पोषधवस्तु (२५६) १. (५३ = ग्ब्म् ६.७०७) पिण्डोद्दानम्* ॥ तीर्थिका<ः> कप्फिण आवासो भिक्षुपेयालपश्चिमम्* ॥ ॥ २. उद्दानम्* ॥ तीर्थिकाः पोषधमाहुः किं न पोषधः क्रियते <।> विसंकेते न निषीदन्ति कुत्र पोषधमुद्दिशेत्* ॥ ॥ ३.१. भगवान् राजगृहे विहरति वेणुवने कलन्दकनिवापे । ३.२. तेन खलु समयेन <संबहुला> राजगृहीयका उपासका दिवादिवमेवोद्युक्ता अभूवन् भगवन्तं दर्शनायोपसंक्रमितुं पर्युपासनायै । ३.३. अथ <संबहुलानां> राजगृहीयकानामुपासकानामेतदभवत्* अतिप्रातस्तावदस्माकं भगवन्तं दर्शनायोपसंक्रमितुं पर्युपासनायै । प्रतिसंलीनो भगवान् प्रतिसंलीनाश्च मनोभावनीयाश्च भिक्षवो यन्नु वयं येनान्यतीर्थिकपरिव्राजकानामारामस्तेनोपसंक्रमेम । ३.४. अथ संबहुला राजगृहीयका उपासका येनान्यतीर्थिकपरिव्राजकानामारामस्तेनोपसंक्रान्ता उपसंक्रम्यान्यतीर्थिकपरिव्राजकैस्सार्धं संमुखं संमोदनीं संरञ्जनीं विविधां कथां व्यतिसार्यैकान्ते निषण्णाः <।> (२५८) ३.५. अथान्यतमस्तीर्थ्यस्तीर्थ्यानिदमवोचत्* किन्नु भवन्त्<ओऽस्माक्>अमेव निषद्या क्रिया पोषधश्च प्रज्ञायते आहोस्विच्छ्रमणानामपि शाक्यपुत्रीयाणां <।> ३.६. अथान्यतमस्तीर्थ्यस्तीर्थ्यानिदमवोचत्* अस्माकमेव भवन्तो निषद्या क्रिया पोषधश्च प्रज्ञायते न त्वेव श्रमणानां शाक्यपुत्रीयाणाम् । ३.७. अथ संबहुला राजगृहीयका उपासकाः संबहुलानामन्यतीर्थिकपरिव्राजकानां भाषितं नाभिनन्दन्ति न प्रतिक्रोशन्ति अनभिनन्द्याप्रतिक्रोश्य उत्थायासनेभ्यः प्रक्रान्ताः । ३.८. ते येन भगवांस्तेनोपसंक्रान्ताः उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वैकान्ते निषण्णाः <।> एकान्तनिषण्णा राजगृहीयका उपासका यावानेवैषामभूत्संबहुलैरन्यतीर्थिकपरिव्राजकैस्सार्धमन्तराकथासमुदाहारस्तत्सर्वं भगवतो विस्तरेणारोचयन्ति <।> ३.९. एवं चाहुरहो बत भगवानस्माकमपि निषद्या<ं> क्रिया<ं> पोषधं च प्रज्ञपयेदनुकंपामुपादाय । ३.१०. अधिवासयति भगवान् संबहुलानां राजगृहीयकानामुपासकानां तूष्णींभावेन । (२६०) ३.११. अथ संब<हु>ला राजगृहीयका उपासका भगवतः तूष्णींभावेनाधिवासनां विदित्वा भगवतो भाषितमभिनन्द्यानुमोद्य भगवतोऽन्तिकात्प्रक्रान्तः । ४. तत्र भगवान् भिक्षूनामन्त्रयते स्म । तस्मादनुजानामि भिक्षुभिरद्याग्रेण निषद्या क्रिया पोषधश्च प्रतिजागर्तव्यः । ५.१. उक्तं भगवता अद्याग्रेण भिक्षुभिर्निषद्या क्रिया पोषधश्च प्रतिजागर्तव्य इति । ते न जानन्ति का निषद्या का क्रिया कः पोषध इति । एतत्प्रकरणं भिक्षवो भगवत आरोचयन्ति । ५.२. भगवानाह । निषद्या उच्यते योगः <।> एत यूयं भिक्षव इममेव कायमूर्ध्वं पादतलादधः केशमस्तकात्त्वक्पर्यन्तं यथास्थितं यथाप्रणिहितं पूर्णं नानाप्रकारस्याशुचेः प्रत्यवेक्षध्वम् । सन्त्यस्मिन् काये केशा रोमाणि नखा दन्ता रजो मलं त्वङ्मांसमस्थि स्नायु सिरा वृक्का हृदयं प्लीहा क्लोमक आन्त्राण्यन्त्रगुणान्यामाशयः पक्वाशय औदर्यकं यकृत्पुरीषमश्रु स्वेदः खेटश्शिंघाणको वसा लसीका मज्जा मेदः पित्तं श्लेष्मा पूयः शोणितं मस्तकं (५४ = ग्ब्म् ६.१०५८) <मस्तकलुङ्गं मूत्रं> च इति । (२६२) ६.१. उक्तं भगवता योगो वाहयितव्य इति भिक्षवो गोचराय प्रसृता अपि योगं वाहयन्ति । ते भ्रान्तेन हस्तिना सार्धं समागच्छ<न्त्>इ <भ्रान्तेनाश्वेन भ्रान्तेन पदातिकेन च सार्धं समागच्छन्ति निपतन्ति । अश्राद्धा अवस्फण्डयन्ति । आर्याः किं न पश्यथेति ।> त्<ए> कथयन्ति । योगं वाहयामः । एतत्प्रकरणं भिक्षवो भ<ग>वत आरोचयन्ति । भगवानाह । न गोचराय प्रसृतेन योगो वाहयित्<अव्यः> । ६.२. <ते द्वारकोष्ठके योगं वाहयन्ति । प्रचालयन्ति च । अश्राद्धा अवस्फण्डयन्ति । एतत्प्रकरणं भिक्षवो भग>वत आरोचयन्ति । भगवानाह । न द्वारकोष्ठके योगो वाहयितव्यः । (२६४) ६.३. ते प्रासादे वाहयन्ति । स एवादीनवो भवति । भगवानाह । न भिक्षुण्<आ प्रासादे योगो वाहयि>तव्यः <।> ६.४. <ते> ल्<अ>य्<अ>न्<ए> व्<आहयन्ति । ध्यायिनां कण्टकशब्देन चित्तैकाग्र्यं न लभन्ते । एतत्प्रकरणं भिक्षवो भग>वत आरोचयन्ति । भगवानाह । न लयने योगो वाहयितव्यः <।> ६.५. ते अरण्ये भावयन्ति । चोरधूर्तसिंहव्याघ्रद्व्<ई>पृष्ठ<ई>नां गम्या भवन्ति <।> एतत्प्<रकरणं भिक्षवो भगवत आरोचयन्ति । भगवानाह । नारण्ये योगो भावयितव्यः ।> ६.६. <ते ग्रामस>मीपे स<मा>गत्य भावयन्ति । अश्राद्धा अवस्फण्डयन्ति । एतत्प्रकरणं भिक्षवो भगवत आरोचयन्ति । (२६६) भगवानाह । स प्रदेशः शाखाभिर्वा किटकैर्वा वेष्टयि<तव्यः ।> ६.७. <वेष्टितो भवति । अश्राद्धा अवस्फण्डयन्ति । आर्याः किमियं वाटिः कर्कटिकाया वा मूलस्य वा भवति ।> एतत्प्रकरणं भिक्षवो भगवत आरोचयन्ति । भगवानाह । स प्रदेशः कन्थाभिर्वा परिखाभिर्वा <वेष्टयितव्यः ।> ६.८. वेष्टितो भवति । अश्राद्धा अवस्<फण्डयन्ति । आर्याः किमियं वाटिर्मातुलुङ्गस्य वा दाडिमस्य वा भवति । ते कथयन्ति योगं वाहयामः । एतत्प्रकरणं भिक्षवो भ>गवत आरोचयन्ति । भगवानाह । तस्मादनुजानामि प्रहाणशाला मापयितव्या । ७. उक्तं भगवता प्रहाणशाला <माप>य्<इ>तव्<य्>ए<ति । ते न जानन्ति कीदृशा प्रहाणशाला । एतत्प्रकरणं भिक्षवो भगवत आरोचयन्ति ।> (२६८) <भगवानाह । द्वे प्रहाणशाले । खु>ड्डलिका महन्तिका च । खुड्डलिका द्वे लयने । मध्ये सुरुंगा । महन्तिका दशलयनिका द्वादशलयनिका वा । ८.१. भिक्ष<वो> लयनं कृत्व्<आ द्वारं न यथाग्राह्यं मुंचन्ति । भगवानाह । द्वारं मोक्तव्यम् ।> ८.२. <भिक्षवो कवाटिकां न ददन्ति । भगवानाह । कवाटिका दातव्या ।> ८.३. <दुःखमुद्घा>ट्यते । भगवानाह। आयामपटको दातव्यः <।> ८.४. शब्दं करोति । भगवानाह । अधस्ताच्चर्मखण्डको दातव्यः <।> ८.५ दुःखं बध्यते । भगवानाह । + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + (५४ १०) (२७०) ९.१. <अन्धकारो भवति । भगवानाह । वाताय>नो मोक्तव्यः । ९.२. अधस्तान्मुंचन्ति । चोरधूर्तसिंहव्याघ्राणां गम्या भवन्ति । भगवानाह । नाधस्तान्मोक्तव्यः <।> ९.३. उपरिष्टान्मुंचन्ति । स एवा<द्>ई<नवो भवति । भगवानाह । नोपरिष्टान्मोक्तव्यः । द्वौ भागौ छोरयितव्या । छोरयित्वा तृतीये> (५४ = ग्ब्म् ६.१०५७) <भागे मोक्तव्ये ।> ९.४. <त उपरिष्टाद्द्वौ भागौ> छ्<ओ>र्<अ>यित्वा अधस्तान्मुंचन्ति । भगवानाह । अधस्ताद्द्वौ भागौ च्छोरयित्वा उपरिष्टात्तृतीये भागे मोक्तव्यः । ९.५. भिक्षवो बहिर्विस्तीर्ण्<अमन्तःसंवृतं कुर्वन्ति । भगवानाह । वातायनः सागराकार इव मोक्तव्यः । बहिःसंवृतो अन्तर्विस्तीर्णः ।> ९.६. <काककलन्तककपोताः प्रविशन्ति ।> भगवानाह । जालवातायनं कर्तव्यः <।> (२७२) ९.७. त्र्यंबुकत्रैलाटाः प्रविशन्ति । भगवानाह । कवाटिका दातव्या । ९.८. वातेनोद्घाट्यते । <भगवानाह । ... दातव्याः ।> ९.९. <दुःखं बध्यते । भगवानाह । ... दातव्यः ।> ९.१०. <दुःखमुद्घाट्यते । भगवानाह । अजपदकदण्डकां कृत्वा ... बधयितव्या> । अजपदकदण्डकैरुद्घाटयितव्या । १०.१. तत्रासनेन कार्यम्* । भगवानाह । मृन्मयान्यासनानि कर्तव्यानि । १०.२. खक्खटा भवन्ति । भगवानाह <। पीठिका कर्तव्या ।> १०.३. <उक्तं भगवता पीठिका कर्तव्येति । ते न जानन्ति कीदृशा पीठिकेति । भगवानाह ।> + + + + + + + + + + + + + + + का कर्तव्या । ततः पश्चाद्वानैर्दातव्या । (२७४) १०.४. ते न जानते कति वाण इति । भगवानाह । पंच वाणाः । मुंजशाणवाल्वजो प्<अटः सूक्ष्ंो वेत्रः ।> १०.५. <खक्खटा भवन्ति । भगवानाह । तूलिकाः प्रास्तारयितव्याः ।> १०.६. <उक्तं भगवता तुलिकाः प्रास्तारयितव्याः । ते न जानते> कीदृशा तूलिकेति । भगवानाह । दैर्घे चत्वारो हस्ताः तिर्यग्द्वे । द्विपुटां कृत्वा सीवयितव्याः <।> ततः पश्चात्तूलिकेन पूरयित<व्याः ।> १०.७. ते न जा<नते कति तूलिकानीति । भगवानाह । पंच तूलिकानि । अर्ककाशिकैरकाबकशाल्मलीतूलिकानि> । अपराण्यपि पंच तूलानि । ऊर्णा शनः कर्पासो नन्तकानि पांसुतूलानि <।> १०.८. पूरिता भवन्ति । सर्वन् तत्तूलमेकं प्रदेशं गच्छति । भगवानाह । <सूत्रेणान्तरा काकपदका दातव्या ।> {च्f. स्ह्त्विइइ (एर्ग्.) १०३३ १: <सूत्रेणा>न्तरा काकपदका दातव्या} (२७६) ११.१. <निषद्य प्रचालयन्ति । भगवानाह ।> घटिर्{च्f. स्ह्त्विइइ (एर्ग्.) १०३३ १} <धारयितव्या ।> ११.२. <सा> पतति । <भगवानाह ।> सूत्रके बद्ध्वा कर्णे परिबध्य धारयितव्या । ११.३. तथापि प्रचालयन्ति । भगवानाह । यष्टिः सारयितव्या । ११.४. भिक्षवः कलमच्छेद्या कुर्वन्ति । व्रणं करोति । भग<वानाह ।> + + <छेद्या कर्तव्या ।> ११.५. <तथापि हन्ति । भगवानाह । नन्तकैर्वेष्टित्वा मन्दं सार>यितव्यम् । ११.६. तथापि प्रचालयन्ति । भगवानाह । कन्दुसकः क्षेप्तव्यः । (२७८) ११.७. भिक्षवोऽन्धकारे क्षिपन्ति <।