मृत्युवञ्चनोपदेशतारासाधन उत्थाय पूर्वसंध्यायां भूप्रदेशे मनोहरे । मृद्वासनोपविष्टः सन् स्वहृदि चन्द्रमण्डले ॥ १ ॥ पञ्चमस्य प्रथमं तु द्वितीयस्वरयोजितम् । अर्धेन्दुबिन्दुसंयुक्तं सितरश्मिविभूषितम् ॥ २ ॥ तस्य शुक्लमयूखैस्तु तारामाकृष्य व्योमनि । द्विभुजां सितदेहां तु वरदोत्पलधारिणीम् ॥ ३ ॥ पञ्चोपचारपूजाभिः पूजयित्वा तु भक्तितः । पापानां देशनां पश्चात्ततः पुण्यानुमोदनम् ॥ ४ ॥ तत्परिणामनां चैव त्रिशरणगमनं तथा । ओं शून्यताज्ञानवज्रस्वभावात्मकोऽहमिति पठेत् ॥ ५ ॥ इति स्वपरशून्यं वै ध्यात्वा योगी विधानवित् । सितारविन्दमध्यस्थचन्द्रबिम्बासनोपरि ॥ ६ ॥ पूर्वोक्तबीजनिष्पन्नां तारादेवीं मनोरमाम् । आबद्धवज्रपर्यङ्कां वरदोत्पलधारिणीम् ॥ ७ ॥ शरच्चन्द्रकराकारां पृष्ठचन्द्रसमाश्रिताम् । सर्वालङ्कारसम्पूर्णां षोडशाब्दवपुष्मतीम् ॥ ८ ॥ सर्वसंबुद्धतत्पुत्रमातरं कामरूपधाम् । ध्यात्वार्यतारां हृदये तस्याश्चक्रं सितद्युति ॥ ९ ॥ अष्टकोष्ठकमष्टाभिरक्षरैः परिपूरितम् । ओंहाव्यञ्जनमध्यस्थसाध्यनामाद्यनाभिकम् ॥ १० ॥ ध्यायादेकाग्रचित्तः सन् षण्मासान् दृढनिश्चयः । जपेदखिन्नचित्तः सन्मन्त्रमेनं दशाक्षरम् ॥ ११ ॥ ओङ्कारमादितो दत्त्वा पश्चात्तारे प्रयोजयेत् । तुत्तारे स्यात्तुरे पश्चात्स्वाहान्तं सार्वकर्मिकः ॥ १२ ॥ ब्रह्मेन्द्रविष्णुचन्द्रार्करुद्रदिक्पालमन्मथैः । अप्यखण्डितरोमाग्रो मृत्युं जयति मुक्तवत् ॥ १३ ॥ वलीपलितदौर्भाग्यव्याधिदारिद्र्यसंक्षयः । सिंहाद्यष्टमहाभीतिदुःखसंदोहनाशनम् ॥ १४ ॥ अयाचितान्नपानादिहर्म्यवस्त्रादिसंगमः । खड्गाञ्जनपादलेपभद्रकुम्भादिसिद्धयः ॥ १५ ॥ कविता वक्तृता मेधा प्रज्ञा चैकान्तनिर्मला । अन्या च वाञ्छिता सिद्धिश्चक्रादस्मात्प्रजायते ॥ १६ ॥ ॥ मृत्युवञ्चनोपदेशतारासाधनं समाप्तम् ॥