमा हि परमं धर्मं तत्कुर्वन्तु क्षमामिह ॥ १९.१५३{५२} ॥ तन्तासाद्यागनो योगं कर्तुमर्हन्ति सर्वथा । किं दैवं निहतं हत्वा युष्माकं सेत्स्यते फलम् ॥ १९.१५४{५३} ॥ मयैतद्वंधनं प्राप्तं ममैव दैवयोगतः । तदस्याप्यपराधोऽत्र नास्तीत्येष विमुच्यताम् ॥ १९.१५५{५४} ॥ इति प्रत्येकबुद्धेन तेनादिष्टं निशम्यते । तथेति प्रतिबुद्धित्वा तत्कोपं मुमुचुस्तदा ॥ १९.१५६{५५} ॥ अथ ते गोभृतः सर्वे श्रुत्वा तस्य मुनेर्वचः । सहसा विनतिं कृत्वा वंधनात्तं व्यमुंचयत् ॥ १९.१५७{५६} ॥ ततस्ते गोभृतः सर्वे तं प्रत्येकमुनिं मुदा । चीवरेण समाछाद्य समभ्यर्च्यात्यतोषयन् ॥ १९.१५८{५७} ॥ तत्र तं समुपाश्रित्य कृतांजलिपुटो नताः । तदपराधसंतप्ताः प्रार्थयन्नेवमादरात् ॥ १९.१५९{५८} ॥ भगवञ्ज्ञायतेऽस्माभिर्भवतो नापराधता । तेनास्माकं क्षमां कर्तुमर्हत्यत्र भवानपि ॥ १९.१६०{५९} ॥ इति तैः प्रार्थितं श्रुत्वा स प्रत्येकजिनः । तान् सर्वान् गोभृतो दृष्ट्वा समाश्वास्यैवमब्रवीत् ॥ १९.१६१{६०} ॥ भवन्तो मा विषीदन्तु दूषणं वा न विद्यते । एतद्वृत्तिं विजानामि सौगता हि भवार्थवित् ॥ १९.१६२{६१} ॥ (र्म् २४५) इत्यादिश्य स सर्वज्ञः प्रत्येकबुद्ध उत्थितः । तत आकाश उत्प्लुत्य स्वाश्रमं गते आश्रयन् ॥ १९.१६३{६२} ॥ तद्दृष्ट्वा ते जनाः सर्वे गोपालाः प्रतिविस्मिताः । तमेव सुगतं स्मृत्वा सद्धर्मे सर्वदाचरन् ॥ १९.१६४{६३} ॥ योऽसौ कुथाभिधो गोघ्नः प्रदुष्टोऽहं तदाभवत् । तत्पापैर्नरकेष्वेवं चिरं दुःखानि भुक्तवान् ॥ १९.१६५{६४} ॥ अस्मिञ्जन्मन्यपि प्राप्तक्लेशद्वादशवार्षिकम् । तदस्यात्रापराधं न ममैतद्दैवयोगतः ॥ १९.१६६{६५} ॥ इति महाराज शुभाशुभं स्वदैवतः । संसारेऽत्र सदा पुण्यं कर्त्तव्यं सत्सुखार्थिभिः ॥ १९.१६७{६६} ॥ पुण्यमेवात्र संसारे सारसर्वार्थसिद्धिदम् । पुण्यं विना न सिद्ध्यन्ते कृतकर्माणि सर्वथा ॥ १९.१६८{६७} ॥ पुण्येन जायते स्वर्गे पुण्येन यान्ति सद्गतिम् । पुण्येन सर्वदा भद्रं कृत्वा यांति जिनालयम् ॥ १९.१६९{६८} ॥ दंडेन मुच्यते वध्यः पुण्यस्यैवानुभावतः । दंडार्होऽपि प्रहारेण प्रहारार्होऽपि रोषतः ॥ १९.१७०{६९} ॥ रोषार्हा रोमहर्षनेन मुच्यते पुण्यतो नृप । यावन्तः सूखिनः सर्वसंपत्समन्विताः ॥ १९.१७१{७०} ॥ सर्वे ते पुण्यकर्त्तार इति ज्ञेया नराधिप । पुण्येन शुद्ध्यते चित्तं शुद्धाशयो भवेत्सुधीः ॥ १९.१७२{७१} ॥ सुबुद्धिः सर्वदा नित्यं शुभेष्वेव समाचरेत् । शुभाचारो विशुद्धांगः सत्यवादी जितेन्द्रियः ॥ १९.१७३{७२} ॥ परिशुद्धाशयो धीरो भवेत्सत्वहितार्थभृत् । तथैतत्पुण्ययुक्तात्मा सर्वविद्याकलार्थवित् ॥ १९.१७४{७३} ॥ भवेद्धर्मार्थविज्ञश्च सुगुणश्रीसमन्वितः । ततो माहेश्वरीसंपत्प्राप्तो लोकहितोद्यतः ॥ १९.१७५{७४} ॥ दानं कृत्वा सदा सौख्यं भुक्त्या नित्यं शुभे चरेत् । एतत्पुण्यविपाकेन परिशुद्धस्त्रिमण्डलः ॥ १९.१७६{७५} ॥ शुभ्रशीलो विशुद्धात्मा सदार्यव्रतमाचरेत् । एतत्पुण्यानुभावेन क्षन्तिधर्मार्थसाधकः ॥ १९.१७७{७६} ॥ स्वपरात्मसमाभावी चरेत्मैत्रीसुखान्वितः । एतत्पुण्यविपाकेन धर्मोत्साहगुणान्वितः ॥ १९.१७८{७७} ॥ सर्वदुष्टगणाञ्जित्वा चरेत्सत्वहिते कृती । एतत्पुण्यप्रभावैश्च सर्वक्लेशान् विनिर्जयन् । समाधिधारणीविज्ञश्चरेद्ध्यानं समाहितः ॥ १९.१७९{७८} ॥ एतत्पुण्यविपाकैश्च सर्वशास्त्राब्धिपारगः । प्रज्ञारत्नं समासाद्य महाभिज्ञपदं लभेत् ॥ १९.१८०{७९} ॥ एतत्पुण्यानुभावैश्चिअ सर्वोपायविधानवित् । सर्वसत्वहितं कृत्वा शुभे नित्यं समाचरेत् ॥ १९.१८१{८०} ॥ एतत्पुण्यानुभावैश्च बोधिप्रणिधिमानसः । सर्वेषां मंगलं कृत्वा भद्रचर्यां समाचरेत् ॥ १९.१८२{८१} ॥ एतत्पुण्यप्रभावैश्च दशबलसमन्वितः । सर्वमारान् विनिर्जित्य चरेद्बोधिव्रतं सदा ॥ १९.१८३{८२} ॥ एतत्पुण्यबलेनैव संबोधिज्ञानमुत्तमम् । (र्म् २४६) महारत्नं समासाद्य भवेत्सर्वविनायकः ॥ १९.१८४{८३} ॥ ततः सर्वत्र लोकेषु कृत्वा भद्राणि सर्वदा । बोधिसत्वो महासत्वः संबुद्धपदमाप्नुयात् ॥ १९.१८५{८४} ॥ एतत्पुण्यानुभावैश्च सर्वांस्त्रैधातुकास्थितान् । सत्वान् बोधौ प्रतिस्थाप्य कृत्वा धर्ममयं जगत् ॥ १९.१८६{८५} ॥ एतत्पुण्यविपाकेन धर्मराजस्तथागतः । निर्वृत आलयलीनो महाबुद्धो भवेद्ध्रुवम् ॥ १९.१८७{८६} ॥ एवं मत्वा महाराज निर्वृतिपदलब्धये । यदीछसि तथा पुण्यमेव कर्त्तव्यमाभवैः ॥ १९.१८८{८७} ॥ पुण्यमेव महारत्नं सर्वत्रापि महानुगम् । सर्वार्थसिद्धिदं भद्रं संबुद्धपदसाधनम् ॥ १९.१८९{८८} ॥ इति विज्ञाय राजेन्द्र हित्वा पापानुरागताम् । पुण्यान्येवात्र संसारे कर्त्तव्यानि हि सर्वदा ॥ १९.१९०{८९} ॥ पापेन सर्वदाप्येवं दुर्गतीष्वेव संगताः । मूढा क्लेशाग्निसंतप्ता भ्रमन्ति भवचारके ॥ १९.१९१{९०} ॥ यावंतो दुःखितो दुष्टा संसारे क्लेशतापिताः । सर्वे ते पापकर्त्तार इति बुद्धैः प्रकथ्यते ॥ १९.१९२{९१} ॥ इति मत्वा महाराज सदा भद्रं यदीछसि । हित्वा पापानुरागत्वं सद्धर्मं चिनु सादरम् ॥ १९.१९३{९२} ॥ सद्धर्मं सौगतं धर्मं यल्लोकं हितसाधनम् । तेनात्र सर्वधर्माणां प्रवरमग्रमुच्यते ॥ १९.१९४{९३} ॥ तदेतद्धर्मसंप्राप्त्यै त्रिरत्नशरणं गतः । सत्कृत्य श्रद्धया नित्यं भजस्व समुपस्थितः ॥ १९.१९५{९४} ॥ त्रिरत्ने यत्कृतं कर्मं शुभं वाप्यशुभं तथा । तत्फलमप्रमेयमसंख्येय महत्तरम् ॥ १९.१९६{९५} ॥ एतत्पुण्यानुभावेन सर्वे बुद्धा मुनीश्वराः । जगद्धर्ममयं कृत्वा निःक्लेशा परिनिर्वृताः ॥ १९.१९७{९६} ॥ एवं विज्ञाय भूमीन्द्र हित्वा पापरतिं सदा । त्रिरत्नभजनं कृत्वा चर नित्यं सदा शुभे ॥ १९.१९८{९७} ॥ अभुक्तं क्षीयते नैव क्वापि कर्म शुभाशुभम् । येनैव यत्कृतं कर्मं तेनैव भुज्यते फलम् ॥ १९.१९९{९८} ॥ नाग्निभिर्दह्यते कर्मं दह्यते देह एव हि । नोदकैः क्लिद्यते कर्मं क्लिद्यते तनुरेव च ॥ १९.२००{९९} ॥ नानिलैः शुष्यते कर्मं काय एवाभिशुष्यते । न क्षीतौ क्षीयते कर्मं क्षीयते तनुरेव हि ॥ १९.२०१{१००} ॥ अन्यथापि भवेन्नैव विपाके कर्मणः फलम् । यथैव यत्कृतं येन तेनैव भुज्यते तथा ॥ १९.२०२{१} ॥ कृष्णस्य कर्मणः पाके दुःखतैव सदा भवे । शुभस्य सुखता नित्यं मिश्रितस्योभयं तथा ॥ १९.२०३{२} ॥ एवं कर्मविपाकोत्थं शुभाशुभफलं सदा । भुक्त्वा सर्वत्र संसारे भ्रमन्ति सर्वजंतवः ॥ १९.२०४{३} ॥ एवं मत्वा महाराज कृष्णानि मिश्रितानि च । विहायात्र शोभेष्वेव चरितव्यं सदा भवे ॥ १९.२०५{४} ॥ इति तेनार्हतादिष्टं श्रुत्वानंदः स भूपतिः । (र्म् २४७) तथेति प्रतिविज्ञप्य सजनः प्राभ्य नंदतः ॥ १९.२०६{५} ॥ ततः स नृपतिर्भूयो रैवतं तं महामतिम् । सुचीवरैः समाछाद्य सांजलिः प्रणतिं व्यधात् ॥ १९.२०७{६} ॥ पुनरुत्थाय भूपालस्तमर्हन्तं कृतांजलिः । प्रणत्वा विनयं कुर्वन् क्रमाच्च प्रार्थयत्तथा ॥ १९.२०८{७} ॥ भदन्तात्र प्रसीदस्व क्षमस्व मेऽपराधताम् । सर्वदा दर्शनं दत्वानुग्रहं कर्तुमर्हसि ॥ १९.२०९{८} ॥ इत्युक्तेऽनेन भूपेन रैवतः स प्रसादितः । हंसराज इवाप्लुत्य भासयन् खे समाययौ ॥ १९.२१०{९} ॥ तत्राकाशे समासीनः प्रातिहार्यं प्रदर्शयन् । लोकैः संदृश्यमानोऽसौ ध्यात्वा तस्थौ समुज्वलन् ॥ १९.२११{१०} ॥ ततस्तैर्भिक्षुभिः शिष्यैः समन्वितः प्रभासयन् । तथाकाशाश्चरं गत्वा स्वाश्रमे समुपाश्रयन् ॥ १९.२१२{११} ॥ तद्दृष्ट्वा स नृपो लोकैः सहातिविस्मयान्वितः । त्रिरत्नभजनं कुर्वन् प्रचचार सदा मुदा ॥ १९.२१३{१२} ॥ एवं ह्यदोषेन विशेषयुक्त्या प्रत्यक्षणक्ष्यीकृतलक्षणेन । अलंकृतः साधुजनः खलेन निघ्नीकृतोऽपि न विकारमेति ॥ १९.२१४{१३} ॥ एवं स्वदैवयोगेन जायते ह्यपराधता । तन्नान्यस्यापराधत्वं वक्तव्यं केन चित्क्व चित् ॥ १९.२१५{१४} ॥ इति मे गुरुणाख्यातं तथात्र कथ्यते मया । इति मत्वा महाराज सदा धर्मे समाचर ॥ १९.२१६{१५} ॥ प्रजाश्चापि तथा राजन् बोधयित्वा प्रयत्नतः । बोधिमार्गे प्रतिष्ठाप्य पालयस्व सदादरात् ॥ १९.२१७{१६} ॥ तथा ते मंगलं नित्यं सर्वं चापि भवेत्सदा । क्रमाद्बोधिं समासाद्य संबुद्धपदमाप्नुयाः ॥ १९.२१८{१७} ॥ इति सत्यं परिज्ञाय त्रिरत्नशरणं गतः । सत्कृत्य श्रद्धया नित्यं भजस्वात्र समाहितः ॥ १९.२१९{१८} ॥ इति तेनार्हतादिष्टं श्रुत्वाशोकः स भूपतिः । तथा हीति प्रतिज्ञप्य प्राभ्यनन्दत्सपार्षदः ॥ १९.२२०{१९} ॥ सत्कृत्येदं नरा ये कलिमतिदरणं रैवतस्यावदनं शृण्वन्ति श्रावयन्ति प्रमुदितमनसो भक्तिश्रद्धाप्रसन्नाः । ते सर्वेऽप्येवमत्र विमलसुमनसः सर्वदा सत्सुखानि भुक्त्वा कृत्वा सुभद्रं जिनवरनिलये संप्रयान्ति प्रमोदाम् ॥ १९.२२१{२०} ॥ ++ इति रत्नावदानतत्वे रैवतावदानं समाप्तम् ++ (र्म् २४८) xx महिषावदान अथ स पार्थिवोऽसोकः कृताञ्जलिपुटो मुदा । उपगुप्तं गुरुं नत्वा पुनरेवमभाषत ॥ २०.१{१} ॥ भदन्त श्रोतुमिछामि पुनरन्यत्सुभाषितम् । तद्यथा गुरुणाख्यातं तथादेष्टुं च मेऽर्हति ॥ २०.२{२} ॥ इति संप्रार्थितं राज्ञा श्रुत्वा सोऽर्हन्महामतिः । उपगुप्तो नरेंद्रं तं समालोक्यैवमादिशत् ॥ २०.३{३} ॥ साधु शृणु महाराज यथा मे गुरुणोदितम् । तथाहं ते प्रवक्ष्यामि सर्वे लोकप्रबोधने ॥ २०.४{४} ॥ तद्यथा भगवान् बुद्धः शाक्यसिंहो मुनीश्वरः । सर्वज्ञः सुगतः शास्ता धर्मराजो विनायकः ॥ २०.५{५} ॥ षडभिज्ञो जगन्नाथो मारजित्तु तथागतः । पुरैकसमये सार्द्धं भिक्षुभिः श्रावकैः सह ॥ २०.६{६} ॥ चैलकैर्भिक्षुणीभिश्चैवमुपासिकागणैरपि । उपासाकैस्तथान्यैश्च सद्धर्मगुणवांछिभिः ॥ २०.७{७} ॥ बोधिसत्वैर्महासत्वैर्ब्रह्मेन्द्रादिसुराधिपैः । सर्वे लोकाधिपैश्चापि दानवेन्द्रैः शुभार्थिभिः ॥ २०.८{८} ॥ नागेन्द्रैर्गरुडेन्द्रैश्च यक्षगंधर्वकिन्नरैः । ग्रहै विद्याधरैश्चापि तथान्यैश्च वृषार्थिभिः ॥ २०.९{९} ॥ स्तूय मानार्च्यमानश्च वंद्यमानोऽभिनंदितः । सर्वसत्वहितार्थेन जनपदेषु सर्वतः ॥ २०.१०{१०} ॥ सद्धर्मं समुपादिश्य प्रचचार ससांघिकः । तथा च कोशले राष्ट्रे वरं धर्ममुपादिशत् ॥ २०.११{११} ॥ ततोऽन्यत्रापि सद्धर्ममुपदेष्टुं ततोऽचरत् । तत्रान्यस्मिन् वने प्राप्तो भगवान् स ससांघिकः ॥ २०.१२{१२} ॥ सर्वत्र मंगलं कृत्वा प्रचचार शनैः क्रमात् । तत्राराण्ये महान् यूथो महिषीणां समाचरत् ॥ २०.१३{१३} ॥ तत्रैको महिषश्चण्डो वलवीर्यसमन्वितः । महाशृंगो महाकायः प्रत्यवसन्मदोत्कटः ॥ २०.१४{१४} ॥ तत्रासन् पंचमात्राणि महिषपालशतानि च । सर्वे तन्महिषीयूथमनुरक्ष्याध्युवासत ॥ २०.१५{१५} ॥ तदैकस्मिन् दिने तत्र भगवान् स ससंघिकः । प्रचरंस्तत्प्रदेशे तं महिषीयुथमैक्षत ॥ २०.१६{१६} ॥ तदा ते महिषीपाला तं मुनींद्रं ससंघिकम् । समुपायातमालोक्य दूरादेवमघोषयन् ॥ २०.१७{१७} ॥ भगवान्मात्र समायाहि पथान्येन व्रजाधुना । अस्त्यत्र महिषो दुष्टस्तत्सहसा चरान्यत ॥ २०.१८{१८} ॥ (र्म् २४९) इति तैः शब्दितं श्रुत्वा भगवान् स मुनीश्वरः । ससंघः समुपाश्रित्य तां दृष्ट्वैवमह्हाषत ॥ २०.१९{१९} ॥ अल्पोत्सुकाभवत्वत्र भगवन्तः किं कुतो भयम् । कालज्ञोऽहं जिनेन्द्रोऽस्मि तदर्थेऽत्र समाचरे ॥ २०.२०{२०} ॥ तदा स महिषो दुष्टस्तं मुनीन्द्रं ससांघिकम् । दूराद्दृष्ट्वा समुत्थाय प्रदुद्राव तदन्तिके ॥ २०.२१{२१} ॥ तत्र तद्गंधमाघ्राय दृष्ट्वा तं रक्तचीवरम् । रुषा लांगूलमुन्नाम्य संमुखः प्राभ्यधावत ॥ २०.२२{२२} ॥ तत्र तेन जिनेन्द्रेण पञ्चसिंहा महोद्धताः । अभिनिर्माय तत्पृष्ठे स्थापिता भीमरूपिणः ॥ २०.२३{२३} ॥ तथा निर्माय तत्राग्निस्कंधौ द्वावतिप्रोज्वलौ । उभयोः पार्श्वयोस्तस्य स्थापितो भीमनिस्वनौ ॥ २०.२४{२४} ॥ तथात्र कूटसंकाशो निर्माय महती शिला । उपरिष्टात्प्रतिष्ठाप्य दर्शिता तस्य भीतये ॥ २०.२५{२५} ॥ तत्र स महिषोऽद्राक्षीत्तान् सिंहान् पृष्ठसंस्थितान् । पार्श्वयोरुभयोरग्निस्कंधौरुपरितां शिलाम् ॥ २०.२६{२६} ॥ एवं स महिषो दुष्टो महाभयमुपस्थितम् । समन्ततः समालोक्य प्रविखेटाभिमोहितः ॥ २०.२७{२७} ॥ तत्र स त्रसितो दृष्ट्वा परायितुं चतुर्दिशः । समन्ततो भयाद्विग्नस्तस्थौ त्राणनिराश्रयः ॥ २०.२८{२८} ॥ ततः स चकितस्तस्य मुनीन्द्रस्याभिसंमुखम् । उपेत्य चरणौ नत्वा शरणं समुपाययौ ॥ २०.२९{२९} ॥ तत्र तद्भयभिन्नास्यः परिखिन्नाशयो रुदन् । भगवंतं तमालोक्य तस्थौऽत्राणाश्रयो पुरः ॥ २०.३०{३०} ॥ तदा स भगवान् दृष्ट्वा महिष्यं तमुपस्थितम् । शरणागतमालोक्य धर्ममेवमुपादिशत् ॥ २०.३१{३१} ॥ भद्रमुखेति संस्काराः सर्वेऽनित्या भवे ध्रुवाः । सर्वधर्मा अनात्मनः शान्तं निर्वाणमेव हि ॥ २०.३२{३२} ॥ इति धर्मरवं श्रुत्वा स तत्पुण्यानुभावतः । पूर्वजन्मप्रवृत्तांतं स्मृत्वा प्ररुरोदानुतापितः ॥ २०.३३{३३} ॥ एवं तं रुदितं दृष्ट्वा भगवान् स मुनीश्वर । बोधयितुं समाश्वास्य पुनर्गाथेऽभ्यभाषत ॥ २०.३४{३४} ॥ इदानीं किं करिष्यामि तिर्यग्योनिगतस्य ते । अक्षणप्रतिपन्नस्य किं रोदिषि निरर्थकम् ॥ २०.३५{२५} ॥ साधु प्रसाद्यतां चित्तं मयि कारुणिके जिने । तिर्यग्योनिं विराग्येह ततः स्वर्गं गमिष्यसि ॥ २०.३६{२६} ॥ इत्यादिष्टं मुनीन्द्रेण श्रुत्वा स महिषस्तदा । सर्वं स्मृत्वा पुरावृत्तं मनसैवं व्यचिंतयत् ॥ २०.३७{२७} ॥ हा मया दुर्धियाज्ञेन त्यक्त्वा सद्धर्मसंयमम् । क्रोधाग्निना स्वयं दग्धा संतापरेऽपि तापिता ॥ २०.३८{२८} ॥ येनाहं हा परिभ्रष्टः सद्धर्ममणिनाऽधुना । विषरागाग्निसंतप्तः कृष्णाहिरिव दुर्मतिः ॥ २०.३९{२९} ॥ (र्म् २५०) तदत्र किं करिष्यामि तिर्यक्जातिरिहाधुना । किं ममानेन कायेन दुःखे पापानुसाधिना ॥ २०.४०{३०} ॥ यत्र पुण्यं सुखं नास्ति तत्र किं जीवितेन मे । वरमेवाद्य मे मृत्युर्न त्वेवं चिरजीवितम् ॥ २०.४१{३१} ॥ अवश्यं मृत्युमाप्नुयां सर्वेषां मरणं ध्रुवम् । तदत्र मे शरीरे का स्नेहता जीवितेऽपि वा ॥ २०.४२{३२} ॥ धिक्कायं जीवितं चापि येन पुण्यं न साध्यते । पुण्यमेव भवे सारं सर्वत्र सत्सुखप्रदम् ॥ २०.४३{३३} ॥ पुण्यं विनात्रा संसरे किं श्रीसंपत्सुखान्विते । सर्वं विहाय गंतव्यं पुण्यामेकं तदानुगः ॥ २०.४४{३४} ॥ पुण्यमेव जगन्मित्रं पुण्यमेव सदानुगः । पुण्यमेव महत्सारं पुण्यमेव हितार्थदम् ॥ २०.४५{३५} ॥ तस्मात्पुण्यं प्रयत्नेन साधनीयं भवे सदा । सर्वत्र सुखताहेतु पुण्यमेवेति कथ्यते ॥ २०.४६{३६} ॥ तत्पुण्यरत्नसंप्राप्त्यै बुद्धस्य शरणं गतः । सर्वथा स्मरणं कृत्वा भजेयेह समाहितः ॥ २०.४७{३७} ॥ इत्येवं मनसा ध्यात्वा महिषः स प्रबोधितः । तं बुद्धं श्रीघनं नत्वानुस्मृत्वाभजान्मुदा ॥ २०.४८{३८} ॥ ततः स भगवान्स्तस्य दृष्ट्वाशयविशुद्धताम् । सद्धर्मं समुपादिश्य ससंघः स्वाश्रमे ययौ ॥ २०.४९{३९} ॥ तत्राश्रमे समासीनो भगवान् सससांघिकः । सर्वसत्वहितार्थेन संबोधिधर्ममादिशत् ॥ २०.५०{४०} ॥ तद्धर्मदेशनां श्रोतुं सर्वे लोकाः समागताः । ब्रह्मशक्रादयो देवा लोकपालाश्च दानवाः ॥ २०.५१{४१} ॥ ग्रहा विद्याधराः सिद्धा यक्षगंधर्वकिन्नराः । गरुडा नागराजाश्च राक्षसाश्च शुभार्थिनः ॥ २०.५२{४२} ॥ ऋषयो ब्राह्मणाश्चापि नृपा राजकुमारकाः । वैश्याच्च मंत्रिणोऽमात्या गृहस्थाश्च महाजनाः ॥ २०.५३{४३} ॥ वणिजः सार्थवाहाश्च शिल्पिनः पौरिका अपि । ग्राम्या जानपदाश्चापि तीर्थ्याः कार्पटिका अपि ॥ २०.५४{४४} ॥ एवमन्येऽपि लोकाश्च सद्धर्मगुणवां छिनः । सर्वे ते समुपागत्य तत्राश्रमे समाविशत् ॥ २०.५५{४५} ॥ तत्र तं श्रीघनं दृष्ट्वा भिक्षुसंघपुरस्कृतम् । नत्वा प्रदक्षिणीकृत्वा समानर्चुर्यथाक्रमम् ॥ २०.५६{४६} ॥ ततस्ते प्रणतिं कृत्वा परिवृत्य समंततः । तत्सद्धर्मामृतं पातुमुपतस्थुः समाहिताः ॥ २०.५७{४७} ॥ तदा स भगवान् दृष्ट्वा तान् सर्वान् समुपस्थिताम् । आदिमध्यांतकल्याणं सद्धर्मं समुपादिशत् ॥ २०.५८{४८} ॥ तत्सद्धर्मामृतं पीत्वा सर्वे ते संप्रबोधिताः । धर्मविशेषमाज्ञाय त्रिरत्नं सर्वदाभजन् ॥ २०.५९{४९} ॥ तत्र स महिषः पूर्वजन्मवृत्तिमनुस्मरन् । तदा तद्देहमुत्स्रष्टुं मनसैवं व्यचिंतयत् ॥ २०.६०{५०} ॥ हा दुष्टेन मया पूर्वमाचितं घोरपातकम् । (र्म् २५१) तेनाहं महिषो दुष्टो भवाम्यत्र यथोदितम् ॥ २०.६१{५१} ॥ तदत्र किं प्रकुर्वीय पशुस्तत्पापशोधणम् । तत्त्रिरत्नमनुस्मृत्वा चरेयाहमुपोषधम् ॥ २०.६२{५२} ॥ दत्वात्राहमिमं कायं सत्वेभ्यः श्रद्धयाऽधुना । मनसा सुगतं ध्यात्वा मर्तुं तिष्ठेय सांप्रतम् ॥ २०.६३{५३} ॥ तदिमं देहमुत्कृत्य त्वग्मान्सरुधिरादिकम् । अस्थिमज्जादि सर्वं च भुजन्तु प्राणिनो मुदा ॥ २०.६४{५४} ॥ ये ये सत्वा इमं देहं भुजन्ति सुरसं मुदा । ते ते सर्वे सदा धर्मं कृत्वा यान्तु सुरालायम् ॥ २०.६५{५५} ॥ तथैतत्पुण्यपाकेन मुक्त्वास्मान् पापकाश्रयात् । आसाद्य सद्गतौ जन्म भजेयं सुगतं सदा ॥ २०.६६{५६} ॥ इति ध्यात्वा विनिश्चित्य महिषः स प्रसन्नधीः । त्यक्त्वाहारं तपश्वीव बुद्धं स्मृत्वाचरत्तपः ॥ २०.६७{५७} ॥ तथा स महिषो ध्यात्वा त्रिरत्नं चाभ्यनुस्मरन् । देहं त्यक्त्वा विशुद्धात्मा सुरालयं समाययौ ॥ २०.६८{५८} ॥ तत्र स्वर्गे स उत्पन्नो महासुखसमन्वितः । विस्मिताभिप्रसन्नात्मा तदैवं समचिंतयत् ॥ २०.६९{५९} ॥ अहो हि जायते सौख्यं कुतश्च्युत्वा कुहाचरे । कस्य पुण्यविपाकेन ममैवं जायते शुभम् ॥ २०.७०{६०} ॥ इति चिंतयतस्तस्य महिषपूर्विणस्तथा । विस्मयाक्रांतचित्तस्य समुत्पन्नाभवन्मतिः ॥ २०.७१{६१} ॥ अहो तिर्यग्गतेश्च्युत्वा देवलोक इहासरे । संबुद्धस्मृतिपुण्येन देवो भवामि सांप्रतम् ॥ २०.७२{६२} ॥ तदहं तस्य मुनीन्द्रस्य द्रष्टुं गछेय सांप्रतम् । श्रद्धया समुपाश्रित्य सद्धर्मं शृणुयां पुनः ॥ २०.७३{६३} ॥ इति महिषपूर्वी स देवपुत्रः प्रमोदितः । तत्र तस्य मुनीन्द्रस्य दर्शने गंतुमैछत ॥ २०.७४{६४} ॥ ततः स मुदितः स्नात्वा शुद्धदिव्यांवरावृतः । दिव्यगंधानुलिप्तांगो दिव्यालंकारभूषितः ॥ २०.७५{६५} ॥ दिव्यपूजोपहाराणि गृहीत्वा देवगणैः सह । तस्यां रात्रौ मुनीन्द्रस्य भासयन्नाश्रमे ययौ ॥ २०.७६{६६} ॥ तत्र तं श्रीघनं दृष्ट्वा मुदितः समुपासरन् । नत्वा प्रदक्षिणीकृत्य समानर्च्च यथाविधिः ॥ २०.७७{६७} ॥ ततस्तस्य मुनीन्द्रस्य सांजलिः स प्रणम्य च । सद्धर्मदेशनां श्रोतुं पुरतः समुपाश्रयत् ॥ २०.७८{६८} ॥ तथा ते तत्सहायाश्च देवपुत्राः प्रसादिताः । भगवंतं सांजलयः उपाश्रयन् ॥ २०.७९{६९} ॥ ततः स भगवान् दृष्ट्वा सर्वान्स्तान् समुपस्थितान् । आर्य्यसत्यसमारभ्य सद्धर्मं समुपादिशत् ॥ २०.८०{७०} ॥ तत्सद्धर्मामृतं पीत्वा सह देवैः प्रमोदितः । देवो महिषपूर्वि स धर्मविशेषमाप्तवान् ॥ २०.८१{७१} ॥ सत्कायदुष्टिभूमीन्ध्रं विंशतिशिखरोद्गतम् । निर्भिद्य ज्ञानवज्रेण श्रोतआपत्तिमाययौ ॥ २०.८२{७२} ॥ (र्म् २५२) तातः स दृष्टसत्यस्तं भगवन्तं मुनीश्वरम् । कृतांजलिः पुटो नत्वा त्रिरुदानमुदानयत् ॥ २०.८३{७३} ॥ भगवन्निदमस्माकं कृतं न जनकेन हि । न मात्रा न च राज्ञापि नान्येन केन चित्खलु ॥ २०.८४{७४} ॥ भवतैव यदस्माकं कृतपापविशोधनम् । तेनाभिशोषिताशेषरुधिराश्रुसारित्परिः ॥ २०.८५{७५} ॥ लंघिता अस्थिशैलाश्च पिहिता पापपद्धतिः । विवृताः स्वर्गमार्गाश्च मोक्षमार्गश्च दर्शितः ॥ २०.८६{७६} ॥ मयाप्तं विमलं चक्षुः शान्तमार्यपदं तथा । दुःखार्णवः समुत्तीर्णो बोधिमार्गोऽपि दृश्यते ॥ २०.८७{७७} ॥ तद्भवतां कृपादृष्टेः प्रसादान्मम सांप्रतम् । संसारजन्म साफल्यं बुद्धपुत्रास्म्यहं यतः ॥ २०.८८{७८} ॥ अद्यारभ्य सदा नित्यं भवतां शरणं गतः । बोधौ चित्तं समाधाय चरिष्यामि शुभां चरिम् ॥ २०.८९{७९} ॥ तदत्रानुग्रहं कृत्वा भवाञ्छास्ता जगगुरुः । कृपया सर्वदा पश्यन्नेवं मां त्रातुमर्हति ॥ २०.९०{८०} ॥ इति संप्रार्थितं तेन सुपर्वणा निशम्य सः । शास्ता तस्याशयं शुद्धं समलोक्यैवमादिशत् ॥ २०.९१{८१} ॥ सधो शृणु हितं वक्ष्ये सदा भद्रं यदीछसि । त्रिरत्नं शरणं गत्वा भज नित्यं समादरात् ॥ २०.९२{८२} ॥ ये बुद्धशरणं कृत्वा भजंति श्रद्धया सदा । मारचर्याभिमुक्तास्ते संप्रयांति जिनालयम् ॥ २०.९३{८३} ॥ ये धर्मं सौगतं नित्यं शृण्वन्ति श्रद्धया मुदा । सर्वपापाभिमुक्तास्ते संप्रयान्ति सुखावतीम् ॥ २०.९४{८४} ॥ ये च संघे प्रकुर्वन्ति सत्कारं श्रद्धयादरात् । ते सर्वे दुर्गतेर्मुक्त्वा संप्रयान्ति सुरालयम् ॥ २०.९५{८५} ॥ त्रिरत्नशरणं कृत्वा ये भजन्ति सदादरात् । दुर्गतिं ते न गछंति सदा गछंति सद्गतिम् ॥ २०.९६{८६} ॥ सद्गतौ ते सदा स्थित्वा त्रिरत्नं शरणं गताः । कृत्वा लोकहितं सौख्यं भुक्त्वा रमन्ति सर्वदा ॥ २०.९७{८७} ॥ ततः पारमिताः सर्वाः परिपूर्य यथाक्रमम् । त्रिविधां बोधिमासद्य निर्वृतिं समवाप्नुयुः ॥ २०.९८{८८} ॥ इति निर्वाणसत्सौख्यः प्राप्तुं यदि समिछसि । त्रिरत्नं शरणं कृत्वा भज नित्यं समाहितः ॥ २०.९९{८९} ॥ एतत्पुण्यानुभावेन परिशुद्धस्त्रिमंडलः । क्रमाद्बोधिं समासाद्य संबुद्धपदमाप्नुयाः ॥ २०.१००{९०} ॥ इत्यादिष्टं मुनीन्द्रेण श्रुत्वा स परिबोधिताः । तथेत्यभ्यनुमोदित्वा पुनरेवमभाषत ॥ २०.१०१{९१} ॥ अद्य मे सफलं संपूरितं मनोरथम् । बोधिरत्नाभिसंपन्नो बुद्धपुत्रोऽस्मि सांप्रतम् ॥ २०.१०२{९२} ॥ सर्वदा भवतामेव शरणेऽहं समास्थितः । त्रिरत्नभजनं कुर्वञ्चरिष्ये बोधिसंवरम् ॥ २०.१०३{९३} ॥ इति संप्रार्थनां कृत्वा देवपुत्रः स मोदितः । (र्म् २५३) श्रीघनं तैः पुनर्नत्वा ससहायो दिवं ययौ ॥ २०.१०४{९४} ॥ तत्र स्वर्गे स संप्राप्तो देवैः सह समाश्रितः । त्रिरत्नस्मरणं कुर्वन् सौख्यं भुक्त्वा समाचरत् ॥ २०.१०५{९५} ॥ तस्यां रात्रौ महत्कान्तिं प्रभां दृष्ट्वा सविस्मयाः । सर्वे ते महिषीपाला वभूवुः शंकिताशयाः ॥ २०.१०६{९६} ॥ ततः प्रातः समुत्थाय सर्वे ते कौतुकान्विताः । संमील्य सहसा तत्र बुद्धाश्रमे उपाचरन् ॥ २०.१०७{९७} ॥ तत्र तं श्रीघनं दृष्ट्वा सर्वे ते प्रतिमोदिताः । कृतांजलिपुटो नत्वा समुपतस्थुरादरात् ॥ २०.१०८{९८} ॥ तदा स भगावान् दृष्ट्वा तान् सर्वान् समुपस्थितान् । आदिमध्यांतकल्याणं दिदेश धर्ममुत्तमम् ॥ २०.१०९{९!} ॥ तत्सद्धर्मामृतं पीत्वा सर्वे ते प्रतिबोधिताः । भगवंतं पुनर्नत्वा पप्रछुरेवमादरात् ॥ २०.११०{१००} ॥ भगवन्नद्य रात्रौ क इहाश्रमे प्रभासयन् । भवतां समुपायातस्तत्समादेष्टुमर्हति ॥ २०.१११{१} ॥ इति तैर्महिषीपालैः परिपृष्टे स सर्ववित् । भगवांस्तान् समालोक्य पुरावृत्तिमुपादिशत् ॥ २०.११२{२} ॥ योऽत्रासौ महिषो दुष्टो दृष्ट्वास्मान् समुपद्रुतः । समन्ततो भयं दृष्ट्वा त्रस्तो मे शरणं गतः ॥ २०.११३{३} ॥ तदा मद्धर्ममाकर्ण्य पूर्वजातिमनुस्मरन् । मयि चित्तं प्रसाद्यैव त्यक्त्वाहारा त्यजन् तनुम् ॥ २०.११४{४} ॥ ततोऽस्मत्स्मृतिपुण्येन पापमुक्तो विशुद्धधीः । स्वर्गलोके समुत्पन्नो देवो भवति सांप्रतम् ॥ २०.११५{५} ॥ स एष देवपुत्रोऽद्य निशायामत्र भासयन् । देवलोकैः सहायातो दर्शनाय ममालाये ॥ २०.११६{६} ॥ मत्सद्धर्मं समाकर्ण्य दृष्टसत्यः स हर्षितः । देवसंघैः सह स्वर्गे स्वालये प्रगतस्तथा ॥ २०.११७{७} ॥ इत्यादिष्टं मुनीन्द्रेण श्रुत्वातिविस्मयोद्धताः । सर्वे ते महिषीपाला मिथ एवं समब्रुवन् ॥ २०.११८{८} ॥ अहो चित्र हि यन्नाम तिर्य्यग्योनिगतोऽपि सः । बुद्धं सद्गुरुमासाद्य धर्मं श्रुत्वाभवत्सुधीः ॥ २०.११९{९} ॥ सद्गुरौ सुगते चित्तं प्रसाद्य विरताशनः । त्रिरात्नस्मरणं कृत्वा प्राणं त्यक्त्वा दिवं ययौ ॥ २०.१२०{१०} ॥ ततोऽपीह समागत्य संबुद्धं शरणं गतः । अभ्यर्च्य धर्ममाकर्ण्य दृष्टसत्यो दिवं ययौ ॥ २०.१२१{११} ॥ स्वर्गेऽपि तत्तथा नित्यं सद्गुरोः शरणं गतः । श्रद्धया भजनं कुर्वं छुभेऽचरत्समाहितः ॥ २०.१२२{१२} ॥ धन्योऽयं सुगतः शास्ता सर्वसत्वशुभंकरः । यत्र चित्तं प्रसाद्यैव पशुरपि दिवं गतः ॥ २०.१२३{१३} ॥ वयं तु मानवाः सर्वे कथमेनं मुनीश्वरम् । सद्गुरुं समुपासाद्य श्रद्धया न भजेमहि ॥ २०.१२४{१४} ॥ (र्म् २५४) तथा सद्धर्ममाकर्ण्य प्रसादादस्य सद्गुरोः । अत्कृत्य सर्वदा भद्रं न लाभेम कथं वयम् ॥ २०.१२५{१५} ॥ विशेषधर्ममाज्ञाय दृष्टसत्याः समाहिताः । त्रिरत्नभजनं कृत्वा नूनं गछेम सद्गतिम् ॥ २०.१२६{१६} ॥ तदत्र सद्गुरोरस्य मुनीन्द्रस्याधुना वयम् । सर्वेऽपि श्रद्धयाभ्यर्च्य भजेमहि समादरात् ॥ २०.१२७{१७} ॥ तत्साद्धर्मं समाकर्ण्य श्रद्धया समुपस्थिताः । त्रिरत्नभजनं कृत्वा चरेमहि शुभे सदा ॥ २०.१२८{१८} ॥ तदादौ सुगतस्यास्य ससंघस्याऽधुना वयम् । यथार्हभोजनेनात्र पूजयेम प्रपुष्टये ॥ २०.१२९{१८!} ॥ इति संभाषणां कृत्वा सर्वे ते प्रतिमोदिताः । तथेति संमतं कृत्वा तत्र बुद्धाश्रमे ययुः ॥ २०.१३०{१९} ॥ तत्र तं श्रीघनं दृष्ट्वा ससंघं तं प्रमोदिताः । सर्वसांजलयो नत्वा प्रार्थयन्नेवमादरात् ॥ २०.१३१{२०} ॥ भगवन्नाथ सर्वज्ञ भगवंतं ससंघिकम् । पूजयितुं समिछामस्तन्नत्रानुग्रहं कुरु ॥ २०.१३२{२१} ॥ इति तैः प्रार्थितं श्रुत्वा भगवान् स मुनीश्वरः । तेषां पुण्याभिसंवृद्ध्यै तूष्णीभूत्वाध्युवास तत् ॥ २०.१३३{२२} ॥ तथाध्युवासितं मत्वा सर्वे ते परिहर्षिताः । पादौ तस्य मुनीन्द्रस्य नत्वा निजालयं ययुः ॥ २०.१३४{२३} ॥ तत्र ते मुदिताः सर्वे दधिक्षीरोदनादिकम् । यथार्हभोज्यसामग्रिं सहसा समसाधयन् ॥ २०.१३५{२४} ॥ ततस्ते समये गत्वा तत्र बुद्धाश्रमे मुदा । ससांघिकं मुनीन्द्रं तं प्रणत्वैवं न्यवेदयन् ॥ २०.१३६{२५} ॥ भगवन्नाथ सर्वज्ञ समयो वर्त्ततेऽधुना । तत्संघ भगवान् पूजां प्रतिग्रहितुमर्हति ॥ २०.१३७{२६} ॥ इति तैः प्रार्थिते सर्वे भगवान् सससांघिकः । उत्थाय भोजनक्षेत्रे उपाचरान् प्रभासयन् ॥ २०.१३८{२७} ॥ तत्र पाद्यं समादाय संबुद्धप्रमुखाः क्रमात् । सर्वे ते सांघिकास्तत्र स्वस्वासने समाश्रयन् ॥ २०.१३९{२८} ॥ तां बुद्धप्रमुखान् सर्वान् सांघिकान् स्वासनाश्रितान् । दृष्ट्वा ते मुदिता सर्वे सामानर्चुर्यथाक्रमम् ॥ २०.१४०{२९} ॥ ततस्ते सुरसैर्भोज्यैः क्षीरोदनैः सव्यंजनैः । प्रणीतैर्भगवंतं तं ससंघं समतोषयन् ॥ २०.१४१{३०} ॥ ततस्तं सुगतं तृप्तं ससांघिकं समीक्ष्य ते । तत्पात्राण्यपनीयाशु तद्धस्तादि समशोधयन् ॥ २०.१४२{३१} ॥ ततः सपूगताम्बुरामहौषधरसायनम् । संबुद्धप्रमुखेभ्यस्ते संघेभ्यः प्रददुर्मुदा ॥ २०.१४३{३२} ॥ ततस्ते महिषीपालाः कृतांजलिपूटा मुदा । श्रीघनं तं ससंघं च नत्वा समुपतस्थिरे ॥ २०.१४४{३३} ॥ तथा तन् समुपासीनान् सर्वान् दृष्ट्वा स सर्ववित् । (र्म् २५५) आर्यधर्मं समादिश्य बोधिमार्गेऽभ्ययोजयत् ॥ २०.१४५{३४} ॥ तत्सद्धर्मामृतं पीत्वा सर्वे तेऽभ्यनुमोदिताः । संबुद्धशासने तत्र प्रव्रजितुं समीक्षिरे ॥ २०.१४६{३५} ॥ ततास्ते महिषीपालाः सर्वे कृत्वाभिसंमतम् । कृतांजलिपुटा नत्वा प्रार्थयन् तं मुनीश्वरम् ॥ २०.१४७{३६} ॥ भागवं नाथ सर्वज्ञ भवतां शासने वयम् । प्रव्रजितुं समिछामस्तन्नोऽन्वाहर्तुमर्हति ॥ २०.१४८{३७} ॥ इति तैः प्रार्थितं श्रुत्वा भगवान् स मुनीश्वरः । तान् विशुद्धाशयान् सर्वान् समालोक्यैवमादिशत् ॥ २०.१४९{३८} ॥ मातापित्रोर्विनानुज्ञां प्रव्रज्यां न ददाम्यहम् । तदनुज्ञां समादाय प्रेत दास्यामि वस्तदा ॥ २०.१५०{३९} ॥ इत्यादिष्टे मुनीन्द्रेण सर्वे ते प्रतिनंदिताः । तं मुनीन्द्रं प्रणत्वाशु स्वस्वगेहं ययुर्मुदा ॥ २०.१५१{४०} ॥ तत्र ते सहसा गत्वा समातापितृवांधवान् । परिबोध्य प्रयत्नेन प्राप्यानुज्ञां समाचरम् ॥ २०.१५२{४१} ॥ तत्र ते सहसा गत्वा भगवत उपासृताः । पादौ सांजलयोर्नत्वा प्रार्थयन्नेवमादरात् ॥ २०.१५३{४२} ॥ भगवन् सर्ववित्पितृप्राप्तानुज्ञाः समागताः । तत्रानुग्रहमाधाय प्रव्रज्यां दातुमर्हति ॥ २०.१५४{४३} ॥ इति तैः प्रार्थिते शास्ता भगवान् सव्यपाणिना । तेषां शिरस्सुसंस्पृष्ट्वा समालोक्यैवमादिशत् ॥ २०.१५५{४४} ॥ समेत भिक्षवः सर्वे यूयं श्रद्धासमंगिताः । प्रव्रज्याव्रतमाधाय चरत ब्रह्मचारिकाम् ॥ २०.१५६{४५} ॥ इत्यादिष्टे मुनीन्द्रेण सर्वे ते मुण्डिता वभुः । खिक्खिरीपात्रधर्त्तारः काखायचीवरावृताः ॥ २०.१५७{४६} ॥ ततः शस्तुः प्रसादेन सर्वे ते विमलाशयाः । प्रलब्धबोधिसच्चित्ताः शुद्धशीला जितेंद्रियाः ॥ २०.१५८{४७} ॥ भित्वाविद्यागुणाः सम्यक्प्राप्तविद्याविशारदाः । प्रतिसंवित्सुसंप्राप्ताः सत्यमार्गसमन्विताः ॥ २०.१५९{४८} ॥ समाधिधारणीविद्या घटमानाः समाहिताः । क्षमान्विताः शुभात्मानो योगिनो भिक्षवोऽभवन् ॥ २०.१६०{४९} ॥ ततस्ते सर्वसंसारं मत्वानित्यं चालाचलम् । दृष्ट्वा च सर्वसंस्कारगतीरहिविघातिनीः ॥ २०.१६१{५०} ॥ सर्वक्लेशगणान् हित्वा जित्वा मारगणानपि । साक्षादर्हत्वमासाद्य प्रचेरुर्ब्रह्मचारिकाः ॥ २०.१६२{५१} ॥ ततस्ते भिक्षवः सर्वे परिशुद्धत्रिमंडलाः । वीतसंगा महाभिज्ञा निर्विकल्पा निरंजनाः ॥ २०.१६३{५२} ॥ समलोष्टकसौवर्णाः सत्कारलाभनिस्पृहाः । अकाशसमचित्ताङ्गा भवे लाभपराङ्मुखाः ॥ २०.१६४{५३} ॥ देवासुरादि लोकानां त्रैधातुकनिवासिनाम् । पूज्या मान्याश्च वंद्याश्च बभूवुर्बोधिचारिणः ॥ २०.१६५{५४} ॥ (र्म् २५६) तद्दृष्ट्वा भिक्षवः सर्वे विस्मयोद्धतमानसाः । भगवंतं मुनिं नत्वा पप्रच्बुस्तत्पुराकृतम् ॥ २०.१६६{५५} ॥ भगवन् कानि कर्माणि तेन महिषपूर्विणा । कृतानि देवपुत्रेण यैरसौ महिषोऽभवत् ॥ २०.१६७{५६} ॥ एभिश्च महिषीपालैः किं कर्म प्रकृतैः पुरा । येनार्हत्वं समासाद्य भवंति ब्रह्मचारिणः ॥ २०.१६८{५७} ॥ एतत्सर्वं समादिश्य भवाञ्छास्तात्र सांप्रतम् । अस्माकमपि चेतांसि प्रबोधयितुमर्हति ॥ २०.१६९{५८} ॥ इति तैर्भिक्षुभिः पृष्टे भगवान् स मुनीश्वरः । तान् सर्वान् सांघिकान् भिक्षून् समालोक्यैवमादिशत् ॥ २०.१७०{५९} ॥ शृणुत भिक्षवः सर्वे तेन महिषपूर्विणा । पुरा कृतानि कर्माणि तानि वक्ष्यामि सांप्रतम् ॥ २०.१७१{६०} ॥ एभिश्च महिषिपालैः पुरा यानि कृतान्यपि । तानि सर्वाणि कर्माणि वक्ष्यामि च तथाऽधुना ॥ २०.१७२{६१} ॥ तद्यथाभूत्पुरा बुद्धः काश्यपोऽर्हन्स्तथागतः । सर्वज्ञः सुगतः शास्ता धर्मराजो विनायाकः ॥ २०.१७३{६२} ॥ भगवान् स तदा पूर्य्यां वराणस्या उपाश्रमे । मृगदावे समाश्रित्य विजहार ससांघिकः ॥ २०.१७४{६३} ॥ तदा तस्य मुनीन्द्रस्य शासने त्रिपिटो यतिः । भिक्षुरेको महाविज्ञो निश्चयार्थविशारदः ॥ २०.१७५{६४} ॥ तदैकसमये भिक्षुपंचशतैः पुरस्कृतः । स सभायां समासीनः सद्धर्मं समुपादिशत् ॥ २०.१७६{६५} ॥ तस्य ते भिक्षवः शिक्षाः शैक्षाश्च संश्चयान्विताः । त्रिपिटार्थं परिज्ञातुं पप्रछुस्तं गुरुं मुहुः ॥ २०.१७७{६६} ॥ एवं तैर्भिक्षुभिः पृष्टे स गुरुः प्रतिरोषितः । तान् सर्वाञ्छ्रावकाञ्छिष्याञ्छैक्षांश्च पर्यभाषत ॥ २०.१७८{६७} ॥ ततस्ते श्रावकाः सर्वे दृष्ट्वा तं रुषितं गुरुम् । प्रणत्वा विनयं कृत्वा पुनरेवमभासिरे ॥ २०.१७९{६८} ॥ भवन्त मा कृथा रोषं प्रसीदस्व कृपानिधे । व्याख्यातं भवता सम्यक्तदस्माभि न बुध्यते ॥ २०.१८०{६९} ॥ तद्भूयोऽपि भवानेतदर्थं सम्यक्सुविस्तरम् । अस्मच्चेतं प्रबोधार्थं समुपादेष्टुमर्हति ॥ २०.१८१{७०} ॥ इति तैः प्रार्थिते भूयस्त्रिपिटः सोऽतिरोषितः । तथा ताञ्छ्रावकान् सर्वान् परिभाष्यैवमब्रवीत् ॥ २०.१८२{७१} ॥ अरे रे महिषा यूयं तत्किं जानीथ मद्वचः । तद्भूयः किं प्रवक्ष्यामि यच्छ्रुत्वापि न बुध्यते ॥ २०.१८३{७२} ॥ इति तेनोदितं श्रुत्वा सर्वे ते परिरोषिताः । तं गुरुं यतिमर्हन्तमपि प्रत्यवदस्तथा ॥ २०.१८४{७३} ॥ यद्वयं महिषाः सर्वे तद्भवान्महिषाधिपः । यदस्माकं यथा शास्त तथा भवतु पालकः ॥ २०.१८५{७४} ॥ इति तैः श्रावकैः सर्वैः शिक्षैः शैक्षं च रोषितैः । सद्गुरोरन्तिके कोपाद्यत्खलं प्रतिभाषितम् ॥ २०.१८६{७५} ॥ एतत्पापाभिशंकार्त्ताः पश्चात्तापाभितापिनः । (र्म् २५७) तमर्हन्तं गुरुं नत्वा पुनरेवं वभाषिरे ॥ २०.१८७{७६} ॥ अहो मूढा वयं सर्वे यत्कोपात्सद्गुरोरपि । प्रत्याख्याय वयोऽस्माभिः प्रत्युत्तरं प्रदीयते ॥ २०.१८८{७७} ॥ तदेतत्पातकं घोरं कथं वयं शहेमहि । तद्भवान् कृपयास्माकं क्षंतुमर्हति सर्वथा ॥ २०.१८९{७८} ॥ तथा जन्मांतरे चापि भवन्तमेव सद्गुरुम् । कल्याणमित्रमासाद्य प्राप्नुयाम सुसंवरम् ॥ २०.१९०{७९} ॥ इति संप्रार्थनां कृत्वा सर्वे ते भिक्षवस्तथा । तस्य गुरोरुपाश्रित्य धर्मं श्रुत्वाभजन् सदा ॥ २०.१९१{८०} ॥ ततस्ते समये सर्वे श्रावकास्त्रिपिटोऽपि सः । कालं गताः पुनर्जन्म लेहिरे दुर्गतौ ततः ॥ २०.१९२{८१} ॥ खलवाक्कर्मपाकेन पंचजन्मशतान्यपि । स त्रिपिटपतिः शास्ता महिषोऽयं सभाभवत् ॥ २०.१९३{८२} ॥ सर्वे ते श्रावकाश्चापि यथा वाक्कर्मदोषतः । तथेमे महिषीपला वभूवुः सर्वदा भवे ॥ २०.१९४{८३} ॥ अत्रापि महिषो दुष्टस्त्रिपिटोऽसौ भवत्यपि । इमेऽपि महिषीपाला भवन्ति भिक्षवोऽपि ते ॥ २०.१९५{८४} ॥ यच्चायं महिषोऽप्यत्र काश्यपकृतपुण्यतः । दृष्ट्वा मां सुप्रसन्नात्मा नत्वा मे शरणं गतः ॥ २०.१९६{८५} ॥ एतत्पुण्यविपाकेन देवपुत्रो भवत्ययम् । आर्यसत्यं समासाद्य दृष्टसत्यो सुधीरपि ॥ २०.१९७{८६} ॥ इमेऽपि महिषीपालाः काश्यपपुण्यपाकातः । प्रव्रज्यार्हत्वमासाद्य भवन्ति ब्रह्मचारिणः ॥ २०.१९८{८७} ॥ एवं कर्मविपाकैर्हि सर्वेऽपि जन्तवो भवे । सुखदुःखानि भुंजाना भ्रमन्ति भवचारके ॥ २०.१९९{८८} ॥ नाग्निभिर्दह्यते कर्मं वायुभिर्वा न शुष्यते । क्लिद्यते नोदकैश्चापि क्षीयते नापि भूमिषु ॥ २०.२००{८९} ॥ अभुक्तं क्षीयते नैव कर्मं क्वापि कथं चन । सर्वत्रापि भवेन्नैव कर्मणो गतिरन्यथा ॥ २०.२०१{९०} ॥ शुभस्य कर्मणः पाके शुभतैव सदा भवे । तथा कृष्णस्य पाके च दुःखतैव सदा भवे ॥ २०.२०२{९१} ॥ मिश्रितानां तथा पाके मिश्रितानि फलान्यपि । एवं मत्वा शुभेष्वेव चरितव्यं सदा भवे ॥ २०.२०३{९२} ॥ येनैव यत्कृतं कर्मं तेनैव भुज्यते फलम् । अवश्यं परिबोक्तव्यं संसारे कर्मणः फलम् ॥ २०.२०४{९३} ॥ न नस्यंति हि कर्माणि कल्पकोटिशतैरपि । सामग्रीं प्राप्य कालं च फलन्ति प्राणिनां खलु ॥ २०.२०५{९४} ॥ इति मत्वात्र संसारे त्रिरत्नं शरणं गताः । सत्कृत्य श्रद्धया नित्यं भजध्वं सर्वथादरात् ॥ २०.२०६{९५} ॥ ये भजंति सदा नित्यं त्रिरत्नं शरणं गताः । दुर्गतिं ते न गछंति यान्त्येव सद्गतिं सदा ॥ २०.२०७{९६} ॥ इत्यादिष्टैः मुनीन्द्रेण श्रुत्वा ते संघिका मुदा । (र्म् २५८) सर्वे लोकाश्च सत्कृत्य त्रिरत्नं सर्वदाभजम् ॥ २०.२०८{९७} ॥ एतन्मे गुरुणाख्यातं तथा मयोच्यतेऽधुना । त्वयाप्येवं महाराज चरितव्यं सदा शुभे ॥ २०.२०९{९८} ॥ प्रजाश्चापि सदा धार्मं श्रावायित्वा प्रबोधयन् । बोधिमार्गे प्रतिस्थाप्य पालयस्व समाहितः ॥ २०.२१०{९९} ॥ तथा ते मंगलं नित्यं सर्वत्रापि भवेद्ध्रुवम् । क्रमाद्बोधिं समासाद्य संबुद्धपदमाप्नुयाः ॥ २०.२११{१००} ॥ इति तेनार्हतादिष्टं श्रुत्वाशोकः स भूपतिः । तथेतिऽभ्यनुमोदित्वा प्राभ्यनन्दत्सपार्षदः ॥ २०.२१२{१} ॥ इदं नरा ये महिषावादानं शृण्वंति ये चपि निशामयंति सुखानि भुक्त्वा खलु तेऽत्र सर्वे सम्यांति नूनं सुगतालयं ते ॥ २०.२१३{२} ॥ ++ इत्यवदानतत्वे महिषावदानं समाप्तम् ++ (र्म् २५९) xxइ नाविकावदान अथाशोको महिनाथ उपगुप्तं यतिं गुरुम् । कृतांजलिपुटो नत्वा पुनरेवमभाषत ॥ २१.१{१} ॥ भदंत श्रोतुमिछामि पुनरन्यत्सुभाषितम् । तद्यथा गुरुणाख्यातं तथादेष्टुं च मेऽर्हति ॥ २१.२{२} ॥ संप्रार्थिते राज्ञा श्रुत्वा सोऽर्हन् सुधीर्यतिः । उपगुप्तो नरेंद्रं तं समालोक्यैयमब्रवीत् ॥ २१.३{३} ॥ साधु शृणु महाराज यथा मे गुरुणोदितम् । तथाहं ते प्रवक्ष्यामि श्रुत्वानुमोदनां कुरु ॥ २१.४{४} ॥ पुरैकसमये बुद्धो भगवान् स मुनीश्वरः । सर्वज्ञः सुगतः शस्ता धर्मराजो विनायकः ॥ २१.५{५} ॥ ससंघो हासयन् तत्र मगधे चारिकां चरन् । सर्वत्र भद्रतां कृत्वा गंगातीरमुपाश्रयन् ॥ २१.६{६} ॥ तत्र स भगवान् सर्वै भिक्षुसंघैः पुरस्कृतः । सभामध्यासनासीनो धर्ममादेष्टुमैछत ॥ २१.७{७} ॥ तत्सद्धर्मामृतं पातुं सर्वलोकास्तदागताः । ब्रह्मशक्रादयो देवा लोकपाला गणादयः ॥ २१.८{८} ॥ दैत्येंद्रो गरुडा नागा यक्षगंधर्वकिंनराः । सिद्धा विद्याधराश्चापि राक्षसाश्च महर्द्धिकाः ॥ २१.९{९} ॥ ऋषयो ब्राह्मणाश्चापि योगिनो यतयोऽपि च । राजानः क्षत्रिया भूपा राजपुत्राश्च तीर्थिकः ॥ २१.१०{१०} ॥ वैश्याश्चा मंत्रिणोऽमात्याः श्रेष्ठिनः पौरिकाः प्रजाः । गृहस्थाः साधवो भद्राः सार्थवाहमहाजनाः ॥ २१.११{११} ॥ वणिजाः शिल्पिनश्चापि ग्राम्या जानपदा अपि । तथान्येऽपि समायाताः सद्धर्मश्रवणार्थिनः ॥ २१.१२{१२} ॥ तत्र ते समुपायाता दृष्ट्वा तं श्रीघनं मुदा । नत्वा प्रदक्षिणीकृत्य समानर्चुर्यथाक्रमम् ॥ २१.१३{१३} ॥ ततः सर्वेऽपि ते लोकाः परिवृत्य समंततः । समाहिताः समुद्वीक्ष्य धर्मं श्रोतुं समाश्रयन् ॥ २१.१४{१४} ॥ तदा स भगवान् दृष्ट्वा सर्वान्स्तान् समुपस्थितान् । बोधिचर्यां समारभ्य सद्धर्मं समुपादिशत् ॥ २१.१५{१५} ॥ तत्सद्धर्मामृतं पीत्वा सर्वे लोकाः प्रमोदिताः । धर्माविशेषमाज्ञाय त्रिरत्नं प्राभजन् सदा ॥ २१.१६{१६} ॥ ततः स भगवान् दृष्ट्वा सर्वाल्लोकाञ्छुभाश्रितान् । तथान्यत्र शुभं कर्तुं गंगातीरमुपाचरत् ॥ २१.१७{१७} ॥ ससंघो भगावंस्तत्र गंगातीर उपासृतः । नविकान् समुपाहूय समालोक्यैवमब्रवीत् ॥ २१.१८{१८} ॥ (र्म् २६०) नाविका गन्तुमिछामि गंगापारमितोऽधुना । तन्मामिमां नदीं गंगां समुत्तारयत द्रुतम् ॥ २१.१९{१९} ॥ इति तत्प्रार्थितं श्रुत्वा सर्वे ते नाविका अपि ॥ २१.२०{२०} ॥ ससांघिकं मुनीन्द्रं तननादृत्यैवमब्रुवन् । तरपण्यं विनास्माभिः कश्चि दिशा न तारितः ॥ २१.२१{२१} ॥ यदीछति भवान्स्तर्त्तुं तरपण्यं प्रयछतु । इति तैर्भाषितं श्रुत्वा भगवान् स मुनीश्वरः ॥ २१.२२{२२} ॥ तान् सर्वान्नाविकान् दृष्ट्वा पुनरेवमभाषत । अहमपि भवंतोऽत्र नाविकोऽस्मि ति मन्यताम् ॥ २१.२३{२३} ॥ मया हि तारितो नंदो महारागनदीकृतः पुरा । द्वेषाब्धिपतितो दुष्टोऽङ्गुलिमालोऽपि तारितः ॥ २१.२४{२४} ॥ मानवो मानकूपारपतितस्तारितो मया । मोहोदधिनिमग्नश्चोरुविल्वीकाश्यपस्तथा ॥ २१.२५{२५} ॥ एवमन्येऽपि लोकाश्च क्लेशाब्धे तारिता मया । कस्य चिदपि सत्वस्य तरपण्यं न किं चन ॥ २१.२६{२६} ॥ गृह्यते याच्यते नापि मया क्वापि कदा चन । तथा यूयमपीहास्मान् सर्वान् भिक्षून्निमांदकी ॥ २१.२७{२७} ॥ अगाढां सहसा तार्य पारे नयतुमर्हथ । एवं तेन मुनीन्द्रेण प्रार्थितेऽपि न के चन ॥ २१.२८{२८} ॥ नाविकास्ते मुनीन्द्रं तं तारयितुं समीछिरे । अत्र कश्चित्सुधीः साधुर्नाविकस्तं मुनीश्वरम् ॥ २१.२९{२९} ॥ महाभिज्ञं परिज्ञाय नत्वोवाच कृतांजलिः । भगवन्नाथ सर्वज्ञ भवन्तं सर्वसांघिकान् ॥ २१.३०{३०} ॥ अप्यहं तारयिष्यामि तत्प्रसीदतु मे सदा । इति तेनोदितं श्रुत्वा भगवान् स मुनीश्वरः ॥ २१.३१{३१} ॥ सर्वान्स्तान् सांघिकान् भिक्षून् समालोक्यैवमादिशत् । भिक्षवो नावमारुह्य यूयं सर्वे समाहिताः ॥ २१.३२{३२} ॥ इमां गंगां समुत्तीर्य तिष्ठत तीरमाश्रिताः । इत्यादिष्टे मुनीन्द्रेण सर्वे ते भिक्षुसंघिकाः ॥ २१.३३{३३} ॥ सहसा नावमारुह्य संनिषेदुः समाहिताः । तदा स नाविको दृष्ट्वा सर्वान्नौकासमाश्रितान् ॥ २१.३४{३४} ॥ तां नावं सहसा गंगामध्ये संप्रापयन् क्रमात् । तदा स भगवान्नृद्ध्या विहायसा स्वयं चरन् ॥ २१.३५{३५} ॥ तदग्रतः समुत्तीर्य तीरभूमौ समाश्रयन् । तद्दृष्ट्वा नाविका सर्वे ते सलोकाः सविस्मयाः । पश्चात्तापाग्निसंतप्ताः पश्यन्त एव तस्थिरे ॥ २१.३६{३६} ॥ सोऽपि च नावीको दृष्ट्वा तं मुनीन्द्रं विहायसा । सहसा तीरमासद्य स्थितं पश्यन्न्यषीदत् ॥ २१.३७{३७} ॥ ततः सा निश्चरा नौका स्तम्भितैव जलाश्रिता । तद्दृष्ट्वा नाविकः सोऽतिविस्मयाकुलतोऽभवत् ॥ २१.३८{३८} ॥ ततस्तैः श्रीघनं तीरसमासीनं स नाविकः । (र्म् २६१) दृष्ट्वा तत्स्मृतिमाधाय प्रणनाम कृतांजलिः ॥ २१.३९{३९} ॥ ततः सासंचरा नौका वायुसंप्रेरिता द्रुतम् । सहसा तीरमासाद्य तस्थौ तत्र सुनिश्चरा ॥ २१.४०{४०} ॥ ततस्ते भिक्षवः सर्वे समुत्तीर्य वहित्रतः । सहसा तीरमागत्य संबुद्धान्तिकमाययुः ॥ २१.४१{४१} ॥ तत्र स भगवान् दृष्ट्वा सर्वांस्तान् समुपागतान् । सद्धर्मं समुपादेष्टुं तस्थौ सभासनाश्रितः ॥ २१.४२{४२} ॥ ततः स नाविकश्चापि दृष्ट्वा तं श्रीघनं मुनिम् । भिक्षुसंघसभासीनं प्रणतुं समुपाचरन् ॥ २१.४३{४३} ॥ तत्र स साञ्जलिर्नत्वा सर्वान् तन् सांघिकान् क्रमात् । पादाम्बुजौ मुनीन्द्रस्य प्रणनाम प्रमोदितः ॥ २१.४४{४४} ॥ तत्र ते नाविकाश्चापि सर्वे ते विस्मयान्विताः । तद्धर्मदेशनां श्रोतुं मुदिताः समुपाचरन् ॥ २१.४५{४५} ॥ तत्र तं श्रीघनं दृष्ट्वा ससंघं संप्रमोदिताः । नत्वा प्रदक्षिणीकृत्य समुपतस्थुरादरात् ॥ २१.४६{४६} ॥ ततः स भगवान् दृष्ट्वा सर्वान्स्तान् समुपस्थितान् । आर्य्यसत्यसमारभ्य सद्धर्मं समुपादिशत् ॥ २१.४७{४७} ॥ ततद्धर्मामृतं पीत्वा नाविकः संप्रमोदितः । विज्ञाय धर्मवैशेष्यं सद्धर्माभिरतो भवेत् ॥ २१.४८{४८} ॥ ततः सत्कायभूमीन्ध्रं विंशतिशिखरोद्गतम् । निर्भिद्य ज्ञानवज्रेण धर्मदृष्टि समाप्तवान् ॥ २१.४९{४९} ॥ ततः स श्रोतआपत्तिफलप्राप्तः प्रसन्नधीः । तं मुनीन्द्रं समालोक्य त्रिरुदानमुदानयत् ॥ २१.५०{५०} ॥ भगवन् यत्मया प्राप्तं धर्मचक्षुः सुनिर्मलम् । शान्तं पदमार्यकान्तं तीर्णश्चापि भवार्णवः ॥ २१.५१{५१} ॥ सत्कायदृष्टिशैलाश्च लंघिताः सांप्रतं मया । पिहितो पापमार्गो मे स्वर्गमार्गः प्रकाशितः ॥ २१.५२{५२} ॥ मोक्षमार्गोऽपि संप्राप्तो भवतां कृपयाऽधुना । तथा भवान् सदा नित्यं मां परित्रातुमर्हति ॥ २१.५३{५३} ॥ एवं हि न कृतं मात्रा नापि पित्रा कृतं मम । न सुहृदिष्टमित्रैश्च वांधवैः स्वजनैरपि ॥ २१.५४{५४} ॥ श्रमणैर्ब्राह्मणैश्चापि गुरुभिश्च न वा नृपैः । तथान्यैश्च महाविज्ञैर्न कृतमार्यदेशनाम् ॥ २१.५५{५५} ॥ भवतैव कृतं नाथ सत्यमार्गोपदेशनाम् । तदार्यसत्यसंप्राप्त आर्यमार्गं लभाम्यहम् ॥ २१.५६{५६} ॥ अद्य मे सफलं जन्म बुद्धपुत्रोऽस्मि सांप्रतम् । इत्युक्त्वा स मुनीन्द्रं तं प्रणत्वा प्राभ्यनंदत ॥ २१.५७{५७} ॥ ततः स नाविकस्तत्र त्रिरत्नं शरणं गतः । सत्कृत्य समुपाश्रित्य प्राभजन् सर्वदा मुदा ॥ २१.५८{५८} ॥ तत्समीक्ष्य परश्चापि नाविकोऽत्यनुतापितः । (र्म् २६२) तत्र तस्य मुनीन्द्रस्य सत्कारं कर्तुमैछत ॥ २१.५९{५९} ॥ ततः स नाविकस्तत्र समुत्थायानुमोदितः । भगवंतं प्रणत्वैव संप्रबोधयत्कृतांजलिः ॥ २१.६०{६०} ॥ भगवन् यन्मया लोभप्रलुप्तधर्मचेतसा । तरपण्यं विना गंगां तारितो न भवानपि ॥ २१.६१{६१} ॥ तन्महानपराधो मे भवत्यत्राहि जायते । तत्क्षमतां जगन्नाथ क्षमारत्नाकरो भवान् ॥ २१.६२{६२} ॥ यच्चात्र भवतां पूजां कर्तुमिछामि सांप्रतम् । तान्ममानुग्रहं कृत्वा प्रतिग्रहीतुमर्हति ॥ २१.६३{६३} ॥ इति संप्रार्थितं तेन श्रुत्वा स भगवान्मुनिः । तथेति प्रतिमोदित्वा तूष्णीभूत्वाध्युवास तत् ॥ २१.६४{६४} ॥ तथाधिवाशितं शास्त्रा नाविकः संप्रमोदितः । स पूजाभोज्यसामाग्रीं सहसा समसाधय ॥ २१.६५{६५} ॥ ततः स भगवंतं तं ससांघिकं यथाक्रमम् । अभ्यर्च्य सुरसैः शुद्धैर्भोजनैः समतोषयत् ॥ २१.६६{६६} ॥ ततस्ते सांघिकाः सर्वे संबुद्धप्रमुखा अपि । तद्भोज्यं सुरसं भुक्त्वा समातृप्तिं समाययुः ॥ २१.६७{६७} ॥ ततः स नाविको दृष्ट्वा तृप्तं मुनिं ससांघिकम् । अपनीयाशु पात्राणि तद्धस्तादि व्यशोधयत् ॥ २१.६८{६८} ॥ ततः पूगादि तांबूलमहौषधरसायनम् । दत्वा स नाविकस्तत्र सांजलिः प्रार्थयत्क्षमाम् ॥ २१.६९{६९} ॥ ततः स सांजलिर्नत्वा ससंघं तं मुनीश्वरम् । बोधिचित्तं समालम्व्य तत्पुरः समुपाश्रयत् ॥ २१.७०{७०} ॥ ततः स भगवांस्तस्य नाविकस्य मनोगतम् । बोध्यभिलाषमालोक्य तदा स्मितं व्यमुंचत ॥ २१.७१{७१} ॥ ततस्तस्य मुनींद्रस्य नानावर्णा मरीचयः । मुखपद्माद्विनिर्याताः प्रसेरुर्भुवनत्रये ॥ २१.७२{७२} ॥ या अधस्ताद्गतास्तत्र नरकेषु समंततः । ताः सौम्या रश्मयः सर्वाः प्रसृत्य समहासयन् ॥ २१.७३{७३} ॥ तत्र ताभिः परिस्पृष्टाः सर्वे ते नरकाश्रिताः । महत्सौख्यं समासाद्य विस्मिता एवमब्रुवन् ॥ २१.७४{७४} ॥ अहो चित्रं महत्सौख्यमधुना जायते कथम् । कुतश्चेयं प्रभा जाता कस्य चेह समागताः ॥ २१.७५{७५} ॥ यत्प्रभाभिः परिस्पृष्टा वयं सौख्यसमन्विताः । सर्वे दुःखाभिनिर्मुक्तास्तदिदं महदद्भुतम् ॥ २१.७६{७६} ॥ किं नु च्युता इतोऽहो स्विदन्यत्रोपगता वयम् । यन्नो दुःखानि शांयंते जायंते ससुखान्यपि ॥ २१.७७{७७} ॥ इति चिंतासमाक्रान्तहृदयास्ते सविस्मयाः । षर्वेऽप्येकत्र संमील्य भाषंत उपतस्थिरे ॥ २१.७८{७८} ॥ एवं सर्वेऽपि ते सत्वाः सर्वत्र नरकेष्वपि । निर्दुःखा सुखसंपन्ना उपतस्थुः सविस्मयाः ॥ २१.७९{७९} ॥ तदा तेषां प्रबोधार्थं निर्माय भगवान्मुनिम् । (र्म् २६३) प्रत्येकं नराकेष्वेवं सर्वत्रापि व्यसर्जयत् ॥ २१.८०{८०} ॥ तं बुद्धं निर्मितं दृष्ट्वा सार्वे ते नरकाश्रिताः । भूयोऽतिविस्मयाक्रांतहृदयाश्चैवमब्रुवन् ॥ २१.८१{८१} ॥ न ह्येवेतच्च्युतास्सर्वे नाप्यान्यत्र गता वयम् । इहैव नरके स्थाने स्थिताः सर्वे वयं खलु ॥ २१.८२{८२} ॥ यदिहायं समायातः पुरुषो पूर्वदर्शनः । नूनमस्य प्रभाकान्तिरियमत्राभिप्रसृता ॥ २१.८३{८३} ॥ तदस्माकं हि दुःखानि प्रशान्तां समंततः । महत्सौख्यानि जयन्ते नूनमस्यानूभावतः ॥ २१.८४{८४} ॥ अयं हि सुगतो बुद्धः सर्वसत्वानुकंपकः । सर्वान्नो दुःखितान् दृष्ट्वा समुद्धर्तुमिहागतः ॥ २१.८५{८५} ॥ तदस्य शरणं गत्वा वयं सर्वे समादरात् । सत्कृत्य श्रद्धया नत्वा यथाशक्ति भजेमहि ॥ २१.८६{८६} ॥ इति संभाष्य ते सर्वे नारकीयास्तथा मुदा । सहसा तं पुरोगत्वा प्रणत्वैवं वभाषिरे ॥ २१.८७{८७} ॥ नमस्ते भगवन्नाथ शरणं ते व्रजामहे । एवमस्मान् सदा दृष्ट्वा कृपया त्रातुमर्हसि ॥ २१.८८{८८} ॥ इति संप्रार्थनां कृत्वा सर्वे ते प्रतिमोदिताः । तस्यैव शरणं कृत्वा प्रभेजिरे समाहिताः ॥ २१.८९{८९} ॥ एतत्पुण्यपरीतास्ते सर्वे विमुक्तपापकाः । नरकेभ्यः समुत्थाय सहसा सद्गतिं ययुः ॥ २१.९०{९०} ॥ एवं ता रस्मयः सर्वा नरकेभ्यः समंततः । सर्वान् सत्वान् संुद्धृत्य प्रत्याययुर्मुनेः पुरः ॥ २१.९१{९१} ॥ याश्चाप्युर्द्धगताभासप्रसृताः ताः समंततः । अवभास्य दिशः सर्वान् समहाराजिकालयाः ॥ २१.९२{९२} ॥ सर्वान् देवालयान् यावदकनिष्ठं भवालयम् । अवभास्यमरान् सर्वान् गाथाभिः समचोदयत् ॥ २१.९३{९३} ॥ अनित्यं खलु संसारे सर्वं शून्यमनात्मकम् । इति मत्वात्र संसारे चरत सर्वदा शुभे ॥ २१.९४{९४} ॥ निष्क्रामतारभध्वं तद्युज्यध्वं बुद्धशासने । धुनीत मृत्युसैन्यानि नडागारमिव द्विपः ॥ २१.९५{९५} ॥ यो ह्यस्मिन् सौगते धर्मे चरिष्यति समाहितः । स हित्वा जन्म संसारे दुःखस्यान्तं करिष्यति ॥ २१.९६{९६} ॥ इति तच्छब्दमाकर्ण्य सर्वे देवाः प्रबोधिताः । त्रिरत्नशरणं कृत्वा प्रभेजिरे समाहिताः ॥ २१.९७{९७} ॥ एवं ता रस्मयः सर्वाः सर्वान् देवान् समंततः । चोदयित्वा ततस्तत्र प्रत्याययुर्मुनेः पुरः ॥ २१.९८{९८} ॥ तत्र ता रस्मयः सर्वा एकीभूता सुपिण्डिताः । मुनेः प्रदक्षिणीकृत्य भ्रुमध्येऽन्तर्हितोऽभवत् ॥ २१.९९{९९} ॥ तद्दृष्ट्वा ते सांघिकाः सर्वे लोकाश्चान्येऽपि विस्मिताः । शास्ता किमादिशेद्धार्ममिति ध्यात्वा निषेदिरे ॥ २१.१००{१००} ॥ (र्म् २६४) तदानंदः समुत्थाय शास्तारं तं मुनीश्वरम् । कृतांजलिपुटो नत्वा पप्रछैवं पुरः स्थितः ॥ २१.१०१{१} ॥ भगवन्नाथ सर्वज्ञ भवद्वक्त्रात्सुधाकरात् । नाना वर्णाः प्रभाः कांता विनिःसृत्य प्रसारिताः ॥ २१.१०२{२} ॥ सर्वांस्त्रैधातुकान्नवभास्य समंततः । पुनः प्रत्यागाताः सर्वा एकीभूता सुपिंडिता ॥ २१.१०३{३} ॥ तव प्रदक्षिणीकृत्य भ्रुमध्ये प्रविसंति ताः । नाहेतुप्रत्यये बुद्धा दर्शयन्ति स्मितं क्वचित् ॥ २१.१०४{४} ॥ तद्भवान् हेतुना केन स्मितं मुंचसि सांप्रतम् । यद्दृष्ट्वा सांघिकः सर्वे इमे लोकाश्च विस्मिताः ॥ २१.१०५{५} ॥ शास्ता किमादिशेद्धर्ममिति संदिग्धमानसाः । कुतूहलसमाक्रांतहृदयाः सद्गुणार्थिनः ॥ २१.१०६{६} ॥ त्वत्सद्धर्मामृतं पातुमिछन्ति तृषिता इव । यदर्थेऽत्र भवान् स्मितं दर्शयति सरस्मिकम् ॥ २१.१०७{७} ॥ तदर्थं समुपादिश्य सर्वाल्लोकान् प्रबोधय । इत्यानंदवच श्रुत्वा भगवान् स मुनीश्वरः । तमानंदं सभां चापि समालोक्यैवमादिशत् ॥ २१.१०८{८} ॥ एवमेतत्तथानंद नाहेतुप्रत्ययं क्वचित् । संबुद्धाः सुगताः सर्वे प्रविकुर्वन्ति संस्मितम् ॥ २१.१०९{९} ॥ यदर्थेऽहमिहानंद स्मितं मुंचामि सांप्रतम् । तदर्थं समुपाख्यामि शृणुत यूयमादरात् ॥ २१.११०{१०} ॥ यदनेन सतानंद नाविकेन प्रसादिना । ससंघोऽहं समभ्यर्च्य वंदितो बोधिचेतासा ॥ २१.१११{११} ॥ अनेन कुशलेनायं नाविकोऽपि भविष्यति । संसारोत्तरणो नाम प्रत्येकबुद्ध आत्मवित् ॥ २१.११२{१२} ॥ एवं मत्वा महत्पुण्यं त्रिरत्नं सत्कृतोद्भवम् । सत्कृत्य श्रद्धया नित्यं त्रिरत्नं भजतादरात् ॥ २१.११३{१३} ॥ त्रिरत्नेषु कृतं पुण्यं न क्षिणोति कदा चन । व्रतपुण्यविपाकेन संबुद्धपदमाप्नुयात् ॥ २१.११४{१४} ॥ इत्यादिष्टं मुनीन्द्रेण श्रुत्वानंदः ससांघिकः । तथेत्यभ्यनुमोदित्वा त्रिरत्नं सर्वदाभजेत् ॥ २१.११५{१५} ॥ एवं शास्त्रा मुनीन्द्रेण व्याकृतमात्मनस्तदा । श्रुत्वा स नाविको बुद्धः प्राभ्यनंदत्प्रसादितः ॥ २१.११६{१६} ॥ तदारभ्य सदा नित्यं नाविकः संप्रमोदितः । त्रिरत्नशरणं कृत्वा सत्कृत्य श्रद्धयाभजत् ॥ २१.११७{१७} ॥ सर्वे लोकाश्च तद्दृष्ट्वा सद्धर्मगुणवांछिनः । सत्कृत्य श्रद्धया नित्यं त्रिरत्नं प्राभजन्मुदा ॥ २१.११८{१८} ॥ ततश्च स जगच्छास्ता भगवान् सह सांघिकैः । तथान्यत्र शुभं कर्तुं प्रतस्थे सांप्रभासयन् ॥ २१.११९{१९} ॥ इति मे गुरुणादिष्टं मया प्रचक्ष्यते तव । तथात्र त्वं महाराज त्रिरत्नं सर्वदा भज ॥ २१.१२०{२०} ॥ प्रजाश्चापि तथा धर्मे बोधयित्वा प्रसादयन् । (र्म् २६५) बोधिमार्गे प्रतिस्थाप्य पालयस्व समाहितः ॥ २१.१२१{२१} ॥ तथा ते मंगलं नित्यं सर्वत्रापि भवेद्ध्रुवम् । क्रमाद्बोधिं समासाद्य संबुद्धपदमाप्नुयाः ॥ २१.१२२{२२} ॥ इति तेनार्हतादिष्टं श्रुत्वाशोकः स भूपतिः । तथेत्यभ्यनुमोदित्वा प्राभ्यनंदत्सपार्षदः ॥ २१.१२३{२३} ॥ यच्छास्त्राख्यातं तथेदं यतिवरकथितं नाविकस्यावदानं शृण्वन्ति श्रावयन्ति प्रमुदितमनसः श्रद्धया ये प्रसन्नाः । ते सर्वे शुद्धभावा जिनगुणरूचनो बोधिचर्या चरन्ते । भुक्त्वा सौख्यानि नित्यं मुनिवरनिलये संप्रयान्ति प्रमोदम् ॥ २१.१२४{२४} ॥ ++ इत्यवदानतत्वे नाविकावदानं समप्तम् ++ (र्म् २६६) xxइइ गन्धमादनावदान अथाशोको महीपालः कृतांजलिपुटो मुदा । उपगुप्तं गुरुं नत्वा प्रार्थयच्चैवमादरात् ॥ २२.१{१} ॥ भदंत श्रोतुमिछामि पुनरन्यत्सुभाषितम् । तद्यथा गुरुणादिष्टं तथादेष्टुं च मेऽर्हति ॥ २२.२{२} ॥ इति संप्रार्थिते राज्ञा श्रुत्वा सोऽर्हन् सुधीर्यतिः । तमशोकं महीपालं समालोक्यैवमादिशत् ॥ २२.३{३} ॥ साधु शृणु महाराज यथा मे गुरुभाषितम् । तथाहं संप्रवक्ष्यामि तव पुण्यविवृद्धये ॥ २२.४{४} ॥ पुरैकस्मिन् दिने तत्र राजगृहे ससांघिकः । भगवान् स जगन्नाथः पिण्डार्थं समुपाविशत् ॥ २२.५{५} ॥ तदा राजगृहे तत्र गृहपतेः सुतो महान् । तस्यैका दासिका भद्रा सत्यधर्मानुचारिणी ॥ २२.६{६} ॥ सा स्वाम्यङ्गानुलेपार्थं लोहितचंदनं तदा । सुरभिगणसंयुक्तं पिपेष प्रस्तरे मुदा ॥ २२.७{७} ॥ तस्मिन्नेव क्षणे तत्र स संबुद्धः ससांघिकः । भासयं मंगलं कृत्वा तद्गृहं निकषाचरत् ॥ २२.८{८} ॥ तथायातं मुनीन्द्रं तं श्रुत्वा सा दारिका मुदा । सहसा निर्गता गेहात्तत्र द्रष्टुमुपाचरन् ॥ २२.९{९} ॥ तत्र सा समुपागत्य प्राद्राक्षीत्तं मुनीश्वरम् । द्वात्रिंशल्लक्षणाशीतिव्यंजनपरिभूषितम् ॥ २२.१०{१०} ॥ शतसूर्याधिकाभासं शतचंद्रामृतप्रभम् । व्यामप्रभासमुज्वालं रत्नांगमिव जंगमम् ॥ २२.११{११} ॥ दृष्ट्वा सा दासिका तत्र मुदिता विस्मयान्विता । सुचिरं तं समालोक्य तस्थौ निश्चलमानसी ॥ २२.१२{१२} ॥ तत्र सा सुचिरं दृष्ट्वा दासिकाभिप्रमोदिता । सत्कारं कर्त्तुमिछन्ती शास्तुरेवं व्यचिंतयत् ॥ २२.१३{१३} ॥ अहो भाग्यं मुनीन्द्रोऽयं दृश्यते यन्मयाधुना । तदस्य किं भजिष्यामि दरिद्रा प्रेषिका ह्यहम् ॥ २२.१४{१४} ॥ कुत्र वा द्रक्ष्यते भूयो मुनीन्द्रोऽयं जगद्गुरुः । धिग्मे जन्मापि येनात्र किं चित्पुण्यं न साध्यते ॥ २२.१५{१५} ॥ किं ममानेन देहेन येनेदृशं मुनीश्वरम् । प्राप्य किं चित्प्रदत्वापि पुण्यं प्राप्तुं न शक्यते ॥ २२.१६{१६} ॥ अनेन जीवितेनापि किं ममात्र प्रयोजनम् । येन दुःखानि भुक्त्वैव किं चित्पुण्यं न साध्यते ॥ २२.१७{१७} ॥ पुण्यं विनात्र संसारे सौख्यं प्राप्तुं कथं कुह । तत्पुण्यं प्राप्यते केन विना दानव्रतः क्वचित् ॥ २२.१८{१८} ॥ (र्म् २६७) किं चात्र दास्यते दानं किं चिद्द्रव्यं न मे गृहे । व्रतं वा किं करिष्यामि पराधीना हि दासिका ॥ २२.१९{१९} ॥ तदत्र किं सुखं लप्स्ये किं चिद्दानं व्रतं विना । सर्वथाहं विनष्टा स्यां को मां रक्षेद्भवान्तरे ॥ २२.२०{२०} ॥ पुण्येन सद्गतिं यायां पापेन दुर्गतिं सदा । इति हेतोः प्रकर्त्तव्यं दानं किं चिदपि व्रतम् ॥ २२.२१{२१} ॥ तर्ह्येतद्विद्यते हस्ते लोहितचंदनं मम । एतेनापि मुनीन्द्रस्य भजेयं चरणाम्बुजौ ॥ २२.२२{२२} ॥ इति ध्यात्वा विनिश्चित्य दरिका सा प्रसादिता । सहसा स्वगृहं गत्वा तच्चंदनं समाग्रहीत् ॥ २२.२३{२३} ॥ तच्चंदनं समादाय दासिका सा व्यचिन्तयत् । यदिदं स्वामिनो द्रव्यं तदनुज्ञां विना कथम् ॥ २२.२४{२४} ॥ यदि स्वामि विजानाति तदा मे कुपितो रुषा । निर्भत्स्य ताडयित्वा मां गृहान्निष्कासयेदप्ल् ॥ २२.२५{२५} ॥ तदात्र किं चरिष्यामि दासिकाहं निराश्रया । अवश्यं भाविनो भावा भवन्ति महतामपि ॥ २२.२६{२६} ॥ यदि मे कुपितः स्वामी परत्र किं करिष्यति । प्रसन्नो यदि वा स्वामी कल्याणं स्यादिहापि मे ॥ २२.२७{२७} ॥ कुपितो व प्रसन्नो वा भवत्वत्रैव मे प्रभुः । स्वामी भर्त्तानुशास्तैव परत्र किं करिष्यति ॥ २२.२८{२८} ॥ बुद्धस्तु जगतां स्वामी भर्त्ता नाथोऽनुकंपकः । प्रभु धर्मानुशास्ता मे परत्रेहाप्यवेत्सदा ॥ २२.२९{२९} ॥ तदत्र किं ममानेन स्वामिनापि करिष्यते । तदेतच्चंदनेनापि भजेयं तं मुनीश्वरम् ॥ २२.३०{३०} ॥ इति ध्यात्वा विनिश्चित्य दासिका सा प्रमोदिता । लोहितचंदनेनोभौ पाणौ प्रलिप्य सेत्वया ॥ २२.३१{३१} ॥ गृहाद्वहिर्विनिर्गत्वा भगवतेऽन्त उपागता । पादयोरुभयोस्तेन चंदनेन लिलेप सा ॥ २२.३२{३२} ॥ ततः सा दारिका नारी कृतांजलिपुटो मुदा । पादौ तस्य मुनेर्नत्वा पुरतः समुपाश्रयत् ॥ २२.३३{३३} ॥ तत्र स भगवान् दृष्ट्वा तस्या भक्तिरतं मनः । तच्चंदनसौरभ्यैस्तत्पुरं समपूरयत् ॥ २२.३४{३४} ॥ ततस्तद्गंधमाघ्राय सर्वे पौराः सविस्मयाः । कस्येदं गंधमायातमिति प्रोक्त्वा प्रचेरिरे ॥ २२.३५{३५} ॥ ततस्तद्वृत्तिमाज्ञाय सर्वे लोकाः प्रमोदिताः । तद्द्रष्टुं सहसा तत्र भगवतोऽन्तिकमुपाययुः ॥ २२.३६{३६} ॥ तत्र सर्वेऽपि ते लोका दृष्ट्वा तं श्रीघनं मुनिम् । नत्वा प्रदक्षिणीकृत्वा समुपतस्थुरादरात् ॥ २२.३७{३७} ॥ तदा स भगवान् दृष्ट्वा सर्वान्स्तान् समुपस्थितान् । आर्य्यसत्यं समारभ्य दिदेश धर्ममुत्तमम् ॥ २२.३८{३८} ॥ तद्धार्मदेशनां श्रुत्वा सर्वे लोकाः प्रबोधितः । त्रिरत्नशरणं कृत्वा सदा भजितुमीछिरे ॥ २२.३९{३९} ॥ तत्सद्धर्मामृतं पीत्वा दासिका सा प्रबोधिता । (र्म् २६८) सांजलिस्तं मुनिं नत्वा प्रणिधानं व्यधात्तथा ॥ २२.४०{४०} ॥ एतत्पुण्यविपाकेन संसारेऽत्र पुनर्भवे । प्रत्येकां बोधिमासाद्य निर्वाणपदमाप्नुयाम् ॥ २२.४१{४१} ॥ एवं बुद्धपदं प्राप्त्यै प्रणिधानं कृतं तया । दृष्ट्वा स भगवांस्तत्र स्मितं प्रादुर्व्यधात्तदा ॥ २२.४२{४२} ॥ ततस्तस्य मुनेर्वक्त्रान्नानावर्णाः सुरस्मयः । विनिर्गता दिशः सर्वा भासयन्तः प्रसेरिरे ॥ २२.४३{४३} ॥ या अधस्ताद्गताभासाः सर्वत्र नरकेष्वपि । अवभास्य शुभं कृत्वा सर्वत्र संप्रसंसिरे ॥ २२.४४{४४} ॥ तत्र सत्वान् परिस्पृश्य कृत्वा सर्वान् सुखान्वितान् । संबुद्धदर्शनं दत्वा संप्रेषयन् सुरालायम् ॥ २२.४५{४५} ॥ याश्चाप्युर्द्धं गताभासताः सर्वांश्च सुरालयन् । अवभास्यामरान् सर्वान् समुद्घुष्याभ्यचोदयन् ॥ २२.४६{४६} ॥ अनित्यं खलु संसारं सर्वं शून्यं निरात्मकम् । इति मत्वात्र कर्त्तव्यं संबुद्धभजनं सदा ॥ २२.४७{४७} ॥ निष्क्रामत रभध्वं तत्सद्धर्मं बुद्धशासने । मारचर्यां परित्यज्य चरत भद्रचारिकाम् ॥ २२.४८{४८} ॥ योऽप्रमत्तश्चरत्यत्र संबुद्धशासने व्रतम् । स विहाय पुनर्जातिं दुःखस्यांतं करिष्यति ॥ २२.४९{४९} ॥ इति मत्वात्र संसारे परिशुद्धत्रिमण्डलाः । त्रिरत्नं शरणं कृत्वा भजध्वं श्रद्धया सदा ॥ २२.५०{५०} ॥ एतद्घोषं समाकर्ण्य सर्वे देवाः प्रमोदिताः । त्रिरत्नस्मरणं कृत्वा प्राचरन् सर्वदा शुभे ॥ २२.५१{५१} ॥ ततस्ते रश्मयः सर्वे भासयन्तः समंततः । प्रत्यागता मुनीन्द्रस्य पुरतः समुपाश्रयन् ॥ २२.५२{५२} ॥ तत्र ते रश्मयः सर्वेऽप्येकीभूताः सुपिण्डिताः । शास्तुः प्रदक्षिणीकृत्य भ्रुवोऽन्तरे तिरोदधौ ॥ २२.५३{५३} ॥ तद्दृष्ट्वा ते सभासीनाः सर्वे लोकाः सविस्मयाः । शास्ता किमादिशेद्धर्ममिति ध्यात्वा समाश्रयन् ॥ २२.५४{५४} ॥ तत्रानंदः समालोक्य सर्वांल्लोकान् सविस्मयान् । सांजलिस्तं जगन्नाथं प्रणत्वैवं समब्रवीत् ॥ २२.५५{५५} ॥ भगवन् हेतुना केन स्मितं मुंचति सांप्रतम् । नाहेतुप्रत्ययं बुद्धाः स्मितं मुंचंति सर्वदा ॥ २२.५६{५६} ॥ यद्भवतः स्मिते वक्त्रान्नानावर्णाः सुरश्मयः । निर्गताः सर्वलोकेषु प्रसृता अवभास्यत ॥ २२.५७{५७} ॥ इमे सर्वत्र भद्राणि कृत्वा सत्वांश्च भद्रितान् । प्रत्यागता भवदुर्णामध्ये चान्तर्दधन्ति हि ॥ २२.५८{५८} ॥ एतदद्भुतमालोक्य सर्वे लोका इमेऽधुना । शास्ता किमादिशेद्धर्ममिति ध्यात्वा समास्थिताः ॥ २२.५९{५९} ॥ भवद्धर्मामृतं पातुं सर्वे सद्धर्मवांछिनः । भवन्तमेव संवीक्ष्य संतिष्ठन्ते समाहिताः ॥ २२.६०{६०} ॥ (र्म् २६९) भगवंस्तद्यदर्थे त्वं स्मितं मुंचसि सांप्रतम् । तदर्थं समुपादिश्य सर्वाल्लोकान् प्रबोधय ॥ २२.६१{६१} ॥ इति संप्रार्थिते तेन भगवान् स मुनीश्चरः । तमानंदं सभां चापि समालोक्यैवमादिशत् ॥ २२.६२{६२} ॥ एवमेतन्महानंद सर्वेऽपि सुगता जिनाः । नाहेतुप्रत्ययं क्वापि स्मितं मुंचंति सर्वदा ॥ २२.६३{६३} ॥ यदर्थेऽहमिहानंद स्मितं मुंचामि सांप्रतम् । तदर्थं संप्रवक्ष्यामि सर्वे शृण्वंतु सादरम् ॥ २२.६४{६४} ॥ पश्यानंदानया नार्य्या दारिकया मम पदोः । लोहितचंदनेनैवं प्रलिप्य सत्कृतिः कृता ॥ २२.६५{६५} ॥ एतत्पुण्यविपाकेन दारिकेयं भविष्यति । प्रत्येकसुगतो गन्धमादनो नाम सर्ववित् ॥ २२.६६{६६} ॥ यथेयं मयि संबुद्धचित्तं प्रसाद्य मोदिता । प्रणिधानं करोत्येवं प्रत्येकबोधिमाप्स्यति ॥ २२.६७{६७} ॥ एवं मत्वा महत्पुण्यं संबुद्धभजनोद्भवम् । सत्कृत्य श्रद्धया नित्यं त्रिरत्नं भजमादरात् ॥ २२.६८{६८} ॥ त्रिरत्नभजनोद्भूतं पुण्यमहत्तरं बहु । यथेछाबोधिसंभारपूरणं निर्वृतिं प्रदम् ॥ २२.६९{६९} ॥ इत्यादिष्टं मुनीन्द्रेण श्रुत्वा सर्वेऽनुमोदिताः । त्रिरत्नभजनं कर्तुं प्राभ्यनन्दन् सदापि ते ॥ २२.७०{७०} ॥ तदा सा दासिकाप्येवं शास्त्रा व्याकृतमात्मनः । श्रुत्वाभिनंदिता भूयो ननाम तं मुनीश्वरम् ॥ २२.७१{७१} ॥ ततः सा स्वामिना दत्तं द्रव्यमादाय सत्वरा । तदर्हभोजनैः पूर्णं पात्रं कृत्वा मुदाचरत् ॥ २२.७२{७२} ॥ तत्र सा मुदिता तस्मै मुनीन्द्राय प्रदापयत् । सांजलिः प्रणतिं कृत्वा स्वगेहं समुपाचरत् ॥ २२.७३{७३} ॥ ततः स भगवान् पृष्टे पिण्डपात्रं तयार्चितम् । ससंघं स्वाश्रमे गत्वा व्यहरद्धर्ममादिशत् ॥ २२.७४{७४} ॥ तत्र सा दासिका भद्रा त्रिरत्नं शरणं गता । सत्कृत्य श्रद्धया नित्यं प्राभजन् सर्वदा मुदा ॥ २२.७५{७५} ॥ एवं मे गुरुणाख्यातं श्रुतं मयात्र कथ्यते । तथा त्वमपि राजेंद्र त्रिरत्नं सर्वदा भज ॥ २२.७६{७६} ॥ तथा राजं प्रजाश्चापि बोधयित्वा प्रयत्नतः । बोधिमार्गे प्रतिष्ठाप्य पालयस्व समाहितः ॥ २२.७७{७७} ॥ तथा तं मंगलं नित्यं सर्वत्रापि भवेद्ध्रुवम् । क्रमाद्बोधिं समासाद्य संबुद्धपदमाप्नुयाः ॥ २२.७८{७८} ॥ इति तेनार्हतादिष्टं श्रुत्वाशोकः स भूमिपः । तथेत्यभ्यनुमोदित्वा प्राभ्यनन्दत्सपार्षदः ॥ २२.७९{७९} ॥ इदं नरा ये चि च गंधमादनावदानमत्र प्रथितं प्रसादिताः । शृण्वन्ति ये चापि निशामयन्ति सर्वे सुखाढ्याः प्रचरन्ति सद्गतौ । (र्म् २७०) ++ इति रत्नावदानतत्वे गंधमादनावदानं समाप्त ++ (र्म् २७१) xxइइइ प्रेतिकायाः कथा अथाशोको महाराजः सांजलिः संप्रमोदितः । उपगुप्तं गुरुं नत्वा पुनरेवमभाषत ॥ २३.१{१} ॥ भदन्त श्रोतुमिछामि पुनरन्यत्सुभाषितम् । तद्यथा गुरुणाख्यातं तथादेष्टुं च मेऽर्हति ॥ २३.२{२} ॥ इति संप्रार्थिते राज्ञा श्रुत्वा सोऽर्हं महामतिः । उपगुप्तो नरेंद्रं तैः समालोक्यैवमादिशत् ॥ २३.३{३} ॥ साधु शृणु महाराज यथा मे गुरुणोदितम् । तथाहं ते प्रवक्ष्यामि श्रुत्वा बुद्धानुमोदय ॥ २३.४{४} ॥ पुरा स भगवान् बुद्धः शाक्यसिंहो मुनीश्वरः । सर्वज्ञः सुगतः शास्ता धर्मराजो विनायकः ॥ २३.५{५} ॥ भिक्षुभिः श्रावकैः सार्द्धं भिक्षुणीभिश्च चैलकैः । उपासकैः शुभाचारैरुपासिकागणैरपि ॥ २३.६{६} ॥ बोधिसत्वैर्महासत्वैः संबोधिचारिकोद्यमैः । तथान्यैस्तीर्थिकैश्चापि संबुद्धगुणवांछिभिः ॥ २३.७{७} ॥ राजगृहपुरोपान्ते वेणुवने मनोरमे । जिनाश्रमे महोद्याने करंदकनिवापके ॥ २३.८{८} ॥ सर्वसत्वहितार्थेन बोधिचर्यां प्रकाशयन् । सद्धर्मदेशनां कुर्वन् विजहार विरोचयन् ॥ २३.९{९} ॥ तत्सद्धर्मदेशनां श्रोतुं तत्र सर्वे समागताः । देवा दैत्याश्च नागेन्द्रा यक्षगंधर्वकिन्नराः ॥ २३.१०{१०} ॥ ग्रहा विद्याधराः सिद्धा लोकपालगणा अपि । ऋषयो ब्राह्मणाश्चापि राजानः क्षत्रियात्मजाः ॥ २३.११{११} ॥ वैश्याश्च मंत्रिणोऽमात्या गृहाधिपा महाजनाः । पौरिकाः सार्थवाहाश्च वणिजः शिल्पिनोऽपि च ॥ २३.१२{१२} ॥ ग्राम्या जानपदाश्चापि तथा कार्पटिकादयः । सर्वे ते समुपायातास्तत्राश्रमे उपाविशन् ॥ २३.१३{१३} ॥ तत्र सभासनासीनं श्रीघनं तं मुनीश्वरम् । व्यामप्रभाविरोचं तं भिक्षुसंघैः पुरस्कृतम् ॥ २३.१४{१४} ॥ दृष्ट्वा ते मुदिताः सर्वे प्रणत्वा समुपागताः । कृत्वा प्रदक्षिणान्येनं समानर्चु यथाक्रमम् ॥ २३.१५{१५} ॥ ततस्सर्वेऽपि ते लोकाः परिवृत्य समंततः । तत्सद्धर्मामृतं पातुमुपतस्थुः समाहिताः ॥ २३.१६{१६} ॥ तदा स भगवान् दृष्ट्वा सर्वान्स्तान् समुपाशृतान् । आर्य्यसत्यं समार्गांगं सद्धर्मं समुपादिशन् ॥ २३.१७{१७} ॥ तात्सद्धर्मामृतं पीत्वा सर्वे ते संप्रबोधिताः । (र्म् २७२) धर्मविशेषमाज्ञाय बोधिचर्यां समीछिरे ॥ २३.१८{१८} ॥ तदैकस्मिन् दिने भिक्षुरायुष्मान्नारदाभिधः । भिक्षार्थं पात्रमादाय राजगृहपुरे ययौ ॥ २३.१९{१९} ॥ तत्र स नारदो भिक्षुः पिंडार्थं समुपाचरन् । गृहस्थेन समालोक्य नीत्वा गेहे मुदासने ॥ २३.२०{२०} ॥ प्रतिस्थाप्य समभ्यर्च्य सुप्रणीतरसान्वितैः । तीलोदनैः सुधाकल्पैः पानैश्च प्रतिपूजितः ॥ २३.२१{२१} ॥ तद्भुक्त्वा स यतिस्तुष्टो दत्वा तस्मै शुभाशिषम् । समुत्थाय ततोऽरण्ये विहर्त्तुं निर्जनेऽचरत् ॥ २३.२२{२२} ॥ तत्र स नारदो योगी गृध्रकूटनगान्तिके । ददर्श प्रेतिकामेकां राक्षसीमिव भीषणाम् ॥ २३.२३{२३} ॥ वृक्षमूले स्थितां रक्तविन्दुव्याप्ताम्वरावृताम् । अस्थिशकलसंकीर्णे प्रेतालये निवासिनीम् ॥ २३.२४{२४} ॥ स्वात्मजानपि भक्षन्तीं क्षुत्पिपासाग्निदाहिनाम् । कृशाङ्गीं विकृताकारां कर्वुरमुक्तकेशिनीम् ॥ २३.२५{२५} ॥ दृष्ट्वा स नारदस्तत्र समुपासृत्य तत्पुरः । प्रेतिकां तां समालोक्य पप्रछैवं पुराकृतम् ॥ २३.२६{२६} ॥ किं त्वया प्रकृतं घोरं पातकं पूर्वजन्मसु । येनैवं दुःसहमनुभवसि सांप्रतम् ॥ २३.२७{२७} ॥ इति तेनार्हता पृष्टे प्रेतिका सा रुदन्त्यपि । नारदं तं यतिं दृष्ट्वा शनैरेवमभाषत ॥ २३.२८{२८} ॥ भदन्त किं मया ह्यत्र वक्ष्यते यत्पुराकृतम् । दिवारात्रौ पंचपुत्रान् प्रसूता मे प्रभक्षिता ॥ २३.२९{२९} ॥ तेनापि न संतुष्टा बुभुक्षिता प्रवर्द्धते । तद्भवांस्तं जगद्विज्ञं पृछता मत्पुराकृतम् ॥ २३.३०{३०} ॥ स मुनीन्द्रो जगच्छास्तादिशेत्तेऽस्मत्पुराकृतम् । आदित्ये हि समुद्याते दीपेन किं प्रयोजनम् ॥ २३.३१{३१} ॥ तथास्मत्प्रकृतं पापं श्रुत्वान्येन नरादयः । सत्वाः संत्रसिता एवं कुर्यु न के चन ॥ २३.३२{३२} ॥ सर्वे तेऽपि दिशेत्पापान् विरम्य शीलसंवृताः । त्रिरत्नशरणं कृत्वा प्रभजेयुः सदाद्रिताः ॥ २३.३३{३३} ॥ इति तयोदितं श्रुत्वा नारदः स प्रबोधितः । तथेति सहसा गत्वा तत्र वेणुवनेऽसरत् ॥ २३.३४{३४} ॥ तदा स भगवांस्तत्र ध्यानालयात्समुत्थितः । सभामध्यासनासीनः सद्धर्मं समुपादिशत् ॥ २३.३५{३५} ॥ तस्मिन्नवसरे तत्र नारदः सत्वरान्वितः । दूरात्तं श्रीघनं पश्यन् सहसा समुपाचरन् ॥ २३.३६{३६} ॥ तमेव समुपायातं नारदं स मुनीश्वरः । दृष्ट्वारात्समुपामंत्र्य पुनरेवमभाषत ॥ २३.३७{३७} ॥ एहि ते स्वागतं भिक्षो कुतस्त्वं समुपागतः । किमर्थमिह येनैवं प्रायासि तद्वदस्व मे ॥ २३.३८{३८} ॥ इत्यादिष्टे मुनीन्द्रेण नारदः स कृतांजलिः । समुपेत्य मुनीन्द्रं तं प्रणत्वैवं न्यवेदयत् ॥ २३.३९{३९} ॥ (र्म् २७३) भगवन् भवतां पादौ द्रष्टुमिह समाचरे । अद्याहं निर्जनेऽरण्ये विहर्तुं समुपाचरे ॥ २३.४०{४०} ॥ तत्राहं प्रेतिकामेकां राक्षसीमिव भीषणाम् । कृशाङ्गीं विकृताकारां रक्तविन्दुऽन्वितांवराम् ॥ २३.४१{४१} ॥ अनेका अस्थिषंकीर्णे प्रेतालये इव स्थिताम् । पश्यामि तामुपासृत्य परिपृछामि तत्कृतम् ॥ २३.४२{४२} ॥ किं त्वया प्रकृतं पापं पूर्वजन्मसु दारुणम् । येनेदृग्महादुःखमनुभवसि सांप्रतम् ॥ २३.४३{४३} ॥ इति पृष्टे मयाथासौ प्रेतिका दुःखतापिनी । रुदन्ती मां समालोक्य शनैरेवमभाषत ॥ २३.४४{४४} ॥ भदन्त किं वदिष्यामि यन्मया पातकं कृतम् । येनेदृशं महादुःखमनुभवामि सांप्रतम् ॥ २३.४५{४५} ॥ पंचपुत्रानहं रात्रौ दिवा पंच तथापरान् । प्रसूय तां प्रभक्ष्यामि नास्ति तृप्तिस्तथापि मे ॥ २३.४६{४६} ॥ एवं क्षुत्पिपासाग्नितीव्रतापाभिदाहिता । दिवारात्रिं महद्दुःखं भुक्त्वा तिष्ठामि जंगले ॥ २३.४७{४७} ॥ तत्पुरा किं कृतं घोरं पातकमतिदारुणम् । मयापि ज्ञायते नात्र परिपृछ मुनीश्वरम् ॥ २३.४८{१४८} ॥ सर्वज्ञस्त्रिजगच्छास्ता भगवान् स मुनीश्वरः । यन्मया प्रकृतं पापं तत्सर्वं समुपाविशेत् ॥ २३.४९{४९} ॥ इति तयोदितं श्रुत्वा तथेति परिबोधितः । भवन्तमत्र संप्रष्टुं समागछामि सांप्रतम् ॥ २३.५०{५०} ॥ किं तया प्रकृतं घोरं पातकमतिदारुणम् । येनैवं दुःसहं दुःखं भुक्त्वा चरति साधुना ॥ २३.५१{५१} ॥ तत्सर्वं समुपादिश्य प्रबोधयितुमर्हति ॥ २३.५२{५२} ॥ इति संप्रार्थिते तेन भगवान् स मुनीश्वरः । नारदं तं महाभिज्ञं समालोक्यैवमादिशेत् ॥ २३.५३{५३} ॥ नारद प्रेतिका सातितीव्रपातकसाधिनी । यदीच्छेस्तत्कृतं श्रोटुं शृणु वक्ष्यामि तेऽधुना ॥ २३.५४{५४} ॥ तद्यथाभूत्पुरा पुर्य्यां वाराणस्यां महाजनः । श्रेष्ठी प्राढ्यो महच्छ्रीमाच्छ्रीदोपमो धनाधिपः ॥ २३.५५{५५} ॥ स कुलधर्मिणीं भार्यामुपयेमे यथाविधिम् । ततः स कांतया सार्द्धं तया रेमे प्रमोदयन् ॥ २३.५६{५६} ॥ तस्यैवं रममाणस्य क्रीडतः सुचिरादपि । तस्यामेकोऽपि पुत्रो वा पुत्री वा नाभ्यजायत ॥ २३.५७{५७} ॥ ततः स गृहभृच्छ्रेष्ठी सन्ततिदर्शनोत्सुकः । तन्निराशाभिसंतप्तमूर्छितोऽभूद्यथातुरः ॥ २३.५८{५८} ॥ कपोलं स्वभुजे स्थाप्य शोकागारे व्यवस्थितः । संपच्चिन्ताविषण्णास्यो मनसैवं व्यचिंतयत् ॥ २३.५९{५९} ॥ हा दैव किं मया पापं सुकृतं दुःकृतं पुरा । यन्ममैवं विधं दुःखं सुखं चात्र प्रजायते ॥ २३.६०{६०} ॥ अनेकद्रव्यसंपत्तिसमुदितं गृहं मम । (र्म् २७४) तत्र भोक्ता तु नैकोऽपि पुत्रोऽस्ति दुहितापि न ॥ २३.६१{६१} ॥ तत्सर्वं स्वापतेयं हि ममात्ययान्नराधिपः । अपुत्रकमिति कृत्वा सर्वस्वं सर्वथा हरेत् ॥ २३.६२{६२} ॥ यन्मयानेकयत्नेन साधितं रक्षितं च तत् । सर्वमेव निरर्थेन विनष्टं मे भविष्यति ॥ २३.६३{६३} ॥ तदत्र किं करिष्यामि यस्योपायं न मन्यते । सर्वथाहं विनष्टोऽस्मि को मां रक्षेदिहाधुना ॥ २३.६४{६४} ॥ एवं चिन्ताविषण्णास्यं स्वामिनं तं गृहाधिपम् । दृष्ट्वा सा रमणी भार्या समालोक्यैवमब्रवीत् ॥ २३.६५{६५} ॥ स्वामिन्नत्र किमेव त्वं तिष्ठसे दुःखचिन्तया । किं तव जायते दुःखं तद्वदस्व ममाग्रतः ॥ २३.६६{६६} ॥ इति भार्योदितं श्रुत्वा स गृहस्थो विनिश्वसन् । तं भार्यां रमणीकान्तां समालोक्यैवमब्रवीत् ॥ २३.६७{६७} ॥ प्रियेऽत्र किं वदिष्यामि यस्योपायं न मन्यते । यन्मेऽस्ति महती संपदस्या भोक्ता न विद्यते ॥ २३.६८{६८} ॥ नूनं मदत्ययाद्राजा ममैताः सर्वसंपदः । अपुत्रस्य नृपाधीना इति कृत्वा हरिष्यति ॥ २३.६९{६९} ॥ यन्ममैता महायत्नैः साधिता वन्दिता अपि । तत्सर्वं हि निरर्थेन विनक्ष्यति निरत्ययात् ॥ २३.७०{७०} ॥ एतन्मे जायते दुःखं तदत्र किं वदेय हि । को ममैतन्महच्छल्यं हृदयेऽत्र समुद्धरेत् ॥ २३.७१{७१} ॥ इति चिन्ताविषण्णात्र हृदयं दह्यते मम । तेनैवमत्र तिष्ठामि विषदग्धो यथातुरः ॥ २३.७२{७२} ॥ इति भर्त्रोदितं श्रुत्वा सा भार्या रमणी प्रिया । स्वामिनं तं समालोक्य बोधयितुं समब्रवीत् ॥ २३.७३{७३} ॥ एतदर्थे विषादत्वं मा कृथाः सर्वथा प्रिये । उपायां कुरु तत्प्राप्त्यै यदि संततिमिछसि ॥ २३.७४{७४} ॥ उपायमपि सिद्ध्येत देवतानां प्रसादतः । तद्देवताः समाराध्य याचस्व सन्ततिं मुदा ॥ २३.७५{७५} ॥ तदा देवप्रसादेन जयेन्नौ सन्ततिः खलु । पुत्रो वा यदि वा पुत्री जाता स्यात्सफलं भवे ॥ २३.७६{७६} ॥ इति मे वचनं श्रुत्वा कुलस्थितिं यदीछसि । देवताराधनं कृत्वा भजस्व संततीछया ॥ २३.७७{७७} ॥ इति भार्योदितं श्रुत्वा स गृहस्थः प्रबोधितः । तथेत्यभ्यनुमोदित्वा तथा कर्त्तुं समैछत ॥ २३.७८{७८} ॥ ततः स गृहभृच्छ्रेष्ठी भार्यया सह मोदितः । स्वकुलेशं समभ्यर्च्य सन्तानं समयाच तत् ॥ २३.७९{७९} ॥ तथापि श्रेष्ठिनस्तस्य भार्याभून्नैव गर्भिणी । ततः स परिखिन्नात्मा तस्थावेवं निराशया ॥ २३.८०{८०} ॥ ततः सा रमणी भार्या निराशाखिन्नमानसम् । स्वामिनं तं समालोक्य पुनरेवमभाषत ॥ २३.८१{८१} ॥ स्वामिन्मात्र विषादत्वं कृथा धैर्यं समाश्रय । विषादो क्लीयते चित्तं क्षीणद्त्तो न वीर्यभाक् ॥ २३.८२{८२} ॥ (र्म् २७५) वीर्यं विनात्र संसारे किं चित्कार्यं न सिद्ध्यते । तस्माद्वीर्यं समालम्ब्य भज देवान् समाहितः ॥ २३.८३{८३} ॥ यदि पुत्रो न जाताः स्यात्पुत्री वापि न जायते । पुण्यं तु वर्द्ध्यते नूनं देवताराधनादपि ॥ २३.८४{८४} ॥ इति मत्वात्र संसारे सदा सौख्यं यदीछसि । सर्वान् देवान् समभ्यर्च्य भजस्वा श्रद्धयादरात् ॥ २३.८५{८५} ॥ इति भार्योदितं श्रुत्वा भर्त्ता श्रेष्ठी स बोधितः । तथेति प्रतिभाषित्वा देवानर्चितुमैछत ॥ २३.८६{८६} ॥ तथा सन्तानमिछेन् स गृहस्थो भर्य्यया मुदा । विधिं स्रष्टारमाराध्य संततिं समयाचत ॥ २३.८७{८७} ॥ तथापि तस्य भार्या सा गर्भिणी नोऽभवच्चिरम् । ततश्च स विभग्नाशस्तस्थौ शोकविषादितः ॥ २३.८८{८८} ॥ तटोऽपि भार्यया भूयः प्रेर्य्यमाणः स बोधितः । विश्वंभरं समभ्यर्च्य ययाच संततिं तथा ॥ २३.८९{८९} ॥ तथापि साभवन्नैव दोहदलक्षणाङ्किता । ततश्चासौ गृहस्थोऽभून्निराशापरिखेदितः ॥ २३.९०{९०} ॥ तथा स भार्यया भूयः प्रेरितः परिबोधितः । महेश्वरं समभ्यर्च्य संततिं समयाचत ॥ २३.९१{९१} ॥ तथेन्द्रं च समाराध्य प्रार्थयत्संततिं मुदा । एवं लोकाधिपान् सर्वान् ग्रहान् सर्वानहूरपि । समाराध्य समभ्यर्च्य प्रार्थयत्सन्ततिं तथा ॥ २३.९२{९२} ॥ ततश्चैवं महाकालं कुमारं च गणाधिपम् । भैरवं मातृकाश्चापि प्रार्थयद्वंशमर्चयन् ॥ २३.९३{९३} ॥ एवमन्यानपि देवान् विहारमण्डपाश्रयान् । मठसत्राश्रमारामशृंगाटकप्रतिष्ठितान् ॥ २३.९४{९४} ॥ उद्यानपर्वतारण्याक्षत्रसीमादिसंस्थितान् । सर्वजलाश्रयस्थांश्च सर्वान्नागाधिपानपि ॥ २३.९५{९५} ॥ रथ्याचत्वरमार्गादिप्रतिस्थितान् समुत्सुकः । सर्वान् देवान् समाराध्य ययाचैवं स संततिम् ॥ २३.९६{९६} ॥ तथापि श्रेष्ठिनस्तस्य भार्यायां सुचीरादपि । तस्यां नैवाभवत्किं चिद्दोहदोत्पत्तिलक्षणम् ॥ २३.९७{९७} ॥ ततः स गृहभृच्छ्रेष्ठी दृष्ट्वा वंशनिरन्तरम् । निराशाप्रतिखिन्नात्मा तस्थावेवं यथातुरः ॥ २३.९८{९८} ॥ एतद्दुःखविभिन्नास्यं दृष्ट्वा सा रमणी प्रिया । स्वामिनं तं समीक्षन्ती पुनरेवमभाषत ॥ २३.९९{९९} ॥ स्वामिन्नत्र विषादेन किं चित्कार्यं न सिद्ध्यते । इति मत्वा यथाकामं सौख्यं भुक्त्वा समाचर ॥ २३.१००{१००} ॥ यदावाभ्यां कृतं पापं तत्फलं भुज्यतेऽधुना । तदत्र किं करिष्यावो दैवं हि वलवान् भवे ॥ २३.१०१{१} ॥ यदभावि भवेन्नैव भावि चेन्नान्यथा क्वचित् । अवश्यं भाविनो भावा भवन्ति सर्वथा भवे ॥ २३.१०२{२} ॥ इति मत्वात्र संसारे भुक्त्वा सौख्यं यथेछया । त्रिरत्नभजनं कृत्वा चर सत्यं समाहितः ॥ २३.१०३{३} ॥ (र्म् २७६) तेहैव सर्वदा भद्रमिहामुत्रापि सर्वतः । क्रमाद्बोधिपदं प्राप्य निर्वृतिं समवाप्स्यति ॥ २३.१०४{४} ॥ इति भार्यासमाख्यातं श्रुत्वा श्रेष्ठी स बोधितः । त्रिरत्नभजनं कृत्वा कञ्चित्कालं व्यलंघयत् ॥ २३.१०५{५} ॥ ततस्तस्य सुहृन्मित्रमुपागत्य पुरः स्थितः । तत्संतानसमुत्पत्यै तन्मित्रमेवमब्रवीत् ॥ २३.१०६{६} ॥ भो मित्र शृणु मे वाक्यं यत्ते हितं मयोच्यते । सर्वथास्यां प्रियायां ते संतानं विद्यते न हि ॥ २३.१०७{७} ॥ तदुपायं तु कर्त्तव्यं संततिं प्रतिपत्तये । निर्वंशस्य हि संसारे निरर्थं सर्वसाधनम् ॥ २३.१०८{८} ॥ तत्संतानसमुत्पत्यै द्वितीयं पुत्रभाविनीम् । अपरां युवतीं भार्यां विवह विधिना पुनः ॥ २३.१०९{९} ॥ कदा चित्तव भाग्येन सा पुत्रं जनयेदपि । तदा ते सफलं जन्मः कुलस्थितिर्भवेदपि ॥ २३.११०{१०} ॥ इति मित्रोदितं श्रुत्वा स गृहस्थः प्रबोधितः । तथा हीति प्रतिज्ञाय तं मित्रमभ्यमानयत् ॥ २३.१११{११} ॥ ततः स गृहभृच्छ्रेष्ठी निरीक्ष्य पुत्रभाविनीम् । अपरां युवतीं कांतामुपयेमे यथाविधिः ॥ २३.११२{१२} ॥ ततः स कुलिकः श्रेष्ठी तया सार्द्धं प्रमोदितः । यथाकामं सुखं भुक्त्वा रराम परिचारयन् ॥ २३.११३{१३} ॥ ततस्तस्य गृहस्थस्य यथाकामं प्रभुंजतः । समये सा प्रिया भार्या वभूव गर्भिणीऽचिरात् ॥ २३.११४{१४} ॥ ततः क्रमात्प्रवृद्धोऽभूद्गर्भस्तस्या दिने दिने । तदा सा गर्भसंजातं परिज्ञायाभ्यनन्दत ॥ २३.११५{१५} ॥ ततः सा भद्रिका कान्ता स्वामिनं तं प्रमोदिता । रहसि समुपामंत्र्य समालोक्यैवमब्रवीत् ॥ २३.११६{१६} ॥ दिष्ट्यार्य्यपुत्र वृद्धोऽसि गर्भे मे जायते शिशुः । दक्षिणपार्श्वसंस्थायत्तदयं दारको भवेत् ॥ २३.११७{१७} ॥ इति भार्योदितं श्रुत्वा स गृहस्थोऽभिनंदितः । सव्यवाहुं समुत्सार्य मुदैवं समुदाहरत् ॥ २३.११८{१८} ॥ हा मेऽभिलषितं सिद्ध्येत्पश्येयं संततेर्मुखम् । सांप्रतं नावजातोऽस्मि कुलस्थितिर्भवेदपि ॥ २३.११९{१९} ॥ कृत्यानि मे प्रकुर्वीत विभृयाच्च भृतः प्रति । दायाद्यं प्रतिपद्येत वंशो पि स्याच्चिरस्थितः ॥ २३.१२०{२०} ॥ यन्मया प्रकृतं दानं यच्च पुण्यं प्रसाधितम् । एतद्विपाककौशल्यमेतयोरनुगछतु ॥ २३.१२१{२१} ॥ एवं स मुदितः श्रेष्ठी तां भार्यां भद्रिकां प्रियाम् । सुपथ्योपचारसंयुक्तैराहारैः समपोषयत् ॥ २३.१२२{२२} ॥ दूष्यैश्चीनांशुकैः पट्टैः कोमलैस्सौरभान्वितैः । नानारत्नाभ्यलंकारैर्मण्डयित्वाभ्यमोदयत् ॥ २३.१२३{२३} ॥ एवं तां भद्रिकां कान्तां पथ्योपचारभूषणैः । पोषितां मण्डितां कृत्वा प्रामाणयत्प्रसादयन् ॥ २३.१२४{२४} ॥ (र्म् २७७) एवं तां गर्भिणीं भर्तुर्बहुमानाभिनंदिताम् । दृष्ट्वा सा प्रथमा भार्या भूय एवं व्यचिंतायत् ॥ २३.१२५{२५} ॥ यद्येषा युवती कांता जनयेदतिसंततिम् । तदेतत्सर्वसंपत्तिरधीनास्या भवेदपि ॥ २३.१२६{२६} ॥ एषैव हि प्रधाना स्यात्सर्वलोकप्रमाणिका । कोऽपि प्रमाणयेन्नैव जरतीं मामपुत्रिताम् ॥ २३.१२७{२७} ॥ तदत्रास्याः सपत्न्या मे यथा स्याद्गर्भशातनम् । तथोपायं प्रकर्त्तव्यं सुगुप्तेन मयाधुना ॥ २३.१२८{२८} ॥ कामरागाग्नितप्तस्य नास्ति किं चिद्धि पातकम् । सर्वमपि प्रकर्त्तव्यं भोक्तव्यं सर्वतोऽपि च ॥ २३.१२९{२९} ॥ ततः सा प्रमदा दुष्टा तस्या गर्भाभिशातनम् । द्रयं पानाभिसंयुक्तं ददौ विश्रम्भवादिनी ॥ २३.१३०{३०} ॥ तत्सपत्न्यार्पितं पानं दृष्ट्वा सा भद्रिकार्जवा । हस्ताभ्यां सहसादाय पपौ तृष्णार्दिता यथा ॥ २३.१३१{३१} ॥ तदेतत्पीतमात्रेण तस्या गर्भो विघूर्णितः । सहसाभिद्रवीभूतः प्रसश्रावाभ्यशोषतः ॥ २३.१३२{३२} ॥ ततः सा भद्रिका नारी भर्त्तारं तं सबांधवम् । सहसा समुपामंत्र्य पुनरेवं न्यवेदयत् ॥ २३.१३३{३३} ॥ स्वामिंस्तवानया पत्न्या प्रियया गर्भशातनम् । पानमौषधसंयुक्तं सादरं मे प्रदीयते ॥ २३.१३४{३४} ॥ तत्तद्दत्तं सविश्वासं गृहीत्वा पीयते मया । तत्पानपीतमात्रेण गर्भो मे स्रस्यतेऽधुना ॥ २३.१३५{३५} ॥ तदत्र किं करिष्यामि यतो मे नश्यते शिशुः । यदर्थं प्रकृतं दानं तत्सर्वं निस्फलं तव ॥ २३.१३६{३६} ॥ इत्याख्यातं तया पत्न्या श्रुत्वा श्रेष्ठी स रोषितः । तां सहसाहूय परिभाष्यैवमालपत् ॥ २३.१३७{३७} ॥ हा रे रे दुर्मते दुष्टे घोरपातकसाधिनी । एवमपि महाघोरं पातकं प्रकृतं त्वया ॥ २३.१३८{३८} ॥ यदर्थे देवताः सर्वास्समाराध्याभियाचिताः । नानाविधानयत्नानि प्रकृतानि ममानिशम् ॥ २३.१३९{३९} ॥ सर्वाण्येतानि यत्नानि त्वया व्यर्थीकृतानि हि । तदत्र किं त्वया पत्न्या पापिष्ठया व्रजाधुना ॥ २३.१४०{४०} ॥ मया त्वं पापिनी त्यक्ता मा तिष्ठेह गृहे मम । इत्युक्तं स्वामिना तेन श्रुत्वा सा दुरिताशया । सज्ञातेः स्वामिनस्तस्य पुररेवमभाषत ॥ २३.१४१{४१} ॥ किमेवं वदसे स्वामिन्न मयेदं कृतं खलु । मया न मन्यते नूनं तदिदं त्वं विचारय ॥ २३.१४२{४२} ॥ यदि दत्तं मया द्रव्यमस्या गर्भाभिशातनम् । प्रेतीभूतात्मजान् पुत्राञ्जातां जातान् दिवानिशम् ॥ २३.१४३{४३} ॥ प्रभुक्त्वैवं महद्दुःखे चिरेयु दुर्गतौ सदा । इत्येवं शपथं कृत्वा स्वामिनं तमबोधयत् ॥ २३.१४४{४४} ॥ इति प्रोक्तं तया पत्न्या श्रुत्वा श्रेष्ठी स बोधितः । (र्म् २७८) चिराशापरिमुक्तात्मा मृता प्रेतालये यायौ ॥ २३.१४५{४५} ॥ एषैव प्रेतिका श्रेष्ठिभार्या दुराशया । स्वकृतकर्मभोग्यानि भुक्त्वैवं भ्रमतेऽधुना ॥ २३.१४६{४६} ॥ यदीर्ष्यया तया तस्याः प्रकृतं गर्भशातनम् । तेन सा दुष्कृताकारा प्रेतीभूता चरत्यपि ॥ २३.१४७{४७} ॥ यच्च तया मृषावाचा शपथः प्रकृता यथा । तथा तत्कर्मपाकेन दुर्गतौ भ्रमते सदा ॥ २३.१४८{४८} ॥ पंचपुत्रान् दिवारात्रिं प्रसूय सा क्षुधान्विता । सर्वांस्तां स्वात्मजान् वालानपि भुक्त्वा न तृप्यते ॥ २३.१४९{४९} ॥ एवं सा पापिनी प्रेती जातां जतांस्तथात्मजान् । भुक्त्वा क्षुधाग्निसंदगधा भ्रमेत्प्रेतालये सदा ॥ २३.१५०{५०} ॥ एवं नारद विज्ञाय विरम्य पातकात्सदा । मृषावादाच्च सद्धर्मे चरितव्यं शुभार्थिभिः ॥ २३.१५१{५१} ॥ सद्धर्मस्य विपाके हि सर्वदा मंगलं भवे । पातकस्य सदा दुःखं विश्रिते स्य तथोभयम् ॥ २३.१५२{५२} ॥ इति मत्वा सदा यूयं त्रिरत्नं शरणं गताः । सत्कृत्य श्रद्धया नित्यं प्रभजध्वं समाहिताः ॥ २३.१५३{५३} ॥ ये बुद्धशरणं कृत्वा भजन्ति श्रद्धया मुदा । ते सर्वे दुर्गतिं हित्वा संप्रयान्ति जिनालये ॥ २३.१५४{५४} ॥ ये च शृण्वन्ति सद्धर्मं मानयन्ति च सादरम् । तेऽपि क्लेशान् विनिर्जित्य संयांति सौगतालये ॥ २३.१५५{५५} ॥ ये संघं शरणं कृत्वा सत्कृत्य प्रभजन्ति ते । सर्वेऽपि दुर्गतेर्मुक्त्वा संप्रयान्ति सुखावतीम् ॥ २३.१५६{५६} ॥ एवं मत्वात्र संसारे सर्वदा शुभवांछिभिः । त्रिरत्नभजनं कृत्वा चरितव्यं शुभे सदा ॥ २३.१५७{५७} ॥ इत्यादिष्टं मुनींद्रेण श्रुत्वा स नारदः सुधीः । ससंघः सर्वदा लोकाश्च तथेति प्रत्यपद्यत ॥ २३.१५८{५८} ॥ ततः स नारदो भिक्षुः कृतांजलिः पुरोगतः । भगवंतं प्रणत्वा च पप्रछ तद्विशोधनम् ॥ २३.१५९{५९} ॥ भगवन् सा पापिनी प्रेती ततः प्रेतालयात्कदा । तद्घोरपातकान्मुक्ता संयायात्सद्गतौ कथम् ॥ २३.१६०{६०} ॥ तदुपायं जगच्छास्त समुपादेष्टुमर्हति । येनासौ दुर्गातेर्मुक्ता सहसा सद्गतिं व्रजेत् ॥ २३.१६१{६१} ॥ इति संप्रार्थिते तेन नारदेन स सर्ववित् । भगवांस्तं सभां चापि समालोक्यैवमादिशत् ॥ २३.१६२{६२} ॥ शृणु नारद तस्यास्तत्पातकपरिशोधनम् । उपायं समयं चापि प्रवक्ष्याम्यधुना तथा ॥ २३.१६३{६३} ॥ यदा लोकेश्वरो नाथः सर्वसत्वानुकंपकः । बोधिसत्वो महासत्वस्त्रैधातुकाधिपेश्वरः ॥ २३.१६४{६४} ॥ सुखावत्या विनिर्गत्य सर्वाल्लोकान् प्रभासयन् । सर्वान् सत्वान् समुद्धर्तुं प्रेतलोके समाचरेत् ॥ २३.१६५{६५} ॥ तदा तत्प्रभया स्पृष्टा सातिसौख्यसमन्विता । किमद्य मे महत्सौख्यमिति प्रोक्त्वाभ्यचिंतयत् ॥ २३.१६६{६६} ॥ (र्म् २७९) अहो सौख्यं समुत्पन्नं प्रभावेयं प्रसारिता । नूनमत्र महासत्वः सत्वानुद्धर्तुमागताः ॥ २३.१६७{६७} ॥ यस्येदृक्सत्कृपादृष्टिः सत्वेष्वेवं प्रसर्य्यति । तस्यैव शरणं गत्वा भजेयं सर्वदादरात् ॥ २३.१६८{६८} ॥ इति ध्यात्वा विनिश्चित्य सा प्रेती प्रतिविस्मिता । तस्यैवा स्मरणं कृत्वा तिष्ठे दृष्टं समुत्सुका ॥ २३.१६९{६९} ॥ तदा स भगवांस्तत्र लोकनाथः कृपामयः । प्रेतलोकान् समूद्धर्तुमुपाचरेत्प्राभासयः ॥ २३.१७०{७०} ॥ तं प्रभासंतमायातं दृष्ट्वा सर्वेऽपि प्रेतकाः । सहसा समुपेत्यैवं प्रार्थयेयुः समादरात् ॥ २३.१७१{७१} ॥ स्वागतं भगवन्नाथ प्रसीद परमेश्वर । कृपयास्मान् समालोक्य प्रेतलोकान् समुद्धर ॥ २३.१७२{७२} ॥ सर्वदा भवतामेव शरणं संव्रजामहे । तत्कृत्वा परिशुद्धान्नः सर्वा प्रेरय सद्गतौ ॥ २३.१७३{७३} ॥ इति तत्प्रार्थिते सर्वे लोकनाथः कृपानिधिः । सद्धर्मं समुपादिश्य पुनरेवमुपादिशेत् ॥ २३.१७४{७४} ॥ यदीछथ सदा सौख्यं यूयं सर्वे समाहिताः । त्रिरत्नं स्मरणं कृत्वा भजत श्रद्धया मुदा ॥ २३.१७५{७५} ॥ तदैतत्पातकैर्मुक्तास्सर्वे यूयं पवित्रिताः । सहसा सद्गतिं प्राप्ता भवेत बोधिचारिणः ॥ २३.१७६{७६} ॥ इत्यादिष्टं जगच्छास्त्रा लोकनाथेन तेन ते । सर्वेऽपि प्रेतिकाः श्रुत्वा तथा कर्तुं समीछिरे ॥ २३.१७७{७७} ॥ तदा ते प्रेतिकाः सर्वे परिशुद्धाशया मुदा । त्रिरत्नं शरणं कृत्वा स्मृत्वा भजेयुरानताः ॥ २३.१७८{७८} ॥ तदा तत्स्मृतिपुण्येन सर्वे ते प्रेतिकास्ततः । प्रेतलोकात्समुत्थाय संयास्यन्ति सुखावतीम् ॥ २३.१७९{७९} ॥ तत्रामिताभनाथस्य सर्वे ते शरणं गताः । भजन्तो धर्ममाकर्ण्य चरिष्यंति शुभाचरिम् ॥ २३.१८०{८०} ॥ ततः सर्वेऽपि ते सत्वा बोधिसत्वाः शुभंकराः । क्रमाद्बोधिं समासाद्य संबुद्धपदमाप्नुयुः ॥ २३.१८१{८१} ॥ तदा सा पापिनी प्रेती सर्वपापविमोचिता । प्रेतलोकात्समुत्थाय सद्गतिं समवाप्स्यति ॥ २३.१८२{८२} ॥ एवं मत्वात्र संसारे सद्गतिं सुखवांछिभिः । त्रिरत्नभजनं कृत्वा चरितव्यं सदा शुभे ॥ २३.१८३{८३} ॥ त्रिरत्नभजनोद्भूतं पुण्यं न क्षिणुयात्क्वचित् । सर्वक्लेशान् विनिर्दह्य प्रापयेत्सौगतं पदम् ॥ २३.१८४{८४} ॥ इत्यादिष्टं मुनीन्द्रेण श्रुत्वा स नारदो यतिः । ससांघिकसभालोकस्तथेति प्राभ्यनंदत ॥ २३.१८५{८५} ॥ इति मे गुरुणादिष्टं मयात्र वक्ष्यते । मत्वा राजंस्त्वमप्येवं त्रिरत्नं भज सर्वदा ॥ २३.१८६{८६} ॥ प्रजाश्चापि तथा धर्मं श्रावायित्वा प्रबोधयन् । बोधिमार्गे प्रतिष्ठाप्य पालयस्व समाहितः ॥ २३.१८७{८७} ॥ (र्म् २८०) ततस्ते सर्वदा भद्रं सर्वत्रापि भवेद्ध्रुवम् । क्रमाद्बोधिं शिवां प्राप्य संबुद्धपदमाप्नुयाः ॥ २३.१८८{८८} ॥ इति तेनार्हतादिष्टं श्रुत्वाशोको नराधिपः । तथा हीति प्रतिज्ञाय प्राभ्यनन्दत्सपार्षदः ॥ २३.१८९{८९} ॥ ये चेदं प्रेतिकायाः सुगतकथितमिदं श्रद्धया येऽवदानं शृण्वंति श्रावयन्ति प्रमुदितमनसस्ते नराः सर्व एवम् । कृत्वा रत्नत्रयस्य प्रभजनमनिशं बोधिचित्तं समाप्य कृत्वा लोकेषु भद्रं सकलगुणभरा बौद्धलोके प्रयान्ति । ++ इति रत्नावदानतत्वे प्रेतिकायाः कथा समाप्तम् ++ (र्म् २८१) xxइव्प्रेतीभूतमहर्द्धिकावदान अथाशोको महीपालः कृतांजलिपुटो मुदा । उपगुप्तं यतिं नत्वा प्रार्थयच्च तथादरात् ॥ २४.१{१} ॥ भदन्त श्रोतुमिछामि पुनरन्यत्सुभाषितम् । तद्यथा गुरुणादिष्टं तथा मे समुपादिश ॥ २४.२{२} ॥ इति संप्रार्थिते राज्ञा श्रुत्वा सोऽर्हं सुधीर्यतिः । नृपतिं तं महीपालं संपश्यन्नेवमादिशत् ॥ २४.३{३} ॥ साधु शृणु महाराज यथा मे गुरुणोदितम् । तथाहं संप्रवक्ष्यामि तव धर्मप्रवृद्धये ॥ २४.४{४} ॥ तद्यथा भगवाञ्छास्ता श्रीघनः स मुनीश्वरः । सर्वज्ञः सुगतो नाथो धर्मराज विनायकः ॥ २४.५{५} ॥ भिक्षुभिः श्रावकैः सार्द्धं भिक्षुणीभिश्च चैलकैः । उपासकैः शुभाचारैरुपासिकागणैरपि ॥ २४.६{६} ॥ बोधिसत्वैर्महासत्वैस्तथान्यैर्बोधिवांछिभिः । ब्रह्मदेवासुरेन्द्रैश्च यक्षगंधर्वकिंनरैः ॥ २४.७{७} ॥ सिद्धैर्विद्याधरैश्चापि नागेन्द्रै गरुडैरपि । सर्वै लोकाधिपैश्चापि तथान्यैश्च महर्षिभिः ॥ २४.८{८} ॥ ब्राह्मणै राजभि राजकुमारैश्च शुभार्थिभिः । वैश्यै मंत्रिगणैश्चापि तथामात्यगणैरपि ॥ २४.९{९} ॥ श्रेष्ठिभिः पौरिकैश्चपि गृहस्थैश्च महाजनैः । वणिग्भिः सार्थवाहैश्च तथा शिल्पिगणैरपि ॥ २४.१०{१०} ॥ ग्राम्यै जानपदैश्चापि कार्पटिकैः सतीर्थिकैः । तथान्यैः सुजनै विज्ञैः सद्धर्मगुणवांछिभिः ॥ २४.११{११} ॥ सेविताभ्यर्चितस्तत्र वेणुवने मनोरमे । करंदकनिवापाख्ये विहारे सौगताश्रमे ॥ २४.१२{१२} ॥ सद्धर्मं समुपादिश्य विजहार प्रभासयन् । सर्वसत्वहितार्थेन रत्नराशिमिवोज्वलन् ॥ २४.१३{१३} ॥ तदैव समये तत्र राजगृहे पुरोत्तमे । आसीद्गृहपते श्रेष्ठी महाजनो महाधनः ॥ २४.१४{१४} ॥ श्रिमां श्रीदोपमः सर्वद्रव्यसंपत्समान्वितः । स सदृशात्कुला भार्यां स्वकुलधर्मचारिणीम् ॥ २४.१५{१५} ॥ सुभद्रांगां समानीय विधिनोदवहन्मुदा । ततः स गृहभृत्कन्ता भार्यया कांतया तथा ॥ २४.१६{१६} ॥ यथाकामं रतिं भुक्त्वा चक्रीड परिचारयन् । ततस्तस्य गृहस्थस्य यथाकामं प्रभुंजतः ॥ २४.१७{१७} ॥ समये सा प्रिया भार्या बभूव गर्भधारिणी ॥ २४.१८{१८} ॥ (र्म् २८२) ततः सा समयेऽसूत दारकं सुंदरांशिकम् । तच्छ्रुत्वा स पिता श्रेष्ठी मुदा द्रष्टुमुपाचरन् ॥ २४.१९{१९} ॥ तत्र स समुपेत्याशु दारकं तं शुभांशिकम् । दृष्ट्वा संमुदितः पश्यन्नेव तस्थावतृप्तितः ॥ २४.२०{२०} ॥ ततो ज्ञातीन् समाहूय कृत्वा जातिमहं शिशोः । अस्य नामप्रसिद्धेन क्रियतामित्यभाषत ॥ २४.२१{२१} ॥ तच्छ्रुत्वा ज्ञातयः सर्वे ते कृत्वा समतं तथा । तं श्रेष्ठिनं समाहूय पुर एवं समब्रुवन् ॥ २४.२२{२२} ॥ यदयं दारको जातो नक्षत्र उत्तराभिधे । तेनोत्तर इति ख्यातो भवतु भवदात्मजः ॥ २४.२३{२३} ॥ इति तैर्ज्ञातिभिः ख्यातं श्रुत्वा स गृहभृत्तथा । तेनैव नामधेयेन प्राख्यापयत्तमात्मजम् ॥ २४.२४{२४} ॥ ततः स दारकोऽष्टाभि धात्रिभिः प्रतिपालितः । दिने दिने प्रवृद्धोऽभू ह्रदस्थमम्बुजं यथा ॥ २४.२५{२५} ॥ ततः प्रवर्द्धमानः स गुरुभिः शिक्षितः क्रमात् । लिप्यादि सर्वविद्यानां द्रुतं पारं समाययौ ॥ २४.२६{२६} ॥ तदा स उत्तरो विज्ञः सवयोभिः सहान्वितः । चरमानः पुरे तत्र लोकमनोहरो वभौ ॥ २४.२७{२७} ॥ यदा स उत्तरः प्रौढयौवनमदनाश्रयः । तदा तस्य पिता श्रेष्ठी दैवात्कालं समाययौ ॥ २४.२८{२८} ॥ ततस्तस्य गृहे तत्र स उत्तरस्तदात्मजः । स्वामी संपत्तिसंप्राप्तो गृहि लोकाधिपोऽभवत् ॥ २४.२९{२९} ॥ ततः स कुलवृत्तिस्थो व्यवहारविचक्षणः । क्रयविक्रयकार्याणि कृत्वा द्रव्यं समर्जयत् ॥ २४.३०{३०} ॥ स एकस्मिन् दिने तत्र वेणुवने जिनाश्रमे । संबुद्धं श्रीघनं द्रष्टुं धर्मार्थी समुपाचरत् ॥ २४.३१{३१} ॥ तत्र स समुपासृत्याद्राक्षीत्तं श्रीघनं मुनिम् । द्वात्रिंशल्लक्षणाशीतिव्यंजनप्रतिमंडितम् ॥ २४.३२{३२} ॥ व्यामप्रभाविरोचंतं समंतभद्ररूपिणम् । रत्नराशिमिवोज्वालं रत्नाद्रिमिव जंगमम् ॥ २४.३३{३३} ॥ सभामध्यासनासीनं भिक्षुसंघपुरस्कृतम् । धर्मामृतप्रवर्षन्तं सर्वलोकैर्नमस्कृतम् ॥ २४.३४{३४} ॥ दृष्ट्वा स मुदितस्तत्र सांजलिः पुरतो व्रजन् । पादौ तस्य मुनीन्द्रस्य प्रणत्वैकान्त आश्रयन् ॥ २४.३५{३५} ॥ तत्र तस्याशयं शुद्धं दृष्ट्वा स भगवांस्तथा । आर्यसत्यं समारभ्य सद्धर्मं समुपादिशत् ॥ २४.३६{३६} ॥ तत्सद्धर्मामृतं पीत्वा स उत्तरः प्रमोदितः । पुनः पादौ मुनेर्नत्वा प्रत्याययौ स्वमालयम् ॥ २४.३७{३७} ॥ एवं स उत्तरो विज्ञः प्रतिदिनं जगद्गुरोः । द्रष्टुं धर्मामृतं वापि पातुं नित्यमुपाचरत् ॥ २४.३८{३८} ॥ तथा तस्य मुनीन्द्रस्य पीत्वा धर्मामृतं तदा । (र्म् २८३) संबुद्धशासने तत्र प्रव्रजितुं समैछत ॥ २४.३९{३९} ॥ ततः स उत्तरस्तस्य मुनीन्द्रस्य पुरोगतः । पादाब्जौ सांजलिर्नत्वा प्रव्रज्यां समयाचत ॥ २४.४०{४०} ॥ भगवन्नाथ सर्वज्ञ भवतां शरणं व्रजे । तत्प्रव्रज्यां व्रतं मह्यं दातुमर्हति सांप्रतम् ॥ २४.४१{४१} ॥ इति संप्रार्थिते तेन भगवान्मुनीश्वरः । उत्तराख्यं कुमारं तं समालोक्यैवमादिशत् ॥ २४.४२{४२} ॥ कुमार शासने बौद्धे प्रव्रजितुं यदीछसि । अनुज्ञां मातुरासाद्य प्रागछ दास्यते तदा ॥ २४.४३{४३} ॥ इत्यादिष्टे मुनीन्द्रेण स उत्तरः प्रबोधितः । तथेति चरणौ तस्य मुनेर्नत्वा गृहं ययौ ॥ २४.४४{४४} ॥ तत्र गृहे समासाद्य स उत्तरः प्रमोदितः । जनन्याश्चरणौ नत्वा सांजलिरेवमब्रवीत् ॥ २४.४५{४५} ॥ मातरद्य विहारेऽहं गछामि सौगताश्रमे । तत्र शास्तु मुखाब्जोत्थमार्यधर्मामृतं पिबे ॥ २४.४६{४६} ॥ तत्सद्धर्मामृतं पीत्वा तृष्णा मे वर्द्ध्यते पुनः । तत्सद्धर्मं समालब्धुमिछामि परितुष्टये ॥ २४.४७{४७} ॥ धन्यास्ते हि शुभात्मानः परिशुद्धत्रिमंडलाः । संबुद्धशासने स्थित्वा सदा धर्मं पिबन्ति ये ॥ २४.४८{४८} ॥ अहमपि सदा तत्र संबुद्धशासने चरन् । तत्सद्धर्मामृतं लब्धुमिछामि जननी ध्रुवम् ॥ २४.४९{४९} ॥ तत्प्रव्रज्याव्रतं धृत्वा चरितुं सौगताश्रमे । इछामि सांप्रतं मातस्तदनुज्ञां प्रदेहि मे ॥ २४.५०{५०} ॥ इति पुत्रादितं श्रुत्वा मता सा प्रहताशया । चिरं तमात्मजं दृष्ट्वा रुदन्त्यैवमभाषत ॥ २४.५१{५१} ॥ किमेव वदसे पुत्र मैवं मे पुरतो वदः । किमर्थं स्वगृहं त्यक्त्वा प्रव्रजितु त्वमिछसि ॥ २४.५२{५२} ॥ किं ते दुःखं कुतो जातं मया किं चिन्न दृश्यते । त्वया तु दृश्यते यत्तद्वक्तव्यं पुरतो मम ॥ २४.५३{५३} ॥ अद्यापि तव तातस्य शोकाधिः शाम्यते न मे । तथापि मां कथं त्यक्तुमिछसि सांप्रतं सुते ॥ २४.५४{५४} ॥ इति मात्रोदितं श्रुत्वा स उत्तरः कुमारकः । मातरं तं समालोक्य बोधयितुं समब्रवीत् ॥ २४.५५{५५} ॥ मातस्त्वत्कृपया मेऽत्र किं चिद्दुःखं न विद्यते । गृहेऽपि महती संपदस्ति भोग्यं यथेछया ॥ २४.५६{५६} ॥ अनित्यं खलु संसारं क्षणध्वंसि शरीरकम् । अनित्यं जीवितं विद्युत्संपातमिव न ध्रुवम् ॥ २४.५७{५७} ॥ संपच्चापि स्थिरा नैवं कस्य श्री सर्वदा स्थिरा । सर्वेषामपि जंतूनां सर्वत्र मरणं ध्रुवम् ॥ २४.५८{५८} ॥ सर्वेऽपि प्राणिनः काले त्यक्त्वा सर्वान् परिग्रहान् । ज्ञातिवंधुसुहृत्मित्रान्नपि यांति यमालयैः ॥ २४.५९{५९} ॥ (र्म् २८४) एकोऽपि विद्यते नैव मृत्युप्राप्ते सहानुगः । धर्म एव तदैकः स्यात्त्रातानुगो यमालये ॥ २४.६०{६०} ॥ धर्मेण रक्ष्यते तत्र यमदूतैरधिष्ठिते । तदत्र सर्वथा नित्यं कर्त्तव्यं धर्ममेव हि ॥ २४.६१{६१} ॥ धर्मवान्नत्र संसारे भ्रमन्नपि सदा सुखी । सर्वत्र सत्सुखान्येव प्रभुक्त्वा याति सद्गतिम् ॥ २४.६२{६२} ॥ तत्रापि सर्वदा सौख्यं भुक्त्वा कृत्वा च मंगलम् । सर्वसत्वहितार्थेन सद्धर्माण्येव साधयेत् ॥ २४.६३{६३} ॥ एतत्पुण्यविपाकैः स सद्गुरुं समुपाश्रयेत् । सद्गुरोस्तु प्रसादेन बोधिचित्तं लभेत्तदा ॥ २४.६४{६४} ॥ ततो बोधिचरीं प्राप्य बोधिसत्वो भवेत्सुधीः । ततः सत्वहितार्थेन बोधिचर्यां समाचरेत् ॥ २४.६५{६५} ॥ ततः पारमिताः सर्वाः परिपूर्य यथाक्रमम् । त्रिविधां बोधिमासाद्य संबुद्धपदमाप्नुयात् ॥ २४.६६{६६} ॥ इत्यादिष्टं मुनीन्द्रेण सर्वज्ञेन हितार्थिना । श्रुतं मया परिज्ञाय तथा चरितुमिछ्यते ॥ २४.६७{६७} ॥ एतत्पुण्यविभागत्वमपि प्राप्तुं यदीछसि । तदनुज्ञां प्रदत्वा मे चित्तं मातः प्रतोषय ॥ २४.६८{६८} ॥ इति पुत्रोदितं श्रुत्वा माता सा विहताशया । वियोगदुःखसंकार्त्ता विलपन्त्येवमब्रवीत् ॥ २४.६९{६९} ॥ हा पुत्र कथमेकान्ते मां विहातुं त्वमिछसि । नान्यो मे विद्यते पुत्रस्त्वमेवैकोऽस्ति नंदनः ॥ २४.७०{७०} ॥ पितापि तव मां त्यज्य दैवाद्यातो यमालयम् । त्वमपि मां परित्यक्त्वा कुत्र गंतुं तथेछसि ॥ २४.७१{७१} ॥ हा पुत्र कथमज्ञोऽसि केनात्र त्वं प्रवंच्यसे । किं पश्यन् हेतुना केन प्रव्रजितुं त्वमिछसि ॥ २४.७२{७२} ॥ हा पुत्र केन मूढोऽसि यदेता द्रव्यसंपदः । त्यक्त्वा परगृहे भिक्षां याचित्वा भोक्तुमिछसि ॥ २४.७३{७३} ॥ हा पुत्र त्वं कुमारोऽसि तत्प्रव्रज्यां चरेः कथम् । प्रव्रजितो गृहं त्यक्त्वा बहिर्देशे सदाश्रयेः ॥ २४.७४{७४} ॥ तत्कथं त्यक्त्वा बहिर्देशे समाश्रयेः । शाणकंटावृतो मुंदो मृत्वात्र धरेश्वरः ॥ २४.७५{७५} ॥ शीतवातातपाक्रान्ते कथं दुःखं सहेः सुत । क्षुत्पिपासाग्निसंतप्तः दुःखं कस्तेऽभिशामयेत् ॥ २४.७६{७६} ॥ श्मशानेषु शवान्यस्यन् कथमेकश्चरेः सुत । जंगले निर्जनेऽरण्ये एकाकी निवसेः कथम् ॥ २४.७७{७७} ॥ तथा भूतालये शून्यगेहेव निवसेः कथम् । तथामित्रेषु देशेषु कथमेकोरिव च्चरे ॥ २४.७८{७८} ॥ ज्वरादि रोगसंतप्ते कस्तव परिचारयेत् । को वा ते कृपया दद्यात्पथ्यमाहारमौषधम् ॥ २४.७९{७९} ॥ यदि दैवाद्विपत्तिः स्यात्तदा कः परिशोधयेत् । इति समीक्ष्य मा पुत्र प्रव्रज्याव्रत उत्सह । (र्म् २८५) ममात्र वचनं श्रुत्वा सुखं भुक्त्वा गृहे वस ॥ २४.८०{८०} ॥ इति मात्रोदितं श्रुत्वा स पुत्रश्चैवमब्रवीत् । दैवभावा भवन्त्येव सर्वत्रापि जगत्स्वपि ॥ २४.८१{८१} ॥ एकोऽपि विद्यते नात्र सुहृन्मित्रसहानुगः । धर्म एव सहायः स्यात्सर्वत्र मरणे ध्रुवम् ॥ २४.८२{८२} ॥ इति सद्धर्मसंप्राप्त्यै प्रव्रज्याव्रतमुत्तमम् । चरितव्यं भवेद्विज्ञैर्निर्वृतिपदवांछिभिः ॥ २४.८३{८३} ॥ इति तेन मुनीन्द्रेण समादिष्टं निशम्यते । मात तस्मा तथात्रैतद्व्रतं चरितुमिछ्यते ॥ २४.८४{८४} ॥ तदत्र सौगते धर्मे मां नियोक्तुं यदीछसि । तदनुज्ञां प्रदानं मे कृपया दातुमर्हति ॥ २४.८५{८५} ॥ इति पुत्रार्थितं श्रुत्वा माता सा गद्गदस्वरा । स्नेहदुःखाग्निसंतप्ता दृष्ट्वैवं सुतमब्रवीत् ॥ २४.८६{८६} ॥ हा पुत्र कथमेव त्वं निर्दयास्यतिनिष्ठुरः । यद्वृद्धां जननीं दृष्ट्वा कारुण्यं नास्ति ते हृदि ॥ २४.८७{८७} ॥ तदत्र यदि ते पुत्र दयास्ति मयि मातरि । यावज्जीवाम्यहं तावद्गृहे वस मया सह ॥ २४.८८{८८} ॥ यावच्चैतन्महत्संपत्स्वगृहे स्थिरा तव । तावद्यथेप्सितं सौख्यं भुक्त्वा रमं समाचर ॥ २४.८९{८९} ॥ अवश्यं मरणं यायां कस्य मृत्युर्भवे न हि । तदा मयि मृतायां तु प्रव्रजस्व यथेछया ॥ २४.९०{९०} ॥ संपच्चापि भवेत्क्षीणा कस्य संपत्सदा स्थिरा । तदा संपत्परिक्षीणे भिक्षान्नादो व्रतं चर ॥ २४.९१{९१} ॥ यद्येवं प्रार्थितेऽपि त्वं विलंघ्य वचनं मम । निर्दयानिष्ठुरस्वान्तः प्रव्रजसि हठादपि ॥ २४.९२{९२} ॥ तदाहं ते पुरोगत्वा सौगतशासनेऽपि हि । त्यक्त्वाहारं विषं भुक्त्वा यास्यामि मरणं ध्रुवम् ॥ २४.९३{९३} ॥ इति मे वचनं सत्यं विज्ञायेह त्वमात्मज । मया सह गृहे सौख्यं भुक्ष्व कुत्रापि मा व्रज ॥ २४.९४{९४} ॥ इति मे वचनं श्रुत्वा यथाकामं सुखं गृहे । भुक्त्वा नित्यं सदोत्साहैश्चरं रम स्वमात्मज ॥ २४.९५{९५} ॥ इति मात्रोदितं श्रुत्वा स उत्तरोऽभिशंकितः । तथेति प्रतिबुद्धित्वा तस्थौ गेहे निराशितः ॥ २४.९६{९६} ॥ ततश्चैकदिने प्रातः समुत्थाय स उत्तरः । संबुद्धं तं मुनिं द्रष्टुं विहारे समुपाचरत् ॥ २४.९७{९७} ॥ तत्र तं श्रीघनं दृष्ट्वा स उत्तरः प्रमोदितः । नत्वा प्रदक्षिणीकृत्य सांजलिस्समुपाश्रयत् ॥ २४.९८{९८} ॥ ततः स भगवांच्छास्ता दृष्ट्वा तस्य मनोगतम् । बोधयितुं समालोक्य तमेवं समुपालपत् ॥ २४.९९{९९} ॥ कुमार किं विषण्णोऽसि यन्मनोऽन्तर्गतं तव । तन्ममाग्रे समाख्याहि पूरयामि यदीहितम् ॥ २४.१००{१००} ॥ इत्यादिष्टे मुनीन्द्रेण स उत्तरः समुत्थितः । पादौ तस्य मुनेर्नत्वा सांजलिरेवमब्रवीत् ॥ २४.१०१{१} ॥ (र्म् २८६) सर्वज्ञ भगवञ्छास्तर्विजानीयाद्भवान्मम । यन्मनोऽन्तर्गतं सर्वं यथाप्यहं निवेदये ॥ २४.१०२{२} ॥ भगवन्नाथ सर्वज्ञ न मे माता प्रबोधिता । तदनुज्ञां न मे दातुमिछति प्रार्थितापि सा ॥ २४.१०३{३} ॥ तद्भवान्मे यथा योग्यं व्रतं संबोधिसाधनम् । अन्यथापि प्रदत्वात्र प्रबोधयितुमर्हति ॥ २४.१०४{४} ॥ इति संप्रार्थिते तेन भगवान् स मुनीश्वरः । तं विशुद्धाशयं दृष्ट्वा समाश्वास्यैवमादिशत् ॥ २४.१०५{५} ॥ मा कुमार विषादत्वं कृथा धैर्यं समाश्रय । अवश्यं समये प्राप्ते ब्रह्मचारी भविष्यसि ॥ २४.१०६{६} ॥ तावद्गृहे सदा दानं कृत्वार्थिभ्यो यथेप्सितम् । त्रिरत्नस्मरणं कृत्वा शुभे चर समाहितः ॥ २४.१०७{७} ॥ एतत्पुण्यविपाकेन समये समुपागते । प्रव्रज्याव्रतमासाद्य निर्वाणपदमाप्स्यसि ॥ २४.१०८{८} ॥ इति मत्वा कुमारात्र यावज्जीवति सा प्रसूः । तावद्गृहे सदा दानं कृत्वा शुभे चरन् वस ॥ २४.१०९{६} ॥ इत्यादिष्टं मुनीन्द्रेण श्रुत्वा स उत्तरः सुधीः । तथेति प्रतिविज्ञप्य प्रससाद प्रबोधितः ॥ २४.११०{१०} ॥ ततः स उत्तरो नत्वा सांजलिस्तं मुनीश्वरम् । सुप्रसन्नमुखाम्भोजस्तन्मनाः स्वगृहं ययौ ॥ २४.१११{११} ॥ तत्र स स्वगृहे स्थित्वा स्वकुलवृत्तिसाधनैः । प्रतिसार्यापणं तत्र चकार क्रयविक्रयम् ॥ २४.११२{१२} ॥ तत्र मुलाधिकं लाभं यल्लब्धं गणवन्धनम् । तत्सर्वं स सुतस्तस्या मातुर्हस्ते समर्पयत् ॥ २४.११३{१३} ॥ ततः स उत्तरः पुत्रो मातरं तां प्रसादयन् । तल्लब्धं सकलं द्रव्यं दत्वैवं प्रत्यबोधयत् ॥ २४.११४{१४} ॥ शृणु मातर्ममानेन द्रव्येन स्वजनां जनान् । अर्थिनः कृपणान् विप्रान्मानयित्वाभितोषय ॥ २४.११५{१५} ॥ इति पुत्रोदितं श्रुत्वा माता सा अतिकुंचिका । लुब्धा मत्सराक्रांतहृदयैवमभाषत ॥ २४.११६{१६} ॥ पुत्र पित्रा प्रयत्नेन संपदस्ते समर्जिताः । त्वमेताः संपदः सर्वा दत्वार्थिभ्यो व्ययिष्यसि ॥ २४.११७{१७} ॥ यावत्पित्रार्जितं द्रव्यं तावन्मया न दास्यते । तावत्मात्रं तवाधीनं यावत्त्वया समर्जितम् ॥ २४.११८{१८} ॥ यावज्जिवाम्यहं तात न ते दास्यामि किं चन । मृतायां मयि तत्सर्वं तवाधीनं भवेत्तदा ॥ २४.११९{१९} ॥ इत्युक्त्वा सा प्रसूस्तस्य मात्सर्य्यकलुषाशया । सर्वद्रव्यं प्रयत्नेन गुप्तीकृत्यात्यरक्षत ॥ २४.१२०{२०} ॥ किं चिदर्थिभ्यो सा कुधी ददौ । गुप्तीकृत्य प्रयत्नेन तद्द्रव्यं समगोपयत् ॥ २४.१२१{२१} ॥ दृष्ट्वा च सार्थिनः सर्वान् स्वगृहं समुपागतान् । सहसा समुपाश्रित्य परिभाष्याभ्यनिन्दयत् ॥ २४.१२२{२२} ॥ (र्म् २८७) अरे माया न गेहेऽस्मिं यूयं प्रेता इवागताः । नित्यं परगृहे पिंडं भोक्तुं भ्रमथ भूतवत् ॥ २४.१२३{२३} ॥ एवं तानर्थिनः सर्वान् सा नारी दुरिताशया । नैकधा विप्रलापेन परिभाष्याभ्यनिंदयत् ॥ २४.१२४{२४} ॥ एवं मात्रा प्रतिक्रुष्य विप्रलापाभिनिंदितान् । श्रुत्वा स उत्तरः पुत्रो मातरं तामभाषत ॥ २४.१२५{२५} ॥ अरे मात किमेव त्वमर्थिनः परिभाषसे । धिक्त्वां धर्मपरिभ्रष्टां कथं न नरके पतेः ॥ २४.१२६{२६} ॥ यदि त्वं वांछसे सौख्यमिहामुत्रापि सर्वदा । कृपणानर्थिनः सर्वान् संप्रदानैः प्रमोदय ॥ २४.१२७{२७} ॥ यद्येवं क्रियते मातः संगतिः सर्वदावयोः । अन्यथा चेत्ततो नौ स्याद्विभिन्नभोजनाश्रयः ॥ २४.१२८{२८} ॥ यद्यस्ति ते मया सार्द्धं सर्वदा भोजने रतिः । यथेप्सितं सदार्थिभ्यो दत्वा चर शुभे वृषे ॥ २४.१२९{२९} ॥ इति तेनात्मजेनापि प्रत्याख्यतं निशम्य सा । माता लज्जाविभिन्नास्या तमात्मजमभाषत ॥ २४.१३०{३०} ॥ यद्येवं नन्दनार्थिभ्यः सर्वस्वमपि दित्ससि । तत्स्वद्रव्याणि सर्वाणि दास्यामि तद्यथेप्सितम् ॥ २४.१३१{३१} ॥ इत्युक्त्वा सा प्रसू नारी तमात्मजं मृषागिरा । बोधयित्वा गृहे तानि द्रव्याणि समगोपयेत् ॥ २४.१३२{३२} ॥ ततः सा प्रमदा दुष्टा मिथ्यावाचा तमात्मजम् । अद्य यतोऽर्थिनो भिक्षून्स्तोषयामीत्यबोधयत् ॥ २४.१३३{३३} ॥ एवं मिथ्यया वाचा बोधयन्ती तमात्मजम् । स्वयमेव प्रभुक्त्वा च तद्द्रव्यं सर्वं गोपयत् ॥ २४.१३४{३४} ॥ कस्मै चिदर्थिने किं चिदपि सा न ददौ कुधीः । सा केभ्योऽपि वलिं दातुं नैवोत्सेहे कदा चन ॥ २४.१३५{३५} ॥ एवं सा दुर्मतिर्लुब्धा मत्सराक्रान्तचेतसा । परिभाष्यार्थिनः सर्वान्निंदयन्त्यशुभेऽचरत् ॥ २४.१३६{३६} ॥ एवं केवलपापानि प्राचित्वा सा दुराशया । काले निराशया दुःखार्त्ता मृता प्रेतालये ययौ ॥ २४.१३७{३७} ॥ तत्र प्रेतगतिप्राप्ता प्रेतीभूता दुराकृतिः । स्वकेशप्रतिछन्नांगा शूचीमुखा कृशांगिका ॥ २४.१३८{३८} ॥ अस्थियंत्रवदुच्छ्राया पर्वतसंनिभोदरा । क्षुत्पिपासाग्निसंतप्ता दग्धस्थूणासमांगिका ॥ २४.१३९{३९} ॥ आर्त्तस्वरा विरावन्ती क्रंदन्ती सा समंततः । अन्नपान हि मार्गन्ती पर्यभ्रमदितस्ततः ॥ २४.१४०{४०} ॥ ततः स उत्तरो मातुः कृत्वाग्निसंस्कृतिं तदा । स्नानशौचादि कर्मां कुर्वञ्छोकं व्यनोदयत् ॥ २४.१४१{४१} ॥ ततः स उत्तरो विजो मातृशोकं व्यनोदयत् । अर्थिभ्यो वांछितं दत्वा बहुपुण्याण्युपार्जयत् ॥ २४.१४२{४२} ॥ ततः कामविरक्तः स संसारभोगनिस्पृहः । (र्म् २८८) निर्वृतिपदसंप्रात्यै प्रव्रजितुं समैछत ॥ २४.१४३{४३} ॥ ततः स मुदितो गत्वा वेणुवने जिनाश्रमे । दृष्ट्वा तं श्रीघनं नत्वा सांजलिः समुपाचरत् ॥ २४.१४४{४४} ॥ तत्र प्रदक्षिणीकृत्वा ससंघं तं मुनीश्वरम् । प्रणत्वा पुरतः स्थित्वा सांजलिरेवमब्रवीत् ॥ २४.१४५{४५} ॥ भगवन्नाथ सर्वज्ञ विजानीयाद्भवानपि । यन्मे सा जननी विघ्ना सांप्रतं प्रलयं गता ॥ २४.१४६{४६} ॥ तदत्र भगवच्छास्तर्भवतां शरणं व्रजे । तन्मेऽनुग्रहमाधाय प्रव्रज्यां दातुमर्हति ॥ २४.१४७{४७} ॥ इति संप्रर्थिते तेन भगवान् स मुनीश्वरः । सव्यकरेण तन्मूर्द्ध्नि संस्पृश्यैवं समादिशत् ॥ २४.१४८{४८} ॥ एहि चर कुमारात्र ब्रह्मचर्यं समाहितः । इत्युक्त्वा भगवां छास्ता सांघिके तं समग्रहीत् ॥ २४.१४९{४९} ॥ एहीत्युक्ते मुनीन्द्रेण मुंडितोऽभूत्स उत्तरः । खिक्खिरीपात्रभृच्छुद्धकाषायचीवरावृतः ॥ २४.१५०{५०} ॥ ततः शास्तुः प्रसादात्स परिशुद्धस्त्रिमंडलः । निःक्लेशयविशुद्धात्मा संसारविरतोत्सवः ॥ २४.१५१{५१} ॥ समाधिधारणीविद्याघटमानो विचक्षणः । हित्वाविद्यागणं सर्वविद्यागुणान्तमाप्तवान् ॥ २४.१५२{५२} ॥ विदित्वा सर्वसंसारगतिं विद्युत्क्षणस्थितिम् । मत्वा च सर्वसंस्कारगतिर्ऽनेकविघातिनिम् ॥ २४.१५३{५३} ॥ सर्वक्लेशगणां जित्वा सर्वान्मारगणानपि । साक्षादर्हत्वमासाद्य श्रावकबोधिमाप्तवान् ॥ २४.१५४{५४} ॥ ततः स सुविशुद्धात्मा वीतरागो जितेंद्रियः । आकाशनिर्मलस्वान्तः सर्वलोष्टककांचनः ॥ २४.१५५{५५} ॥ वासीचंदनकल्पांशो निर्विकल्पो निरंजनः । सर्वसत्वहिताधानः संबुद्धगुणसाधकः ॥ २४.१५६{५६} ॥ सदेवासुरलोकानां सर्वेषां प्राणिनामपि । वंद्यः पूज्योऽभिमान्यश्च ब्रह्मचारी बभूव सः ॥ २४.१५७{५७} ॥ ततः सोऽर्हन्महाभिज्ञो गंगातिरे शुभस्थले । पर्णकुट्यां समाश्रित्य तस्थौ ध्यानसमाहितः ॥ २४.१५८{५८} ॥ तत्रैकस्मिन् दिने तस्य माता सा प्रेतिका सती । नग्न स्वरोमसंछन्ना दघस्थूणाविवर्णिता ॥ २४.१५९{५९} ॥ सूचीमुखास्थियंत्रेव पर्वतसन्निभोदरा । क्षुत्पिपासाग्निदग्धांगा पानाहारगवेषिनी ॥ २४.१६०{६०} ॥ आर्तस्वरं विरावन्ती क्रंदन्ती समुपागता । आयुष्मन्तं तमर्हन्तं पश्यन्ती समुपाश्रयत् ॥ २४.१६१{६१} ॥ एवं तां समुपासीनां दृष्ट्वा स उत्तरो यतिः । का त्वमेवंविधायाता वदस्वेत्यन्वपृछत ॥ २४.१६२{६२} ॥ इति तेनोदितं श्रुत्वा सा प्रेती पुरतः स्थिता । उत्तरं तं यतिं पुत्रं समालोक्यैवमब्रवीत् ॥ २४.१६३{६३} ॥ अहं ते जननी स्निग्धा ययासि जनितः सुतः । अन्नपानविविक्तास्मि प्रेतीभूताऽधुना चरे ॥ २४.१६४{६४} ॥ पंचविंशति वर्साणि यांति कालगता ह्यहम् । (र्म् २८९) नाभिजानामि पाणीयं कुतो भक्तस्य दर्शनम् ॥ २४.१६५{६५} ॥ सफलां पुष्पितां वृक्षं दृष्ट्वा गछामि दूरतः । सर्वेऽपि निष्फला शुष्का विपुष्पाश्च भवन्ति ते ॥ २४.१६६{६६} ॥ सरांसि चाम्बुपूर्णाणि दृष्ट्वा गछामि दूरतः । तानि सर्वाणि शुष्कानि भवन्ति तत्क्षणादपि ॥ २४.१६७{६७} ॥ भेदं तस्य महासौख्यं वृक्षमूलश्रितस्य ते । विद्यते सर्वदाप्यत्र किं त्वया प्रकृतं शुभम् ॥ २४.१६८{६८} ॥ तदत्र कृपया पश्यन् कारुण्यं जनयन् सुत । मात्रे तृषार्दितायै मे शीताम्बु दातुमर्हसि ॥ २४.१६९{६९} ॥ इति तयार्थितं श्रुत्वा स उत्तरः सविस्मयः । तां प्रेतीं सुचिरं दृष्ट्वा शंकितश्चैवमब्रवीत् ॥ २४.१७०{७०} ॥ मातस्तर्हि क्षणं प्राप्ते त्वया पारुष्यभूतया । दानानि न कृतान्येव पुण्यानि वा चितानि न ॥ २४.१७१{७१} ॥ अन्यकृतानि दानानि पुण्यानि भाषितानि च । दृष्ट्वा श्रुत्वापि ते चित्ते क्रोधाग्निर्ज्वलितस्तदा ॥ २४.१७२{७२} ॥ किं चिन्नापि शुभं कर्म कृत्वापुण्यं त्वयार्जितम् । परेणापि कृतं दृष्ट्वा श्रुत्वापि नानुमोदितम् ॥ २४.१७३{७३} ॥ एतत्कर्मविपाकेन जननी त्वं मृताधुना । प्रेतीभूतान्नपानेन वियुक्ता भ्रमसे भवे ॥ २४.१७४{७४} ॥ इदानिं किं करिष्यामि त्वं चात्र किं करिष्यसि । तदा सर्वाहितं प्रोक्तं त्वया तत्र श्रुतं न तत् ॥ २४.१७५{७५} ॥ इति तेनात्मजेनोक्तं श्रुत्वा सा प्रतिबोधिता । विगलदश्रुरुक्षाक्षा तं पुत्रमेवमब्रवीत् ॥ २४.१७६{७६} ॥ न मया हि कृतं दानं पुण्यं न चाभिसाधितम् । दृष्ट्वानुमोदितं नापि मात्सर्यपरिभूतया ॥ २४.१७७{७७} ॥ यद्यद्द्रव्यं त्वया पुत्र मम हस्ते समर्पितम् । तत्तत्सर्वं मया वंधिखदायां परिगोपितम् ॥ २४.१७८{७८} ॥ तदिदानिं समुद्धृत्य ज्ञातिहस्ते समर्पय । तेन तं सुगतं बुद्धं ससंघं भोजयात्मज ॥ २४.१७९{७९} ॥ दक्षिणादेशनां चापि मम नाम्नाभिकारय । तदा प्रेतगतेर्मुक्ता यायामहं सुरालयम् ॥ २४.१८०{८०} ॥ इति तयोदितं श्रुत्वा स उत्तरोऽनुबोधितः । एवमस्त्विति संश्रुत्य पुनस्तामेवमब्रवीत् ॥ २४.१८१{८१} ॥ ससंघं सुगतं तेन भोजयिष्यामि सांप्रतम् । किं तु त्वयाम्व तत्रापि स्थातव्यं सुगतांतिके ॥ २४.१८२{८२} ॥ इति तेनोदितं श्रुत्वा सा प्रेती लज्जयान्विता । तमर्हन्तं समालोक्य पुर एवमभाषत ॥ २४.१८३{८३} ॥ यदहं पुत्र नग्नास्मि प्रेती विभ्रन्सिताकृती । तत्कथं समुपाश्रित्य स्थास्यामि श्रीघनांतिके ॥ २४.१८४{८४} ॥ इति तयोदितं श्रुत्वा स उत्तरो महामतिः । तां प्रेतीं समुपालोक्य पुनरेवमभाषत ॥ २४.१८५{८५} ॥ क्रियमाने यदा पापे लज्जा नास्ति तदा तव । फलभोजनकालेऽत्र किमेवं लज्जसेऽधुना ॥ २४.१८६{८६} ॥ इति तद्वचनं श्रुत्वा सा प्रेती प्रतिबोधिता । (र्म् २९०) तथा गमिष्यामीति प्रोक्त्व त्वरितं विज्ञालयं ययौ ॥ २४.१८७{८७} ॥ ततः स उत्तरो गत्वा ज्ञातीनाहूय तद्वृतिम् । यथामात्रोदितं ख्याय सर्वमेव न्यवेदयत् ॥ २४.१८८{८८} ॥ तच्छ्रुत्वा ज्ञातिवर्गास्ते सर्वऽतिविस्मयान्विताः । तथा तद्द्रव्यमादाय सर्वं तस्यानुपाहरन् ॥ २४.१८९{८९} ॥ तद्द्रव्यं सर्वमालोक्य स उत्तरः प्रमोदितः । सर्वेषामपि गोत्राणां पुनरेवं समब्रवीत् ॥ २४.१९०{९०} ॥ भवन्तो ज्ञातयः सर्वे द्रव्येनैतेन सांप्रतम् । ससांघिकं मुनीन्द्रं तं भोजयिष्यामि पूजयन् ॥ २४.१९१{९१} ॥ तदेतत्सर्वमादाय यदा प्रकंपिताशयाः । संघभोज्यार्हसामग्रीं साधयित्वा प्रदत्त मे ॥ २४.१९२{९२} ॥ इति संप्रार्थितं श्रुत्वा सर्वे ते ज्ञातयस्तथा । संघभोज्यार्हसामग्रीं सर्वद्रव्यैरसाधयत् ॥ २४.१९३{९३} ॥ तद्दृष्ट्वा मुदितः सोऽर्हनुत्तरः संप्रसन्नधीः । शास्तुर्निमंत्रणं कर्तुं विहारे समुपाचरत् ॥ २४.१९४{९४} ॥ तत्र स समुपाश्रित्य तं मुनीन्द्रं ससांघिकैः । प्रणत्वा साञ्जलिस्तत्र पुरः स्थित्वा न्यमंत्रयत् ॥ २४.१९५{९५} ॥ भगवन्नाथ सर्वज्ञ भगवंतं ससांघिकम् । पूजयितुं समिछामि श्वोऽनुगृहीतुमर्हति ॥ २४.१९६{९६} ॥ इति संप्रार्थिते तेन भगवान् स मुनीश्वरः । तमुत्तरं समालोक्य तूष्णीभूत्वाध्युवास तत् ॥ २४.१९७{९७} ॥ ततः स उत्तरो मत्वा भगवताधिवासितम् । तं मुनीन्द्रं पुनर्नत्वा ज्ञातीनां पुरतो ययौ ॥ २४.१९८{९८} ॥ तत्र स उत्तरस्तेषां च निमंत्रणम् । कृत्वा तत्र पुनस्तेषां पुर एवमभाषत ॥ २४.१९९{९९} ॥ संघभोज्ये प्रवृत्तेऽत्र यूयं सर्वे समागताः । प्रेतीभूतां ममाम्बां तामवलोकितुमर्हथ ॥ २४.२००{१००} ॥ इत्युक्त्वा स्वाश्रमं गत्वा स उत्तरः प्रसादितः । ध्यानागारसमासीनस्तस्थौ ध्यानसमाहितः ॥ २४.२०१{१} ॥ ततः प्रातः समुत्थाय ज्ञातीनां पुरतो गतः । पूजोपचारसामग्रीं सहसा समसाधयत् ॥ २४.२०२{२} ॥ ततः स उत्तरः प्राह्ने विहारे समुपासरन् । भगवंतं मुनीन्द्रं तं प्रणत्वैवमभाषत ॥ २४.२०३{३} ॥ भगवन् सर्वविच्छास्तः समयो वर्त्ततेऽधुना । तत्ससंघो भवानत्र विजयितुं समर्हति ॥ २४.२०४{४} ॥ इति संप्रार्थिते तेन गंडीमाकोटयन्मुनिः । तच्छब्दचोदितास्तत्र स च संघा उपासरन् ॥ २४.२०५{५} ॥ तत्र ते ज्ञातयः सर्वे लोका अन्येऽपि हर्षिताः । तत्र प्रेतां समायातां तां द्रष्टुं समुपागताः ॥ २४.२०६{६} ॥ तदा स भगवांस्तत्र ससांघिकः समागताः । तद्दत्तं पाद्यमादाय शुद्धासने समाश्रयत् ॥ २४.२०७{७} ॥ (र्म् २९१) तां दृष्ट्वा ज्ञातयः सर्वे लोका अन्येऽपि खेटिताः । हा पापमिति भाषन्ते तस्थुः सद्धर्मवांछया ॥ २४.२०८{८} ॥ तदा ते ज्ञातयः सर्वे भगवंतं ससांघिकम् । यथाक्रमं समभ्यर्च्य भोजनैः समतोषयत् ॥ २४.२०९{९} ॥ ततस्ते सांघिकाः सर्वे संबुद्धप्रमुखा अपि । तत्प्रणीतरसं भोज्यं भुक्त्वा तृप्तिं समाययुः ॥ २४.२१०{१०} ॥ ततोऽपनीय पात्राणि शोधयित्वा भुजादिकम् । तेषां पूगादि ताम्बूलगणं ते प्रददुर्मुदा ॥ २४.२११{११} ॥ तत्र स उत्तरो भिक्षुर्ज्ञातिभिस्तै सहान्वितः । भगवंतं ससंघं तं प्रणत्वा समुपाश्रयत् ॥ २४.२१२{१२} ॥ तत्र स भगवान् दृष्ट्वा तमुत्तरमुपाश्रितम् । दाक्षिणादेशनां तस्याः प्रेत्या नाम्ना समादिशत् ॥ २४.२१३{१३} ॥ इतो दानाद्धि यत्पुण्यं तत्प्रेतीमुपगछतु । उत्तिष्ठतामियं प्रेती प्रेतलोकात्ततो द्रुतम् ॥ २४.२१४{१४} ॥ इति शुभाशिषं दत्वा भगवान् स मुनीश्वरः । आर्य्यसत्यं समारभ्य सद्धर्मं च समादिशत् ॥ २४.२१५{१५} ॥ तदार्य्यधर्ममाकर्ण्य सर्वे लोकाः प्रबोधिताः । धर्मविशेषमाज्ञाय बभूवुः सत्यदर्शिनः ॥ २४.२१६{१६} ॥ सापि प्रेती समानीय तत्सद्धर्मामृतं मुदा । सुप्रसन्नाशया स्मृत्वा त्रिरत्नं शरणं ययौ ॥ २४.२१७{१७} ॥ ततः सा भूतलोकेऽभूज्जाता भूतमहर्द्धिका । तत्रापि साभवद्दुष्टा मात्सर्य्यरुक्षिताशया ॥ २४.२१८{१८} ॥ ततः स भगवांस्तस्मात्ससांघिकः प्रभासयन् । गत्वा स्वाश्रममाश्रित्य तस्थौ धर्ममुपादिशन् ॥ २४.२१९{१९} ॥ ततः स बुद्धिमान् विज्ञ आयुष्मान् यतिरुत्तरः । कुत्रासौ जायते माताधुनेति समपश्यत ॥ २४.२२०{२०} ॥ एवं स उत्तरो विज्ञः समभीक्ष्य समंततः । ददर्श तां संप्रजातां भूतमहर्द्धिकालये ॥ २४.२२१{२१} ॥ दृष्ट्वा स उत्तरः पुत्रो मातरं तां च भौतिकाम् । सहसा समुपाश्रित्य समामंत्र्यैवमब्रवीत् ॥ २४.२२२{२२} ॥ किमम्बास्ति त्वया शक्तिरपि दानेषु सांप्रतम् । यदीछसि सदा भद्रं कुरु दानमिहाधुना ॥ २४.२२३{२३} ॥ इति तेनोदितं श्रुत्वा सा च भूतमहर्द्धिका । उत्तरं तं सुतं दृष्ट्वा पुनरेवमभाषत ॥ २४.२२४{२४} ॥ नाद्यापि विद्यते दानेऽभिलाषं मम नंदन । तत्किं चिदपि वा द्रव्यं प्रदातुं नाहमुत्सहे ॥ २४.२२५{२५} ॥ इति तेनोदितं श्रुत्वायुष्मान् स उत्तरो यतिः । दृष्ट्वा तां मातरं भूतमहर्द्धिकामभाषत ॥ २४.२२६{२६} ॥ अद्यापि ते तिष्ठति तच्छरीरं विवृद्धनिर्मान्सत्वगस्थिचर्मा लोभांधकारावृतलोचनाया निवर्तितं यत्तव प्रेतलोके । धिक्त्वां प्रदुष्टामिह किं वदेयमद्यापि यत्त्वं दुरिताशयासि । (र्म् २९२) केनात्र ते पापनिमग्नचित्तं संशोधितं पुण्यकरोद्धृतं स्यात् ॥ २४.२२७{२७} ॥ सदापि चैवं नरके निवासा भवेत्कदा त्वं परिमोक्ष्यसेऽतः । अहो हि दुर्बुद्धिदुराशयानां मनो न केनापि विशुद्ध्यते वै ॥ २४.२२८{२८} ॥ एवं बहुप्रकारेण परिभाष्योत्तरः स ताम् । तदङ्गात्यमलीमेकामाकृष्यापहरद्वलात् ॥ २४.२२९{२९} ॥ ततस्तां यमलीं सोऽर्हं संघाय समकल्पयत् । तत्र मूल्येन तां क्रीत्वा भिक्षुमानवके न्यसेत् ॥ २४.२३०{३०} ॥ तत्रापि निशि सा गत्वा यमलीं तामुपाहरत् । तथापहृतां भिक्षुरुत्तराय न्यवेदयत् ॥ २४.२३१{३१} ॥ तच्छ्रुत्वा चोत्तरो गत्वा परिभाष्य वलेन ताम् । अपहृत्य पुनस्तस्मै भिक्षवे समकल्पयत् ॥ २४.२३२{३२} ॥ भूयोऽपि निशि सा गत्वा यमलीं तामुपाहरत् । तथा स उत्तरश्चापि तस्याश्च तामपाहरत् ॥ २४.२३३{३३} ॥ एवं त्रिधा निशायां सा तत्र गत्वाहरच्च ताम् । उत्तरश्चापहृत्यैव तां तस्मै भिक्षवे ददौ ॥ २४.२३४{३४} ॥ तेनापि भिक्षुणादाय चतुदिक्सांघिकाय सा । पाद्यलेपानिकायां संसीवित्वा प्रतिपादिता ॥ २४.२३५{३५} ॥ तत्र तां सीवितां दृष्ट्वा सा च भूतमहर्द्धिता । अपहृतविभग्नाशा रुदन्ती स्वालयं ययौ ॥ २४.२३६{३६} ॥ तच्चित्ताग्निप्रतप्ता सा स्मृत्वा तं सुतमुत्तरम् । कालं गता ततोऽन्यत्र यक्षलोकेऽलभज्जनुः ॥ २४.२३७{३७} ॥ एवं मत्वा महत्पापमूलं मात्सर्य्यमेव हि । तत्मात्सर्यं परित्यज्य कर्त्तव्यं दानमादरात् ॥ २४.२३८{३८} ॥ दानेन शुद्ध्यते चित्तः शुद्धचित्तः सुधीकृतिः । क्रमाद्बोधिचरिं धृत्वा संबुद्धपदमाप्नुयात् ॥ २४.२३९{३९} ॥ एवं विज्ञाय सर्वत्र यदीछन्ति सदा शुभम् । मात्सर्यं विषवत्त्यक्त्वा चरितव्यं सदा शुभे ॥ २४.२४०{४०} ॥ इति मे गुरुणाख्यातं श्रुतं तथा मयोच्यते । त्वं चाप्येवं परिज्ञाय चरितव्यं शुभे सदा ॥ २४.२४१{४१} ॥ प्रजाश्चापि महाराज बोधयित्वा प्रयत्नतः । बोधिमार्गे प्रतिष्ठाप्य पालयितुं सदार्हसि ॥ २४.२४२{४२} ॥ तथा ते मंगलं नित्यं सर्वत्रापि भवेद्ध्रुवम् । क्रमाद्बोधिं समासाद्य संबुद्धपदमाप्नुयाः ॥ २४.२४३{४३} ॥ इति तेनार्हताख्यातं श्रुत्वाशोकः स भूपतिः । तथेति प्रतिभाषित्वा प्राभ्यनंदत्सपार्षदः ॥ २४.२४४{४४} ॥ इदं नरा ये मुदिताश्च भूतमहर्द्धिकायानुवदानमत्र । मुदा निशम्य प्रतिमोदयन्ते प्रयांति ते श्रीघनसंनिवासे ॥ २४.२४५{४५} ॥ ++ इति रत्नावदानत्वे प्रेतीभूतमहर्द्धिकावदानं समाप्तम् ++ (र्म् २९३) xxव्दूतावदान अथाशोको महीपालः कृतांजलिपुटो मुदा । उपगुप्तं गुरुं नत्वा पुनरेवमवोचत् ॥ २५.१{१} ॥ भदन्त श्रोतुमिछामि पुनरन्यत्सुभाषितम् । तद्यथा गुरुणाख्यातं तथादेष्टुं च मेऽर्हति ॥ २५.२{२} ॥ इति संप्रार्थितं राज्ञा श्रुत्वा सोऽर्हन्महामतिः । उपगुप्तो नरेंद्रं तं समामंत्र्यैवमादिशत् ॥ २५.३{३} ॥ शृणु राजन्महाभाग यथा मे गुरुभाषितम् । तथाहं ते प्रवक्ष्यामि श्रुत्वा चात्रानुमोदय ॥ २५.४{४} ॥ तद्यथा भगवान् बुद्धः श्रीघनः स मुनीश्वरः । सर्वज्ञः सुगतः शास्ता धर्मराजो विनायकः ॥ २५.५{५} ॥ भिक्षुभिः श्रावकैः सार्द्धं भिक्षुणीभिश्च चेलकैः । उपासकगणैश्चापि तथा चोपासिकागणैः ॥ २५.६{६} ॥ राजगृहपुरोपान्ते गृद्धकूटे नगोत्तमे । वेणुवने महोद्याने करंदकनिवापके ॥ २५.७{७} ॥ सर्वसत्वहितार्थेन बोधिचर्यां प्रकाशयन् । सद्धर्मं समुपादिश्य विजहार प्रभासयन् ॥ २५.८{८} ॥ तत्सद्धर्मामृतं पातुं सर्वे लोका उपागताः । देवा दैत्याश्च नागाश्च यक्षगंधर्वकिन्नराः ॥ २५.९{९} ॥ ग्रहा विद्याधराः सिद्धा राक्षसा गरुडा अपि । लोकपालगणाश्चापि तीर्थिकाश्च महर्षयः ॥ २५.१०{१०} ॥ ब्राह्मणाः क्षत्रिया भूपा वैश्याश्च मांत्रिणोऽपि च । अमात्याः श्रेष्ठिनश्चापि गृहस्थाश्च महाजनाः ॥ २५.११{११} ॥ वणिजः सार्थवाहाश्च शिल्पिनः पौरिकास्तथा । ग्राम्या जानपदाश्चापि तथा कार्पटिका अपि ॥ २५.१२{१२} ॥ तथान्येऽपि जनाश्चैवं सर्वे तत्र समागताः । दृष्ट्वा तं श्रीघनं नत्वा समभ्यर्च्य यथाक्रमम् ॥ २५.१३{१३} ॥ कृतांजलिपुटाः सर्वे परिवृत्योपतस्थिरे । ततः स भगवां दृष्ट्वा सर्वांस्तां समुपस्थितान् । आदिमध्यांतकल्याणं सद्धर्मं समुपादिशत् ॥ २५.१४{१४} ॥ तत्सद्धर्मामृतं पीत्वा सर्वे लोकाः प्रबोधिताः । धर्मवैशेषमाज्ञाय बभूवुर्बोधिसाधिनः ॥ २५.१५{१५} ॥ एवं स भगवांस्तत्र नित्यं सद्धर्ममादिशन् । वर्षासु व्यहरल्लोकहितं कृत्वा ससांघिकः ॥ २५.१६{१६} ॥ तस्मिंस्तु समये तत्र श्रावस्त्यां पुरि सत्तमः । अनाथपिंडदः श्रेष्ठी गृहपतिर्महाजनः ॥ २५.१७{१७} ॥ त्रिरत्नभक्तिमान् दाता संबुद्धदर्शनोत्सुकः । प्रसेनजिन्महीपालं प्रणत्वा प्रार्थयत्तथा ॥ २५.१८{१८} ॥ जय देव महारज जानीयात्तद्भवानपि । (र्म् २९४) यदस्माभि मुनीन्द्रोऽसौ सुचिरं नाभिदृश्यते ॥ २५.१९{१९} ॥ तत्तस्मात्र मुनीन्द्रस्य दर्शने तृषिता वयम् । भगवंतं मुनीन्द्रं तं द्रष्टुमिछामहेऽधुना ॥ २५.२०{२०} ॥ तद्भवान् समुपामंत्र्य भगवंतं जगद्गुरुम् । अत्र लोकहितार्थाय विजयितुं समर्हति ॥ २५.२१{२१} ॥ इति संप्रार्थितं तेन गृहाधिपतिना सदा । श्रुत्वा स भूपती राजा तं गृहपतिमब्रवीत् ॥ २५.२२{२२} ॥ किं त्वया श्रूयते साधो भगवान् स मुनीश्वरः । एतर्हि तिष्ठते कुत्र वर्षासु सह सांघिकैः ॥ २५.२३{२२!} ॥ इति राज्ञोदितं श्रुत्वा सोऽनाथपिण्डदो गृही । तं नरेंद्रं समालोक्य पुनरेवमभाषत ॥ २५.२४{२३} ॥ श्रुतं मया महाराज भगवान् स ससांघिकम् । राजगृहेऽधुना प्रावृत्समयेऽप्यवतिष्ठते ॥ २५.२५{२४} ॥ इति तेन समाख्यातं श्रुत्वा स नृपतिस्ततः । दूतमेकं समाहूय पुर एवमुपालपत् ॥ २५.२६{२५} ॥ एहि त्वं भो महासाधो श्रुत्वा मे वचनं द्रुतम् । तत्र राजगृहे गत्वा भगवत उपाचर ॥ २५.२७{२६} ॥ अस्माकं वचनैस्तस्य शास्तुः पादाम्बुजे नमः । नत्वा देहादि सर्वत्र कौशल्यं परिपृछ च ॥ २५.२८{२७} ॥ एवं चापि मुनेस्तस्य पुरो विज्ञापयादरात् । कौशल्ये नृपती राजा भगवंतं द्रष्टुमिछति ॥ २५.२९{२८} ॥ तथा सर्वेऽपि लोकाश्च श्रावस्त्यायाश्च पौरिकाः । त्रिरत्नदर्शनं कर्तुमभिवांछन्ति सांप्रतम् ॥ २५.३०{२९} ॥ भवद्धर्मामृतं चापि पातुमिछंति सर्ववित् । तत्ससंघो भवांस्तत्र कृपयागंतुमर्हति ॥ २५.३१{३०} ॥ इति रज्ञोदितं श्रुत्वा तथेति प्रतिमोदितः । तं नृपं सांजलिर्नत्वा द्रुतं राजगृहं ययौ ॥ २५.३२{३१} ॥ तत्र राजगृहे गत्वा स दूतः प्रतिनंदितः । विलोक्य सुप्रसन्नात्मा गृध्रकूटे उपाचरत् ॥ २५.३३{३२} ॥ तत्र स दूरतो दृष्ट्वा भगवंतं प्रमोदितः । उपेत्य सांजलिर्नत्वा प्रार्थयदेवमादरात् ॥ २५.३४{३३} ॥ भगवन्नाथ सर्वज्ञ वंदे ते चरणाम्बुजे । यदर्थेऽहमिहायामि तज्जानीयाद्भवां जिनः ॥ २५.३५{३४} ॥ तथाप्यहं जगच्छास्तुः पुरो विज्ञापयामि तत् । भगव सर्वविद्राजा प्रसेनजित्सुकौशलः ॥ २५.३६{३५} ॥ भवतां वंदते पादौ कुशलं चापि पृछते । तथा च भगवन् सर्वे श्रावस्त्येयाश्च पौरिकाः ॥ २५.३७{३६} ॥ वंदंते भवतां पादौ पृछंते चापि कौशलम् । नृपादि सर्वलोकाश्च भवतां दर्शनोत्सुकाः ॥ २५.३८{३७} ॥ त्रिरत्नं द्रष्टुमिछाम इत्येवं प्रवदन्ति ते । भवद्धर्मामृतं चापि पातुमिछंति तेऽधुना ॥ २५.३९{३८} ॥ नृपतिप्रमुखाः सर्वे तृष्णार्दिता इवामृतम् । तत्साधु भगवांस्तत्र श्रावस्त्यां पुरि सांप्रतम् । (र्म् २९५) अनुकम्पामुपादाय विजयतां ससांघिकः ॥ २५.४०{३९} ॥ इत्युक्ते तेन दूतेन भगवान् स मुनीश्वरः । तं दूतं पुरुषं दृष्ट्वा समामंत्र्येवमादिशत् ॥ २५.४१{४०} ॥ भो पुरुष महाराजो बिम्बिसारो नृपाधिपः । यद्यनुज्ञां ददात्यत्र तदा यास्याम्यहं ध्रुवम् ॥ २५.४२{४१} ॥ तत्साधु नृपतेस्तस्य बिम्बिसारस्य भूभृतः । अनुज्ञाप्रार्थनां कृत्वा गछायास्याम्यहं तदा ॥ २५.४३{४२} ॥ इत्यादिष्टं मुनीन्द्रेण श्रुत्वा स दूत आदरात् । तथेति तं मुनिं नत्वा राज्ञोऽन्तिकमुपाचरत् ॥ २५.४४{४३} ॥ तत्र स समुपाश्रित्य बिम्बिसारं नराधिपम् । सांजलिः पुरतो गत्वा प्रणत्वैवं न्यवेदयत् ॥ २५.४५{४४} ॥ जय देव महाराज प्रसीदानुग्रहं कुरु । प्रसेनजिन्महीभर्तुर्दूतोऽहं समुपागतः ॥ २५.४६{४५} ॥ महाराज महीपाल प्रसेनजित्स कौशलः । भगवतो मुनीन्द्रस्य दर्शनमभिवांछति ॥ २५.४७{४६} ॥ तथा सर्वेऽपि लोकाश्च श्रावस्त्र्येयाः सपौरिकाः । त्रिरत्नस्य जगद्भर्तुः प्रष्टुमिछन्ति सांप्रतम् ॥ २५.४८{४७} ॥ तदस्य त्रिजगच्छास्तुर्भगवतो भवान् प्रभो । तत्रानुगमनेऽनुज्ञां कृपया दातुमर्हति ॥ २५.४९{४८} ॥ इति तेनार्थितं श्रुत्वा बिम्बिसारः स भूपतिः । तं दूतं समुपालोक्य चिरेणैवमभाषत ॥ २५.५०{४९} ॥ सधो स भगवान्स्तत्र यदि गंतुं समिछति । तदत्र किं वदिष्यामि यत्रेछेत्तत्र गछतु ॥ २५.५१{५०} ॥ इति राज्ञा समादिष्टं श्रुत्वा दूतः स मोदितः । बिम्बिसारं नरेंद्रं तं नत्वा ययौ जिनान्तिके ॥ २५.५२{५१} ॥ तत्र स सहसा गत्वा श्रीघनं तं मुनीश्वरम् । कृतांजलिपुटो नत्वा प्रार्थयदेवमादरात् ॥ २५.५३{५२} ॥ भगवंस्तेन भूपेन ह्यनुज्ञातोऽसि सांप्रतम् । तत्ससंघो भगवांस्तत्र विजयितुं समर्हति ॥ २५.५४{५३} ॥ इति तेनोदितं श्रुत्वा भगवान् स मुनीश्वरः । एनं दूतं समालोक्य तूष्णीभूत्वाध्युवास तत् ॥ २५.५५{५४} ॥ ततः स भगवान् वर्षात्रिमासान्त ससांघिकः । सर्वत्र मंगलं कृत्वा प्रतस्थे संप्रभासयन् ॥ २५.५६{५५} ॥ तदा स पुरुषो दूतस्तद्विहाराद्विनिर्गतः । सहसा रथमारुह्य संप्रतस्थे पुरः पथि ॥ २५.५७{५६} ॥ तत्र स भगवंतं पद्भ्यां संप्रस्थितं पथि । दृष्ट्वैव सहसा तस्माद्रथात्स्वयमवातरत् ॥ २५.५८{५७} ॥ तत्र स सहसोपेत्य भगवन्तं मुनीश्वरम् । सांजलिः पुरतो गत्वा प्रणत्वैवमवोचत ॥ २५.५९{५८} ॥ प्रसीदतु जगन्नाथ ममानुकम्पया भवान् । इदं रथं समारुह्य विजयतां ससांघिकः ॥ २५.६०{५९} ॥ इति तेनोदितं श्रुत्वा भगवान् स जगद्गुरुः । तं दूतं पुरुषं दृष्ट्वा तत्रैवं समुपादिशत् ॥ २५.६१{६०} ॥ ऋद्धिपादरथेनाहं सम्यग्व्यायामवर्त्तिना । (र्म् २९६) प्रचरामि महीं कृत्स्नामक्षतः क्लेशकष्टकैः ॥ २५.६२{६१} ॥ इत्यादिष्टं मुनीन्द्रेण स दूतः प्रतिबोधितः । भूयोऽपि सांजलिर्नत्वा प्रार्थयत्तं मुनीश्वरम् ॥ २५.६३{६२} ॥ यद्यपि भगवानृद्धियानयायी तथापि तु । ममानुग्रहमाधातुं गृह्यतामनुकम्पया ॥ २५.६४{६३} ॥ इति तेनार्थितं श्रुत्वा भगवान् ससांघिकः । ऋद्ध्या रथोपरि स्थित्वा संप्रतस्थे प्रभासयन् ॥ २५.६५{६४} ॥ तत्र मार्गेषु सर्वत्र भगवान् ससांघिकः । भासयन्मंगलं कृत्वा श्रावस्तीपुरमाययौ ॥ २५.६६{६५} ॥ तत्र स पुरुषो दूतः सहसा प्रचरन् पुरः । प्रसेनजिन्नरेन्द्रस्य गत्वैवं संन्यवेदयत् ॥ २५.६७{६६} ॥ जय देव महाराज दिष्ट्या वर्द्धस्व सांप्रतम् । यदसौ भगवांच्छास्ता ससंघोऽत्र समागतः ॥ २५.६८{६७} ॥ इति तेनोदितं श्रुत्वा प्रसेनजित्स भूपतिः । तत्र सर्वत्र मार्गेषु शोधयित्वाभ्यशोधयत् ॥ २५.६९{६८} ॥ छत्रध्वजवितानैश्च समंततोऽभ्यमंडयत् । ततः स नृपति राजा तूर्यसंगीतिवादनैः । सजनो भगवन्तं तं प्रत्युद्ययौ महोत्सवैः ॥ २५.७०{६९} ॥ तत्र समुदितो राजा समंत्रिजनपौरिकः । दूरात्तं श्रीघनं दृष्ट्वा पद्भ्यां चरन्नुपाचरत् ॥ २५.७१{७०} ॥ तत्रोपेत्य स भूपालः ससंघन् तं मुनीश्वरम् । प्रणत्वा सांजलिः स्थित्वा पुरो दृष्ट्वैवमब्रवीत् ॥ २५.७२{७१} ॥ भगवन्नाथ सार्वज्ञ कच्चिच्च कुशलं तनौ । भवतां विषये ह्यत्र विहरस्व ससांघिकः ॥ २५.७३{७२} ॥ तथा सर्वेऽपि लोकाश्च समंत्रिजनपौरिकाः । सांजलयः प्रणत्वैवं प्रार्थयंस्तं मुनीश्वरम् ॥ २५.७४{७३} ॥ स्वागतं भगवंच्छास्त विजयस्व कृपानिधे । सदात्र स्वाश्रमे स्थित्वा विहरस्वानुकम्पया ॥ २५.७५{७४} ॥ इत्युक्त्वा सर्वलोकास्ते नृपतिप्रमुखा मुदा । पूजादि मंगलोत्साहैः प्रावेशयंस्ततः पुरे ॥ २५.७६{७५} ॥ ततः स भगवान् दृष्ट्वा सर्वांस्तान् संप्रमोदितान् । नृपतिप्रमुखान् दत्वा भद्राशिषं समाचरत् ॥ २५.७७{७६} ॥ तत्र स भगवांस्तस्याः श्रावस्त्या गोपुरान्तिके । अवतीर्य यथा पद्भ्यां प्रचक्राम ससांघिकः ॥ २५.७८{७७} ॥ तत्र स श्रीघनो नाथः प्रभासयन् समंततः । सर्वेषां भद्रतां कुर्वन् प्रविवेश ससांघिकः ॥ २५.७९{७८} ॥ प्रविष्टे नगरे तत्र संबुद्धे सुगते जिने । तत्पुण्यसुप्रभाव्याप्ते सर्वत्राप्यभवच्छुभम् ॥ २५.८०{७९} ॥ अंधा रूपाणि प्राद्राक्षुर्वधिराः शुश्रुवु रवम् । ये च हीनेंद्रियास्तेऽपि सर्वे पूर्णेन्द्रिया वभुः ॥ २५.८१{८०} ॥ क्षुधाग्निपरितप्तांगास्तेऽभवन् परितृप्तिताः । पिपासापरिदग्धांगास्तेऽप्यासन् संप्रतर्पिताः ॥ २५.८२{८१} ॥ कुचेला दुर्भगांशा ये शुद्धांशुकाः शुभांशिकाः । (र्म् २९७) चिररोगातुरा येन नीरोगा वलिनोऽभवन् ॥ २५.८३{८२} ॥ उन्मत्ताः स्मृतिमंतश्च दरिद्रा धनिनोऽभवन् । चिरवैरानुवद्धा ये तेऽप्यासन्मैत्रभाविनः ॥ २५.८४{८३} ॥ चंडालाश्च दयावन्तः क्रोधिनः क्षान्तिभाविनः । लब्धाश्च निःस्पृहा आसनीर्ष्यालवश्च साधवः ॥ २५.८५{८४} ॥ मत्सरिणश्च दातारः कृपणाः संतोषिताशयाः । अधर्मकामसंरक्तास्ते धर्मकामसाधिनः ॥ २५.८६{८५} ॥ मृषावादरता ये च तेऽप्यासन् सत्यभाषिणः । पैशुन्याभिरता ये च तेऽपि विश्रम्भभोजनाः ॥ २५.८७{८६} ॥ संभिन्नलापिनो दुष्टास्तेऽपि संतः समार्जवाः । पारुष्यंवादिनः क्रूरास्ते आसन् प्रियवादिनः ॥ २५.८८{८७} ॥ येऽभिध्यालवस्तेऽपि सज्जना कीर्तिमानिनः । व्यापादनिरता ये च तेऽपि सत्वहितार्थिनः ॥ २५.८९{८८} ॥ मिथ्यादृष्टिचरा ये च ते धर्मसत्यदृष्टयः । बोधिचर्यासमुत्साहाः सर्वे पुण्यार्थिनोऽभवन् ॥ २५.९०{८९} ॥ एवमन्येऽपि ये सत्वा दुःखिनः पापसंरताः । सर्वे ते सुखिनः संतः सद्धर्मवांछिनोऽभवन् ॥ २५.९१{९०} ॥ सुगंधिनः सुखस्पर्शाः शीतला वायवो ववुः । प्रसेदिरे दिशः सर्वाः पुष्पाणि ववृषुर्घनाः ॥ २५.९२{९१} ॥ सुरदुंदुभयो नेदुः प्रससार महोदधिः । प्रचचार मही षड्धा प्रजुज्वलुः शुभाग्नयः ॥ २५.९३{९२} ॥ बभूवुः पादपाः सर्वे फलपुष्पाभरानत्ताः । अष्टांगगुणयुक्ताम्बुपरिपूर्णजलाश्रयाः ॥ २५.९४{९३} ॥ अनेकधातुरत्नादि निधयः प्रचकासिरे । निस्पन्नशस्यसंपन्ना बह्हूव वसुधा तदा ॥ २५.९५{९४} ॥ बहुक्षीरप्रदा गाव औषधयो गुणान्विताः । रसाश्च सुगुणा आसन् फलानि सुरसानि च ॥ २५.९६{९५} ॥ एवं तत्र सुभद्राणि सर्वत्राप्यभवंस्तदा । उपद्रवाश्च सर्वेऽपि सर्वत्र विलयं गताः ॥ २५.९७{९६} ॥ सर्वे विघ्नगणा दुष्टा तेऽप्यत्र विलयं ययुः । सर्वे सत्वाः सुखाढ्याश्च प्रचेरिरे प्रहर्षिताः ॥ २५.९८{९७} ॥ एवं तदा मुनीन्द्रस्य प्रभावेन समंततः । सद्धर्ममंगलोत्साहं बभूव निरुपद्रवम् ॥ २५.९९{९८} ॥ एवं स भगवांस्तत्र कृत्वा भद्रं प्रभासयन् । प्रदक्षिणक्रमेणैवं प्रचक्राम नृपालये ॥ २५.१००{९९} ॥ तत्र शोधान्तरे रम्ये प्रासादे परिशोधिते । छत्रध्वजवितानैश्च मण्डिते विसृतासने ॥ २५.१०१{१००} ॥ प्रविश्य पाद्यमादाय नृपदत्तं ससांघिकः । भगवान् भासयंस्तत्र शुद्धासने समाश्रयन् ॥ २५.१०२{१} ॥ तथा ते सांघिकाश्चापि सर्वे दत्तं महीभुजा । स्वयं समादाय स्वस्वासने समाश्रयत् ॥ २५.१०३{२} ॥ एवं तत्र समासीनं श्रीघनं तं ससांघिकम् । नृपतिप्रमुखाः सर्वे लोका दृष्ट्वा प्रमोदिताः ॥ २५.१०४{३} ॥ (र्म् २९८) सर्वपूजोपहारांगैः समभ्यर्च्य यथाविधिः । यथार्हभोजनैश्चापि प्रणीतैः समतोषयन् ॥ २५.१०५{४} ॥ ततस्तं सुगतं तृप्तं ससमहं स नराधिपः । दृष्ट्वापनीय पात्राणि तद्धस्तादीनशोधयत् ॥ २५.१०६{५} ॥ ततः क्रमुकताम्बूलमहौषद्धिरसायनम् । दत्वा क्षमार्थनां कृत्वा ननाम तं ससांघिकम् ॥ २५.१०७{६} ॥ तत्र समुदितो राजा तस्य शास्तुर्जगद्गुरोः । पुरो नीचासनासीनो तस्थौ श्रोतुं वृषं मुदा ॥ २५.१०८{७} ॥ तथा मंत्रिजनाद्याश्च सर्वे लोकाः प्रमोदिताः । नत्वा तं श्रीघनं तत्र धर्मं श्रोतुमुपाश्रयन् ॥ २५.१०९{८} ॥ ततः स भगवां दृष्ट्वा सर्वांस्तान् समुपाश्रितान् । नृपतिं तं समामंत्र्य सद्धर्मं समुपादिशत् ॥ २५.११०{९} ॥ शृणु राजन्महाभाग सर्वदारोग्यमस्तु वः । सर्वे सत्वाश्च सद्धर्मनिरता सन्तु सर्वदा ॥ २५.१११{१०} ॥ एवं त्वं भो महाराज साधयित्वा प्रयत्नतः । सर्वां सत्वां शुभे धर्मे योजयित्वाभिपालय ॥ २५.११२{११} ॥ एवं लोके शुभं कृत्वा बोधिचर्यां समाहितः । त्रिरत्नभजनं कृत्वा चिनु धर्मं समादरात् ॥ २५.११३{१२} ॥ अनित्यं खलु संसारं क्षणध्वंसि शरीरकम् । जीवितं च क्षणस्थायि धर्म एव सहानुगः ॥ २५.११४{१३} ॥ इति मत्वा महाराज क्लेशान् दुर्जयान् वलैः । जित्वा सत्वांच्छुभे स्थाप्य पालय सद्वृषं चिनुः ॥ २५.११५{१४} ॥ धर्मेण सद्गतिं यायाः सद्गतौ सर्वदा सुखम् । भुक्त्वा बोधिचरिं धृत्वा चरं बोधिमवाप्नुयाः ॥ २५.११६{१५} ॥ एवं विज्ञाय राजेंद्र स्वयं धर्मे समाहितः । सर्वसत्वहितं कृत्वा चर नित्यं समाहितः ॥ २५.११७{१६} ॥ इत्यादिश्य नरेंद्राय सलोकाय शुभाशिषम् । ससंघो भगवान् बुद्धः स्वाश्रमे गंतुमुत्थितः ॥ २५.११८{१७} ॥ भासयं सकलांल्लोकां भद्रं कृत्वा समंततः । स्वाश्रमाभिमुखस्तस्मात्प्रतस्थे क्रमतः पुरात् ॥ २५.११९{१८} ॥ तत्र सर्वेऽपि लोका नृपतिप्रमुखा अपि । शास्तुस्तस्य ससंघस्य प्रानुययुः सहोत्सवैः ॥ २५.१२०{१९} ॥ तथा स भगवान् गत्वा ससांघिको नृपादिभिः । लोकैः सह महोत्साहैः स्वाश्रमं समुपाययौ ॥ २५.१२१{२०} ॥ तत्र जेतवनोद्याने विहारे समुपाश्रितः । ससांघिकः सभासीनः स शास्ता धर्ममादिशत् ॥ २५.१२२{२१} ॥ तद्धर्मदेशनां श्रुत्वा तत्रैव ते नृपादयः । सर्वे लोकाः प्रमोदन्तो रात्रौ न्यूषुः सहोत्सवैः ॥ २५.१२३{२२} ॥ तस्यामेव निशायां स दूतोऽल्पायूर्ज्वरान्वितः । त्रिरत्नस्मरणं कुर्वन् देहं त्यक्त्वा दिवं ययौ ॥ २५.१२४{२३} ॥ (र्म् २९९) तत्र स्वर्गे समुत्पन्नः स दूतो विस्मयान्वितः । कुतश्च्युतः कुहोत्पन्नः कथमिति व्यचिंतयत् ॥ २५.१२५{२४} ॥ तदा स मनसाद्राक्षीन्मनुष्येभ्यश्च्युतास्म्यहम् । इह स्वर्गे समुत्पन्नः संबुद्धभजनादिति ॥ २५.१२६{२५} ॥ अथ स दूतपूर्वी स देवपुत्रः प्रसादितः । संबुद्धस्य गुणान् स्मृत्वा पुनरेवं व्यचिंतयत् ॥ २५.१२७{२६} ॥ अहो ह्यहं मुनीन्द्रस्य प्रसादाद्दिवि सांप्रतम् । जातोऽस्मि तन्मुनीन्द्रस्य कुर्यां संदर्शनं पुनः ॥ २५.१२८{२७} ॥ इति हि दूतपुर्वी स देवपुत्रो विचिंतयन् । स्नात्वा सुगंधिलिप्तांगं शुद्धाम्वरावृतः सुधीः ॥ २५.१२९{२८} ॥ मौलिकुण्डलमालादि दिव्यालंकारभूषितः । दिव्यपूजोपचारां धृत्वा देवं सहाचरत् ॥ २५.१३०{२९} ॥ तस्यामेव निशायां स देवपुत्रः सुरैः सह । अवभास्य प्रभास्तस्मिज्जेतारण्ये उपाचरत् ॥ २५.१३१{३०} ॥ तत्रोद्याने विहारे तं भगवंतं मुनीश्वरम् । आलोक्य सांजलिर्नत्वा पुरतः समुपाचरत् ॥ २५.१३२{३१} ॥ ततस्तं श्रीघनं नाथं समभ्यर्च्य यथाविधिः । नत्वा प्रदक्षिणीकृत्य सांजलिः समुपाश्रयत् ॥ २५.१३३{३२} ॥ अथ स भगवांस्तस्य दृष्ट्वा चित्तं विशोधितम् । आर्य्यसत्यं समारभ्य सद्धर्मं समुपादिशत् ॥ २५.१३४{३३} ॥ तदार्य्यधर्ममाकर्ण्य देवपुत्रः स बोधितः । धर्मविशेषमाज्ञाय दृष्टसत्योऽभवंस्ततः ॥ २५.१३५{३४} ॥ सत्कायदृष्टिभूमीन्ध्रं विंशतिशिखरोद्गतम् । प्रभित्वा ज्ञानवज्रेण सद्धर्मं साधनोत्सुकः ॥ २५.१३६{३५} ॥ परिशुद्धाशयः श्रोतआपत्तिफलमाप्तवान् । शास्तुस्तस्य पदौ नत्वा सांजलिरेवमब्रवीत् ॥ २५.१३७{३६} ॥ भगवन्निदमस्माकं गुरुभिर्न कृतं खलु । न मात्रा नापि पित्रा वा न ज्ञातिमित्रवांधवैः ॥ २५.१३८{३७} ॥ न चेष्टैर्ब्राह्मणैर्वापि न चापि पूर्वप्रेतकैः । न राज्ञा श्रमणैश्चान्यैर्देवैरपि कृतं खलु ॥ २५.१३९{३८} ॥ यदस्माकं कृतं भद्रं भवतास्थिशिरोच्चयाः । लंघिता रुधिरा चाब्धिरुछोषिताश्च सांप्रतम् ॥ २५.१४०{३९} ॥ पिहितो पापमार्गश्च स्वर्गमार्गश्च वैवृतः । दर्शितो मोक्षमार्गोऽपि तीर्णो दुःखार्णवापि च ॥ २५.१४१{४०} ॥ प्रसादाद्भवतामद्य प्राप्तं शुद्धेंद्रियं मया । शान्तमार्यपदं कांतं संबोधिगुणसाधनम् ॥ २५.१४२{४१} ॥ अद्य मे सफलं जन्म भवतां दर्शनादिह । सद्धर्मश्रवणादद्य बुद्धपुत्रोऽस्मि सांप्रतम् ॥ २५.१४३{४२} ॥ इत्युक्त्वा दूतपुर्वी स देवपुत्रः प्रमोदितः । तस्य शास्तुर्जगद्वंधोः पादौ नत्वा कृतांजलिः ॥ २५.१४४{४३} ॥ त्रिधा प्रदक्षिणीकृत्य समभिनंदिताशयः । ततोऽनुज्ञां समासाद्य सुरैः सह दिवं ययौ ॥ २५.१४५{४४} ॥ (र्म् ३००) तत्र स्वर्गे स सम्यातः सुरम्ये स्वालये स्थितः । त्रिरत्नभजनं कृत्वारमं देवैः सहावसत् ॥ २५.१४६{४५} ॥ तत्र दृष्ट्वावभासं तं प्रसेनजित्स कौशलः । विस्मितः प्रातरुत्थाय विहारे समुपाचरत् ॥ २५.१४७{५६!} ॥ तत्र तं श्रीघनं दृष्ट्वा नृपतिः स प्रमोदितः । नत्वा प्रदक्षिणीकृत्य सांजलिः समुपाश्रितः ॥ २५.१४८{५७} ॥ ततः स नृप उत्थाय सूत्तरासङ्गमुद्वहन् । जानुभ्यां भुवि संस्थित्वा प्रार्थयत्तं मुनीश्वरम् ॥ २५.१४९{५८} ॥ भगवन्नत्र निशायां को भवतां समुपागतः । तद्भवतां समुपादिश्या मां बोधयितुमर्हति ॥ २५.१५०{५९} ॥ इति संप्रार्थिते राज्ञा भगवान् स मुनीश्वरः । नृपतिं तं महीपालं समालोक्यैवमादिशत् ॥ २५.१५१{६०} ॥ अन्यो न हि स राजेंद्र योऽद्य रात्राविहागातः । अपि तु तावको दूतो देवभूतः स आगतः ॥ २५.१५२{६१} ॥ इत्यादिष्टे मुनीन्द्रेण नृपतिः स सविस्मयः । भगवंतं पुनर्नत्वा तत्कर्म पर्यपृछतः ॥ २५.१५३{६२} ॥ भवन् किं कदा तेन दूतेन सुकृतं कृतम् । येनासौ दिवि संजातो दृष्टसत्यो भवत्यपि ॥ २५.१५४{६३} ॥ तद्भवान् भगवंच्छास्त यत्तेन सुकृतं कृतम् । तत्सर्वं समुपाख्याय बोधयितुमनाशयम् ॥ २५.१५५{६४} ॥ इति संप्रार्थिते राज्ञा भगवान् स जगद्गुरुः । कौशलं तं महाराजं समालोक्यैवमादिशत् ॥ २५.१५६{६५} ॥ शृणु राजन्महाभाग तेन देवेन यत्कृतम् । तदत्र संप्रवक्ष्यामि तव चित्तप्रबोधने ॥ २५.१५७{६६} ॥ यत्त्वया प्रेषितो दूतो मयि राजगृहे स्थिते । येन संप्रार्थितं श्रुत्वा तथा ह्यहं समागतः ॥ २५.१५८{६७} ॥ स साधुस्तावको दूतो मया सार्द्धमिहागतः । सद्धर्मदेशनां श्रुत्वा श्रद्धाभक्तिसमन्वितः ॥ २५.१५९{६८} ॥ त्रिरत्नभजनं कृत्वा प्राचरच्छासने मम । आल्पायुष्को ह्यसौ भद्री विहारेऽत्र निवासितः ॥ २५.१६०{६९} ॥ कालधर्माभिसंयुक्ते त्यक्त्वा देहं दिवं ययौ ॥ २५.१६१{७०} ॥ स ह्यसौ तावको दूतो रात्रावद्येह भासयन् । मम संदर्शनं कर्तुं देवलोकैः सहागतः ॥ २५.१६२{७१} ॥ मम पूजां विधायासौ कृत्वा चापि प्रदक्षिणाम् । नत्वा सादरमाश्रित्य सद्धर्मं श्रद्धयाशृणोत् ॥ २५.१६३{७२} ॥ मत्सद्धर्मामृतं पीत्वा दृष्टसत्यः प्रमोदितः । नत्वा मां स पुनः स्वर्गे देवलोकैः सहाचरत् ॥ २५.१६४{७३} ॥ तत्र स स्वालये रम्ये स्थित्वा देवैः सहारमन् । त्रिरत्नभजनं कुर्वन् प्राचरं वसते सुखम् ॥ २५.१६५{७४} ॥ एतत्पुण्यविपाकेन दूतः स तावकः कृती । स्वर्गे सौख्यं चिरं भुक्त्वा क्रमाद्बोधिमवाप्स्यति ॥ २५.१६६{७५} ॥ (र्म् ३०१) एवं विज्ञाय राजेंद्र संसारेऽत्र महत्सुखम् । यदीछसि सदा भद्रे चरितव्यं त्वयादरात् ॥ २५.१६७{७६} ॥ भद्रं तु जायते शीघ्रं त्रिरत्नभजनोद्यमात् । तत्त्रिरत्नमुपाश्रित्य भज नित्यं समाहितः ॥ २५.१६८{७७} ॥ त्रिरत्ने यत्कृतं कर्मं तन्नैव क्षिणुया क्वचित् । यावद्बोधिपदं दद्या एवं महत्तरं वृषम् ॥ २५.१६९{७८} ॥ ये त्रिरत्नं भजन्त्यत्र न ते गछन्ति दुर्गतिम् । सदैव सद्गतिं यान्ति बोधिं च समवाप्नुयुः ॥ २५.१७०{७९} ॥ तिस्रो हीमाः समाख्याता अग्राः प्रज्ञप्तयो नृप । यत्र किं चित्कृतं कर्म तद्विपाको महान् स्मृताः ॥ २५.१७१{८०} ॥ तद्यथा कतमास्तिस्रो अग्राः प्रज्ञप्तयः स्मृताः । त्रिरत्ने प्रकृता यास्ता अग्राः प्रज्ञप्तयः स्मृताः ॥ २५.१७२{८१} ॥ तद्यथा सर्वसत्वानां त्रैधातुकनिवासिनाम् । बुद्ध एव महानग्रो ज्येष्ठः श्रेष्ठो वरोत्तमः ॥ २५.१७३{८२} ॥ ये बुद्धश्रद्धया भक्त्या प्रभजंति प्रसादिताः । सर्वेऽत्यग्रप्रसन्नास्ते ज्येष्ठाः श्रेष्ठा वरोत्तमाः ॥ २५.१७४{८३} ॥ तदग्राभिप्रसन्नानां विपाकोऽप्यग्र उत्तमः । तथा धर्माश्च ये सर्वे संस्कृता वाप्यसंकृताः ॥ २५.१७५{८४} ॥ तेषामपि च सर्वेषां बुद्धधर्माग्र उच्यते । तत्र धर्मे प्रसन्ना ये तेऽग्रे हि संप्रसन्निताः । तदग्राभिप्रसन्नानां विपाकोऽप्यग्र उच्यते ॥ २५.१७६{८५} ॥ ये च संघा गणास्तेषां बुद्धसंघोऽग्र उच्यते । तत्र संघे प्रसन्ना ये तेऽग्रेऽभिसंप्रसादिनः ॥ २५.१७७{८६} ॥ तेषामग्रप्रसन्नानां विपाकोऽप्यग्र उच्यते । एताः प्रज्ञप्तयस्तिस्रो ह्यग्राः ख्यातो मुनीश्वरैः ॥ २५.१७८{८७} ॥ तदत्र श्रद्धया राज त्रिरत्ने संप्रसन्नधीः । सत्कारैः समुपाश्रित्य भज नित्यं समादरात् ॥ २५.१७९{८८} ॥ एतत्पुण्यमसंख्येयमप्रमेयं महत्तरम् । सर्वसत्वमहासौख्यगुणसंपत्तिदायकम् ॥ २५.१८०{८९} ॥ एवं मत्वा महत्पुण्यं सर्वान् सत्वान् प्रबोधयत् । त्रिरत्नभजनोत्साहैश्चारयस्व शुभे नृप ॥ २५.१८१{९०} ॥ एवं ते सर्वदा भद्रं सर्वत्रापि भवेद्ध्रुवम् । क्रमाद्बोधिं समासाद्य संबुद्धपदमाप्नुयाः ॥ २५.१८२{९१} ॥ इत्यादिष्टं मुनीन्द्रेण श्रुत्वा स नृपतिर्मुदा । तथेति हि प्रतिज्ञाय प्राभ्यनंदत्प्रसादितः ॥ २५.१८३{९२} ॥ ततः स नृप उत्थाय नत्वा तं जगदीश्वरम् । महानंदमहोत्साहैः स्वपुरं सजनो ययौ ॥ २५.१८४{९३} ॥ तत्र स नृपती राजा प्रासादतलमाश्रितः । स मंत्रिपौरिकान् सर्वान् समामंत्र्यैवमादिशत् ॥ २५.१८५{९४} ॥ मंत्रिणः पौरिकाः सर्वे शृणुध्वं वचनं मम । (र्म् ३०२) यदि वांछास्ति वो भद्रे त्रिरत्नं भजतादरत् ॥ २५.१८६{९५} ॥ यवदयं जगच्छास्ता विहरत्यत्र सांघिकः । तावदस्य मुनीन्द्रस्य भजत सर्वदोत्सवैः ॥ २५.१८७{९६} ॥ विहारे सर्वदा गत्वा श्रद्धया समुपाश्रिताः । तत्सद्धर्मामृतं पीत्वा मुदा चरत सद्वृतौ ॥ २५.१८८{९७} ॥ सर्वांश्च सौगतान् भिक्षून् सर्वोपकरणैरपि । सत्कृत्य श्रद्धयामंत्र्य मानयध्वं सदादरात् ॥ २५.१८९{९८} ॥ एतन्मे वचनं श्रुत्वा त्रिरत्नशरणं गताः । संबोधिप्रणिधानेन चरत बोधिचारिकाम् ॥ २५.१९०{९९} ॥ तथा ते मंगलं नित्यं सर्वत्रापि भवेद्ध्रुवम् । क्रमाद्बोधिं समासाद्य लभत सौगतिं गतिम् ॥ २५.१९१{१००} ॥ इत्यादिष्टं मुनीन्द्रेण श्रुत्वा ते मंत्रिणो जनाः । सर्वे वीरादयो लोकास्तथेति प्रतिशुश्रुवुः ॥ २५.१९२{१} ॥ तदा सर्वेऽपि ते लोकाः सद्धर्मसाधनोद्यताः । त्रिरत्नभजनं कृत्वा प्रचेरिरे समोदिताः ॥ २५.१९३{२} ॥ तदारभ्य सदा तत्र मंगलं निरुपद्रवम् । सर्वत्र सर्वदाप्यासीत्त्रिरत्नस्यानुभावतः ॥ २५.१९४{३} ॥ इति मे गुरुणादिष्टं तथा ते कथ्यते मया । त्वमप्येवं सदा राजन् त्रिरत्नं शरणं गतः ॥ २५.१९५{४} ॥ सद्धर्मं समुपाश्रित्य चर नित्यं सदा शुभे । लोकाश्चापि महाराज बोधयित्वा प्रयत्नतः । त्रिरत्नशरणे स्थाप्य पालनीयाः सदा त्वया ॥ २५.१९६{५} ॥ एवं ते मंगलं नित्यं सर्वत्रापि भवेद्ध्रुवम् । क्रमाद्बोधिं समासाद्य संबुद्धपदमाप्नुयाः ॥ २५.१९७{६} ॥ इति तेनार्हतादिष्टं श्रुत्वाशोकः स भूमिपः । तथेत्यभ्यनुमोदित्वा प्राभ्यनंदत्सपार्षदः ॥ २५.१९८{७} ॥ दूतावदानं यदिदं मुदा ये शृण्वंति ये चापि निशामयन्ति । ते सर्व एवं त्रिदिवे व्रजन्ति संबुद्धलोकेऽपि सरन्ति चान्ते ॥ २५.१९९{८} ॥ ++ इति श्रिरत्नावदानतत्वे दूतावदानं समाप्तम् ++ (र्म् ३०३) xxवि तैर्थिकावदान अथाशोको महीपालः कृतांजलिपुटो मुदा । उपगुप्तं तमर्हन्तं प्रणत्वैवमब्रवीत् ॥ २६.१{१} ॥ भदन्त श्रोतुमिछामि पुनरन्यत्सुभाषितम् । तद्यथा गुरुणादिष्टं तथादेष्टुं च मेऽर्हति ॥ २६.२{२} ॥ इति संप्रार्थितं राज्ञा श्रुत्वा स सुगतात्मजः । उपगुप्तो नरेंद्रं तं समामंत्र्यैवमादिशत् ॥ २६.३{३} ॥ साधु शृणु महाराज यथा मे गुरुणोदितम् । तथात्राहं प्रवक्ष्यामि श्रुत्वानुमोदनां कुरु ॥ २६.४{४} ॥ तद्यथा भगवांच्छास्ता श्रीघनोऽर्हन्मुनीश्वरः । सर्वज्ञः सुगतो नाथो धर्मराजो विनायकः ॥ २६.५{५} ॥ भिक्षुभिः श्रावकैः सार्द्धं तथा सर्वैश्च सांघिकैः । तत्रैव जेतकोद्याने विहारे व्यहरत्पुरा ॥ २६.६{६} ॥ तद्धर्मदेशनां श्रोतुं सर्वे लोकैः समागतैः । देवदानवगंधर्वैर्यक्षकिन्नरराक्षसैः ॥ २६.७{७} ॥ सिद्धैर्विद्याधरैश्चापि नागेन्द्रैर्गरुडैरपि । लोकपालैः ससैन्यैश्च ब्राह्मणैश्च महर्षिभिः ॥ २६.८{८} ॥ योगिभिर्यतिभिश्चापि निर्ग्रन्थिभिश्च तापसैः । राजभिः क्षत्रियैश्चापि तथा राजकुमारकैः ॥ २६.९{९} ॥ वैश्यैश्च मंत्रिभिः श्रेष्ठैर्गृहस्थैश्च महाजनैः । वणिग्भिः सार्थवाहैश्च शिल्पिभिः पौरिकैरपि ॥ २६.१०{१०} ॥ ग्राम्यैर्जानपदैश्चापि कार्पटिकैस्तथापरैः । त्रिरत्नदर्शनोत्साहैः सद्धर्मगुणवांछिभिः ॥ २६.११{११} ॥ सत्कृतो मानितो नित्यं पूज्यमानोऽभिवंदितः । सर्वसत्वहितार्थेन वर्षं धर्मामृतं सदा ॥ २६.१२{१२} ॥ तदा तत्र पुरे राजा प्रसेनजिन्नृपाधिपः । संबुद्धशासनं धृत्वा त्रिरत्नमभजन्मुदा ॥ २६.१३{१३} ॥ तद्दृष्ट्वा तीर्थिकाः सर्वे ईर्ष्यारोषाहताशयाः । संमील्य सौगतं धर्मं प्रतिक्षिप्यैवमब्रुवन् ॥ २६.१४{१४} ॥ भवन्तो यदयं बुद्धः सर्वज्ञ ऋद्धिमान् कृती । तत्सर्वानिमां लोकान् स्वं धर्मे संनियोजयेत् ॥ २६.१५{१५} ॥ तदास्मद्वचनं श्रोतुमपीछेन्नात्र कश्चन । सर्वे नः श्रावकाश्चापि भजेयुः सुगतं जिनम् ॥ २६.१६{१६} ॥ तदा सर्वे वयं लोकै निंद्यमानः समंततः । कथमत्र चरिष्यामस्तदन्यत्र चरेमहि ॥ २६.१७{१७} ॥ इति सर्वैरपि प्रोक्ते तीर्थिकोपासको द्विजः । सर्वान्स्तान्स्तीर्थिकं दृष्ट्वा पुनरेवमभाषत ॥ २६.१८{१८} ॥ (र्म् ३०४) भवंतो म विषीदत्वं कर्तुमर्हति सर्वथा । तदुपायं करिष्यामि येनान्यत्र चरेज्जिनः ॥ २६.१९{१९} ॥ इति तान्स्तीर्थिकान् सर्वान् बोधयित्वा स दुर्मतिः । नृपतेरन्तिके गत्वा सादरमेवमब्रवीत् ॥ २६.२०{२०} ॥ शृणु राजन्महाभाग यद्धितं ते तदुच्यते । तथा त्वया समाधाय चरितव्यं सदादरात् ॥ २६.२१{२१} ॥ यदयं मुण्डितो भिक्षुः कुलधर्मविनाशकृत् । जातिधर्मपरिभ्रष्टः संसारवृत्तिनिंदकः ॥ २६.२२{२२} ॥ मायावी कुत्सिताचारो दुःशीलो लोकवंचकः । स्वयं नष्टः परांश्चापि नाशयितुमिहागतः ॥ २६.२३{२३} ॥ तदस्य दर्शनं राजं कर्त्तव्यं न कदा चन । ग्रहीतव्यं न नामापि श्रोतव्यं नापि तद्वचः ॥ २६.२४{२४} ॥ सत्कारं न च कर्त्तव्यं दातव्यं नापि किं चन । आश्रमेऽपि न गन्तव्यं स्थातव्यं न तदन्तिके ॥ २६.२५{२५} ॥ दर्शनं ये प्रकुर्वन्ति तस्य भिक्षोर्दुरात्मनः । ते सर्वे नरके यायुः सद्गतिं न कदा चन ॥ २६.२६{२६} ॥ ये च शृण्वन्ति तद्वाक्यं सर्वे ते निलयं गताः । तीव्रदुःखाभिसंतप्ता वसेयुरनुतापिताः ॥ २६.२७{२७} ॥ सत्कारं ये च कुर्वंति सर्वे ते विलयं गताः । दरिद्रा दुर्गतिं गत्वा भ्रमेयुर्निहताशयाः ॥ २६.२८{२८} ॥ ये च दानं प्रकुर्वन्ति तत्राशिर्लुहिताशयाः । तेऽपि च नरके याता दुःखान्येवमवाप्नुयुः ॥ २६.२९{२९} ॥ तदाश्रमे च गछंति सर्वे ते दुरिताङ्किताः । कुष्ठादि रोगसंतप्ता यायुश्च निरयेऽचिरात् ॥ २६.३०{३०} ॥ ये च तैः सह तिष्ठन्ति ते सर्वे पापसंगिताः । तीव्रदुःखाग्निसंदग्धा चरेयु निरये सदा ॥ २६.३१{३१} ॥ गृह्नन्ति ये च मन्नाम तेषां गेहेषु सर्वदा । लक्ष्मीर्मैव श्रयेत्तत्र नैरृतिरेव संश्रयेत् ॥ २६.३२{३२} ॥ ये बुद्धं भजन्त्यत्र ते ते सर्वेऽप्यधर्मिणः । कदापि सद्गतिं नैव यांति दूरगतिमेव हि ॥ २६.३३{३३} ॥ इति मत्वा महाराज सदा भद्रं यदीछसि । सत्कारं दर्शनं तस्य कर्त्तव्यं नैव के चन ॥ २६.३४{३४} ॥ किं धर्मं सौगतं धर्मं यन्मिथ्या परिकल्पितम् । तत्तस्य दुर्यतेर्धर्मं श्रोतव्यं नैव केन चित् ॥ २६.३५{३५} ॥ यस्य धर्मो हि सर्वत्र वेदशास्त्रे न गण्यते । स किं धर्मात्मको बुद्धस्तत्तत्र मंगलं न हि ॥ २६.३६{३६} ॥ इति तेनोदितं श्रुत्वा स परिबोधितः । त्रिरत्नभजनोत्साहशैथिल्यक्षुभितोऽभवत् ॥ २६.३७{३७} ॥ ततस्तस्य वचः श्रुत्वा तीर्थिकोपासकस्य सः । नृपतिस्तैर्थिके धर्मेऽभिललाष प्रसादितः ॥ २६.३८{३८} ॥ (र्म् ३०५) तत्रैको गृहभृच्छ्रेष्ठी संबुद्धोपासकः सुधीः । तं तीर्थ्योपासकं दृष्ट्वा बोधयितुमभाषत ॥ २६.३९{३९} ॥ किमेवं दुर्मते बुद्धो धर्मराजोऽपि निंद्यते । मा मैवं वदतामत्र त्वमेव नरकं व्रजेः ॥ २६.४०{४०} ॥ यो लोके समुत्पन्नः सर्वक्लेशान् विनिर्जयन् । जित्वा मारगणान् सर्वान् संबोधिज्ञानमाप्तवान् ॥ २६.४१{४१} ॥ सर्वै ब्रह्मादिभिर्लोकैः संस्तुतो वंदितोऽर्चितः । मानितः सत्कृतो बुद्धस्त्वयैव निंद्यते कथम् ॥ २६.४२{४२} ॥ येनैव त्रिजगल्लोकां पुत्रवत्प्रतिपालितम् । पूजनीयः कथं नाथं धर्मराजो मुनीश्वरः ॥ २६.४३{४३} ॥ बुद्ध एव जगन्नाथो दयालुः सद्गुणाकरः । सर्वसत्वहिताधानोऽद्वयवादी विनायकः ॥ २६.४४{४४} ॥ सर्वज्ञः सुगतो भद्ररूपः सर्वहितार्थभृत् । सर्वविद्याधिपः शास्ता संबोधिमार्गदेशकः ॥ २६.४५{४५} ॥ निर्जितक्लेश आत्मज्ञः षडभिज्ञो जगद्गुरुः । संबुद्धोऽर्हञ्जिनस्त्रायी धर्मराजो मुनीश्वरः ॥ २६.४६{४६} ॥ ततः स भगवान्नेव सर्वत्रैधातुकेष्वपि । अग्रः श्रेष्ठो महाञ्जेष्ठो नान्यः कश्चिदतोऽधिकः ॥ २६.४७{४७} ॥ तस्मादस्य मुनीन्द्रस्य सत्कारं श्रद्धया सदा । शरणगमनं कृत्वा श्रोतव्यं धर्ममादरात् ॥ २६.४८{४८} ॥ ये बुद्धे शरणं यान्ति न ते गछंति दुर्गतिम् । सर्वदा सद्गतौ सौख्यं भुक्त्वा यान्ति जिनालये ॥ २६.४९{४९} ॥ शृण्वन्ति ये च तद्धर्मं तेऽपि नो यान्ति दुर्गतिम् । सदा स्वर्गे सुखं भुक्त्वा यायुश्चान्ते सुनिर्वृतिम् ॥ २६.५०{५०} ॥ भजन्ति ये च संघेषु तेऽपि न यान्ति दुर्गतिम् । सदा धर्मरताः सौख्यं भुक्त्वा यान्ति सुखावतिम् ॥ २६.५१{५१} ॥ एवं ये ये त्रिरत्नानां सर्वदा शरणं गताः । सत्कृत्य श्रद्धया नित्यं भजन्ति बोधिमानसाः ॥ २६.५२{५२} ॥ सर्वे ते सद्गुणाधाराः सर्वसत्वहितार्थिनः । क्रमाद्बोधिचरीः पूर्य संबुद्धपदमाप्नुयुः ॥ २६.५३{५३} ॥ तेनायं भगवान्नेव जगन्नाथो जगद्गुरुः । धर्मराजो जगद्भर्त्ता जगत्त्रायी विनायकः ॥ २६.५४{५४} ॥ तेनास्य सद्गुरोः शास्तुः श्रद्धया शरणं गताः । सद्धर्मं सर्वदा श्रुत्वा कर्तुमर्हति सत्कृतिम् ॥ २६.५५{५५} ॥ ये चाप्यस्य मुनीन्द्रस्य प्रतिक्षिपन्ति शासनम् । सद्गतिं नैव ते यान्ति दुर्गतिमेव सर्वदा ॥ २६.५६{५६} ॥ इति मत्वा न कर्त्तव्या बुद्धे निंदा कथं चन । त्रिरत्नभजनान्येव कर्त्तव्यानि शुभार्थिभिः ॥ २६.५७{५७} ॥ ये त्रिरत्नं भजन्त्यत्र सर्वे ते बोधिभागिनः । बोधिसत्वा महासत्वा भवेयुः सुगतात्मजाः ॥ २६.५८{५८} ॥ तेन तेऽपि महासत्वास्त्रिरत्नोपासका अपि । श्रद्धया प्रणतिं तेसां कर्त्तुमर्हन्ति सर्वदा ॥ २६.५९{५९} ॥ इति तेनोदितं श्रुत्वा तीर्थिकोपासकश्च सः । (र्म् ३०६) तं बुद्धोपासकं दृष्ट्वा पुनरेवमभाषत ॥ २६.६०{६०} ॥ आ किमेवं त्वया प्रोक्तं किं बुद्धोऽतापसाऽयतिः । पूरणो ब्रह्मविज्ञस्तपस्वी संयमी सुधीः ॥ २६.६१{६१} ॥ तत्तस्य पूरणस्याग्रे बुद्धः किं वक्तुमुत्सहेत् । बालकानेव वञ्चित्वा ह्यसद्धर्म्मे युनक्ति सः ॥ २६.६२{६२} ॥ पूरण एव सर्वेषां यतीनां ब्रह्मचारिणाम् । ऋद्धिमतां महानग्रो मात्रैकश्चित्ततोऽधिकः ॥ २६.६३{६३} ॥ इति तेनोदितं श्रुत्वा स बुद्धोपासकस्ततः । तीर्थिकोपासिकं दृष्ट्वा पुनरेव तमब्रवीत् ॥ २६.६४{६४} ॥ अरे किं ज्ञायते तस्य संबुद्धस्य गुणस्त्वया । येनैव कृपया दृष्ट्वा पालितं पुत्रवज्जगत् ॥ २६.६५{६५} ॥ यस्य लोके दया नास्ति तेन किं पाल्यते जगत् । केवललोभसत्कारं हेतुनादोम्भिको हि सः ॥ २६.६६{६६} ॥ तपस्वी योगवित्प्राज्ञ ऋद्धिमान् सिद्धिमानपि । यस्य नास्ति दया सत्वे स किं शास्ता जगद्गुरुः ॥ २६.६७{६७} ॥ यो दृष्ट्वा सकलान् सत्वान् कृपया संप्रबोधयन् । सद्धर्मे योजयत्यत्र स एव जगतां गुरुः ॥ २६.६८{६८} ॥ तस्मादत्र जगच्छास्ता सर्वसत्वहितार्थभृत् । बुद्ध एव जगन्नाथो जगत्त्रायी जगद्गुरुः ॥ २६.६९{६९} ॥ नास्ति बुद्धसमः कश्चित्सर्वसत्वहितंकरः । तेन ब्रह्मादिदेवैः स वंदनीयो मुनीश्वरः ॥ २६.७०{७०} ॥ यतोऽयं श्रीघनः त्रायी षडभिज्ञो विनायकः । मुनीन्द्रोऽर्हं सुभद्रांशस्तेन तस्याधिको हि कः ॥ २६.७१{७१} ॥ तेनायं सुगतो बुद्धो धर्मराजस्तथागतः । सत्कृत्य श्रद्धया सर्वे भजनीयः शुभेछुभिः ॥ २६.७२{७२} ॥ इति तेनोदितं श्रुत्वा तीर्थिकोपासकोऽथ सः । रोषाग्निपरिदग्धास्यस्तं बौद्धमेवमब्रवीत् ॥ २६.७३{७३} ॥ आ एवमुच्यते कोऽत्र पूरणात्पर उत्तमः । यतीर्विज्ञो महाभिज्ञः स एव त्रिजगद्गुरुः ॥ २६.७४{७४} ॥ इति तेनोदितं श्रुत्वा संबुद्धोपासकोऽपि सः । सांजलिः प्रणतिं कृत्वा भूमावेवं तमब्रवीत् ॥ २६.७५{७५} ॥ बुद्धादन्यो विशिष्टः कस्त्रैधातुभुवनेष्वपि । बहुधा किं प्रवादेन बुद्ध एव जगत्प्रभुः ॥ २६.७६{७६} ॥ तेनेत्युक्ते स रुष्टात्मा तीर्थिकोपासकस्तदा । कोपाग्निपरिदग्धांगस्तं बुद्धमेवमब्रवीत् ॥ २६.७७{७७} ॥ यदि बुद्धो विशिष्टः स्यात्पूरणादर्हतो यतेः । सर्वस्वं मे तवाधीनं दासश्चापि भवाम्यहम् ॥ २६.७८{७८} ॥ यदि बुद्धाद्विशिष्टो हि पूरणोऽर्हं महामतिः । सर्वस्वं ते ममाधीनं दासश्चापि भवेः खलु ॥ २६.७९{७९} ॥ इति तेनोदिते तत्र संबुद्धोपासकोऽपि सः । तथेति वंधनिक्षेपं कृत्वा स्वीकरणं व्यधात् ॥ २६.८०{८०} ॥ तयोरेतत्प्रवादत्वं प्रसेनजिन्नराधिपः । (र्म् ३०७) मत्वामात्यान् समाहूय पुररेवमभाषत ॥ २६.८१{८१} ॥ गछध्वं मंत्रिणः सर्वे बुद्धतैर्थिकयोरपि । निर्णयित्वा विवादत्वे मिमांसा क्रियतामिह ॥ २६.८२{८२} ॥ इति राज्ञा समादिष्टं श्रुत्वा ते मंत्रिणो जनाः । सहसा तज्जनान् सर्वान् समाहूयैवमादिशत् ॥ २६.८३{८३} ॥ भवन्तो नृपतेरेवमाज्ञां श्रुत्वा समाहिताः । सर्वत्र विजिते घण्टानादैश्चोदय तद्द्रुतम् ॥ २६.८४{८४} ॥ इति तैर्मंत्रिभिः प्रोक्तैः श्रुत्वा ते सजनास्तथा । घण्टावघोषनं कृत्वा सर्वत्रैवं घोषयन् ॥ २६.८५{८५} ॥ शृण्वन्तु पौरिकाः सर्वे इतोऽह्नि सप्तमेऽहनि । बौद्धतैर्थिकसंवादे मिमांसात्र भविष्यति ॥ २६.८६{८६} ॥ ये येऽत्र द्रष्टुमिछन्ति सर्वे ते समुपागताः । बुद्धस्य तीर्थिकस्यापि प्रभावं द्रष्टुमर्हत ॥ २६.८७{८७} ॥ एवं ते विजिते तत्र सर्वत्र विषयेष्वपि । घण्टावघोषणं कृत्वा मंत्रिणां पुर आययुः ॥ २६.८८{८८} ॥ ततस्ते सजनाः सर्वे राज्ञोऽन्तिकमुपागताः । प्रणत्वैतत्प्रवृत्तांतं पुरतः संन्यवेदयन् ॥ २६.८९{८९} ॥ ततोऽह्नि सप्तमे प्राप्ते सर्वे लोकाः समागताः । विस्तीर्णे भूतले रम्ये तद्द्रष्टुमुपतस्थिरे ॥ २६.९०{९०} ॥ तथा देवा अनेके च तद्दर्शनकुतूहलाः । अन्तरीक्षे समाश्रित्य संतस्थुः प्रतिमोदिताः ॥ २६.९१{९१} ॥ एवं सर्वेषु लोकेषु नृपमंत्रिजनादिषु । नैकशतसहस्रेषु सन्निपातेषु सर्वतः ॥ २६.९२{९२} ॥ तीर्थिकोपासकस्तत्र स गोमये प्रलेषिते । मंडले गंधपुष्पादिपूजांगैः समपूजयत् ॥ २६.९३{९३} ॥ ततः स सांजलिर्नत्वा जानुभ्यां भुवि संस्थितः । उद्वहन्नुत्तरासंगं प्रार्थयदेवमादरात् ॥ २६.९४{९४} ॥ येन सत्येन षड्विज्ञाः शास्तारः पूरणादयः । भगवंतो महाभिज्ञा अर्हन्तो ब्रह्मचारिणः ॥ २६.९५{९५} ॥ अनेन सत्यभावेन सर्वानेतान् यतीश्वरान् । एतत्पूजोपहाराणि प्रानुगंछंतु संमुखम् ॥ २६.९६{९६} ॥ एवं संप्रार्थनां कृत्वा तीर्थिकोपासको मुदा । तानि पंचोपहाराणि प्रादाय गगणेऽक्षिपत् ॥ २६.९७{९७} ॥ तेन क्षिप्रक्षिप्तमात्राणि तानि सर्वाणि भूतले । पतितान्यस्तंगतान्येव सहसादर्शने ययुः ॥ २६.९८{९८} ॥ तद्दृष्ट्वा ससुरा लोकाः सर्वे ते भूमिपादयः । उच्चैर्नादैर्हसन्तस्तं तैर्थिकमेव मेनिरे ॥ २६.९९{९९} ॥ तद्दृष्ट्वा धिक्प्रवादं च श्रुत्वा स तैर्थिकोऽपतत् । ततश्चिरात्समुत्थाय लज्जाभिन्नमुखाशयः ॥ २६.१००{१००} ॥ त्रसितोऽधोमुखोद्रष्टो निष्प्रभः परिकंपितः । भ्रस्तस्कंधः करे कण्डं स्थाप्य तस्थौ विमुर्छितः ॥ २६.१०१{१} ॥ तद्दृष्ट्वा स प्रसन्नात्मा बुद्धोपासको मुदा । प्रकृत्वा मण्डलं तत्र गोमयप्रतिलेपिते ॥ २६.१०२{२} ॥ (र्म् ३०८) पंचोपहारपूजंगैः समभ्यर्च्य यथाविधिः । उद्वहन्नुत्तरासङ्गं जानुभ्यां भुवि संस्थितः ॥ २६.१०३{३} ॥ सांजलिः पुरतः स्थित्वा संबुद्धं तं मुनीश्वरम् । स्मृत्वा नत्वा तथा सत्यं प्रार्थयदेवमादरात् ॥ २६.१०४{४} ॥ यतोऽयं भगवान् बुद्धः सर्वलोकविनायकः । तेन सत्येन सर्वाणि पुष्पाणीमानि सूदकम् ॥ २६.१०५{५} ॥ इदं सौरभ्यधूपं च भगवन्तं मुनीश्वरम् । संबुद्धं श्रीघनं नाथं प्राभियान्तु विहायसा ॥ २६.१०६{६} ॥ इति संप्रार्थनां कृत्वा स बुद्धोपासको मुदा । तानि सर्वोपहाराणि प्रादाय गगणेऽक्षिपत् ॥ २६.१०७{७} ॥ तानि तेन प्रक्षिप्तानि सर्वाणि गगणेऽसरन् । तानि सर्वाणि पुष्पाणि छत्रीभूत्वाचरन् क्रमात् ॥ २६.१०८{८} ॥ धूपो मेघवदम्भोऽपि वैडूर्य्यवत्तदाचरत् । तद्दृष्ट्वा जनता सर्वा महाश्चर्य्यं प्रलेहिरे ॥ २६.१०९{९} ॥ क्रमेण तानि सर्वाणि प्रचरन्ति विहायसा । झटिति जेतकारण्ये विहारे संमुखं ययुः ॥ २६.११०{१०} ॥ दृष्ट्वा सजनकायोऽपि प्रतिहार्यं तदद्भुतम् । जयशब्दं प्रकुर्वन्तः पश्यन्तोऽनुययुर्मुदा ॥ २६.१११{११} ॥ तत्र सर्वाणि पुष्पाणि छत्रीभूत्वा जगद्गुरोः । संबुद्धस्य जगच्छास्तुरुपरि समुपाश्रयन् ॥ २६.११२{१२} ॥ तद्धूपमग्रतस्तस्य तस्थौ कृत्वा प्रदक्षिणाम् । पदाम्बुजं तदम्भोऽपि पपात वियतः सरत् ॥ २६.११३{१३} ॥ तत्समालोक्य सर्वे ते द्विजादि पौरिका जनाः । प्रसादिता मुनीन्द्रस्य सभायां समुपाचरन् ॥ २६.११४{१४} ॥ सर्वे प्रदक्षिणीकृत्य कृतांजलिपुटा मुदा । भगावन्तं मुनिं नत्वा सर्वे ते समुपाश्रयन् ॥ २६.११५{१५} ॥ स बुद्धोपासकश्चापि नत्वा तं श्रीघनं मुदा । तत्सद्धर्मामृतं पातुमुपतस्थौ कृतांजलिः ॥ २६.११६{१६} ॥ तीर्थिकोपासकः सोऽपि तद्दृष्ट्वा विस्मयान्विताः । महद्बुद्धानुभावत्वं मत्वा द्रष्टुमुपाश्रयत् ॥ २६.११७{१७} ॥ ततः स भगवान् दृष्ट्वा सर्वान्स्तान् समुपस्थितान् । आर्यसत्यमुपादिश्य पुनरेवमुपादिशत् ॥ २६.११८{१८} ॥ शृणुध्वं साधवः सर्वे आर्यधर्मं समुच्यते । यत्त्रिरत्नं समाख्यातं तत्त्रिलोक्ये महत्तरम् ॥ २६.११९{१९} ॥ तद्यथा सर्वलोकानां त्रैधातुकनिवासिनाम् । सर्वेषामपि भद्रार्थं सद्धर्मं संप्रकाशये ॥ २६.१२०{२०} ॥ स संबुद्धो जगच्छास्ता सर्वसत्वहितंकरः । जगन्नाथो जगत्त्राता बुद्धरत्नमिदं वरम् ॥ २६.१२१{२१} ॥ अत्र यैः श्रद्धया कर्मं दानादि सुकृतं कृतम् । तेषामग्रप्रसन्नानां विपाकैः फलमुत्तमम् ॥ २६.१२२{२२} ॥ अप्रमेयमसंख्येयं संबोधिपददायकम् । (र्म् ३०९) एवं मत्वात्र संबुद्धं भजत सर्वदा मुदा ॥ २६.१२३{२३} ॥ यावतश्चात्र संसारे संस्कृता वाप्यसंस्कृताः । धर्मास्तेषां महानग्रो विरागो धर्ममुत्तमः ॥ २६.१२४{२४} ॥ धर्मरत्नमिदं येऽत्र प्रभजन्ति प्रसादिताः । तेषामग्रप्रसन्नानां विपाके फलमुत्तमम् ॥ २६.१२५{१२} ॥ अप्रमेयमसंख्येयं संबोधिज्ञानदायकम् । तदेतत्सौगतं धर्मं श्रुत्वा भजंति संवरम् ॥ २६.१२६{१३} ॥ यावन्तश्चात्र त्रैलोक्ये संघाः पूगा गणाः स्मृताः । तेषामग्रो महान् ख्यातो बुद्धसंघो जगद्वरः ॥ २६.१२७{१४} ॥ संघरत्नमिदं येऽत्र भजन्ति श्रद्धया मुदा । तेषामग्रप्रसन्नानां विपाके फलमुत्तमम् ॥ २६.१२८{१५} ॥ अप्रमेयमसंख्येयं संबोधिमार्गचालकम् । तदत्र सौगते संघे भजत श्रद्धयादरात् ॥ २६.१२९{१६} ॥ इदं रत्नत्रयं ख्यातं सर्वसत्वशुभंकरम् । वाञ्छितार्थप्रदं सिद्धं संबोधिज्ञानदायकम् ॥ २६.१३०{१७} ॥ तदेतत्त्रितयं रत्नं संबोधिपदवांछिभिः । सत्कृत्य श्रद्धया नित्यं पूजनीयं समादरात् ॥ २६.१३१{१८} ॥ ये त्रिरत्नं सदा नित्यं पूजयन्ति प्रसादिताः । न ते मारवशं याता भवंति बोधिलाभिनः ॥ २६.१३२{१९} ॥ इति मत्वा त्रिरत्नं तद्दृष्ट्वा कृत्वानुमोदनाम् । साञ्जलिप्रणतिं कृत्वा दूराद्वन्दितुमर्हथ ॥ २६.१३३{२०} ॥ इत्यादिष्टं मुनीन्द्रेण श्रुत्वा ते ब्राह्मणादयः । सर्वे लोकाः प्रसीदन्तस्त्रिरत्नशरणं ययुः ॥ २६.१३४{२१} ॥ तत्र के चिज्जना भद्राः संबुद्धशरणं गताः । शिक्षापदं समादाय प्राचरत्सौगतं व्रतम् ॥ २६.१३५{२२} ॥ के चिद्भद्राशया विज्ञा संबुद्धशरणं गताः । प्रव्रज्याव्रतमादाय प्राचरद्ब्रह्मचारिकाम् ॥ २६.१३६{२३} ॥ ततः क्लेशान् विनिर्जित्य संसारभोग्यनिस्पृहाः । साक्षादर्हत्पदं प्राप्य बभूव ब्रह्मचारिणः ॥ २६.१३७{२४} ॥ एतत्सर्वं समालोक्य तीर्थिकोपासकोऽपि सः । विस्मितः सुप्रसन्नात्मा त्रिरत्नं शरणं ययौ ॥ २६.१३८{२५} ॥ ततः स तैर्थिकस्तस्य मुनीन्द्रस्य पदाम्बुजे । साञ्जलिप्रणतश्चैवं प्रणिधानं व्यधान्मुदा ॥ २६.१३९{२६} ॥ अद्यारभ्य सदाप्यस्य मुनीन्द्रस्य जगद्गुरोः । सद्धर्मं समुपाश्रित्य त्रिरत्नोपासको भवे ॥ २६.१४०{२७} ॥ एतत्पुण्यविपाकेन लोकेऽन्धेऽपरिनायके । संबोधिज्ञानमासाद्य भवेयं सुगतो जिनः ॥ २६.१४१{२८} ॥ अतीर्णां तारयिष्यामि मोचयिष्याम्यमोचितान् । सर्वानाश्वासयिष्यामि ह्यनाश्वस्तान् सुदुःखिनः ॥ २६.१४२{२९} ॥ सत्वान्निर्वापयिष्यामि भवालयादनिर्वृतान् । करिष्यामि सदा भद्रं त्रैधातुभुवनेष्वपि ॥ २६.१४३{३०} ॥ (र्म् ३१०) इति तेन कृतं बोधिप्रणिधानं स्वचेतसा । मत्वा स भगवान् स्मितं विससर्ज सरश्मिकम् ॥ २६.१४४{३१} ॥ तदा ता रश्मयः पंचवर्णाः सर्वाः समंततः । लोकेषु प्रसृता भद्रं सौख्यं कृत्वा प्रसेरिरे ॥ २६.१४५{३२} ॥ या अधस्ताद्गताभासो सर्वत्र नरकेषु ताः । प्रसृता अवभास्यैवं भद्रसौख्यं प्रचक्रिरे ॥ २६.१४६{३३} ॥ तत्प्रभाभिः परिस्पृष्टा सर्वे ते नरकाश्रिताः । निर्दुःखा सौख्यमासाद्य विस्मयं समुपाययुः ॥ २६.१४७{३४} ॥ ततस्ते नारकाः सत्वाः सर्वे ते नरके स्थिताः । एकैकनरकेष्वेवं संमील्य संवभाषिरे ॥ २६.१४८{३५} ॥ अहो चित्रं किमद्यैवं महत्सौख्यं प्रजायते । इतश्च्युताः किमन्यत्र समुत्पन्ना वयं खलु ॥ २६.१४९{३६} ॥ इति संवादिनां तेसां सर्वेषां संप्रबोधने । भगवान्निर्मितं बुद्धं प्रेरयन्नरके प्रति ॥ २६.१५०{३७} ॥ तं दृष्ट्वा नारकाः सर्वे विस्मिताः संप्रसादिताः । भूय एकत्र संमील्य मिथ एवं वभाषिरे ॥ २६.१५१{३८} ॥ अहो वयमितश्च्युत्वा नैवान्यत्र गताः खलु । किं त्वस्यापूर्वरूपस्य प्रभावान्नः शुभायते ॥ २६.१५२{३९} ॥ नूनमयं जगन्नाथो बुद्धोऽस्मान् दुःखपीडितान् । समीक्ष्य कृपया दृष्ट्या समुद्धर्त्तुमिहागतः ॥ २६.१५३{४०} ॥ तदस्यात्र वयं सर्वे सत्कृत्य श्रद्धयादरात् । सर्वदा शरणं गत्वा भक्तुमर्हामहेऽधुना ॥ २६.१५४{४१} ॥ इति संभाषणां कृत्वा सर्वे ते संप्रसादिताः । अस्यैव शरणं गत्वा प्रणत्वा संप्रभेजिरे ॥ २६.१५५{४१!} ॥ ततस्ते नारकाः सर्वे तत्पापपरिमोचिताः । परिशुद्धाः शुभात्मानः सद्गतिं सहसा ययुः ॥ २६.१५६{४२} ॥ एवं तान्नारकान् सर्वाः समुद्धृत्य प्रभाश्च ताः । सर्वाः प्रत्यागतास्तत्र संबुद्धस्य पुरोऽसरन् ॥ २६.१५७{४३} ॥ एवमूर्द्धं गतायाश्च रश्मयस्ताः समंततः । सर्वान् देवालयां लोकानवभास्य प्रसेरिरे ॥ २६.१५८{४४} ॥ यावद्भवाग्रपर्यन्तमवभास्य समंततः । प्रसारिताः ततो गाथा निसृताः समचोदयन् ॥ २६.१५९{४५} ॥ अनित्यं खलु संसारं दुःखं शून्यमनात्मकम् । पुण्यमेव जगत्सारं तत्पुण्यं चिनुतादरात् ॥ २६.१६०{४६} ॥ निष्क्रामतारभध्वं तद्युज्यध्वं बुद्धशासने । धुनीत मृत्युसैन्यानि चरत सौगतं व्रतम् ॥ २६.१६१{४७} ॥ यो ह्यस्मिन् सौगते धर्मे चरिष्यति समाहितः । स हित्वा जन्म संसारे दुःखस्यान्तं करिष्यति ॥ २६.१६२{४८} ॥ तत्त्रिरत्नं सदा यूयं संस्मृत्वा शरणं गताः । सत्कृत्य श्रद्धया नित्यं भजत बोधिप्राप्तये ॥ २६.१६३{४९} ॥ एवं तद्घोषमाकर्ण्य सर्वदेवाः प्रबोधिताः । त्रिरत्नं शरणं कृत्वा प्रभेजिरे सदादरात् ॥ २६.१६४{५०} ॥ (र्म् ३११) एवं ता रश्मयो देवाञ्चोदयित्वा समंततः । पुनः प्रत्यागतास्तत्र बुद्धान्तिकमुपाययुः ॥ २६.१६५{५१} ॥ तत्र ता रश्मयः सर्वा एकीभूत्वाभिपिण्डिताः । त्रिधा प्रदक्षिणीकृत्य सूष्णीषेऽन्तर्दधुर्मुनेः ॥ २६.१६६{५२} ॥ तद्दृष्ट्वा ससभालोकाः सर्वे ते विस्मयान्विताः । शास्ता किमादिशेद्धर्ममिति ध्यात्वा निषेदिरे ॥ २६.१६७{५३} ॥ अथायुष्मान्महानन्दो मत्वा तल्लोकचिंतितम् । उत्थाय सांजालिर्नत्वा पप्रछ तं मुनीश्वरम् ॥ २६.१६८{५४} ॥ विगतोद्धवा दैन्यमदप्रहीणा बुद्धा जगत्युत्तमहेतुभूताः । नाकारणे शंखमृणालगौरं स्मितमुपदेशयन्ति जिना जितारयः ॥ २६.१६९{५५} ॥ तत्कालं स्वयमेवमधिगम्य धीर बुद्ध्या श्रोतॄणां श्रमण जिनेंद्र काङ्क्षितानां धीरभिर् । मुनिवृष वाग्भिरुत्तमाभिरुत्पन्नं व्यपनय संशयं शुभाभिः ॥ २६.१७०{५६} ॥ नाकस्माल्लवणजलाद्रिराजधैर्याः संबुद्धाः स्मितमुपदर्शयन्ति नाथाः । यस्यार्थे स्मितमुपदर्शयंति धीरास्तं श्रोतुं समभिलषन्ति जनोघाः ॥ २६.१७१{५७} ॥ तद्भवान् सर्वसत्वानां चित्ताभिपरिबोधने । यदभिलषितं कार्यं तदुपदेष्टुमर्हति ॥ २६.१७२{५८} ॥ इति संप्रार्थिते तेन भगवान् स मुनीश्वरः । आयुष्मन्तं तमानंदं समालोक्यैवमादिशत् ॥ २६.१७३{५९} ॥ एवमेतन्महानंद नाहेतुप्रत्ययं जिनाः । संबुद्धाः सुगताः सर्वे दर्शयन्ति स्मितं क्वचित् ॥ २६.१७४{६०} ॥ शृण्वानंद यदर्थेऽहं स्मितं मुञ्चामि सांप्रतम् । तदर्थं संप्रवक्ष्यामि सर्वसत्वप्रबोधने ॥ २६.१७५{६१} ॥ पश्यसि यदयं श्रेष्ठी तीर्थिकोपासको मुदा । ममात्र शरणं गत्वा प्रणिधानं करोति हि ॥ २६.१७६{६२} ॥ एतत्पुण्यविपाकेन त्रिकल्पान्तमनात्मवित् । क्रमाद्बोधिचारीः सर्वाः परिपूर्य भवेत्सुधीः ॥ २६.१७७{६३} ॥ ततः क्लेशगणाञ्जित्वा सर्वान्मारगणानपि । बोधिं प्राप्याचलो नाम तथागतो भविष्यति ॥ २६.१७८{६४} ॥ इत्यादिष्टं मुनीन्द्रेण श्रुत्वानंदादि भिक्षवः । सर्वे ते सुप्रसन्नास्याः प्राभ्यनन्दन् सविस्मयाः ॥ २६.१७९{६५} ॥ तथा तेन मुनीन्द्रेण व्याख्यातं स तैर्थिकः । श्रुत्वानुमोदनां कृत्वा प्राभ्यनन्दन् सविस्मयः ॥ २६.१८०{६६} ॥ ततः स सर्वदा नित्यं सत्कृत्य श्रद्धया मुदा । त्रिरत्नभजानं कृत्वा प्राचरत्सौगतं व्रतम् ॥ २६.१८१{६७} ॥ इति मे गुरुणाख्यातं श्रुतं मया तथोच्यते । त्वमप्येवं महाराज त्रिरत्नसेवको भव ॥ २६.१८२{६८} ॥ प्रजाश्चापि तथा राजं बोधयित्वा प्रयत्नतः । त्रिरत्नभजनोत्साहे संचारयितुमर्हसि ॥ २६.१८३{६९} ॥ तथा ते सर्वदा नित्यं सर्वत्रापि शुभं भवेत् । (र्म् ३१२) क्रमाद्बोधिं समासाद्य संबुद्धपदमाप्नुयात् ॥ २६.१८४{७०} ॥ इति तेनार्हतादिष्टं श्रुत्वाशोकः स भूपतिः । सत्यमिति प्रतिज्ञाय प्राभ्यनान्दत्स पार्थिकः ॥ २६.१८५{७१} ॥ शृण्वन्तीदं नरा ये मुनिवरकथितं तैर्थिकस्यावदानं ये चापि श्रावयन्ति प्रमुदितमानसः श्रद्धया भक्तियुक्ताः । ते सर्वे बोधिसत्वाः सकलगुणभरा भद्रचर्या चरन्तो भुक्त्वा सत्सौख्यभद्रं जिनवरनिलये संप्रयान्ति प्रमोदाः ॥ २६.१८६{७२} ॥ ++ इति श्रीरत्नावदानतत्वे तैर्थिकावदानं समाप्तम् ++ (र्म् ३१३) xxविइ मालिकावदान अथाशोको महीनाथः कृतांजलिपुटो मुदा । उपगुप्तं तमर्हन्तं प्रणत्वा प्रार्थयत्पुनः ॥ २७.१{१} ॥ भदन्त श्रोतुमिछामि पुनरन्यत्सुभाषितम् । तद्यथा गुरुणादिष्टं तथादेष्टुं त्वमर्हति ॥ २७.२{२} ॥ इति तेन नरेन्द्रेण प्रार्थितं स यतीश्वरः । उपगुप्तो नरेन्द्रन् तं समालोक्यैवमादिशत् ॥ २७.३{३} ॥ शृणु साधु महाराज यथा मे गुरुणोदितम् । तथाहं तत्प्रवक्ष्यामि तव पुण्यविवृद्धये ॥ २७.४{४} ॥ तद्यथा भगवान् बुद्धः शाक्यसिंहो जगद्गुरुः । सर्वज्ञः सुगतः शास्ता धर्मराजो मुनीश्वरः ॥ २७.५{५} ॥ एकस्मिन् समये तत्र श्रावस्त्या उपकण्ठिके । जेतारण्ये महोद्याने विहारे श्रावकैः सह ॥ २७.६{६} ॥ भिक्षुभिश्चैलकैश्चापि भिक्षुणीभिरुपासकैः । उपासिकाभिरन्यैश्च बोधिसत्वगणैरपि ॥ २७.७{७} ॥ सर्वसत्वहितार्थेन बोधिचर्यं प्रकाशयन् । सद्धर्मं समुपादिश्य विजहार प्रभासयन् ॥ २७.८{८} ॥ तत्सद्धर्मामृतं पातुं सर्वे लोकाः समागताः । शक्रादयोऽपि देवेन्द्रा ब्रह्मादिलोकपालकाः ॥ २७.९{९} ॥ दैत्येंद्रा गरुडा नागा यक्षगंधर्वकिंनराः । सिद्धा विद्याधराश्चापि राक्षसाश्च महर्द्धिकाः ॥ २७.१०{१०} ॥ ऋषयो ब्राह्मणा चापि क्षत्रियाश्च नराधिपाः । वैश्या राजकुमाराश्च मंत्रिणोऽमात्यका जनाः ॥ २७.११{११} ॥ गृहस्थाः सार्थवाहाश्च वणिजः शिल्पिनोऽपि च । पौरा जानपदा ग्राम्या अन्ये कार्पटिका अपि ॥ २७.१२{१२} ॥ सर्वे ते समुपागत्य तत्र तं श्रीघनं मुनिम् । दृष्ट्वा प्रदक्षिणीकृत्य प्रणत्वा समुपाचरन् ॥ २७.१३{१३} ॥ यथाक्रमं समभ्यर्च्य नत्वा सांजलयो मुदा । परिवृत्य पुरस्कृत्य सर्वे ते समुपाश्रयन् ॥ २७.१४{१४} ॥ तान् सर्वान् समुपासीनां दृष्ट्वा स भगवान्मुनिः । आर्यसत्यं समारभ्य दिदेश धर्ममुत्तमम् ॥ २७.१५{१५} ॥ तद्धर्मं समुपाकर्ण्य सर्वे ते संप्रबोधिताः । धर्मवैशेषमाज्ञाय बभुवुर्बोधिवांछिताः ॥ २७.१६{१६} ॥ तदा तत्र पुरे राजा प्रसेनजित्कौशलः । यदा न सुगतस्तत्र तदा तीर्थिकभागभूत् ॥ २७.१७{१७} ॥ यदा तु सुगतस्तत्र ससांघिकः समागतः । तदा स नृपतिर्नित्यं श्रीघनं तं सदाभजत् ॥ २७.१८{१८} ॥ तस्मिंश्च समये तत्र कश्चिदारामिको वनात् । (र्म् ३१४) नवं पद्मैः समादाय राज्ञे दातुं पुरेऽविशत् ॥ २७.१९{१९} ॥ तत्रैकपथि तं दृष्ट्वा तीर्थिकोपासिको मुदा । सहसा तस्य पुरो गत्वा प्रार्थयत्तं सरोरुहम् ॥ २७.२०{२०} ॥ भो मालिन्निदं पद्मं यदि विक्रेतुमिछसि । उचितं मूल्यमादाय मह्यं दातुं त्वमर्हसि ॥ २७.२१{२१} ॥ इति तेनार्थितं श्रुत्वा मालिकः लुभिताशयः । यदीछति भवान् दद्यामिति तं दातुमैछत ॥ २७.२२{२२} ॥ तस्मिन्नेव क्षणे तत्र गृहस्थोऽनाथपिण्डदः । पुष्पार्थी समुपायातो मालिकं तमपृछत ॥ २७.२३{२२} ॥ भो मालिन्निदं पद्मं यदि विक्रेतुमिछति । द्विगुणं मूल्यमादाय भवान्मे दातुमर्हति ॥ २७.२४{२३} ॥ इति तेनोदितं श्रुत्वा तीर्थिकोपासकोऽपि सः । तद्द्विगुणेन मूल्येन तद्पद्मं समयाचत ॥ २७.२५{२४} ॥ इति तेनार्थितं श्रुत्वा स चाप्यनाथपिण्डदः । तद्द्वैगुण्येन मूल्येन कमलं तमयाचत ॥ २७.२६{२५} ॥ तच्छ्रुत्वा तैर्थिकः सोऽपि मददर्पाभिमानिनः । तत्त्रिगुणमूल्येन गृहीतुं तं समैछत ॥ २७.२७{२६} ॥ तद्दृष्ट्वा स गृहस्थेणानाथपिण्डदोत्सही । चतुर्गुणेन मूल्येन पद्मं तमभ्ययाचत ॥ २७.२८{२७} ॥ एवं तौ गृहपती सो थ यावच्छतसहर्स्रकैः । मूल्य तं पद्ममादाय मालिनं तं ययाचतुः ॥ २७.२९{२८} ॥ तद्दृष्ट्वारामिकः सऽपि प्रवर्द्धयन् परस्परम् । तयोर्द्वयोरदत्वैव मनसैवं व्यचिंतयत् ॥ २७.३०{२९} ॥ अयं गृहपतिः श्रेष्ठो ह्यनाथपिण्डदः सुधीः । अचपलो महाधीरः स्थिरसत्वो विचक्षणः ॥ २७.३१{३०} ॥ कस्यार्थे न्विदं पद्ममियन्मूल्येन याचते । नूनमत्र महद्धेतुर्भविष्यति न संशयः ॥ २७.३२{३१} ॥ तदेतत्परिपृछाव दास्यामि सद्गुणार्थिने ॥ २७.३३{३२} ॥ इति ध्यात्वा स्वचित्तेन स आरामिक उत्सुकः । तैर्थिकं तं समालोक्य पप्रछैवं समादरात् ॥ २७.३४{३३} ॥ भो पुरुष भवान् कस्य कार्यस्यार्थे इदं कजम् । इयन्मूल्येन विक्रेतुमिछति तद्वदस्व मे ॥ २७.३५{३४} ॥ इति तेनोदितं श्रुत्वा स तैर्थिकः प्रमोदितः । आरामिकं तमालोक्य प्रबोधयितुमब्रवीत् ॥ २७.३६{३५} ॥ यः श्रीपतिर्जगद्भर्त्ता नारायनो जनार्दनः । तस्य पूजां करिष्यामि तदिदं देहि मेऽम्बुजम् ॥ २७.३७{३६} ॥ इति तेनोदितं श्रुत्वारामिको सानुबोधितः । अनाथपिण्डदं तं च दृष्ट्वा कार्यमपृछत ॥ २७.३८{३७} ॥ भो साधो भवंश्चापि किमर्थमिदमम्बुजम् । बहुमूल्यैव समाहर्त्तुमिछति तद्वदस्व मे ॥ २७.३९{३८} ॥ इति तद्वचनं श्रुत्वा सोऽनाथपिण्डदः सुधीः । आरामिकं तमालोक्य प्रबोधयितुमब्रवीत् ॥ २७.४०{३९} ॥ साधु साधु महाभाग यदिदं ते सरोरुहम् । बहुमूल्येन वांछामि तदर्थं कथ्यते शृणु ॥ २७.४१{४०} ॥ (र्म् ३१५) योऽत्र शौद्धोदनी राजा चक्रवर्त्ती नृपाधिपः । सर्वसत्वहितार्थेन संबोधिसाधनोद्यतः ॥ २७.४२{४१} ॥ सर्वत्र भुवने लोके क्लेशाकुलासमाहिते । बोधिचर्याविहीनेऽत्र म्लेछधर्मप्रवर्त्तते ॥ २७.४३{४२} ॥ बोधिचर्यां स्वयं धृत्वा प्रकाशयितुमुद्यतः । सर्वराज्यं परित्यज्य सर्वांश्चापि परिग्रहान् ॥ २७.४४{४३} ॥ वैराग्यधर्ममाश्रित्य संसारभोगनिस्पृहः । गयाशीर्षे नगे गत्वा कृत्वा तपः सुदुष्करम् ॥ २७.४५{४४} ॥ ततो लोके हितं कर्तुं समुत्थाय समाहितः । बोधिवृक्षतलासीनस्तस्थौ ध्यानसमाहितः ॥ २७.४६{४५} ॥ तत्र मारगणान् सर्वाञ्जित्वा क्लेशगणानपि । संबोधिज्ञानमासाद्य बुद्धो भवति सांप्रतम् ॥ २७.४७{४६} ॥ सोऽयं बुद्धो जगच्छास्ता जगन्नाथो जगद्गुरुः । जगद्भर्त्ता जगत्त्रायी धर्मराजा मुनीश्वरः ॥ २७.४८{४७} ॥ सर्वज्ञः सुगतः श्रिमान् षडभिज्ञो विनायकः । सत्यवादी महाधीरः सत्यधर्मशुभार्थभृत् ॥ २७.४९{४८} ॥ समन्तभद्ररूपांशः सौम्यरूपो जितेंद्रियः । द्वात्रिंशल्लक्षणाशीतिव्यंजनप्रतिमंडितः ॥ २७.५०{४९} ॥ भगवाञ्छ्रीघनो ब्रह्मविहारिको गुणाकरः । सर्वत्रैधातुकाधीशःसर्वदुष्टप्रशान्तकृत् ॥ २७.५१{५०} ॥ सर्वमारविजेतार्हं संबोधिमार्गदेशकः । वाञ्छितार्थप्रदातारश्चिंतामणिगुणाधिकः ॥ २७.५२{५१} ॥ शुद्धशीलः शुभाचारः क्षान्तिव्रतधरः सुधीः । सर्वसत्वहितोद्योगी निःक्लेशः सर्वजित्कृती ॥ २७.५३{५२} ॥ समाधिध्यानसंरक्तः संबोधिधर्मभास्करः । प्रज्ञानिधिर्महाविज्ञः सर्वविद्याविशारदः ॥ २७.५४{५३} ॥ सर्वोपायविधानज्ञः प्रणिधिपारतारकः । त्रैलोकविजयी वीरः संबोधिकार्यपूरकः ॥ २७.५५{५४} ॥ विज्ञानोर्मिसमाधिस्थः संबोधिज्ञानरत्नभृत् । सर्वसत्वशुभंकारी सर्वाकारस्वरूपिकः ॥ २७.५६{५५} ॥ शाक्यमुनिर्महाबुद्धो जिनेश्वरस्तथागतः । सर्वसत्वहितार्थेन सर्वत्र समुपाचरन् ॥ २७.५७{५६} ॥ भासयन् सकलान् लोकान् भद्रं कृत्वा समंततः । इहापि सर्वसत्वानां भद्रं कर्तुं समागतः ॥ २७.५८{५७} ॥ सांप्रतं जेतकारामे विहारे सह सांघिकैः । सद्धर्ममादिशन्नित्यं विहरति प्रभासयन् ॥ २७.५९{५८} ॥ तस्य पूजामहं कर्तुमिछामि सांप्रतं खलु । तदर्थे बहुमूल्येन याचामीदं सरोरुहम् ॥ २७.६०{५९} ॥ तद्भवान्मूल्यमादाय देहि मे इदमम्बुजम् । यथाभिलषितं द्रव्यं दास्यामि ते प्रसाणयन् ॥ २७.६१{६०} ॥ श्रद्धयेदं प्रदत्तं चेत्त्वयाहं संप्रमोदितः । एतत्पुण्यविपाकेन बोधिचित्तमवाप्स्यसि ॥ २७.६२{६१} ॥ सर्वदा सद्गतिं यायाद्दुर्गतिं न कदा चन । क्रमाद्बोधिचरीः पूर्य संबोधिमपि प्राप्नुयाः ॥ २७.६३{६२} ॥ (र्म् ३१६) एवं मत्वा भवान् साधो यदि संबोधिमिछति । यथाभिलषितं द्रव्यमादायेदं प्रदेहि मे ॥ २७.६४{६३} ॥ इति तेनार्थितं श्रुत्वा स मालिकः प्रमोदितः । तं गृहस्थमनाथानां भर्त्तारमेवमब्रवीत् ॥ २७.६५{६४} ॥ अहो बुद्धो महाभिज्ञो दृश्यते न कदा चन । ईदृग्महद्गुणं चापि श्रुयते न क्वचिन्मया ॥ २७.६६{६५} ॥ तदहं तं जगन्नाथं द्रष्टुमिछामि सांप्रतम् । तत्सद्धर्मामृतं पातुं वांछा मे जायते खलु ॥ २७.६७{६६} ॥ तस्मात्तत्र स्वयं गत्वा संबुद्धं तं मुनीश्वरम् । अनेन पुण्डरीकेन पूजयिष्येऽहमादरात् ॥ २७.६८{६७} ॥ तद्भवान् कृपया साधो संबुद्धस्य जगद्गुरोः । नीत्वा मामाश्रमे तत्र सद्धर्मे योक्तुमर्हति ॥ २७.६९{६८} ॥ इति तेनार्थितं श्रुत्वा सोऽनाथपिण्डदो मुदा । मालिकं तं समालोक्य पुनरेवमभाषत ॥ २७.७०{६७} ॥ साधु साधु महाभाग कुरुष्वेवं यदीछसि । प्रागछ त्वं मया सार्द्धं पूजये तं मुनीश्वरम् ॥ २७.७१{६८} ॥ इत्युक्त्वा मालिकं तं स गृहपतिः प्रसादयन् । आदाय जेतकारामे विहारे समुदाचरत् ॥ २७.७२{६९} ॥ तत्र तेन सहायेभ्य सोऽनाथपिण्डदो गृही । सांजलिस्तं जगन्नाथं नत्वैकान्ते समाश्रयत् ॥ २७.७३{७०} ॥ ततः स मालिको द्राक्षीच्छ्रीघनं तं मुनीश्वरैः । सभामध्यासनासीनं भिक्षुसंघपुरस्कृतम् ॥ २७.७४{७१} ॥ द्वात्रिंशल्लक्षणाशीतिव्यांजनप्रतिमण्डितम् । रत्नराशिमिवोज्वालं व्योमप्रभाभ्यलंकृतम् ॥ २७.७५{७२} ॥ समंतभद्ररूपांशं सौम्यरूपं शुभेन्द्रियम् । दृष्ट्वा स मुदितो नत्वा कृत्वा त्रिधा प्रदक्षिणम् ॥ २७.७६{७३} ॥ तत्पद्मं पुरतः क्षिप्त्वा कृतांजलिः पुरो मुदा । नत्वा पादौ मुनेस्तस्य तत्रैकान्ते समाश्रयत् ॥ २७.७७{७४} ॥ क्षिप्तमात्रं च तत्पद्मं सहसाकाशं संसरन् । छत्रीभूत्वा मुने मूर्द्ध्नरुपरिस्थं व्यराजत ॥ २७.७८{७५} ॥ तद्दृष्ट्वा ते सभालोकः सर्वे ते विस्मयान्विताः । अहो बुद्धस्य माहात्म्यमिति प्रोक्त्वा प्रसेदिरे ॥ २७.७९{७६} ॥ तद्दृष्ट्वा मालिकः सऽतिविस्मयानंदिताशयः । उत्थाय सहसा शस्तुः पादयो न्यपतन्नतः ॥ २७.८०{७७} ॥ ततः स सांजलिर्नत्वा पादाब्जवोर्जगद्गुरोः । संबुद्धपदलाभाय प्रणिधानं व्यधाद्धृदो ॥ २७.८१{७८} ॥ एतत्पुण्यविपाकेन लोकेऽन्धेऽपरिनायके । क्लेशाकुले विनष्टेऽहं भूयासं सुगतो जिनः ॥ २७.८२{७९} ॥ स्वयं तर्त्तुमशक्तानं तारयिता भवोदधिम् । तथा क्लेशाब्धिमग्नानां समुद्धर्त्ता विमोचाकाः ॥ २७.८३{८०} ॥ धर्मेऽनाश्वसितानं च सादाश्वासयितापि वै । अदृष्टबोधिमार्गानां दर्शयिता भवेय हि ॥ २७.८४{८१} ॥ (र्म् ३१७) इति तेन कृतं मत्वा प्रणिधानं स सर्ववित् । भगवान्मुदितः प्राविरकार्षीत्स स्मितं तदा ॥ २७.८५{८२} ॥ तत्र स्मिते मुनीन्द्रस्य मुखपद्माद्विनिर्गताः । सुरश्मयः पंचवर्णाः प्रसेस्रुस्त्रिजगत्स्वपि ॥ २७.८६{८३} ॥ या अधस्ताद्गताभासस्ता सर्वनरकेष्वपि । अवभास्य शुभं कृत्वा प्रचक्रु दुःखनाशणम् ॥ २७.८७{८४} ॥ तत्प्रभाभिः परिस्पृष्ट्वा सर्वे ते नरकाश्रिताः । दुःखमुक्ता सुखस्पृष्टा विस्मिता एवमब्रुवन् ॥ २७.८८{८५} ॥ अहो किं नु महासौख्यमस्माकं जायतेऽधुना । इतश्च्युताः कुहान्यत्र समुत्पन्ना वयं नु किम् ॥ २७.८९{८६} ॥ इति चिन्तापरितानां तेषां चित्तप्रबोधने । भगवान्निर्मितं बुद्धं प्रेषयत्प्रति नैरयम् ॥ २७.९०{८७} ॥ तद्दृष्ट्वा नरकस्थास्ते सर्वेऽतिविस्मयान्विताः । परस्परं समालोक्य पुनरेवं वभाषिरे ॥ २७.९१{८८} ॥ भवन्तो नो इतश्च्युत्वा नान्यत्र संगता वयम् । इहैव नरके स्थाः स्म कुत्रापि चलिता न हि ॥ २७.९२{८९} ॥ किं त्वयं समुपायाता ह्यपूर्वदर्शनः पुमान् । नूनमस्यानुभावेन जायते शुभताऽधुना ॥ २७.९३{९०} ॥ नूनमयं महासत्वो दृष्ट्वास्मान् दुःखपीडितान् । कृपया सर्वथोद्धर्त्तुं नरकेऽत्र समागतः ॥ २७.९४{९१} ॥ तदस्य समुपाश्रित्य प्रकृत्वा शरणं सदा । प्रणत्वा श्रद्धया नित्यं भजेमहि समादरात् ॥ २७.९५{९२} ॥ इति संभाष्य ते सर्वे नारकीयाः प्रबोधिताः । तं बुद्धं शरणं गत्वा प्रणत्वा प्राभजन्मुदा ॥ २७.९६{९३} ॥ तद्भजनोद्भवैः पुण्यैः सर्वे ते नरकोत्थिताः । सहसा सद्गतिं याता बभूवुर्धर्मभाजनाः ॥ २७.९७{९४} ॥ एवं ता रश्मयः सर्वाः सर्वांस्तान्नरकाश्रितान् । समुद्धृत्य पुनस्तत्र जगच्छास्तुरुपाययुः ॥ २७.९८{९५} ॥ या चाप्यूर्द्ध्वं गताभासस्तावभास्य दिशोऽष्ट च । यावद्भवाग्रपर्यन्तमवभास्याभिप्रासरन् ॥ २७.९९{९६} ॥ गाथाभिश्च सुरान् सर्वान् दिव्यकायसुखारतान् । समन्ततो महच्छब्दं रुच्चैरेवमचोदयन् ॥ २७.१००{९७} ॥ अनित्यं सर्वसंसारं दुःखं शून्यमनात्मकम् । इति मत्वा शुभे धर्मं सर्वदा चरतादरात् ॥ २७.१०१{९८} ॥ निष्क्रामतारभध्वं तद्युज्यध्वं बुद्धशासने । त्रिरत्नशरणं कृत्वा भजध्वं सर्वदादरात् ॥ २७.१०२{९९} ॥ यो ह्यस्मिं सौगते धर्मे चरिष्यति समाहितः । स हित्वा जन्म संसारे दुःखस्यान्तं करिष्यति ॥ २७.१०३{१००} ॥ एतच्छब्दं समाकर्ण्य सर्वे देवाः प्रबोधिताः । त्रिरत्नशरणं कृत्वा प्रभेजिरे समाहिताः ॥ २७.१०४{१} ॥ एवं ताः रश्मयः पंचः सर्वांल्लोकान् सुरानपि । त्रिरत्नशरणे स्थाप्य पुनर्मुनेरुपाययुः ॥ २७.१०५{२} ॥ तत्र ता रश्मयः सर्वा एकीभूता च पिण्डिताः । (र्म् ३१८) जिनं प्रदक्षिणीकृत्य तदुष्णीषे विशेत्पुनः ॥ २७.१०६{३} ॥ तद्दृष्ट्वा ते सभालोकाः सर्वे ते विस्मयान्विताः । किमादेशेन्मुनीन्द्रोऽयमिति ध्यात्वा निषेदिरे ॥ २७.१०७{२} ॥ अथा युष्मान् स आनन्दो मत्वा तेषां वितर्कितम् । उत्थाय सांजलिर्नत्वा भगवन्तं तमब्रवीत् ॥ २७.१०८{५} ॥ भगवन् भवता केन हेतुना सृज्यते स्मितम् । नाहेतु सुगताः सर्वे विहसन्ति कदा चन ॥ २७.१०९{६} ॥ यदर्थे हेतुना स्मितं भवान्मुंचति सांप्रतम् । तदर्थं श्रोतुमिछन्ति सर्वे लोका इमे खलु ॥ २७.११०{७} ॥ यदर्थेन भवान् स्मितं प्रकरोति जगद्गुरो । तदर्थं समुपादिश्य सर्वान् लोकान् प्रबोधय ॥ २७.१११{८} ॥ इत्यानन्दोदितं श्रुत्वा भगवान् स मुनीश्वरः । सर्वान् लोकान् समालोक्य तमानंदं चाब्रवीत् ॥ २७.११२{९} ॥ एवमेतन्महानंद नाहेतुप्रत्ययं क्वचित् । सर्वबुद्धाः प्रमुंचन्ति स्मितं किंचित्कदा चन ॥ २७.११३{१०} ॥ पश्य त्वं यदयं साधु आरामिकः प्रसादितः । ममैवं श्रद्धया पूजां करोति श्रद्धया मुदा ॥ २७.११४{११} ॥ एतत्पुण्यविपाकेन मालिकोऽयं सुबुद्धिमान् । बोधिचित्तं समासाद्य बोधिचर्यां चरन् क्रमात् ॥ २७.११५{१२} ॥ सर्वाः पारमिताः पूर्य्य सर्वान्मारगणान् विनिजयन् । सम्यक्षंबोधिमासाद्य निःक्लेशोऽर्हन्मुनीश्वरः ॥ २७.११६{१३} ॥ दशबलो जगन्नाथः सर्वसत्वहितार्थभृत् । पद्मोत्तमोऽभिधो बुद्धस्तथागतो भविष्यति ॥ २७.११७{१४} ॥ यदयं मम सद्धर्मसाधनेऽभिप्रसादितः । संबोधिप्रणिधिं धृत्वा करोति श्रद्धयार्चनाम् ॥ २७.११८{१५} ॥ एवं ये श्रद्धया नित्यं त्रिरत्नं शरणं गताः । भजन्ति ते जनाः सर्वे भवेयुः सुगतात्मजाः ॥ २७.११९{१६} ॥ ततस्ते सर्वसत्वानां हितार्थेषु समुद्यताः । बोधिसत्वा महासत्वा भविष्यंति गुणाकराः ॥ २७.१२०{१७} ॥ ततः पारमिताः सर्वाः परिपूर्य यथाक्रमम् । ततः संबोधिमासाद्य भवेयुः सुगता अपि ॥ २७.१२१{१८} ॥ एवं मत्वात्र संसारे संबोधिज्ञानवांछिभिः । त्रिरत्नभजनं कृत्वा चरितव्यं सदा शुभे ॥ २७.१२२{१९} ॥ इत्यादिष्टं मुनीन्द्रेण श्रुत्वानंदादयोऽपि ते । भिक्षवः सांघिकाः सर्वे प्राभ्यनन्दन् प्रबोधिताः ॥ २७.१२३{२०} ॥ सर्वे लोकाश्च ते सर्वे श्रुत्वैवं श्रीघनोदितम् । त्रिरत्नशरणं कृत्वा प्रभेजिरेऽनुमोदिताः ॥ २७.१२४{२१} ॥ एवं शास्त्रा मुनीन्द्रेण व्याकृतं स्वयमात्मनः । श्रुत्वा सभान्तिकश्चापि प्राभ्यनन्दत्प्रमोदितः ॥ २७.१२५{२२} ॥ तदारभ्य सदा नित्यं मालिकः सोऽनुमोदितः । त्रिरत्नभजनं कृत्वा प्राचरद्बोधिचारिकाम् ॥ २७.१२६{२३} ॥ ततः सानाथपिण्डोऽपि तेन सह प्रमोदितः । सांजलिस्तं जगन्नाथं नत्वा स्वे निलये ययौ ॥ २७.१२७{२४} ॥ (र्म् ३१९) तत्र स मालिको गेहे भार्यया सह मोदितः । त्रिरत्नशरणं कृत्वा प्राचरत्सर्वदा शुभम् ॥ २७.१२८{२५} ॥ ततस्तं सौगते धर्मेऽनुचरन्तं निशम्य सः । तीर्थिकोपासिको रुष्टो उपेत्य पर्यभाषत ॥ २७.१२९{२६} ॥ अरे रे दुर्मते पापिन् किमेवं चरसेऽशुभे । सर्वथा त्वं परिभ्रष्टो नरके दुःखमाप्स्यसि ॥ २७.१३०{२७} ॥ यदपात्रे दुराचारे मिथ्याधर्माभिभाषिनी । उपेत्य भजनं कृत्वा विनोषि किल्विषं महत् ॥ २७.१३१{२८} ॥ भजन्ते ये नरा बुद्धं न ते गछन्ति सद्गतिम् । दुर्गतिमेव ते याताश्चरन्त्यशुभे सदा ॥ २७.१३२{२९} ॥ कदा चिदपि तद्गेहे भद्रं न जायते क्वचित् । लक्ष्मीश्चापि वसेन्नैव यतो धर्मो विनश्यते ॥ २७.१३३{३०} ॥ किं चिन्नास्ति शुभाचारं तस्य भिक्षाशिनोऽयतेः । किमेवं श्रद्धया नित्यं भजसे सद्गुरोरिव ॥ २७.१३४{३१} ॥ कृपणो यः स्वयं भ्रष्टः परांश्च भ्रंशयेदिह । अधर्मे येऽपि सद्धर्ममित्याख्यायाभिवंचते ॥ २७.१३५{३२} ॥ स किं शास्ता सुधीर्विज्ञो धर्मराजो मुनीश्वरः । सद्भिर्न पूजनीयोऽसौ निंदनीयो हि दुर्गतिः ॥ २७.१३६{३३} ॥ इति सत्यं मयाख्यातं हितार्थं ते शुभार्थिनः । यदि धर्मेऽस्ति ते वांछा श्रुत्वास्मद्वचनं चर ॥ २७.१३७{३४} ॥ तद्बुद्धसंगतिं त्यक्त्वा तीर्थे स्नात्वा समाहितः । ब्रह्मणं विष्णुमीशानं भज नित्यं यथाविधिम् ॥ २७.१३८{३५} ॥ ब्राह्मणं ये भजंत्यत्र सर्वे ते ब्रह्मचारिणः । परिशुद्धाशया भद्रा संप्रयान्ति सुरालयम् ॥ २७.१३९{३१} ॥ ये भजन्ति सदा विष्णुं न ते गछंति दुर्गतिम् । सद्गतिं सर्वदा याता भवन्ति मनुजाधिपाः ॥ २७.१४०{३२} ॥ ये भजन्ति महारुद्रं न ते गछन्ति नारके । सर्वसौख्यानि संभुक्त्वा यान्ति चान्ते शिवालयम् ॥ २७.१४१{३३} ॥ एवं मत्वात्र संसारे यदि सौख्यं सदेछसि । तदेताण्त्रिजगन्नाथान् भज नित्यं प्रपूजयन् ॥ २७.१४२{३४} ॥ एतन्मे वचनैः श्रुत्वा भज तान् सद्गुरून् यतीन् । तेषां सद्धर्ममाकर्ण्य चर नित्यं शुभे व्रते ॥ २७.१४३{३५} ॥ तथा ते मंगलं नित्यं सर्वदात्र भवेद्ध्रुवम् । अन्ते पापविनिर्मुक्ताः प्रयान्ति त्रिदशालयम् ॥ २७.१४४{३६} ॥ इति तेनोदितं श्रुत्वा मालिकः स विरोषितः । तैर्थिकं तं समारभ्य परिभाष्यैवमब्रवीत् ॥ २७.१४५{३७} ॥ आ किमेवं वदस्यत्र मा मैवं वदथाः पुनः । त्वमेव नरकं याया निन्दसे यन्मुनीश्वरम् ॥ २७.१४६{३८} ॥ शृण्वत्राहं प्रवक्ष्यामि संबुद्धे गुणमल्पकम् । विस्तरेण कथं वक्तुं शक्यतेऽल्पशिया मया ॥ २७.१४७{३९} ॥ तथापि कथ्यतेऽल्पत्वात्तवाभिबोधने मया । (र्म् ३२०) श्रुत्वा त्वया विचार्यैव सदसच्च परीक्ष्यताम् ॥ २७.१४८{४०} ॥ संबुद्ध एव भगवान् सुगुणी न विष्णुः संशस्यते न हिरण्यगर्भः । तेषां सुभद्रचरितातिशयप्रभावाञ्छ्रुत्वा विचारयत को गुणवान्न वेति ॥ २७.१४९{४१} ॥ विष्णुः समुद्यततहो विघृणैः प्रमायी रुद्रो विभूत्यजकयोलधरः प्रमत्तः । एकान्तशान्तचरिताशयस्तु बुद्धः कं पूजयेमहि सुशान्तमशान्तरूपम् ॥ २७.१५०{३६!} ॥ दुर्योधनादि नृपनाशकरः स चक्री हरस्त्रिपूरनाशकः पिनाकी । क्रौंचं गुहोऽपि दृढशक्ति हते चकार बुद्धस्तोकवलमयस्तु जगतां हितेषी ॥ २७.१५१{६७} ॥ पीड्याममायमयमेव तु रक्षणीयो वध्यो यमित्यपि सुरोत्तमनीतिरेषा । निःश्रेयसात्युदयसौख्यहितैकबुद्धिर्बुद्धस्य नैवरिदवोनहिवम् ॥ २७.१५२{६८} ॥ रागादि दोषजनितानि वचान्सि विष्णोरुन्मत्तचेष्टितकराणि च यानि शम्भोः । निःशेषदोषशमकारिततथागतस्य वंद्यत्वमर्हति च कोऽत्र विचारयध्वम् ॥ २७.१५३{६९} ॥ यश्चोद्यतः परिवधाय घृणां विहाय त्राणाय यश्च जगतः कृपया प्रवृत्तः । रागी च यो भवति यश्च विमुक्तरागः पूज्यंस्तयोः क इह तं वदतानुचिन्त्य ॥ २७.१५४{७०} ॥ शक्रं वज्रधरं बलं हलधरं कृष्णं च चक्रायुधं स्कंदं शक्तिधरं श्मशानविलयं रुद्रं त्रिशूलायुधम् । एतान् दुःखभयाङ्कितान् गतघृणान् बालान् विचित्रायुधान्नित्यं प्राणिवधोद्युते प्रहरणान् कस्तान्नमस्येद्बुधः ॥ २७.१५५{७१} ॥ न यः शूलं धत्ते न च सुरतिमङ्के सुवदनां न चक्रं शक्तिं वा न च कुलिशमुग्रं रव हलं विनिर्मुक्तं क्लेशैः परहितविधानाद्यतधियम् । शरण्यं लोकानं तमृषिमुपयातास्मि शरणम् ॥ २७.१५६{७२} ॥ रुद्रो रागवशात्स्त्रियं वहति यो हिंस्या ह्रिया वर्जिता विष्णुः क्रूरतरः कृतघ्नचरितः स्कंधः स्वयंज्ञाति ह । क्रूरास्या महिषान्तकृन्नरवशा मान्साशिनी पार्वती पानेप्सी च विनायको दशबलो स्रस्तो ह्यदोषः सुहृत् ॥ २७.१५७{७३} ॥ वंधुर्नभे स भगवान्न रिपुर्न चान्यः शास्ता त्रिलोकगुरुरेकतमोऽपि धीरः श्रुत्वा वचःसुचरितातिशयप्रभावं बुद्धं गुणातिशयलोभतयाश्रिताः स्मः ॥ २७.१५८{७४} ॥ नास्माकं सुगतः पिता न रिपवस्तीर्थ्यांधनं नैव ते । दत्तं तेन तथागतेन च हृतं किंचित्कणादादिभिः । किं त्वेकांतजगद्धितः स भगवान् बुद्धो यतश्चामलं वाक्यं सर्वमलापहारिच यतस्तद्भिक्तवंतो वयम् ॥ २७.१५९{७५} ॥ हितेषी यो नित्यं सततमुपकारीव जगतः कृतं येन स्वास्थ्यं बहुविधरुजार्त्तस्य जगतः । (र्म् ३२१) गूढं यश्च ज्ञे भयं करतलमिवावैति सकलं प्रपद्यध्वं सन्तस्तेमृषिवरदरं भक्तिमनसः ॥ २७.१६०{७६} ॥ असर्वभावेन यदृच्छया वा परानुवृत्य विचिकित्सया वा । ये तं नमस्यन्ति मुनीन्द्रचंद्रं तेऽप्यामरीसंपदमाप्नुवंति ॥ २७.१६१{७७} ॥ पौराणीश्रुतिनेष लोकमहितो बुद्धः किलायं हरिर्दृष्ट्वा जन्मजराविपत्तिवशगं लोकं कृपाभ्युद्यतः । जातः शाक्यकुलेन्दुरच्युतमतिस्त्राता नृणां गौतमः शास्तारं हितमेव कस्तमधुना नावैति मूढो जनः ॥ २७.१६२{७८} ॥ यदा रागद्वेषादसुरसुरदारापहरणं कृतं मायाद्वित्वं धरणिहरणाशक्तमतिना । तदा पूज्यो वन्द्यो हरिरपरिमुक्तोऽबुधतया विनिर्मुक्तं बुद्धं न नमति जनो माहवहुलः ॥ २७.१६३{७९} ॥ चतुर्जलधिमेखलाकुरतम्बभारालसां महीं महतीं विसृज्य हरयेवापकष्टां वलिः । प्रदाय मुनये तु पांशुलवमप्यशोको नृपः क्षितिं सकलचंद्रमण्डलतराञ्च संप्राप्तवान् ॥ २७.१६४{८०} ॥ यक्षपातो न मे बुद्धेन द्वेषटकपिलादिषु । मुक्तिमच्च वचो यस्य कार्यस्तस्य परिग्रहः ॥ २७.१६५{८१} ॥ अवश्यमेषां कतमोऽपि सर्ववित्जगर्द्धितैकान्तविशालसारः । स एव मृग्यो ह्यतिसूक्ष्मचेतसा जनेन शेषैः किमनर्थपण्डितैः ॥ २७.१६६{८२} ॥ यस्यापि किञ्चिन्न हि दोषलेशं शरद्गुणाः सन्ति जगद्धितार्थे । ब्रह्मापि विष्णुतिरिणो हरिर्वा समेहि शास्ता शुभकारिमित्रम् ॥ २७.१६७{८३} ॥ यस्य न विद्यते दोषो विद्यन्ते सकला गुणाः । सर्वज्ञः स जगच्छास्ता तमहं शरणं व्रजे ॥ २७.१६८{८४} ॥ योऽस्मिन् सुदृष्ट्यात्संरक्ष्यति जगच्छुभे । तस्याहं शरणं गत्वा भजामि सततं मुदा ॥ २७.१६९{८५} ॥ यं दृष्ट्वा सुप्रसन्नास्ते भवन्ति निर्मलाशयाः । तमेव सुगतं नाथं भजामि शरणं गतः ॥ २७.१७०{८६} ॥ येनैव त्रिजगल्लोकं पुत्रवत्प्रतिपालितम् । तमेव त्रिजगन्नाथं भजामि शरणं ततः ॥ २७.१७१{८७} ॥ यस्मै सुश्रद्धया दत्तं तत्फलं बोधिसाधनम् । तमेव श्रीघनं भक्त्या भजामि शरणं गतः ॥ २७.१७२{८८} ॥ यस्माद्धर्मामृतं पीत्वा सर्वे सत्वाः प्रमोदिनः । तमेव संति सर्वेऽपि दुःखछेदनसद्गुणाः । तमेव श्रीप्रदातारं भजामि श्रद्धयादरात् ॥ २७.१७३{८९} ॥ बुद्ध एव जगच्छास्ता बुद्ध एव जगद्गुरुः । बुद्ध एव जगन्नाथो बुद्ध एव मुनीश्वरः ॥ २७.१७४{९०} ॥ तदहं सर्वभावेन बुद्धस्य शरणं गतः । श्रद्धया धर्ममासाद्य भजामि बोधिप्राप्तये ॥ २७.१७५{९१} ॥ ये बुद्धं शरणं यान्ति न ते गछन्ति दुर्गतिम् । निर्मुक्तपापकाः सौख्यं भुक्त्वा यांति जिनालयम् ॥ २७.१७६{९२} ॥ (र्म् ३२२) शृण्वन्ति सौगतं वाक्यं ये ते न यान्ति दुर्गतिम् । समन्तभद्रसौख्यानि भुक्त्वा यांति सुखावतिम् ॥ २७.१७७{९३} ॥ भजन्ति लोकनाथं ये तेऽपि न यान्ति दुर्गतिम् । पापमुक्ताः सुखान्येव भुक्त्वा यांति सुरालयम् ॥ २७.१७८{९४} ॥ एतद्रत्नत्रयं लोके उत्पन्नं सद्गुणाकरम् । तदहं शरणं गत्वा भजामि समुपासिकः ॥ २७.१७९{९५} ॥ एतत्पुण्यविपाकेन सर्वसत्वहितार्थकः । क्रमाद्बोधिचराः पूर्य संबुद्धपदमाप्नुयात् ॥ २७.१८०{९६} ॥ तदाहं सुगतो भूत्वा सर्वसत्वशुभार्थभृत् । सत्वान् बोधौ प्रतिष्ठाप्य निर्वृतिं समवाप्नुयात् ॥ २७.१८१{९७} ॥ एवं विज्ञाय सद्धर्मं यदीछति भवानपि । त्रिरत्नशरणं गत्वा भज नित्यं समादरात् ॥ २७.१८२{९८} ॥ एतत्पुण्यविपाकेन सदा त्वं सद्गतिं ततः । बोधिं चापि समासाद्य संबुद्धपदमाप्नुयाः ॥ २७.१८३{९९} ॥ इति तेन समाख्यातं श्रुत्वा स परिबोधितः । तैर्थ्यधर्मं प्रतिक्षिप्य संबुद्धश्रावकोऽभवत् ॥ २७.१८४{१००} ॥ तदारभ्य सदा नित्यं सद्धर्मश्रवणोत्सुकः । विहारे समुपाश्रित्य प्राभजत्तं मुनीश्वरम् ॥ २७.१८५{१} ॥ इति मे गुरुणादिष्टं श्रुतं मया तथोच्यते । त्वं चाप्येवं महाराज त्रिरत्नं सर्वदा भज ॥ २७.१८६{२} ॥ प्रजाश्चापि महाराज बोधयित्वा प्रयत्नतः । बोधिमार्गे प्रतिष्ठाप्य पालयस्व समाहितः ॥ २७.१८७{३} ॥ एतत्पुण्यविपाकेन सदा ते मंगलं भवेत् । क्रमाद्बोधिचरीः पूर्य संबुद्धपदमाप्नुयाः ॥ २७.१८८{४} ॥ इति तेनार्हतादिष्टं श्रुत्वाशोकः स भूमिपः । तथेति प्रतिविज्ञप्य प्राभ्यनन्दत्सपार्षदः ॥ २७.१८९{५} ॥ शृण्वन्तीदं मुदा ये जिनवरकथितं मालिकस्यावदानं ये चापि श्रावयन्ति प्रमुदितमनसः श्रद्धया भद्रकामाः । ते सर्वे लोकनाथास्त्रिमलकलिजिता बोधिसत्वा महेशा भुक्त्वा सौख्यं सदान्ते जिनवरनिलये संप्रयान्ति प्रसन्नाः । ++ इति रत्नावदानतत्वे मालिकावदानं समाप्तम् ++ (र्म् ३२३) xxविइइ पाञ्चालराजावदान अथाशोको महीपालः कृतांजलिपुटो मुदा । उपगुप्तं गुरुं भिक्षुं नत्वैवं पुनरब्रवीत् ॥ २८.१{१} ॥ भदन्त श्रोतुमिछामि पुनरन्यत्सुभाषितम् । तद्यथा गुरुणाख्यातं तथादेष्टुं च मेऽर्हति ॥ २८.२{२} ॥ इति संप्रार्थिते राज्ञा स उपगुप्त आत्मवित् । तमशोकं महीपालं समामंत्र्यैवमब्रवीत् ॥ २८.३{३} ॥ साधु शृणु महाराज यथा मे गुरुणोदितम् । तथाहं ते प्रवक्ष्यामि श्रुत्वानुमोदनां कुरु ॥ २८.४{४} ॥ तद्यथासौ जगच्छास्ता शाक्यसिंहस्तथागतः । सर्वज्ञः सुगतो नाथो धर्मराजा मुनीश्वरः ॥ २८.५{५} ॥ एकस्मिन् समये तत्र श्रावस्त्या बहिराश्रमे । विहारे जेतकोद्याने विजहार ससांघिकः ॥ २८.६{६} ॥ तदा स भगवांस्तत्र भिक्षुसंघैः पुरस्कृतः । सभामध्यासनासीनो धर्ममादेष्टुमारभत् ॥ २८.७{७} ॥ तद्धर्मदेशनां श्रोतुं सर्वे लोकाः समागताः । देवा दैत्याश्च नागाश्च यक्षगंधर्वकिन्नराः ॥ २८.८{८} ॥ सिद्धा विद्याधराश्चापि गरुडा राक्षसा अपि । ऋषयो ब्राह्मणा विज्ञा राजानः क्षत्रिया अपि ॥ २८.९{९} ॥ वैश्या राजकुमाराश्च मंत्रिणश्च महाजनाः । वणिजः सार्थवाहाश्च गृहस्थाः शिल्पिनोऽपि च ॥ २८.१०{१०} ॥ ग्राम्या जानपदाश्चापि कार्पटिकादयोऽपि च । तीर्थिका अपि ते सर्वे जेतारामे उपागताः ॥ २८.११{११} ॥ विहारे तं जगन्नाथं दृष्ट्वा सांजलयो मुदा । नत्वा प्रदक्षिणीकृत्य समभ्यर्च्य यथाक्रमम् ॥ २८.१२{१२} ॥ ततस्ते मुदिताः सर्वे परिवृत्य समंततः । तत्सद्धर्मामृतं पतुमुपतस्थुः समाहिताः ॥ २८.१३{१३} ॥ तदा स भगवान् दृष्ट्वा सर्वान्स्तान् समुपस्थितान् । आदिमध्यान्तकल्याणं दिदेश धर्ममुत्तमम् ॥ २८.१४{१४} ॥ तत्सद्धर्मामृतं पीत्वा सर्वे लोकाः प्रबोधिताः । संबुद्धं शरणं कृत्वा प्रचेरुर्बोधिसंवरम् ॥ २८.१५{१५} ॥ तस्मिन्नवसरे तत्र पंचाल उत्तराधिपः । दक्षिणाधिपपंचालं पराजेतुमुपाक्रमत् ॥ २८.१६{१६} ॥ तयोः पंचालयो राज्ञो विरुद्धास्यभिमानिनोः । महायुद्धमभून्नित्यं परस्परविघातनम् ॥ २८.१७{१७} ॥ प्रवर्त्तिते सदा युद्धे तयो राज्ञो हि मानिनोः । दुर्भिक्षमपि तत्राभूद्बहुलोकविघातनम् ॥ २८.१८{१८} ॥ (र्म् ३२४) तदा तौ क्षत्रियौ क्रूरौ परस्परविघातिनौ । विरुद्धमानसौ वीरौ वैरशाम्यं न जग्मतः ॥ २८.१९{१९} ॥ तद्दृष्ट्वा नृपती राजा प्रसेनजिन् स कौशलः । तद्वैरशमनोपायं चिरं ध्यात्वा व्यचिंतयत् ॥ २८.२०{२०} ॥ यदेतौ नृपती वीरौ नित्यं युद्धाभिकांक्षिणौ । संबोधिसाधनं धर्मं श्रोतुं नैवाभिवांछत ॥ २८.२१{२१} ॥ सर्वेऽपि मंत्रिणोऽमात्याः सर्वे लोकाश्च योधिनः । संबुद्धदर्शने चापि नात्रागछन्ति के चन ॥ २८.२२{२२} ॥ एवं तेषां सदा नित्यं हिंसाकर्माभिरागिणाम् । सद्धर्मे श्रवणे वापि गोचरं नैव विद्यते ॥ २८.२३{२३} ॥ धर्मं विनात्र संसारे किं सारं जन्म मानुषे । परस्परं निहत्यैव यास्यंति नरके ध्रुवम् ॥ २८.२४{२४} ॥ धिग्जन्म मानुषे तेषां केवलं पापसाधनम् । ये क्लेशमानदर्प्यान्धा न पश्यंति मुनीश्वरम् ॥ २८.२५{२५} ॥ ये चात्र सौगतं धर्मं न शृण्वन्ति कदा चन । कथं ते भद्रचर्यायां गोचरं समवाप्नुयुः ॥ २८.२६{२६} ॥ सदा ते मारचर्यायां स्थित्वा क्लेशाभिमानिनः । बोधिचर्यां प्रतिक्षिप्य चरेयुः कामचारिणः ॥ २८.२७{२७} ॥ ततः स्वयं परिभ्रष्टा भ्रंशयन्तः परानपि । यथेछया चरन्तस्ते चिनुयुर्बहुपातकम् ॥ २८.२८{२८} ॥ ततस्ते क्लेशसंतप्ताः स्वपरार्थाभिघातिनः । तीव्रदुःखाग्निसंतप्ताः पतेयुर्नरके ध्रुवम् ॥ २८.२९{२९} ॥ नरकेषु भ्रमन्तस्ते सदा दुःखाभिभोजिनः । पश्चात्तापाग्निसंतप्ताश्चरेयुराभवं तथा ॥ २८.३०{३०} ॥ तदेषां सर्वलोकानां भद्रार्थं हितकारणम् । सर्वथोपायमाधातुमर्हामि सांप्रतं द्रुतम् ॥ २८.३१{३१} ॥ यावदेतौ नृपौ वीरौ विरुद्धौ नोपशाम्यतः । तावदत्र भुवि क्वापि मंगलं न भवेत्सदा ॥ २८.३२{३२} ॥ तदेतौ नृपती तावद्बोधयित्वा प्रयत्नतः । मैत्रस्नेहसंबद्धौ कुर्यां निर्वैरभाविनौ ॥ २८.३३{३३} ॥ एतौ हि क्षत्रियौ वीरौ पांचालौ मानगर्वितौ । अनयोर्मित्रवंधं को बोधयित्वा करिष्यति ॥ २८.३४{३४} ॥ बुद्ध एव जगच्छास्ता धर्मराजः प्रबोधयन् । अनयोश्चिरवैर्याग्निं शमयितुं प्रशक्नुयात् ॥ २८.३५{३५} ॥ तदत्र सहसा गत्वा प्रार्थयेयं मुनीश्वरम् । नूनं बुद्धानुभावात्तौ नृपौ मित्रत्वमाप्स्यतः ॥ २८.३६{३६} ॥ इति निश्चित्य राजा स प्रसेनजित्समुत्थितः । विहारे सहसा गत्वा ननाम तं मुनीश्वरम् ॥ २८.३७{३७} ॥ तत्र स पुरतो गत्वा सांजलिः समुपाश्रयन् । एतत्सर्वप्रवृत्तांतं निवेद्यैवमभाषत ॥ २८.३८{३८} ॥ भगवन्नाथ सर्वज्ञ विजानीयाद्भवानपि । यत्तौ पांचालभूपालौ विरुद्धौ भवतोऽधुना ॥ २८.३९{३९} ॥ यदेतयोर्विरुद्धे त सर्वे लोका विरोधिताः । तदत्र सर्वदा युद्धं प्रवर्त्तते दिवानिशम् ॥ २८.४०{४०} ॥ (र्म् ३२५) तत्तेसां सर्वलोकानां सद्धर्मे गोचरं कदा । सदा युद्धाभिसक्तास्ते साधयेयुः शुभं कथम् ॥ २८.४१{४१} ॥ तदत्र भगवाञ्च्छास्ता बोधयंस्तौ नराधिपौ । संबोधिमार्गमादिश्य शुभे चारयितुमर्हति ॥ २८.४२{४२} ॥ इति संप्रार्थिते तेन राज्ञा स भगवान्मुनिः । तस्य राज्ञे नरेंद्रस्य तूष्णीभूत्वाध्युवास तत् ॥ २८.४३{४३} ॥ ततः स नृपती राजा मत्वा शास्त्राधिवासितम् । सांजलिस्तं मुनिं नत्वा मुदितः स्वालयं ययौ ॥ २८.४४{४४} ॥ ततः स भगवान् पात्रमादाय चीवरावृतः । भासयन् भद्रतां कुर्वन् प्रतस्थे सह सांघिकैः ॥ २८.४५{४५} ॥ एवं सर्वत्र मार्गेषु भासयं स मुनीश्वरः । कृत्वा भद्रं क्रमेणैवं वाराणसीमुपाचरत् ॥ २८.४६{४६} ॥ तत्र स भगवां प्राप्तो भाभिः संभासयन् क्रमात् । चरं कृत्वा सुभद्रत्वं मृगदावे उपाचरत् ॥ २८.४७{४७} ॥ तत्र स भगवान् प्रातः ससंघः सौगताश्रमे । सभामध्यासनासीनः सद्धर्मं समुपादिशत् ॥ २८.४८{४८} ॥ तत्सद्धर्मामृतं पीत्वा सर्वे लोकाः प्रमोदिताः । त्रिरत्नं शरणं कृत्वा प्रभेजिरे समादरात् ॥ २८.४९{४९} ॥ तदा दक्षिणपांचालनृपतिः स प्रमोदितः । संबुद्धदर्शनं कर्तुं मृगदावे उपाचरत् ॥ २८.५०{५०} ॥ तत्र तं श्रीघनं दृष्ट्वा नृपतिः स प्रमोदितः । सांजलिः पुरतो गत्वा नत्वैकान्ते उपाश्रयत् ॥ २८.५१{५१} ॥ तस्मिन्नवसरे तत्र मृगदावे समाश्रितः । भगवान्निति शुश्राव पांचालौत्तराधिपः ॥ २८.५२{५२} ॥ स उत्तरपांचालो नृपतिः प्रतिरोषितः । तं नृपं याम्यपांचालं पराजेतुमुपाचरत् ॥ २८.५३{५३} ॥ तत्र स नृपतिर्वीरश्चतुरंगवलैः सह । जयवाद्यमहोत्साहैः सहसा समुपाचरत् ॥ २८.५४{५४} ॥ तत्र स याम्यपांचालराजा तं रिपुमागतम् । निशम्य सहसोत्थाय नत्वा ह तं मुनीश्वरम् ॥ २८.५५{५५} ॥ भगवन्नाथ सर्वज्ञ स मे वैरा इहागतः । तदत्र किं करिष्यामि तदनुज्ञां ददातु मे ॥ २८.५६{५६} ॥ इति तेन नरेन्द्रेण प्रार्थिते स जिनेश्वरः । दृष्ट्वा तं याम्यपांचालं समाश्वास्यैवमादिशत् ॥ २८.५७{५७} ॥ नृपते मा विभेषी त्वं धैर्य्यमालम्ब्य तिष्ठत । तदुपायं करिष्यामि येनासौ ते वशे चरेत् ॥ २८.५८{५८} ॥ इत्यादिश्य स सर्वज्ञश्चतुरङ्गबलान्वितम् । महत्सैन्याधिपं वीरं निर्मायऽप्रेषयत्ततः ॥ २८.५९{५९} ॥ स सैन्याधिपतिर्वीरश्चतुरङ्गबलैः सह । चरन्नुत्तरपांचालमभियोद्धुमुपाचरत् ॥ २८.६०{६०} ॥ तन्महत्सैन्यमायातं समालोक्याभ्युपद्रुतम् । सर्व उत्तरपांचालसैन्या भीताः पराययुः ॥ २८.६१{६१} ॥ तद्दृष्ट्वोत्तरपांचालनृपतिश्चापि खेटितः । एकाकी रथमारुह्य भगवत्संमुखेऽचरत् ॥ २८.६२{६२} ॥ (र्म् ३२६) तत्र स दूरतो दृष्ट्वा श्रीघनं तं सभाश्रितम् । अवतीर्य रथात्तत्र मृगदावे उपाचरत् ॥ २८.६३{६३} ॥ तत्र स नृपति राजा समुपेत्य कृतांजलिः । त्रिधा प्रदक्षिणीकृत्य ननाम शरणं गतः ॥ २८.६४{६४} ॥ ततश्चिरात्समुत्थाप्य स पांचलो नराधिपः । तत्सद्धर्मामृतं पातुं तत्रैकान्ते समाश्रयत् ॥ २८.६५{६५} ॥ तदा स भगवान् दृष्ट्वा नृपतिं तं समाश्रितम् । आर्य्यसत्यं समारभ्य दिदेश धर्ममुत्तमम् ॥ २८.६६{६६} ॥ तदार्यसत्यमाकर्ण्य नृपतिः सोऽभिबोधितः । संसारसाधनं धर्मं पुनः श्रोतुं समैछत ॥ २८.६७{६७} ॥ ततः स नृपती राजा समुत्थाय कृतांजलिः । प्रणत्वा भगवंतं तं प्रार्थयदेवमादरात् ॥ २८.६८{६८} ॥ भगवन्नाथ सर्वज्ञ भवतां शरणं व्रजे । तन्मेऽत्रानुग्रहं कृत्वा सम्यगादेष्टुमर्हति ॥ २८.६९{६९} ॥ यदत्र भगवन् सत्वाः प्रवर्त्तन्तो भवोदधौ । सुखदुःखाभिभुंजानो भ्रमंते षड्गतौ कथम् ॥ २८.७०{७०} ॥ कर्मणा केन देवाः स्युर्मानुषाः केन कर्मणा । दैत्याश्च कर्मणा केन तत्सम्यक्समुपादिश ॥ २८.७१{७१} ॥ तिर्यञ्चः कर्मणा केन प्रेताश्च केन कर्मणा । नारकाः कर्मणा केन तत्सर्वं समुपादिश ॥ २८.७२{७२} ॥ तत्राप्यनेकरूपाश्च सर्वे भिन्नाशया अपि । निहीनमध्यमोत्कृष्टाः सुखदुःखान्विता अपि ॥ २८.७३{७३} ॥ एतत्सर्वं समाख्याय भवाञ्छास्ता जगद्गुरुः । संसारगतिसंचारं प्रबोधयितुमर्हति ॥ २८.७४{७४} ॥ इति संप्रार्थिते तेन राज्ञा स भगवान् सुधीः । तं विशुद्धाशयं भूपं दृष्ट्वैवं समुपादिशत् ॥ २८.७५{७५} ॥ साधु शृणु महाराज संसारगतिचारणम् । सम्यग्धर्मं प्रवक्ष्यामि युष्माकं परिबोधने ॥ २८.७६{७६} ॥ कायवाग्मानसं कर्मकृतं यच्च शुभाशुभम् । लोकस्तस्य फलं भुक्ते कर्त्ता नान्योऽस्ति कस्य चित् ॥ २८.७७{७७} ॥ इति सर्वे कृपाविष्टास्त्रैलोक्ये गुरवो जिनाः । उक्तवन्तस्तथा तद्धि कर्मणो यस्य यत्फलम् ॥ २८.७८{७८} ॥ कर्मं कर्तुं विहातुं च सदसद्गतिहेतुकम् । लोभमोहभयक्रोधा ये नरा नरघातिनः ॥ २८.७९{७९} ॥ संवद्ध्यान्याञ्च हि सन्ति संजीवं यान्ति ते ध्रुवम् । संवत्सरसहस्राणि बहून्यपि हताहताः ॥ २८.८०{८०} ॥ संजीवन्ति यतस्तत्र तेन संजीव उच्यते ॥ २८.८१{८१!} ॥ मातापितृसुहृद्वंधुमित्रद्रोहकराश्च ये । पैशुन्यानृतवत्तारः कालसूत्राभिगामिनः ॥ २८.८२{८२} ॥ कालसूत्रेण संसूड्य पाट्यन्ते दारुवद्यतः । ज्वलद्भिः क्रकचैस्तत्र कालसूत्रस्ततः स्मृतः ॥ २८.८३{८३} ॥ दावादौ दहनैर्दाहं देहिनां विदधाति ये । स तीव्रज्वलनैर्जन्तुस्तप्यते तपने रटन् ॥ २८.८४{८४} ॥ (र्म् ३२७) तीव्रं तपनसंतापं तनोत्येव निरंतरम् । यत्ततोऽन्वर्थमालोके ख्यातस्तपनसंज्ञया ॥ २८.८५{८५} ॥ धर्माधर्मविपर्यासं नास्तिको यः प्रकाशयन् । संतापयति चान्यांश्च तप्यते स प्रतापने ॥ २८.८६{८६} ॥ प्रतापयति तत्रस्थान् सत्वान्स्तीव्रेण वह्निना । तपनातिशयनोऽसौ प्रोक्तस्तस्मात्प्रतापनः ॥ २८.८७{८७} ॥ अजैडकशृगालांश्च शशाखुमृगासुकरान् । अन्यांश्च प्राणिनो घ्नंति संघातं यान्ति ते नराः ॥ २८.८८{८८} ॥ संहतास्तत्र घात्यंते सम्यग्वाहैव वंययः । तस्मात्संघात इत्येवं विख्यातोऽन्वर्थसंज्ञया ॥ २८.८९{८९} ॥ कायवाग्मानसं तापं ये कुर्वन्तीह देहिनाम् । कटुक्यपटिका ये च रौरवं यान्ति ते नाराः ॥ २८.९०{९०} ॥ तीव्रेण वह्निना तत्र दह्यमाना निरंतरम् । रौद्रं रवं विमुंचन्ति यतस्तस्मात्स रौरवम् ॥ २८.९१{९१} ॥ देवद्विजगुरोर्द्रव्यं हृतं यैर्दुःखिनामिह । ते महारौरवं यान्ति ये चान्यस्वापहारिणः ॥ २८.९२{९२} ॥ रौद्रत्वाद्वह्निदाहस्य रवस्य च महत्तया । रौरवो हि महांस्तस्य मन्त्व रौरवादपि ॥ २८.९३{९३} ॥ कृत्वा गुणाधिके तीव्रमपकारं निहत्य च । मातापितृगुरुन् कल्पमवीचौ पच्यते ध्रुवम् ॥ २८.९४{९४} ॥ अस्थीन्यपि विशीर्य्यन्ते रौद्राग्नौ तत्र देहिनाम् । यतो न वीचिः सौख्यस्य नावीचिरुदाहृतः ॥ २८.९५{९५} ॥ मिथोद्रोहरता ये त्रणे घ्नन्तीव देहिनः । पापादसिनखास्ते तु जायन्ते दुःखभागिनः ॥ २८.९६{९६} ॥ नखा एवासयस्तेषामायसा ज्वलिताः खराः । तैरन्योन्यं निकृन्तन्ति यत्तेनासिनखाः स्मृताः ॥ २८.९७{९७} ॥ लोहज्वलिततीक्ष्णाग्राः षोडशाङ्गुलकण्टकाः । बलादारोह्यत ह्रंदन् शाल्मलीः पालदारिकः ॥ २८.९८{९८} ॥ लोहदम्ष्ट्रा महाकाया ज्वलितास्तीव्रभैरवाः । अश्लिष्य भक्षयन्त्येनं परदारोपहारिणम् ॥ २८.९९{९९} ॥ आरटन्तोऽपि खाद्यन्ते श्वगृध्रोलूकवायसैः । अशिवं कुर्वते छिन्ना विश्वासघाटिनो नराः ॥ २८.१००{१००} ॥ अयोगुडानि भुज्यन्ते प्रतप्तानि पुनः पुनः । याप्यन्ते क्वथितं ताम्रं ये परस्वापहारिणः ॥ २८.१०१{१} ॥ क्रूरैः श्वभिरयोद्रंष्ट्रैः कृत्यन्ते विवशा भृशम् । वर्षकोटि रटन्तोऽपि ये नराः खेटके रताः ॥ २८.१०२{२} ॥ मत्स्यादीञ्जलजान् हत्वा ज्वलन्त्यम्रद्रवोदकाम् । याति वैतरणीं शश्वद्वह्निना दह्यते नरः ॥ २८.१०३{३} ॥ ये स्वार्थलवसंमूढो व्यवहारमधार्मिकम् । करोति नरके क्रदन् स चक्रेणाभिपीड्यते ॥ २८.१०४{४} ॥ पीडा वहुभिराकारैः कृता यैर्दुःखिनामिह । पीड्यन्ते ते चिरं तप्तैर्यत्र मुद्गरपर्वतैः ॥ २८.१०५{५} ॥ भेदका धर्मसेतूनां ये चासन्मार्गवाहिनः । (र्म् ३२८) क्षुरधाराचितं मार्गं गत्वा क्रामन्ति ते नराः ॥ २८.१०६{६} ॥ नखैः संचूर्ण्य यूकादीञ्चूर्ण्यन्ते मेषपर्वतै । भूयो भूयो महाकायाः क्रन्दन्तस्ते शरच्छतम् ॥ २८.१०७{७} ॥ व्रतं यस्तु समाश्रित्य संपन्नो परिरक्षति । शीर्यमानमान्सास्थिः कुकुंले पच्यते ध्रुवम् ॥ २८.१०८{८} ॥ अणुनापि हि यः कश्चिन्मिथ्याजीवेन जीवति । भक्ष्यते क्रिमिभिश्चण्डैः संमग्नो गूथमृत्तिके ॥ २८.१०९{९} ॥ दृष्ट्वापि व्रीहिमध्यस्थान् प्राणिनश्चूर्णयन्ति ये । आयसै मुखलैस्तप्तैः क्षोभ्यन्ते ते पुनः पुनः ॥ २८.११०{१०} ॥ अत्यन्तक्रोधनाः क्रूराः शठाः पापाभिकांक्षिणः । परव्यसनकृष्ट्वा च जायन्ते यमराक्षसाः ॥ २८.१११{११} ॥ सर्वेषामेव दुःखानां वीजं मृद्वाभिभेदतः । कायवाग्मानसं कर्म पापं यत्तदण्वपि वर्त्तयेत् । ++ नरककाण्डं समाप्तम् ++ हंसपारावतादीनं खराणामपि रागिणाम् । येन रागेण जायन्ते मूढाः कीटादियोनिषु ॥ २८.११२{१} ॥ सर्प्पाः क्रोधोपनाहाभ्यां मारस्तब्धा मृगाधिपाः । अभिमानेन जायन्ते गदामाश्वादियोनिषु ॥ २८.११३{२} ॥ मात्सर्येर्ष्यादि दोषेण वानराः प्रेतदेहिनः । जायन्ते मुखरा धृष्टाश्चपलात्मानश्च वायसाः ॥ २८.११४{३} ॥ वधवंधनमात्सर्यैर्गवाश्वादिषु देहिनः । जायन्ते क्रूरकर्माणो लूताः खर्ज्जूरवृश्चिकः ॥ २८.११५{४} ॥ व्याघ्रमार्जारगोमायुऋक्षगृध्रवृगादायः । जायन्ते प्रेतमन्सादोः क्रोधना मत्सरा नराः ॥ २८.११६{५} ॥ दातारः क्रोधनाः क्रूरा नरा नागमहर्द्धिकाः । भवान्तत्यागिनो दर्प्पात्क्रोधाच्च गरुडेश्वराः ॥ २८.११७{६} ॥ कृतं यत्पापकं कर्म स्वयं वाक्कायमानसम् । तिर्यञ्चस्तेन जायन्ते तन्मनोगतिमाकृथाः ॥ २८.११८{७} ॥ ++ इति तिर्यक्काण्डं समाप्तम् ++ भक्ष्यभोज्यापहर्तारो ये क्षुद्रा दानवर्जि । भवन्ति कुणपाहाराः प्रेतास्ते कटपूतनाः ॥ २८.११९{१} ॥ विहेठयन्ति ये बाला वंचयन्त्यपि तृष्णया । तेऽपि गर्भमलाहारा जायन्ते कटपूतनाः ॥ २८.१२०{२} ॥ हीनाचारातिदीनाश्च मत्सरा नित्यकांक्षिणः । जायंते ये नराः प्रेताऽष्टास्ते गलगण्डकाः ॥ २८.१२१{३} ॥ दानं निवारयत्येव न हि किं तिद्ददाति यः । क्षुत्क्षामासौ महाकुक्षिः प्रेतः शूचिमुखो भवेत् ॥ २८.१२२{४} ॥ धनं रक्षति वंशार्थे न भुंक्ते न ददाति यः । दत्तादायी ततः प्रेतः श्राद्धभोक्ता स जायते ॥ २८.१२३{५} ॥ यः परस्वापहारेप्सुर्दत्वा चैवानुतप्यते । भोक्ता विट्श्लेष्मवान्तानां प्रेत्य प्रेतः स जायते ॥ २८.१२४{६} ॥ अप्रियं वक्ति यः क्रोधाद्वाक्यं मर्मविभेदतम् । ब्बवन्त्युल्कामुखः प्रेतः सुचिरं तेन कर्मणा ॥ २८.१२५{७} ॥ (र्म् ३२९) कुरुते कलहं यस्तु निष्कृपः क्रूरमानसः । क्रिमिकीटपतङ्गादेः प्रेतेऽसौ ज्योतिको भवेत् ॥ २८.१२६{८} ॥ ग्रामकूटौ ददात्येव यो जनं पीडयन्त्यपि । कुम्भाण्डो विकृताकारः पूयाहारश्च जायते ॥ २८.१२७{९} ॥ निर्दयाः प्राणिनो घ्नन्ति भक्ष्यार्थं ये ददन्त्यपि । मांसाहाराश्च तेऽवश्यं भवन्ति प्रेतराक्षसाः ॥ २८.१२८{१०} ॥ गंधमालारता नित्यं मंदक्रोधाः प्रदायकाः । गंधर्वाः प्रेत्य जायन्ते देवानां रतिहेतवः ॥ २८.१२९{११} ॥ क्रोधनाः पिशुनः किञ्चिदर्थार्थं यः प्रयछति । स पिशाचं प्रदुष्टात्मा जायते विकृताननः ॥ २८.१३०{१२} ॥ नित्यप्रदुष्टाश्चपलाः परपीडाकरा नराः । संप्रदानरता नित्यं भूताः प्रेत्य भवन्ति ते ॥ २८.१३१{१३} ॥ क्रूराः क्रूद्धाः प्रदातारः प्रिया सर्वसुरा च ये । जायन्ते प्रेत्य यक्षास्तु क्रूरात्मानः सुराप्रियाः ॥ २८.१३२{१४} ॥ मातापितृगुरून् यानैर्ये नयन्ति यथेप्सितम् । विमानचारिणो यक्षा जायंते सुसुखान्विताः ॥ २८.१३३{१५} ॥ तृष्णामात्सर्यदोषेण प्रेता भवन्त्यमी सदा । यक्षादयः शुभैः क्लिष्टैरतस्तान् परिवर्जयेत् ॥ २८.१३४{१६} ॥ ++ इति प्रेतकाण्डं समाप्तम् ++ देवासुरमनुष्येषु दीर्घमायुरहिंसया । जायते हिन्सया स्वल्पामतो हिंसां विवर्जयेत् ॥ २८.१३५{१} ॥ कुष्ठरोगज्वरोन्मादा ये चान्ये व्याधयो नृणाम् । भवन्ति भूतप्रयुक्तेस्ते वधवंधनताडनैः ॥ २८.१३६{२} ॥ यो न हर्त्ता परस्वानां न वञ्चवित्प्रयछति । महतापि प्रयत्नेन स द्रव्यं नाधिगछति ॥ २८.१३७{३} ॥ अदत्तं वित्तमादाय दानानि च ददाति यः । स प्रेत्य द्रव्यवान् भूत्वा भूयो भवति निर्धनः ॥ २८.१३८{४} ॥ यो न हर्त्ता न दाता च न चातिकृपणो नरः । कृत्स्नेन महता द्रव्यं स्थिरं स लभते ध्रुवम् ॥ २८.१३९{५} ॥ न हर्त्ता यः परस्वानां त्यागवान् वीतमत्सरः । अहार्यं विपुलं वित्तमिष्टं च लभते नरः ॥ २८.१४०{६} ॥ आयुर्वर्णवलोपेतः श्रीमान् रोगविवर्जितः । सुखी च स लभेन्नित्यं यो ददातीह भोजनम् ॥ २८.१४१{७} ॥ सलज्जो रूपवान् भोगी सुछायः प्राणिनां प्रियः । स भवेद्वस्त्रलाभी च यो वासान्सि प्रयछति ॥ २८.१४२{८} ॥ आवासं यो ददातीह सुप्रसन्नेन चेतसा । प्रासादाः सर्वकामाश्च जायन्ते तस्य देहिनः ॥ २८.१४३{९} ॥ उपानत्संक्रमादीनि ये प्रयछन्ति मानवाः । भवन्ति सुखिनो नित्यं यानानि च लभन्ति ते ॥ २८.१४४{१०} ॥ वापीकूपतडागादीन् कारयित्वा जलाश्रयान् । सुखिनस्त्यक्तसंतापा निःपिपासा भवन्ति ते ॥ २८.१४५{११} ॥ पुष्पैरभ्यर्चितः श्रीमान् शरण्यः सर्वदेहिनाम् । समृद्धितः स स्यादारामं यः प्रयछति ॥ २८.१४६{१२} ॥ विद्यादानेन पण्डित्यं प्रज्ञाभ्यासेन चाप्यते । भैषज्याभयदानेन रोगमुक्तस्तु जायते ॥ २८.१४७{१३} ॥ (र्म् ३३०) दीपदानेन चक्षुष्मान् वाद्यदानेन सुस्वरः । शयनासनदानेन सुखी भवति मानवः ॥ २८.१४८{१४} ॥ गवादीन्न् यो ददातीह भोज्यं रससमन्वितम् । बलवान् वर्णवान् भोगी दीर्घायुः स भवेन्नरः ॥ २८.१४९{१५} ॥ कन्यादानेन समान्यां लाभी स्यात्परिवारवान् । धनधान्यसमृद्धस्तु भूमिदानेन जायते ॥ २८.१५०{१६} ॥ पत्रं पुष्पं फलं तोयमभयं वचनं प्रियम् । यद्यदेवेप्सितं शक्त्या दातव्यं तत्तदर्थिनः ॥ २८.१५१{१७} ॥ क्लेशयित्वा ददातीह स्वकार्थं वा ह येन वा । यशःसौख्याभिलाखाद्वा स क्लिष्टं लभते फलम् ॥ २८.१५२{१८} ॥ स्वकार्यं निरपेक्षेण कृपाविष्टेन चेतसा । परार्थं यो ददातीह सोऽक्लिष्टं फलमश्नुते ॥ २८.१५३{१९} ॥ यत्किञ्चिद्दीयतेऽन्यस्मै यथाकालं यथाविधिम् । तेन तेन प्रकारेण तत्सर्वमुपतिष्ठते ॥ २८.१५४{२०} ॥ परानन्वपहत्येवं सर्वकालं यथेप्सितम् । अक्लेशयित्वा दातव्यं हितं धर्माविरोधियत् ॥ २८.१५५{२१} ॥ एवं हि दीयमानस्य दानस्यैव फलादयः । दानं हि सर्वसौख्यानामनन्यत्कारणं मतम् ॥ २८.१५६{२२} ॥ विरजः परदारेभ्यो दारानिष्टानवाप्नुयात् । स्वेभ्योऽप्यदेशकालौ च वर्जयेत्पुंस्त्वमर्छति ॥ २८.१५७{२३} ॥ परदारेषु संसक्तं चित्तं यो न नियछति । अनंगेषु चक्ष्येत स पुमां स्त्रीत्वमर्छति ॥ २८.१५८{२४} ॥ स्त्रीत्वं जुगुप्सते या तु सुशीलमन्दरागिणी । पुंस्त्वमाकांक्षते नित्यं सा नारी नरतां व्रजेत् ॥ २८.१५९{२५} ॥ यस्तु सम्यग्निरातङ्कं ब्रह्मचर्यं निषेवते । तेजस्वी सद्गुणः श्रीमान् देवैरपि स लक्ष्यते ॥ २८.१६०{२६} ॥ दृढस्मृतिरसंमूढो मघवानो निषेवनात् । जायते सत्यवादी च यशःसौख्यान्वितः पुमान् ॥ २८.१६१{२७} ॥ भिन्नानामपि सत्वानां भेदं नैव करोति यः । अभेद्यपरिवारोऽसौ जायते स्थिरमानसः ॥ २८.१६२{२८} ॥ यस्त्वाज्ञां कुरुते नित्यं गुरूणां हृष्टमानसः । हिताहिताभिधायी च स स्यादादेयवाक्कृती ॥ २८.१६३{२९} ॥ नीचापरायमानेन विपर्यासेन चोद्गतः । भवन्ति सुखिनः सौख्यं दुःखं दत्वा च दुःखिनः ॥ २८.१६४{३०} ॥ परप्रपञ्चाभिरताः शठाश्चानृतवादिनः । कुब्जवामनतां यान्ति ये च रूपाभिमानिनः ॥ २८.१६५{३१} ॥ जडो विज्ञानमात्सर्याद्भवेन्मूकः प्रियाप्रियः । वाधिर्यं याति मूढात्मा हितवाक्याभिगूढकः ॥ २८.१६६{३२} ॥ दुःखं पापस्य पुण्यस्य सुखं मिश्रस्य मिश्रितम् । सर्वं सादृश्यनिःस्यन्दमभ्युह्यं कर्मणः फलम् ॥ २८.१६७{३३} ॥ ++इति मनुष्य कांदं समाप्तम् ++ शठ्येन मायया नित्यं चरत्यकृतकिल्बिषः । कलिप्रियः प्रदाता च स भवेदसुरेश्वरः ॥ २८.१६८{१} ॥ (र्म् ३३१) ++ इत्यसुरकाण्डम् ++ नात्मना यः सुखाकांक्षी न च कृव्येत परिग्रहम् । ग्रहाणामग्रणी चासौ महाराजिकतां व्रजेत् ॥ २८.१६९{१} ॥ मातापितृकुलज्येष्ठपूजकस्यागवान् कृती । हृष्यमे यो न कलहैस्त्रिदशेषु स जायते ॥ २८.१७०{२} ॥ न विग्रहे रता नैव कलहे हृष्टमानसाः । एकान्तकुशलोद्युक्ता ये च मोयापगास्तु ते ॥ २८.१७१{३} ॥ बहुश्रुता धर्मधराः सुप्रज्ञा मोक्षकांक्षिणः गुणैर् । ये परिहृष्णाश्च नरास्ते तुषितोपगाः ॥ २८.१७२{४} ॥ शीलप्रदानविनये प्रवृत्ता ये स्वयं नराः । महोत्साहाश्च तेऽवश्यं निर्माणरतिगामिनः ॥ २८.१७३{५} ॥ अदीनसत्वा मे श्रेष्ठाः प्रदाने दमसंयमैः । गुणाधिकाश्च ये यान्ति परनिर्मिततां ध्रुवम् ॥ २८.१७४{६} ॥ शीलेन स्वर्गमाप्नोति ध्यानेन च विशेषतः । यथाभूतपरिज्ञानात्पर्यन्ते वो पुनर्भवः ॥ २८.१७५{७} ॥ शुभाशुभफलं कर्म यदेतत्कथितं स्फुटम् । शुभेन लभ्यते सौख्यं दुःखं त्वशुभसंभवम् ॥ २८.१७६{८} ॥ मृत्युर्व्याधिर्जरा चैव चिन्तनीयमिदं त्रयम् । विप्रयोगा प्रियैः सार्द्धं कर्मणां च स्वकं फलम् ॥ २८.१७७{९} ॥ एवं विरागमाप्नोति विविक्तः पुण्यमर्छति । पापं च नार्जयेदेवं तच्च संक्षेपतः शृणु ॥ २८.१७८{१०} ॥ सम्यक्परार्थकरणं परानर्थविवर्जनम् । पुण्यं विपर्ययात्पापभुक्तमेव मुनीश्वरैः ॥ २८.१७९{११} ॥ ++ इति देवकाण्डं समाप्तम् ++ एवं मत्वा महाराज षड्गतिकारिकां भवे । संबोधिधर्ममाधाय चरितव्यं सदा शुभे ॥ २८.१८०{१} ॥ ये संबोधिव्रतं धृत्वा प्रचरन्ति समाहिताः । सर्वसत्वहितार्थेन बोधिसत्वा भवन्ति ते ॥ २८.१८१{२} ॥ एवं विज्ञाय राजेन्द्र सदा भद्रं यदीछसि । त्रिरत्नं शरणं कृत्वा भज नित्यं समादरात् ॥ २८.१८२{३} ॥ एतत्पुण्यविपाकेन सर्वक्लेशन् विनिर्जयन् । क्रमाद्बोधिं समासाद्य संबुद्धपदमाप्नुयाः ॥ २८.१८३{४} ॥ इति तेन मुनीन्द्रेण समाख्यातं निशम्य सः । राजाप्युत्तरपांचालः प्रव्रजितुं समैछत ॥ २८.१८४{५} ॥ ततः स नृपती राजा समुत्थाय कृतांजलिः । भगवन्तमानत्वा प्रार्थयदेवमादरात् ॥ २८.१८५{६} ॥ भगवन्नाथ सर्वज्ञ भवतां शरणं गतः । संबोधिव्रतमाधाय प्रेछामि चरितुं सदा ॥ २८.१८६{७} ॥ यद्भवाञ्जगतां शास्ता संबोधिधर्मदेशिकः । तन्मेऽनुग्रहतां कृत्वा प्रव्रज्यां दातुमर्हति ॥ २८.१८७{८} ॥ इति संप्रार्थिते तेन राज्ञा स भगवान् सुधीः । तस्य राज्ञो मनःशुद्धं विज्ञायैवमुपादिशत् ॥ २८.१८८{९} ॥ साधु राजन्महाभाग यदीछसि शुभां गतिम् । एहि चर समाधाय चर मे शासने व्रतम् ॥ २८.१८९{१०} ॥ इत्यादिश्य मुनीन्द्रोऽसौ पाणिना तच्छिरः स्पृशन् । (र्म् ३३२) संबुद्धे शासने धर्मे तं नरेंद्रं समग्रहीत् ॥ २८.१९०{११} ॥ एहीति तेन शास्त्रोक्ते नृपतिः स प्रबोधितः । खिक्खिरीपात्रधरो भिक्षुऽभूच्चीवरावृतः ॥ २८.१९१{१२} ॥ ततः स भूपतिश्चापि विरक्तो भोग्यनिस्पृहः । निःक्लेशः परिशुद्धात्मा बभूव विजितेंद्रियः ॥ २८.१९२{१३} ॥ साक्षादर्हत्वमासाद्य ब्रह्मचारी निरंजनः । संबोधिपदमासाद्य संबुद्धः श्रावकोऽभवत् ॥ २८.१९३{१४} ॥ ततः स ब्रह्मविद्योगी त्रैधातुवासिनामपि । सदेवासुरलोकानां वन्द्यो मान्योऽभवद्गुरुः ॥ २८.१९४{१५} ॥ ततो दक्षिणपांचालराजा स प्रतिमोदितः । उत्थाय सांजलिर्नत्वा प्रार्थ्यत्तं मुनीश्वरम् ॥ २८.१९५{१६} ॥ भगवन्नाथ सर्वज्ञ कृपया मे प्रसीदतु । त्रैमास्यं भक्तुमिछामि तत्कुरुतामनुग्रहम् ॥ २८.१९६{१७} ॥ इति संप्रार्थिते राज्ञा भगवान् स मुनीश्वरः । नृपतिं तं समालोक्य तूष्णीभूत्वाध्युवास तत् ॥ २८.१९७{१८} ॥ ततः स नृपती राजा भगवताध्युवासितम् । विदित्वा सर्वसामग्रीं सहसा समसाधयत् ॥ २८.१९८{१९} ॥ ततः स राजा भगवंतं ससांघिकम् । यथार्हभोजनैर्नित्यं समभ्यर्च्यऽभ्यतोषयत् ॥ २८.१९९{२०} ॥ विचित्रचीवरैश्चापि श्रीघनं तं ससांघिकम् । आछाद्य सांजलिर्नत्वा प्रणिधानं मुदा व्यधात् ॥ २८.२००{२१} ॥ एतत्पुण्यविपाकेन लोकेऽंधेऽपरिनायके । सद्धर्मभास्करः शास्ता संबुद्धोऽर्हं भवेय हि ॥ २८.२०१{२२} ॥ एवं तेन नरेन्द्रेण प्रणिधानं कृतं मुदा । मत्वा स भगवान् स्मितं प्रामुञ्चच्छुभरोचिषम् ॥ २८.२०२{२३} ॥ तत्स्मितसमुत्पन्नाः पंचवर्णाः सुरश्मयः । प्रसारितास्त्रिलोकेषु भासयन्त्यः प्रचेरिरे ॥ २८.२०३{२४} ॥ तद्रस्मिसंपरिस्पृष्टाः सर्वेऽपि नारकाश्रिताः । निर्मुक्तवेदनाखेदा महत्सौख्यं प्रलेभिरे ॥ २८.२०४{२५} ॥ तदा ते विस्मिताः सर्वे नारकीयाः प्रमोदिताः । किमेवं जायते सौख्यमिति ध्यात्वा निषेदिरे ॥ २८.२०५{२६} ॥ ततः स भगवांस्तेषां विस्मयाक्रांतचेतसाम् । मनांसि परिबोधार्थं प्रैषयत्तत्र नैर्मितम् ॥ २८.२०६{२७} ॥ तदा ते नारकाः सर्वे दृष्ट्वा तं सुगतं मुदा । उपेत्य प्रणतिं कृत्वा प्राभजञ्छरणं गताः ॥ २८.२०७{२८} ॥ ततस्तत्पुण्यलिप्तास्ते सर्वे विमुक्तपापकाः । परिशुद्धाः शुभात्मानः सद्गतिं समुपाययुः ॥ २८.२०८{२९} ॥ ततस्ता रश्मयः सर्वा अवभास्य समंततः । अकनिष्ठालयं यावत्प्रसृताः समभासयन् ॥ २८.२०९{३०} ॥ गाथाघोषैश्च सर्वत्र सर्वान् देवान् प्रमोदिनः । बोधयित्वा शुभे धर्मे प्रतिष्ठाप्य पचेरिरे ॥ २८.२१०{३१} ॥ ततस्ता रश्मयः सर्वा पिण्डीभूता मुनेः पुरः । त्रिधा प्रदक्षिणीकृत्वा महोष्णीषे समाविशत् ॥ २८.२११{३२} ॥ तद्दृष्ट्वा ते सभालोकाः सर्वेऽतिविस्मयोद्धताः । (र्म् ३३३) शास्ता किमादिशेद्धर्ममिति ध्यात्वा निषेदिरे ॥ २८.२१२{३३} ॥ इति तेषां मनस्तर्कं मत्वानंदः समुत्थितः । उपेत्य सांजलिर्नत्वा प्रार्थयेत्तं मुनीश्वरम् ॥ २८.२१३{३४} ॥ भगवन् हेतुना केन स्मितं मुंचति सांप्रतम् । नाहेत्वप्रत्ययं स्मितं न मुंचंति मुनीश्वराः ॥ २८.२१४{३५} ॥ तद्यदर्थे भवान् स्मितं मुंचतीमे सभाजनाः । श्रोतुमिछंति सर्वे तदर्थमादेष्टुमर्हति ॥ २८.२१५{३६} ॥ इत्यानंदोदितं श्रुत्वा भगवान् स जगद्गुरुः । सर्वांल्लोकान् समालोक्य तमानंदं समब्रवीत् ॥ २८.२१६{३७} ॥ एवमेव सदानंद सर्वे बुद्धा मुनीश्वराः । नाहेतुप्रत्ययं स्मितं विमुंचन्ति कदा चन ॥ २८.२१७{३८} ॥ पश्यतामयमानंद राजातिसंप्रसादितः । सत्कृत्य श्रद्धयास्माकं त्रैमास्यं भजते मुदा ॥ २८.२१८{३९} ॥ एतत्पुण्यविपाकेन राजायं सद्गुणाकरः । क्रमात्पारमिताः सर्वाः परिपूर्य बलान्वितः ॥ २८.२१९{४०} ॥ सर्वक्लेशगणाञ्जित्वा माराञ्चापि विनिर्जयन् । बोधिमासाद्य सर्वज्ञस्तथागतो मुनीश्वरः ॥ २८.२२०{४१} ॥ सर्वविद्याधिपः शास्ता धर्मराजो विनायकः । विजयो नाम संबुद्धो भविष्यति भवान्तरे ॥ २८.२२१{४२} ॥ एवमानंद विज्ञाय बुद्धक्षेत्रशुभंकृतम् । तद्विपाके महत्सौख्यं भद्रं संबोधिसाधनम् ॥ २८.२२२{४३} ॥ त्रिरत्नशरणं कृत्वा सत्कारैः श्रद्धया सदा । संबोधिवाञ्छिभिर्लोकैश्चरितव्यं शुभे मुदा ॥ २८.२२३{४४} ॥ इत्यादिष्टं मुनीन्द्रेण श्रुत्वानंदादयोऽपि ते । सर्वे लोकास्तथेत्युक्त्वा प्राभ्यनन्दन् प्रसादिताः ॥ २८.२२४{४५} ॥ सोऽपि दक्षिणपांचालो राजा श्रुत्वा प्रमोदितः । त्रिरत्नभजनं कृत्वा प्रचचार शुभे सदा ॥ २८.२२५{४६} ॥ तदारभ्य सदा तत्र मंगलं निरुपद्रवम् । समंततो महोत्साहं कृतयुग इवाभवत् ॥ २८.२२६{४७} ॥ इति मे गुरुणाख्यातं श्रुतं मया तथाऽधुना । कथ्यतेऽत्र त्वयाप्येवं चरितव्यं शुभे सदा ॥ २८.२२७{४८} ॥ प्रजाश्चापि महाराज बोधयित्वा प्रयत्नतः । बोधिमार्गे प्रतिष्ठाप्य पालनीयाः सदा त्वया ॥ २८.२२८{४९} ॥ तथा ते सर्वदा भद्रं सर्वत्रापि भवेद्ध्रुवम् । क्रमाद्बोधिं समासाद्य संबुद्धपदमाप्नुयाः ॥ २८.२२९{५०} ॥ इति तेनार्हतादिष्टं श्रुत्वाशोकः स भूमिपः । तथेत्यभ्यनुमोदित्वा प्राभ्यनन्दत्सपार्षदः ॥ २८.२३०{५१} ॥ राज्ञो पाञ्चालयोर्यन्मुनिकथितमिदं तत्प्रसिद्धावदानम् । शृण्वन्ति श्रावयन्ति प्रमुदितमनसः श्रद्धया ये प्रसन्नाः । सर्वे ते बोधिसत्वाः सकलगुणधराः सर्वसंपत्सुखाढ्याः । कृत्वा लोकेषु भद्द्रं मुनिवरनिलये संप्रयान्ति प्रमोदाः ॥ २८.२३१{५२} ॥ (र्म् ३३४) ++ इति रत्नावदानतत्वे पांचालराजावदनं समाप्तम् ++ (र्म् ३३५) xxइx उपपादुकावदान अथाशोको महीपालः समुपेत्य कृतांजलिः । उपगुप्तं यतिं नत्वा प्रार्थयदेवमादरात् ॥ २९.१{१} ॥ भदन्त श्रोतुमिछामि पुनरन्यत्सुभाषितम् । तद्यथा गुरुणादिष्टं तथाख्यातुं च मेऽर्हति ॥ २९.२{२} ॥ इति संप्रर्थितं राज्ञा श्रुत्वा सोऽर्हन्महामतिः । उपगुप्तो नरेंद्रं तं समालोक्यैवमादिशत् ॥ २९.३{३} ॥ साधु शृणु महराज यथा मे गुरुणोदितम् । तथाहं ते प्रवक्ष्यामि श्रुत्वा चाप्यनुमोदय ॥ २९.४{४} ॥ तद्यथा भगवान् बुद्धा शाक्यसिंहो मुनीश्वरः । सर्वज्ञः सुगतः शास्ता धर्मराजो विनायकः ॥ २९.५{५} ॥ एकस्मिन् समये मातुर्मायादेव्या हितेछया । सद्धर्मं समुपादेष्टुं प्राचरत्त्रिदशालये ॥ २९.६{६} ॥ तत्र स भगवान् गत्वा सुरम्ये नंदने वने । पारिजाततले पाण्डुसच्छिलायामुपाश्रयत् ॥ २९.७{७} ॥ तत्र शक्रादयो देवाः सर्वे तं सद्गुणाकरम् । शाक्यमुनिं समालोक्य मुदिताः समुपाचरन् ॥ २९.८{८} ॥ तत्र तं श्रीघनं दृष्ट्वा सर्वे देवाः प्रमोदिताः । त्रिधा प्रदक्षिणीकृत्य साञ्जलयः प्रणेमिरे ॥ २९.९{९} ॥ ततो देवाधिपः शक्रो दिव्यरत्नमयासनम् । संबुद्धस्य जगच्छास्तुः प्राज्ञापयच्छुभोज्ज्वलम् ॥ २९.१०{१०} ॥ तत्र स भगवान् दृष्ट्वा दिव्यरत्नमहोज्वले । आरुह्य समुपाश्रित्य समातस्थौ प्रभासयन् ॥ २९.११{११} ॥ तदा सा जननी माता मायादेवी समागता । तमात्मजं जगन्नाथं संदृष्ट्वा समुपाचरत् ॥ २९.१२{१२} ॥ तत्र स भगवान् दृष्ट्वा मातरं तां समागताम् । उत्थाय समुपासृत्य प्रणत्वैवमभाषत ॥ २९.१३{१३} ॥ स्वागतं कुशलं मातरारोग्यमस्तु ते सदा । त्वत्मुखं द्रष्टुमायामि तत्प्रसादितुमर्हसि ॥ २९.१४{१४} ॥ अत्रासने समाश्रित्य निषीदैकाग्रमानसा । उपदिक्ष्यामि सद्धर्मं तच्छृणुष्व समाहिता ॥ २९.१५{१५} ॥ इत्यादिष्टं मुनीन्द्रेण श्रुत्वा सा जननी सती । मायादेवी समालोक्य तमात्मजं समव्रावीत् ॥ २९.१६{१६} ॥ प्रायामि ते मुखं द्रष्टुं कुशलं ते सदात्मज । तन्ममानुग्रहार्थेन धर्ममादेष्टुमर्हसि ॥ २९.१७{१७} ॥ इत्युक्त्वा सा सती मायादेवी माता जगद्गुरोः । उपासनं समाश्रित्य निससाद समाहिता ॥ २९.१८{१८} ॥ ततः शक्रादयो देवाः सर्वे ते संप्रहर्षिताः । (र्म् ३३६) पूजांगैस्तं जगन्नाथं मायादेवीं च प्रार्चयन् ॥ २९.१९{१९} ॥ ततः पादान्स्तयोर्नत्वा कृत्वा च त्रिप्रदक्षिणम् । परिवृत्य पुरस्कृत्वा धर्मं श्रोतुमुपाश्रयन् ॥ २९.२०{२०} ॥ ततस्त भगवान् दृष्ट्वा तान् देवान् समुपस्थितान् । आर्यसत्यं समारभ्य सद्धर्मं समुपादिशत् ॥ २९.२१{२१} ॥ ततश्च भगवांस्तेषां देवानां सुखमानिनम् । संबोधिसाधनं पुनरेवमुपादिशत् ॥ २९.२२{२२} ॥ अनित्यं खलु संसारे दुःखं शून्यं ह्यनात्मकम् । कामे किंचित्सुखं नात्र क्लेशसंघे समाकुले ॥ २९.२३{२३} ॥ इति मत्वात्र संसारे सदा सौख्यं यदीछथ । बोधिचर्याव्रतं धृत्वा संचरध्वं सदा शुभम् ॥ २९.२४{२४} ॥ निष्क्रामतारभध्वं च युज्यध्वं बुद्धशासने । मारचर्य्यां परित्यज्य चरध्वं बोधिचारिकाम् ॥ २९.२५{२५} ॥ यः सत्वहितार्थेन बोधिचर्यां चरिष्यति । स सम्यग्बोधिमासाद्य संबुद्धपदमाप्स्यति ॥ २९.२६{२५} ॥ एवं मत्वात्र संसारे सर्वे यूयं समाहिताः । त्रिरत्नभजनं कृत्वा चरध्वं बोधिसंवरम् ॥ २९.२७{२६} ॥ ये त्रिरत्नं भजन्त्यत्र न ते गछंति दुर्गतिम् । सदा सद्गतिसंयाताः क्रमाद्बोधिमवाप्नुयुः ॥ २९.२८{२७} ॥ इत्यादिष्टं मुनीन्द्रेण श्रुत्वा सर्वेऽपि तेऽमराः । सत्यमेव परिज्ञाय प्राभ्यनन्दन् प्रबोधिताः ॥ २९.२९{२८} ॥ ततः शक्रः समुत्थाय कृतांजलिः । भगवंतं तमानम्य प्रार्थयदेवमादरात् ॥ २९.३०{२९} ॥ भगवन्नाथ सर्वज्ञ सर्वदेह सुरालये । सद्धर्मं नः समादिश्य भवन् विहर्तुमर्हति ॥ २९.३१{३०} ॥ वयं सर्वे सुरा नित्यं भवतां शरणं गताः । सद्धर्मं सर्वदाकर्ण्य चरिष्यामः शुभां चरिम् ॥ २९.३२{३१} ॥ ततः सापि महामायादेवि माता समुत्थिता । उपेत्य सांजलिर्नत्वा भगवन्तं तमब्रवीत् ॥ २९.३३{३२} ॥ धन्योऽसि यत्त्वया पुत्र प्रतिज्ञातं यथापुरा । तथा त्वं पूर्यते सर्वं सर्वार्थसिद्धिरस्तु ते ॥ २९.३४{३३} ॥ सदात्र देवलोकानां हितार्थे च प्रबोधयन् । सद्धर्मं समुपादिश्य विहर संप्रभासयन् ॥ २९.३५{३४} ॥ इति मात्रार्थितं श्रुत्वा भगवान् स जगद्गुरुः । जननीं तां सभां चापि समालोक्यैवमादिशत् ॥ २९.३६{३५} ॥ मातर्नैकहितार्थेनबोधिचर्यां दधामि हि । सर्वेषामपि सत्वानां हितार्थेऽहं जिनो भवे ॥ २९.३७{३६} ॥ तदत्र सर्वदा नैवं तिष्ठेयं त्रिदशैः सह । वर्षा मासत्रयं स्थातुमिछामि धर्ममादिशन् ॥ २९.३८{३७} ॥ इत्यादिष्टं मुनीन्द्रेण श्रुत्वा सा जननी मुदा । तथास्त्विति प्रभाषित्वा प्राभ्यनंदत्प्रबोधिता ॥ २९.३९{३८} ॥ तथा स भगवान्स्तत्र बोधिचर्यां प्रकाशयन् । सद्धर्मं समुपादिश्य तस्थौ मासत्रयं दिवि ॥ २९.४०{३९} ॥ (र्म् ३३७) सर्वशक्रादयो देवास्त्रिरत्नशरणं गताः । सत्कृत्य श्रद्धया नित्यं धर्मं श्रुत्वा प्रभेजिरे ॥ २९.४१{४०} ॥ तदा तत्र सदा स्वर्गे मंगलं निरुपद्रवम् । सद्धर्मसाधनोत्साहं प्रावर्त्तते समंततः ॥ २९.४२{४१} ॥ तस्मिंश्चा समये तत्र स्रावस्त्या वहिराश्रमे । जेतोद्याने विहारे स मौद्गल्यायन आश्रयत् ॥ २९.४३{४२} ॥ तदा ते सांघिकाः सर्वे तं मौद्गल्यायनं यतिम् । विहारे संस्थितं दृष्ट्वा धर्मं श्रोतुं समीछिरे ॥ २९.४४{४३} ॥ ततस्ते सांघिकाः सर्वे लोकाश्चान्येऽपि सज्जनाः । तत्सद्धर्मदेशनां श्रोतुं मुदिताः समुपाचरन् ॥ २९.४५{४४} ॥ तत्र सर्वेऽपि ते लोकास्तं मौद्गल्यायनं गुरुम् । समभ्यर्च्य समानम्य धर्मं श्रोतु]मुपाश्रयन् ॥ २९.४६{४५} ॥ तान् दृष्ट्वा समुपासीनान् स मौद्गल्यो जिनात्मजः । आदिमध्यांतकल्याणं दिदेश धर्ममुत्तमम् ॥ २९.४७{४६} ॥ तत्सद्धर्मामृतं पीत्वा सर्वे लोकाश्च सांघिकाः । सद्धर्म्मसाधनोद्युक्ता वभूवुः परिबोधिताः ॥ २९.४८{४७} ॥ अथ ते भिक्षवः सर्वे कृतांजलिः पुटो मुदा । तं मौद्गल्यायनं नत्वा पप्रछुरेवमादरात् ॥ २९.४९{४८} ॥ भदन्त भगवं छास्ता कुत्रेदानीं समाश्रितः । सद्धर्मं समुपादिश्य विहरति न मन्यते ॥ २९.५०{४९} ॥ तदस्माकं मनान्स्यत्र भगवाञ्छास्ता यतः स्थितः । तत्सत्यं समुपादिश्य प्रबोधयितुमर्हति ॥ २९.५१{५०} ॥ इति तैः प्रार्थितं श्रुत्वा स मौद्गल्यायनः सुधीः । सर्वान्स्तान् संघिकान् भिक्षून् समालोक्यैवमब्रवीत् ॥ २९.५२{५१} ॥ श्रुतं मया भवन्तोऽसौ भगवाञ्छास्ताऽधुना दिवि । ततो मातुः सुराणां चा तिष्ठते धर्ममादिशत् ॥ २९.५३{५२} ॥ ततो वर्षात्रिमासान्ते भगवान् स जगद्गुरुः । अत्र लोकहितं कर्तुमवतरेत्स्वयं खलु ॥ २९.५४{५३} ॥ इति तेनार्हताख्यातं श्रुत्वा ते सांघिका जनाः । सर्वेऽप्य्ऽभ्यनुमोदन्तः स्वस्वालयं समाचरन् ॥ २९.५५{५४} ॥ सदा ते सांघिकास्तस्य मौद्गल्यस्य महामतेः । सद्धर्मं सर्वदाकर्ण्य भजन्तः समुपाश्रयन् ॥ २९.५६{५५} ॥ ततो वर्षात्रिमासान्ते सर्वे ते सांघिका जनाः । अपि तं मौद्गल्यमानत्वा प्रार्थयदेवमादरात् ॥ २९.५७{५६} ॥ भवन्तात्र भवाञ्छास्ता विजानीयाज्जगद्गुरोः । द्रष्टुमिछामहे शास्तुः सद्धर्मं तृषिता वयम् ॥ २९.५८{५७} ॥ चिरदृष्टो यदस्माभिर्भगवां स मुनीश्वरः । तदस्याग्रमुनीन्द्रस्य दर्शनं दातुमर्हति ॥ २९.५९{५८} ॥ तदस्मदनुकम्पार्थं भवनृद्धिप्रभावतः । गत्वा स्वर्गे मुनीन्द्रस्य सहसा समुपक्रमेत् ॥ २९.६०{५९} ॥ तत्र गत्वा भवाच्छास्तुर्मुनीन्द्रस्य जगद्गुरोः । अस्माकं वचनैश्चापि वंदतां चरणाम्बुजौ ॥ २९.६१{६०} ॥ (र्म् ३३८) देहे च कौशलं सौख्यं पृछतां वचनैश्च नः । एवं चापि पुरः शास्तुर्निवेदितुं समर्हति ॥ २९.६२{६१} ॥ भगवं नाथ सर्वज्ञ ते जाम्बूद्वीपिका नराः । भवन्तं द्रष्टुमिछन्ति सद्धर्मामृतलालसाः ॥ २९.६३{६२} ॥ यद्भवान् सर्वसत्वानां हितं कर्तुं समुद्यतः । तद्भगवान्मनुष्याणां धर्ममादेष्टुमर्हति ॥ २९.६४{६३} ॥ नराः स्वर्गे समागंतुं शक्नुवन्ति न के चन । देवास्तु सर्वलोकेषु प्रचरन्ति यथेछया ॥ २९.६५{६४} ॥ तद्भगवान्मनुष्याणां हितार्थायानुकम्पया । सद्धर्मं समुपादेष्टुं जम्बुद्वीपमवातरेत् ॥ २९.६६{६५} ॥ वयं सर्वे सदा नित्यं भवतां शरणं गताः । सत्कृत्य श्रद्धया धर्म्मं श्रुत्वा संप्रभजेमहि ॥ २९.६७{६६} ॥ एवं शास्तर्महाविज्ञ गत्वा तत्र सुरालये । भगवंतं जगन्नाथं संप्रार्थ्येह समानय ॥ २९.६८{६७} ॥ इति तैः प्रार्थितैः श्रुत्वा स मौद्गल्यो महार्द्धिमान् । एवमिति प्रतिज्ञाय तूष्णीभूत्वाध्युवास तत् ॥ २९.६९{६८} ॥ अथ ते सांघिकाः सर्वे लोकाश्चापि महात्मना । तेनाधिवासितं मत्वा मुदिताः स्वस्वालयं ययुः ॥ २९.७०{६९} ॥ अथ सोऽर्हं महाभिज्ञो मौद्गल्यन आत्मवित् । स्वर्गे गंतुं समाधाय समाधिं विदधे क्षणम् ॥ २९.७१{७०} ॥ ततः स ऋद्धिवीर्येण सुपर्ण इव खेऽगमत् । भासयन् सहसा गत्वा दिवि शास्तुरुपाचरत् ॥ २९.७२{७१} ॥ तत्र तं समुपायातं दृष्ट्वा स भगवान्मुदा । स्वागतं प्रेहि मौद्गल्य निषीदेति समब्रवीत् ॥ २९.७३{७२} ॥ इत्यादिष्टे मुनीन्द्रेण स मौद्गल्यः प्रमोदितः । साञ्जलिः पादयोः शास्तुः प्रणत्वैवं समब्रवीत् ॥ २९.७४{७३} ॥ भगवन्नाथ सर्वज्ञ प्रागतोऽहं मुदा दिवि । भवतां दर्शनं कर्तुं तत्प्रसीद दयानिधे ॥ २९.७५{७४} ॥ कच्चित्ते कुशलं शास्तः किञ्चिद्वाधापि नैव हि । यात्रा सुखं वलं वीर्यं कच्चित्काये न चान्यथा ॥ २९.७६{७५} ॥ भवानपि विजानीयाद्यदर्थेऽहमिहागतः । तथापि भगवन्नत्र विज्ञापयेय सर्वथा ॥ २९.७७{७६} ॥ भवतां सांघिकैः सर्वैर्लोकैश्चापि महाजनैः । भवन्तं द्रष्टुमिछद्भिः प्रेषितोऽहमिहागतः ॥ २९.७८{७७} ॥ ते सर्वे सांघिका लोका भवतां चरणाम्बुजे । वन्दन्ति कौशलं काये परिपृछन्ति चादरात् ॥ २९.७९{७८} ॥ एवं चापि वदन्ते ते सर्वे लोकाश्च सांघिकाः । सद्धर्मश्रवणोत्साहरहिता विकलाशयाः ॥ २९.८०{७९} ॥ भगवान् सर्वसत्वानां हितार्थे बोधिमाप्तवान् । तत्तथात्र मनुष्याणां धर्ममादेष्टुमर्हति ॥ २९.८१{८०} ॥ ततः स्वर्गे समागंतुं शक्नुवन्ति न के चन । देवास्तु सर्वलोकेषु प्रचरन्ति यथेछया ॥ २९.८२{८१} ॥ तद्भगवान्मनुष्यानां हितार्थायानुकम्पया । (र्म् ३३९) सद्धर्मं समुपादेष्टुं जम्बूद्वीपमवातरेत् ॥ २९.८३{८२} ॥ वयं सर्वे सदा नित्यं भवतां शरणं गताः । सत्कृत्य श्रद्धया धर्मं श्रुत्वा संप्रभजेमहि ॥ २९.८४{८३} ॥ एवमस्मद्वचोभिस्त्वं गत्वा तत्र सुरालये । भगवंतं जगन्नाथं संप्रार्थ्येह समानय ॥ २९.८५{८४} ॥ इति तैः प्रार्थ्यमानेऽहं तथेति प्रतिबोधितः । भवतां विज्ञापनां कर्तुं सहसा समुपाचरे ॥ २९.८६{८५} ॥ तद्भगवन्मनुष्याणां हितानुकम्पयाधुना । सद्धर्मं समुपादेष्टुं भुव्येव तर्त्तुमर्हति ॥ २९.८७{८६} ॥ इति तेनार्थितं श्रुत्वा भगवान् स मुनीश्वरः । तं मौद्गल्यायनं दृष्ट्वा तूष्णीभूत्वाध्युवास तत् ॥ २९.८८{८७} ॥ तस्मिंश्च समये तत्र सर्वे शक्रादयोऽमराः । सद्धर्मं श्रवणोत्साहाः समागाताः समंततः ॥ २९.८९{८८} ॥ कृत्वा पूजां मुनीन्द्रस्य प्रणत्वा चरणाम्बुजे । परिवृत्य पुरस्कृत्य धर्मं श्रोतुमुपाश्रयन् ॥ २९.९०{८९} ॥ तदा स भगवान् दृष्ट्वा तान् सर्वन् समुपाश्रितान् । आर्यसत्यं समारभ्य सद्धर्मं समुपादिशत् ॥ २९.९१{९०} ॥ तत्सद्धर्मामृतं पीत्वा सर्वे शक्रादयोऽपि ते । देवाः संहर्षिता बोधिचर्याभिवाञ्छितोऽभवन् ॥ २९.९२{९१} ॥ तत्समीक्ष्य स मौद्गल्यः किञ्चिद्विहसितो मुदा । भगवंतं मुनीन्द्रं तं दृष्ट्वैवं समचिंतयत् ॥ २९.९३{९२} ॥ इहापि भगवान्नेवं समाकीर्णसभाश्रितः । सद्धर्मं समुपादिश्य विहरति यथाभुवि ॥ २९.९४{९३} ॥ अथ स भगवांस्तस्य मौद्गल्यस्य महामतेः । मनश्चिन्तितमाज्ञाय तं मौद्गल्यं समब्रवीत् ॥ २९.९५{९४} ॥ न मे मौद्गल्य सत्कारवंधितं भवते मनः । अपि त्वहं यथेछामि तथा सर्वं समृद्ध्यति ॥ २९.९६{९५} ॥ आयान्त्विहामराः सर्वे इति मया यदेच्छ्यते । तदा सर्व इमे देवा आगछंति समंततः ॥ २९.९७{९६} ॥ गछन्तु च सुराः सर्वे इति मया यदेह्यते । तदा सर्व इमे देवा गछंति च स्वमालयम् ॥ २९.९८{९७} ॥ एवं मे सर्वकार्येषु मनोऽभिलषितं यथा । तथात्र सर्वकार्याणि सिद्ध्यंते हि सदा तदा ॥ २९.९९{९८} ॥ इत्यादिष्टं मुनीन्द्रेण श्रुत्वा मौद्गल्य आत्मवित् । शास्तुः पादाम्बुजौ नत्वा सांजलिः समुपाश्रयत् ॥ २९.१००{९९} ॥ ततः सभां सुरां कीर्णां स मौद्गल्यायनो यतिः । तार सर्वां संनिरीक्ष्यैवं भगवन्तमभाषत ॥ २९.१०१{१००} ॥ विचित्रा भगवन् देवापर्षदियं विराजते । नूनमिमे सुराः सर्वे संबुद्धपदलाभिनः ॥ २९.१०२{१} ॥ सन्ति ह्यस्यां सभायां ये संबुद्धे संप्रसादिताः । कायभेदादिहोत्पन्नास्ते संबोधिलाभिनः ॥ २९.१०३{२} ॥ सन्ति धर्मे प्रसन्ना ये आर्यशीलैः समन्विताः । कायभेदादिहोत्पन्नास्तेऽपि संबोधिलाभिनः ॥ २९.१०४{३} ॥ (र्म् ३४०) सन्ति संघे प्रसन्ना ये आर्यधर्मानुचारिणः । कायभेदादिहोत्पन्नास्तेऽपि संबोधिलाभिनः ॥ २९.१०५{४} ॥ इति मौद्गल्यसंप्रोक्तं श्रुत्वा स भगवांस्तथा । तं मौद्गल्यायनं दृष्ट्वानुवर्णयन् सामादिशत् ॥ २९.१०६{५} ॥ एवमेतद्धि मौद्गल्य विचित्रेयं महासभा । सुरेन्द्रप्रमुखा देवा यत्र सन्ति प्रमोदिताः ॥ २९.१०७{६} ॥ सन्ति बुद्धे प्रसन्ना ये संबोधिसाधनोत्सहाः । कायभेदादिहोत्पन्नास्ते संबोधिपदोन्मुखाः ॥ २९.१०८{७} ॥ सन्ति धर्मे प्रसन्ना ये आर्यशीलसमाचराः । कायभेदादिहोत्पन्नास्तेऽपि संबोधिगामिनः ॥ २९.१०९{८} ॥ संति संघे प्रसन्ना ये आर्यसत्यसमन्विताः । कायभेदादिहोत्पन्नास्तेऽपि संबोधिलाभिनः ॥ २९.११०{९} ॥ एवं शास्त्रा समाख्यातं श्रुत्वा देवाधिपोऽपि सः । भगवंतं समालोक्य मौद्गल्यं च तथाब्रवीत् ॥ २९.१११{१०} ॥ विचित्रा भगवन् देवपर्षदियं विराजते । यत्र सन्ति महासत्वाः संबोधिसाधनोद्यताः ॥ २९.११२{११} ॥ सन्ति बुद्धे प्रसन्ना ये श्रद्धया शरणं गताः । कायभेदादिहोत्पन्नास्ते संबुद्धपदलाभिनः ॥ २९.११३{१२} ॥ संति धर्मे प्रसन्ना ये श्रद्धया शरणं गताः । कायभेदादिहोत्पन्नास्ते संबुद्धपदलाभिनः ॥ २९.११४{१३} ॥ सन्ति धर्मे प्रसन्ना ये श्रद्धया शरणं गताः । कायभेदादिहोत्पन्नास्तेऽपि संबोधिलाभिनः ॥ २९.११५{१४} ॥ संति संघे प्रसन्ना ये श्रद्धया शरणं गताः । कायभेदादिहोत्पन्नास्तेऽपि संबोधिलाभिनः ॥ २९.११६{१५} ॥ इति देवाधिपाख्यातं श्रुत्वान्यापि सुरात्मजः । मौद्गल्यं श्रीघनं चापि शक्रं चैक्ष्यैवमब्रवीत् ॥ २९.११७{१६} ॥ विचित्रेयं महासत्व देवसभा विराजते । सन्ति यत्र महात्मानः संबोधिसाधोद्यताः ॥ २९.११८{१७} ॥ सन्ति संघे प्रसन्ना ये सत्कृत्य प्रभजन्ति ते । देहभेदादिहोत्पन्ना भवंति बोधिलाभिनः ॥ २९.११९{१८} ॥ सन्ति धर्मे प्रसन्ना ये भजन्ति श्रद्धया मुदा । देहभेदादिहोत्पन्नास्तेऽपि संबोधिलाभिनः ॥ २९.१२०{१९} ॥ सन्ति बुद्धे प्रसन्ना ये भजंति शरणं गताः । देहभेदादिहोत्पन्नास्तेऽपि संबोधिलाभिनः ॥ २९.१२१{२०} ॥ एवमेतत्समाख्यातं मौद्गल्येन महात्मना । मुनीन्द्रशक्रदेवैश्च श्रुत्वा सर्वे सुरा मुदा ॥ २९.१२२{२१} ॥ प्रबोधिताः परिज्ञाय संबुद्धशरणं ययुः । तत्र सर्वेऽपि ते देवास्त्रिरत्नभजनोद्यताः ॥ २९.१२३{२२} ॥ तत्पुण्यैः श्रोतआपत्तिफलं साक्षात्समाययुः ॥ २९.१२४{२३!} ॥ ततस्तां श्रीघनं नात्वा मौद्गल्यं च प्रसादिताः । ते शक्रादयो देवाः सर्वे स्वस्वालयां ययुः ॥ २९.१२५{२४} ॥ अथ सोऽर्हन्महाभिज्ञो मौद्गल्यायन आत्मवित् । भगवन्तं तमानम्य सांजलिरेवमब्रवीत् ॥ २९.१२६{२५} ॥ भगवन्नाथ सर्वज्ञ भवत्कार्य्यं प्रसिद्ध्यति । (र्म् ३४१) अत्र सर्वे सुरा भद्रैश्चरन्ति बोधिमानसाः ॥ २९.१२७{२६} ॥ तत्तत्रापि मनुष्याणां हिताय भगवानपि । जम्बुद्वीपेऽधुना शास्तः समवतर्त्तुमर्हति ॥ २९.१२८{२७} ॥ इति संप्रार्थिते तेन मौद्गल्येन महात्मना । भगवांस्तं महासत्वं मौद्गल्यमेवमादिशत् ॥ २९.१२९{२८} ॥ साधु गछाधुना तत्र जम्बुद्वीपे निजाश्रमे । गत्वा लोकसभामध्ये स्थित्वैवं संप्रबोधय ॥ २९.१३०{२९} ॥ अवतरेज्जगद्वन्धुरितोऽह्नि सप्तमे दिवः । सांकाशे नगरे ह्यापज्जुरे वन उदुम्वरे ॥ २९.१३१{३०} ॥ इत्यादिष्टं मुनीन्द्रेण श्रुत्वा मौद्गल्य आत्मवित् । तथेति प्रतिविज्ञप्य तथा कर्तुं समैछत ॥ २९.१३२{३१} ॥ अथ स ऋद्धिमान् योगी मौद्गल्यायन आत्मवित् । सांजलिस्तं मुनिं नत्वा समाधिं विदधे तदा ॥ २९.१३३{३२} ॥ ततः सोऽर्हं महाभिज्ञो मौद्गल्योऽन्तर्हितो दिवि । क्षणात्पक्षी यथाकाशाज्जम्बुद्वीपमवातरत् ॥ २९.१३४{३३} ॥ तत्र जेताश्रमे सोऽर्हन्नवतार्य निजाश्रमे । शुभासनसमासीनः प्रभासयन्न्यषीदत ॥ २९.१३५{३४} ॥ तं दृष्ट्वासन आसीनं मौद्गल्यं समुपागतम् । मत्वा ते सांघिकाः सर्वे मुदिताः समुपाचरन् ॥ २९.१३६{३५} ॥ तच्छ्रुत्वा मुदिताः सर्वे लोकाश्चापि नृपादयः । विहारे जेतकारामे सहसा समुपाचरन् ॥ २९.१३७{३६} ॥ तत्रासनसमासीनं मौद्गल्यं तं महर्द्धिकम् । दृष्ट्वा सर्वेऽपि ते नत्वा परिवृत्योपतस्थिरे ॥ २९.१३८{३७} ॥ ततस्ते भिक्षवः सर्वे मौद्गल्यं तं महर्द्धिकम् । कृतांजलिपुटा नत्वा पप्रछुरेवमादरात् ॥ २९.१३९{३८} ॥ भदन्त कुशलं कच्चिद्भवतोऽपि जगद्गुरोः । कुत्र स भगवान् धर्ममादिशंस्तिष्ठते दिवि ॥ २९.१४०{३९} ॥ कदा स भगवांच्छास्ता स्वर्गादिह समाचरेत् । कथं चापि समाख्याति तत्सर्वं समुपादिश ॥ २९.१४१{४०} ॥ इति तैः प्रार्थितं श्रुत्वा स मौद्गल्यायनो यतिः । तां सर्वान् संघिकाल्लोकांश्चापि दृष्ट्वैवमब्रवीत् ॥ २९.१४२{४१} ॥ भवन्तः कुशलं शास्तु मुनीन्द्रस्य ममापि च । युष्माकमपि नाम्नोऽहमवन्दं तं मुनीश्वरम् ॥ २९.१४३{४२} ॥ परिजातमुपाश्रित्य सेन्द्रदेवैः समर्चितः । मातुः स भगवान् धर्ममादिशंस्तिष्ठते दिवि ॥ २९.१४४{४३} ॥ यथा युष्माभिराख्यातं तथा निवेदितं मया । श्रुत्वा स भगवांच्छास्ता ममैवं समुपादिशत् ॥ २९.१४५{४४} ॥ इतोऽह्नि सप्तमे स्वर्गादवतरेय भूतले । सांकाशनगरोपापज्जुरे वने उदुम्वरे ॥ २९.१४६{४५} ॥ इत्यादिश्य मुनीन्द्रेण प्रेषितोऽहमिहाचरे । एतद्यूयं परिज्ञाय प्राभ्यनन्दत सांप्रतम् ॥ २९.१४७{४६} ॥ इति तेनार्हताख्यातं श्रुत्वा ते संघिका मुदा । सेवं नृपादि लोकाश्च प्राभ्यनन्दन् प्रमोदिताः ॥ २९.१४८{४७} ॥ (र्म् ३४२) ततस्ते सांघिकाः सर्वे लोका भूपादयोऽपि च । सांकाशनगरोपापज्जुरे वने उपाचरन् ॥ २९.१४९{४८} ॥ तदा स भगवांस्तत्र स्वर्गे सेन्द्रान् सुरानपि । मातरं समुपामंत्र्य पुर एवमुपादिशत् ॥ २९.१५०{४९} ॥ मातः सेन्द्रादि देवाश्च यूयं सर्वे समादरात् । त्रिरत्नभजनं कृत्वा प्रचरध्वं सदा शुभे ॥ २९.१५१{५०} ॥ गछेयं सांप्रतं धर्ममुपदेष्टुं महीतले । नृणामपि हितार्थेन गन्तुमिछामि नान्यथा ॥ २९.१५२{५१} ॥ इत्यादिष्टं मुनीन्द्रेण सर्वे सेन्द्राः सुरा अपि । मातापि सांजलिर्नत्वा प्रार्थयत्तं मुनीश्वरम् ॥ २९.१५३{५२} ॥ भगवन्नाथ सर्वज्ञ कोऽस्माकं धर्ममादिशेत् । तदत्र कृपया धर्ममादेष्टुं स्थातुमर्हति ॥ २९.१५४{५३} ॥ इति तैः प्रार्थिते भूयो भगवान् स मुनीश्वरः । मातरं तान् सुरान् सर्वान् दृष्ट्वैवं च समादिशत् ॥ २९.१५५{५४} ॥ मातर्नाहं सदैकत्र तिष्ठेयं धर्ममादिशन् । सर्वसत्वहितार्थेन संबुद्धोऽस्मि जगद्गुरुः ॥ २९.१५६{५५} ॥ तन्मातरहमालोक्य मर्त्यानां हितकाम्पया । सद्धर्मामृतसंदानं दातुं गछामि सांप्रतम् ॥ २९.१५७{५६} ॥ इत्यादिष्टं मुनीन्द्रेण श्रुत्वा माता सुरा अपि । सेन्द्राः सर्वेऽपि ते शास्तुः पादाम्बुजे प्रणेमिरे ॥ २९.१५८{५७} ॥ ततस्ते त्रिदशाः सर्वे मातापि तस्य तायिनः । त्रिधा प्रदक्षिणीकृत्य नत्वा स्वस्वालयं ययुः ॥ २९.१५९{५८} ॥ ततः स भगवांस्तत्र देवालये समाहितः । तत्समाधिं समाधाय क्षणादन्तर्हितोऽचरत् ॥ २९.१६०{५९} ॥ ततः स भगवांस्तत्र जम्बुद्वीपे प्रभासयन् । सांकाशनगरोपापज्जुरे दावे उदुम्वरे ॥ २९.१६१{६०} ॥ अवतीर्य क्षणात्तत्र शुद्धासने सुरास्तृते । समाधाय समासीनस्तस्थौ ध्यानसमाहितः ॥ २९.१६२{६१} ॥ तं दृष्ट्वा स्वासनासीनं श्रीघनं समुपागतम् । सर्वे ते सांघिका लोका भूपादयोऽप्युपाचरन् ॥ २९.१६३{६२} ॥ तत्र तं श्रीघनं नत्वा सर्वे ते संप्रमोदिताः । त्रिधा प्रदक्षिणीकृत्य समभ्यर्च्योपतस्थिरे ॥ २९.१६४{६३} ॥ ब्रह्मशक्रादि देवाश्च यक्षगंधर्वकिन्नराः । दैत्या विद्याधरा नागा गरुडाः सिद्धादयोऽपि च ॥ २९.१६५{६४} ॥ श्रीघनं समायातं द्रष्टुं सर्वे समागताः । नत्वा प्रदक्षिणीकृत्य समभ्यर्च्योपतस्थिरे ॥ २९.१६६{६५} ॥ तत्रोपपादुको भिक्षुर्भगवन्तं ससांघिकम् । देवादि सर्वलोकांश्च भोजयितुं न्यमंत्रयत् ॥ २९.१६७{६६} ॥ भगवानपि देवादि लोकाः सर्वे प्रसादिताः । तस्यानुग्रहमाधातुं तथेति प्रत्यमोदयन् ॥ २९.१६८{६७} ॥ अथ स भगवांस्तत्र भोजनसमयागते । संघमेलापने गण्डीमाकोटयन् प्रनादिनीम् ॥ २९.१६९{६८} ॥ तद्गण्डीदेशनाकाले तस्य भिक्षोर्यथेहितम् । तथासनां वस्त्राणि दिव्यानि रुचिरानि च ॥ २९.१७०{६९} ॥ (र्म् ३४३) पूजाङ्गान्यपि दिव्यानि भोज्यपानामृतान्यपि । सर्वाण्युपचारवस्तूनि पुनः प्रादुर्बभूविरे ॥ २९.१७१{७०} ॥ तदा स भिक्षुरालोक्य सर्वसामग्रसंयुतम् । भगवंतं ससंघं तं नत्वैवं प्रार्थयन्मुदा ॥ २९.१७२{७१} ॥ भगवन् भोजनस्यात्र समयो वर्त्ततेऽधुना । तत्ससंघो भवानत्र स्वस्वासने निषीदतु ॥ २९.१७३{७२} ॥ ततः स भगवांस्तत्र पाद्यं गृह्य ससांघिकः । स्वस्वासने समारुह्य समाश्रयद्यथाक्रमम् ॥ २९.१७४{७३} ॥ तथा देवादि लोकाश्च सर्वस्वस्वासनेषु तत् । यथाक्रमं समाश्रित्य संनिषेदुः प्रसादिताः ॥ २९.१७५{७४} ॥ तान् बुद्धप्रमुखान् सर्वान् स्वस्वासनसमाश्रितान् । दृष्ट्वा स मुदितो भिक्षुर्यथाविधिं समर्चयत् ॥ २९.१७६{७५} ॥ ततो दिव्योपचारैस्तैर्भोज्यपानामृतादिभिः । तान् बुद्धप्रमुखान् सर्वन् यथेछैः समतोषयत् ॥ २९.१७७{७६} ॥ संबुद्धप्रमुखाः सर्वे संघा लोकाः सुरादयः । तद्दिव्यभोजनं भुक्त्वा विस्मितास्तृप्तिमाययुः ॥ २९.१७८{७७} ॥ ततः स भिक्षुरालोक्य सर्वान्स्तान् संप्रतोषितान् । तत्पात्राण्यपनीत्वा तद्धस्तादीन् समशोधयत् ॥ २९.१७९{७८} ॥ ततः स भिक्षुरोषध्यताम्बूलादि रसायनैः । तान् बुद्धप्रमुखान् सर्वान् संमोदितानकारयत् ॥ २९.१८०{७९} ॥ तत्रोपपादुको भिक्षुः सांजलिः संप्रमोदितः । ससांघिकं मुनीन्द्रं तं नत्वा तत्पुर आश्रयत् ॥ २९.१८१{८०} ॥ ततः स भगवांस्तस्य भिक्षोर्मत्वा शुभाशयम् । आर्यसत्यं समारभ्य दिदेश धर्ममुत्तमम् ॥ २९.१८२{८१} ॥ तद्धर्मदेशनां श्रुत्वा स उपपादुको यतिः । भित्वाऽविद्यागणं प्राप्तविद्याभिज्ञापदो भवन् ॥ २९.१८३{८२} ॥ पंचगण्डमयं देहं संसारमतिचञ्चलम् । विदित्वा सर्वसंस्कारगतीश्चापि विघातिनीः ॥ २९.१८४{८३} ॥ क्लेशान्मारगणाञ्चापि जित्वार्हत्वमवाप्तवान् । ततः सोऽर्हं महाभिज्ञः परिशुद्धत्रिमंडलः ॥ २९.१८५{८४} ॥ जितेंद्रियो विशुद्धात्मा निर्विकल्पो निरंजनः । संसारलाभसत्कारनिस्पृहस्त्रिजगत्स्वपि ॥ २९.१८६{८५} ॥ वंद्यः पूज्योऽभिमान्योऽभूद्ब्रह्मचारी जिनात्मजः ॥ २९.१८७{८६} ॥ तद्दृष्ट्वा भिक्षवः सर्वे विस्मयाकुलिताशयः । भगवंतं तमानम्य पप्रछुस्तत्पुराकृतम् ॥ २९.१८८{८७} ॥ भगवन् किं पुरानेन भिक्षुणा सुकृतं कृतम् । येनोपपादुकोऽर्हं च भवत्ययं महासुधीः ॥ २९.१८९{८८} ॥ यच्चाप्यस्य यतेर्भिक्षोः प्रार्थितं तत्समृध्यति । एतत्सर्वं समाख्याय सर्वानस्मान् प्रबोधय ॥ २९.१९०{८९} ॥ एवं तैर्भिक्षुभिः प्रार्थिते स मुनीश्वरः । तान् सर्वान् सांघिकाल्लोकान् समालोक्यैवमादिशत् ॥ २९.१९१{९०} ॥ शृणुध्वं भिक्षवानेन भिक्षुणा यत्पुराकृतम् । तत्सर्वं संप्रवक्ष्यामि युष्मच्चित्तप्रबोधने ॥ २९.१९२{९१} ॥ (र्म् ३४४) पुरासीन् भगवान् बुद्धो विपश्ची नाम सर्ववित् । धर्मराजो जगच्छास्ता तथागतो मुनीश्वरः ॥ २९.१९३{९२} ॥ स संबुद्धो जगन्नाथो वन्धुमतो महीपतेः । वन्धुमत्या महापूर्य्या राजधान्या उपाश्रये ॥ २९.१९४{९३} ॥ जिनाश्रमे महोद्याने सर्वसत्वहितेछया । सद्धर्मं समुपादिश्य विजहार ससांघिकः ॥ २९.१९५{९४} ॥ तस्य विपश्चिनः शास्तुः सांघिकाः पंचभिक्षवः । अन्यस्मिन्महोद्याने वर्षासु व्यहरन्स्तदा ॥ २९.१९६{९५} ॥ तत्रैकभिक्षुणा तेषां चतुर्णां ब्रह्मचारिणाम् । वैयावृत्यकृतं कर्म सुप्रसन्नानुचारिणा ॥ २९.१९७{९६} ॥ ततस्ते भिक्षवस्सर्वे चत्वारस्तत्प्रसाधनात् । सर्वविद्यासमुद्युक्ताः समाधिसाधनोद्यताः ॥ २९.१९८{९७} ॥ क्लेसान्मारगणाञ्जित्वा परिशुद्धत्रिमण्डलाः । साक्षादर्हत्त्वसंप्राप्ता बभूवु ब्रह्मवित्तमाः ॥ २९.१९९{९८} ॥ तानर्हतो महाभिज्ञान् दृष्ट्वा स पंचमो यतिः । मुदितस्तच्चरणान्नत्वा प्रणिधानं तथा व्यधात् ॥ २९.२००{९९} ॥ यदेतेभिर्ममागम्य साक्षादर्हत्त्वमागतम् । एतद्धर्मविपाकेन प्रव्रज्यार्हत्त्वमाप्नुयाम् ॥ २९.२०१{१००} ॥ सर्वोपकरणैर्द्रव्यैरवैकल्यं यथेहितम् । तत्तथा सर्वमप्येव सर्वत्रापि समृद्ध्यतु ॥ २९.२०२{१} ॥ एतत्पुण्यविपाकेन स भिक्षुः पंचमः सुधीः । अयमेव महाभिज्ञो भवति हीति मन्यताम् ॥ २९.२०३{२} ॥ पुनरपि भवत्यत्र येनायमुपपादुकः । तत्कर्मं प्रवक्ष्यामि शृणुत यूयमादरात् ॥ २९.२०४{३} ॥ पुरासीद्भगवान् बुद्धः काश्यपो नाम सर्ववित् । अर्हन्नाथो जगच्छास्ता धर्मराजस्तथागतः ॥ २९.२०५{४} ॥ स संबुद्धो महापूर्या वाराणस्या उपाश्रमे । मृगदावेऽदिशद्धर्मं विजहार ससांघिकः ॥ २९.२०६{५} ॥ तस्मिंश्च समये तत्र वाराणस्यं गृहाधिपः । आसीत्तस्य प्रिया भार्य्या गर्भिणी गर्भपीडिता ॥ २९.२०७{६} ॥ प्रसूतिसमयेऽक्रन्ददार्त्तस्वरा विलापिता । तस्या आर्त्तरवं श्रुत्वा स भर्त्ता करुणार्दितः । शोकालये समुद्विग्नः निश्रित्यैवं व्यचिंतयत् ॥ २९.२०८{७} ॥ हा दुःखं गर्ब्भपीडास्या जायते किं करिष्यते । एवं दुःखं हि संसारे रोगिणां भवचारिणाम् ॥ २९.२०९{८} ॥ मातुरेवं महद्दुःखं गर्ब्भस्थस्य शिशोर्न किम् । एतद्दुःखमहं सोढुं न शक्नुयां कथं चन ॥ २९.२१०{९} ॥ तदत्र काश्यपस्याहं शासने शरणं गतः । प्रव्रज्य संवरं धृत्वा चरेयं संवृतिं सदा ॥ २९.२११{१०} ॥ इति निश्चित्य स श्रेष्ठी गत्वा काश्यपशासने । प्रव्रज्य संवरं धृत्वा चचार संवृतिं सदा ॥ २९.२१२{११} ॥ ततः काले समाघ्राते श्रेष्ठी स परिखेदितः । त्रिरत्नस्मरणं कृत्वा प्रणिधानं व्यधात्तदा ॥ २९.२१३{१२} ॥ एतत्पुण्यविपाकेन सर्वदात्र पुनर्भवे । (र्म् ३४५) मातुर्गर्भे ह्यजायेयं भवेयमुपपादुकः ॥ २९.२१४{१३} ॥ एतेन प्रणिधानेन काश्यपशरणं गतः । त्रिरत्नभजनैः कृत्वा प्रचचार समाहितः ॥ २९.२१५{१४} ॥ एतत्पुण्यविपाकेन सार्थवाहः स सन्मतिः । भवत्ययं महाभिज्ञः सांप्रतमुपपादुकः ॥ २९.२१६{१५} ॥ यथानेन तदा तत्र प्रणिधानं कृतं मुदा । तथात्र शासने बौद्धे प्रव्रज्यार्हत्त्वमाप्यते ॥ २९.२१७{१६} ॥ एवं हि मन्यतां सर्वे संसारे कर्म यत्कृतम् । तत्फलं भुज्यते नूनं यथेहितं तथा ध्रुवम् ॥ २९.२१८{१७} ॥ येनैव यत्कृतं कर्मं तेनैव भुज्यते फलम् । अभुक्तं क्षीयते नैव कृतकर्मफलं क्वचित् ॥ २९.२१९{१८} ॥ नाग्निभिर्दह्यते कर्मं क्रियते नापि चोदकैः । वायुभिः शुष्यते नापि क्षीयते नैव भूमिषु ॥ २९.२२०{१९} ॥ अन्याथापि भवेन्नैव यत्कृतं तत्फलं खलु । सर्वत्र भुज्यते सर्वैर्जन्तुभिर्भवचारिभिः ॥ २९.२२१{२०} ॥ कृष्णस्य कर्मणः पाके दुःखतैव सदा भवे । शुभस्य सुखता नित्यं मिश्रितस्यापि मिश्रितम् ॥ २९.२२२{२१} ॥ एवं मत्वात्र संसारे सर्वदा सुखवांछिभिः । त्रिरत्नभजनं कृत्वा चरितव्यं शुभे सदा ॥ २९.२२३{२२} ॥ इत्यादिष्टं मुनीन्द्रेण श्रुत्वा ते भिक्षवस्तथा । सत्यमिति परिज्ञाय प्राभ्यनन्दन् प्रबोधिताः ॥ २९.२२४{२३} ॥ सोऽपि भिक्षुः परिज्ञाय श्रुत्वैवं सुगतोदितम् । प्रबोधितः प्रसन्नात्मा प्राचरन् सर्वदा शुभे ॥ २९.२२५{२४} ॥ इति मे गुरुणादिष्टं श्रुतं मया तथोच्यते । श्रुत्वा राजन्स्त्वयाप्येवं चरितव्यं शुभे सदा ॥ २९.२२६{२५} ॥ प्रजाश्चापि महाराज बोधयित्वा प्रयत्नतः । प्रेरयित्वा शुभे धर्मे पालनीयास्त्वयादरात् ॥ २९.२२७{२६} ॥ एवं ते सर्वदा राजन् सर्वत्रापि शुभं भवेत् । क्रमेण बोधिमासद्य संबुद्धपदमाप्नुयाः ॥ २९.२२८{२७} ॥ इति तेनार्हताख्यातं श्रुत्वाशोकः स भूपतिः । तथेति प्रतिविज्ञप्य प्राभ्यनंदत्सपार्षदः ॥ २९.२२९{२८} ॥ यदावदानं ह्युपपादुकस्य शृण्वंति ये चापि निशामयंति । सर्वेऽपि ते क्लेशविमुक्तदेहा भुक्त्वा सुखं यान्ति जिनालयं ते ॥ २९.२३०{२९} ॥ ++ इति श्रीरत्नावदानतत्वे उपपादुकावदानं समाप्तम् ++ (र्म् ३४६) xxx अनित्यतासूत्र अथाशोको महीपालः कृतांजलिः पुरोगतः । उपगुप्तं यतिं नत्वा पुनरेवमभाषत ॥ ३०.१{१} ॥ भदन्त श्रोतुमिछामि पुनरन्यत्सुभाषितम् । तद्यथा गुरुणादिष्टं तथादेष्टुं च मेऽर्हति ॥ ३०.२{२} ॥ इति संप्रार्थितं राज्ञा श्रुत्वा सोऽर्हं सुधीर्यतिः । उपगुप्तो नरेंद्रं तं समामंत्र्यैवमब्रवीत् ॥ ३०.३{३} ॥ साधु शृणु महाराज तव पुण्यप्रवृद्धये । याथा मे गुरुणाख्यातं तथा मया प्रवक्ष्यते ॥ ३०.४{४} ॥ तद्यथा भगवान् बुद्धः शाक्यसिंहो महामुनिः । एकस्मिन् समये तत्र श्रावस्त्या बहिराश्रमे ॥ ३०.५{५} ॥ जेतोद्याने मनोरम्ये विहारे मणिमण्डिते । सर्वलोकहितार्थेन विजहार ससांघिकः ॥ ३०.६{६} ॥ तत्र स भगवांच्छास्ता सभास्थितः प्रभासयन् । तां सर्वान् सांघिकान् दृष्ट्वा समामंत्र्यैवमादिशत् ॥ ३०.७{७} ॥ अनित्या भिक्षवः सर्वे संस्कारा अध्रुवाः क्षणाः । विपरिणामधर्माणोऽस्थिरा नास्वासिका अपि ॥ ३०.८{८} ॥ यावन्तो भिक्षवः सत्वाश्चतुर्योनिसमुद्भवाः । भौतिकाः प्राणिनः सर्वे जंगमा अचला अपि ॥ ३०.९{९} ॥ एतेऽपि प्राणिनः सर्वे संस्कारभवचारिणः । स्वकृतकर्मभुंजानो भ्रमन्ति षड्गतिष्वपि ॥ ३०.१०{१०} ॥ यावन्तः प्राणिनः सत्वाः सर्वेषु नरकेष्वपि । स्वकृतकर्मभुंजानो भ्रमंति दुःखपीडिताः ॥ ३०.११{११} ॥ ते सर्वेऽपि स्वदैवांत्ते काले मृत्युं व्रजन्त्यपि । कृतकर्मानुसारेण पुनर्भवे भ्रमंति ते ॥ ३०.१२{१२} ॥ कस्य न जन्म मृत्युश्च मरणांतं हि जीवितम् । यावंतः प्रेतिकाः सत्वाः सर्वे प्रेतालयेष्वपि ॥ ३०.१३{१३} ॥ स्वकृतकर्मभुंजानो भ्रमंति दुःखपीडिताः । ते च सर्वेऽपि कर्मांते काले मृत्युं प्रयांत्यपि ॥ ३०.१४{१४} ॥ कृतकर्मानुसारेण पुनर्जन्म लभंति ते । सर्वेषामपि जन्तूनां संस्कारगतिचारिणाम् ॥ ३०.१५{१४!} ॥ कस्य न जन्म मृत्युश्च मरणांतं हि जीवितम् । तिर्यग्गतिषु यावंतस्तिर्यञ्चुः प्राणिनश्च ते ॥ ३०.१६{१५} ॥ सर्वेऽपि कर्मभुंजानो भ्रमंति स्वकृतानुगाः । ते च सर्वेऽपि कर्मान्ते काले मृत्युं व्रजंत्यपि ॥ ३०.१७{१६} ॥ ते च कर्मानुसारेण पुनर्जन्म लभन्त्यपि । (र्म् ३४७) सर्वेषामपि जंतूनां संस्कारगतिचारिणाम् ॥ ३०.१८{१७} ॥ कस्य न जन्म मृत्युश्च मरनांतं हि जीवितम् । यावन्तो मनुजाः सत्वा मर्त्यलोकेषु भूमिषु । स्वकृतकर्मभुंजाना भ्रमंति सुखदुःखिताः ॥ ३०.१९{१८} ॥ ते च सर्वेऽपि कर्मान्ते काले मृत्युं प्रयांत्यपि । ते च कर्मानुसारेण पुनर्जन्म लभंत्यपि ॥ ३०.२०{१९} ॥ ये चापि ब्राह्मणा धीराः सर्वे शास्त्रविचक्षणाः । षट्कर्मनिरता विज्ञाश्चतुर्ब्रह्मविहारिणः ॥ ३०.२१{२०} ॥ तेऽपि सर्वे स्वकर्मानुभुंजानो भवचारिणः । प्रयांति समये मृत्युं कस्य मृत्युर्भवे न हि ॥ ३०.२२{२१} ॥ यावन्तो ऋषयो धीराः पंचाभिज्ञागुणाब्धयः । ते सर्वे समये मृत्युं प्रयांति भवचारिणः ॥ ३०.२३{२२} ॥ ये चापि तीर्थिका धीरा महत्कष्टतपोधराः । तेऽपि च समये मृत्युं गछंति भवगामिनः ॥ ३०.२४{२३} ॥ ये धीरा योगिनश्चापि योगध्यानसमाहिताः । तेऽपि सर्वे प्रयांत्येव समये मरणं ध्रुवम् ॥ ३०.२५{२४} ॥ ये चाप्युपासका धीराः शुद्धशीला व्रतंधराः । ते चापि समये सर्वे प्रयांति मरणं ध्रुवम् ॥ ३०.२६{२५} ॥ ये चापि क्षत्रिया वीरा राजानो लोकपालकाः । तेऽपि सर्वे प्रयांत्येव समये मरणं ध्रुवम् ॥ ३०.२७{२६} ॥ ये चापि मंत्रिणो विज्ञा हितार्थं मंत्रदेशकाः । तेऽपि सर्वे प्रयांत्येव समये मरणं ध्रुवम् ॥ ३०.२८{२७} ॥ ये चाप्येवं महामात्या राज्यपालनतत्पराः । ते सर्वे प्रयान्त्येव समये मरणं ध्रुवम् ॥ ३०.२९{२८} ॥ ये च भट्टा महावीरा दुष्टमर्दनतत्पराः । तेऽपि सर्वे प्रयान्त्येव समये मरणं ध्रुवम् ॥ ३०.३०{२९} ॥ ये चापि धनिनः श्रेष्ठाः साधवो भद्रकारकाः । तेऽपि सर्वे प्रयान्त्येव समये मरणं ध्रुवम् ॥ ३०.३१{३०} ॥ ये चापि वणिजो धीराः सार्थवाहा धनाधिपाः । तेऽपि सर्वे प्रयान्त्येव समये मरणं ध्रुवम् ॥ ३०.३२{३१} ॥ ये चापि शिल्पिनो विज्ञा हितार्थं गुणसाधकाः । तेऽपि सर्वे प्रगछंति समये मरणं ध्रुवम् ॥ ३०.३३{३२} ॥ ये चापि कृषिकर्त्तारः प्राणहितार्थसाधकाः । तेऽपि सर्वे व्रजन्त्येव मरणं समये ध्रुवम् ॥ ३०.३४{३३} ॥ ये च वैश्याः प्रजानाथाः सर्वद्रव्यहितंकराः । तेऽपि सर्वे व्रजन्त्येव समये मरणं ध्रुवम् ॥ ३०.३५{३४} ॥ ये चापि सद्गुणाधाना दैवज्ञा विधिवित्तमाः । ते चापि समये सर्वे प्रयांति मरणं ध्रुवम् ॥ ३०.३६{३५} ॥ ये च वैद्या महाविज्ञाः सर्वरोगशमंकराः । तेऽपि सर्वे व्रजन्त्येव मरणं समये ध्रुवम् ॥ ३०.३७{३६} ॥ ये चपि भौतिका विज्ञाः सर्वभूतप्रशांतकाः । (र्म् ३४८) तेऽपि सर्वे विसंयोगाद्व्रजंति मरणं ध्रुवम् ॥ ३०.३८{३७} ॥ ये चापि मंत्रिणो वीराः सर्वे कर्मार्थसाधकाः । तेऽपि सर्वे विसंयोगात्प्रयांति मरणं ध्रुवम् ॥ ३०.३९{३८} ॥ एवमन्येऽपि लोकाश्च निहीनमध्यमोत्तमाः । सर्वे मृत्युं प्रयान्त्येव कस्य मृत्युर्वशे खलु ॥ ३०.४०{३९} ॥ गंधर्वाश्च महावीरा देवाधिका महर्द्धिकाः । तेऽपि सर्वे व्रजन्त्येव निस्सारा मरणं ध्रुवम् ॥ ३०.४१{४०} ॥ कुम्भाण्डाश्च महावीरा महाभीमा महावलाः । तेऽपि काले प्रयान्त्येव सर्वत्र मरणं ध्रुवम् ॥ ३०.४२{४१} ॥ नागाश्चापि महाभिमा गरुडाश्चा महर्द्धिकाः । तेऽपि सर्वे प्रयान्त्येव काले मृत्युं भवेद्ध्रुवम् ॥ ३०.४३{४२} ॥ यक्षाश्चापि महावीरा देवासुरमहर्द्धिकाः । तेऽपि सर्वे प्रयान्त्येव काले मृत्युं निरुद्यमाः ॥ ३०.४४{४३} ॥ किन्नराश्च महावीराः खगामिनो महर्द्धिकाः । तेऽपि सर्वे निरुत्साहाः काले यान्ति यमालयम् ॥ ३०.४५{४४} ॥ सिद्धाश्चापि महावीराः सर्वकार्यार्थसाधकाः । तेऽपि सर्वे व्रजन्त्येव काले मृत्युं निरुद्यमाः ॥ ३०.४६{४५} ॥ साध्याश्चापि महाधीरः सर्वहितार्थसाधकाः । तेऽपि सर्वे प्रयान्त्येव मरणं सर्वदा ध्रुवम् ॥ ३०.४७{४६} ॥ राक्षसाश्च महाभीमा महावीर्यपराक्रमाः । तेऽपि सर्वे प्रयान्त्येव निवीर्या मरणं ध्रुवम् ॥ ३०.४८{४७} ॥ एवमन्येऽपि सत्वाश्च सिंहव्याघ्रादि जंतवः । पशवः पक्षिणश्चापि क्रिमिकीटादयोऽपि च ॥ ३०.४९{४८} ॥ अण्डजाः स्वेदजाश्चैव सर्वेऽपि प्राणिनोऽपि ते । काले दैवानुभोक्तारो व्रजन्ति मरणं ध्रुवम् ॥ ३०.५०{४९} ॥ दैत्याश्चापि महावीरा माहावीर्या महर्द्धिकाः । तेऽपि सर्वे प्रयांत्येवं समये मरणं ध्रुवम् ॥ ३०.५१{५०} ॥ शक्रादयोऽपि देवेन्द्राः सार्वे देवाः सुधांशिनः । तेऽपि काले दिवश्च्युत्वा भ्रमंति षड्गतिष्वपि ॥ ३०.५२{५१} ॥ अप्सरसोऽपि दिव्यांगा यथाकाम सुखंचराः । ताश्चापि समये सर्वाश्च्युत्वा यांति यमालयम् ॥ ३०.५३{५२} ॥ विद्याधरा महाभिज्ञा यथेछा सुखचारिणः । तेऽपि सर्वे निरुत्साहाः काले यांति यमान्तिके ॥ ३०.५४{५३} ॥ एवमन्येऽपि लोकाश्च जन्मिनो भवचारिणः । सर्वेऽपि कर्मभुंजानः काले मृत्युं व्रजन्त्यपि ॥ ३०.५५{५४} ॥ रसातलचरा ये स्वकृतकर्मभोजिनः । तेषामपि च सर्वेषां मरनांतं हि जीवितम् ॥ ३०.५६{५५} ॥ कामधातुचरा ये च स्वकृते कर्मचारिणः । तेषामपि च सर्वेषां मरणांतं हि जीवितम् ॥ ३०.५७{५६} ॥ रूपधातुगता ये चा ध्यानभोगसमाहिताः । तेषामपि च सर्वेषां मरणांतं हि जीवितम् ॥ ३०.५८{५७} ॥ ये चाप्यारूपिणो देवा निरालोक्या निरंजनाः । तेषामपि च सर्वेषां मरनांतं हि जीवितम् ॥ ३०.५९{५८} ॥ ये चापि भिक्षवोऽर्हन्तो वीतक्लेशा जितेंद्रियाः । (र्म् ३४९) मारचर्याविनिर्मुक्ता निर्विकल्पा निरंजनाः ॥ ३०.६०{५९} ॥ तेषामपि च सर्वेषां मरणांतं हि जीवितम् । कस्य मृत्युर्भवे नास्ति जन्मिनो मरणं ध्रुवम् ॥ ३०.६१{६०} ॥ प्रत्येकसुगता ये च निःक्लेशा विजितेंद्रियाः । निर्विकल्पा निरासंगा एकांतध्यानचारिणः ॥ ३०.६२{६१} ॥ तेषामपि च सर्वेषां मरणांतं हि जीवितम् । कस्य नास्ति भवे मृत्युर्जातस्य मरणं ध्रुवम् ॥ ३०.६३{६२} ॥ बोधिसत्वा महासत्वाः सर्वसत्वहितंकराः । महाभिज्ञा महाधीराश्चतुर्ब्रह्मविहारिणः ॥ ३०.६४{६३} ॥ दशभूमीश्वरा नाथा दशपारमितारताः । सत्वार्थवशिताप्राप्ता धारणीबलसंयुताः ॥ ३०.६५{६७} ॥ तेषामपि च सर्वेषां मरनांतं हि जीवितम् । कस्य नास्ति भवे मृत्युर्जन्मिनो मरणं ध्रुवम् ॥ ३०.६६{६८} ॥ तथागताश्च संबुद्धाः सर्वज्ञाः सुगता जिनाः । मारजितो जगन्नाथाः षडभिज्ञा मुनीश्वराः ॥ ३०.६७{६९} ॥ धर्मराजाः सुशास्तारो दशवला विनायकाः । समंतभद्रकर्त्तारश्चतुर्ब्रह्मविहारिणः ॥ ३०.६८{७०} ॥ ते सर्वे भगवन्तोऽपि त्रैधातुभुवनेष्वपि । बोधिचर्यां कृत्वा समादिश्य सद्धर्मं च समंततः ॥ ३०.६९{७१} ॥ सर्वत्र मंगलं कृत्वा कृत्वा धर्ममयं जगत् । बोधिमार्गे प्रतिष्ठाप्य सर्वसत्वाञ्छुभान्वितान् ॥ ३०.७०{७२} ॥ सर्वसंबुद्धकार्याणि समाप्य परिनिवृताः । सुपरिशुद्धनिर्वाणं समये संव्रजन्त्यपि ॥ ३०.७१{७३} ॥ एवं मत्वात्र संसारे सर्वेषां मरणं ध्रुवम् । सर्वान् संस्कारजान् दुःखान्स्त्यक्तुं प्रारभतोद्यमम् ॥ ३०.७२{७४} ॥ अनित्या वत संस्कारा अविद्याकल्पनोद्भवाः । क्लेशाश्रया महादुःखमूला विध्वंसिनोऽशुभाः ॥ ३०.७३{७५} ॥ तस्मात्संसारदुःखानि त्यक्तुमिछंति ये नराः । ते मायासंरतिं त्यक्त्वा चरंतु बुद्धशासने ॥ ३०.७४{७६} ॥ ये बुद्धशासने भक्त्या त्रिरत्नं शरणं गताः । संबोधिसंवरं धृत्वा संचरंते समाहिताः ॥ ३०.७५{७७} ॥ ते सर्वे शुभात्मानो निःक्लेशा विमलाशयाः । बोधिचर्यां समासाद्य कुर्युस्सत्वहितं सदा ॥ ३०.७६{७८} ॥ ततः पारमिताः सर्वाः परिपूर्य यथाक्रमम् । सम्यक्षंबोधिमासाद्य भवेयुः सुगता जिनाः ॥ ३०.७७{७९} ॥ ततः सर्वत्र लोकेषु कृत्वा लोके सुभद्रताम् । बोधिमार्गे जगल्लोकं प्रतिष्ठाप्य प्रयत्नतः ॥ ३०.७८{८०} ॥ ततो निर्वाणमासाद्य निर्विशेरं जिनालये । तदा ते विमलात्मानो निलीनाः स्यु निजालये ॥ ३०.७९{८१} ॥ एवं मत्वा निजानंदं प्राप्तुं संबोधिसाधने । त्रिकाये वीर्यमुत्थाप्य चरन्तु बुद्धशासने ॥ ३०.८०{८२} ॥ (र्म् ३५०) किं कायेन विना धर्मं वाचापि किं विना गुणम् । मनसो किं विना वीर्य्यं किं वीर्यं संवरं विना ॥ ३०.८१{८३} ॥ यथा पुष्पं तथा देहं यथा पक्वफलं तनुः । क्षणाच्च्युत्वायते भुमौ तथा किं शोभते तनुः ॥ ३०.८२{८४} ॥ कुम्भकारकृतं यद्वन्मृन्मयं मामभाजनम् । तद्वद्देहं क्षणध्वंसि मत्वा चरन्तु संवरम् ॥ ३०.८३{८५} ॥ कदलीस्तम्भसंकाशं निस्सारं भेदनो सहम् । मत्वा देहं समुत्थाय चरन्तु सौगतं वृसम् ॥ ३०.८४{८६} ॥ फेनपिण्डोपमं कायं निर्गुणं क्षणभंगुरम् । मत्वा वीर्यमहोत्साहं धृत्वा चरंतु संवरम् ॥ ३०.८५{८७} ॥ आयुर्देहे स्थिरं नैव तृणं पत्रगताम्बुवत् । मत्वा संबोधिसंप्राप्त्यै चरन्तु सौगतं व्रतम् ॥ ३०.८६{८८} ॥ ये सौगतव्रतं धृत्वा चरंति बोधिलब्धये । दुर्गतिं न गछंति गछंति सद्गतिं सदा ॥ ३०.८७{८९} ॥ तस्मादिछंति ये भद्रं संसारे बोधिसाधनम् । ते त्रिरत्नं सदा भक्त्या भजंतु शरणं गताः ॥ ३०.८८{९०} ॥ त्रिरत्नभजनोत्पन्नं पुण्यं न क्षिणुते क्वचित् । एतत्पुण्यबलेनैव जीयते सर्वपातकम् ॥ ३०.८९{९१} ॥ पुण्यमेव जगन्मित्रं पाप एव जगद्रिपुः । तत्पुण्यमित्रमाराध्य जयंतु पापकं रिपुम् ॥ ३०.९०{९२} ॥ पुण्यवान् पुरुषः श्रेष्ठः सर्वत्र जगते सदा । यथाभिलषितं सौख्यं भुक्त्वा यांति सुखावतिम् ॥ ३०.९१{९३} ॥ इत्येवं भगवानाह श्रुत्वा ते सर्वसांघिकाः । सत्यमिति परिबुद्ध्वा प्रचेरुः सौगतं व्रतम् ॥ ३०.९२{९४} ॥ एतन्मे गुरुणाख्यातं तथा तत्र मयोच्यते । त्वयाप्येवं महाराज चरितव्यं शुभे वृषे ॥ ३०.९३{९५} ॥ प्रजाश्चापि महाराज बोधयित्वा प्रयत्नतः । शुभे धर्मे प्रतिष्ठाप्य पालनीयाः सदादरात् ॥ ३०.९४{९६} ॥ तथा ते मंगलं नित्यं सर्वत्रापि भवेत्सदा । क्रमाद्बोधिं समासाद्य संबुद्धपदमाप्नुयाः ॥ ३०.९५{९७} ॥ इति तेनार्हतादिष्टं श्रुत्वाशोकः स भूमिपः । तथेत्युक्त्वा प्रणत्वा च प्राभ्यनदत्सपार्षदः ॥ ३०.९६{९८} ॥ अनित्यतासूत्रमिदं सुभाष्यं शृण्वन्ति ये चापि नराः प्रसन्नाः । सुखानि भुक्त्वा शुभधर्मरक्ताः सम्यांति चान्ते सुगतालये ते ॥ ३०.९७{९९} ॥ ++ इति श्रीरत्नावदानतत्वेऽनित्यतासूत्रं परिसमाप्तम् ++ (र्म् ३५१) xxxइ प्रेतीभूतावदान अथाशोको महीपालः कृतांजलिः पुरःस्थितः । उपगुप्तं तमानम्य मुदैवं पुनरब्रवीत् ॥ ३१.१{१} ॥ भदन्त श्रोतुमिछामि पुनरन्यत्सुभाषितम् । तद्यथा गुरुणाख्यातं तथादेष्टुं च मेऽर्हति ॥ ३१.२{२} ॥ इति संप्रार्थिते राज्ञा स यतीशः प्रसन्नधीः । तमशोकं महाराजं समालोक्यैवमादिशत् ॥ ३१.३{३} ॥ शृणु साधु महाराज यथा मे गुरुणोदितम् । तथाहं ते प्रवक्ष्यामि श्रुत्वानुमोदनां कुरु ॥ ३१.४{४} ॥ तद्यथा भगवान् बुद्धः शाक्यसिंहो मुनीश्वरः । सर्वज्ञोऽर्हञ्जगच्छास्ता धर्मराजस्तथागतः ॥ ३१.५{५} ॥ पुरैकसमये तत्र श्रावस्त्या बहिराश्रमे । जेतवने महोद्याने विहारे मणिमंडिते ॥ ३१.६{६} ॥ सर्वसत्वहितार्थेन बोधिचर्यां प्रकाशयन् । सद्धर्मं समुपादिश्य विजहार ससांघिकः ॥ ३१.७{७} ॥ तत्र ते भिक्षवोऽर्हन्तः सांघिकाश्चैलका अपि । बोधिसत्वा महासत्वाः सर्वसत्वहितार्थिनः ॥ ३१.८{८} ॥ भिक्षुण्यः शुद्धशीलाश्च व्रतिनश्च शुभाशयाः । त्रिरत्नसेवकाः श्राद्धा उपासका उपासिकाः ॥ ३१.९{९} ॥ सर्वेऽपि सांघिकास्तत्र सद्धर्मं श्रोतुमागताः । क्रमात्तं श्रीघनं नत्वा कृत्वा त्रिधा प्रदक्षिणाम् ॥ ३१.१०{१०} ॥ तत्सभायां क्रमेणैव पुरस्कृत्य समंततः । कृतांजलिपुटो दृष्ट्वा समुपतस्थुरादरात् ॥ ३१.११{११} ॥ तदा तत्र सुरेंद्राश्च सशक्रोजमहेश्वरः । सर्वेऽपि लोकपालाश्च ससैन्यबलवाहनः ॥ ३१.१२{१२} ॥ असुरेन्द्राः ससैन्याश्च यक्षगंधर्वकिंनराः । राक्षसा गरुडा नागाः सिद्धा विद्याधरादयः ॥ ३१.१३{१३} ॥ एवमन्येऽपि लोकाश्च ब्राह्मणाश्च महर्षयः । यतयो योगिनश्चापि तीर्थिकाश्च तपश्विनः ॥ ३१.१४{१४} ॥ राजानः क्षत्रियाश्चापि नृपो राजकुमारकाः । वैश्याश्च मंत्रिणः श्रेष्ठा अमात्याश्च महाजनाः ॥ ३१.१५{१५} ॥ सेनान्यः सबलाश्चापि गृहस्थाः पौरिका जनाः । वणिजः सार्थवाहाश्च धनिनः शिल्पिनोऽपि च ॥ ३१.१६{१६} ॥ अन्ये जानपदाश्चापि ग्राम्याः कार्पटिका अपि । एवमन्येऽपि लोकाश्च सद्धर्मगुणवांछिनः ॥ ३१.१७{१७} ॥ सर्वे तत्र समायाता दृष्ट्वा तं श्रीघनं मुनिम् । नत्वा प्रदक्षिणीकृत्य समभ्यर्च्य क्रमान्मुदा ॥ ३१.१८{१८} ॥ ततः सर्वेऽपि ते नत्वा पुरस्कृत्य समंततः । तत्सद्धर्मामृतं पातुमुपतस्थुः समाहिताः ॥ ३१.१९{१९} ॥ तदा स भगवान् दृष्ट्वा तान् सर्वान् समुपस्थितान् । (र्म् ३५२) बोधिचर्यां समारभ्य दिदेश धर्ममुत्तमम् ॥ ३१.२०{२०} ॥ तत्सद्धर्मामृतं पीत्वा सर्वे लोकाः प्रबोधिताः । संबोधिसाधनोत्साहं लब्ध्वा संमुमुदुर्भृशम् ॥ ३१.२१{२१} ॥ तस्मिंश्च समये तत्र श्रावस्त्ये यो गृहाधिपः । आढ्यो महाधनः श्राद्धः श्रीमाञ्च्छ्रीदोपमः कृती ॥ ३१.२२{२२} ॥ स तदा तत्र संबुद्धं श्रीघनं तं मुनीश्वरम् । द्रष्टुं जेताश्रमे रम्ये विहारे समुपाचरत् ॥ ३१.२३{२३} ॥ तत्र सभासमासीनं श्रीघनं तं मुनीश्वरम् । दृष्ट्वा स मुदितः श्रेष्ठी प्रणत्वा समुपाचरत् ॥ ३१.२४{२४} ॥ तत्र प्रदक्षिणीकृत्वा प्रणत्वा सांजलिर्मुदा । तत्सद्धर्मामृतं पातुं पुरतः समुपाश्रयत् ॥ ३१.२५{२५} ॥ तं दृष्ट्वा समुपासीनं भगवान् स मुनीश्वरः । मत्वा तस्याशयं शुद्धमार्यसत्यमुपादिशत् ॥ ३१.२६{२६} ॥ तदार्यसत्यमाकर्ण्य स श्रेष्ठी प्रतिबोधितः । संसारविरतस्तत्र प्रव्रजितुं समैछत ॥ ३१.२७{२७} ॥ तत्र स सुप्रसन्नात्मा श्रेष्ठी मुदा समुत्थितः । सांजलिस्तं मुनिं नत्वा प्रव्रज्यां समयाचत ॥ ३१.२८{२८} ॥ भगवन्नाथ सर्वज्ञ भवतां शरणं व्रजे । तत्प्रव्रज्यां व्रतं मह्यं कृपया दातुमर्हति ॥ ३१.२९{२९} ॥ इति संप्रार्थिते तेन दृष्ट्वा स भगवान्मुनिः । तस्याशयं विशुद्धत्वं समालोक्यैवमादिशत् ॥ ३१.३०{३०} ॥ यदि श्राद्धास्ति ते वत्स सौगतशासने व्रते । एहि चर समाधाय ब्रह्मचर्यं व्रतोत्तमम् ॥ ३१.३१{३१} ॥ इत्युक्त्वा स जगच्छास्ता सव्यहस्तेन तच्छिरः । संस्पृष्ट्वा शासने बौद्धे श्रेष्ठिनं तं समग्रहीत् ॥ ३१.३२{३२} ॥ तत्र प्रव्रजितस्तेन मुनीन्द्रेण स मुण्डितः । खिक्खिरीपात्रधृग्भिक्षु रराज चीवरावृतः ॥ ३१.३३{३३} ॥ ततः स भिक्षुरात्मज्ञो लाभी लोकाभिपूजितः । आगृहीतपरिष्कारा लब्धद्रव्यं समाचिनोत् ॥ ३१.३४{३४} ॥ तल्लब्धं संचितं द्रव्यं स सह ब्रह्मचारिभिः । संविभागं गुरोः किंचिदप्यकरोत्कदा चन ॥ ३१.३५{३५} ॥ तथा स मत्सराक्रान्तहृदयो दुरिताशयः । स्वयमेव प्रभुंजानः किंचिन्नैव ददौ क्वचित् ॥ ३१.३६{३६} ॥ ततः स समये कालधर्मयुक्तो रुजातुरः । तद्द्रव्यसंचयं स्मृत्वा नितः प्रेतालयं ययौ ॥ ३१.३७{३७} ॥ प्रेतीभूतोऽपि स स्मृत्वा तद्द्रव्यसंचयं पुनः । स्वकोष्ठालय आगत्य तस्थौ स्वासन आश्रयन् ॥ ३१.३८{३८} ॥ ततस्ते भिक्षवः सर्वे तत्कोष्ठे तं मृतकं यतिम् । दृष्ट्वा गण्डीं पराहत्य संस्कार्तुं विधि चार्चयन् ॥ ३१.३९{३९} ॥ ततो नीत्वा बहिर्देशे संस्कृत्य वह्निनापितम् । ततः प्रत्यागताः सर्वे तत्कोष्ठद्वारमाययुः ॥ ३१.४०{४०} ॥ ततस्तल्लयनद्वारं विमुच्य पात्रचीवरम् । प्रत्यवेक्सितुमालब्धास्तं प्रेतं समपश्यत ॥ ३१.४१{४१} ॥ (र्म् ३५३) तं प्रेतं विकृतं पात्रं धृतं चीवरप्रावृतम् । दृष्ट्वा ते भिक्षवः सर्वे समुद्विग्ना विचेरिरे ॥ ३१.४२{४२} ॥ ततस्ते भिक्षवः सर्वे भगवतः पुरोगताः । एतत्सर्वप्रवृत्तांतं प्रणत्वा संन्यवेदयत् ॥ ३१.४३{४३} ॥ तच्छ्रुत्वा भगवांस्तस्य प्रेतस्यानुग्रहार्थतः । स लोकोद्वेजनार्थं च तद्देशं समुपाचरत् ॥ ३१.४४{४४} ॥ तत्रासौ प्रेत आरात्तं भगवंतमुपागतम् । द्वात्रिंसल्लक्षणाशीतिव्यंजनप्रतिमण्डितम् ॥ ३१.४५{४५} ॥ शतसूर्य्याधिकोद्भासं व्यामाभासमलंकृतम् । रत्नांगमिव भद्रांशं ददर्श श्रीघनं मुनिम् ॥ ३१.४६{४६} ॥ तत्र स प्रेत आलोक्य लज्जाविभेदिताशयः । प्ररुदन् सांजलिर्नत्वा तस्थौ प्रसादिताशयः ॥ ३१.४७{४७} ॥ ततः स भगवान् दृष्ट्वा तं प्रेतं संप्रसादितम् । ब्रह्मगम्भीरनिर्घोषवचसा पर्यभाषत ॥ ३१.४८{४८} ॥ भद्रमुख त्वयैवैतदात्मवधाय दुर्धिया । पात्रचीवरमाधाय चरितं संवरं वृथा ॥ ३१.४९{४९} ॥ येनापायसमुत्पन्नः प्रेतीभूतो दुराकृतिः । किमिदानीं रुदित्वात्र स्वकृतं परिभुक्तवान् ॥ ३१.५०{५०} ॥ साध्वत्र सांप्रतं चित्तं प्रसादय ममान्तिके । अस्माच्चापि परिष्कारद्रव्याच्चित्तं विरागय ॥ ३१.५१{५१} ॥ मा हैवेतः पुनः कालं कृत्वा यास्यसि नैरये । तत्संघे शरणं गच्छ तेन त्वं सद्गतिं व्रजे ॥ ३१.५२{५२} ॥ इत्यादिष्टं मुनीन्द्रेण श्रुत्वा स प्रेत उत्थितः । स पात्रचीवरं द्रव्यं संघेभ्यो निरयातयत् ॥ ३१.५३{५३} ॥ ततः संघान् प्रणत्वैव भगवत्पादयो पुरे । निपत्य स्वकृतं पापं दिदेश सांजलिर्मुदा ॥ ३१.५४{५४} ॥ भगवन्नाथ सर्वज्ञ यत्पापं प्रकृतं मया । मात्सर्याक्रान्तचित्तेन महामूढेन दुर्धिया ॥ ३१.५५{५५} ॥ तत्सर्वं सांप्रतं शास्तर्दर्शयामि भवत्पुरः । तत्क्षमस्वापराधं मे प्रसीदतु भवान् गुरुः ॥ ३१.५६{५६} ॥ इति संप्रार्थिते तेन भगवान् स कृपान्वितः । तत्प्रेतं सुदृशालोक्य समपश्यच्चिरं मुदा ॥ ३१.५७{५७} ॥ ततश्च भगवांस्तस्य तदुपायविमुक्तये । सद्गतिप्रेरणार्थेन दक्षिणामेवमादिशत् ॥ ३१.५८{५८} ॥ एतद्दानाद्धि यत्पुण्यं तत्पुण्यं त्वमवाप्नुयाः । उत्तिष्ठ क्षिप्रमेतस्मात्प्रेतलोकात्सुदारुणात् ॥ ३१.५९{५९} ॥ इत्यादिष्टं मुनीन्द्रेण श्रुत्वा प्रेतः स मोदितः । तथेति प्रतिनंदित्वा नत्वानुमोदितोऽभवत् ॥ ३१.६०{६०} ॥ ततः स भगवांस्तस्य प्रेतस्य शुभसाधनम् । सद्धर्मं समुपादिश्य ससंघः स्वाश्रये यथा ॥ ३१.६१{६१} ॥ तथा स प्रेत आकर्ण्य सद्धर्मं तज्जिनोदितम् । त्रिरत्नशरणं कृत्वा भेजे नित्यं प्रबोधितः ॥ ३१.६२{६२} ॥ ततः काले समाघ्रातः च प्रेतो ज्वरदाहितः । (र्म् ३५४) त्रिरत्नस्मरणं कृत्वा मृतो ययौ यमालयम् ॥ ३१.६३{६३} ॥ ततः प्रेतः स सत्पुण्यैस्त्रिरत्नस्मरणोद्भवम् । यमेन प्रेरितस्तस्मात्प्रेतमहर्द्धिके यायौ ॥ ३१.६४{६४} ॥ तत्रापि स समुत्पन्ने विस्मितस्तं मुनीश्वरम् । स्मृत्वा नित्यं सदा भेजे श्रद्धया शरणं गतः ॥ ३१.६५{६५} ॥ ततः सो चिन्तयेदेवं कुतः कुत्राहमागतः । केन पुण्यानुभावेन महत्सौख्यं लभे न्विति ॥ ३१.६६{६६} ॥ इति चिंताहते तस्य चित्तपुण्यानुभावतः । त्रिरत्नस्मरणात्पुण्यादिति मेने स पुण्यभाक् ॥ ३१.६७{६७} ॥ ततश्चासौ परिज्ञाय त्रिरत्नभजनोत्सुकः । संबुद्धदर्शनं कर्त्तुं मनसैवं व्यचिंतयत् ॥ ३१.६८{६८} ॥ अहो मया सुखं लब्धं तत्संबुद्धप्रसादतः । तदिदानिं मुनींद्रं तं द्रष्टुमर्हामि सर्वथा ॥ ३१.६९{६९} ॥ इत्येवं मनसा ध्यात्वा सोऽपि प्रेतमहर्द्धिकः । स्नात्व शुद्धाम्वरो दिव्यरत्नालंकारभूषितः ॥ ३१.७०{७०} ॥ पंचगंधविलिप्तांगं परिशुद्धाशयः शुचिः । पूजापंचोपहाराणि धृत्वा जेताश्रमेऽसरत् ॥ ३१.७१{७१} ॥ तत्र जेताश्रमे भाभिरवभास्य समंततः । विहारे श्रीघनं द्रष्टुं मुदितः समुदाचरत् ॥ ३१.७२{७२} ॥ तत्र तं श्रीघनं दृष्ट्वानंदितः स कृतांजलिः । नत्वा प्रदक्षिणीकृत्य पुरतः समुपाचरत् ॥ ३१.७३{७३} ॥ ततस्तं सुगतं नाथं समभ्यर्च्य प्रमोदितः । नत्वा स सांजलिर्धर्मं श्रोतुमेकांत आश्रयत् ॥ ३१.७४{७४} ॥ ततः स भगवांस्तस्य दृष्ट्वा चित्तं विशोधितम् । बोधिचर्यां समारभ्य सद्धर्ममेवमादिशत् ॥ ३१.७५{७५} ॥ शृणु साधोऽत्र संसारे सुखदुःखार्थकारणम् । वक्ष्याम्येतत्परिज्ञाय समाधाय शुभे चर ॥ ३१.७६{७६} ॥ यः पुमानत्र संसारे सत्सौख्यं सर्वदेछति । स आदौ श्रद्धया भक्त्या त्रिरत्नशरणं गतः ॥ ३१.७७{७७} ॥ सर्वसत्वहितार्थेन दानं दद्याद्यथेप्सितम् । एतत्पुण्यविपाकं संबोधौ मे परिणामयेत् ॥ ३१.७८{७८} ॥ इत्थं कृतं प्रदानं यत्तद्विपाके महत्फलम् । क्रमाद्वृद्धितरं यायान्न क्षिणुयात्कदा चन ॥ ३१.७९{७९} ॥ एतत्पुण्यपरीतात्मा चक्रवर्त्ती नराधिपः । शास्ता धर्माधिपो राजा बोधिसत्वः सुधीर्भवेत् ॥ ३१.८०{८०} ॥ तदापि स महादाता सर्वसत्वहितेछया । त्रिरत्नभजणं कृत्वा दद्याद्दानं यथेप्सितम् ॥ ३१.८१{८१} ॥ एतत्पुण्यविपाकेन स विशुद्धाशयः सुधीः । सुशीलसंवरं धृत्वा त्रिरत्नं सर्वदा भजन् ॥ ३१.८२{८२} ॥ एतत्पुण्यविपाकेन स भवेत्त्रिदशाधिपः । तत्रापि श्रद्धया नित्यं त्रिरत्नं सर्वदा भजन् ॥ ३१.८३{८३} ॥ सर्वसत्वहितार्थेन शीलपारमिता चरन् । तत्पुण्यं बोधिसंप्राप्त्यै मनसा परिणामयेत् ॥ ३१.८४{८४} ॥ एतत्पुण्यविपाकेन स सुयामाधिपो भवेत् । (र्म् ३५५) तत्रापि श्रद्धया नित्यं त्रिरत्नभजनोद्यतः ॥ ३१.८५{८५} ॥ सर्वसत्वहितार्थेन क्षांतिपारमिता चरन् । संबोधिपदलाभाय तत्पुण्यं परिणामयेत् ॥ ३१.८६{८६} ॥ एतत्पुण्यविपाकेन स भवेत्तुषिताधिपः । तत्रापि श्रद्धया नित्यं त्रिरत्नशरणं गतः ॥ ३१.८७{८७} ॥ सर्वसत्वहितार्थेन वीर्य्यपारमितोद्यतः । संबोधिपदसंप्राप्त्यै तत्पुण्यं परिणामयेत् ॥ ३१.८८{८१!} ॥ एतत्पुण्यविपाकैः स निर्माणरतियो भवेत् । तत्रापि श्रद्धया नित्यं त्रिरत्नभजनोद्यतत् ॥ ३१.८९{८२} ॥ सर्वसत्वहितार्थेन ध्यानपारमितारतः । संबोधिज्ञानसंप्राप्त्यै तत्पुण्यं परिणामयेत् ॥ ३१.९०{८३} ॥ एतत्पुण्यविपाकैः स वशवर्तीश्वरो भवेत् । तत्रापि श्रद्धया नित्यं त्रिरत्नभजनो रतः ॥ ३१.९१{८४} ॥ सर्वसत्वहितार्थेन प्रज्ञापारमितारतः । तत्पुण्यं बोधिसंप्राप्त्यै मनसा परिणामयेत् ॥ ३१.९२{८५} ॥ एतत्पुण्यविपाकेन स ब्रह्माधिपतिर्भवेत् । तत्रापि श्रद्धया नित्यं त्रिरत्नारागणोद्यतः ॥ ३१.९३{८६} ॥ सर्वसत्वहितार्थाय समुपायविधानधृक् । तत्पुण्यं बोधिसंप्राप्त्यै चेतसा परिणामयेत् ॥ ३१.९४{८७} ॥ एतत्पुण्यविपाकेन महाब्रह्माधिपो भवेत् । तत्रापि श्रद्धया नित्यं त्रिरत्नाराधनोद्यतः ॥ ३१.९५{८८} ॥ सर्वसत्वहितार्थाय प्रणिधानसमाहितः । तत्पुण्यं बोधिसंप्राप्त्यै सर्वथा परिणामयेत् ॥ ३१.९६{८९} ॥ एतत्पुण्यविपाकेन स महेशाधिपो भवेत् । तत्रापि श्रद्धया नित्यं त्रिरत्नभजनोद्यतः ॥ ३१.९७{९०} ॥ सर्वसत्वहितार्थेन बलपारमितोद्यतः । तत्पुण्यं बोधिसंप्राप्त्यै प्रध्यानं परिणामयेत् ॥ ३१.९८{९१} ॥ एतत्पुण्यविपाकेन बोधिसत्वाधिपो भवेत् । तत्रापि श्रद्धया नित्यं त्रिरत्नसंप्रसादितः ॥ ३१.९९{९२} ॥ सर्वसत्वहितार्थस्य ज्ञानपारमितारतः । तत्पुण्यैर्बोधिसंप्राप्तो धर्मराजो जिनो भवेत् ॥ ३१.१००{९३} ॥ ततः स सुगतः शास्ता जगन्नाथो विनायकः । सर्वज्ञोऽर्हन्महाभिज्ञस्तथागतो मुनीश्वरः ॥ ३१.१०१{९४} ॥ ततो मारगणाञ्जित्वा बोधिचर्यां प्रकाशयन् । सर्वसत्वाञ्छुभे स्थाप्य निर्वृतः सौगतिं व्रजेत् ॥ ३१.१०२{९५} ॥ एवं मत्वात्र संसारे य इछति शिवां गतिम् । स एवं श्रद्धया नित्यं त्रिरत्नभजनोद्यतः ॥ ३१.१०३{९६} ॥ सर्वसत्वहितार्थेन करोतु दानमादरात् । ततः क्रमात्स तत्पुण्यैः सर्वाः पारमिता अपि ॥ ३१.१०४{९७} ॥ परिपूर्य महाभिज्ञा प्राप्तो बोधिमवाप्नुयात् । इति मत्वा शुभे नित्यं चरितव्यं शुभार्थिभिः ॥ ३१.१०५{९८} ॥ शुभेन सद्गतिं याया पापेन दुर्गतीं व्रजेत् । पापस्तु जायते लोभात्मात्सर्यमलिनाश्रयात् ॥ ३१.१०६{९९} ॥ वोपकारां सुखेछोऽपि न किं चित्सुखमाप्नुयात् । सर्वदा दुर्मतिर्दुष्टो दुर्गतिनिरयाश्रयः ॥ ३१.१०७{१००} ॥ (र्म् ३५६) सद्धर्म्मनिन्दको मूढो पापकर्मरतो भवेत् । तस्मात्मात्सर्य्यमुत्सृज्य सर्वसत्वहितार्थभृत् । संबोधिप्रणिधिं कृत्वा चरेन्नित्यं सुसंवरे ॥ ३१.१०८{१} ॥ एतत्पुण्यविपाकेन संसारसुखभाक्सदा । त्रिरत्नभजनोत्साही बोधिचर्यारतो भवेत् ॥ ३१.१०९{२} ॥ ततः पारमिताः सर्वाः परिपूर्य यथाक्रमम् । शिवां बोधिं समासाद्य संबुद्धपदमाप्नुयात् ॥ ३१.११०{३} ॥ एवं त्वं वा परिज्ञाय त्रिरत्नशरणं गतः । बोधिचित्तं समाधाय चर नित्यं सुसंवरे ॥ ३१.१११{४} ॥ तथा ते सर्वदा भद्रं भवेन्नित्यं समन्ततः । क्रमाद्बोधिं समासाद्य संबुद्धपदमाप्नुयाः ॥ ३१.११२{५} ॥ इत्यादिष्टं मुनीन्द्रेण श्रुत्वा स परिबोधितः । तथेति हि प्रतिश्रुत्वा प्राभ्यनंदत्प्रसादितः ॥ ३१.११३{६} ॥ ततः स तं जगन्नाथं प्रणत्वा सांजलिर्मुदा । त्रिधा प्रदक्षिणीकृत्वा प्रणत्वा स्वालयेऽचरत् ॥ ३१.११४{७} ॥ तत्र प्राप्तः प्रसन्नात्मा सोऽपि प्रेतमहर्द्धिकः । त्रिरत्नं शरणं कृत्वा प्रचरन् सर्वदा मुदा ॥ ३१.११५{८} ॥ तद्रात्रौ तत्प्रभां दृष्ट्वा भिक्षवो विस्मयान्विताः । सर्वे ते प्रातरुत्थाय नत्वापृछन्मुनीश्वरम् ॥ ३१.११६{९} ॥ भगवन्नाथ सर्वज्ञ कोऽद्य रात्राविहागतः । एतद्वृत्तं समाख्याय सर्वान्नः परिबोधय ॥ ३१.११७{१०} ॥ इति तैर्भिक्षुभिः पृष्टे भगवान् स मुनीश्वरः । तान् सर्वान् सांघिकान् दृष्ट्वा बोधयितुमुपादिशत् ॥ ३१.११८{११} ॥ शृणुत भिक्षवः सर्वे योऽद्य रात्राविहागतः । एतत्सर्वं प्रवृत्तांतं प्रवक्ष्यामि सुविस्तरम् ॥ ३१.११९{१२} ॥ योऽसौ श्रेष्ठी महाश्राद्धः सौगते शासने मुदा । श्रद्धया प्रव्रजित्वात्र ब्रह्मचर्यं मुदा चरन् ॥ ३१.१२०{१३} ॥ प्रव्रजितः स मात्सर्यपरिभूतो दुराशयः । लब्धद्रव्यं न कस्मै चिद्ददौ किञ्चित्कदा चन ॥ ३१.१२१{१४} ॥ केवलं संचयं कृत्वा कोष्ठागारे निधाय तत् । गुप्तीकृत्वा प्रयत्नेन व्यभजन्नैव किं चन ॥ ३१.१२२{१५} ॥ ततः काले समाघ्राते ध्यात्वा तद्द्रव्यसंचयम् । मृतः प्रेतालयोत्पन्नः प्रेतोद्भवद्भयानकः ॥ ३१.१२३{१६} ॥ तद्द्रव्यसंचयं स्मृत्वा मात्सर्याकुलिताशयः । पुनः प्रत्यागतस्तत्र स्वालये संन्यषीदत ॥ ३१.१२४{१७} ॥ तत्र तं संस्थितं प्रेतं दृष्ट्वाहं समुपाचरन् । आर्यधर्ममुपादिश्य प्राबोधयं प्रसादयन् ॥ ३१.१२५{१८} ॥ ततः स सुप्रसन्नात्मा ससंघस्य ममांतिके । स पात्रचीवरं सर्वं तद्द्रव्यं निरयातयत् ॥ ३१.१२६{१९} ॥ एतत्पुण्यानुभावेन त्रिरत्नशरणं गतः । काले ततः परिच्युत्वा प्रेतमहर्द्धिकोऽभवत् ॥ ३१.१२७{२०} ॥ तत्र स सुप्रसन्नात्मा स्मृत्वा रत्नत्रयं मुदा । मत्सद्धर्मामृतं पातुमिह रात्रौ समागतः ॥ ३१.१२८{२१} ॥ (र्म् ३५७) स सद्धर्मामृतं पीत्वा ममान्तिके प्रसादितः । संबोधिसाधनोत्साही मुदितः स्वालयेऽचरत् ॥ ३१.१२९{२२} ॥ योऽयं श्रेष्ठी न चान्यो हि रात्राविह समागतः । यत्स मृतोऽभवत्प्रेतस्मात्सर्यदुरिताश्रयात् ॥ ३१.१३०{२३} ॥ तस्मात्मात्सर्यमुद्धृत्य त्यजन्तु शुभवांछिनः । मात्सर्यं हि त्रिलोकेषु पापमूलं निगद्यते ॥ ३१.१३१{२४} ॥ एवं मत्वात्र संसारे दुःखाकरं सुखांतकम् । मात्सर्यं सुमदुष्टं रिपुं जयत सर्वथा ॥ ३१.१३२{२५} ॥ मात्सर्यं जीयते यैर्हि समुद्धृत्य स्वमानसात् । ते एव मानिनो वीराः शूराः प्राज्ञा विचक्षणाः ॥ ३१.१३३{२६} ॥ ये च जेतुं न मात्सर्यं शक्नुवंति कथं चन । किं ते शूरा विजेतारो विरा न क्लेशभोजिनः ॥ ३१.१३४{२७} ॥ येषां न जायते चित्ते मात्सर्यन् दुःकृताकरम् । ते एव सुखिनो विरा जयिनः क्लेशघातकाः ॥ ३१.१३५{२८} ॥ यावन्न जीयते चित्ते मात्सर्यं दुरिताशयम् । तावत्किं ते सुवीरा वा क्षणात्क्लेशानुचारिणः ॥ ३१.१३६{२९} ॥ ये च क्लेशवशा वीरा न ते धीरा विचक्षणाः । क्षणात्किं चिन्निमित्तेति चरेयुर्विकृताशयाः ॥ ३१.१३७{३०} ॥ ततस्ते क्लेशसंतप्ता मूढा रागाग्निदाहिताः । दुष्टाः क्रोधाग्निसंदग्धाः संपश्येयुर्न किं चन ॥ ३१.१३८{३१} ॥ ततस्तेऽन्धा इवालोके चरेयुर्न च सत्पथे । कुमार्ग एव संरक्ताः प्रचरेयुः प्रमादिताः ॥ ३१.१३९{३२} ॥ ततो दुर्जनसंरक्ता मारचर्यानुचारिणः । असन्मित्रोपदेशेन प्रचरेयुर्मृषादृशः ॥ ३१.१४०{३३} ॥ ततः सद्धर्मनिन्दां कृत्वा दानादि संचरे । विघ्नं कर्तुं समुद्योगं कुर्युर्नित्यं समाहिताः ॥ ३१.१४१{३४} ॥ ततस्ते पापिनो दुष्टा उन्मत्ता इव तायिनः । स्वयं नष्टाः परांश्चापि नाशयेयुः प्रवंचकाः ॥ ३१.१४२{३५} ॥ ततस्ते क्लेशसंतप्ता महोपायानुरागिणः । सुघोराणि पापानि कुर्यात्तिः शंकिताशयाः ॥ ३१.१४३{३६} ॥ ततो भक्षमपीछंतं भुक्त्वागम्येऽपि संरताः । विपरीतसमाचाराः प्रचारेयुर्विरोधिताः ॥ ३१.१४४{३७} ॥ ततस्ते पातकालीढा महादुःखाभिघातिताः । तीव्रातिवेदनाघ्राता मृता यायुर्यमालयम् ॥ ३१.१४५{३८} ॥ तत्र यमो महाराजा दृष्ट्वा तं दुरिताशयम् । सहसा कर्मशासिभ्यः समर्प्य संप्रचोदयन् ॥ ३१.१४६{३९} ॥ तत्र तैर्यमदूतास्तां गृहीत्वा सहसा बलात् । यथा कर्मानुसारेण शासयेयुर्यथाविधिम् ॥ ३१.१४७{४०} ॥ तत्र ते दैवभोग्यां भुक्त्वा भोक्तुं समंततः । चोदिता यमदूतैश्च भ्रमेयुर्नरकेष्वपि ॥ ३१.१४८{४१} ॥ तत्र ते दैवभोग्यानि भुक्त्वातितीव्रदुःखिताः । असह्यवेदनाक्रांता निषीदेयुः प्रखेटिताः ॥ ३१.१४९{४२} ॥ एवं ते दैवभोग्यां भुक्त्वा तथा चिरं सदा । (र्म् ३५८) नरकान्नरके गत्वा दुःखान्येवाश्नुयु वभ ॥ ३१.१५०{४३} ॥ यदा ते दैवयोगान्ते तीव्रातिवेदनाहताः । त्रिरत्नसंस्मृतिं कृत्वा प्रणमेयुः समानताः ॥ ३१.१५१{४४} ॥ तदा तान् सुगतान् दृष्ट्वा कृपया संप्रचोदिताः । दृक्प्रभाभिः समुद्धृत्य प्रेषयेयुः सुरालये ॥ ३१.१५२{४५} ॥ तत्र ते सुखसंपन्नाः स्मृत्वा रत्नत्रयं मुदा । सर्वदा शरणं कृत्वा प्रचरेयुः समाहिताः ॥ ३१.१५३{४६} ॥ तथैतत्पुण्यपाकेन संबुद्धशासने गताः । श्रद्धया सत्कृतिं कृत्वा शृणुयुर्धर्ममादरात् ॥ ३१.१५४{४७} ॥ तत्सद्धर्मामृतास्वादं लब्ध्वा ते परिमोदिताः । बोधिचित्तं समासाद्य प्रकुर्यु दानमादरात् ॥ ३१.१५५{४८} ॥ ततस्तत्पुण्यपाकेन सुशीलाः संवरोद्यताः । सर्वसत्वहितं कृत्वा साधयेयुः शुभां चरिम् ॥ ३१.१५६{४९} ॥ ततो वीर्यबलेनैव जित्वा क्लेशगणान् रिपून् । ततस्ते विमलात्मानो ध्यात्वा योगसमाहिताः ॥ ३१.१५७{५०} ॥ प्रज्ञाब्धिपारमासाद्य ज्ञानरत्नमवाप्नुयुः । ततो मारगणां जित्वा परिशुद्धास्त्रिमण्डलाः ॥ ३१.१५८{५१} ॥ सम्यक्षंबोधिमासाद्य संबुद्धपदमाप्नुयुः ॥ ३१.१५९{५२} ॥ एवं मत्वात्र संसारे मात्सर्यं मूलमेनसाम् । बोधिचित्तासिनोछित्वा चरितव्यं शुभे सदा ॥ ३१.१६०{५३} ॥ ततो वो मंगलं नित्यं भवेद्भवे समंततः । क्रमाद्बोधिं समासाद्य संबुद्धपदमाप्स्यथ ॥ ३१.१६१{५४} ॥ इत्यादिष्टं मुनीन्द्रेण श्रुत्वा ते सांघिका मुदा । सर्वेऽपि प्रतिबुद्धित्वा प्राभ्यनंदन् प्रसादिताः ॥ ३१.१६२{५५} ॥ इति मे गुरुणादिष्टं श्रुतं मया तथोच्यते । एवं त्वं नृप मात्सर्य्यं त्यक्त्वा चर शुभे सदा ॥ ३१.१६३{५६} ॥ प्रजाश्चापि त्वया राजन् बोधयित्वा प्रयत्नतः । बोधिचर्याशयाः कृत्वा प्रतिष्ठाप्याः शुभे सदा ॥ ३१.१६४{५७} ॥ एवं ते सर्वदा भद्रं भवेद्भवे समंततः । क्रमाद्बोधिं समासाद्य संबुद्धपदमाप्नुयाः ॥ ३१.१६५{५८} ॥ इति तेनार्हतादिष्टं श्रुत्वाशोकः स भूपतिः । तथेति प्रतिविज्ञप्य प्राभ्यनन्दत्सपार्षदः ॥ ३१.१६६{८९!} ॥ प्रेतीभूतावदानं दुरितहृतमतैः श्रेष्ठिनो लोभिनो ये शृण्वंति श्रवयंति प्रमुदितमनसः श्रद्धयेदं मनुष्याः । मात्सर्यं ते विहाय त्रिमणिशरणगाः सर्वसत्वानुरागा दानं दत्वा प्रसन्नाः सततशुभचरा यान्ति बुद्धालयं ते ॥ ३१.१६७{६०} ॥ ++ इति श्रीरत्नावदानतत्वे प्रेतीभूतावदानं समाप्तम् ++ (र्म् ३५९) xxxइइ विरूपावदान अथाशोको महराजः कृतांजलिपुटो मुदा । उपगुप्तं यतिं नत्वा प्रार्थयेच्चैवमादरात् ॥ ३२.१{१} ॥ भदन्त श्रोतुमिछामि पुनरन्यत्सुभाषितम् । तद्यथा गुरुणादिष्टं तथादेष्टुं च मेऽर्हति ॥ ३२.२{२} ॥ इति संप्रार्थिते राज्ञा श्रुत्वा सोऽर्हन् सुधीर्यतिः । तमशोकं महाराजं समालोक्यैवमादिशत् ॥ ३२.३{३} ॥ साधु शृणु महाराज यथा मे गुरुणोदितम् । तथाहं ते प्रवक्ष्यामि तव धर्मप्रवृद्धये ॥ ३२.४{४} ॥ तद्यथैवं पुरैकस्मिन् समये स मुनीश्वरः । भगवां त्रिजगच्छास्ता धर्मराजस्तथागतः ॥ ३२.५{५} ॥ सर्वज्ञः साक्यसिंहोऽर्हं छ्राव्स्त्या बहिराश्रमे । जेतोद्याने विहारेऽस्मिन् विजहार ससांघिकः ॥ ३२.६{६} ॥ तदा तत्र सभामध्ये सिंहासने सुमंडिते । सर्वसत्वहितार्थेन धर्ममादेष्टुमाश्रयत् ॥ ३२.७{७} ॥ तत्र ते भिक्षवः सर्वे भिक्षुण्योऽपि समागताः । यतिनश्चैलकाश्चैवमुपासका उपासिकाः ॥ ३२.८{८} ॥ व्रतिनो बोधिसत्वाश्च संबोधिगुणलालसाः । निर्ग्रन्थास्तीर्थिकाश्चापि तापसाश्च महर्षयः ॥ ३२.९{९} ॥ ब्रह्मशक्रादयो देवा लोकपाला महर्द्धिकाः । दैत्या यक्षाश्च गंधर्वाः किन्नराश्चापि राक्षसाः ॥ ३२.१०{१०} ॥ सिद्धा विद्याधराश्चापि नागाश्च गरुडा अपि । साध्या ग्रहाः सताराश्च वसवश्चाप्सरोगणाः ॥ ३२.११{११} ॥ ब्राह्मणाः क्षत्रियाश्चापि नृपा राजकुमारकाः । वैश्याश्च मंत्रिणोऽमात्याः श्रेष्ठिनश्च महाजनाः ॥ ३२.१२{१२} ॥ गृहस्था वणिजः सार्थवाहाश्च धनिनोऽपि च । शिल्पिनः पौरिकाश्चापि जानपदाश्च नैर्गमाः ॥ ३२.१३{१३} ॥ ग्राम्याः कार्पटिकाश्चापि सद्धर्मश्रवणार्थिनः । सर्वे ते समुपागत्य विहारे समुपाविशन् ॥ ३२.१४{१४} ॥ तत्र तं श्रीघनं दृष्ट्वा सर्वे ते संप्रसादिताः । नत्वा प्रदक्षिणीकृत्य पुरतः समुपाचरन् ॥ ३२.१५{१५} ॥ तत्र सर्वेऽपि ते लोकाः समभ्यर्च्य यथाक्रमम् । तं मुनीन्द्रं प्रणत्वैव धर्मं श्रोतुमुपाश्रयन् ॥ ३२.१६{१६} ॥ ततः स भगवान् दृष्ट्वा तान् सर्वान् समुपाश्रितान् । बोधिचर्यां समारभ्य सद्धर्मं समुपादिशत् ॥ ३२.१७{१७} ॥ तत्सद्धर्मामृतं पीत्वा सर्वे ते त्रिदशादयः । लोकाः सत्यमिति ज्ञात्वा प्राभ्यनन्दन् प्रबोधिताः ॥ ३२.१८{१८} ॥ (र्म् ३६०) तस्मिन्नवसरे तत्र श्रावस्त्याः पौरिको गृही । आसीन्महाधनः श्रीमाञ्छृदोपमो महाजनः ॥ ३२.१९{१९} ॥ स स्वकुलसमारामां स्वकुलधर्मचारिणीम् । कांतां भार्य्यां समानीय सम्यक्व्यूहे यथाविधिः ॥ ३२.२०{२०} ॥ ततः स कामसंरक्तः सुकामिन्या तया सह । यथेछया सुखं भुक्त्वा रेमे नित्यं प्रचोदितः ॥ ३२.२१{२१} ॥ ततस्तस्य गृहस्थस्य यथाकामं प्रभुंजतः । समये सा सती भार्य गर्भिताभूत्कृशांगिका ॥ ३२.२२{२२} ॥ ततः सा समयेऽसूत दारकं दुर्भगाकृतिम् । दुर्वर्णं दुरिताकारं विरूपं विकृताश्रयम् ॥ ३२.२३{२३} ॥ दृष्ट्वा तं दारकं माता भिन्नाशया विषेदिताः । किमीदृगात्मजेनापि धिग्मामिति व्यचिंतयत् ॥ ३२.२४{२४} ॥ ततः स जनकः श्रुत्वा तं जातं विकृताश्रयम् । विरूपं दुर्भगाकारमित्येवं समचिंतयत् ॥ ३२.२५{२५} ॥ अहो किं प्रकृतं पापं जन्मांतरे पुरा मया । येनायं दुर्भगाकारो विरूपो जायते सुतः ॥ ३२.२६{२६} ॥ तदत्र किं मयोपायं कर्त्तव्यं नापि मन्यते । धिग्मां येन सुते जाते लज्जया मे सुखं हृतम् ॥ ३२.२७{२७} ॥ तथापि किं करिष्यामि दैवात्मे जायते ह्ययम् । तद्विरूपोऽपि पुत्रोऽयं पालनीयो मयात्मजः ॥ ३२.२८{२८} ॥ इति भर्त्रोदितं श्रुत्वा सा भार्य्याप्येवमब्रवीत् । यदाभ्यां प्रकृतं पापं तत्फलं भुज्यते खलु ॥ ३२.२९{२९} ॥ यदभावि न तद्भोग्यं भावि चेन्न तदन्यथा । सर्वत्र भाविनो भोग्यं भुंजते सर्वजंतवः ॥ ३२.३०{३०} ॥ तदत्राहमिमं बालं पालयेयं प्रयत्नतः । इत्युक्त्वा सा विभिन्नास्या नारी तस्थौ प्रलज्जिता ॥ ३२.३१{३१} ॥ तं विरूपं सुतं जातं वीक्ष्य स जनकोऽपि च । लज्जाविदीर्णचित्तोऽभून्निरुत्साहविषादितः ॥ ३२.३२{३२} ॥ हा मया किं कृतं पापं मन्यते न भवांतरे । यतोऽयं दारको जातो विरूपो दुर्भगाकृतिः ॥ ३२.३३{३३} ॥ तथापि किं करिष्यामि दैवान्नो जायते ह्ययम् । दैवभोग्यं प्रभोक्तव्यं सर्वैरपि हि जंतुभिः ॥ ३२.३४{३४} ॥ अवश्यं भाविनो भवन्ति सर्वदेहिनाम् । तदयं स्वात्मजो बालः पालनीयोत्मया मया ॥ ३२.३५{३५} ॥ इति ध्यात्वा पिता सोऽथदृष्ट्वा तस्य शिशोर्मुखम् । लज्जया प्रतिभिन्नास्यस्तस्थौ दैवानुचिन्तयन् ॥ ३२.३६{३६} ॥ ततो ज्ञातीन् समाहूय कृत्वा जातिमहं स च । पितास्य नाम विख्याते कुरुतेति समब्रवीत् ॥ ३२.३७{३७} ॥ ततस्ते ज्ञातयः सर्वे संकृत्वा समतं तथा । तद्गृहस्थं समामंत्र्य पुर एवमुपादिशन् ॥ ३२.३८{३८} ॥ गृहपते विरूपोऽयं पुत्रो यत्तव जायते । तस्माद्भवतुनाम्नायं प्रसिद्धो बालको भुवि ॥ ३२.३९{३९} ॥ (र्म् ३६१) ततः स्नेहाद्विरूपोऽसौ मात्रा यत्नेन पालितः । क्रामात्पुष्टो विवृद्धाभूध्रदस्थमिव पंकजम् ॥ ३२.४०{४०} ॥ तदा यदा कुमारत्वं प्राप्तः स विकृताश्रयम् । स्वरूपं दर्प्पणे दृष्ट्वा विरूपो लज्जितोऽभवत् ॥ ३२.४१{४१} ॥ ततो जेह्रीयमानोऽसौ विरूपः परिमोहितः । पापचिंतापरितात्मा मनसैवं व्यचिंतयत् ॥ ३२.४२{४२} ॥ हा मया किं कृतं पापं येनाहं दुरिताकृतिः । किं ममानेन कायेन मृत्युं मेऽत्र वरं ध्रुवम् ॥ ३२.४३{४३} ॥ किं करिष्ये विरूपोऽहं क्व यास्यामि दुराकृतिः । किं ममानेन जीवेन केवलं दुःखभोगिना ॥ ३२.४४{४४} ॥ तदत्राहं गृहं त्यक्त्वा वनोद्याने समाश्रयन् । संबुद्धं सुगतं ध्यात्वा मृत्युं गच्छेय मुक्तये ॥ ३२.४५{४५} ॥ अवश्यमेव सर्वेषां जंतूनं मरणं भवे । तन्ममेदृग्विरूपोऽस्मिन् शरीरे जीविते स्पृहा ॥ ३२.४६{४६} ॥ यद्यत्राहं चिरं जीवी निन्दितो दुःखमाप्नुयाम् । तद्बुद्धं सुगतं ध्यात्वा तिष्ठेयं प्राणमुक्तये ॥ ३२.४७{४७} ॥ तत्संबुद्धं जिनं ध्यात्वा मृतोऽहं यदि सांप्रतम् । तत्पुण्यः परितात्मा सुगतिं गछेय सर्वथा ॥ ३२.४८{४८} ॥ ये बुद्धं सुगतं स्मृत्वा गछन्ति मृत्युमात्मना । दुर्गतिं ते न गछन्ति सम्यान्त्येव सुखावतीम् ॥ ३२.४९{४९} ॥ तस्मात्ते सुधियः सन्तः त्यक्त्वा यायात्कुलं गृहम् । संबुद्धस्मरणं ध्यात्वा तिष्ठन्ति निर्जने वने ॥ ३२.५०{५०} ॥ तथाहं तत्समालोक्य संबुद्धं शरणं गतः । समाधाय सदा स्मृत्वा वसेयं विजने वने ॥ ३२.५१{५१} ॥ इत्येवं मनसा ध्यात्वा विरूपः स प्रसन्नधीः । स संपदं गृहं त्यक्त्वा जीर्णोद्यानं समाश्रयत् ॥ ३२.५२{५२} ॥ तत्रोद्याने विविक्ते स पर्णकुट्टिं समाश्रयन् । भगवन्तमनुस्मृत्वा तस्थौ ध्यानसमाहितः ॥ ३२.५३{५३} ॥ तदा स भगवाञ्छास्ता तं तथा स्थितम् । विशुद्धाशयमालोक्य समुद्धर्तुं समुद्यतः ॥ ३२.५४{५४} ॥ ततः स भगवान्नाथो भिक्षुसंघसमन्वितः । तत्रोद्याने विरूपं तं पश्यन् भास्वानुपाचरत् ॥ ३२.५५{५५} ॥ तत्प्रभापरिस्पृष्टोऽसौ विरूपः सत्सुखान्वितः । विस्मितस्तं समायातं ससांघिकमपश्यत ॥ ३२.५६{५६} ॥ तं मुनींद्रं समालोक्य विरूपः स विमोहितः । जेह्रीयमान उत्थाय परायितुं ततोऽचरत् ॥ ३२.५७{५७} ॥ तत्र स भगवान् दृष्ट्वा विरूपं तं परायितम् । सहसर्द्ध्या दिशो मार्गे निरुध्याभ्यतिष्ठत ॥ ३२.५८{५८} ॥ तथा निरुध्यमानः स विरूपस्तेन शासिना । परायितुं प्रयत्नेन न शशाक कथं चन ॥ ३२.५९{५९} ॥ स परिखिन्नात्मा विरूपो लज्जिताशयः । पर्णकुट्टिसमासीनंस्तस्थौ भीतो दिवान्धवत् ॥ ३२.६०{६०} ॥ तत्र स भगवान् दृष्ट्वा निलीनं लज्जयासने । (र्म् ३६२) संनिरोधसमापत्तिं समाधिं विदधे तदा ॥ ३२.६१{६१} ॥ ततः स भगवञ्छास्ता तत्समाधेः समुत्थितः । स्वयं विरूपमात्मानं निर्माय विकृताश्रयम् ॥ ३२.६२{६२} ॥ भोजनपूर्णमादाय शरावं मृन्मयं ततः । शनैस्तस्य विरूपस्य पर्णकुट्ट्यन्तिकेऽचरत् ॥ ३२.६३{६३} ॥ तत्र तं समुपायातं विरूपं विकृताश्रयम् । स विरूपः समालोक्य हर्षित एवमब्रवीत् ॥ ३२.६४{६४} ॥ स्वागतं भो सहाये हि कुत्र गन्तुमिहागतः । तिष्ठात्रावां सदावासे वत्स्यावहे सुखान्विता ॥ ३२.६५{६५} ॥ इति तेनोदितं श्रुत्वा भगवान् स विरूपधृक् । त्वां द्रष्टुमिहायामि प्रोक्त्वेति समुपाश्रयेत् ॥ ३२.६६{६६} ॥ तत्र स्थितः कथां कृत्वा भगवान् स विरूपधृक् । ददौ तस्मै विरूपाय सुरसामृतभोजनम् ॥ ३२.६७{६७} ॥ तत्प्रदत्तं प्रभुक्त्वान्नं स विरूपः स मोदितः । तत्क्षणात्परिपुष्टाङ्गो बभूव प्रीणितेन्द्रियः ॥ ३२.६८{६८} ॥ ततः स भगवाञ्छास्ता दृष्ट्वा तं संप्रमोदितम् । स्वरूपेण स्थितस्तत्र व्यराजत्संप्रभासयन् ॥ ३२.६९{६९} ॥ तं सौम्यभद्ररूपाङ्गं श्रीघनं शुभितेंद्रियम् । स विरूपः समालोक्य विस्मितश्चैवमब्रवीत् ॥ ३२.७०{७०} ॥ अहो कथं भवत्येवमभिरूपतरो भवान् । कस्य पुण्यविपाकान् तद्वक्तुमर्हति मे पुरः ॥ ३२.७१{७१} ॥ इति संप्रार्थिते तेन भगवान् स मुनीश्वरः । बोधयितुं विरूपं तं समालोक्यैवमादिशत् ॥ ३२.७२{७२} ॥ महाविद्यास्ति मे साधो संबोधिसाधनोत्तमा । चित्तप्रसादसंजातजनन्याख्या महेबलः ॥ ३२.७३{७३} ॥ तस्या एव प्रभावेन भवाम्यहं शुभेंद्रियः । समंतभद्ररूपाङ्गः सर्वसत्वमनोहरः ॥ ३२.७४{७४} ॥ इत्यादिश्य मुनीन्द्रः स भगवांस्तत्र शुभासने । सद्धर्मं समुपादेस्तुं समाश्रयत्प्रभासयन् ॥ ३२.७५{७५} ॥ ततस्ते सांघिकाः सर्वे सौम्यरूपाः शुभेंद्रियाः । परिवृत्य मुनीन्द्रं तं पुरस्कृत्योपतस्थिरे ॥ ३२.७६{७६} ॥ तान् सर्वान् समुपासीनान् सौम्यरूपाञ्छुभेन्द्रियान् । दृष्ट्वा तं सुगतं मत्वा बभूव विस्मयान्वितः ॥ ३२.७७{७७} ॥ अहो भाग्य मया लब्धं महत्पुण्यमिहाधुना । यन्ममार्थे मुनीन्द्रोऽयं ससांघिक उपागतः ॥ ३२.७८{७८} ॥ नूनमत्र मुनीन्द्रोऽयं मत्कर्मपरिचोदितः । सद्धर्मं समुपादेष्टुं ससंघः कृपयागतः ॥ ३२.७९{७९} ॥ तदहमस्य मुनीन्द्रस्य श्रद्धया शरणं गतः । सत्कृत्य सौगतं धर्मं श्रोतुमर्हे समाहितः ॥ ३२.८०{८०} ॥ इत्येवं मनसा ध्यात्वा विरूपः स प्रमोदितः । उपेत्य सांजलिर्नत्वा तं मुनीन्द्रमुपाश्रयत् ॥ ३२.८१{८१} ॥ तदा तस्य विरूपस्य बुद्धपुण्यानुभावतः । लक्ष्मी प्रादुरभूत्तत्र दिव्यभोगप्रदायिनी ॥ ३२.८२{८२} ॥ (र्म् ३६३) तदा सोऽभूद्विरूपोऽपि दिव्याभिरूपसुन्दरः । परिशुद्धत्रिकायोऽपि सद्गुणार्थो शुभांशिकः ॥ ३२.८३{८३} ॥ ततः सोऽतिप्रसन्नात्मा दृष्ट्वैतत्महदद्भुतम् । मुदा तस्य मुनेः पादौ ववन्दे स कृतांजलिः ॥ ३२.८४{८४} ॥ ततः उत्थाय तं नाथं भगवंतं ससांघिकम् । समालोक्य प्रसन्नात्मा प्रार्थयत्स समादरात् ॥ ३२.८५{८५} ॥ भगवन् भवता शास्तः कृपादृष्टिप्रसादतः । प्रादुर्भूतात्र मे लक्ष्मी भवामि यातिसुंदरः ॥ ३२.८६{८६} ॥ तदेतन्महदाश्चर्यं दृष्ट्वा मे रोचते मनः । भवतां शरणे स्थित्वा चरितुं संवरं सदा ॥ ३२.८७{८७} ॥ तदत्र भगवन्नाथ कृपया बुद्धशासने । अन्वाहृत्य शुभे धर्मे नियोक्तुं मां समर्हति ॥ ३२.८८{८८} ॥ श्रद्धयाहं जगन्नाथ भवतां शरणं गतः । प्रव्रज्य संवरं धृत्वा चरिष्येऽत्र समाहितः ॥ ३२.८९{८९} ॥ इति तत्संप्रार्थितं श्रुत्वा भगवान् स मुनीश्वरः । तस्य शुद्धाशयमालोक्य समामंत्र्यैवमादिशत् ॥ ३२.९०{९०} ॥ यदि वांछास्ति ते वत्स चरितुं सौगतं व्रतम् । पितुराज्ञां समासाद्य प्रागछ दास्यते तदा ॥ ३२.९१{९१} ॥ इत्यादिष्टं मुनीन्द्रेण श्रुत्वा स प्रतिहर्षितः । मुदा तस्य मुनेः पादौ प्रणत्वैव ततोऽचरत् ॥ ३२.९२{९२} ॥ तत्र स स्वगृहे गत्वा पादौ पितुः कृतांजलिः । प्रणत्वा पुरतः स्थित्वा प्रावददेवमादरात् ॥ ३२.९३{९३} ॥ ततोद्याने विरूपोऽहमिति लज्जाविषादितः । पर्णकुट्यां समासीनो ध्यत्वा वसामि योगवित् ॥ ३२.९४{९४} ॥ तत्र स भगवान् बुद्धः ससंघः स्वयमागतः । बोधयित्वामृतं भोग्यं ददाति समुपायवित् ॥ ३२.९५{९५} ॥ तद्दत्तममृतं भुक्त्वा भवामि सुंदराकृतिः । लक्ष्मीश्चापि समुद्भूता ममैवं जायते शुभम् ॥ ३२.९६{९६} ॥ एतत्सर्वं मुनीन्द्रस्य कृपादृष्टिप्रसादतः । नान्यथा हीति विज्ञाय प्रसीद सुगते सदा ॥ ३२.९७{९७} ॥ एवमेतत्महच्चित्रं दृष्ट्वा मे संप्रसादितम् । मनोऽद्य शासने बौद्धे चरितुं रोचते व्रतम् ॥ ३२.९८{९८} ॥ एतत्संप्रार्थनां कर्तुमिहाहं प्रागतो मुदा । तदत्र कृपया तात तदनुज्ञां प्रदेहि मे ॥ ३२.९९{९९} ॥ एतत्पुण्यविभागेन त्वं चापि सुगतीं व्रजेः । तत्र च सर्वदा सौख्यं भुक्त्वा यायाज्जिनालयम् ॥ ३२.१००{१००} ॥ इति मत्वा प्रसीदात्र मा कुरुष्व मनोऽन्यथा । श्रद्धयानुग्रहं कृत्वा तदनुज्ञां प्रदेहि मे ॥ ३२.१०१{१} ॥ इति संप्रार्थितं श्रुत्वा स गृहस्थः सविस्मयः । पिता तं स्वात्मजं दृष्ट्वा सुचिरादेवमब्रवीत् ॥ ३२.१०२{२} ॥ अहो हि भाग्यवान् पुत्र पुण्यवाञ्छाभि सांप्रतम् । यतोऽसौ कृपयोपेत्य बुद्धत्त्वामभिरक्षति ॥ ३२.१०३{३} ॥ तत्तेऽस्ति यदि वाञ्छति चरितुं सौगतं व्रतम् । तं बुद्धशरणं गत्वा व्रतं चर समाहितः ॥ ३२.१०४{४} ॥ (र्म् ३६४) इति पित्रोदितं श्रुत्वा स विरूपः प्रसादितः । पादौ पित्रोः प्रणत्वैव सहसा प्राचरद्गृहात् ॥ ३२.१०५{५} ॥ ततो जेताश्रमे गत्वा स विरूपः प्रमोदितः । पादौ तस्य मुनेर्नत्वा प्रार्थयेदेवमादरात् ॥ ३२.१०६{६} ॥ भगवन्नाथ सर्वज्ञ लब्धानुज्ञः सामागताः । तद्भवान् कृपया मह्यं संवरं दातुमर्हति ॥ ३२.१०७{७} ॥ इति संप्रार्थिते तेन भगवांस्तस्य मस्तके । सव्यहस्तेन संस्पृष्ट्वा शासने तं समग्रहीत् ॥ ३२.१०८{८} ॥ तत्र स व्राजितः सास्त्रा विरूपो मुण्डितोऽपि सः । खिक्खिरिपात्रभृच्चीवरप्रावृतो वभौ ॥ ३२.१०९{९} ॥ ततः स भिक्षुरात्मज्ञः संयमी विजितेंद्रियः । मत्वा संसारसंस्कारगतीः क्षणविघातिनीः ॥ ३२.११०{१०!} ॥ भित्वाविद्यागणान् बोधिपक्षे धर्मेषु प्रोद्यतः ॥ ३२.१११{१०!} ॥ ततः स धारणीविद्यासमाधिनिरतो यतिः । सर्वक्लेशगणाञ्जित्वा साक्षादर्हत्वमाप्तवान् ॥ ३२.११२{११} ॥ संसारलाभसत्कारनिःस्पृहो निर्मलाशयः । परिशुद्धत्रिकायश्च निर्विकल्पो निरंजनः ॥ ३२.११३{१२} ॥ स देवासुरलोकानामपि त्रैधातुचारिणाम् । मान्यः पूज्योऽभिवन्द्योऽभूद्ब्रह्मचरी स योगवित् ॥ ३२.११४{१३} ॥ तदा ते भिक्षवः सर्वे दृष्ट्वा तं यतिमुत्तमम् । विस्मितास्तं मुनिं नत्वा पप्रछुस्तत्पुराकृतम् ॥ ३२.११५{१४} ॥ भगवन्नर्हतानेन किं कर्म प्रकृतं पुरा । येनायं दुरिताकारो विरूपो जायतेऽधुना ॥ ३२.११६{१५} ॥ यच्चायं भगवाच्छास्त भवता संप्रसादितः । लक्ष्मीवानभिरूपश्च भवति सद्गुणारतः ॥ ३२.११७{१६} ॥ यच्चायं शासने बौद्धे श्रद्धया शरणं गतः । सहसा क्लेशसंघारीञ्जित्वार्हत्त्वं समाप्तवान् ॥ ३२.११८{१७} ॥ तदस्य सर्ववृत्तांतं यदनेन पुराकृतम् । सुविस्तरं समाख्याय सर्वान्नः परिबोधय ॥ ३२.११९{१८} ॥ इति तैर्भिक्षुभिः सर्वैः प्रार्थिते स मुनीश्वरः । सर्वांस्तान् सांघिकान् भिक्षून् समालोक्यैवमादिशत् ॥ ३२.१२०{१९} ॥ शृणुत भिक्षवः सर्वे यदनेन पुराकृतम् । तत्सर्वैः कर्म वक्ष्यामि सर्वलोकप्रबोधने ॥ ३२.१२१{२०} ॥ यथाभूत्पुरा बुद्धः पुष्याभिधस्तथागतः । सर्वज्ञोऽर्हञ्जगच्छास्ता धर्मराजो मुनीश्वरः ॥ ३२.१२२{२१} ॥ स भगवाञ्जगन्नाथः कृत्वा भद्रं समंततः । सर्वत्र सौगतं धर्ममुपदेष्टुमुपाचरत् ॥ ३२.१२३{२२} ॥ एवं सर्वत्र लोकेषु ससांघिकः स मारजित् । पूर्वोत्तरदिशो भागे राजधानीमुपाश्रयत् ॥ ३२.१२४{२३} ॥ तत्र स भगवाञ्छास्ता सर्वसत्वहितार्थभृत् । आदिमध्यान्तकल्याणमार्यधर्ममुपादिशत् ॥ ३२.१२५{२४} ॥ तत्सद्धर्मामृतं पीत्वा सर्वे लोकः प्रबोधितः । त्रिरत्नभजनं कृत्वा प्रचेरिरे शुभे सदा ॥ ३२.१२६{२५} ॥ (र्म् ३६५) तत्र स भगवान् पुष्यो बुद्धदृष्ट्य समंततः । लोके पश्यन् हितं कर्तुं ददर्श द्वौ जिनात्मजौ ॥ ३२.१२७{२६} ॥ एकः शाक्यमुनिर्नाम मैत्रेयश्चापरः सुधीः । तस्मिन् काले उभवेतौ बोधिसत्वौ जिनात्मजौ ॥ ३२.१२८{२७} ॥ मैत्रेयस्य सुबुद्धेः स्वसंततिः परिपाकिता । तस्य शास्तुश्च वैनेयाः सत्वा न परिपाचिताः ॥ ३२.१२९{२८} ॥ शाक्यमुनेस्तु वैनेयाः परिपक्वा न संततिः । एवं स सुगतः पुष्यो दृष्ट्वैवं समचिंतयत् ॥ ३२.१३०{२९} ॥ अहो शाक्यमुनेर्न स्वसन्ततिः परिपाचिता । तत्स्वसन्ततिपाकार्थं चरेयाहं तदन्तिके ॥ ३२.१३१{३०} ॥ इति विचिन्त्य पुष्यः स तथागतः ससांघिकः । हिमवंतं गिरिं गत्वा प्रचक्राम प्रभासयन् ॥ ३२.१३२{३१} ॥ तत्र रत्नगुहायां स प्रविश्य स मुनीश्वरः । तेजोधातुसमापन्नो ध्यात्वा तस्थौ शुभासने ॥ ३२.१३३{३२} ॥ तस्मिंश्च समये तत्र शाक्यमुनिः स सन्मतिः । फलमूलसमाहर्तुं तदन्तिकमुपाचरत् ॥ ३२.१३४{३३} ॥ तत्र रत्नगुहायां तं पुष्यं तथागतं मुनिम् । सुपर्यङ्कसमासीनं ध्यानलीनं प्रभासितम् ॥ ३२.१३५{३४} ॥ द्वात्रिंशल्लक्षणाशीतिव्यंजनैः परिभूषितम् । रत्नावलिमिवोज्वालं शतसूर्य्याधिकप्रभम् ॥ ३२.१३६{३५} ॥ सौम्यं दिव्यातिरिक्ताभं समंतभद्ररूपिणम् । सुप्रसन्नमुखाम्भोजं धर्मराजं समैक्षत ॥ ३२.१३७{३६} ॥ तत्र तं सुगतं दृष्ट्वा शाक्यमुनिः स मोदितः । सहसा सांजलिर्नत्वा पूजांगैनार्चयन्मुदा ॥ ३२.१३८{३७} ॥ ततः स एकपादेन स्थित्वा सप्तनिशां मुदा । सांजलिः प्रणतिं कृत्वा तुष्टाव गाथयानया ॥ ३२.१३९{३८} ॥ न दिवि भुवि वा नास्मिल्लोके न वैश्रवणालये । न मरुभवने दिव्ये स्थाने न दिक्षु विदिक्षु वा ॥ ३२.१४०{३९} ॥ चरतु वसुधां स्फीतां कृत्स्नां सपर्वतकाननाम् । पुरुषवृषभस्य तुल्यान्यो महाश्रमणः कुतः ॥ ३२.१४१{४०} ॥ एतयो गाथया स्तुत्वा तं पुष्यं सुगतं मुनिम् । स शाक्यमुनिरुत्साहात्सप्तरात्रिं मुदा भजन् ॥ ३२.१४२{४१} ॥ ततः सप्तदिनान्ते स पुष्यथागतो मुदा । परिस्तुतस्तमालोक्य शाक्यमुनिमभाषत ॥ ३२.१४३{४२} ॥ साधु साधु महासत्व त्वमेवं यत्समुद्यतः । अनेन बलवीर्येण संपन्नेन द्विजोत्तम ॥ ३२.१४४{४३} ॥ नवकल्पाः परावृत्ताः संस्तुत्याद्य तथागतम् । क्रमात्पारमिताः पूर्य संबोधिं समवाप्नुयाः ॥ ३२.१४५{४४} ॥ इत्यादिश्य मुनीन्द्रोऽसौ पुष्यो धर्माधिपो जिनः । परिवृत्तो महेशाख्यैस्तत्र ध्यानारतोऽभसत् ॥ ३२.१४६{४५} ॥ सोऽपि शाक्यमुनिर्बोधिसत्वो द्विजोत्तमः सुधीः । तस्य पुष्यस्य सद्भक्त्य शरणस्थः सदाभजत् ॥ ३२.१४७{४६} ॥ तत्र तस्मिन् स्थिते बुद्धे देवी गुहानिवासिनी । (र्म् ३६६) तद्गुहायां प्रवेष्टुम्ऽसौ न शशाक कथं चन ॥ ३२.१४८{४७} ॥ ततः सातिविरूपाक्षा विकृतांशा दुराकृतिः । भूत्वा तं सुगतं पुष्यं ध्यानालीनमभीषपत् ॥ ३२.१४९{४८} ॥ तथा सा सुचिरेणापि भीषपीत्वापि दुर्मतिः । किञ्चित्तस्य मुनेश्चित्तं चारयितुं शशाक न ॥ ३२.१५०{४९} ॥ तदा सा शंकिताखिन्ना विस्मयाहतमानसा । स्वरूपेणैव तं द्रष्टुं प्रणता समुपाचरत् ॥ ३२.१५१{५०} ॥ तत्र तं सुगतं पुष्यं तथागतं मुनीश्वरम् । द्वात्रिंशल्लक्षणाशीतिव्यंजनैः परिमण्डितम् ॥ ३२.१५२{५१} ॥ सर्वातिक्रांतसौम्याभं शतसूर्याधिकप्रभम् । शान्तरूपं सुभद्रांगं ध्यानालीनमपश्यत ॥ ३२.१५३{५२} ॥ दृष्ट्वैव सा प्रसादन्ती पुण्यात्मायं सुसिद्धिमान् । इति ध्यात्वा सुरूपेण तदन्तिकमुपाचरत् ॥ ३२.१५४{५३} ॥ तत्र सा सांजलिर्नत्वा पादौ तस्य मुनेः पुरः । स्थित्वा क्षमार्थनां कर्त्तुं प्रार्थयदेवमानता ॥ ३२.१५५{५४} ॥ भगवन्नाथ सर्वज्ञ यन्मया प्रकृतं त्वयि । तत्क्षमस्व जगन्नाथ क्षान्तिधर्माधिपोऽसि हि ॥ ३२.१५६{५५} ॥ तदत्राहं जगच्छास्तर्भवतां शरणं गता । सर्वदा समुपाश्रित्य भजेयं श्रद्धया मुदा ॥ ३२.१५७{५६} ॥ यदत्र ते ससंघस्य यथाविधि समर्चितुम् । इछाम्यहं जगन्नाथ तदध्युषितुमर्हति ॥ ३२.१५८{५७} ॥ इति तेनार्थिते पुष्यो भगवान् स मुनीश्वरः । तां विशुद्धाशयां दृष्ट्वा तूष्णीभूत्वाध्युवास तत् ॥ ३२.१५९{५८} ॥ तथाधिवासितं शास्त्रा मत्वा साभ्यनुमोदिता । आशु तद्भोज्यसामग्रीं सहसा समसाधयत् ॥ ३२.१६०{५९} ॥ ततः सा मुदितोपेत्य पूजांगैस्तं मुनीश्वरम् । अभ्यर्च्य भोजनैर्दिव्यैः ससंघं समतोषयत् ॥ ३२.१६१{६०} ॥ ततः सा भोजनान्तेऽपि प्रणत्वा साञ्जलिर्मुदा । भूत्वा क्षमापयित्वा च प्रार्थयदेवमानता ॥ ३२.१६२{६१} ॥ भगवन्नाथ सर्वज्ञ भवतां शरणे स्थिता । सदोपस्थानमाधाय भजिष्यामि समाहिता ॥ ३२.१६३{६२} ॥ तत्क्षमस्व जगन्नाथ यन्मयापकृतं वृथा । प्रसीदतु भवाञ्छास्ता संबुद्धो हि क्षमाकरः ॥ ३२.१६४{६३} ॥ इति तयार्थितं श्रुत्वा पुष्यः स भगवान्मुनिः । देवतां तां समालोक्य सद्धर्मं समुपादिशत् ॥ ३२.१६५{६४} ॥ शृणुष्व देवते धर्ममिहामुत्र शुभाप्तये । धर्मेण रक्षिता लोके सर्वत्रापि सुखी भवेत् ॥ ३२.१६६{६५} ॥ तदादौ श्रद्धया धर्मं श्रोतव्यं सौगतं वरम् । ततस्त्रिरत्नमभ्यर्च्य दातव्यं दानमर्थिने ॥ ३२.१६७{६६} ॥ ततः शुद्धत्रिकायः स्याच्छुद्धशीलः शुभाशयः । ततः सत्यसमाधानः सर्वसत्वक्षमाकरः ॥ ३२.१६८{६७} ॥ संबोधिसाधनोद्योगात्सर्वक्लेशान् विनिर्जयेत् । ततो ध्यानसमाधिस्थः प्रज्ञारत्नमवाप्नुयात् ॥ ३२.१६९{६८} ॥ (र्म् ३६७) तत्सुरत्नानुभावेन सर्वमारान् विनिर्जयन् । सर्वसत्वहितार्थेन संबुद्धपदमाप्नुयात् ॥ ३२.१७०{६९} ॥ एवं मत्वात्र संसारे सर्वदा शुभवाञ्छिभिः । धर्मं श्रुत्वा सदा दानं प्रकर्त्तव्यं यथेप्सितम् ॥ ३२.१७१{७०} ॥ त्वं चाप्येवं सदा सौख्यं यदीछसि शुभान्वितम् । त्रिरत्नं भजनं कृत्वा कुरु दानं यथेप्सितम् ॥ ३२.१७२{७१} ॥ एतत्पुण्यं तु संबोधिप्राप्तये परिणामय । एतत्पुण्यविपाकेन नूनं बोधिं समाप्नुयाः ॥ ३२.१७३{७२} ॥ इत्यादिष्टं मुनीन्द्रेण श्रुत्वा सा देवता मुदा । तथा हीतिप्रतिज्ञाय प्राभ्यनन्दत्प्रबोधिता ॥ ३२.१७४{७३} ॥ ततः स सुगतः पुष्यस्तथागतः ससांघिकः । प्रभासयन् समुत्थाय स्वाश्रमे समुपाश्रयत् ॥ ३२.१७५{७४} ॥ एष ह्ययं विरूपोऽसौ देवता या गुहाश्रिता । युष्माभिः सत्यमेवेति मन्यतां नान्यथा खलु ॥ ३२.१७६{७५} ॥ एवं मत्वात्र संसारे सर्वदा सुखवाञ्छिभिः । त्रिरत्नभजनं कृत्वा चरितव्यं शुभे सदा ॥ ३२.१७७{७६} ॥ शुभस्य कर्मणः पाके शुभतैवं सदा भवे । कृष्णस्य दुःखतैवं हि मिश्रितस्यापि मिश्रितम् ॥ ३२.१७८{७७} ॥ अभुक्तं क्षीयते नैव कर्म क्वापि कदा चन । येनैव यत्कृतं कर्म तेनैव भुज्यते फलम् ॥ ३२.१७९{७८} ॥ नाग्निभिर्दह्यते कर्म क्लिद्यते नापि चोदकैः । शुष्यते वायुभिर्नैव क्षीयते च न भूमिषु ॥ ३२.१८०{७९} ॥ नान्यथापि भवे नैव कर्म क्वापि कथं चन । यद्यथा प्रकृतं कर्मं तत्तथैव कुलेद्ध्रुवम् ॥ ३२.१८१{८०} ॥ यदसौ देवता तत्र गुहाश्रिता दुराशया । विकृताङ्गा विरूपाक्षा भूत्वा पुष्यं व्यभीषपत् ॥ ३२.१८२{८१} ॥ एतत्पापविपाकेन पंचजन्मशतान्यपि । विकृताङ्गो विरूपाक्षो बभूवायं भवे सदा ॥ ३२.१८३{८२} ॥ एतत्पापाविमुक्तोऽयं विरूपो विकृताकृतिः । विभ्रन्स्यो दुर्भगाकारो भवत्यत्रापि सांप्रतम् ॥ ३२.१८४{८३} ॥ यच्चासौ देवता पश्चात्तापसंतपिताशया । तस्य पुष्यस्य बुद्धस्य प्रसन्ना शरणं गता ॥ ३२.१८५{८४} ॥ श्रद्धया भोजनैर्दिव्यैः सत्कृत्य प्राभजन्मुदा । एतत्पुण्यविपाकेन लेभेऽनन्तं सुखं भवे ॥ ३२.१८६{८५} ॥ अत्रापि शासने बौद्धे श्रद्धया समुपागतः । प्रव्रज्यासंवरप्राप्तः साक्षादर्हत्वमाप्तवान् ॥ ३२.१८७{८६} ॥ इति यूयं परिज्ञाय चरध्वं सर्वदा शुभे । ततो बोधिं समासाद्य संबुद्धपदमाप्नुयुः ॥ ३२.१८८{८७} ॥ इत्यादिष्टं मुनीन्द्रेण सर्वे ते सांघिका अपि । श्रुत्वानुमोदिताः सत्यमित्युक्त्वा परिमेनिरे ॥ ३२.१८९{८८} ॥ इति मे गुरुणादिष्टं मयात्र कथ्यते । त्वयाप्येवं महाराज चरितव्यं शुभे सदा ॥ ३२.१९०{८९} ॥ प्रजाश्चापि तथा राजन् बोधयित्वा प्रयत्नतः । बोधिमार्गे प्रतिष्ठाप्य पालनीयः सदादरात् ॥ ३२.१९१{९०} ॥ तेन ते सर्वदा नित्यं सर्वत्रापि शुभं भवेत् । (र्म् ३६८) क्रमाद्बोधिं समासाद्य संबुद्धपदमाप्नुयाः ॥ ३२.१९२{९१} ॥ इति तेनार्हतादिष्टं श्रुत्वाशोकः स भूपतिः । तथा हीति प्रतिज्ञाय प्राभ्यनन्दत्प्रबोधितः ॥ ३२.१९३{९२} ॥ शास्त्रादिष्टं प्रसन्ना इदमपि मनुज ये विरूपावदानं शृण्वन्ति श्रावयन्ति प्रमुदितमनसो ये च पुण्याभिरागाः । सर्वे ते श्रीसमेताः सकलगुणधराः सत्सुखानि प्रभुक्त्वा संबुद्धभक्तिरक्ताः सुगतवरगृहे संप्रयान्ति प्रमोदम् ॥ ३२.१९४{९३} ॥ ++ इति रत्नावदानतत्वे विरूपावदानं समाप्तम् ++ (र्म् ३६९) xxxइं क्षेमावदान अथाशोको महाराजः कृतांजलिः पुरः स्थितः । उपगुप्तं यतिं नत्वा पुनरेवमभाषत ॥ ३३.१{१} ॥ भदन्त श्रोतुमिछामि पुनरन्यत्सुभाषितम् । तद्यथा गुरुणाख्यातं तथादेष्टुं समर्हसि ॥ ३३.२{२} ॥ इति संप्रार्थिते राज्ञा श्रुत्वा सोऽर्हन् सुधीर्यतिः । अशोकं तं महीपालं समालोक्यैवमब्रवीत् ॥ ३३.३{३} ॥ शृणु राजन्महाभाग यथा मे गुरुणोदितम् । तथाहं तत्प्रवक्ष्यामि तव धर्मविवृद्धये ॥ ३३.४{४} ॥ तद्यथाभूत्पुरा पूर्य्यां श्रावस्त्यां कौशलाधिपः । प्रसेनजिदिति ख्यातो महाराजा महीपतिः ॥ ३३.५{५} ॥ वाराणस्यां तदाचारो ब्रह्मदत्ताभिधो नृपः । महाराजो महीपालनृपाधिपस्तदाभवत् ॥ ३३.६{६} ॥ तदा तयोर्महीभोक्त्रोः परस्परविरुद्धयोः । महाहवसमारंभाद्बभूव क्षुभिताशयम् ॥ ३३.७{७} ॥ तत्र स क्षत्रियो राजा प्रसेनजिन्नराधिपः । स्वस्त्ययनविधिं कृत्वा सर्वान्तःपुरिकान्वितः ॥ ३३.८{८} ॥ चतुरंगवलैः सार्द्धं महोत्साहं प्रणादयन् । वैजयन्तीं समुच्छ्राय कोशलाविषयान्ततः ॥ ३३.९{९} ॥ पर्यन्ते सहसा गत्वा वीर्योत्साहसमन्वितः । वध्वा काष्टपटं तत्र प्रावतस्थे पुरे यथा ॥ ३३.१०{१०} ॥ तच्छ्रुत्वा ब्रह्मदत्तोऽपि क्षत्रियो भूपतिर्नृपः । स्वस्त्ययनविधिं धृत्वा स्वान्तःपुरसमन्वितः ॥ ३३.११{११} ॥ चतुरंगवलैः सार्द्धं जयोत्साहं निनादयन् । वैजयन्तीं समुच्छ्राय नद्या तीरमुपाचरत् ॥ ३३.१२{१२} ॥ तत्रैव समुपाश्रित्य वीर्योत्साहसमन्वितः । वध्वा काष्टपटं तत्र संतस्थे नगरे यथा ॥ ३३.१३{१३} ॥ तत्र स भूपती राजा ब्रह्मदत्तो नराधिपः । अग्रराज्ञ्या सहारक्तः संरेमे परिचारयन् ॥ ३३.१४{१४} ॥ तदा स महिषी राज्ञा सह क्रीडारता सती । स्वल्पाहाररता गौरा दोहदलक्षणं दधौ ॥ ३३.१५{१५} ॥ तथा तस्मिन् क्षणे सोऽपि प्रसेनजिन्नराधिपः । महिष्या सह संरक्तः प्ररेमे परिचारयन् ॥ ३३.१६{१६} ॥ तदा सापि महाराज्ञी स्वामिक्रीडानुचारिणी । स्वल्पाहारोत्सहा गौरा दधौ दोहदलक्षणम् ॥ ३३.१७{१७} ॥ क्रमात्तोऽपि महाराज्ञ्यां प्रवृद्धगर्भहारिते । पीनस्तने हरिद्राभवर्णेऽभूतां कृशाङ्गिके ॥ ३३.१८{१८} ॥ (र्म् ३७०) ततोऽग्रमहिषी राज्ञो ब्रह्मदत्तस्य भूपतेः । सा सूत समये पुत्रं दिव्यांशमतिसुंदरम् ॥ ३३.१९{१९} ॥ तच्छ्रुत्वा स भूपालो ब्रह्मदत्तः प्रमोदितः । सहसोपेत्य तं पुत्रं दृष्ट्वा न तृप्तिमाययौ ॥ ३३.२०{२०} ॥ तस्मिन्नेव दिने तस्य प्रसेनजिन्महीपतेः । भार्यापि समये सूत सुतां दिव्यातिसुंदरीम् ॥ ३३.२१{२१} ॥ स्त्रीरत्नलक्षणोपेतं सुभद्रांगीमनोहराम् । रमोपमं शुभाकारां मनापां रतिसंनिभाम् ॥ ३३.२२{२२} ॥ तच्छ्रुत्वा स महीपालः प्रसेनजित्प्रसादितः । सहसोपेत्य तां पुत्रीं ददर्सातिप्रमोदितः ॥ ३३.२३{२३} ॥ तां दृष्ट्वा स नरेंद्रोऽपि मे वभूव समागतः । तामेव सुचिरं पश्यन्नवतस्थे सुनिश्चलः ॥ ३३.२४{२४} ॥ तयोरप्युभयो राज्ञोः स्कंधाचाराः प्रवर्त्तिताः । ये नित्यं तत्प्रवृत्तांतं स्वप्रभोरुपहारकाः ॥ ३३.२५{२५} ॥ ये प्रसेनजितश्चारा ब्रह्मदत्तस्य भूपतेः । पुत्रो जात इति श्रुत्वा परिज्ञाय प्रसेदिरे ॥ ३३.२६{२६} ॥ ते प्रसेनजितो राज्ञः सहसा समुपागताः । कृतांजलिपुटो नत्वा पुर एवं न्यवेदयन् ॥ ३३.२७{२७} ॥ जय देव महाराज शृणु तत्र प्रवर्त्तितम् । ब्रह्मदत्तस्य भूपस्य पुत्रो जातोऽधुना खलु ॥ ३३.२८{२८} ॥ सांप्रतं तत्र राजेन्द्रशुभोत्साहं प्रवर्त्तते । तत्त्वया सह संवंधं कृत्वा स स्वपुरं व्रजेत् ॥ ३३.२९{२९} ॥ तत्प्रसीद महाराज मा विभैषीः शुभं भवेत् । तेन संधिं भवान् कृत्वा विहरतां यथासुखम् ॥ ३३.३०{३०} ॥ इति तैः कथितं श्रुत्वा स प्रसेनजिन्नराधिपः । सत्यमेतदिति ज्ञात्वा प्रससादऽविशंकितः ॥ ३३.३१{३१} ॥ तथा ये ब्रह्मदत्तस्य गूढचाराः प्रवर्त्तिताः । ते प्रसेनजितः पुत्री जातेति शुश्रुवुस्तदा ॥ ३३.३२{३१} ॥ ततस्ते सहसा तत्र ब्रह्मदत्तस्य भूपतेः । पुरतः समुपाश्रित्य प्रणत्वैवं न्यवेदयन् ॥ ३३.३३{३३} ॥ जय देव महाराज शृणु तत्र प्रवर्त्तितम् । प्रसेनजिन्महीपस्य पुत्री जाताऽधुना खलु ॥ ३३.३४{३४} ॥ दारिका सा सुभद्रांगी दिव्यकामा रमोपमा । सर्वलक्षणसंपन्ना सुंदरी रतिसंनिभा ॥ ३३.३५{३५} ॥ तेन तत्र शुभोत्साहं प्रवर्त्ततेऽधुना प्रभो । तेन सहात्र संवंधं कर्त्तुमर्हति सर्वथा ॥ ३३.३६{३६} ॥ इति तैः कथितं श्रुत्वा ब्रह्मदत्तो नराधिपः । भद्रमिति परिज्ञाय तत्रैवं समचिंतयत् ॥ ३३.३७{३७} ॥ अहो चित्र महोत्साहो भद्रमेकस्मिन् दिवसे यतः । जातो मेऽत्र सुतो भद्रस्तस्यापि जायते सुता ॥ ३३.३८{३८} ॥ तत्तां भद्रां रमाकारां तं प्रसेनजितमादरत् । प्रार्थयित्वात्र पुत्राय सन्धिं कृत्वा चरेवहि ॥ ३३.३९{३९} ॥ इति निश्चित्य स ब्रह्मदत्तो राजा प्रसादितः । (र्म् ३७१) सुजनं दूतमामंत्र्य पुर एवं समब्रवीत् ॥ ३३.४०{४०} ॥ गछ दूत महीपालं तं प्रसेनजितमादरात् । ममैवं वचसोपेत्य प्रार्थयस्व प्रबोधयन् ॥ ३३.४१{४१} ॥ ब्रह्मदत्तो महीपालो वदत्येवं समादरात् । भवता सह संवंधं कर्त्तुमिछामि सांप्रतम् ॥ ३३.४२{४२} ॥ यदेकस्मिन् दिने जातौ दारकावावयोरपि । सुता ते भद्रिका ख्याता मम पुत्रोऽपि भद्रिकः ॥ ३३.४३{४३} ॥ तदेतयोर्हि संवंधं कर्त्तुमर्हावहे ध्रुवम् । तद्भवान्मम पुत्राय स्वात्मजां दातुमर्हति ॥ ३३.४४{४४} ॥ एवं कृतेऽपि संवंधे यावज्जीवं सदावयोः । वैरोत्सर्गो भवेन्नूनं प्रीतिसंधिर्न भेत्स्यति ॥ ३३.४५{४५} ॥ तदावयोः सदा भद्रं विषयेषु समंततः । निरीतिकं शुभोत्साहं भविष्यति न संशयः ॥ ३३.४६{४६} ॥ इति मे वचसा राजा प्रसेनजित्स कौशलः । प्रार्थनीयस्त्वया साधो गछास्तु ते सुमंगलम् ॥ ३३.४७{४७} ॥ इत्यादिष्टं नरेन्द्रेण श्रुत्वा दूतः स बोधितः । तथेत्युक्त्वा नृपं नत्वा समुत्थाय ततोऽचरत् ॥ ३३.४८{४८} ॥ तत्र स सहसा गत्वा तं प्रसेनजितं नृपम् । उपेत्य सांजलिर्नत्वा पुरस्थ एवमब्रवीत् ॥ ३३.४९{४९} ॥ जय देव महाराज यदर्थेऽहमिहागतः । तदर्थं संप्रवक्ष्यामि भवां श्रोतुं समर्हति ॥ ३३.५०{५०} ॥ ब्रह्मदत्तो महाराजो भवतां कुशलं मुदा । पृछति सर्वदा नित्यं सर्वत्र विषयेष्वपि ॥ ३३.५१{५१} ॥ पुनरेवं स भूपालो ब्रह्मदत्तो ब्रवीत्यपि । भवता सह संवंधं कर्तुमिछामि सांप्रतम् ॥ ३३.५२{५२} ॥ यदेकस्मिन् दिने जातौ दारकावावयोरिह । सुता ते भद्रिका ख्यातो मम पुत्रोऽपि भद्रिकः ॥ ३३.५३{५३} ॥ तदेतयोर्हि संवंधं कर्तुमर्हामहे ध्रुवम् । तद्भवान्मम पुत्राय स्वात्मजां दातुमर्हति ॥ ३३.५४{५४} ॥ एवं कृतेऽपि संवंधे यावज्जीवं सदावयोः । वैरोत्सर्गो भवेन्नूनं प्रीतिसंधिर्न भेत्स्यते ॥ ३३.५५{५५} ॥ तदावयोः सदा भद्रं विषयेषु समंततः । निरीतिकं शुभोत्साहं भवेदेव न संशयः ॥ ३३.५६{५६} ॥ इति मे वचसा राजा प्रसेनजित्स कौशलः । प्रार्थनीयस्त्वया साधो गछास्तु त्वं समाहितः ॥ ३३.५७{५७} ॥ इत्यादिश्य नरेन्द्रेण ब्रह्मदत्तेन भूर्भुजा । प्रेषितोऽहं महाराज भवतामंतिके खलु ॥ ३३.५८{५८} ॥ तत्तेन भूपतीशेन यथादिष्टं नराधिप । भवानपि तथा कर्तुमर्हत्येदन्न नान्यथा ॥ ३३.५९{५९} ॥ एवं हि भवतां भद्रं यावाज्जीवं सुखैः सदा । सर्वत्र मङ्गलोत्साहं भवेन्नूनं न संशयः ॥ ३३.६०{६०} ॥ तद्भवानपि राजेन्द्र ब्रह्मदत्तस्य भूपतेः । पुत्राय स्वात्मजां भद्रां संप्रदातुमिहार्हति ॥ ३३.६१{६१} ॥ (र्म् ३७२) इति तेन समाख्यातं श्रुत्वा स कोशलाधिपः । तुष्णीभूत्वा क्षणं तत्र मनसैवं व्यचिंतयेत् ॥ ३३.६२{६२} ॥ अहो मे जायते क्षेमं यदसौ क्षत्रियाधिपः । वैरं विहाय संवन्धं कर्त्तुमिछति सांप्रतम् ॥ ३३.६३{६३} ॥ तदहं तेन भूपेन यथादिष्टं तथाऽधुना । दत्वैनां स्वात्मजां भद्रां संधिं कुर्यां शुभाप्तये ॥ ३३.६४{६४} ॥ एवं कृते सदा क्षेमं सर्वत्र विषयेष्वपि । मम तस्यापि भूपस्य भवेन्नूनं न चान्यथा ॥ ३३.६५{६५} ॥ इति ध्यात्वा विनिश्चित्य प्रसेनजित्स कौशलः । तं दूतं समुपामंत्र्य समालोक्यैवमब्रवीत् ॥ ३३.६६{६६} ॥ साधो तेन नरेन्द्रेण यथादिष्टं तथादरात् । आज्ञां शिरसा धृतिवा करिष्यामि सदाप्यहम् ॥ ३३.६७{६७} ॥ एवं मे वचसा साधो सर्वमेतत्सुविस्तरम् । समाख्याय नरेन्द्रं तं प्रसादयितुमर्हसि ॥ ३३.६८{६८} ॥ इति तेन नरेन्द्रेण समाख्यातं निशम्य सः । दूतस्तथेति विज्ञप्य प्राभ्यनन्दत्प्रसादितः ॥ ३३.६९{६९} ॥ ततः स दूतस्तं भूपं कोशलाधिपतिं मुदा । नत्वा दृष्ट्वा समामंत्र्य ततोऽचरत्प्रमोदितः ॥ ३३.७०{७०} ॥ ततः स सहसा गत्वा ब्रह्मदत्तस्य भूपतेः । उपेत्य सांजलिः पादौ प्रणत्वेवमभाषत ॥ ३३.७१{७१} ॥ जय देव महाराज दिष्ट्या वर्द्धस्व सांप्रतम् । यथाभिलषितं सर्वं तत्सिद्धमिति मन्यताम् ॥ ३३.७२{७२} ॥ तद्यथा भवतादिष्टं तथा विज्ञापितं मया । तच्छ्रुत्वानेन भूपेन प्रमोदित्वाध्युवासितम् ॥ ३३.७३{७३} ॥ इति सत्यं समाधाय पालयस्व यथोदितम् । सर्वदा ते भवेद्भद्रं सर्वत्र विषयेष्वपि ॥ ३३.७४{७४} ॥ इति तेनोदितं श्रुत्वा ब्रह्मदत्तः स भूपतिः । प्रबोधितोऽनुमोदित्वा प्राभ्यनंदत्प्रसादितः ॥ ३३.७५{७५} ॥ ततः स भूपती राजा ब्रह्मदत्तो महोत्सवैः । चतुरंगवलैः सार्द्धं जयवाद्यं प्रवादयन् ॥ ३३.७६{७६} ॥ ततः संप्रस्थितो लोकैः स्तूयमानः सुरैरपि । प्रचरन् सहसा तत्र स्वपुरं समुपाययौ ॥ ३३.७७{७७} ॥ ततः सोऽपि महीपालः प्रसेनजित्प्रमोदितः । चतुरंगवलैः सार्द्धं जयोत्साहं प्रणादयन् ॥ ३३.७८{७८} ॥ ततः प्रत्यागतो लोकै स्तूयमानोऽमरैरपि । प्रचरन् स नृपो तत्र श्रावस्त्यां समुपाचरत् ॥ ३३.७९{७९} ॥ तत्र स्वनगरे प्राप्तः प्रसेनजित्स कौशलः । स्वप्रासादतलासीनः सर्वान्तपुरिकान्वितः ॥ ३३.८०{८०} ॥ तां भदरिकां सुतां दृष्ट्वा सुप्रसन्नाशयो मुदा । अहो क्षेमं प्रजातं मे इत्येवं मुहुरब्रवीत् ॥ ३३.८१{८१} ॥ ततस्तस्याः सुतायाः स कृत्वा जातिमहं मुदा । सर्वञ्ज्ञातीन् समाहूय पुर एवमुपादिशत् ॥ ३३.८२{८२} ॥ (र्म् ३७३) भदन्तः श्रूयतामस्या भद्राया दुहितुर्मम । यथायुक्तं नामधेयं स्थापयत प्रसिद्धितम् ॥ ३३.८३{८३} ॥ इति तेन नरेन्द्रेण समादिष्टं निशम्यते । संपश्यञ्ज्ञातयस्तत्र संमील्यैवं समब्रुवन् ॥ ३३.८४{८४} ॥ यस्मिन् दिने प्रजातेयं तस्मिन्नेव दिने यतः । क्षेमं नो जायते तस्मात्क्षेमाभिधा भवन्त्वियम् ॥ ३३.८५{८५} ॥ इति ते ज्ञातयः सर्वे कृत्वैवं संमतं ततः । कौशलेन्द्रं तमामंत्र्य प्रणत्वैवं समब्रुवन् ॥ ३३.८६{८६} ॥ शृणु राजन् यदस्माकमभिप्रायं प्रचक्ष्यते । तदस्या नामधेयं करोतु भुवि विश्रुतम् ॥ ३३.८७{८७} ॥ यस्मिन् दिने प्रजातेयं क्षेमं भवति सर्वतः । तेनास्या क्रियतां नाम क्षेमेति विश्रुतं भुवि ॥ ३३.८८{८८} ॥ तथा तैर्गदितं श्रुत्वा राजा स जनको मुदा । तस्याः पुत्र्यास्तथा नाम क्षेमेति प्रार्थितं व्यधात् ॥ ३३.८९{८९} ॥ ततः सा दारिकाष्टाभिर्धात्रिभिः प्रतिपालिता । परिपुष्टा प्रवृद्धाभूद्ध्रदस्थमिव पंकजम् ॥ ३३.९०{९०} ॥ तथा स ब्रह्मदत्तोऽपि राजा स्वान्तर्गृहे गतः । तं पुत्रां मुहुरालोक्य प्राभ्यनंदत्प्रमोदितः ॥ ३३.९१{९१} ॥ तत्र तस्य शिशो राजा कृत्वा जातिमहं पिता । सर्वाञ्ज्ञातीन् समाहूय पुर एवमभाषत ॥ ३३.९२{९२} ॥ भवंतो दारकस्यास्य पुत्रस्य मे शुभाकृतेः । क्रियतां नामधेयन् सन्मंगलाक्षरसंयुतम् ॥ ३३.९३{९३} ॥ इत्यादिष्टं नरेन्द्रेण श्रुत्वा ते ज्ञातयो मुदा । सर्वेऽप्येकत्र संगम्य मिथरेवं समब्रुवन् ॥ ३३.९४{९४} ॥ यदयं जातमात्रोऽपि क्षेमं करोति सर्वतः । तथास्य भवतु क्षेमंकर इत्याह्वयं ध्रुवम् ॥ ३३.९५{९५} ॥ इति ते ज्ञातयः सर्वे ब्रह्मदत्तस्य भूपतेः । पुरतः समुपासृत्य प्रणत्वैवं न्यवेदयन् ॥ ३३.९६{९६} ॥ शृणु राजन् यदस्माभिर्नामास्य क्रियते शिशोः । तन्नाम क्षेमसंपन्नं प्रथयतु भावान् भुवि ॥ ३३.९७{९७} ॥ यदयं जातमात्रोऽपि क्षेमं करोति सर्वतः । तेन क्षेमंकराख्योऽयं भवंतु लोकनंदनः ॥ ३३.९८{९८} ॥ एतत्तैः कथितं श्रुत्वा ब्रह्मदत्तः स भूपतिः । तदेव नामे पुत्रस्य तस्याकरोत्प्रविसृतम् ॥ ३३.९९{९९} ॥ ततः स दारकोऽष्टाभि धात्रिभिः प्रतिपालितः । परिपुष्टः प्रवृद्धोऽभूद्ध्रदस्थं कमलं यथा ॥ ३३.१००{१००} ॥ ततः क्रमात्कुमारत्वमाप्तवान् स नृपात्मजः । गुरूणां समुपाश्रित्य लिपी क्रमादशिक्षत् ॥ ३३.१०१{१} ॥ यथाक्रममधीत्येवं क्षेमंकरः स बुद्धिमान् । सर्वशास्त्रकलास्वादि विद्यापरं ययौ लघु ॥ ३३.१०२{२} ॥ ततः स दहरः कान्तः कुमारो रतिलालितः । (र्म् ३७४) सवयेःसचिवैः सार्द्धं रेमे पुरे परिभ्रमन् ॥ ३३.१०३{३} ॥ तदा स दारिका क्षेमा प्रसेनजित्सुतापि च । क्रमादभूत्कुमारीत्वप्राप्ता कान्ताभिसुंदरी ॥ ३३.१०४{४} ॥ ततः सा भद्रिका कन्या सुमतिर्गुणलालसाः । गुरूणां समुपाश्रित्य क्रमाल्लिपिरशिक्षत ॥ ३३.१०५{५} ॥ यथाक्रममधीत्यैवं सा सुबुद्धिमती सती । सर्वशास्त्रकलाविद्यापारं ययौ विचक्षणा ॥ ३३.१०६{६} ॥ तदा सा भाविनी क्षेमा स्वसखीभिः समन्विता । संबुद्धभाषितं धर्ममनुश्रुत्वा मुदानमत् ॥ ३३.१०७{७} ॥ तदा स ब्रह्मदत्तस्य कुमारोऽतिविचक्षणः । तां क्षेमां सुंदरीं द्रष्टुं समैछद्रतिलालसः ॥ ३३.१०८{८} ॥ ततः स दूतमाहूय बोधयित्वा प्रसादयन् । दत्वा सुरत्नमालां तं क्षेमायाः प्रेषयेत्स्वयम् ॥ ३३.१०९{९} ॥ ततः स दूत आदाय तां मालां सहसा चरन् । श्रावस्त्याः पुरि संप्राप्तः क्षेमायाः सदनेऽचरत् ॥ ३३.११०{१०} ॥ तत्र स दूत आलोक्य सखीमेकामुपागताम् । तामुपेत्य समामंत्र्य सुगुप्तमेवमब्रवीत् ॥ ३३.१११{११} ॥ क्षेमंकरकुमारेण क्षेमाये प्रहितामिमाम् । रत्नमालां त्वमादाय भद्रे तस्यै समर्पय ॥ ३३.११२{१२} ॥ इत्युक्त्वा रत्नमालां तां क्षेमासखीकरे रहः । दत्वा स दूत आमंत्र्य सहसा स्वपुरं ययौ ॥ ३३.११३{१३} ॥ तत्र सापि सखी तस्याः क्षेमायाः पुरतो गता । प्राभृतं तमुपस्थाप्य रहस्येवं न्यवेदयत् ॥ ३३.११४{१४} ॥ अयि भद्रमिमं पश्य प्रहितं स्वामिना तव । तदिदं त्वं समाश्लिष्य पतिमिव विभावय ॥ ३३.११५{१५} ॥ इति तयोदितं श्रुत्वा सा क्षेमा लज्जिताशया । कामविषाग्निसंत्रस्ता तस्थौ दिनमधोमुखा ॥ ३३.११६{१६} ॥ ततः सा कन्यका क्षेमा तां सखीं पुरतः स्थिताम् । सुचिरात्समुपारभ्य हर्त्सयन्त्येवमब्रवीत् ॥ ३३.११७{१७} ॥ अरे रे किं वदस्येवं स्वामी मे कात्र विद्यते । निलज्जे वद तत्केन प्रहितं प्राभृतं तव ॥ ३३.११८{१८} ॥ इत्युक्तं सा सखी श्रुत्वा क्षेमाया दुरितुः प्रभोः । आजन्मे सर्ववृत्तांतं विस्तरेण न्यवेदयत् ॥ ३३.११९{१९} ॥ एवं सख्या समाख्यातं श्रुत्वा सा नृपनंदिनी । क्षेमा संसारसंचारसमुद्विग्नाशयाभवत् ॥ ३३.१२०{२०} ॥ तत उत्थाय सा क्षेमा कन्यापि सहसा पितुः । उपेत्य चरणौ नत्वा सांजलिरेवमब्रवीत् ॥ ३३.१२१{२१} ॥ तात कामार्थिनी नाहमपि तु सद्गुणार्थिनी । सद्गुणां साधयिष्यामि तदनुज्ञां ददातु मे ॥ ३३.१२२{२२} ॥ यदहं शासने बौद्धे प्रव्रजित्वा समाहित । ब्रह्मचर्यं समाधाय प्रेछामि चरितुं प्रभो ॥ ३३.१२३{२३} ॥ तद्भवां कृपया तात संबोधिव्रतसाधने । अनुज्ञां संप्रदत्व्मे सर्वथानुग्रहं कुरु ॥ ३३.१२४{२४} ॥ (र्म् ३७५) इत्यर्थितं तया पुत्र्या श्रुत्वा स कोशलाधिपः । तां कुमारीं समालोक्य तस्थौ संदिग्धमानसः ॥ ३३.१२५{२५} ॥ ततः स जनको राजा तां क्षेमां स्वात्मजां प्रियाम् । बोधयितुं समामंत्र्य समालोक्यैवमब्रवीत् ॥ ३३.१२६{२६} ॥ नैवं पुत्रि मया कर्तुं शक्यते तत्क्षमस्व मे । यत्ते जन्मनि मे राष्ट्रे क्षेममेवं प्रजायते ॥ ३३.१२७{२७} ॥ तदापि त्वं प्रतिज्ञय ब्रह्मदत्तस्य भूपतेः । क्षेमंकराय पुत्राय संकल्पिता मयात्मजे ॥ ३३.१२८{२८} ॥ तद्यथा मे प्रतिज्ञातं वचनं पूरयात्मजे । मा कृथाः सर्वथा क्षेमे प्रव्रज्यासाधने मम ॥ ३३.१२९{२९} ॥ यथा मया प्रतिज्ञातं करिष्ये न तदन्यथा । मत्वेति मे वचः श्रुत्वा कुलधर्मे चरात्मजे ॥ ३३.१३०{३०} ॥ एवं पित्रोदितं श्रुत्वा सा क्षेमा प्रहताशया । उत्थाय स्वालये गत्वा तूष्णीभूता न्यषीदत ॥ ३३.१३१{३१} ॥ तदा स जनको राजा दूतमाहूय सादरम् । सर्वमेतत्प्रवृत्तांतं समाख्यायैवमब्रवीत् ॥ ३३.१३२{३२} ॥ गछ साधो नरेन्द्रस्य ब्रह्मदत्तस्य भूपतेः । पुर एतत्प्रवृत्तांतं निवेद्यैवं प्रबोधय ॥ ३३.१३३{३३} ॥ यदियं मे सुता क्षेमा प्रव्रजितुं समिछति । तदिमां सहसागत्वा भवानादातुमर्हति ॥ ३३.१३४{३४} ॥ इति राज्ञा समादिष्टं श्रुत्वा पुरः स सादरम् । तथेति संप्रतिज्ञाय प्रणत्वा तं ततोऽचरत् ॥ ३३.१३५{३५} ॥ तत्र स सहसा गत्वा ब्रह्मदत्तस्य भूपतेः । उपेत्य सांजलिर्नत्वा पुर एवं न्यवेदयत् ॥ ३३.१३६{३६} ॥ जय एव यदर्थेऽहं प्रेषितोऽत्र महीभृता । कोशलेन्द्रेण तद्भवां शृणोत्वेवं ब्रवीति सः ॥ ३३.१३७{३७} ॥ यदियं मे सुता क्षेमा प्रव्रजितुं समिछति । तदिमां सहसागत्वा भवानाहर्तुमर्हति ॥ ३३.१३८{३८} ॥ यथा मया प्रतिज्ञातं कर्त्तुं न शक्यतेऽन्यथा । तदहं ते कुमाराय दास्यामि स्वात्मजामिमाम् ॥ ३३.१३९{३९} ॥ एवं तेन नरेंद्रेण समाख्याय भवत्पुरः । प्रेषितोऽहमिति ज्ञात्वा तत्तत्रागंतुमर्हति ॥ ३३.१४०{४०} ॥ इति तेनोदितं श्रुत्वा ब्रह्मदत्तः स भूपतिः । तं दूतं सहसामंत्र्य पुर एवमभाषत ॥ ३३.१४१{४१} ॥ एवं चेदागमिष्यामि सपुत्रः सप्तमेऽहम् । यत्तत्कृत्यं हि तत्सर्वं कर्त्तव्यमिति कथ्यताम् ॥ ३३.१४२{४२} ॥ इत्यादिष्टं नरेंद्रेण ब्रह्मदत्तेन सांजलिः । नत्वा तथेति विज्ञप्य समुत्थाय ततोऽचरत् ॥ ३३.१४३{४३} ॥ तत्र स सहसा गत्वा स्वपुरं समुपाचरन् । नृपतिं सांजलिर्नत्वा पुर एवं न्यवेदयत् ॥ ३३.१४४{४४} ॥ जय देव यथादिष्टं ब्रह्मदत्तस्य भूपतेः । तथा विज्ञापितं सर्वं तदुक्तं याच्यते शृणु ॥ ३३.१४५{४५} ॥ (र्म् ३७६) एवं चेदागमिष्यामि सपुत्रः सप्तमेऽहनि । तद्यत्कृत्यं हि तत्सर्वं साधयितुं त्वमर्हसि ॥ ३३.१४६{४६} ॥ इति तेन नरेन्द्रेण प्रतिज्ञाय निदेशितम् । इति सत्यं परिज्ञाय सर्वं कृत्यं प्रकारय ॥ ३३.१४७{४७} ॥ इति तेनोदितं श्रुत्वा प्रसेनजित्स भूपतिः । तदर्हसर्वसामग्रीं सहसा समसाधयत् ॥ ३३.१४८{४८} ॥ तदैतत्सर्ववृत्तांतं श्रुत्वा चा दारिका सुधीः । उद्विग्नमानसा क्षेमा मनसैवं व्यचिंतयत् ॥ ३३.१४९{४९} ॥ हा किं मयात्र कर्त्तव्यं विवाहां मे भवे यतः । कामभोगं परित्यज्य वांछामि सौगतव्रतम् ॥ ३३.१५०{५०} ॥ कामा हि गर्ह्यते सद्भि वर्ण्यते सौगतं व्रतम् । तदत्र किं करिष्यामि यन्मे न गोचरं व्रते ॥ ३३.१५१{५१} ॥ धिग्जन्म तस्य संसारे यस्य न गोचरं व्रते । व्रतं विनात्र किं सारं कामभोग्यै गुणैरपि ॥ ३३.१५२{५२} ॥ तदत्र क्व गमिष्यामि निमग्ना कामपंकिले । को मे त्राता भवेदत्र संबुद्धादपरः कृती ॥ ३३.१५३{५३} ॥ तदत्र तं जगन्नाथं सर्वज्ञं सर्वतायिनम् । संस्मृत्वा शरणं गत्वा प्रार्थये साधुनादरात् ॥ ३३.१५४{५४} ॥ नूनं बुद्धो जगन्नाथो जगच्छास्ता मुनीश्वरः । कृपया मां समालोक्य बुद्धव्रते नियोजयेत् ॥ ३३.१५५{५५} ॥ यदि मे दैवयोगेन व्रतं नैव लभेय हि । संबुद्धशरणोद्भूतं पुण्यं तु लभ्यते ध्रुवम् ॥ ३३.१५६{५६} ॥ संबुद्धस्मृतिजं पुण्यं न क्षिणोति कदा चन । संबुद्धसंवरं दद्यादिति प्रज्ञैर्निगद्यते ॥ ३३.१५७{५७} ॥ तदहं तं जगन्नाथं स्मृत्वात्र मरणं वरम् । न तु कामविषं भोक्ष्ये भोज्ये पुण्यामृतं ध्रुवम् ॥ ३३.१५८{५८} ॥ इति निश्चित्य सा क्षेमा स्नात्वा शुद्धाम्वरावृता । शरणपृष्ठमारुह्य अभवद्दिन्मुखा स्थिता ॥ ३३.१५९{५९} ॥ जानुभ्यां भुवि संस्थिता कृतांजलिपुटा मुदा । भगवन्तमनुस्मृत्वा नत्वैवं प्रार्थयत्त्रिधा ॥ ३३.१६०{६०} ॥ भगवन्नाथ सर्वज्ञ सर्वसत्वानुकंपक । ब्रह्मचारिन्महाभिज्ञ महर्षे दुरितान्तकः ॥ ३३.१६१{६१} ॥ प्रशमोपायविद्विज्ञ शान्त चित्त महामुने । त्वमेव हि जगन्नाथ तत्तेऽहं शरणं व्रजे ॥ ३३.१६२{६२} ॥ तन्मां भवोदधौ मग्नां कृपयोद्धर्तुमर्हति । इति संप्रार्थिते सत्यो कन्यया क्षेमया तया । भगवान् कृपया दृष्ट्या ददर्श तां शुभाशयाम् ॥ ३३.१६३{६३} ॥ ततः स भगवान् दृष्ट्वा तां क्षेमां बोधिभाविनीम् । ऋद्ध्याकशात्समागत्य तत्र क्षेमान्तिके ययौ ॥ ३३.१६४{६४} ॥ तत्र तं श्रीघनं दृष्ट्वा सा क्षेमा सहसोत्थिता । प्रज्ञप्य स्वासनं नत्वा सांजलिरेवमब्रवीत् ॥ ३३.१६५{६५} ॥ भगवन्नाथ संबुद्ध प्रविशात्रासने शुभे । प्रसीद कृपयपायान्मां समुद्धर्तुमर्हसि ॥ ३३.१६६{६६} ॥ (र्म् ३७७) इति तस्यार्थितं श्रुत्वा भगवान् स मुनीश्वरः । तां क्षेमां भद्रिकां कन्यां समालोक्यैवमादिशत् ॥ ३३.१६७{६७} ॥ मा भैषि भद्रिके कन्ये त्वदीहितं समृध्यति । तथा मे शरणं गत्वा चर शुभे समाहिता ॥ ३३.१६८{६८} ॥ इत्यादिश्य पुनस्तस्याः संबोधिपदसाधनम् । आर्य्यसत्यं समारभ्य सद्धर्मं समुपादिशत् ॥ ३३.१६९{६९} ॥ तदार्य्यधर्ममाकर्ण्य क्षेमा परिबोधिता । अनागामिफलं प्राप्ता लब्धाभिज्ञाभवत्तदा ॥ ३३.१७०{७०} ॥ ततः सा मुदिता कन्या दृष्टसत्या प्रसादिता । सांजलिस्तं मुनिं नत्वा प्रार्थयच्चैवमादरात् ॥ ३३.१७१{७१} ॥ भगवन् सर्वविन्नाथ सदैवं कृपया भवान् । दृष्ट्वा मां सौगते धर्मे नियोज्य त्रातुमर्हति ॥ ३३.१७२{७२} ॥ इत्यर्थितं तया श्रुत्वा भगवान् स मुनीश्वरः । तथा हीति प्रतिज्ञाय तथार्द्ध्या चाश्रमे ययौ ॥ ३३.१७३{७३} ॥ तदा सा कन्यका क्षेमा संबुद्धशरणं गता । संस्मृत्य श्रद्धया नित्यं प्राचरन्मुदिता शुभे ॥ ३३.१७४{७४} ॥ तदा स ब्रह्मदत्तोऽपि पुत्रपुरोहितादिभिः । स्वजनैः सहसोत्साहैः श्रावस्त्यां समुपाचरत् ॥ ३३.१७५{७५} ॥ तदागतं समाकर्ण्य प्रसेनजित्स भूपतिः । सहसा मंगलोत्साहैः प्रत्युद्ययौ तमादरात् ॥ ३३.१७६{७६} ॥ तत्र स कोशलेशस्तं ब्रह्मदत्तं नराधिपम् । उपेत्य कुशलं दृष्ट्वा स्वपुरे संन्यवेशयत् ॥ ३३.१७७{७७} ॥ तत्रानेकाः समायाता लोकाः सर्वे प्रमोदिताः । तद्विवाहमहोत्साहं द्रष्टुं समुपतस्थिरे ॥ ३३.१७८{७८} ॥ ततः स कौशलो राजा तद्विवाहदिने शुभे । साधितसर्वसामग्रीं होतुः समत्यढौकयत् ॥ ३३.१७९{७९} ॥ तदा क्षेमा कुमारी सा सर्वालंकारभूषिता । मात्रा सह समागत्य तत्रासने समाश्रयत् ॥ ३३.१८०{८०} ॥ क्षेमंकरकुमारोऽपि सर्वालंकारभूषितः । पित्रा सह समागत्य तत्रासने उपाविशत् ॥ ३३.१८१{८१} ॥ ततः स विधिविद्धोता शुद्धासने समाश्रयन् । विधिनाग्निं समावाह्य स हव्यैः समतर्पयत् ॥ ३३.१८२{८२} ॥ ततः पुरोहितो विप्रस्तद्वेला समुपागते । क्षेमंकराय तां क्षेमां संकल्पयितुमारभत् ॥ ३३.१८३{८३} ॥ यथाविधि समारभ्य ब्राह्मणः स पुरोहितः । क्षेमाया हस्तमादाय कुमारस्यास्य प्राग्रहीत् ॥ ३३.१८४{८४} ॥ तस्मिन्नेव क्षणे तत्र सा क्षेमा सहसोद्गता । पक्षिवत्खं समाश्रित्य तस्थौ ध्यात्वा मुनीश्वरम् ॥ ३३.१८५{८५} ॥ तात्र सा भासयन्त्येव स्थिता चिरं समाहिता । प्रातिहार्याणि चित्राणि विविधान्यभ्यदर्शयत् ॥ ३३.१८६{८६} ॥ तद्दृष्ट्वा कौशलो राजा प्रसेनजित्पितापि सः । ब्रह्मदत्तो नरेन्द्रोऽपि पुरोहितो द्विजोऽपि सः ॥ ३३.१८७{८७} ॥ क्षेमंकरः कुमारोऽपि सर्वेऽपि ब्राह्मणाश्च ते । अमात्या मंत्रिणश्चापि सर्वे सैन्यगणा अपि ॥ ३३.१८८{८८} ॥ (र्म् ३७८) पौराश्चापि स्त्रियोऽन्येऽपि दारका दारिका अपि । सर्वेऽतिविस्मयाक्रांतहृदया अवतस्थिरे ॥ ३३.१८९{८९} ॥ तत्र क्षेमंकरो राजकुमारो ब्राह्मणैः सह । तां क्षेमां सांजलिर्नत्वा प्रार्थयदेवमादरात् ॥ ३३.१९०{९०} ॥ नमस्ते भगिनि क्षेमे यत्तेऽहं कामलालसाः । पाणिं ग्रहीतुमिछामि तत्क्षमस्व दयानिधे ॥ ३३.१९१{९१} ॥ यदेवं त्वं महाभिज्ञापदप्राप्ता महर्द्धिका । यत्कामान् परिभुंजीथा इत्यस्थानमेव हि ॥ ३३.१९२{९२} ॥ तत्क्षमस्व त्वमाकाशादवतीर्य महीतले । सर्वलोकाभिबोधार्थं सद्धर्मं समुपादिश ॥ ३३.१९३{९३} ॥ इति संप्रार्थितं तेन कुमारेण निशम्य सा । क्षेमा प्रसन्नास्या तत्राकाशादवातरत् ॥ ३३.१९४{९४} ॥ तत्र सा समुपागत्य जनकाये सभासने । स्थित्वार्यसत्यमारभ्य सद्धर्मं समुपादिशत् ॥ ३३.१९५{९५} ॥ तत्सद्धर्मामृतं पीत्वा सर्वे लोकाः प्रबोधिताः । सत्यमिति परिज्ञाय प्राभ्यनन्दन् प्रसादिताः ॥ ३३.१९६{९६} ॥ ततः क्षेमंकरः पित्रा सह तं कोशलाधिपम् । आमंत्र्य तद्गुणाहृष्टमनाः स्वं नगरं ययौ ॥ ३३.१९७{९७} ॥ ततः सा कन्यका क्षेमा साञ्जलिः पुरतो गता । पितुः पादाम्बुजे नत्वा प्रार्थयेदेवमादरात् ॥ ३३.१९८{९३} ॥ नाहं कामार्थिनी तात संबुद्धशरणार्थिनी । तदितः शासने बौद्धे गन्तुमिछामि सांप्रतम् ॥ ३३.१९९{९९} ॥ तद्यदि ते मयि प्रीतिरस्ति धार्मेऽपि वा रुचिः । तदत्र कृपयानुज्ञां दातुमर्हति मे पित ॥ ३३.२००{१००} ॥ इति संप्रार्थितं पुत्र्या श्रुत्वा स कौशलाधिपः । तां क्षेमां स्वात्मजां कन्यां चिरं दृष्ट्वैवमब्रवीत् ॥ ३३.२०१{१} ॥ किमेत्र वक्ष्यते पुत्रि यत्त्वं सद्धर्मवांछिनी । किं चाप्यसि महाभिज्ञावती प्रज्ञावती सुधीः ॥ ३३.२०२{१} ॥ किं तु त्वं दारिका कन्या शीतवातातपाहता । तत्प्रव्रज्याव्रतं वाल्ये चरितुं शक्नुयाः कथम् ॥ ३३.२०३{३} ॥ सद्धर्म यदि ते वांछा गृहे स्थित्वा समाहिता । त्रिरत्नभजनं कृत्वा सद्धर्मं साधयात्मजे ॥ ३३.२०४{४} ॥ त्रिरत्नभजनोद्भूतं पुण्यं सद्धर्मसाधनम् । तेन संबोधिमासाद्य संबुद्धपदमाप्नुयाः ॥ ३३.२०५{५} ॥ एवं मत्वा स्वगेहे त्वं शुद्धशीलव्रतावृता । त्रिरत्नभजनं कृत्वा चर नित्यं शुभे सदा ॥ ३३.२०६{६} ॥ इति पित्रोदितं श्रुत्वा शा क्षेमा कामनिःस्पृहा । पितरं तं समालोक्य पुनरेवमभाषत ॥ ३३.२०७{७} ॥ न मे तात गृहावासे क्लेशमारगणाकुले । क्षणं स्थातुं मनस्तेन वांछति सौगतं व्रतम् ॥ ३३.२०८{८} ॥ सर्वेऽपि सौगतः सन्तो विहारे सुगताश्रमे । सदा धर्मामृतं भुक्त्वा वसन्ति सद्गुणोद्यताः ॥ ३३.२०९{९} ॥ (र्म् ३७९) त एव सद्गुणाधारा बोधिसत्वाः सुखान्विताः । यावज्जीवं व्रतं धृत्वा यान्ति चान्ते जिनालयम् ॥ ३३.२१०{१०} ॥ इति दृष्ट्वाहमिछामि प्रव्रजितुं जिनाश्रमे । तद्भवान् कृपयानुज्ञां दातुमर्हति मे प्रभो ॥ ३३.२११{११} ॥ इति संप्रार्थितं पुत्र्या श्रुत्वा स बोधितः पिता । तथानुमोदनां कृत्वा तां क्षेमामेवमब्रवीत् ॥ ३३.२१२{१२} ॥ किं मया वक्ष्यते वत्से त्वमेवं सत्सुभार्थिनी । तद्व्रज शासने बौद्धे व्रतं चर समाहिता ॥ ३३.२१३{१३} ॥ इति पित्राभ्यनुज्ञातं श्रुत्वा सा मुदिताशया । क्षेमा तस्य पितुः पादौ नत्वैव निर्ययौ ततः ॥ ३३.२१४{१४} ॥ ततः सा मुदिता क्षेमा सहसा तत्र जिनाश्रमे । गता तं श्रीघनं दृष्ट्वा मुदिता समुपाचरत् ॥ ३३.२१५{१५} ॥ तत्र सा साञ्जलिर्नत्वा सास्तारं तं मुनीश्वरम् । पुरतः समुपासीना प्रार्थयदेवमादरात् ॥ ३३.२१६{१६} ॥ भगवन्नाथ सर्वज्ञ भवतां शरणं व्रजे । तत्प्रव्रज्याव्रतं दत्वा सदा मेऽनुग्रहं कुरु ॥ ३३.२१७{१७} ॥ इत्यर्थितं तया श्रुत्वा भगवान् स मुनीश्वरः । तच्छिरो दक्षहस्तेन पृष्ट्वा तामेवमब्रवीत् ॥ ३३.२१८{१८} ॥ एहि वत्से प्रगछ त्वं गौतम्याः शरणं व्रज । सा माता भिक्षुणीशास्ता प्रव्रज्यां ते प्रदास्यति ॥ ३३.२१९{१९} ॥ इत्यादिष्टं मुनीन्द्रेण श्रुत्वा सा मुदिताशया । क्षेमा तस्या जगन्मातुर्गौतम्याः समुपाचरत् ॥ ३३.२२०{२०} ॥ तत्र सा समुपासृत्य दृष्ट्वा तां गौतमीं मुदा । कृताञ्जलिपुटो नत्वा प्रार्थयदेवमादरात् ॥ ३३.२२१{२१} ॥ जगन्मातरहं क्षेमा भवत्याः शरणं व्रजे । तन् प्रव्रज्याव्रतं मह्यं भवन्ती दातुमर्हति ॥ ३३.२२२{२२} ॥ इत्यर्थितं तया श्रुत्वा गौतामी सा प्रसादिता । तच्छिरो दक्षहस्तेन पृष्ट्वैवं तामभाषत ॥ ३३.२२३{२३} ॥ एहि भिक्षुणि वत्से शासने सौगते शुभे । प्रव्रज्यासंवरं धृत्वा ब्रह्मचर्यं समाचर ॥ ३३.२२४{२४} ॥ एहीति समादिष्टे गौतम्यास्य शुभाशया । क्षेमाभून्मुण्डिता पात्रधरा सुचीवरावृता ॥ ३३.२२५{२५} ॥ ततः सा भिक्षुणी क्षेमा सौम्यरूपा जितेन्द्रिया । भित्वाऽविद्यागणान् दुष्टान् प्राप्तविद्यागणाञ्छुभान् ॥ ३३.२२६{२६} ॥ समाधिधारणीविद्या घटमाना समुद्यता । महाभिज्ञापदप्राप्ता संबोधिपदसाधिनी ॥ ३३.२२७{२७} ॥ ततः सा सुमतीर्मत्वा भवचक्रं चलाचलम् । मत्वा च सर्वसंस्कारगतिश्चापि विघातिनीः ॥ ३३.२२८{२८} ॥ सर्वक्लेशगणान् हित्वा जित्वा मारगणानपि । साक्षादर्हत्पदं प्राप्य बभूव ब्रह्मचारिणी ॥ ३३.२२९{२९} ॥ ततः साकाशसादृश्या निर्विकल्पा निरंजना । वासिचंदनकल्पांशा परिशुद्धत्रिमंडला ॥ ३३.२३०{३०} ॥ संसारलाभसत्कारनिःस्पृहा सर्वदेहिनाम् । (र्म् ३८०) स देवासुरलोकानां वंद्या पूज्याभवत्सती ॥ ३३.२३१{३१} ॥ ततः स भगवाञ्छास्ता सर्वज्ञोऽर्हन्मुनीश्वरः । सर्वान्स्तां श्रावकां भिक्षून् समामंत्र्यैवमादिशत् ॥ ३३.२३२{३२} ॥ एषाग्रा भिक्षवः सर्वभिक्षूणीनां ममाश्रमे । अभिज्ञाप्रतिभाणसत्प्रज्ञानां यदियं सुधीः ॥ ३३.२३३{३३} ॥ क्षेमाख्या भिक्षुणी सत्यवादिनी ब्रह्मचारिणी । सत्यद्वयपरिज्ञाता संबोधिपदगामिनी ॥ ३३.२३४{३४} ॥ इत्यादिष्टे मुनीन्द्रेण सर्वे ते सांघिका अपि । विस्मितास्तं मुनिं नत्वा पप्रछुस्तत्पुराकृतम् ॥ ३३.२३५{३५} ॥ भगवन्ननया कर्म किं पुरा सुकृतं कृतम् । येनेयं भद्रिका क्षेमा प्रज्ञावती महर्द्धिका ॥ ३३.२३६{३६} ॥ महाप्रज्ञावतीनां च सर्वासामपि सद्धियाम् । महर्द्धिप्रतिभाणानामग्रा निर्दिश्यते त्वया ॥ ३३.२३७{३७} ॥ तदिमे सांघिकाः सर्वे श्रोतुमिछंति सांप्रतम् । तत्सर्वं समुपादिश्य सर्वाल्लोकान् प्रबोधय ॥ ३३.२३८{३८} ॥ इति तैः प्रार्थितं श्रुत्वा भगवान् स मुनीश्वरः । सर्वान्स्तान् सांघिकान् भिक्षून् समालोक्यैवमादिशत् ॥ ३३.२३९{३९} ॥ शृणुत भिक्षवः सर्वे पुरा यदनया कृतम् । तदहं संप्रवक्ष्यामि सर्वलोकाभिबोधने ॥ ३३.२४०{४०} ॥ पुराभूत्काश्यपो नाम तथागतो मुनीश्वरः । सर्वज्ञोऽर्हञ्जगच्छास्ता सुगतो धर्माधिपो जिनः ॥ ३३.२४१{४१} ॥ वाराणस्यामुपारण्ये मृगदावे जिनाश्रमे । सद्धर्मं समुपादिश्य विजहार ससांघिकः ॥ ३३.२४२{४२} ॥ तच्छासने तदा श्रेष्ठिदुहिता शरणं गता । प्रव्रज्याव्रतमादाय प्रचचार समाहिता ॥ ३३.२४३{४३} ॥ सा तत्र शासने बौद्धे ददौ दानं समादरात् । द्वादशाब्द सहस्राणि ब्रह्मचर्यं चचार च ॥ ३३.२४४{४४} ॥ न केस्मिं विगुणेऽभ्यासं चकार सा निरुद्यमा । केवलं संवरं धृत्वा त्रिरत्नं सर्वदाभजत् ॥ ३३.२४५{४५} ॥ तस्यायाभूदुपाध्याया भिक्षुणी ब्रह्मचारिणी । सा काश्यपेन निर्दिष्टा प्रज्ञावतीगणाग्रगा ॥ ३३.२४६{४६} ॥ तत्समाकर्ण्य सा साध्वी भिक्षुणी चानुमोदिता । मनसैवं समाधाय प्रणिधानं व्यधान्मुदा ॥ ३३.२४७{४७} ॥ यथायमुत्तरो विप्रो व्याकृतस्तेन तायिना । कलौ शाक्यमुनिर्नाम तथागतो भवेदिटि ॥ ३३.२४८{४८} ॥ तदा तस्य मुनीन्द्रस्य शासने शरणं गता । प्रव्रज्यासंवरं धृत्वा चरेयं ब्रह्मचारिकाम् ॥ ३३.२४९{४९} ॥ अहमपि तया तत्र प्रज्ञावतीगणाधिपा । भवेय हि यथापीयमुपाध्याया ममाधुना ॥ ३३.२५०{५०} ॥ सदैतत्प्रणिधानेन चरंति सा शुभाशया । त्रिरत्नस्मरणं कृत्वा समये मरणं ययौ ॥ ३३.२५१{५१} ॥ यासौ श्रेष्ठिसुता ह्येषा क्षेमा राजसुताधुना । यान्मेति भिक्षवो यूयं मन्यध्वं व्रतमेव हि ॥ ३३.२५२{५२} ॥ (र्म् ३८१) यत्तदा प्रकृतं दानं काश्यपशासनेऽनया । एतद्धर्मविपाकेन भवतीयं नृपात्मजा ॥ ३३.२५३{५३} ॥ यच्चापि ह्यनया तत्र ब्रह्मचर्यं सुपालितम् । एतत्पुण्यैरिहार्हन्ती भवतीयं किलाऽधुना ॥ ३३.२५४{५४} ॥ यद्यापि ह्यनया तत्र प्रणिधानं कृतं यथा । तथेयं भवति ह्यत्र प्रज्ञावतीगणाधिपा ॥ ३३.२५५{५५} ॥ एवं हि यत्कृतं येन तेनैव भुज्यते फलम् । अभुक्तं क्षीयते नैव कर्म क्वापि कदा चन ॥ ३३.२५६{५६} ॥ नाग्निभिर्दह्यते कर्म क्लिद्यते नोदकैरपि । वायुभिः शुष्यते नैव क्षीयते नापि भूमिषु ॥ ३३.२५७{५७} ॥ न प्रणश्यंति कर्माणि जन्मकल्पशतैरपि । सामाग्रीं प्राप्य काले हि फलन्ति प्राणिनां खलु ॥ ३३.२५८{५८} ॥ अन्यथापि भवेन्नैव कृतकर्मफलं क्वचित् । कृष्णकर्मविपाके हि दुःखतैव सदा भवे ॥ ३३.२५९{५९} ॥ शुभकर्मविपाके तु सुखतैव सदा भवेत् । मिश्रितकर्मपाकेन मिश्रितता सदैव हि ॥ ३३.२६०{६०} ॥ यथैव यत्कृतं कर्म तथैव तत्फलं ध्रुवम् । एवं मत्वात्र संसारे सर्वदा शुभवांछिभिः ॥ ३३.२६१{६१} ॥ त्रिरत्नभजनं कृत्वा चरितव्यं सदा शुभे ॥ ३३.२६२{६२} ॥ इत्यादिष्टं मुनीन्द्रेण श्रुत्वा ते सर्वसांघिकाः । तथेति प्रतिविज्ञप्य प्राभ्यनन्दन् प्रबोधिताः ॥ ३३.२६३{६३} ॥ एतन्मे गुरुणादिष्टं श्रुतं मया तथोच्यते । त्वं चाप्येवं महाराज चर नित्यं शुभे सदा ॥ ३३.२६४{६४} ॥ प्रजाश्चापि तथा राजन् बोधयित्वा प्रयत्नतः । बोधिमार्गे प्रतिष्ठाप्य पालयस्व समाहितः ॥ ३३.२६५{६५} ॥ तेन ते सर्वदा नित्यं सर्वत्रापि शुभं भवेत् । क्रमाद्बोधिं च संप्राप्य संबुद्धपदमाप्नुयाः ॥ ३३.२६६{६६} ॥ इति तेनार्हतादिष्टं श्रुत्वाऽशोकः स भूपतिः । तथेति प्रतिविज्ञप्य प्राभ्यनन्दत्सपार्षदः ॥ ३३.२६७{६७} ॥ क्षेमावदानं मनुजा इदं ये शृण्वंति चापि निशामयन्ति । ते सर्व एवं सततं सुखानि भुक्त्वा प्रयान्त्येव जिनालयन् ते ॥ ३३.२६८{६८} ॥ ++ इति रत्नावदानतत्वे क्षेमावदानं समाप्तम् ++ (र्म् ३८२) xxxइवारामिकावदान अथाशोको महीपालः कृताञ्जलिः प्रमोदितः । उपगुप्तं यतिं नत्वा पुनरेवमभाषत ॥ ३४.१{१} ॥ भदन्त श्रोतुमिछामि पुनरन्यत्सुभाषितम् । तद्यथा गुरुणादिष्टं तथादेष्टुञ्च मेऽर्हति ॥ ३४.२{२} ॥ इति संप्रार्थितं राज्ञा श्रुत्वा सोऽर्हन्महामतिः । तमशोकं महाराजं समालोक्यैवमादिशत् ॥ ३४.३{३} ॥ शृणु साधु महाराज यथा मे गुरुणोदितम् । तथात्राहं प्रवक्ष्यामि तव धर्मप्रवृद्धये ॥ ३४.४{४} ॥ तद्यथा भगवान् बुद्धः शाक्यसिंहो मुनीश्वरः । सर्वज्ञः सुगतो शास्ता धर्मराजस्तथागतः ॥ ३४.५{५} ॥ श्रावकैर्भिक्षुभिः सार्द्धं भिक्षुणीभिरुपासकैः । उपासिकागणैश्चापि चैलकैश्चापि तीर्थिकम् ॥ ३४.६{६} ॥ बोधिसत्वैर्महासत्वैः सर्वसत्वहितंकरम् । ऋषिभिर्योगिभिश्चापि यतिभिर्ब्रह्मचारिभिः ॥ ३४.७{७} ॥ श्रावस्त्या बहिरुद्याने जेतारण्ये जिनाश्रमे । विहारे व्यहरल्लोकहितार्थं धर्ममादिशन् ॥ ३४.८{८} ॥ तत्सद्धर्मामृतं पातुं सर्वे सत्वाः प्रमोदिताः । शक्रब्रह्मादयो देवाः सर्वलोकाधिपा अपि ॥ ३४.९{९} ॥ नगेन्द्रा असुरेन्द्राश्च यक्षगंधर्वकिन्नराः । सिद्धा विद्याधराः साध्या गरुडा राक्षसा अपि ॥ ३४.१०{१०} ॥ ब्राह्मणाः क्षत्रिया भूपा राजपुत्राश्च मंत्रिणः । अमात्याः श्रेष्ठिनः पौर गृहाधिपा महाजनाः ॥ ३४.११{११} ॥ वणिजः सार्थवाहाश्च शिल्पिनोऽपि शुभार्थिनः । ग्राम्या जानपदाश्चान्यलोकाः कार्पटिकादयः ॥ ३४.१२{१२} ॥ सर्वे ते समुपाश्रित्य विहारे तं मुनीश्वरम् । दृष्ट्वा साञ्जलयो नत्वा मुदिताः समुन्पाविशन् ॥ ३४.१३{१३} ॥ तत्र सर्वेऽपि ते नाथं तमभ्यर्च्य यथाक्रमम् । त्रिधा प्रदक्षिणीकृत्य प्रणत्वा समुपाश्रयन् ॥ ३४.१४{१४} ॥ तदा तान् समुपासीनां दृष्ट्वा स भगवाञ्जिनः । आर्यसत्यं समारभ्य सद्धर्मं समुपादिशत् ॥ ३४.१५{१५} ॥ तत्सद्धर्मामृतं पीत्व सर्वे ब्रह्मादयोऽपि ते । लोकाः सत्यमिति मत्वा प्राभ्यनन्दन् प्रबोधिताः ॥ ३४.१६{१६} ॥ तस्मिन्नवसरे कश्चित्ऽसौऽथ आरमिकः सुधीः । दन्तकाष्ठं समादाय श्रावस्त्यां समुपाविशत् ॥ ३४.१७{१७} ॥ तत्र नैमित्तिको द्वारेऽवस्थितस्तमागतम् । दृष्ट्वा तद्दन्तकाष्ठं च समालोक्यैवमुपागमत् ॥ ३४.१८{१८} ॥ (र्म् ३८३) वतैतद्दन्तकाष्ठं यो भक्षयिष्यति मानवः । नूनं णतरणं भोग्यं प्रभोक्ष्यति स भाग्यवान् ॥ ३४.१९{१९} ॥ एतत्तेनोदितं श्रुत्वा स आरमिक उन्मुखः । तत्रैव क्षणमाश्रित्य मनसैवं व्यचिन्तयत् ॥ ३४.२०{२०} ॥ कस्मायेतदहं दद्यां संमानो येन मे भवेत् । एवं ध्यात्वा पुनस्तत्र मनसैवं व्यचिन्तयत् ॥ ३४.२१{२१} ॥ यदयं भगवान् बुद्धः सर्वत्रैधातुकाधिपः । जगच्छास्ता जगन्नाथो धर्मराजो मुनीश्वरः ॥ ३४.२२{२२} ॥ यदस्मै दीयते किञ्चिदपि तत्फलमुत्तमम् । अप्रमेयमसंख्येयं महत्ख्यातं श्रुतं मया ॥ ३४.२३{२३} ॥ तदस्मै धर्मराजाय बुद्धाय सर्वतायिने । जगच्छास्त्रे मुनीन्द्राय दद्यां काष्ठमिदं न्वहम् ॥ ३४.२४{२४} ॥ इति ध्यात्वा विनिश्चित्य स आरमिक आदरात् । दन्तकाष्ठं तदादाय जेतोद्याने उपाचरत् ॥ ३४.२५{२५} ॥ तत्र तं श्रीघनं दृष्ट्वा भिक्षुसंघपुरस्कृतम् । विहारे स प्रसन्नास्याः प्रविष्टः समुपाचरत् ॥ ३४.२६{२६} ॥ तत्र तस्य मुनीन्द्रस्य दन्तकाष्ठं तदादरात् । उपस्थाप्य प्रणत्वा स सांजलिरेवमब्रवीत् ॥ ३४.२७{२७} ॥ भगवन्नाथ सर्वज्ञ ममानुग्रहकारणात् । दन्तकाष्ठमिमं शास्ता भवानादातुमर्हति ॥ ३४.२८{२८} ॥ एवं संप्रार्थिते तेन भगवान् स मुनीश्वरः । दृष्ट्वा तत्काष्ठमादाय तस्याग्रतो व्यसृजत ॥ ३४.२९{२९} ॥ तदा तत्काष्ठमादाय स उद्यानपालको मुदा । तत्रैव सौगतारामे निखन्य निदधे भुवि ॥ ३४.३०{३०} ॥ तत्र निहितमात्रं तत्काष्ठं मूलप्रतिष्ठितम् । महच्छाखाहरित्पत्रपुष्पफलसमृद्धितः ॥ ३४.३१{३१} ॥ तत्क्षणेन महान् वृक्षो न्यग्रोधः परिमण्डलः । सर्वसत्वमनोहारी महामेघ इवाभवत् ॥ ३४.३२{३२} ॥ तत्र स भगवान् गत्वा तच्छायां समुपाश्रयन् । सभामध्यासनासीनः सद्धार्मं समुपादिशत् ॥ ३४.३३{३३} ॥ एतदद्भुतमालोक्य सर्वे लोकाः सविस्मयाः । तत्सद्धर्मामृतं पीत्वा प्राभ्यनन्दन् प्रमोदिताः ॥ ३४.३४{३४} ॥ तदा तत्र महात्मा स गृहीशोऽनाथपिण्डदः । समागत्य मुनीन्द्रं तं नत्वैवं प्रार्थयन्मुदा ॥ ३४.३५{३५} ॥ भगवन्नहमद्येह भगवन्तं ससांघिकम् । पूजयितुं समिछामि तन्ममानुग्रहं कुरु ॥ ३४.३६{३६} ॥ इति तत्प्रार्थितं श्रुत्वा भगवान् स मुनीश्वरः । तथेति तं समालोक्य तूष्णीं भूत्वाध्युवास तत् ॥ ३४.३७{३७} ॥ तदधिवासितं शास्त्र मत्वा सोऽनाथपिण्डदः । तत्रासनानि प्रज्ञप्य तत्सामग्रीं समानयत् ॥ ३४.३८{३८} ॥ तदा स भगवान्स्तत्र ससांघिकः समुत्थितः । तद्दत्तं पाद्यमादाय स्वस्वासने समाश्रयत् ॥ ३४.३९{३९} ॥ तत्रासनसमासीनं तं मुनीन्द्रं ससांघिकम् । (र्म् ३८४) दृष्ट्वा स मुदितः श्रेष्ठी यथाक्रमं समर्चयेत् ॥ ३४.४०{४०} ॥ ततः शतरसै भोज्यैः सुप्रणीतैः स दीनभृत् । संबुद्धप्रमुखं सर्वसंघं तं समतर्पयत् ॥ ३४.४१{४१} ॥ ततः स श्रीघनं सर्वसंघं च परितुष्टितम् । मत्वा पनीयपात्राणि तद्धस्तादीं व्यशोधयत् ॥ ३४.४२{४२} ॥ ततः क्रमुकताम्बूलगणौषधीरसायनम् । दत्वा स सांजलिर्नत्वा ससंघं तमुपाश्रयत् ॥ ३४.४३{४३} ॥ ततः स भगवान् दृष्ट्वा तं गृहस्थमुपस्थितम् । आदिमध्याम्टकल्याणं साशिषं धर्ममादिशत् ॥ ३४.४४{४४} ॥ तद्दृष्ट्व समहोत्साहमारमिकः स मोहितः । नैमित्तिकसमाख्यातं सत्यं मत्वाभ्यनंदत ॥ ३४.४५{४५} ॥ ततः स सुप्रसन्नात्मा आरामिकः प्रमोदितः । समुत्थाय मुनीन्द्रस्य पुरतः समुपाचरत् ॥ ३४.४६{४६} ॥ तत्र तस्य मुनीन्द्रस्य पादयोः स कृताञ्जलिः । प्रणत्वा मनसा बोधिप्रणिधानं व्यधान्मुदा ॥ ३४.४७{४७} ॥ यदस्मै धर्मराजाय जगच्छास्त्रै जगद्भुते । मयात्र श्रद्धया दत्तकाष्ठमात्रं समर्प्पितम् ॥ ३४.४८{४८} ॥ एतत्पुण्यविपाकेन चरित्वाहं शुभे सदा । प्रत्येकां बोधिमासाद्य निर्वृतिपदमाप्नुयाम् ॥ ३४.४९{४९} ॥ इति तेन सुचित्तेन प्रणिधानं कृतं सदा । मत्वा स भगवान् स्मितं विससर्ज सरश्मिकम् ॥ ३४.५०{५०} ॥ ततस्ते रश्मयः सर्वा मुनिमुखाब्जनिःसृताः । नाना वर्णाः समन्तेषु भुवनेषु स भासयन् ॥ ३४.५१{५१} ॥ ये चाधो भुवने याताः सर्वत्र नरकेषु ते । अवभास्य सुखीकृत्य नारकीयान् प्रचेरिरे ॥ ३४.५२{५२} ॥ तद्रश्मिसंपरिस्पृष्टाः सर्वे ते नरकस्थिताः । निर्दुःखाः सुखसंपन्ना विस्मिता एवमूचिरे ॥ ३४.५३{५३} ॥ अहो चित्रं कथं दुःखं प्रस्रब्धं जायते सुखम् । इतश्च्युताः कुहान्यत्र संप्राप्ताः सांप्रतं वयम् ॥ ३४.५४{५४} ॥ इति संदिग्धचित्तानां तेषां नरकवासिनाम् । बोधार्थं निर्मितं बुद्धं भगवान् व्यसृजत्तदा ॥ ३४.५५{५५} ॥ तन्निर्मितं मुनिं दृष्ट्वा सर्वे ते नरकस्थितिताः । महच्चित्रसमाक्रान्तहृदयाश्चैवमूशिरे ॥ ३४.५६{५६} ॥ नैवान्यत्र गता सर्वे इहैव संस्थिता वयम् । किन्त्वयं पुरुषोऽपूर्वदर्शनः समुपागतः ॥ ३४.५७{५७} ॥ नूनमयं महासत्त्वः समीक्ष्यास्मान् सुदुःखिनः । कृपया चोदितः सर्वान् समुद्धर्त्तुमिहागतः ॥ ३४.५८{५८} ॥ तदस्य पुरुषस्यात्र सर्वैरस्माभिरादरात् । श्रद्धया शरणं गत्वा कर्त्तव्यं भजनं मुदा ॥ ३४.५९{५९} ॥ इति संभाष्य ते सर्वे नारकीया प्रसादिताः । तस्य निर्मितबुद्धस्य प्राभजञ्छरणं गताः ॥ ३४.६०{६०} ॥ (र्म् ३८५) तदैतद्भजनोत्पन्नैः पुण्यैस्ते नरकोत्थिताः । निर्मुक्तपातकाः सर्वे शुद्धकाया दिवं ययुः ॥ ३४.६१{६१} ॥ एवं ते रश्मयः सर्वे सर्वान्स्तान्निरयाशृतान् । अवभास्य समुद्धृत्य प्रत्याययुर्मुनेः पुरः ॥ ३४.६२{६२} ॥ एवमुर्द्धगता ये च रश्मयस्ते प्रसारिताः । अवभास्य दिशः सर्वाः संप्रसुस्रुः सुरालयान् ॥ ३४.६३{६३} ॥ सर्वान् देवालयांश्चैवमवभास्य समन्ततः । गत्वाकनिष्ठपर्यन्तं सर्वान् देवानचोदयन् ॥ ३४.६४{६४} ॥ अनित्यं खलु संसारं दुःखशून्यमनात्मकम् । पुण्यमेव जगत्सारं मत्वा तच्चिनुतादरात् ॥ ३४.६५{६५} ॥ निष्क्रामतारभध्वं तद्युज्यध्वं बुद्धशासने । मारसैन्यान् विनिर्जित्य चरध्वं संवरे सदा ॥ ३४.६६{६६} ॥ योऽप्रमत्तो मुनीन्द्रस्य शासने संचरिष्यते । स हित्वा जन्म संसारे दुःखस्यान्तं करिष्यति ॥ ३४.६७{६७} ॥ इत्युद्घोषैः सुरान् सर्वाञ्चोदयित्वा समन्ततः । सर्वे ते रश्मयस्तत्र पुरः प्रत्याययुर्मुनेः ॥ ३४.६८{६८} ॥ तत्र ते रश्मयः सर्वेऽप्येकीभूताश्च पिण्डिताः । मुनिं प्रदक्षिणीकृत्य तदूर्णायां समाविशन् ॥ ३४.६९{६९} ॥ तद्दृष्ट्वा सभासीनाः सर्वे लोकाः सविस्मयाः । किं शास्तेहादिशेद्धर्ममित्येवं समचिन्तयत् ॥ ३४.७०{७०} ॥ अथानंदः समुत्थाय कृतांजलिः सविस्मयः । भगवन्तं तमानम्य प्रार्थयदेवमादरात् ॥ ३४.७१{७१} ॥ नाहेतुप्रत्ययं शास्तर्हसन्ति सुगताः क्वचित् । तत्किमर्थञ्जगन्नाथ भवान् हसति सांप्रतम् ॥ ३४.७२{७२} ॥ यद्भवतः स्मितं दृष्ट्वा सर्वे इमे सभाजनाः । विस्मयसमुपाक्रान्तचित्तास्तिष्ठन्ति सर्ववित् ॥ ३४.७३{७३} ॥ तद्यदर्थे भवान् स्मितं मुंचति तज्जगद्गुरो । समुपादिश्य सर्वेषां संशयं छेतुमर्हति ॥ ३४.७४{७४} ॥ इत्यानन्दोदितं श्रुत्वा भगवान्मुनीश्वरः । तमानन्दं सभां चापि समालोक्यैवमादिशत् ॥ ३४.७५{७५} ॥ एवमेतत्तथानंद यथाख्यातं त्वया किल । नाहेतुप्रत्ययं बुद्धा मुञ्चंति हि स्मितं क्व चित् ॥ ३४.७६{७६} ॥ यदर्थेऽहमिहानन्द स्मितं मुञ्चामि सांप्रतम् । तत्सत्यं संप्रवक्ष्यामि शृणुत यूयमादरात् ॥ ३४.७७{७७} ॥ यदयं श्रद्धयानन्द सुधीरुद्यानपालकः । दन्तकाष्ठमुपस्थाप्य सत्कारं कुरुते मम ॥ ३४.७८{७८} ॥ एतत्पुण्यविपाकेन कल्पान्यपि त्रयोदश । विनिपातमयं क्वापि गमिष्यति कदा चन ॥ ३४.७९{७९} ॥ सर्वदायं महासत्वः सद्धर्मसाधनोद्यतः । सद्गुणी सुखसंभोक्ता बोधिसत्वो भविष्यति ॥ ३४.८०{८०} ॥ ततोऽन्तेऽयं महाभिज्ञः परिशुद्धत्रिमण्डलः । प्रत्येकं बोधिमासाद्य प्रत्येकसुगतो जिनः ॥ ३४.८१{८१} ॥ विमलो नाम सत्वानां हितकरी शुभंकरः । (र्म् ३८६) ब्रह्मचारी विशुद्धात्मा लोकनाथो भविष्यति ॥ ३४.८२{८२} ॥ एवमानंद विज्ञाय संबुद्धशासने क्वचित् । किञ्चिद्वापि प्रदातव्यं तत्फलं स्यान्महत्तरम् ॥ ३४.८३{८३} ॥ इत्यादिष्टं मुनीन्द्रेण श्रुत्वा ते सांघिकादयः । सर्वे लोकाः सभासीनाः प्राभ्यनन्दन् प्रबोधिताः ॥ ३४.८४{८४} ॥ सोऽपि चारामिकः श्रुत्वा व्याकृतं सुगतेन तत् । त्रिरत्नभजनं कर्तुं समैछन्मुदितः सदा ॥ ३४.८५{८५} ॥ तच्छ्रुत्वा स महादाता गृहस्थोऽनाथपिण्डदः । साञ्जलिस्तं जिनं नत्वा मुदितः स्वगृहं ययौ ॥ ३४.८६{८६} ॥ ततः स भगवांच्छास्ता समुत्थाय ससांघिकः । स्वासनसमुपासीनस्तस्थौ ध्यानसमाहितः ॥ ३४.८७{८७} ॥ ततः आरमिकः सोऽपि सर्वादा संप्रमोदितः । त्रिरत्नभजनं कुर्वन् प्राचरत्समुपस्थितः ॥ ३४.८८{८८} ॥ इति मे गुरुणादिष्टं श्रुतं मया तथोच्यते । त्वयाप्येवं महाराज भज रत्नत्रयं सदा ॥ ३४.८९{८९} ॥ लोकाश्चापि तथा राजं बोधयित्वा प्रयत्नतः । त्रिरत्नभजनोत्साहे योजनीयास्त्वया सदा ॥ ३४.९०{९०} ॥ तेन ते मङ्गलं नित्यं सर्वत्रापि भवेत्सदा । क्रमाद्बोधिं समासाद्य संबुद्धपदमाप्नुयाः ॥ ३४.९१{९१} ॥ इति तेनार्हतादिष्टं श्रुत्वाशोकः स भूपतिः । तथेति प्रतिविज्ञप्य प्राभ्यनन्दत्सपार्षदः ॥ ३४.९२{९२} ॥ आरमिकस्येदमिहावदानं शृण्वन्ति ये ये च निशामयन्ति । ते सर्वमेवं शुभसत्सुखानि भुक्त्वा प्रयआस्यन्ति जिनालयन् ते ॥ ३४.९३{९३} ॥ ++ इति रत्नावदानतत्वे आरमिकावदानं समाप्तम् ++ (र्म् ३८७) xxxव्शोभितावदान अथाशोको महाराजः कृतांजलिपुटो मुदा । उपगुप्तं यतिं नत्वा प्रार्थयेच्चैवमादरात् ॥ ३५.१{१} ॥ भदन्त श्रोतुमिछामि पुनरन्यत्सुभाषितम् । तद्यथा गुरुणादिष्टं तथाख्यातुं च मेऽर्हति ॥ ३५.२{२} ॥ इति संप्रार्थितं तेन श्रुत्वा सोऽर्हं सुधीर्यतिः । उपगुप्तो नरेंद्रं तं समालोक्यैवमब्रवीत् ॥ ३५.३{३} ॥ शृणु राजन्महाभाग यथा मे गुरुभाषितम् । तथात्र हि प्रवक्ष्यामि तव चित्ताभिबोधने ॥ ३५.४{४} ॥ तद्यथा भगवाच्छास्ता शाक्यसिंहो मुनीश्वरः । सर्वज्ञोऽर्हञ्जगन्नाथो धर्मराजस्तथागतः ॥ ३५.५{५} ॥ संबुद्धः स तथा तत्र पुरे कपिलवस्तुनि । न्यग्रोधरुचिरारामे विजहार ससांघिकः ॥ ३५.६{६} ॥ तस्मिंश्च समये तत्र पुरे कपिलवस्तुनि । शाक्य आसीन्महासाधुः श्रीमान् यक्षाधिपोपमः ॥ ३५.७{७} ॥ सर्वलोकप्रधानाख्यः सर्वद्रव्यसमृद्धिमान् । तस्य भार्या सुरूपाख्या सुंदरी रतिसंनिभा ॥ ३५.८{८} ॥ सुभाविनी रमा कान्ता स्वकुलधर्मचारिणी । तया सह समारक्तः स श्रीमान् परिचारयन् ॥ ३५.९{९} ॥ यथाकामं सुखं भुक्त्वा रराम संप्रमोदितः । ततः स्वापन्नसत्वाभूत्सा सुरूपा प्रगर्भिता । क्रमाद्वृद्धोदरा पाण्डुवर्णा स्वल्पाशिनी कृशा ॥ ३५.१०{१०} ॥ ततः सा समये सूत दारकं दिव्यसुंदरम् । दर्शनीयं सुभद्राङ्गं प्रासादिकं मनोहरम् ॥ ३५.११{११} ॥ तस्य जन्मन्यनेकानि महाश्चर्यकराण्यपि । प्रादुर्भूतानि तैः सर्वं नगरं परिशोभितम् ॥ ३५.१२{१२} ॥ तमभिशोभितं जातं श्रुत्वा स जनको मुदा । सहसोपेत्य संपश्यन्स्तस्थौ चित्रान्विताशयः ॥ ३५.१३{१३} ॥ ततः स मुदितो ज्ञातीनाहूय सह वांधवैः । कृत्व जातिमहं तस्य नामा हि ख्यातुमब्रवीत् ॥ ३५.१४{१४} ॥ भवन्तो ज्ञातयः सर्वे दृष्ट्वास्य लक्षणं यथा । तथा नामप्रसिद्धेन व्यवस्थापितुमर्हथ ॥ ३५.१५{१५} ॥ इति तेनोदितैः श्रुत्वा सर्वे ते ज्ञातयस्तथा । तस्य निमित्तमालोक्य तं शाक्यमेवमब्रुवन् ॥ ३५.१६{१६} ॥ साधो यज्जायते आत्माभैः शोभयति पुरं ततः । शोभित इति नामास्य भवतु प्रथितं भुवि ॥ ३५.१७{१७} ॥ इति तै ज्ञातिभिः सर्वे समाख्यातं निशम्य सः । तथा तेनाभिधानेन प्राख्यापयत्तमात्मजम् ॥ ३५.१८{१८} ॥ (र्म् ३८८) ततः शोभितोऽष्टाभिर्धात्रीभिः प्रातिपालितः । परिपुष्टोऽभिवृद्धोऽभू ह्रदारुहाम्बुजं यथा ॥ ३५.१९{१९} ॥ यदा सो दारकः प्रौढः कुमारत्वमवाप्तवान् । तदा पित्रा स विद्यार्थी गुरुहस्ते समर्प्पितः ॥ ३५.२०{२०} ॥ ततः स गुरुणा शास्त्रा क्रमाल्लिपिरशिष्यते । तथाभिशिष्यमाणः स सर्वविद्यान्तमाययौ ॥ ३५.२१{२१} ॥ ततः स शोभितो धीमान् सर्वविद्यां विचक्सणः । तीर्थिकवादसंरक्तो विरक्तोऽभूद्गृहाश्रमे ॥ ३५.२२{२२} ॥ सदा स तीर्थिकारामे गत्वा स तीर्थिकैः सह । शास्त्रसंचोदनोत्साहै रेमे जयन् प्रवादिनः ॥ ३५.२३{२३} ॥ तस्मिंश्च समये तत्र न्यग्रोधरुचिराश्रमम् । स भगवान् सभासीनो धर्ममादेष्टुमारभत् ॥ ३५.२४{२४} ॥ तदा ते भिक्षवः सर्वे भिक्षुण्योऽपि समागताः । व्रतिनश्चैलकाश्चान्ये उपासका उपासिकाः ॥ ३५.२५{२५} ॥ बोधिसत्वा महासत्वास्तथान्ये श्रावका अपि । तत्सद्धर्मामृतं पातुं सर्वे ते समुपाचरन् ॥ ३५.२६{२६} ॥ तत्र तं श्रीघनं नत्वा परिवृत्य समंततः । पुरस्कृत्य समालोक्य सर्वे ते उपतस्थिरे ॥ ३५.२७{२७} ॥ तदान्येऽपि समायाता ब्रह्मशक्रादयः सुराः । चत्वारो लोकपालाश्च सर्वे लोकाधिपा अपि ॥ ३५.२८{२८} ॥ सिद्धा विद्याधराश्चापि यक्षगंधर्वकिन्नराः । रक्षसा गरुडा नागास्तथान्येऽपि महर्द्धिकाः ॥ ३५.२९{२९} ॥ यतयो योगिनश्चापि निर्ग्रन्थास्तीर्थिका अपि । ऋषयो ब्राह्मणाश्चापि तापसा ब्रह्मचारिणः ॥ ३५.३०{३०} ॥ राजानः क्षत्रिया वैश्या अमात्या मंत्रिणो जनाः । श्रेष्ठिनो धनिनः पौराः सार्थवाहा महाजनाः ॥ ३५.३१{३१} ॥ वणिजः शिल्पिनश्चापि तथान्यदेशवाशिनः । ग्राम्या जानपदाश्चापि तथा कार्पटिका अपि ॥ ३५.३२{३२} ॥ सर्वे ते समुपागत्य दृष्ट्वा तं श्रीघनं मुदा । यथाक्रमं समभ्यर्च्य नत्वा कृत्वा प्रदक्षिणाम् ॥ ३५.३३{३३} ॥ सांजलयः पुनर्नत्वा परिवृत्या समंततः । तत्सद्धर्मामृतं पातुमुपतस्थुः समाहिताः ॥ ३५.३४{३४} ॥ ततः स शोभितश्चापि तच्छ्रुत्वा कौटुकान्वितः । तत्र तां पर्षदं द्रष्टुं सहसा समुपाचरत् ॥ ३५.३५{३५} ॥ तत्र स सहसोपेत्य प्राद्रक्षीत्तं मुनीश्वरम् । सर्वलोकसभामध्यसमासीनं प्रभास्वरम् ॥ ३५.३६{३६} ॥ द्वात्रिंशल्लक्षणाशीतिव्यंजनपरिभूषितम् । व्यामप्रभासमुद्भासं शतसूर्याधिकप्रभम् । सौम्यं शान्तेन्द्रियं कान्तं समंतभद्ररूपिकम् । दृष्ट्वा स सुप्रसन्नात्मा नत्वा कृत्वा प्रदक्षिणाम् ॥ ३५.३७{३७} ॥ तद्धर्मदेशनां श्रोतुं तत्रैकान्ते उपाश्रयत् । तदा स भगवान् दृष्ट्वा तां सर्वां समुपस्थितान् ॥ ३५.३८{३८} ॥ आर्यसत्यं समारभ्य सद्धर्मं समुपादिशत् । तदार्यधर्ममाकर्ण्य सर्वे ते स सुरादयः ॥ ३५.३९{३९} ॥ (र्म् ३८९) लोका धर्मविशेषत्वमाज्ञाय प्रतिबोधिताः । बोधिचित्तं समाधाय त्रिरत्नभजनोद्यताः ॥ ३५.४०{४०} ॥ सर्वसत्वहितार्थेन बभूवुर्बोधिचारिणः । तदा स शोभितश्चापि श्रुत्वार्यसत्यमुत्तमम् ॥ ३५.४१{४१} ॥ प्रबोधितः प्रसन्नात्मा संसारविरतो भवान् । सत्कायदृष्टिभूमीन्ध्रं विंसतिशिखरोद्गमम् ॥ ३५.४२{४२} ॥ हित्वा ज्ञानासिना श्रोतआपत्तिफलमाप्तवान् ॥ ३५.४३{४३} ॥ दृष्टसत्यो विशुद्धात्मा सद्धर्मगुणलालसः । संबुद्धपदसंप्राप्त्यै प्रव्रजितुं समैछत ॥ ३५.४४{४४} ॥ ततः स समुपाश्रित्य कृतांजलिपुरोगतः । तं मुनीन्द्रं जगन्नाथं स्वैवं प्रार्थयन्मुदा ॥ ३५.४५{४५} ॥ भगवन्नाथ सर्वज्ञ भवतां शरणं गतः । प्रव्रजितुं समिछामि तत्कृपया प्रसीदतु ॥ ३५.४६{४६} ॥ इति तेनार्थितं श्रुत्वा भगवान् स मुनीश्वरः । शोभितं तं समालोक्य समामंत्र्यैवमादिशत् ॥ ३५.४७{४७} ॥ यदि त्वं शासने बौद्धे प्रव्रजितुं समिछसि । पितुराज्ञां समासाद्य प्रेहि दास्यामि ते व्रतम् ॥ ३५.४८{४८} ॥ इत्यादिष्टं मुनीन्द्रेण श्रुत्वा स शोभितो मुदा । पादौ तस्य मुनेर्नत्वा सहसा निर्ययौ ततः ॥ ३५.४९{४९} ॥ तत्र स स्वगृहे गत्वा पादौ नत्वा पुरः स्थितः । पित्रोरेतत्समाख्याय प्रार्थयदेवमादरात् ॥ ३५.५०{५०} ॥ ताताहमद्य गछामि न्यग्रोधरुचिरे वने । तत्र तं श्रीघनं बुद्धं पश्यामि पर्षदाश्रितम् ॥ ३५.५१{५१} ॥ धन्यास्ते श्रावकाः सर्वे भिक्षवो भद्रिकाशिकाः । शांतेंद्रियाः समाचारा अर्हन्तो ब्रह्मचारिणः ॥ ३५.५२{५२} ॥ तेषामेव हि संसारे साफल्यं जन्म मानुषे । ये भजन्ति मुनीन्द्रस्य शासने शरणं गताः ॥ ३५.५३{५३} ॥ तेषां चैवं सुसारं स्यान् संसारे भवचारणे । ये सद्धर्मं मुनीन्द्रस्य श्रुत्वा चरंति संवरम् ॥ ३५.५४{५४} ॥ तेषां चापि भवे सारं जन्मद्रव्यगुणार्जनम् । सत्कारैः सांघिके सेवां कृत्वा चरन्ति ये व्रतम् ॥ ३५.५५{५५} ॥ किं तेषां मानुषे जन्म निस्फलं सर्वसाधनम् । ये ध्यात्वापि जिनं स्मृत्वा भजंति न कदा चन ॥ ३५.५६{५६} ॥ तेषां च किं भवे जन्म केवलं पापसाधनम् । ये न शृण्वंति सद्धर्मं संबुद्धभाषितं क्व चित् ॥ ३५.५७{५७} ॥ तेषां च निस्फलं जन्म मानुष्ये दुःखसाधनम् । ये न कुर्वन्ति सत्कारं सांघिकेषु कदा चन ॥ ३५.५८{५८} ॥ एवं ये पशुवद्गेहे भोग्यं भुक्त्वा वसंति वै । तेषां किं जन्म संसारे पापदुःखार्थमेव हि ॥ ३५.५९{५९} ॥ एवं ते प्राणिनः सर्वे भ्रमंति भवसागरे । यतो यैर्दृश्यते क्वापि त्रिरत्नं न कदा चन ॥ ३५.६०{६०} ॥ तथास्माकमपि चात्र संसारे जन्म निस्फलम् । संपदोऽपि निरर्था हि त्रिरत्नभजनं विना ॥ ३५.६१{६१} ॥ (र्म् ३९०) धर्मार्थजन्मसंसारे यदि धर्मो न लभ्यते । किमेवं जीवितेनापि केवलाशुभसाधिना ॥ ३५.६२{६२} ॥ तद्वरं मृत्युरद्येवं विना धार्मार्थसाधनम् । किं तेन जीवितेनापि यन्मिथ्यादुःखसाधनम् ॥ ३५.६३{६३} ॥ न प्राप्तं भगवत्पूजा महोत्साहं कदापि यैः । धर्मोऽपि न श्रुतः कश्चिन्न काराः सांघिके कृताः ॥ ३५.६४{६४} ॥ भीतेभ्यो नाभयं दत्तं दरिद्राशा न पूरिता । दुःखाय केवलं मातुर्गतास्ते गर्भशल्यताम् ॥ ३५.६५{६५} ॥ धन्यास्ते सुखिनो लोके सुभद्राः शुभभाविनः । सत्पुरुषा महात्मानः श्रीमंतः सद्गुणाश्रयाः ॥ ३५.६६{६६} ॥ ये बुद्धे शरणं गत्वा ध्यात्वा स्मृत्वा समाहिताः । सद्धर्मामृतमापीय चरन्तः सौगतं व्रतम् ॥ ३५.६७{६७} ॥ सर्वे सत्वहितार्थं च दानं दत्वा यथेप्सितम् । दयालवः सुसौम्यांशाः सर्वसत्वहिताशयाः ॥ ३५.६८{६८} ॥ संबोधिसाधनोत्साहसर्वसत्वहितोद्यताः । निःक्लेशा विमलात्मानः समाधिनिश्चलाशयाः ॥ ३५.६९{६९} ॥ प्रज्ञावंतो महाधीराः संबोधिरत्नलाभिनः । प्रव्रज्याव्रतिनार्हन्तो निर्विकल्पा निरंजनाः ॥ ३५.७०{७०} ॥ भिक्षाहारा निरातंका निःशंका दमितेंद्रियाः । निःशेषनिर्जिताविद्याः प्राप्तविद्या विशारदाः ॥ ३५.७१{७१} ॥ स्वछंदचारिणः सन्तः सर्वसत्वात्मभाविनः । निःस्पृहा विरतोत्साहा निर्दैन्यः क्षुभिताशयाः ॥ ३५.७२{७२} ॥ निर्मदा निरहंकारा आर्या निरभिमानिनः । निर्माया निर्ममाखड्गा निःसंगा निःपरिग्रहाः ॥ ३५.७३{७३} ॥ मुण्डिता खिक्खिरीपात्रदधानाश्चीवरावृताः । यतिनः सुगताकारास्त्रियानमोक्षदेशकाः ॥ ३५.७४{७४} ॥ स्वपरात्महितार्थेन संबोधिमार्गदेशकाः । वंद्याः पूज्याः प्रमान्याश्च चतुर्ब्रह्मविहारिणः ॥ ३५.७५{७५} ॥ ते एव सुगतिं यांति यांति चान्ते जिनालये । संबोधिं च समासाद्य भवेयुः सुगता अपि ॥ ३५.७६{७६} ॥ इति सत्यं मुनीन्द्रेण समादिष्टं निशम्य मे । मनोऽत्र भवसंचारे चरितुं नाभिवांछति ॥ ३५.७७{७७} ॥ त्रिरत्नशरणं कृत्वा संबुद्धशासने शुभे । प्रव्रज्यासंवरं धृत्वा चरितुमिछति सांप्रतम् ॥ ३५.७८{७८} ॥ किं च मे जन्मकाले यदिदं युः शोभितारुषा । संपदोऽपि प्रवर्द्धन्ते दिव्याभिसुंदरास्मि च ॥ ३५.७९{७९} ॥ तत्सर्वं मे पुरा भद्रकर्मधर्मविपाकतः । संपद्यतेऽधुना नूनं विद्धि मा त्वन्यथा पित ॥ ३५.८०{८०} ॥ एतन्नूनमिति मत्वा भूयोऽपि मे मनस्तथा । सद्धर्मसाधनं कर्तुमिछति सौगतं व्रतम् ॥ ३५.८१{८१} ॥ एतद्धेतोरहं तात प्रार्थयाम्येवमादरात् । तदनुज्ञां प्रदत्तं मे यदि वांछास्ति वा शुभे ॥ ३५.८२{८२} ॥ एतत्पुण्यविभागेन यूयमपि सुरालयम् । गत्वा दिव्यसुखान्येव भुक्त्वा चिरं निवत्स्यथ ॥ ३५.८३{८३} ॥ (र्म् ३९१) ततः काले दिवश्च्युत्वा मर्त्यलोक इहागताः । त्रिरत्नभजनं कृत्वा चरिष्यथ शुभे सदा ॥ ३५.८४{८४} ॥ तच्छुभपुण्यपाकेन शुद्धाशयाः शुभाविनः । संबुद्धशासने गत्वा सद्धर्मं श्रोष्यथादरात् ॥ ३५.८५{८५} ॥ ततस्तत्पुण्यपाकेन संघानां शरणं गताः । सत्कारैः समुपस्थित्वा भजिष्यथ समादरात् ॥ ३५.८६{८६} ॥ ततस्तत्पुण्यपाकेन बोधिचित्तमवाप्स्यथ । ततो लोकहितार्थेषु बोधिचर्यां चरिष्यथ ॥ ३५.८७{८७} ॥ ततः पारमिताः सर्वाः पूरयित्वा यथाक्रमम् । ततो बोधिं समासाद्य संबुद्धपदमाप्स्यथ ॥ ३५.८८{८८} ॥ एवं विज्ञाय संबुद्धपदसंप्रतिपत्तये । तदनुज्ञां प्रदत्तं मे संबुद्धपदवांछिरे ॥ ३५.८९{८९} ॥ अनित्यं खलु सम्षारं जीवितं क्षणभंगुरम् । क्षणभंगिशरीरं च सर्वेषां भवचारिणाम् ॥ ३५.९०{९०} ॥ संपदोऽपि स्थिरा नैव सत्क्षणं च सुदुर्लभम् । मानुष्ये सर्वदा जन्म लभ्यते न सुदुर्ल्लभम् ॥ ३५.९१{९१} ॥ तत्रापि दुर्लभा धर्मे मतिर्जातापि न स्थिराः । धर्मं तु सौगतैः श्रेष्ठं यत्संबोधिपदसाधनम् ॥ ३५.९२{९२} ॥ तत्संबोधिपदप्राप्त्यै धर्ममिछामि सौगतम् । तदनुज्ञां प्रदत्वा मे मनो हर्षयत द्रुतम् ॥ ३५.९३{९३} ॥ धर्मं विनात्र किं सारं भोग्यैरर्थैर्गुणैरपि । किं कामसुखं भुक्त्वा स्थित्वा च पशुवद्गृहे ॥ ३५.९४{९४} ॥ तदनुज्ञां न दत्यश्येन् स्थास्यामि न गृहेऽप्यहम् । सर्वान् परिग्रहान्स्त्यक्त्वा गमिष्यामि तपोवनम् ॥ ३५.९५{९५} ॥ तत्र को निर्जने स्थित्वा चरित्वा दुष्करं तपः । अनाहारो मरिष्येऽहं सर्वत्र मरणं ध्रुवम् ॥ ३५.९६{९६} ॥ कस्य मृत्यु भवे नास्ति कुत्र मृत्योर्भयं न हि । सर्वलोकान् ग्रसेन्मृत्युरेकोऽपि स महावलिः ॥ ३५.९७{९७} ॥ तदत्र किं विषादेन यद्दमोपायमत्र न । अवश्यं भाविनो भावा भवन्ति महतामपि ॥ ३५.९८{९८} ॥ मृत्युकाले सहायोऽपि कोऽपि नास्ति सहानुगः । धर्म एव तदैको हि सहायः स्यात्सहानुगः ॥ ३५.९९{९९} ॥ एवं मत्वात्र संसारे स्थातुं नेछन्ति सज्जनाः । सर्वान् परिग्रहान्स्त्यक्त्वा प्रव्रजन्ति शुभार्थिनः ॥ ३५.१००{१००} ॥ तथाहमपि तन्मृत्युभयं दृष्ट्वाभिशंकितः । संबुद्धशरणं गत्वा चरितुं व्रतमुत्सहे ॥ ३५.१०१{१} ॥ इति धर्मे निधेद्धं मा किं चिद्वा वक्तुमर्हथ । सुप्रसन्नाधियानुज्ञां प्रदातुमेव मेऽर्हति ॥ ३५.१०२{२} ॥ इति तेनात्मजेनैवं संप्रार्थितं निशम्य तौ । पितरौ विस्मयाक्रांतचित्तौ तष्ठतुर्मूर्छितौ ॥ ३५.१०३{३} ॥ ततस्तौ धैर्यमालम्ब्य तमेव स्वात्मजं चिरात् । दृष्ट्वा वियोगदुःखार्त्तौ तष्ठतुर्लिखिताविव ॥ ३५.१०४{४} ॥ (र्म् ३९२) ततः स जनकः शाक्यस्तदुक्तपरिबोधितः । गलदश्रुमुखो दृष्ट्वा तं पुत्रमेवमब्रवीत् ॥ ३५.१०५{५} ॥ हा पुत्र किमत्राहं वदेय सांप्रतं खलु । यत्त्वमेव सुधीर्विज्ञः पण्डितोऽसि विचक्षणः ॥ ३५.१०६{६} ॥ यत्त्वं शासने बौद्धे प्रव्रजितुं समिछसि । तच्छास्तुः शरणं कृत्वा व्रतं चर समाहितः ॥ ३५.१०७{७} ॥ इति पित्रोदितं श्रुत्वा स सोभितः प्रमोदितः । पित्रोः पादान् प्रणत्वैव सहसा निर्ययौ गृहात् ॥ ३५.१०८{८} ॥ ततः स सहसा गत्वा न्यग्रोधतरुमण्डिते । विहारे सुगतारमे प्रविश्य समुपाचरत् ॥ ३५.१०९{९} ॥ यत्र स पुरतो गत्वा कृतांजलिपुटो मुदा । प्रणत्वा तं जगन्नाथं प्रार्थयदेवमादरात् ॥ ३५.११०{१०} ॥ भगवन्नाथ सर्वज्ञ प्राप्यानुज्ञां समाव्रजे । तद्भवान् सांप्रतं मह्यं प्रव्रज्यां दातुमर्हति ॥ ३५.१११{११} ॥ भवतां शरणे स्थित्वा प्रव्रज्य सौगतंव्रतम् । धृत्वा सदा समादाय चरिष्ये बोधिचारिकाम् ॥ ३५.११२{१२} ॥ इति संप्रार्थितं तेन भगवान् स मुनीश्वरः । सव्येन पाणिना तस्य शिरः स्पृष्ट्वैवमादिशत् ॥ ३५.११३{१३} ॥ एहि च वत्स समाधाय व्रतं चरस्व सौगतम् । इत्युक्त्वा स मुनीन्द्रः स्वसांघिके तं समग्रहीत् ॥ ३५.११४{१४} ॥ एहीत्युक्ते मुनींद्रेण शोभितोऽभूत्स मुण्डितः । खिक्खिरीपात्रविभ्राणः काखायचीवरी यतिः ॥ ३५.११५{१५} ॥ ततः स सुमतिर्भिक्षुः संसारगतिनिस्पृहः । भित्वाविद्यागणान् सर्वान् प्राप्तविद्या विशारदः ॥ ३५.११६{१६} ॥ सर्वक्लेशगणां जित्वा साक्षादर्हत्वमाप्तवान् ॥ ३५.११७{१७!} ॥ ततः सोऽर्हन्महाभिज्ञः परिशुद्धत्रिमण्डलः । निक्लेशः सुविशुद्धात्मा शुद्धेन्द्रियो जिनांशभृत् ॥ ३५.११८{१८} ॥ निर्विकल्पः समाकारो ब्रह्मचारी निरंजनः । संसारलाभसत्कारनिःस्पृहः खसमाशयः ॥ ३५.११९{१९} ॥ स देवासुरलोकानां सर्वेषां भवचारिणाम् । मान्यः पूज्योऽभिवंद्यश्च बभूव स जिनात्मजः ॥ ३५.१२०{२०} ॥ तद्दृष्ट्वा भिक्षवः सर्वे विस्मयोद्धतमानसाः । भवन्तं प्रणत्वैवं पप्रछुस्तत्पुराकृतम् ॥ ३५.१२१{२१} ॥ भगवन् किं पुरानेन सुकृतं प्रकृतं कुह । येनायं सुकुले जातो दिव्यकल्पातिसुंदरः ॥ ३५.१२२{२२} ॥ जन्मनि वास्य जातानि महाद्भुतकराण्यपि । यैरेतन्नगरं सर्वं चंद्राभैरिव शोभितम् ॥ ३५.१२३{२३} ॥ भवतां शासने चापि त्रिरत्नशरणं गतः । प्रव्रज्यासंवरं धृत्वा यतिरर्हन् भवत्यपि ॥ ३५.१२४{२४} ॥ एतत्सर्वं समाख्याय भवांच्छास्ता जगद्गुरुः । सर्वानस्मान् सभांश्चापि प्रबोधयितुमर्हति ॥ ३५.१२५{२५} ॥ इति तैर्भिक्षुभिः सर्वैः प्रार्थिते स मुनीश्वरः । सर्वान् यतीन् सभां चापि समालोक्यैवमादिशत् ॥ ३५.१२६{२६} ॥ (र्म् ३९३) शृणुत भिक्षवः सर्वे यदनेन पुराकृतम् । तत्सर्वं समाशख्ये युष्माकं परिबोधने ॥ ३५.१२७{२७} ॥ तद्यथाभूत्पुरा शास्ता क्रकुछन्दस्तथागतः । सर्वज्ञोऽर्हं जगन्नाथो धर्मराजो मुनीश्वरः ॥ ३५.१२८{२८} ॥ तदा स भगवान् लोके बोधिचर्यां प्रकाशयन् । सद्धर्मं समुपादिश्य प्रचचार समंततः ॥ ३५.१२९{२९} ॥ एवं स भगवां छास्ता कृत्वा सर्वत्र मंगलम् । शोभावत्या महापूर्य्या राजधान्या उपाश्रमे ॥ ३५.१३०{३०} ॥ विहारे सौगतावासे समाश्रित्य प्रभासयन् । सद्धर्मं समुपादेष्टुं विजहार ससांघिकः ॥ ३५.१३१{३१} ॥ तत्रागत्य समानीनं तं मुनीन्द्रं ससांघिकम् । श्रुत्वा शोभो महाराजो द्रष्टुं स समुपाचरत् ॥ ३५.१३२{३२} ॥ तत्र स नृपतिः शोभो दृष्ट्वा तं सुगतं मुनिम् । क्रकुछंदं समासीनं भिक्षुसंघपुरस्कृतम् ॥ ३५.१३३{३३} ॥ मुदितः समुपासृत्य कृतांजलिः पुरोगतः । प्रणत्वा सुप्रसन्नास्यः प्रार्थयमेवमादरात् ॥ ३५.१३४{३४} ॥ भगवन्नाथ सर्वज्ञ भवाञ्छास्ता जगद्गुरुः । तदस्माकं हितार्थेन धर्ममादेष्टुमर्हति ॥ ३५.१३५{३५} ॥ इति संप्रार्थिते तेन राज्ञा स भगवानपि । तं शोभं क्षितिपालेंद्रं समालोक्यैवमादिशत् ॥ ३५.१३६{३६} ॥ शृणु राजन् समाधाय सत्वानां हितकारणम् । संबोधिसाधनं धर्मं वक्ष्यामि ते शुभार्थतः ॥ ३५.१३७{३७} ॥ अनित्यं खलु संसारे सर्वं शून्यमनात्मकम् । मायाक्लेशसमुद्भूतं जगल्लोकमशाश्वतम् ॥ ३५.१३८{३८} ॥ तदत्र किं भवे सारं निरर्थं दुःखसाधनम् । इति विज्ञाय राजेन्द्र क्लेशाञ्जित्वा शुभे चर ॥ ३५.१३९{३९} ॥ शुभेन सद्गतिं याया सद्गतौ सर्वदा सुखम् । सुखेन सर्वदा भद्रे चरितव्यं तथा भवम् ॥ ३५.१४०{४०} ॥ शुभं संजायते पुण्यात्सर्वत्रापि सदा ध्रुवम् । पुण्यं संजायते ह्यादौ संबुद्धदर्शनादपि ॥ ३५.१४१{४१} ॥ एतत्पुण्यानुभावेन सद्धर्मश्रवणं लभेत् । तत्सद्धर्मरसास्वादसंसक्तश्च समुत्सहेत् ॥ ३५.१४२{४२} ॥ तदुत्साहात्पुनः श्रोतुमभिलाषः समुद्भवेत् । समुद्भूताभिलाषश्च सत्कृत्य मानयेन्मुदा ॥ ३५.१४३{४३} ॥ सद्गुरुं समुपासृत्य सद्धर्मं शृणुयात्सदा । तत्सद्धर्मामृतस्वादगुणलब्धः प्रमोदितः ॥ ३५.१४४{४४} ॥ सद्धर्मचारणो भिक्षून् सत्कृत्य मानयेन्मुदा । ततस्तद्धर्ममाकर्ण्य संबोधिधर्मवांछितः । त्रिरत्नभजनं कृत्वा स्वपरार्थहिते चरेत् ॥ ३५.१४५{४५} ॥ एतत्पुण्यविपाकेन स कुले श्रीसमालये । जातो लोकहितार्थेन दानं दद्याद्यथेप्सितम् ॥ ३५.१४६{४६} ॥ तद्दानपुण्यपाकेन स दाता सद्गतिं व्रजेत् । सद्गतिस्थः सुखेनैवं सुशीलः संवरं चरेत् ॥ ३५.१४७{४७} ॥ (र्म् ३९४) तत्सुशीलव्रतोत्पन्नैः पुण्यैः स परिशुद्धधीः । सर्वसत्वहितार्थेषु दयालु मैत्रवच्चरेत् ॥ ३५.१४८{४८} ॥ ततस्तत्पुण्यपाकेन स सुधीरो विचक्षणः । स्वपरात्महितार्थेन सर्वकार्याणि साधयेत् ॥ ३५.१४९{४९} ॥ एतत्पुण्यविशुद्धात्मा निःक्लेशो विमलाशयः । समाधिधरणीविद्यासमाधानः सुधीर्भवेत् ॥ ३५.१५०{५०} ॥ ततस्तत्पुण्यसंभारसंबोधिगुणसार्थभृत् । प्रज्ञाब्धिपारमासाद्य बोधिचित्तमणिं लभेत् ॥ ३५.१५१{५१} ॥ तन्मनेरनुभावेन सर्वोपायविधानवित् । सर्वसत्वहितो धानं बोधिचर्याव्रतं चरेत् ॥ ३५.१५२{५२} ॥ तत्पुण्यैः स महासत्वः सर्वसत्वशुभंकरः । संबोधिप्रणिधानेन सद्धर्माभिरतो भवेत् ॥ ३५.१५३{५३} ॥ ततस्तद्धर्मपूतात्मा दुष्टक्लेशान् विनिर्जयन् । सर्वहितार्थसंभर्ता महाभिज्ञा वली भवे ॥ ३५.१५४{५४} ॥ ततो मारगणाञ्जित्वा परिशुद्धत्रिमण्डलः । सोऽर्हन् संबोधिसंप्राप्तः संबुद्धपदमाप्नुयात् ॥ ३५.१५५{५५} ॥ ततः स सुगतः शास्ता कृत्वा धर्ममयं जगत् । बोधिमार्गे प्रतिष्ठाप्य निर्वृतः स्वालयं व्रजेत् ॥ ३५.१५६{५६} ॥ ततः स स्वालये लीनो धर्मधात्वीश्वरो जिनः । विश्वरूपा विशुद्धाभज्योतिरूपो निरंजनः ॥ ३५.१५७{५७} ॥ एवं विज्ञाय राजेन्द्र संबुद्धपदवांछिभिः । त्रिरत्नभजनं कृत्वा चरितव्यं शुभे सदा ॥ ३५.१५८{५८} ॥ तथा तं सर्वदा भद्रं सर्वत्रापि भवेद्ध्रुवम् । क्रमात्संबोधिमासाद्य संबुद्धपदमाप्स्यथ ॥ ३५.१५९{५९} ॥ इति शास्त्रा समादिष्टं श्रुत्वा शोभः स भूपतिः । तथा हीति प्रविज्ञप्य प्राभ्यनन्दत्प्रबोधितः ॥ ३५.१६०{६०} ॥ तदारभ्य स भूमीन्द्रस्त्रिरत्नशरणं गतः । सर्वसत्वहितं कृत्वा प्राचरत्सर्वदा शुभे ॥ ३५.१६१{६१} ॥ तदा तद्विषये तत्र सर्वदाभूच्छुभोत्सवम् । सर्व लोकाश्च सद्धर्मारतोत्साहाः प्रचेरिरे ॥ ३५.१६२{६२} ॥ एवं स नृपतिः शोभस्तं मुनीन्द्रं ससांघिकम् । यथार्हभोजनैश्चापि त्रिमास्यं समसेवित ॥ ३५.१६३{६३} ॥ ततः स भूमीराजो त्रिमासान्ते ससांघिकम् । क्रकुछंदं मुनीन्द्रं तं नत्वैवं प्रार्थयन्मुदा ॥ ३५.१६४{६४} ॥ भगवन्नाथ सर्वज्ञ सर्वदात्र ससांघिकः । सद्धर्मं कृपयास्मद्भ्यमादेष्टुं स्थातुमर्हति ॥ ३५.१६५{६५} ॥ इति संप्रार्थिते राज्ञा भगवान् स जगद्गुरुः । तद शोभं जगतीपालं समालोक्यैवमादिशत् ॥ ३५.१६६{६६} ॥ नाहं राजंस्तवैकस्य हितार्थे सुगतो भवे । अपि तु सर्वसत्वानां शुभहेतौ भवे जिनः ॥ ३५.१६७{६७} ॥ तदेवं सर्वलोकेषु बोधिचर्यां प्रकाशयन् । सद्धर्मं समुपाख्यातुं चरेयं सह सांघिकैः ॥ ३५.१६८{६८} ॥ (र्म् ३९५) यद्यस्ति ते सदा राजं भक्तिश्रद्धामतिर्मयि । मन्नामाभिसमुद्दिश्य स्तूपं कृत्वा सदा भज ॥ ३५.१६९{६९} ॥ एतस्मिं यत्कृतं कर्म तन्मयि कृतमेव हि । तिष्ठतो निर्वृतस्यापि तुल्यं भक्तिमतां फलम् ॥ ३५.१७०{७०} ॥ तद्यथा मयि राजेन्द्र श्रद्धया शरणं गतः । त्रिरत्नभजनं कृत्वा चरस्वैवं शुभे मुदा ॥ ३५.१७१{७१} ॥ तथास्मिन् सर्वदा स्तूपे श्रद्धया शरणं गतः । त्रिरत्नभजनं कृत्वा शुभे चर समाहितः ॥ ३५.१७२{७२} ॥ तथा ते सर्वदा क्षेमं सर्वत्रापि भवेद्ध्रुवम् । क्रमात्संबोधिमासाद्य संबुद्धपदमाप्नुयात् ॥ ३५.१७३{७३} ॥ इत्यादिश्य स संबुद्धस्तस्मै शोभाय भूर्भुजे । स्वनखकेशमुत्कृत्य ददौ स्तूपार्थमादरात् ॥ ३५.१७४{७४} ॥ तं मुनीन्द्रप्रदत्तं स भूपतिः संप्रमोदितः । प्रणत्वा समुपागृह्य सानंदः स्वालयं ययौ ॥ ३५.१७५{७५} ॥ तत्र स नृपती राजा तन्नखकेशमादरात् । गर्भे निधाय सद्रत्नैर्महस्तूपमकारयत् ॥ ३५.१७६{७६} ॥ ततस्तं स नृपो राजा प्रतिष्ठाप्य यथाविधिः । महोत्सवैः सदा नित्यं समभ्यर्च्य भजन्मुदा ॥ ३५.१७७{७७} ॥ तत्रैकस्मिन् दिने भद्रे पर्वणि प्रत्युपस्थिते । समेत्य गोष्ठिकाः सर्वे तं स्तूपं द्रष्टुमागताः ॥ ३५.१७८{७८} ॥ दृष्ट्वा ते गोष्ठिकाः सर्वे सुप्रसन्नाभिमोदिताः । नानापुष्पैस्तमभ्यर्च्य महोत्सवैः सहाभजत् ॥ ३५.१७९{७९} ॥ तत्रैको गोष्ठिको दृष्ट्वा दरिद्रोऽहमिति ब्रुवन् । तत्पूजामहोत्साहे लज्जया स्वगृहं ययौ ॥ ३५.१८०{८०} ॥ ततस्तैर्गोष्ठिकैः सर्वैर्दृष्ट्वा स स्वगृहे ततः । बहुशः परिभाषित्वा गोष्ठिमध्याद्बहिष्कृतः ॥ ३५.१८१{८१} ॥ ततः स लज्जयाखिन्नः पश्चात्तापाग्नितापितः । हा मंदः कथमेकोऽहं तिष्ठेयमित्यचिंतयत् ॥ ३५.१८२{८२} ॥ ततः स सुगतं स्मृत्वा दरिद्रोऽपि समंततः । सर्वपुष्पाणि संगृह्य तैस्तं स्तूपं समर्चयत् ॥ ३५.१८३{८३} ॥ ततः प्रदक्षिणीकृत्य सांजलिः स प्रमोदितः । तत्पादयोः प्रणत्वैवं प्रणिधानं मुदाकरोत् ॥ ३५.१८४{८४} ॥ यन्मयात्र मुनीन्द्रस्य स्तूपः पुष्पैः समर्चितः । एतत्पुण्यविपाकेन भवेयं श्रीसमृद्धिमान् ॥ ३५.१८५{८५} ॥ इत्येवं प्रणिधिं कृत्वा तत्स्तूपं शरणं गतः । स दरिद्रः समभ्यर्च्य प्राभजन् संप्रमोदितः ॥ ३५.१८६{८६} ॥ मन्यतां भिक्षवो योऽसौ दरिद्रोऽयं हि शोभितः । यत्स्तूपोऽर्चितः पुष्पैस्तेनायं श्रीसमृद्धिमान् ॥ ३५.१८७{८७} ॥ अन्यदपि यथानेन सुकृतं प्रकृतं पुरा । तत्सर्वं संप्रवक्ष्यामि शृणुध्वन् यूयमादरात् ॥ ३५.१८८{८८} ॥ तथाथाभूत्पुरा पूर्य्यां वाराणस्यां गृहाधिपः । श्रेष्ठी महाजनः साधुर्व्यवहारविचक्षणः ॥ ३५.१८९{८९} ॥ तदैकस्मिन् दिने तस्य गृहान्तिके शनैश्चरन् । (र्म् ३९६) प्रत्येकसुगतो ग्लानो भिक्षार्थं समुपाचरन् ॥ ३५.१९०{९०} ॥ तं गृहान्तिकमायातं दृष्ट्वा स करुणाहतः । सहसोपेत्य नत्वैनमामंत्र्य स्वगृहे नयेत् ॥ ३५.१९१{९१} ॥ तत्र श्रेष्ठी स तं ग्लानं प्रत्येकबुद्धमासने । उपस्थाप्य समभ्यर्च्य पटेनाछादयन्मुदा ॥ ३५.१९२{९२} ॥ तस्मै क्षीरोदनैः पूर्णं पात्रं पंचामृतैः सह । प्रदत्वा सांजलिर्नत्वा मनसैवं व्यचिंतयत् ॥ ३५.१९३{९३} ॥ यदयं सुगतो ग्लानोऽभ्यर्चितो मयादरात् । एतत्पुण्यविपाकेन भवेयं क्षेमवान् सुधीः ॥ ३५.१९४{९४} ॥ इत्येवं प्रणिधानेन स श्रेष्ठी प्रतिमोदितः । सत्कृत्य सादरं तत्र स्वाश्रमे समचारयत् ॥ ३५.१९५{९५} ॥ मन्यतां भिक्षवो योऽसौ श्रेष्ठी श्रीमान्महाजनः । अयमेव महाभिज्ञः शोभितोऽर्हन्महामतिः ॥ ३५.१९६{९६} ॥ यदनेन तदा ग्लानप्रत्येकबुद्ध आदरात् । पटेनाछाद्य पिंडेन प्रतिपाद्य समर्चितः ॥ ३५.१९७{९७} ॥ एतत्पुण्यविपाकेन शोभितोऽयं समृद्धिमान् । पंचजन्मशतान्येवं बभूव सद्गुणाकरः ॥ ३५.१९८{९८} ॥ भूयोऽपि यत्पुरानेन सुकृतं साधितं यथा । तत्सर्वं संप्रवक्ष्यामि शृणुध्वं यूयमादरात् ॥ ३५.१९९{९९} ॥ तद्यथाभूत्पुरा शास्ता काश्यपोऽर्हन्स्तथागतः । सर्वज्ञः सुगतो नाथो धर्मराजो मुनीश्वरः ॥ ३५.२००{१००} ॥ वाराणस्यां स संबुद्धो मृगदावे ससांघिकः । सर्वसत्वहितार्थेन व्यहरद्धर्ममादिशत् ॥ ३५.२०१{११} ॥ तस्मिंश्च समये तत्र वाराणस्यामभूद्गृही । संबुद्धभक्तिमान् साधुर्दरिद्रः काष्ठहारिकः ॥ ३५.२०२{२} ॥ स एकस्मिन् दिने काष्ठमाहर्तु पर्वटे व्रजन् । तत्रैकत्र महत्स्तूपं ददर्शाछादितं तृणैः ॥ ३५.२०३{३} ॥ दृष्ट्वा स समुपाश्रित्य तत्तृणानि समंततः । सर्वाण्यपि समुत्पाट्य संमृज्य समशोधयत् ॥ ३५.२०४{४} ॥ ततस्तं शोभितं दृष्ट्वा स श्रेष्ठी संप्रमोदितः । नत्वा प्रदक्षिणीकृत्य मनसैवं व्यचिंतयत् ॥ ३५.२०५{५} ॥ यदयं सौगतस्तूपो मया संमृज्य शोधितः । एतत्पुण्यविपाकेन भवेयं दिव्यसुंदरः ॥ ३५.२०६{६} ॥ दिव्यातिरिक्ताभैः शोभितः स्यान् समृद्धिमान् । अनागतांश्च संबुद्धानारागयेयमादरात् ॥ ३५.२०७{७} ॥ तदा तच्छासने गत्वा त्रिरत्नशरणं गतः । प्रव्रज्यार्हत्पदं प्राप्य व्रजेयाहं सुनिर्वृतिम् ॥ ३५.२०८{८} ॥ इत्येवं प्रणिधिं कृत्वा प्रणत्वा तं जिनालयम् । सततः काष्ठमादाय स्वगृहं समुदाचरत् ॥ ३५.२०९{९} ॥ ततः स सुमतिः श्रीमानभूत्तत्पुण्यवान् कृतिः । सुखानि सुचिरं भुक्त्वा काले मृतो दिवं ययौ ॥ ३५.२१०{१०} ॥ स्वर्गे स दिव्यभोग्यानि भुक्त्वा रेमे सुरैः सह । पंचजन्मशतान्येवं सुखं भुक्त्वा भ्रमेद्भवे ॥ ३५.२११{११} ॥ (र्म् ३९७) अत्रापि यदेयं श्रीमाञ्छासने मे समागतः । प्रव्रज्यासंवरं धृत्वा चरन्नर्हन् भवत्यपि ॥ ३५.२१२{१२} ॥ तत्सर्वं हि विजानीत तत्स्तूपसंमृष्टपुण्यतः । यथा च चिंतितं तत्र तथास्य सिद्ध्यतेऽधुना ॥ ३५.२१३{१३} ॥ दरिद्रकाष्ठहारो यो भवेत्सोऽयं हि शोभितः । अन्य इति न मन्यन्तव्यं युष्माभिर्नात्र संशयः ॥ ३५.२१४{१४} ॥ एवं सर्वत्र संसारे सर्वेषामपि प्राणिनाम् । यथैव यत्कृतं कर्म तथैव तत्फलं ध्रुवम् ॥ ३५.२१५{१५} ॥ अभुक्तं क्षीयते नैव कर्म क्वापि कदा चन । अन्यथापि भवेन्नैव कर्मफलं कथं चन ॥ ३५.२१६{१६} ॥ एवं मत्वात्र संसारे सर्वदा सुखवांछिभिः । त्रिरत्नभजनं कृत्वा चरितव्यं शुभे सदा ॥ ३५.२१७{१७} ॥ इत्यादिष्टं मुनीन्द्रेण श्रुत्वा ते सर्वसांघिकाः । सर्वे लोकाश्च संबोधिप्राप्तुं धर्मार्थिनोऽभवन् ॥ ३५.२१८{१८} ॥ इति मे गुरुणाख्यातं श्रुतं मया तथोच्यते । त्वमप्येवं महाराज सद्धर्मनिरतो भव ॥ ३५.२१९{१९} ॥ प्रजाश्चापि महारज बोधयित्वा प्रयत्नतः । बोधिमार्गेऽभिसंस्थाप्य पातुमर्हति सर्वदा ॥ ३५.२२०{२०} ॥ एवं कृते महाराज सर्वत्र वः शुभं भवेत् । क्रमात्संबोधिमासाद्य संबुद्धपदमाप्नुयाः ॥ ३५.२२१{२१} ॥ इति तेनार्हताख्यातं श्रुत्वाशोकः स भूमिपः । तथा हीति प्रतिज्ञप्य प्राभ्यनन्दत्स पार्षदः ॥ ३५.२२२{२२} ॥ ये श्रद्धाः सुप्रसन्ना इदमपि मनुजाः शोभितस्यावदानम् । शृण्वन्ति श्रावयंति प्रमुदितमनसा ये च संबोधिकामाः । ते सर्वे बोधिसत्वाः सकलगुणभृतो बोधिचर्यां चरन्तो । भुक्त्वा सौख्यं प्रकामं दशबलनिलये संप्रयान्ति प्रमुक्त्वा ॥ ३५.२२३{२३} ॥ ++ इति रत्नावदानतत्वे शोभितावदानं समाप्तम् ++ (र्म् ३९८) xxxवि मुक्तावदान अथाशोको महीपालः सांजलिः समुपाश्रितः । उपगुप्तं यतिं नत्वा पुनरेवमभाषत ॥ ३६.१{१} ॥ भदन्त श्रोतुमिछामि पुनरन्यत्सुभाषितम् । तद्यथा गुरुणाख्यातं तथादेष्टुं च मेऽर्हति ॥ ३६.२{२} ॥ इति संप्रार्थितं राज्ञा श्रुत्वा सोऽर्हन् सुधीर्यतिः । तमशोकं महाराजं समालोक्यैवमब्रवीत् ॥ ३६.३{३} ॥ शृणु साधु महाराज यथा मे गुरुभाषितम् । तथात्राहं प्रवक्ष्यामि तव चित्तविशुद्धये ॥ ३६.४{४} ॥ तद्यथाभून्महापूर्य्यां श्रावस्त्यां श्रीदसंनिभः । श्रेष्ठी महाधनः साधुः पुष्याभिधो महाजनः ॥ ३६.५{५} ॥ तस्य भार्या सुभद्रांगी रामाख्या श्रीसमानिका । कुलधर्मसमाचरा स्वामिचर्यानुचारिणी ॥ ३६.६{६} ॥ यया पत्न्या सुभाविन्या सार्द्धं पुष्यः स सन्मतिः । यथाकामः सुखं भुक्त्वा रेमे समुपचारयन् ॥ ३६.७{७} ॥ ततः सा समये कांता गर्भिणी वर्द्धितोदरा । स्वल्पाहाररता पाण्डुवर्णा कृशाभवत्क्रमात् ॥ ३६.८{८} ॥ ततः सा समयेऽसूत दारिकां दिव्यसुंदरीम् । शिरोनिवद्धमुक्ता स्रक्कोहितामभिरोचिनीम् ॥ ३६.९{९} ॥ तां संजातां शिरोवद्धमुक्तामालां प्रशोभिताम् । दारिकां सा प्रसू दृष्ट्वा सचित्रानंदितोऽभवत् ॥ ३६.१०{१०} ॥ तच्छ्रुत्वा स पिता पुष्यो विस्मयोद्धतमानसः । उपेत्य तां सुतां दृष्ट्वा तस्थौ पश्यन् सविस्मयः ॥ ३६.११{११} ॥ ततस्ते ज्ञातयः सर्वे वंधुमित्रसुहृज्जनाः । तां संजातां निशम्याशु द्रष्टुमाजग्मुरादरात् ॥ ३६.१२{१२} ॥ तत्र तां दारिकां कांतां शिरोमुक्तास्रगन्विताम् । दर्शनीयां सुभद्रांगीं प्राद्राक्षुस्ते चिरं मुदा ॥ ३६.१३{१३} ॥ अहोस्विद्देवकन्येयं नूनं मान्या न मानवी । यदियं जातमात्रापि भाभिः शोभते पुरम् ॥ ३६.१४{१४} ॥ इति संभाष्य ते सर्वे ज्ञातिवंधू सुहृज्जनाः । सुचिरं तां समालोक्य विस्मिता निर्ययुस्ततः ॥ ३६.१५{१५} ॥ ततः स जनकस्तस्याः कृत्वा जतिमहं मुदा । सर्वाञ्ज्ञातीन् समामंत्र्य पुर एवमभाषत ॥ ३६.१६{१६} ॥ भवन्तोऽस्याः सुताया मे दृष्ट्वा संपन्निमित्तमाम् । यथा लोके प्रसिद्धं स्यात्तथा नामाभिधीयताम् ॥ ३६.१७{१७} ॥ इति तेनोदितं श्रुत्वा सर्वे ते ज्ञातिवांधवाः । तन्निमित्तं समालोक्य तं पुष्यमेवमब्रुवन् ॥ ३६.१८{१८} ॥ (र्म् ३९९) साधो यत्संप्रजातेयं मुक्तामालाशिरोरुहा । तदस्या नाम मुक्तेति प्रसिद्धं भवतु ध्रुवम् ॥ ३६.१९{१९} ॥ एवं तैः ज्ञातिभिः सर्वैः समाख्यातं निशम्य सः । पुष्यस्तस्याः सुतायास्तन्नामप्रसिद्धमचारयत् ॥ ३६.२०{२०} ॥ ततः सा दारिका मुक्ता धात्रीभिः प्रतिपालिता । अष्टाभिरभिपुष्यांगा प्रवृद्धाभूध्रदाब्जवत् ॥ ३६.२१{२१} ॥ ततः सा दारिका कान्ता प्रवृद्धाभूत्कुमारिका । गुरुणां समुपाश्रित्य क्रमाद्विद्या अशिक्षते ॥ ३६.२२{२१*} ॥ तत्र सा सुमतीर्मुक्ता लिपिपारं गता क्रमात् । सर्वशास्त्रकलाविद्यापारं ययौ विचक्षणा ॥ ३६.२३{२२} ॥ ततः सा दानसंरक्ता सर्वार्थिभ्यो यथेप्सितम् । सद्धर्मप्रणिधानेन ददौ नित्यं प्रसादिता ॥ ३६.२४{२३} ॥ सर्वेऽपि याचकास्तस्या गृहं दृष्ट्वा समागताः । तद्दत्तं द्रव्यमादाय प्रययुः संप्रमोदिताः ॥ ३६.२५{२४} ॥ तदैको ब्राह्मणस्तस्या मुक्तामालां शिरोरुहाम् । दृष्ट्वा लोभाकुलात्मा स गृहं गत्वा समाश्रयत् ॥ ३६.२६{२५} ॥ तत्र स ब्राह्मणो दृष्ट्वा तां कन्यां संप्रदायनीम् । उपेत्याशीर्वचोद्दत्वा प्रार्थयदेवमादरात् ॥ ३६.२७{२६} ॥ जयोऽस्तु ते सदा भद्रे चिरं जिव्याः सुखान्विता । यथा ते वांछते चित्तं तथा सर्वं प्रसिद्ध्यतु ॥ ३६.२८{२७} ॥ भद्रेऽहं ते गुणाच्छ्रुत्वा दूरतो यदिहाव्रजे । तदर्थं शृणु ते वक्ष्ये तच्छ्रुत्वा मे प्रसीदतु ॥ ३६.२९{२८} ॥ यदियं ते शिरोबद्धा मुक्तामाला प्रशोभिता । तदिमां मे प्रदत्वात्र मनो मम विनोदय ॥ ३६.३०{२९} ॥ इति संप्रार्थिते तेन सा मुक्ता संप्रदानिका । तां प्रदातुं समिछन्ती तं विप्रमेवमब्रवीत् ॥ ३६.३१{३०} ॥ साधु विप्र क्षणं तिष्ठ मा व्रजस्वान्यतः क्वचित् । पित्रोराज्ञां समायाच्य दास्यामि ते इमामपि ॥ ३६.३२{३१} ॥ इत्युक्त्वा स समाश्वास्य ब्राह्मणं तं प्रलोभितम् । सहसा पुरतो गत्वा पित्रोरेवमभाषत ॥ ३६.३३{३२} ॥ पितरम्ब गृहेऽस्माकं ब्राह्मणोऽर्थी समागतः । स ममेमां शिरोरूढां मुक्तामालां प्रयाचते ॥ ३६.३४{३३} ॥ तदिमां दातुमिछामि तस्मै विप्राय साधवे । तदनुज्ञां प्रदत्तं मे यद्यस्ति वां दयामपि ॥ ३६.३५{३४} ॥ इति पुत्र्योदितं श्रुत्वा स पिता विस्मयाहतः । तां पुत्रीं सुचिरं दृष्ट्वा परिभाष्यैवमब्रवीत् ॥ ३६.३६{३५} ॥ भो वत्स किं समीक्ष्यैवं स्वमस्तक समुद्भवाम् । नेत्रवत्कथमुत्कृत्य प्रदद्यादर्थिने सुते ॥ ३६.३७{३६} ॥ यदि दातुं समिछा ते ब्राह्मणायार्थिने सुते । तदन्यत्प्रार्थितं द्रव्यं प्रददस्व यथेप्सितम् ॥ ३६.३८{३७} ॥ इति पित्रोदितं श्रुत्वा सा मुक्ता दुहिता सुधीः । जनकं तं समालोक्य प्रणत्वा चैवमब्रवीत् ॥ ३६.३९{३८} ॥ (र्म् ४००) शृणु तात यदर्थेऽहं स्वशिरःसंभवामपि । मुक्तामालं समुद्धृत्य दित्सामि तत्प्रवक्ष्यते ॥ ३६.४०{३९} ॥ अनित्यं खलु संसारे मानुष्ये जन्म दुर्लभम् । क्षणध्वंसि शरीरं च जीवितं च तृणाम्बुवत् ॥ ३६.४१{४०} ॥ तत्रापि बहवो रोगाः संपदोऽप्यतिचंचलः । दुर्लभा क्षणसंपच्च धर्ममतिश्च दुर्लभा ॥ ३६.४२{४१} ॥ किं नित्यमत्र संसारे को हि नित्यस्थितो भवे । इत्यनित्यामिमां मुक्तामालां दित्साम्यहं पित ॥ ३६.४३{४२} ॥ कोऽन्यत्र मानुषा देहाद्दानं कर्तुं प्रशक्नुयात् । इत्याप्यहं समीक्ष्यात्र दातुमिछे कजामपि ॥ ३६.४४{४३} ॥ कस्यात्र विग्रहे मृत्योर्विश्वासं विद्यते खलु । इति मत्वापि तातेमां दित्सामि मुक्तकास्रजम् ॥ ३६.४५{४४} ॥ कस्यात्र जीवितं काये स्वेछया समवस्थितम् । एवं विज्ञाय तातेमं मालां दित्सामि पुष्पवत् ॥ ३६.४६{४५} ॥ को नात्र पीड्यते रोगैः सक्लेशैर्देवसंभवैः । इत्येवं समीक्ष्यैमां दातुमिछामि मुक्तिकाम् ॥ ३६.४७{४६} ॥ कस्य संपत्स्थिरा गेहे अस्ताश्चपि स्थितिर्न हि । एवं विज्ञाय ततेमं दित्सामि कुसुमाकृतिम् ॥ ३६.४८{४७} ॥ कस्य चात्र शुभे दृष्टिर्जायात्तिष्ठेच्च सर्वदा । एवं वापि परिज्ञाय दित्सामीमां कजामपि ॥ ३६.४९{४८} ॥ सदा न जायते नैवं धर्मे मतिः कथं चन । इति दृष्ट्वापि मे चित्तमिमां दित्सति पुष्पवत् ॥ ३६.५०{४९} ॥ इमां मे दैवसंजातां शिरःस्थां केशसादृशीम् । दातुमिछाम्यहं तात सद्धर्मरत्नलब्धये ॥ ३६.५१{५०} ॥ कियत्कालं च जीवेयं सर्वेषां मरणं ध्रुवम् । यावद्जीवितमुक्तायामियं मुक्तापि नक्ष्यति ॥ ३६.५२{५१} ॥ यदियं मे शिरोजापि प्राणेन सह नक्ष्यति । तद्दत्ता वाप्यदत्तापि सर्वथापि विनक्ष्यति ॥ ३६.५३{५२} ॥ एतद्देवं समीक्ष्ये मां मुक्तां पुष्पस्रजं यथा । कजामपि समुद्धृत्य दातुमिछाम्यहं पित ॥ ३६.५४{५३} ॥ तदत्र मा कृथा विघ्नं मम सद्धर्मसाधने । तदनुज्ञां प्रदत्वा मे प्रार्थितं सफलं कुरु ॥ ३६.५५{५४} ॥ यदि न दीयतेऽनुज्ञां दानविघ्नफलं लाभेः । ततो ते दुष्कृतिर्जायात्ततो हि दुर्गतिं व्रजेः ॥ ३६.५६{५५} ॥ यद्यनुज्ञां प्रदानेन सत्यं पूरयसे मम । ततस्ते सुकृतिर्जायात्तेन यायाद्धि सद्गतिम् ॥ ३६.५७{५६} ॥ सद्गतौ सर्वदा सौख्यं भुक्त्वा चरेः शुभेष्वपि । ततः क्रमेण संबोधिं प्राप्य बुद्धत्वमाप्नुयाः ॥ ३६.५८{५७} ॥ एवं वीज्ञाय तातात्र वारयितुं न मेऽर्हति । तदनुज्ञप्य मे सत्यं संपूरयितुमर्हति ॥ ३६.५९{५८} ॥ इति पुत्र्या तयाख्यातं श्रुत्वा पिता स बोधितः । तां मुक्तां सुमातिः पुत्रीं समालोक्यैवमब्रवीत् ॥ ३६.६०{५९} ॥ यत्त्वयैवं समाख्यातं तत्सर्वं सत्यमेव हि । (र्म् ४०१) यदि श्रद्धास्ति ते दातुं प्रदेहि किं निवारये ॥ ३६.६१{६०} ॥ इति पित्राभ्यनुज्ञाते सा मुक्ता परिमोदिता । तां शिरःसद्भवां मुक्तां मालामुत्कर्तुमैछत ॥ ३६.६२{६१} ॥ तदा सा जननी दृष्ट्वा तां मुक्तां स्वात्मजां प्रियाम् । शिरोजामपि तां मुक्तां मालामुत्कर्तु वांछिनीम् ॥ ३६.६३{६२} ॥ सहसा गाढमालिंग्य वारयितुं समुद्यता । गलदश्रुविलिप्ताक्षा विलपंत्यैवमब्रवीत् ॥ ३६.६४{६३} ॥ हा प्रिये स्वात्मजे पुत्री कथमज्ञासि सांप्रतम् । इन्द्रियवत्तनूद्भूतामपि दातुं यदीछसि ॥ ३६.६५{६४} ॥ यच्छिरोजां समुत्कृत्य मुक्तामालां स्वदैवजाम् । किमन्यदिह पश्यन्ति विप्राय दातुमिछसि ॥ ३६.६६{६५} ॥ यदि दानेऽतिवांछा ते प्रदेहि तद्यदिप्सितम् । इमामेव शिरोजतां मा दाः कस्मै चिदर्थिने ॥ ३६.६७{६६} ॥ दमियं स्वतनूद्भूता सहजा जीवितेन्द्रैः । तदियं कथमुत्कृत्य दातव्येति विचारय ॥ ३६.६८{६७} ॥ यदीमं स्वशिरोरूढां बलेनोत्कृत्य दास्यसि । तदेयं नक्ष्यते नूनं जीवितेन सह ध्रुवम् ॥ ३६.६९{६८} ॥ विनष्टे जीविते काये को धर्मं साधयेत्पुनः । धर्मं विनात्र संसारे निरर्थं सर्वसाधनम् ॥ ३६.७०{६९} ॥ धर्ममूलं हि संसारे सत्कायजीवितं किल । तज्जीविताश्रयः कायो रक्षितव्यः प्रयत्नतः ॥ ३६.७१{७०} ॥ यत्कायप्राणरक्षार्थं संसारे धर्मसाधनम् । कायप्राणं विना कोऽर्थः संसारे धर्मसाधने ॥ ३६.७२{७१} ॥ धर्मार्थकाममोक्षादि साधनं सुखकारणम् । अभावे जीविते काये कस्यार्थे सुखसाधनम् ॥ ३६.७३{७२} ॥ यत्स्वजीवे न पक्ष्यैवं किमर्थे दातुमिछसि । स्वकायजीवरक्षार्थं दानादि पुण्यसाधनम् ॥ ३६.७४{७३} ॥ स्वकायजीवितं त्यक्त्वा किमर्थे पुण्यसाधनम् । स्वकायजीव भद्रार्थे गुणद्रव्यवृषार्जनम् ॥ ३६.७५{७४} ॥ इति सत्यं मयाख्यातं हितार्थं ते प्रियात्मजे । श्रुत्वेमं नेत्रवद्रक्ष्या मा दाः कस्मै चिदर्थिने ॥ ३६.७६{७५} ॥ यदि तेऽस्ति वृषे वांछा दत्वेतोऽन्यद्यथेप्सितम् । गृहे व्रतं चरत्येवं सुखेन पुण्यमर्जय ॥ ३६.७७{७६} ॥ एतत्पुण्यविपाकेन सर्वत्र ते शुभं भवेत् । सर्वदा दुर्गतिं नैव यायात्सदा तु सद्गतिम् ॥ ३६.७८{७७} ॥ एवं मत्वात्मजे श्रुत्वा सद्धर्मं सौगतोदितम् । त्रिरत्नभजनं कृत्वा गृहे व्रतं सुखं चर ॥ ३६.७९{७८} ॥ एतत्पुण्यविशुद्धा त्वं सर्वदा शुभभाविनी । क्रमात्संबोधिमासाद्य संबुद्धपदमाप्नुयाः ॥ ३६.८०{७९} ॥ इति मात्रा समाख्यातं श्रुत्वा मुक्तात्मजापि सा । उत्थायाश्रुविरुक्षा ययौ शोकालये शनैः ॥ ३६.८१{८०} ॥ तत्र शय्यातलासीना मुक्तादानचिन्तया । संबुद्धस्मरणं कृत्वा तस्थौ ध्यानसमाहिता ॥ ३६.८२{८१} ॥ (र्म् ४०२) तत्र तद्ध्यानसंमूढा निद्रासुप्तेन्द्रियापि सा । तमेव श्रीघनं स्मृत्वा तस्थौ निश्चरिताशयाः ॥ ३६.८३{८२} ॥ तामेवां संस्थितां दृष्ट्वा भगवान् स मुनीश्वरः । स्वप्न इव समाभाष्य मुक्तामेवं व्यबोधयत् ॥ ३६.८४{८३} ॥ वत्से मात्र विषीद त्वं प्रदेयेयं कजापि ते । प्रदीयतां समुद्धृत्य पुनः प्रादुर्भविष्यति ॥ ३६.८५{८४} ॥ इति संभाषितं श्रुत्वा स्वप्ने इव समुत्थिता । सा मुक्ता विस्मयाक्रान्तचित्ता तस्थौ सुनिशला ॥ ३६.८६{८५} ॥ ततः सा तं जगन्नाथं स्मृत्वा तच्चिन्तयाकुला । किमेतत्सत्यमेवं स्यादिति ज्ञातुं समैछत ॥ ३६.८७{८६} ॥ ततः सा स्वयमुद्धृत्य स्वशिरःस्थां स्वपाणिना । मुक्तामालां मुदालोक्य तां शास्त्रे समकल्पयत् ॥ ३६.८८{८७} ॥ ततोऽनंतरमेवं सा मुक्तामालाभिशोभिता । तस्याः शिरसमुभूता रराज तत्समानिका ॥ ३६.८९{८८} ॥ तां समालोक्य सा मुक्ता कन्यातिविस्मयान्विता । सहसा पुरतो गत्वा मातुरेवं न्यवेदयत् ॥ ३६.९०{८९} ॥ मातरद्य मुनीन्द्रस्य कृपादृष्टिप्रसादतः । यथा मया प्रतिज्ञातं पूर्य्येत मे तथा ध्रुवम् ॥ ३६.९१{९०} ॥ इत्युक्त्वा सा मुदा मुक्ता समुद्धृतां शिरोरुहाम् । ये उभे दर्शयित्वाग्रे मातुरेवमभाषत ॥ ३६.९२{९१} ॥ मातरहं विपन्नाशा शय्या तलसमाश्रिता । संबुद्धं मनसा ध्यात्वा तिष्ठामि दानचिंतया ॥ ३६.९३{९२} ॥ यदा मे ध्यानसुप्ताया हृदि निद्रोपसर्पते । तदैवं सर्वनाथेन समादिष्टं श्रुतं मया ॥ ३६.९४{९३} ॥ प्रदेयेयं शिरोजाता मुक्तामाला त्वया मुदा । पुनः प्रादुर्भवेद्भूयोऽप्येतत्समानिका ध्रुवम् ॥ ३६.९५{९४} ॥ इति श्रुत्वा प्रबुद्धाहं किमेतत्सूनृतं भवेत् । इति कृत्वा समुद्धृत्य पश्यामीमां प्रमोदिता ॥ ३६.९६{९५} ॥ ततोऽनंतरमेवं मे शिरस्यैतत्समानिका । मुक्तामाला समुद्भूता दृश्यतामियमम्बिके ॥ ३६.९७{९६} ॥ इत्युक्त्वा सा सुता मुक्ता तस्या मातुः पुरो मुदा । मुक्तां मालामुपस्थाप्य दर्शयन्त्येवमाह च ॥ ३६.९८{९७} ॥ इमां मातुर्जगच्छास्त्रे मुदा संकल्पयाम्यहम् । तदेनां त्रिजगच्छास्त्रे संप्रदातुं व्रजेय हि ॥ ३६.९९{९८} ॥ इति पुत्र्या समाख्यातं श्रुत्वा सा जननी मुदा । तां मुक्तास्रजमालोक्य तच्छिरोजां च हर्षिता ॥ ३६.१००{९९} ॥ मुहुर्मुहुः समीक्षन्ती तां सुतामेवमब्रवीत् । धन्यासि भद्रिका पुत्रि त्वया यथा समीहितम् ॥ ३६.१०१{१००} ॥ तथा ते सिद्ध्यते नूनं संबुद्धस्यानुभावातः । तदिमां त्वं समादाया यथा संकल्पितं त्वया ॥ ३६.१०२{१} ॥ तथा तस्मै मुनीन्द्राय प्राभ्यर्च्य दातुमर्हसि । तथा तेऽङ्गीकृतं पुत्रि तत्सत्यं सेत्स्यते ध्रुवम् ॥ ३६.१०३{२} ॥ (र्म् ४०३) एतत्पुण्यानुभावैश्च सर्वदा सद्गतिं व्रजेः । इति मत्वा जगच्छास्तुरुपहृत्य भजादरात् ॥ ३६.१०४{३} ॥ तथा चास्मै द्विजायैवमादाय दातुमर्हति । तथा तेऽङ्गी कृते सिद्धे सर्वत्र मंगलं भवेत् ॥ ३६.१०५{४} ॥ सफलं मानुषे जन्म सदा च सद्गतौ स्थितिः ॥ ३६.१०६{५} ॥ इति मात्रोदितं श्रुत्वा प्रतिसंमोदिताशया । सा तथेति प्रतिश्रुत्य तथा कर्तुं समैछत ॥ ३६.१०७{६} ॥ तथा सैतत्प्रवृत्तांतं भर्त्तुरग्रे न्यवेदयत् । श्रुत्वा भर्त्तापि पुष्यः समुदिताभ्यन्वमोदत ॥ ३६.१०८{७} ॥ तस्मिन्नवसरे तत्र श्रावस्त्यां जेतकाश्रमे । विहारे भगवान् सोऽर्हन् विजहार ससांघिकः ॥ ३६.१०९{८} ॥ तत्र स त्रिजगच्छास्ता बोधिचर्यां प्रकाशयन् । सर्वसत्वसहितार्थेन धर्ममादेष्टुमारभत् ॥ ३६.११०{९} ॥ तदा ते भिक्षवः सर्वे श्रावकाश्चैलकादयः । भिक्षुण्यो व्रतिनश्चापि बोधिसत्वगणा अपि ॥ ३६.१११{१०} ॥ उपासकगणाश्चापि तथा चोपासिका अपि । सर्वे ते समुपाश्रित्य समातस्थुः समाहिताः ॥ ३६.११२{११} ॥ तथा शक्रादयो देवा ब्रह्माद्या ब्रह्मचारिणः । दानवा लोकपालाश्च यक्षगंधर्वकिन्नराः ॥ ३६.११३{११!} ॥ राक्षसा गरुडा नागाः सिद्धविद्याधरादयः । यतयो योगिनश्चापि निर्ग्रन्थास्तीर्थिका अपि ॥ ३६.११४{१२} ॥ ऋषयो ब्राह्मणाश्चापि तपश्विनो महर्द्धिकाः । राजानः क्षत्रियाश्चापि वैश्या राजकुमारकाः ॥ ३६.११५{} ॥ श्रेष्ठिनो मंत्रिणोऽमात्या गृहस्थाश्च महाजनाः । वणिजः सार्थवाहाश्च पौरिकाः शिल्पिनोऽपि च ॥ ३६.११६{२४} ॥ ग्राम्या जानपदाश्चापि तथान्यद्देशवासिनः । सर्वे ते समुपागत्य दृष्ट्वा तं श्रीघनं मुदा ॥ ३६.११७{१५} ॥ नत्वा प्रदक्षिणीकृत्य समभ्यर्च्य यथाक्रमम् । कृताञ्जलिपुटा नत्वा परिवृत्य समंततः ॥ ३६.११८{१६} ॥ तत्सद्धर्मामृतं पातुमुपतस्थुः समाहिताः । तदा स भगवान् दृष्ट्वा तान् सर्वान् समुपस्थितान् । आदिमध्यांतकल्याणं सद्धर्मं समुपादिशत् ॥ ३६.११९{१७} ॥ तत्सद्धर्मं समाकर्ण्य सर्वे लोकाः [प्रबोधिकाह्] प्रबोधिताः । सर्वसत्वहितार्थेषु बभूवुः बोधिचारिणः ॥ ३६.१२०{१८} ॥ तदा सा कन्यका मुक्ता सखीभिः सह मोदिता[ः] । मुक्तामालां समादाय धर्मं श्रोतुमुपाचरत् ॥ ३६.१२१{१९} ॥ तत्र तं श्रीघनं दृष्ट्वा नत्वा सा सांजलिर्मुदा । त्रिधा प्रदक्षिणीकृत्य तस्य शास्तुः पुरोगता ॥ ३६.१२२{२०} ॥ तत्राग्रे तामुपस्थप्य मुक्तामालां कृतांजलिः । पादौ नत्वा प्रसन्नास्या धर्मं श्रोतुमुपाश्रयत् ॥ ३६.१२३{२१} ॥ ततः स भगवांस्तस्या दृष्ट्वाशयं विशुद्धितम् । आर्यसत्यं समारभ्य सद्धर्मं समुपादिशत् ॥ ३६.१२४{२२} ॥ तत्सद्धर्मं समाकर्ण्य सा मुक्ता परिबोधिता । धर्मविशेषमाज्ञाय बभूव बोधिवाञ्छिनी ॥ ३६.१२५{२३} ॥ (र्म् ४०४) तत्र सा कन्यका मुक्ता सत्कायदृष्टिपर्वतम् । हित्वा ज्ञानासिना श्रोतआपत्तिफलमाययौ ॥ ३६.१२६{२४} ॥ ततः सा भद्रिका मुक्ता दृष्टसत्या प्रमोदिता । सांजलिश्चरणौ शास्तुर्नत्वा स्वगृहमाययौ ॥ ३६.१२७{२५} ॥ ततः सा च समादाय मुक्तामालं स्वमूर्द्धजम् । सुप्रसन्नाशया तस्मै द्विजाय प्रददौ मुदा ॥ ३६.१२८{२६} ॥ तां मुक्तास्रजमादाय ब्राह्मणः संप्रमोदितः । तस्यै भद्राशिषं दत्वा सहसा स्वगृहेऽव्रजत् ॥ ३६.१२९{२७} ॥ तथा सा मुदिता गत्वा सर्वार्थिभ्यो यथेप्सितम् । त्रिरत्नभजनं कृत्वा शुभधर्मे समाचरत् ॥ ३६.१३०{२८} ॥ तदा तस्या गुणाञ्छ्रुत्वा बहवः कामरागिणः । सरत्नप्राभृतं दत्वा तां प्रार्थयितुमीछिरे ॥ ३६.१३१{२९} ॥ कुमारा भुर्भुजा तस्याः पितरं पुष्यमादरात् । स्वस्वदूतैः सरत्नानि दत्वा संप्रार्थयन्मुदा ॥ ३६.१३२{३०} ॥ तथा द्विजकुमाराश्च मंत्रिपुत्राश्च कामिनः । वैश्यपुत्रास्तथान्ये न धनिनो वणिगात्मजाः ॥ ३६.१३३{३१} ॥ सार्थवाहसुताश्चापि तथा शिल्पिसुता अपि । महाजनसुताश्चैवमन्येऽपि काममोहिताः ॥ ३६.१३४{३२} ॥ सर्वे ते तां सुभद्रांगीं मुक्तां मुक्ताभ्यलंकृताम् । दृष्ट्वा रागाग्निसंतप्तास्तन्मुखामृतवांछिनः ॥ ३६.१३५{३३} ॥ सवस्त्रालंकाररत्नानि दत्व दूतैः पृथक्पृथक् । तस्यास्तं जनकं पुष्यं प्रार्थयन्नेवमादरात् ॥ ३६.१३६{३४} ॥ तथा तैः प्रार्थ्यमानोऽसौ पुष्यो दूतैः पृथक्पृथक् । तद्दत्तं प्राभृतं दृष्ट्वा तस्थौ तं क्षुभिताशयः ॥ ३६.१३७{३५} ॥ तत उत्थाय पुष्यः स शोकागारे विषण्णधीः । गत्वा शय्यातलासीनो मनसैवं व्यचिंतयत् ॥ ३६.१३८{३६} ॥ हारे दुःखं प्रजातं मे किं करिष्यामि सांप्रतम् । एकैव दुहिता मेऽस्ति याचका बहवोऽपि मे ॥ ३६.१३९{३७} ॥ यद्येकस्मै प्रदास्यामि सर्वेऽन्ये स्युर्मम द्विषः । अत्राहं किं करिष्यामि यदुपायं न मन्यते ॥ ३६.१४०{३८} ॥ इति चिन्ताविषण्णास्यस्तस्थौ मोहविषार्दितः ॥ ३६.१४१{३९!} ॥ तत्रैवं संस्थितं दृष्ट्वा जनकं तं समोहितम् । समेत्य सात्मजा मुक्ता नत्वैवं पर्यपृछत ॥ ३६.१४२{४०} ॥ तात किं ते मनो दुःखं यदेवं तिष्ठसेऽधुमा । तत्सत्यं समुपाख्या प्रबोधयात्मजामिमाम् ॥ ३६.१४३{४१} ॥ इति संप्रार्थिते पुत्र्या तया स जनकः सुधीः । तं मुक्तां स्वात्मजं दृष्ट्वा सुचिरादेवमब्रवीत् ॥ ३६.१४४{४२} ॥ अयि पुत्रि सुभद्रांगी किमत्राहं वदेय हि । यत्त्वमेका सुता मेऽस्ति याचका बहवास्तव ॥ ३६.१४५{४३} ॥ यद्येकस्मै प्रदास्यामि त्वामेकं दिव्यसुंदरीम् । ते सर्वेऽन्ये भवेयुर्मे शत्रवो ह्यपकारिणः ॥ ३६.१४६{४४} ॥ इति चिन्ताविदग्धात्मा तिष्ठाम्येवं हि नान्यथा । तदुपायं न पश्यामि यतो मे जायते भयम् ॥ ३६.१४७{४५} ॥ (र्म् ४०५) इति पित्रोदितं श्रुत्वा सा मुक्ता दुहिता पुनः । जनकं तं समालोक्य बोधयन्त्येवमब्रवीत् ॥ ३६.१४८{४६} ॥ नाहं कामार्थिनी तात संबुद्धशासने गता । प्रव्रज्य संवरं धृत्वा चरिष्यामि शुभां चरिम् ॥ ३६.१४९{४७} ॥ इति मे निश्चितं चित्तमन्यथा न करोमि हि । तदत्र मा विषीद त्वं तदनुज्ञां प्रदेहि मे ॥ ३६.१५०{४८} ॥ इति पुत्र्या तथाख्यातं स पुष्यो जनकः सुधीः । स्वात्मजां तां समालोक्य पुनरेवमभाषत ॥ ३६.१५१{४९} ॥ अयि पुत्रि कथं तावत्प्रव्रज्यां चरितुं सहेः । त्वं हि बाला सुभद्राङ्गी कुमारी सुखमेधिनी ॥ ३६.१५२{५०} ॥ तस्माद्यावत्कुमारी त्वं तावद्गेहे समाश्रिता । त्रिरत्नभजनं कृत्वा चरोपासकसंवरम् ॥ ३६.१५३{५१} ॥ इति पित्र्योदितं श्रुत्वा सा मुक्ता दुहिता सुधीः । तथा हीति प्रतिश्रुत्य प्रबोधितान्वमोदितः ॥ ३६.१५४{५२} ॥ तथा सा भद्रिका मुक्ता शुद्धशीला सुभाविनी । त्रिरत्नभजनं कृत्वा चेरे उपासिकाव्रतम् ॥ ३६.१५५{५३} ॥ यदा सा यौवनी कांता मुक्ता मुक्तातिशोभिता । तदा कनिष्ठपुत्रेण दृष्टानाथान्नसंस्तृतः ॥ ३६.१५६{५४} ॥ ततः सोऽनाथभृत्पुत्रः सुप्रियाख्योऽभिमोदितः । कामरागाग्निसंतप्तो रोगी वाभूद्विषण्णधीः ॥ ३६.१५७{५५} ॥ तं पुत्रं कामरागार्त्तं दृष्ट्वा सोऽनाथपिण्डदः । तन्निमित्तं समालोक्य समाश्वास्यैवमब्रवीत् ॥ ३६.१५८{५६} ॥ भो पुत्रैवं किमर्थे त्वं रोगीव तिष्ठसेऽधुना । तद्वदस्व ममाग्रेऽपि यदिछति मनस्तव ॥ ३६.१५९{५७} ॥ इति पित्रोदितं श्रुत्वा सुप्रियः स विनिःश्वसन् । पितरं तं समालोक्य शनैरेवमभाषत ॥ ३६.१६०{५८} ॥ तात योऽसौ सुभद्राङ्गी मुक्ता मुक्तातिशोभिता । दृष्ट्वा मयानुरूपेति मनो मे हरतेऽपि सा ॥ ३६.१६१{५९} ॥ तदभिलाषरागाग्निदाहसंतोषितं मनः । तद्रागाग्निशमोपायं कर्तुमर्हति मेऽधुना ॥ ३६.१६२{६०} ॥ इति पुत्रोदितं श्रुत्वा सोऽनाथपिण्डदः पिता । पुत्रस्य प्राणरक्षार्थं याचितुं तां समैहत ॥ ३६.१६३{६१} ॥ ततः स दूतमाहूय पुर एवमभाषत । साधो गछ गृहस्थस्य पुष्यस्यैव परो वद ॥ ३६.१६४{६२} ॥ साधो तद्दुहिता भद्रा तद्दीयतां सुताय मे । एवं कृतेऽपि संबंधं यावज्जीवं सुखाय नौ ॥ ३६.१६५{६३} ॥ इत्युक्त्वा तस्य पुष्यस्य तां मुक्ताख्यां सुभाविनीम् । प्रार्थयित्वा सुतायास्मै दातुं मेऽर्हति सर्वथा ॥ ३६.१६६{६४} ॥ इति तेनोदितं श्रुत्वा तथेति प्रतिभाष्य सः । दूतः प्राभृतमादाय पुष्यस्य समुपाचरत् ॥ ३६.१६७{६५} ॥ तत्र तस्य पुरः स्थाप्य प्राभृतं संविनोदयन् । यथानाथभृतादिष्टं तथा सर्वं न्यवेदयत् ॥ ३६.१६८{६६} ॥ तदुक्तं सर्वमाकर्ण्य स पुष्यः परिबोधितः । मुक्तां तां स्वात्मजां पुत्रीं समामंत्र्यैवमब्रवीत् ॥ ३६.१६९{६७} ॥ (र्म् ४०६) अयि प्रियात्मजे पुत्रि त्वमनाथभृता सता । सुप्रियाय स्वपुत्राय प्रार्थिता त्वं प्रसीद तत् ॥ ३६.१७०{६८} ॥ इति पित्रोदितं श्रुत्वा मुक्ता सा दुहिता सती । पितरं तं समालोक्य प्रणत्वैवमभाषत ॥ ३६.१७१{६९} ॥ नाहं कामार्थिनी तात संबुद्धशरणं गता । प्रव्रज्यासंवरं धृत्वा चरिष्यामि शुभां चरीम् ॥ ३६.१७२{७०} ॥ इति पुत्र्योदितं श्रुत्वा स पुष्योऽभिहताशयः । दुहितां तां चिरं दृष्ट्वा पुनरेवमभाषत ॥ ३६.१७३{७१} ॥ हे सुते कथमेव त्वं वदेथाः किं न मन्यसे । यदसौ गृहभृन्नाथस्तद्वचः श्रूयते न कैः ॥ ३६.१७४{७२} ॥ तद्यावद्यौवनी भूता तावद्भर्त्ता सहानुगाः । त्रिरत्नभजनं कृत्वा चर व्रतं गृहे सुखम् ॥ ३६.१७५{७३} ॥ यदा वृद्धा व्यवस्थास्यै तदा त्वं सौगताश्रमे । प्रव्रज्यासंवरं धृत्वा प्रचरस्व शुभां चरीम् ॥ ३६.१७६{७४} ॥ इति पित्रा समादिष्टं श्रुत्वा सा दुहिता सुधीः । पित्रो वाक्यं कथं लंघ्यमिति मत्वैवमब्रवीत् ॥ ३६.१७७{७५} ॥ नाहं कामर्थिनी तात सद्धर्मसाधनार्थिनी । तथापि त्वद्वचोऽलंघ्यमिति श्रोष्यामि ते वचः ॥ ३६.१७८{७६} ॥ यदि मे समयं धृत्वा सत्यवाक्यं ददाति मे । वृणुयां तं पतिं ननुमिति मे वचनं ध्रुवम् ॥ ३६.१७९{७७} ॥ इति पुत्र्योदितं श्रुत्व स पुष्यः परिबोधितः । एतत्सर्वं प्रवृत्तांतं दूतस्याग्रे न्यवेदयत् ॥ ३६.१८०{७८} ॥ दूतापि तत्प्रवृत्तांतं श्रुत्वा तथेति सत्वराः । अनाथपिण्डदस्याग्रे विस्तरेण न्यवेदयत् ॥ ३६.१८१{७९} ॥ सोऽनाथपिण्डदश्चापि श्रुत्वा स प्रतिमोदितः । सर्वमेतत्प्रवृत्तांतं पुत्रस्याग्रे न्यवेदयत् ॥ ३६.१८२{८०} ॥ एतत्पित्रा समाख्यातं श्रुत्वा स सुप्रियः सुधीः । तथा हीति प्रतिज्ञाय दूतस्याग्रे न्यवेदयत् ॥ ३६.१८३{८१} ॥ दूतश्च तद्वचः श्रुत्वा पुष्यस्य पुरतो गतः । सर्वमेतत्प्रवृत्तांतं विस्तरेण न्यवेदयत् ॥ ३६.१८४{८२} ॥ पुष्योऽपि तत्समाख्यातं श्रुत्वा पत्न्याः पुरोऽवदत् । सापि तज्जननी श्रुत्वा पुत्र्या अग्रे न्यवेदयत् ॥ ३६.१८५{८३} ॥ तन्मात्रा समुपादिष्टं श्रुत्वा सा दुहिता सती । तथा हीति प्रतिश्रुत्य तूष्णीभूत्वाध्युवास तत् ॥ ३६.१८६{८४} ॥ ततः स जनकः पुष्यो मत्वा पुत्र्याधिवासितम् । तस्या विवाहसामग्रीं सहसा समसाधयत् ॥ ३६.१८७{८५} ॥ ततः स जनकः पुष्योऽप्यनाथपिण्डदात्मजम् । सुप्रियं तं समानीय सत्कृत्य सममानयत् ॥ ३६.१८८{८६} ॥ ततस्तामात्मजां मुक्तां सुप्रियाय सुभाविने । संकल्प्य प्रददौ पुष्यो जनकः स यथाविधिः ॥ ३६.१८९{८७} ॥ ततः स सुप्रियो भर्त्ता तांमुक्तां रमणीं प्रियाम् । भार्यां स्वगृहे आनीय रेमे भुक्त्वा यथासुखम् ॥ ३६.१९०{८८} ॥ एवं सा भाविनी मुक्ता काञ्चित्कालं गृहे मुदा । (र्म् ४०७) भर्त्त्रा सह यथाकामं भुक्त्वा रेमे प्रमोदिता ॥ ३६.१९१{८९} ॥ ततस्तौ दंपती देहे वृद्धत्व समुपाक्रमे । पित्रोः पादान् प्रणत्वैवं प्रार्थयतं समादरात् ॥ ३६.१९२{९०} ॥ पितरौ यत्कृतं सत्यमावाभ्यां तत्सुसिद्धये । पूरयितुं समिछावस्तदाज्ञां दातुमर्हथ ॥ ३६.१९३{९१} ॥ इति संप्रार्थितं ताभ्यां श्रुत्वा पिता स सा प्रसूः । दृष्ट्वा तौ दंपती श्राद्धायुक्तावेवं समूचतुः ॥ ३६.१९४{९२} ॥ यदि वां विद्यते वांछा चरितुं सौगतं व्रतम् । तत्सत्यपूरये तस्मात्प्रचरत समाहितौ ॥ ३६.१९५{९३} ॥ इति ताभ्यामनुज्ञाते दंपती तौ प्रमोदितौ । पित्रोः पादान् प्रणत्वैव प्रतस्थुः सहसा गृहात् ॥ ३६.१९६{९४} ॥ ततस्तौ जेतकोद्याने विहारे समुपागतौ । भगवन्तं तमानम्य प्रव्रज्यां समयाचताम् ॥ ३६.१९७{९५} ॥ भगवन्नाथ सर्वज्ञ विजानाति यदावयोः । सत्यं तत्पूरयिष्यावस्तत्प्रव्रज्यां ददातु वाम् ॥ ३६.१९८{९६} ॥ इति संप्रार्थिते ताभ्यं भगवां दक्षपाणिना । स्पृष्ट्वा तच्छिरसोर्दृष्ट्वा समामंत्र्यैवमादिशत् ॥ ३६.१९९{९७} ॥ एवं चरतमादाय प्रव्रज्याव्रतमुत्तमम् । स्वपरात्महितार्थेषु ब्रह्मचर्यं समाहितौ ॥ ३६.२००{९८} ॥ इत्यादिष्टे मुनीन्द्रेण तावुभावपि मुंडितौ । खिक्खिरीपात्रविभ्राणौ च भर्तुश्चीवरावृतौ ॥ ३६.२०१{९९} ॥ ततोऽविद्यागणं भित्वा प्राप्तविद्याविशारदौ । सर्वक्लेशगणाञ्जित्वा साक्षादर्हत्वमावतुः ॥ ३६.२०२{१००} ॥ ततस्तौ विमलात्मानौ प्रिशुद्धत्रिमण्डलौ । जितेन्द्रियाऊ समाचारौ निर्विकल्पौ निरंजनौ ॥ ३६.२०३{१} ॥ सर्वेषामपि लोकानां त्रैधातुकनिवासिनाम् । पूज्यौ मान्यौ च वंद्यौ तावभूतं ब्रह्मचारिणौ ॥ ३६.२०४{२} ॥ तद्दृष्ट्वा ते भिक्षवः सर्वे विस्मयोद्धतमानसा । भगवंतं तमानम्य पप्रछुस्तत्पुराकृतम् ॥ ३६.२०५{३} ॥ भगवन् किं कृतं कर्म पुराभ्यां सुकृतं कुह । तत्सर्वं समुपादिश्य सर्वान्नः परिबोधय ॥ ३६.२०६{४} ॥ इति संप्रार्थिते सर्वैर्भिक्षुभिः स मुनीश्वरः । सर्वांस्तां श्रावकान् भिक्षून् समालोक्यैवमादिशत् ॥ ३६.२०७{५} ॥ शृणुत भिक्षवः कर्म यदाभ्यां प्रकृतं पुरा । तत्सर्वं वः प्रवक्ष्यामि श्रुत्वा चाभ्यनुमोदत ॥ ३६.२०८{६} ॥ तद्यथाभूत्पुरा शास्ता काश्यपाख्यमुनीश्वरः । सर्वज्ञोऽर्हं जगन्नाथो धर्मराजस्तथागतः ॥ ३६.२०९{७} ॥ भगवान् स मृगारण्ये वाराणस्यां जिनारमे । सर्वसत्वहितार्थेन विजहार ससांघिकः ॥ ३६.२१०{८} ॥ तदा तत्र महान् साधुः श्रीमाञ्छ्रीदोपमः सुधीः । सदा तस्य मुनीन्द्रस्य सद्धर्मश्रावकोऽभजत् ॥ ३६.२११{९} ॥ ततः स बुद्धिमान् दाता सर्वलोकहितार्थतः । छन्दकभिक्षणं तत्र याचित्वा पंचवार्षिकम् ॥ ३६.२१२{१०} ॥ (र्म् ४०८) काश्यपस्य मुनीन्द्रस्य ससंघय निरंतरम् । सपूजाभोजनैर्नित्यमुपस्थातुं समैछत ॥ ३६.२१३{११} ॥ ततः स नृपतेराज्ञां समासाद्य प्रमोदितः । हस्तिस्कन्धे समारुह्य घण्टावाद्यं प्रवादयन् ॥ ३६.२१४{१२} ॥ सर्वत्र विषये तत्र वाराणस्याः समंततः । छंदकभिक्षणं सार्द्धं याचितुं प्राचरज्जनैः ॥ ३६.२१५{१३} ॥ तं दृष्ट्वा सार्थवाहस्य भार्या भद्रा सुभाविनी । सा तस्यै शिरसो मुच्य मुक्ताहारं ददौ मुदा ॥ ३६.२१६{१४} ॥ ततस्तस्याः शिरस्कं तन्मुक्ताहारव्यपोहितम् । द्ष्ट्वा स विस्मितो हार्य्यं तामेव पर्यपृछत ॥ ३६.२१७{१५} ॥ क्वासौ भद्रे शिरस्थस्ते मुक्ताहारो न विद्यते । कस्यै दत्तस्त्वया केन हृतो वा तद्वदस्व मे ॥ ३६.२१८{१६} ॥ इति भर्त्राभिपृष्टे सा मुदिता रचितांजलिः । भर्त्तारं तं प्रणत्वैवं विनोदयितुमब्रवीत् ॥ ३६.२१९{१७} ॥ आर्यपुत्र प्रसीदात्र मा कृथा रोषतामिह । यन्मया श्रद्धया दत्तश्छंदकभिक्षणेऽप्यसौ ॥ ३६.२२०{१८} ॥ इति भार्योदितं श्रुत्वा सार्थवाहस्ततश्चरन् । निष्क्रीय बहुमूल्येन तस्यै पत्न्यै ददौ पुनः ॥ ३६.२२१{१९} ॥ तं मुक्ताहारमालोक्य सार्थभृतः प्रियापि सा । संप्रदत्तं मया शास्तु इति तं नाग्रहीदपि ॥ ३६.२२२{२०} ॥ ततः स सार्थभृत्स्वामी तां भार्यां रमणीं प्रियाम् । स्नेहार्दचक्षुषा दृष्ट्वा पुनरेवमभाषत ॥ ३६.२२३{२१} ॥ बहुमूल्येन भद्रे यं मया क्रीतस्तु दीयते । तत्कस्मान्नेछसीदं मद्ग्रहीतुं कथमेव हि ॥ ३६.२२४{२२} ॥ इति भर्त्रोदितं श्रुत्वा सा दत्तं स्वामिना पुनः । तं मुक्ताहारमादाय भर्त्तुश्चित्तं व्यनोदयत् ॥ ३६.२२५{२३} ॥ ततः सा विषयारक्ता सद्धर्मगुणवांछिनी । तं संपूजांगमादाय ययौ शास्तुर्मुदाश्रमे ॥ ३६.२२६{२४} ॥ तत्रैतद्गन्धकुट्यां सा कृत्वा सुगंधिलेपनम् । सुपुष्पैश्च समाकीर्य्य नत्वा कृत्वा प्रदक्षिणाम् ॥ ३६.२२७{२५} ॥ ततः सा मुदिता तस्य काश्यपस्य जगद्गुरोः । मुक्ताहारं पुरः क्षिप्त्वा प्रणनाम कृतांजलिः ॥ ३६.२२८{२६} ॥ ततो बुद्धानुभवेन मुक्ताहारः स तत्क्षणम् । तस्य शास्तुः शिरः संस्थो रराज संप्रभासयन् ॥ ३६.२२९{२७} ॥ तद्दृष्ट्वा सा सुप्रसन्नास्याः संबोधिगुणलालसाः । शास्तुः पादौ प्रणत्वैवं प्रणिधानं व्यधान्मुदा ॥ ३६.२३०{२८} ॥ एतत्पुण्यविपाकेन शास्तारमीदृशं जिनम् । आराग्येदृग्गुणानां च लाभी स्यां सर्वथा भवे ॥ ३६.२३१{२९} ॥ एवं सा भाविनी कांता तस्य शास्तु जगद्गुरोः । प्रणिधानं सदा कृत्वा प्रभेजे संप्रसादिता ॥ ३६.२३२{३०} ॥ योऽसौ सार्थपतेर्भार्या मुक्तेयं सा सुभाविनी । मन्यतामिति युष्माभिर्नान्यथा तु हि भिक्षवः ॥ ३६.२३३{३१} ॥ यदनया तदा तस्य काश्यपस्य जगद्गुरोः । (र्म् ४०९) पूजाङ्गैः श्रद्धयाभ्यर्च्य मुक्ताहारः प्रढोकितः ॥ ३६.२३४{३२} ॥ एतत्पुण्यविपाकेन जातेयं सुकुलेऽधुना । शिरस्यस्याश्च संरूढो मुक्तामाला सहोद्भवा ॥ ३६.२३५{३३} ॥ यथानया कृतं तत्र प्रणिधानं तथाऽधुना । मां शास्तारमागम्य साक्षादर्हत्वमाप्यते ॥ ३६.२३६{३४} ॥ एवं हि यत्कृतं येन तेनैव भुज्यते फलम् । अभुक्तं क्षीयते नैव कर्म न चान्यथा क्वचित् ॥ ३६.२३७{३५} ॥ एवं मत्वात्र संसारे सर्वदा शुभवांछिभिः । सद्धर्मं समुपाश्रित्य चरितव्यं शुभे सदा ॥ ३६.२३८{३६} ॥ शुभे चरन्ति ये नित्यं न ते गछंति दुर्गतीम् । सद्गतिमेव संयान्ति बोधिं च समवाप्नुयुः ॥ ३६.२३९{३७} ॥ इत्यादिष्टं मुनीन्द्रेण श्रुत्वा ते सांघिका अपि । सर्वे तथेति विज्ञप्य प्राभ्यनंदन् प्रबोधिताः ॥ ३६.२४०{३८} ॥ इत्यादिष्टं हि मे शास्त्रा श्रुतं मया तथोच्यते । श्रुत्वाप्येवं तथा राजं चरितव्यं शुभे सदा ॥ ३६.२४१{३९} ॥ प्रजाश्चापि महाराज बोधयित्वा प्रयत्नतः । बोधिमार्गे प्रतिस्थाप्य पालयस्व समाहितः ॥ ३६.२४२{४०} ॥ तथा हि ते सदा भद्रं सर्वत्रापि भवेद्ध्रुवम् । क्रमाद्बोधिं च संप्राप्य संबुद्धपदमाप्नुयाः ॥ ३६.२४३{४१} ॥ इति तेनार्हतादिष्टं श्रुत्वाशोकः स भूपतिः । तथा हीति प्रतिज्ञप्य प्राभ्यनंदत्सपार्षदः ॥ ३६.२४४{४२} ॥ मुक्तावदानं मनुजा इदं ये शृण्वंति ये चापि निशामयन्ति । ते सर्व एवं सुखिता शुभानि कृत्वा प्रयान्ति सुगतालयन् ते ॥ ३६.२४५{४३} ॥ ++ इति रत्नावदानतत्वे मुक्तावदानं समाप्तम् ++ (र्म् ४१०) xxxविइ धीमत्यावदान अथाशोको महीन्द्रोऽसौ कृतांजलिः प्रमोदितः । उपगुप्तं तमर्हन्तं नत्वैवं पुनरब्रवीत् ॥ ३७.१{१} ॥ भदन्त ये महासत्वा बोधिसत्वा यथेप्सितम् । सर्वार्थिभ्यः प्रदत्वैवं दानं कुर्वन्ति सर्वदा ॥ ३७.२{२} ॥ तेषामेवं प्रदत्तेऽपि तद्द्रव्यं क्षीयते न हि । पुनर्वृद्धितमं याति तत्कथं मे समादिश ॥ ३७.३{३} ॥ कतमद्व्रतपुण्यस्य प्रभावाच्छ्रीः प्रवर्द्धते । तद्व्रतं मे भवाञ्छास्ता सम्यगादेष्टुमर्हति ॥ ३७.४{४} ॥ इति संप्रार्थिते राज्ञा श्रुत्वा सोऽर्हन् यतिः सुधीः । उपगुप्तो नरेन्द्रं तं समालोक्यैवमादिशत् ॥ ३७.५{५} ॥ शृणु राजन्महाभाग यथा मे गुरुणोदितम् । तथाहं ते प्रवक्ष्यामि लोके धर्माभिवृद्धये ॥ ३७.६{६} ॥ ये सत्यसमाधानाः शुद्धशीलाः शुभार्थिनः । वसुधारामहादेव्याश्चरन्ति व्रतमुत्तमम् ॥ ३७.७{७} ॥ तेषां न क्षीयते द्रव्यं प्रदत्तेऽपि सदा गृहे । प्रवृद्धितरमेव स्याद्वसुधारानुभावतः ॥ ३७.८{८} ॥ तद्यथासीत्पुरा बुद्धः शाक्यसिंहो मुनीश्वरः । सर्वज्ञोऽर्हञ्जगच्छास्ता धर्मराजस्तथागतः ॥ ३७.९{९} ॥ भगवान्नेकदा तत्र वाराणस्याः पुरान्तिके । मृगदवे जिनावासे विजहार ससांघिकः ॥ ३७.१०{१०} ॥ तदा तद्धर्मपीयूषं पातुं शक्रादयोऽमराः । ब्रह्मादि ब्राह्मणाश्चापि सर्वे लोकाधिपा अपि ॥ ३७.११{११} ॥ सिद्धा विद्याधरा दैत्या यक्षगंधर्वकिन्नराः । राक्षसा गरुडा नागास्तथान्येऽपि समागताः ॥ ३७.१२{१२} ॥ यतयो योगिनश्चापि तीर्थिकाश्च तपश्विनः । निर्ग्रन्था वीतरागाश्च मुनयो ब्रह्मचारिणः ॥ ३७.१३{१३} ॥ एवमन्येऽपि लोकाः संबुद्धधर्मवांछिनः । तत्सद्धर्मामृतं पातुं मुदा तत्र समागताः ॥ ३७.१४{१४} ॥ तत्पुराधिपती राजा विश्वभद्राभिधो महान् । तस्य भार्या प्रियादेवी रत्नमालाभिधा सती ॥ ३७.१५{१५} ॥ तदात्मजकुमारांशः सूर्यप्रभाभिधः कृती । तदात्मजा रमाकारा कुमारी विमलाभिधा ॥ ३७.१६{१६} ॥ अन्येऽप्यन्तर्जनाश्चापि स ज्ञातिमित्रवांधवाः । पुरोहितादयश्चापि वेदविज्ञा द्विजातयः ॥ ३७.१७{१७} ॥ वैश्याश्च मंत्रिणोऽमात्या गृहस्थाश्च महाजनाः । वणिजः सार्थवाहाश्च शिल्पिनश्चापि पौरिकाः ॥ ३७.१८{१८} ॥ ग्राम्या जानपदाश्चापि तथा कार्पटिका अपि । (र्म् ४११) एवमन्येऽपि लोकाश्च सर्वे ते समुपागताः ॥ ३७.१९{१९} ॥ तत्रेत्य तं सभासीनं सर्वसंघपुरस्कृतम् । संबुद्धं श्रीघनं दृष्ट्वा मुदिताः समुपाचरन् ॥ ३७.२०{२०} ॥ तत्र सर्वेऽपि ते लोकाः समभ्यर्च्य यथाक्रमम् । त्रिधा प्रदक्षिणीकृत्वा प्रणत्वा तं मुनीश्वरम् ॥ ३७.२१{२१} ॥ तत्सद्धर्मामृतं पातुं परिवृत्य समंततः । पुरस्कृत्य समाधाय समुपतस्थुराद्रिता ॥ ३७.२२{२२} ॥ अथ स भगवान् दृष्ट्वा तान् सर्वान् समुपस्थितान् । बोधिचर्यां समारभ्य दिदेश धर्ममुत्तमम् ॥ ३७.२३{२३} ॥ तत्सद्धर्मं समाकर्ण्य सर्वलोकाः प्रबोधिताः । बोधिचित्तं समासाद्य भवंति बोधिचारिणः ॥ ३७.२४{२४} ॥ आसीत्तत्समये तत्र वाराणस्यां गृहाधिपः । धर्मध्वजाभिधः श्रेष्ठी दाता साधुर्महाजनः ॥ ३७.२५{२५} ॥ तस्य भार्या प्रिया कान्ता शान्तमतीति विश्रुता । पुत्राश्च बहवस्तस्य सुताश्चाप्यभवंस्तथा ॥ ३७.२६{२६} ॥ पौत्राः कर्मकराः प्रेश्या दासी दासजना अपि । अनेके परिवाराश्च वंधुमित्रसुहृज्जनाः ॥ ३७.२७{२७} ॥ सर्वे ते पोषितास्तेन संभृत्य परिपालिताः । पोषणीया गृहस्थस्य सर्वे हि समुपाश्रिताः ॥ ३७.२८{२८} ॥ अर्थिनोऽपि सदा तस्य गृहेऽनेकसमागता । शुभाशीर्वचनैर्नित्यं महोत्साहं प्रचक्रिरे ॥ ३७.२९{२९} ॥ सोऽपि धर्मध्वजो दाता तान् सर्वानर्थिनो जनान् । यथाभिलषितैर्द्रव्यैस्तोषयित्वाभ्यमोदयत् ॥ ३७.३०{३०} ॥ एवं प्रददतस्तस्य क्रमात्संपत्क्षयं गता । तद्दृष्ट्वा स गृही दानविघ्नशंकार्दितोऽभवत् ॥ ३७.३१{३१} ॥ ततः शोकालये स्थित्वा तत्संपत्क्षीयचिंतया । विनिश्वसन् विषण्णात्मा तस्थौ भोग्यनिरुत्सहः ॥ ३७.३२{३२} ॥ ततस्तस्य प्रिया भार्या शान्तमती विचक्षणा । भर्त्तारं तं विषण्णास्यं दृष्ट्वैवं पर्यपृछत ॥ ३७.३३{३३} ॥ स्वामिन्नेवं किमालोक्य तिष्ठसे दुःखचिंतया । यत्तेऽत्र जायते दुःखं तद्वदस्व मनोगतम् ॥ ३७.३४{३४} ॥ इटि भार्योदितं श्रुत्वा स भर्त्ताभिविनिश्वसन् । तां भार्यां सुप्रियां कांतां समालोक्यैवमब्रवीत् ॥ ३७.३५{३५} ॥ अयि प्रिये महद्दुःखं हृदि मे जायतेऽधुना । यत्संपदः परिक्षीणा आया मेऽत्र न विद्यते ॥ ३७.३६{३६} ॥ पुत्रपौत्रादयोऽनेके बहयो मे कुटुम्बिनः । कर्मकरादयो भृत्या दासीदासादयो जनाः ॥ ३७.३७{३७} ॥ अन्येऽपि बहवः प्रेष्याः पालनीया दिवानिशम् । अर्थिनो याचकाश्च बहवो नित्यमागताः । कथं तान्स्तोषयिष्यामि क्रमात्क्षीणा हि संपदः ॥ ३७.३८{३८} ॥ नूनं मे याचकाः सर्वे शून्यहस्ता गृहादतः । परिखिन्नविभिन्नास्या व्रजिष्यन्ति निराशयाः ॥ ३७.३९{३९} ॥ (र्म् ४१२) इति चिन्ताविषण्णे मे हृदि दुःखं प्रजायते । तद्दुःखानलसंतप्तस्तिष्ठाम्येवं विमोहितः ॥ ३७.४०{४०} ॥ किं हि दानमहोत्साहं विना गेहे सुखं भवेत् । पशुवत्केवलं भुक्त्वा किं सारं सत्सुखं विना ॥ ३७.४१{४१} ॥ इति भर्त्रोदितं श्रुत्वा साथ शान्तमती सती । भर्त्तारं तं समाश्वास्य बोधयन्त्येवमब्रवीत् ॥ ३७.४२{४२} ॥ आर्यपुत्र किमत्रापि जाता ते हृदि दुःखता । किं विषादेना सिद्ध्येत केवलं दह्यते मनः ॥ ३७.४३{४३} ॥ अवश्यं भाविनो भावा भवन्ति महतामपि । तद्विषादं परित्यज्य चर शुभे समाहितः ॥ ३७.४४{४४} ॥ इति भार्योदितं श्रुत्वा स भर्त्ताभिविनिःश्वसन् । तां भार्यां सुप्रियां कांतां समालोक्यैवमब्रवीत् ॥ ३७.४५{४५} ॥ अयि प्रिये शुभं कार्य्यं नाभिजानामि सन्मते । तदुपायं समाख्याय मां बोधयितुमर्हति ॥ ३७.४६{४६} ॥ इति भर्त्त्रोदितं श्रुत्वा सा च शांतमती सती । भर्त्तारं तं समाश्वास्य प्रबोधयितुमब्रवीत् ॥ ३७.४७{४७} ॥ आर्यपुत्र महासाधो तदुपायं प्रकथ्यते । कौशांव्यां घोषिरारामे शाक्यसिंहो मुनीश्वरः ॥ ३७.४८{४८} ॥ सर्वज्ञः सुगतो बुद्धो हीनदीनानुकंपकः । सर्वविद्याकलाभिज्ञः षडभिज्ञो विचक्षणः ॥ ३७.४९{४९} ॥ मारजिल्लोकविन्नाथो विनायकस्तथागतः । द्वात्रिंशल्लक्षणाशीतिव्यंजनप्रतिमण्डितः ॥ ३७.५०{५०} ॥ व्याम प्रभाभिभास्वंतं शतसूर्याधिकप्रभम् । जंगममिव रत्नाभं सौम्यं समंतभद्रकम् ॥ ३७.५१{५१} ॥ सर्वसत्वहितार्थेन विजहार ससांघिकः । तत्र गत्वा प्रणत्वा तत्तं बुद्धं शृणुतादरात् ॥ ३७.५२{५२} ॥ तदा स भगवान् बुद्धस्तदुपायं समादिशेत् ॥ ३७.५३{५३!} ॥ इति भार्यासमादिष्टं श्रुत्वा धर्मध्वजोऽपि सः । तथेति परिभाषित्वा स भर्त्ता संप्रमोदितः ॥ ३७.५४{५४} ॥ तदा स धर्मध्वजो भार्यं वेलामादाय प्राचरत् । ततो विहारे गत्वा स भगवंतं ससांघिकम् । दूरतः प्रणतिं कृत्वा एकस्थाने समाश्रयत् ॥ ३७.५५{५५} ॥ तदा स भगवान् दृष्ट्वा तं धर्मध्वजदुःखितम् । जानन्नप्यागतं कामं धर्मध्वजे समब्रवीत् ॥ ३७.५६{५६} ॥ साधो कस्मादिहागत्य तिष्ठसे तत्समादिश । इति शास्त्रा समादिष्टं श्रुत्वा धर्मध्वजोऽपि सः ॥ ३७.५७{५७} ॥ कृतांजलिपुटो नत्वा भगवंतमेवमब्रवीत् । भगवन् यद्विजानीया नान्य गच्छामि मे विभो । त्वयि मम कार्य्यमेक पृछामीति व्यचिन्तयत् ॥ ३७.५८{५८} ॥ तद्यथा मे महासंपत्क्षीणं याति दरिद्रताम् । पुनर्वृद्धिगतं द्रव्यं तत्कथं मे समादिश ॥ ३७.५९{५९} ॥ कतमद्व्रतपुण्यस्य प्रभावाच्छ्री प्रवर्द्धते । तद्व्रतं मे भवाञ्छास्ता सम्यगादेष्टुमर्हति ॥ ३७.६०{६०} ॥ (र्म् ४१३) इति संप्रार्थितं तेन श्रुत्वा स भगवान्मुदा । धर्मध्वजं तमामंत्र्य संपश्यन्नेवमब्रवीत् ॥ ३७.६१{६१} ॥ साधु शृणु समाधाय तद्विधिं संप्रवक्ष्यते । तच्छ्रुत्वा ते प्रबोधित्वा समाचर विधानतः ॥ ३७.६२{६२} ॥ वसुधाराव्रतं सम्यक्यथा श्रुतं मया पुरा । वज्रधराब्धिगंभीरनिर्घोषेणोपदेशितम् ॥ ३७.६३{६३} ॥ तथाथा प्रथमं तावच्छुद्धभूमौ परिग्रहम् । कृत्वा मृद्गोमयाम्भोभिः संलिप्य पर्यशोभयेत् ॥ ३७.६४{६४} ॥ ततः सद्गुरुमाराध्य नत्वा कृतांजलिर्मुदा । सत्कृत्य प्रार्थयेदेवं वसुधाराव्रतं वरम् ॥ ३७.६५{६५} ॥ ततः स गुरुणा सार्द्धं स्नात्वा तीर्थे विशुद्धधीः । शुद्धवस्त्रावृताः शुद्धचित्तो ब्रह्मविहारिकः ॥ ३७.६६{६६} ॥ मासे भाद्रपदे कृष्णपक्षे माघेऽपि वा पुनः । तृतीयायां तिथौ देवीं समावाह्य व्रतं चरेत् ॥ ३७.६७{६७} ॥ पूर्वस्मिन् दिवसे विघ्नान् कीलयेत्सर्वदिक्स्थितान् । तत्र सुभूतले सूत्रं पातयित्वा यथाविधि ॥ ३७.६८{६८} ॥ वर्त्तयेन्मंडलं देव्याः सगणप्रतिमण्डितम् ॥ ३७.६९{६९!} ॥ एवं तन्मंडलं कृत्वा सप्तव्रीहिसुवेष्टितम् । ततोऽष्टयक्षणीचिह्नं शोभितैः कलशैर्वृतम् ॥ ३७.७०{७०} ॥ सपताकध्वजछत्रवितानैः परिमण्डितम् । कृत्वा तन्मण्डलं वज्री प्रतिष्ठाप्य यथाविधि ॥ ३७.७१{७१} ॥ विचित्रपुष्पमालाभिः प्रदीपैः संप्रभोज्वलैः । सौरभ्यधूपनैश्चापि समभ्यर्च्याभिशोभयेत् ॥ ३७.७२{७२} ॥ ततस्तन्मण्डले देवी सगणां परिसंस्मरन् । ध्यात्वा जागरणं कृत्वा तद्रात्रीं व्यतिलंघयेत् ॥ ३७.७३{७३} ॥ ततः प्रातः समुत्थाय तीर्थे स्नात्वा सुशुद्धधीः । शुचिवस्त्रावृते पंचगव्यैः स्वांगं व्यशोधयेत् ॥ ३७.७४{७४} ॥ ततः स सद्गुरुं नत्वा तदाज्ञां शिरसावहन् । उत्तराभिमुखः शुद्ध आसने समुपाश्रयेत् ॥ ३७.७५{७५} ॥ ततस्तावद्गुरुं नत्वा त्रिरत्नशरणं गतः । मंडले सगणां देवीं ध्यात्वावाह्य समर्चयेत् ॥ ३७.७६{७६} ॥ ततोऽरहं संप्रदत्वाग्रे प्रणत्वा सांजलिर्मुदा । जपस्तोत्रादिकं कृत्वा कुर्याच्च पापदेशनाम् ॥ ३७.७७{७७} ॥ पुण्यानुमोदनां कृत्वा प्रार्थयेद्बोधिसंवरम् ॥ ३७.७८{७८!} ॥ ततः प्रदक्षिणां कृत्वा नत्वास्तांगैश्च सांजलिः । ततः पीतमयं सूत्रं षोडशभेदवर्त्तितम् । शुद्धं गुरुर्मंत्रेण शोधयेत् ॥ ३७.७९{७९} ॥ ततस्तद्व्रतसूत्रं स सगुरुर्धारणीं पथन् । तस्मै शिष्याय रक्ष्यार्थं दत्वाभिषेकमर्प्पयेत् ॥ ३७.८०{८०} ॥ तद्व्रतं सूत्रमादाय वंधित्वा स्वकरे व्रती । यावद्व्रतसमाप्तं न तावत्तत्सूत्रमाधरेत् ॥ ३७.८१{८१} ॥ ततः व्रती यथाशक्ति गुरवे दानदक्षिणम् । (र्म् ४१४) दत्वाष्टाङ्गप्रणामेण नत्वा समभितोषयेत् ॥ ३७.८२{८२} ॥ ततः पंचामृतैर्युक्तं बलिं क्षीरोदनाभरम् । स यक्षयक्षणीलोकपालेभ्यः संप्रदापयेत् ॥ ३७.८३{८३} ॥ ततः क्षमार्थनं कृत्वा गुरुणा सह पालनम् । तृतीयप्रहराग्रेऽह्नेः कुर्यात्स यवपूरकैः ॥ ३७.८४{८४} ॥ पालनांते पुनः स्नात्वा तां देवीं सगणां स्मरन् । पठञ्छ्रीधारणीं रात्री पूजयेच्च यथाविधि ॥ ३७.८५{८५} ॥ एवं नित्यं चतुःसंध्यं पूजयेच्छ्रीवसुंधराम् । यावज्जीवं यथासक्तौ वर्षैकं वा तथा चरेत् ॥ ३७.८६{८६} ॥ षण्मासं मासमेकं च यथाशक्ति व्रतं चरेत् । नवसप्तदिनान्येवं पंचत्रीणि दिनान्यपि ॥ ३७.८७{८७} ॥ अहो रात्रं तथैकं वा वारमेकं व्रतं चरेत् । तत्परे द्युर्दिने प्रातः स्नात्वा शुद्धाशयो व्रती । तथा तां सगणां देवीं समर्चयेद्यथाविधि ॥ ३७.८८{८८} ॥ ततश्च गुरुवेऽभ्यर्च्य वस्त्रालंकारभूगृहम् । सदक्षिणां प्रदत्वैवं स्वात्मानं च समर्प्पयेत् ॥ ३७.८९{८९} ॥ ततः स गुरुरादाय तस्मै शिष्याय साशिषम् । दत्वा क्षमार्थनां कृत्वा तन्मण्डलं विसर्जयेत् ॥ ३७.९०{९०} ॥ ततस्तद्रज आदाय भण्डागारेऽभिगोपितम् । संनिधाय सदा नित्यमभ्यर्च्य सादरं भजेत् ॥ ३७.९१{९१} ॥ तद्रजःशेषनिर्माल्यं नद्यां नागान् यथाविधि । समभ्यर्च्य समर्प्पित्वा सर्वं जले प्रवाहयेत् ॥ ३७.९२{९२} ॥ ततस्तज्जलमादाय गृहे गत्वा महोत्सवैः । तज्जलैर्मण्डलागारकोष्ठे सर्वत्र सिंचयेत् ॥ ३७.९३{९३} ॥ ततस्तद्व्रतपूर्णार्थं रात्रौ देवीं कुमारिकाम् । यथाविधि समावाह्य समभ्यर्च्याभ्यतोषयेत् ॥ ३७.९४{९४} ॥ सत्गुरुप्रमुखान् सर्वान् योगिनो योगिनीरपि । समभ्यर्च्य यथाकामं भोजनैः संप्रतोषयेत् ॥ ३७.९५{९५} ॥ ततस्तं सगणं चक्रं नत्वा व्रती स सांजलिः । क्षमाप्य विनयं कृत्वा प्रार्थयेच्छ्रीसमृद्धिताम् ॥ ३७.९६{९६} ॥ ततस्तत्सगणं चक्रं तद्भक्त्या संप्रतोषितम् । तस्मै व्रतिने दद्यात्सुसंपत्तिसुभाषितम् ॥ ३७.९७{९७} ॥ ततस्तस्य गृहे देवी वसुधारा समाश्रिता । सर्वद्रव्याभिसंपूर्णं कृत्वा तिष्ठेत्सदा स्थिरा ॥ ३७.९८{९८} ॥ ततस्तद्द्रव्यमादाय सर्वार्थिभ्यो यथेप्सितम् । संप्रदत्वा यथाकामं भुक्त्वा भवं सुखं चरेत् ॥ ३७.९९{९९} ॥ एवं गृहपते मत्वा वसुधाराव्रतं महत् । यथाविधि समादाय गृहे चर समादरात् ॥ ३७.१००{१००} ॥ ततस्ते सर्वदा गेहे मंगलं निरुपद्रवम् । भवेत्सापि महादेवी सगणा निवसेत्स्थिरा ॥ ३७.१०१{१} ॥ ततस्ते सर्वसंपत्तिः प्रवर्द्धिता शुभान्विता । भवने संभवन्त्येव न कदाचित्क्षयं व्रजेत् ॥ ३७.१०२{२} ॥ ततस्त्वं सर्वदा सौख्यं भुक्त्वा दत्वा यथेप्सितम् । (र्म् ४१५) त्रिरत्नभजनं कृत्वा शुभे चर समाहितः ॥ ३७.१०३{३} ॥ एतत्पुण्यविपाकेन सदा त्वं सद्गतिं ततः । बोधिचर्यां चरन् बोधिं प्राप्य बुद्धपदं लभेः ॥ ३७.१०४{४} ॥ इत्यादिष्टं मुनीन्द्रेण श्रुत्वा धर्मध्वजो गृही । स मुदा सुप्रसन्नात्मा व्रतं चरितुमैछत ॥ ३७.१०५{५} ॥ ततः स मुदितो नत्वा सांजलिस्तं जगद्गुरुम् । भगवन्तं जगन्नाथं प्रार्थयदेवमादरात् ॥ ३७.१०६{६} ॥ भगवन् सर्वविच्छास्तर्भवतां शरणं गतः । भवदाज्ञां शिरो धृत्वा चरिष्येऽहमिदं व्रतम् ॥ ३७.१०७{७} ॥ तद्भवां कृपया शास्तस्तदनुज्ञां ददातु मे । भवतात्र यथादिष्टं चरिष्ये तत्तथा खलु ॥ ३७.१०८{८} ॥ इति संप्रार्थिते तेन भगवान् स जगद्गुरुः । तस्मै देव्या महाविद्यां धारणीं संपठन् ददौ ॥ ३७.१०९{१०} ॥ सोऽपि धर्मध्वजो नत्वा साञ्जलिस्तं मुनीश्वरम् । धारणीं तां समादाय संपपाठ प्रमोदितः ॥ ३७.११०{१०} ॥ ततः स सुप्रसन्नात्मा धर्मध्वजः कृतांजलिः । तं मुनीन्द्रं जगन्नाथं प्रणत्वा स्वगृहं ययौ ॥ ३७.१११{११} ॥ ततः स स्वगृहप्राप्तः सुप्रसन्नमुखाम्बुजः । तां शांतमतां भार्यां समामंत्र्यैवमब्रवीत् ॥ ३७.११२{१२} ॥ प्रिये धन्यासि कल्याणी यत्त्वयाहं प्रबोधितः । संबुद्धशासनं रत्नमाप्तवानहमागतः ॥ ३७.११३{१३} ॥ तद्यथा समुपादिष्टं मुनीन्द्रेणानुशासिना । तथावां तद्व्रतं देव्याश्चरेवहि समादरात् ॥ ३७.११४{१४} ॥ इति भर्त्रा समुद्दिष्टे सापि शान्तमती मुदा । भर्त्तारं तं समालोक्य सुदृष्ट्यैवमभाषत ॥ ३७.११५{१५} ॥ अयि स्वामिन् कथं शास्त्र समादिष्टं वदस्व मे । यथादिष्टं मुनीन्द्रेण तथ चरेवहि ध्रुवम् ॥ ३७.११६{१६} ॥ इति भार्योदितं श्रुत्वा भर्त्ता धर्मध्वजोऽथ सः । मुदा शांतमतीं भार्यां तां समीक्ष्यैवमब्रवीत् ॥ ३७.११७{१७} ॥ शृणु भद्रे यथादिष्टं मुनीन्द्रेण तथा खलु । यद्व्रतं वसुधारायास्तद्विधिं ते प्रवक्ष्यते ॥ ३७.११८{१८} ॥ इत्युक्ते स्वामिना तेन सा च शान्तमती प्रिया । भर्त्तारं तं समालोक्य मुदितैवमभाषत ॥ ३७.११९{१९} ॥ स्वामिन्स्तेन मुनीन्द्रेण यथादिष्टं तथा भवान् । सुविस्तरं समाख्याय मनो मे संविनोदत ॥ ३७.१२०{२०} ॥ इत्युक्ते भार्यया साथ धर्मध्वजः सुविस्तरम् । यथादिष्टं मुनीन्द्रेण तथा सर्वं न्यवेदयत् ॥ ३७.१२१{२१} ॥ तच्छ्रुत्वा सा प्रबोधन्ती शांतमत्यनुमोदिता । तथा तस्या महादेव्या व्रतं चरितुमैछत ॥ ३७.१२२{२२} ॥ ततस्तं स्वामिनं नत्वा सा च शान्तमती सती । तद्व्रतारम्भसामग्रीं साधितुमेवमब्रवीत् ॥ ३७.१२३{२३} ॥ स्वामिन् व्रतं चरिष्यावो वसुलक्ष्म्या यथाविधि । सामग्रीं साधयेयास्य तदनुज्ञां प्रदेहि मे ॥ ३७.१२४{२४} ॥ इति भार्योदितं श्रुत्वा धर्मध्वजः स मोदितः । साध्यतां सर्वसामाग्रीमिति तां सांव्यनोदयत् ॥ ३७.१२५{२५} ॥ (र्म् ४१६) ततः सा मुदिताः सर्वे सामग्रीं साधयन्त्यपि । भर्त्तारं तमुपामंत्र्य दर्शयन्त्येवमब्रवीत् ॥ ३७.१२६{२६} ॥ सर्वं मे साधितं सिद्धं स्वामिन्नत्र प्रसीदतु । तत्सद्गुरुं समामंत्र्य व्रतमालब्धुमर्हति ॥ ३७.१२७{२७} ॥ इति भार्योदितं श्रुत्वा स धर्मध्वज आदरात् । सद्गुरुं समुपाराध्य नत्वेवं प्रार्थयन्मुदा ॥ ३७.१२८{२८} ॥ भदन्त श्रीवसुधारादेव्या व्रतं चरेवहि । तस्मात्देवीं समाराध्य व्रतोपदेशमादिश ॥ ३७.१२९{२९} ॥ इति संप्रार्थिते तेन तथेति हि स सद्गुरुः । प्रतिश्रुत्य यथादिष्टं मुनीन्द्रेण तथाचरत् ॥ ३७.१३०{३०} ॥ तथा भाद्रपदे मासे कृष्णपक्षे स सद्गुरुः । द्वितीयायं तिथौ तीर्थे स्नात्वा सुवाससा सुधीः ॥ ३७.१३१{३१} ॥ यथाविधिं समारभ्य मंडलं समवर्त्तयत् । तत्र तां सगणां देवीं प्रतिष्ठाप्य समर्चयत् ॥ ३७.१३२{३२} ॥ तत्परेद्युस्त्रितीयायां सुस्नातं शुभाम्बरम् । धर्मध्वजं सदारं तं पंचगव्यैर्व्यशोधयत् ॥ ३७.१३३{३३} ॥ ततस्तौ दंपती शास्त्रा यथादिष्टं समाहितौ । श्रुत्वा तथा समाधाय प्रचरतु व्रतं मुदा ॥ ३७.१३४{३४} ॥ यथा शास्त्रा समादिष्टं तथा कृत्वा व्रतं मुदा । गणचक्रादिकं सर्वं समाप्य तौ ननन्दतुः ॥ ३७.१३५{३५} ॥ ततस्तस्य गृहे देवीं वसुधारा समाश्रिता । सर्वद्रव्यं समापूर्य्य तस्थौ सदा प्रसादिता ॥ ३७.१३६{३६} ॥ ततस्तस्य गृहे संपद्दिने प्रवर्द्धिता । सरत्नधातुसद्वस्त्रशस्यादि द्रव्यजातयः ॥ ३७.१३७{३७} ॥ ता एवं वर्द्धिता दृष्ट्वा सदारः स गृहाधिपः । स विस्मयो मुदितोत्फुल्लवक्त्राम्बुजोऽभ्यनंदत ॥ ३७.१३८{३८} ॥ ततः स सर्वदार्थिभ्यो दत्वा दानं यथेप्सितम् । त्रिरत्नभजनं कृत्वा सुखं भुक्त्वा शुभेऽचरत् ॥ ३७.१३९{३९} ॥ तद्दृष्ट्वा तस्य गेहस्य समीपस्थो द्विजोत्तमः । विष्णुदासाभिधो विज्ञो विस्मयोद्धतमानसः ॥ ३७.१४०{४०} ॥ धीमतीं रमणीं भार्यां सुविशुद्धाशयां सतीम् । निःश्वसन्स्तां समामंत्र्य पुनरेवमभाषत ॥ ३७.१४१{४१} ॥ पश्य भद्रस्य मित्रस्य गृहे संपत्समृद्धिता । किमनेन कृतं धर्मं येनैवं श्रीः प्रवर्द्धिता ॥ ३७.१४२{४२} ॥ किमावाभ्यां कृतं पापं येनैवं नो विपत्सदा । किमत्रावां करिष्यावो येन संपत्प्रवर्द्धिता ॥ ३७.१४३{४३} ॥ तदुपायं न जानामि को मे उपदिशेद्धितम् । धन्यास्ते धनवंता ये यथाकाम सुखाशिनः ॥ ३७.१४४{४४} ॥ किं ते सद्गुणवंतोऽपि कृपणा ये दरिद्रिता । वरं प्राणपरित्यागं न त्वेवं जीवितं भवे ॥ ३७.१४५{४५} ॥ किं तेषां सद्गुणैश्चापि येषां संपद्गृहे न हि । धनवान् पुरुषो धीरः कुलीनो निर्गुणोऽपि च । (र्म् ४१७) सर्वे हि धनिनां वश्या पंडिताः सुगुणा अपि ॥ ३७.१४६{४६} ॥ धनवान्निर्गुणश्चापि मान्यते गुरुवज्जनैः । धनहीना न पूज्यंते पंडिता ब्रह्मणा अपि ॥ ३७.१४७{४७} ॥ धिग्मे जीवितमेवं हि ब्राह्मणस्यापि दुःखिनः । वरमेवाद्येतन्मृत्युर्न त्वेव चिरजीवितुम् ॥ ३७.१४८{४८} ॥ किमनेनापि जीवेन केवलदुःखभोगिना । तदत्र मर्त्तुमिछामि नैव जीवेय दुःखभाक् ॥ ३७.१४९{४९} ॥ सर्वेषामपि जंतूनामवश्यं मरणं भवे । तदत्र विद्यमानोऽहं कथं लोके चरेय हि ॥ ३७.१५०{५०} ॥ इत्येवं विलपं विप्रो विष्णुदासः स मोहितः । गलदश्रुविरुक्षाक्षस्तस्थौ मुहुर्विनिःश्वसन् ॥ ३७.१५१{५१} ॥ इत्येवं विलपन्तन् तं दृष्ट्वा सा धीमती प्रिया । बोधयितुं समाश्वास्य भर्त्तारमेवमब्रवीत् ॥ ३७.१५२{५२} ॥ मा विषादं कृथाः स्वामिन् धैर्य्यमालम्ब्य तिष्ठतु । किं करिष्यावहे ह्यत्र दैवात्संपन्न तौ गृहे ॥ ३७.१५३{५३} ॥ तथापि धैर्य्यमालम्ब्य यत्नं कुरु समाहितः । यत्नेन सिद्ध्यते सर्वं गुणद्रव्यादि साधनम् ॥ ३७.१५४{५४} ॥ तदत्राहं वदिष्यामि हितार्थं ते शृणु प्रभो । भार्या हि स्वामिनो भर्त्तुर्हितार्थम्ऽभ्यनुदेशिनी ॥ ३७.१५५{५५} ॥ यदयं गृहभृद्भर्त्ता धर्मध्वजस्तव प्रियः । सुहृन्मित्रं महासाधुस्तदादरात्स पृछ्यताम् ॥ ३७.१५६{५६} ॥ यथा तेन समादिष्टं तथैव क्रीयतां प्रभो । ततस्तस्य यथा संपत्तथास्माकं भवेदपि ॥ ३७.१५७{५७} ॥ इति भार्योदितं श्रुत्वा विष्णुदासः स तैर्थिकः । बौद्धवाक्ये विरुद्धत्वादनिछन्नेवमब्रवीत् ॥ ३७.१५८{५८} ॥ वयं हि ब्राह्मणा भद्रे बुद्धदेवी वसुंधरा । तद्विधिं वेदशास्त्रेषु कथितं न क्वचिदपि ॥ ३७.१५९{५९} ॥ तत्कथं स्वकुलाचारं त्यक्त्वान्यछरणं गताः । बौद्धोपदेशमासाद्य लक्ष्म्या व्रतं चरेमहि ॥ ३७.१६०{६०} ॥ ये त्यक्त्वा स्वकुलाचारमन्यत्र शरणं गताः । व्रतं चरंति संपत्तिलाभिलाभाकुलाशयाः ॥ ३७.१६१{६१} ॥ ते स्वधर्मपरिभ्रष्टा इहापि क्लिष्टभोगिनः । रोगिणो दुहितात्मानो मृता यास्यंति दुर्गतीम् ॥ ३७.१६२{६२} ॥ इति भद्रे न मे वांछा बौद्धदेव्या व्रतेऽशुभे । वरं प्राणपरित्यागं नान्यद्व्रतं चरेमहि ॥ ३७.१६३{६३} ॥ अस्माकमपि या देवी महालक्ष्मी कुलेश्वरी । तस्या व्रतं समाधाय चरेमहि सदादरात् ॥ ३७.१६४{६४} ॥ ततः सा श्रीमहादेवी गृहेऽश्माकं समाश्रिता । यथाभिवांछितं द्रव्यं सर्वं दद्यात्प्रसादिता ॥ ३७.१६५{६५} ॥ इति तस्या महालक्ष्म्या व्रतं चरावहे वयम् । तत्तद्व्रतस्य सामग्रीं साधय सर्वमादरात् ॥ ३७.१६६{६६} ॥ इति भर्त्रोदितं श्रुत्वा धीमती सा प्रमोदिता । (र्म् ४१८) तथेत्यभ्यनुमोदन्ती तत्सामग्रीमसाधयत् ॥ ३७.१६७{६७} ॥ तत्र सा धीमती तस्याः शांतमत्याः पुरो गता । तद्वृत्तान्तं सामाख्याय सामग्रीं समयाचत ॥ ३७.१६८{६८} ॥ सापि शांतमती तस्यै धीमत्यै संप्रमोदिता । यद्यत्संप्रार्थितं द्रव्यं तत्तत्सर्वं ददौ मुदा ॥ ३७.१६९{६७} ॥ तद्द्रव्यं सा समादाय भर्त्तुरग्रे समागता । तत्सर्वं समुपस्थाप्य विनोद्यैवमभाषत ॥ ३७.१७०{७०} ॥ स्वामिन् त्वया यथादिष्टं तत्सर्वं साधितं मया । तथा तस्या महालक्ष्म्या व्रतमारभ सांप्रतम् ॥ ३७.१७१{७१} ॥ इति भार्योदितं श्रुत्वा विष्णुदासः स मोदितः । यथाविधि महालक्ष्मीव्रतं चरितुमारभत् ॥ ३७.१७२{७२} ॥ मासे भाद्रपदे कृष्णपक्षेऽष्टम्यां यथाविधि । मण्डलादीन् प्रतिस्थाप्य शुद्धशीलः समाहितः ॥ ३७.१७३{७३} ॥ सदारस्तां महालक्ष्मीं समावाह्य समर्चयन् । विधिना तद्व्रतं कृत्वा संपत्तिं प्रार्थयन्मुदा ॥ ३७.१७४{७४} ॥ ततः स ब्राह्मणः कृत्वा तद्व्रतं सुसमाप्तितम् । सभार्यः सुप्रसन्नात्मा प्राचरत्तां श्रियं स्मरन् ॥ ३७.१७५{७५} ॥ तथा तस्य गृहे संपत्समुद्भूताभ्यजायत । दृष्ट्वा तौ दंपती तत्र महानंदमवापतुः ॥ ३७.१७६{७६} ॥ ततः स ब्राह्मणो लुब्धो दृष्ट्वा तान् संपदं मुदा । सर्वान् गुप्ते निधायैव न किं चित्तद्व्ययं व्यधात् ॥ ३७.१७७{७७} ॥ भूयस्तृष्णाभिसंतप्तो मात्सर्याभिहताशयः । कस्मै चिदपि तद्द्रव्यं किं चिद्दानं ददौ क्वचित् ॥ ३७.१७८{७८} ॥ तथा संरक्ष्य तद्द्रव्यं निधाय तु वियत्नतः । गोपयित्वा स्वयं भोक्तुमपि नैवाभ्यवांछत ॥ ३७.१७९{७९} ॥ तथापि स प्रलुब्धात्मा नित्यं कृपणोऽर्थिवत् । धनिनां समुपाश्रित्य याचित्वा धनमार्जयत् ॥ ३७.१८०{८०} ॥ तथार्जनः कृतस्तस्य गृहे द्रव्यं न वर्द्धितम् । दिने दिने निहीनत्वं गत्वा क्षयं क्रमाद्ययौ ॥ ३७.१८१{८१} ॥ ततः स ब्राह्मणो लुब्धो धनिनामर्थिनो गृहे । दृष्ट्वातिरुषितः सर्वान् परिभाष्याभ्यनिंदयत् ॥ ३७.१८२{८२} ॥ तत्पापताविपाकेन गृहे यद्गोपितं धनम् । तत्सर्वं निहृतं चौरैर्निदग्धं चापि वह्निना ॥ ३७.१८३{८३} ॥ ततः स ब्राह्मणस्तीव्रक्लेशाग्निपरितापितः । दरिद्रिताविभग्नाशः सभार्यो न्यवसद्गृहे ॥ ३७.१८४{३४!} ॥ तस्मिन्नवसरे तस्या धीमत्याः स पिता द्विजः । हरिशर्माभिधो गेहे यज्ञं कर्त्तुं सदारभत् ॥ ३७.१८५{३५} ॥ तदा स वांधवान् सार्वाञ्ज्ञातीन्मित्रसुहृज्जनान् । भगिनीभागिनेयांश्च जामात्रींश्तत्सुतानपि ॥ ३७.१८६{३६} ॥ दुहितॄरपि सर्वाश्च न्यमंत्रयत्समादरात् ॥ ३७.१८७{३७} ॥ (र्म् ४१९) तत्र ते वांधवा सर्वे ज्ञातिमित्रसुहृज्जनाः । भगिन्या भागिनेयाश्च जामातरोऽपि तत्सुताः ॥ ३७.१८८{३८} ॥ दुहितरस्तथा पौत्राः पौत्र्यादयोऽपि चापरे । सर्वे ते समुपागत्य समुपतस्थुराद्रिताः ॥ ३७.१८९{३९} ॥ तत्र सा कृपणीभूता दुर्भगेति पितापि सः । तत्र यज्ञमहोत्साहे तामेकां न न्यमंत्रयत् ॥ ३७.१९०{४०} ॥ तदा सा धीमती श्रुत्वा पितुर्यज्ञमहोत्सवम् । कथं मे विस्मृतं पित्रा मात्रापि वांधवैरपि ॥ ३७.१९१{४१} ॥ इति चिंताविषाघ्रातहृदया परिमूर्छिता । भोजनेऽपि निरुत्साहा तस्थौ लज्जान्विता गृहे ॥ ३७.१९२{४२} ॥ तथा स विष्णुदासोऽपि ससुरस्य गृहे तदा । श्रुत्वा यज्ञमहोत्साहं तां भार्यामेवमब्रवीत् ॥ ३७.१९३{४३} ॥ कथं ते जनकेनावां विस्मृतौ केन हेतुना । नैव निमंत्रितौ भद्रे यथा सर्वे निमंत्रिता ॥ ३७.१९४{४४} ॥ इति भर्त्रोदितं श्रुत्वा धीमती सातिलज्जिता । भर्त्तारं विष्णुदासं तं बोधयन्त्येवमब्रवीत् ॥ ३७.१९५{४५} ॥ किमत्राहं वदिष्यामि यन्नौ संपद्गृहेऽस्ति न । तेन नौ लज्जयाम्बापि निमंत्रितुं न वांछते ॥ ३७.१९६{४६} ॥ इति सा धीमती लज्जासंकुंचिताशयानना । भर्त्रा सह विलप्यैव तस्थौ गृहे निराशिता ॥ ३७.१९७{४७} ॥ तदा तज्जनं स्मृत्वा धीमतीं तामनागताम् । काञ्चित्पठिगतां चेटीं समाहूयैवमब्रवीत् ॥ ३७.१९८{४८} ॥ अयि सखि सुता मे सा धीमता यदि दृश्यते । मद्वाचसा समेत्यासौ वक्तव्यैवं लघु त्वया ॥ ३७.१९९{४९} ॥ पितुस्ते मन्दिरे यज्ञमहोत्साहं प्रवर्त्तते । तत्कथं न समायासि सभर्त्तागन्तुमर्हसि ॥ ३७.२००{५०} ॥ इति संदिश्य ते मात्रा प्रेषिताहं त्वदन्तिके । तन्मातुर्वचनं श्रुत्वागछेति तत्पुरो वद ॥ ३७.२०१{५१} ॥ तत्संदिष्टं तया श्रुत्वा तथेति प्रतिभाष्य सा । चेटी ततोऽभिगछन्ती धीमत्या भवने ययौ ॥ ३७.२०२{५२} ॥ तत्र तां धीमतीं दृष्ट्वा सा चेटी समुपस्थिता । यथा मात्रा समादिष्टं तथा सर्वं न्यवेदयत् ॥ ३७.२०३{५३} ॥ तत्तया कथितं श्रुत्वा धीमती साश्रुमोचिनी । विनिःश्वस्य प्रसूं स्मृत्वा विलपन्त्यैवमब्रवीत् ॥ ३७.२०४{५४} ॥ हा मातः कथमद्याहं संस्मृता सांप्रतं त्वया । किमागछेय ते पुत्री पापिनी दुःखभागिनी ॥ ३७.२०५{५५} ॥ तस्मिन्नेव क्षणे भर्त्ता विष्णुदास उपाचरत् । तां चेटीं समुपालोक्य किमर्थमित्यपृछत ॥ ३७.२०६{५६} ॥ इति तेनाभिसंपृष्टे सा चेटी रचितांजलिः । ब्राह्मणं तं प्रणम्यैतत्सर्वं वृतांतमब्रवीत् ॥ ३७.२०७{५७} ॥ तथा तत्कथितं श्रुत्वा विष्णुदासोऽपि स द्विजः । गलदश्रुविरुक्षाक्षस्तां भार्यामेवमब्रवीत् ॥ ३७.२०८{५८} ॥ किं वदिष्यावहे भार्ये दैवान्नौ जायते विपत् । (र्म् ४२०) तथापि धैर्य्यमालम्व्य गछ द्रष्टुं पितुर्मनः ॥ ३७.२०९{५९} ॥ इति भर्त्रोदितं श्रुत्वा धीमती सा कुवासिनी । निर्मण्डनात्सुतान् पुत्रीः समादाय शनैर्ययौ ॥ ३७.२१०{६०} ॥ ततो मातुर्गृहे प्राप्ता दृष्ट्वा तौ पितरौ पुरः । गत्वा सा धीमती नत्वा तस्थौ लज्जाहताशया ॥ ३७.२११{६१} ॥ पितरौ तां सुतां दृष्ट्वा विछन्दां लज्जिताशयम् । किं चिद्दृष्ट्वागतासीति कथित्वैव निषेदतुः ॥ ३७.२१२{६२} ॥ ततः सा धीमती सर्वाञ्ज्ञातीन् भ्रात्रींश्च वांधवान् । भगिनीः सुहृदो जेष्ठान् प्रणनाम यथाक्रमम् ॥ ३७.२१३{६३} ॥ तां दृष्ट्वा ज्ञातयः सर्वे भ्रातरो वांधवा अपि । भगिन्यापि सुहृदश्चापि दृष्ट्वोपहस्य जल्पिरे ॥ ३७.२१४{६४} ॥ तथा प्रहसितं सर्वे सा दृष्ट्वातित्रपान्विता । स्वदैवस्मृतिमाधाय निःश्वस्यैकान्त आश्रयत् ॥ ३७.२१५{६५} ॥ ततः स हरिशर्मा स पुरोहितो यथाविधि । यज्ञकर्मसमारभ्य यथाकामं समापयत् ॥ ३७.२१६{६६} ॥ ततस्तान् वांधवाञ्ज्ञातीन् सुहृन्मित्रजनानपि । सत्कृत्यात्यभिसंतुष्टान् सादरेण व्यसर्जयत् ॥ ३७.२१७{६७} ॥ ततस्ते ज्ञातयः सर्वे वंधुमित्रसुहृज्जनाः । नंदितास्तं प्रशंसित्वा स्वस्वालयं मुदा ययुः ॥ ३७.२१८{६८} ॥ ततस्ते सुस्थिताः सर्वे ज्ञातिवंधुसुहृज्जनाः । नानाकथाभिसंलापं कुर्वन्तः संनिषेदिरे ॥ ३७.२१९{६९} ॥ ततः सा धीमती पश्चाद्भुक्त्वैकान्ते निराद्रिता । पुत्रपुत्री समादाय शिवस्य भवनेऽचरत् ॥ ३७.२२०{७०} ॥ तत्र सा स्तृणमास्तीर्य पुत्रपुत्रीसमन्विता । दारिद्र्यदुःखचिन्तानुनिःश्वसन्ती न्यषीदत ॥ ३७.२२१{७१} ॥ तत्र स विष्णुदासोऽपि पश्चाद्भुक्त्वा निराद्रितः । शिवालये स्थितां श्रुत्वा सह स्थातुमुपाचरत् ॥ ३७.२२२{७२} ॥ भर्त्तारं तमुपायातं दृष्ट्वा सा धीमती तदा । गलदश्रुविरुक्षाक्षा विलपन्त्येवमब्रवीत् ॥ ३७.२२३{७३} ॥ धिग्मे जीवं दरिद्रायाः किमेवं जीवितेन हि । पित्रोरपि दयास्नेहदृष्टिर्न विद्यते मयि ॥ ३७.२२४{७४} ॥ यत्पित्रोः समाः सर्वा भगिन्यः स्वात्मजा अपि । तथाहं मानिता नैव मानितास्ता यथादरात् ॥ ३७.२२५{७५} ॥ धिग्जीवितं दरिद्राया जन्मापि धिक्च मानुषे । किं रूपैः सुगुणैः वापि विद्याभिः किं धनं विना ॥ ३७.२२६{७६} ॥ हा दैव किं मया पापं दारुणं प्रकृतं पुरा । यन्मे न विद्यते संपत्पित्रो दधापि दया मयि ॥ ३७.२२७{७७} ॥ तदत्र किं करिष्यामि यास्यामि शरणं कुह । का मां रक्षेत्स्वदैवोत्थदरिद्र्यदुःखतापिनीम् ॥ ३७.२२८{७८} ॥ किमेवं जीवितेनापि वरं मृत्युर्हि सांप्रताम् । अवश्यमेव मर्त्तव्यं सर्वेषामपि जन्मिनाम् ॥ ३७.२२९{७९} ॥ एवं नानाप्रलापेन विलपन्ती सुतं सुताम् । (र्म् ४२१) भर्त्तारं च मुहुर्दृष्ट्वा कारुण्यार्त्ता रुरोद सा ॥ ३७.२३०{८०} ॥ एवं विलापं कुर्वन्तीं रुदन्तीं तां विलोक्य सः । विष्णुदासो विनिःश्वस्य समाश्वास्यैवमब्रवीत् ॥ ३७.२३१{८१} ॥ प्रियेऽत्र मा रुदिहि त्वं किं करिष्यावहेऽधुना । यदावाभ्यां कृतं पापं भोक्तव्यमेव तत्फलम् ॥ ३७.२३२{८२} ॥ तदत्र धैर्य्यमालम्व्य तिष्ठ किं वक्ष्यते बहु । अवश्यं भाविनो भावा भवंति महतामपि ॥ ३७.२३३{८३} ॥ शिवोऽपि स विरूपाक्षो नीलकण्ठो दिगंवरः । उन्मत्तो भस्मलिप्तांगः कपालयोऽपि रस्थिधृक् ॥ ३७.२३४{८४} ॥ विष्णुर्वीरोऽपि संसारे भ्रमितः स जनार्दनः । सोऽपि दासो वलिद्वास्थश्चौरो व्याधेषुणाहतः ॥ ३७.२३५{८५} ॥ ब्रह्मा लोकाधिपः सोऽपि कामार्त्तोऽगम्यकर्मकृत् । नियुज्यो निघ्नितो वैरिसेवकश्छिन्नमस्तक ॥ ३७.२३६{८६} ॥ चिछेद ब्रह्मणः पूर्वं रुद्रः क्रोधात्त पंचमम् । तच्छिरो दुस्त्यजं गृह्णन् ब्रह्माण्डं परिवभ्रमे ॥ ३७.२३७{८७} ॥ शंखतीर्थे गतो रुद्रस्तच्छिरः परिमुक्तवान् । कपालमोचनस्तीर्थो द्वितीयावर्त्तसंस्थितः ॥ ३७.२३८{८८} ॥ इति उत्कलखण्डक्षेत्रमाहात्म्ये उक्तमास्ते । एवमन्येऽपि लोकाश्च मुनयस्तापसा अपि ॥ ३७.२३९{८९} ॥ कोपाग्निदहितात्मानो व्रजन्ति नरकेष्वपि । एवं सर्वेऽपि लोकाश्च स्वस्वदैवानुभाविनः ॥ ३७.२४०{९०} ॥ सुखिनो दुःखिनो भूता भ्रमंति भवसागरे । क्षणाल्लभन्ति संपत्तिं भवन्ति च दरिद्रिताः ॥ ३७.२४१{९१} ॥ सर्वे देवादयो लोकाः स्वकृतकर्मभोगिनः । एवं मत्वात्र संसारे सुखं दुःखं स्वदैवजम् ॥ ३७.२४२{९२} ॥ मा कृथास्तद्विषाद त्वं धैर्यं धृत्वा समाचर । स्वकुलेशमनुस्मृत्वा समभ्यर्च्य यथाविधिः । श्रद्धया शरणं कृत्वा भज नित्यं समाहिता ॥ ३७.२४३{९३} ॥ ततस्तत्पुण्यपाकेन पापं नो विलयं व्रजेत् । ततः संपत्समृद्धिः स्यात्तदा लप्स्यावहे सुखम् ॥ ३७.२४४{९४} ॥ इति मे वचनं श्रुत्वा धैर्य्यमालम्व्य सांप्रतम् । पुत्रपुत्रीं समादाय प्रैहि गृहे व्रजामहे ॥ ३७.२४५{९५} ॥ इति भर्त्रोदितं श्रुत्वा धीमती साभिबोधिता । पुत्रं पुत्रीं पुरोधाय शनैर्भर्त्रा सहाचरत् ॥ ३७.२४६{९६} ॥ तत्र सा स्वगृहे गत्वा क्षणं स्थित्वा निरुत्सहा । ततः शान्तमतीं द्रष्टुं समुत्थाय शनैर्ययौ ॥ ३७.२४७{९७} ॥ तत्र सा धीमती तस्याः शांतमत्याः पुरोगता । गलदश्रुविलिप्तास्या निःश्वसंत्येवमब्रवीत् ॥ ३७.२४८{९८} ॥ शांतमते पितुर्यज्ञमहोत्साहप्रवर्त्तितम् । तत्संद्रष्टु गता तत्र महालज्जान्विता चरम् ॥ ३७.२४९{९९} ॥ यन्मां दृष्ट्वा भगिन्योऽपि ज्ञातिवंधुसुहृज्जनाः । अपि सर्वे मिथो दृष्ट्वा प्रजल्पिताभ्युपाहसन् ॥ ३७.२५०{१००} ॥ (र्म् ४२२) भागिनेयाश्च सर्वेऽपि मां दृष्ट्वा रुषिताशयाः । पुत्रपुत्रीं च मे दृष्ट्वा फुत्कृत्य प्रत्याताडयन् ॥ ३७.२५१{१} ॥ पितृभ्यां मानिताः सर्वाः भगिन्यस्ता यथादरात् । तथाहं मानिता नैव द्रष्टुमपि न चैष्यते ॥ ३७.२५२{२} ॥ रात्रावपि गृहे वासं न मे दत्तं निरादरात् । शिवालये निषण्णा तन्निशां कृच्छ्राद्व्यलंघयम् ॥ ३७.२५३{३} ॥ एवमहं महल्लज्जादुःखाग्निपतितापिता । मर्त्तुमपि तदिच्छामि किमेवं जीवितेनपि ॥ ३७.२५४{४} ॥ यदि तेऽस्ति कृपा भद्रे दुःखिन्यां मयि विद्यते । तद्द्रव्योपार्जनोपायं समुपदेष्टुमर्हति ॥ ३७.२५५{५} ॥ इति तयोदितं श्रुत्वा शान्तमतीर्दयार्दितः । धीमतीं तां समालोक्य समाश्वास्यैवमब्रवीत् ॥ ३७.२५६{६} ॥ धीमती श्रीमहासंपत्साधनोपायमस्ति मे । यद्यत्राप्यस्ति ते वांछा प्रवक्ष्यामि शृणुष्व तत् ॥ ३७.२५७{७} ॥ यदि श्रद्धास्ति ते देव्या वसुलक्ष्म्या व्रतं चर । ततस्ते श्रीवसुन्धारा महादेवी वसेद्गृहे ॥ ३७.२५८{८} ॥ ततस्तस्या महादेव्याः कृपादृष्टिप्रसादतः । संपत्तिस्ते समुद्भूता प्रवर्द्धिता भवेद्गृहे ॥ ३७.२५९{९} ॥ तदा त्वं श्रद्धयार्थिभ्यो दानं दत्वा यथेप्सितम् । त्रिरत्नभजनं कृत्वा शुभे चर सुखाशिनी ॥ ३७.२६०{१०} ॥ एतत्पुण्यविपाकेन सर्वदा सद्गतिं गता । क्रमाद्बोधिं समासाद्य संबुद्धपदमाप्नुयाः ॥ ३७.२६१{११} ॥ एवं मत्वास्ति ते वांछा संबुद्धपद साधने । श्रीदेव्याः शरणं गत्वा समाधाय व्रतं चर ॥ ३७.२६२{१२} ॥ इति तया समादिष्टं श्रुत्व सा धीमती मुदा । तां शांतमतीमानम्य सांजलीरेवमब्रवीत् ॥ ३७.२६३{१३} ॥ साधु भद्रे व्रतं धृत्वा श्रीदेव्याः शरणं गता । त्रिरत्नभजनं कृत्वा चरिष्यामि शुभे सदा ॥ ३७.२६४{१४} ॥ तद्भवंती कृपादृष्ट्या तदुपदेशमादिश । यावज्जीवं चरिष्यामि श्रीदेव्या व्रतमादरात् ॥ ३७.२६५{१५} ॥ इति तयोदितं श्रुत्वा शान्तमतिः समादरात् । धीमतीं तां समालोक्य पुनरेवमभाषत ॥ ३७.२६६{१६} ॥ यदि भद्रेऽस्ति ते सत्यं स्नात्वा शुद्धाम्वरावृता । प्रेहि तं श्रीघनं नाथं संस्मृत्वा प्रार्थयावहे ॥ ३७.२६७{१७} ॥ तयेति समुपादिष्टं श्रुत्वा सा धीमती मुदा । सहसा स्वगृहे गत्वा स्नात्वा शुद्धाम्वरावृता ॥ ३७.२६८{१८} ॥ स लाजाक्षतपुष्पाणि गृहित्वा सहसा मुदा । तस्याः शांतमतेरग्रे प्रयातेवमभाषत ॥ ३७.२६९{१९} ॥ भद्रे त्वया यथादिष्टं तथाहं समुपागता । तं मुनीन्द्रमनुस्मृत्वा प्रार्थयेह समागमम् ॥ ३७.२७०{२०} ॥ इति तयोदितं श्रुत्वा सा शान्तमतिरादरात् । तां धीमतीं समामंत्र्य प्रासादान्तं ययौ मुदा ॥ ३७.२७१{२१} ॥ तत्र शान्तमतिः साट्टे धीमत्या सह संस्थिता । (र्म् ४२३) जानुभ्यां भुवि संस्थित्वा भगवत्स्थितदिग्मुखा ॥ ३७.२७२{२२} ॥ संभवन्त्युत्तरासङ्गं सह लाजाक्षतादिभिः । साम्बुपुष्पाञ्जलिं धृत्वा नत्वैवं प्रार्थयन्मुनिम् ॥ ३७.२७३{२३} ॥ भगवन्नाथ सर्वज्ञ विजानीते भवानपि । यदियं धीमती साध्वी भगवच्छरणमागता ॥ ३७.२७४{२४} ॥ यदियं सांप्रतं शास्तुरुपदेशाद्यथाविधि । श्रीवसुधामहादेव्या व्रतं चरितुमिछति ॥ ३७.२७५{२५} ॥ तदत्र समुपागत्य कृपयास्मै दयानिधे । श्रीसाधनं व्रतं श्रेष्ठं समुपदेष्टुमर्हति ॥ ३७.२७६{२६} ॥ इति संप्रार्थ्य सा शान्तमतिस्तं त्रिजगद्गुरुम् । अनुस्मृत्वा त्रिधा नात्वा प्राक्षिपत्तज्जलादिकम् ॥ ३७.२७७{२७} ॥ प्रक्षिप्तानि तया तानि साम्बुलाजाक्षताण्यपि । सदूर्वाकुण्डपुष्पाणि सर्वाणि गगणे शरन् ॥ ३७.२७८{२८} ॥ ततस्तानि प्रगच्छन्ति विहायसा विहङ्गवत् । कोशाम्व्यां घोषिरारामे विहारे समुपाययुः ॥ ३७.२७९{२९} ॥ तत्रस्थस्य मुनीन्द्रस्य मुर्द्धा परि विहायसि । संस्थितानि प्रभासन्ति विरेजुस्तानि छत्रवत् ॥ ३७.२८०{३०} ॥ तद्दृष्ट्वा भिक्षवः सर्वे सांघिकास्ते सविस्मयाः । कुतो निमंत्रणमायातमिति ध्यात्वाभितस्थिरे ॥ ३७.२८१{३१} ॥ तत्रानन्दः समुत्थाय सांजलिः पुरतो गतः । तं मुनीन्द्रं प्रणत्वैवं पप्रछ विस्मयान्वितः ॥ ३७.२८२{३२} ॥ भगवन् कुत एतानि साम्बुलाजाक्षतान्यपि । पुष्पाणि समुपायान्ति तत्समादेष्टुमर्हति ॥ ३७.२८३{३३} ॥ इति तेनोदितं श्रुत्वा भगवां स मुनीश्वरः । तमानंदं समामंत्र्य समालोक्यैवमब्रवीत् ॥ ३७.२८४{३४} ॥ यः काशीपुरे विप्रो विष्णुदासो दरिद्रितः । धर्मध्वजो धनी श्रीमान् गृहस्थो धनदोपमः ॥ ३७.२८५{३५} ॥ तयोर्भार्य उभे साध्वौ शान्तमती रमोपमा । धीमती ब्राह्मणी भद्रा दरिद्रिता सुदुःखिनी ॥ ३७.२८६{३६} ॥ ताभ्यां श्रीवसुधाराया व्रतं चरितुमिछ्यते । तदिदं निमंत्रणार्थं मे उपहारं समागतम् ॥ ३७.२८७{३७} ॥ तस्माच्छ्रीवसुधाराया व्रतविधिं त्वमात्मना । उपदेष्टुं तयोर्गेहे काश्यां गंतुं समर्हसि ॥ ३७.२८८{३८} ॥ इत्यादिष्टं मुनीन्द्रेण श्रुत्वानंदस्तथेति सः । शास्तुराज्ञां शिरोधृत्वा काश्यां विहायसा ययौ ॥ ३७.२८९{३९} ॥ तत्राकाशान् स आनंदः शांतमतेर्गृहे पुरः । अवतीर्य सुधारश्मिरिव तस्थौ प्रभासयन् ॥ ३७.२९०{४०} ॥ तत्रस्थं तं समालोक्य शान्तमतिः स धीमती । मुदिता सहसा तस्य प्रणंतुं समुपाचरत् ॥ ३७.२९१{४१} ॥ तत्र सा समुपासृत्य शांतमतिः सधीमती। तमानंदं समालोक्य नत्वैवं प्रार्थयन्मुदा ॥ ३७.२९२{४२} ॥ भदन्त चरणौ वंदे भवतां शरणं गता । तदत्र कृपयास्माकमनुगृह्य प्रसीदतु ॥ ३७.२९३{४३} ॥ यदस्माकं भवाञ्छास्ता तद्गृहे समुपाश्रयन् । (र्म् ४२४) वसुधारामहादेव्या व्रतविधिं समादिश ॥ ३७.२९४{४४} ॥ यदियं धीमती भद्रा भवतामुपदेशतः । वसुलक्ष्म्या महादेव्या व्रतं चरितुमिछति ॥ ३७.२९५{४५} ॥ तदस्यै श्रीमहादेव्या व्रतविधिं यथाक्रमम् । विस्तरं समुपादेष्टुमर्हति कृपया भवान् ॥ ३७.२९६{४६} ॥ इति संप्रार्थितं शान्तमत्या तया निशम्य सः । आनंदस्ते उभे दृष्ट्वा तथेति प्रत्यभाषत ॥ ३७.२९७{४७} ॥ ततः सा धीमती नत्वा सांजलिस्तं जिनात्मजम् । आनंदं सुप्रसन्नास्या दृष्ट्वैवं प्रार्थयन्मुदा ॥ ३७.२९८{४८} ॥ भदंतोऽहं स्वदैवेन पापिनी दुःखभागिनी । तद्भवच्छरणं गत्वा समिछे वसुधाव्रतम् ॥ ३७.२९९{४९} ॥ तद्भवान् कृपया शास्तर्गृहे मे समुपागतः । यथाविधि समादिश्य व्रतं मे दातुमर्हति ॥ ३७.३००{५०} ॥ तयैवं प्रार्थितं श्रुत्वा स आनंदो जिनात्मजः । तत्र उत्थाय धीमत्यास्तस्या गृहे उपाचरत् ॥ ३७.३०१{५१} ॥ तत्र सा धीमती साध्वी शान्तमत्या समन्विता । सहसा स्वगृहे गत्वा प्रस्तारयत्तदासनम् ॥ ३७.३०२{५२} ॥ ततः सा धीमती तस्य शास्तुः शुद्धाम्बुना मुदा । पादप्रक्षालनं कृत्वा प्रणत्वैव च प्रार्थयत् ॥ ३७.३०३{५३} ॥ भदंतार्हन्महाभिज्ञ ममानुग्रहकारणम् । अत्रासने समाश्रित्य धर्ममादेष्टुमर्हति ॥ ३७.३०४{५४} ॥ तयेति प्रार्थितं श्रुत्वा स आनंदः प्रसन्नधीः । तद्दत्तासन आश्रित्य तस्थौ ध्यात्वा प्रभासयन् ॥ ३७.३०५{५५} ॥ तं दृष्ट्वा ब्राह्मणः सोऽपि विष्णुदासः प्रसादितः । सहसा सांजलिर्नत्वा तत्रैकांत उपाश्रयन् ॥ ३७.३०६{५६} ॥ ततः सा धीमती साध्वी सांतमतीसमन्विता । तमानंदं समभ्यर्च्य भोजनेनाभ्यतोषयत् ॥ ३७.३०७{५७} ॥ ततः सा प्रणतिं कृत्वा नीचासनसमाश्रिता । तमानंदं महाभिज्ञं सांजलिरेवमब्रवीत् ॥ ३७.३०८{५८} ॥ भदन्त भवतामाज्ञां धृत्वाहं शिरसा मुदा । श्रीदेव्या वसुधारायाश्चरिष्यामि व्रतं ध्रुवम् ॥ ३७.३०९{५९} ॥ तद्भदन्त भवाञ्छास्ता तद्विधिं मे यथाक्रमम् । कृपानुग्रहमाधाय समुपादेष्टुमर्हति ॥ ३७.३१०{६०} ॥ इति संप्रार्थिते तेन विष्णुदासेन सद्धिया । श्रुत्वानंदः स संपश्यन्स्तं द्विजमेवमब्रवीत् ॥ ३७.३११{६१} ॥ शृणु विप्र मुनीन्द्रेण याथादिष्टं मया श्रुतम् । तथाहं ते प्रवक्ष्यामि श्रीव्रतस्य विधिं क्रमात् ॥ ३७.३१२{६२} ॥ भाद्रपदेऽशिते पक्षे तृतीयायां तिथौ तथा । माघे वापि शिते पक्षे शुक्लपक्षेऽपि वा सदा ॥ ३७.३१३{६३} ॥ तीर्थे देवालये शुद्धभूप्रदेशे गृहेषु वा । सम्यग्भूशोधनं कुर्याद्गोमयेन मृदाम्बुना ॥ ३७.३१४{६४} ॥ प्रातरुत्थाय तीर्थेषु स्नात्वा शुचिसमाचरः । त्रिधाचम्यामृतं कायं पंचगव्येन शोधयेत् ॥ ३७.३१५{६५} ॥ शुद्धशीलसमाधानः परिशुद्धाम्वरावृतः । (र्म् ४२५) संबोधिचित्तमाधाय सद्गुरोरुपदेश धृक् ॥ ३७.३१६{६६} ॥ सुभूमौ मण्डलं सम्यग्वर्त्तयित्वा यथाविधि । ध्वजछत्रपताकाभि वितानैश्चाभिमंडयेत् ॥ ३७.३१७{६७} ॥ मंडलस्य वहिस्तस्य ज्वालावल्या वहिः पुनः । पंचवल्यावलीभिश्च स लाजाक्षतसंयुतैः ॥ ३७.३१८{६८} ॥ वेष्टयित्वा ततो वाह्ये क्रमान् संस्थापयेद्घटान् । तीर्थाम्बुपूरितान् पीतवस्त्रावृतान् सचिंह्नितान् ॥ ३७.३१९{६९} ॥ तात्र श्रीवसुधां देवीं सगणां विधिना क्रमात् । समावाह्य समभ्यर्च्य प्रतिष्ठाप्याधिवासयेत् ॥ ३७.३२०{७०} ॥ तृतीयायां तथा प्रातः स्नात्वा शुद्धाम्वरावृतः । मध्याह्ने स्वासनासीन उत्तरादिग्मुखस्थितः ॥ ३७.३२१{७१} ॥ आदौ गुरुं समभ्यर्च्य रत्नत्रयं समर्चयेत् । ततो ध्यात्वा महादेवीं वसुधारां शुभकरीम् ॥ ३७.३२२{७२} ॥ सगणां तां समावाह्य दत्वा पादार्घमादरात् । पीतमयोपहारेण समभ्यर्च्य यथाविधि ॥ ३७.३२३{७३} ॥ सर्वोपकरणान्यग्रे निवेस्य समढोकयत् । ततस्तद्धारणीं सम्यक्पठेन्मंत्राणि च क्रमात् ॥ ३७.३२४{७४} ॥ ततः कृतांजलिः स्तुत्वा कुर्याश्च पापदेशनाम् । पुण्यानुमोदनां चापि कुर्याच्च प्रणतिं स्मरन् ॥ ३७.३२५{७५} ॥ कुर्यात्प्रदक्षिणान्येवमष्टाङ्गैः प्रणमेत्पुनः । बोधिचित्तं समाधाय संप्रार्थयेदभीप्सितम् ॥ ३७.३२६{७६} ॥ ततो वलिं प्रदत्वा च स भूतान् परितोषयेत् । ततः क्षमार्थनां कृत्वा व्रतसूत्रं च प्रार्थयेत् ॥ ३७.३२७{७७} ॥ षोडशभेदितं सूत्रं षोडशग्रंथिसंयुतम् । व्रतसूत्रं समादाय रक्षार्थं वंधयेत्करे ॥ ३७.३२८{७८} ॥ ततो गुरुं समाराध्य देयाद्दानं समिछितम् । सदक्षिणं सुसत्कारैः सत्कृत्य समतोषयेत् ॥ ३७.३२९{७९} ॥ ततस्तृतीया यामेऽह्नेः प्राश्नुयाद्यवपूरकान् । पंचामृतफलस्कंदमूलपत्रादिकानपि ॥ ३७.३३०{८०} ॥ पालनान्ते पुनः स्नात्वा तां श्रीदेवीमनुस्मरन् । तद्धारणीं पठन् रात्रौ पूजयेच्च समाहितः ॥ ३७.३३१{८१} ॥ एवं नित्यं चतुः संध्यं पूजयेच्छ्रीवसुंधराम् । तत्परेद्युस्तथाभ्यर्च्य तन्मंडलं विसर्जयेत् ॥ ३७.३३२{८२} ॥ तद्रजांसि समादाय संनिधाय शुभे घटे । भंडागारे प्रतिस्थाप्य सदारान् भजेन्नमेत् ॥ ३७.३३३{८३} ॥ शेषरजः स निर्माल्यं नद्यां नागान् यथाविधि । समभ्यर्च्य समर्प्पित्वा सर्वं जले प्रवाहयेत् ॥ ३७.३३४{८४} ॥ ततस्तज्जलमादाय गृहे गत्वा समन्ततः । प्रोक्ष्य तन्मंडलस्थाने कुमारीं विधिनार्चयेत् ॥ ३७.३३५{८५} ॥ ततस्तन् सगणं चक्रं समभ्यर्च्य यथाविधि । भोजनैः संपरितोष्य प्रार्थयेद्यत्समीछितम् ॥ ३७.३३६{८६} ॥ (र्म् ४२६) तथा तत्सगणं चक्रं कृत्वा क्षमार्थनां ततः । सांजलिश्च क्रमान्नत्वा विसर्जयेत्प्रसादयन् ॥ ३७.३३७{८७} ॥ तदा श्रीवसुधा देवी स्वयमागत्य तद्गृहे । समाश्रित्य सदा सर्वद्रव्यैः संपूरयेद्ध्रुवम् ॥ ३७.३३८{८८} ॥ ततस्तत्र गृहे नित्यं मंगलं निरुपद्रवम् । दानपुण्यमहोत्साहप्रवर्त्तितं भवेत्सदा ॥ ३७.३३९{८९} ॥ एवं तस्या महादेव्या वसुलक्ष्म्या व्रतोद्भवम् । पुण्यं महदसंख्येयमप्रमेयं विदुर्जिनाः ॥ ३७.३४०{९०} ॥ एवं महत्तरं पुण्यं विज्ञाय द्विज तत्तथा । श्रद्धये तद्व्रतं कुर्या यदि संपत्तिमिछसि ॥ ३७.३४१{९१} ॥ यश्च तां श्रीमहादेवीं वसुधारामनुस्मरन् । यत्कार्य्यमारभेत्तस्य तत्सर्वं हि समृद्ध्यति ॥ ३७.३४२{९२} ॥ रत्नार्थी लभते रत्नं धनार्थी लभते धनम् । भोग्यार्थी लभते भोग्यं यसोऽर्थी लभते यशः ॥ ३७.३४३{९३} ॥ द्रव्यार्थी लभते द्रव्यान् गुणार्थी लभते गुणान् । विद्यार्थी लभते विद्यां शुभार्थी लभते शुभम् ॥ ३७.३४४{९४} ॥ मान्यार्थी लभते मान्यं जयार्थी लभते जयम् । धर्मार्थी लभते धर्मान् सुखार्थी लभते सुखम् ॥ ३७.३४५{९५} ॥ राज्यार्थी लभते राज्यं गृहार्थी लभते गृहम् । क्षेत्रार्थी लभते क्षेत्रान् रसार्थी लभते रसान् ॥ ३७.३४६{९६} ॥ भार्यार्थी लभते भार्यां सुतार्थी लभते सुताम् । पुत्रार्थी लभते पुत्रान् पौत्रार्थी पौत्रमाप्नुयात् ॥ ३७.३४७{९७} ॥ ज्ञानार्थी लभते ज्ञानं मोक्षार्थी मोक्षमाप्नुयात् । एवमन्यानि वस्तूनि सर्वोपकरणान्यपि ॥ ३७.३४८{९८} ॥ सर्वाणि द्रव्यजातानि वस्त्रादि भूषणान्यपि । समाप्नुयात्समृद्धानि वसुलक्ष्म्याः प्रसादतः ॥ ३७.३४९{९९} ॥ ततो दानानि दद्यात्स शुद्धशीलः समाचरेत् । क्षान्तिं च भावयेन्नित्यं धर्मवीर्य्यं समारभेत् ॥ ३७.३५०{१००} ॥ तथा ध्यानं समाधाय प्रज्ञाब्धिं संतरेद्द्रुतम् । सर्वोपायविधानज्ञो बोधिप्रणिधिमानसः ॥ ३७.३५१{१} ॥ सद्बुद्धिबलवान् धीरः स बोधिज्ञानमाप्नुयात् । सर्वमारगणाञ्जित्वा निःक्लेशोऽर्हञ्जितेन्द्रियः । संबुद्धपदमासाद्य निर्वृतपदमाप्नुयात् ॥ ३७.३५२{२} ॥ एवं ब्राह्मण विज्ञाय सद्धर्म्मं यदि वांछसि । तां श्रीदेवीं महालक्ष्मीं वसुधारां सदा भज ॥ ३७.३५३{३} ॥ तथा ते सर्वदा गेहे मंगलं निरुपद्रवम् । सर्वत्रेह परत्रापि भवेन्नूनं न संशयः ॥ ३७.३५४{४} ॥ तथा दानानि दत्वा त्वं स्वयं तद्व्रतं संचरन् । सर्वसत्वहितं कृत्वा यावज्जीवं सुखं चर ॥ ३७.३५५{५} ॥ ततः क्लेशविमुक्तात्मा संबोधिप्रणिधानधृक् । बोधिचर्याव्रतारक्ता बोधिसत्वो भवेद्ध्रुवम् ॥ ३७.३५६{६} ॥ सर्वेऽपि सुगता बोधिसत्वाश्चापि जिनात्मजाः । (र्म् ४२७) वसुधाराव्रतं धृत्वा संविभ्रति जगत्त्रयम् ॥ ३७.३५७{७} ॥ इति तेनार्हतादिष्टं श्रुत्वा स ब्राह्मणो मुदा । तथा श्रीवसुधाराया व्रतं चरितुमैछत ॥ ३७.३५८{८} ॥ ततः स विष्णुदासोऽपि भार्यां तां धीमतीं मुदा । सुप्रसन्नमुखाम्भोजः समालोक्यैवमब्रवीत् ॥ ३७.३५९{९} ॥ प्रिये धन्यासि कल्याणी यदहं त्वत्प्रयत्नतः । श्रीदेव्या व्रतं रत्नं प्राप्नोमि सांप्रतं खलु ॥ ३७.३६०{१०} ॥ तद्यथानेन शास्त्रात्र समादिष्टं तथा खलु । श्रीदेव्याः शरणं गत्वा वांछामि चरितुं व्रतम् ॥ ३७.३६१{११} ॥ तत्त्वमपि समाधाय मया सार्द्धं तथादरात् । श्रीदेव्याः शरणं कृत्वा व्रतं चरितुमर्हति ॥ ३७.३६२{१२} ॥ इति भर्त्रोदितं श्रुत्वा धीमती सानुमोदिता । भर्त्तारं तं समालोक्य पुनरेवमभाषत ॥ ३७.३६३{१३} ॥ तथा सत्यं समाधाय श्रद्धया शरणं गतौ । श्रीदेव्या व्रतमत्रावां समादराच्चरावहे ॥ ३७.३६४{१४} ॥ इत्युक्त्वा सा सती भद्रा धीमती सहसादरात् । व्रतोपचारसामग्रीं मुदिता समसाधयत् ॥ ३७.३६५{१५} ॥ ततस्तं गुरुमानंदं नत्वा सा सांजलिर्मुदा । तद्व्रतारम्भमाधातुं प्रार्थयेदेवमादरात् ॥ ३७.३६६{१६} ॥ भदन्त श्रीमहादेव्या व्रतदिन उपास्थितः । तद्यथाविधिमादिश्य संचारयतां व्रतम् ॥ ३७.३६७{१७} ॥ तयेति प्रार्थितं श्रुत्वा स आनंदो जिनात्मजः । सर्वविधिं समादिश्य व्रतारंभं समाक्रमत् ॥ ३७.३६८{१८} ॥ तत्र भूशोधनं कृत्वा स आनंदो यथाविधि । मंडलं वर्त्तयित्वा तत्प्रतिस्थाप्याध्यवासयत् ॥ ३७.३६९{१९} ॥ तथा तौ दंपती तीर्थे स्नात्वा शुद्धाम्वरावृतौ । यथा शास्त्रा समादिष्टं सर्वं कृत्वोपतस्थतुः ॥ ३७.३७०{२०} ॥ ततस्तौ दंपती तस्य शास्तुरादेशतः क्रमात् । शुद्धासनसमासीनावुत्तराभिमुखस्थितौ ॥ ३७.३७१{२१} ॥ गव्यैः कामादि वस्तूनि सर्वाणि शुद्धितान्यपि । कृत्वा शास्त्रा यथादिष्टं तथारंभं प्रचक्रतुः ॥ ३७.३७२{२२} ॥ आदौ गुरुं समभ्यर्च्य ततो रत्नत्रयं मुदा । अभ्यर्च्य शरणं कृत्वा प्रणत्वा विधिनादरात् ॥ ३७.३७३{२३} ॥ ततस्तन्मण्डले देवीं सगणां श्रीवसुंधराम् । ध्यात्वा तथा समावाह्य दत्वा पादार्घमादरात् ॥ ३७.३७४{२४} ॥ ततस्तां सगणां देवीं समभ्यर्च्य यथाक्रमम् । सर्वपूजोपचारैश्च पठित्वा धारणीं ततः ॥ ३७.३७५{२५} ॥ सहृद्वीजादिमंत्राणि यथाक्रमं जजल्पतुः । ततोऽष्टाङ्गप्रणामैश्च नत्वा कृत्वा प्रदक्षिणाम् ॥ ३७.३७६{२६} ॥ गुणाभिवादनै स्तोत्रै स्तुत्वा नतौ ववंदतुः ॥ ३७.३७७{२७!} ॥ ततस्तौ सांजली स्थित्वा प्रक्षित्वा पापदेशनाम् । (र्म् ४२८) पुण्यानुमोदनां चापि संप्रार्थ्य श्रीसमृद्ध्यताम् ॥ ३७.३७८{२८} ॥ सलोकपालभूतेभ्यो बलिं पंचामृतान्वितम् । यथाविधि प्रढौकित्वा प्रार्थयतां सुसंपदम् ॥ ३७.३७९{२९} ॥ ततो दानं प्रदत्वैवं गुरवेऽपि सुदक्षिणाम् । ततः क्षमार्थनां कृत्वा समाप्तं चक्रतुर्व्रतम् ॥ ३७.३८०{३०} ॥ ततो गुरुस्तयोः शास्ता व्रतसूत्रं समर्प्पयत् । संपत्तिससमृद्धाशीर्वादं ददौ प्रसादितः ॥ ३७.३८१{३१} ॥ ततो गुरुं पुरस्कृत्य यथोक्तं व्रतपालनम् । कृत्वा ततः पुनः स्नात्वा देवीं ध्यात्वा निषेदितुः ॥ ३७.३८२{३२} ॥ ततो रात्रौ समाधाय सगणां वसुंधराम् । देवीं ध्यात्वा समभ्यर्च्य धर्म्मं श्रुत्वा निषेदतुः ॥ ३७.३८३{३३} ॥ ततः प्रातः समुत्थाय स्नात्वा शुद्धाम्वरावृतौ । तथा तां सगणां देवीमावाह्यानर्चतुः क्रमात् ॥ ३७.३८४{३४} ॥ ततस्तद्व्रतसंपूर्णं कृत्वा दानं सदक्षिणम् । प्रदत्वा गुरवे नत्वा तन्मण्डलं व्यसर्जताम् ॥ ३७.३८५{३५} ॥ ततस्तद्रजमादाय भंडागारे यथोदितम् । निधाय तत्स निर्माल्यं शेषं नद्यां यथाविधिम् ॥ ३७.३८६{३६} ॥ गुरुर्नागान् समभ्यर्च्य समर्प्य प्राक्षिपज्जले । ततस्तज्जलमादाय महोत्साहैर्गृहं ययौ ॥ ३७.३८७{३७} ॥ तत गृहे तदम्भोभिरभिषिंच्य समन्ततः । कुमारीं विधिनाराध्य गणचक्रं समर्चयत् ॥ ३७.३८८{३८} ॥ ततस्तौ दंपती नत्वा सांजलि सादरं मुदा । संपत्तिप्रार्थनां कृत्वा क्षमाप्य तद्व्यसर्जताम् ॥ ३७.३८९{३९} ॥ ततस्तस्या गृहे देवी वसुन्धारा स्वयं स्थिता । सर्वद्रव्यसमापूर्णं कृत्वा तस्थौ प्रसादिता ॥ ३७.३९०{४०} ॥ सर्वद्रव्याभिसंपूर्णं दृष्ट्वा तौ दंपती गृहम् । विस्मयानंदसंपन्नौ मिथ एवं समूचतुः ॥ ३७.३९१{४१} ॥ अहो सत्यं जगच्छास्तुर्यथादिष्टं तथा खलु । तथावां शरणं गत्वा देव्या व्रतं चरेवहि ॥ ३७.३९२{४२} ॥ इत्युक्त्वा तौ प्रसीदंतौ शरणं गत्वा समाहितौ । तस्याः श्रीमहादेव्याः सदा व्रतं प्रचेरतुः ॥ ३७.३९३{४३} ॥ तदारभ्यः सदार्थिभ्यो दत्वा दानं यथार्थितम् । त्रिरत्नभजनं कृत्वा प्रचेरतुः शुभे सदा ॥ ३७.३९४{४४} ॥ ततोऽसौ यतिरानंदस्तौ समामंत्र्य दंपती । पक्षिवत्सहसाकाशात्कौशांव्यां समुपाचरत् ॥ ३७.३९५{४५} ॥ तत्र स तं जगन्नाथं प्रणत्वा सांजलिः पुनः । एतत्सर्वं प्रवृत्तांतं निवेद्यैकान्तमाश्रयत् ॥ ३७.३९६{४६} ॥ ततः स भगवान् दृष्ट्वा तमानंदं सभां च ताम् । धीमत्याः शांतमत्याश्च प्रसादित्वैवमादिशत् ॥ ३७.३९७{४७} ॥ धन्या सा धीमती शान्तमती चापि सुभाविनी । यत्ते श्रीवसुधाराया भवेतां व्रतधारिणी ॥ ३७.३९८{४८} ॥ तन्मे उभे महत्पुण्यलाभिन्यौ श्रीसमन्विते । (र्म् ४२९) सर्वसत्वहिताधानबोधिचर्यासमुद्यते ॥ ३७.३९९{४९} ॥ क्रमाद्बोधिं समासाद्य बुद्धपदमवाप्स्यत ॥ ३७.४००{५०!} ॥ इत्यादिष्टं मुनीन्द्रेण श्रुत्वा ते सर्वसांघिकाः । तां श्रीवसुंधरां देवीं स्मृत्वा नित्यं प्रभेजिरे ॥ ३७.४०१{५१} ॥ तदा तस्याः पिता विप्रा धीमत्या दुहितुर्गृहे । समुद्भूता महासंपदित्यश्रोषीज्जनोदितम् ॥ ३७.४०२{५२} ॥ ततः स ब्राह्मणो भार्यां धीमत्या मातरं मुदा । सहसा समुपामंत्र्य पुर एवमभाषत ॥ ३७.४०३{५३} ॥ किं त्वयानुश्रुतं भार्ये धीमत्या यद्गृहेऽधुना । महासंपत्समुद्भूता मयेति श्रूयते खलु ॥ ३७.४०४{५४} ॥ इति भर्त्रा समाख्यातं श्रुत्वा सा विस्मयान्विता । कथमेतद्भवेत्सत्यमिति तं पतिमब्रवीत् ॥ ३७.४०५{५५} ॥ इति भार्योदितं श्रुत्वा हरिशर्मापि स द्विजः । सविस्मयेनाख्यातं श्रुत्वा चैवमभाषत ॥ ३७.४०६{५६} ॥ प्रिये श्रुतं मया सत्यं धीमत्या यद्गृहेऽधुना । महासंपत्समुद्भूता वसुन्धाराप्रसादतः ॥ ३७.४०७{५७} ॥ यदि नैतत्प्रतीतोऽपि जनैः सा धीमती सुता । स्वगृहेऽत्र समाहूय त्वमेवं परिपृछ्यताम् ॥ ३७.४०८{५८} ॥ कथं संजायते संपन्महती ते गृहेऽधुना । एतत्सत्यं त्वया पुत्री पुरो मे कथ्यतामिति ॥ ३७.४०९{५९} ॥ एवं भर्त्रा समाख्यातं श्रुत्व सा धीमतीप्रसूः । तथेति प्रतिविज्ञाय स्वसखीमेवमब्रवीत् ॥ ३७.४१०{६०} ॥ शृणु सखि सुताया मे धीमत्या यद्गृहेऽधुना । संभूता महती संपद्वसुंधारा प्रसादतः ॥ ३७.४११{६१} ॥ इति श्रुतं मया सत्यं द्रष्टुमिछामि तत्खलु । तत्तां सुतां समाहूय समादरादिहानय ॥ ३७.४१२{६२} ॥ इति तया समाख्यातं श्रुत्वा सा सुप्रिया सखी । तथेति प्रतिविज्ञप्य धीमत्या भवने ययौ ॥ ३७.४१३{६३} ॥ तत्र सा समुपासृत्य धीमतीं तां सुभद्रिकाम् । दृष्ट्वा सविस्मयानंदयुक्ता नत्वैवमब्रवीत् ॥ ३७.४१४{६४} ॥ भद्रेऽहं प्रेषिता मात्रा त्वदाह्वानं प्रतीह तत् । सहसा त्वं समागंतुमर्हसि स्वात्मजान्विता ॥ ३७.४१५{६५} ॥ इति तया समाख्यातं श्रुत्वा सा धीमती मुदा । हसन्ती तां सखीं मातुः समालोक्यैवमब्रवीत् ॥ ३७.४१६{६६} ॥ अयि मां स्मरते माता किमर्थं सांप्रतं कथम् । तदाहं न स्मृता मात्रा दारिद्रियदुःखिनी यदा ॥ ३७.४१७{६७} ॥ तथाप्यहं मुखं मातुर्द्रष्टुमिछामि सांप्रतम् । तथाहमागमिष्यामि यथा मातुः समीहितम् ॥ ३७.४१८{६८} ॥ इत्युक्त्वा धीमती साथ पुत्रं च भूषणम् । भूषयित्वा सुवस्त्रैश्च प्रावार्य सममण्डयत् ॥ ३७.४१९{६९} ॥ स्वयं च सा प्रसाधित्वा दुष्यपट्टाम्वरावृता । श्रीमद्रत्नाम्वलंकारैर्मण्डितांगाभिशोभिता ॥ ३७.४२०{७०} ॥ (र्म् ४३०) ततः सख्या तया सार्द्धं पुत्रपुत्रीसमन्विता । संप्रस्थिता जनैश्चापि सह मातुर्गृहे ययौ ॥ ३७.४२१{७१} ॥ तत्र सा जननी दृष्ट्वा धीमतीं तां समागताम् । तं सुपुत्रं सुपुत्रीं च पश्यन्ती समुपाचरन् ॥ ३७.४२२{७२} ॥ तत्र तां जननीं दृष्ट्वा धीमती सात्मजान्विता । सहसा समुपागत्य नत्वापृछत्सुकौशलम् ॥ ३७.४२३{७३} ॥ जननी सापि तां पुत्रीं पुत्रपुत्रीसमन्विताम् । धीमतीं सहसालिंग्य पप्रछ कौशलं मुदा ॥ ३७.४२४{७४} ॥ ततः सा धीमती पुत्री पुत्रपुत्रीसमन्विता । मात्रा सहाभिगछंती पितुर्गेहमुपासरत् ॥ ३७.४२५{७५} ॥ तत्र साधीमतीं पुत्रीं पुत्रपुत्रीसहागताम् । दृष्ट्वा स जनकोऽप्येवं पश्यन् प्रत्युद्ययौ मुदा ॥ ३७.४२६{७६} ॥ जनकं तं समालोक्य धीमती सात्मजान्विता । संस्मिता समुपासृत्य नत्वापृछत्सुकौशलम् ॥ ३७.४२७{७७} ॥ पितापि स समालोक्य धीमतीं तां शुभांशिकाम् । पुत्रपुत्र्यौ च संभाष्य पप्रछ कौशलं मुदा ॥ ३७.४२८{७८} ॥ पिता स जननी सापि धीमतीं तां सुभाविनीम् । पौत्रं पौत्रीं च संधृत्वा स्वगृहे जग्मतुर्मुदा ॥ ३७.४२९{७९} ॥ तत्र सा जननी तस्याः पौत्र्याः पौत्रस्य चादरात् । पादान् प्रक्षालयित्वाशु स्वकमानयत् ॥ ३७.४३०{८०} ॥ तदासनं समास्तीर्य तां पुत्रीं स्वयमादरात् । पौत्रं पौत्रीं च तान् सर्वान् संधृत्वा संन्यवेशयत् ॥ ३७.४३१{८१} ॥ तत्रासने समाश्रित्य पार्श्वयोर्वामदक्षयोः । पुत्रीं पुत्रमुपस्थाप्य तस्थौ सा धीमती स्मिता ॥ ३७.४३२{८२} ॥ तामागतां समाकर्ण्य सर्वेऽपि जातयो मुदा । सहसा द्रष्टुमागत्य सा दरं समुपाययुः ॥ ३७.४३३{८३} ॥ तथा ते वांधवाः सर्वे सुहृत्मिन्रजना अपि । तां तथा स्वगृहायातां कुशलं प्रष्टुमाययुः ॥ ३७.४३४{८४} ॥ तथा ताश्च भगिन्योऽपि तासां सर्वेऽपि चात्मजाः । तां धीमतीं तथायातां श्रुत्वा द्रष्टु समा ययुः ॥ ३७.४३५{८५} ॥ एवमन्येऽपि लोकाश्च धीमतीं तां सुभूषणाम् । स्वमातुर्गृहमायातां श्रुत्वा द्रष्टुमुपाययुः ॥ ३७.४३६{८६} ॥ तत्रेतं धीमतीं कांतां सुवस्त्रभूषणावृताम् । ते सज्ञात्यादयः सर्वे दृष्ट्वा विस्मयमाययुः ॥ ३७.४३७{८७} ॥ ततोऽनुजा भगिन्यादि ज्ञातिवंधुसुहृज्जनाः । सर्वे तां सादरं नत्वा पप्रछुः कुशलं मुदा ॥ ३७.४३८{८८} ॥ तथा सा धीमती चापि ज्ञातिवंधुसुहृज्जनान् । वन्दनीयान्स्तान्नत्वापृछत्सुकौशलम् ॥ ३७.४३९{८९} ॥ ततः सा जननी तस्यै धीमत्यै सादरान्मुदा । वर्णगंधरसोपेतं भोजनं समुपाहरत् ॥ ३७.४४०{९०} ॥ तथा सौताय सौतायै भोजनं सुरसान्वितम् । सादरमुपढोकित्वा पुर एवमभाषत ॥ ३७.४४१{९१} ॥ (र्म् ४३१) गृह्णाण सुरसं भोग्यं भुक्ष्व हृद्धीमति प्रिये । यो सौत सौते च सौदार्द्द प्रोच्युतं यदभीप्सितम् ॥ ३७.४४२{९२} ॥ जनको वितथ्य सर्वो भगिन्यो भ्रातरोऽपि च । भातृजायां सुखाश्चापि तस्याश्चक्रुः समादरम् ॥ ३७.४४३{९३} ॥ तथादरां कृतं सर्वे श्रुत्वा सा धीमती तदा । पूर्ववृत्तिमनुस्मृत्वा मनसैवं व्यचिंतयत् ॥ ३७.४४४{९४} ॥ नैवाहं मानिता ह्येभिर्नायं पुत्रोऽपि मानितः । न च यं मानिता पुत्रि धनमेवात्र मन्यते ॥ ३७.४४५{९५} ॥ यदा न मे गृहे संपद्दरिद्रोऽहं च दुःखिनी । तदेमे सर्व एतेऽपि नापिऽपश्यन्मुखं मम ॥ ३७.४४६{९६} ॥ इदानीं मे गृहे संपज्जाता तत्सुखान्विताम् । एवं मतेऽपि सर्वे मां मानयंति समादरात् ॥ ३७.४४७{९७} ॥ यदहं मानिता नैव धनमेवाभिमान्यते । तद्यस्य तैः क्रियते मान्यं स भुंज्यादिदमादरम् ॥ ३७.४४८{९८} ॥ इति सा मनसा ध्यात्वा सर्वाणि भूषणान्यपि । स्वानि पुत्रस्य पुत्र्याश्च संनिरीक्ष्य समाददे ॥ ३७.४४९{९९} ॥ ततः सा धीमती कांशस्थाल्यां सर्वाणि तान्यपि । भूषणानि प्रसार्यैवं सादरं प्रत्यभाषत ॥ ३७.४५०{१००} ॥ भो भो भवन्ति सर्वाणि भूषणानि प्रियाणि मे । इदं सौरसिकं भोज्यं प्राश्नुत स्वेछया सुखम् ॥ ३७.४५१{१} ॥ संसारे माननीयं हि धनमेव सदादरात् । धनानुरूपेण यल्लोके मान्यते निंद्यते नरः ॥ ३७.४५२{२} ॥ धनवान् पुरुषो लोके नीचोऽपि मान्यतेऽगुणः । निर्धना गुणवांश्चापि सुजातोऽपि न मान्यते ॥ ३७.४५३{३} ॥ धनानुरूपेण सर्वत्र विचारमान्यभोजनम् । धनप्रसंगतो मूर्खो नीचोऽपि धन्यतो भवेत् ॥ ३७.४५४{४} ॥ यावत्संपद्गृहे तावल्लोके समाद्रितो नरः । यदा संपद्विहीने तु तदा स भूतवच्चरेत् ॥ ३७.४५५{५} ॥ इति साभिलपन्त्येव सर्वाणि भूषणान्यपि । तानि पुनः समादाय यथा स्थानं न्ययोजयत् ॥ ३७.४५६{६} ॥ ततस्तद्भोजनं किंचिद्भक्त्वा सा स्वात्मजान्विता । नत्वैव पितरौ भर्त्तुर्गृहे ययौ प्रसादिता ॥ ३७.४५७{७} ॥ तत्र सा धीमती भर्त्तुर्विष्णुदासस्य पादयोः । नत्वा सर्वप्रवृत्तांतं न्यवेदयत्पुरः स्थिता ॥ ३७.४५८{८} ॥ एतद्भार्यासमाख्यातं श्रुत्वा स ब्राह्मणः पतिः । मुदितस्तां सुकल्याणीं भार्यं दृष्ट्वैवमब्रवीत् ॥ ३७.४५९{९} ॥ धन्योऽसि त्वं सुकल्याणी यत्ते समुपादेशतः । श्रीदेवीव्रतमाधाय समाप्नोमि सुसंपदम् ॥ ३७.४६०{१०} ॥ (र्म् ४३२) प्रिये त्वामत्र तद्रत्नसंभवकुलसंभवाम् । श्रीवसुधामहादेवीसमां मन्येऽहमात्मना ॥ ३७.४६१{११} ॥ इत्युक्त्वा ब्राह्मणो भर्त्ता विष्णुदासः कृतांजलिः । धीमतीं तं सुकल्याणीं नत्वैवं पुनरब्रवीत् ॥ ३७.४६२{१२} ॥ प्रिये तव प्रसादेन साफल्यं जन्म मेऽधुना । यच्छ्रीवसुंधरादेव्या उपासको व्रती भवे ॥ ३७.४६३{१३} ॥ तन्मया प्रकृतं पापं तत्सर्वं क्षीयतेऽधुना । संपत्तिः संप्रजाता च नैव क्षीणा भवे धि नः ॥ ३७.४६४{१४} ॥ तथा वयं सदाप्यस्याः श्रीदेव्याः शरणं गताः । यथाविधि व्रतं धृत्वा चरेमहि शुभेऽधुना ॥ ३७.४६५{१५} ॥ त्रिरत्नभजनं कृत्वा दत्वार्थिभ्यो यथेप्सितम् । यावज्जीवं शुभं कृत्वा भुक्त्वा सौख्यं चरेमहि ॥ ३७.४६६{१६} ॥ एतत्पुण्यविपाकेन सर्वदा सद्गतीं गताः । क्रमात्संबोधिमासाद्य बुद्धपदं लभेमहि ॥ ३७.४६७{१७} ॥ इति भर्त्रोदितं श्रुत्वा धीमती सानुमोदिता । तथा सदा वसुंधाराव्रतं धृत्वा शुभेऽचरत् ॥ ३७.४६८{१८} ॥ ततः सा धीमती तस्याः शांतमतेः पुरोगता । सर्वमेतत्प्रवृत्तांतं निवेद्यैवमभाषत ॥ ३७.४६९{१९} ॥ प्रिये सखि महाभागे भवत्कृपाप्रसादतः । पापं मे क्षीयते सर्वं तज्जन्म सफलं भवे ॥ ३७.४७०{२०} ॥ संपत्तिः संप्रजाता मे नैव क्षीणा भवेदपि । तद्यावज्जीवितं देव्याः शरणस्थो भजानि हि ॥ ३७.४७१{२१} ॥ त्वमेव शास्ता न चान्या हि सद्धर्मोपदेशिनी । तन्मे पुण्यानुभावेन संबुद्धपदमाप्नुहि ॥ ३७.४७२{२२} ॥ इत्युदिते तमाश्रुत्वा शांतमतिश्च सा मुदा । धीमतीं तां समालोक्य पुनरेवमभाषात ॥ ३७.४७३{२३} ॥ भद्रे धीमति संबुद्धशरणस्था सदादरात् । श्रीदेव्याव्रतमाधाय शुभे चर समाहिता ॥ ३७.४७४{२४} ॥ एतत्पुण्यविपाकेन सर्वदा सद्गतीं गता । क्रमात्संबोधिमासाद्य संबुद्धपदमाप्नुयाः ॥ ३७.४७५{२५} ॥ इति मत्वात्र संसारे शुभं धर्मार्थसाधनम् । धर्मो लोकहितार्थाय तल्लोकार्थे धर्ममाचरेः ॥ ३७.४७६{२६} ॥ इति तयोदितं श्रुत्वा धीमती सा प्रबोधिता । तथेति प्रतिनंदित्वा मुदिता स्वगृहे ययौ ॥ ३७.४७७{२७} ॥ ततः प्रभृति सा साध्वी धीमती सर्वदा गृहे । श्रीदेव्या भजनं कृत्वा दत्वा दानं शुभेऽचरत् ॥ ३७.४७८{२८} ॥ तथा तस्या गृहे संपद्दिने दिने प्रवर्द्धिता । सर्वसत्वोपभोग्यार्थं बभूव धर्मसाधिनी ॥ ३७.४७९{२९} ॥ तथा सा धीमती दृष्ट्वा सर्वसंपत्प्रवर्द्धिताम् । मुदा लोकहितं कृत्वा प्रचचार शुभे सदा ॥ ३७.४८०{३०} ॥ इति मे गुरुणादिष्टं श्रुतं मया तथोच्यते । तथा त्वमपि राजेन्द्र वसुधाराव्रतं चर ॥ ३७.४८१{३१} ॥ प्रजाश्चापि महाराज बोधयित्वा प्रयत्नतः । (र्म् ४३३) श्रीदेव्याः शरणे स्थाप्य व्रतं चारय सर्वदा ॥ ३७.४८२{३२} ॥ तथा ते सर्वदा क्षेमं सर्वत्रापि भवेद्ध्रुवम् । क्रमाद्बोधिं समासाद्य संबुद्धपदमाप्नुयाः ॥ ३७.४८३{३३} ॥ इति तेनार्हतादिष्टं श्रुत्वाशोकः स भूपतिः । तथेत्यभ्यनुमोदित्वा प्राभ्यनन्दत्सपार्षदः ॥ ३७.४८४{३४} ॥ धीमत्या येऽवदानं शुभफलदमिदं सुप्रसन्नाः शृण्वन्ति । श्रावयन्ति प्रमुदितमनसा बोधिचर्यानुरागाः । सर्वे ते बोधिसत्वाः सकलगुणधराः सर्वसंपत्समृद्धाः । श्रीमन्तो लोकश्रेष्ठा जिननिलयगताः संवसंति सुखाढ्याः ॥ ३७.४८५{३५} ॥ ++ इति श्रीरत्नावदानतत्वे धीमत्यावदानं समाप्तम् ++ (र्म् ४३४) xxxविइइ वसुन्धरावदान अथाशोको महराजः कृताञ्जलिपुटो मुदा । उपगुप्तं यतिं नत्वा पुनरेवमभाषत ॥ ३८.१{१} ॥ भदन्त श्रोतुमिछामि वसुधाराव्रतं कदा । केन कुह कथं मर्त्यलोके प्रचारितं पुरा ॥ ३८.२{२} ॥ तदत्र नो भवाञ्च्छास्तर्यथा प्रवर्त्तितं पुरा । तथा सर्वं समाख्यातुं विस्तरेण समर्हति ॥ ३८.३{३} ॥ इति संप्रार्थितं राज्ञा श्रुत्वा सोऽर्हन्महामतिः । अशोकं तं महीपालं समालोक्यैवमब्रवीत् ॥ ३८.४{४} ॥ शृणु राजन् यथाख्यातं गुरुणा मे स्रुतं मया । तथाहं ते प्रवक्ष्यामि वसुधाराव्रतोद्भवम् ॥ ३८.५{५} ॥ तद्यथा भगवान् बुद्धः शाक्यमुनिस्तथागतः । सर्वज्ञोऽर्हं जगच्छास्ता धर्मराजो विनायकः ॥ ३८.६{६} ॥ स एकसमये तत्र कौशान्व्या उपकण्ठिके ।म्स्: एकः समये विहारे घोषिरारामे विजहार ससांघिकः ॥ ३८.७{७} ॥ तदा शक्रादयो देवा ब्रह्मादि ब्राह्मणा अपि । दैत्येन्द्रा लोकपालाश्च सद्धर्मश्रवणोत्सुकाः ॥ ३८.८{८} ॥ राक्षसा गरुडा नागा यक्षगंधर्वकिन्नराः । सिद्धा विद्याधराश्चापि तथा चाप्यप्सरोगणाः ॥ ३८.९{९} ॥ योगिनो यतयस्तीर्था ऋषयो ब्रह्मचारिणः । राजानो राजपुत्राश्च वैश्याश्च मंत्रिणो जनाः ॥ ३८.१०{१०} ॥ अमात्याः सैनिकाश्चापि गृहस्थाश्च महाजनाः । वणिजः सार्थवाहाश्च शिल्पिनः पौरिका अपि ॥ ३८.११{११} ॥ ग्राम्या जानपदाश्चापि तथान्यदेशवासिनः । एवमन्येऽपि लोकाश्च सद्धर्मामृतवांछिनः ॥ ३८.१२{१२} ॥ सर्वे ते तत्र कौशांव्या घोषिलाराम आगताः । सभासनसमासीनं प्राद्राक्षुस्तं मुनीश्वरम् ॥ ३८.१३{१३} ॥ दृष्ट्वा ते मुदिताः सर्वे प्रणत्वा समुपासृताः । यथाक्रमं समभ्यर्च्य कृत्वा त्रित्वः प्रदक्षिणम् ॥ ३८.१४{१४} ॥ तत्सद्धर्मामृतं पातुमुपतस्थुः समाहिताः ॥ ३८.१५{१५} ॥ तत्र ते तत्सभासीना भिक्षवः श्रावका अपि । भिक्षुण्यश्चैलकाश्चैवमुपासका उपासिकाः ॥ ३८.१६{१६} ॥ बोधिसत्वा महासत्वाः संबोधिव्रतचारिणः । वसुंधराव्रतोत्पत्तिं श्रोतुं सर्वे समीछिरे ॥ ३८.१७{१७} ॥ तत्रानंदः परिज्ञाय तेषां मनःसमीहितम् । सांजलिः पुरतः स्थित्वा नत्वैवं प्रार्थयन्मुनिम् ॥ ३८.१८{१८} ॥ भगवन् सर्वविच्छास्तानिमे सर्वे सभाजनाः । वसुलक्ष्मीव्रतोत्पत्तिं श्रोतुमिछन्ति आसृताः ॥ ३८.१९{१९} ॥ (र्म् ४३५) तद्भवांस्त्रिजगच्छास्ता सर्वसत्वाभिबोधने । वसुलक्ष्मीव्रतोत्पत्तिं समुपादेष्टुमर्हति ॥ ३८.२०{२०} ॥ इत्यानंदेन भद्रेण प्रार्थिते स मुनीश्वरः । तान् सभासंस्थितान् सर्वान् समालोक्यैवमादिशत् ॥ ३८.२१{२१} ॥ शृण्वानन्द प्रवक्ष्यामि मुनीन्द्रेण यथोदितम् । वज्रधराब्धिगम्भीरनिर्घोषेण श्रुतं मया ॥ ३८.२२{२२} ॥ तद्यथाभूत्पुरा राजा सूर्योदयाभिधो नृपः । श्रीपुरे नगरे रम्ये चक्रवर्त्ती नृपाधिपः ॥ ३८.२३{२३} ॥ दशाकुशलसंरक्तः प्रमदाजनवश्यगः । तदा तत्र नराः सर्वेऽप्यसन्मित्रोपदेशतः । दशाकुसलमूलेषु कर्मसु संप्रचेरिरे ॥ ३८.२४{२४} ॥ तदा तत्पापदोषेण महेतयः प्रवर्त्तिताः । तदीतिसमुपाक्रान्ता संक्षोभिताभवन्मही ॥ ३८.२५{२५} ॥ ततः सर्वत्र देशेषु दुर्भिक्षमभवद्भुवि । तदा ते मनुजाः सर्वे दरिद्रा अभवन् क्रमात् ॥ ३८.२६{२६} ॥ ततस्ते निर्धनाः सर्वे क्षुत्पिपासाहतातुराः । लोभिता निर्दयाः क्रूराः प्रदुष्टा दुरितारताः । स्वकुलधर्ममर्यादं विलंघ्याप्यशुभेऽचरन् ॥ ३८.२७{२७} ॥ ततः सर्वेऽपि ते लोका अन्धा इव कुमार्गगाः । असत्संगानुसंरक्ताः प्रचेरुर्नरकामुखाः ॥ ३८.२८{२८} ॥ तदा तत्पापसंघृष्टदुःखाग्निपरितापिता । शोषितेवाभवद्भूमी निर्गुणा नीरसा खरा ॥ ३८.२९{२९} ॥ तदा सर्वेऽपि सत्वाश्च क्षुत्तृष्णाग्न्यहिदाहिताः । निराशा मृत्युमिछन्तो निषेदुः परिमोहिताः ॥ ३८.३०{३०} ॥ तदैकस्मिन् दिने तत्र तुषितभुवने स्थिताः । श्रीदेवीप्रमुखा देव्यो वसुन्धर्य्याः सहायिकाः ॥ ३८.३१{३१} ॥ सर्वास्ता मिलिता मर्त्यलोके गंतुं समिप्सवः । किमिदानीं मनुष्याणामवस्थेति समीक्षिरे ॥ ३८.३२{३२} ॥ ततस्तान्मनुजान् सर्वान् दरिद्रान् पापचारिणः । दृष्ट्वा ताः सकला देव्या दयार्त्ता एवमब्रुवन् ॥ ३८.३३{३३} ॥ अहो दुःखं मनुष्याणां यत्पापे निरता नराः । दरिद्रा निर्दयाः क्रूरा भवन्ति नरकामुखाः ॥ ३८.३४{३४} ॥ तत्तत्र मर्त्यलोकेऽपि दरिद्र्यदुःखशान्तये । यत्नाच्छ्रीवसुधाराया व्रतं चारयेमहि ॥ ३८.३५{३५} ॥ ततस्ते मनुजाः सर्वे श्रुत्वा दृष्ट्वानुमोदिताः । श्रीदेव्याः शरणं गत्वा चरेयुर्व्रतमादरात् ॥ ३८.३६{३६} ॥ तदा तत्पुण्यसंपूताः सर्वे ते मानवा अपि । श्रीमन्तः सुखिनो भद्रे चरेयुः सर्वदादरात् ॥ ३८.३७{३७} ॥ ततस्ते मनुजाः सर्वे दशकुशलसंरताः । परस्परहितं कृत्वा चरेयुर्बोधिसंवरम् ॥ ३८.३८{३८} ॥ ततस्ते भद्रितात्मानः सर्वसत्वहितोद्यताः । बोधिसत्वा महासत्वा भवेयुर्बोधिचारिणः ॥ ३८.३९{३९} ॥ ततस्ते सद्गुणाधानास्त्रिरत्नभजनारताः । क्रमात्संबोधिमासाद्य संबुद्धपदमाप्नुयुः ॥ ३८.४०{४०} ॥ (र्म् ४३६) इति हेतोर्वयं सर्वाः श्रीदेव्याः पुरतो गताः । एतत्सर्वप्रवृत्तांतं विज्ञापयेम सांप्रतम् ॥ ३८.४१{४१} ॥ इत्येवं संमतं कृत्वा सर्वा देव्व्योऽपि तास्ततः । श्रीवसुधामहादेव्या आलये समुपाचरन् ॥ ३८.४२{४२} ॥ तत्र ताः सकला देव्यः सांजलय उपासृताः । तां श्रीवसुंधरां देवीं प्रणत्वैवं न्यवेदयन् ॥ ३८.४३{४३} ॥ भगवति महादेवि विजानीयाद्भवंत्यपि । यन्मनुष्या दरिद्रास्ते भवन्ति पापचारिणः ॥ ३८.४४{४४} ॥ तद्भवती प्रयत्नेन मनुजान्स्तान् सुदुःखितान् । कृपया सहसालोक्य सर्वान्नुद्धर्त्तुमर्हति ॥ ३८.४५{४५} ॥ इति संप्रार्थिते ताभिर्देवीभिः सा वसुन्धरा । ता देवी सकला दृष्ट्वा प्रसन्नास्यैवमब्रवीत् ॥ ३८.४६{४६} ॥ अहो दुःखं मनुष्याणां यत्र शास्ता न सद्गुरुः । तेन तेऽकुशलाचाराः सर्वे नरा दरिद्रताः ॥ ३८.४७{४७} ॥ पापाभिस्संरता दुष्टा क्षुत्तृष्णाग्न्यभिदाहिताः । दुर्भगा निर्दयाः क्रूराः पतेयुर्नरके ध्रुवम् ॥ ३८.४८{४८} ॥ इति हेतोरहं तेसां मर्त्यानां दुःखशांतये । संवरे तान्नुपस्थाप्य बोधौ नियोजयेमहि ॥ ३८.४९{४९} ॥ इति निश्चित्य सा देवी वसुलक्ष्मी कृपार्दिता । तत्र समाधिमाधाय त्रिमुर्त्तिं सा समादधौ ॥ ३८.५०{५०} ॥ तद्यथैका वसुंधर्य्या महालक्ष्मी द्वितीयका । तृतीयिका कुमार्य्याश्च त्रिमूर्त्तिरिति सा दधे ॥ ३८.५१{५१} ॥ ततः सा श्रीमहादेवी गंतुं मर्त्यालये स्वयम् । नंदीमुखाश्वघोषौ द्वौ समामंत्र्यैवमादिशत् ॥ ३८.५२{५२} ॥ नंदीमुखाश्वघोषौ यन्मया संप्रार्थितं यथा । तथा तन्मे महत्कार्यं हर्त्तुमर्हथ सर्वथा ॥ ३८.५३{५३} ॥ इत्यादिष्टं तया देव्या निशम्य तौ कृतांजलिः । नन्दिमुखाश्वघोषौ तां देवीं नत्वैवमूचतुः ॥ ३८.५४{५४} ॥ देवि किं ते महत्कार्यं तदा ज्ञापयतु ध्रुवम् । यथादिष्टं भवत्याशु करिष्यावस्तथा खलु ॥ ३८.५५{५५} ॥ इति ताभ्यां समाख्यातं श्रुत्वा सा श्रीवसुंधरा । महादेवी प्रसन्नास्या तौ दृष्ट्वैवमभाषत ॥ ३८.५६{५६} ॥ शृणुत भद्रमुखौ यन्मे कार्यं वां तन्मयोच्यते । तथा युवां समाधाय कर्त्तुमर्हथ सांप्रतम् ॥ ३८.५७{५७} ॥ यन्नरा भूतले सर्वे दरिद्रा अतिदुःखिता । पापाभिनिरता दुष्टा भवन्ति नरकामुखाः ॥ ३८.५८{५८} ॥ तत्तान् सर्वान् समुद्धर्त्तुमिछामि सर्वथाऽधुना । त्रिधा मूर्त्तिमहं धृत्वा गछेयं तन्महीतले ॥ ३८.५९{५९} ॥ तयो राजा महीपालः सर्वलोकाधिपः प्रभुः । तमेवं प्रथमं धर्मे विनीय योजयेमहि ॥ ३८.६०{६०} ॥ यत्र राजा स्वयं धर्मे स्थित्वा चरेत्समाहितः । तत्र सर्वेऽनुगा राज्ञो धर्मे चरेयुरादरात् ॥ ३८.६१{६१} ॥ यत्राभिनिरतो राजा चरतेऽप्यशुभे शुभे । (र्म् ४३७) तत्र सर्वेऽपि लोकास्ते प्रचरेयुर्हि सादरम् ॥ ३८.६२{६२} ॥ इत्यादौ नृपति धर्मे योजनीयः प्रयत्नतः । ततः स नृपतिः सार्वाल्लोकान् धर्मे नियोजयेत् ॥ ३८.६३{६३} ॥ ततः सर्वेऽपि लोकास्ते दशाकुशलवैमुखाः । सद्धर्मे हि रता भद्रे प्रचरेयुः समाहिताः ॥ ३८.६४{६४} ॥ ततः सर्वेऽपि ते लोकाः परस्परहितोन्मुखाः । त्रिरत्नभजनं कृत्वा चरेयुः संवरे सदा ॥ ३८.६५{६५} ॥ ततस्ते सर्वदा श्रेयः कृत्वा यायुः सुखावतीम् । तत्रापि संवरं धृत्वा प्रचरेयुः सुखान्विताः ॥ ३८.६६{६६} ॥ ततः क्रमात्समाधाय सर्वपारमितास्वपि । चरन्तः सर्वसत्वानां हितं कुर्युः सदादरात् ॥ ३८.६७{६७} ॥ ततस्ते बोधिसत्वाः स्युः सद्धर्मगुणरत्निनः । शुद्धात्मानो महासत्वा भविष्यन्ति जिनात्मजाः ॥ ३८.६८{६८} ॥ ततः सर्वेऽपि ते धीराः परिशुद्ध त्रिमण्डलाः । त्रियानबोधिमासाद्य संबुद्धपदमाप्नुयुः ॥ ३८.६९{६९} ॥ इति हेतोरहं तेषां सत्वानां विनयार्थतः । त्रिमूर्त्तिरूपमाधाय गछामि भूतलेऽधुना ॥ ३८.७०{७०} ॥ तद्युवां मे वचो धृत्वा गन्तुमर्हथ भूतले । तत्र गत्वा प्रयत्नेन सर्वथाहर तं नृपम् ॥ ३८.७१{७१} ॥ ततोऽहं तं वशीकृत्य बोधयित्वा प्रयत्नतः । सद्धर्मचारिणं कृत्वा चारयिष्यामि मे व्रतम् ॥ ३८.७२{७२} ॥ इति तया महादेव्या समादिष्टं निशम्य तौ । नन्दिमुखाश्वघोषौ तां देवीं नत्वैवमूचतुः ॥ ३८.७३{७३} ॥ भद्रे देवि तवादेशं धृत्वावां शिरसा तथा । गत्वा नृपं समाहृत्य प्राणयिष्यावहे पुरः ॥ ३८.७४{७४} ॥ इत्युक्त्वा तौ प्रसन्नास्यौ कृतांजलिपुटो मुदा । पादौ देव्याः प्रणत्वैवं प्रजग्मतुस्ततो भुवि ॥ ३८.७५{७५} ॥ त्रिमूर्त्तिरूपमाधाय वसुलक्ष्मीरपि स्वयम् । श्रीदेव्यादिसखीयुक्ता गंगातीरमुपागताः ॥ ३८.७६{७६} ॥ तत्र तौ भूतले गत्वा प्रापश्यतं समंततः । रमणीयं महोद्याने पुष्करिणीप्रशोभितम् ॥ ३८.७७{७७} ॥ दृष्ट्वा तावुभौ तत्र क्षणं विश्रम्य संस्थितौ । ततो मिथसमासीनौ दृष्ट्वैवं समभाषताम् ॥ ३८.७८{७८} ॥ अहो रम्यं महीलोकं तडागोद्यानमण्डितम् । तत्कथमिह राजानमपहर्त्तुं चरेवहि ॥ ३८.७९{७९} ॥ तत्र नन्दीमुखः प्राह दिव्यस्त्रीसुंदरं वपुः । धृत्वावां सुरसंगीतं गायन्तौ प्राचरेवहि ॥ ३८.८०{८०} ॥ नूनं स नृपती राजा दृष्ट्वा नौ दिव्यसुंदरम् । वपुः कामाग्निसंतप्तः समाहर्त्तुमुपाचरेत् ॥ ३८.८१{८१} ॥ तदावां सहसाहृत्य नृपतिं तं प्रयत्नतः । मोहयित्वा वशीकृत्य देव्या उपानयेवहि ॥ ३८.८२{८२} ॥ इति संभाषणं कृत्वा विधाय च सुसंमतम् । नन्दिमुखाश्वघोषौ तौ स्त्रीरूपं दधतुस्तथा ॥ ३८.८३{८३} ॥ ततस्ते दिव्यरामांशे मनाभिरामनिःस्वनैः । (र्म् ४३८) गायंत्यौ सुरसंगीतं दुर्गास्थने निषेदतुः ॥ ३८.८४{८४} ॥ तयोस्तत्सुरसंगीतं श्रुत्वा तत्पुरवासिनः । जनाः कौतूहलाक्रान्तचित्ता द्रष्टुमुपासरन् ॥ ३८.८५{८५} ॥ दृष्ट्वा ते दिव्यरूपांशे सर्वे ते विस्मयान्विताः । देवकन्ये इमे नूनमिति प्रोक्त्वा समीक्षिरे ॥ ३८.८६{८६} ॥ दिव्यांशे ते समालोक्य सर्वे ते विस्मयोद्धताः । अहो चित्रमिति प्रोक्त्वा प्रत्याययुश्चिरात्पुरम् ॥ ३८.८७{८७} ॥ तत्र ते सुरकन्यांशे नैकस्थाने निषेदतुः । प्रतिदिनं चतुर्द्दिक्षु प्रगायंत्यौ प्रचेरतुः ॥ ३८.८८{८८} ॥ तथा ते चरितं दृष्ट्वा सर्वे ते पौरिका अपि । अत्यद्भुतसमाक्रांतचित्ता चेरुः प्रशंकिताः ॥ ३८.८९{८९} ॥ ततस्ते पौरिका लोकाः साद्भुतशंकिताशयाः । नृपतेः पुरतो गत्वा प्रणत्वैवं न्यवेदयेत् ॥ ३८.९०{९०} ॥ जय देव महाराज विजानीया भवान्नपि । तथाप्यत्र महच्चित्रं विज्ञप्तुं वयमागताः ॥ ३८.९१{९१} ॥ तदत्र सुररामांशे उभे स्त्रियौ सुलक्षणौ । गायन्त्यौ सुरसंगीतं दुर्गास्थाने समाश्रिते ॥ ३८.९२{९२} ॥ प्रतिदिनं चतुर्दिक्षु तथा ते देवकन्यके । गायंत्यो सुरसंगीतं भ्रमित्वा चरतो मुदा ॥ ३८.९३{९३} ॥ तन्निमित्तं कथं राजं च्छुभं वा स्यादथाशुभम् । इति प्रष्टुं समायामो वयं सर्वेऽपि नान्यथा ॥ ३८.९४{९४} ॥ इति तैः पौरिकैः सर्वैर्निवेदितं निशम्य सः । महीपतिः क्षणं ध्यात्वा ततो दृष्ट्वैवमब्रवीत् ॥ ३८.९५{९५} ॥ स्त्रीभिरालापितं गीतं शुभाय न भवेत्क्वचित् । इत्युक्त्वा स विषण्णात्मा मनसैवं व्यचिन्तयत् ॥ ३८.९६{९६} ॥ क्षेमं नेमे भवेन्नूनं यत्ते स्त्रियौ न मानवे । स्त्रीरूपा वहिनिर्माय प्रेषिते केन मायया ॥ ३८.९७{९७} ॥ तदत्र किं भवेन्नूनं तन्निमित्तं शुभं न हि । किमुपायं करिष्यामि न मन्ये को हितं दिशेत् ॥ ३८.९८{९८} ॥ इति चिंत्ता विषण्णात्मा नृपतिः स विनिश्वसन् । शोकालये समासीनो वहि नैवाचरेत्क्वचित् ॥ ३८.९९{९९} ॥ तथा स्थितं नरेन्द्रं तं मत्वा वहिरनिर्गतम् । नन्दीमुखोऽस्वघोषं तं समालोक्यैवमब्रवीत् ॥ ३८.१००{१००} ॥ अश्वघोष नरेन्द्रोऽसौ तथापि न वहिश्चरेत् । तदत्र किं करिष्यावो यन्नृपो न वहिश्चरेत् ॥ ३८.१०१{१} ॥ इति तेनोदितं श्रुत्व सोऽश्वघोषो विचिन्तयन् । तं नन्दिमुखमालोक्य बोधयन्नेवमब्रवीत् ॥ ३८.१०२{२} ॥ शृणु नंदिमुखोपायं येन नृपः स निचरेत् । तदहं संप्रवक्ष्यामि तन्नृपाहरणं प्रति ॥ ३८.१०३{३} ॥ यत्तत्र नृपतेर्गेहे मायाग्निनाभिधक्ष्यते । तदा स नृपतिस्त्रस्तः कोपितो निःसरेद्वहि ॥ ३८.१०४{४} ॥ तदा तं नृपतिं दूरात्समाहृत्य प्रयत्नतः । सहसा पुरतो देव्या उपनेष्यावहे द्रुतम् ॥ ३८.१०५{५} ॥ (र्म् ४३९) इति तेनोदितं श्रुत्वा नन्दीमुखः स बोधितः । तथा हीति प्रतिश्रुत्य तथा कर्तुं समैछत ॥ ३८.१०६{६} ॥ ततस्तौ संमतं कृत्वा ततोऽप्यन्तर्हितौ द्रुतम् । गत्वा मायाग्निना ताभ्यां प्रदाहितं नृपालयम् ॥ ३८.१०७{७} ॥ तद्दृष्ट्वा नृपतिस्त्रस्तः सहसा निश्चरन्स्ततः । उपायैस्तज्ज्वलद्वह्निं शमयामास सत्वरम् ॥ ३८.१०८{८} ॥ ततः स भूपती राजा तच्चिन्तापरिखेटितः । शोकागरे विषण्णात्मा स्थितश्चैव व्यचिन्तयत् ॥ ३८.१०९{९} ॥ अहो सद्यफलं ह्येतद्यत्स्त्रीगीतनिमित्तजम् । तदत्र किं करिष्यामि येनैतच्छाम्यतेऽशुभम् ॥ ३८.११०{१०} ॥ भूयोऽप्यत्र भवेदन्यन्महोत्पातममंगलम् । कथमत्र प्रतीकारं करिष्यामि न मन्यते ॥ ३८.१११{११} ॥ इति चिंताविषण्णात्मा नृपतिः स विमोहितः । शोकागारे समासीनो नैव वहिर्विनिर्ययौ ॥ ३८.११२{१२} ॥ तथापि स्वालयासीनं दृष्ट्वा वहिरयायिनम् । नन्दीमुखाश्वघोषौ तौ पुनरेवं समूचतुः ॥ ३८.११३{१३} ॥ तथापि स नृपो राजा नैव वहिर्विनिःसरेत् । तदत्र किं करिष्यावो येनाशु निश्चरेन्नृपः ॥ ३८.११४{१४} ॥ ततश्चापि समालोक्य सोऽश्वघोषो विचिन्तयन् । नंदीमुखं सहायं तं समामंत्र्यैवमब्रवीत् ॥ ३८.११५{१५} ॥ भो सखे स महाराजस्तथापि नात्र निश्चरेत् । तदत्र किं विलम्बेन यत्नेन तं हरेवहि ॥ ३८.११६{१६} ॥ वराहरूपमाधाय तस्योद्याने मनोरमे । सर्वत्रोत्पातनं कस्तुं प्रचारेवोऽधुना द्रुतम् ॥ ३८.११७{१७} ॥ इति तेनोदितं श्रुत्वा नंदीमुखस्तथेति सा । प्रतिश्रुत्य सखायं तं समालोक्यैवमब्रवीत् ॥ ३८.११८{१८} ॥ एवमपि करिष्यावो देवीकार्याभिसिद्धये । इति तौ संमतं कृत्वा तत्रोद्याने प्रजग्मतुः ॥ ३८.११९{१९} ॥ तत्र तौ समुपालोक्य पुष्करिणीं मनोरमाम् । नानापुष्पसमाकीर्णां पश्यंतौ तस्थतुश्चिरम् ॥ ३८.१२०{२०} ॥ ततो नन्दीमुखो दृष्ट्वा तमुद्यानं मनोरमम् । पुस्करिणीं च प्रामोद्य गंधाढ्यामेवमब्रवीत् ॥ ३८.१२१{२१} ॥ अहोद्यानं मनोरम्यं सुरम्यं च सरो वरम् । नेदं विध्वंसनीयं हि कथं विध्वंसयेवहि ॥ ३८.१२२{२१!} ॥ इति तेनोदितं श्रुत्वा सोऽश्वघोषो विचिंतयन् । उद्यानं तत्सरो दृष्ट्वाचिरादेवमभाषत ॥ ३८.१२३{२२} ॥ यथाभिलषितं देव्याः साधयेव तथा द्रुतम् । तन्नृपतिमपाहर्त्तुं तदिदं ध्वंसयावहे ॥ ३८.१२४{२३} ॥ इत्युक्त्वा सौमतं कृत्वा तावुभौ महदाश्रयम् । वराहरूपमास्थाय प्रजग्मतुस्सरस्तटे ॥ ३८.१२५{२४} ॥ रक्ताक्षौ हृष्टरोमाणौ नादापुरितदिङ्मुखौ । सिंहशार्दूलसदृशौ दम्ष्ट्रविभीषणाननौ ॥ ३८.१२६{२५} ॥ तत्र तौ प्रसरन्तौ तदुद्यानं तत्सरोऽपि च । विन्ध्वंसितुमुपाक्रम्य प्रचेरतुः समंततः ॥ ३८.१२७{२६} ॥ (र्म् ४४०) तौ वराहौ समालोक्य त्रस्ते उद्यानपालकः । सहसा स विनिर्गत्य ततो राजकुले ययौ ॥ ३८.१२८{२७} ॥ तत्र स समुपासृत्य राज्ञः पादौ कृतांजलिः । नत्वा त्रासविभिन्नास्यः पुर एवं न्यवेदयत् ॥ ३८.१२९{२८} ॥ जय देव विजानीया यदुद्याने सरोवरम् । द्वौ वराहावुपाक्रम्य ध्वंसितुं चरताऽधुना ॥ ३८.१३०{२९} ॥ तदत्र सहसा देव सर्वसैन्यजनान्नपि । समुपाहूय तौ हंतुं प्रेषयस्व द्रुतं वने ॥ ३८.१३१{३०} ॥ इति तेनोदितं श्रुत्वा स राजा परिकोपितः । सहसा सैन्यमाहूय स्वयं तौ हन्तुमुद्ययौ ॥ ३८.१३२{३१} ॥ ततः स नृपती राजा समंत्रीसैन्यपौरिकाः । सहसा नादयन् वाद्यान्स्तत्रोद्याने उपाचरत् ॥ ३८.१३३{३२} ॥ तत्र स नृपतिर्दृष्ट्वा समंत्रिसैन्यपौरिकान् । तान् सर्वान् समुपामंत्र्य पुनरेवमुपादिशत् ॥ ३८.१३४{३३} ॥ भो भवन्तो जनाः सर्वे सज्जीकृत्य समाहिताः । अत्र दृष्ट्वोपतिष्ठन्तु परिवृत्य समंततः ॥ ३८.१३५{३४} ॥ अहं प्राग्दिशि तिष्ठामि याम्येऽमात्याः समंत्रिणः । पश्चिमादिशि सैनान्यः पौरास्तिष्ठन्तु चोत्तरे ॥ ३८.१३६{३५} ॥ एवं सर्वेऽप्यमात्याद्याः सर्वदिक्षु समाहिताः । सज्जीकृत्याभितिष्ठन्तु परिवृत्य समंततः ॥ ३८.१३७{३६} ॥ यत्र स्थाने वराहौ तौ बोद्धुं नैवाभिशक्नुथ । यतश्चासौ परायेतां तद्दिक्स्थान् दण्डयेय हि ॥ ३८.१३८{३७} ॥ इति मे वचनं श्रुत्वा सर्वे यूयं समाहिताः । सज्जीकृत्य समालोक्य परिवृत्यानुतिष्ठत ॥ ३८.१३९{३८} ॥ इति राज्ञा समादिष्टं श्रुत्वा सर्वेऽपि ते जनाः । तथेति प्रतिविज्ञप्य तथा स्थातुं प्रचेरिरे ॥ ३८.१४०{३९} ॥ तथा राजा स्थितः प्राच्यां याम्येऽमात्यगणास्तथा । सेनान्यो पश्चिमायां च पौरास्तस्थुस्तथोत्तरे ॥ ३८.१४१{४०} ॥ एवं ते सनृपा लोकाः सामात्यसैन्यपौरिकाः । सज्जीकृत्य समालोक्य सर्वे तस्थुः समाहिताः ॥ ३८.१४२{४१} ॥ एवं ते सर्वतो दिक्षु निरुध्य समवस्थिताः । सर्ववाद्याभिनिर्घोषं महारावैरखेटयन् ॥ ३८.१४३{४२} ॥ तत्सवाद्यमहारावं श्रुत्वा तौ तानुपस्थितान् । समंततः समालोक्य महाशब्दं व्यमुंचताम् ॥ ३८.१४४{४३} ॥ ततस्तौ सहसोत्पातमहावाते प्रवर्त्ततैः । कृत्वान्धकारणैर्लोक्य राजानमध्यधावताम् ॥ ३८.१४५{४४} ॥ तत्र स नृपतिस्ताभ्यां स्पृश्यमानो विमूर्छितः । संत्रासपरिभूयात्मा कंपितो न्यपतद्भुवि ॥ ३८.१४६{४५} ॥ ततश्चिरात्समुत्थाय कुत्रेमाविति लोक्य सः । सहसाश्वं समारुह्य तदनुप्रासरन् ययौ ॥ ३८.१४७{४६} ॥ तथा ते मंत्रिणोऽमात्याः सैन्यलोकाश्च पौरिकाः । सर्वे तेऽप्यनुधावन्तः प्रदुद्रुवुर्नृपानुगाः ॥ ३८.१४८{४७} ॥ स नृपाश्वसमारूढस्तद्वराहानुगः शरम् । मौर्वीयुक्तैः समाधाय वेगाद्वनमुपाविशत् ॥ ३८.१४९{४८} ॥ (र्म् ४४१) तत्र तौ मायिकौ त्यक्त्वा वाराहदेहमाशु तौ । निविश्याश्वं समाहृत्य प्रेरयतां वनांतरे ॥ ३८.१५०{४९} ॥ तत्र सोऽश्वो महावेगाद्वायुना रिव महाजवि । विलंघ्य निम्नगां छैलां प्रदुद्राव महावने ॥ ३८.१५१{५०} ॥ ततस्ते मंत्रिणोऽमात्याः सैनान्यः सैनिकाः प्रजाः । नृपं दूरवनाविष्टं दृष्ट्वा प्रत्याययुः श्रमात् ॥ ३८.१५२{५१} ॥ सेन एको महावीरः स्वाम्यमार्गानुसंचरन् । असक्तेः असहस्तूर्णं कमण्डलुकरस्तदा ॥ ३८.१५३{५२} ॥ छायेव सहगो वेगाद्वनांतरे तथान्वगात् ॥ ३८.१५४{५३} ॥ तत्रातिवेगतो राजा वायुहतो समाहितः । अश्ववृक्षतले सोऽश्वाद्धावता न्यपतद्भुवि ॥ ३८.१५५{५४} ॥ तत्र स मूर्छितो राजा क्षणं तस्थावचेतनः । ततः सेनः प्रयत्नेन निःश्वसन्रुदतिष्ठत ॥ ३८.१५६{५५} ॥ ततः सेन समाश्वास्य धृत्वा तं नृपमात्मना । सह तत्रासने स्थाप्य व्यश्रामयेच्छ्रमान्वितम् ॥ ३८.१५७{५६} ॥ ततः स नृप आलोक्य तमश्वं समुपस्थितम् । तृषार्त्तो निःश्वसन् सेनं मुहुर्दृष्ट्वैवमब्रवीत् ॥ ३८.१५८{५७} ॥ अहो सेन महत्कष्टं जायते नाविहाऽधुना । यत्सुदूरे महारण्ये मज्जावहे सुदुस्तरे ॥ ३८.१५९{५८} ॥ तदत्र किं करिष्यावो यत्सर्वे निर्वृतो जनाः । सुदूरे निर्जनेऽरण्ये कोऽत्र मार्गं हि निर्दिशेत् ॥ ३८.१६०{५९} ॥ यदत्रातितृषार्त्तोऽहं तापवाताहतातुरः । श्रमक्लेशाग्निसंदग्धो धैर्येणापि विमोचितः ॥ ३८.१६१{६०} ॥ तदत्र सहसा सेन मम जीवितरक्षणम् । यतस्ततोऽपि वान्विष्य शीतलामृतमानय ॥ ३८.१६२{६१} ॥ इति राज्ञोदितं श्रुत्वा स सेनेः सहसोत्थितः । स्वामिनं तं समाश्वास्य पश्यन्नेवमभाषत ॥ ३८.१६३{६२} ॥ मा विषीदात राजेन्द्र यत्क्षत्रियोऽसि धीरवान् । तद्भवान् धैर्यमालम्ब्य मुहुर्त्तं स्थातुमर्हति ॥ ३८.१६४{६३} ॥ यतस्ततोऽपि वान्विष्य पाणीयममृतोपमम् । सहसा समुपानीय दास्यामि ते नराधिप ॥ ३८.१६५{६४} ॥ तद्यावन्नात्र पाणीयं धृत्वागछामि सर्वथा । तावद्धैर्यं समालम्ब्य तिष्ठाश्वेन सह प्रभो ॥ ३८.१६६{६५} ॥ इति विज्ञप्य सेनोऽसौ स्वामिनं तं नराधिपम् । समाश्वास्य सुपाणीयमन्वेषितुं द्रुतं ययौ ॥ ३८.१६७{६६} ॥ तत्र स समुपालोक्य सर्वत्राप्यभिलोकयन् । सुपाणीयमनसाद्य पश्यन् दूरतरे ययान् ॥ ३८.१६८{६७} ॥ तत्र सुरनदीशब्दं श्रुत्वा सेनः स सत्वरः । तच्छब्दं समनुश्रुत्वा तत्राभ्यनुसरन् ययौ ॥ ३८.१६९{६८} ॥ तत्र तीरं समासाद्य सुरनद्याः समादितः । सहसा समुपाश्रित्य पानीयं सुरसं पपौ ॥ ३८.१७०{६९} ॥ तत्र स परितुष्टात्मा समंततो विलोकयन् । तत्पारे शुद्धिते द्वीपे प्राद्राक्षीदप्सरोगणान् ॥ ३८.१७१{७०} ॥ (र्म् ४४२) तानप्सरोगणान् दृष्ट्वा स सेनो विस्मयान्वितः । मुदा विलोकयन्नेव तस्थौ चित्रार्प्पिता यथा ॥ ३८.१७२{७१} ॥ तत्रस्थंतं समालोक्य सर्वा अप्सरसोऽपि ताः । कथमत्रागतः कस्त्वं प्रेहीति समकन्दयन् ॥ ३८.१७३{७२} ॥ इति ताभिः समाहूतं श्रुत्वा स सेन आत्मना । सुरनदीं विलंघ्याशु तत्प्रभावादुपासरत् ॥ ३८.१७४{७३} ॥ तत्र स समुपाश्रित्य सर्वान्स्तानप्सरोगणान् । सांजलिः सुप्रसन्नास्यः प्रणत्वैवं न्यवेदयत् ॥ ३८.१७५{७४} ॥ महादेव्या विजानीध्वं यत्त्रैलोक्येषु विश्रुतः । सूर्योदयो महाराजस्तस्याहं सेवकोऽनुगः ॥ ३८.१७६{७५} ॥ यन्नृपस्य वराहाभ्यामुद्यानं ध्वंसितं ततः । तौ वराहौ निहंतुं स नृपोऽनुधावति द्रुतम् ॥ ३८.१७७{७६} ॥ अश्वेनापहृतो राजा स मयैकेन नौज्झितः । अत्यभिधावतोऽरण्ये पतितोऽश्वादिहाऽधुना ॥ ३८.१७८{७७} ॥ अशोकवृक्ष आश्रित्य घर्मवाता हतोऽतुरः । श्रमतृसार्दितस्तत्र स्थितोऽम्बु पातुमिछति ॥ ३८.१७९{७८} ॥ तदम्बु सर्वतोऽन्विष्य कुत्रापि लभ्यते न हि । नदीशब्दमिहाकर्ण्य सहसाहमुपासरे ॥ ३८.१८०{७९} ॥ अत्र मे भाग्ययोगेन प्रेषितोऽहमिहागतः । लभामि दर्शनं देव्यो भवांतीनमहोऽधुना ॥ ३८.१८१{८०} ॥ इत्युक्त्वा सेन आलोक्य सांजलिः पुरतो गतः । ताः सर्वा अप्सरा देवीनत्वैतं समपृछत ॥ ३८.१८२{८१} ॥ भो देव्यो भवन्त्योऽपि किमर्थमिह तिष्ठथ । वक्तव्यं चेत्तदर्थं मे समुपादेष्टुमर्हथ ॥ ३८.१८३{८२} ॥ इति संप्रार्थितं तेन निशम्यायाप्सरोऽधिपाः । सा तं सेनं समामंत्र्य पुररेवमुपादिशत् ॥ ३८.१८४{८३} ॥ मानव त्वं न जानासि यदिदं व्रतमुत्तमम् । श्रीवसुधामहादेव्या वयं सर्वाश्चरामहे ॥ ३८.१८५{८४} ॥ इति देव्या तयाख्यातं श्रुत्वा सेनः स मोदितः । तद्व्रतं धर्त्तुमिछंस्तां देवीं नत्वैवमब्रवीत् ॥ ३८.१८६{८५} ॥ प्रसीद मे महादेवि यच्छ्रीदेव्या इदं व्रतम् । अहमपि समिछामि धर्तुं तन्मे उपादिश ॥ ३८.१८७{८६} ॥ इति तेनार्थितं श्रुत्वा सा देवी परितोषिता । तं सेनं सुधियं धीरं मत्वैवमब्रवीत्पुनः ॥ ३८.१८८{८७} ॥ मानव वदि ते वांछाप्यस्ति श्रीवसुधाव्रते । तत्तावदिह संपश्य समाप्येताऽधुना व्रतम् ॥ ३८.१८९{८८} ॥ पश्चात्तेऽहं समाख्याय श्रीदेव्या व्रतसाधनम् । विधिं समुपदेक्ष्यामि संबुद्धेन यथोदितम् ॥ ३८.१९०{८९} ॥ इत्युक्त्वा साप्सरो देवी सर्वास्ता अप्सरोगणाः । प्राहूय तन्नदीतीरे व्रतारम्भं तथाकरोत् ॥ ३८.१९१{९०} ॥ तत्र ताः समुपाश्रित्य सर्वा देव्या यथाक्रमम् । यथाविधि समारभ्य व्रतं पूर्णं प्रचक्रिरे ॥ ३८.१९२{९१} ॥ (र्म् ४४३) तद्व्रतं समुपालोक्य स सेनोऽभ्यनुमोदितः । अष्टांगप्रणतिं कृत्वा सांजलिरेवमब्रवीत् ॥ ३८.१९३{९२} ॥ अहो भाग्येन संप्राप्तं श्रिदेवीव्रतदर्शनम् । तन्मेतिः क्षीयते पापमात्मारि शुद्ध्यतेऽधुना ॥ ३८.१९४{९३} ॥ प्रसीदत महादेव्यः सर्वा मे कृपया दृशा । पश्यन्त्योऽनुग्रहं कृत्वा व्रते प्रदातुमर्हतम् ॥ ३८.१९५{९४} ॥ सर्वदाहं चरिष्यामि श्रीदेव्याः शरणं गताः । तद्व्रतविधि संपूर्णं समुपादेष्टुमर्हथ ॥ ३८.१९६{९५} ॥ इति संप्रार्थितं तेन श्रुत्वा देवी प्रधानिका । सा तं सेनं विशुद्धांशं दृष्ट्वैवं समुपादिशत् ॥ ३८.१९७{९६} ॥ शृणु साधो समाधाय व्रतविधिं समुच्यते । वज्रधराब्धिगंभीरनिर्घोषेण यथोदितम् ॥ ३८.१९८{९७} ॥ भाद्रपदेऽसिते पक्षे शुक्लपक्षेऽपि वा तथा । माघे मासे च तद्वच्च सर्वेष्वपि च मासु वा ॥ ३८.१९९{९८} ॥ द्वितीयायामुपातीर्थे स्नात्वा शुद्धाम्वरावृतः । शुद्धभूमी प्रदेशेषु संशोधयेत्समंततः ॥ ३८.२००{९९} ॥ मृद्गोमयशुभाम्भोभिः प्रलिप्य परिशोधयन् । तत्र रत्नमयरङ्गै धातुचूर्णैश्च पंचभिः ॥ ३८.२०१{१००} ॥ पौष्पिकैर्व्रीहिचूर्णैर्वा तथा पाषाणचूर्णकैः । यथाविधि समारभ्य सूत्रयित्वा यथाक्रमम् ॥ ३८.२०२{१} ॥ गुरुः शिष्यैः सहालक्ष्य वर्त्तयेन्मण्डलं क्रमात् । तत्र देव्यादि चिह्नानि लिखेद्यथाविधि क्रमात् ॥ ३८.२०३{२} ॥ सप्तव्रीह्यावलीभिश्च संवेष्टयेत्समंततः । ततस्तीर्थाम्बुसंपूर्णान् पीतवस्त्रावृतान् घटान् । षोडशदेवताचिह्न लक्षितान् परिशुद्धितान् ॥ ३८.२०४{३} ॥ पंचरत्नामृतौषध्यपल्लवप्रतिसंयुतान् । सुवर्णतिलकछत्रध्वजपताकिकान्वितान् ॥ ३८.२०५{४} ॥ बहिः पीताम्बुजावल्यां संस्थाप्य वेष्टयेत्क्रमात् । ध्वजचामरसंयुक्तवितानैः परिमंडयेत् ॥ ३८.२०६{५} ॥ विचित्रपुष्पमालाभिः सुगंधिभिः समंततः । सौरभ्यधूपनै दीपै पंक्तिभिश्चाभिशोभयेत् ॥ ३८.२०७{६} ॥ ततस्तन्मण्डले देवीं सगणां श्रीवसुंधराम् । ध्यात्वावाह्य समभ्यर्च्य प्रतिष्ठाप्याधिवासयेत् ॥ ३८.२०८{७} ॥ ततो रात्रौ त्रिसंध्यं च समभ्यर्च्य यथाविधिः । बलिं पंचामृतैर्युक्तं दत्वा देवीं स्मरंश्चरेत् ॥ ३८.२०९{८} ॥ ततः प्रातस्तृतीयायां तीर्थे द्रव्यैः सुगंधिभिः । सह शुद्धाम्बुभिः स्नात्वा शुद्धपीताम्वरावृतः ॥ ३८.२१०{९} ॥ पंचगव्यैः स्वमात्मानं परिषिंच्य विशोधयेत् । मण्डले सगणां देवीं ध्यात्वावाह्य समर्चयेत् ॥ ३८.२११{१०} ॥ व्रतीनापि तथा स्नात्वा शुद्धपीताम्वरावृताः । पंचगव्यैस्तथा सर्वारभिसिंच्य विशोधयेत् ॥ ३८.२१२{११} ॥ ततस्ते व्रतिनः सर्वे आचार्य्यप्रमुखाः क्रमात् । मध्याह्ने यक्षराजस्य दिग्मुखाः स्वासनाः श्रिताः ॥ ३८.२१३{१२} ॥ (र्म् ४४४) यथाचार्यसमादिष्टं तथाधार्य समाहिताः । आदौ वज्रधरं नत्वा त्रिरत्नं शरणं गताः ॥ ३८.२१४{१३} ॥ मंत्रले सगणां देवीं ध्यात्वार्चये यथाक्रमम् ॥ ३८.२१५{१४!} ॥ तद्यथा गुरुराचार्यः शून्ये द्रीकारसंभवम् । पीतवर्णं महापद्मं तत्रस्थं चन्द्रमण्डलम् । तदुत्थं श्रीभवं रत्नपर्वतं तस्य चोपरि । त्वंज भद्रघटासीनां भावयेच्छ्रीवसुंधराम् ॥ ३८.२१६{१५} ॥ पीतामेकमुखां कांतां षड्भुजां ललितासनाम् । सव्ये वरदसंबुद्धं प्रणामरत्नमंजलीम् ॥ ३८.२१७{१६} ॥ वामे भद्रघटप्रज्ञा पुस्तकधान्यमंजलिम् । दधानं रत्नसंबुद्धमकुटिनीं सुसुंदरीम् ॥ ३८.२१८{१७} ॥ पीतपट्टावृतां दिव्यरत्नालंकारभूषितम् । तद्द्वितीयपुटे पृष्ठे पीतो वज्रासनो जिनाः ॥ ३८.२१९{१८} ॥ वज्रधराब्धिनिर्घोषो वराभयप्रदानभृत् ॥ ३८.२२०{१९} ॥ दक्षिणे द्विभुजारक्तो वरदवज्रहस्तकः । लोकेश्वरो राजल्लीलावज्रपर्यंकसंस्थितः ॥ ३८.२२१{२०} ॥ वज्रपाणिस्तथा वामे वरदवज्रभृत्करः । हरिता राजसंलीला वज्रपर्यंकसंस्थितः ॥ ३८.२२२{२१} ॥ लीला देवी पुरः पीता सत्वपर्यंकसंस्थिता । भुजद्वयेन सर्वोपकरणाधिकृतिं तदा ॥ ३८.२२३{२२} ॥ तद्वामे वरुणः श्वेतः सत्वपर्यंकसंस्थितः । वीजपूरकमुत्सङ्गस्थितिं करद्वयेन भृत् ॥ ३८.२२४{२३} ॥ नीलोभे दक्षिणे भद्रः सत्वपर्यंकसंस्थितः । बीजपूरकमेकेन विभ्रत्क्रोडं तथापरम् ॥ ३८.२२५{२४} ॥ चिविकुण्डलिराग्नेये इषद्रक्तस्तथास्थितः । बीजपूरकमुत्सङ्गे स्थितिं दोर्भ्यां समा तथा ॥ ३८.२२६{२५} ॥ नैरृत्ये केलिमाली च श्यामवर्णस्तथा स्थितः । बीजपूरकमुत्संगस्थितं दधत्करद्वयः ॥ ३८.२२७{२६} ॥ वायव्ये च मुखेन्द्राख्यः पीतवर्णस्तथा स्थितः । बीजपूरकमुत्संगस्थितिं दधत्करद्वयम् ॥ ३८.२२८{२७} ॥ चरेन्द्रो गौररिशाने सत्वपर्यंकसंस्थितः । बीजपूरकमुत्संगस्थितिं दधद्भुजद्वयः ॥ ३८.२२९{२८} ॥ तत्तृतीयपुटे पूर्वे गुप्ता देवी तथा स्थिता । हरिद्वर्णा भुजाभ्यां स चामरं विभ्रती धरा ॥ ३८.२३०{२९} ॥ नैरृते वसुगुप्ताख्या देवी रक्तास्तथा स्थिता । भुजाभ्यां विभ्रती छत्रं सर्वरत्नसमुज्वलम् ॥ ३८.२३१{३०} ॥ सरस्वती च वायव्ये देवी पीता तथा स्थिता । ध्वजहस्ता सुभद्रांगी सर्वविद्यार्थदायिनी ॥ ३८.२३२{३१} ॥ इशाने चंद्रकांताख्या देवी श्वेता तथा स्थिता । पताका विभ्रती सर्वरत्नालंकारभूषिता ॥ ३८.२३३{३२} ॥ पूर्वद्वारे महायक्षो माणिभद्रस्तथा स्थितः । कुंकुमाभा दधद्दोर्भ्यां नकुलीबीजपूरकौ ॥ ३८.२३४{३३} ॥ दक्षिणे पूर्णभद्राख्यो नीलवर्णस्तथास्थितः । कराभ्यां विदधद्रत्नस्तवकं बीजपूरकम् ॥ ३८.२३५{३४} ॥ (र्म् ४४५) पश्चिमे धनदो रक्तः सत्वपर्यंकसंस्थितः । भुजद्वयेन विभ्राणः सुघटबीजपूरकौ ॥ ३८.२३६{३५} ॥ उत्तरे पीतवर्णश्च वैश्रवणस्तथा स्थितः । भुजाभ्यां संदधद्रत्नप्रसवबीजपूरकौः ॥ ३८.२३७{३६} ॥ इत्येता देवता सर्वाः श्रीदेवीप्रमुखान् क्रमात् । ध्यात्वावाह्य ततो दत्वा पाद्याचमनप्रोक्षणम् ॥ ३८.२३८{३७} ॥ ततस्ता मण्डले सर्वाः प्रतिष्ठाप्य यथा क्रमम् । षोडशविधिपूजांगैः समर्चयेद्यथा विधि ॥ ३८.२३९{३८} ॥ गंधं पुष्पं तथा धूपं दीपं नैवेद्यमेव च । एते पंचोपचारास्तु कैवल्यफलदायिनः ॥ ३८.२४०{३९} ॥ इति पंचोपचाराः पाद्यमर्घ्यं तथा स्नानं मधुपर्काचनं तथा । गंधं पुष्पं च धूपं च दीपं नैवेद्यमेव च । पूतनाचमनीयं च दशैतान् संप्रचक्ष्यते ॥ ३८.२४१{४०} ॥ इति दशोपचारा आसनं स्वागतं पाद्यमर्घ्यमाचमनीयकम् । मधुपर्काचमनस्नानं वसनाभरणानि च ॥ ३८.२४२{४१} ॥ सुगंधसुमनो धूपदीपनैवेद्यचंदनम् । प्रयोजयेदर्चनायामुपचारास्तु षोडशः ॥ ३८.२४३{४२} ॥ ततो देव्याः स्वहृत्मंत्रं तथा उपहृदयं जपेत् । सर्वासामपि मंत्राणि यावच्छतसहस्रधा ॥ ३८.२४४{४३} ॥ ततः स्तोत्रादिभि स्तुत्वा कृतांजलिपुटो मुदा । कृत्वा प्रदक्षिणान्येवमष्टांगैः प्रणयेत्पुनः ॥ ३८.२४५{४४} ॥ ततश्च सांजलिः स्थित्वा प्रकुर्यात्पापदेशनाम् । पुण्यानुमोदनां चपि संस्थितियाचनामपि ॥ ३८.२४६{४५} ॥ ततः क्षीरोदनैः शुद्धरसैः पंचामृतैर्युतम् । बलिं गाथाः पठन् दद्यात्सर्वभूता हि तुष्टये ॥ ३८.२४७{४६} ॥ तथा ते व्रतिनः सर्वे सर्वं धृत्वा समाहिताः । यथा शास्त्रा समादिष्टमनुकुर्यु व्रतं क्रमात् ॥ ३८.२४८{४७} ॥ ततस्ते व्रतिनः सर्वे दानं दद्युः स दक्षिणम् । गुरवे देवताभ्योऽपि प्रणमेयुश्च सादरम् ॥ ३८.२४९{४८} ॥ ततः क्षमार्थनं कृत्वा सूत्रं षोडशभेदितम् । षोडशग्रंथितं पीतं व्रतिभ्यो गुरुरर्पयेत् ॥ ३८.२५०{४९} ॥ तत्सूत्रं ते समादाय सर्वेऽपि व्रतिनो मुदा । रक्षार्थं स्वकरे वध्वा दध्युर्व्रतसमाप्तितः ॥ ३८.२५१{५०} ॥ ततस्ते व्रतिनः सर्वे धृत्वा संपत्तिप्रार्थनाम् । नत्वा क्षमार्थनां चापि कृत्वा चरेयुरुत्थिताः ॥ ३८.२५२{५१} ॥ ततो दिनत्रियामाग्रे यवगोधूमपिष्टकम् । सह पंचामृतैः सर्वैः कुर्युस्तद्व्रतपालनाम् ॥ ३८.२५३{५२} ॥ ततस्तेव्रतिनः सर्वे स्नात्वा चापि समाहिताः । दीपमालाः समुज्वाल्य तिष्ठेयु निशि जाग्रिताः ॥ ३८.२५४{५३} ॥ तां देवीं सगणां स्मृत्वा पठन्तो धारणीमपि । जपस्तोत्रादिकं कृत्वा तोषयेयुरुपस्थिताः ॥ ३८.२५५{५४} ॥ एवं ते तन्निशां सर्वे व्यतिलंघ्य पुनस्तथा । (र्म् ४४६) प्रातः सुगंधिभिस्तीर्थे स्नात्व शुद्धाम्वरावृताः ॥ ३८.२५६{५५} ॥ तां देवीं सगणां ध्यात्वा समावाह्य यथाक्रमम् । सर्वपूजोपहारैश्च प्रार्चयेयुस्तथादरात् ॥ ३८.२५७{५६} ॥ जपस्तोत्रादिकं कृत्वा रत्वा सांजलयो मुदा । कृत्वा प्रदक्षिणां चापि कुर्युरष्टाङ्गप्राणतिम् ॥ ३८.२५८{५७} ॥ ततश्च पुरतः स्थित्वा प्रकुर्युः पापदेशनाम् । पुण्यानुमोदनां चापि प्रार्थयेयुः सुसंस्थितिम् ॥ ३८.२५९{५८} ॥ ततः संबोधिचर्यार्थं सर्वसत्वहितार्थतः । सर्वद्रव्यसुसंपत्तिः प्रार्थयेयुर्यथेछया ॥ ३८.२६०{५९} ॥ ततो गुरुं समभ्यर्च्य दत्वा दानं सदक्षिणम् । श्रद्धया प्रणतिं कृत्वा तोषयेयुः समादरात् ॥ ३८.२६१{६०} ॥ ततो भूतवलिं दत्वा प्रार्थयित्वा यथेप्सितम् । कृत्वा क्षमार्थनां चापि विसर्जयेद्यथाविधि ॥ ३८.२६२{६१} ॥ ततः शास्ता स आचार्यः कृत्वा चापि क्षमार्थनाम् । संपूर्णं तद्व्रतं कृत्वा व्रतसूत्रं समाहरेत् ॥ ३८.२६३{६२} ॥ ततोऽभिषेकमादाय व्रतिनाप्यभिषिंचयेत् । शुभाशिषं प्रदत्वा च तन्मण्डलं विसर्जयेत् ॥ ३८.२६४{६३} ॥ ततस्तद्रजमादाय कोष्ठागारे सुगुप्तिते । निक्षिप्य प्रतिसंस्थाप्य नित्यं नमेत्सदादरात् ॥ ३८.२६५{६४} ॥ अपरं पुष्पादिकं सर्वं निर्माल्यं सविदम्भसि । नागानभ्यर्च्य तत्सर्वं समर्प्पित्वा प्रवाहयेत् ॥ ३८.२६६{६५} ॥ तन्नदीजलमादाय गृहे ततः समाचरेत् । तत्र सर्वत्र गेहेषु तज्जलैरभिषिंचयेत् ॥ ३८.२६७{६६} ॥ ततस्तन्मण्डले स्थाने समावाह्य यथाविधि । श्रीकुमारीं महादेवीं समभ्यर्च्य हि तोषयेत् ॥ ३८.२६८{६७} ॥ तत्प्रसादं समादाय गणचक्रं यथाविधि । समभ्यर्च्य यथार्हेण भोजनेनपि तोषयेत् ॥ ३८.२६९{६८} ॥ एवं तद्व्रतसंपूर्णं कृत्वा सर्वे प्रमोदिताः । श्रिवसुधां महादेवीं स्मृत्वा चरेयुराभवम् ॥ ३८.२७०{६९} ॥ एवमेतद्विधानेन श्रीदेव्याः शरणं गतः । यथाविधि समाधाय व्रतं चरेत्समादरात् ॥ ३८.२७१{७०} ॥ तस्य गृहे तदारभ्य श्रीदेवी श्रीवसुन्धरा । स्वयमागत्य सर्वत्र क्षेमं कृत्वा वसेत्सदा ॥ ३८.२७२{७१} ॥ तदाराभ्य सदा तस्य गृहे सर्वत्र मंगलम् । निरुपद्रवमानंदं सर्वदापि भवेद्ध्रुवम् ॥ ३८.२७३{७२} ॥ ततस्तस्य गृहे संपद्दिने दिने प्रवर्द्धिता । सर्वद्रव्याभिसंपूर्णा श्रीदस्येव समुद्भवेत् ॥ ३८.२७४{७३} ॥ अथ चापि तथा शक्तौ यः श्राद्धः पुरुषः सुधीः । स्नात्वा शुद्धाम्वरो गेहे शोधयित्वा समंततः ॥ ३८.२७५{७४} ॥ श्रीदेव्याः प्रतिमायैवं पटं वापि प्रसार्य च । यथाशक्ति समभ्यर्च्य धारणीं सर्वदा पठेत् ॥ ३८.२७६{७५} ॥ तस्यापि च गृहे तिष्ठेच्छ्रीदेवी सगणान्विता । तथा तत्र भवेदेवं मंगलं निरुपद्रवम् ॥ ३८.२७७{७६} ॥ (र्म् ४४७) तदा तस्य गृहे संपद्दिने दिने हि वर्द्धते । सर्वद्रव्याभिसंपूर्णा भवेन्न क्षिणुयात्क्वचित् ॥ ३८.२७८{७७} ॥ अथ वा प्राक्तने पीतरजसा मंडलं तथा । वर्त्तयित्वात्र तद्रात्रीं नियमेनातिनामयेत् ॥ ३८.२७९{७८} ॥ प्रातः स्नात्वा सुगंधेन शुद्धपीताम्वरावृतः । ब्रह्मचारी विशुद्धात्मा त्रिरत्नशरणं गतः ॥ ३८.२८०{७९} ॥ तां श्रीवसुंधरां देवीं ध्यात्वाह्य समाहितः । यथाशक्ति समभ्यर्च्य धारणीं श्रद्धया पठेत् ॥ ३८.२८१{८०} ॥ तस्यापि च गृहे भद्रं कृत्वा देवी वसेत्सदा । ततस्तथा क्रमात्संपत्परिवृद्धा भवेद्ध्रुवम् ॥ ३८.२८२{८१} ॥ अथ प्रातस्तथा स्नात्वा शुद्धवस्त्रावृतः सुधीः । ब्रह्मचारी समाधाय त्रिरत्नशरणं गतः ॥ ३८.२८३{८२} ॥ शुभे स्थाने पटं चापि देव्या मूर्त्तिं प्रसार्य च । याथाशक्ति समभ्यर्च्य त्रिवारान् धारणीं पठेत् ॥ ३८.२८४{८३} ॥ तस्यापि च गृहे भद्रं कृत्वा देवी सदा वसेत् । तथा तत्र महासंपदभिवृद्धा भवेद्ध्रुवम् ॥ ३८.२८५{८४} ॥ अथ वा च तथा स्नात्वा शुद्धवस्त्रावृतः सुधीः । ब्रह्मचारी विशुद्धात्मा त्रिरत्नशरणं गतः ॥ ३८.२८६{८५} ॥ शुभे स्थाने गृहे देव्याश्चन्दनेनापि मंडलम् । वर्त्तयित्वा तथा देवीं ध्यत्वावाह्य समर्चयेत् ॥ ३८.२८७{८६} ॥ संपठेद्धारणीं चैवं कुर्याज्जपस्तवादिकम् । कृत्वा प्रदक्षिणान्येवं नत्वा संप्रार्थयेन्निधिम् ॥ ३८.२८८{८७} ॥ तस्यापि च गृहे देवी मंगलं निरुपद्रवम् । कृत्वा स्वयं समाश्रित्य निवसेत्सर्वदा ध्रुवम् ॥ ३८.२८९{८८} ॥ ततस्तत्र गृहे संपत्सर्वद्रव्यसमन्विता । अभिवृद्ध्य भवेन्नूनं निधिश्चापि समुद्भवेत् ॥ ३८.२९०{८९} ॥ अथ वा स्वगृहे शुद्धे कोशकोष्ठालयेऽपि च । तथा परगृहे वापि मनोरम्येऽभिशोधिते ॥ ३८.२९१{९०} ॥ अथ तथागतस्यापि लोकेशस्यापि चाग्रतः । तथान्यबोधिसत्वानां देवतानां तथाग्रतः ॥ ३८.२९२{९१} ॥ चन्दनेनापि कृत्वैवं श्रीदेव्या मण्डलं तथा । विधिवन्मनसा ध्यात्वा समावाह्य समर्चयेत् ॥ ३८.२९३{९२} ॥ तथा तथागतानं च त्रैलोकाधिपतेरपि । तथान्यबोधिसत्वानां यथाशक्ति समर्चयेत् ॥ ३८.२९४{९३} ॥ ततस्तां सगणां देवीं ध्यात्वा जपेत्समाहितः । संपठेद्धारणीं चापि श्रद्धया भक्तिमानसः ॥ ३८.२९५{९४} ॥ तथ चैकमहोरात्रमविछिन्नं पंथेन्मुदा । यावत्त्रिपंचसप्ताहोरात्राणि च पठेत्तथा ॥ ३८.२९६{९५} ॥ आचार्यश्च तथा रात्रौ स्त्रिः कृत्वा दिवसस्य च । स लोकपालभूतेभ्यो बलिं दद्याद्यथाविधि ॥ ३८.२९७{९६} ॥ ततो दानपतिः शास्त्रे सर्वोपकरणादिकम् । दाने सदक्षिणं दद्यादन्येभ्योऽपि तथादरात् ॥ ३८.२९८{९७} ॥ (र्म् ४४८) ततश्च सांजलिर्नत्वा प्रार्थयित्वा क्षमामपि । संबोधिसाधनीं द्रव्यसंपत्तिं प्रार्थयेन्मुदा ॥ ३८.२९९{९८} ॥ ततः सर्वं समाप्यैवैः कृत्वापि तद्विसर्जनम् । यथार्हभोजनैः सर्वाञ्छास्त्रादीन् समतोषयेत् ॥ ३८.३००{९९} ॥ तन्मण्डले रजः सर्वं समादाय सपुष्पकम् । कोष्ठकोष्ठालयागारे निक्षिप्य स्थापयेत्सदा ॥ ३८.३०१{१००} ॥ तद्रजो यत्र निक्षिप्तं तत्र संपत्प्रवर्द्धितः । सर्वद्रव्याभिसंपूर्णा भवेन्न क्षिणुयात्क्वचित् ॥ ३८.३०२{१} ॥ निर्माल्यमपरं सर्वं सनैवेद्यध्वजादिकम् । नद्यां नागान् समभ्यर्य संप्रक्षिप्य प्रवाहयेत् ॥ ३८.३०३{२} ॥ ततस्तद्धारणीविद्या भवेत्पठितसिद्धिता । यत्रापि पठ्यते तत्र संपत्प्रवर्द्धिता भवेत् ॥ ३८.३०४{३} ॥ एवं सत्यं समाख्यातं सर्वैरपि मुनीश्वरम् । श्रीदेव्याः साधनं कल्यं मत्वैवं चर तद्व्रतम् ॥ ३८.३०५{४} ॥ य एवं श्रीमहादेव्याः श्रद्धया शरणं गतः । यथाविधि समाधाय चरते व्रतमादरात् ॥ ३८.३०६{५} ॥ तस्य मारगणाः सर्वे सत्वोपद्रवकारकाः । विहेठनां सदा क्वापि कर्त्तु मैवाभिशक्नुयुः ॥ ३८.३०७{६} ॥ सर्वशक्रादयो देवाः सर्वदैत्याधिपा अपि । ग्रहास्ताराश्च सिद्धाश्च साध्या विद्याधरा अपि ॥ ३८.३०८{७} ॥ लोकपालाश्च सर्वेऽपि गंधर्वाः किंनरा अपि । यक्षाश्च राक्षसाः सर्वे नागाश्च गरुडा अपि ॥ ३८.३०९{८} ॥ मातृका भैरवाः सर्वे सकुमारविनायकाः । महाकालाश्च डाकिन्यः शाकिन्योऽपि तथापराः ॥ ३८.३१०{९} ॥ योगिन्योऽपि तथा सर्वे वीरा यमान्तकादयः । रक्षन्ति सर्वदा नित्यं श्रीदेव्याः शरणाश्रितम् ॥ ३८.३११{१०} ॥ धारणीपाठकं योऽपि साधकं व्रतचारिणम् । तथा भूतगणाः सर्वे पिशाचाश्च दुराशयाः ॥ ३८.३१२{११} ॥ सर्वे ज्वरादयो रोगा अपस्मारादयोऽपि च ॥ ३८.३१३{१२} ॥ उन्मादा पिटकाश्चापि सर्वे कुष्ठाश्च कछवः । श्रीदेवीव्रतिनो देहे न स्पृशंति कदाचन ॥ ३८.३१४{१३} ॥ ईतयश्च तथा सर्वा महोपद्रवकारकाः । तस्य देशे गृहे देहे न विशन्ति कदा चन ॥ ३८.३१५{१४} ॥ वसुंधर्या व्रते यत्र धारणी च प्रवर्त्तते । तत्र मारगणा दुष्टा उपसर्गा विशन्ति न ॥ ३८.३१६{१५} ॥ नृपाग्न्युदका चौरादि दुष्टाः शठाश्च वंचकाः । श्रीदेवीव्रतिनः किंचिदपकर्तुं न शक्नुयुः ॥ ३८.३१७{१६} ॥ यश्च श्रीवसुधाराया भक्तिमाञ्छरणं गतः । सर्वदा स्मरणं कृत्वा भजते संचरद्व्रतम् ॥ ३८.३१८{१७} ॥ यश्च तस्या महादेव्या धारणीं मुदितः स्मरन् । पठते सर्वदाप्येवं परेभ्योऽपि समादिशेत् ॥ ३८.३१९{१८} ॥ यश्चैतद्धारणीं सम्यग्ऽलिखेल्लिखाययेदपि । लिखितां समादाय संस्थाप्य भजते गृहे ॥ ३८.३२०{१९} ॥ यश्चापि हृदयं देव्या लिखित्वा भूर्जपत्रके । (र्म् ४४९) मूर्द्ध्नि कण्ठे भुजे वाहौ दधाति नित्यमादरात् ॥ ३८.३२१{२०} ॥ तेषामपि च सर्वेषां मारविघ्नोपसर्गिकाः । सर्वेऽपि सर्वदा क्वापि ह्यपकर्त्तुं न शक्नुयुः ॥ ३८.३२२{२१} ॥ सर्वेऽपि बोधिसत्वास्ते त्रैधातुकनिवासिनः । एतद्विद्यानुभावेन दानपारमिताश्रिताः ॥ ३८.३२३{२२} ॥ सर्वोपकरणैः सर्वान् सत्वान् संतर्प्पयन्त्यपि । तथा दानं सदा कृत्वा बोधिमार्गे चरन्ति ये ॥ ३८.३२४{२३} ॥ ते सर्वे क्रमेणैवं पूर्य पारमिता दशः । सर्वान्मारगाणां जित्वा प्राप्नुयु बोधिसंपदम् ॥ ३८.३२५{२४} ॥ सर्वभूपाश्च राजानश्चक्रवर्त्त्यादयो नृपाः । पालयन्ति प्रजा लोकान् धर्मैर्लक्ष्मीव्रतोद्भवैः ॥ ३८.३२६{२५} ॥ एवमन्येऽपि लोकाश्च ये ये संपत्समृद्धिताः । महाधना महाभोगाः सर्वद्रव्यसमन्विताः ॥ ३८.३२७{२६} ॥ दत्वा दानं सुखं भुक्त्वा यावज्जीवं शुभे सदा । प्रचरन्त्यपि सर्वे ते ज्ञेया लक्ष्मीप्रसादतः ॥ ३८.३२८{२७} ॥ ये श्रीदेव्या व्रतं धृत्वा सर्वार्थिभ्यो यथेप्सितम् । ददाति ते महासत्वाः श्रीमन्तः सद्गुणान्विताः ॥ ३८.३२९{२८} ॥ यशःसंपत्समापन्नाः सर्वविद्याकलास्पदाः । धर्मात्मानो महेशाख्यः सुधियः सत्यवादिनः ॥ ३८.३३०{२९} ॥ सुशीलाः सुभगा भद्राः क्षान्तिसौरभ्यवासिनः । सौम्येन्द्रिया विशुद्धांगाः करुणार्द्रशुभाशयाः ॥ ३८.३३१{३०} ॥ बलवीर्यमहोत्साहा निःक्लेशाः सुसमाहिताः । जितेन्द्रिया महाधीराः प्रज्ञावन्तो विचक्षणाः ॥ ३८.३३२{३१} ॥ उपायविधिविज्ञाश्च सर्वसत्वहितार्थिनः । सुप्रणिधिसमाधाना बलिनो ब्रह्मचारिणः ॥ ३८.३३३{३२} ॥ ज्ञानविज्ञानविद्वान्सः सर्वसत्वशुभंकराः । बोधिसत्वा जगन्नाथा बुद्धात्मजा भवंत्यपि ॥ ३८.३३४{३३} ॥ यतिभिर्ना अतीतास्ते वर्त्तमाना अनागताः । तेऽपि सर्वे महादेव्या व्रतपुण्यानुभावतः ॥ ३८.३३५{३४} ॥ क्रमात्पारमिताः सर्वाः परिपूर्य समाहिताः । बोधिलब्धा भवंत्येवं लप्स्यंति नान्यथा खलु ॥ ३८.३३६{३५} ॥ एवं मत्वा महाविद्यं श्रीदेवीं धारणीं पराम् । समाधाय पठन्नित्यं व्रतं चर समादरात् ॥ ३८.३३७{३६} ॥ एषा महैश्वरी देवी बोधिलक्ष्मीर्जिनेश्वश्री । जननी सर्वबुद्धानां धात्री मातानुपालिनी ॥ ३८.३३८{३७} ॥ अधृष्या सर्वदुष्टानां सर्वविघ्नविनाशिनी । महाविद्येश्वरी भद्रा सर्वारिष्ठनिसूदनी ॥ ३८.३३९{३८} ॥ यस्याः शरणमात्रेण व्रतं चरंति मानवाः । दारिद्र्यदुःखशोकाग्नौ न पतंति कदापि ते ॥ ३८.३४०{३९} ॥ अचिन्तितानि रत्नादि धनद्रव्यगुणानि च । यशोधर्मार्थकामादि सुखानि समवाप्नुयुः ॥ ३८.३४१{४०} ॥ एतत्पुण्यमसंख्येयमप्रमेयं महत्तरम् । सर्वैरपि मुनीन्द्रैर्हि संख्यातुं नापि शक्यते ॥ ३८.३४२{४१} ॥ सर्वे व्रतजपुण्यानानि संख्यातुमभिशक्यते । तदेतद्व्रतपुण्यानां संख्यातुं केन शक्यते ॥ ३८.३४३{४२} ॥ (र्म् ४५०) यदेतद्व्रतसादृश्यं कुत्रापि नो हि विद्यते । तदधिकं कुतो लोके सर्वत्रापि न दृश्यते ॥ ३८.३४४{४३} ॥ ईदृक्पुण्यमहारत्नं त्रैलोक्येष्वपि दुर्ल्लभम् । त्रिरत्नभजनादेव लभ्यते भुवि मानवम् ॥ ३८.३४५{४४} ॥ तदेवं त्वं परिज्ञाय त्रिरत्नशरणं गतः । श्रीदेवीं विधिनावाह्य व्रतं चर समाहितः ॥ ३८.३४६{४५} ॥ एतत्पुण्यानुभावेन सर्वदा सद्गतीं गतः । श्रीसंपत्तिसमापन्नः प्रदाता सुखभृद्भवेत् ॥ ३८.३४७{४६} ॥ त्रिविधां बोधिमासाद्य संबुद्धपदमाप्नुयुः ॥ ३८.३४८{४७!} ॥ इति हेतोर्महादेव्याः स्वयं त्वं शरणं गतः । व्रतं चरंस्तथा लोके प्रचारय समंततः ॥ ३८.३४९{४८} ॥ इति तया महादेव्याः समादिष्टं निशम्य सः । सेनः कृतांजलिर्नत्वा तां देवीमेवमब्रवीत् ॥ ३८.३५०{४९} ॥ एवं देवि करिष्यामि भवत्याज्ञां शिरो वहन् । तत्प्रसीद महादेव्या धारणीं संप्रदेहि मे ॥ ३८.३५१{५०} ॥ इति संप्रार्थितं तेन श्रुत्वा सा संप्रसादिता । देवी तं सेनमालोक्य समामंत्र्यैवमादिशत् ॥ ३८.३५२{५१} ॥ साधु सेन गृहाण त्वं देव्याया धारणीं वराम् । स्वयं पठं परेभ्योऽपि देशयस्व यथाविधि ॥ ३८.३५३{५२} ॥ इत्यादिश्याप्सरोरूपा सा श्रीदेवी वसुंधरा । तस्मै सेनासु तां देव्या धारणीं संपठन् ददौ ॥ ३८.३५४{५३} ॥ स सेनस्तां महादेवीं प्रणत्वा सांजलिर्मुदा । श्रीदेव्या धारणीं विद्यां प्रणत्वा श्रद्धयाददे ॥ ३८.३५५{५४} ॥ ततः सा चाप्सरो देवी तस्मै सेनाय सादरम् । स पंचामृतगोधूमै पिष्टकं पालने ददौ ॥ ३८.३५६{५५} ॥ तद्दत्तं पिष्टतं तं स सेनो दृष्ट्वा प्रमोदितः । प्रणत्वादाय तं भूपं स्मृत्वा न बुभुजे स्वयम् ॥ ३८.३५७{५६} ॥ तदा दिव्यप्सरोरूपं त्यक्त्वा साक्षात्त्रिमूर्त्तिधृक् । चंद्रमण्डलमध्यस्थभद्रघटोपरिस्थिता ॥ ३८.३५८{५७} ॥ दर्शयामास रूपं स्वं प्रभामण्डलवर्त्तितम् । अन्या देव्योऽपि रूपं स्वं धृत्वा देवीं वसुंधराम् ॥ ३८.३५९{५८} ॥ परिवृत्य पुरो धाय पताकाध्वजचामरैः । वीजयंत्यः सर्वदिक्षु तस्थु संप्रोक्तरूपवत् ॥ ३८.३६०{५९} ॥ ततः स सेन उत्थाय तां देवीं सगणां मुदा । मुहुर्मुहुर्वद्धगल अष्टाङ्गैः प्रणतिं व्यधात् ॥ ३८.३६१{६०} ॥ ततः स सेन आधाय सपंचामृतपिष्टकम् । तं जलं च समाधाय सहसा नृपांतिके ययौ ॥ ३८.३६२{६१} ॥ तत्र स सेन आलोक्य नृपं दुरादुपागतम् । तदमृतादिकं सर्वमुपस्थाप्याप्यधौकयत् ॥ ३८.३६३{६२} ॥ ततः स सेन आलोक्य तं नृपं सांजलिर्मुदा । प्रणत्वा सुप्रसन्नास्यः पुरतः समुपाश्रयत् ॥ ३८.३६४{६३} ॥ तममृतादिकं सर्वं दृष्ट्वा स विस्मितो नृपः । किं विलंवं कृतश्चैतदित्येवं तमपृछत ॥ ३८.३६५{६७!} ॥ (र्म् ४५१) इति पृष्टे नरेन्द्रेण स सेनः समुपाश्रितः । तं नरेन्द्रं समालोक्य विनयन्नेवमब्रवीत् ॥ ३८.३६६{६८} ॥ क्षमस्व भो महाराज यदर्थे मे विलंवितम् । तत्सर्वं समुपाख्याय भवन्तं बोधयान्यपि ॥ ३८.३६७{६९} ॥ इदं तावन्महाराज सुरनद्यमृतं पिवा । इदं पंचामृतं चापि भुक्ष्वेदं च सुपिष्टकम् ॥ ३८.३६८{७०} ॥ इत्युक्त्वा स समादाय कमण्डलुं समर्प्पयत् । भोग्यं पंचामृतं चापि पिष्टकं चाग्रतः प्रभोः ॥ ३८.३६९{७१} ॥ तदमृतादिकं सर्वं दृष्ट्वा स मुदितो नृपः । कमण्डलुं समादाय पपौ तत्सुरसामृतम् ॥ ३८.३७०{७२} ॥ ततः स नृपतिस्तुष्टो निस्तृष्णाह्लादिताशयः । तं च पंचामृतं भोग्यं बुभुजे पिष्टकान्यपि ॥ ३८.३७१{७३} ॥ ततः स नृपतिस्तुष्टो महानंदप्रमोदितः । तं सेनं सुमतिं धीरं समालोक्यैवमब्रवीत् ॥ ३८.३७२{७३!} ॥ त्वमपीदं सुधाकल्पममृतं पिव सन्मते । भुक्ष्व पचामृतं भोग्यं पिष्टकं चेदमुत्तमम् ॥ ३८.३७३{७४} ॥ इति राज्ञा समादिष्टे स सेनः प्रतिमंडितः । तदमृतादिकं सर्वमादाय बुभुजे स्वयम् ॥ ३८.३७४{७५} ॥ ततस्तच्छेषमादाय स सेनः परितोषितः । अश्वाय समुपस्थाप्य सर्वं ददौ विनोदयन् ॥ ३८.३७५{७६} ॥ सोऽपि चाश्वः समालोक्य तत्सर्वममृतादिकम् । आश्वाद्य परिभुंजानो महानंदं समाययौ ॥ ३८.३७६{७७} ॥ ततः स नृपति राजा परिशुद्धाशयो मुदा । तं सेनं तमुपामंत्र्य पुनरेवमपृछत ॥ ३८.३७७{७८} ॥ अहो सेन त्वमानीतं यदेतदमृतादिकम् । कुतः कथं समासाद्य तत्सत्यं वक्तुमर्हसि ॥ ३८.३७८{७९} ॥ इत्येवं प्रार्थिते राज्ञा स सेनः सांजलिर्मुदा । स्वामिनं तं नृपं नत्वा समालोक्यैवमब्रवीत् ॥ ३८.३७९{८०} ॥ शृणु राजन् समाधाय यदेतदमृतादिकम् । मयासाद्य समानीतं तत्संनिवेदयानि ते ॥ ३८.३८०{८१} ॥ यदत्र त्वं तृषार्त्तोऽसि तदर्थेऽहं ससंभ्रमः । जलमन्वेषितुं तत्र वने पश्यन् भ्रमाम्यहम् ॥ ३८.३८१{८२} ॥ कुत्रापि दृश्यते नात्र पानीयं निर्जने वने । ततो दूरतरं गत्वा जलमन्वेषितुं भ्रमे ॥ ३८.३८२{८३} ॥ तत्रापि दृश्यते नैव जलं क्वापि समंततः । ततोऽतिदूरतो नद्याः शब्दं शृण्वन्ननुव्रजे ॥ ३८.३८३{८४} ॥ तच्छब्दानुसरन् गत्वा पश्यामि सुरनिम्नगाम् । तत्र देवीगणाश्चापि पश्यामि व्रतचारिकाः ॥ ३८.३८४{८५} ॥ तत्र तासां समालोक्य समाक्रंदंति सादरम् । ततोऽहं तत्प्रभावेन तां नदीं लंघयन् व्रजे ॥ ३८.३८५{८६} ॥ तत्र मां समुपाहूय सर्वा ता अप्सरोगणाः । कुतः कथमिहायासि त्वं वदेति बभाषिरे ॥ ३८.३८६{८७} ॥ ततोऽहं समुपासृत्य ताः सर्वा अप्सरोगणाः । सांजलिः सादरं नत्वा पुर एवं निवेदय ॥ ३८.३८७{८८} ॥ (र्म् ४५२) सूर्योदयो महाराजो महीपालो नराधिपः । तस्योद्याने वराहौ द्वौ प्रकुर्वात उपद्रवम् ॥ ३८.३८८{८९} ॥ तन्निशम्य स भूपालः समंत्रिसैन्यपौरिकः । सह भोग्यं समारुह्य वराहौ हंतुमुद्ययौ ॥ ३८.३८९{९०} ॥ तत्रोद्याने चतुर्दिक्षु परिवृत्य समंततः । हाहाकारं प्रकुर्वन्तस्तिष्ठन्ति ते नृपादयः ॥ ३८.३९०{९१} ॥ ततस्तौ द्वौ महाघोरौ वराहौ सह सागतः । उद्यानान्निर्गतौ वेगान्नृपान्तिकात्परागतौ ॥ ३८.३९१{९२} ॥ तत्र स नृपतिः कोपात्तौ वराहावनुद्रुतः । अश्वमारुह्य वेगेन प्रविष्टो भ्रमते वने ॥ ३८.३९२{९३} ॥ तत्र स नृपतिरश्वाद्वेगात्प्रधावतोऽपतत् । श्रमतापपिपासार्त्तो तरुतले निषीदति ॥ ३८.३९३{९४} ॥ तस्य राज्ञस्तृषार्त्तस्य जलमन्वेषितुं भ्रमन् । कुत्रापि निर्जनेऽरण्ये जलं पश्याम्यहं न हि ॥ ३८.३९४{९५} ॥ ततो दूरतरं गत्वा जलमन्विष्य सर्वतः । भ्रमन् दूरान्नदीशब्दं श्रुत्वाहं समुपासरे ॥ ३८.३९५{९६} ॥ एतदर्थमहं देव्यो दूरतः सहसागतः । तद्भवन्त्यः प्रसीदंतु दृश्यंते भाग्यतो मया ॥ ३८.३९६{९७} ॥ भवन्त्योऽपि किमर्थेऽत्र विहरन्ति समाश्रिताः । इति पृष्टे मया ताश्च देव्यः सर्वाः प्रसादिताः ॥ ३८.३९७{९३} ॥ आदरान्मां समामंत्र्य पुर एवं बभाषिरे । मानव त्वं न जानीषे यदिहेव ममाश्रिता । तदर्थं समुपाख्यायस्तत्संशृणु समाहितः ॥ ३८.३९८{९९} ॥ या श्रीभगवती देवी माहेश्वरी वसुंधरा । तस्या व्रतं वयं सर्वा चरितुमिह संस्थिताः ॥ ३८.३९९{१००} ॥ तदत्र नो व्रतं पश्यं क्षणं तिष्ठ समाहितः । एतद्दृष्टेऽपि ते पुण्यं संप्रजायेन्महत्तरम् ॥ ३८.४००{१} ॥ इति ताभिः समादिष्टं श्रुत्वाहं संप्रमोदितः । तथेति प्रतिविज्ञप्य तद्व्रतं द्रष्टुमाश्रमे ॥ ३८.४०१{२} ॥ ततस्ता अप्सरोदेव्यः सर्वास्तत्र यथाक्रमम् । स्वस्वासने समाश्रित्य प्रारभन्ति यथाक्रमात् ॥ ३८.४०२{३} ॥ तत्र ता मंडले देवीं सगणां श्रीवसुंधराण् । यथाविधिं समावाह्य पूजयंति समादरात् ॥ ३८.४०३{४} ॥ जपस्तोत्रादिकं कृत्वा सर्वाः सांजलयश्च ताः । नत्वा प्रदक्षिणीकृत्य प्रार्थयंति सुसंपदम् ॥ ३८.४०४{५} ॥ ततस्ता अप्सरोदेव्यः सर्वाः समाप्तिते व्रते । स पंचामृतैः पूपैः कुर्वंति व्रतपालनाम् ॥ ३८.४०५{६} ॥ मह्यमपि तथा दत्तं ताभिः सर्वाभिरादरात् । इदं पंचांृतं भोज्यं गोधूमपिष्टकं वरम् ॥ ३८.४०६{७} ॥ स्मृत्वा भवंतमादाय ताभिर्दत्तं समादरात् । तथा पात्रे प्रतिष्ठाप्य गोपयामि तवार्थतः ॥ ३८.४०७{८} ॥ ततोऽहं सांजलिर्नत्वा ता देवीः सकला अपि । तथा चरितुमालोच्य प्रार्थयामि विधिं व्रते ॥ ३८.४०८{९} ॥ मया संप्रार्थितं श्रुत्वा या तद्देवी गणाधिपा । (र्म् ४५३) सा तद्व्रतविधिं सम्यक्समादिशति मे क्रमात् ॥ ३८.४०९{१०} ॥ तत्सर्वं समुपादिष्टं श्रुत्वाहं संप्रमोदितः । तथा तद्व्रतमाराध्य प्रेछामि चरितुं सदा ॥ ३८.४१०{११} ॥ प्रत्यक्षदर्शनं लब्ध्वा अष्टांगैः प्रणतोऽस्म्यहम् ॥ ३८.४११{१२} ॥ ततस्ताः सकला देवीः प्रार्थयित्वा समादारात् । इदं दिव्यामृतं भोज्यं प्रादाय सहसा चरे ॥ ३८.४१२{१३} ॥ इति हेतो महाराज विलम्वो जायते तथा । तत्क्षमस्व प्रभो मात्र रौक्ष्यं कृथाः प्रसीद मे ॥ ३८.४१३{१४} ॥ इति तेनोदितं श्रुत्वा स राजा विस्मयान्वितः । तद्दर्शनोत्सुको दृष्ट्वा तं सेनमेतदब्रवीत् ॥ ३८.४१४{१५} ॥ अहो आश्चर्य्यमत्र यद्वसुधारा व्रतं श्रुतम् । प्रत्यक्षदर्शनमपि लब्धं सेनेह निर्जने ॥ ३८.४१५{१६} ॥ मया न श्रूयते क्वापि दृश्यते न कदा चन । तद्द्रष्टुं सेन मे चित्तं समभिलषति ध्रुवम् ॥ ३८.४१६{१७} ॥ तस्मात्त्वं तत्र मां नीत्वा ता देवी दर्शय द्रुतम् । इति राज्ञोदितं श्रुत्वा स सेनः सचिवः सुधीः । तथेति प्रतिविज्ञप्य तत्र राज्ञा सह चरन् ॥ ३८.४१७{१८} ॥ सहसा तौ प्रगछंतौ तद्देवीदर्शनोत्सुकौ । दैवयोगात्क्षणात्प्राप्तौ तत्र स्थाने समैक्षताम् ॥ ३८.