> स न पश्यति । भगवानाह । सूत्रकैर्बद्ध्वा क्षेप्तव्यः <ततोऽपि प्रतिक>र्षितव्यः {च्f. स्ह्त्विइइ (एर्ग्.) १०३३ ४: ततः पश्चात्पुनराकर्षितव्यः} <।> ११.८. तथापि प्रच्<आलयन्ति । भगवानाह । पुरो दीपः स्थापयितव्यः ।> ११.९. <तथापि प्रचालयन्ति । भगवानाह । एकपादो>ऽव्<अ>तारयितव्यः <।> ११.१०. तथापि प्रचालयन्ति । भगवानाह । द्वितीयः पादोऽवतारयितव्यः । ११.११. तथापि प्रचालयन्ति । भगवानाह । उत्थाय चंक्र्<अमितव्यम् ।> १२.१. <भिक्षवश्... ।>{च्f. स्ह्त्विइइ (एर्ग्.) १०३३ १: <भिक्षवः चंक्रमन्ति + + + + + कान् धारिकां बद्धव्य्.>} <भगवानाह । ... ।> १२.२. <हस्तेन धारयन्ति । भगवानाह । ... धारयन्तश्च>ंक्रमितव्यम् । १२.३. सोपानत्काश्चंक्रमन्ते । शब्दं कुर्वन्ति । भगवानाह । न सोपानत्केन चंक्रमितव्यम् । (२८०) १२.४. पांसुना पादौ नश्येते । भगवानाह । कालक्<उथः> प्र्<आस्तारयितव्यः ।> १२.५. <स्निग्धं भवति । भगवानाह । प्राहाणिकस्याहं भिक्षवो भिक्षोरासमुदाचारिकां धर्मां प्रज्ञपयिष्यामि । प्राहा>णिकेन (५५ = ग्ब्म् ६.७०८) भिक्षुणा तृतीये तृतीये दिवसे पादौ प्रक्षालयितव्यौ । प्राहाणिको भिक्षुः यथाप्रज्ञप्तानासमुदाचारिकां धर्मां न समादाय वर्तते । सातिसारो भवति । १३.१. ते तत्र न मापयन्ति । भगवानाह । उपरिष्टा<द्> द्वितीयं पुरं कर्तव्य<म् ।> १३.२. <दुःखमभिरूह्यते । भगवानाह । सोपानपङ्क्तयः क>र्तव्याः <।> १३.३. प्रपातं भवति । भगवानाह । वेदिका परिक्षेप्तव्या <।> १३.४. तत्कंपते । भगवानाह । लोहकण्टकैः कीलयितव्या <।> १३.५. तथापि न मापयन्ति । भगवानाह । बहिर्वा लयनपङ्क्तिः कर्तव्या । (२८२) १३.६. तेऽपि सिद्धानि द्वाराणि कुर्वन्ति । ते प्<अरस्परमभिलोकयन्ति । भगवानाह । व्यस्तानि द्वा>राणि कर्तव्यानि । १४. ते तत्र प्रचालयन्ति । भगवानाह । द्वारमूले पटिकां वा पटकं वालंबयित्वा शयितव्यम्* नात्र कौकृत्यं करणीयम् । १५. ते ततो गता भवन्ति । न पुनरागच्छन्ति । भगवानाह । प्रहाणप्रतिजाग्रको भिक्षुस्संमन्त<व्यः ।> १६.१. <पंचभिर्धर्मैः समन्वागतः प्रहाणप्रति>जाग्रको भिक्षुः असंमतो न संमन्तव्यः <।> संमतश्चावकाशयितव्यः <।> कतमैः पंचभिः <।> छन्दाद्गच्छति द्वेषान्मोहाद्भयाद्गच्छति । जागृता<म>जागृतां प्रहाणं न जानाति । (२८४) एभिः पंचभिर्धर्मैस्समन्वागतः प्रहाणप्र<तिजाग्रको भिक्षुरसंमतो न संमन्तव्यः ।> संमतश्चावकाशयितव्यः । १६.२. पंचभिर्धर्मैस्समन्वागतः प्रहाणप्रतिजाग्रको भिक्षुः असंमतस्संमन्तव्यः <।> संमतश्च नावकाशयितव्यः <।> कतमैः पंचभिः <।> न च्छन्दाद्गच्छति न द्वेषान्न मोहान्न भयाद्गच्छति । प्रतिजागृत्<आमप्रतिजागृताञ्च प्रहाणं जानाति । एभिः> पंचभिर्धर्मैः समन्वागतः प्रहाणप्रतिजाग्रको भिक्षुरसंमतः संमन्तव्यः <।> संमतश्च नावकाशयितव्यः <।> १७.१. एवं च पुनः संमन्तव्यः <।> १७.२. शयनासनप्रज्ञप्तिं कृत्वा गण्डीमाकोट्य पृष्टवाचिकया भिक्षूं समनुयुज्य सर्वसं<घे सन्निषण्णे सन्निपतित एकेन भिक्षुणा पृष्टव्यम् ।> उत्सहसि त्वमेवंनामा संघस्य प्रहाणं प्रतिजागर्तुम् । तेन वक्तव्यमुत्सहे । (२८६) १७.३. ततः पश्चादेकेन भिक्षुणा ज्ञप्तिं कृत्वा कर्म कर्तव्यम् । १७.४. शृणोतु भदन्ताः संघः <।> अयमेवंनामा प्रहाणप्रतिजाग्रको भिक्षुः उत्सहते संघस्य प्रहा<णं प्रतिजागर्तुम् । सचेत्संघस्य प्राप्तकालं क्षमेतानु>जानीयात्संघो यत्संघ एवंनामानं प्रहाणप्रतिजाग्रकं संमन्येत । एवंनामा प्रहाणप्रतिजाग्रको भिक्षुः संघस्य प्रहाणं प्रतिजागरिष्यति <।> एषा ज्ञप्तिः <।> १७.५. एवं च कर्म कर्तव्यम् । शृणोतु भदन्ताः संघः <।> अ. ए<वंनामा प्रहाणप्रतिजाग्रको भिक्षुरुत्सहते संघस्य प्र>हाणं प्रतिजागर्तुम् । ब्. तत्संघ एवंनामानं प्रहाणप्रतिजाग्रकं भिक्षुं संमन्येत । अयमेवंनामा प्रहाणप्रतिजाग्रको भिक्षुः संघस्य प्रहाणं प्रतिजागरिष्यति <।> (२८८) च्. येषामायुष्मतां क्षमते एवंनामानं प्रहाणप्र<त्>इ<जाग्रकं भिक्षुं संमन्तुं यदेवंनामा प्रहाणप्रतिजाग्रको> भ्<इ>क्षुः संघस्य प्रहाणं प्रतिजागरिष्यति स तूष्णीं <।> न क्षमते भाषतां <।> द्. संमतः संघेन एवंनामा प्रहाणप्रतिजाग्रको भिक्षुः <।> अयमेवंनामा प्रहाणप्रतिजाग्रको भिक्षुः संघस्य प्रहाणं प्रतिजागरिष्यति । <क्षान्तमनुज्ञातं संघेन यस्मात्तूष्णीमेवम्> (५५ = ग्ब्म् ६.७०९) <एतद्धारया>मि । १८. प्रहाणप्रतिजाग्रकस्याहं भिक्षोरासमुदाचारिकान् धर्मान् प्रज्ञपयिष्यामि । प्रहाणप्रतिजाग्रकेन भिक्षुणा प्रहाणशाला सेक्तव्या । संमार्जितव्या । सुकुमारी गोमयकार्षी अनुप्रदातव्या । वर्चकुटी प्रसावकुटी च <संस्करयितव्या सेक्तव्या संमार्जितव्या । सुकुमारी गोमय>कार्षी (२९०) अनुप्रदातव्या । पत्रवैभङ्गुका स्थापयितव्या । मृत्तिकापानीयं स्थापयितव्यम् । १९.१. स तेषामेकैकं गत्वा शब्दापयति । भगवानाह । नैकैकः शब्दापयितव्यः <।> गण्डी आकोटयितव्या । १९.२. तेन विस्तरेण गण्डी दत्ता । या<वद्> + + + + + + + + + + + + + + + + + + सन्नह्यागताः <।> आर्याः किं चोराः पतिताः <।> ते कथयन्ति <।> भवन्तो न चौराः पतिता अपि तु प्रहाणं प्रतिजागरीम । ते कथयन्ति <।> आर्या विहेठं प्रतिजागृथ । कुतोऽत्र प्रहाणम्* एतत्प्रकरणं भिक्षवो भगवत आरोचयन्ति <। भगवानाह । गण्डी न विस्तरेण दातव्या ।> १९.३. ए<वम>त्र्<अ> प्<अं>च्<अ> ग्<अ>ण्ड्यः <।> सार्वसंघिका । कर्मगण्डी । अंसगण्डी । प्रहाणगण्डी । आपद्गण्डी च । (२९२) तत्र सार्वसंघिका तिद्रोघुमाः तिस्रः प्रहाराः <।> कर्मगण्डी तिद्रोघुमा द्वे प्रहारे । अ<ं>सगण्डी मुण्डिका । प्रहाणगण्डी ख<क्खरम् । आपद्गण्डी यावत्तुष्टम् ।> २०. <तेऽवशिष्टायां वे>लायां यथासुखं कुर्वन्ति । भगवानाह । कालं ज्ञात्वा यथासुखं कर्तव्यम्* ये संघलाभिनस्ते स्नात्वा संघेऽवतरिष्यंति । ये पिण्डपातिकास्ते हस्तपादौ प्रक्षाल्य ग्रामं पिण्डाय प्रवेक्ष्यन्ति <।> २१.१ त एवमेव यथासुखं कुर्वन्ति <। भगवानाह । एवमेव यथासुखं न कर्त>व्यम् । तृदण्डको भाषितव्यः <।> (२९४) २१.२. अतिमहान्तं भाषन्ते । भगवानाह । नातिमहान् भाषितव्यः <।> २१.३. ते त्वल्पं भाषन्ते । भगवानाह । नात्यल्पो भाषितव्यः <।> अपि तु परिमण्डलो भाषितव्यः <।> २२.१. दक्षिणा<न्> नादिशन्ति । भगवा<नाह । दक्षिनादेष्टव्या ।> (२९६) २२.२. <उक्तं भगवता दक्षि>णादेष्टव्येति । ते न जानते केनादेष्टव्येति । भगवानाह । संघस्थविरेण भिक्षुणा आदेष्टव्येति । २२.३. ते महतीन् दक्षिणामादिशन्ति । भगवानाह । न महती दक्षिणा आदेष्टव्या । २२.४. अत्यल्पामादिशन्ति । भगवा<नाह । नात्यल्पा दक्षिणादेष्टव्या । अपि> तु परिमण्डला दक्षिणा आदेष्टव्येति । २३.१. प्रहाणप्रतिजाग्रको भिक्षुः सर्वपृष्ठत आगच्छति । सर्वाग्रतो गच्छति । भगवानाह । प्रहाणप्रतिजाग्रकेन भिक्षुणा सर्वपृष्ठतो गन्तव्यम् । सर्वाग्रत आगन्तव्यं <।> २३.२. सचेत्तद्रूपः प्र<त्ययो भवति तेन रहोगते प्रदेशेऽपाव>रणीं गोपयित्वा वक्तव्यम् । आयुष्मानमुष्मिन् प्रदेशे मया अपावरणी गोपिता <।> उद्घाट्य प्रवेक्ष्यसे । २३.३. प्रहाणप्रतिजाग्रको भिक्षुर्यथाप्रज्ञप्तानासमुदाचारिकान् धर्मानसमादाय वर्तते सातिसारो भवति । २४. इय<मुच्यते निषद्या ।> (२९८) २५. <क्रिया कतमा । संघेन ज्ञप्तिर्ज्ञ>पृष्ठतिद्वितीयं ज्ञप्तिचतुर्थं कर्म । इयमुच्यते क्रिया । २६. पोषधः कतमः <।> यो वो मया भिक्षवो प्रातिमोक्षसूत्रोद्देश उद्दिष्टः स वोऽद्याग्रेणान्वर्धमासमुद्देष्टव्यः <।> २७. उक्तं भगवता अन्वर्धमासं प्रातिमोक्षसूत्रोद्देश उद्<द्>ए<ष्टव्य इति । ते न जानते केनोद्देष्टव्य इति ।> (५६ = ग्ब्म् ६.७१०) भगवानाह । संघस्थविरेणान्वर्धमासं प्रातिमोक्षसूत्रोद्देश उद्देष्टव्य इति । २८.१. उक्तं भगवता संघस्थविरेणान्वर्धमासं प्रातिमोक्षसूत्रोद्देश उद्देष्टव्य इति । भिक्षवस्तस्य लयनं गच्छन्ति । ते तत्र न मापयन्ति । एतत्प्रकरणं भिक्षवो भगवत आरोचयन्ति । भगवानाह । न लयने उद्देष्टव्यः <।> २८.२. ते प्रासादे उद्दिशन्ति । तत्रापि न मापयन्ति । भगवानाह । संघस्य पोषधामुखं संमन्तव्यम् । २९. उक्तं भगवता संघस्य पोषधामुखं संमन्तव्य<म्> इति । ते न जानते कुत्र संमन्तव्य<म्> इति । (३००) भगवानाह । यद्वस्तु सर्वाकारपरिनिष्ठितमन्तःसीमं बहिर्व्यामोप<वि>चारं संघस्य पोषधामुखमभिरुचितं तत्संघे<न> संमन्तव्यं <।> ३०.१. एवं च पुनः संमन्तव्यम् । ३०.२. शयनासन<प्र>ज्ञप्तिं कृत्वा गण्डीमाकोट्य पृष्टवाचिकया भिक्षून् समनुयुज्य सर्वसंघे सन्निषण्णे सन्निपतिते एकेन भिक्षुणा ज्ञप्तिं कृत्वा कर्म कर्तव्यम् । ३०.३. शृणोतु भदन्ताः संघः <।> इदं वस्तु सर्वाकारपरिनिष्ठितमन्तःसीमं बहिर्व्यामोपविचारं संघस्य पोषधामुखमभिरुचितं <।