इ स्(इ)द्धम्* निष्क्रान्ता अनुपसंपन्नाः समग्रः संघः संनिपतितः किं संघस्य करणीयमनागतानामायुष्मन्तश्छन्दं परिशुद्धिं चारोचयत आरोचिते च प्रवेदयतः निर्गतमायुष्मन्तो ग्रीष्मादेकरात्रोनो मासः सैकरात्रास्त्रयो मासा अवशिष्टाः । ___________________________________________________________ इइ आक्रमते जरामरणं प्रलुज्यति शास्तुः शासनम् विलुप्यते जीवितेन्द्रियम् । निर्गच्छति सद्धर्मः सीदति प्रतिप्...इर्जायते शैथिल्यम् । विवृयन्ते अपायद्वारा । पिथीयन्ते अमृतद्वारा च्छिद्यते धर्मसेतुर्भिद्यते धर्मपोतः संसीदति धर्मप्लवो । निशाम्यते धर्मोल्का । उत्पाट्यते धर्मवृक्षः प्रपतति धर्मध्वजः उच्छ्रप्यते मारध्वजः शुष्यते धर्मसमुद्रो विकीर्यते ज्ञानसुमेरुरस्तंगच्छंति वादिशार्दूला + + कर्णाधाराः सत्पथोपदेशकाः अचिराद्धि मनुष्याणां मृगसंज्ञा [भ्]. .इ + + + ति तस्मात्सर्वैरायुष्मद्भिरुद्विग्नैः संवेगमापन्नैः तस्यानुत्तरदशबलधरधर्मराजचक्रवर्तिनः पौराणसुचरितकर्मविपाकनिर्जातस्य मृषावादपैशुन्यपारुष्याबद्धप्रलापविवर्जितस्य सत्यानुवर्तिवच[न] + + + मासाववादानुशासनं श्रोतव्यम् अप्रमादेनायुष्मद्भिर्योगः करणीयः अप्रमादाधिगता हि तथागतानामर्हतां सम्यक्संबुद्धानां बोधिर्ये चाप्यन्ये कुशला धर्मा बोधपक्ष्याः ॥ ___________________________________________________________ इइइ इइइ.१: शासयतीति हि शास्त्रं प्रोक्तं सम्यक्च शासयत्येषः मोक्षाय प्रातिमोक्षस्तस्माच्छास्त्रं प्रवरमेतत्(१) । इइइ.२: कार्याकार्यमवाच्यं वाच्यं यच्चैव भिक्षुणा युक्तम् तदिह निखिलेन मुनिना प्रकाशितं प्रातिमोक्षेऽस्मिं २ । इइइ.३: दुश्चरिताद्वारयति त्रिविधात्त्रिविधे शुभे नियोजयति । बृंहयति कुशलपक्षं क्षपयति दोषां गुणसपत्नां ३ । इइइ.४: मिथ्याजीवमनार्यं विनाशयति दुर्गतिप्रणेतारम् स्वर्गापवर्गमार्गं विशोधयति चानुपूर्वेण ४ । इइइ.५: यावत्स्थास्यत्येषः प्रकाशितस्तेन लोकनाथेन । तावत्स्थास्यति धर्मो लोकेऽस्मिं शाक्यसिंहस्य ५ । इइइ.६: तस्मादात्महितार्थं स्थित्यर्थं शासनस्य चैव चिरम् । शृणुत मुहूर्तमवहिता वक्ष्यामि प्रातिमोक्षमहम् ६ । ॥ ___________________________________________________________ इव् शृणोतु भदन्तः संघः अद्य संघस्य पोषथः पांचदशिकः सचेत्संघस्य प्राप्तकालः क्षमते आज्ञा च संघस्य यत्समग्रः संघोऽद्य पोषथं कुर्यात्प्रातिमोक्षसूत्रमुद्दिशेदेषा ज्ञप्तिः पोषथं वयमायुष्मंतः करिष्यामः प्रातिमोक्षसूत्रमुद्देक्ष्यामस्तत्सर्वे संतः शृणुत साधु च सुष्ठु च मनसिकुरुत यस्य वः स्यात्सत्यापत्तिः साविष्कर्तव्या असत्यामापत्तौ तूष्णीं भवितव्यं तूष्णींभावेन वयमायुष्मन्तः परिशुद्धा इति वेदयिष्यामो यथा च प्रत्येकपृष्टस्य भिक्षोर्व्याकरणं भवत्येवमेवैवंरूपायां भिक्षुपरिषदि यावत्त्रिरप्यनुश्रावणा भवति । यः पुनर्भिक्षुरेवंरूपायां भिक्षुपरिषदि यावत्त्रिरप्यनुश्राव्यमाणे स्मरं सतीमापत्तिं नाविष्करोति संप्रजानमृषावादोऽस्य भवति संप्रजानमृषावादस्त्वायुष्मन्त अन्तरायिको धर्म इत्युक्तं भगवता तस्मादापन्नेन भिक्षुणा विशुद्धिप्रेक्षिणा स्मरता सती आपत्तिराविष्कर्तव्या । आविष्कृत्वास्य फाषं भवति नानाविष्कृत्वा ॥ ___________________________________________________________ व् उद्दिष्टं मयायुष्मन्तः प्रातिमोक्षसूत्रोद्देशस्य निदानम् । तत्राहमायुष्मतः पृच्छामि कच्चित्स्थात्र परिशुद्धा द्विरपि त्रिरपि पृच्छामि कच्चित्स्थात्र परिशुद्धा(ः) परिशुद्धा अत्रायुष्मन्तो यस्मात्तूष्णीमेवमेवाहं धारयामि ॥ ___________________________________________________________ इ. पाराजिका धर्माः ०: इमे पुनरायुष्मन्तश्चत्वारः पाराजिका धर्मा अन्वर्धमासं प्रातिमोक्षसूत्रोद्देशमागच्छन्ति । १: यः पुनर्भिक्षुर्भिक्षुभिः सार्धं शिक्षासामीचिसमापन्नः शिक्षामप्रत्याख्या(य शि)क्षादौर्बल्यं वानाविष्कृत्वा मैथुनं धर्मं प्रतिषेवेत अन्ततस्तीर्यग्योनिगतयापि सार्धमयं भिक्षुः पाराजिको भवत्यसंवास्यः १ २: यः पुनर्भिक्षुरदत्तं स्तेयसंख्यातमादद्याद्यथारूपेणादत्तादानेन राजा ह्येनं गृहीत्वा हन्याद्वा बध्नीयाद्वा प्रवासयेद्वा एवं चैनं वदेच्चोरोऽसि बालोऽसि मूढोऽसि स्तेयोऽसीत्येवंरूपं भिक्षुरदत्तमाददानः पाराजिको भवत्यसंवास्यः २ ३: यः पुनर्भिक्षुर्मनुष्यं स्वहस्तेन संचिन्त्य जीविताद्व्यपरोपयेच्छस्त्रं वैनमाधारयेच्छस्त्राधारकं वास्य पर्येषयेदेवं वैनं वदेद्धम्भोः पुरुष किं तवानेन पापकेन दुर्जीवितेन मृतं ते जीविताद्वरमिति चित्तानुमतं चित्तसंकल्पितमनेकपर्यायेण मरणाय समादापयेन्मरणवर्णं वास्यानुसंवर्णयेत्स च तेनोपक्रमेण कालं कुर्यादयमपि भिक्षुः पाराजिको भवत्यसंवास्यः ३ ४: यः पुनर्भिक्षुरनभिजान(न्)नपरिजानन्नुत्तरिमनुष्यधर्ममलमार्यविशेषाधिगमं ज्ञानं वा दर्शनं वा प्रतिजानीयाज्जानामीति पश्यामीति सोऽपरेण समयेन समनुयुज्यमानो वा असमनुयुज्यमानो वा एवं वदेदजानमानोऽहमवोचं जानामीत्यपश्यन्नवोचं पश्यामीति तुच्छं मृषा विलपितमन्यत्राभिमानादयमपि भिक्षुः पाराजिको भवत्यसंवास्यः ४ ॥ उद्दिष्टा मयायुष्मन्तश्चत्वारः पाराजिका धर्मा येषां भिक्षुरन्यतमान्यतमं धर्ममापन्नो न लभते भिक्षुभिः सार्धं संवासं वा संभोगं वा यथा पूर्वं तथा पश्चात्पाराजिको भवत्यसंवास्यः तत्राहमायुष्मतः पृच्छामि कच्चित्स्थात्र परिशुद्धा द्विरपि त्रिरपि पृच्छामि कच्चित्स्थात्र प(रिशुद्धाः परिशुद्धा अ)त्रायुष्मन्तो यस्मा(त्) तूष्णीमेवमेवाहं धारयामि ॥ ___________________________________________________________ इइ. संघावशेषा धर्माः प्र्मोसू_स.०: इमे पुनरायुष्मन्तस्त्रयोदश संघावशेषा धर्मा अन्वर्धमासं प्रातिमोक्षसूत्रोद्देशमागच्छन्ति । प्र्मोसू_स.१: संचिन्त्य शुक्रविसर्गोऽन्यत्र स्वप्नान्तरात्संघावशेषः १ प्र्मोसू_स.२: यः पुनर्भिक्षुरुदीर्णविपरिणतेन चित्तेन मातृग्रामेण सार्धं कायसंसर्गं समापद्येत हस्तग्रहणं वा वेणीग्रहणं वा अन्यतमान्यतमस्य वाङ्गजातस्यामर्शनं परामर्शनं वा संघावशेषः २ प्र्मोसू_स.३: यः पुनर्भिक्षुरुदीर्णविपरिणतेन चित्तेन मातृग्रामं दुष्ठुलया वाचा आभाषेत पापिकया असभ्यया मैथुनोपसंहितया यथापि तद्युवा युवतीमिति संघावशेषः ३ प्र्मोसू_स.४: यः पुनर्भिक्षुरुदीर्णविपरिणतेन चित्तेन मातृग्रामस्यान्तिके आत्मनः कायपरिचर्याया वर्णं भाषेत एषाग्र्य्(आ) भगिनि परिचर्याणां य(न्) मादृशं भिक्षुं शीलवन्तं कल्याणधर्माणं ब्रह्मचारिणमने(न) धर्मेण परिचरेद्यदुत मैथुनोपसंहितेन संघावशेषः ४ प्र्मोसू_स.५: यः पुनर्भिक्षुः संचारित्रं समापद्येत स्त्रिया वा पुरुषमतेन पुरुषस्य वा स्त्रीमतेन जायात्वेन वा जारित्वेन वा अन्ततस्तत्क्षणमपि संघावशेषः ५ प्र्मोसू_स.६: स्वयाचितां भिक्षुणा कुटिं कारयता अस्वामिकामात्मोद्देशिकां प्रामाणिका कुटिः कारयितव्या तत्रेदं कुटिप्रमाणं दीर्घतो द्वादश वितस्तयः सुगतवितस्त्या तीर्यक्सप्तान्तरतस् तेन भिक्षुणा भिक्षवोऽभिनेतव्या वास्तु देशयितुमभिनीतैर्भिक्षुभिर्वास्तु देशयितव्यमनारम्भं सपराक्रमं सारम्भे चेद्भिक्षुर्वास्तुन्यपराक्रमे स्वयाचितां कुटिं कारयमाण अस्वामिकामात्मोद्देशिकां भिक्ष्(ऊ)न्नाभिनयेद्वास्तु देशयितुं प्रमाणं वातिक्रमेत्संघावशेषः ६ प्र्मोसू_स.७: म्(अ)हल्लकं भिक्षुणा विहारं कारयता सस्वामिकमात्मोद्देशिकं तेन भिक्षुणा भिक्षवोऽभिनेत(व्या वा)स्तु देशयितुमभिनीतैर्भिक्षुभिर्वास्तु देशयितव्यमनारंभ(ं) सपराक्रमं सार(ं)भे चेद्भि(क्षुर्वास्तु)न्यपराक्रमे महल्लकं विहारं कारयमाणः सस्वामिकमात्मोद्देशिकं भिक्ष्(ऊ)न्नाभिनयेद्वास्तुदेशनायै संघावशेषः ७ प्र्मोसू_स.८: यः पुनर्भिक्षुर्दुष्टो दोषादप्रतीतः शुद्धं भिक्षुमन्(आप)न्न(म्) अमूलकेन पाराजिकेन धर्मेणानुध्वंसयेदप्येवैनं ब्रह्मचर्याच्च्यावयेयमिति तस्य साधु च सुष्ठु च समनुयुज्यमानस्य समनुगाह्यमानस्य अमूलं चैव तदधिकरणं भवेद्भिक्षुश्चानुध्वंसयिता दोषे प्रतितिष्ठेद्दोषेण्(आवोचमिति) संघावशेष्(अः) ८ प्र्मोसू_स.