४१८{१९} ॥ तदा तत्र न ता देव्यः स्थिताः सर्वा दिवं गताः । व्रतनिर्माल्यपुष्पादि तत्राद्राष्टां न ताः क्वचित् ॥ ३८.४१९{२०} ॥ तत्र स नृपतिस्तासां देवीनां दर्शनं क्वचित् । अलभ्यमाने उद्विग्नपरिखिन्नाशयोऽभवत् ॥ ३८.४२०{२१} ॥ तत्र स नृपतिर्नत्वा व्रतस्थाने कृतांजलिः । सर्वत्रापि समालोक्य खं पश्यन्नेवमब्रवीत् ॥ ३८.४२१{२२} ॥ हा मया लभ्यते नात्र देवीनां दर्शनं क्वचित् । किं मया प्रकृतं पापं मंदभाग्योऽस्म्यहं यतः ॥ ३८.४२२{२३} ॥ व्रतं चरितुमिछामि तत्कथं ज्ञास्यते विधिम् । अहो मे दैवयोगेन श्रुतमेव न दर्शनम् ॥ ३८.४२३{२४} ॥ तदत्र किं करिष्यामि कोऽत्र मे विधिमादिशेत् । यदिछामि न तत्सिद्धं वृथैवेत्ये परिश्रमम् ॥ ३८.४२४{२५} ॥ इति प्रोक्त्वा विषण्णात्मा नृपतिः स विमोहितः । निराशया विभिन्नास्यो निर्जले मीनजातिवत् ॥ ३८.४२५{२६} ॥ हा हेति निन्दितात्मानं हा मे भाग्यमपीह धिक् ॥ ३८.४२६{२७!} ॥ इत्येवं विलपन्नश्रुपूर्णास्यो गद्गदः स्वरः । हृदि ललाटे वाहुभ्यां ताडयन्मूर्छितो मुहुः ॥ ३८.४२७{२८} ॥ स्मृतिमांश्च स्वयमपि तस्थौ तत्र विनिःस्वसन् ॥ ३८.४२८{२८!} ॥ इत्येवं तं स्थितं दृष्ट्वा सा श्रीदेवी वसुंधरा । आकाशान्महदाघोषं तत्रैवं निरचारयत् ॥ ३८.४२९{२९} ॥ राजन्मात्र विषीद त्वं सेत्स्यते तेऽभिलाषितम् । सर्वं सेनो विजानाति तत्सेनं पृछ तद्विधिम् ॥ ३८.४३०{३०} ॥ इत्याकाशात्समुच्चारं घोषं श्रुत्वा स भूपतिः । सांजलिः प्रणतोऽष्टौषीदूर्द्ध्वास्यः श्रीवसुंधराम् ॥ ३८.४३१{३१} ॥ (र्म् ४५४) या सुस्मृता सुरुचिरं सुष्ठुतरं प्रवृद्धं दारिद्र्यदुःखदुरितं शमते नराणाम् । तां कल्पवृक्षसदृशीं वसुधारसंज्ञां भक्त्या नमामि शिरसा जगतो हिताय ॥ ३८.४३२{३१!} ॥ प्रणमामि सदा वसुधां जननीं करुणार्द्रहृदं परिवीक्ष्य जनम् । बहुधेति भयान्वितदुःखतरं प्रणमामि सदा वसुधां जननीम् ॥ ३८.४३३{२!} ॥ पापाचारस्य दुर्बुद्धेर्दुर्भगस्य सदा मम । क्षंतव्यो भूयशश्चागः श्रीवसुधे नमोऽस्तु ते ॥ ३८.४३४{३!} ॥ नमस्ते भो महादेवि प्रसीद मे कृपां कुरु । भवंत्यत्र यथादिष्टं करिष्यामि तथा खलु ॥ ३८.४३५{३२} ॥ इत्युक्त्वा स नृपो भूयस्तत्र नत्वा कृतांजलिः । तं सेनं पुरतः कृत्वा ततोऽचरत्प्रमोदितः ॥ ३८.४३६{३३} ॥ ततः स नृपतिर्गछन् सहसा मुदिताशयः । तत्राशोकतलासीनमश्वं पश्यन्नुपाचरन् ॥ ३८.४३७{३४} ॥ तत्र प्रातः स भूयस्तमश्वं दृष्ट्वा प्रमोदितः । राजा तं सेनमानत्वा दृष्ट्वा एवमभाषत ॥ ३८.४३८{३५} ॥ सेन तमश्वमारुह्य गछ त्वं पुरमाश्रमे । मम तवानुगछामि सहसा गछतु ध्रुवम् ॥ ३८.४३९{३६} ॥ इति राज्ञोदितं श्रुत्वा स सेनः सांजलिर्नमन् । नृपतिं तं महीपालं समालोक्यैवमब्रवीत् ॥ ३८.४४०{३७} ॥ नैवमत्र महाराज यन्मे स्वामि भवान् प्रभुः । तद्भवद्वाहनं हीनं कथमारोहयेय वै ॥ ३८.४४१{३८} ॥ इति तेनोदितं श्रुत्वा सूर्योदय आत्मवित् । राजा तं सेनमानत्वा पुनरेवमभाषत ॥ ३८.४४२{३९} ॥ मा त्वयैवं प्रवक्तव्यं यदद्यारभ्य भवान् गुरुः । यथाकाशसमादिष्टं तत्तथा कर्त्तुमर्हसि ॥ ३८.४४३{४०} ॥ इति मे वचनं श्रुत्वा ममानुकंपयाऽधुना । शास्तरग्रेऽश्वमारुह्य प्रव्रजतामयान्वितः ॥ ३८.४४४{४१} ॥ इति राज्ञोदितं श्रुत्वा तथेति स प्रबोधितः । स्वयमग्रेऽश्वमारुह्य पृष्ठे प्रारोहयेन्नृपम् ॥ ३८.४४५{४२} ॥ ततः सऽश्वस्तदारूढो वायुरिव समुच्चरन् । महावेगात्पुरोपांतं तत्क्षणात्समुपाययौ ॥ ३८.४४६{४३} ॥ तत्र तं नृपमायातं समंत्रिजनपौरिकाः । सर्वे ते समुपालोक्य प्रत्युज्जग्मुः प्रमोदिताः ॥ ३८.४४७{४४} ॥ तत्राश्वपृष्ठमारूढं नृपं सेनं पुरः स्थितम् । दृष्ट्वा ते मंत्रिणः सर्वे पौराश्च विस्मयं ययुः ॥ ३८.४४८{४५} ॥ ततस्ते मंत्रिणोऽमात्या पौराः सर्वे प्रमोदिताः । प्रणत्वा तं नृपं राजकुलेऽनयन्महोत्सवम् ॥ ३८.४४९{४६} ॥ तत्राश्वपृष्ठतो राजा सोऽवरुह्य स्वयं ततः । सेनं पुरः स्थितं पश्चादवारोहयदादरात् ॥ ३८.४५०{४७} ॥ ततो राजकुले गत्वा नृपः पृष्ठतश्चरन् । पादप्रक्षालनस्थाने तं सेनमेवमब्रवीत् ॥ ३८.४५१{४८} ॥ हे सेने सुमतेरत्र पादप्रक्षालयाग्रतः । (र्म् ४५५) त्वत्तः पश्चादहं पादौ प्रक्षालयामि सांप्रतम् ॥ ३८.४५२{४९} ॥ इति राज्ञोदितं श्रुत्वा स सेनः सांजलिर्नमन् । नृपतिं तं महीपालं समालोक्यैवमब्रवीत् ॥ ३८.४५३{५०} ॥ विभ्रमोऽसि कथं राजन् भवान् स्वामि नराधिपः । तत्प्रथमं त्वमेवात्र पादौ प्रक्षालय प्रभो ॥ ३८.४५४{५१} ॥ इति तेनोदितं श्रुत्वा नृपतिः स कृतांजलिः । नमंस्तं सेनमालोक्य तत्रैवं संन्यवेदयत् ॥ ३८.४५५{५२} ॥ भो सेन यद्भवां छास्ता मम सन्मार्गदेशकः । तदत्र प्रथमं पादौ प्रक्षालयितुमर्हति ॥ ३८.४५६{५३} ॥ इति संप्रार्थिते राज्ञा स सेनः परिबोधितः । राज्ञ आज्ञा ह्यलंघ्येति पादौ प्रक्षालयेत्पुरः ॥ ३८.४५७{५४} ॥ ततः स नृपतिः पादौ प्रक्षाल्यानुसरन्मुदा । तं सेनं पुरतः कृत्वा प्रासादे समुपाचरत् ॥ ३८.४५८{५५} ॥ तत्रासने पुरोधाय तं सेनं गुरुमादरात् । नृपतिः स सभामध्ये तस्थौ लोकान् विलोकयन् ॥ ३८.४५९{५६} ॥ ततः स नृपतिर्दृष्ट्वा सर्वाल्लोकान् सभाश्रितान् । सर्ववृत्तान्तमाख्याय व्यनोदयद्व्रतोत्सवे ॥ ३८.४६०{५७} ॥ तन्नृपादेशितं श्रुत्वा सर्वे लोकाः प्रमोदिताः । श्रीदेव्यास्तद्व्रतं धर्त्तुं समैछन्त धनार्थिनः ॥ ३८.४६१{५८} ॥ ततस्सर्वेऽपि ते लोका नत्वा तं सेनमादरात् । नृपतिं च समालोक्य स्वस्वालयं ययुर्मुदा ॥ ३८.४६२{५९} ॥ ततः स नृपतिस्तेन सेनेन गुरुणा सह । सानंदं प्रेरयामास दिनानि कतिचिन्मुदा ॥ ३८.४६३{६०} ॥ ततः स भूपती राजा तद्व्रतसमयागते । सामात्यान्मंत्रिणान् सर्वान् समामंत्र्यैवमादिशत् ॥ ३८.४६४{१६} ॥ भो मंत्रिणो जनाः सर्वे व्रतसमयमागतम् । तस्मात्सर्वे मया सार्द्धं व्रतं चरितुमर्हथ ॥ ३८.४६५{६२} ॥ तदेनं सेनमेवात्र प्रव्रज्यासद्गुरुं कुरु । इति मंत्रिभिराख्यातं श्रुत्वा नृपस्तथेति सः । तं सेनं शासने बौद्धे प्राव्राजयद्यथाविधि ॥ ३८.४६६{६३} ॥ साथ प्रव्रजितो नाम्ना श्रीसेनगुप्त इत्यभूत् । खिक्खिरीपात्रभृन्मुण्डः काषायचीवरावृतः ॥ ३८.४६७{६४} ॥ ततस्तद्व्रतमुत्सृज्य वज्रधरपदाप्तये । वज्राभिषेकमासाद्य वज्राचार्योऽभवत्स च ॥ ३८.४६८{६५} ॥ ततः स नृपती राजा तद्व्रतं कर्त्तुमादरात् । शास्तारं तं समाराध्य संप्रार्थयेद्यथाविधिम् ॥ ३८.४६९{६६} ॥ ततः श्रीसेनगुप्तः स वज्राचार्यो यथाविधिः । श्रीदेवीं तां समाराध्य पूर्वसेवां समादधत् ॥ ३८.४७०{६७} ॥ ततो भाद्रपदे मासे द्वितीयायां सिते तरे । प्रातस्तीर्थे शुभे स्नात्वा शुद्धवस्त्रावृतः सुधीः ॥ ३८.४७१{६८} ॥ (र्म् ४५६) प्रासादोपरि मृद्गव्यपरिलिप्ते सुभूतले । विधिवन्मंडलं कृत्वा प्रतिष्ठाप्याधिवासयेत् ॥ ३८.४७२{६९} ॥ तद्रात्रौ च समाराध्य श्रीदेवीं विधिनार्चयेत् । दीपधूपादिभिश्चापि बलिं दत्वाभ्यतोषयत् ॥ ३८.४७३{७०} ॥ ततः प्रातः स आचार्य्यस्तीर्थे स्नात्वा सुवस्त्रभृत् । मध्याह्ने स्वासनासीन उत्तरादिङ्मुखस्थितः ॥ ३८.४७४{७१} ॥ ततः च गुरुराचार्यस्त्रिसमाधिसमाहितः । श्रीदेवीं सगणां सम्यगावाह्य विधिनार्चयेत् ॥ ३८.४७५{७२} ॥ ततः स्नानविशुद्धाङ्गान् परिशुद्धाम्वरावृतान् । व्रतिनः सनृपान् सर्वान् पंचगव्यैर्व्यशोधयत् ॥ ३८.४७६{७३} ॥ ततस्ते व्रतिनः सर्वे गुरुं नत्वा यथाक्रमम् । नृपतिप्रमुखा एवं व्रतं चरितुमाश्रयत् ॥ ३८.४७७{७४} ॥ ततस्ते व्रतिनः सर्वे श्रिदेवीसंमुखस्थिताः । यथाचार्य समादिष्टं तथाचरन् व्रतं मुदा ॥ ३८.४७८{७५} ॥ तत्र तां श्रीमहादेवीं सगणां विधिना क्रमात् । समावाह्य समभ्यर्च्य पूजाङ्गैः समतोषयन् ॥ ३८.४७९{७६} ॥ जपस्तोत्रादिकं कृत्वा कृत्वा च पापदेशनाम् । पुण्यानुमोदनां चापि कृत्वा च स्थितियाचनाम् ॥ ३८.४८०{७७} ॥ कृतांजलिपुटाः सर्वे ते च कृत्वा प्रदक्षिणाम् । अष्टाङ्गैः प्रणतिं कृत्वा संप्रार्थयन् सुसंपदम् ॥ ३८.४८१{७८} ॥ पिष्टकं पायसं चापि पंचामृत समन्वितम् । फलमूलादिकं चापि समुपाढोकयन्मुदा ॥ ३८.४८२{७९} ॥ ततो लोकाधिपेभ्योऽपि स भूतेभ्यो महावलिम् । यथाविधि प्रदत्वा संप्रार्थयच्छ्री समृद्धिताम् ॥ ३८.४८३{८०} ॥ ततः शास्ता स आचार्यः प्रार्थयित्वा क्षमां मुदा । सर्वेभ्यो व्रतिलोकेभ्यः प्रत्येकं सूत्रमार्प्पयेत् ॥ ३८.४८४{८१} ॥ तत्सूत्रं व्रतिनः सर्वे आदाय गुरुणार्प्पितम् । स्वस्वहस्तेऽभिवंधित्वा रक्षार्थमादराद्दधुः ॥ ३८.४८५{८२} ॥ या राज्ञो महिषी भार्या चूडदेवीति विश्रुता । सैका तत्सूत्रमादाय च वन्धनेवमादरात् ॥ ३८.४८६{८३} ॥ ततो व्रतसमाप्ते सा स्वालयं समुपाश्रिता । तद्व्रतसूत्रमालोक्य करवद्धं व्यचिंतयत् ॥ ३८.४८७{८४} ॥ किं ममानेन सूत्रेण सर्वरत्नादिभूषणैः । मण्डिता या करे वद्धमिति त्यक्तुं समैहत ॥ ३८.४८८{८५} ॥ ततः सा दुर्मती राज्ञी रक्षासूत्रमपि स्वयम् । करवद्धमपि छित्वा गवाक्षात्सहसाक्षिपत् ॥ ३८.४८९{८६} ॥ तस्मिन्नवसरे तत्र निम्वदेव्याः सखी वनात् । स्वामिन्यै भोजनं राज्ञै याचितुं समुपाचरत् ॥ ३८.४९०{८७} ॥ तत्र सा तद्व्रतोत्साहशब्दं श्रुत्वा स कौतुका । तच्छब्दनिहितस्वान्ता तस्थावेकान्त आश्रिता ॥ ३८.४९१{८८} ॥ चूडदेव्या यदुत्क्षिप्तं सूत्रं वातायनाद्बहिः । निश्चरन्मूर्द्धनि तस्याः सखाः संन्यपतद्द्रुतम् ॥ ३८.४९२{८९} ॥ सा तत्सूत्रं समादाय पश्यन्ती किमिदं न्विति । व्रतसूत्रमिति ज्ञात्वा प्रणत्वा मुदिताग्रहीत् ॥ ३८.४९३{९०} ॥ (र्म् ४५७) ततः स प्रेषिका देव्या भोग्यमप्रार्थयंत्यपि । तत्सूत्रमेव धृत्वाशु निम्ववनं मुदाचरन् ॥ ३८.४९४{९१} ॥ तत्र सा सहसा गत्वा भर्तृकायाः पुरोगताः । तत्सूत्रं समुपस्थाप्य प्रणत्वैवं न्यवेदयत् ॥ ३८.४९५{९२} ॥ जयोऽस्तु ते महादेवि यदहं राजमंदिरे । ततः श्रीवसुधाराया व्रतं शृणोमि चारितम् ॥ ३८.४९६{९३} ॥ चूडदेव्या स्वयं छित्वा व्रतसूत्रमिदं बहिः । क्षिप्तं गवाक्षरंध्रान्मे मूर्द्ध्नि सजति निश्चरत् ॥ ३८.४९७{९४} ॥ दृष्ट्वा तदहमादाय व्रतसूत्रमिदं खलु । इति मत्वात्र ते भोग्यमयाचित्वा व्रजे द्रुतम् ॥ ३८.४९८{९५} ॥ तथावामपि हे देवि धृत्वेदं व्रतसूत्रकम् । श्रीवसुधां महादेवीं स्मृत्वा व्रतं चरावहे ॥ ३८.४९९{९६} ॥ सा श्रीदेवी वसुंधारा दृष्ट्वा नौ भक्तिसाधनम् । स्वयमत्र समाश्रित्य संदद्यादपि संपदम् ॥ ३८.५००{९७} ॥ यदि नौ दैवयोगेन संपत्तिर्नात्र विद्यते । पुण्यं तु खलु विद्येत ततः स्याज्जन्म साफलम् ॥ ३८.५०१{९८} ॥ इति मत्वात्र भो देवि स्नात्वा शुद्धाम्वरावृतौ । श्रीदेवीं मनसा ध्यात्वा स्मृत्वा व्रतं चरावहे ॥ ३८.५०२{९९} ॥ इति सख्या समाख्यातं निम्वदेवी निशम्य सा । तथेत्यभ्यनुमोदित्वा तथा चरितुमैछत ॥ ३८.५०३{१००} ॥ ततस्तथेह एवं ते स्नात्वा शुद्धाम्वरावृते । सन्मृद्गोमय संलिप्ते स्वगृहे समुपाश्रिते ॥ ३८.५०४{१} ॥ मनसा श्रीमहादेवीं वसुन्धरां समादरात् । ध्यात्वा स्मृत्वा समाधाय संचरते व्रतं मुदा ॥ ३८.५०५{२} ॥ तस्मिन्नवसरे तत्र सा श्रीदेवी वसुंधरा । वृद्धीरूपधरा राजकुलद्वारमुपाचरत् ॥ ३८.५०६{३} ॥ तत्र सा ज्यायसी वृद्धा प्रकीर्णशुक्लमूर्द्धजा । उपसृत्य सखीमेकां समामंत्र्यैवमब्रवीत् ॥ ३८.५०७{४} ॥ भद्रिके त्वमिहागछ चूडदेव्याः पुरो गता । तव मातामही द्वरे तिष्ठतीति निवेदय ॥ ३८.५०८{५} ॥ इति तया समादिष्टं श्रुत्वा चेटी तथेति सा । चूडदेव्याः पुरोगत्वा समामंत्र्यैवमब्रवीत् ॥ ३८.५०९{६} ॥ देवी मातामही वृद्धा ज्यायसी ते इहागता । भवंत्यो दर्शनं कर्तुमिछन्ती द्वारि तिष्ठति ॥ ३८.५१०{७} ॥ तद्भवंती समागछ तस्या दर्शनमादरात् । दत्वा संभाषणं कृत्वा विनोदयितुमर्हति ॥ ३८.५११{८} ॥ इति तया समाख्यातं चूडदेवी निशम्य सा । न मे मातामही का सा ध्यात्वेत्येवं च प्रावदत् ॥ ३८.५१२{९} ॥ मम मातामही नास्ति कासाविह समागता । इति प्रोक्त्वा त्वया द्वारात्सहसा प्रेष्यतां बलात् ॥ ३८.५१३{१०} ॥ इति देव्योदितं श्रुत्वा तथेति सा सखी गता । वृद्धांतिकमुपाश्रित्य दृष्ट्वा तामेवमब्रवीत् ॥ ३८.५१४{११} ॥ मातामही न मे का चिदिति देवी वदत्यपि । अतः सा ते मुखं द्रष्टुं नैवेह समुपाव्रजेत् ॥ ३८.५१५{१२} ॥ (र्म् ४५८) अतस्त्वमिह मा तिष्ठ गछातः सहसा वहिः । न व्रजेर्यदि सा देवी प्रैषयेत्त्वां बलादपि ॥ ३८.५१६{१३} ॥ इति तयोदितं श्रुत्वा सा वृद्धा तत उत्थिता । न तिष्ठेयमिति प्रोक्त्वा ततः शनैर्ययौ वहिः ॥ ३८.५१७{१४} ॥ ततः सा श्रीमहादेवी वृद्धी रूपधरा तथा । निम्ववने स्थितां राज्ञीं समुद्धर्त्तुमुपाचरत् ॥ ३८.५१८{१५} ॥ तत्र सा ज्यायसी वृद्धा शनैर्द्वारमुपाश्रिता । दृष्ट्वा चेटीं समाहूय मृदुगिरैवमब्रवीत् ॥ ३८.५१९{१६} ॥ दारिके त्वमिहागछ किं चिन्मे वचनं शृणु । राज्ञा विचारणार्थेऽहं शनैरिह समाव्रजे ॥ ३८.५२०{१७} ॥ एतन्मे वचनं श्रुत्वा निम्वदेव्या पुरोगता । वृद्धेका ते मुखं द्रष्टुमागतेति निवेदय ॥ ३८.५२१{१८} ॥ इति तयोदितं श्रुत्वा सा चेटी सादरं मुदा । पश्यंति सांजलिर्नत्वा तां वृद्धामेवमब्रवीत् ॥ ३८.५२२{१९} ॥ मातामहि समागछ भवंत्या गदितं यथा । तथा देव्या निवेदित्वा सहसात्राव्रजाम्यहम् ॥ ३८.५२३{२०} ॥ इत्युक्त्वा सा सखी तस्या निम्वदेव्याः पुरो गता । मुदिता सुप्रसन्नास्या समालोक्यैवमब्रवीत् ॥ ३८.५२४{२१} ॥ देवि तव विचारार्थे वृद्धैकेह समागता । तद्भवंती समामंत्र्य संमानयितुमर्हति ॥ ३८.५२५{२२} ॥ इति सख्योदितं श्रुत्वा निम्वदेवी समुत्थिता । सहसा समुपागत्य तां वृद्धामेवमब्रवीत् ॥ ३८.५२६{२३} ॥ स्वागतं भद्रिके जेष्ठे मातामहि समाव्रज । शनै धैर्यं समालम्व्य समाधाय समासर ॥ ३८.५२७{२४} ॥ इत्युक्त्वा सा सुभद्रांशा निम्वदेवी समादरात् । तां वृद्धां समुपामंत्र्य स्वासने समुपाश्रयत् ॥ ३८.५२८{२५} ॥ तत्र सा ज्यायसी वृद्धा स्वासने समुपाशृता । तां राज्ञीं सुदृशालोक्य सुप्रसन्नैवमब्रवीत् ॥ ३८.५२९{२६} ॥ किं वेऽत्र चरसे वत्से तन्मे वक्तुं त्वमर्हसि । कस्मिन्नर्थेऽभिलाषं ते तवापि मे पुरो वद ॥ ३८.५३०{२७} ॥ इति तया समाख्यातं निम्वदेवी निशम्य सा । तां वृद्धां सुप्रसन्नास्या समालोक्यैवमब्रवीत् ॥ ३८.५३१{२८} ॥ किमत्राहं वदिष्यामि मन्दभाग्यास्मि दुःखिता । दरिद्रिता न मे संपद्विद्यतेऽत्र गृहे क्वचित् ॥ ३८.५३२{२९} ॥ व्रतोपहारसामग्रिमपि किं चिन्न विद्यते । तदिदं कदरीपत्रकृतमर्घादि भाजनम् ॥ ३८.५३३{३०} ॥ तन्मया श्रद्धया भक्तिमात्रेण श्रीवसुंधराम् । ध्यात्वा स्मृत्वा समाराध्य संचरितमिदं व्रतम् ॥ ३८.५३४{३१} ॥ व्रतसाधनसामग्रीसंपूर्णं विद्यते न मे । तद्विधिना व्रतैः कर्त्तुं शक्यते न मया तथा ॥ ३८.५३५{३२} ॥ तन्मनोभावनामात्रपूजाङ्गैः श्रिवसुंधराम् । महादेवीं समाराध्य व्रतमेवं चरावहे ॥ ३८.५३६{३३} ॥ एतत्तया समाख्यातं श्रुत्वा सा ज्यायसी मुदा । तं राज्ञीं ससखीं भद्रां समालोक्यैवमदिशत् ॥ ३८.५३७{३४} ॥ (र्म् ४५९) सिद्ध्यतु ते व्रतं पूर्णं चरस्वेवं समाहिता । श्रद्धया भक्तिभावेन स्मृत्वा देवीं सदा भज ॥ ३८.५३८{३५} ॥ तथा सा श्रीमहादेवी वसुलक्ष्मीः प्रसादिता । परितुष्टा गृहे तेऽत्र सदापि सगणाश्नयेत् ॥ ३८.५३९{३६} ॥ ततस्तस्या महादेव्याः प्रभावेन सदा तव । सर्वत्रापि भवेन्नूनं मंगलं निरुपद्रवम् ॥ ३८.५४०{३७} ॥ ततस्ते सर्वसंपत्तिपरिपूर्णं भवेद्गृहे । ततस्त्वं स्वेछया दानं दत्वार्थिभ्यः शुभे चर ॥ ३८.५४१{३८} ॥ एतत्पुण्यपरीता त्वं सर्वदा सद्गतीं गताः । परिशुद्धाशया धीरा सुशीला शुभभाविनी ॥ ३८.५४२{३९} ॥ साक्षादर्हत्पदं प्राप्ता संबुद्धालयमाप्नुयाः । एवं विज्ञाय भो वत्से संबुद्धपदलब्धये । त्रिरत्नशरणं कृत्वा श्रीदेवीं भज सर्वदा ॥ ३८.५४३{४०} ॥ इत्युक्त्वा सा महादेवी त्यक्त्वा वृद्धाकृतिं तथा । धृत्वा रूपं वसुंधर्य्या तस्थौ सर्वगणैर्वृता ॥ ३८.५४४{४१} ॥ तां देवीं श्रीप्रभास्वंतीं सगणान् समवस्थितान् । आलोक्य निम्वदेवी सा तस्थौ क्षणं सुविस्मिता ॥ ३८.५४५{४२} ॥ ततः स्वप्नविबुद्धेव साक्षात्तां श्रीवसुं धराम् । दृष्ट्वा सा सहसोत्थाय सांजलि न्यपतत्पुरः ॥ ३८.५४६{४३} ॥ ततः सा श्रीमहादेवी तां रज्ञीं पुरतो नताम् । धृत्वा हस्तेन हे वत्स उत्तिष्ठेत्येवमब्रवीत् ॥ ३८.५४७{४४} ॥ वत्से दारिद्र्यदुःखं ते नश्यते सांप्रतं खलु । सर्वदात्र गृहे संपत्परिवृद्धा भवेदपि ॥ ३८.५४८{४५} ॥ इत्यादिष्टं तया देव्या निम्वदेवी निशम्य सा । उत्थाय सांजलि देवीं प्राद्राक्षीत्तां वसुंधराम् ॥ ३८.५४९{४६} ॥ गृहे चापि महासंपत्परिपूर्णं समंततः । पश्यन्ती किमिदं स्वप्नमित्युक्त्वा समलोकयत् ॥ ३८.५५०{४७} ॥ ततः सा श्रिवसुंधारा महादेवी गणैः सह । भद्रेऽनुभूयतां सौख्यमित्युक्त्वानुदधौ ततः ॥ ३८.५५१{४८} ॥ तत्र सा निम्वदेवी तां श्रीदेवीं सगणां तथा । अंतर्धानगतां दृष्ट्वा क्षणं तस्थौ विमूर्छिता ॥ ३८.५५२{४९} ॥ ततश्चैतन्यमाषाद्य सा राज्ञी परिबोधिता । तां देवीं सगणां धात्वा स्मृत्वा तस्थौ समाहितम् ॥ ३८.५५३{५०} ॥ ततस्तस्या निम्वदेव्या उद्यानेषु समंततः । सर्वपुष्पद्रुमा जातास्तथा सर्वफलद्रुमाः ॥ ३८.५५४{५१} ॥ अष्टाङ्गगुणसंपन्न जलपूर्णा मनोरमाः । पद्मोत्पलादि पुष्पाढ्याः पुष्करिण्यः समुद्भवाः ॥ ३८.५५५{५२} ॥ गृहं चापि मनोरम्यं प्रास्पादं दिव्यसंनिभम् । सर्वसंपत्ति संपूर्णं श्रीदपुरमिवाभवत् ॥ ३८.५५६{५३} ॥ तदीदृग्भवनं दृष्ट्वा तथोद्यानं मनोरमम् । नंदिता निम्वदेवी सा तस्थौ दिव्यसुखान्विता ॥ ३८.५५७{५४} ॥ तदा स नृपतिश्चूडदेव्या व्रतं न धारितम् । व्रतसूत्रं विसृष्टं च श्रुत्वातिरुषिताभवत् ॥ ३८.५५८{५५} ॥ (र्म् ४६०) ततः सो नृपती राजा मंत्रिभिः परिबोधितः । महिषीं तां प्रियां भार्यां समेत्येवमभाषत ॥ ३८.५५९{५६} ॥ अरे रे हेतुना केन त्वया न धारितं व्रतम् । व्रतसूत्रं कथं छित्वा विसृष्टं तद्वदस्व मे ॥ ३८.५६०{५७} ॥ इति राज्ञोदितं श्रुत्वा चूडदेवी प्रगर्विता । स्वामिनंसपि तं भूपमनादृत्य्यैवमब्रवीत् ॥ ३८.५६१{५८} ॥ ममैतच्छ्रीसमृद्धास्ति गृहे रत्नादि संयुता । किं तेन व्रतसूत्रेण व्रतेनापि प्रयोजनम् ॥ ३८.५६२{५९} ॥ इति तयोदितं श्रुत्वा नृपतिः स प्रकोपितः । प्रयत्नादपि तां भार्यां बोधयितुं शशाक न ॥ ३८.५६३{६०} ॥ ततः स नृपति राजा तद्व्रतधारणोत्सुकः । सखीमेकां समाहूय पुर एवमभाषत ॥ ३८.५६४{६१} ॥ सखी त्वं मे वचः श्रुत्वा गछ निम्ववनेऽधुना । निम्वदेव्याः पुरो गत्वा वदस्वैवं समादरात् ॥ ३८.५६५{६२} ॥ स्वामी स नृपती राजा व्रतं चरितुमिछति । वसुलक्ष्म्यास्त्वया सार्द्धं तदाशु गम्यतामिति ॥ ३८.५६६{६३} ॥ सा तथेति प्रतिश्रुत्य द्रुतं निम्ववने गता । दृष्ट्वोद्यानं मनोरम्यं क्षणं तस्थौ सविस्मया ॥ ३८.५६७{६४} ॥ ततः सा कौतुकाक्रांतहृदया समुपाविशत् । तत्र तद्भवनं रम्यं दृष्ट्वा तस्थौ सकौतुका ॥ ३८.५६८{६५} ॥ ततः सा सुचिरं दृष्ट्वा मुदिता विस्मयान्विता । निम्वदेव्याः पुरो गत्वा पादौ नत्वैवमब्रवीत् ॥ ३८.५६९{६६} ॥ देवि त्वदन्तिके राज्ञा प्रेषिताहं समागता । तद्भवंती प्रभोराज्ञां श्रोतुमर्हति सांप्रतम् ॥ ३८.५७०{६७} ॥ स स्वामी श्रीवसुंधर्य्या व्रतं चरति सप्रियः । चूडदेव्या व्रतं सम्यक्परितं न प्रमादतः ॥ ३८.५७१{६८} ॥ तत्त्वया सह स स्वामी व्रतं चरितुमिछति । तत्त्वदाहूतये राज्ञा प्रेषिताहं तथात्र हि ॥ ३८.५७२{६९} ॥ तद्भवंती प्रभोराज्ञां शिरो धृत्वा समादरात् । तद्व्रतं चरितुं भर्त्त्रा सहाश्वागंतुमर्हति ॥ ३८.५७३{७०} ॥ इति तया समाख्यातं निम्वदेवी निशम्य सा । तां चेटीं स्वामिनो दूतीं समालोक्यैवमब्रवीत् ॥ ३८.५७४{७१} ॥ सख्यत्र श्रीवसुंधाराव्रतं मया विधार्यते । पश्य मे संपदो जाताः श्रीदेवीसंप्रसादतः ॥ ३८.५७५{७२} ॥ तदहं सांप्रतं तत्र नेछामि चरितुं व्रतम् । तदर्थागमनेनापि प्रयोजनं न मेऽधुना ॥ ३८.५७६{७३} ॥ तदहं नागमिष्यामि तच्छैतत्कथितं मया । नृपतेः पुरतो गत्वा वक्तव्यं नान्यथा त्वया ॥ ३८.५७७{७४} ॥ इति तया समाख्यातं श्रुत्वा चेटी तथेति सा । तां राज्ञीं सांजली नत्वा प्रत्याययौ नृपालयम् ॥ ३८.५७८{७५} ॥ तत्र सा नृपतेः पादौ प्रणम्य सांजलिः पुरः । उवाचैतत्प्रवृत्तांतं निम्वदेव्या यथोदितम् ॥ ३८.५७९{७६} ॥ तत्तया कथितं श्रुत्वा स राजा विस्मयाहतः । (र्म् ४६१) भूयस्तां चेटिकां दूतीं समामंत्र्यैवमादिशत् ॥ ३८.५८०{७७} ॥ भूयोऽपि तत्र गछ त्वं बोधयित्वा प्रयत्नतः । निम्वदेवीं समाहूय सहसानेतुमर्हति ॥ ३८.५८१{७८} ॥ इत्यादिष्टं नरेन्द्रेण श्रुत्वा सा चेटिकापि च । नृपतिं तं महाराजं प्रणत्वैवं न्यवेदयत् ॥ ३८.५८२{७९} ॥ किं तत्राहं गमिस्यामि निम्वदेवीह माव्रजेत् । यत्सा तत्र महासौख्यं भुक्त्वा तिष्ठति सांप्रतम् ॥ ३८.५८३{८०} ॥ यत्तस्या भवनं रम्यं प्रासादं भवतेऽधुना । सर्वसंपत्तिसंपूर्णं श्रीदस्येव किमुच्यते ॥ ३८.५८४{८१} ॥ उद्यानेऽपि मनोरम्याः पुष्करिण्यः समुद्भवाः । नानावृक्षाश्च संजाताः फलपुष्पसमन्विताः ॥ ३८.५८५{८२} ॥ किमत्र वहिमोक्तेन दिव्यश्री संपदान्वितम् । यदि तदिछसि द्रष्टुं तत्र गत्वाभिलोकय ॥ ३८.५८६{८३} ॥ एवं तयोदितं श्रुत्वा स राजा तृषितान्वितः । तथा तद्भवनं द्रष्टुं सहसा गंतुमैछत ॥ ३८.५८७{८४} ॥ ततः स नृपती राजा सखिमंत्रिजनैः सह । यानारूढो व्रजन्स्तत्र निम्ववने उपासरत् ॥ ३८.५८८{८५} ॥ तत्रोद्यानं मनोरम्यं सर्ववृक्षाः समन्वितम् । पुष्करिणीश्च दूरात्स राजाद्राक्षीन्मनोहराः ॥ ३८.५८९{८६} ॥ भवनं च मनोरम्यं प्रासादं दिव्यकल्पितम् । दृष्ट्वा स मुदितो राजा स शीघ्रं द्वारान्तिके ययौ ॥ ३८.५९०{८७} ॥ तन्नृपं समुपायातं दृष्ट्वा देव्याः सखी द्रुतम् । पुरतः सहसोपेत्य समामंत्र्यैवमब्रवीत् ॥ ३८.५९१{८८} ॥ देवी प्रसीद यद्भर्त्ता स्वामीह स्वयमागतः । तद्भवंती प्रसन्नास्या दर्शनं दातुमर्हति ॥ ३८.५९२{८९} ॥ इति सख्योदितं श्रुत्वा निम्वदेवी प्रहर्षिता । सहसोत्थाय पर्यङ्कं प्राज्ञपयत्सुकोमलम् ॥ ३८.५९३{९०} ॥ तत्र स भूपती राजा प्रविश्य मंदिरे चरन् । तां देवीं समुपामंत्र्य प्रययौ सहिते जनैः ॥ ३८.५९४{९१} ॥ तत्र तं प्रभुमायातं निम्वदेवी समीक्ष्य सा । सहसोत्थाय पश्यंती ननाम चरणे प्रभोः ॥ ३८.५९५{९२} ॥ तत्र स प्रभुरालोक्य तां भार्यां श्रीसमांशिकाम् । सर्वत्र कुशलं प्रश्नं कृत्वासने समाश्रयत् ॥ ३८.५९६{९३} ॥ तत्र तां श्रीसमाकारं निम्वदेवीं निरीक्ष्य सः । राजा प्रभुः स्वयं धृत्वा सहासने न्यवेशयत् ॥ ३८.५९७{९४} ॥ ततस्तौ दंपती तत्र सहासने समाश्रितौ । परस्परं समाश्रित्य निषेदतुः प्रमोदितौ ॥ ३८.५९८{९५} ॥ ततः स नृपती स्वामी सकौतुकप्रमोदितः । तां भार्यां श्रीसमानांशं दृष्ट्वैवं पर्यपृछत ॥ ३८.५९९{९६} ॥ कथं ते भवनं रम्यं प्रासादं भवनेऽधुना । उद्यानं च मनोरम्यं जायते तद्वदस्व मे ॥ ३८.६००{९७} ॥ इति पृष्टे नरेंद्रेण निम्वदेवी विनोदिता । तं प्रभुं सांजलिर्नत्वा समालोक्यैवमब्रवीत् ॥ ३८.६०१{९८} ॥ (र्म् ४६२) शृणु स्वामिन्महाराज यदि श्रोतुं त्वमिछसि । तथाहं कथयिष्यामि यन्मे संपत्प्रजायते ॥ ३८.६०२{९९} ॥ प्रत्यहं यत्त्वया दत्तं तद्भोग्यं याचितुं सखी । अमुष्मिन् दिवसे तत्र मयेयं प्रेषिताचरत् ॥ ३८.६०३{१००} ॥ तत्रेयं सहसा गत्वा प्रासादैकांतमाश्रिता । तदा वातायनात्क्षिप्तं व्रतसूत्रमधोऽपतत् ॥ ३८.६०४{१} ॥ तद्दृष्ट्वैवं सखी गृह्य किमिदमिति वीक्ष्य सा । विस्मिता सहसागत्वा ममाग्रे समदर्शयत् ॥ ३८.६०५{२} ॥ तद्दृष्ट्वायं मया पृष्टा त्यक्त्वाहारमिदं कुतः । सूत्रमादाय प्रैषि त्वं तत्कथमुच्यतामिति ॥ ३८.६०६{३} ॥ तथेयं परिपृष्टा मे विस्तरेणैवमब्रवीत् । स्वामिनि यदि ते श्रोतुं वांछास्ति श्रूयतामिति ॥ ३८.६०७{४} ॥ प्रत्यहं स्वामिनाहारं दत्तं तद्याचितुं तदा । तत्र राजकुले देव्या व्रतोत्साहं शृणोम्यहम् ॥ ३८.६०८{५} ॥ तद्व्रतशब्दमाकर्ण्य तत्रैकांते समाश्रिता । तदा वातायनात्क्षिप्तं सूत्रं पतति मे मम ॥ ३८.६०९{६} ॥ तदिदं सूत्रमालोक्यमिति विस्मयान्विता ।आलोक्य किमिति? त्यक्त्वाहारमिदं सूत्रमादाय सहसा व्रजे ॥ ३८.६१०{७} ॥ इत्युक्त्वेयं सखी मेऽग्रे उपस्थायाप्यदर्शयत् । व्रतसूत्रं तदालोक्य नत्वागृह्नान्मुदादरात् ॥ ३८.६११{८} ॥ ततश्चेयं सखि दृष्ट्वा प्रेम्ना हितार्थवांछिनी । मातेवानुनयं कृत्वा ममाग्रे एवमब्रवीत् ॥ ३८.६१२{९} ॥ भवंत्यपि तथा श्रद्धाभक्तिमात्रेण सर्वदा । श्रीदेवीं मनसा ध्यात्वा स्मृत्वाराध्य व्रतं चर ॥ ३८.६१३{१०} ॥ इत्यस्या वचनं श्रुत्वा तथाहं भक्तिमात्रतः । श्रीदेवीं मनसा ध्यात्वा स्मृत्वाराध्याचरं व्रतम् ॥ ३८.६१४{११} ॥ तदैका ज्यायसी वृद्धा मातामही तवागता । इत्याख्याय शनैरत्र ममाग्रे समुपागता ॥ ३८.६१५{१२} ॥ मयापि सादरेणात्र नत्वासने निवेशिता । ततश्च मां समालोक्य कुशलं समपृछत ॥ ३८.६१६{१३} ॥ ततश्चासौ परिज्ञाय मयात्र व्रतसाधनम् । किं व्रतं सध्यते वत्स इति मां पर्यपृछत ॥ ३८.६१७{१४} ॥ ततस्तां सांजलिर्नत्वा न्यवेदयन् समादरात् । मातामहि नु मे किं चिदपि द्रव्यं न विद्यते ॥ ३८.६१८{१५} ॥ तदहं श्रद्धया भक्तिभावमात्रेण सादरम् । श्रीदेवीं मनसा ध्यात्वा स्मृत्वाराध्य व्रतं चरे ॥ ३८.६१९{१६} ॥ इति मयोदितं श्रुत्वा सा वृद्धा परिमोदिता । तद्व्रतविधिपुण्यानि यथा क्रममुपादिशत् ॥ ३८.६२०{१७} ॥ तदुपादिष्टमाकर्ण्य मुदिता संप्रमोदिता । सांजलिस्तन्पदाब्जेऽहं नत्वा तिष्ठमधोमुखः ॥ ३८.६२१{१८} ॥ तदा सा तज्ज्यायसी रूपं त्यक्त्वात्र च क्षणादपि । श्रीदेवीमूर्त्तिमाधाय सगणां समदर्शयत् ॥ ३८.६२२{१९} ॥ (र्म् ४६३) अतोऽहं सहसोत्थाय दृष्ट्वा तां श्रीवसुंधराम् । गणवृतां समालोक्य यथाशक्ति समर्च्यम् ॥ ३८.६२३{२०} ॥ ततः सा श्रीमहदेवी मद्भक्तिपरितोषिता । सगणा मे वरं दत्वा व्यवधानमितोऽव्रजत् ॥ ३८.६२४{२१} ॥ ततस्तस्या महालक्ष्म्या कृपादृष्टिप्रसादतः । इदं मे भवनं रम्यं प्रासादं भवते क्षणात् ॥ ३८.६२५{२२} ॥ उद्यानं च मनोरम्यं नानापुष्पफलद्रुमैः । पद्मोत्पलादि पुष्पाढ्याः पुष्करिण्यो चोद्भवाः ॥ ३८.६२६{२३} ॥ सधातुरत्नजातादि सर्वद्रव्याभिपूरितम् । कोष्ठागारं समुद्भूतं सवस्त्रालंकारपूरितम् ॥ ३८.६२७{२४} ॥ सर्वव्रीहिसमापूर्णं षड्ररद्रव्यपूरितम् । घृतदधिमधुक्षीरमोदकादिप्रपूरितम् ॥ ३८.६२८{२५} ॥ विविधपानभोज्यानि पट्टपुष्पासनानि च । फलपुष्पादि भोग्यानि संजायंते क्षणादिह ॥ ३८.६२९{२६} ॥ ईदृशी महती संपत्समुद्भूता मम क्षणात् । तत्सर्वं श्रीमहादेव्याः प्रसादादपि नान्यथा ॥ ३८.६३०{२७} ॥ इति विज्ञाय राजेन्द्र तस्या देव्याः सदा मुदा । श्रद्धया शरणं गत्वा व्रतं चरितुमर्हति ॥ ३८.६३१{२८} ॥ एतत्पुण्यानुभावेन सर्वदा सद्गतीं व्रजेः । यावद्भवं व्रजेर्नैव दुर्गतीं च कदा चन ॥ ३८.६३२{२९} ॥ सद्गतौ सत्सुखान्येव लब्धो सदा शुभे चरन् । त्रिरत्नभजनं कृत्वा बोधिचर्यां चरेत्क्रमात् ॥ ३८.६३३{३०} ॥ ततः पारमिताः सर्वाः पूरयित्वा यथाक्रमात् । स्वयं चरं परां चापि बोधिमार्गे नियोजयेत् ॥ ३८.६३४{३१} ॥ ततो मारगणान् सर्वां जित्वा शुद्धत्रिमंडलः । अर्हन् संबोधिमासाद्य संबुद्धपदमाप्नुयात् ॥ ३८.६३५{३२} ॥ इति तया महादेव्याः समुपादिष्टमत्र मे । तच्छ्रुत्वा सर्वदा स्वामि मनोऽतिरोचते व्रतम् ॥ ३८.६३६{३३} ॥ तदहं सर्वदा तस्याः श्रीदेव्याः शरणं गता । श्रद्धया भक्तिभावेन चरिष्यामि व्रतं प्रभो ॥ ३८.६३७{३४} ॥ तथा भवानपि स्वमिञ्छ्रीदेव्याः शरणं गतः । श्रद्धाभक्तिप्रसन्नात्मा व्रतं चरितुमर्हति ॥ ३८.६३८{३५} ॥ इति भार्योदितं श्रुत्वा स राजाभ्यनुमोदितः । तथा सदा महादेव्या व्रतं चरितुमैछत ॥ ३८.६३९{३६} ॥ तत्रैवं स महीपालो निम्वदेव्या तया सह । यथाकामं सुखं भुक्त्वा तस्थौ क्रीडन् यथेछया ॥ ३८.६४०{३७} ॥ एवं क्रीडन् स राजेन्द्रो निम्वदेव्या सहारतः । तत्रानंदसुखोत्साहैर्न्युवास राज्यनिस्पृतः ॥ ३८.६४१{३८} ॥ तत्रैवं तं महीपालं निम्वदेव्या सह स्थितम् । चूडदेवी समाकर्ण्य चुकोपातिप्ररोषिता ॥ ३८.६४२{३९} ॥ ततः सा चूडदेवी तं स्वामिनं तत्र संस्थितम् । स्वयं गत्वा समाक्रम्य संमानयितुमैछत ॥ ३८.६४३{४०} ॥ ततः सा क्रोधिता चण्डी चूडदेवी प्रधाविता । व्रजंती सहसा तत्र निम्ववन उपासरत् ॥ ३८.६४४{४१} ॥ (र्म् ४६४) तत्र तद्व्रतनिर्माल्यप्रक्षिप्तः पुष्पसंकुलम् । स्थानं सातिप्रकोपांधा लंघित्वा सहसाचरत् ॥ ३८.६४५{४२} ॥ तल्लंघितातिपापेन सा देवी तत्क्षणादपि । कोलमुखी महाघोररूपाविछंदिता भवत् ॥ ३८.६४६{४३} ॥ तत्र तां सहसायातां लोकान् दृष्ट्वा भयोत्थिताः । कोलमुखी प्रविष्टेति शब्दं कृत्वा विचेरिरे ॥ ३८.६४७{४४} ॥ तद्विरावं जनाः सर्वे श्रुत्वा तत्र समुत्थिताः । कोलाहलमहाशब्दं प्रकुर्वन्त उपाद्रुवन् ॥ ३८.६४८{४५} ॥ तत्कोलाहलं शब्दं श्रुत्वा संत्रसिताशया । परायित्वा ततोऽन्यत्र प्रदुद्राव वनांतरे ॥ ३८.६४९{४६} ॥ तत्रैका विभ्रमंती सा दैवसंप्रेरिता वने । निर्जने दुर्गमेऽरण्ये परिखिन्नाप्यधावत ॥ ३८.६५०{४७} ॥ तथा सा दूरतो गत्वा प्राद्राक्षीत्सरसी द्वयम् । दृष्ट्वा सा तत्र तृष्णार्त्ता जलं पातुमुपाचरत् ॥ ३८.६५१{४८} ॥ तदा ते सरसी युद्धं परस्परं प्रचक्रतुः । दृष्ट्वा सा विस्मिताऽपीत्वा जलं तस्थौ सविस्मया ॥ ३८.६५२{४९} ॥ तत्र ते सरसी दृष्ट्वा तां कोलवदनां स्त्रियम् । कुत्र गंतुमिहैषि त्वमित्येवं पर्यपृछताम् ॥ ३८.६५३{५०} ॥ तत्पृष्टं सा समाकर्ण्य सा शंकविस्मयाहता । किमेतदिति संचिंत्य क्षणं तस्थौ विमोहिता ॥ ३८.६५४{५१} ॥ तत्र सा दैवयोगेन प्रतिलभ्य सुचेतनाम् । किं मयात्रापि वक्तव्यमिति ध्यात्वा व्यचिंतयत् ॥ ३८.६५५{५२} ॥ हा कथमिह प्राप्ताहं भ्रमामि निर्जने वने । किं मया प्रकृतं पापं येन भ्रष्टा चराम्यहम् ॥ ३८.६५६{५३} ॥ हा किं कुर्यां क्व गछेयं सहायैकापि मेऽस्ति न । सर्वथात्र विनष्टास्मि को मां रक्षेदिहाऽधुना ॥ ३८.६५७{५४} ॥ इति चिंताविषण्णा सा तस्थौ तत्र निराशिता । ततः सा दैवयोगेन सस्मार श्रीवसुंधराम् ॥ ३८.६५८{५५} ॥ तद्देवीस्मृतिपुण्येन सा कर्मभाविनी सुधीः । यत्स्वयं प्रकृतं कर्म तत्सर्वं पर्य्यबुध्यताम् ॥ ३८.६५९{५६} ॥ हा मया दुर्धिया तत्र सम्यन्न धारितं व्रतम् । एतत्पापेन नूनं मे जातेऽयमीदृशी विपत् ॥ ३८.६६०{५७} ॥ तदत्र किं करिष्यामि कोलमुखी यतोऽस्म्यहम् । तत्तत्र कथमेवं हि प्रतियायं नृपालयम् ॥ ३८.६६१{५८} ॥ यच्चाहं दुर्मतिर्दुष्टा स्वकृतपापभागिनी । तद्दैवप्रेषिता ह्यत्र भ्रमामि निर्जने वने ॥ ३८.६६२{५९} ॥ तदत्र किं चरेयाहं जीवितेऽपि न मे रुचिः । सर्वेषामपि जंतूनां सर्वत्र मरणं ध्रुवम् ॥ ३८.६६३{६०} ॥ इति मत्वाहमत्रापि निरपेक्षः स्वजीविते । श्रीदेव्या दर्शनं कर्त्तुं स्मृत्वा गछेय सांप्रतम् ॥ ३८.६६४{६१} ॥ इति निश्चित्य सा राज्ञी चूडदेवी समुद्यता । श्रीदेव्या दर्शनं कर्तुं स्मृत्वा चरितुमैछत ॥ ३८.६६५{६२} ॥ ततः सा चूडदेवी ते सरसी द्वे समीक्ष्य च । (र्म् ४६५) उपेत्य तज्जलं पीत्वा तीरे स्थित्वैवमब्रवीत् ॥ ३८.६६६{६३} ॥ सरसी यदहं मूढा दुर्मती मंदभागिनी । तच्छ्रीवसुंधरां देवीं द्रष्टुमिहाव्रजामि हि ॥ ३८.६६७{६४} ॥ इति तयोदितं श्रुत्वा पुष्करिण्यावुभेऽपि ते । तां राज्ञीं समुपामंत्र्य नृगिरैवमभाषताम् ॥ ३८.६६८{६५} ॥ साधु साधु महाभागे व्रजास्तु मंगलं तव । पुन नौ वचसा देवीमेवं पृछ त्वमादरात् ॥ ३८.६६९{७} ॥ केनावां हेतुना युद्धं कृत्वा तिष्ठावहे सदा ॥ ३८.६७०{८} ॥ इत्येतत्कथितं ताभ्यां श्रुत्वा राज्ञी तथेति सा । प्रतिज्ञाय तत्रान्यत्र स्वदैवप्रेषिताचरत् ॥ ३८.६७१{९} ॥ तत्रारण्ये भ्रमंती सा किं चिद्दूरं गता ततः । महांतं शूकरं घोरं ददर्श भीषणाकृतिम् ॥ ३८.६७२{१०} ॥ तत्र सा दूरतः स्थित्वा पश्यंस्तं भीमशूकरम् । मात्रा तिष्ठ व्रजान्यत्र सहसेति तमब्रवीत् ॥ ३८.६७३{११} ॥ इति तेनोदितं श्रुत्वा स शूकरः समुत्थितः । सहसोपेत्य तां राज्ञीं समालोक्यैवमब्रवीत् ॥ ३८.६७४{१२} ॥ का त्वं कुत इहायासि कुत्र गंतुं प्रधावसि । एकाकिनी कथं भ्रांतो वन एतद्वदस्व मे ॥ ३८.६७५{१३} ॥ इति तेनोदितं श्रुत्वा सा देवी प्रतिचित्रिता । शनैरुपेत्य तं प्रेतं संपश्यन्नेवमब्रवीत् ॥ ३८.६७६{१४} ॥ सूर्योदयनरेन्द्रस्य भार्याहं महिषी प्रिया । श्रीदेव्या दर्शनं कर्तुं वांछंतीह समाव्रजे ॥ ३८.६७७{१५} ॥ इति तद्गदितं श्रुत्वा शूकरः सोऽतिविस्मितः । तां देवीं समुपाश्रित्य पश्यन्नेवमभाषत ॥ ३८.६७८{१६} ॥ साधु साध्वि महाभागे व्रजास्तु ते सुमंगलम् । तां श्रीभगवतीदेवीं मन्नाम्ना प्रणमादरात् ॥ ३८.६७९{१७} ॥ भूयो मे वचसा साध्वी तां देवीं परिपृछताम् । केनाहं शूकरीभूतस्तिष्ठामीति भवंत्यपि ॥ ३८.६८०{१८} ॥ एतत्तत्कथितं श्रुत्वा चूडदेवी तथेति सा । प्रतिज्ञाय ततोऽन्यत्र व्रजंती सहसाचरत् ॥ ३८.६८१{१९} ॥ तत्र सूचीमुखप्रेतमस्थिकायं महोदरम् । स्वकेशरोमसंछन्नमपश्यद्दूरतो वने ॥ ३८.६८२{२०} ॥ तत्र स प्रेत आलोक्य तां देवीं समुपागताम् । सहसोपेत्य संपश्यन् पुरस्थ एवमब्रवीत् ॥ ३८.६८३{२१} ॥ को त्वं कुत इहायासि कुत्र गंतुमिहागता । निःसहाया कथं भ्रांता चरते तद्वदस्व मे ॥ ३८.६८४{२२} ॥ इति तत्कथितं श्रुत्वा सा देवी विस्मयान्विता । शनैरुपेत्य तं प्रेतं पश्यंत्येवमवोचत ॥ ३८.६८५{२३} ॥ सूर्योदयमहीभर्त्तु भार्याहं महिषी सती । श्रीदेव्या दर्शने गंतुं पथानेनाव्रजामि हि ॥ ३८.६८६{२४} ॥ इति तदुदितं श्रुत्वा स प्रेतोऽतिविचित्रितः । तां देवीं सांजलिर्नत्वा पुर एवमवोचत ॥ ३८.६८७{२५} ॥ साधु साध्वि महाभागे चरास्तु ते सुभद्रकम् । तां श्रीभगवतीलक्ष्मीं मन्नाम्ना प्रणमादरात् ॥ ३८.६८८{२६} ॥ भूयोऽपि वचसा मे तां श्रीदेवीं परिपृछतु । (र्म् ४६६) केनाहं पापकेनैवं तिष्ठामि दुःखभागिनी ॥ ३८.६८९{२७} ॥ एतत्तत्कथितं श्रुत्वा चूडदेवी तथेति सा । प्रतिश्रुत्य गतान्यत्र प्राद्राक्षीद्दशपापिनः ॥ ३८.६९०{२८} ॥ तेऽपि तां समुपायातां दृष्ट्वोपेत्येवमब्रुवन् । का त्वं कुत इहायासि कुत्र गंतुं च तद्वद ॥ ३८.६९१{२९} ॥ इति तैर्गदितं श्रुत्वा सा देवी समुपास्थिता । तान् सर्वान् पापिनो दृष्ट्वा पुर एवमभाषत ॥ ३८.६९२{३०} ॥ सूर्योदयनरेन्द्रस्य भार्याहं महिषी प्रिया । श्रीदेव्या दर्शने गंतुं पथानेनाव्रजाम्यहम् ॥ ३८.६९३{३१} ॥ इति तद्गदितं श्रुत्वा सर्वे ते दशपापिनः । कृतांजलिपुटा नत्वा तां देवीमेवमब्रुवन् ॥ ३८.६९४{३२} ॥ साधु देवी महाभागे प्रव्रजास्तु जयं तव । अस्माकं प्रकृतं पापं तां देवीं परिपृछतु ॥ ३८.६९५{३३} ॥ इति तद्देशितं श्रुत्वा चूडदेवी तथेति सा । ततोऽन्यत्र व्रजंत्येवं ददर्श कृष्णपंनगम् ॥ ३८.६९६{३४} ॥ तत्र स कृष्णसर्पस्तामालोक्य समुपागताम् । सहसा समुपाक्रम्य विषाग्निनात्यतापयत् ॥ ३८.६९७{३५} ॥ ततः सा मूर्छिता देवी चिरात्स्वयं समुत्थिता । तां श्रीवसुंधरां स्मृत्वा तत्र तस्थौ क्षणं तथा ॥ ३८.६९८{३६} ॥ ततः सा सुंदरीरूपा त्यक्तकोलमुखाभवत् । कालसर्पः स तामाह का त्वं कुतः समागता ॥ ३८.६९९{३७} ॥ चूडदेवी ततः प्राह सूर्योदयप्रियास्म्यहम् । श्रीदेवीदर्शनार्थं तु आगता मान्यथ फणि ॥ ३८.७००{३८} ॥ ततः पातकमुक्ता सा प्रचरंती बुभुक्षिता । बीजपूरकमालोक्य तदादातुमुपाचरत् ॥ ३८.७०१{३९} ॥ तत्र तत्फलमालोक्य हस्ताभ्यां सहसाग्रहीत् । तस्य हि दैवयोगेन तत्फलं न व्यमुंच्यत ॥ ३८.७०२{४०} ॥ तत्र सा तत्फले लग्नहस्ता तस्थौ तथा क्षणम् । ततः सा त्रसिता दृष्ट्वा न गृह्नामीति चावदत् ॥ ३८.७०३{४१} ॥ एतदुक्ते भुजौ तस्यास्तत्फलं सहसात्यजत् । ततः सा विस्मितान्य्र भ्रमंती दूरतोऽव्रजत् ॥ ३८.७०४{४२} ॥ ततः सा दूरतो नद्याः शब्दं श्रुत्वा प्रधाविता । स्वदैवप्रेषिता तत्र तीरमवापतत्क्षणात् ॥ ३८.७०५{४३} ॥ तत्र सा तज्जलं पातुं सहसा समुपाचरत् । तत्र सा तज्जलं पीत्वा स्नात्वा चैव समाश्रयत् ॥ ३८.७०६{४४} ॥ तत्र सा दूरतः पूर्णहेमघटशिरोवहाः । सुरांगणाः सुभद्रांगा ददर्श समुपागताः ॥ ३८.७०७{४५} ॥ तत्र सा ताः समालोक्य सहसोपेत्य सांजलिः । प्रणत्वा समुपासीना समीक्ष्यैवमपृछत ॥ ३८.७०८{४६} ॥ अहो भाग्यं मया लब्धं यद्भवत्यात्र दर्शिता । तद्दृष्ट्वा कृपया सर्वा स्नातुमर्हन्ति सर्वथा ॥ ३८.७०९{४७} ॥ भवंत्योऽमृतसंपूर्णहैमघटशिरोवहाः । कुत्र गंतुं चरंत्यत्र सत्यमेतद्वदंतु मे ॥ ३८.७१०{४८} ॥ इति तयोदितं श्रुत्वा तासामेका प्रधानिका । सालोक्य चूडदेवीं तां समामंत्र्यैवमब्रवीत् ॥ ३८.७११{४९} ॥ (र्म् ४६७) भद्रे त्वं न जानासि या श्रीदेवी वसुंधराः । तस्या इमेऽमृता पूर्णा नीयंते स्नपने घटाः ॥ ३८.७१२{५०} ॥ देवीस्नानोदकैः सर्वैरेषा नदी वहत्यपि । एतन्नद्यमृतेनात्र नेत्रे प्रक्षाल्य दृश्यताम् ॥ ३८.७१३{५१} ॥ एवं देव्या तयादिष्टं चूडदेवी निशम्य सा । तथेत्यभ्यनुमोदंती तथा कर्तुं समैछत ॥ ३८.७१४{५२} ॥ ततः सा तन्नदीतीरे स्थित्वामृतेन चक्षुषी । संप्रक्षाल्य ततः सस्ने पपौ तदमृतं मुदा ॥ ३८.७१५{५३} ॥ ततो निर्मुक्तपापा सा चूडदेवी पवित्रिता । सुदृष्टिरभवत्तत्र समंताप्रतिहतेक्षणः ॥ ३८.७१६{५४} ॥ तत्रस्था चूडदेवी सा प्राद्राक्षीत्तत्क्षणादपि । श्रीवसुधां महादेवीं सगणां मण्डलास्थिताम् ॥ ३८.७१७{५५} ॥ तत्र तां श्रीमहादेवीं दृष्ट्वा सा प्रतिमंडिता । सहसा सांजलिर्नत्वा पश्यंती समुपाचरत् ॥ ३८.७१८{५६} ॥ तत्र सा समुपेत्याशु कृत्वा प्रदक्षिणां मुदा । सगणां स महादेवीं प्रणनाम कृतांजलिः ॥ ३८.७१९{५७} ॥ ततः सा श्रीमहादेवी चूडदेवीं समीक्स्य ताम् । स्वागतासि समेहि त्वमित्येवं समभाषत ॥ ३८.७२०{५८} ॥ एवं देव्या तयादिष्टं चूडदेवी निशम्य सा । सांजलिरश्रु मोचंती देव्याः पादाम्बुजेऽपतत् ॥ ३८.७२१{५९} ॥ ततः सा श्रीवसुंधारा महादेवी विलोक्य ताम् । पादाब्जे पतितां धृत्वा समाश्वास्यैवमादिशत् ॥ ३८.७२२{६०} ॥ भागिनि भद्र उत्तिष्ठ धैर्यमालंव्य पश्यताम् । मा विषीद प्रसीदात्र पूरयामि तवैहितम् ॥ ३८.७२३{६१} ॥ एतत्तया महादेव्या समादिष्टं निशम्य सा । चूडदेवी प्रसन्नास्या प्रणत्वैवं न्यवेदयत् ॥ ३८.७२४{६२} ॥ भगवति जगद्भर्त्ति वसुधारे महेश्वरि । भवत्याः शरणं यामि क्षमस्व मेऽपराधताम् ॥ ३८.७२५{६३} ॥ प्रसीद मे महादेवि कृपानुग्रहतां कुरु । यन्मया प्रकृतं पापं तत्सर्वं क्षंतुमर्हति ॥ ३८.७२६{६४} ॥ यदेतद्दूरतो चाहं समायातास्म्यविघ्नतः । तद्भवत्याः प्रसादेन नान्यथेति हि मन्यते ॥ ३८.७२७{६५} ॥ तदिह ते महादेव्या श्रद्धया शरणास्थिता । व्रतं चरितुमिछामि तत्प्रसीद कृपानिधे ॥ ३८.७२८{६६} ॥ इति तयार्थितं श्रुत्वा सा श्रीदेवी वसुंधरा । तां श्रद्धाभिसंशुद्धां समालोक्यैवमादिशत् ॥ ३८.७२९{६७} ॥ साधु वत्से पुनर्गत्वा स्वपुरे स्वामिना सह । आचार्येण यथादिष्टं व्रतं कुरु समाहित ॥ ३८.७३०{६८} ॥ तदा तत्र गृहे तेऽहं स्वयमागत्य संस्थिता । करिष्यामि सदा भद्रं सर्वत्र निरुपद्रवम् ॥ ३८.७३१{६९} ॥ तदा ते सर्वदा गेहे देहे च मंगलं भवेत् । ततः सर्वार्थसंपत्तिः परिवृद्धाः सुसंस्थिता ॥ ३८.७३२{७०} ॥ ततस्तदर्थमादाय देहेऽर्थिभ्यो यथेप्सितम् । त्रिरत्नभजनं कृत्वा चरस्व सर्वदा शुभे ॥ ३८.७३३{७१} ॥ (र्म् ४६८) तथा संपारपूर्य त्वं सर्वाः पारमिताः क्रमात् । त्रिविधां बोधिमासाद्य संबुद्धपदमाप्स्यसि ॥ ३८.७३४{७२} ॥ एतद्देव्या समादिष्टं चूडदेवी निशम्य सा । तथेत्यभ्यनुमोदंती प्रत्यश्रोषीत्प्रणामिता ॥ ३८.७३५{७३} ॥ ततः सा चूडदेवी च तां श्रीदेवीं वसुंधराम् । सुप्रसन्ना समानम्य समीक्ष्यैवं न्यवेदयत् ॥ ३८.७३६{७४} ॥ यन्मार्गस्थितैर्लोकैः संदर्शितं वचोऽस्ति मे । ददेहं प्रष्टुमिछामि भगवति समादिश ॥ ३८.७३७{७५} ॥ मार्गेऽहं सरसी दृष्ट्वा जलं पातुमुपाचरम् । तदा ते सरसी युद्धं प्राकुर्वतां परस्परम् ॥ ३८.७३८{७६} ॥ ततस्ते विग्रहांते मां दृष्ट्वैवं पर्यपृछताम् । कुत्र गंतुमिहायासि तत्सत्यं कथ्यतामिति ॥ ३८.७३९{७७} ॥ तच्छ्रुत्वा विस्मयाक्रांतहृदयाहं विलोक्य ते । श्रीदेवीदर्शनं गंतुमिहैमीत्यवदमपि ॥ ३८.७४०{७८} ॥ एवं मयोदितं श्रुत्वा सरसी त उभेऽपि च । मां स कृतांजलिर्नत्वा समीक्ष्यैवमभाषताम् ॥ ३८.७४१{७९} ॥ यदावां विग्रहं नित्यं कृत्वा तिष्ठावहे मिथः । तन्नो पापेन केनेति श्रीदेवीं परिपृछतु ॥ ३८.७४२{८०} ॥ किं ताभ्यां प्रकृतं पापं यदेवं विग्रहं मिथः । कृत्वा ते तिष्ठतो देवि तत्समादेष्टुमर्हति ॥ ३८.७४३{८१} ॥ इति तयोदितं श्रुत्वा सा श्रीदेवी वसुंधरा । समीक्ष्य चूडदेवीं तां समामंत्र्यैवमादिशत् ॥ ३८.७४४{८२} ॥ भगिन्यौ तौ पुराभूतं भोजने समये सदा । आक्रुष्य विग्रहं कृत्वा प्रतिक्षेपं प्रचक्रतुः ॥ ३८.७४५{८३} ॥ तेन पापेन तौ द्वेऽपि सरसी भूत्वा परस्परम् । सर्वदा विग्रहं कृत्वा तिष्ठतः सांप्रतं तथा ॥ ३८.७४६{८४} ॥ एवं तयोः पुरः प्रोक्त्वा चित्ते त्वं परिबोधय । एतच्छ्रुत्वैव ते वाक्यं पापान्मुक्त्वै च्यतो दिवम् ॥ ३८.७४७{८५} ॥ ततोऽसौ चूडदेवी च नत्वा तां श्रीवसुंधराम् । सांजलिः सुप्रसन्नात्मा समीक्ष्येवं न्यवेदयत् ॥ ३८.७४८{८६} ॥ भूयोऽपि श्रीमहादेवि शूकरो दृश्यते पथि । सोऽपि मां समुपायातं दृष्ट्वैवं पर्यपृछत ॥ ३८.७४९{८७} ॥ कुत्र गंतुमिहायासि वदस्वेति निशम्य तत् । श्रीदेवीदर्शने गंतुमिहैमीत्यवदमहम् ॥ ३८.७५०{८८} ॥ ततः स शूकरश्चाहं प्ररुदत्पुरातो मम । किं मया प्रकृतं पापमिति देव्यभिपृछ्यताम् ॥ ३८.७५१{८९} ॥ किं तेन प्रकृतं पापं पुरा कुत्र कदा कथम् । तत्सर्वं समुपादिश्य प्रबोधयतु मे मनः ॥ ३८.७५२{९०} ॥ इति तत्पृछितं श्रुत्वा सा श्रीदेवी वसुंधरा । समीक्ष्य चूडदेवीं तां समामंत्र्यैवमब्रवीत् ॥ ३८.७५३{९१} ॥ भण्डागारी पुराभूत्स विश्वासघातकः कुधीः । जनेभ्यो भोजनं किं चिद्दत्वा सर्वं गृहेऽनयत् ॥ ३८.७५४{९२} ॥ (र्म् ४६९) एतत्पापविपाकेन भवति शूकरोऽधुना । एतत्मया यथाख्यातं तथा तस्य पुरो वद ॥ ३८.७५५{९३} ॥ स त्वत्कथितमाकर्ण्य पापमुक्तो दिवं व्रजेत् ॥ ३८.७५६{९४} ॥ इति देव्या समादिष्टं चूडदेवी निशम्य सा । तथेति प्रतिविज्ञप्य पुनरेवं न्यवेदयत् ॥ ३८.७५७{९५} ॥ पुनर्मार्गे मया दृष्टः प्रेतः सूचीमुखो महान् । किं तेन प्रकृतं पापं तव देवि समादिश ॥ ३८.७५८{९६} ॥ इति तत्कथितं श्रुत्वा सा श्रीदेवी महेश्वरी । समीक्ष्य चूडदेवीं तां समामंत्र्यैवमब्रवीत् ॥ ३८.७५९{९७} ॥ पुरा स ब्राह्मणो विद्वान् वेदविद्वादसंरतः । सिद्धांतवादिनो बौद्धान् प्रतिक्षिप्याभिनिंदयन् ॥ ३८.७६०{९८} ॥ लोभेर्ष्यामदमात्सर्यपरीतात्मा हि मानिकः । आगृहीतपरिष्कारः स्वार्थातिलालसः कुधीः ॥ ३८.७६१{९९} ॥ परेभ्यो दत्तमालोक्य लोभातिकलुषाशयः । स छिद्रवचसाक्रुष्य बौद्धे दानं न्यवारयत् ॥ ३८.७६२{१००} ॥ सद्धर्मश्रावकान् सर्वान् दृष्ट्वा स दुरिताशयः । प्रदुष्टवचसाक्षिप्य निंदयन् प्रत्यवारयत् ॥ ३८.७६३{१} ॥ किं तेन न कृतं पापं सद्धर्मविघ्नकारिणा । त्रिरत्नभजनोत्साहविघाताभ्यनुरागिना ॥ ३८.७६४{२} ॥ एतत्पापविपाकेन ब्राह्मणः स दुराशयः । सूचीमुखो महाकायः प्रेतो भवति सांप्रतम् ॥ ३८.७६५{३} ॥ एतन्मया यथाख्यातं तथा तस्य पुरो वद । एतत्ते कथितं श्रुत्वा स्मृतिमान् स सुधीर्भवेत् ॥ ३८.७६६{४} ॥ ततः स स्वकृतं पापं सर्वं स्मृत्वादिशन् स्वयम् । त्रिरत्नस्मरणं कृत्वा समिछेच्चरितुं शुभे ॥ ३८.७६७{५} ॥ ततो विमुक्तपापः स परिशुद्धाशयः सुधीः । नमो बुद्धाय धर्माय संघायेति वदन् भजेत् ॥ ३८.७६८{६} ॥ ततस्तत्प्रेतलोकात्स समुत्थाय विकल्पकः । प्रेताशयं परित्यज्य ततोऽपि हि दिवं व्रजेत् ॥ ३८.७६९{७} ॥ इति तस्या महादेव्या समादिष्टं निशम्य सा । चूडदेवी प्रसन्नास्या पुनरेवं न्यवेदयत् ॥ ३८.७७०{८} ॥ भूयोऽपि पथि भो देवि दृश्यते दुःखिता मया । किं किं तैः प्रकृतं पापं तत्सर्वं समुपादिश ॥ ३८.७७१{९} ॥ इति संप्रार्थिते राज्ञ्या सा श्रीदेवी वसुंधरा । निशम्य चूडदेवीं तां समीक्ष्यैवमुपादिशत् ॥ ३८.७७२{१०} ॥ ते सर्वे पापिनो दुष्टा दशाकुशलचारिणः । अद्यापि दुःखसंतप्ता भ्रमंति भवसागरे ॥ ३८.७७३{११} ॥ यो हत्वा प्राणिनो भुंक्त सोऽल्पायुष्को भवे भ्रमन् । अद्यापि तद्विपाकेन तिष्ठत्येवं सुदुःखितः ॥ ३८.७७४{१२} ॥ योऽदत्तं द्रव्यमादाय प्राभुंक्त मिथ्ययाहरन् । स दरिद्रो महादुष्टो भवत्यद्यापि दुःखभाक् ॥ ३८.७७५{१३} ॥ (र्म् ४७०) यो मिथ्याकामरागांधोऽगम्या अपि प्रभुक्तवान् । स स्वेष्टसुजनैस्त्यक्तो भवत्यरिवशे स्थितः ॥ ३८.७७६{१४} ॥ मृषावादेन यो लोकञ्जयन्नभ्यवंचयत् । स कुष्ठरोगवान् पूतिगंधवहो भवत्यपि ॥ ३८.७७७{१५} ॥ पिशुनवचनै यो सन्मित्रभेदं भवेऽकरोत् । सो पुण्यकलहोन्मादी सर्वशत्रुर्भवत्यपि ॥ ३८.७७८{१६} ॥ योऽसौ विभ्रत्सितो लोकैर्दुराकृतिर्दुराशयः । स पारुष्यवचसा लोकात्पुराक्रुय्यत्यभंदयत् ॥ ३८.७७९{१७} ॥ सर्वभिन्नेव वा योऽसौ निघ्नितो नाद्रितः कुधीः । स पुरा भिन्नवादेन लोकं भिन्नाशयं व्यधात् ॥ ३८.७८०{१८} ॥ योऽसौ विमोहितो मूर्खा विपन्नबुद्धिरुन्मनाः । साभिध्यायतसा लोके संपत्तीश्छद्मनाहतत् ॥ ३८.७८१{१९} ॥ विद्वेषी दुर्मता मोही योऽसौ सज्जनगर्हितः । स व्यापादखिलचित्तेन सत्वापकार उद्यतः ॥ ३८.७८२{२०} ॥ योऽसौ नीचा विषण्णात्मा हीनेंद्रियो दुराशयः । मिथ्यादृष्टि स सद्धर्ममधिक्षिप्त्वाभ्यनिंदयत् ॥ ३८.७८३{२१} ॥ इति ये दशा पापानि प्रकुर्वन्तो चरेन्मुदा । सर्वे ते पापिनो दुष्टा भवंति दुःखिनोऽधुना ॥ ३८.७८४{२२} ॥ एवं मया यथाख्यातं तथा तेषां पुरो वद । एतत्त्वदुक्तमाकर्ण्य स्मरेयुस्ते पुराकृतम् ॥ ३८.७८५{२३} ॥ ततस्ते दुर्गते भीताः सद्गतीतमनोत्सुकाः । सद्धर्मसाधनं कर्त्तुं समिछेयुः समादरात् ॥ ३८.७८६{२४} ॥ तदा तां पुर आमंत्र्य सर्वानेवं वदादरात् । यदि चास्ति शुभे वांछा त्रिरत्नं सेव्यतामिति ॥ ३८.७८७{२५} ॥ ततः सर्वे इमे यूयं निर्मुक्तपातका ध्रुवम् । सहसा सद्गतौ सौख्यं लभेध्वमिति चाब्रुहि ॥ ३८.७८८{२६} ॥ ततस्ते ते वचः श्रुत्वा सर्वे सत्सौख्य आलसाः । त्रिरत्नशरणं कृत्वा संप्रयायुः सुरालयम् ॥ ३८.७८९{२७} ॥ ये बुद्धे शरणं यांति न ते गंछंति दुर्गतीम् । क्रमात्पारमिताः पूर्य संबुद्धपदमाप्नुयुः ॥ ३८.७९०{२८} ॥ शृण्वंति ये च सद्धर्मं न ते गछंति दुर्गतीम् । सर्वदा सद्गतिं याताः प्रचरेयुः शुभे मुदा ॥ ३८.७९१{२९} ॥ ये भजंति मुदा संघे तेऽपि न यांति दुर्गतीम् । सदा लोकशुभं कृत्वा संप्रयायुः सुखावतीम् ॥ ३८.७९२{३०} ॥ कालसर्प्पो मया दृष्टो भूयो मार्गे महेश्वरि । किं तेन प्रकृतं पापं तद्वदस्व वसुंधरे ॥ ३८.७९३{३१} ॥ देव्युवाच पुरा आढ्यो गृहस्थोऽभूद्विस्तीर्णपरिवारकः । संपदामुदयैर्नित्यं दानदस्येव संयुतः ॥ ३८.७९४{३२} ॥ तेन काकवलिं दातुं न प्रसेहे कदा चन । द्विजान् विनीपकान् दृष्ट्वा चित्तैः प्रादुषायेत्सदा ॥ ३८.७९५{३२*} ॥ कस्मै चिदपि किंचिद्वा ह्यदत्वा बुभुजे स्वयम् । सर्वधनस्वकोद्याने स्थापयामास दुर्मतिः ॥ ३८.७९६{३३} ॥ (र्म् ४७१) पातकेनाऽधुना तेन कृष्णसर्प्पो भवत्यसौ । तस्यापि पुरतः सर्वं मदादिष्टं तथा वद ॥ ३८.७९७{३४} ॥ सोऽपि निर्मुक्तपापश्च मृतः स्वर्गं व्रजेद्ध्रुवम् ॥ ३८.७९८{३५} ॥ येनैव यत्कृतं कर्म तेनैव परिभुज्यते । अभुक्तं क्षीयते नैव कर्म क्वापि कदा चन ॥ ३८.७९९{३६} ॥ इत्येतदेवमाख्यतं श्रुत्वा त्वं च समादरात् । त्रिरत्नभजनं कृत्वा चर मे व्रतमुत्तमम् ॥ ३८.८००{३७} ॥ तथा लोकेषु सर्वत्र प्रचारय मम व्रतम् । एतत्पुण्यविपाकेन सर्वदा ते भवेच्छुभम् ॥ ३८.८०१{३८} ॥ ततो बोधिमतिं प्राप्तः पुरायित्वा यथाक्रमम् । सर्वाः पारमिता होधिं प्राप्य बुद्धपदं व्रजेः ॥ ३८.८०२{३९} ॥ इति विज्ञाय कल्याणि गत्वा तं स्वपुरे पुनः । श्रद्धया स्वामिना सार्द्धं व्रतं चर समादरात् ॥ ३८.८०३{४०} ॥ इत्युक्त्वा सा महादेवी सगणा श्रीवसुंधरा । ततश्चांतर्हिता स्वर्गे स्वालयमागमद्द्रुतम् ॥ ३८.८०४{४१} ॥ तत्र सा चूडदेवी तां सगणां श्रीवसुंधराम् । अंतर्धानगतां दृष्ट्वा क्षणं तस्थौ सविस्मया ॥ ३८.८०५{४२} ॥ ततः सा चूडदेवी तां सगणां श्रीवसुंधराम् । स्मृत्वा कृतांजलिर्नत्वा ततः प्रत्याययौ मुदा ॥ ३८.८०६{४३} ॥ ततः सा चूडदेवी तां सगणां श्रीवसुंधराम् । मनसानुस्मरन्त्येव प्रचरंति न्यवर्त्ततः ॥ ३८.८०७{४४} ॥ तं कृष्णसर्पमालोक्य चूडदेवी ब्रवीति सा । देव्या यथा चोपदिष्टं तथा तेन पुराकृतम् ॥ ३८.८०८{४५} ॥ तन्नामस्मरणात्सो हित्यक्त्वा देहं दिवं ययौ । तत्र मार्गे समेत्यासौ चूडदेवी यथाक्रमम् । तां दशपापिनः सर्वान् समीक्ष्य समुपाचरत् ॥ ३८.८०९{४६} ॥ तत्र सा चूडदेवी तान् दशाकुशलचारिणः । पृष्ट्वा देव्या यथादिष्टं तथा सर्वमुपादिशत् ॥ ३८.८१०{४७} ॥ तच्छ्रुत्वानुस्मृतिं प्राप्ताः सर्वे ते विस्मयान्विताः । सत्यमिति प्रभाषंतः श्रीदेवीशरणं ययुः ॥ ३८.८११{४८} ॥ ततस्ते पापिनः सर्वे श्रीदेवीदृक्प्रभान्विताः । त्रिमण्डलविशुद्धाश्च शुभे चरितुमीछिरे ॥ ३८.८१२{४९} ॥ ततस्ते श्रद्धया नित्यं त्रिरत्नशरणं गताः । तां श्रीवसुंधरां देवीं ध्यात्व व्रतं समाचरन् ॥ ३८.८१३{५०} ॥ ततस्ते शुद्धितात्मानः सर्वेऽपि निर्मलाशयाः । तत्रैवं तां महादेवीं ध्यात्वा मृता दिवं ययुः ॥ ३८.८१४{५१} ॥ ततश्च चूडदेवी सा प्रचरंती समागता । सूचीमुखं तमालोक्य दूरतः समुपाचरत् ॥ ३८.८१५{५२} ॥ तत्र सा सहसा तस्य प्रेतस्य पुरतो गता । श्रीदेव्याः समुपादिष्टं तथा सर्वमभाषत ॥ ३८.८१६{५३} ॥ तच्छ्रुत्वा स पुरावृत्तमनुस्मृत्वा निचिंतयत् । पश्चात्तापाग्निसंतप्तः क्षणं तस्थौ विनिःश्वसन् ॥ ३८.८१७{५४} ॥ ततः स मनसा ध्यात्वा तां श्रीदेवीं वसुंधराम् । (र्म् ४७२) स्मरन्ती सांजलिर्नत्वा दिदेश सर्वपातकम् ॥ ३८.८१८{५५} ॥ ततः स परिशुद्धात्मा निमुक्तपातकः सुधीः । श्रीदेवीशरणं गत्वा देहं त्यक्त्वा दिवं ययौ ॥ ३८.८१९{५६} ॥ ततश्च चूडदेवी सा प्रचरम्टी समागता । शूकरं तं समालोक्य दूरतः समुपाचरत् ॥ ३८.८२०{५७} ॥ ततः सोपस्थिता तस्य शूकरस्य पुराकृतम् । यथादिष्टं महादिव्या तथा सर्वमुपादिशत् ॥ ३८.८२१{५८} ॥ तच्छ्रुत्वा शूकरः सोऽपि समनुस्मृतिमाप्तवान् । तत्रानुतापसंतप्तः क्षणं तस्थौ विचिंतयन् ॥ ३८.८२२{५९} ॥ ततः स मनसा ध्यात्वा तां श्रीदेवीं वसुंधराम् । संस्मृत्वा सांजलिर्नत्वा दिदेश सर्वपातकम् ॥ ३८.८२३{६०} ॥ ततो निर्मुक्तपापोऽसौ परिशुद्धाशयः सुधीः । श्रीदेवीशरणं गत्वा देहं त्यक्त्वा दिवं ययौ ॥ ३८.८२४{६१} ॥ ततश्च चूडदेवी सा प्रचरंती समागता । दुरात्ते सरसी दृष्ट्वा सहसा समुपासरत् ॥ ३८.८२५{६२} ॥ तत्र सा समुपासृत्य पुष्करिण्योस्तयोः पुरः । महादेव्या यथादिष्टं तथा सर्वमुपादिशत् ॥ ३८.८२६{६३} ॥ तच्छ्रुत्वा पुष्करिण्यौ तौ समनुस्मृतिमाप्तुः । तत्रानुतापतप्ता तौ निधाय तष्ठतुः क्षणम् ॥ ३८.८२७{६४} ॥ ततस्ते मनसा ध्यात्वा तं श्रीदेवीवसुंधराम् । संस्मृत्वा सांजलिर्नत्वा दिदेशतुः स्वपापकम् ॥ ३८.८२८{६५} ॥ ततो विमुक्तपापौ तौ परिशुद्धाशयो द्रुतम् । पुष्करिण्याश्रयं त्यक्त्वा प्रययतुः सुरालयम् ॥ ३८.८२९{६६} ॥ तत्र सर्वेऽपि ते स्वर्गे गतास्तत्स्मृतिभाविनः । ध्यात्वा तां श्रीमहादेवीं स्मृत्वा नित्यं प्रभेजिरे ॥ ३८.८३०{६७} ॥ तत्र तेषां महादेव्याः प्रसादाच्छ्री प्रवर्द्धिताः । तच्छ्रीसंपन्महत्सौख्यं भुक्त्वा सर्वे तेऽरमन् ॥ ३८.८३१{६८} ॥ ततः सा चूडदेवी तान् सर्वान् कृत्वा विमुक्तितान् । स्वदेश्याभिमुखायाता स्व पुरांतिकमाययौ ॥ ३८.८३२{६९} ॥ तत्र तां समुपायातां दृष्ट्वा लोकाः प्रमोदिताः । सहसा नृपतेरग्रे गत्वैवं संन्यवेदयत् ॥ ३८.८३३{७०} ॥ जय देव महाराज चूडदेवी निवर्त्तिता । तद्भवान् सहसोपेत्य तां समानेतुमर्हति ॥ ३८.८३४{७१} ॥ इति निवेदितं तैः स राजा श्रुत्वा प्रमोदितः । सहसा मंत्रिणोऽमात्यान् समामंत्र्यैवमादिशत् ॥ ३८.८३५{७२} ॥ चूडदेवी समायाता तद्यूयं सहसादरात् । प्रत्युद्गम्य महोत्साहैरिहानयत तां प्रियाम् ॥ ३८.८३६{७३} ॥ इति राज्ञा समादिष्टं श्रुत्वा ते मंत्रिणो जनाः । अमात्याः सहसा सर्वे तथेत्युक्त्वा मुदाचरन् ॥ ३८.८३७{७४} ॥ ततस्ते मंत्रिणोऽमात्याः सजनाः पौरिका अपि । सर्वे प्रत्युद्गता तत्र चूडदेवी समाययुः ॥ ३८.८३८{७५} ॥ तत्र सर्वेऽपि ते लोका दृष्ट्वा तां सहसादरात् । प्रणत्वा यात आरोप्य महोत्साहैः पुरेऽनयत् ॥ ३८.८३९{७६} ॥ तत्र सा महिषी देवी महोत्साहप्रमोदिता । (र्म् ४७३) प्रविश्य मंदिरे राज्ञः स्वामिनः समुपाचरत् ॥ ३८.८४०{७७} ॥ तत्र सा स्वामिनं दृष्ट्वा सहसोपेत्य सांजलिः । प्रणत्वा स्वामिना तेन सहासने समाश्रयत् ॥ ३८.८४१{७८} ॥ तत्र स नृपतिः स्वामि तां देवीं सुप्रियां मुदा । संपश्यन् कौशलं पृष्ट्वा पुन एवमपृछत ॥ ३८.८४२{७९} ॥ केन त्वं हेतुना कुत्र गता कुतोऽधुनागता । एतत्सर्वं समाख्याय मनो मे परिबोधय ॥ ३८.८४३{८०} ॥ इत्येतत्स्वामिना तेनादिष्टं चूडदेवी निशम्य सा । स्वप्रवृत्तांतमाख्याय मार्गवृत्तिं न्यवेदयत् ॥ ३८.८४४{८१} ॥ ततोऽहं सहसा याता द्रष्टुं देवीं वसुंधराम् । तत्र दूरान्नदीशब्दं श्रुत्वाहं समुपाचरम् ॥ ३८.८४५{८२} ॥ तत्र तीरे मया दृष्टा देव्या जलघटावहाः । भवंत्यः कुत आयाता इति पृष्टेऽवदं च ताः ॥ ३८.८४६{८३} ॥ वसुधारामहादेव्याः स्नानार्थमिमे घटाः । नीयंतेऽमृतसंपूर्णा अस्माभिरिति मन्यताम् ॥ ३८.८४७{८४} ॥ एषा नदी महादेवीस्नानामृतप्रवाहिता । तदेतदमृते नात्र मुखं प्रक्षाल्य दृश्यताम् ॥ ३८.८४८{८५} ॥ इति ताभिः समादिष्टं श्रुत्वा तथेति बोधिता । तन्नद्या अमृतेनास्यं प्रक्षाल्य क्षमहं तथा ॥ ३८.८४९{८६} ॥ तदा तत्र सभासीनां सगणां श्रिवसुंधराम् । अपश्यं तां नदीमाशु लंघित्वा समुपाचरम् ॥ ३८.८५०{८७} ॥ तत्राहं समुपाश्रित्य तान् देवीं श्रीवसुंधराम् । सगणां सांजलिर्नत्वा तत्रैकांते उपाश्रयम् ॥ ३८.८५१{८८} ॥ तदा सा श्रीमहादेवी मां दृष्ट्वैवमपृछत । कुतः किमर्थमायासि तदिह कथ्यतामिति ॥ ३८.८५२{८९} ॥ तच्छ्रुत्वा सांजलिर्नत्वा कृत्वा चापि प्रदक्षिणाम् । सगणां तां महादेवीमुपाश्रित्यैवमब्रुवम् ॥ ३८.८५३{९०} ॥ सूर्योदयनरेन्द्रस्य भार्याहं महिषी प्रिया । भवत्या दर्शनं कर्त्तुं मुदात्र समुपाचरे ॥ ३८.८५४{९१} ॥ यन्मया मंदभाविन्या व्रतं सम्यग्न धारितम् । तन्महदपराधं मे भवता क्षंतुमर्हति ॥ ३८.८५५{९२} ॥ सर्वदाहं महादेवी भवत्याः शरणे स्थिता । सम्यग्व्रतं पुनर्धर्त्तुमिछामि सांप्रतं खलु ॥ ३८.८५६{९३} ॥ तद्भवंती महादेवी कृत्वा मेऽनुग्रहं पुनः । कृपया तद्व्रतालंभं कारयितुं समर्हति ॥ ३८.८५७{९४} ॥ इति मयार्थितं श्रुत्वा सा श्रीदेवी वसुंधरा । कृपादृष्ट्या समालोक्य मामेवं समुपादिशत् ॥ ३८.८५८{९५} ॥ साधु वत्सेऽस्ति ते वांचा यदि मे व्रतधारणे । गत्वा त्वं स्वगृहे भर्त्रा सह व्रतं चरादरात् ॥ ३८.८५९{९६} ॥ तदाहं स्वयमागत्य द्रक्ष्यामि मंदिरं तव । तत्राहं समुपाश्रित्य दास्यामि प्रार्थितं वरम् ॥ ३८.८६०{९७} ॥ इत्यादिष्टं महादेव्या श्रुत्वाहं परिबोधिता । तां श्रीवसुंधरां देवीमपृछं पुनरादरात् ॥ ३८.८६१{९८} ॥ (र्म् ४७४) देवि मार्गस्थितैर्लोकैः संदर्शितं मयोच्यते । तद्भवंती समाख्याय मां बोधयितुमर्हति ॥ ३८.८६२{९९} ॥ तच्छ्रुत्वा सा महादेवी तैः सर्वैः प्रकृतं यथा । तत्तत्सर्वं तथा तेषां कर्म मे समुपादिशत् ॥ ३८.८६३{१००} ॥ ततोऽहं श्रद्धया भक्तिमात्रेण तं वसुंधराम् । श्रीदेवीं सगणां चापि समार्चयं समादरात् ॥ ३८.८६४{१} ॥ ततः प्रदक्षिणां कृत्वा कृतांजलिपुटो मुदा । अष्टांगैः श्रीमहादेव्याः पादाब्जे प्रणतापतम् ॥ ३८.८६५{२} ॥ ततः सा सगणा देवी क्षणादंतर्हिताभवत् । तत उत्थाय तां देवीं नैवापश्यत्कुहापि च ॥ ३८.८६६{३} ॥ ततोऽहं विस्मयाक्रांतहृदया तत्र कृतांजलिः । स्मृत्वा सगणां देवीं नत्वा शनैस्ततोऽचरम् ॥ ३८.८६७{४} ॥ तत्र मार्गे समासाद्य सर्वान्स्तान् पापिनः क्रमात् । महादेव्या यदादिष्टं तथाख्याय व्यनोदयम् ॥ ३८.८६८{५} ॥ ततस्ते पापिनः सर्वे वचसा मेऽनुतापिताः । श्रीदेवीशरणं कृत्वा देहं त्यक्त्वाचरन् दिवम् ॥ ३८.८६९{६} ॥ एतान् सत्वान् समुद्धृत्य श्रीदेव्याः संप्रसादतः । क्षेमेणेह समायाता भवतां दर्शनं लभे ॥ ३८.८७०{७} ॥ इत्येवं सर्ववृत्तांतं चूडादेव्या निवेदितम् । श्रुत्वा स नृपतिः स्वामी विस्मितश्चैवमब्रवीत् ॥ ३८.८७१{८} ॥ अहो भाग्येन संप्राप्ता श्रीदेव्या संप्रसादतः । भार्या त्वं महिषी चापि व्रतं श्रीसंपदोऽपि मे ॥ ३८.८७२{९} ॥ तथा भूयोऽप्यहं देव्या यथादिष्टं समादरात् । सह त्वया महिष्यात्र चराणि सर्वदा व्रतम् ॥ ३८.८७३{१०} ॥ किमेतद्राज्यभोग्येन विना त्वां महिषीं मम । एतदेव हि संसारं यत्सभार्या व्रतं चरेत् ॥ ३८.८७४{११} ॥ तदावां सर्वदापीह श्रीदेव्याः शरणं गतौ । श्रद्धया व्रतमाराध्य प्रभजेव समादरात् ॥ ३८.८७५{१२} ॥ इत्येवं समुपादिश्य नृपतिः संप्रमोदितः । ताभ्यां युतो महोत्साहैः श्रीनगरं समाययौ ॥ ३८.८७६{१३} ॥ तया देव्या सुभाविन्या सहाभ्यानंदितोऽरमत् । दिनैकस्मिंश्चूडदेवी ततो गर्भन् दधौ क्रमात् ॥ ३८.८७७{१४} ॥ प्रासूत सप्तमे मासि राजलक्षणमंडितम् । प्रासादिकं सुपीनांगं पुत्रं ब्राह्मे मुहुर्त्तके ॥ ३८.८७८{१५} ॥ ततः पिता समाहूय सर्वानमात्यमंत्रिणः । श्रीसेनगुप्तमाचार्यं पप्रछ जन्मकारणम् ॥ ३८.८७९{१६} ॥ सेनगुप्तो विचार्यैवं बोधयन्नृपमब्रवीत् ॥ ३८.८८०{१७} ॥ मा विषीदात्र राजेन्द्र युतो यद्राजलक्षणैः । योगोऽयं सार्वभौमः स्यात्सप्तमासफलं शृणु ॥ ३८.८८१{१८} ॥ प्रथमे कललं विद्याद्द्वितीये घनमेव च । तृतीयमास्यं क्रूरं च चतुर्थेऽस्थिसमुच्चयः ॥ ३८.८८२{१९} ॥ पंचमे चर्मसंछन्नः षष्ठेऽंगजसमुद्भवः । सप्तमे चेतनावाप्तिरिति गर्भस्थलक्षणम् ॥ ३८.८८३{२०} ॥ (र्म् ४७५) यो बालः सप्तमे मासि जायते स तु भाग्यभाक् । सार्वभौम नृपो भूत्वा महीं शास्ति सुनीतितः ॥ ३८.८८४{२१} ॥ तस्मान्नृपेंद्र तं बालं रक्षणीयः प्रयत्नतः । इत्याचार्यवचः श्रुत्वा स राजा परिमोदितः । जातकर्मादिकं कर्म महोत्सवैरकारयत् ॥ ३८.८८५{२२} ॥ तदाचार्यः सेनगुप्तो व्रतमंगलकारकम् । इति मत्वा नाम चक्रे मंगलोदय इत्यपि ॥ ३८.८८६{२३} ॥ ततो बालः शुक्लपक्षे चंद्र इव दिने दिने । पुपोष वृद्धिं सहसा तेजोबलसमन्वितः ॥ ३८.८८७{२४} ॥ ततो राजकुले राजा भार्यापुत्रसमन्वितः । वसुंधराव्रतोत्साही मुदितः समुपस्थितः ॥ ३८.८८८{२५} ॥ ततो व्रतदिनप्राप्ते भार्यया सह संमतम् । कृत्वा स भूपती राजा व्रतं चरितुमैछत ॥ ३८.८८९{२६} ॥ ततस्तद्व्रतसामग्रीं साधयित्वा यथाविधि । आचार्येण यथादिष्टं तथा सर्वं समाचरत् ॥ ३८.८९०{२७} ॥ श्रीदेव्या व्रतमाराध्य समहिषी स भूपतिः । यथाविधि सुसंपूर्ण प्रचचार समादरात् ॥ ३८.८९१{२८} ॥ तस्मिन्नवसरे तत्र सा श्रीदेवी वसुंधरा । सगणा स्वयमागत्य भासयंती समाश्रयत् ॥ ३८.८९२{२९} ॥ तां श्रीवसुंधरां देवीं सगणां समुपाश्रिताम् । साक्षादालोक्य राजा स सभार्यः समुपस्थितः ॥ ३८.८९३{३०} ॥ पादार्घं सहसा दत्वा पूजांगैश्च समर्चयत् । कृत्वा प्रदक्षिणां नत्वा सांजलिर्न्यपतत्पुरः ॥ ३८.८९४{३१} ॥ ततः सा श्रीमहादेवी वसुलक्ष्मी विलोक्य तम् । सभार्यं नृपमुत्थाय समालोक्यैवमादिशत् ॥ ३८.८९५{३२} ॥ शृणु राजन्महाभाग यथा ते यत्समीप्सितम् । सर्वं तेऽहं प्रवक्ष्यामि सत्यमेतद्वचो मम ॥ ३८.८९६{३३} ॥ इत्यादिष्टे महालक्ष्म्या सभार्यः स नृपो मुदा । तां देवीं सांजलिर्नत्वा प्रार्थयदेवमादरात् ॥ ३८.८९७{३४} ॥ नमस्ते श्रीमहादेवी प्रसीद परमेश्वश्री । यथा ते ईहितं कार्यं तदेव देहि मे वरम् ॥ ३८.८९८{३५} ॥ एतत्संप्रार्थितं राज्ञा श्रुत्वा सा श्रीमहेश्वरी । सभार्यं तं महीपालं समालोक्यैवमादिशत् ॥ ३८.८९९{३६} ॥ साधु राजन् स्वयं धृत्वा व्रतं सर्वत्र चारय । कृत्वैतन्मे महत्कार्यं ततः प्रैहि ममालयम् ॥ ३८.९००{३७} ॥ इत्यादिश्य ततः सा श्रीमहादेवी वसुंधरा । सगणा तत्क्षणादंतर्हिता स्वं भुवनं ययौ ॥ ३८.९०१{३८} ॥ ततः स सप्रियो राजा तां देवीं सगणामपि । सर्वामन्तर्हितां दृष्ट्वा क्षणं तस्थौ सविस्मयः ॥ ३८.९०२{३९} ॥ ततस्तथा स भूमीन्द्रो भार्यया सह सर्वदा । श्रीदेव्याः शरणं गत्वा व्रतं धृत्वा समाचरत् ॥ ३८.९०३{४०} ॥ तथा सर्वत्र लोकेषु श्रीदेव्या व्रतमादिशत् । बोधयित्वा प्रयत्नेन प्राचारयत्समंततः ॥ ३८.९०४{४१} ॥ तथा स नृपतिर्देव्या व्रतं सर्वत्र चारयन् । (र्म् ४७६) सर्वेषामपि सत्वानां मंगलं सर्वदाकरोत् ॥ ३८.९०५{४२} ॥ एतत्पुण्यविपाकेन स राजा श्रीसमन्वितः । दिव्यातिरिक्तसौख्यानि लब्ध्वा सदा शुभेऽचरत् ॥ ३८.९०६{४३} ॥ ततः स नृपती राजा सर्वार्थिभ्यो यथेप्सितम् । संबोधिप्रणिधानेन दत्वा व्रतं सदाचरत् ॥ ३८.९०७{४४} ॥ तथा स भूपती राजा भार्यया सह मोदितः । श्रीदेव्याः प्रदधे भक्त्या व्रतं साष्टोत्तरं शतम् ॥ ३८.९०८{४५} ॥ ततः स भार्यया सार्द्धमभिषिंच्यात्मजं सुतम् । स्वपदे लोकधर्मार्थं कृत्वान्ते तुषिते ययौ ॥ ३८.९०९{४६} ॥ ततः स सप्रियस्तत्र श्रीदेव्याः समुपस्थितः । सर्वदा भजनं कृत्वा श्रीमान्स्तस्थौ शुभे चरन् ॥ ३८.९१०{४७} ॥ तत्र स सर्वदा सत्वहितं कृत्वा सुखान्वितः । सर्वाः पारमिताः पूर्य संबुद्धपदमाप्स्यति ॥ ३८.९११{४८} ॥ तदारभ्य सदा सर्वलोकेषु सततं शुभम् । त्रिरत्नभजनोत्साहं प्रवर्त्तते कृताविव ॥ ३८.९१२{४९} ॥ तदा भुवि तथा देव्या स्वयं व्रतं प्रचारितम् । इत्येतन्मुनिभिः सर्वैः ख्यातमिति श्रुतं मया ॥ ३८.९१३{५०} ॥ एतन्मे गुरुणाख्यातं श्रुतं मय तथोच्यते । त्वं चाप्येवं महाराज श्रीदेव्याश्चर तद्व्रतम् ॥ ३८.९१४{५१} ॥ तथा ते सर्वदा क्षेमं सर्वत्रापि भवेद्ध्रुवम् । श्रीदस्येव महासंपदक्षीणा संभवेत्खलु ॥ ३८.९१५{५२} ॥ ततस्त्वं श्रीसमाधारा दत्वार्थिभ्यो यथेप्सितम् । त्रिरत्नभजनं कृत्वा संबुद्धपदमाप्नुयाः ॥ ३८.९१६{५३} ॥ एवं मत्वा महाराज प्रजाश्चापि प्रबोधयन् । श्रीदेव्याः शरणे स्थाप्य सदा व्रतं प्रचारय ॥ ३८.९१७{५४} ॥ तथा सत्वहितं कर्तुं संबोधिरत्नलब्धये । श्रीदेव्या धारणीविद्या प्रधातव्या सदादरात् ॥ ३८.९१८{५५} ॥ एतत्पुण्यानुभावेन सर्वत्र सर्वदा भवे । भवेतं मंगलोत्साहं सततं निरुपद्रवम् ॥ ३८.९१९{५६} ॥ अतीतैरपि संबुद्धैः सर्वैरपि मुनीश्वरम् । श्रीदेव्या धारणीविद्यारत्नैर्लोकहितं कृतम् ॥ ३८.९२०{५७} ॥ तथाधुनापि सर्वैश्च वर्त्तमानैर्मुनीश्वरम् । त्रिदेव्या धारणीविद्यारत्नैः सत्वशुभं कृतम् ॥ ३८.९२१{५८} ॥ तथा चानागतैः सर्वै मुनीन्द्रैरपि सर्वतः । श्रीदेव्या धारणीविद्यारत्नैः करिष्यते शिवम् ॥ ३८.९२२{५९} ॥ सर्वेऽपि सुगता नाथा बोधिसत्वाः कृपालवः । श्रीदेवीसंप्रसादेन चरन्तो भद्रचारिकाम् ॥ ३८.९२३{६०} ॥ आर्य्यसद्धर्ममादिश्य प्रकुर्वते जगद्धितम् । एवं जगद्धितं कर्त्तुं संबोधिरत्नमीप्सुभिः । श्रीदेव्या धारणीं धृत्वा चरितव्यं जगद्धिते ॥ ३८.९२४{६१} ॥ ये चापि श्रीमहादेव्या धारणीं श्रद्धयादरात् । भक्त्या पठंति शृण्वंति पाठयन्त्यपि सर्वदा ॥ ३८.९२५{६२} ॥ लिखित्वा पुस्तके वापि गृहे स्थाप्य सदादरात् । (र्म् ४७७) सत्कृत्य श्रद्धयाभ्यर्च्य धृत्वांजलिं नमंति ये ॥ ३८.९२६{६३} ॥ तथा भुर्जे लिखित्वा च वाहौ कण्ठे च मस्तके । श्रीदेव्या धारणीविद्यारत्नं दधति ये सदा ॥ ३८.९२७{६४} ॥ एतेषामपि सर्वेषां गृहेषु विषयेष्वपि । सर्वत्र मंगलं नित्यं निर्विघ्नं सर्वदा भवेत् ॥ ३८.९२८{६५} ॥ ईतय उपसर्गाश्च महोत्पाता उपद्रवाः । न तेषां विषये क्वापि प्रचरेयुः कदा चन ॥ ३८.९२९{६६} ॥ ज्वराश्च विविधा रोगाः सर्वसंहारकारकाः । तेसां कायेषु सर्वत्र न स्पृशेयुः कदा चन ॥ ३८.९३०{६७} ॥ अपथ्यमपि पथ्यं स्याद्विषोऽपि चामृतं भवेत् । तेषां देहेषु सर्वत्र हितायतेऽहितोऽपि च ॥ ३८.९३१{६८} ॥ ब्रह्मशक्रादयो देवा ये दुष्टा वह्नयोऽपि च । यमस्य किंकराश्चापि राक्षसा गरुडा अपि ॥ ३८.९३२{६९} ॥ नागाश्च वायवश्चापि यक्षगंधर्वकिंनराः । भूतप्रेतपिशाचाश्च कुम्भाण्डाः कटपूतनाः ॥ ३८.९३३{७०} ॥ एवमन्येऽपि ये दुष्टाः सर्वसत्वभयंकराः । सर्वे ते विषये तेषां विघ्नं कर्त्तुं न शक्नुयुः ॥ ३८.९३४{७१} ॥ सर्वे देवादयोऽप्येते त्रिधातुभुवनस्थिताः । तेषां देवीप्रभावेन रक्षेयुश्च प्रसादिताः ॥ ३८.९३५{७२} ॥ तेषां कार्याणि सर्वाणि संसिद्ध्येयुरविघ्नतः । तेषां सर्वत्र कायेषु किंचिद्विघ्नं भवेन्न हि ॥ ३८.९३६{७३} ॥ सर्वत्र गछतां तेषां सलाभसिद्धिमंगलम् । भवेदेव सदा नैव विघ्नता स्यात्कदा चन ॥ ३८.९३७{७४} ॥ श्रीदेवीकृपादृष्टिप्रभावेन समंततः । सर्वार्थसाधने सिद्धिर्भवेन्न तु विघातता ॥ ३८.९३८{७५} ॥ सर्वेऽपि लोकपालाश्च देवादयो महर्द्धिकाः । यतयो योगिनः सिद्धा ऋषयो ब्रह्मचारिणः ॥ ३८.९३९{७६} ॥ ग्रहास्तारागणाः सर्वा योगिन्यो भैरवा अपि । डाकिन्यो मातृकाष्टाश्च महाकालगणा अपि ॥ ३८.९४०{७७} ॥ एवमन्येऽपि वीरेशाः सर्वदुष्टप्रमर्दकाः । सृष्टिसंस्थितिसंहारकारका भीमरूपिणः ॥ ३८.९४१{७८} ॥ तेऽपि सर्वे समालोक्य श्रीदेवीसेवकान्मुदा । कृपार्द्दाः समुपाश्रित्य रक्षेयुः सर्वदानुगाः ॥ ३८.९४२{७९} ॥ सर्वेऽपि भिक्षवो बुद्धा अर्हन्तो ब्रह्मचारिणः । श्रीदेवी भाविनो दृष्ट्वा संरक्षेयुः प्रसादिताः ॥ ३८.९४३{८०} ॥ सर्वे प्रत्येकबुद्धाश्च ताञ्छ्रीदेव्या उपाश्रिकान् । दूरतः सुदृशालोक्य संरक्षेयुः प्रसादिताः ॥ ३८.९४४{८१} ॥ बोधिसत्वाश्च सर्वेऽपि तांच्छ्रीदेव्या उपासकान् । यथेप्सितं वरं दत्वा पालयेयुः कृपान्विताः ॥ ३८.९४५{८२} ॥ सर्वेऽपि सुगता बुद्धाः श्रीदेव्याः शरणे स्थितान् । सुदृशा सर्वदालोक्य स भवेयुर्दयान्विताः ॥ ३८.९४६{८३} ॥ एवं सर्वेऽपि लोकेशा ब्रह्मा विष्णुशिवादयः । श्रीदेवीधारणीविद्याधरां रक्षेयुरादरात् ॥ ३८.९४७{८४} ॥ एवं सर्वैर्महाभिज्ञैर्मुनीन्द्रैर्गदितं खलु । (र्म् ४७८) इति मे गुरुणादिष्टं श्रुतं मया तथोच्यते ॥ ३८.९४८{८५} ॥ श्रुत्वा राजंस्त्वमप्येवं तच्छ्रीदेवीव्रतं चर । ततस्ते श्रीमहादेवीव्रतपुण्यानुभावतः ॥ ३८.९४९{८६} ॥ महासंपत्प्रवृद्धा स्यादक्षीणा सर्वदा स्थिरा ॥ ३८.९५०{८७} ॥ ततस्त्वं तद्द्रव्यमादाय सर्वार्थिभ्यो यथेप्सितम् । दत्वा चरच्छुभे सौख्यं भुंक्ष्व संपालयन् प्रजाः ॥ ३८.९५१{८८} ॥ एतत्पुण्यविपाकेन दुर्गतीं न व्रजेः क्वचित् । सर्वदा सद्गतीं याता धर्मे चरन् सुखं वसेः ॥ ३८.९५२{८९} ॥ इति मत्वा महाराज श्रीदेव्याः शरणं गतः । सद्धर्मं स्वयमाकर्ण्य लोकाश्च श्रावय प्रभो ॥ ३८.९५३{९०} ॥ सर्वेषामपि संसारे धर्म एव सुहृत्सखा । तस्मादत्र प्रयत्नेन धर्म एव समर्ज्याम् । धर्मं तु सर्वधर्माणां प्रश्रेष्ठं सौगतं वरम् ॥ ३८.९५४{९१} ॥ यतः सर्वत्र लोकेषु संसारे भद्रता सदा । तस्मात्सर्वत्र संसारे सदा भद्रं समीप्सुभिः । सत्कृत्य सौगतं धर्मं श्रोतव्यं श्रद्धयादरात् ॥ ३८.९५५{९२} ॥ येऽप्यत्र सौगतं धर्मं शृण्वंति श्रद्धयादरात् । दुर्गतीं ते न गछंति संयांति सद्गतीं सदा ॥ ३८.९५६{९३} ॥ ये चापि सौगतं धर्मं श्रावयंति परानपि । तेऽपि न दुर्गतीं यांति यांति सद्गतिमेव हि ॥ ३८.९५७{९४} ॥ यश्चापि सौगतं धर्मं प्रभाषति प्रबेधयन् । सोऽपि न दुर्गतिं याति संप्रयायात्सुखावतीम् ॥ ३८.९५८{९५} ॥ यस्यापि स्यात्कलौ पंचकषायक्लेशसंकुले । दुर्लभं सौगतं धर्मं वक्ता श्रोता च दुर्लभः ॥ ३८.९५९{९६} ॥ तदा तान् क्लेशिताल्लोकान् दृष्ट्वा घृणादयाहतः । स्वकायजीवितस्नेहं त्यक्त्वा यो धर्ममादिशेत् ॥ ३८.९६०{९७} ॥ स एव हि महाभिज्ञो धीरः सुधीर्विचक्षणः । सर्वक्लेशविजेता च मारजित्स्याज्जिनात्मजः ॥ ३८.९६१{९८} ॥ यश्चापि च तदा क्लेशसंघसमाकुले तथा । त्यक्तः स्वप्राणकायो यः सद्धर्मं शृणुयान्मुदा ॥ ३८.९६२{९९} ॥ सापि धीरो महावीरः सर्वक्लेशाभिमर्दकः । संबोधिमार्गसंप्राप्तो ज्ञातव्यो हि जिनप्रियः ॥ ३८.९६३{१००} ॥ यश्चाप्येव कलौ काले सद्धर्मान्तर्हिते तथा । निस्नेहस्वासुकायो यः सद्धर्मं श्रावयेत्परान् ॥ ३८.९६४{१} ॥ सऽपि स्यात्सुगतपुत्रो महाधीरो विशारदः । सर्वसर्वहिताकांक्षी बोधिसत्वः सुधीः कृती ॥ ३८.९६५{२} ॥ यश्चापि परतः श्रुत्वा सद्धर्मं सौगतोदितम् । अनुमोदेत्प्रसन्नात्मा सोऽपि स्यात्सुगतात्मजः ॥ ३८.९६६{३} ॥ सर्वतीर्थाभिषेके यत्पुण्यं तत्सर्वमाप्नुयुः । सर्वत्र सज्जना नूनं कर्त्तव्यं नात्र संशयम् ॥ ३८.९६७{४} ॥ यावंतः प्राणिनः सत्वास्तान् सर्वान् यो हि पालयेत् । तस्य यावन्महत्पुण्यं तत्सर्वं ते समाप्नुयुः ॥ ३८.९६८{५} ॥ (र्म् ४७९) यावंतो भिक्षवोऽर्हन्तस्तान् सर्वान् यः समर्चयेत् । तस्य पुण्यफलं यावत्तत्सर्वं ते ह्यवापुयुः ॥ ३८.९६९{६} ॥ यावत्प्रत्येकबुद्धाश्च तान् सर्वान् यो भजेन्मुदा । यावत्पुण्यफलं तस्य लभेयुस्ते ततोऽर्थिकम् ॥ ३८.९७०{७} ॥ यावंतः सुगताश्चापि तान् सर्वान् यः सदा भजेत् । यावत्पुण्यं महत्तस्य लभेयुस्ते ततोऽधिकम् ॥ ३८.९७१{८} ॥ यावंतो भूतले गवस्तान् सर्वाञ्छ्रद्धया ददेत् । तस्य यावन्महत्पुण्यं प्राप्नुयुस्ते ततोऽधिकम् ॥ ३८.९७२{९} ॥ मेरुप्रमाणसौवर्णरत्नराशिं च यो ददेत् । तस्य पुण्यमसंख्येयं प्रयायुस्ते ततोऽधिकम् ॥ ३८.९७३{१०} ॥ साब्धिशैलं महीं सर्वां श्रद्धया यः समर्प्पयेत् । तस्य बहुतरं पुण्यं सम्यायुस्ते ततोऽधिकम् ॥ ३८.९७४{११} ॥ सौषधीद्रव्यभोग्यादीन् प्रदद्याच्छ्रद्धयापि च । तस्य पुण्यमसंख्येयं लभेयुस्ते ततोऽधिकम् ॥ ३८.९७५{१२} ॥ यस्य कल्पसहस्राणि तृणाम्बुप्राशनस्तयेत् । यावंतस्य महत्पुण्यं लभेयुस्ते ततोऽधिकम् ॥ ३८.९७६{१३} ॥ यज्ञकोटिसहस्राणि कुर्याद्यः श्रद्धया मुदा । तावत्तस्य महत्पुण्यं प्राप्नुयुस्ते ततोऽधिकम् ॥ ३८.९७७{१४} ॥ एवं यावंति पुण्यानि दानव्रतोद्भवान्यपि । संति ततोऽधिकं पुण्यं ते सर्वे समवाप्नुयुः ॥ ३८.९७८{१५} ॥ इति सत्यं समाख्यातं सर्वैरपि मुनीश्वरैः । एतन्मे गुरुणादिष्टं श्रुतं मया च वक्ष्यते ॥ ३८.९७९{१६} ॥ एतत्सत्यं परिज्ञाय यदि संबोधिमिछसि । सदा सद्धर्ममाकर्ण्य त्रिरत्नभजनं कुरु ॥ ३८.९८०{१७} ॥ प्रजाश्चापि महाराज बोधयित्वा प्रयत्नतः । बोधिमार्गे प्रतिष्ठाप्य पालयस्व समाहितः ॥ ३८.९८१{१८} ॥ ततस्ते मंगलं नित्यं सर्वत्रापि भवेद्ध्रुवम् । क्रमाद्बोधिं समासाद्य संबुद्धपदमाप्नुयाः ॥ ३८.९८२{१९} ॥ एतत्तेनार्हतादिष्टं श्रुत्वाशोकः स भूपतिः । तथेत्यभ्यनुमोदित्वा प्राभ्यनंदत्सपार्षदः ॥ ३८.९८३{२०} ॥ ततः स उपगुप्तोऽर्हन् विहारे समुपाश्रयेत् । सोऽशोकोऽपि महाराजस्तथा धर्मं सदाचरत् ॥ ३८.९८४{२१} ॥ एतदेवं समाख्याय जयश्री स जिनात्मजः । सर्वासां शिष्यसंघांश्च समामंत्र्यैवमादिशत् ॥ ३८.९८५{२२} ॥ सुभाषितमहारत्नमालामिमां प्रभाषति । यो यत्र मेव शृण्वंति श्रावयंत्यपि ये मुदा ॥ ३८.९८६{२३} ॥ श्रुत्वानुमोदंति ये च दृष्ट्वा नमंति ये मुदा । सत्कृत्य श्रद्धया नित्यं समभ्यर्च्य भजंति ये ॥ ३८.९८७{२४} ॥ एतेषां तत्र सर्वेषां भवंतु मंगलं सदा । जयश्री परिवृद्धास्तु सर्वत्र सर्वदापि च ॥ ३८.९८८{२५} ॥ ईतय उपसर्गाश्च सर्वे विघ्नगणा अपि । दुष्टा मारगणांश्चापि विलयं यांतु सर्वदा ॥ ३८.९८९{२६} ॥ गृहेषु सर्वदा तेषं लक्ष्मीस्तिष्ठतु सुस्थिराः । (र्म् ४८०) धर्मार्थकामभोग्याश्च संसिद्ध्यंतु स मेधिताः ॥ ३८.९९०{२७} ॥ नीरोगा सुचिरायुष्का भवंतु ते सुखान्विताः । विरतपापकर्माणः प्रचरंतु शुभे सदा । त्रिरत्नभजनं कृत्वा भवंतु ब्रह्मचारिणः ॥ ३८.९९१{२८} ॥ सर्वसत्वहितैः कृत्वा भुक्त्वा भद्रसुखं सदा । क्रमात्पारमिताः पूर्य व्रजंतु सौगतं पदम् ॥ ३८.९९२{२९} ॥ एतत्पुण्यानुभावेन तत्र सर्वत्र सर्वदा । भवंतु मंगलं नित्यं सुभिक्षं निरुपद्रवम् ॥ ३८.९९३{३०} ॥ सर्वे सत्वाश्च सद्धर्मं साधयंतु समुद्यताः । त्रिरत्नभजनोत्साहैः सर्वे व्रजंतु सौगतिम् ॥ ३८.९९४{३१} ॥ काले वर्षंतु मेघाश्च भूयाच्छस्यवती मही । बहुक्षीरप्रदा गावो भवंतु वत्सलान्विताः ॥ ३८.९९५{३२} ॥ सर्वदा सुफलैः पुष्पं वृक्षाः संतु समन्विताः । राजा भवंतु धार्मिष्ठो नयस्थाः संतु मंत्रिणः ॥ ३८.९९६{३३} ॥ सर्वे सैन्याश्च योधारो जयंतु दूर्जनान्नरीन् । सर्वेतयः प्रशाम्यंतु संतु सौख्यान्विताः प्रजाः ॥ ३८.९९७{३४} ॥ नीरुजाः सुखसंपन्नाः श्रीसंपत्तिसमन्विताः । ब्रह्मादि लोकपालाश्च दशदिक्पा महर्द्धिकाः । विघ्नाञ्जित्वा शुभं कृत्वा पालयंतु प्रजाः सदा ॥ ३८.९९८{३५} ॥ सर्वे त्रैधातुलोकाश्च कृत्वा मैत्रीं परस्परम् । त्रिरत्नभजनं कृत्वा चरंतु बोधिचारिकाम् ॥ ३८.९९९{३६} ॥ सर्वे भद्राणि पश्यंतु मा कश्चित्पापमाचरत् । सर्वत्र शासनं बौद्धं धृत्वा यांतु जिनालयम् ॥ ३८.१०००{३७} ॥ एवं जयश्रीर्मुनिराजकल्पः संबोधिचर्याप्रविकाशहेतोः । सर्वान् स्वशिष्यान् परिबोधयन् सः समादिदेश श्र्यवदानमालाम् । श्रुत्वापि ते सर्व उदारचित्ताः श्रुत्वा सलोका अभिनंद्यमानाः । सद्धर्ममाश्रित्य सदा त्रिरत्नं भक्त्या भजंत व्यहरन् प्रमादा ॥ ३८.१००१{३८} ॥ यत्रेदं सूत्रराजेंद्रं प्रावर्त्तयेत्कलावपि भाषेद्यः शृणुयाद्यश्च श्रावयेद्यश्च चारयेत् । एतेषां तत्र सर्वेषां संबुद्धाः सकला सदा कृपादृष्ट्या समालोक्य कुर्वंतु भद्रमाभवं सर्वाः पारमिता देव्यस्तेसां तत्र सदा शिवम् । कुर्वन्त्यो बोधिसंभारं पूरयंतु जगद्धिते । अनेन सद्धर्मरसामृतेन सर्वज्ञभास्वद्वदनोद्भवेन । क्लेशानलप्रह्वरिरातुरासु प्रजासु दुःखं प्रशमोऽस्तु नित्यम् ॥ ३८.१००२{३९} ॥ ++ इति सुभाषितरत्नावदानतत्वे वसुधारा व्रतकथा समाप्ता ++ श्रेयोऽस्तु सम्वत्१०२८ माघमासे कृष्णपक्षे द्वितीयायां तिथौ पूर्वफाल्गुणीनक्षत्रे सुद्धयोगे बुधवासरे कुंभराशिगते सवितरि सिंहराशिगते चंद्रमसि एतद्दिने संपूर्णमिदैः पुस्तकं (र्म् ४८१) मानदेवसंस्कारितचक्रमहाविहारे निवासितः वज्राचार्य्यश्रीधर्म्मराजेन लिखितमिदं पुस्तकमेतत्पुण्येन धर्म्मार्थकाममोक्षान् प्राप्तिमस्तु श्वपुस्तकसुनानं लोभयायमदु ॥