> सचेत्संघस्य प्राप्तकालं क्षमेतानुजानीयात्संघः यत्संघ इदं वस्तु सर्वाकारपरिनिष्ठितमन्तःसीमं बहिर्व्यामोपविचारं संघस्य पोषधामुखं संमन्येत । एषा ज्ञप्तिः । ३०.४. एवं च कर्म कर्तव्यं <।> शृणोतु भदन्ताः संघः <।> अ. इदं वस्तु सर्वाकारपरिनिष्ठितमन्तःसीमं बहिर्व्यामोपविचारं संघस्य पोषधामुखमभिरुचितं <।> (३०२) ब्. तत्संघ इदं वस्तु सर्वाकारपरिनिष्ठितमन्तःसीमं बहिर्व्यामोपविचारं संघस्य पोषधामुखं संमन्यते । च्. येषामायुष्मतां क्षमते इदं वस्तु सर्वाकारपरिनिष्ठितमन्तःसीमं बहिर्व्यामोपविचारं संघस्य पोषधामुखं संमन्तुं स तूष्णीम् । न क्षमते भाषताम् । द्. संमतः संघेन इदं वस्तु सर्वाकारपरिनिष्ठितमन्तःसीमं बहिर्व्यामोपविचारं संघस्य पोषधामुखं <।> क्षान्तमनुज्ञातं संघेन यस्मात्तूष्णीमेवमेतद्धारयामि । ३१.१. यत्र संघेन पोषधामुखं संमतं भवति तत्र भिक्षुभिर्निषद्य पोषधः कर्तव्यः प्रवारणा ज्ञप्तिर्ज्ञप्तिद्वितीयं ज्ञप्तिचतुर्थं कर्म कर्तव्यम् । ३१.२. व्यग्राः कुर्वन्ति सातिसारा भवन्ति ॥ ॥ ३२. उद्दानम्* ॥ कप्फिणेन कृता सीमा चीवरं तत्र संमतम् । अबद्धसीमे आवासेऽभिनिर्हारोऽभिसंहारः । कर्म च प्रातिमोक्षश्च मुखां पंच समुद्दिताः ॥ ॥ (३०४) ३३.१. राजगृहे निदानम्* ॥ ३३.२. तेन खलु समयेनायुष्मान् ब्राह्मणकप्फिणो राजगृहे विहरति सेनिकागुहायामेकपोषधावाससंवास<स>ंवृत्त्या संघस्य । ३३.३ अथ संबहुला भिक्षवस्तदेव पोषधे पंचदश्यां पोषधामुखे सन्निषण्णा<ः> सन्निपतिता यद्भूयसा आयुष्मन्तं ब्राह्मणकप्फिणमागमयमानाः <।> ३३.४. अथायुष्मतो ब्राह्मणकप्फिणस्यैतदभवत्* अद्य संघस्य पोषधः पांचदशिकः ममापि कप्फिणस्य भिक्षोः पोषधः पांचदशिकः <।> किन्नु गच्छेयं संघस्य पोषधामुखमाहोस्विन्न गच्छेयं संघस्य पोषधामुखं <।> (५६ = ग्ब्म् ६.७११) किन्नु प्रत्यनुभवेयं संघेन सार्धं पोषधमाहोस्विन्न प्रत्यनुभवेयम् । <किन्नु गच्छेयं> संघस्य संघकृत्येषु संघकरणीयेषु आहोस्विन्न गच्छेयम् । किन्नु प्रत्यनुभवेयं संघेन सार्धं संघकृत्यानि संघकरणीयान्याहोस्विन्न प्रत्यनुभवेयम् । (३०६) ३३.५. उक्तं च भगवता शुद्धस्य हि सदा फल्गु सदा शुद्धस्य पोषधः <।> शुचिकर्मणो हि शुद्धस्य तस्य संपद्यते व्रतम् <॥> इति । ३३.६. शुद्धोऽहमस्मि परमया शुद्ध्या समन्वागतः <।> ३४.१. अथ भगवानायुष्मतो ब्राह्मणकप्फिणस्य चेतसा चित्तमाज्ञाय वेणुवनेऽन्तर्हितः सेनिकागुहायां प्रत्यष्ठात्* आयुष्मतो ब्राह्मणकप्फिणस्य पुरत एवं चाह । ३४.२. ननु ते कप्फिण एकाकिनो रहोगतस्य प्रतिसंलीनस्यैवं चेतसि चेतःपरिवितर्क उदपादि । अद्य संघस्य पोषधः पांचदशिकः ममापि कप्फिणस्य भिक्षोः पोषधः पांचदशिकः पूर्ववद्यावत्* तस्य संपद्यते व्रतमिति <।> शुद्धोऽहमस्मि परमया शुद्ध्या समन्वागत इति । एवं भदन्त । ३४.३ त्वं तावत्कप्फिण न गमिष्यसि संघस्य पोषधामुखं कोऽन्यो गमिष्यति । त्वं न प्रत्यनुभविष्यसि संघेन सार्धं पोषधं कोऽन्यः प्रत्यनुभविष्यति । त्वं न गमिष्यसि संघस्य संघकृत्येषु सं<घ>करणीयेषु कोऽन्यो गमिष्यति । त्वं न प्रत्यनुभविष्यसि संघेन सार्धं संघकृत्यानि संघकरणीयानि कोऽन्यः प्रत्यनुभविष्यति । (३०८) ३४.४. गच्छ त्वं कप्फिण संघस्य पोषधामुखं मा न गच्छ <।> प्रत्यनुभव त्वं संघेन सार्धं पोषधं मा न प्रत्यनुभव । गच्छ त्वं कप्फिण संघस्य संघकृत्येषु संघकरणीयेषु मा न गच्छ <।> प्रत्यनुभव त्वं संघेन सार्धं संघकृत्यानि संघकरणीयानि मा न प्रत्यनुभव । ३४.५. अथ भगवानायुष्मन्तं ब्राह्मणकप्फिण आदाय येन पोषधामुखं तेनोपसंक्रान्तः <।> उपसंक्रम्य पुरस्ताद्भिक्षुसंघस्य प्रज्ञप्त एवासने निषन्नः <।> ३५. निषद्य भगवान् भिक्षूनामन्त्रयते स्म । तस्मात्तर्हि भिक्षवोऽनुजानामि भिक्षुभिरेकपोषधावाससंवृत्या{ओर्<एकपोषधावाससंवृत्त्या>} महती सीमा बद्धव्या । ३६.१ उक्तं भगवता एकपोषधावाससंवृत्या महती सीमा बद्धव्येति । भिक्षवो न जानते कथं बद्धव्येति । भगवानाह । पूर्वं तावदावासिकनैवासिकैर्भिक्षुभिर्महत्या<ः> सीमायाश्चतुर्दिशं स्थावरणिमित्तानि संलक्षयितव्यानि । पूर्वस्यान् दिशि कुड्यनिमित्तं वा वृक्षनिमित्तं वा शैलनिमित्तं वा प्राकारनिमित्तं वा प्राग्भारनिमित्तं वा <।> दक्षिणस्यां पश्चिमायामुत्तरस्यान् दिशि कुड्यनिमित्तं वा वृक्षनिमित्तं वा शैलनिमित्तं वा प्राकारनिमित्तं वा प्राग्भारनिमित्तं वा <।> (३१०) ३६.२. ततः पश्चाच्छयनासनप्रज्ञप्तिं कृत्वा गण्डीमाकोट्य पृष्टवाचिकया भिक्षून् समनुयुज्य सर्वसंघे सन्निषण्णे सन्निपतिते आवासिकनैवासिकैर्भिक्षुभिर्महत्या<ः> सीमायाश्चतुर्दिशं स्थावराणि निमित्तानि परिकीर्तयितव्यानि <।> पूर्वस्यां दिशि कुड्यनिमित्तं वा वृक्षनिमित्तं वा शैलनिमित्तं वा प्राकारनिमित्तं वा प्राग्भारनिमित्तं वा <।> दक्षिणस्यान् दिशि पश्चिमायामुत्तरस्यां दिशि कुड्यनिमित्तं वा वृक्षनिमित्तं वा <शैलनिमित्तं वा> प्राकारनिमित्तं वा प्राग्भारनिमित्तं वा <।> ३७.१. ततः पश्चादेकेन भिक्षुणा ज्ञप्तिं कृत्वा कर्म कर्तव्यम् । ३७.२. शृणोतु (५७ = ग्ब्म् ६.७१२) भदन्ताः संघो <।> ऽस्मिन्नावासे आवासिकनैवासिकैर्भिक्षुभिर्महत्या<ः> सीमायाश्चतुर्दिशं स्थावराणि निमित्तानि परिकीर्तितानि । पूर्वस्यान् दिशि कुड्यनिमित्तं वा वृक्षनिमित्तं वा शैलनिमित्तं वा प्राकारनिमित्तं वा प्राग्भारनिमित्तं वा <।> दक्षिणस्यां पश्चिमायामुत्तरस्यान् दिशि <कुड्यनिमित्तं वा वृक्षनिमित्तं वा शैलनिमित्तं वा प्राकारनिमित्तं वा प्राग्भारनिमित्तं वा ।> सचेत्संघस्य प्राप्तकालं क्षमेतानुजानीयात्संघो यत्संघ एषां निमित्तानामर्वागेकपोषधावाससंवाससंवृत्त्या महतीं सीमां (३१२) बध्नीयाद्यावच्चारण्यं यावच्च शयनासनं स्थापयित्वा ग्रामं च ग्रामोपविचारं च <।> एषा ज्ञप्तिः <।> ३७.३. एवं च कर्म कर्तव्यं <।> शृणोतु भदन्ताः संघो <।> अ.ऽस्मिन्नावासे आवासिकनैवासिकैर्भिक्षुभिर्महत्या<ः> सीमायाश्चतुर्दिशं स्थावराणि निमित्तानि परिकीर्तितानि <।> पूर्वस्यान् दिशि कुड्यनिमित्तं वा वृक्षनिमित्तं वा शैलनिमित्तं वा <प्राकारनिमित्तं वा> प्राग्भारनिमित्तं वा <।> दक्षिणस्यां पश्चिमायामुत्तरस्यान् दिशि कुड्यनिमित्तं वा वृक्षनिमित्तं वा <शैलनिमित्तं वा> प्राकारनिमित्तं वा प्राग्भारनिमित्तं वा <।> (३१४) ब्. तत्संघस्तेषां <निमित्तानाम्> अर्वागेकपोषधावाससंवृत्त्या महती<ं> सीमां बध्नाति । यावच्चारण्यं यावच्च शयनासनं स्थापयित्वा ग्रामं च ग्रामोपविचारं च <।> च्. येषामायुष्मतां क्षमते एषां निमित्तानामर्वागेकपोषधावाससंवृत्त्या संघस्य महतीं सीमां बद्धुं यावच्चारण्यं यावच्च शयनासनं स्थापयित्वा ग्रामं च ग्रामोपविचारं च स तूष्णीं <।> न क्षमते भाषतां <।> द्. बद्धा संघेन एषां निमित्तानामर्वागेकपोषधावाससंवृत्त्या संघस्य महती सीमा यावच्चारण्यं यावच्च शयनासनं स्थापयित्वा ग्रामं च ग्रामोपविचारं च <।> क्षान्तमनुज्ञातं संघेन यस्मात्तूष्णीमेवमेतद्धारयामि । ३८.१. यत्र संघेन महती सीमा बद्धा भवति तत्र भिक्षुभिर्निषद्य पोषधः कर्तव्यः प्रवारणा <ज्ञप्तिर्> ज्ञप्तिद्वितीयं ज्ञप्तिचतुर्थं कर्म कर्तव्यम् । ३८.२. व्यग्राः कुर्वन्ति सातिसारा भवन्ति । ३९. भिक्षवस्त्रिचीवरं गृहीत्वा दिवाविहारं गच्छन्ति । खेदमापद्यन्ते । एतत्प्रकरणं भिक्षवो आरोचयन्ति । भगवानाह । महत्या<ः> सीमाया अर्वाक्सर्वेषां भिक्षूणां चीवरकाणामविप्रवाससंवृतिर्दातव्या । (३१६) ४०.१. एवं च पुनर्दातव्या <।> ४०.२. शयनासनप्रज्ञप्तिं कृत्वा गण्डीमाकोट्य पृष्टवाचिकया भिक्षून् समनुयुज्य सर्वसंघे सन्निषण्णे सन्निपतिते एकेन भिक्षुणा ज्ञप्तिं कृत्वा कर्म कर्तव्यम् । ४०.३. शृणोतु भदन्ताः संघो <।> ऽस्मिन्नावासे समग्रेण संघेन एकपोषधावाससंवाससंवृत्या संघस्य महती सीमा बद्धा । सचेत्संघस्य प्राप्तकालं क्षमेतानुजानीयात्संघो यत्संघः महत्या<ः> सीमाया अर्वाक्सर्वेषां भिक्षूणां चीवरकाणामविप्रवाससंवृतिं दद्यादिति <।> एषा ज्ञप्तिः <।> ४०.४. एवं <च> कर्म कर्तव्यं <।> शृणोतु भदन्ताः संघः <।> अ. अस्मिन्नावासे समग्रेण संघेनैकपोषधावाससंवाससंवृत्त्या संघस्य महती सीमा बद्धा । ब्. तत्संघो महत्याः सीमायाः <अर्वाक्> सर्वेषां भिक्षूणां चीवरकाणामविप्रवाससंवृतिं ददाति । च्. येषामायुष्मतां क्षमते महत्याः सीमायाः <अर्वाक्> सर्वेषां भिक्षूणां चीवरकाणामविप्रवाससंवृतिं दातुं ते तूष्णीं <।> न क्षमते भाष<न्>ताम्* (३१८) (५७ = ग्ब्म् ६.७१३) द्. <दत्ता> संघेन महत्याः सीमायाः <अर्वाक्> सर्वेषां भिक्षूणां चीवरकाणामविप्रवाससंवृतिः <।> क्षान्तमनुज्ञातं संघेन यस्मात्तूष्णीमेवमेतद्धारयामि । ४१. यत्र संघेन महत्या<ः> सीमाया अर्वाग्भिक्षूणां चीवरकाणामविप्रवाससंवृत्तिर्दत्ता भवति । <तत्र> भिक्षूणां सान्तरोत्तरेण गन्तव्यं <।> नात्र कौकृत्यं करणीयम् । ४२.