९: यः पुनर्भिक्षुर्दुष्टो दोषादप्रतीतः अन्यथाभागीयस्याधिकरणस्य कंचिदेव लेशमात्रं धर्ममुपादाय अपाराजिकं भिक्षुं पाराजिकेन धर्मेणानुध्वंसयेदप्येवैनं ब्रह्मचर्याच्च्यावयेयमिति तस्य साधु च सुष्ठु च समनुयुज्यमानस्य समनुगाह्यमानस्य अन्यथाभागि तदधिकरणं भवेदन्यथाभागीनश्चाधिकरणात्कश्चिदेव लेशमात्रो धर्म उपादत्तो भवेद्भिक्षुश्चानुध्वंसयिता दोषे प्रतितिष्ठेद्दोषेणावोचमिति संघवशेष(ः) ९ प्र्मोसू_स.१०: यः पुनर्भिक्षुः समग्रस्य संघस्य भेदाय पराक्रमेद्भेदसंवर्तनीयं वाधिकरणं समादाय विगृह्य तिष्ठेत्स भिक्षुर्भिक्षुभिरेवं स्याद्वचनीयो मा त्वमायुष्मं समग्रस्य संघस्य भेदाय पराक्रम मा भेदसंवर्तनीयमधिकरणं समादाय विगृह्य स्थ्(आ)ः समेत्वायुष्मं सार्धं संघेन समग्रो हि संघः सहितः संमोदमान अविवदमान एकाग्र एकोद्देश एकक्षीरोदकीभूतः सुखं फाषं विहरति निःसृज त्वमायुष्मं संघभेदकरं वस्तु । एवं चेत्स भिक्षुर्भिक्षुभिरुच्यमानस्तदेव वस्तु समादाय विगृह्य तिष्ठेन्न प्रतिनिःसृजेत्स भिक्षुर्भिक्षुभिर्यावत्त्रिरपि समनुशासितव्यस्तस्य वस्तुनः प्रतिनिःसर्गाय स यावत्त्रिरपि समनुशिष्यमाणस्तद्वस्तु प्रतिनिःसृजेदित्येवं कुशलं नो चेत्प्रतिनिःसृजेत्संघावशेषः १० प्र्मोसू_स.११: तस्य चेद्भिक्षोर्भिक्षवः स्युरनुवर्तिनो व्यग्रवादिन एको वा द्वौ वा संबहुला वा ते तां भिक्षूनेवं वदेयुर्मा यूयमायुष्मंत इत्थंनामानं भिक्षुमत्र वस्तुनिः किंचिद्वदन्तु तत्कस्माद्धेतोर्धर्मवादी चैष भिक्षुर्विनयवादी च अस्माकं चैष च्छन्दं च रुचिं चादायानुव्याहरति । जानं चैष भिक्षुर्भाषते नाजानं यच्चास्य भिक्षो रोचते च क्षमते च अस्माकमपि तद्रोचते च क्षमते च । ते भिक्षवो भिक्षुभिरेवं स्युर्वचनीयाः नैष भिक्षुर्धर्मवादी न विनयवादी अधर्मं चैषोऽविनयं चादाय विगृह्यानुव्याहरति (निः)सृज(ं)त्वायुष्मन्तः संघभेदानुवर्तितां व्यग्रवादितां समग्रो हि संघः सहितः संमोदमान अविवदमान एकाग्र एकोद्देश एकक्षीरोदकीभूतः सुखं फाषं विहरति एवं चेत्ते भिक्षवो भिक्षुभिरुच्(य्)अमानास्तदेव वस्तु समादाय विगृह्य तिष्ठेयुर्न प्रतिनिःसृजेयुस्ते भिक्षवो भिक्षुभिर्यावत्त्(रि)रपि समनुशासितव्यास्तस्य वस्तुनः प्रतिनिःसर्गाय ते या(वत्त्र्)इरपि समनुशिष्यमाणास्तद्वस्तु प्रतिनिःसृजेयुरित्येवं कुशलं (नो चेत्प्र)त्(इ)निःसृजेयुः संघावशेषः ११ प्र्मोसू_स.१२: भिक्षुः पुनरन्यतमं ग्रामं वा निगमं वोपनिःश्(रि)त्य विहरेत्स च स्यात्कुलदूषकः पा(प)समाचारः तस्य कुलानि दुष्टानि दृश्येरन् वा श्रूयेरन् वा प्रज्ञायेरन् वा पापकाश्च तस्य समाचारा दृश्येर(न्) वा श्रूयेर(न्) वा प्रज्ञायेरन् वा कुलदूषकश्च स्यात्पापसमाचा(रः) स भिक्षुर्भिक्षुभिरेवं स्याद्वचनीयः आयुष्मां कुलदूषकः पा(पसमा)चारस्तस्य ते कुलानि दुष्टानि दृश्यन्तेऽपि श्रूयन्तेऽपि प्रज्ञायन्तेऽपि पापक्(आ)श्च ते सम्(आचारा द्)ऋ(श्)य्(अ)न्तेऽपि श्रूयन्तेऽपि प्रज्ञायन्तेऽपि कुलदूषकश्चायुष्मां पापसमाचारः प्रक्रमत्वा(यु)ष्मा(ं) अस्मादावासादलं तवेहोषितेन एवं चेत्स भिक्षुर्भिक्षुभिरुच्यमानस्तान् भिक्षूनेवं वदेच्छन्दगामिन आयुष्मन्तो भिक्षवो द्वेषगामिनो भयगामिनो मो(ह)गामिनो यत्र हि नाम तादृशीमेवापत्तिमापन्नानेकत्यां भिक्षूं प्रवासयन्त्येकत्यां भिक्षून्न प्रवासयन्ति स भिक्षुर्भिक्षुभिरेवं स्याद्वचनीयः नेमे भिक्षवश्छन्दगामिन्(ओ न) द्(व्)एषगामिनो न भयगामिनो न मोहगामिन अपि त्वायुष्मानेव कुलदूषकः पापसमाचारः तस्य ते कुलानि दुष्टानि दृश्यन्तेऽपि श्रूयन्तेऽपि प्रज्ञाय(न्)त्(ए)ऽप्(इ) प्(आ)पकाश्च ते समाचारा दृश्यन्तेऽपि श्रूयन्तेऽपि प्रज्ञायन्तेऽपि कुलदूषकश्चायुष्मान् पापसमाचारः निःसृजत्वायुष्मांश्छन्दगामि वचनं द्वेषगामि भयगामि मोहगामि वचनं एवं चेत्स भिक्षुर्भिक्षुभिरुच्यमानस्तदेव वस्तु समादाय विगृह्य तिष्ठेन्न प्रतिनिःसृजेत्स भिक्षुर्भिक्षुभिर्यावत्त्रिरपि समनुशासितव्यस्तस्य वस्तुनः प्रतिनिःसर्गाय स यावत्त्रिरपि समनुशिष्यमाणस्तद्वस्तु प्रतिनिःसृजेदित्येवं कुशलं नो चेत्प्रतिनिःसृजेत्संघावशेषः १२ प्र्मोसू_स.१३: भिक्षुः पुनरिहैकत्यो दुर्वचजातीयः स्यात्स उद्देशपर्यापन्नैः शिक्षापदैर्भिक्षुभिः सह धर्मेण सह विनयेनोच्यमान आत्मानमवचनीयं कुर्यान्मा मामायुष्मन्तः कि(ं)चिद्वदन्तु कल्याणं वा पापकं वा अहमप्यायुष्मतो न किंचिद्वक्ष्यामि कल्याणं वा पापकं वा विरम(न्)त्वायुष्मन्तो मद्वचनादलं वो म्. + + क्तेन स भिक्षुर्भिक्षुभिरेवं स्याद्वचनीयो मा त्वमायुष्मन्नुद्देशपर्यापन्नैः शिक्षापदैर्भिक्षुभिः सह धर्मेण सह विनयेनोच्यमान आत्मानमवचनीयं कार्षीर्वचनीयमेवायुष्मानात्मानं करोतु आयुष्म(न्)तमपि भिक्षवो वक्ष्यन्ति सह धर्मेण सह विनयेन आयुष्मानपि भिक्षूं वदतु सह धर्मेण सह विनयेन एवं संवृद्धा तस्य भगवतः परिषद्यदुतान्योन्यवचनीयादन्योन्याववादादन्योन्यानुशासनादन्योन्यापत्तिव्युत्थापनान्निःसृजत्वायुष्म्(आ)नात्म(न) अवचनीयकर्मान्ततां एवं चेत्स भिक्षुर्भिक्षुभिरुच्यमानस्(त)देव वस्तु समादाय विगृह्य तिष्ठेन्न प्रतिनिःसृजेत्स भिक्षुर्भिक्षुभिर्यावत्त्रिर्(अपि) समनुशासितव्यस्तस्य वस्तुनः प्रतिनिःसर्गाय स यावत्त्रिरपि समनुशिष्यमाणस्तद्वस्तु प्रतिनिःसृजेदित्येवं कुशलं नो चेत्प्रतिनिःसृजेत्संघावशेषः १३ ॥ उद्दिष्टा मयायुष्मन्तस्त्रयोदश संघावशेषा धर्मा नव प्रथमापत्तयश्चत्वारो यावत्तृतीयका येषां भिक्षुरन्यतमान्यतमं धर्ममापन्नो यावत्कालं जानं प्रतिच्छादयति तावत्कालमकामं परिवस्तव्यं भवति । पर्युषितपरिवासितेन भिक्षुणा उत्तरं संघे षड्रात्रं मानाप्यं चर्तव्यं भवति चीर्णमानाप्यो भिक्षुर्(आ)बृहणात्प्रतिबद्धः कृतानुधर्मो यत्र स्याद्विंशतिगणो भिक्षुसंघस्तत्र स भिक्षुराबृहितव्य एकेनाप्यूनो विंशतिगणो भिक्षुसंघस्तं भिक्षुमाबृह्यात्स च भिक्षुरनाबृहितस्ते च भिक्षवो गर्ह्या इयं तत्र सामीचिः तत्राहमायुष्मतः पृच्छामि कच्चित्स्थात्र परिशुद्धा द्विरपि त्रिरपि पृच्छामि कच्चित्स्थात्र परिशुद्धाः परिशुद्धा अत्रायुष्मन्तो यस्मात्तूष्णीमेवमेतद्धारयामि ॥ ॥ ___________________________________________________________ इइइ. अनियतौ धर्मौ प्र्मोसू_अनिय्.०: इमौ पुनरायुष्मन्तो द्वावनियतौ धर्मावन्वर्धमासं प्रातिमोक्षसूत्रोद्देशमागच्छतः ॥ प्र्मोसू_अनिय्.१: यः पुनर्भिक्षुर्मातृग्रामेण सार्धमेकैकेन रहसि प्रतिच्छन्ने आसने निषद्यां कल्पयेदलं गम(न्)ईयेन तं च श्राद्धेयवचनोपासिका त्रयाणां धर्माणामन्यतमान्यतमेन धर्मेण वदेत्पाराजिकेन वा संघावशेषेण वा पातयन्तिकेन वा निषद्यां भिक्षुः प्रतिजानमानस्त्रयाणां धर्माणामन्यतमान्यतमेन धर्मेण कारयितव्यः पाराजिकेन वा संघावशेषेण वा पातयन्तिकेन वा येन येन धर्मेण वा श्राद्धेयवचनोपासिका तं भिक्षुं वदेत्तेन तेन स भिक्षुः क्(आ)रयितव्यः अयं धर्मोऽनियतः १ प्र्मोसू_अनिय्.२: न च रहसि प्रतिच्छन्ने आसने निषद्यां कल्पयेन्नाल(ं) गमनीयेन अपि तु तं म्(आ)तृग्रामं दुष्ठुलया वाचा आभाषेत पापिकया असभ्यया मैथुनोपसंहितया तं च श्राद्धेयवचनोपासिका द्वयोर्धर्मयोरन्यतमान्यतमेन धर्मेण वदेत्संघावशेषेण वा पातयन्तिकेन वा निषद्यां भिक्षुः प्रतिजानमानो द्वयोर्धर्मयोरन्यतमान्यतमेन धर्मेण कारयितव्यः संघावशेषेण वा पा(त्)अयन्तिकेन वा येन येन धर्मेण वा श्राद्धेयवचनोपासिका तं भिक्षुं वदेत्तेन तेन स भिक्षुः कारयितव्यः अयमपि धर्मोऽनियतः २ । उद्दिष्टौ मयायुष्म(न्)तो द्वावनियतौ धर्मौ तत्राहमायुष्मतः पृच्छामि कच्चित्स्थात्र परिशुद्धा द्विरपि त्रिरपि पृच्छामि कच्चित्स्थात्र परिशुद्धाः परिशुद्धा अत्रायुष्मन्तो (यस्मा)त्तूष्णीमेवमेतद्धारयामि (॥ ॥) ___________________________________________________________ इव्. निःसर्गिकाः पातयन्तिका धर्माः प्र्मोसू_न्प्.०: इमे पुन(रा)युष्मन्तस्त्रिंशन्निःसर्गिकाः पातयन्तिका धर्मा अन्वर्धमासं प्रातिमोक्षसूत्रोद्देशमागच्छन्ति ॥ प्र्मोसू_न्प्.