अद्वयपरमार्था नामसंगीति ओं नमः श्रीमहामञ्जुनाथाय अथ वज्रधरः श्रीमान् दुर्दान्तदमकः परः । त्रिलोकविजयी वीरो गुह्यराट्कुलिशेश्वरः ॥ १ ॥ विबुद्धपुण्डरीकाक्षः प्रोत्फुल्लकमलाननः । प्रोल्लालयन् वज्रवरं स्वकरेण मुहुर्मुहुः ॥ २ ॥ भृकुटीतरङ्गप्रमुखैरनन्तैर्वज्रपाणिभिः । दुर्दान्तदमकैर्वीरैर्वीरबीभत्सरूपिभिः ॥ ३ ॥ उल्लालयद्भिः स्वकरैः प्रस्फुरद्वज्रकोटिभिः । प्रज्ञोपायमहाकरुणा- जगदर्थकरैः परः ॥ ४ ॥ हृष्टतुष्टाशयैर्मुदितैः क्रोधविग्रहरूपिभिः । बुद्धकृत्यकरैर्नाथैः सार्द्धं प्रणतविग्रहैः ॥ ५ ॥ प्रणम्य नाथं संबुद्धं भगवन्तं तथागतम् । कृताञ्जलिपुटो भूत्वा इदमाह स्थितोऽग्रतः ॥ ६ ॥ मद्धिताय ममार्थाय अनुकम्पाय मे विभो । मायाजालाभिसंबोधिं यथा लाभी भवाम्यहम् ॥ ७ ॥ अज्ञानपङ्कमग्नानां क्लेशव्याकुलचेतसाम् । हिताय सर्वसत्त्वानामनुत्तरफलाप्तये ॥ ८ ॥ प्रकाशयतु संबुद्धो भगवाञ्शास्ता जगद्गुरुः । महासमयतत्त्वज्ञ इन्द्रयाशयवित्परः ॥ ९ ॥ भगवज्ज्ञानकायस्य महोष्णीषस्य गीष्पतेह् । मञ्जुश्रीज्ञानसत्त्वस्य ज्ञानमूर्तेः स्वयम्भुवः ॥ १० ॥ गम्भीरार्थामुदारार्थं महार्थामसमां शिवाम् । आदिमध्यान्तकल्याणीं नामसंगीतिमुत्तमाम् ॥ ११ ॥ यातीतैर्भाषिता बुद्धैर्भाषिष्यन्ते ह्यनागताः । प्रत्युत्पन्नाश्च संबुद्धा यां भाषन्ते पुनः पुनः ॥ १२ ॥ मायाजाले महातन्त्रे या चास्मिन् संप्रगीयते । महावज्रधरैर्हृष्टैरमेयैर्मन्त्रधारिभिः ॥ १३ ॥ अहं चैनां धारयिष्याम्या निर्याणां दृढाशयः । यथा भवाम्यहं नाथ सर्वसंबुद्धगुह्यधृक् ॥ १४ ॥ प्रकाशयिष्ये सत्त्वानां यथाशयविशेषतः । अशेषक्लेशनाशाय अशेषाज्ञानहानये ॥ १५ ॥ एवमध्येष्य गुह्येन्द्रो वज्रपाणिस्तथागतम् । कृताञ्जलिपुटो भूत्वा प्रह्वकायः स्थितोऽग्रतः ॥ १६ ॥ इति अध्येषणज्ञानगाथाः षोडश । अथ शाक्यमुनिर्भगवान् संबुद्धो द्विपदोत्तमः । निर्णमय्यायतां स्फीतं स्वजिह्वां स्वमुखाच्छुभाम् ॥ १७ ॥ स्मितं संदर्श्य लोकानामपायत्रयशोधनम् । त्रिलोकाभासकरणं चतुर्मारारिशासनम् ॥ १८ ॥ त्रिलोकमापूरयन्त्या ब्राह्म्या मधुरया गिरा । प्रत्यभाषत गुह्येन्द्रं वज्रपाणिं महाबलम् ॥ १९ ॥ साधु वज्रधर श्रीमन् साधु ते वज्रपाणये । यस्तं जगद्धितार्थाय महाकरुणयान्वितः ॥ २० ॥ महार्थां नामसंगीतिं पवित्रामघनाशिनीम् । मञ्जुश्रीज्ञानकायस्य मत्तः श्रोतुं समुद्यतः ॥ २१ ॥ तत्साधु देशयाम्येषः अहं ते गुह्यकाधिप । शृणु त्वमेकाग्रमनास्तत्साधु भगवन्निति ॥ २२ ॥ इति प्रतिवचनज्ञानगाथाः षट् । अथ शाक्यमुनिर्भगवान् सकलं मन्त्रकुलं महत् । मन्त्रविद्याधरकुलं व्यवलोक्य कुलत्रयम् ॥ २३ ॥ लोकलोकोत्तरकुलं लोकालोककुलं महत् । महामुद्राकुलं चाग्र्यं महोष्णीषकुलं महत् ॥ २४ ॥ इति षट्कुलावलोकनज्ञानगाथे द्वे । इमां षण्मन्त्रराजानां संयुक्तामद्वयोदयाम् । अनुत्पादधर्मिणीं गाथां भाषते स्म गिरां पतेः ॥ २५ ॥ अ आ इ ई उ ऊ ए ऐ ओ औ अमः स्थितो हृदि । ज्ञानमूर्तिरहं बुद्धो बुद्धानां त्र्यध्ववर्तिनाम् ॥ २६ ॥ ओं वज्रतीक्ष्णदुःखच्छेदप्रज्ञाज्ञानमूर्तये ।* ज्ञानकायवागिश्वरारापचनाय ते नमः ॥ २७ ॥* इति मायाजालाभिसंबोधिक्रमगाथास्तिस्रः । तद्यथा भगवान् बुद्धः संबुद्धोऽकारसम्भवः । अकारः सर्ववर्णाग्र्यो महार्थः परमाक्षरः ॥ २८ ॥ महाप्राणो ह्यनुत्पादो वागुदाहारवर्जितः । सर्वाभिलापहेत्वग्र्यः सर्ववाक्सुप्रभास्वरः ॥ २९ ॥ महामहमहारागः सर्वसत्त्वरतिंकरः । महामहमहाद्वेषः सर्वक्लेशमहारिपुः ॥ ३० ॥ महामहमहामोहो मूढधीमोहसूदनः । महामहमहाक्रोधो महाक्रोधरिपुर्महान् ॥ ३१ ॥ महामहमहालोभः सर्वलोभनिषूदनः । महाकामो महासौख्यो महामोदो महारतिः ॥ ३२ ॥ महारूपो महाकायो महावर्णो महावपुः । महानामा महोदारो महाविपुलमण्डलः ॥ ३३ ॥ महाप्रज्ञायुधधरो महाक्लेशाङ्कुशोऽग्रणीः । महायशा महाकीर्तिर्महाज्योतिर्महाद्युतिः ॥ ३४ ॥ महामायाधरो विद्वान्महामायार्थसाधकः । महामायारतिरतो महामायेन्द्रजालिकः ॥ ३५ ॥ महादानपतिः श्रेष्ठो महाशीलधरोऽग्रणीः । महाक्षान्तिधरो धीरो महावीर्यपराक्रमः ॥ ३६ ॥ महाध्यानसमाधिस्थो महाप्रज्ञाशरीरद्ःृक् । महाबलो महोपायः प्रणिधिर्ज्ञनसागरः ॥ ३७ ॥ महामैत्रीमयोऽमेयो महाकारुणिकोऽग्रधीः । महाप्रज्ञो महाधीमान्महोपायो महाकृतिः ॥ ३८ ॥ महाऋद्धिबलोपेतो महावेगो महाजवः । महर्द्धिको महेशाख्यो महाबलपराक्रमः ॥ ३९ ॥ महाभवाद्रीसंभेत्ता महावज्रधरो घनः । महाक्रूरो महारौद्रो महाभयभयंकरः ॥ ४० ॥ महाविद्योत्तमो नाथो महामन्त्रोत्तमो गुरुः । महायाननयारूढो महायाननयोत्तमः ॥ ४१ ॥ इति वज्रधातुमण्डलज्ञानगाथाश्चतुर्दश । महावैरोचनो बुद्धो महामौनी महामुनिः । महामन्त्रनयोद्भूतो महामन्त्रनयात्मकः ॥ ४२ ॥ दशपारमिताप्रप्तो दशपारमिताश्रयः । दशपारमिताशुद्धिर्दशपारमितानयः ॥ ४३ ॥ दशभूमीश्वरो नाथो दशभूमिप्रतिष्ठितः । दशज्ञानविशुद्धात्मा दशज्ञानविशुद्धधृक् ॥ ४४ ॥ दशाकारो दशार्थार्थो मुनीन्द्रो दशबलो विभुः । अशेषविश्वार्थकरो दशाकारवशी महान् ॥ ४५ ॥ अनादिर्निष्प्रपञ्चात्मा शुद्धात्मा तथतात्मकः । भूतवादी यथावादी तथाकारी अनन्यवाक् ॥ ४६ ॥ अद्वयोऽद्वयवादी च भूतकोटिव्यवस्थितः । नैरात्म्यसिंहनिर्णादी कुतीर्थ्यमृगभीकरः ॥ ४७ ॥ सर्वत्रगोऽमोघगतिस्तथागतमनोजवः । जिनो जितारिर्विजयो चक्रवर्ती महाबलः ॥ ४८ ॥ गणमुख्यो गणाचार्यो गणेशो गणपतिर्वशी । महानुभावो धौरेयोऽनन्यनेयो महानयः ॥ ४९ ॥ वागीशो वाक्पतिर्वाग्मी वाचस्पतिरनन्तगीः । सत्यवाक्सत्यवादी च चतुःसत्योपदेशकः ॥ ५० ॥ अवैवर्तिको ह्यनागामी खड्गः प्रत्येकनायकः । नानानिर्याणनिर्यातो महाभूतैककारणः ॥ ५१ ॥ अर्हन् क्षीणास्रवो भिक्षुर्वीतरागो जितेन्द्रियः । क्षेमप्राप्तोऽभयप्राप्तः शीतीभूतो ह्यनाविलः ॥ ५२ ॥ विद्याचरणसंपन्नः सुगतो लोकवित्परः । निर्ममो निरहंकारः सत्यद्वयनयस्थितः ॥ ५३ ॥ संसारपारकोटिस्थः कृतकृत्यः स्थलस्थितः । कैवल्यज्ञाननिष्ठ्यूतः प्रज्ञाशस्त्रो विदारणः ॥ ५४ ॥ सद्धर्मो धर्मराड्भास्वांल्लोकालोककरः परः । धर्मेश्वरो धर्मराजः श्रेयोमार्गोपदेशकः ॥ ५५ ॥ सिद्धार्थः सिद्धसंकल्पः सर्वसंकल्पवर्जितह् । निर्विकल्पोऽक्षयो धातुर्धर्मधातुः परोऽव्ययः ॥ ५६ ॥ पुण्यवान् पुण्यसंभारो ज्ञानं ज्ञानाकरं महत् । ज्ञानवान् सदसज्ज्ञानी संभारद्वयसंभृतः ॥ ५७ ॥ शाश्वतो विश्वराड्योगी ध्यानं ध्येयो धियां पतिः । प्रत्यात्मवेद्यो ह्यचलः परमाद्यस्त्रिकायधृक् ॥ ५८ ॥ पञ्चकायात्मको बुद्धः पञ्चज्ञानात्मको विभुः । पञ्चबुद्धात्ममुकुटः पञ्चचक्षुरसङ्गधृक् ॥ ५९ ॥ जनकः सर्वबुद्धानां बुद्धपुत्रः परो वरः । प्रज्ञाभवोद्भवो योनिर्धर्मयोनिर्भवान्तकृत् ॥ ६० ॥ घनैकसारो वज्रात्मा सद्योजातो जगत्पतिः । गगनोद्भवः स्वयम्भूः प्रज्ञाज्ञानानलो महान् ॥ ६१ ॥ वैरोचनो महादीप्तिर्ज्ञानज्योतिर्विरोचनः । जगत्प्रदीपो ज्ञानोल्को महातेजाः प्रभास्वरः ॥ ६२ ॥ विद्याराजोऽग्रमन्त्रेशो मन्त्रराजो महार्थकृत् । महोष्णीषोऽद्भूतोष्णीषो विश्वदर्शी वियत्पतिः ॥ ६३ ॥ सर्वबुद्धात्मभावाग्र्यो जगदानन्दलोचनः । विश्वरूपी विधाता च पूज्यो मान्यो महाऋषिः ॥ ६४ ॥ कुलत्रयधरो मन्त्री महासमयमन्त्रधृक् । रत्नत्रयधरः श्रेष्ठस्त्रियानोत्तमदेशकः ॥ ६५ ॥ अमोघपाशो विजयी वज्रपाशो महाग्रहः । वज्राङ्कुशो महापाशः वज्रभैरवभीकरः ॥ ६६ ॥ इति सुचिशुद्धधर्मधातुज्ञानगाथाः पादोनपञ्चविंशतिः । क्रोधराट्षण्मुखो भीमः षण्नेत्रः षड्भूजो बली । दंष्ट्रकरालः कङ्कालो हलाहलः शताननः ॥ ६७ ॥ यमान्तको विघ्नराजो वज्रवेगो भयंकरः । विघुष्टवज्रो हृद्वज्रो मायावाज्रो महोदरः ॥ ६८ ॥ कुलिशेशो वज्रयोनिर्वज्रमण्डो नभोपमः । अचलैकजटाटोपो गजचर्मपटार्द्रधृक् ॥ ६९ ॥ हाहाकारो महाघोरो हीहीकारो भयानकः । अट्टहासो महाहासो वज्रहासो महारवः ॥ ७० ॥ वज्रसत्त्वो महासत्त्वो वज्रराजो महासुखः । वज्रचण्डो महामोदो वज्रहूंकारहूंकृतिः ॥ ७१ ॥ वज्रबाणायुधधरो वज्रखड्गो निकृन्तनः । विश्ववज्रधरो वज्री एकवज्री रणञ्जहः ॥ ७२ ॥ वज्रज्वालाकरालाक्षो वज्रज्वालाशिरोरुहः । वज्रावेशो महावेशः शताक्षो वज्रलोचनः ॥ ७३ ॥ वज्ररोमाङ्कुरतनुर्वज्ररोमैकविग्रहः । वज्रकोटिनखारम्भो वज्रसारघनच्छविः ॥ ७४ ॥ वज्रमालाधरः श्रीमान् वज्राभरणभूषितः । हाहाट्टहासो निर्घोषो वज्रघोषः षडक्षरः ॥ ७५ ॥ मञ्जुघोषो महानादस्त्रैलोक्यैकरवो महान् । आकाशधातुपर्यन्त- घोषो घोषवतां वरः ॥ ७६ ॥ इत्यादर्शज्ञानगाथाः पादेन सार्धं दश । तथताभूतनैरात्म्य- भूतकोटिरनक्षरः । शून्यतावादिवृषभो गम्भीरोदारगर्जनः ॥ ७७ ॥ धर्मशङ्ख्यो महाशब्दो धर्मगण्डी महारणः । अप्रतिष्ठतनिर्वाणो दशदिग्धर्मदुन्दुभिः ॥ ७८ ॥ अरूपो रूपवानग्र्यो नानरूपो मनोमयः । सर्वरूपावभासश्रीरशेषप्रतिबिम्बधृक् ॥ ७९ ॥ अप्रधृष्यो महेशाख्यस्त्रैधातुकमहेश्वरः । समुच्छ्रितार्यमार्गस्थो धर्मकेतुर्महोदयः ॥ ८० ॥ त्रैलोक्यैककुमाराङ्गः स्थविरो वृद्धः प्रजापतिः । द्वात्रिंशल्लक्षणधरः कान्तस्त्रैलोक्यसुन्दरः ॥ ८१ ॥ लोकज्ञानगुणाचार्यो लोकाचार्यो विशारदः । नाथस्त्राता त्रिलोकाप्तः शरणं ताय्यनुत्तरः ॥ ८२ ॥ गगनाभोगसंभोगः सर्वज्ञज्ञानसागरः । अविद्याण्डकोशसंभेत्ता भवपञ्जरदारणः ॥ ८३ ॥ शमिताशेषसंक्लेशः संसारार्णवपारगः । ज्ञानाभिषेकमुकुटः सम्यक्संबुद्धभूषणः ॥ ८४ ॥ त्रिदुःखदुःखशमनस्त्र्यन्तोऽनन्तस्त्रिमुक्तिगः । सर्वावरणनिर्मुक्त आकाशसमतां गतः ॥ ८५ ॥ सर्वक्लेशमलातितस्त्र्यध्वानध्वगतिं गतः । सर्वसत्त्वमहानागो गुणशेखरशेखरः ॥ ८६ ॥ सर्वोपाधिविनिर्मुक्तो व्योमवर्त्मनि सुस्थितः । महाचिन्तामणिधरः सर्वरत्नोत्तमो विभुः ॥ ८७ ॥ महाकल्पतरुः स्फीतो महाभद्रघटोत्तमः । सर्वसत्त्वार्थकृत्कर्ता हितैषी सत्त्ववत्सलः ॥ ८८ ॥ शुभाशुभज्ञः कालज्ञः समयज्ञः समयी विभुः । सत्त्वेन्द्रियज्ञो वेलज्ञो विमुक्तित्रयकोविदः ॥ ८९ ॥ गुणी गुणज्ञो धर्मज्ञः प्रशस्तो मङ्गलोदयः । सर्वमङ्गलमाङ्गल्यः कीर्तिर्लक्ष्मीर्यशः शुभः ॥ ९० ॥ महोत्सवो महाश्वासो महानन्दो महारतिः । सत्कारः सत्कृतिर्भूतिः प्रमोदः श्रीर्यशस्पतिः ॥ ९१ ॥ वरेण्यो वरदः श्रेष्ठः शरण्यः शरणोत्तमः । महाभयारिः प्रवरो निःशेषभयनाशनः ॥ ९२ ॥ शिखी शिखण्डी जटिलो जटी मौण्डी किरीटिमान् । पञ्चाननः पञ्चशिखः पञ्चचीरकशेखरः ॥ ९३ ॥ महाव्रतधरो मौञ्जी ब्रह्मचारी व्रतोत्तमः । महातपास्तपोनिष्ठः स्नातको गौतमोऽग्रणीः ॥ ९४ ॥ ब्रह्मविद्ब्राह्मणो ब्रह्मा ब्रह्मनिर्वाणमाप्तवान् । मुक्तिर्मोक्षो विमोक्षाङ्गो विमुक्तिः शान्तता शिवः ॥ ९५ ॥ निर्वाणं निर्वृतिः शान्तिः श्रेयो निर्याणमन्तगः । सुखदुःखान्तकृन्निष्ठा वैराग्यमुपाधिक्षयः ॥ ९६ ॥ अजयोऽनुपमोऽव्यक्तो निराभासो निरञ्जनः । निष्कलः सर्वगो व्यापी सूक्ष्मो बीजमनाश्रवः ॥ ९७ ॥ अरजो विरजो विमलो वान्तदोषो निरामयः । सुप्रबुद्धो विबुद्धात्मा सर्वज्ञाः सर्ववित्परः ॥ ९८ ॥ विज्ञानधर्मतातीतो ज्ञानमद्वयरूपधृक् । निर्विकल्पो निराभोगस्त्र्यध्वसंबुद्धकार्यकृत् ॥ ९९ ॥ अनादिनिधनो बुद्ध आदिबुद्धो निरन्वयः । ज्ञानैकचक्षुरमलो ज्ञानमूर्तिस्तथागतः ॥ १०० ॥ वागीश्वरो महावादी वादिराड्वादिपुङ्गवः । वदतां वरो वरिष्ठो वादिसिंहोऽपराजितः ॥ १०१ ॥ समन्तदर्शी प्रमोद्यस्तेजोमाली सुदर्शनः । श्रीवत्सः सुप्रभो दीप्तिर्भा भासुरकरद्युतिः ॥ १०२ ॥ महाभिषग्वरः श्रेष्थः शल्यहर्ता निरुत्तरः । अशेषभैषज्यतरुः क्लेशव्याधिर्महारिपुः ॥ १०३ ॥ त्रैलोक्यतिलकः कान्तः श्रीमान्नक्षत्रमण्डलः । दशदिग्व्योमपर्य्यन्तो धर्मध्वजमहोच्छ्रयः ॥ १०४ ॥ जगच्छत्रैकविपुलो मैत्रीकरुणमण्डलः । पद्मनृत्येश्वरः श्रीमान् रत्नच्छत्रो महाविभुः ॥ १०५ ॥ सर्वबुद्धमहाराजः सर्वबुद्धात्मभावधृक् । सर्वबुद्धमहायोगः सर्वबुद्धैकशासनः ॥ १०६ ॥ वज्ररत्नाभिषेकश्रीः सर्वरत्नाधिपेश्वरः । सर्वलोकेश्वरपतिः सर्ववज्रधराधिपः ॥ १०७ ॥ सर्वबुद्धमहाचित्तः सर्वबुद्धमनोगतिः । सर्वबुद्धमहाकायः सर्वबुद्धसरस्वती ॥ १०८ ॥ वज्रसूर्यो महालोको वज्रेन्दुविमलप्रभः । विरागादिमहारागो विश्ववर्णोज्ज्वलप्रभः ॥ १०९ ॥ संबुद्धवज्रपर्यङ्को बुद्धसंगीतिधर्मधृक् । बुद्धपद्मोद्भवः श्रीमान् सर्वज्ञज्ञानकोषधृक् ॥ ११० ॥ विश्वमायाधरो राजा बुद्धविद्याधरो महान् । वज्रतीक्ष्नो महाखड्गो विशुद्धः परमाक्षरः ॥ १११ ॥ दुःखच्छेदमहायान- वज्रधर्ममहायुधः । जिनजिग्वज्रगाम्भीर्यो वज्रबुद्धिर्यथार्थवित् ॥ ११२ ॥ सर्वपारमितापूरी सर्वभूमिविभूषणः । विशुद्धधर्मनैरात्म्यः सम्यग्ज्ञानेन्दुहृत्प्रभः ॥ ११३ ॥ मायाजालमहोद्योगः सर्वतन्त्राधिपः परः । अशेषवज्रपर्यङ्को निःशेषज्ञानकायधृक् ॥ ११४ ॥ समन्तभद्रः सुमतिः क्षितिगर्भो जगद्धृतिः । सर्वबुद्धमहागर्भो विश्वनिर्माणचक्रधृक् ॥ ११५ ॥ सर्वभावस्वभावाग्र्यः सर्वभावस्वभाववद्ःर्क् । अनुत्पादधर्मा विश्वार्थः सर्वधर्मस्वभावद्ःर्क् ॥ ११६ ॥ एकक्षणमहाप्रज्ञः सर्वधर्मावबोधधृक् । सर्वधर्माभिसमयो भूतान्तमुनिरग्रधीः ॥ ११७ ॥ स्तिमितः सुप्रसन्नात्मा सम्यक्संबुद्धबोधिधृक् । प्रत्यक्षः सर्वबुद्धानां ज्ञानार्चिः सुप्रभास्वरः ॥ ११८ ॥ इति प्रत्यवेक्षणज्ञानगाथाः द्वाचत्वारिंशत् । इष्टार्थसाधकः परः सर्वापायविशोधकः । सर्वसत्त्वोत्तमो नाथः सर्वसत्त्वप्रमोचकः ॥ ११९ ॥ क्लेशसंग्रामशूरैकः अज्ञानरिपुदर्पहा । धीः शृङ्गारधरः श्रीमान् वीरबीभत्सरूपधृक् ॥ १२० ॥ बाहुदुण्डशताक्षेपः पदनिक्षेपनर्त्तनः । श्रीमच्छतभुजाभोग- गगनाभोगनर्त्तनः ॥ १२१ ॥ एकपादतलाक्रान्त- महीमण्डतले स्थितः । ब्रह्माण्डशिखराक्रान्त- पादाङ्गुष्ठनखे स्थितः ॥ १२२ ॥ एकार्थोऽद्वयधर्मार्थः परमार्थोऽविनश्वरः । नानाविज्ञप्तिरूपार्थश्चित्तविज्ञानसंततिः ॥ १२३ ॥ अशेषभावार्थरतिः शून्यतारतिरग्रधीः । भवरागाद्यतीतश्च भवत्रयमहारतिः ॥ १२४ ॥ शुद्धः शुभ्राभ्रधवलः शरच्चन्द्रांशुसुप्रभः । बालार्कमण्डलच्छायो महारागनखप्रभः ॥ १२५ ॥ इन्द्रनीलाग्रसच्चीरो महानीलकचाग्रधृक् । महामणिमयूखश्रीर्बुद्धनिर्वाणभूषणः ॥ १२६ ॥ लोकधातुशताकम्पी ऋद्धिपादमहाक्रमः । महास्मृतिधरस्तत्त्वश्चतुःस्मृतिसमाधिराट् ॥ १२७ ॥ बोध्यङ्गकुसुमामोदस्तथागतगुणोदधिः । अष्टाङ्गमार्गनयवित्सम्यक्संबुद्धमार्गवित् ॥ १२८ ॥ सर्वसत्त्वमहासङ्गो निःसङ्गो गगनोपमः । सर्वसत्त्वमनोजातः सर्वसत्त्वमनोजवः ॥ १२९ ॥ सर्वसत्त्वेन्द्रियार्थज्ञः सर्वसत्त्वमनोहरः । पञ्चस्कन्धार्थतत्त्वज्ञः पञ्चस्कन्धविशुद्धधृक् ॥ १३० ॥ सर्वनिर्याणकोटिस्थः सर्वनिर्याणकोविदः । सर्वनिर्याणमार्गस्थः सर्वनिर्याणदेशकः ॥ १३१ ॥ द्वादशाङ्गभवोत्खातो द्वादशाकारशुद्धधृक् । चतुःसत्यनयाकारो अष्टज्ञानावबोधधृक् ॥ १३२ ॥ द्वादशाकारसत्यार्थः षोडशाकारतत्त्ववित् । विंशत्याकारसंबोधिर्विबुद्धः सर्ववित्परः ॥ १३३ ॥ अमेयबुद्धनिर्माण- कायकोटिविभावकः । सर्वक्षणाभिसमयः सर्वचित्तक्षणार्थवित् ॥ १३४ ॥ नानायाननयोपाय- जगदर्थविभावकः । यानत्रितयनिर्यात एकयानफले स्थिथः ॥ १३५ ॥ क्लेशधातुविशुद्धात्मा कर्मधातुक्षयंकरः । ओघोदधिसमुत्तीर्णो योगकान्तारनिःसृतः ॥ १३६ ॥ क्लेशोपक्लेशसंक्लेश- सुप्रहीणसवासनः । प्रज्ञोपायमहाकरुणा अमोघजगदर्थकृत् ॥ १३७ ॥ सर्वसंज्ञाप्रहीणार्थो विज्ञानार्थो निरोधकृत् । सर्वसत्त्वमनोविषयः सर्वसत्त्वमनोगतिः ॥ १३८ ॥ सर्वसत्त्वमनोऽन्तस्थस्तच्चित्तसमतां गतः । सर्वसत्त्वमनोह्लादी सर्वसत्त्वमनोरतिः ॥ १३९ ॥ सिद्धान्तो विभ्रमापेतः सर्वभ्रान्तिविवर्जितः । निःसंदिग्धमतिस्त्र्यर्थः सर्वार्थस्त्रिगुणात्मकः ॥ १४० ॥ पञ्चस्कन्धार्थस्त्रिकालः सर्वक्षणविभावकः । एकक्षणाभिसंबुद्धः सर्वबुद्धस्वभावधृक् ॥ १४१ ॥ अनङ्गकायः कायाग्र्यः कायकोटिविभावकः । अशेषरूपसन्दर्शी रत्नकेतुर्महामणिः ॥ १४२ ॥ इति समताज्ञानतथाश्चतुर्विंशतिः । सर्वसंबुद्धबोद्धव्यो बुद्धबोधिरनुत्तरः । अनक्षरो मन्त्रयोनिर्महामन्त्रकुलत्रयः ॥ १४३ ॥ सर्वमन्त्रार्थजनको महाबिन्दुरनक्षरः । पञ्चाक्षरो महाशून्यो बिन्दुशून्यः षडक्षरः ॥ १४४ ॥ सर्वाकारो निराकारः षोडशार्धार्धबिन्दुधृक् । अकलः कलनातीतश्चतुर्थध्यानकोटिधृक् ॥ १४५ ॥ सर्वध्यानकलाभिज्ञाः समाधिकुलगोत्रवित् । समाधिकायः कायाग्र्यः सर्वसंभोगकायराट् ॥ १४६ ॥ निर्माणकायः कायान्ग्र्यो बुद्धनिर्माणवंशधृक् । दशदिग्विश्वनिर्माणो यथावज्जगदर्थकृत् ॥ १४७ ॥ देवातिदेवो देवेन्द्रः सुरेन्द्रो दानवाधिपः । अमरेन्द्रः सुरगुरुः प्रमथः प्रमथेश्वरः ॥ १४८ ॥ उत्तीर्णभवकान्तार एकः शास्ता जगद्गुरुः । प्रख्यातदशदिग्लोको धर्मदानपतिर्महान् ॥ १४९ ॥ मैत्रीसन्नहसन्नद्धः करुणावर्मवर्मितः । प्रज्ञाखड्गधनुर्बाणः क्लेशाज्ञानरणंजहः ॥ १५० ॥ मारारिर्मारजिद्वीरश्चतुर्मारभयान्तकृत् । सर्वमारचमूजेता संबुद्धो लोकनायकः ॥ १५१ ॥ वन्द्यः पूज्योऽभिवाद्यश्च माननीयश्च नित्यशः । अर्चनीयतमो मान्यो नमस्यः परमो गुरुः ॥ १५२ ॥ त्रैलोक्यैकक्रमगतिर्व्योमपर्य्यन्तविक्रमः । त्रैविद्यः श्रोत्रियः पूतः षडभिज्ञः षडनुस्मृतिः ॥ १५३ ॥ बोधिसत्त्वो महासत्त्वो लोकातीतो महर्द्धिकः । प्रज्ञापारमितानिष्ठः प्रज्ञातत्त्वत्वमागतः ॥ १५४ ॥ आत्मवित्परवित्सर्वः सवीर्यो ह्यग्रपुद्गलः । सर्वोपमामतिक्रान्तो ज्ञेयो ज्ञानाधिपः परः ॥ १५५ ॥ धर्मदानपतिः श्रेष्ठश्चतुर्मुद्रार्थदेशकः । पर्युपास्यतमो जगतां निर्याणत्रययायिनाम् ॥ १५६ ॥ परमार्थविशुद्धश्रीस्त्रैलोक्यसुभगो महान् । सर्वसम्पत्करः श्रीमान्मञ्जुश्रीः श्रीमतां वरः ॥ १५७ ॥ इति कृत्यानुष्ठानज्ञानगाथाः पञ्चदशः । नमस्ते वरदवज्राग्र्य भूतकोटे नमोऽस्तु ते । नमस्ते शून्यतागर्भ बुद्धबोधे नमोस्तु ते ॥ १५८ ॥ बुद्धराग नमस्तेऽस्तु बुद्धकाम नमो नमः । बुद्धप्रीते नमस्तुभ्यं बुद्धमोद नमो नमः ॥ १५९ ॥ बुद्धस्मित नमस्तुभ्यं बुद्धहास नमो नमः । बुद्धवाच नमस्तुभ्यं बुद्धभाव नमो नमः ॥ १६० ॥ अभवोद्भव नमस्तुभ्यं नमस्ते बुद्धसंभव । गगनोद्भव नमस्तुभ्यं नमस्ते ज्ञानसंभव ॥ १६१ ॥ मायाजाल नमस्तुभ्यं नमस्ते बुद्धनाटक । नमस्ते सर्वसर्वेभ्यो ज्ञानकाय नमोऽस्तु ते ॥ १६२ ॥ [...] इयमसौ वज्रपाणेः वज्रधरभगवतो ज्ञानमूर्तेः सर्वतथागतज्ञानकायस्य मञ्जुश्रीज्ञानसत्त्वस्यावेणिकपरिशुद्धा नामसंगितिस्तवानुत्तरप्रीतिप्रासादमहोद्विल्य सङ्जननार्थह्ं, कायवाङ्मनोगुह्यपरिशुद्ध्यै, अपरिपूर्णपरिशुद्धभूमिपरिमितापुण्यज्ञानसंभारपरिपूरिपरिशुद्ध्यै, अनधिगतानुत्तरार्थस्याधिगमाय, अप्राप्तस्य प्राप्त्यै, यावत्सर्वतथागतसर्वधर्मनेत्रीसंधारणार्थं च मया देशिता, संप्रकाशिता, विवृता, विभजितोत्तानिकृता, अधिष्ठता चयं मया वज्रपाणे वज्रधर तव सन्ताने चित्ते सर्वमन्त्रधर्मताधिष्ठानेनेति ॥ १६३ ॥ इति प्रथमचक्रस्येयमनुशंसा एकादश पदानि [...] अथ वज्रधरः श्रीमान् हृष्टतुष्टः कृताञ्जलिः । प्रणम्य नाथं संबुद्धं भगवन्तं तथागतं ॥ *१ ॥ अन्यैश्च बहुभिर्नाथैर्गुह्येन्द्रैर्वज्रपाणिभिः । स सार्द्धं क्रोधराजानैः प्रोवाचोच्चैरिदं वचः ॥ *२ ॥ अनुमोदामहे नाथ साधु साधु सुभाषितम् । कृतोऽस्माकं महानर्थः सम्यक्संबोधिप्रापकः ॥ *३ ॥ जगतश्चाप्यानाथस्य विमुक्तिफलकाङ्क्षिणः । श्रेयो मार्गो विशुद्धोऽयं मायाजालनयोदितः ॥ *४ ॥ गम्भीरोदारवैपुल्यो महार्थो जगदर्थकृत् । बुद्धानां विषयो ह्येष सम्यक्संबुद्धभाषितः ॥ *५ ॥ इत्युपसंहारगाथाः पञ्च । आर्थमायाजालषोडशसाहास्रिकान्महायोगतन्त्रान्तः पातिसमाधिजालपटलाद्भगवता श्रीशाक्यमुनिना भाषिता भगवतो मञ्जुश्रीज्ञानसत्त्वस्याद्वयपरमार्थ नामसंगीतिः परिसमाप्ता । ॰ पण्डित रत्नकाजि वज्राचार्यस्य बौद्धस्तोत्रसंग्रहोद्धृत ॰ संग्रहकर्ता सम्पादकश्च जनार्दनशास्त्री पाण्डेयः ॰ ई. सिङ्. लिख्यत, जयकर्त, यवद्वीप, सं. १४२३