१. भिक्षूणां चतुर्वर्गकरणीयानि कर्माणि भवन्ति <।> पंचवर्गकरणीयाणि दशवर्गकरणीयानि कर्माणि भवन्ति । ४२.२. ते सर्वसंघं सन्निपातयन्ति । भिक्षूणां कुशलपक्षपरिहाणिर्भवति <।> एतत्प्रकरणं भिक्षवो भगवत आरोचयन्ति । भगवानाह । खुड्डलिका सीमा बद्धव्या । संमन्तव्यो मण्डलक <।> (३२०) ४३. एवं च पुनर्बद्धव्या <।> ४४.१. पूर्वं तावन्महती सीमा मोक्तव्या <।> ४४.२. एवं च पुनर्मोक्तव्या । ४४.३. शयनासनप्रज्ञप्तिं कृत्वा गण्डीमाकोट्य पृष्टवाचिकया भिक्षून् समनुयुज्य सर्वसंघे सन्निषण्णे सन्निपतिते एकेन भिक्षुणा ज्ञप्तिं कृत्वा कर्म कर्तव्यम् । ४४.४. शृणोतु भदन्ताः संघः <।> यावदेवास्मिन्नावासे समग्रेण संघेन एकपोषधावाससंवाससंवृत्या महती सीमा बद्धा <।> सचेत्संघस्य प्राप्तकालं क्षमेतानुजानीयात्संघो यत्संघः महतीं सीमां मुंचीत {fओर्<मुंचेत>} <।> एषा ज्ञप्तिः <।> ४४.५. एवं च कर्म कर्तव्यं <।> शृणोतु भदन्ताः संघः <।> अ. यावदेवास्मिन्नावासे समग्रेण संघेन एकपोषधावाससंवाससंवृत्या महती सीमा बद्धा <।> ब्. तत्संघो म<ह>तीं सीमां मुंचति <।> च्. येषामायुष्मतां क्षमते महतीं सीमां मोक्तुं ते तूष्णीं <।> न क्षमते भाषन्तां <।> द्. इयं प्रथमा कर्मवाचना द्वितीया तृतीया कर्मवाचना । ए. मुक्ता संघेन महती सीमा <।> क्षान्तमनुज्ञातं संघेन यस्मात्तूष्णीमेवमेतद्धारयामः {fओर्<धारयामि>?} <।> (३२२) ४५.१. ततः पश्चादावासिकनैवासिकैर्भिक्षुभिः खुड्डलिकायाः सीमायाश्चतुर्दिशं स्थावराणि निमित्तानि संलक्षयितव्यानि । पूर्वस्यां दिशि कुड्यनिमित्तं वा वृक्षनिमित्तं वा शैलनिमित्तं वा प्राकारनिमित्तं वा प्राग्भारनिमित्तं वा मा<र्>ष्टीका वा क<ड्>ढितव्या शिला वा उच्छ्रेपयितव्या कीलको <वा> निखन्तव्यः <।> दक्षिणस्यां पश्चिमायामुत्तरस्यां दिशि कुड्यनिमित्तं वा वृक्षनिमित्तं वा शैलनिमित्तं वा प्राकारनिमित्तं वा प्राग्भारनिमित्तं वा मा<र्>ष्टीका वा क<ड्>ढितव्या शिला वा उच्छ्रेपयितव्या कीलको वा निखन्तव्यः <।> ४५.२. ततः पश्चाच्छयनासनप्रज्ञप्तिं कृत्वा गण्डीमाकोट्य पृष्टवाचिकया भिक्षून् समनुयुज्य सर्वसंघे सन्निषण्णे सन्निपतिते आवासिकनैवासिकैर्भिक्षुभिः खुड्डलिकायाः सीमायाश्चतुर्दिशं स्थावराणि निमित्तानि परिकीर्तयितव्यानि <।> पूर्वस्यां दिशि कुड्यनिमित्तं वा वृक्षनिमित्तं वा <शैलनिमित्तं वा> प्राकारनिमित्तं वा प्राग्भारनिमित्तं वा मा<र्>ष्टीका वा क<ड्>ढिता शिला वा उच्छ्रेपिता कीलको <वा> निखातः <।> दक्षिणस्यां पश्चिमायामुत्तरस्यां दिशि कुड्यनिमित्तं वा वृक्षनिमित्तं वा शैलनिमित्तं वा प्राकारनिमित्तं वा प्राग्भारनिमित्तं वा मा<र्>ष्टीका वा क<ड्>ढिता शिला <वा> उच्छ्रेपिता कीलको वा निखातः <।> ४६.१. ततः पश्चादेकेन भिक्षुणा ज्ञप्तिं कृत्वा कर्म कर्तव्यम् । ४६.२. शृणोतु भदन्ताः संघः <।> यावदेवास्मिन्नावासे आवासिकनैवासिकैर्भिक्षुभिः खुड्डलिका<याः> (५८ = ग्ब्म् ६.७१४) सीमायाः चतुर्दिशं स्थावराणि निमित्तानि परिकीर्तितानि <।> पूर्वस्यान् दिशि कुड्यनिमित्तं वा वृक्षनिमित्तं वा शैलनिमित्तं वा प्राकारनिमित्तं वा प्राग्भारनिमित्तं वा मार्ष्टीका वा क<ड्>ढिता शिला वा उच्छ्रेपिता कीलको वा निखातः <।> (३२४) <दक्षिणस्यां पश्चिमायामुत्तरस्यां दिशि कुड्यनिमित्तं वा वृक्षनिमित्तं वा शैलनिमित्तं वा प्राकारनिमित्तं वा प्राग्भारनिमित्तं वा मार्ष्टीका वा कड्ढिता शिला वा उच्छ्रेपिता कीलको वा निखातः ।> सचेत्संघस्य प्राप्तकालं क्षमेतानुजानीयात्संघो यत्संघ एषां <निमित्तानां> अर्वाक्खुड्डलिकां सीमां बध्नीयात्संमन्येत मण्डलकं <।> एषा ज्ञप्तिः <।> ४६.३. एवं च कर्म कर्तव्यम् । शृणोतु भदन्ताः संघः <।> अ. यावदेवास्मिन्नावासे आवासिकनैवासिकैर्भिक्षुभिः खुड्डलिकायाः सीमायाश्चतुर्दिशं स्थावराणि निमित्तानि परिकीर्तितानि <।> पूर्वस्यान् दिशि कुड्यनिमित्तं वा वृक्षनिमित्तं वा शैलनिमित्तं वा प्राकारनिमित्तं वा प्राग्भारनिमित्तं वा मार्ष्टीका वा क<ड्>ढिता शिला वा उच्छ्रेपिता कीलको वा निखातः <।> दक्षिणस्यां पश्चिमायामुत्तरस्यान् दिशि कुड्यनिमित्तं वा वृक्षनिमित्तं वा शैलनिमित्तं वा प्राकारनिमित्तं वा प्राग्भारनिमित्तं वा मार्ष्टीका वा क<ड्>ढिता शिला वा उच्छ्रेपिता <कीलको वा निखातः ।> ब्. तत्संघ एषां <निमित्तानाम्> अर्वाक्खुड्डालिकां सीमां बध्नाति <।> संमन्यति मण्डलकं <।> च्. येषामायुष्मतां क्षमते एषां <निमित्तानाम्> अर्वाक्खुड्डलिकां सीमां बद्धुं <मण्डलकं सम्मन्तुं> स तूष्णीम् । न क्षमते भाषतां <।> (३२६) द्. बद्धा संघेन एषा<ं> निमित्तानामर्वाक्खुड्डलिका सीमा <।> संमतो मण्डलकः <।> क्षान्तमनुज्ञातं संघेन यस्मात्तूष्णीमेवमेतद्धारयामि । ४७.१. ततः पश्चान्महती सीमा बद्धव्या । ४७.२. एवं च पुनर्बद्धव्या । ४७.३. पूर्वं तावत्* महत्याः सीमाया आवासिकनैवासिकैर्भिक्षुभिश्चतुर्दिशं स्थावराणि निमित्तानि संलक्षयितव्यानि <।> पूर्ववद्विस्तरेण वाच्यम्* । ४८.१ ततः पश्चान्महत्याः सीमाया अर्वाग्भिक्षूणां चीवरकाणामविप्रवाससंवृतिर्दातव्या । ४८.२. एवं च पुनर्दातव्या <।> ४८.३. शयनासनप्रज्ञप्तिं कृत्वा पूर्ववत्* विस्तरेण । ४९.१. आयुष्मानुपाली बुद्धं भगवन्तं पृच्छति । अबद्धसीमे भदन्तावासे का सीमा । कुड्यान्तरमुपालिं सामन्तकेन <।> (३२८) ४९.२. ये कुड्यस्याभ्यन्तरे भिक्षवः प्रतिवसन्ति तैरेकध्ये निषद्य पोषधः कर्तव्यः प्रवारणा ज्ञप्तिः ज्ञप्तिद्वितीयं ज्ञप्तिचर्तुर्थं कर्म कर्तव्यम् । ४९.३. व्यग्राः कुर्वन्ति सातिसारा भवन्ति । ५०.१. आयुष्मानुपाली बुद्धं भगवन्तं पृच्छति । अग्रामके भदन्तारण्यायतने का सीमा । क्रोशमुपालिं सामन्तकेन <।> ५०.२. ये क्रोशस्याभ्यन्तरे भिक्षवः प्रतिवसन्ति सर्वैस्तैरेकध्ये निषद्य पोषधः प्रवारणा विस्तरेण । .५०.३. व्यग्राः कुर्वन्ति सातिसारा भवन्ति । (३३०) ५१. आयुष्मानुपाली बुद्धं भगवन्तं पृ<च्छ>ति । लभ्यं भदन्त एकया ज्ञप्त्या एकेन कर्मकारकेण एकया कर्मवाचनया सान्तर्बहिर्मुखीं सीमामभि<सं>हर्तुं वा अभिनिर्हर्तुं वा । लभ्यमुपालिम् । तत्रायमभिसंहारः संकोचः <।> तत्रायमभिनिर्हारः विस्तारः <।> ५२. एवं च पुनर्बद्धव्या <।> ५३.१. पूर्वं तावन्महती सीमा मोक्तव्या । खुड्डलिका सीमा मोक्तव्या । प्रतिप्रस्रंभितव्यो मण्डलकः <।> (३३२) ५३.२. एवं च पुनर्मोक्तव्या <।> ५३.३. शयनासनप्रज्ञप्तिं कृत्वा गण्डीमाकोट्य पृष्टवाचिकया भिक्षून् समनुयुज्य सर्वसंघे सन्निषण्णे सन्निपतिते उभयतःसीमायां संघं स्थापयित्वा कर्मकारकेण (५८ = ग्ब्म् ६.७१५) भिक्षुणा उभे सीमे काष्ठेन वा दण्डेन वा किट्<अक्>एन वा किलिंजेन वा अवष्टभ्य (३३४) ज्ञप्तिं कृत्वा कर्म कर्तव्यं <।> ५३.४. शृणोतु भदन्ताः संघः <।> यावदेवास्मिन्नावासे समग्रेण संघेन एकपोषधावाससंवाससंवृत्या महती सीमा बद्धा <।> खुड्डलिका सीमा बद्धा <।> संमतो मण्डलकः <।> सचेत्संघस्य प्राप्तकालं क्षमेतानुजानीयात्संघः यत्संघः महतीं सीमां मुंचीत {fओर्<मुंचेत>} <।> खुड्डलिकां सीमां मुंचीत <।> प्रतिप्रस्रंभेत मण्डलकं <।> एषा ज्ञप्तिः । ५३.५. एवं च कर्म कर्तव्यं <।> शृणोतु भदन्ताः संघः <।> अ. यावदेवास्मिन्नावासे समग्रेण संघेन एकपोष<धावास>संवाससंवृत्या महती सीमा बद्धा <।> खुड्डलिका सीमा बद्धा <।> संमतो मण्डलकः <।> ब्. तत्संघः महतीं सीमां मुंचति <।> खुड्डलिकां सीमां मुंचति । प्रतिप्रस्रंभयति मण्डलकं <।> च्. येषामायुष्मतां क्षमते महतीं सीमां मोक्तुं <। खुड्डलिकां सीमां मोक्तुम् ।> प्रतिप्रस्रब्धुं मण्डलकं स तूष्णीं <।> न क्षमते भाषन्तां <।> द्. इयं प्रथमा कर्मवाचना द्वितीया तृतीया कर्मवाचना । ए. मुक्ता संघेन महती सीमा <।> मुक्ता खुड्डलिका सीमा <।> प्रतिप्रस्रब्धो मण्डलकः <।> क्षान्तमनुज्ञातं संघेन यस्मात्तूष्णीमेवमेतद्धा<रया>मि । (३३६) ५४. तत्र यदीच्छन्ति विस्तारयितव्याः <।> नोचेत्संकोचयितव्याः <।> ५५.१. ततः पश्चादावासिकनैवासिकैर्भिक्षुभिः खुड्डलिकाया<ः> सीमायाश्चतुर्दिशं स्थावराणि निमित्तानि संलक्षयितव्यानि । पूर्वस्यां दिशि कुड्यनिमित्तं वा वृक्षनिमित्तं वा शैलनिमित्तं वा प्राकारनिमित्तं वा प्राग्भारनिमित्तं वा मार्ष्टीका वा क<ड्>ढितव्या शिला वा उच्छ्रेपयितव्या कीलको वा निखन्तव्यः <।> यथा पूर्वस्यां दिश्येवं दक्षिणस्यां पश्चिमायामुत्तरस्यां दिशि <।> ५५.२. ततः पश्चाच्छयनासनप्रज्ञप्तिं कृत्वा गण्डीमाकोट्य पृष्टवाचिकया भिक्षून् समनुयुज्य सर्वसंघे सन्निषण्णे सन्निपतिते आवासिकनैवासिकैर्भिक्षुभिः खुड्डलिकायाः सीमायाश्चतुर्दिशं स्थावरनिमित्तानि परिकीर्तयितव्यानि <।> (३३८) पूर्ववद्यावत्कीलको <वा> निखातः <।