१: निष्ठितचीवरेण भिक्षुणा उद्धृते कठिने दशाहपरममतिरिक्तं चीवरं धारयितव्यं तत उत्तरं धारयेन्निःसर्गिका पातयन्तिका १ प्र्मोसू_न्प्.२: निष्ठितचीवरो भिक्षुरुद्धृते कठिने एकरात्रमपि त्रयाणां चीवराणामन्यतमान्यतमस्माच्चीवराद्विप्रवसेदन्यत्र संघसंमत्या निःसर्गिका पातयन्तिका २ प्र्मोसू_न्प्.३: निष्ठितचीवरस्य भिक्षोरुद्धृते कठिने उत्पद्येताकालचीवरमाक्(आ)ंक्षमाणेन तेन भिक्षुणा प्रतिगृहीतव्यं प्रतिगृह्य सचेत्परिपूर्येत क्षिप्रमेव कृ(त्वा) धारयितव्यं नो चेत्परिपूर्येत मासपरमं तेन भिक्षुणा तच्चीवरमुपनिक्षि(प्तव्यं) सत्या(ं) चीवरप्रत्याशायामूनस्य वा परिपूर्यार्थं तत उत्तरमुपनिक्षिपेन्निःसर्गिका पातय(न्)तिका ३ प्र्मोसू_न्प्.४: यः पुनर्भिक्षुरज्ञात्या भिक्षुण्या पुराणचीवरं धावयेद्वा रञ्जयेद्वा आकोटयेद्वा निःसर्गिका पातयन्तिक्(आ) ४ प्र्मोसू_न्प्.५: यः पुनर्भिक्षुरज्ञात्या भिक्षुण्याः सन्तिकाच्चीवरं प्रतिगृह्णीयादन्यत्र परिवर्तकेन निःसर्गिका पातयन्तिका ५ प्र्मोसू_न्प्.६: यः पुनर्भिक्षुरज्ञातिं गृहपतिं गृहपतिपत्नीं वा चीवरं विज्ञापयेदन्यत्र समयादभिनिष्पन्ने चीवरे निःसर्गिका पातयन्तिका ६ तत्रा(य)ं समय आच्छिन्नचीवरो भिक्षुः स्यान्नष्टचीवरो (व्)आ दग्धचीवरो (व्)आ ऊढचीवर्(ओ वा अयं) तत्र समयः प्र्मोसू_न्प्.७: आच्छिन्नचीवरेण भिक्षुणा नष्टचीवरेण वा दग्धचीवरेण वा ऊढचीवरेण वा अज्ञाति(ं ग्)ऋ(हप)तिं गृहपतिपत्नीं वा चीवरं विज्ञा... (तं चेद्भि)क्षु(ं) श्रा(द्)ध्(ओ) गृहपतिर्गृहपतिपत्नी वा संबहुलैश्चीवरै(ः) प्रवारयेदाकांक्षमाणेन तेन भिक्षुणा सान्तरोत्तरप(र)म(ं) ततश्चीवरं प्रतिगृहीतव्यं तत उत्तरं प्रति(गृह्णीयान्न्)इःसर्गिका पातयन्तिका ७ प्र्मोसू_न्प्.८: भिक्षुं पुनरुद्दिश्य अज्ञातिना गृहपतिना गृहपतिपत्न्या वा चीवरचेतनकान्युपस्कृतानि स्युरेभिरहं चीवरचेतनकैरेवंरूप(म्) ए(वं)रूपं चीवरं चेतयित्वा एवंनामानं भिक्षुमाच्छादयिष्यामीति तत्र चेत्स भिक्षुः पूर्व(म)प्रवारितः समानः उपसंक्रम्य अज्ञातिं गृहपतिं गृहपतिपत्नीं वा कंचिदेव व्(इ)क्(अ)ल्प्(अमा)पद्यन्नेवं वदेद्यानि तान्यायुष्मता मामुद्दिश्य चीवरचेतनकान्युपस्कृतान्येभि(श्च्)ईवरचेतनकैरेवंरूपमेव(ंर्)ऊ(पं चीवरं) चेतयित्वा (ए)व(ं)नामानं भिक्षुमाच्छादयिष्यामीति साध्वायुष्मंस्तैश्चीवर(चेत)नकैरेवंरूपमेवंरूपं चीवरं चेतयित्वा चीवरेण मा(मा)च्छादयेति कल्याणकामतामुपादाय अभिनिष्पन्ने चीवरे निःसर्गिका पातयन्तिका ८ प्र्मोसू_न्प्.९: भिक्षुं पुनरुद्दिश्य द्वाभ्यामज्ञातिभ्यां गृहपतिभ्यां गृहपति पत्नीभ्यां वा प्रत्येकचीवरचेतनकान्युपस्कृतानि स्युरेभिरावां चीवरचेतनकैरेवंरूपमेवंरूपं प्रत्येकचीवरं चेतयित्वा एवंनामानं भिक्षुमाच्छादयिष्यावः प्रत्येकचीवराभ्यामिति । तत्र चेत्स भिक्षुः पूर्वमप्रवारितः समान उपसंक्रम्य तौ द्वावज्ञाती गृहपती गृहपतिपत्न्यौ वा कंचिदेव विकल्पमापद्यन्नेवं वदेद्यानि तान्यायुष्मद्भ्यां मामुद्दिश्य चीवरचेतनकान्युपस्कृतान्येभिरावां चीवरचेतनकैरेवं(रूपमे)वंरूपं प्रत्येकचीवरं चेतयित्वा एवंनामानं भिक्षुमाच्छादयिष्यावः साध्वायुष्मन्तौ तैश्चीवरचेतनकैरेवंरूपमेवंरूप(ं) प्रत्येकचीवरं चेतयित्व्(आ)च्छादयत(ं) मां चीवरेण उभौ भूत्वैकेनेति कल्याणकामतामुपादायाभिनिष्पन्ने चीवरे निःसर्गिक्(आ पातयन्तिका) ९ प्र्मोसू_न्प्.१०: भिक्षुं पुनरुद्दिश्य राज्ञा वा राजमहामात्रेण वा ब्राह्मणेन वा गृहपतिना वा दूतस्य हस्ते चीवरचेतनकानि प्रेषितानि स्युः स दूतस्तं भिक्षुमुपसंक्रम्यैवं वदेदिमानि ते आयुष्म्(अ)ं राज्ञा वा राज(मह्)आ(म्)आ(त्र्)एण वा ब्राह्म्(अ)ण्(ए)न (वा) गृहपति(ना वा ची)वरचेतनकानि प्रेषितानि प्रतिगृह्णात्वायुष्मां चीवरचेतनकान्यनुकम्पामुपादाय । स भिक्षुस्तं दूतमेवं वदेन्नायुष्मन् दूत कल्पन्ते भिक्षूणां चीवरचेतनकानि प्रतिगृहीतुं चीवरं तु वयं लब्ध्वा कालेन कल्पिकं स्वहस्तं प्रतिगृह्य क्षिप्रमेव कृत्वा धारयामः स दूतस्तं भिक्षुमेवं वदेदस्त्यायुष्मतां कश्चिद्वैय्यापत्यकरो यो भिक्षूणां वैय्यापत्यं करोति । चीवरार्थिकेन भिक्षुणा वैय्यापत्यकरो व्यपदेष्टव्य आरामिको वा उपासको वा एष भिक्षूणां वैय्यापत्यं करोति । स दूतस्तं वैय्यापत्यकरमुपसंक्रम्यैवं वदेदिमान्यायुष्मं वैय्यापत्यकर चीवरचेतनकानि राज्ञा वा राजमहामात्रेण वा ब्राह्मणेन वा गृहपतिना वा एवंनामानं भिक्षुमुद्दिश्य प्रेषितानि साध्वायुष्मं वैय्यापत्यकर त्वमेभिश्चीवरचेतनकैरेवंरूपमेवंरूपं चीवरं चेतयित्वा । स भिक्षुस्त्वामुपसंक्रमिष्यति कालेन तं त्वमाच्छादय चीवरेण कल्पिकेनेति । एवं स दूतस्तं वैय्यापत्यकरं साधु च सुष्ठु च समनुशिष्य तं भिक्षुमुपसंक्रम्यैवं वदेद्यो सावायुष्मता वैय्यापत्यकरो व्यपदिष्टः समनुशिष्टः स मया । तं त्वमुपसंक्रम कालेन आच्छादयिष्यति त्वां चीवरेण कल्पिकेनेति । चीवरार्थिकेन भिक्षुणा वैय्यापत्यकरमुपसंक्रम्य द्विस्त्रिश्चोदयितव्यः स्मारयितव्यः अर्थो मे वैय्यापत्यकर चीवरेण द्विस्त्रिश्चोदयतः स्मारयतः सचेदभिनिष्पद्येत चीवरमित्येवं कुशलं नो चेदभिनिष्पद्येत चतुष्पञ्चषट्कृत्वापरमं तूष्णीमुद्देशे स्थातव्यं तूष्णीमुद्देशे स्थितस्य सचेदभिनिष्पद्येत चीवरमित्येवं कुशलं नो चेदभिनिष्पद्येत तत उत्तरं व्यायमेत चीवरस्याभिनिष्पत्तये अभिनिष्पन्ने चीवरे निःसर्गिका पातयन्तिका । नो चेदभिनिष्पद्येत तेन भिक्षुणा यतस्तानि चीवरचेतनकान्यानीतानि तत्र स्वयं वा गन्तव्यं दूतो वा प्रेषितव्यो यानि तान्यायुष्मता मामुद्दिश्य चीवरचेतनकानि प्रेषितानि न तान्यस्माकं कंचिदर्थं प्रकुर्वन्ति प्रजानात्वायुष्मा(ं) स्वमर्थं मा ते प्रणश्येदियं तत्र सामीचिः १० ॥ प्र्मोसू_न्प्.११: यः पुनर्भिक्षुर्नवं कौशेयं संस्तरं कारयेन्निःसर्गिका पातयन्तिका ११ प्र्मोसू_न्प्.१२: यः पुनर्भिक्षुः शुद्धकाडानामेडकलोम्नां नवं संस्तरं कारयेन्निःसर्गिका पातयन्तिका १२ प्र्मोसू_न्प्.१३: नवं पुनर्भिक्षुणा संस्तरं कारयता द्वौ भागौ शुद्धकाडानामेडकलोम्नामादातव्यौ तृतीयोऽवदातानां चतुर्थो गोचरिकानामनादाय चेद्भिक्षुर्द्वौ भागौ शुद्धकाडानामेडकलोम्नां तृतीयमवदातानां चतुर्थं गोचरिकानां नवं संस्तरं कारयेत्कल्याणकामतामुपादाय निःसर्गिका पातयन्तिका १३ प्र्मोसू_न्प्.१४: नवं पुनर्भिक्षुणा संस्तरं कारयित्वा अकामं षड्वर्षाणि धारयितव्यमर्वाक्चेद्भिक्षुः षड्भ्यो वर्षेभ्यः पुराणसंस्तरं निःसृज्य वा अनिःसृज्य वा अन्यं नवं संस्तरं कारयेदन्यत्र संघसंमत्या कल्याणकामतामुपादाय निःसर्गिका पातयन्तिका १४ प्र्मोसू_न्प्.१५: नवं भिक्षुणा निषीदनसंस्तरं कारयता पुराणनिषीदनसंस्तरसामन्तकात्सुगतवितस्तिरादातव्या नवस्य दुर्वर्णीकरणाय अनादाय चेद्भिक्षुः पुराणनिषीदनसंस्तरसामन्तकात्सुगतवितस्तिं नवस्य दुर्वर्णीकरणाय नवं निषीदनसंस्तरं कारयेत्कल्याणकामतामुपादाय निःसर्गिका पातयन्तिका १५ प्र्मोसू_न्प्.१६: भिक्षोश्चेदध्वानमार्गप्रतिपन्नस्योत्पद्येरन्नेडकलोमानि आकाङ्क्षता तेन भिक्षुणा प्रतिगृहीतव्यानि प्रतिगृह्य यावत्त्रियोजनपरमं स्वयं हर्तव्यान्यसति हर्तरि तत उत्तरं हरेन्निःसर्गिका पातयन्तिका १६ प्र्मोसू_न्प्.१७: यः पुनर्भिक्षुरज्ञात्या भिक्षुण्या एडकलोमानि धावयेद्वा रञ्जयेद्वा विजटयेद्वा निःसर्गिका पातयन्तिका १७ प्र्मोसू_न्प्.१८: यः पुनर्भिक्षुः स्वहस्तं रूप्यमु(द्)गृह्णीयाद्वा उद्ग्राहयेद्वा निःसर्गिका (पातयन्तिका) १८ प्र्मोसू_न्प्.१९: यः पुनर्भिक्षुर्नानाप्रकारं रूप्यव्यवहारं समापद्येत निःसर्गिका पातयन्तिका १९ प्र्मोसू_न्प्.२० : यः पुनर्भिक्षुर्नानाप्रकारं क्रयविक्रयं समापद्येत निःसर्गि(का पातयन्तिका) २० ॥ प्र्मोसू_न्प्.२१: दशाहपरमं भिक्षुणा अतिरिक्तं पात्रं धारयितव्यं तत उत्तरं धारयेन्निः(स)र्(गिका पातयन्तिका) २१ प्र्मोसू_न्प्.२२: यः पुनर्भिक्षुः सति पारिभोगीये पात्रे ऊनपञ्चबन्धने अन्यं नवं पात्रं विज्ञापयेत्कल्याणकामतामुपादाय निःसर्गिका पातयन्तिका । तेन भिक्षुणा तत्पात्रं भिक्षुपरिषदि निःसृष्टव्यं यस्तस्यां भिक्षुपरिषदि पात्रपर्यन्तः स तस्यानुप्रदातव्यः इदं ते भिक्षो पात्रं न विसर्जयितव्यं न विकल्पयितव्यं यावद्भेदाद्धारयितव्यमियं तत्र सामीचिः २२ प्र्मोसू_न्प्.