आर्य मैत्रेयव्याकरणं नमः आर्यमैत्रेयाय । शारिपुत्रो महाप्रज्ञः धर्मसेनापतिबिभुः । लोकानामनुकम्पाय शास्तारं पर्यपृच्छत ॥ १ ॥ सूत्रान्तरे पुराऽख्यातं यं लोकनायकस्य च । बुद्धस्यानागतस्य हि मैत्रेयनाम शासनम् ॥ २ ॥ व्याख्याहि तद्वलं चापि ऋद्धिं सर्वार्थवर्धनम् । श्रोतुमिच्छाम एव च नायकस्य नरोत्तम ॥ ३ ॥ तच्छ्रुत्वा भगवानाह शृणु नरवरस्य त्वम् । तस्य मैत्रेयबुद्धस्य विभवं व्याकृतं मया ॥ ४ ॥ शुक्ष्यन्ति च तदार्नवाः समन्तात्बहुयोजनाः । प्रतिपाद्या भविष्यन्ति मार्गाश्च चक्रवर्तिनः ॥ ५ ॥ जम्बुद्वीपं समन्ततः आयतनं तदाहि च । आवासं सर्वभूतानां दशसहस्रयोजनम् ॥ ६ ॥ नरास्तद्देशिकाश्च हि भविष्यन्ति शुभङ्कराः । अहिंसकाश्च निर्दण्ड्याः सुसमृद्धाश्च सुभगाः ॥ ७ ॥ निष्कण्टकश्च भूस्थलं समतलं हि श्यामलम् । उन्नमावनमश्रितं मृदुतूलऽपिचोपमम् ॥ ८ ॥ गन्धशालि जनिष्यते कृष्टिमृते च मधुरम् । नानावर्णाभिलङ्कृता भविष्यन्ति चैलद्रुमाः ॥ ९ ॥ द्रुमाश्च क्रोशविस्तृता पत्रपुष्पफलानताः । सहस्राशीतिमात्रश्च आयुस्तदा भविष्यति ॥ १० ॥ वर्णवन्तः भविष्यन्ति बलवन्तो महाकायाः । सत्त्वाः दक्षाश्च निष्क्लेशा निर्दोषा दिर्घजीविनः ॥ ११ ॥ रोगत्रयं भविष्यति कामोजराऽग्निमान्द्यञ्च । पञ्चशततमे वर्षे परिणीता च दारिका ॥ १२ ॥ तदा केतुमती नाम पुरी तत्र भविष्यति । सत्त्वानाञ्च निवासनं प्राणिनां हितकारिणाम् ॥ १३ ॥ दीर्घा द्वादशयौजन सप्त विस्तारशो ह्यसौ । नगरं पुण्यवच्च तत्विशुद्धञ्च मनोरमम् ॥ १४ ॥ सप्तरत्नमयाः प्रांशुप्राकाराः क्रोशविस्तृताः । नानारत्नविभूषितगोपुरतोरणान्यपि ॥ १५ ॥ इष्टकैर्निमिताश्च ते रत्नमयैर्भविष्यन्ति । पद्मोत्पलसमाच्छनाः परिखा हंसशोभिता ॥ १६ ॥ मालैर्हि परिवेष्टितं सप्ततालैस्ममन्ततः । चतूरत्नमयास्तालाः किङ्किनीजालशोभिताः ॥ १७ ॥ तत्तालेभ्योनिलाज्जातः शब्दश्चैव मनोरमः । सुमधुरो यथा तूर्यं तच्च पञ्चाङ्गसंयुतम् ॥ १८ ॥ नगरेऽस्मिन्नराश्च ये विश्रामसुखकामिनः । प्रहृष्टाभिरभिष्यन्ते तालशब्दैश्च ते तदा ॥ १९ ॥ नगरमपि तत्कृतमुत्पलकुमुदाकीर्णम् । तडागोपवनोद्यानं त्रयमेतद्भविष्यति ॥ २० ॥ शङ्खोनाम नृपस्तत्र महातेजा भविष्यति । चतुर्द्वीर्पाधिपेश्वरश्चक्रवर्त्ती महाबलः ॥ २१ ॥ सप्तरत्नसमन्वितश्चतुरङ्गबलाधिपः । सहस्रं हि जनिष्यन्ते पुत्रास्तदास्य भूपतेः ॥ २२ ॥ पृथिवीं सागरान्ताञ्च स परिपालयिष्यति । यथाधर्मदण्डेण नराधिपो हि तद्यथा ॥ २३ ॥ चतुर्महानिधिस्तदा शङ्खाख्यस्य च भूपतेः । रत्नानां शतकोटीनां राज्ञस्तदा हि लोक्यते ॥ २४ ॥ पिङ्गलश्च कलिङ्गेषु मिथिलायां च पाण्डुकः । एलपत्रश्च गान्धारे शंखो वाराणसीपुरे ॥ २५ ॥ चतुर्भिरेभिनिधिभिस्स राजा सुसमन्वितः । भविष्यति महावीरः शतपुण्यबलोदितः ॥ २६ ॥ ब्राह्मणस्तस्य राज्ञाश्च सुब्रह्मणः पुरोहितः । बहुश्रुतश्चतुर्वेदस्तस्योपाध्यायो भविष्यति ॥ २७ ॥ अध्यापको मन्त्रधरः स्मृतिमान् वेदपारगः । कैटभे सनिघण्टे च पदव्याकरणे तथा ॥ २८ ॥ तदा ब्रह्मावती नाम तस्य भार्या भविष्यति । दर्शनीया प्रासादिका अभिरूपा यशस्विनी ॥ २९ ॥ तुषितेभ्यश्चयवित्वा तु मैत्रेयो ह्यग्रपुग्दलः । तस्याः कुक्षौ स नियतं प्रतिसन्धिं ग्रहीष्यति ॥ ३० ॥ दशमासांश्च निखिलां धारयित्वा महाद्यूतिम् । सुपुष्पितेस्मिन्नुद्याने मैत्रेयजननी ततः ॥ ३१ ॥ न निषण्णा निपन्ना वा स्थिता सा धर्मचारिणी । द्रुमस्य शाखामालम्व्य मैत्रेयं जनयिष्यति ॥ ३२ ॥ निष्क्रमिष्यति पार्श्वेन दक्षिणेन नरोत्तमः । अभ्रकूटाद्यथा सूर्यो निर्गतश्च प्रभाव्यते ॥ ३२* ॥ अलिप्तो गर्भपङ्केन कुशेशयमिवाम्वुना । त्रैधातुकमिदं सर्वं प्रभया पूरयिष्यति ॥ ३३ ॥ प्रीतोऽथ तं सहस्राक्षो देवराजा शचीपतिः । जायमानं ग्रहीता च मैत्रेयं द्विपदोत्तमम् ॥ ३४ ॥ पदानि जातमात्रश्च सप्तासौ प्रकमिष्यति । पदे पदे निधानञ्च पद्मं पद्मं भविष्यति ॥ ३५ ॥ दिशश्चतस्रश्चोद्वीक्ष्य वाचं प्रव्याहरिष्यति । इयं मे पश्चिमा जाति नास्ति भूयः पुनर्भवः । न पुनरभा गमिष्यामि निर्वास्यामि निरास्रवः ॥ ३६ ॥ संसारार्णवमग्नानां सत्त्वानां दुःखभागिनाम् । तृष्णाबन्धनबद्धानां करिष्यामि विमोचनम् ॥ ३७ ॥ श्वेतं चास्य सुराश्छत्रं धारयिष्यन्ति मूर्धनि । शीतोष्णवारिधाराभ्यां नागेन्द्रौ स्नापयिष्यतः ॥ ३८ ॥ प्रतिगृह्य च तं धात्री द्वात्रिंशद्वरलक्षणम् । श्रिया ज्वलन्तं मैत्रेयं मात्रे समुपनेष्यति ॥ ३९ ॥ मनोरमां च शिविकां नानारत्नविभूषिताम् । आरूढां पुत्रसहितां वहिष्यन्ति च देवता ॥ ४० ॥ ततस्तूर्य सहस्रेषु वाद्यमानेषु तत्पुरम् । प्रविष्टमात्रे मैत्रेये पुष्पवर्षं पतिष्यति ॥ ४१ ॥ दृष्टैवं पुत्रं सुब्रह्मा द्वात्रिंशद्वरलक्षणम् । प्रत्यवीक्षाथ मन्त्रेषु तदा प्रीतो भविष्यति ॥ ४२ ॥ गतिद्वयं कुमारस्य यथा मन्त्रेषु दृश्यते । नराधिपश्चक्रवर्त्ती बुद्धो वा द्विपदोत्तमः ॥ ४३ ॥ स च यौवनसंप्राप्तो मैत्रेयः पुरुषोत्तमः । चिन्तयिष्यति धर्मात्मा दुःखिता खल्वियं प्रजाः ॥ ४४ ॥ ब्रह्मखरो महाघोषो हेमवर्णो महाद्युतिः । विशालवक्षः पीनांसः पद्मपत्रनिभेक्षणः ॥ ४५ ॥ हस्तः पञ्चाशदुच्छ्राय तस्य कायो भविष्यति । विसृतश्च ततोऽर्द्धेण शुभवर्णसमुच्छ्रयः ॥ ४६ ॥ अशीतिभिश्चतुर्भिश्च सहस्रैः संपुरस्कृतः । मानवानां स मैत्रेयो मन्त्रानध्यापयिष्यति ॥ ४७ ॥ अथ शंखो नरपतिः यूपमुच्छ्रापयिष्यति । तिर्यञ्च षोडशव्याममूर्द्ध्व व्यामसहस्रकम् ॥ ४८ ॥ स तं यूपं नरपतिर्नानारत्नविभूषितम् । प्रदास्यति द्विजातिभ्यो यज्ञं कृत्वा पुरःसरम् ॥ ४९ ॥ तञ्च रत्नमयं यूपं दत्तमात्रं मनोरमम् । ब्राह्मणाणां सहस्राणि विकिरिष्यन्ति तत्क्षणात् ॥ ५० ॥ यूपस्यतस्य मैत्रेयो दृष्ट्वा चैतामनित्यताम् । कृतस्रं विचिन्त्य संसारं प्रव्रज्यां रोचयिष्यति ॥ ५१ ॥ यत्वहं प्रव्रजित्वेह स्पृशेयममृतं पदम् । विमोचयेयं जनतां व्याधिमृत्युजराभयात् ॥ ५२ ॥ अशीतिभिः सहस्रैस्स चतुर्भिश्च पुरस्कृतः । निष्क्रमिष्यति मैत्रेयः प्रव्रज्यामग्रपुग्दलः ॥ ५३ ॥ नागवृक्षस्तदा तस्य बोधिवृक्षो भविष्यति । पञ्चाशद्योजनान्यस्य शाखा ऊर्द्धं समुच्छ्रिताः ॥ ५४ ॥ निषद्य तस्य चाधस्तान्मैत्रेयः पुरुषोत्तमः । अनुत्तरां शिवां बोधिं समवाप्स्यति नायकः ॥ ५५ ॥ यस्यामेव च रात्रौ स प्रव्रज्यां निष्क्रमिष्यति । तस्यामेव च रात्रौ हि परां बोधिमवाप्स्यति ॥ ५६ ॥ अष्टाङ्गोपेतया वाचा ततः स पुरुषोत्तमः । देशयिष्यति सद्धर्मं सर्वदुःखापहं शिवम् ॥ ५७ ॥ प्रसन्नां जनतां दृष्ट्वा सत्यानि कथयिष्यति । दुःखं दुःखसमुत्पादं दुःखस्य समतिक्रमम् ॥ ५८ ॥ आर्यं चाष्टाङ्गिकं मार्गं क्षेमं निर्वाणगामिनम् । तं चापि धर्मं संश्रुत्य प्रतिपत्स्यन्ति शासने ॥ ५९ ॥ उद्याने पुष्पसंच्छन्ने सन्निपातो भविष्यति । पूर्णं च योजनशतं पर्षत्तस्य भविष्यति ॥ ६० ॥ श्रुत्वा नरपति राजा शङ्खो नाम महायशाः । दत्वा दानमसंख्येयं प्रव्रज्यां निष्क्रमिष्यति ॥ ६१ ॥ अशीतिभिश्चतुर्भिश्च सहस्रैः परिवारितः । नराधिपो विनिष्क्रम्य प्रव्रज्यामुपयास्यति ॥ ६२ ॥ अनेनैव प्रमाणेन मानवानां पुरस्कृतः । मैत्रेयस्य पिता तत्र प्रव्रज्यां निष्क्रमिष्यति ॥ ६३ ॥ ततो गृहपतिस्तत्र सुधनो नाम विश्रुतः । प्रव्रजिष्यति शुद्धात्मा मैत्रेयस्यानुशासने ॥ ६४ ॥ स्त्रीरत्नमथ शङ्खस्य विशाखा नाम विश्रुता । अशीतिभिश्चतुर्भिश्च सहस्रैः संपुरष्कृता ॥ नारीणामभिनिष्क्रम्य प्रव्रज्यां रोचयिष्यति ॥ ६५ ॥ प्राणिनः तत्र समये सहस्राणि शतानि च । प्रव्रज्यामुपयास्यन्ति मैत्रेयस्यानुशासने ॥ ६६ ॥ सुपुष्पितेऽस्मिन्नुद्याने सन्निपातो भविष्यति । समन्ततो योजनशतं पर्षत्तस्य भविष्यति ॥ ६७ ॥ ततः कारुणिकः शास्ता मैत्रेयः पुरुषोत्तमः । समितिं व्यवलोक्याथ इममर्थं प्रवक्षयति ॥ ६८ ॥ सर्वेते शाक्यसिंहेन गुणिश्रेष्ठेण त्रायिना । अर्थतो लोकनाथेन दृष्ट्वा सद्धर्मधातुना । रोपिता मोक्षमार्गेण विक्षिप्ता मम शासने ॥ ६९ ॥ छत्रध्वजपताकाभिर्गन्धमाल्यविलेपनैः । कृत्वा स्तूपेषु सत्कारमागता हि ममान्तिकम् ॥ ७० ॥ संघे दत्वा च दानानि चीवरं पानभोजनम् । विविधं ग्लानभैषज्यमागता हि ममान्तिकम् ॥ ७१ ॥ कुंकुमोदकसेकं च चन्दनेनानुलेपनम् । दत्वा शाक्यमुनेः स्तूपेष्वागता हि ममान्तिकम् ॥ ७२ ॥ शिक्षापदानि चाधाय शाक्यसिंहस्य शासने । परिपालय यथाभूतमागता हि ममान्तिकम् ॥ ७३ ॥ उपोषधमुपोष्येह आर्यमष्टाङ्गिकं शुभम् । चतुर्दशीं पञ्चदशीं पक्षस्येहाष्टमीं तथा । प्रातिहारिकपक्षं चाष्यष्टाङ्गं सुसमाहितम् ॥ ७४ ॥ शीलानि च समादाय संप्राप्तानि च शासनम् । बुद्धं धर्में च संघं च सत्त्वास्ते शासनं गताः ॥ कृत्वा च कुशलं कर्म मच्छासनमुपागताः ॥ ७५ ॥ तेनैते प्रेषिताः सत्त्वा प्रतिष्टाश्च मयाप्यमी । गणिश्रेष्ठेण मुनिना परीता भूरिमेधसा ॥ ७६ ॥ प्रसन्नां जनतां दृष्ट्वा सत्यानि कथयिष्यति । श्रुत्वा च ते ततो धर्मं प्राप्स्यन्ति पदमुत्तमम् ॥ ७७ ॥ प्रातिहार्यत्रयेणासौ श्रावकान्विनयिष्यति । सर्वेते आस्रवास्तत्र क्षिपयिष्यन्ति सुरताः ॥ ७८ ॥ प्रथमः सन्निपातोस्य श्रावकाणां भविष्यति । पूर्णाः षण्णवतिकोट्यः श्रावकाणां भवच्छिदाम् ॥ ७९ ॥ द्वितीयः सन्निपातोस्य श्रावकाणां भविष्यति । पूर्णाश्चतुर्नवति कोट्यः शान्तानां भूरिमेधसाम् ॥ ८० ॥ तृतीयः सन्निपातोस्य श्रावकाणां भविष्यति । पूर्णाः द्वाविंशति कोट्यः शान्तानां शान्तचेतसाम् ॥ ८१ ॥ धर्मचक्रं प्रवर्त्याथ विनीय सुरमानुषान् । सार्धं श्रावकसंघेण पुरे पिण्डं चरिष्यति ॥ ८२ ॥ ततः प्रविशतस्तस्यां रम्यां केतुमतीं पुरीम् । मान्दारकाणि पुष्पाणि पतिष्यन्ति पुरोत्तमे ॥ देवताः प्रकिरिष्यन्ति तस्मिन् पुरगते मुनौ ॥ ८३ ॥ चत्वारश्च महाराजा शक्रश्च त्रिदशाधिपः । ब्रह्मा देवगणैः सार्धं पूजां तस्य करिष्यति ॥ ८४ ॥ उत्पलं कुमुदं पद्मं पुण्डरीकं सुगन्धिकम् । अगुरुं चन्दनं चापि दिव्यं माल्यं पतिष्यति ॥ ८५ ॥ चैलक्षेपं करिष्यन्ति देवपुत्रा महर्द्धिकाः । तं लोकनाथमुद्वीक्षप प्रविशन्तं पुरोत्तमम् ॥ ८६ ॥ दिव्यश्च तूर्यनिर्घोषो दिव्यं माल्यं पतिष्यति । देवता प्रकिरिष्यन्ति तस्मिन् पुरगते मुनौ ॥ ८७ ॥ ये तु केतुमतीं केचित्वासयष्यन्ति मानुषाः । तेपि तं पूजयिष्यन्ति प्रविशन्तं पुरोत्तमम् ॥ ८८ ॥ पथि भूम्यास्तरं तत्र मृदुतूलपिचोपमम् । विचित्रञ्च शुभं माल्यं विकिरिष्यन्ति ते तदा ॥ ८९ ॥ छत्रध्वजपताकभिरर्चयिष्यन्ति मानुषाः । शुभैश्च तूर्यनिर्घोषैः प्रसन्नमनसो नराः ॥ ९० ॥ तं च शक्रः सहस्राक्षो देवराजः शचीपतिः । प्रहृष्टः प्राञ्जलिर्भूत्वा मैत्रेयं स्तोष्यते जिनम् ॥ ९१ ॥ नमस्ते पुरुषाजन्य नमस्ते पुरुषोत्तम । अनुकम्पस्व जनतां भगवन्नग्रपुग्दल ॥ ९२ ॥ महर्द्धिको देवपुत्रस्तस्य मारो भविष्यति । स चापि प्राञ्जलिर्भूत्वा स्तोष्यते लोकनायकम् ॥ ९३ ॥ शुद्धावास सहस्रैश्च बहुभिः परिवारितः । प्रवेक्ष्यते च मैत्रेयो लोकनाथो विनायकः ॥ ९४ ॥ ब्राह्मणपरिवारेण ब्रह्मा चापि गिरास्फुटम् । कथयिष्यति सद्धर्मं ब्राह्मं घोषमुदीरयन् ॥ ९५ ॥ आकीर्णा पृथिवी सर्वा अर्हद्भिश्च भविष्यति । क्षीणाश्रवैर्वान्तदोषैः प्रहीणभवबन्धनैः ॥ ९६ ॥ हृष्टा देवमनुष्याश्च गन्धर्वा यक्षराक्षसाः । शास्तुः पूजां करिष्यन्ति नागाश्चापि महर्द्धिकाः ॥ ९७ ॥ ते वै नूनं भविष्यन्ति च्यानघाच्छिन्नसंशयाः । उत्क्षिप्तपरिखाः धीरा अनादाना निरुत्सकाः ॥ ब्रह्मचर्यञ्चरिष्यन्ति मैत्रेयस्यानुशासने ॥ ९८ ॥ तेऽपि नूनं भविष्यन्ति अममा अपरिग्रहाः । अजातरूपरजता अनिकेता असंस्तवाः । ब्रह्मचर्यञ्चरिष्यन्ति ये मैत्रेयानुशासने ॥ ९९ ॥ ते वै पारं गमिष्यन्ति छित्वा जालमेव भुजात् । ध्यानानि चोपसंपद्य प्रीतिसौख्यसमन्विताः । ब्रह्मचर्यञ्चरिष्यन्ति मैत्रेयस्यानुशासने ॥ १०० ॥ षष्ठिं वर्ष सहस्राणि मैत्रेयो द्विपदोत्तमः । देशयिष्यति सद्धर्मं शास्ता लोकानुकम्पया ॥ १०१ ॥ शतानि च सहस्राणि प्राणिणां स विनायकः । विनीय धर्मकायेन ततो निर्वाणमेष्यति ॥ १०२ ॥ तस्मिंश्च निर्वृते धीरे मैत्रेये द्विपदोत्तमे । दशवर्षसहस्राणि सद्धर्मं स्थास्यति क्षितौ ॥ १०३ ॥ प्रसादयति चित्तानि तस्माच्छाक्यमुनौ जिने । ततोदृक्षथ मैत्रेयं संबुद्धं द्विपदोत्तमम् ॥ १०४ ॥ तस्माद्धर्मे च बुद्धे च संघे चापि गणोत्तमे । प्रसादयति चित्तानि भविष्यति महर्द्धिकम् ॥ १०५ ॥ तं तादृशं कारुणिकं मैत्रेयं द्विपदोत्तमम् । आराधयित्वा कालेन ततो निर्वाणमेष्यथ ॥ १०६ ॥ इदमाश्चर्यकं श्रुत्वा दृष्ट्वा च विभवानल्पिकाम् । को विद्वान्न प्रसीदेत अपि कृष्णासु जातिषु ॥ १०७ ॥ तस्मादिहात्मकामेन माहात्मयमभिकांक्षताः । सद्धर्मो गुरुकर्त्तव्यः स्मरता बुद्धशासनम् ॥ १०८ ॥ ॥ मैत्रेयव्याकरणं समाप्तम् ॥