> ५६. महत्याः सीमायाश्चतुर्दिशं स्थावराणि निमित्तानि परिकीर्तयितव्यानि । पूर्ववद्यावत्प्राग्भारनिमित्तं वा । ५७.१. ततः पश्चादुभयतःसीमायां संघं स्थापयित्वा कर्मकारकेण भिक्षुणा उभे सीमे काष्ठेन वा दण्डेन वा किटकेन वा किलिंजेन वा अवष्टभ्य ज्ञप्तिं कृत्वा कर्म कर्तव्यं <।> ५७.२. शृणोतु भदन्ताः संघः <।> यावदेवास्मिन्नावासे आवासिकनैवासिकैर्भिक्षुभिः खुड्डलिकायाः सीमायाश्चतुर्दिशं स्थावरनिमित्तानि परिकीर्तितानि । पूर्ववद्यावत्कीलको <वा> निखातः <।> महत्या<ः> सीमायाश्चतुर्दिशं स्थावराणि निमित्तानि परिकीर्तितानि <।> पूर्ववद्यावत्प्राग्भारनिमित्तं वा । सचेत्संघस्य प्राप्तकालं क्षमेतानुजानीयात्संघो यत्संघः एषाम् <आघटनानाम्> अर्वक्खुड्डलिकां सीमां बध्नीयात्संमन्येत मण्डलकं <।> तेषामाघटनानामर्वागेकपोषधावाससंवाससंवृत्या (३४०) महती<ं> सीमा<ं> बध्नीयात्* यावच्चारण्यं यावच्च शयनासनं स्थापयित्वा ग्रामं च ग्रामोपविचारं च <।> एषा ज्ञप्तिः । (५९ = ग्ब्म् ६.७१६) ५७.३. एवं <च> कर्म कर्तव्यं <।> शृणोतु भदन्ताः संघः <।> अ. यावदेवास्मिन्नावासे आवासिकनैवासिकैर्भिक्षुभिः खुड्डलिकायाः सीमायाश्चतुर्दिशं स्थावराणि निमित्तानि परिकीर्तितानि <।> पूर्ववद्यावत्कीलको <वा> निखातः <।> महत्याः सीमायाश्चतुर्दिशं स्थावराणि निमि<त्ता>नि परिकीर्तितानि <।> पू<र्व>वद्यावत्प्राग्भारनिमित्तं वा <।> ब्. तत्संघ एषामाघटनानामर्वा<क्> खुड्डलिकां सीमां बध्नाति । संमन्यते मण्डलकं <।> तेषामाघटनानामर्वागेकपोषधावाससंवाससंवृत्त्या महतीं सीमां बध्नाति । यावच्चारण्यं यावच्च शयनासनं स्थापयित्वा ग्रामं च ग्रामोपविचारं च <।> (३४२) च्. येषामायुष्मतां क्षमते एषामाघटनानामर्वाक्खुड्डलिकां सीमां बद्धुं संमतुं मण्डलकं तेषामाघटनानामर्वागेकपोषधावाससंवाससंवृत्या महती<ं> सीमां बद्धुं <यावच्चारण्यं यावच्च शयनासनं> स्थापयित्वा ग्रामं च ग्रामोपविचारं च ते तूष्णीं <।> न क्षमते भाषन्तां <।> ए. बद्धा संघेन एषामाघटनानाण्<अर्वाक्> खुड्डलिका सीमा <।> संमतो मण्डलकः <। बद्धा> तेषामाघटनानामर्वागेकपोषधावाससंवाससंवृत्या महती सीमा यावच्चारण्यं यावच्च शयनासनं स्थापयित्वा ग्रामं च ग्रामोपविचारं च <।> क्षान्तमनुज्ञातं संघेन यस्मात्तूष्ण्<ई>मेवमेतद्धारयामि । ५८. ततः पश्चात्खुड्डलिकायाः सीमाया निर्गत्य महत्याः सीमायाः शयनासनप्रज्ञप्तिं कृत्वा भिक्षूणां चीवरकाणामविप्रवाससंवृतिर्दातव्या <।> पूर्ववद्यावत्* (३४४) ५९. आयुष्मानुपाली बुद्धं भगवन्तं पृच्छति । कति भदन्त पोषधकर्माणि । चत्वार्युपालिम् । अ. अधर्मेण कुर्वन्ति व्यग्राः <।> ब्. अधर्मेण समग्राः <।> च्. धर्मेण व्यग्राः <।> द्. धर्मेण समग्राः <।> तत्रैकं धार्मिकं पोषधकर्म यदिदं धर्मेण कुर्वन्ति समग्राः ॥ ६०. आयुष्मानुपाली बुद्धं भगवन्तं पृच्छति । कति भदन्त प्रातिमोक्षसूत्रोद्देशाः । पंचोपालिम् । अ. ज्ञप्तिं कृत्वा निदानमुद्दिश्य अवशिष्टं श्रुतेन श्रावयन्ति । उद्दिष्टः प्रातिमोक्षः कृतः संघेन पोषधः <।> ब्. ज्ञप्तिं कृत्वा निदानमुद्दिश्य चत्वारः पाराजिकान् धर्मानुद्दिश्य अवशिष्टं श्रुतेन श्रावयन्ति । उद्दिष्टः प्रातिमोक्षः कृतः संघेन पोषधः <।> (३४६) च्. ज्ञप्तिं कृत्वा निदानमुद्दिश्य चत्वारः पाराजिकान् धर्मानुद्दिश्य त्रयोदश संघावशेषा<न्> धर्मानुद्दिश्य अवशिष्टं श्रुतेन श्रावयन्ति । उद्दिष्टः प्रातिमोक्षः कृतः संघेन पोषधः <।> द्. ज्ञप्तिं कृत्वा निदानमुद्दिश्य चत्वारः पाराजिकान् धर्मानुद्दिश्य त्रयोदश संघावशेषान् धर्मानु<द्दिश्य> द्वावनियतौ धर्मावुद्दिश्य अवशिष्टं श्रुतेन श्रावयन्ति । उद्दिष्टः प्रातिमोक्षः कृतः संघेन पोषधः <।> ए. विस्तरेण प्रातिमोक्षसूत्रोद्देश एव पञ्चमः ॥ ॥ ६१. उद्दानम् । आवासवर्षागन्तुकचारिका कुरु पोषध<म् ।> रात्रिश्चैवातिक्रामति चित्तोत्पादेन पोषधः ॥ ॥ ६२.१. यथापि तदन्यतरस्मिन्नावासे संबहुला भिक्षवः प्रतिवसन्ति <।> तेषामेवं भवति । अमुकस्य भिक्षोर्<उद्>दिश्यते प्रातिमोक्ष अमुकस्य भिक्षोर्<उद्>दिश्यते प्रातिमोक्ष इति <।> तेषां तदेव पोषधे पञ्चदश्यां न कस्यचिद्भिक्षोरुद्दिश्यते प्रातिमोक्षः <।> (३४८) <भगवानाह । स> तैर्भिक्षुभिः (५९ = ग्ब्म् ६.७१७) भिक्षुः पर्येषितव्यः वस्तुपरिहारेण शयनासनपरिहारेण <कर्मपरिहारेण> लाभपरिहारेणोपस्थायकपरिहारेण यस्य भिक्षोर्<उद्>दिश्यते प्रातिमोक्षः <।> सचेत्संपद्यते इत्येवं कुशलं <।> नोचेत्संपद्यते न तैर्भिक्षुभिस्तस्मिन्नावासे अन्यत्पोषधमागमयि<तव्>यमा<गमयन्ति सातिसा>रा भवन्ति ॥ ६२.२. यथापि तदन्यतरस्मिन्नावासे संबहुला भिक्षवः पूर्विकां वर्षामुपगन्तुकामा भवन्ति <।> तेषामेवं भवत्य्<।> अमुकस्य भिक्षोरुद्दिश्यते प्रातिमोक्ष <अमुकस्य भिक्षोरुद्दिश्यते प्रातिमोक्ष> इति <।> (३५०) तेषां तदेव पोषधे पञ्चदश्यां न कस्यचिद्भिक्षोर्<उद्>दिश्यते प्रातिमोक्षः <। भगवानाह । स> तैर्भिक्षुभिर्भिक्षुः पर्येषि<तव्यो> वस्तुपरिहारेण शयनासनपरिहारेण कर्मपरिहारेण ल्<आ>भपरिहारेण उपस्थायकपरिहारेण यस्य भिक्षोर्<उद्>दिश्यते प्रातिमोक्षः <।> सचेत्संपद्यतेऽत्येवं कुशलं <।> नोचेत्संपद्यते न तैर्भिक्षुभिस्तस्मिन्नावासे पूर्विकां वर्षामुपगन्तव्यं <।> उपगच्छन्ति सातिसारा भवन्ति ॥ ६२.३. यथापि तदन्यतमस्मिन्नावासे संबहुला भिक्षवः पूर्विकां वर्षामुपगन्तुकामा भवन्ति <।> <तेषामेवं भवति ।> अमुकस्य भिक्षोरुद्दिश्यते प्रातिमोक्ष अमुकस्य भिक्षोरुद्दिश्यते प्रातिमोक्ष इति । तेषां तदेव पोषधे पञ्चदश्यां न कस्यचिद्भिक्षोरुद्दिश्यते प्रातिमोक्षः । <भगवानाह ।> स तैर्भिक्षुभिर्भिक्षुः पर्येषितव्यः वस्तुपरिहारेण <शयनासनपरिहारेण> कर्मपरिहारेण लाभपरिहारेणोपस्थायकपरिहारेण यस्य भिक्षोरुद्दिश्यते प्रातिमोक्षः <।> सचेत्संपद्यतेऽत्येवं कुशलं <।> नोचेत्संपद्यते न तैर्भिक्षुभिस्तस्मिन्ना<वा>से पूर्विकां वर्षां वस्तव्यम् । वसन्ति सातिसारा भवन्ति । (३५२) ६२.४ यथापि तदन्यतमस्मिन्नावासे संबहुला भिक्षवः पश्चिमिकां वर्षामुपगन्तुकामा भवन्ति <।> तेषामेवं भवत्य्<।> अमुकस्य भिक्षोरुद्दिश्यते प्रातिमोक्ष अमुकस्य भिक्षोरुद्दिश्यते प्रातिमोक्ष इति । तेषां तदेव पोषधे पञ्चदश्यां न कस्यचिद्भिक्षोर्<उद्>दिश्य्<अते प्रातिमोक्षः । भगवानाह । स> तैर्भिक्षुभिर्भिक्षुः पर्येषितव्यः वस्तुपरिहारेण शयनासनपरिहारेण कर्मपरिहारेण लाभपरिहारेणोपस्थायकपरिहारेण यस्य भिक्षोर्<उद्>दिश्यते प्रातिमोक्षः <।> सचेत्संपद्यतेऽत्येवं कुशलं <।> नोचेत्संपद्यते न तै<र्भ्>इ<क्षुभिस्तस्मिन्ना>वासे पश्चिमिकां वर्षामुपगन्तव्यम् । उपगच्छन्ति सातिसारा भवन्ति । ६२.५ यथापि तदन्यतमस्मिन्नावासे संबहुला भिक्षवः पश्चिमिकां वर्षामुपगन्ता भवन्ति <।> तेषामेवं भवति । अमुकस्य भिक्षोर्<उद्>दिश्यते प्रातिमोक्षः अमुकस्य भिक्षोरुद्दिश्यते प्राति<मो>क्ष्<अ> इति <।> तेषा<ं> तदेव पोषधे पंचदश्यां न कस्यचिद्भिक्षोरुद्दिश्यते प्रातिमोक्षः <। भगवानाह ।> तैर्भिक्षुभिः तस्मिन्नावासे द्वौ मासौ प्रतिसंख्याय वस्तव्यम्* द्वयोर्मासयोरत्ययाद्भिक्षुः पर्येषितव्यः वस्तुपरिहारेण शयनासनपरिहारेण कर्मपरिहारेण लाभपरिहारेणोपस्थायकपरिहारेण यस्य भिक्षोरुद्दिश्यते प्रातिमोक्षः <।> (३५४) सचेत्संपद्यते इत्येवं कुशलं <।> नोचेत्संपद्यते न तैर्भिक्षुभिरस्मिन्नावासे अन्यं पोषधमागमयितव्यः <।> आगमयन्ति सातिसारा भवन्ति ॥ ॥ ६३.१ आयुष्मानुपाली बुद्धं भ<ग>वन्तं पृच्छति । (६० = ग्ब्म् ६.७१८) यथापि तद्भदन्त नैवासिका भिक्षवः शृण्वन्ति आगन्तुका भिक्षव आगच्छन्ति सूत्रधरा विनयधरा मातृकाधरा इति <।> तैस्तेषां कथं प्रतिपत्तव्यम् । तैरुपालिं भिक्षुभिः सूत्रधरविनयधरमातृकाधराणां भिक्षूणामर्थाय अर्धतृतीयानि योजनानि छत्रध्वजपताकाभिः प्रत्युद्गन्तव्यं <।> सचेत्संपद्यतेऽत्येवं कुशलं <।> नोचेत्संपद्यते पंच क्रोशानि छत्रध्वजपताकाभिः प्रत्युद्गन्तव्यम् । सचेत्संपद्यतेऽत्येवं कुशलं <।> नोचेत्संपद्यते त्रीङ्क्रोशानर्धक्रोशमन्ततः परिषण्डामपि छत्रध्वजपताकाभिः प्रत्युद्गन्तव्यम् । सचेत्संपद्यतेऽत्येवं कुशलं <।> नोचेत्संपद्यते स्नात्रं कर्तव्यं संघे स्नेहलाभः कर्तव्यः <।> ६३.२. तेषां वस्तुपरिहार<ः> शयनासनपरिहारः कर्मपरिहारः लाभपरिहार उपस्थायकपरिहारो दातव्यः <।> (३५६) ६३.३ सचेत्तत्र कश्चिदेवं वदेत्<।> सामानिकायामायुष्मन्तः प्रव्रज्यायां कस्मादेते भिक्षवोऽर्हन्ति न वयमिति <।> स इदं स्याद्वचनीयः <।> अतीतशास्त्रके आयुष्मन् प्रवचने एष शास्ता एष प्रतिसरणं यदुत सूत्रविनयमातृका<श्> चेति <।> स चैषमायुष्मतां विस्तरेणोद्दिष्टः प्रवृत्तश्चेति । तस्मादेतेऽर्हन्ति न त्वमिति । ६४.