मञ्जुश्रीज्ञानसत्वस्य परमार्था नामसंगीतिः नमो मञ्जुश्रीकुमारभूताय अथ वज्रधरः श्रीमान् दुर्दान्तदमकः परः । त्रिलोकविजयी वीरो गुह्यराट्कुलिशेश्वरः ॥ १ ॥ विबुद्धपुण्डरीकाक्षः प्रोत्फुल्लकमलाननः । प्रोल्लालयन् वज्रवरं स्वकरेण मुहुर्मुहुः ॥ २ ॥ भृकुटीतरङ्गप्रमुखैरनन्तैर्वज्रपाणिभिः । दुर्दान्तदमकैर्वीरैर्वीरबीभत्सरूपिभिः ॥ ३ ॥ उल्लालयद्भिः स्वकरैः प्रस्फुरद्वज्रकोटिभिः । प्रज्ञोपायमहाकरुणा- जगदर्थकरैः परैः ॥ ४ ॥ हृष्टतुष्टाशयैर्मुदितैः क्रोधविग्रहरूपिभिः । बुद्धकृत्यकरैर्नाथैः सार्धं प्रणतविग्रहैः ॥ ५ ॥ प्रणम्य नाथं संबुद्धं भगवन्तं तथागतम् । कृताञ्जलिपुटो भूत्वा इदमाह स्थितोऽग्रतः ॥ ६ ॥ मद्धिताय ममार्थाय अनुकम्पाय मे विभो । मायाजालाभिसंबोधेर्यथा लाभी भवाम्यहं ॥ ७ ॥ अज्ञानपङ्कमग्नानां क्लेशव्याकुलचेतसां । हिताय सर्वसत्वानामनुत्तरफलाप्तये ॥ ८ ॥ प्रकाशयतु संबुद्धो भगवां शास्ता जगद्गुरुः । महासमयतत्वज्ञ इन्द्रियाशयवित्परः ॥ ९ ॥ भगवज्ज्ञानकायस्य महोष्णीषस्य गीष्पतेः । मञ्जुश्रीज्ञानसत्वस्य ज्ञानमूर्तेः स्वयंभुवः ॥ १० ॥ गम्भीरार्थामुदारार्थां महार्थामसमां शिवां । आदिमध्यान्तकल्याणीं नामसंगीतिमुत्तमां ॥ ११ ॥ यातीतैर्भाषिता बुद्धैर्भाषिष्यन्ते ह्यनागताः । प्रत्युत्पन्नाश्च संबुद्धा यां भाषन्ते पुनः पुनः ॥ १२ ॥ मायाजालमहातन्त्रे या चास्मिं संप्रगीयते । महावज्रधरैर्हृष्टैरमेयैर्मन्त्रधारिभिः ॥ १३ ॥ अहं चैनां धारयिष्याम्या निर्याणाद्दृढाशयः । यथा भवाम्यहं नाथ सर्वसंबुद्धगुह्यधृक् ॥ १४ ॥ प्रकाशयिष्ये सत्वानां यथाशयविशेषतः । अशेषक्लेशनाशाय अशेषाज्ञानहानये ॥ १५ ॥ एवमध्येष्य गुह्येन्द्रो वज्रपाणिस्तथागतं । कृताञ्जलिपुटो भूत्वा प्रह्वकायस्थितोऽग्रतः ॥ १६ ॥ अध्येषणागाथाः षोडश अथ शाक्यमुनिर्भगवां संबुद्धो द्विपदोत्तमः । निर्णमय्यायतां स्फीतां स्वजिह्वां स्वमुखाच्छुभां ॥ १७ ॥ स्मितं संदर्श्य लोकानामपायत्रयशोधनं । त्रैलोक्याभासकरणं चतुर्मारारिशासनं ॥ १८ ॥ त्रिलोकमापूरयन्त्या ब्राह्म्या मधुरया गिरा । प्रत्यभाषत गुह्येन्द्रं वज्रपाणिं महाबलं ॥ १९ ॥ साधु वज्रधरः श्रीमां साधु ते वज्रपाणये । यस्त्वं जगद्धितार्थाय महाकरुणयान्वितः ॥ २० ॥ महार्थां नामसंगीतिं पवित्रामघनाशनीं । मञ्जुश्रीज्ञानकायस्य मत्तः श्रोतुं समुद्यतः ॥ २१ ॥ तत्साधु देशयाम्येष अहं ते गुह्यकाधिपः । शृणु त्वमेकाग्रमनास्तत्साधु भगवन्निति ॥ २२ ॥ प्रतिवचनगाथाः षट् अथ शाक्यमुनिर्भगवां सवकलं मन्त्रकुलं महत् । मन्त्रविद्याधरकुलं व्यवलोक्य कुलत्रयं ॥ २३ ॥ लोकलोकोत्तरकुलं लोकालोककुलं महत् । महामुद्राकुलं चाग्र्यं महोष्णीषकुलं महत् ॥ २४ ॥ षट्कुलावलोकनगाथे द्वे इमां षड्मन्त्रराजानं संयुक्तामद्वयोदयां । अनुत्पादधर्मिणीं गाथां भाषते स्म गिरां पतेः ॥ २५ ॥ अ आ इ ई उ ऊ ए ऐ ओ औ अमः स्थितो हृदि । ज्ञानमूर्तिरहं बुद्धो बुद्धानां त्र्यध्ववर्तिनां ॥ २६ ॥ ओं वज्रतीक्ष्णदुःखच्छेदप्रज्ञाज्ञानमूर्तये । ज्ञानकायवागीश्वरअरपचनाये ते नमः ॥ २७ ॥ मायाजालाभिसंबोधिक्रमगाथास्तिस्रः ॥ तद्यथा भगवां बुद्धः संबुद्धोऽकारसंभवः । अकारः सर्ववर्णाग्र्यो महार्थः परमाक्षरः ॥ २८ ॥ महाप्राणो ह्यनुत्पादो वागुदाहारवर्जितः । सर्वाभिलापहेत्वग्र्यः सर्ववाक्सुप्रभास्वरः ॥ २९ ॥ महामहमहारागः सर्वसत्वरतिंकरः । महामहमहाद्वेषः सर्वक्लेशमहारिपुः ॥ ३० ॥ महामहमहामोहो मूढधीमोहसूदनः । महामहमहाक्रोधो महाक्रोधरिपुर्महान् ॥ ३१ ॥ महामहमहालोभः सर्वलोभनिसूदनः । महाकामो महासौख्यो महामोदो महारतिः ॥ ३२ ॥ महारूपो महाकायो महावर्णो महावपुः । महानाम महोदारो महाविपुलमण्डलः ॥ ३३ ॥ महाप्रज्ञायुधधरो महाक्लेशाङ्कुशोऽग्रणीः । महायशा महाकीर्तिर्महाज्योतिर्महाद्युतिः ॥ ३४ ॥ महामायाधरो विद्वान्महामायार्थसाधकः । महामायारतिरतो महामायेन्द्रजालिकः ॥ ३५ ॥ महादानपतिः श्रेष्ठो महाशीलधरोऽग्रणीः । महाक्षान्तिधरो धीरो महावीर्यपराक्रमः ॥ ३६ ॥ महाध्यानसमाधिस्थो महाप्रज्ञाशरीरधृक् । महाबलो महोपायः प्रणिधिज्ञानसागरः ॥ ३७ ॥ महामैत्रीमयोऽमेयो महाकारुणिकोऽग्रधीः । महाप्रज्ञो महाधीमां महोपायो महाकृतिः ॥ ३८ ॥ महाऋद्धिबलोपेतो महावेगो महाजवः । महर्द्धिको महेशाख्यो महाबलपराक्रमः ॥ ३९ ॥ महाभवाद्रिसंभेत्ता महावज्रधरो घनः । महाक्रूरो महारौद्रो महाभयभयंकरः ॥ ४० ॥ महाविद्योत्तमो नाथो महामन्त्रोत्तमो गुरुः । महायाननयारूढो महायाननयोत्तमः ॥ ४१ ॥ वज्रधातुमहामण्डलगाथाश्चतुर्दश ॥ महावैरोचनो बुद्धो महामौनी महामुनिः । महामन्त्रनयोद्भूतो महामन्त्रनयात्मकः ॥ ४२ ॥ दशपारमिताप्राप्तो दशपारमिताश्रयः । दशपारमिताशुद्धिर्दशपारमितानयः ॥ ४३ ॥ दशभूमीश्वरो नाथो दशभूमिप्रतिष्ठितः । दशज्ञानविशुद्धात्मा दशज्ञानविशुद्धधृक् ॥ ४४ ॥ दशाकारो दशार्थार्थो मुनीन्द्रो दशबलो विभुः । अशेषविश्वार्थकरो दशाकारवशी महान् ॥ ४५ ॥ अनाधिर्निष्प्रपञ्चात्मा शुद्धात्मा तथतात्मकः । भूतवादी यथावादी तथाकारी अनन्यवाक् ॥ ४६ ॥ अद्वयोऽद्वयवादी च भूतकोटिव्यवस्थितः । नैरात्म्यसिंहनिर्नाद कुतीर्थ्यमृगभीकरः ॥ ४७ ॥ सर्वत्रगोऽमोघगतिस्तथागतमनोजवः । जिनो जितारिर्विजयी चक्रवर्ती महाबलः ॥ ४८ ॥ गणमुख्यो गणाचार्यो गणेशो गणपतिर्वशी । महानुभावो धौरेयोऽनन्यनेयो महानयः ॥ ४९ ॥ वागीशो वाक्पतिर्वाग्मी वाचस्पतिरनन्तगीः । सत्यवाक्सत्यवादी च चतुःसत्योपदेशकः ॥ ५० ॥ अवैवर्तिको ह्यनागामी खड्गः प्रत्येकनायकः । नानानिर्याणनिर्यातो महाभूतैककारणः ॥ ५१ ॥ अर्हन् क्षीणास्रवो भिक्षुर्वीतरागो जितेन्द्रियः । क्षेमप्राप्तोऽभयप्राप्तः शीतीभूतो ह्यनाविलः ॥ ५२ ॥ विद्याचरणसंपन्नः सुगतो लोकवित्परः । निर्ममो निरहंकारः सत्यद्वयनये स्थितः ॥ ५३ ॥ संसारपारकोटिस्थः कृतकृत्यः स्थले स्थितः । कैवल्यज्ञाननिष्ठ्यूतः प्रज्ञाशस्त्रो विदारणः ॥ ५४ ॥ सद्धर्मो धर्मराड्भास्वां लोकालोककरः परः । धर्मेश्वरो धर्मराजा श्रेयोमार्गोपदेशकः ॥ ५५ ॥ सिद्धार्थः सिद्धसंकल्पः सर्वसंकल्पवर्जितः । निर्विकल्पोऽक्षयो धातुर्धर्मधातुः परोऽव्ययः ॥ ५६ ॥ पुण्यवान् पुण्यसंभारो ज्ञानं ज्ञानाकरं महत् । ज्ञानवान् सदसज्ज्ञानी संभारद्वयसंभृतः ॥ ५७ ॥ शाश्वतो विश्वराड्योगी ध्यानं ध्येयो धियां पतिः । प्रत्यात्मवेद्यो ह्यचलः परमाद्यस्त्रिकायधृक् ॥ ५८ ॥ पञ्चकायात्मको बुद्धः पञ्चज्ञानात्मको विभुः । पञ्चबुद्धात्ममकुटः पञ्चचक्षुरसङ्गधृक् ॥ ५९ ॥ जनकः सर्वबुद्धानां बुद्धपुत्रः परो वरः । प्रज्ञाभवोद्भवोऽयोनिर्धर्मयोनिर्भवान्तकृत् ॥ ६० ॥ घनैकसारो वज्रात्मा सद्योजातो जगत्पतिः । गगनोद्भवः स्वयंभूः प्रज्ञाज्ञानानलो महान् ॥ ६१ ॥ वैरोचनो महादीप्तिर्ज्ञानज्योतिर्विरोचनः । जगत्प्रदीपो ज्ञानोल्को महातेजाः प्रभास्वरः ॥ ६२ ॥ विद्याराजोऽग्रमन्त्रेशो मन्त्रराजा महार्थकृत् । महोष्णीषोऽद्भुतोष्णीषो विश्वदर्शी वियत्पतिः ॥ ६३ ॥ सर्वबुद्धात्मभावाग्र्यो जगदानन्दलोचनः । विश्वरूपी विधाता च पूज्यो मान्यो महाऋषिः ॥ ६४ ॥ कुलत्रयधरो मन्त्री महासमयमन्त्रधृक् । रत्नत्रयधरः श्रेष्ठस्त्रियानोत्तमदेशकः ॥ ६५ ॥ अमोघपाशो विजयी वज्रपाशो महाग्रहः । वज्राङ्कुशो महापाशो वज्रभैरवभीकरः ॥ ६६ ॥ सुविशुद्धधर्मधातुज्ञानगाथाः पादोनपञ्चविंशतिः ॥ क्रोधराट्षण्मुखो भीमः षड्नेत्रः षड्भुजो बली । दंष्ट्राकरालकङ्कालो हलाहलशताननः ॥ ६७ ॥ यमान्तको विघ्नराड्वज्रवेगो भयंकरः । विघुष्टवज्रो हृद्वज्रो मायावज्रो महोदरः ॥ ६८ ॥ कुलिशेशो वज्रयोनिर्वज्रमण्डो नभोपमः । अचलैकजटाटोपो गजचर्मपटार्द्रधृक् ॥ ६९ ॥ हाहाकारो महाघोरो हीहीकारो भयानकः । अट्टहासो महाहासो वज्रहासो महारवः ॥ ७० ॥ वज्रसत्वो महासत्वो वज्रराजो महासुखः । वज्रचण्डो महामोदो वज्रहूंकारहूंकृतिः ॥ ७१ ॥ वज्रबाणायुधधरो वज्रखड्गो निकृन्तनः । विश्ववज्रधरो वज्री एकवज्री रणंजहः ॥ ७२ ॥ वज्रज्वालाकरालाक्षो वज्रज्वालाशिरोरुहः । वज्रावेशो महावेशः शताक्षो वज्रलोचनः ॥ ७३ ॥ वज्ररोमाङ्कुरतनुर्वज्ररोमैकविग्रहः । वज्रकोटिनखारम्भो वज्रसारघनच्छविः ॥ ७४ ॥ वज्रमालाधरः श्रीमां वज्राभरणभूषितः । हाहाट्टहास निर्घोषो वज्रघोषः षडक्षरः ॥ ७५ ॥ मञ्जुघोषो महानादस्त्रैलोक्यैकवरो महान् । आकाशधातुपर्यन्तो घोषो घोषवतां वरः ॥ ७६ ॥ आदर्शज्ञानगाथाः पादोनसार्धदश ॥ तथाताभूतनैरात्म्यं भूतकोटिरनक्षरः । शून्यतावादिवृषभो गम्भीरोदारगर्जनः ॥ ७७ ॥ धर्मशङ्खो महाशब्दो धर्मगण्डी महारणः । अप्रतिष्ठितनिर्वाणो दशदिग्धर्मदुन्दुभिः ॥ ७८ ॥ अरूपो रूपवानग्र्यो नानारूपो मनोमयः । सर्वरूपावभासश्रीरशेषप्रतिबिम्बधृक् ॥ ७९ ॥ अप्रधृष्यो महेशाख्यस्त्रैधातुकमहेश्वरः । समुच्छ्रितार्यमार्गस्थो धर्मकेतुर्महोदयः ॥ ८० ॥ त्रैलोक्यैककुमाराङ्गः स्थविरो वृद्धः प्रजापतिः । द्वात्रिंशल्लक्षणधरः कान्तस्त्रैलोक्यसुन्दरः ॥ ८१ ॥ लोकज्ञानगुणाचार्यो लोकाचार्यो विशारदः । नाथस्त्राता त्रिलोकाप्तः शरणं तायी निरुत्तरः ॥ ८२ ॥ गगनाभोगसंभोगः सर्वज्ञज्ञानसागरः । अविद्याण्डकोशसंभेत्ता भवपञ्जरदारणः ॥ ८३ ॥ शमिताशेषसंक्लेशः संसारार्णवपारगः । ज्ञानाभिषेकमकुटः सम्यक्संबुद्धभूषणः ॥ ८४ ॥ त्रिदुःखदुःखशमनस्त्र्यन्तोऽनन्तस्त्रिमुक्तिगः । सर्वावरणनिर्मुक्त आकाशसमतांगतः ॥ ८५ ॥ सर्वक्लेशमलातीतस्त्र्यध्वानध्वगतिंगतः । सर्वसत्वमहानागो गुणशेखरशेखरः ॥ ८६ ॥ सर्वोपधिविनिर्मुक्तो व्योमवर्त्मनि सुस्थितः । महाचिन्तामणिधरः सर्वरत्नोत्तमो विभुः ॥ ८७ ॥ महाकल्पतरुः स्फीतो महाभद्रघटोत्तमः । सर्वसत्वार्थकृत्कर्ता हितैषी सत्ववत्सलः ॥ ८८ ॥ शुभाशुभज्ञः कालज्ञः समयज्ञः समयी विभुः । सत्वेन्द्रियज्ञो वेलज्ञो विमुक्तित्रयकोविदः ॥ ८९ ॥ गुणी गुणज्ञो धर्मज्ञः प्रशस्तो मङ्गलोदयः । सर्वमङ्गलमाङ्गल्यः कीर्तिर्लक्ष्मीर्यशः शुभः ॥ ९० ॥ महोत्सवो महाश्वासो महानन्दो महारतिः । सत्कारः सत्कृतिर्भूतिः प्रमोदः श्रीर्यशस्पतिः ॥ ९१ ॥ वरेण्यो वरदः श्रेष्ठः शरण्यः शरणोत्तमः । महाभयारिः प्रवरो निःशेषभयनाशनः ॥ ९२ ॥ शिखी शिखण्डी जटिलो जटी मौण्डी किरीटिमान् । पञ्चाननः पञ्चशिखः पञ्चचीरकशेखरः ॥ ९३ ॥ महाव्रतधरो मौञ्जी ब्रह्मचारी व्रतोत्तमः । महातपास्तपोनिष्ठः स्नातको गौतमोऽग्रणीः ॥ ९४ ॥ ब्रह्मविद्ब्राह्मणो ब्रह्मा ब्रह्मनिर्वाणमाप्तवान् । मुक्तिर्मोक्षो विमोक्षाङ्गो विमुक्तिः शान्तता शिवः ॥ ९५ ॥ निर्वाणं निर्वृतिः शान्तिः श्रेयो निर्याणमन्तकः । सुखदुःखान्तकृन्निष्ठा वैराग्यमुपधिक्षयः ॥ ९६ ॥ अजयोऽनुपमोऽव्यक्तो निराभासो निरञ्जनः । निष्कलः सर्वगो व्यापी सूक्ष्मो बीजमनास्रवः ॥ ९७ ॥ अरजो विरजो विमलो वान्तदोषो निरामयः । सुप्रबुद्धो विबुद्धात्मा सर्वज्ञः सर्ववित्परः ॥ ९८ ॥ विज्ञानधर्मतातीतो ज्ञानमद्वयरूपधृक् । निर्विकल्पो निराभोगस्त्र्यध्वसंबुद्धकार्यकृत् ॥ ९९ ॥ अनादिनिधनो बुद्ध आदिबुद्धो निरन्य्वयः । ज्ञानैकचक्षुरमलो ज्ञानमूर्तिस्तथागतः ॥ १०० ॥ वागीश्वरो महावादी वादिराड्वादिपुंगवः । वदतां वरो वरिष्ठो वादिसिंहोऽपराजितः ॥ १०१ ॥ समन्तदर्शी प्रामोद्यस्तेजोमाली सुदर्शनः । श्रीवत्सः सुप्रभो दीप्तिर्भा भासुरकरद्युतिः ॥ १०२ ॥ महाभिषग्वरः श्रेष्ठः शल्यहर्ता निरुत्तरः । अशेषभैषज्यतरुः क्लेशव्याधिमहारिपुः ॥ १०३ ॥ त्रैलोक्यतिलकः कान्तः श्रीमां नक्षत्रमण्डलः । दशदिग्व्योमपर्यन्तो धर्मध्वजमहोच्छ्रयः ॥ १०४ ॥ जगच्छत्रैकविपुलो मैत्रीकरुणामण्डलः । पद्मनर्तेश्वरः श्रीमां रत्नच्छत्रो महाविभुः ॥ १०५ ॥ सर्वबुद्धमहाराजा सर्वबुद्धात्मभावधृक् । सर्वबुद्धमहायोगः सर्वबुद्धैकशासनः ॥ १०६ ॥ वज्ररत्नाभिषेकश्रीः सर्वरत्नाधिपेश्वरः । सर्वलोकेश्वरपतिः सर्ववज्रधराधिपः ॥ १०७ ॥ सर्वबुद्धमहाचित्तः सर्वबुद्धमनोगतिः । सर्वबुद्धमहाकायः सर्वबुद्धसरस्वतिः ॥ १०८ ॥ वज्रसूर्यो महालोको वज्रेन्द्रुविमलप्रभः । विरागादिमहारागो विश्ववर्णोज्ज्वलप्रभः ॥ १०९ ॥ संबुद्धवज्रपर्यङ्को बुद्धसंगीतिधर्मधृक् । बुद्धपद्मोद्भवः श्रीमां सर्वज्ञज्ञानकोशधृक् ॥ ११० ॥ विश्वमायाधरो राजा बुद्धविद्याधरो महान् । वज्रतीक्ष्णो महाखड्गो विशुद्धः परमाक्षरः ॥ १११ ॥ दुःखच्छेदमहायानो वज्रधर्ममहायुधः । जिनजिग्वज्रगाम्भीर्यो वज्रबुद्धिर्यथार्थवित् ॥ ११२ ॥ सर्वपारमितापूरी सर्वभूमिविभूषणः । विशुद्धधर्मनैरात्म्यं सम्यग्ज्ञानेन्दुहृत्प्रभः ॥ ११३ ॥ मायाजालमहोद्योगः सर्वतन्त्राधिपः परः । अशेषवज्रपर्यङ्को निःशेषज्ञानकायधृक् ॥ ११४ ॥ समन्तभद्रः सुमतिः क्षितिगर्भो जगद्धृतिः । सर्वबुद्धमहागर्भो विश्वनिर्माणचक्रधृक् ॥ ११५ ॥ सर्वभावस्वभावाग्र्यः सर्वभावस्वभावधृक् । अनुत्पादधर्मा विश्वार्थः सर्वधर्मस्वभावधृक् ॥ ११६ ॥ एकक्षणमहाप्राज्ञः सर्वधर्मावबोधधृक् । सर्वधर्माभिसमयो भूतान्तमुनिरग्रधीः ॥ ११७ ॥ स्तिमितः सुप्रसन्नात्मा सम्यक्संबुद्धबोधिधृक् । प्रत्यक्षः सर्वबुद्धानां ज्ञानार्चिः सुप्रभास्वरः ॥ ११८ ॥ प्रत्यवेक्षणाज्ञानगाथा द्वाचत्वारिंशत् इष्टार्थसाधकः परः सर्वापायविशोधकः । सर्वसत्वोत्तमो नाथः सर्वसत्वप्रमोचकः ॥ ११९ ॥ क्लेशसंग्रामशूरैकः अज्ञानरिपुदर्पहा । धीः शृङ्गारधरः श्रीमान् वीरबीभत्सरूपधृक् ॥ १२० ॥ बाहुदण्डशताक्षेपः पदनिक्षेपनर्तनः । श्रीमच्छतभुजाभोगो गगनाभोगनर्तनः ॥ १२१ ॥ एकपादतलाक्रान्त- महीमण्डतले स्थितः । ब्रह्माण्डशिखराक्रान्त- पादाङ्गुष्ठनखे स्थितः ॥ १२२ ॥ एकार्थोऽद्वयधर्मार्थः परमार्थोऽविनश्वरः । नानाविज्ञप्तिरूपार्थश्चित्तविज्ञानसन्तति ॥ १२३ ॥ अशेषभावार्थरतिः शून्यतारतिरग्रधीः । भवरागाद्यतीतश्च भवत्रयमहारतिः ॥ १२४ ॥ शुद्धशुभ्राभ्रधवलः शरच्चन्द्रांशुसुप्रभः । बालार्कमण्डलच्छायो महारागनखप्रभः ॥ १२५ ॥ इन्द्रनीलाग्रसच्चीरो महानीलकचाग्रधृक् । महामणिमयूखश्रीर्बुद्धनिर्माणभूषणः ॥ १२६ ॥ लोकधातुशताकम्पी ऋद्धिपादमहाक्रमः । महास्मृतिधरस्तत्त्वश्चतुःस्मृतिसमाधिराट् ॥ १२७ ॥ बोध्यंगकुसुमामोदस्तथागतगुणोदधिः । अष्टाङ्गमार्गनयवित्सम्यक्संबुद्धमार्गवित् ॥ १२८ ॥ सर्वसत्वमहासङ्गो निःसङ्गो गगनोपमः । सर्वसत्वमनोजातः सर्वसत्वमनोजवः ॥ १२९ ॥ सर्वसत्वेन्द्रियार्थज्ञः सर्वसत्वमनोहरः । पञ्चस्कन्धार्थतत्वज्ञः पञ्चस्कन्धविशुद्धधृक् ॥ १३० ॥ सर्वनिर्याणकोटिस्थः सर्वनिर्याणकोविदः । सर्वनिर्याणमार्गस्थः सर्वनिर्याणदेशकः ॥ १३१ ॥ द्वादशाङ्गभवोत्खातो द्वादशाकारशुद्धधृक् । चतुःसत्यनयाकारो अष्टज्ञानावबोधधृक् ॥ १३२ ॥ द्वादशाकारसत्यार्थः षोडशाकारतत्त्ववित् । विंशत्याकारसंबोधिर्विबुद्धः सर्ववित्परः ॥ १३३ ॥ अमेयबुद्धनिर्माण- कायकोटिविभावकः । सर्वक्षणाभिसमयः सर्वचित्तक्षणार्थवित् ॥ १३४ ॥ नानायाननयोपाय- जगदर्थविभावकः । यानत्रितयनिर्यात एकयानफले स्थितः ॥ १३५ ॥ क्लेशधातुविशुद्धात्मा कर्मधातुक्षयंकरः । ओघोदधिसमुत्तीर्णो योगकान्तारनिःसृतः ॥ १३६ ॥ क्लेशोपक्लेशसंक्लेश- सुप्रहीणसवासनः । प्रज्ञोपायमहाकरुणा अमोघजगदर्थकृत् ॥ १३७ ॥ सर्वसंज्ञाप्रहीणार्थो विज्ञानार्थो निरोधधृक् । सर्वसत्वमनोविषयः सर्वसत्वमनोगतिः ॥ १३८ ॥ सर्वसत्वमनोऽन्तस्थस्तच्चित्तसमतांगतः । सर्वसत्वमनोह्लादी सर्वसत्वमनोरतिः ॥ १३९ ॥ सिद्धान्तो विभ्रमापेतः सर्वभ्रान्तिविवर्जितः । निःसन्दिग्धमतिस्त्र्यर्थः सर्वार्थस्त्रिगुणात्मकः ॥ १४० ॥ पञ्चस्कन्धार्थस्त्रिष्कालः सर्वक्षणविभावकः । एकक्षणाभिसंबुद्धः सर्वबुद्धस्वभावधृक् ॥ १४१ ॥ अनङ्गकायः कायाग्र्यः कायकोटिविभावकः । अशेषरूपसंदर्शी रत्नकेतुर्महामणिः ॥ १४२ ॥ समताज्ञानगाथाश्चतुर्विंशतिः सर्वसंबुद्धबोद्धव्यो बुद्धबोधिरनुत्तरः । अनक्षरो मन्त्रयोनिर्महामन्त्रकुलत्रयः ॥ १४३ ॥ सर्वमन्त्रार्थजनको महाबिन्दुरनक्षरः । पञ्चाक्षरो महाशून्यो बिन्दुशून्यः शताक्षरः ॥ १४४ ॥ सर्वाकारो निराकारः षोडशार्धार्धबिन्दुधृक् । अकलः कलनातीतश्चतुर्थध्यानकोटिधृक् ॥ १४५ ॥ सर्वध्यानकलाभिज्ञः समाधिकुलगोत्रवित् । समाधिकायो कायाग्र्यः सर्वसंभोगकायराट् ॥ १४६ ॥ निर्माणकायो कायाग्र्यो बुद्धनिर्माणवंशधृक् । दशदिग्विश्वनिर्माणो यथावज्जगदर्थकृत् ॥ १४७ ॥ देवातिदेवो देवेन्द्रः सुरेन्द्रो दानवाधिपः । अमरेन्द्रः सुरगुरुः प्रमथः प्रमथेश्वरः ॥ १४८ ॥ उत्तीर्णभवकान्तार एकः शास्ता जगद्गुरुः । प्रख्यातो दशदिग्लोक- धर्मदानपतिर्महान् ॥ १४९ ॥ मैत्रीसंनाहसंनद्धः करुणावर्मवर्मितः । प्रज्ञाखड्गधनुर्बाणः क्लेशाज्ञानरणंजहः ॥ १५० ॥ मारारिर्मारजिद्वीरश्चतुर्मारभयान्तकृत् । सर्वमारचमूजेता संबुद्धो लोकनायकः ॥ १५१ ॥ वन्द्यः पूज्योऽभिवाद्यश्च माननीयश्च नित्यशः । अर्चनीयतमो मान्यो नमस्यः परमो गुरुः ॥ १५२ ॥ त्रैलोक्यैकक्रमगतिर्व्योमपर्यन्तविक्रमः । त्रैविद्यः श्रोत्रियः पूतः षडभिज्ञः षडनुस्म्र्तिः ॥ १५३ ॥ बोधिसत्वो महासत्वो लोकातीतो महर्द्धिकः । प्रज्ञापारमितानिष्ठः प्रज्ञातत्त्वत्वमागतः ॥ १५४ ॥ आत्मवित्परवित्सर्वः सर्वीयो ह्यग्रपुद्गलः । सर्वोपमामतिक्रान्तो ज्ञेयो ज्ञानाधिपः परः ॥ १५५ ॥ धर्मदानपतिः श्रेष्ठश्चतुर्मुद्रार्थदेशकः । पर्युपास्यतमो जगतां निर्याणत्रययायिनाम् ॥ १५६ ॥ परमार्थविशुद्धश्रीश्त्रैलोक्यसुभगो महान् । सर्वसंपत्करः श्रीमान्मञ्जुश्रीः श्रीमतां वरः ॥ १५७ ॥ कृत्यानुष्ठानज्ञानगाथाः पञ्चदश नमस्ते वरद वज्राग्र्य भूतकोटि नमोऽस्तु ते । नमस्ते शून्यतागर्भ बुद्धबोधि नमोऽस्तु ते ॥ १५८ ॥ बुद्धराग नमस्तेऽस्तु बुद्धकाम नमो नमः । बुद्धप्रीति नमस्तुभ्यं बुद्धमोद नमो नमः ॥ १५९ ॥ बुद्धस्मित नमस्तुभ्यं बुद्धहास नमो नमः । बुद्धवाच नमस्तेऽस्तु बुद्धभाव नमो नमः ॥ १६० ॥ अभवोद्भव नमस्ते ःस्तु नमस्ते बुद्धसंभव । गगनोद्भव नमस्तुभ्यं नमस्ते ज्ञानसंभव ॥ १६१ ॥ मायाजाल नमस्तुभ्यं नमस्ते बुद्धनाटक । नमस्ते सर्व सर्वेभ्यो ज्ञानकाय नमोऽस्तु ते ॥ १६२ ॥ इति पञ्चतथागतज्ञानस्तुतिगाथाः पञ्च । इयमसौ वज्रपाणे वज्रधर भगवतो ज्ञानमूर्तेः सर्वतथागतज्ञानकायस्य मञ्जुश्रीज्ञानसत्वस्यावेणिकपरिशुद्धा नामसंगीतिः । तवानुत्तरप्रीतिप्रसादमहौद्बिल्यसंजननार्थं कायवाङ्मनोगुह्यपरिशुद्ध्यै । अपरिपूर्णापरिशुद्धभूमिपारमितापुण्यज्ञानसंभारपरिपूरिपरिशुद्ध्यै । अनधिगतानुत्तरार्थस्याधिगमाय । अप्राप्तस्य प्राप्त्यै । यावत्सर्वतथागतसद्धर्मनेत्रीसंधारणार्थं च मया देशिता संप्रकाशिता च विवृत्ता विभजितोत्तानीकृता अधिष्ठिता चेयं मया वज्रपाणे वज्रधर तव संताने सर्वमन्त्रधर्मताधिष्ठानेनेति ॥ पुनरपरं वज्रपाणे वज्रधर इयं नामसंगीतिः सुविशुद्धपर्यवदातसर्वज्ञज्ञानकायवाङ्मनोगुह्यभूता । सर्वतथागतानां बुद्धबोधिः । सम्यक्संबुद्धानामभिस्मयः । सर्वतथागतानामनुत्तरः । धर्मधातुगतिः सर्वसुगतानाम् । सर्वमारबलपराजयो जिनानाम् । दशबलबलिता सर्वदशबलानाम् । सर्वज्ञता सर्वज्ञस्य ज्ञानानाम् । आगमः सर्वबुद्धधर्माणाम् । समुदागमः सर्वबुद्धानाम् । विमलसुपरिशुद्धपुण्यज्ञानसंभारपरिपूरिः सर्वमहाबोधिसत्वानाम् । प्रसूतिः सर्वश्रावकप्रत्येकबुद्धानाम् । क्षेत्रं सर्वदेवमनुष्यसंपत्तेः । प्रतिष्ठा महायानस्य । संभवो बोधिसत्वचर्यायाः । निष्ठा सम्यगार्यमार्गस्य । निकषो विमुक्तीनाम् । उत्पत्तिर्निर्याणमार्गस्य । अनुच्छेदस्तथागतवंशस्य । प्रवृद्धिर्महाबोधिसत्वकुलगोत्रस्य । निग्रहः सर्वपरप्रवादिनाम् । विध्वंसनं सर्वतीर्थिकानाम् । पराजयश्चतुर्मारबलचमूसेनानाम् । संग्रहः सर्वसत्वानाम् । आर्यमार्गपरिपाकः सर्वनिर्याणयायिनाम् । समाधिश्चतुर्ब्रह्मविहारविहारिणाम् । ध्यानमेकाग्रचित्तानाम् । योगः कायवाङ्मनोऽभियुक्तानाम् । विसंयोगः सर्वसंयोजनानाम् । प्रहाणं सर्वक्लेशोपक्लेशानाम् । उपशमः सर्वावरणानाम् । विमुक्तिः सर्वबन्धनानाम् । मोक्षः सर्वोपधीनाम् । शान्तिः सर्वचित्तोपप्लवानाम् । आकरः सर्वसंपत्तीनाम् । परिहाणिः सर्वविपत्तीनाम् । पिथनं सर्वापायद्वाराणाम् । सत्पथो विमुक्तिपुरस्य । अप्रवृत्तिः संसारचक्रस्य । प्रवर्तनं धर्मचक्रस्य । उच्छ्रितच्छत्रध्वजपताकास्तथागतशासनस्य । अधिष्ठानं सर्वधर्मदेशनायाः । क्षिप्रसिद्धिर्मन्त्रमुखचर्याचारिणां बोधिसत्वानाम् । भावनाधिगमः प्रज्ञापारमिताभियुक्तानाम् । शून्यताप्रतिवेधः अद्वयप्रतिवेधभावनाभियुक्तानाम् । निष्पत्तिः सर्वपारमितासंभारस्य । परिशुद्धिः सर्वभूमिपारमितापरिपूर्यै । प्रतिवेधः सम्यक्चतुरार्यसत्यानाम् । सर्वधर्मैकचित्तप्रतिवेधश्चतुःस्मृत्युपस्थानानाम् । यावत्परिसमाप्तिः सर्वबुद्धगुणानामियं नामसंगीतिः ॥ द्वितीयचक्रस्येयमनुशंसा तत्पदानि द्वापञ्चाशत् ॥ पुनरपरं वज्रपाणे वज्रधर इयं नामसंगीतिः सर्वसत्वानामशेषकायवाङ्मनःसमुदाचारपापप्रशमनी । सर्वसत्वानां सर्वापायानां विशोधनी । सर्वदुर्गतिनिवारणी । सर्वकर्मावरणानां समुच्छेदनी । सर्वाष्टाक्षणसमुत्पादस्यानुत्पादकरी । अष्टमहाभयव्युपशमनकरी । सर्वदुःस्वप्ननिर्नाशनी । सर्वदुर्निमित्तव्यपोहनकरी । सर्वदुःशकुनविघ्नव्युपशमनकरी । सर्वमारारिकर्मदूरीकरणी । सर्वकुशलमूलपुण्यस्योपचयकरी । सर्वायोनिशोमनस्कारस्यानुत्पादनकरी । सर्वमदमानदर्पाहंकारनिर्घातनकरी । सर्वदुःखदौर्मनस्यानुत्पादनकरी । सर्वतथागतानां हृदयभूता । सर्वबोधिसत्वानां गुह्यभूता । सर्वश्रावकप्रत्येकबुद्धानां रहस्यभूता । सर्वमुद्रामन्त्रभूता । सर्वधर्मानभिलाप्यवादिनां स्मृतिसंप्रजन्यसंजननी । अनुत्तरप्रज्ञामेधाकरी । आरोग्यबलैश्वर्यसंपत्करी । श्रीशुभशान्तिकल्याणप्रवर्धनकरी । यशःश्लोककीर्तिस्तुतिसंप्रकाशनकरी । सर्वव्याधिमहाभयप्रशमनकरी । पूततरा पूततराणाम् । पवित्रतरा पवित्रतराणाम् । धन्यतमा धन्यतमानाम् । माङ्गल्यतमा सर्वमाङ्गल्यतमानाम् । शरणं शरणार्थिनाम् । लयनं लयनार्थिनाम् । त्राणं त्राणार्थिनाम् । परायणमपरायणानाम् । द्वीपभूता द्वीपार्थिनाम् । अगतिकानामनुत्तरगतिकभूता । यानपात्रभूता भवसमुद्रपारगामिनाम् । महाभैषज्यराजभूता सर्वव्याधिनिर्घातनाय । प्रज्ञाभूता हेयोपादेयभावविभावनायै । ज्ञानालोकभूता सर्वतमोन्धकारकुदृष्ट्यपनयनाय । चिन्तामणिभूता