२३: यः पुनर्भिक्षुः स्वयाचितं सूत्रं विज्ञप्य अज्ञातिना तन्त्रवायेन चीवरं वाययेन्निःसर्गिका पातयन्तिका २३ प्र्मोसू_न्प्.२४: भिक्षुं चेदुद्दिश्य अज्ञातिर्गृहपतिर्गृहपतिपत्नी वा तन्त्रवायेन चीवरं वाययेत्तत्र चेत्स भिक्षुः पूर्वमप्रवारितः समान उपसंक्रम्य तं तन्त्रवायं कंचिदेव विकल्पमापद्यन्नेवं वदेद्यदायुष्मं तन्त्रवाय जानासि इदं चीवरं मामुद्दिश्य ऊयते साध्वायुष्मानेतच्चीवरं सूतं च करोतु सुलिखितं च सुविस्तृतं च सुतक्षितं च अप्येव वयमायुष्मतः क्(इ)ंचिदेव मात्रमुपसंहरिष्यामः पिण्डपातं वा पिण्डपातमात्रं वा पिण्डपातसंवरं वा एवं चेत्स भिक्षुस्तं तन्त्रवायं संज्ञ(प्य वा) संज्ञाप्य वा ततः पश्चात्क्(इ)ंचिदेव मात्रमुपसंहरेद्पिण्डपातं वा पिण्डपातमात्रं वा पिण्डपातसंवरं वा चीवरस्याभिनिष्पत्तये अभिनिष्पन्ने चीवरे निःसर्गिका पातय(न्ति)का २४ प्र्मोसू_न्प्.२५: यः पुनर्भिक्षुर्भिक्षोः पात्रं वा चीवरं वा दत्त्वा ततः पश्चादभिषक्तः कुपितश्चण्डीकृतोऽनाप्तमना आच्छिन्द्यादाच्छेदयेद्वा आनय भिक्षो चीवरं न ते भूयो ददामीति तेन भिक्षुणा स वस्तुशेषो निःसृष्टव्यो भवति चास्य निःसर्गिका पातयन्तिका २५ प्र्मोसू_न्प्.२६: मासशेषे ग्रीष्मे भिक्षुणा वर्षाशाटीचीवरं पर्येषितव्यं यावदर्धमासकृतासु वर्षासु धारयितव्यम् । अर्वाक्चेद्भिक्षुर्मासशेषाद्ग्रीष्माद्वर्षाशाटीचीवरं पर्येषेत ऊर्ध्वं चार्धमासकृतासु वर्षासु धारयेन्निःसर्गिका पातयन्तिका २६ प्र्मोसू_न्प्.२७: दशाहानागतायां प्रवारणायां भिक्षोरुत्पद्येताकालचीवरमाकांक्षता तेन भिक्षुणा प्रतिगृहीतव्यं प्रतिगृह्य यावच्चीवरकालसमया(न्) निक्षिप्तव्यं तत उत्तरमुपनिक्षिपेन्निःसर्गिका पातय(न्)तिका २७ प्र्मोसू_न्प्.२८: त्रयोमासानागते कार्त्तिके पूर्णमासे ऊनवर्षारण्यको भिक्षु(र्) आरण्यकेषु शय्यासनेषूपगतः स्य्(आ)त्साशङ्कसंमतेषु सभयसंमतेषु सप्रतिभयभैरवसंमतेषु आकांक्षतारण्यकेन भिक्षुणा त्रयाणां चीवराणामन्यतमान्यतमं चीवरमन्तर्गृहे उपनिक्षिप्तव्यं स्यादारण्यकस्य भिक्षोस्तथारूपप्रत्ययो बहिःसीमं गन्तुं षड्रात्रपरममारण्यकेन भिक्षुणा ततश्चीवराद्विप्रवस्तव्यं तत उत्तरं विप्रवसेन्निःसर्गिका पातयन्तिका २८ प्र्मोसू_न्प्.२९: यः पुनर्भिक्षुर्जानं सांघिकं लाभं परिणतमात्मन्(अः) परिणामयेन्निःसर्गिका पातयन्तिका २९ प्र्मोसू_न्प्.३०: यानि तानि भगवता ग्लानानां भिक्षूणां सांप्रेयाणि प्रतिषेवनीयानि भैषज्यान्यनुज्ञातानि तद्यथा सर्पिस्तैलं मधु फाणितं सप्ताहपरमं तानि ग्लानेन भिक्षुणा संनिधिकारपरिभोगेन परिभोक्तव्यानि तत उत्तरं परिभुञ्जीत निःसर्गिका पातयन्तिका ३० ॥ उद्दिष्टा मयायुष्मन्तस्त्रिंशन्निःसर्गिका(ः) पातयन्तिका धर्मास्तत्राहमायुष्मतः पृच्छामि कच्चित्स्थात्र परिशुद्धा द्विरपि त्रिरपि पृच्छामि कच्चित्स्थात्र परिशुद्धाः परिशुद्धा अत्रायुष्मन्तो यस्मात्तूष्णीमेवमेतद् धारयामि ॥ ॥ ___________________________________________________________ व्. पातयन्तिका धर्माः प्र्मोसू_पात्.०: इमे पुनरायुष्मन्तो नवति पातयन्तिका धर्मा अन्वर्धमासं प्रातिमोक्षसूत्रोद्देशमागच्छन्ति । प्र्मोसू_पात्.१: संप्रजानमृषावादात्पातयन्तिका १ प्र्मोसू_पात्.२: अपकर्षवादात्पातयन्तिका २ प्र्मोसू_पात्.३: भिक्षुपैशुन्यात्पातयन्तिका ३ प्र्मोसू_पात्.४: यः पुनर्भिक्षुर्जानं संघेन यथाधर्मं निक्षिप्तमधिकरणं पुनः कर्मण्युत्कोटयेत्पातयन्तिका ४ प्र्मोसू_पात्.५: यः पुनर्भिक्षुर्मातृग्रामस्योत्तरंषट्पञ्चिकया वाचा धर्मं देशयेदन्यत्र विज्ञपुरुषात्पातयन्तिका ५ प्र्मोसू_पात्.६: यः पुनर्भिक्षुरनुपसंपन्नेन पुद्गलेन सार्धं पदशो धर्मं वाचयेत्पातयन्तिका ६ प्र्मोसू_पात्.७: यः पुनर्भिक्षुरनुपसंपन्नस्य पुद्गलस्योत्तरंमनुष्यधर्ममारोचयेद्भूतं पातयन्तिका ७ प्र्मोसू_पात्.८: यः पुनर्भिक्षुर्भिक्षोर्जानं दुष्ठूलामापत्तिमनुपसंपन्नस्य पुद्गलस्यान्तिके आरोचयेदन्यत्र संघसंमत्या पा(त)य(न्)तिक्(आ) ८ प्र्मोसू_पात्.९: यः पुनर्भिक्षुः पूर्वं समनुज्ञको भूत्वा ततः पश्चादेवं वदेद्यथा संस्तुतानामिमे भिक्षवः सांघिकं लाभं परिणामयन्तीति पात(यन्त्)इ(का) ९ प्र्मोसू_पात्.१०: यः पुनर्भिक्षुः प्रातिमोक्षसूत्रोद्दिश्यमाने एवं वदेत्किं पुनरेभिः क्षुद्रानुक्षुद्रैः शिक्षापदैरुद्दिष्टैर्यानि भिक्षूणां कौकृत्याय विलेखाय विहेठाय संवर्तन्तीति शिक्षाविदण्डनात्पातयन्तिका १० ॥ प्र्मोसू_पात्.११: बीजग्रामभूतग्रामपातनात्पा(त)यन्तिका ११ प्र्मोसू_पात्.१२: अवध्यानक्षिपणात्पातयन्तिका १२ प्र्मोसू_पात्.१३: अन्य्(अ)वादविहेठनात्पात(यन्तिका) १३ प्र्मोसू_पात्.१४: यः पुनर्भिक्षुः सांघिकं शय्यासनं पीठं वा मञ्चं वा ब्रिसिं वा कुर्चं वा अभ्यवकाशे प्रज्ञप्य ततः प्रक्रमेन्नोद्धरेन्नोद्धारयेद्वा पातयन्तिका १४ प्र्मोसू_पात्.१५: यः पुनर्भिक्षुः सांघिके विहारे शय्यां संस्तीर्य वा संस्तारयेद्वा ततः प्रक्रमेन्नोद्धरेन्नोद्धारयेद्वा पातयन्तिका (१)५ प्र्मोसू_पात्.१६: यः पुनर्भिक्षुरभिषक्तः कुपितश्चण्डीकृतोऽनाप्तमनाः सांघिकाद्विहाराद्भिक्षुं निष्कर्षेन्निष्कर्षयेद्वा चर परेण मोहपुरुष नश्य त्वं न त्वयेह वस्तव्यमिदमेव प्रत्ययं कृत्वा नान्यथात्पा(तयन्तिका) १६ प्र्मोसू_पात्.१७: यः पुनर्भिक्षुः सांघिके विहारे जानं पूर्वोपगतां भिक्ष्(ऊ)ं पश्चादागत्यानुप्रस्कद्य शय्यां कल्पयेद्यस्य संबाधं भविष्यति स प्रक्रमिष्यतीति इदमेव प्रत्ययं कृत्वा नान्यथात्पातयन्तिका (१)७ प्र्मोसू_पात्.१८: यः पुनर्भिक्षुः सांघिके विहारे उपरिविहायसिकुटिकायामहार्यपादके पीठे वा मञ्चे वा बलेन निषीदेद्वा निपद्येद्वा (पात)यन्तिका प्र्मोसू_पात्.१९: यः पुनर्भिक्षुः सप्राणकेनोदकेन तृणं वा मृत्तिकं वा सिंचेत्सेचयेद्वा पातयन्तिका प्र्मोसू_पात्.२०: महल्लकं भिक्षुणा विहारं कारयता यावद्द्वारकोशार्गडस्थापन आलोकसं(धि)भूमिपरि(कर्म्)॥।...॥।ना द्वौ त्रयो वाच्छाद(न)पथाः संचरो॥।...॥।व्याधिष्ठातव्या तत उत्तर(म्) अधितिष्ठेत्पातयन्तिका ॥ प्र्मोसू_पात्.२१: यः पुनर्भिक्षुरसंमतः संघेन भिक्षुणीरववदेत्(प्)आ(तयन्तिका २१) प्र्मोसू_पात्.२२: सं(म)तोऽत्रापि भि(क्षुर्) यावत्सूर्यास्तंगमनकालसमयाद्भिक्षुणीरवव्(अदेत्पा)तयन्तिका (२)२ प्र्मोसू_पात्.२३: यः पुनर्भिक्षुरेवं (व)देदामिषहेतोर्भिक्ष्(अवो भिक्षुणीरववद्)अन्तीति पा(तयन्तिका २)३ प्र्मोसू_पात्.२४: यः पुनर्भिक्षुर्भिक्षुण्या सार्धं संविधाय समानमार्गं प्रतिपद्येतान्ततो ग्रामान्तरमपि अन्यत्र समयात्पातयन्तिका (तत्रा)यं सम(यः) सार्(थगमनीयो मार्गो भवति साशङ्कसं)मतः सभयसंमतः सप्रतिभयभैरवसंमतोऽयं तत्र समयः (२)४ प्र्मोसू_पात्.२५: यः पुनर्भिक्षुर्भिक्षु(ण्या सार्धं संविधा)यैकनावमभिरुहेदू(र्)ध्वग्(आमिनीं वाधोगामि)नीं वान्यत्र तीर्यक्पारसंतरणात्पातयन्तिका (२)५ प्र्मोसू_पात्.२६: यः पुनर्भिक्षुरज्ञात्या भिक्षुण्याश्चीवरं कुर्यात्पातयन्तिका (२६) प्र्मोसू_पात्.२७: यः पुनर्भिक्षुरज्ञात्या भिक्षुण्याश्चीवरं दद्यात्पातयन्तिका (२)७ प्र्मोसू_पात्.२८: यः पुनर्भिक्षुर्भिक्षुण्या सार्धमेकाकी रहसि प्रतिच्छन्ने निषद्यां कल्पयेत्पातयन्तिका (२)८ प्र्मोसू_पात्.२९: यः पुनर्भिक्षुरेका(की) मातृग्रामेण सार्धमभ्यवकाशे निषद्यां कल्पयेत्पातयन्तिका (२)९ प्र्मोसू_पात्.३०: यः पुनर्भिक्षुर्भिक्षुणीपरिपाचितं पिण्डपातं परिभुंजीतान्यत्र प्राग्(ग्)ऋहिसमारम्भात्पातयन्तिका ३० ॥ प्र्मोसू_पात्.३१: परंपरभोजनमन्यत्र समयात्पातयन्तिका तत्रायं समयो ग्लानसमयश्चीवरदानकालसमयोऽयं तत्र समयः ३१ प्र्मोसू_पात्.३२: एकावसथोषितेन भिक्षुणा अग्लानेनैकः पिण्डपात(ः) परिभोक्तव्यस्तत उत्तरं परिभुंजीत पा(तयन्तिका ३२) प्र्मोसू_पात्.