१. यथापि तदेव पोषधे पंचदश्यां सार्धंविहार्यन्तेवासिका भिक्षवो जनपदचारिकां चर्तुकामा भवन्ति । तेषामाचार्योपाध्यायैर्न केनचित्प्रकारेणावलोकना दातव्या <।> ६४.२. सचेत्<तद्>रूपः प्रत्ययो भवति वक्तव्यः <।> आयुष्मन्नमुक आवासः सस्थविरः सप्रातिमोक्षः <।> सचेत्तत्रोक्ता अन्यत्रावतरन्ति सातिसारा भवन्ति । ६५.१. अथ भगवांस्तदेव पोषधे पंचदश्यां पुरस्ताद्भिक्षुसंघस्य प्रज्ञप्त एवासने निषण्णः <।> निषद्य भगवान् भिक्षूनामन्त्रयते स्म । (३५८) निर्गच्छति भिक्षवो रात्रिः <।> कुरुत भिक्षवः पोषधम् । ६५.२. अथान्यतमो भिक्षुरुत्थायासनादेकांसमुत्तरासंगं कृत्वा येन भगवांस्तेनाञ्जलिं प्रणमय्य भगवन्तमिदमवोचत्* अन्यतमस्मिं भदन्तावासे भिक्षुराबाधिको दुःखितो बाढग्लानः <।> तस्यास्माभिः कथं प्रतिपत्तव्यम् । भगवानाह । पारिशुद्धिरस्यानयितव्या <।> ६५.३. उक्तं भगवता पारिशुद्धिरस्यानयितव्येति । भिक्षवो न जानते कथमानयितव्येति । भगवानाह । एकस्य एकेन द्वाभ्यामेकेन संबहुलानां यावतां वा शक्नोति संघमध्ये नामानं परिकीर्तयितुम् । ६६.१. पारिशुद्धिदायकस्याहं भिक्षव <भिक्षोर्> आसमुदाचारिकान् धर्मान् प्रज्ञप<यिष्यामि ।> ६६.२. <पारिशुद्धिदायकेन भि>क्षुणैकां<समुत्तरास>ं<ग>ं क्<ऋत्व्>आ उपानहाववमुच्य यथावृद्धिकया सामीचीं कृत्वा उत्कुण्डकेन (३६०) स्थित्वा अञ्जलिं प्रगृह्य इदं स्याद्वचनीयं <।> समन्वाहरायुष्मन्नद्य संघस्य पोषधः पांचदशिकः ममाप्येवंनामो भिक्षोः पोषधः पाञ्च<दशिकः सोऽहमेवंनामा भिक्षुः परिशुद्धमन्तरायिकैर्धर्मैरात्>म्<आ>न्<अ>ं वदामि । पोषधे मे पारिशुद्धिमारोचयाम्यारोचितां च प्रवेदयामि । एवं द्विरप्येवं त्रिरपि । ६६.३. पारिशुद्धिदायको भिक्षुः सचेत्कायविज्ञप्त्या पारिशुद्धिन् ददाति <।> दत्ता पारिशुद्धिर्वक्तव्या । वाग्विज्<ञप्त्या> (६० = ग्ब्म् ६.७१९) <ददाति । दत्ता पारिशुद्धिर्वक्तव्या । कायविज्ञप्त्या च वाग्विज्ञप्त्या च द>दाति <।> दत्ता पारिशुद्धिर्वक्तव्या । ६६.४. न कायविज्ञप्त्या न वाग्विज्ञप्त्या ददाति । सर्वसंघेन वा तत्र गन्तव्यम् । स वा भिक्षुः संघमध्येऽवतारयितव्यः <।> ६६.५. न सर्वसंघस्तत्र गच्छति । तं च भिक्षुं संघे नावतारयिष्यन्ति <।> व्य<ग्राः कुर्वन्ति सातिसारा भवन्ति ।> (३६२) ६६.६ <पारिशुद्>ध्<इदा>य्<अ>क्<ओ भ्>इ<क्ष्>उ<र्> य्<अ>थ्<आ>पृष्ठर्<अ>ज्ञ्<अ>पृष्ठतानासमुदाचारिकां धर्मां न समादाय वर्तते सातिसारो भवति । ६७.१. पारिशुद्धिग्राहकस्याहं <भिक्षव> भिक्षोरासमुदाचारिकान् धर्मान् प्रज्ञपयिष्यामि । ६७.२. पारिशुद्धिग्राहकेण भिक्षुणा पारिशुद्धिं गृहीत्वा न धावितव्यं <।> न द्रवितव्य<म् ।> न ल<ं>घ्<अतव्>य्<अं न> + .. <लं>घ्<अ>यितव्या <।> न परिषण्डा लंघयितव्या <।> नोपरिविहायसा स्थातव्यं <।> न बहिः सीमा<ं> गन्तव्यं <।> नैकेन पादेन द्वौ निश्रेणपदकावभिरुहितव्यौ । नैकेन पादेन द्वौ सोपानकडेवरावभिरुहितव्यौ <।> न स्वपितव्यं <।> न समापत्तव्यम् । (३६४) ६७.३. स्वपिति समापद्यते द्वाभ्यां कारणाभ्यां गर्ह्यो भवति यच्चालज्जित्वेन यच्च वैतरिकत्वेन । ६७.४. यदा संघस्थविरः कथयत्यनागमनायायुष्मन्तश्छन्दं च पारिशुद्दिं चारोचयत <।> आरोचितां च प्रवेदयथेति । तेनान्तरिकस्स {fओर्तेनान्तरिकस्य} भिक्षोः पुरतः स्थित्वा वक्तव्यं <।> समन्वाहर आयुष्मन्नमुष्मिन्नावासे भिक्षुराबाधिको दुःखितो बाढग्लानः <।> अद्य संघस्य पोषधः पाञ्चदशिकस्तस्यापि भिक्षोः पोषधः पाञ्चदशिकः सोऽयमेवंनामा भिक्षुः परिशुद्धमन्तरायिकैर्धर्मैरात्मानं वेदयति <।> पोषधेऽस्य पारिशुद्धिमारोचयाम्यारोचितां च प्रवेदयामि । (३६६) ६७.५. पारिशुद्धिग्राहको भिक्षुरासमुदाचारिकान् धर्मान्न समादाय वर्तते सातिसारो भवति । ६८.१. आयुष्मानुपाली बुद्धं भगवन्तं पृच्छति । पारिशुद्धिग्राहकस्तावद्भदन्त भिक्षुः पारिशुद्धिं गृहीत्वा तत्रैवोच्छिद्य कालं कुर्यादानीता पारिशुद्धिर्वक्तव्या । अनानीता । अनानीता उपालिं पुनरप्यानयितव्या । ६८.२. आगारिकत्वं प्रतिजानाति श्रमणोद्देशत्वं शण्ठकत्वं पण्डकत्वं भिक्षुणीदूषकत्वं मातृघातकत्वं पितृघातकत्वम् (३६८) अर्हद्घातकत्वं संघभेदकत्वं तथागतस्यान्तिके दुष्टचित्तरुधिरोत्पादकत्वं तीर्थिकत्वं तीर्थिकावक्रान्तकत्वं स्तेयसंवासिकत्वं नानासंवासिकत्वमसंवासिकत्वं प्रतिजानाति <।> आनीता पारिशुद्धिर्वक्तव्या <।> अनानीता । अनानीता उपालिं पुनरप्यानयितव्या । ६८.३. पारिशुद्धिग्राहकस्तावद्भदन्त भिक्षुः पारिशुद्धिं गृहीत्वा संघमध्ये प्राप्तः कालं कुर्यादानीता पारिशुद्धिर्वक्तव्या <।> अनानीता । (३७०) अनानीता उपालिं पुनरप्यानयितव्या । ६८.४. आगारिकत्वं प्रतिजानाति पूर्ववद्यावदसंवासिकत्वं प्रतिजानाति <।> आनीता पारिशुद्धिर्वक्तव्या <।> अनानीता । अनानीता उपालिं पुनरप्यानयितव्या । ॥ ६९.१.अ. आयुष्मानुपाली बुद्धं भगवन्तं पृच्छति । यस्मिन् भदन्तावासे एको भिक्षुः प्रतिवसति <।> तेन तदेव पोषधे पंचदश्यां कथं प्रतिपत्तव्यम् । तेनोपालिं भिक्षुणा विहारः सेक्तव्यः संमार्जितव्यः । सुकुमारी गोमयकार्षी अनुप्रदातव्या । सिंहासनं प्रज्ञपयितव्यं <।> आसनप्रज्ञप्तिः कर्तव्या । धर्मश्रवणं दातव्यम् । ततः पश्चादुच्चतरके (fओल्. ६१, ६२ अन्द्६३ अरे लोस्त्) (४५८) ८५.१.ब्. (६४ = ग्ब्म् ६.७३०) <स्>ऊत्र्<ओ>द्द्<ए>शमुद्दिशन्ति । ततः पश्चान्नैवासिका भिक्षव आगच्छन्त्यल्पतरकाः <।> तैर्यथागता निषद्य तैः सार्धं पोषधः कर्तव्यः <।> प्रातिमोक्षसूत्रोद्देश उद्देष्टव्यः <।> पूर्वका भिक्षवो न सातिसाराः <।> ८५.२. यथापि तद्तदेव पोषधे पञ्चदश्यां नैवासिका भिक्षवः सन्निषण्णाः सन्निपतिता भवन्ति चत्वारो वा उत्तरे वा <।> तेषां नैवं भवति <।> सन्ति भिक्षवो येऽनागतका इति । ते धर्मसंज्ञिनः समग्रसंज्ञिनः ज्ञप्तिं कृत्वा पोषधं कुर्वन्ति <।> प्रातिमोक्षसूत्रोद्देशमुद्दिशन्ति । उद्दिष्टः प्रातिमोक्षः कृतः संघेन पोषधः <।> अव्युत्थिता सा पर्षद<वि>पृष्ठरक्रान्ताश्च भिक्षवः <।> ततः पश्चान्नैवासिका भिक्षव आगच्छन्त्यल्पतरकाः <।> तैस्तेषामर्थाय पुनरपि ज्ञप्तिं कृत्वा पोषधः कर्तव्यः <।> प्रातिमोक्षसूत्रोद्देश उद्देष्टव्यः <।> पूर्वका भिक्षवो न सातिसारः ॥ ८५.३. यथापि तद्तदेव पोषधे पंचदश्यां नैवासिका भिक्षवः सन्निषण्णाः सन्निपतिताः <भवन्ति> चत्वारो वा उत्तरे वा <।> तेषां नैवं भवति <।> सन्ति भिक्षवो येऽनागतकाः <।> ते धर्मसंज्ञिनः समग्रसंज्ञिनः ज्ञप्तिं कृत्वा पोषधं कुर्वन्ति <।> प्रातिमोक्षसूत्रोद्देशमुद्दिशन्ति । उद्दिष्टः प्रातिमोक्षः कृतः संघेन पोषधः <।> व्युत्थिता सा पर्षत्* एकत्या भिक्षवो विप्रक्रान्ताः <एकत्या अविप्रक्रान्ताः ।> (४६०) ततः पश्चान्नैवासिका भिक्षव आगच्छन्त्यल्पतरकाः <।> ते यदि तावत्सामग्रीमारागयन्ति पुनरपि तैस्तेषामर्थाय ज्ञप्तिं कृत्वा पोषधः कर्तव्यः <।> प्रातिमोक्षसूत्रोद्देश उद्देष्टव्यः <।> नोचेतारागयन्ति तैर्मण्डलकं गत्वा पोषधः कर्तव्यः <। प्रातिमोक्षसूत्रोद्देश उद्देष्टव्यः ।> पूर्वका भिक्षवो न सातिसारः <।> ८५.४. यथापि तद्तदेव पोषधे पञ्चदश्यां नैवासिका भिक्षवः सन्निषण्णाः सन्निपतिताः <भवन्ति> चत्वारो वा उत्तरे वा । तेषां नैवं भवति । सन्ति भिक्षवो येऽनागतकाः <।> ते धर्मसंज्ञिनः समग्रसंज्ञिनः ज्ञप्तिं कृत्वा पोषधं कुर्वन्ति <।> प्रातिमोक्षसूत्रोद्देशमुद्दिशन्ति । उद्दिष्टः प्रातिमोक्षः कृतः संघेन पोषधः <।> व्युत्थिता सा पर्षत्* विप्रक्रान्ताश्च भिक्षवः <।> ततः पश्चान्नैवासिका भिक्षव आगच्छन्त्यल्पतरका<ः ।> तैर्मण्डलकं गत्वा पोषधः कर्तव्यः <।> प्रातिमोक्षसूत्रोद्देश उद्देष्टव्यः <।> पूर्वका भिक्षवो न सातिसारः <।> ८६. यथा नैवासिकैः सन्निषण्णैः सन्निपतितैः नैवासिका आगच्छन्त्यल्पाः <।> <एवं> समकाः <।> आगन्तुका आगच्छन्त्यल्पाः <।> समकाः <।> आगन्तुकनैवासिका आगच्छन्त्यल्पाः <।> समकाः <। आगन्तुकैः सन्निषण्णैः सन्निपतितैरागन्तुका आगच्छन्त्यल्पाः । समकाः । नैवासिका आगच्छन्त्यल्पाः । समकाः । आगन्तुकनैवासिका आगच्छन्त्यल्पाः । समकाः ।> आगन्तुकनैवासिकैः सन्निषण्णैः सन्निपतितैः आगन्तुकनैवासिका आगच्छन्त्यल्पाः <।> समकाः <।> नैवासिका आगच्छन्त्यल्पाः <।> समकाः <।> आगन्तुका आगच्छंत्यल्पाः <।> समकाः ॥ ॥ (४६२) ८७. अन्तरोद्दानम् ॥ <यथा>गन्त्या <च> ज्ञप्तिश्<च ।> <साम>ग्री मण्डलकश्च ॥ ॥{म्स्: <पिण्डोदानम्* ॥ गन्तृज्ञप्तिं श्रीमण्डलकश्च>} ८८.१. यथापि तद्तदेव पोषधे पञ्चदश्यां नैवासिका भिक्षवः सन्निषण्णा भवन्ति सन्निपतिताश्चत्वारो वा उत्तरे वा <।> तेषां नैवं भवति <।> सन्ति भिक्षवो येऽनागतकाः <।> ते धर्मसंज्ञिनः समग्रसंज्ञिनः ज्ञप्तिं कृत्वा पोषधं कुर्वन्ति <।