मृत्युवञ्चनतारासाधन ॥ नमः सिततारायै ॥ पूर्ववच्छून्यतापर्यन्तं विभाव्य सितारविन्दमध्यस्थां तांभूतां चन्द्रविष्टराम् । आबद्धवज्रपर्यङ्कां वरदोत्पलधारिणीम् ॥ १ ॥ शरच्चन्द्रकराकारां पृष्ठचन्द्रसमाश्रिताम् । सर्वालङ्कारसंपूर्णां षोडशाब्दवपुःक्रमाम् ॥ २ ॥ ध्यात्वार्यतारां हृदये तस्याश्चक्रं सितद्युति । अष्टकोष्ठकमष्टाभिरक्षरैः परिपूरितम् ॥ ३ ॥ ओंहाव्यञ्जनमध्यस्थसाध्यनामाद्यनाभिकम् । ध्यायादेकाग्रचित्तः सन् षण्मासान् दृढनिश्चयः ॥ ४ ॥ जपेदखिन्नचित्तः सन्मन्त्रमेनं दशाक्षरम् ॥ तत्राइष मन्त्रः ओं तारे तुत्तारे तुरे स्वाहा ॥ ५ ॥ मृत्युदोषैर्न लिप्तः स्यात्ताराहृच्चक्रभावकः । लाभी च सर्वसिद्धीनां षण्मासावधि तत्परः ॥ ६ ॥ ॥ मृत्युवञ्चनतारासाधनम् ॥