३३: (भिक्ष)वः पुनः संबहुलाः कुलान्युपसंक्रमेयुस्तांश्चेच्छ्राद्धा ब्(र्)आह्मणगृ(ह)पतय्(ओ याव)दर्थं प्रवारयेयुः पूपैर्वा मन्थैर्वा आकांक्षमाणैस्तैर्भिक्षुभि(र्) द्व्(औ) त्रयो (वा) पात्रपूराः प्रतिगृहीत(व्य्)आस्तत उत्तरं प्रतिगृह्णीयुः पातयन्तिका । द्वौ त्रीं वा पात्रपूरां प्रतिगृह्य बहि(रारा)मं (न्)इष्क्(र्)अम्य सन्तो भिक्षवः संवेदयितव्या इयं तत्र सामीचिः ३३ प्र्मोसू_पात्.३४: यः पुनर्भिक्षुर्भुक्तवां प्रवारितः अकृता(त्)इरिक्तं खादनीयभोजनीयं खादेद्वा भुंजीत वा पातयन्तिका ३४ प्र्मोसू_पात्.३५: यः पुनर्भिक्षुर्जानं भिक्षुं भुक्तवन्तं प्रवारितमकृत्(आत्)इरिक्तेन खादनीयभोजनीयेन यावदर्थं प्रवारयेदिदमायुष्मं खादेति भुंक्ष्वेत्यासादनप्रेक्षी कच्चिदेष भिक्षुर्मुहूर्तमप्यासादितः स्यादिदमेव प्रत्ययं कृत्वा नान्यथा पातयन्तिका ३५ प्र्मोसू_पात्.३६: गणभोजनमन्यत्र समयात्पातयन्तिका तत्रायं समयो ग्लानसमयश्चीवरदानकालसमयः अध्वानमार्गसमयः नावाधिरोहणं महासमाजश्रमणभक्तसमयोऽयं तत्र समयः (३)६ प्र्मोसू_पात्.३७: यः पुनर्भिक्षुरकाले खादनीयभोजनीयं खादेद्वा भुंजीत वा पातय(न्)तिका ३७ प्र्मोसू_पात्.३८: यः पुनर्भिक्षुः संनिहितं खादनीयभोजनीयं खादेद्वा भुंजीत वा पातयन्तिका ३८ प्र्मोसू_पात्.३९: यः पुनर्भिक्षुरपरिगृहीतमाहारं मुखद्वारेणाहरेदन्यत्रोदकदन्तकाष्ठाभ्यां पातयन्तिका ३९ प्र्मोसू_पात्.४०: यानि पुनस्तानि कुलेषु प्रणीतभोजनान्यनुज्ञातानि तद्यथा क्षीरं दधि नवनीतं सर्पिस्तैलं मत्स्यो मांसवल्लूरा यः पुनर्भिक्षुरेवंरूपाणि प्रणीतभोजनान्यात्मार्थमग्लानो विज्ञपयेत्पातयन्तिका ४० ॥ प्र्मोसू_पात्.४१: यः पुनर्भिक्षुर्जानं सप्राणकमुदकं परिभुंजीत पातयन्तिका ४१ प्र्मोसू_पात्.४२: यः पुनर्भिक्षुः सभोजने कुले अनुप्रस्कद्य आसने निषद्यां कल्पयेत्पातयन्तिका ४२ प्र्मोसू_पात्.४३: यः पुनर्भिक्षुः सभोजने कुले एकाकी एकया रहसि प्रतिच्छन्ने निषद्यां कल्पयेत्पातयन्तिका ४३ प्र्मोसू_पात्.४४: यः पुनर्भिक्षुरचेलकस्य परिव्राजकस्य वा परिव्राजिकाया वा स्वहस्तं खादनीयभोजनीयं दद्यात्पातयन्तिका ४४ प्र्मोसू_पात्.४५: यः पुनर्भिक्षुरुद्युक्तां सेनां दर्शनायोपसंक्रमेदन्यत्रस्तथारूपप्रत्ययात्पातयन्तिका ४५ प्र्मोसू_पात्.४६: स्याद्भिक्षोस्तथारूपप्रत्ययो येनोद्युक्तां सेनां गच्छेद्द्विरात्रपरमं तेन भिक्षुणा तत्र सेनायां वस्तव्यं तत उत्तरं वसेत्पातयन्तिका ४६ प्र्मोसू_पात्.४७: द्विरात्रपरमं चेद्भिक्षुः सेनायां वसत्युद्यूथिकां सेनां दर्शनायोपसंक्रमेद्ध्वजाग्रं वा बलाग्रं वा सेनाव्यूहं वा अनीकदर्शनं वा पातयन्तिका ४७ प्र्मोसू_पात्.४८: यः पुनर्भिक्षुरभिषक्तः कुपितश्चण्डीभूतोऽनाप्त(म)ना भिक्षोः प्रहारं दद्यात्पात(यन्तिका) ४८ प्र्मोसू_पात्.४९: (यः पुन)र्भिक्षुरभिषक्तः कुपितश्चण्डीभूतोऽनाप्तमना भिक्षोस्तलशक्तिकया प्रहारमवगुरेत्पातयन्तिका (४९) प्र्मोसू_पात्.५०: (यः) पुनर्भिक्षुर्भिक्षोर्ज्(आ)नं दुष्ठूलापत्ति(ं) प्रतिच्छादयेदन्तत एकरात्रमपि पा(तयन्तिका) ५० प्र्मोसू_पात्.५१: य(ः पु)नर्भिक्षुर्भिक्षुमेवं वदेदेह्यायुष्मं कुलान्युपसंक्रमिष्यावस्तत्र ते दापयिष्यामि प्रणीतं खादनीयभोजनीयं स तस्य भिक्षोरदापयित्वा ततः पश्चादेवं वदेद्गच्छ त्वमायुष्मन्न मे त्वया सार्धं फाष(ं) कथा वा निषद्या वा एकाकिनो मे फाषं कथा वा निषद्या वा उद्योजनप्रेक्षी कच्चिदेष भिक्षुर्मुहूर्तमप्युद्योजितः स्यादेतदेव प्रत्ययं कृत्वा नान्यथा पातयन्तिका (५)१ प्र्मोसू_पात्.५२: यः पुनर्भिक्षुरग्लानो वितपनप्रेक्षी अभ्यवकाशे ज्योतिः समिन्ध्यात्समेधयेद्वान्यत्र प्रत्ययात्पातयन्तिका (५)२ प्र्मोसू_पात्.५३: यः पुनर्भिक्षुरनुपसंपन्नेन पुद्गलेन सार्धमुत्तरंद्विरात्रं सहागारशय्यां कल्पयेत्पातयन्तिका (५)३ प्र्मोसू_पात्.५४: यः पुनर्भिक्षुर्धार्मिके संघकरणीये च्छन्दं दत्(त्)वा ततः पश्चात्क्षेपधर्ममापद्येत पातयन्तिका (५)४ प्र्मोसू_पात्.५५: यः पुनर्भिक्षुरेवं वदेत्तथाहं भगवतो धर्म(ं) देशितमाजानामि ये अन्तरायिका धर्मास्तां प्रतिषेवतो नालमन्तरायायेति स भिक्षुर्भिक्षुभिरेवं स्याद्वचनीयो मा त्वमायुष्मन्नेवं वद तथाहं भगवतो धर्मं देशितमाजानामि ये अन्तरायिका धर्मास्तां प्रतिषेवतो नालमन्तरायायेति मा भगवन्तं विवद मा भगवन्तमभ्याख्याहि न साधु भगवतोऽभ्याख्यानं भवति न च पुनर्भगवानेवं वदेदनेकपर्यायेण भगवता अन्तरायिका धर्माः समाना अन्तरायिका धर्मा इत्युक्तास्तांश्च प्रतिषेवतोऽलमन्तरायायेति निःसृज त्वमायुष्मन्निदमेवंरूपं पापकं दृष्टिगतम् एव(ं) चे(त्स) भिक्षुर्भिक्षुभिरुच्यमानस्तद्वस्तु प्रतिनिःसृजेदित्येवं कुशलं न चेत्प्रतिनिःसृजेद्द्विरपि त्रिरपि समनुशासितव्यस्तस्य वस्तुनः प्रतिनिःसर्गाय (द्व्)इरपि त्रिरपि समनुशिष्यमाणस्तद्वस्तु प्रतिनिःसृजेदित्येवं कुशलं नो चेत्प्रतिनिःसृजेत्पातयन्तिका ५५ प्र्मोसू_पात्.५६: यः पुनर्भिक्षुर्जानंस्तथावादिनं पुद्गलमकृतानुधर्माणमप्रतिनिःसृष्टेन पापकेन दृष्टिगतेन संभुंजीत वा संवसेद्वा तेन वा सार्धं सहागारशय्यां कल्पयेत्पातयन्तिका (५)६ प्र्मोसू_पात्.५७: श्रमणोद्देशश्चेदेवं वदेत्तथाहं भगवतो धर्मं देशितमाजानामि यत्कामां प्रतिषेवतो नालमन्तरायायेति । स श्रमणोद्देशो भिक्षुभिरेवं स्याद्वचनीयो मा त्वमायुष्मं श्रमणोद्देश एवं वद तथाहं भगवतो धर्मं देशितमाजानामि यत्कामां प्रतिषेवतो नालमन्तरायायेति मा भगवन्तं विवद मा भगवन्तमभ्याख्याहि न साधु भगवतोऽभ्याख्यानं भवति न च पुनर्भगवानेवं वदेदनेकपर्यायेण भगवता अन्तरायिकाः कामाः समाना अन्तरायिका इत्युक्तास्तांश्च प्रतिषेवतोऽलमन्तरायायेति निःसृज त्वं श्रमणोद्देश इदमेवंरूपं पापकं दृष्टिगतम् एवं चेत्स श्रमणोद्देशो भिक्षुभिरुच्यमानस्तत्पापकं दृष्टिगतं प्रतिनिःसृजेदित्येवं कुशलं नो चेत्प्रतिनिःसृजे(द्) द्विरपि त्रिरपि समनुशासितव्यस्तस्य वस्तुनः प्रतिनिःसर्गाय स याव(द्) द्विरपि त्रिरपि समनुशिष्यमाण(ः) सचेत्प्रतिनिःसृजेदित्येवं कुशलं नो चेत्प्रतिनिःसृजेत्स श्रमणोद्(द्)एशो भिक्षुभिरेवं स्याद्वचनीयः अद्याग्रेण ते श्रमणोद्देश न स भगवां शास्ता व्यपदेष्टव्यो नाप्यन्ये भिक्षवः समनुबन्धितव्या यामप्यन्ये श्रमणोद्द्(एश्)आ लभन्ते भिक्षुभिः सार्धं द्विरात्रं सहागारशय्यां सापि ते अद्याग्रेण नास्ति चर परेण मोहपुरुष नश्य त्वं न त्वयेह वस्तव्यमिति । यः पुनर्भिक्षुर्जानंस्तथानाशितं श्रमणोद्देशमुपस्थापयेद्वा उपलाडयेद्वा तेन वा सार्धं सहागारशय्यां कल्पयेत्पातयन्तिका ५७ प्र्मोसू_पात्.५८: यः पुनर्भिक्षु रत्नं वा रत्नसंमतं वा स्वहस्तमुद्गृह्णीयादुद्ग्राहयेद्वा अन्यत्राध्यारामगताद्वा अध्यावासगताद्वा पातयन्तिका अध्यारामगतमध्यावासगतं रत्नं वा रत्नसंमतं वा एवंचित्तेनोद्गृहीतव्यमुद्ग्राहयितव्यं वा यस्य भविष्यति स एनं हरिष्यति इयं तत्र सामीचिः ५८ प्र्मोसू_पात्.५९: नवचीवरप्रतिलाभाद्भिक्षुणा त्रयाणां दुर्वर्णीकरणानामन्यतमान्यतममादातव्यं नवस्य दुर्वर्णीकरणाय नीलं वा कर्दमो वा काडिशामो वा अनादाय चेद्भिक्षुस्त्रयाणां दुर्वर्णीकरणानामन्यतमान्यतमं दुर्वर्णीकरणं नवं चीवरं परिभुंजीत पातयन्तिका ५९ प्र्मोसू_पात्.६०: अर्धमासिकं स्नात्रमन्यत्र समयात्तदतिक्रामतः पातयन्तिका तत्रायं समयः सार्धो मासः शेषो ग्रीष्मस्य पूर्वो मासो वर्षाणामेतौ सार्धौ द्वौ मासौ परिदाघसमयः अवशिष्टं ग्लानसमयः कर्मसमयो वातसमयो वृष्टिसमयोऽध्वानमार्गसमयोऽयं तत्र समयः ६० ॥ प्र्मोसू_पात्.६१: यः पुनर्भिक्षुः संचिन्त्य तीर्यग्योनिगतं प्राणिनं जीविताद्व्यपरोपयेत्पातयन्तिका ६१ प्र्मोसू_पात्.६२: यः पुनर्भिक्षुर्भिक्षोः संचिन्त्य कौकृत्यमुपसंहरेद्विहेठनाप्रेक्षी कच्चिदस्य भिक्षोर्मुहूर्तमपि तावदफाषं भवेदिदमेव प्रत्ययं कृत्वा नान्यथा पातयन्तिका (६)२ प्र्मोसू_पात्.६३: अङ्गुलिप्रतोदनात्पातयन्तिका (६)३ प्र्मोसू_पात्.६४: उदकहर्षणात्पातयन्तिका (६)४ प्र्मोसू_पात्.६५: यः पुनर्भिक्षुर्मातृग्रामेण सार्धं सहागारशय्यां कल्पयेत्पातयन्तिका (६)५ प्र्मोसू_पात्.