अथ भारतीयभाषायां चित्रलक्षणम् । प्रथमः परिवर्त्तः ब्रह्माणं च महादेवं नारायणं सरस्वतीम् । वरदां च मया नत्वा क्रियते जयमंगलम् ॥ १.१ ॥ प्रजापतेस्तथा शम्भोः पद्मास्यायास्तथा गिरम् । पार्वत्या अनुसृत्यैव जायतां किल पण्डिताः ॥ १.२ ॥ तदनन्तरं चित्रलक्षणमुच्यते । मंगलमस्तु । महादेवाय देवाय सर्वविद्यविजानते । नमो नमो मया सम्यगुच्यते चित्रलक्षणम् ॥ १.३ ॥ आदौ चन्द्रमसं वन्दे हरं च चन्द्रशेखरं । विष्ण्विन्द्रौ सूर्यमग्निं च वरुणं मरुतं तथा ॥ १.४ ॥ नमस्करोम्यहं चैव विश्वकर्मप्रजापती । नग्नजितं नमस्कृत्य त्वाचार्यांश्च पुनः पुनः ॥ १.५ ॥ वर्णं च चित्रकर्माथ शास्त्रानुसारतस्तथा । यथाज्ञानं यथाशक्ति संक्षेपेण मयोच्यते ॥ १.६ ॥ विश्वकृन्नग्नजिद्देव-प्रह्लादसारमुज्ज्वलम् । लक्षणमनुसृत्यैच विदुषां सुधियां पुनः ॥ १.७ ॥ संगृह्य मतिवृद्धये नानाशास्त्रसमुद्धृतम् । उच्यते चित्रलक्षणं शृण्वन्तु तद्विदा जनाः ॥ १.८ ॥ पुरेदं लक्षणं श्रुत्वा नरराजो महोधरः । धर्मज्ञः सत्यनिष्ठश्च बुद्धिमांश्च यशोऽन्वितः । विश्रुतो भयजिन्नाम्ना तथाभूत्धरणीतले ॥ १.९ ॥ गुणोत्तमस्य भूपस्य धार्मिकस्य प्रशासने । शतसहस्रवर्षाणि चायुः प्रजाः प्रपेदिरे ॥ १.१० ॥ नीरोगा न च हन्तारो मनोरोगविवर्जिताः । अकालमृत्युहीनास्ताः कुतः क्रोधाः कुतो मलाः ॥ १.११ ॥ वायुः सुप्रवहश्चैव शक्रः सुवर्षकस्तथा । वर्णरससमेतानि वीजमूलफलानि च ॥ १.१२ ॥ वर्णाश्रमा हि चत्वारो न च्युता धर्मतत्पराः । ऋद्धिगुणसमायुक्तं श्रीमद्विकसितं जगत् ॥ १.१३ ॥ एवम्भूते स्थिते राष्ट्रे सुखशान्तिसमन्विते । भयजितो मनः शुद्धं प्रवृत्तं तपसि द्रुतम् ॥ १.१४ ॥ सुदुष्करं तपः कृत्वा राज्ञातिशुद्धचेतसा । वरा बहुविधा प्राप्ता देवाल्लोकपितामहात् ॥ १.१५ ॥ विषयस्तस्य शत्रुभिर्देवास्त्रैरपि दुर्जयः । उत्तमाप्रतिरोध्या च सर्वशास्त्रे मतिस्त्वथ ॥ १.१६ ॥ सर्वगुणैरुपेतस्य पराक्रान्तस्य धीमतः । महाभागस्य देवानां प्रभावैः प्राप्तविश्रुतेः ॥ १.१७ ॥ सर्वविद्याश्रयस्यास्य मूर्त्तधर्मस्य बोधिनः । मणिपुत्रसमाख्यस्प एतादृशस्य भूपतेः ॥ १.१८ ॥ सविधे त्वागतः कश्चिद्रुदन् विप्रोऽतिदुःखितः । कथं रोदिषि भो विप्र चेत्यपृच्छद्द्विजं नृपः ॥ १.१९ ॥ क्रुद्धेन तेन विप्रेण कथितो नृपतिस्तदा । तव शासनकालेऽस्मिन् देशेऽकालमृतियतः ॥ १.२० ॥ ततोऽधर्मेण राज्यं तं शास्सीदं नृप निश्चितम् । विष्मयो य इतः पूर्वं न जातोऽसौ प्रवर्तते ॥ १.२१ ॥ मदीयवंशरक्षाकृत्लक्षणाकृतिसुन्दरः । अकालमृत्युना कस्मात्क्रोऋअतोऽपहृतः सुतः ॥ १.२२ ॥ ब्रम्ह प्रियौ हि राजन् त्वं सर्व जानासि भूतले । प्राणतुल्यं सुतं मह्यं देहि स्वामिन् कृपान्वितः ॥ १.२३ ॥ दयां यदि न कुर्यास्त्वं शक्तिमन् गुणवन्नृप । तृणखण्डाणिव प्राणान् त्वत्सविधे त्यजाम्यहम् ॥ १.२४ ॥ भाषिते तु द्विजेनैवं बुद्धिमान् पुरषोत्तमः । आकर्षणे सुतं तस्य मतिं चक्रे नृपालकः ॥ १.२५ ॥ सान्त्वितस्तु नृवाक्येन "आगच्छ मम दास हि" । सूर्यवर्चोधरं यममुदितं तत्र दृष्टवान् ॥ १.२६ ॥ धर्मराजं जगद्बन्द्यं प्रणम्य भयजिन्नृपः । ब्राह्मणस्य हितार्थाय सादरं वाक्यमब्रवीत् ॥ १.२७ ॥ प्रत्युपकृद्द्विजातेस्तु प्राणेभ्योऽपि सुतः प्रियः । चाकालेऽपहृतो योऽसौ तव दूतेन दुर्धिया ॥ १.२८ ॥ प्रभो त्रिभुवनस्यापि दीयतां तनयः प्रियः । विश्वकर्मन् द्विजन्मने अस्मै प्रीत्या च धीमते ॥ १.२९ ॥ श्रुत्वा प्रेताधिपो वाक्यं पूजनीयं हसन्नृपम् । ददौ प्रत्युत्तरं मृदु तेजसा पूरितं वचः ॥ १.३० ॥ स्वकीयकर्मवशाद्जीवाः सर्वे मद्वशगा ध्रुवम् । कस्याप्याकर्षणे त्यागे स्वेच्छाशक्तिः कुतो मम ॥ १.३१ ॥ सुखं वा यदि वा दुःखं सर्वं कर्मवशं सदा । तस्मात्राजन् विजानीयान्मया नैव प्रगृह्यते ॥ १.३२ ॥ मद्गृहं प्रतिपद्याथ शरीरी न निवर्तते । कालेन महताकृष्टो द्विजपुत्रो बलीयसा ॥ १.३३ ॥ कुशलं चाकुशलं वा सर्वमिहानुभूयते । कर्मानुसारिणी भूमिर्विज्ञेया च सदा नृणाम् ॥ १.३४ ॥ एवमुक्तः पुनर्भूपः प्राह वैवस्वतं यमम् । मत्प्रार्थनावशाद्देव देह्यस्मै पुत्रमुत्तमम् ॥ १.३५ ॥ न शक्यते न शक्यते यम आह पुनः पुनः । देहि देहि सुतं देव राज्ञापि प्रार्थितः पुनः ॥ १.३६ ॥ आग्रहस्यातिशय्यं च तयोरित्थं बभूव ह । व्याकुलौ ती महायुद्धे तदा लिप्तौ बभूवतुः ॥ १.३७ ॥ तिष्ठ तिष्ठेति त राजा बहुशः प्राह वीरहा । स्थितोऽस्मीति रणे राजन् तमवोचद्नृपं यमः ॥ १.३८ ॥ असंख्यानां च वाणानां तीक्ष्णानां परिवर्षणम् । अकरोद्भयजिद्राजा यमस्योपरि सर्वतः ॥ १.