(दश मासांश्च) निखिलान् धारयित्वा महाद्युतिम् । सुपुष्पितेऽस्मिनुद्याने मैत्रेयजननी ततः ॥ ३१ ॥ न निषण्णा निपन्ना वा स्थिता सा धर्मचारिणी । द्रुमस्य शाखामालम्ब्य मैत्रेयं जनयिष्यति ॥ ३२ ॥ अलिप्तो गर्भपङ्केन कुशेशयमिवाम्बुना । त्रैधातुकमिदं सर्वं प्रभया पूरयिष्यति ॥ ३३ ॥ प्रीतोऽथ तं सहस्राक्षो देवराजा शचीपतिः । जायमानं ग्रहीता स मैत्रेयं द्विपदोत्तमम् ॥ ३४ ॥ पदानि जातमात्रश्च सप्तासौ प्रक्रमिष्यति । पदे पदे निधनं च पद्मं पद्मं भविष्यति ॥ ३५ ॥ दिशश्चतस्रश्चोद्वीक्ष्य वाचं प्रव्याहरिष्यति । इयं मे पश्चिमा जातिर्नास्ति भूयः पुनर्भवः । न पुनरभ्यागमिष्यामि निर्वास्यामि निरास्रवः ॥ ३६ ॥ संसारार्णवमग्नानां सत्त्वानां दुःखभागिनाम् । तृष्णाबन्धनबद्धानां करिष्यामि विमोचनम् ॥ ३७ ॥ श्वेतं चास्य सुराश्छत्त्रं धारयिष्यन्ति मूर्धनि । शीतोष्णवारिधाराभ्यां नागेन्द्रौ स्नापयिष्यतः ॥ ३८ ॥ प्रतिगृह्य च तं धात्री द्वात्रिंशद्वरलक्षणम् । श्रिया ज्वलन्तं मैत्रेयं मात्रे समुपनेष्यति ॥ ३९ ॥ मनोरमां च शिविकां नानारत्नविभुषिताम् । आरूढां पुत्रसहितां वहिष्यन्ति च देवता ॥ ४० ॥ ततस्तूर्यसहस्रेषु वाद्यमानेषु तत्पुरम् । प्रविष्टमात्रे मैत्रेये पुष्पवर्षं पतिष्यति ॥ ४१ ॥ दृष्ट्वैवं पुत्रं सुब्रह्मा द्वात्रिंशद्वरलक्षणम् । प्रत्यवीक्षाथ मन्त्रेषु तदा प्रीतो भविष्यति ॥ ४२ ॥ गतिद्वयं कुमारस्य यथा मन्त्रेषु दृश्यते । नराधिपश्चक्रवर्ती बुद्धो वा द्वीपदोत्तमः ॥ ४३ ॥ स च यौवनसंप्राप्तो मैत्रेयाः पुरुषोत्तमः । चिन्तयिष्यति धर्मात्मा दुःखिता खल्वियां प्रजाः ॥ ४४ ॥ ब्रह्मस्वरो महाघोषो हेमवर्णो महाद्युतिः । विशालवक्षाः पीनाङ्सः पद्मपत्त्रनिभेक्षणः ॥ ४५ ॥ हस्तः पञ्चाशदुच्छ्राय तस्य कायो भविष्यति । विसृतश्च ततोऽर्द्धेन शुभवर्णसमुच्छ्रयः ॥ ४६ ॥ अशीतिभिश्चतुर्भिश्च सहस्रैः संपुरस्कृतः । माणवानां स मैत्रेयो मन्त्रानध्यापयिष्यति ॥ ४७ ॥ अथ शङ्खो नरपतिः यूपमुच्छ्रापयिष्यति । तिर्यञ्च षोडशव्याममूर्ध्वं व्यामसहस्रकम् ॥ ४८ ॥ स तं यूपं नरपतिर्नानारत्नविभूषितम् । प्रदास्यति द्विजातिभ्यो यज्ञं कृत्वा पुरःसरम् । सप्तरत्नमयं यूपं ब्राह्मणेभ्यः प्रदास्यति ॥ ४९ ॥ तं च रत्नमयं यूपं दत्तमात्रं मनोरमम् । ब्राह्मणानां सहस्राणि विकिरिष्यन्ति तत्क्षणात् ॥ ५० ॥ यूपस्य तस्य मैत्रेयो दृष्ट्वा चैतामनित्यताम् । कृत्स्नं विचिन्त्य संसारं प्रव्रज्यां रोचयिष्यति ॥ ५१ ॥ यत्वहं प्रव्रजित्वेह स्पृशेयममृतं पदम् । विमोचयेयं जनतां व्याधिमृत्युजराभयात् ॥ ५२ ॥ अशीतिभिः सहस्रैः स चतुर्भिश्च पुरस्कृतः । निष्क्रमिष्यति मैत्रेयः प्रव्रज्यामग्रपुद्गलः ॥ ५३ ॥ नागवृक्षस्तदा तस्य बोधिवृक्षो भविष्यति । पञ्चाशद्योजनान्यस्य शाखा ऊर्ध्वं समुच्छ्रिताः ॥ ५४ ॥ निषद्य तस्य चाधस्तान्मैत्रेयो पुरुषोत्तमः । अनुत्तरां शिवां बोधिं समवाप्स्यति नायकः ॥ ५५ ॥ यस्यामेव च रात्रौ स प्रव्रज्यां निष्क्रमिष्यति । तस्यामेव च रात्रौ हि परां बोधिमवाप्स्यति ॥ ५६ ॥ अष्टाङ्गोपेतया वाचा ततः स पुरुषोत्तमः । देशयिष्यति सद्धर्मं सर्वदुःखापहं शिवम् ॥ ५७ ॥ प्रसन्नां जनतां दृष्ट्वा सत्यानि कथयिष्यति । दुःखं दुःखसमुत्पादं दुःखस्य समतिक्रमम् ॥ ५८ ॥ आर्यं चाष्टाङ्गिकं मार्गं क्षेमं निर्वाणगामिनम् । तं चापि धर्मं संश्रुत्य प्रतिपत्स्यन्ति शासने ॥ ५९ ॥ उद्याने पुष्पसंच्छन्ने सन्निपातो भविष्यति । पूर्णं च योजनशतं पर्षत्तस्य भविष्यति ॥ ६० ॥ श्रुत्वा नरपति राजा शङ्खो नाम महायशाः । दत्त्वा दानमसंख्येयं प्रव्रज्यां निष्क्रमिष्यति ॥ ६१ ॥ अशीतिभिश्चतुर्भिश्च सहस्रैः परिवारितः । नराधिपो विनिष्क्रम्य प्रव्रज्यामुपयास्यति ॥ ६२ ॥ अनेनैव प्रमाणेन मानवानां पुरस्कृतः । मैत्रेयस्य पिता तत्र प्रव्रज्यां निष्क्रमिष्यति ॥ ६३ ॥ ततो गृहपतिस्तत्र सुधनो नाम विश्रुतः । प्रव्रजिष्यति शुद्धात्मा मैत्रेयस्यानुशसने ॥ ६४ ॥ स्त्रीरत्नमथ शङ्खस्य विशाखा नाम विश्रुता । अशीतिभिश्चतुर्भिश्च सहस्रैः संपुरस्कृता । नारीणामभिनिष्क्रम्य प्रव्रज्यां रोचयिष्यति ॥ ६५ ॥ प्राणिनः तत्र समये सहस्राणि शतानि च । प्रव्रज्यामुपयास्यन्ति मैत्रेयस्यानुशासने ॥ ६६ ॥ सुपुष्पितेऽस्मिनुद्याने सन्निपातो भविष्यति । समन्ततो योजनशतं पर्षत्तस्य भविष्यति ॥ ६७ ॥ ततः कारुणिकः शास्ता मैत्रेयः पुरुषोत्तमः । समितिं व्यवलोक्याथ इदमर्थं प्रवक्ष्यति ॥ ६८ ॥ सर्वे ते शाक्यसिंहेन गुणिश्रेष्ठेन त्रायिना । अर्थतो लोकनाथेन दृष्ट्वा सद्धर्मधातुना । रोपिता मोक्षमार्गेण विक्षिप्ता मम शासने ॥ ६९ ॥ छत्त्रध्वजपताकाभिर्गन्धमाल्यविलेपनैः । कृत्वा स्तूपेषु सत्कारमागता हि ममान्तिकम् ॥ ७० ॥ सङ्घे दत्त्वा च दानानि चीवरं पानभोजनम् । विविधं ग्लानभैषज्यमागता हि ममान्तिकम् ॥ ७१ ॥ कुङ्कुमोदकसेकं च चन्दनेनानुलेपनम् । दत्त्वा शाक्यमुनेः स्तूपेष्वागता हि ममान्तिकम् ॥ ७२ ॥ शिक्षापदानि चादाय शाक्यसिंहस्य शासने । परिपाल्य यथाभूतमागता हि ममान्तिकम् ॥ ७३ ॥ उपोषधमुपोष्येह आर्यमष्टाङ्गिकं शुभम् । चतुर्दशीं पञ्चदशीं पक्षस्येहाष्टमीं तथा । प्रातिहारिकपक्षं चाप्यष्टाङ्गं सुसमाहितम् ॥ ७४ ॥ शीलानि च समादाय संप्राप्तानि च शासनम् । बुद्धं धर्मं च सङ्घं च सत्त्वास्ते शासनं गताः । कृत्वा च कुशलं कर्म मच्छासनमुपागताः ॥ ७५ ॥ तेनैते प्रेषिताः सत्त्वाः प्रतीष्टाश्च मयाप्यमी । गणिश्रेष्ठेण मुनिना परीता भूरिमेधसा ॥ ७६ ॥ प्रसन्नां जनतां दृष्ट्वा सत्यानि कथयिष्यति । श्रुत्वा च ते ततो धर्मं प्राप्स्यन्ति पदमुत्तमम् ॥ ७७ ॥ प्रातिहार्यत्रयेणासौ श्रावकान् विनयिष्यति । सर्वे ते अस्रवास्तत्र क्षिपयिष्यन्ति सुरताः ॥ ७८ ॥ प्रथमः सन्निपातोऽस्य श्रावकाणां भविष्यति । पूर्णाः षण्नवतिकोट्यः श्रावकाणां भवच्छिदाम् ॥ ७९ ॥ द्वितीयः सन्निपातोऽस्य श्रावकाणां भविष्यति । पूर्णाश्चतुर्नवतिः कोट्यः शान्तानां भूरिमेधसाम् ॥ ८० ॥ तृतीयः सन्निपातोऽस्य श्रावकाणां भविष्यति । पूर्णा द्वाविंशतिः कोट्यः शान्तानां शान्तचेतसाम् ॥ ८१ ॥ धर्मचक्रं प्रवर्त्याथ विनीय सुरमानुषान् । सार्धं श्रावकसङ्घेन पुरे पिण्डं चरिष्यति ॥ ८२ ॥ ततः प्रविशतस्तस्यां रम्यां केतुमतीं पुरीम् । मान्दारकाणि पुष्पानि पतिष्यन्ति पुरोत्तमे । देवताः प्रकरिष्यन्ति तस्मिन् पुरगते मुनौ ॥ ८३ ॥ चत्वारश्च महाराजाः शक्रश्च त्रिदशाधिपः । ब्रह्मा देवगणैः सार्धं पूजां तस्य करिष्यति ॥ ८४ ॥ उत्पलं कुमुदं पद्मं पुण्डरीकं सुगन्धिकम् । अगुरुं चन्दनं चापि दिव्यं माल्यं पतिष्यति ॥ ८५ ॥ चैलक्षेपं करिष्यन्ति देवपुत्रा महर्द्धिकाः । तं लोकनाथमुद्वीक्ष्य प्रविशन्तं पुरोत्तमम् ॥ ८६ ॥ दिव्यश्च तूर्यनिर्घोषो दिव्यं माल्यं पतिष्यति । देवता प्रकरिष्यन्ति तस्मिन् पुरगते मुनौ ॥ ८७ ॥ ये तु केतुमतीं के चिद्वासयिष्यन्ति मानुषाः । ते पि तं पूजयिष्यन्ति प्रविशन्तं पुरोत्तमम् ॥ ८८ ॥ पथि भूम्यास्तरं तत्र मृदुतूलपिचोपमम् । विचित्रं च शुभं माल्यं विकिरिष्यन्ति ते तदा ॥ ८९ ॥ छत्त्रध्वजपताकाभिरर्चयिष्यन्ति मानुषाः । शुभैश्च तूर्यनिर्घोषैः प्रसन्नमनसो नराः ॥ ९० ॥ तं च शक्रः सहस्राक्षो देवराजः शचीपतिः । प्रहृष्टः प्राञ्जलिर्भूत्वा मैत्रेयं स्तोष्यते जिनम् ॥ ९१ ॥ नमस्ते पुरुषाजन्य नमस्ते पुरुषोत्तम । अनुकम्पस्व जनतां भगवन्नग्रपुद्गल ॥ ९२ ॥ महर्द्धिको देवपुत्रस्तस्य मारो भविष्यति । स चापि प्राञ्जलिर्भूत्वा स्तोष्यते लोकनायकम् ॥ ९३ ॥ शुद्धावाससहस्रैश्च बहुभिः परिवारितः । प्रवेक्ष्यते च मैत्रेयो लोकनाथो विनायकः ॥ ९४ ॥ ब्राह्मणपरिवारेण ब्रह्मा चापि गिरास्फुटम् । कथयिष्यति सद्धर्मं ब्रह्मं घोषमुदीरयन् ॥ ९५ ॥ आकीर्णा पृथिवी सर्वा अर्हद्भिश्च भविष्यति । क्षीणास्रवैर्वान्तदोषैः प्रहीणभवबन्धनैः ॥ ९६ ॥ हृष्टा देवमनुष्याश्च गन्धर्वा यक्षराक्षसाः । शास्तुः पूजां करिष्यन्ति नागाश्चापि महर्द्धिकाः ॥ ९७ ॥ ते वै नूनं भविष्यन्ति च्यानघाश्(?) छिन्नसंचयाः । उत्क्षिप्तपरिखाः धीरा अनादाना निरुत्सकाः । ब्रह्मचर्यं चरिष्यन्ति मैत्रेयस्यानुशसने ॥ ९८ ॥ तेऽपि नूनं भविष्यन्ति अममा अपरिग्रहाः । अजातरूपरजता अनिकेता असंस्तवाः । ब्रह्मचर्यं चरिष्यन्ति ये मैत्रेयानुशसने ॥ ९९ ॥ ते वै पानं गमिष्यन्ति छित्वा जालमेव भुजात् । ध्यानानि चोपसंपद्य प्रीतिसौख्यसमन्विताः । ब्रह्मचर्यं चरिष्यन्ति मैत्रेयस्यानुशसने ॥ १०० ॥ षष्टिं वर्षसहस्राणि मैत्रेयो द्विपदोत्तमः । देशयिष्यति सद्धर्मं शास्ता लोकानुकम्पया ॥ १०१ ॥ शतानि च सहस्राणि प्राणिनं स विनायकः । विनीय धर्मकायेन ततो निर्वाणमेष्यति ॥ १०२ ॥ तस्मिंश्च निर्वृते धीरे मैत्रेये द्विपदोत्तमे । दशवर्षसहस्राणि सद्धर्मः स्थास्यति क्षितौ ॥ १०३ ॥ प्रसादयति चित्तानि तस्माच्छाक्यमुनौ जिने । ततो दृक्षथ मैत्रेयं संबुद्धं द्विपदोत्तमम् ॥ १०४ ॥ तस्माद्धर्मे च बुद्धे च सङ्घे चापि गणोत्तमे । प्रसादयति चित्तानि भविष्यति महर्द्धिकम् ॥ १०५ ॥ तं तादृशं कारुणिकं मैत्रेयं द्विपदोत्तमम् । आराधयित्वा कालेन ततो निर्वाणमेष्यथ ॥ १०६ ॥ इदमाश्चर्यकं श्रुत्वा दृष्ट्वा च विभवानल्पिकाम् । को विद्वान्न प्रसीदेत अपि कृष्णासु जातिषु ॥ १०७ ॥ तस्मादिहात्मकामेन माहात्म्यमभिकाङ्क्षताः । सद्धर्मो गुरुकर्तव्यः स्मरता बुद्धशासनम् ॥ १०८ ॥ मैत्रेयव्याकरणं समाप्तम् ॥ _____________________________________________________________________________ २. चल्चुत्त मनुस्च्रिप्त्(इन्चोम्प्लेते), एद्. ल्‚वि स्य्ल्वैन् ल्‚वि, "मैत्रेय ले चोन्सोलतेउर्", तुदेस्द्ऽओरिएन्तलिस्मे पुब्लि‚एस्पर्ले मुस्‚ए गुइमेत ल म्‚मोइरे दे रय्मोन्दे लिनोस्सिएर्, परिस्१९३२, प्प्. ३८४-३८९ थे fइर्स्त्त्wओ fओलिओसोf थे स्क्त्. तेxत्चोन्तैनिन्ग्वेर्सेस्१-२५ बरे मिस्सिन्ग्. अल्ल्थे सन्धिसरे स्तन्दर्दिशेद्. एलापत्त्रश्च गान्धारे शङ्खो वाराणसीपुरे ॥ म्व्य्च्_२५ ॥ चतुर्भिरेभिर्निधिभिः स राजा सुसमन्वितः । भविष्यति महावीरश्शतपुण्यबलोदितः ॥ म्व्य्च्_२६ ॥ ब्राह्मणस्तस्य राज्ञश्च सुब्राह्मणः पुरोहितः । बहुश्रुतश्चतुर्वेदस्तस्योपध्यायो भविष्यति ॥ म्व्य्च्_२७ ॥ अध्यापको मन्त्रधरः स्मृतिमान् वेदपारगः । कैटाभे स निर्घण्टे च पदव्याकरणे तथा ॥ म्व्य्च्_२८ ॥ तदा ब्रह्मावती नाम तस्य भार्या भविष्यति । दर्शनीया प्रासादिका अभिरूपा यशस्विनी ॥ म्व्य्च्_२९ ॥ तुषितेभ्यश्च्यवित्वा तु मैत्रेयो ह्यग्रपुद्गलः । तस्याः कुक्षौ स नियतं प्रतिसन्धिं ग्रहीष्यति ॥ म्व्य्च्_३० ॥ दश मासांश्च निखिलान् धारयित्वा महाद्युतिः । सुपुष्पिते च उद्याने गत्वा मैत्रेयमातरा ॥ म्व्य्च्_३१ ॥ न निषण्णा न सुप्तासौ स्थिता सा धर्मचारिणी । द्रुमस्य शाखामालम्ब्य मैत्रेयं जनयिष्यति ॥ म्व्य्च्_३२ ॥ निष्क्रमिष्यति पार्श्वेन दक्षिणेन नरोत्तमः । अभ्रकूटाद्यथा सूर्यो निर्गतश्च प्रभासते ॥ म्व्य्च्_३३ ॥ अलिप्तो गर्भपङ्केन पद्मं चैव यथाम्भसा । त्रैधातुकमिदं सर्वं प्रभया पूरयिष्यति ॥ म्व्य्च्_३४ ॥ अथ प्रीतस्सहस्राक्षो देवराजश्शचीपतिः । ग्रहीष्यति कुमारं तं जायमानं नरोत्तमम् ॥ म्व्य्च्_३५ ॥ श्रिया ज्वलन्तं मैत्रेयं द्वात्रिंशद्वरलक्षणम् । मुञ्च मुञ्च सहस्राक्ष जातमात्रो वदिष्यति ॥ म्व्य्च्_३६ ॥ पदानि जातमात्रस्तु सप्तासौ प्रक्रमिष्यति । पदे पदे निधनं च पद्मं पद्मं भविष्यति ॥ म्व्य्च्_३७ ॥ दिशश्चतस्रश्चोद्वीक्ष्य वाचं प्रव्याहरिष्यति । इयं मे पश्चिमा जातिर्नास्ति भूयः पुनर्भवः ॥ म्व्य्च्_३८ ॥ न पुनरागमिष्यामि निर्वास्यामि निराश्रवः । शीतोष्णवारिधाराभिस्स्नापयिष्यन्ति पन्नगाः ॥ म्व्य्च्_३९ ॥ दिव्याम्बराणि पुष्पाणि पतिष्यन्ति नभस्तलात् । श्वेतं तस्य सुराश्छत्त्रं धारयिष्यन्ति मूर्धनि ॥ म्व्य्च्_४० ॥ हृष्टश्चैव सहस्राक्षो देवराजो शचीपतिः । ग्रहीष्यति तं कुमारं द्वात्रिंशद्वरलक्षणम् । श्रिया ज्वलन्तं मैत्रेयं मातुर्हस्ते प्रदास्यति ॥ म्व्य्च्_४१ ॥ मनोरमां च शिविकां नानारत्नविभुषिताम् । आरूढा पुत्रसहिता वहिष्यते च देववत् ॥ म्व्य्च्_४२ ॥ ततस्तूर्यसहस्रेषु वाद्यमानेषु तत्पुरम् । प्रविष्टमात्रे मैत्रेये पुष्पवर्षं पतिष्यति ॥ म्व्य्च्_४३ ॥ तस्मिंश्च दिवसे भार्या गुर्विण्यः प्रसविष्यन्ति । सर्वास्ता जनयिष्यन्ति पुत्रान् क्षेमेण स्वस्तिना ॥ म्व्य्च्_४४ ॥ दृष्ट्वा च पुत्रं सुब्रह्मा द्वात्रिंशद्वरलक्षणम् । प्रत्यवेक्ष्य च मन्त्रेषु ततः प्रीतो भविष्यति ॥ म्व्य्च्_४५ ॥ गतिद्वयं कुमारस्य यथा मन्त्रेषु दृश्यते । नराधिपश्चक्रवर्ती बुद्धो वा द्वीपदोत्तमः ॥ म्व्य्च्_४६ ॥ स च यौवनसंप्राप्तो मैत्रेयो ह्यग्रपुद्गलः । चिन्तयिष्यति धर्मात्मा दुःखिताह्खल्विमाः प्रजाः ॥ म्व्य्च्_४७ ॥ ब्रह्मस्वरो महाघोषो हेमवर्णो महाद्युतिः । विशालवक्षाः पीनाङ्गः पद्मपत्त्रनिभेक्षणः ॥ म्व्य्च्_४८ ॥ समुच्छ्रयेण हस्ताशीतिस्तस्य कायो भविष्यति । विस्तारं विंशहस्तानि ततोऽर्धं मुखमण्डलम् ॥ म्व्य्च्_४९ ॥ अशीतिभिश्चतुर्भिश्च सहस्रैः स पुरस्कृतः । माणवानां च मैत्रेयो मंत्रानध्यापयिष्यति ॥ म्व्य्च्_५० ॥ ततः शङ्खो महाराजो यूपमुच्छ्रापयिष्यति । षोडशव्यामविस्तारमूर्ध्वं व्यामसहस्रकम् ॥ म्व्य्च्_५१ ॥ स तं यूपं नरपतिर्नानारत्नविभूषितम् । प्रदास्यति द्विजातिभ्यो यज्ञं कृत्वा पुरस्सरम् । सप्तरत्नमयं यूपं ब्राह्मणेभ्यः प्रदास्यति ॥ म्व्य्च्_५२ ॥ तं च रत्नमयं यूपं दत्तमात्रं मनोरमम् । ब्राह्मणानां सहस्राणि विकरिष्यन्ति तत्क्षणात् ॥ म्व्य्च्_५३ ॥ तस्य यूपस्य मैत्रेयो दृष्ट्वा चैनामनित्यताम् । कृत्स्नं विचिन्त्य संसारं प्रव्रज्यां रोचयिष्यति ॥ म्व्य्च्_५४ ॥ यत्राहं प्रव्रजित्वेह स्पृशेयममृतं पदम् । विमोचयेयं जनतां व्याधिमृत्युजराभयात् ॥ म्व्य्च्_५५ ॥ अशीतिभिश्चतुर्भिश्च सहस्रैः स पुरस्कृतः । निष्क्रमिष्यति मैत्रेयः प्रव्रज्यामग्रपुद्गलः ॥ म्व्य्च्_५६ ॥ नागवृक्षस्तदा तस्य बोधिवृक्षो भविष्यति । पञ्चाशद्योजनास्तस्य ऊर्ध्वं शाखाः समुद्गताः । षट्क्रोशविटपाण्यस्य विवृतानि समन्ततः ॥ म्व्य्च्_५७ ॥ तस्य मूले निषण्णोऽसौ मैत्रेयो द्विपदोत्तमः । अनुत्तरां च संबोधिं प्राप्स्यति नात्र संशयः ॥ म्व्य्च्_५८ ॥ अष्टाङ्गोपेतया वाचा ततः स मुनिसत्तमः । देशयिष्यति सद्धर्मं सर्वदुःखापहं शिवम् ॥ म्व्य्च्_५९ ॥ दुःखं दुःखसमुत्पादं दुःखस्य समतिक्रमम् । आर्यं चाष्टाङ्गिकं मार्गं क्षेमं निर्वाणगामिनम् ॥ म्व्य्च्_६० ॥ प्रसन्नान् जनतां दृष्ट्वा सत्यानि कथयिष्यति । तं चास्य धर्मं संश्रुत्य प्रतिपद्यन्ति शासने ॥ म्व्य्च्_६१ ॥ सुपुष्पिते च उद्याने सन्निपातो भविष्यति । पूर्णं च योजनं शतं पर्षत्तस्य भविष्यति ॥ म्व्य्च्_६२ ॥ ततः श्रुत्वा नरपतिः शङ्खो राजा महायशाः । दत्त्वा दानमसंख्येयं प्रव्रज्यां रोचयिष्यति ॥ म्व्य्च्_६३ ॥ अशीतिभिश्चतुर्भिश्च सहस्रैः स पुरस्कृतः । नराधिपो विनिष्क्रम्य प्रव्रज्यामुपयास्यति ॥ म्व्य्च्_६४ ॥ तेनैव च प्रमाणेन मानवानां पुरस्कृतः । मैत्रेयस्य पिता चैव प्रव्रज्यामुपयास्यति ॥ म्व्य्च्_६५ ॥ ततो गृहपतिः x x सुधनो नाम विश्रुतः । प्रव्रजिष्यति धर्मात्मा सहस्रैः परिवारितः ॥ म्व्य्च्_६६ ॥ स्त्रीरत्नमथ शङ्खस्य विशाखा नाम विश्रुता । अशीतिभिश्चतुर्भिश्च सहस्रैः सा पुरस्कृता । नारीणां सह निष्क्रम्य प्रव्रज्यामुपयास्यति ॥ म्व्य्च्_६७ ॥ प्राणिनां तत्र समये सहस्राणि शतानि च । प्रव्रज्यामुपयास्यन्ति मैत्रेयस्यानुशासने ॥ म्व्य्च्_६८ ॥ ततः कारुणिकः शास्ता मैत्रेयो द्विपदोत्तमः । समितिं व्यवलोक्याथ इदमर्थं प्रवक्ष्यति ॥ म्व्य्च्_६९ ॥ सर्वे ते शाक्यमुनिना मुनिश्रेष्ठेन तायिना । अर्थतो लोकनाथेन दृष्टाः सद्धर्मधातुना । रोपिता मोक्षमार्गणे विक्षिप्ता मम शासने ॥ म्व्य्च्_७० ॥ छत्त्रध्वजपताकाभिर्गन्धमाल्यानुलेपनैः । कृत्वा शाक्यमुनेः पूजां ह्यागता मम शासने ॥ म्व्य्च्_७१ ॥ कुङ्कुमोदकरसेन चन्दनेनानुलेपनम् । दत्त्वा शाक्यमुनेः स्तूपे ह्यागता मम शासने ॥ म्व्य्च्_७२ ॥ बुद्धं धर्मं च सङ्घं च गत्वा तु शरणं सदा । कृत्वा तु कुशलं कर्म आगता मम शासने ॥ म्व्य्च्_७३ ॥ शिक्षापदानि समादाय x शाक्यमुनिशासने । प्रतिपाल्य यथाभूतं ह्यागता मम शासने ॥ म्व्य्च्_७४ ॥ दत्त्वा सङ्घे च दानानि चीवरपानभोजनम् । विचित्रं ग्लानभैषज्यं ह्यागता मम शासने ॥ म्व्य्च्_७५ ॥ चतुर्दशीं पञ्चदशीं पक्षस्येहाष्टमीं तथा । प्रातिहारकपक्षं च अष्टाङ्गं सुसमाहितम् । उपवासमुपोषित्वा ह्यागता मम शासने ॥ म्व्य्च्_७६ ॥ प्रातिहार्यत्रयेणासौ श्रावकान् वेदयिष्यति । सर्वे ते ह्यस्रवान् धर्मान् क्षपयिष्यन्ति x x x ॥ म्व्य्च्_७७ ॥ प्रथमः सन्निपातोऽस्य श्रावकाणां भविष्यति । पूर्णाः षण्नवतिः कोट्यः श्रावकाणां भवच्छिदाम् ॥ म्व्य्च्_७८ ॥ द्वितीयः सन्निपातोऽस्य श्रावकाणां भविष्यति । पूर्णाश्चतुर्नवतिः कोट्यो मुक्तानां क्लेशबन्धनात् ॥ म्व्य्च्_७९ ॥ तृतीयः सन्निपातोऽस्य श्रावकाणां भविष्यति । पूर्णा द्वानवतिः कोट्यो मुक्तानां शान्तचेतसाम् ॥ म्व्य्च्_८० ॥ धर्मचक्रं प्रवर्त्याथ विनीय सुरमानुषान् । सार्धं श्रावकसङ्घेन पुरे पिण्डं चरिष्यति ॥ म्व्य्च्_८१ ॥ ततः प्रविशतस्तस्य रम्यां केतुमतीपुरीम् । मान्दारवाणि पुष्पानि पतिष्यन्ति नरोत्तमे । देवताः प्रकरिष्यन्ति तस्मिन् पुरगते मुनौ ॥ म्व्य्च्_८२ ॥ चत्वारश्च महाराजाः शक्रश्च त्रिदशाधिपः । ब्रह्मदेवगणैः सार्धं पूजां तस्य करिष्यति ॥ म्व्य्च्_८३ ॥ उत्पलकुमुदपद्म- पुण्डरीकसुगन्धिकम् । अगुरुं चन्दनं चैव दिव्यमालास्तथैव च ॥ म्व्य्च्_८४ ॥ चैलक्षेपं करिष्यन्ति देवपुत्रा महर्द्धिकाः । तं लोकनाथमुद्वीक्ष्य प्रविशन्तं पुरोत्तमम् ॥ म्व्य्च्_८५ ॥ पथि भूमिः स्थिता तत्र मृदुतूलपिचूपमा । विचित्रं च श्रुतं माल्यं विस्तरिष्यन्ति ते पथि ॥ म्व्य्च्_८६ ॥ छत्त्रध्वजपताकानि गन्धमाल्यानुलेपनैः । श्रुतैश्च तूर्यनिर्घोषैः प्रसन्नमनसो नराः । शास्तुः पूजां करिष्यन्ति देवपुत्रा महर्द्धिकाः ॥ म्व्य्च्_८७ ॥ स च शक्रः सहस्राक्षो देवराजो महाद्युतिः । प्रहृष्टः प्राञ्जलिं कृत्वा स्तोष्यते लोकनायकम् ॥ म्व्य्च्_८८ ॥ नमस्ते पुरुषाजन्य नमस्ते पुरुषोत्तम । अनुकम्पस्व जनतां भगवन्नग्रपुद्गल ॥ म्व्य्च्_८९ ॥ महर्द्धिको देवपुत्रस्तस्य मारो भविष्यति । स चैव प्राञ्जलिं कृत्वा स्तोष्यते लोकनायकम् ॥ म्व्य्च्_९० ॥ ब्राह्मणपरिवारेण ब्रह्मा चैव पुरस्कृतः । कथयिष्यति सद्धर्मं ब्रह्मघोषमुदीरयन् ॥ म्व्य्च्_९१ ॥ आकीर्णा पृथिवी सर्वा अर्हद्भिश्च भविष्यति । क्षीणास्रवैर्वान्तदोषैः प्रहीणभवबन्धनैः ॥ म्व्य्च्_९२ ॥ हृष्टा देवा मनुष्याश्च गन्धर्वा यक्षराक्षसाः । शास्तुः पूजां करिष्यन्ति नागाश्चापि महर्द्धिकाः ॥ म्व्य्च्_९३ ॥ ते च नूनं भविष्यन्ति अखिलाश्छिन्नसंचयाः । छिन्नस्रोता अनादीना उत्तीर्नाभवसागराः । ब्रह्मचर्यं चरिष्यन्ति मैत्रेयस्यानुशसने ॥ म्व्य्च्_९४ ॥ ते वै नूनं भविष्यन्ति अममा अपरिग्रहाः । अजातरूपरजता अनिकेता असंस्तवाः । ब्रह्मचर्यं चरिष्यन्ति मैत्रेयस्यानुशसने ॥ म्व्य्च्_९५ ॥ ते वै नूनं भविष्यन्ति छिन्नजालविशक्तिकाः । ध्यानानि चोपसंपद्य प्रीतिसौख्यसमन्विताः । ब्रह्मचर्यं चरिष्यन्ति मैत्रेयस्यानुशसने ॥ म्व्य्च्_९६ ॥ षष्टिवर्षसहस्राणि मैत्रेयो द्विपदोत्तमः । देशयिष्यति सद्धर्मं सर्वभूतानुकम्पकम् ॥ म्व्य्च्_९७ ॥ शतलक्षसहस्राणि प्राणिनं स विनायकः । विनयित्वा च सद्धर्मं ततो निर्वाणमेष्यति ॥ म्व्य्च्_९८ ॥ परिनिर्वृतस्य x x तस्यैव x महामुनेः । दशवर्षसहस्राणि सद्धर्मः स्थास्यते तदा ॥ म्व्य्च्_९९ ॥ प्रसादयित्वा चित्तानि तस्मिन् शाक्यमुनौ जिने । ततो द्रक्ष्यथ मैत्रेयं संबुद्धं द्विपदोत्तमम् ॥ म्व्य्च्_१०० ॥ इदमाश्चर्यकं श्रुत्वा इमामृद्धिमनुत्तमाम् । को विद्वान्न प्रसीदेत अतिकृष्णाभिजातिकः ॥ म्व्य्च्_१०१ ॥ तस्मादिहात्मकामेन माहात्म्यमभिकाङ्क्षिणा । सद्धर्मो गुरुकर्तव्यः स्मरता बुद्धशासनम् ॥ म्व्य्च्_१०२ ॥ मैत्रेयव्याकरणं समाप्तम् ॥ ये धर्मा (एत्च्.) ॥ चीनदेशीविनिर्गतः भिक्षु पुण्यकीर्तिर्यदत्र पुण्यं तद्भवत्वाचार्योपाध्यायमातापितृपूर्वङ्गमं क्र्त्वा सकलसत्त्वराशेरनुत्तरज्ञानफलाप्तय इति ॥ श्रीमद्गोपालदेवराज्यसंवत्५७ फाल्गुन दिने ९ घोसलीग्रामे लिखति । ओं हारीती महायक्षिणी हर हर मम सर्वपापानि स्वाहा ॥ _____________________________________________________________________________ ३. कथ्मन्दु मनुस्च्रिप्त्(चोम्प्लेते), एद्. इस्हिगमि इस्हिगमि, शेन्नो (१९८९), "नेपारु बोन्ऽमैत्रेयव्याकरणऽ," fउजित क्ःतत्सु हकुस्हि कन्रेकि किनेन् रोन्बुन्स्हू: इन्दोतेत्सुगकु तो बुक्क्य्ः, क्योतो, २९५-३१०. तो fअचिलितते सेअर्छिन्ग्, सन्धिसरे स्तन्दर्दिशेद्, मिस्प्रिन्त्स्रेमोवेद्, सोमे मिस्तकेस्चोर्रेच्तेद्. ओं नमो मैत्रेयनाथाय ॥ एवं मया श्रुतमेकस्मिं समये भगवान् राजगृहे विहरति स्म । वेणुवने कलन्दकनिवासे महता भिक्षुसंघेन सार्धमर्धत्रयोदशभिर्भिक्षुशतैः ॥ अथ खल्वायुष्माञ् छारिपुत्र महाप्रज्ञो धर्मसेनापतिर्विभुः । लोकस्य अनुकम्पार्थं शास्तारं परिपृच्छति ॥ म्व्य्क्_१ ॥ योऽसावनागतो बुद्धो निर्दिष्टो लोकनायकः । मैत्रेय इति नाम्नाऽसौ सूत्रपूर्वापरान्तिके ॥ म्व्य्क्_२ ॥ तस्याहं विस्तरञ्चैवं श्रोतुमिच्छामि नायक । ऋद्धिञ्चास्यानुभावञ्च तन्मे ब्रूहि नरोत्तम ॥ म्व्य्क्_३ ॥ अथैनमवदच्छास्ता व्याकरिष्याम्यहं तव । विस्तरन् तस्य बुद्धस्य मैत्रेयस्य शृणोहि मे ॥ म्व्य्क्_४ ॥ उदधिस्तेन कालेन द्वात्रिंशत्शतयोजनः । शोषमायास्यते यस्माच्चक्रवर्ती यथा ह्यसौ ॥ म्व्य्क्_५ ॥ दशयोजनसाहस्रा जम्बुद्वीपो भवैष्यति । आलयः सर्वभूतानां विस्तरेण समन्ततः ॥ म्व्य्क्_६ ॥ ऋद्धिस्फीता जनपदा अदण्डा अनुपद्रवाः । तत्र काले भविष्यन्ति नरास्ते शुभकर्मिनः ॥ म्व्य्क्_७ ॥ अकण्टका वसुमती समाहरितशाद्वला । उन्नमन्ती नमन्ती च मृदुतूलपिचूपमा ॥ म्व्य्क्_८ ॥ अकृष्टोत्पद्यते शालि- मधुनाश्च सुगन्धि च । चैलवृक्षा भविष्यन्ति नानारङ्गोपशोभिताः ॥ म्व्य्क्_९ ॥ पुष्पपत्रफलोत्पता वृक्षाश्च क्रोशमुच्छ्रिताः । अशीतिवर्षसहस्राणि आयुस्तेषां भविष्यति ॥ म्व्य्क्_१० ॥ निरामयाश्च ते सत्वा वीतशोका महोत्सवाः । वर्णवन्तो महाशख्या महानागबलाच्चिताः ॥ म्व्य्क्_११ ॥ त्रया रोगा भविष्यन्ति इच्छा अनशनं जरा । पञ्चवर्षशता कन्या स्वामिनं वरयिष्यति ॥ म्व्य्क्_१२ ॥ तदा केतुमती नाम राजधानी भविष्यति । आवासः शुद्धसत्वानां प्राणिनां शुभकर्मिणम् ॥ म्व्य्क्_१३ ॥ योजनद्वादशायामं सप्तयोजनविस्तरम् । नगरं कृतपुण्यानां भविष्यति मनोरमम् ॥ म्व्य्क्_१४ ॥ सप्तरत्नमयाश्चैव प्रकाराः क्रोशमुच्चिताः । इष्टका द्वारखण्डानां नानारत्नविभूषिताः ॥ म्व्य्क्_१५ ॥ परिषाश्च भविष्यन्ति रत्न इष्टकसंचिताः । पद्मोत्पलसमान् कीर्णाश्चक्रवाकोपशोभिताः ॥ म्व्य्क्_१६ ॥ समन्ततः परिवृताः सप्तभिस्तलापङ्क्तिभिः । चतूरत्नमयास्तालाः किंकिणी जालशोभिताः ॥ म्व्य्क्_१७ ॥ वातेनेरिततालेभ्यस्तदा श्रुति मनोहराः । भविष्यन्ति शुभा शब्दा तूर्यास्पञ्चाङ्गिका इव ॥ म्व्य्क्_१८ ॥ ये च तस्मिन् पुरे मर्त्याः क्रीडारतिसुखान्विताः । तेनैव तालशब्देन क्रीडिष्यन्ति प्रमोदिताः ॥ म्व्य्क्_१९ ॥ पुष्करिणो भविष्यन्ति कुमुदोत्पलसंचेताः । उद्यानवनसंपन्नं भविष्यति च तत्पुरम् ॥ म्व्य्क्_२० ॥ भविष्यति तदा राजा शम्खो नाम महाद्युतिः । महाबलचक्रवर्ती चतुर्द्वीपेश्वरः प्रभुः ॥ म्व्य्क्_२१ ॥ चतुरङ्गबलोपेतः सप्तरत्नसमन्वितः । पूर्णसहस्रपुत्राणां तस्य राज्ञो भविष्यति ॥ म्व्य्क्_२२ ॥ इमां समुद्रपर्यन्तामदण्डेन वसुन्धराम् । पालयिष्यति धर्मेण समेन स नराधिपः ॥ म्व्य्क्_२३ ॥ महानिधानाश्चत्वारो नयुतशतलक्षिताः । भविष्यन्ति तदा तस्य राज्ञः शंखस्य भूपतेः ॥ म्व्य्क्_२४ ॥ पिङ्गलश्च कलिङ्गेषु मिथिलायां च पाण्डुकः । एलापत्रश्च गान्धारे शंखो वाराणसीपुरे ॥ म्व्य्क्_२५ ॥ चतुर्भिरेभिर्निधिभिः स राजा सुसमन्वितः । भविष्यति महावीरः शतपुण्यफलार्पितः ॥ म्व्य्क्_२६ ॥ ब्राह्मणस्तस्य राज्ञोऽथ सुब्रह्मा नाम्ना पुरोहितः । बहुश्रुतश्चतुर्वेदी उपध्यायो भविष्यति ॥ म्व्य्क्_२७ ॥ अध्यापको मन्त्रधरः स्मृतिवान् वेदपारगः । कैटाभे च स निर्घण्टे पदव्याकरणे तथा ॥ म्व्य्क्_२८ ॥ तस्य ब्रह्मवती नाम तदा भार्या भविष्यति । दर्शनीया प्रासादिका अभिरूपा यशस्विनी ॥ म्व्य्क्_२९ ॥ तुषितेभ्यस्ततश्च्युत्वा मैत्रेयो ह्यग्रपुद्गलः । तस्याः कुक्षौ स नियतं प्रतिसन्धिं ग्रहिष्यति ॥ म्व्य्क्_३० ॥ दश मासांश्च निखिलान् धारयित्वा महाद्युतिम् । सुपुष्पिते च उद्याने गत्वा मैत्रेयमातरः ॥ म्व्य्क्_३१ ॥ न निषण्णा निपन्ना वा स्थिता सा ब्रह्मचारिणी । द्रुमस्य शाखामालम्ब्य मैत्रेयं जनयिष्यति ॥ म्व्य्क्_३२ ॥ निष्क्रमिष्यति पार्श्वेन दक्षिणाङ्गे नरोत्तमः । अभ्रकूटाद्यथा सूर्यो निर्गतश्च प्रभायते ॥ म्व्य्क्_३३ ॥ करिष्यते समालोकं सनरामरवन्दितः । अलिप्तो गर्भपङ्केन पद्मं चैव यथाम्भुवा । त्रैधातुकमिदं सर्वं प्रभया पूरयिष्यति ॥ म्व्य्क्_३४ ॥ पदे पदे निधानं च पद्मं पद्मं भविष्यति । दिशश्चतस्रो उद्वीक्ष्य वाचं प्रव्याहरिष्यति । इयं मे पश्चिमा जातिर्नास्ति भूयः पुनर्भवः ॥ म्व्य्क्_३५ ॥ न पुनरागमिष्यामि निर्वास्यामि निराश्रवः । शीतोष्णवारिधाराभिः स्नापयिष्यन्ति पुन्नगाः ॥ म्व्य्क्_३६ ॥ दिव्यासुराणि पुष्पाणि पतिष्यन्ति नभस्तलात् । श्वेतं तस्य सुराश्छत्त्रं धारयिष्यन्ति मूर्धनि ॥ म्व्य्क्_३७ ॥ हृष्टश्चैव सहस्राक्षो देवराजः शचीपतिः । प्रग्रहीष्यति कुमारं तं द्वात्रिंशलक्ष्णान्वितम् । श्रिया ज्वलन्तं मैत्रेयं मातुर्हस्ते प्रदास्यति ॥ म्व्य्क्_३८ ॥ मनोरमां च शिविकां नानारत्नविभुषिताम् । आरूढां पुत्रसहितां वहिष्यन्ति च देवताः ॥ म्व्य्क्_३९ ॥ ततस्तूर्यसहस्रेषु वाद्यमानेषु तत्पुरम् । प्रविष्टमात्रे मैत्रेये पुष्पवर्षं पतिष्यति ॥ म्व्य्क्_४० ॥ तस्मिंश्च दिवसे नार्यो गुर्विण्यः प्रसविष्यन्ति । सर्वास्ता जनयिष्यन्ति पुत्रान् क्षेमेण स्वस्तिना ॥ म्व्य्क्_४१ ॥ दृष्ट्वैवं पुत्रं सुब्रह्मा द्वात्रिंशद्वरलक्षणम् । प्रत्यवेक्ष्य सुमन्त्रेण ततः प्रीतो भविष्यति ॥ म्व्य्क्_४२ ॥ गतिद्वयं कुमारस्य यथा मन्त्रेषु दृश्यते । नराधिपश्चक्रवर्ती बुद्धो वा द्वीपदोत्तमः ॥ म्व्य्क्_४३ ॥ स च यौवनसंप्राप्तो मैत्रेयो ह्यग्रपुद्गलः । चिन्तयिष्यति धर्मात्मा दुःखिता खल्वियं प्रजा ॥ म्व्य्क्_४४ ॥ ब्रह्मस्वरो महावेगो हेमवर्णो महाद्युतिः । विशालचक्षुः पीनाङ्गः पद्मपत्त्रनिभेदेक्षणः ॥ म्व्य्क्_४५ ॥ उच्छ्रयेण हस्ताशीतिः कायस्तस्य भविष्यति । विस्तारं विंशतिर्हस्ता ततोऽर्धं मुखमण्डलम् ॥ म्व्य्क्_४६ ॥ अशीतिभिश्चतुर्भिश्च सहस्रैः स पुरस्कृतः । माणवानां स मैत्रेयो मन्त्रानध्यापयिष्यति ॥ म्व्य्क्_४७ ॥ ततः शङ्खो महाराजो यूपमुच्छ्रापयिष्यति । षोडशव्यामविस्तारमूर्ध्वव्यामसहस्रकम् ॥ म्व्य्क्_४८ ॥ स तं यूपं नरपतिर्नानारत्नविभूषितम् । सप्तरत्नसमाकीर्णं ब्राह्मणेभ्यः प्रदास्यति ॥ म्व्य्क्_४९ ॥ तच्च रत्नमयं यूपं दत्तमात्रं मनोरमम् । ब्राह्मणानां सहस्राणि विकरिष्यन्ति तत्क्षणात् ॥ म्व्य्क्_५० ॥ तस्य यूपस्य मैत्रेयो दृष्ट्वा चैनामनित्यताम् । कृत्स्नं विचिन्त्य संसारं प्रव्रज्यां रोचयिष्यति ॥ म्व्य्क्_५१ ॥ यत्वहं प्रव्रजित्वेह स्पृशेयममृतं पदम् । विमोचयेयं जनतां व्याधिमृत्युजराभयात् ॥ म्व्य्क्_५२ ॥ अशीतिभिश्चतुर्भिश्च सहस्रैः संपुरस्कृतः । निःक्रमिष्यति मैत्रेयः प्रव्रज्यार्थमग्रपुद्गलः ॥ म्व्य्क्_५३ ॥ नागवृक्षस्तदा तस्य बोधिवृक्षो भविष्यति । पञ्चाशद्योजनास्तस्य ऊर्ध्वं शाखाः भविष्यन्ति । षट्क्रोशविटपाद्यानि विधूतानि समन्ततः ॥ म्व्य्क्_५४ ॥ तस्य मूले निषण्णोऽसौ मैत्रेयो द्विपदोत्तमः । अनुत्तरां च संबोधिं प्राप्स्यते नात्र संशयः ॥ म्व्य्क्_५५ ॥ अष्टाङ्गोपेतया वाचा ततः स पुरुषोत्तमः । देशयिष्यति सद्धर्मं सर्वदुःखापहं शिवम् ॥ म्व्य्क्_५६ ॥ दुःखं दुःखसमुत्पादं दुःखस्य समतिक्रमम् । आर्याष्टाङ्गिकं मार्गं क्षेमं निर्वाणगामिनम् ॥ म्व्य्क्_५७ ॥ प्रसन्नां जनतां दृष्ट्वा सत्यानि कथयिष्यति । तथास्य धर्मं संश्रुत्वा प्रतिपद्यन्ति शासने ॥ म्व्य्क्_५८ ॥ सुपुष्पिते च उद्याने सन्निपातो भविष्यति । संपूर्णं योजनशतं पर्षत्तस्य भविष्यति ॥ म्व्य्क्_५९ ॥ ततः श्रुत्वा नरपतिः शंखो नाम महायशाः । दत्त्वा दानमसंख्येयं प्रव्रज्यां रोचयिष्यति ॥ म्व्य्क्_६० ॥ अशीतिभिश्चतुर्भिश्च सहस्रैः स पुरस्कृतः । नराधिपोऽपि निष्क्रम्य प्रव्रज्यामुपयास्यति ॥ म्व्य्क्_६१ ॥ तेनैव च प्रमाणेन मानवानां पुरस्कृतः । मैत्रेयस्य पिता चैव प्रव्रज्यामुपयास्यति ॥ म्व्य्क्_६२ ॥ ततो गृहपतिस्तत्र सुधनो नाम विश्रुतः । प्रव्रजिष्यति धर्मात्मा सहस्रैः परिवारितः ॥ म्व्य्क्_६३ ॥ स्त्रीरत्नमथ शंखस्य विशाखा नाम विश्रुता । अशीतिभिश्चतुर्भिश्च सहस्रैः सा पुरस्कृता । नारीणां सह निष्क्रम्य प्रव्रज्यामुपयास्यति ॥ म्व्य्क्_६४ ॥ प्राणिनां तत्र समये सहस्राणि शतानि च । प्रव्रज्यामुपयास्यन्ति मैत्रेयस्यानुशासने ॥ म्व्य्क्_६५ ॥ ततः कारुणिकः शास्ता मैत्रेयो द्विपदोत्तमः । समितिं व्यवलोक्याथ इदमर्थं प्रवक्ष्यते ॥ म्व्य्क्_६६ ॥ सर्वे ते शाक्यमुनिना मुनिश्रेष्ठेन तायिना । अर्थतो लोकनाथेन दृष्टाः सद्धर्मधातुना । आरोपिता मोक्षमार्गे निक्षिप्ता मम शासने ॥ म्व्य्क्_६७ ॥ छत्रध्वजपताकाभिर्गन्धमाल्यानुलेपनैः । कृत्वा शाक्यमुनेः पूजां ह्यागता मम शासने ॥ म्व्य्क्_६८ ॥ कुंकुमोदकसेकेन चन्दनेनानुलेपनम् । दत्त्वा शाक्यमुनेः स्तूपे ह्यागता मम शासने ॥ म्व्य्क्_६९ ॥ बुद्धं धर्मं च संघं च गत्वा तु शरणं सदा । कृत्वा तु कुशलं कर्म ह्यागता मम शासने ॥ म्व्य्क्_७० ॥ शिक्षापदान् समादाय शाक्यसिंहस्य शासने । प्रतिपाद्य यथाभूतं ह्यागता मम शासने ॥ म्व्य्क्_७१ ॥ दत्त्वा संघे च दानानि चीवरं पानभोजनम् । विचित्रं ग्लानभैषज्यं ह्यागता मम शासने ॥ म्व्य्क्_७२ ॥ चतुर्दशीं पञ्चदशीं पक्षस्येहाष्टमीं तथा । प्रातिहारकपक्षं च अष्टाङ्गं सुसमाहितः । उपवासमुपोष्येह ह्यागता मम शासने ॥ म्व्य्क्_७३ ॥ प्रातिहार्यत्रयेणासौ श्रावकान् विनयिष्यति । सर्वे ते सास्रवान् धर्मान् क्षययिष्यन्ति सुरताः ॥ म्व्य्क्_७४ ॥ प्रथमः सन्निपातोऽस्य श्रावकाणां भविष्यति । पूर्णाः षण्नवति कोट्यः श्रावकाणां भविष्यति ॥ म्व्य्क्_७५ ॥ द्वितीयः सन्निपातोऽस्य श्रावकाणां भविष्यति । पूर्णाश्चतुर्नवति कोट्यः क्लेशमुक्ता क्षणाट् ॥ म्व्य्क्_७६ ॥ तृतीयः सन्निपातोऽस्य श्रावकाणां भविष्यति । पूर्णा द्वानवति कोट्यो मुक्तानां शान्तचेतसाम् ॥ म्व्य्क्_७७ ॥ धर्मचक्रं प्रवर्त्याथ विनीय सुरमानुषान् । सार्धं श्रावकसंघेन पुरे पिण्डं चरिष्यति ॥ म्व्य्क्_७८ ॥ ततः प्रवेशतस्तस्य रम्यां केतुमतीपुरीम् । मान्दारवाणि पुष्पानि पतिष्यन्ति पुरोत्तमे । देवताः प्रक्रमिष्यन्ति तस्मिन् पुरे गते मुनौ ॥ म्व्य्क्_७९ ॥ चत्वारश्च महाराजानः शक्रश्च त्रिदशाधिपः । ब्रह्म देवगणैः सार्धं पूजां तस्य विधास्यति ॥ म्व्य्क्_८० ॥ उत्पलं कुमुदं पद्मं पुण्डरीकं सुगन्धिकम् । अगुरुं चन्दनं चैव दिव्यमाल्यं तथैव च ॥ म्व्य्क्_८१ ॥ चैलक्षेपं विधास्यन्ति देवपुत्रा महर्द्धिकाः । तं लोकनाथमुद्वीक्ष्य प्रविशन्तं पुरोत्तमम् ॥ म्व्य्क्_८२ ॥ पथि तत्र स्थिता भूमिर्मृदुस्तूलपिचूपमा । विचित्रं च ततो माल्यं विकरिष्यन्ति ते पथि ॥ म्व्य्क्_८३ ॥ छत्त्रध्वजपताकाभिर्गन्धमाल्यानुलेपनैः । शुभैश्च तूर्यनिर्घोषैः प्रसन्नमनसो नराः । शास्तुः पूजां करिष्यन्ति देवपुत्रा महर्द्धिकाः ॥ म्व्य्क्_८४ ॥ स च शक्रः सहस्राक्षो देवराजो महाद्युतिः । प्रहृष्टः प्राञ्जलिं कृत्वा स्तोष्यते लोकनायकम् ॥ म्व्य्क्_८५ ॥ नमस्ते पुरुषसिंह नमस्ते पुरुषोत्तम । अनुकम्पस्व जनतां भगवन्नग्रपुद्गल ॥ म्व्य्क्_८६ ॥ महर्द्धिको देवपुत्रस्तस्य मारो भविष्यति । स चैव प्राञ्जलिं भूत्वा स्तोष्यते लोकनायकम् ॥ म्व्य्क्_८७ ॥ शुद्धावाससहस्रैश्च बहुभिः परिवारितः । प्रवेक्षते केतुमतीं मैत्रेयो लोकनन्दनः ॥ म्व्य्क्_८८ ॥ ब्राह्मणपरिवारेण ब्रह्मा चैव पुरस्कृतः । कथयिष्यति सद्धर्मं ब्रह्मघोषमुदीरयन् ॥ म्व्य्क्_८९ ॥ आकीर्णा पृथिवी सर्वा अर्हद्भिश्च भविष्यति । क्षीणास्रवैर्वान्तदोषैः प्रहीणभवबन्धनैः ॥ म्व्य्क्_९० ॥ हृष्टा देवमनुष्याश्च गन्धर्वा यक्षराक्षसाः । शास्तुः पूजां करिष्यन्ति नागाश्चापि महर्द्धिकाः ॥ म्व्य्क्_९१ ॥ ते वै नूनं भविष्यन्ति अखिलाश्छिन्नसंशयाः । छिन्नस्रोता अनादाता उत्तीर्ना भवसागरात् । ब्रह्मचर्यं चरिष्यन्ति मैत्रेयस्यानुशसने ॥ म्व्य्क्_९२ ॥ ते वै नूनं भविष्यन्ति अममा अपरिग्रहाः । अजातरूपरजता अनिकेता असंभवाः । ब्रह्मचर्यं चरिष्यन्ति मैत्रेयस्यानुशसने ॥ म्व्य्क्_९३ ॥ ते वै नूनं भविष्यन्ति छिन्नजालमशक्तिकाः । ध्यानान्युपसंपाद्य प्रीतिसौख्यसमन्विताः । ब्रह्मचर्यं चरिष्यन्ति मैत्रेयस्यानुशसने ॥ म्व्य्क्_९४ ॥ षष्टिवर्षसहस्राणि मैत्रेयो द्विपदोत्तमः । देशयिष्यति सद्धर्मं सर्वभूतानुकम्पकः ॥ म्व्य्क्_९५ ॥ शतलक्षसहस्राणि प्राणिनं स विनायकः । विनयित्वा च सद्धर्मे ततो निर्वाणमेष्यति ॥ म्व्य्क्_९६ ॥ परिनिर्वृतस्य तस्यैव मैत्रेयस्य महामुनेः । दशवर्षसहस्राणि सद्धर्मः स्थास्यते तदा ॥ म्व्य्क्_९७ ॥ प्रसादयिष्यथ चित्तानि तस्मिं शाक्यमुनौ जिने । ततो द्रक्ष्यथ मैत्रेयं संबुद्धं द्विपदोत्तमम् ॥ म्व्य्क्_९८ ॥ इदमाश्चर्यकं श्रुत्वा इमामृद्धिमनुत्तमाम् । को विद्वान्न प्रसीदेत अपि कृष्णाभिजातिकः ॥ म्व्य्क्_९९ ॥ तस्मादिहात्मकामेन माहात्म्यमभिकांक्षता । सद्धर्मो गुरुकर्तव्यः स्मरतां बुद्धशासनम् ॥ म्व्य्क्_१०० ॥ इति मैत्रेयव्याकरणं नाम महायानसूत्रं समाप्तम् । ये धर्मा हेतुप्रभवा हेतु तेषां तथागतो ह्यवदत् । तेषां च यो निरोध एवंवादी महाश्रमणः ॥ शुभमस्तु ॥ अब्देग्लावग्निद्विरदे शित माघे गुहानने । पूषायां पूष्णदिवसे सर्व्वानन्द समाप्त कृत् ॥