६६: यः पुनर्भिक्षुर्भिक्षुं भीषयेद्भीषापयेद्वा अन्ततो हास्यप्रेक्ष्यमपि पातयन्तिका (६)६ प्र्मोसू_पात्.६७: यः पुनर्भिक्षुर्भिक्षोः पात्रं वा चीवरं वा कुञ्चिकं वा उपानहं वा सूचीघरकं वा अन्यतमान्यतमं वा श्रामणकं परिष्कारमुपनिदध्यादुपनिधापयेद्वा अन्ततो हास्यप्रेक्ष्यमपि पातयन्तिका ६७ प्र्मोसू_पात्.६८: यः पुनर्भिक्षुर्भिक्षोः पात्रं वा चीवरं वा दत्(त्)वा ततः पश्चादप्रत्युद्धार्य परिभुंजीत पातयन्तिका ६८ प्र्मोसू_पात्.६९: यः पुनर्भिक्षुर्भिक्षुममूलकेन संघावशेषेण धर्मेणानुध्वंसयेत्पातयन्तिका ६९ प्र्मोसू_पात्.७०: यः पुनर्भिक्षुर्मातृग्रामेण सार्धं संविधाय समानमार्गं प्रतिपद्येत अन्ततो ग्रामान्तरमपि पातयन्तिका ७० ॥ प्र्मोसू_पात्.७१: यः पुनर्भिक्षुः स्तेयसार्थेन सार्धं संविधाय समानमार्गं प्रतिपद्येत अन्ततो ग्रामान्तरमपि पातयन्तिका ७१ प्र्मोसू_पात्.७२: यः पुनर्भिक्षुरूनविंशतिवर्षं पुद्गलं भिक्षुभावेनोपसंपादयेत्पातयन्तिका स च पुद्गलोऽनुपसंपन्नस्ते च भिक्षवो गर्ह्या इयं तत्र सामीचिः ७२ प्र्मोसू_पात्.७३: यः पुनर्भिक्षुः पृथिवीं खन्यात्खानयेद्वा पातयन्तिका (७)३ प्र्मोसू_पात्.७४: चतुर्मासिका भिक्षुणा प्रवारणा साधयितव्या अन्यत्र नित्यप्रवारणाया अन्यत्र पुनःपुनःप्रवारणाया अन्यत्र प्रत्येकप्रवारणाया तत उत्तरं साधयेत्पातयन्तिका ७४ प्र्मोसू_पात्.७५: यः पुनर्भिक्षुर्भिक्षुभिरुच्यमान इह ते शिक्षायां शिक्षितव्यमित्येवं वदेन्नाहं युष्माकं बालानां मूढानां दुष्प्रज्ञानां वचनेनात्र शिक्षायां शिक्षिष्यामि अन्यानहं भिक्षूं प्रक्ष्यामि सूत्रधरान् विनयधरान्मातृकाधरानिति पातयन्तिका । आज्ञातुकामेन भिक्षुणा तत्र शिक्षायां शिक्षितव्यं भिक्षवश्च प्रष्टव्याः सूत्रधरा विनयधरा मातृकाधराः । इयं तत्र सामीचिः ७५ प्र्मोसू_पात्.७६: यः पुनर्भिक्षुर्भिक्षूणां कलहजातानां भण्डनजातानां विगृहीतानां विवादमापन्नानां तूष्णीमुपश्रुतिकस्तिष्ठेद्यदेते भिक्षवो वक्ष्यन्ति तदहं श्रुत्वा तथानुव्याहरिष्यामीति पा(तयन्तिका) (७)६ प्र्मोसू_पात्.७७: यः पुनर्भिक्षुः संघस्य्(अ) न्(इ)श्चितायां कथायां वर्तमानायां तूष्णीमुत्थाय प्रक्रमेत्संतं भिक्षुमनव(लोक्य पातय)न्तिका (७७) प्र्मोसू_पात्.७८: अनादरेयकात्पातयन्तिका (७)८ प्र्मोसू_पात्.७९: सुरामैरेयमद्यपानात्पातयन्तिका ७९ प्र्मोसू_पात्.८०: यः पुनर्भिक्षुरकाले ग्रामं प्रविशेत्सन्तं भिक्षुमनवलोक्यान्यत्र तथारूपप्रत्ययात्पातयन्तिका ८० ॥ प्र्मोसू_पात्.८१: यः पुनर्भिक्षुः सभक्तं(?) कुलेषूपनिमन्त्रितः पूर्वभक्तं पश्चाद्भक्तं कुलेषु चारित्रमापद्येत पा(तयन्तिका) ८१ प्र्मोसू_पात्.८२: यः पुनर्भिक्षु राज्ञः क्षत्रियस्य मूर्धाभिषिक्तस्य अनि(ष्क्)रान्ते राज्ञ्(इ) अनिर्गृहीतेषु रत्नेषु इन्द्रकीलं वा इन्द्रकीलभूमिं वा समतिक्रमेदन्यत्र तथारूपप्रत्ययात्पातयन्तिका (८)२ प्र्मोसू_पात्.८३: यः पुनर्भिक्षुः प्रातिमोक्षसूत्रोद्दिश्यमाने एवं वदेदिदानीमहं जानामि यदय(ं) धर्मः सूत्रगतः सूत्रपर्यापन्न इति तं च भिक्षवो जानीयुः संनिषण्णपूर्वोऽयमायुष्मां द्विस्त्रिः प्रातिमोक्षसूत्रोद्देशे कः पुनर्वादो भूय इति तस्य पुनर्भिक्षोर्नास्त्यज्ञानान्मोक्षो यां चापत्तिमापन्नः स्यात्तां यथाधर्मं कारयितव्य उत्तरञ्च संवेजयितव्यस्तस्य ते आयुष्मन्नलाभो न लाभः दुर्लब्धो न सुलब्धः यो हि नाम त्वमन्वर्धमासं प्रातिमोक्षसूत्रोद्दिश्यमाने न सत्कृत्यार्थीकृत्वा न गुरुकृत्वा न मनसीकृत्वा नैकाग्रचित्तो नावहितश्रोत्रो न सर्वचेतसा समन्वाहृत्य शृणोषि इयं तस्य संवेजनात्पातयन्तिका (८)३ प्र्मोसू_पात्.८४: यः पुनर्भिक्षुरस्थिमयं दन्तमयं विषाणमयं वा सूचीघरकं कारयेत्पातय(न्)तिका (८)४ प्र्मोसू_पात्.८५: पीठं वा भिक्षुणा मञ्चं वा कारयता सुगताष्टाङ्गुलिप्रमाणाः पादाः कारयितव्या अन्यत्रारण्यास्तत उत्तरं कारयेत्प्(आतयन्तिका ८)५ प्र्मोसू_पात्.८६: यः पुनर्भिक्षुस्तूलसंस्तृतां शय्यामवनहेदवनाहयेद्वा पातयन्तिका (८)६ प्र्मोसू_पात्.८७: वर्षाशाटीचीवरं भिक्षुणा कारयता प्रामाणिकं कारयितव्यं तत्रेदं प्रमाणं दीर्घतः षड्वितस्तयः सुगतवितस्त्या तीर्यक्सार्धे द्वे तत उत्तरं कारयेत्पातयन्तिका (८)७ प्र्मोसू_पात्.८८: कण्डुप्रतिच्छादनं भिक्षुणा कारयता प्रामाणिकं कारयितव्यं तत्रेदं प्रमाणं दीर्घतश्चतस्रो वितस्तयः सुगतवितस्त्या तीर्यग्द्वे तत उत्तरं कारयेत्पातयन्तिका (८)८ प्र्मोसू_पात्.८९: निषीदनं भिक्षुणा कारयता प्रामाणिकं कारयितव्यं तत्रेदं प्रमाणं दीर्घतो वितस्ती द्वे सुगतवितस्त्या तीर्यक्सार्धवितस्तिर्दशानां च वितस्तिस्तत उत्तरं कारयेत्पातयन्तिका ८९ प्र्मोसू_पात्.९०: यः पुनर्भिक्षुः सुगतचीवरप्रमाणेन चीवरं कारयेदुत्तरं वा सुगतचीवरात्पातयन्तिका । तत्रेदं सुगतचीवरप्रमाणं दीर्घतो नव वितस्तयः सुगतवितस्त्या तीर्यक्षडिदं तत्र सुगतचीवरप्रमाणं ९० ॥ उद्दिष्टा मयायुष्मन्तो नवति पातयन्तिका धर्मास्तत्राहमायुष्मतः पृच्छामि कच्चित्स्थात्र परिशुद्धा द्विरपि त्रिरपि पृच्छामि कच्चित्स्थात्र पर्(इ)श्(उद्धा परिशु)द्धा अत्रायुष्मन्तो यस्मात्तूष्णीमेवमेतद्धारयामि ॥ ___________________________________________________________ वि. प्रतिदेशनीया धर्माः प्र्मोसू_प्रतिद्.०: इमे पुनरायुष्मन्तश्चत्वारः प्रतिदेशनीया धर्मा अन्वर्धमासं प्रातिमोक्षसूत्रोद्देशमागच्छन्ति ॥ प्र्मोसू_प्रतिद्.१: यः पुनर्भिक्षुरग्लानोऽन्तर्गृहं पिण्डाय चरन्त्या अज्ञात्या भिक्षुण्याः सन्तिकात्स्वहस्तं खादनीयभोजनीयं प्रतिगृह्णीयात्तेन भिक्षुणा भिक्ष्(ऊ)णामन्तिके प्रतिदेशयितव्यं गर्हणीयमायुष्मन्तः स्थानमापन्नोऽस्मि असांप्रेयं प्रतिदेशनीयं तं धर्मं प्रतिदेशयामि अयं धर्मः प्रतिदेशनीयः १ प्र्मोसू_प्रतिद्.२: भिक्षवः पुनः संबहुलाः कुलेषूपनिमन्त्रिता भुंजीरंस्तत्र चेद्भिक्षुणी व्यपदिशमाना स्थिता स्यादिहौदनं देहि इह सूपं देहि इह भूयो देहीति सा भिक्षुणी भिक्षुभिरेवं स्याद्वचनीया आगमय ताव(त्) त्वं (भ्)अगिनी यावदिमे भिक्षवो भुंजन्तामित्येकभिक्षोरपि चे(न्) न प्रतिभायात्तां भिक्षुणी(म्) एवं वक्तुमागमय ताव(त्) त्वं (भ)गिनी या(वदि)मे भिक्ष्(अवो भुंजन्तामिति) सर्वैस्तैर्भिक्ष्(उ)भिर्भिक्(षू)णामन्तिके प्रतिदेशयितव्यं गर्ह्(अ)ण्(ईयम्) आयुष्मन्तः स्थानमापन्ना(ः) स्म असांप्रेयं प्रतिदेशनीयं तं धर्मं प्रतिदे(श)य्(आम अय)ं धर्म(ः) प्रति(द्)एशनीयः २ प्र्मोसू_प्रतिद्.३: यानि पुनस्तानि संघस्य शैक्षसंमतानि कुलानि भवन्ति शैक्षसंवृतिसंमतानि यः पुनर्भिक्षुस्तथारूपेभ्यः कुलेभ्यः (शै)क्षसं(वृति)स्(अंम)तेभ्यः पूर्वमनिमन्त्रितः समानः खादनीयभोजनीयं प्रतिगृह्णीयात्तेन भिक्षुणा भिक्षूणामन्तिके प्रतिदेशयितव्यं गर्हणीयमायुष्मन्तः स्थानमापन्नोऽस्मि असांप्रेयं प्रतिदेशनीयं तं धर्मं प्रतिदेशयामि अयं धर्मः प्रतिदेशनीयः ३ प्र्मोसू_प्रतिद्.४: यानि पुनस्तानि संघस्यारण्यकानि शय्यासनानि भवन्ति साशंकसंमतानि सभयसंमतानि सप्रतिभयभैरवसंमतानि । यः पुनर्भिक्षुस्तथारूपेषु संघस्यारण्यकेषु शय्यासनेषु पूर्वप्रतिसंवेदकः असंमतः संघेन बहिरारामस्य स्वहस्तं खादनीयभोजनीयमप्रतिगृह्य अन्तरारामे प्रतिगृह्णीयात्तेन भिक्षुणा भिक्ष्(ऊ)णामन्तिके प्रतिदेशयितव्यं गर्हणीयमायुष्मन्तः स्थानमापन्नोऽस्मि असांप्रेयं प्रतिदेशनीयं त(ं) धर्मं प्रतिदेशयामि अयमपि धर्मः प्रतिदेशनीयः ४ ॥ उद्दिष्टा मयायुष्मन्तश्चत्वारः प्रतिदेशनीया धर्मास्तत्राहमायुष्मतः पृच्छामि कच्चिद्स्थात्र परिशुद्धा द्विरपि त्(रि)रपि पृच्छामि कच्चित्स्थात्र परिशुद्धा(ः) परिशुद्धा (अ)त्रायुष्मन्तो यस्मात्तूष्णीमेवमेतद्धारयामि ॥ ___________________________________________________________ विइ. शैक्षा धर्माः इमे पुनरायुष्मन्तः संबहुलाः शैक्षा धर्मा अन्वर्धमासं प्रातिमोक्षसूत्रोद्देशमागच्छन्ति ॥ अ प्र्मोसू_शय.१: नात्युत्कृष्टं चीवरं निवासयिष्याम इति शिक्षा करणीया १ प्र्मोसू_शय.