३९ ॥ श्रुतघ्नं सर्वतो दिव्यं मेघतो वारिवर्षवत् । अप्रतिरोधरुपं तदस्त्रं ववर्ष धर्मराट् ॥ १.४० ॥ तेन राजा महाक्रुद्धो महाप्रभावशालिभिः । यमदूतांश्चदेवास्त्रैः प्रपीड्य मुमुदे भृशम् ॥ १.४१ ॥ शूलासिप्रासमुद्गरा यमदूतविनिर्गताः । भूपेन सर्वथा नष्टा भयप्रवर्तका इमे ॥ १.४२ ॥ प्रेतो दारुणरुपी च प्रतिदिशमधावत । नष्टः सेनापतिश्चैव आगमदाहवाद्द्रुतम् ॥ १.४३ ॥ ततः प्रेताधिपो देवो दृष्ट्वा तं तु पराजितम् । यथाज्ञाकारिणं दण्डं जग्राह प्रतिहिंसया ॥ १.४४ ॥ कालाग्निसदृशं दृष्ट्वा उत्क्षिप्तं पृथिवीपतिः । ब्रह्मशिरोऽङ्कित चास्त्रमात्महस्ते गृहीतवान् ॥ १.४५ ॥ सर्वे भूता भयत्रस्ता महाभूतोऽपि सर्वतः । बभूवुरातुरा सर्वे तेन दुर्लक्षणेन वै ॥ १.४६ ॥ दुःखितां सकलां पृथ्वीं दृस्ट्वा ब्रह्मा तथा सुरैः । आजगाम स्वयं तत्र तस्मिन् देशे रणाकुले ॥ १.४७ ॥ ब्रह्माणं स्वागत दृष्ट्वा भयजिन्नृपसत्तमः । साञ्जलिः पूजयित्वा तं प्राह यथायथं वचः ॥ १.४८ ॥ यमोऽपि प्रणिपत्याथ सर्वामकथयत्कथाम् । वैक्लव्यकारणनि च श्रुत्वा शेषाणि सृष्टिकृत् । प्रत्यावृत्य रणाद्देवः कथयामास तौ तदा ॥ १.४९ ॥ न दोषो भवतां नाथ मृत्युपतेर्महात्मनः । सत्यनराधिपस्यैव कालस्य न तु कर्मणः ॥ १.५० ॥ पुरा शुभाशुभं कर्म तथा च शिशुना कृतम् । लब्धञ्च मरणं शीघ्र जन्म प्राप्य च मानुषम् ॥ १.५१ ॥ साफल्यमेति ते श्रमो ब्राह्मणस्यास्य पूजनात् । तस्मिन्नुपायविद्येयं मत्प्रसादात्प्रपूज्यताम् ॥ १.५२ ॥ वर्णादीनां समायोगैः एतद्द्विजसुताकृतिम् । रुपमालिख भो राजन् सर्वलोकहिताय वं ॥ १.५३ ॥ आविर्भूतेन ब्रह्मणा इत्थमुक्ते सुवुद्धिमान् । जीवयितुं लिलेख तं द्विजपुत्रं महोपतिः । ब्रह्मा तच्चित्रमादाय योजयामास जीवितम् ॥ १.५४ ॥ विकचोत्पलचक्षुष्मान् सुकुमारशरीरधृक् । चक्षुरुन्मील्य सानन्दं पुनर्जीवनमापेदे ॥ १.५५ ॥ जीवितं पुत्रमासाद्य हृष्टो ब्राह्मणसत्तमः । ब्रम्हाणमभिवन्द्याथ स्वीयपुत्रं गृहितवान् ॥ १.५६ ॥ ब्रह्माब्रवीत्ततो भूपं ब्राह्मणप्रीतये इमे । यमदुता जिताः शक्त्या साधु साधु कृतं त्वया ॥ १.५७ ॥ ब्रह्माणा कथिते त्वेवं स राजा हर्षमाप्तवाम् । सर्वदमनकारी तु दौर्मनस्यं यमो गतः ॥ १.५८ ॥ अप्रसन्नं यमं दृष्ट्वा वचोभिर्मधुरैर्भृशम् । ब्रह्मा स्वयं समाश्वास्य भूपतिं प्राह सत्तमः ॥ १.५९ ॥ धर्मनीतिः सुविज्ञाय न निन्देत्कामपि प्रजाम् । सदानन्दप्रदोभव्यस्त्वभिमानं च वर्जयेत् ॥ १.६० ॥ यत्र सेवा सतां नास्ति तत्र निन्दा भवेद्ध्रुवम् । नाल्पमपि सुखं किञ्चिदाप्नोति निन्दुकः सदा ॥ १.६१ ॥ द्वेषिणोऽपि बुधाः स्वर्गाद्भवन्ति विच्युतास्तहा । अहङ्कानरयुत भूतं त्यजन्ति सर्वमानवाः ॥ १.६२ ॥ निरहङ्कारिणा तस्मात्भवितव्यं सदा खलु । जात्या बलेन दानेन नैपुण्येन च विद्यया ॥ १.६३ ॥ देवतानाञ्च विप्राणां विशेषण समादरः । प्रकर्तव्यो न कर्तव्यो निन्दोपायः कथञ्चन ॥ १.६४ ॥ अविरोधेन सत्कारः करणीयः सदा नृपैः । क्षमावलम्बनीया स्यात्निन्दा त्याज्या तथैव च । सर्वज्ञो निरहंकरो गुणिने न द्विषेन्नृपः ॥ १.६५ ॥ पुरुषं वचनं त्याज्यमाघातं विसृजेत्सदा । प्रत्यक्षं प्राप्यते यत्तु सार्थक्यं तस्य चिन्तयेत् ॥ १.६६ ॥ देवविप्रविरोधिनां कुत्रापि न सुखं भवेत् । विधियं नैव कार्यं हि यमस्यापि ततो नृप ॥ १.६७ ॥ ब्रह्मणेत्थं स भूपालो ह्युपदिष्टो द्विजप्रियः । नमस्कृत्य यमस्वार्थे कृतवान् सुप्रियं तथा ॥ १.६८ ॥ यमोऽपि प्रीतिमापन्नो ब्रह्मा प्रसन्नतां गतः । अशोकं प्रीतिमापेदे जगदेतञ्चराचरम् ॥ १.६९ ॥ अथ ब्रह्मा नृपं प्राह नग्नं प्रेतं निवारय । यमदासैः सदा विश्वं न पातयेद्भवान् खलु ॥ १.७० ॥ बलेन तेजसा चापि तपसेमं गुणं नृपाः । अनुकुर्युर्न कर्त्तव्योऽकुशल इह भाविनि ॥ १.७१ ॥ भवान्महायशस्वी च करणीयो मया क्षितौ । निवर्तस्व कुमार्गेभ्यस्त्वं सदा पृथिवीपते ॥ १.७२ ॥ प्रेतपर्यायकं नग्नमजैषीस्त्वं यतो बलात् । मम प्रसादाद्राजेन्द्र ब्राह्मणानुग्रहात्तथा । प्रजापतितुलः पृथ्वां यशस्वी त्वं भविष्यसि ॥ १.७४ ॥ वेदज्ञो व्रतनिष्ठश्च तपसा शुद्धमानसः । प्रजाः पालय निष्पापः अनुमतिस्तथा मम ॥ १.७५ ॥ अस्य ब्राह्मणपुत्रस्य चित्रस्य लेखनेन च । तादृशेण क्षितावादि-चित्राविष्कारको भव ॥ १.७६ ॥ लोकानां हितसाधनात्पूजनीयो भविष्यसि । अद्य प्रभृति तच्चित्र जगद्वन्द्यं भवेत्सदा ॥ १.७७ ॥ पापघ्नं च मनोहारि प्रोतिसुखप्रदं नृणाम् । मङ्गलश्रोप्रदायकं रक्षोघ्नं शत्रुनाशनम् ॥ १.७८ ॥ तवादौ लेखकख्यातिः ममेयं वचनेन च । चित्रमिति प्रसिद्धं तत्सर्वत्रैव भविष्यति ॥ १.७९ ॥ ब्रह्मणेत्थं वचस्युक्ते यमो विप्रश्च नग्नजित् । सर्वे नेमुश्च भक्त्या तं ब्रह्माणं लोकपालकम् ॥ १.८० ॥ सर्वेषां मङ्गलं कृत्वा त्रिलोकेशः प्रजापतिः । सर्वदेवगणैः सार्धं जगाम स्वगृहं मुदा ॥ १.८१ ॥ राजाथ धर्मराजं तं पूजयित्वा प्रयन्ततः । स्वस्थानमागतो धीमान् प्रीणयित्वा यमं तथा ॥ १.८२ ॥ अथासौ ब्राह्मणस्तुष्टः प्रपयौ नगरं द्रुतम् । यस्माद्देशात्समापन्नस्तत्रैव प्रविवेश च ॥ १.८३ ॥ हृष्टो राजा समित्रश्च चित्रसंरचनाय वै । उद्यतोऽभूत्सदैवासौ सपुत्रे प्रस्थिते द्विजे ॥ १.८४ ॥ सर्वरूपानुकूलं तत्मानं वा कीदृशं भवेत् । तत्प्रष्टुं सृष्टिकत्तरिं ब्रह्मलोकं जगाम सः ॥ १.८५ ॥ कृपया ब्रूहि मे ब्रह्मन् चित्रसंलेखनक्रमम् । चित्रस्य लक्षणानि मे नानाविधानि सन्ति च ॥ १.८६ ॥ परिमाणं किमस्य स्यात्विधिना कीदृशेन वा । उत्पादनीयमेतद्धि साञ्जलिः पृष्ठवान्नृपः ॥ १.८७ ॥ ब्रह्माथ प्राह भूपेन्द्रं शृणु राजन् समाहितः । अतिगुह्यं महद्वाक्यं परमं कथयामि ते ॥ १.८८ ॥ सृष्टेरादौ समायाता वेदा यज्ञाश्च भूपते । ततः प्रजा मया सृष्टा उपदिष्टाश्च ता मया ॥ १.८९ ॥ चैत्यानां करणायैव चित्रं संलिख्यते यतः । वेदाच्चित्रं प्रजातं वै तस्माद्ज्ञेयं तथैव तत् ॥ १.९० ॥ आदौ संलिखितत्वाच्च चित्रमित्युच्यते ततः । चराचरयुता वृक्षा जङ्गमाश्च यथास्थिताः । तथा प्रलिखनात्तेषां तच्चित्रमिति कथ्यते ॥ १.९१ ॥ गिरीणां सुमेरुः श्रेष्ठः अण्डजानां खगाधिपः । यथा नरेषु भूपेन्द्रस्तथा चित्रं कलासु वै ॥ १.९२ ॥ पतन्ति सागरे नद्यः समुद्रा रत्नमाश्रिताः । नक्षत्रैश्चाश्रितः सूर्यो ब्रम्हा ॠष्याश्रयो यथा । तथैव चित्रकर्मणि कलाः सर्वाः समाश्रिताः ॥ १.९३ ॥ हिमालयो यथा श्रेष्ठो नगेषु सकलेषु च । गङ्गा नदिषु श्रेष्ठैव ग्रहेषु सोमभास्करौ ॥ १.९४ ॥ समेषु वैनतेयश्च महेन्द्रो देववृन्दके । तथा श्रेष्ठं भवेच्चित्रं सर्वासु हि कलासु च ॥ १.९५ ॥ नग्नजिद्गच्छ तस्मात्त्वं विश्वकर्म समीपतः । लक्षणविधिमानं च तुभ्यं स उपदेक्ष्यति ॥ १.९६ ॥ उपदेशमनुसृत्य ब्रह्मणो भूपतिस्ततः । विश्वकर्मसमीपे तु प्रसन्नो ह्यगमद्द्रुतम् ॥ १.९७ ॥ दृष्टोऽसौ विश्वकर्मा च राज्ञा नमस्कृतस्तथा । आतिथ्यं विधिवत्कृत्वा राज्ञे सोऽदददासनम् ॥ १.९८ ॥ राजाह विश्वकर्मन् भो ब्रह्मज्ञया ह्युपस्थितः । चित्रस्य लक्षणं कर्म उपदिशतु मे प्रभो ॥ १.९९ ॥ विधिर्वा परिमाणं वा कीदृशं वा भवेत्तथा । उपदिशतु कार्त्स्न्येन रहस्यं सप्रकारकम् ॥ १.१०० ॥ एवमुक्ते नरेन्द्रेण विश्वकर्मा मुदान्वितः । चित्रशिल्पस्य शास्त्रं तु तस्मै राज्ञे ह्युपादिशत् ॥ १.१०१ ॥ एकाग्रमनसा तत्तु श्रूयतां यद्मद्भाषितं । परिमाणं तथास्थानं वर्णोपायौ यथायथम् ॥ १.१०२ ॥ प्रदाय सर्वमीशेन देवेन पद्मयोनिना । निर्दिष्टं चित्रलक्षणं बुद्धिमन्तः कृते शृणु ॥ १.१०३ ॥ सर्ववस्तुसमाकीर्णा आकृतीर्लक्षणान्विताः । लोकश्रद्धास्पदं मह्यं लिखित्वादौ ह्युपाहरत् ॥ १.१०४ ॥ केन मानेन शोभनाः स्थानोपायैश्च कीदृशैः । ब्रह्मणः कृपया लब्धाः सर्वे शिल्पा मया कृताः ॥ १.१०५ ॥ आकारेणेदृशेनैव प्रजा मया विनिर्मिताः । देवैश्चित्रं विवर्द्धितं विविधं लक्षणान्वितम् ॥ १.१०६ ॥ ज्ञेयं मत्तस्त्वथा राजन् लक्षणमाकृति तथा । सादृश्यं वेशसौन्दर्यं परिमाणं कलान्वितं ॥ १.१०७ ॥ चित्रमीदृशं संलेख्यं यत्नाद्बुद्धिमता त्वया । दर्शनीयं मनुष्येभ्यो विद्वभ्यो गुणयुक्तेभ्यः । चित्रसन्दर्शने तावदुत्साहमतियुक्तेभ्यः ॥ १.१०८ ॥ मुनिनागासुराणां च प्रेतानां यक्षरक्षसाम् । गन्धर्वाणां च राजेन्द्र विधिवत्कक्षणादिकम् । लिखित्वा विविधं सम्यक्तुभ्यं मया प्रदश्र्यते ॥ १.१०९ ॥ ॥ इति नग्नजिच्चित्रलक्षणनिर्देशे नग्नजयो नाम प्रथमः परिवर्त्तः ॥ द्वितीयः परिवर्त्तः यथोक्तं ब्रह्मणा पूर्वमाचष्टे भूपतिं तथा । लिखनादिविधिं सम्यक्चित्रस्य परिनिर्मितो ॥ २.१ ॥ स्थावरे जंगमे नष्टे प्रलयान्ते च वै पुरा । प्रादुरभूत्सुवर्णाण्डं तमो हत्वा जलात्किल ॥ २.२ ॥ तस्मादण्डात्प्रादुरभूत्लोकपितामहः स्वयम् । ओमित्येकाक्षरं तस्माद्वेदविद्याश्च कल्पना ॥ २.३ ॥ चतस्रश्च प्रजास्तासां रुपसंज्ञादयस्तदा । आयुषा सहितस्यैव ब्रह्मणो जातिरेव च ॥ २.४ ॥ स्थानं चर्या च धर्मश्च न्यायश्च प्राभवन् तदा । एवं कृते सति ब्रह्मा-चिन्तयत्जगतो हितम् ॥ २.५ ॥ एवं चिन्तयतस्तस्य मतिरित्थं बभूव ह । कथं जनाश्च जानीयुः संज्ञां देवमहीभूजाम् । अप्रमादेन चादरः सदा तेषु कथं भवेत् ॥ २.६ ॥ ब्रह्मेत्थं चिन्तयित्वा तु विष्णोः शिवस्य चात्मनः । शक्रस्य सर्वदेवानां परिमाणं गुणं तथा ॥ २.७ ॥ सवस्त्रं विविधस्थितमलंकारास्त्रसंयुतं । मनोरमं सुरुपं च अत्यन्तस्रदृशं तथा ॥ २.८ ॥ ससविभक्तसर्वाङ्गं प्रत्यङ्गं च यथायथम् । मिश्रितेन च वर्णेन चित्राकारं विनिर्ममे ॥ २.९ ॥ विलोक्य तानि चित्राणि नेत्रमूलात्प्रमोदिताः । साधु साध्विति संपूज्य प्रशंशसुर्विधिं सुराः ॥ २.१० ॥ इमे देवाः प्रसन्नाश्च स्वप्ताकारं च लेभिरे । अधिष्ठानं प्रभावं च कृतवन्तस्तथा इमे ॥ २.११ ॥ प्राह सप्तसुरान् ब्रह्मा अस्तु पुण्यं समाश्रितम् । अद्य प्रभृति सर्वत्र युष्माकं प्रतिमासु च । नात्र शङ्का कृथा नरः पूजयिष्यति वः सदा ॥ २.१२ ॥ शूद्धया दानेन विधिवत्तत्परायणमानसः । मनुष्येषु च यो नाम भवन्तं पूजयिष्यति । तस्मै कामस्य सिद्धये नैरुज्यं संप्रदास्यति ॥ २.१३ ॥ नाना प्रकारदुःस्वप्नात्द्वेषग्रस्तेभ्य एव च । सर्वेषा रक्षण कृत्वा पापान्नाशयति ध्रुवम् ॥ २.१४ ॥ धर्मश्च सदृशो भाव्यः रक्षोहानिर्भवेद्ध्रुवम् । यशोवृद्धिर्भवेद्विश्वे युष्माकं परिपूजनात् ॥ २.१५ ॥ लोकपूजाव्यवस्थायै प्रतिमानां यथायथम् । नामादिकीर्तनं कार्य स्तवपूजादिकं तथा ॥ २.१६ ॥ प्रतिमां यां प्रतिदिनं पुण्यात्मा पूजयिष्यति । तयैव दीयते शान्तिस्तस्मै भक्ताय सर्वतः ॥ २.१७ ॥ एवं ववत्विति प्राहुर्देवाः प्रसन्नमानसाः । स्वीयवेषैः स्वचेतसा स्वाधिष्ठानं समागताः । इत्थं पूजाभवद्विश्व-वासिभिस्ते प्रपूजिताः ॥ २.१८ ॥ परिमाणादिकं तेषां मत्तः श्रुत्वा च लक्षणम् । अद्य मनुष्यलोकेषु प्रचारय प्रयत्नतः ॥ २.१९ ॥ ब्रह्मणश्च मया प्राप्तं विद्योत्तमा च लक्षणम् । अशेषं परिमाणं च तुभ्यमद्य प्रदीयते ॥ २.२० ॥ त्रिलोकेषु च पूज्यानां सर्वेषां देहिनां तथा । पापहानिकरं भीतेर्नाशकं नेत्रमोदकं ॥ २.२२ ॥ आद्युत्पन्नञ्च दोषेण हीनं नानाश्रयं परम् । विजानीहि क्षितीन्द्र त्वं यशोराशिविवर्धकम् ॥ २.२३ ॥ ॥ चित्रलक्षणे पूजोत्पत्तिर्नां द्वितीयः परिवर्त्तः ॥ तृतीयः परिवर्त्तः लोकस्य कायमानं मां स्वयम्भूरुपदिष्टवान् । तत्तथैव प्रवक्ष्यामि मानं ब्रूहि प्रजासु च ॥ ३.१ ॥ देवराक्षसगन्धर्व सिद्धनर्तककिन्नराः । विद्याधराश्च नागेन्द्राः पिशाचप्रेतकायिकाः ॥ ३.२ ॥ ये भवन्ति च तेषां वै भूपतोनां ततस्तथा । सर्वेषां प्राणिजातानां मानमिदं प्रवर्तते ॥ ३.३ ॥ परमाणुश्च वालाग्रं लिक्षा यूको यवोऽङ्गुलिः । अष्टाष्टगुणवृद्ध्या वै ज्ञातव्यमिति निश्चितम् ॥ ३.४ ॥ परमाणुभिरष्टाभिरेकं वालाग्रमुच्यते । वालाग्राष्टौ च लिक्षा सा परिमाणज्ञकीर्तिता । अष्टलिक्षा भवेद्यूकः अष्टयूका यवः स्मृतः ॥ ३.५ ॥ द्व्यङ्गुलोर्द्व्यङ्गुलं मानमङ्गुलिः स्याद्यवाष्टकम् । अर्धाङ्गुलिश्चतुर्यवा इति मानं निगद्यते ॥ ३.६ ॥ विस्तारस्य यथैवार्थ आयामेन प्रकाशितः । तथारोहसमुच्छ्रायौ पर्यायवाचिनौ मतौ । परिमाणानुसरेण वर्णनोयाः क्षितौ नराः ॥ ३.७ ॥ उच्छ्रायश्च तथायामो राज्ञां न्यग्रोधवृक्षवत् । विस्तृतश्चक्रवर्तिनां श्रुयतां वर्ण्यते मया ॥ ३.८ ॥ उच्छ्रायश्चक्रवर्तिनां स्वाङ्गुलेः परिमाणतः । अष्टोत्तरशतं ज्ञेयं कदाचिन्न पराङ्गुलेः ॥ ३.९ ॥ चक्रवर्तिमहीपानामुच्छ्रायपरिमाणकम् । साक्षात्सवर्ण्यते चात्र पुर्वोक्तं विस्तरेण च ॥ ३.१० ॥ मुखादीनां परिमाणं श्रुयतामुच्यते मया । त्रिभागेन विभक्तं च समानेन तथा बुधैः । चिवुनासाललाटं वा चतुरङ्गुलमानकम् ॥ ३.११ ॥ आयामो मुखभागस्य भवेच्चतुर्दशाङ्गुलिः । उर्द्धभागे त्वधीभागे आयमो द्वादशाङ्गुलिः । आरोहो वदनस्यात्र द्वादशाङ्गुलिमानकः ॥ ३.१२ ॥ आरोहश्चतुरंगुलमुष्णीषस्य भवेद्ध्रुवं । आयामश्च तथैवास्य षडङ्गुलसमायुतः ॥ ३.१३ ॥ शीर्षं छत्रसमाकारमायामो द्वादशाङ्गुलः । द्वात्रिंशत्तस्य मण्दलमङ्गुलीनां हि मानतः ॥ ३.१४ ॥ कर्णदेशस्य चायमो द्व्यङ्गुलिपरिमाणकः । चतुरङ्गलिसमुच्छ्रायो रन्ध्रमर्धाङ्गलं मतम् । कर्णारन्ध्रस्य चारोह एकाङ्गुलो भवेद्ध्रुवम् ॥ ३.१५ ॥ समानतलविज्ञेयं भ्रुपृष्ठकर्णयोस्तथा । अक्षिकोषस्य विस्तारः कर्णरन्ध्रसमानकः ॥ ३.१६ ॥ कर्णस्य लुटिकामानं निश्चयेन न कीर्त्यते । भ्रुवोरुच्छ्राय आरोहो द्वौ यवौ चतुरंगुलिः ॥ ३.१७ ॥ सर्वेषामेव शान्तानां भ्रुःस्यान्नवशशाङ्कवत् । नर्त्तने रोदने क्रोधे चापाकारा भवेत्सदा ॥ ३.१८ ॥ भये शोके च भ्रूप्रान्तावुन्नतौ क्रमिकौ स्मृतौ । नासाकोशात्समुत्थाय अर्धललाटगामिनौ ॥ ३.१९ ॥ एकाङ्गुलिस्तथा मध्यः रोमकोषसमावृतः । भ्रूमध्यात्केशपर्यन्तं मानं द्व्यर्धाङ्गुलं मतम् ॥ ३.२० ॥ भ्रूवः प्रभृति भालान्तं मानं स्याच्चतुरङ्गुलम् । द्व्यङ्गुलौ ह्यक्षिकोषः स्यान्नेत्रमध्यं तथैव तु ॥ ३.२१ ॥ चक्षुषोद्वर्यङ्गुलारोह आयामश्चैककाङ्गुलिः । त्रिभागस्तारका ह्यस्य मुखमानसुसम्मता ॥ ३.२२ ॥ चक्षुवत्तारकोच्छ्रायो नयनं चापसन्निभम् । यद्भवेत्तस्य मानं स्याद्यवत्रयप्रमाणकम् ॥ ३.२३ ॥ उत्पलपत्रनेत्रस्य प्रमाणंषड्यवं स्मृतम् । मत्स्योदरसुनेत्रस्य मानमष्टयवं भवेत् ॥ ३.२४ ॥ पद्मपत्रनिभं नेत्रं नवयवैः सुसंनितम् । वराटकाभनेत्रस्य मानं दशयवं भवेत् ॥ ३.२५ ॥ उच्छ्रायश्च तथायामो नेत्राणां वर्णितो मया । निर्विकल्पं भवेच्चक्षुर्योगिनां चापसन्निभं ॥ ३.२६ ॥ कामिनां च तथा स्त्रीणां नेत्रं मत्स्योदरं भवेत् । सामान्यानं तु कर्त्तव्यमुत्पलदलसन्निभम् ॥ ३.२७ ॥ त्रस्तस्य रुदतश्चैव पद्मपत्रनिभं वरम् । क्रुद्धस्य दुःखितस्यैव वराटकनिभं सदा ॥ ३.२८ ॥ उत्पलदलवन्नेत्रं रक्तान्तं कृष्णतारकम् । दीर्घाग्रसुन्दरं पक्ष्म शुवर्णं सरलं मृदु ॥ ३.२९ ॥ गोक्षीरवर्णवत्स्निग्धं प्रजाहितकरं भवेत् । राजन्नेतत्विजानीयाद्यथा स्यात्नेत्रलक्षणम् ॥ ३.३० ॥ प्रसन्नपद्मवन्नेत्रां नीलवल्कलसुन्दरं । अन्तराखचितं कृष्णं तारकं श्रीसुखप्रदम् । विलिखयेत्तथा धीमान् चित्रशास्त्रेषु दीक्षितः ॥ ३.३१ ॥ नेत्रमानमिदं ज्ञेयं यथाशास्त्रमुदीरितम् । षट्त्रिंशद्दृष्टिनियम-लक्षणमग्र उच्यते ॥ ३.३२ ॥ नासायाः पुनरारोहश्चतुरङ्गुलिमात्रकः । मासाग्रस्य समुच्छ्रायौ द्व्यङ्गुलिपरिमाणकः ॥ ३.३३ ॥ वक्रतायाः पुटस्यापि आयामः स्वाङ्गुलिद्वयम् । नासारन्ध्राग्रदेशस्य मानवं स्याच्चतुर्यवम् । उच्छ्रायश्च तथैवास्य यवद्वयसमायुतः ॥ ३.३४ ॥ देशस्तुरन्ध्रयोर्मध्ये द्वियवपरिमाणकः । आरोहः षड्यवस्तस्य ओष्ठ एकाङ्गुलिः स्मृतः ॥ ३.३५ ॥ अधरोऽर्धाङ्गुलिस्तस्य गोजी चार्धाङ्गुलिस्तथा । अधरोष्ठस्य चारोहश्चतुरङ्गुलिमानकः ॥ ३.३६ ॥ ओष्ठान्तौ विम्बवद्रक्तौ तथा चापानुकारकौ । अल्पोच्चो मुखकोणः स्यात्सदासुस्मितसंयुतः ॥ ३.३७ ॥ उच्छ्राये द्व्यङ्गुलिर्हनुरायामे त्र्यङ्गुलिस्तथा । कण्ठस्य तु समुच्छायश्चतुरङ्गुलकं स्मृतम् । उत्क्षिप्तकण्ठमानं हि ज्ञेयमेतन्न चान्यथा ॥ ३.३८ ॥ अधाधः कण्ठदेशय चायमः स्याद्दशाङ्गुलिः । कशोऽष्टाङ्गुलकं मानं ततः स्थूलस्त्रिमानतः ॥ ३.३९ ॥ कण्ठस्त्रिबलिभिर्युक्तः कर्त्तव्यः कम्बुवत्सदा । उन्नतः पृष्ठभाग स्यात्परिमण्डलसंयुतः ॥ ३.४० ॥ पञ्चाङ्गुलं तु गण्डोध्वमधः स्यात्चतुरङ्गुलम् । चिवुकस्य तथा मानं चतुरङ्गुलकं मतम् ॥ ३.४१ ॥ आयामो मुखगागस्य तथौष्ठस्य विवर्णितः । चतुरस्रं मुखं पूर्णं प्रसन्नं चारुलक्षणम् ॥ ३.४२ ॥ त्रिकोणा कुटिला वृत्ता नैव कार्या मुखाकृतिः । क्रोधयुक्रोषयुक्चैव न मुखं स्यात्कदाचन ॥ ३.४३ ॥ ईदृशैर्लक्षणैर्युक्तं मुखं विलिखयेद्यदि । सुसम्पन्नो भविष्यति नर इह च सर्वदा ॥ ३.४४ ॥ शान्तिकामि मुखं यत्स्याद्दीर्घं खर्तं च वर्तुलम् । त्रिकोणं वा प्रजानाञ्च सामान्यानां भविष्यति ॥ ३.४५ ॥ तदितरञ्च यद्भवेत्पूर्वलक्षणसंयुतं । तद्विज्ञेयं च देवानां मुखस्य मानमीदृशम् ॥ ३.४६ ॥ अत ऊध्र्वं प्रवक्ष्यामि कायमान विचारतः । अविक्षिप्तेन गृह्यतां मनसा च महिपते ॥ ३.४७ ॥ यत्स्थानं कटिदेशस्य उदरस्य तथान्तरा । ज्ञेयं तद्द्व्यङ्गुलं नूनं स्कन्धायामः षडङ्गुलः । दैघ्र्ये त्वष्टाङ्गुलो ज्ञेयो वक्षस्तु द्विगुणं स्मृतम् ॥ ३.४८ ॥ आरोहः स्यात्तु मेट्रस्य षडङ्गुलप्रमाणकः । अष्टादशाङ्गुला श्रोणी आरोहे कथिता बुधैः ॥ ३.४९ ॥ जत्रुतो हृदयं यावन्न कुटिलः प्रदेशकः । हृदयान्नाभिरन्ध्रकः बन्धुरः स्यान्न संशयः । नाभितो मेट्रपर्यन्तं समानं च भवेद्ध्रुवम् ॥ ३.५० ॥ चतुर्दशाङ्गुलं कट्या नाभेरर्धाङ्गुलं मतम् । मानं च दहिणावर्त्तं यवैकं चुचुकं स्मृतम् ॥ ३.५१ ॥ मण्डलो द्वयङ्गुलो वासः पुनर्देयं चुचूकयोः । बन्धनं च प्रदातव्यं कटिदेशस्य शोभनम् । कटिदेशस्तथा नाभेरधस्ताच्चतुरङ्गुलिः ॥ ३.५२ ॥ आयामे द्व्यङ्गुलं मेढ्रं वास्तेयस्तु षडङ्गुलः । बृषणौ नातिलम्बौ हि स्थूलत्वे सप्तकाङ्गुलौ । परिवृतिः समानैव उच्छ्राये चतुरङ्गुलौ ॥ ३.५३ ॥ मेदं षडङ्गुलं प्रोक्तमन्तरं स्वोदरान्ननु । षडङ्गुलं भवेत्मानं लक्षणज्ञैरुदाहृतम् ॥ ३.५४ ॥ आयामो जङ्घयोः कार्यः पञ्चविंशतिरङ्गुलः । ऊर्वोर्गुल्फयोश्चैव मानं स्याच्चतुरङ्गुलम् ॥ ३.५५ ॥ प्रान्तद्वयं च जङ्घाया विख्यातं चित्रकर्मणि । गुल्फलग्नप्रदेशस्य आयामश्चतुरङ्गुलः । तथैव मध्यदेशी हि आरोहेण षडङ्गुलिः ॥ ३.५६ ॥ ञ्यङ्गुलं जानुभागस्य आयामे न तथारोहे । जङ्घाद्वयस्य तस्योर्धं मानमष्टाङ्गुलं मतम् । जङ्घयोः स्थूलतामानं भवेद्द्वादशकाङ्गुलम् ॥ ३.५७ ॥ जङ्घाग्रमुन्नतं कुर्यात्पुष्टमसिन संयुतम् । मृदु करिकराकारं न कार्यं विषमं क्वचित् ॥ ३.५८ ॥ गुल्फादेशस्तथा नाऋई प्रगच्छन्नैव दृष्टिताम् । जङ्घायाः पश्चिमो भागः सुवृत्तोऽल्पोन्नतौ भवेत् ॥ ३.५९ ॥ उच्छ्रायेण तु पार्ष्णीनां मानं पञ्चाङ्गुलं मतम् । आयामस्त्र्यङ्गुल प्रोक्तः पादौ चतुर्दशाङ्गुलौ ॥ ३.६० ॥ चतुरङ्गुलिकोऽङ्गुष्टो रक्तं पादतलं स्मृतम् । रक्तपद्माग्रसादृश्यं लाक्षारससमायुतम् ॥ ३.६१ ॥ चक्रादिलक्षणैर्युक्तं परस्परसमीपगम् । पादस्य बन्धनं स्यात्तु द्व्युङ्गुलं भूपदेशगम् ॥ ३.६२ ॥ चक्रवर्तिमहीपस्य हंसवच्चरणौ मतौ । भूस्पर्शौ जालवृद्धौ च अष्टाङ्गुलिप्रमाणकौ ॥ ३.६३ ॥ कूर्मपृष्टसमाकारौ सुन्दरचिन्हसंयुतौ । पञ्चाङ्गुलिसमायामौ दर्शने सुमनोहरौ ॥ ३.६४ ॥ कनिष्टिकात्तयारोहः षडङ्गुलिसुसंयतः । अङ्गुष्टस्य तथायामो द्व्यङ्गुलः साधुनिश्चितः । परिवृतिः षडङ्गुलिः आरोहे चतुरङ्गुलिः ॥ ३.६५ ॥ अग्रे समुन्नता कार्या दीर्घा अङ्गुलयस्तथा । अङ्गुष्ठापेक्षया स्थूला आरोहे त्र्यङ्गुला मताः ॥ ३.६६ ॥ एकैकाङ्गुलितो न्यूनाः सर्वाः स्युः क्रमिकागताः । कनिष्ठिकासमुच्छ्राय-परिवृत्तिर्द्विरङ्गुलिः ॥ ३.६७ ॥ अङ्गुलीनां तु जालाश्च सन्नद्धाः सुन्दरास्तथा । नाड्यविषमसंपुष्टा अस्थि चादर्शनं गतम् ॥ ३.६८ ॥ नखाश्चार्धशशाङ्कवत्रक्तिमाः स्निग्धवर्णकाः । सिन्दुरलिप्तसर्वाङ्गाः प्रदिप्ताग्निशिखा यथा ॥ ३.६९ ॥ चन्द्रकान्तसमुज्ज्वलास्तथा सुस्पष्टसंयुताः । अव्रणा मृदवः पूर्णाः यवमानेन पूरिताः ॥ ३.७० ॥ अङ्गुलिस्तु त्रिभागः स्यात्स्पष्टा वृद्धाङ्गुलिस्तथा । तस्याः पार्श्वाङ्गुलेर्मध्ये स्थानमर्धाङ्गुलं मतम् ॥ ३.७१ ॥ गुल्फादेशादधोभागश्चरणमितिसंज्ञितम् । तच्चरणसमुच्छ्रायः चतुरङ्गुलको मतः । इत्थं चरणमानं स्यान्मया प्रोक्तं सुचिन्तितम् ॥ ३.७२ ॥ हस्तस्य लक्षणान्यत्र श्रुयन्तां कथयाम्यहम् । तलं सप्ताङ्गुलं दीर्घं विस्तारः पञ्चकाङ्गुलिः ॥ ३.७३ ॥ मध्याङ्गुलेः समुच्छ्रायः पञ्चाङ्गुलं प्रकीर्तितम् । तर्जन्या न्यूनता बोध्या पर्वार्धेन सुसंमता ॥ ३.७४ ॥ अनामिकाङ्गुलीमानं तद्वदेव भवेद्ध्रुवम् । कनिष्ठिकाप्यदीर्घा स्यात्पार्श्वाङ्गुलिक्रमादनु ॥ ३.७५ ॥ अङ्गुष्ठस्य सदोरहोश्चतुरङ्गुलको मतः । अङ्गुष्ठे द्वे तु पर्वणी समेनैक यवो भवेत् ॥ ३.७६ ॥ तस्याधो मांसपिण्डश्च त्र्यङ्गुलिसम्मितो भवेत् । अङ्गुष्ठस्य प्रमाणं तु नवयवकसम्मतम् । आयामोऽष्टयवः कार्य आरोहस्तु यवा नव ॥ ३.७७ ॥ अङ्गुष्ठात्तु चतुर्भागा नद्धा जालक्रमादनु । नखा रक्तास्तथा स्वच्छाः शुक्तिवच्चारुतान्विता ॥ ३.७८ ॥ अङ्गुष्ठपार्श्वमांसं त्वायामे अङ्गुलकं मतम् । अङ्गुष्ठान्तं तु करभात्सप्ताङ्गुलमानकम् ॥ ३.७९ ॥ आयामश्च तथारोहः क्रमादङ्गुष्ठयोर्मिथः । यथाशास्त्रमुपन्यस्तः शुभं कार्यं विचारयन् ॥ ३.८० ॥ पर्वार्धेन मिताः कार्या नखाः सूक्ष्मां नखाग्रकाः । सृष्यन्ते च यवादृशः पर्वतरेखा त्वदोषभाक् ॥ ३.८१ ॥ पर्वं दीर्घं च वृतं च करतलसुशोभनम् । तलौ पद्मसमौ रक्तौ करस्यैवं विधानतः ॥ ३.८२ ॥ अकुटिलमवक्रं च गम्भीरं सूक्ष्मकं तथा । रेखात्रयं करे प्रोक्तं रक्तवर्णं सुशोभनम् ॥ ३.८३ ॥ श्रीवत्सचक्रचिह्नस्वस्तिलक्षण समन्वितम् । कार्पासस्पर्शकोमलं क्षौमसूत्रमनोहरम् । सुखदं चारु सुस्पर्शं कुर्यात्करतलं शुभम् ॥ ३.८४ ॥ समन्तान्मांसपूर्णं वै नाऋई दृश्या कदापि न । हस्तपृष्ठं सदा स्निग्धमुन्नतं च भवेद्ध्रुवम् । सूक्ष्मा अङ्गुलिजाला हि सुन्दरं च तनुस्तथा ॥ ३.८५ ॥ उत्पलाभः सदा रक्तो नागेन्द्राभोगसन्निभः । नखोदरस्तनुः स्निग्ध उन्नतः करशोभकः ॥ ३.८६ ॥ आरोहायाममानं तु हस्तस्य गदितं मया । बाहूनां मानमारोहं धीमन् शृणु वदानि ते ॥ ३.८७ ॥ उभयोस्तु तथा बाह्वीर्मानं कुर्याद्यथाविधि । षट्त्रिशकं प्रमाणं वै अङ्गुलीनां विधानतः । अष्टादश प्रबाहोश्च बाहोश्चापि तथैव च ॥ ३.८८ ॥ स्कन्धाग्रस्य भवेन्मानं षडङ्गुलिसुसम्मतम् । आयामो बाहुभागस्य ज्ञेयं पञ्चाङ्गुलं सदा ॥ ३.८९ ॥ अङ्गुलिर्मणिबन्धः स्यात्प्रवाहू चतुरङ्गुली । विशालो वर्त्तुलाकारः सुस्पष्टोरंशो भवेत्पुनः ॥ ३.९० ॥ आरोहो भुजयोर्यस्तु भवेदष्टादशाङ्गुलिः । आकरादष्टचत्वारिशत्नाऋइपर्व त्वदृश्यकम् ॥ ३.९१ ॥ हस्तौ न जानुपर्यन्तौ दीर्धौ सूक्ष्र्मौ च सुन्दरौ । समन्तान्मांसपूर्णौ च भवेतामानपूर्ण्यतः ॥ ३.९२ ॥ गोपुच्छाग्रसमौ तावत्क्रमेणोच्चावचौ पुनः । बाहू दण्डायमानस्य जानुपर्यन्तगामिनौ ॥ ३.९३ ॥ तस्माद्राजेन्द्र हस्तेन जानुप्राप्त उदीर्यते । बाहुप्रबाहुमानानि आयामारोहः कीर्त्तितः ॥ ३.९४ ॥ पुनरग्रे प्रवक्ष्यामि लक्षणानि शुभानि वै । यानि पुर्वं न चोक्तानि तानि तुभ्यं वदाम्यहम् ॥ ३.९५ ॥ केशानां प्रान्तभागात्तु स्थानं कट्यास्थिविस्तृतम् । परिमाणं षडङ्गुलं ज्ञेयं सदा महीपते । स्कन्धस्थलस्य मानं हि षोऋअशाङ्गुलिसम्मितम् ॥ ३.९६ ॥ आरोहस्तस्य मध्यस्य दशाङ्गुलं भवेद्ध्रुवम् । आयामे चाङ्गुलीनां ही संख्या यायाद्नवान्विता ॥ ३.९७ ॥ स्कन्धदेशस्य मध्यांश आरोहायामशोभितः । पृष्ठमध्यः षडङ्गुलिरुर्ध्वे तु विंशतिर्मता ॥ ३.९८ ॥ मध्यस्य द्वयङ्गुलायामः पृष्ठं भागेन सुन्दरम् । पुरुषाणामिदं मानं स्त्रीणां भागः स एव हि । मांसपेश्यल्पसंयुतः सर्वशरीरशोभनः ॥ ३.९९ ॥ नितम्बपार्श्वमानं स्यात्षडङ्गुलिसमन्वितम् । चतुरस्रं च विज्ञेयं मण्डलान्वितनिम्नगम् ॥ ३.१०० ॥ स्थानात्तस्मात्समारभ्य श्रोणीसीमासमीपगम् । चतुरङ्गुलं स्थानं स्यात्पायुस्तु द्व्युङ्गुलं मतम् ॥ ३.१०१ ॥ नितम्बदेश आरोहे चाष्टाङ्गुलिसमन्वितः । नातिसंकोचमापन्न आयामः सप्तकाङ्गुलिः । चारुमण्डलयुक्तश्च नातिप्रसारितो भवेत् ॥ ३.१०२ ॥ आरोहायामयोः सर्वं लक्षणं शास्त्रसम्मतम् । निर्दिष्टं चावबोधार्थं पुनरत्र प्रवक्ष्यते । अविक्षिप्तेन चित्तेन गृह्यतां लोकहेतवे ॥ ३.१०३ ॥ दन्तशिरस्य लोभानां व्यवस्था क्रमशो यथा । वर्णस्य लक्षणं चैव देवमुखे न दीयते ॥ ३.१०४ ॥ सुग्रथिताः समादन्ताः स्निग्धवर्णाः सुतीक्ष्णकाः । दधिमुक्ताब्जवच्छुक्लाः स्वच्छाः श्वेता हिमा इव ॥ ३.१०५ ॥ चत्वारिशच्छुभा दन्ताः श्वदन्तैश्च सुशोभिताः । आरोहे त्रियवा ज्ञेया आयामे यवयुग्मकाः ॥ ३.१०६ ॥ दन्तमूलं तथा तालु जिह्वासीमा च लोहितम् । जातीकुसुमसंकाशं श्वदन्ताभं सुशोभनं ॥ ३.१०७ ॥ श्वदन्तानां यवार्धेन वृद्धिः कार्या विचारयन् । तीक्ष्णाग्रपरिमण्डलं मृदु मृणालतन्तुवत् ॥ ३.१०८ ॥ पद्मपत्रप्रतीकाशः कोमलश्च सुलक्षणः । स्थिरतडीन्निभो जिह्वादेशः स्पष्टश्च रक्तिमः । नवार्धपर्णवच्चारुः मुखे वै विततो भवेत् ॥ ३.१०९ ॥ ऐरावतस्य वृंहती हयराजस्य नादवत् । मेघरवस्य गम्भीरा वाणी प्रोक्ता सुलक्षणा ॥ ३.११० ॥ जालरेखानिभा केशाः शिरोऽलंकरणं गताः । इन्द्रनीलसभाः कृष्णा भ्रमराञ्जनसन्निभाः ॥ ३.१११ ॥ मयूरकण्ठरोमाभाः कोकिलाभाः शिरोरुहाः । नीला देदीप्यमानाश्च पृष्टमूलसमागताः ॥ ३.११२ ॥ सुन्दरा दक्षिणावर्त्ताः केशरिणः सटाप्रभाः । जालरेखाङ्किताः कोणाः केशचूऋआ मनोहराः ॥ ३.११३ ॥ बाहुमूलोपजङ्घासु नासाकर्णमुखेषु च । जङ्घासु कण्ठगण्डेषु केशा न स्युर्महात्मनाम् ॥ ३.११४ ॥ मृदुसूक्ष्मैस्तथा स्निग्धैर्जालरेखैः सुशोभनैः । केशानां परिमण्डलैर्नीलाञ्जनसमप्रभैः । वक्षस्थलं नृपाणां च शोभितं स्यात्सुलक्षणम् ॥ ३.११५ ॥ देवभूतमनुष्याणां मुखे श्मश्रु न रोम च ॥ ३.११६ ॥ एतेषां देवदेहस्तु रोमभिः परिवर्जितः । षोऋअशवर्षपूरकं शरीरं तद्धि कथ्यते ॥ ३.११७ ॥ सुराणां केशजालं तु सूक्ष्मलतेव संगतम् । नीलं चक्षुर्मनोग्राहि सर्वसत्त्वसुखप्रदम् ॥ ३.११८ ॥ जम्बुनदसमाहृत-तप्तकाञ्चनवर्णकः । देदिष्यते च देहोऽस्य पातचम्पकपुष्पवत् ॥ ३.११९ ॥ कमलदलकोषस्य प्राकार इव तृप्तिदः । उत्तमः पुरुषो ज्ञेयः लक्ष्मणं चक्रवर्त्तिनः ॥ ३.१२० ॥ गजराजगतिर्यस्य वृषराजपदोन्नतिः । मृगराजगतिस्थैर्यं लक्ष्मणं चक्रवर्त्तिनः ॥ ३.१२१ ॥ गजवत्सबलौ पादौ वृषवदाननं खरम् । वदनं सिंहवद्राज-हंसतेजः समायुतः ॥ ३.१२२ ॥ वेशदृशां गतिं चाथ अतिक्रम्य च सर्वेषाम् । दृश्यवन्नाटकस्येव भूतानां शिक्षको यथा । गतिरस्य भवेद्राजन् सर्वेषां च मनोरमा ॥ ३.१२३ ॥ सुगन्धस्त्वक्कृशः स्निग्धी दर्पणस्पर्शकोमलः । धूलिमलेन निर्लिप्तः लक्षणं चक्रवर्त्तिनः ॥ ३.१२४ ॥ प्रदीप्तमणिसंकाशः श्वेतवस्त्रसुशोभितः । समन्तात्किरणावृतः राजा लेख्यः कृशः सदा ॥ ३.१२५ ॥ निर्मेधशशिच्चारु प्रभामण्डलमण्डितम् । शरीरं यस्य राजेन्द्र लक्षणं चक्रवर्त्तिनः ॥ ३.१२६ ॥ मुखं चन्द्रदृशं श्वेतं सुग्निग्धश्चापरः शशी । धरापृष्टे समायात इत्थं माधुर्यमण्डितः । भ्रूवोः कण्ठस्य भालस्य सौन्दर्यं हि मुखस्य च ॥ ३.१२७ ॥ आकुञ्चितमृदुस्निग्ध चारुकेशः सुनासिकः । चार्वोष्टं रक्तिमापूर्णं स्वच्छा दन्ता नभो यथा ॥ ३.१२८ ॥ दीर्धोत्तम च पक्ष्म हि स्निग्धवर्णं भवेत्तथा । नीलं कृष्णं च दीर्घं च चक्षुः स्यात्सुमनोहरम् । भ्रूवौ दीप्तौ सदा ज्ञेयौ नेत्रानन्दविधायकौ ॥ ३.१२९ ॥ फुल्लारविन्दकोषस्य कर्णयोराकृतिः समा । ईषद्रोमौ मनोहरौ शरीराङ्गविभूषणौ ॥ ३.१३० ॥ कर्णयोर्लुटिके तस्य क्रमिके शङ्खसन्निभौ । बद्धस्कन्धौ सुपूर्णांशौ शोभनमङ्गमण्डलम् ॥ ३.१३१ ॥ मांसपुर्णं भवेद्वक्षः तस्यारोहो यथाक्रमन् । आयामश्च यथायथं चानुपूर्व्येण संगता ॥ ३.१३२ ॥ सिंहोदरवद्विज्ञेया कटिरावर्तिता भवेत् । दक्षिणावर्तिनो नाभिः गभीरा स्याद्यथायथम् ॥ ३.१३३ ॥ ऐरावतसमानौ हि लिङ्गकोषश्च सुन्दरः । समन्तात्मण्डलाकारः आभादृश्या भवेद्ध्रुवम् ॥ ३.१३४ ॥ गजशुण्डसमा जङ्घा अनुक्रमेण विस्तृता । मुखेषु चोन्नता ज्ञेया गुल्फोऽदृश्पो भवेत्तथा ॥ ३.१३५ ॥ सुबद्धाङ्गुलिसुन्दरौ कूर्मवत्मांसलौ तथा । अर्धचन्द्रप्रभायुक्ताङ्गुलिचक्रपदाङ्कितौ । पादपृष्टोमृदू स्यातां कोमलौ हरितौ स्मृतौ ॥ ३.१३६ ॥ वृषपुच्छानुपूर्वियौ दीर्घाङ्गुलियुतौ करौ । नखप्रभासमुज्ज्वलौ प्रसारे दीर्घकौ यथा । परिमण्डलसम्पन्नौ चक्ररेखास्वलङ्कृतौ ॥ ३.१३७ ॥ चम्पकदामशोभितः मरालगातसंयुतः । सुसंस्थानसमापन्नः सर्वाङ्गेण मनोहरः ॥ ३.१३८ ॥ तेजस्वी वीर्यवान् राजन् चक्रवर्त्ती सदा भवेत् । आयामारोहमानं च लक्षणं तदुदाहृतम् ॥ ३.१३९ ॥ देहे जङ्घोपजङ्घा च भृशं विकशिता भवेत् । सुहस्तौ चरणौ स्यातां तथा पर्व च दृश्यते ॥ ३.१४० ॥ कुक्षिपृष्टे सुशोभिते मुखं चारु मनोहरम् । शोभितौ च भुजौ स्यातां देहो मानान्वितो भवेत् ॥ ३.१४१ ॥ अङ्गानि मांसपूर्णानि शरीरं स्निग्धवर्णकम् । प्रियौदार्यगुणा यत्र राजहंसगतिस्तथा । चारुदेहो महीपतेः चक्रवर्ती स उच्यते ॥ ३.१४२ ॥ प्रसिद्धैः शिल्पिभिः कार्यं मानवाङ्गेषु यत्नतः । शीर्षकष्टभुजद्वन्दं जङ्खोपजङ्खसुन्दरम् ॥ ३.१४३ ॥ उपयुक्तेषु सर्वेषु परिमाणं तु यत्र च । तत्र स्वाङ्गुलिना कार्यं मानं सर्वत्र कर्मणि ॥ ३.१४४ ॥ आरोहायामपीनत्वे प्रत्यङ्गं समतां भजेत् । विधिना परिमाणेन सम्म्पन्नं शोभितं भवेत् ॥ ३.१४५ ॥ अती ज्ञेयञ्च पण्डितैः परिमाणं सुयत्नतः । परिमाणप्रतिष्टानोपायादिभिर्विहीना या । प्रतिमा सा परित्यक्ता सुरदेवैः सदा खलु ॥ ३.१४६ ॥ पिशाचा राक्षसा भूता वसन्ति त्वरित तथा । शोभितान्नाशयन्ति च अमङ्गलं भयं भवेत् ॥ ३.१४७ ॥ आरोहायामयोः राजन् लक्षणं कथितं मया । यथेच्छं वै विभक्तव्यं चतुर्भागेन मुख्यतः ॥ ३.१४८ ॥ वलिः सूर्यो दाशरथिः रामो मनुसुतस्तथा । परिमाणानुसारेण कार्यो भिन्नो वीचक्षणैः ॥ ३.१४९ ॥ भद्रौ द्वयङ्गुलिना न्यूनो मालव्यश्चतुरङ्गुलिः । रुचकोऽष्टाङ्गुलिन्यूनः शशकश्च दशाङ्गुलिः ॥ ३.१५० ॥ अप्रियो न यथा यायात्तथा मानं विचारयेत् । किं भवेत्परिमाणेन शरीरं चेदसुन्दरम् ॥ ३.१५१ ॥ चतुर्णां च तथा राज्ञां परिमाणस्य लक्षणम् । ब्रह्मणा तु प्रदर्शितं विस्तरं ब्रवीमि ते ॥ ३.१५२ ॥ सर्वस्य लेखने ग्रन्थे विस्तारो भवति ध्रुवम् । तेन त्रस्यन्ति चाल्पज्ञा अश्रुतिकारणान्ननु ॥ ३.१५३ ॥ नारीपुरुषयोः सत्सु लक्षणेषु प्रजापतिः । द्वादशेषु सहस्रेषु पञ्चश उपदिष्टवान् ॥ ३.१५४ ॥ नरलक्षणयुक्तेषु तथानिर्दिष्टपञ्चधा । तुभ्यं प्रदर्शयामि चेद्गच्छेद्ग्रन्थो विशालताम् ॥ ३.१५५ ॥ चक्रवर्त्तिनरेन्द्रस्य लक्षणं कथितं मया । विधिवत्परिमाणञ्च अन्यप्रदर्शनेन किम् । उत्तमपुरुषादीनां तेन मानं ध्रुवं भवेत् ॥ ३.१५६ ॥ अतो बुद्धया सुनिश्चित्य भद्रो लेख्यो विचारयन् । स च भवेत्समुच्छ्राये षडुत्तरशताङ्गुलम् ॥ ३.१५७ ॥ रुचकस्य समुच्छ्रायः शतसंख्यान्वितो भवेत् । मालवस्य तथोच्छ्रायश्चतुःशतमिताङ्गुलम् ॥ ३.१५८ ॥ शशकस्य समुच्छ्राये संख्याष्टनवतिः सदा । अङ्गुलीनां विधातव्या चित्रशास्त्रविशारदैः ॥ ३.१५९ ॥ अतोऽन्योमाननियमो न भूतो न भविष्यति । उत्तमाधममध्यम-प्रधानानाञ्च भूभृताम् । आरोहाथाममानं तु आलोच्यात्र प्रदर्शिनम् ॥ ३.१६० ॥ उच्छ्रायो नवरत्स्त्रीणा ज्ञेय एकाङ्गुलिः कृशः । एकाङ्गुलिस्तथा राज्ञा पुष्टिर्ज्ञेया महामते ॥ ३.१६१ ॥ नाभिजङ्खोपजङ्खानां लटिकण्ठोपजानुनाम् । शीर्षदेशस्य वक्षसस्तथा चरणयोर्नृप । आरोहो नाप्रियो यायात्तथा मानं विधीयताम् ॥ ३.१६२ ॥ उत्तममध्यमाधम-मानं तु क्रमिकं मतम् । आरोहश्च तथायामः तेषामत्र प्रदर्शितः । नारीणां परिमाणं च सर्वं शृणु क्रमेण हि ॥ ३.१६३ ॥ राज्ञां यथा प्रदर्शितं मानेन च तथायुतम् । सम्यग्विचार्य शेमुष्या बहुस्थानप्रतिष्ठितम् ॥ ३.१६४ ॥ समद्विभागसम्पन्नं निष्कुटिलं सुकोमलम् । लेख्यं चित्रमनिन्दितं नेत्रप्रीतिविवर्द्धनं ॥ ३.१६५ ॥ इति चित्रलक्षणे परिमाणो नाम्स्तृतीयः परिवर्तः । यावत्ब्रह्मणः परिमाणलेखयः समाप्तः ।