> प्रातिमोक्षसूत्रोद्देशमुद्दिशन्ति । ततः पश्चान्नैवासिका भिक्षव आगच्छन्त्य्बहुतरकाः <।> तैः पुनरपि ज्ञप्तिं कृत्वा पोषधः कर्तव्यः । प्रातिमोक्षसूत्रोद्देश उद्देष्टव्यः <।> पूर्वका भिक्षवो न सातिसारः <।> ८८.२. यथापि तद्तदेव पोषधे पञ्चदश्यां नैवासिका भिक्षवः सन्निषण्णा भवन्ति सन्निपतिताश्(६४ = ग्ब्म् ६.७३१) चत्वारो <वा> उत्तरे वा <।> तेषां नैवं भवति <।> सन्ति भिक्षवो येऽनागतका <।> ते धर्मसंज्ञिनः समग्रसंज्ञिनः ज्ञप्तिं कृत्वा पोषधं कुर्वन्ति । प्रातिमोक्षसूत्रोद्देशमुद्दिशन्ति । उद्दिष्टः प्रातिमोक्षः कृतः संघेन पोषधः <।> अव्युत्थिता सा पर्षदविप्रक्रान्ताश्च भिक्षवः <।> ततः पश्चान्नैवासिका भिक्षव आगच्छन्ति बहुतरकाः <।> तैः पुनरपि ज्ञप्तिं कृत्वा पोषधः कर्तव्यः <।> प्रातिमोक्षसूत्रोद्देश उद्देष्टव्यः <।> पूर्वका भिक्षवो न सातिसारः <।> ८८.३. यथापि तद्तदेव पोषधे पञ्चदश्यां नैवासिका भिक्षवः सन्निषण्णा भवन्ति सन्निपतिताः चत्वारो वा उत्तरे वा <।> तेषां नैवं भवति <।> सन्ति भिक्षवो येऽनागतकाः <।> ते धर्मसंज्ञिनः समग्रसंज्ञिनो ज्ञप्तिं कृत्वा पोषधं कुर्वन्ति <।> प्रातिमोक्षसूत्रोद्देशमुद्दिशन्ति । उद्दिष्टः प्रातिमोक्षः कृतः संघेन पोषधः <।> व्युत्थिता सा पर्षदेकत्या भिक्षवो विप्रक्रान्ताः एकत्या अविप्रक्रान्ताः <।> (४६४) ततः पश्चान्नैवासिका भिक्षव आगच्छन्ति बहुतरकाः <।> तैः पुनरपि ज्ञप्तिं कृत्वा पोषधः कर्तव्यः <।> प्रातिमोक्षसूत्रोद्देश उद्देष्टव्यः <।> पूर्विका भिक्षवो न सातिसारः <।> ८८.४. यथापि तद्तदेव पोषधे पञ्चदश्यां नैवासिका भिक्षवः सन्निषण्णा भवन्ति सन्निपतिताश्चत्वारो वा उत्तरे वा <।> तेषां नैवं भवति <।> सन्ति भिक्षवो येऽनागतकास्<।> ते धर्मसंज्ञिनः समग्रसंज्ञिनः ज्ञप्तिं कृत्वा पोषधं कुर्वन्ति <।> प्रातिमोक्षसूत्रोद्देशमुद्दिशन्ति <।> उद्दिष्टः प्रातिमोक्षः कृतः संघेन पोषधः <।> व्युत्थिता सा पर्षद्विप्रक्रान्ता भिक्षवः <।> ततः पश्चान्नैवासिका भिक्षव आगच्छन्ति बहुतरकाः <।> पुनरपि ज्ञप्तिं कृत्वा पोषधः कर्तव्यः <।> प्रातिमोक्षसूत्रोद्देश उद्देष्टव्यः <।> पूर्वका भिक्षवो न सातिसाराः <।> ८९. यथा नैवासिकैः सन्निषण्णैः सन्निपतितैः नैवासिका भिक्षव आगच्छन्ति बहुतरकाः <।> एवमागन्तुका आगच्छन्ति बहुतरकाः <।> आगन्तुकनैवासिका आगच्छन्ति बहुतरकाः <।> आगन्तुकैः सन्निषण्णैः सन्निपतितैरागन्तुका आगच्छन्ति बहुतरकाः <। नैवासिका आगच्छन्ति बहुतरकाः ।> आगन्तुकनैवासिका आगच्छन्ति बहुतरकाः <।> आगन्तुकनैवासिकैः सन्निषण्णै<ः> सन्निपतितैः आगन्तुकनैवासि<का> आगच्छन्ति बहुतरकाः <। नैवासिका आगच्छन्ति बहुतरकाः । आवासिका आगच्छंति बहुतरकाः ।> (४६६) ९०.१. नैवासिकानां पंचदशी आगन्तुकानां चतुर्दशी वा प्रतिपद्वा अल्पतरका<णा>म् <।> अनुवर्तितव्यमागन्तुकैः नैवासिकानां बहुतरकाणां <।> ९०.२. नैवासिकानां पंचदशी आगन्तुकानां चतुर्दशी वा प्रतिपद्वा समकानाम् <।> अनुवर्तितव्यमागन्तुकैर्नैवासिकानां समकानाम्* ९०.३. <नैवासिकानां पंचदश्य्> आ<ग>न्तुकानां चतुर्दशी <वा> प्रतिपद्वा बहुतरकाणां <।> अनुवर्तितव्यं नैवासिकैरागन्तुकानां बहुतरकाणां <।> ९०.४. आगन्तुकानां पंचदशी नैवासिकानां चतुर्दशी <वा> प्रतिपद्वा अल्पतरकाणाम् <।> अनुवर्तितव्यं नैवासिकैरागन्तुकानां बहुतरकाणां <।> ९०.५. आगन्तुकानां पञ्चदशी नैवासिकानां चतुर्दशी वा प्रतिपद्वा समकानाम् <।> अनुवर्तितव्यमागन्तुकैर्नैवासिकानां समकानाम् । ९०.६. आगन्तुकानां पंचदशी नैवासिकानां चतुर्दशी <वा> प्रतिपद्वा बहुतरकाणाम् <।> अनुवर्तितव्यमागन्तुकैर्नैवासिकानां बहुतरकाणां <।> (४६८) ९१.१. यथापि तद्तदेव पोषधे पंचदश्यां नैवासिका भिक्षवः सन्<न्>इषण्णाः (६५ = ग्ब्म् ६.७२०) <भवन्ति> सन्निपतिताः चत्वारो वा उत्तरे वा <।> तत्र ते पश्यन्ति आगन्तुकाकाराणि <आगन्तुकलिङ्गान्य्> आगन्तुकनिमित्तानि तद्यथा अन्यादकं पात्र<ं> चीवरं यष्टि<ं> विसिकां कुण्डी<ं> तुम्बक<ं> खोलां पूलानुपानहौ <।> तेषामेवं भवति <।> सन्ति भिक्षवो येऽनागतका इति <।> येऽनागतका <भिक्षवो> नश्यन्तु ते <।> अत एव भवन्तु हिरुग्<।> (४७०) भवन्तु दूरे<ण ।> परेण भवन्तु <।> ते भेदार्थिनो भेदपरिष्कारा ज्ञप्तिं कृत्वा पोषधं कुर्वन्ति <।> प्रातिमोक्षसूत्रोद्देशमुद्दिशन्ति <।> ततः पश्चादागन्तुका भिक्षव आगच्छन्त्यल्पत<र>काः <।> तैः पुनरपि ज्ञप्तिं कृत्वा पोषधः कर्तव्यः <।> प्रातिमोक्षसूत्रोद्देश उद्देष्टव्यः <।> पूर्विका भिक्षव आपद्यन्ते स्थूलात्ययां भेदसामन्तका<ः> । (४७२) ९१.२. यथापि तद्तदेव पोषधे पंचदश्यां नैवासिका भिक्षवः सन्निषण्णा भवन्ति सन्निपतिताश्चत्वारो वा उत्तरे वा <।> ते तत्र पश्यन्ति आगन्तुकाकाराण्यागन्तुकलिंगान्यागन्तुकनिमित्ता<नि> तद्यथा अन्यादकं पात्रं चीवरं यष्टि<ं> विसिकां कुण्डीं तुंबकं खोला<ं> पूलानुपानहौ <।> तेषामेवं भवति <।> सन्ति भिक्षवो येऽनागतका <।> भिक्षवो येऽनागतका न कल्पयत्यस्माकं तैर्विना ज्ञप्तिं कृत्वा पोषधं कर्तुम् । प्रातिमोक्षसूत्रोद्देशमुद्देष्टुम् । ते अधर्मसंज्ञिनो व्यग्रसंज्ञिनः ज्ञप्तिं कृत्वा पोषधं कुर्वन्ति । प्रातिमोक्षसूत्रोद्देशमुद्दिशन्ति । ततः पश्चादागन्तुका भिक्षव आगच्छंत्यल्पतरकाः <।> तैः पुनरपि ज्ञप्ति<ं> कृत्वा पोषधं कर्तव्यः <।> प्रातिमोक्षसुत्रोद्देश उद्देष्टव्यः <।> पूर्विका भिक्षवः सातिसाराः <।> व्यग्रसामन्तका<ः> । ९१.३. यथापि तद्तदेव पोषधे पंचदश्यां नैवासिका भिक्षवः सन्निषण्णा भवन्ति सन्निपतिताः चत्वारो वा उत्तरे वा <।> ते तत्र पश्यन्त्यागन्तुकाकाराण्यागन्तुकलिंगान्यागन्तुकनिमित्तानि तद्यथान्यानकं {तद्यथान्यादकं} पात्रं चीवरं यष्टिं विसिकां कुण्डी<ं> तुंबकं खोला<ं> पूलानुपानहौ <।> (४७४) तेषामेवं भवति । सन्ति भिक्षवो येऽनागतका इति <।> येऽनागतका <भिक्षवः> कल्पत्यस्माकं तैर्विना ज्ञप्तिं कृत्वा पोषधं कर्तुं <।> प्रातिमोक्षसूत्रोद्देशमुद्देष्टुं <।> ते कल्पार्थिनः कल्पपरिष्कारा यावत्तावन्मार्गित्वा ज्ञप्तिं कृत्वा पोषधं कुर्वन्ति <।> प्रातिमोक्षसूत्रोद्देशमुद्दिशंति <।> ततः पश्चादागन्तुका भिक्षव आगच्छंत्यल्पतरकाः <।> तैः पुनरपि ज्ञप्ति<ं> कृत्वा पोषधः कर्तव्यः । प्रातिमोक्षसूत्रोद्देश उद्देष्टव्यः <।> पूर्विका भिक्षवः सातिसारा<ः ।> कल्पसामन्तकाः <।> ९१.४. यथापि तद्तदेव पोषधे पंचदश्यां नैवासिका भिक्षवः सन्निषण्णा भवंति सन्निपतिताश्चत्वारो वा उत्तरे वा <।> ते तत्र पश्यंत्यागन्तुकाकाराण्यागन्तुकलिंगान्यागन्तुकनिमित्तानि तद्यथा अन्यादकं पात्र<ं> चीवरं यष्टिं विसिकां कुण्डीं तुंबकं खोला<ं> पूलानुपानहौ <।> तेषामेवं भवति <।> सन्ति भिक्षवो येऽनागतका इति <।> येऽनागतका <भिक्षवो> न कल्पत्यस्माकं तैर्विना ज्ञप्तिं कृत्वा पोषधं कर्तुम् । प्रातिमोक्षसूत्रोद्देशमुद्देष्टुं <।> (४७६) ते तानध्याशयेन मार्गयित्वा न लभवंति <।> ते ज्ञप्ति<ं> कृत्वा पोषधं कुर्वन्ति <।> प्रातिमोक्षसूत्रोद्देशमुद्दिशंति <।> ततः पश्चादागन्तुका भिक्षव आगच्छंत्यल्पतरकाः <।> तैः पुनरपि ज्ञप्तिं (६५ = ग्ब्म् ६.७२१) कृत्वा पोषधः कर्तव्यः । प्रातिमोक्षसूत्रोद्देश उद्देष्टव्यः <।> पूर्वका भिक्षवो न सातिसाराः ॥ ९१.५. यथापि तद्तदेव पोषधे पंचदश्यां नैवासिका भिक्षवः सन्निषण्णा भवन्ति सन्निपतिताश्चत्वारो वा उत्तरे वा । ते तत्र पश्यन्त्यागन्तुकाकाराण्यागन्तुकलिंगान्यागन्तुकनिमित्तानि तद्यथा अन्यादकं पात्रं चीवरं यष्टिं च विसिकां कुण्डी<ं> तुंबकं खोलां पूलानुपानहौ <।> तेषामेवं भवति <।> सन्ति भिक्षवो येऽनागतका इति <।> येऽनागतका <भिक्षवो> न कल्पत्यस्माकं तैर्विना ज्ञप्तिं कृत्वा पोषधं कर्तुं <।> प्रातिमोक्षसूत्रोद्देशमुद्देष्टुम् । ते तानध्याशयेन मार्गन्ति <।> ते तानध्याशयेन मार्गित्वा लभन्ते । <ते> तैः सार्धं निषद्य <ज्ञप्तिं कृत्वा> पोषधं कुर्वन्ति <।> प्रातिमोक्षसूत्रोद्देशमुद्दिशन्ति । पूर्वका भिक्षवो न सातिसाराः ॥ ॥ (४७८) ९२.१. यथापि तद्तदेव पोषधे पञ्चदश्यां नैवासिका भिक्षवः सन्निषण्णा भवन्ति सन्निपतिता<ः> चत्वारो वा उत्तरे वा <।> ते तत्र शृण्वन्त्यागन्तुकाकाराणि आगन्तु<क>लिंगान्यागन्तुकनिमित्तानि तद्यथा यष्टिशब्दं पदशब्दमुत्कासनशब्दमागन्तुकानां च भिक्षूणां स्वरगुप्तिं <।> तेषामेवं भवति <।> सन्ति भिक्षवो येऽनागतकाः <। येऽनागतका भिक्षवो> नश्यन्तु ते <।> अत एव भवन्तु हिरुग्<।> भवन्तु <दूरेण । परेण भवन्तु ।> <ते> भेदार्थिनो भेदपरिष्कारा ज्ञप्तिं कृत्वा पोषधं कुर्वन्ति <।> प्रातिमोक्षसूत्रोद्देशमुद्दिशन्ति <।> ततः पश्चादागन्तुका भिक्षव आगच्छन्त्यल्पतरकास्<।> तैः पुनरपि ज्ञप्तिं कृत्वा पोषधः कर्तव्यः <।