सर्वसत्वयथाशयाभिप्रायपरिपूरणाय । सर्वज्ञज्ञानभूता मञ्जुश्रीज्ञानकायप्रतिलम्भाय । परिशुद्धज्ञानदर्शनभूता पञ्चचक्षुःप्रतिलम्भाय । षट्पारमितापरिपूरिभूता आमिषाभयधर्मदानोत्सर्जनतया । दशभूमिप्रतिलम्भभूता पुण्यज्ञानसंभारसमाधिपरिपूरणतया । अद्वयधर्मता द्वयधर्मविगतत्वात् । तथतारूपतानन्यधर्मताध्यारोपविगतत्वात् । भूतकोटिरूपता परिशुद्धतथागतज्ञानकायस्वभावतया । सर्वाकारमहाशून्यतारूपता अशेषकुदृष्टिगहनगतिनिर्घातनतया । सर्वधर्मानभिलाप्यरूपेयं नामसंगीतिर्यदुताद्वयधर्मतार्थं नामसंधारणप्रकाशनतयेति ॥ तृतीयचक्रस्येयमनुशंसा तत्पदानि द्वापञ्चाशत् ॥ पुनरपरं वज्रपाणे वज्रधर यः कश्चित्कुलपुत्रो वा कुलदुहिता वा मन्त्रमुखचर्याचारी इमां भगवतो मञ्जुश्रीज्ञानसत्वस्य सर्वतथागतज्ञानकायस्य ज्ञानमूर्तेरद्वयपरमार्थां नामसंगीतिं नामचूडामणिं सकलपरिसमाप्तमन्यूनामखण्डामेभिरेव गाथापदव्यञ्जनैः प्रत्यहमखण्डं त्रिष्कालं धारयिष्यति वाचयिष्यति पर्यवाप्स्यति योनिशश्च मनसिकरिष्यति । परेभ्यश्च विस्तरेण यथासमयं यथायोग्यतो यावत्संप्रकाशयिष्यति प्रत्येकं चान्यतमान्यतमनामार्थम् । मञ्जुश्रीज्ञानकायमालम्बनीकृत्य एकाग्रमानसो भावयिष्यति । अधिमुक्तितत्वमनस्काराभ्यां समन्तमुखविहारविहारी सर्वधर्मप्रतिवेधिकया परमया अनाविलया प्रज्ञानुविद्धया श्रद्धया समन्वागतः संस्तस्य त्र्यध्वानध्वसमङ्गिनः सर्वबुद्धबोधिसत्वाः समागम्य संगम्य सर्वधर्ममुखान्युपदर्शयिष्यन्ति । आत्मभावं चोपदर्शयिष्यति । दुर्दान्तदमकाश्च महाक्रोधराजानो महावज्रधरादयो जगत्परित्राणभूता नानानिर्माणरूपकायैरोजोबलं तेजोऽप्रधृष्यतां सर्वमुद्रामन्त्राभिसमयमण्डलान्युपदर्शयिष्यन्ति । अशेषाश्च मन्त्रविद्याराज्ञ्यः सर्वविघ्नविनायकमारारिमहाप्रत्यङ्गिरामहापराजिताः सरात्रिंदिवं प्रतिक्षणं सर्वेर्यापथेषु रक्षावरणगुप्तिं करिष्यन्ति । सर्वबुद्धबोधिसत्वाधिष्ठानं करिष्यन्ति । सर्वकायवाङ्मनोभिस्तस्य संताने सम्यगधिष्ठास्यन्ति । सर्वबुद्धबोधिसत्वानुग्रहेण चानुग्रहीष्यन्ति । सर्वधर्मवैशारद्यप्रतिभानं चोपसंहरिष्यन्ति । सर्वार्हच्छ्रावकप्रत्येकबुद्धार्यधर्मप्रेमाशयतया आत्मभावं चोपदर्शयिष्यन्ति । ये च ब्रह्मेन्द्रोपेन्द्ररुद्रनारायणसनत्कुमारमहेश्वरकार्तिकेयमहाकालनन्दिकेश्वरयमवरुणकुवेरहारीतीदशदिग्लोकपालाश्च सततसमितं सरात्रिंदिवं गच्छतस्तिष्ठतः शयानस्य निषण्णस्य स्वपतो जाग्रतः समाहितस्यासमाहितस्य च एकाकिनो बहुजनमध्यगतस्य च यावद्ग्रामनगरनिगमजनपदराष्ट्रराजधानीमध्यगतस्येन्द्रकीलरथ्याप्रतोलीनगरद्वारवीथीचत्वरशृङ्गाटकनगरान्तरापणपण्यशालामध्यगतस्य यावच्छून्यागरगिरिकन्दरनदीवनगहनोपगतस्य उच्छिष्टस्यानुच्छिष्टस्य मत्तस्य्प्रमत्तस्य सर्वदा सर्वथा सर्वप्रकारं च परां रक्षावरणगुप्तिं करिष्यन्ति । रत्रिंदिवं परं स्वस्त्ययनं करिष्यन्ति । ये चान्ये देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगा मनुष्यामनुष्याश्च ये चान्ये ग्रहनक्षत्रमातृगणपतयो याश्च सप्त मातरो याश्च यक्षिणीराक्षसीपिश्चाच्यस्ताः सर्वाः सहिताः समग्राः ससैन्यः सपरिवाराः सर्वे ते रक्षावरणगुप्तिं करिष्यन्ति । परं च तस्य काये ओजोबलं प्रक्षेप्स्यन्ति । आरोग्यबलमायुर्वृद्धिंश्चोपसंहरिष्यन्ति ॥ चतुर्थचक्रस्येयमनुशंसा तत्पदान्येकोनविंशति ॥ पुनरपरं वज्रपाणे वज्रधर य इमां नामसंगीतिं नामचूडामणिं प्रत्यहमखण्डसमादानतस्त्रिःकृत्वा कण्ठगतामावर्तयिष्यति । पुस्तकगतां वा पठमानः प्रवर्तयिष्यति । भगवतो मञ्जुश्रीज्ञानसत्वस्य रूपमालम्बयन्ननुविचिन्तयंस्तद्रूपमनुध्यायन् । तमेव रूपकायेनाचिरादेव धर्मविनयमुपादाय द्रक्ष्यति । गगनतलगतांश्च सर्वबुद्धबोधिसत्वान्नानानिर्माणरूपकायैः सहगतान् द्रक्ष्यति । न तस्य महासत्वस्य जातु कदाचित्कथमपि दुर्गत्यपायपतनं च भविष्यति । नीचकुलोपपत्तिर्न भविष्यति । प्रत्यन्तजनपदोपपत्तिर्न भविष्यति । न हीनेन्द्रियो भविष्यति । न विकलेन्द्रियो भविष्यति । न मिथ्यादृष्टिकुलोपपत्तिर्भविष्यति । नाबुद्धेषु बुद्धक्षेत्रेषूपपत्स्यते । न बुद्धोत्पादतद्देशितधर्मविमुखपरोक्षता भविष्यति । न च दीर्घायुष्केषु देवेषूपपत्स्यते । न च दुर्भिक्षरोगशस्त्रान्तरकल्पेषूपपत्स्यते । न च पञ्चकषायकालेषूपपत्स्यते । न च राजशत्रुचौरभयं भविष्यति । न च सर्ववैकल्यदारिद्रभयम् । न चाश्लोकाभ्याख्याननिन्दायशोऽकीर्तिभयं भविष्यति । सुजातिकुलगोत्रसंपन्नश्च भविष्यति । समन्तप्रासादिकरूपवर्णसमन्वागतो भविष्यति । प्रियो मनआपसुखसंवासप्रियदर्शनश्च लोकानां भविष्यति । शुभसौभाग्यादेयवाक्यश्च सत्वानां भविष्यति । स यत्र यत्रोपपत्स्यते तत्र तत्र जातौ जातौ जातिस्मरो भविष्यति । महाभोगो महापरिवारोऽक्षयभोगोऽक्षयपरिवारो भविष्यति । अग्रणीः सर्वसत्वानामग्रगुणसमन्वागतो भविष्यति । प्रकृत्या च षट्पारमितागुणैः समन्वागतो भविष्यति । चतुर्ब्रह्मविहारविहारी च भविष्यति । स्मृतिसंप्रजन्योपायबलप्रणिधिज्ञानैः समन्वागतश्च भविष्यति । सर्वशास्त्रविशारदो वाग्मी च भविष्यति । स्पष्टवागजडपटुमतिर्भविष्यति । दक्षोऽनलसः संतुष्टो महार्थो वितृष्णश्च भविष्यति । परमविश्वासी च सर्वसत्वानां भविष्यति । आचार्योपाध्यायगुरूणां च संमतो भविष्यति । अश्रुतपूर्वाणि च तस्य शिल्पकलाभिज्ञाज्ञानशास्त्राणि चार्थतो ग्रन्थतश्च प्रतिभासमागमिष्यति । सुपरिशुद्धशीलाजीवसमुदाचारचारी च भविष्यति । सुप्रव्रजितः सूपसंपन्नश्च भविष्यति । अप्रमुषितसर्वज्ञतामहाबोधिचित्तश्च भविष्यति । न जातु श्रावकार्हत्प्रत्येकबुद्धनियामावक्रान्तिगतश्च भविष्यति ॥ पञ्चमचक्रस्येयमनुशंसा तत्पदान्येकपञ्चाशत् ॥ एवं वज्रपाणे वज्रधर अप्रमेयगुणसमन्वागतोऽसौ मन्त्रमुखचर्याचारी भविष्यति । अन्यैश्चाप्रमेयैरेवंप्रकारैरेवंजातीयैर्गुणगणैः समन्वागतो भविष्यति । अचिरादेव वज्रपाणे वज्रधर परमार्थनामसंगीतिसंधारकपुरुषपुंगवः सुसंभृतपुण्यज्ञानसंभारः क्सिप्रतरं बुद्धगुणान् समुदानीयानुत्तरां सम्यक्संबोधिमभिसंभोत्स्यते । अनल्पकल्याणपरिनिर्वाणधर्मः सर्वसत्वानामनुत्तरधर्मदेशकोऽधिष्ठितो दशदिक्सद्धर्मदुन्दुभिर्धर्मराज इति । षष्ठचक्रस्यानुशंसा तत्पदान्यप्रमेयाणि ॥ ओं सर्वधर्माभावस्वभावविशुद्धवज्र अ आ अमः । प्रकृतिपरिशुद्धाः सर्वधर्मा यदुत सर्वतथागतज्ञानकायमञ्जुश्रीपरिशुद्धितामुपादायेति अ आः सर्वतथागतहृदयं हर हर । ओं हूं ह्रीः भगवन् ज्ञानमूर्तिवागीश्वर महावाच सर्वधर्मगगनामलसुपरिशुद्धधर्मधातुज्ञानगर्भ आः । मन्त्रविन्यासः ॥ अथ वज्रधरः श्रीमां हृष्टतुष्टः कृताञ्जलिः । प्रणम्य नाथं संबुद्धं भगवन्तं तथागतं ॥ १६३ ॥ अन्यैश्च बहुविधैर्नाथैर्गुह्येन्द्रैर्वज्रपाणिभिः । स सार्धं क्रोधराजानैः प्रोवाचोच्चैरिदं वचः ॥ १६४ ॥ अनुमोदामहे नाथ साधु साधु सुभाषितं । कृतोऽस्माकं महानर्थः सम्यक्संबोधिप्रापकः ॥ १६५ ॥ जगतश्चाप्यनाथस्य विमुक्तिफलकांक्षिणः । श्रेयोमार्गो विशुद्धोऽयं मायाजालनयोदितः ॥ १६६ ॥ गम्भीरोदारवैपुल्यो महार्थो जगदर्थकृत् । बुद्धानां विषयो ह्येष सम्यक्संबुद्धदेशितः ॥ १६७ ॥ इत्युपसंहारगाथाः पञ्च ॥ आर्यमायाजालात्षोडशसाहस्रिकान्महायोगतन्त्रान्तःपातिसमाधिजालपटलाद्भगवत्तथागतशाक्यमुनिभाषिता भगवतो मञ्जुश्रीज्ञानसत्वस्य परमार्था नामसंगीतिः परिसमाप्ता ॥