२: नात्यवकृष्टं चीवरं निवासयिष्याम इति शिक्षा करणीया २ प्र्मोसू_शय.३: न विकीर्णं चीवरं निवासयिष्याम इति शिक्षा करणीया ३ प्र्मोसू_शय.४: न वासिझडकं चीवरं निवासयिष्याम इति शिक्षा करणीया ४ प्र्मोसू_शय.५: न तालपत्रं चीवरं निवासयिष्याम इति शिक्षा करणीया ५ प्र्मोसू_शय.६: न हस्तिशुण्डं चीवरं निवासयिष्याम इति शिक्षा करणीया ६ प्र्मोसू_शय.७: न कुन्मांसपिण्डं चीवरं निवासयिष्याम इति शिक्षा करणीया ७ प्र्मोसू_शय.८: न कलापकं चीवरं निवासयिष्याम इति शिक्षा करणीया ८ प्र्मोसू_शय.९: न दुन्दुमं चीवरं निवासयिष्याम इति शिक्षा करणीया ९ प्र्मोसू_शय.१०: न मिलिमं चीवरं निवसयिष्याम इति शि(क्षा करणीया) १० प्र्मोसू_शय.११: न चूर्णसूत्रं ची(वरं निवासयिष्याम इति शिक्षा कर)णीया ११ प्र्मोसू_शय.१२: परिमण्डलं चीवरं निवासय्(इ)ष्याम इति शिक्षा करणीया १२ प्र्मोसू_शय.१३: नात्युत्कृष्टं चीवरं प्रावरिष्याम इति शिक्षा करणीया १३ प्र्मोसू_शय.१४: नात्यवकृष्टं चीवरं (प्रा)वरिष्याम इति शिक्षा करणीया १४ प्र्मोसू_शय.१५: न विकीर्णं चीवरं प्रावरिष्याम इति शिक्षा करण्(ई)य्(आ) १५ प्र्मोसू_शय.१६: परिमण्डलं चीवरं प्रावरिष्याम इति शिक्षा करणीय्(आ) १६ ॥ ___________________________________________________________ ब् प्र्मोसू_शै.ब्.१: सुसंवृता अन्तर्गृहं प्रवेक्ष्याम्(अ इति शिक्षा) करणीय्(आ) १ प्र्मोसू_शै.ब्.२: (सुस)ंवृता (अ)न्तर्गृहे निषत्स्याम इति (शिक्षा करणीया) २ प्र्मोसू_शै.ब्.३: सुप्रतिच्छन्ना अन्तर्गृहं प्र(वेक्ष्या)म इ(ति शिक्षा करणीया ३) प्र्मोसू_शै.ब्.४: (सु)प्रति(च्)छन्ना अन्तर्गृहे निषत्स्याम इति शिक्षा करणीया ४ प्र्मोसू_शै.ब्.५: नोत्क्षिप्तचक्षुषोऽन्तर्गृ(हं) प्रवेक्ष्याम इति शिक्ष्(आ) करणीया ५ प्र्मोसू_शै.ब्.६: नोत्क्षिप्तचक्षुषोऽन्तर्गृहे निषत्स्य्(आ)म इति शिक्षा करणीया ६ प्र्मोसू_शै.ब्.७: अल्पशब्दा (अ)न्तर्गृहं प्रवेक्ष्याम इति शिक्षा करणीय्(आ) ७ प्र्मोसू_शै.ब्.८: अल्पशब्दा (अ)न्तर्ग्(ऋ)हे निषत्स्याम इति शिक्षा करणीय्(आ) ८ प्र्मोसू_शै.ब्.९: नोच्चग्घिकया अन्तर्गृहं प्रवेक्ष्याम इति शिक्षा करणीया ९ प्र्मोसू_शै.ब्.१०: नोच्चग्घिकय्(आ अ)न्तर्गृहे निषत्स्याम इति शिक्षा करणीय्(आ) १० प्र्मोसू_शै.ब्.११: नोत्कुटुका (अ)न्तर्गृहं प्रवेक्ष्याम इति शिक्षा करणीया ११ प्र्मोसू_शै.ब्.१२: नोत्कुटुका (अ)न्तर्गृहे निषत्स्याम इति शिक्षा करणीय्(आ) १२ प्र्मोसू_शै.ब्.१३: न वेष्टितशिरसोऽन्तर्गृहं प्रवेक्ष्याम इति शिक्षा करणीया (१३) प्र्मोसू_शै.ब्.१४: न वेष्टितशिरसोऽन्तर्गृहे निषत्स्याम इति शिक्षा करणीया १४ प्र्मोसू_शै.ब्.१५: नाव(गु)ण्डिकाकृता अन्तर्गृहं (प्रव्)एक्ष्याम इति शिक्षा करणीय्(आ)१५ प्र्मोसू_शै.ब्.१६: नावगुण्डिकाकृता अन्तर्गृहे निषत्स्याम इति शिक्षा करणीया १६ प्र्मोसू_शै.ब्.१७: न कम्भाकृता (अ)न्तर्गृहं प्रवेक्ष्याम इति शिक्षा करणीय्(आ) १७ प्र्मोसू_शै.ब्.१८: न कम्भाकृता अन्तर्गृहे निषत्स्याम इति शिक्षा करणीया १८ प्र्मोसू_शै.ब्.१९: नोत्कृष्टिकाकृता (अ)न्तर्गृहं प्रवेक्ष्याम इति शिक्षा करणीया १९ प्र्मोसू_शै.ब्.२०: नोत्कृष्टिकाकृता (अ)न्तर्गृहे निषत्स्याम इति शिक्षा करणीया २० प्र्मोसू_शै.ब्.२१: नात्यस्तिकाकृता (अ)न्तर्गृहं प्रवेक्ष्याम इति शिक्षा करणीया २१ प्र्मोसू_शै.ब्.२२: नात्यस्तिकाकृता अन्तर्गृहे निषत्स्याम इति शिक्षा करणीया २२ प्र्मोसू_शै.ब्.२३: न विन्यस्तिकाकृता अन्तर्गृहं प्रवेक्ष्याम इति शिक्षा करणीया २३ प्र्मोसू_शै.ब्.२४: न विन्यस्तिकाकृता अन्तर्गृहे निषत्स्याम इति शिक्षा करणीया २४ प्र्मोसू_शै.ब्.२५: न विक्षिप्तिकाकृता अन्तर्गृहं प्रवेक्ष्याम इति शिक्षा करणीया २५ प्र्मोसू_शै.ब्.२६: न विक्षिप्तिकाकृता अन्तर्गृहे निषत्स्याम इति शिक्षा करणीया २६ प्र्मोसू_शै.ब्.२७: न पल्लत्थिकाकृता अन्तर्गृहं प्रवेक्ष्याम इति शिक्षा करणीया २७ प्र्मोसू_शै.ब्.२८: न पल्लत्थिकाकृता अन्तर्गृहे निषत्स्याम इति शिक्षा करणीया २८ प्र्मोसू_शै.ब्.२९: न बाहुप्रचालका अन्तर्गृहं प्रवेक्ष्याम इति शिक्षा करणीया (२९) प्र्मोसू_शै.ब्.३०: न बाहुप्रचालका अन्तर्गृहे निषत्स्याम इति शिक्षा करणीया ३० प्र्मोसू_शै.ब्.३१: न चांसप्रचालका अन्तर्गृहं प्रवेक्ष्याम इति शिक्षा करणीया ३१ प्र्मोसू_शै.ब्.३२: न चांसप्रचालका अन्तर्गृहे निषत्स्याम इति शिक्षा करणीया ३(२) प्र्मोसू_शै.ब्.३३: न शीर्षप्रचालका अन्तर्गृहं प्रवेक्ष्याम इति शिक्षा करणीया ३(३) प्र्मोसू_शै.ब्.३४: न शीर्षप्रचालका अन्तर्गृहे निषत्स्याम इति शिक्षा करणीया (३४) प्र्मोसू_शै.ब्.३५: न कायप्रचालका अन्तर्गृहं प्रवेक्ष्याम इति शिक्षा करणीया (३५) प्र्मोसू_शै.ब्.३६: न कायप्रचालका अन्तर्गृहे निषत्स्याम इति शिक्षा करणीया ३६ प्र्मोसू_शै.ब्.३७: न हस्तसंलग्निकयान्तर्गृहं प्रवेक्ष्याम इति शिक्षा करणीया (३७) प्र्मोसू_शै.ब्.३८: न हस्तसंलग्निकयान्तर्गृहे निषत्स्याम इति शिक्षा करणीया ३८ प्र्मोसू_शै.ब्.३९: न विडङ्गिकयान्तर्गृहं प्रवेक्ष्याम इति शिक्षा करणीया (३९) प्र्मोसू_शै.ब्.४०: न विडङ्गिकयान्तर्गृहे निषत्स्याम इति शिक्षा करणीया (४०) प्र्मोसू_शै.ब्.४१: न पादे पादमाधायान्तर्गृहे निषत्स्याम इति शिक्षा करणीया ४१ प्र्मोसू_शै.ब्.४२: न सक्थ्नि सक्थ्यारोप्यान्तर्गृहे निषत्स्याम इति शिक्षा करणीया ४२ प्र्मोसू_शै.ब्.४३: न पाणौ हनुमुपादायान्तर्गृहे निषत्स्यामो गृहिणो हास्यप्रेक्षिण इति शिक्षा करणीया ४३ ॥ ___________________________________________________________ च् प्र्मोसू_शै.च्.१: सत्कृत्यौदनं प्रतिगृहीष्याम इति शिक्षा करणीया १ प्र्मोसू_शै.च्.२: सत्कृत्य सूपं प्रतिगृहीष्याम इति शिक्षा करणीया २ प्र्मोसू_शै.च्.३: न स्तूपाकारं पिण्डपातं परिभोक्ष्याम इति शिक्षा करणीया ३ प्र्मोसू_शै.च्.४: समतित्तिक्(अं पि)ण्डपातं परिभोक्ष्याम इत्(इ शिक्षा कर)णीय्(आ) ४ प्र्मोसू_शै.च्.५: समसूपिकं पिण्डपातं परिभोक्ष्याम इति शिक्षा करणीय्(आ) ५ प्र्मोसू_शै.च्.६: न स्तूप्यवगुण्ठीकृतं पिण्डपातं परिभोक्ष्याम इति शिक्षा करणीया ६ प्र्मोसू_शै.च्.७: न व्युत्कण्ठशः पिण्डपातं परिभोक्ष्याम इति शिक्षा करणीया ७ प्र्मोसू_शै.च्.८: नातिमहान्तमालोपं करिष्याम इति शिक्षा करणीया ८ प्र्मोसू_शै.च्.९: परिमण्डलमालोपं करिष्याम इति शिक्षा करणीया ९ प्र्मोसू_शै.च्.१०: नानागते आलोपे मुखद्वारं विवरिष्याम इति शिक्षा करणीया १० प्र्मोसू_शै.च्.११: न सालोपेन मुखद्वारेण व्याहरिष्याम इति शिक्षा करणीया ११ प्र्मोसू_शै.च्.१२: न कबडच्छेदकं पिण्डपातं परिभोक्ष्याम इति शिक्षा करणीया १२ प्र्मोसू_शै.च्.१३: न शुशुक्कारकं पिण्डपातं परिभोक्ष्याम इति शिक्षा करणीया १३ प्र्मोसू_शै.च्.१४: न चुचुक्कारकं पिण्डपातं परिभोक्ष्याम इति शिक्षा करणीया (१)४ प्र्मोसू_शै.च्.१५: न फुफुक्कारकं पिण्डपातं परिभोक्ष्याम इति शि(क्षा) करणी य्(आ) १५ प्र्मोसू_शै.च्.१६: न गृष्महारकं पिण्डपातं परिभोक्ष्याम इति शिक्षा करणीया (१६) प्र्मोसू_शै.च्.१७: नोज्जिघ्रन्त(ः) पिण्डपातं परि(भोक्ष्याम इति शिक्षा करणीया १७) प्र्मोसू_शै.च्.१८: न जिह्वानिश्चारकं पिण्डपातं परिभोक्ष्याम इति शिक्षा करणीया (१)८ प्र्मोसू_शै.च्.१९: न हस्तावलेहकं पिण्डपातं परिभोक्ष्याम इति शिक्षा करणीया (१९) प्र्मोसू_शै.च्.२०: न पात्रावलेहकं पिण्डपातं परिभोक्ष्याम इति शिक्षा करणीया २० प्र्मोसू_शै.च्.२१: न हस्तावधूनकं पिण्डपातं परिभोक्ष्याम इति शिक्षा करणीया २१ प्र्मोसू_शै.च्.२२: न शिस्तविकिरं पिण्डपातं परिभोक्ष्याम इति शिक्षा करणीया २२ प्र्मोसू_शै.च्.२३: न सामिषेण पाणिना पानीयस्थालकं प्रतिगृहीष्याम इति शिक्षा करणीया २३ प्र्मोसू_शै.च्.२४: नात्मार्थमग्लाना ओदनं वा सूपं वा विज्ञापयिष्याम इ(ति शिक्षा करणीया) २४ प्र्मोसू_शै.च्.२५: नौदनेन सूपं प्रतिच्छादयिष्यामो भूयस्कामतामुपादाय इति शिक्षा करणी(या) २५ प्र्मोसू_शै.