> प्रातिमोक्षसूत्रोद्देश उद्देष्टव्यः <।> पूर्विका भिक्षव आपद्यन्ते स्थूलात्ययाम्* ॥ भेदसामन्तकाः । ९२.२. यथापि तद्तदेव पोषधे पञ्चदश्यां नैवासिका भिक्षवः सन्निषण्णा भवन्ति सन्निपतिताश्चत्वारो वा उत्तरे वा <।> ते तत्र शृण्वन्त्यागन्तुकाकारां पूर्ववद्यावत्ते तानध्या<श>येन मार्गन्ति लभन्ति <।> ते तैः सार्धं निषद्य <ज्ञप्तिं कृत्वा> पोषधं कुर्वन्ति <।> प्रातिमोक्षसूत्रोद्देशमुद्दिशन्ति । पूर्वका भिक्षवो न सातिसाराः ॥ (४८०) ९३. यथा नैवासिकैः सन्निषण्णैः सन्निपतितैः आगन्तुका आगच्छन्त्यल्पाः <।> एवं समका <।> बहुतरकाः । ९४.१. यथापि तद्तदेव पोषधे पञ्चदश्यामागन्तुका भिक्षवः सन्निषण्णा <भवन्ति> सन्निपतिताश्चत्वारो वा उत्तरे वा <।> <ते> तत्र पश्यन्ति नैवासिकाकाराणि नैवासिकलिंगान्य्नैवासिकनिमित्तानि तद्यथा विहारं सिक्तं संमृष्टं <।> सुकुमारी<ं> गोमयकार्षीमनुप्रदत्ता<म् ।> शयनासनप्रज्ञप्तिं कृतां <।> तैलप्रद्योतानादीप्तांस्<।> तेषामेवं भवति <।> सन्ति भिक्षवो येऽनागतकाः इति <।> येऽनागतका <भिक्षवो> नश्यन्तु <ते ।> अत एव भवन्तु हिरुग्<।> भवन्तु दूरेण <।> परेण भवन्तु । ते भेदार्थिनो भेदपरिष्कारा ज्ञप्तिं कृत्वा पोषधं कुर्वन्ति <।> प्रातिमोक्षसूत्रोद्देशमुद्दिशंति <।> ततः पश्चान्नैवासिका भिक्षव आगच्छन्त्यल्पतरकाः <।> तैः पुनरपि ज्ञप्तिं कृत्वा पोषधः कर्तव्यः <।> प्रातिमोक्षसूत्रोद्देश उद्देष्टव्यः <।> पूर्वका भिक्षव आपद्यंते स्थूलात्ययां <।> ते भेदसामन्तका<ः> । ९४.२. यथापि तद्तदेव पोषधे पंचदश्यामागन्तुका भिक्षवः सन्निषण्णा भवन्ति सन्निपतिताः चत्वारो वा उत्तरे वा <।> ते तत्र पश्यंति नैवासिकाकाराणि नै<वासि>कलिंगान्य्नैवासिकनिमित्तानि तद्यथा विहारं सिक्तं संमृ<ष्ट>ं <।> स्<उ>कुमारी<ं> गोमयकार्षीम् (६६ = ग्ब्म् ६.७२२) अनुप्रदत्तां <।> शयनासनप्रज्ञप्तिं कृतां <। तैलप्रद्योतानादीप्ताम् ।> (४८२) तेषामेवं भवति <।> सन्ति भिक्षवो येऽनागतकाः इति <।> येऽनागतका भिक्षवः न कल्पत्यस्माकं तैर्विना ज्ञप्तिं कृत्वा पोषधं कर्तुम् । प्रातिमोक्षसूत्रोद्देशमुद्देष्टुं <।> ते अधर्मसंज्ञिनो व्यग्रसंज्ञिनः ज्ञप्तिं कृत्वा पोषधं कुर्वन्ति <।> प्रातिमोक्षसूत्रोद्देशमुद्दिशन्ति <।> ततः पश्चान्नैवासिका भिक्षव आगच्छंत्यल्पतरकाः <।> तैः पुनरपि ज्ञप्तिं कृत्वा पोषधः कर्तव्यः <।> प्रातिमोक्षसूत्रोद्देश उद्देष्टव्यः <।> पूर्वका भिक्षव सातिसारा भवन्ति <।> व्यग्रसामन्तकाः । ९४.३. यथापि तद्तदेव पोषधे पंचदश्यामागन्तुका भिक्षवः सन्निषण्णा भवन्ति सन्निपतिताश्चत्वारो वा उत्तरे वा <।> <ते> तत्र पश्यन्ति नैवासिकाकाराणि नैवासिकलिंगान्य्नैवासिकनिमित्तानि तद्यथा विहारं सिक्तं संमृष्टं <।> सुकुमारी<ं> गोमयकार्षीमनुप्रदत्तां <।> शयनासनप्रज्ञप्तिं कृतां <।> तैलप्रद्योतानादीपितांस्<।> तेषामेवं भवति <।> सन्ति भिक्षवो येऽनागतकाः इति <।> येऽनागतका <भिक्षवो> कल्पत्यस्माकं तैर्विना ज्ञप्तिं कृत्वा पोषधं कर्तुं <।> प्रातिमोक्षसूत्रोद्देशमुद्देष्टुम् । ते कल्पार्थिनः कल्पपरिष्कारा यावत्तावन्मार्गित्वा ज्ञप्तिं कृत्वा पोषधं कुर्वन्ति <।> प्रातिमोक्षसूत्रोद्देशमुद्दिशंति <।> ततः पश्चान्नैवासिका भिक्षव आगच्छन्त्यल्पतरकाः <।> तैः पुनरपि ज्ञप्तिं कृत्वा पोषधः कर्तव्यः <।> प्रातिमोक्षसूत्रोद्देश उद्देष्टव्यः <।> पूर्वका भिक्षव सातिसाराः कल्पसामन्तकाः <।> ९४.४. यथापि तद्तदेव पोषधे पञ्चदश्यामागन्तुका भिक्षवः सन्निषण्णा <भवन्ति> सन्निपतिताः चत्वारो वा उत्तरे वा <।> ते तत्र पश्यन्ति नैवासिकाकाराणि नैवासिकलिंगान्य्नैवासिकनिमित्तानि तद्यथा विहारं सिक्तं संमृष्टं <।> सुकुमारी<ं> गोमयकार्षीम् (४८४) अनुप्रदत्तां <।> शयनासनप्रज्ञप्तिं कृतां <।> तैलप्रद्योताना<दी>पृष्ठैतांस्<।> तेषामेवं भवति <।> सन्ति भिक्षवो येऽनागतकाः इति <।> येऽनागतका <भिक्षवो> न कल्पत्यस्माकं तैर्विना ज्ञप्तिं कृत्वा पोषधं कर्तुं <।> प्रातिमोक्षसूत्रोद्देशमुद्देष्टुं <।> <ते> तानध्याशयेन मार्गन्ति <।> ते तानध्याशयेन मार्गित्वा न लभन्ति <। ते> ज्ञप्तिं कृत्वा पोषधं कुर्वन्ति <।> प्रातिमोक्षसूत्रोद्देशमुद्दिशन्ति <।> ततः पश्चान्नैवासिका भिक्षव आगच्छंत्यल्पतरकाः <।> तैः पुनरपि ज्ञप्तिं कृत्वा पोषधः कर्तव्यः <।> प्रातिमोक्षसूत्रोद्देश उद्देष्टव्यः <।> पूर्वका भिक्षवो न सातिसाराः <।> ९४.५. यथापि तद्तदेव पोषधे पञ्चदश्यामागन्तुका भिक्षवः सन्निषण्णा भवन्ति सन्निपतिताश्चत्वारो वा उत्तरे वा <।> ते तत्र पश्यन्ति नैवासिकाकाराणि <नैवासिकलिंगानि> नैवासिकनिमित्तानि तद्यथा विहारं सिक्तं संमृष्टं <।> सुकुमारी<ं> गोमयकार्षीमनुप्रदत्तां <।> शयनासनप्रज्ञप्तिं कृतां <।> तैलप्रद्योतानादीपितांस्<।> तेषामेवं भवति <।> सन्ति भिक्षवो येऽनागतकाः इति <।> येऽनागतका <भिक्षवो> न कल्पत्यस्माकं तैर्विना ज्ञप्तिं कृत्वा पोषधं कर्तुं <।> प्रातिमोक्षसूत्रोद्देशमुद्देष्टुं <।> <ते> तानध्याशयेन मार्गन्ति <।> ते तानध्याशयेन मार्गित्वा लभन्ति <। ते> तैः सार्धं निषद्य ज्ञप्तिं कृत्वा पोषधं कुर्वन्ति <।> प्रातिमोक्षसूत्रोद्देशमुद्दिशन्ति <।> पूर्वका भिक्षवो न सातिसाराः । (४८६) ९५. (६६ = ग्ब्म् ६.७२३) यथापि तद्तदेव पोषधे पंचदश्यामागन्तुका भिक्षवः सन्निषण्णा भवन्ति सन्निपतिताश्चत्वारो वा उत्तरे वा <।> <ते> तत्र शृण्वन्ति नैवासिकाकाराणि नैवासिकलिंगानि नैवासिकनिमित्तानि <तद्यथा> यष्टिशब्दं पदशब्दमुत्कासनशब्दं ताडकशब्दं कुंचिकासब्दं नैवासिकानां च भिक्षूणां स्वरगुप्तिं <।> तेषामेवं भवति <।> सन्ति भिक्षवो येऽनागतकाः <।> येऽनागतका <भिक्षवो नश्यन्तु ते ।> अत एव भवन्तु हि<रु>ग्<।> भवन्तु दूरेण <।> परेण <भवन्तु । ते> भेदार्थिनो भेदपरिष्कारा ज्ञप्तिं कृत्वा पोषधं कुर्वन्ति । प्रातिमोक्षसूत्रोद्देशमुद्दिशन्ति <।> पूर्ववद्यावत्ते तानध्याशयेन मार्गन्ति <।> अध्याशयेन मार्गित्वा लभन्ति <।> ते तैः सार्धं निषद्य <ज्ञप्तिं कृत्वा> पोषधं कुर्वन्ति <।> प्रातिमोक्षसूत्रोद्देशमुद्दिशन्ति । पूर्वका भिक्षवो न सातिसाराः । (४८८) ९६. यथागन्तुकैः सन्निषण्णैः सन्निपतितैर्नैवासिका आगच्छंत्यल्पाः <।> एवं समकाः <।> बहुतरकाः ॥ ९७. अन्तरोद्दानम्* ॥ भेदो विमतिर्व्यग्रः कल्पा <।> न लभन्ति लभन्ति च ॥ ९८.१ गन्तव्यं भिक्षुणा तदेव पोषधे पञ्चदश्यां सभिक्षुकादावासात्सभिक्षुकमावासं यत्र ब्किक्षवो भवन्ति परिशुद्धाः समानदृष्टयः <।> ९८.२. न गन्तव्यं भिक्षुणा तदेव पोषधे पञ्चदश्यां सभिक्षुकादावासात्सभिक्षुकमावासं यत्र ब्किक्षवो भवन्ति कलहकारका भण्डनकारका विवादकारका विग्रहकारका आधिकरणिकाः <स्थापयित्वा आपत्सु वा सर्वसंघेन तत्र ।> ९८.३ गन्तव्यं भिक्षुणा तदेव पोषधे पञ्चदश्यां सभिक्षुकादावासात्सभिक्षुकमावासं <अनावासं> यत्र भिक्षवो भवन्ति परिशुद्धाः समानदृष्टयः <।> (४९०) ९८.४. न गन्तव्यं भिक्षुणा तदेव पोषधे पञ्चदश्यां सभिक्षुकादावासात्सभिक्षुकमावासं सभिक्षुकमनावसं यत्र ब्किक्षवो भवन्ति कलहकारका भण्डनकारका विग्रहकारका विवादकारका आधिकरणिकाः <स्थापयित्वा आपत्सु वा सर्वसंघेन तत्र> । ९८.५. गन्तव्यं भिक्षुणा तदेव पोषधे पञ्चदश्यां सभिक्षुकादावासादनावासात्सभिक्षुकमावासं सभिक्षुकमनावासं सभिक्षुकमवासानावासं यत्र भिक्षवो भवन्ति परिशुद्धाः समानदृष्टयः <।> ९८.६. न गन्तव्यं भिक्षुणा तदेव पोषधे पञ्चदश्यां सभिक्षुकादावासाद<नावासात्स>भिक्षुकमावासं सभिक्षुकमनावसं सभिक्षुकमावासानावासं <यत्र ब्किक्षवो भवन्ति कलहकारका भण्डनकारका विग्रहकारका विवादकारका आधिकरणिकाः ।> स्थापयित्वा आपदासु वा सर्वसंघेन तत्र ॥ (४९२) ९८.७. गन्तव्यं भिक्षुणा तदेव पोषधे पञ्चदश्यां सभिक्षुकादावासादभिक्षुकमावासं सभिक्षुकमनावासं सभिक्षुकमावासमनावासं यत्र गत्वा स्पर्शो भवति कायेन वा चित्तेन वा ॥ ९८.८. न गन्तव्यं भिक्षुणा तदेव पोषधे पञ्चदश्यां सभिक्षुकादावासादभिक्षुकमावासं सभिक्षुकमनावासं सभिक्षुकमवासानावासं स्थापयित्वा आपत्सु <वा> सर्वसंघेन वा ॥ ९८.९. गन्तव्यं भिक्षुणा तदेव पोषधे पञ्चदश्यां सभिक्षुकादावासादभिक्षुकमनावासं सभिक्षुकमावासानावासं यत्र गत्वा स्पर्शो भवति कायेन वा चित्तेन वा ॥ (४९४) ९८.१०. न गन्तव्यं भिक्षुणा तदेव पोषधे पञ्चदश्यां सभिक्षुकादावासादभिक्षुकमावासमभिक्षुकमनावासमभिक्षुकमवासानावासं स्थापयित्वा आपदासु वा सर्वसंघेन वा ॥ ९८.११. गन्तव्यं भिक्षुणा तदेव पोषधे पञ्चदश्यां सभिक्षुकादावासादनावासादभिक्षुकमावासमभिक्षुकमावासानावासं यत्र गत्वा स्पर्शो भवति (६७ ) <कायेन वा चित्तेन वा ॥> fओलिओस्६७ अन्द्६८ अरे लोस्त्.