प्रसादप्रतिभोधव (= शतपञ्चाशत्क) मातृचेट सर्वदा सर्वथा सर्वे यस्य दोषा न सन्ति ह । सर्वे सर्वाभिसारेण यत्र चावस्थिता गुणाः ॥ १ तमेव शरणं गन्तुं तं स्तोतुं तमुपासितुम् । तस्यैव शासने स्थातुं न्याय्यं यद्यस्ति चेतना ॥ २ सवासनाश्च ते दोषा न सन्त्येकस्य तायिनः । सर्वे सर्वविदः सन्ति गुणास्ते चानपायिनः ॥ ३ न हि प्रतिनिविष्टोऽपि मनोवाक्कायकर्मसु । सह धर्मेण लभते कश्चिद्भगवतोऽन्तरम् ॥ ४ सोऽहं प्राप्य मनुष्यत्वं ससद्धर्ममहोत्सवम् । महार्णवयुगच्छिद्रकूर्मग्रीवार्पणोपमम् ॥ ५ अनित्यताव्यनुसृतां कर्मच्छिद्रससंशयाम् । आत्तसारां करिष्यामि कथं नेमां सरस्वतीम् ॥ ६ इत्यसंख्येयविषयानवेत्यापि गुणान्मुनेः । तदेकदेशप्रणयः क्रियते स्वार्थगौरवात् ॥ ७ स्वयंभुवे नमस्तेऽस्तु प्रभूताद्भुतकर्मणे । यस्य संख्याप्रभावाभ्यां न गुणेष्वस्ति निश्चयः ॥ ८ इयन्त इति नास्त्यन्त ईदृशा इति का कथा । पुण्या इत्येव तु गुणान् प्रति ते मुखरा वयम् ॥ ९ विषह्यमविषह्यं वेत्यवधूय विचारणाम् । स्वयमभ्युपपन्नं ते निराक्रन्दमिदं जगत् ॥ १० अव्यापारितसाधुस्त्वं त्वमकारणवत्सलः । असंस्तुतसखश्च त्वमनवस्कृतबान्धवः ॥ ११ स्वमांसान्यपि दत्तानि वस्तुष्वन्येषु का कथा । प्राणैरपि त्वया साधो मानितः प्रणयी जनः ॥ १२ स्वैः शरीरैः शरीराणि प्राणैः प्राणाः शरीरिणाम् । जिघांसुभिरुपात्तानां क्रीतानि शतशस्त्वया ॥ १३ न दुर्गतिभयान्नेष्टामभिप्रार्थयता गतिम् । केवलाशयशुद्ध्यैव शीलं सात्मीकृतं त्वया ॥ १४ जिह्मानां नित्यविक्षेपादृजूनां नित्यसेवनात् । कर्मणां परिशुधानां त्वमेकायनतां गतः ॥ १५ पीड्यमानेन बहुशस्त्वया कल्याणचेतसा । क्लेशेषु विवृतं तेजो जनः क्लिष्टोऽनुकम्पितः ॥ १६ परार्थे त्यजतः प्राणान् या प्रीतिरभवत्तव । न सा नष्टोपलब्धेषु प्राणेषु प्राणिनां भवेत् ॥ १७ यद्रुजानिरपेक्षस्य च्छिद्यमानस्य तेऽसकृत् । वधकेष्वपि सत्त्वेष्व्कारुण्यमभवत्प्रभो ॥ १८ सम्यक्संबोधिबीजस्य चित्तरत्नस्य तस्य ते । त्वमेव वीर सारज्ञो दूरे तस्येतरो जनः ॥ १९ नाकृत्वा दुष्करं कर्म दुर्लभं लभ्यते पदम् । इत्यात्मनिरपेक्षेण वीर्यं संवर्धितं त्वया ॥ २० विशेषोत्कर्षनियमो न कदा चिदभूत्तव । अतस्त्वयि विशेषाणां छिन्नस्तरतमक्रमः ॥ २१ सुसुखेष्वपि सङ्गोऽभूत्सफलेषु समाधिषु । न ते नित्यानुबद्धस्य महाकरुणया हृदि ॥ २२ त्वादृशान् पीडयत्येव नानुगृह्णाति तत्सुखम् । प्रणीतमपि सद्वृत्त यदसाधारणं परैः ॥ २३ विमिश्रात्सारमादत्तं सर्वं पीतमकल्मषम् । त्वया सूक्तं दुरुक्तं तु विषवत्परिवर्जितम् ॥ २४ क्रीणता रत्नसारज्ञ प्राणैरपि सुभाषितम् । पराक्रान्तं त्वया बोधौ तासु तासूपपत्तिषु ॥ २५ इति त्रिभिरसंख्येयैरेवमुद्यच्छता त्वया । व्यवसायद्वितीयेन प्राप्तं पदमनुत्तरम् ॥ २६ अकृत्वेर्ष्यां विशिष्टेषु हीनाननवमत्य च । अगत्वा सदृशैः स्पर्धां त्वं लोके श्रेष्ठतां गतः ॥ २७ हेतुष्वभिनिवेशोऽभूद्गुणानां न फलेषु ते । तेन सम्यक्प्रतिपदा त्वयि निष्ठां गुणा गताः ॥ २८ तथात्मा प्रचयं नीतस्त्वया सुचरितैर्यथा । पुण्यायतनतां प्राप्तान्यपि पादरजांसि ते ॥ २९ कर्शयित्वोद्धृता दोषा वर्धयित्वा विशोधिताः । गुणास्तेन सुनीतेन परां सिद्धिं त्वमध्यगाः ॥ ३० तथा सर्वाभिसारेण दोषेषु प्रहृतं त्वया । यथैषामात्मसंताने वासनापि न शेषिता ॥ ३१ तथा संभृत्य संभृत्य त्वयात्मन्याहिता गुणाः । प्रतिरूपकमप्येषां यथा नान्यत्र दृश्यते ॥ ३२ उपघातावरणवन्मितकालं प्रदेशि च । सुलभातिशयं सर्वमुपमावस्तु लौकिकम् ॥ ३३ अद्वंद्विनामगम्यानां ध्रुवाणामनिवर्तिनाम् । अनुत्तराणां का तर्हि गुणानामुपमास्तु ते ॥ ३४ गोष्पदोत्तानतां याति गाम्भीर्यं लवणाम्भसः । यदा ते बुद्धिगाम्भीर्यमगाधापारमीक्षते ॥ ३५ शिरीषपक्ष्माग्रलघु स्थैर्यं भवति पार्थिवम् । अकम्प्ये सर्वधर्माणां त्वत्स्थैर्येऽभिमुखीकृते ॥ ३६ अज्ञानतिमिरघ्नस्य ज्ञानालोकस्य ते मुने । न रविर्विषये भूमिं खाद्योतीमपि विन्दति ॥ ३७ मलिनत्वमिवायान्ति शरच्चन्द्राम्बराम्भसाम् । तव वाग्बुद्धिचेष्टानां शुद्धिं प्रति विशुद्धयः ॥ ३८ अनेन सर्वं व्याख्यातं यत्किं चित्साधु लौकिकम् । दूरे हि बुद्धधर्माणां लोकधर्मास्तपस्विनः ॥ ३९ यस्यैव धर्मरत्नस्य प्राप्त्या प्राप्तस्त्वमग्रताम् । तेनैव केवलं साधो साम्यं ते तस्य च त्वया ॥ ४० आत्मेच्छाच्छलमात्रं तु सामान्योपांशु किं चन । यत्रोपक्षिप्य कथ्येत सा वक्तुरतिलोलता ॥ ४१ प्रतन्विव हि पश्यामि धर्मतामनुचिन्तयन् । सर्वं चावर्जितं मारविजयं प्रति ते जगत् ॥ ४२ महतोऽपि हि संरम्भात्प्रतिहन्तुं समुद्यतः । क्षमाया नातिभारोऽस्ति पात्रस्थाया विशेषतः ॥ ४३ यत्तु मारजयान्वक्षं सुमहत्क्लेशवैशसम् । तस्यामेव कृतं रात्रौ तदेव परमाद्भुतम् ॥ ४४ तमोविधमने भानोर्यः सहस्रांशुमालिनः । वीर विस्मयमागच्छेत्स तीर्थ्यविजये तव ॥ ४५ सरागो वीतरागेण जितरोषेण रोषणः । मूढो विगतमोहेन त्रिभिर्नित्यं जितास्त्रयः ॥ ४६ प्रशंससि च सद्धर्मानसद्धर्मान् विगर्हसि । अनुरोधविरोधौ च न स्तः सदसतोस्तव ॥ ४७ नैवार्हत्सु न तीर्थ्येषु प्रतिघानुनयं प्रति । यस्य ते चेतसोऽन्यत्वं तस्य ते का स्तुतिर्भवेत् ॥ ४८ गुणेष्वपि न सङ्गोऽभूत्तृष्णा न गुणवत्स्वपि । अहो ते सुप्रसन्नस्य सत्त्वस्य परिशुद्धता ॥ ४९ इन्द्रियाणां प्रसादेन नित्यकालानपायिना । मनो नित्यप्रसन्नं ते प्रत्यक्षमिव दृश्यते ॥ ५० आ बालेभ्यः प्रसिद्धास्ते मतिस्मृतिविशुद्धयः । गमिता भावपिशुनैः सुव्याहृतसुचेष्टितैः ॥ ५१ उपशान्तं च कान्तं च दीप्तमप्रतिघाति च । निभृतं चोर्जितं चेदं रूपं कमिव नाक्षिपेत् ॥ ५२ येनापि शतशो दृष्टं योऽपि तत्पूर्वमीक्षते । रूपं प्रीणाति ते चक्षुः समं तदुभयोरपि ॥ ५३ असेचनकभावाद्धि सौम्यभावाच्च ते वपुः । दर्शने दर्शने प्रीतिं विदधाति नवां नवाम् ॥ ५४ अधिष्ठानगुणैर्गात्रमधिष्ठातृगुणैर्गुणाः । परया संपदोपेतास्तवान्योन्यानुरूपया ॥ ५५ क्वान्यत्र सुनिविष्टाः स्युरिमे ताथागता गुणाः । ऋते रूपात्तवैवास्माल्लक्षणव्यञ्जनोज्ज्वलात् ॥ ५६ धन्यमस्मीति ते रूपं वदतीवाश्रितान् गुणान् । सुनिक्षिप्ता वयमिति प्रत्याहुरिव तद्गुणाः ॥ ५७ सर्वमेवाविशेषेण क्लेशैर्बद्धमिदं जगत् । त्वं जगत्क्लेशमोक्षार्थं बद्धः करुणया चिरम् ॥ ५८ कं नु प्रथमतो वन्दे त्वां महाकरुणामुत । ययैवमपि दोषज्ञस्त्वं संसारे धृतश्चिरम् ॥ ५९ विवेकसुखसात्म्यस्य यदाकीर्णस्य ते गताः । काला लब्धप्रसरया तत्ते करुणया कृतम् ॥ ६० शान्तादरण्याद्ग्रामान्तं त्वं हि नाग इव ह्रदात् । विनेयार्थं करुणया विद्ययेवावकृष्यसे ॥ ६१ परमोपशमस्थोऽपि करुणापरवत्तया । कारितस्त्वं पदन्यासं कुशीलवकलास्वपि ॥ ६२ ऋद्धिर्या सिंहनादा ये स्वगुणोद्भावनाश्च याः । वान्तेच्छोपविचारस्य कारुण्यनिकषः स ते ॥ ६३ परार्थैकान्तकल्याणी कामं स्वाश्रयनिष्ठुरा । त्वय्येव केवलं नाथ करुणाकरुणाभवत् ॥ ६४ तथा हि कृत्वा शतधा धीरा बलिमिव क्व चित् । परेषामर्थसिद्ध्यर्थं त्वां विक्षिप्तवती दिशः ॥ ६५ त्वदिच्छयैव तु व्यक्तमनुकूला प्रवर्तते । तथा हि बाधमानापि त्वां सती नापराध्यते ॥ ६६ सुपदानि महार्थानि तथ्यानि मधुराणि च । गूढोत्तानोभयार्थानि समासव्यासवन्ति च ॥ ६७ कस्य न स्यादुपश्रुत्य वाक्यान्येवंविधानि ते । त्वयि प्रतिहतस्यापि सर्वज्ञ इति निश्चयः ॥ ६८ प्रायेण मधुरं सर्वमगत्या किं चिदन्यथा । वाक्यं तवार्थसिद्ध्या तु सर्वमेव सुभाषितम् ॥ ६९ यच्छ्लक्ष्णं यच्च परुषं यद्वा तदुभयान्वितम् । सर्वमेवैकरसतां विमर्दे याति ते वचः ॥ ७० अहो सुपरिशुद्धानां कर्मणां नैपुणं परम् । यैरिदं वाक्यरत्नानामीदृशं भाजनं कृतम् ॥ ७१ अस्माद्धि नेत्रसुभगादिदं श्रुतिमनोहरम् । मुखात्क्षरति ते वाक्यं चन्द्राद्द्रवमिवामृतम् ॥ ७२ रागरेणुं प्रशमयद्वाक्यं ते जलदायते । वैनतेयायते द्वेषभुजङ्गोद्धरणं प्रति ॥ ७३ दिवाकरायते भूयोऽप्यज्ञानतिमिरं नुदत् । शक्रायुधायते मानगिरीनभिविदारयत् ॥ ७४ दृष्टार्थत्वादवितथं निष्क्लेशत्वादनाकुलम् । गमकं सुप्रयुक्तत्वात्त्रिकल्याणं हि ते वचः ॥ ७५ मनांसि तावच्छ्रोतॄणां हरन्त्यादौ वचांसि ते । ततो विमृश्यमानानि रजांसि च तमांसि च ॥ ७६ आश्वासनं व्यसनिनां त्रासनं च प्रमादिनाम् । संवेजनं च सुखिनां योगवाहि वचस्तव ॥ ७७ विदुषां प्रीतिजननं मध्यानां बुद्धिवर्धनम् । तिमिरघ्नं च मन्दानां सार्वजन्यमिदं वचः ॥ ७८ अपकर्षति दृष्टिभ्यो निर्वाणमुपकर्षति । दोषान्निष्कर्षति गुणान् वाक्यं तेऽभिप्रवर्षति ॥ ७९ सर्वत्राव्याहता बुद्धिः सर्वत्रोपस्थिता स्मृतिः । अवन्ध्यं तेन सर्वत्र सर्वं व्याकरणं तव ॥ ८० यन्नादेशे न चाकाले नैवापात्रे प्रवर्तसे । वीर्यं सम्यगिवारब्धं तेनामोघं वचस्तव ॥ ८१ एकायनं सुखोपायं स्वनुबन्धि निरत्ययम् । आदिमध्यान्तकल्याणं तव नान्यस्य शासनम् ॥ ८२ एवमेकान्तकान्तं ते दृष्टिरागेण बालिशाः । मतं यदि विगर्हन्ति नास्ति दृष्टिसमो रिपुः ॥ ८३ अन्वभुङ्क्था यदस्यार्थे जगतो व्यसनं बहु । तत्संस्मृत्य विरूपेऽपि स्थेयं ते शासने भवेत् ॥ ८४ प्रागेव हितकर्तुश्च हितवक्तुश्च शासनम् । कथं न नाम कार्यं स्यादादीप्तशिरसापि ते ॥ ८५ भुजिष्यता बोधिसुखं त्वद्गुणापचितिः शमः । प्राप्यते त्वन्मतात्सर्वमिदं भद्रचतुष्टयम् ॥ ८६ त्रासनं सर्वतीर्थ्यानां नमुचेरुपतापनम् । आश्वासनं नृदेवानां तवेदं वीर शासनम् ॥ ८७ त्रैधातुकमहाभौममसङ्गमनवग्रहम् । शासनेन तवाक्रान्तमन्तकस्यापि शासनम् ॥ ८८ त्वच्छासननयज्ञो हि तिष्ठेत्कल्पमपीच्छया । प्रयाति तत्र तु स्वैरी यत्र मृत्योरगोचरः ॥ ८९ आगमस्यार्थचिन्ताया भावनोपासनस्य च । कालत्रयविभागोऽस्ति नान्यत्र तव शासनात् ॥ ९० एवं कल्याणकलिलं तवेदमृषिपुङ्गव । शासनं नाद्रियन्ते यत्किं वैशसतरं ततः ॥ ९१ श्रवणं तर्पयति ते प्रसादयति दर्शनम् । वचनं ह्लादयति ते विमोचयति शासनम् ॥ ९२ प्रसूतिर्हर्षयति ते वृद्धिर्नन्दयति प्रजाः । प्रवृत्तिरनुगृह्णाति निवृत्तिरुपहन्ति च ॥ ९३ कीर्तनं किल्बिषहरं स्मरणं ते प्रमोदनम् । अन्वेषणं मतिकरं परिज्ञानं विशोधनम् ॥ ९४ श्रीकरं तेऽभिगमनं सेवनं धीकरं परम् । भजनं निर्भयकरं शंकरं पर्युपासनम् ॥ ९५ शीलोपसंपदा शुद्धः प्रसन्नो ध्यानसंपदा । त्वं प्रज्ञासंपदाक्षोभ्यो ह्रदः पुण्यमयो महान् ॥ ९६ रूपं द्रष्टव्यरत्नं ते श्रव्यरत्नं सुभाषितम् । धर्मो विचारणारत्नं गुणरत्नाकरो ह्यसि ॥ ९७ त्वमोघैरुह्यमानानां द्वीपस्त्राणं क्षतात्मनाम् । शरणं भवभीरूणां मुमुक्षूणां परायणम् ॥ ९८ सत्पात्रं शुद्धवृत्तत्वात्सत्क्षेत्रं फलसंपदा । सन्मित्रं हितकारित्वात्सर्वप्राणभृतामसि ॥ ९९ प्रियस्त्वमुपकारित्वात्सुरतत्वान्मनोहरः । एकान्तकान्तः सौम्यत्वात्सर्वैर्बहुमतो गुणैः ॥ १०० हृद्योऽसि निरवद्यत्वाद्रम्यो वाग्रूपसौष्ठवात् । धन्यः सर्वार्थसिद्धत्वान्मङ्गल्यो गुणसंश्रयात् ॥ १०१ स्थायिनां त्वं परिक्षेप्ता विनियन्तापहारिणाम् । समाधाता विजिह्मानां प्रेरको मन्दगामिनाम् ॥ १०२ नियोक्ता धुरि दान्तानां खटुङ्कानामुपेक्षकः । अतोऽसि नरदम्यानां सत्सारथिरनुत्तरः ॥ १०३ आपन्नेष्वनुकम्पा ते प्रस्वस्थेष्वर्थकामता । व्यसनस्थेषु कारुण्यं सर्वेषु हितकामता ॥ १०४ विरुद्धेष्वपि वात्सल्यं प्रवृत्तिः पतितेष्वपि । रौद्रेष्वपि कृपालुत्वं का नामेयं तवार्यता ॥ १०५ गुरुत्वमुपकारित्वान्मातापित्रोर्यदीष्यते । केदानीमस्तु गुरुता त्वय्यत्यन्तोपकारिणि ॥ १०६ स्वकार्यनिरपेक्षाणां विरुद्धानामिवात्मनाम् । त्वं प्रपाततटस्थानां प्राकारत्वमुपागतः ॥ १०७ लोकद्वयोपकाराय लोकातिक्रमणाय च । तमोभूतेषु लोकेषु प्रज्ञालोकः कृतस्त्वया ॥ १०८ भिन्ना देवमनुष्याणामुपभोगेषु वृत्तयः । धर्मसंभोगसामान्यात्त्वय्यसंभेदमागताः ॥ १०९ उपपत्तिवयोवर्णदेशकालनिरत्ययम् । त्वया हि भगवन् धर्मसर्वातिथ्यमिदं कृतम् ॥ ११० अविस्मितान् विस्मितवत्स्पृहयन्तो गतस्पृहान् । उपासते प्राञ्जलयः श्रावकानपि ते सुराः ॥ १११ अहो संसारमण्डस्य बुद्धोत्पादस्य दीप्तता । मानुष्यं यत्र देवानां स्पृहणीयत्वमागतम् ॥ ११२ खेदः शमसुखज्यानिरसज्जनसमागमः । द्वंद्वान्याकीर्णता चेति दोषान् गुणवदुद्वहन् ॥ ११३ जगद्धितार्थं घटसे यदसङ्गेन चेतसा । का नामासौ भगवती बुद्धानां बुद्धधर्मता ॥ ११४ कदन्नान्यपि भुक्तानि क्व चित्क्षुदधिवासिता । पन्थानो विषमाः क्षुण्णाः सुप्तं गोकण्टकेष्वपि ॥ ११५ प्राप्ताः क्षेपावृताः सेवा वेषभाषान्तरं कृतम् । नाथ वैनेयवात्सल्यात्प्रभुणापि सता त्वया ॥ ११६ प्रभुत्वमपि ते नाथ सदा नात्मनि विद्यते । वक्तव्य इव सर्वैर्हि स्वैरं स्वार्थे नियुज्यसे ॥ ११७ येन केन चिदेव त्वं यत्र तत्र यथा तथा । चोदितः स्वां प्रतिपदं कल्याणीं नातिवर्तसे ॥ ११८ नोपकारपरेऽप्येवमुपकारपरो जनः । अपकारपरेऽपि त्वमुपकारपरो यथा ॥ ११९ अहितावहिते शत्रौ त्वं हितावहितः सुहृत् । दोषान्वेषणनित्येऽपि गुणान्वेषणतत्परः ॥ १२० यतो निमन्त्रणं तेऽभूत्सविषं सहुताशनम् । तत्राभूदभिसंयानं सदयं सामृतं च ते ॥ १२१ आक्रोष्टारो जिताः क्षान्त्या द्रुग्धाः स्वस्त्ययनेन च । सत्येन चापवक्तारश्त्वया मैत्र्या जिघांसवः ॥ १२२ अनादिकालप्रहता बह्व्यः प्रकृतयो नृणाम् । त्वया विभावितापायाः क्षणेन परिवर्तिताः ॥ १२३ यत्सौरत्यं गतास्तीक्ष्णाः कदर्याश्च वदान्यताम् । क्रूराः पेशलतां यातास्तत्तवोपायकौशलम् ॥ १२४ इन्द्रियोपशमो नन्दे मानस्तब्धे च संनतिः । क्षमित्वं चाङ्गुलीमाले कं न विस्मयमानयेत् ॥ १२५ बहवस्तृणशय्यासु हित्वा शय्यां हिरण्मयीम् । अशेरत सुखं धीरास्तृप्ता धर्मरसस्य ते ॥ १२६ पृष्टेनापि क्व चिन्नोक्तमुपेत्यापि कथा कृता । तर्षयित्वा परत्रोक्तं कालाशयविदा त्वया ॥ १२७ पूर्वं दानकथाद्याभिश्चेतस्युत्पाद्य सौष्ठवम् । ततो धर्मो गतमले वस्त्रे रङ्ग इवार्पितः ॥ १२८ न सोऽस्त्युपायः शक्तिर्वा येन न व्यायतं तव । घोरात्संसारपातालादुद्धर्तुं कृपणं जगत् ॥ १२९ बहूनि बहुरूपाणि वचांसि चरितानि च । विनेयाशयभेदेन तत्र तत्र गतानि ते ॥ १३० विशुद्धान्यविरुद्धानि पूजितान्यर्चितानि च । सर्वाण्येव नृदेवानां हितानि महितानि च ॥ १३१ न हि वक्तुं च कर्तुं च बहु साधु च शक्यते । अन्यथानन्यथावादिन् दृष्टं तदुभयं त्वयि ॥ १३२ केवलात्मविशुद्ध्यैव त्वया पूतं जगद्भवेत् । यस्मान्नैवंविधं क्षेत्रं त्रिषु लोकेषे विद्यते ॥ १३३ प्रागेवात्यन्तनष्टानामनादौ भवसंकटे । हिताय सर्वसत्त्वानां यस्त्वमेवं समुद्यतः ॥ १३४ न तां प्रतिपदं वेद्मि स्याद्ययापचितिस्तव । अपि ये परिनिर्वान्ति तेऽपि ते नानृणा जनाः ॥ १३५ तव तेऽवस्थिता धर्मे स्वार्थमेव तु कुर्वते । यः श्रमस्तन्निमित्तं तु तव का तस्य निष्कृतिः ॥ १३६ त्वं हि जागर्षि सुप्तानां संतानान्यवलोकयन् । अप्रमत्तः प्रमत्तानां सत्त्वानां भद्रबान्धवः ॥ १३७ क्लेशानां वध आख्यातो मारमाया विघाटिता । उक्तं संसारदौरात्म्यमभया दिग्विदर्शिता ॥ १३८ किमन्यदर्थकामेन सत्त्वानां करुणायता । करणीयं भवेद्यत्र न दत्तानुनयो भवान् ॥ १३९ यदि संचारिणो धर्माः स्युरिमे नियतं त्वया । देवदत्तमुपादाय सर्वत्र स्युर्निवेशिताः ॥ १४० अत एव जगन्नाथ नेहान्योऽन्यस्य कारकः । इति त्वमुक्तवान् भूतं जगत्संज्ञपयन्निव ॥ १४१ चिराय भुवि सद्धर्मं प्रेर्य लोकानुकम्पया । बहूनुत्पाद्य सच्छिष्यांस्त्रैलोक्यानुग्रहक्षमान् ॥ १४२ साक्षाद्विनेयवर्गीयान् सुभद्रान्तान् विनीय च । ऋणशेषं किमद्यापि सत्त्वेषु यदभूत्तव ॥ १४३ यस्त्वं समाधिवज्रेण तिलशोऽस्थीनि चूर्णयन् । अतिदुष्करकारित्वमन्तेऽपि न विमुक्तवान् ॥ १४४ परार्थावेव मे धर्मरूपकायाविति त्वया । दुष्कुहस्यास्य लोकस्य निर्वाणेऽपि विदर्शितम् ॥ १४५ तथा हि सत्सु संक्राम्य धर्मकायमशेषतः । तिलशो रूपकायं च भित्त्वासि परिनिर्वृतः ॥ १४६ अहो स्थितिरहो वृत्तमहो रूपमहो गुणाः । न नाम बुद्धधर्माणामस्ति किं चिदनद्भुतम् ॥ १४७ उपकारिणि चक्षुष्ये शान्तवाक्कायकर्मणि । त्वय्यपि प्रतिहन्यन्ते पश्य मोहस्य रौद्रताम् ॥ १४८ पुण्योदधिं रत्ननिधिं धर्मराशिं गुणाकरम् । ये त्वां सत्त्वा नमस्यन्ति तेभ्योऽपि सुकृतं नमः ॥ १४९ अक्षयास्ते गुणा नाथ शक्तिस्तु क्षयिणी मम । अतः प्रसङ्गभीरुत्वात्स्थीयते न वितृप्तितः ॥ १५० अप्रमेयमसंख्येयमचिन्त्यमनिदर्शनम् । स्वयमेवात्मनात्मानं त्वमेव ज्ञातुमर्हसि ॥ १५१ न ते गुणांशावयवोऽपि कीर्तितः परा च नस्तुष्टिरवस्थिता हृदि । अकर्शनेनैव महाह्रदाम्भसां जनस्य तर्षाः प्रशमं व्रजन्ति ह ॥ १५२ फलोदयेनास्य शुभस्य कर्मणो मुनिप्रसादप्रतिभोद्भवस्य मे । असद्वितर्काकुलमारुतेरितं प्रयातु चित्तं जगतां विधेयताम् ॥ १५३