च्.२६: नावध्यानप्रेक्षिण अनन्तरिकस्य पात्रं व्यवलोकयिष्याम (इ)ति (शिक्षा करण्)ईया २६ प्र्मोसू_शै.च्.२७: पात्रसंज्ञिनः पिण्डपातं परिभोक्ष्याम इति शिक्षा करणी(या २७) प्र्मोसू_शै.च्.२८: सावदानं पिण्डपातं परिभोक्ष्याम इति शिक्षा करणीया २८ प्र्मोसू_शै.च्.२९: न सामिषं पात्रोदकमन्तर्गृहे छोरयिष्यामो गृहिणमनवलोक्येति शिक्षा करणीया (२९) ॥ ___________________________________________________________ द् प्र्मोसू_शै.द्.१: न यानाधिरूढस्याग्लानस्य धर्मं देशयिष्याम इति शिक्षा करणीया १ प्र्मोसू_शै.द्.२: न पुरतो गच्छतः पृष्ठतोऽनुगच्छन्त अग्लानस्य धर्मं देशयिष्याम इति शिक्षा करणीय्(आ) २ प्र्मोसू_शै.द्.३: न मार्गं गच्छतो ह्यमार्ग्(अं ग)च्छन्त अग्लानस्य धर्मं देशयिष्याम इति शिक्षा करणीया ३ प्र्मोसू_शै.द्.४: न स्थिता निषण्णस्याग्लानस्य धर्मं देशयिष्याम इति शिक्षा (कर)णीय्(आ) ४ प्र्मोसू_शै.द्.५: न नीचासन्(ए) निषण्णा उच्चासने निषण्णस्याग्लानस्य धर्मं देशयिष्याम इति शिक्षा क(रणीया) ५ प्र्मोसू_शै.द्.६: न नि(ष)ण्णा निपन्नस्याग्लानस्य धर्मं देशयिष्या(म इति शिक्षा करणीया ६) प्र्मोसू_शै.द्.७: न वेष्(ट्)इतशिरस अग्लानस्य धर्म(ं देशयिष्याम इति शिक्षा करणीया ७) प्र्मोसू_शै.द्.८: नावगुण्डिकाकृतस्याग्लानस्य्(अ धर्मं देशयिष्याम) इति (शिक्षा करणीया) ८ प्र्मोसू_शै.द्.९: न कंभाकृतस्याग्लानस्य धर्मं देशयिष्याम इति शिक्षा करणीया ९ प्र्मोसू_शै.द्.१०: नोत्कृष्टिकाकृतस्याग्लानस्य धर्मं देशयिष्याम इति शिक्ष करणीया १० प्र्मोसू_शै.द्.११: नात्यस्तिकाकृतस्याग्लानस्य धर्मं देशयिष्याम इति शिक्षा करणीया ११ प्र्मोसू_शै.द्.१२: न विन्यस्तिकाकृतस्याग्लानस्य धर्मं देशयिष्याम इति शिक्षा करणीया १२ प्र्मोसू_शै.द्.१३: न विक्षिप्तिकाकृतस्याग्लानस्य धर्मं देशयिष्याम इति शिक्षा करणीया १३ प्र्मोसू_शै.द्.१४: न पल्लत्थिकाकृतस्याग्लानस्य धर्मं देशयिष्याम इति शिक्षा करणीया (१४) प्र्मोसू_शै.द्.१५: न सोपानहकस्याग्लानस्य धर्मं देशयिष्याम इति शिक्षा करणीया १५ प्र्मोसू_शै.द्.१६: न सपादुकस्याग्लानस्य धर्मं देशयिष्याम इति शिक्षा करणीया (१६) प्र्मोसू_शै.द्.१७: न दण्डपाणेरग्लानस्य धर्मं देशयिष्याम इति (शिक्षा कर)णीया (१७) प्र्मोसू_शै.द्.१८: न च्छत्रपाणेरग्लानस्य धर्मं देशयिष्याम इति शिक्षा करणीया (१८) प्र्मोसू_शै.द्.१९: न शस्त्रपाणेः सर्वथा धर्मं देशयिष्याम इति श्(इ)क्षा करणीय्(आ) १९ प्र्मोसू_शै.द्.२०: न खड्गपा(णेः स)र्वथा (ध)र्मं देशयिष्(य्)आ(म इति शिक्ष्)आ करणीया २० प्र्मोसू_शै.द्.२१: नायुधपाणेः सर्वथा धर्म(ं) देशयिष्याम इति शिक्(ष्)आ कर्(अण्)ईय्(आ २१) प्र्मोसू_शै.द्.२२: न्(अ) हरित उच्चारप्रस्रावं खे(टं शिङ्घा)णकं करिष्याम इति (शिक्षा करणीया २२) प्र्मोसू_शै.द्.२३: न कल्पिक उदके पारिभोगीये उच्चारप्रस्रावं खेटं शिङ्घाणकं करिष्याम इति शिक्षा कर(णीया २३) प्र्मोसू_शै.द्.२४: न स्थि(त्)आ अग्लान्(आ) उच्(च्)आरप्रस्रावं करिष्याम इति (शिक्षा करणीया २४) प्र्मोसू_शै.द्.२५: न साधिकपौरुषं वृक्षमारोक्ष्यामोऽन्यत्र प्रत्य्(अयादित्)इ शिक्षा करणीया २५ । । उद्दिष्टा मयायुष्मन्तः संबहु(लाः शैक्षा) धर्मास्तत्राहमायुष्मतः पृच्छामि क(च्च्)इ(त्स्थ्)आ(त्र) परिशुद्द्(आ द्विरपि) त्र्(इ)रपि पृच्छामि कच्चित्स्थात्र परिशु(द्धाः) परिशु(द्धा अत्राय्)उष्म्(अन्तो यस्मात्तूष्णीमेवमेतद्धारयामि ॥) ___________________________________________________________ विइइ. अधिकरणशमथा धर्माः (इमे पुनरायुष्मन्तः सप्ताधि)करण(श)मथा धर्मा अन्वर्धमासं प्रातिमोक्षसूत्रोद्देशमागच्छन्ति । प्र्मोसू_अश्.१: संम्(उ)ख(व्)इनयार्हस्य संमुखविनय्(अं दास्यामः १) प्र्मोसू_अश्.२: (स्मृति)विनया(र्)हस्य (स्)मृति(विनयं दास्याम)ः २ प्र्मोसू_अश्.३: अमूढ(व्)इ(न)या(र्हस्)य अमूढविनयं दास्यामः ३ प्र्मोसू_अश्.४: प्रतिज्ञाविनयार्हस्य प्रतिज्ञां कार(यि)ष्याम(ः) ४ प्र्मोसू_अश्.५: तत्स्वभावैषिकार्हस्य तत्स्वभा(वैषिकां) दास्यामः ५ प्र्मोसू_अश्.६: यद्भूयेषिकार्हस्य यद्भूयेषिकं दास्यामः ६ प्र्मोसू_अश्.७: उत्पन्नो(त्पन्नान्यधिकरणानि) तृणप्रस्तारकेन व्युपशमयिष्यामो धर्मेण .इ... ७ (॥) उद्(द्)इष्टा मयायुष्मन्तः सप्ताधिकरणशमथा धर्मास्त्(अत्राहमायु)ष्मत(ः पृ)च्छामि कच्चित्स्थात्र परिशुद्धा द्विरपि त्रि(रपि) पृच्छामि कच्चित्स्थात्र (परिशुद्धाः परि)शुद्धा अत्रायुष्मन्तो यस्मात्तूष्णीमेवमेवाहं धारयामि ॥ ___________________________________________________________ (स्छ्लुस्स्तेइल्) इ (प्रोस) उद्द्(इ)ष्ट्(अ)ं मयायुष्मन्तः प्रातिमोक्षसूत्रस्य । । निदानमुद्दिष्टाश्चत्वारः पाराजिका धर्मा उद्दिष्टास्त्रयोदश संघावशेषा धर्मा उद्दिष्टौ द्वावनियतौ धर्मौ उद्दिष्टास्त्रिंश(न्न्)इःसर्गिकाः पातयन्तिका धर्मा उद्दिष्टा नवति पातयन्तिका धर्मा उद्दिष्टाश्चत्वारः प्रत्(इ)देशनीया ध(र्)म्(आ) उ(द्दि)ष्ट्(आः) संबहुला(ः) शैक्षा धर्मा उद्दिष्टाः सप्ताधिकरणशमथा धर्माः । एतावत्तस्य भगवतः सूत्रगतं सूत्रपर्यापन्नम् (अ)न्वर्धमासं प्रातिमोक्षसूत्रोद्देशमाग्(अच्छति) इति यो (व्)आ (पु)नरन्योऽप्(याग)च्छेद्धर्मस्यानुधर्मस्तत्र वः सहितैः समग्रैः संमोदमानैरविवदमानैरेकाग्र्(ऐ)रेकोद्देशैरेकक्षीरोदकीभूतै(ः) सुखं फा(षं) व्(इह)र्तव्यमिति शिक्षा करणीया ॥ ___________________________________________________________ इइ (वेर्से) प्र्मोसू_स्छ्लुस्स्_व्.१: क्षान्ति(ः) परमं तपस्तितीक्षा निर्वाणं परमं वदन्ति बुद्धाः न हि प्रव्रजित(ः प)रोपत्(आप्)ई (श्)रमणो भवति परा(न्) विहेठयानः १ प्र्मोसू_स्छ्लुस्स्_व्.२: चक्षुष्मान् विषमानी(व) विद्यमाने पराक्रमे पण्डितो जीवलोकेऽस्मि(न्) पापानि (परिवर्जयेत्२) प्र्मोसू_स्छ्लुस्स्_व्.३: (नोपवा)द्(ई) नोपघाती प्रातिमोक्षे च संवरः मात्रज्ञता च भक्तेषु प्रान्तं च शयनासनम् अधिचित्ते समायोग एतद्बुद्धस्य श्(आस)नम् ३ प्र्मोसू_स्छ्लुस्स्_व्.४: यथ्(आ)पि भ्रमरः पुष्पाद् वर्णगन्धावहेठयन् परैति रसमादाय तथा ग्रामां मुनिश्चरेत्४ प्र्मोसू_स्छ्लुस्स्_व्.५: न परेषां विलोमानि न परेषां कृताकृतम् आत्मनस्तु समीक्षेत समानि विषमानि च ५ प्र्मोसू_स्छ्लुस्स्_व्.६: अधिचेत्(अ)स्(इ) मा प्(र)मद्यत प्रततं मौनपदेषु शिक्षत शोका न भवन्ति तायिनो ह्युपशान्तस्य सदा स्मृतात्मनः ६ प्र्मोसू_स्छ्लुस्स्_व्.७: सर्वपापस्याकरणं कुशलस्योपसंपदः स्वचित्तपर्यवदनम् एतद्बुद्धस्य शासनं ७ प्र्मोसू_स्छ्लुस्स्_व्.८: कायेन संवरः साधु साधु वाचा च संवरः मनसा संवरः साधु साधु सर्वत्र संवरः सर्वत्र संवृतो भिक्षु(ः) सर्वदुःखात्प्रमुच्यते ८ प्र्मोसू_स्छ्लुस्स्_व्.९: वाचानुरक्षी मनसा सुसंवृतः कायेन चैवाकुशलं न कुर्यात् एतां शुभां कर्मपथां विशोधय(न्न्) आ(राधय्)एन् (मार्ग)मृषिप्रवेदितम् ९ प्र्मोसू_स्छ्लुस्स्_व्.१०: क्षिप्तः क्षिपेन्नैव हतो न हन्याद् वैरप्रसंगेषु भवेदवैर्(अः दुष्टे)षु च स्यात्सततं प्रसन्न(ः) (स्)व्(अ)य्(अं) न कुर्यात्परगर्हितं यत्१० प्र्मोसू_स्छ्लुस्स्_व्.११: सप्तभिर्लोकनायकैर् बुद्धवीरैर्महात्मभिः प्रातिमोक्षः समुद्दिष्टो निर्दिष्टश्च महर्षिणा ११ प्र्मोसू_स्छ्लुस्स्_व्.१२: अत्र सगौरवा बुद्धा बुद्धानां श्रावकाश्च ये अत्र सगौरवा भूत्वा तथान्योन्यसगौरवा ह्रीरवत्राप्यसंपन्ना(ः) प्राप्नुवन्ति ह्यसंस्कृतम् १२ प्र्मोसू_स्छ्लुस्स्_व्.१३: आरभध्वं निष्क्रमध्वं युज्यध्वं बुद्धशासने । धुनध्वं मृत्युनः सैन्यं नडागारमिव कुञ्जरः १३ प्र्मोसू_स्छ्लुस्स्_व्.१४: यो ह्यस्मिं धर्मविनये अप्रमत्तो भविष्यति प्रहाय जातिसंसारं दुःखस्यान्तं स (य्)आस्यति १४ प्र्मोसू_स्छ्लुस्स्_व्.१५: यस्यार्थ्(ए) सूत्रमुद्दिष्टं यस्यार्थे पोषथः कृतः तच्छीलमनुरक्षध्वं वालाग्र(ं) च(म)रो यथा १५ उद्दिष्ट(ः) प्रातिमोक्षः कृतः समग्रेण संघेन पोषथ इति ॥ प्रातिमोक्षसूत्रं समाप्त(म्) ॥